Shri Jawahar Vidyapith Binasar, Bikaner
Sayidavratnakar�part -3
Front matter
-- इदं पुस्तकं मोतीलाल लाधाजी' इत्येतैः पुण्यपत्तने ( १९६ भवानी पेठ ) प्रकाशितम् । ( अस्य सर्वेऽधिकाराः प्रकाशकेन स्वायत्तीकृताः) तच, पुण्यपत्तने सदाशिवश्रेण्यां ' लक्ष्मण भाऊराव कोकाटे इत्यनेन स्वकीये " हनुमान प्रिंटिंग प्रेस ' मुद्रणालये 'मुद्रितम् ।
श्रीः प्रास्ताविकं किंचित् । वीरः सर्वसुरासुरेन्द्रमहितो वीरं बुधाः संश्रिताः वीरेणामिहतः स्वकर्मनिचयो वीराय नित्यं नमः॥ वीरात्तीमिदं प्रवृत्तमतुलं वीरस्य घोरं तपो वीरे श्रीधृतिकीर्तिकान्तिनिचयः श्रीवीर ! भद्रं दिश ॥१॥ आर्हतमतप्रभाकरसंस्थायाश्चतुर्थो मयूखः स्याद्वादरत्नाकराभिधः शासनदेवकृपया प्रकाश्यते । सोऽयं ग्रन्थः ( ८४००० )चतुरशीतिसहनन- न्थसंख्यात्मको निरमायि श्रीवादिदेवसूरिभिरिति कर्णपरम्परातः समागता प्रथितिः । वहुश' प्रयतमानैरस्माभिस्तत्तजैनाचार्याणां सूरीणां च कृपया- लम्भि सप्तपरिच्छेदात्मको भागो ग्रन्थराजस्यास्य । अस्मन्मुद्रापितग्रन्था- न्तरक्रमेण संमुद्यते चेयं तर्हि व्याप्नुयाद् द्वादशशती पृष्ठानामिति संभा- वयामः । संपूर्णो ग्रन्थ एकस्मिन् विभागे संग्रथ्यते चेद्भवेद् वैरस्याय पिप- ठिषूणामतो विभागशः समुन्य प्रकाशयितुमारब्ध एषः। तत्र प्रथमो भागः प्रथमपरिच्छेदात्मको द्वितीयो द्वितीयपरिच्छेदात्मकश्च मुद्रितः । अयं च तृतीयोविभागः । प्राय इयतैव प्रमाणेन भागान्तराणां प्रत्येक प्रतिमासं मुद्रणं स्यादिति समीहामहे । ग्रन्थराजोऽयं वौद्धयो- गादिमतानां परामर्शकोऽतोऽवश्यमध्ययनार्हो न केवलं स्याद्वाद- मतानुयायिनां किंतु भिन्नमतस्थानामपि स्याद्वादमतजिज्ञासूनाम् । पूर्वमयूखचदस्यापि मूल्याल्पत्वपरिशिष्टविस्तारग्रन्थान्तर्वहिः- परिचयादिकं सविस्तरमादृतम् । सन्ति चास्य ग्रन्थस्य द्वादशपरि- शिष्टानि । किंतु परिशिष्टादिकमन्तिमे विभाग एव मुद्रयितुमर्हम्। अग्रे- तनपत्राणां मुद्रयिष्यमाणानां निर्देशस्य पूर्व कर्तुमशक्यत्वात् । केवलं टिप्पन्यादिकमर्थावसायोपयोगि तत्तत्स्थलेऽधोभागे निरदोश । प्रतिपत्रं पङ्क्त्यङ्का निर्दिष्टा येपामुपयोग. परिशिष्टदर्शनसोकर्याय । अन्यच्च पुस्तकानां वस्त्रात्मकं वन्धनमस्तु न पत्रात्मकमिति सूचयन्ति केचिन्महा- भागाः परं तद्यक्तिशो ग्राहकैः स्वयमनुष्ठेयम् । अस्माभिस्तथा संपादने यैर्नाभिमतस्तदर्थ द्रव्याधिक्यव्ययस्ते मुधैव पीडितवेतसो भवेयुरिति. यथापूर्व सरणिराहता । इति विनिवेदकः । आईतमतप्रभाकरकार्यालयः, पुण्यपत्तनम् ।। विद्वद्वशंवदः- वी. स. २४५४ मोनैकादशी। मोतीलाल लाधाजी अत. -
No text on this page.
॥ अथ तृतीयः परिच्छेदः॥ -- ये त्वां तीर्थपते म्मरन्ति मुदितस्वान्ताः क्षमामण्डनं ये त्वा विष्टपलोचनं प्रतिदिनं पर्यासते सर्वदा ॥ ये त्वां नाथ वितर्कयन्त्यवहिता ये वाऽनुमिन्वन्ति ते मुच्यन्ते दुरितैस्ततो वयमपि त्वां देव सेवामहे ॥ ४४५ ॥ नितिं प्रत्यक्षप्रमाणस्वरूपम् । अथ परोक्षप्रमाणस्वरूपनिरूपणायाह- ५ अस्पष्टं परोक्षमिति ॥१॥ स्वपरव्यवसायज्ञानं यदस्पष्टमुक्तलक्षणात्स्पष्टाद्विपरीतमविशदं तत्परो- क्षमित्यवगन्तव्यम् । तथा च प्रयोगः, परोक्षमस्पष्टज्ञानात्मकं परोक्ष- त्वात्, यदस्पष्टज्ञानात्मकं न भवति न तत्परोक्षम्, यथा प्रत्यक्षम्, परोक्षं च वक्ष्यमाणं स्मृत्यादिविज्ञानम् । तस्मादस्पष्टज्ञानात्मकमिति ॥ १॥ १० अथास्य प्रकारान्प्रकटयन्नाह- स्मरणप्रत्यभिज्ञानतर्वानुमानागमभेदतस्तत्पञ्च- प्रकारमिति ॥२॥ स्मरणं च प्रत्यभिज्ञानं च तर्कश्चानुमानं चागमश्च त एव भेदा- स्तेभ्यस्तान्प्रतीत्येत्यर्थ. । तत्परोक्षं पञ्चप्रकारमिति ॥ २ ॥ सम्प्रति स्मरणं कारणगोचरस्वरूपतो निरूपयति- तत्र संस्कारप्रबोधसम्भूतमनुभूतार्थविषयं तदित्या- कारं वेदनं स्मरणामिति ॥ ३॥ १ 'कृतधियः सजानते' इति म. सगृहीतः पाठः ।
४८६ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. ३ तत्र तेषु स्मरणादिषु मध्ये । संस्कारः प्रमातुः शक्तिविशेषस्तस्य प्रबोध उद्बोधः फलदानाभिमुख्यमिति यावत् । तस्माद्धेतुभूतात्संमूत- मुत्पन्नं वेदनमित्युत्तरेण योगः । कीदृशमित्याह । अनुभूतार्थविषयम् । अनुभूतः प्राक्प्रमाणेन प्रतिपन्नोऽर्थो वस्तु विषयो गोचरो यस्य ५ तत्तथा, तदित्याकारं तदित्युल्लेखवत् । तदित्युल्लेखवत्ता चास्य योग्यता- पेक्षयाख्यायि । यावता स्मरसि चैत्र कश्मीरेषु वत्स्यामस्तत्र द्राक्षा भोक्ष्यामह इत्यादिस्मरणे तच्छब्दोल्लेखो नोपलक्ष्यत एव, किन्त्विदं स्मरणं तेषु कश्मीरेष्विति तच्छब्दोल्लेखमहत्येवेति । वेदनं स्मरणमिति स्पष्टार्थे पदे । संस्कारप्रबोधसम्भूतमित्यनेनात्र स्मरणस्य कारणमुप- १० दर्शितम् । अनुभूतार्थविषयमित्यनेन गोचरः । तदित्याकारमित्यनेन पुनः स्वरूपमिति ॥३॥ अत्रोदाहरणमुपदर्शयन्नाह- तचीर्थकरबिम्बमिति यथेति ॥ ४ ॥ यथेत्युदाहरणोपन्यासार्थम्, इत्येवंप्रकार तच्छब्दपरामृष्टं यद्विज्ञानं १५ तत्सर्वं स्मरणमित्यर्थः । स्मृतिप्रामाण्यमशीकुर्वतो स्वपरव्यवसायित्वात्प्रमाणं चेदमञ्जसा ॥ बौद्धस्य पूर्वपक्षमुपपाद्य अप्रामाण्यं पुनबौद्धो ब्रुवन्नस्य न तार्किक. ।। ४४६ ॥ तथा हि-अमुष्याप्रामाण्यं कुतोऽयमाविष्कुर्वीत, किं गृहीतार्थना- २० हित्वात्परिच्छित्तिविशेषाभावादसत्यातीतेऽर्थे प्रवर्त्तमानत्वादर्थादनुत्पद्य- मानत्वाद्विसंवादकत्वात्समारोपाव्यवच्छेदकत्वात्प्रयोजनाप्रसाधकत्वाद्वा । न तावद्गृहीतार्थग्राहित्वात्स्मरणस्याप्रामाण्यम् । अनुमानेनाधिगते वहौ तदुत्तरकालमाविनः प्रत्यक्षस्याप्यप्रामाण्यप्रसङ्गात् । अनुमानस्यापि केनचिदंशेनाधिगतार्थाधिगमसम्भवेनाप्रामाण्यानुषङ्गाच्च, व्याप्तिज्ञान- २५ प्रतिपन्ने हि वस्तुन्यनुमानं प्रवर्तत इति । अथाऽधिगताऽर्थाऽधिगमेऽप्यनु- तत्खण्डनम् ।
परि. ३ सू. ४] स्याद्वादरत्नाकरसहितः ४८७ मानस्यापूर्वस्याप्यर्थांशस्याधिगमसम्भवात्प्रामाण्यमिष्यते । हन्त कथमेवं स्मरणस्यापि प्रामाण्यं न स्यात् । तत्रापि वर्तमानकालावच्छेदेनाधि. गतस्यार्थस्यातीतकालावच्छेदेनाधिगतेरपूर्वांशाधिगमोपपत्तेः । समर्थित चैतत्प्रथमपरिच्छेदे गृहीतार्थग्राहित्वेनापि ज्ञानस्य प्रामाण्यम् । तन्न गृहीतार्थग्राहित्वात्स्मरणस्याप्रामाण्यम् । नापि परिच्छित्तिविशेषाभावात् । ५ निहितमन्त्रिताधीतादौ हानोपादानहेतोः परिच्छित्तिविशेषस्य स्मरणे सद्भावात् । नाप्यसत्यतीतेऽर्थे प्रवर्त्तमानत्वात्तस्याप्रमाणता, यतोऽती- तस्यार्थस्य स्वकालेऽसत्त्वं स्मृतिकाले वा । न तावत्स्वकाले, तदा तस्य विद्यमानत्वात् । स्मृतिकाले तु तस्यासत्त्वं नाप्रामाण्यं प्रत्यङ्गम् । प्रत्यक्षस्याप्यप्रामाण्यप्रसक्तेः । न हि प्रत्यक्षग्राह्योऽर्थः प्रत्यक्षकाले १० सौत्रान्तिकैः सत्त्वेनाभ्युपगम्यते । "भिन्नकालं कथं ग्राह्यमिति चेबाह्यतां विदुः॥ हेतुत्वमेव युक्तिज्ञास्तदाकारार्पणक्षमम् ॥१॥" इत्यस्य विरोधानुषगात् । एकान्ततोऽसत्यर्थे स्मरणमुत्पद्यत इति न नः पक्षः । अर्थादनुत्पद्यमानत्वं च स्मरणस्यासिद्धम् । स्वविषयभूता- दनुभूतादादुत्पद्यमानत्वात् । विसंवादकत्वमपि स्मरणस्याप्रसिद्धम् । १५ स्वप्रतिपन्ने वस्तुन्यविसवादकत्वात्तस्य । अविसंवादो हि गृहीतार्थे प्राप्तिः प्रमाणान्तरप्रवृत्तिर्वा स्यात् । स द्विविधोऽपि स्मृतिप्रतिपन्ने स्वयं धृतद्रव्याद्यर्थे समस्त्येव । यत्र तु विसंवादः स स्मरणामासः । प्रत्यक्षाद्याभासवत् । समारोपव्यवच्छेदकत्वमपि स्मरणस्यासिद्धम् । स्व- विषयभूते साध्यसाधनसम्बन्धादौ तस्य समारोपव्यवच्छेदकत्वसम्भवात्। २० अन्यथाऽनुमाने दृष्टान्ताभिधानानर्थक्यापत्तिः । साध्यसाधनसम्बन्ध- स्मरणार्थं हि तत्र दृष्टान्ताभिधानम् । इतरथा हेतुरेव केवलोऽभिधीयेत । ततस्तदभिधानान्यथानुपपत्ते. स्मृतिविषयभूते सम्बन्धादौ विस्मरण- संशयविपर्ययरूपः समारोपोऽस्तीत्यवगम्यते । तन्द्यवच्छेदकत्वाच्च स्मरणस्य प्रामाण्यम् । प्रयोगः, यत्समारोपव्यवच्छेदकं तत्प्रमाणम्, २५ यथानुमानम्, समारोपव्यवच्छेदकं च स्वप्रतिपन्नेऽर्थे स्मरणमिति ।
४दद
प्रमाणनयतत्त्वालोकालङ्कारः
[परि. ३ सू..
,
प्रयोजनासधिकत्वात्मरणस्यप्रिामाण्यमित्यप्यनुपपन्नम् । अनुमान-
प्रवृत्तिनिहितप्राप्त्यादिलक्षणस्य तत्साध्यप्रयोजनस्य सद्भावात् । अनु-
मान हि साध्यप्रतिबद्धाद्धेतोः प्रवर्तते । साध्यप्रतिबन्धश्च हेतोः
सत्तामात्रेणानुमानप्रवृत्तेरझं परिज्ञातो वा स्मृतिकोटीकृतो वा । प्रथम-
५ पक्षे नालिकेरीद्वीपार्यातस्याप्रतिपन्नाग्निधूमसम्बन्धस्यापि धूमदर्शनादग्नि-
प्रतिपत्तिः स्यात् । द्वितीयपक्षे तु वालावस्थायां प्रतिपन्नाग्निधूम-
सम्बन्धस्य पुनर्वृद्धावस्थायां विस्मृततत्सम्बन्धस्यापि धूमदर्शनादमि-
प्रतिपत्तिप्रसङ्गः । तृतीयपक्षे तु कथं स्मरणस्य प्रामाण्यप्रतिषेधः ।
अनुमानप्रवृत्तेरङ्गत्वात् । यज्ज्ञानमनुमानप्रवृत्तेरझं तत्प्रमाणं यथा
१. प्रत्यक्षं, तथा च स्मरणम्, तस्मात्प्रमाणमिति । एव च ।
अन्यप्रमाणमिव सिद्धमिदं प्रमाणं
न्यायोपदेशवशतः स्मरणं यतोऽत्र ।
दत्तो गृहप्रमृतिको व्यवहार एष
प्राप्नोति सिद्धिपदवीमनिशं जनानाम् ॥ ४४७ ॥ ४ ॥
अथ क्रमप्राप्तस्य प्रत्यभिज्ञानस्य कारणादिप्ररूपणार्थमाह-
अनुभवस्मृतिहेतुकं तिर्यगूर्खतासामान्यादिगोचरं
संकलनात्मकं ज्ञानं प्रत्यभिज्ञानामिति ॥५॥
अनुभवश्च प्रमाणेन ग्रहणम् । स्मृतिश्चानन्तराभिहितैव । अनुभव-
स्मृती ते हेतुर्यस्य तदनुभवस्मृतिहेतुकं ज्ञानमित्युत्तरेण योगः । अनेन
२० प्रत्यभिज्ञानस्य कारणमुक्तम् । सामान्यशब्दस्य प्रत्येकमामिसम्बन्धाति-
र्यक्सामान्यं च गवादिषु सदृशपरिणामात्मकम् । ऊर्ध्वतासामान्यं च
परापरविवर्तव्यापि द्रव्यम् । एतदुभयमादिर्यस्य वैलक्षण्यादेर्धर्मस्तो-
मस्य स तिर्यगूर्वतासामान्यादिगोचरो विषयो यस्य तत्तथा । अनेनास्य
विषयो निर्दिष्टः । सङ्कलनं विवक्षितधर्मयुक्तत्वेन वस्तुनः प्रत्यवम-
२५ र्शनमात्मा स्वभावो यस्य तत्सकलनात्मकमिति । अनेन स्वरूपमभिहितम्।
एवंविधविशेषणविशिष्टं यज्ज्ञानं तत्प्रत्याभज्ञानमिति विज्ञेयम् ॥ ५॥
परि. ३ सू.६] स्थाद्वादरत्नाकरसहितः अस्योदाहरणोपदर्शनायाह-- यथा तजातीय एवायं गोपिण्डो गोसदृशो गवयः स एवायं जिनदत्त इत्यादीति ॥६॥ अन तज्जातीय एवायं गोपिण्डो गोसदृशो गवय इत्याभ्यां तिर्यक्- सामान्यविषयं स एवायं जिनदत्त इत्यनेन पुनरूलतासामान्यविषयं ५ प्रत्यभिज्ञानमुदाहृतम् । तिर्यक्सामान्यविषयं च गोसदृशो गवय इत्युदा- हरणान्तरमुपमानप्रमाणस्यात्रैवान्तविप्रदर्शनार्थमुपदर्शितम् । आदि- शब्दात्स एवानेनाप्यर्थः कथ्यते गोविलक्षणो महिष इदमस्माद्दरमिद- मस्य समीपमिदमल्पमिदं महदिदमस्मात्प्रांशु ह्रस्वं वेत्यादि । तथा--- शुण्डालदण्डपृथुगण्डतटीकराल- मापिङ्गलस्फुटसटाविकटांसकूटम् । अष्टाभिरधिभिरुपेतमतीव भीष्म- माहुर्बुधाः शरभमद्भुतशौर्यवृत्तिम् ।। ४४८ ।। स्कन्धे सटाश्चरणकोटिषु कुञ्जरेन्द्र- कुम्भस्थलीदलनदुर्ललितानि यस्य ।। कापि प्रपश्यति भवान्नखपञ्जराणि जानातु तं जगति केसरिणः किशोरम् ।। ४४९ ॥ गण्डस्थलीप्रविगलन्मदगन्धलुब्ध- मुग्धभ्रमद्भमरभूषितकर्णजाहम् ।। दुर्वारदन्तमुशलं बलगण्डशैल- ૨૦ शङ्काकरं द्विरदराजमुदाहरन्ति ॥ ४५० ॥ आलोक्य कज्जलमलीमसमेघमाला- मभ्युन्नतां वियति यो नरिनर्वि हर्षात् ॥ केकायितानि कुरुतेऽश्रुजलप्लुते च धत्ते दृशौ शिखिनमेनमुशन्ति सन्तः ॥ ४५१ ॥ २५ ४९० प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३६ , १० आताम्रचञ्चुचरणं सवलक्षपक्षं क्षीराम्बुसकरविवेककलाप्रगल्भम् ।। मञ्जीरम परिसिन्जितमन्दनाद जानीहि मन्थरगति बत राजहंसम् ।। ४५२ ।। यो मञ्ज मञ्जु परिगुञ्जति मञ्जरीणां किञ्जल्कपुञ्जरजसा कपिशीकृताङ्गः ।। नीलीतमालदलकज्जलकालकान्तिः पद्धिर्भवेन्मधुकरश्चरणैः स नूनम् ॥ ४५३ ।। या खिद्यते प्रतिपदं स्वनितम्बमारात् त्रस्तकहायनकुरङ्गविलोलनेत्रा॥ उत्तुङ्गपीनकुचकुम्भनिरङ्कुशां ता सीमन्तिनीं युवतिरित्युपवर्णयन्ति ॥ ४५४ ॥ यव्योम संरचयति स्फुरदिन्द्रचाप- रोचिष्णु चित्ररचनारुचिरं समन्तात् ।। विस्तारिणा स्वकिरणप्रसरेण पञ्च- वर्णेन तद्भवति मेचकमत्र रत्नम् ।। ४५५ ।। ताम्राणि यस्य विलसन्ति सुपल्लवानि चुम्बन्ति चारुकुसुमानि च चञ्चरीकाः ।। वाचालितं विपुलकोकिलकाकलीमि- र्बुध्यस्व हन्त सहकारमहीरुहं तम् ॥ ४५६ ।। इत्येवमादिशब्दश्रवणादाहितसंस्कारविशेषः, प्रतिपत्ता तथाविधानेवः शरभसिंहादीनवलोक्य तथा सत्यापयति यदा तदा तत्संकलनमपि प्रत्यभिज्ञानोदाहरणमादर्शितं मन्तव्यम् । २० अत्राह शाक्यः परि. ३ सू. ६] स्याद्वादरत्नाकरसहितः सत्खण्डनम् । विज्ञानस्य प्रत्यभिज्ञाननाम्नः प्रत्यभिज्ञानमस्वीकुर्वतो पौद्धस्य पूर्वपक्षमुपाद्य सम्यग्युक्त्या नास्ति सत्तैव तावत् ।। या त्वस्यैषा मानतावर्णना सा वान्ध्येयस्योदग्रशृङ्गारभङ्गिः ॥ ४१७ ॥ तथा हि, विरुद्धधर्माध्यासतः कारणाभावाच्च प्रत्यभिज्ञानस्य ५ स्वरूपमेव न सम्भवति। तत्कथं तस्य प्रामाण्यं प्रतिपादयितुमुचितम् । पूर्वं हि ज्ञातस्य पुनः कालान्तरे स एवायमित्यादि ज्ञानं प्रत्यभि- ज्ञानम् । न चास्यैकत्वमुपपन्नम् । विरुद्धधर्माध्यासात् । यत्र हि विरुद्ध- धर्माध्यासो न तत्रैक्यम् । यथा जलानलादौ । विरुद्धधर्माध्यासश्च प्रत्यभिज्ञान इति । न चायमसिद्धः स्पष्टास्पष्टरूपाक्रान्ततया प्रत्याभ- १० ज्ञाने विरुद्धधर्माध्यासस्य प्रसिद्धेः । तथा हि, स इत्युल्लेखः प्रत्यभिज्ञाने स्मरणरूपत्वेनास्पष्टः । अयमित्युल्लेखश्च प्रत्यक्षरूपत्वेन स्पष्टः । न चास्पष्टेतरलक्षणविरुद्धधर्मलक्षणविरुद्धधर्माध्यासेऽप्यभेदो युक्तः प्रत्यक्षानुमानयोरप्यभेदप्रसक्तेः । किं च स एवायमित्याकारद्वयं, तत्र किं परस्परानुप्रवेशेन प्रतिभात्यननुप्रवेशेन वा । प्रथमपक्षेऽ- १५ न्यतराकारस्यैव प्रतिभास. स्यात् । द्वितीयाकारस्य तत्रानु- प्रवेशेन तस्मादविविक्तत्वात् । द्वितीयपक्षे तु परस्परविविक्तप्रति- भासद्वयप्रसङ्गः । अन्योन्याननुप्रवेशेनाकारद्वयस्यावस्थानात् । न च प्रतिभासद्वयम् । एकाधिकरणत्वप्रसक्तेस्तु पुरुषाद्वैतसिद्धिः स्यात् । ततो विरुद्धधर्माध्यासान्नैकमिदं ज्ञानमभ्युपगन्तव्यम् । ततः कथं २० प्रत्यभिज्ञानस्य सम्भवः । कारणाभावाच न तत्सम्भवति । तथा हि, प्रत्यभिज्ञानस्य कारणं किमिन्द्रियमुत पूर्वानुभवजनितः संस्कारस्तदु- भयं वा । न तावदिन्द्रियम् । तस्य वर्तमानार्थावभासजनकत्वात् । नापि संस्कारः । तस्य स्मरणकारणत्वात् । नाप्युभयम् । उभयदोषानुषङ्गात् । न च कारणान्तरमस्योपलभ्यते । तन्न प्रत्यभिज्ञानं स्वरूपतः सम्भ- २५ वति । सम्भवतु वा, तथापि न तत्प्रमाणम् । विषयाभावात् । तस्य - ४२२ प्रमाणनयतत्त्वालोकालङ्कारः {परि. ३ स.६ हि विषयः पूर्वज्ञाने प्रतिभातमेव वस्तु तदतिरिक्तं वा । तत्राद्यपक्षे न तत्प्रमाणन् । गृहीतग्राहित्वात्, धारावाहिज्ञानवत् । द्वितीयपक्षेऽपि किं कृतस्तस्यातिरेकः किं स्वरूपभेदकृतः कालद्वयसम्बन्धैक्यप्रतिपत्ति- कृतो वा । यदि स्वरूपभेदकृतः, तदा ज्ञानवज्ज्ञेयस्यापि प्रतिक्षणं स्वरूपभेदप्रसिद्धेः शौद्धोदनिमतानुप्रवेशः । अथ कालद्वयसम्बन्धिदेव- दत्तस्यैक्यं प्रतीयते । अतस्तत्प्रत्तिपत्तिकृतोऽतिरेक इति चेत् । तदपि वाङ्गात्रम् । यतः किमिदमैक्यं नाम, एकत्वसंख्या स्थायित्वं वा । योकत्वसंख्या, तदाऽस्याः पूर्वमेव प्रतिपन्नत्वात्कथमाधिक्यपरिच्छेदः प्रत्यभिज्ञानेन । अथ स्थायित्वम् । तत्किं देवदत्तस्वरूपाद्भिन्नमभिन्न १० वा । यद्यभिन्नम् , तदा तत्स्वरूपवत्तदपि पूर्वज्ञानेनैव प्रतिपन्नमिति तद्विषयत्वे प्रत्यभिज्ञानस्य तदचस्थ एव गृहीतग्राहित्वेनाप्रामाण्यलक्षणो दोषः । अथ भिन्नं स्थायित्वम् , तत्किं पूर्वमप्युत्पन्नमथ प्रत्यभिज्ञान- समय एवोत्पद्यते । यदि पूर्वमप्युत्पन्नम् , तदा पूर्वज्ञानेनैवास्य परि- च्छेदात्कथं प्रत्यभिज्ञानाधिक्यपरिच्छेदः । अथ प्रत्यभिज्ञानसमय १५ एवोत्पद्यते । तर्हि तस्य पूर्वमप्रतिपन्नत्वात्कथं प्रत्यभिज्ञानविषयत्वम् । पूर्व प्रतिपन्नस्यार्थस्य पुनः कालान्तरे गृह्यमाणस्य प्रत्यभिज्ञानविषयत्वा- भ्युपगमात् । पूर्वज्ञानाप्रतिपन्नार्थान्तरावबोधकज्ञानस्य प्रत्यभिज्ञा- नत्वे च घटज्ञानानन्तराविर्भूतपटज्ञानस्यापि तत्त्वप्रसङ्गः । प्रत्यभिज्ञान- समय एवावस्थायित्वस्योत्पत्तौ च क्षणिकत्वानुषात्कथं तद्विशिष्टार्था- २० नामक्षणिकत्वं स्यादिति । तस्मादित्थमभावाद्यद्वा सत्त्वेऽपि गोचराभावात् ।। प्रामाण्यधुरन्धरेण न धुरीणं प्रत्यभिज्ञानम् ॥ ४५८ ।। हन्त सौगत यथैव विष्टपे विश्रुतस्त्वमसि पश्यतोहरः ।। अस्ति कश्चन तथैव कोविदस्त्वद्विनिग्रहविनोदुर्धरः ॥४५९॥ तथा हि यत्तावदुक्तं विरुद्धधर्माध्यासत इत्यादि । तत्र यदि नाम दर्शनस्मरणलक्षणयोराकारयोविरोधः । तथापि धर्मिणः प्रत्य- परि.३ सू. ६] स्याद्वादरत्नाकरसहितः ४९३ भिज्ञानरूपस्य किमायातम् । येनास्य विरुद्धधर्माध्यासाद्भेदः प्रायंत। धर्माणां हि परस्परपरिहारस्थितिलक्षणविरोधसम्भवे तेषामेवान्योन्यं भेदो युक्तः । चित्रविज्ञानाकारवत् । किं च विरुद्धाभ्या दर्शनस्मरणा- काराभ्यां कारणभूताम्यां स्वभावभूताभ्या वा प्रत्यभिज्ञानस्य भेदः साध्येत । तत्राद्यपक्षे सिद्धसाध्यता दोषः । न खलु कारणस्वरूपमेव ५ सर्वथा कार्यस्वरूपमित्यनेकान्तवादिनः प्रतिजानते । द्वितीयपक्षेऽपि कथञ्चित्तद्भेदः साध्येत सर्वथा वा । यदि कथञ्चित्, तदा सिद्धा साध्यतैव । आकारतद्वतोः कथञ्चिद्भेदाभ्युपगमाजैनैः । भेदस्त्वनुपपन्नः, तयोस्तत्स्वभावत्वाभावप्रसङ्गात्। यो यस्य स्वभावो न तस्य तद्वतः सर्वथा भेदः । यथा चित्रज्ञानान्नीलाद्याकाराणाम् । स्वभावश्च प्रत्यभि- १० ज्ञानस्य स एवायमित्याकारद्वयमिति । प्रत्यभिज्ञानं हि दर्शनस्मरण- लक्षणस्वसामग्रीतः समुत्पद्यमानमङ्गीकृताकारद्वयमेव समुपजायते । चित्रपटादिसामग्रीतश्चित्राकारैकज्ञानवत् । अभ्युपगम्य च स्वभाव- भूताकारद्वयस्य स्पष्टत्वास्पष्टत्वाभ्यां विरुद्धधर्माध्यासत्वमेतदुक्तम् । यावता प्रत्यभिज्ञाने स्पष्टत्वास्पष्टत्वे एव न विद्यते । अस्पष्टस्वरूप- १५ स्यैवास्य स्वसामग्रीतः समुत्पादात् । यदप्युक्तं स एवायमित्याकार- द्वयं, तत्र किं परस्परानुप्रवेशेन प्रतिभातीत्यादि, तत्र कोऽयमस्य, पर- स्परानुप्रवेशो नाम । परस्पररूपसाङ्कर्यमेकस्मिन्नाधारे धृतिर्वा । नाद्यः पक्षः श्रेयान् । प्रतीतिविरोधात् । न हि यथोक्तमाकारद्वयमन्योन्य- सङ्कीर्णस्वरूपं स्वमेऽपि प्रतीयते । द्वितीयपक्षे पुनर्न किंचिदनिष्टम् । २० एकस्मिन्प्रत्यभिज्ञाने तदाकारद्वयस्य निर्वाधमनुभूयमानत्वात् । कथं चैवंवादिनः सौगतस्य चित्रज्ञानमपि सिध्येत् । नीलादिप्रतिभासानां हि परस्परानुप्रवेशे सर्वेषामेकल्पताप्रसङ्गात्कुतश्चित्रत्वम् , एक- नीलाकारज्ञानवत् । तेषां परस्पराननुप्रवेशे वा भिन्नसन्ततिनीलादिप्रति- भासानामिवात्यन्तभेदसिद्धेर्नितरामचित्रत्वम् । एकज्ञानाधिकरणतया २५ तेषां प्रत्यक्षतः प्रतीतेः प्रतिपादितदोषानवकाशः प्रत्यभिज्ञानेऽप्यवि- प्रमाणनयतत्त्वालोकालङ्कारः [-परि. ३ सू. ६ शिष्टः । तन्न विरुद्धधर्माध्यासितत्वात्प्रत्यभिज्ञानस्याभावो युक्तः । नापि कारणाभावतः । दर्शनस्मरणलक्षणस्य तत्कारणस्य सूत्रे प्रति- पादितत्वात् । ननु कथं पृथग्गोचरयोविभिन्नाकारयोश्च दर्शनस्मरणयोः प्रत्यभिज्ञाने कारणतेति चेत् । तेनानुविधीयमानान्वयव्यतिरेकत्वात् । ५ अङ्कुरादिनानुविधीयमानान्वयव्यतिरेकस्य वीजादेरिव । तत्र न खलु बीजादेरकुरादौ कारणताया तेनान्वयव्यतिरेकानुविधानादन्यन्निबन्धन- मस्ति । तन्न प्रत्यभिज्ञानस्य कारणाभावादप्यभावो युक्तः । अपि चेदं प्रत्यभिज्ञानं कार्यम् । कार्य च प्रतीयमानं कारणसद्भावमवबोध- यति । अतः कथमस्य कारणाभावो ज्यायान् । ततश्च कारणाभावाच्च १० न तत्सम्भवीत्यादि प्रत्यादिष्टम् । यच्चान्यदुपन्यस्त सम्भवतु का तथापि न तत्प्रमाणं विषयाभावादिति । तदप्ययुक्तम् । विषयाभावस्या- सिद्धेः । पूर्वोत्तरविवर्त्तवत्यैकद्रव्यादेस्तद्विषयस्य सद्भावात् । न च दर्शनस्मरणयोरेवायं विषय इति वाच्यम् । दर्शनस्य हि वर्तमान- कालावछिन्नः स्मरणस्य पुनरतीतकालावच्छिन्नपदार्थो विषयः प्रत्यभि- १५ ज्ञानस्य तूभयकालावच्छिन्नद्रव्यादि । न चाशेषार्थानां क्षणिकत्वतो द्रव्यस्य कस्यचिदप्यसम्भवात्कथं तस्य तद्विषयता प्रार्थ्यत इत्यभिधात- व्यम् । क्षणभङ्गप्रतिषेधेन द्रव्यसिद्धेः पुरस्तादुपपादयिष्यमाणत्वात् । न च लूनपुनर्जातनखकेशादिष्विव सर्वत्र निर्विषया प्रत्याभिज्ञा । क्षणक्षयैकान्तस्यानुपलम्भात् । तदुपलम्मे हि सा निर्विषया २० स्यात् । एकचन्द्रोपलम्भे द्विचन्द्रप्रतीतिवत् । लूनपुनर्जा- तनखकेशादौ च स एवायं नखकेशादिरित्येकत्वपरामर्शिप्रत्यभि- ज्ञानं लूननखकेशादिसदृशोऽयं पुनर्जातनखकेशादिरिति सादृश्य- निबन्धनप्रत्यभिज्ञानान्तरेण बाध्यमानत्वादप्रमाणं प्रसिद्धम् । न पुनः सादृश्यप्रत्यवमार्श । तत्त्वस्याऽवाध्यमानतया प्रमाणत्वसिद्धेः । न चैकत्रैकत्वपरामर्शिप्रत्यभिज्ञानस्य मिथ्यात्वदर्शनात्सर्वत्राऽस्य मिथ्या- त्वम् । प्रत्यक्षस्यापि सर्वत्र भ्रान्तत्वानुषङ्गान्न किञ्चित्कुतश्चित्कस्यचित्प्र- परि. ३ सू. ६ ] स्याद्वादरत्नाकरसहितः , सिध्येत् । ततो यथा शुक्ले शले पीताभासं प्रत्यक्षं तत्रैव शुक्ला- भासप्रत्यक्षान्तरेण बाध्यमानत्वादप्रमाणं न पुनः पीते कनकादौ । तथा प्रकृतमपीति । तन्न विषयाभावात्प्रत्यभिज्ञानमप्रमाणम् । अथ गृहीतग्राहित्वात्तत्तथेष्यते, तत्र तद्विषयो हि प्रत्यक्षेण गृह्येत स्मरणेन प्रमाणान्तरेण वा । न तावत्प्रत्यक्षेण, तस्य वर्त्तमानविवर्त्त- ५ मानालिङ्गितद्रव्यगोचरचारित्वात् । नापि स्मरणेन, तस्यातीतपर्याय- मात्रावच्छिन्नद्रव्यविषयत्वात् । नापि प्रमाणान्तरेण, उभयविवर्त्तवार्ति- द्रव्यादिग्राहकस्य प्रत्यभिज्ञानात्पूर्वमन्यस्य प्रमाणस्य प्रवृत्तेरननुभवात् । प्रत्यक्षस्मरणजनितकल्पनाज्ञानमस्तीति चेत्, न । तस्यैव प्रत्यभिज्ञान- त्वेनास्माभिरप्यभ्युपगमात् । ननु यदि प्रत्यक्षस्मरणयोरुभयविवर्त्त- १०. वर्तिद्रव्यमविषयः । तर्हि कथं ताभ्या तत्र प्रत्यभिज्ञानं जायेत । तथा हि, यद्यस्य विषयो न भवति न तत्तत्र विज्ञानमुत्पादयति, यथा च रसे । न भवति चोभयविवर्त्तवर्ति द्रव्यं विषयः प्रत्यक्ष- स्मरणयोरपीति चेत् । तदप्यनुपपन्नम् । विकल्पोत्पादकाध्यक्षेणाने- कान्तात् । तस्यान्यगोचरस्यापि सामान्ये विकल्पोत्पादकत्वप्रतीतेः। १५. अथ विकल्पवासनासहायमविकल्पकं स्वाविषयेऽपि सामान्ये विकल्प- मुपजनयति । सहकारिणामचिन्त्यशक्तिकत्वात् । अन्यथा कथमसर्व- ज्ञानमभ्यासविशेषसहायं सर्वज्ञज्ञानं जनयदिति चेत् । तर्हि प्रत्यभि- ज्ञानावरणक्षयोपशमसहाये प्रत्यक्षस्मरणे अपि स्वाविषये उभय- विवर्त्तवर्तिनि द्रव्ये प्रत्यभिज्ञानमुपजनयतामविशेषात् । एतेन तस्य हि २०. विषयः पूर्वज्ञाने प्रतिभातमेव वस्तु तदतिरिक्तं चेत्यादि पूर्वपक्षग्रन्थः कदर्थितो द्रष्टव्यः । उक्तनीत्या प्रत्यभिज्ञानविषयस्य व्यवस्थापितत्वात् । तन्न गृहीतग्राहित्वात्प्रत्यभिज्ञानमप्रमाणम् । अथ स्मरणानन्तरभावित्वा- तत्तथाऽनुमन्यते । तदप्यनुपपन्नम् । रूपस्मरणानन्तरं रससन्निपाते समुत्पन्नस्य रसज्ञानस्याप्यप्रामाण्यप्रसङ्गात् । तत्र हि रूपस्मरणस्य २५ पूर्वकालभावित्वात्समनन्तरकारणत्वम् । बोधाद्वोधरूपतेत्यभ्युपगमात् । ..
प्रमाणनयतत्त्वालोकालङ्कारः परि. ३ सू.६ न चात्र बोधरूपतया समनन्तरकारणत्वं प्रत्यभिज्ञाने तु स्मरणरूपतयेति वाच्यम् । स्मरणबोधरूपतयोस्तादात्म्ये सति क्वचिद्बोधरूपतया समनन्तरकारणत्वं स्मरणस्य कचित्तु स्मरणरूपतयेति व्यवस्थापयितुम- शक्तेः । यदि च स्मरणानन्तरभावित्वात्प्रत्यभिज्ञानमप्रमाणमिति प्रति- पाद्यते । कथं तर्हि अनुमानमपि प्रमाणं स्यात् । तद्धि साध्यसाधन- सम्बन्धस्मरणानन्तरमेवोपजायते । अन्यथा दृष्टान्तोपन्यासस्तत्र व्यर्थों भवेत् । तन्न स्मरणानन्तरमावित्वादपि प्रत्यभिज्ञानमप्रमाणम् । अथ बाध्यमानत्वात्तत्तथा कथ्यते, तदपि न तथ्यम् । तद्बाधकस्य कस्य- चिदप्यनुपपत्तेः । यत्नैकत्वविषयस्य प्रत्यभिज्ञानस्यापह्नवः कर्तुमुचितः । १० नापि सादृश्यगोचरस्य, अनुमानानुत्पत्तिप्रसङ्गात् । येनैव हि पूर्व धूमोऽमेदृष्टस्तस्यैवोत्तरकालं पूर्व धूमसदृशधूमदर्शनादम्यनुमानोत्पत्चिर्यु- क्ता नाऽन्यस्याऽन्यदर्शनात् । न च प्रत्यभिज्ञानमन्तरेण तेनेदं सदृश- मिति प्रतिपत्तिर्घटते । पूर्वप्रत्यक्षेणोचरस्योत्तरप्रत्यक्षेण च पूर्वस्य धूमादि- वस्तुनोऽप्रतिपत्तेः । न च द्वयाप्रतिपत्तौ द्विष्ठं सादृश्यं प्रतिपत्तुं शक्यम् । ३५ अतिप्रसङ्गात् । सादृश्यसार्थाभ्यां भिन्नाभिन्नादिविकल्पैर्विचार्यमाणस्यानु- पपत्तेस्तद्गोचरप्रत्यभिज्ञानस्य कथं प्रमाणत्वमिति च न शङ्कनीयम् । सा- इंश्यस्य सामान्यप्रतिष्ठावसरे व्यवस्थापयिष्यमाणत्वात् । न च तस्मिन्नेव स्वपुत्रादौ प्रान्त्या तादृशोऽयमिति प्रत्यभिज्ञानं सादृश्यनिबन्धनं स एवाड- यमित्येकत्वनिबन्धनप्रत्यभिज्ञानेन बाध्यमानमप्रमाणं प्रतिपद्य स्वपुत्रा- दिना सदृशे पुरुषे तादृशोऽयमित्यपि प्रत्यभिज्ञानमप्रमाणं प्रति- पादयितुं युक्तम् । तस्याबाध्यमानत्वेन प्रमाणत्वात्। एवं वैलक्षण्यादि- विषयाण्यपि प्रत्यभिज्ञानानि समर्थनीयानि । ततश्च- हहो बौद्धाः स्वमतविषयं पक्षपातं विधूय ग्राह्यं प्रौढप्रमितिवशतः प्रत्यभिज्ञाप्रमाणम् ।। यस्मादेषा भवति सततं लोकयात्रा समग्रा कोऽपि वाऽपि स्वपरनियमं नाऽन्यथा हन्त कुर्यात् ।।४६०॥
परि. ३ सू. ६ ] स्याद्वादरत्नाकरसहितः ४९७ तत्खण्डनम्। अत्राह भाट्टा- सादृश्यज्ञानस्योपमानत्व- सादृश्यगोचरज्ञानमुपमानस्वरूपताम् ।। मेव न प्रत्यभिज्ञानत्वमिति भापूर्वपक्षमुपदय अङ्गीकरोति न पुनः प्रत्यभिज्ञानरूपताम् ॥ ४६१ ॥ तथा हि, गोदर्शनाहितसंस्कारस्य प्रमातुः पश्चाद्वयदर्शनं गवि ५ स्मरणे सत्यनेन सदृशः स इत्येवमाकारतयोपजायमानस्य ज्ञानस्योप- मानत्वमेव न्याय्यं न प्रत्यभिज्ञानत्वम् । तस्यैकत्वविषयत्वेनैव व्यव- स्थितत्वात् । सादृश्यविशिष्टो विशेषो विशेषविशिष्टं वा सादृश्यमुप- मानस्यैव प्रमेयम् । उक्तं च--- " तस्माद्यत्स्मर्यते तत्स्यात्सादृश्येन विशेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥ १॥ १० प्रत्यक्षेणावबुद्धेऽपि सादृश्ये गवि च स्मृते । विशिष्टस्यान्यतोऽ- सिद्धेरुपमानप्रमाणता" ॥२॥ इति । एतदपरीक्षकलक्षितम् । सादृश्यप्रतीतेः सङ्कलनाज्ञानरूपतया प्रत्यभिज्ञानताऽनतिक्रमात् । स एवायमिति यथोत्तरपर्यायस्य पूर्वपर्यायङ्गकताप्रतीतिः प्रत्यभिज्ञानमेव- मनेन सदृशः स इत्येषापि । सङ्कलनात्मकत्वाविशेपात् । यदि १५ चैकत्वज्ञानमेव प्रत्यभिज्ञानं सादृश्यज्ञानं तूपमानमित्यभ्युपगमः । तर्हि वैलक्षण्यज्ञानं किं नाम प्रमाणं स्यात् । यथैव हि गोदर्शनाहितसंस्कार- स्य गवयदर्शिनोऽनेन सदृशः स इति प्रतिपत्तिः । तथा महिपादि- दर्शिनोऽनेन विलक्षणः स इति वैलक्षण्यप्रतीतिरप्यस्ति सा च न प्रत्यभिज्ञानोपमानयोरन्तर्भवति । एकत्वसादृश्यविषयत्वात् । अतः २० प्रमाणान्तरं प्रमाणसङ्ख्यानियमविघातकृद्भवेद्भवतः । अथ सादृश्या- भावो वैलक्षण्यं तस्याऽभावविषयत्वान्न प्रमाणसझ्यानियमविघातः । तर्हि वैलक्षण्याऽभावः सादृश्यमिति स एव दोपः । नन्वनेकस्य समानधर्मयोगः सादृश्यं तत्कथं वैलक्षण्याभावमात्रं स्यादिति चेत् । तर्हि वैलक्षण्यमपि विसदृशधर्मयोगस्तत्कथं सादृश्याभावमात्रं स्यादिति २५ १ मी. श्लो. वा. उप. प. सू. ५श्लो. ३१३८.
“४९८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. ६ । समानमिति । एतेन गौरिव गवय इत्युपमानवाक्याहितसंस्कारस्य पुन- वने गवयदर्शनेऽयं गवयशब्दवाच्य इति संज्ञासंज्ञिसम्बन्धप्रतिपत्तिरुप- मानमिति नैयायिकमतमपि प्रतिहतम् । यथैव ह्येकदा कुम्भमुपलब्ध- वतः पुनः कालान्तरे तस्यैव दर्शने स एवायं कुम्भ इति प्रतिपत्तिः ५ प्रत्यभिज्ञा प्रतिज्ञायते, तथा गोसदृशो गवय इति संकेतकाले गवयतदभिधानयोर्वाच्यवाचकसम्बन्ध प्रतिपद्य पश्चाद्वयदर्शनात्तत्प्रति- पत्तिः प्रत्यमिज्ञा प्रतिज्ञायताम् । किं च गोविलक्षणमहिष्यादिदर्शना- द्वयशब्दवाच्योऽयं न भवतीति तत्संज्ञासंज्ञिसम्बन्धप्रतिषेधप्रतिपत्तिः किं नाम प्रमाणं स्यात् । अथेयमप्युपमानमिष्यते । तदा "प्रसिद्ध- १० साधर्म्यात्साध्यसाधनमुपमानम् ” इति व्याहन्येत । प्रसिद्धवैधा- च्चेत्युपसङ्ख्यानं वा सूने कर्त्तव्यम् । तथाऽऽमलकदर्शनाहितसंस्कारस्य बिल्वादिदर्शनादतस्तत्सूक्ष्ममिति प्रतीतिः स्वसमीपवर्तिप्रासादादिदर्श- नोपजनितसंस्कारस्य तत्प्रतियोगिपर्वताद्युपलम्मादिदमस्माद्दरमिति प्रति- पत्तिः, हस्वशिशपादिदर्शनाविर्भूतसंस्कारस्य तद्विपरीतवटवृक्षा- १५ द्यर्थोपलम्मादतोऽयं प्राशुरिति विनिश्चितं किं प्रमाणं भवेत् । तथा चोक्तम् । उपमानं प्रसिद्धार्थसाधात्साध्यसाधनम् ॥ तद्वैध- ात्प्रमाणं किं स्यात्संज्ञिप्रतिपादनम् ॥१॥ इदमल्प महद्दरमासन्नं प्रांशु नेति वा ॥ व्यपेक्षातः समक्षार्थे विकल्पः साधनान्तरम्।।२॥" इति । साधनान्तरं स्यादिति । तथा हंसाधनभिज्ञो यदा कश्चित्क्वचि- २० पृच्छति कीदृशो हंसादिरिति । तदा स तं प्रति “ पयोम्बुभेदहिंसः स्यात्पट्पादैर्घमरः स्मृतः । सप्तपर्णैः सुतत्त्वज्ञविज्ञेयो विषमच्छदः ॥१॥ पञ्चवर्णं भवेद्रत्नं मेचकाख्यं पृथुस्तनी ॥ युवतिश्चैकश- ङ्गोऽपि गण्डकः परिकीर्तितः ॥ २॥ शरभोऽप्यष्टभिः पादैः सिंहश्वारुसटन्वितः इत्यादिकमाह । ततश्चैतद्वाक्याहित- संस्कारः प्रष्टा यदा पयोम्बुभेदित्वाद्युपलक्षितानर्थान्कालान्तरे समुप- १ गौ. सू. १1११६. २ — सप्तपर्णैस्तु' इति प. म. पुस्तकयोः पाठः । २५ परि. ३ मू ६] स्याद्वादरत्नाकरसहितः ४९९ - लभ्याय स हंसशब्दवाच्य इत्यादिरूपतया तत्संज्ञासंज्ञिसम्बन्धं प्रति- पद्यते । तदा किं नाम तत्प्रमाणं स्यात् । उपमानमित्यसम्भाव्यम् । सर्वोक्तप्रकारेण प्रतिपत्तौ प्रसिद्धार्थसाधासम्भवात् । ततः प्रतिनि- यतप्रमाणव्यवस्थामभ्युपगच्छता न्यायशालिना प्रतिपादितप्रकारं प्रतीति- कदम्बकं प्रत्यभिज्ञानमेवेति स्वीकर्तव्यम् । भूयोऽपि भाट्टः प्राह- परोक्ष प्रत्यभिज्ञानमिति क्षमायै नैव नः ॥ यतः प्रत्यक्षतैवास्य न्यायगोचरमञ्चति ।। ४६२ ॥ तथा हि, प्रत्याभिज्ञानं प्रत्यक्षम् । अक्षान्वयव्यतिरेकानुविधायि- त्वात् । यदित्थं तदित्थं यथा सम्प्रतिपन्नं प्रत्यक्षमिति । न च स्मरणपूर्व- कत्वात्प्रत्यभिज्ञानस्य प्रत्यक्षत्वाभावः । स्मरणात्पश्चाद्धावित्वेऽपि सत्स- १० म्प्रयोगजत्वेन प्रत्यक्षत्वाविरोधात् । यदाह न हि स्मरणतो यत्तन्न प्रत्यक्षमितीदृशम् ॥ वचनं राजकीयं वा लौकिक चापि विद्यते ॥१॥न चापि स्मरणात्पश्चादिन्द्रियस्य प्रवर्तनम् ।। वार्यते केन चिन्नापि तत्तदानी प्रदुष्यति ॥२॥ तेनेन्द्रियार्थसम्ब- न्धात्प्रागूचं चापि यत्स्मृतेः । विज्ञानं जायते सर्व प्रत्यक्षमिति १५ गम्यताम् ॥ ३॥” इति । नैतदपि न्याय्यम् । यतोऽक्षान्वयव्यति- रेकानुविधायित्वं प्रत्यभिज्ञानस्य साक्षाद्विवाक्षितं पारम्पर्येण वा । यदि पारम्पर्येण, तदानुमानादिनास्य व्यभिचारः । तस्य प्रत्यक्षलक्षितलिङ्गादि. द्वारेणोपजायमानस्य परम्परयाऽक्षान्वयव्यतिरेकानुविधायिनोऽपि प्रत्यक्ष. न्त्वाभावात् । साक्षादक्षान्वयव्यतिरेकानुविधायित्वं त्वसिद्धम् । प्रत्य. २० भिज्ञानस्य साक्षात्प्रत्यक्षस्मरणान्वयव्यतिरेकानुविधायित्वेनानुभूय- मानत्वात् । साक्षादक्षान्वयव्यतिरेकानुविधायित्वे पुनरस्य प्रथमव्यक्ति- दर्शनकालेऽप्युत्पत्तिः स्यात् । अथ पुनदर्शने पूर्वदर्शनाहितसंस्कार- प्रबोधात्पन्नस्मृतिसहायमिन्द्रियं प्रत्यभिज्ञानमुत्पादयतीत्युच्यते । तदनु- चितम् । प्रत्यक्षस्य स्मृतिनिरपेक्षत्वात् । सापेक्षत्वे तु प्रत्यभिज्ञानस्या- २५ नुमानादिवत्परोक्षतैव ज्यायसी।
५०२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ स. ७ तत्र च "स्मरणे पदविषयसङ्केतस्मरणे च सति सुबन्तं तिडन्तं च पदमिति प्रत्यभिज्ञानमुपजायते । तथा पूर्वपूर्वपदश्रवणाहितसंस्कारस्यान्त्यपदश्र- वणानन्तरमनुक्रमविशिष्टपूर्वपदानां वाक्यगोचरसङ्केतस्य च स्मरणे सति वाक्यमिदमिति प्रत्यभिज्ञानमुन्मजति । एवं तयोर्वर्णपदवाक्यग्रहणं ५ प्रत्यभिज्ञानात् । ततोऽपि मध्यमवृद्धं चेष्टमानमवलोकयन्बालस्तटस्थ- स्तस्यार्थप्रतीति तावत्कल्पयति । आत्मनि तत्पूर्विकायाश्चेष्टाया दृष्टत्वात् । प्रमाणान्तरासन्निधावेतद्वृद्धप्रयुक्तशब्दसमनन्तरं च प्रवृत्तोऽ- यमित्यत एव शब्दाकिमप्यनेन प्रतिपन्नमिति मन्यते । तमर्थ तेन वृद्धेनानीयमानमेवमवबुध्यतेऽयमर्थोऽमुतः शब्दादनेनावगत इति स १. चार्थोऽनेकगुणक्रियाजातिव्यक्त्यादिरूपसङ्कुल उपलभ्यते । शब्दोऽ- प्यनेकपदकदम्बकात्मा श्रुतः, तत्कतमस्य शब्दाशस्य कतमोऽ- शो वाच्य इति सन्दिग्धे कालान्तरे च गां नयेत्या- दिकमाकर्णयति । गोशब्दानुवृत्तिमानयेत्यस्य तु व्यावृत्ति विभावयति । ततोऽपि कदाचन वाजिनमानयेति शृणोति, १५ तत्रापि गोशब्दस्य व्यावृत्तिमानयेत्यस्य त्वनुवृत्तिं व्यवस्यति । तदनु- सारेण च गवादेरप्यर्थस्यानुवृत्तिव्यावृत्ती समाकलयति । तत इत्थमा- वापोद्वापाभ्यामनन्तरमीदृग्जातीयोऽर्थ ईदृग्जातीयस्य वाच्यः सोऽपि तस्य वाचक इतीत्थं वाच्यवाचकमावालम्बनसकलविवक्षितवाच्य- वाचकविशेषसमुल्लेखशेखरस्तर्कः समुल्लसति । क्वचित्तु यदा कश्चित्त- २० कॆण वाच्यवाचकभावं स्वयमवेत्य परमप्यनेनैव तमवबोधयिष्यंस्तदनु- सारिपरसन्ताने तर्कोत्पत्तिहेतुं वचनं परार्थतर्करूपमुच्चारयति । तदा तस्मादप्यस्योल्लासः। यथा कश्चन पिता परमवत्सलो वत्साय कञ्चन पदार्थ पुरस्कृत्य कथयति, इत्थम्भूतमित्थम्भूतस्य शब्दस्य वाच्यं वत्स जानीहि, तदाऽसावुपलम्भानुपलम्भद्वारेण तथा प्रतिपद्यमानस्तर्कादेव २५ वाच्यवाचकभावं प्रतिपद्यते । इयं च व्याप्त्या वाच्यवाचकभावप्रतीति- रुपदर्शिता । शृङ्गग्राहिकया तु नियतायां व्यक्तावयं पुरोवर्ती भावोऽस्य परि. ३ सू. ७] स्याद्वादरत्नाकरसहितः.. ५०३ शब्दस्य वाच्य इत्यागमादेरपि सा भवति । तदूर्ध्वं तु व्याप्त्यां तं प्रति यस्तर्कादेव प्रत्येति, अये इत्थंम्भूत इत्थम्भूतस्य सर्वः सर्वस्य वाचको वाच्यश्चेति । ननु तर्कः स्वविषयेण सम्बद्धो वाऽसम्बद्धो वा तमव- बोधयति । न तावदसम्बद्धः । अतिप्रसगात् । अथ सम्बद्धः, कुत- स्तत्सम्बन्धप्रतिपत्तिः । प्रत्यक्षादनुमानात्तर्कान्तरात्प्रमाणान्तराद्वा । न तावत्प्रत्यक्षात्, तस्य तदविषयत्वात् । नाप्यनुमानात्, अनवस्थानुषङ्गात् । तदपि ह्यनुमानं तर्कपूर्वकमिति तत्रापि तर्कस्य स्वविषयेण सम्बन्ध- ग्राहकमनुमानान्तरमन्वेषणीयमिति । नापि तर्कान्तरात्, तत एव, तर्कान्तरस्यापि स्वविषयसम्बन्धबोधपूर्वकत्वात्तस्याप्यपरतर्कनिवन्धन- त्वात् । नापि प्रमाणान्तरात्, तस्यापि प्रमाणत्वेऽपि स्वविषयसम्बन्ध- १० बोधपूर्वकं प्रवर्त्तमानत्वादनवस्थापत्तेः । अथाप्रतिपन्नसम्बन्ध एव तर्कः स्वविषयज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषात्स्वविषयमेव बोधयति । तर्हि तत एवानुमानमप्यप्रतिपन्नसम्बन्धमेव स्वगोचरमवभासयतु । कृतं तत्प्रतिपत्तिनिमित्ततर्कप्रमाणपरिकल्पनेनेति कश्चित् । सोऽपि यदि प्रामाणिकस्तर्हि तस्यापि प्रत्यक्षं स्वविषयमवबोधयत्सम्बद्धमेवावबोध- १५ येन्नासम्बद्धम् । अतिप्रसङ्गात् । तत्सम्बन्धश्च नानुमानादेः सिद्धयति । अनवस्थानुषगात् । नापि प्रत्यक्षान्तरात्, अनवस्थानुषङ्गादेवेत्यादि सकल प्रत्यक्षेऽपि समानम् । अथ न प्रत्यक्षं स्वविषयसम्बन्धावबोध- निबन्धनं तत्र प्रवर्तते तस्य स्वविषये स्वयोग्यतावलादेव प्रवृत्तिरिति चेत्, तर्हि तथा तर्कस्यापि स्वयोग्यताविशेषसामर्थ्यादेव स्वविषय- २० प्रत्यायनसिद्धिर्भवतु । योग्यताविशेषः पुनः प्रत्यक्षस्येव स्वविषयज्ञाना- वरणवीर्यान्तरायक्षयोपशमविशेष एव तर्कस्यापि प्रतिपत्तव्यः । यथा च प्रत्यक्षस्योत्पत्तौ मनोऽक्षादयो योग्यतायाः सहकारिणो बहिरङ्गास्तथा तर्कस्यापि समुद्भूतावुपलम्भानुपलम्भावनुमन्येते। तदन्वयव्यतिरेकानु- विधायित्वात्तस्य । यच्च तत एवानुमानमप्यप्रतिपन्नसम्बन्धमेव स्वगो- २५ चरमवभासयात्वित्युक्तम् । तत्र साध्यसाधनसम्बन्धग्रहणनिरपेक्षानुमान- ५०४ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. २०: स्योत्पत्तिरेव न सम्भवति । अनवबुद्धसाध्यसाधनसम्बन्धस्य कचित्कदा- चिदुत्पत्त्यप्रतीतेः । तर्कस्य तु सम्बन्धग्रहण निरपेक्षैव ' प्रत्यक्षवदुत्पत्ति- र्घटत एव । न खलु प्रत्यक्षस्याप्युत्पत्तिः करणार्थसम्बन्धग्रहणापेक्षा प्रतिपन्ना । स्वयमगृहीततत्सम्बन्धस्यापि प्रतिपत्तिस्तदुत्पत्तिप्रतीतेः, २५ तद्वत्तर्कस्यापि स्वार्थसम्बन्धग्रहणानपक्षस्याप्युत्पत्तिप्रतिपत्तेर्नोत्पत्तौ सम्बन्धग्रहणापेक्षा युक्तिमतीति सर्वं चतुरसम् ॥ ७॥ एतच्च तर्कनामधेयं व्याप्तिज्ञानं तथोपपत्त्यन्यथानुपपत्तिभ्यां प्रवर्तत इति निदर्शयन्नाह यथा यावान्कश्चिद्धूमः स सर्वो वह्नौ सत्येव भव- तीति तस्मिन्नसत्यसौ न भवत्येवेति ॥ ८ ॥ अतिरोहितार्थमिदम् अत्राह कश्चित्- प्रमाणतायामुपपादिताया तर्कप्रामाण्यमसहमानस्य कस्यचिन्मतस्य तर्कस्य युक्ता ननु लक्षणोक्तिः ॥ एषा तु सद्युक्तिपरम्पराभि- विचार्यमाणस्य न तस्य युक्ता ॥४६६॥ तथा हि विषयव्यवस्थापकं प्रमाणं तर्कस्य च विषयो व्याप्ति- लक्षणः प्रतिज्ञायते भवद्भिर्व्याप्तिश्च विचार्यमाणा नावस्थां बध्नाति । यतः साध्यसाधनयोः सम्बन्धो व्याप्तिः सम्बन्धश्चैकदेशत्वमेककालत्वं २० वा तयोर्भवेत् । न तावदेकदेशत्वम् । यतः~~ प्रबलपवनवेल्लद्वैजयन्तीवितानप्रतिमकलितमूर्तियोम्नि धूमप्रबन्धः ॥ ज्वलति वसुमतीमृद्वप्रनिष्ठे निकुञ्जे वचन पुनरनल्पज्वालशाली कृशानुः ॥४६७॥ शैवालजालजटिलं तटिनीस्रोतः समस्त्यधोवति ॥ २५ वचन शिलोच्चयशिखरे वृष्टिः पुनरुद्धरप्रसरा ॥ ४६८ ।। १५ खण्डनम् । ..
परि. ३ सू. ८] स्याद्वादरत्नाकरसहितः ५०५ ५ नाप्येककालत्वम् । यतः, पूरः स्रोतस्विनीसक्तो वृष्टिकाले न विद्यते ।। कृत्तिकोदयवेलाया न चास्ति शकटोदयः ।। ४६९ ॥ किंच कस्य केनायमविनामावः किं सामान्यस्य सामान्येन, सामा- न्यस्य विशषैः,विशेषाणां सामान्येन, विशेषाणां विशेषैर्वा । न प्रथमपक्षः । यतो न सामान्यस्य सामान्येन व्याप्तिरनुमानागम् । तदा हि तत्र सामान्यमेव साध्यं स्यात् । तस्य च नित्यत्वविभुत्वाभ्यां सकलदेश- कालसम्बन्धितया सुप्रसिद्धस्य साधने सिद्धसाध्यता स्यात् । द्वितीय- पक्षेऽपि देशकालाभ्यामनवच्छिन्नैर्विशेषैः सामान्यस्याविनाभावोऽवच्छि- नैर्वा । यद्यनवच्छिन्नैः, तदा सिद्धसाध्यतैव । देशकालानवच्छिन्नानां १० वयादिविशेषाणामतिप्रतीतत्वात् । अथ देशकालावच्छिन्नैः, तदानुगमा- भावः। न हि धूमसामान्यस्य पर्वतादिस्थैरग्निविशेषैरनुगमोऽस्ति । तस्य तदन्तरेणापि पाकप्रदेशादावुपलम्भात् । दृतीयपक्षेऽपि सिद्ध- साध्यता साधनवैकल्यं च दृष्टान्तस्य । महानसे पर्वतस्थधूमविशेष- स्यासम्भवात् । विशेषाणां विशेपैरिति तुरीयपक्षेऽपि दुःशकमविना- १५ भावग्रहणम् । तेषामानन्त्यात् । अपि चाम्न्यभावे धूमानुपपत्तिरिति व्यतिरेकव्याप्तौ किमेकस्य कस्यचिदग्नेरभाचे धूमानुपपत्तिर्गृह्यते सर्वस्य वा । न तावदेकस्य । एकस्याभावेऽप्यम्यन्तरे धूमस्य गृह्यमाणत्वात् । नापि सर्वस्य । उपहितग्रहणस्योपाधिग्रहणमन्तरेणासम्भवात् । धूमानुपपत्तेश्च समस्ताम्यभाव एवोपाधिर्न चासौ प्रतियोगिषु सर्वाग्निप्व- २० गृहीतेषु ग्रहीतुं शक्यते । अपि च यत्सद्भाव एव यस्य निवृत्तिस्तेनैव तस्य विरोधः । तदिह धूमाभाव एव सति धूमस्य निवृत्तिदृश्यत इति धूमाभावेनैवास्य विरोधो न त्वम्यभावेन । केवलाङ्गाराद्यवस्थायामन्य- भावाभावेऽपि धूमनिवृत्तेः प्रतीयमानत्वात् । अतो न व्याप्तिर्विचार्य- माणत्वात्कथं तद्राहिणस्तर्कस्य प्रामाण्यम् । किं च व्याप्तौ २५ सत्यामपि न धूमादग्निपैकल्यमनुमीयते । वहेरेव धूमेनानुमीयमानत्वात् ।
५०६ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू.८ तथा धूम एव वहेर्गमको न तद्गताः श्यामत्वादय इति , वृथा व्याप्तिकल्पनं तद्गोचरतर्कप्रामाण्यकल्पनं च । तार्किकैस्तय॑माणोऽयं तर्कः कर्कशया धिया । इत्थं नोपैति मानत्वं विफलस्तदिहाग्रहः ॥ ४७० ॥ तर्कः प्रमा न भवतीति वदन्तु कामं हे तार्किकाः स्वपरिषत्सु सदा भवन्तः ॥ जैनोदिते स्फुरति दूषणडम्बरे तु सर्व भविष्यति न किञ्चिदिदं तथाहि ॥ ४७१ ॥ यत्तावदुक्तं व्याप्तिश्च विचार्यमाणा नावस्था बध्नाति । तन्नोपपन्नम् । १० स्वरूपप्रयुक्तस्याव्यभिचारस्य व्याप्तित्वप्रतिज्ञानात् । स्वरूपं हि विवक्षि- तसाध्यसाधनयोः स्वकर्मकलापकलितममित्वं धूमत्वं च । तद्धयन्यतो देशकालाकारादेावृत्त्यप्रकर्षेण सम्बन्धमात्मन्येव योजयति । ततश्च मदधीनामेव व्याप्तिं बुद्धयस्व बुद्धयस्वेत्यात्मसम्बन्धित्वेन व्याप्ति व्यवस्थापर्यस्त्वप्रयुक्तामेव तां बोद्धारं बोधयति । यदप्युक्त सम्बन्धश्चैक- १५ देशत्वमेककालत्वं वेत्यादि । तदप्येतेन प्रत्युक्तम् । देशकालौ परि. हृत्य स्वरूपमात्रेणैव धूमादेरम्यादिना सहाविनाभावस्य निर्वाधबोध- विरूढत्वात् । यच्चान्यदुक्तं कस्य केनायमविनाभाव इत्यादि । तत्र यस्य येनाव्यभिचारस्तस्य तेनाविनाभावः । सामान्यविशेषवतश्च धूमादेः सामान्यविशेषवताम्यादिनासहाव्यभिचार इति तस्य तेनैवाविनाभावोs- २० तश्योक्तदोषानवकाशः । गम्यं हि व्यापकं गमकं च व्याप्यम् । न च केवलौ सामान्यविशेषौ गम्यगमकरूपतयाऽनुभूयते । जात्यन्तरस्यैव सामान्यविशेषोभयाऽत्मनस्तद्रूपतयावमासनात् । यदपि किमेकस्य कस्यचिदग्नेरमावे धूमानुपपत्तिर्गृह्यते सर्वस्य वेत्याद्युपन्यस्तम् । तत्र सर्वस्येति 'ब्रूमः । यतो धूमानुपपत्तिः सर्वाक्षेपेण प्रतीयते यावान्क- ६५ श्चिभ्रूमः स सर्वः सर्वस्यामेरभावेऽनुपपन्न इति । न पुनर्नियतधर्म्यु- ल्लेखेन पर्वते गृहेऽरण्ये वा घूमोऽम्यमावेऽनुपपन्न इति । यत्पुनरत्रोक्त परि. ३ सूः ८] स्याद्वादरत्नाकरसहित ५०७. न चासौ सर्वाग्निष्वगृहीतेषु ग्रहीतुं शक्यत इति, तन्न सत्यम् । यतोऽन्यभावस्तदन्यदेशादिस्वभावो भावान्तरस्वभावत्वादभावस्य । तुच्छस्वभावस्य प्रतिक्षेप्स्यमानत्वात् । स चाखिलाग्निविविक्तो देशादिः प्रतियोगिग्रहणमन्तरेणापि प्रतीयते कथमन्यथा घटादेरपि प्रतिपत्तिः स्यात् । तत्स्वरूपस्यापि त्रैलोक्यविलक्षणतया त्रैलोक्याप्रतिपत्तावप्रति- ५ पत्तिप्रसङ्गात् । यच्च तत्सद्भाव एवेत्याद्यभिहितम् । तदपि नानवद्यम् । एवं हि विरोधव्यवस्थितौ क्रियमाणायां शीतस्पर्शस्यापि वहिना विरोधो न स्यात्, न खल्वस्य वहिसद्भाव एव निवृत्तिः । अन्यथापि तन्नि- वृत्तेः प्रतीयमानत्वात् । तस्माद्यत्सद्भावे यस्य नियमेन निवृत्तिस्तेन तद्विरुद्धमेव । अग्न्यभावे च सति धूमस्य नियमेन निवर्तमानत्वाद्धमा- १० भावेनेव तेनापि तस्य विरोधः । तथा हि यस्मिन्सति यन्नियमेन निवर्त्तते तेन तद्विरुद्धम् । यथोष्णस्पर्शसद्धावे नियमेन निवर्तमानः शीतस्पर्शः । अग्न्यभावे सति नियमेन निवर्त्तते च धूम इति । नन्वग्न्य- भावे धूमस्य नियमेन निवर्तमानत्वमसिद्धं गोपालघुटिकादौ वढ्य- भावेऽपि धूमसद्भावप्रतीतेरिति चेत् । तदप्यसुन्दरम् । तत्रापि तत्स- १५ द्धावसम्भवात् । धूमस्य हि भाव आत्मलाभः स चाग्नौ सत्येव संवृत्तस्त- त्कथं गोपालघुटिकादावश्यभावे धूमसद्भावाशङ्कापि । तर्हि पर्वतादाविव तत्रापि धूमोऽग्निं गमयेदित्यनुपपन्नम् । पर्वतादिधूमादस्य वैलक्षण्यात् । वह्रिसमानसमयसत्ताको हि पर्वतादिधूमो वहलः पताकायमानस्वरूपोऽनु- भूयते । न च गोपालघुटिकादिधूमस्तथा, ततो नास्याम्यनुमापकत्वम् । २० यदप्युक्तं व्याप्तौ सत्यामपि न धूमादग्निपैङ्गल्यमनुमीयत इत्यादि । तदपि न विचारसरणिमनुसरति । यतो व्याप्त्यनुसारेणानुमानं विधी- यते । व्याप्तिश्चाग्नित्वधूमत्वद्वारेणैवावसीयते । न पैगल्यादिधर्मद्वारेणं । तेपामानन्त्याच्याभिचाराच्च । तथा हि- पैङ्गल्यं शातकुम्भे तरलतरतडिन्मण्डले भास्वरत्वं सत्त्वं सर्वार्थसाथै -तरुणरुचितरे भास्करे दाहकत्वम् ।। २५ ५०४ प्रमाणनयतत्त्वालोकालङ्कारः (परि.-३ सू..८ | वात्यादावूर्ध्वगत्वं तुहिनविघटना तप्ततैलादिवस्तु- न्येवं वैश्वानरीयं व्यभिचरति सखे धर्मजातं समस्तम् ॥४७२॥ : तथा : नीलत्वं गवले विलोचनयुगोहाप्पत्वसम्पादनं तैले व्योमतलाधिरोहणविधिक्सपिवाष्पप्लवे ॥ : अत्यन्तं कटुभावता त्रिकटुके दृष्टान्यसाधारणी धूमस्येति विशिष्टधर्मनियता न व्याप्तिरत्रोच्यते ॥ ४७३ ।। अतो येनैव रूपेण विश्वविवरवर्तिन्यो वह्निव्यक्तयो धूमव्यक्तयश्च संगृह्यन्ते तदेव रूपं व्याप्तिं नियमेन व्यवस्थापयति । तच्चाग्नित्वधूमत्वे १० मुक्त्वा नान्यद्भवितुमर्हति । न खलु यथा वस्त्वन्तरसाधारणाः पैङ्गल्या- दयस्तथामित्वधूमत्वे । ननु यद्यनयोर्व्याप्तिरस्ति तर्हि प्रथमदर्शन- काले कस्मान्नोल्लिखतीति चेत्, ग्राहकाभावादिति ब्रूमः । तत्काले ग्राहकाभावश्च तदा तत्कारणाभावात्सिद्धः । व्याप्तिज्ञानस्य हि कारण- मुपलम्भानुपलम्भौ । न च प्रथमदर्शनकाले तौ स्तः । न च ग्राहका- भावात्तदा व्याप्तेरप्यभावः । तदा ग्राहकामावस्यान्यथासिद्धत्वात् । अन्यथा दूरे रूपदर्शनकाले रसस्याभावः स्यादविशेषात् । एवं च- सन्नीतिनीरपरिपालनपेशलोऽयं तकाङ्कुरः प्रमितिरूपतयाऽभ्युपेयः ।। कर्मादिबोधफलदा समुदेति यस्मात् निर्दूषणाऽनुमितिकल्पलता क्षणेन ४७२ ।। अत्र योगाः सगिरन्ते-- तर्कः सम्यक्तार्किकैस्तय॑माणो तर्कस्याप्रामाण्यमिति वद- तां नैयायिकाना मत- न प्रामाण्यं जातुचित्स्वीकरोति ।। निर्देशपूर्वक खण्ड स्याद्वादशैस्तत्प्रमाणत्वसिद्धयै नम् । व्यर्थस्तस्मादाश्रितोऽयं प्रयासः॥ ४७५ ॥ १' दृष्टान्त ' इति भ. पुस्तके पाठः । २० परि. ३ स. ८] स्याद्वादरत्नाकरसहितः ५०९ , तथा हि, तर्कः प्रमाणं न भवति निर्विषयत्वात् । यत्पुनः प्रमाणं तन्न निर्विषयं यथा प्रत्यक्षम् , निर्विषयश्च तर्कः । तस्मात्प्रमाणं न भवति । न चात्र निर्विषयत्वमसिद्धम् । तर्कस्य हि विषयः साध्य- साधनयोर्व्याप्तिः परैः प्रतिपाद्यते । सा च प्रत्यक्षस्यैव विषयः प्रथम- प्रत्यक्षेऽप्यग्निसम्बन्धित्वेन धूमस्य प्रतिभासनात् । न चायं धूमवहेरन्य- ५ तोऽप्यन्यस्मादेव वा जलादेर्भवतीति सन्देहविपर्यासौ प्रत्यक्षेसम्भवतः। अग्नेरेवायमिति तत्सम्बन्धित्वेनैव धूमस्य तन्निश्चयात् । इत्थं प्रथम- प्रत्यक्षेण व्याप्तौ प्रतिपन्नायामन्वयव्यतिरेको भूयसोपलभ्यमानौ प्रथम- स्यैव प्रत्यक्षस्य दाढर्थमुत्पादयतः । भूयो दर्शनादर्शनावगतान्वयव्यति रेकसहकृतेन वा प्रत्यक्षेण व्याप्तिः प्रतीयते । ननु यदि प्रथमप्रत्यक्षे- १० णैव व्याप्तिः प्रतीयते तर्हि किमित्ययं धूमादिरनेन वयादिना नियत इत्येवंरूपा तदानीमेव व्याप्तिप्रतीति!त्पद्यते, इति चेत् । उच्यते । सामग्र्यभावात् । अन्वयव्यतिरेकाभ्यां हि भूयोदर्शनादर्शनावगताभ्या व्याप्तिरुल्लिख्यते । न च प्रथमप्रत्यक्षकाले तौ स्तः । अन्वयव्यतिरेको च भूयोदर्शनादर्शनावगतौ प्रयोजकसन्देहव्युदासार्थों युक्तावेव । अनेक- १५ सहचारिदर्शने हि प्रयोजके सन्देहः । किं धूमप्रयुक्तोऽयं नियमः किं वा श्यामत्वादिप्रयुक्त इति । तत्र श्यामत्वादयो धूमापेक्षा न वहिसापेक्षा इति धूमस्याग्निसम्बन्धित्वे धूमत्वमेव प्रयोजकं न तु श्यामत्वादयः । धूमत्वे हि सति न कदाचिदग्नित्वं व्यभिचरतीति । भूयोदृष्टान्वयव्यतिरेकस्य प्रमातुरपरोक्षाकारतयोपजायमानत्वाद्विशिष्ट. २० दण्डयादिप्रत्ययवत्प्रत्यक्षमेवेदं व्याप्तिज्ञानमिति । इत्थं न सगतिमिहाशति मानभावः सन्न्यायमार्गनिपुणैः परिमृज्यमाणः || तर्के कथञ्चन ततः स्वमताभिमान- मद्यापि मुञ्चत न किं वत जैनचन्द्राः ॥ ४७६ ॥ , २५ . F ५१०० प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू.८ योगस्य या त्वस्य सुतार्किकत्वकीर्तिः पुरस्तात्परिपुंसनीया ।। तर्कप्रमाणत्वकदर्थनायामयं विधेयस्तदनु प्रयासः ॥ ४७७ ।। तथा हि, यत्तावन्निर्विषयत्वादिति साधनमुक्तम् । तदसिद्धम् । व्याप्तिलक्षणस्य तद्विषयत्वसम्भवात् । यत्पुनरुक्तं सा च प्रत्यक्षस्यैव ५ विषय इत्यादि । तत्र किमन्द्रियं मानसं वा प्रत्यक्षं व्याप्तिग्रहणे प्रव- र्तते । न तावदैन्द्रियम् । तद्धि येनार्थेन प्रतिनियतदेशकालादिनेन्द्रिय सम्बध्यते तमेवावभासयति न तु व्याप्तिम् । सा हि सकलदेशकाला- लिङ्गितसाध्यसाधनोपसंहारेण गृह्यते । यतो व्यापनं व्याप्तिः सर्वासां व्याप्यव्यक्तीनां व्यापकव्यक्तीना च व्याप्यरूपतया व्यापकरूपतया च १० क्रोडीकरणमुच्यते । न च तत्रेन्द्रियस्य ग्रहणसामर्थ्य सम्भवति । सकल- व्याप्यव्यापकव्यक्तिभिः सार्धं तस्य सम्बन्धासम्भवात् । ननु साध्यमग्नि- सामान्यं साधनं च धूमसामान्यं तयोश्चानवयवयोः सन्निकृष्टत्वादेकत्रापि साकल्येनेन्द्रियेण ग्रहणमस्ति विशेषप्रतिपत्तिस्तु सर्वत्र हेतोः पक्षधर्मता- बलादेवेति चेत् । तद्युक्तम् । एव हि साधनवैफल्यापत्तिः । व्याप्तिग्रह- १५ णकाल एव सामान्यरूपस्य साध्यस्य प्रसिद्धेः । कथमन्यथा सामान्य- रूपयोःसाध्यसाधनधर्मयोः साकल्येन व्याप्तिनिर्णीता स्यात् । विशेषप्रति पत्तिस्तु हेतोः पक्षधर्मताबलादेवेत्यत्रापि पक्षधर्मता धूमविशेषस्य तत्सा- मान्यस्य वा । आद्यपक्षेऽमिविशेषेण धूमविशेषस्य व्याप्तेरप्रतिपत्तितो गमकत्वायोगः । द्वितीये त्वग्निसामान्यस्यैव धूमसामान्यात्सिद्धिः स्यात्ते- २० नैव तस्य व्याप्तेः । अथ साधनसामान्यात्साध्यसामान्यप्रतिपत्तेरेवेष्ट- विशेषप्रतिपत्तिः। सामान्यस्य विशेषनिष्ठत्वादिति चेत् । ननु तत्सामा- न्यमपि विशेषमात्रेण व्याप्तं सत्तदेव गमयेन्नेष्टविशेषम् । यच्चोक्तं प्रथम- प्रत्यक्षेऽप्यमिसम्बन्वित्वेन धूमस्य प्रतिभासनादित्यादि । तदपि न क्षोदवर्तनीयमनुवर्तते । यतः पुरो दृश्यमानामिसम्बन्धित्वेन धूमः प्रथम- २५ प्रत्यक्ष प्रतिभासेत । सकलाग्निसम्बन्धित्वेन वा । प्रथमपक्षे कथं : व्याप्तिप्रतिपत्तिः । प्रतिनियतव्यक्तौ व्याप्तेरेवासम्भवात् । तस्याः सर्वा- :
परि. ३ सू. ८] स्याद्वादरत्नाकरसहितः, १०. क्षेपणपर्यवसानात् । द्वितीयपक्षोऽप्ययुक्तः । प्रतिनियताग्निसम्बन्धित्वे- नैव प्रथमप्रत्यक्षे धूमस्य प्रतिभासात् । यदप्ययुक्तम् । भूयो दर्शनाव- गतान्वयव्यतिरेकसहकृतेन वा प्रत्यक्षेण व्याप्तिः प्रतीयत इति । तद्- प्ययुक्तम् । अन्वयव्यतिरेकसहकृतत्वं हि प्रत्यक्षस्य स्वविषयातिक्रम- णार्थान्तरे प्रवृत्तिः । स्वविषये प्रवर्त्तमानस्यान्वयव्यतिरेकाभ्यामतिशया- ५. धानं वा । प्रथमपक्षे प्रत्यक्षविरोधः । स्वार्थातिक्रमेणार्थान्तरे प्रवृत्ति- लक्षणस्य सहकृतत्वस्य क्वचिदप्यप्रतीतेः । न खलु प्रदीपसहकृतं लोचनं रसादौ प्रवर्त्तमानं प्रतीयते । तथा- उन्मीलत्कलिकाकलापकवलीकारक्रमव्याकुली- क्रीडपट्पदचारुचूतलतिकाकान्ते वसन्तोत्सवे ।। किं पुंस्कोकिलकामिनीव कुरुते काकी वराकी क्वचित् कण्ठान्त ठिताच्छपञ्चमकलासंराजितं कूजितम् ॥४७८|| द्वितीयपक्षेऽपि स्वविषये प्रवर्त्तमानस्यान्वयव्यतिरेकाभ्यामतिशया- धानमध्यक्षस्य व्याप्तिविषयत्वे सिद्धे सिद्धयेत् , तच्चासिद्धम् । सम्बद्ध- वर्तमानार्थविषयत्वात्तस्य । किंच, इन्द्रियविषये विद्यमानत्वात्तत्प्रभव- १५ प्रत्यक्षेण व्याप्तिः प्रतीयते स्वविषयत्वाद्वा । न तावद्विद्यमानत्वात्, रसादेरपि चाक्षुपत्वानुषशात् । व्याप्तिवभूमादौ तस्यापि सत्त्वाविशे- पात् । नापि स्वविषयत्वात्, व्याप्तेः प्रत्यक्षविषयत्वानुपपत्तेः । अनि- यतविषया हि व्याप्तिरिति कथं नियतविषयोन्द्रियप्रभवप्रत्यक्षतां प्रति- पद्येत । एतेनान्वयव्यतिरेकाभ्यां हीत्यादिः पूर्वपक्षग्रन्थः सकलोऽपि २० प्रतिक्षिप्तः । प्रोक्तनीत्यान्वयव्यतिरेकयोः सहकृतत्वस्य प्रत्यक्षेण व्याप्ती गृह्यमाणायां प्रतिहतत्वात् । तन्नेन्द्रियप्रभवं प्रत्यक्ष व्याप्तिप्रतिपत्तौ समर्थम् । नापि मानसम् । मनसो बाह्येन्द्रियनिरपेक्षस्य बहिरर्थसाक्षा- करणे सामर्थ्याभावात् । “ अस्वतन्त्रं वहिर्मनः” इत्यभिधानात् । व्याप्तिश्च वद्विधूमादिविपया बहिरर्थधर्मत्वावहिरर्थो वर्तते । भवदभिमतस्य २५ च मनसोऽणुस्वभावत्वेनाशमार्थे सकृत्सम्बन्धासम्भवात्कथं तत्प्रमवं प्रत्यक्ष प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ स. ८ व्याप्तिं निश्चिनुयात् । तथा हि । यदणुस्वभाव तत्सकृदशेषार्थेन न सम्बध्यते । यथा परमाणुः । अणुस्वभाव च भवत्कलितं मन इति । अथ साक्षान्मनसः समस्ताथैः सम्बन्धाभावेऽपि ‘परम्परया सम्बन्धो भविष्यति । मनसा हि साक्षादात्मा संयुज्यते । तेन च संयुक्ताः ५ सर्वेऽम्यादयो धूमादयश्च साध्यसाधनविशेषास्तस्य व्यापकत्वादिति चेत् । तदपि न्यायशून्यम् । एवं सर्वस्य सर्वज्ञताप्रसङ्गात् । साध्य- साधनवन्निखिलार्थानां मनसा सह सम्बद्धसम्बन्धसभवात् । किं चासौ सम्बद्धसम्बन्धोऽपि मनसः सद्धिरेवाथै सद्भिरतीतानागतैस्त- कथं तत्र व्याप्तिप्रतिपत्तिः स्यात् । न चात्मनो व्याप्तत्वं सिद्धम् । १० तस्याने विस्तरतः प्रतिषेत्स्यमानत्वात् । तत्कथं सम्बद्धसम्बन्धगन्धोऽपि स्यात् । ततो दृष्टान्तमात्रे साध्यसाधनयोर्व्याप्तिस्त्वया स्वकिर्त्तव्या न तु समस्तासु वह्निधूमव्यक्तिषु । तथा चानुमानानुत्थानम् । साध्य- धर्मिणि साध्यधर्मेण सह हेतोाप्तेरनिश्चयात् । ततश्योपलम्भानुपलम्भ- सम्भव त्रिकालवर्तिवहिधूमादिविषयमस्पष्टं तारख्यं प्रमाणमुररीक- १५ व्यम् । ननु यावान्क्वचिद्भूमः स सर्वोऽप्यग्निजन्मा भवतीत्येवं प्रकारस्येह विकल्पज्ञानस्य सम्बन्धग्राहिप्रत्यक्षफलत्वान्न प्रामाण्यमिति चेत्। एतदप्यसमीचीनम् । प्रत्यक्षस्य सम्बन्धग्राहित्वप्रतिषेधात् । तत्फलत्वेन चास्याप्रामाण्ये विशेषणज्ञानफलत्वाद्विशेष्यज्ञानस्याप्यप्रामाण्यानुषङ्गः । अथ हानोपादानोपेक्षाबुद्धिफलत्वात्तस्य प्रामाण्यमङ्गीक्रियते । तर्हि तर्क- २० ज्ञानस्यापि प्रमाणत्वमस्तु । तस्यापि व्याप्तिप्रतिपत्तिफलत्वात् । अथ प्रमाणविषयपरिशोधकत्वान्न तर्कः प्रमाणमित्युच्यते । तदपि परि- 'फल्गु । अप्रमाणेन शोधनविरोधात् । मिथ्याज्ञानवत्प्रमेयार्थवच्छ । तस्मादवस्थितमिदं तर्कः प्रमाणमबाध्यमानविषयत्वात्प्रत्यक्षवत् । ततश्च- २५ तर्कः प्रमाणमिति युक्तिबलेन सिद्ध- मर्थं गृहाण परिमुच्य मुधाभिधानम् ॥
परि. ३ सू. ८] स्याद्वादरत्नाकरसहितः ५१३ सन्न्यायदर्शनविवेचनचारुवुद्धे नैयायिकत्वमपि ते कथमन्यथा स्यात् ॥ ४७९ ।। विकल्पमानं ननु तर्क एष विकल्पमात्रत्वात्तको न प्र- माणमिति वदता बौद्धाना प्रमाणता तत्कथमस्य युक्ता ।। मतनिर्देशपूर्वक इत्याहुरत्र स्फुरिताभिमानाः खण्डनम् । समन्तभद्रप्रणयैकचित्ताः ॥४८॥ न तेऽपि सन्न्यायपथानुयायिनः स्वदर्शनोद्भूतकुवासनाहताः ॥ न तर्कमानत्वविघातकारकं यतो निमित्तं बत तैः प्रकाशितम् ||४८१॥ अथ तर्कस्याप्रमाणतायां विकल्पमात्रत्वा निमित्तं प्रकाशितमेवे- ति चेत् । ननु विकल्पमात्रत्वमिति कोऽर्थः । किमर्थानालम्बनज्ञानमात्र- १० त्वमप्रत्यक्षत्वं वा । प्रथमपक्षोऽसिद्धः । साध्यसाधनसम्बन्धालम्बनत्वेन निरालम्बनत्वस्य तर्केऽनुपपत्तेः । द्वितीयपक्षस्तु न नः क्षतिकारी । परो- क्षविशेपत्वेन तर्कस्याप्रत्यक्षतयाऽस्मामिरप्यभ्युपगमात् । न चाप्रत्यक्षज्ञा- नरूपत्वात्तोऽप्रमाणमिति तर्कणीयम् । अप्रत्यक्षज्ञानरूपस्याप्यनुमान- स्य प्रमाणत्वेनोमयसम्प्रतिपन्नत्वात् । अथ सविकल्पकज्ञानस्वरूपत्वं तर्क-१५ स्य विकल्पमात्रत्वशब्दाभिधेयत्वेन विवक्षितम् । तदपि न पीडाकरमस्मा- कम् । सविकल्पकज्ञानरूपत्वेऽप्यनुमानस्येव तर्कस्यापि प्रमाणत्वानति- पातात् । व्यवस्थापितं प्रपञ्चतो निखिलप्रमाणाना कथञ्चित्सविकल्पक- त्वमाद्यपरिच्छेदे। तन्न विकल्पमात्रत्व तर्कस्याप्रमाणताया निमित्तमवधा- नाहम् । अथ गृहीतग्राहित्वं तदभिधीयते । तदप्ययुक्तम् । यतः साध्य- २०. साधनयोः सामस्त्येन व्याप्तिस्तर्कस्य विषयो न चैतत्प्रतिपत्तौ प्रमाणान्त- रंप्रभवति । अथोच्यते । कार्ये हेतौ तावयाप्तः प्रतिपत्तिः प्रत्यक्षानुपल- म्भपञ्चकाज्जायते । अग्निधूमव्यतिरिक्तेपु हि परिदृश्यमानेष्वपि भूतलाद्य- थेपु प्रथमं धूमस्यानुपलम्भ एकः । तदनन्तरमग्नेपलम्भस्ततो धूमस्ये- .त्युपलम्भद्वयम् । पश्चादग्नेरनुपलम्भोऽनन्तरं धूमस्याप्यनुपलम्भ इति २५ द्वावनुपलम्भौ । अनुपलम्भोऽपि प्रत्यक्षविशेष एव लक्षयितव्यः । •• - - प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ स. ८ इत्थं प्रत्यक्षानुपलम्भपञ्चकेनैकस्यामपि व्यक्ती कार्यकारणभावावगमो भवत्यमेः कार्य धूम इति । यश्च यत्कार्यः स तेन नियतः । यदि तु तेन नियतो न स्यात्तदा तन्निरपेक्षत्वान्नित्यं सत्त्वमसत्त्वं वा तस्य स्यात् । ततश्चायमर्थः सम्पन्नः । येयं कार्यहेतौ सार्वत्रिकी विना- : ५ भावप्रतीतिरुपजायते । यदाह धूमाधीर्वह्निविज्ञानं धूमज्ञानमधी- स्तयोः ॥ प्रत्यक्षानुपलम्माम्यामिति पञ्चभिरन्वयः॥ धूमाधी- धूमानुपलम्भ इत्यर्थः । स्वभावहेतौ त्वविनाभावप्रतीतिर्विपक्षे बाधका- नुमानात् । यथा क्षणिकत्वानुमानं सत्त्वहेतौ व्यापकानुपलम्भात् । तथा ह्यर्थक्रियाकारित्वलक्षणं सत्त्वमर्थक्रिया च क्रमयोगपद्याभ्यां व्याप्ता। .१० ते च क्षणिकत्वान्निवर्तमाने स्वव्याप्यां सत्त्वरूपामक्रियामादाय निव- तते । कस्मात्पुनरक्षणिकाक्रमयोगपद्ययोर्व्यावृत्तिरिति चेत् । नाना- रूपत्वात् । कालतः पौर्वापर्यं हि क्रमस्तद्विपरीतं तु योगपद्यमित्थं चैते नानारूपे । अक्षणिकत्वं चैकरूपता । एकरूपतानानारूपत्वे चैकत्र विरुद्धे । ततोऽक्षणिकाक्रमयोगपद्यनिवृत्तौ निवर्तमानं सत्त्वं क्षणिक १५ एवावतिष्ठते । प्रकारान्तरासम्भवात् । न खल्ल क्षणिकाक्षणिकव्यति- रिक्तस्तृतीयः प्रकारोऽस्ति । यतस्तत्रास्य वृत्तिराशङ्कथेत । अनुपलब्धेः पुनः स्वभावहेतावन्तर्भावान्न तत्र पृथगविनाभावग्राहकप्रमाणचिन्तेति । अत्रोच्यते । यत्तावदुक्तं कार्यहेतौ तावद्व्याप्तेः प्रतिपत्तिः प्रत्यक्षानुप- लम्भपञ्चकाजायत इत्यादि तन्नोपपत्तिक्षमम् । उपलम्भानुपलम्भ- २० स्वभावस्य द्विविधस्यापि प्रत्यक्षस्य सन्निहितमात्रविषयतया देशादिव्यव- हितसमस्तपदार्थगोचरत्वायोगात् । अविचारकतया च प्रत्यक्षं यावान्क- श्चिद्भूमः स सर्वो देशान्तरे कालान्तरेऽग्निजन्माऽन्यजन्मा वा न भवतीत्येतावतो व्यापारान्कत्तुं समर्थमिति कथं व्याप्तिस्तद्विषयः स्यात् । अथ पुरो व्यवस्थितार्थेषु प्रत्यक्षं व्याप्ति प्रतिपद्यमान सर्वोप- २५ संहारेण प्रतिपद्यत इति कीर्त्यते । तदप्यकीर्तिकरम् । स्वाविषये प्रत्यक्षस्य सर्वोपसंहारानुपपत्तेः । प्रत्यक्षपृष्ठभावतो विकल्पस्यापि प्रत्यक्ष- १. भाविनो' इति म. पुस्तके पाठः । ..
परि. ३ सू. ८] स्याद्वादरत्नाकरसहितः ५१५ । गृहीतमात्राध्यवसायित्वात्सर्वोपसंहारेण व्याप्तिग्राहकत्वाभावः । तथा च कथमनिश्चितप्रतिबन्धत्वाद्देशान्तरादौ साध्यं साधनं गमयेत् । ननु "कार्य धूमो हुतभुजः कार्यधर्मानुवृत्तितो" विशिष्टप्रत्यक्षानुपलम्भाभ्यां निश्चितः स देशान्तरादौ तदभावेऽभवंस्तत्कार्यतामेवातिवर्ततेत्याकस्मि- को धूमः पावकनिवृत्तौ न कापि निवर्तेत । नापि वहिसद्भाव एव स स्यादित्यहेतोस्तुरङ्गशृङ्गस्यैव धूमस्यासत्त्वात्वचिदप्युपलम्भो न भवेत् । तथा च कीर्तिना कीर्तितं वार्तिके- "-कार्य धूमो हुतभुजः कार्य- धानुवृत्तितः । स भवस्तदभावेऽपि हेतुमत्तां विलङ्घयेत् ॥१॥" इति चेत् । तदपि न सुस्थम् । इत्थं व्याप्तिप्रतिपत्तौ तन्निश्चयकालोप- पलब्धे व्यापके न व्याप्तिः स्यात् । तस्यैव तथा निश्चयान्न तादृशस्या- १० पि । असाध्यव्याप्तत्वग्रहणे तद्राहिणो विकल्पस्य कथमगृहीतग्राहित्वं न स्यात् । प्रत्यक्षगृहीतादधिकग्राहित्वात् । तथा च प्रमाणान्तरमसौ स्यात् । तच्च किमन्यत्तर्कप्रमाणादिति । यदपि स्वभावहेतौ त्वविना- भावप्रतीतिर्विपक्षे बाधकानुमानादित्युक्तम् । तदप्युक्तिमात्रम् । यतो विपक्षे वाधकानुमानमपि प्रसिद्धाविनाभावं सत्स्वसाध्यसिद्धये प्रभ- १५ चति । अविनाभावश्च तत्राप्यनुमानान्तरेण सिद्धयेत्तेनैव वा । आये पक्षेऽनवस्था । द्वितीये वितरेतराश्रयः । तत्प्रत्यक्षं नाविनाभावसिद्धौ धत्ते प्रौढिं लैगिकी नापि बुद्धिः ।। एकस्तर्कस्तत्र सामर्थ्यमुद्रा निष्प्रत्यूहां हन्त तस्माद्विभार्त ॥४८२॥ एवं च न तर्कस्याप्रमाणताया गृहीतायां ग्राहित्वमपि निवृत्तं २० सम्भवति । अथ विसंवादित्वं तत्प्रतिपाद्यते । तदपि नोपपन्नम् । स्वगोचरे तर्कस्याविसंवादित्वात् । तर्कस्य हि गोचरः साध्यसाधनयोः साकल्येन व्याप्तिस्तस्यां चास्याविसंवादकत्वं सुप्रसिद्धमेव । अन्यथा- नुमानस्यापि कथमविसंवादकत्वं स्यात् । न खलु तर्कस्यानुमान- निवन्धनसम्बन्धविषये संवादानुपपत्तावनुमानस्यापि संवादः सम्भवति । २५ नन्वस्य निश्चितसंवादो नास्ति विप्रकृष्टार्थविषयत्वादिति चेत् । तदपि प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३.सु.८ ५ 1 न तार्किकप्रीतिकरम् । तर्कस्य संवादसंदेहे हि कथं निःसन्देहानु- भानोत्थानस्यापत्तितो निःसन्देहमनुमानमिच्छता साध्यसाधनसम्बन्ध- ग्राहिप्रमाणं निश्चितसंवादमेव स्वीकर्त्तव्यम् । तन्न विसंवादित्वमपि । तर्कस्य प्रमाणत्वे तर्हि तस्य किं निमित्तमिति चेत् । समारोपव्यवच्छे- दकत्वमिति ब्रूमः । तथा हि, तर्कः प्रमाणं समारोपव्यवच्छेदकत्वाद्य- दित्थं तदित्थं यथानुमानम् । तथा च तर्कस्तस्मात्प्रमाणमिति । एवं च, तीतानागतवर्तमानसमयश्लिष्टानिधूमादिके व्याप्ति वस्तुनि न ग्रहीतुमिह यत्सर्वोपसंहारतः ।। प्रत्यक्षप्रमुखं प्रमाणमयते शक्ति ततश्चागत प्रामाण्यं सुदृढोक्तयुक्तिबलतस्तर्कस्य तन्निश्चये ॥ ४८३ ॥ प्रथमत इह तावदर्शनं नास्तिकानां विघटितमनु तस्माद्योगपक्षो निरस्तः ।। तदनुसुगतशिष्यैर्जल्पितं दोषजालं यदिह किमपि युक्त्या सर्वथा तच्च भनम् ॥ ४८४ ॥८॥ एवं तर्क निर्णीयेदानीमुद्देशक्रमानुसारेणानुमानं व्युत्पादयिष्यंस्त- द्गतां सङ्ख्याविप्रतिपत्तिं तावन्निरस्यति- अनुमानं द्विप्रकारं स्वार्थ परार्थं चेति ॥ ९ ॥ अनु लिङ्गग्रहणसम्बन्धस्मरणयोः पश्चान्मीयते परिच्छिद्यतेऽर्थोऽनेने- त्यनुमानं वक्ष्यमाणलक्षणम् । द्वौ प्रकारौ भेदौ वक्तु न शक्यमिति २० लक्षणकथनाङ्गं प्राक्प्रकारभेद उक्तः । तमेव विशेषतो दर्शयति । स्वार्थ परार्थं चेति । स्वस्मै इद स्वार्थं येन स्वयं प्रतिपद्यते तत्स्वार्थ- मित्यर्थः । परस्मै इदं परार्थ येन परं प्रतिपादयति तत्परार्थमित्यर्थः । चः समुच्चये ॥ ९॥ प्रथमप्रकारं प्रकाशयन्नाह- १ तीतानागतत्यत्राकारलोपसिद्धिश्चिन्या । - १० परि. ३ सू. १३] स्याद्वादरत्नाकरसहितः तत्र हेतुग्रहणसम्बन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थमिति ॥१०॥ तत्र तयोः स्वार्थपरार्थानुमानयोर्मध्ये । हिनोति गमयति परोक्ष- मर्थमिति हेतुः साधनं लिङ्गमिति यावत् । तस्य ग्रहणं निश्चयः । सम्बन्धो व्याप्तिरविनाभाव इत्यर्थः । तस्य स्मरणम्, ततो हेतुग्रहण- सम्बन्धस्मरणे कारणं यस्य तत्तथा। किमित्याह । साध्यस्य वक्ष्यमाण- लक्षणस्य विज्ञानं स्वार्थमनुमानमुच्यते । लिङ्गग्रहणसम्बन्धस्मरणयोश्चात्र कारणत्वं समुदितयोरेवावसेयम् । प्रत्येकं हि तत्कारणत्वे विस्मृतसम्बन्ध- स्याप्रतिपन्नसम्बन्धस्य च नालिकरद्वीपवासिनः क्वचिद्भूमादिलिङ्गग्रहणा- देव केवलात्यावकादिसाध्यानुमानमुल्लसेत् । अगृहीतलिङ्गस्यापि च कस्यचित्प्राक्प्रतिपन्नसाध्यसाधनसम्बन्धस्मरणमात्रादनुमानं प्रादु- भवेदिति ॥१०॥ हेतुग्रहणकारणकमित्युक्तमिति हेतोः स्वरूपं निरूपयति- निश्चितान्यथानुपपत्त्येकलक्षणो हेतुरिति॥११॥ निश्चिता निर्णाता, अन्यथा साध्यमन्तरेणानुपपत्तिरघटनाऽन्यथानु- १५ पपत्तिरविनाभाव इत्यर्थः । निश्चिता चासावन्यथानुपपत्तिश्च निश्चिता- न्यथानुपपत्ति.। सवैका लक्षणं यस्य स निश्चितान्यथानुपपत्त्येकलक्षणो हेतुरिति ॥ ११ ॥ एतल्लक्षणव्यवच्छेद्यमर्थ व्यक्तीकुर्वन्नाह- न तु त्रिलक्षणकादिरिति ॥ १२ ॥ त्रीणि लक्षणानि रूपाणि पक्षधर्मत्वसपक्षसत्त्वविपक्षासत्त्वाख्यानि यस्यासौ विलक्षणकः स आदिर्यस्य पञ्चलक्षणकाटेः स त्रिलक्षणकादि: पुनर्हेतुर्न भवतीति ।। १२ ।। अत्रैवोपपत्तिमाह-- २० 1 प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ स. १३ तस्य हेत्वाभासस्यापि सम्भवादिति ॥ १३ ॥ तस्य त्रिलक्षणकादेः, हेतुवदाभासत इति हेत्वाभासस्तस्यापि । न केवलं सम्यग्घेतोरित्यपि शब्दार्थः । सम्भवाद्धटनात् । इदमत्रै- दम्पर्यम् । यदेव हि लक्ष्यासाधारणं स्वरूपं तदेव लक्षणतया लोके ५ प्रतीतमव्यभिचारित्वात् । यथा भास्वररूपोष्णस्पर्शवत्वमग्नेः। न च त्रैरूप्यादेर्लिङ्गासाधारणता । तत्पुत्रत्वादी हेत्वामासेऽपि सम्भवादिति । पक्षधर्मत्वादिलक्षणनया-शिष्यः शौद्धोदनेः कश्चिदत्र प्रत्यवतिष्ठते ।। न्वितस्यैव हेतुत्वं वदतो बौद्धस्य मतमुपपाद्य स्वकीयदर्शनाभीष्टं स्थापयन्हेतुलक्षणम्॥४८५॥ खण्डनम्। तथा हि हेतौ निश्चितान्यथानुपपत्येकलक्षणत्वमनुपपन्नम् । तस्य १० पक्षधर्मत्वादिलक्षणत्रयान्वितत्वेनैव सम्यक्त्वोपपत्तेः । अन्यथाऽसिद्ध- त्वादिदोषानुषगात् । न खलु पक्षधर्मत्वाभावे तस्यासिद्धत्वव्यवच्छेदः । सपक्ष एव सत्त्वाभावे च विरुद्धत्वव्युदासः। विपक्षे चासत्त्वनियमा- भावेऽनेकान्तिकत्वनिषेधश्च कर्तुं शक्यः । उक्तं च--- " हेतोस्त्रिष्वपि रूपेषु निश्चयस्तेन वर्णितः ॥ असिद्धविपरीतार्थव्यभिचारि- १५ विपक्षतः ॥१॥" अस्यायमर्थः-- असति तादात्म्यतदुत्पत्तिलक्षणे प्रतिबन्धे व्याप्तेरनिश्चयाखेतोरगमकत्वं यतः स्यात्तेन कारणेन हेतो- स्त्रिप्वपि रूपेषु पक्षधर्मान्वयव्यतिरेकरूपेषु निश्चयो वर्णित आचार्य- दिग्नागेन "प्रसिद्धस्तु द्वयोरपि साधनम्" इत्यादिना प्रमाणसमु- चयादिषु । कस्य निरासेनेत्याह-असिद्धेत्यादि । विपक्षत इति, २० आद्यादित्वात्तृतीयार्थे तसिः । विपक्षणेत्यर्थः । तदा ह्यसिद्धविपक्षण पक्षधर्मत्वनिश्चयो वर्णितः । विपरीतार्थो विरुद्धस्तस्य विपक्षणान्वयः । व्यभिचार्यनैकान्तिकस्तस्य विपक्षण व्यतिरेकनिश्चयः । प्रसिद्धस्तु द्वयोरपि साधनमित्यत्र च दिग्नागवचश्शकले द्वयोरपीत्यनेनैकस्य १'आद्यादिभ्य उपसख्यानम्' इति का. वा. ५-४-४४ ।
परि. ३ सू. १३] स्याद्वादरत्नाकरसहितः ५१९ वादिनः प्रतिवादिनो वा यः सिद्धस्तस्य साधनत्वप्रतिषेधः। प्रसिद्ध इत्यनेन च यः सन्दिग्धस्तस्येति । उक्तं ताथागतेनेदं स्वमते हेतुलक्षणम् । प्रक्रियामात्रमेतत्तु न्यायमार्गाक्षमान्वितः ॥ ४८६ ॥ तथा हि-न पक्षधर्मत्वादि रूपत्रयं हेतोर्लक्षणम् । विपक्षेऽप्यस्य ५ वर्तमानत्वात् । यद्यस्य विपक्षेऽपि वर्त्तते न तत्तस्य लक्षणं यथा सत्त्वमग्नेः । विपक्षेऽपि हेत्वाभासलक्षणे वर्तते च पक्षधर्मत्वादिरूपत्र- यम् । तन्न हेतोस्तल्लक्षणमिति । अथान्यथानुपपत्तिनियमवरूप्यं हेतु- लक्षणं न त्रैरूप्यमात्रम् । तथाविधं च तद्विपक्षे हेत्वाभासलक्षणे न सम्भ- वतीत्युच्यते तदसम्बद्धम् । एवं सति त्रैरूप्यकल्पनानर्थक्यप्रसङ्गात् । १० अन्यथानुपपत्तिनियमादेव हेतोर्गमकत्वोपपत्तेः । न खलु कृत्तिकोदयाच्छ- कटोदयाद्यनुमाने पक्षधर्मता सम्भवति । अथ कालाकाशादि भविष्यच्छ- कटोदयादिमत्कृत्तिकोदयादिमत्त्वात्पूर्वोपलव्धकालाकाशादिवदितीत्थमत्र पक्षधर्मताऽभिधीयते । तर्हि न कश्चिदपक्षधर्मत्वे हेतुः स्यात् । काककार्पोदेरपि प्रासादधावल्यादौ साध्ये जगतो धर्मित्वेन पक्ष- १५ धर्मत्वस्य कर्तुं सुशक्यत्वात् । तथा हि-जगत्प्रासादधावल्ययोगि काककायॆयोगित्वात् । तथा जगज्जलधिजातवेदःसमन्वितं महान- सघूमयोगित्वात्पूर्वोपलव्धजगदिवेति । लोकविरुद्धोऽन्यत्राप्यविशिष्टः । तन्न पक्षधर्मत्वं हेतोर्गमकत्वाङ्गम् । नापि सपक्षे सत्त्वम् । अनित्यः शब्दः श्रवणत्वादित्यादेरसाधारणत्वादनकान्तिकत्वमिति चेत् । तद- २० युक्तम् । असाधारणत्वस्यानैकान्तिकत्वेन व्याप्त्यसिद्धेः । सपक्षविप- क्षयोर्हि श्रावणत्वादिरसत्त्वेन किं निश्चितः संशयितो चा। अस- त्वेन निश्चितश्चेत्, कथमनैकान्तिकः सपक्षविपक्षयोरसत्त्वेन निश्चितो हेतुः पक्षे साध्याविनामावित्वेन निश्चेतुमशक्य इति शक्यं वक्तुम् । सर्वानित्यत्वे साध्ये सत्त्वादेरहेतुत्वाप्रसङ्गात् । न खलु सत्त्वादिर्विपक्ष २५ १.विश्रावणत्वादि ' इति भ. पुस्तके पाठः ।
५२० प्रमाणनयतत्त्वालोकालङ्कारः [परि.३ सू. १३ F एवासत्त्वेन निश्चितः । सपक्षेऽपि तस्यासत्त्वनिश्चयात् । ननु सपक्षस्या- भावात्तत्र सत्त्वादेरसत्त्वनिश्चयेऽपि स्वसाध्यसाधकत्वं युक्तम् । न. पुनः श्रावणत्वादेः । तस्य विद्यमानेऽपि सपक्षे घटादावसद्भावादिति चेत् । तदप्यसमीचीनम् । सति सपक्षे विद्यमानत्वस्य गमकतायामन- ५ इचात् । अन्तर्व्याप्तेरेव सर्वत्र तदङ्गत्वोपपत्तेः । यदि च सति सपक्षे श्रावणत्वादिरसत्त्वेन निश्चित इति कृत्वा न स्वसाध्यस्य गमकः । तहि सति विपक्षे जलाशयादावसत्त्वेन निश्चितो धूमादिरेव स्वसाध्य- गमकः स्यान्न त्वसति तस्मिन्नसत्त्वेन निश्चितः सत्त्वादिः। अथ कथ्यते-- असति खलु विपक्षे यस्य नास्त्येव सत्ता स भजति बत सम्यग्घेतुता सर्वथैव ।। व्यभिचरति कथञ्चिन्नाविनाभावमुद्रा यदिह शुचिमनीषाचक्षुषा वीक्ष्यमाणम् ॥ ४८७ ॥ नन्वेवं सम्पूर्णे सपक्षे तदेकदेशे वा यः सन्कृतकत्वप्रयत्नानन्त- १५ रीयकत्वादिकः स कथं हेतुतां स्वीकुर्यादिति चेत् । असन्नेव सपक्षे हेतु- रित्यनवधारणात् । विपक्षेऽपि तदसत्त्वानवधारणमस्त्विति न मन्तव्यम् । साध्याविनामावित्वव्याघातानुषगात् । तन्न सपक्षविपक्षयोरसत्त्वेन निश्चितोऽसाधारणः कथञ्चिदनैकान्तिकतामास्कन्दति । नापि सपक्ष- विपक्षयोरसत्त्वेन संशयितः श्रावणत्वादिरसाधारण इति द्वितीयः पक्षः। २० तयोस्तस्यासत्त्वेन निश्चितत्वात् । न च सपक्षे सत्त्वाभावे श्रावण- त्वादिहेतोरनन्वयत्वानुषङ्गः । अन्तर्व्याप्तिलक्षणस्य तथोपपत्तिरूपस्या- न्वयस्य तत्र सद्भावात् । अन्यथानुपपतिरूपन्यतिरेकवत् । तन्न सपक्षे सत्त्वमपि हेतोर्लक्षणम् । नापि विपक्षेऽसत्त्वम् । तत्पुत्रत्वस्यापि गम- कत्वप्रसङ्गात् । श्यामेतरपुरुषलक्षणाद्विपक्षाघ्यावृत्तत्वात् । अथ न २५ विपक्षेऽसत्त्वमात्र हेतुलक्षणं किन्त्ववधारणगर्भमसत्त्वं विपक्षेऽसत्त्वमेव निश्चितमिति न चात्रावधारणनिश्चितिरस्ति । न हि यत्र श्यामत्वं परिः ३ सू. १३] स्याद्वादरलाकरसहितः ५.२२. . नास्ति तत्पुत्रत्वेनापि न भवितव्यमेवेत्येकान्तः । शाकाद्याहारस्वरूप- स्वकारणासत्त्वेन कदाचन श्यामत्वानुत्पत्तावपि स्वकारणोपढौकितस्य तत्पुत्रत्वस्य सम्भाव्यमानत्वादिति चेत् । तद्देवस्वभावं विपक्षासत्त्वं निश्चितान्यथानुपपत्तिरेवेति तदेवैकं हेतोः प्रधानं लक्षणमस्तु । पर्याप्त लक्षणान्तरपरिकल्पनया । तदुक्त पात्रस्वामिना-" अन्यथानुपपन्नत्वं ५ यत्र तत्र त्रयेण किम् । नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ॥१॥” इति । यत्पुनरभिहितमन्यथासिद्धत्वादिदोषानुषड्गादित्यादि । तदपर्यालोचितवचनम् । निश्चितान्यथानुपपत्तिलक्षणत्वादेव हेतोरसिद्ध- वादिदोषपरिहारप्रसिद्धेः । न ह्यसिद्धादिषु हेत्वाभासेषु निश्चितान्यथा- नुपपत्तिः कथञ्चित्सम्भवतीति । असिद्धादिस्वरूपसूचकसूत्रस्य व्याख्या- १० नावसरेऽभिधास्यामः । एवमप्यविनाभावप्रपञ्चत्वात्पक्षधर्मत्वादेरसिद्धादि- व्यवच्छेदार्थ हेतुलक्षणत्वेन प्रणयने निश्चितत्वस्यापि रूपान्तरस्याज्ञाता- सिद्धताव्यवच्छेदार्थमवाधितविषयत्वादेश्च लक्षणान्तरस्य · बाधितविषय- त्वादिव्यवच्छित्तये हेतुत्वलक्षणत्वेन प्रणयनं स्यात् । एवं च- १५ नैतद्भिक्षो पक्षधर्मत्वमुख्यं त्रैलक्षण्यं लक्षणं लक्षणीयम् ॥ यस्मादस्मिन्विद्यमानेऽपि हेतोः शक्ति वात्मीयसाध्यप्रसिद्धौ ॥४८८॥ अत्र योगाः प्रत्यवतिष्ठन्ते- जानासि जल्पितुमनल्पमते यदत्र हेतोः पचरूपत्वमङ्गीकुर्वता हेतोस्त्रिलक्षणकतां क्षिपसि क्षणेन ।। नैयायिकानां मतमुपदर्य यस्मादयं प्रभवति प्रकटस्वसाध्य- संसाधनाय नियतं ननु पञ्चरूपः॥४८९॥ तथा हि-त्रैरूप्यं हेतोर्लक्षणं मा भूत् । पक्वान्येतानि सहकार- फलान्येकशाखाप्रभवत्वादुपयुक्तसहकारफलवदित्यादी बाधितविषये मूर्योऽयं देवदत्तस्तत्पुत्रत्वादितरतत्पुत्रवदित्यादौ सत्प्रतिपक्षे च, २५ २० खण्डनम् ।
५२२ प्रमाणनयतत्त्वालोकालड्डारः [परि. ३ सू. १३ हेत्वाभासेऽप्यस्य सम्भवात् । पञ्चरूपत्वं तु भवत्येव । निर्दोषत्वात् । एकशाखाप्रभवत्वस्य हि त्रैरूप्ये सत्यप्यहेतुत्वम् । अबाधितविषयत्वा- सम्भवात् । तथा हि । इदमनुमानं प्रतिदिनपरिणामोपचीयमानपश्चि- मवयसि वसन्ते कस्यापि ललाटंतपग्रहपतिपातितप्रचण्डमरीचिकाचक्र- ५ सम्पर्ककर्कशसनीरलहरीपरिक्वाथ्यमानपरिपकफलरसस्य सहकारमही- रुहस्य कस्याञ्चिद्विशालशाखायां कानिचित्कुङ्कुमपङ्कपिञ्जराणि परिणति- पेशलानि कान्यपि पुनरपि जरठतमालदलश्यामलकान्तिकान्तानि तदि- तराणि फलानि समुपलभमानस्तदभिलाषबलप्रबलविगलदन्तोदकप्लवप्ल- वमानलोलजिह्वाचलः पुमान्कश्चित्करोति । अथवाऽऽमताग्राहिणा १० तत्प्रत्यक्षेणावबाध्यते । तत्पुत्रत्वस्यापि विद्यमानेऽपि त्रैरूप्ये हेत्वा- भासत्वम् । असत्प्रतिपक्षत्वाभावात् । मूर्योऽयं तत्पुत्रो न भवति विविध- शास्त्रव्याख्यानादिकौशलशालित्वात्प्रतिपन्नप्राज्ञपुरुषवदित्यादेस्तत्प्रतिप- क्षस्य सम्भवात् । इदमपि हि मूर्खत्वानुमानमनेककर्कशतर्कशास्त्रसन्दर्भ- गर्माविर्भावनाविज़म्भमाणप्रभूततमरोमाञ्चसञ्चयकम्बुकाञ्चितशरीरेण कु- १५ शाग्रीयशेमुषीशालिना शिष्यमण्डलेन समुपास्यमानं कमपि कोविदव- न्दारकमवलोकमानस्तदुपरिप्ररूढमत्सरमदिराधिकारपरवशः कश्चिद्युः करोति । अथ च तत्प्रतीयमानेनैव मूर्खत्वबाधकेन विविधशास्त्रव्या- ख्यानादिकलाकौशलशालित्वानुमानेन बाध्यते । ततः कालात्यया- पदिष्टस्य हेत्वाभासस्य व्यवच्छेदार्थमबाधितविषयत्वं प्रकरणसमस्य च २० व्युदासार्थमसत्पतिपक्षत्वं हेतोलक्षणमभ्युपेयमिति पक्षधर्मत्वादिरूपत्रया- दभ्यधिकयोरबाधितविषयत्वासत्प्रतिपक्षत्वयोरपि रूपयोः सद्भावात्पञ्च- लक्षणकमेवमङ्गीकरणीयम् । यथोक्तं जयन्तेन-" पञ्चलक्षणकाल्ल- झाद्गृहीतान्नियमस्मृतेः । परोक्षे लिङ्गिनि ज्ञानमनुमानं प्रचक्षते ॥१॥” इति । स एवैतव्याचष्टे-परोक्षोऽर्थो लिङ्गयते गम्य- २५ तेऽनेनेति लिङ्गं तस्माल्लिङ्गाल्लिङ्गिानि ज्ञानमनुमानं प्रचक्षत इति १ ललाटंतपः-मध्याहस्थः । ग्रहपतिः सूर्यः । २ अहकारवान् । । ३ न्यायमञ्जरीपृ. १०९.
परि. ३ सू. १३] स्याद्वादरत्नाकरसहितः ५२३ - योगः । कथम्भूताल्लिङ्गात् , पञ्च लक्षणान्यस्येति पञ्चलक्षणकं तस्मात् । कानि पुनः पञ्च लक्षणान्युच्यन्ते , पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षा- घ्यावृत्तिरबाधितविषयत्वमसत्प्रतिपक्षत्वं चेति । सिषाधयिषितधर्मविशिष्टो धर्मी पक्षस्तद्धर्मत्वं पक्षधर्मत्वं तदाश्रितत्वमित्यर्थः, साघ्यधर्मयोगि- त्वेन निश्चितं धर्म्यन्तरं सपक्षस्तत्रास्तित्वम्, साध्यधर्मसंस्पर्शशून्यो धर्मी ५ विपक्षस्ततो व्यावृत्तिः, अनुमेयस्यार्थस्य प्रत्यक्षेणागमेन वा अनपहरण- मवाधितविषयत्वम्, संशयवीजभूतेनार्थेन प्रत्यनुमानतया प्रयुज्यमानेना- नुपहतत्वमसत्प्रतिपक्षत्वमिति, एतैः पञ्चभिलक्षणैरुपपन्नं लिङ्गं साध्यस्या- नुमापकं भवति । एतेषां च लक्षणानामेकैकापायात्पञ्च हेत्वाभासा भवन्ति। तथा हि-यस्य पक्षधर्मता नास्त्यसावसिद्धो हेत्वाभासः । यथा नित्यः १० शब्दश्चाक्षुषत्वादिति, सपक्षे सत्त्वं यस्य नास्ति स विरुद्धः, यथा नित्यः शब्दः कृतकत्वादिति, यस्य विपक्षायावृत्तिनास्त्यसावनेका- न्तिकः, यथा नित्यः शब्दः प्रमेयत्वादिति, यस्यावाघितविषयत्वं नास्ति स कालात्ययापदिष्टः, यथानुप्णस्तेजोऽवयवी कृतकत्वाद्धटवदिति प्रत्यक्षवाधितविषयः । ब्राह्मणेन सुरा पेया द्रवत्वात्क्षीरवदित्यागम- १५ वाधितविषय इति । यस्य निप्प्रतिपक्षता नास्ति स प्रकरणसमः, यथाऽ- नित्यः शब्दो नित्यधर्मानुपलब्धेर्घटवत् । नित्यः शब्दोऽनित्यधर्मानुप- लव्धेराकाशवदिति । द्वावप्येतौ परस्परं सत्प्रतिपक्षाविति । न च वस्तूनामद्विरूपत्वात्कथमेकत्र धर्मिणि परस्परविरोधधर्मद्वयाक्षेपप्रयो- जकहेतुद्वितयस्य सन्निपातो भवेदिति शङ्कनीयम् । यतः संशयबीजं २० यद्विशेषाग्रहणं तदन्यतरपक्षनिर्णयाय भ्रीन्त्या प्रयुज्यमानं सत्प्रतिपक्षतां प्रतिपद्यते । स्थाणुरयं पुरुषधर्मानुपलव्धेः पुरुषोऽयं स्थाणुधर्मानु- पलब्धेरितिवत् । अन्यतरविशेषानुपलम्म एवायं संशयाधायी पक्षधर्मा- न्वयव्यतिरेकोपपत्तेभ्रमणे हेतुरिति प्रयोज्यमानः सत्प्रतिपक्षो भवति । पुरुषप्रज्ञाप्रमादमूलत्वाच्च वस्तुनो यात्मकत्वमिह प्रतिभासते । इति २५ सुव्यवस्थित एव प्रकरणसमाख्यः पञ्चमो हेत्वाभासः। एतेषु पञ्चसु लिङ्गलक्षणेषु लिङ्गस्याविनाभावः परिसमाप्यते, इति पञ्चलक्षणकालिङ्गा- :
५२४ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. ३ सू. १३ दिति व्याख्यातम् । व्याप्तिग्रहणसमयसमधिगतस्वरूपस्यापि लिङ्गस्य पुनर्घर्मिणि क्वचिदनवधृतवपुषो न साध्यावबोधसाधनत्वमिति द्वितीय लिङ्गदर्शनमवश्यमपेक्षणीयमिति गृहीतादित्युक्तम् । लिङ्गं हि ज्ञापकं न च चक्षुरादिवत्कारकम् । ज्ञापकस्य चायं स्वभावो ५ यदज्ञातं सन्न ज्ञापयतीति । व्याप्तिकालगृहीतमेव व्याप्तिवत्स्म- र्यमाणतया लिङ्गं लिङ्गिनं गमयिप्यतीति चेत् । मैवम् । लिङ्गग्रहणमन्तरेण व्याप्तिस्मृतेरप्यभावादिति । अथ नियमस्मृतेरिति व्याख्यायते । नियमो व्याप्तिरविनामावो नित्यसाहचर्यमित्यर्थः । तस्य स्मृतिर्नियमस्मृतिस्तस्याश्च सकाशात्परोक्षे लिङ्गिनि १० ज्ञानमनुमानं, प्रचक्षते इत्यत्रापि सण्टङ्कः । द्वितीयलिङ्गदर्शने सत्यपि नियमस्मरणमन्तरेण साध्यप्रमितिर्नोन्मीलतीति भावः । "नियमो हि गृहीतोऽङ्गमनुमेयप्रमा प्रति ।। न नालिकेरद्वीपस्थो धूमादग्निं प्रपद्यते ॥ १॥ साध्यानुमितिवेलायां न चास्ति नियम- ग्रहः ॥ नियमग्रहकाले च न साध्यमनुमीयते ।। २ ।। तेन पूर्व १५ गृहीतः सन्निदानीं स्मृतिगोचरः ।। नियमः प्रतिपत्त्यङ्ग तथावगति- दर्शनात् ॥३॥ यत्रापि विषयेभ्यस्तेनैव संवेद्यते स्मृतिः ।। तत्राप्यनेन ज्ञानेन बलात्स परिकल्प्यते ॥४॥' अथ परोक्षे लिङ्गि- नीति वित्रियते । तत्र लिङ्गी तावदुच्यते । धर्मविशिष्टो धर्मी साध्यः स एव लिङ्गीति । न धर्मिमात्रं साध्यम् । पर्वतादेर्धर्मिणः सिद्धत्वात् । २० न धर्ममात्रम् । अग्नेरपि यत्र तत्र सिद्धत्वात् । न च द्वयोः साध्य- त्वम् । स्वतन्त्रयोर्वहिपर्वतयोरपि सिद्धत्वादेव । तस्मादेकस्य द्वयोर्वा स्वातन्त्र्येणानुमेयता नाषकल्प्यत इत्यवश्यमन्यतरविशिष्टोऽन्यतरः साध्यो वक्तव्यः । तत्रापि तु धर्मविशिष्टो धर्मी । तथा हि-देशविशिष्टे वह्नौ साध्ये षोडश विकल्पाः सम्भवेयुः । सर्व एव वाग्निः सर्वदेशवि- २५ शिष्टः, अनिर्धारितदेशविशेषविशिष्टः, पूर्वानुभूतमहानसादिदेशविशिष्टः, सम्प्रत्यपलभ्यमानपर्वतादिदेशविशिष्टो वाऽनमेयः स्यात कश्चिदग्रिः .. ..
परि.३ सू. १३ ] स्याद्वादरत्नाकरसहितः ५२५ . सर्वदेशविशिष्टः, देशविशिष्टो वा अनुमेयः स्यात्, एष सिसाधयिषितो वाग्निः सर्वदेशविशिष्टः, अनिर्धारितदेशविशिष्टः, प्रागनुभूतदेशविशिष्टः, इदानीमनुभूयमानदेशविशिष्टो वाऽनुमेय इति।तत्रैते पञ्चदश पक्षाः प्रत्य- क्षविरोधसिद्धसाध्यत्वादिदोषोपहता इत्यनादरणीया एव । यस्तु पोडशः पक्ष एतद्देशविशिष्ट एषोऽग्निरिति , तत्र देशविशेषावच्छेदमन्तरेणैष वह्निरिति परिग्रहीतुमेव न शक्यते । अतो देश एव प्रथममवगम्यते । तस्य च पूर्वप्रतिपन्नत्वादिदानीमनवगतदहनविशिष्टस्त्वस्यानुमातुं योग्यत्वात्स एव साध्यो युक्तः । अपि च । अग्नेः साध्यतायामतद्धर्मो धूमः कथमनु- मापकः स्यात् । अनुपलब्धे ज्वलने तद्धर्मतया धूमो ग्रहीतुं न पार्यते । उपलब्धे तु हुतमुजि भवदपि विफलमेव धूमस्य तद्धर्मताग्रहणम् । १० अनुमेयस्य तदानी कस्यचिदभावात् । तस्मादग्निविशिष्टः परिदृश्यमानो देश एव साध्यः । स च स्वरूपत. प्रत्यक्षोऽपि परोक्षधर्मविशिष्टतया- नुमेय इति धमधर्मयोगादग्निधर्मवान्स एवानुमीयते । सोऽनुमानस्य विपयो लिङ्गीत्युच्यते । परोक्षग्रहणं च परोक्षधर्मविशिष्टे धर्मिणि साध्यत्वप्रतिपत्त्यर्थम् । क्वचित्तु व्याप्तिस्मरणसमनन्तरमेव प्रत्यासीदतः १५ प्रमातुर्झटिति समुन्मिपन्नकस्मादेव प्रत्यक्षीभवति विभावसुरिति न तद्वि- शिष्टतयापि धर्मिणि परोक्षत्वमवकल्प्यत इति तव्यावृत्तयेऽपि .परोक्ष- अहणमिति । । ततश्च- २० रूपपञ्चकसमृद्धिवन्धुरं लिङ्गमेतदिति योगजल्पितम् ॥ साध्यसिद्धिमनुमानमुद्रया मन्त्रयद्धिरुपगम्यता वुधैः ॥ ४९० ॥ भारती तव वयस्य शुश्रुवे वर्णमात्रघटनासमुद्भुरा ॥ भासते पुनरसौ मनीषिणा काणदृष्टिरिव रोपिताजना ||४९१ ।। तथा हि-हेतो. पञ्चरूपत्वमनुपपन्नम् । त्रैरूप्यवत्तस्यापि हेत्वाभा- सेऽपि भावात् । अग्निजन्योऽयं धूमः सत्त्वात्पूर्वोपलब्धधूमवदित्यत्र हि २५ हेत्वाभासेऽपि पक्षधर्मत्वं. तावदास्त । पक्षीकृते धूमे सत्त्वस्यांसन्दिग्ध- - प्रमाणनयतत्त्वालोकालङ्कारः [ परि. ३ सू. १३ -- त्वात् । अन्वयोऽपि नियत एव । पूर्वदृष्टे ध्मेऽग्निजन्यत्वेन व्याप्तस्य सत्त्वस्य सद्भावात् । व्यतिरेकश्च । खरविषाणादौ साध्याभावे साधनस्य सत्त्वस्याभावनिश्चयात् । अबाधितविषयत्वमप्यत्रास्ति । विवादापन्ने घूमेऽमिजन्यत्वस्य बाधकाभावात् । एवमसत्प्रतिपक्षत्वमपि । अन- ५ निजन्यत्वसाधकस्यानुमानस्यात्रासम्भवादिति सिद्ध हेत्वाभासेऽपि सत्त्वे पश्चरूपत्वम् । सामस्त्येन व्यतिरेकनिश्चयस्यात्राभावादसिद्धमिति चेत् । न । तस्यान्यथानुपपन्नत्वरूपत्वेन तदभावे शेषरूपाणामाकश्चि- करत्वापत्तेस्तद्विकलस्यैव पञ्चरूपत्वस्यालक्षणत्वेन साध्यत्वात् । यत्पु- नरबाधितविषयत्वासत्प्रतिपक्षत्वयोरभावादेकशाखाप्रभवत्वतत्पुत्रत्वहेत्वो- १० रगमकत्वमगादि तत्राप्यन्यथानुपपत्त्यभाव एव निमित्तम् । न पुनर- बाधितविषयत्वासत्प्रतिप्रक्षत्वयोरमावः । तयोः सतोरप्यगमकत्वस्या- नन्तरमेव दर्शितत्वात् । किं चाबाधितविषयत्वस्य तावन्निश्चितस्यैव हेतुलक्षणाङ्गत्वमङ्गीकृतम् । न च तन्निश्चयः सम्भवति । तन्निश्चय- साध्यनिश्चययोः परस्पराश्रयणात् । सति हि बाधनाभावनिश्चये हेतोः १५ साध्यनिश्चयस्तन्निश्चयाच बाधनामावनिश्चय इति न तयोरन्यतरस्य व्यवस्था । यदि पुनरन्यतः कुतश्चिद्वाधनामावनिश्चयात्परस्पराश्रय- परिहारः क्रियते । तदाप्यकिञ्चित्करत्वं हेतोः । यथैव हि हेतोविपर्य- यस्य बाधासद्भावनिश्चये तत्साधनासमर्थत्वादकिञ्चित्करत्वम् । तथैव बाधाविरहनिश्चये कुतश्चित्तस्य सद्धावसिद्धेस्तत्साधनाय प्रवर्त्तमानस्य २० सिद्धसाधनादपीति न साधीयस्तस्य तल्लक्षणत्वम् । नन्वेवमविना- भावोऽपि हेतुलक्षणं मा भूत्तन्निश्चयस्यापि साध्यसद्भावनिश्चयायत्ततया तस्य चाविनाभावाधीनत्वादितरेतराश्रयस्य प्रसङ्गादिति चेत् । न । अवि- नाभावनियमस्य हेतौ प्रमाणान्तरान्निश्चयोपगमादितरेतराश्रयानवका- शात् । तर्काख्यं हि प्रमाणमविनामावनिश्चयनिबन्धनम् । प्रत्यक्षा- २५ देस्तत्राव्यापारात् । तर्हि यत एवाविनामावनिश्चयो हेतोस्तत एव साध्यस्यापि सिद्धस्तत्र हेतोरकिञ्चित्करत्वमिति चेत् । न । ततो परि. ३ सू. १३] स्याद्वादलाकरसहितः देशादिविशेषावच्छिन्नस्य साध्यस्य साधनात् । तर्कात्तु सामान्यत एव तत्सिद्धेः । असत्प्रतिपक्षत्वेऽपि प्रतिप्रक्षस्तुल्यबलोऽतुल्यबलो वा । तुल्य- बलत्वे बाध्यबाधकभावानुपपत्तिः। अतुल्यबलत्वं त्वनयोः किं पक्षधर्म- त्वादिभावाभावकृतमनुमानवाघजनितं वा । न तावदाद्यः पक्षो निरवद्यः । पक्षधर्मत्वादेरुभयोरप्यविशेषात् । मूर्खत्वाभावे साध्ये शास्त्रव्याख्यानादिकलाकौशलशालित्वस्येव मूर्खत्वे साध्ये तत्पुत्रत्वस्यापि पक्षधर्मत्वादिसम्भवात् । द्वितीयपक्षोऽप्यसम्भाव्यः । अनुमानवाधाया अद्याप्यसिद्धेः । न हि द्वयोः पक्षधर्मत्वाद्यविशेषे एकस्य बाध्यत्वमपरस्य बाधकत्वं युक्तम् । अविशेषेणैव तत्प्रसङ्गात्परस्प- राश्रयश्च । तथा ह्यतुल्यबलत्वे सत्यनुमानवाधा तस्यां चातुल्य- १० बलत्वमिति । एवं च पञ्चलक्षणलक्षितलिङ्गाग्रहं विहाय हठात् ।। जिनोदितैकलक्षणलक्षितमिह लक्ष्यतां लिङ्गम् ॥ ४९२ ॥ तदुक्तम्-- अन्यथानुपपन्नत्वं रूपैः किं पञ्चभिः कृतम् ।। नान्यथानुपपन्नत्वं रूपैः किं पञ्चभिः कृतम् ॥ १॥" इति । नैयायिकाः केचिदथात्र लिङ्ग- तत्पूर्वकमित्याद्यक्षपाद- मन्यप्रकार परिकीर्तयन्ति ।। सूत्रानुसारिणां मत- मुपदश्य खण्डनम् । तेषामिदानी प्रतिपादयाम- स्तदर्थसंसूचकसूत्रमेकम् ॥ ४९३ ॥ "तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेपवत्सामान्यतो दृष्टं च" इति । तत्र तदिति सर्वनाम्ना पूर्वप्रक्रान्तं प्रत्यक्षं प्रत्यवमृश्यते । तत्पूर्व कारणं यस्य तत्तत्पूर्वकं त्रिविधमनुमानमिति स्पष्टम् । वादादि- कथात्रये पूर्वमुपादीयमानत्वात्पक्षः पूर्वशब्देनोच्यते । सोऽस्यास्त्याश्रय- त्वेनेति पूर्ववत् । लिङ्गमित्येवमनेन पदेन पक्षधर्मत्वमुक्तं भवति । २५ १ गौ. सू. १।१।५. १५ २० प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३.सू. १३ पक्षे उपयुक्ते सति शेषः सपक्षो भवति सोऽस्यास्त्याश्रयत्वेनेति शेष- वदित्यनेन सपक्षे वृत्तिरुक्ता भवति । सामान्यतो दृष्टमित्यनेन विपक्षा- व्यावृत्तं लिङ्गमुच्यते । कथम् । अकारप्रश्लेषात्, सामान्यतो दृष्टमिति । तिष्ठतु तावद्विशेषतः सामान्यतोऽपि न दृष्टम् । केति पक्षसपक्षयोवृत्ते- ५ रुक्तत्वात्पारिशेष्याद्विपक्षे सामान्यतोऽपि न दृष्टमित्यवतिष्ठते । एवं च यत्पूर्ववच्छेषवत्तत्केवलान्वय्यनुमानम् । पक्षधर्मत्वसपक्षसत्त्वसमन्वि- तमित्यर्थः । यथा सदसद्वर्गः कस्यचिदेकज्ञानालम्बनमनेकत्वात्पञ्चाङ्गु- लवत् । अत्र हि पञ्चाङ्गुलव्यतिरिक्तस्य सदसद्वर्गस्य समग्रस्य पक्षीकरणादन्यस्याभावाद्विपक्षाभावः । अत एव व्यतिरेकाभावः । तथा २०. पूर्ववत्सामान्यतो दृष्टं केवलव्यतिरेकि । पक्षधर्मत्वविपक्षव्यावृत्तिसम- न्वितमित्यर्थः । यथा सात्मकं जीवच्छरीरं प्राणादिमत्त्वाद्यत्युनः सात्मकं न भवति तत्प्राणादिमदपि न भवति यथा घटादि प्राणादि- मच्च जीवच्छरीरं तस्मात्सात्मकमिति । अत्र हि जीवच्छरीरस्य पक्षी- कृतत्वेन सपक्षाभावादन्वयाभावः। तथा पूर्ववच्छेषवत्सामान्यतो दृष्ट- १५ मन्वयव्यतिरेकि । पक्षधर्मत्वसपक्षसत्त्वविपक्षव्यावृत्त्युपेतमित्यर्थः । यथा क्षित्यादिकं बुद्धिमत्कारणकं कार्यत्वात्कुम्भादिवत् । यत्पुनर्बुद्धि- मत्कारणकं न भवति न तत्कार्यत्वधर्माधारो यथा व्योमादीति । अत्र सपक्षविपक्षयोः कुम्भादिव्योमादिकयोः सद्भावाद्धेतोरन्वयव्यतिरेक- सद्भावः । २० अन्वयवद्वयतिरेकवदित्यं तवयवच्च किलोच्यत लिङ्गम् ।। एतदपि प्रतिपादितयुक्तिव्यूहवशेन समस्तमपास्तम् ॥ ४९४ ।। सर्वत्र निश्चितान्यथानुपपन्नत्वस्यैव हेतुलक्षणतोपपतेस्तस्मिन्सत्येव हेतोर्गमकत्वप्रतीतेः । केवलान्वयिनो हि यदि प्रमाणनिश्चितमन्यथा- नुपपन्नत्वमस्ति तदा किमन्वयापेक्षया । अथान्वयाभावे हेतोरन्यथा- २५ नुपपन्नत्वस्यैवाभावः स्यादतोऽन्वयापेक्षा स्यादेतद्यद्यन्यथानुपपन्नत्व- मन्वयेन व्याप्तं भवेत् । न खल्वव्यापकनिवृत्तावव्याप्यनिवृत्तिः १ श्रीछन्दः।
परि. ३ सू. १३] स्याद्वादरत्नाकरसहितः ५२९ सम्भवति । अतिप्रसक्तेः । अथान्वयेन व्याप्तमन्यथानुपपन्नत्वमिष्यते। तर्हि केवलव्यतिरेकिणि प्राणादिमत्त्वादावन्वयस्य निवर्त्तनात्तद्व्याप्तस्यान्यथा- नुपपन्नत्वस्यापि निवृत्तेरगमकत्वं स्यात् । न खलु व्यापकाभावे व्याप्यं भवति । वृक्षत्वाभावे शिंशपात्ववत् । गमकत्वे वा प्राणादिमत्त्वादेर्ना- न्वयेनान्यथानुपपन्नत्वं व्याप्त भवेत् । यस्याभावेऽपि यद्भवति न तत्तेन ५ व्याप्तम् । यथा सलिलाभावेऽपि भवन्धूमादिर्न तेन व्याप्तः। भवति चान्वयाभावेऽपि प्राणादिमत्त्वादावन्यथानुपपन्नत्वमिति । अन्यच्च । सदसद्वर्ग इत्याद्यनुमानेऽनेकत्वादित्यस्य हेतोः कुतः केवलान्वयित्वम् । व्यतिरेकाभावाच्चेत्, अयमपि कुतः । तद्विषयस्य विपक्षस्याभावाच्चेत् । अथ कोऽयं विपक्षाभावः । पक्षसपक्षावेव निवृत्तिमानं वा, प्रथमपक्षे १० परमतप्रसक्तिः । अभावस्य भावान्तरस्वभावतास्वीकारात् । निवृत्ति- मात्रलक्षणोऽपि विपक्षाभावः प्रतिपन्नो न वा । न प्रतिपन्नश्चेत्तर्हि विप- क्षाभावस्य सन्दिग्धत्वाध्यतिरेकामावोऽपि सन्दिग्ध इति केवलान्वयोs- पि सन्दिग्ध एव । अथ प्रतिपन्नः । स यदि साध्यसाधननिवृत्त्याधारः प्रतिपन्नस्तर्हि स एव विपक्ष इति कथं विपक्षाभावो यतो व्यतिरे- १५ काभावः स्यात् । साध्यसाधननिवृत्त्याधारतया निश्चितस्यैव विपक्ष- त्वात् । तच्च भाववदभावस्यापि न विरुध्यते । कथमन्यथा सदसद्वर्गः कस्यचिदेकज्ञानालम्बनमित्यत्रासतः पक्षत्वमपि स्यात् । असत्पक्षो भवति न तु विपक्ष इति च किंकृतो विभागः। अथासद्वर्गशब्देन -सामान्यविशेषसमवाया एवोच्यन्ते नाभावाः । तर्हि प्रागभावाद्यभाव- २० विषयं ज्ञानं न कस्यचिदनेनानुमानेन प्रसाधितमिति सुव्यवस्थित शूलिनः सकलकार्यकारणग्रामपरिज्ञानम् । प्रागभावाद्यज्ञाने कार्यत्वा- देरप्यज्ञानात् । अपि च यद्यभावोऽत्र पक्षसपक्षाभ्या बहिर्भूतः, तपने- नानेकत्वादित्यनैकान्तिको हेतुः । अभावस्यानेकत्वेऽपि कस्यचिदेक- ज्ञानालम्बनत्वानभ्युपगमात् । अभ्युपगमे वा कथमभावो न पक्षः । तथा '२५ च विपक्षोऽप्यसावस्तु । नन्वेवं विपक्षाभावोऽप्येकज्ञानालम्बनमिति , ५३० प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. १३ पक्ष एव स्यात् । तथा च पुनरपि विपक्षाभाव एवेति चेत् । तर्हि -पुनरपि तदेव प्रेय कोऽयं विपक्षाभाव इति । यदि पक्षसपक्षावेव स्तः, तर्हि भावाद्भिन्नस्याभावाजैनमतप्रवेशः। अथ तुच्छा विपक्षनिवृत्ति- स्तदभावः। सोऽपि यद्यप्रतिपन्नः । तर्हि सन्दिग्धः । तत्सन्देहे च ५ व्यतिरेकामावोऽपि ताडगेवेति न निश्चितः केवलान्वय इत्यादि तदवस्थं पुनः पुनरावर्तत इति । ततः केवलान्वयित्वेनैवाभ्युपगतस्या- नुमानस्य विपक्षाभाव एव तुच्छो विपक्षः । ततः साध्यनिवृत्त्या साधननिवृत्तिश्च सुव्यक्तैवेति कथं न व्यतिरेकः । अथ विपक्षामावस्या- पादानकारकत्वायोगान्न ततः साध्यसाधनयोावृत्तिरिति चेत् । १० तन्न समीचीनम् । भावः प्रागभावादिभ्यो भिन्नस्ते वा परस्परतो भिन्ना इत्यादावप्यभावस्यापादानकारकत्वाभावप्रसङ्गात्सर्वेषां प्राग- भावादीना साङ्कय स्यात् । किं चान्वयमात्रेण गमकत्वे द्रव्यं गुणकर्म- सामान्यविशेषसमवायप्रागभावादयः प्रमेयत्वात्पृथिव्यादिवदित्यादेरपि गमकत्वं कथं न स्यात् । धर्मिग्राहकप्रमाणबाधितत्वे कालात्ययापदि- १५ ष्टत्वान्नैतादृशं गमकमिति चेत् । तद्दबाधितविषयत्वमपि लिङ्गस्य लक्षणं पूर्वनैयायिकवद्भवद्भिरपि वक्तव्यम् । तच्चालक्षणमेवेत्युक्तम् । सम्प्रति पक्षत्वान्नेदृशस्य गमकत्वमिति चेत् । तसत्प्रतिपक्षत्वमपि तल्लक्षणं वाच्यम् । तदप्यलक्षणमेवेति निवेदितम् । ततोऽन्यथानुप- पन्नत्वाभावादेवेशस्यागमकत्वमङ्गीकार्यम् । तन्न केवलान्वय्यनुमानं परेषां न्याय्यम् । यच्चान्यदुक्तं पूर्ववत्सामान्यतो दृष्ट केवलव्यतिरेकी- त्यादि तदप्ययुक्तम् । यतः प्राणादेरन्वयाभावे कुतो गमकत्वमिति वाच्यम् । व्यतिरेकादिति चेत् । तथा हि यस्माद्धटादेः सात्मकत्व- निवृत्तौ प्राणादयो नियमेन विनिवर्तन्ते तस्मात्सात्मकत्वाभाव: प्राणाद्यभावेन व्याप्तो धूमाभावेनेव पावकाभावः । जीवच्छरीरे च २५ प्राणाद्यभावविरुद्धः प्राणादिसद्भावः प्रतीयमानस्तद्धावं निवर्तयति । स च निवर्तमानः स्वव्याप्यं सात्मकत्वाभावमादाय निवर्त्तत इति २० परि. ३ सू. १३] स्याद्वादरत्नाकरसहितः ५३१ सात्मकत्वसिद्धिस्तत्रेति । तदपि नानवद्यम् । नेदं क्षणिकाना सचित्त- शून्यं जीवच्छरीरं प्राणादिमत्त्वादित्यादेरपि गमकत्वप्रसङ्गात् । निगदितप्रकारव्यतिरेकस्यात्रापि सम्भवात् । साध्याभावेऽप्यस्य सद्भाव- सम्भावनयाऽगमकत्वमिति चेत् । तर्धन्यथानुपपत्तिवलादेव गमकत्व- मङ्गीकृतमिति कृतं केवलव्यतिरेकित्वेन । तन्न केवलव्यतिरेक्यप्यनु- ५ मानं परेषामुपपद्यते । एतेन पूर्ववच्छेषवत्सामान्यतो दृष्टमन्वयव्यतिरेक्य- प्यनुमानं तेषां प्रतिक्षिप्तम् । साध्याभावसम्भवनियमनिश्चयमन्तरेणा- स्यापि गमकत्वानुपपत्तेरिति । यदप्येतस्य सूत्रस्य कैश्चिद्व्याख्यानं. क्रियते । यथा कार्यात्पूर्वं कारणमुच्यते । पूर्वं कारणं लिङ्गतयाऽस्या- -स्तीति पूर्ववत्कारणात्कार्यानुमानम् | यथा मेघोन्नत्या भविष्यदृष्टय- १० नुमानम् । शेषः कारणापेक्षया कार्यमुच्यते । शेषो विद्यते यत्र तच्छेषवत्कार्यात्कारणानुमानम् । यथा नदीपूरेणोपरितन- देशेऽतीतवृष्टयनुमानम् । सामान्यतो दृष्टं तु सामान्यतोऽविना- भावमात्रेण यदकार्यकारणभूताल्लिङ्गाद कार्यकारणभूतस्यैव लिझिनोऽनु- मानम् । यथा कपित्यादौ रूपेण रसानुमानम् । रूपरसयोर्हि सम- १५ वायिकारणमेकं कपित्थादि द्रव्यं न तु तयोरन्योन्यकार्यकारणभाव इति । तत्रापि यदि निश्चितान्यथानुपपत्त्यनुवेधस्तदा न किञ्चिद- निष्टम् । साध्येनाविरुद्धानां व्याप्यकार्यकारणेत्यादिना सूत्रेण कारणा- दिलिङ्गानामभिधास्यमानत्वात् । निश्चितान्यथानुपपत्तिविरहे तु गम- कत्वमेवामीषां नास्तीति किं परिगणनया । एतेन वैशेषिका अपि यत्प्राहु:-" अस्येदं कार्य कारणं सम्ब- न्ध्येकार्थसमवायि विरोधि वेति लिङ्गकम्" अ- अस्येदं कार्यमित्यादिसूत्रा- नुसारिणां वैशेषिकाणां स्येदं कार्यं यथा विशिष्टो नदीपूरो वृष्टेरिति । मतस्योपदर्य अस्येदं कारणं यथा मेघोन्नतिवृष्टरेवेति । सम्ब- न्धि द्विविधं संयोगि समवायि च । तत्र संयोगि २५ १५. ३ सू ६५ । २ वै. द. अ. ९ आ. २ सू. १ २० - खण्डनम् ।
५३२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ स. १३ यथां, धूमोऽमेः । समवायि' यथा, विषाणं गोरिति । एकार्थसम- वायि द्विविधम् । कार्य कार्यान्तरस्य । कारण कारणान्तरस्य । तत्र कार्य कार्यान्तरस्य यथा , रूपं स्पर्शस्य। कारणं कारणान्तरस्य यथा, पाणिः पादस्येति । विरोधि चतुर्विधम् । अभूतं भूतस्य, अभूतम- ५ भूतस्य, भूतमभूतस्य, भूतं भूतस्य । तत्राभूतं भूतस्य यथा, अभूतं वर्षकर्म भूतस्य वाय्वभ्रसंयोगस्य लिङ्गम् । अभूतमभूतस्य यथा, अभूता श्यामता अभूतस्य घटाग्निसयोगस्य लिङ्गम् । भूतमभूतस्य यथा, मूर्त वर्षकर्म अभूतस्य वाय्वभ्रसंयोगस्य लिङ्गम् । भूतं भूतस्य यथा, भूतं स्यन्दनं कर्म भूतस्य सेतुबन्धस्य लिङ्गमिति । तथा १० परमपि ठिङ्गमुत्प्रेक्ष्यमनया दिशा । यथा, जलप्रसादोऽगस्त्योदयस्य । चन्द्रोदयः समुद्रवृद्धेरिति लिङ्गोपलक्षणत्वादस्य सूत्रस्येति । तदपि निरूपितप्रायमवसेयम् । समानयोगक्षेमत्वात् । उपनिषत्तदियं तव योग या गदितवानसि लिङ्गपरंपराम् । इतरथानुपपत्तिमपास्य सा विशति नैव मनस्सु मनस्विनाम् ॥४९३॥ हेतोर्लक्षणमेतदेव तदहो क्षोदक्षमं वर्त्तते सूत्रे यत्प्रतिपाद्यतेऽस्य सकलैङ्ग्रिदत्तास्पदम् ॥ अन्यत्त्वत्र विचार्यमाणमयते तीर्थान्तरीयोदित नो युक्तिं कथमप्यतः कथमिदं स्वीकुर्वते कोविदाः ॥४९४॥ नन्वन्यथानुपपत्तिरविनामाव इत्यभिदधानस्य च निमित्तमन्वेषणीयं प्रामाणिकैः । तच्च तादात्म्यतदुत्पत्तिरूपम् । तादात्म्यतदुत्पत्ती एवावि- नाभावनिमित्तमिति बौद्ध-तथा हि स्वभावहेतोस्तादात्म्यं स्वसाध्याविना- मतस्याशकापूर्वक भावे निवन्धनम् । यो हि यदात्माभावः स कथं तदुत्सृजति । कार्यहेतोस्तु तदुत्पत्तिस्तत्र निवन्धनम् । कार्य हि कारणाधीनात्मलाभमेव भवति तत्कथं तद- न्तरेण क्वापि स्यात् । न चाभ्यामन्यो हेतुरस्ति । अनुपलब्धेः स्वमाव- २० खण्डनम् । २५ परि. ३ सू..१३] स्याद्वादरत्नाकरसहितः ५३३ हेतावनुप्रवेशादिति शाक्याः । नाऽमी निवारयितुमशक्याः । यतः किं यत्र तादात्म्यतदुत्पत्ती तत्राविनाभावः । यत्राविनाभावस्तत्र तादात्म्य- तदुत्पत्ती वा । न तावत्पौरस्त्यः पक्षः । सत्यपि तादात्म्ये वृक्षत्वस्य शिंशपात्वस्य व्यभिचारात् । सत्यामपि च तदुत्पत्तौ श्यामत्वादिधूम- धर्मस्तोमस्य वहिव्यभिचारात् । न च शिंशपात्वमेव वृक्षत्वात्मकं न ५ वृक्षत्वं शिशपात्वात्मकं खदिरोदुम्बरादिसाधारणत्वाद्वक्षत्वस्येति वाच्यम् । तयोरेकान्ताभेदाभावात् । यदि च खदिरोदुम्बरादिसाधारणं वृक्षत्वमेव न शिंशपात्वं तदा नानयोरैक्यम् । स्वमावभेदस्य भेदलक्षणत्वात् । एतेन यत्प्रज्ञाकरेण न तु यथा वृक्षात्मा शिंशपा तथा वृक्षोऽपि शिंशपात्मैव तादात्म्यस्योभयगतत्वमन्तरेणाभावादित्याशङ्कयम् । अवि- १८ भागवत्त्वात् । वृक्षो हि शिंशपाव्यतिरेकेणाप्यस्ति पलाशादिन तु शिंशपा तथेति । सैवाविभागवती गमिकेत्युक्तम् । तदपि परास्तम् । विभाग- वत्त्वाविभागवत्त्वयोर्विरुद्धत्वेन भेदाविनामावित्वात् । नापि धूम एव वह्निना क्रियते न श्यामत्वादयस्तद्धर्मा इति युक्तम् । वस्तुनो निर्भाग- त्वात् । अथ यत्राविनाभावस्तत्र तादात्म्यतदुत्पत्ती । तर्यविनाभावे सिद्धे १५ तयोर्गमकाङ्गत्वमङ्गीकृतं स्यात् । एवमिति चेत् , तद्यविनाभाव एवास्तु गमकत्वाचं किं तादात्म्यतदुत्पत्तिभ्याम् । न हि स्वभावः स्वभाव इत्येव कार्यं च कार्यमित्येव स्वसाध्यं गमयति । किन्तु तदविनाभावीति । अपि च यदि तादात्म्यं गमकत्वाङ्गमिष्यते तदा साध्यसाधनयो:- दाभावेन सम्बन्धाभावादविनाभावानुपपत्तिः । न च निरंशवस्तुवादि- २० नस्तयोस्तादात्म्ये सति भेदः कथञ्चिदपि घटते । तादात्म्यं हि तत्स्व- भावता, तेन साध्येन साधु साधनस्यैक्यमुच्यते । न चैक्ये भेदगन्धोऽपि सम्भवति । भेदे च नैक्यम् । अतः कथं तदात्मतया शिंशपात्वं वृक्षत्वं गमयेत् । तादात्म्येन न गमकत्वे हेतुप्रतिपत्तिवेलायामेव साध्य- स्यापि प्रतिपन्नत्वान्नानुमानस्य साफल्यम् । अथ तत्प्रतिपत्तिवेलायां २५ साध्यमप्रतिपन्नमेव । तदा कथं तयोस्तादाम्यम् । प्रतिपन्नत्वाप्रति, ५३४ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ स. १३ . पंन्नत्वरूपविरुद्धधर्माक्रान्तत्वात् । अथोच्यते, यथावस्थितो धी शिंश- पात्वं वृक्षत्वं च त्रयमेकात्मकमेव । तत्र धर्मिणि गृह्यमाणे शिंशपात्व- वट्टक्षत्वमपि गृहीतमेव । यथोक्तम्-" तस्मादृष्टस्य भावस्य दृष्ट एवाखिलो गुणः ।। भागः कोऽन्यो न दृष्टः स्याद्यः प्रमाणैः परी- ५ क्ष्यते ॥ १ ॥” इति । यदि परं शिंशपाविकल्पो जातो न वृक्ष- विकल्पः । वृक्षशब्दस्मृत्यभावापराधात् । शिंशपाशब्दसंस्कारप्रबोधकज- न्मना शिंशपाविकल्पेन वाऽशिंशपाव्यावृत्तिपर्यवसितिना नावृक्षव्यावृ- तिरुपनीयते । सर्वविकल्पानां पर्यायत्वप्रसङ्गात् । गम्यगमकमावश्चा- नयोावृत्त्योर्न वस्तुनोः । तयोरन्वयाभावात् । अवृक्षव्यावृत्त्यशिंशपा- १० व्यावृत्ती च परस्परं -भिन्ने । व्यावर्त्यभेदात् । अतो यथोक्तदोषानुप- पत्तिरिति । एतदपि पूर्वापरानुसन्धानविधुराणामभिधानम् । तादात्म्यं हनुमानबीजमभिधीयते साध्यसाधनभूतयोावृत्त्योः । पुनरन्योन्यं भेद इति महतीयं परामर्शशक्तिः शाक्यानाम् । ननु वृक्षशिंशपयोस्तादा- स्यात्तदात्मतया व्यवसितयोरवृक्षव्यावृत्त्यशिंशपाव्यावृत्योरपि , सत्यपि भेदे यथाध्यवसायं तादात्म्यमिति चेत् । तर्हि सिद्धे तादात्म्ये सत्य- शिंशपाव्यावृत्त्या धर्मिण्यवृक्षव्यावृत्तिरध्यवसेया तत्राध्यवसितायां चा- वृक्षव्यावृत्तौ यथाध्यवसायं तादात्म्यसिद्धिरित्यन्योन्याश्रयदोषः । व्याप्तिग्रहणवेलायामेकात्मतयाऽध्यवसितयोावृत्त्योस्तादात्म्य सिद्धमिति चेत् , तर्हि काल्पनिकमेव तद्भवेत् । तथा चानुमानमपि २० कल्पनासमारोपितमेव स्यात् । तथोपगमे च न कश्चिदहेतुर्नाम । प्रमेयत्वानित्यत्वयोरप्येकात्मतयाध्यवसितयोर्यथाध्यवसायं तादात्म्यसम्भ- वात् । विपक्षव्यावृत्त्यभावात्प्रमेयत्वस्यानित्यत्वेन सह तादात्म्यामाव इति चेत् । सत्यम् । वास्तवं तादात्म्यं नास्ति , अस्ति कल्पना- समारोपितं तु तदेव चानुमानोदयबान्धवं समर्थितवन्तो यूयमिति २५ विपक्षव्यावृत्तिरसत्कल्पेति कथं प्रमेयत्वं हेतुर्न स्यात् । एवं च तादा- त्म्यस्य गमकत्वाङ्गतास्वीकृतौ हेतुग्रहणे साध्यस्यापि ग्रहणाव्यर्थमनु- अथ - परि. ३ सू. १३] स्याद्वादरत्नाकरसहितः मानम् । विपरीतसमारोपव्यवच्छेदार्थमनुमानमिति चेत् । न । तत्स्वरूपग्रहणे विपरीतसमारोपानवसरात् । न हि शिरःपाण्यादि- विशेषदर्शने सति पुंसि स्थाणुसमारोपो दृष्टः । तत्र वा तद्भेदादुप- पद्येतापि । न हि शिरःपाण्यादय एव पुरुष इति तद्रहणेऽप्यपुरुषारोपः स्यादपि । इह तु वृक्षत्वशिंशपात्वयोरभेदाच्छिशपात्वग्रहणे सति का कथा वृक्षत्वेतरसमारोपस्य । किं च साध्यसाधनयोस्तादात्म्ये यथा शिंशपात्वेन वृक्षत्वमनुमीयते तथा वृक्षत्वेनापि शिंश- पात्वमनुमीयेत । तादात्म्याविशेषात् । अथान्यः सम्बन्धोऽन्यश्च प्रतिबन्धः । द्विष्ठः सम्बन्धः । प्रतिबन्धस्तु परायत्तत्वलक्षणः । तच शिंशपात्वं वृक्षत्वे प्रतिबद्धं न वृक्षत्वं शिंशपात्वे । यथा धूम- १० स्याग्नौ प्रतिबन्धो न त्वग्नेधूमे । सत्यमेतत् । किन्त्वेवमुच्य- मानेऽविनाभाव एव स्वीकृतो भवेन्न तादात्म्यम् । तादात्म्ये हि यथा वृक्षत्वं सर्ववृक्षसाधारणं तथा शिंशपात्वमपि स्यात् । यथा वा शिंशपात्वं शिंशपां विना न दृश्यते तथा वृक्षत्वमपि शिंशपारहितं न दृश्येत । दृश्यते च खदिरादौ शिंशपारहितं वृक्षत्वम् । अथ खदिरादिवृक्षत्वा- १५ दन्यदेव तद्वृक्षत्वं यच्छिशपात्वाभिन्नमित्युच्यते । तर्हि धर्मिभेदेन च धर्माणां भेदेऽन्वयग्रहणानुपपत्तेः सर्वमनुमानमुत्सीदेत् । धूमाम्योस्तु कार्यकारणयोर्भेदायुक्तं वक्तुं धूमस्याग्नौ प्रतिबन्धो न त्वमेधूमे इति । इह तु साध्यसाधनयोरव्यतिरेकान्न तथा शक्यते वक्तुम् । तथाभिधाने वा नाव्यतिरेकः । ततः सर्वथा तादात्म्यं वा त्यज्यतां वृक्षत्वेन शिंश- २० पात्वं वाऽनुमीयता नान्तरावस्थातुं लभ्यते । तन्न तादात्म्यमविनाभाव- निबन्धनम् । नापि तदुत्पत्तिः । यतो न सामान्ययोः कार्यकारण- भावः । किन्तु विशेषयोः । ययोश्च विशेषयोर्महानसादौ कार्यकारण- भावः प्रतिपन्नस्तयोर्न गम्यगमकभावः। ययोस्तु क्षितिधरकन्धराधि- करणयोधूमधूमध्वजविशेषयोर्गम्यगमकभावो न तयोः कार्यकारण- २५ भावः प्रतिपन्नः। न चाप्रतिपन्ने तस्मिंस्तयोरविनाभावो ग्रहीतुं शक्यः। ..
प्रमाणनयतत्त्वालोकालङ्कारः [परि, ३ स. १३ -4 -- न चागृहीतोऽसावनुमानाङ्गम् । तदानीं तस्यं ग्रहणे तु हेतुप्रतिपत्ति- समय एव, साध्यप्रतिपत्तेरुन्मीलितत्वात्किमनुमानेन । यदि च तादात्म्य- तदुत्पत्तिभ्यामविनाभावः प्रतिज्ञायते । तदा कथं कृत्तिकोदयादेः शक- टोदयादिकं प्रति गमकत्वं स्यात् । तत्र तादात्म्यतदुत्पत्त्योरभावात् । ५ ततः सकलसम्यग्घेतुव्यापिता स्वयोग्यतैवाविनाभावे निमित्तमास्थेयम् । स्वयोग्यतयैव हि किञ्चित्केनचिदविनामूतं न सर्व सर्वेण । एवं च- न तादात्म्यं हेतोनियमकरणे नैपुणधर तदुत्पत्तिर्नापि श्रयति कथमप्यत्र बलिताम् ।। विनाऽप्येते यस्माइत गमकता हेतुनिवहे भवत्येवाऽन्येषां कथमिह ततो यत्नपरता ॥ ४९७ ॥१३॥ ननु हेतुग्रहणसम्बन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थमनुमान- मित्युक्तम् । तत्र किंलक्षणकं साध्यमित्याह- अप्रतीतमनिराकृतमभीप्सितं साध्यामिति ॥१४॥ संशयादिव्यवच्छेदेन प्रसिद्धमर्थस्वरूपं प्रतीतमुच्यते तद्विपरीतम- प्रतीतम् । अनिराकृतं प्रत्यक्षादिभिरवाधितम् । अभीप्सितं साधनविषय- त्वेनेष्टम् ॥ १४ ॥ अप्रतीतविशेषणं तावत्समर्थयते- शङ्कितविपरीतानध्यवसितवस्तूनां साध्यताप्रतिप- त्यर्थमप्रतीतवचनमिति ॥ १५॥ संशयाकलितं शङ्कितं विपर्ययविषयीभूतं विपरीतमनध्यवसायविषयी- कृतमनध्यवसितं वस्तु प्रतिपाद्यते । तेषां साध्यताप्रतिपत्त्यर्थमप्रतीत- वचनं साध्यलक्षणसूत्रे कृतम् । एवंभूतान्येव हि वस्तूनि हेतुना साध्यन्ते न पुनर्निश्चितानि । तत्र हेतोवैफल्यात् ॥ १५ ॥ १५ २० परि. ३ सू. १७] स्याद्वादरत्नाकरसहितः - अथानिराकृतमिति विशेषणस्य फलमुपदर्शयन्नाह- प्रत्यक्षादिविरुद्धस्य साध्यत्वं मा प्रसज्यतामित्यनि- राकृतग्रहणमिति ॥ १६ ॥ प्रत्यक्षमादिर्येषामनुमानागमादीनां तैविरुद्ध प्रत्यक्षादिविरुद्धं प्रत्य- क्षादिनिराकृतमित्यर्थः । तत्र प्रत्यक्षबाधितमश्रावणत्वं शब्दस्य । अनु- ५ मानबाधितमेकान्तनित्यत्वं ध्वनेः । आगमबाधितं प्रेत्यासुखप्रदत्वं धर्म- स्येत्यादि ।॥ १६॥ इदानीमभीप्सितमिति विशेषणस्य फलमाह- अनभिमतस्यासाध्यत्वप्रतिपत्तयेऽभीप्सितपदोपादा. नमिति ॥ १७॥ १० अनभिमतस्य साधयितुमनिष्टस्य । एतानि चाप्रतीतादीनि साध्य- विशेषणानि त्रीण्यपि स्वार्थानुमानेऽनुमात्रपेक्षयैव सम्भवन्ति । तत्र वादिप्रतिवादिव्यवस्थानस्यासम्भवात् । परार्थानुमाने तु तत्सम्भवेनाप्र- तीतमिति विशेषणं प्रतिवाद्यपेक्षया । न पुनर्वाद्यपेक्षया । तस्यार्थस्वरूप- प्रतिपादकत्वात् । न चाप्रतिपन्नार्थस्वरूपः प्रतिपादको नाम । अति- १५ प्रसङ्गात् ! प्रतिवादिनस्तु प्रतिपाद्यत्वेनाविज्ञानार्थस्वरूपत्वाविरोधात् । ननु शङ्कितविपरीतानध्यवसितानां त्रयाणामप्यर्थाना परार्थानुमाने साध्यत्वमसम्बद्धम् । शङ्कितस्यैवैकस्य साध्यत्व- शसितस्यैव साध्यत्व न तु विपरीतानध्यवसितयोरितिघटनादिति कश्चित् । सोऽपि न विपश्चित् । कस्यचिन्मतस्य शङ्कितेऽर्थे संशयितस्य संशयापनोंदेनेव विपरी- २० तानध्यवसितयोरप्यर्थयोर्विपर्ययानध्यवसायव्यव- च्छेदेन परार्थानुमानस्य निर्णयोत्पादकत्वाविशेषात् । विपर्यस्ताव्युत्पन्नौ परं प्रति नोपसर्पत एव कुतः प्रतिपाद्यौ स्यातामिति चेत् । भैवम् । परपक्षदिदृक्षादिना विपर्यस्तस्य स्वयं तत्त्वबुभुत्सया चाव्युत्पन्नस्य परं- ' अत्युपसर्पणसम्भवात् । कौचित्तौ नोपसर्पत एवं परमिति चेत् । २५ खण्डनम्।
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ स. १७ संशयितोऽपि कश्चित्तथैव । सर्वस्य तस्य निणयाकाडाया असम्भवात्। अथ परानुग्रहतत्परान्तःकरणेनोपेक्षानुपपत्तेरनर्थित्वादनुपसर्पन्नपि संशयि- तात्मा प्रतिबोध्य एव । तर्हि तत एव विपर्यस्ताव्युत्पन्नावपि तथा स्ताम् । अविनेयविषयमेवमनुमापयितुर्माध्यस्थ्यं विरुध्यत इति चेत् । मैवम् । ५ माध्यस्थ्यं हि रागद्वेषाश्लेषकालुप्यविषयत्वमुच्यते । तच्च परमकृपापीयू- पपूरितान्तःकरणाना विपर्यस्ताव्युत्पन्नयोर्विनेयत्वसिद्धये गुणदोषोपदेश- नाया वर्तमानानां कथं विरोधमधिरोहति । यदि च विपर्यस्ताव्युत्पन्नौ प्रतिपाद्यौ न स्याताम् । तदा लोकस्य व्यवहारस्यापि विलोपः स्यात् । दृश्यते हि लोके पित्रा विपर्यस्तोऽव्युत्पन्नश्च पुत्रः शिक्ष्यमाणः । कथं १० वाऽय जिगीषुकथायामनुमानं प्रयुञ्जीत । परस्य विपर्यस्तत्वात् । जिगी- पुवादस्य साभिमानजनारभ्यत्वात् । तथा चोक्तम्-" साभिमानज- नारम्यश्चतुरङ्गो निवेदितः इति । ततः स्थितं शङ्कितादयस्त्रयो- प्यर्थाः साध्या इति । अनिराकृतमिति तु विशेषणमुभयापेक्षया । यत्खलु वादिप्रतिवादिनोः प्रमाणेन न बाध्यते तदेव साध्यमिति । १५ अभीप्सितमिति पुनर्वाद्यपेक्षयैव । इच्छया खलु विषयीकृतमभीप्सित- मुच्यते । स्वाभिप्रेतार्थप्रतिपादनाय चेच्छा वक्तुरेव । ततश्च परार्था- श्चक्षुरादय इत्यादौ पारार्थ्यमात्राभिधानेऽप्यात्मार्थत्वमेव साध्यस्य प्रसि- द्धयति । तद्धीच्छया व्याप्तं साक्ष्यस्य बौद्धं प्रति साध्यमेव । आत्मा हि साङ्ख्येन साधयितुमुपक्रान्तस्ततोऽसावेव साध्यः । अन्यथा २० साधनस्य वैफल्यापत्तेः । संहतपरार्थत्वेन बौद्धैश्चक्षुरादीनामुपगमात् । एवं चात्मनः साध्यत्वे हेतोरिष्टविघातकारितया विशेषविरुद्धत्वं साध्यस्य च दृष्टान्तदोषः साध्यवैकल्यमिति । एतेन चार्वाकोक्त- सद्वितीयत्वप्रयोगोऽप्यप्रयोगाई एवेति निवेदितम् । यथाऽभिव्यक्तचैतन्य- शरीरलक्षणपुरुषघटान्यतरसद्वितीयो घटोऽनुत्पलत्वात्कुडयादिवदिति २५ कुड्यादौ घटसद्वितीयत्वेन व्याप्तिर्यथोक्तपुरुषसद्वितीयत्वे साध्ये फलतो विश्राम्यतीति पराभिप्रायः । तेन भगया तथाविधपुरुषसिद्धिर्ननु घटे- परि. ३ सू. १७] स्याद्वादरत्नाकरसहितः ५३९ नास्त्यकृतेति । अथ प्रयोगे तथाभूतेन पुरुषेण तथा कुड्यादौ सद्वि- तीयत्वासिद्धरन्वयदोषः । अथ सामान्येन साध्यमिति न पुरुषद्वितीय- त्वस्याक्षेप इति चेत् । ननु घटो घटेनैव सद्वितीयस्तावन्न भवति तादृक्पुरुषेणान्यथा वा सद्वितीयत्वे तु साध्यवैकल्यं दृष्टान्तस्य । तथा यादृश केवलेनैव घटेनैव सद्वितीयत्वं दृष्टान्ते सिद्ध तादृशमेव ५ तत्साध्यधर्मिण्यनिष्टं प्राप्नोतीति हेतोर्विरुद्धत्वम् । अपरत्र तु सिद्ध- साधनम् । येन केनचित्सद्वितीयत्वस्य मिद्धत्वात् । किं च यदि पुरुषविशेषसद्वितीयत्वं हेतुना न स्वव्यापारास्पदीकृतं कथमतस्तत्सिद्धिः। न ह्ययं हेतुस्तदर्थः सिद्धः । सिद्धो वा कथमविषयस्तस्य । विषय- श्चेत्स्वाश्रया दोषगतिं कथं न स्पृशेत् । सोऽयं वादी पुरुषगत- १० सद्वितीयत्वाश्रयां सिद्धिं साधनादुपजीवति न दूषणमिति व्यक्तमिति राजकुलस्थितिः । युक्तवादिकुले हि यस्यैव साधनेन सिद्धिश्चिकीर्षिता तस्यैवार्थस्य दूषकेण सिद्धिनिराकर्तव्या । तस्माद्यावतीमर्थगतिं साधनं सामर्थेन व्याप्नोति तावती तद्दषणमपि । किं च कथं सामान्यस्य साधनं सम्भवति । प्रतिवादिनोऽभिव्यक्तचैतन्यस्य पुरुषस्यामावादेव १५ घटादर्थान्तरभावानभ्युपगमेनान्यतरशब्दप्रयोगासंगतः । द्वयोर्हि तथा- भावसम्मवेऽन्यतरोक्तिः समर्था भवति । यथा देवदत्तयज्ञदत्तयोरन्य- तरं भोजयेदिति । अनयोर्द्वयोरपि भोजनविधिसम्भवे ह्यनियत एक- स्मिन्भोजनं विधीयते । ततोऽन्यतरोक्तिः सङ्गतार्था । न पुनरेकतरस्य कुतश्चिन्निमित्तादोजनासम्भवे वक्तुरेकतरभोजनस्यानाकाड्यायां वा । २० अपि च न घटाद्धटोऽर्थान्तरम् । यदि हि तस्यैव घटस्य स एव घटो द्वितीयः । तदा घटत्वं च न स्यात्तस्मादेतच्चैकस्मिन्विरुद्धमिति यथोक्तपुरुष एवान्यतरोऽपेयः । तथा च विरुद्धार्थ साध्यवाक्यं कथं चार्वाकस्य न स्यात् । ननु स्वार्थानुमानस्वरूपनिरूपणप्रकरणे परार्थानु- मानोपयोगिनो वादिप्रतिवाद्यपेक्षस्य विशेषणविचारस्य कोऽवसरः । २५ उच्यते । स्वार्थानुमानपुरस्सरतया परार्थानुमानस्यापि प्रवृत्तिः ।
- प्रमाणनयतत्त्वालोकालङ्कारः [ परि.३ से..१७ स्वनिश्चयवदन्येषां निश्चयोत्पादनस्यैव परार्थानुमानत्वादिति परार्थानु- मानोपयोगिनोऽप्यस्य विचारस्यात्र प्रस्तूयमानस्य न कश्चिद्दोषः ॥१७॥ ; अथ साध्यस्य व्याल्यानुमानिकप्रतिपत्त्यवसरापेक्षया भेदं दर्श- यन्नाह- १५ व्याप्तिग्रहणसमयापेक्षया साध्यं धर्म एवान्यथा तदनुपपवेरिति ॥ १८॥ व्याप्तिग्रहणसमयो यावान्कश्चिद्धूमः स सकलः पावकं न व्यभि- चरतीति प्रतिपत्तिकालस्तदपेक्षया साध्यं धर्म एव वयादिर्न तु धरित्रीधरादिर्धर्मी । अत्र व्यतिरेकिणं हेतुमाह- अन्यथा धर्मस्यैव १० साध्यत्वमन्तरेण । तस्या व्याप्तेरनुपपत्तेः ॥ १८ ॥ । एतदेव भावयन्नाह- न हि यत्र यत्र धूमस्तत्र चित्रभानोरिव धरित्री- धरस्याऽप्यनुवृत्तिरस्तीति ॥१९॥ उत्तानार्थमदः ॥ १९॥ १५ आनुमानिकप्रतिपत्यवसरापेक्षया तु पक्षापरपर्या- यस्तद्विशिष्टः प्रसिद्धा धर्मीति ॥ २०॥ । अनुमानाज्जाता आनुमानिकी, सा चासौ, प्रत्तिपत्तिश्च तस्या • अवसरः प्रतिनियते धर्मिणि साध्यसाधनसमयः । तदपेक्षया पुनः पक्षापरपर्यायस्तेन व्याप्तिकालापेक्षया साध्यत्वाभिमतेन धर्मेण विशि- ष्टोऽवच्छिन्नस्तद्विशिष्टः । प्रसिद्धो वादिप्रतिवादिनोः प्रतीतो धर्मी पर्वतनितम्बादिः । साध्यमिति प्राकरणिकमिह सम्बध्यते ॥ २० ॥ "प्रसिद्ध इत्युक्तमथ यतोऽस्य प्रसिद्धिस्तदभिदधाति- * क्वचिद्विकल्पतः कुत्रचित्रमाणतः क्वापि विकल्प- प्रमाणाभ्यामिति ॥ २१ ॥ ह', २० परि. ३ सू. २२ ] स्याद्वादरत्नाकरसहितः ५४१ - , - - धर्मिणः सर्वज्ञादेः प्रसिद्धिः प्रतीतिः क्वचिद्विकल्पतोऽध्यवसाय- मात्रतो भवति। तथा कुत्रचित्प्रमाणतः सकाशात् । कापि पुनर्विकल्प- प्रमाणाभ्यामिति ॥ २१ ॥ अथैतेषां क्रमेणोदाहरणत्रयमाह--- यथा समस्ति समस्तवस्तुवेदी क्षितिधरकन्धरेयं ५ धूमध्वजवती ध्वनिः परिणतिमानिति ॥ २२ ॥ तत्राचे निदर्शने धर्मिणो विकल्पसिद्धत्वम् । न खलु हेतुप्रयोगा- त्पूर्व सर्वज्ञस्य विकल्पं विहायान्यतः कुतश्चिसिद्धिरस्ति । द्वितीये प्रमाणसिद्धत्वम् । क्षितिधरकन्धरायाः प्रत्यक्षसिद्धत्वात् । तृतीये विकल्पप्रमाणसिद्धत्वम् । ध्वनिसामान्यं हि धर्मी कृतं तत्र कश्चिद्ध- १० निर्विकल्पसिद्धः कश्चित्प्रमाणसिद्ध इति । अत्राह शाक्यः-ननु प्रथमे सत्ता साध्यमाना न साधिमान- माधत्ते । तथा हि, असौ साध्यमानोपात्तसर्वज्ञ- सत्ताया. साध्यं निराकु- तो बौद्धस्य खण्डनम् । विशेषणविशिष्टैव साधयितव्या । सत्तामात्रस्य 'साधने वादिनोऽभीष्टसिद्धयभावस्य प्रतिवादिनः १५ सिद्धसाध्यतावतारस्य च प्रसङ्गात् । अस्ति कश्चिदिति हि साधयतो वादिनः का नामेष्टसिद्विः स्यात् । करतलतुलितनिस्तलस्थूलमुक्ता- फलायमानाकलितसकलत्रिलोकीवर्त्तिवस्तुजातत्वादिविशेषणविशिष्टस्य पुरुषस्याप्रसिद्धेः । न च प्रतिवादिनापि तथा नाभिमतम् । अनिर्दिष्ट- स्वभावविशेषस्य कस्यचित्सत्तामात्रे विरोधाभावात् । तदुक्तम्- २० " भावोपधानमात्रे तु साध्ये सामान्यधर्मिणि ।। न कश्चिदर्थः सिद्धः स्यादनिषिद्धं च तादृशम् ॥” अस्यार्थ:-भावः सत्ता स उपधान विशेषणं यस्य तन्मात्रत्वादेव सामान्यरूपे धर्मिणि साध्ये न कश्चिदर्थोऽभिमतः सिद्धः स्यात् । न च केनचित्प्रतिवादिना तथाभूतं , वस्तु निषिद्धं येन. साध्येतति । तस्सादुपात्तसर्वज्ञविशेषणविशिष्टैवासौ २५ 1 .
५४२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ स. २२ साधयितव्या । तत्र चानन्वयदोषः । मीमांसकस्य क्वचिदपि सर्वज्ञा- प्रसिद्धेः । तदित्थं न सत्ता साध्यतामहतीति । तत्रायं महात्मा प्रसिद्ध- धूमानुमानादावपि समानमिदमशेषमाकलयन्नपि सत्तामेव प्रसञ्जयन्न लज्जत इति निश्चितं नगरवायसः । तथा हि नानिमात्रे साध्ये कश्चि- द्विवादो वह्निमात्रस्य सर्वप्रमातृप्रसिद्धत्वात् । महीध्रकटकादिविशिष्टा- धारविशेषणस्य त्वदभिमतस्य तस्यानन्वय इंति । अथ नैव कश्चित्तथा- भूतेनार्थेनान्वयं करोति । प्रतिपादयता हि परं धूमोऽग्निनान्तरीयको दर्शनीयो यत्र धूमस्तत्राग्निरिति । स तथानिमात्रेण व्याप्तः सिद्धो यत्रैव स्वयं दृश्यते तत्रैवाग्मिबुद्धिं जनयतीति । तदुक्तम्-“लिङ्गस्या- १० व्यभिचारस्तु धर्मेणान्यत्र दर्श्यते ॥ तत्र प्रसिद्धं तद्युक्तं धर्मिणं गमयिष्यति ॥ १॥" अयमर्थः-लिङ्गस्य धूमादेः साध्यधर्मेणा- व्यभिचारोऽन्यत्र सामान्यवति धर्मिणि दर्शयितव्यः, तथा ज्ञाता- व्यभिचारं लिङ्ग तत्र साध्यधर्मिणि प्रसिद्धं सदव्यभिचारितया निश्चीय- मानं व्यापकधर्मयुक्तं धर्मिणं गमयिष्यति। तदसम्बद्धम् । एवंविधन्या- यस्यान्यत्राप्यन्यूनत्वात् । तथा हि न सर्वज्ञविशिष्टेन सत्त्वेन कश्चि- दन्वयं करोति किन्तु सत्त्वमात्रेण । तेन हि किञ्चित्साधनमविनाभूतं सिद्धं यत्रैव कचित्स्वयं दृश्यते तत्रैव साध्याधियमादधातीति को नामात्रापराधः । अथ सर्वज्ञशब्दवाच्यस्यार्थस्यैव कस्यचिदसिद्धत्वात्परं प्रति कथं तत्र सत्तासिद्धिः स्यादन्यत्र तु सिद्ध एवोभयोरपि पर्वत- नितम्बादिरिति तत्र वह्निसाधनं साधीय इति चेत् । कुतः पुनरुभयोः पर्वतनितम्बादिसिद्धिः । प्रत्यक्षादिति चेत् । सर्वज्ञसिद्धिरपि विकल्पा- दिति प्रतीहि । न च विकल्पार्मिप्रसिद्धिं नाभ्यशंसन् - भवन्तः । न सन्ति प्रधानादयोऽनुपलब्धेरित्यादिप्रयोगाणां धर्मकीर्त्तिना स्वयं समर्थनात् । न चासत्तायामेव साध्यायां विकल्पसिद्धेन धार्मिणा भवितव्यं न सत्तायामित्यत्र स्वैरित्वादपरं कारणमीक्षामहे । तस्मादु- भयत्र वा विकल्पसिद्धिं धर्मिणमभ्युपयन्तु मैकत्रापि वाऽग्युपेयुः । न १५ २० + २५ परि. ३ सू. २२] स्याद्वादरत्नाकरसहितः ५४३ - पुनरर्धजरतीयमेतल्लभ्यते । अथ सत्तायां साध्यायां सर्वस्तद्धेतुर्भाव- भावाभावाभावधर्मविकल्पत्रयीं दोषजाति नातिवर्त्तते, असिद्धिं व्यभि- चारं विरोधं च । तत्र यदि भावधर्मों हेतुरुच्यते । स कथमसिद्ध- सत्ताके स्यात् । यो हि भावधर्मं तत्रेच्छति स कथं तद्भावं नेच्छेत् । स्वभाव एव हि धर्मान्तरं प्रतिक्षेपापेक्षया धर्म इति व्यतिरेकी च धर्मिणो निर्दिश्यते । अथ च भावाभावोभयधर्मः। तर्हि व्यभिचारः । न हि बुद्धिरस्त्यमूर्तत्वादित्यत्रामूर्तत्वस्य गमकत्वं भवन्तोऽप्यैच्छन् । निरूपाख्येऽप्यमूर्त्तत्वस्य भावात् । अभावधर्मं हेतु वदतोऽस्य विरुद्धो हेतुः स्यात् । तस्य भावे कचिदसम्भवात् । तदुक्तम्-" नासिद्धे भाव- धर्मोऽस्ति व्यभिचार्युभयाश्रयः॥ धर्मो विरुद्धोऽभावस्य स सत्ता १० साध्यते कथम् ॥ १॥" भिक्षो कथमेवं न सकलानुमानप्रलया- पत्तिः । अनित्यः शब्दः सत्त्वाद्धटवदित्यादिष्वपि तथैव दोषत्रयानु- षड्गात् । शक्यं हि वक्तुं किमयं सत्त्वादिरनित्यधर्म आहोस्विन्नित्यधर्म उभयधर्मो वेति । अनित्यधर्मश्चासिद्धः । तमनित्यधर्म सिद्धं तत्रेच्छन्न- नित्यमेव शब्द किन्नेच्छेत् । यावान्कश्चिद्भावः सन्स सर्वोऽप्यनित्य १५ एवेति साकल्येन व्याप्तौ प्रसिद्धायां को हि प्रेक्षावान् शब्दमनित्यं न प्रतिपद्यते । यतः संश्च शब्द इति साधनाङ्गवचनं प्रतीक्षेत् । नित्य- धर्मस्तु तत्र विरुद्धः । तद्विपक्ष एव भावात् । उभयधर्मश्चानैकान्तिकः। सपक्षविपक्षवृत्तित्वादिति सर्व समानं पश्यामः । ततो न कश्चित्कस्य- चिद्धेतुः स्यात् । किश्चैतदखिलमसत्तासिद्धावपि समानम् । तथा हि २० नासिद्धे भावधर्म इत्यादिरेव श्लोकस्तावत्पुनः पठ्यताम् । अयं खल्व- स्यार्थः, असिद्धे प्रधानादेरभावेऽभावधर्मोऽनुपलब्धिरूपो हेतुः कथं सिद्धः स्यात् । सिद्धौ हि तस्य साध्यस्यापि सिद्धत्वाद्यर्थमनुमानं भवेत् । यः खल्वमावधर्मं तत्रेच्छति स कथमभावमेव तस्य नेच्छेत् । अभावभावोभयधर्मः पुनर्व्यभिचारी । भावस्य तु धर्मोऽयं विरुद्धः । २५ तस्याभावे कचिदभावादिति कथमसत्ता साध्यते । अथ सामान्येना- प्रमाणनयतत्त्वालोकालङ्कारः [[परि ३ सू..१२ भावधर्मः सिद्धोऽपि प्रस्तुते धर्मिणि दृश्यमानो गमयत्यभावम् । एवं तर्हि तथैव भावधर्मोऽपि सत्तां गमयतु को दोषः । ततो न सत्ता- साधनविरोधो बौद्धैरभिधातव्यः । यौगास्तु सझिरन्ते-विकल्पसिद्धो धर्मी न भवत्येव तस्याप्रमाण- त्वात् । तथा ह्ययं विकल्पः पर्वतनितम्बादि- धर्मिणो विकल्पसिद्धत्वम- 'नगीकुर्वतो नैयायिकस्य विकल्पवत्प्रमाणतया नैव स्वीचक्रे । तत्र मतमुपदर्य खण्डयते । प्रमाणस्यैव प्राधान्यात् । विकल्पसिद्धो धर्मीति कमर्थं पुष्णाति । अप्रमाणेन ननु विकल्पेन कः सुधीः कस्यापि सिद्धिमभिदधीत । यदि हि तथाभूतादपि विकल्पात्साध्यसिद्धिः स्यात् । १० तदा यदेतदाहोपुरुषिकया परीक्षकाणां प्रमाणपरीक्षणं तदायासफलमेव भवेत् । तदिह विकल्पेन सिद्धो धर्मीति किमपि कपटनाटकं सित- पंटानाम् । तथा च धर्मिणोऽसिद्धराश्रयासिद्धो हेतुरिति । निरचायि ततस्तत्त्वं भो योगग्रामणीस्तवेदानीम् ।। स्वारूढामपि शाखां यत्खण्डयितुं प्रवृत्तोऽसि ॥ ४९८ ।। ફક यदि हि विकल्पसिद्धो धर्मी न भवत्येव तदा कथं विकल्पसिद्धो धर्मी न भवति तस्याप्रमाणत्वादित्यत्रैवासौ धर्मितयोपादायि । कथं चात्रास्यैव हेतो श्रयासिद्धतोपनिपातः । न खलु भवतोऽत्र धर्मी प्रमाणेन सिद्धः । तथाभूतायां परं प्रत्याश्रयासिद्धतोद्भावनस्य विरो- धापत्तेः । य एव हि परेण सर्वज्ञवान्ध्येयादिर्विकल्पसिद्धो धर्मी स्वानु- माने निरदोश स एव भवताऽप्यत्रानुमाने । अन्यस्य धर्मित्वनिराकृतेः प्रकृतानुपयोगात् । स विकल्पसिद्ध एव भवतोऽपि । . .. २० तथा च- - "M / .. विकल्पसिद्धं यदि वक्षि धर्मिण तदा प्रसिद्धं सुधियामभीप्सितम् ।। अथो निराख्यासि तमत्र धर्मिणं तदापि सिद्धं सुधियामभीप्सितम् ॥, ४९९॥ . .
परि. ३ सू..२२ स्याद्वादरत्नाकरसाहतः न चोभयस्याप्यनभिधानमिति शक्यं वक्तुम् । विधिनिषेधयोर्भावा- भावत्वादेकनिषेधेनापरविधानात् । विधेः प्रतिषेधो हि निषेधः प्रति- धनिषेधश्च विधिरिति । अस्तु वा न विधिर्नापि प्रतिषेधस्तत्र क्रियत इत्युभयाभावप्रतिज्ञा । तथाप्येवं वदतैव विकल्पसिद्ध धर्मिणि निषेध व्यवहारः स्वीकृतः । न हि निषेधमवधूय नमोऽन्यदर्थसम्भावना । स १५ च निषेधो यदि न प्रमाणसिद्धः कथमाद्रियते । किं चास्य वचनेनापि प्रमाणसिद्धिस्वीकारे च न तावदध्यक्षमेव तत्र साधनम् । अध्यक्षस्य तद्विषयत्वविरोधात् । अनुमानाश्रयणे चाश्रयासिद्धिरशक्यपरिहारा । ततो वान्ध्येयादिप्रस्तावे मूकतैव प्राप्ता । न च प्रतिज्ञामात्रस्याप्यव- काशः । न चैवं शक्यम् । यावन्न राजदण्डेन तत्प्रस्तावनिवारणम् । प्रस्तावे त्ववश्यं समासम्मविनः प्रवक्तुर्वचनमनुषङ्गि । बचनस्य विधि- निषेधाभ्या नापरो व्यापारः । अतो नं वचनं नोऽवचनमिति महति कष्टसङ्कटे प्रवेशः । किं च वान्ध्येयादौ धर्मिणि हेतोराश्रयासिद्धिः कस्मादुपन्यपतत् । अवस्तुत्वात्तस्येति चेत् । बान्ध्येयस्य नास्तित्वे साध्ये तावदद्यापि सन्दिग्धमवस्तुत्वम् । यत्र त्वेकान्तनित्यमर्थक्रिया- १५ समर्थ न भवति क्रमयोगपद्यविरहादित्यभिधीयते जैनेन तत्रास्य हेतो- राश्रयासिद्धत्वसिद्धये एकान्तनित्यस्यावस्तुत्वादिति साधनं भवताऽभि- धीयमानं भवत एवासिद्धम् । एकान्तनित्यस्य त्वया वस्तुत्वेन स्वी- कारात् । परोपगमापेक्षयेदमुच्यत इति चेत् । तर्हि प्रसङ्गहेतुरयं स्यात् । अवस्तुत्वादेकान्तनित्यस्याश्रयासिद्धस्तत्र हेतुरित्यर्थः । एवं सत्यवस्तुनि २० हेतुराश्रयासिद्धत्वेन व्याप्तो वक्तव्यः । न हि प्रतिबन्धमन्तरेण कश्चि- द्धेतुर्भवति । पक्षधर्मतामात्र एव हि परोपगमापेक्षा यः प्रसङ्गहेतु- रुच्यते । नतु व्याप्तावपि । तदुपगम एव कदाचिदेवमपि स्यादिति चेत् । तथापि न जैनैरवस्तुनि हेतुराश्रयासिद्धत्वेन व्याप्तोऽभ्युपागामि । एकान्तनित्य एवावस्तुभूते हेतुप्रणयनस्वीकारात् । ततश्च यत्रैवावस्तु - २५ - १ 'वक्त' इति नास्ति भ. पुस्तके ।
५४६ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. २२ न्यवस्तुत्वाद्धेतोराश्रयासिद्धिरुपादीयते तत्रैव तव नावस्तुनि विधि- प्रतिषेधावित्यस्याः प्रतिज्ञायाः परिक्षयः । यदि च परो- पगमादेव व्याप्तिरपि विवक्षिता, अवस्तुन्यवस्तुत्वादाश्रयासिद्धो हेतु- रिति । तर्हि नेदं तथानुमतमिति तथापि नावस्तुनि विधिनिषेधाविति ५ व्याहतम् । प्रतिषेधस्य स्वयं स्वीक्रियमाणत्वात् । नञोऽन्यार्थाभावात् । किं च सर्वः प्रसङ्गो विपर्ययपर्यवसितव्यापार इति न्यायाधद्यद्वस्तु एकान्तनित्यं स्यात्तदाश्रयासिद्धस्तन्नावस्त्वेकान्तनित्यमिति किं विव- क्षितम् । तदापि यदाश्रयासिद्धिदोषः प्रस्तुतो नास्ति प्रकृते । तदा सिद्धमेवास्मदुपन्यस्तमर्थक्रियासामर्थ्याभावस्वमावं साध्यम् । तस्मा- २० स्वतन्त्र एव वस्तुत्वादाश्रयासिद्धिरवस्तुनि हेतोरिति हेतुदूषणप्रवृत्तस्य परस्यावस्तुत्वादिति हेतुः । तथा च नावस्तुनि विधिनिषेधाविति दूरी- कृतमेतत् । व्यापकानुपलम्भश्चायं त्वया प्रयुज्यते । आश्रयत्वस्य वस्तु- त्वेन व्याप्त्यभिमानात् । स चाभिमानस्तव स्ववचनविरोधमनववुद्धय- मानस्यैव । न हि नावस्तुनि विधिनिषेधाधारत्वमिति स्ववचनविरोध १५ मन्यमानस्य वस्तुत्वेन धर्मित्वस्य व्याप्त्यभिमानो मानसं स्पृशति । किं त्वपरिभावकतयातिसामान्यजनस्यापि प्रतीतम् । यदापि वन्ध्यासुतो वक्ता न वेत्येवं विधे प्रस्तावे वन्ध्यासुतो वक्ता न भवत्यवस्तुत्वादित्य- भिधीयते । तदाऽत्रोपात्तधर्म्यपेक्षयाऽवस्तुत्वादिति हेतोः कथं नाश्रया- सिद्धता । अथ वान्ध्येयो वक्ता न वेत्येवंविधां यदि कश्चिदाशङ्कां २० कुर्वीत तदा भवतां तत्र वान्ध्येयो वक्ता न भवतीत्युत्तरवितरणावकाशः स्यादिति चेत् । ननु कस्मादीदृशीमाशङ्का न कश्चित्करोति । तद- वस्तुतायाः सुप्रसिद्धत्वादिति चेत् । पुनस्तदेवायातं वन्ध्यासुतस्य धर्मिणो वक्तृत्वेनाशङ्कनीयताया निषेधः साध्यः सुप्रसिद्धावस्तुत्वादिति हेतुरिति । न चावस्तुत्वेन प्रसिद्धत्वेऽपि सर्वथा शङ्काविरहः । निःसीमो २५ हि मोहमहिमा ततो यथा शब्दे चाक्षुषत्वादनित्यत्वं सम्भावयन्नसिद्धत्वेन निषिध्यते । तथेहापि स्यातां शङ्कानिषेघौ न विरोधः । तस्माद्वस्तुनी- वावस्तुन्यपि कस्यचिद्धर्मस्य विधिनिषेधव्यवहारो दुर्वार इति । A परि. ३ सू. २२] स्याद्वादरलाकरसहितः मीमांसकः पुनराह-नन्वसिद्धः सर्वज्ञविषयो विकल्प इति न तस्मात्तात्सद्धिस्तथा चाश्रयासिद्धः सर्वज्ञसत्ताया सर्वज्ञविषयो विकल्प एवा- सिद्धः कुतस्तस्माद्धमिसि सर्वो हेतुरिति । तदसत् । यथैव ह्यनुन्मीलित- ििरति मीमांसकाधि- लोचनस्य प्राड्मुखः प्रत्यड्मुखो वाऽहमिति क्षपस्य निरासः। मानसी प्रतीतिस्तथा सर्वज्ञ इत्यपि प्रतीतिः प्रत्या- त्मवेद्यैव । सर्वथा सर्वज्ञविकल्पविधुरचेतसः प्रबलनिद्राक्रान्तस्येवाश्रया- सिद्धथुद्भावनानुपपत्तेः। “ कल्पनीयाश्च सर्वज्ञा भवेयुर्वहवस्तव ॥ य एव स्यादसर्वज्ञः स सर्वज्ञं न बुध्यते ॥ १॥” इत्याधनभिधान- प्रसगाच्च । सोऽयं सर्वज्ञविषयं विकल्पवचनं च प्रवर्तयन्नाश्रयासिद्ध- मुद्भावयतीति पश्य श्रोत्रियस्याप्युन्मत्तचेष्टितम् । किं च स्वसंवेदन- १० प्रत्यक्षलक्षणेन प्रमाणेन प्रतीयमानस्य सर्वज्ञविषयविकल्पस्याप- लापे सकलभावापलापप्रसङ्गः । प्रमाणविरोधश्चोभयत्रापि तुल्यः । नन्वस्त्येव सर्वज्ञावभासी मानसो विकल्पः । परं तदेव निरा- लम्बनोऽसाविति नैतद्वशादाश्रयासिद्धिरिति चेत् । हन्त हतोऽसि । मानसज्ञानादभावस्याप्यसिद्धिप्रसक्तेः । एवं च गृहीत्वा वस्तुस- १५ द्भावम्" इत्याद्यनवकाशम् । मानसादपि च नास्तिताज्ञानादभाव- स्यापि सिद्धिमुपजीवत्ययं श्रोत्रियो नाश्रयसिद्धिं तत इति स्वातन्त्र्य- विजृम्भितम् । अथ तदेवासौ निरालम्बना किन्तु सर्वज्ञलक्षणविषय- स्यासिद्धेरिति चेत् । कुतस्तदसिद्धिरित्यभिधातव्यम् । तत्र प्रमाणास- म्भवादिति चेत् । तह-तरेतराश्रयदोषः । सिद्धे हि तद्विकल्पस्य निरा- २० लम्बनत्वे प्रमाणासम्भवसिद्धिस्तत्सिद्धौ च तद्विकल्पस्य निरालम्बनत्व- सिद्धिरिति । एवं च सिद्धमेतत्-- हेतुं गृहीत्वा सुदृढप्रमाणैः स्मृत्वाऽविनाभावमथोक्तरूपम् ।। यथोक्तसाध्ये समुदेति बुद्धिः स्वार्थानुमानं तदिदं वदन्ति ॥५००॥२२॥ २५ प्ररूपित स्वार्थमनुमानम् । अधुना परार्थं तन्निरूपयन्नाह- ५४८ प्रमाणनयतत्त्वालोकालङ्कारः [परि..३ सू. २३ पश्चहेतुवचनात्मकं परार्थमनुमानमुपचारादिति ॥२३॥ पक्षहेतू निरूपितस्वरूपौ तयोर्वचने प्रतिपादकध्वनी ते एवात्मा स्वरूप यस्य तत्पक्षहेतुवचनात्मकं परार्थमनुमानमुच्यते । पक्षहेतुवच- ५ नात्मकत्वं च परार्थानुमानस्य व्युत्पन्नमतिप्रतिपाद्यापेक्षयाऽत्रोक्तम् । मन्दमतिप्रतिपाद्यापेक्षया तु दृष्टान्तादिवचनात्मकमपि तद्भवति । यद्व- क्ष्यन्ति मन्दमतींस्तु व्युत्पादयितुं दृष्टान्तोपनयनिंगमनान्यपि प्रयोज्या- नीति । अतिव्युत्पन्नमतिप्रतिपाद्यापेक्षया पुनर्धूमोऽत्र दृश्यत इत्यादि हेतुमात्रवचनात्मकमपि तद्भवति । बाहुल्येन तत्प्रयोगाभावात्तु नैतत्सा- १० क्षात्तत्र सूत्रितमुपलक्षितं तु द्रष्टव्यम् । ननु ज्ञानं प्रमाणमिति प्रमाण- सूत्रे नितिमतः कथं पक्षादिवचनस्य जडात्मनोऽनुमानप्रमाणत्वमि- त्याशङ्कापनोदार्थमुक्तमुपचारादिति । कारणे कार्योपचारादित्यर्थः । उप- चारश्च मुख्यबाधादौ सति प्रवर्त्तते । तत्र पक्षादिवचनस्य जडस्वरू- पत्वान्मुख्यवृत्त्यानुमानप्रमाणत्वं न भवति । ज्ञानस्यैव प्रमाणस्वरूप- १५ त्वादिति मुख्यबाधः स्पष्ट एव । प्रयोजन पुनरन्यकारणवैलक्षण्येन कार्यकारित्वं नाम । यथा खलु पक्षादिवचनं परस्यानुमानजननाय प्रभवति । न तथाऽपरमिति सुप्रतीतम् । सम्बन्धश्चात्र कार्यकारण- भावः । ततश्च प्रतिपाद्यगतमुत्पत्स्यमानं यज्ज्ञानं तत्कारणत्वात्पक्षादि- वचनमप्युपचारेणानुमान प्रमाणमुच्यते । यथा मद्वचनमात्रादयमवबु- २० ध्यतामित्यभिसन्धिमान्वक्ता न प्रस्तुतं वाक्यमभिधत्ते । किन्त्वनुमान- तोऽयं मयाऽवबोधनीयामेत्यभिप्रायवान् । श्रोताऽप्येतद्वचनमात्रादयमों मयाऽवबुद्ध इति न मन्यते । किन्तु व्याप्तिमतो लिङ्गादमुमर्थमवबुद्ध- वानिति । अतः श्रोतुः प्रतीत्यभ्युपायत्वात्परार्थमिदमुच्यते । यदाह "वक्तुः स्वप्रत्ययेनेदं न हि वाक्यं प्रयुज्यते ॥ परो मद्व- २५ चनादेव तमर्थ बुद्ध्यतामिति ॥ १॥ किं त्वेतमनुमानेन बोधया- १ 'कि' इति भ. पुस्तके पाठ.।
परि ३ सु. २३ ] स्याद्वादरत्नाकरसहितः ५४९ मीति मन्यते ।। सोऽपि तद्वचनान्नैवं तमर्थमवबुध्यते ॥ २॥ किन्तु व्याप्तिमतो लिङ्गात्स्वयं त्वर्थ न पश्यति । तत्प्रतीत्यभ्युपायत्वा- त्परार्थमिदमुच्यते ॥३॥” इति । अतश्चात्र श्रोतुः स्वार्थानुमान- मवदम् । वक्ता तु तथापरं प्रतिपादयन्परार्थमनुमानं प्रयुक्त इत्युच्यते । न चानुवादमात्रं तद्वतुरित्युपपद्यते ।। यतो व्याप्रियते सम्यक् परस्य प्रतिपत्तये ॥ ५०१ ॥ परेणानधिगतस्यार्थस्योपदेशकत्वान्नानुवादमात्रमनुमानवाक्यम् । स्वावगमापेक्षया त्वनुवादमात्रत्वेनेदानीमाप्तवचनमपि न तथा स्यात् तस्थापि स्वावगमपूर्वकत्वात् । कार्ये कारणोपचाराद्वा वचनेऽनुमानव्य- पदेशः । प्रतिपादकगतं हि स्वार्थानुमानं तद्वचनस्य निमित्तं, स हि १० स्वयं साध्यं प्रतिपद्य यथा ममैतत्प्रतिपत्तिरुत्पद्यते तथैवैनमपि प्रति- बोधयिष्यामीति । ततो वचनस्य तत्कार्यस्याज्ञानरूपस्यापि तयपदेशः सुन्दर एव । वादिनश्च प्रतिपत्तिः साध्यधर्मविशिष्ट- धर्मिरूपा प्रत्यक्षानिश्चितान्यथानुपपत्तिस्वभावाद्धेतोश्च त्समभूत्ततश्च तत्प्रकाशकं वचनं परार्थमनुमानमिति सिद्धम् । एतेन १५ प्रत्यक्षपरामर्शशून्यं यच्चागमात्परेणैव ज्ञातस्यानर्थरूपस्य वा लिङ्गस्य वचनं तन्न भवत्येव परार्थानुमानमित्युक्तं भवति । स्वपक्षपक्षपातीह बौद्धदर्शनवीक्षितः । परार्थ वचनानुपपत्तिरिति समर्थयतो बौद्धस्य पक्षप्रयोगवैयर्थ्य समर्थयितुमुत्थितः ॥५०२।। पूर्वपक्षमुपपाध ननु पक्षस्य विवादादेव गम्यमानत्वा- २० तत्खण्डनम् । त्परार्थं वचनानुपपत्तिः । तथा हि विरुद्धो वादो विवादः । एकः प्राह नित्यः शब्द इति, अन्यस्त्वाहानित्य. शब्द इति । एवंविधस्य विवा- दस्य प्रकृतत्वादनुमाने पक्ष. प्रतीयत एवेति । प्रयोजनाभावाच्च तद्व- चनमनुचितम् । अथ पक्षवचनस्य साध्यार्थप्रतिपादनलक्षणप्रयोजन- सकाशा- ३५ प्रमाणनयंतत्त्वालोकालङ्कारः [परिः ३ सू. २३ सम्भवात्तदभावोऽसिद्धः । तन्न वाच्यम् । पक्षवचनं हि केवलं साध्यमर्थं प्रतिपादयेद्धेतूपन्याससमन्वितं वा । न तावत्केवलम्, हेतू- पन्यासानर्थक्यप्राप्लेः । अथ हेतूपन्याससमन्वितम् । तर्हि हेतोरेव तत्र सामोपपत्तेः किं पक्षवचनेनेति । तन्न सामर्थ्यलब्धस्य पक्षस्यात्र कथञ्चन ।। वचनं युक्तिमायाति पौनरुक्त्यप्रसक्तितः ॥ ५०३ ॥ अहो साहसमेतस्य शाक्यभिक्षोर्निरीक्ष्यताम् । पश्यन्नपि पुरो दोषद्वीपिनं यत्प्रगल्भते ॥ ५०४ ।। तथा हि यत्तावदुक्तं पक्षस्य विवादादेव गम्यमानत्वादित्यादि १० तदयुक्तम् । यतो येन केनचिद्वचनेन व्यवहिताद्वा प्रस्तुतानुमानेन वाक्यावयवान्तरैकवाक्यतापन्नाद्वा विवादात्पक्षः प्रतीयते । तत्राद्यपक्षेs- तिव्युत्पन्नमतेस्तस्मात्तत्प्रतीतावपि तदितरेषा सा न स्यादिति तान्प्र- त्यवश्यं निर्देशः पक्षः । द्वितीये त्वविवाद एव । पराभ्युपेतपक्षविपरीतं पक्षमुपन्यस्य तत्सिद्धये हेत्वादिकमवयवान्तरमभिदध्यादिति हि वय- १५ मप्यभ्युपगच्छामः । यदप्यवादि प्रयोजनाभावाच्च तद्वचनमनुचित- मिति । तत्र प्रयोजनामावोऽसिद्धः । प्रतिपाद्यप्रतिपत्तिविशेषस्य तत्प्रसाध्यप्रयोजनस्य सद्भावात् । प्रतिपाद्यो हि कश्चित्कुण्ठमतिः कश्चित्तीक्ष्णमतिः । तत्र कुण्ठमतेने प्रकृतार्थप्रतिपत्तिः पक्षप्रयोगमन्त- रेणोपपद्यते । तीक्ष्णमतेस्तु तत्प्रयोगमन्तरेणापि प्रकृतार्थप्रतिपत्ति- रुपपद्यत एवेति न तं प्रति वयमपि तत्प्रयोगमङ्गीकुर्मः । यदपि पक्ष- वचनं हि केवलं साध्यमर्थ प्रतिपादयेद्धेतूपन्याससमन्वितं वेति विकल्पद्वयमुक्तम् । तत्राद्योऽनभ्युपगमादेव निरस्तः । द्वितीयस्त्विष्यत एव । तत्र च यद्दषणमुक्तं तर्हि हेतोरेव तत्र सामोपपत्तेः कि पक्षवचनेनेति । तदयुक्तम् । एवं हि हेतोः समर्थनापेक्षस्य साध्यसि- द्धिनिबन्धनत्वोपपत्तेस्तद्वचनमपि न स्यात् । अथ साध्यसिद्धिप्रति- बन्धित्वात्पक्षस्याप्रयोगमजीकुर्वीथाः । एतदप्ययुक्तम् । वादिना समी- .. २० २५ . h परि. ३ सू. २३ ] स्याद्वादरत्नाकरसहितः चीनसाधनात्स्वपक्षसाधने क्रियमाणे तद्विपक्षाप्रसाधकत्वतस्तत्प्रयोगस्य तत्प्रतिबन्धकत्वानुपपत्तेः। किं च प्रतिज्ञायाः प्रयोगानहत्वे शास्त्रादावप्य- सौ न प्रयुज्येत । विशेषाभावात् । न हि शास्त्रे प्रतिज्ञा न प्रयुज्यत एवानि- यतकथाया वा । अग्निरत्र धूमाद्वृक्षोऽयं शिंशपात्वादित्यादिवचनाना शाक्यशास्त्रेऽपि दर्शनात्, विरुद्धोऽयं हेतुरसिद्धोऽयमित्यादिवचनानाम- ५ नियतकथायां प्रयोगात् । परानुग्रहप्रवृत्ताना शास्त्रकाराणां प्रतिपाद्या- वबोधनाधीनधियां शास्त्रे प्रतिज्ञाप्रयोगो युक्तिमानेवोपयोगित्वात्तस्येति चेत् । वादेऽपि सोऽस्तु । तत्रापि तेषां तादृशत्वात् । वादे जिगीषुप्र- तिपादनायाचार्याणां प्रवृत्तेः प्रतिज्ञायाः प्रयोगो न युक्तः । तद्विषयस्या- र्थाद्गम्यमानत्वान्निगमनादिवदिति चेत् । तर्हि तत एव शास्त्रेऽपि १० तस्याः प्रयोगो मा भवतु । न हि तत्र जिगीषवो न प्रतिपाद्याः प्रतिज्ञाविषयो वा सामर्थ्यान्न गम्यते । अजिगीषूणामपि शास्त्रे प्रति- पाद्यत्वात्प्रतिज्ञाया अप्रयोगे केषाञ्चिन्मन्दाधियां प्रकृतार्थप्रतिपत्तिर्न स्यादिति तत्प्रतिपत्तये तत्र तस्याः प्रयोगो युक्त एवेति चेत् । वादे जिगीषवः किं मन्दमतयो न सान्ति येन प्रतिज्ञाप्रयोग विना तदर्थ- १५ मप्रतिपद्यमानाना तेषां प्रतिपत्तये प्रयोगो न स्यादिति । शास्त्रे वादे वा प्रतिज्ञाया अभिधानमनभिधानं वाऽभ्युपगन्तव्यमविशेषेणैवेति । हेतुगोचरमतश्च दीपयन्पक्षकीर्तनमुपेयता बुधैः ।। अन्यथा हि कथमत्र संशयो मन्दबुद्धिहृदयान्निवर्तते ॥ ५०५ ॥ आगमात्परेणैव ज्ञातस्य लिङ्गस्य वचनमपि न परार्थानुमानम् । २० यथा साङ्खयः ख्यापयामास । साधनस्य सिद्धिः आगमात्परेणैव ज्ञातस्य लिङ्गस्य वचनमपि न परा-खलु प्रतिपत्तव्यार्थप्रतिपत्तिनिमित्तम् । न च यानुमानमिति वदतः वादिनैव ततः साधनादर्थः प्रतिपत्तव्यः किन्तु साख्यस्य मतमुपदर्य प्रतिवादी प्रतिपादयितव्य इति साधनस्य सिद्धिः प्रतिवादिप्रतिपत्तावुपयुज्यते न वादिप्रतिपत्तौ । २५ तेन प्रतिवादिन एव सा सिद्धिर्यद्यस्ति तावता तत्साधनमेवेति किं वादि- + तत्खण्डनम् ।
५५२ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. ३ सु. २३ प्रसिद्धिपरीक्षया साधनस्य । तथा च युक्तमिदमनुमानम् । अचेतना बुद्धिरुत्पत्तिमत्त्वादनित्यत्वाद्वा घटादिवदिति । इहासत उत्पादे उत्पत्ति. मत्त्वं सतश्च नाशोऽनित्यत्व यो हेतुरुपात्तः स साङ्ख्यस्य स्वयम- सिद्धः । स हि सत एवाविर्भावतिरोभावावुत्पादविनाशावाह । परस्य ५ तु जैनस्य सिद्धः। पर्यायाणामुत्पादविनाशस्वीकारात् । तदनुपपन्नम् । अनुमानोपन्यासप्रस्तावे, आगमस्य प्रामाण्याङ्गीकरणानुपपत्तेः । विप्रति- पन्नयोर्वादिप्रतिवादिनोः परस्पराधिगमाधिक्षेपेण प्रवृत्तेः । प्रामाण्योप- पत्तौ पुनरनुमानस्य प्रवृत्तिरेव न स्याद्वचनमात्रेणैवार्थसिद्धेः साधनोप- न्यासवैयर्थ्यात् । अथ विप्रतिपन्नस्योत्पत्तिमत्त्वादिर्वनचविशेषः प्रमाण १० न बुद्धयचैतन्यादिवचनमपीति चेत् । ननु कोऽयं वचनस्य विशेषः । संवादित्वमिति चेत् । तर्हि यत्र संवादस्तत्प्रमाणसिद्धमेव । न च प्रमाणसिद्धं परस्यैव सिद्धं नाम । तस्माद्वादिना प्रतिवादिना च प्रथम- मर्थः परीक्षणीयस्ततोऽस्याभ्युपगमः कर्त्तव्यः । तथा च नापरोप- गतेन हेतुना कस्यचिदर्थस्य सिद्धिः । प्रमाणपरीक्षितस्य द्वाभ्यामपि १५ कक्षीकारार्हत्वात् । तदितरस्य तु द्वयोरप्युपेक्षाक्षेत्रत्वात् । स्यादेतत् । न्याय्या प्रवृत्तिरीदृशी यत्परीक्षोत्तरकालमभ्युपगमः किन्तु कश्चिन्मूढोऽ- भिनिवेशपारवश्यात्परीक्षायाः पूर्वमेवागममभ्युपैति तदपेक्षयाऽभ्युपगतसा- धननिमित्ता परीक्षा क्रियते । सत्यमेतत् । पर यदैव चैतन्यस्वरूपनि- राचिकीर्षितधर्माश्रयस्यागमस्य बाधनाय परं प्रति साधनमुच्यते तदैवा- २० स्यागमस्य प्रमाणेन बाध्यमानत्वात्कथमागमत्वं स्यात् । अयमर्थः- अभ्युपगतागमदूषणं परेण क्रियमाणं तितिक्षमाण एव परित्यक्तवास्त- दभ्युपगमं नहि तम्यागमस्य दूषणमाकर्णयन्नसंशयितो नाम । यत्र च संशयस्तस्य प्रामाण्याभ्युपगमत्यागो नियमेनैव । तस्माद्येनापि ग्रहात्प- रीक्षितुकामेन तदभ्युपगमो न परित्यक्तस्तेनापि दूषणश्रवणं सहमानेन २५ परित्यक्तव्यः। ततो यथाऽय वादिनोऽसिद्धस्तत्प्रतिवादिनोऽप्यसिद्धः । तथा च विद्यमान एवार्थः साध्यनान्तरीयकतया निश्चिंतोऽर्थान्तरगमको परि ३ सू. २३ ] स्याद्वादरत्नाकरसहितः भवति नाविद्यमानोऽपि प्रतीतिमात्रेण । यतः परोपगमेन सिद्धिः स्यात् । ननु च साधनमर्थप्रतीत्युपायः । उपायश्च हेयः “ उपाया अपि ये हेयास्तानुपायान्प्रचक्षते " इति. वचनादिति । सताऽसता चोपायेन सन्नर्थः प्रतिपत्तव्यः साध्यः । इह च यदि नामोत्पत्तिमत्त्वमनित्यत्वं वाऽ- सदेव तथापि तस्माद्यत्प्रतिपत्तव्यं तत्सदेवेति चेत् । तदसत् । सतोऽपि ५ ह्यवस्तुकृता प्रतिपत्तिरसत्प्रतिपत्तिं नातिशेते । यथा हि विभ्रमकारणात्प्र- तिपत्तिरुत्पद्यमाना सन्दिग्धविषया तद्वदवस्तुकृताऽपि सा ततोऽप्यर्थस्य सन्दिग्धविषयैवाप्रमाणकत्वेनोभयत्रापि विशेषाभावादिति न परप्रसिद्धया साधनमभिधानीयम् । नन्वेवं कथं भवद्भिः परपरिकल्पितैर्धमैर्धर्मान्तर- स्य प्रसङ्गः क्रियते । यथा यत्सर्वथैकं तन्नानेकत्र सम्बध्यते । तथा च १० सामान्यमिति कथमनेकव्यक्तिवर्ति स्यादनेकव्यक्तिवर्तित्वाभावव्यापकम- न्तरेण सर्वथैक्यस्य व्याप्यस्यानुपपत्तेरिति । अत्र हि वादिनः स्याद्वादिनः सर्वथैक्यमसिद्धमिति कथं धर्मान्तरस्यानेकवर्तित्वाभावस्य गमकं स्या- दिति चेत् । तदसम्बद्धम् । एकधर्मोपगते धर्मान्तरोपगमसन्दर्शनमात्र- तत्परत्वेनास्य वस्तुनिश्चायकत्वाभावात् । प्रसङ्गविपर्ययरूपस्यैव मौल- १५ हेतोस्तन्निश्वायकत्वात् । प्रसङ्गः खल्वत्र व्यापकविरुद्धोपलब्धिरूपः । अनेकव्यक्तिवर्तित्वस्य हि व्यापकमनेकत्वम् । एकान्तिकरूपस्यानेक- व्यक्तिवर्तित्वविरोधात् । तथा हि- यस्मिन्परिच्छिद्यमाने यदवच्छि- यते तयोः परस्परतो विरोधः । मुण्डदेशे यत्खण्डदेशाभावाव्यभिचारि- गोत्वरूपं स्थितं तत्खण्डदेशानाहितत्वात्तद्रूपप्रच्युतिमत्, यच्च खण्डदेशे २० मुण्डदेशाभावाव्यभिचारिगोत्वरूपं तदपि मुण्डदेशानाहितत्वात्तद्रूपप्रच्यु- तिमत्ततस्तस्य मुण्डदेशाधेयत्वेन परिच्छिद्यमाने खण्डदेशाधेयत्वमव- च्छिद्यते तत्र वा परिच्छिद्यमाने यदवच्छिद्यत इति तद्देशान्यदेशयो- स्तद्देशाधेयत्वानाधेयत्वे विरोधिनी । सामान्यस्य हि यत्खण्डदेशस्थितं रूपं तदपेक्षया तद्देशावस्थितरूपापेक्षया च तस्यैव तद्देशानाधेयत्वं २५ कथं नाम भवेत् । एवमन्यदेशापेक्षयाऽपि भावनीयम् । ततो प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. २३ यदुच्यते योगैः-तद्देशत्वमप्रतिषिध्यैवान्यदेशत्वं समुच्चीयते तद्देशश्वाय- मित्यादि, तन्निरस्तम् । एकदेशस्थत्वस्यान्यदेशस्थत्वपरिहारेणावस्था- नादिति । सिद्धमनेकत्र वृत्तेरनेकत्वं व्यापकं तद्विरुद्धं च सर्वथैक्यं सामान्ये त्वयाऽभ्युपगम्यते ततो नाऽनेकवृत्तित्वं स्याद्विरोध्यैक्यसद्भावन व्याप्येन ५ व्यापकस्यानेकत्वस्य निवृत्त्या व्याप्यस्यानेकवृत्तित्वस्याऽवश्य निवृत्तेः । न च तन्निवृत्तिरभ्युपगतेति लब्धावसरः प्रसङ्गविपर्ययाख्यो विरुद्धव्या- प्तोपलब्धिरूपोऽत्र मौलो हेतुः । यथा यदनेकवृत्ति तदनेकमनेकवृत्ति च सामान्यमिति । एकत्वस्य हि विरुद्धमनेकत्वं तेन व्याप्तमनेकवृत्ति- त्वं तस्योपलब्धिरिह । मौलत्वं चास्यैतदपेक्षयैव प्रसशस्योपन्यासात् । न १० चायमुभयोरपि न सिद्धः । सामान्ये जैनयोगाम्यां तदभ्युपगमात् । ततोऽयमेव मौलो हेतुरयमेव वस्तुनिश्चायकः । ननु यद्ययमेव वस्तु- निश्चायकः कक्षीक्रियते तर्हि किं प्रसङ्गोपन्यासेन प्रागेवायमेवोपन्यस्य- ताम् । निश्चयानमेव हि ब्रुवाणो वादी वादिनामवधेयवचनो भव- तीति चेत् । तदसत् । मौलहेतुपरिकरत्वादस्य । अवश्यमेव हि प्रसङ्गं १५ कुर्वतोऽर्थः कश्चिन्निश्चाययितुमिष्टः । निश्चयश्च सिद्धहेतुनिमित्त इति यत्सूत्रासिद्धो हेतुरिष्टस्तस्य व्याप्यव्यापकभावसाधने प्रकारान्तरमेतत् । यत्सर्वथैकं तन्नानेकन सम्बध्यत इति व्याप्तिदर्शनमपि हि बाधकं विरुद्धधर्माध्यासमाक्षिपतीत्यन्योऽयं साधनप्रकारः । नन्वेवं प्रसङ्गेऽङ्गी- क्रियमाणे बुद्धिरचेतना, उत्पत्तिमत्त्वादित्ययमपि साहयेन ख्यापितः २० प्रसङ्गहेतुर्भविष्यति । तथा हि यदि बुद्धिरुत्पत्तिमती भवद्भिरभ्युपगम्यते तदानीं तद्व्यापकमचैतन्यमपि तस्याः स्यान्न चैवमतो नोत्पत्तिमत्यपीय- मिति चेत् । तदसत् । प्रसङ्गविपर्ययहेतोम्मौलस्य चैतन्याख्यस्य साङ्खयानां बुद्धावपि, प्रतिषिद्धत्वात् । तैः प्रधानधर्मतया तस्या अचैतन्य- स्वीकारात् । चैतन्यस्वीकारेऽपि नाऽनयोः प्रसङ्गतद्विपर्यययोर्गमकत्वम् । २५. अनेन प्रसङ्गेनात्र प्रसङ्गविपर्ययहेतोर्व्याप्तिसिद्धिनिबन्धनस्य विरुद्धधर्मा- ध्यासस्या विपक्षेः बाधकप्रमाणस्यानुपस्थानात् । चैतन्योत्पत्तिमत्त्वयो- mAh परि. ३ सू. २३] स्याद्वादरत्नाकरसहितः 1- - खण्डनम् । विरोधाभावात् । एवं ह्यचेतनत्वेनोत्पत्तिमत्त्वं व्याप्तं भवेद्यदि चैतन्येन तस्य विरोधः स्यान्नान्यथा । न चैवमिति । नैतौ प्रसङ्गतद्विपर्ययौ गमको भवतस्तर्हि कथं तौ गमकाविति चेत् । एकान्तैकरूपस्य सामान्यस्य प्रतिनियतपदार्थाधेयस्वभावादपरस्य स्वभावस्याभावेनान्य- पदार्थाधेयत्वासम्भवात्तद्भावस्य तदभावस्य चान्योऽन्यपरिहारस्थित- ५ लक्षणत्वेन विरोधादिति नागमात्परेणैव ज्ञातस्य लिङ्गस्य वचन परार्था- नुमानम् ॥ नाप्यनर्थरूपस्य । यथाऽनित्यः शब्दः पक्षसपक्षयोरन्यतरत्वाद्धटव- दिति । न ह्यत्र शब्दघटयोर्वास्तवी प्रत्यासत्ति- अनर्थरूपलिङ्गवचन परा- र्थानुमानमित्यस्य रपि तु वक्तृविवक्षामात्रकृता । तदभावे विव- १० क्षिते तयोरासत्तिविप्रकर्षाभावात् । तावद्धि घटः प्रत्यासन्नः शब्दस्य शब्दघटरूपसमुदायावयवत्वादिप्रकृष्ट चाकाशतत्स- मुदायाबाह्यत्वाद्यावदनित्यत्वं साधयितुं विवक्षति प्रेक्षते । यदा तु न विवक्षति तदा तयोरासत्तिविप्रकर्षों विवते । वस्तुस्वभावत्वे पुनरनयो- विवक्षान्तरेऽपि न परावृत्तिर्मवेत् । भवति च नित्यः शब्दः पक्षसप १५ क्षयोरन्यतरत्वादाकाशवदित्यत्राकाशस्यासन्नत्वाद्धटस्य तु विप्रकर्षात् । । किं च यदा द्वाभ्यां परस्परविरुद्ध नित्यत्वानित्यत्वे साधयितुमिष्यते तदा स एव घटः प्रत्यासन्नो विप्रकृष्टश्चाकाशमपि । न च युगपदे- कत्र वस्तुनि विरुद्धयोधर्मयोरासत्तिविप्रकर्षयोरुपसंहारयोगः । तस्मा- देते कर्तुरिच्छामात्रनिरोधिनो धर्मा न वस्तुस्वभावमनुविदधति। २० इच्छानुसारेण वस्तुनो वृत्त्यभावात् । तथात्वे हि न कश्चिद्दरिद्रः स्यात् । तस्मान्न ततोऽसिद्धिः । वस्तुरूपयो; प्रत्यासत्तिविप्रकर्षयो- रसिद्धेः । सिद्धौ तु स्याद्दोषों यथा यादृशं रूपसाधर्म्य -विषाणित्वं न व्यभिचरति तादृशमभिसमीक्ष्याभिधीयते, एष पिण्डो विषाणी गोगव- ययोरन्यतरत्वात् । अत्र हि साधर्म्यविशेषो .गोगवयसमुदायैकदेशत्व २५ वास्तवं प्रत्यक्षमेव तेन सिध्यत्येव विषाणित्वम् । तया नित्यः शब्दी: مبا , - प्रमाणनयतत्त्वालोकालङ्कारः [ परि. ३ स. २३ - मयैवं विवक्षितत्वादिति यदोच्यते तदा सिद्धयत्यर्थशून्यं विवक्षामात्रम् । न पुनर्वस्तु । तदिच्छाया वस्तुवृत्तिनियमाभावात् । प्रत्यक्षबाधितं ह्येतद्यत्र तदिच्छा तत्र वस्तुभाव इति । तथा च व्याप्त्यसिद्धेर्व्यभिचारः। एतेन मदुपगमादयोऽपि न हेतव इत्युक्तं भवति । ततो नाऽनर्थरूप- ५ लिङ्गवचनमपि परार्थमनुमानमिति सिद्धम् ॥ तत्पक्षहेतोर्वचनस्वरूपं गतं प्रतिष्ठामनुमानमेतत् ॥ परार्थसंज्ञं च सुतर्कविज्ञा वादे यदङ्गं प्रथमं गदन्ति ॥५०६॥२३॥ इदानी सूत्रत एव पक्षवचनं द्रढयन्नाह साध्यस्य प्रतिनियतधर्मिधर्महेतोरुपसंहारवचनवत्प- क्षप्रयोगोऽप्यवश्यमाश्रयितव्य इति ॥ २४ ॥ अयमर्थः-यत्र धूमस्तत्र वहिरित्यादिना साध्यव्याप्तसाधनप्रदर्श- नेन हेतोः सामान्येनाधारप्रतिपत्तावपि पर्वतादिविशिष्टधर्मिधर्मताधिगतये धूमश्चात्रेत्येवरूपमुपसंहारवचनमवश्यमाश्रीयते यथा ताथागतैः , तथा साध्यधर्मस्य प्रतिनियतधर्मिताप्रतिपत्तये पक्षप्रयोगोऽप्यवश्यमाश्रयितव्य १५ इति ॥ २४ ॥ अमुमेवार्थ परोपालम्मच्छलेन समर्थयमानः प्राह- त्रिविधं साधनमभिधायैव तत्समर्थनं विदधानः कः खलु न पक्षप्रयोगमडीकुरुत इति ॥ २५ ॥ त्रिविधं कार्यस्वभावानुपलब्धिभेदेन साधनमभिधायैव न तु पक्ष- २० वदनुक्त्वेत्यर्थः । तत्समर्थनं तस्य साधनस्य समर्थनमसिद्धतादोषपरि- हारेण स्वसाध्यसाधनसामर्थ्यप्ररूपणप्रवचनं विदधानः कः खलु नं पक्षप्रयोगमङ्गीकुरुते किन्तु सर्व एव प्रामाणिकः स्वीकुरुत इत्यर्थः । न ह्यसमर्थितो हेतुः साध्यसिद्धयङ्गम् । अतिप्रसङ्गात् । ततः पक्ष- प्रयोगमनङ्गीकुर्वता सौगतेन हेतुमनुक्त्वैव तत्समर्थनं विधेयम् । समर्थ- परिः ३ सू. २६ ] स्याद्वादरत्नाकरसहितः - नोपन्यासादेव हि हेतोः सामर्थ्यलव्धत्वात्तद्वचनमनर्थकमेवेति । हेतोर- वचने कस्य नाम समर्थनमिति चेत् । तर्हि पक्षस्याऽप्यप्रयोगे व नाम हेतुः साध्यं साधयत्वित्यनिवार्यः पर्यनुयोगः । अथ विवादादेव गम्यमाने प्रतिज्ञाविषयेऽनुच्यमानेऽपि हेतुः साध्यं साधयिष्यतीत्युच्यते । तर्हि गम्यमानस्य हेतोरपि समर्थन भविष्यतीत्यप्युच्यतामविशेषात् । ५ गम्यमानस्यापि हेतोर्मन्दमतिप्रतिपत्त्यर्थं वचनमिति चेत् । तर्हि तदर्थमेव पक्षवचनमप्यस्तु । समानयोगक्षेमत्वात् । ततः साध्यसिद्धिमभि- वाञ्छता हेतुवचनमिव पक्षवचनमपि स्वीकर्त्तव्यम् । पक्षहेतुवचनयोरे- वानुमानाङ्गत्वेन वक्ष्यमाणत्वादिति ॥ २५ ॥ इहानुमानस्यैव पारायं परे प्रतिपन्नवन्तो न प्रत्यक्षस्येत्यनुमान- १० पारार्थ्यव्यवस्थापनप्रसङ्गेन तान्प्रति प्रत्यक्षस्यापि पारायं व्यवस्था- पयन्नाह- प्रत्यक्षपरिच्छिन्नार्थाभिधायि वचनं परार्थं प्रत्यक्ष परप्रत्यक्षहेतुत्वादिति ॥ २६ ॥ प्रत्यक्षपरिच्छिन्नार्थाभिधायि, अध्यक्षवीक्षितवस्तुप्रतिपादकं यद्वचनं १५ तत्परार्थं प्रत्यक्षमुच्यते । ननु वचनं कुतः प्रत्यक्षं जडस्वभावत्वात्तस्ये- त्याशङ्कायामाह-परप्रत्यक्षहेतुत्वात् । प्रतिपाद्यगतप्रत्यक्षप्रकाशनिमित्त- त्वादुपचारेणेत्यर्थः। उपचारस्य चात्र प्रयोजनं परार्थानुमानवदवसेयम् । यत्तु बौद्धनाभिधीयते न प्रत्यक्षविषयः स्वलक्षणात्मा परेभ्यः कथयितुं कथमपि शक्यत इति । तदनुपपन्नम् । निर्विकल्पकप्रत्यक्ष- २० प्रतिक्षेपेण स्थिरस्थूरार्थव्यवसायिनः प्रत्यक्षस्याधस्तात्समर्थितत्वात् । तद्विषयस्य कथञ्चिद्विकल्पगम्यत्वेन शब्दप्रतिपाद्यस्वभावत्वात् । ततो यथानुमानप्रतीतोऽर्थः परस्मै प्रतिपाद्यमानो वचनरूपापन्नः परार्थमनु- मानमुच्यते तथा प्रत्यक्षप्रतीतोऽपि परार्थ प्रत्यक्षमित्युच्यताम् । पर- प्रत्यायनस्योभयत्राप्यविशिष्टत्वात् । वचनव्यापारस्यैव भेदात् । तथा २५ ५५८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ स. २६ हि अनुमानप्रतीतमर्थ प्रत्याययन्नग्निरत्र धूमान्यथानुपपत्तेरित्यादिकं वचनयति । प्रत्पक्षप्रतीतं पुनरथ संदर्शयन् - पश्याऽयं सुसखे विपक्षरमणीवैधव्यदीक्षागुरु- नम्राशेषनरेशशीर्षसरसि प्रेङ्खक्रमाम्भोरुहः ॥ माद्यत्कुञ्जरकन्धरामधिगतः श्वेतातपत्राश्चित- श्चञ्चच्चामरयुग्मरम्यविभवः कश्चिन्नृपो गच्छति ॥ ५०७ ॥ इत्यादि ब्रवीति । ततश्च वचनाविप्रकारादपि प्रतिपाद्यस्य प्रत्यक्षा- नुमेयार्थगोचरा यतः प्रतिपत्तिराविर्भवति ततः प्रत्यक्षानुमानयोरुभयो- रपि परार्थत्वमविरुद्धमेव । यथोक्तम् ---"प्रत्यक्षेणानुमानेन प्रसिद्धार्थ- १० प्रकाशनात् ॥ परस्य तदुपायत्वात्परार्थत्वं द्वयोरपि ॥ १॥" इति । परस्येति प्रत्याय्यस्य । तदुपायत्वादिति प्रतिपादकस्थप्रत्यक्षानु- माननिर्णीतार्थप्रकाशनकारणत्वात् । द्वयोरिति प्रत्यक्षानुमानप्रभववच- नयोरिति ॥२६॥ अथ स्पष्टप्रतिपत्त्यर्थं सूत्रत एव परार्थप्रत्यक्षोल्लेखमाह- १५ यथा पश्य पुरः स्फुरत्किरणमणिखण्डमण्डिता- भरणभारिणीं जिनपतिप्रतिमामिति ॥ २७ ॥ व्यक्तार्थमदः । एवं स्मरणादेरपि यथासम्भवं पारायं प्रतिपत्तव्यम्, तथा ह्येवं वक्तारो भवन्ति स्मरसि चैत्र कश्मीरेषु वत्स्यामस्तत्र द्राक्षा भोक्ष्यामह इति । न्यायदिव्यं समादाय प्रतिष्ठा प्रापदुत्तमाम् ॥ तस्मात्प्रत्यक्षमानस्य पारार्थ्यमनुमानवत् ।। ५०८ ॥ २७ ॥ उक्तं प्रासनिकं परार्थ प्रत्यक्षम् , अथ यदुक्तं पक्षहेतुवचनात्मकं परार्थमनुमानमिति तत्समर्थयते- २० १ न्यायावतारे श्लो. ११ ।
परि. ३ सू. २९] स्याद्वादरत्नाकरसहितः ५५९ : १० पक्षहेतुवचनलक्षणमवयवद्वयमेव परप्रतिपत्तेरॉन दृष्टान्तादिवचनमिति ॥ २८ ॥ उक्तस्वरूपपक्षहेतुवचनात्मकमवयवद्वयमेव परार्थानुमानवाक्यस्य भागयुग्ममेव । प्रतिपाद्यबोधस्य कारणं न दृष्टान्तादिवचनं, आदि- शब्देनोपनयनिगमनादिग्रहः । एवं च- सव्याप्तिदृष्टान्तवचस्ततो हेतूपसंहृतिः ।। वैपरीत्येन वेत्येवं यशं चौद्धय॑गादि यत् ॥ ५०९ ॥ . व्यवयवमनुमानं कल्पयामासिवांसः कपिलमुनिमतस्था ये तथा जैमिनीयाः ॥ गदितमवयवैर्यत्पञ्चभिर्योगशिष्यै- रपि सुनिपुणनीत्या तन्निरस्तं समस्तम् ।। ५१० ।। पक्षहेतुलक्षणावयवद्वयनियमाभ्युपगमश्चायं व्युत्पन्नमतिप्रतिपाद्यापे- क्षया द्रष्टव्यः । यतोऽभिधास्यति-" मन्दमतीस्तु व्युत्पादयितुम् इत्यादि ॥ २८॥ अथ हेतुप्रयोगस्य द्वैविध्यं दर्शयन्नाह- हेतुप्रयोगस्तथोपपत्त्यन्यथानुपपत्तिभ्यां द्विप्रकार इति ॥२९॥ तथैव साध्यसद्भावप्रकारेणैव हेतोरुपपत्तिः तथोपपत्तिः । “साधनं कृता बहुलम् ” इति समासः । अवधारणस्य समासार्थेऽनुभूत- २० त्वादप्रयोगः । यथा दध्योदनादिषूपसिक्तादीनाम् । अन्यथा साध्या-' भावप्रकारेण हेतोरनुपपत्तिरन्यथानुपपत्तिः । अत्रापि समासः प्रामृक्त- १ प्रमाणनय. प. ३ स. ४२ । २ ' कर्तृकरणे कृता बहुलम् ' इति पा. सू. २1१1३२ ।
९६० प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३सू. २९ -- सूत्रेणैव । ताभ्यामन्वयव्यतिरेकस्वरूपाभ्यां हेतोः प्रयोगो द्विमेदः॥२९॥ तथोपपत्त्यन्यथानुपपत्त्योरेव स्वरूपं सूत्रद्वयेन विस्पष्टीकर्तुमाह-- सत्येव साध्ये हेतोरुपपत्तिस्तथोपपत्तिरिति ॥३०॥ असति साध्ये हेतोरनुपपत्तिरेवान्यथानुपपत्तिरिति ॥३१॥ प्राग्वत् ॥ ३० ॥३१॥ अथ तथोपपत्त्यन्यथानुपपत्तिप्रयोगौ व्यक्तीकरोति- यथा कृशानुमानयं पाकप्रदेशः सत्येव कृशानुमत्त्वे धूमवत्त्वस्योपपत्तेरसत्यनुपपत्तेर्वेति ॥ ३२॥ अदोऽप्युत्तानार्थम् ।। ३२॥ अथ तथोपपत्त्यन्यथानुपपत्त्योः प्रयोगनियमनार्थमाह-- अनयोरन्यतरप्रयोगेणैव साध्यप्रतिपत्तौ द्वितीय- प्रयोगस्यैकत्रानुपयोग इति ॥ ३३॥ अनयोस्तथोपपत्त्यन्यथानुपपत्त्योर्मध्यादन्यतरस्याः प्रयोगेणैव साध्य- १५ प्रतिपत्तौ सत्यां द्वितीयस्याः प्रयोगस्यैकत्र साध्ये नैरर्थक्यम् । द्वयोरपि परस्पराव्यभिचारित्वात् । इदमत्रैदम्पर्यम् । प्रयोगयुगलेऽपि वाक्यविन्यास एव विशिष्यते न पुनरर्थः । प्रयोगस्य च साध्यसाधनं फलम् । तच्च यद्यन्यतरप्रयोगेणैव कृतम् । तदा द्वितीयप्रयोगः प्रयो- तुरपाटवमेव प्रकटयति । निष्फलत्वादिति । ननु तथोपपत्त्यन्यथानुप- पत्त्योः परस्पराव्यभिचारित्वमसिद्धम् । कचित्तथोपपत्तिनिश्चयेऽप्यन्य- थानुपपत्तेरसिद्धः । तथा हि प्रयत्नानन्तरीयके शब्दे साध्ये कादाचि- कत्वं हेतुत्वेनोपादीयमानं सपक्षे घटादौ सर्वत्रास्तीति तथोपपन्नम- प्यन्यथानुपपत्तिविकलम् । अप्रयत्नानन्तरीयके विद्युदादौ विपक्षेऽपि २० परि. ३ सू. ३५] स्याद्वादरत्नाकरसहितः ५६६ तस्योपलभ्यमानत्वात् । नैतदस्ति । तत्र तथोपपत्तेरेवाभावात् । न हि सपक्षे सर्वत्र दर्शनमात्र तथोपपत्तिरिति सङ्गिरामहे । किं तर्हि सत्येव साध्ये हेतोरुपपद्यमानत्वं तथोपपत्तिरिति । न चेयं प्रकृते हेतौ समस्ति । ततः परस्पराव्यभिचारित्वात्तथोपपत्त्यन्यथानुपपत्त्योरे- कपयोगे द्वितीयप्रयोगस्य निरुपयोगित्वं युक्तमिति ॥ ३३ ॥ अथ यदुक्तं न दृष्टान्तादिवचनं परप्रतिपत्तेरङ्गमिति, तत्र दृष्टान्त- वचनं तावन्निराचिकीर्षुस्तद्धि किं परप्रतिपत्त्यर्थ परैरङ्गीक्रियेत उत हेतोरन्यथानुपपत्तिनिर्णीतथे, यद्वाऽविनाभावस्मृतय इति विकल्पेषु प्रथमं विकल्पं तावद्दषयन्नाह- न दृष्टान्तवचनं परप्रतिपत्तये प्रभवति, तस्यां पक्ष- १० हेतुवचनयोरेव व्यापारोपलब्धेरिति ॥ ३४ ॥ न खलु वह्निमानयं देशो धूमवत्त्वान्यथानुपपत्तेरित्येतावति प्रयुक्ते प्रतिपन्नाविस्मृतप्रतिबन्धस्य प्रमातुः साध्यप्रतिपत्तिर्न भवतीति तं प्रति निरुपयोग एव दृष्टान्तस्य प्रयोग इति ॥ ३४ ॥ अथ द्वितीयविकल्पं दूषयन्नाह- १५ न च हेतोरन्यथानुपपचिनिर्णीतये, यथोक्ततर्क- प्रमाणादेव तदुपपत्तेरिति ॥ ३५॥ दृष्टान्तवचनं प्रभवतीति योग. । अपि च । दृष्टान्तः प्रतिनियत- व्यक्तिस्वरूपो भवति । यथाऽग्नौ साध्ये महानसादिः । तादृशस्य च तस्य वचनं कथमविनाभावनिश्चयार्थं स्यात् । प्रतिनियतव्यक्तौ तन्नि- २० श्वयस्य कर्तुमशक्तेः । ततो व्यक्त्यन्तरेषु व्याप्त्यर्थं पुनर्दृष्टान्तान्तरं मृग्यम् । तस्याऽपि व्यक्तिरूपत्वेनापरापरदृष्टान्तापेक्षायामनवस्था स्यात् । ॥ ३५ ॥ १ प्र. न. प. ३ स. २८.
५६२ प्रमाणनयतत्त्वालोकालङ्कारः परि. ३ स. ३६ अमुमेवार्थ सूत्रेण व्यक्तीकुर्वन्नाह- नियतैकविशेषस्वभावे च दृष्टान्ते साकल्येन व्या- रयोगतो विप्रतिपत्तौ सत्यां तदन्तरापेक्षायामनव- स्थितेदुर्निवारः समवतार इति ॥ ३६ ॥ तदन्तरापेक्षायामिति विप्रतिपत्तौ सत्यां दृष्टान्तान्तरापेक्षायामित्यर्थः ॥ ३६॥ अथ तृतीयविकल्पं दूषयन्नाह- नाप्यविनाभावस्मृतये, प्रतिपन्नप्रतिबन्धस्य व्युत्प- नमतेः पक्षहेतुप्रदर्शनेनैव तत्प्रसिद्धेरिति ॥ ३७ ॥ अत्रापि दृष्टान्तवचनं प्रभवतीति योज्यम् ॥ ३७॥ अभिहितमेवार्थ गुढयन्नाहः अन्तर्व्याप्त्या हेतोः साध्यप्रत्यायने शक्तावशक्ती च बहिर्व्याप्तेरुद्भावनं व्यर्थमिति ॥३८॥ अन्तर्व्याप्तिबहिर्व्याप्ती अनन्तरमेव निरूपयिष्यमाणे । ततोऽ- १५ यमर्थः-यदि हेतोरन्तर्व्याप्त्यैव साध्यप्रत्यायनसामर्थ्यमस्ति तदा बहिर्व्याप्त्युद्भावनं व्यर्थम् । अस्त्यत्राग्निः सत्येवाग्नौ धूमोपपत्तेः । मत्पुत्रोऽयं वहिरवस्थितो वक्ति, अन्यथैवम्भूतस्वरानुपपत्तेरिति तथोप- पत्त्यन्यथानुपपत्तिप्रयोगमात्रादेव व्युत्पन्नमतेः प्रतिपत्तुः साध्यसिद्धेः सम्पन्नत्वात् । अथाऽन्तर्व्याप्त्या हेतोः साध्यप्रत्यायनसामर्थ्य नास्ति । २० तदापि वहिाप्युद्भावनं व्यर्थमेव । एतस्याः स्त्रियो गर्भापत्यं पुमाने- तदपत्यत्वात्प्रसिद्धपुंस्त्वेतरापत्यवत्, इत्येवमादौ हेतोर्वहिर्व्याप्तिसद्भावेs- प्यन्ताप्तेरमावे गमकत्वादर्शनात् । सत्येव पुंस्त्व एतदपत्यत्वाख्यस्य T परि. ३ सू. ४१] स्याद्वादरत्नाकरसहितः ५६३ साधनस्योपपत्तिरित्येवंरूपा ह्यन्तर्व्याप्तिरत्र सन्दिह्यते । तत्संदेहतस्तु निश्चितयाऽपि बहिर्व्याप्त्या न किमपि भवतीति ॥ ३८ ॥ अथ दृष्टान्तदूषणावसरप्राप्तयोरन्तर्व्याप्तिबहिर्व्याप्त्योः स्वरूपमाह- पक्षीकृत एव विषये साधनस्य साध्येन व्याप्तिरन्तः याप्तिः, अन्यत्र तु बहिर्व्याप्तिरिति ॥ ३९॥ अन्तरित्यन्तर एव । पक्षीकृते विषये साधनस्य साध्येन व्याप्तिर- व्यभिचारोऽन्तर्व्याप्तिरुच्यते । बहिः पक्षीकृताद्विषयादन्यत्र तु दृष्टा- न्तधर्मिणि तस्य तेन व्याप्तिर्बहिर्व्याप्तिरभिधीयते ॥ ३९ ॥ माभूद्दष्टान्तवचनस्य परप्रतिपत्तिं प्रति सामर्थ्यमुपनयनिगमन- योस्तु तन्निवारयितुमशक्यमित्याशङ्कापनोदार्थमाह--- नोपनयनिगमनयोरपि परप्रतिपत्तौ सामर्थ्य, पक्ष- हेतुप्रयोगादेव तस्याः सद्भावादिति ॥४०॥ उपनयनिगमनयोरभिधास्यमानस्वरूपयोः । अपिः समुच्चये । न केवलं दृष्टान्तवचनस्येत्यर्थः । अपि च प्रयुज्यापि दृष्टान्तादिकं सम- र्थन हेतोरवश्यं वक्तव्यम् । असमर्थितस्य तस्य परप्रतिपत्त्यङ्गत्वानुपपत्ते- १५ रिति तदेव परं परप्रतिपत्तिकारणतया कक्षीकर्तुं प्रेक्षावता युक्तं न तु दृष्टान्तवचनादिकम् । सत्यपि तस्मिन्हेतुसमर्थनं विना परप्रतिपत्तेर- भावात् ॥ ४०॥ एतदेवाह समर्थनमेव परं परप्रतिपत्त्यङमास्तां, तदन्तरेण दृष्टान्तादिप्रयोगेऽपि तदसम्भवादिति ॥४१॥ १ अत्र " यथाऽनेकान्तात्मक वस्तु सत्त्वस्य तथैवोपपत्तेः । " इति, “अग्नि- मानय देशो धूमवत्त्वाद्य एव स एव यथा पाकस्थानम् " इति च सूत्रद्वयं रत्ना- करावतारिकायामुपलभ्यते । २० प्रमाणनयतत्त्वालोकालङ्कारः [परि.३ सू. ४१ समर्थनं हेतोरसिद्धत्वादिदोषान्निराकृत्य स्वसाध्येनाविनामावसाघ- नम् । परं केवलम् ॥ ४१ ।। इत्थं व्युत्पन्नमतीनाश्रित्य प्रपञ्चितं परार्थमनुमानम् । अथ मन्दमती- नाश्रित्य तत्प्रपञ्चयन्नाह ५ मन्दमतीस्तु व्युत्पादयितुं दृष्टान्तोपनयनिगमनान्य- पि प्रयोज्यानीति ॥४२॥ मन्दमतीनव्युत्पन्नप्रज्ञान् । अपिशब्दोऽनुक्तसमुच्चयार्थः । ततः पक्षहेतू पक्षादिशुद्धयश्च पञ्च ग्राह्याः। ततश्च न केवलं दृष्टान्तोपनयनि- गमनानि प्रयोक्तव्यानि किन्तु पक्षहेतू पक्षादिशुद्धयश्च प्रयोक्तव्या १० इत्यर्थः सिद्धो भवति । इदमिह रहस्यम् । नैकः प्रकारः परार्थानुमानस्य । किं तर्हि यथा यथा परस्य सुखेन साध्यार्थप्रतिपत्तिरुपजायते सूत्ररहस्यप्रकटनम् । तथा तथाऽसौ वक्त्रा प्रतिपादनीयः । तत्र यदा प्रतिपाद्यः क्षयोपशमादेव निर्णीतपक्षो दृष्टान्तस्मार्यप्रतिबन्धग्राहकप्रमा- १५ णस्मरणनिपुणोऽपरावयवाभ्यूहनसमर्थश्च भवति तदा तमाश्रित्य हेतु- प्रतिपादनमेव क्रियते धूमोऽत्र दृश्यत इति । तं प्रति पक्षाद्यभिधानस्य वैयर्थ्यात् । यदा पुनः प्रतिपाद्यस्य नाद्यापि पक्षनिर्णयस्तदाऽकाण्ड एव हेतूपन्यासोऽदृष्टमुद्गरपातायमानः स्यादिति पक्षोऽपि तं प्रति प्रयु- ज्यते । अग्निरत्र धूमान्यथानुपपत्तेरिति । तथा यः प्रतिबन्धग्राहि- २० प्रमाणस्य न स्मरति तमाश्रित्य दृष्टान्तोऽप्युपदिश्यते । अग्निरत्र धूमाद्यत्र धूमस्तत्राग्निर्यथा महानस इति । स्मृतेऽपि प्रतिवन्धग्राहिणि प्रमाणे दान्तिके हेतु योजयितुमजानानस्योपनयः प्रदर्श्यते । यथा प्राक्तन एव प्रयोगे धूमश्चात्रेति । एवमपि साकायस्य निगमनमभिधी- यते । तस्मादग्निरत्रेति । अन्यथा निराकुलप्रस्तुतार्थासिद्धेरिति । तथा २५ प्रतिपाद्यविशेषस्य यत्र पक्षादौ स्वरूपविप्रतिपत्तिः । तद्बुद्धिः प्रमाणेन •• परि. ३ स. ४२] स्याद्वादरत्नाकरसहितः ५६५ कर्तव्या । अन्यथा पक्षादीनां स्वसाध्यसाधनात् । तत्र वक्ष्यमाणप्रतीत, साध्यधर्मविशेषणत्वादिपक्षदोषपरिहारादिः पक्षशुद्धिः । अभिधास्य- मानासिद्धादिहेत्वामासोद्धरणं हेतुशुद्धिः । प्रतिपादयिष्यमाणसाध्य- विकलत्वादिदृष्टान्तदूषणपरिहरणं दृष्टान्तशुद्धिः । उपनयनिगमनयोस्तु शुद्धी प्रमादादन्यथा कृतयोस्तयोर्वक्ष्यमाणतत्स्वरूपेण व्यवस्थापके ८५ वाक्ये विज्ञेये । प्रपञ्चतस्तु पक्षादिशुद्धिपञ्चकस्वरूपं परमावसेयम् । सर्वेषां चामीषां पक्षादिवचनानां परार्थानुमानवाक्यावयवत्वम् । प्रति- पाद्यप्रतीत्युपायत्वात् । तदिदं दशावयवं वाक्यमाहुस्तार्किकाः । इय, मेव वचसोत्कृष्टा कथा कथ्यते । तथा ह्यवयवापेक्षया जघन्यमध्यमो; त्कृष्टास्तिस्रः कथा भवन्ति । तद्यथा- १० लिङ्गं केवलमेव यत्र कथयत्येषा जघन्या कथा यादीन्यत्र निवेदयत्यवयवानेषा भवेन्मध्यमा ॥ उत्कृष्टा दशभिर्भवेदवयवैः सा जल्पितैरित्यमी जैनरेव विलोकिताः कृतधिया वादे त्रयः सत्पथाः ॥५११॥ तत्रेह-"पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात्" इत्यनेन सूत्रे- १५ णानन्तरं मध्यमायाः कथायाः साक्षाद्धणनाजघन्योत्कृष्टे अपि सामर्थ्या- सूचिते । प्रतिपाद्यविशेषमाश्रित्य तत्सद्धावस्यापि प्रमाणोपपन्नत्वात् । प्रयोगपरिपाट्या प्रतिपाद्यानुसारतो जिनपतिमतानुसारिभिरभिमतत्वात् । तदुक्तम्-" अन्यथानुपपत्त्येकलक्षणं लिङ्गमिष्यते ॥ प्रयोगपरि- पाटी तु प्रतिपाद्यानुसारतः ॥१॥” इति । ननु च स्वनिश्चयवत्पर- २० निश्चयोत्पादनं परार्थमनुमानमुच्यते। यथोक्तं भवद्वद्धैः-----'" स्वनिश्चय- वदन्येषां निश्चयोत्पादनं बुधैः॥ परार्थमनुमाख्यात वाक्यं तदुप- चारतः ॥१॥” इति । न च स्वार्थानुमानकाले पक्षादिक्रमोऽय- मनुभूयते । गृहीताविनाभावस्य हेतुदर्शनमात्रात्साध्यप्रतीतिसिद्धेः । १ परम्-अने । २ प्र, न प. ३ स् २३ । ३ सिद्धसेनदिवाकरपादैः न्या. : द ग्लो. १०।
'Y प्रमाणनयतत्त्वालोकालङ्कारः [ परि. ३ स. ४२ .. न खलु प्रतिपत्ता पक्षों कृत्वा ततो हेतुं निभालयति । नापि दृष्टान्ता- दिक विरचयति । तथा :प्रतीतेरभावात् । अपि चान्वयव्यति- रेकाभ्यां साध्यसिद्धौ हेतोरेव सामर्थ्यमवधार्यते न पक्षादीनाम् । तव्यतिरेकेणापि साध्यसिद्धेः सम्भवात् । तथापि पक्षादीनां परार्थानु- १५ मानवाक्यावयवत्वपरिकल्पनायामनवस्थाप्रसक्तिः । यदि च तेषामिपि साध्यसिद्धौ सामर्थ्य स्यात्तदा. पक्षोपन्यासमात्रादेव साध्यावगतेहेतुरा- नर्थक्यमश्नुवीत । उत्तरावयवाश्च । एवं हि तत्सामर्थ्य सिद्धयेत्नान्यथा । तस्माद्य एव परनिरपेक्षं साध्यं बोधयति स एव हेतुः परं प्रतिपादयि- तुमुचितोऽनपेक्षत्वान्न पक्षादय इति । अत्रोच्यते । ,यदुक्तं न च स्वा- र्थानुमानकाले पक्षादिक्रमोऽयमनुभूयत इत्यादि । तत्र सर्वस्य प्रमातु- स्तथा क्रमानुभवाभावोऽभिधीयते कस्यचिद्वा । आद्यः पक्षोऽसिद्धः । कस्यचित्प्रमातुस्तेनापि क्रमेण साध्यप्रतीतेः सम्भवात् । द्वितीयपक्ष- स्त्वभ्युपगम्यत एव । नन्वेवं परार्थानुमानवाक्यप्रयोगेऽप्रतिपन्नसङ्केतः कश्चित्कश्चित्पुनस्तद्विपरीतः । तत्राद्यं प्रतिपाद्यमाश्रित्य क्रमेणैव परा- र्थानुमानमारभ्यते । अन्यथा रचनाया तस्य सम्मोहसम्भवात् । द्वितीय तु प्रति नास्त्येकान्तः। यथाकथञ्चित्खलु परस्य प्रतिपत्तिरुत्पादनीया । सा च क्रमेण व्युत्क्रमेण च भवतीति तं प्रति द्विधाऽप्यभिधानं साधीय एव । ननु यस्याक्रमेण स्वार्थानुमाने प्रतीतिरुदपादि , तेनाद्यं प्रति- पाचं प्रतीत्य यदि क्रमेणैव परार्थानुमानमुपन्यस्यते , तदा स्वनिश्चय- २० वृत्परनिश्चयोत्पादनं विरुध्यते । तन्न । निश्चयापेक्षयैव वतिना तुल्यता- मिधानात् । न पुनः सर्वथा साम्यमभिमतम् । अन्यथा स्वार्थानुमाने शब्दमप्रयुञ्जानः साध्यं जानीत इति तदप्रयोगेण परनिश्चयोत्पा- दनमपि स्यात् । न चैतत्सम्भवति । शब्दाप्रयोगे परप्रतिपादनानुपपत्तेः। तदर्थं शब्दप्रयोगस्वीकारे च येन येन विना परप्रतिपादनासम्भवस्तत्त- २५ दङ्गीकरणीयम् । न्यायस्य समानत्वात् । यदप्युक्तमन्वयव्यति- रेकाभ्या साध्यसिद्धौ हेतोरेव सामर्थ्यमवधार्यते न पक्षादीनामिति ।
परि. ३ सू. ४४] स्याद्वादरत्नांकरसहितः ५६७ सदप्यसुन्दरम् । न हि पक्षादिविरहे प्रतिपाद्यविशेषः प्रत्याययितुं शक्यः । पक्षादिवचनसाध्यहेतुगोचराद्यर्थप्रतीतिविकलतया , तस्य, साकाङ्क्षस्वात् । तथा च बुमुत्सितार्थबोधाभावादप्रत्यायित एव तिष्ठेत् । ततस्तद्बोधनार्थ पक्षादयः प्रयोज्या इति । तेऽषि परार्थानुमानवाक्या- वयवा भवन्ति । यच्चाभिहितं यदि च तेषामपि साध्यसिद्धौ सामर्थ्य स्यादित्यादि । तदपि परिफल्गु । भवत्पक्षेऽप्यस्य तुल्यत्वात् । तत्रापि धूमोऽत्र दृश्यते , इत्येतावन्मात्रेणैव साध्यसिद्धेर्यत्र धूमस्तत्र वहिर्यथा महानस इति व्याप्तिप्रतिपादनस्य नैरर्थक्यापतेः । अथैवमेवैतत् । अत्यन्ततीक्ष्णमतेस्तावतैव प्रतीतिसद्भावात् । तथा चोक्तम्-"विदुषां वाच्यो हेतुरेव हि केवलः" इति । तदपेक्षयापकृष्टप्रज्ञः पुनस्तावता १० नावबोधयितुं शक्यत इति तं प्रति सार्थकं व्याप्त्युपदर्शनमिति चेत् । तर्हि पक्षादीनपि परित्यज्य प्रतिपाद्यविशेषः प्रत्याययितुं न शक्यत इति तेषामपि सार्थकत्वं न दुर्घटमिति । तस्माद्धेतुवत्पक्षादयोऽपि परार्था- नुमाने प्रतिपाद्यविशेष प्रति योज्याः । हेतोरपि कंचित्प्रतिपाद्ये तद्-' पेक्षितया निरपेक्षत्वासिद्धेरिति । तदेतन्निखिलं परामृश्याभिहितं मन्द- १५ मतींस्तु व्युत्पादयितुं दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानीति । एवं च सिद्धमिदम्- व्युत्पन्नमाश्रित्य परं परार्थं यथोक्तमाख्यात्यनुमानमत्र ॥ तदज्ञमाश्रित्य पुनर्नयज्ञास्तच्चित्ररूपं परिकीर्तयन्ति ॥५१२॥४२॥ तत्र दृष्टान्त तावयाचष्टे- प्रतिबन्धप्रतिपत्तेरास्पदं दृष्टान्त इति ॥४३॥ प्रतिवन्धो व्याप्तिस्तत्प्रतिपत्तेः स्मृतिरूपाया आस्पदं स्थानं महान- सादि दृष्टान्त इति निरुक्तित्रितयात् ॥४३॥ अथास्य प्रकारकथनायाह- स द्वेधा साधर्म्यतो वैधयंतश्चेति ॥ ४४ ॥ 1 २५
مانم
--
५६८
प्रमाणनयतत्त्वालोकालङ्कारः
[परि. ३ सू. ४४
समानो धर्मो यस्यासौ सधमा सधर्मणो भावः साधयं तस्मात्ततः ।
विसहशो धर्मो यस्य स विधा विधर्मणो भावो वैधयं ततः । चः
समुच्चये। साधर्म्यवैधाभ्यामन्वयव्यतिरेकरूपाभ्यां दृष्टान्तस्य द्वैवि-
ध्यमिति भावः ॥ ४४ ॥
तत्राद्यं प्रकारमाह-
यत्र साधनधर्मसत्तायामवश्यं साध्यधमसचा प्रका-
श्यते स साधर्म्यदृष्टान्त इति ॥४५॥
यत्रेत्यभिधेये । साधनधर्मस्य धूमादेः । सत्तायामवश्यं साध्यधर्मस्य
वह्नयादेः सत्ता । प्रकाश्यते वचनेन ख्याप्यते स साधर्म्यदृष्टान्तः ।
१० अवश्यग्रहणं चात्र साध्यसाधनयोाप्यव्यापकभावं सूचयति । व्यापकं
हि साध्यं वयादिकमुच्यते । तस्य साधने धूमादावनायत्तत्वात् ।
धूमाभावेऽप्यङ्गारावस्थायां वह्नेः सद्भावोपलम्भात् । व्याप्यं पुनः साधनं
धूमादिकमभिधीयते । तस्य साध्ये धूमध्वजादावायत्तत्वात् । वह्नि-
सद्भाव एव धूमस्य सद्भावदर्शनात् । तदुक्तम्---" व्यापकं तदतन्निष्ठं
१५ व्याप्यं तन्निष्ठमेव हि ॥" इति । अस्यार्थः-स च व्याप्यसद्भावोऽ-
सश्च व्याप्याभावस्तदतौ तदतयोर्निष्ठाऽवस्थानं सद्भावो यस्य तत्तद-
तन्निष्ठम् । ततश्च यत्तदतन्निष्ठं वह्नयादिकं साध्यभूतं वस्तु तव्यापक-
मिति लक्षणीयम् । तथा तस्मिन्व्यापकसद्भावे निष्ठाऽवस्थान
यस्य तत्तन्निष्ठम् । एवकारोऽवधारणे । ततोऽयमर्थः--यत्तन्निष्ठमेव
२० धूमादिकं साधनभूतं वस्तु तद्व्याप्यमिति मन्तव्यम् । अत्रोदाहरणं
स्वयमभ्यूह्यम् । तथाहि--अमिरत्र धूमस्य तथैवोपपत्तेर्महानसवदिति ।
॥ ४५ ॥
अथ द्वितीयं प्रकारमाह-
यत्र तु साध्याभावे साधानस्यावश्यमभावः प्रदश्यते
स वैधयंदृष्टान्त इति ॥४६॥
परि. ३ स. ४९] । स्याद्वादरत्नाकरसहितः यत्रेत्यभिधये । तुशब्दः साधर्म्यदृष्टान्ताद्वैधर्म्यदृष्टान्तस्य विशेषद्योतकः। साध्याभावे वयादेः साध्यस्यासम्भवे साधनस्य धूमादेरवश्यमभावः प्रदर्श्यते स वैधर्म्यदृष्टान्त इत्युच्यते । अत्र पुनरवश्यंग्रहणेन साध्याभाव- 'साधनाभावयोर्व्याप्यव्यापकभावः सूचितः । तथा हि ! साधनस्य 'धूमादेरभावः साध्यस्य वह्नयादेरमावे भावे च भवतीति तदतन्निष्ठत्वा- ५ यापकः। साध्यस्य तु वहयादेरभावः साधनस्य धूमादेरभाव एव भवतीति तदेकनिष्ठत्वाध्याप्यः। अन्वयव्याप्तिस्वरूपापेक्षया व्यतिरकव्याप्तेर्वि- परीतस्वरूपत्वात् । यदाहुरस्मद्गुरवः श्रीमुनिचन्द्रसूरयः साध्यं व्यापकमित्याहुः साधनं व्याप्यमुच्यते ॥ प्रयोगेऽन्वयवत्येवं व्यतिरेके विपर्ययः ॥ १॥" इति । उदाहरणं पुनरत्रापि स्वयमेव १० तार्किकैस्तर्कणीयम् । अनमिरत्राधूमस्यान्यथानुपपत्तेर्जलाशयच-, दिति ।। ४६ ॥ उपनयं निरूपयन्नाह- हेतोः साध्यधर्मिण्युपसंहरणमुपनय इति ॥४७॥ हेतो—मादेः । साध्यधर्मिणि पर्वतप्रदेशादौ । उपसंहरणं धूमश्चात्रे- त्यादिनोल्लेखेनोपढौकनम् । उपनयः उच्यते । उपनीयते साध्यावि- नामावित्वेन विशिष्टो हेतुः साध्यधर्मिण्युपदृश्यते येन स उपनय इति व्युत्पत्तेः ॥४७॥ निगमनं लक्षयति-- साध्यधर्मस्य पुनर्निगमनमिति ॥४८॥ अत्र साध्यधर्मिण्युपसंहरणमित्यनुवर्तते ततः साध्यधर्मस्य धूमध्व- ज़ादेः साध्यधर्मिण्युपसंहरणम् । पुनर्निगमनं तस्मादग्मिरत्रेत्यादिनो- लेखेन निगम्यन्ते प्रतिज्ञाहेतूदाहरणोपनयाः साध्यलक्षणैकार्थनियततया सम्बध्यन्ते तन्निगमनमिति निरुक्तेः॥४८॥ अथ पक्षवचनादीनां पूर्वाचार्यप्रवर्तितां संज्ञां कथयन्नाह- - -- २० प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ स. ४९ । .. १० एते पक्षप्रयोगादयः पंचाऽप्यवयवसंज्ञया कीर्त्यन्त इति ॥४९॥ अपिशब्दः पक्षादिशुद्धिपञ्चकोपलक्षणपरः । ततो दशाप्येते वचन- विशेषा अवयवसंज्ञया कीर्त्यन्ते । परार्थानुमानवाक्यस्यावयविनो ५ भागरूपत्वादिति । एवं स्वरूपकलिताः प्रतिपाद्यमेत्य दृष्टान्तवाक्प्रभृतयोऽवयवा अपीह ॥ वक्तव्यतामनुसरत्यनुमानकाले सद्वादिनां जिनपतेः समये स्थितानाम् ॥५१३॥४९॥ तदित्थं स्वार्थपरार्थभेदमिन्नमनुमान सप्रपञ्चमभिधायेदानीं तदु- त्पादकं निश्चितान्यथानुपपत्त्येकलक्षणलक्षितं हेतुं प्रकारप्रकाशनद्वारेणं विनेयजनमनीषोन्मीलनार्थं प्रपञ्चयन्नाह-- उक्तलक्षणो हेतुर्द्विप्रकारः, उपलब्ध्यनुपलब्धियां भिद्यमानत्वादिति ॥ ५० ॥ उपलब्धिश्वोपलम्भोऽनुपलब्धिश्चानुपलम्म उपलब्ध्यनुपलब्धी ताभ्यां भिद्यमानत्वाद्विशिष्यमाणत्वाविप्रकारो हेतुरिति ॥ ५१ ॥ सम्प्रति ये मन्यन्ते उपलब्धिर्विधिसाधिकैवानुपलब्धिस्तु प्रतिषेध- साधिकैव "अत्र द्वौ वस्तुसाधनावेकः प्रतिषेधहेतुः" इति वचनात् । तेषामिदमवधारणं विध्वंसयन्नुपलब्धेरनुपलब्धेश्चाविशेषण २० विधिप्रतिषेधसाधकत्वमाह- उपलब्धिर्विधिप्रतिषेधयोः सिद्धिनिबन्धनमनुपल- ब्धिश्चेति ॥५१॥ १ : १ विनया: शिण्याः ।
परि. ३ सू..५५] स्याद्वादरत्नाकरसहितः ५७६० १४ अविनाभावनिबन्धनो हि साध्यसाधनयोर्गम्यगमकभावः । अथा चोपलब्धेर्विधौ साध्येऽविनाभावाद्गमकत्वं तथा प्रतिषेधेऽपि । अनु: पलब्धेरपि यथा प्रतिषेधेऽविनाभावाद्गमकत्वं तथा विधावपि । एत- चाने व्यक्तीभविष्यत्युदाहरणपरम्परायामिति ॥५१॥ अथ को नाम विधिप्रतिषेधौ , यत्सिद्धिनिबन्धनमुपलब्ध्यनुपलब्धी इत्यारेकायां विधिं तावत्प्ररूपयन्नाह- विधिः सदंश इति ॥५२॥ सदसदंशात्मक सर्वस्मिन्वस्तुजाते सदंशो भावांशापरपर्यायो विधिरिति बोद्धव्यः ॥ ५२ ॥ अथ प्रतिषेधलक्षणमाह प्रतिषेधोऽसदंश इति ॥ ५३॥ सदसदंशात्मके एव वस्तुन्यसदंशो भावांशापरनामा प्रतिषेधः' प्रतिपत्तव्यः ।। ५३ अस्यैव प्रकारानाह- स चतुर्धा प्रागभावः प्रध्वंसाभाव इतरेतराभावोऽ- १५ त्यन्ताभावंश्च ॥ ५४॥ स प्रतिषेधश्चतुर्धा । प्राक् पूर्वमभवनं प्रागभावः । प्रध्वंसश्चासाव- भावश्च प्रध्वंसाभावः । इतरस्येतरस्मिन्नभाव इतरेतराभावः । अत्य- न्तमभवनमत्यन्तामावः । चः समुच्चये । विधेस्तु प्रकाराः स्याद्वादैदम्प- यवेदिभिश्चिरन्तनैरपि नैयत्येन न प्रदर्शिता इत्यस्माभिरप्युपेक्षितास्त २० इति ॥५४॥ तत्र प्रागभावमाविर्भावयन्नाह- यनिवृत्तावेव कार्यस्यः समुत्पत्तिः सोऽस्य प्रागभाव इति ॥ ५५॥ - .
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. ५५ .५ घटस्य यन्निवृत्तावेव यस्य प्रध्वंस एव सति कार्यस्य समुत्पत्तिः स पदार्थोऽस्य कार्यस्य सम्बन्धी, प्रागभाव इत्यभिधीयते ॥ ५५ ॥ अत्रोदाहरणमाह-- यथा मृत्पिण्डनिवृत्तावेव समुत्पद्यमानस्य घटस्य मृत्पिण्ड इति ॥५६॥ यथेत्युदाहरणोपक्षेपार्थः । मृत्पिण्डस्य मूहव्यपर्यायविशेषस्य निवृत्तिः प्रध्वंसो मृत्पिण्डनिवृत्तिस्तस्यां सत्यामेव समुत्पद्यमानस्य मृत्पिण्डः प्रागभाव इत्युच्यते । नन्वतिव्याप्तिदोषदुष्टमिदं प्रागभाव- लक्षणम् । तथा हि यस्य निवृत्तौ सत्यां कार्यस्योत्पत्तिः स पदार्थ- १० स्तस्य यदि प्रागभावतयाऽभिप्रेयते तदा क्वचिदन्धकारस्य निवृत्तौ सत्यां रूपज्ञानस्योत्पत्तेरन्धकारस्तस्य प्रागभावः प्राप्नोति इति चेत् । मैवं वादीः । यन्निवृत्तावेवेत्यवधारणस्य सूत्रे करणात् । न खल्वन्धकारनि- वृत्तावेव रूपज्ञानस्योत्पत्तिरिति नियमः समस्ति । केषाश्चिदन्धकारेऽपि रूपज्ञानस्योत्पत्तेः प्रतीयमानत्वात् । ततो नास्य प्रागभावलक्षणस्याति- १५ व्याप्तिदोषदुष्टतेति। अत्राहुर्वैशेषिकाः । यस्य भावस्य निवृत्तौ यत्कार्यस्य समुत्पत्ति- यस्य भावस्य निवृत्तौ यत्का- स्तस्यैव तत्प्रागभावत्वाभिधानमशोभनम् । यस्य समुत्पत्तिस्तस्यैव त- सर्वथा भावविलक्षणत्वेन सर्वस्याभावस्य षट्- प्रागभावत्वाभिधानमसगत- मिति वादिना वैशेषिकाणा पदार्थशेषत्वादिति । न ते यथार्थदर्शिनः । मतमुपदर्य तत्खण्डनम्। सर्वथा भावविलक्षणस्याभावस्य ग्राहकप्रमाणा- भावात् । ननु स्वोत्पत्तेः प्रागासीद्धट इति प्रत्ययोऽसद्विषयः, सत्प्रत्यय- विलक्षणत्वात् । यस्तु सद्विषयः स न सत्प्रत्ययविलक्षणः । तस्माद- सद्विषय इत्यनुमानं प्रागभावस्य ग्राहकमस्तीति चेत् । न । प्रागभावादौ नास्ति प्रध्वंसाभावादिरिति प्रत्ययेन व्यभिचारात् । तस्याप्यस- १ वै. द. भ. ९ मा १ सू. १। - है , परि. ३ सू. ५६ ] स्याद्वादरत्नाकरसहितः ५७३ ५ द्विषयत्वाददोष इति चेत् । मैवम् । अभावानवस्थाप्रसक्तेः । स्यान्मतं भावे भूतलादौ नास्ति कुम्मादिरिति प्रत्ययो मुख्योऽभावविषयः । प्रागभावादौ नास्ति प्रध्वंसादिरिति प्रत्ययस्तूपचरिताभावविषयः । ततो नाभावानवस्थेति । तदप्यपेशलम् । परमार्थतः प्रागभावादीनां साङ्कर्य- प्रसङ्गात् । न घुपचरितेनाभावेन परस्परममावानां भेदः सिद्धयति । सर्वत्र मुख्याभावपरिकल्पनस्य वैयर्थ्यांपत्तेः । यदप्युच्यते न. भावस्व- भावः प्रागभावादिः सर्वदा भावविशेषणत्वादिति । तदपि न सम्यगनु- मानम् । हेतोः पक्षाव्यापकत्वात् । न प्रागभावः प्रध्वंसादावित्यादेर- भावविशेषणस्याप्यमावस्य प्रसिद्धेः । गुणादिना व्यभिचाराच्च । तस्य सर्वदा भावस्य विशेषणत्वेऽपि भावस्वभावत्वात् । रूपं पश्यामीत्यादि- १० व्यवहारे गुणस्य स्वतन्त्रस्यापि प्रतीतेन सर्वदा भावविशेषणत्वमस्येति चेत् । तीमावस्तत्त्वमित्यमावस्यापि स्वातन्त्र्यप्रतीतेः सर्वदा भाववि- शेषणत्वं मासिधत् । सामर्थ्यादभावविशेष्यस्य द्रव्यादेः सम्प्रत्ययात्सदा भावविशेषणमेवाभाव इति चेत् । तथैव गुणादिरपि सततं भावविशेषण- मस्तु । तद्विशेष्यस्य द्रव्यस्य सामागम्यमानत्वात् । अपि च प्रागभावः १५ सादिः सान्तः परिकल्प्यते सादिरनन्तो वाऽनादिरनन्तोऽनादिः सान्तो वेति चत्वारः पक्षाः । प्रथमपक्षे प्रागभावात्पूर्व घटस्योपलब्धिप्रसङ्गः । तद्विरोधिनः प्रागभावस्याभावात् । द्वितीयेऽपि तदुत्पत्तेः पूर्वं घटस्योपल- ब्धिप्रसङ्गस्तत एव, उत्पन्ने तु प्रागभावे सर्वदा घटस्यानुपलब्धिः स्यात् । तस्यानन्तत्वात् । तृतीये तु सदा घटस्यानुपलब्धिप्रसक्तिः स्पष्टैव । २० चतुर्थे पुनर्घटोत्पत्तौ प्रागभावस्याभावे घटोपलब्धिवदशेषकार्योपलब्धिः स्यात् । सर्वकार्याणामुत्पत्स्यमानानां प्रागभावस्यैकत्वात् । ननु यावन्ति कार्याणि तावन्तस्तत्प्रागभावाः । तत्रैकस्य प्रागभावस्य विनाशे- ऽपि शेषोत्पत्स्यमानप्रागभावानामविनाशान्न घटोपलब्धौ सर्वकार्योपल- ब्धिरिति चेत् । तीनन्ताः प्रागभावास्ते किं स्वतन्त्रा भावतंन्त्रा २९ वा । स्वतन्त्राश्चेत्, कथं न मावस्वभावाः । कालादिवत् । भावतन्त्रा- 1 ५७४ प्रमाणनयतत्त्वालोकालङ्कारः परि..३. स्..५६ . श्चेत्, किमुत्पन्नभावतन्त्रा उत्पत्स्यमानभावतन्त्रा वा । न तावदाद्यो विकल्पः । समुत्पन्नभावकाले तत्प्रागभावविनाशात् । न द्वितीय- विकल्पोऽपि श्रेयान् । प्रागभावकाले स्वयमसतामुत्पत्स्यमानभावानां- तदाश्रयत्वायोगात् । अन्यथा प्रध्वंसाभावस्यापि प्रध्वस्तपदार्थाश्रयत्वा- ५ प्रत्तिः । न वाऽनुत्पन्नः प्रध्वस्तो वाऽर्थः कस्यचिदाश्रयो नाम । अति- प्रसङ्गात् । यदि पुनरेक एव प्रागभावः पटादेरिति तथोत्पन्नपदार्थ- विशेषणतया तस्य विनाशेऽप्युत्पत्स्यमानार्थविशेषणत्वेनाविनाशान्नित्य- त्वमपीति मतम् । तदा प्रागभावादिचतुष्टयकल्पनाऽपि माभूत् । सर्व- त्रैकस्याभावस्य विशेषणभेदात्तथा भेदव्यवहारोपपत्तेः । कार्यस्य हिं १० पूर्वेण कालेन विशिष्टोऽर्थः प्रागभावः । परेण विशिष्टः प्रध्वंसाभावः । नानार्थविशिष्टः स इतरेतराभावः । कालत्रयेऽप्यत्यन्तनिःस्वभावभाव- विशेषणोऽत्यन्ताभावः स्यात् । प्रत्ययभेदस्यापि तथोपपत्तेः । सत्तैकत्वेऽपि द्रव्यादिविशेषणभेदात्सत्प्रत्ययभेदवत् । यथैव हि सत्प्रत्ययाविशेषा- द्विशेषलिङ्गाभावादेकत्वं सत्ताया इष्टं भवद्भिस्तथैवासत्प्रत्ययाविशेषा- १५ द्विशेषलिङ्गाभावादसत्ताया अप्येकत्वमस्तु । अथ प्रागासीदित्यादि- प्रत्ययविशेषादसत्ता चतुर्भेदेष्यते । तर्हि प्रागासीत्पश्चाद्भविष्यति सम्प्रत्यस्तीति कालभेदेन, पाटलिपुत्रेऽस्ति चित्रकूटेऽस्तीति देशभेदेन, घटोऽस्ति पटोऽस्तीति द्रव्यभेदेन, रूपमस्ति रसोऽस्तीति गुणभेदेन, प्रसारणमस्ति गमनमस्तीति कर्मभेदेन च, प्रत्ययविशेषसद्भावा; २० प्राक्सत्तादयः सत्तामेदाः किं नेष्यन्ते । अथ प्रत्ययविशेषात्तद्वि- शेषणान्येव भिद्यन्ते तस्य तन्निमित्तकत्वात्, न तु सत्ता । ततः सैकैवेति मतम् । तर्हि तत एवाभावभेदोऽपि माभूत् । सर्वथा विशेषाभावात् । अथाभिधीयते, अभावस्य सर्वथैकत्वे विवक्षितकार्योत्पत्तौ -प्रागभाव: स्याभावे सर्वस्याभावानुषशात्सर्वकार्यमनाद्यनन्तं सर्वात्मकं च स्यात् । २५ तदप्यभिधानमात्रम् । सत्तैकत्वेऽपि समानत्वात् । , विवक्षितकार्य- प्रवसे हि सत्ताया अभावे सर्वत्राभावप्रसङ्गस्तस्याः । तथा, च -- 4 परि. ३ सू. ५६ ] स्याद्वादरत्नाकरसहितः ५७५ सकलशून्यता स्यात् । अथ विवक्षितकार्यप्रध्वंसेऽपि न सत्तायाः प्रध्वंसो नित्यत्वात् । अन्यथाऽर्थान्तरेषु सत्प्रत्ययोत्पत्तिर्न स्यात् । तदन्यत्रापि तुल्यम् । समुत्पन्नैककार्यविशेषणतया एमावस्याभावेऽपि न सर्वथैवाभावः । भावान्तरेष्वभावप्रतीत्यभावप्रसङ्गात् । यथा चा- भावस्य नित्यैकरूपत्वे कार्यस्योत्पत्तिर्न स्यात्तस्य तत्प्रतिबन्धकत्वात् । ०५ तथा सत्ताया नित्यत्वे कार्यप्रध्वंसो न स्यात्तस्यास्तत्प्रतिबन्धकत्वात् । प्रसिद्धं हि प्रध्वंसात्प्राक्प्रध्वंसप्रतिवन्धकत्वं सत्तायाः । अन्यथा सर्वदा प्रध्वंसप्रसङ्गात्कार्यस्य स्थितिरेव न स्यात् । यदि पुनर्बल- वत्प्रध्वसकारणोपनिपाते सति कार्यस्य सत्ता प्रध्वसं न प्रतिबध्नाति । ततः पूर्वं बलवद्विनाशकारणोपनिपाताभावात्तं प्रतिबध्नात्येव । अतो १० न प्रागपि प्रध्वंसप्रसङ्ग इति मतम् । तदितरत्राप्यविशिष्टम् । अभावोऽ. पि हि बलवदुत्पादककारणोपनिपाते सति कार्यस्योत्पादं सन्नपि न प्रतिरुणद्धि । कार्योत्पादात्पूर्वं पुनर्बलवदुत्पादककारणाभावात्तं प्रतिरुणद्धयेव । अतो न प्रागपि कार्योत्पत्तिप्रसङ्गः । येन कार्यस्याः नादित्वातुषङ्गः स्यात् । किं च तुच्छस्वभावत्वे प्रागभावस्य सव्येत- २५ रंगोविषाणादीना सहोत्पत्तिनियमवतामुपादानसङ्करप्रसङ्गः । प्रागभावा- विशेषात् । यत्र यदा यस्य प्रागभावस्तत्र तदा तस्योत्पत्तिरित्यप्यसङ्ग, तम् । तस्यैवानियमात् । स्वोपादानेतरनियमात्तन्नियमेऽप्यन्योन्याश्रयः । तन्न तुच्छस्वभावः कश्चित्प्रागभावो नाम समस्ति ।। अथ भावस्वमावस्याप्यस्य कुतः प्रसिद्धिरिति चेत् । नयप्रमाणा- 26 दिति ब्रूमः । ऋजुसूत्रनयार्पणाद्धि प्रागभाव- स्य सिद्धिर्नयप्रमाणात् । स्तावत्कार्यस्योपादानपरिणाम एव पूर्वोऽनन्त रात्मा । न चैवं तस्यानादित्वविरोधः। प्रांगभा- वतत्प्रागभावादेः प्रागभावसन्तानस्यानादित्वोपगमात् । न चात्र सन्तानिभ्यस्तत्त्वान्यत्वपक्षयोः सन्तानो 'दूषणाहैः । पूर्वपूर्वप्रागभावा- २५ त्मकभावलक्षणानामेवापरामृष्टभेदाना सन्तानत्वाभिप्रायात्. । सन्ता- भावस्वमावस्य प्रागभाव- प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ स. ५६ निक्षणापेक्षया तुप्रागभावस्यानादित्वाभावेऽपि न दोषः। ऋजुसूत्रनयस्य तथेष्टत्वात् । तथा-अस्मिन्पक्षे पूर्वपर्यायाः सर्वेऽप्यनादिसन्ततितया घटस्य प्रागभाव इति वचनेऽपि न प्रागनन्तरपर्यायनिवृत्ताविव तत्पूर्व- पर्यायनिवृत्तावपि घटस्योत्पत्तिप्रसङ्गः । येन तस्यादित्वे पूर्वपर्याय- ५ निवृत्तिसन्ततेरप्यनादित्वदोषापत्तिः । घटात्पूर्वक्षणानामशेषाणामपि तत्प्रागभावरूपाणाममावे घटोत्पत्त्यभ्युपगमात् । प्रागनन्तरक्षणानिवृत्तौ तदन्यतमक्षणनिवृत्ताविव सकलतत्प्रागभावनिवृत्त्यसिद्धेर्घटोत्पत्तिप्रसङ्गा- सम्भवात् । व्यवहारनयार्पणात्तु मृदादिद्रव्यं घटादेः प्रागभावः । न चैवं द्रव्यस्याभावासम्भवात्प्रागभावाभावस्वभावता घटस्य दुर्घटा । १० कार्यरहितस्य पूर्वकालविशिष्टस्य मृदादिद्रव्यस्य घटादिप्रागभावरूपतो- पगमात् । तस्य च कार्योत्पत्तौ विनाशसिद्धेः । कार्यरहिततया विना- शमन्तरेण कार्यसहिततयोत्पत्त्ययोगात् । कार्योत्पत्तेरेवोपादानात्मकप्रा- गभावक्षयस्वभावतया प्रतीयमानत्वात् । तथा प्रमाणार्पणाहव्यपर्यायात्मा प्रागभावः। स च स्यादनादिः स्यात्सादिः । अत्राह कश्चित्-द्रव्यरूपतया १५ तावदनादित्वे प्रागभावस्यानन्तत्वप्रसक्तेः सर्वदा कार्यानुत्पत्तिः स्यात् । पर्यायरूपतया च सादित्वे प्रागमावात्पूर्वमप्युत्पत्तिः पश्चादिव कथं कार्यस्य विनिवार्येतति । नायं वर्यवाग् । अनादेरप्यनन्ततैकान्तत्वा- सम्भवात् । द्रव्यजीवसंसारस्यानादित्वेऽपि सान्तत्वप्रसिद्धेः । अन्यथा कस्यचिन्मुक्त्ययोगात् । नापि सान्तस्य सादित्वैकान्तः । कस्यचि- २० संसारस्य सान्तत्वेऽप्यनादित्वप्रसिद्धेः । पर्यायरूपतया सादित्वं प्राग- भावस्यैकव्यक्त्यपेक्षयैव । व्यक्तिप्रवाहापेक्षया पुनस्तस्य द्रव्यरूपतयेव पर्यायरूपतयाऽप्यनादित्वमेव । तस्मान्न सर्वदा कार्यस्यानुत्पत्तिः पूर्व- मप्युत्पत्तिर्वा प्रसञ्जयितुं युक्ता । ततो भावस्वभाव एव प्रागभावः । स चैकानेकस्वभावो भावान्तरवदेवेति न तदेकत्वानेकत्वैकान्तपक्षभावी २५ दोषोऽवकाशं लभते । न च भावस्वभावे प्रागभावेऽभ्युपगम्यमाने 1 । - १शोमनभाषी।
परि. ३ रु. ५७] स्याद्वादरत्नाकरसहितः प्राग्नासीत्कार्यमिति नास्तित्वप्रत्ययो विरुध्यते । तदभावस्य भावान्तर- रूपत्वात् । तत्र च नास्तित्वप्रत्ययाविरोधात् । तस्मात्पुष्कलमिदं प्रागभावस्य लक्षणं यन्निवृत्तावेव कार्यस्य समुत्पत्तिः सोऽस्य प्रागभाव इति ॥ ५६ ॥ सम्प्रति प्रध्वंसाभावं लक्षयति-- यदुत्पत्तौ कार्यस्यावश्यं विपत्तिः सोऽस्य प्रध्वंसा- भाव इति ॥ ५७॥ यदुत्पत्तौ यस्य जन्मनि । कार्यस्यावश्यं नियमेन विपत्तिर्विघटनम् । स पदार्थोऽस्य कार्यस्य सम्बन्धी प्रध्वंसाभाव इति कीर्त्यते ॥५७॥ उदाहरणमाह- यथा कपालकदम्बकोत्पत्तौ नियमतो विपद्यमानस्य कलशस्य कपालकदम्बकमिति ॥५८ ॥ यथेति पूर्ववत् । कपालकदम्बकोत्पत्तौ कर्परपरम्पराप्रादु- र्भावे सति । नियमतोऽवश्यम्भावेन । विपद्यमानस्य स्य घटस्य । कपालकदम्बकं प्रध्वंसाभाव इति । न चैव- १५ मन्धकारोत्पत्तौ विपद्यमानस्य रूपज्ञानस्यान्धकारः प्रध्वंसाभावः प्राप्नोतीत्यतिव्यापकमिदं लक्षणमिति मन्तव्यम् । सूत्रेऽवश्य ग्रहणात् । न खल्वन्धकारोत्पत्तौ रूपज्ञानस्य नियमतो विपत्तिः सम्भवति । वृष- दंशकादीना समुज्जृम्भमाणेऽपि तमालपटलीश्यामले तमस्तम्बे रूपज्ञान- स्योत्पत्तेः प्रतीयमानत्वात् । ननु चास्तु यथोक्तलक्षणलक्षितः प्रध्वंसा- २०. भावस्तथापि कुतोऽस्य प्रसिद्धिरिति चेत् । नयप्रमाणादिति ब्रूमः । तत्र सूत्रनयार्पणातावदुपादेयक्षणा एवोपादानस्य प्रध्वंसः । न चैवं तदुत्तरक्षणेषु प्रध्वंसस्याभावात्पुनरुज्जीवनं घटादेः प्रसज्यते । कार- णस्य कार्योपमर्दनात्मकत्वाभावात् । उपादानोपमर्दनस्यैव कार्योत्पत्त्या- कलश- .. ܕܝ १८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. ५८ त्मकत्वात् । प्रांगभावप्रध्वंसयोरुपादानोपादेयरूपतोपगमात् । प्राग- भावोपमईतेन प्रध्वंसस्यात्मलाभात् । कथमभावयोरुपादानोपादेयभाव इति चेत् । भावयोः कथम् । यद्भाव एव यस्यात्मलाभस्तत्तस्योपादान- मितरदुपादेयमिति चेत् । तर्हि प्रागभावे कारणात्मनि पूर्वक्षणवर्तिनि ५ सति प्रध्वंसस्य कार्यात्मनः स्वरूपलाभोपपत्तेस्तयोरप्युपादानोपादेयभा- वोऽस्तु तुच्छयोरेवाभावयोरुपादानोपादेयभावविरोधात् । तथाव्यवहार- नयादेशान्मृदादिस्वद्रव्यं घटोत्तरकालवर्ति घटप्रध्वंसः । स चानन्तः समवतिष्ठते । तेन घटात्पूर्वकालवर्ति घटाकारविशिष्टं च वर्त- मानं मृदादिद्रव्यं घटप्रध्वंसो न भवति । घटोत्तरकालवर्तीति विशे- १० षणात् । नन्वेवं घटोत्तरकालवर्ति सन्तानान्तरमृदादिद्रव्यमपि विव. क्षितघटस्य प्रध्वंसः स्यादिति चेत् । न स्वग्रहणात् । प्रमाणार्पणा- द्रव्यपर्यायात्मा प्रध्वंसः । तथा हि कपालपालिलक्षणपर्यायपरिकलितं मृद्दव्यं घटपर्यायाविष्टमृद्दव्यस्य प्रध्वंस इति प्रामाणिकी प्रतीतिः सर्वै- रप्यनुमूयमाना नापहोतुं शक्यते । तदित्थं नयार्पणात्प्रमाणार्पणाच्च १५ भावस्वभाव एव प्रध्वंसाभावोऽपि प्रसिद्धिसौधमधितिष्ठति । तुच्छस्व- भावत्वे तु प्रध्वंसस्य मुद्गरादिव्यापारवैयर्थं स्यात् । मुद्रादिव्यापारेण ह्येवंविधस्वभावोऽसौ कुम्भादेभिन्नः क्रियेताभिन्नो वा । तत्राधविकल्पो कुम्भादेस्तदवस्थत्वप्रसङ्गाद्विनष्ट इति प्रत्ययस्तत्र न स्यात् । विनाश- सम्बन्धाद्विनष्ट इति प्रत्ययोत्पत्तौ तु विनाशतद्वतोः सम्बन्धः कश्चिद- २० मिधानीयः । स ह्यविष्वग्भावः कार्यकारणभावः संयोगः समवायो विशेषणविशेष्यभावो वा तयोर्भवेत् । न तावदविष्वग्भावः । विनाश- तद्वतोर्भेदाङ्गीकारात् । नापि कार्यकारणाभावः कुम्भादेर्विनाशं प्रत्य- कारणत्वात् । मुद्रादिनिमित्तकत्वाद्विनाशस्य । कुम्भादिमुद्रादिलक्ष- णोमयनिमित्तकत्वादस्यायमदोष इति चेत् । तदप्ययुक्तम् । मुद्गरादि- २५ रिव विनाशोत्तरकालं कुम्भादेरप्युपलम्भप्रसकेः । कुम्भादेः स्वविनाशं प्रत्युपादानकारणत्वान्न तत्काले उपलम्भप्रसक्तिरित्यशोभनम् परि. ३. सू. ५८]. स्याद्वादरत्नाकरसहितः ५७९ - अभावस्य भावान्तरस्वभावताप्रसङ्गात् । तं प्रत्येवास्योपादानकारणत्व- प्रसिद्धेः । संयोगसमवायावप्यत्र न सम्भवतः । तयो वैकनिष्ठत्वेना- भ्युपगमात् । विशेषणविशेष्यभावः सम्बन्ध इत्यायसम्बद्धस् । सम्बन्धा- न्तरेण सम्बद्धयोरेव दण्डपुरुषादिवत्सम्भवात् । न च विनाशतद्वतोः सम्बन्धान्तरेण सम्बद्धत्वमस्तीत्यधुनैवाभिहितम् । अथ भावेष्वेवायं .५ नियमो यत्सम्बन्धान्तरवशादेव विशेषणविशेष्प्रभाव इति । नैतन्त्र्या- य्यम् । एवंविधाचधारणनिबन्धनप्रमाणानुपदर्शनात्.। तन्न मुद्रादि- व्यापारेण कुम्भादेर्भिन्नो विनाशः क्रियते । अभिन्नविनाशकरणे पुनः कुम्भादिरेव. मुद्रादिव्यापारेण क्रियत इति प्राप्तम् । तच्चानुपपन्नम् । तस्य स्वसामग्रीतः प्रागेवोत्पन्नत्वात् । यच्च कपालपालेः सकाशा- १० द्विनाशस्यार्थान्तरत्वं विभिन्न कारणप्रभवतया कथ्यते । तथा हि घटवि- नाशो बलवत्पुरुषप्रेरितमुद्राद्यभिघातादवयवक्रियोत्पत्तेरवयवविभागतोऽ- वयवसयोगविनाशादेवोत्पद्यते । कपालपालिस्तु स्वारम्भकावयवादिभ्य एव प्रादुर्भवतीति । तदपि प्रमाणपराड्मुखम् . । विनाशोत्पादकारणप्रक्रियोद्धोषणस्यात्यन्तप्रातीतिकत्वात् । केवल- १५ मन्यप्रतारितेन त्वया परः प्रतार्यते । तस्मादन्धपरम्पराप्रवाद- परित्यागेन बलवत्पुरुषप्रेरितमुद्गरादिव्यापारात्कुम्भकारविकलकपालाका- रमृद्दन्यस्मैवोत्पत्तिः स्वीकर्तव्या । अल प्रतीत्यपलापेन । एवं च न सर्वथा भावविलक्षणः कश्चित्प्रध्वंसः । नापि सर्वथा प्रध्वंसस्याभाव इति सिद्धं भवति । ततश्च यदुक्तं , ज्ञानश्रीमित्रेण-" . दृष्टस्तावदयं घटोऽत्र च पतन्दृष्टस्तथा मुद्गरो। दृष्टा कर्परसंहतिः दृष्टस्तावदित्यादिज्ञानश्री- मित्रकारिकाया विचारः। परमतो न शो न दृष्टोऽपरः ॥ तेनाभाव इति श्रतिः क निहिता किं वाऽत्र तत्कारणं स्वाधीना परिघस्य केवलमियं दृष्टा कपालावलिः ॥१॥” इति २५ १ ' तत् स्पष्ट ' इति प. म. पुस्तकयोः पाठः । अस्य २० .
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. ५० स्वकीयवृत्तं व्याख्यानयता सुनिपुणं निरूपयन्तोऽपि मांसचक्षुषो वयं तावन्नापरमत्र वस्तुजातमीक्षामहे यदभावश्रुत्या विषयीक्रियेत । तदर्शनाभावाच्च तत्कारणमपि किमवधारयामः । यश्च तत्कारणं कल्पितो दण्डस्तस्याप्यन्वयव्यतिरेकानुविधायिनी कपालपंक्तिरेव दृष्टा ५ नान्यत्किञ्चित् । वैधर्म्यदृष्टान्ततयेयमुपन्यस्ता पुनः । यथेयमध्यक्षा- नुपलम्माभ्यामन्वयव्यतिरेकावनुविदधती दृश्यतया दण्डस्य कार्यम- वस्थाप्यते तथा यदि नाशाख्यमपि वस्तु दृश्यं स्यादनात्मरूपविवेकेन तस्यापि तदा न तरस्विदण्डकार्यता वार्येत । न चैवम् । तस्मात्क- ल्पनैवेयमिति । तत्र यद्येकान्ततुच्छस्वभावध्वंसनिरसनम् । तदा तेना- स्माकं सहायकमेवाचरितम् । अथ सर्वथा प्रध्वंसनिरसनायासस्तस्य स न साधीयान् । परिघादिव्यापारप्रसूतायाः कपालावलेरेव घटप्र- ध्वंसात्मकतया निर्विघ्नं प्रत्यक्षे प्रतीयमानत्वात् । ततः सुव्यवस्थित- मिदं लक्षणं यदुत्पत्तौ कार्यस्यावश्यं विपत्तिः सोऽस्य प्रध्वंसाभाव इति ॥ ५८॥ अथेतरेतराभावलक्षणमाह १५ स्वरूपान्तरात्स्वरूपव्यावृत्तिरितरेतराभाव इति ॥ ५९॥ स्वरूपान्तरात्स्वभावान्तरात्स्वरूपच्यावृत्तिः स्वस्वभावव्यवच्छेद इतरेतराभावोऽन्यापोहापरनामक उच्यते । स्वरूपान्तरादिति वचनान्न' २० स्वस्वरूपाद्वयावृत्तिरितरेतरामावः । तस्यातत्स्वभावत्वप्रसङ्गात् । ननु तथापि कार्यद्रव्यात्पूर्वोत्तरपरिणामयोः प्रागभावप्रध्वंसाभावनानोरेवेतरे- तराभावताऽस्तु । स्वरूपान्तरात्स्वरूपव्यावृत्तेस्तयोः सद्भावात् । न पुनस्तदतिरिक्तः कश्चिदितरेतराभावोऽस्तीति चेत् । नैवम् । तयो- रितरेतराभावलक्षणतो विभिन्नलक्षणाक्रान्तत्वात् । यदभावे हि निय- २५ मतः कार्यस्योत्पत्तिः स प्रागभावः । यद्भावे च कार्यस्य नियता - •• परि. ३ सु. ६०] स्याद्वादरत्नाकरसहितः ५८१ विपत्तिः स प्रध्वंसः । न चेतरेतराभावस्याभावे भावे च कार्यस्योत्पत्ति- विपत्तिर्वा । जलस्याभावेऽप्यनलस्यानुत्पत्तेः । कचिजलमावेऽपि चानलस्याविपत्तेः । ततः प्रागभावप्रध्वंसाभावयोर्विभिन्नलक्षणोपेतत्वा- न्नेतरेतराभावत्वं वक्तुं युक्तम् । नाप्यत्यन्ताभावस्य । तस्यापि काल- त्रितयापेक्षस्यैवेतरेतरामावाद्विभिन्नलक्षणत्वेन वक्ष्यमाणत्वात् ।।५९ ।। उदाहरणमाह- यथा स्तम्भस्वभावात्कुम्भस्वभावव्यावृत्तिरिति ॥६॥ स्पष्टमदः । ननु येयं स्वरूपान्तरात्स्वरूपव्यावृत्तिरितरेतराभावत्वेन भवद्भिर- १० भिधीयते सा भावेभ्यः किं भिन्ना भवेदभिन्ना भावेभ्यः सर्वथा पृथग्भूतःवेति । कथञ्चिदविप्वग्भूतेति ब्रूमः । परपरि- स्यतरेतराभावस्य कल्पितायाः पदार्थेभ्यः सर्वथा विष्वग्भूताया व्यावृत्तेरवस्तुरूपायाः स्वप्नेऽप्यप्रतीयमानत्वात् । तथा हि स्वकारण- कलापात्स्वस्वभावव्यवस्थितत्वेन व्यावृत्तमूर्तयो भावाः समुत्पन्ना नात्मानं परेण मिश्रयन्ति । तस्यापरत्वप्रसङ्गात् । न चान्यस्मादव्या- वृत्तस्वरूपाणां भावानामभावाशो भिन्नः सम्भवति । भावे वा तस्यापि पररूपत्वात् , भावैस्ततोऽपि व्यावर्तितव्यमित्यपराभावपरिकल्पनयाऽन- वस्थातो न कुतश्चिद्भावैर्ध्यावर्तितव्यमित्येकस्वभावं विश्वं भवेत् । पर- भावाभावाच्च व्यावर्त्तमानस्यार्थस्य पररूपताप्रसङ्गः । यदि चेतरेतरामा- ववशाद्धटः पटादिभ्यो व्यावर्तते तीतरेतराभावो भावादभावान्तराच्च प्रागभावादेः किं स्वतो व्यावर्तेताऽन्यतो वा । स्वतश्चेत्, तथैव घटोऽप्य- न्येभ्यः किं न व्यावर्तितः। अन्यतश्चेत्, किमसाधारणधर्मादितरेतराभा- वान्तराद्वा । असाधारणधर्मादित्यभ्युपगमे स एव घटादिप्वपि युक्तः । इतरेतराभावान्तराञ्चेत्, तर्हि बहुत्वमितरेतराभावस्यानवस्थाकारि स्यात्। २५ खण्डनम् । १५ . २० ५८२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. ६० किं चेतरेतराभावोऽप्यसाधारणधर्मेण व्यावृत्तस्याव्यावृत्तस्य वा भेदको भवेत् । यद्यव्यावृत्तस्य, किं नैकव्यक्तेर्भेदकोऽसौ । अथ व्यावृत्तस्य, तर्हि घटादिष्वपि स एवास्तु पटादिभ्यो भेदकः । किमितरेतराभाव- कल्पनया । अपि चानेन घटे पटः प्रतिषिध्यते पटत्वसामान्यमुभयं ५ वा । प्रथमपक्षे किं पटविशिष्टे घटे पटः प्रतिषिध्यते पटविविक्ते वा । न तावदाद्यः पक्षः । प्रत्यक्षविरोधात् । नापि द्वितीयः । तथा हि किमितरेतराभावादन्या घटस्य पटविविक्तता स एव वा विविक्तता- शब्दाभिधेयः । भेदे तयैव घटे पटाभावव्यवहारसिद्धेः किमितरेतरा- भावेन । अथ स एव तच्छब्दाभिधेयः । तर्हि यस्मादभावात्पटविविक्ते १० घटे पटाभावव्यवहारः सोऽन्यो विविक्तताशब्दाभिधेयश्चान्य इत्ये- कस्मिन्वस्तुनीतरेतराभावद्वयप्रसङ्गः । तन्न घटे पटप्रतिषेधो युक्तः । नापि पटत्वसामान्यप्रतिषेधः । तस्याऽप्येकत्वसम्बन्धाभावादेव प्रतिषेधा- नुपपत्तेः । नाप्युभयप्रतिषेधः । प्रागुक्ताशेषदोषानुषङ्गात् । अपि चेत- रेतराभावप्रतिपत्तिपूर्विका घटप्रतिपत्तिः, घटप्रतिपत्तिपूर्विका वेतरेतरा- १५ भावप्रतिपत्तिः । आद्यपक्षेऽन्योन्याश्रयत्वम् । तथा हीतरेतराभावो घट- सम्बन्धित्वेनोपलभ्यमानो घटस्य विशेषणं न पदार्थान्तरसम्बन्धित्वेन । अन्यथा सर्व सर्वस्य विशेषणं स्यात् । घटसम्बन्धित्वप्रतिपत्तिश्च घटग्रहणे सत्युपपद्यते । सोऽपि व्यावृत्त एव पटादिभ्यः प्रतिपत्तव्यः । ततो यावत्पूर्व घटसम्बन्धित्वेन व्यावृत्तेरुपलम्भो न स्यान्न २० तावद्ध्यावृत्तिविशिष्टतया घटः प्रत्येतुं शक्यो यावच्च न पटादि- व्यावृत्तत्वेन प्रतिपन्नो न तावत्स्वसम्वन्धित्वेन व्यावृत्तिं विशेषयतीति । द्वितीयपक्षे त्वभावो विशेष्यो घटो विशेषणं तद्रहणं च पूर्वमन्वेषणी- यम् ।"नागृहीतविशेषणा विशेष्ये बुद्धिः" इत्याभिधानात् । तत्रापि घटो गृह्यमाणः पटादिभ्यो व्यावृत्तो गृह्येताव्यावृत्तो वा । १५ तावत्पटादिभ्योऽव्यावृत्तस्य घटस्य घटरूपता घटते । पटादेरपि तथैव घटादिरूपताप्रसङ्गादभावकल्पनावैयर्थ्यम् । तथा न अन्यथा 'परि. ३ सू. ६२] स्याद्वादरत्नाकरसहितः ५८३ तेभ्यो व्यावृत्तस्य घटरूपताप्रतिपत्तिः प्रार्थ्यते तत्रापि किं कति- पयपटादिव्यक्तिभ्योऽसौ व्यावर्त्तते सकलपटादिव्यक्तिभ्यो वा । प्रथम- पक्षे कुतश्चिदेवासौ व्यावर्तते सकलपटादिव्यक्तिभ्यः । निखिलपटादि- व्यक्तिभ्योऽस्य व्यावृत्तिः पुनरसिद्धा । तासामानन्त्येन ग्रहणा- सम्भवात् । इतरेतराश्रयत्वं च । तथा हि यावत्पटादिभ्यो व्यावृत्तस्य ५ 'घटस्य घटरूपता न स्यान्न तावद्धटात्पटादयो व्यावर्तन्ते यावच्च घटायावृत्तानां पटादीना पटादिरूपता न स्यान्न तावत्पटा- दिभ्यो घटो व्यावर्त्तत इति । अस्तु वा यथा कथञ्चित्पटादिभ्यो घटस्य व्यावृत्तिर्घटान्तरात्तु कथमसौ व्यावर्त्तत इति सम्प्रधारणीय विचक्षणैः । किं घटरूपतयाऽन्यथा वा । यदि घटरूपतया, तर्हि सकलघटव्यक्तिभ्यो व्यावर्त्तमानो घटो घटरूपतामादाय व्यावर्त्तत इत्यायातमघटत्वमन्यासा घटव्यक्तीनाम् । अथाघटरूपतया, तत्किम- घटरूपता पटादिवद्धटेऽप्यस्ति । तथा चेत्, तर्हि यो व्यावर्त्तते घटान्तरादघटत्वेन घटस्तस्याघटत्वं स्यात् । तच्च विप्रतिषिद्धम् । यद्यघटो घटः कथं, घटश्चेत्तघटः कथमिति । तदित्थमर्थेभ्यः सर्वथा १५ पृथग्भूतस्य परकथितस्यावस्तुरूपस्येतरेतराभावस्य विचार्यमाणस्यानुपप- तेरुपपन्नमिदमितरेतराभावलक्षणं स्वरूपान्तरात्स्वरूपव्यावृत्तिरितरेतरा- भाव इति ॥६०॥ अथात्यन्ताभावलक्षणमाह- कालत्रयापेक्षणी हि तादात्म्यपरिणामनिवृत्तिर- २० त्यन्ताभाव इति ॥ ६१ ॥ अतीतानागतवर्त्तमानलक्षणं कालत्रयमपेक्षत इत्येवं शीला काल- त्रयापेक्षणी । तादात्म्यपरिणामनिवृत्तिरेकत्वपरिणतिव्यावृत्तिरत्य- न्ताभाव इत्यभिधीयते ॥ ६१ ॥ उदाहरणमाह-- प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. ६२ यथा चेतनाचेतनयोरिति ॥ ६२ ॥ न खलु चेतनमात्मतत्त्वमचेतनं पुद्गलाद्यात्मकतामगमद्भविष्यति गच्छति वा । चेतनत्वविरोधात् । नाप्यचेतनं पुद्गलादितत्त्वं चेतनजी- वस्वरूपतायामयासीद्यास्यति याति वा । अचेतनत्वविरोधात् । तदित्थं चेतनाचेतनयोः कालत्रयापेक्षिण्यास्तादात्म्यपरिणामनिवृत्तेः सम्भवात्सि- द्धोऽत्यन्ताभाव इति । नन्वेवमतिव्याप्तिरत्यन्ताभावलक्षणे दुष्परिहारा । घटपटयोरपि तादात्म्यपरिणामनिवृत्तिरूपयोरत्यन्ताभावत्वप्रसक्तेः । न खलु घटः पटात्मकतां कदाचिदास्कन्दति घटत्वविरोधात् । नापि पटो घटात्मकतां स्वीकुरुते पटत्वविरोधादिति चेत् । तदेतत्तरलमतिवि- १० लसितम् । कालत्रयापेक्षणीति विशेषणस्य तादात्म्यपरिणामनिवृत्तेः सूत्रे करणात् । घटपटयोश्च यद्यपीतरेतराभावमाहात्म्यात्तादात्म्यपरि- णामनिवृत्तिरस्ति तथापि न सा सर्वकालम् । कदाचित्पटस्यापि घटत्वपरिणामसम्भवात् । तथापरिणामकारणसाकल्ये तदविरोधात् । पुद्गलपरिणामानियमदर्शनात् । न चैवं चेतनाचेतनयोः कदाचित्तादा- १५ त्म्यपरिणामः, तत्त्वविरोधात् । तदेवमतिव्याप्तेरसम्भवात्सूक्तमिदं लक्षणं कालत्रयापेक्षणी तादात्म्यपरिणामनिवृत्तिरत्यन्ताभाव इति ॥ तदमुना प्रबन्धेन प्रागभावप्रध्वंसाभावेतरेतराभावात्यन्ताभावाना प्रमाणतः प्रसिद्धस्वरूपत्वाद्यदेतच्चार्वाकेणोद्यते- नापिनचार्वाकस्य का- न चैकोऽप्यभावः क्षित्यादिविवर्त्तघटादि- पिलसांख्यानां च व्यतिरेकेण प्रत्यक्षतः प्रतिभासते, केवलं गतानुगतिकतया लोकः पृथिव्यादिभूतचतुष्ट- यविषयमेव प्रागभावादिविकल्पमात्रवशात्प्रागभावादिव्यवहारं प्रव- तयति" इति तदपहस्तित भवति । प्रागभावापलापे हि कार्यद्रव्य घटादिकमनादि स्यात् । प्रध्वंसाभावनिहवे तदनन्तं भवेत् । न चाना- २५ धनन्तं घटादिकं कार्यद्रव्य प्रागभावाद्यपह्नववादिनाऽभ्युपगन्तुं शक्यते १. उच्यते' इति भ. पुस्तके पाठः । प्रागभावाद्यभावचतुष्टयाप- २० खण्डनम्।
परि ३ सू. ६४ ] स्याद्वादरत्नाकरसहितः स्वमतविरोधात् । लोकायविकत्वहानिप्रसङ्गात् । तस्य व्यवहारदुर्णय- मतावलम्बित्वेन लोकव्यवहाराह कियत्कालस्थायिघटादिपदार्थकदम्बक- वादित्वात् । इतरेतराभावतिरस्कारे तु नास्तिकस्याभिमतं पृथिव्यादि- तत्त्वं सर्वात्मकं सम्पद्येत । अनभिमतात्मनाऽपि भावात् । ततश्च पृथि- व्यादीनां परस्परस्वरूपसाङ्कर्यापत्त्या भूतचतुष्टयव्यवस्थापनं दुरुपपादं ५ तस्य स्यात् । अत्यन्ताभावव्यतिक्रमे पुनः परामिमतचैतन्यतत्त्वात्म- नाऽपि पृथिव्यादितत्त्वस्य कदाचित्सद्भावः स्यादिति महदनिष्ट चार्वा- कस्यापद्यतेति । कपिलभतानुसारिणामपि प्रागभावानभ्युपगमे ताव- कुम्भादेरनादित्वप्रसङ्गात्कुलालादिव्यापारानर्थक्यं स्यात् । न हि तद्व्यापारमन्तरेण जातुचित्कुम्भादिकमुपलभ्यते । न च कुम्भाद्यमि- १० व्यक्त्यर्थः कुम्भकारा दिव्यापार इति वाच्यम् । अभिव्यक्तेरपि प्रागभा- बाभावे तद्व्यापारानर्थक्यस्य तादवस्थ्यात् । प्रतिक्षेप्स्यतेऽत्राभिव्यक्तिरने प्रबन्धेनेति कृतं विस्तरेण । एवं प्रध्वंसाभावाद्यनभ्युपगमे साह्यानां कार्यद्रव्यानन्तत्वापत्त्यादिकं प्राचीनमेव दूषणमुद्धोषणीयम् । एवं च- १५ उपलब्ध्यादिको हेतुर्गोचरीकुरुतेऽत्र यम् । प्रतिषेधश्चतुर्धाऽसौ प्रसिद्धिपदमाययौ ॥ ५१४ ॥ ६२॥ अथोपलब्धेः प्रकारप्रकाशनायाह- उपलब्धेरपि द्वैविध्यमविरुद्धोपलब्धिविरुद्धोपलब्धि- वेति ॥ ६३॥ अविरुद्धोपलब्धिः साध्येनाविरुद्धस्योपलम्भः । विरुद्धोपलब्धिः साध्येन विरुद्धस्योपलम्भ इति ॥ ६३॥ अविरुद्धोपलब्धेर्विधौ साध्ये मेदानाह-- तत्राविरुद्धोपलब्धिर्विधेः सिद्धौ षोढेति ॥६४ ॥ २०
५८६
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. ३ सू. ६४
,
तत्रेति निर्धारणे । तयोविरुद्धाविरुद्धोपलब्ध्योर्मध्ये येयमविरुद्धोप-
लब्धिः सा विधिसिद्धौ विधिज्ञप्तौ षोढा षट्प्रकारा भवति ॥ ६४ ॥
प्रकारानेवाह-
साध्येनाविरुद्धानां व्याप्यकार्यकारणपूर्वचरोत्तरचर-
सहचराणामुपलब्धिरितीति ॥६५॥
साध्येन परिणतिमत्त्वादिना वक्ष्यमाणेन साध्यधर्मेण सहाविरुद्धानां
विरोधमनागतानाम् । व्याप्यं च कार्यं च कारणं च पूर्वचरं चोत्तरचरं
च सहचरं च व्याप्यकार्यकारणपूर्वचरोत्तरचरसहचराणि प्रयत्नान-
न्तरीयकत्वादीनि वक्ष्यमाणानि लिङ्गभूतानि वस्तूनि तेषामुपलब्धिः ।
१० इतिशब्दः प्रकारपरिसमाप्त्यर्थः । ततश्च व्याप्याविरुद्धोपलब्धिः,
कार्याविरुद्धोपलब्धिः, कारणाविरुद्धोपलब्धिः, पूर्वचराविरुद्धोपलब्धिः,
उत्तरचराविरुद्धोपलब्धिः, सहचराविरुद्धोपलब्धिश्चेत्यविरुद्धोपलब्धि-
विधिसिद्धौ षट्प्रकारा विज्ञेया । अत्राह ताथागतः-ननु कारणस्य
कार्याविनामावाभावान्न साधनत्वं " नाऽवश्यं कारणानि कार्यवन्ति
१५ भवन्ति" इति वचनात् । तथा हि न कारणमात्रस्य हेतुत्वं युक्तम् ।
विनाशप्रतिबन्धादिना तस्य व्यभिचारात् । कारणविशेषश्च न कश्चि-
द्विपश्चिताऽपि निश्चेतुं शक्यः । अकाण्डाडम्बरं प्रचण्डानामपि तडि-
त्वतामकृत्वैव वर्षमुपरमोपलम्भात् । यदि पुनरन्त्यदशावर्ति कारण
लिङ्गत्वेनाङ्गीक्रियते तदा व्याप्तिस्मरणावसर एव कार्य प्रत्यक्ष
२० भवेदिति व्यर्थमनुमानं तत्र स्यात् । ननु सौगतैरपि कारणा-
कार्यानुमानमभ्युपगतमेव " हेतुना यः समग्रेण कार्योत्पादोऽ-
नुमीयते” इति वदद्धिरिति चेत् । तत्र उत्पद्यतेऽस्मादित्युत्पादो
हि योग्यताऽभिधीयते सा चात्रानुमेया । अत एव तस्या वस्तुनः
सकाशादनन्यत्वात्स्वभावानुमानमिदमिष्यते " अर्थान्तरानपेक्षत्वात्स
२५ स्वभावोऽनुवर्णितः" इति वचनादिति ॥ ६५ ॥
परि. ३ सू. ६६] स्याद्वादरत्नाकरसहितः तदिदमखिलमपर्यालोचिताभिधानं सौगतस्येत्युपदर्शयन्नाह तमस्विन्यामास्वाधमानादाम्रादिकलरसादेकसा- मग्र्यानुमित्या रूपाद्यनुमितिमभिमन्यमानैरभिमत- मेव किमपि कारणं हेतुतया यत्र शक्तेरप्रतिस्खल- नमपरकारणसाकल्यं चेति ॥६६॥ ५ शक्तेरप्रतिस्खलनमिति कार्यजननसामर्थ्यस्याप्रतिबन्धः । अपरका- रणसाकल्यमिति विवक्षितकारणादितरसहकारिभूतहेतुकदम्बकसाम- स्त्यम् । अयमत्राशयः--आस्वाद्यमानात्सहकारादिफलरसात्कार्य- लिङ्गात्तज्जनिका सामग्र्यनुमीयते । ततस्तस्याः कारणलिङ्गरूपायाः सकाशाद्रूपलक्षणस्य कार्यस्यानुमानमुपजायते । प्राक्तनो हि रूपलक्षणः १० सजातीयं रूपलक्षणान्तरलक्षणं कार्य करोतीत्येव रूपानुमानमिच्छ- द्विरिष्टमेव किंचित्कारणं लिङ्गतया । प्राक्तनस्य रूपलक्षणस्य सजा- तीयरूपलक्षणान्तराव्यभिचारात् । अन्यथा रससमानकालभाविनो रूपस्य प्रतिपत्त्यनुपपत्तेः । न ह्यनुकूलमात्रमन्त्यक्षणप्राप्तं वा कारणं लिगमस्माभिरिष्यते । येन मणिमन्त्रादिना सामर्थ्यप्रतिबन्धात्कारणा- १५ न्तरवैकल्येन वा कार्यव्यभिचारित्वं द्वितीयक्षणे कार्यप्रत्यक्षीकरणेना- नुमानानर्थक्यं वा भवेत् । वर्षादिकार्याविनाभावितया निश्चितस्य विशिष्टोन्नत्यादिशालिनो मेघादेव लिङ्गत्वेनाङ्गीकरणात् । यत्र हि सामर्थ्याप्रतिबन्धः कारणान्तरावैकल्यं च निश्चीयते तस्यैव लिङ्गत्वं नान्यस्य । अन्यथा तृप्त्याद्यर्थ भोजनादावप्यप्रवृत्तेः सकलव्यव- २० हारोच्छेदः स्यात् । ततः कार्यवत्कारणमपि व्याप्तिसद्भावाद्धेतुरेव । तदुक्तम्- " समर्थ कारणं तेन नान्त्यक्षणगतं मतम् ॥ कार्यवत्कारणमपि हेतुरेवेति पक्षस्य सवादः । तदोघे येन वैयर्थ्यमनुमानस्य गद्यते ॥१॥ न वाऽनुकूलतामात्रं कारणस्य विशिष्टता ।। २५ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३सू. ६२ येनाऽत्य प्रतिबन्धादिसम्भवाद्यभिचारिता ॥२॥ वैकल्यप्रति- बन्धाभ्यामनासाद्यस्वभावता विशिष्टतात्र विज्ञातुं शक्या छायादिभेदतः ॥ ३ ॥ तद्विलोपेऽखिलख्यातव्यवहार- विलोपनम् ॥ तृप्त्यादिकार्यसिध्द्यर्थमाहारादिष्ववृत्तितः ॥ ४ ॥ ५ तत्परीक्षकलोकानां प्रसिद्धमनुमन्यताम् ॥ कारणं कार्यवद्धेतुर- विनाभावसङ्गतम् ॥ ५॥" छायादिभेदत इति विशिष्टस्निग्धत्वश्या- मलत्वादिधर्मकलापभेदतस्तहिलोपे । यत्तु पातनायामुक्तं कारण- विशेषश्च न कश्चिद्विपश्चिताऽपि निश्चेतुं शक्य इति तदयुक्तम् । सुनिपुणेन प्रमात्रा कारणविशेषस्यावधारयितुं शक्यत्वात् । यथा खलु १० कार्यगतं विशेषमण्यासादवधार्य कार्यात्कारणमनुमिन्वते निपुणास्तथा कारणगतं ते एवाऽवसायकारणात्कार्यमपि । तदाह-"कारणानुपलम्भेऽ- पि यथा कार्ये विशिष्टता ॥ बोध्याऽभ्यासात्तथा कार्यानुपलम्भोऽपि कारणे ।। १॥ प्रमातुस्त्वपराधोऽयं विशेष यो न पश्यति ॥ न कारणस्य दोषोऽस्ति स्वकार्याव्यभिचारिणः ॥२॥ अनम्युपगमे १५ चैवमनुमानस्य जीवितम् ॥ न स्यामविशेषाणामपि बोद्धुम- शक्तितः ॥३॥" एवं चाकाण्डाडम्बरेत्याद्यपि परस्य प्रलापमात्रम्। विशिष्टोन्नत्यादिधर्मकलापोपेतपयोदानामदूरकालभाविवृष्टिलक्षणकार्या- व्यभिचारोपलम्भात् । तथा हि- गर्जन्तस्तारतारं तरलतरतडित्ताण्डवाडम्बरेण प्रोचण्डाः सान्द्रसद्यःप्रविकसदसतीश्यामलिग्नाऽनुलिप्ताः ॥ चञ्चन्माहेन्द्रचापाश्चलदचलचयाकारशङ्का दिशन्तः प्रभ्रश्यन्तीह नैव वचन जलमुचो वृष्टिसृष्टिं विनाऽपि ॥५१५॥ प्रयोगश्चात्र---अनन्तरोत्पादवृष्टयोऽमी जीमूताः सातिशयोन्नत्यादि- २५ धर्मयोगित्वात्पूर्वोपलब्धैवंविधजलधरवदिति । येषां पुनरम्भोमुचां प्रौढ- १'तत एव' इति प. पुस्तके पाठः । २० .
परि. ३ सू. ६७ ] स्याद्वादरत्नाकरसहितः ५८९ न १० प्रभञ्जनादिना विध्वस्तत्वेन भाविवर्षलक्षणकार्य प्रति व्यभिचारित्वं, तेषा गमकत्वं वयमपि ब्रूमः । न चैकत्र व्यभिचारोपलम्भे सर्वत्र व्यभिचारः प्रेरयितुं परीक्षकाणामुचितः । सकलानुमानप्रलयप्रसङ्गात् । गोपालघुटिकाघटितधूमस्य धूमध्वजं प्रति व्यभिचारोपलब्धौ धरणीधर- कन्धराधिकरणस्यापि तस्य तम्प्रति व्यभिचारापत्तेः । यच्च हेतुना ५ यः समग्रणेत्यत्र योग्यतानुमान व्याख्यातम् । तदपि नोपपन्नम् । साध्यसाधनयोरेकान्तं तादात्म्याभ्युपगमे स्वभावानुमानस्य प्रागेव निरवकाशतया दर्शितत्वात् । लोकश्चाविकलकारणात्कार्यमेव कल्पयति' न योग्यतामित्यलं कुदर्शिनः कुत्सितकुसुमविमर्दोद्गतदुरामोदास्वादनेन ॥६६॥ ननु पूर्वचरोत्तरचरयोर्हेतुत्वमसुन्दरम् । दासीरासमयोः पूर्वचरोत्तर- चरत्वसम्भवेऽपि व्यभिचारदर्शनात् । यत्तु कृत्तिकादौ व्यभिचारादर्शनं न तत्र पूर्वचरोत्तरचरत्वं कारणं किं त्वेतदतिरिक्तः प्रतिबन्धविशेषभूतः स्वभावकार्यकारणेष्वेव प्रोक्तेष्वन्तर्मावो भविष्यत्यनयोः किं पृथगुपादा- नेनेत्याशङ्कय दासीरासभादौ पूर्वचरोत्तरचरत्वमेवास्मद्विवक्षितं नास्तीति १५ तदवगमनाय कृत्तिकादौ बौद्धसंमतं तादात्म्यादिप्रतिबन्धविशेष निराकुर्वन्नाह- पूर्वचरोत्तरचरयोर्न स्वभावकार्यकारणभावौ तयोः कालव्यवाहितावनुपलम्भादिति ॥ ६७ ॥ पूर्वचरोत्तरचरयोहेतुविशेषयोर्न स्वभावकार्यकारणभावौ तादात्म्य- २० तदुत्पत्ती सम्भवतः । कुत इत्याह-तयोः स्वभावकार्यकारणभावयोः । कालव्यवधानेऽनुपलम्भात् । अयमत्राभिप्रायः–साध्यसाधनयोस्ता- दात्म्ये सति स्वभावहेतौ तदुत्पत्तौ तु कार्यकारणे वाऽन्तर्भावो विभाव्येत । न च पूर्वचरोत्तरचरयोस्तदुभयसम्भवः । कालव्यवधाने तदनुपलव्धेः । तादात्म्यं हि समसमयस्यैव कृतकत्वानित्यत्वादेः प्रतिपन्नम् । तदु- २५ .. - ..
प्रमाणनयतत्त्वालोकालङ्कारः [ परि. ३ सू. ६५ .. त्पत्तिश्चान्योन्यमव्यवहितस्यैव धूमधूमध्वजादेः समधिगता न पुनर्व्य- वहितकालस्य । अतिप्रसक्तेः । प्रयोगः यद्यत्काले यस्मादनन्तरं वा यन्नास्ति न तस्य तेन तादात्म्यं तदुत्पत्तिर्वा । यथा भविष्य. च्छङ्खचक्रवर्तिकालेऽसतो रावणादेः । नास्ति च शकटोदयादिकालेऽ- ५ नन्तरं वा कृत्तिकोदयादिकम् । ननु प्रज्ञाकरामिप्रायेण भाविरोहिण्युदयकार्यतया कृत्तिकोदयस्य गमकत्वात्कथं कार्यहेतौ पूर्वचरस्य नान्तर्भाव इति प्रज्ञाकराभिप्रायेण पूर्वचर- स्य कार्यहेतावन्तीव चेत् । तर्हि कथमभूद्भरण्युदयः कृत्तिकोदयादि- स्वीकुर्वतः खण्डनम् । त्यनुमानं स्यात् । न खलु भरण्युदयकार्यं कृत्ति- कोदयः, तस्य भाविरोहिण्युदयकार्यतया भवद्भिः प्रतिज्ञातत्वात् । अथ १० भरण्युदयोऽपि कृत्तिकोदयस्य कारणं तेन भरण्युदयस्याप्यनुमानं कृत्तिको- दयाद्भविष्यतीत्युच्यते । ननु बेन स्वभावेन भरण्युदयात्कृतिकोदयस्ते- नैव यदि शकटोदयात्तदा भरण्युदयादिवच्छकटोदयादपि पश्चा- दसौ स्यात् । यथा वा शकटोदयात्पूर्वकालं कृत्तिकोदयस्तथैव भरण्यु- १५ दयादपि भवेत् । यदि चातीतानागतयोर्भरण्युदयशकटोदययोरेकत्र कृत्तिकोदयलक्षणे कार्ये व्यापारः, तास्वाद्यमानरसस्यातीतो रसो भावि च रूपं कारणं स्यात् । ततो माविरूपस्यैवास्वायमानाद्रसात्प्र- तीतिः स्यान्न तु स्वसमयमाविनोऽतीतस्य वा रूपस्य इत्ययुक्तमुक्तं वार्तिके " इत्यतीतैककालानां गतिर्नानागतानाम्" इति । अथ २० भरण्युदयरोहिण्युदययोरन्यतरस्यैव कार्य कृत्तिकोदयः । तर्धन्यतरस्यै- वातः प्रतीतिर्भवेत् । ततो न पूर्वचरोत्तरचरौ कार्यहेतावन्तर्भवत इति ॥ ६७॥ ननु कालव्यवहितौ कार्यकारणभावौ नोपलभ्येते इत्यनुपपन्नम् । जाग्रत्प्रस्तुतस्वप्नोत्थितावस्थाभाविबोधयोर्मरणारिष्टयोर्वा कालव्यवधानेऽ- २५ पि तदुपलब्धेरित्येतन्निराकर्तुमाह- १ . कार्यहेतौ वर्तते' इति प. भ. पुस्तकयोः पाठः। -- परि. ३ सू. ७१] स्याद्वादरत्नाकरसहितः न चातिक्रान्तानागतयोजाग्रहशासंवेदनमरणयोः प्रबोधोत्पातौ प्रति कारणत्वं, व्यवहितत्वेन नि- ापारत्वादिति ॥ ६८॥ अयमर्थः--जाग्रहशासंवेदनमतीतं सुप्तावस्थोत्तरकालभावि ज्ञानं वर्तमान प्रति मरणं चानागतमरुन्धत्यनवलोकनादिकमरिष्टं साम्प्रति- ५ कं प्रति व्यवहितत्वेन व्यापारपराड्मुखमिति कथं तत्तत्र कारणत्वमव- लम्बेत ॥ ६८॥ एतदेव भावयन्नाह- स्वव्यापारापेक्षिणी हि कार्य प्रति पदार्थस्य कारण- स्वव्यवस्था कुलालस्येव कलशं प्रतीति ॥ ६९ ॥ १० अन्वयव्यतिरेकावसेयो हि सर्वत्र कार्यकारणभावः । अन्वयव्यति- रेकौ च कार्यस्य कारणव्यापारसव्यपेक्षावेव युज्यते कुम्भस्येव कुम्भ- कारव्यापारसव्यपेक्षाविति ॥ ६९ ।। ननु चातिक्रान्तानागतयोर्व्यवहितत्वेऽपि व्यापारः कथं न स्यादि- त्यारेकायामाह- न च व्यवहितयोस्तयोापारपरिकल्पनं न्याय्य- मतिप्रसक्तेरिति ॥ ७० ॥ तयोरित्यतिक्रान्तानागतयोर्जाग्रदशासंवेदनमरणयोः ॥ ७० ॥ अतिप्रसक्तिमेव भावयन्नाह- परम्पराव्यवहितानां परेषामपि तत्कल्पनस्य नि- २० वारयितुमशक्यत्वादिति ॥ ७१ ॥ यदि ह्यतीतानागतयोर्जाग्रदशाभाविज्ञानमरणयोर्व्यवहितयोरपि "५९२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ स.७१ . प्रवोधोत्पातौ प्रति व्यापारः परिकल्प्यते तदाऽतिव्यवहितानामतीताना- गतानामकारणत्वेनाभिमतानामन्येषामपि रावणशङ्खचक्रवर्त्यादीनां तौ प्रति व्यापारपरिकल्पनमनिवार्य स्यादिति तेषामपि तत्र कारणत्वं प्रस- ज्यतेति भावः । किं चासतस्तुरङ्गशृङ्गस्येव न कस्यचित्कारणत्वमुप- ५ पन्नम् । अथारिष्टादिकार्यकाले मरणादेरसत्त्वेऽपि स्वकाले सत्त्वादय- मदोष इत्युच्यते । ननु भवतु नाम मरणादेः स्वकाले सत्त्वं पश्चाद्धा- विमरणादेरिति निप्पन्नस्य निराकासस्यारिष्टादेः पश्चादुपजायमानेन मरणादिना कथं करणं कृतस्य करणायोगात् । अन्यथा न क्वचित्कार्ये कस्यचित्कारणस्य कदाचिदुपरमः स्यात् । अथ निप्पन्नस्याप्यरिष्टादेरनिष्पन्नं किञ्चिद्रूपमस्ति तत्करणान्मरणादिक तत्कारणत्वेन कल्प्यते । ननु निष्पन्नादरिष्टादेरनिष्पन्नं रूपं यद्यभिन्नं तर्हि तदेव तत्तस्य न करणमित्युक्तम् । भिन्नं चेत्तर्हि तदेव तेन क्रियते नारिष्टादिकमित्यायातम् । अरिष्टादिसम्बद्धस्यानिष्पन्न- रूपस्य मरणादिना करणादरिष्टादिकमपि कृतमिति चेत् । ननु १५ भिन्नयोः कार्यकारणभावान्नान्यः सम्बन्धस्तथागतैरङ्गीक्रियते । तत्र चारिष्टादिना स्वसम्बद्धमनिष्पन्नं रूपं क्रियेत तेन वाऽरिष्टादिकम् । प्रथमपक्षेऽरिष्टादेरेव तच्चेप्यते । मरणादिकमकिञ्चित्कारणमेव क्वचिद- प्यनुपयोगात् । तेनारिष्टादिकरणे पूर्व निष्पन्नस्यास्य पश्चादुपजाय- मानेन तेन किं क्रियत इत्युक्तम् । अथानिष्पन्न किञ्चिदस्ति तत्रापि पूर्वचर्चानवस्था च । ननु यद्यत्र कार्यकारणभावो न स्यात्कथं तब- न्यदर्शनादन्यानुमानमिति चेत्, अविनाभावादिति ब्रूमः । तादात्म्यतदुत्पत्तिलक्षणप्रतिवन्धेऽप्यविनाभावादेव गमकत्वदर्शनात् । तदभावे वक्तत्वतत्पुत्रत्वादेस्तादात्म्यतदुत्पत्ति- तादात्म्यतदुत्पत्तिलक्षण-प्रतिबन्धे सत्यप्यसर्वज्ञत्वश्यामत्वादौ साध्ये गम- प्रतिबन्धेऽप्यविनाभावा- देव हेतूनां गमकरवे कत्वाप्रतीतेः । तदभावेऽपि चाविनाभावप्रसादा- दिनकरास्तमय-चन्द्रोदय- गृहीताण्डपिपीलिको- २० . जयन्तस्य सवादः।
परि. ३ सू. ७२] स्याद्वादरत्नाकरसहितः ५. सर्पणैकाम्रफलोपलभ्यमानमधुररसस्वरूपाणा हेतूनां यथाक्रम भविष्यत्तारकोदय-समानसमयसमुद्रवृद्धि-भाविवृष्टि- समसमयसिन्दू- रारुणरूपस्वभावेषु साध्येषु गमकत्वप्रतीतेः । उक्तं चैतदर्थाविसंवादि जयन्तेनापि-" सूर्यास्तमयमालोक्य कल्प्यते तारकोदयः ।। पूर्णचन्द्रोदयाद्वद्धिरम्बुधेरपि गम्यते ॥ १ ॥ उदितेनाऽनुमीयन्ते ५ सरितः कुम्भयोनिना ॥ शुष्यत्पुलिनपर्यन्ते विश्रान्तखगपतयः ॥ २ ॥ पिपीलिकाण्डसञ्चारचेष्टानुमितवृष्टयः ॥ भवन्ति पथिका- स्तूर्ण कुटीरकरणोद्यताः ॥३॥ अन्येऽपि सौगतोद्गीतप्रति- बन्धद्वयोज्झिताः ॥ कियन्तो बत गण्यन्ते हेतवः साध्यबो- धकाः ॥४॥" इति । ततः शरीरनिवर्तकादृष्टादिकारणकला- १० पादरिष्टकरतलरेखादयो निष्पन्ना भाविनो मरणराज्यादेरनुमापका इति प्रतिपत्तव्यम् । जाग्रद्दशासंवेदनं तु सुप्तोत्थितसंवेदनस्य हेतुरिति तु स्वगृहमान्यमेव । ज्ञानादाभिन्नस्यात्मनः कालत्रयस्थायिनः साध- विष्यमाणत्वात् । सर्वथा चैतन्यविच्छेदस्य कदाचिदप्यसम्भवादिति । सुप्तप्रबुद्धस्य मतिर्न तस्माज्जाग्रद्दशाज्ञानमपेक्षतेऽत्र || न वाऽप्यरिष्टप्रमुख भविष्यत्प्राणप्रहाणप्रभृति स्वभूत्यै ।।५१६॥७१॥ सहचरहेतोरपि स्वभावकार्यकारणेषु नाऽन्तर्भाव इति दर्शयन्नाह- सहचारिणोः परस्परस्वरूपपरित्यागेन तादात्म्या- नुपपत्तेः सहोत्पादेन तदुत्पत्तिविपत्तेश्च सहचरहेतो. रपि प्रोक्तेषु नानुप्रवेश इति ॥ ७२ ॥ २० अयमभिप्रायः-~सहचारिणो रूपरसादिकयोंः परस्परपरिहारेणा- वस्थानान्न तयोस्तादात्म्यं यथा कुम्भस्तम्भयोः । परस्परपरिहारेणा- वस्थानं च सहचारिणो रूपरसयोरिति । तथा ययोरेककालत्वं न १५ - १ न्या. म. पृ. ११७॥
"५९४ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. ३ स. ७२ तयोस्तदुत्पत्तिर्यथा सव्येतरगोविषाणयोः । एककालत्वं च सहचारिणो रूपरसयोरिति ॥ ७२ ॥ इदानीं मन्दमतिव्युत्पादनार्थं साधर्म्यवैधाभ्या पञ्चावयवा व्याप्याविरुद्धोपलब्धि तावदुदाहरन्नाह-- ५ ध्वनिः परिणतिमान्प्रयत्नानन्तरीयकत्वात्, यः प्रयत्नानन्तरीयकः स परिणतिमान्यथा स्तम्भः । यो वा न परिणतिमान्स न प्रयत्नानन्तरीयको यथा वान्ध्येयः। प्रयत्नानन्तरीयकश्च ध्वनिस्तस्मा- त्परिणतिमानिति व्याप्यस्य साध्येनाविरुद्धस्योप- लब्धिः साधर्म्यण वैधयेण चेति ॥७३॥ अत्र ध्वनिरिति धर्मी । परिणतिमानिति साध्यो धर्मः । इति धर्मिणः साध्यधर्मविशिष्टस्य पक्षापरपर्यायस्य वचनं प्रतिज्ञा । प्रयत्ना- नन्तरीयकत्वादिति प्रयत्नश्चेतनावतो व्यापारस्तस्यानन्तरं प्रयत्नानन्तरं तत्र भवः प्रयत्नानन्तरीयकस्तद्भावस्तत्त्वं तस्मादिति हेतुः । यः प्रयत्ना- १५ नन्तरीयकः स परिणतिमान्, यथा स्तम्म इत्युदाहरणम् । प्रयत्नानन्तरी- यकश्च ध्वनिरित्युपनयः । तस्मात्परिणतिमानिति निगमनम् । अयं सा- धर्येण पञ्चावयवप्रयोगः। अथवा वैधम्र्येण । तत्र च प्रतिज्ञाहेतूपनयनि- गमनलक्षणावयवचतुष्टयं तदेव । दृष्टान्तस्तु यो न परिणतिमान् ; स न प्रयत्नानन्तरीयको यथा वान्ध्येयः । इत्येषा व्याप्यस्य प्रयत्नानन्तरीय- २० कत्वस्य साध्येन परिणतिमत्त्वेन सहाविरुद्धस्योपलब्धिः । प्रयत्ना- नन्तरीयकत्वं हि परिणतिमत्त्वेन व्याप्तम् । पूर्वोत्तराकारपरिहारावाप्ति- स्थितिलक्षणपरिणतिशून्यस्य सर्वथा नित्यत्वे वा शब्दस्य प्रयत्ना- नन्तरीयकत्वानुपपत्तेरागमप्रामाण्यसमर्थनप्रक्रमे वक्ष्यमाणत्वात् । ननु व्याप्यत्वं कार्यादिहेतुष्वपि समानम् । तेषामपि स्वसाध्येन व्याप्तत्वात् ।
परि. ३ सू. ७३ ] स्याद्वादरत्नाकरसहितः अन्यथा तत्साधकत्वानुपपत्तेरिति व्याप्याविरुद्धोपलब्धिरेवैका भवेत् । तथा चाविरुद्धोपलब्धेर्विधिसिद्धौ षट्प्रकारत्वकीर्तनमनुपपन्नमेवेति । तदेतदात्मीयमार्गसुकुमारमतीना प्रेरितम् । यतो न साध्येन हेतोळ- तत्वमात्रमत्र व्याप्यत्वेन विवक्षितम् । किं तर्हि कथञ्चित्साध्येन सह तादात्म्यपरिणाममापन्नस्याकार्यकारणादिभूतस्य प्रयत्नानन्तरीयकत्वादेः ५ साधनधर्मस्य स्वरूपम् । अत एवान्यत्र व्याप्याविरुद्धोपलव्धेः स्वभावो- पलब्धिरिति संज्ञया कीर्तनम् । “ कार्यकारणनिर्मुक्तवस्तुदृष्टि- विधेक्ष्यते ॥ तत्स्वभावोपलब्धिश्चान्योपलब्धिश्च निश्चिता ॥१॥ कथंचित्साध्यतादात्म्यपरिणाममितस्य या॥ स्वभावस्योपलब्धिः स्यात्साऽविनामावलक्षणा ॥२॥” इति । तत्स्वभावोपलब्धिरिति १० तस्य साध्यधर्मस्य परिणतिमत्त्वादेः स्वभावः कथंचिदपृथग्भूतं प्रयत्ना- नन्तरीयकत्वादिकं साधनस्वरूपं तस्योपलब्धिरित्यर्थः । अन्योपलब्धि- रिति साध्यधर्माद्रूपादेरन्यस्य स्वभावभूतस्य रसादेरुपलब्धिरित्यर्थः । अविनाभावलक्षणेति निश्चितान्यथानुपपत्तिलक्षणेत्यर्थः । ननु यदि व्याप्यशब्देनात्र स्वभावभूत एव धर्मः साघनत्वेनाभिमन्यते तर्हि १५ तन्निश्चये तदपृथग्भूतस्य साध्यधर्मस्यापि निश्चितत्वात्किमनुमानेन कृत्यम् । सिद्धसाध्यतादोषप्रसक्तेः । न चानिश्चित एव साधनधर्मः साध्यधर्मस्य गमक इति वाच्यम् । ज्ञापकस्याज्ञातस्य ज्ञापकत्वायो- गात् । समारोपव्यवच्छेदोऽनुमानेन क्रियत इत्यपि न विचारक्षमम् । निश्चितेऽर्थे समारोपासम्भवादिति । इदमपि नोपपत्तिसहम् । अनेक- २० स्वभावस्य शब्दादिवस्तुनो निश्चितेऽपि प्रयत्नानन्तरीयकत्वादौ स्वमा- वभूते साधनधर्मे परिणतिमत्त्वादिसाध्यधर्मनिश्चयनियमस्याभावात् । निश्चितानिश्चितात्मकत्वं चैकस्य वस्तुनश्चित्राकारकैज्ञानवन्न विरुध्यते । तदुक्तम्---" निश्चितानिश्चितात्मत्वं न चैकस्य विरुध्यते ॥ चित्रा- त्मज्ञानवन्नानास्वभावैकार्थवेदनात् ॥१॥” इति । ततो निश्चि- २५ तेऽपि हेतुधर्मे साध्यधानिश्चयात्तत्प्रतिपत्त्यर्थं सफलमेव प्रस्तुत- ।
५९६ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ स. ७३ - मनुमानम् । तदित्थं व्याप्याविरुद्धोपलब्धेः कार्याविरुद्धोपलब्ध्या- दिभ्यो भेदेन सिद्धत्वात्षट्प्रकारत्वकीर्तनं विधिसिद्धावविरुद्धोप- लब्धेरुपपन्नमेव । एवं सर्वमुत्पादव्ययध्रौव्याक्रान्तं सत्त्वात्, यत्पुनरुत्पा- दादित्रयाक्रान्तं न भवति तत्सदपि न भवति यथा खरविषाणम् । ५ सच्च सर्वम् । तस्मादुत्पादादित्रयाक्रान्तम् । द्रव्यं गुणपर्यायवव्य- त्वात् । यत्तु गुणपर्यायवन्न भवति न तद्र्व्यं यथा कूर्मरोमादि । द्रव्यं च द्रव्यम् । तस्माद्गुणपर्यायवदित्यादीन्यप्यत्रोदाहरणानि दृश्यानि ॥७३॥ अथ कार्याविरुद्धोपलब्धेरुदाहरणमाह- १० अस्त्यत्र गिरिनिकुंजे धनंजयो धूमसमुपलम्भादिति कार्यस्येति ।। ७४॥ साध्येनाविरुद्धस्योपलब्धिरिति पूर्वसूत्रादिहोत्तरत्र चानुवर्तनीयम् । तत इत्येषा कार्यस्य साध्येनाविरुद्धस्योपलब्धिरिति सिद्धं भवति । एव- मस्त्यत्र शरीरे बुद्धिाहारादेः । वृष्टिमत्पृष्ठदेशसंसृष्टेयं नदी फेनिल- कलुषतादिविशिष्टपूरोपेतत्वादित्याद्यपि दृश्यम् । तत्र व्याहारादेरित्यत्र व्याहारो वचनम् । आदिशब्देन व्यापाराकारविशेषपरिग्रहः । ननु ताल्वा- द्यन्वयव्यतिरेकानुविधायितया शब्दस्योपलम्भात्कथं बुद्धिसामान्यापर- पर्यायात्मकार्यत्वम् । येन ततस्तदस्तित्वसिद्धिः स्यात् । न खल्वात्मनि विद्यमानेऽपि विवक्षावुद्धिपरिकरे कफादिदोषदुष्टत्वेन कण्ठादिव्या- पाराभावे वचनं प्रवर्तत इति । तथा फेनिलकलुषतादिविशिष्टपूरोपेत- त्वादित्यप्यनैकान्तिकम् । सेतुभङ्गहिमविलयनादिनापि तथाविधतरङ्गि- णीपूरस्य सम्भाव्यमानत्वादिति । तदपेशलम् । शब्दोत्पत्तौ ताल्वादि- सहायस्यैवात्मनो व्यापाराभ्युपगमात् । घटाद्युत्पत्तौ चक्रादिसहायस्य कुम्भकारादेरिव । अनैकान्तिकत्वमपि द्वितीयानुमानेऽनुचितम् । निपु- २५ णेन प्रमाना वृष्टयनुमापकस्य पयःपूरस्य परिभावयितुं पार्यमाणत्वात् । । २० परि. ३ सू. ७६] स्याद्वादरत्नाकरसहितः ५ १० तदुक्तम्--" आवर्तवर्तनाशालिविशालकलुषोदकः ॥ कल्लोल- विकटास्कालस्कुटकेनच्छटाञ्चितः।।१।। वहद्हल शैवालफलसावल- सङ्कुलः ।। नदीपूरविशेषोऽपि शक्यते तेन वेदितुम् ॥२॥ इति । कार्यकार्याविरुद्धोपलब्ध्यादेश्व कार्याविरुद्धोपलब्धावेवान्तर्भाव इति न पृथगुपन्यासः ।। ७४ ॥ अथ कारणाविरुद्धोपलब्धेरुदाहरणमाह- भविष्यति वर्ष तथाविधवारिवाहविलोकनादिति कारणस्येति ॥ ७५॥ इतीयं कारणस्य साध्येनाविरुद्धस्योपलब्धिरित्यर्थः । तथाविधेति सातिशयोन्नतत्वादिधर्मोपेतत्वं वारिवाहस्य गृह्यते । एवमस्त्यत्र च्छाया च्छत्रादित्यादीन्यप्युदाहरणानि द्रष्टव्यानि । कारणकारणाविरुद्धोप- लब्ध्यादेश्चात्रैवानुप्रवेशान्नार्थान्तरत्वमिति ॥ ७५ ॥ सम्प्रति पूर्वचराविरुद्धोपलब्धिमुदाहरति-- उदेष्यति मुहूर्तान्ते तिष्यतारका पुनर्वसूदयदर्श- नादिति पूर्वचरस्योत ॥ ७६॥ १५ तिष्यतारकेति पुष्यनक्षत्रम् । इत्येषा पूर्वचरस्य साध्येनाविरुद्धस्यो. पलब्धिरित्यर्थः । एवमुदेष्यति शकटं कृत्तिकोदयादित्यादीन्यप्युदाहर- णानि दृश्यानि । ननु कृत्तिकोदयादेर्भविष्यच्छकटोदयाद्यनुमानं कार- णाविरुद्धोपलब्धेर्न भिद्यते । कृत्तिकादीनां पूर्वचारित्वेन शकटोदया- दिकं प्रति कारणत्वात् । तत्कथं पूर्वचराविरुद्धोपलब्धिस्ततः पृथ- २० स्यात् । तदेतदपरिशीलिततार्किककुलस्य प्रलापमात्रम् । न हि यत्कि- श्चित्पूर्वचारि तदखिलमुत्तरचारिणः कारण नियमेन भवति । कार्यस्व- रूपप्राप्तिहेतूनामेव पूर्वभाविनामन्वयव्यतिरेकाभ्या कारणत्वप्रसिद्धः । १ न्या. म. पृ. १३० । ३८ ५९८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सु. ७६ न च रोहिण्युदयस्य स्वरूपप्राप्तिः कृत्तिकोदयतः सम्भवति । तदनन्तर- भावित्वाभावात् । कालान्तर एव कृत्तिकोदयापेक्षया रोहिण्युदयस्य दर्शनात् । अथ विशिष्टं कालं प्राप्य कृत्तिका शकटं कुर्वतीत्यमि- धीयते । तर्हि भरणिरपि कालविशेषमासाद्य शकटं किं न करोति । ५ भवन्मते विशेषानुपलम्भात् । अथातिव्यवहितत्वाद्भरणेः शकटं प्रत्य- हेतुत्वम् । तर्हि वासनाऽपि स्मृतिहेतुस्त्वन्मते न भवेत् । अतिव्यवहि- तत्वादेव । अथ कालान्तरापेक्षा कृत्तिकासहकारिणी च भरणिः कारणं शकटोदये तर्हि तथाविधा तत्राश्विन्यपि कारणं किं न भवेत् । तुल्ययोगक्षेमत्वात् । यदि च यत्किञ्चित्पूर्वमावि तत्सर्वमुत्तरकालभाविनः कारणत्वेन कल्प्यते तर्हि पितामहादयोऽपि पितृत्वेन पुत्रस्य किं न कल्प्यते । पूर्वभावित्वाविशेषात् । ननु पूर्वभावित्वाविशेषेऽपि पुत्रस्वरूप- लाभहेतोरेव पितृत्वं न पुनः पितामहप्रभृतीनाम् । तेषां तत्राहेतुत्वादिति तर्हि शकटस्यापि कथं कृत्तिकोदयः कारणम् । तस्यापि तत्स्वरूपला- भाहेतुत्वाविशेषादिति । तदुक्तम्-" पूर्वचारि न निःशेष कारणं १५ नियमादपि ॥ कार्यात्मलाभहेतूनां कारणत्वप्रसिद्धितः ॥१॥ न रोहिण्युदयस्यात्मलाभोऽस्मिन् कृत्तिकोदयात् ॥ तदनन्तर- 'भावित्वाभावात्कालान्तरेक्षणात् ॥ २ ॥ विशिष्ट कालमासाद्य कृत्तिका कुर्वते यदि ॥ शकटं भरणिः किं न करोति च तथैव वः॥ ३ ॥ व्यवधानादहेतुत्वे तस्यास्तत्र व वासना ॥ स्मृति- हेतुर्विभाव्येत तत एवेत्यवर्त्तनम् ॥ ४ ॥ [ अवर्तनमिति अनि- वृत्तोऽयं पर्यनुयोग इत्यर्थः ] । कारणं भरणिस्तत्र कृत्तिकासह- कारिणी ॥ यदि कालान्तरापेक्षा तथा स्यादश्विनी न किम् ॥ ४ ॥ पितामहः पिता किंन तथैव प्रपितामहः ॥ सर्वो वाऽनादिसन्तान- स्ते नो पूर्वत्वयोगतः ॥ ६ ॥ स्वरूपलाभहेतोश्चेत्पितृत्वं नेतरस्य २५ तु ॥ प्राजापत्यस्य माभूवन्कृत्तिका हेतवस्तथा ॥७॥” इति । प्राज्यापत्यस्येति रोहिणीनक्षत्रस्य । तदेवं पूर्वचारित्वेऽपि कृत्तिकानां २० परि. ३ सू. ७७ ] स्याद्वादरत्नाकरसहितः ५९९ रोहिण्युदयं प्रति कारणत्वानुपपत्तेः कृत्तिकोदयाद्भविष्यच्छकटोदयानु- मानं कारणाविरुद्धोपलब्धेर्भिद्यत एवेति ततः पृथक्स्वरूपमुपदर्श- यन्ती पूर्वचराविरुद्धोपलब्धिः कथं न सद्भावमासादयतीति । पूर्व- पूर्वचराविरुद्धोपलब्ध्यादीनामत्रैवानुप्रवेशः । यदुक्तम्-" पूर्वपूर्वचरा- दीनामुपलब्ध्यः प्रदर्शिताः ॥ पूर्वचार्युपलम्भेन ततो नार्थान्तरं मताः ॥ १॥" इति ॥ ७६ ॥ इदानीमुत्तरचराविरुद्धोपलब्धेरुदाहरणमाह- उदगुर्मुहूर्तापूर्वं पूर्वफल्गुन्यः । उत्तरफल्गुनीनामु- द्गमोपलब्धेरित्युत्तरचरस्येति ॥७७॥ इतीयमुत्तरचरस्य साध्येनाविरुद्धस्योपलब्धिरित्यर्थः । एवं मुहूर्ता- १० पूर्वमुदगादरणिः कृत्तिकोदयादित्यादीन्यप्युदाहरणान्यभ्यूह्यानि । न च कार्याविरुद्धोपलब्धिरेवेयमुत्तरचारिणः सर्वस्य कार्यत्वादिति प्रेर्यम् । पूर्वभाविनः सर्वस्य कारणत्वमेवेत्यस्य नियमस्यानन्तरमेव निरस्तत्वेनोत्तरचारिणोऽपि सर्वस्य कार्यत्वासम्भवात् । नानाप्रकार हि सकलप्राणिसन्दोहसम्बन्धिनमदृष्टं सुखदुःखनिबन्धनमपेक्ष्यान्तरिक्ष- मण्डले क्रमभावित्वान्नक्षत्राण्यजत्रं पूर्वोत्तचरराणि भवन्ति । ततश्च परस्परं नक्षत्राणा न कारणत्वं कार्यत्वं वा सम्भवति । ज्ञाप्यज्ञापक- भावस्तु भवति निश्चितान्यथानुपपत्तिसद्भावादिति । तदुक्तम्- " सर्वमुत्तरचारीह कार्यमित्यज्ञचेष्टितम् ॥ पूर्व कारणमित्यस्य नियमस्य निराकृतेः ॥१॥ नानाप्राणिगणादृष्टात्सातेतरफलाद्धि नः ॥ पूर्वोत्तरचराणि स्युर्भानि क्रमभुवः सदा ॥२॥ नाऽन्योन्यं हेतुता तेषां कार्यता वा ततो मता ॥ साध्यसाधनता तु स्याद- विनाभावयोगतः ॥ ३॥” इति । उत्तरोत्तरचराविरुद्धोपलब्धि- रप्यनया सङ्ग्रहीता ॥ ७७॥ १ उत्तरस्येति प. भ. पुस्तकयोः पाठः । २ [क्रमभुव इति क्रमाद्भुतेः सकाशा- दित्यर्थः ] इति म. पुस्तकस्थः पाठः प्रक्षिप्त इव भाति । २०- ६०० प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. ७८ - तस्य च अथ सहचराविरुद्धोपलब्धिमुदाहरन्नाह- अस्तीह सहकारफले रूपविशेषः । समास्वाद्यमान- रसविशेषादिति सहवरस्येति ॥ ७८ ॥ इत्येषा सहचरस्य साध्येनाविरुद्धस्योपलब्धिरित्यर्थः । नेयं कार्या- ५ विरुद्धोपलब्धिरभिधानीया । रूपरसयोः समसमयभावित्वेन सव्येतर- विषाणयोरिव स्वातन्त्र्येण व्यवस्थितत्वात् । अथैकसामग्र्यधीनत्वा- द्रूपरसयोः सहभावित्वनियमः । अन्यथा घटपटादीनामिव तयोरपि स न स्यात् । ततश्च रसलक्षणकार्योपलब्ध्या रससमानसमयरूपजन- कैकसामग्र्यनुमानात्कार्याविरुद्धोपलब्धिरेवेयमिति चेत् । नैतत्र्यम् । १० एकं द्रव्यमधिकरणभूतमनन्तरेण रूपरसयोः सहभावनियमेऽपरस्याः सामग्र्या एवासम्भवात् । तदाधारभूतद्रव्यस्य नानुमानं समास्वाद्यमानरसविशेषात् । किं तर्हि तुल्यकालभाविनो रूपादेरेव । अथ समानकारणत्वाद्रूपरसयोरेका सामग्रीष्यते न पुनरधिकरणभूतं द्रव्यम् । ततश्च रसाद्रूपानुमानमिति कार्यानुमानमेवे- १५ त्यभिधीयते । नन्वेवं सलिलरसास्वादनादम्भोरुहरूपस्यानुमानं किमिति न भवेत् । तुल्यकारणत्वस्याप्यत्राविशिष्टत्वात् । यथा हि सलिलरूपं रससहकारिणा प्राक्तनेन सलिलरूपेण जन्यते तथा सरसिजरूपमपि तेनैवेति व्यक्तं समानकारणत्वं पय.पुण्डरीकरूपयोः सलिलरूपेण सह । अथ सलिलरससरसिजरूपयोः प्रत्यासत्त्यभावात्परस्परं ज्ञाप्यज्ञापकभावो २० नेष्यते । नन्वेवमायातमनिच्छतोऽपि तथागतस्यैकमधिकरणभूतं द्रव्यम् । ज्ञाप्यज्ञापकभावस्थितरूपरसादीनामेकद्रव्यतादात्म्यमन्तरेणापरस्याः प्र- त्यासत्तेस्तेषामभावादिति । तदुक्तम्---"कार्यहेतुरयं नेष्टः समानसमय- त्वतः ।। स्वातन्त्र्येण व्यवस्थानाद्वामदक्षिणशृङ्गवत् ॥ १॥ एक- सामग्र्यधीनत्वात्तयोः स्यात्सहभाविता ॥ नाऽन्यथा नियमस्तस्या- १ 'त्व रूप' इति प. भ. पुस्तकयो. पाठ. ।
परि. ३ सू. ८०] n स्याद्वादरत्नाकरसहितः ६०१ स्ततोऽन्येषामिवेति चेत् ॥ २॥ [ तस्या इति सहभावितायाः ] नैकद्रव्याश्रितत्वेन विना तस्या विरोधतः ॥ सामग्येका हि तद्न्यं रसरूपादिषु स्फुटम् ॥३॥ न च तस्यानुमा स्वाधमानाद्र- सविशेषतः ।। समानसमयस्यैव रूपादेरनुमानतः ॥ ४॥ समान- कारणत्वात्तु सामग्येका यदीष्यते ॥ पयोरसात्सरोजन्मरूपस्यानु- ५ मितिर्न किम् ॥ ५ ॥ यथैव हि पयोरूपं रूपाद्रससहायकात् ॥ तथा रसोद्भवोऽपीति स्यात्समाननिमित्तता ॥ ६ ॥ प्रत्यासत्तर- भावाचेत्साध्यसाधनताऽनयोः ॥ नैप्टैकद्रव्यतादात्म्यात्प्रत्यासत्तिः परा क सा॥७॥” इति । एवमस्त्यत्र मातुलिङ्गे रूपं रसात् । सम- स्तीह देहे चैतन्यं विशिष्टस्पर्शोपलम्भादित्याद्यप्युदाहार्यम् । परोक्त- योश्च संयोगैकार्थसमवायिनोः साध्यसमकालभाविनोर्लिङ्गयोरत्रैवानुप्रवेश - इति ॥ विधिसिद्धावविरुद्धोपलब्धिरियमादरेण बोद्धव्या ।। पोढा सोदाहरणा कौशलमभिलाषुकैस्तकें ॥५१७।। ७८ ।। अधुना विरुद्धोपलब्धिमाह-- १५ विरुद्धोपलब्धिस्तु प्रतिषेधप्रतिपचौ सप्तप्रकारेति ॥ ७९ ॥ अविरुद्धोपलब्धिः प्रागभिहिता विधिसाधिका षट्प्रकारा, इयं तु विरुद्धोपलब्धिः प्रतिषेधसाधिका सप्तप्रकारा चेत्यनयोर्भेदः ।। ७९ ॥ प्रथमप्रकारप्रकाशनार्थं तावदाह- तत्राद्या स्वभावविरुद्धोपलब्धिरिति ॥ ८ ॥ प्रतिषेध्यार्थस्य यः स्वभावः स्वरूपं तेन सह साक्षाद्यविरुद्धं तस्यो- 'पलब्धिः स्वभावविरुद्धोपलब्धिः ।। ८०॥ १ २० २ इदं प्रक्षिप्तमिव भाति ।
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. ८१ अत्रोदाहरणमाह- नास्त्येव सर्वथैकान्तोऽनेकान्तस्योपलम्भादिति ॥८१ ।। प्रतिषेध्यो ह्यत्र सर्वथैकान्तः सदेव सर्वमित्यादिकस्तस्य सम्बन्धिना ५ स्वभावेन सह विरुद्धोऽनेकान्तः कथञ्चित्सदसदात्मकत्वादिस्तस्योपलम्भः स्वभावविरुद्धोपलब्धिरिति । अत्राह सौगत:~यावान्कश्चिन्निषेधः सर्वोऽप्यनुपलम्भादेवेतीयमपि स्वभावविरुद्धोपलब्धिनिषेधावबोधं विदघा- नाऽनुपलब्धावेवाऽन्तर्भावमर्हति तस्कथमुपलब्धिमेदत्वेनासावुदाहृतेति । एतदप्यनुपपन्नम् । अनुपलब्धिशब्दस्यात्राश्रूयमाणत्वात् । अथ विरु- १० द्धयोः सर्वथैकान्तानेकान्तयोर्वह्निशीतस्पर्शयोरिव प्रथम विरोधः स्वभावा- नुपलब्ध्या प्रतिपन्न इत्यनुपलब्धिमूलत्वात्स्वभावविरुद्धोपलब्धेरनुपलब्धि- रूपत्वं युक्तमेवेति चेत् । तदपि न क्षोदक्षमम् । अनुमानस्याप्येवं प्रत्यक्ष- त्वप्रसङ्गात् । यथैव हि स्वभावानुपलव्धिबलाद्विरुद्धयोर्विरोधे कचित्प्र- तिपन्ने सति स्वभावविरुद्धोपलब्धिः प्रवर्त्तते तथैव साध्यघार्मणि भूधरादौ साधने च धूमादावध्यक्षतः समधिगते सति साध्ये धूमध्वजादावनु- मानं प्रवर्त्तत इति प्रत्यक्षमूलत्वादनुमानमपि कथं प्रत्यक्षं न स्यादिति । तदुक्तम्-"यावान्कश्चिन्निषेधोऽत्र स सर्वोऽनुपलम्भनात् ।। यत्तदेष विरुद्धोपलम्भोऽस्त्वनुपलम्भनम् ॥१॥ इत्ययुक्तं तथाभूतश्रुतेरनुप- लम्भतः॥ तन्मूलत्वात्तथाभावे प्रत्यक्षमनुमाऽस्तु ते ॥२॥ यथैवा- २० नुपलम्भेन विरोधेसाधित क्वचित् ॥ स्वात्स्वभावविरुद्धोपलब्धि- वृत्तिस्तथैव च ॥ ३॥ लिङ्गे प्रत्यक्षतः सिद्धे साध्यधर्मिणि वा कचित् ।। लिङ्गिज्ञानं प्रवर्तेत नाऽन्यथातिप्रसङ्गतः ॥ ४॥ इति ।। ततः स्वभावविरुद्धोपलव्धेर्नानुपलब्धावन्तर्भावः कर्तुं युक्तः । एवं नेह शीतं वैश्वानरस्य दर्शनादित्याद्यपि द्रष्टव्यम् ॥ ८१ ।। आधे विरुद्धोपलव्धेः प्रकार प्रदर्य शेषान्प्रदर्शयन्नाह- १५ परि. ३ सू. ८५] स्याद्वादरत्नाकरसहितः ६०३ , " ग प्रतिषेध्यविरुद्धव्याप्तादीनामुपलब्धयः षडिति।८२॥ प्रतिषेध्येनार्थेन सह ये साक्षाद्विरुद्धास्तेषां ये व्याप्तादयो व्याप्य- कार्यकारणपूर्वचरोत्तरचरसहचरास्तेषामुपलव्धयः षड्भवन्ति । विरुद्ध- व्याप्तोपलब्धिः, विरुद्धकार्योपलब्धिः, विरुद्धकारणोपलब्धिः, विरुद्ध- पूर्वचरोपलब्धिः, विरुद्धोत्तरचरोपलब्धिः, विरुद्धसहचरोपलब्धिः।।८२॥ ५ क्रमेणासामुदाहरणान्याह विरुद्धव्याप्तोपलब्धिर्यथा नास्त्यस्य पुंसस्तत्त्वेषु निश्चयस्तत्र सन्देहादिति ॥ ८३॥ अत्र हि जीवादितत्त्वगोचरो निश्चयः प्रतिषेध्यस्तद्विरुद्धश्चानिश्च- यस्तेन व्याप्तस्य सन्देहस्योपलब्धिः । अनिश्चयो हि विपर्ययानध्यव- १० साययोः सन्देहमन्तरेणापि वर्त्तते । सन्देहस्त्वनिश्चयं विना न जातुचि- सम्भवतीत्यनयोप्प्यव्यापकभावः सुप्रतीत एव । अत्रोत्तरत्र च यथा- शब्द उदाहरणप्रदर्शनार्थो विज्ञेयः । एव नास्त्यत्र शीतस्पर्श औष्ण्या- दिन्यादीन्यप्युदाहरणान्यभियुक्तैरवधार्याणि । प्रतिषेध्यो ह्यत्र शीतस्पर्श- स्तन विरुद्धो वहिस्तेन च व्याप्तस्यौष्ण्यस्योपलब्धिरिति ।। ८३ ।। १५ विरुद्धकार्योपलब्धिर्यथा न विद्यतेऽस्य क्रोधाधु- पशान्तिर्वदनविकारादेरिति ॥ ८४ ॥ वदनविकारस्ताम्रत्वादिः । आदिशब्दादधरस्फुरणविकट कुटि- लोचनारुणिमादिपरिग्रहः । अत्र च प्रतिषेध्यः क्रोधायुपशमस्तत्कार्यस्य वदनविकारादेरनुपलब्धिरिति । एवं नास्त्यत्र शीतं धूमादित्यादी- २० न्यप्युदाहर्तव्यानि । प्रतिषेध्यमिह शीतं तद्विरुद्धो वह्निस्तत्कार्यस्य धूमस्योपलब्धिरिति ॥ ८४॥ विरुद्धकारणोपलब्धिर्यथा नास्य महर्षेरसत्यं समस्ति रागद्वेषकालुष्याकलड़ितज्ञानसम्पन्नत्वादिति।८५॥ - ६०४ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. ८५ प्रतिषेध्येन ह्यसत्येन सह विरुद्धं सत्यं, तस्य कारणं रागद्वेषकालु- प्याकलङ्कितज्ञानम् । तत्कुतश्चित्सूक्ताभिधानादेः प्रसिद्धयत्सत्यं साध- यति तच्च सिद्धयदसत्यं प्रतिषेधतीति । एवं नास्मिन् शरीरिणि सुख- मस्ति हृदयशल्यादित्यादीन्युदाहरणान्यवबोध्यानि । सुखेन हि प्रति- षेध्येन विरुद्धं दुःखं तस्य कारण हृदयशल्यं तत्कुतश्चित्तदुपदेशादेः सिद्धयत्सुखं प्रतिषेधति ॥ ८५॥ विरुद्धपूर्वचरोपलब्धिर्यथा नोद्गमिष्यति मुहूर्तान्ते पुष्यतारा रोहिण्युद्गमादिति ॥८६॥ प्रतिषेध्योऽत्र पुष्पतारोद्गमस्तद्विरुद्धो मृगशीर्षोदयस्तत्पूर्वचरो रोहि- • ण्युद्गमस्तस्योपलब्धिरिति । एवं नोदेष्यति मुहूर्तान्ते शकटं रेवत्युदया- दित्यादीनि द्रष्टव्यानि । प्रतिषेध्येन शकटोदयेन हि विरुद्धोऽश्चिन्यु- दयस्तत्पूर्वचरो रेवत्युदयः ॥ ८६ ।। विरुद्धोत्तरचरोपलब्धिर्यथा नोदगान्मुहूर्तात्पूर्व मृगशिरः पूर्वफल्गुन्युदयादिति ॥ ८७ ॥ प्रतिषेध्योऽत्र मृगशीर्षोदयस्तविरुद्धो भघोदयस्तदुत्तरचरः पूर्व- फल्गुन्युदयस्तस्योपलब्धिरिति । एवं मुहूर्त्तत्प्राड्नोदगाद्भरणिः पुष्योदयादित्यादीन्यवबोद्धव्यानि । भरण्युदयविरुद्धो हि पुनर्वसूदयस्त- दुत्तरचरः ॥ ८७॥ विरुद्धसहचरोपलब्धियथा नास्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनादिति ॥ ८८॥ प्रतिषेध्येन हि मिथ्याज्ञानेन सह विरुद्धं सम्यग्ज्ञानं तत्सहचरं च सम्यग्दर्शनं तच्च प्राण्यनुकम्पादेः कुतश्चिल्लिनात्प्रसिद्धयत्सहचरं सम्य- रज्ञानं साधयति तच्च सिद्धयन्मिथ्याज्ञान प्रतिषेधतीति । एव नास्त्यत्र मित्तौ परभागाभावोऽर्वाग्मागोपलम्मादित्यादीन्यवगन्तव्यानि । प्रतिषे- २० - करि. २ सू. २५ रागदेवकार- सत्यं साध- रिणि सुख दुपदेशादेः इत्तन्ति ८६॥ रो रोहि- सुदया- , विन्यु त्पूर्व परि. ३ सू. ८८] स्याद्वादरत्नाकरसहितः ध्येन हि परभागाभावेन विरुद्धः परभागसद्भावस्तत्सहचरोऽर्वाग्भागः । तदेवमुदाहृता सप्तप्रकाराऽपि विरुद्धोपलब्धिः । सप्तप्रकारत्वं पुनरस्याः प्रतिषेध्येनार्थेन साक्षाद्विरुद्धमाश्रित्य सूत्रेऽभिहितम् । परम्परया विरो- थाश्रयणेन त्वनेकप्रकारा विरुद्धोपलब्धिः सम्भवन्ती स्वयमभियुक्तैरवग- न्तव्या। तद्यथा-कारणविरुद्धकार्योपलब्धिः,व्यापकविरुद्धकार्योपलब्धिः, कारणच्यापकविरुद्धकारणोपलब्धिः, व्यापककारणविरुद्धकार्योपलब्धिः, कारणविरुद्धकारणोपलब्धिः,व्यापकविरुद्धकारणोपलब्धिः, कारणव्याप- कविरुद्धकारणोपलब्धिः, व्यापककारणविरुद्धकारणोपलब्धिः, कारण- विरुद्धव्याप्योपलब्धिः, व्यापकविरुद्धव्याप्योपलब्धिः, कारणव्यापक- विरुद्धव्याप्योपलब्धिः, व्यापककारणविरुद्धव्याप्योपलब्धिः, कारण- विरुद्धसहचरोपलब्धिः, व्यापकविरुद्धसहचरोपलब्धिः, कारणव्यापक- विरुद्धसहचरोपलब्धिः,व्यापककारणविरुद्धसहचरोपलब्धिश्च, इति पार- म्पर्येण विरुद्धोपलव्धेः षोडश प्रकाराः । तत्र कारणविरुद्धकार्योप- लब्धिर्यथा-नास्त्यस्य हिमजनितरोमहर्षादिविशेषो धूमादिति । प्रति- षेध्यस्य हि रोमहर्षादिविशेषस्य कारणं हिमं तद्विरुद्धोऽग्निस्तत्कार्य धूम इति । व्यापकविरुद्धकार्योपलब्धिर्यथा-नास्त्यत्र शीतसामान्यव्याप्तशीत- स्पर्शविशेषो धूमादिति, शीतस्पर्शविशेषस्य हि निषेध्यस्य व्यापक शीतसामान्यं तद्विरुद्धोऽमिस्तस्य कार्य धूम इति । कारणव्यापकविरुद्ध- कार्योपलब्धिर्यथा नास्त्यत्र हिमत्वव्याप्तहिमविशेषजनितरोमहर्षादि- विशेषो धूमादिति । रोमहर्षविशेषस्य हि निषेध्यस्य कारणं हिम- विशेषस्तस्य व्यापकं हिमत्वं तद्विरुद्धोऽग्निस्तत्कार्य धूम इति । व्यापक- कारणविरुद्धकार्योपलब्धिर्यथा-नास्त्यत्र शीतस्पर्शविशेषस्तव्यापकशीत- स्पर्शमात्रकारणहिमविरुद्धाग्निकार्यघूमादिति सुगममदः । कारण- विरुद्धकारणोपलब्धिर्यथा-नास्त्यस्य मिथ्यावरणं तत्त्वार्थोपदेशग्रहणा- दिति । मिथ्यावरणस्य हि कारणं मिथ्याज्ञानं तद्विरुद्धं तत्त्वज्ञानं तस्य कारणं तत्त्वार्थोपदेशग्रहणम् । तत्त्वार्थोपदेशश्रवणे सत्यपि कस्य- ॥ पूर्व- णिः त- नं च न्य । पत्र ६०६ प्रमाणनयतत्त्वालोकालङ्कारः परि. ३ सू. ८ न चित्तत्त्वज्ञानासम्भवाद्रहणवचनम् । तत्त्वार्थानां श्रद्धानपूर्वकमवधारणं ग्रहणमिष्टम् । अन्यथाऽस्य ग्रहणाभासत्वात् । मिथ्यावरणस्य चात्र नास्तिता साध्यते न पुनरनाचरणस्य । तत्त्वार्थोपदेशग्रहणात् । उत्पन्न- तत्त्वज्ञानस्याप्यसंयतसम्यग्दृष्टेश्चारित्रासम्भवादनाचरणस्य प्रसिद्धेः । तु मिथ्यावरणमप्यस्य सम्भवति । तत्त्वज्ञानविरोधात् । तेन सह तस्यानवस्थानादिति । व्यापकविरुद्धकारणोपलब्धिर्यथा-नास्त्यस्यात्मनि मिथ्याज्ञानं तत्त्वार्थोपदेशग्रहणादिति । आत्मनि मिथ्याज्ञानस्य विशि- ष्टस्य व्यापकं मिथ्याज्ञानमात्रं तद्विरुद्धं तत्त्वज्ञानं तस्य कारण तत्त्वार्थो- पदेशग्रहणं यथोपवर्णितमिति । कारणव्यापकविरुद्धकारणोपलब्धिर्यथा १० नास्त्यस्य मिथ्यावरणं तत्त्वार्थोपदेशग्रहणादिति। अत्र मिथ्यावरणस्य कारणं मिथ्याज्ञानविशेषस्तस्य व्यापकं मिथ्याज्ञानमात्रं तद्विरुद्धं तत्त्व- ज्ञानं तस्य कारणं तत्त्वार्थोपदेशग्रहणमिति । व्यापककारणविरुद्धकार- णोपलब्धिर्यथा-नास्त्यस्य मिथ्यावरणविशेषस्तत्त्वार्थोपदेशग्रहणादिति । मिथ्यावरणविशेषस्य हि व्यापकं मिथ्यावरणसामान्यं तस्य कारणं १५ मिथ्याज्ञानं तद्विरुद्धं तत्त्वज्ञानं तस्य कारण तत्त्वार्थोपदेशग्रहणमिति । कारणविरुद्धव्याप्योपलव्धिर्यथा, न सन्ति सर्वथैकान्तवादिनः प्रशम- संवेगनिर्वेदानुकम्पास्तिक्यानि वैपर्यासिकमिथ्यादर्शनविशेषादिति । प्रशमादीनां हि कारणं सम्यग्दर्शनं तस्य विरुद्धं मिथ्यादर्शनसामान्य तेन व्याप्तं मिथ्यादर्शनं वैपर्यासिकं विशेषरूपमिति । व्यापकविरुद्ध- व्याप्योपलब्धिर्यथा, न सन्ति स्याद्वादिनो वैपर्यासिकादिमिथ्यादर्शन- विशेषास्तत्त्वज्ञानविशेषादिति । वैपर्यासिकादिमिथ्यादर्शनविशेषाणां हि व्यापकं मिथ्यादर्शनसामान्यं तद्विरुद्धं तत्त्वज्ञानसामान्यं तस्य व्याप्यस्तत्त्वज्ञानविशेष इति । कारणव्यापकविरुद्धव्याप्योपलब्धिर्यथा न सन्त्यस्य प्रशमादीनि मिथ्याज्ञानविशेषादिति । प्रशमादीनां हि कारणं सद्दर्शनविशेषः, तस्य व्यापकं दर्शनसामान्यं तद्विरुद्धं मिथ्या- ज्ञानसामान्यं तेन व्याप्यो मिथ्याज्ञानविशेष इति । व्यापककारण- २५ , परि. ३ सु. ८८] स्याद्वादरत्नाकरसहितः ६०७ विरुद्धव्याप्योपलब्धिर्यथा-न सन्त्यस्य तत्त्वज्ञानविशेषा मिथ्यार्थोपदेश- ग्रहणविशेषादिति । तत्त्वज्ञानविशेषाणां हि व्यापकं तत्त्वज्ञानसामान्य तस्य कारणं तत्त्वार्थोपदेशग्रहणं तद्विरुद्धं मिथ्यार्थोपदेशग्रहणसामान्य तेन व्याप्यो मिथ्यार्थोपदेशग्रहणविशेष इति । कारणविरुद्धसहचरोपल- ब्धिर्यथा-न सन्त्यस्य प्रशमादीनि मिथ्याज्ञानादिति । प्रशमादीनां हि ५ कारणं सम्यग्दर्शनं तद्विरुद्धं मिथ्यादर्शनं तत्सहचरं मिथ्याज्ञानमिति । व्यापकविरुद्धसहचरोपलब्धियथा-सन्त्यस्य मिथ्यादर्शनविशेषाः सम्य- रज्ञानादिति । मिथ्यादर्शनविशेषाणां हि व्यापकं मिथ्यादर्शनसामान्य तद्विरुद्धं तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तत्सहचरं सम्यग्ज्ञानमिति । कारणव्यापकविरुद्धसहचरोपलब्धिर्यथा-न सन्त्यस्य प्रशमादीनि १०. मिथ्याज्ञानादिति । प्रशमादीनां हि कारण सम्यग्दर्शनविशेषास्तेषां व्यापकं सम्यग्दर्शनसामान्यं तद्विरुद्धं मिथ्यादर्शनं तत्सहचरं मिथ्या- ज्ञानमिति । व्यापककारणविरुद्धसहचरोपलब्धिर्यथा-न सन्त्यस्य मिथ्यादर्शनविशेषाः सत्यज्ञानादिति । मिथ्यादर्शनविशेषाणां हि व्यापकं मिथ्यादर्शनसामान्यं तस्य कारणं दर्शनमोहोदयस्तद्विरुद्धं सम्यग्दर्शनं १५ तत्सहचरं तत्त्वज्ञानमिति । अत्र च संग्रहश्लोको- पारम्पर्येण कार्य स्यात्कारणं व्याप्यमेव च ॥ सहचारि च निर्दिष्टं प्रत्येकं तम्चतुर्विधम् ॥ ५१८ ॥ कारणोद्दिष्टकार्यादिभेदेनोदाहृतं यथा ॥ इत्थं पोडशभेदं तद्विज्ञेयं मतिशालिभिः ॥ ५१९॥ तथेदमन्यदपि भेदत्रयं पारम्पर्येण विरुद्धोपलव्धेः सम्भवति । तद्यथा- कार्यविरुद्धोपलब्धिः, व्यापकविरुद्धोपलब्धिः, कारणविरुद्धोपलब्धि- श्वेति । तत्र कार्यविरुद्धोपलब्धिर्यथा-नात्र देहिनि दुःखकारणमस्ति सुखोपलम्मादिति । प्रतिषेध्यमिह दुःखकारणं तस्य कार्य दुःखं तेन २५ विरुद्धं सुखं तच्च कुतोऽपि विशिष्टव्यापारव्यवहारादेः सिध्यदुःख निव- - २० - ६०८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू.८८ यति, दुःख च निवर्तमानं दुःखकारणं निषेधति । एवं नेहाप्रतिबद्धसाम- वा॑नि शीतकारणानि सन्ति वहेरित्यादीन्यप्युदाहरणान्यवसेयानि । व्या- पकविरुद्धोपलब्धिर्यथा-न सन्निकर्षादिःप्रमाणमज्ञानत्वादिति प्रतिषेध्य- मिह सन्निकर्षादेः प्रमाणत्वं तस्य व्यापकं ज्ञानत्वं तेन विरुद्धमज्ञानत्वं ५ तच्च सन्निकर्षादावुपलभ्यमानं ज्ञानत्वं निवर्तयति तच्च निवर्तमानं ततः प्रमाणत्वं निवर्तयति । ज्ञानत्वं हि प्रमाणाप्रमाणयोरुभयोरपि। साधा- रणमिति व्यापकं प्रमाणत्वं तु विना नाऽन्यत्र क्वापि ज्ञानत्वेनेति व्याप्यं तत् । एवं नात्र तुषारस्पर्श वहेरित्येवमादीन्यस्यामवसेयानि । कारणविरुद्धोपलब्धिर्यथा-नास्य महर्मिथ्याचारित्रमस्ति सम्यग्विज्ञा- १० नोपलम्भात् । मिथ्याचारित्रमिह प्रतिषेध्यं तस्य कारणं मिथ्याज्ञान तद्विरुद्धं सम्यग्ज्ञानं तत्कुतश्चित्सम्यगुपदेशादेर्लिनात्प्रसिद्धयन्मिथ्या- ज्ञानं निवर्तयति । तच निवर्तमानं मिथ्याचारित्रलक्षणं स्वकार्य निवर्त- यति । ननु च सम्यग्विज्ञानान्मिथ्याज्ञाननिवृत्तिन मिथ्याचारित्रस्य निवर्तिका प्रादुर्भूततत्त्वज्ञानस्यापि पुंसोऽचारित्रप्रसिद्धेः “पूर्वद्वये- १५ सम्पद्यपि तेषां भजनीयमुत्तरं भवति ॥ पूर्वद्वयलाभः पुनरुत्तरलामे भवति नियतः ॥ १॥” इति प्रशमरतौ भगवदुमास्वातिवाचक- मुख्यवचनप्रामाण्यात् । अन्यथा तव्याघातादिति चेत् । नैवम् । मिथ्या- चारित्रस्य मिथ्यागमादिज्ञानपूर्वस्य पञ्चाग्निसाधनादेर्निषेध्यत्वाच्चारित्र- मोहोदये सति निवृत्तिपरिणामाभावलक्षणस्याचारित्रस्य तु निषेध्यत्वे- नानानिष्टेरिति । एवं नासौ रोमहर्षादिविशेषवानसमीपवर्तिपावक- विशेषत्वादित्यादीन्यप्युदाहरणान्यभ्यूह्यानि । तदित्थं विरुद्धोपलब्धे- मैदाः सप्त सूत्रोक्ताः षोडशभिस्त्रिभिश्चैतभेदैः सह षड्विंशतिः सम्पन्नाः । पूर्वोक्ताऽविरुद्धोपलब्धिभेदषट्प्रक्षेपे तु द्वात्रिंशदुपलब्धिलक्षणा हेतु- भेदाः संवृत्ताः । एतदनुसारेण वाऽन्येऽपि प्रज्ञाशालिभिः परामर्शनीयाः। २० १५.र. गा.१ परि. ३ सू. ९१] स्याद्वादरत्नाकरसहितः ६०९, उपलब्धिहेतुरेवं विधिमुखतो विधिनिषेधबोधकरः ॥ द्वात्रिंशतेह भेदैः संयुक्तो व्यक्तमुक्तोऽयम् ॥ ५२० ॥ दोषप्रोषितपक्षनाभिसुभगं व्याप्योपलम्भादिक- द्वात्रिंशत्प्रमितप्रभेदसतरप्रस्तारणापीवरम् ॥ । सम्यग्व्याप्तिसुवृत्तिनेमिघटितं साध्यं निजं साधयन् ५ जैनानामुपलब्धिचक्रमसमं जीयात्तदेतद्भुवि ॥ ५२१ ॥ तदेवं कस्यचिदर्थस्य विधौ प्रतिषेधे चोपलब्धिलक्षणहेतुभेदानभि- घाय सम्प्रति कस्यचिदर्थस्य निषेधे विधौ चानुपलब्धिप्रकारप्रपञ्चं निश्चेतुकामस्तयापकं मौलं प्रकारद्वयमाह- अनुपलब्धेरपि द्वैरूप्यमविरुद्धानुपलब्धिविरुद्धानु- १० पलब्धिश्चेति ॥ ८९॥ अविरुद्धस्य प्रतिषेध्येनार्थेन सह विरोधमप्राप्तस्य वस्तुनोऽनुप- लब्धिरविरुद्धानुपलब्धिः । विरुद्धस्य प्रतिषेध्येन सह विरोधमागतस्या- नुपलब्धिर्विरुद्धानुपलव्धिश्चेति ॥ ८९ ॥ सम्प्रत्यविरुद्धानुपलब्धेर्विषयकथनपुरःसरं प्रकारमाह तत्राविरुद्धानुपलब्धिः प्रतिषेधावबोधे सप्तप्रकारेति ॥ ९०॥ निगदसिद्धमदः ।। ९० ।। तानेव प्रकारानाह- प्रतिषेध्येनाविरुद्धानां स्वभावव्यापककार्यकारण- पूर्वचरोत्तरचरसहचराणामनुपलब्धिरिति ॥ ९१॥ प्रतिषेध्येन वक्ष्यमाणेन कुम्भादिना सार्धमविरुद्धाना विरोधमन- धिरूढानाम् । स्वभावश्च व्यापकं च कार्यं च कारणं च पूर्वचरं १५ २० ११० प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू .. , चोत्तरचरं च सहचरं च स्वभावव्यापककार्यकारणपूर्वचरोत्तरचरसह- चराणि तेषामनुपलब्धिः । इतिशब्दः प्रकारपरिसमाप्त्यर्थः । ततश्च स्वभावानुपलब्धिः, व्यापकानुपलब्धिः, कार्यानुपलब्धिः, कारणा- नुपलब्धिः, पूर्वचरानुपलब्धिः, उत्तरचरानुपलब्धिः, सहचरानुपलब्धि- श्चेति प्रतिषेधप्रतिपत्तौ सप्तप्रकारत्वमनुपलब्धेः सिद्धं भवति ॥११॥ अथ क्रमेणोदाहरणसप्तकमाह- स्वभावानुपलब्धियथा नास्त्यत्र भूतले कुम्भः । उपलब्धिलक्षणप्राप्तस्य तत्स्वभावस्थानुपलम्भादिति ॥ ९२ ॥ १० उपलब्धिलक्षणप्राप्तस्येति, उपलब्धिर्ज्ञानं तस्या लक्षणानि कार- णानि चक्षुरादीनि । तैर्युपलब्धिलक्ष्यते जन्यत इति यावत् । तानि प्राप्तो जनकत्वेनोपलब्धिकारणान्तर्मावादुपलब्धिलक्षणप्राप्तो दृश्य इत्यर्थः । तथाविधस्य तत्स्वभावस्य कुम्भस्वरूपस्यानुपलम्भादनुपलब्धेः। यथाशब्द उदाहरणोपदर्शनार्थ इहोत्तरत्र च मन्तन्यः । इहोपलब्धि- १५ लक्षणप्राप्तस्येति यद्विशेषणं तत्पिशाचादिव्यभिचारपरिहारार्थम् । पिशा- चादीनां हि स्वभावो नोपलभ्यतेऽथ च ते नास्तित्वेनावगन्तुं न शक्यन्ते । कथं पुनर्यो घटादिर्नास्ति स उपलब्धिलक्षणप्राप्तस्तत्प्राप्तत्वे कथं तस्यासत्त्वमिति चेत् । उच्यते । आरोप्यैतद्रूपं निषिध्यते । सर्व- त्रारोपितरूपविषयत्वान्निषेधस्य । यथा नायं गौर इति । न ह्यत्रैतच्छक्यं २० वक्तुं सति गौरत्वे न निषेधो निषेधे न वा गौरत्वमिति । नन्वेव- मदृश्यमपि पिशाचादिक दृश्यरूपतयारोप्य प्रतिषिध्यतामिति चेत् । नैवम् । आरोपयोग्यत्वं हि यस्यास्ति तस्यैवारोपः । यश्चार्थो विद्य- मानो नियमेनापलभ्येत स एवारोपयोग्यो न तु पिशाचादिः । उप- लम्भकारणसाकल्ये हि विद्यमानो घटो नियमेनोपलम्भयोग्यो गम्यते न २५ पुनः पिशाचादिः । घटस्योपलम्भकारणसाकल्यं चैकज्ञानसंसर्गिणि परि. ३ सु. ९३] स्याद्वादरत्नाकरसहितः प्रदेशादावुपलभ्यमाने निश्चीयते घटप्रदेशयोरुपलम्भकारणान्यविशिष्टा- नीति कृत्वा । यश्च तद्देशाधेयतया कल्पितो घटः स एव तेनैक- ज्ञानसंसर्गी न देशान्तरस्थः । एकेन्द्रियग्राह्यं हि लोचनादिप्रणिधा- नाभिमुखवस्तुद्वयमन्योन्यापेक्षमेकज्ञानसंसर्गि कथ्यते । तयोहि सतो - कनियताभावप्रतिपत्तिः । योग्यताया द्वयोरप्यविशिष्टत्वात् । ततश्चैक- ज्ञानसंसर्गिणि प्रदेशादावुपलभ्यमानेऽप्यनुपलम्भात् । तदयुक्तम् । यतः प्रदेशादिनैकज्ञानसंसर्गिण एव घटस्याभावः साध्यते स्वभावानुपलम्भा- नान्यस्य । यस्तु पिशाचादिना प्रतिबन्धबलतोऽन्यत्वमापादितः कुम्भः स नैव निषिध्यते । इह चैकज्ञानसंसर्गी भासमानोऽर्थस्तज्ज्ञानं च पर्युदासवृत्त्या घटस्यासत्तानुपलब्धिश्चोच्यते । ननु चैवं केवलभूतलस्य १० पत्यक्षत्वात्तद्रूपः कुम्भाभावोऽपि प्रत्यक्षसिद्ध एवेति किं स्वभावानुप- लब्ध्या साध्यम् । सत्यमेवैतत् । तथापि यः सर्वं सर्वत्र विद्यत इति कुमतवासितान्तःकरणः कापिलादिः प्रत्यक्षप्रतिपन्नेऽपि कुम्भाद्यभावे भ्राम्यति । सोऽनुपलम्भं निमित्तीकृत्य प्रतिपाद्यते । अनुपलम्भनिमित्तौ हि सत्त्वरजस्तमःप्रभृतिषु परस्परमसद्ध्यवहारस्त्वयाऽपि प्रतिपन्नः । १५ अन्यथा तेषां साङ्कर्यापत्तेः । स चानुपलम्भोऽत्राप्यस्तीति निमित्तप्रद- र्शनेनाभावव्यवहारः प्रसाध्यते । दृश्यते हि गरीयसि गवि सास्लादि- मत्त्वात्प्रवर्तितगोव्यवहारो मूढमतिर्लघीयसि गवि तत्सादृश्यं पश्य- न्नपि न गोव्यवहारं प्रवर्तयति । लघीयसि वा गवि प्रवर्तितो गोव्यव- हारो न गरीयसीति । स निमित्तप्रदर्शनेन गोव्यवहारे प्रवर्त्यते । सास्त्रादिमन्माननिमित्तको हि गोव्यवहारस्त्वया प्रवर्तितः पूर्व न लघी- यस्यादिनिमित्तक इति । तथा महत्यां शिंगपायां प्रवर्तितवृक्षव्यवहारो मूढमतिः स्वल्पायां तस्यां तद्व्यवहारमप्रवर्तयन् शिंशपात्वलक्षणतन्निमि- तोपदर्शनेन तत्र प्रवर्त्यते । वृक्षोऽयं शिंशपात्वादिति ॥ ९२ ॥ व्यापकानुपलब्धिर्यथा नास्त्यत्र प्रदेशे पनसः पाद- २५ पानुपलब्धेरिति ॥ ९३॥ २० ६१२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सु. ९३ ५ १० पनसत्वं हि पादपत्वेन व्याप्तं तदभावे तयाप्यस्य पनसत्वस्याप्य- भावः । एवं नास्त्यत्र शिंशपा वृक्षाभावादित्यादीन्यप्यवसेयानि ॥९३॥ कार्यानुपलब्धिर्यथा नास्त्यत्राप्रतिहतशक्तिकं बीज- मंकुरानवलोकनादिति ॥ ९४ ॥ अप्रतिहतशक्तिकत्वं हि कार्य प्रत्यप्रतिबद्धसामर्थ्यत्वं कथ्यते। एतच्च विशेषणं बीजमात्रेण व्यभिचारपरिहारार्थम् । अङ्कुरानुपलम्भेऽपि बीज- मात्रसद्धावस्याविरोधादिति । एवं नास्त्यत्र परासुशरीरे चैतन्यं वाक्क्रि- याकारभेदानामनुपलम्भादित्यादीन्युदाहरणान्यद्यानि ॥ ९४ ॥ कारणानुपलब्धिर्यथा न सन्त्यस्य प्रशमप्रभृतयो भावास्तत्त्वार्थश्रद्धानाभावादिति ॥ ९५॥ प्रशमप्रभृतयो भावा इति, प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यलक्षण जीवपरिणामविशेषाः । तत्त्वार्थश्रद्धानाभावादिति, तत्त्वार्थश्रद्धानं सम्य- ग्दर्शनं तस्याभावात् । अत्र तत्त्वार्थश्रद्धानलक्षणस्य कार्यस्याभावः कुतोऽपि देवद्रव्यभक्षणादेः पापकर्मणः सकाशात्सिद्धयत्सत्तत्त्वार्थ- १५ श्रद्धानकार्यभूताना प्रशमादीनामभावमवगमयति । एवं नास्त्यत्र धूमो धूमध्वजाभावादित्यादीन्यपि लोकप्रसिद्धान्युदाहरणान्यवसेयानि॥९५॥ पूर्वचरानुपलब्धिर्यथा नोद्गमिष्यति मुहूर्तान्ते स्वा- तिनक्षत्रं चित्रोदयादर्शनादिति ॥ ९६ ॥ व्यक्तमदः । एवं न भविष्यति मुहूर्तान्ते शकटं कृत्तिकोदयानुप- २० लव्धेरित्यादीनि ॥ ९६ ॥ उत्तरचरानुपलब्धिर्यथा नोदगमत्पूर्वभद्रपदा मुहूर्ता- त्पूर्वमुत्तरभद्रपदोद्गमानवगमादिति ॥ ९७॥ स्पष्टमेतदपि । एवं नोदगाद्भरणिर्मुहूर्ताप्राकृत्तिकोदयानुपलब्धे- रित्यादीन्यवगन्तव्यानि ।। ९७॥ , परि. ३ सू. ९८] स्याद्वादरत्नाकरसहितः ६१३ सहचरानुपलब्धिर्यथा नास्त्यस्य सम्यग्ज्ञानं सम्य- ग्दर्शनानुपलब्धेरिति ॥ ९८ ॥ सम्यग्ज्ञानसहचरं हि तत्त्वार्थश्रद्धानस्वभावं सम्यग्दर्शनं तच्च प्रशमा- दिकार्यानुपलब्च्या क्वचित्पुसि निवर्तमानं स्वसहचरं सम्यग्ज्ञानं निवर्त्त- यति । एवं नास्त्यत्र प्रशमतुलायामुन्नामानुपलम्भान्न सन्ति जीवादौ रूप- रसगन्धाः स्पर्शानुपलब्धेरित्यादि द्रष्टव्यम् । इतीयमविरुद्धानुपलब्धिः सप्तप्रकारा प्रतिषेधप्रतिपतौ सोदाहरणा सूत्रतः प्रतिषेध्यवस्तुसम्बन्धिनां स्वभावकार्यादीना साक्षादनुपलम्भद्वारेण प्रदर्शिता । परम्परया पुनरेषाऽपि निपुणैर्निरूप्यमाणैकादशधा सम्पद्यते । तद्यथा-कार्यव्यापकानुपलब्धिः, कार्यव्यापकव्यापकानुपलब्धिः, कारणकारणानुपलब्धिः, कारणव्याप- १० कानुपलब्धिः, कारणव्यापकव्यापकानुपलब्धिः, सहचरकारणानुपल- ब्धिः, सहचरकार्यानुपलब्धिः, सहचरव्यापकानुपलब्धिः, सहचरव्याप- ककारणानुपलब्धिः, सहचरव्यापककारणकारणानुपलब्धिः, सहचर- व्यापककारणव्यापकानुपलब्धिश्चेति, तत्र कार्यव्यापकानुपलब्धियथा- नास्त्येकान्तनिरन्वयं तत्त्वं तत्र क्रमाक्रमाभावादिति । अत्र हि सौगता- १५ भिमतमेकान्तनिरन्वयं तत्त्वं प्रतिषेध्यं तस्य कार्यमर्थक्रियालक्षणं तद्व्यापकं क्रमाक्रमस्वरूप तच्चान्वितैकान्ततत्त्व इव निरन्वयकान्ततत्त्वेऽ- नुपलभ्यमानं स्वव्याप्यमर्थक्रियाकारित्वं निवर्त्तयति तदपि निवर्तमानं कारणत्वेन कल्पितं निरन्धयैकान्ततत्त्वं प्रनिषेधति । यथा-चैकान्तनि- रन्वयान्वयपक्षयोरर्थक्रियाकारित्वं नोपपद्यते तथाऽग्रेऽनेकान्तप्रतिष्ठाया २० सविस्तरमभिधास्याम इति । कार्यव्यापकव्यापकानुपलब्धिर्यथा-नास्ति निरन्वयैकान्ततत्त्वं, तत्र परिणामविशेषस्याभावादिति । तत्रापि प्रतिषेध्यं निरन्वयैकान्ततत्त्वं तत्कार्यमर्थक्रियाकारित्वं तद्व्यापकं क्रमाक्रमस्वरूपं तस्य च व्यापकः परिणामविशेषः " परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्यानम् ॥ न च सर्वथा विनाशः परिणामस्तद्विदा- २५ १' तथा ' इति प. पुस्तके पाठः । ३९ ६१४ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. ३ सू. ९८ मिष्टः ॥१॥” इत्येवं लक्षणलक्षितः, तस्य च निरन्वयैकान्ततत्त्वेऽ- नुपलम्भादभाव इति। कारणकारणानुपलब्धिर्यथा-क्वचिदात्मनि नास्ति संसारो मिथ्यात्वाद्यभावादिति । प्रतिषेध्यस्य हि संसारस्य कारणं कर्म तस्य च कारणं मिथ्यात्वाविरतिप्रमादकषाययोगास्तेषा चात्राभाव इति । ५ कारणव्यापकानुपलब्धिर्यथा-भस्मादिषु प्राणादयो न सन्ति जीवत्व- सामान्याभावादिति । अत्र हि प्रतिषेभ्याः प्राणादयस्तेषा कारणं जीव- स्तद्व्यापकं जीवत्वसामान्यं तस्य चात्राभावः । इदं चात्रोदाहरणं, सांख्यादेर्नास्ति निर्वृत्तिः सम्यग्दर्शनज्ञानचारित्राणामभावादिति । अत्र निषेध्याया निवृत्तेः कारणं मुक्तिमार्गस्तस्य च व्यापकं सम्यग्दर्शना- १० दिवयं तस्य चाभावः सांख्यादौ। ज्ञानमात्रादेरेव मोक्षकारणतया तेनाभ्युपगमात् । यथा च ज्ञानमात्रादेर्न मोक्षकारणत्वं तथोपरिष्टा- दुपपादयिष्यते । कारणव्यापकव्यापकानुपलब्धिर्यथा-सांख्या- देर्नास्ति निर्वाणं विशिष्टपरिणामाभावादिति । अत्र हि निषेध्यस्य निर्वाणस्य कारणं मुक्तिमार्गस्तद्व्यापकं सम्यग्दर्शनादित्रयं तव्यापकश्च १५ प्राग्निर्णीतो विशिष्टः परिणामस्तस्यात्राभावः । सांख्यादिनात्मनोऽप- रिणामित्वाभ्युपगमात् । सहचरकारणानुपलब्धियथा नास्य मत्य- ज्ञानादिकमस्ति दर्शनमोहोदयाभावादिति । मत्यज्ञानादिकस्य हि निषे- ध्यस्य सहचरं मिथ्यादर्शनं तस्य कारणं दर्शनमोहोदयस्तस्यात्राभावः । सहचरकार्यानुपलब्धिर्यथामत्यज्ञानादिकं मम नास्ति नास्तिकाध्यव- २० सायाभावादिति । अत्रापि निषेध्यस्य मत्यज्ञानादेः सहचरं मिथ्या- दर्शनं तस्य कार्य नास्तिकाध्यवसायः, तस्य च स्वसंवेदनसिद्धो मय्यमाव इति । सहचरव्यापकानुपलब्धिर्यथा-नास्त्यस्य ग्ज्ञानं तत्त्वश्रद्धानाभावादिति । प्रतिषेध्यस्य हि सम्यग्ज्ञानस्य सहचरं सम्यग्दर्शनं तस्य व्यापकं तत्त्वश्रद्धानं तस्याऽत्राभावः । सहचरव्यापक- २५ कारणानुपलब्धियथा—नास्त्यभव्ये सम्यग्ज्ञानं दर्शनमोहोपशमाद्य- भावादिति । अत्र निषेध्यस्य सम्यग्ज्ञानस्य सहचरं सम्यग्दर्शन तस्य सम्य- परि. ३ सू. १००] स्याद्वादरत्नाकरसहितः ६५ . .. व्यापकं तत्त्वार्थश्रद्धानं तस्य कारणं दर्शनमोहोपशमादिकं तस्य चाभव्ये सुप्रतीत एवाभावः समयवेदिनाम् । सहचरव्यापककारण- कारणानुपलब्धिर्यथा-नास्त्यभव्ये सम्यग्ज्ञानं यथाप्रवृत्तांदिकरणकाल- भाविलब्ध्याद्यभावादिति । अत्रापि प्रतिषेध्यस्य सम्यग्ज्ञानस्य सहचरं सम्यग्दर्शनं तव्यापकं तत्त्वश्रद्धानं तस्य कारणं दर्शनमोहोपशमादि ५ तस्यापि कारणं यथाप्रवृत्तादिकरणकालभाविलब्ध्या दिकं तस्य चाभव्य- प्राणिन्यभावः प्रकट एव । सहचरव्यापककारणव्यापकानुपलब्धिर्यथा- नास्त्यभव्ये सम्यग्ज्ञानं दर्शनमोहोपशमादिसामान्याभावादिति । सम्यग्ज्ञानमिह प्रतिषेध्यं तत्सहचरं सम्यग्दर्शनं तव्यापकं तत्त्वार्थश्रद्धानं तत्कारणं दर्शनमोहोपशमादि तन्यापकं च दर्शनमोहोपशमादित्व- १० सामान्यं तस्याऽभव्ये देहिन्यभावः सुव्यक्त एव । तदित्थं सूत्रोक्तैः सप्त- भिर्भेदैः सहामी मीलिता एकादशभेदा अविरुद्धानुपलब्धेरष्टादश संवृत्ता इति ।। ९८॥ इत्थं भेदप्रभेदपरिकरितामविरुद्धानुपलब्धिमभिधाय सम्प्रति विरुद्धा- नुपलब्धिमभिधातुकामस्तत्प्रकारप्रकटनार्थं तावदाह- विरुद्धानुपलब्धिस्तु विधिप्रतीतौ पञ्चधेति॥९९॥ अविरुद्धानुपलब्धिः पूर्वोक्ता प्रतिषेधसाधिका सप्ताष्टादशप्रकारा वा । विरुद्धानुपलब्धिः पुनरियं विधिसाधिका पञ्चप्रकारा चेत्यन- योर्विशेषः ॥ ९९॥ कुतोऽस्याः पञ्चप्रकारत्वमित्याह- विरुद्धकार्यकारणस्वभावव्यापकसहचरानुपलम्भभे- दादिति ॥ १०॥ विधेयेनार्थेन सह विरुद्धानां कार्यकारणस्वभावव्यापकसहचराणां येऽनुपलम्भा अनुपलब्धयस्तैः कृत्वा भेदो विशेषस्तस्मात् । ततश्च १ भादिशब्दादपूर्वानिवृत्तिकरणम् । - १५ २० ६१६ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ स. १०० ५ १० विरुद्धकार्यानुपलब्धिः, विरुद्धकारणानुपलब्धिः, विरुद्धस्वभावानुपल- ब्धिः, विरुद्धव्यापकानुपलब्धिः, विरुद्धसहचरानुपलब्धिश्च इति विरुद्धा- नुपलब्धिर्विधिसिद्धौ पञ्चधा सिद्धा भवति ॥ १०॥ अथ क्रमेणोदाहरणान्याह- विरुद्धकार्यानुपलब्धियथा, अत्र शरीरिणि रोगाति- शयः समस्ति नीरोगव्यापारानुपलब्धेरिति॥१०१॥ यथाशब्दोऽत्रोत्तरत्र च पूर्ववत् । विधेयस्य हि रोगातिशयस्य विरु- द्धमारोग्यं तस्य कार्य विशिष्टो व्यापारस्तस्यानुपलब्धिरियम् ॥१०१॥ विरुद्धकारणानुपलब्धियथा विद्यतेऽत्र प्राणिनि क- ष्टमिष्टसंयोगाभावादिति ॥ १०२॥ अत्र विधेयं कष्टं तद्विरुद्धं सुखं तम्य कारणमिष्टसंयोगस्तस्यानुप- लब्धिरेषः ॥ १०२॥ विरुद्धस्वभावानुपलब्धिर्यथा वस्तुजातमनेकान्ता- त्मकमेकान्तस्वभावानुपलम्भादिति ॥ १०३ ॥ वस्तुजातमन्तरङ्गो बहिरङ्गश्च विश्ववर्ती पदार्थसार्थः । अम्यते गम्यत निश्चीयत इत्यन्तो धर्मः । न एकोऽनेकोऽनेकश्वासावन्तश्चाने- कान्तः स आत्मा स्वभावो यस्य वस्तुजातस्य तदनेकान्तात्मकं सद- सदाद्यनेक्रधात्मकमित्यर्थः । अत्र हेतुमाह-एकान्तस्वभावस्य सद- सदाद्यन्यतरधर्भावधारणस्वरूपस्यानुपलम्भादनुपलब्धेः ।.अत्र विधेये, २. नानेकान्तात्मकत्वेन सह विरुद्धः सदायेकान्तस्वभावस्तस्य चानुपलम्भः प्रत्यक्षादिप्रमाणेन ग्रहणाभावात्सुप्रसिद्धः । तथा हि, स्वरूपेण सन्तः पररूपेणासन्तः सामान्यविशेषात्मका नित्यानित्याद्यनेकधर्माणः पढार्थाः प्रत्यक्षेण प्रतीयन्ते । न खलु भावमात्रमभावमानं भावाभावौ १५
Jota
परि. ३ स. १०५]
स्याद्वादरत्नाकरसहितः
,
वा स्वतन्त्रौ कदाचन प्रत्यक्षेण समधिगम्यते । नच सामान्यमानं
विशेषमानं सामान्यविशेषौ वा स्वतन्त्रौ तेन निश्चीयते । नापि स्थिरैक-
रूपं तत्त्वं क्षणिकैकरूप तदुभय वा स्वतन्त्र तेन प्रतीयते । तथा न
विज्ञानमेव प्रत्यक्षग्राह्यम् । नाप्युपप्लवमात्रम् । तथाप्रतीतेरभावात् ।
प्रत्यक्षबाधितविषयत्वेनानुमानमपि सदायेकान्तगोचरं न सम्भवतीति ।
तेनापि न तत्सिद्धिः । यथाऽत्र प्रत्यक्षादेरेकान्तग्राहकत्वाभावस्तथा
प्रमाणविषयविवेकावसरे सविस्तरमभिधास्यते ।। १०३ ॥
विरुद्धव्यापकानुपलब्धिर्यथा, अस्त्यत्र छाया, औ-
ण्यानुपलब्धेरिति ॥ १०४ ॥
विधेयया छायया विरुद्धस्तापस्तद्व्यापकमौष्ण्यं तस्यानुपलब्धि- १०
रियम् ॥ १०४॥
विरुद्धसहचरानुपलब्धिर्यथा, अस्त्यस्य मिथ्याज्ञानं
सम्यग्दर्शनानुपलब्धेरिति ॥ १०५॥
विधयेन मिथ्याज्ञानेन विरुद्धं सम्यग्ज्ञानं तत्सहचरं सम्यग्दर्शनं
तस्यानुपलब्धिरसाविति । एते च पञ्च विरुद्धानुपलब्धिभेदाः पूर्वोक्ता- १२
विरुद्धानुपलब्धिभेदाष्टादशकमध्ये यदा प्रक्षिप्यन्ते तदा जातमनुप-
लब्धिलक्षणहेतुचक्रं त्रयोविंशतिभेदस्वभावम् ॥१०५॥
ततश्च-
२०
1
हेतुरनुपलब्ध्याख्यो निषेधद्वारतः स्फुटम् ॥
निषेधविधिसंसिद्धि विदधाति निराकुलम् ।। ५२२ ॥
साध्यज्ञप्तिपताकयाऽतिरुचिरं सद्धेतुचक्रद्वयं
पक्षव्याप्तिधुरीणयोर्युगलकेनाकृष्यमाणं वलात् ॥
एनं यद्यनुमानमानसुरथ सद्वादयुद्धावना-
वारोहन्ति सुवादिभूमिपतयस्तेषा जयश्रीस्तदा ॥ ५२३ ॥
६८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. १०५ निर्णीतं तावदादौ स्मरणमथ कृता प्रत्यभिज्ञाव्यवस्था तारख्यं मानमने प्रकटितमखिलैर्दूषणैर्दूरमुक्तम् ॥ अङ्गीकृत्याऽनुमानं तदनु च विहितः सुप्रतीतो विचारः सारासारखं वित्तैस्तदिदमिह महातार्किकैस्तर्कणीयम् ॥ ५२४॥ श्रीमुनिसुव्रतदेवः सुराधीशविहितपदसेवः ॥ निधूय विघ्नपटली क्रियादीष्टार्थसिद्धिं नः ॥ ५२५ ॥ मद्यं सद्यः सुरविपटिनां सौरभोद्गारसारं पायं पायं सह सहचरैः किन्नरीणां कुलानि ॥ येषामद्याप्यनुपमयशास्यादरेणामराद्रौ गायन्त्यस्मास्वभिमतकृतः सन्तु ते तीर्थनाथाः ॥ ५२६ ॥ सद्वृत्ततापरिगताः स्फुटकान्तिभाजः सन्तापतन्तिपरिमर्दनबद्धकक्षाः मुक्ता इवेह हृदयं न हरान्ति कस्य श्रीमन्मुनीन्द्रमुनिचन्द्रगुरोगिरस्ताः ॥ ५२७ ॥ इति कर्मप्रकृतिप्राभूताम्भोजखण्डाविर्भावनकभास्करसमस्तसु- विहितजनोत्सश्रीमन्मुनिचन्द्रसूरिचरणतामरसोपजीविना श्रीदेवाचा- र्येण विरचिते स्याद्वादरलाकरे प्रमाणनयतत्त्वालोकालङ्कारे स्मरण- प्रत्यभिज्ञानतर्वानुमानस्वरूपनिर्णयो नाम तृतीयः परिच्छेदः ॥ ३ ॥ १० १.चित्तै.' इति प पुस्तके पाठः ।
॥ अथ चतुर्थः परिच्छेदः॥ सम्यकोविदकर्णकोटरकुटीकुडयेपु कस्तूरिका- पङ्कस्थासकतामुपैति परमां यः श्रयमाणः क्षणात् ॥ न्यायन्यासनिरङ्कुशः कथमपि प्राप्तो न चान्यत्कृति तीर्थेभ्यः परमागमः स जयति श्रीवीतरागादितः ॥ ५२८॥ ५ परोक्षाख्यप्रमाणस्य स्मरणादिप्रकारचतुष्टयं स्पष्टमुपदिश्येदानीमा- गमाख्यं पञ्चमप्रकारं बहुवक्तव्यत्वात्परिच्छेदान्तरेणोपदिशन्निदमाह- आप्तवचनादाविर्भूतमर्थसंवेदनमागम इति ॥ १ ॥ आप्त. प्रतिपादयिष्यमाणस्वरूपः, तेन प्रणीतं वचनमाप्तवचनं तस्मादाविर्भूतमुत्पन्नमर्थसंवेदनम् । आगम्यन्ते मर्यादयाऽवबुद्धयन्तेऽर्था १० अनेनेत्यागम इति ॥१॥ ननु यद्यर्थसवेदनमागमस्तार्ह कथमाप्तवचनात्मकोऽसौ सिद्धान्तविदां प्रसिद्ध इत्याशङ्कयाह- उपचारादाप्तवचनं चति ॥२॥ प्रतिपाद्यज्ञानस्य ह्याप्तवचनं कारणमिति कारणे कार्योपचाराचद- १५ प्यागम इत्युच्यते । अत्रानुमानप्रमितौ प्रवेशं शाब्दप्रमाणस्य समाश्रयन्तः ।। शाक्यस्य शिष्याः स्फुरितोरुदर्प युक्ती. स्वपक्षे परिकीर्तयन्ति ॥५२९॥ तथा हि यद्यस्मादभिन्नगोचरमभिन्नजनकसामग्रीसमन्वितं च तत्त- स्मान्न भिद्यते । यथा कुतश्चिदनुमानादनुमाना- २० शब्दमनुमानेऽन्तर्भावयता बौद्धाना खण्डनम् । न्तरम् । अनुमानादभिन्नगोचरोऽभिन्नजनक- सामग्रीसमन्वितश्च शव्द इति । किंच शब्दो १प्र.न ४।४ ।
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. २ विवक्षायामेव प्रमाणम् । न बाह्ये, व्यभिचारात् । न ह्यङ्गुल्यो हस्तियूथशतमास्त इत्यादिशब्दाना बाह्येऽर्थे प्रामाण्यमुपपद्यते । प्रती- तिविरोधात् । तस्यां चैतस्य लिङ्गतैव युक्ता । तदुक्तम् -" विवक्षायां च गम्यायां विस्पष्टैव त्रिलिङ्गता" इति । त्रिभी रूपैरुपलक्षितं ५ लिङ्गं त्रिलिङ्गं तस्य भावस्तत्ता । इत्येवमेते सुगतस्य शिष्याः शब्दानुमानत्वमुदाहरन्ति । मनोरथोऽयं परिपूर्तिमेषां गन्ता न जैनेप्ववधानवत्सु ॥ ५३० ।। तथा हि यत्तावदभ्यधायि यद्यस्मादभिन्नगोचरमित्यादि तन्नानव- द्यम् । अभिन्नगोचरत्वस्य शब्दानुमानयोरसिद्धेः । अर्थमात्र हि १० शब्दस्य गोचरोऽनुमानस्य तु साध्यधर्मविशिष्टो धर्मीति । अपि चाऽन- योगोचराभेदः सामान्यमात्रविषयतया तद्वन्मात्रगोचरतया वा भवेत् । न तावदाद्यः पक्षः । भवताममिमतस्यान्यव्यावृत्तिस्वभावस्य सामान्य- मात्रस्य निषेध्यमानत्वात् । नापि द्वितीयः । प्रत्यक्षस्याऽप्यनुमानत्वा- पत्तेः । तथा तदभेदस्य तत्राऽप्यविशेषात् । तन्नाऽभिन्नगोचरत्वाच्छब्द- १५ स्यानुमानत्वमुपपन्नम्। नाप्यभिन्नजनकसामग्रीसमन्वितत्वात् । अनुमान- जनकसामग्र्याः शब्दे सम्भवाभावात् । पक्षधर्मत्वादिरूपत्रयस्वभावा हि सामत्र्यनुमाने भवद्भिरभिमन्यते । सा च शब्दे न सम्भवति । तथा हि न तावच्छब्दस्य पक्षत्वं युज्यते । धर्मिण एवात्र कस्यचिद- सम्भवात् । अत्र हि धर्मी शब्दोऽर्थो वा स्यात् । न तावच्छब्दः । २० यतस्तत्र शब्दः पक्षधर्मोऽभवन्स्वलक्षणस्वरूपतया वा भवेत्सामान्य- रूपतया वा । नाद्यः पक्षः । एकस्यैव शब्दस्वलक्षणस्य धर्मम्मिरूप- परस्परविरुद्धस्वभावद्वयायोगात् । नापि द्वितीयः । शब्दत्वसामान्यस्य भवन्मते परमार्थसतोऽसम्भवात् । कल्पितस्य तु सत्त्वेऽपि न गमकत्वम् । अर्थो ह्यर्थ गमयतीति भवद्भिरेव स्वीकरणात् । भवतु वा यथा कथंचि- २५ च्छन्दः पक्षधर्मः । तथाऽप्येतैः शब्दस्य धर्मिणः किमर्थविशिष्टत्वं साध्यतेऽर्थप्रत्यायनशक्तियुक्तत्वमर्थप्रतीतिविशिष्टत्वं वा । तत्र प्रथम- परि. ४ सू २] स्याद्वादरत्नाकरसहितः ६२१ - .. पक्षोऽयुक्तः । पर्वतपावकयोरिव शब्दार्थयोर्धम्मधर्मिभावासम्भवात् । आश्रितो हि धर्मो भवति । न चार्थ. शब्दाश्रितः । शब्दानाश्रितस्यै- वाऽर्थस्यागोपालं सुप्रतीतत्वात् । अथाऽर्थप्रत्यायनशक्तियुक्तत्वं शब्दस्य साध्यते तदप्यसाधु । तदर्थं शब्दप्रयोगासम्भवात् । न ह्यर्थप्रतिपा- दनशक्तिसिद्धये शब्दः प्रयुज्यते, किन्त्वर्थसिद्धये । अथाऽर्थप्रतीतिवि- ५ शिष्टत्वं शब्दस्य साध्यते । नन्वर्थप्रतीतिः शब्दोत्थाऽन्योत्था वा भवेत् । नाद्यः पक्षः। शब्दादर्थप्रतीतेस्त्वयाऽनभ्युपगमात् । न द्वितीयः । अन्योत्थयाऽर्थप्रतीत्या सह शब्दस्य संबन्धासिद्धितस्तद्वैशिष्ट्यासम्भ- वात् । तन्न शब्दस्य धर्मित्वं घटते । नाऽप्यर्थस्य । तेन सह शब्दस्य सौगतैः सम्बन्धास्वीकारात् । न हि तादात्म्यस्वरूपस्तदुत्पत्तिस्वरूपो १० वा सम्बन्धः शब्दार्थयोस्ताथागतेः स्वीक्रियते । न ह्यर्थे शब्दाः सन्ति तदात्मानो वा" इत्यादिवचनस्य विरोधानुषक्तेः । न चार्थे- नाप्रतिबद्धा ध्वनिस्तस्य धर्मोऽतिप्रसक्तेः। अथाऽर्थप्रतीतिहेतुत्वात्तद्धर्मोऽ- सौ । न । इतरेतराश्रयानुषड्गात् । पक्षधर्मत्वासद्धौ हि शब्दस्यार्थप्रती- तिहेतुत्वसिद्धिस्तत्सिद्धौ च पक्षधर्मत्वसिद्धिरिति । तत्प्रतीतिहेतुत्वेन १५ चाऽस्य तद्धर्मत्वे चक्षुरादेरपि पक्षधर्मतासिद्धेस्तजन्याऽपि प्रतीतिरानुमा- निवयेव भवेत् । तन्न पक्षधर्मत्वं ध्वनेः सम्भवति । नाप्यन्वयव्यति- रेको । देशे काले च शब्दार्थयोरनुगमाभावात् । तथा हि-"क्रीड- केकिकदम्बकण्ठविलुठत्केकायितव्याकुले, कुत्रापि स्फटिकाद्रिकूट- कुहरे सान्द्रदुमद्रोणिनि । कस्मीरेष्यधुनाऽपि साऽत्र भवती सान- न्दविद्याधरीवृन्दैर्वन्द्यपदाम्बुजा विजयते श्रीशारदा देवता ॥१॥" इत्यादि पाठेषु प्रतिदेशे शारदादिशब्दो व्यवहारिभिः श्रूयते । न च तदर्थस्तत्र सत्प्रतीयते । यत्र हि धूमस्तत्राऽवश्यं वह्निरस्तित्वेन प्रसिद्धोऽ- न्वेता भनति धूमस्य । न त्वेवं दशकृतः शब्दस्यार्थेनान्वयोऽस्ति । नापि कालकृत. न हि यत्र काले शब्दस्तत्र तदर्थोऽवश्यं सम्भवति । यतः, २५ "नम्रस्वर्गिसमूहशेपरजतस्रग्भिः समृद्धांघ्रिभूजर्जातस्तीर्थपतिः किला- २० ६२२ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. ४ सू. २ त्र भगवान् श्रीवर्धमानाभिधः॥ एतेनैव समानसर्वमहिमा तीर्थाधि- नाथस्तथा, भावी भारतवर्षमस्तकमाणिः श्रीपद्मनाभाह्वयः ॥१॥" इत्यादौ वर्धमानपद्मनाभादिशब्दा वर्तमानास्तदर्थस्त्वतीतो भावी चेति कुतोऽर्थानां शब्दान्वेतृत्वम् । अन्वयाभावे च व्यतिरेकस्याऽप्यभावः, ५ तत्पूर्वकत्वात्तस्य । यच्चोक्तं शब्दो विवक्षायामेव प्रमाणमित्यादि । तदपि तर्करहस्यानभिज्ञस्य व्याहृतम् । विवक्षायां शब्दप्रमाणस्यासम्भ- वात् । तन्मात्रविषयत्वे ह्यर्थे प्रवृत्त्यादिहेतुत्वानुपपत्तिः । तदविषयत्वात् । यद्यद्विषयं न भवति न तत्तत्र प्रवृत्त्यादिहेतुर्यथा रूपज्ञानं रसाविषयं रसे । न भवति च बहिरर्थविषयो भवन्मते शब्द इति । न चैत- १० दुपपन्नम् । प्रतीतिविरोधात् । ततो बहिरर्थगोचरत्वमेव शब्दस्य सङ्गतिमङ्गति । यत्खलु यत्र प्रवृत्त्यादिहेतुस्तत्तद्गोचरं यथा रसज्ञानं रसप्रवृत्त्यादिहेतू रसगोचरम् । बहिरर्थे प्रवृत्त्यादिहेतुश्च शब्दः । न चात्र हेतुरसिद्धः । प्रत्यक्षवच्छब्दाबाहिरर्थे प्रवृत्त्यादिप्रतीतेः । यथा हि प्रत्यक्षात्प्रतिपत्तप्रणिधानादिसामग्रीसापेक्षात्प्रत्यक्षेऽर्थे प्रवृत्त्यादि- १५ प्रतीतिः सकललोकप्रसिद्धा तथा सङ्केतादिसामग्रीसापेक्षाच्छब्दाच्छ- ब्दार्थेऽपीति । न चार्थेऽर्थिनामर्थित्वादेव प्रवृत्ते शब्दोऽप्रवर्तक इति कीर्तनीयम् । प्रत्यक्षस्याप्येवं प्रसक्तेः । तद्गोचरेऽप्यर्थेऽर्थित्वादेव प्रवृत्ति- प्रतीतेः । परम्परयाऽत्र प्रवर्तकत्वे शब्देऽपि तथास्तु । विशेषाभावात् । का चेयं विवक्षा नाम। यद्गोचरत्वं शब्दस्य शव्द्यते । किं शब्दोच्चारणे- २० च्छामात्रमनेनामुमर्थं प्रतिपादयामीत्यभिप्रायो वा । आद्यकल्पनायां वक्तृश्रोत्रोः शास्त्रश्रवणप्रणयनादौ प्रवृत्तिन प्राप्नोति । न खलु कश्चि- द्वालिशः शव्दनिमित्तेच्छामात्रप्रतिपत्त्यर्थं शास्त्रं प्रणेतुं श्रोतुं वा प्रवर्त्तते । दशदाडिमादिवाक्यैः सह सकलवाक्यानामविशेषापत्तिश्च । सर्वेषा स्वप्रभवेच्छामात्रकानुमापकत्वाविशेषात् । अथ द्वितीयकल्पः । २५ तथा हि-"पादपार्थविवक्षावान्पुरुषोऽयं प्रतीयते ॥ वृक्षशब्दप्रयो- १ गच्छति ।
परि. ४ सू. ३] स्याद्वादरत्नाकरसहितः - - - क्तृत्वात्पूर्वावस्थास्यहं यथा ॥१॥ " इति । तदप्यशोभनम् । व्यभिचारात् । न हि शुकसारिकोन्मत्तप्रभृतयस्तथाभिप्रायेण वाक्यमु- चारयन्तः प्रतीयन्ते । अपि च समयानपेक्षः शब्दस्तादृशमभिप्रायं गम- येत्समयसापेक्षो वा । प्रथमपक्षे न कश्चित्वचिद्भाषानभिज्ञः स्यात् । समयापेक्षस्तु शब्दोऽर्थमेव किं न गमयेत् । न ह्ययं तपस्वी बाह्यार्था- ५ द्विभेति येन तत्र न साक्षात्प्रवर्तेत । अशक्यसमयत्वान्न शब्दोऽर्थ गमयतीत्यपर्यालोचितवचनम् । अभिप्रायेऽपि तदगमकत्वप्रसङ्गात् । तत्रापि तस्याशक्यसमयत्वाविशेषात् । असिद्धं च शब्दस्याशक्यसम- यत्वम् । " स्वाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं शब्दः" इत्यत्र वक्ष्यमाणसूत्रे तच्छक्यसमयत्वस्य । प्रबन्धनाभिधास्यमानत्वात् । ततश्च सिद्धमिदम् । शब्दो वक्त्रभिप्रायाद्विन्नार्थविषयः सत्यानृतव्यव- स्थोपेतत्वात् । यदित्थं तदित्थं यथा प्रत्यक्षादि । तथा च शब्दस्त- स्मात्तथेति । एवं च न विवक्षायामेव शब्दस्य प्रामाण्यमिति । ततः शब्दो नानुमानं तद्विभिन्न विषयत्वात् , तद्विभिन्नसामग्रीसमन्वितत्वाच्च प्रत्यक्षवत् । तस्मादेतल्लिनिकाद्भिन्नरूपं स्वकिर्त्तव्य शाक्यसिंहस्य शिप्यैः । शाब्दमानं यद्विना नावगन्तुं शक्यन्तेऽर्थाः स्वर्गमुख्या:परोक्षाः॥५३१॥ ॥२॥ अत्रोदाहरणमाह- समस्त्यत्र प्रदेशे रत्नविधानं सन्ति रत्नसानुप्रभृतय २० इति ॥३॥ रत्नसानुर्मेरुः । अत्र प्रथमोदाहरणं लौकिकजनकाद्याप्तवचनापेक्षयेति . . । । १.न प.४ स.११।
६२४ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. ४ सू. ४ कीदृशः पुमानाप्तः स्याद्यद्वचननिवन्धनमर्थावबोधनमागमप्रमाण- तया सम्मतमित्याशङ्कयाप्तलक्षणमाह- अभिधेयं वस्तु यथावस्थितं यो जानीते यथाज्ञानं चाभिधत्ते स आप्त इति ॥४॥ अभिधेयं वस्तु रत्ननिधानरत्नसानुप्रभृतिकं यथावस्थितं येन स्वरूप- प्रकारेण व्यवस्थितं यः कश्चिज्जानीते प्रत्यक्षादिप्रमाणतो निश्चिनोति यथाज्ञानं ज्ञानानतिक्रमेणाभिधत्ते स आप्तः । आप्यते उपदिष्टोऽर्थोऽ- स्मादित्याप्त इति व्युत्पत्तेः ॥ ४ ॥ अथ कस्मादेवंविधस्यैवाप्तत्वमित्याशङ्कयाह- तस्य हि वचनमविसंवादि भवतीति ॥५॥ यो हि यथावस्थिताभिधेयवस्तुपरिज्ञाने निपुणः परिज्ञानानुसारेण तदुपदेशकुशलश्च तस्य हि यस्माद्वचनमविसंवादि विप्रलम्भपरिभ्रशतः संवादिकं भवति नाऽन्यस्य । ततो यथोक्तलक्षणलक्षितस्यैवातत्वम् । एतेन च " यो यस्यावञ्चकः स तस्याप्त इति " ऋष्याम्लेिच्छ- १५ साधारणं वृद्धप्रणीतमात्मलक्षणमनूदितं भवति ।। ५॥ कतिविघोऽयमाप्त इत्याह- स च द्वेधा लौकिको लोकोत्तरश्चेति ॥६॥ लोके सामान्यजन्यरूपे भवो लौकिकः । लोकादुत्तर. प्रधान मोक्षमार्गोपदेशकत्वाल्लोकोत्तरश्चाप्त इति ॥६॥ तावेव निदर्शयन्नाहः लौकिको जनकादिलोकोत्तरस्तु तीर्थकरादित इति ॥७॥ लौकिक आप्तो जनकादिः। आदिशब्देनजनन्यादिपरिग्रहः। लोको- - २० परि. ४ सू. ७] स्याद्वादरत्नाकरसहितः ६२५ त्तरः पुनराप्तस्तीर्थकरादिः। आदिशब्देन गणधरप्रत्येकबुद्धादीनां ग्रहणम्। तत्र येनेह प्रबलयुक्तिकीलिकाकलापाक्रान्तकर्कशानेकप्रमेयरज्जुसहलो- पनिबद्धप्रचुरप्रकरणफलककोटिघटनापिशङ्कटेन शिशिरमरीचिमण्डलोद- ञ्चत्प्रचुररुचिसञ्चयसुचारुचारित्रोच्चकूपस्तम्भावष्टम्भमिष्टमहिष्टोपजायमा- ननानाविधोपद्रवप्रबन्धप्रध्वंसविधानसावधानविशुद्धबुद्धिनिधानसद्गुरुक- ५ र्णधारप्रेरणीयेन प्रबुद्धधीवरसहस्रप्रेर्यमाणानेकप्रकारनयारिनिकुरुम्बन भूरिभङ्गभनिगमग्राममहाकेतुकोटिसङ्कटेन परमार्थोपार्जनोपजायमाना- समानमनोरथजनैकसेवनीयेन नितान्तदुष्टवाचाटतीर्थिककुटुम्बका- कस्मिकक्रियमाणमहाकोलाहलकालिकावातेनाऽप्यक्षोभमाणेन प्रतिक्षण- विचक्षणसभामूर्त्यमाणसूक्ष्मकादिविचारप्रपञ्चप्रचुरगृह्यकवातसन्ताना- १० पूरिततत्त्वार्थमयसितपटेन यानपात्रेनेव जन्मजरामरणक्षारनीरनिरन्तर- मनवरतोपजायमानमनोरथमहोमिमालाव्याकुलमाकस्मिकातिदुर्वाररौद्र- परिणाममहावेलासहस्रहेतुचतुःकषायपातालकलशमलं सविलं सद्वि- पुलप्रियविप्रयोगप्रमुखदुःखनिकरभयङ्करमकरपरम्परापरिचयदुरालोकम- तिविकटमकरकेतुतिमिजिलकरालवक्त्रकुहरान्तमूर्छदतुच्छसत्त्वसन्दोह- १५ मुदग्रमिथ्यात्वकालकूटच्छटलाञ्छितकुक्षिकुहरमनेककदाग्रहग्राहनिवह- ममन्दप्रवादकादम्बरीस्वादनोन्मत्तम्रमद्भूरिजलजन्तुसन्तानमतिदुरतिक्र- ममहामोहावर्त्तरौद्रं भवसमुद्रं भविनस्तरन्ति तत्तीर्थम् । प्रवचनमिति यावत् । ततश्चाचिन्त्यमाहात्म्यमहापुण्यापराभिधानतीर्थकरनामकर्म- विषाकादेवंविधतीर्थकरणशीलस्तीर्थकरश्रीवर्धमानजिनप्रमुखः पुरुष- २० विशेष इति । अत्राहुजैमिनीयाः- रागद्वेषाकलुषितमतिस्तीर्थकृन्नास्ति कश्चित् रागद्वेषविनिर्मुक्त पुष्पवि- शेषमनभ्युपगच्छता वेदा- यः स्यादाप्तो बत कथमहो तद्वचः स्यात्प्रमाणम् । पौरुषेयत्ववादिना मीमांस-वेदस्तस्मात्पुरुषवचनालाल्छनोन्मुक्तमूर्तिः कानां पूर्वपक्ष सविस्तरमु प्रामाण्यश्रीविलसदसमप्रेमपात्रं समस्तु॥५३२॥ च पुरुषवचनालाञ्छनोन्मुक्तमुर्तित्वं १ प्रत्येक बाह्य वृषभादिक कारणमभिसमीक्ष्य बुद्धा. प्रत्येक्वुद्धाः । २५ पपाय तत्खण्डनम् । न ६२६ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. ७ चात्र १० तस्यासिद्धम् । तथाहि वेदोऽपौरुषेयः कर्तस्मरणयोग्यत्वे सत्यस्म- र्यमाणकर्तृकत्वाद्यदित्थं तदित्थं यथाकाश इति । न हेतोरसिद्धिः । यदि हि वेदे कर्ता भवेत्तदा वेदार्थानुष्ठानकालेऽ- नुष्ठातृणामनिश्चितवेदप्रामाण्यानां तत्प्रमाणताप्रसिद्धये तद्गोचरस्मरण- माविर्भवेत् । ये हि यच्छास्त्रार्थानुष्ठाने प्रवर्त्तन्ते ते तच्छास्त्रकार नियमेन स्मरन्ति यथाऽष्टकाद्यानुष्ठानार्थिनस्तत्प्रणेतारं मनुम् । वेदविहितार्थानुष्ठाने प्रचुरद्रविणव्ययोत्पन्नपरिश्रमनिवर्तनीयाग्निहोत्रादि- कर्मलक्षणे प्रवर्त्तन्ते च प्रेक्षाशालिनोऽतस्तेषां महती वेदकर्तृस्मरणा- पेक्षा । ते ह्यनुपलब्धफलेषु नानाविधकर्मस्वेवं निःसन्देहाः प्रवर्तेरन्, यदि तेषां तद्विषयः सत्यतानिश्चयः सम्पन्नो भवेत् । न चासौ तदुप- देष्टुः स्मरणाभावे युज्यते । पित्राद्युपदेशवत् । यथैव हि पित्रादिक- मुपदेष्टारं स्मृत्वा स्वयमदृष्टफलेप्वपि कर्मसु तदुपदेशात्प्रवर्त्तन्ते पित्रा- दिभिरेतदुपदिष्टं तेनानुष्ठीयत इति । एवं वैदिकेष्वपि कर्मस्वनुष्ठीय- मानेषु कर्तुः स्मरणं स्यात् । न चाभियुक्तानामपि वेदार्थानुष्ठातृणा त्रैवर्णिकाना तत्स्मरणमस्ति, अतोऽसौ तत्र नास्तीति निश्चीयते । कर्तृस्मरणाभावश्च छिन्नमूलत्वात् । स्मरणस्य ह्यनुभवो मूलम् । न चासौ वेदकर्तृविषयत्वेन विद्यते । तत्कथं तत्स्मरणसम्भावनाशङ्काऽपि । न च रचनावत्त्वेनात्र भारतादिवत्कर्तृसद्भावप्रसिद्धर्नास्य छिन्नमूल- त्वमित्यभिधातव्यम् । वेदरचनायाः कर्तृपूर्वकरचनाविलक्षणत्वात् । तथा हि- यद्भोः दुस्सवदुर्भणध्वनिगणः सर्वेन्द्रियागोचर- स्यार्थस्य प्रतिपादनं प्रतिपदं भङ्गिर्न वा छन्दसाम् ॥ लोकव्याकरणाप्रयुक्तविविधध्वानप्रबन्धस्तथा मन्त्राणां महिमा स कोऽपि रचना वेदे तदन्या ध्रुवम् ॥५३३|| ये त्वादृशास्तु न पठन्ति न वाश्रयन्ति शृण्वान्त नापि मुवनाद्भुतभूतमेतम् ।। २० २५ परि. ४ सू. ७] स्याद्वादरत्नाकरसहितः ६२७ जानन्ति ते कृशधिया कथमप्रमेय माहात्म्यमस्य रचनासु कथञ्चनापि ॥ ५३४ ॥ न च रचनमात्रस्योपलम्भाद्वेदे कर्बनुमानमुपपन्नम् । विश्वस्य बुद्धिमत्पूर्वकत्वानुमानप्रसङ्गतोऽनभिमतसिद्धिप्रसक्तेः । ततो यादृशी रचना कर्जन्वयव्यतिरेकानुविधायिनी समधिगता तादृश्येव परिदृश्य- माना क रमनुमापयन्तीत्यङ्गीकर्तव्यम् । अतः कथं वेदे ततः कत्रनु- मानशङ्काऽपि सम्भाव्यते । ततः सिद्धमिदम् । वैदिकी रचना पौरुषेयी न भवति दृष्टकर्तृकरचनाविलक्षणत्वादन्तरिक्षवदिति । तथा, " वेदस्याध्ययनं सर्व गुर्वध्ययनपूर्वकम् ॥ वेदाध्ययनवाच्यत्वा- दधुनाऽध्ययनं यथा ॥१॥ अतीतानागतौ कालौ वेदकारविवर्जितौ ॥ १० कालत्वात्तद्यथा कालो वर्तमानः समीक्ष्यते ॥ २ ॥ इत्या- भ्यामप्यनुमानाभ्यां वेदस्यापौरुषेयत्वं सिद्धिसरणिमनुसरति । नन्वा- प्तप्रणीतत्वाभावे कथमस्य प्रामाण्यं स्यादिति चेत् । अपौरुषेयत्वा- वचनस्य पुरुषदोषानुप्रवेशेनैवाप्रामाण्यप्रसिद्धेः । यथोक्तम्---" शब्दे दोषोद्भवस्तावद्वक्त्रधीन इति स्थितिः ।। तद- १५ भावः क्वचित्सिद्धो गुणवद्वक्तृकत्वतः ॥ १॥ तद्गुणैरपकृष्टानां शब्दे संक्रान्त्यसम्भवात् । यद्वा वक्तुरभावेन न स्युर्दोषा निरा- श्रयाः ॥२॥" इति । तदभाव इति दोषाभावः । क्वचिदिति लौकिक- वाक्ये । तद्गुणैरिति गुणवद्वक्तृगुणैः । वेदे हि गुणवान्वक्ता दुनिस्तेन दोषाभावोऽप्यशक्यनिश्चयः। कर्तुरभावे तु सुखेनैव निश्चीयते । तथा हि- २० " दोषाः सन्ति न सन्तीति पौरुषेयेषु युज्यते॥ वेदे कर्तुरभावाद्धि दोपाशङ्कच नास्ति नः ॥ १॥ नन्वाप्तगुणसंक्रान्त्यैव शब्दस्य प्रामाण्यं वेदे चाप्तप्रणीतत्वाभावतस्तत्संक्रान्त्यसम्भवात्कथं प्रमाणत्व- मिति चेत् । तदयुक्तम् । यतो नाप्तगुणसंक्रान्त्या वेदे प्रमाणत्वम् । देवेति ब्रूमः । १ श्लो. वा. अ. १ पा. १ सू. ७ श्लो. ३६६ । २ श्लो. वा. अ. १ पा. १ सु. २ श्लो. ६२।६३॥
६२८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. ७ शब्दोच्चारण एवाप्तस्य व्यापारात् । शब्दः पुनरविसंवादिनी वस्तु- प्रतीतिं विदधानः स्वमहिन्नैव प्रमाणम् । न चैवमनाप्तस्यापि तदु- च्चारणमात्रे व्यापाराच्छब्दः स्वमहिम्नैवाऽसत्यार्थप्रतिपत्तिं कुर्वाणोऽ- प्रमाणमित्यभिधानीयम् । अनाप्तप्रणीतत्वादिदोषाणामप्रामाण्योत्पादना- ५ दन्यप्रयोजनाभावात् । आप्तप्रणीतत्वाभावान्न प्रामाण्यमप्रामाण्यं वेत्यु- च्यते । तदप्यनुचितम् । यत्र हि पुरुषकृता पदानुपूर्वी तत्र तदपेक्ष प्रामाण्यमप्रामाण्यं वा भवेत् । वेदानुपूर्व्यास्तु नित्यत्वात्स्वसामर्थ्य नै- वाऽर्थावबोधकत्वात्पुरुषनिरपेक्षमेव प्रामाण्यम् । न हि तादृशीमानुपूर्वी कश्चित्कर्तुं क्षमः । पूर्वसिद्धानुपूर्वीतोऽपूर्वानुपूर्वीकरणे कस्यचित्स्वा- १० तन्त्र्यासम्भवात् । कुर्वाणो वा ता तदध्येतृभिरन्यैबहुभिर्निवार्यते । तदु- तम्-“ अन्यथा करणे चास्य बहुभ्यः स्यानिवारणा" इति । एवं च--- यत्राश्रान्तं विशदमनसः पक्षपातं श्रयन्ते यः सर्वेषा शुभफलजुषा कर्मणामेकदीपः । यं चाद्यापि प्रगुणितधियो धीयते सर्वतोऽपि १५ स्वीकर्त्तव्यः स इह विवुधैर्वेद एव प्रमाणम् ।। ५३५ ।। चित्तेऽस्तु काममुपयातु ततोऽपि कण्ठं हे श्रोत्रिय स्वमतदुर्धरपक्षपातात् ॥ यत्कण्ठतोऽपि पुनरेतदुपैति वक्त्र- २० मस्मन्मनः किमपि तेन हणीयते स्म ।। ५३६ ॥ तथा हि यत्तावन्न्यगादि रागद्वेषाकलुषितमतिस्तीर्थकृन्नास्ति कश्चिदित्यादि तद्विस्मरणशीलता सूचयति देवानाप्रियस्य । सकल- त्रिलोकीसमाकलनाकौशलशालिनः पुरुषधुरीणस्य पूर्व सविस्तरमु- पपादितत्वात् । यदपि कर्तृस्मरणयोग्यत्वे सत्यस्मर्यमाणकर्तृकत्वादि- १ मी. श्लो. वा. सू. २ श्लो १५०.
परि. ४ सू. ७] स्याद्वादरत्नाकरसहितः ६२९ त्याद्यवादि तत्रास्मर्यमाणकर्तृकत्वमसिद्धम् । कर्तृस्मरणाभावग्राहक- प्रमाणाभावात् । न खलु प्रत्यक्षं तबाहकम् । प्रतिनियतरूपादिगोच- रचारित्वेनाभावे तस्य प्रवृत्त्यसम्भवात् । सम्मवे वाऽभावप्रमाणकल्पना- वैफल्यम् । तत्साध्यस्याध्यक्षत एव प्रसिद्धेः । अभावप्रमाणात्तत्सिद्धौ तु कर्तृस्मरणाभावगोचरस्याभावप्रमाणस्योत्पत्तौ कारणं वाच्यम् । गृही- ५ त्वा वस्तुसद्भावमित्यादिना सूचितं तत्कारणमस्तीति चेत् । नन्वतः प्रादुर्भूतमभावप्रमाणं तदभावं साश्रयमेव प्रसाधयेत् । गृहीत्वा वस्तु- सद्भावमित्यभिधानात् । अनेन हि निषेध्याधारवस्तुग्रहणमभिदधता भट्टेन निषेध्याभावाश्रयः सूचित एव । अन्यथा प्रतिनियतवृत्तितया कर्तृस्मरणाभावसिद्धिस्ततो दुर्लभा । आश्रयश्चास्य स्वात्मा सर्वे प्रमा- १० तारो वा । यदि स्वात्माऽमुष्मिन्मदीय आत्मनि वेदकर्तृस्मरणं नास्तीति किमेतावता सिद्धम् । पदार्थजातस्यानेकस्यातः स्मरणं नास्ति न चैतावता तस्याभावः सिद्धयति । अथ ममानुष्ठानेऽवश्यं स्मर्तव्योऽसौ यदा स्मृतिपदप्रस्थायी न भवति तदाऽसन्निति निश्चीयत इत्यप्य- सारम् । यत.- यद्यद्वस्तु समस्ति न स्मृतिपथप्रस्थायि ते भो वटो विस्पष्टं यदि तस्य तस्य सकलस्यासत्त्वमाभाषसे ।। एवं तर्हि पितामहस्य पितरं मातामहीमातरं तन्मातापितरौ च न स्मरसि तत्तेषामभावो भवेत् ।।५३७॥ तेषामभावे च भवेदभावः कथं न हि त्वत्कपितामहादेः ।। तथा सति स्याद्भवतोऽप्यभावः स्वेनामुना कुत्सितशङ्कितेन ॥ ५३८ ॥ तथा- समुत्पन्नेऽप्यर्थे स्वयमपि धृतं वस्तु किमपि क्वचित्कस्याप्यत्र व्रजति सहसा विस्मृतिपदम् ।। न चैतावन्मानादभवनममुष्य प्रवदितुं त्वया शक्यं तस्माद्यभिचरितमेतत्तव वचः ॥ ५३९ ॥ १५ २० है २५ ६३० प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. ७ अथ सर्वे प्रमातारः । ननु त्रैलोक्योदरविवरवर्तिन. प्रमातारो वेदकर्तारं न स्मरन्तीत्यसर्वविदो वेदनानुपपत्तिः । अपि च सर्वप्रमातृ- देशान्गत्वा ताश्च पृष्ट्वा तत्र कर्तृस्मरणाभावः प्रतीयेताऽन्यथा वा । न तावदन्यथा, सर्वज्ञत्वानुषङ्गादेव । गत्वा चेन्ननु तत्र गत्वा तेषु ५ पृष्टेषु न स्मराम इति प्रतिवचनं ब्रुवाणेष्वपि को नाम विश्रम्भः । न हि तेषु सर्वेष्वसर्वज्ञस्य युगपत्क्रमाभ्यामाप्तताप्रतीतिः सम्भवति । यत- स्तद्गुणसंक्रान्त्या तत्र प्रामाण्यं स्यात् । किंच अभावप्रमाणस्य तत्र प्रवृत्तिर्यत्र वस्तुसद्भावग्राहकं प्रमाणपञ्चकं न प्रवर्तते । प्रमाणपञ्चकं यत्रेत्याद्यभिधानात् । न चैवमिहास्ति । वेदस्य पुराणस्य च शाब्द- १० प्रमाणस्य वेदकर्तरि प्रवर्त्तनात् । वेदवाक्यं हि-"रुद्रं वेदकर्तारं, यो ब्रह्माणं विदधाति पूर्व वेदांश्च प्रहिणोति, तथा-प्रजापतिः सोम राजानमन्वसृजत्तत्र त्रयो वेदा अन्वसृजन्त" इत्यादिकम् । पुराणं च- " प्रतिमन्वन्तरं चैषा श्रुतिरन्या विधीयते" "अनन्तरं तु वस्त्रेभ्यो वेदास्तस्य विनिःसृताः” इत्यादि कर्तृसद्भावावेदकमनेकधा श्रूयते । १५ स्मृतिपुराणादिवञ्च काण्वमाध्यन्दिनतैत्तिरीयादयः शाखाभेदास्तकर्तृ- त्वादेव तत्तदृषिनामाङ्किता इति कथमस्मर्यमाणकर्तृकाः। अथ तद्दष्ट- त्वात्तत्प्रकाशितत्वाद्वा तन्नामाङ्किता इति चेत् । तन्न । यतो यदि ताव- दुत्सन्नाः शाखामेदाः कण्वादिना दृष्टाः प्रकाशिता वा । तदा कथमेषां सम्प्रदायाविच्छेदोऽतीन्द्रियार्थदर्शिनः प्रतिक्षेपश्च स्यात् । अथानव- २० च्छिन्ना एवैते सम्प्रदायेन दृष्टाः प्रकाशिता वा । तर्हि यावद्भिपा- ध्यायैदृष्टाः प्रकाशिता वा तावन्नामभिरेषां किन्नाङ्कितत्वं स्यात् । अविशेषात् । अपि चाऽन्ये वादिनः स्मरन्ति वेदस्य कर्तारमित्यसिद्ध- मेवाऽस्मर्यमाणकर्तृकत्वम् । अथोच्यते, अस्ति तेषा वेदे कर्तृस्मरण किन्तु सविगानम् । तत्कर्तविशेषविप्रतिपत्तेः । तथा हि--योगा रुद्र- २५ कर्तृकत्वं तस्याहुः । जैनाः कालासुरकर्तृकत्वम् । सौगतास्त्वष्टककर्त- कत्वम् । अतोऽप्रमाणं तदिति । तदप्युक्तिमात्रम् । यतः कर्तृविशेषे ।
.. परि. ४ सू. ७] स्याद्वादरत्नाकरसहितः ६३१ विप्रतिपत्तेस्तद्विशेषस्मरणमेवाप्रमाणं स्यान्न कर्तृमात्रस्मरणम् । अन्यथा कादम्बर्यादीनामपि कर्तृविप्रतिपत्तेः कर्तृमात्रस्मरणस्या- प्रमाणत्वेनास्मर्यमाणकर्तृकत्वे सत्यकर्तृकत्वं स्यात् । अथ वेदे कर्तृ- विशेषविप्रतिपत्तिवत्कर्तृमात्रेऽपि विप्रतिपत्तेस्तन्मात्रस्मरणमप्यप्रमाणम् । कादम्बर्यादीनां तु कर्तृविशेष एव विप्रतिपत्तेस्तत्प्रमाणमतो नाकर्तृक- ५ त्वम् । ननु वेदे योगादयः कर्तारं स्मरान्त न मीमांसका इत्येवं कर्तृमात्रे विप्रतिपत्तेर्यदि तदप्रमाणं तर्हि तद्वत्तदस्मरणमप्यप्रमाणं किं न स्यात् । विप्रतिपत्तेरविशेषात् । तथा चायमसिद्धो हेतुः। किंच, अस्मर्य- माणकर्तृत्वं वादिनः प्रतिवादिनः सर्वस्य वा सम्बन्धि हेतुत्वेनाभि- मतं भवेत् । यदि वादिनस्तर्हि तदनैकान्तिकम् । वटे वटे वैश्र- १० वण इत्यादिषु विद्यमानकर्तकेष्वपि जैमिनीयैरस्मर्यमाणकर्तृकेष्वस्य सद्भावात् । ननु वेदे कञभावपूर्वकमस्मर्यमाणकर्तृकत्वमत्र तु कर्चनुप- लम्भमात्रपूर्वकं तत्कथमनैकान्तिकमित्यपि मनोरथमात्रम् । यतः कुतोऽत्र कञभावसिद्धिः। प्रमाणान्तरादत एव वा । यदि प्रमाणा- न्तरात् । तदाऽस्यानर्थक्यम् । अत एव चेत्, परस्पराश्रयः । अतो १५ ह्यनुमानात्तदभावसिद्धौ तत्पूर्वकमस्मर्यमाणकर्तृकत्वं सिध्येत्तत्सिद्धौ चानुमानात्तदभावसिद्धिरिति । अथ प्रतिवादिनः सम्बन्धि तद्धेतुत्वेन विवक्षितम् । तदसिद्धम् । तत्र हि प्रतिवादी स्मरत्येव कर्तारम् । एतेन सर्वस्यास्मरणं प्रत्याख्यातम् । यदप्युक्तम् । ये हि यच्छास्त्रार्था- नुष्ठाने प्रवर्तन्ते ते तच्छास्त्रकर्तारं नियमेन स्मरन्तीत्यादि । २० तदप्यनल्पतमोविलसितम् । नियमाभावात् । न हि यो धर्मशील इत्यादिवाक्येभ्यस्तदर्थानुष्ठाने प्रवर्तमानानामनुष्ठातृणा तत्कर्तृस्मरणमस्ति । तदन्तरेणापि धर्मशीलताद्यर्थानुष्ठाने महापुरुषार्थो- पयोगिन्यैहिकपारत्रिकभयाभावहेतौ प्रवृत्तिप्रतीतेः । यच्चान्यदुक्तं छिन्नमूलत्वादित्यादि । तदप्यसुन्दरम् । यतोऽध्यक्षेणानुभवाभावात्तत्र २५ कर्तृस्मरणं छिन्नमूलं प्रमाणान्तरेण वा । अध्यक्षेणेति चेत् । किं प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. ७ भवत्सम्बन्धिना सर्वसम्बन्धिना वा । यदि भवत्सम्बन्धिना। ताग- मान्तरेऽपि कर्तृसद्भावग्राहकत्वेन भवत्प्रत्यक्षस्याप्रवृत्तेस्तत्कर्तृस्मरणस्य च्छिन्नमूलत्वेनास्मर्यमाणकर्तृकत्वस्य भावाव्यभिचारी हेतुः । अथ तत्र तदाहकत्वेनास्मत्प्रत्यक्षस्याप्रवृत्तावपि परैः कर्तृसद्भावाभ्युपगमान्न ५ व्यभिचारः । तन्न । परकीयाभ्युपगमस्य भवतोऽप्रमाणत्वात् । अन्यथा वेदेऽपि परैस्तत्सद्भावाभ्युपगमादस्मर्यमाणकर्तृकत्वादित्यसिद्धो हेतुः स्यात् । सर्वसम्बन्धिना चेत् । सोऽसिद्धोऽग्दिशा तस्यावसातुम- शक्यत्वात् । अथ प्रमाणान्तरेणानुभवाभावः । तन्न । आगमस्य तत्र कर्तृसद्भावावेदकस्य प्रतिपादितत्वात् । वचनरचनावत्त्वाद्यनुमानस्य १० च तत्प्रसाधकस्य सद्भावात् । तथा हि । पौरुषेयो वेदो वचनरचना- वत्त्वाद्भारतादिवत् । यदप्यवादि । वेदरचनायाः कर्तृपूर्वकरचनावि- लक्षणत्वादित्यादि । तत्र यदेतद्दःश्रवत्वदुर्भणत्वादि तद्वैलक्षण्य तत्सकलं पुरुषाणां न दुष्करम् । विज्ञानकरणापटुतापराधीनत्वादाचा प्रवृत्तेः । ननु पौरुषेयत्वे वेदाना मन्त्रत्वानुपपत्तिः । मन्त्रो हि जप्यमानः फल- १५ दायी दृष्टः । न च तथा पौरुषेयो वेद इति । एतदप्यविचारितर- मणीयम् । शैवाद्यागमानामप्यपौरुषेयत्वप्रसत्तेः । तत्र थे हि मन्त्राः फलदायिनः सन्ति तेऽपि वैदिका एवेति न वाच्यम् । शूद्राणामपि फलदायित्वात्तेषाम् । वेदेषु च भवदभिप्रायेण शूद्राणामधिकारो नास्ति । अनधिकारिणा च कथं मन्त्राः फलं प्रयच्छेयुः । अपि च २० प्राकृता अपि मन्त्राः फलदा दृश्यन्ते । न च वेदेषु प्राकृतशब्दगन्धोऽ- प्यत्ति । तस्मात्प्राकृतमन्त्रबद्वैदिका अपि मन्त्रा पौरुषेया एवेत्यभ्युप- गन्तुं युक्तम् । नन्वेवं सर्वे पुरुषाः किं न मन्त्रकारिणो भवन्तीति चेत् । उच्यते । सर्वेषामसमानशक्तिकत्वात् । ये हि सत्यसङ्कल्पास्त एव मन्त्रान्कर्तुं शक्नुवन्ति । सत्यसङ्कल्पता च सुमुनीना प्राणांतिपात- १ प्राणातिपातः-प्राणिप्राणवियोजन तस्माद्विरमण सम्यग्ज्ञानश्रद्धानपूर्वक निवर्तनम् । आदिशब्देन मृषावादादत्तादानमैथुनपरिग्रह विरमणानां ग्रहणम् ।
परि. ४ सू. ७] स्याद्वादरत्नाकरसहितः . विरमणादिपञ्चमहाव्रतषष्ठोष्टमादितपःकरणप्रभावात्सुप्रतीतैव सचेतसाम् । तथा हि- प्राणान्न व्यपरोपयन्ति वितथं जल्पन्ति नो सर्वथा स्तेयं नैव समाचरन्ति वनितां वान्त्या समातन्वते नाऽभ्यस्यन्ति परिग्रहग्रहिलता नित्यं तपस्यन्ति ये संसिद्धा धिपणावता सुमुनयस्ते सत्यसङ्कल्पिताः ॥ ५४०॥ निरतिशयप्रभावसमन्वितैर्हि तैरमुष्मान्मन्त्रादस्येदं फल भवत्वित्यनु- सन्धाय यदा यया कयाचिद्भाषया प्रयुज्यन्ते मन्त्रास्तदा तेषां तत्प्र- भावादेव तथाविधार्थक्रियाकरणसामर्थ्य सम्भाव्यते । दृश्यते हि साम्प्रतमपि महाप्रभावमन्त्रवादिन आज्ञाप्रदानान्निर्विपीकरणादिकम् । १० स चेत्थम्भूतः प्रभावो नेतरपुरुषाणा समस्ति । तेन न सर्वेषा मन्त्र- कर्तृत्वम् । न च वाच्यं शब्दशक्तित एव निर्विषीकरणादिफल- निष्पत्तिर्न पुनः पुरुषशक्तेरिति । मुद्रामण्डलादीना नैफल्येनाकरण- प्रसङ्गात् । पुरुषाणा विध्यभिसन्धिविशेषानपेक्षित्वप्रसनाच्च । पुरुष- शक्तितः फलनिष्पत्तौ तु नायं दोषः । तेन हि यत्र यथा समयः कृत- १५ स्तत्र तथा समयानुपालनात्फलं निप्पद्यते । यां वा देवतामधिश्रित्य मन्त्र. प्रणीत. सैव तत्समभिव्यापारसामर्थ्यात्समयमनुपालयन्तमनु- गृह्णाति । राजादिवत् । कस्यचित्तत एवानर्थ इत्यादि विकल्पश्च न स्यात् । किंच, समयाभिज्ञेनोच्चारितमेकैकमप्यक्षरं विषापहारादि- कार्य कुर्वदुपलभ्यते नेतरैः । स्वाभाविकत्वे तु पावकवदतद्वदि २० प्रयोगेऽपि स्वकार्य कुर्यात् । अपि च काव्यस्यापि पौरु- घेयत्वे सर्वे पुरुषाः काव्यकृतः किं न स्युरिति किं न पर्यनुयुज्यते । ननु काव्यं कुर्वाणः पुरुषो दृश्यते । न मन्त्रं कुर्वन्निति । नैवम् । मन्त्रकृतोऽप्यनुमानागमाभ्या दर्शनात् । न चासर्वविद्दर्शनं समस्तवस्तु- विषयं येन तन्निवृत्तावदृष्टस्याभावः स्यात् । किंच भारतादी- २५ १ अस्मन्मुद्रापितत . सू. ५१६ टि. २ ।
६३४ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. ७ - : कुर्वाणोऽपि कश्चिदिदानी न दृश्यते, इति तेषामप्यपौरुषेयत्वप्रसक्तिः । तस्मान्न मन्त्रोपेतत्वमपि वेदरचनायाः कर्तृपूर्वरचनावैलक्षण्यं गदितु- मनुगुणम् । अपि चात्र विशिष्टा रचना दृश्यमाना तत्करणासमर्थमेव कर्तारं निराकुरुते न पुनः कर्तृमात्रमपि । न खल पुराणकूपप्रासादादौ ५ विशिष्टा रचना प्रतीयमाना कर्तृमात्रं निराकुर्वती प्रसिद्धा । तत्करणा- समर्थस्यैव शिल्पिनस्तया निराकरणात् । न हि कन्वयव्यतिरेकानु- विधायिनो धर्माः कर्तारं विना घटन्ते । ततो वैदिकी रचना पौरुषेयी न भवतीत्याद्यनुभानमयुक्तमुक्तम् । दृष्टकर्तृकरचनाविलक्षणत्वस्य हेतो- रुक्तनीत्या तत्रासिद्धत्वात् । सिद्धत्वे वा कर्तृमात्रानिषेधकत्वात् । १० ततो रचनामात्रात्कर्बनुमाने विश्वस्य बुद्धिमत्पूर्वकत्वानुमानप्रसङ्गत इत्याद्यपि प्रतिक्षिप्तम् । वेदरचनायाः कर्तृपूर्वकरचनातो विलक्षण- त्वाव्यवस्थितेः । जगद्रचनायास्तु तद्विलक्षणत्वेऽव्यवस्थितेः । तस्या- स्तद्व्यवस्थितिश्च सविस्तरमीश्वरनिराकरणे विहिता । यदप्य- भिहितं वेदाध्ययनं सर्व गुर्वध्ययनपूर्वकमित्यादि । तत्र निर्विशेषणं १५ वेदाध्ययनवाच्यत्वमपौरुषेयत्वं प्रतिपादयेत्सविशेषणं वा । प्रथमपक्षेऽ- नैकान्तिकम् । विपक्षेऽप्यस्याविरुद्धतया सद्भावसम्भवात् । न खलु वेदाध्ययनवाच्यत्वं कर्तृपूर्वकत्वलक्षणविपक्षेण विरुद्धम् । भारता- ध्ययनवाच्यत्ववत्तस्याऽपि तेनाविरोधात् । किंच यथाभूतानां पुरुषाणा यथा वेदाध्ययनं गुर्वध्ययनपूर्वकमुपलब्धं तथाभूतानामेव तत्तथा साध्यतेऽन्यथाभूतानां वा । यदि तथाभूतानां तदा सिद्धसाध्यता । अथान्यथाभूताना तर्हि विश्वस्य बुद्धिमत्पूर्वकत्वे साध्ये सन्निवेशादि- वदप्रयोजको हेतुः । अथ तथाभूतानामेव तत्तथा साध्यते । न च सिद्धसाधनम् । सर्वपुरुषाणामतीन्द्रियार्थदर्शनशक्तिवैकल्येनातीन्द्रियार्थ- प्रतिपादकप्रेरणाप्रणेतृत्वासामर्थ्येनेदृशत्वादिति चेत् । एतदपि न २५ निरवद्यम् । प्रेरणायास्तथाभूतार्थप्रतिपादने प्रामाण्यप्रसिद्धेः । तद्- प्रसिद्धिश्च गुणवतो वक्तुरभावे तद्गुणैरनिराकृतैर्दोषैस्तस्यापोदितत्वा. २० परि. ४ सू. ७] स्याद्वादरत्नाकरसहितः ६३५ सुप्रसिद्धा । तथाभूतां च प्रेरणामतीन्द्रियार्थदर्शनशक्तिविरहिणोऽपि कर्तुं समर्था इति कुतस्तथाभूतप्रेरणाप्रणेतृत्वासामर्थ्यनाशेषपुरुषाणामी- दृशत्वसिद्धिः । यतः सिद्धसाधनं न स्यात् । अथ न शब्दे गुणवद्व- तकत्वेनैवाप्रामाण्यनिवृत्तिरपौरुषेयत्वेनाप्यस्याः सम्भवात्ततोऽयमदोषः । तदपि न्यायनिराकृतम् । यतोऽपौरुषेयत्वं प्रेरणायाः किमन्यतः प्रमा- ५ णात्प्रसिद्धमत एव वा । यद्यन्यतस्तदाऽस्य वैयर्थ्यम् । अत एव चेत्, परस्पराश्रयः । अतो ह्यनुमानादपौरुषेयत्वसिद्धौ प्रेरणायाः प्रामाण्य- सिद्धिस्तसिद्धौ च तथाभूतप्रेरणाप्रणेतृत्वासामर्थेन सर्वपुरुषाणामीश- त्वसिद्धिरिति । तन्न निर्विशेषणं वेदाध्ययनवाच्यत्वमपौरुषेयत्वं प्रति- पादयति । नापि सविशेषणम् । यतः किं तत्र विशेषणं कर्चस्मरणं १० वा सम्प्रदायाव्यवच्छेदो वा । न तावत्कर्चस्मरणम् । तस्यासिद्धत्वाद्यने- कदोषकलङ्कितत्वप्रतिपादनात् । सम्प्रदायाव्यवच्छेदोऽप्यात्मगतः सर्व- लोकगतो वा । न तावदात्मगतः । भारतादिपौरुषेयत्वेऽप्यस्य सम्भ- वात् । नापि सर्वलोकगतः । असर्वविदा तस्य सतोऽपि ज्ञातुमपार्यमाण- त्वात् । वटे वटे वैश्रवण इत्यादिवत्पौरुषेयत्वेऽप्यस्याविरोधाच्च । अपि १५ च, आदिमतोऽपि शास्त्रग्रामस्य सम्प्रदायव्यवच्छेदोऽस्ति वेदस्य पुनर- नादेरसौ नास्तीति कः श्राद्धिको भवतोऽपरः प्रतिपद्येत । यदप्युक्त- मतीतानागतौ कालावित्यादि तदप्यत्यन्तमसम्बद्धम् । आगमान्तरेऽ- प्यस्याविशेषात् । किंचेदानीं यथाभूतो वेदकरणासमर्थपुरुपयुक्तः कालः प्रतीतोऽतीतानागतो वा तथाभूतः कालत्वात्साधयितुमभिप्रेतोऽ- न्यथाभूतो वा । यदि तथाभूतः । तदा सिद्धसाधनम् । अथान्यथाभूतस्तदा सन्निवेशादिवदप्रयोजको हेतुः । तथाभूतस्यैव कालस्य तद्रहितत्वं साध- यितुमभिप्रेतम् । न च सिद्धसाधनम् । अन्यथाभूतस्य कालस्यैवाऽसम्भवा- दिति चेत् । उच्यते । अन्यथाभूतकालोऽसम्भवतीत्येतत्कुतःप्रमाणात्पति- पन्नम् । अत एवाऽन्यतो वा । यद्यत एवेतरेतराश्रयः । अन्यथामूतकाला- २५ भावसिद्धौ ह्यतोऽनुमानात्तद्रहितत्वसिद्धिस्तत्सिद्धेश्चान्यथाभूतकाला- २० प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सु.५ भावसिद्धिरिति । अन्यतस्तत्सिद्धौ चास्य वैयर्थ्यम् । अपौरुषेयत्वस्यापि तत एव प्रसिद्धेः । ततो वेदेष्वपौरुषेयत्वसाधकस्य कस्यचित्प्रमाणस्या- सम्भवात्कथमसावपौरुषेयः : स्यात् । अस्तु वा तथाऽप्यसौ व्याख्यातोऽ- व्याख्यातो वा स्वार्थे प्रतीतिं कुर्यात् । न तावदव्याख्यातः । अतिप्रस- ५ ङ्गात् । अथ व्याख्यातः । कुतस्तस्य व्याख्यानं स्वतः पुरुषाद्वा । न तावत्स्वतः । भो भोः श्रोत्रियपुङ्गवाः समुदितैः सर्वैरपि श्रूयता सम्प्रत्यस्तमितान्यकृत्यविधिभिधृत्वा समाधौ मनः ॥ मद्वाचामिदमेव वाच्यमपरं मा सर्वथा कल्पता- १० मित्येवं विदधाति नात्मवचसा व्याख्यां कदाचिक्रुतिः ॥ ५४१ ॥ अन्यथा व्याख्याभेदो न स्यात् । पुरुषाच्चेत् , कथं तद्व्याख्याना- पौरुषेयादर्थप्रतिपत्तौ दोषाशङ्कानिवृत्तिर्भवेत् । पुरुषा हि रागादिमन्तो विपरीतमप्यर्थ व्याचक्षाणाः समुपलभ्यन्ते । संवादेन प्रामाण्याङ्गी- करणे वाऽपौरुषेयत्वकल्पनवैयर्थ्यम् । पौरुषेयत्वेऽपि वेदस्य संवादादेव १५ प्रामाण्योपपत्तेः । न च व्याख्यानानां संवादः समस्ति । परस्परविरुद्ध- भावनानियोगादिव्याख्यानानामन्योन्यं विसंवादोपलम्भात् । अपि चायं वेदव्याख्याताऽतीन्द्रियार्थदर्शी तद्विपरीतो वा। आद्यकल्पेऽती- न्द्रियार्थदर्शिनः प्रतिषेधविरोधः । धर्मादौ वाऽस्य प्रामाण्योपपत्तेधर्मे चोदनैव प्रमाणमित्यवधारणानुपपत्तिश्च । अथ तद्विपरीतः । कथं तर्हि २० तद्व्याख्यानाद्यथार्थप्रतिपत्तिः । अयथार्थाभिधानाशङ्कया तदनुपपत्तेः । न च मन्वादीना सातिशयप्रज्ञत्वात्तव्याख्यानाद्यथार्थप्रतिपत्तिः । तेषां सातिशयप्रज्ञत्वासिद्धेः । तेषां हि प्रज्ञातिशय. स्वतो वेदार्थाभ्यासाद- दृष्टात् ब्रह्मणो वा स्यात् । स्वतश्चेत्, सर्वस्य स्यात् । आविशेषात् । वेदार्थाभ्यासाच्चेत्, ननु वेदार्थस्य ज्ञातस्याऽज्ञातस्य वाऽभ्यासः स्यात् । २५ न तावदज्ञातस्य । अतिप्रसङ्गात् । अथ ज्ञातस्य, कुतस्तज्ज्ञप्तिः, १. स्तुति.' इति भ. पुस्तके पाठः ।
परि. ४ सू. ७] स्याद्वादरत्नाकरसहितः स्वतोऽन्यतो वा । स्वतश्चेत्, अन्योन्याश्रयः । विद्यमाने हि वेदार्था- भ्यासे स्वतस्तत्परिज्ञानं तस्मिन्सति तदर्थाभ्यास इति । अथान्यतः, तर्हि तस्यापि तत्परिज्ञानमन्यत इत्यतीन्द्रियार्थदर्शिनोऽनभ्युपगमे परस्परतो यथार्थनिर्णयानुपपत्तिः । अदृष्टमपि न प्रज्ञातिशयप्रसाधकम् । तस्यात्मान्तरेऽपि सद्भावात् । न तथाविधमदृष्टमन्यत्र मन्वादावेवाऽस्य ५ सम्भवादिति चेत् । कुतस्तत्रैवाऽस्य सम्भवः । वेदार्थानुष्ठानविशेषा- चेत्, स तर्हि ज्ञातस्याऽज्ञातस्य वा वेदार्थस्याऽनुष्ठाता स्यात् । अज्ञा- तस्य चेत्, अतिप्रसङ्गः । ज्ञातस्य चेत्, चक्रकप्रसङ्गः । सिद्धे हि वेदार्थज्ञानातिशये तदानुष्ठानविशेषसिद्धिः । तत्सिद्धौ चादृष्टविशेष- सिद्धिः। ततस्तज्ज्ञानातिशयसिद्धिरिति । ब्रह्मणोऽपि वेदार्थज्ञाने १० सिद्धे सत्यती मन्वादेस्तदर्थपरिज्ञानातिशयः सिध्येत् , तचास्य कुतः सिद्धम् । धर्मविशेषाञ्चेत्स एव चक्रकप्रसङ्गः । सिद्धे हि वेदार्थपरि- ज्ञानातिशये तत्पूर्वकानुष्ठानविशेषः सिद्धयेत् । ततस्तज्जनितधर्मविशेषः सिद्धयेत् । तत्सिद्धौ च वेदार्थपरिज्ञानातिशयः सिध्येदिति । ततोऽ- तीन्द्रियार्थदर्शिनोऽनभ्युपगमे वेदार्थाप्रतिपत्तिरेव । ननु व्याकरणाद्य- १५ भ्यासाल्लौकिकपदवाक्यार्थप्रतिपत्तौ तदविशिष्टवैदिकपदवाक्यार्थप्रति- पत्तरपि प्रसिद्धिरतो न वेदार्थप्रतिपत्तावतीन्द्रियार्थदर्शिना किंचि- प्रयोजनम् । इत्यप्यपेशलम् । लौकिकवैदिकपदानामेकत्वेऽप्यनेकार्थत्व- व्यवस्थितेरन्यपरिहारेण व्याचिल्यासितार्थस्य नियमयितुमशक्तेः । न च प्रकरणदिभ्यस्तन्नियमः । तेषामप्यनेकताप्रवृत्तेस्त्रिसन्निधानादिवत् । २० यदि च लौकिकेनाम्यादिशब्देनाविशिष्टत्वाद्वैदिकस्याम्न्यादिशब्दस्यार्थ- प्रतिपतिः । तर्हि, पौरुषेयेणापि तेनाविशिष्टत्वात्पौरुषेयोप्यऽसौ कथं न स्यात् । लौकिकस्य ह्यन्यादिशब्दस्यार्थवत्त्व पौरुपेयत्वेन व्याप्तम् । तत्रायं वैदिकेऽप्यन्यादिशब्दे कथं पौरुषेयत्वं परित्यज्य तदर्थमेव ग्रहीतुं शक्नोति । उभयमपि हि गृह्णीयात्, जह्याद्वा । न च लौकिकवैदिक- शब्दयोः स्वरूपाविशेपे सङ्केतग्रहणसव्यपेक्षत्वेनार्थप्रतिपादकत्वेऽनुच्चार्य- २५ ६३८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ स. ७ - माणयोश्च पुरुषेणाश्रवणे समानेऽन्यो विशेषोऽस्ति । यतो वैदिक अपौरुषेयाः शब्दा लौकिकास्तु पौरुषेयाः स्युः । एवं च- कथमपि सखे युक्तिं नैव प्रयाति निराकृतं वचनमुदितैर्दोषैरतद्यतः कवलीकृतम् ।। निजमतगतं मिथ्यावादं विहाय तदिप्यता प्रमितिरमणीक्रीडारामं श्रुतं जिननिर्मितम् ॥५४२॥७॥ आप्तवचनादित्युक्तम् । तत्राप्तः प्ररूपितः । सम्प्रति वचनं प्ररूप- यन्नाह- वर्णपदवाक्यात्मकं वचनमिति ॥ ८ ॥ वर्णश्च पदं च वाक्यं च वर्णपदवाक्यानि वक्ष्यमाणलक्षणानि तान्यात्मा स्वभावो यस्य वचनस्य तत्तथा । वर्णपदवाक्यानि चोपलक्षणं प्रकरणपरिच्छेदादीनामिति ॥ ८ ॥ अथोद्देशानुक्रमेण वर्णं लक्षयितुमाह- अकारादिः पौगलिको वर्ण इति ॥ ९॥ १५ पुद्गलैर्माषापरमाणुद्रव्यलक्षणैरारब्धः पौगलिकः । ननु कुतः प्रमाणा- त्पौद्गलिकत्वं वर्णस्य प्रतीयत इति चेत् । अनुमानादिति ब्रूमः । तथा हि, वर्णः पौद्गलिको मूर्तिमत्त्वाद्यन्मूर्तिमत्तत्पौगलिकम् । यथा पृथि- व्यादि । मूर्तिमांश्च वर्णस्तस्मात्पौद्गलिक इति । न च मूर्तिमत्त्वमस्या- २० सिद्धम् । स्पर्शवत्त्वात् । यत्पुनर्मूर्तिमन्न भवति न तत्स्पर्शवत् । यथा व्योम । स्पर्शवांश्च वर्णः । ततो मूर्तिमान् । न च स्पर्शवत्त्वमप्यस्या- प्रतीतम् । कर्णकुहरं प्रविशति ध्वनौ कर्णशष्कुलिकान्ततः स्पर्शस्याऽनु- भूयमानत्वात् । ततः स्पर्शवत्त्वाद्रूपरसगन्धस्पर्शवत्त्वलक्षणा मूर्ति- वनौ प्रसिद्धिपद्धतिमवतरति । यदि पुननिरमूर्तिः स्यात्कर्ण- परि. ४ स. ९] स्याद्वादरत्नाकरसहितः ६३२ शकुल्यां स्पर्शपिलब्धिर्न स्यात् । उपघातो वा बालकादिकर्णयोः । भवति चाऽयम् । तथा हि जरन्मुरजझर्झरस्फुरितवास्क्रियाकर्कशैः प्रतिध्वनितधोरणीरसितरोदसीकन्दरैः ।। भवत्यतिसमीपगैगितिझल्लरीझात्कृतैः स्तनन्धयशिशोर्वलाद्वाधिरता ध्रुवं कर्णयोः ॥ ५४३ ॥ विवक्षितशब्दप्रतिपादनविषयप्रयत्नोदीरितकोष्ठयसमीरणोद्गमनप्रति. लब्धप्रादुर्भावस्वप्रचयातिशयवशात्कदम्बगोलकन्यायेन तरङ्गभङ्गविस- पणन्यायेन वा कर्णशकुल्यवच्छिन्नदेशप्रदेशेषु प्रविशन्तः शब्दाः कटकटायमानाः कर्णोपघाताय कल्पन्त इति सर्व एव हि चेतनाश्चे- १० तयन्ते । तादृशः स्पर्शः शब्दे सति भवन्नसत्यभवन्वर्धमाने वर्धमानः क्षीयमाणे क्षीयमाणः शब्दगुणत्वमात्मनः सूचयन्नमूतत्वप्रकृतिं परेषां स्वयमेव प्रत्यस्तमयतीति किन्नस्तत्र प्रयासेन । वायवीयः स स्पर्शो न शाब्द इत्यत्र न प्रत्यक्षम् । नाप्यनुमानादिकं सम्भवति । शक्यं च वक्तुं समीरणप्रेरितमूर्त्तवस्त्वन्तरस्पर्शोऽय न तु वायवीयोऽपि । गन्धवत् । १५ ततः समीरणस्यापि मूर्तत्वं दुरवगाहं भवेत् । अथान्वयव्यतिरेकाभ्यां वायवीयः स्पर्शोऽयमिष्यते । तर्हि शब्दधर्मित्त्वेऽपि स्पर्शस्य कः प्रद्वेष- हेतुः । बहिरिन्द्रियप्रत्यक्षस्य शब्दस्य पृथिव्यादेरिव स्पर्गवत्त्वे विरोधा- भावात् । ततः स्पर्शवत्त्वान्मूर्तिमान्ध्वनिमूर्तिमत्त्वाच्च पौद्गलिक इति । अम्बरगुणत्वे पुनः शब्दस्य बहिरिन्द्रियप्रत्यक्षत्वं दुरुपपादं स्यात् । २० यो हि गगनगुणः स न वाद्येन्द्रियप्रत्यक्षः । यथा विभुत्वादिः । गगनगुणश्च परेषामभिमतः शब्द इति । तथा यो बहिरिन्द्रियप्रत्यक्षः स परोक्षगुणो न भवति । यथा रूपादि । वहिरिन्द्रियप्रत्यक्षश्च शब्द इति । न च निष्प्रदेशस्य कस्यचिद्यापिनो गुणः प्रादेशिको युक्ति- मनुगच्छति । व्याघातात् , ततः शब्दोऽपि सर्वगतः स्यात् । न च २५ तथा केनाऽप्यनुभूयते । विस्तरतश्चाम्बरगुणत्व शळस्य पट्पदार्थ- ६४० प्रमाणनयतत्त्वालोकालङ्कारः परि. ४ सू.१ परीक्षायां निराकरिष्यते। ततः स्थितमकारादिः पौद्गलिको वर्ण इति। ननु वर्णाना केवलानां सर्वत्र निरर्थकत्वात्कथं तल्लक्षणप्रणयनं युक्तमिति न मन्तव्यम् । अनुमानतस्तेषामर्थ- केवलवर्णानामर्थवत्त्वस्य वत्त्वप्रतीतेः । तथा हि वृक्षादिसमुदायस्था प्रसाधनम्। वर्णाः प्रत्येकमर्थवन्तो वर्णत्वाद्धातुप्रातिपदिक- प्रत्ययनिपातवर्णवत् । इतश्चार्थवन्तो वर्णास्तव्यत्ययेऽर्थान्तरगमना- द्यस्य व्यत्ययेऽर्थान्तरगमनं च पश्यामस्तस्मादर्थवन्तो वर्णा इति । इतश्चार्थवन्तस्ते वर्णविशेषानुपलब्धौ पूर्वदृष्टार्थासम्प्रत्ययात् । इह यस्थानुपलब्धौ पूर्वदृष्टस्यार्थस्यासम्प्रत्ययो दृष्टः सोऽर्थवान्, यथा प्रति- ९० ष्ठत इत्यत्र प्रशब्दानुपलब्धौ प्रस्थानरूपस्यार्थस्यासम्प्रत्यये प्रशब्दः । वर्णविशेषानुपलब्धौ पूर्वदृष्टार्थासम्प्रत्ययश्च वृक्षशब्दस्य ऋक्षशब्दे तस्मादर्थवन्तस्त इति । इतोप्यर्थवन्तो वर्णास्तत्सहातस्यार्थवत्त्वाद्यत्र यत्सङ्घातोऽर्थवान्, अवयवस्यापि तत्रार्थोऽस्ति । यथा तिलेषु तैलमात्रा काचित् । यत्र त्ववयवानामर्थो न दृष्टस्तत्र तत्सङ्घातोऽपि तेषामन- १५ र्थक एव । यथा सिकतानां खारीसहस्रमपि तैललक्षणार्थशून्यम् । अस्ति च सङ्घातस्यार्थवत्ता वृक्षः प्लक्ष इति । तस्मादर्थवन्तो वर्णा इति ॥ ९॥ अथ पदवाक्ययोर्लक्षणमाह- वर्णानामन्योन्यापेक्षाणां निरपेक्षा संहतिः पदं, पदानां तु वाक्यमिति ॥ १०॥ वर्णों च वर्णाश्चेत्येकशेषात् ब्रह्मसम्बोधने क इत्यादौ द्वयोगौरित्यादौ तु बहूनां वर्णानामक्षराणाम् । अन्योन्यापेक्षाणां पदार्थप्रतिपादने कर्तव्ये सहकारिकारणतया परस्परं व्यवस्थितानाम् । निरपेक्षा पदान्तरवर्तिवर्णनिर्वतितोपकारपराड्मुखी संहतिः पदमभिधीयते । २५ पद्यते गम्यते स्वयोग्योऽर्थोऽनेनेति पदमिति निरुक्तः । नन्वेवं केशवा- २० परि. ४ सू..१०] स्थाद्वादरत्नाकरसहितः ६४१ दिसम्बोधनायाम इत्येवमादावेकत्र वर्ण पदत्वेन सम्मते वृत्तेरभावाद- व्यापकमेतल्लक्षणम् । मैवम् । विप्रतिपत्तिप्रत्याख्यानार्थत्वादस्य लक्षण- प्रणयनस्य । मीमांसकाः खल्वेवं विप्रतिपद्यन्ते । एकस्य वर्णस्य पदमिति व्यपदेशेऽपि न तन्निबन्धन किञ्चिदधिकं कैश्चिदपि रूपमभ्युप- गम्यत इत्यस्तु कामं तत्र पदव्यपदेशो वर्णद्वयादेस्तु योऽयं तदतिरिच्य- ५ मानमूर्तिसंहतिं समाश्रित्य तव्यपदेशः प्रवर्त्यते नासौ सम्यक् । व्यापकाना वर्णानामव्यापकत्वेन नियतायास्तस्या असम्भवादिति । ततश्च तन्निरासाय वर्णद्वयादावेव पदत्वप्रतिपादनायेदं सूत्रं सूत्रितम् । एकस्य तु वर्णस्यार्थ प्रतिपादयतः पदत्वं पदान्तरवर्तिवर्णनिर्वर्तितोप- कारपराङ्मुखत्वरूपेण निरपेक्षत्वलक्षणेन लक्षयितव्यम् । यद्वा प्रायिकत्वेन १५० वर्णद्वयादेरेव पदत्वं लक्षितं यावतैकस्यापि वर्णस्य तदृष्टव्यम् । यदाहा- कलङ्कसिद्धिर्विनिश्चये-" वर्णसमुदायः पदमिति प्रायिकमेत- त्प्रत्येकमकारादेः क्वाचित्कत्वदर्शनात् " इति । पदाना पुनर्वाक्यार्थ- प्रत्यायने विधेयेऽन्योन्यनिर्मितोपकारमनुसरता वाक्यान्तरस्थपदापेक्षा- रहिता संहतिर्वाक्यमभिधीयते । उच्यते स्वसमुचितोऽर्थोऽनेनेति वाक्यमिति व्युत्पत्तेः । १५. यथा- २० आकण्ठं यदि पातुमिच्छसि सखे कर्णाञ्जलिभ्यां सुधां कां गोपदसोदरं यदि भवाम्भोधिं ध्रुव वाञ्च्छसि ।। क्षिप्रं मोक्षवधूकटाक्षलहरीलक्ष्यत्वमाकाक्षसि स्वस्य त्वं यदि सादरं शृणु तदा श्रीसर्वविद्भारतीम् ॥५४४॥ इत्यादि । एवं वाक्यसंहतिः प्रकरणम् । प्रकरणसंहतियथासमयं परिच्छेदो वा पादो वाऽऽह्निक वाऽध्यायो वा, तत्सहतिः शास्त्रमिति स्वयमेव प्राज्ञैर्विज्ञेयम् । ननु यदि वाक्यान्तरस्थपदापेक्षारहिता पदानां संहतिर्वाक्यतया स्वीक्रियते तर्हि कथमिदं साधनवाक्यमुपपद्यते २५ यत्सत्तत्सर्वं परिणामि यथा घटः सश्च शब्द इति तस्मात्परिणामीत्या- ६४२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० कांक्षणादिति चेत् । तदवद्यम् । यस्य हि प्रतिपत्तुस्तस्मात्परिणामी- त्याकांक्षाक्षयस्तदपेक्षया तद्वाक्यं भवत्येव । प्रोक्तवाक्यलक्षणसम्भवात् । नापरापेक्षया । निराकांक्षत्वं हि प्रतिपत्तुर्धर्मः, वाक्ये तूपचरित एव तस्याचेतनत्वात् । स चेत्प्रतिपत्तावपि निगमनवचनापेक्षायां निगम- ५ नान्तपञ्चावयववाक्यादप्यर्थप्रतिपत्तौ परापेक्षाप्रसङ्गान्न क्वचिन्निराकांक्षत्व- सिद्धिर्भवेत् । तथा च वाक्याभावान्न कचिद्वाक्यार्थप्रतिपत्तिः कस्य- चित्स्यात् । ततस्तामिच्छता यस्य प्रतिपत्तुर्यावत्सु परस्परापेक्षेषु पदेषु समुदितेषु निराकांक्षत्वं स्यात्तावत्सु वाक्यत्वसिद्धिः प्रतिपत्तव्या । एतेन प्रकरणादिगम्येनापि पदान्तरेण श्रूयमाणपदसमुदायस्य निराकां- १० क्षत्वसिद्धेर्वाक्यत्वं प्रतिपादितं प्रतिपत्तव्यम् । अत्र विप्रातेपद्यन्ते परे । तथा हि केचिदाहु:-" आख्यातशब्दो आख्यातशब्दा वाक्यमि वाक्यम् '' इति, आख्यातशब्देन हि व्यावहा- ति मतस्योपपाद्य रिकस्य प्रवृत्तिनिवृत्तिलक्षणस्यालौकिकस्य कार- कसंभिन्नस्य वाक्यार्थस्याभिधाने सति नामपदानि १५ नियमायानुवादाय वा प्रयुज्यमानाख्यातपदवाच्यस्यैवार्थस्य संस्कार- कारीणि विज्ञायन्त इति । तत्र नियमायानुवादाय वेति वाशब्दः समुच्चये । तेन नियमायानुवादाय चेत्यर्थः । तथा हि नामपदेष्वन्वय- व्यतिरेकाभ्यां प्रकृतिप्रत्ययार्थापोद्धारे प्रातिपदिकं शक्तीनां कारकाप- राभिधानानामाख्यातशब्दैरभिहितानामाश्रयसामान्यावग्रहद्वारेण प्रवृत्ता- २० नामाश्रयविशेषस्य नियामकम् । विभक्तयस्तूपात्तामेव शक्तिं प्रतिपाद- यन्तीत्यनुवादिकाः । एवं च नामपदानि प्रकृत्यंशद्वारेण नियमफलानि प्रत्ययाशद्वारेण त्वनुवादफलानीति । अथवा विकल्पे वाशब्दस्तेन नियमायानुवादाय वेत्यर्थः । तथा हि व्यवहारयोग्याः शक्तय आख्यातै- रुपादीयन्ते न त्वासामाधारविशेषोऽतस्तन्नियमाय नामपदानि । यथा, आश्रयतीति कर्मशक्तिसामान्यावग्रहे सत्याश्रयविशेषोपप्लवे नियमाय माणवकमिति पदमुपादीयते । यद्वा विशिष्टाधारनिविष्टा एव शक्तय खण्डनम्।
परि. ४ सु. १०] स्याद्वादरत्नाकरसहितः ६४३ आख्यातैरेवोपात्ताः । यथा पश्यतीति श्रोत्रादिभ्यो व्यवच्छिन्नं चक्षु- रेव करणम् । यथा च वर्षतीति देवदत्तादिव्यवच्छिन्नोऽम्भोधर एव कर्तृविशेषः प्रतीयते । तथा सर्वैव क्रिया विशिष्टसाधनैव प्रक्रान्ता रूपसामान्याहृतबुद्धिस्तु प्रतिपत्ता तथा तां न प्रतिपद्यत इत्यनुवादाय नामपदानीति । संस्कारकारीणीति क्रियाकारकसमुदायस्याख्यातार्थस्य ५ नियमोऽनुवादश्च संस्कारो यत आख्यातपदात्केवलान्नियमानुवादौ न प्रतीताविति । अत्र प्रतिविधीयते । यथा, आख्यातानि क्रियाप्रतिपाद- नादुपात्तशक्तिसामान्यान्युपात्तशक्तिविशेषाणि वा तथा नामपदान्यपि क्रियासामान्य क्रियाविशेष वोपाददत इति तेषामपि कुतो न वाक्य- त्वम् । अथ साध्यत्वाक्रियायास्तादर्थ्याच्च साधनानां क्रिया प्रधा- १० नम् । तथा च प्रधानवशवर्तित्वात्प्रधानाव्यभिचाराच्च गुणानां साधनसामान्यं तदाधारविशेष चाझीकरोतीति तदेव वाक्यम् । नामपदानां त्वभिधायकत्वेऽपि प्रधानतन्त्रत्वादाख्यातोक्तार्थातिरि- तार्थानभिधानाच न वाक्यत्वमिति चेत् । एतदपि विचारपरा- मुखम् । न खलु क्रियेत्येव कृत्वा प्रधानत्वम् । अन्यार्थत्वेनापि १५ क्रियायाः कस्याश्चियवस्थानात् । यथा ऋत्विक्प्रचरणे प्रमाणान्तरा- सिद्धे " लोहितोष्णीषा ऋत्विजः प्रचरन्ति " इत्यत्र लोहितोष्णी- पत्वस्यैव प्राधान्यं विधेयत्वात् । प्रचरणक्रियायास्तु गौणत्व- मनुवाद्यत्वादिति । एवं चाख्यातपदं स्ववाच्यार्थसंस्कारकतयाऽवश्य नामपदान्यपेक्षते । नामपदानि चाख्यातपदवाच्यमर्थं संस्कार्यतयाऽ- पेक्षमाणानि तत्प्रतिपादकमाख्यातपदमपेक्षन्ते तथा नामपदानि स्व- वाच्यार्थसंस्कारतयाख्यातपदमपेक्षन्ते । आख्यातपदं च तद्रू- त्याऽर्थसंस्काराय तान्यपेक्षत इत्यन्योन्यापेक्षाणां पदानां समुदाय एव वाक्यत्वमासादयतीति सिद्धम् ।। २० प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ स. १० A अपरे तु पदानां सङ्घातो वाक्यमिति प्रतिपन्नाः। तेऽपि पर्यन- पदानां सघातो वाक्यं, योज्याः। किं निरपेक्षाणां पदानां सद्धातो जातिस्फोट नित्यमनवय-वाक्यं स्यात्सापेक्षाणां वा । प्रथमपक्षे दश व वाक्यमित्यादिवाक्यल- क्षकमतानां खण्डनम् । दाडिमानि पडपूपाः कुण्डमजाजिनमित्यादिपद- ५ सङ्घातस्यापि वाक्यत्वप्रसङ्गः । द्वितीयपक्षे त्वस्मन्मतप्रवेशः । इतरे तु देवदत्त गामभ्याजेति वर्णैर्ध्वनिविशेषैः क्रमभाविभिरनित्यैरयुगपद- वस्थानैरभिव्यज्यमानमनेकमनेकाधारं देवदत्तादिवर्णव्यतिरिक्तं जाति- स्फोटं नित्यमनवयवं वाक्यं प्रतिपेदिरे । यथोत्क्षेपणादिकर्मक्षणे- रुत्क्षेपणत्वाद्यभिव्यज्यते तथैव तस्मिन्दर्शने वर्णैर्वाक्यमपीति । इदमपि न १० पेशलम् । नित्यनिरवयवसामान्यस्य पुरा पराकरिष्यमाणत्वात् । अन्ये तु कारोऽनवयवः शब्दः परिकल्पितवर्णपदविभागो वाक्यमित्याहुः। एत- दपि नन्याय्यम् । स्फोटनिर करणप्रकरणे निराकरिष्यमाणत्वात् । पदानां क्रमो वाक्यमिति कतिपये परिकीर्चयन्ति । तेषा हि मते वर्णाना क्रमः पदं पदानां क्रमो वाक्यमिति । इदमप्यपर्यालोचितवचनम् । शब्दो- १५ च्छेदप्रसङ्गात् । तन्मते हि वर्णाः सर्वदेशकालव्यापिन एकका नित्याः। क्रमश्च नाम कालाव्यापित्वे च पिपीलिकापत्त्यादीनां स्यात् । उभयमप्येतद्वर्णाना न सम्भवति । सर्वदेशव्यापित्वाभ्युपगमानित्यत्वोप- गमाच्च । उपलब्धिस्तु नियतकाला क्रमवती। न च सा वर्णा । अपि तु वर्णविषया । तस्याश्च क्रमः कालस्य धर्म इष्यते । क्रमयोगपद्य- २० लिङ्गानुमेयं हि कालमिच्छन्ति । ततश्च वर्णोपलब्धिक्रमश्च वाक्य- मित्युपगमः स्यात् । स च न समीचीनः । पदोपलब्धिक्रमस्य काल- धर्मत्वेनाशव्दत्वात् । ततश्च वाक्यार्थोऽशब्दः स्यात् । यदा च वाक्यार्थः शब्दस्याभिधेयो न भवति, अपि तूपलब्धिक्रमस्य कालधर्मस्य तदा पदार्थोऽपि न शब्दार्थः स्यात् । पदस्याप्युपलब्धिकमरूपत्वात्। २५ तस्य च कालधर्मत्वात् । एवं च शब्दस्य योग्यतालक्षणसम्बन्धो योऽय- ६४५ तदाह- परि. ४ सु. १०] स्याद्वादरत्नाकरसहितः मभ्युपगतो मीमांसकैः स एवार्थेन सहास्य हीयते । शब्दस्य कस्य- चित्कालधर्मव्यतिरेकेणानभ्युपगमात् । एवं च मूलनाशः । शब्द एवैषां सर्वज्ञो मातापितृस्थानीय उपकारको भूतभविष्यहरसूक्ष्माभि- धायी । स एवाभिरूप्यमाणो न दृश्यते। कुतस्तस्यार्थेन सह सम्बन्धः । " शब्दानां क्रममात्रे च नान्यः शब्दोऽस्ति वाचकः॥ ५ क्रमो हि धर्मः कालस्य तेन शब्दो न विद्यते ॥१॥ वर्णानां च पदानां च क्रममावनिवेशिनी ॥ पदाख्या वाक्यसंज्ञा च शब्दत्वं नेष्यते तयोः ॥ २ ॥ अशब्दो यदि वाक्यार्थः पदार्थोऽ- पि तथा भवेत् ॥ एवं सति च सम्बन्धः शब्दस्यार्थेन हीयते ॥३॥” इति । फिंच प्रत्यभिज्ञानवलादेकत्वेन प्रतीयमानाः १० पदेषु त एव वर्णा वाक्येषु चैतान्येव पदानीति न वर्णेभ्यः कथंचि- व्यतिरिक्तो वाक्यपदयोरात्माऽस्तीति यद्युपगमस्तदा वर्णानामपि पूर्व- परोपपरादिभागभेदेन वास्तवो भेदः स्यात् । ततश्च तेषा वर्णभागा- नामपकर्षपर्यन्तभाविनामभिव्यक्ततिरोभूताना परस्परमुपश्लेषो नास्तीति न वर्णानामपि पदमित्यस्तमयः शब्दव्यवहारः स्यात् । अव्यपदेश- त्वाद्धि तेषु प्रतिभागं व्यवहाराभावात् । किं तदेकमस्ति यदिदं तदिदं तदित्युपाख्यायेत् । तस्मादुच्यते मूलनाशोऽत्र भवतामिति । तदाह- " पैदानि वाक्ये तान्येव वर्णास्ते च पदे यदि ॥ वर्णेषु वर्णभा- गानां भेदः स्यात्परमाणुवत् ॥१॥ भागानामनुपश्लेषान्न वर्णानां पदं भवेत् ।। तेषामव्यपदेशत्वात्किमन्यव्यपदिश्यताम् ॥२॥ इति । अथ वर्णाः स्वभावेन निरवयवा इति चेत् । एवं तर्हि वैयाकरणप्रतिपादितौ निर्भागौ पदवाक्यस्फो- टावभ्युपगन्तुं प्रसज्यते । तथा देवदत्तादिपदेषु स्फुटो भेदोऽवसीयत इत्यवसायवलादनवयवं पदस्फोटं वाक्यस्फोट च भवन्तो नेच्छन्ति । " गकारौकारविसर्जनीया इति भगवानुपवर्षः" इति वचनादेकत्राव- १ वा. प. कां. २ श्लो. ५०१५२।१६ । २ वा. प. का. २ श्लो. २८।२९. १५ २० २५ ४१ ६४६ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सु. १. स्थितपरमाणुसंचयन्यायेन वर्णसमुदायमात्रमुपयान्ति । स इदानीं भेदावसायोऽकारेऽपि पूर्वपरमध्यभागरूपेणास्तीति कथं निरवयवो वर्णः । उदात्तानुदात्तादयो गुणा अपि सावयवत्वे सत्येवास्य सम्भ- वन्ति । एवं भागवति गुणे च प्रतीयमानेऽकारादौ कथं प्रतीतिप्रमाण- ५ वादिभिरेवानवयवस्य वर्णस्याभ्युपगम इति । बुद्धेरनुपसंहारमन्तस्तत्त्वं वाक्यमन्ये मन्यन्ते । तथा हि संहृतसकलक्रमस्यैकस्यादेशप्रदेशत्वेऽ- प्यन्तरात्माऽन्तर्यामीत्येवमाख्यायमानस्य प्रतिप्राणिवृत्तेः शब्दतत्त्वस्या- क्षरचिहादिभिरिवातथाभूतैः क्रमवद्भिर्भागैर्योऽयं बुद्धेरनुपसंहारः क्रमशः पूर्ववर्णभागग्राहिणीभिर्बुद्धिभिर्जनितो यः संस्कारस्तत १० उत्पन्नस्य स्मरणस्य बलादन्त्यवर्णभागग्रहणतुल्यकालः स वाक्य- मिति । एतदपि न परीक्षाक्षमम् । शब्दब्रह्मणोऽन्तस्तत्त्वापरनामधेयस्य प्रागेव सविस्तरमपास्तत्वात् । आद्य पदं वाक्यमिति परे समीरयन्ति । यदेव हि पदं प्रथमतः प्रयुज्यते तदेव वाक्यं तेनैवेतराक्षेपात् । यतः प्रथमतः प्रयुज्यमानं पदं क्रियावाचि साधनवाचि वा भवेत् । क्रिया- १५ साधनयोश्च परस्पराविनाभूतत्वात्तयोर्यदेव पदमादौ प्रयुज्यते तदेव स्वार्थस्य धर्ममूतमर्थान्तरमपि तत्र सन्निधापयति धूम इवाग्निमित्येवं प्रथममुपादीयमाने पदे सर्वरूपार्थोपग्राहिण्याख्यातशब्द इव निय- मानुवादफलानि पदान्तराण्यभ्यनुज्ञायन्त इति । आख्यातगव्दपक्ष इव एषोऽपि पक्षः प्रतिक्षेप्यः । पृथक्सर्वपदं सापेक्षं वाक्यमिति कतिचिदुप- २० वर्णयन्ति । पृथगिति सद्धातादवच्छिनत्ति । सर्वमित्याद्यपदादाख्यात- शव्दाञ्चावच्छिनत्ति । तेन सर्वाण्येव पदान्यन्योन्यसापेक्षाणि प्रत्येक वाक्यमित्यर्थः । यतः प्रतिपदं क्रियाकारकलक्षणः कृत्स्नोऽर्थः परिस- माप्यते । इदमपि परिफल्गु । देवदत्त गामभ्याजेति श्रुतेर्वाक्यबहुत्व- प्रत्ययप्रसङ्गात् । अस्मिश्च पक्षे पदाना परस्परसापेक्षत्वमपि दुरुपपादम्। २५ सर्वेषामपि कृत्लार्थाभिधायित्वादिति । एवं च आख्यातशब्दः १ वा.प. का. २ श्लो. १।२।
परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः ६४७ खण्डनम् । सङ्घातो जातिः सङ्घातवर्तिनी । एकोऽनवयवः शब्दः क्रमो बुद्ध्य- नुसंहतिः ॥ १॥ पदमाय पृथक्सर्व पदं सापेक्षमित्यपि ॥ वाक्य प्रतिमतिर्भिन्ना बहुधा न्यायदर्शिनाम् " ॥ २ ॥ इति कारिका- द्वयसंगृहीता अष्टावपि वाक्यपक्षाः प्रतिक्षिप्ताः । ततः स्थितमेतत्- अन्योन्यापेक्षवर्णानां सङ्घातः पदमुच्यते ॥ निरपेक्षः पदानां तु स वाक्यमिह कथ्यते ॥ ५४५ ॥ अत्राहुः स्कोटवादिनः अवयवयुतवाद्याग्रहेणामुना कि स्फोटवादिमतस्य विस्तर- श उपपादनपूर्वक स्फुरदनुभवबन्ध्येनात्र ते जैनविद्वन् । सति मतिमवतीर्णे तात्त्विकानेकभाग- श्रयणविधुरमूर्ती स्फोटसंज्ञे पदार्थे ॥५४६॥ तथा हि-त्रय एते वर्णपदवाक्यविशेषव्यपदेश्याः परस्परमत्यन्तव्या- वृत्तमूर्तयो निरवयवाः श्रवणविवरमाविशन्तः प्रतीयन्ते स्फोटाः। न तु वाक्ये पदानि । पदेषु वर्णाः । वर्णेष्ववयवाः सन्ति । तत्कथं पौगालिको वर्णो वर्णसंहतिः पदं पदसंहतिश्च वाक्यमितीप्यते । यः खल्वयं पूर्वा- परभागात्मकः समुदायो वर्ण इति । यश्च गकारोकारविसर्जनीयरूपवा- क्यावयवात्मकः पदमिति । यश्च देवदत्त गामभ्याजेत्यादिपदरूपावयवा- त्मको वाक्यमिति विख्यातः । सर्वेऽप्येते यथाक्रमं वर्णपदवाक्यव्यप- देश्या निरवयवाः प्रयत्नभेदभिन्नैर्नादैः प्रत्येकं सर्वात्मनाऽभिव्यङ्गया एकैकाः क्रमरहिता नित्या अभिव्यञ्जकधर्मानुविधायिनो निर्वाधमध्य- वसीयन्ते स्फोटाः । पूर्वादिभागक्रमवर्णपदरूपावयवावसायः पुनरभि- व्यञ्जकानां ध्वनीनां धर्मानुविधानात् । क्रमवता हि ध्वनीनां ये निष्पादकास्ताल्वादयस्तेषा प्रतिध्वनि भिन्ना एव शक्तय इति विभिन्नशक्तिकताल्वादिकारणनिष्पादिता ध्वनयः परमार्थतः परस्पर- २५ । २० ६४८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० मत्यन्तं विसदृशा अपि तुल्यस्थानकरणजन्मतया स्वयं सदृशभा भजन्तः स्वव्यायानामन्योन्यविलक्षणानां वर्णपदवाक्यस्फोटानामपि तुल्यतामुपकल्पयन्तो भागबहिर्भूतानपि तान्भागसंक्रान्तानिवावभास- यन्ति । मुखमिव मणिकृपाणदर्पणादयो नियतस्थानवर्णपदपरिमाणसं- ५ स्थानमनुपप्लवमेकमनेकमिवानेकविधस्थानवर्णपरिमाणसंस्थानभेदोपप्लव- मिवादर्शयन्ति । तदाह भर्तृहरिः-" पदे न वर्णा विद्यन्ते वर्णेष्व- वयवा न च ॥ वाक्यात्पदानामत्यन्तं प्रविभागो न कश्चन ॥१॥ प्रत्येकं व्यञ्जका भिन्ना वर्णवाक्यपदेषु ये ॥ तेषामत्यन्त- भेदेऽपि संकीर्णा न शक्तयः ।। २॥ " नेषामिति ये व्यञ्जका १० ध्वनयोऽन्योन्यव्यावृत्तास्तेषामत्यन्तविजातीयत्वाद्धेदेऽपि मिश्रीभूता इव भान्ति शक्तय इति । यथा च दूरदेशे समन्धकारे वा विषय प्रतिपद्यते विरलं घनरूपत्वेनाकृष्णं कृष्णरूपतया । तथाऽमून्स्फोटा- नपि निर्भागान्नादैरभिव्यज्यमानान्भागावग्रहरूपेणाध्यवस्यति । नैतावता तत्र भागाः सत्याः सन्ति । तदाह- " यथैव दर्शनैः १५ पूर्वैरात्सन्तमसेऽपि वा ।। अन्यथाकृत्यविषयमन्यथैव प्रपद्यते ॥१॥ व्यज्यमाने तथा वाक्ये वाक्याभिव्यक्तिहेतुभिः॥ भागावग्रहरू- पेण पूर्व बुद्धिः प्रवर्तते ॥ २॥ वाक्य इति वाक्यस्यैव व्यवहा- रोपयोगित्वेन प्राधान्यान्निर्देशः । पूर्वमिति प्रथमं वर्णपदभागावग्राहिणी बुद्धिः प्रवर्तत इति । अथ यथा विरलवृक्षादयः कदाचित्प्रथममे- विरलत्वादिप्रतीत्युपद्रवविरहिता विरलत्वादिरूपतयैव प्रथापथमुपयान्ति तथा स्फोटः किमिति न कदाचिदप्यामुख एवा- वयवावसायः । पदे वर्णलक्षणस्य वाक्ये च पदस्वरूपस्य योऽवसायः स स्वभावात्तस्यैवाखण्डस्य शब्दात्मनः प्रतिपत्तावुपायः । तत्प्रतीतावेव तस्य प्रतीतेः । येन च विना यस्य ग्रहणमशक्यं तद्रहणे कथं तस्यैव २० वावास्तवा १ 'सगतान् ' इति भ, पुस्तके पाठः। २ वा. प. का. १ ग्लो. ८९ । ३ वा. प का.१लो. ९०1९11 परि. सू १.] स्याद्वादरत्नाकरसहितः ६४९ - --- १० -- त्यागः सङ्गतो भवेत् । यथा शतादिसंख्याग्रहणे एकादिसंख्या । शतादिसंख्या हिं प्रकारान्तरेण ग्रहीतुमशक्यत्वाजिघृक्षायामेका- दिसंख्या तद्रहणोपायभूता प्रथमं गृह्यते ततः शतादिसंख्यामा अत्यन्त- विलक्षणाया गृहीतिः । यदाह सङ्ग्रहकारः-- "यथावसंख्याग्रहण- मुपायः प्रतिपत्तये ॥ संख्यान्तराणां भेदेऽपि तथा शब्दान्तर- ५ श्रुतिः ॥१॥" शब्देति वर्णपदरूपशब्दान्तरश्रुतिर्वाक्यप्रतिपत्ता- वुपाय इत्यर्थः ॥ " असतश्चान्तराले यच्छब्दानस्तीति मन्यते ॥ प्रतिपत्तुरशक्तिः सा तद्ग्रहोपाय एव सः ॥ १॥” अस्यार्थ:- शब्दान्वर्णादिभागरूपानुच्चारणान्तराले यदक्रमस्य भागाभावादसत एवास्तीत्यस्तित्वेन सत्तया मन्यते सा प्रतिपत्तुरनंशवर्णावधारणाक्षमता । न च भ्रान्तिज्ञानमपि सत्यशब्देनोपयुज्यतेऽपि तु तत्साक्षात्कारोपाय एवैष इति । न च भागावभासिन्यो मिथ्याबुद्धयः कथ सत्यस्फोट- परिच्छित्तिहेतव इति वक्तव्यम् । आराद्वनस्पतौ हस्तिप्रत्ययप्रवाहस्य सत्यवनस्पतितत्त्वे प्रतीतिहेतुत्वदर्शनात् । तत्सिद्धमन्योन्यमत्यन्त- विलक्षणा एते नानाप्रकाराः पृथक्पृथग्विषयास्त्रयोऽप्यविद्योपदर्शि- १५ तालीकावयवा वर्णपदवाक्यव्यपदेश्याः स्फोटा निरवयवा इति । यत- श्वेयमवयवपरिकल्पना न वास्तवी तस्मादधिकार्योऽयं स्फोटाख्यः शब्दात्मा नित्योऽनवयवो व्योमवदनुत्पाद्य एकरूपोऽवस्थितः । केवल- मात्मनिमित्तै. स्थानाभिघातादिभिः प्राप्तविकारो ध्वनिरस्याभिव्यक्तौ निमित्तभावमुपयाति । यथावस्थितस्य घटादेरभिव्यक्तिः प्रदीपादिभिः २० क्रियते तथाऽस्य ध्वनिभिरिति रहस्यम् । तदाह " अधिकार्यस्य शब्दस्य निमित्तैर्विकृतैर्ध्वनिः ॥ उपलब्धौ निमित्तत्वमुपयाति प्रकाशवत् ॥ १॥" इति । अथ भवत्वयं निरवयवस्तथापि कथ- मिदामष्यते प्रत्येकं सर्वात्मना नादैः स्फोटोऽभिव्यज्यत इति । प्रत्येक- - 1 २ वा प. का. १ श्लो. ८६ ३ वा. प. का. १ वा. प. का. १लो. ८८ १लो. ९५। - ६५८ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. ४ सू. १० मभिव्यञ्जकत्वे हि ध्वनीना प्रथमादेव ध्वनवर्णादिप्रतीतिरुपपत्तेस्तन्मा- त्रानुबन्धित्वाच्चार्थप्रत्ययोत्पादस्य द्वितीयादिध्वनीनामानर्थक्यं भवे- दिति । एतदपि न तर्ककर्कशक्षमम् । नादैरभिव्य- ज्यमाने हि स्फोटे ये ज्ञानविशेषा स्फोटग्रहणानुकूला इदं तदित्यव्य- ५ पदेश्यास्ते स्फोटरूपावसाये हेतुत्वमुपयान्ति । सवरेतैराहितसंस्कार- विशेषाया बुद्धौ ध्वनिनाऽन्त्येन सह स्फोटस्य व्यक्तरूपस्य प्रतीतेः । अतो नादैविशिष्टप्रत्ययजननादाहितभावनाबीजाया विशिष्टसम्प्रत्यय- जनने लब्धपरिपाकायां बुद्धौ शब्दोऽवभासमुपयाति न पूर्वमिति वस्तु- स्वभाव एवायम् । तदाह--"प्रत्ययैरनुपाख्ये यैहणानुगुणैस्तथा ॥ १० ध्वनिप्रकाशिते शन्दे स्वरूपमवधार्यते ।। १ ॥ नादैराहितबीजाया- मन्त्येन ध्वनिना सह ।। आवृत्तिपरिपाकायां बुद्धौ शब्दोऽवधार्यते ॥२॥” इति । यथा ह्यनुवाकः श्लोको वा पुनः पुनरावृत्त्या सुखेनाऽवधारयितुं शक्यते । न च प्रत्यावृत्तिस्तत्रेदृशी बुद्धिरुपजायते यथेदं गृहीतमिदं नेति । अथ चानेकावृत्तौ श्लोकाद्यवभासः स्पष्टः १५ संवेद्यते तथैवायमपि शब्दात्मा पुनः पुनरभिव्यक्तस्फोटरूपोऽवधा- यते । न च प्रत्याभिव्यक्तिस्तत्रेदशी बुद्धिरुपजायत इदं गृहीतमिदं नेति । अथवाऽनेकाभिव्यक्तौ स्फोटावभासः स्पष्टः संवेद्यते । तदुक्तम्- " यथानुवाकः श्लोको वा सोढत्वमुपगच्छति ।। आवृत्त्या न तु स ग्रन्थः प्रत्यावृत्तिनिरूप्यते ॥१॥" अनुवाक इति वैदिक २० वाक्यम् । सोढत्वमिति सोढुं शक्यत्वं बुद्ध्याक्रमणीयता स्वीकार्यत्वम् । येन स्वेच्छयेवासौ पठनीयो भवति । आवृत्त्येति जातावेकवचनम् । आवृत्तिरेकैकाऽप्युपयुज्यते, उत्तरोत्तरविशेषाधानाय । अन्यथैकावृत्त्यैव सोढता स्यादिति । अथार्थ एव प्रत्येकध्वनिव्यञ्जनीयोऽस्तु किमन्तर्गडु- कल्पस्फोटपरिकल्पनयेति चेत् । न । प्रथमादेव ध्वनेरभिधेयधीसमुत्पादे २५ हि दुर्निवारमानर्थक्यं द्वितीयादीना ध्वनीनाम् । न चैतत्स्फोटेऽपि १ वा. प. का. १ श्लो। ८४१८५. २ वा.प. कां. श्लो. ८३ ।
परि. ४ सू १०] स्याद्वादरत्नाकरसहितः समानम् । प्रत्यक्षस्य हि तस्य प्रतिध्वनिव्यञ्जनीयस्याभिव्यक्तितारतम्य नानाध्वनिमिर्जायत इति नानर्थक्यमु त्तरेषाम् । न चेयमप्रत्यक्षेऽभिधेय- विधौ सम्भविनी । प्रत्यक्षगोचरो ह्यर्थोऽभिव्यक्तितारतम्यभाग्भवति । न मानान्तरगोचरः । स खलु गृह्यते न वा पुनरभिव्यक्तोऽनभिव्यक्तश्च । एवं च लब्धास्पदमिदं यदुच्यते प्रत्येकं सर्वात्मना नादाभिव्यङ्गयः ५ स्फोट इति । अस्य च स्फोटस्य संव्यवहारक्रमेऽभिव्यञ्जकक्रमोऽ- नुवर्तनादिव यः क्रमरूपावसाय उपप्लवोऽयमनादिभ्रान्तिरूपः । अय- मेव व्यवहारस्य निमित्तम् । अत एवायमतिदाय गतोऽशक्यापनयनः । यथा ज्ञानस्याभिन्नस्यावबोधमात्रात्मकस्य नीरूपस्यानवयवत्वेऽपि सर्व- ज्ञेयरूपोपग्राहित्वाद्भेदरूपेणावभासः पञ्च वृक्षा विंशतिर्गाव इति । यथा १० चेतनं ज्ञेयरूपावग्रहणेनात्मभूतेन विना व्यवहारेऽवतारयितुं न शक्यते तथा स्फोटेनापि नालब्धक्रमेण कश्चिदर्थोऽभिधातुं शक्यः, ततः क्रमावसायः प्रतिपत्तृणाम् । न त्वत्र निर्मागे वस्तुतः क्रमो नाम कश्चिदस्तीति । निर्विवादमेतत्क्रमरहितः स्फोट इति । नियताश्च पदार्थाना शक्तयः । तेन तेऽन्यथाकरणेऽत्य- १५ न्तमसमर्थाः । यथा हि क्षीरस्य विकारे ध्यादौ बीजस्य पवनालादौ न शक्यते राज्ञापि प्रथमा उत्तरा कारयितुमुत्तरा वा प्रथमा । अपि तु तयोर्विकारे नियतैवानुपूर्वी प्रथममिदमिदमुत्तरं तत इति । तथैव प्रतिपत्तॄणामपि बुद्धिषु सदैव नियतक्रमः । ततो बुद्धिक्रममन्तरेण स्फोटप्रतिपत्तौ प्रतिपत्तॄणामशक्त्या न तस्य शब्दात्मनोरशब्द- तयाऽपि बुद्धिवस्तुनः क्रमिणा भाव्यमित्येवमपराधदण्डव्यवस्था युक्तेति । तदाह- " यथानुपूर्वीनियमो विकारे क्षीरवीजयोः । तथैव प्रति- पत्तॄणां नियतो बुद्धिषु क्रमः ॥ १॥” इति नित्यश्वासावभ्युप- गन्तव्यः । अनित्यत्वे हि सङ्केतकालानुभूतस्य तदैव ध्वस्तत्वा- कालान्तरे देशान्तरे वा गोशब्दस्य श्रवणात्ककुदादिमदर्थप्रतीतिर्न २० २५ १ वा. प का. १ श्लो. ९२ ।
६५२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० स्यात् । असङ्केतितत्वात् । असङ्केतिताच्च शब्दादर्थप्रतीतौ सर्वस्य सकलशब्दार्थज्ञताप्रसक्तिः । सङ्केतकरणानर्थक्यं च भवेत् । ननु नि- यमस्तावदमिव्यञ्जकानामभिव्यङ्गयेषु न दृश्यते । घटादयो हि सवेरे- वाभिव्यक्तिहेतुभिः प्रकाशमात्रस्वभावैर्मणिप्रदीपौषध्यादिमिर्व्यज्यन्ते । ५ अयं तु स्फोटात्मा नियमादभिव्यङ्गयः । न हि गोशब्दस्य योऽभिव्यञ्ज- कः स एवाश्वशब्दस्यापि ध्वनिरिप्यते । किं तीत्यन्तविलक्षणो गोश- व्दाभिव्यक्तिसामर्थ्येनासाधारणः । तस्मादत एव नियमाद्यवाङ्कुरादि- वदस्य कार्यत्वमेव युक्तम् । तस्मिंश्च सत्यनित्यत्वमेव सङ्गच्छत इति मैवं बोधः । यथा हि चक्षुरिन्द्रियमेव विषयरूपस्याभिव्यक्तौ निमित्तं १० नेन्द्रियान्तरमिति व्यञ्जकनियमेऽपि विषयरूपस्य न कार्यत्वं तथा स्फोटस्यापीति । तदुक्तम्- " ग्रहणग्राह्ययोः सिद्धा नियता योग्यता यथा । व्यङ्गयव्यञ्जकभावोऽपि तथैव स्फोटनादयोः॥१॥ अथैवमुच्यते विषयरूपेन्द्रिययोस्तावन्नास्ति नियम. । रूपमात्रस्यानेक- जातिगुणभेदभिन्नस्य चक्षुषाऽभिव्यक्तेः । न तु स्फोटमात्रस्याभिव्य- १५ क्तिरेकेन नादेनेति । अत्रापि प्रतिविधीयते । तुल्येन्द्रियग्राह्येष्वपि विषयेष्वेष नियमो दृश्यते । यथा गन्धयुक्त्यादिषु । गन्धशैलेयादि- द्रव्य किञ्चिदेव कस्यचिदेव द्रव्यगन्धादेराभिव्याक्तनिमित्त भवति न द्रव्यमात्रमेवमिहापि नियत एव नादः कस्यचिदेव स्फोटस्याभिव्यक्ति- हेतुरिति न दोषः । तदाह सदृशग्रहणानां प्रकाशक निमित्तं नियत २० लोके प्रतिद्रव्यमवस्थितमिति । स्यादेतन्न गन्धादयोऽभिव्यज्यन्तेऽपि तु विशिष्टद्रव्यसंयोगाज्जायन्त इति । विषयमपि रूप तहाँन्द्रियालोकाभ्यां क्रियत इति नष्टो व्यक्तिवादः । न हि नीलादिरूपे प्रमाणम- परमस्ति येन ज्ञायेत प्रागेतस्थितमिति । स्पर्शेन तस्य ग्रहीतुमशक्य- त्वात् । विचित्रास्तु भावशक्तय इति किञ्चिच्च नियतव्यञ्जकव्यङ्गयं २५ किञ्चिच्चानियतव्यञ्जकव्यङ्गयमिति को दोषः प्रतिनियतव्यञ्जकव्यङ्गयत्व १ वा.प. को १ श्लो. ९८ ।
- परि, ४ सू. १०] स्याद्वादरलाकरसहितः ६५३ P इति । अथैतत्स्यात् । अभिव्यञ्जकधर्मानुविधानमभिव्यङ्गयानां न दृष्टम् । न ह्यल्पे प्रदीपे घटादेरल्पत्वं महति महत्त्वमनेकस्मिन्वाऽने- कत्वमवलोक्यते । स्फोटस्य पुनरल्पनादेऽल्पत्वं महति महत्त्वमनेकस्मि- श्वानेकत्वमतोऽय कार्य एव न व्यङ्गय इति चेत् । मैवम् । यतोऽभि- व्यङ्गयानामप्यभिव्यञ्जकधर्मानुविधान केषाञ्चिदुपलभ्यते । खङ्गे हि मुख प्रतिबिम्बितं दीर्घमुपलभ्यते इस्वमक्षितारकादौ । संख्याभेदोऽप्यादर्शमेदे जलतरङ्गानेकत्वे च तथा तथानुवर्तमान उपलभ्यत एवेत्ययमपि न दोषः । अथ मुखादिभ्यो भावान्तरमादर्शादिषु सन्निवेशमुपलभ्यते न तु त एव मुखादयस्तत्र बिम्बिता उपलभ्यन्त इति चेत् । अचतुरस्रमेतत् । अ- त्यल्पप्रमाणेषु हि मण्यादिषु स्वच्छद्रव्यादिषु तदाधाररूपतयाऽवस्थितेषु १० महाप्रमाणानामवनिधरतुल्यरूपाणां तदन्तः सन्निवेशित्वेन भावानामुत्प- त्तिः । तथाऽभ्युपगमे हि प्रतिबिम्बनिमित्तद्रव्यापनयनेऽपि प्रतिबिम्बरू- पस्य भावान्तरस्य तत्रोत्पन्नस्यादर्शादौ तवोपलब्धिः स्यात् । शास्त्रा- द्याभिघातजनितकलङ्कवत् । अथ तावत्कालिक एवाऽसौ भावस्तत्रोत्पन्नो यावदवस्थान प्रतिबिम्बनिमित्तस्य द्रव्यस्य तावदुपलभ्यते नोत्तरत्र । सुवर्णादिद्वभाव इवाग्निसंयोगादिति मतिः । विषमोऽयमुपन्यासः । सुवर्णादिद्रव्यभावो हि वहिमयोगविश्लेषानन्तर स्तोककालमुपलभ्यते प्रतिबिम्ब पुनस्तन्निमित्तद्रव्यापनयनानन्तरं मुहूर्तमपि तदाधारेषु नोप- लभ्यते । किञ्च, आदर्शादिमण्डलं प्रतिबिम्बोदयकाले नष्टप्रतिविम्बमेव तत्रोत्पन्नं, प्रतिविम्वरूपेण वा तदेव परिणतं, पुनश्च तस्मिन्नेव क्षणे प्रतिबिम्बनिमित्तद्रव्यापनयने प्रतिविम्बभावान्तरमपि सन्नष्टमादर्शमण्डल च पूर्वरूपसदृशमुत्पन्न, प्रतिविम्वमेव वा पुनरादर्शमण्डलरूपेण परि- णतमित्येवमुपगमे प्रतिपक्षं वस्तुविनाशप्रसङ्गः । स च हेतुतोऽभाव- विनाशवादिनामनभिमतः । तस्मात्स्थितमेतन्न पर्वतादिसरूपा भावास्त- त्रात्पन्नाः किं तर्हि तदेव रूपमभिव्यञ्जकबलात्तथा प्रतीयत इति । यदाह--"-विरुद्धपरिणामेषु वज्रादर्शतलादिषु ।। पर्वतादिसरूपाणां २५ १ वा. प. का. १ श्लो, १०१। १५ २० प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सु. १० भावानां नास्ति सम्भवः ॥ १॥” इति । एवं च स्थितमेतत् , अभिव्यञ्जकधर्मानुविधायी शब्द इति । यतश्च शब्दात्मनः स्वतो न भेदोऽपि त्वभिव्यञ्जकवशात्तस्मादभिन्नकालेऽपि कालभेदादेव वर्णपदवा- क्याख्यास्त्रयोऽपि स्फोटा नित्यत्वादत्यन्ताविद्यमानकालभेदाः । यस्त्वेषां ५ ह्रस्वदीर्घप्लुतव्यपदेशयोग्यो मात्रिकादिस्वकालावगमो यश्च द्रुतादिवृत्ति- त्रये त्रिभागाधिकत्वेन भेदः स सर्वो नादानामभिव्यञ्जकानां तथा तथा भेदात् । यदाह-~~" तस्मादभिन्नकालेषु वर्गवाक्यपदादिषु ।। वृत्ति- कालः स्वकालश्च नादभेदाद्विभज्यते ॥१॥” इति । तथाकृता हि ध्वनयः शब्देऽध्यस्यमानाः शब्दात्मना स्वकाल ताव्यवहारहेतवो १० भवन्ति । द्विधा हि ध्वनयः प्राकृता वैकृताश्च । तत्र प्राकृता नाम ते यैर्विना सामान्यविशेषरूपेण स्फोटात्मा प्रतीतिविषयं न याति । प्रतीतस्तूत्तरकालं यैः स एवायमित्युल्लेखेन चिरकालमुपलभ्यते ते वैकृता इत्युच्यन्ते । यदाह सङ्ग्रहकारः " शब्दस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते ॥ स्थितिभेदे निमित्तं चेद्वैकृतः १५ प्रतिपद्यते ॥ १ ॥” इति । यः प्रथमं जातो ध्वनिस्तस्य मात्राका- लत्वात्तदुपचारेण तदभिव्यक्तः स्वतो निरवयवत्वादत्यन्तं पूर्वापरभाग- रहितः स्फोटात्मापि मात्राकाल इति व्यपदिश्यते । तन्निमित्ता च हस्व- संज्ञा शास्त्रे व्यवहाराय क्रियते । तदाह----"एकमात्रो भवेत् हस्वः" इति । यः प्रथमं जातो ध्वनिर्यश्च तज्जस्ताभ्यामभिव्यक्तः स्फोटोऽपि २० तयोर्द्विमात्राकालत्वादुपचारेण मात्राद्वयकाल इत्यपदिश्यते । तन्निमित्ता च दीर्घसंज्ञा क्रियते । यदाह " द्विमात्रो दीर्घ उच्यते” इति । प्रथमध्वनिजातध्वनेर्जातो यस्तृतीयो ध्वनिस्तेन पूर्वाभ्या चाभिव्यक्त- स्तेषां त्रिमात्राकालप्रमाणत्वादत्यन्ताप्रमाणोऽपि शब्दस्त्रिमात्र इत्युच्यते । तन्निमित्ता च प्लुतसंज्ञां लमते । तदुक्तम्---" त्रिमात्रस्तु प्लुतो २५ ज्ञेयः ” इति । ततस्तु प्रभृति ये जायन्ते ध्वनयस्ते वैकृतास्तत्कालः १ वा. प. कां. १ श्लो. १०२. २ वा. प. को.१ श्लो. ७७ ।
परि. ४ स. १०] स्याद्वादरत्नाकरसहितः ६५५ स्फोटात्मनि नाध्यस्यते ध्वनिकाल एवासी गण्यते । न शब्दकालः । ध्वनयो हि विशिष्टाभिघातादुपजायमानाः केचिदनारब्धकार्या विली- यन्ते । कतिचिदेकं ध्वनि जनयित्वा नश्यन्ति । केचिद्वौ, केचिद्व- हुन् । ततोऽन्यः शब्दकालोऽन्यश्च ध्वनिकाल उच्यते । द्रुतायां वृत्तौ ये वर्णास्ते त्रिभागाधिका मामायां ये च मध्यमाया ते त्रिभा- ५ गाधिका विलम्बितायामिति यो भेदः स ध्वनिभेद एवाभ्युपगम्यते । न शब्दभेदः । शब्दे तस्यानध्यासात् । तदुक्तम् - "सिद्धं त्ववस्थिता वर्णा वक्तुश्चिराचिरवचनात् वृत्तयो विशेष्यन्ते" इति । तेनातोऽभि- शव्दे सेत्यादौ " तपरस्तत्कालस्य" इति वचनात्तपरेण निर्देशेन मात्राकाले प्रत्याय्यमाने परमार्थतः खट्टादिभिरित्यत्राप्येककालत्वाद्यक- १० कारवर्णस्फोटस्य यद्हणं प्राप्तं तन्न भवति । प्राकृतध्वनिकालेन तत्रोप- चरितेन भेदात् ।द्रुतादिवृत्तिकालस्य तु स्फोटकालत्वेनाऽनाश्रितत्वात् । यस्या कस्याश्चिद्वृत्तावकारादेस्तपरत्वेऽभ्युपगते सर्ववृत्तिषु ग्रहणं सिद्ध भवति । तदाह- " स्वभावभेदान्नित्यत्वे हस्त्रदीर्घप्लतादिपु ॥ प्राकृतस्य बनेः कालः शब्दस्येत्युपचर्यते ॥ १॥ शब्दस्योर्च- १५ मभिव्यक्तेर्वृत्तिभेदं तु वैकृताः॥ ध्वनयः समुपोहन्ते स्कोटात्मा तैन भिद्यते ॥ २॥" वृत्तिभेदमिति कालान्तरावस्थितिभेदं द्रुतादिरूपं शब्दस्य । समुपोहन्ते घटयन्ति । तैरिति विकृतैरिति । ध्वनिग्रहणे च त्रयो वादाः केचिच्छब्दरूपादविभक्तग्रहणं रूपादिवालोकं ध्वनि मन्यन्ते । इन्द्रियवदसंवेद्यमन्ये । स्वतन्त्रमपि कतिपये । तथा हि-ता- ल्वादिकरणसन्निपातजनितध्वन्यभिव्यङ्गयस्फोटरूपादविभागेन ध्वनि- रूपप्रतीतिरिति न ध्वनिर्नापि स्फोटः परस्परतो भेदेन ग्रहीतुं शक्यते । यथा प्रभाकरादिकारणजनितालोकाभिव्यङ्गयस्तम्भाम्भोरुहादिरूपाद- विभागेनालोकप्रतिपत्तिरिति नालोको नापि विषयल्प परस्परतो विभागेन ग्रहीतुं पार्यते । यथा च प्रभाकरादिकारणजन्योऽयमालोकः २५ १ पा. भा. वार्तिक । २ पा. सू. ११११७०. ३ वा. प. का. लो. ७६१७८ । २० ६५६ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० काष्ठादिकारणजन्यस्तु स्तम्भादिरित्यनयोर्भेदो व्यवस्थाप्यते तथेहापि ताल्वादिकारणजन्योऽय ध्वनिर्नित्यत्वादकार्यश्च स्फोट इत्यनयोर्मेदोऽ- वस्थाप्यते न तु भेदेन ग्रहणम् । केवलमिदमेव सम्भवति, आलोक- परिकल्पिता विषयप्रतिपत्तिर्ध्वनिविनिर्मिता तु स्फोटप्रतिपत्तिरि- त्येके । यथेन्द्रियं विषयप्रतीत्यन्यथानुपपत्त्याऽनुमेयं किमप्यस्तीति कार्यदर्शनादवस्थाप्यते तथा स्फोटोपलव्यन्यथानुपपत्त्या ध्वनिः कश्चिदत्यन्तपरोक्षोऽस्ति करणव्यापारज इत्यनुमीयते । स्फोटस्तु शुद्ध उपलभ्यते इतीवरे । अन्ये पुनः, यदा नाकारादिविशेषावगमः केवल- रुणरुणायितादिकरणे तदा स्वतन्त्रो ध्वनिः प्रतीयते । अकारादि- १० व्यक्तवर्णप्रतीते तु स्फोटरूपेण संसृष्टः प्रतीयत इत्याहुः । यदुक्तम्- स्कोर्टरूपाविभागेन ध्वनेग्रहणमिष्यते ॥ कैश्चित् ध्वनिरसंवेद्यः स्वतन्त्रोऽन्यैः प्रकल्पितः॥१॥” इति । स्फोटस्याभिव्यक्तौ त्रयो दर्शनभेदाः केचिदाहु-~-'स्फोटस्यैव संस्कारो ध्वनिभिर्विधीयते ततोऽसौ प्रतीतिविपयो भवति । यथा तैलादेर्गन्ध आतपेन पृथि- १५ व्याश्चातपशुष्काया उदकेन संस्कृतो ग्रहणयोग्यो भवति घ्राणस्य । तत्र संस्कारोपगमे संस्कृतविषये तुल्यं ग्रहणं भवेन च भवति तस्माद्विषयस्यैव तत्र संस्कारः क्रियते' इति । अन्ये पुनरिन्द्रिय- स्यैव संस्कार इति प्रतिपन्नाः । यथाञ्जनद्रव्यं चक्षुरेकं संस्करोति न विपयं वाद्यमतिप्रसङ्गादतिप्रसिद्धमेतत् । इन्द्रियस्य स्फोटस्य च २० संस्कार इत्यपरे उररीकृतवन्तः । यथा वैशेषिकस्य प्राप्यकारिण चक्षुपि तुल्यजातीयेन तेजसा प्रकाशापरपर्यायेण नयनरम्यनुग्रहः क्रियते विषयस्य च योग्यतेति । तदाह-" इन्द्रियस्यैव संस्कारो विषयस्योऽभयस्य वा । क्रियते ध्वनिभिर्वादास्रयोभिव्यक्तिवादिनाम् ॥ १ ॥” इति ।। एवं च--- १ वा प. का. १लो ८२. २ वा. प. का. १ श्लो. ७९ ।
परि. ४ सू १०] स्याद्वादरत्नाकरसहितः ६५७ अर्थावबोधप्रवणस्वभावं विभर्ति भागोज्झित एव शब्दः ॥ स्फोटाभिधानोऽभिहितस्वरूपः प्रमाणवीथीभ्रमणैकपान्थः ॥५४७॥ ततः पौगलिको वर्णस्तत्सवातः पद तथा ।। तत्संहतिः पुनर्वाक्यं कथं सङ्गतिमगति ।। ५४८ ।। तावद्दर्प कलयति करी शब्दकुट्टाकनामा गर्जन्गाढस्वरमिह लसत्तर्कशुण्डाप्रचण्डः ॥ यावन्नाथ जिनपतिमतस्फारलाशूलधारी न्यायोत्फालं वितरति हुताद्भिषणो जैनसिंहः ।। ५४९ ॥ तथा हि-यत्तावदवादि यः खल्वय पूर्वापरेत्यादिकं निर्बाधमध्य- वसीयते स्फोटा इति पर्यवसानम् । तदनुपपद्यमानम् । यथोपवर्णित- १० स्वरूपस्य वर्णादिस्फोटत्रयस्य स्वमदशायामप्यननुभवात् । स्वकीयपूर्वा- परावयववतां वर्णपदवाक्यानामेव सर्वैरबाधितबोधेन प्रतीयमानत्वात् । अवयवाश्चैषा वास्तवा एवेति स्वीकर्त्तव्यम् । अविद्योपकल्पितत्वाङ्गी- कारे हि तेषा परमब्रह्माद्वैतमताश्रयणप्रसङ्गेन लाभामिच्छतो मूलोच्छेद एव भवतः प्रसज्यते । यथैव हि वर्ण एक एव तद्वागानामवास्तव- १५ त्वात्पदमेकमेव तद्वर्णानामतात्विकत्वाद्वाक्यं चैकमेव तत्पदानां सावृत्त- त्वात् । तथैवातशः परमब्रह्मवैकं सकलवाक्यतदर्थ तस्य प्रमाणप्रमेयप्र- पञ्चस्य च प्रतिभासमात्रान्तःप्रविष्टस्याविद्योदयविजृम्भितत्वादिति । तद- निच्छता तात्त्विकानेकभागसङ्गतं वर्णादिवादमादरणीयमायुप्मतेति । ननु वर्णादिकं स्वावयवेभ्योऽर्थान्तरमनन्तरं वा भवेत् । अनन्त- २० रत्वे त्वनेकत्वमेव स्यात् । प्रतिभागं समस्तार्थप्रतीतिप्रसङ्गश्च । अर्था- न्तरत्वे सम्बन्धासिद्धिः । अनुपकारात् । उपकारकल्पनाया वर्णादेर- वयवकार्यत्वप्रसङ्गः । तैरुपकार्यत्वात् । अवयवाना वा वर्णादिकार्यता- पत्तिः । तेनोपक्रियमाणत्वादुपकारस्य ततोऽनन्तरत्वात् । अर्थान्त- रत्वे सम्बन्धासिद्धिरनुपकारात् । तदुपकारान्तरकल्पनायामनवस्था- २५ प्रसङ्ग इति चेत् । सोऽयं वर्णादितदवयवभेदाभेदैकान्तवादिनामुपालम्भो ६५८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ स. १० न स्याद्वादिनाम् । तैर्यथाप्रतीति कथश्चित्तदमेदोपगमात् । एकानेका- कारप्रतीतेरेकानेकाकारस्य जात्यन्तरस्य व्यवस्थितेः । न हि वर्णाद्या- कर्णनसमनन्तरमेकानेकाकारप्रतीतिरनालम्बना युक्ता । सर्वत्र सर्वदा सद्भावप्रसङ्गात् । नाप्यवयवमानहेतुका । एकत्वांशविरोधापत्तेः । ततो ५ वर्णाद्याकारपरिणतद्रव्यशब्दहेतुकेयं प्रतीतिस्तत्त्वं तथा परिणतशब्द- वाच्यं तात्त्विकानेकप्रतीकाकलिकालवरम् । अत एवैकाने- काकारं सिद्धम् । बाधकाभावात् । यच्च पूर्वादिभागवर्ण- पदरूपावयवावसायः पुनरभिव्यञ्जकानां ध्वनीनां धर्मानुविधानादि- त्याद्युक्तम् । तदप्ययुक्तम् । ध्वनीनां भट्टाभिमतवर्णनित्यत्वैकान्त- १० विकुट्टनावसरे सविस्तरमपाकरिष्यमाणत्वात् । यदपि वर्णाद्यवयवा- वभासासत्यत्त्रप्रदर्शनार्थ मुखमिव मणिकृपाणेत्यादिनिदर्शनमदर्शि तदपि दार्टान्तिकेन सह वैषम्यात्स्वसिद्धान्तश्रद्धान्तःकरणस्य भणनमात्रम् । वस्त्वन्तरमेव हि प्रतिबिम्बाख्यं तात्त्विकानेकतथाविध- धर्मोपेतं प्रतिविम्बकारणबिम्बाख्यमुखविलक्षण मणिकृपाणदर्पणादि- पुत्पद्यते । न तु तदेव मुख खड्गतैलोदकदर्पणादयस्तथा तथा प्रथयन्ति । प्रतिबिम्बस्य च तात्त्विकत्वमुपरिष्टान्निणेष्यामः । यदपि चात्मनःप्रौढि- प्रदर्शनार्थमुदाहरणान्तरं यथा च दूरदेशे समन्धकारे वेत्यादिना प्रकीर्तितम् । तदप्यकीर्तिकरम् । दूरदेशावस्थितस्य हि विरलपदार्थस्य धनरूपताप्रतीतिरुत्तरकालभाविबलिष्ठविरलरूपताप्रत्ययेन इति तत्र धनत्वप्रतीतिवशाद्यवस्थाप्यमानं घनत्वमस्त्ववास्तवं कः किमाह । वर्णाद्यवयवावमासस्य तु नोत्तरकालिकं बाधकं किञ्चिच्चे- तयामः । तत्कथमिव तद्वशासिद्धपद्धतिमनुधावन्तो वर्णाद्यवयवाः । न हि निरवयवं स्फोटं नाम किञ्चित्कचन कदाचनापि प्रतीमो येन तहलेन वर्णाद्यवयवान्प्रत्याचक्ष्महे । अथार्थप्रतीत्यन्यथानुपपत्त्या २५ स्फोटः प्रतीयत एवेति चेत् । एतदपि दुरुत्तरेतरेतराश्रयप्रसङ्गप- राहतम् । न खलु सत्तामात्रेण शब्दोऽभिधेयधियमाधातुमर्हति । २५ बाध्यत २० परि. ४ सू. १.] स्याद्वादरत्नाकरसहितः अतिप्रसङ्गात् । अतो ज्ञातस्तद्धेतुरेषितव्यः । ज्ञानं चास्यार्थप्रत्यय- लक्षणलिङ्गप्रभवमिति यावन्नार्थप्रत्ययस्तावन्न स्फोटज्ञानं यावच्च नेदं न तावदर्थप्रत्यय इति । अर्थप्रतीत्यन्यथानुपपत्त्या वा स्फोटस्य कल्पने शब्दत्वं तत्र दुरुपपादम् । शब्दशब्दप्रयोगाभावप्रसङ्गात् श्रोत्रग्राह्ये ह्यर्थे लोके शब्दः प्रयुज्यते । अर्थप्रत्यायकत्वमात्रेण च ५ स्फोटस्य शब्दत्वोपगमे धूमध्वजप्रमृतिकं प्रत्याययतो धूमादेरपि शब्दत्वं भवेत् । अगृहीतगोशब्दसङ्केतस्य च नालिकेरद्वीपनिवासिनो गौरिति शब्दश्रवणसमनन्तरं यावन्न कश्चनार्थविशेषः समुन्मिपति तावदश्रुत- पूर्वोऽयं गोशब्दो न जाने कीदृगस्यार्थ इति वक्तुमपि न पारयेदसाविति हता बत लोकयात्रा । यदप्यथ यथेत्याद्याशङ्कय यतो वर्णपूर्वाद्यवयवे- १० त्यादिना समाहितम् । तदपि नावदातम् । यथा खल्ववयवग्रहमपहाय नेह निरवयवः स्फोटः प्रत्येतुं पार्यत इत्यसन्तोऽपि तद्हणोपायभूता- स्तस्यावयवाः परिकल्प्यन्ते तथा कचित्कदाचित्कैश्चित्परो- क्षोऽर्थो न शब्दप्रतिपत्तिमन्तरेणावसातुं शक्यत इति शब्दोऽप्यसन्ने- वार्थग्रहणहेतुत्वात्परिकल्प्यत इत्यपि प्रसज्यते देवानांप्रियस्य । यदपि न च भागावसायिन्य इत्याद्याशङ्कयाराद्वनस्पता वित्यादिना समाहितं तदपि न चारु । न खलु दूरात्तरौ करिप्रत्ययपरम्परायाः सत्यतरु- प्रतीतौ हेतुत्वम् । तथाविधसन्निधानादिसव्यपेक्षक्षयोपशमविशिष्टस्या- त्मद्रव्यस्यैव तद्धेतुत्वोपपत्तेः । अपि च, वर्णस्फोटं पदस्फोटं च यथा- क्रमं पदवाक्यस्फोटाभ्यां पृथग्भूतम्, अत एव शुद्धपदव्यपदेश्यं वस्तु- २० सन्तं वचित्प्रतिपद्य पदवाक्यस्फोटयोः काल्पनिकं तमुररीकरोमीति वदन्त त्वां न कश्चित्प्रतिरुणद्धि न रुणद्धि वा । वर्णस्फोटावयवा- नामवास्तवत्वमुपदिशन्तं पुनः पर्यनुयुज्महे महापाध्यायम् । यथा किल पदस्फोटात्पृथगेव वर्णस्फोटः पारमार्थिकोऽभ्युपगम्यते तथा कथं वर्णस्फोटाद्विभिन्नोऽवयवस्फोटोऽपि नोपेयत इति । तदुपगमे २५ पूर्वोपपूर्वपरोपपराद्यवयवस्फोटपरम्पराऽनुभव वमनवर्णाि परिकल्पिता ६६० प्रमाणनयतत्त्वालोकालङ्कारः [ परि. ४ सू. . स्यात् , स्वमतावमानना च । अथ वर्णस्फोटाद्विभिद्यमानमूर्तीस्तदव वान्न क्वापि प्रतीमस्तत्कथमिव तत्स्फोटाँस्तात्त्विकानुररीकुर्मह : चेत् । तत्किमिदानी प्रतीतिमपि प्रमाणतया प्रतिजानीषे । ओमि चेत् । हन्त तर्हि पदादौ वर्णादिप्रतीतिरस्तीति किमिति न ५ वर्णादिर्वास्तवः स्वीक्रियते । अथोक्तमशक्तास्तादृशं पदादिस्प प्रत्येतुं प्रतिपत्तारो वर्णादिप्रतीतिमन्तरेणेति तत्प्रतीत्युपायोऽसावस तत्र वर्णादिर्गृह्यतेऽतोऽसत्य एवायमुररीक्रियत इति चेत् नन्वेवमपि वक्तु शक्यते । वर्णावसायमन्तरेणावयवानवसातुमशत प्रमातार इति वाक्यस्फोटे पदवदुपायभूत एव तत्रासन्नपि वर्णो गृ १० इत्यसत्य एवायमवयवास्तु सत्या इति । यदपि "विचालरूढा हि भव निश्चलाः" इत्यमुं न्यायं निधाय चेतोधाग्नि, अथ भवत्वयं निरव इत्यादि प्रश्नं तदपि न तर्ककर्कशेत्यादिसमाधानं च भवानभ्यधार तदपि न सुधियामवधानार्हम् । यतः कः खलु विचारमार्गासञ्चरि ध्वनिमनभिगम्यमानो मनस्वी स्वप्नेऽपीदृशमाशङ्कते, उत्तरं वा स्वीकुरु १५ किंच, निरवयवस्य वर्णादेदृश्यमानस्य न कश्चिद्भागोऽदृश्यमानोsi यदपेक्षयाऽस्फुटं दर्शनमस्योपपद्यते । यथोभयसम्प्रतिपन्नस्थाण्वादेः अपि चावृतस्य सतोऽभिव्याक्तिः सम्भवति । नित्यनिरंशस्य चाव मीमांसकाभिमतवर्णनित्यत्वपराकरणप्रकरणे पराकरिष्यते । यच्च य ह्यनुवाकः श्लोको वेत्यादि निदर्शनमुक्तम् । तदप्ययुक्तम् । यतोऽ २० वाकश्लोको सावयवौ वा स्यातां निरवयवौ वा । प्रथमपक्षे वैपम्यम् अनुवाकादौ हि सावयवत्वात्स्फुटोऽस्फुटश्चावभासो युज्यते । स्फ तु निरवयवत्वान्न सम्भवत इति । अपसिद्धान्तप्रसङ्गश्चास्मिन् वैषम्यम् । श्लोकानुवाकयोरपि स्फोटरूपत्वेनाभ्युपगतयोर्भवच्छास्ले नि वयवत्वेनाभ्युपगतत्वात् । द्वितीयविकल्पे तु देवदत्त गामभ्याजे २५ वाक्यस्फोटवदेतावपि पूर्वपूर्वध्वनिजनिताभिव्यक्तिकृतसंस्कारविशेषा : तो १ स्थूणानिखननन्यायसमानार्थकोऽय न्यायः ।
परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः ६६१ न्त्यध्वनिबुद्धौ प्रथमावृत्तावपि स्फुटतरं प्रतिभासेयाताम् । अथाशक्ताः प्रतिपत्तारः पुन. पुनरेव तादृशैर्ध्वनिभिर्व्यक्तौ सन्तावेतौ प्रत्येतुं पार- यन्तीति चेत् । अनुचितमिदम् । यतो यः खलु, इदं दीपशतेनैकेना- भिव्यक्तमालोकितुमशक्तो नासौ तादृशेनापरेणानेकेनापि दीपशतेना- भिव्यक्तं तदवलोकितुं क्षमः । अन्धाभावप्रसक्तेः । निरस्तश्चेदानीमेव ५ निरवयवस्य स्फुटोऽस्फुटश्चावभासः । यश्च यथा ज्ञानस्येत्यादिदृष्टान्तः सोऽपि न पेशलः । सावयवादात्मनः कथंचिदभिन्नत्वेन ज्ञानस्यापि सावयवत्वात् । यदपि नियताश्च पदार्थानामित्याद्यकथि , तदपि न तथ्यम् । इत्थ हि महीरुहादावपि मूलस्कन्धशाखादिक्रमो माऽभ्युपेय- ताम् । तत्रापि बुद्धिक्रममन्तरेण महीरुहादिप्रतिपत्तौ प्रतिपतृणामश- १० क्त्या क्रमव्यवस्थायाः कर्तुमशक्यत्वात् । यच्चावाचि नित्यश्वासावभ्युप- गन्तव्य इत्यादि तदप्याकाशकुसुमदामोत्तंसाशंसनमिव । नित्यै- कान्तस्यानेकान्तसिद्धौ प्रतिक्षेप्यमाणत्वात् । यच्चोक्तं खङ्गे हि मुख प्रतिविम्बितमित्यादि तदपि मृगतृष्णापय पानपाणिपल्लवप्रसारणमिव । खड्गमुखप्रतिविम्बयोः कार्यकारणरूपत्वेनाभिव्यङ्ग्याभिव्यञ्जकमावस्यै- १५ वासम्भवात्तत्राभिव्यङ्गयाभिव्यञ्जकाभिधानानुपपत्तेः । यदप्यथ मुखा- दिभ्य इत्याद्याशंक्यात्यल्पप्रमाणेत्यादिना निराकृतम् । तदपि न कृत- धियामवधेयम् । अनभ्युपगमात् । मण्यादिषु हि न महाप्रमाणाः पर्वता- दयोऽभ्युपगम्यन्ते किन्त्वल्पप्रमाणा एवेति । यच्चावाचि तथाभ्युपगमे हीत्यादि तदपि न चेतस्विचेतोहरम् । एव ह्यस्तगते गभस्तिमालिनि २० क्षणमप्यनुपलभ्यमानः प्रतापोऽपि न तस्य कार्य स्यात्, किन्त्वभि- व्यङ्गय एवेति । एव च प्रतिबिम्बस्य न तावत्कालिकोत्पादे प्रताप एव निदर्शनम् । ततश्चाथ तावत्कालिक इत्याद्याशंक्य सुवर्णादिद्रव्य- भावा हीत्यादिना यत्समाहितं तत्सर्वमनभ्युपगतोपालम्भमात्रमित्यवसे- यम् । यत्युनरादर्शादिमण्डल प्रतिविम्बोदयकाले नष्ट प्रतिविम्बमेव २५. तत्रोत्पन्नमित्याद्युक्तम् । तदपि नावदातम् । प्रतिबिम्वोत्पत्तेर्निरवद्यतया ४२ ६६२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० समर्थयिष्यमाणत्वात् । यच्चाभाणि यतश्च शब्दात्मनः स्वतो न भेदोऽपि त्वभिव्यञ्जकवशादित्यारभ्य स्फोटात्मा नैव भिद्यत इत्यवसान, नैषाऽपि भर्तृहरिग्रथितग्रन्थकन्थाश्रद्धारुद्धान्तःकरणाना वैयाकरणाना भणितिः प्रामाणिकपरिषदं प्रमोदयति । अभिव्यञ्जकनादापनोदस्योप- ५ रिष्टाद्विधाम्यमानत्वात् । एतेन ध्वनिग्रहणे च त्रयो वाद! इत्यादि स्फोटस्याभिव्यक्ती त्रयो दर्शनभेदा इत्यादि च स्वदर्शनाभिनिवेश- मदिरोन्मादपराधीनस्य परस्याभिव्यञ्जकधार्यम् । अपि च साऽभिव्यक्तिः स्फोटादव्यतिरिक्ता व्यतिरिक्ता वा ध्वनिभिः क्रियेत । अव्यतिरेके तत्करणे स्फोट एव कृतो भवेत् । तथा चाऽस्यानित्यत्वानुषगादभ्युप- १० गमक्षतिः । व्यतिरेके सम्बन्धानुपपत्तिः । अनुपकारकत्वात्तस्याः । तदुप- कारकत्वे वा तदुपकारकस्यापि ततो व्यतिरिक्ताव्यतिरिक्तविकल्प- प्रसङ्गेनानवस्था प्रसज्यते । न च व्यतिरिक्तधर्मसद्भावेऽपि स्फोट- स्यानभिव्यक्तस्वरूपापरित्यागे पूर्ववदर्थेऽप्रतिपत्तिहेतुत्व घटते । अति- प्रसङ्गात् । तत्त्यागे चानित्यत्वप्रसक्तिरिति । ततः पौगालिको वर्णस्तत्सङ्घातः पदं तथा ॥ तत्संहतिः पुनर्वाक्यमिति सङ्गतिमङ्गति ॥ ५५० ॥ स्फोटस्यात्र प्रकटनविधौ दोहदं मुश्च साधो तस्माद्वैयाकरणसदृशं व्योमपुष्पाभिसन्धिः ॥ सिद्धं न्यायादवयवचितं शब्दमेतं श्रयस्व स्पृष्टा सा चेत्वचन परिषन्यायमुद्रास्थितानाम् ।। ५५१ ॥ ननु भवन्तु वर्णपदवाक्यानि यथाभिहितानि, एतत्तु निपुणधिषणे. निरूपणीयं कीदृशोऽयं वाक्यार्थः किं चैनं अन्विताभिवानवादिप्रमा- करमतस्योपपाद्य खण्ड- प्रत्याययितुमीष्ट इति । तत्र पदार्थानेव प्रधान- गुणतया प्राप्तपरस्परव्यतिपनान्वाक्यार्थ प्रति- २५ पादयन्ति प्राभाकराः । तदुक्तं शालिकेन " प्रधानगुणभावेन १प्र.पं. वाक्यार्थमात्रकावृत्तिः पृ. २ प. ७ । २० नम् ।
परि. ४ सू. १० स्याहादरत्नाकरसहितः लब्धान्योन्यसमन्वयान् ॥ पदार्थानेव वाक्यार्थ सङ्गिरन्ते विपश्चितः ॥ १॥" तं च पदान्येवाकांक्षासन्निधियोग्यतारूपोप- धानलब्धसुकरव्युत्पत्तीनि प्रत्याययितुमीशते । तथा हि-आकांक्षा प्रति- पत्तुर्जिज्ञासा । सा च प्रकृत्यर्थानतिरिक्तप्रत्ययार्थे पदेऽभिधातृव्यापारा- पर्यवसायाद्भवति । यथा दारा इति । न ह्यत्र प्रकृत्यर्थातिरिक्ते प्रत्य- यार्थे प्रतीतिर्येनान्वितः प्रकृत्या स्वार्थोऽभिधीयते । प्रातिपदिकार्थमात्रे प्रत्ययोत्पत्तेः । अन्वितार्थाभिधायिता वृद्धव्यवहारव्युत्पत्तिवशेन पदा- नामवधारितेत्यन्विताभिधानपर्यवसानाय प्रतिपत्तारः पदार्थान्तरं प्रग- ल्भन्त इत्यादिकं च स्मारितदाररूपार्थान्वययोग्यं जिज्ञासते । प्रकृ- त्यतिरिक्तप्रत्ययार्थे तु पदेऽभिहितार्थापर्यवसानाद्भवत्याकांक्षा । यथा १० गामिति गच्छतीति च । अत्र हि प्रकृत्यातिरिक्तेऽर्थे कर्मशक्को वर्त्त- माने काले च प्रत्यययोर्विधानापर्यवसितमान्विताभिधानं न पर्यवस्यति त्वभिहितार्थक्रियामानयेत्यादिका कारं च देवदत्त इत्यादिकमन्तरेणे- त्यत्राप्यभिहितार्थपर्यवसानायास्ति तदन्वययोग्यार्थान्तरजिज्ञासा । तथा चोक्तम् अन्चितस्याभिधानार्थमुक्तार्थघटनाय च ॥ १५ प्रतियोगिनि जिज्ञासा या साकांक्षेति गीयते ॥१॥” सा चेयमाकाक्षा प्रतियोगिनि भवन्तीत्युत्पत्ती निमित्तमाश्रीयते । किमिति पुनः सन्निधियोग्यते एव नाश्रीयते । निराकाक्षाणामन्विताभिधाना- दर्शनात् । अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामिति हि पुत्रसम्बन्धेन निराकाक्षो राजा न पुरुषेणान्वीयते । कस्मात्पुनरनयोः पुत्रपुरुषयोः सन्निधियोग्यत्वाविशेषेऽपि पुत्रेणैव राज्ञः सम्बन्धो न पुरुषेणेति । उच्यते। न्यायसापेक्षत्वाद्वाक्यार्थप्रतीतेनित्यसापेक्षेण पुत्रेणैव राजा सम्बन्ध्यते । तत्सम्बन्धनिराकाक्षश्च न पुरुषसम्बन्धमनुभवति । आकांक्षाऽपि व्युत्पत्तावुपलक्षणमाश्रीयते । तथा चोक्तम् " परिपूर्णेन योग्यस्य - २० १ इत्यतः ‘मन्विताभिधानदर्शनात् '(पृ ६६४ प १३) इत्यन्त किञ्चित्पा- ठभेदेन प्र. प वाक्यार्थमातृकावृत्तौ (पृ. ७ प. १६) समुपलभ्यते ।
" तत्क- ६६४ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० समीपस्याप्यनन्वयः । व्युत्पत्तौतेन शब्दानामाकांक्षाऽप्युपलक्षणम्" ॥१॥ परिपूर्णेनेति पुत्रसम्बन्धान्निराकाक्षेण राज्ञा । योग्यस्य समी- पस्येति पुरुषस्य । सा चेयमाकाक्षा प्रतियोगिषु सर्वेषु न सहसैव जायते किन्तु कारणोपनिपातक्रमेण । तथा हि, क्रियायाः कर्तारमन्तरे- ५ णासम्भवात्तदवगतौ कर्तारं प्रथममपेक्षते । स च निष्फलो व्यापारेण वर्त्तत इति फलापेक्षा । व्यापारश्च करणमन्तरेणाशक्यः साधयितुमिति करणापेक्षा । तदुक्तम्-" प्रतियोगिषु सर्वेषु नाकांक्षोदेति तत्क्ष- णात् ॥ कारणोपनिपातानुपूर्वेण तु यथातथम् ॥ १॥ मेण चान्विताभिधानमपि क्रमेणैव । तदाह-" जिज्ञासा जायते बौद्धं १० सम्बन्धिषु यथा यथा ॥ तथा तथैव शब्दानामन्वितार्थाभिधायिता ॥१॥" । कः पुनः सन्निधिः, आकाक्षानन्तरं बुद्धौ विपरिवृत्तिः । स च न शव्दनिवर्तन एवान्विताभिधानव्युत्पत्तावुपलक्षणम् । द्वारमित्यादावध्याहृतेनाप्युद्धाटनाद्यर्थेन लोकेऽन्विताभिधानदर्शनात् । आकांक्षावच्च सन्निधावपि सन्निधायकक्रमेण क्रमो वेदितव्यः । तदन्विता- १५ भिधानमपि तथैवेति । यदाह-" सन्निधिः शब्दजन्मैव व्युत्पत्ती नोपलक्षणम् ॥ अध्याहृतेनाप्यर्थेन लोके सम्बन्धदर्शनात् ॥ १ ॥ सहसैव स सर्वेषां सन्निधिः प्रतियोगिनाम् । सन्निधायकसामग्री- क्रमेण क्रमवानसौ ॥ २ ॥ यथा यथा सन्निधानं जायते प्रतियो- गिनाम् ॥ तथा तथा क्रमेणैव शब्दैरन्वितबोधनम् ॥ ३॥" इति । किं पुनरिदं योग्यत्व नाम । यत्सवन्धाहत्वम् । मुख्यवृत्तीनां च प्रयोगे योऽर्थो यत्र सम्बन्धित्वेनोपपद्यते स तत्र सम्बन्धाों योग्य इत्युच्यत इति वचनात् । सम्बन्धार्ह मिदमिदमिति कथमवगम्यते । सम्बन्धित्वेन दृष्टत्वात् । तत आकाक्षादित्रितयवशात्प्राप्तव्युत्पत्तीनि २० १. वोढम्' इति म पुस्तके पाठः । २ 'आकांक्षावच ' इत्यतः ' दृष्टत्वात् ( प २३ ) इत्यन प्र. प. वाक्यार्थमातृकावृत्तौ ( पृ. ९ ५. ५) किचित्पाठभेदन समुपलभ्यते।
परि. ४ स. १०] स्याद्वादरत्नाकरसहितः ६६५ - पदानि स्वार्थमन्वितमभिदधतीति । अथानमिहितेनैवाऽर्थान्तरेणान्वित- -मर्थमभिदधीत पदमभिहितेन वा । तत्रानभिहितार्थान्तरान्विताभिधाने पदादेकस्मादेवोच्चरिताद्विवक्षितार्थप्रतीतेर्वैयर्थ्यमितरेषाम् । अभिहितार्था- न्तरान्विताभिधाने तु परस्पराश्रयम् । तथा हि । तावत्पचेदित्यनेना- भिहितार्थान्तरान्वितः स्वार्थो नाभिधानीयो यावदुखायामित्यनेनाधि- ५ करणमुखा नाभिधीयते । एवमुखायामित्यनेनापि तावत्स्वार्थो नाभिधानीयो यावत्पचेदित्यनेन स्वार्थो नाभिधीयत इति । न च पदानि प्रथमं स्वार्थमात्रमभिदधति तदनु चान्वितं स्वार्थमिति कुतः परम्पराश्रयप्रसङ्ग इति वाच्यम् । कल्पनागौरवात् । नापि लौकिकाः परीक्षका वा पदेभ्यः पदार्थमात्रं प्रतीत्य पश्चादन्वितमर्थं तेभ्य एवाव- १० बुध्यन्त इति । द्विरभिधानमननुभूयमानं कथं कल्प्यतामिति चेत् । तदखिलमफळमवाचि । परसिद्धान्तानवबोधात् । यथा पूगीफलादिक- मवलोकितं साहचर्यात्पत्रादीन्स्मारयति तथा पदजातमपि श्रुत सद्यथास्वं स्वाभिधेयान्यभिदधानमेव साहचर्यादर्थरूपाणि स्मारयत्य- नन्तरं तु तान्यन्वितान्याभिधत्त इत्येष एव हि नः सिद्धान्तः । तत्र चोक्तदोषानवकाश एव । तदुक्तम्-" पदेजातं श्रुतं सच्च स्मारितान- न्वितार्थकम् ।। न्यायसम्पादितव्यक्ति पश्चाद्वाक्यार्थबोधकम् ॥१॥" न्यायसम्पादितव्यक्तीति लोकव्यवहारानुवर्तिभिः प्रकरणादिन्यायैर्याव- दिद् विधीयमानमिदमनुवाद्यमिदं गुणभूतमिदं विवक्षितमिदमविवक्षित- मित्यादिका व्यक्तिीवधार्यते तावन्न कश्चिद्वेदवाक्यार्थमवबुध्यत इति २० वृद्धव्यवहारनियन्त्रिताया शब्दार्थावगतौ ये न्याया वृद्धव्यवहारे वाक्यार्थावगतिहेतुतया विदितास्तानपरित्यजता वाक्यार्थो बोद्धव्य इति । तदुक्तं वार्तिककारैः-" तावदेव हि सन्देहो वेदवाक्ये श्रुते भवेत्।। यावन्न वचनव्यक्तिस्तस्य स्पष्टाऽवधार्यते ॥१॥ज्ञाता च वचन- १प्र. प. वा. मा. वृ. पृ. १५ प १२ । २. तावदेव' इत्यत' ' अपेक्षते' ( ६६६ प. ६ ) इत्यन्त पाठः प्र. प वा. मा. पृ. (पृ ७ प ६ ) कि- श्चित्पाठभेदेन समुपलभ्यते ।
६६६ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. ४ स. १० व्यक्तिर्मीमांसा न्यायकारिता ॥ प्रलीयन्ते समस्ताश्च वेदवाक्यार्थ- संशयाः ॥२॥” इति । अत एव च मीमासाया वेदवाक्यार्थ- प्रतिपतावितिकर्तव्यतात्वम् । तदुक्त तैरेव-" धर्मे प्रमीयमाणे हि भेदेन करणात्मना ॥ इतिकर्तव्यतामागं मीमांसा पूरयिष्यति ५ ॥ १॥ इति । धर्भ इति वेदार्थे । ननु लोके द्रागेव वाक्यार्थनिश्चयो नेयती सामग्रीमपेक्षते । उच्यते । अत्यन्ताभ्यस्ते वाक्यार्थे स्यादेतदेव- मदृष्टपूर्वेषु तु स्मृत्यादिवाक्यार्थेषु लोकेऽपि नानाविधविवादोत्थानात्कुनो द्रागेव निश्चयः । अपि च प्रयोजनाभावेनापि लोकस्याऽयं विवेको नास्ति । वाक्यज्ञास्तु विविंचते । तदुक्तम्-" बहुजातिगुणद्रव्यकर्मभे- १० दावलम्बिनः ॥ प्रत्ययात्सहसा जाताच्छौताल्लाक्षणिकात्मकात् ॥१॥न लोकः कारणाभावान्निर्धारयितुमिच्छति ॥ बलाबला- दिसिद्धयर्थ वाक्यज्ञास्तु विविञ्चते ॥२॥ " अथैवं सिद्धान्ते स्मृतेः पूर्वानुभवानुसारितयाऽर्थगोचरप्राप्तावपेक्षानपेक्षणलक्षणदूषणावतारः । तथा हि, न पदं पदार्थमात्रे क्वचिद्दष्टचरप्रयोगो येन तत्साहचर्येण तन्मात्रं १५ स्मारयेत् । तन्मात्रेण व्यवहारायोगाव्यवहारोपयुक्तत्वाच्च पदोच्चारणस्य । किं त्वन्विते स्वार्थे । तथा च गामानयत्यत्रानयनान्वितस्वार्थो गो- शब्दस्तेन सहचरितो दृष्टो गां पश्येत्यत्रापि तदन्वितमेव गां स्मारयेन्न तन्मात्रम् । एवं च स्मर्यमाणेनानयनेन दर्शननिरपेक्षीकृतो गोर्न पश्येत्यनेनान्वियात् । एवं प्रासादं पश्येत्यत्र प्रासादान्वितस्वार्थे पश्य- २० पदं तेन सहचरितं दृष्टं गा पश्येत्यत्रापि प्रासादान्वितमेव दर्शनं स्मारयेन्न दर्शनमात्रम् । तथा च स्मर्यमाणेन प्रासादेन गोनिराकांक्षी- कृत पश्यपद न गवा सम्बध्येतेति सर्वत्र वाक्यार्थप्रत्यये दत्ता जलाञ्जलिः प्रसज्यते । अथ गोशब्दो गोलक्षणमर्थं न व्यभिचरत्यान- यनादिकं तु व्यभिचरतीत्यव्यभिचाराद्गामितिपदं स्वार्थमेव स्मारयति न तु पदार्थान्तरं व्यभिचारादिति चेत् । तदसाम्प्रतम् । पद्धत्या २५ १ मी. श्लो. सू. ५ स आ. श्लो. २५, २६, २७.
परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः ६६७ सहिता हि भावना प्रबोधवती स्मृतिहेतुरङ्गीक्रियते । तस्याश्च प्रबो- धो नाव्यभिचारनिबन्धन एव । साहचर्यमात्रस्यापि तन्निबन्धस्य पूगीफलादौ दर्शनात् । तच्च स्वार्थस्येव पदार्थान्तरस्याऽप्यस्तीति पदार्थान्तरसहितमेव स्वार्थमनाशङ्क सहसैव स्मारयेदित्यपेक्षानपेक्षण- दूषणप्रसक्तेर्न पदेभ्यः पदार्थमात्रस्मरणमुपपद्य इति । अत्रोच्यते । अस्ति तावत्पदार्थधीः । सा चेन्न स्मृतिस्तार्ह कतमोऽयमस्तु । न ताव- त्प्रमाणम् । अनधिगतार्थबोधनं हि तदुपेयते । यदाहु:-" सर्वस्यानु- पलब्धेऽर्थे प्रामाण्यं स्मृतिरन्यथा" इति । न च पदार्थधीरनधि- गतार्थगोचरा । न खलु सम्बन्धसमये समधिगतोऽर्थः पदैरभिधीयमानो देशकालावस्थानुरूपेणाप्यतिरिच्यते । अनतिरिच्यमानश्च न स्वरूप- विज्ञानं प्रमाणयति । अत एवाहु:--" परोक्षश्वानुभूतश्च यस्तत्र स्मृतिरिप्यते ।। प्रमिते तु प्रसक्तत्वात्मृतेर्नास्ति प्रमाणता ॥१॥ इति, पदमभ्यधिकाभावात्स्मारकान्न विशिष्यते” इति च । यच्चास्याः पूर्वानुभवानुसारितयाऽपेक्षणलक्षणदूषणावतारकारणमन्वि- तार्थगोचरत्वं प्रसज्यते तन्न समीचीनम् । यतोऽभ्यासातिशयः संस्का- १५ रातिशयमाधत्ते । अभ्यासवती च पदस्य स्वार्थेन साहचर्यानुभूतिर्यथा न तथाऽर्थान्तरेणेति । पदश्रवणात्स्वार्थविषय एव संस्कारः प्रबुध्यत इति स्मरणमपि तद्विषयमेव भवितुमर्हति नार्थान्तरविषयमिति । पदानि प्रथमं यथास्व साहचर्यस्वरूपाणि स्मारयन्ति । तथा च स्मृतिसन्निहिताः स्वरूपमात्रेणार्या अर्थान्तराकांक्षापदैरन्विता अभिधी- २० यन्त इति न परस्पराश्रयम् । तदुक्तम्---" स्मृतिसन्निहितैरेवमथैर- न्वितमात्मनः ।। अर्थमाह पदं सर्वमिति नान्योन्यसंश्रयम् ॥१॥" स्वार्थरूपस्मरणे हि न पदं पदान्तरमपेक्षते । स्मृतिसन्निहितमपि भक्त्येव सन्निहितमिति नास्तीतरेतराश्रयम् । यच्चेदं सर्वपदानामन्विता- १ मी. लो. सू. ५ औ. सूत्रे श्लो. १५ । २ मी. श्लो. सू. ५ शब्दप, लो. १०३, १०४, १०७.1 ६६८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० भिधायित्वमुच्यते तत्सर्वेषु श्रौतार्थेषु पदेष्ववसेयम् । गङ्गायां घोषो गौर्वाहीक इत्यादौ तु लाक्षणिकगौणार्थपदप्रयोगे यदेव श्रौतार्थं पदं तदेवाऽन्विताभिधायकम् । इतरत्तु गङ्गादिक प्रतियोगिनस्तटादेर्बुद्धा- वुपस्थापकमेव । तत्र तस्य वाचकत्वानवधारणात् । स्वार्थस्यापि तदा- नीमवाचकमन्वयायोग्यत्वात् । किं तु तदर्थेन यत्स्वसम्बन्धि स्वसदृशं वा योग्यं च तटादिकं बुद्धावुपस्थाप्यते तेनान्वितं श्रौतार्थमेव पदं स्वार्थभभिधत्त इति दर्शनरहस्यमिति । अपि निरुपमपक्षपातपात्राण्यन्वितवस्त्वभिधास्वतिप्रगल्भाः ।। कथमन्वयशून्यमेवमेते प्रलपन्ति प्रसभं विमुक्तशङ्काः ।। ५५२ ।। तथा हि, यत्तावत्पदार्थानेव प्रधानगुणतयेत्यादिकमवादि । तत्र पदार्थाना प्रकरणादिवशात्प्रधानगुणतया व्याप्तसमन्वयावस्थाना को नाम वाक्यार्थत्वं प्रतिपद्यते । यथैव हि परस्परसापेक्षाणा पदानामन्यनिरपेक्षा संहतिर्वाक्यं तथा विशेषणविशेष्यतया परस्परसापेक्षाणां पदार्थानामप्य- न्यनिरपेक्षा संहतिर्वाक्यार्थ इत्युच्यते । यत्तूक्तं तं च पदान्येवाकाक्षास- १५ निधियोग्यतारूपोपधानलब्धसुकरव्युत्पत्तीनि प्रत्याययितुमशित इति । तत्रापि किं पदानि पृथक्पृथक्तं प्रतिपादयेयुः संहतानि वा । न ताव- त्पृथक्पृथक् । पादप इत्यादिपदमात्रोच्चारणे पदार्थमात्रप्रतीतेरेवानुभूय- मानत्वात् । तदर्याच्च प्रतिपन्नतिष्ठत्यादिपदवाच्यस्य स्थानाद्यर्थस्य सामर्थ्यतः प्रतीतेः । तत्र पदस्य साक्षाद्व्यापाराभावात्तदर्थस्यैव तद्गमक- २० त्वात् । परम्परया तस्य तत्र व्यापारे लिङ्गवचनस्य लिङ्गिप्रतिपत्तौ व्यापारोऽस्तु । तथा सति शाब्दमेवानुमानज्ञानं भवेत् । लिङ्गवाचक- वच्छब्दाल्लिङ्गस्य प्रतीतेः सैव गाव्दी । न पुनस्तत्प्रतिपन्नालगाद- नुमेयप्रतिपत्तिः । अतिप्रसङ्गादिति चेत् । तत एव पादपपदास्थानाद्यर्थ- प्रतिपत्तिर्भवन्ती शाब्दी माभूत् । तस्य स्वार्थप्रतिपत्तावेव पर्यवसि- २५ तत्वाल्लिङ्गगब्दवत् । किंच, पदानां पृथक्पृथग्वाक्यार्थाभिधाने देव- दत्तो गामभ्याज शुक्ला दण्डेनेत्युक्तेऽनेकवाक्यार्थप्रत्ययप्रसङ्गः । सह- परि. ४ सू १०] स्याद्वादरत्नाकरसहितः ६६९ 'त्याऽर्थमभिदधति पदानि वाक्यमिति स्वसिद्धान्तविरोधश्च । संहतानि पदानि वाक्यार्थ प्रतिपादयन्तीति द्वितीयपक्षे त्वस्मन्मतप्रवेशः । संहति- रूपं परिणाममापन्नानां तेषां वाक्यत्वेनास्माकं सम्मतत्वात् । तस्यैव च वाक्यार्थप्रतिपादकत्वात् । यच्चाकाक्षाया अभिधानापर्यवसाननिब- धनत्व चाभ्यघायि तदसम्बद्धम् । अभिधाया अन्वितार्थविषयत्वस्य ५ पराकरिष्यमाणत्वात् । अथ यद्येवं कारणद्वयमप्याकाक्षायाः पराक्रि- यते तर्हि किंनिबन्धनाऽसौ भवतु । भवद्भिरपि तावदेषाऽभ्युपगन्तव्यैव । परप्रतिपत्तये हि वचनमुच्चार्यते । परश्च गामित्युक्तेऽवश्यमाकासत्यर्था- न्तरं यत्र च न तदाकासा तत्र तदुच्चारयन्तो लौकिकाः परीक्षका वा उन्मत्तवदुपेक्ष्यन्त इति । उच्यते । अभिधेयापर्यवसाननिबन्धनैवेय- १० माकाङ्क्षा । गामित्युक्ते हि गोशब्दाभिहितोऽर्थो न क्रिया कर्तारं चान्त- रेण पर्यवस्यतीति प्रतिपत्ता तौ जिज्ञासते । इयॉस्तु त्वन्मताद्विशेषः । त्वन्मते हि प्रत्ययान्वितः प्रकृत्या स्वार्थोऽभिधीयते । अस्मन्मते त्वन- न्वित एव । यत्पुनरूचे, सा चेयमाकाङ्क्षा प्रतियोगिनीत्यादि । तद- स्माकमपि सम्मतमेव । यदप्युक्तम् । द्वारमित्यादावध्याहृतेनाप्युद्धाट- १५ नार्थेन लोकेऽन्विताभिधानदर्शनादिति । तदपि त्वन्मतेनैव निराकृतम् । अर्थापत्तिप्रमाणतो यर्थान्तराध्याहारस्त्वन्मते । सा च प्रमाणपरिदृष्टा- र्थान्यथानुपपत्तिनिबन्धना । द्वारमित्यादौ च द्वारलक्षणस्यार्थमात्रस्य स्मरणगोचरत्वेन न प्रमाणपरिदृष्टत्वम् । ततः कथं तस्यार्थान्तरपरि- कल्पनानिमित्तत्वम् । तन्निमित्तत्त्वे वा स्मरणस्यापि प्रामाण्याङ्गीकरण- २० प्रसङ्गः । न च श्रावणप्रत्यक्षगोचरस्य द्वारशब्दस्यान्यथानुपपद्यमानत्वम् । यतस्तस्यार्थापत्त्युत्थापकत्वं स्यात् । द्वारशब्दस्य स्वार्थविरह एवान्यथानुपपद्यमानत्वात् । यच्चोक्तमाकांक्षावच्च सन्निधावपीत्यादि । तदपि सकलमनुकूलमेवास्माकम् । यच्च पूगीफलादिकमवलोकितमि- त्यादि दर्शनरहस्यमिति पर्यन्तं प्रत्यपादि । तदप्यसुन्दरम् । यतो येय- २५ मन्विताभिधानवादिभिरन्वितस्वार्थगोचरा शक्तिरुपेयते पदाना साड- ६७० प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० न्वयमात्रविषयाऽन्वितविशेषविषया वा । न तावदन्वयमात्रविषया । तन्मात्रविषवत्वे तस्य सर्वत्राविशेषात्सर्वेषा शब्दानां पर्यायत्वापत्तेः । अथान्वितविशेषविषयाऽन्वितविशेषाणां च स्वरूपतो भेदान्न पर्या- यत्वापत्तिरिति चेत् । नैवम् । अन्वितविशेषविषयत्वे ह्यन्वयमात्रमप्य- ५ भिधानीयं शब्देन । अन्यथा तदसिद्धेः । तदभिधाने चैकान्विते विशेषेऽपरान्वयमात्रे पदानां शक्तिः प्रसज्यते विकल्पनागौरवं स्यात् । न चेदं वाच्यं व्यतिषिक्ताभिधाय्येव पद न व्यतिषड्गस्य वाचकम् । न्यतिपिक्ततोऽवगतेय॑तिषङ्गस्य । यदाह-" व्यतिषिक्ताभिधानेन व्यतिषङ्गमतिर्यतः॥ तेनैकवित्तिवेद्येऽस्मिन्न निमित्तान्तरादरः॥१॥" १० इति । यतो व्यतिषिक्तेति रूपमात्रमुच्यते पदैरुपलक्ष्यते व्यतिषड्ग इत्यर्थो विवक्षितो, यद्वा व्यतिषङ्गादेव तैस्तदुच्यत इति । तत्र रूप- मात्राभिधानजन्मा ख्यातिन व्यतिषड्गमपि गोचरयितुमर्हति । न हि यथा दण्डमन्तरेण दुरवगमं दण्डिस्वरूपं तथेदमपि व्यतिषङ्गमन्तरेण दुरवगमं येन स्वगोचरशब्दसामर्थ्यजन्मनि ज्ञाने स्वान्वयमपि समर्प- १५ येत् । तद्रूपस्यान्वयव्यतिरेकेणापि शक्यनिरूपणत्वात् । नान्वयं विना तद्रूपकं क्वचिदपीति चेत्, लिङ्गमपि लिङ्गिनं विना न क्वचिदपीति तदपि तन्निरूपणाधीननिरूपणमस्तु । अस्त्वेवमिति चेत् । तर्हि कथं लिझिनो लिङ्गित्वम् । लिङ्गात्पूर्वमेव तस्य निर्णीतत्वादिति कीर्ति- शेपमनुमानमासज्येत । एव च सूक्ष्मामपि न परक्षिा परीक्ष्यमाणं परीक्षकैः क्षमते ।। इदमन्विताभिधानं प्राभाकर वर्जनीयं तत् ॥ ५५३ ॥ भट्टाः पुनरेवं सगिरन्ते । पदानि पदार्थानेवाभिदधति । तेऽभि- हिता. सन्तो वाक्यार्थमवबोधयन्ति । तदुक्तम्- अभिहितान्वयवादिभहम- २५ तस्योपपाद्य खण्डनम् । पदानि हि स्वं स्त्रमभिधायाऽर्थ निवृत्तव्यापारा- ण्यचेदानीमर्थोऽवगतोऽर्थान्तरमवगमयतीति"। २० १ मी. शा. भा पृ २५ पं. ८ ।
परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः : ६७१ .. अन्वयव्यतिरेकाभ्यां खल्वेवमवगम्यते यत्पदार्थपूर्वको वाक्यार्थ इति । यो हि मानसादपचाराच्छूतेष्वपि पदेषु पदार्थान्नावगच्छति नावग- च्छत्येवासौ वाक्यार्थम् । यस्त्वश्रुतेष्वपि पदेषु प्रमाणान्तरतः पदार्था- झानीयाज्जानात्येवासौ वाक्यार्थम् । यदाह "पश्यतः श्वेतिमारूपं हेपाशब्दं च शृण्वतः ॥ खुरविक्षेपशब्दं च श्वेतोऽश्वो धावतीति घीः ॥ १॥ दृष्टा वाक्यविनिर्मुक्ता न पदार्थाद्विना क्वचित् ।। इति । आरूपमव्यक्तं रूपम् । तेन गुणिविशेषो न प्रत्यक्षेणावसीयत इत्यर्थः । तदेवं वाक्यार्थबुद्धिः पदार्थप्रतीति न व्यभिचरति तु पद- प्रतीतिमिति न तत्कायी भवितुमर्हति । अपि च, अनन्यलभ्यः शब्दार्थः प्रसिद्धः । लभ्यते च समभिव्याहारान्यथानुपपत्त्या पदाना- १० मन्वितार्थपराणा स्वाभिधेयार्थरूपसमवेतान्वितावस्थाप्रत्यायनं लक्ष- णया । न हि पदानि समभिव्याहृतानि स्वाभिधेयप्रत्ययमात्रे पर्यवसातुमीशते । न हि लौकिकाः पदार्थमात्रप्रत्यायनाय प्रवर्तन्ते । प्रतिपित्सितं खल्वेते प्रतिपादयिष्यन्तः पदान्युच्चारयन्ति । अत्रुभु- सितावबोधने त्वनन्वयविषयवचनतया नामी लौकिकाः परीक्षका १५ इत्युपेक्षेरन् । न च भूयो भूयः समधिगत परे पदार्थमानं वुभुत्सन्ते । तस्मादधिगतमर्थमवगमयितुमनसो न समभिव्याहरन्ति वृद्वाः पदानि । तदयं समभिव्याहारः पदानामनधिगतार्थप्रत्यायनयुक्तस्तमन्तरेणानुप- पद्यमानस्वाभिधेयसमवेतामनधिगतचरी समन्वितावस्था लक्षयति । तदुक्तम्-" विशिष्टार्था प्रयुक्ता हि समभिव्याहृतिर्जने " इति, वाक्यार्थो लक्ष्यमाणो हि सर्वत्रैवेति हि स्थितिः" इति च । अथ पदार्था. प्रत्येक वाक्यार्थमवगमयेयु. समुदिता वा । नाद्यः पक्षः, गौरित्युक्तेऽपि वाक्यार्थप्रतीतिप्रसङ्गात् । यावन्तश्च पदार्थास्तावन्तो वाक्यार्थाः प्रतीयेरन् । अथ प्रत्येकमप्येकमेव वाक्यार्थ बोधयति । तदाऽऽवृत्त्या तत्प्रतीतिप्रसक्तिः । नापि द्वितीय । समुदिताना तेषाम- २५ इति, २० १ मी.ला.पा.चा.अ.लो. ३५८१३५९ ।
'द७२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० वाचकः साधारण्येन सत्त्वस्य ग्रहीतुमशक्यत्वात् । देवदत्त गामानयेत्युक्ते हि विवक्षितगोविषयानयनान्वितो नियत एव देवदत्तः प्रतीयते । गौरपि प्रतिनियतो देवदत्तकर्तृकानयनान्वितोऽसाधारण एव वेद्यते । आनयनमपि च नियतगोदेवदत्तान्वितं तथाभूतमेव ज्ञायते, इत्येवं ५ समुदितेषु पदार्थेष्वसाधारण्येन प्रतीयमानेषु न सत्त्वग्रहणसम्भवः । तेषा व्यभिचारादानन्त्याद्वा । तथा हि, न नियतस्य शावलेयसन्नि- वेशस्य गोशब्दो तदभावेऽपि बाहुलेये दर्शनात् । न च त्रैलोक्यान्तर्गतसकलगोपिण्डगतसन्निवेशवच- नत्वमवगन्तुं शक्यम् । आनन्त्यादिति । तदयुक्तम् । आद्यपक्ष- १० कक्षीकारात् । द्वितीयपक्षे त्वसाधारण्यं भवदपि न नः क्षतिकरम् । न ह्येते लिङ्गवत्सम्बन्धग्रहणमपेक्षमाणा अवबोधकाः । येनाऽसाधारण्या- तेषु सम्बन्धग्रहणं नावकल्पत इत्युच्यमानं शोभेत । किं त्वगृहीत- सम्बन्धा अप्याकाक्षासन्निधियोग्यत्वपर्यालोचनया परस्परं संसृज्यन्ते । स एव च वाक्यार्थो यः संसृष्टः पदार्थसमुदाय । इतरपदार्थविशिष्टो १५ वेतरपदार्थ इति । नाप्यशाब्दत्वनिमित्तत्वं वाक्यार्थप्रतीतेराशङ्कनीयम् । शब्दावगतिमूलत्वेन तस्याः शाव्दत्वादिति स्थितं पदात्पदार्थप्रती- तिस्ततो वाक्यार्थावगतिरिति । निरटति भट्टचट्टैः स्पष्टमसावभिहितान्वयो ध्वनिषु ॥ अधिरोप्य युक्तिदिव्यं दोपज्ञास्तं परीक्षन्ते ।। ५५४ ।। तथा हि, यत्ताववादि पदानि पदार्थानेवाभिदधतीत्यादि । तत्र संहतान्यसंहतानि वा पदानि पदार्थानपि संसृष्टानसंसृष्टान्वा प्रति- पादयेयु. । तत्र संहतानि पदानि संसृष्टान्पदार्थानभिदधति, ते च वाक्यार्थमवगमयन्तीत्युच्यते । तदेतदेवोक्तं भवति, वाक्यं वाक्यार्थं प्रति- पादयति स च पुनरपि वाक्यार्थमवगमयतीति । संहताना पदानामेव २५ वाक्यत्वात्, संसृष्टाना च पदार्थाना वाक्यार्थत्वात् । तथा च द्विरवगमो वाक्यार्थस्याप्रमाणको निरुपयोगश्च प्रसज्येत । अथ संहतानि तान्य- २० परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः ६७३ संसृष्टान्पदार्थान्ब्रुवत इत्यभिधीयते । तदप्यनुभववाधितम् । तेश्य- स्तथाविधेभ्यः संसृष्टानामेव तेषा प्रतीयमानत्वात् । असंहतानि संसृष्टानवगमयन्तीत्येतदपि तथाविधमेव । केवलेभ्यः पदार्थमात्रस्यैव प्रतीतेः । असंहतान्यहतसंसृष्टानवगमयन्तीति पक्षे तु कक्षीकार एव । यदपि गदितं यो हि मानसादपचारादित्यादि । तदत्यल्पमुच्यते । न खलु प्रणिहितेऽपि मनसि श्रुतेप्वपि पदेषु सर्वः सर्वत्र वाक्यार्थं प्रत्येति । अथैव सुतरामस्मन्मतसिद्धिरिति चेत् । स्यादेवम् । यदि विदितेभ्यः पदार्थेभ्यो वाक्यार्थप्रतीतिरवश्यमुत्पद्यत । विदितेष्वपि तेषु क्लिष्टकाव्यादौ वाक्यार्थप्रत्ययादर्शनात् । अत एव तत्र तत्र' पदार्थ- मानं व्याख्याय व्याख्यातारो व्याहरन्त्ययमत्र वाक्यार्थ इति । अन्यथा १० निरूपितेषु पदार्थेप्ववश्य वाक्यार्थावगमे व्यर्थं तदभिधानं भवेत् । अथ न पदार्थेभ्यो वाक्यार्थप्रतीतिरुत्पद्यत एवेत्यभिदध्महेऽपि तु तेभ्य एवेति । किमुच्यते मानसादपचरादिति । अथ किमत्र कारणं विदिते- भ्योऽपि पदेभ्यः कदाचिद्वाक्यार्थोऽवसीयते कदाचिन्नेति । क्षयोपशम- भावाभावादिति ब्रूमः । यदप्युदितं यस्त्वश्रुतेष्वपि पदेषु इत्यादि । १५ तदपि नावदातम् । श्वेतोऽश्वोधावतीत्यादिप्रतीतेरानुमानिकत्वेनास्मामिः स्वीकारात् । त्वयाऽपि चेयमनुमानरूपाऽर्थापत्तिरूपा वाऽभ्युपेया । किं च किं येन रूपेण पुरुषेण श्वैत्यसमानाश्रयौ हेषाध्वनिपदनिक्षेपशब्दा- ववगतौ तस्यैवेयं श्वेतोऽश्वेो धावतीति धीः । उत यस्याश्रयानध्य- वसायस्तस्यापीति । तत्र यदि तावदप्रत्याकलितहेषाध्वनिपदविहार- २० निर्घोषाश्रयस्येत्युच्यते । तदा श्वेतोऽचो धावतीति प्रतीतेरसम्भवः । स ह्येवं प्रतिपद्यते भवितव्यमत्र प्रदेशे नूनमश्वेन धावता च भाव्यं केनचिदिति । अथाऽश्वसम्बन्धिनमेव खरखुटपुटटङ्कारमभ्यासपाटवा- प्रतिपत्तावबुद्धयते । तदाऽप्यश्ववर्तिनीमेव वेगवतीं गतिमनुमिनोति नतु केवलामेव तामवगम्य तस्या अश्वान्वयं पदार्थसामर्थ्यमात्रेण प्रतिपद्यते। २५ योऽपि तस्मिन्देशे नास्त्यन्योऽश्वादिति निश्चित्य पारिशेष्यादाश्रयान- ६७४ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू.१० ध्यवसायेऽपि हेषाध्वनेः श्वैत्यसमानाधिकरणौ हेषाध्वनिखुरपुटटवार- रवावध्यवस्यति । तस्याऽश्वत्वे वेगवति गमने च श्वेतद्रव्यवर्त्तिन्येवानु- मानं न स्वतन्त्रयोरिति । प्रमाणान्तरेणासम्बद्धावगताना न कचिदन्यो- न्यसम्बन्धबोधकत्वमनुमानार्थापत्तिव्यतिरेकेण तवापि प्रतीतमिति । अपि ५ च मानान्तरेणानुभूतानामर्थरूपाणामन्वयबोधनसामर्थ्यमुपलम्भे वाऽन्व- यबोधकाख्यसप्तमप्रमाणप्रसङ्गः । न चास्य शाब्देऽन्तर्भावः । शब्दाभा- वात् । पदार्थाभिधानावान्तरव्यापारेण हि शब्दाद्यदन्वयज्ञानं तच्छाब्द- मित्येष एव वो राद्धान्त इति नास्य शाब्देऽन्तर्भावः । यदि च तत्त्वं विवेच्यते तदेवमेव प्रत्यक्षादिभिः सह तुल्यकक्षतया शाब्दस्य स्थानेऽभि- धानीयम् । नतु शाब्दं तद्भेदस्य । न हि लौकिका ब्राह्मणयुधिष्ठिराविति प्रयुञ्जते । प्रयुञ्जते तु ब्राह्मणराजन्याविति वा वशिष्ठयुधिष्ठिराविति वा । न च भेदान्तरोपन्यासेन भेदान्तमुपन्यस्त भवति । तदयं समस्त- भानलक्षणप्रवृत्तो मानतुषस्यापि परित्यागे तेनैव सह स्वकौशल्यमपि त्यजेदिति । यदप्यनन्यलभ्यः शब्दार्थ इत्यादि सर्वत्रैवेति हि स्थिति- १५ रिति चेत्यन्तमवादि तदपि पूर्वानुसन्धानवन्ध्येन व्याहृतम् । पूर्व हि भवानेवेदमवादीत्पदैरभिहिताः पदार्था वाक्यार्थमवगमयन्तीति । सम्प्रति पुनरिदमुदीरयति पदानि लक्षणया वाक्यार्थमवगमयन्तीति । सोऽय पूर्वापरविरोधेनापि वाचो विरचयनिश्चितं वाचस्पतिः । किं च स्खलद्दतित्वं नाम सामान्यलक्षणं लक्षणायाः । न च सममिव्याहृत- २० पदकदम्बकस्य सर्ववाक्याथै स्खलद्गतित्वं प्रतीमः । न खलु यथा कनकलतिकायां कृतास्पदे कमले कुवलययुगलमिदमालोक्यत इति वाक्यं कामिनीतनुव्यवस्थितवदनवर्तिनेत्रद्वयलक्षणेऽर्थे प्रतिपाद्य स्खल- द्वति तथा कामिनीकलेवराधारवके नेत्रद्वन्द्वं दृश्यत इत्येतदपि वाक्यं स्खलद्गत्यभिधातुं शक्यम् । योऽपि समुदिताः पदार्था वाक्यार्थमवगम- २५ यन्तीति पक्षस्य कक्षीकारः सोऽपि न क्षेमकारः । समुदितानां पदार्थानामेव वाक्यार्थत्वादात्मनि च गमकमावायोगात् । यदपि शब्दाव- :
परि. ४ स. १०] स्याद्वादरत्नाकरसहितः ६७५ गतिमूलत्वेन तस्याः शाब्दत्वादित्युक्तम् । तदप्ययुक्तम् । एवं हि प्रत्यक्षावगतधूमादवगम्यमानस्य कृष्णवर्त्म नोऽपि प्रत्यक्षमूलत्वात्प्रत्यक्षप्र- मेयत्वं भवेत् । तस्मादिदमिह रहस्यं पदापेक्षयाऽनन्विताभिधानं वाक्या- पेक्षया त्वन्विताभिधानमिति । भो भट्टशिष्याः खलु युक्तिमूलान्युन्मूलि तान्येवममूनि मूलात् ॥ चिरप्ररूढोऽभिहितान्वयस्तत् पतत्विदानी विषवृक्ष एषः ॥ ५५५ ।। सम्प्रतीदं चिन्त्यते किमयं शब्दो नित्यः सन्नर्थमभिदधाति, अनि- त्यो वा। शब्दनित्यत्ववादिनो मीमा- सकस्य पूर्वपक्ष विस्तरश तत्रैवमुदीरयाबभूवुर्मीमासाध्ययनैकदुर्विदग्धाः ॥ उपपाद्य खण्डनम् । शब्दस्य सनातनत्व एव प्रमितिः संश्रयतेऽत्र सा- १० क्षिमुद्राम् ॥ ५५६ ॥ तथा हि, स एवायं गकार इत्यादिप्रत्यभिज्ञानप्रत्यक्षत एव ताव- द्वर्णाना नित्यत्वमवसीयते । न चास्याज्ञानत्वलक्षणमप्रामाण्यम् । ज्ञानत्वेन प्रतिप्राणि प्रतीयमानत्वात् । नापि संशयस्वभावम् । एकां- शावलम्बित्वात् । नापि मिथ्यात्वरूपम् । बाधाविधुरत्वात् । न च १५ दुष्टकारणोत्पाद्यत्वादस्याप्रामाण्यमिति मन्तव्यम् । तत्कारणानां दुष्ट- त्वानवधारणात् । नाप्यधिगतार्थाधिगन्तृत्वात् । स्मयमाणानुभूयमान- विशेषेणावच्छिन्नस्य गकारादेः पूर्वसंवेदनाविषयत्वात् । तदुक्तम्- " यः पूर्वावगतोऽशोऽत्र स नो नाम प्रतीयते ॥ इदानीन्तनम- स्तित्वं न हि पूर्वधिया गतम् ॥ १ ॥” इति । प्रत्यक्षत्वं चास्य २० श्रोत्रेन्द्रियान्वयव्यतिरेकानुविधायित्वात्सुप्रसिद्धम् । न च स्मृतिपूर्व- कत्वादस्याप्रत्यक्षत्वं वक्तुं युक्तम् । तत्पूर्वकत्वेऽप्यस्य सत्सम्प्रयोगजत्वेन प्रत्यक्षत्वोपपत्तेः । एवं च प्रत्यभिज्ञानप्रत्यक्षमाहात्म्यतः शव्दस्य नित्यत्वे प्रतिपन्ने इदानीमिवान्यदापि यच्छब्दस्योच्चारणं न तत्तस्य १ मी 'लो स. ४ प्र. म. श्लो. २३३,२३४ ।
६७६ प्रमाणनयतत्त्वालोकालङ्कारः परि. ४ सू. १० अत्र जनकम् । किंत्वभिव्यञ्जकम् । ततो विप्रतिपन्नान्प्रतीदं प्रतिपाद्यते । अन्यदापि यच्छब्दस्योच्चारणं तदस्याभिव्यञ्जकमुच्चारणत्वात् । यदुच्चा- रणं तदभिव्यञ्जकं यथैव तत्कालोपलक्षितमुच्चारणम् । तथा विवादाध्या- सितकाल एतद्गादिसंबद्धः कालत्वादिदानीन्तनकालवत्। नित्यः शब्दः ५ श्रावणत्वाद्यदित्थं तत्तथा । यथा शव्दत्वसामान्यम् । देशकाला- दिभिन्ना गोब्दव्यक्तिबुद्धय एकगोशब्दविषया न वाऽनेकार्थगो- चरा। गौरित्युल्लेखेनोत्पद्यमानत्वात् । सम्प्रत्युत्पन्नगोशब्दव्यक्तिबुद्धि- वत् । गोशब्दव्यक्तिबुद्धिरित्यभिधीयमाने सिद्धसाधनं भवेत् । एकगोशब्दव्यक्तिबुद्धेरेकविषयत्वाङ्गीकारात्यवच्छेदार्थ १० बहुवचनम् । तथा सामान्यगोशव्दनिवन्धना. समाना एव बुद्धयः प्रादुर्भवन्तीति तन्निवृत्यर्थं व्यक्तिग्रहणम् । एकस्मि- न्देशे काले वा बहूनां प्रमातॄणां गोगब्दज्ञानान्येकगोशब्दव्यक्ति- गोचराणीति सिद्धसाध्यता मा प्रापदिति देशकालादिभिन्ना इत्यभि- हितम् । ह्यस्तनो गोशब्दोऽद्याप्यनुवर्तते गौरिति ज्ञायमानत्वादद्योच्चा- १५ रितगोशब्दवत् । अथ वाऽद्यतनो गोशब्दोऽप्यासद्गिौरिति ज्ञाय- मानत्वाद्धयस्तनगोशब्दवत् । शब्दो दीर्धकालावस्थायी सम्बन्धब- लेनार्थप्रतीतिजनकत्वाद्भूमसामान्यवत् । यः पुनरस्थिरः स सम्ब- न्धवलेन नार्थप्रतीतिं जनयति तादात्विकनिमित्तत्वात्प्रदीपसौदामि- नीप्रकाशवत् । तदेवं-"कञ्चित्कालं स्थिरः शब्दः सर्वकालमपि स्थिरः ।। विनाशहेतुशून्यत्वात्सामान्याकाशकालवत् ॥१॥" अस्यार्थः-शब्दः सर्वकालं स्थिरो विनाशहेतुशून्यत्वात् । सामान्या- दिवत् । विनाशहेतुगन्यत्वं च कश्चित्कालं स्थिरत्वात्सिद्धम् । स हि सम्बन्धकरणकालं यावदनुपद्रुतः पश्चादपि केनाऽपनीयतामिति । विवादाध्यासितकालो गादिशब्दशून्यो न भवति कालत्वादिदानीन्त- २५ नकालवदित्यनुमानपरम्पराऽपि शब्दे नित्यत्वमवस्थापयति । अर्थापत्ति-' रप्यत्र नित्यत्वमेव प्रकटयति । तथा हि-नित्यः शब्दः परार्थ तदु- २० परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः ६७७ च्चारणान्यथानुपपत्तेः । तथा च जैमिनीयं सूत्रम्-'दर्शनस्य परा- र्थत्वात् " इति । अनेन किलार्थापत्तिरुक्ता । कथम् । दर्शनमुच्चा- रणम् । तच्च परस्यार्थप्रतिपत्त्यर्थम् । सा चाऽर्थप्रतिपत्तिः शब्दस्या- नित्यत्वे न घटते । गृहीतसम्बन्धाद्धि शब्दादर्थप्रतीतिराविर्भवति । नान्यथा । अतिप्रसक्तेः । सम्बन्धावगमश्च प्रमाणत्रयसम्पाद्यः । तथा हि-यदैको वृद्धोऽन्यस्मै प्रतिपन्नसंकेताय प्रतिपादयति देवदत्त गाम- भ्याज शुक्ला दण्डेनेति । ततः पार्थस्थोऽन्यः कश्चिदव्युत्पन्नसङ्केतः शब्दार्थो वृद्धौ च प्रतिपाद्यप्रतिपादको प्रत्यक्षतः प्रतिपद्यते । श्रोतुश्च प्रतिपाद्यवृद्धस्य गवादिगोचरक्षेपणादिविशिष्टचेष्टालझणादनुमानात्तां गवादिविषया प्रतिपत्तिमवबुद्धयते । तत्प्रतिपत्त्यन्यथानुपपत्त्या च १० शब्दस्य वाचिकामर्थस्य तु वाच्या शक्तिं परिकल्पयति । सोऽयं प्रमाणत्रयसम्पाद्यः सन्बन्धावगमो न सकृद्वाक्यप्रयोगात्सम्भवति । किन्त्वावापोद्वापाभ्या पुनस्तच्छब्दोच्चारणादेव । न चास्थिरस्य पुनः पुनरुच्चारणं घटते । नदभावे च नान्वयव्यतिरेकाभ्यां वाच्यवाचक- शक्त्यवगमः । तदसत्त्वान्न प्रेक्षावद्भिः परावबोधाय वाक्यमुच्चार्येत । १५ न चैवम् । तत. परार्थवाक्योच्चारणान्यथानुपपत्त्या निश्चीयते नित्योऽसौ । तदुक्तम् - " शब्दवृद्धाभिधेयानि प्रत्यक्षेणैव पश्यति।। श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेटया ॥१॥ अन्यथानुपपत्त्या तु बुद्धेः शक्ति द्वयाश्रिताम् ।। अर्थापत्त्यैव बुद्धचन्ते सम्बन्धं त्रिप- माणकम् ॥ २॥" अनुमानेन, चेष्टयेति । गोक्षेपणादिचेष्टालक्ष- २० णेनानुमानेन श्रोतुः प्रतिपन्नत्व पश्यतीत्यर्थः । अर्थापत्त्येवेति, यद्यपि सम्बन्धावबोधेऽध्यक्षानुमानार्थापत्तिलक्षणप्रमाणत्रयस्यापि व्यापारस्तथापि साधकतमतया करणत्वेनार्थापत्तेरेव मुख्यवृत्त्या तत्र प्रामाण्यम् । प्रत्यक्षानुमानयोः पुनस्तदन्तर्गतत्वेनात्रेतिकर्तव्यतास्थानीयत्वमिति १ मी. श्लो वा. शब्दनित्यताधिकरणे श्लो. २४१-२४४. ४३ २७८ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. ४ स. १० भावः । “ अर्थापत्तिरिय चोक्ता पक्षधर्मादिवर्जिता ॥ यदि नाशिनि नित्ये वा विनाशिन्येव वा भवेत् ॥ १॥ शब्दे वाचक- सामर्थ्य तदा दूपणमुच्यताम् ॥ यदि शब्दे नाशिनि नित्ये वा वाचकसामर्थ्यमित्यनेन संशय उक्तः । विनाशिन्येव वा शब्दे वाच- ५ कसामर्थ्यमित्यनेन तु विपर्यय उपदर्शितः । तदा दूषणमुच्यतामिति । यदैव शब्दे वाचकसामर्थ्य सन्दिग्धं विपर्यस्तं च स्यात्तदा दूषणा- वसरः । एतम्बात्रोभयमपि नास्तीति भावः । “ न दृिष्टार्थसम्बन्धः शब्दो भवति वाचकः ॥ तथा चेत्स्यादिपूर्वोऽपि सर्वः सर्व प्रकाशयेत् ॥ १॥ सम्बन्धदर्शनं चास्य नानित्यस्योपपद्यते ॥ १० सम्बन्धज्ञानसिद्धिश्चेत् ध्रुवं कालान्तरस्थितिः ॥ २ ॥ अन्यस्मिन् ज्ञातसम्बन्धे न चान्यो वाचको भवेत् ।। गोशब्दे ज्ञातसम्बन्धे नाश्वशब्दो हि वाचकः ॥३॥" अथ मतं सदृशतया शब्दस्यार्थ- प्रतिपत्तिहेतुत्वोपपत्तेर्नार्थापत्तितोऽस्य नित्यत्वसिद्धिः । पुनः पुनरुच्चा- र्यमाणो हि शब्दः साहश्यादेकत्वेनाध्यवसीयमानोऽर्थावबोधं विदधाति न पुनर्नित्यत्वादिति । नैतदपि क्षोदक्षमम् । सादृश्येन शब्दादविवो- धासम्भवात् । न हि सदृशतया शब्दः प्रतीयमानो वाचकत्वेन निश्चीयते । किं त्वेकत्वेन । य एव हि सङ्केतावसायसमये मया ध्वनिरु- पलब्धः स एवायमिति प्रतीतेः । अपि च सादृश्यादर्थप्रतीतौ भ्रान्तः शाव्दप्रत्ययः स्यात् । न ह्यन्यस्मिन्गृहीतसङ्केतेऽन्यस्मादर्थप्रतीतिर- २० भ्रान्ता भवति । गोशब्दे गृहीतसङ्केतेऽश्वशब्दाद्वार्थप्रतीतेरभ्रान्तत्वप्र- सक्तेः । न च भूयोऽवयवसाम्ययोगम्वरूपं सादृश्यं शब्दे सम्भवति । विशिष्टवर्णात्मकत्वाच्छन्दानाम् । वर्णाना च निरवयवत्वात् । न च गत्वा- दिविशिष्टाना गादीना वाचकत्वं युक्तम् । गत्वादिसामान्यस्याभावात् । तदभावश्च गादीनां नानात्वायोगात् । सोऽयमिति प्रत्यभिज्ञया तेषामेकत्व- १५ १ मी. श्लो. वा. शन्दनित्यताधिकरणे श्ला. २३७॥२३८. २ मी. लो. सू ५ सलो.१४०.१४१ ।
परि. ४ स. १०] स्याद्वादरत्नाकरसहितः ६७९ निश्चयात् । अथानेकप्रतिपत्तभिर्विभिन्नदेशतयोपलभ्यमानत्वाद्कारादीनां नानात्वं कथ्यते । तन्न । तैर्विभिन्नदेशतयोपलभ्यमानेनादित्येनाने- कान्ताद्विभिन्नदेशतयोपलम्भश्चैषां व्यञ्जकध्वन्यधीनो न स्वरूप- भेदनिबन्धनः । तथा हि—“नित्यत्वं व्यापकत्वं च सर्ववर्णेषु संस्थितम् ॥ प्रत्यभिज्ञानतो मानाद्वाधसङ्गमवर्जितात् ॥ १॥ यो ५ यो गृहीतः सर्वस्मिन्देशे शब्दो हि दृश्यते । न चास्यावयवाः सन्ति येन वर्तेत भागशः ॥२॥" यो यो गृहीत इति । अस्य भावार्थः । नास्त्यसौ देशो यत्र शब्दो नावगम्यते । यो यो देशो गृहीतः सर्वत्राऽस्यावगमात् । ततोऽसावात्मादिवद्विभुरिति । " शब्दो वर्तत इत्येव तत्र सर्वात्मकश्च सः॥ व्यञ्जकध्वन्यधीनत्वात्तद्देशे १० स च गृह्यते ॥ १॥" शब्दो वर्तत इति । न भागशः कृत्स्नपरि- समाप्त्या च शब्दो वर्त्ततेऽपि तर्हि शब्दो वर्तत इत्येवाऽस्याविशेषितं वृत्तिमात्रमातिष्ठामहे यतः शब्दो वर्तत इत्येवेति वृत्तौ यद्भवति तदाह तत्रेति । तत्र वृत्तिप्रकारे। सर्वात्मकः शब्दो वर्तत इत्येतावदेव भवति । नाधिक किञ्चिद्भागवृत्तिः कृत्स्नपरिसमाप्तिर्वा । निर्भागस्य तस्य १५ भागवृत्तेर्व्यापिनश्च कृत्मपरिसमाप्तेरमावादिति पूर्वार्धस्यार्थः । च ध्वनीनां सामर्थ्य व्याप्तुं व्योम निरन्तरम् ॥ नैवावच्छिन्नरू- पेण नाऽसौ सर्वत्र गृह्यते ॥ १॥ वनीनां भिन्नदेशत्वं श्रुतिस्त- त्रानुरुध्यते ॥ अपूरितान्तरालत्वाच्छब्देऽप्यविभुतामतिः ॥२॥ गतिमद्वेगवत्त्वाभ्यां ते चायान्ति यतो यतः ॥ श्रोता ततस्ततः २० शब्दमायातमिव मन्यते ॥ ३॥' अथैकेन भिन्नदेशतया उपलम्भा- द्वादीनां घटादिवन्नानात्वम् । नैवमपि । आदित्येनैवाऽनेकान्तात् । दृश्यते टेकेनादित्यो भिन्नदेशा न चैतावताऽसौ नाना । अथ युगपदे- केन भिन्नदेशतयोपलव्धेरिति विशिष्योच्यते । तथाऽप्यनेनैवाऽनेकान्तः । १ मी. श्लो वा. शन्दनित्यताधिकरणे श्लो १७१।१७२ । २ ' असभवात् इति भ पुस्तके पाठः । ३ मी. श्लो. वा. शब्दनित्यत्वाधिकरणे लो. स १७३-१७६१ २८० प्रमाणनयतत्त्वालोकालङ्कारः [ परि. ४ सू. १० जलपात्रेषु हि मिन्नदेशेषु सविताऽप्येकोऽप्येकेन युगपद्भिन्नदेशः गृह्यते । अथ न तत्र मार्तण्डमण्डलमवलोक्यते तस्य नभसि व्यवस्थानातन्निमि- त्तानि तु जलपात्रेषु प्रतिबिम्बानि भिन्नानि प्रतीयन्ते ततो नानेकान्तः । तदुक्तम्--" अहो केन " अहो केन निमित्तेन प्रतिपात्रं पृथक्पृथक् ॥ भिन्नानि प्रतिविम्बानि गृह्यन्ते युगपन्मया ॥१॥" एतत्कुमारिल: परिहरन्नाह --" अत्र ब्रूमो यदा तावजले सौर्येण तेजसा ।। स्फुरता चाक्षुषं तेजः प्रतिस्रोतः प्रवर्तितम् ॥ १।: स्वदेशमेव गृह्णाति सवितारमनेकधा ।। भिन्नमूर्तिर्यथा पात्रं तदाऽस्यानेकता कुतः ॥ २ ॥” प्रतिस्रोतः प्रवर्तितमिति प्रतीपप्रवर्तित मिति १० प्रतीपप्रवर्तितमधस्तात्प्रवृत्तं सदूर्ध्व प्रवर्तितमित्यर्थः । एवं च- नित्यत्वं शब्दराशेः श्रवणकरणकं भ्रान्तिसन्देहशून्यं विज्ञानं प्रत्यभिज्ञेत्यभिहितममलं मूलतस्तावदन ॥ पश्चान्निःशेषदोषविरहितमुदितं लैङ्गिक मानमन्ते त्वर्थापत्तिः कलङ्कव्यतिकरविधुरा दर्शिता सिद्धिहेतुः ॥५५७॥ जैमिनीय निनदेपु नित्यता दर्शितैवमतिविस्तरात्त्वया ।। किन्तु काचिदपि युक्तिरक्षता वीक्ष्यतेऽत्र न परीक्षकोचिता ॥५५८॥ तथा हि-यत्तावदुपन्यस्तं स एवायं गकार इत्यादिप्रत्य- भिज्ञाप्रत्यक्षत एव तावद्वर्णानां नित्यत्वमवसीयत इत्यादि । तन्न २० सत्यम् । अस्यैकत्वप्रत्यभिज्ञानस्य भ्रान्तत्वेनैकत्वसिद्धावसमर्थत्वात् प्रदीपायेकत्वप्रत्यभिज्ञानवत् । न खलु स एवाऽयं प्रदीपः कदलका- ण्डकुन्तल कलापादिवेत्यादि प्रत्यभिज्ञान प्रदीपादीनामेकत्वं प्रसाधयति । अथाऽत्रैकत्वाभावात्तस्यैकत्वप्रसाधनासामर्थ्यम् । तदितरत्रापि तुल्यम् । ननु तैलादिकारणकलापस्योत्तरत्र क्षयोपलम्भात्प्रदीपादेः प्रतिसमय- २५ मन्यत्वप्रतीतेरुपपन्नभेकत्वासत्त्वम् । न तु शब्दस्य । विपर्ययादिति १ मी. लो. वा. शब्दनित्यत्वाधिकरणे श्लो. ७९१८०1८१८२ ।
परि. ४ सु. १०] स्याद्वादरत्नाकरसहितः ६८१ चेत् । तदपि न्यायबाह्यम् । शब्दस्य ताल्वादिसंयोगविभागलक्षण- कारणकदम्बकस्योत्तरत्र क्षयप्रतीतितः प्रतिक्षणमन्यत्वसिद्धेरेकत्वासत्त्वो- पपत्तेः । अथ ताल्वादिसंयोगविभागयोः शब्दाभिव्यञ्जकसमीरणोत्पत्तौ कारणत्व न शब्दोत्पत्तावित्युच्यते । तर्हि वर्तिकामुखतैलानलसंयोगादेर- पि प्रदीपाद्यभिव्यञ्जकप्रभञ्जनजनने कारणत्वं न प्रदीपाद्युत्पाद इत्यप्यु- ५ च्यताम् । विशेषादर्शनात्। प्रतीतिविरोधः पुनरुभयत्राप्यविशिष्टः। अनेन नापि मिथ्यात्वरूप बाधाविधुरत्वादित्यपास्तम् । ताल्वादिसंयोगविभाग- लक्षणस्य कारणकदम्बकस्योत्तरत्र क्षयप्रतीतितः प्रतिक्षणं शब्दस्या. न्यत्वसिद्धेरेव बाधकत्वात् । उत्पन्नः कुम्भो विनष्टः कुम्भ इति प्रती- तिवत् । अथ प्रत्यभिज्ञानेनैवेयं प्रतीतिः कस्मान्न बाध्यते । मैवं वादीः। १० प्रत्यभिज्ञानस्य शब्दे सादृश्यहेतुकतया भ्रान्तत्वेन नित्यत्वाप्रसाधक- त्वात् । ननु यथा घटे विनष्टे विनाशकारण मुद्रादि कपालमाला च विलोक्यते न तथा शब्दश्रवणानन्तरं विनाशकारणं कपालमा- लाकल्पं च किमपि परिदृश्यते । केवलं शब्दो नोपलभ्यते । न चानुपलब्धिमानेन विनाशोऽस्यावसितुं शक्यते । तथा सत्युपलभ्यानु- १५ पलब्धाना घटादीनां विद्यमानानामेव विनाश. स्यात् । न चैतदस्ति । तदयुक्तम् । यतः शब्दस्तावदाकर्णनानन्तरं कुम्भादिवदन्यत्र न गतः । व्यापकत्वेन तस्य त्वया स्वीकारात् । नापि घटादिवदेव तत्रस्थ एव केनचिदावृतः । तदावरणस्य निराकरिष्यमाणत्वात् । नापि सहसा श्रोतुरिन्द्रियदोषः कश्चिदुपजातः । शब्दान्तराणां तदानीमेव श्रवणात् । २० न चानवहितः प्रमाता । सविशेषमवधानवताऽपि तदनुपलम्भात् । सत्यामपि चैतावत्या सामग्र्या यः कुम्भादिरन्यो वा कश्चिन्नावलो- क्यते तस्य प्रध्वंसः प्रत्यक्षेणैवावगतो भवति । एवं च प्रत्यक्षप्रसिद्ध- स्यास्य न कारणाभावद्वारेणाऽभावोऽभिधातुं साधीयान् । एतद्दर्शनादेव कारणस्यानुमितेः । यतूक्तं' कपालमालाकल्प च किमपि न परिदृश्यत २५ इति । तदपि न्यायबाह्यम् । न ह्ययमेकान्तो यत्सर्वत्र वस्तुविनाशे तद्- ८३ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ स. १. वयवानामुपलम्भेन भाव्यम् । विपुलस्यापि चपलादण्डस्य महतोऽपि च प्रदीपकुड्नलस्य सहसैव विनाशे तवयवानामनुपलम्भात् । अथ तयोरवयवानामवयविविपरीतपरिणामापन्नत्वान्नोपलम्भः । शब्दावयवा- नामप्येवमस्तु । नन्वेकज्ञानसंसर्गिपदार्थान्तरोपलम्मात्कुम्भाधभाव- ५ प्रतीतिर्दृष्टा । शब्दाभावप्रतीतिस्तु कथम् । तत्रैकज्ञानसंसर्गिणः कस्यचिदप्यभावादिति चेत् । तदप्यसूक्ष्मम् । विवक्षितशब्दाभावप्रतीतौ शब्दान्तरस्थैकज्ञानसंसर्गिणः सम्भवात् । निःशब्दे प्रदेशे सर्वशब्दा- भावप्रतीतौ तर्हि तदसम्भव इति चेत् । भैवम् । तत्राऽप्यात्म- स्वरूपस्य तदेकज्ञानसंसर्गिणः सम्भवात् । स्वपररूपावभासकस्व- १० भावस्य ह्यात्मनः परस्मिन्नोग्यदेशावस्थिते वस्तुनि न केवलात्मस्वरूप- संवेदनं भवेत् । यावन्ति खलु वस्तूनि प्रतिषेध्यत्वसम्मतवस्तुना साकं योग्यदेशास्थितानि सन्त्यवश्यं प्रतिभासन्ते तानि सर्वाण्यप्येकज्ञानसंस- गीणि । तत्र कुम्मादौ प्रतिषेध्यो भूतलादिरात्मस्वरूपं चैकज्ञानसंसर्गि। शब्दे तु प्रतिषेध्ये सशब्दके प्रदेशे शब्दान्तरमात्मस्वरूपं च । निः- १५ शब्दके तु केवलमात्मस्वरूपम् । अथ वा मा भवत्वेकज्ञानसंसर्गिपदा- र्थान्तरम् । प्रमाणान्तरगृहीतं तु भविष्यति । यथा स्मृतिगोचरे चैत्य- कुलादौ क्वचिदभावप्रमाणेन भवतामभावग्रहणे चैत्यकुलादि । स्यादे- तत् । यद्यपि शब्दो नान्यत्र गतो यद्यपि श्रोता समवधानवन्धुरो यद्यपि च नेन्द्रियदोषः सञ्जातस्तथापि व्यञ्जकाभावादेवायं नोपलभ्यते । २० यथा प्रदीपावभावात्तिमिरनिकरकराम्बितकुम्भादिः । न खलु दृश्यस्व- भावापरित्यागेनादृश्यस्वीकारे तस्यावृतत्वमुपपद्यते । अतिप्रसक्तेः । यद्यदा यत्स्वरूपं न परित्यजति न तस्य तदा प्रत्यनीकस्वरूपसम्भवः । यथाड- नावृतावस्थायां दृश्यस्वरूपं शब्द इति । तदा तत्स्वरूपपरित्यागे वा सिद्ध- मस्यानित्यत्वं स्वरूपभेदस्वभावत्वात्तस्य । ननु घटादीना स्वरूपाभेदे- २५ ऽपि तिमिरस्तोमादिनाऽऽवृतत्वं दृश्यते । इत्यप्यसत्यम् । तत्रापि स्वरूप- भेदे सत्येवावृतत्वोपपत्तेः । स्वरूपमखण्डयतः कस्यचिदावरणत्वायागात् ।
परि. ४ सू १०] स्याद्वादरत्नाकरसाहतः ६८३ भवतु वा यथा कथञ्चिच्छब्दस्यावृतत्व तथापि तदावरणं दृश्यमदृश्यं वा नित्यमनित्यं वा व्यापकमव्यापकं वा, एकमनेक वेत्यष्टौ विकल्पाः । तत्र न तावदृश्यमिति विकल्पः। प्रत्यक्षतस्तत्प्रतीत्यभावात् । ततस्तत्प्र- तीतौ वा विवादाभावः स्यात् । न हि पीते पीततया प्रत्यक्षतः प्रतीयमाने कश्चिद्विवादायोपतिष्ठते । अथादृश्यं तदावरणम् । तर्हि कथं तद- .५ स्तित्वनिश्चयः । ननु नित्यस्य सतः शब्दस्योच्चारणादनन्तरं शब्दस्या- विद्यमानतयैवानुपलब्धिसिद्धेरावरणकल्पनावैयर्थ्यात् । नित्यत्वे त्वाव- रणस्य सदा शब्दस्यानुपलब्धिप्रसाक्तिः । अनित्य वावरणं सहेतुक- महेतुक वा । नाद्यः कल्पः । तदुत्पादकस्य हेतोः कस्यचिदप्रतीतेः । अहेतुकस्य तस्यानित्यत्व विरुद्धमिति । व्यापकत्वमप्यावरणस्य दुरु- १० पपादम् । बाधकप्रमाणप्रतिहतत्वात् । तथा हि~-आवरणत्वेनाभिमतः प्रभञ्जनो न व्यापकः स्पर्शवव्यत्वादुपलशकलवत् । व्यापकत्वे वाऽस्य न कचित्कस्यापि शब्दोपलब्धिः स्यात् । तस्य सर्वत्रावृतत्वात् । अव्यापकत्वे तस्याऽनेन शब्दस्यावार्यत्वानुपपत्तिः। तन्मध्ये तद्देशे तत्पार्धे चाविद्यमानत्वात् । प्रत्युत शब्द एवावारकः स्यात् । अन्यथा १५ सर्षपकणोऽपि कुम्भस्यावारकः स्यात् । ननु वसुधादिना व्योम्नस्तथा- विधस्याप्यात्रियमाणत्वदर्शनाददोषोऽयमिति चेत् । तदपि न कमनी- यम् । तत्प्रदेशस्यैव तेनात्रियमाणत्वाङ्गीकारात् । शब्दप्रदेशस्यापि पवनेनात्रियमाणत्वाभ्युपगमे शब्दस्य सांशत्वमनित्यत्वं वापद्येत । समस्तशब्दाना च यद्येकमेवावरणं कल्प्येत । तदैकश्रवणशब्दे सर्वेषा २० श्रवणप्रसक्तिः । तदावरणापगमे तद्वत्सर्वेषामनावृतत्वात् । तदश्रवणे वाऽभिमतशब्दस्यापि तद्वदश्रवणं स्यात् । अविशेषात् । अथ प्रति- शब्द विभिन्नमावरणमिप्यते । तन्न युक्तिमार्गमवगाहते । सर्वशब्दानां व्यापकत्वेन समानदेशत्वे समानेन्द्रियग्राह्यत्वे चावरणभेदस्य व्यञ्जक- भेदस्य चानुपपत्तेः । अत्र प्रयोगः । शब्दाः प्रतिनियतावरणावार्याः २५ प्रतिनियतव्यञ्जकव्यायाश्च न भवन्त्यपृथग्देशवृत्तित्वे सत्येकेन्द्रिय.
६८४ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. ४ सू.१० ग्राह्यत्वात् । यत्पुनर्यथोक्तसाध्यान्वितं न भवति तदपृथग्देशवृत्तित्वे सत्येकेन्द्रियग्राह्यमपि न भवति यथैकाम्रफलसमाश्रितौ रूपरसाविति । अनेकाम्रफलाश्रित रूपादिभिर्व्यभिचारः स्यात्तद्व्यावृत्त्यर्थमपृथग्देश- वृत्तित्व इत्युक्तम् । एवं च, अन्यार्थ प्रेरितो वायुर्यथाऽन्यं न करोति च ॥ तथाऽन्यवर्णसंस्कारशक्तो नाऽन्यं करिष्यति ॥१॥ इत्यादि प्रत्युक्तमवगन्तव्यम् । यदि च ध्वनयः शब्दानां व्यञ्जकाः प्रतिज्ञायन्ते तर्हि तव्यापारे नियमेनोपलब्धिः शब्दस्य तु भवति तद्वि- परीतस्वरूपत्वात्तदप्यपर्यालोचितजल्पितम् । शब्दस्य सर्वगत्वासिद्धेः । तथा हि-शब्दः सर्वगतो न भवति सामान्यविशेषवत्त्वे सति बाह्येन्द्रिय- १० प्रत्यक्षत्वात् । य एव स एवं यथा कुम्भः । तथा च शब्दस्तस्मात्तथेति । अपि चैते ध्वनयः केन समधिगता येन तदधीना शब्दश्रुतिः स्यात् । प्रत्यक्षेणानुमानेनार्थापत्त्या वा । प्रत्यक्षेण चेत्, किं श्रावणेन स्पार्शनेन वा । न तावच्छ्रावणेन, तथाप्रतीत्यभावात् । न हि श्रावणे चेतसि शब्दा इव ध्वनयोऽपि प्रतिभासन्ते । विवादाभावप्रसक्तेः । अथ १५ स्पार्शनेन, स्वपाणिपल्लवपिहितवक्त्रकमलो हि जल्पन्प्रमाता स्वपाणि- स्पर्शनेन ध्वनीन्समधिगच्छति । इत्यपि न्यायपराड्मुखम् । वायुवत्ता- ल्वादिव्यापारानन्तरं वक्त्रकुहरविनिर्गतोदावन्दुनामप्युपलम्भतः शब्दा- भिव्यञ्जकत्वप्रसक्तेः । वक्वक्त्रप्रदेश एव विग्रुषां प्रध्वंसतः श्रोतृश्रवण- प्रदेशे गमनामावान्न शब्दाभिव्यञ्जकत्वमित्यत्रापि तुल्यम् । न खलु २. ध्वनयोऽपि तत्र गच्छन्तः प्रत्यक्षतः प्रतीयन्ते । शब्दप्रतिपत्त्यन्यथा- नुपपत्त्या तु प्रतीतिरुभयत्राप्यविशिष्टा । यथा च स्तिमितभाषिणः सलिलकणाना नोपलम्भस्तथा प्रसञ्जनोपलम्भोऽपि नास्ति । अथ स्तिमितास्तत्रापि पवनाः परिकल्प्यन्ते । कथं न जलविन्दवोऽपि । विशेषाभावात् । एतेन वदतो वदनाने स्थिततूलादेः प्रेरणोपलम्भादनु- २५ मानतो ध्वनीन्प्रतिपद्यन्त इत्यपि प्रत्यादिष्टम् । तद्वत्तोयविन्दूनामप्यतः .. १ मी. श्लो, स् ६ श. नि. लो. ८०, ८१ ।
परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः ६८५ प्रतिपत्तिप्रसक्तेः । अथार्यापत्त्या ध्वनयः प्रतीयन्ते । तथा हि, सन्ति शब्दव्यञ्जका ध्वनयः शब्दप्रतिपत्त्यन्यथानुपपत्तेः । न हि शब्दस्य परार्थोच्चारणान्यथानुपपत्त्या प्रतिपन्ननित्यत्वस्य स्तिमितमा रुतावृत्तस्य व्यञ्जकान्बनीनन्तरेण प्रतिपत्तिरुपपद्यत इति । तदप्यवद्यम् । परार्थो- वारणान्यथानुपपतेः शब्दनित्य त्वसाधिकायाः प्रागेव परास्तत्वात् । तथा च शब्दप्रतिपत्तेरुत्पत्तिप्रकारेणाप्युपपद्यमानत्वात्ततो न ध्वनिसिद्धिः । अस्तु वा कथचित्तत्सिद्धिः । तथापि ते किञ्चित्कुर्वतः शब्द व्यञ्जयन्त्य- न्यथा वा । न तावदन्यथा । अतिप्रसक्तेः । प्रथमपक्षे तु किं ते कुर्वन्ती- ति वाच्यम् । विशिष्ट संस्कारमिति चेत्, ननु कोऽयं विशिष्टः संस्कारो नाम । शब्दसंस्कारः श्रोत्रसंस्कार उभयसंस्कारो वा । तत्राद्यपक्षे १० व्यञ्जकवायुना यावद्वेगमभिसर्पता यावान्वर्णविभागः संस्कृतस्तावत एव श्रवणं स्यान्न समस्तस्य वर्णस्येति खण्डशस्तस्य प्रतिपत्तिः स्यात् । अथ वर्णस्य निरवयवत्वादेकत्र संस्कृतः सर्वत्रैव संस्कृतोऽसाविति नायं दोषः । तर्हि निर्विभागत्वादेवैकत्रासंस्कृतः सर्वत्र तथैवेति मना- गपि श्रवणं न स्यात् । किंच, क एष शब्दसंस्कारः । किमतिशया- १५ धानमनतिशयव्यावर्तनमावरणापगमो वा । तत्रातिशयाधानं दृश्य- स्वभावतापादनम् । अनतिशय यावर्तनं त्वदृश्यस्वभावताखण्डनम् । ते च शब्दाद्भिन्ने आभिन्ने वा विधीयते । यदि भिन्ने । तदा तत्करणे शब्दस्य न किञ्चित्कृतमिति तदवस्थाऽस्याश्रुतिर्मवेत् । अथाभिन्ने, तर्हि शब्दस्यापि तत्कार्यतानुपङ्गादनित्यत्वप्रसङ्गः । यो हि यस्माद. २० भिन्नस्वभावः,तत्करणे तस्यापि करणम् । यथाऽतिशयानतिशयव्यावर्तन- स्वरूपस्य । ताभ्यामभिन्नस्वभावश्च शब्द इति । आवरणापगम- पक्षोऽपि न क्षमकारः । आवरणासम्भवस्येदानीमेव प्रदर्शितत्वात् । माभूत्तर्हि शब्दसंस्कारः । श्रोत्रसंस्कारस्तु भविष्यति । यदाह- " अथाऽपीन्द्रियसंस्कारः सोऽप्यधिष्ठानदेशतः ॥ अतो न श्रोष्यति : २५ १ मी.ग्लो श अ श्लो ६९,७०।
२८६ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ स. १० श्रोत्रं तेनासंस्कृतशष्कुलिः ॥१॥" अधिष्ठानदेशत इति । अधि- ष्ठानसंयोगपरतन्त्रप्रदेशे । अत इत्यादि तच्च शब्दं नैव श्रोप्याते श्रोत्रं यस्य संस्क्रियमाणस्य संयोगद्वारेणावच्छोदिका शकुलीन संस्कृतेत्यर्थः । " अप्राप्तकर्मदेशत्वाद्धनिना श्रोत्रसस्क्रिया ।। अतोऽधिष्ठानभेदेन ५ संस्कारनियमः स्थितः"||१|| इति । तदप्यसमीचीनम् । श्रोत्रसंस्कार- पक्षेऽपि सकृत्संस्कृतस्य श्रोत्रस्य युगपदखिलशब्दपरिच्छेदकत्वप्रसक्तेः । न हि नेत्रमञ्जनादिना कृतसंस्कारं सत्सन्निहितं स्वगोचरं नीलपीतादिकं किंचित्पश्यति किंचिन्नति विशेष पश्यामः । बलातैलादिना संस्कृतं श्रोत्रं वा काश्चिदेव गकारादिवर्णाशृगोतीति नियमो दृश्यते । येना- १० त्रापि तथा कल्पना स्यात् । अथ व्यञ्जकाना वायूना भिन्नेषु कर्णमूला- वयवेषु वर्तमानानामपित्त्या प्रतिनियतवर्णश्रवणान्यथानुपपत्तिलक्षणया प्रतिनियतवर्णग्राहकत्वेन संस्काराधायकत्वस्य प्रतीतेनैकवर्णग्राहकत्वेन संस्कृतं श्रोत्रं सर्ववर्णान्युगपद्गृह्णाति । यथा हि भवत्पक्षेऽन्यवर्ण- जनकैस्ताल्वादिसंयोगविभागैर्नान्यो वर्णो जन्यते । तथाऽस्मत्पक्षेऽपि १५ नान्यवर्णग्राहकश्रोत्रसंस्काराधायकव्यञ्जकप्रेरकैर्वायुभिरन्यवर्णग्राहको. त्रसंस्काराधायकवायुप्रेरणं क्रियते । इत्युत्पत्त्यभिव्यक्तिपक्षयोः कार्य- दर्शनान्यथानुपपत्त्या समः सामर्थ्यभेदः प्रयत्नविवक्षयोः सिद्धः । तदुक्तम् --" व्यञ्जकानां हि वायूनां भिन्नावयवदेशता ॥ जाति- भेदश्च तेनैव संस्कारो व्यवतिष्ठते ॥१॥ अन्यैस्ताल्वादिसंयोगै- न्यो वर्णो यथैव हि ॥ तथाऽन्यवर्णसंस्कारो न ध्वन्यन्तर- सारिभिः ॥२॥ तस्मादुत्पत्त्यभिव्यक्त्योः कार्यार्थापत्तितः समः ।। सामर्थ्यभेदः सर्वत्र स्यात्प्रयत्नविवक्षयोः ॥३॥ तदेतदसम्बद्धम् । इन्द्रियसंस्कारकाणां व्यञ्जकाना समानदेशसमान- धपिन्नसमानेन्द्रियग्राह्येष्वर्थेषु प्रतिनियतग्राहकत्वेनेन्द्रियसंस्कारक- २० " इति । १ मी. श्लो. श, अ. श्लो. ७०,७१। २ मी. लो. सू ५ श. भ. श्लो.७९, ८१,८२,८३.
परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः त्वस्य कदाचिददर्शनात् । प्रयोगयुग्मं चात्र । श्रोत्रं समानेन्द्रियग्राह्य- समानधर्मापन्नानामर्थानां ग्रहणाय प्रतिनियतसंस्कारकसंस्कार्य न भवति, इन्द्रियत्वात् । यदित्थं तदित्थं यथा लोचनम् । तथा च श्रोत्रम् । तस्मात्तथा । शब्दाः प्रतिनियतसंस्कारसंस्कार्येन्द्रियग्राह्या न भवन्ति समानेन्द्रियग्राह्यत्वे सति युगमदिन्द्रियसम्बद्धत्वात् , कुम्भादिवत् । युगपदिन्द्रियसम्बद्धत्वादेतावत्युच्यमाने , एकेन्द्रियाभि- सम्बद्धरूपरसादिभिराम्रफलगतैर्व्यभिचारस्तदपोहाय समानेन्द्रियेत्यादि। अस्मिन्नेव तु सति व्यवहिताव्यवहितघटाभ्यामनेकान्तस्तन्निराकरणाय युगपदित्यादि । तन्न श्रोत्रसंस्कारोऽपि घटते । भवतु तर्जुभयसंस्कारः । तत्रोक्तदोषाणामसम्भवात् । तदाह- द्वयसंस्कारपक्षे तु मृषा १० दोषद्वये वचः ॥ येनान्यतरवैकल्यात्सर्वैः सर्वो न गृह्यते ॥ १॥ द्वयसस्कारपक्षे श्रोत्रशब्दयोः संस्कारपक्षे । यत्प्रत्येकपक्षभावे दोषद्वयस्य वचनं तन्मृषालीकम् । मृषात्वे कारणमाह येनेति । संस्कृतोऽपि शब्दो दूरस्थेनेन्द्रियसंस्कारवैकल्यान्नोपलभ्यते । संस्कृतेन्द्रियेणाऽपि निहितेन शब्दान्तरमसंस्कृतत्वान्नोपलभ्यते । इत्यन्यतरवैकल्यात्सर्वैः १५ सर्वेषामग्रहणं युक्तमिति । नैतदपि सूक्तम् । तथा हि, यदि संस्कृतं श्रोत्रं संस्कृत वर्ण प्रतिपद्येत तदा तं सर्वगतत्वेन प्रतिपद्यते । तत्स्वरूप- स्वात्तस्य । ततो नित्यैकरूपत्वे शब्दस्यावार्यावारकभावस्य व्यङ्ग्य- व्यञ्जकभावस्य चानुपपत्तेर्नावरणकृतः समुच्चारणानन्तरमस्थानुपलम्भ इति प्रत्यक्षेणैवास्य नाशोऽवसीयते । उत्पादोऽपि तेनैव निश्चीयते । २० यथा हि चक्रचीवरादिव्यापारान्वयव्यतिरेकानुविधायित्वं घटादेरव- गम्यते । तथा ताल्वादिसंयोगान्वयव्यतिरेकानुविधायित्वं शब्दस्यापीति घटवच्छब्दोऽप्युत्पाद्यः प्रत्यक्षलक्षित एव । अथात्र ताल्वादिसंयोगादी- नामभिव्यञ्जकत्वं कथयेः । कलशादिष्वपि चक्रादीना किं तन्न कथयसि । कथयाम्येवेति चेत् । सत्कार्यवादमिदानीं कतरण कपाट- २५ १ मी श्लो. सू. ५ श. अ. श्लो. ८६, ८७.
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० सम्पुटेन पिदधासि । नन्वालोके सति कलशादयोऽवलोक्यन्तेऽसति च नावलोक्यन्ते ततश्चानेन न्यायेनालोकस्यापि कलशादीन्प्रति कारणत्वं स्यादिति चेत् । नैष दोषः । तत्र बाधकसम्भवात् । तथा हि, प्रदीपस्य कलशं प्रति कारणत्वमङ्गीक्रियमाणं केवलस्य स्यान्चक्रादिकारणकलाप- ५ कलितस्य वा । नाद्यः पक्षः । कलशशून्येऽप्यपवरककुहरे प्रबोधित- दीपाकुरमात्रात्कलशोत्पत्तिप्रसङ्गात् । नापि द्वितीयः । चक्रादिसामग्री- विरहिणि प्रदेशे प्रबलप्रदीपकलिकाकलापप्रबोधे कदाचिदपि कलशा- नुपलब्धिप्रसक्तेः । ततश्चक्रादिसामग्रीव्यतिरेकेणापि चेदुपलभ्यते कलशः । तेन ज्ञायते प्रदीपदानात्पूर्वमप्यासीदसौ । तथा च प्रदी- १० पस्य व्यञ्जकत्वमेव । न च शब्दजनकेष्वप्येष प्रसङ्गोऽवकाशमासा- दयति । यादृशेभ्य एव तेभ्यः शब्दो जायते तादृशानामेव कारण- त्वाङ्गीकारात् । तस्माजनकाभिव्यञ्जकसामग्र्योरयमेव विशेषो यस्यां सत्यामवश्यं पदार्थोपलम्भः सा व्यञ्जिकति सिद्धः प्रत्यक्षनिश्चयः शब्दोत्पादः । एवं च विनाशोत्पादग्राहिणा प्रत्यक्षेण प्रत्यभिज्ञा १५ बाध्यत इति स्थितम् । प्रयत्नानन्तरीयकत्वेनापि शब्दस्य कार्यत्वनि- श्चयात्प्रत्यभिज्ञावाधः सिध्यति । ननु कूपखननादिप्रयत्नानन्तरमाकाशं समुपलभ्यते न च तत्कार्यमतोऽनैकान्तिकत्वमस्य । उक्त च- अनैकान्तिकता तावद्धेतूनामिह कथ्यते ॥ प्रयत्नानन्तरं दृष्टि- नित्येऽपि न विरुध्यते ॥१॥ आकाशमपि नित्यं स्याद्यदा भूमि- २० जलावृतम् ।। व्यज्यते तदपोहेन खननोत्सेचनादिभिः ॥ २ ॥ प्रयत्नानन्तरं ज्ञानं तदा तत्रापि विद्यते ॥ तेनानैकान्तिको हेतुर्य- दुक्तं तत्र दर्शनम् ॥ ३ ॥ अथ स्थगितमप्येतदस्त्येवेत्यनुमीयते।। शब्दोऽपि प्रत्यभिज्ञानात्प्रागस्तीत्यवगम्यते ॥४॥" यदुक्तं तत्र दर्श- नमिति । प्रयत्नानन्तरं दर्शनं शब्दस्यानित्यत्वसाधनाय हेतुतया यदुक्तं २५ तदनैकान्तिकमित्यर्थः। अथ स्थगितमपीति । अथ पुनः पिहितमप्याकाशं १ मी. श्लो. सू. ५ श. नि. लो. २९, ३०, ३१, ३२, ३३.
परि. सू. १०] स्याद्वादरत्नाकरसहितः ६८९. पृथिव्यादिना कथंचित्पृथिव्याद्यवस्थानान्यथानुपपत्त्यैवास्तीत्यनुमीयते । ततश्च प्रागवं चानुपलब्धेरसिद्धत्वादनैकान्तिकत्वाभाव इत्युच्यते । प्रत्यभिज्ञानबलाच्छब्दोऽप्यस्तीत्यवगम्यते । पुनश्च विनाशकारणाभावा- दिति । ततश्च तयैवोपलब्ध्या तद्विपरीतमनुमान विरुध्यत इति । एतदपि न क्षोदक्षमम् । एकत्वस्वरूपत्वस्य गगनेऽप्यसिद्धत्वात् । ५ तत्खल्वेकस्वरूपं सत्स्वगोचरविज्ञानजननेकस्वरूपं तद्विपरीतं वा भवेत् । यदि तज्जननैकस्वरूपम् । तदा तस्य न खननाद्यनन्तरमेवोप- लब्धिः । किन्तु पूर्वमपि स्यात् । तद्विपरीतस्वभावत्वे कदाचनाप्युप- लम्भो न भवेत् , विशेषाभावात् । विशेषे वा तदेकरूपताव्याहतिः । प्रत्यभिज्ञानाच्छब्दे प्राक्सत्त्वप्रतीतिश्च च्छिन्नोद्भिन्नकररुहकुन्तलादा- १० वपि समाना । यदप्यवादि प्रत्यक्षत्वं चास्य श्रोत्रेन्द्रियान्वयव्यतिरे- कानुविधायित्वात्सुप्रसिद्धमित्यादि । तदप्यसम्बद्धम् । प्रत्यभिज्ञानस्ये- न्द्रियान्वयव्यतिरेकानुविधायिदर्शनस्मरणान्वयव्यतिरेकानुविधायित्वेन तस्य पूर्व प्रसाधितत्वात् । प्रत्यक्षतायां चास्यातीतकालसम्बद्धत्वेन शब्दनिर्णायकत्वायोगः । सम्बद्धवर्तमानार्थग्राहित्वात्वन्मते प्रत्यक्षस्य। १५ तदयोगे वा कथं योगिप्रत्यक्षाधिक्षेपो भवतः शोभते । प्रत्यक्षत्वेऽप्यस्य तद्वदतीताद्यर्थग्राहकत्वाविरोधात् । समर्थितं च प्रागेवाऽस्य विस्तरेणा- प्रत्यक्षत्वम् । यदप्युक्तमेवं प्रत्यभिज्ञानप्रत्यक्षमाहात्म्यतः शब्दस्य नित्यत्वे प्रतिपन्ने इत्यादि । तदप्यवधम् । शब्दनित्यत्वग्राहकप्रत्यभि- ज्ञानस्यानन्तरमेव निराकृतत्वात् । यदपि न्यगादि विवादाध्यासितः २० काल एतद्गादिसम्बद्ध. कालत्वादित्यादि । तदपि प्रलापमात्रम् । गादेरुच्चारणादनन्तरं विनाशस्य प्रत्यक्षप्रतिपन्नत्वेन प्रतिपादनात् । नित्यत्वसाधकानुमानस्य प्रत्यक्षविक्षिप्तपक्षत्वेनागमकत्वात् । विद्युदादे- रपि चैवं नित्यत्वं स्यात् । तथा हि विवादाध्यासितकाल एतद्विद्यु- दादिसम्बद्धः कालत्वादिदानीन्तनकालवत् । प्रतीतिबाधाऽन्यत्रापि २५ समाना । नित्यः शब्दः श्रावणत्वादित्याद्यपि विचारपराङ्मुखम् ।
६९० प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० उदात्तादिभिर्धम्मैरनैकान्तिकत्वात् । ते हि श्रवणग्राह्यत्वेऽपि न नित्या भवद्भिरङ्गीकृताः । तेषामश्रावणत्वे तु नीलादीनामिव श्रोत्रेणोपलम्भो न भवेत् । वीणादिशब्दैश्चानैकान्तिकत्वम् ! तेषा श्रावणत्वेऽप्य- नित्यत्वात् । यच्चान्यदवादि देशकालादिभिन्ना गोशब्दव्याक्तिबुद्धय ५ इत्यादि । न तदपि सुन्दरम् । गोशब्दलिपिबुद्धया हेतोरनैकान्तिक- त्वात् । सा हि गौरित्युल्लेखेनोत्पद्यते न चैकगोशब्दविषया । देश- कालादिभिन्नत्वाद्गोशब्दलिपीनाम् । नचैवं विषयभेदः वापि प्रसिद्धपद्धतिमास्कन्दति । सकलबुद्धीनामभिन्नविषयत्वप्रसङ्गात् । तथा हि, देशकालादिभिन्नवस्तुबुद्धय एकगोचरा न चाने कगोचरा वस्तु- १० बुद्धित्वात्सम्प्रत्युत्पन्नघटबुद्धिवत् । एवं च निखिलवस्तुबुद्धीनामेक- घटलक्षणवस्तुगोचरत्वे घटबुद्धित्वमेव भवेत् । न गोशव्दव्यक्तिवुद्धीना धर्मित्वम् । कथं वा गोशब्दबुद्धित्वं हेतुः । सम्प्रत्युत्पन्नगोशब्दबुद्धिव- दिति दृष्टान्तः सिद्धयेत् । यतोऽनुमानं स्यात् । यदप्यवादि यस्तनो गोशब्दोऽद्याप्यनुवर्तत इत्यादि । तदपि न नीतिशीलान्प्रीणाति । १५ अन्यथानुपपत्तिशून्यत्वेन हेतोरत्राप्रयोजकत्वात् । कथमन्यथा ह्यस्तना- द्यतनसौदामिनीप्रकाशयोरप्येकत्वं न भवेत् । शक्यं हि वक्तुं ह्यस्तन- विद्युत्प्रकाशोऽद्य तस्याभिन्नरूपस्य प्रत्यक्षतः प्रतीतेः । शब्दे तारत्वा- दयो धा न स्वाभाविका इति चेत् । तदशोभनम् । स्वाभाविकत्वा- वधारणन्यायस्य यत्र तत्र प्रसिद्धस्यात्रापि तुल्यत्वात् । न हि पयसि २० शैत्यद्रवत्वे तेजसि वा भास्वरत्वोप्णत्वे स्वाभाविके इत्यत्रान्यत्प्रमाणं प्रत्यक्षात् । अथ पयःप्रमुखेषु शैत्यादीनां स्वाभाविकत्वेनैव प्रत्यक्ष ग्राहकं युक्तमन्यस्योपचारहेतोरनुपलम्भान्नियमेन तद्गतत्वेन चोपलम्भा- दिति चेत् । शब्देऽपि तारतारत्वादीनामेवमस्तु, विशेषाभावात् । तथाऽप्यतीन्द्रियः कश्चिदुपाधिरस्ति तद्गताः शब्दे तारतारतरत्वादयोऽ- २५ वमासन्त इति शङ्किष्यत इति चेत् । किन्न पयःप्रमुखेप्वपि शैत्यादी- नामतीन्द्रियान्यधर्मत्वं शङ्कयते । तकि यद्गतत्वेन यदुपलभ्यते तस्यै- परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः वाऽसौ धर्मः । तथोपगमे पीतत्वस्य शङ्खगतत्वेन प्रतिभासादेतदपि तस्यैव धर्मः स्यात् । अविशेषात् । तन्न्यायापेतम् । पीतत्वस्यान्यधर्म- स्वस्थितौ शङ्खस्य च तद्विरुद्धधर्मत्वे स्थिते कामलाद्यन्वयव्यतिरेका. नुविधाने च पीतत्वोपलम्भस्य बावेन भ्रान्तत्वावधारणात् । न चेह तारतारतरत्वादेरन्यधर्मतास्थितिः । नापि शब्दस्य तारतारतरत्वादि- ५ विरुद्धधर्मत्वम् । नापि तारतारतरत्वाद्युपलम्भस्य ध्वनिरूपत्वाद्यन्वयव्य- तिरेकानुविधायित्वम् । तथापि शङ्का स्यादिति चेत् । एवमियं सर्वत्र स्यात् । तथा च न कचित्कुतश्चिम्किचित्सिद्धयेत् । न चेदं शङ्कितुमपि शक्यते । अप्रतीते तारतारतरत्वादीनां ध्वनिरूपवायुधर्मत्वे संस्कारा- भावात्संस्कारानुपनीतस्य चारोपयितुमशक्यत्वात् । न च प्रतीयन्त १० एवाऽमी तद्धर्मा हाते वाच्यम् । रूपरसगन्धस्पर्शेष्वनन्तर्भावेन तेषु भावरूपेषु चक्षुरादीनामव्यापाराभावात् । न च श्रवणेनैव तत्प्रतीतिः । तथा सति तेषां वायुधर्मत्वविरोधात् । तथा हि तारतारतरत्वादयो न वायुधाः श्रावणत्वात् , कादिवत् । यदि पुनरेवं नेष्यते । तदा कादीनामपि वायवीयत्वप्रसङ्गः । अस्त्वेवं को दोष इति चेत् । उच्यते। १५ वायवीयाः सन्तोऽमी कादयः किं वाय्ववयविगुणा भवेयुर्वायु- परमाणुगुणा वा । आद्यपक्षे तेषामनित्यताप्राप्तिः। अवयविविनाशे तेषामप्यवश्यं विनाशभावात् । द्वितीये तु कथं ग्रहणं तेपां तद्गतान्य- गुणवत् । एवं च, प्रत्यक्षेण तेषामन्यधर्मतया कदाचिदग्रहणे संस्का- राभावात्कथ शब्दे समारोपः । न चैते प्रमाणान्तरेणापि कदाचि- २० गृह्यन्ते । अथ ध्वनिभेदसंस्कारवशादेव श्रोत्रस्येदृशः सामर्थ्यभेद आविरस्ति । यत आरोप्याग्रहेऽपि भ्रमो भवति । मण्डूकवसाक्ताक्षा- णामिवानवगतवंशोरगाणामपि प्रथमाक्षसन्निपातादृशेपूरगारोपमतिः । तदसाम्प्रतम् । सर्वासामपि भ्रान्तीनामारोप्यारोपविषयग्रहणपुरस्सरत्व- नियमात् । तदनुसारेण च मण्डूकवसाक्ताक्षाणामपि वंशेषूरगभ्रमो २५ व्याख्येयः । वंशे ज्ञात एव सत्यनन्तरं सर्पभ्रमभावात् । कथमेव नानु- ६९२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सु. १० भवोदय इति चेत् । क्षणभेदस्य दुर्लक्ष्यत्वात् । न चागृहीतसर्पस्य सर्पभ्रमा भवतीति वक्तुं शक्यम् । तस्मिञ्जन्मनि जन्मान्तरे वा सर्पग्रहणसम्भवात् । ध्वनिवर्मस्तु तारतारतरत्वादिरस्मिन्निव जन्मनि जन्मान्तरेऽप्यशक्यग्रहण एव । तस्माद्वर्णाविष्वग्भूतस्तारतारतरत्वादिः ५ प्रतीयमानो वर्णधर्म एवेति । अनौपाधिकप्रतीत्या तीव्रतादिधर्मस्य सौदामिनीदाम्न इव तारतारतरत्वादिधर्माधिकरणस्य शब्दस्यापि सिद्धः प्रत्यक्षतो भेदः । तथा च तदेकत्वानुमानस्यापि तदाभासत्वमवसेयम् । एतेनाद्यतनो गोशब्दो ह्याऽप्यासीदित्यादि प्रतिक्षिप्तम् । न्यायस्य सह- शत्वात् । यदप्यभाषि शब्दो दीर्घकालस्थायीत्यादि । तदपि चेष्टयाs- १० नैकान्तिकम् । तस्याः सम्बन्धबलेनार्थप्रतीतिहेतुत्वऽपि दीर्वकालमव- स्थानाभावात् । एतेन यः पुनरस्थिरः स सम्बन्धवलेन नार्थप्रतीति जनयतीत्यादि पराकृतम् । चेष्टायाः सम्बन्धबलेनार्थबोधकत्वेऽपि तादा- विकनिमित्तत्वसम्भवात् । ततश्चायुक्तमेतत्कंचित्कालं स्थिरः शब्दः सर्वकालमपि स्थिर इत्यादि । कश्चित्कालं स्थिरत्वस्येत्थं शब्द निरा- कृतत्वेनासिद्धत्वात् । अनैकान्तिकं कञ्चित्कालस्थिरत्वमचिररोचिः- प्रमुखे । तेषां तत्सद्भावेऽपि साधनमसिद्धम् । तत्सिद्धिनिबन्धनस्य कश्चित्कालस्थिरत्वस्य हेत्वाभासत्वेन प्रोक्तत्वात् । कादाचित्कत्वाञ्च शब्दे तदसिद्धम् । तथा हि यत्कदाचित्कं न तद्विनाशहेतुशून्यम् , यथा सौदामिनीदामादिकम् । कादाचित्कश्च शब्द इति । यदपि विवादाध्यासितः कालो गादिशब्दशून्यो न भवतीत्यादिकमवादि तदपि विद्युदादौ तुल्यत्वादयुक्तम् । तथा हि विवादविषयापन्नः कालः सौदा- मिन्यादिशून्यो न भवति कालत्वात्तत्सत्त्वोपेतकावत् । प्रत्यक्षबाधनं पुनरुभयत्रापि समानम् । यच्च प्रत्यपादि नित्यः शब्दः परार्थं तदु- चारणान्यथानुपपत्तेरित्यादि । तदप्यनौपयिकम् । परार्थं तदुच्चारणस्या- २५ न्यथाप्युपपत्तेः । अनित्यत्वेऽपि शब्दस्य सादृश्यवशादेवार्थे सम्बन्ध- ग्रहणसम्भवेन तत्प्रतिपत्तिघटनात् । यदप्याभिहितम् । अन्यस्मि- . २० परि. ४ सू. १० स्याद्वादरत्नाकरसहितः ६९३ ज्ञातसंवन्धे न चान्यो वाचको भवेदित्यादि । तदपि नोपपन्नम् । न खलु य एव सम्बन्धावबोधसमये समुपलव्धस्तेनैवार्थप्रतिपत्तिर्विधेयेति नियमः समस्ति । प्राक्प्रदेशपरिछिन्नधूमसदृशादपि मेदिनीधरधूमा- द्धनञ्जयावबोधसमधिगमात् । न च महीध्रमहानसाधिकरणयोधूम- व्यत्तयोरैक्यं सम्भवति । प्रतीतिविरोधात् । सर्वगतत्वप्रसङ्गाच्च । अथ धूमसामान्यस्यात्र गमकत्वमिष्यते । इतरत्रापि सामान्यस्यैव वाचकत्व- मिप्यताम् । विशेषाभावात् । नन्विह सामान्यं शब्दत्वं गत्वादि वा वाचकत्वेनाभिप्रीयते । आद्यपक्षे, तस्य सर्वत्राविशेषात्सर्वेऽर्थाः सर्व- शब्देभ्यः प्रतीयेरन् । न खलु कारणानियमे कार्यनियमो भवितु- मर्हति । तस्याकस्मिकत्वप्रसङ्गात् । द्वितीये तु गादीनामेकैकव्यक्तिरू- १० पत्वेन भेदाभावान्न तत्र गत्वादिसामान्यं सम्भवतीति कथं तस्य वाच- कत्वमिति चेत् । तदप्यसाम्प्रतम् । तेपामपि तारतारतरत्वादिभेदतो नानाव्यक्तिरूपत्वसम्भवात्, गत्वादिसामान्यसद्भावोपपत्तेः । न च व्यञ्जकभेदकृत एवायं तारतारतरत्वादिभेदप्रत्ययो गकारादाविति मन्त- व्यम् । यरलवादिवर्णभेदप्रतिभासस्यापि व्यञ्जकप्रभञ्जनभेदनिबन्धनत्या- १५ पत्त्याऽखिलवर्णविकल्पातीतनिरवयवाक्रमैकशब्दब्रह्माङ्गीकारप्रसङ्गात् । यरलवादीना परस्परविभिन्नस्वरूपावगमाद्विपयभेदनिवन्धन एव तद्वेदप्रतिभासो नोपाधिहेतुकः । तर्हि सर्गस्वर्गगर्गगाङ्गेयगङ्गादौ गकारभेदप्रत्ययोऽप्यय न व्यञ्जकवायुभेदनिमित्तः । तत्राप्यन्योन्य- विभक्तगकारस्वरूपप्रतिभासाविशेषात् । वक्तृभेदे हि सति शुकशा- २० रिकामनुष्येषु व्यञ्जकनानात्वसम्भावनया वर्णभेदप्रतिभासस्तन्निबन्धनः कथंचित्सम्भावनाभुवमवतरेत् । वक्त्रैकत्वे पुनर्गाङ्गेयादौ कुतस्तन्निमित्तो भेदप्रत्ययः ! ननु तत्रापि भिन्ना एव नभस्वन्तो व्यञ्जकाः, वदनं पुन- रेकमस्तु किं तेन तदपि वा भिन्नमित्येके । नैतदप्युपपन्नम् । एवं हि यरलवादीनामपि परस्पर भेदो दुरुपपादः । तत्रापि व्यञ्जकप्रभञ्जन- २५ भेदस्य विद्यमानत्वाविशेषात् । ननु यरलवादिषु विशेषप्रतीतिः, समस्ति अथ ४४ । तर्हि ६९४ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० गकारेषु नास्ति । उच्चारणस्यैव हि तत्र भेदो नोच्चार्यमाणस्येति चेत् । तदप्यनुचितम् । तत्रापि विशेषप्रतीतेः सद्भावात् । ननु यथा शाव- लेयादौ खुरककुदाद्यवयववर्तिनः । प्रतिव्यक्ति विशेषाः सुस्पष्टमा- मासन्ते तथा गाङ्गेयादावपि गकारे ते सुस्पष्टं किं नावभासन्त इति ५ चेत् । तत्कि तिलतण्डुलकलापादाविव शावलेयादावपि प्रत्येकं त्रिकोण- त्वादि सुस्पष्टविशेषावभासोऽस्ति येन भेदावभासः स्यात् । अथ तत्र त्रिकोणत्वादिविशेषाप्रतिभासेऽपि प्रतिभासन्त एव सुस्पष्टं देशभेदादयः केचिद्विशेषाः शुकशारिकादिसमुदी- रितगादेरपि गोपालादीनामपि सुस्पष्टं तारतारतरत्वादिविशेषावभासो १० विद्यत एव । एतेन यदपि भट्टेनोच्यते-" दृश्यते शावलेयादि- व्यक्त्यन्तरविलक्षणा ।। बाहुलेयादिगोव्यक्तिस्तेन भेदोऽस्ति वा- स्तवः ॥ १।। न तु द्रुतादिभेदेन निप्पन्ना सम्प्रतीयते ॥ गव्य- क्त्यन्तरविच्छिन्ना गव्यक्तिरपरा स्फुटा ॥२॥” इति तदपि परास्तम् । नन्वस्त्वेवं तारत्वादीनां विशेषाणा तत्र ग्रहणं किं त्वारो- १५ पितम् । तदप्ययुक्तम् । आरोपितरूपवैलक्षण्यात् । तथा हि यदा- रोपितरूपं वस्तु तदनारोपितनिजस्वरूपसम्बन्धितयाऽप्युपलभ्यते यथा स्फाटिको मणिर्नेसर्गिकश्वेतिम्ना । न चाऽमी गकारादयो वर्णाः कदा- चिदपि तारतारतरत्वादिधम्मसस्पशशून्याइश्रुत्या प्रतिभासन्ते तत्कथं तेषा गकारादिषु समारोप । एवं च, यथा बुद्धीनां स्तम्भकुम्भादिविषय- २० विशेषशून्यानामसंवेदनात्प्रतिविषयं नानात्वं तथा वर्णानामपि गका- रादीना प्रति तारतारतरत्वादिविशेपं नानात्वं सिद्धम् । ननु बुद्धिरप्ये- कैव विषयभेदोपाधिनिवन्धनस्तद्भेद इति चेत् । मैवम् । क्षणिका हि सा न चिरकालमवतिष्ठते " इत्यभिधानेन स्वयमेव तद्भेदाभ्युप- गमात् । यथा च शुक्लो गुणो भास्वरधूसरादिभेदवत्तयोत्क्षेपणादि २५ कर्म च स्वकीयक्षणविशेपवत्तया नानात्वं प्रतिपद्यते तथा वर्णोऽपि १ मी. श्लो. वा. 'लो. २१।२२ ॥
परि. ४ सू. १० ] स्याद्वादरत्नाकरसहितः ६९५ .. तारतारतरत्वादिभेदवत्तयेति । ननु शुक्लो गुण उत्क्षेपणादि कर्म चैक- मेवाधारभेदात्तु तद्भेदप्रतिभास इति चेत् । अहो प्रतीयमानापला- पित्वम् । एकं कर्म प्राणिना बुद्धिरेका सर्वत्रैकः श्वेतरूपो गुणश्च ।। एतत्सर्वं हंत मीमांसकानांमध्ये व्यक्तं स्वप्रियाबाहुकर्म ॥५५९॥ ५ किंचैकात्मवादोऽप्येवं कथं प्रतिक्षिप्यते । सुखदुःखादिभेदस्य शरीरभेदेनाऽपि सम्भवात् । ततो वुद्धयादिवत्सर्वदा सविशेषाणामेव वर्णाना प्रतीयमानत्वान्नानात्वमनिवार्यम् । ननु गगनादावकारोपश्लेष- कृत एव भेदप्रतिभासो न स्वरूपभेदकृत इति चेत् । तदपि न निर- वद्यम् । अकारस्यापि भवन्मते भेदाभावात् । असत्यपि चाऽकारो- १० पश्लेपे दिग्गजो दिग्गज इति भेदेन प्रतिभासो भवत्येव । न खलु दिग्ग इत्यत्रोपरितनगकारस्याकारान्तरेणोपश्लेषः समस्ति । एवं सम्मदः सम्मदः पट्ट. पट्ट आसन्नमासन्नं मल्लो मल्लः पत्तिः पत्ति. पत्तनं पत्तनमित्यादिषु वर्णभेदप्रतीतिः सुव्यक्तैव । अर्थप्रतीतिभेदोऽपि च दिग्गजादौ शब्दान्तरनिमित्तको भवितुमर्हति न द्विरुच्चारणकृतो १५ ग्रन्थाधिक्यात् । स खल्वाधिक्यं नोच्चारणभेदात् । सहस्रशोऽपि प्रयुक्ते गवादिशब्दे सानादिमदर्थव्यतिरिक्तवाच्यसम्प्रत्ययाभावात् । शब्दविदोऽपि दिग्गज इति द्विगकारकोऽयं निर्देश इत्यभिदधति न तु द्विर्गकार उच्चारित इति । ननु गोगिरिगुरुगेहादावर्थभेदेऽपि गकारप्रती- त्यनुवृत्तिदर्शनादेक एवाऽयं गकारः । मैवं वोचः । न हि वयमभेदप्र- २० त्ययमपगुमहे । किन्तु भेदप्रत्ययस्यापि बाधाविकलस्य सद्भावादन- न्यथासिद्धत्वाच्च गवादिवत्सामान्यविशेषरूपता गकारादेर्वर्णस्य वर्ण- यामः । व्यञ्जकभेदनिवन्धनत्वं तु भेदप्रत्ययस्य यरलवादावपि वक्तुं शक्यमिति प्रावप्रतिपादितमेव । किंच शावलेयादिभेदप्रतीति- रपि व्यञ्जकभेदनिर्मितत्वादेक एव गोस्त्रिभुवनेऽपि स्यात् । ननु २५ कश्चात्र व्यञ्जको यद्भेदकृतः पिण्डभेदप्रत्यय इष्यते । आह च-" न
१९६
प्रमाणनयतत्त्वालोकालङ्कारः
[परि. ४ सू. १०
पिण्डव्यतिरेकेण व्यञ्जकोऽत्र ध्वनिर्यथा॥ पिण्डव्यङ्गथैव गोवा-
दिजातिनित्यं प्रतीयते ॥१॥” इति तदपि न तर्ककर्कशकुशा-
प्रीयबुद्धीना वचः । गोत्वजातेर्गत्ववदिदानी विवादाविषयापन्नत्वात् ।
भेदप्रत्ययस्य तु चक्षुर्व्यापारभेदादपि सम्भाव्यमानत्वात् । ननु सकृदपि
५ व्यापृतनेत्रस्य परस्परविविक्तगोपिण्डप्रतिभासः समुपजायत इति । तरिक
प्रथमश्रोत्रव्यापारवेलाया गाङ्गेयगङ्गादौ गकारभेदप्रतिभासो नोप-
जायते । तथा चात्र प्रयोगः । गकारादिवर्णः प्रत्येकमनेको वाधका-
भावे सति युगपदिन्नदेशतयोपलभ्यमानत्वात् । य एवं स एवं यथा
ब्रह्मवृक्षादिः । तथा चायम् । तस्मात्तथेति । न तावदत्रैकेन पुरुषेण
क्रमशोऽनेकदेशतयोपलभ्यमानेन हेतोरनैकान्तिकत्वमाशङ्कनीयम् ।
युगपद्हणात् । नाप्येकेन सहनदीधितिना नानापुरुषैः सकृद्भिन्नदेश-
तयोपलभ्यमानेन व्यभिचारः । वावकाभावे सतीतिविशेषणात् । न
धेकस्मिन्नहिमरश्मौ भिन्नदेशतयोपलभ्यमाने बाधकाभावः । प्रतिपुरुष
क्रमलद्धनानुपलम्भस्य वाधकस्य सद्भावात् । नापि नानाजलपानसशान्त-
तिग्मरश्मिविम्बेन प्रत्यक्षतो दृश्यमानेन हेतोरनेकान्तः । तस्य
दिनकरकरनिकरसन्निधिमपेक्ष्य तथापरिणममाणस्यानेकत्वात् । अथ
पर्वतादिनैकेनास्य हेतोळभिचारः । तस्यैकस्यापि वाधकाभावे सति
युगपद्भिन्नदेशतयोपलभ्यमानत्वादिति चेत् । न । तस्याप्यवयवरूप.
तया नानात्मकस्य सतो वाधकाभावे सति युगपद्भिनदेशतयोपलभ्य-
२० मानत्वव्यवस्थितेः । निरवयवत्वे तथाऽमावविरोधादेकपरमाणुवत् ।
व्योमादिना तदनैकान्तिकत्वमनेन प्रत्युक्तम् । तस्याऽप्यनेकप्रदेशत्व-
प्रसिद्धेः । न्योमादेरनेकदेशत्वादेकद्रव्यत्वविरोध इति चेत् । न ।
नानादेशस्यापि घटादेरेकद्रव्यत्वप्रतीतः । न खेकप्रदेशत्वेनैवैकद्रव्यत्वं
व्याप्तम् । येन परमाणोरेकद्रव्यता । नापि नानाप्रदेशत्वेन । यतो
२५ घटादेरेवैकद्रव्यतेति समवतिष्ठते । एकद्रव्यत्वपरिणामेनैकद्रव्यताया
।
१ मी. 'लो. वा. स्फोटवादे श्टो. ३६॥३७॥
परि. ४ सू. १०] स्याहादरत्नाकरसहितः ६९७ च्याप्तत्वप्रदर्शनात् । सकललोकप्रसिद्धा ह्येकद्रव्यत्वपरिणतस्यैकद्रव्यता। नानाद्रव्यत्वपरिणतानामर्थानां नानाद्रव्यतावत् । स्यादेतबाधकाभावे सतीति हेतुविशेषणमसिद्धम् । गजेत्यादौ गकारवर्णस्य सर्वगतस्य युगपद्व्यञ्जकदेशभेदाद्भिन्नदेशतयोपलभ्यमानस्य स्वतो देशविच्छिन्न- तयोपलम्भासम्भवादिति । तदयुक्तम् । तस्य सर्वगतत्वासिद्धे. । कूटस्थ- ५ त्वेनाभिव्यङ्गयत्वप्रतिषेधाच । अथोच्यते सर्वगतः शब्दो नित्यद्रव्यत्वे सत्यमूर्त्तत्वादाकाशवदिति द्रव्यत्वादित्यभिधीयमाने घटादिना व्यभि- चारस्तन्निषेधार्थं नित्यग्रहणम् । तथाऽप्यणुना व्यभिचारस्तव्यवच्छेदार्थ- ममूर्तग्रहणम् । अमूर्तत्वादित्यभिधीयमाने परमाणुत्वापरिमाणेनाऽनेकान्त- स्तदपोहाय द्रव्यत्व इति । एतदपि न शब्दगतसर्वगतत्वप्रसिद्धये १० प्रभवति । जीवद्रव्येणाऽनैकान्तिकत्वात् । तस्यापि साम्प्रतं पक्षीकर- णान्न तेनाऽनेकान्त इति चेत् । न। प्रत्यक्षविरोधात्प्रतिज्ञायाः । श्रोत्र- प्रत्यक्ष हि नियतदेशतया शब्दमुपलभते स्वसंवेदनाध्यक्षं चात्मानं शरीरपरिमाणानुविधायितयेति । स्वरूपासिद्धश्च हेतुः । सर्वथाऽपि नित्यद्रव्यत्वामूर्तत्वयोर्धर्मण्यसम्भवात् । तदसम्भवश्च नित्यत्वस्य निरा- १५ करणात्पौगलिकत्वेन शब्दमूर्तत्वप्रसाधनाच्च । तदेवं सुव्यक्तो गाङ्गेय- गङ्गादौ गकारादिभेदप्रतिभास इति सिद्धमनेकगादिव्यक्तिषु वर्तमानं गत्वादिसामान्यमिति । यच्चोक्तं सादृश्येन शब्दादर्थावबोधासम्भवादि- त्यादि । तदप्यसत् । प्रतिपादितयुक्त्या वर्णैकत्वस्य निराकृतत्वेन सर्वेषामपि य एव सङ्केतावसायसमये मया ध्वनिरुपलब्धः स एवाऽय- २० मित्येकत्वप्रतीतेरेव नीलमम्बरमिति प्रतीतिवत् भ्रान्तत्वात् । यतूक्तं सादृश्यादर्थप्रतीतौ भ्रान्तः शब्दप्रत्ययः स्यादिति तद्भूमाद्भूमध्वजादेः प्रतिपत्तावपि तुल्यम् । यच्चोक्तं न च भूयोऽवयवसामान्ययोगस्वरूपमि- त्यादि । तदप्यसारम् । सदृशपरिणामलक्षणस्यैव सादृश्यस्य व्यव- स्थितेः । वर्णाना च निरवयवत्वमसिद्धम् । तेषा पौद्गलिकत्वसमर्थ- २५ नात् । यदप्यवादि न च गत्वादिविशिष्टानां गादीना वाचकत्वं युक्तं ६९८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ स. १० गत्वादिसामान्यस्याभावादिति । तदप्यसत्यम् । गत्वादिसामान्यस्य साधितत्वात् । यच्च नित्यत्वं व्यापकत्वं चेत्यादिकारिकाजालमजल्पि तदपि निष्फलम् । नित्यत्वव्यापकत्वयोः शब्दे सविस्तरमनन्तरमेवा- पास्तत्वात् । यदप्यमाणि जलपात्रेषु हीत्यादि तदप्यसम्बद्धम् । तत्रो- ५ पलभ्यमानस्यादित्यप्रतिबिम्बस्याऽनेकत्वात् । गगनतलावलम्बी हि कम- लवन्धुस्तत्रोपलभ्यत इत्यत्र न प्रत्यक्ष प्रमाणम् । तत्र तत्स्वरूपाप्रति- भासनात् । तस्य हि स्वरूपं गगनतलावलम्बि चैकं च । न चेदमव- भासते । यच्चावभासते जलपात्रावलाम्ब चाऽनेकं च । तद्वृक्षछा- यादिवद्वस्त्वन्तरमेव । न चाऽन्यप्रतिभासेऽन्यप्रतिभासो नाम, १० अतिप्रसङ्गात् । न च जलभानोर्गगनभानुना सादृश्यादेकत्वम् । त्रस्तकुरङ्गदारकदृशोरत्यन्तसदृशयोरेकत्वप्रसङ्गात् । न च कादम्बि- न्यादेव्योमभानार्विकारे जलभानोर्विकारावलोकनादेकत्वमिति मन्त- व्यम् । वृक्षछाययोरपि तत्प्रसङ्गात् । ननु तत्प्रतिविम्बाना वस्त्वन्तरत्वे कुतः प्रादुर्भावः स्यादिति चेत् । जलादित्यादिलक्षणस्वसामग्रीविशेषा- १५ दिति ब्रूमः । स्वच्छताविशेषाद्धि जलदर्पणादयो मुखादित्यादिप्रति- बिम्बाकारविकारधारिणः सम्पद्यन्ते । ततो निराकृतमेतत्, अत्र ब्रूमो यदा तावज्जले सौर्येण इत्यादि । स्वप्रदेशस्थतया सवि- तुर्ग्रहणासिद्धेः । " चाक्षुपं तेजः प्रतिस्रोतः प्रवर्तितम्" इति चाऽतीवाऽसङ्गतम् । प्रमाणाभावात् । न हि चक्षुस्तेजांसि जलेनाभिस- २० म्बध्य पुनः सवितारं प्रति प्रवृत्तानि प्रत्यक्षादिप्रमाणतः प्रतीयन्ते । यथा च नयनरश्मीना विषयं प्रति प्रवृत्ति- र्नास्ति तथा चक्षुषोप्राप्यकारित्वप्रघट्ट के प्रतिपादितमित्यलमति- विस्तरेण । ततो यद्यत्स्वभावतया कुतश्चिदपि प्रमाणान्न निश्चीयते न तत्तत्स्वभावतया स्वीकर्त्तव्यम् । यथा विश्वमद्वैतस्वभावतया । सर्वथा २५ नित्यस्वभावतया न निश्चीयते च कुतश्चिदपि प्रमाणाच्छब्द इति । अनित्यस्वभावतायां तु प्रमाणसद्भावात्तद्रूपतयाऽसौ स्वीकरणीयः ।
परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः ६९९ तच्च प्रमाणमनित्यः शब्दः कृतकत्वात् । यत्कृतकं तदनित्य दृष्टं यथा कुम्भः । कृतकश्च शब्दः । तस्माद्यथोक्तसाध्याधिकरणमिति । न चात्र कृतकत्वमसिद्धम् । तस्याधस्तात्प्रसाधित्वात् । तथा शब्दः परिणामी वस्तुत्वान्यथानुपपत्तेरिति । न चात्र वस्तुनः प्रतिक्षण- विवर्तेनैकेनानेकान्तः शङ्कनीयः । तस्य वस्त्वेकदेशतया वस्तु- त्वाव्यवस्थितेः । न च तस्यावस्तुत्वम् । वस्त्वेकदेशत्वाभावप्रसगात् । तदुक्तम्-"नायं वस्तु न चावस्तु वस्त्वंशः कथ्यते बुधैः । नासमुद्रः समुद्रो वा समुद्रांशो यथैव हि ॥१॥” इति । वस्तुत्वस्याऽन्यथा- नुपपत्तिरसिद्धेति चेत् । शान्तम् । एकान्तनित्यत्वादौ पूर्वापरस्वभाव- त्यागोपादानस्थितिलक्षणपरिणामाभावे क्रमयोगपद्याभ्यामर्थक्रियाविरो- १० धाद्वस्तुत्वासम्भवादिति नैकान्तनित्यः शब्दः । नापि सर्वथा द्रव्यम् । पर्यायात्मतास्वीकरणात् । स हि पुद्गलस्य पर्यायः । क्रमशस्तत्रोद्भवात् । छायातपादिवत् । कथंचिद्रव्यं शब्दः । क्रियावत्त्वाद्वाणादिवत् । अस्तिभवतीत्यादिकया धात्वर्थलक्षणया क्रियया क्रियावता गुणादिनाs- नेकान्त इति चेत् । न । परिस्पन्दरूपया क्रियया क्रियावत्त्वस्य हेतुत्वेन १५ विवक्षितत्वात् । क्रियावत्त्वमसिद्धमिति चेत् । न । देशान्तरप्राप्त्या शब्दस्य क्रियावत्त्वप्रसिद्धेः । इतरथा वाणादेरपि निष्क्रियत्वप्रसङ्गात् । ततः कथञ्चिव्यं शब्द इति सिद्धम् । मूर्तिमांश्चासौ मूर्तिमद्रव्यप- यित्वाद्धटवत् । न च मूर्तिमद्र्व्यपर्यायत्वमसिद्धम् । तत्प्रसाधकस्या- नुमानस्य सद्भावात् । तद्धि शब्दो मूर्तिमद्व्यपर्यायः सामान्यविशेष- २० वत्त्वे सति बाह्येन्द्रियविषयत्वात्पादपादिवत् । न घटत्वादिसामान्येनात्र हेतोर्व्यभिचारः । सामान्यविशेषवत्त्वे सतीति विशेषणात् । परमतापेक्ष चेदं विशेषणम् । स्वमते घटत्वादिसामान्यस्यापि सदृशपरिणामलक्ष- णस्य द्रव्यपर्यायात्मकत्वेन स्थितेस्तेन व्यभिचाराभावात् । कर्मणाऽने- कान्त इति चेत् । न । तस्यापि द्रव्यपर्यायात्मत्वेनाभिमतत्वात् । न २५ चात्मना व्यभिचारः । बाह्येति विशेषणात् । एवं च वर्णात्मकस्य - ७०० प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० शब्दस्य परिणामित्वे सिद्धे तदात्मकस्य पदस्य पदात्मकस्य च वाक्य- स्याऽनायाससिद्धमेव परिणामित्वं प्रज्ञाशालिभिरवगन्तव्यमिति । किं चाग्रतः सकलवस्तुगतव्यवस्था कूटस्थनित्यनियमक्षणिकत्वपक्षे ॥ नैव प्रयाति घटनामिति वक्ष्यतेऽत्र शब्दोऽपि तन्न हि कथं परिणामिरूपः ।। ५६० ॥ सोऽयं मीमांसकानामुपशमपदवीं नित्यवर्णप्रवादः सम्यग्युक्तिप्रवन्धप्रसरणवशतः प्राप्यनेकान्तविद्भिः ।। पक्षः स्वीयः कथंचिन्निनदविलयितालक्षणः सिद्धिसौधं १० नीतस्तस्मात्रिलोक्यां जयति जयकरं शासनं जैनचन्द्रम् ॥५६१॥ अत्राहुः सौगताः- शब्दस्य वस्तुनि न कोऽपि विचार्यमाणः शब्दार्थयोः सबन्धमनभ्यु- पगच्छता बौद्धाना मत- सबन्ध एति घटना ननु मानतोऽत्र ।। स्योपपाद्य खण्डनम् । तस्मात्ततः कथमिह प्रतिपत्तिमर्थे १५ स्याद्वादिनः प्रणिगदन्त्युपपत्तिवन्ध्याम् ॥५६२॥ तथा हि-शव्दादर्थयोः सम्बन्धः किं तादात्म्यरूपः किं वा तदु- त्पत्तिलक्षणः स्यात् । न तावत्तादात्म्यरूपः । पृथग्देशतया तयोरुपल. भ्यमानत्वात् । वदने हि शब्दः समुपलभ्यते विश्वम्भरायामर्थ इति । तयोस्तादात्म्यकक्षीकारे च सुरक्षिरादिशब्दप्रयोगे वदनस्य २० पाटनप्लावनादिप्रसक्तिः । नापि तदुत्पत्तिलक्षणः । करशाखाशिखरे करिकदम्बकमास्त इत्यादिशब्दानामर्थाभावेऽपि स्थानकरणप्रयत्नानन्त- रमुत्पत्तेर्दर्शनात् । तथा चाऽर्थसंस्पर्शित्वाभावात्कथं ते बाह्यार्थे प्रतीति जनयितुमलम् । ते हि विकल्पमात्राधीनजन्मान. स्वमहिम्ना तिरस्कृ- तबाह्यार्थान्प्रत्ययाञ्जनयन्ति । यथा करशाखादिवाक्यानि । पुरुष- २५ दोषाणामेव महिमा न शब्दानामित्यप्यसुन्दरम् । दोपवतोऽपि मूका- । परि. ४ सू. ११] स्याद्वादरत्नाकरसहितः ७०१ दिपुरुषस्यानुच्चारितशब्दस्येदृशासत्यप्रत्ययोत्पादनसामर्थ्यासम्भवात् । असत्यपि हृदयकालुण्ये, आतैः प्रतिपादितान्यंगुल्यादिवाक्यानि तामु- त्पादयन्त्येव । न चाप्ता नेदृशानि वाक्यानि प्रयुञ्जते प्रयुञ्जाना वा नाऽऽताः स्युरिति चेत् । एतदप्यसुन्दरम् । एवमपि हि वक्तृदोषाणाम- यथार्थज्ञानोदयकारणत्वासिद्धिः । व्यतिरेकासिद्धेः । यदि हि वक्तृ- दोपाभावेऽमन्यपि वाक्यानि प्रतिपाद्येरन्न चाऽयथार्थान्प्रत्ययान्कुरिस्तदा व्यतिरेकनिश्चयाद्वक्तृदोपजत्वं शाज्ञानस्य भवेत् । आप्तैस्तु तेपाम- प्रयोगे किं शव्दाभावादयथार्थज्ञानानुत्पत्तिराहोस्विदोषाभावादिति सन्दिग्धो व्यतिरेकः । शव्दे तु निश्चित. सत्स्वपि दोषेषु शब्दानुच्चा- रणे मिथ्याप्रत्ययस्यानुत्पादात् । न चाप्तत्वमीशवाक्यप्रतिपादकत्वेन १० विरुध्यते । एवविधशब्दाभिधाने सत्यप्याशयदोषाभावतोऽनाप्तत्वस्या- भावात् । तथा ह्याप्तोऽपि कस्मैचिदेवमुपदिशति न त्वयाऽननुभूतार्थ वचनं प्रतिपादनीयम् । यथा करशाखादिवाक्यम् । अतः शब्द- स्यैवैष महिमा न वक्तृदोषाणाम् । ततोऽर्थासंस्पर्शिनः शब्दा विकल्प- मात्रायत्तोत्पत्तयः सिद्धाः । तथा चाह-“विकल्पयोनयः शब्दा १५ विकल्पाः शब्दयोनयः ।। तेषामन्योन्यसंवन्धो नार्थान् शब्दाः स्पृशन्त्यमी ॥ १ ॥” इति ।। १० ।। एतत्प्रतिविधातुमाह- स्वाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं शब्द इति ॥ ११ ॥ २० स्वाभाविक सहज सामर्थ्य च शब्दस्याऽर्थप्रतिपादनशक्तिर्योग्यता परपर्याया । ज्ञानस्य ज्ञेयज्ञापनशक्तिवत् । समयश्च सङ्केतस्ताभ्यामर्थ- बोधस्याभिधेयावगमस्य । निबन्धनं कारण शब्द इति । तथा चायुक्त- मुक्तं " शब्दस्य वस्तुनि न कोऽपि विचार्यमाणः सम्बन्धः इत्यादि । तादात्म्यतदुत्पत्तिलक्षणसम्बन्धाभावेऽपि शब्दार्थयार्योग्यता- २५ .
७०२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. ११ भिधानसम्बन्धसद्भावात् । तदभावे तयोर्योग्यताभिधानोऽपि सम्बन्धः कथमित्यप्यनमिधेयम् । नयनरूपयोः कचित्तदभावेऽपि तदुपलम्भात् । न खलु स्फीतालोककलितकलशरूपेण समं लोचनस्य तादात्म्यं तदु- त्पत्तिर्वा शौद्धोदनितनयैरप्यङ्गीक्रियते । प्रतीतिविरोधापत्तेः । नापि नेत्रस्य तादात्यादिसम्बन्धाभावे रूपसम्बन्धस्यानुपपत्तिः । श्रवणादी- न्द्रियवत्तस्यापि रूपाप्रभासकत्वप्रसक्तेः । न च वाच्यं योग्यतातः शब्दस्यार्थवाचकत्वेऽर्थस्यापि शब्दवाचकत्वं किं न भवेदिति । प्रतिनियतशक्तिकत्वात्पदार्थानाम् । योग्यता हि शब्दार्थयोः प्रति- पाद्यप्रतिपादकशक्तिः । ज्ञानज्ञेययोप्यिज्ञापकशक्तिवत् । न च १० ज्ञानज्ञेययोः कार्यकारणभावात्स्वरूपप्रतिनियमो न पुनर्योग्यतात इत्य- भिधानीयम् । तयोः कार्यकारणभावसद्भावेऽपि योग्यतात एव स्वरूप- प्रतिनियमोपपत्तेः । इतरथा ज्ञानमेव प्रकाशकं न तु ज्ञेयं ज्ञेयमेव च प्रकाश्यं न पुनर्ज्ञानमिति नियमस्याघटनात् । ननु योग्यतावशाच्छब्दो यद्यर्थ प्रतिपादयति तदा भूमिगृहवर्धितोत्थितस्याऽपि पुंसः प्रतिपाद- १५ यतु विशेषाभावादिति चेत् । तदप्यनुचितम् । सङ्केतसहायस्य स्वयो- ग्यतामाहात्म्यतः शब्दस्यार्थप्रतिपादकत्वप्रतिज्ञानात् । भूमिगृहवाधि- तोत्थितं प्रति चाऽस्य स्वयोग्यतासद्भावेऽपि सङ्केतसहायकाभावान्नार्थ- प्रतिपादकत्वानुषङ्गः । सङ्केतो हीदमस्य वाच्यमिदं चास्य वाचक- मित्येवं रूपो वाच्यवाचकयोर्विनियोगः । स यस्याऽस्ति तस्यैव शब्दः २० स्वार्थ प्रतिपादयति नाऽपरस्य । इतरथा धूमादिसाधनमपि तथाविध- स्यानधिगतसम्बन्धस्य धूमध्वजादिसाध्यं प्रकाशयेत् । विशेषादर्शनात् । अविनाभावो हि साध्यावबोधे विधेये साधनस्य निवन्धनं स च सर्वदा सर्व प्रत्यस्यास्तीति । अथ येनैव साध्यसाधनयोरविनाभावः प्रतिपन्नस्तं प्रत्येव साधनं साध्यमवबोधयतीत्यभिधीयते । तर्हि येनैव २५ शब्दार्थयोः सङ्केतः प्रतिपन्नस्तं प्रत्येव शब्दोऽर्थस्य वाचक इत्यभिधीय- ताम् । समानयोगक्षेमत्वात् । ननु सङ्केतः पुरुषेच्छामात्रनिर्मितः । न परि. ४ सू. ११] स्याद्वादरत्नाकरसहितः ७०३६ च तदिच्छया वस्तुव्यवस्थानमुपपन्नम् । अतिप्रसक्तेः । ततोऽर्थोऽपि वाचकः शब्दोऽपि वाच्यः किं न भवेत् । पुरुपेच्छाया निरङ्कुशत्वादिति चेत् । तदप्यविचारितमनोहरम् । सङ्केतस्य सहजयोग्यतानिबन्धनत्वा- भूमधूमध्वजवत् । यथैव हि धूमपावकयोः स्वाभाविक एवाविनाभावः सम्बन्धस्तद्वयुत्पत्तये तु तर्कः समाश्रीयते । तथा शब्दार्थयो.सर्गिक एव वाच्यवाचकशक्तिस्वरूपसम्बन्धस्तद्वयुत्पत्तये तु सङ्केतः समाश्रीयते । ननु शब्दस्य नैसर्गिकी शक्तिः किमेकार्थप्रतिपादनेऽनेकार्थप्रतिपा- दने वा । यद्येकार्थप्रतिपादने । तदा सङ्केतकोटिभिरपि ततोऽर्थान्तरे प्रतीतिर्न भवेत् । धूमादनग्निप्रतीतिवत् । अथाऽनेकार्थप्रतिपादने, तदा समसमयं शब्दादनेकार्थप्रतीतिप्रसक्तेः प्रतिनियते वस्तुनि १० प्रवृत्तिर्न प्रामोतीति चेत् । तदपि न निपुणनिरूपितम् । शब्दस्याने- कार्थप्रतिपादने नैसर्गिकशक्तिसद्भावेऽपि प्रतिनियतसङ्केतसामर्थ्यात्प्रति- नियतार्थप्रतिपादकत्वोपपत्तेः । एकस्यापि हि शब्दस्य देशादिभेदेन प्रतिनियतः सङ्केतोऽनुभूयते । यथा गूर्जरादौ चोरशव्दस्य तस्करे द्रविडादौ पुनरोदन इति । दृश्यते च सर्वत्र रूपप्रकाशने योग्यस्याऽपि चक्षुषः प्रत्यासन्नतिमिरवशादसन्निहिते दूरतिमिरसामर्थ्याच्च सन्निहिते रूपे विशिष्टाञ्जनादिवशादन्धकारान्तरितेऽपि ज्ञानजनकत्वम् । काच- कामलादिदूषणबलाञ्च विवक्षितरूपाभावेऽपीति । ततो यथाऽनेकरूप- प्रकाशनयोग्यस्याऽपि चक्षुषो दूरतिमिरादिप्रतिनियतसन्निहितरूपादि- ज्ञानजनकत्वम् । तथाऽनेकार्थप्रतिपादनयोग्यस्याऽपि शब्दस्य प्रतिनिय- २० तपदार्थप्रतिपादकत्वं यदि स्यात्तदा का नाम क्षतिः । यदप्याभिहि- तमर्थसंस्पर्शित्वाभावादित्यादि तदप्यनभिज्ञवचनम् । यतः किमाप्त- निगदितस्य शब्दस्याऽर्यासस्पर्शित्वमुपपन्नं नाऽपरस्य । इतरथा तिमिरा- दिदोषकलुषितलोचनसमुद्भूतप्रत्यक्षस्याऽर्थासंस्पर्शित्वोपलम्भाद्गुणवन्नयन- समुत्यप्रत्यक्षस्याऽपि तद्भवेत् । नाऽपि तृतीयः पक्षः । आप्तानाप्तप्रणीत- २५ शब्दव्यतिरिक्तस्य शब्दमात्रस्याऽसम्भवात् । अथाप्तप्रयुक्तात्करशाखा. १५ ७०४ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ स. ११ दिवाक्याद्विपरीतज्ञानोत्पादप्रतीतेः शब्दस्यैष महिमा न वक्तृदोषाणा- मित्युच्यते । तदप्यसम्बद्धम् । आप्तैरेवविधवाक्याप्रयुक्तेः । यत्पुनराप्तैस्तु तेषामप्रयोग इत्यादिना सन्दिग्धव्यतिरेकत्वमुक्तम्, तदपि न क्षोदक्षमम् । अनुच्चारितशब्देऽपि दोषवति पुंसि करसंज्ञादिना विपरीतप्रत्ययोत्पादनस्य दर्शनेन तस्य शब्दव्यभिचारात् । आप्तेऽनुच्चारितशब्दे तदनुत्पादनस्य श- व्दाभावनिवन्धनत्वसन्देहाभावेन दोषाभावनिबन्धनत्वनिश्चितेर्व्यतिरेक- निर्णयाच्च । न च हस्तसंज्ञादिना शब्दानुमान ततो विपरीतप्रतीति- रित्यभिधेयम् । तथाप्रतीतेरभावात् । तरङ्गिणीतीरमनुसरन्ननासादित- मोदकराशिः पुरुषः पुरुषमेवाधिक्षिपति दुरात्मना तेन विप्रतारितो- ऽस्मीति न शब्दम् । यत्पुनराप्तोऽपि कस्मैचिदेवमुपदिक्षतीत्याद्यभि- हितम् । तत्र प्रतिषेधपरत्वेनाऽस्य यथार्थतैव । वाक्यैकदेशस्याऽपि ख़ुदा- हरणविवक्षायामिति करणावच्छिन्नस्य शब्दपरत्वेनोपादानात् । प्रति- धैकवाक्यतया यथार्थतैव । अर्थपरत्वे तु प्रतिषेधेनैकवाक्यतैव न स्यात् । तस्मादाप्तप्रणीतशब्दानामयथार्थत्वाभावान्न स्वतोऽर्थासंस्पर्शि- १५ नः शब्दाः । किंतु पुरुषदोपवशादिति । अपि च विपर्ययज्ञानो- त्पत्तेर्यावद्भिः सह तद्भावभावित्वमवसीयते तावतां तत्र व्यावृत्तिः । विपर्ययज्ञानोत्पत्तिश्चात शब्दोच्चारणे सत्यप्यनाप्तमन्तरेण नोपलब्धेति शब्दवदनाप्ताभिप्रायस्यापि तत्र व्यापारः स्वीकरणीयः । किंच लाचनादिवदर्थप्रकाशकत्वमानं शब्दस्य नैसर्गिक रूपम् । न तु यथार्थप्रकाशकत्वायथार्थप्रकाशकत्वे । तयोर्गुणदोषनिवन्धनत्वात् । सति हि नैर्मल्यादिगुणे चक्षुर्यथावद्वस्तु प्रकाशयति कामलादिदोपे तु सत्ययथावत् । एवं शब्दोऽपि वक्तृगुणदोपापेक्षः सत्येतररूपं प्रका- शयति । अत एव करशाखागिखराधिकरणकरिशतवचसि बाध्यमाने- ऽपि पुनःपुनरुच्चार्यमाणे भवति तत्सद्भावसंशीतिः । २५ कत्वस्य शब्दम्वरूपस्य वाधकसहस्रौपढौकनेऽप्यविनाशात् । यदप्यजल्पि विकल्पयोनयः शब्दा इत्यादि । तदप्यसत्यम् । शब्दानामर्थेन २० प्रकाश- परि. ४ सू. ११] स्याद्वादरत्नाकरसहितः ७०५ संस्पर्शसद्भावस्य प्रमाणोपपन्नत्वात् । तथा हि शब्दोऽर्थेन सम्बद्धः प्रतिनियततत्प्रत्ययनिमित्तत्वाल्लोचनवत् । न च लोचनस्या- प्यर्थेनासम्बन्ध इत्यभिधेयम् । योग्यताख्यसम्बन्धस्य नत्रोभाभ्या प्रति- पन्नत्वात् । न चैवमप्राप्यकारित्वं बाध्यते । संयोगादेः सन्निकर्ष- स्याऽनभ्युपगमात् । तथा शाब्दो वोधः सवन्धनिवन्धनः प्रतिनियत- ५ बोधत्वात्, दण्डीत्यादिवत् । इत्थं सम्बन्धो योग्यतानामधेयः शब्दस्याऽर्थेन प्रोक्तयुक्त्या प्रसिद्धः ।। तस्मात्तत्रातः सिद्धिराविर्भवन्ती शाक्यैः शक्या नो सन्निरोद्धं कथंचित् ॥ ५६३ ॥ १०. अत्राहुनैयायिकाः- सङ्केतमात्रसचिवाच्छन्दादर्थस्य भवति सवित्तिः।। सकेतातिरिक्त स्वाभाविक सबन्धमनभ्युपगच्छतो नै स्वाभाविकोऽस्य तस्मात्सवन्धो नाभिधेयेन।५६४। यायिकस्य मतमुपपाय तथा हि-शक्तिरूपः स्वाभाविकः शब्दाना सम्बन्धोऽसम्बद्धः । स्वरूपसहकारियतिरि- १५. क्तायास्तस्या असम्भवात् । न चार्थप्रत्ययान्यथानुपपत्त्या तत्कल्पना शब्दे श्रेयसी । सङ्केतवलादेव तत्र तदुपपत्तेः । किंच कल्पयित्वाऽपि स्वाभाविकसम्बन्धं तद्व्यञ्जकः सङ्केतस्त्वयाप्यङ्गीकृत एव । तदङ्गीकारे च तत एवार्थसिद्धेः कृतं तथाविधसम्बन्धपरिकल्पनेन । तत्परिकल्पने वा न कस्यचित्सङ्केतापेक्षा स्यात् । तन्मात्रैणैव शब्दम्याऽर्थप्रकाशक- २० त्वोपपत्ते । न चैवमस्ति । सङ्केतमपास्य विपश्चितोऽपि शब्दादर्थप्रतीतेर- नुत्पत्तेः । अपि च कचिद्देशविशेषे कश्चिच्छब्दो देशान्तरप्रसिद्धमर्थ- मुत्सृज्य ततोऽर्थान्तरे प्रयुज्यते । यथा चौरशब्दस्तस्करवचनो दाक्षि- णात्यैरोदने । यथेच्छं च शब्दः पुत्रादिषु नियुज्यते । तच्चेदं समय- पथाऽक्षुण्णमुपपद्यते । स्वाभाविकसम्बन्धसद्भावे चैकैकार्थनियतत्वमेव २५. सर्वशब्दानाम् । लौकिकोऽपि च व्यपदेश. सङ्केतपक्षसाक्षितामेव भजते खण्डनम् ।
७०६ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. ४ सू. ११ देवदत्तेनोक्तममुतः शब्दादमुमर्थ प्रतिपद्यस्वेत्येवं हि व्यपदिशति लोकः । तथा यत्र शृङ्गग्राहिकया शब्दमर्थं च निर्दिश्य सङ्केतः क्रियते तत्रेय- न्तमेवाङ्गीक्रियमाणमीक्षामहे , अयमस्य वाचक इति । न तु शक्तिप- यन्तम् । यत्राऽपि वृद्धेभ्यो व्यवहरमाणेभ्यो व्युत्पद्यते बालस्तत्राऽपीय- देवाऽसौ जानात्ययमर्थोऽमुतः शव्दादनेन प्रतिपन्न इति । न त्वन्याऽस्य शक्तिः काचिदस्तीति । इयत्यैव च व्युत्पत्त्या शब्दादर्थप्रत्ययोपपत्तेर- स्याश्चापरिहार्यत्वादधिककल्पनावीजाभावात् । न स्वाभाविकः शब्द- स्याऽर्थन सम्बन्ध इति । गौतमीय परमार्थमत्र यत्त्वं सखे हरसि पश्यतोहरः ॥ श्रीजिनेश्वरमताधिकारिभिस्तन्न नाम कृतिभिस्तितिक्ष्यते ॥५६५॥ तथा हि-यदवादि स्वरूपसहकारिव्यतिरिक्तेत्यादि । तदवद्यम् । अतीन्द्रियशक्तेरापत्तिविचारावसरे समर्थितत्वात् । यत्तुक्त सङ्केतवला- देव तत्र तदुपपत्तेरिति । तदसत् । सङ्केतो हि पुरुषाधीनवृत्तिः । न च पुरुषेच्छया वस्तुनियमोऽवकल्प्यते । अन्यथा तदिच्छाया अव्याहतप्रस- १५ रत्वादर्थोऽपि किमिति वाचको न भवति शब्दश्च वाच्यः । सुकरमेव हीदं वक्तुमस्य शब्दस्याऽयमर्थो वाचकोऽस्य चाऽर्थस्याऽयं शब्दो वाच्य इति । न चैवमस्ति । किंचेच्छया वस्तुनियमेऽनिच्छतः पुरुषस्य न धूमादपि वहेः प्रतीतिः स्यात् । इच्छतस्तु जलस्याऽपि ततः सा स्यात् । तत्र यथा धूमाग्न्योनैसर्गिक एवाऽविनाभावो नाम सम्बन्धस्तत्प्रतिपत्तये -२० चोपलम्भादिकं निमित्तमाश्रीयते । एवं सांसिद्धिक एव शब्दार्थयोः शवत्यात्मा सम्बन्धस्तत्प्रतीतये सङ्केतसमाश्रयणम् । शक्त्यभावेऽपि शब्दस्यैव वाचकत्वे योग्यत्वान्न वाच्यवाचकभावानयत्यमिति चेत् । तहि किमिति कलहायसे । भवताऽपि योग्यत्वशब्देन शक्तरेव स्वीका- रात् । अथ क्रमविशेपोपकृतो गत्वादियोग एव योग्यता शक्तिः । २५ गत्वौत्वादिसामान्यसम्बन्धो हि यस्य भवति स वाचकत्वे योग्य इतरस्तु वाच्यत्वे । यथा द्रव्यत्वाविशेषेऽप्यमित्वादिसामान्यवत एव परि. ४ सु. ११] स्याद्वादरत्नाकरसहितः ७०७ .. दाहजनकत्वं न जलत्वादिसामान्यवत इति चेत् । तदचतुरस्रम् । अतीन्द्रियशक्तिं विनाऽग्नित्वादेः कार्यकारणभावनियामकत्वानुपपत्तेः । अग्नित्वं हि दाहवद्विजातीयकारणजन्यकार्येप्वपि तुल्यरूपम् । न हि दाहं प्रत्येवाडमेरग्नित्वम् । यथा पुत्रापेक्षं पितुः पितृत्वम् । भृत्यापेक्षं वा स्वामिनः स्वामित्वम् । अपि तु सर्वमेव प्रति । ततश्चाऽग्निर्दाहव- ५ त्पिपासापनोदमपि विध्यात् । नन्वसाधारणं स्वरूपं व्यवस्थानिमित्त तथाभूतं चेदमग्नित्वमग्नेरनग्निभ्यो व्यावृत्तिनिमित्तत्वादिति दृष्टेनैवाग्नि- त्वेन कार्यकारणभावस्योपपत्तेर्नादृष्टशक्तिकल्पनोपपत्तिमतीति चेत् । तद्युक्तम् । अनग्निव्यावर्तकतया तुल्यस्वरूपत्वाभावेऽप्यमित्वस्य प्रति- नियतकार्योत्पादकत्वव्यवस्थापकत्वानुपपत्तेः । अनग्निव्यावर्तकत्वविशि- १० टस्याऽप्यग्नित्वस्य सर्वकार्याणि प्रति साधारणत्वात् । न हि कार्यान्तरेप्व- ग्नित्वस्याग्नेरननिभ्यो व्यावर्तकत्वं नास्ति । येनास्य तजनकत्वं न स्यात् । जलादिकारणापेक्षया ह्यग्नित्वस्याऽसाधारणस्वरूपता न जलादि- कार्यापेक्षयति । एवं जलस्यापि शैत्यादिजनकत्वे प्रतिनियमो न घटते । तन्नियमानिमित्तस्य जलत्वस्य दाहादावपि साधारणत्वात् । अतो १५ जलमपि दहेदनलोऽपि शैत्यं जनयेदविशेषात् । अथ दाहस्याऽग्निजन्यत्वे दाहत्वजातेर्व्यवस्थानिमित्तत्वाच्छैत्यादीनामदाहरूपतयाऽग्निजन्यत्वस्या- प्राप्तिः। शैत्यादीना च जलजन्यत्वे शीतत्वादिजाते~वस्थाहेतुत्वात्तद्वि- रहितत्वेन दाहस्य कथमिव जलादिजन्यत्वप्रसङ्ग इति चेत् । तदस- मीचीनम् । यस्माद्दाहत्वजातेः शैत्याद्यपेक्षया तुल्यत्वाभावेऽपि जलादि-२० कारणान्तरापेक्षया तुल्यत्वान्न प्रतिनियतकार्यकारणभावव्यवस्थाहेतुत्वम्। ननु शक्तरपि कथं तद्वयवस्थाहेतुत्वम् । सा हि स्वरूपेणैव तद्धेतुः स्याच्छक्त्यन्तरेण वा । स्वरूपेण चेत् । तदाऽर्थोऽपि तथैवाऽस्तु किं शक्त्या शक्त्यन्तरेण तस्यास्तद्धेतुत्वाभ्युपगमेऽनवस्थोपनिपातः । तदसत्। पदार्थस्य स्वरूपेणैव तद्धेतुत्वे • यदेव विषं पूर्व मारणसमर्थमासीत्तदेव २५ केनचिन्मन्त्रविशेषेण संस्कृतं कथमुज्जीवनहेतुः स्यात् । तदानीमपि ७०८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ स. ११ पदार्थस्वरूपस्य तादृक्षस्यैव प्रत्यक्षेण वीक्षणात् । शक्तिस्वीकारपक्षेऽपि कथमेतदघटिप्यत इति चेत् । मन्त्रसंस्कारक्षणे मारणशक्तेविना- शाच्छक्त्यन्तरस्य च मन्त्रसहकृताद्विषादुत्पादादिति शक्तिरेव शक्त्य- न्तरनिरपेक्षा तन्नियमहेतुर्न पदार्थः । तथा चाऽतीन्द्रियशक्तिमन्तरेण ५ नाऽग्नित्वादीनां कार्यकारणभावव्यवस्थाहेतुत्व तद्वदेव च गत्वौत्वादि- सामान्यानामपि न वाच्यवाचकभावनियमहेतुत्वमिति योग्यताशब्देन शक्तिरेवोच्यत इत्यभ्युपगन्तव्यम् । यदप्यवादि तदङ्गीकारे च तत एवार्थसिद्धेः कृतं तथाविधसम्बन्धपरिकल्पनेनेति । तदप्यबन्धुरम् । अङ्कुरादिकार्यकारितया प्रतीतस्य वीजादेरपि परित्यागप्रसगात् । एव- १० मपि हि वक्तुं शक्यत एवं कल्पयित्वाऽपि वीजादिकारणं तत्सहकारी क्षित्यादिस्तावदवश्यं स्वीकृत एव तत्स्वीकारे च तत एवाऽङ्करादि- सिद्धेः कृतं वीजादिकारणकल्पनेनेत्यादि । बीजादेरङ्कुरादिकार्योत्पत्तौ व्याप्रियमाणस्य प्रत्यक्षत एव प्रतीतेः कथं तदुपद्रवः श्रेयान्, किंतु केवलमेतन्न तज्जनकमिति क्षित्यादिरप्यस्य सहकारी कल्प्यत इति १५ चेत्, तर्हि योग्यतारूपस्य सम्बन्धस्याऽपि शब्दे वाच्यप्रतीतिं कुर्वतो वाच्यवाचकभावप्रतिनियमान्यथानुपपतिरूपादनुमानत. प्रतीतेः कथं तदपलापोऽपि प्रशस्यः स्यात् । अनभिव्यक्तस्त्वसौ न तज्जनक इति सङ्केतस्तदमिव्यञ्जकत्वेन सहकारी कल्प्यते । यच्चोक्तं क्वचि- देशविशेष कश्चिच्छब्दो देशान्तरप्रसिद्धमर्थमुत्सृज्येत्यादि । तदप्य- २० पेशलम् । सर्वशब्दानां सर्वार्थप्रत्यायनशक्तियुक्तत्वात् । क्वचिद्देशे केनचिदर्थेन व्यवहारः । अत एव चाऽनवगतसम्बन्धे शब्दे श्रुते सति संगयो जायते कमर्थं प्रत्याययितुमनेन गव्दः प्रयुक्तः स्यादिति । असत्यां हि शक्तावकृते समये निरालम्बना प्रत्यायकत्वाशङ्का । सर्वशक्तियोगे एकस्मादपि शब्दादशेपार्थप्रत्ययप्रसङ्ग इति चेत् । २५ नैवम् । समयोपयोगस्य नियामकत्वात् । न च वाच्यं स एवाऽस्तु कि शक्तिभिरिति । कृतोत्तरत्वात् । योऽपि लौकिको व्यपदेशः सङ्केत- परि. ४ सू. ११] स्याद्वादरत्नाकरसहितः ७०९ पक्षस्यैव साक्षित्वेनोक्तः । स एवमेव । न खलु वयमपि शक्तिपर्यन्तं सङ्केतमाचक्ष्महे । किंतु वाच्यवाचकयोः स्वाभाविकी शक्तिमन्तरेण सङ्केत एव कर्तुमशक्यो व्यत्ययेनाऽपि तत्प्रसङ्गादिति व्याकुर्महे । ततः स्वाभाविकी शक्तिर्वाचकत्वोपयोगिनी ।। सङ्केतमनुरुन्धाना शब्दे सम्बन्ध इष्यताम् ॥ ५६६ ॥ मीमांसकास्त्वाहु:-आस्ता स्वाभाविकी शक्तिः - शब्दस्य सम्बन्धः । स तु नित्य एव । अनित्यत्वे तस्य शब्दार्थयोनित्यशक्ति- रूप. सबन्ध इति मीमास-व्यवहारकालाननुयायित्वेनाऽर्थप्रतिपत्त्यनङ्गत्वात्। कमतस्योपपाद्य खण्डनम्। तदयुक्तम् । अनित्यत्वेऽप्यस्य शब्दस्येव सादृश्य- १० वशादेवाऽर्थप्रतिपत्तिहेतुत्वोपपत्तेः । यथा च शब्दस्य सादृश्यवशादर्थ- प्रतीतिहेतुता तथा शब्दानित्यत्ववादे प्रतिपादितम् । नित्यत्वानुपपत्तेश्च । तथा हि-असौ नित्यः सन्स्वभावतोऽथ प्रकाशयेत्सङ्केताभिव्यक्तेर्वा । यदि स्वभावतः, तर्हि सर्वदा सर्वस्याऽथ तत्सम्बन्धः प्रकाशयेत् । अथ सङ्केताभिव्यक्तेः, कथमेवमस्य नित्यैकरूपत्वमुपपन्नम् । व्यक्ताव्यक्त- १५ रूपतया भेदप्रसक्तेः । नित्यैकरूपं हि वस्तु यदि व्यक्तं तदा सर्वदा व्यक्तमेव, अथाऽव्यक्तमव्यक्तमेव तर्हि सर्वदा, तस्यैकस्वभावत्वादिति । अत्र भूयोऽपि प्रत्यवतिष्ठन्ते ताथागताः कथं शब्दाहाह्ये मतिरुदयते बाधरहिता तात्त्विक. कोऽपि बा- ह्योऽयो नास्तीति वादिनो न यस्माद्बाह्योऽर्थः कथमपि भवत्यस्य विषयः॥ २० वौद्धस्य मतं विस्तरश उप विशेषस्तावन्नो समयकरणासङ्गतिवशात् न सामान्य तस्याऽसुरसरणिपुष्पप्रतिमितम् ५६७ तथा हि शब्दस्य बहिःपदार्थों गोचरः स्वलक्षणो भावः सामान्य- स्वभावो वा । तत्र प्रथमकल्पना न साधीयसी । स्वलक्षणे सङ्केता- सम्भवतः शब्दाना प्रवृत्तेरघटनात् । सङ्केतव्यवहारकालानुगामि- २५ स्वभावे सङ्केतः क्रियते। न च स्वलक्षणस्य तादृशः स्वभावः सम्भवति । पाद्य तत्खण्डनम्। .
७१० प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. ११ देशकालाकारसङ्कुचितत्वेनाननुगामिस्वभावत्वात् । प्रयोगः-यः सङ्केत- व्यवहारकालाननुगामी न तत्र व्यवहारिभिः शब्दः सङ्केत्यते यथो- त्पन्नमात्रविनाशिनि क्वचिद्भावे । सङ्केतव्यवहारकालाननुगामि च बाहुलेयादिस्वलक्षणमिति । अपि च यो यत्राऽकृतसङ्केतो न स तमर्थ ५ प्रतिपादयति यथा गोशब्दस्तुरङ्गमम् । अकृतसङ्केतश्च स्वलक्षणे समस्तशब्द इति । स्वलक्षणगोचरताझीकारे च शाब्दज्ञानस्यन्द्रियोत्थ- ज्ञानस्येव स्पष्टप्रतिभासत्वापत्तिः । न चैतदास्ति । प्रतीतिपराहतत्वात् । यथोक्तम्-"अन्यदेवेन्द्रियग्राह्यमन्यच्छब्दस्य गोचरः। शब्दात्प्रत्येति भिन्नाक्षो ननु प्रत्यक्षमीक्षते ॥१॥ अन्यथैवाग्निसम्बन्धाद्दाह १० दग्धोऽभिमन्यते । अन्यथा शब्दतस्तेन दाहार्थः सम्प्रतीयते ॥२॥" इति । न चैकस्य वस्तुनो रूपद्वयं सम्भवति । येनाऽस्पष्टं वस्तुगतमेव रूपं शाब्दज्ञाने प्रतिभासेत । एकस्य द्विस्वभावताविरोधात् । तथा यत्कृते ज्ञाने यन्न प्रतिभासते न तत्तस्य गोचरो यथा गन्धसमुत्थज्ञाने स्पर्शः । न प्रतिभासते च शाब्दज्ञाने स्वलक्षणमिति । यदि च १५ तात्त्विकार्थगोचरत्वं शब्दानां भवेत्तदा समयभेदेनाऽर्थभेदप्रत्यायकत्वा- योगः । तदुक्तम्--"परमार्थकतानत्वे शब्दानामनिवन्धना । तस्मा- त्प्रवृत्तिरर्थेषु समयान्तरभेदिषु ॥१॥" इति । तन्न स्वलक्षणलक्षणः शब्दम्य गोचरो विचारवीथीमवगाहते । नापि सामान्यस्वभावः । तात्त्विकस्य सामान्यस्यैवायोगात् । तदयोगश्च व्योमकुसुमवदनर्थ- २० क्रियाकारित्वात्सुप्रतीतः । न खलु नित्यैकस्वरूपस्य सामान्यस्य क्रमा- क्रमाभ्यामर्थक्रियाकारित्वमुपपद्यते । तदेवं न वाद्यवस्तुनः प्रकाशकाः शब्दाः । किन्त्वन्यापोहस्य, निषेधः स च द्विविधः । पर्युदासः प्रसज्यश्च । पर्युदासोऽपि द्विविधोऽर्थात्मा बुद्धयात्मा च । तत्राऽर्थात्मा- ऽर्थस्वभावो विजातीयव्यावृत्तसर्वस्वलक्षणम् । अपोह्यतेऽन्योऽस्मिन्नि- २५ त्यपोह इति व्युत्पत्तेः । बुद्धयात्मा तु स्वभावतः परस्परविलक्षणाना- नेकार्थकारितया समानहेतुत्वेन च समानानाश्रित्य यदेकप्रत्यवमर्श- परि. ४ सू. ११] स्याद्वादरत्नाकरसहितः ७११ रूपमर्थप्रतिबिम्वस्वभावज्ञानमुत्पद्यते । तथा हि, वस्तुभागच्छायो विकल्पेन वाह्यत्वेनाविकल्पाकारः स्वाकारविपरीताकारोन्मूलकबुद्धि- प्रतिबिम्बनामाऽपाहः । अपोह्यते स्वाकाराद्विपरीत आकारोऽनेनेत्य- पोह इति व्युत्पत्तेः । यद्वा विकल्पान्तरवाकाराद्भेदेन स्वय प्रति- भासमानत्वादपोह्यतेऽन्यस्मादित्यपोह इति व्युत्पत्तेः । अयं हि व्युत्पत्ति- द्वयेऽपि मुख्यत एवाऽपोहशब्दाभिधेयो बुद्धिप्रतिबिम्बात्मा । एवं निगदितपर्युदासात्मा द्विप्रकारोऽपोहः । प्रसज्यरूपस्तु गौरयमगौर्न भव- तीति व्यवच्छेदमात्रम् । एतेषु च त्रिष्वपोहेषु मध्ये बुद्धिप्रतिबिम्बा- स्मन एवाऽपोहस्य मुख्यवृत्त्या शब्दार्थत्वम् । य एव हि शब्दोद्भवे प्रत्यये प्रतीयते स एव शब्दार्थतया स्वीकर्तुमुचितः । न चात्र प्रसज्य- १० प्रतिषेधावसायोऽस्ति । नाऽपीन्द्रियोत्थसवेदनवत्स्वलक्षणावभासः । अपि तर्हि बाह्यार्थप्रतिविम्बावभासः । अतस्तदेवाऽर्थप्रतिबिम्बकं शाब्दे बोधे साक्षात्तदात्मतया प्रतिभासनाच्छब्दार्थो युक्तो नत्वपरः। यश्च शब्दस्यार्थेन सार्धं वाच्यवाचकभावनामा सम्बन्धः प्रतीतो लोके नायं कार्यकारणभावादपरः । तथा हि, बुद्धिसम्बन्धिनः प्रतिबिम्बस्य शब्द- १५ जन्यत्वाद्वाच्यत्वं तज्जनकत्वाच्च शब्दस्य वाचकत्वमिति । गौणवृत्त्या तु पर्युदासप्रथमप्रकारस्य स्वलक्षणात्मनो व्यपोहस्य प्रसज्यापोहस्य तृतीयभेदस्य च निषेधमात्रस्य शब्दार्थत्वमवसेयम् । तथा हि-अस्ति शब्दस्य परम्परया स्वलक्षणेन सह कार्यकारणभावलक्षणः सम्बन्धः । प्रथमं हि यथावस्थितवस्त्वनुमवः । ततो विवक्षा । ततस्ताल्वादि- २० परिस्पन्दनम् । ततः शब्द इत्येवं पारम्पर्येण यदा शब्दस्य बाह्येन वयादिस्वलक्षणेन सह सम्बन्धस्तदा विजातीयव्यावृत्तस्वलक्षणस्यापि सामर्थ्यात्प्रतिपत्तिर्भवतीति स्वलक्षणस्याप्युपचरितं - शब्दार्थत्वं न विहन्यते । तथा गोशब्दादेः सकाशाद्यद्गत्वादिबुद्धिप्रतिबिम्बकमुत्प- द्यते तत्तुरङ्गमादिशब्दसमुत्थवुद्धिप्रतिबिम्बस्वरूपाद्व्यावृत्तस्वभावमनुभू- २५ यत इति प्रसज्यलक्षणापोहस्याप्यभिधानसामर्थ्यतः प्रतीयमानत्वादोप- ७१२ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. ४ स. १ चारिकी शब्दार्थता न विरुध्यते । परमार्थवृत्त्या तु न किंचिद्वाच्य वाचकं वा समस्ति । मुख्यवृत्त्या शब्दार्थत्वेन कथिते बुद्धिप्रति- विम्बात्मन्यव्यपोहे कार्यकारणभावस्यैव वाच्यवाचकतया व्यवस्थापित- त्वात् । ज्ञानश्रीः पुनरपोहप्रकरण इदमुदीरयामास-" शब्देस्ताव- ५ मुख्यमाख्यायतेऽर्थस्तत्रापोहस्तद्गुणन्त्रेन गम्यः । अर्थश्चैकोऽध्या- सतो भासतोऽन्यः स्थाप्यो वाच्यस्तत्त्वतो नैव कश्चित् ॥११॥” इति मुख्यमिति आख्यायते इति क्रियाया विशेषणमेतत् । मुख्यया वृत्त्ये- त्यर्थः । अर्थ इति वक्ष्यमाणस्वरूपः । तत्राऽपोहस्तद्गुणत्वेन गम्य इति । न घटोऽस्तीत्यादिषु समुपहितेषु वाक्येष्वपोहस्यैव प्राधान्यतः १० प्रतीतेर्बिम्बाद्यभावः । घटोऽस्तीत्यादिषु तु विधिवाक्येषु विधौ मुख्यतया शब्दैः प्रतिपाद्यमाने तद्विशेषणतयोपसर्जनत्वेन गम्यतेऽपोहः । आख्यायतेऽर्थ इति सामान्येनोक्तं तद्विशेषतो व्यञ्जयन्नाह । अर्थश्चै- कोऽध्यासतो भासतोऽन्यः स्थाप्यो वाच्य इति । द्विविधो ह्यर्थो वाह्य आभ्यन्तरश्च । अन्यस्याभावात् । तत्रैकस्तावद्वाह्यः स्वलक्षणलक्षणोऽ- १५ ध्यासतो गृहीतोऽपि प्रवर्तनयोग्यतानिमित्तकाद्वयवसायादेव वाच्यो व्यवस्थाप्यते न परिस्फूर्त्या । प्रत्यक्षचेतसीव देशकालादिनियतत्वेन परिस्फुटरूपतया शब्देपु तस्याऽस्फुरणात् । तथा भासतः प्रतिभासम- पेक्ष्येत्यर्थः । अन्यो बाह्यादुक्तस्वरूपाद्भिन्न आन्तरो बुद्धयाकार इत्यर्थः शब्दजन्याया बुद्धावाकारमात्रस्य प्रतिभासनात्स एव विषय उच्यते २० चक्षुप इव रूपम् । न पुनरध्यवसायात् । न हि वुद्धयाकारेऽप्यध्यव- सायः शक्योऽभिधातुम् । प्रवृत्तिविषये तस्य व्यवस्थापनात् । प्रवृत्ति- श्वार्थक्रियार्थिनो बाह्य एव । एवं स्थितमेतत् । अध्यवसायेन वाह्यस्य प्रतिभासेन तु बुद्धयाकारस्य शब्दवाच्यत्वमिति । स्थाप्य इत्यस्य चेदमेवैदम्पर्यम् । जात्याधुपाधिराशेबाह्यस्य च समस्तस्य वाच्यतानिर- सनरूपं प्रयोजनान्तरमुद्दिश्य व्यवस्थामात्रमेतक्रियतेऽव्यवसायमात्रेण च वाच्यत्वमिति । तथा हि नात्याधुपाधिराशेः शब्दस्य विषयतया परि. ४ सू. ११] स्याद्वादरत्नाकरसहितः ७१३ तत्त्वतो गृह्णतः प्रतिवादिनः प्रतीतिवदन्यापोहं स्वलक्षणमेव बाह्यमध्य- वसायतो विषय इत्युच्यते , जात्याद्युपाधिराशिनिरसनपरम् । एवम- न्यापोहो ज्ञानस्थ आन्तर आकारो भासतो विषय इति च प्रतिपाद्यते समस्तवाह्यनिरसनपरम् । न पुनरेतयोर्विषयतयोस्तत्त्वतो विश्रान्तिः । कुत. पुनरेतत्तत्र विषयताप्रतिपादनेऽपि न तत्त्ववृत्त्या तस्यास्तत्र वि- ५ श्रान्तिः, किन्त्वन्यनिरसने तात्पर्यमित्याह तत्त्वतो नैव कश्चिदिति । परमार्थतः शब्दस्य बाह्य आन्तरो वाऽर्थो न वाच्य इत्यर्थः । अध्यव- सायसहायो हि प्रतिभासः साव्यवहारिकापेक्षया तत्त्वतो ज्ञेयस्य ज्ञान- विषयतामुपनयति प्रत्यक्षवत् । न हि प्रतिभासमात्रमवसायप्रतिहत- व्यापार वा प्रवृत्तिकामस्य प्रमातृविषयव्यवस्थामर्थे क्षमते गच्छंस्तृण- १० स्पर्शवत् । मरीचिकास्तदुदकारोपवञ्च । मरीचिकाविषयो हि प्रतिमास उदकगोचरावसायाक्रान्तव्यापारत्वान्न तत्त्वतस्तद्विषयः । नाऽप्यवसाय- मात्रमपेतप्रतिभासं तस्य ता तस्मिन्क्षमते । उदकारोपादेवारोपि- तोदकविषये ह्यवसायः प्रतिभाससहायसम्पत्सम्पर्कशून्यत्वात्परमार्थतो निर्विषय एव । अत्र च स्वलक्षणलक्षणो वाह्योऽर्थः शब्दादध्यवसीयत एव न प्रतिभासते । आन्तरस्तु बुद्धिप्रतिबिम्वापरनामा बुद्धयाकार- रूपोऽर्थः प्रतिभासत एव नाध्यवसीयते । ततोऽध्यवसायप्रतिभासरू- पोभयस्य व्यापकस्य निवृत्त्या विषयत्वस्य व्याप्यस्य तत्र निवृत्तिरिति तत्त्वतो नैव कश्चिदित्यस्य तात्पर्य पर्यवासित भवति । समग्रस्य चास्य वृत्तस्येदमर्थतत्त्वम् । कथमपोहः शब्दगम्यो भाववाचकेषु वाक्येष्विति २० प्रश्ने तद्गुणत्वेन यथोक्तार्थेनेत्युत्तरम् । यदा तु शब्दैः किं वाच्यमित्यनु- योगः । तदा किं प्रतिभासादथाऽध्यवसायाद्यद्वा तत्त्वत इति त्रिधा विकल्प्य विकल्पस्थ आन्तरोन्यापोहाकारो, बाह्यमन्यापोहस्वलक्षणं, न किंचिदिति, त्रीणि प्रतिवचनानि क्रमेण प्रतिपाद्यानीति । इत्थं नाऽर्थस्तात्त्विकः कोऽपि बाह्यः शब्दग्रामे दर्शयत्यात्मरूपम् । २५: प ७१४ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. ४ स. ११ अन्यापोहं संविहायाऽस्य तस्मात् नान्यद्वाच्यं किंचिदास्थेयमत्र ।। ५६८ ।। इति निगदितमेतद्धशिष्यैः समस्तं निजमतमथ जैनास्तन्निराकर्तुमत्र । स्वसमयगतयुक्तीः प्रौढमानानुविद्धाः सहृदयहृदयाना वल्लभाः कीर्तयन्ति ॥ ५६९ ॥ तथा हि-यत्तावदभिहित शब्दस्य हि बहिःपदार्थो गोचरः स्वलक्षण इत्यादि तत्र स्वलक्षणमेव शब्दस्य गोचर इति नः पक्षः। यत्पुनर्यः सङ्केतव्यवहारकालाननुगामीत्याद्यनुमानम् । तत्र हेतोरसिद्धिः । १० सामान्यविशेषवतोऽर्थस्य सङ्केतव्यवहारकालानुगामित्वेन प्रतीयमान- त्वात् । भवत्कल्पितस्य च स्वलक्षणस्य विषयविचारावसरे प्रपञ्चतः पराकरिष्यमाणत्वात् । एतेन यो यत्राकृतसङ्केतो न तमर्थ प्रतिपादय- तीत्यादावपि प्रयोगे हेतोरसिद्धिः प्रतिपादिता द्रष्टव्या । सामान्यविशे- पात्मनि स्वलक्षणे सङ्केतस्य करणात् । न चाऽत्राऽप्यानन्त्याद्वयक्तीनां १५ परस्पराननुगमाञ्च सङ्केतकरणानुपपत्तिः । समानपरिणामापेक्षया क्षयो- पशमविशेपाविर्भूतताख्यप्रमाणे व्यक्तीनां प्रतिभाससमानतया सङ्केत- विषयत्वसम्भवात् । कथमन्यथानुमानमपि प्रवर्तेत । तत्राऽप्यानन्त्यान- नुगमरूपतया साध्यसाधनव्यक्तीनां सम्बन्धग्रहणासम्भवात् । अन्य- व्यावृत्त्या तत्र सम्बन्धग्रहणमिति त्वविशदम् । तस्या एव सदृशपरि- २० णामान्यासम्भवेऽनुपपद्यमानत्वात् । न चासदंशेष्यप्यर्थेपु सामान्यवि- कल्पजनकेषु स्वदर्शनद्वारेण सदृशव्यवहारहेतुत्वमिति वाच्यम् । नीला- दिविशेषाणामप्येवमभावप्रसक्तेः । यथा हि परमार्थतोऽसदृशा अपि तथाविधविकल्पोत्पादकदर्शनहेतवः : सन्तः सदृशन्यवहारभाजो भावा- स्तथा स्वयमनीलादिस्वभावा अपि नीलादिविकल्पोत्पादकदर्शननिमि- २५ त्ततया नीलादिपु व्यवहारभाक्त्वं प्रतिपत्स्यते । ततः सदृशपरिणामा- भावेऽर्थानां सजातीयेतरव्यवस्थाया असम्भवात्कुतः कस्य व्यावृत्तिः ।
परि. ४ सू. ११] स्याद्वादरत्नाकरसहितः ७१५ एवं चाऽकृतसङ्केतत्वादित्येतस्य सुव्यक्तैवाऽसिद्धिः । ननु च शब्देनाऽर्थ- स्याऽभिधेयत्वे साक्षादेव ततोऽर्थप्रतिपत्तिसम्भवादिन्द्रियसंहतेर्वैयर्थ्याप- त्तिरिति चेत् । मैवं वादीः । शब्दादर्थस्याऽस्पष्टाकारतया प्रतिपत्तिः स्पष्टाकारतया तु तत्प्रतिपत्त्यर्थमिन्द्रियसंहतिरप्युपपद्यत एवेति तस्याः कथं वैयर्थ्यापत्तिः । स्पष्टास्पष्टाकारतया प्रतिभासभेदश्च सामग्रीमे- ५ दान्न विरुध्यते । दूरासन्नार्थोपनिवद्धेन्द्रियप्रतिभासवत् । यथैव हि दूरा- सन्नदेशादिसामग्रीविशेषमाहात्म्यान्महीरुहमहीधरादेरविभिन्नस्यापि वि- भिन्नप्रतिभासगोचरत्वं तथा शाब्दप्रत्यक्षसंवेदनयोरभिन्नगोचरत्वेऽपि शब्देन्द्रियादिसामग्रीभेदादस्पष्टेतरप्रतिभासभेदो न विरोधधुरामधिरोहति। अथासत्यप्यर्थेऽतीतानागतादौ शब्दस्य प्रवृत्ते ऽर्थाभिधायकत्वम् । १० तन्न साधीयः । अतीतानागतादेरिदानीमभावेऽपि स्वकाले भावात् । इतरथा प्रत्यक्षस्याऽप्यर्थविषयत्वबाधः स्यात् । तद्विपयस्यापि तत्काले भवद्दष्ट्या क्षणभङ्गुरत्वेनाऽभावात् । अविसंवादस्तु प्रमाणान्तरप्रवृत्तिल. क्षणः प्रत्यक्षवत्तत्राऽप्यनुभूयत एव । आसीद्वहिरिहेत्याद्यतीतविषये शाब्दे विशिष्टभस्मादिकार्यदर्शनोद्भतेनानुमानेन संवादोपलब्धेः । १५ कमलबन्धुकुमुबान्धवोपरागाद्यनागतार्थविषये तु प्रत्यक्षप्रमाणेनैव संवाददर्शनात् । कचिद्विसंवादात्सर्वत्र शाब्दस्याऽप्रमाणतायां पुनः प्रत्यक्षस्याऽपि क्वचिद्विसंवादात्सर्वत्राऽप्रमाणताप्रसक्तिः । एवं च स्वलक्षणगोचरताङ्गीकारे चेत्यादि प्रत्यादिष्टम् । किं चाऽन्यदेवेन्द्रिय- ग्राह्येम् ॥ ८ । २० .... .... १ एतदमे यावत्परिच्छेदसमाप्ति स्याद्वादरत्नाकरग्रन्थो नोपलभ्यते कुत्रापि पुस्त- केषु । अतो द्वादशसूत्रमारभ्य रत्नाकरावतारिकासहितः सूत्रग्रन्य. प्रदर्श्यते सूक्ष्मा- क्षरैः। एकादशसूत्रेऽन्तिमभागे योऽर्थ स द्वादशसूत्रस्थावतरणेन ज्ञातु शक्यः । ।
७१६ प्रमाणनयतत्त्वालोकालङ्कारः [परिः ४ सू. १२ - - . स्वाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धन शब्द इत्युक्तम् । अथ किमस्य शब्दस्य स्वाभाविक रूप, किंच परापेक्षमिति विवेचयन्ति- अर्थप्रकाशकत्वमस्य स्वाभाविक प्रदीपवद्यथायथार्थत्वे पुनः पुरुषगुणदोपावनुसरतः ॥ १२॥ अर्थप्रकाशकत्वम्, अर्थावबोधसामर्थ्यम् । अस्य शब्दस्य । स्वाभाविकं परान- पेक्षम् । प्रदीपवत् । यथा हि प्रदीपः प्रकाशमानः शुभमशुभं वा यथा समिहित भावमवभासयति, तथा शब्दोऽपि वक्त्रा प्रयुज्यमानः श्रुतिवर्तिनीमवतीर्णः सत्येऽ- नृते वा, समन्वितेऽसमन्विते वा,सफले निष्कले वा, सिद्धे साध्ये वा वस्तुनि प्रतिपत्ति- मुत्पादयतीति तावदेवास्य स्वाभाविक रूपम् । अय पुनः प्रदीपाच्छब्दस्य विशेषः, १० यदसौ सकेतव्युत्पत्तिमपेक्षमाणः पदार्थप्रतीतिमुपजनयति, प्रदीपस्तु तन्निरपेक्षः । यथार्थत्वाययार्थत्वे सत्यार्थत्वासत्यार्थत्वे पुनः प्रतिपादकनराधिकरणशुद्धत्वाशुद्धत्वे भनुसरतः । पुरुषगुणदोषापेक्षे इत्यर्थः । तथा हि-सम्यग्दर्शिनि शुचौ पुरुषे वतरि यथार्था शाब्दी प्रतीतिरन्यथा तु मिव्यायति । स्वाभाविके तु याथायें मिथ्या- थत्वे चाऽस्याः स्वीक्रियमाणे विप्रतारकेतरपुरुषप्रयुक्तवाक्येषु व्यभिचाराव्यभिचार- १५ नियमो न भवेत् । पुरुषस्य च करुणादयो गुणा द्वेषादयो दोषाः प्रतीता एव । तत्र यदि पुरुपगुणाना प्रामाण्यहेतुत्व नाभिमन्यते जैमिनीयैः, तर्हि दोषाणामप्यप्रा- माण्यानिमित्तता मा भूत् । दोषप्रशमनचरितार्था एव पुरुषगुणाः, प्रामाण्यहेतवस्तु न भवन्तीत्यत्र च कोशपानमेव शरणं श्रोत्रियाणामिति ॥ १२ ॥ इह ययैवान्तर्बहिर्वा भावराशिः स्वरुपमाविभर्ति, तथैव त शब्देन प्रकाशयतां २० प्रयोक्तॄणा प्रावीण्यमुपजायते । त च तथाभूत सप्तमझीसमनुगत एव शब्दः प्रतिपादयितु पटीयानित्याहुः-- सर्वत्राऽयं ध्वनिविधिप्रतिपेधाभ्यां स्वार्थमभिधानः सप्तभङ्गी- मनुगच्छति ।। १३ ।। सदसन्नित्यानित्यादिसकलैकान्तपक्षविलक्षणानेकान्तात्मके वस्तुनि विधिनिषेध- २५ विकल्या या प्रवर्तमानः शब्दः सप्तभट्टीमनीकुर्वाण एव प्रवर्तत इति भावः ॥१३॥ अथ सप्तभन्नीमेव स्वस्पतो निरूपयन्ति-- एकत्र वस्तुन्येकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्त- योश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कित. सप्तधा वाक्प्रयोगः सप्तमगी ॥१४॥ एकत्र जीवादी वस्तुन्येकैकसत्त्वादिधर्मविपयप्रश्नवशादविरोधेन प्रत्यक्षादि- वाधापरिहारेण पृथग्भूतयोः समुदितयोश्च विधिनिषेधयोः पर्यालोचना कृत्वा स्याच्छन्दलाञ्छितो वक्ष्यमाणैः सतभिः प्रकारैर्वचनविन्यासः सप्तभनी विज्ञेया ।
परि. ४ सू. १५] रत्नाकरावतारिकासहितः भज्यन्ने भिद्यन्तेऽर्था येस्ते भझा वचनप्रकारास्ततः सप्तभनाः समाहृताः सप्तमझीति कथ्यते । नानावस्त्वाश्रयावधिनिषेधकल्पनया शतभनीप्रसङ्गनिवर्तनार्थमेकत्र वस्तु- नीत्युपन्यस्तम् । एकत्राऽपि जीवादिवस्तुनि विधीयमाननिषिध्यमानानन्तधर्मपर्या- लोचनयाऽनन्तभङ्गीप्रसक्तिव्यावर्तनाथमकैकधर्मपर्यनुयोगवशादित्युपात्तम् । अनन्ते- वपि हि धर्मषु प्रतिधर्म पर्यनुयोगस्य सप्तधैव प्रवर्तमानत्वात् । तत्प्रतिवचन- ५ स्यापि सप्तविधत्वमेवोपपन्नमित्येकै कस्मिन्वमें एकैकैव सप्तभङ्गी साधीयसी । एव चाऽनन्तधर्मापेक्षया सप्तमगीनामानन्त्य यदायाति, तदभिमतमेव । एतच्चाऽग्रे सूत्रत एव निणेप्यते । प्रत्यक्षादिविरुद्धसदायेकान्तविधिप्रतिषेधकल्लनयाऽपि प्रवृ- त्तस्य वचनप्रयोगस्य सप्तमझोत्वानुषगभनार्थमविरोधेनेत्यभिहितम् । अवोचाम च- . या प्रश्नाद्विधिपर्युदासभिदया बाधच्युता सप्तधा धर्म धर्ममपेक्ष्य वाक्यरचनाऽनेकात्मके वस्तुनि । निदोंपा निरदेशि देव ! भवता सा सप्तमझो यया जल्पन जल्परणागे विजयते वादी विपक्ष क्षणात् ॥ १॥' इद च सप्तमगीलक्षण प्रमाणनयसप्तभङ्ग्योः साधारणमवधारणीयम् । विशेष. १५ लक्षण पुनरनयोरने वक्ष्यते ॥ १४ ॥ अथाऽस्या प्रथमभङ्गोलेख तावद्दर्शयन्ति- तद्यथा-स्यादस्त्येव सर्वमिति विधिविकल्पनया प्रथमो भङ्गः ॥१५॥ स्यादित्यव्ययमनेकान्तावद्योतक स्यात्कथञ्चित्स्वद्रव्यक्षेत्रकालभावरूपेणाऽस्त्येव सर्व कुम्मादि, न पुनः परद्रव्यक्षेत्रकालभावरूपेण । तथा हि-कुम्भो द्रव्यतः पार्थि- २० वत्वेनाऽस्ति, न जलादिरूपत्वेन, क्षेत्रतः पाटलिपुत्रकत्वेन, न कान्यकुब्जादित्वेन । कालतः शशिरत्वेन, न वासन्तिकादित्वेन, भावत. श्यामवेन, न रकत्वादिना । न्यथेतररूपापत्त्या स्वरूपहानिप्रसङ्ग इति । अवधारण चाऽत्र भनेऽनभिमतार्थ- व्यावृत्त्यर्थमुपात्तम् । इतरथाऽनभिहिततुल्यतैवाऽस्य वाक्यस्य प्रसज्येत, प्रतिनियत- वार्थानभिधानात् । २५ तदुकम्- वाक्येऽवधारण तावदनिष्टार्थनिवृत्तये । कर्तव्यमन्यथाऽनुक्तसमत्वात्तस्य कुत्रचित् " ॥१॥ तथाऽप्यस्त्येव कुम्भ इत्येतावन्मात्रोपादाने कुम्भस्य स्तम्भाद्यस्तित्वेनापि सर्वप्रकारेणाऽस्तित्वप्राप्त प्रतिनियतस्वरूपानुपपत्तिः स्यात्, तत्प्रतिपत्तये स्यादिति ३० प्रयुज्यते, स्यात्कथञ्चित्स्वद्रव्यादिभिरेवाऽयमस्ति, न परद्रव्यादिभिरपीत्यर्थः । यत्रापि चाऽसौ न प्रयुज्यते तत्रापि व्यवच्छेदफलैवकारवद् बुद्धिमद्भिःप्रतीयत एव ।
७१८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १५ ५ । यदुक्तम्- सोऽप्रयुक्तोऽपि वा तज्जैः सर्वत्राऽर्थात्प्रतीयते । यथैवकारो योगादिव्यवच्छेदप्रयोजनः " ॥१॥१५॥ अथ द्वितीयभोल्लेख ख्यापयन्ति- स्यान्नास्त्येव सर्वमिति निषेधकल्पनया द्वितीयः॥१६॥ स्वद्रव्यादिभिरिव परद्रव्यादिभिरपि वस्तुनोऽसत्त्वानिष्टौ हि प्रतिनियतस्वरू- पामावाद्वस्तुप्रतिनियमविरोधः । न चास्तित्वैकान्तवादिभिरत्र नास्तित्वमसिद्ध- मित्यभिवानीयम् । कथञ्चित्तस्य वस्तुनि युक्तिसिद्धत्वात्साधनवत् । न हि कचि- दनित्यत्वादौ साध्ये सत्त्वादिसाधनस्याऽस्तित्व विपक्षे नास्तित्वमन्तरेणोपपन्नम्, १० तस्य साधनाभासत्वप्रसङ्गात् । अथ यदेव नियतं साध्यसद्भावेऽस्तित्व तदेव साध्याभावे साधनस्य नास्तित्वमभिधीयते, तत्कथ प्रतिषेध्यम् ? स्वरूपस्य प्रति- पेषत्वानुपपत्ते., साध्यसद्भावे नास्तित्व तु यत्तत्प्रतिपेध्यम् , तेनाऽविनाभावित्वे साध्यसद्भावास्तित्वस्य व्याघातात्तेनैव स्वरूपेणाऽस्ति नास्ति चेति प्रतीत्यभावादिति चेत् । तदसत् । एव हेतोस्त्रिरूपत्वविरोधात् । विपक्षासत्त्वस्य तात्त्विकस्याभावात् । १५ यदि चाऽय भावाभावयोरेकत्वमाचक्षीत, तदा सर्वथा न क्वचित्प्रवर्तत । नापि कुतश्चिनिवर्तत । प्रवृत्तिनिवृत्तिविषयस्य भावस्याऽभावपरिहारेणासभवात् । अभा- वस्य च भावपरिहारेणेति वस्तुनोऽस्तित्वनास्तित्वयो रूपान्तरत्वमेष्टव्यम् । तथा चास्तित्व नास्तित्वेन प्रतिषेध्येनाविनाभावि सिद्धम् । यथा च प्रतिपेध्यमस्ति- स्वस्य नास्तित्वं प्रधानमावतः क्रमापितोभयत्वादिधर्मपञ्चकमपि वक्ष्यमाणं २० लक्षणीयम् ॥ १६॥ अथ तृतीय भामुल्लेखतो व्यक्तीकुर्वन्ति- स्यादस्त्येव स्यानास्त्येवति क्रमतो विधिनिषेधकल्पनया तृतीयः ॥१७॥ सर्वमिति पूर्वसूत्रादिहोत्तरत्र चाऽनुवर्तनीयम् । ततोऽयमर्थः । क्रमाप्तिस्वपर- २५ द्रव्यादिचतुष्टयापेक्षया क्रमाप्तिाभ्यामस्तित्वनास्तित्वाभ्यां विशेपितं सर्वं कुम्भादि वस्तु स्यादस्त्येव स्यानास्त्येवेत्युल्लेखेन वफव्यमिति ।। १७ ।। इदानीं चतुर्थभमोल्लेखमाविर्भावयन्ति-- स्यादवक्तव्यमेवेति युगपद्विधिनिषेधकल्पनया चतुर्थः ॥ १८ ॥ द्वाभ्यामस्तित्वनास्तित्वाख्यवर्माभ्यां युगपत्प्रधानतयाऽर्पिताभ्यामेकस्य वस्तुनो- ३० ऽभिधित्सायां तादृश्यस्य शब्दस्याऽसमवादवक्तव्य जीवादिवस्त्विति । तथा हि- यदसत्त्वगुणद्वय युगपदेकत्र सदित्यभिधानेन तद्वक्तुमशक्यम् । तस्याऽसत्त्वप्रतिपा- दनासमर्थत्वात् । तथैवाऽसदित्यभिधानेन न तद्वक्तु शक्यम् । तस्य सत्यप्रत्यायने परि. ४ सू. २३] रत्नाकरावतारिकासहितः ७१९ सामथ्र्याभावात् । साझोतकमेक पद तदभिधातु समर्थमित्यापि न सत्यम् । तस्यापि क्रमेणार्थद्वयप्रत्यायने सामोपपत्ते. । शतृगानचौ सदिति शतृशानचोः सझेति- तसच्छन्दवत् । द्वन्द्ववृत्तिपद तयोः सकृदभिधायफमित्यप्यनेनाऽास्तम् । सदसत्त्वे इत्यादि पदस्य क्रमेण धर्मद्वयप्रत्यायने समर्थत्वात् । कर्मधारयादिवृत्तिपदमपि न तयोरभिधायक तत एव वाक्य तयोरभिधायकमनेनैवाऽपास्तमिति सकलवाच- करहितत्वादवक्तव्य वस्तु युगपत्सदसत्त्वाभ्या प्रधानभावाप्तिाभ्यामाक्रान्त व्यवतिष्ठते । भय च भगः कश्चित्तृतीयभन्नस्थाने पठ्यते, तृतीयश्चैतस्य स्थाने । न चैवमति कश्चिद्दोप , अर्थविशेपस्याभावात् ॥ १८ ॥ अथ पञ्चमभोले खमुनदर्शयन्ति- स्यादस्त्येव स्याद्वक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेध- १० कल्पनया च पञ्चमः॥ १९ ॥ स्वद्रव्यादिचतुष्टयापेक्षयाऽस्तित्वे सत्यस्तित्वनास्तित्वाभ्यां सह वक्तुमशक्य सर्व वस्तु । ततः स्यादस्त्येव स्यादवक्तव्यमेवेत्येव पञ्चमभझेनोपदर्यत इति ॥ १९ ॥ अथ षष्ठभगोल्लेख प्रकटयन्ति- स्यान्नास्त्येव स्याद्वक्तव्यमेवेति निषेधकल्पनया युगपद्विधिनिषेध. १५ कल्पनया च षष्ठः ॥२०॥ परद्रव्यादिचतुष्टयापेक्षया नास्तित्वे सत्यस्तित्वनास्तित्वाभ्या योगपधेन प्रतिपादयितुमशक्य समस्त वस्तु । तत. स्थानास्त्येव स्यादवक्तव्यमेवेत्येव षष्ठ- भड्रेन प्रकाश्यते ॥ २०॥ सम्प्रति सप्तमभङ्गमुल्लिखन्ति- २० स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधिनिषेध- कल्पनया युगपद्विधिनिषेधकल्पनया च सप्तम इति ॥२१॥ इतिशब्दः सप्तभङ्गीसमाप्त्यर्थः । स्वपरद्रव्यादिचतुष्टयापेक्षयाऽस्तित्वनास्ति- त्वयोः सतोरस्तित्वनास्तित्वाभ्यां समसमयमभिधातुमशक्यमखिल वस्तु तत एवमनेन भनेनोपदयते ॥ २१ ॥ २५ अथास्यामेव सप्तमझ्यामेकान्तविकल्पानिराचिकीर्षवः सूत्राण्याहुः- विधिप्रधान एव ध्वनिरिति न साधु ॥२२॥ प्राधान्येन विधिमेव शब्दोऽभिधत्ते इति न युक्तम् ॥ २२ ॥ अन हेतुमाहुः- निषेधस्य तस्मादप्रतिपत्तिप्रसक्तेः ।। २३ ।। ३० तस्मादिति शब्दात् ॥ २३ ॥ - ७२० प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सु. २४ - १० आशान्तर निरस्यन्ति- अप्राधान्येनैव ध्वनिस्तमभिधत्त इत्यप्यसारम् ॥ २४ ॥ तमिति निपेधम् ॥ २४ ॥ भत्र हेतुमाचक्षते- ५ कचित्कदाचित्कथञ्चित्प्राधान्येनाऽप्रतिपन्नस्य तस्याऽप्राधान्यानुप- पत्तेः॥२५॥ न खलु मुख्यतः स्वरूपेणाप्रतिपन्न वस्तु क्वचिदप्रधानभावमनुभवतीति ॥२५॥ इत्थ प्रथमभ क्रान्त निरस्येदानी द्वितीयभ.कान्तनिरासमतिदिशन्ति- निषेधप्रधान एव शब्द इत्यपि प्रागुक्तन्यायादपास्तम् ॥ २६ ।। व्यक्तम् ।। २६ ॥ अथ तृतीयभड़कान्त पराकुर्वन्ति- क्रमादुभयप्रधान एवाऽयमित्यपि न साधीयः ।। २७ ।। भयमिति शब्दः ॥ २७ ॥ एतदुपपादयन्ति १५ अस्य विधिनिषेधान्यतरप्रधानत्वानुभवस्याऽप्यवाध्यमानत्वात् ।२८। प्रयमद्वितीयमजगतकैकप्रधानत्वप्रतीतेरप्यवाधितत्वान्न तृतीयभड़कान्ताभ्युपगमः श्रेयान् ॥ २८ ॥ अथ चतुर्थभ कान्तपराभवाय प्राहुः- युगपद्विधिनिषेधात्मनोऽर्थस्याऽवाचक एवाऽसाविति च न चतुरस्नम् ॥ १९॥ स्यादवक्तव्यमेवेति चतुर्धभड़कान्तो न श्रेयानित्यर्थः ॥ २९ ॥ कुत इत्याहु तस्याऽवक्तव्यशब्दनाऽप्यवाच्यत्वप्रसङ्गात् ॥ ३० ॥ अथ पञ्चमभद्रकान्तमपास्यन्ति- २५ विध्यात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगपदवाचक एव स इत्येकान्तोऽपि न कान्तः॥ ३१॥ अन्न निमित्तमाहुः- निषेधात्मनः सह द्वयात्मनश्चाऽर्थस्य वाचकत्वावाचकत्वाभ्यामपि शब्दस्य प्रतीयमानत्वात् ॥ ३२॥ ३० निषेधात्मनोऽर्थस्य वाचक्त्वेन सह, विधिनिषेधात्मनोऽथस्याऽवाचकत्वेन च शब्दः पठभन्ने प्रतीयते यतः, ततः पंचममाकान्तोऽपि न श्रेयान् ॥ ३२ ॥ २० -- परि. ४ स. ४१] रत्नाकरावतारिकासहितः ७२१ -- षष्ठमकान्तमपाकुर्वन्ति- निषेधात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगपदवाचक एवाऽय- मित्यप्यवधारणं न रमणीयम् ॥ ३३ ॥ अत्र हेतुमुपदर्शयन्ति- इतरथाऽपि संवेदनात् ॥ ३४॥ आद्यभङ्गादिषु विध्यादिप्रधानतयाऽपि शब्दस्य प्रतीयमानत्वादित्यर्थः ॥३४॥ अथ सप्तममकान्तमपाकुर्वन्ति- क्रमाक्रमाभ्यामुभयस्वभावस्य भावस्य वाचकश्वाऽवाचकश्च ध्वनि- र्नाऽन्यथेत्यपि मिथ्या ॥ ३५॥ अत्र बीजमाख्यान्ति- विधिमात्रादिप्रधानतयाऽपि तस्य प्रसिद्धः ॥ ३६॥ नन्वेकस्मिन् जीवादी वस्तुन्यनन्ताना विधीयमाननिषिध्यमानाना धर्माणा- मङ्गीकरणादनन्ता एव वचनमार्गाः स्याद्वादिना भवेयुः, वाच्येयत्ताऽऽयत्तत्वा. द्वाचकेयत्तायाः, ततो विरुद्धैव सप्तमङ्गीति ब्रुवाण निरस्यन्ति-- एकत्र वस्तुनि विधीयमाननिषिध्यमानानन्तधर्माभ्युपगमेनाऽनन्तभ- १५ ङ्गीप्रसङ्गादसङ्गतैव सप्तभङ्गीति न चेतसि निधेयम् ।। ३७ ।। अत्र हेतुमाहुः- विधिनिषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुन्यनन्तानामपि सप्तभङ्गी- नामेव संभवात् ॥ ३८ ॥ एफैकं पर्यायमाश्रित्य वस्तुनि विधिनिषेधविकल्पाभ्या व्यस्तसमस्ताभ्यां सप्तैव भगाः संभवन्ति, न पुनरनन्ताः । तत्कथमनन्तभङ्गीप्रसझादसातत्व सप्तमझ्याः समुद्भाव्यते ॥ ३८॥ कुत' सप्तैव भगाः सभवन्तीत्याहु:- प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव संभवात् ॥ ३९ ।। एतदपि कुन इत्याहु:-- तेषामपि सप्तत्वं सप्तविधतजिज्ञासानियमात् ॥ ४० ।। अथ सप्तविधतजिज्ञासानियमे निमित्तमाहुः- तस्या अपि सप्तविधत्वं सप्तधैव तत्सन्देहसमुत्पादात् ॥ ४१ ॥ तस्या अपीति प्रतिराद्यजिज्ञासायाः। तत्सदेहसमुत्पादादिति प्रतिपाद्यसशय- समुत्पत्तेः ॥ ४१ ॥ ३० - २५ - ७२२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. ४२ १० सदेहस्याऽपि सप्तधात्वे कारणमाहुः- तस्याऽपि सप्तप्रकारत्वनियमः स्वगोचरवस्तुधर्माणां सप्तविधत्वस्यै- वोपपत्तेः ।। ४२॥ तस्य प्रतिपाद्यगतसन्देहस्य । स्वगोचरवस्तुधर्माणो सन्देहविषयीकृतानामस्तित्वादि- ५ वस्तुपर्यायाणाम् ॥ ४२ ॥ इय सप्तभङ्गी कि सकलादेशस्वरूपा विकलादेशतरूपा वेत्यारेको पराकुर्वन्ति- इयं सप्तभनी प्रतिभङ्गं सकलादेशस्वभावा विकलादेशस्वभावा च ॥४३॥ एकैको भङ्गोऽस्याः सबन्धी सकलादेशस्वभावः विकलादेशस्वभावश्चैत्यर्थः॥४३॥ अथ सकलादेश लक्षयन्ति- प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्या- दभेदोपचाराद्वा यौगपद्येन प्रतिपादकं वचः सकलादेशः ॥४४॥ कालादिभिरष्टाभिः कृत्वा यदभेदवृत्तेधर्मधर्मिणोरपृथग्भावस्य प्राधान्य तस्मात्, फालादिभिर्भिन्नात्मनामपि धर्मधर्मिणामभेदाध्यारोपाद्वा समकालमभिधायक २५ वाक्य सकलादेशः प्रमाणवाक्यमित्यर्थः । अयमर्थः-योगपद्येनाऽशेषधात्मक वस्तु कालादिभिरभेदवृत्त्या, अभेदोपचारेण वा प्रतिपादयति सकलादेशः, तस्य प्रमाणाधीनत्वात् । विकलादेशस्तु क्रमेण भेदोपचारात्, भेदप्राधान्याद्वा तदभिधत्ते, तस्य नयायत्तत्वात् । कः पुनः क्रम ? किं वा यौगपद्यम् ? । यदाऽस्तित्वादि- धर्माणां कालादिभिभेदविवक्षा, तदैकस्य शब्दस्याऽनेकार्थप्रत्यायने शक्त्यभावा- २० रकमः; यदा तु तेपामेव धर्माणां कालादिभिरभेदेन वृत्तमात्मरूपमुच्यते, तदैकेनाऽपि शब्देनैकधर्मप्रत्यायनमुखेन तदात्मकतामापनस्याऽनेकाशेषरूपस्य वस्तुनः प्रतिपाद- नसभवाद्योगपयम् । के पुनः कालादयः ? । कालः, भात्मरूप, अर्थः, संवन्धः, उप- कारः, गुणिदेशः, ससर्गः, शब्दः, इत्यष्टौ । तत्र स्याज्जीवादि वस्त्वस्त्येवेत्यत्र यत्कालमस्तित्व तत्कालाः शेषानन्तधर्मा वस्तुन्येकत्रेति तेषां कालेनाभेदवृत्तिः १ । २५ यदेव चास्तित्वस्य तद्गुणत्वमात्मरूपम्, तदेव चान्यानन्तगुणानामपीत्यात्मरूपेणाऽ- भेदवृत्तिः २ । य एव चाधारोऽयों द्रव्याख्योऽस्तित्वस्य, स एवाऽन्यपर्यायाणामि- त्यर्यनाभेदवृत्तिः३। य एव चाऽविप्वग्मावः कयचित्तादात्म्यलक्षणः संबन्धोऽस्ति- त्वस्य, स एवाऽशेपविशेषाणामिति सबन्धेनाभेदयत्तिः ४ । य एव चोपकारोऽस्ति. त्वेन स्वानुर कत्वकरणम्, स एव शेपैरपि गुणैरित्युपकारेणाभेदवृत्तिः ५। य एव ३० गुणिनः सवन्धी देश:क्षेत्रलक्षणोऽस्तित्वस्य,स एवाऽन्यगुणानामिति गुणिदेशेनाs- मेदवृत्तिः ६ । य एव चैकवस्त्वात्मनाऽस्त्वित्वस्य ससर्गः, स एवाऽशेषधर्माणामिति ससर्गेणाऽभेदयत्तिः। ननु प्रागुकसंबन्धादस्य का प्रतिविशेषः? । उच्यते । मभेद- परि. ४ सू. ४७] रत्नाकरावतारिकासहितः ७२३ प्राधान्येन भेदगुणभावेन च प्रागुक्तः सबन्धः, भेदप्राधान्येनाऽभेदगुणभावेन चेष ससर्ग इति । य एवास्तीति शब्दोऽस्तित्वधर्मात्मकस्य वस्तुनो पाचकः, स एव शेषानन्तधर्मात्मकस्याऽपीति शब्देनाभेदवृत्तिः ८ । पर्यायार्थिक गुणभावे द्रव्या- र्थिकनयप्राधान्यादुपपद्यते । द्रव्यार्थिकगुणभावेन पर्यायार्थिकप्राधान्ये तु न गुणानामभेदवृत्तिः सभवति, समकालमेकत्र नानागुणानामसभवात्, सभवे वा तदाश्रयस्य तावद्वा भेदप्रसङ्गात् १ । नानागुणानां सबन्धिन आत्मरूपस्य च भिन्नत्वात्, आत्मरूपाभेदे तेषां भेदस्य विरोधात् २ । स्वाश्रयस्याऽर्थस्यापि नाना- त्वात्, अन्यथा नानागुणाश्रयत्वविरोधात् ३ । सबन्धस्य च सवन्धिभेदेन भेद- दर्शनात्, नानासबन्धिभिरेकत्रैकसबन्धाघटनात् ४ । ते. क्रियमाणस्योपकारस्य च प्रतिनियतरूपस्याऽनेकत्वात्, अनेकैरुपकारिभिः क्रियमाणस्योपकारस्यैकस्य विरो- १० धात् ५ । गुणिदेशस्य च प्रतिगुण भेदात्, तदभेदे भिन्नार्थगुणानामपि गुणिदेशा- भेदप्रसङ्गात् ६ । ससर्गस्य च प्रतिससर्गिभेदात्, तदभेदे संसर्गिभेदविरोधात् ७ । शब्दस्य च प्रतिविषय नानात्वात्, सर्वगुणानामेकशब्दवाच्यतायां सर्वार्थानामेक- शब्दवाच्यतापत्तेः शब्दान्तरवैफल्यापत्तेः तत्त्वतोऽस्तित्वादीनामे- कत्र वस्तुन्येवमभेदवृत्तेरसभवे कालादिभिर्भिन्नात्मनामभेदोपचारः क्रियते । तदे- १५ ताभ्यामभेदवृत्त्यभेदोपचाराभ्यां कृत्वा प्रमाणप्रतिपन्नानन्तधर्मात्मकस्य वस्तुनः समसमय यदभिधायक वाक्य स सकलादेशः प्रमाणवाक्यापरपर्याय इति स्थितम्। कालात्मरूपसबन्धाः ससगोपक्रिये तथा । गुणिदेशार्थशव्दाश्चेत्यष्टौ कालादय. स्मृताः" ॥ १ ॥ ४४ ।। अधुना नयवाक्यस्वभावत्वेन नयविचारावसरलक्षणीयस्वरूपमपि विकलादेश २० सकलादेशस्वरूपनिरूपणप्रसङ्गेनाऽत्रैव लक्षयन्ति-- तद्विपरीतस्तु विकलादेशः॥४५॥ नयविषयीकृतस्य वस्तुधर्मस्य भेदवृत्तिप्राधान्यानेदोपचाराद्वा क्रमेण यद- भिधायक वाक्यम् , स विकलादेशः । एतदुल्लेखस्तु नयस्वरूपानभिज्ञश्रोतॄणां दुरवगाह इति नयविचारावसर एव प्रदर्शयिष्यते ॥ ४५ ॥ प्रमाण निर्णयाथ यतः कारणात्प्रतिनियतमर्थमेतद्यवस्थापयति, तत्कथयन्ति- तत् द्विभेदमपि प्रमाणमात्मीयप्रतिबन्धकापगमविशेषस्वरूप- सामर्थ्यतः प्रतिनियतमर्थमवद्योतयति ॥४६॥ प्रत्यक्षपरोक्षरूपतया द्विप्रकारमपि प्रागुपवर्णितस्वरूपं प्रमाण स्वकीयज्ञानावर- णाद्यदृष्टविशेषक्षयक्षयोपशमलक्षण योग्यतावशात्प्रतिनियत नीलादिकमर्थ व्यव- ३० स्थापयति ॥ ४६॥ एतद्यवच्छेद्यमाचक्षते- - - 4 ७२४ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ स. ४७ +- । न तदुत्पत्तितदाकारताभ्यां, तयोः पार्थक्येन सामस्त्येन च व्याभि- चारोपलम्भात् ॥ ४७॥ तथा हि-शानस्य तदु-पत्तितदाकारताभ्या व्यस्ता यो समस्ताभ्यां वा प्रति- नियतार्थव्यवस्थापकत्व स्यात् । यदि प्राच्यः पक्षः, तदा कपालक्षणः कलशा- ५ न्त्यक्षणस्य व्यवस्थापक: स्यात्, तदुत्पत्तेः केवलायाः सद्भावात् । स्तम्मः स्तम्मान्तरस्य च व्यवस्थापकः स्यात् , तदाकारतायास्तदुत्पत्तिरहिसायाः सभ- वात् । अथ द्वितीयः, तदा फलशस्योत्तरक्षणः पूर्वक्षणस्य व्यवस्थापको भवेत्, समुदितयोस्तदुत्पत्तितदाकारतयोर्विद्यमानत्वात् । अथ विद्यमानयोरप्यनयोनि- मेवार्थस्य व्यवस्थापकम, नाऽर्थः, तस्य जडत्वादिति मतम् । तदपि न न्यायानु- १० गतम् , समानार्थसमनन्तरप्रत्ययोत्पन्नज्ञानर्व्यभिचारात् । तानि हि यथोक्तार्थव्यव- स्थापकत्वलक्षणस्य समग्रस्य सद्भावेऽपि प्राच्य जनकज्ञानक्षण न गृहन्ति । भपि च किमिदमाकारत्व वेदनाना ? यद्शात्प्रतिनियतार्थपरिच्छेदः स्यात् । किम- कारोल्लेखित्वम् , मर्याकारधारित्व वा । प्रथमप्रकारे, अर्थाकारोल्लेखोऽर्याकारप- रिच्छेद एव, ततश्च ज्ञान प्रतिनियतार्थपरिच्छेदात्प्रतिनियतमर्थमवद्योतयतीति १५ साध्याविशिष्टत्व स्पष्टमुपढौकते । द्वितीयप्रकारे पुनराकारधारित्व ज्ञानस्य सर्वात्मना देशेन वा । प्रथमपक्षे, जडत्वादर्थस्य ज्ञानमपि जड भवेत्, उत्तरार्थ- क्षगवत् । प्रमाणरूपत्वाभावश्चोत्तरार्थक्षणवदेवाऽस्य प्रसज्येत, सर्वात्मना प्रमेय- रूपतानुकरणात् । अथ देशेन नीलत्वादिनाऽर्थाकारधारित्वमिष्यते ज्ञानस्य, तर्हि तेनाऽजढाकारेण जडताप्रतिपत्तेरसभवात्कय तद्विशिष्टत्वमर्थस्य प्रतीयेत? । २० न हि रूपज्ञानेनाऽप्रतिपन्नरसेन तद्विशिष्टता सहकारफलादौ प्रतीयते । किंच देशेनाकारधारित्वानीलार्थवनिःशेषार्थानामपि ज्ञानेन ग्रहणापत्ति', सत्वादि- मात्रेण तस्य सर्वत्राकारचारित्वाविरोपात् । भय तदविशेपेऽपि नीलाधाकार- वैलक्षण्यानिखिलायानामग्रहणम् , तर्हि समानाकाराणां समस्ताना ग्रहणपातिः । भय यत एव जानमुत्पद्यते, तस्यैवाऽकारानुकरणद्वारेण नाहकम् , हन्त ! एवमपि २५ समानार्थममनन्तरप्रत्ययस्य तद्ग्राहकं स्यादित्युक्तम् । ततो न तदुत्पत्तितदाकार- ताभ्या ज्ञानस्य प्रतिनियतार्थावभासः । किंतु प्रतिबन्धकापगमविशेपादिति सिद्धम् ।। ४७॥ इति प्रमाणनयतत्त्वालोकालङ्कारे श्रीरत्नप्रभाचार्यविरचितायां रत्नाकरावतारिकाख्यलघुटीकायामागमस्वरूपनिर्णयो नाम चतुर्थः परिच्छेदः ॥४॥ ३० . -- शुद्धिपत्रकम् । पं अशुद्धं मुपाद्य शुद्धं मुपपाध किंकृत च्छिन्नः किकृत पृ. ४९१ ४९२ ४९४ ३ ३ भेदी हसः १२ ते सटा सम्भव त्येवरूपा प्यु वों श्रावण हेतुत्व ४९८ ५०० ५०० ५११ ५१९ ५१९ ५१९ ५२१ रसात्, तीति । षड्भ ५२५ ५२७ ५२८ ५३३ १८ | पतौ छिन्नः भेदीहसः सट संम्भव त्येव रूपा प्ययु वों श्रवण हेतुत्वा तीति नेका सिसा सूत्रानु छन्दः न गम णया क्षेत् निषेध निर्देशः साख्य उत्पादे वनच न्तिक प्रत्प वचसो घम घान त्मक दिति । न शो अतिः में अशुद्ध शुद्धं पृ. पं. स्वण्ड खण्ड ५८१ १३ द्भवि गमि ५८४ २ १४ साड्व शाह ५९७ २ २० कृत्तिका कृत्तिकाः ५९८३,१८ २४ ती न्ती ३ न्ते ५९८ ११ २१ विशिष्ट काल विशिष्टकाल ५९८ १७. २ चर ५९९ १६ १३ | जन्मरूप जन्म रूप ६०१ २० नैष्टै नष्टै ६०१ २५ रसात्। ६०९ ९ १० षड्म ३ १२ व्य. ६१० १४ १ पत्य प्रत्य ૬૧૧ पत्तो ६१३ २७ । रेषः रेषा ६१६ १२ २४ यते येते ६१७ २ त्वस्य । त्वस्य ६२३ १० १७ न्त्या स न्यास ४ | णदि णादि १३ | योप्या योऽप्य ६३७ २२ २४ दिक दिका ६३८ १ २ निराक ६४४ १२ ९ मुत ६५१ २ १७ पव पत्र ६५१ १६ २ पता प्लुता ६५५ १४ ९ स्यो स्यो स्त्रयामि ६५६ २३ स्त्रयोऽभि २४ कलिकाल काले काले ६५८ ६ युज्य ६५९ १९ ध्वनि नि ६६० १४ २३ | धर्भ पद्य पद्यत नैका सिषा सूत्रानु छन्दः च गम र्णया क्षेत निषेध- निदेश्यः साख्य उत्पाद वचन न्तैक प्रत्य १ ५४३ ५४५ ५५० निर क ५५२ ५५२ ५५३ ५५८ ५६५ ५६८ ५६८ च सो } ६ धर्म घन त्मके दिति नाशो श्रुतिः यु ज्य ५७२ ५७९ धर्म و 3.
अशुद्धं २ दत्तो शुद्ध पृ. सिष्ट यु शिष्ठयु वके वर्म नो गोव्द ६७४ ६७४ पं. अशुद्धं २६ / रार्थ ११ लम्भ २३ वक्त्रे वमनो गोशब्द ६७५ मा रुता नित्य त्व काश्चि ३ २ रार्थ लम्म मारुता वृ नित्यत्व काश्चि पद्गृ. पं. ६७६ २६ ६७९ ६८५ ૬૮૬ ६८६ ९ ६८६ १३ ३ ६ पद्गु
No text on this page.