Shri Jain Swetamber Khartargacch Sangh, Jaipur

Shri Jainagar Prapancham

Kavi Vimal Bhatt Harivallabh · 2011/02

PDF Proofread

Front matter

No text on this page.

॥श्रीः॥
श्रीकविमल्लभट्टहरिवल्लभकतिपु
श्रीजयनगरपञ्चरङ्गम्
काव्यम् ।
तथा
,
(गौर्यलंकाराः, कान्तावक्षोजशतोक्तयः, शृङ्गारलहर्यः,
दशकुमारदशा, मुक्तकसूक्तानि, देवीस्तोत्रं च)
जयपुरमहाराजाश्रितेन गुर्जरभूदेवेन
तेन स्वेनैव संशोध्य
मुम्यव्याम्
जावजी दादाजी इत्येतेषां निर्णयसागरयन्त्रालये मुद्रापितम् ।
गन् १८९४ इसी।

श्री:
शैलैबन्धयतिस्स वानरहृतैर्वाल्मीकिरम्भोनिधि
व्यासः पार्थशरैस्तथापि न तयोरत्युक्तिरुद्भाव्यते ।
वागर्थौ च तुलाधृताविव तथाप्यस्सत्प्रवन्धानयं
लोको दूपयितुं प्रसारितमुखस्तुभ्यं प्रतिष्ठे नमः ॥ १ ॥

॥ श्रीः ॥ हरिवल्लभकाव्यभूमिका । सतोऽपि यस्य नामार्थो नाध्यक्षो क्वापि भेदतः । तद्रमीति सर्वत्र किमप्येकं महन्महः ॥ १॥ अयि सर्वत्र निरुपध्यसाधारणपरमवात्सल्यैकप्रसिद्धा विद्धांसः । इदं श्रीमन्यो विदितं क्रियते । योयमहं संस्कृतजयनगरपञ्चरङ्गाद्यनेकनवनव- सरसकाव्यकर्ता भट्टहरिवल्लभशर्मा कविमल्लः प्रक्रान्तः । जयनगरवास्तव्यः स खलु गुर्जरब्रह्मकुलोत्पन्नः प्रथमं शास्त्रमधीयानः सद्गुरुकृपोपलब्धवागुपा- सनः प्रायः कवितायामेव प्रबन्धशक्तिसंपन्नः समजनिपि । तेन मया पण्डि- तदुर्गाप्रसादप्रकाशितकाव्यमालाप्रशस्तिद्वयनिर्माणसमनन्तरं जयनगरपञ्च- रङ्ग काव्यं व्यधायि । अत्र देवतानमस्कारा जयनगरस्य सामान्यविशे- पाभ्यां वर्णनं पूर्वपूर्वेतरराजवर्णनं चित्रविशेपोद्धारोऽपि । किञ्च गौर्यलङ्का- रादयः पडन्येपि मम सन्ति संदर्भाः । तेषु गौर्यलङ्कारे साहित्यविश्नुतास्ते शतमालङ्काराः श्रीगौर्या स्तुतिरूपेण यथाक्रमं निदर्शिताः। कान्तावक्षो- जशतोक्तिस्तु स्फुटाभिधेयैव । इयं खलु श्रीनारायणभट्टैनिर्मातुमादिष्टा । शृङ्गारलइयों संपूर्णविभावानुभावादिवर्णनपुरस्सरं प्रायिकःशृङ्गारः सकलः। दशकुमारदशायां पुनः सामान्यनैव एकस कथा दशानां दण्डिवर्णितानां कुमाराणाम् । मुक्तकसूक्तेषु च नानाविधा अनन्विता बहुधा मम प्रथम- प्रथमकृतिसूचकाः श्लोकाः । देवीस्तोत्रे पप्ठे भगवत्याः श्रीमदेकलिङ्गरा- जमहिप्याकुलदेव्या धनुर्धर्याः स्तुतिः । संप्रति तदेवेदं सर्वमुम्बा यां १ जयपुरराजगुरुभिरेतैरेव द्विवर्षपूर्व स्वीकृतमासीन्मत्काव्यप्रकटीकरणं परन्तु' हेतुविशेषेण तत्तथा नाभूदिति खयमेवाहं मुद्रणीकरणरीतिविशेषानभिज्ञोपि कौतुकी. तन प्रावर्तिपि। २ यामन्तर्निवसनपि प्रसफलप्रत्येयपूर्व यथा जानात्येव न कचनापि पुरुषः प्रशावतामग्रणीः । मुम्बापुर्यपि सा तथेयमधिकाभोगा कियन्तो जनाः सन्योत्सवधारणं न सहमा कर्तुं प्रगल्मायते ॥१॥ अन पर्यायोफमालकारो व्ययस्यैव प्रकारान्तरेण वाच्यरूपत्वात् ।

प्राप्तेन मया निर्णयसागराधीश्वरतः श्रीश्रेष्ठतुकारामजावजीत्यभिधान्मुद्रि-
तमकार्य्यत । तस्मात्प्रथममिदं स्वजनेभ्य इव निखिलकथनयोग्येभ्यो विद्व-
द्भयः सकराञ्जलिंक प्राभृतीक्रियते ।
अपरेऽपि मम वैद्यकविषयाः प्रबन्धाः सन्ति ते तु न लोकोत्तरा इति
न प्रकटीकृता एवं नाना मुक्तका अपि ।
यौष्माकः कृपापात्रविशेष इति नितरां निर्वृतोऽयं जनः ।
तस्य खल्वेषा प्रायोभणितिः ।
क्व मिष्टमपि गोक्षीरं प्रातः सायं हि यन्नवम् ।
क पुनर्मम सूक्तं तत्प्रतिवारं नवं नवम् ॥ २ ॥

अथ. श्रीकविमलभट्टहरिवल्लभकल्पितम् श्रीजयनगरपञ्चरङ्गम् (काव्यम्) प्रथमो रङ्गः १ श्रीहरिविजयतेतमाम् । विनायक तं शिवपार्पदानां विनायक देवमहं प्रणोमि । निनाय के नाम विधिः प्रकप विना यकं पूजितमात्मकायें ॥ १ ॥ हंसः स्वचचूं पुरतः स्फुरत्सु यद्दन्तलेखांशुपु गानकाले । मुक्तास्रजां धूनयते धियोच्चैः सा मेऽनुकूलास्तु वचोऽधिदेवी ॥ २ ॥ संचारिते यत्पुरतः सिताधनीराजने भक्तजनैः समन्तात् । शुभ्रातपो हासतया विभाति सा श्रीममोपर्य्यनुकम्पितास्तु ॥ ३ ॥ मर्नुप्रिया दिव्यतनूविधात्री दनूद्भवन्नी हनुहारिगात्री। अनुग्रहार्थं ननु काचिदीशा जनु तामस्तु धनुर्धरी सा ॥ ४ ॥ नाभ्यम्बुधौ वीक्ष्य धैवे सपत्न्याः श्लेपान्मुहुर्हारलताद्युनद्याः ।। या भाति रश प्रमुग्नेव शान्ती रामलली सास्तु सुखास मौर्याः ॥ ६ ॥ १ विधिरात्मकार्य पूजितं चकं य एव तं विना के नाम प्रकर्ष निनाय प्राति काका। कार्यारम्भे यत्पूजनेनैव विधेः प्रकर्पलाभ इति प्रतीयते यमकमत्र शब्दचित्रम् । देवतावा. चकरवान गणदोषश्च वकारस अमृत चीजत्वात्प्रचयलाभोपि.२ कपूरनीराजने.३ अनुपूर्वः कम्पिः कृपार्थकः.४ निजाराधननवार्णादिमननिया. ५ हन्या कपोलमान्तेन हारि गात्रं यस्याः, ६ एतत्सनामविदिता गुर्जरदेशान्तर्गतामदावादनामकनगरगोपुरवहिविराजमा- ना देवीयममदिष्टभूता.७ पत्या.

२ श्रीजयनगरपञ्चरङ्गे कुर्यान्मदीयं कुशलं नितान्तं सा रोमराजिगिरिराजपुच्याः । निरीक्ष्य गङ्गां हरमस्तकस्थां जातेव या भाति मनागसूया ॥ ६ ॥ या भाति संलक्ष्य कुचाब्जकोशौ प्रोड्डीयमाना मधुपावलीव । देव्या भवान्या घनसंभृता सा रोमावली मत्कुशलं करोतु ॥ ७ ॥ देवीमिलाभृत्तनयामजस्रं शिलामयीं तां शरणं प्रपद्ये । महेश्वरस्याऽपि महेश्वरीत्वं यद्वाहनं सूचयते मृगेन्द्रः ॥ ८ ॥ यस्याः शरीरे हतदैत्यरक्तसंप्रोक्षणस्योपधिना चकास्ति । गच्छन्वहिर्विष्वगिव स्वरोपः सा सुप्रसन्नाऽवतु कालिका नः ॥ ९ ॥ नग्नाऽपि या भूरिनिकृत्तदैत्यरक्तोक्षणेन स्वसितेतराङ्गे । कौसुम्भचित्रामिव नीलशाटी वस्ते स्म सा वोऽवतु भद्रकाली ॥ १० ॥ दृष्ट्वेव हस्तस्थविकोशखगोद्दयोतेऽखिलं तत्स्ववपुः करालम् । या विस्मिता लम्बयते स्म जिह्वां सतां महाकाल्युदयाय सास्ताम् ॥ ११॥ ये घ्नन्ति दैत्यान्परितोऽखिलान्मृधे संदृश्य संदृश्य नरिवाक्षिभिः । चाचय॑मानास्तरसा धृतायुधाः कालीकरा नः कुशलं दिशन्तु ते॥१२॥ यस्याः पुरा पिञ्जितरक्तबीजरक्तप्रपानादिव सान्द्रभूता । न शोणताऽद्याप्यधरादपैति कात्यायनी कृन्ततु सा रिपून्नः ॥ १३ ॥ तत्कालरात्र्यात्मकगात्रकाले ये दीपवत्प्रोल्लसतः सुरक्ते । काल्या दृशौ ते परिपीतसीधुमदोद्भुरायास्तनुतां शुभं नः ॥ १४ ॥ ज्वालामुखी पञ्चमुखादबिभ्यती भक्तैनिशार्धे बलिभिः प्रसादिताम् । कृतस्मशानाकुलकाननस्थिति शिवाय कामप्यहमाश्रये शिवाम् ॥१५॥ १ अविरलताभृतेति यावत्. २ इला भूस्तद्धृत्पर्वतस्तत्तनयाम्. ३ यथाश्रुतनाम- वित्ता काचिदस्तीह अम्बावतीराजप्रासादप्रतिष्ठिता सा भगवती. ४ तत्तादृशमहाहिंत्र- सिंहाधिरोहेण स्पष्टमेवास्ति तस्या महेश्वरस्यापि महेश्वरीत्वं खामिनीत्वम्. ५ रोष- स्यारुण्यवर्णनं कविसंप्रदायः.६ श्यामले शरीरे. ७ कौसुम्भो रङ्गः स च शोणो भवति तेन चित्रा मध्ये मध्ये विन्दुभिर्विच्छुरिता ताम्. ८ पातु. ९ परिणामानुप्राणितेयमुत्प्रे- क्षा. १० अतिशयेन चलन्तः. ११ प्रसिद्धास्तवापीति च. १२ हत. १३ तस्या देव्या चत्कालरात्रिरूपं गात्रं तत्कृतिसमये. १४ शिवात्सिंहाच. १५ पार्वती फेरुपत्नी च.

प्रथमो रङ्गः १ सदा ज्वलन्ती जठरांन्तराले जीवान्समुजीवयतेऽखिलान्या । देवी जपापुष्पदलोज्ज्वला सा ज्वालाऽभिधा मद्विजयं तनोतु ॥ १६ ॥ सा संनिधानं भगवत्यजत्रं जयप्रदा श्रीविजया क्रियान्नः। ज्ञानं द्रवीभूतमिवाऽखिलं सत्पीयते यत्सलिलं सुधीभिः ॥ १७ ॥ सा भूतनाथस्य समस्तगात्रव्याप्ताऽस्तु भूतिः कविमलभूत्यै । या भालसंलग्नतुपारभानोः परिच्युता चञ्चति चन्द्रिकेव ॥ १८ ॥ ताः शोभमाना विरलं करेषु त्वां शुलिनः पान्तु विभूतिरेखाः । ते ते प्रगाढाः सितसर्पन्धा याभिश्चलत्कान्तिभिरात्रियन्ते ।। १९ ॥ समाफिरन्तं करतोऽमृतौ विभूतिपिण्डाधिकपाण्डकान्तिम् । गोरीमनोरागविधानदक्षं तमीधरं नौमि तमीश्वरं वा ॥ २० ॥ यत्य प्रसूकाचविशेकावुझ्या शिरश्चन्द्रकलां स्थितोऽङ्के । आदर्शलग्ना मुखवीक्षणस्य काले गुहो लाति शिवः सयोऽव्यात् ॥ २१ ॥ भूतापकृती विमुख भूतापकृती पुनर्विमुखम् । अपि नरकपालमीशं भूयोऽहं नरकपालमलि नतः ॥ २२ ॥ देवत्रिपुरारिर्वः समसकायश्रिये भवतु । नुवतां बहु पुनरपि वः समलकार्यश्रिये भवतु ॥ २३ ॥ अपि द्धाहितनयं बद्धाहितनयं पुनः । सकल महं वन्दे संकलनं त्रिलोचनम् ॥ २४ ॥ असा गिरिजामाता शरश्च शिवा तथा । दुप्पतीनां समस्तानां करोतु विनिवारणम् ।। २५ ॥ इयं सर्वेषां सर्वशोकमतनेफमाहात्म्या सूगालितमतिमातरमा श्रीमती मो. युचते. २ सपा काविहरियाभरामाऽदम. ३ यहाः गुगलगा इलः, ४ पीयूष भरथ्यो मोक्षदान २.५ पार्वती प्रियग. ६ भरं तम्या राध्या देभर पति गन्द्र का. या मानुसार कामविशेषमाशिलामागसद्धिया, ८ मानिमा. Arr. Pामापरता. १. भूगानामा. नरकासालयतीति सम्. १२ नरागा पालागि मागला यक्ष, १३ मन गहिना अरयस्तरामी: सिरोपिनामा. पाली. १४ पदा महीनां सनया गेन. १५ पदः अहिताना परिणो नयो मंग, १६ गास प्रालासम्, १५ समग दारः सदिता. १८ गिरेमामाला ARE रात्री माता जनार.

४ श्रीजयनगरपञ्चरङ्गे . सा वोऽस्तु गीकृतनाभिदेशा शुभाय लक्ष्म्या लघुलोमलेखा । अन्तर्वसत्कृष्णकलेवरस्य च्छायेव या भाति बहिः स्फुरन्ती ।। २६ ॥ दूरादवेक्ष्य गोपीः संहृष्यन्तं हसन्तमभियान्तम् । नृत्यन्तं क्रीडन्तं श्रये यशोदाकिशोरं तम् ॥ २७ ॥ उद्दिश्य विविधभावान्समभिमिलन्नातिदूरतो जयति । राधायाः कृष्णस्य च चुम्बदिवान्योन्यमीक्षणद्वन्द्वम् ।। २८ ।। कक्षाश्रितामपि हरी राधां पश्यन्मुहुर्मुहुर्जयति । अन्तर्मान्त्यवशिष्टा कियतीयं वहिरितीव जिज्ञासुः ॥ २९ ॥ निःशङ्कसकलगुरुभिः स्वस्वगृहे ब्रजवधूभिरनवरतम् । संभुक्तश्चञ्चलदृग्बालविलासी प्रशस्यते कश्चित् ॥ ३० ॥ निखिलैः सुगाढमङ्गैरुपगृहन्राधिका चिरात्कृष्णः । संचिक्रामयिपन्निव किञ्चिन्निजवपुपि गौरतां जयति ॥ ३१ ॥ कुब्जाया अपि यस्मात्कुब्जात्वेनोपलम्भनं नासीत् । गोसेवाफलभूतं तारुण्यं नमत कृष्णस्य ।। ३२ ।। ब्रजयोषितां परासां परिहरणादिव पतिव्रतात्वस्य । फलितं पातकपटलं कृष्णत्वं नमत कृष्णस्य ॥ ३३ ॥ अनिमेषमभिमिपन्त्यौ श्रियं दृशौ केशवस्य चिरकालात् । जयत इव वाचयन्त्यौ भावविशेषास्तदीयहल्लिखितान् ॥ ३४ ॥ . यः शोभते भ्रमर इव तुलसीस्फुटमञ्जरीषु कीर्णासु । शालिग्रामाय धनश्यामाय नमाम्यहं तस्मै ॥ ३५ ॥ जयत्युपायैरपि या न लब्धास्तैस्तैरहो ता इह सन्ति सर्वाः । गोप्यस्तवैपेति कृपा नमन्तं शक्रं हसन्नद्रिधृतौ मुकुन्दः ॥ ३६ ॥ पराङ्मुखं भोगविधौ वधूनां बुद्धावतारं प्रणतोस्मि विष्णुम् । तं वैपरीत्यादिव सूचयन्तं प्राग्भूरिभुक्ताङ्गनमात्मरूपम् ॥ ३७ ॥ १ मिथोमिलितत्वेन चुम्बनसंभावना. २ प्रेम्णा वपुरन्तनि विशमानेव. ३ कृष्णः, ४ गावः पशुसजातीया एवं तासां संगतिरूपा सेवा तत्फलभूतं विवेकविशेषमन्तरा कुज्जासंप्रयोगरूपं तारुण्यम्. ५ संमुख पश्यन्यौ. ६ चित्तवृत्तिविशेषान्, ७ विष्णवे यो नीलोपलपिण्डमूर्तिर्भवति. ८ गोवर्धनधारणकाले. ९ स्त्रीभोगविमुखरूपात्.

प्रथमो रङ्गः १ ५ आत्मोदये दर्शयतेऽन्यहेमशैलं सदा व्योमनि संध्यया यः । ज्योतिःस्वरूपः स भवत्वजलं पापच्छिदे वः परमार्थदेवः ॥ ३८ ॥ शिष्यस्य यैः संविहिता प्रशंसा गर्दायते तद्यति सा तया च । इत्यद्भुतालौकिकगौरवेभ्यः श्रीमद्गुरुभ्यः सततं नमोऽस्तु ॥ ३९ ॥ भूमिहतः संशयचिन्तयैव शून्या भवेन्मन्दधियाममोपाम् । इतीव धात्रा निजसंनिभेन्यो विनिर्मितेभ्योऽस्तु नमो गुरुभ्यः ॥ ४० ॥ यत्नैर्बहुभिरपोह्य दुष्टानां सकलमेव दुष्टत्वम् । अल्पीयानपि चरणं कण्टकखण्डो हि पाचयति ॥ ४१ ॥ अत्यल्पेप्यनुबन्धे करोत्यनर्थ महान्तमाश्वेव । अशुचिजलविन्दुरेकस्तथाऽपरः खलु जनः पिशुनः ॥ ४२ ॥ नासाकफो नृशंसश्च दुरीकर्तु हि युज्यते । संश्लिष्टः सोऽन्यथा स्निग्धः सहसा न निवर्तते ॥ ४३ ।। अप्रतिभानां वाणी प्रोत्पादितमर्थमन्यपुरुपेण । आदत्ते सानन्दं दत्तकमिव पुत्रमङ्गना वन्ध्या ॥ ४४ ॥ निर्मूलघाताप्रतिघानलस्यं विवेकपाथो हृदलञ्जरस्थम् । उपैति शोपं न कदाऽपि येषां जयन्ति ते केऽपि महानुभावाः ॥ ४५ ॥ गुणा विधानात्परिशीलनस्य न सन्ति केपामपि भूरिदूरे । ट्यमानाः किल शालयो हि क्रमाद्भवन्ति स्वयमेव शुभ्राः ॥ ४६ ॥ कुरुतेऽनृतमपि सत्यं कथनात् प्रथमः परोऽपि लेखनतः । भेदोस्त्ययमेव कश्चित्रकरस्य च समं शिष्टम् ।। ४७ ॥ १ सूर्यः. २ सा स्तुतिरिवाचरति. ३ तत्तदुरूहा ज्ञानजन्यचिन्तया. ४ दूरीकर- गीयम्. ५ संवन्धे व्यवहारे च. ६ पुनर्यथालानादिकरणं तत्तदर्थानिष्पत्तिरूपं च. ७ फरः. ८ चिषणतायुक्तः धिमप्रेमयुक्तय. ९ यथा सल्वशिश्वी स्त्री परकीयं पुत्रं दत्तकत्वेन गृहीत्वा तदुपनयनपानिपीडनादिकरणेन तस्मिन्स्यकीययुद्धि सानन्दं सप्रकार्य च प्रस्यापयति तय अचमत्कृतयुद्धिमतां केपांचिद्वाणी परोद्भावितम खकीयत्वेन आदरा इति तदनीचिलं णितम्. १० रोपामः.११ पाम्माविशेषस्थम्, १२ मुसला- भिषातनिलुपीरियमाणा. १३ राम्.

श्रीजयनगरपञ्चरने पाहि जनार्दन रक्षितभक्तजन संहतदुर्जन गोपपते हे पाहि ब्रजवनिताजननवयौवनघनलुण्ठनलुब्धमते हे। अर्जुनवदननिपिक्तसनातनतत्वकथानघतोयतते हे कुरु कुशलं हरिवल्लभविदुपो देव पुराणयंते हे ।। ४८ ॥ श्रीकुन्दननन्दनहरिवल्लभकविमल्लपल्ढविते । जयनगरपञ्चरङ्गे कान्येऽगात्प्रथमरङ्गोऽयम् ॥ ४९ ॥ द्वितीयो रङ्गः २ कच्छान्ययिच्छत्रधरानुशिष्टा चञ्चच्छतक्रौशिकसीमचक्रा । वस्ति काचिजयपुर्यमुप्मिन् ढुण्डारदेशाग्रिमराजधानी ॥ १ ॥ आम्नायमुच्चारयतां नितान्तं प्रतिश्रुतिर्यत्र महीसुराणाम् । ऋचाधिदेव्याः स्तवनप्रियाया वरप्रदानोक्तिरिवावभाति ॥ २ ॥ स्फारोरुदुर्गस्थितिशालिघण्टायन्नं चलद्यत्र समस्तपौरान् । संबन्धिवत्स्वखकृतेरभीक्ष्णं टणत्कृतैः सूचयतेऽवकाशम् ॥ ३ ॥ प्रत्यालयं रुच्यतराण्यमूनि यस्यामितीवालिखितप्रशस्त्याः । पाश्चात्यभागारुणकाचभाजि पत्रश्रियं विभ्रति जालकानि ॥ ४ ॥ प्रलोभयन्ती ललनेव भावैर्नानाविधैर्ग्राहकपौरवर्गान् । चकास्ति तत्तद्वरवस्तुपूर्णा हट्टावली राजपथेपु यस्याः ॥ ५ ॥ प्रायेण रिक्तीक्रियते प्रभूतैर्यस्यां सुराणां बहुमन्दिरैर्योः । प्रपूजिता मर्त्यगणैः सदा यत्ते तत्र गच्छन्ति न भोगलुब्धाः ॥ ६ ॥ वप्रोत्तमाङ्स्थजनैरजस्त्रं वीथ्या तरूणां पथि पथ्युपेता। क्रीडागृहाकीर्णसमग्रदेशा प्रसूनवाटीव निरीक्ष्यते या ॥ ७ ॥ १ जगत्तत्वकथा. २ पुराणमुने.३ कृतप्रकाश इति भावः. ४ जयनगरस्य राजमार्ग- स्थितराजकेतनतुल्यतयोत्प्रेक्षिते काव्ये. ५ कछावा इति.प्रसिद्धाः.६ भूखण्डे. ७ वेदम्. ८ कालप्रमाणसूचका दुर्गापरिस्थिता घडी इति प्रतिद्धा. ९ तादृशप्रशस्याः पत्रश्रियम्. १० विभ्रमः क्रयादिस्थितिभिश्च. ११ स्वर्गलोक:. १२ असकृनानाविधमुखादुभोजनादि- लुब्धाः. १३ प्राकारोपरिस्थितजनैः.

७ , द्वितीयो रहः २ अव्याहतं मासिकलामतुष्टाः स्फूर्जत्कला हारिमुखाः सुमध्याः । पान्यान्प्रपापाल्य इवाम्बुनाल्यो यस्यां तृपान्वित तर्पयन्ति ॥ ८ ॥ विशंकटखच्छतराशयासु द्वारोपरिष्टाल्लिखिताभिधासु । प्रकुर्वते चंक्रमणं यथेच्छं दिवानिशं यत्पदवीपु लोकाः ॥ ९ ॥ यदीयदूरोन्नतपीनवप्रच्छायातले धीरचलत्समीरे । जना वसन्तो विधया कयापि संविद्रते नो खलु मित्रतापम् ॥ १० ॥ दुर्वादलानां यदुपात्तधान्यक्षेत्रेषु वातोद्भवकम्पदम्भात् । मुहुर्मुहुः शंसति शालिगोपीशृङ्गारगीतैः पुलकोद्गमं भूः ॥ ११ ॥ नितम्बवत्यो मणिबन्धमध्यभ्राजिष्णुचूडायलयावलीनाम् । झलत्कृतैर्यत्र शिरोगृहस्था भावन्मयूखान् सततं हसन्ति ॥ १२ ॥ ज्योत्स्नोज्ज्वलायां निशि यत्र कूपप्रान्तेषु जम्बालवती धरित्री । करोति दूरादुपकण्ठशाखिच्छायाभ्रमं पान्थजनस्य चित्ते ॥ १३ ॥ उद्यद्विवस्वत्किरणेः प्रभाते संरज्यमानाऽखिलवप्रचक्रा । आपाटलां या परिधातुमन्यां नयां समुत्कीलयतीव शाटीम् ॥ १४ ॥ यत्रान्तरिक्षं निशि भासमानसमस्तनक्षत्रचितं तनोति । उत्तानिताशुहमहावितानव्यालम्बिदीपावलिसान्यलीलाम् ॥ १५ ॥ भृताम्बुसंक्षालिततीरदेशे सदा तडागे प्रतिविम्बिता या । संभाव्यते दर्पणमण्डलान्तर्मुहुर्मुहुः म्यं मुखमीक्षमाणा ॥ १६ ॥ यत्रोच्चकर्भाग्यवतां गृहेषु चित्रोचयाः केऽपि विशिष्य दृश्याः । नाकेऽभितो यत्प्रतिविम्बितानि दधत्यकालेऽप्यूंजुरोहितत्वम् ॥ १७ ॥ हरिद्रमालच्छदगुम्फिताभिर्यस्यां गृहा यन्दनमालिकाभिः । यहिः प्रतीहारमुसंदिताभिराधन्ते मुखकेशशोभाम् ॥ १८ ॥ चित्राः पटेः पत्यजुपोऽपरागैः श्यामा अहो लोचनकजलेच दन्तप्रकाशविशदासयापि कुर्वन्ति नृन्यत्मदृशोऽनुरान् ॥ १९॥ फन्तः फना: कल भात परिक्षा यागो टनापी ताः फेलिकाला.. २ जानकी इंट्टी सीनिमा..हराया गारी पाजार स्निानादिया जमिशः. . गुदा मनायगाम.सपनापन. हरिद्वा. साशीमा समान प्रगदिनध.

श्रीजयनगरपञ्चरङ्गे सुयोपितां भूरि गतागतानि तत्तत्पथेभ्यः प्रतिकुर्वतीनाम् । आलोककाले हि सहस्रनेत्रं यद्वासिनः संस्तुवते पुमांसः ॥ २० ॥ नानादेशाशालिजनाचितानामन्तनिषण्णत्रिदशप्रणुन्नाः । यत्सत्पथे संचरतां रथानां पुरो विमानों अपि नो समानाः ।। २१ ।। अत्युच्चवंशाग्रविलम्बमाना गृहे गृहे यत्र समीरणेन । उद्वेल्लिताः सौमगताः पताका विलजयन्ति युनदीतरङ्गान् ॥ २२ ॥ करेणुकामन्धरगत्वरीणामितस्ततो यत्र सुलोचनानाम् । मुखेन्दुपीयूपनिचूपणार्थ दिवाऽपि चञ्चन्ति चिरं चकोराः ॥ २३ ॥ यत्रोषसि प्रांशुतरं पुरस्थैरुड्डायिताः खखगृहात्कमेण । क्रीडाकपोता गगने सदैव कुर्वन्ति विस्फूर्जदुप्रतीतिम् ॥ २४ ॥ यत्सीम्नि सीकृत्युपधेः सहेलं फिरङ्गिवाह्या रयलाः शकट्यः । वास्यं न युष्माभिरिहाल्पभाग्यरित्याह्वयन्तीव विदेशिलोकान् ॥ २५ ॥ वचित्वचिद्यत्र विलोच्य दूराद्रनानि रत्नापणिकोपकण्ठे । ज्वलन्ति दीपाः कथमयपीति ग्रामीणलोकाः पुरु विस्मयन्ते ॥ २६ ॥ स्त्रीणां जलोढञ्चनकर्मकाले यत्राधिकूपं प्रतिमा विभान्ति । अभ्युद्गतारूपनिरूपणार्थं रसातलान्नागसुता इवोर्ध्वम् ॥ २७ ॥ पौरप्रणुन्नाः पदवीषु यस्याः समुत्प्लवन्ते तरलं तुरङ्गाः । वेश्मावलीद्वारविशालभित्योराचित्रितानां करिणां भियेव ॥ २८ ॥ यस्यां कपोतीरनुकूजतां च 'हर्म्यच्छदिस्थायिकपोतयूनाम् । संडीनमुद्वीक्ष्य पथि व्रजद्भिर्न स्मर्यते कैः स्वकलत्रमानः ॥ २९ ॥ गायन्ति यद्वर्त्मसु हिण्डमाना गीतानि शृङ्गारमयानि नार्यः । नूनं तदा वाद्यगतां खसत्तां धत्ते ध्वनिस्तत्तदलङ्कृतीनाम् ॥ ३० ॥ १ स्वस्य तादृशसहस्रनेत्रासत्त्वात्. २ अवस्था. ३ विशेषण मानो येषां तथाविधा अपि एतेन रथेषु महान् व्यतिरेकः सूचितः: ४ कश्चिच्चिरवेगः पृथुः शब्दविशेषः. ५ रेलगाडी इति प्र. ६ संगतं गमनम्. ७ गच्छन्त्यः. ८ तासां भूपणध्वनिः खस्थिति वाबगंतां धत्ते गायनवादनयोः साहचर्यमेव योग्यम्.

द्वितीयो रङ्गः २ यत्र प्रगे वेश्मपरम्पराणाम_लिहानां प्रसृता पुरस्तात् । छाया भियेवोष्णगभस्तिभर्तुः संतिष्ठते गूढतरं निलीय ॥ ३१ ॥ सायं गवाक्षप्रतिरन्ध्रसर्पज्जात्यादिसंसाधित्ततैलगन्धाः । यस्त्रां युचभ्यो ध्वनयन्ति केशप्रसाधनं श्रेष्ठिसुतप्रियाणाम् ॥ १२ ॥ प्रादोषिकी यत्र ललामभूता पितृप्रस्ः फुल्लति नाकगर्ने । नानाविधारञ्जितनूतनोपसंव्यानसंक्रान्तिरिवाङ्गनानाम् ॥ ३३ ॥ स्त्रीणां नवानां पुरतोञ्चलेऽपि विधूनिते गन्धवहेन यस्याम् । कैश्चित्स्फुटच्चम्पकपत्रचारु वासोन्तराश्लिष्टमिवेक्ष्यतेऽङ्गम् ॥ ३४ ॥ तारुण्यभाजां वरवणिनीनां संचारसाम्याधिगमाय मन्ये । मतंगजान हस्तिपको यदीयमार्गेषु नित्यं परिवर्तयन्ति ॥ ३५ ॥ यस्यां चलत्तोपमहानिनादाश्रुत्वा मयूरा अधिचन्द्रशालम् । भ्रान्त्याम्बुदानां शिरसि प्रकीर्णशिखण्डदण्डाः सुचिरं नटन्ति ॥ ३६॥ प्रान्तप्रदीपावलिदीपितेषु यद्राजमार्गेपु निबद्धभूमिः । गच्छाजासंक्रमणैनिशायामसंकुलापीन्दति संकुलेव ।। ३७ ॥ सीमन्तिनीनां समुपागतानां यस्यां च पाथोभरणाय वाप्यः । विप्वग्भवत्तुङ्गतरङ्गभङ्गया विडम्बयन्ति भ्रुकुटीविलासान् ॥ ३८ ॥ यथायथं सुष्टुतरं लपन्तः कचित्कचिद्यद्वलभीपु कीराः । आकाशवाणीभ्रममादिशन्ति प्राणिकानां प्रथमप्रवेशे ॥ ३९ ॥ दाम्नां प्रसूनच्छदनेषु सायं यत्पण्थवीभ्यां खद्दगन्तबिम्बान् । चलाचलान्वीक्ष्य धुनन्ति पाणीनलिभ्रमान्मालिकमुग्धवध्वः ॥ ४० ॥ यस्यां भृशं भर्तृषु केलिस स्तम्भाद्भुतोल्लेखितशालभंझीः । निर्वर्णयत्सु प्रणयेन काश्चित्स्त्रियो भवन्त्याश्रितमानलीलाः ।। ४१ ।। वेशान्तिक रात्रिमुखे चलद्भिर्यत्रोच्चरन्ती प्रतिगेहमध्यात् । निशम्यते वारकलत्रगीतिर्वसन्तबन्धोविरुदावलीव ॥ ४२ ॥ १ संध्या. २ उपसंव्यानं वन्नम्. ३ आधोरणा.. ४ शोभते. ५ अगृहेपु. ६ पूतली इति प्र. ७ सामान्यानामाश्रयः. ८ लुतिविशेष एव विरुदभिधेयम्.

१० श्रीजयनगरपञ्चरङ्गे सौमे नक्तं निजकान्तित्रै संधिसुरास्यैः सह सुन्दरीणाम् । प्रग्राहवत्प्राप्तुमधोगभस्तीन्यस्यां समुल्लम्बनते हिमांशुः ।। ४३ ।। यत्राऽधिसायं धनवद्गृहान्तदह्यमानागुरुवर्तिकोत्थः । आकाशनीलिम्नि सदेक्ष्यमाणे निमित्ततां गच्छति धूम एव ॥ ४४ ॥ यद्गर्भगेहेषु नवाः सुधानां प्रलिप्तयो भान्ति सदा नितान्तम् । पौरौनशेशस्य विधृत्य रात्रौ सर्वत्र कौमुद्य इवाह्रि कीर्णाः ।। ४५ ॥ परःसहस्राः किल यत्र पद्याः पद्योपपद्याश्च चतुप्पथानाम् । शोभा समाविभ्रति भूरिशाखाः शाखोपशाखा इव पादपानाम् ॥ ४६ ॥ यच्छ्रेष्ठिनां दारुचतुष्कराजिः सदा विपण्यग्रवितिष्ठमाना । श्रीणां श्रयत्यन्तरुपागतानां विश्रान्तभूयिष्ठविमानशोभाम् ।। ४७ ।। एतादृशाः के निवसन्ति यस्यां शृङ्गारसंसिक्तहृदो युवानः । कुर्वन्ति गच्छद्वनितावपुष्पु नीराजनं ये न विलोचनानाम् ॥ ४८ ॥ विच्छन्दका यत्र बहूच्छ्रिताया दुर्गोपरिष्टाद्विलसन्ति ते ते । कदा कदा वीक्ष्य वृपो विमानाद्यान्वष्टिं निर्मापयितुं पुनः स्वः ॥४९॥ पुष्णन्ति विष्वक्पतयालबोभ्रे यद्ब्रह्मपुर्यां वसतां द्विजानाम् । यज्ञानलप्रोत्थितधूमवीथ्यो मन्दाकिनीशैवलखण्डशङ्काम् ॥ ५० ॥ सुसंभृते सर्वतरङ्गिणीभिः श्रीजलकन्येव समुद्रमध्ये । नानापुरीपुञ्जसमन्वितेऽपि या भाति भिन्नैव जगत्यमुष्मिन् ॥ ५१ ॥ प्रयान्ति यत्संसरणेषु सायं स्वैरं विहर्तुं कतिचिधुवानः । स्त्रियोऽपि कूपेष्वथ तत्र तत्र सखीभिरम्भोभरणच्छलेन ॥ १२ ॥ यद्वासिपुंसां त्रिदिवौकसां च लक्ष्मीर्मयाऽलक्षि विभिन्नरूपा। प्राप्त्यालयौ खल्वमुयोः समुद्राँमुद्रत्वविख्यातिमुपागतौ यत् ॥ १३ ॥ यस्यां च वंशीगतिगायिनां चेत्कृष्णः पुरोऽद्यावधि सोऽभविष्यत् । असूयया किं न मुधेतरार्थं समाश्रयिष्यन्निजनामयोग्यम् ॥ ५४ ॥ १ अपु. २ चतुस्तम्भमण्डपावली. ३ सौंधविशेपाः. ४ इन्द्रः. ५ इच्छति. ६ तोप- खानाहजारीबुरजब्रह्मकूपइत्यादियु. ७ देवलक्ष्म्याः समुद्रः प्राप्तिस्थानं यद्वासिनां लक्ष्म्याच अमुद्रा गृहाः प्राप्तिस्थानम्. ८ सत्यः कृष्णनामानुकूलश्वासावर्थश्च तम्.

११ 3. द्वितीयो रङ्गः २ यच्द्रष्टिकान्ताकवरीसुदृब्धमुक्ताफलश्रेणिसमत्वलब्ध्यै । कल्पैरभैरुडसंनिवेशमभ्यस्यतीय प्रतियामिनि द्यौः ॥ १५ ॥ यूनां शिरोवेष्टनकानि यस्यां कूर्पासकान्यनदृशां च नित्यम् । संदानकाले करकृष्टिरंहासुदुस्सहत्वेन नवीभवन्ति ।। ५६ ॥ शृङ्गाटकस्थाः किल यत्र दीपा गृहावलीप्राङ्गणगाश्च पार्थे । मुदूरगामिखपुरुप्रकाशा व्यर्थत्वदोपं मिथआश्रयन्ते ॥ १७ ॥ आलोकनादेव कृतमर्यान्सिद्धीभवत्सर्वविधित्सितार्थान् । स्वीयान् वयस्यानिव वोक्ष्य गेहाँस्तुप्यन्ति यत्रत्यजना अभीक्ष्णम् ॥१८॥ यस्यामरित्रं तरिष्ठका; ग्रामस्य धान्यं हि तथा विनीतम् । ग्रीवान्त्यभागो हि तथाऽव१स्तु निःश्रेणिकैवास्त्यवरोहयुक्ता ॥ ५९॥ वायं हि यादिनतया प्रसिद्धं यस्यां पुनों विदुषां तु वृन्दम् । तथा प्रदोप॑स्तु निशास्यमेव न विद्यते कश्चन मानुपस्तु ।। ६० ।। असुन्दरं त्वायुधमेव यस्यामरातियुक्तश्च शताङ्ग एव । अनूकस्य च सूत एव तथाग्निरेवालि किलाश्रयाशः ॥ ६१ ।। असमाश्च यद्यपि मिथः पुरुपा विलसन्त्यहो किल तथापि समाः । दिवसानि यत्र च शुभानि तथा तिथिमन्ति सन्त्यतिथिमन्त्यपि हो ।।६।। यस्यां राजस्थाने विलोकित किल गयेकमार्यम् । अधिकारिणामपि नृणां यनास्त्येवाधिकारित्वम् ॥ १३॥ अहह कुलीनानामपि पुरुषाणां यत्र नो कुलीनत्वम् । अनुकारिणामपि मियो गनानुकारियमति तथा ॥ ६ ॥ :. रिक्ष. ३ अविनिपनीनम. ४ग पदयंत्र. ५ अपरः अष्ट काग:. ६ पादिरक्षपतया. ७ प्रा योगा यन्निन्, ८ अरणाची-यमुंदरम्. ९ अगातिनियुल:.1. सरहितः, "आप साधारमान 7:. १२ कि. मामालगायागादिनाः १४ प्रतिस्प्रभागि:. १५ अतिपयोऽभ्यागतात. १६ अभिसामाग. १७ फी भुपि सीमापार. १८ अनुमानो शामिना पालम्, १२ श्रीजयनगरपञ्चरङ्गे अजिनप्रीतीनामपि नास्त्यजिनप्रीतिता यत्र । भूपतिबन्धुजनस्य च न महाकुलता महाकुलस्यापि ॥ ६५ ॥ यस्यां निवसन्तीनां वैचित्र्यं समवलोचितं स्त्रीणाम् । परमरुचिरता यासां यन्नास्त्यपि परमरुचिराणाम् ।। ६६ ।। यस्यां तापसहत्वं हेम्न्येव पुनर्न राजपुरुपेषु । अनवरतोपार्जनमतिरस्ति वणिक्ष्वेव न तु युवसु ॥ ६७ ॥ ऋष्यप्रोक्ता तु यत्राऽस्ति शतावर्येव केवलम् । न पुनर्भूमिदेवानां कर्मकाण्डस्य पद्धतिः ।। ६८ ॥ आराम एव विश्लेपो न पुनर्यत्र योपिताम् । विशाखश्च सुतः शम्भोर्न पुनः कश्चन द्रुमः ॥ ६९ ॥ यत्र दुग्धतडागस्य शङ्कया प्रांशुवेश्मसु । सुधालिप्तेषु वियतः प्रपतन्ति पतत्रिणः ॥ ७० ॥ कुण्डोपरितनचत्वरविहितस्थितिभिस्तु कैश्चिदपि । स्वास्वेव दृक्षु सकला सदा समावेश्यते सायम् ॥ ७१ मालाधराणामपंवृत्तिमप्यहो प्रकुर्वतां यत्र महीसुपर्वणाम् । मया तु कुत्राप्यपवृत्तिकर्तृता नाऽकर्णिता नत्ववलोकिता तथा ॥ ७२ ॥ या शृङ्गाटकपर्यटत्पृथुरंथप्रध्यन्तरोच्चावच व्याधूनोन्नतकिङ्किणीगणमहाप्रक्वाणगर्भा सदा । निःशेषाम्बरचक्रवालविपुलव्याघूर्णनप्रोद्यत--- प्रावृण्मेघघटाभवत्सुमधुरध्वानानिवाभ्यस्यति ॥ ७३ ॥ श्रीकुन्दननन्दनहरिवल्लभकविमल्लपल्लविते । जयनगरपञ्चरङ्गे काव्ये रङ्गो द्वितीयोऽगात् ॥ ७४ ॥ ॥ १२ १ जिनभिन्नप्रीतिता न. २ महाव्याकुलता. ३ परं अरुचिरता. ४ तापसान् हन्ति तद्भावम्. ५ अनवरतं नित्यं उपार्जनमतिः. ६ ऋषिभिरप्रोक्ता. ७ वीनां पक्षिणां इलेपः. ८ विगताः शाखा यस्य. ९ परिवर्तनम्. १० कुत्सितवृत्तिकर्तृता. ११ द्वयोः प्रध्यो रथचक्रधारयोरन्तरे मध्ये. १२. किङ्कणयः क्षुद्रघण्टिकाः.

तृतीयो रङ्गः ३ तृतीयो रङ्गः३ पूर्वः श्रीजयपत्तनस्य पतिभिर्नाकौकसः प्रोत्सुकान् सर्वान्दयितुं स्वकीयनगरस्याभोगशोभा नवाम् । आकाशाभिमुख महोन्नतमिदं मन्ये विनिर्मापित स्वःशूलीत्यभिधानतः पृथुतरं निःश्रेणिकामण्डलम् ॥ १ ॥ वृद्धि प्राप्य पतन्नधः किमु वियद्गङ्गाप्रवाहो महा- किवा स्यन्दनविश्रमाय सवितुः स्तम्भः समुत्तम्भितः । मूर्धा वा नगरस्य किं त्रिजगतीं संद्रष्टुमुत्कन्धरः स्वःशूली समवेक्ष्य चेतसि चलत्येपा विकल्पावली ॥ २ ॥ जायेतागमनं विहायसि कथं नःक्ष्मातले तिष्ठतां विज्ञप्ति रसिकैरुदञ्जलि कृतां श्रुत्वा विमानेविमाम् । खःशूल्याकृतिना निपातितमिदं शक्राप्सरोभिवं रश्मीनां निकुरम्बकं वसुमतीपर्यन्तमालम्बते ॥ ३ ॥ एकस्थानत एव लोकविदितास्तॉस्तान्दृविष्ठानहो द्रष्टुं मह्य पृथक्पृथकिमु भुवः खण्डान्नवाऽपि मात् । स्वःशूल्यामिह चक्रचारुरुचयः खण्डा नवैवात्मनो दाक्ष्यं व्यञ्जयितुं प्रजा जयपुरक्षोणीभुजा कारिताः ॥ ४ ॥ एपा निष्किरशब्दपूरितशिरःकुम्भोपरिमोच्चल- द्वाताभ्याहतकेतनस्य कपटात्स्वःशूलिकासद्मनः । उद्यम्याग्रकरं भृशं जयपुरी संतिष्ठमानां दिवि स्वामालीममरावती प्रणयतः क्षेमाणि किं पृच्छति ।। ५ ।। बाहानां निजवैरिणः सुरपतेः पाथोमुचामुच्चकै- रागत्योपरि गर्जतां चिरतरं दृष्ट्वावली प्रावृपि । १ईश्वरीसिंहवमंभिः. २ अस्तीह मुप्रसिद्धमेतमामकमटासं प्रांशुसीधं तत्. ३ अदि. च्यानां तालमत्यमिति भायः. ४ तेन प्रत्येक राण्डानां महानत्यं व्यज्यते.५तस्य यतुल- स्पार. ६ फपोतादयः पक्षिणः. ७ इन्द्रपुरीम्, दुरापामेघवाहनः २ १४ ४ श्रीजयनगरपञ्चरङ्गे संक्रुद्धेन रसातलाधिपतिना मुक्तोऽस्त्यसौ कि शेरः स्वःशूलीयमिति भ्रमं वितनुते चेतस्सु संपश्यताम् ॥ ६ ॥ प्राचीनं श्रितगिरिवृन्दशीर्पमम्बा- वत्याख्याप्रथिततरं वैनाभिरामम् । स्वावासं जयनगराधिदेवतेद स्वःशूलीगृहमधिरुह्य पश्यतीव ॥ ७ ॥ नेदं नभः किंतु महाविशालं नीलं वितानं जयपत्तनीयम् । स्वःशूलिकेयं नहि किन्तु तस्य समाश्रितो मध्यमदण्ड एपः ॥ ८ ॥ उड्डीयमानान्प्रचुरान्कपोतासंस्थापयन्ती शिखरे स्वकीये । स्वःशूल्यसौ राजमहाविटङ्कभ्रान्ति चिराच्चेतसि संचिनोति ॥ ९ ॥ ह्यप्रियैः श्रीजयपत्तनेन्द्रेश्छत्रं महोच्छ्रायमिदं हयार्थम् । उत्तानितं किं निजमन्दुरान्तः स्वःशुलिकामित्यवलोक्य भापे ॥ १० ॥ स्वःशूलिकाट्टालकतोरणानां स्तम्भेष बद्धा वितताः पताकाः । वर्षाम्वुभृन्मण्डलजातझम्पाः शैम्पा इवोच्चैः सततं स्फुरन्ति ॥ ११ ॥ किं विष्णुना वामनरूपभाजा मातुं पुनर्चा स्ववितस्तिरेपा । दी/कृतेति भ्रममादधाति स्वःशूलिकेयं जयपत्तनस्था ॥ १२ ॥ स्वःशूलिकायाः समतीतदृग्गतेः कियत्यशेषोन्नततेति निश्चयम् । शृङ्गाटकान्तःप्रसृता दिवाऽधिकं छायाऽदसीयैव करोत्यधःस्थिता ॥१३॥ लिखितुं जयनगरनुतिं कारुभिरभ्युन्नतीकृता गगने । किमु लेखिनीव काचित्स्वःशूली परिलसत्येषा ॥ १४ ॥ अग्रावरोधयोगा श्रितनानाधातुरङ्गसांनिध्या । उपलसितसर्वभागा स्वःशूली शिखरसंनिभा भाति ॥ १५ ॥ १ एतेन सौधस्य दीर्घाकृतिरुच्यते.. २ जलाभिराममपि तत्र सन्त्येव मावठो- रत्नाकरसागरकुण्डप्रभृतयो महाजलाशयाः. ३ तद्वासिपूर्वराजसन्ततिविशेषैरेव नगरस्य चासितत्वाद्युक्तएव तद्देवतायाः स आवासः. ४ चोभ इति प्र. ५ क्रीडाकपोताश्रयः. '६ एतेन सौधस्य राजनिशान्ताग्रस्थमन्दुरासीन्नि स्थितिरिति सूचितम्. ७ विद्युत्तः. ८ अमुष्या इयम्. .९ नास्ति ग्रावरोधयोगो यत्र तच्छिखरं अग्रे अवरोधयोगो यस्याः तृतीयो रङ्गः ३ नीचैः शिखरच्छदिपः संरघाछत्राणि सन्त्यमुप्या यत् । तस्मात्परिघाकारा सरधाशूलीयमन्वर्था ॥ १६ ॥ स्वःशूल्याः शिखरोपरि सकलकलो विलसितः कलानाथः । कलधौतस्य कलश इव कोऽपि समारोपितो भाति ॥ १७ ॥ दिवाधःप्रसूता बादं छाया स्वःशूलिसद्मनः । विभाति राजसरणेरर्गलेच क्षितिच्युता ॥ १८ ॥ इदं स्वःशूलिकादम्भाज्जयपत्तनभूभुजा । आकाशहर्म्य प्रोत्तुङ्गं कारितं सुविलक्षणम् ॥ १९ ॥ अस्मात्स्वःशूलिकाक्षौमादृश्यते जयपत्तनम् । चारु चित्रमिवाल्पिष्टं पत्रे संचित्रितं वचित् ॥ २० ॥ नानाविधोच्चावचशृङ्गवृन्दां दृष्ट्वाकृति मारुतमन्दिरस्य । उत्खातशृङ्गाः किमु सर्वशैलाः संजायते धीः क्षणमात्रमेपा ॥ २१॥ परःशता यजयपत्तनीयसमीरसौधे बहुकाचजाले । स्फूर्जन्ति सूर्या इदमेव चित्रं ते सन्ति खे द्वादश नेति किञ्चित् ॥ २२ ॥ एतत्समीरसौधं छदि तिष्ठच्चटुलबहलकापोतम् । सततमिव चुम्ब्यमानं लसति सकलशिल्पिचेतोभिः ॥ २३ ॥ गन्धवहहर्म्यमेतत्सुवर्तुलं तुलितगोपुराकारम् । जयनगरशिल्पदेव्या भाति समुपवेशनोपधानमिव ॥ २४ ॥ सा स्वःशुली तथा नितं नाना गैरिकादिधातुरङ्गसांनिध्यं येन तथैव नितं नानाथा- स्थिततुरनसांनिध्यं यया उपलैः सितो पद्धः सर्वभागो यस्य उपलसितः शोभितः सर्वभागो यससा इति विमतिविपरिणामेन श्लेषगर्मितं सःशुलीगिरिशिखरयोः साहवं सिद्धम्. १ मधुमक्षिकागृहास्ते च नाकृतयो भवन्ति. २ भापायां लाफिक्यां नामेदम्. ३ यद्यपि मागी अर्गला न संभवति तचापि संभावनायां चमत्काराय सास्ति. ४ रान्तीह हवामहल जलमहल यादलगहल इति सीधास्तस्मादाकाशमहल इत्यप्येतत्. ५ अन्यु- परिष्टादधो वस्तु मुसुक्ष्ममेव दृश्यते. ६ हवामद्दल इति प्रसिद्धस्स. ७ सूर्या:. ८ शिल्पि. चेतांमि यदर्थ वासनावशेन कपोतरूपं धृत्वा अतिसमुन्दरे तत्र रमन्त इखर्थः. ९ यस गद्दीका तकिया इति प्रसिद्विः.

१६ श्रीजयनगरपञ्चरङ्गे विविधनतोन्नतशिखरोपरिस्थजाम्बूनदध्वजः स्फुरति । जालकगवाक्षपक्षकनिचितानः क्षितिपतेरनिलनिलयः ।। २५ ।। यस्यां त्रिपोलायगोपुरस्य कैरप्यबैपम्यमिदं न बुद्धम् । सिंहस्थितिर्यस्य यदेकतोऽस्ति तथैव सिंहस्थैितिरन्यतोऽपि ॥ २६ ॥ त्रैपोलपार्श्वयुग्मे नक्तं जयपुरि समुज्ज्वलद्दीपौ । राज्याधिदेवताया जाग्रत्या लोचने इवोल्लसतः ॥ २७ ।। जयनगरे दुर्गोपरि विराजते कूर्मरीजसौधोऽयम् । सकलप्रजागृहाणां राजेव गजेन्द्रमधिरूढः ॥ २८ ॥ पार्धद्वये ज्वलन्ती जयपुरि शृङ्गाटकेऽखिले रात्रौ । राजप्रदीपपशिर्वन्दनमालेव काचिदुल्लसति ॥ २९ ।। वासुकिभवनभ्रमकृत्तालकटोराख्यसरसि यच्छाया । लसति नृपस्योपवने सौधं मेघप्रतिच्छन्दम् ॥ ३० ॥ सुदृढसुदर्शनदुर्गे भान्ति नवीनानि राजसदनानि । इन्द्रविमानान्यभितस्तत्र स्थितभटविलुण्ठितानीव ॥ ३१ ॥ अम्बावत्यां पुर्यां महामहालम्बभित्तयो नृपतेः । विलसन्ति दुर्गसौधाः शिखरिण इव शिखरिणामुपरि ॥ ३२ ॥ अथो बहिर्गोपुरमस्ति तस्या मुख्यं परिच्छेदिषु कौतुकानाम् । दृङिनिमेषीकरणस्य हेतुरुद्यानमेकं भवदम्बुसेकम् ॥ ३३ ॥ यत्र प्रभाते स्थलपद्मकोशभवच्चटत्काररवैः प्रबुद्धाः । केदारिकीणां वलयेपु मालाकाराः प्रणालीः परिवर्तयन्ति ॥ ३४ ॥ मालाकृतः प्राकृतगानगाथाप्रोद्गायिनो यत्र चिरं प्रभाते । कर्पन्ति कुम्भानजिनस्य शब्दमय्येवं रज्ज्वा प्रहिवृन्दमध्यात् ॥ ३५ ॥ १ खिडकी इति. प्र० २ अत्रतनमहाराजमाधवसिंहानां प्रासादेषु स्थितिविशिष्टं शुद्धानातिरिच्यते. ३ कच्छसंज्ञकक्षत्रियराजा तस्य प्रकृतस्य राज्ञ एवेत्यर्थः. ४ अस्त्ये- तदिह ग्राहगणसंकुलमेकं तत्सरः. ५ संज्ञाविशेप एपः. ६ यस्य नाहरगढ इ. प्र. ७ न. गरमध्यवर्णनान्ते. ८ प्रथमनिर्देश्यम्. ९ इयत्ताज्ञापकेषु. १० क्यारी इ. प्र. ११ धोरा इ. प्र. १२ गीतेश्चिरवेगत्वाच्छन्दमयी. .

१७ तृतीयो रङ्गः ३ विकासकन्ति प्रतिभान्ति यस्य वापीपु सायाहनि कैरवाणि । अन्त तादभ्रकुचत्सुगन्धात्प्रसह्य मन्ये देरितोदराणि ।। ३६ ॥ पदे पदे बम्भ्रमणस्य दम्भाद्रथाङ्गवद्यत्र निकुजवाताः । च्युतानधस्तादिव पुप्पगन्धान्खोदुह्यमानानुपसंहरन्ति ॥ ३७॥ एकस्य कस्याप्यहहादिमस्य परस्परं संभवदीर्ण्ययेव । प्रायेण यन्मण्डपवल्लरीणां सुमानि सर्वाणि समं स्फुटन्ति ॥ ३८ ॥ एकत्र वासादिव यत्र वा नानाविधायाः स्वसमानजातेः । विभाति वीथिहरिता नितान्तं पृथ्वीरुहाणां च तथा लतानाम् ॥ ३९ ॥ कुण्डान्तराले किल यत्र संततं वार्यन्त्रधारापतनोद्भविष्णवः । विष्वक्प्रकीर्णा इव पुष्पकुड्डला लसन्ति सायाहनि नीखुहृदाः ॥ ४० ॥ ईदृग्रूपस्तु मया नारामः काऽपि वीक्षितो दृष्ट्या । यमिन्द्रुमकुसुमानां कुसुमत्वं त्वहह नास्त्येव ॥ ४१ ।। दर्पणो वनदेव्येवे स्थापितो मुखमीक्षितुम् । उद्यानमध्ये तदिदं भाति स्थिरजलं सरः ॥ ४२ ॥ धारायन्त्रोद्गतजलकणाघट्टनस्रस्तचच्च- नानाचित्रस्फुटितकुसुमाकीर्णपक्षप्रतीकाः । कुञ्ज पश्य क्षणमित इतवाटुचुङ्कारयन्तो न ज्ञायन्ते क्षणमिह हहा केचिदेते शकुन्ताः ॥ ४३ ॥ धारायन्त्रसमुत्पतिष्णुसलिलैराप्लावितं सर्वतः सम्भं पश्य वयस्य शिल्पबहले कुण्डेऽत्र गौराश्मनः । उच्चैद्धकपर्दमध्यनिपतद्भागीरथीनापितः शम्भोर्देह इवाऽभिलग्नभसितः संभाव्यते यः सदा ॥ ४४ ॥ तत्राऽस्ति हमे क्षितिपस्स मुन्दरं नवं च लोकोत्तरकारुनिमिति । सत्यं समस्ता अपि चित्रिताः सुरा बभूवुरासेचनकं निरीक्ष्य यत् ॥ ४५ ॥ १दरणं दरः स संजातो यस्य तदुदरम्. २ उजीयमानान्, ३ हरितत्यमानन्दा- दप्युपचर्यते. ४ कुरिसतमुमत्वम्. ५ उत्प्रेक्षाव्यजकोऽयमिवादः. ६ अस्स सम्भ- न्ययः इदमप्युरप्रेक्षासूचकम्.

१८ श्रीजयनगरपञ्चरङ्गे ॥ . यस्यैकमालोक्य नवीनमन्दिरं विश्वेषु कर्मस्वपि विश्वकर्मणः । विशिष्य विश्वासमहं तु जातुचिद्रजामि नो विस्मयकारिधर्मणा ॥ ४६ ॥ यदुपर्युड्डयमानाः परितश्चिल्लाः कचिवचित्समये 1 दिवि भान्तीव विमाना द्रष्टुमुपागच्छदमराणाम् ॥ ४७ ॥ आस्तां पार्श्वयुगोन्नतक्षितिधरव्यूहान्तरप्रोल्लस- त्पाथःसंभृतकुण्डकूपललितोद्यानावलीसंवृते । अस्माकं तु भवत्पुरस्थरसिकप्रत्यग्रगोष्ठयुत्सव- प्रोद्गायद्वरवर्णिनीमुखरिते घाटे विहारः सदा ॥ ४८ ।। पीनाम्भोलीनमीनग्रहणरणरणन्मग्नकारण्डवाली- प्रोल्लुण्ठत्कण्ठनालीक्षणसमयमिलन्नीलराजीललीलः । आलिङ्गत्तुङ्गभङ्गास्थितिभवदमितस्फीतसोपानभान- भ्राम्यत्तीरस्थलोकः स्फुरति जयपुरे मानसाख्यस्तडागः ॥ ४९ ॥ आकाशप्रतिमामृषाध्यवसितस्फेयस्तलप्रोच्चल- कूर्मादिभ्रमवारणार्थविदितप्रोड्डीयमानप्लवः । वातान्दोलिततीरजाम्बवपृथुभ्रश्यत्फलोक्ताब्जिनी- वारंवारगतागतालिकुतुकधीरेष पद्माकरः ॥ ५० ॥ लोके दण्ड्यः स भवति मुहुर्योऽपराधं विधत्ते चित्रं चित्रं बत जयपुरे नीतिरेपा न दृष्टा । १ यस्य राज्ञ उद्यानगतं नवीनमन्दिरमालोक्य विश्वकर्मणो विश्वेषु सर्वेषु कर्मसु अहं विस्मयकारिधर्मणा वैचित्र्यातिशयेन विस्मयकारित्वेन विश्वासं जातुचिद्विशिष्य न प्रजामीति सौधसौन्दर्यवर्णनप्रकारः. २ पीनाम्भोलीनमीनानां ग्रहणाथै रणरणन्ती सती जातिवाशितं कुर्वती सती मन्ना या जलकाकपतिस्तस्या जलान्तरेव प्रोल्लुण्ठन्ती कण्ठनाली तया क्षणसमयं यथा तथा मिलन्ती नीलजलसर्पलीला यत्र तथा आलिङ्गन्त आयान्तो ये तुङ्गा भङ्गास्तेषां स्थित्या भवत् अनन्तस्फीतसोपानभानं तेन भ्राम्यन् भ्रमं कुर्वन् तीरस्थलोको यत्र इति दीर्घः समासः. ३ आकाशप्रतिमया मृषा अध्यवसितं यत्स्फेयः तलं तत्र प्रोच्चलन्तो ये कूर्मादयस्तद्रमवारणार्थ विदिताः प्रोडीयमानाः प्लवाः यत्र तथा वातेन आन्दोलितानि यानि तीरस्थजम्बूभवानि पृथूनि भ्रश्यन्ति फलानि तदुक्ता- जिनीपु वारंवारगतागतालीनां कुतुकश्रीयंत्र इति. ४ अर्थान्तरन्यासोपवलितेयं व्याज- निन्दा.

तृतीयो रङ्गः ३ नित्यं गत्या नृपपथगतान्कुट्टिमान्खण्डयन्तो दण्ड्यन्ते नो यदिह गणशः संप्रयान्तस्तुरङ्गाः ।। ५१ ॥ पर्याप्त प्रतिपद्धति प्रतिगृहं दूरेऽन्तिकेऽपि कचि- द्दीव्यद्भिनिशि दीपकैः शवलितं सर्वत्र यस्यां तमः । उद्यत्तारकसंहतिद्युतिमिलन्नीलोप्रोल्लासितं नीचैः प्रस्खलितं समस्तमिव खं साश्चर्यमालोच्यते ॥ १२ ॥ सामीप्यं परिपोषयन्निव मिथो दूरस्थितोऽपि भ्रमा- दाधारं व्यपलापयन्निव दृढस्तम्भाश्रितोऽपि स्फुटम् । द्रष्टुभ्यश्च निबोधयन्निव परिच्छिन्नोऽपि मानच्युति घण्टामार्गनिबद्धभूमिघटितो दीपव्रजः शोभते ॥ १३ ॥ एतद्धन्यमितीय नाकपतिना रत्नानि वृष्टानि कि सर्वत्राऽथ नृपप्रतापशिखिनः स्पूर्जन्ति वार्चीपि किम् । राज्यश्रीतटिनीप्रवाहसलिले किं चुहृदा इत्यमी कुर्वन्ति भ्रमकल्पनां जयपुरे दीपावलीदीपकाः ॥ १४ ॥ दुवर्ण रजतं न चित्रमयटुग्रीवान्त्यभागः पुन- नों कश्चिनिलयलथा च पेटहो भेरिन यस्यां बुधः । गुमिन्यश्च लताः स्त्रियो न समितिः संयन्न संपत्तथा सर्पा एव च पनगा न भृतका दुः पादपो नो जनः ॥ ५५ ॥ आस्ते हिगुल एच यत्र दरंदः पुंसां न वेपः पुन- निर्णतः किल सप्ततन्त्यभिधया यज्ञः पुनः पटः । दृष्टो वेश्मनि मूपकः पुनरधोगन्ता न कश्चिन्नरः सिद्धान्तः खलु शास्त्र एव न पुनः छाप्याश्रमे संश्रुतः ॥ ५६॥ १ पूर्गन्. २ उपलदिः. ३ उदरमादेन मध्यं सत्यम्. ४ फुस्मितवर्णन. ५ पट हुन्नीलि. ६ उदररोगयुनाः, ७ मितिः प्रमाणे तासहिना. ८ प गलितं गच्छन्ति ते. ९ पाकरणासानफना. १. दर भये ददानिगः. ११ गिदानो गाविशेपाणां अन्नः.

२० श्रीजयनगरपञ्चरङ्गे अत्यन्तोन्नतभूधरस्थितबृहदुर्गस्थकूर्मान्वय- क्षोणीनायकचक्रमस्तकमणेरग्रप्रदेशे स्थिता । वापीकूपतडागनिष्कुटवती या प्रांशुवप्रा पुरी पूर्णा सर्वजनैर्विराजति निजा पुत्री यथाग्रे पितुः ।। ५७ ॥ अस्य श्रीजयपत्तनस्य सकलक्ष्मालोकचूडामणे: श्लाघेका महतीयमेव नितरामुत्कर्पसंदर्शिनी । आकाशोऽपि दिवा रवेनिशि विधोबिम्बस्य विभ्राम्यतः प्रच्छन्नेन मिषेण यस्य कुरुते नीराजनं नित्यशः ॥ ५८ ॥ श्रीकुन्दननन्दनहरिवल्लभकविमल्लपल्लविते । जयनगरपञ्चरङ्गे काव्ये रङ्गस्तृतीयोऽगात् ॥ १९ ॥ चतुर्थो रङ्गः ४ हे शाङ्गिन्नरिपौरुषं कृतवता सत्कीर्तिराप्ता त्वया सख्यौ तन्वि वितन्वता ननु रुपं कीर्तिः कुतः प्राप्यते । प्राप्तो भूरि न यज्ञतां त्वमधुना मैवं मया यज्ञता प्राप्तवेति रमां गिरा कुटिलया विष्णुर्जयन्नोऽवतु ॥ १ ॥ शैलाली तव गोपुराग्रधरणौ नृत्यं विधत्ते सदा श्रेणी सुभ्र धराभृतां विदधती नृत्यं त्वयोक्ता कथम् । हास्यं नेति कुरु प्रभो ननु कथं वक्त्रं कृतं हा मया पद्मां वक्रमिति ब्रुवन्दिशतु वः शक्रानुजः सत्क्रमम् ॥ २ ॥ अत्यागः क्रियते सदा बहुविधं विष्णो मदीयं त्वया सत्यं भीरु विधीयते हि भवदत्यागो मया नित्यदा । आश्चर्यान्वितमाददासि वचनं का तत्र चर्येक्षिता संपृच्छन्कमलां त्रिविक्रम इति त्राणं विध्यात्तव ॥ ३ ॥ १ एतेन पुर्यो राज्ञः प्रचुरं वात्सल्यमायातं भवति. २ आकाशं जयनगरस्य सूर्य- चन्द्रविम्वाभ्यां नीराजनं करोतीत्युक्तर्वैचित्र्य एव पर्यवसायः. ३ अरिपु पौरुषं. ४ शैलाली नटः. ५अति आगोऽपराधः. ६ अत्र अक्षे अन्याच्चतुष्पटीगृहादग्रिमे गृहे घृते सति ज्ञता पाण्डित्वं ते मया ज्ञाता.

चतुर्थो रङ्गः ४ ज्ञाताऽन्त्याद्गृहतो धृतेऽग्रिमगृहेऽक्षे त्र जता ते मया मिथ्यैतद्वदसि प्रिये ननु मम क्षेत्रज्ञतवाऽस्ति यत् । श्लेषान्द्वेव्यहमीदृशान्न च तदा त्वं वेत्सि तान्कीदृशां- विलक्षयन्निति मम स्तात्मान्तयेऽधोक्षजः ॥ ४ ॥ बद्धोऽस्त्येप मयाञ्जलिश्चिरतरं पझेऽनसूया भव स्त्री जायेय कदाचनाऽपि न मुनेरबेरहं तु प्रिय । दृया त्वं भव भामिनी त्रिनयनस्त्री नाऽसि कि भापसे वाग्बन्धादिति हेपितः कमलया शौरिमया मर्यते ॥ ५ ॥ शौरे के शपथास्त्वया प्रविहितास्तथ्याः प्रचक्ष्वाऽभव- न्केशानां सृतयो मयाऽद्य विहिताः सन्त्येव सत्या इमाः। वाक्चेष्टा तव वर्तते बहुविधा सत्यं ममेष्टा च वाक् पद्मामित्यनुमोदयन्विदलतादृश्छम पद्मापतिः ॥ ६ ॥ प्रणम्य वाणी जयपत्तनीयनृपान्वयप्राक्तनपार्थिवानाम् । सिंहासनारोहणराज्यकृत्योविलिख्यते सामयिक प्रमाणम् ॥ ७ ॥ बभूव राजा नृवराख्ययादौ यो वासयामास पुरीं स्वनाम्ना । तस्येश्वरीसिंह इति प्रसिद्धो वार्धक्यकालेऽजनि सूनुरेकः ॥ ८॥ श्रीसोढदेवमहाराजानाम् (४०) श्रीसोडदेयोऽस्य सुतो मनखी गुणाग्निनन्दोन्मितविक्रमाब्दे । घोसापुरे निर्जितचाहमानो व्योमाधिवर्षाणि चकार राज्यम् ।। ९ ।। (९७३) श्रीदुर्लभरायमहाराजानाम् श्रीमालतो दुर्लभरायनामा भूपत्रिसप्तग्रहहायनेऽभूत् । यो रोमदुर्गाहपुरे स्वराज्यमदॉत्रयस्तिदातमात्रभार ॥१०॥ १ याच्यगेदन निमा यागपदापणस्पृशः लिभ्यन्ति दादाः शेपोसाविति लक्षणल. क्षितशम्दानां भिमसरूपापायान्, २ नरवर इ. प्र. ३ एन.पूर्यकालनिर्णयो मया न सम्मः. ४ चौपाणक्षग्रिय. ५ यस्य रामम इति प्रगिदिसनापि राजप्रासादाः सन्ति संप्रति पर्तमानमहाराजाः प्रायो मृगया तय गराशीका बिहरन्ते.

२२ श्रीजयनगरपञ्चरङ्गे श्रीकाकिलदेवमहाराजानाम् (१४॥) नास्त्राभ्रशून्येन्दुमितेऽथ वर्षे तदात्मजः काकिलदेवभूपः । सामन्तमेकं विनिहत्य दम्भादम्बावती तन्नगरी जहार ॥ ११ ॥ वरप्रदानाजमवायदेव्या जित्वा सपत्नान्निकटे तटिन्याः । बाणोद्भवाया अथ तत्र पुर्यां राज्यं व्यधात्सार्धचतुर्दशादान् ॥ १२ ॥ (१०२१) श्रीहनूदेवमहाराजानाम् (३१) एकदिखेन्दून्मितहायनेऽभूपो हनूदेव इति प्रतापी । पृथ्वीगुणादान्हतसर्वशत्रुः पितुः पदं यो विभरांचकार ॥ १३ ॥ (१०५२) श्रीजाह्नवदेवमहाराजानाम् (२७) श्रीजाह्नवोऽजायत भूमिजानिः संवत्सरे नेत्रशराम्बरेन्दौ । निरर्गलं राज्यधुरां दधार वर्षाणि सप्ताधिकविंशति यः ॥ १४ ॥ (१०७९) श्रीयजनदेवमहाराजानाम् (३४) नन्दर्पिखेन्दुप्रमिते नृपोऽभूत्तदात्मजोऽढे यजनाभिधानः । यः पालयामास विनिर्जितारिः प्रजा निजा वेदगुणाब्दमानम् ॥ १५ ॥ (१११३) श्रीमलयसिंहमहाराजानाम् (५२) रामेन्दुभूचन्द्रमितेऽथ वर्षे राजाऽभवच्छ्रीमलयादिसिंहः । यो भैरवोन्मोचितदारदोपश्चकार राज्यं नयनाशुगाब्दम् ॥ १६ ॥ (११६५) श्रीमदुज्ज्वलदेवमहाराजानाम् (३३) संजातवानुज्ज्वलदेवदेवः संवत्सरे वाणरसेन्दुचन्द्रे । निराकुलं पैतृकविष्टरं यस्तो समा रामगुणप्रमाणाः ॥ १७ ॥ (११९८) श्रीराजदेवमहाराजानाम् (३७) श्रीराजदेवोऽथ तदीयसूनुर्मातङ्गनन्देन्दुसुधांशुवर्षे । राज्येऽभिषिक्तः प्रकृतीः पुपोप त्रिंशत्समाः सप्त च नीतिवेत्ता ॥ १८ ॥ १ संज्ञानामेदम्. २ अम्बावत्यां पूर्व कश्चिद्भरवस्तत्रत्यराजवधूर्विवाहानन्तरं प्राक्त- यमुपभुङ्क्ते स्म तमेप राजा निजग्राहेति कथा वर्तते.

चतुर्थो रङ्गः ४ २३ (१२३५) श्रीकीलनसिंहमहाराजानाम् वाणाग्निनेनेन्दुमिते ततश्च वर्षेऽभवत्कीलनसिंहभूपः । राज्यश्रियं प्राज्यकृताज्यहोमो निधीषुवर्षाणि स संदधार ॥ १९ ॥ (१२९४) श्रीकुन्तलदेयमहाराजानाम् (४१) जज्ञे पुनः कुन्तलसिंहनामा व पयोराशिनवाक्षिचन्द्रे । वसुन्धरेशो विधुवेदसंवत्सरान्तमानन्दितवाँश्च पौरान् ॥ २० ॥ श्रीजवनसिंहमहाराजानाम् (४९) उत्पन्नवाञ्छीजयनादिसिंहः शराग्निरामेन्दुमितेऽथ वर्षे । महीपतिर्लोकमपालयच्च यो मध्यमं नन्दयुगाब्दमानम् ॥ २१ ॥ (१३८४) श्रीमदुदयकर्णमहाराजानाम् तत्सूनुरासीदुदयादिकर्णः समुद्रवस्वग्निनिशाधिपाब्दे । उत्पाद्य पुत्रान्स गुणप्रमाणान्द्वाविंशति राज्यसमाः समाप ।। २२ ।। (१४०६) श्रीनरसिंहदेवमहाराजानाम् (४४) रसामवेदेन्दुशरद्यधत्त पट्टाभिषेकं नरसिंहदेवः । सरस्वदाम्नायमिते च वर्षे प्रशासितुं देवपुरीं प्रतस्थे ॥ २३ ॥ (१४५०) श्रीवनवीरसिंहमहाराजानाम् (२२) भूयो नृपः श्रीवनवीरसिंहः खयाणसिन्धुक्षितिवत्सरेऽभूत् । प्रोदसीसंमितहायनानि राज्यं विधायापरलोकमभ्येत् ॥ २४ ॥ (१४७२) श्रीमदुद्धरणमहाराजानाम् अथो द्विशैलाम्बुधिभूसमायां राजा बभूवोद्धरणामिधानः । आरामदृग्वत्सरमाधिपत्यं द्विजातिभाजा समधारि येन ॥ २५ ॥ श्रीचन्द्रसेनमहाराजानाम् पत्कनन्दाधिधराख्यवर्षे श्रीचन्द्रसेनोऽथ बभूव भूपः । प्रतापशाली द्विरदानलान्दमर्यादमाशिश्रियदात्मसत्ताम् ॥ २६ ॥ १ मृत्युलोकम् श्रीजयनगरपञ्चरङ्गे श्रीपृथ्वीराजमहाराजानाम् (२५) त्रिरामवाणावनिनाम्नि पृथ्वीराजाख्यराजोऽजनि वत्सरेऽथ । पीठे पितुर्हस्तिधरातनूजः स वाणनेत्राव्दमधिष्ठितोऽभूत् ॥ २७ ।। (१५५८) श्रीपूर्णमल्लमहाराजानाम् (१६) श्रीपूर्णमल्लो नृपतिर्वभूव वस्त्राशुगेपुक्षितिहायनेऽथ । आपोडशाब्दं स विधाय राज्यं यथा तथा प्राप कथावशेषम् ॥ २८ ॥ (१५७४) श्रीभीमसिंहमहाराजानाम् (८) वेदर्पिबाणेन्दुमिते ततोदे भीमाभिधोऽजायत भूमिभर्ता । वोढाष्टवर्पावधिराज्यभारश्चकार यश्चक्रमणं झुलोके ॥ २९ ॥ ( १५८२) श्रीरत्नसिंहमहाराजानाम् (२२) नृपोऽभवत्तत्तनयोऽथ रत्नसिंहो दृगष्टाशुगभूमिवर्षे । आनेत्रहस्ताब्दमवाप्य राज्यमायुःप्रमाणं वत निर्णिनाय ॥ ३० ॥ (१६०४) श्रीमदाशाकर्णमहाराजानाम् (.) पुनश्च जातो धरणीभृदाशाकर्णोऽर्णवव्योमरसेन्दुवर्षे । रोगेण केनाऽपि स मासमात्रे संत्यक्तवान्संहननं स्वकीयम् ॥ ३१ ॥ ( १६०४) श्रीभारमल्लमहाराजानाम् (२६) श्रीभारमल्लोनुदधे नृपत्वं श्रुत्यभ्रशास्त्रक्षितिसंमितेऽब्दे । पडूविंशतिं राज्यमसौ विधाय वर्षाणि नाकाभिमुखो बभूव ॥ ३२ ॥ (१६३०) श्रीभगवद्दासमहाराजानाम् भूपो वभूवान्भगवत्पदादिदासो वियद्वन्हिरसक्षमाब्दे । आषोडशाब्दं यवनेशशिष्ट्या काश्मीरगन्ता स चकार राज्यम् ॥ ३३ ॥ (१६४६) श्रीमन्मानसिंहमहाराजानाम् (२४) रसाधिशास्त्रामृतरश्मिवर्षे वित्तोऽथ राजाऽजनि मानसिंहः । स म्लेच्छभूपध्वजिनीप्रशास्ता वेदाक्षिवर्ष जयति स्म वीरः ॥ ३४ ॥ १ वादशाह इ. प्र.

२५ चतुर्यो रङ्गः ४ (१६७०) श्रीभावसिंहमहाराजानाम् व्योमर्पिशास्त्रेन्दुशरद्यभूद्राट् तज्ज्येष्ठपुत्रोऽथ च भावसिंहः । चम्बां स मिर्जीपपदं शकेन्द्रादवाप्य चक्रे च पडब्दराज्यम् ॥ ३५ ॥ (१६७६) श्रीमिर्जाजयसिंहमहाराजानाम् (४०) रसर्पिशास्त्रद्विजराजवर्षे मिर्जानृपोऽभूजयसिंहनामा । श्रीसेवकाख्यप्रतिभूपजेता जिजीव योऽभ्रश्रुतिसंवदन्तम् ॥ ३६ ।। (१७१६) श्रीविष्णुसिंहमहाराजानाम् (१८) पट्टाभिषिक्तोऽजनि विष्णुसिंहस्ततो साभ्रपिरसाख्यवर्षे । अष्टादशाब्दावधि शान्तकष्टं यो म्लेच्छराजं पुरु संवभाज ॥ ३७॥ (१७५४) श्रीसवाईजयसिंहमहाराजानाम् (४७) जज्ञे पुनः श्रीजयसिंहराजः समुद्रनाराचमुनिक्षमाब्दे । प्रागल्भ्यतुष्टाद्यवनेश्वरायो लेभे सवायीति पदं प्रशस्तम् ॥ ३८ ॥ अवासयद्यो जयपत्तनं च प्रागश्वमेधं सवनं विधाय । देशान्तरेभ्योऽहत लब्धवर्णान्विप्रान्सिपेवेऽधिकजीविकाभिः ॥ ३९ ॥ तत्तत्सदाचारकृतीः प्रचख्यौ नानानिबन्धान्निरमीमपच्च । सर्वेष्ववत्तिष्ट यथावदित्यं चक्रे स राज्यं मुनिवर्णवर्षम् ॥ ४०॥ (१८०१) श्रीमदीश्वरीसिंहमहाराजानाम् (७) अथेश्वरीसिंह इति स जातः पृथ्वीपतिः क्ष्माखवसुक्षमाब्दे । आसप्तवर्ष नृपतां वलम्ब्य भ्रातुर्भयाद्योऽभ्यगमत्कुमृत्युम् ॥ ४१ ।। (१८०८) श्रीमाधवसिंहमहाराजानाम् (१७) तदन्यभून्मांधवसिंहभूपो वर्षे वसुव्योमकरिक्षमाख्ये । राज्यश्रियं संश्रितवान् प्रगल्भः स्वैरं स शैलेन्दुसमं बलिष्ठः ॥ ४२ ॥ १ अन विशतिवर्षाणि यवर्धन्ते सनिर्णय नोविद्यः लोकातु कृष्णसिंहारयोराजामध्ये. उजनीतिवदन्ति एवमपि रामसिंहनिश्चये वर्षग्रंय वर्धते तस्यापि.रजयसिंहकल्पद्रुमप्रभू. तीन.३आत्मात्मपातम्,४ एतैः सवाई माधोपुर इति वकीतये पुरमप्येकमिह वासितं त. मयपुराचत्वारिंशरकोशमित दूरमस्तितपरणतभंवर इति प्रसिद्धो गणेशस दुर्गभ्रेष्ठोऽसिस, ३ २६ श्रीजयनगरपञ्चरङ्गे , * , (१८२५) श्रीपृथ्वीसिंहमहाराजानाम् (९) कुन्त्यात्मजद्विद्विपभूमितेऽन्दे पृथ्व्यादिसिंहो नृपतिर्बभूव । नवाब्दपर्यन्तमनात्मजो यश्चकार राज्यं मृगयानुरागी ॥ ४३ ॥ . (१८३४) श्रीप्रतापसिंहमहाराजानाम् (२४) चतुस्त्रिहस्तिक्षितिहायनेऽनु प्रतापसिंहः कविमौलिरत्नम् । श्रीताम्रवक्त्राधिपमानकारी चतुर्द्विवर्षाणि बुभोज राज्यम् ॥ ४४ ॥ (१८५८) श्रीजगत्सिहमहाराजानाम् (१५) नागाशुगाष्टक्षितिवत्सरेऽभूदाजा जगत्सिंह इति व्यवायी। राज्यं स भूतावनिवर्षमानं प्रमत्तचित्तः सततं बभार ॥ ४५ ॥ (१८७३) श्रीजयसिंहमहाराजानाम् (१४) लोकर्षिनागावनिसंमितेऽब्दे जज्ञे नृपोऽन्वग्जयसिंहनामा । चतुर्दशाब्दावधि बालपुत्रः कार्य प्रजानामुररीचकार ॥ ४६ ॥ (१८९०). श्रीरामसिंहमहाराजानाम् (४६) अभ्रग्रहाष्टेन्दुशरद्यवाप श्रीरामसिंहः शिशुरेव राज्यम् । आशास्त्रवेदाब्दमनौरसो यश्चकार राज्यं मतिमत्तमायः ॥ ४७ ॥ ( १९३७) श्रीमन्माधवसिंहमहाराजाः सप्तत्रिनन्दक्षितिनाम्नि वर्षे राज्यं भजन्माधवसिंहसिंहः । सौभाग्यशाली महिपीप्रियोऽयं वर्वत नित्यं मधुभित्प्रसादात् ॥ ४८ ॥ ज्ञेया तस्कररौहिषाश्चपलता संप्रत्यसौ मृत्यवे प्रत्यर्थिद्विरदाः पुनर्न भवतां क्षेमाय वृंहारवाः । १ अस्य राज्ञो व्रजभाषायां परःशताः कृतयोऽत्र समुपलभ्यन्ते. २ अंग्रेज सरकार इ. प्र. ३ दीर्घसूत्रोयमभूत्स्त्रीतन्त्रे. ४ अत्यन्तबुद्धिमानित्यर्थः. तत्तासूचकविशेप एव जी. सी. एम्. आई. इत्युपाधिरप्यस्य . फिरङ्गैराप्तिः. ५ द्वितीयसिंहशब्दः श्रेष्टार्थकः. ६ राज्ञीनां प्रियः. ७. कैश्चिदेकैः श्रीब्रह्मचारिभिर्गुरुभूतैरनुग्रहेण विश्राणितोयं श्रीगो- पालाख्यया मधुंभिद्भगवान् मूर्तिधारी राधाराधितः श्रीकृष्णः स एतै राजभिर्निजसौधो. पान्त एव विराजितः पोपूज्यते.

पंञ्चमो रङ्गः ५ २७ रे कणेजपभल्लुकाः समुचितं नेदं वृथावलगनम् यस्मान्माधवसिंह एप भजते स्वाभाविकोज्जृम्भणम् ॥ ४९ ।। इलाश्रितोप्यस्त्यनिलाश्रितो यस्तथा बलाढ्योप्यबलाढ्य एपः । अनङ्गरागोऽपि नवाङ्गरागः श्रीमान्नृपो माधवसिंवर्मा ॥ ५० ॥ श्रीगोपालपदाम्भोजभ्रमरीभूतमानसः । आशीभिः कविमलस्य क्रियाद्राज्यमसौ चिरम् ॥ ५१ ॥ श्रीकुन्दननन्दनहरिवल्लभकविमल्लपल्लविते ।। जयनगरपञ्चरङ्गे काव्ये रङ्गश्चतुर्थोऽगात् ।। ५२ ॥ द्विपां गणो रणे येन वीराग्येण समुद्धतः । खड्गाग्रेण गलाने द्राकरमाहं समुद्धतः.॥ १ ॥ पञ्चमो रङ्गः ५ श्रीमाधवो नरपतिर्भगवत्कृपाह- क्संप्राप्तसर्वविभवो जयपत्तनस्य । ध्यात्वा गुरुं सपदि गुर्जरनिर्जरेणे प्रस्तूयते सुकविना हरिवल्लभेन ।। १ ।। श्रीराधिकारमणपूर्णकृपैकपात्रं पादोत्तरखपदवीधरणप्रसिद्धः । राजावताभिधनरेन्द्रगणाग्रगण्यः श्रीमानयं जयति माधवसिंहदेवः ॥ २ ॥ वंश्यान्करोति विर्शदान्महिपीश्च चित्रों रक्तान्मनीपिनिचयान्हरितः प्रजाश्च । नीलीकरोति च रिपून्मुद्दोऽथ पीती- न्यः सर्वरञ्जनकृताविति कोप्यपूर्वः ॥ ३ ॥ १६लायां भुपि लोकराधितः. २ समुत्-हत-इति छेदोऽत्र. ३ द्रविडपमकान्तर्ग. तगुर्जरजातीयविप्रेण. ४ राशायीविप्र. ५ कधिचोटः क्षत्रियप्रभेदः. ६ खछान् थे- तांश्च. ७ गुणविस्मिताः कयुरिताय. ८ अनुरफान् शोणांव. ९ उपचारेण मुदिता हरिद्वष. १० उदस्तान् करोति कृष्णवर्णाश्च.११ सादरमवलोकितागीतवर्णाक्ष.

२८ श्रीजयनगरपचर दृष्दैव यं निजजनोऽध्यवसायपूर्ण- स्तूर्ण तथा परजनः परिभूतभूतिः । साथोऽधिनां विगलिताखिलचित्तचिन्तः कि चाधिकं गुणिजनो भवति प्रसनः ।। ४ ।। ऊर्ध्व विहायसि हिमयुतितारकात्वं नीचैम्तथा भुजगभर्तरि कथकल्यम् । पार्थद्वये सलिलराशिपु मोनिकल विष्वग्यता वत दो यशव यस्य ॥ ५ ॥ यस्य प्रतापदहनाऽसहनो देवीया- क्षिप्रं लभेत तपनोपि स मुर्मुरत्वम् । अश्रान्तशीतलसमुच्छलर्मिवृन्दा मन्दाकिनी यदि भवेनहि संनिकृष्टा ॥ ६ ॥ यज्जैत्रयानगृथुतोपरवश्रयेण संत्रस्य तल्यतलतः स्खलितोम्बुराशौ । मत्स्यावतारसमये परिशीलितं स कृष्णः स्वकीयतरणं पुरु संस्तवीति ॥ ७ ॥ अचिंबिलोलरसनः परिगुक्तकोश- निर्मोककः कृतनितान्तभयः परेषाम् । स्पष्टं व्यनक्ति धृतपानविषो यदीयं दोर्वतिखड्गभुजगश्च नरेन्द्रभावम् ।। ८ ।। स्वात्यन्तदूरसमुपागतिजश्रमस्य प्रोत्तारणाय विजयश्रिय आश्रयन्ति । १ उत्साहः. २ यद्यशोरूपाण्येव चन्द्रादीनि सर्वाणीति भावः. ३ अतएव अतिदूर:. ४ स्वयंतपतीत्येवम्भूतोऽपि. ५ ज्वालाखिन्नत्वम्. ६ अन्यथाऽद्य मयि मज्जिते महा- ननर्थोऽजनिष्यत इति. ७ अत्र यत्करगतः सद्गरूपो भुजगो राज्ञो नरेन्द्रत्वं जागुलि- कत्वं च व्यनक्ति तदर्थमचिरादीनां रसनादिभिः समं बोद्धव्योऽभेदः, ८ निरसनाय.

पञ्चमो रङ्गः ५ २ ९ संलग्नचन्दननवास्तरणातिरम्यं यस्योल्लसद्वृहदुरःस्थलतुङ्गतल्पम् ॥ ९॥ नीचैर्दिवः पुनरुपर्यवनेर्वसन्तः के सन्ति मर्यपतयोऽत्र विचेतसस्ते । पातालनाकविषयेप्यनिवर्तमानां यच्छासनां परिहरन्ति हि ये कुभाग्याः ॥ १० ॥ तान्खर्वशङ्खमकरायुतकच्छपादि- विख्यातिमन्नवनिधीस्तु कुबेरकोशान् । यस्याशु संत्रपयते सर एव ताह- ग्वृत्तं तदा किमिव कोशकदम्बकानाम् ॥ ११ ॥ स्याद्यस्य कस्यचन शास्त्रसमाप्तिसंवि- कि चेश्वराभिलपितस्थितिनिश्चयोऽपि । सिद्धान्तधीरथ कविप्रतिभावधीनां शक्तः स एव भुवि यद्विभवं प्रवक्तुम् ॥ १२ ॥ हा नोऽन्तिकेऽद्य निवसन्ति पुरान के के साक्रन्दमित्यभिहिता गृहदेवताभिः । त्रासेन यस्स रिपको वनयानकाले पश्यन्ति केवलमुदश्रु मुहूर्तमात्रम् ॥ १३ ॥ अत्यर्थमात्महृदयेऽनुभवन्यदीय संग्रामशौर्यचरितं स यदाहिराजः । रोमाञ्चमेति सकलापधनेप्यकस्सा- जाने तदा प्रभवति क्षितिकम्प एपः ॥ १४ ॥ दखा ये शम्बूकास्तपा मकरा उपचारेणानन्ता ये कच्छपादयः कमठादय पति सद्विशिष्टं तु सर एव तथा सान्येतानि निधि विशेषनामान्यपि. २ शानसमात्या- दीनामनिमये यद्विभवस्वाप्यपरिच्छेद इति भावः, ३ पुरायोगे निवत्स्यन्तीतिला ज्यास्येयम्. ४ चैरिविध्वसमाना भसमर्याः पलायनमन्तरा वयं किं नाम कुर्याम इत्यर्थः. ५सर्वेप्पोपु.

ܘ श्रीजयनगरपञ्चरङ्गे . तप्तान्स्वकास्तु परिशीतलयन्नितान्तं शीतान्पराँश्च किल तापयदजसैव । एवं विचित्रनिजवृत्तिविचेष्टमानं तेजः सदा किमपि वर्षति यस्य वक्त्रे ॥ १५ ॥ यः स्वप्रजां शुभमतिः किल जीविकानां दानस्तथाऽभ्युपगमैविविधैः कराणाम् । प्रावृषिनदाघसमये पयसां प्रवृष्टया कृष्टया रैविर्भुवमिव प्रविभर्ति नित्यम् ॥ १६ ॥ निर्विघ्नमेष खलु पालयितुं समस्ताँ- ल्लोकान्क्षमोऽस्ति नृपतिः प्रसरत्प्रतापः । स्मृत्वेति किं मनसि माधवसिंहदेवं विश्वम्भरेण सुचिरं परिसुप्यतेऽन्धौ ॥ १७ ॥ आलम्व्य यः सचिवपाणितलं स्वपीठा- दुच्चैर्भवन्प्रचुरशक्तियुतोऽपि नूनम् । विश्रान्तदेह इव कामपि सर्वलोक- धूर्धारणेन सुचिरं समुपैति शोभाम् ॥ १८ ॥ मुण्डानि वैरिनिकरस्य निजीय- खड्गधाराम्भसां बलगौरवभाजि पूरे । पाण्यजसंदितरणद्रणकङ्कणेन संतारितानि सुचिरं कुतुकेन येन ॥ १९ ॥. अत्युच्चगोपुरशिरस्यगृहत्रिसंध्य- संताड्यमात्रविपुलोदरशालिभेर्यः । १ विवक्षया प्रकटतीत्यर्थकोयमकर्मकः. २ मासूल इ० प्र०. ३ रविहि प्रावृषि पयांनि वर्षति निदाघे च शोषयतीति पौराणिकाः. ४ विष्णुना शरदि समुद्रे मासचतु- ट्यावधि योगनिद्रया सुप्यते प्रसिद्ध मिदं पुराणेपु. ५ राजरीतिरेषा तत्रेयमुत्प्रेक्षा. ६ शिरोभव उच्च इति यावत्. ७ तिसृणां संध्यानां समाहारस्त्रिसंध्यम्.

पञ्चमो रङ्गः ५ ६९ ३ यद्धर्मकर्मकृतितुष्टसुपर्वनर्दि- भेरीभ्रमं प्रतिदिशं परिबिभ्रतेऽभ्रे ॥ २० ॥, .. पक्षे निजे प्रचलतामपि योऽन्तरङ्गः शोमां दधाति खलु चित्रमनन्तरङ्गः । कृत्यज्ञ इत्यपि च योऽखिलपौरवगैः संकीर्त्यतेऽहह तथापि परं कृतिज्ञः ।। २१ ।। यः प्रस्फुटं दधदापि द्वितयं पदस्य - पोरेप्वनेकपद इत्यभितः प्रसिद्धः । दोपावुभौ किल समाकलयन्महान्तौ निर्दोप.इत्यहह नित्यमुदीक्ष्यते यः ॥ २२ ॥ आलक्षितोऽपि नितरामवरोधनैर्य- श्चित्रं चकास्ति वर एव धनेस्तथापि । आभाति यस्य च यथा किल सिन्धुरोध- स्स्थेष्टस्तथैव हह कीर्तिकदम्बकोऽपि ॥ २३ ॥ या बोभवत्प्रतिगृहोत्सववादिनाना- यादित्रघोपमुखरायितरोदसीका । तां मेखलायितवृहद्वृहदद्रिचक्रां खां भूरि निर्विशति यो नगरी समृद्धाम् ॥ २४ ॥ पर्याप्य भूमिवलयं सकलं क्रमेण यत्स्वच्छकीर्तय इवाम्वरमाश्रयन्त्यः । १ अन्तर आत्मीयः । अनन्ता रहा यस्य । कृयं जानातीति कृतेरसश्चेतिविरोधः. २ अनेक पदो यस्येति विरोधः अनेकपान्हस्तिनो दत्त इति तत्परिहरणम् तथा दोपो उपगुणी पाणी च. ३ अतिशयेन भवन, ४ रोदसी यावाभूमी. ५ एकपार्थे विहाय सर्वतोऽत्याः पुर्याः सन्ति महान्तः पर्वता एतेन दुर्धषी सेति सूचिनम्, ६ अपरोपने- निशान्तरालक्षितस्तथा धनरपरइत्यालक्षितोपि धनवरएवेति निशान्तानिय विरोधप- रिहारम्नया यस्य सिन्धुरो हन्दी यथाऽधःस्थेष्टस्तया योविशेषोपि सिन्धुरोधसि समुद्र- प्रतीरे स्पष्टः समाभाति ।

३२ श्रीजयनगरपञ्चर कासारवृन्दतटतो बिसकण्ठिकानां प्रोड्डीय यान्त्य उपरि प्रतिभान्ति वीथ्यः ॥ २५ ॥ उद्यन्नयं सुचिरमस्तु सुधागभस्ति- रास्तां च केसरियुवैप सदा प्रगर्जन् । दृष्टिप्रसादकृदसौ सवपुः सरोऽस्तु यं मागधा मुहुरिति ब्रुवते निरीक्ष्य ॥ २६ ॥ सामान्यमेव यदि भो वसुमत्यधीशं संमन्यसे कवनकारिपु यं वदान्यम् । तन्मे त्वमेकमपि चारु विचार्य तेन सब्रह्मचारिणमिहाधिधरं वदाऽन्यम् ॥ २७ ॥ येनाध्वना चलति यत्पृतना नगर्या नासीरतारतरसान्द्रनदन्मृदङ्गाः । नादानुसारधरणिप्रपतिष्णुपादाः प्रायो भटा इव भवन्ति नरास्तदीयाः ॥ २८ ॥ पर्याविलीकृतनभरतटिनीपयाँसि यत्सैन्यसैन्धर्वखुरप्रसरद्रजांसि । शीघ्रं जवाद्विघटयन्ति समित्यमर्षा- क्रान्तारिवालविधवानयनाम्बुवर्षाः ॥ २९ ।। स्निग्धच्छटापटलविच्छुरितः सुवृत्तः प्रोद्दामसंमदवशंवदसर्वनेत्रः । ढुण्डारभूनववधूपृथुभालंबिम्ब- सिन्दूरसान्द्रतिलकश्रियमश्नुते यः ॥ ३० ॥ ©यद्विरोधिनृशिरोधिविकृत्तिकाल- संलग्नबन्धनसमुज्झितवक्त्रकैश्यम् । १ त्वं चारु विचार्य इह अविधरं तेन राज्ञा सदृशमेकमपि मह्यमन्यं वदेति यो. जना. २ सैन्धवा अश्वाः. ३ क्रुध्यतां विरोधिनृणां शिरोधीनां कर्तनकाले संलग्नं व.

पञ्चमो रङ्गः ५ विष्वक्तरगततिदन्तुरयत्कृपाण- पानीयकप्रचलशैवलतामुपैति ॥ ३१ ॥ क्षिप्रं क्षणक्षपितपक्षविपक्षलक्ष- वक्षस्स्थलक्षयपतत्क्षतजैररूक्षान् । मध्येमृधं चकितगन्धगजेन्द्रशुण्डा- वार्भिनिनेजति यदीयभटाः स्वकुन्तान् ॥ ३२ ॥ यद्वीरपानविलसद्बलतूर्यशब्दा नो केवलं प्रियतमैः परिपन्थिभीरूः । किन्त्वादितेयपतिनाप्सरसः समस्ता- स्तं नारदं मुरजिता च वियोजयन्ति ॥ ३३ ॥ क्ष्वेडारवैः क्षितिपतिर्य उदग्रवेगैः कर्णान् करोति बधिरान्युधि शात्रवाणाम् । स्वस्यापि किंच बधिरौ विदधाति कर्णा- वभ्यर्णवत्ति कविपुङ्गवसूक्तघोपैः ॥ ३४ ॥ स्तोकानुयायिपलघैसरसारमेया वल्गाविनिशमुखयन्मृगयातुरङ्गाः । प्राप्तान्पथि प्रविकटानटानटव्या नेत्रैः समं विमिपता द्रुतमुत्प्लवन्ते ॥ ३५ ॥ एकाकिनं प्रखरदंष्ट्रमुखातिघोरं सिंहं समीक्ष्य विपिने मृगमागतो यः । शस्त्रान्वितो विदितधर्मसमीकरीतिः स्वोपि प्रहर्तुमभियात्यसहाय एव ।। ३६ ॥ : न्धन ढाठा इ. प्र. तत्समुज्झितं मुखकेश दाढी इ. प्र. तद्वन्दं यत्कृपाणपानीयके प्रत्र. लीवलतागेतीत्यर्थः, १ प्रक्षालयन्ति. २ रणारम्भे भौः संभूय यन्मियो मयं पीयते तद्वीरपानवाच्यम् । ३ मांसादनाः शिकारी कुत्ता इ. प्र. ४ गत्तान्. ५ समीकं युद्धं.

३६ श्रीजयनगरपश्चरङ्गे दंष्ट्राभिघातिकरचालितबहियन्त्र- निर्यद्गुटीवलयसंज्वलिताग्नितापैः । संमूर्छितान्किटिगणान्द्रवतः पुरस्ता- त्कृत्वा हिनस्ति बहुचित्रवधं बने यः ॥ ३७ ॥ वृंहारवान्विशिखपतिनिखन्यमान- गण्डस्थलीव्यथितकाननकुञ्जराणाम् । श्रुत्वा समुन्जितगुहा धुरि यस्य सिंहाः क्षिप्रं विनैव यतनं प्रकटीभवन्ति ॥ ३८ ॥ प्रासा यदेणकिरिकेसरिशृङ्गदंष्ट्रा- शश्वत्प्रपातवशतोऽतिशिता बभूवुः। वाढं विधाय मृगयामिदमेकमेव लब्धं फलं वसुमतीदयितेन येन ॥ ३९ ॥ यः कोपि भूमिपतिरस्ति न किन्तु सिंहो दुर्गाणि हन्त नच तस्य हि गहराणि । तत्रारिकोशनिचिता नतु पद्मरागाः किन्त्वाहतद्विरदलोहितलिप्तमुक्ताः ॥ ४० ॥ द्वा-वृहद्वृहदुपस्थितवह्रियन्ता नानास्त्रशस्त्रपरिशीलनदृप्तसैन्याः । दुर्गावलीः शिखरिमूर्द्धसु यस्य वीक्ष्य केयां द्विपां न हि रुजन्ति चिरं शिरांसि ॥ ४१ ।। शश्वञ्चलाचलबलाश्वखुरस्थलोहैं- खण्डोपलाभिहननोत्थशुचिस्फुलिङ्गाः। कुर्वन्ति यच्छिखरिदुर्गपथेषु पार्श्व- प्रांशुद्धपतिपिहितेषु परं-प्रकाशान् ॥ ४२ ॥ दुर्धर्षतानिविडितानि यदीयदुर्गा- ण्युच्चोच्चसौधशिखरोच्चलकेतुकूटात् । १ गुटी गोली इ. प्र. २ वराहगणान्. ३ यस्य नाळ इ. प्र. ४ शुचिरनल::

पञ्चमो रङ्गः ५ ३६ दूरान्निजाभिमुखसर्वविरोधिलोका- नष्ठचेष्टितततीरिव दर्शयन्ति ।। ४३ ॥ उष्णीपलग्नशुचिरत्नवतंसरनं. पर्युल्लसत्तरुणिमारुणिमाकरणम् । सर्वातिशाय्यभिनवप्रणयप्रवीणा यं सर्वदा समुपगृहति राज्यलक्ष्मीः ।। ४४ ।। यस्य प्रकृष्टरुचिना वपुपा तदैव धिकृत्य मामिह जना बहु लज्जयेयुः । दृश्यं भवेद्यदि वपुर्ननु मामकीनं प्रागेव तन्निजवपुर्मदनेन मुक्तम् ॥ ४५ ॥ दृग्भ्यां निपीय यमुदश्चितविभ्रमाभ्यां सोत्कण्ठमात्मफलके रजसा विहीने । नव्यानुरागभृतशोभनचित्ततूल्या काश्चिल्लिखन्ति ललनाः परिहृष्टगण्डाः ॥ १६ ॥ नानाविधोनमदमन्दतरङ्गसंघे यद्भावरानघमुखच्छविनीरपूरे । कासांचन प्रपतदक्षिगणा वधूनां संविभ्रते शफरशीफॅरयानलीलाम् ॥ ४७ ॥ सर्वा निशान्तवनिता नवयौवनोप्म- प्रखेदसंकुलनिराकुलकम्रकायाः । रागाम्बुपूर्णयदुरस्स्थलकुण्डमध्ये प्रोत्लुत्य मीलितदृशो विविधं तरन्ति ।। ४८ ।। कन्दर्पकोटिकमनीयकलेवरो यः पर्युन्मिपन्नवश्यः सुषमाविशेषात् । १ अधिकतरप्रथमप्रेमातुरेत्यर्थः. १ आत्मसं यत्फलक तत्र. ३ तूली चित्रले- सिनी. ४ शीफरशब्दः गुन्दराक इत्या दशकुमारचरितं तयोः प्रायतन शीफरो रतिवन्ध इति तदिह प्रमाणभूधम्. ५ बन्धविशेषः.

३६ श्रीजयनगरपञ्चरङ्गे चक्षुपि मधु । .. महिलानिवहस्य दूरा- सान्निध्यतश्च हृदयानि जरीहरीति ॥ ४९॥ तूर्ण विकस्वरमदा इव कर्णकंसै- रापीय यल्लपनसंलपनामृतौघम् । वाला मुहुः प्रपंतितोत्पतितस्तनास्य- वस्त्राञ्चलं विदधते विविधान्विलासान् ॥ ५० ॥ दोर्द्वन्द्वगृहितकपोलगलं च तत्त- त्संबुद्धिपूर्वककलोक्ति च लालयन्ति । प्रौढाः स्त्रियो रहसि काश्चन कामकेलि- कल्पक्रमातिकुशलं यमजस्त्रमारात् ।। ९१ ॥ आक्रीडमण्डपपथेपु चिरं यदीय- माजानुदीर्घबलवद्दढबाहुदण्डम् । आलम्ब्य चारु विहरन्ति समिद्धरूप- ज्योत्स्नाकिरः प्रबलकाममन्दाधयोपाः ॥ १२ ॥ वैदग्ध्यसंवलिततत्तदशेपलीला- श्वाञ्चल्य संकुलदृशोभिनवा महिप्यः । सौधेषु य सरसनर्मविशेपविज्ञ संस्नापयन्ति सततं स्मितसीकरौधैः ॥ १३ ॥ कासां न यद्वदनचन्द्रमुदीक्ष्य पूरा- नेत्रेषु रागपयसां निधयो लभन्ते । किं च त्रपाप्लवगणा अपि भूरिदीर्घाः कासां न तत्र सहसा परिवभ्रमन्ति ॥ १४ ॥ यं सर्वतः प्रमदकाननकेलिकुञ्ज- गर्भेषु दीर्घकदलीछदनान्धितेषु । १ कंसोऽस्त्री पानभाजनम्. २ प्रपतितं स्वनवस्त्रमुत्पतितं मुखवस्त्रमिति क्रमः. ३ दक्षिणहस्तेन गृहित आलिहितः कण्ठस्तथा वामेन तेन कपोलौ तथेति लालनविशेषणे क्रमस्तास्ताः संबुद्धयश्च विद्वद्युवभिः खयमेव सर्तव्याः: ४ हीरूपा नाव इति.

पञ्चमो रङ्गः ५ ३७ भ्राजिष्णुभूषणगणैर्मणिदीपिकाव- भोगिन्य आसवमदोत्तरला ललन्ति ॥ ५५ ॥ नेत्राश्चलैः पुरु निपीय पुरोत्सवेषु क्लिप्यन्ति यं हृदयनीतमिव स्थिराक्ष्यः । दोःम्वस्तिकीकरणगाढनिपीडितांसाः सीत्कारचारुमणिताः कतिचित्तरुण्यः ॥ १६ ॥ अयि जयनगरीयक्षोणिपाल त्वदीया- द्रणविहरणकालाप्राक्क्षणेऽन्तक्षणेऽपि । अहह सकलशत्रुत्रातसीमन्तिनीनां प्रभवति बत वक्षस्तारहारावलीढम् ॥ ५७ ॥ खद्भवन्धप्रार्थना संश्रितश्रीधवः श्रीमान्माधवः काव्यरंसम् । संस्तुवानं स मां दद्यात्वाश्रयं प्रोत्कमानसम् ॥ ५८ ॥ संशृणोत्वथ नानाधा मम काव्यं स्फुरद्रसम् । संघ शुचां संततं च द्यतु हिंसितसंहसम् ॥ १९ ॥ श्रीकुन्दननन्दनहरिवल्लभकविमल्लपल्लविते । जयनगरपञ्चरङ्गे काव्येऽगात्पश्चमो रङ्गः ॥६० ।। आसीन्मे स पितामहस्तु नृपतेः श्रीविष्णुरामो भिष- फ्तातः कुन्दनलाल इत्यतुलधीयागमाध्यापकः । श्रीयुक्तो हरिवल्लभाख्यतनयस्तस्य द्वितीयस्त्वहं वाग्देवीवरिवस्ययालि कविताकमकसर्वकपः ॥१॥ शब्दानामनुशासनं पठितयान् पूर्व पितुर्यः परं भ्रातुश्चान्दसकाव्यकोगसहितं स्वीयं च तद्वैद्यकम् । १ सीतारगर्मितं रतजन यासां तथा यत्सः. २ रणप्राकाले पतिसत्पाददातारा. युदन्तो ये हारारयलाई रणान्ते च पतीनामयत्यावेरिति यावत् तारा ये हा इति मेदमूषकाः रसाः शापानरिति रामशेषः.३ काव्ये वेगो यस्.४ सदयतु. ५यमा यस्य तस्यरस्य फष्णरामेति मंहतिः, ३८. श्रीजयनगरपञ्चरङ्गे श्रीमन्मैथिलजीवनाथगुरुतः साहित्यशास्त्र तथा भाईनाथगुरोश्च गौतममतं सोऽहं हरेवल्लभः ॥ २ ॥ चेयूयं हि बुधाः शृणुध्वमखिलाः श्रुत्वाऽन्यकाव्यान्यहो वक्त्रं शोथयुतं विधत्त सुतरां वाचंयमा नीचकैः । सत्यं ब्रूत तदाऽत्र के ननु मुद्रा युक्ता भविष्यन्त्यहो केवा दोषगुणान्वितं नु वचनं संव्याहरिप्यन्ति च ॥ ३ ॥ हरिवल्लभ इह सरलः सत्यं हरिवल्लभोऽस्ति सरलकृते । असरलकृते तु सत्यं तथैव खलु भल्लवरिहोऽस्ति ॥ ४ ॥ पुरुपाटवसंघट्टः सेवितसाहित्यसिन्धुचरमतटः । इह हरिवल्लभभट्टः सुन्दरसंस्कृतकवित्ववीरभटः ॥ ६ ॥ स्तुतजयपुररोजगुरुः संधूपितशम्भुसविधसाध्वगुरुः । एकोऽस्ति संश्रितगुरुद्धिजहरिवल्लभकवित्वकारुगुरुः ॥ ६ ॥ गुरुभक्तिखबुद्धिभ्यां सिध्यत्सर्वमनोरथः । क्षणे क्षणे नवनवो वर्तते हरिवल्लभः ॥ ७ ॥ नास्तीहक्पद्यमप्येकं कविमल्लप्रकल्पितम् । अल्पाऽनल्पाऽथ वा यत्र नैव काचिच्चमत्कृतिः ॥ ८ ॥ 14 1.. . १ भलवराः सन्ति पां भल्वरिणतान्हन्तीति,२ पर्वणीकरोपनामकमहाराष्ट्रब्राह्मणाः श्रीमन्तो नारायणभट्टास्ते चास्माकं कुलगुरवः सन्ति. ३ अत्रैव तावत्सा. दर्यते यथा . यत्र का नाम चितां चमत्कृतिरल्याऽनल्पा न अपित्वस्त्येव सातथा.

स
11
!!!
...:.:::. :: :: ::
it: 2:33...
HTTE
चवमानालाको
श्रीजयनगरपवर

No text on this page.

श्रीकविमलभट्टहरिवल्लभकृतिषु गौर्यलङ्काराः।

No text on this page.

अथ श्रीहरिविजयतेतमाम् । श्रीकविमल्लभहरिवल्लभकृतिषु गौर्यलङ्काराः। । श्रीगौरीदेवीकृते वैरिशिरोभल्लेन अलङ्कारशतकं नवं क्रियते कविमलेन । श्रीगौरी स्फटिकासनमधितिष्ठन्ती प्रतप्तहेमाङ्गी । दीधितिरिव नवसवितुर्जयति पतन्त्युपरि कमलस्य ॥ १ ॥ स्फुरति वदनमिव वदनं प्रसादसुभगं न केवलं गौर्याः शिशिरप्रकाशधरमपि तत्स्मितमिव तत्सितं किंतु ॥२॥ गौर्या आदर्शाविव गण्डौ गण्डाविवादशौँ । नारङ्गयौ कलिके इव किंचोष्ठौ ताविवाथ कलिके च ॥ ३ ॥ गौर्याश्चिधुकस्य पुरो नौचित्यं स्थलसरोजमुकुलस्य । विधिरिति बुद्ध्वा दूनो रजस्तदन्तर्निचिक्षेप ॥ ४ ॥ श्रीगौर्या वदनेन्दुनन्दति मन्दस्मितामृतं विकिरन् । मानसकुमुदं नित्यं विकास्यते येन गिरिशस्य ॥ ५ ॥ शरणागतजनरक्षिणि शृणु सदयं कर्णपर्णाभ्याम् । दल दर्प दर्पवतामिति लध्वी प्रार्थनां गौरि ॥ ६ ॥ चरणकराधरशोणां धवलां नखदशननयनेच । केशकलापे काली गौरी सर्वत्र संश्रये गौरीम् ॥ ७ ॥ काल्यास्तव नेत्राणि व्यालोक्य प्रज्वलन्ति संग्रामे । मातरौर्यस्मापुर्दैत्या रजनीप्रदीपानाम् ॥ ८ ॥ १ पममं प्रतीपमेतत्. २ शुद्ध सोयम्, .

४२ गौर्यलङ्काराः। मातरधोमुखचम्पककलिकाविभ्रमजडीकृतो गौरि । अभिपतति कराङ्गुष्ठस्थितो भवन्नासिकां कीरः ॥ ९ ॥ सीमन्तरत्नकान्ति सुलोच्य गौरीकचेपु चञ्चन्तीम् । चपला घनेपु किमियं संशेते क्षणमिति व्यक्षः ॥ १० श्रीगौर्याश्चरणयुगे नालक्तक एप चित्रितश्चारु । किं तर्हि कोकनदयोबहिः स्फुरन्सान्द्रमकरन्दः ॥ ११ ॥ त्वं किंचिदञ्चितोष्ठा हससि यदा लसितदन्तभागौरि । दीव्यसि तदा विदधती वदनादिव दुग्धगण्डूपान् ॥ १२ ॥ . शृणु गौरि दिवि तरङ्गास्तदुपरि रत्नावली तरति । कम्बोविनिःसृता सा तदुपर्येकं प्ररूढमम्बुरुहम् ॥ १३ ॥ विरते महिपे भूपरि पृपन्ति दितिजाङ्गनाभिरक्षिभ्यः । पाणिभ्यो गौर्युपरि च विबुधवधूभिः सुमानि मुक्तानि ॥ १४ ॥ विद्रुमवल्लीशाखा मुखविलुटत्तुहिनशीकरैर्भान्ति । नखकान्तिभिश्चलाभिौर्या देव्याः कराङ्गुल्यः ।। १५ ।। उज्झति दृशां पिधानं गौरी सुरपतिरवेक्ष्य युद्ध्यचलाम् । दुरीकुरुते कम्पं प्रमथपतिः किं च हृदयस्य ॥ १६ ॥ कूर्पासकवद्धाभ्यां वक्षोजाभ्यां विराजते गौरी । किशलयरुद्धफलाभ्यां दाडिमवल्ली समुल्लसति ॥ १७ ॥ इह परिचरिता मातः सिद्धिकरासि त्वमेव गौरि परम् । किं च कृपैव गुरूणां शिष्यव्युत्पत्तिकारिणी कामम् ॥ १८ ॥ अयि गौरि तव जनन्याः स्तुतिकरणं यन्निरन्तरं किमपि । जपनक्रिया तदेपा काचन दिव्यस्य मन्त्रस्य ॥ १९ ॥ सामीप्यादृष्टैव व कल्पवल्ली समग्रवरफलदा । दूरात्स्मृताऽपि सकलाऽभिलाषदोग्ध्री च गौरी व ॥ २० ॥ लाक्षारसप्रलेपात्स्वकीयदशनच्छदद्वयं गौरी । विदधाति खण्डपरशोः साकं हृदयेन संरक्तम् ॥ २१ ॥ १ द्वयोः प्रस्तुतयोभूगौर्योरेकक्रियान्व यइति. २ अर्यावृत्तिदीपकमिह.

गौर्यलङ्काराः। अप्रतिहता अपि विधेः पृष्टिकृती शक्तयोऽखिलास्तास्ताः । अयि गौरि तायकीनामेकामाज्ञामृते परं विफलाः ॥ २२ ॥ रेसनिर्भरां निजोपरि निरीक्ष्य कादम्बिनीमयं वहीं । अमृतार्थी पश्योच्चै!रि करोत्युन्मुखः केकाः ॥ २३ ॥ अन्तर्ललाटविनिहितनव्यकलाधरकला गौरी । भक्तान्तःकरणानां तापं तिमिरं च निघ्नती जयति ॥ २४ ॥ भवदीय महिमानं प्रवर्तमानस्य चारु नोनवितुम् । वाचो मलीमसा मे त्वं गौरय देवि हे गौरि ॥ २५ ॥ पादपनायितमूलां सुरसार्थोत्पादनक्रियाप्रीताम् । निखिलाहार्यगुरुत्वां कामपि देवी स्तुवे गौरीम् ॥ २६ ॥ एको राजसु राजा सुरथाख्यः प्रागभूत्सुविख्यातः । यः खलु राष्ट्रभ्रष्टो गौर्यपरां देवतां न भजति स्म ॥ २७ ॥ विजय पश्य कदल्या अनिलचलल्ललितवल्कलो काण्डौ । इति गौरी श्रुतशिवगीः पिदधे वो विवसनावूरू ॥ २८ ।। यां यत्पुरुषश्चक्रे चूडावलयाञ्चितैकचपलकराम् । चोलान्तःस्थैककुचां कामपितां सितरुचि भजे वालाम् ॥ २९ ॥ प्रागेकमहिपवैरिणि हतेऽपि तज्जातिमात्रजानपरान् । अद्यापि जाती हा सत्यं त्वं गौरि चण्डयेव ॥ ३० ॥ सा मत्प्रसूहि गौरी भो दैत्याः शृणुत सुप्रमत्ताऽभूत् । पातालेऽपि निवस्तुं युष्मान्दुष्टान्ययादिष्टम् ॥ ३१ ॥ १ देवी प्रति कवेरक्तिः गौरि पश्यायं वहीं मल्लक्षणोजनश्च स्वोपरि गगने च काद- म्बिनी त्वां च रसेन आनन्देन च पूर्णी दृष्ट्वा उन्मुखः सन् अमृतं मोक्षं तदर्थी संघ केकास्तदुपलक्षिताः स्तुतीश्च करोतीत्यप्रस्तुतपरिस्कृतः समासोक्तिः, २ पाद पनायित- पादपनायित-मुरस-अर्थ-मुर-सार्थ-निखिलरहार्य निखिलानां अहायीणां शैलानां च. ३ मुरथस्तुत्या देवान्तास्तुतिनिवृत्तस प्रस्तुतस्य कस्यचिनृपस्य स्तुतिः. ४ दैत्यदुष्ट- त्वस्मृत्या तमातिमानमक्षणेन देव्या देवोपरि कृपातिशयकारिणीत्वेन स्तुतिरत्र.

४४ गौर्यलङ्काराः । स्तोतुः कुलं कुरु त्वं कदम्बमुकुलोपमेयताकलितम् । इति कथये गौरि त्वामलमथवा त्वं हि वेत्स्यखिलम् ॥ ३२ ॥ त्वं श्रीगौरि कुचेष्टा पशुपतिनालिङ्गचसे मुचेष्टापि । त्वममान्यापि महेश्वरि मान्या जगतीह मुमनोभिः ॥ ३३ ॥ न तु तरुणो न सुरूपी न सुवसनो न च सदाचरणः । संपन्नोऽपि न गिरिशः कथं न जाने वृतो गौर्या ॥ ३४ ॥ त्वं गौर्यका वाला वह्वश्चण्डाश्च चण्डमुण्डाद्याः । विबुधवधूसौभाग्यात्तथापि न पराजिता मातः ॥ ३५ ॥ निजरुधिरविन्दुगणनानुसारसंभवदनेकनिजसदृशम् । तं रक्तवीजदितिजं गौर्यज्ञाता सुरैरचमीत् ॥ २६ ॥ दैत्यैः सह युद्धे सति गौर्या मधु पीतमनवरतम् । स्थाणुरशेत चकम्पे नग्नो गद्गदमवग्जटा व्यकिरत् ॥ ३७ ।। गौरि त्वमष्टहस्ता देवी हर्यक्षवाहिनी कुत्र । द्विकरो वाहनहीनः कुत्र च पशुजातिरसुरः सः ॥ ३८ ॥ विहितोत्साहं मुचिरं येनाची] तपोपि तदति महत् । कैशोरं वपुरवतात्तन्मां गौरि स्थलाजमृदुलं ते ॥ ३९ ॥ गौरि तव क्रूराया उपरि समग्रासुरान्ववायस्य । हिंस्रः सोऽपि विराजति वाहनतामुपगतः सिंहः ॥ ४० ॥ दितिजाः श्यामा आसन्समीक्ष्य चित्रं रणाङ्गणे गौरीम् । तरसा च प्रचलन्तीमजनिपताहो सुरा अचलाः ॥ ४१ ॥ कष्टं कुट्टयतां मे गौरि तवाट्टाट्टहासः सः । आकाशमपि यमात्मनि पर्यापयितुं न शक्तमिदम् ॥ ४२ ॥ मध्यः कियानिति मृडोऽमित्सत्तव गौरि कमलसूत्रेण । मेयाऽदर्शनतः परमासीन्निःस्पन्ददृक् सुचिरम् ॥ ४३ ॥. १ न मान्या मया अन्या न च. २ गौरी वालां दृष्ट्वा सद्योजयेन प्रसादस्य इष्टस्य विपरीतं औदास्येन श्यामीभवनम् चलन्तीं दृष्ट्वा च येनकेनापि निग्रहणस्य इष्टस्य अनि- ग्रहकर विपरीतमचलनमिति विचित्रम्.

१६ गौर्यलङ्काराः। गौरी कपोलपाली गौर्याः कुटिलालकस्रजा ललति । सा श्यामला च सुपमा कपोलपाल्या समातनुते ॥ ४४ ॥ अपितुः कविमल्लस्य त्वं ह्यग्रे त्वं ह्यनु त्वमुभयस्मात् । रक्षित्र्यसि गौरि त्वं सत्यमिदं करुणमुच्यते वचनम् ॥ ४५ ॥ अयि गौरि तत्रभवती भवती निखिलक्रियासु वहुशक्ता । मुंजसीच्छयैव यत्त्वं सर्वं पुनरिच्छयैव संहरसि ॥ ४६ ॥ उर उत्कम्पिकुचाभ्यां च्युतचोलौ तौ प्रलम्बकचवीच्या । स्नानाम्बुशीकरैः सा तेऽपि सुगन्धेन भान्ति तव गौरि ।। ४७ ॥ मुक्का हीरकयुक्ता हीरान्तर्जटितपद्मनीलकणाः । तद्विरचितौ वतंसौ गौर्याः कर्णोपरि स्थितौ तौ च ॥ ४८ ॥ कनकतुलाकोटिम्यामुपरि त्वच्चरणयोः सदा गौरि । कविरसनाया उपरि त्वच्चरणाभ्यां च नृत्यते सुचिरम् ॥ ४९ ॥ तरलं तर्णकरमणं ततोपि खलु शफरकन्यकातरणम् । गणिकाचित्तं च ततस्ततोऽपि गौर्या दृशोर्युगलम् ॥ ५० ॥ सकलविधैश्वर्यवति श्रीगौरि व्यक्षवल्लभे मातः । आधि व्याधिमुपाधि निर्मूलय शमय धैय च भक्तस्य ॥ ११ ॥ गत्युपमा प्रियपुरतो यान्त्यास्तारुण्यमन्थरं योः अपहाय हंसरमणीं करेणुकामभिसृति विदधे ॥ १२ ॥ चातुर्योपचितासि श्रीगौरि त्वं भृशं जननि । दला मनाग्रुपं दितिभवेषु याऽतिप्रसादमाप्तवती ॥ १३ ॥ श्रीगौयाँ मातरि मे रणरङ्गे संप्रतिष्ठमानायाम् । आत्मीयोत्साहस्य न भनोऽजनि कधुकीगुणानां तु ।। १४ ॥ स्वीयस्तोत्राणि कुचितदृग्युग्मं प्रपठतो निजान्दृष्ट्वा । श्रीगौरी संतनुतां प्रसन्नतां मन्दहासं वा ।। ५५ ॥ A १दितीयविशेषोऽयम्. २ पिवनिश्शेषयेत्यर्पः.

४६ गौर्यलङ्काराः । युधि महिषोपरि वाणान्मुश्चन्ती लम्बकुन्तमस्यन्तीम् । परिघं च पातयन्ती प्रचालयन्तीमसिं भजे गौरीम् ॥ ५६ ॥ अयि गौरि त्वां भक्ताः प्रणमन्ति नुवन्ति किमपि नाथन्ति । तेपामुपरि त्वमपि क्षाम्यसि हृष्यसि करोपि कृपाम् ॥ ५७ ।। अधिगर्भवेश्म गौरी संनिहिता किमपि शम्भुनाऽभिहिता । उद्तरोमाञ्चाऽजनि कुचपानादुपरराम चेभमुखः ।। ५८ ।। गौरि त्वद्भिपाताद्विभ्यत्कुपितः स सैरिभो दैत्यः । वेगासिहाभिमुखं शृङ्गयुगं धावति स्म संधुन्वन् ॥ ५९॥ देवानामेवारीन्यवधीगौरी कृपावती या द्राक् । का वार्ता शत्रूणां मनुजस्यैकस्य मे तहि ॥ ६० ॥ भो भो भयानि जगतां ननु दूरीभवत यूयमहाय । हृदि मेऽखिलायुधधरा वसति सदा भगवती गौरी ॥ ६१ ॥ गौर्याश्चरणरजोभिः शीपु स्थीयते नमद्दयुपदाम् । आश्रयबलेन लघुरपि भवति समाकान्तमस्तको महताम् ।। ६२ ॥ अयि गौरि तव मुखेन्दुर्धपितुमपि चिन्त्यते न हृदि तमसा । धृष्याः कदाचनापि हि न सज्जना इव भवन्ति निदोषाः ॥ ६३ ॥ उद्दिश्य हरं गौर्या विहितानां मधुरिमा चहूक्तीनाम् । अधिवेलममृतसिन्धोः सिताद्रवासिक्तगोस्तनीसध्यङ् ॥ ६४ ॥ अयि गौर्यहं भवेयं मार्कण्डेयो मुनिर्यदा मातः। चरितानि तवाऽशेषाणीडितुमीशेय तानि तानि परम् ॥ ६५ ॥ उपरि महिषासुरस्य प्रतिघोन्मीलत्स्थिरारुणाक्षितलाम् । अयि गौरि देवि भवतीं पावकजन्मा निरीक्षेत ॥ ६६ ॥ । १ देव्या बहुकरताया वाणमोचनादीनां वहूनां भावानां युगपद्गुम्फ इति ध्येयम्. २ ददासीत्यर्थः.

गौर्यलङ्काराः । '४७ हे गौरि दक्षतनये भवती स्तोतुं समुद्यतोऽयमहम् । गगनममेयं मातुं मोहात्कुर्वे वितस्तिका लम्बाः ॥ ६७ ॥ त्यामेव देवि गौरि प्राणायामेन मनसि संसरते । पूजयितुं पशुपतये त्वामेव प्रैपयद्गिरिहिमवान् ॥ ६८ ॥ एपा मोक्ष्यति केशानुच्चैः खड्गं प्रचालयिष्येऽहम् । इति हृप्यति महिपेऽधो द्विधा व्यभादहह गौरी तम् ॥ ६९ ।। इयमसुरेन्द्रध्वजिनी शमयिष्यति मधुरवीर्यकण्डूतिम् । युद्धाऽपि मत्कराणां स्पृहयन्ती जयति गौर्येवम् ॥ ७० ॥ यावदभिलाषदात्री त्वामासाद्यापि योगिनः केचित् । न धनं न सुतं न गृहं स्त्रियं न वाञ्छन्ति किंतु कैवल्यम् ॥ ७१ ॥ गौरि तब लपनविलितनागलतादलसुवाटिकासलिलम् । प्रत्तसकलवाक्पत्यं मम रसनान्तः सदा स्खलतु ॥ ७२ ।। खादनपानविधात्री दैत्यानां पललरुधिरयोरेपा। इत्युच्यसे यदमरैः फलं हि तद्गौरि तब शचयाः ।। ७३ ।। विम्बितजनमुखनयनालिकललिता तव ललाटिका स्निग्धे । इति विजयोक्ता गौरी मन्द मन्दं किमप्यहसत् ॥ ७४ ।। त्वं नाम महाकाली त्वमेव किं चा सि सा महालक्ष्मीः । महती सरस्वती त्वं सर्वमयी त्वं हि हे गौरि ॥७५ ॥ स्नानकृतौ सकलात्तव शरीरतः प्रक्षरन्ति सलिलानि । पिङ्गद्युतीनि कामं गौरि सुवर्णद्रवायन्ते ।। ७६ ॥ रोपाधिकशोणाभ्यां मातर्गौरि त्वदीयनेत्राभ्याम् । अस्तं गतेऽपि सूर्य संयुगभूमी महान्प्रकाशोऽभूत् ।। ७७ ।। कजलपरिष्कृतान्यपि शुचीनि तव लोचनानि गौरि परम् । रक्तं स्मरान्तकस्य स्वान्तं कुर्वन्ति मां पान्तु ।। ७८ ॥ १ इह द्वितीयमग्रिम ललितमस्ति. २ ललाटिका बन्धविशेषः कचिदालिगनप्रकार इति मुसे मुसमाराज्याक्षिणी अक्ष्णो ललाटेन ललाटमाहन्यात्सा ललाटिकेति वारस्या- यीये स च सूच्यः भूपाविशेपललाटिका प्रकृते वर्ण्यमानाऽस्ति तया तत्तात्कालिकी सा ललाटिकापि सूच्यते सग्याहि एवं सूच्यत एव.

गौर्यलङ्काराः। नवपद्ममणिभिररुणा देव्या वक्षस्थली गौर्याः । उत्सङ्गस्थितगजमुखकुम्भगसिन्दूरतोऽत्यरुणाः ।। ७९ ।। मातुरौर्या हस्ते शोणिमशोभास्वभावबहुशस्ते । नाकल्यते स्थितं तत्कोकनदं स्तोकसंफुल्लम् ॥ ८० ॥ कैलासोपवनोद्भवरत्नमयवततिवृन्दमध्यगता । नो पर्यचायि गौरी हरेण सविधस्थितेनाऽपि ॥ ८१ ॥ अयि गौरि देवि मातः केतककलिकावदातललिताङ्गी। संविद्रते सुगन्धा त्वदङ्गसंलग्नचन्दनं प्रमथाः ॥ ८२ ॥ तीक्ष्णा यथा रवी त्वदसेर्धारापि गौरि देवि तथा । महिपवपुरुपरि पाते धारा धारेव भा भैव ॥ ८३ ॥ गौरी स्तुवेऽवकाशो नाद्य गुहं स्वापयन्त्या मे । किञ्चित्पिच्छिपसि चेत् स्तोकं तिष्ठेति शम्भुमभिदधतीम् ॥ ८४ ॥ अभिमुखमुदीक्षमाणे प्रेयसि गिरिशे चिरागौरी । अलिकतलेऽधिकविमले कुङ्कुमतिलकं सुनिस्तलं चक्रे ॥ ८५ ॥ प्रोतविलोक्य गौरीं संदितकबरीयथास्थयुममालाम् । स्मयमाना सा विजया लिखितवती तत्करे शूलम् ॥ ८६ ।। सखि पश्य भूतपतिना प्रसह्य लिप्तास्मि चन्दनद्रवतः । इति निगदन्ती विजयां स्वेदगभसिताऽवतागौरी ।। ८७ ॥ धैर्य धारय चातक वर्षिष्यति सपदि वार्मुचां पतिः । सुचिरं ग्रहीष्यसि रसं ससखी गौरीत्यवङ्मृडाभिमुखम् ॥ ८८ ॥ मां मुञ्च कश्चिदेष्यति ननु गत्वा बहिरुपैमि तिष्ठ त्वम् । इति दर्शितानुकूल्या गौरी गिरिशप्रतीक्षिता पायात् ॥ ८९ ॥ फलके काऽपि लिखन्ती प्रेयोमूर्ति कदाचिदपि गौरी । विजयां वीक्ष्याऽभियती कमपि विरक्तं द्रुतं व्यलिखत् ।। ९० ॥ १ हस्तरक्तकमलयोः सादृश्यादभेद एव लक्षितो भवति इति मीलितम्. २ उन्नीत- प्रश्नमत्रोत्तरमस्ति. ३ पुरुषायितस्य कृतत्वात् सुसंनद्धकेशपाशदर्शनेन तज्ज्ञापनार्थ करे शूललेखनम्. - गौर्यलङ्काराः। ४९ मम यदि देव्या गौर्या भवनाग्रद्वारदेहलीसीम्नि । नासा नाम निघृष्टा वरं निघृष्टाऽस्तु सा तर्हि ॥ ९१ ॥ 'गौरी करिष्यति न वा मदुद्धृति संसृतेः किलैतस्याः। आमाणकमत्रेदं वेत्त्यखिलः स्वीयमस्वीयम् ॥ ९२ ॥ मा कलहं संधर हृदि कलहंसं धरति कोपि न हि हृदये। इति मूकीकुर्वाणां पिनाकिनं मानिनी स्तुवे गौरीम् ॥ ९३ ॥ सिंहेन श्रीगौर्या उपसलिलं सुप्यते गुहागर्भे । भूलम्बितकरकण्ठं स्फुरदुदरं विमिलदलसनयनं च ॥ ९४ ॥ अधुनापि कापि करे खड्गं क च चक्रमिपुमपि कापि । क च कुन्तं क च परिघं पाशं क च विभ्रती भजे गौरीम् ॥ ९५ ॥ सुरशक्तिभिरखिलाभिः परिवृतया सति रणे त्वया दितिजाः । सा कादिशक्तिरिति न हि निरचैपु¥रि सहसा त्वाम् ॥ ९६ ॥ निःशेपैदैत्यहननाद्विहिता भूर्गतभरा त्वया गौरि । पतितहतदैत्यदेहैः पुनरेपा धृतभराऽकारि ॥ ९७|| अमथाः सकलजनन्यपि यत्त्वं स्त्रीत्वं पुरैकदैत्यस्य । तस्मादयि गौरि महामायेति प्रोच्यसेऽखिलैः सत्यम् ॥ ९८ ॥ रे रे महिप मदोद्धर संप्रति युद्धं पुरो न पङ्कमिदम् । स्थितिरिह तरलैश्चरणैमहिपं देवीत्यमर्स्यद्गौरी ॥ ९९ ॥ श्रीगौरि देविचण्डी चण्डी त्वं चण्डमुण्डयोश्चमने । त्वं किंच शिवा मातः प्रणमद्भक्तबजेऽसि शिवा ॥ १०० ॥ कुन्दनलालतनूजो हरिवल्लभभट्टकविमल्लः । गौरीस्तुतिकाव्यमिदं व्यामोहव्यपगमाय संव्यतनोत् ।। १०१ ।। एताः शतं कुवलयानन्दप्रस्फुरणकारिका आर्याः । कविताकुरकरणकृते कल्पन्तां कविकुमाराणाम् ॥ १०२ ॥ इति गौर्यलङ्काराः । १ अहं तदीय एवेति संसतेः सोद्धरिष्यसेवेत्ययान्तरगर्भिता अस्य. २ सहसोतः द्वित्रिक्षणमनुविशेषज्ञानात्परिचयो जात एवेति देवीप्रभावरूपद्रिवर्णनम्. ३ शौर्यात्यु- तिरसी. ४ द्रष्टव्याऽत्रदुर्गापाटकया. ५ उदाहरणमेवेदम्. अत्र मन्ये शतोचिरेका. विका न विषमोदाहरणस्य द्वित्यःस्थितत्वात.

No text on this page.

श्रीकविमल्लभदृहरिवल्लभरचिताः कान्तावक्षोजशतोक्तयः।

No text on this page.

अथ श्रीकविमल्लभट्टहरिवल्लभरचिताः कान्तावक्षोजशतोक्तयः' समुपक्रम्यन्ते । श्रीहरिर्जयतितराम् । प्रोन्नती सरिधीशकिशोर्यास्तावुभावुरसिजावभिवन्दे । युग्मकेन किल यत्र मुरारेः पाणयः प्रविहरन्ति चिराय ॥ १ ॥ ऊधसो द्वितयमायतमूलं वक्षसा प्रकटमेव दधाना । सर्वथा जयति काचन दिव्या कामधेनुरिह कामिकुलस्य ॥ २ ॥ प्रस्फुरन्निविडयौवनभाजामुच्छ्रितं कुचयुगं प्रमदानाम् । भासते प्रतरतां रतसिन्धौ प्रेयसामिव वलम्बनभूतम् ॥ ३ ॥ आश्रिताजघनदिव्यधरित्री नाभिकन्दत इयाय जनि या । रोमराजिलतिका तब सेयं वल्लभे स्तनफले फलति स ॥ ४ ॥ उद्भवेन कुचयोर्वनितानामुद्भवोऽस्य जगतः सकलस्य । वर्तनेन च तयोः किल वृत्तिर्मन्मते लयत एव लयोऽपि ॥ ५ ॥ यत्क्रमेण परिमूर्छति सार्द्ध प्रेयसा परिचयो नववध्वाः । तत्क्रमेण नु कुचोद्गमदम्भान्मानसी कठिनता बहिरेति ॥ ६ ॥ उन्नतं बहुतरां पृथुलाक्षी सा दधाति सपदि स्तनयुग्मम् । रोधनाय पुरुचापलकोर्दुर्गयुग्ममिव कामुकदृष्टयोः ॥ ७ ॥ रुद्धतुङ्गकुचकचकनीचैर्गाढसत्तसिचया निलयायात् । भाषनार्थमिव सा पथिकानां द्राङ्मुहुर्मुहुरुपैन्यूजुहस्ता ॥ ८ ॥ १ जानुचित्रा स्तनशतकं नास्ति इति नानाकृत्वः श्रीनारायणहरुतमतस्तदा. शानुरोधेनेशा नवीनतमातिर्मदीया इति ज्ञेयम्, ५४ कान्तावक्षोजशतोक्तयः । ॥ वाससा विरहितं सुमुखीनां पीवरं सुकटिनं स्तनयुग्मम् । भात्यलिन्दयुगवद्गारद्वारसीमनि मनोजनृपस्य ॥ ९॥ बीडया निबिडनीतवगुण्ठा साऽधिकोन्नतकुचा पथि यान्ती । उन्नतानततया सहचर्या प्रेरिता समवगच्छति पृथ्वीम् ॥ १० ॥ वीक्षिता प्रियतमेन करौ यद्वक्षसि न्यसति संत्रपिता सा । तन्वखण्डितकुचोन्नतिसिद्ध्यै संततं नमति तं विनयेन ॥ ११ ॥ गाढकृष्टधनरश्मिवितीर्णग्रन्थि मन्थरविलोचनयोच्चैः । सीयते कुचयुगं खलु मूर्त यौवनं स्वमिव कञ्चलिकायाम् ॥ १२ ॥ रागभाजि हृदि मुग्धवधूनां निर्भयं किल सदा कुसुमेयुः । न्यस्य नीररुहकोशकठोरौ संस्वपित्युरसिजावुपव) ॥ १३ ॥ मीनकेतनमहाबकाले सुभ्रवः पृथुतरं कुचयुग्मम् । रक्षणाय हृदयस्य पुरस्ताच्चञ्चतीव युगलं फलकस्य ॥ १४ ॥ . सर्वतः खलु विशेपचलाया योपितां लघुमनोवसुधायाः । नूनमम्बुजभुवा स्थिरतायै कल्पितं गिरियुगं कुचकूटात् ॥ १५ ॥ एणशावकदृशः समुदयौ चित्तभूः कुचहुंडावधिरुह्य । आश्रुतिप्रचुरकृष्टततज्यं मानसानि बत विध्यति पुंसाम् ।। १६ ॥ निर्भरोल्लसदगाधतलश्रीवर्तते वियति कश्चन कूपः । तस्य चाहह विभात्युपकण्ठे कुम्भयुग्मममृतोम्भितमुच्चैः ॥ १७ ॥ यौवनासमशरावुपयान्तौ संनिधावतिथिवत्समवेक्ष्य । तुङ्गपीटयुगलं स्तनदम्भादास्तृतं हृदजिरे नवनार्या ॥ १८ ॥ विस्फुलद्विपुलतुङ्गकुचाग्रा कामिनी रतिविधौ विपरीते। सौधकुम्भयुगलेन सलीलं सिञ्चतीव हृदयं दयितस्य ॥ १९ ॥ उन्मुखाबुदधिरूढकञ्चुको प्रौढपङ्कजदृशः पयोधरौ । पञ्जरान्तिक इव स्थितावुभौ स्फूर्जतश्चटुलतित्तिरात्मजौ ॥ २० ॥ सुन्दरी गुरुतरस्तनभारा केवलं न गुरुलोकपतिभ्याम् । जीडनं वहति हन्त नितान्तं किन्त्वहो स्वयमपि स्वत एव ॥ २१ ॥ १ बुरजई प्र.

कान्तावक्षोजशतोक्तयः । वल्लभस्य करपल्लवयोगात्प्रस्फुरन्नुरसिजलरलाक्ष्याः । आश्रयत्यनडुहोऽभ्युपसृष्टः संधुनन् ककुदिव श्रियमुवाम् ॥ २२ ॥ मानसे विहरतो निगृहीतं शृङ्गयुग्ममिव कामसुरारेः । दोर्युगात्प्रणयिना परिरब्धं जृम्भते वरतनोः कुचयुग्मम् ।। २३ ॥ कामिनी करयुगान्तररुद्धामोष्ठयोः प्रणयवानभिचुम्बन् । प्रोतगात्र इव तत्कुचकूटद्वन्द्वतः सुनिभृतश्चिरमासीत् ॥ २४ ॥ आप्लवस्य समये सहसैव प्रेक्षिता प्रियतमेन मृगाक्षी । खस्तिकेन करयोः कुचकुम्भावूर्ध्वतो हि पिदधे न तु पूर्वात् ॥२५॥ अन्यतः सततपातिततीक्ष्णप्रेक्षणीयपरिणाममिवाप्ताः । कामकेलिपु नखक्षतलेखा भामिनी कुचयुगोपरि धत्ते ॥ २६ ॥ नैतदस्ति हृदयं ललनायाः किंतु केलिभवनं कुसुमेपोः । नापि वक्षसिरुही हह तस्मिस्थायुकस्य किल तस्य हि जानू ॥२७॥ गर्गरी घटयुतां जलपूर्णा मूर्ध्नि नेतुमनुकः सुदृशोक्तः । मोहतोऽहह घटोन्नयकाले द्वौ कुचौ सुपृथुलावनिनीपीत् ॥ २८ ॥ धर्मसाम्यमिव नित्यपतानां प्राप्य नु प्रियकराग्रनखानाम् । प्रत्युताऽनिशविमर्दनतोऽपि प्यायते स्तनयुगं पुरु वध्वाः ॥ २९ ।। वीक्ष्य धुर्यभिमुखाक्षमभीष्टं बीडया निजकुचौ विमिपन्ती । अय्यम निवसती तव हीत्थं निश्चला ज्ञपयते ललिताङ्गी ॥ ३० ॥ सुभ्रुवो निधुवनावसरे हन्नीलचूचुककनत्कुचयुग्मम् । लोचनाय चिरमिष्टजनस्य स्पष्टलोचनमिव प्रतिभाति ॥ ३१ ॥ उल्लसत्पृथुलवर्तुलचका वक्षसि स्तनयुगी चपलाक्ष्याः । दृश्यते निजगृहे रतिभर्तुर्वल्लकी किल तिरोनिहितेव ॥ ३२ ॥ उन्नतात्कुचयुगात्प्लवमानः सुभ्रवस्तरलहीरकहारः । प्रस्खलन्सुरगिरेः शिखराभ्यां भाति निर्झर इव द्युतटिन्याः ॥ ३३॥ मध्यनीतविवलत्तनु दोभ्या श्लिप्यतः प्रणयिनः किल वक्षः । भूरि पृथ्वपि वधूः कुचयुग्माद्धन्त संकटतरं विदधाति ॥ ३४ ॥ १ अनीत्युक्त पुल्लिामपि.

१६ कान्तावक्षोजशतोक्तयः । मुद्रितां प्रियतमस्य रदात्रैर्गण्डपालिमिव वीक्ष्य चलाक्ष्याः । प्रस्फुटं करनखैरपि वक्ररक्रियन्त कुचसीम्नि निजाङ्काः ॥ ३५ ॥ कान्तमानसगति परिरोद्धं मूर्छतोऽद्य नु तथा तदुरोजी । प्राग्यथा रविगति परिरोद्धं विन्ध्यशैलशिखरौ ववृधाते ॥ ३६ ॥ सर्वतो विकसदङ्कुरवृन्दं कोरकद्वयमिव प्रियकस्य । शोभते दयितपाणिविमृष्टं हृष्टरोम सुदृशः स्तनयुग्मम् ॥ ३७ ॥ मुग्धिकास्तनधृता प्रियदोप्णा छिन्नहारगुलिकानिकुरम्बम् । आत्मनो रिपुसरूपधृतीप्टात्पारितोपिकमिवात्तमनङ्गात् ॥ ३८ ॥ अङ्गना रतकलान्तरकाले प्रेयसः प्रतिमुहुर्वत वक्षः । आप्नतीव रमते सुदृढोच्चैर्वर्तुलस्तनगदाग्रयुगेन ।। ३९ ।। संततप्रियकराग्रनिपाताजातवत्कलुपचिह्नमिवास्याः । नीलिमोल्लसितचूचुकयोगं सुभ्रुवो विजयते कुचयुग्मम् ॥ ४० ॥ कान्तदीर्णकलिकाकृति चोलं विस्तृतं कुचयुगं चपलाक्ष्याः । चक्रयुग्ममिव रत्यभिमर्दे भग्नमन्मथरथस्य विभाति ॥ ४१ ॥ साऽधुना स्तनतटे बहुचित्रां स्तोकपत्ररचनां नववामा । बागुरामिव दधाति गृहीत्यै कान्तलोचनकुरङ्गकसून्योः ॥ ४२ ॥ सांप्रतं तरुणिमावसरेऽस्या वक्षसि स्तनयुगं विधुमुख्याः । व्योमनीव सति प्रावृपि काले मेघवत्प्रचुरमुच्छ्रयमेति ॥ ४३ ॥ सुन्दरी प्रचकितं पिदधाना संततं स्तनयुगं वसनान्तात् । कामराजनिधिभाजनयुग्मं दीव्यतीव नितरां परिपान्ती ।। ४४ ।। आश्रितः किल यदादि वधूट्या वर्धनक्रम उरोजयुगेन । दुष्टया बहु कनिष्ठननान्द्रा ही तदाद्यवहितिक्रम आतः ॥ ४५ ॥ एणशावकदृशः कुचयुग्मे कान्तदत्तकरजक्षतरेखाः । कुम्भिकुम्भयुगले स्फुटमुच्चैरङ्कुशाङ्कनिवहा इव भान्ति ॥ ४६ ॥ कामकेलिसमये च्युतवस्त्रा प्रस्फुटस्तनतटा करभोरूः । आलिलिङ्ग चतुरा सहसैवं ब्रीडिताऽतितरसा प्रियवक्षः ॥ ४७ ॥ १ पराङ्गकर्मकत्वाच्छतप्रत्ययः.

कान्तावक्षोजशतोक्तयः । मुग्धिका रहसि सून्नमिताङ्गा भर्तुरीक्षणहियाशु तथोक्म् । आस्त संवृतकुचा चिरकालं नोत्थितः किल यथा स निपण्णः॥४८॥ योपितां पृथुपयोधररूपं स्वावमाननपरं पुरु मत्वा । श्रीफलप्रभृतयो विपिनस्था आपतन्ति वत वृक्षभृगुभ्यः ॥ ४९ ॥ सक्तचोलचिरवन्धविमुक्ती निसलायततरौ ललनायाः । मल्लतां कलयतः कुसुमेपोर्मद्वराविव कुचौ किल शङ्के ॥ ५० ॥ चोलतः प्रतिमुहुर्बहिरेव प्राप्तुमद्य लपतस्तदुरोजौ । उन्नतीकृतमुखौ चकिती द्वौ चक्रवाकपृथुकावित्र नीडात् ॥ ५१ ॥ प्रागवेक्ष्य करिणं पथि यन्तं त्रस्यति स बहु या खलु मुग्धा । पीवरोन्नतकुचामधुना तां वीक्ष्य साध्यसमुपैति करी सः ॥ १२ ॥ मननीलवदनं स्तनयुग्मं चोलके दृढतरं मदिराक्ष्या । नह्यते न्विव मृदङ्गकयुग्मं भाविमन्मथमहोत्सवहेतोः ॥ १३ ॥ यातनुन्नवसनावभियान्त्याः सुभ्रवः पृथुकुचौ बत पान्थः । गोलकाविव मनोभवबहियन्त्रियौ झटिति वीक्ष्य मुमोह ॥ १४ ॥ संममर्द सुदृशोऽभ्युपगृहन्नीप्सितोऽतिरभसात्स्तनकुम्भी । संमुखाधरधितिप्रतिबन्धौ नन्वमू हि धिपणामिति विभ्रत् ॥ ५५ ॥ यहिं किञ्चन दधार कपोलापाननिर्भररतः शिशिरत्वम् । तावदेव तरुणः प्रणयिन्या ताप्यते स्म नितरां सनधर्मात् ॥ १६ ॥ भान्ति वक्षसिरहोः कमलाक्ष्याः प्रेयसः कररुहाणलेखाः । दाडिमीयफलयोरिव पाकं प्राप्तयोः शुकमुखाग्रकलङ्काः ॥ १७ ॥ सुश्रुवश्च्युतपटं किल हलस्वस्तिकोपवलितं स्तनयुग्मम् । मण्डलस्थमिव कुण्डलिकाया नर्मदेश्वरयुगं प्रतिभाति ॥ १८ ॥ सांप्रतं गृहगता रमणी सा संततं पटदशोन्नयदम्भात् । दोवलम्बमनुवेलमिव स्वे दुर्वह्नस्तनयुगे खलु दत्ते ॥ ५९ ॥ उच्चकैर्भवति नूतनवध्वा मानसे प्रतियथं रसपूरः । अप्यमू उरसिजौ च तथैवाम्भोरुही भवत उन्नतिमन्तौ । ६० ॥ १ यहियंत्रं वदियन्नं तस्येमी तद्भवी वा.

५८
कान्तावक्षोजशतोक्तयः ।
वीक्ष्य चञ्चलदृशः स्तनदेशं नैकधाभिदधतेऽद्य युवानः ।
कुर्वतेऽहि ननु के न कठोरोद्वृत्तदुर्मुखकथामिह लोकाः ॥ ६१ ॥
वल्लभेऽभ्युपगते वरवध्वा उच्छृसत्स्तनयुगं जयतीपत् ।
चोलबन्दिनिलयादमुतो मां मोचयाशु तमितीव विवक्षु ॥ ६२ ॥
बाढमैक्यमितरेतरमात्मभ्रातृवक्षसिरुहोर्नु विलोक्य ।
संप्रति स्फुटतम परिहृष्टा लक्ष्यते हृदि रतिर्नववध्वाः ॥ ६३ ॥
त्रातये निजवधूस्तनसंपद्भाण्डयोर्हरहतः खलु कामः ।
चूचुकस्य कपटेन भुजङ्गीभूय संस्थित इव प्रतिभाति ।। ६४ ॥
प्रायशः प्रियतमस्य सदेशे वर्तते यदधिकं हरिणाक्षी ।
तत्र भूरिदृढपीनकठोरीभूततत्कुचवलं हि मतं मे ॥ ६५ ॥
उन्नतौ सुमसृणौ सुमुखी सा संविभयुरसिजावधिवक्षः ।
स्तम्भयुग्ममिव कामुकचेतश्चारणाऽखिलकलारमणार्थम् ।। ६६ ॥
चित्रचित्रशकलांशुककीर्णा कञ्चुली कुचयुगे प्रमदायाः ।
क्रीडनाद्रियुगले मधुमासश्रीरिवोल्लसति कामनृपस्य ॥ ६७ ॥
सुन्दरीस्तनयुगं समवेक्ष्य स्नेहबत्प्रियमनो द्रुतमासीत् ।
संश्रयं विदधतः खलु तस्मिन्नूप्मणो नु निविडात्परितापात् ॥ ६८ ॥
मुग्धिकाहृदवनौ द्रुहिणेन प्रोप्यते स्म खलु यद्रतिबीजम् ।
रोहति प्रियकरानिशसिक्तं संप्रति स्तनपदेन तदेव ॥ ६९ ॥
लक्षणानि रमणीस्तनसीम्नि स्तोकलोहितमुखानि नखानाम् ।
कामकण्टकततेः
खलु
वमानीव भान्ति दयितेन हृतायाः ॥ ७० ॥
भ्राजते तरुणिमा ललनाया विग्रहेम्बुधिरिवाद्यरसस्य ।
सुस्थिरं स्तनतटं च तथा तन्मध्यवर्युडुपयुग्ममिवोचैः ॥ ७१ ॥
सुभ्रवः पृथुकुचद्वितयाग्रात्त्रंसते वसनवस्तमजनम् ।
कोहि भूरि गुणवान् सहवासं कर्कशैः सह विधातुमभीष्टे ॥ ७२ ॥
प्रेयसाऽभिमुखतः खलु वाला लोकिताऽधृत करौ कुचमूर्भोः ।
उत्ततार किमु तत्सरतन्त्रप्रक्रियापठनगोचरपृच्छाम् ॥ ७३ ॥

कान्तावक्षोजशतोक्तयः । उद्गमोन्मुखकुचं हृदुपान्तं व्यामृशन्नभिमतो नववध्वाः । याहरङ्गमिव शम्बरशत्रोर्भाति कौतुकवशेन मिमानः ।। ७४ ॥ नव्ययोपित उरोजनियुग्मं प्रोन्नतं प्रविततं प्रतिभाति । भर्तुरात्ममनसोरिव नूनं बन्धनाय युगलं शिवकस्य ॥ ७५ ॥ वर्तते नु कियदत्र गुरुत्वं बोधितुं किमिति खल्वनुबेलम् । प्रेयसा रहसि मुक्तगृहीतो दोर्युगादुरसिजौ दयितायाः ॥ ७६ ॥ लक्ष्यतेऽति कठिनं कृशगाव्या ग्रन्थियुग्ममधुना हृदि किञ्चित् । किञ्च चित्रममितं किल नित्यं तद्यथानुभवनं त्वपरत्र ॥ ७७ ॥ वीक्ष्य कान्तमभिगं ललनाया एजति स सहसा स्तनयुग्मम् । शीघ्रमेव सुचिरं निजभाव्युत्पीडनस्य निपिरीसभयान्नु ॥ ७० ॥ आदधाति हृदये परिपीनावुच्चकैरुरसिजौ कुटिलभ्रूः । शम्भुना पुनरपि प्रयुयुत्सोर्मन्मथस्य करयोरिव मुष्टी ॥ ७९ ॥ पश्यतः प्रणयिनी नवयूनो लोचने चिरतरं विनिमेये । मध्यविष्टतदुरोजनियुग्मव्यायतत्ववशतोऽभवतां नु ।। ८० ॥ तत्थ्यमेव विकचाम्बुजमुख्या द्वौ गुरू उरसिजौ हि मतो मे । हीकृति मृदुगतिं च सदा सा शिक्षते वहुविधं यदमूभ्याम् ॥ ८१ ॥ नित्यवक्षसिजवर्धनदम्भानूतनस्तरुणिमा वरवामाम् । स्वामिनो बहुमुदे किमु तस्याः प्रत्यहं नवनवां विदधाति ॥ ८२ ॥ अजयोनिरतिविश्वमनोज्ञां कामिनीकुचयुगी रचयित्वा । नेत्रदोपह्तये किल यूनां चूचुके व्यधित तत्र विनीले ॥ ८३ ॥ सांप्रतं तु सततं कमलास्या संश्रिताऽपरवया अपि नव्यम् । चोलकं विपरिवर्तयते सा पञ्चसप्तदिवसान्तरमेव ।। ८४ ॥ सर्वतोऽतिविलसत्परिणाही तुङ्गवक्षसिरुही महिलायाः। कामभूभृत उभी पृतनाया मण्डपो कृततती इव भातः ॥ ५ ॥ आयतौ यत तथा खलु जाती प्रोन्नतापुरसिजौ नवभीर्वाः । तातवेश्मनि गता प्रतिवेश्यैः पर्यचायि सहसा न यथा सा ।। ८६ ।। , म्यादिकोऽयं युधिः सेट ६० ६ कान्तावक्षोजशतोक्तयः । लुण्ठितुं नु नवयौवनकोशादिष्यते किममुनेति विवेत्तुम् । अक्षिणी प्रियमुरोदृशमैक्ष्य स्वाप्यदाज्झगिति तत्र चिरण्टी ॥ ८७ ॥ ईर्ण्ययेव नितरां ननु मन्ये श्रोणिविम्बयुगलस्य तरुण्याः । वन्धुरं च विपुलं च गरिष्ठं संहतं च भवति स्तनयुग्मम् ॥ ८८ ॥ नूतना प्रियतमा गृहमध्ये सर्वदा प्रतिजनात् अपमाणा । प्रेम भर्तुरिव निर्भरवृद्धं निदुते स्तनतटं बहु भूयः ॥ ८९ ॥ सुभ्रवः स्तनभुवः सकलं यह्रमास वसनं सहसैव । द्वैततापरिणतस्य तदेतद्ब्रह्मणोऽजनि किमावृतिभङ्गः ॥ ९० ॥ संधदृढमुपांशु युवत्याः प्रोन्मुखस्तनमुरःस्थलमिष्टः । आधिपत्यमखिलं भुवनानामात्ममुष्टिगमिवामनुते म ॥ ९१ ।। व्यायतोरसिभुवोर्वितताक्ष्या अग्रयुग्ममसितं मम भाति । कस्यचिन्नवजनस्य पतित्वा लोचनद्वयमिव प्रतिपक्तम् ॥ ९२ ॥ सीचकार मृदु सा पिहिताक्षी गाढपीडितकुचोच्चिबुकं यत् । कं समीक्षकजनं बहुवारं तन्न सीत्कृतयति स्मृतमात्रम् ।। ९३ ॥ उत्कुचा पथि यती जनहीणा यत्प्रमाणमतनोदवगुण्ठम् । तन्मितखकुचपार्थवमासीव्यक्तिशालि वत प्रत्युत तेन ।। ९४ ॥ चोलके निजसमं दृढमेनाऽवर्धवन्धन करौ नियमान्नौ । इत्यवेत्य हि करौ न सुदत्या वल्लभं घृतकुचं निररुन्धाम् ।। ९५ ।। दय॑ते स्तनतटो दृयिताय प्रौढया सुरततान्तिमिपेण । कश्चनाऽपि विलसन्निजलावण्याम्बुधेः सुसितसेतुरिवोच्चैः ॥ ९६ ॥ ईप्सितो रह उपेत्य रमण्याः प्रोच्छूितं कुचयुगं रभसेन । संन्यपीडयत भूरि विशङ्के काममष्टगुणितं नु तदीयम् ॥ ९७ ॥ आत्मनोऽतिसविधस्थितिशालि प्रोन्नतं स्तनतटं न्विव दृष्ट्वा । जायते किल मनोऽपि नितान्तं प्रोन्नतं सपदि यौवनवत्याः ॥ ९८ ॥ प्रेयसो वहुहठेन रतार्धे कञ्चुकी धनमुरोजनिवीता । सुभ्रुवा चिरमपास्यत कृच्छ्रात्तावती हि निजहीरिव शिष्टा ॥ ९९ ॥ ।

कान्तावक्षोजशतोक्तयः ।
प्रौढयोपिदिह यौवनदृप्ता नम्यते भगवतीव नु काचित् ।
खात्मनि स्तनमिपादुभयं या विश्वगोलकपुटं नु विभर्ति ।। १०० ॥
एताः सुधाब्धिलहरीसहोक्तयः स्तनशतोक्तयो मधुराः ।
श्रीहरिवल्लभकपिना-गीताविद्वद्युवैकमुदे ॥ १०-१ ।।
इति श्रीकविमल्लभट्टहरिवल्लभकृतिषु कामकुङ्कुमपन्यपरपर्याया-
कान्तावक्षोजशतोक्तिः पूर्णा ।।
१ मुधान्धिलट्रीमिः सह उक्ति कपनं प्रकृते सादृश्यवचनमिति यावत् सा वासां
साइपर्थः

No text on this page.

श्रीकविमलभदृहरिवल्लभरचिताः शृङ्गारलहर्यः।

No text on this page.

अथ श्रीकविमल्लभहरिवल्लभरचिताः शृङ्गारलहर्यः श्रीहरिर्जयतितराम्। यस्त्यक्तागारकार्या बजनिखिलवधूः प्राग्गृहीत्वैव चक्रे किञ्चिद्वंशस्य खण्डं दधदेथ तु पुनः क्षेपणीं सोऽधुनैपः । वय॑त्यस्मालु धूर्तः कथमिति यमुनानावि भीत्यालपन्तीः पश्यन् काश्चिद्विदग्धाश्चिरमवतु युवा देवकीनन्दनो वः ॥ १ ॥ चेयूयमभ्येथे यथास्थिता नो तदाह्वयाम्यत्र तटस्थितान्नृन् । एवं भिया यो यमुनाम्बुनना ब्रजस्त्रियोऽह्वास्त हरिः स पायात् ॥ २॥ यद्दर्शनार्थमद्याऽपि मच्चक्षुर्यतते भृशम् । पातु वो मोहिनीरूपं शौरेस्तद्रुवाञ्छितम् ॥ ३ ॥ हारूढनवीनवारललनानेत्रोद्गमं घूर्णय- शृङ्गाराचरणप्रगल्भसुदृशामालस्यमुचूर्णयन् । वस्तुव्याहतपण्यवीथिवणिजां संपादनं पूर्णयन् यूनामस्तु मुदे प्रदोपसमयः कामागमं तूर्णयन् ॥ ४ ॥ कालिन्याः परिरुढपङ्कज इव स्वच्छप्रवाहो महान् नागानामिव भूतिभूपितवपुविभ्राजितानां गणः । रत्नाविष्टकलानिधिप्रभ इव न्यग्रोधभूमण्डलो नक्षत्रावृत एप भाति नितरां नाकंदेशो निशि ॥५॥ फिनिशसण्डमहानन्तरम्. २ लम्बतरो नावाहको वंशादिदण्डः क्षेपणी. ३ आचरिप्यति. ४ यूनः कृष्णस्य अभिप्रायशाः. ५ गताविलस्य मध्यमपुरुपबहुवच. नम्, ६ समुद्रमन्यने पीयूपकुम्भ देवानेव पाययितुं भगवता विष्णुना मोहिनीरूपं धृत शिव तां कामयतेस्गेनि पुरातनं युत्तम्. ७ मुवमानापरिधानभूषणायोजनरूप.८ तस. दुसादिकं कार्य यनु. जमाई. इ. प्र. १० आकाशप्रदेशः शृङ्गारलयः । : ६ रजतस्तबकशवलिता रात्रिवधूट्या विनीलशाटीव । उदितसकलतारेयं गगनतटी शोभते विमला ॥ ६ ॥ संभोगार्थमुपेतस्य भर्तुश्चन्द्रस्य संगमात् । राव्यङ्गना पुलंकिता तारकाकपटेन किम् ॥ ७ ॥ विदितगगनजन्म प्रौढजाग्रत्प्रकाश क्षितिविलसितकान्तिक्रान्तसंसारचक्रम् । धृतकपटहिमत्वं शुभ्रभावैकभाव्यं जयति किमपि तेजः शार्वरोद्द्योतरूपम् ॥ ८ ॥ शिशिरकिरणाख्योऽयं वृत्तो बृहत्तरहीरकः प्रतिदिनकलाहानिव्याजात्सुर्दिवि खण्डितः । विविधशकलस्तोमस्तस्योच्छलच्छविमण्डितः स्फुरति पतितो विष्वक् चञ्चद्दयुतिग्रहकैतवात् ॥९॥ नित्यं लाञ्छनदम्भतः शिवशिरःशृङ्गारकोऽयं शशी संभोगामृतदायिनीमुरसियात्रिं विभत्ति नियम् । तन्मन्येऽनुकरोति कौतुकवशात्तामर्धनारीश्वर- प्रख्याताद्भुतसाहचर्यमुपमा यूनोहिं या संमता ॥ १० ॥ प्रतिभान्ति समिद्धतारका दिवि यात्यस्तगिरि दिवाकरे । किमु सूच्छलिताः सुरापगाविमलाम्भोविलसत्कणा इव ॥ ११ ॥ सोममण्डलमिदं समुदीतं काचकोशंसदृशत्वमुपैति । लाञ्छनं स्फुरति किञ्च यदस्मिन्कजलोपमितिमेति हि तच्च ॥ १२ ॥ पातुं वारि वनस्थलीषु वदनं न्यकुर्वते रौहिर्पा वक्त्रं दर्पणविभ्रमाद्विदधते नीचैः क्षितौ बालकाः । मुग्धा भ्राम्यति दीपिका शमयितुं कान्तेन विस्मायिता यस्मिन् व्योमतलं गते विलसितः सोऽयं कलानां निधिः ॥ १३ ॥ १ विचित्रायाः स्त्रिया विचित्र एव पुलकः.२ अमृतोपाधिकं चन्द्रे हिमत्वं.३ चन्द्ररूपं. ४ सुघमा परमा शोभा. ५ लाल्टेण इ. प्र. ६ मृगाः. ७ अत्र तव दृश्यमानो दीप- थेस शमयितव्य इति.

शृङ्गारलयः । ये निर्देष्ट तेक्षिताः कशिपर्वस्ते भान्ति संवेष्टिता निर्णीतं किल चन्द्रकान्तमणिभिः शैले हिमं प्रस्तुतम् । दृष्ट्वा स्वां प्रतिमा त्रसन्ति सहसा दस्युभ्रमान्मानवा यस्मिन् व्योमतलं गते विलसितः सोऽयं कलानां निधिः ॥ १४ ॥ कासारस्य तटोपरिस्थितबकैर्मात्स्यं शनैश्यते भित्ति न श्रयते जनः स्त्रुतसुधागात्रप्रसङ्गभ्रमात् । दूराद्धाति तरङ्गिणी तटपरिच्छिन्नप्रमाणोज्झिता यस्मिन् व्योमतलं गते विलसितः सोऽयं कलानां निधिः ॥ १५ ॥ किं कुन्दानां परागः प्रसरणतरलो वायुनास्तीर्यतेऽयं चेष्टन्ते विप्वगेते किमुत नवनवाः पल्लवाः कैरवाणाम् । किं वैप क्षीरिवृक्षः क्षतजनितरसः क्षिप्यतेऽन्योन्यमेवं मालाकाराङ्गनाभिर्विपिनभुवि चिरं चिन्त्यते चन्द्रिकेयम् ॥१६॥ नौकावच्छिविकादिकं क्वचिदपि च्छाया च शैवालव- निर्गच्छजनता तेरद्वदुपलच्छेदाश्च शम्बूकवत् । ऊमिक्षिप्ततटस्थकोकनदवद्वेश्माग्रभूदीपका यस्यां सा तटिनीव भात्यनुपथं द्योतोदका कौमुदी ॥ १७ ॥ 'स्नेहो यामवलम्ब्य वृद्धिमयते यस्याः परं जायते संसर्गेण विदग्धता ज्ञपयते याऽनङ्गमप्यजसा । विष्वक्पोचलमालयं च कुरुते विद्योततेऽहनिशं तेजोऽक्ष्णोर्मुहुरीक्षिता वितनुते सा दीपिकैवाऽपरा ॥ १८ ॥ १ अन्यबस्रोपदेहाः. २ तूलास्तरणानि. ३ चन्द्रकान्तसवे हिमस्रवधीरिति भावः ४ शफररामूहम्. ५ तदा नद्या महान् पूरो दृश्यते. ६ राजादनमुखः, ७ पितृगृ- हादागताभिर्नवाभिः. आक्षिप्तीपम्योऽत्र लिटपदोऽनुक्तहेतुकश्च तथा । अर्थाऽलङ्कारोऽस्ति व्यतिरेकाख्यो मम शोके ॥१॥ ८ शिविकोपलक्षितरथादिकम्.९ तरन्ती इव. १. प्रकाश एयोदकं यत्र. ११ तैलादिकं प्रणयच. १२ विदाह विशिष्टता चातुरी च. १३ अस्फुट वस्तु कामंच.१४ गृहस्थानां गृहे खियेयोग्ज्वल्यम् शोमा.१५ लौकिकी दीपिका मुहुरीक्षिता नेत्रे निस्तेजसी करोतीति प्र.

६८ शृङ्गारलहर्यः । यस्या हेमन्तरात्रिः समुचितसमयो व्यक्तिरेका च मात्रा सौत्म्यं शृङ्गारवृत्तिर्धवलपटलसत्तल्पसेवाऽनुपानम् । वोढुं लोक: प्रगल्भः परिचरणभृति मन्मथातङ्कशान्त्यै यूनां दिव्यौपधी सा प्रतिभवनमियं ब्रह्मणा स्त्रीति सृष्टा ॥ १९ ॥ क्लिद्यत्केशरपत्रपीतपरमस्फीताङ्गकान्त्युज्ज्वला चञ्चच्चञ्चललोचना स्तनभरल्यानम्रकम्रोईरा । चातुर्यप्रचुरोक्तितर्पितयुवस्वान्ता सदाऽलङ्कृता कस्येयं गृहदेवता विहरते स्वच्छन्दमत्रागता ॥ २० ॥ नेयं मुग्धवपुः स्थिता नववधूः किन्त्वस्ति काचिल्लता नो चण्डातकमेतदस्ति विपुलं किन्त्वालवालं महत् । किञ्चैतान्यपि न मितानि विकसत्पुप्पाणि किंवतो नैतच्चञ्चति पाणिपादमभितः किंतु स्फुरन्ति च्छदाः ॥ २१ ॥ काँश्चिद्दर्शनतो हि काँश्चन वृथा संलापमात्रादथो काँश्चित्कार्यनिदेशतः सकृदपि स्मृत्यैव कौश्चित्पुनः । काँश्चित्संनिहितस्थितेरपि पुनः कौश्चित्तु मन्दस्मिता- प्रीणन्त्यजदृशः परन्तु विरलान् धन्यान्हढालिङ्गनैः ॥ २२ ॥ नीलाजाळ्यां सकलधरणि कुर्वती दृष्टिपातै- बन्धभ्रष्टैस्तिमिरवितति प्रेक्षयन्ती च केशैः । शैलद्वन्द्वं वियति सहसा संसृजन्ती स्तनाभ्यां मन्दं मन्दं पुरत इह मे केयमायाति धन्या ।। २३ ।। १ उचितत्वमन्योपद्रवाकरणेन शनैः शनेस्तद्याधिहरणेन च, २ सा नखशिखशोभिनी एकव पाणिगृहीती. ३ पथ्यं. ४ आरामविहरणादिका. ५ प्रतीकारत्य वाग्भटे चतुष्पदिकोत्तरत्र लोको गृहवर्तिजन एकविधः पादः. ६ संहिताकारेण प्रथमेन चतुर्मु- खेन जगदेकवैद्येन. ७ केशरपत्रवत् कुङ्कुमपत्रवत्पीतं. ८ कम्र सुन्दरं. ९ गृहस्य देवतेव देवतेति मध्यमपदलोपी समासः. १० लहंगा इ.प्र. स्त्रीवस्त्रं तदिह महावैपुल्यर- मणीयं भवति. ११ अस्य विकसदित्यत्रान्वयः. १२ इदमेकमेव मुख्यं सत्यं प्रणयप्रका- शकं. १३ अत्र धरण्यादीनां कर्मणां दृष्टिपातादिभिः करणैरभेदः. १४ हृदयद्राविणी. - ३ शृङ्गारलहर्यः। रागं वीक्ष्य विपक्षचोलफलितं हस्ताग्रयो, नवं स्तब्धोष्ठं वदनं विवर्त्य सहसा यान्त्या शनैर्मूकया । आः कस्या असि वल्लभस्त्वमधुना का नाम कान्तां च ते हा हा हृत्फलके व्यलेखि किमिदं इंग्लेखिनीतस्तया ॥२४॥ आदौ हन्त विलोकिताऽपि बहुशो ज्ञाता च या सर्वथा नीत्वा किञ्च दिनान्तराणि कतिचिद्या विस्मृतासीदपि । तस्या एव विलक्षणां पुनरहो श्रुत्वाऽथ कांचित्कथां चेतस्तां परिचेतुमिच्छति चिरं जात्वप्यदृष्टोमिव ॥ २५ ॥ दुरादङ्गितले मम स्वशिरसश्छायां विधत्ते मुहु- नानाधा मुरलौ च गायति भृशं मन्नामगीतीः पथि । कुजे याहि दृशेति वक्ति गदितुं नाहं च शक्ता ह्रिया नित्यं मामिति बाधते सखि हरिः कुयां कृति कामहम् ॥ २६ ॥ प्राणेशं नापयन्ती परपुरुषकृतक्ष्वेडितप्रेरिताक्षि- व्यावृत्तिध्वस्तहस्तस्थितकलशपतत्तोयधारावधाना । हीरावन्योन्यरुद्धावथ दयित तयोः शोधनेऽस्मीति काचि- चित्तं हन्त त्वदीयं सपदि कुह रुपी तेन पृप्टेत्थमूचे ॥ २७ ॥ पूर्व यद्यपि सेविता चिरतरं पश्चात्वचित् प्रस्थिता किञ्च प्राप्तवती द्रुतं कतिपये कालान्तरे कामिनी । नेत्राणां च तथापि तत्क्षणमहो संभोगलीलाकृते प्रेमाढ्ये वितनोति भर्तृहृदये साऽभूतपूर्वोत्सवम् ॥ २८ ॥ करमुकुरधृतेः किं संभृतौ ते कपोला- विति हि गदति लोकस्त्यां तु वृत्ताननेति । प्रियसखि शुणु किश्चित्संभृतौ मे कपोला- विति हि गदति लोको मां च लम्याननेति ॥ २९ ॥ १ नवलात्फलनसंभावना. २ मम्पा. ३ परमासा सावर ले. ४ अनं. भवाम्. ५ तारगुत्कण्ठामाहात्म्यमेतर मगमनाश. पर्मनपरा:. ८ चानु प्रक्षेचं. ९ सस्यापित्येदितपुतेः. 1. सोनोमिता सूपिरिपम्.

शृङ्गारलहर्यः । अग्रे सञ्चरितुं प्रियस्य यदसावेकाकिनी नेहते वक्तुं रात्रिकथां सखीभिरुदिता स्मेरा च गुनाति यत् । किंचित्रस्यति सर्वतश्च निलये यच्छङ्कितेवात्मभू- रित्युद्योग्यपि तत्पुनः स शिथिलः किं बालमैत्रीभिया ॥३०॥ कामोन्नृत्तप्रणयविकले चित्रपट्टावृताङ्गी दो• किं त्वां न वदसि मयीत्यभ्युदीर्योपगूढे । यद्यप्यासीत्सकलमपि तत्सुभ्र चित्रं विभग्नं गाढं त्वासील्लिखितमहहो मानसे तत्क्षणं हि ॥ ३१ ॥ तारुण्यं हर्म्यवासो विपयरसिकता काव्यपाठश्रुतिश्च प्रागल्भ्यं स्वापतेयं हृदि सहजसुखं मित्रकेलिश्च गानम् । निःसापत्न्यं प्रभुत्वं किमु गणनकृतेरानुकूल्यं यथेष्टं हे कान्ते हा विनात्यां सकलमिति मया व्यर्थमेव प्रतीतम्॥३२॥ आचित्रिताः पङ्किलरङ्गपन्याँ भान्त्यभिहस्ताङ्गुलयस्तरुण्याः । बालार्कतापच्छुरितानि फुल्लपङ्केरुहीयाणि यथा दलानि ॥ ३३ ॥ संश्लिष्टचोलौ कनकाइदाढ्यौ नानाविभूपौचितचारुचूडौ । सालक्तकौ रत्नमयाङ्गुलीयौ कान्ते करौ यौवनकंदलौ ते ॥ ३४ ॥ सुगाढकूसकरश्मिकृष्टौ वक्षोरुहौ प्रौढनितम्बिनीनाम् । शृङ्गारसिन्धौ तरणाय मन्ये धात्रा निबद्धे इव तुङ्गतुम्वें ॥ ३५ ॥ स्त्रीणां वयोरूपपटुत्ववस्त्रभूपाविलासोक्तिगतादि सर्वम् पुंसां परप्रीतय एव बोध्यं भोग्यं हि भोक्तुर्विदधाति तृप्तिम् ॥३६ ।। सीमन्तिनीनां पुरुयायितेपु प्रालम्बिकालोलसरादधन्ते । प्रसूनवाणस्य सलीलवेल्लद्दोलासमालम्विगुणोपमानम् ॥ ३७ ॥ वध्वाः प्रियप्रत्तरदक्षतानां चकास्ति चक्र विमले कपोले नवोदितं मण्डलमम्बुवाहे पीयूपरश्मेरिव शारदीये ॥ ३८ ॥ १ गुध रोपे. २ कामः. ३ परिचयकृतिपरोऽपि. ४ एतेन नायिकाया मौग्ध्यावशेषः स्तोको वर्णितः. ५ मयीलस्य विशेपणमिदं. ६ विचित्रं वृत्तं हृदये सदा तिष्ठति. ७ मॅ- हृदी, ८ देशभेदापणानां नानात्वम्. ९ तुम्बाया इमे फले. १० हारविशेषः.

शृङ्गारलहर्यः। युवजननयनजवनयविनयनकुशला कशेव परिलसति । अलकलता मृदुलानिलविवलनललिता विलासिन्याः ॥ ३९ ॥ पश्यन्ती विनिमेपं दयिताभिमुखं वधूश्चिरं दूरात् । मन्ये कटाक्षपथतः शनैः शनैस्तं समाह्वयति ॥ ४० ॥ प्रियनिकटे गुरुजनगा गायन्ती हीप्रकम्पमानाङ्गी । आन्दोलन्तीव ललत्यानन्दान्दोलने वाला || ४१ ॥ आरूढयौवनायाः सुसंहता रोमराजिरुल्लसति । पदगृहलेब गलिता मानसमग्नस्य कामनागस्य ।। ४२ ॥ मतुं गता समभवं जाता सखि हन्त मनैव हन्त यदि न सममवयं सुनिश्चयं तर्हि सममयम् ॥ ४३ ॥ चञ्चलविलोचनायास्तदुदश्चितमञ्चलं मुदेवोऽस्तु । यत् कतिचन शुचिचरितालोचयते चन्द्रचूडयुगम् ।। ४४ ॥ रत्युन्मुखौ युवानी प्रस्वेदव्याप्तविग्रहौ लसतः । पूजारम्भे विहितनानाविय मदनदेवस्य ॥ ४५ ॥ को दोपः केतक्या हतकाया ईदृशी हि विख्यातिः । यदियं हित्वात्मीयं परस्य चित्तं धिनोतीति ।। ४६ ॥ अरुचिकरं खलु न किमपि तरुणीसम्बन्धि यद्भवत्येव ।। तत्र सतीवरदानं मैदनकृपां वा ब्रुवे हेतुम् ॥ ४७ ॥ प्रपतन्त्यो नीचैरिव धाराः शृङ्गारवारियन्त्रस्य । भान्ति वधूट्या जूटीवेन्धच्छुटिताः कचश्रेण्यः ॥ १८ ॥ उच्चनिशि चन्द्रमसं नीचैः पद्मं दिवा विलोकयता। तस्या हठादपि मया कथं नु विसर्यतां वदनम् ॥ ४९ ॥ १ एतेन नायिकायाः प्रियविषयक निनिमेष मुनिर निरीक्षण गंमाषितम्. २ देशाचारोऽयम्. ३ सरगमाभागकमेतत्. ४ रानराक्षता स्वनी. ५ मान माद पुगाया अवश्यम्, ६ परोपकारी फेतक इ. प्र. ७ तदरदानतररूपानन्तरादुर्घटमिन संगपति. ८ कृष्णसरूपः गृहारः चितमिदं शाने. फेसपेशो जूटीयन्धः.१० उपमा. मिदिता स्मृतिरपालदारः.

७२ शृङ्गारलहर्यः । अञ्जनमाञ्जि वधूभिर्युवदृग्दोपप्रशान्तये स्वाक्ष्णोः । प्रत्युत शतगुणितं तदोपं तत्र प्रसञ्जयांचक्रे ॥ ५० ॥ अधरद्वयमुद्घटितं शुक्तिपुटद्वयमिवाजनयनायाः । रेखा किंच रदानां सरीव परिलसति मुक्तानाम् ॥ ५.१ ॥ मालाकारसुताया वपुपि विलासा यदापि नो सन्ति । सन्त्येव तथापि करे मालानां नृपपथे क्रयाय धृतेः ॥ ५२ ॥ स किमपि वक्तादिह यो व्याख्यानं दातुमाख्यातः । परदाराः संगम्या उत्कृष्टः परपदार्थश्चेत् ।। ५३ ॥ रत्नेषु यथा रोचिर्यथा च गन्धः प्रसूनेषु । आस्वादो भोज्येपु स्त्रीणां गात्रेपु लावण्यम् ॥ १४ ॥ निजनिधनसमय एव प्रदृश्यते या परैरनावरणा । सीमन्तिनी सुचरितां कृपाणिका किल विडम्बयति ॥ ५५ ॥ रूपद्रव्यविलुण्ठनभयादिवामूः पुरो यूनाम् । त्वरितं प्रयान्ति संवृतवदनकुचायखिलविग्रहा बालाः ॥ १६ ॥ यत् परिधत्ते युवतिः सकलेप्वङ्गेषु भूपणश्रेणिम् । जाने तयकेतोः कोऽपि भटः प्रहरणानि बध्नाति ॥ १७ ॥ वक्षोजयोः पुरस्तादन्वक्षं किल नितम्बयोरुभयोः । सत्यपि पुरुपीनत्वे सातु कृशाङ्गयेव चित्रमिदम् ॥ १८ ॥ स्वरैमियं पथि यान्ती मुग्धा तरुणिमवलेपदुर्ललिता। अन्यन्मुष्टिमितं द्राक् संप्रति वर्धिष्यमाणेव ॥ ५९॥ श्रीमान् पुरु प्रसिद्धो नारीणामथ नृणां च नगरस्य । अब परस्परमास्ते परं विचित्रः स्वयंवरावसरः ॥ ६० ॥ प्राणप्रियासमागमविपयकसंवेशनक्रियाहरणम् । जागरणमपि ह हरहर शृणुत विरहिणां रिपूभूतम् ॥ ६१ ॥ १ सौन्दर्येण अत्यन्तहगावर्जकत्वात्. २ लडी इ. प्र. ३ नृपपथो हि तासां विलास- शिक्षणशाला, ४ इत्येतद्वक्तुमतम्. ५ स्फुटाङ्गी. ६ कामस्य. ७ लक्षणासमन्वयात्. ८ स्पष्टमिदं विशेषणार्थज्ञानात्. ९ नगरोत्सववर्णनमिदम्.

शृङ्गारलयः। विरहावसानकाले दम्पत्यो रोदनं मिथो मिलतोः । भाति हृदयकालुप्यप्रक्षालनमिव जलरक्ष्णोः ।। ६२ ।। यदपेक्षया न बिभ्यति पतिव्रताः पतिषु संनिमीलेत्सु । प्रत्यक्षादग्नेरपि विरहानि तदति दुःसहं मन्ये ॥ ६॥ अ?रुकं युक्त्याः पाणिप्रतिहन्यमानमभियान्त्याः । समधिक्षिपतीव पदौ सेवितुमुपयान्ति लोकचित्तानि ॥ १४ ॥ लावण्यकोशगृहतां दधतौ कामस्य तन्धि कुचौ । नुद्रां चूचुककपटादमुना विहितां किमु श्रयतः ॥६५॥ एपोऽस्ति कमलमुखि तव चरणाङ्गुष्ठः समुन्नतो यावान् । चित्तस्य सपदि कथयति समुन्नति तावतीमेव ॥ ६६ ॥ मानिनि पट्पदमाला चम्पकमुकुले स्थिति न पुष्णाति । त्वदलकमिपेण सेयं कथं कपोलेऽस्ति तत्तुल्ये ॥ ६७ ।। समयेऽसिन् रन्तुमहं न समर्थास्मीति काऽपि वोधयति । आगच्छामि सखि क्षणमिह तिष्ठेति प्रियं वचसा ॥ ६८ ॥ प्रत्यपकृति ग्रहीप्ये समुपेप्यति यदि स वञ्चरतसात् । अथ रममाणे दयिते हरिणाक्षी तस्य विस्मरति ॥ १९ ॥ वदनपद्मनवीनतरस्फुरदरदलन्मुकुलायितलोचने । उपवनं कुरु नूपुरझन्झणः सितगरुन्निनंदमुखरीकृतम् ॥ ७० ॥ पश्यतः पुरुविकासितनेत्रं नायकस्य पुरतो नवधामा । संप्रवेष्टुमिव चेतसि शीघ्रं संकुचत्यतितरां सकलाङ्गैः ॥ ७१ ।। सुन्दरी बहुसमञ्जसमाञ्जीदञ्जनं नयनयोर्मुकुराग्रे । चित्रमाशुतरमेव च 'पर्युन्मीलिते बत दृशौ मम जाते ।। ७२ ॥ १ कालधर्म प्राप्तेपु. २ यस्य घाघरा इ.प्र. ३ प्रायो युवतीनामुपविष्टानां चरणाहटो पिलासदपादिव उननो भवति. ४ गुरुमानम्.५ प्रसिद्धमिदं लोके. ६ नामेकाफिनीति गापः, गुधाभापणरूपापराधी. ८ आनन्दाधिक्यान्. ९ रूपगशब्दः. १० दुष्प्रवेश हदि. ११ यथाविधीत्यर्थः. १२ तनिरीक्षणानन्दार्थ स्थिर इलयः. .

७४ शृङ्गारलयः । . असतीजननेत्राणां केयं नाम चमत्कृतिः । अपांङ्गा अपि यासां यच्चाचल्यन्ते निरन्तरम् ॥ ७३ ॥ कपोलौ कमलाक्षीणां रुचिरौ गौरकान्तिभिः । अधीनीकृतये यूनां कार्मणौ दर्पणाविव ॥ ७४ ।। कामं हृदि व्यञ्जयतोः पुंसां नेत्रप्रदीपयोः । कुतूयुग्ममिवालोकहेतुः कान्ताकुचद्वयम् ॥ ७९ ॥ उन्नता या स्तनद्वन्द्वान्नता च त्रपयैकया । चतुष्टयेऽध्वनां लक्ष्या दुर्लक्ष्याप्यहह त्रिके ॥ ७६ ॥ नकारोक्त्या कचित् काले नृन् प्रीणन्ति यया स्त्रियः । आश्चर्य हा क्वचित्काले दहन्त्यपि तयैव च ॥ ७७ ॥ मुखावगुण्ठनपटीमध्यप्रेसितलोचनाः । लक्ष्यन्ते स्मरसर्वस्वं रक्षन्त्य इव योपितः ॥ ७८ ॥ करेणुशुण्डापूर्वार्द्धपीवरोरुमनोरमाम् । लीलालसं चलन्ती तां दृष्ट्वाऽहर्मचलोऽभवम् ॥ ७९ ॥ विभान्ति विभ्रमास्ते ते युवतीनां दृगाश्रयाः । तरङ्गाः परिरिङ्गन्तो लावण्याम्बुनिधेरिव ॥ १० ॥ मरुदेतीति पतिना व्याहृता मुग्धिका रते । अन्यभ्रान्त्यानु रुरुधे संभोगोत्कं तमाशु सा ॥ ८१ ॥ एषा समन्ताद्गगनान्तराले विद्योतते हन्त शतद्वंदाली । वियोगिनां प्राणसमुत्क्रमार्थं रतिप्रभोर्दन्तविभीषिके ॥ ८२ ॥ धरणिगगने नामू कौचित् पृथू किल जम्पती न धनकृतसूर्याच्छादोऽयं पराऽनवलोकनम् । १ अपगतानि अङ्गानि येषां ते दृक्प्रान्ताश्च. २ वशीकरणाय मन्त्रितौ. ३ स्तनाभ्यां उनता त्रपया नता अध्वचतुष्टये लक्ष्या त्रिके मध्यदेशे दुःखेन लंच्या इति विचित्रः सरसः क्रमः. ४ खीकरणार्थज्ञानात्. ५ सत्यैकार्थज्ञानात्. ६ तद्विलासनिरीक्षणार्थमिति भावः. ७ तेन कामे कीशत्वं रूपितं ज्ञेयम्.

शृङ्गारलयः। ७५ वहति न जलं चैतद्वीयं तयोश्यवते रता- विदमपि न वानस्पत्यं संततिबजसंभवः ॥ ८३ ॥ झङ्कारैर्मक्षिकाणां बधिरितगगनैः पूरयन् स्थानगर्भ सौभिक्ष्यं दैन्यवद्धयो भृतनिभृतसुखं सूचयन् मानुपेभ्यः । आरामक्ष्मोप्तबीजप्रथमविकसनंभालयन्मालिकेभ्यो . वर्षाकालोऽभ्युपेतः सरणिपु चलतां पान्थयूनां विपन्थी॥ ८४ ॥ द्विजाधिराजो विजहाति जायां ध्वान्तापरासक्तविहारबुद्धिम् । कुलानुकूलनततत्परा नराः परानुरक्तां रह्यन्ति योपितम् ॥ ८ ॥ तारा मध्यच्छितायाः स्रज इव मणयः प्रच्यवन्ते समन्ता- देकीभूयोपरिष्टाचितमिव तिमिरं व्योन्नि नेल्यं चकास्ति । आशानामन्तरालं मुकुरतलमिव स्वच्छभावं च धत्ते कश्चिन्माणिक्यवारांप्रवह इव ततिं याति सान्द्रः प्रकाशेः ८६ उद्योगिभ्यः प्रबोधं कृतविविधविधि कारयन्निविलम्ब पान्येभ्यो गोपुरेप्वप्रतिहतगमनं वोधयन् राजधान्याः । सौभाग्यं भूमिभर्तुः सकलविषयगं सूचयन्नागरेभ्यः प्रातस्त्यस्तोपघोपः प्रचुरचिररयः सर्वतः श्रूयतेऽयम् ॥ ८७ ॥ यस्मिन् कर्मणि जीवनिर्गमभयं कार्य न केनाऽपि तत् तस्मात्कुकुट किं वृथैव तनुपे प्राभातिकं पैशुनम् । साशकं दयितोपगृहनसुखं स्तोकं भजन्त्यः स्त्रियो यन्नैवं विविधप्रकारकृतिभिस्त्वां घातयिष्यन्त्यमूः ॥ ८ ॥ दूरे गच्छति सत्वरं कथमपि प्रोद्दामभीत्याकुला हृत्या तारकमौक्तिकानि सहसा रात्रीत्यसौ चौरिका । सर्व संप्रति मानवा इति चिरं कोलाहलोनिद्रिता ज्ञाप्यन्ते किमु कुक्कुटैः पथि पथि प्रत्येकगेहं मिथः ॥ ८९ ॥ १ वनस्पतीनां पृक्षाणां समूहो वानस्पत्यम्. २ अड्रीमवनम्. ३ प्रतिकूलः. ४ मध्ये श्रुटितायाः. ५ सूर्योदयसंध्यारूपः. ६ खत एव तासां राज्यपायज्ञानं तस्मात.

७६ शृङ्गारलहरः । याः पूर्वं कठिनस्वभावनियमप्रारब्धमानाकुलाः कान्तैश्चाथ बलात्कृतेरनुमति नीत्वोपगूढाश्चिरम् । पश्चाद्धन्त शनैः शनैः स्वविरह तैलम्भिताः सांप्रतं तत्कण्ठाहतपाणिसंभ्रममतेर्मुह्यन्त्यमूस्ताः स्त्रियः ॥ ९० ॥ श्रुतियुगलमकस्माच्छ्रोतुमीपत्प्रवृत्तं सकलमपि च दृष्टी वीक्षितुं वस्तुजाते । अथ च विविधगन्धो नासया नातुमीपे निखिलकरणमित्थं सावधानं वभूव ॥ ९१ ॥ विलसति सकलाशाहासपिण्डेऽबिम्बे त्यजति निविडनिद्रां जीवलोके विशोके । रमयति खगवर्ग गन्धवाहप्रवाहे सपदि दिवसलक्ष्मीः सर्वतः प्रादुरासीत् ॥ ९२ ॥ उद्याने नवमुग्धमालिकशिशुः प्रोत्फुल्लपुप्पनजा- नालोक्य क्षणदावसानपवनस्पर्शेन संबोधितः । आश्चर्य स्खलिताः कथं नु निखिला एता दिवस्तारका एतां भ्रान्तिमसौ जहाति सहसा संघ्राय तत्सौरभम् ।। ९३ ।। मन्दं मन्दं दिशि सुरपतेरेप कस्य प्रकाशः प्राप्तो भूयान्नयनसरणिं चञ्चति व्याप्य विश्वम् आ विज्ञातं कथमपि मया सांप्रतं पूर्वशैल- प्रौढाटव्यां तिमिरयवसं दाहमेतीति वुद्ध्या ।।.९४ ॥ प्रत्यासन्ने भगवति रवौ स्वागतं पुष्कराणिं प्रष्टुं स्नेहादिव किमधुना वक्त्रमुद्घाटयन्ति । सद्यः प्राप्ते विधिवलवशात्प्रोषितेऽपि स्ववन्धौ मित्रे वाऽपि प्रणयविवृतं कैर्मुखं न क्रियेतः ॥ ९४ ॥ १ तेपां खकण्ठेयु आहताः सञ्जिता ये पाणयस्तेषां संभ्रममतिरिदानीमपि जाने तत्तादवस्थ्यमेवेति तस्याः. २ इपेः कर्मणि लिट्. ३ प्रभातो जात इति भावः. ४ रात्री ताराः प्रातः पुष्पाणि इंति स्थिते इदम्. ५ प्रातर्वर्णनम्. ६ सूर्योऽपि मित्रपदवाच्यः - . शृङ्गारलहर्यः। पूर्व मूर्तितमात्रमेव भवनं नेक्ष्यं यथाप्यन्तिके सौधेनैव विलेपनेन तदनु प्रद्योतितं सर्वतः । किञ्चित्प्रत्यवभासमानमुपसि प्राड्मन्दमन्दं पुनः 'पद्माक्षेऽभ्युदिते तथेदमखिलं स्पष्टं जगज्जायते ॥ ९६ ॥ नाथे नूतनसंगमार्थमुदिते रागेण गाढादरं प्रत्युन्नीय चुचुम्बिपत्यपि मुखं प्राङ्मन्दमन्दं करात् ।' दूरे तिष्ठति मुग्धिकेव सहसाऽविस्पष्टरूपा येती सैपां पश्य पलायतेऽतितरला छाया पुरस्तान्नृणाम् ।। ९७ ॥ जालीरन्ध्रपथोदितार्ककिरणान् कान्ते मुहुः पश्यति प्रासादस्य रताधिकोदयसुखातृप्ता प्रगल्भाङ्गना । वातोड्डायितविस्फुरज्जवनिकाव्यक्तं किमु प्रेक्ष्यते मुक्ताविद्रुममालिकावलयितं स्तोतीति चित्रं मुधा ॥ ९८ ॥ छायावद्रदसीम्नि मीनकमटास्तिष्ठन्ति सर्वे मिथो गावः स्वप्रतिविम्बितक्षितितले स्थातुं वहन्ति स्पृहाम् । सांनिध्येऽपि च पाकसुन्दरफलं मुञ्चन्ति नीडोद्भवा प्रात्वा पुष्पसुगन्धमप्यलिगणा गन्तुं न वान्छन्त्यहो ॥१९॥ गायन्नव्यवधूप्रमत्तरसिको भ्राम्यञ्चमूमण्डलो हस्त्यश्चोष्ट्रगतागतो नियमितागच्छत्प्रवृत्तिक्रमः । तोपध्याननियोचितक्षितिपतिप्रत्यागतिपस्थिति- नानाधाकथितवतोक्तिनिचयः कोप्येष मेलोत्सवः ॥ १० ॥ वर्णाकाराचरणकरणेः काकसंघप्रविष्टो यद्यप्यास्ते परभृतशिशुर्जातमेतावता किम् । १ निमितमानम्. २ मुधा कळी इ. प्र. गृहलेपः. ३ सूर्य. ४ गच्छन्ती.५समायो- फापुरप्रेक्षासी ।

७८ शृङ्गारलहयः । यस्मिन् काले श्रुतिमुखकरं पञ्चमस्यानुकूलं काणं कूजिष्यति स सहसा भावि किश्चित्तंदानीम् ॥ १०१॥ आहन्ति निभृतनिभृतं द्रुतमपसरति असन्गूढम् । अयि मोपकोऽस्ति किमयं नहि नहि सखि मूपकः कोऽपि १०२ नाना प्रसादनानि क्रियमाणानि प्रियेण वालायाः । तत्सरसताकृते खलु भासन्ते दोहदानीव ॥ १०३ ॥ इति श्रीकविमलभहरिवल्लभकृतिषु शृङ्गारलयः । १ भेदज्ञानम्. २ छेकापडुतिनिदर्शनमिदम्.

श्रीकविमल्लभहरिवल्लभवर्णिता दशकुमारदशा।

No text on this page.

अथ. श्रीकविमल्लभहरिवल्लभवाणेता दशकुमारदशा। श्रीहरिविजयतेतमाम् । स्तोत्रैरिन्द्रं वमन्योगिरिवरधरणे कारयन्तं तितिक्षा देवेश प्रत्युतेदं प्रचुरमुपकृत कोपका त्वयाऽद्य । यत्तैस्तैर्याः प्रकारैरपि न हि मिलिता हन्त गोपाङ्गनास्ता- स्तिष्ठन्त्यभ्यर्णमेता इति समुपहसन्रक्षतु श्रीपतिवः ॥ १ ॥ विश्नाणयन्तु प्रचुरां श्रियं यः श्रीभर्तुरङ्गयोर्नखकान्तयस्ताः । या नूनमङ्गुष्ठपुनःप्रनिर्यत्रिस्रोतसो विभ्रममावन्ति ॥ २ ॥ अनूयते मल्लकवीश्वरेण विप्रेण पूर्व हरिवल्लभेन । कुमारकाणां चरितं दशानां कौतूहलादेव निबद्ध पद्यैः ॥ ३ ॥ पुरी पुरीणां निकपः परासां रत्नाकरश्रीस्ततपण्यरत्नैः । अस्ति म काचिन्मगधाख्यदेशवतंसिता पुप्पपुरीति नाम्ना ॥४॥ तत्राश्चमातङ्गझपाकुलस्य भटावलीचञ्चलदीर्घवीचेः । यहांहुदण्डौ सकलारिलोकपाथोनिधेर्मन्दरिती प्रमाथे ॥५॥ शक्राटवीसनटदप्सरोभिर्जेगीयमाननिजसद्यशोभिः । विशोभितः कुन्दसुधांशुकाशकर्पूरनोहारपयःसखैयः ॥६॥ प्रदीयमानावरदक्षिणौधसंत्रातविद्यावदनेकविप्रः । अर्कप्रतापो नृपतिः समस्त भोगभाग्योऽजनि राजहंसः ।।.७ ॥ कन्दर्पसौन्दर्यविमर्दिकान्तेस्तस्य प्रिया सा बमुमत्यभिख्या। लीलावताशेखरदिव्यरत्नं राज्ञी मनीपैकनिधी रराज ॥८॥ १ अर्थोशेन. ..

दशकुमारदशा। तस्याः कवर्येव मिलिन्दमाला प्रेयान् सुधांशुर्वदनं जिताजम् । जयध्वजः सस्त्रिझपोऽक्षियुग्मं श्वासः सुयोधो मलयानिलश्च ॥ ९ ॥ अध्वन्यहृद्भेदनमण्डलांग्रः स विद्रुमश्चाप्यधरोष्ठविम्वः । लावण्यपूर्णा विलसत्स्वरूपो जयिष्णुशङ्खो मृदुला शिरोधिः ।। १० ।। कोकाकृती पूर्णघटावुरोजौ वाहू समज्ये च बिसवतत्यौ । क्रीडावतंसाम्बुजकुमलोऽथ नाभिः सनाभिद्युनदीभ्रमस्य ॥ ११ ॥ जैत्रः शताङ्गो जघनं घनं च रम्भे जयस्तम्भसमे तथोरू। पदद्वयं छत्रसहस्रपत्रं शेषाङ्गकाण्यस्त्रितपुप्पकाणि.॥ १२ ॥ यदा सरोऽदाहि महेश्वरेण संरभ्य लालाटदृशोऽनलेन । समस्तवस्तूनि तदाऽस्य नूनमाश्रित्य यां पर्यणमन्भियेति ॥१३॥ यथानुकूलं किल पुप्पपुर्याः पुष्पपुणा श्रीमगधेश्वरेण । अनन्तभोगैः परिलालिता या समन्वभावीव मही प्रकामम् ॥ १४ ॥ पत्युर्विशांतस्य च धर्मपालः पद्मोद्भवोऽन्यः सितवर्मकश्च । इत्यभ्यवर्तन्त बुधा अमात्या मौलास्त्रयः शासनसंविधेयाः ॥ १५ ॥ अन्त्यस्य तेषां सुमतिश्च सत्यवर्मेति पुत्रौ सचिवस्य जातौ । त्रयः सुमन्त्रश्च सुमित्रकामपालौ तु पूर्वस्य सुता बभूवुः ॥ १६ ॥ मध्यस्य पुत्रावपि सुश्रुतश्च रत्नोद्भवश्चेति वभूवतुौं । सर्वे त एते वयसः क्रमेण बभूवुरात्मज्ञवराः कुमाराः ॥ १७ ॥ एतेषु धर्मी बहु सत्यवर्मा वुद्धा वृथात्वं जगतोऽखिलस्य । देशान्तरं तत्तदशेषतीर्थयात्राभिलाषाकुलितो जगाम ॥ १८ ॥ सुदुर्विनीतोपि स कामपाल उल्लङ्घय पित्रग्रजशासनानि । स्वैरं विवभ्राम भुवं समग्रां वाराङ्गनाषिगनटादिमित्रैः ॥ १९ ॥ वाणिज्यलाभज्ञतया व्यधासीद्रनोद्भवः संतरणं पयोधेः । शिष्टाः परे मन्त्रिसुता अतिष्ठस्तातेषु यातेषु दिवं यथादि ॥ २० ॥ ततः कदाचिन्नृप्राजहंसो दृप्तं रिपुं मालवदेशनाथम् । तं मानसारं बलभारनम्रीकृताहिराजोऽभिजगाम योद्धम् ॥२१॥ १ मण्डलामः खगः. २ बिगा धूर्तविशेषाः. - APAN

दशकुमारदशा।
नासीरगम्भीरनदन्मृदङ्गझाङ्कारघोषान्हठभिन्नकर्णान् ।
मुहुर्मुहु तकरं निशम्य दिशां करीन्द्रा बलवद्यघूर्णन् ॥ २२ ॥
स मालवेशोपि शरीरयुक्त इवाहवः संमुखतामवाप्य ।
इतो द्रुतं सन्जितसर्वसैन्यः प्रतिप्रहर्तुं तरसा ससार ॥ २३ ॥
तयोर्द्वयोः पाणिभिरायुधैश्च मिथःसमुन्माथितयोधयूथम् ।
क्ष्वेडारवाध्मातदिगन्तरालं भयंकर भूर्यजनिष्ट जन्यम् ॥ २४ ॥
नव्यप्रियाणां वरणोपयातदिव्याङ्गनान्तधिपटायितानि ।
रजांसि रेजुर्गगने शताङ्गतुरङ्गसंक्षुण्णधरोद्भवानि ॥२५॥
आस्कन्दने मालवभूमिपालं कृत्वा वशे स्वस्य पुनः कृपालुः ।
स राजहंसो विततार तसै विनिर्जितं तस्य समस्तराज्यम् ॥ २६ ॥
नित्यं महेशार्चनसक्तबुद्धेरपुत्रिणो जात्वथ तस्य कान्ता ।
लभस्व कल्पद्रुफलं नृपेण प्रातः शुभं स्वप्नमिमं लुलोके ॥ २७ ॥
तदादि तां वीक्ष्य गृहीतगी राजाप्युपाहूतसुहत्क्षितीशः ।
आत्मीयसंपत्तिमनोरथाहं चकार सीमन्तमहं महिष्याः ॥२८॥
अथैकदा पीठगतं सभायां दौवारिकस्तं निविवेद नत्वा ।
देव त्वदीयेक्षणजातकामो द्वारे यतिः कश्चन तिष्ठतीति ॥ २९ ॥
निजाज्ञया तेन सनीडनीतं संप्रत्यभिज्ञातनिगूढदौत्यम् ।
विसृज्य सर्वान्सचिवान्वितस्तं निगद्यतामित्यगदन्नरेन्द्रः ॥ ३० ॥
सोऽबूत लब्ध्वैकवधां महा_तुष्टान्मृडान्मालवराङ्गदां सः ।
उत्साहशाली सपदि प्रहर्तुं जितो भवन्तं पुनरभ्युपैति ।। ३१ ।।
श्रुत्वेत्यमात्या द्रुतमेव भूपं योद्धं रिपुर्दैवसहाय एति ।
श्रेयान् रणस्तेन समं न तस्माहुर्गाश्रयः कार्य इति न्यशासुः ॥ १२ ॥
तथापि दुर्दर्शतरोत्यमावेशोत्तरङ्गायितसर्वगात्रः ।
भासीद्रुतं वीर्यविशेषशोभी ग्रह कामो मगधाधिनाथः ॥ ३३ ॥
पुरुषदृप्यत्पृतनाभिष्टक्तः शिवप्रदत्तोत्तमशक्तिसारः ।
स मालवेशो बत मागधीयमक्लेशमेव प्रविवेश देशम् ॥ ३४ ॥

दशकुमारदशा। प्रहित्य विन्ध्याद्रिवनेपु. मन्त्रिसान्त्वैवरोधान्विरलप्रगुप्तान् । अरुद्ध निर्गत्य सुतीव्रगत्या प्रत्यर्थिनं द्राङ्नृपराजहंसः ॥ ३५ ॥ कुतूहुलोपागतखेचराणामाश्चर्यकारिण्यथ जायमाने । तां मानसारः समरे स्वशक्ति पुरः समुद्दिश्य रिपुं समास्थत् ॥३६॥ वरानुभावात्परमेश्वरीयादमूमुहत्सृदितसूतमात्रा। तीक्ष्णैः कलम्बैः शकलीकृतापि धराधिपं स्यन्दनयोधिनं सा ॥ २७ ॥ शीघ्रं समादाय ततः शताङ्गं यदृच्छयानाहतसर्वगात्राः। निष्प्रग्रहास्तन्महिपीशरण्यमरण्यमेवाविविशुस्तुरङ्गाः ॥ ३८॥ वली. समस्तं: मगधेश्वरस्य जयान्वितो मालवलोकपालः । : देशं समाक्रम्याचिरस्य शस्यपराक्रमः पुप्पपुरी शशास ॥ ३९ ॥ भर्तुविचित्तस्य गदाभिघाताददर्शनं सर्ववलक्षयं च । वनं द्विपा युद्धजिताः पलाय्यं प्राप्ता जजल्पुर्महिपीममात्याः ॥४०॥ उपागता मोहदशा नितान्तं कथंचन प्राप्य बत प्रबोधम् । ... चितानलान्तः स्वकलेवरस्य सद्यः प्रपातं समियेप राज्ञी ॥ ४१ ।। दैवज्ञदृष्टस्य धरैकभर्तुर्हताखिलारेरुदरस्थितस्य । उत्तया सुतस्यापदनिश्चयाच नरेशितुस्तां सचिवा न्यपैत्सुः ॥४२॥ अथैकदा सा विजने निशीथे शोकाकुला क्वापि गलं कुचन्ती। संबोध्य भूपं दयितो भवान्मे जन्मान्तरेऽप्यस्त्विति पर्यदीव्यत् ॥४३॥ तत्रैव दूरात्किल नातिदूरे प्रोत्तीर्णमूझे मगधेश्वरः सः । आकर्ण्य राज्याः करुणान्विलापान्क्षरच्छिरोऽस्त्रः समजूहवत्ताम् ॥४४॥ ससंभ्रमं शब्ददिशाऽभिगम्य राज्ञी चिरात्स्वामिनमीक्षमाणा । धरण्यधीशं सचिवान्समस्तानाकार्य. संदर्शयति स्म हर्यात् ॥ ४५ ॥ प्रशंसितादृष्टविचित्रचेष्टो व्यचष्ट. तान्क्षोणिपतिः क्रमेण । साष्टाङ्गपातं विहितप्रणामान्दुरन्तमात्मीयमुदन्तजातम् ॥ ४६ ।। निवेशनीतस्य भृतवणस्य पत्युनृणां संपदनित्यतोक्त्या । आश्वासनं चक्रुरमात्यलोका रामादिवृत्तानि निदर्शयन्तः ॥ ४७ ॥ १ मूच्छितस्य.

दशकुमारदशा। सजा तपःसिद्धसमस्तकामं मुनि ततः कञ्चन. वामदेवम् । . प्राप्तातिथेयः समुपेत्य जातु राज्याभिलापी प्रणमन्वभापे ॥ १८ ॥ मां मालवो देववलेन जित्वा निपेवते हन्त मदीयराज्यम् । कृत्या तपो दुस्तपमप्यहं तद्भवत्कृपातो तमरि क्षणिप्ये ॥४९॥ श्यता शरीरं तपसा कृतं ते राज्ञी प्रसोता तनयं रिपुघ्नम् । कालं प्रतीक्षत्र च माकुलोभूर्मुनिः क्षितीशं निरदिक्षदित्थम् ॥ ५॥ एतने मिथ्येति तदेव वाण्या व्याहार्यनीचैर्गगनं चरन्त्या। प्रसन्नता अपि भूविनेता मुनेरतिष्ठद्वचनं वलम्व्य ।। ५१.॥ अथ स्फुरन्मेदुरितोदराया सुखोपयाते .प्रसवाहकाले । समुच्छसन्तं शुभलक्षणीधैः राज्ञी सुतं सां वसुमत्यसूत ।।.५२. तं ब्रह्मतेजःपरिभूतवेधसा पुरोधसा कारितजन्मसंस्क्रियम् । यायोचितैराभरणविराजितं नाम्ना नृपो व्याहृत राजवाहनम् ॥ ५३॥ अभूत्तदैव प्रमतिश्च सामतः सौमन्त्रिरासीदथ मित्रगुप्तक । जनितथा सौश्रुतिराप विश्नुतः पुत्रान्विता इत्यपि मन्त्रिणोऽभवन् ॥५४॥ अथो कदाचित्स्फुटराजचिहमेकेन सर्वातिकृतप्रसादम् । कचित्कुमारं मुमसौकुमारं तपस्विनाख्यायि समर्प्य राज्ञे ।। ५५ ॥ समित्कृतेऽरण्यगतेन राजन्काप्यक्षि दीना रुदती मया स्त्री। : कि कारणं रोदिपि निर्जनेऽत्र पृष्टेति मृष्ट्वा नयनाम्बु साऽख्यत् ॥१६॥ तनुजरिः सद्द पुष्पपुर्या प्रहारवर्मा मिथिलानरेन्द्रः । मित्रस राज्ञो मगधेश्वरस्य कलत्रसीमन्तदिदृक्षयाऽगात् ।। ६७ ।। आराधनप्रीणितकालकण्ठं परापतन्तं सहसैव योद्धम् । प्रत्यग्रहीन्गालयमेदिनीशं प्राग्विद्विपं खं मगधाधिनाथः ॥ १८ ॥ माहाय्यक संविदधत्ममीके सख्युर्हतप्रायसमग्रसैन्यः । प्रहाखमा जयिनाऽहितेन कृपाविसृष्टः स्वपुरं जगाम ॥ ५९॥ नृपसतोऽरण्यपयेन गच्चन्पुलिन्दसेनाभिमुखो जनित्या । कृलादगापः परिरक्षितान्तःपुरः प्रवेगेन पलायितोऽभूत् ॥ ६॥ पांगम्, ":

८६ दशकुमारदशा। धात्रीत्वतो राजतनूजयुग्ममहं मदीया च सुता दधत्यौ । प्रधावमानं तमनुप्रयातुं नोच्छूनपादौ भवतः स शक्ते ॥ ६१ ॥ ग्रावावटे व्याघ्रभयात्पतन्त्याः करान्ममैकः स्खलितः कुमारः । कस्यापि दैवात्सविधस्थितस्य क्रोडे निलिल्ये कपिलाशवस्य ॥ ६२.॥ प्रक्ष्वेडनैस्तं कुणपं कृपन्तं शार्दूलमालभ्य शितामफालैः । हा हन्त कण्ठान्तरलम्बिचापा उपानयन्कापि शिशुं किराताः ॥६३|| अप्राप्तपुत्रीं दृषदाहताङ्गीमावेश्य मां वेश्मनि मेपपालः । . वन्योपचारैरखिलप्ररूढव्रणां कृपाक्रान्तमना अकापीत् ।। ६४ ॥ तस्यैव भूयोप्यथ भूमिभर्तुः खस्था समीपे ब्रजितुं लपामि । प्रवञ्चिता किं च सहायतोऽहं तथापि यास्यामि यथातथैव ॥ ६५ ॥ अहं यती तामवलोक्य राज॑स्त्वन्मित्रपुत्रस्य गवेषणाय । विपन्निमित्तं कलयन्विषादं मेनात्मजामन्दिरमेकमापम् ॥ ६६ ॥ खङ्गेन भूरुद्धपदं शरैर्वा दुलम्वितं कुक्कुरवालदृष्टम् । एनं हतं धुर्युपहार्य देव्या लप्स्यामहे सर्वजयस्य सिद्धिम् ।। ६७ ॥ मिथो ब्रुवाणानिति तत्र भिल्लान्समभ्युपेत्याहमुवाच वाचम् । वृद्धस्य मे विस्मृतमार्ग एकः शिशुर्वनेऽस्मिन् किमदर्शि भद्रैः ॥६८॥ ते दारकं दर्शितदीर्घदैन्यं दृढप्रमाणा द्रुतमेव मेऽदुः । स्वीकृत्य तं प्रात्तहिमोपचारमानीतवानस्मि भवत्समीपे ॥ ६९ ॥ राजाऽपि मित्रव्यसनैकहेतुं शोकं जहत्तत्लुतलोकनेन । आय हर्षादुपहारवर्मनाम्ना तमात्मौरसवत्पुपोप ॥ ७० ॥ स्नानाय तीर्थ सुकृतैककाले गच्छन्नृपः पकणमार्गपार्धात् । संबिभ्रती कंचन डिम्भमङ्के वीक्ष्य स्त्रियं कौतुकतोऽन्वयुत ॥ ७१ ॥ न संभवत्यर्भक एष वासु त्वद्वंशजः क्षमापसहक्षलक्ष्मा । कस्येक्षणानन्दकरः प्रचक्ष्व निनोऽभवत्केन च हेतुना ते ॥ ७२ ॥ निषादचम्वापहृतस्य पूर्व पथाऽमुनैव व्रजतः स्वराष्ट्रम् । प्रोचे स्वभा भरणाय दत्तं तं वालकं सा मिथिलेश्वरस्य ॥ ७३ ।। १ उपमातृभावेन. २ वाले. .

दशकुमारदशा। ८७ सान्त्वेन दानेन च तोपिताया आदाय तस्याः सुहृदोन्यपुत्रम् । नृपोऽभिधानादपहारवर्मेत्याभापमाणो ददिवान्महिष्य ।। ७४ ॥ द्विजातिरेको मुनिवामदेवशिप्याग्रणी॥त्वपि सोमदेवः । शिशु पुरस्तात्पृथिवीधवस्य निधाय कंचित्कथयाम्बभूव ॥ ७५ ॥ कृत्वाप्लवं लडितरामतीर्थः प्रयानहं काननवीथिमध्ये । ' संप्राप्तनेत्राप्रमृति सबालां व्याजह्रिवान्कांचिदहं महेलाम् ।। ७६ ।। एकाकिनी माणवकं वतामुं समुद्वहन्ती स्थविरे विभीस्त्वम् । कस्मात्प्रयासेन विभीपणायामस्यामटव्यां परिवम्भ्रमीपि ॥ ७७ ॥ साऽख्यन्मुने कश्चिदिहास्ति कालाभिधो महान्दूरतरोन्तरीपः । तत्र न्यवात्सीबहुवित्त एकः श्रेष्ठो विशां जातिपु कालगुप्तः ।। ७८ ॥ तन्नन्दिनीं चन्द्रमुखीं सुवृत्तां वाणिज्यहेतोः समभिप्रयातः । उपायत प्रेक्षितसद्गुणश्री रत्नोद्भवो मागधमन्त्रिसूनुः ॥ ७९ ॥ तरुण्यथो तातविशेपमानसमचिंतस्वीयधवा सुवृत्ता । कालक्रमात्संविहितप्रपीनवक्षोजनीलाग्रमलब्ध गर्भम् ॥ ८ ॥ रत्नोद्भवः सोदरसंदिदृक्षावशात्कथंचिच्छशुरं प्रसान्त्व्य । आरूढनौकः :: सह चञ्चलाक्ष्या तामञ्जसा पुप्पपुरी प्रतस्थे ॥ ८१ ॥ नावि नुडन्त्यां पयसां निधौ तां धात्री कराभ्यां दधती सगर्भाम् । समभ्यगां तीरभुवं प्रलम्बं यदृच्छयैकं फलकं वलम्ब्य ॥ ८२ ॥ मध्येसमुद्रं समभून्निमनः कुतोप्युपायादथवाप तीरम् । रनोद्भवो मित्रवृतस्तदानीं चेतामि वै किंचन नाहमेतत् ।। ८३ ॥ क्लेशस्य काष्ठां परमां गतास्मिन्चने सुवृत्ताऽद्य सुतं प्रसूय । एकान्तभीता पुरगामिमार्गमन्वेपितुं मां द्रुतमादिदेश ।। ८४ ॥ तस्याः समीपे प्रसवाकुलाङ्गयाः शिशुं विहायानुचितं प्रयाणम् । इतीव तं संकमुका दधाना लनंधयं विष्वगिह भ्रमामि ॥ ८५ ॥ १परिणीतवान्. २ चलप्रकृतिः. ८ ८८ दाकुमारदशा। अत्रान्तरे दृष्टवनद्विपा सा शीघ्र प्रदुद्राव निपात्य बालम् । बल्ल्या उपस्तम्बमहं प्रविश्य परीक्षमाणश्चिरमध्यतिष्ठम् ॥ ८६ ॥ क्षीवः करीन्द्रः पतितं पृथिव्यां शिशुं छद्मासमियोपगृह्य । अभिव्रजत्केसरिवीक्षणेन भीतो निचिक्षेप दिवोन्तराले ॥ ७ ॥ वलीमुखः प्रांशुमहीरुहस्थः फलस्य बुध्या चिरजीवितं तम् । आदाय दो च्यवमानमभ्रायमुञ्चत स्वान्तिककाण्डमूले ॥ ८८ || कीशः क्षणात्वापि ततधुकृर्दै सेहे विपादं निखिलं कुमारः । निहत्य नागं प्रययौ मृगेन्द्रः स्फुटोऽभवं गुल्मतलादहं च ॥ ८९ ॥ अपश्यतान्विष्य चिरेण धात्री मयोपनीतं द्रुमतोऽवतार्य । गृहाण राज॑स्त्वमिमं शिशुं तं शिष्टिवरीवर्ति गुरोरपीयम् ।। ९० ॥ कथं स रत्नोद्भव आप जन्म ध्यायन्निति क्ष्मापतिरद्भुतात्मा । विपादसंतोपकर तमुक्त्वा पुप्पोद्भवं प्रादित सुश्रुताय ॥ ९१ ॥ अन्येचुरेकं पृथुकं गृहीत्वा राज्ञी प्रपन्नां निजसंनिधानम् । संपृष्टवान् प्रेमपरिप्लुताक्ष एपोस्ति कुत्रत्य इति क्षितीशः ॥ ९२ ॥ जगाद सा भूमिप कापि दिव्या निशीथमध्ये पृथुलेक्षणैका । सुनिर्भरं सद्मनि निद्रिताया ममाविरासीत्सहसा पुरस्तात् ॥ ९३ ॥ संगृह्णती बालकमंसदेशे प्रबोध्य संवोधकनिस्वनैः सा । ललाटसंलग्नकराञ्जलीकं कृतप्रणामेति समब्रवीन्माम् ॥ ९४ ॥ यक्षीं तवामात्यसुतस्य कामपालस्य कान्तां मणिभद्रपुत्रीम् । तारावली नाम पदोपचर्याविधायिनी देवि मनुप्व मां त्वम् ॥९५ । त्वदीयसूनोरिह भाविसर्ववसुन्धराधर्तुरनल्पकीर्तेः । सेवाकृते यक्षपतेनियोगादानीतवत्यस्मि शिशुं स्वमेनम् ॥ ९६ ॥ ततो मया विस्मितया नितान्तमादाय मुग्धेन्दुमुखं किशोरम् । विसर्जिता सत्कृतिहृष्टचित्ता साऽलक्ष्यतां तत्क्षणमेव लेभे ॥ ९७ ॥ शोचन्निजामात्यसुतस्य यक्षपुन्या समं संगमनं क्षितीशः । नाम्नार्थपालं पृथुकं तमुक्त्वा ददे सुमित्राय पुरःस्थिताय ॥ ९८ ।।

दशकुमारदशा। जात्वेकदा कश्चन वामदेवशिप्यो द्वितीयस्तपसाऽद्वितीयः । एक कुमारं परिभूतमारं कुतोप्युपानीय नृपं न्यगादीत् ॥ ९९ ॥ तीर्थप्रसङ्गेन पुरा विभोऽहं कावेर्युपान्तेप्ववतिष्ठमानः । आरोग्य पोतं रुदती निजाङ्के विलोक्य काञ्चिज्जरतीमवोचम् ॥१०॥ पाकोऽस्ति कस्यायमभीष्टपाकस्त्वं नाम कार्पण्यविडम्बिता का । किमर्थमायातवती वनेऽस्मिन्किञ्चानुतापस्य किमस्ति बीजम् ॥ १०१॥ खशोकशङ्कद्धरणक्षमं व परिप्लवाक्षी समवेक्ष्य सा माम् । नेत्रोदकं संजहती कराभ्यां समभ्यधाद्विप्रतिसारहेतुम् ॥ १०२ ॥ एकः कनीयान्नृपराजहंसामात्यस्य सूनुः सितवर्मनाम्नः । तीर्थानि पश्यन्नखिलानि सत्यवर्मा द्विजो नीवृतमेनमायात् ॥ १०३॥ काल्याहृयायां स निजाङ्गनायामनाप्तपुत्रो भगिनीं तदीयाम् । गौरी सुगौरी ललनामुदुह्य तस्यामपत्यं समपद्यतैकम् ॥ १०४ ॥ असूयया सा भृशमेककाले मयोपमात्रा सहितं शिशुं तम् । काली समानीय कुतोऽपि दम्भादस्यां तटिन्यां न्यमिनोजवेन ॥१०॥ तत्रान्तिके संवहतो द्रुमस्य कस्यापि शाखासु निवेश्य वालम् । नितान्तकप्टेन ममातरन्त्याः पदं ददंशाऽसितद्वंदशूकः ॥ १०६ ॥ यदृच्छया हन्त ममाश्रयोऽयं वृक्षः सदेशेऽत्र तटं समभ्येत् । गरान्मृतायां मयि चेह कोऽमुं शिशुं प्रपातेति विचिन्तयामि ॥१०७॥ उक्त्वेति तस्या लघु मूर्छिताया हर्तुं विपं मन्त्रवशादनीशः । नयन्निकुञ्जादहमौपधी साग्व्यलोकयं तां परिमुक्तजीवाम् ॥ १०८ ॥ तत्रैव दग्ध्वाऽनलतस्ततस्तां शोकप्रवेगाधिकदूनचित्तः । भूमौ लुठन्तं मृदुहारिगात्रं कारुण्यपात्रं दधिवांश्च डिम्भम् ।। १०९॥ भवान्हि पाता निजमन्त्रिनप्तुर्मयेति निर्धार्य धराधिनाथ । अजानतेतजनकाग्रहारं तवोपकण्ठे समनायि सोऽयम् ॥ ११०॥ १विप्रतिसारश्चिन्ता.

९० दशकुमारदशा। राजा विपीदद्ददयोऽति सत्यवर्मस्थितेः सम्यगनिर्णयेन । तं सोमदत्तं समुदीर्य तोकं व्यधत्त पुष्टौ सुमतेरधीनम् ॥ १११ ॥ इति संगतेष्वनुभवन्ननेकधा शिशुकौतुकानि तनयेषु मन्त्रिणाम् । शुभचौलिकोपनयनादिसंस्कृतीः सकलाः क्रमादधृत राजवाहनः ११२ सकलान्कलागमविदः कुमारकान् कुशलान्विलोक्य विविधायुधेपु तान्। रिपुलोकदुर्लभतरोऽहमित्यगाद् हृदि राजहंसनृपतिः परां मुदम्॥११॥ इति श्रीकविमल्लभहरिवल्लभकल्पितायां दशकुमारदशायां प्रथमः सर्गः १. १ इयानेवायं निर्मितःप्रवन्धः पुनरपि निर्मितीभवितुं शक्तः परन्तु चर्वितचर्वणविशेष एवैष इति न तथा युक्तः ।

श्रीकविमलभहरिवल्लभरचितानि मुक्तकसूक्तानि

No text on this page.

अथ श्रीकविमलभहरिवल्लभरचितानि मुक्तकसूक्तानि ॥ श्रीहरिर्जयतितराम् ॥ प्राप्ता मुन्दरि साम वेद तनुताचेतोहरे सर्वथा लोके केशव सामवेदतनुतां बिभ्रत्त्वमेव श्रुतः । सामानीत्ययि कथ्यतेऽद्य कमले नो वेद्मि धूर्त त्वया काऽमानीति रमानिरुद्धवचनः सिद्धि क्रियान्मध्वरिः ॥ १ ॥ त्वां लब्ध्वा किल किंचितं शठ मया नानाङ्गनालम्पट मां लब्ध्वा किलकिश्चितं हि चतुरे वाढं त्वया संचितम् । केलि त्वं तु करोपि हन्त विदधे नो पट्पदं मूर्ध्यह 'कुर्वन् सिन्धुसुतां प्रहृष्टवदनामेवं हरिः पातु वः ॥ २ ॥ संजातोऽस्यधुना तु हन्त नितरां त्वं काली-लालसः क्रीडायामलसोऽस्मि कस्य नितरां काकस्य वग्धि प्रिये । चाचो मे धर्टनाभिरिष्ट कुरुपे व्यर्थाः कुतस्वं सदा नाभिर्नो घटवन्ममेति विजितश्रीः श्रीपतिः स्ताच्छ्रिये ॥३॥ देवि त्वं द्विपदा दधासि न रुचि युक्ताऽप्यभिः पाणिभिः शोभे कुंजरदाम्यहं न दधती वाष्टकं भोः कथम् । करमाद्वैमवति ब्रवीप्यपरथा नन्वसि युक्ता रथैः कुर्यान्मे गिरिशः शमित्यगभुवा वक्रोक्तिविस्मेरितः ॥ ४ ॥ १ दशम भावप्वेकतमोऽयं स्त्रीणां भावविशेषस्वल्लक्षणादिकं सर्व नाट्यशास्ने प्रति- पादितमतस्तत एवावगन्तव्यम्. २ काकलीति कले सूक्ष्मे तत्र लालसा यत्स. ३ क- ल्पनाभिः.४ दीपदी यस्साः.५ अन्यथा.

मुक्तकसूक्तानि । अवालोकय चण्डिके हरिरयं मन्दो दरी सेवते स्थाणो रावणयोपिदन्न हरिणा जुष्टा व संवीक्ष्यते । बाढं चापले-तां दधास्ययि धनुर्वल्लीं दधानाऽधुना दृष्टाऽहं कथमित्युमापरिजितः शोऽनुकूलोस्तु नः ॥ ५ ॥ नित्यं हन्त निपेवसे बहुतरां त्वं मातुलानी विभो नो मे कश्चन मातुलोऽस्ति दयिते सेवेय यत्तस्त्रियम् । आः प्रोक्तो विजयाकृतेऽसि कुमते नो त्वद्वयस्यामपि ह्रीतां संविधच्छिवामिति भृशं प्रीतान् भवो वः क्रियात् ।।६।। अन् रायत उत्तमाङ्गचिकुरेप्वेपा मम स्वर्णदी सत्यं शीर्पकचेषु भूरि पयसां भारायते ‘सा तव । मैवं गच्छति हारतां पशुपते चक्रत्वमेवैति हा पार्वत्येति पराकृतः पुररिपुः प्रीतिं परां वः क्रियात् ॥ ७ ॥ हेमाङ्गी कुरु शैलराजतनये सद्यः प्रसादं मयि प्रोत्तिष्ठाऽपसर त्वयि प्रकुरुते का वा प्रसादं शठे । अज्ञानाऽसि विलासिनि त्वमधिकं वाक्ये मया व्याहृते नास्म्यज्ञेति तु सत्यमेव शिवयेत्युक्तः शिवो नम्यते ॥ ८ ॥ प्राप्ता कातरता त्वया ननु यदा शुम्भावभूवाहवः काले तत्र मया न काऽपि तरता प्राप्ता ततो माशुचः । तथ्यं तर्हि तु साध्वंसं गत उमे नाहं तदा साधुभिः संजातोऽहमसंगतोऽवतु शिवामेवं हसन् वः शिवः ॥ ९ ॥ अद्य त्वं मदनागमेन मुदितः शूलिन् समालक्ष्यसे नूनं जातुचिदप्यहं न मुदितः कान्ते तवाऽनागमात् । प्रद्युम्नात्तु तथाऽसि भोः प्रचुरतो द्युम्नान्न चाऽपि प्रिये जिह्मोत्या परिहासयन्निति शिवां शर्वोऽस्तु हर्षाय वः॥१०॥ ..१ . सिंहः. २ चपल एवं चापलस्तद्धर्म. . ३ परिजितो ह्यनुकूलः शीघ्रं भवति. ४ भङ्गाम्. ५ तस्या भङ्गाया एव कृते. ६ अपां हार इवाचरति. ७ शुचं मा कुरु. ८ भयम्. ९ वक्रोक्त्या. १० हासको ह्यपेक्षितो हर्पयेत्यानुकूल्यम्. .

मुक्तकसूक्तानि । देवि त्वं सहजेऽपि हा परमदारुण्याऽसि नर्मक्रमे नो मेऽन्यस्य मदेन काप्यरुणता संजायते जातुचित् । विद्वेयं कुरुपेऽयि हन्त विदधे पं विदः कस्य वा पार्वत्येति पदे पदे परिजितः प्लुप्याद्धरः किल्विपम् ॥ ११ ॥ सर्वेषां ध्रुपदां गिरीन्द्रतनये त्वं सूपकारिण्यऽसि दृष्टाऽहं शठ कुर्वती वद कदा सूपं सुधाधायिनाम् । मुग्धे गोपनकारिणीत्यभिहिता नेप्टो गवां मे पनः पार्वत्येति हतोत्तरः पशुपतिः श्रेयांसि पुष्णातु वः ॥ १२ ॥ स्वर्गङ्गां शिरसा श्रयामि सततं संपश्य शैलात्मजे न स्वर्ग न च गां त्वदीयशिरसि प्रेक्षेऽधुना धूर्जटे । न व्याहारॅमहं त्वया कुटिलया कुर्वे नवं भोजनं साधं हन्त मया प्रकुर्विति शिवाप्रोक्तः शिवः पातु नः ॥१३॥ अम्मोजाक्षि निरीक्षसे त्यमधुना हन्ताऽपरागा भृशं नागश्चैकमपि सारामि कतरपे द्वितीयं पुनः । अत्रास्ते गिरि वक्रता तु सुतरां सर्वत्र वायगा इत्थं भूधरनन्दिनीविहसितः शम्भुः शुभायाऽस्तु वः ॥ १४ ॥ वार्ड दारकैलालसः साररिपो त्वं लक्ष्यसे सांप्रतं नूनं नास्म्यलसः कदाऽपि ललने त्रीणां कलासु त्यहम् । कतुं त्वं कुशलोऽसि भूरि पदविच्छेदं पदव्याश्छिदं कर्तुं नालि पटुः शिवां विहसयन्नित्यं हरः पातु वः ॥ १५ ॥ त्वत्कारुण्यकदम्बकाजगदिदं जीवत्यशेपं विभो नाऽरुण्येन जगत्कदाचिदपि मे जीवत् प्रिये कल्प्यते । वाक्यं नाथ तवोनिमडुविधं पानीयकं वीचिम- नोवाक्यं भवतीत्युमां परिगर्दैव्यतः समक्षोऽस्तु वः ॥ १६ ॥ यम्दात इति मीकिक नाम. २ पनः सः. ३ अनुरः सर्व करोतीति तार• पम्. पि.भा. टपाटो हरतिर्वमनाक. ५ अपगतो रागः प्रेमा यसा.. ६ याचि, ७ दार प्रेमालया यस.८मन्यविशेषपु. १६पक्षानां यक्षस रामक्षता व्यपेक्षित य.

मुक्तकसूक्तानि । कान्ते मन्थरगामिनी मम पुरो हंसीव संशोभसे हनम्यग्रे तव कं न्वहं पशुपते मामेनमालोकय । कृत्वा मय्यनुकम्पनं प्रियतमे निर्मुच्यतां मत्सरः कि मे त्वत्सरसेति पर्वतभुवा प्रोक्तः शिवोऽस्तु श्रिये ॥१७॥ संजाताऽच-तरङ्गसंहतिरवा गङ्गेययाऽस्यद्य किं नो कश्चित्तव रङ्गसंहतिरवैः शंभो ममार्थः श्रुतैः । न क्रोधः क्रियतां तयैव सुमनोनद्या झषोऽधः कृतो मानिन्येत्युमया कदर्थितवचाः क्षेमार्थमीशोऽस्तु नः ।। १८ ।। यः क्लृप्तां हरिवल्लभेनं कवनोत्तीर्णेन गौरीशयो- रेता भक्तिभृतं पठिष्यति मुहुर्वक्रोक्तिपद्यावलीम् । सद्यः स्यात्सुकृती कृती सं वचसां चातुर्यधुर्यः परं सम्यक्प्राप्तसुखाप्तनिश्चलमनोवृत्तिप्रवृत्तिस्तथा ॥ १९ ॥ प्रत्येकनितम्बिनि श्रितनिजप्रत्यग्रमायाकृति श्रीकृष्णं नु विलोक्य षोडशसहस्रान्तःपुरस्यान्तरे। आत्मीये नवकोटिसंमितवधूवर्गे सदा वर्तते यः प्रत्येकपुरन्ध्रि भैरवतया रुद्राय तस्मै नमः ॥ २० ॥ तमहं प्रभावमतुलं लोकातीतं नमामि गिरिशस्य । येनाऽजीवत्पुनरपि शरीरमप्यन्तरा मदनः ॥ २१ ॥ अलिस्फूर्जत्केशं विविधभूतवेशं ब्रजविभुं खगुयद्दद्देशं धृतसुरनिदेशं यदुसुतम् । उदन्वत्कन्येशं शयनमतशेष किमपरै- हृषीकेशं भक्त्या चिदुदयविशेषं भज़ मुहुः ॥ २२ ॥ ४ १ अश्रूणां तरङ्गसंहते रवोस्ति यस्याः. २ सुमनसां देवानां नद्या गङ्गया. ३ पुण्यशाल ४ नवकोव्यस्तु चामुण्डास्तावद्रूपाणि शङ्करः । कृतवास्ताश्च भजते पतिरूपेण भैर इति प्राचीनं तन्त्रपद्यमनुसृत्य भगवतो महेशस्य स्तुतिरूपोयमुत्प्रेक्षालङ्कृतः श्लोकः.

९७ मुक्तकसूक्तानि । अशेपैविधयकतानुभवकर्तुकामे सदा नितान्ततरनिश्चले मधुभिदः श्रियश्वाक्षिणी । शुभानि तनुतां मम स्वबहुसत्वशक्तेमिथः पराभिगमरक्षणं विदधती इवाऽनारतम् ॥ २३ ॥ रङ्गस्य बहिः सहसा पुरा न्ययुध्यत गजेन यः साकम् । नमति मुहुः कविमल्लः कसैचन दिव्यमलाय ॥ २४ ॥ बद्धाञ्जलिस्तुबद्भक्तसदिच्छाजालदोहनः । . मुदेऽस्तु दिव्यरूपो नः स कश्चिद्वालमोहनः ।। २५ ॥ श्रीराधाकरकमलयुगधारितनववनमाल । मन्दहासनन्दितवदन जय जय नटवरलाल || २६ ।। विजयप्रिय विजयं कुरु-सफलय संचिन्तितानि सकलानि । पश्य पुरतः प्रपन्नं पारं प्रापय च दुःखानाम् ॥ २७ ॥ नारायण निखिलाभिनुत निजजननिचितविनोद । मिप मां प्रेमदृशाऽनिशं भुजचन्दनविक्षोद ॥ २८ ॥ नामये तब पदाजयोः शिरः क्षामये भृशमनौचितीगिरः । कामये स्वकविताप्रकाशनं मामये कुरु कृपैकभाजनम् ॥ २९ ॥ श्रद्धासदासमधिकार्चनसुप्रसन्न- वाग्देवतावरवितीर्णवरप्रसादाः । श्रीमन्मदीयगुरवोऽत्र सुजीवजीव- जीवातवः सुकृतशास्त्रदृशो जयन्ति ॥ ३० ॥ एकस्य चरमसितं च परस्य पीतं वर्णः सितस्तदितरोऽथ हलं तथाऽरैम् । शग्नं करे च मुदमुत्पनात्मजायाः पुत्रौ विचित्रचरिती किल वासुदेवौ ॥ ३१ ॥ पराया. २ यस्य दापा इ.प्र. ३ परसिमभिगमः रामः तदक्षण. ४ मनुष्यस्य इस्सिना गर्म नियुद्धे जयो दिव्यतामेय याधिपुष्णाधि. ५ पूर्णतासाधनः, ६ भुजयो। इपितचन्दनस विक्षोदो यस्त. ७ क्षानं धान्ति व्याचटे इति सिद्धिः. ८ अरं . एनस सपनारममाया मुद् परसामुद।

९८ मुक्तकसूक्तानि। नटयन्तमहिं मूर्ध्नि नटन्तमहिमूर्धनि । गङ्गेशं यमुनेशं वा कञ्चिद्देवं भजामहे ॥ ३२ ॥ काकली गण्डभृङ्गाणां भक्तैर्वाधधियोह्यते । यच्छुण्डादण्डनटने स वोऽवतु गजाननः ॥ ३३ ॥ अशेषविविधार्थोघं स्वाऽभिन्नं हि करोति या । प्रधानशक्ति तां देवी श्रीमती भारती श्रये ॥ ३४ ॥ क आश्रयः कवित्वस्य शारदाशरणं महत् । माहात्म्यमम्बिकायाश्च तृणं तत्तु मरुद्वशम् ॥ ३५ ॥ आरोहावसरे सुचारुगमनप्रख्यातिजाँतस्मयो- द्रेकं हंसमदभ्रसिञ्जनरवव्याजेन मञ्जीरयोः । उच्चैः श्रावयतो मुहर्मुहुरलं यौ सिंहनादानिव श्रेयस्तौ कविसंहतेर्वितनुतां श्रीशारदायाः पदौ ॥ ३६ ॥ मातर्मणिमयमाले मयि मूर्खे महति मुक्तमदे । कविताकरणकलां कुरु कमलासनकन्यके कामम् ॥ ३७ ॥ अपि त्रैलोक्यमाता यां श्रूयते मेनकात्मजा । अपि काली च या गौरी देवी कामपि तां भजे ॥ ३८ ॥ मञ्जीराभाधवलिततनुश्रीजितेर्शानवाह- स्यांसे शत्रोर्महिषवपुषः क्रोधदत्तो ययाङ्गिः । उक्षारूढत्यमरनिकरैस्तत्प्रभृत्येव यस्या नामख्यातिस्त्रिजगति कृता साम्बिका वोऽस्तु सिद्धचै ॥३९॥ एकस्मै कस्मैचन निखिलजगद्भवतमःप्रतीपाय । दशशतवर्तीर्दधते नमांसि मम सन्तु दिवसदीपाय ॥ ४० ॥ १ हरिहरान्यतरम्. २ स्वया वाचकतया अभिनं. ३ यत्र देव्याः कृपा तत्रैव कवित्वं इति कृपैव गरीयसी तस्याः. ४ स्मयोऽवलेपः. ५ कमलासनो विधिस्तस्य कन्या ब्राह्मी ब्रह्मणोऽपत्यं स्त्रीति निर्वचनमपि. ६ वृपभ.

मुक्तकसूक्तानि । भोः प्रथमं सर्वेषां श्रीहनुमन्तं नमस्कुरुत । संचारकाः प्रसाद्याः कृत्यज्ञैः प्रायशः काले ॥४१॥ आस्ते कश्चरितानि शक्तिसहितो मायापिनां वेदितुं सेवन्ते न हि यानि जातु सरणि संभावनाया अपि । कंसक्षोणिभुजा पुरा विरचिता नाना प्रबन्धाः परं- त्यासन्नन्धदृशो हि रक्षकहताः कृष्णावतारक्षणे ॥ ४२ ॥ सहस्रबाहुः खलु सावरोधः क्रीडन् यदा मेकलजाप्रवाहम् । मुमोच रुद्धा सहसा तदा तेरुस्तरां तीरतसँस्तरण्यः ॥ ४३ ।। वनद्विपैः शोणतटाद्विदीर्णात् पूरेऽम्मसां वात्रजितुं प्रवृत्ते । जलावृतास्तान् सरिति क्रमेण तेस्तरां तीरतलँस्तरण्यः ॥ १४ ॥ यदााराजः खलु जामदग्न्यतः संग्रामविद्यां छलतः पपाठ सः । तत्तस्य बुद्धा पुनराह देशिकः काले न विद्या सफलीभविष्यति ॥४५॥ लकाधिपाशावलतः प्रदीपिते नक्तंचरैः पुच्छमुखे हनूमतः । तपःप्रतापाजनकात्मजन्मनो हुताशनश्चदनपङ्कशीतलः ॥ १६ ॥ चन्द्रोपलाचितविशङ्कटगर्भचुल्ही- शीर्पस्थपात्रपरिवर्तनजातपातम् । साश्चर्यमीक्षितमभीरनवीनवध्या हैयमचीनमनले कठिनं बभूव ।। ४७ ।। गृहीयां परकामिनी कथमहं दुष्यन्तवाणीमिमां श्रुत्वा प्राप शकुन्तला मलिनतामास्ये यदा चिन्तया। दूनान्तनितरां तदा सकरुणं चक्रन्द सा गौतमी हा कष्टं किमकाण्ड एव तममा तारापतिनस्यते ॥ १८ ॥ तम्मारमारिने तर रादप से रांगत योधयन्ति. २ गमस्येयम्. ३ मेफलमा गर्गा मीसमेन मनिगम, ४ भारतप्रसिद्धः सूगपुनः फर्नी दुर्योधनमित्रम् तदेता. पंमा भारते पिसारनोरया.५रामस्नेयम्. ६ रामरयम्. ७ विशाल: मध्यो यम्माः गा. मनाए गन्तला प्रेमयितुं नाति प्रामानिमन मान्दालं यं मीप गला दी. ९ रामानेयम्, .

भी खरत गच्छय ज्ञान मन्दिर, जापुर १०० मुक्तकसूक्तानि । स्थित्वा स्तोकदिनानि पुष्करतटे गत्यां कृतायां पुरः किञ्चिन्निर्जरनिम्नगापरिसरो दूरे यदा तस्थिवान् । यात्री कोऽपि मनोहतः प्रलपनं चक्रे तदानीमिदं हा कष्टं किमकाण्ड एव तमसा तारापतिर॑स्यते ॥ ४९ ॥ आरामेऽथ दवीयसि क्वचिदपि प्राप्ता वियुक्तेन्दुना स्वच्छन्द विहरेति भर्तृभणिता स्वास्थ्याय तौरा यदा । एनां तत्र च मूच्छितां पितरवैदृष्ट्वा वयस्याऽक्रुश- द्धाकष्टं किमकाण्ड एव तमसा तारापतिर्यस्यते ॥ ५० ॥ कालेनाद्य हि भूयसाऽभिलपितः पूर्णांशमानो महान् निस्सीम प्रसृतेषु रश्मिपु सुधा सर्वाऽद्य हि व्यापिनी । प्रोद्गाढा सुचिरं निजाद्य हि तथा योपित्प्रसत्यै स्थिति- ही कष्टं किमकाण्ड एव तमसा तारापतिग्रस्यते ॥ ११ ॥ अत्युत्कण्ठितचेतसां व्रजवने गोपाङ्गनानां यदा साकं श्रीयदुनन्दनेन सुचिरं होलोत्सवो जातवान् । धूलियोमपथेऽभितः प्रसृमरा पैष्टातकी साऽवज- चित्रं नैव घना नवा ग्रहविधिर्भानुर्न मध्यन्दिने ॥ १२ ॥ भूयाँस्तत्तदुपायकल्पनमृते सिद्धः स्वतः सँस्तव- श्चित्ते हन्त गतागतैरपि पुनः कश्चिन्न केषां भ्रमः । प्रायः सर्वसमक्षमेव च मिथो नानाविधा व्याहृति- यस्यास्ते प्रतिवेशिनी प्रियतमा मन्ये स धन्यो जनः ॥ ५३॥ आरामेऽत्र वसन्तशालिनि सदा नूनं सखि त्वत्कृते मालाकारसुतेन वञ्चितदृशं तातं विधाय च्छलात् । आनीतानि निकुञ्जमध्यभवने यान्यालि तानि स्फुटं दृष्ट्वा पक्कफलानि मे मृदुमनो मोहं समापद्यते ॥ १४ ॥ १ हतमनोरथः. २ शकुन्तलामुखरूपितश्चन्द्रः. ३ बृहस्पतेः स्त्री. ४ कामोद्दीपकैः. ५ चन्द्रोपरागः पूर्णिमायामेव भवति तदा चन्द्रः पोडशकलादीप्त एवेत्यर्थः. ६ रात्रि- रूपस्त्रीप्रसादाय. ७ समस्येयं. ८ समस्येयं. ९ इयमपि समस्या तत्र त्वमेनेन संगतव- तीति मया ज्ञातमिति मोहप्राप्त्युक्तेः प्रतीयते. .

मुक्तकसूक्तानि । १०१ यथाऽसद्रातॄणां सपदि बहुपद्यानि कृपया भवद्भिनीतानि श्रममपि विधाय प्रकटताम् । तथैवालत्पद्यान्यपि कुरुत सद्भावमुदिरा वने वा हयं वा समकरनिपातो हिमकरः ॥ ५५ ॥ श्रयन्ते सांप्रतं कामवनी श्रीगोकुलेन्दवः । विरागिणोऽपि कान्दोन्दूरात्परिहरन्ति च ॥ १६ ॥ के साराति निरीक्ष्येव मोदन्ते दितिजाः परम् । कमलं स्फोटयत्यर्कः पति का स्त्री प्रणिन्दति ॥ ५७ ॥ एकाऽकिनी स्त्री ज्योत्स्नायां रे को जीर्णज्वरे जयी । का पालिका सशानस्य खिन्नः कामयते च करें ॥ १८ ॥ सगुणा तिन्तिडी केन प्रदरात् कांऽमिनी भवेत् । के संरी गदिता वैद्यैः कान्ताङ्गे किल किं चितम् ॥ ५९॥ कि नरत्वं विजयते कुतो गन्धश्च जायते साधु यातेति जल्पन्ति पथि कानराजमानुपाः ॥ १० ॥ धिकृतः कह को नूनं को मलोम्बरलिम्पकः । के के मार्गति धानुष्कः 'शं काऽकस्माद्रुणद्धि च ।। ६१ ॥ कृशानुरेतसः काली दण्डिनाऽख्यायि की पुरा । गलन्ति को जलं नाल्या स्त्रीणां कण्टे ललन्ति कौः ॥ ६२ ॥ कुशलतरेकग्राह्यं नानागतिमत् पराऽनुरोधहरम् । शाग्नं भग्नं च समं केवलमाकारतो भिन्नम् ॥ १३ ॥ १ मदिरो मैपा. २ रामम्या सौन्दर्यलहरीलोकपादोयम्. ३ एतमाला प्रसिद्धाः, ४ पूर्व गपुरस्पितधीगोकुलचन्दनमो देवा... दुःसिनी.६ रेकोऽपि जीपंग्यरमपह- ति स पपे.. ७ जलम, ८ लिन्तिमी चिमाठमः शिन्तिीयस्नु डराया इ.प्र. ९ रोगिनी...गतमालस्य गरा: मरा.चा." कुः पृथ्वी. १२ पिनो तुरः. ११wat पान. १४ पक्षिविशेषः म सानोपयोगार्थ इन्चने त:. १५ गुणम्. १६ रा. शुमारलिया सस्या मया मारमयोप्य मंभिप्तः राससंग्याप निमितोति पुनरवादरीनमा विपिगिनससारमगाम पुगरे मुदितहति ध्येयम् शारीरित्र. 1सदारविशेगोकानिफा. वा पारंपरिधितिः. २० सासरादारागग.

१०२ • . मुक्तकसूक्तानि । ते निःशेपतापसोढुर्गुर्वाश्रयतोऽधितिष्ठतः सुचिरम् । छात्रस्य च्छत्रस्य च केवलमाकारतो भेदः ॥ ६४ ॥ बजतां वर्मनि नितरां प्रकुर्वतो बहुविधं सौख्यम् । पात्रस्य च पत्रस्य च केवलमाकारतो भेदः ॥ १५ ॥ पीवरपादस्य बृहत्कटकॅस्य च दन्तकान्तरूपस्य । आकारमात्रगम्यं नगस्य नागस्य पार्थक्यम् ॥ ६६ ॥ आनकदुन्दुभिशब्दं नर्तनसमये प्रहृष्यतः श्रुत्वा । मातुलमर्दनकर्तुहरेर्हरस्यास्ति भेद इनीं ॥ ६७ ॥ येपामप्स्वेव वलं सर्वत्रैवास्ति येषां तु । ग्राहाः क च तेऽपि ग्रहाश्च कुह जीवधर्तारः ॥ ६८ ॥ 'सिन्दूरदिग्धपिण्डौ गजौ प्रपश्यत मिथोऽभियुऑनौ । दन्तादन्तिकयेव प्रोद्भिन्नक्षतजलाञ्छनावेतौ ॥ १९ ॥ एप प्रतिनागोऽपि प्रत्यभियान्तं द्विपं दुरीक्ष्य परम् । पूर्णाभोगी कर्णौ पक्षीकृत्येव सूड्डयते ॥ ७० ॥ आधोरणमुक्तानां धूमौघे प्रसृमरेऽग्निवाणानाम् । एते संभ्राम्यन्तो गजा दधत्त्यभ्रमातङ्गम् ॥ ७१ ॥ कुपितोऽग्रे वलितमुखी वडवां हेषावधीरितान्यरयाम् । मुहुशः शुण्डोत्क्षेपाद्धावति संतर्जयन्निवायमिभः ॥ ७२ ॥ प्रथमफलितपिकवल्लभपक्कफलानां निचूषणावसरे । अनुभूयते मया तु प्रसूस्तनक्षीरपानसुखम् ॥ ७३ ॥ मलयभवान् कुर्वाणान्गन्धेनान्यगुमानपि स्वसौन् । सृजता विधिना सृष्टा आम्रा अपि तादृशा न कथम् ।। ७४ ।। १ विद्यागुरोराश्रयात् गुरुश्वासावाश्रयश्च तस्माच्च व्यतिरेकोऽत्र. २ वाहनस्य. ३ प- वैतपक्षे पादाः प्रत्यन्तपर्वताः. ४ पर्वतपक्षे कटकं तन्मध्यः. ५ दन्तकाः दन्तकास्तु वहिस्तिर्यक्प्रदेशानिर्गता गिरेः ते अन्ते यस्यैवरूपं यस्येति गिरिपक्षेऽर्थः. ६ वासुदेवो वाद्यविशेपौ च तच्छब्दम्. ७ शिवपक्षे मातुलो धत्तूरः. ८ इखरेण कामेन च. ९ जयपु. रमहाराजगजयुद्धवर्णनमिदं पद्यचतुष्टयेनं. १० परिणमन्तौ. ११ दुःखेन इक्षित्वा. १२ अत्रभावे ण्यप्रत्ययः, १३ पिकवल्लभ आम्रः. १४ प्रसिद्धमिदं सर्वत्र.

मुक्तकसूक्तानि । पिवतां करसंवाहनविनिस्सृतं सान्द्रमानरसम् । तरुणीगण्डोष्ठयुगं भवति पुरस्तादनादृतं प्रायः ॥ ७५ ॥ अस्याः संभृतनिर्मलाऽधिकरसे श्रीदीपिकायास्तले खैरं चारुतरं तरन्ति शतशः पश्याग्रतः पेशलाः । किञ्चैतान्तरणक्रियावगतये तीराद्रुतं पातिता- न्मोहप्राप्त्यपरिस्फुरत्पदगतीन् संतारयन्त्यर्भकान् ॥ ७६ ॥ असिन् भापणमेघपुष्पभरिते पारुप्यनकोज्झिते व्युत्पत्त्याख्यशिलां प्रसार्य परिपद्वेशन्ततीरस्थले । गीनिर्णेजकयोपयाऽखिलवचोवासाँसि संख्यावता- माश्चर्य विरहय्य मौल्यमधुना नेक्तुं स्थिरं स्थीयते ॥ ७७ ॥ मध्ये मध्ये पिकचकुसुमाच्छादिताच्छाच्छगुच्छा सौरम्येण प्रसरणवता दत्तसहृत्प्रसादा । गुम्फ नीता दृढगुणगणैः केनचिन्मालिकेन काचिद्विप्वङ्मधुकरकुलव्याकुला भाति माला ।। ७८ ।। तैस्तै रात्परमुपहृतैर्या द्रुमैः प्रावृतासी- त्मापत्प्राज्यान्मधुररसतः सातिरेकाँश्च सेकान् । पर्यप्रीणात्सुरुचिरफलैर्याऽखिलान् सांप्रत सा. शुप्यत्येपा शिव शिव विना मालिकं पुष्पवाटी ॥ ७९ ॥ दुर्गाप्रसादे विरते पञ्चनिर्वाहिताऽधुना । द्रौपदीत्वमियं नूनं श्रयते काव्यमालिका ।। ८० ॥ १ रूपकातिशयोत्तया कस्याश्चित्सभाया इदं वर्णनम् तत्र वाप्यारोपेणोक्तिः सभाद- निगरणं रसो जलमुचतरणं यत्तुं प्रवर्तनं च तीरात् निगीर्णात्सामीप्यात्च पदगतिः सुप्तिडन्तपदप्रकारश्चरणव्यापारथ तारयन्ति शुद्धं वादयन्ति च. २ इदमपि पूर्व- वत् अत्र मेघपुष्पं जलं परिपद्रेशन्तः सभारूपं सरः. ३ एतेन तस्यां सभायां गी:- कृपया सर्व वचांति शुद्धानि गदन्तीति ध्वनितम्. ४ इदं श्लोकपट्कं काव्यमालाख्य. मासिकपुस्तकवर्णनपरं तत्र प्राग्वे रूपकातिशयोकिमये पये. ५ तत्तन्मथिलसुन्द. रशमादिभिः पथभिः प्रकाशिता.

१०४ मुक्तकसूक्तानि । एतेषु वर्वृतत्सु ज्येष्ठापाढीयतापदिवसेषु । हा स्वीकृतबहुसुमना मालाकार क यातोऽसि ॥ ८१ ॥ पूर्वं परस्सहस्राः पङ्कीः परिदर्थ्य परसवर्णानाम् । नैकमपि स्वसवर्णं दर्शयसे किमिति हाऽधुना विद्वन् ॥ ८२ ॥ इयं साऽमरवल्लीव काव्यमालाऽधुना मता । च्युतमूलाऽपि पतिता यत्र कुत्र प्ररोहति ।। ८३ ॥ सामर्थ्य प्रथमं निरूप्य मनुजः साहाय्यमाप्त्वा दृढं कृत्वा चाऽपि विचारणं सुमतिमान्विघ्नं निहत्य क्रमात् । उत्साहं प्रतिरोप्य चात्मनि भृशं कुर्वीत कार्योचितं सूद्योगं पुनरेनमाप्स्यति फलं सद्यो विलम्बेन वा ॥ ८४ ॥ लोकेऽपि स्फुटमेतदस्ति बहुधा यत्सावधानोऽधुना नो गन्तास्मि विवञ्चनं चिरमिति प्रत्येककृत्यं वचः । तेनैवाप्यनुमीयते न किमिदं यत्सावधाने कृते चित्तै नैव भवेत्प्रतारणविधिः सद्धेतुसाक्षास्थितेः ॥ ८५ ॥ यन्मन्त्रोऽप्युपदिश्यतेऽथ गुरुणा कश्चिद्धि मध्येक्षपं यच्चैकान्तगृहे विचारकरणं स्वैरं तथा जायते । चित्तैकाग्र्यकृतेऽस्ति केवलमिदं तत्सर्वमित्यादिक स्थैर्य याति फलन्ति चेतसि नृणामुद्योगिनां सिद्धयः ॥ ८६॥ सार्धं कुत्सितमनसा न साधुना दुष्टवृत्तिरेष्टव्या । कालान्तरे स एव त्रपानतस्त्यक्ष्यति द्वेषम् ॥ ८७ ॥ विद्यानामुदयस्य सर्वभुवनश्रेयस्करैः सांप्रतं श्रीलैस्ताम्रमुखैः प्रभूतविधया संदर्शितस्याऽभितः । प्रावल्यं कथयेय हन्त किमहं प्रत्यक्षमेवेक्ष्यतां नीचानां किल नित्ययुक्तमपि यन्नीचत्वमेति क्षयम् ॥ ८८ ॥ १ ग्रीष्मे हि दुर्गाप्रसादो विपूचिकया 'सहसाकान्तः. २ ङ् ञ् ण् इत्यादीनां. ३ खतुल्यं. ४ सदधिकारलाभात्.

मुक्तकसूक्तानि । युक्तितः कार्यकरणे महान्तः सन्ति सद्गुणाः । जायते सेवितं युक्त्या विपमप्यताऽधिकम् ॥ ८९ ॥ प्रागेव प्रतिकुर्वन्ति भाविनीविपदो बुधाः । अवसीदन्ति मन्दास्तु विपद्भिः प्रतिताडिताः ॥ ९ ॥ सति प्रसङ्गे दम्यस्य स्तुतियुक्ता महत्कृता । विजयं दर्शयन्त्याशु भटा राजाभिनन्दिताः ॥११॥ ज्ञानीयं हि सजातीयं पानीयं हृदयं तथा । चलितं न भवेत्स्तब्धं स्तब्धं न चलितं पुनः ॥ ९२ ॥ इदं हि लक्षणं लक्ष्यं रमणीयस्य वस्तुनः । स्मृतमप्यपरं सर्व विस्मारयति यद्धठात् ॥ ९३ ॥ नोत्तरीयान्न ताम्बूलान्न वित्तान्न च भूपणात् । न तथा नन्दति कविर्यथेतरकविस्तुतेः ॥ ९४ ॥ गीभिः स्तुतिप्रधानाभिः प्रसीदति कवि शम् । सन्ति गीःसंश्रयादेव सर्वकार्याप्यमुप्य यत् ॥ ९५ ॥ नित्यः शब्दार्थसंबन्ध इति यः शास्त्रनिश्चयः । कवीनामेव कृतयो विचित्रास्तस्य साक्षिकाः ॥ ९६ ॥ नित्यं खापेन ममतामोचिताऽशेपवस्तुना । अहह प्राणिनः किञ्चिन्न नोऽस्तीति न जानते ॥ ९७ ॥ अविद्या नाम नागीयं सूयते सकलं जगत् । सर्व चात्ति स्फुटं पारं गतान्त्रिांस्त्यजत्यपि ॥ ९८ ॥ सवमरेऽन्येषां यः समुदद्युमुखायते यतो नियतम् । सजनदुर्जनलोकः सदृशः प्रोत्तो मयाऽन्योन्यम् ॥ ९९ ॥ विस गुणा निपटा-तदेव युणियुग तु प्राणदापि रसायनमिति नाना रान्ति. शिष्यमा सेये. ४ ममतया सागितानि अशेषधनादिपरणानि येन. ५ नोऽस्माकं निममापि न जानते. ६ स ग गर्यः प्रतिपसोऽयमविय. ७ गुलहितागुणा- गित मानः गम्यगुदा मुसायिनो दुनः.

. १०६ मुक्तकसूक्तानि । उपकारकोपकारी नित्यं नेत्रप्रसादकारी च । धीरहितः सज्जन इव विनम्यते दुर्जनोऽपि मया ॥ १०० ॥ विदुषा नात्मनि कार्यः कदाचिदप्युपरतः समुत्साहः । क्ष्मां प्रागकृक्षदखिला कर्णः प्रोत्सह्य धृतचक्राम् ॥ १०१ ॥ अन्यव्याकुलतायां सर्वेपां कौतुकं महद्भवति । आपत्तौ प्रतिकूलं प्रभवत्यनुकूलमपि बहुधा || १०२ ॥ न विमुञ्चति कश्चिदपि प्रज्ञावानुत्तमानि वस्तूनि । मकरालयतलकर्दमगुप्ता अपि किमिह दुर्लभा मुक्ताः ॥ १०३ ॥ भवति रजःसंवलितं क्षणमप्यपार्जितं सदहाय । प्रतिमितसमस्तभावं मुकुरतलं सदृशमस्ति हृदयस्य ॥ १०४ ॥ वृक्षः करोत्यपेक्षां मालाकारस्य सिञ्चतस्तावत् । यावद्विभृते मूलं रसाँ रसैरस्य न स्वगतम् ॥ १०५ ॥ वास्तविकमजहरिणयोर्बलं विशिष्टं न वर्तते किमपि । गर्वण शृङ्गचेष्टा पुनरपि या सा नरवमाहात्म्यात् ॥ १०६ ॥ श्रीवत्सँलाञ्छन त्वं केनचिदेवं सलीलमपि लपितः । लाञ्छनरहितायामपि सलाञ्छनत्वं हरे श्रियां तनुपे ॥ १०७ ॥ किं कर्तव्यत्वपथे तत्तदुपप्लवतमोवृतस्य तव । भवतु गती रिपुमस्तकनिपतद्वज्राग्निसंप्रकाशेन ॥ १८ ॥ वक्षोमुखशीर्षादिषु सकलेष्वङ्गेषु भान्ति पलितानि । स्थविराणां तरुणिम्नः परिदग्धस्येव भसितानि ॥ १०९ ।। स्यादृष्ट्वत्तु चित्रं द्रष्टा स्याच्चित्रवत्किच । स्तुतिरियमेव प्रचुरा चित्रस्य प्राज्ञलिखितस्य ॥ ११० ॥ लभते कृतनिर्णयार्थतः परिवृतिं स भवेत्कथं प्रियः । विपदि प्रियतां च याति यः कृतवैरोऽपि कथं स वैरकृत् ॥ १११ ॥ १ उपकारे कोपकारी नेतृणां अप्रसादकारी धियां रहितश्च दुर्जनस्तद्भिन्नो यथोक्तः सजनः, २ इयं भारतीया कथा. ३ समुद्र. ४ अप्रोञ्छितं. ५ पृथ्वी. ६ पुल्लिङ्गवाचिनौ शब्दावुच्यते तन्माहात्म्यादुचितं तुच्छमप्येतत्. ७ श्रीवत्-सलाञ्छन-श्रीवत्स-लाञ्छन- इति च्छेदः. विघ्न. ९ वैपरीयम्.

मुक्तकसूतानि । त्रातुं यज्ञं कुशिकमुनिभूरप्ययाचीहई द्वी यत्कैकेयी वरयुगकृते कान्तमसारयत्नाक् । यच्च क्रव्यात्समुचितरतेस्ताडकाया नृरोग- सद्भाग्यानां विलसितमिदं रामभद्रस्य सर्वम् ११२ ।। कौरव्याः शतमुत्तरोत्तरमहाशौर्यप्रचण्डाः व ते तेऽपि चूंतजिताश्च पञ्च तनयाः पाण्डोः क दीना वने । सत्यप्येवमभूजयस्तु समिती कुन्तीसुतानां हिं यः सोऽयं स्वीकृतपक्षपातमहिमों लोकोत्तरः श्रीपतेः ॥ ११३॥ अवर्पता तोयमुचा तटाकतटाग्ररूढस्य महीरुहस्य । एतावदेव क्रियते स वाद्यां विक मैपीति यदस्य शोभाम् ॥ ११४ ॥ पठनपाहारि वृथा कुमारो युप्माभिरिन्यैः किमिदं कृतं हा । न हृद्यतामेति कदाप्यकालभ्रष्टः शलाईहिं पुनः स्वपाके || ११५॥ अतक्ष्माभृगहनदहन त्वं विना कारणं खं निन्दोदन्तं स्पृहयसि कथं मूढ दग्ध्वाऽद्य घासान् । दीनांस्त्वेताञ्झटिति सहसा सन्दनोद्वाहसिन्नाः प्राप्ता एते शशधरहयाः खादितुं पद्धतृष्णाः ।। ११६ ॥ दत्ते दुःखगसौ सदा बहुविध केनाप्युपायेन मां पापात्मा स रुपेति मूढ कुरुपे करमाद्र्था चिन्तनम् । तत्तदुश्चरितर्हि रिवगताः कालान्तरे केवलं नन्वेतत्सदृशाः पुनर्झटिति नः ख्यास्यन्ति मार्ग स्मृतेः ॥११॥ स्वामी दासजनं वदेदिति वयोवृद्ध कदाचिद्वचो भोक्तृवं कति यापिता नु भवता वांश्च मासोऽयया । उयन्येति करी तदा प्रतिवदेनृत्यः स वृद्धः प्रभु सेवाय भवतां ससर्ज नियतिः पूर्व प्रभोः सेवकम् ॥ ११८ ॥ रामनगी. २ मारा:. ३ रामायनीयो पिरो रायसः. ४ नियांदस्पो गदिमा. ५ फागिदालतमा ६ फलम्, अन्योतिरेश. ८ तदारयो नरपा विशेषः स्मृता भरिपन्ति... सामिलायाः परनिर्व मुक्तकसूक्तानि । एका क्ष्माभृति कीटिका चलति सेत्यन्धेन दिग्दर्शिता भूत्वोच्चैबधिरेण चाऽपि विपुलः शब्दस्त्विति स्वीकृतम् । दण्डं दोपणि पङ्गुना कृतवता. यामेति किञ्चोत्थितं कोप्यस्मान् प्रतरिष्यतीति सहसा नग्नेन भीतं ततः ॥ ११९ ॥ तत्तज्जन्मविहारभूमिविलसत्संचारणामर्पणै- श्चञ्चन्मित्रविचित्रचाटुचरितध्यानश्चमत्कारिभिः । फुल्लाम्भोरुहकेसराद्भुतरसास्वादैरलं चिन्तितः कादम्बार्भक सांप्रतं परवशात्प्राप्तोऽसि यत्पञ्जरम् ।। १२० ॥ प्रीतितरा त्वयीति कथनं वाराङ्गनोक्त्या समं. प्राप्योऽसीति पुनर्विमृष्य वचनं सौभाग्यदर्पोद्धरम् । इत्युक्तं प्रसभं श्रितोऽसि कुलटाधार्श्वप्रधानं हि त- त्कान्तैवं मम मूकतैव सपदि प्रश्नोत्तरे तावके ॥ १२१ ॥ आकाशे निशि भाति काचिदनलक्रीडा पटुप्रोज्झिता खर्जूरीव पिशङ्गसुन्दरफला नीचैः शिखाशालिनी । अत्यन्तप्रसृतश्च. भाति सुचिरं धूमस्तदीयोऽभितो भ्राम्यत्तोयधरस्य राशिरिव किं श्यावां छवि संधत् ॥१२२॥ नीचैर्भूमिमिवातनोति जलधे—नाति वारीव च ग्राव्णः प्रोत्खनतीव शत्रुवनितागर्भान्भिनत्तीव च । अभ्रं पातयतीव दिग्गजभयं वक्तीव च प्रायशः कश्चित्संप्रति मेघनादसशस्तोप॑ध्वनिः श्रूयते ॥ १२३ ॥ सिद्धिमद्विविधमन्त्रवेदिने सर्वनास्तिकमनुष्यखेदिने । दिव्यभेषजगदौघभेदिने स्युर्नमांसि मम सामवेदिने ॥ १२४ ॥ मज्जिह्वा तु भृशं जाता भवत्स्तोत्रभरैर्नता मदर्थे लेखिनीमात्रभारोऽपि न भवत्करे ॥ १२५ ॥ १ इयमपि तादृकाचिद्विचित्रा मन्दबुद्धिसंवन्धिनी वार्तेव. २ एप दम्पत्योरालापः.. ३ यत्या लोके हवाई इति सुप्रसिद्धं नाम. ४ दुर्गस्थतोपध्वनिरेतादृश एव. ५ कस्मै- चित्काशीनिवासिने ब्राह्मणाय पठितसामवेदाय.

मुक्तकसूक्तानि । १०९ गुरवः पितरौ हि केवलं मुहृदो वाप्यय साधवः क्रमात् । पहमी मुदमुद्वहन्ति तामिह शिष्यस्य तु वीक्ष्य योग्यताम् ॥ १२६ ॥ विशालवीणाकपटेन भारती निबध युग्मं पृथुतुम्बिकायाः । अद्यापि नेतस्य ततार पारं शदोदधेतत्र नरस्य का कथा ॥ १२७ ॥ येषां सन्त्युदयाः पुरेप्यथ च ये पीटोत्सवं भुञ्जते पृथ्वीं विभ्रति नीतितः किल समुद्रान्तां जयाढ्याश्च ये । पूर्णाः सैन्धवकुरैश्च दधते तामृद्धिवृद्धयुन्नति राजन् भान्ति भिपनपा वयमिमे ते मण्डलीरक्षकाः ॥१२८ ॥ अप्यप्रयोजका एते श्लोका विख्यापिता मया । विसरेणनाकाले स्वान्दुष्टानपि को बुधः ॥ १२९ ।। लोकनिर्माणदम्भादयो वर्णविन्यासलीलया । शिक्षितः कोप्ययं यबाच्छन्दोऽन्यानविधिर्मया ॥ १३०॥ दातीर विमहमदरिषदमातिए मुरारमूलानि पूर्णानि ॥

No text on this page.

श्रीकविमछभदृहरिवल्लभगीतम्
देवीस्तोत्रम्।
-
-

No text on this page.

अथ श्रीकविमलभट्टहरिवल्लभगीतम् देवीस्तोत्रम् श्रीमदेकलिङ्गो जयति । विमलललिततमगलवलयमहमहितस्फुटकेवि । प्रतिभामृतकादम्बिनी जय जय भारति देवि ॥ १ ॥ सततपिनतिततिकृतिनिरतशतधृतिशितिगलशौरि । भगवति तब पदपङ्कजं भवतु मुदे मम गौरि ॥ २ ॥ अटवीसमटनसंघटितबहुविधफलमुमैकौरि । शबरीरूपनिरूपिते जय जय भगवति गौरि ॥ ३॥ शिथिलीकृतसमराबसरहरिणाधिपमुखंदौरि । महिपविपुलगलविदलिनी जय जय भगवति गौरि ॥ ४ ॥ सकलचराचरसंसरणबहुविधपोपणधौरि । आगमनिगमसतत्त्वमयि जय जय भगवति गौरि ॥५॥ अवलोकनसंमुखदयितलोचनमानसचौरि । अभयदानबहुमानवति जय जय भगवति गौरि ॥ ६ ॥ अधरयुगोदरदितिजधृतिसमयसारितसारि । शिखरिमुते मुनिजननुते जय जय भगवति गौरि ॥ ७ ॥ अभिमुखसमुखकृताभिनयनटदशेपसुरपौरि । वीटीरसशोणाधरे जय जय भगवति गौरि ॥८॥ द्वारदेशसंततनदृद्विविधतारतरतीरि । कुमतिलकधरालिके जय जय भगवति गौरि ॥ ९ ॥ फची नामकः कधितगुरभिपुष्परिशेषः. २ शिवः. ३ फुरीनाम तृणधान्यभेदसम्मा ६२ मा प्रोपकारी. ४ पोरी रग्गुमल संदविदारी यन्गेति यावन, ५ धुरा मार- ससाय : शोभा भाग:. ६ गौरिः शनिसस सारी:. ७ नूरं माया सस्य इदं सारखी तारी पूरपरालयः.

११४ देवीस्तोत्रम् । अरुणनयनतलतरलरुचिरञ्जितकपोलपालि। ललितधवलरदवलयिनी जय जय भगवति कालि |॥ १० ॥ वलयितनिखिलसखीसविधवादितमृदुकरतालि । मधुरमधुरपदगायनी जय जय भगवति कालि ॥ ११ ॥ अतनुदशनबसनारुणिमलज्जितनवीनभण्डैि । आकुञ्चितमेचककचे जय जय भगवति चण्डि ॥ १२ ॥ मुकुलायितलोचनकरं सकलैस्त्वमेव देवि । यदा यदा विपदुपगता तदा तदा समसेवि ॥ १३ ॥ हस्तकमलसंस्थितललितनिर्मलतरमुकुरसुवृत्तविम्बविम्वितवक्त्रकले मन्दमारुतकम्पितपीतनूतनविशालचीनपटकोटिदृष्टपाटलवपुस्तले । गौरतलगण्डयुग्ममध्यमण्डलसततचर्वितसरसनागनामकलतादले जय जय कम्युगले विनिहतसर्वखले हृतनिजभक्तकले देवि गिरिशाबले १४ कुन्दनलालतनूभुवा वैरिशिरोभल्लेन । एषा कुलदेवीस्तुतिगीता कविमल्लेन ॥ १५ ॥ रङ्गे मल्लवरात्कुतोप्यधिगता व्यायामविद्या पुरा पश्चाञ्चारुविशिक्षिता चिरतरं गीतेरपि प्रक्रिया । शास्त्रार्थ गुरवोऽनु कीर्तिगुरवस्तेते चिरं संश्रिता रच्यन्तेऽद्य तु संततं जयपुरे काव्यानि कामं मया ॥ १॥ जयपुरि पुराणवसतौ गणगौरीगोपुरोत्तरश्रेणीम् । कौन्दनिरधिवसति कविर्हरिवल्लभनामविख्यातः ॥ २ ॥ एतानि प्रकटीकृतानि सहसा काव्यानि नव्यानि त- गीतिः काचिदशुद्धिजा बहुविधं मां बाधते यद्यपि । चिन्ता नाम परन्तु काचन भृशं चित्ते न मे जायते कुर्वन्ति प्रणयान्ममोपरि कृपां दिष्ट्या यतः पण्डिताः ॥ ३ ॥ १ भण्डी मञ्जिष्ठा. २ वक्तस्य कला देशो वक्तप्रान्त इत्यर्थः. ३ कलिः क्लेशः. ४ समासान्तशास्त्रस्य अनित्यत्वादप्रत्ययो न कृत इति.

No text on this page.

Shri Jainagar Prapancham

Author
Kavi Vimal Bhatt Harivallabh
Title
Shri Jainagar Prapancham
File name
Shri Jainagar Prapancham
Text
OCR done
Citation
1894
Published
2011/02
Publisher
Mombay, Javji Dadaji
Language
Sanskrit
Pages
122
Library
Shri Jain Swetamber Khartargacch Sangh, Jaipur
Classification
Literature
DLI number
549784
Barcode
99999990030636.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
VMLT id
U6VD9AFdYM1
Download PDF

Shri Jainagar Prapancham