Banasthali University
Kavya Mala (part Xi.)
Front matter
No text on this page.
KÂVYAMÂLÂ.
A collection of old and rare Sanskrit Kavyas,
Natakas, Champús, Bhánas, Prahasanas,
Chhandas, Alankâras &c.
PART XI.
EDITED BY
PANDIT SUVALITT:
KAS'İNATH PANDURANG PAR.11.
PRINTED AND PUBLISHED
TUKARAJ JAVAJİ,
I'Rormeror or Jiri Dânsuis Ving.13,8 milist.
BOMBA).
IS03.
Price I Arjun's
( Registered according to act XXV of 1867.) ( All rights reserved by the publisher.)
॥ श्रीः॥ काव्यमाला। नाम नानाविधप्राचीनकाव्यनाटकचम्पूभाणप्रहसन- च्छन्दोलंकारादिसाहित्यग्रन्थानां संग्रहः । एकादशो गुच्छकः । जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसाददारक- केदारनाथकृपाङ्गीकृतशोधनकर्मणा शिवदत्तशर्मणा, मुम्बापुरवासिपरवोपासपाण्डुरङ्गात्मजकाशीनाथ- शर्मणा च संशोधितः । सच मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्रातरैरयित्वा प्राकाश्यं नीतः । १८९५ (अस प्रधान पुनर्मुद्रणा दिविपचे नवथा निपंचसागर मुद्रारातालाधिान. रेवाधिकारः।) मूल्यमेको रूप्यकः ।
अनुक्रमणिका। पृष्ठ्य । M ३२ ६५ १. श्रीदुर्वासोविरचितं त्रिपुरमहिमस्तोत्रम्, नित्यानन्द- विरचितया व्याख्यया समन्वितम् २. खड्गशतकम्, सटीकम् ३. श्रीदक्षिणामूर्तिविरचिता लोकोक्तिमुक्तावली ४. श्रीनीलकण्ठदीक्षितप्रणीत आनन्दसागरस्तवः ५. श्रीलोलिम्बराजकृतं हरिविलासम् । ६. गोस्वामिश्रीयुतजनार्दनभट्टप्रणीतं शृङ्गारशतकम् ७. दैवतश्रीसूर्यकविविरचितं रामकृष्णविलोमकाव्यम् । स्वकृतटीकया समेतम् ७ .... ९४ ....१३३ ....१४७ काव्यमाला। श्रीदुर्वासोविरचितं त्रिपुरामहिमस्तोत्रम् । नित्यानन्दविरचितया व्याख्यया समन्वितम् । श्रीश्रीविद्यानन्दनाथायुिग्मं स्मृत्वा स्वान्तध्वान्तभानुप्रभावम् । सर्वोत्कृष्टं क्रोधभट्टारकोक्तं स्तोत्रं श्रीमत्सुन्दरीश्रीमहिम्नः ।। पूर्व कैश्चियाकृतं नेति भीतो गूढार्यत्वादल्पबुद्धिस्तथापि । शिष्टैरिष्टैरीरितोऽहं गुरुतया नित्यानन्दः सादरं व्याकरोमि ॥ न शब्दशास्त्रव्युत्पत्तिर्न न्यायनिपुणा मतिः । कैवलं गुरुपादाजस्मृतिरत्र गतिप्रदा ।। त्रैलोक्यवन्धं गिरिजाभिनन्द्यं विज्ञानगम्यं वरदं वरेण्यम् । विभौधभङ्गाय च कार्यसिद्ध्यै विश्वेश्वरं विश्वगुरुं नमामि ।। कुलारविन्दादकुलारविन्दं गत्वामृतौधैरनुषिच्यमानाम् । रसारविन्दानि निजारविन्दे पुनः प्रयान्ती प्रभजे परेशीम् ॥ इह खलु, सकलागमाचार्यचक्रवर्ती साक्षाच्छिव एवानसूयागर्भसंभूतः क्रोधभधारका- ख्यदुर्वासा महामुनिः श्रीमहात्रिपुरसुन्दर्याः सानुभावं महिन्नःस्तोत्रं चिकीर्षुरादौ कूटत्रय- देवताभावनारूपं मङ्गलमाचरति- श्रीमातस्त्रिपुरे परात्परतरे देवि त्रिलोकीमहा- सौन्दर्यार्णवमन्थनोद्भवसुधाप्राचुर्यवर्णोज्ज्वलम् । उद्यद्भानुसहस्त्रनूतनजपापुष्पप्रभं ते वपुः स्वान्ते मे स्फुरतु त्रिलोकनिलयं ज्योतिर्मयं वाङ्मयम् ॥ १ ॥ १. अयं च दुर्वासा अत्रिमुनेरनसूयागर्भ संजातो दत्तात्रेयसहोदरः पुराणप्रसिद्ध एवेति टीकाकृत. अनेन च कृतेषु ग्रन्थेष्वस्मदुपलब्धा ग्रंन्यास्त्वेत-श्रीत्रिपुरामहिमस्तोत्रम्, मानसपूजनार्याद्विशती, कल्पसूत्रं च. २. अस्य ग्रन्थस्य क-संज्ञकपुस्तकं चातुर्वैदिकगौ- डरामचन्द्रतनूजनाथूलालशर्मभिः, ख-संज्ञकपुस्तकं जयपुरराजगुरुश्रीलक्ष्मीदत्ततनजश्री- दत्तशर्मभिर्दत्तमिति तैरतीवोपकृताः स्मः. ३. "त्रिकोणनिलयं ख. - الم काव्यमाला। - हे श्रीमातः, ते वपु, स्वान्ते स्फुरतु । कथंभूतं वपुः । उद्यद्भानुसहस्रनूतनजपापुष्पप्र- भम् । पुनः कीदृशम् । त्रिलोकीमहासौन्दर्यार्णवमन्थनोद्भवसुधाप्राचुर्यवर्णोज्ज्वलम्, त्रिलो. कनिलयम्, ज्योतिर्मयम्, वाङ्मयं चेत्यन्वयः । हे श्रीमातर्हे श्रीजननि । हे त्रिपुरे त्रितयमा.. त्ररूपे । परात्परतरे सूक्ष्मात्सूक्ष्मे । देवि दिव्यक्रीडारसपरे । त्रिलोकीमहासौन्दर्यार्णवम- न्थनोद्भवसुधाप्राचुर्यवर्णोज्ज्वलम् त्रिलोकी त्रयाणां लोकानां समाहारस्तस्या महासौ. न्दर्यमेवार्णवस्तन्मन्थनोद्भवायाः सुधायाः प्राचुर्यस्य यो वर्णोऽत्युज्ज्वलत्वं तद्वत्, इत्यनेन वाग्भवकूटदेवताभावना प्रतिपादिता । उद्यद्भानुसहस्रनूतनजपापुष्पप्रभम् उद्यद्भानवो बालार्कास्तेषां सहस्राणि नूतनजपापुष्पाणि च अनुदितसूर्यकालीनो जपापुष्पाणि च तेषां प्रभेव प्रभा यस्य, इत्यनेन कामराजकूटदेवताभावना प्रतिपादिता । ते श्रीमहात्रिपुरसु- न्दर्याः । वपुः स्वरूपम् । स्वान्ते हृदये । मे उपासकस्य । स्फुरतु भावनागोचरं भवतु । त्रिलोकनिलयम् त्रिलोकं नितरां लीयते यस्मिन्, यच्छायायां मन्नं भवति । अथवा त्रिलो- कस्य निलयमुत्पत्तिस्थानं कामकलारूपम् । वामकेश्वरतन्त्रादौ कामकलाक्षरादेव सृष्टया- देरुक्तत्वात् । एतद्विवरणं कामराजकूटप्रभाववर्णने षष्ठश्लोके वक्ष्यति च । ज्योतिर्मयं ज्योतींषि सूर्याग्निसोमादीनि तन्मयम् । वाङ्मयं परापश्यन्तीमध्यमावैखरीरूपम् । तृतीयकूटस्य सौभाग्यप्रदत्वाज्ज्योतिर्मयत्वं सारस्वतत्वाद्वाङ्मयत्वं च ज्योतिषः सामयजुः- शुक्लभास्वरत्वात् । अनेन तृतीयकूटभावना प्रतिपादिता । एवं महात्रिपुरसुन्दरीरूपस्य त्रिविधभावनयावश्यं सौभाग्यं वाक्प्रदत्वं प्रतिपादितम् । अतः परं विद्योद्धारपक्षे व्याख्या- नम् । तत्र श्री श्रीबीजम्, मा माया बीजम्, अतोऽतः परं त्रिपुरा त्रिबीजवती । बाला- द्वयं तु संप्रदायबलात् , अन्तर्मुखैरेव ज्ञेयम् । ई प्रणवः । एतद्विवरणमष्टमश्लोकव्याख्याने स्फुटीभविष्यति । परात् मायाबीजात्परतरा लक्ष्मी श्रीबीजं देवीति संबुद्धिः । त्रिलोकी त्रिकूटा तस्यास्त्रितयमात्ररूपतया कूटत्रयेण लोकत्रयव्यापकता प्रसिद्धैव सौन्दर्यपदेन बालायास्तृतीयं कूटमुङ्कितम् । अर्णवोद्भवसुधाप्राचुर्यवर्णोज्ज्वलमिति पदेन बालाया वाग्भवं सूचितं तस्यामृतमयत्वेन वाक्प्रदत्वात् । उद्यदादिपदेन बालायाः कामकूटत्वं संभावितं तस्य सिन्दूरवर्णत्वेन वश्यप्रदत्वात् । ते वपुरित्यनेन मायाबीजं स्वान्ते स्वस्या विद्याया अन्ते मे इत्यत्र माशब्देन श्रीबीजम् . ईशब्दः कामकलावाचकः । एवंरूपं महा. विद्याश्रीषोडशाक्षरीस्वरूपं साधकस्य हृदये स्फुरत्विति । इदं सर्वथैव गोप्यमपि मया सांकेतिकशब्दैः शिष्टानां साधकानां परितोषार्थ प्रकटीकृतम् ।। इदानी मूलाधारचक्रस्थितां सकलविद्यामन्त्रचक्रकारणभूतां मूलाधारादिचक्रविभेदेन क्रमेण सहस्रदलकमलकर्णिकान्तर्महामध्यत्रिकोणसिंहासननिविष्टां चिद्रूपिणी प्रस्तौति- आदिक्षान्तसमस्तवर्णसुमणिप्रोते वितानप्रभे ब्रह्मादिप्रतिमाभिकीलितषडाधाराजकक्षोन्नते । ब्रह्माण्डाजमहासने जननि ते मूर्ति भजे चिन्मयीं सौषुम्णायतपीतपङ्कजमहामध्यत्रिकोणस्थिताम् ॥२॥ --
त्रिपुरामहिमस्तोत्रम् ।
३
हे जननि, सौषुम्णायतपीतपङ्कजमहामध्यत्रिकोणस्थितां ते मूर्ति ब्रह्माण्डाजमहासने-
ऽहं भजे इत्यन्वयः । आदिक्षान्तसमस्तवर्णसुमणिप्रोते आदयोऽकारादयः, क्षान्ताः
क्षकारान्ताः समस्ताः पञ्चाशद्वर्णाः स्वरव्यञ्जनात्मकास्त एव सुमणयो मुक्ताफलप्रायास्ते
प्रोता गुम्फिता यस्मिन् । वितानप्रभे वितानवत्प्रभा शोभा यस्य, अत्युज्ज्वलत्वादतिवि-
स्ततत्वाच्च । ब्रह्मादिप्रतिमाभिकीलितषडाधाराब्जकक्षोनते ब्रह्मादिप्रतिमाभिरभिकीलिता
मण्डिताः षडाधाराणां घोडशदलद्विदलान्त'.... कक्षाः कर्णिकारूपमध्यप्रदेशास्तत्रोनते ।
ब्रह्माण्डाजमहासने ब्रह्माण्डं ब्रह्मरन्ध्रस्थानं तत्रानं नाम सहस्रदलं कमलं तत्र महासनं
तदन्तर्गतकणिकामध्यवर्ति महात्रिकोणं तदेव महासनं तस्मिन् । मूर्ति कुण्डलिनीरूपां
चिन्मयी ज्ञानात्मिकां सौषुम्णायतपीतपङ्कजमहामध्यत्रिकोणस्थितां सौपुम्णं सुषुम्णासंबन्धि
आयतं विस्तृत पीतं हरिद्राभं पङ्कजं कमलं तस्मिन्महामध्यं कर्णिकास्थानं तत्र त्रिको.
णमकथादिवर्णमयत्रिरेखं तत्र स्थितां तत्रत्यबिन्दुरुपस्वयंभूलिङ्ग परिवेष्टय सार्धत्रिवलयेन
भुजगीमिव सुप्तामिति । समस्तवर्णसुमणिप्रोत इति कोऽर्थः-ब्रह्माण्डाजमहासनं नाम
सहस्रदलं कमलं तस्य नालरूपा सुषुम्णानाडी मूलाधारचतुर्दलकमलान्तर्गतं त्रिकोण
कन्दरूपं षडाधारकमलपत्रेषु ते पञ्चाशद्वर्णाः स्थलवर्णकारणभूता देहे प्राणप्रवेशावधि प्रा-
णनिर्गमनकालपर्यन्तं सर्वदैव मणिवत्कीलितप्रायास्तिष्ठन्तीत्यर्थः । सांप्रदायिकैर्यदान्तर्मा-
लया जपः क्रियते तदा सुषुम्णां सूत्रस्थाने परिभाव्यैकपश्चाशन्मारकावर्णान्मणीन्विभाव्य
मूलाधारादिब्रह्मरन्ध्रपर्यन्तमकारादि क्षकारान्तं मनसा प्रजप्य पुनः क्षकारमारभ्य ब्रह्म-
रन्ध्रान्मूलाधारपर्यन्तं च प्रजप्य शतसंख्या समाप्यते, [ते]न विद्या वीर्यवती भवतीति ।
इदं परमरहस्यं गुह्याद्गुह्यं शिष्टानां साधकानां परितोषार्थमत्र लिखितं गुरुभिः क्षन्त-
व्यम् । यथाश्रुतोऽर्थस्तु मुनीनां योगीश्वराणां संभवत्येव । यदा योगाग्निना परिप्लुटानना
कुण्डलिनी शक्तिर्मूलाधारादधोगतत्रिकोणादुत्थाय पढाधारभेदेन क्रमेण सुघुम्णारन्ध्रद्वारा
सहस्रदलकमलं प्राप्य परिभ्रमति तदा तदन्तर्गतचिच्चन्द्रमण्डलस्रावितामृतबिन्दुरूप-
माटकाक्षराणि सुषुम्णाख्यब्रह्मसूत्रद्वारा तत्तदाधारगततत्तद्देवताभिषेकपूर्वकमूलाधारत्रि-
कोणपर्यन्तं निरन्तरं परिगलन्ती तस्मिन्काले सहस्रदलकमलरूपवितानमध्यगतसुषुम्णा-
ब्रह्मसूत्रे मुक्तामणिप्रोतस्रग्रूपता भातीति । षडाधारवर्णनं तत्तचक्रे चित्तनिवेशनफलं
चोक्तं नागभट्टैः-अथाधारपद्धेहाण्यत्र वक्ष्ये सुषुम्णान्तरस्थानि संक्षेपतोऽहम्' इत्यादि,
'पुनरुत्थापनमप्ययोमृतस्य' इत्यन्तं त्रिपुरासारे पञ्चमपटलस्यादितो द्रष्टव्यमिति ॥
अतः परं सकलशब्दजालप्रकाशार्कसंकेतसारविद्यादिभूतं केवलं द्वादशस्वररूपं वाग्भव-
मभिवन्दनपूर्वकं प्रस्तौति-~-
वन्दे वाग्भवमैन्दवात्मसदृशं वेदादिविद्यागिरो
भाषा देशसमुद्भवाः पशुगताश्छन्दांसि सप्त स्वरान् ।
तालान्पञ्च महाध्वनीन्प्रकटयत्यात्मप्रसारेण य-
तही पदवाक्यमानजनक श्रीमातृके ते परम् ॥ ३॥
४ काव्यमाला। - हे श्रीमाटके, ते तद्वाग्भवं बीजमहं वन्दे। कथंभूतम् । ऐन्दवात्मसदृशम् । पुनः कथं- भूतं तत् । यदात्मप्रसारणेदं सर्व शब्दजालं प्रकटयति । पुनः कीदृशम् । पदवाक्यमान- जनकम् । इत्यन्वयः । वन्दे अभिवादयामि । वाग्भवमृग्यजुःसान्नामाद्यक्षरत्रयसमुदाय- रूपम् । ऐन्दवात्मसदृशम् इन्दोरिदमैन्दवं चन्द्रमण्डलं तस्यात्मा अमृतं तत्सदृशम् , वा. ग्भवस्याप्यमृतप्रायाक्षरस्रावित्वात् । वेदादिविद्यागिरो वेदस्मृतिशास्त्रपुराणागमादीनां श- ब्दपारावाररूपाः । भाषाः संस्कृतप्राकृतपैशाचिकाः । देशसमुद्भवास्तत्तद्देशगतमनुष्याणां कवित्वव्यवहारक्षमाः । पशुगताः पशुपक्षिव्यवहारयोग्याः । छन्दांसि अनुष्टुवादीनि । सप्त स्वरान् निषादादीन् । तालान् ध्रुवाद्यान् । पञ्च महाध्वनीन् भेर्यादीन् । प्रकटयति व्यक्तीकरोति । आत्मप्रप्तारेण आत्मनोऽमृतस्य प्रसारः प्रस्रवणं तेन । यत् यस्मात् । सर्व शब्दजालं प्रसरति । तत् तस्मात् । बीजं बीजप्रायम् । पदवाक्यमानजनकं पदमक्षरसमु- दायरूपम्, वाक्यं पदसमुदायरूपम्, मानानि प्रत्यक्षानुमानोपमानशब्दादीनि, तेषां जनक प्रादुर्भावकारकम् । श्रीमाटके सकलशब्दजालमातृभूते । पञ्चाशद्वर्णरूपायाः परमुत्कृष्टम् ॥ पूर्व संकेतसारविद्यादिम वाग्भवं प्रणम्येदानी चतुर्विधपाण्डित्यमहाकाव्यरचनसाम- यप्रदं बालाविद्यादिम वाग्भवं प्रस्तौति- त्रैलोक्यस्फुटमन्त्रतन्त्रमहिमां नाप्नोति शश्वद्विना यबीजं व्यवहारजालमखिलं नास्त्येव मातस्तव । तज्जाप्यस्मरणप्रेसक्तिसुमतिः सर्वज्ञतां प्राप्य कः शब्दब्रह्मनिवासभूतवदनो नेन्द्रादिभिः स्पर्धते ॥ ४ ॥ हे मातः, तव तद्वाग्भवबीजं विना कोऽपि त्रैलोक्यस्फुटमन्त्रतन्त्रमहिमां शश्वनाप्नोति । किंच तव तद्वीजं विना लोकेष्वखिलं व्यवहारजालं नास्त्येव । अन्यच्च तज्जाप्यस्मरण- प्रसक्तिसुमतिः सन् सर्वज्ञतां प्राप्येन्द्रादिभिः सह को न स्पर्धते । अपि तु स्पर्धत्ये(त ए)वेत्यन्वयः । त्रैलोक्यस्फुटमत्रतन्त्रमहिमां त्रैलोक्ये स्वर्गमृत्युपातालेषु स्फुटा:(टां) सुरासुरमनुष्यमनोरञ्जनयोग्याः(ग्यां) मन्त्राणामुपदिष्टानुपदिष्टानाम्, तत्राणां पठितानाम् , महिमां सामर्थ्यम् । मन्त्राणां सामर्थ्य शापानुग्रहादिकम् । तन्त्रसामर्थ्य व्याख्यातृत्वम् । नाप्नोति कश्चिदपि नावगच्छतीत्यर्थः । शश्वनिरन्तरम् । तद्बीजं विना वाग्भवबीजसाधन- मन्तरेण । व्यवहारजालं तूत्थानोपवेशनदानोपादानक्रयविक्रयशुद्धाशुद्धाद्यपारम् । अखिलं सां.. सारिकपारमार्थिकम् । (तद्वीजं विना) । नास्त्येव न संभवत्येव । एवकारोऽत्रान्ययोग- व्यवच्छेदार्थकः । मातर्जननि, तव वागीश्वर्याः । तनाप्यस्मरणप्रसक्तिसुमतिस्तस्य वाग्भ- वस्य जाप्यं विध्युक्तप्रकारेण स्मरणं यदा तदा शयनोपवेशनभ्रमणकालेऽपि मानसिकमेव तत्र प्रसक्तिस्तत्परता तया सुमतिः सर्वशास्त्राभिनिविष्टः । सर्वज्ञतां वागीश्वरताम् । V - १. 'प्रसक्त' ख. २. 'सेन्द्रा' ख.
५ - त्रिपुरामहिमस्तोत्रम् । प्राप्य लब्ध्वा । कः यःकश्चित् । शब्दब्रह्मनिवासभूतवदनः शब्दब्रह्म सकलपाणिगतचेत- न्यभूता चिच्छक्तिः । तस्या निवासभूतं मन्दिरप्रायं वदनं यस्य । नकारोऽत्राप्रसक्तिनिरा- सकः । इन्द्रादिभिः सुरेशमुख्यैः सह स्पर्धते ईर्ष्या कर्तु क्षमते । 'अकारो वै सर्ववाक्' इति श्रुतेः ।। पूर्वस्मिश्लोक संपूर्ण वाग्भवं स्तुत्वेदानी वाग्भवकूटोपरितनमात्रां कुण्डलिनी प्रस्तौति- मात्रा यात्र विराजतेऽतिविशदा तामष्टधा मातृका शक्ति कुण्डलिनी चतुर्विधतर्नु यस्तत्वविन्मन्यते । सोऽविद्याखिलजन्मकर्मदुरितारण्यं प्रबोधाग्निना भस्सीकृत्य विकल्पजालमखिलं मातः पदं तद्रजेत् ॥ ५ ॥ हे मातर, अत्र या मात्रा विराजते तां कुण्डलिनी शक्तिमष्टविधमातृकां च यो मन्यते, स तत्पदं व्रजेदित्यन्वयः । मात्रा या सामवेदाद्यक्षररूपा बीजाकुरप्राया विश्वप्रपञ्चस्य मा. तभूता । अत्र वाग्भवे । विराजते विद्योतते । अतिविशदा विस्पष्टा । तां मात्राम् अ- सुधा वशिन्यादिवर्गाष्टकरूपेण । मातृकामेकपञ्चाशद्वर्णमयीम् । शक्ति सृष्टिस्थितिसंहति- कर्मसमर्थाम् । कुण्डलिनी सर्वप्राणि मूलाधारवासिनीम् । चतुर्विधतनुमग्निसूर्यसोमसमष्टि. रूपेण, अग्निकुण्डलिनी मूलाधारे, सूर्यकुण्डलिनी हृदये, सोमकुण्डलिनी भ्रूमध्ये, समष्टि- कुण्डलिनी मूलाधाराधोगतवाग्भवाकारत्रिकोणे । यः सांप्रदायिकः । तत्त्वविद् आराध्य. मुखादवगाशेषपरमार्थः । मन्यते जानाति । भावयतीति यावत् । स एवं मननपरायणः । अविद्याखिलजन्मकर्मदुरितारण्यम् अविद्या सांसारिकी बुद्धिः, अखिलजन्मानि भावी- नि द्विपदचतुष्पदोरगादीनि, अखिलकर्माणि संचितारब्धानि, अखिलदुरितानि ज्ञाता- ज्ञातकृतानि, तेषामरण्यं भयानकत्वात् । प्रबोधामिना विज्ञानानलेन भस्मीकृत्य निर्द- रध्वा(ह्य) । विकल्पजालं कल्पनानानावासनाः । अखिलं सांसारिकपारमार्थिकम् । मातर्जननि । पदं स्थानम् । तदनिर्वचनीयम् । सर्व संमतम् । उक्तं च नागभट्टै:--'ए. तस्याः परतः परात् परतरं निर्वाणशक्तेः पदं शैवं शाश्वतमप्रमेयमचलं नित्योदितं निर्म- लम् । तद्विष्णोः पदमित्युशन्ति सुधियः केचित्पदं ब्रह्मणः केचिद्धंसपदं निरञ्जनपदं केचि- निरालम्बनम् ॥' इति । व्रजेत् प्राप्नुयात् ॥ इदानी संकेतसारविद्याया द्वितीयाक्षरं कामबीजत्वेन प्रस्तौति- तत्ते मध्यमबीजमम्ब कलयाम्यादित्यवर्ण क्रिया- ज्ञानेच्छादिमनन्तशक्तिविभवव्यक्तिं व्यनक्ति स्फुटम् । उत्पत्तिस्थितिकल्पकल्पिततनु स्वात्मप्रसारेण य- काम्यं ब्रह्महरीश्वरादिविबुधैः कामं क्रियायोजितैः ॥ ६ ॥ १. 'यत्ते' ख.
काव्यमाला। . हे अम्ब, तत्ते मध्यमत्रीजमादित्यवर्ण क्रियाज्ञानेच्छादिमुत्पत्तिस्थितिकल्पकल्पिततनु ब्रह्महरीश्वरादिविबुधैः काम्यं चाहं कलयामि । कथंभूतं तत् । यत्स्फुटमनन्तशक्तिविभ- वव्यक्ति व्यनक्तीत्यन्वयः । तत् तस्मात् । ते संकेतसारायाः । मध्यमबीजं केवलेकार- रूपम् । अम्ब जननि, कलयामि जानामि । आदित्यवर्ण बालार्कनिभम् । क्रियाज्ञाने- च्छादिम् इच्छाशक्तिज्ञानशक्तिक्रियाशक्तीनां निदानभूतम् । एतासां कामकलाबिन्दुत्रया- विर्भूतत्वात् । अनन्तशक्तिविभवव्यक्तिम् अनन्तानां शक्तीनां विभवः सामर्थ्य तस्य व्य- क्तिमा॑नम् । व्यनक्ति प्रकटीकरोति । स्फुटं प्रत्यक्षतया । उत्पत्तिस्थितिकल्पकल्पिततनु उत्पत्तिः सृष्टिः, स्थितिः पालनम्, कल्पः संहारः, तेषु कल्पिताः प्रादुर्भाविता वामाज्ये- छारौद्रीप्रधानानि ब्रह्मविष्णुरुद्राणां तनवो येन । स्वात्मप्रसारण स्वस्य कामकलाक्षरस्य, आत्मा धामनयरूपं बिन्दुत्रयम् , तस्य प्रसारः स्फुरणम् । इदमुपलक्षणम् --कामकलाक्ष- रस्य त्रितयमात्रकारणत्वेन इच्छा ज्ञानक्रिया वामाज्येष्ठारौद्रीप्रधाना ब्रह्मविष्णुरुद्राः सूर्य- सोमामयः अकारोकारमकाराः । लोकत्रयं पीठत्रयं लिङ्गनयं कालत्रयं वेदत्रयं वह्नित्रयं स्वरत्रयं च सर्वमुत्पन्नमित्यष्टादशश्लोके वक्ष्यति । यत् यस्मात्कारणात् । काम्यमुपास्यम् । ब्रह्महरीश्वरादिविबुधैः आदिशब्देन इन्द्रचन्द्रकुबेरसूर्याः । अन्यैश्च । कामं निश्चितम् । क्रियायोजितैः क्रियाः सृष्टिस्थितिसंहतिरूपाः, तासु योजितैनियमितैः । एतद्विवरणं वा- मकेश्वरतन्त्रे विस्तरेणोक्तम् । मयात्र ग्रन्थगौरवभयान लिख्यते । अथवा कलयामि क. कारलकारयुक्तं करोमि । तेन बालाया मध्यमबीजं कामराजाख्यं भवति ॥ अत एव तत्कामराजबीजसामर्थ्यवर्णनपुरःसरं तमेव प्रणमति- कामान्कारणतां गतानगणितान्कार्यैरनेकैर्मही- मुख्यैः सर्वमनोगतानधिगतान्मानैरनेकैः स्फुटम् । कामक्रोधसुलोभमोहमदमात्सर्यारिषट्कं च य- बीजं भ्राजयति प्रणौमि तदहं ते साधु कामेश्वरि ॥ ७ ॥ हे कामेश्वरि, तव तद्वीजमहं प्रणौमि । तत् किंभूतम् । यत् कारणतां गतान् का- मान् महीमुख्यैः कार्यैः सहाधिगतान्कामान्मानैः सह कामाद्य रिषट्कं च भ्राजयतीत्यन्वयः। कामान् ब्रह्मादिकानां सामर्थ्यरूपान् । कारणतां गतान् तत्तत्कार्यानुकूलान् । अगणिता- नसंख्यातान् । कार्मनोगतैः । अनेकैर्नानाविधैः । महीमुख्यैः पृथिव्यादिकैः । सर्वमनो- गतान्सर्वप्राणिचित्तस्थान् । अधिगताज्ञातान् । मानैः प्रत्यक्षादिभिः । अनेकैर्वेदशास्त्रपु- राणोक्तैः । स्फुटं प्रव्यक्तम् । कामक्रोधसुलोभमोहमदमात्सर्या रिषट्कं ज्ञानिनामावरकत्वा- दरित्वमेतेषाम् । सांसारिकाणां स्थितिकारित्वम् । चकारः समुच्चये । यत्ककारलकारसहितं बीजं कामकूटम् । भ्राजयति पोषयति । प्रणौमि प्रकर्षेण नमस्करोमि. । अहं स्तोत्रकर्ता ते वालाविद्यायाः । साधु सर्वोत्कृष्टम् । कामेश्वरि कामकूटाधिदेवते ।। १. 'राजति संप्रणौमि तदहं ते कामराजाभिधम्' ख. - त्रिपुरामहिमस्तोत्रम् । . . इदानी सिंहावलोकनन्यायेन पुनरपि संकेतसारविद्यायाः कामकलारूपमध्यमवीजस्या- खिलकामपूरकत्वेन विशिष्टज्ञानप्रकाशकत्वं प्रणवत्वं च प्रतिपादयति- यद्भक्ताखिलकामपूरणचणस्वात्मप्रभावं महा- जाड्यध्वान्तनिवारणैकतरणिज्योतिःप्रबोधप्रदम् । यद्वेदेषु च गीयते श्रुतिमुखं मात्रात्रयेणोमिति श्रीविद्ये तव सर्वराजवशकृत्तत्कामराजं भजे ॥ ८ ॥ हे श्रीविद्ये, तव तत्कामराजमहं भजे । (तत् तस्मात् ) यद्यस्मात् भक्ताखिलकामपूर- णचणस्वात्मप्रभावम् । कथंभूतम् । जाड्यध्वान्तनिवारणैकतरणिज्योतिः । पुनः कथंभू- तम् । प्रबोधप्रदम् । यद्वेदेषु मात्रात्रयेण 'ओम्' इति गीयते । अत एव श्रुतिमुखम् । पुनः कथंभूतम् । सर्वराजवशकृदित्यन्वयः । यत् यस्मात् । कामराजं द्वितीयम् । भक्ता- खिलकामपूरणचणस्वात्मप्रभाव भक्तानामुपासकानाम्, अखिलाः सर्वे, कामा मनोरथाः, तेषां पूरणं संपादनम्, तत्र चणो दक्षः, स्वात्मप्रभावः स्वस्य कामकलाबीजस्य आत्मा विन्दु- त्रयम्, तस्य प्रभावः प्रसारः पूर्वोक्तवामा दिब्रह्मादिदेवतात्रयं विद्यते यस्मिन् । महाजाच्य- ध्वान्तनिवारणैकतरगिज्योतिः महाजाध्यमज्ञानम्, तदेव ध्वान्तमन्धकारः, तस्य निवारणं विनाशनम्, तत्रैक्रमद्वितीयम्, तरणिज्योतिरिव तरणिःसूर्यः, तस्य ज्योतिःप्रकाशस्तद्वत् । प्रबोधप्रदं प्रकर्षण बोधस्तत्त्वज्ञानं प्रददति प्रकर्षेण निश्चयेनोत्पादयतीति । यत् यस्मात् । तुरीयस्वरूपम् । वेदेषु वेदाध्ययनारम्भसमयेषु । चकारः समुच्चये । गीयते उच्चार्यते । श्रुतिमुखं वेदादिभूतम् । मात्रात्रयेण अकारोकारमकाराक्षरत्रयेण । ओमिति । श्रीविद्ये संकेतसारे । तव व्यक्षाः । सर्वराजवशकृत् । सर्वे जीवाः राजानश्च, वशं करोति । तत् पूर्वोक्तम् । कामराजं कामराजसंज्ञम् । भजे सेवे। मात्रात्रयेणेति कोऽर्थः-कामकलाक्षरस्य बिन्दुत्रयात्मकत्वेन बिन्दुत्रयस्य सूर्यसोमाग्नित्वेन सोमासूर्याग्नीनामकारोकारमकारात्मता सर्वात्रागमेषु दृष्टेत्येतत्सर्व त्रिकात्मकं कामकलाक्षरे विश्रान्तमिति प्रणवेनापि कामकला. क्षरमेव गीयत इति तात्पर्यम् ॥ अतः परं संकेतसारविद्यायास्तृतीयवीजस्योद्धारं कामकलासाम्यतां ब्रह्मात्मकतां चि. द्रूपतां च प्रतिपादयति- यत्ते देवि तृतीयवीजमनलज्वालावलीसंनिभं सर्वाधारतुरीयंवीजमपरं ब्रह्माभिधाशब्दितम् । मूर्धन्यान्तविसर्गभूपितमहौकारात्मकं तत्परं संविद्रूपमनन्यतुल्यमहिम स्वान्ते मम द्योतताम् ॥ ९ ॥ १. 'पूर्णचरण ख. २. 'शक्तिपरमब्रह्माभिधं शब्दितम' ख.३. 'महोकारा' ख. ४. 'सचिद्रूप' ख. ।
र काव्यमाला। . AAP- - हे देवि, तत्ते तृतीयं बीजं मम स्वान्ते द्योततामित्यन्वयः । यत् वक्ष्यमाणरूपम् । ते तव । देवि प्राग्वत् । तृतीयं तार्तीयम् । बीजं बीजाक्षरम् । अनलज्वालावलीसंनिभम् अनलस्य वढेः, ज्वालाः शिखाः, तासामावली श्रेणी, तस्या निभेव प्रभा विद्यते यस्मिन् । सर्वाधारतुरीयबीजं सर्वस्य विश्वस्याधारभूतं त्रिकोणरूपं तेनैकाराक्षरं तस्य तुरीयमौकारः कारणम् । अपरं द्वितीयम् । ब्रह्माभिधाशब्दितं ब्रह्मेतिनाना संकेतितम् । मूर्धन्यान्तवि- सर्गभूषितमहौकारात्मकम् मूर्धन्यं बिन्दुरन्ते मस्तके यस्य विसर्गभूषितं विसर्गेण बिन्दुभ्यां भूषितं युक्तं अत एव महौकारात्मकं महत्त्वं तस्य बिन्दुत्रयसहितत्वात् । तत् पूर्वोक्तम् । परमुत्कृष्टम् । परोख्यमिति यावत् । संविद्रूपं ज्ञानात्मकम् । अनन्यतुल्यमहिम अतुलन- भावम् । स्वान्ते हृदये । मम तवाराधकस्य । द्योतता भासताम् ॥ इदानी बालायास्तृतीयं बीजं पराशक्तिरूपेण नमस्करोति- सर्व सर्वत एव सर्गसमये कार्येन्द्रियाण्यन्तरा तत्तद्दिव्यहृषीककर्मभिरियं संव्यश्चवाना परा । वागर्थव्यवहारकारणतनः शक्तिगद्यापिनी यद्वीजात्मकतां गता तव शिवे तन्नौमि बीजं परम् ॥ १० ॥ हे शिवे, इयं परा शक्तिस्तव यद्वीजात्मकतां गता तत्परं बीजमहं नौमि । किं कुर्वा- णा। सर्गसमये सर्वतः सर्वे संव्यनुवाना । अन्तरा अनन्तरं तत्तद्दिव्यहृषीककर्मभिः सह कार्येन्द्रियाणि च संव्यश्वाना । इत्यन्वयः । सर्व वस्तुजातम् । सर्वतः सर्वस्मात् । ए- वकारोऽवान्योन्याश्रयव्यवच्छेदकः । सर्गसमये सर्गादौ । कार्येन्द्रियाणि कर्मेन्द्रियाणि, ज्ञानेन्द्रियाणि च । अन्तरा तदनन्तरम् । तत्तद्दिव्यहृषीककर्मभिः । सह इति शेषः । त- त्तत् तेषां तेषां दिव्यहृषीककर्मभिः शब्दादिभिर्वचनादिभिश्च सह संव्यश्नुवाना संसृज्य- माना । परा परमोत्कृष्टा । वागर्थव्यवहारकारणतनुः वाचामर्थानां च यो व्यवहारः प्र: वृत्तिः, तत्र कारणं तनुर्यस्याः । शक्तिः प्राग्वत् । जगद्व्यापिनी कार्यकारणकर्तृत्वज्ञेयज्ञान- ज्ञातत्ववाच्यवचनवक्तृत्वादित्रितयमात्ररूपेण । यद्वीजात्मकतां सकारौकारबिन्दुत्रय- समुदायरूपेण । गता प्राप्ता । तब बालात्रिपुराविद्यायाः । शिवे कल्याणरूपे । तत् परा. बीजम् । नौमि नमस्करोमि । बीजं प्राग्वत् । परं परासंज्ञम् । एतदुक्तं भवति-इयं परा शक्तिः सर्गसमये विन्दत्रयरूपकामकलाक्षरादाविर्भूय सर्वप्राणिसर्ववस्तुजीवजातकद- म्बात्सर्वं यथा यथा समुत्पाद्य पश्चात्तत्तद्देवताधिष्ठितज्ञानकर्मेन्द्रियाण्युपस्थाप्य शब्दशब्दा- र्थसष्टिनिदानरूपा सा पराबीजरूपतां प्राप्नोति तत्पराबीजं सर्वोत्कृष्टमिति ॥ पुनरपि परावीजस्मरणेन परदेवतासाक्षात्कारो भवतीति दर्शयति- अग्नीन्दुधुमणिप्रभञ्जनधरानीरान्तरस्थायिनी शक्तिब्रह्महरीशवासवमुखामासुरात्मस्थिता । १. 'सर्वतयैव' ख. -- ९ - त्रिपुरामहिमस्तोत्रम् । सृष्टस्थावरजङ्गमस्थितमहाचैतन्यरूपा च या यद्वीजस्मरणेन सैव भवती प्रादुर्भवत्यम्बिके ॥ ११ ॥ हे अम्बिके, सैव भवती यद्वीजस्मरणेन प्रादुर्भवति तत्परं बीजं नौमीति पूर्वश्लोकस्थे- नान्वयः । सैव का । यामीन्दुामणिप्रभञ्जनधरानीरान्तरस्थायिनी अग्निर्दुताशनः, इ- न्दुश्चन्द्रः, घुमणिः सूर्यः, प्रभञ्जनो वायुः, धरा पृथ्वी, नीरं जलम्, आन्तरमाकाशम् , एतेषु स्थितिशीला । उक्तं चाभियुक्तैः-'वं चन्द्रिका शशिनि तिग्मरुचौ रुचिस्त्वं त्वं चेतनासि पुरुषे यवने बलं त्वम् । त्वं स्वादुतासि सलिले शुचिनि त्वममा निःसारमेत- दखिलं त्वदृते यदि स्यात् ॥' इति । शक्तिः पूर्वोक्ता । ब्रह्महरीशवासवमुखामासुरात्म- स्थिता ब्रह्मा स्रष्टा, हरिविष्णुः, ईशः शिवः, वासव इन्द्रः, तन्मुखास्तदाद्या अमा देवाः, असुरा दैत्याः, तेपामात्मस्थिता आत्मनि सामर्थ्यरूपेण वर्तमाना । सृष्टस्थावरजङ्ग- मस्थितमहाचैतन्यरूपा सृष्टेषु स्थावरेषु जङ्गमेघु स्थितं वर्तमान महाचैतन्यं जीवनमूलं तदेव रूपं यस्याः । च समुच्चये । या परा शक्तिः । यद्दीजस्मरणेन परावीजचिन्तनेन । सैव या पराबीजता प्राप्ता । भवती त्वमेव । प्रादुर्भवति प्रत्यक्षा भवसि । अम्बिके प्रति- पालिके इति ॥ पुनरपि तदेव त्रिकात्मकं पराबीजं श्रीप्रदं वाक्सिद्धिप्रदं मोक्षप्रदं चेति प्रतिपादयति- खात्मश्रीविजिताजविष्णुमघवश्रीपूरणैकवतं यद्विद्याकवितावितानलहरीकैल्लोलिनीदीपकम् । बीजं यत्रिगुणप्रवृत्तिजनकं ब्रह्मेति यद्योगिनः शान्ताः सत्यमुपासते तदिह ते चित्ते दधे श्रीपरे ॥ १२ ॥ हे श्रीपरे, ते तद्वीजमहमिह चित्ते दधे । तत्कथंभूतम् । उक्तरूपम्' ॥ स्वात्मश्रीविजिताजविष्णुमघवधीपूरणैकवतं स्वात्मश्रीः स्वस्थात्मा सकारो- कारविन्दुत्रयं तस्य श्रीविभूतिः । सामर्थ्य मिति यावत् । तया विजितानामजविष्णुमघोनां श्रीपूरणे संपत्तिसंपादने एक व्रतं यस्य । यत् पराबीजमेव । विद्याकवितावितानलहरी- कहोलिनीदीपकम् विद्याश्च कविताश्च विद्याकविताः, विद्याकविता एव वितानं तत्र ल. हर्य इव लहर्यः, तासु कल्लोलिनीव कल्लोलिनी तां दीपयति प्रकाशयतीति । वीजं परावी- जम् । यदुक्तरूपम् । त्रिगुणप्रवृत्तिजनकं त्रिगुणानां सत्त्वरजस्तमोगुणानां प्रवृत्ति प्रचार जनयत्युत्पादयतीति । ब्रह्मेति । मोक्षप्रदमिति । यद्वीजम् । योगिनो योगनिरताः । सत्यं शाश्वतम् । शान्ताः साधवः । उपासते निदिध्यासनयोगेन । तीजम् । इह जन्मनि । ते परायाः । चित्ते हृदये । दधे भावयामि । श्रीपरे श्रिया वैभवेन परा सर्वोत्कृष्टेति ।। पूर्व 'वन्दे वाग्भवम्-' इत्यादि 'स्वात्मश्री-' इत्येतैर्दशभिः श्लोकः संकेतसारबाला- १. 'सृष्टिः' ख. २. 'कल्लोलदीपाकुरम्' ख. - २ १० काव्यमाला। विद्यावीजत्रयस्य क्रमेण सामर्थ्य प्रतिपाद्येदानी विद्याद्वयस्यान्यतरसंयुक्तबीजाराधनेन यथेष्टफलप्राप्तिं प्रतिपादयति- एकैकं तव मातृके परतरं संयोगि वायोगि वा विद्यादिप्रकटप्रभावजनकं जाड्यान्धकारापहम् । यन्निष्ठाश्च महोत्पलासनमहाविष्णुप्रहळदयो देवाः स्वेषु विधिप्वनन्यमहिमस्फूर्ति दधत्येव तत् ॥ १३ ॥ हे मातके, एकैकं तव बीजं संयोगि वायोगि वा विद्यादिप्रकटप्रभावजनकं जाड्या- न्धकारापहं च भवति । परतरं यनिष्ठा महोत्पलासनमहाविष्णुप्रहादयो देवाः स्वेषु विधिषु अनन्यमहिमस्फूर्ति दधत्येवेत्यन्वयः ॥ एकैकमन्यतमविद्यायाः। तव त्र्यक्षः । मारके स्वरव्यानरूपे । परतरमुत्कृष्टादुत्कृष्टम् । संयोगि व्यञ्जनयुतम् । वा विकल्पे । अयोगि वा व्यञ्जनरहितं वा । विद्यादिप्रकटप्रभावजनकं विद्याश्चतुर्दशविद्याः, आदिश- व्देन यस्य यदिष्टम् , तेषां प्रकटप्रभावः अलौकिको विस्तारः, तस्य जनकमुत्पादकम् । जाड्यान्धकारापहं जाड्यमज्ञानम् , त(देवान्धकारम् उत)दपहन्ति नाशयति तत् । य. निष्ठा यदक्षरस्मरणतत्पराः । च समुच्चये । महोत्पलासनो ब्रह्मा । महाविष्णुर्विश्वपालकः, प्रहर्ता ईश्वरः, आदिशब्देनेन्द्रादयः, देवाः दिवि क्रीडातत्पराः । स्वेषु स्वस्वकर्तव्येषु वि. धिषु साङ्गोपाङ्गेषु अनन्यमहिमस्फूर्ति अनन्यत्वं इतरानपेक्षत्वम् , महिमत्वं लोकोत्तरत्वम्, स्फूर्तिस्तत्तत्कार्यातिशायिनी तां प्राप्नुवन्त्येव । एवकारोऽत्र निश्चयाधायकः। तत्तस्मात् ।। अतः परं पूर्वोक्तविद्याद्वयगतबीजत्रयं महाविद्याकूटत्रयं च यो,जानाति, तस्य सामर्थ्य प्रतिपादयति- इत्थं त्रीण्यपि मूलवाग्भवमहाश्रीकामराजस्फुर- च्छक्त्याख्यानि चतुःश्रुतिप्रकटितान्युत्कृष्टकूटानि ते । भूतर्तुश्रुतिसंख्यवर्णविदितान्यारक्तकान्ते शिवे यो जानाति स एव सर्वजगतां सृष्टिस्थितिध्वंसकृत् ॥ १४ ॥ हे आरक्तकान्ते, हे शिवे, इत्थं त्रीणि बीजानि मूलवाग्भवमहाश्रीकामराजस्फुरच्छ- क्त्याख्यानि त्रीण्यप्युत्कृष्टकूटानि यो जानाति स एव सर्वजगतां सृष्टिस्थितिध्वंसकृद्भवति । कथंभूतानि । भूत श्रुतिसंख्यवर्णविदितानीत्यन्वयः ॥ इत्थं पूर्वोक्तप्रकारेण । त्रीणि संके. तसारबालाविद्यायाः । अपिः समुच्चये । मूलवाग्भवमहाश्रीकामराजस्फुरच्छक्त्याख्यानि मूलस्य महाविद्यायाः वाग्भवं प्रथमकूट महाश्रीकामराजं महाविद्यायाः श्रीप्रदं सौन्दर्य- प्रदं कामराजकूटम् । महत्त्वमेतस्य पूर्वोक्तसंकेतसंकेतसारवालाविद्याकामंकूटापेक्षया । स्फुरच्छक्त्याख्यं स्फुरन्ती चमत्कारकारिणी शक्तिर्यस्य । एतदभिधेयानि च तानि । १. ध्वनन्त' ख. २. 'भूभर्तुः' ख.
त्रिपुरामहिमस्तोत्रम् । ११ - चतुःश्रुतिप्रकटितानि चतुर्वेदेषु प्रोक्तानि अथर्ववेदे सौभाग्यकाण्डे-'कामो योनिः कमला वज्रपाणिर्गुहाह सा मातरिश्वाभ्रमिन्द्रः । पुनर्गुहा सकला मायया च पुरुच्येषा विश्वमातादिविद्या ॥' इति । ऋग्वेदे-'इन्द्रो मायाभिः पुरुरूप ईयते' इत्यादिभिः प्र- काशितानि । उत्कृष्टकूटानि उत्कृष्टानि अतुलसामर्थ्यवन्तीति, कूटानि वर्णसमुदायल्पाणि । भूत श्रुतिसंख्यवर्णावदितानि पञ्चषट्चतुरक्षरातानि । आरक्ता बालार्कतुल्या कान्ति- यस्याः । शिवे कल्याणरूपे । य उपासकः । जानाति सत्संप्रदायाचार्यमुखादवगच्छति । स एव साभिषेकलव्धविद्य एव । सर्वजगतां स्थावरजङ्गमानाम् । सृष्टिस्थितिध्वंसकृत् सृष्टिरुत्पत्तिः, स्थितिः पालनम् , ध्वंसो नाशः, एतत्कार्य कर्तुं समर्थः स्यादिति ।। ननु श्रीविद्याकूटनयज्ञानमात्रेण यदि प्रोक्तसिद्धिः स्यात्, तदा सदाशिवोक्तनित्योपासनो- पदेशो व्यर्थ एव स्यादित्याशङ्कयोपासकानां साङ्गोपाङ्गनित्योपास्तिकर्तत्वं प्रतिपादयति- नित्यं यस्तव मातृकाक्षरसखी सौभाग्यविद्यां जपे- संपूज्याखिलचक्रराजनिलयां सायंतनाग्निप्रभाम् । कामाख्यं शिवनामतत्त्वमुभयं व्याप्यात्मना सर्वतो दीव्यन्तीमिह तस्य सिद्धिरचिरात्स्यात्त्वत्स्वरूपैकता ॥ १५ ॥ हे सौभाग्यविद्येश्वरि, यस्तव सौभाग्यविद्यां मातकाक्षरसखी संपाद्य जपेत् तस्य इहाचिरात्सिद्धिः स्यात् । परत्र त्वत्स्वरूपैकता स्यात् । किं कृत्वा । अखिलचक्रराजनि- लयां संपूज्य । कथंभूताम् । सांयतनामिप्रभाम् । पुनः कीदृशीम् । आत्मना कामाख्यं शिवनामतत्त्वं चोभयं व्याप्य सर्वतो दीव्यन्तीमित्यन्वयः ॥ नित्यं प्रतिदिनम् । यः सा- धकः । तव त्रिपुरसुन्दर्याः । मातृकाक्षरसखीं मातृकाक्षरसहायिनीम् , द्वितीयश्लोकव्या- ख्याने प्रोक्ताक्षमालाविधानसहिताम् । सौभाग्यविद्यां श्रीविद्याम् । जपेत् वाचिकोपांशु- मानसेष्वन्यतमप्रकारेण । अक्षरमालया जपस्तु मानसः । एतदुक्तं वायवीयसंहितायाम्- 'धिया मन्त्राक्षरश्रेणी वर्णस्वरपदात्मिकाम् । उच्चरेदर्थसंस्मृत्या स उक्तो मानसो जपः ॥' इति । संपूज्य समाराध्य । अखिलचक्रराजनिलयाम् अखिलं संपूर्ण चक्रराजः श्रीचक्र निलयः स्थानं यस्याः । एतावता सर्वावरणसहितां संपूज्येत्यर्थः । सायंतनाग्निप्रभा सायं- संध्योत्थप्रज्वलितवैश्वानरदीप्तिमतीम् । कामाख्यं कामेश्वराभिधम् । शिवनामतत्त्वं शि- वानां ब्रह्मविष्णुरुद्रेश्वरसदाशिवाख्यानां समुदायरूपं सिंहासनम् । उभयं द्वयमपि आ- त्मना व्याप्य स्वदेहावयवैराच्छाद्य । सर्वतश्चतुर्दिक्षु । दीव्यन्ती प्रकाशमानाम् । इह भू. तले । तस्य साधकस्य । सिद्धिर्मनोवाञ्छिता । अचिरात्स्वल्पकालेन । स्यात् भवति । त्वत्स्वरूपैकता तव मूर्तिसायुज्यम् ॥ नन्वितराः सर्वाः सिद्धयो मदाराधनेनैव संभवन्ति, परंतु केवलं महाकवित्वेप्सूना- मल्पविद्यानां मूर्खाणां काव्यव्याकरणाभिधानाभ्यास विना कथं सिद्धिः स्यादित्याशङ्काया- माह- - १२ काव्यमाला॥ काव्यैः पापठितैः किंमल्पविदुषां जोधुष्यमाणैः पुनः कि तैयाकरणैविक्रेधिततया किं वाभिधानश्रिया । एतैरम्ब न बोभवीति सुकविस्तावत्तव श्रीमतो- र्यावन्नानुसरीसरीति सरणि पादाब्जयोः पावनीम् ॥ १६ ॥ हे अम्ब, यावत्ते पादाब्जयोः सरणी नानुसरीसरीति तावदल्पविदुषां पापठितैः काव्यैः किम् । जोघुष्यमाणैर्व्याकरणैः पुनः किम् । विबोधिततया वाभिधानश्रिया किम् । (किम्) एतैः सुकविन भवति । कथंभूतयोः पादाब्जयोः । श्रीमतोः । कथंभूतां सरणिम् । पावनीमित्यन्वयः ॥ काव्यैर्महाकविकृतैर्युत्पत्तिकारकैः । पापठितैर्वारंवारं पठितैः । किम् । न किमपीत्यर्थः । अल्पविदुषामीषद्वयुत्पन्नानाम् । निर्बुद्धीनामिति यावत् । जोघुष्यमा- णैर्बहुधा घोषितैः । पुनः किं प्राग्वत् । तैरभ्यस्तैः। व्याकरणैः शब्दशास्त्रैः। विवो- धिततया विज्ञाततया । किं प्राग्वत् । वा अथवा । अभिधानश्रिया अभिधानसंपत्त्या । एतैः काव्यव्याकरणाभिधानैः । अम्ब मातः । न बोभवीति अतिशयेन न संभवति । सुकविविद्वत्परितोषकः । तावत्तदवधि । तव श्रीमहात्रिपुरसुन्दर्याः । श्रीमतोः परमशोभ- नयोः । यावत् यदवधि । नानुसरीसरीति अत्यन्तं नानुसरति । सरणि पद्धतिम् । पादा- ब्जयोश्चरणकमलयोः । पावनी पवित्राम् ।। अतः परं देव्युपासकानामनिष्टसंपादकमपीष्टं संपादयतीति प्रतिपादयति- गेहं नाकति गर्वितः प्रवणति स्त्रीसंगमो मोक्षति द्वेषी मित्रति पातकं सुकृतति क्षमावल्लभो दासति । मृत्युर्वैद्यति दूषणं सुगुणति त्वत्पादसंसेवना- त्वां वन्दे भवभीतिभञ्जनकरी गौरी गिरीशप्रियाम् ॥ १७ ॥ श्लोकार्थः स्पष्ट एव ॥ अतः परं साधकस्य कृतकृत्यतासंपादकं त्रिपुरानामनिरुक्तिमूलं श्रीमहात्रिपुरसुन्दर्याः कामकलाक्षरगतविन्दुनयप्रसृतमन्तर्गतं बहिर्गतं च त्रिकमात्र प्रकटयति- आद्यैरग्निरवीन्दुबिम्बनिलयैरम्ब त्रिलिङ्गात्मभि- मिश्रा रक्तसितप्रभैरनुपमैर्युष्मत्पदैस्तैत्रिभिः । खात्मोत्पादितकाललोकनिगमावस्थामरादित्रयै- रुद्भूतं त्रिपुरेति नाम कलयेद्यस्ते स धन्यो बुधः॥ १८ ॥ हे अम्ब, तैत्रिभिरपरं स्वात्मोत्पादितकाललोकनिगमावस्थामरादित्रयैश्चोत्पन्नं ते त्रि- पुरेति नाम यः कलयेत्स बुधो धन्य इत्यन्वयः ॥ आद्यैरकथाद्यैः । अग्निरवीन्दुबिम्बनि- १. "किमद्य ख. २. 'किं वा व्या' ख.
त्रिपुरामहिमस्तोत्रम् । १३ लयैः । अग्निरवीन्दूनां बिम्बानां मण्डलानां निलयानि निवासस्थानानि तैः । अम्ब ज- ननि । त्रिलिङ्गात्मभिर्मूलाधारहृदयभूमध्यस्यैः स्वयंभूवाणेतरलिङ्गस्वरूपैः । इदं पदत्रयवि- शेषणम् । मिश्रा... । रक्तसितप्रभैः श्वतरक्तपाटलवर्णैः । अनुपमैः उपमारहितैः । युष्मत्पदैस्त्वच्चरणैः । तैः पूर्वोक्तविशेषणद्वयसहितैः । त्रिभित्रिस्थानगैः। स्वस्या महात्रि- पुरसुन्दर्याः । आत्मा कामकलाक्षरं तस्मादुत्पादितानि, कालत्रयं प्रातमध्याह्नसायंसं. ध्यारूपम् , लोकत्रयं स्वर्गमृत्युपातालरूपम्, निगमत्रयं वेदत्रयम् । अवस्थात्रयं जाग्रत्स्वप्न- सुषुप्तिरूपम्, अमरत्रयं ब्रह्मविष्णुरुद्ररूपम् । आदिशब्देन पीठत्रयं वदित्रयं इच्छादिशक्तित्र- यमित्यादीनि तैः । उद्भूतमुत्पन्नं प्रथामागतम् । त्रिपुरा त्रिपुराप्रकारमात्रकारणरूपा । इति एवंविधम् । नाम नाममन्त्रः, तम् । कलयेजानीयात् । य उपासकः । ते महात्रिपुरसु. न्दर्याः । स गुरुमुखादवगततद्रहस्यः । धन्यः कृतकृत्यः । बुधो ज्ञानी ॥ अतः परं त्रितयमात्रकारणभूतायाः श्रीकामकलात्मकमहात्रिपुरसुन्दर्या वाच्यवाच- कवक्तृत्वेन प्रणवाक्षरत्रयस्य मूलाधारहृदयभ्रूमध्यवर्तित्वेन कूटत्रयस्य प्रणवत्वं प्रतिपा. दयति- आयो जाप्यतमार्थवाचकतया रूढः स्वरः पञ्चमः सर्वोत्कृष्टतमार्थवाचकतया वर्णः पवर्गान्तकः । वक्तृत्वेन महाविभूतिसरणिस्त्वाधारगो हृद्तो भ्रूमध्यस्थित इत्यतः प्रणवता ते गीयते चागमैः ॥ १९ ॥ हे अम्ब, अतः कारणाद् आगमैः, प्रणव इति गीयते । कुतः । अकारोकारमकारर्वाच्य- वाचकवक्तरूपैः आधारहृदयभ्रूमध्यगैः कूटत्रयसाम्यता वेदैगीयत इत्यन्वयः ॥आद्योऽकारः। जाप्यतमार्थवाचकतया अतिशयेन जाप्या इति जाप्यतमा मूलविद्या तस्या अर्थः स्वरूपं तस्य वाचकः “अ-उ-म्' इति ब्रह्म” इति श्रुतिः । इति परब्रह्मात्मिकां श्रीमहात्रिपुरसुन्दरी- मेव वदति । 'अकारो विष्णुरुच्यते' इत्यागमाभिधानेन व्यापकतेति विश्वव्यापिका तामेव वदति । 'कदाचिदाद्या ललिता पुंरूपा कृष्णविग्रहा । वेणुनादसमारम्भादकरोद्धि वशं ज- गत् ॥' इति तन्त्रराजवचनात् । 'अकारः सर्ववर्णाश्यः प्रकाशः परमः शिवः' इति सं. केतपद्धतिवचनात् । शिवशक्त्योरभेदेन तामेव वदति 'न शिवेन विना शक्तिन शक्तिर- हितः शिवः । तादात्म्यमनयोनित्यं वदिदाहकयोरिव ॥' इति महार्थमञ्जर्यामपि । आलेख्यविशेष इव गजवृषभयोः प्रतिभासो यथैकस्मिन्नपि परमार्थ शिवशक्ति- विभागकल्पनां कुर्मः इति । अकारस्य परमार्थस्वरूपिण्याः श्रीमत्रिपुरसुन्दर्या वाचकतया रूढः प्रसिद्धः । अत एव वाच्यस्वरः पन्नम उकारः सर्वोत्कृष्टतां प्राप्य वा. चकतया सर्वेभ्य उत्कृष्टतमार्थी तामेव वदति । तेन वाचकता वर्णः पवर्गान्तकः वणी व्यजनं पवर्गान्तको मकारः कर्तृत्वेन वक्तत्वं महत्त्वादेव । एतेषामकारोकारमकाराणां वाच्यवाचकत्वं कामकलाक्षरमूलकत्वेन त्रिकात्मकतया सांकेतितं भवति । महाविभूति- १४ काव्यमाला । सरणि: महाविभूतिर्महदैश्वर्यं तस्य सरणिः प्रापकः । तु पुनः । आधारगो मूलाधारगता- ग्निचक्रगः । हृद्तः सूर्यचक्रगः । भ्रूमध्यस्थितः सोमचक्रग इत्यमुना प्रकारेण मूलाधार- हृदयभूमध्यगतकूटत्रयेणैकवाक्यताकारणता । प्रणवता ॐकाररूपता । ते श्रीमहात्रिपुरसु- न्दर्याः । इति । गीयते उच्चैरुद्धोध्यते । रुद्रयामले-'उमेति परमा शक्तिः पूर्वभावमुपे- युषी । अध्युष्टवलयाकारा प्रणवत्वमुपागता । अकार रूपिण्यजरा शिवानन्ता मदद्रवा ॥१॥ अतःपरं गायत्र्यादिसर्वदर्शनाधिदेवतात्वेन श्रीमहात्रिपुरासुन्दरीमेव प्रतिपादयति- गायत्री सशिरा तुरीयसहिता संध्यामयीत्यागमै- राख्याता त्रिपुरे त्वमेव महतां शर्मप्रदा कर्मणाम् । तत्तदर्शनमुख्यशक्तिरपि च त्वं ब्रह्म कर्मेश्वरी कर्ताहन्पुरुषो हरिश्च सविता बुद्धः शिवस्त्वं गुरुः ॥ २० ॥ हे त्रिपुरे, संध्यामयी गायत्री च परं तत्तद्दर्शनमुख्यशक्तिरपि त्वमेवेति आगमैरा- ख्याता । कथंभूता । गायत्री तुरीयसहिता । सशिरा च । पुनः कथंभूता । महतां क. मणां शर्मप्रदा इत्यन्वयः ॥ गायत्री प्रसिद्धा । सशिराः शिरसा सहवर्तमाना । तुरीय- सहिता तुरीयं प्रणवः । तुरीयबीजस्य प्रणवताष्टमश्लोके प्रतिपादिता । कार्यकारणयोर- भेदात्कार्यभूतप्रणवस्य कारणभूततुरीयाक्षरस्य प्रणवत्वमुक्तम् । संध्यामयी त्रिकालसंध्या- रूपा । आगमैवेदैः, अथवा-आगमैरागमज्ञैः । आख्याता प्रसिद्धीकृता । अत्र गायच्या मूलविद्यात्मकता त्रिपदीत्वेन संध्यात्रयस्य कालत्रयत्वेन गायत्र्याश्च तद्रूपत्वे । 'सशिरा तु- रीयसहिता' इत्यनेन प्रणवादिकशिरोन्तिका गायत्री पञ्चमीविद्यात्मिकापि सूचिता । 'त्रिकूटमेककूटं तु त्रिकूटे पञ्चकूटता' इति वामकेश्वरवचनात् । त्रिपुरे त्रितयत्रावस्व. रूपे । त्वमेव मूलविद्यैव । महतां यागादीनाम् । शर्मप्रदा सुखरूपफलप्रदा । कर्मणां क्रि- याणाम् । तत्तद्दर्शनमुख्यशक्तिस्तत्तद्दर्शनाधिदेवता । अपि च पुनरपि । त्वमेव त्वं श्रीम- हात्रिपुरसुन्दर्येव । ब्रह्म वेदान्तिनाम् । कर्म मीमांसकानाम् । ईश्वरी शाक्तानाम् । कर्ता नैयायिकानाम् । अर्हश्चार्वाकाणाम् । पुरुषः सांख्यानाम् । हरिर्वैष्णवानाम् । सविता सौ- राणाम् । बुद्धो बौद्धानाम् । शिवः शैवानाम् । त्वं त्वमेव । गुरुः सर्वपूज्यत्वाद्गणेशः सर्वेषां त्वमेवेत्यर्थः ॥ अतः परं कोशपश्चकद्वारा भगवत्या विश्वशरीरे विलीनत्वं ज्ञातुर्ब्रह्मत्वं प्रति. पादयति- अन्नप्राणमनःप्रबोधपरमानन्दैः शिरःपक्षयु- पुच्छात्मप्रकटैर्महोपनिषदां वाग्भिः प्रसिद्धीकृतैः । कोशैः पञ्चभिरेभिरम्ब भवतीमेतत्प्रलीनामिति ज्योतिःप्रज्वलदुज्ज्वलात्मचपलां यो वेद स ब्रह्मवित् ॥२१॥ - त्रिपुरामहिमस्तोत्रम् । १५ । - हे अम्ब, एभिः पञ्चभिः कोशैः कृत्वा भवतीमेतद्विश्वशरीरे प्रलीनां यो वेद स ब्रह्म- विद्भवति । एभिः कैः । अन्नप्राणमनःप्रबोधपरमानन्दैः । कथंभूतैः । शिरःपक्षयुक्पु- च्छात्मप्रकटैः । पुनः किंभूतैः । महोपनिषदां वाग्भिः प्रसिद्धीकृतैरित्यन्वयः ॥ अनमयप्रा- णमयमनोमयविज्ञानमयानन्दमयैः । अन्नं शिरः, प्राणमनसी पक्षी, प्रबोधः पुच्छम् , पर- मानन्द आत्मा । एभिः कृत्वा प्रकटैः स्फुटैः । महोपनिषदां चतुर्वेदशिरसाम् । वा- ग्भिर्वाक्यैः । प्रसिद्धीकृतैः ख्यापितैः । कोशैरुक्तरूपैः । पञ्चभिः पञ्चप्रकारैः। एभिरुक्तविशे- पणसहितैः । अम्ब मातः । भवतीं त्वाम् । एतत्प्रलीनाम् एतस्मिन्विश्वशरीरे प्रलीनां प्रवि- टाम् । इति अमुना प्रकारेण । ज्योतिःप्रज्वलदुज्ज्वलात्मचपलां ज्योतिषः प्रज्वलदिवो- ज्ज्वलात्मना चपलां चश्चलाम् । य उपासकः । वेद जानाति । स लब्धोपदेशः । ब्रह्म- वित् तत्त्वज्ञ इति ॥ पूर्व 'श्रीमातः-' इत्यारम्य 'अन्नप्राण-' इत्यन्तैरेकविंशतिश्लोकैर्यद्रहस्यं प्रतिपादितं तत्र सद्गुरुतः प्राप्तदीक्षस्यैवाधिकारो नान्यस्येति सद्गुरोः सकाशाद्दीक्षाग्रहणस्यावश्यकतां तत्फलसिद्धिं च प्रतिपादयति- सच्चित्तत्त्वमसीतिवाक्यविदितैरध्यात्मविद्याशिव- ब्रह्माख्यैरतुलप्रभावसहितैस्तत्वैत्रिभिः सद्गुरोः । तद्रूपस्य मुखारविन्दविवरात्संप्राप्य दीक्षामतो यस्त्वां विन्दति तत्त्वतस्तदहमित्यार्य स मुक्तो भवेत् ॥ २२ ॥ हे आर्ये, मद्गुरोर्मुखारविन्दविवरात्रिभिस्तत्त्वैः सह दक्षिां प्राप्य यस्त्वां विन्दति, सोऽतः 'तदहम्' इति तत्त्वतो मुक्तो भवेत् । कथंभूतस्य सद्गुरोः । त्वद्रूपस्य । कथंभू- तैस्तत्त्वैः । सच्चित्तत्वमसीतिवाक्यविदितैः । कैः । अध्यात्मविद्याशिवब्रह्माख्यैः । पुनः कीदृशैः । अतुलप्रभावसहितः । इत्यन्वयः ॥ सञ्चित्तत्त्वमसीतिवाक्यविदितैः सत् ब्रह्म, चित् माया । इत्यनेनात्मतत्त्वं लभ्यते स्थूलदेहशोधकत्वात् । तत् मायातीतम् इत्यनेन विद्यातत्त्वं लभ्यते सूक्ष्मदेहशोधकत्वात् । त्वं स्वयम् , इत्यनेन शिवतत्त्वं लभ्यते । परदेह- धिकत्वात् । असि इत्यनेन सर्वज्ञत्वं लभ्यते । समाष्टिदेहशोधकत्वात् । अध्यात्मशिव- ब्रह्माख्यैः अर्थः स्पष्ट एव ॥ अतुलप्रभावसहितैर्देहचतुष्टयशुद्धिद्वारा जीवन्मुक्तिपदैः । तत्त्वै. यथार्थैः । त्रिभिस्त्रिधाभिन्नैः । सद्गुरोः सत्संप्रदायवतस्त्वद्रूपस्य पूर्णाभिषेकप्रभावेण देवी- तादात्म्यसिद्धस्य । मुखारविन्दविवरात् वाम्बुजद्वारा । संप्राप्य लब्ध्वा । दीक्षां पूर्णाभि- काख्याम् । अतो दीक्षाप्राप्त्यनन्तरम् । य उपासकः । त्वां श्रीमहात्रिपुरसुन्दरीम् । वि- न्दति जानाति । तत्त्वतो यथार्थतः । तद् ब्रह्म । अहमहमेव इति भावनया। आर्ये सर्वो- त्कृष्टे । स संप्राप्तदीक्षः । मुक्तो जीवन्मुक्तः । भवेत् स्यात् ॥ ननु मुक्तिप्रदा अल्पायाससाध्या न्यासपूजाविस्ताररहिता अन्ये शैववैष्णवसौराइयो १. 'विततैः' ख. ।
काव्यमाला। - वहवो मार्गाः सन्ति, तर्हि बहायाससाध्ये न्यासपूजाद्यपारे ममास्मिन्मार्गे कथमेतावाना- दरः क्रियत इत्याक्षिप्तवती भगवती सविनयमुत्तरयति- सिद्धान्तैर्बहुभिः प्रमाणगणितैरन्यैरविद्यातमो- नक्षत्रैरिव सर्वमन्धतमसं तावन्न निर्भिद्यते । यावत्ते सवितेव संमतमिदं नोदेति विश्वान्तरे जन्तोर्जन्मनिवारणैकमिदुरं श्रीशांभवि श्रीशिवे ॥ २३ ॥ हे श्रीशांभवि, हे श्रीशिवे, अन्यैर्बहुभिः सिद्धान्तैरविद्यातमस्तावन्न निर्भिद्यते यावत् इदं संमतं विश्वान्तरे न उदेति । (तावदन्यैर्बहुभिः सिद्धान्तरविद्यातमो न निर्भिद्यते । कैः किमिव । नक्षत्रैः सर्वमन्धतमसंमिव । कथंभूतमिदं ते संमतम् । सवितेव । कथंभू- तम् । जन्तोर्जन्मनिवारणकभिदुरम् । कथंभूतैः सिद्धान्तैः । प्रमाणगणितैः इत्यन्वयः ॥ सिद्धान्तैस्तत्तदर्शनाङ्गीकृतैः । बहुभिर्नानाविधैः । प्रमाणगणितैः प्रमाणानि अनुमानादीनि तैगणितैः साधितैः । अन्यैः तार्किकाद्यैः । अविद्यातमः अविद्या अज्ञानं तदेव भ्रमोत्पादक- स्वात्तमः । नक्षत्रैः तारकायैः । इव तद्वत् । सर्वमशेषम् । अन्धतमसं महान्धकारः । तावत् तदवधि । न निषेधे । निभिद्यते निःशेषं दूरीक्रियते । यावत् यदवधि । ते तव । सवितेव सूर्यसदृशम् । संमतं सर्वमतोत्तमम् ॥ इदं (विश्वान्तरे स्वोदरे)।नोदेति प्रचारं न प्राप्नोति । विस्वान्तरे विशेषेण स्वान्तरे स्वस्य जीवन्मुक्त्यपेक्षस्य अन्तरे हृदये । जन्तोः सांसारिकस्य । जन्मनिवारणैकभिदुरं आगामीनि जन्मानि तेषां निवारणे एक अद्वितीय भिदुरं समर्थम् । श्रीशांभवि इदं हेतुगर्भ संबोधनम् । अनेन षडन्वयशांभवपर्यन्तं ज्ञानं त्वन्मतनिर्वाहकमित्युक्तम् । श्रीशिवे श्रीकल्याणरूपे ॥ ननु अविद्याविनाशकमात्मानुसंधानं सकलसंमतं भवति तर्हि जीवन्मुक्तिवाञ्छकैः 'अथात्मा वारे श्रोतव्यो मन्तव्यो निदिध्यासितव्यः साक्षात्कर्तव्यः' इत्युपनिषद्वाक्यं प्र- माणीकृत्य निरन्तरमात्मानुसंधानमेव कर्तव्यम्, किमर्थमस्मिन्नतिदुर्घटे मन्मतेऽत्यादरः क्रियते इत्याग्रहवती भगवती मुनिरुत्तरयति- आत्मासौ सकलेन्द्रियाश्रयमनोबुद्ध्यादिभिः शोचितः कर्माबद्धतनुर्जनि च मरणं प्राप्नोति यत्कारणम् । तत्ते देवि महाविलासलहरीदिव्यायुधानां जय- स्तस्मात्त्वां गुरुमभ्युपेत्य कलयेत्त्वामेव चेन्मुच्यते ॥ २४ ॥ हे देवि, तस्मात्कारणात् त्वां गुरुमभ्युपेत्य त्वामेव, चेत्कलयेत्, तदा मुच्यते । य- स्मादसावात्मा जनि मरणं च प्राप्नोति तत्कारणं ते महाविलासलहरी दिव्यायुधानां जयः । कथंभूतोऽसावात्मा । सकलेन्द्रियाश्रयमनोबुद्ध्यादिभिः शोचितः । पुनः कथंभूतः । कर्मा- बद्धतनुः । इत्यन्वयः ॥ आत्मा जीवदशाविष्टः । असौ संसारादुपरक्तः । सकलेन्द्रियाश्र- -- त्रिपुरामहिमस्तोत्रम् । १७ यमनोवुझ्यादिभिः सकलानां कर्मेन्द्रियाणां ज्ञानेन्द्रियाणां च आश्रयस्तदधीनतया मनो- बुद्ध्यादयस्तैः । शोचितः शुचं प्रापितः । कर्मावद्धतनुः कर्मभिः सांसारिकैनिषिद्धानि- षिद्धैः, आबद्धा जडीकृता तनुः संस्कारः । जनिरुत्पत्तिः, ताम् । च समुच्चये । मरणं देहत्यागः, तम् । प्राप्नोति प्रयाति । यत्कारणं यनिमित्तम् । तद्वक्ष्यमाणम् । ते भगवत्याः । देवि प्राग्वत् । महाविलासलहरी दिव्यायुधानां जयो महाविलासोऽभिनवनवविधङ्गारसौ. न्दर्यार्णवस्तस्य लहर्यस्तरङ्गास्तद्वदिव्यान्यप्रतिहतसामर्थ्यवन्त्यायुधानि पाशाङ्कुशधनुर्याणा- ख्यानि तेषाम् । जयः प्रतापो मोहनवश्यमारणस्तम्भनादीनि । तस्मात्कारणात् । त्वां त्वत्तादात्म्यसिद्धम् । गुरुं देशिकम् । अभ्युपेत्य अत्याराध्य । कलयेत् प्रभजेत् । वामेव श्रीमहात्रिपुरसुन्दरीमेव । चेत्तदा । मुच्यते मोक्षो लभ्यते ॥ अतः परं भगवान्दुर्वासा महामुनिः संसारसिन्धौ निमजनोन्मजनाभ्यामतिदुःखिताना किंचिदुत्पन्नज्ञानानां मादृशानामुपार कृपाविष्टः सविनयं श्रीमहात्रिपुरसुन्दरी प्रार्थयति--- नानायोनिसहस्रसंभववशाजाता जनन्यः कति प्रख्याता जनकाः कियन्त इति मे सेत्स्यन्ति चाग्रे कति । एतेषां गणनैव नास्ति महतः संसारसिन्धोर्विधे- भीतं मां नितरामनन्यशरणं रक्षानुकम्पानिधे ॥ २५ ॥ हे अनुकम्पानिधे इति कारणात् मां रक्ष । कथंभूतं माम् । संसारसिन्धोविधेर्भातम् । पुनः कथंभूतम् । नितरामनन्यशरणम् । इतीति किम् । नानायोनिसहस्रसंभववशात्कति जनन्यो जाताः, पितरोऽपि क्रियन्तो विख्याताः, अग्रे कति सेत्स्यन्ति एतेषां गणनैव नास्तीति । कथंभूतस्य विधेः । महत इत्यन्वयः । अर्थः स्पष्ट एव । ननु संसारदुःखनिवारणार्थ नानाव्रतानि नानायागादिक्रियाः प्राक्तनाचार्यः प्रोक्ताः कथं न क्रियन्ते । मदाराधनायामेव किमाधिक्यमिति देव्याक्षेपे मुनिराह- देहक्षोभकरैर्ऋतैर्वहुविधैर्दानश्च होमैनपैः संतानैहयमेधमुख्यसुमखैर्नानाविधैः कर्मभिः । यत्संकल्पविकल्पभावमलिनं स्यातं पदं तस्य ते दूरादेव निवर्तते परतरं मातः पदं निर्मलम् ॥ २६ ॥ हे मातः, तस्य यत्पदं ख्यातं तन्नानाविधैः कर्मभिः कृत्वा संकल्पविकल्पभावमलिनं भवति । ते पदं दूरादेव निवर्तते । कथंभूतं ते पदम् । परतरं निर्मलं चेत्यन्वयः । देह- क्षोभकरैः शरीरशोषकैः । व्रतैरुपवासादिभिः । बहुविधैः नानाप्रकारः । दानस्तुलापुरुषा- दिभिः । जपैरन्यदेवताविषयैः । संतानेनिरन्तरान्नसत्रादिभिः । हयमेधमुख्यसुमखैरश्वमे. १. मूलपुस्तके तु 'सिन्धर्मिभिः' इति पाठो दृश्यते. २. 'सध्यानः' इति मूलपुस्तक- पाठः. ३. 'जाल' इति मूलपुस्तके. ४. 'प्राप्यम्' इति मूलपुस्तकस्योऽयं पाठः. ३ १८ काव्यमाला। धमुख्यमहायज्ञैः । नानाविधैर्बहुप्रकारैः। कर्मभिः क्रियाभिः । यत्प्राप्यम् । संकल्पविकल्पभाव- मलिने संकल्पः करोमि, विकल्पो न करोमि, अनयोर्भावः संशयस्तेन मलिनं सुखदुःख- फलदम् । ख्यातं प्रसिद्धम् । पदं स्थानम् । तस्य कर्तुः । ते परदेवतायाः । दूरादेव बहुव्यवधानेनापि न । निवर्तते परिवर्तते । परतरं परमोत्कृष्टम् । मातरम्ब । पदं स्थानम् । निर्मलं कलङ्करहितम् ॥ अतः परं सकलमातृकाप्रपञ्चमूलभूतामकारहकाररूपां परां शक्ति प्रस्तौति- पञ्चाशन्निजदेहजाक्षरभर्नानाविधैर्धातुभि- बहथैः पदवाक्यमानजनकराविनाभावितैः । साभिप्रायवेदर्थकर्मफलदैः ख्यातैरनन्तैरिदं विश्वं व्याप्य चिदात्मनाहमहमित्युज्जृम्भसे मातृके ॥ २७ ॥ हे मातके, त्वं नानाविधैर्धातुभिर्विश्वं व्याप्य चिदात्मना अहमहमिति उज्जम्भसे इत्यन्वयः । पञ्चाशनिजदेहजाक्षरभवैर्निजदेहः पराशरीरं तस्माजातानि प्रस्तानि तेभ्यो भव उत्पत्तिर्येषां तैः । परारूपस्याक्षरमयत्वं सर्वत्रागमे प्रसिद्धम् । नानाविधैर्बहुप्रकारैः धातुभिः प्रसिद्धैः । बह्वथैर्नानार्थकैः । पदवाक्यमानजनकैः पदम् अक्षरसमुदायः, वाक्यं पदसमु. दायः, मानानि छन्दांसि वाक्यसमुदायरूपाणि, एतेषां जनकैः कारणभूतैः । अर्थाविनाभा- वितैः अर्थ विना न भावितानि इति तैः । अर्थयुक्तरित्यर्थः । साभिप्रायवदर्थकर्मफलदैरभिप्रा- येण कारणेन सह वर्तमाना येऽर्था घटपटादयस्तेषां कर्म कर्तव्यता तत्फलं निष्पत्तिस्तां ददति दर्शयन्ति तैः । ख्यातैः प्रसिद्धैः । अनन्तैरगणितैः । इदं विद्यमानम् । विश्वं त्रैलो- क्यम् । व्याप्य परिपूर्य । चिदात्मना चैतन्यरूपेण । अहम् अहम् इति उज्जृम्भसे उद्घोषं कुरुषे । मायके मूलभूते ॥ अतः परं सिद्धं श्रीचक्रं सदैवतं प्रस्तौति- श्रीचक्रं श्रुतिमूलकोश इति ते संसारचक्रात्मकं विख्यातं तदधिष्ठिताक्षरशिवज्योतिर्मयं सर्वतः । एतन्मन्त्रमयात्मिकाभिरैरुणं श्रीसुन्दरीमिवृतं मध्ये बैन्दवसिंहपीठललिते त्वं ब्रह्मविद्या शिवे ।। २८ ।। हे शिवे, ते श्रीचक्रं श्रुतिमूलकोश इति ख्यातम् । कथंभूतम् । संसारचक्रात्मकम् । पुनः कथंभूतम् । तदधिष्ठिताक्षरशिवज्योतिर्मयम् । पुनः कथंभूतम् । सर्वतः श्रीसुन्दरी- भितम् । कथंभूताभिः । एतन्मन्त्रमयात्मिकाभिः । पुनः कीदृशम् । अरुणम् । मध्ये त्वं ब्रह्मविद्या । कथंभूते मध्ये । बैन्दवसिंहपीठललिते इत्यन्वयः । श्रीचक्रं महा- त्रिपुरसुन्दर्याः पूजाचक्रम् । श्रुतिमूलकोशः श्रुतीनां वेदानां मूलं प्रणवः । 'ओङ्कारप्रभावा १. 'रथै' मूल०. २. 'चिदर्थ' मूल०. ३. 'प्रख्यातं' मूल०. ४. 'रभितः' मूल.. । - त्रिपुरामहिमस्तोत्रम् । १९ 1 वेदाः' इति वचनात् । तस्य कोशभूतं श्रीचक्रगतमध्यत्रिकोणं तस्य कामकलाक्षरगत. बिन्दुत्रयमयत्वात् । बिन्दुत्रयाणां ब्रह्मविष्णुरुद्ररूपत्वात् । 'ब्रह्मविन्दुमहेशानि वामा शक्तिरुदीरिता' इति ज्ञानार्णववचनात् । विश्वं वमतीति वामा वामाशक्तः शब्दार्थ- सृष्टिकारणत्वेन श्रीचक्रस्य श्रुतिमूलकोशत्वमित्यादिः । इति कारणात् । ते श्रीमहात्रि- पुरसुन्दाः । संसारचक्रात्मकं संसारचक्रं कालचक्रं देशचक्रं च । श्रीचक्रस्य काल. चक्रेण देशचक्रेण च साम्यं तन्त्रराजेऽष्टाविंशतितमे पटले श्रीशिवेन प्रतिपादितम् । मयान ग्रन्थगौरवभयान लिख्यते। यैरेव मूलविद्याक्षरैः श्रीचक्र प्रमृतं तैरेवाक्षरैः संसारचक्र प्रसतमिति ज्ञानार्णवोक्तिः । यथा-'लकारात्पृथिवी जाता सशैलवनकानना । पञ्चाशत्पीठसंपन्ना सर्वतीर्थमयी परा ॥ सर्वगद्गामयी सर्वक्षेत्रस्थानमयी शिवे । सकाराच- न्द्रतारादिग्रहराशिस्वरूपिणी ॥ हकाराच्छिवसंबाधव्योममण्डलसंस्थिता । ईकाराद्विश्वकीय माया तुर्यात्मिका प्रिये।। एकाराद्वैष्णवी शक्तिविश्वपालनतत्परा। रकारात्तेजसा युत्ता परं. ज्योतिःस्वरूपिणी ॥ ककारात्कामदा कामरूपिणी स्फुरदव्यया । अर्धचन्द्रेण देवेशि वि- श्वयोनिरितीरिता । बिन्दुना शिवरूपेण शून्यरूपेण साक्षिणी ॥' इति । एवं संसारचक्रात्म- कता मूलविद्यायास्तदात्मकता श्रीचक्रस्येति वा साम्यम् । विख्यातं प्रसिद्धम् । तदधि- ष्टिताक्षरशिवज्योतिर्मयम् । तदधिष्टितानि श्रीचक्राधिष्ठितानि यान्यक्षराणि तान्येव बीजभूतास्तत्तदावरणदेवतादिभूतवर्णास्त एव शिवाः । अणिमासिद्ध्यादयः कामाकर्पि- ण्यादयः । अनङ्गकुसुमादयः सर्वसंक्षोभिण्यादयः सर्वसिद्धिप्रदादयः सर्वज्ञादयः । वशिन्या- दयः कामेश्वर्यादय एव ज्योतीपि तन्मयं तत्प्रचुर सर्वतः श्रीचक्रमभिव्याप्य एतन्मन्त्रम- यात्मिकाभिः एतद्विद्याक्षरप्रसृताभिः। लकाराचतुरस्र सदैवतं प्रसृतम्, सकारात् पोडशदलं सदैवतम्, हकारादष्टदलं सदैवतम्, ईकाराच्चतुर्दशारं सदैवतम्, एकाराद्वहिर्दशारं सदैवतम्, रकारादन्तर्दशारं सदैवतम् , ककारादष्टकोणं सदैवतम् , अर्धन्दोस्त्रिकोणं सदैवतम् , बिन्दो- बैन्दवमिति मूलविद्यानवाक्षरैः संपूर्ण श्रीचक्रं सावरणं प्रमृतमिति मुनेरभिप्रायः । उक्तं च ज्ञानार्णवे-'लकारः पृथिवीवीजं तेन भूबिम्यमुच्यते । सकारश्चन्द्रमा भद्रे कलापोडश- कात्मकः ॥ तस्मात् पोडशपत्रं च हकारः शिव उच्यते । अटमूर्तिः सदा भद्रे तस्माद्वसु- दलं भवेत् ॥ ईकारस्तु सदा माया भुवनानि चतुर्दश । पालयन्ती परा तस्माच्छक्रकोणं भवेत्प्रिये ॥ शक्तिरेकादशस्थाने स्थित्वा सूते जगत्रयम् । विष्णोर्यानिरिति ख्याता सा विष्णोर्दशरूपकम् ॥ एकारात्परमेशानी चक्र व्याप्य विजृम्भिता । दशकोणकरं तस्माद्र- कारो ज्योतिरव्ययः ॥ कलादशान्वितो वदिर्दशकोणप्रवर्तकः । ककारान्मदनो देवि शिवं चाष्टस्वरूपकम् ॥ योनिवश्यं तदा चक्र वसुयोन्यहितं भवेत् । अर्धमात्रा गुणान्सूते नादरूपा यतस्ततः॥ त्रिकोणरूपा योनिस्तु बिन्दुना बैन्दवं भवेत् । कामेश्वरस्वरूपं तद्वि- श्वाधारस्वरूपकम् । श्रीचक्रं तु वरारोहे श्रीविद्यावीर्यसंभवम् ॥' इति । अरुणं बालार्कप्रभम्। श्रीसुन्दरीभिर्वृतं श्रिया सौन्दर्येण सुन्दर्यः श्रीसुन्दरीप्रायाः। श्रीसुन्दाः पञ्चमहाशवसन- द्धसिंहासनं कामेश्वरायोपवेशनमिति विशेषः । वृतं परिवेष्टितम् । मध्ये मध्य- त्रिकोणमध्ये । पैन्दवसिंहपीठललिते बैन्दवं बिन्दुचक्र तत्र सिंहासनं पूर्वोत्तरूपं तेन - २० काव्यमाला। ललिते निरुपमशोभान्विते । त्वं श्रीमहात्रिपुरसुन्दरी । ब्रह्मविद्या परब्रह्मात्मिका । शिवे कल्याणरूपे ॥ अतः परं पूर्णाभिषेकसिद्धेन साधकेन श्रीचक्रावरणपूजानन्तरं परापूजाया अवश्यकत. व्यत्वाद्विद्योद्धारं करोति- बिन्दुप्राणविसर्गजीवसहितं बिन्दुत्रिबीजात्मकं षट् कूटानि विपर्ययेण निगदेत्तारत्रिवालालैः । एभिः संपुटितं प्रजप्य विहरेत्प्रासादमन्त्रं परं गुह्याद्गुह्यतमं सयोगजनितं सद्भोगमोक्षप्रदम् ॥ २९ ॥ बिन्दुः पञ्चदशखरः प्राणः हकारादिः विसर्गः किमन्त्यस्वरः जीवः सकारः सहितमे- मिर्मिलित हंस इति पदं विन्द्वात्मकं हंस इति त्रिबिन्द्वात्मकम् । बिन्द्रादिकं विसर्गादिकं बिन्दुविसर्गादिकं चेति । त्रीणि कूटान्यनुक्रमेण व्युत्क्रमेणाथैतान्येव त्रीणीति एवं षट क्टानि । यथा-आदौ पञ्चदशस्वरः हंसः १, षोडशस्वरः सोऽहम् २,अं हंसः. अः सोऽहम् इति षड्भिरक्षरैः ३, विपर्ययेण विलोमेन तृतीयं द्वितीयं प्रथमं चेति कूटानि निगदेत् उच्च- रेत् । तारत्रिवालावलैः तारत्रयं प्रणवमाया श्रीबीजानि बाला वाग्भवकामराजशक्तिबी: जानि बलबीजं खप्रेमात्मकम् । एभिः सप्तबीजैः । संपुटितमनुलोमविलोमेन गर्भीकृतम् । प्रजप्य यथेष्टसंख्यां समाप्य । विहरेत्सुखमनुभवेत् । प्रासादमन्त्रं हौमिति बीजं परा प्रासादप्रासादपराख्यम् । परं परावीजं हकारं संयोजितमिति ज्ञेयम् । उत्कृष्टं गुह्याद्गुह्यत- मम् । गोप्यागोप्यतरम् । सयोगजनितं सकारसंयोजितम् । सद्भोगमोक्षप्रदं समीचीना भोगाः स्रक्चन्दनवनितागजतुरगारोहराजमान्यतादिकाः मोक्षं च प्रयच्छतीति । एतदुक्तं भवति-क्रमेण पूर्वोक्तानि सप्त बीजानि, ततः क्रमेणैवोक्तानि त्रीणि कूटानि ततः ह्यौं हौंः पुनर्युत्क्रमेण त्रीणि कूटानि ततो व्युत्क्रमेणैवोक्तसप्तबीजानि इति महापराप्रासाद- विद्या । अयं श्लोकः क्षेपक इति भासते । मुनिनातिगोप्यत्वाद्विद्याक्षराणां प्रभाव एव वर्णितः । स्फुटतयोद्धारो न कृतः । मया संप्रदायशुद्धत्वादत्र व्याख्यातः ॥ अतः परं श्रीत्रिपुरसुन्दरी सर्वाभरणभूषितां बिन्दुचक्रसिंहासनोपविष्टां महाराजोपचा- रैराराधितां मुनिः प्रार्थयति- आताम्रार्कसहस्रदीप्तिपरमा सौन्दर्यसारैरलं लोकातीतमहोदयैरुपयुता सर्वोपमागोचरैः । नानानय॑विभूषणैरेंगणितैर्जाज्वल्यमानाभितः श्रीमातस्त्रिपुरारिसुन्दरि कुरु स्वान्ते निवासं मम ॥ ३० ॥ हे श्रीमातः हे त्रिपुरारिसुन्दरि, त्वं मम स्वान्ते निवासं कुरु । कथंभूता त्वम् । अग- १. 'क्षरैः' मूल०. २. 'रवयवैः' मूल०. ३. 'रुपगते' मूल०. ४. 'त्मिकः' मूल०.
। त्रिपुरामहिमस्तोत्रम् । २१ णितैर्नानानय॑विभूषणैरलं यथा स्यात्तथा उपयुता सती अमितो जाज्वल्यमाना । पुनः कथंभूता । आताम्रार्कसहस्रदीप्तिपरमा । कथंभूतैर्विभूपणैः । सौन्दर्यसारैः । पुनः कथंभूतैः । लोकातीतमहोदयैः । पुनः कीदृशैः । सर्वोपमागोचरैरित्यन्वयः । आताम्रार्कसहनदीप्तिपरमा आताम्राको बालार्कास्तेषां सहस्रं तस्य दीप्तिः कान्तिस्तया परमा सर्वोत्कृष्टा । सौन्दर्य- सारैः सौन्दर्यमन्थनोद्भवैः । अलं पूर्णम् । लोकातीतमहोदयैर्लोकातीतो लोकोत्तरो महोदय उत्कर्पो येपाम् । मातर्जननि । त्रिपुरारिसुन्दरि त्रिपुरारिः शिवस्तस्य सुन्दरी मनोहरा । कुरु विधेहि । स्वान्ते हृदये । निवासं विश्रामम् । मम त्वदाराधकस ।। पूर्वश्लोकेन श्रीमहात्रिपुरसुन्दर्याः समुदायरूपेण भूषणान्यभिष्ट्येदानी नानापुप्पालंकार- वसनाभूषितायाः परमसौभाग्यशालिन्या दृष्टिगोचराभूषणानि महायोगीश्वरश्चरणमारभ्य मुकुटान्तानि प्रस्तौति- शिञ्जन्नूपुरपादकङ्कणमहामुद्रासुलाक्षारसा- लंकाराङ्कितमभिपङ्कजयुगं श्रीपादुकालंकृतम् । उद्भावन्नखचन्द्रखण्डरुचिरं राजजपासंनिभं ब्रह्मादित्रिदशासुरार्चितमहं मूनि स्मराम्यम्बिके ॥ ३१ ॥ हे अम्बिके, तेऽद्रियुगमहं मूनि स्मरामि । कथंभूतम् । शिअन्नपुरपादकङ्कणमहामु. द्रासुलाक्षारसालंकाराकृितम् । पुनः कथंभूतम् । श्रीपादुकालंकृतम् । पुनः कीदृशम् । उद्भास्वनखचन्द्रखण्हरुचिरम् । पुनः कीदृशम् । राजज्जपासंनिभम् । पुनः कीदृशम् । ब्रह्मा- दित्रिदशासुरार्चितमित्यन्वयः । शिजनिति शिजनपुरे पादकङ्कणे च महामुद्राश्च सुलाक्षा- रसश्च तैरलंकारितम् अद्वितं च । अद्रिपङ्कजयुगं चरणकमलद्वन्द्वम् । श्रीपादुकालंकृतं श्री- पादुके चिन्तामणिरचिते ताभ्यामलंकृतं भूपितम् । उद्भास्वनिति उदूर्ध्व भास्वन्ति प्रका- शमानानि नखान्येव चन्द्रखण्डानि ते रुचिरं सुन्दरम् । राजनपासंनिभं राजज्जपा नूतन- जपापुष्पाणि तैः सदृशी निभा यस्य । ब्रह्मादीति ब्रह्मादयो ब्रह्मविष्णुरुद्रास्त्रिदशा इन्द्रा- दयः, असुरा दैत्याः, तैरचितं समाराधितम् । अहं तवाराधकः । मूर्ति मस्तके । स्मरामि भावयामि । अम्बिके जननि ।। इदानी परदेवतायाः सुभूपितं सुपूजितं नितम्यपिम्बमभिष्टौति- आरक्तच्छविनातिमार्दवयुजा निश्वासहार्येण सै- कौशेयेन विचित्ररत्नखचितैर्मुक्ताफलैरुज्ज्वलैः । कूजत्काञ्चनकिङ्किणीभिरभितः संनद्धकाचीगुणे- रादीप्तं सुनितम्वविम्बमरुणं ते पूजयाम्यम्बिके ॥ ३२ ॥ हे अम्बिके, ते सुनितम्यविम्बमहं पूजयामि । कथंभूतम् । अरुणम् । पुनः कथंभू- १. 'भातुरे' मूल०. २. 'भिजित' मूल.. ३. 'यत्' मुल.. । ।
२२ काव्यमाला । तम् । सत्कौशेयेन मुक्ताफलैः काञ्चीगुणैश्च आदीप्तमित्यन्वयः । आरक्तंच्छविना आर- ता छविः कान्तिर्यस्य तेन । अतिमार्दवयुजा अतिकोमलेन । निश्वासहार्येण निश्वासवा- युना कम्पनयोग्येन । सत्कौशेयेन समीचीनपट्टवस्त्रेण । विचित्ररत्नखचितैविचित्राणि नानाविधानि रत्नानि तैः खचितैर्गुम्फितैः । मुक्ताफलैर्महाकरिकुम्भोद्भवैः। उज्ज्वलै- दीप्तिमद्भिः । कूजत्काञ्चनकिङ्किणीभिः कूजन्त्यः काञ्चनकिङ्किण्यः क्षुद्रघण्टिकाः । अभितः समन्तात् । संनद्धकाचीगुणैः संनद्धा संघटिता काञ्ची कटिमेखला तस्या गुणैः सूत्रैः । आ- दीप्तम् अतिशयेन प्रकाशमानम् । सुनितम्बबिम्ब सुष्टु मनोहरं नितम्बबिम्ब श्रोणिमण्ड- लम् । अरुणमारक्तम् । ते श्रीमहात्रिपुरसुन्दर्याः । पूजयामि भावयामि । अम्बिके प्राग्वत् । अतः परं चन्दनालिप्तं मणिमालाहारभूषितं ब्रह्मादिकानां स्तन(न्य)पानयोग्यं परदेव- ताकुचकुम्भद्वयं प्रस्तौति- कस्तूरीघनसारकुङ्कुमरजोगन्धोत्कटैश्चन्दनै- रालिप्तं मणिमालयातिरुचिरं ग्रैवेयहारादिभिः । दीप्तं दिव्यविभूषणैरगणितज्योतिर्विभास्वत्कुच- व्याजस्वर्णघटद्वयं हरिहरब्रह्मादिपीतं भजे ॥ ३३ ॥ हे जननि, ते कुचव्याजस्वर्णघटद्वयमहं भजे इत्यन्वयः । कस्तूरी मृगमदः, घनसारः अगरुसत्त्वं कर्पूरी वा, कुङ्कुमं काश्मीरप्रभवम्, एतेषां रजोगन्धैरुत्कटानि तैः। चन्दनै- मलयजैः । आलिप्तम् आसमन्तात् प्रलेपितम् । मणिमालया वज्रवैडूर्यादिनिर्मितया । अति- रुचिरमत्यन्तभास्वरम् । प्रैवेयहारादिभिः अवेयं कण्ठभूषणम्, हारो गजमौक्तिकनिर्मितः तदादिभिः । दीप्तं प्रकाशमानम् । दिव्यभूषणैर्विश्वकर्मणा रचितैः । अगणितैरपरिमितैः । ज्योतिर्विभास्वत् ज्योतिरिव प्रकाशमानम् । कुचव्याजस्वर्णघटद्वयं कुचव्याजेन स्तनमि- षेण स्वर्णघटद्वयम् । हरिहरब्रह्मादिपीतं तेषामेव तत्पानाधिकारत्वात् । भजे भावयामि ॥ अतः परं परदेवताया वाहुचतुष्टयं सुभूषितं कण्ठदेशं च प्रस्तौति- मुक्तारत्नविचित्रकान्तिललितस्ते बाहुवल्लीरह केयूरोङ्गदवाहुदण्डवलयैर्हस्ताङ्गुलीभूषणैः । संपृक्ताः कलयामि होरमैणिमन्मुक्तावलीकीलित- ग्रीवापट्टविभूषणेन सुभगं कण्ठं च कम्बुश्रियम् ॥ ३४ ॥ हे देवि, ते बाहुवल्लीः कण्ठं च, अहं कलयामि । कथंभूता बाहुवल्लीः । केयूराङ्गदवाहु- दण्डवलयैर्हस्ताङ्गलीभूषणैश्च संपृक्ताः । कथंभूतैर्बाहुदण्डवलयैः । मुक्तारत्नविचित्रकान्ति- ललितैः । कथंभूतं कण्ठम् । हीरमणिमन्मुक्तावलीकीलितग्रीवापविभूषणेन सुभगम् । पुनः कथंभूतं कण्ठम् । कम्बुधियमित्यन्वयः । मुक्ता प्राग्वत् । रत्नानि हीरकादीनि तेषां १. 'जननि ते' मूल०. २. 'रोत्तम' मूल०. ३. 'मणिभिर्मुक्ताकलापीकृत' मूल०. ।
१ त्रिपुरामहिमस्तोत्रम् । २३ विचित्रा नानावर्णा कान्तिश्छविस्तया ललितैर्मनोहरैः । ते श्रीमहात्रिपुरसुन्दाः । वाहु- वल्लीश्चतुर्हस्तलताः । अहं त्वदाराधकः । केयूराङ्गदवाहुदण्डवलयैः केयूरा मणिबन्धनधार- णयोग्याः,अङ्गदाः कूर्परोपरितनभागधारणयोग्याः, बाहुदण्डवलयानि हस्तकटकानि कङ्कणानि च तैः । हस्ताङ्गुलीभूषणैर्हस्ताङ्गुलीनां भूषणानि मुद्रिकादीनि तैः । संपृक्ताःसंयुक्ताः । कल- योमि प्राग्वत् । हीरमणिमन्मुक्तावली वज्रगुलिकायुक्ता मुक्तावली तया कीलितं जडीकृतं श्रीवापट्टविभूषणं तेन सुभगं कण्ठो गलदेशः । चः समुच्चये । कम्बुधियं कम्बुः शङ्खः तद्वच्छीः शोभा यस्य ॥ अतःपरं देवतायाः सुप्रसन्नाया श्रीवदनं प्रस्तौति- उद्यत्पूर्णकलानिधिश्रिवदनं भक्तप्रसन्नं सदा संफुल्लाम्बुजपत्रकान्तिसुषमाधिक्कारदक्षेक्षणम् । सानन्दं कृतमन्दहासमसकृत्प्रादुर्भवत्कौतुकं कुन्दाकारसुदन्तपतिशशिभापूर्ण स्मराम्यम्बिके ॥ ३५ ॥ हे अम्बिके, ते वदनम् अहं स्मरामि । कथंभूतम् । सदा भक्तप्रसन्नम् । पुनः कथंभ- तम् । संफुल्लाम्बुजपत्रकान्तिसुषमाधिक्कारदक्षेक्षणम् । पुनः कथंभूतम् । असकृत्सानन्द यथा स्यात्तथा कृतमन्दहासम् । पुनः कीदृशम् । प्रादुर्भवत्कौतुकम् । पुनः कीदृशम् । कुन्दाकारसुदन्तपतिशशिभापूर्णमित्यन्वयः । उद्यनुदयं प्राप्तः पूर्णकलानिधिः परिपूर्णपू- र्णिमाचन्द्रस्तस्य श्रीः शोभा यस्य । भक्तप्रसन्नं भक्तानामुपासकानां प्रसन्नं वाञ्छितार्थसू- चकम् । सदा निरन्तरम् । संफुल्लं विकसितमम्बुजं कमलं तस्य पत्ताणां कान्तिः सुषुमा परमा शोभा तस्या धिकारे दक्षं समर्थमीक्षणं यस्य । सानन्दं यथा स्यात्तथा कृतम- न्दहासं कृतः प्रकटितो मन्द ईषद् हासो येन । असकृद्वारंवारम् । प्रादुर्भवत्कौतुकं प्रद्यो- तितकुतूहलम् । कुन्दाकारा कुन्दकलिकाश्रेणिसमाना । सुदन्तपतिः सुषमा शोभना दन्तानां पशिः अरावलियस्याः । शशिन इव भा प्रभा तया पूर्ण व्याप्तम् । स्मरामि प्राग्वत् ॥ अतः परं परदेवतायाः सुभूषितं कर्णयुगं नासाग्रभागं च प्रस्तौति- तप्तस्वर्णकृतोरुकुण्डलयुगं माणिक्यमुक्तोल्लस- द्धीराबद्धमनन्यतुल्यमपरं हैमं च चक्रद्वयम् । शुक्राकारनिकारदक्षममलं मुक्ताफलं सुन्दरं विनत्कर्णयुगं भजामि ललितं नासाग्रभागं शिवे ॥ ३६ ॥ हे शिवे, तव नासाग्रभागं कर्णयुगं च अहं भजे । कथंभूतं नासाग्रभागम् । अमलं सुन्दरं ललितं मुक्ताफलं बिभ्रत् । कथंभूतं मुक्ताफलम् । शुक्राकारनिकारदक्षम् । कथं- १. 'निधीन्दु' मूल०. २. 'चित्र' मूल.. . -
२४
काव्यमाला।
-
भूतं कर्णयुगम् । तप्तस्वर्णकृतोरुकुण्डलयुगम् । अनन्यतुल्यं हमें चक्रद्वयं च दधत् । क-
थंभूतम् । माणिक्यमुक्तोल्लसद्धीराबद्धमपरमित्यन्वयः। तप्तमनलाहतं स्वर्ण जाम्बूनदं तेन
कृतं निर्मितम् उरु विस्तीर्ण कुण्डलयुगं ताटङ्कयुगलम् । माणिक्यानि मुक्ताश्च तैरुल्लस-
द्धीराबद्धम् । अनन्यतुल्यमन्येन ताटङ्कयुगेन न तुल्यं तस्माद्विलक्षणम् । अपरं द्वितीयम् ।
हैमं प्राग्वत् । चः समुच्चये । चक्रद्वयं वर्तुलाकारं कर्णोर्ध्वभूषणम् । शुक्राकारस्य निकारे
धिक्कारे दक्षं समर्थम् । अमलं निर्मलम् । मुक्ताफलं गजकुम्भोद्भवम् । सुन्दरम् । बिभ्रद्
दधत् । कर्णयुगम् । भजामि प्राग्वत् । ललितं मनोहरम् । नासाग्रभागम् । शिवे ॥
अतः परं परदेवताया वेणिका प्रस्तौति--
जातीचम्पककुन्दकेसररजोगन्धोत्किरत्केतकी-
नीपाशोकशिरीषमुख्यकुसुमैः प्रोत्तंसिता धूपिता ।
आनीलाञ्जनतुल्यमत्तमधुपश्रेणीव वेणी तव
श्रीमातः श्रयतां मदीयहृदयाम्भोज सरोजालये ॥ ३७ ॥
हे सरोजालये, हे श्रीमातः, तव वेणी मदीयं हृदयाम्भोज श्रयताम् । कथंभूता वेणी ।
जातीचम्पककुन्दकेसररजोगन्धोत्किरकेतकीनीपाशोकशिरीषमुख्यकुसुमैः प्रोत्तंसिता धू-
पिता च । आनीलाञ्जनतुल्यमत्तमधुपश्रेणीवेत्यन्वयः । श्लोकार्थः स्पष्ट एव ॥
अतः परं परदेवतायाः सुपूजितं सुभूषितं मस्तकमभिस्तौति-
लेखालभ्यविचित्ररत्नखचितं हैमं किरीटोत्तम
मुक्ताकाञ्चनकिंकिणीगणमहाहीरप्रबोधोज्ज्वलम् ।
चञ्चच्चन्द्रकलाकलापललितं देवद्रुपुष्पाचित
माल्यैरम्ब विलम्बितं सुशिखरं बिभ्रच्छिरस्ते भजे ॥ ३८ ॥
हे मातः, ते शिरो भजे । हैमं किरीटोत्तमं बिभ्रत् । कथंभूतं किरीटोत्तमम् । लेखा-
लभ्यविचित्ररत्नखचितम् । पुनः कथंभूतम् । मुक्ताकाञ्चनकिंकिणीगणमहाहीरप्रबोधोज्ज्व-
लम् । पुनः कीदृशम् । चञ्चच्चन्द्रकलाकलापललितम् । सुशिखरं चेत्यन्वयः । लेखाल-
भ्यम् अतिनिबिडं यथा स्यात्तथा विचित्ररत्नैर्नानावणैः खचितं मण्डितम् । हैमं जाम्बूनदर-
चितम् । किरीटोत्तमं ब्रह्मादिकानां किरीटापेक्षया। मुक्ता गजमुक्ताः, काञ्चनकिंकिणीगणः
१. किरैः के' मूल०. २. एतच्छोकस्थाने मूलपुस्तके श्लोकद्वयमिदमन्यदृश्यते-
'उत्क्षिप्तं च सुवर्णदण्डकलितं पूर्णेन्दुबिम्बाकृतिच्छन्नं भौक्तिकरत्नचित्रखचितं क्षौमां-
शुकोत्तंसितम् । मुक्ताजालविलम्वितं सकलशं नानाप्रसूनाङ्कितं चन्द्रोडामरचामराणि
दधते श्रीदेवि ते स्वःस्त्रियः ॥ १॥ विद्यामन्त्ररहस्यविन्मुनिगणैः कृप्तोपचारार्चनां वेदा-
न्तश्रुतिगीयमानचरितां वेदान्ततत्त्वात्मिकाम् । सर्वास्ता हि तुरीयतामुपगतास्वस्मिदेव्यः
परास्त्वां नित्यं समुपासते स्वविभवैः श्रीचक्रनाथे शिवे ॥२॥
२९ - त्रिपुरामहिमस्तोत्रम् । सुवर्णरचितः क्षुद्रघण्टिकासमूहः, तेन सह यो हीरप्रवन्धस्तेनोज्ज्वलं प्रकाशमानम् । चञ्चत्प्रद्योतत् (मानः) चन्द्रकलानां कलापः समूहः, तेन ललितं मनोहरम् । देवद्रुपुष्पा- चितं कल्पद्रुमकुसुमपूजितम् । माल्यैः पुष्पमालाभिः । अम्ब मातः । विलम्वितं लम्बाय- मानम् । सुशिखरं सुष्टु शिखरं कोट्यग्रभागम् । विभ्रत् दधत् । शिरः मस्तकम् । ते श्री- महात्रिपुरसुन्दर्याः । भजे प्राग्वत् ॥ अतः परं परदेवतायाः सभालं साधरयुगं वपुः प्रस्तौति- शृङ्गारादिरसालयं त्रिभुवनैर्माल्यैरतुल्यैर्युतं सर्वाङ्गीणसदङ्गरागसुरभि श्रीमद्वपु पितम् । ताम्बूलारुणपल्लवाधरयुतं रम्यं त्रिपुण्डूं दध- दालं नन्दनचन्दनेन जननि ध्यायामि ते मङ्गलम् ॥ ३९ ॥ हे जननि, तव वपुः, भालं च अहं ध्यायामि । कथंभूतम् । शृङ्गारादिरसालयम् । पुनः कथंभूतम् । त्रिभुवनैरतुल्यैर्माल्यैर्यतम् । पुनः कीदृशम् । सर्वाङ्गीणसदङ्गरागसुरभि । पुनः कीदृशम् । श्रीमत् । पुनः कथंभूतम् । धूपितम् । पुनः कीदृशम् । ताम्बूलारुणप- लवाधरयुतम् । कथंभूतं मालम् । नन्दनचन्दनेन रम्यं त्रिपुण्डूं दधत् । मालमित्यन्वयः । शृङ्गाररसादिनवरसानामालयं निवासस्थानम् । त्रिभुवनैः त्रिभुवने जातानि त्रिभुवनानि तैः । वृद्भिवैकल्पिकान । माल्यैः पुष्पैः । अतुल्यनिरुपमैः । युतं युक्तम् । सर्वाङ्गवर्ती सदगरागः समीचीनोऽङ्गरागस्तेन सुरमि।श्रीमत् श्रीः शोभा विद्यते यस्य । वपुः स्वरूपम् । धूपितं धूपवासितम् । ताम्बूलेन अरुण आरक्त: पल्लव: अग्रभागो यस्यैतादृशेनाधरण युतं सहितम् । रम्यं सुन्दरम् । त्रिपुण्डं तिलकम् । दधत् । भालं ललाटम् । नन्दनचन्दनेन नन्दनवनोद्भवचन्दनेन । जननि । ध्यायामि भावयामि । ते श्रीपरदेवतायाः । मङ्गलं मङ्गल- रूपम् ॥ A- अतः परं परदेवताया ध्यानस्य फलमाह- एवं यः स्मरति प्रबुद्धसुमतिः श्रीमत्स्वरूपं परं वृद्धोऽप्याशु युवा भवत्यनुपमः स्त्रीणामनङ्गायते । सोऽप्टैश्वर्यतिरस्कृताखिलसुरः श्रीजृम्भितात्मालयः पृथ्वीपालकिरीटकोटिवेलभीपुष्पार्चितानिर्भवेत् ॥ ४० ॥ हे परदेवते, श्रीमस्त्वरूपमेवं यः स्मरति स वृद्धोऽपि युवा भवति, स्त्रीणां चानड्रायते, अष्टैश्वर्यतिरस्कृताखिलसुरः श्रीजृम्भितात्मालयश्च भवति, पृथ्वीपालकिरीटकोटिवलभीपु- ध्याचिंताधिर्भवेदित्यन्वयः । एवम् अमुना प्रकारेण । यः साधकः । स्मरति भावयति। प्र. युद्धसुमतिः प्रबुद्धा प्रकर्ष प्राप्ता सुमतिर्यस्य । श्रीमत्स्वरूपं श्रीमत्यास्तव स्वरूपं सावयवम् । १. 'भुवनी' मूल०. २. 'वलिभिः' मूल०. ३. 'निद्वयः' मूल०.
२६ काव्यमाला । परं परमसुन्दरम् । वृद्धोऽपि गलितेन्द्रियोऽपि । आशु स्वल्पकालेन । युवा तरुणप्रायः । भवति स्यात् । अनुपमः पुरुषार्थेन । स्त्रीणां यौवनोद्धतानाम् । अनङ्गायते सौन्दर्येण स्व- रूपध्यानरतः । अष्टैश्वर्यम् अणिमादिकं गजाश्वादिकं च तेन कृत्वा तिरस्कृता लन्नां प्रा- पिता अखिलाश्च ते सुराश्च एतादृशः सन् । श्रिया संपत्त्या जृम्भितं प्रोल्लसितं आत्मनः खकीयमालयं मन्दिरं येन । पृथ्वीपालाः राजानस्तेषां किरीटानां मुकुटानां कोटिषु शि- खरेषु वलभ्यः स्वेष्टदेवताप्रसादगर्भितदीर्घाकारस्वर्णभूषणानि तदुपरितनपुष्पैरचितो पूजितौ अङ्गी चरणौ यस्य । भवेत् स्यात् ॥ अतः परं देव्यायुधचिन्तनस्य फलमाह- अथ तव धनुः पुण्ड्रेक्षुकृत्प्रसिद्धमतिद्युति त्रिभुवनवधूमुंद्यज्ज्योत्स्नाकलानिधिमण्डलम् । सकलजननि स्मारं सारं गतः स्मरतां नर- त्रिभुवनवधूमोहाम्भोधेः प्रपूर्णविधुर्भवेत् ।। ४१ ॥ हे सकलजननि, तव पुण्द्रेक्षुकृद्धनुः त्रिभुवनवधू प्रति उद्यज्ज्योत्स्नाकलानिधिमण्डलं भवति इति प्रसिद्धम् । कथंभूतं धनुः । अतिद्युति ।..... नरः स्मारं स्मारं स्मरतां गतः सन् त्रिभुवनवधूमोहाम्भोधेः प्रपूर्णविधुर्भवेदित्यन्वयः । अथ अपरं च । तव श्रीमहात्रिपुरसुन्दर्याः । धनुः । पुण्ड्रेक्षनिर्मितम् । प्रसिद्धं विख्यातम् । अतिद्युति भूरिकी- तिमत् । त्रिभुवनवधूं प्रति उद्यज्ज्योत्स्नया कलानिधेश्चन्द्रस्य मण्डलं बिम्बं विरहोत्पादकम् । सकलजननि विश्वमातः । स्मारं स्मारं स्मरन् स्मरन् । गतः प्राप्तः । स्मरतां कन्दर्प- ताम् । नर उपासकः । त्रिभुवनवधूनां सुरनरनागस्त्रीणाम् । मोहरूपसमुद्रस्य वृद्धिकरः प्रपूर्णविधुः पूर्णिमाचन्द्र एव स्यात् ॥ प्रसूनशरपञ्चककटजृम्भणागुम्फितं त्रिलोकमवलोकयत्यमलचेतसा चिन्तयन् । अशेषरमणीजनसरविजृम्भणे यः सदा पटुर्भवति ते शिवे त्रिजगदङ्गनाक्षोभणे ॥ ४२ ॥ हे शिवे, यस्त्रिलोकं प्रसूनशरपञ्चकप्रकटजृम्भणागुम्फितम् अमलचेतसा अवलोक- यति सोऽशेषरमणीजनस्मरविजृम्भणे त्रिजगदङ्गनाक्षोभणे च पटुर्भवतीत्यन्वयः । प्रसू- नानि पङ्कजादीनि । उक्तं च तन्त्रराजे-'कमलं कैरवं रक्तकहारेन्दीवरे तथा । सहका- रमिति प्रोक्तं पुष्पपञ्चकमीश्वरि ॥' इति । तान्येव शरा बाणास्तेषां पञ्चकं तस्य प्रकटं १. छन्दोभङ्गादिदूषणग्रस्तोऽप्ययं पाठष्टीकानुरोधात्स्थापितः. 'पुष्पं कृत्वा' मूल०. २. 'मोहज्यो' मूल०, ३. 'म्भोधिप्रपूर्ण' मूल०. ४. 'प्रगटगुम्पनागुम्फितं' मूल०. ५. 'चञ्चलम्' मूल०. ६. 'स्वनं' मूल०.
त्रिपुरामहिमस्तोत्रम् । २७ - स्फुट जृम्भणं विकसनं तत्र आगुम्फितम् एतादृशं त्रिलोकमवलोकयति पश्यति । अम. लचेतसा स्थिरान्तःकरणेन । चिन्तयत् भावयन् । अशेषरमणीजनस्मरविजृम्भणे सकल- स्त्रीजनस्मरविजृम्भणे । यः साधकः। सदा निरन्तरम् । पटुः समर्थः । भवति । ते परदेवतायाः। शिवे कल्याणरूपे । त्रिजगदङ्गनानां क्षोभणे वशीकरणे ॥ अतः परं पाशचिन्तनप्रभाव प्रतिपादयति- पाशं प्रपूरितमहासुमतिप्रकाशो यो वा तव त्रिपुरसुन्दरि सुन्दरीणाम् । आकर्षणेऽखिलवशीकरणे प्रवीणं चित्ते दधाति स जगत्रयवश्यकृत्स्यात् ॥ ४३ ॥ हे महात्रिपुरसुन्दार, अथ च यस्तव पाशं चित्ते दधाति, स प्रपूरितमहासुमतिप्रकाशः सन् जगत्रयवश्यकृत्स्यात् । कथंभूतं तव पाशम् । सुन्दरीणामाकर्षणे आखिलवशीकरणे च प्रवीणम् । इत्यन्वयः । अर्थः स्पष्ट एव ॥ अतः परमङ्कुशप्रभावं प्रतिपादयति- यः स्वान्ते कलयति कोविदस्त्रिलोकस्तम्भारम्भणचणमत्युदारवीर्यम् । मातस्ते विजयमहाङ्कुशं सयोपान्देवान्स्तम्भयति च भूभुनोऽन्यसैन्यम्।।४४॥ हे मातः, यस्ते विजयमहाकुशं स्वान्ते कलयति स सयोपान् देवान् स्तम्भयति, भू- भुजः स्तम्भयति, अन्यसैन्यं च स्तम्भयति । कथंभूतः सः । कोविदः । कथंभूतं विजयम- हाङ्कुशम् । त्रिलोकस्तम्भारम्भणचणम् । पुनः कथंभूतम् । अत्युदारवीर्यमित्यन्वयः । यः साधकः । स्वान्ते हृदये । कलयति चिन्तयति । कोविदः विचक्षणः । त्रिलोकस्य स्वर्ग- मृत्युपातालरूपस्य । स्तम्भः ताटस्थ्यं तस्यारम्भणं कर्तव्यता तत्र चणः दक्षस्तम् । अ- त्युदारवीर्यम् अत्यन्तमुदारं प्रौढं वीर्य यस्य तम् । मातर्जननि । ते प्राग्वत् । विजयम- हाकुशं विजयप्रदो महाङ्कुशो विजयमहाङ्कुशस्तम् । सयोपान् योषिद्भिः सह वर्तमानान् । देवान् दिवि क्रीडनपरान् । स्तम्भयति स्थगयति। भूभुजः राजानस्तान् । अन्यसैन्यं परसैन्यम् ।। अतः परं चतुरायुधध्यानस्य विशेषफलमाह- चापध्यानवशाद्भवोद्भवमहामोहस्य व्युज्जृम्भणं प्रख्यातं प्रसवेपुचिन्तनवशातत्तच्छरव्यं सुधीः । १. 'सरोषान्' मूल०. २. 'भूभुजौघसैन्यम्' मूल०. ३ 'चापाद्धया' मूल०. ४ 'तारा- । क्षरव्यं मू०.
२८ काव्यमाला। पाशध्यानवशात्समस्तजगतां मृत्योर्वशत्वं महा- दुर्गस्तम्भमहाङ्कुशस्य मननान्मायाममेयां तैरेत् ॥ ४५ ॥ हे मातः, सुधीः, चापध्यानवशाच्चापध्यानतत्परः सन् भवोद्भवमहामोहस्य भवात्सं. सारादुद्भवो यस्यैतादृशो महामोहस्तस्य व्युज्जृम्भणं विगतमुज्जृम्भणं प्रसरणं यस्मात्तत्तथा करोति इति प्रख्यातं प्रसिद्धम् । प्रसवेषुचिन्तनवशात् पुष्पबाणभावनापरः सन् यद्यच्चि- न्तयति, तत्तत् शरव्यं लक्ष्यं करोति । पाशध्यानवशात् पाशचिन्तनतत्परः सन् समस्त- जगतां सकलाहितानां मृत्योः कालस्य वशत्वं नयति । दुर्गस्तम्भमहाङ्कुशस्य मननात् निरन्तरं चिन्तनादमेयां मायां तरेत् ॥ अतः परं पूर्व द्वाविंशतितमश्लोके 'त्वद्रूपस्य गुरोर्मुखारविन्दविवराद्दीक्षा संप्राप्य मुक्तो भवेत्' इत्युक्तम् , चतुर्विंशतितमश्लोके 'त्वां गुरुमभ्युपेत्य त्वामेव कलयेत्तदा मुच्यते' इ- त्युक्तम् , तर्हि साधकस्य परदेवतातादात्म्यसिद्धिकरं मातृकादिन्यासजालं नोक्तमिति सिं. हावलोकनन्यायेनाशङ्कयाह--- न्यासं कृत्वा गणेशग्रहभगणमहायोगिनीराशिपीठ: पञ्चाशन्मातृकाणैः सहितबहुकलैरष्टवाग्देवताभिः । स श्रीकण्ठादियुग्मैनिजविमलतनौ केशवाद्यैश्च तत्त्वैः पत्रिंशद्भिर्धराद्यैर्भगवति भवतीं यः स्मरेत्स त्वमेव ॥ ४६ ॥ हे भगवति, एवं न्यासं कृत्वा भवतीं यः स्मरेत्स त्वमेवेत्यन्वयः । न्यासं गुरुदर्शितमा. र्गेण कृत्वा विन्यस्य । गणेशेत्यादिन्यासाः पद्धतिषु स्पष्टाः । निजविमलतनौ निजा स्व- कीया विमला पापरहिता तनुः शरीरं तस्याम् । इत्यनेन पापपुरुषदाहादिकृतभू(द्भ)तशु- द्धिप्राणप्रतिष्ठादेहन्यासान् कुर्यादिति सूचितम् । अन्योऽर्थः स्पष्ट एव ॥ अतः परं परदेवतोपासकस्यैहिकफलमाह- सुरपतिपुरलक्ष्मीज़म्भणातीतलक्ष्मीः प्रसरति निजगेहे यस्य दैवं त्वमार्ये । विविधवहुकलानां पात्रभूतस्य तस्य त्रिभुवनविदिता सा जम्भते स्फूर्तिरच्छा ॥ ४७ ॥ हे आर्ये, यस्य त्वं दैवं तस्य निजगेहे सुरपतिपुरलक्ष्मीजृम्भणातीतलक्ष्मीः प्रसरति । किं च तस्य सा अच्छा स्फूर्तिजृम्भते । कथंभूता । त्रिभुवनविदिता । कथंभूतस्य तस्य । विविधबहुकलानां पात्रभूतस्येत्यन्वयः । सुरपतिरिन्द्रस्तस्य पुरममरावती तत्र या लक्ष्मीः संपत्तिस्तस्या जृम्भणं विलासस्तदतीता ततोऽप्यधिकविलासवती । प्रसरति प्रभवति । १. 'तरे' मूल०. २. 'विमलनिजतनौ' मूल०. ३. 'मुडु' मूल०. ४. 'रष्टा' .
- त्रिपुरामहिमस्तोत्रम् । २९ निजगेहे उपासकालये । यस्य यस्य कस्यापि । दैवं दैवतम् । त्वं श्रीमहात्रिपुरसुन्दरी । आर्ये श्रेष्ठे। विविधबहुकलानां विविधा नानाचमत्कारकारिण्यो बस्योऽनेकाः कलाः विद्यास्तासाम् । पात्रभूतस्य निवासप्रायस्य । तस्य त्वदीयस्य । त्रिभुवनविदिता लोक- त्रयविख्याता । सा देव्यनुग्रहप्रसादाज्ज़(त्प्राप्ता)। जृम्भते प्रकाशते । स्फूर्तिश्चमत्कृतिः । अच्छा निर्दोषा ॥ अतः परं मानसार्चनमाह--- मातस्त्वं भूर्भुवः स्वर्महरसि सुतनुस्त्वन्तरिक्षेन्दुसूर्यै- रात्मा शुक्रामरेन्द्रैरपि निगममहाब्रह्मभिः प्रोतशक्तिः । प्राणापानादियुक्तैः कलयति सकलं मानसं ध्यानयोगं येषां तेषां सपर्या भवति सुरकृता ब्रह्मता योगिनां च ॥ ४८ ॥ अयं श्लोकः पाठभ्रमान्मया न व्याख्यातः । शिष्टैविचारणीयः ॥ अतः परं सविनयं देवी प्रार्थयति- क मे बुद्धिाचा परमविदुषो मन्दसरणिः क ते मातब्रह्मप्रमुखविबुधस्याप्तवचसाम् । अभून्में विस्फूर्तिः परतरमहिम्नस्तवनुतिः प्रसिद्ध क्षन्तव्यं बहुलतरचापल्यमिति मे ॥ ४९ ॥ हे मातः, इति कारणात् कर्म प्रसिद्धं बहलतरचापल्यं क्षन्तव्यम् । इतीति किम् । मे मतिः क्व, मे वाचापि क्व, ते परतरमहिम्नस्तवनुतिः क्व । कथंभूता मे मतिः । मन्द- सरणिः । कथंभूतस्य मे। परम् अविदुषः । कथंभूता स्तवनुतिः । ब्रह्मप्रमुखविबुधस्याप्त- वचसा मन्दसरणिः ॥ अतः परं साधकमनोगतं देवी विज्ञापयति- प्रसीद परदेवते मम हृदि प्रभूतं भयं विदारय दरिद्रता दलय देहि सर्वज्ञताम् । विधेहि करुणानिधे चरणपद्मयुग्मं स्वयं विदारितजरामृति त्रिपुरसुन्दरि श्रीशिवे ॥ ५० ॥ १. 'ऋषि' मूल०. २. रिक्षस्य धुर्यो राज्ञां शुक्रेन्दुसूर्येन्दुभिरपि निगमा' मूल०. ३. 'धूतसङ्ग मूल०. ४. 'ब्रह्मविद्येति जन्तोः' मूल०, ५. 'मन्दसरणे:' मूल०, ६. 'स्वा- न्त' मूल०. ७. 'नो' मूल०. ८. 'प्रसीद' मूल०. ९. 'मिह मे' मूल०. १०. 'स्वकं' मूल०. ११. 'विनाशय जरामृती' मूल०. -- ३० काव्यमाला। - हे परदेवते, त्वं प्रसीद प्रसन्ना भव । है करुणानिधे स्वयं चरणपद्मयुग्मं विधेहि वि- शेषेण ध्यानयोगगम्यं कुरु । कथंभूतं विदारितजरामृति । अन्योऽर्थः स्पष्ट एव ॥ इति त्रिपुरसुन्दरीस्तुतिमिमां पठेयः सुधीः स सर्वदुरिताटवीपटलचण्डदावानलः । भवेन्मनसि वाञ्छितं प्रचुरसिद्धिऋद्धिर्भवे- दनेकविधसंपदा पदमनन्यतुल्यो भवेत् ॥ ११ ॥ इति पूर्वोक्तां त्रिपुरसुन्दरीस्तुति महिम्नस्तवरूपामिमां मत्कृतां पठेत् प्रतिदिनमावर्त- येद्यः भक्तः सुधीः कृतनिश्चयः सः सर्वदुरिताटवीपटलं सर्वपापारण्यसमुदायं प्रतिचण्डदा- चानलो भवेत् । तस्य मनसि वाञ्छितं च भवेत् इत्यादि । सुगममन्यत् ॥ पुनर्मनोगतं प्रार्थयति- संगीतं सैरसं विचित्रकवितामाम्नायवाक्यस्मृति व्याख्यानं हृदि तावकीनचरणद्वन्द्वं च सर्वज्ञताम् । श्रद्धां कर्मणि शाम्भवेति विपुलं श्रीजृम्भणं मन्दिरे सौन्दर्य वपुषि प्रदेहि जगतामम्बेश्वरि श्रीशिवे ॥ ५२ ।। अर्थः स्पष्टः ।। अतः परं महिम्नस्तोत्रपाठनिरतस्यैहिकफलमाह- पृथ्वीपालप्रकटमुकुटस्रग्रजोरञ्जिताङ्गि- विद्वत्पूजास्तुतिशतसमाराधितो बाधितारिः । विद्याः सर्वाः कलयति हृदा व्याकरोति ग्रंवाचा लोकाश्चर्येनवनवपदैरिन्दुबिम्बप्रकाशैः ॥ १३ ॥ अर्थः स्पष्ट एव ॥ भूष्यं वैदुष्यमुद्यदिनकरकिरणाकारमाकारतेजः सुज्ञानं भूरिमार्ग निर्गमनिगमनं दुर्गमं योगमार्गम् । आयुष्यं ब्रह्मपोप्यं हरगिरिविशदां कीर्तिमभ्येत्य भूमौ देहान्ते ब्रह्मपारं परतरचरणाकारमभ्येति विद्वान् ॥ १४ ॥ १. तादृतमभीष्टसिद्धिर्भवेत्' मूल०. २. 'गुरुसत्कवित्वसरणीमानायवाची स्मृति' मूल.. ३. 'कालिकेति' मूल०, ४. 'विद्युत्पूजानतिनुति' मूल०. ५. 'प्रभावाल्लो' मूल.. ६. 'निगमनिचयैः' मूल०. ७. 'रूप' मूल०. ८. 'सुव्यक्तं भूति' मूल०, ९. 'निजत- नुकलन' मूल०. १०. 'सौख्यं मूल०. ११. 'शिव' १० मूल०.
त्रिपुरामहिमस्तोत्रम् । -- स विद्वान् भूमी प्रोक्तमेतदभ्येत्य देहान्ते परतरचरणाकारं ब्रह्मपारमभ्येतीत्यन्वयः । भूष्यं भूषणम् । वैदुप्यं पाण्डित्यम् । आकारतेजः दिनकरकिरणाकारम् । भूरिमार्ग सार्वप- थीनम् । सुज्ञानं निगमनिगमनं च निगमानां वेदानां निगमनं व्याख्यानं करोति च । दु. गमं दुप्प्राप्यम् । योगमार्ग योगाभिनिवेशम् । ब्रह्मपोप्यं ब्रह्मणा तुल्यम् । आयुष्यं कल्पा- न्तस्थायित्वम् । हरगिरिविशदां कैलासवदुज्ज्वलाम् । कीर्तिमभ्येत्य अनुभूय । विद्वान् वि- द्योपासकः । देहान्ते शरीरत्यागानन्तरम् । ब्रह्मपारम् अपारं ब्रह्मस्वरूपम् । परतरचरणाकारं परतरायाः श्रीमहात्रिपुरसुन्दर्याः चरणाकारं निर्वाणं चरणरूपमभ्येति प्राप्नोति ॥ अतः परं दुर्वासा मुनिः स्वकृतस्तोत्रे स्वख्यात्यर्थे स्वनामनिबन्धनं करोति- दुर्वाससा विदिततत्त्वमुनीश्वरेण विद्याकलायुवतिमन्मथमूर्तिनैतत् । स्तोत्रं व्यधायि रुचिरं त्रिपुराम्बिकाया वेदागमोक्तपटलैर्विदितैकमूर्तिः ॥ ५५ ॥ दुर्वाससा त्रिपुराम्बिकायाः स्तोत्रं व्यधायि कृतमित्यन्वयः । दुष्टं दुःखदं शणसूत्र- निमितवल्कलव्याघ्रचर्मगैरिकरजितवस्त्रादिकं वासो यस्य । विदितं ज्ञातं तत्त्वमुपनिषत्सारं येन मुनीनां महायोगीश्वराणामीश्वर आचार्य एतादृशेन । विद्यारूपाः कलारूपाश्च या युव. तयः तासां मन्मयमूर्तिना तत्प्रादुर्भावकारकत्वात् । स्तोत्रं श्रीत्रिपुरमहिनाख्यम् । व्यधायि कृतम् । रुचिरं देवीप्रीतिकरम् । त्रिपुराम्बिकायाः । कथंभूतायाः । वेदोक्तैरागमोक्तैश्च पटलैः स्वरूपनिरूपकग्रन्यैविदिता ज्ञातैका मूर्तिः स्वरूपं यस्याः ॥ सदसदनुग्रहनिग्रहगृहीतमुनिविग्रहो भगवान् । सर्वासामुपनिपदां दुर्वासा जयति देशिकः प्रथमः ॥ ५६ ॥ सतामसतां चानुग्रहनिग्रहार्थं गृहीतः मुनिविग्रहो येन । भगवान् महानुभावः । सर्वासां चतुर्वेदोक्तानाम् । उपनिपदां तत्त्वनिरूपिकाम् । जयति सर्वोत्कर्पण विजयते । देशिकः प्रथम आद्य आचार्यः ।। छत्रं चामरयोयुगं व्यजनमादर्शस्तथा मर्दलो भेरीशसमृदङ्गकाहलकलागीतं च नृत्यं तथा । साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा चैतत्समस्तं मया संकल्पेन समर्पितं ननु शिवे संतुष्टये कल्पताम् ।। उच्चेषु नीचेप्वपि दर्शनेषु प्रकाशते देवि तव स्वरूपम् । समुज्ज्वलत्येव हि यज्ञवाटे मातङ्गवेश्मन्यपि जातवेदाः ॥ १. 'विहितमादिमुनीश्वरेण' मूल०. २. 'यथार्थरुचिरं मूल०, ३. 'मूर्तेः' मूल०.
३२ काव्यमाला। इति त्रैपुरं श्रीमहिनं गुरुत्तया मया व्याकृतं प्रीतये सिद्धये च । सतां साधकानां सुविद्यैः सुधीरेश्चिरं लोकनीयं हृदा निश्चलेन ॥ यत्रैव यत्रैव मनो मदीयं तत्रैव तत्रैव तव स्वरूपम् । यत्रैव यत्रैव शिरो मदीयं तत्रैव तत्रैव पदद्वयं ते ।। इति श्रीदुर्वाससा मुनीन्द्रेण विरचितं श्रीत्रिपुरसुन्दरीमहिम्नः स्तोत्रं संपूर्णम् । खड्गशतकम् । (सटीकम् ।) कल्पातिक्रूरकालभ्रुकुटिकुटिलताकल्पकल्पाग्रमुष्टिः क्रुध्यत्कालीकटाक्षाङ्कित[स]कल"...."निमे(पे)कान्तकाली । क्रीडत्यस्याक्रमेण क्रकचकृतिकृती कुन्ति(म्भि)कुम्भारकूट- क्रोडेषूत्कृत्तकण्ठोत्थितरुधिरकणाकीर्णकोणः कृपाणः ॥ १ ॥ [अस्य टीका त्रुटिता। खं प्रेसद्भिः खरांशोः प्रखरखरशिखाः खण्डयन्स्वैर्मयूखैः खेलासंख्येषु खञ्जीकृतरणरसिकः संमुखानां खमि(नि)त्रम् । ख्यातः सौख्यस्य खानिः खलु कमितृजुषां खेचरीणामखर्वः खेलत्युत्खातखड्गप्रतियुवसु खनत्कारवानस्य खड्गः ॥२॥ [अस्य टीका त्रुटिता।] प्तिग्रहणमवगणय्याग्रतः स्वर्गमार्ग ग्रस्यन्नस्य(?) महाग्रेसरकरगुणितोदग्रजाग्रद्गभस्तिः । गर्वोग्रग्रन्थिगोत्रग्रहिलरिपु........... भङ्गीगृहीतो गर्नत्यग्रेसराग्र्यग्रहगिलनगुरुः संगरे मण्डलामः ॥ ३ ॥ (अस्य टीका त्रुटिता।। १. अस्य काव्यस्यैकं पुस्तकं कश्मीरमहाराजानां जम्बूनगरस्थपुस्तकालयस्थपुस्त- कतः पञ्चनददेशीयविश्वविद्यालयाध्यक्षश्रीयुतडॉक्टस्टैन् (M. A. Stein, Ph. D.) महाशयैर्यथाप्रत्यवतार्य स्वपुस्तकालयस्यापितमस्मभ्यं काव्यमालार्थ दत्तमिति तेषां महाश- यानामुपकारं वर्णयितुमक्षमास्तेषां धन्यवादं प्रकाशयामः. अस्य च पुस्तकस्यान्तिमपत्रा- लाभेन नवनवतिरेव श्लोका उपलब्धाः. टीकापुस्तकेऽपि प्रारम्भे मध्ये च पत्राणि समाप्तिपत्रं च नोपलव्धानीति कवेर्नाम कालश्च न ज्ञायते. गात्रस्य खङ्गशतकम् । ३३ घ्राणं संग्रामलक्ष्म्या घनसृतियशसामञ्चिता]न्धोम(2).... "साहसस्यालघुहृदयलघुर्मीत्यवौघस्य विघ्नः । घोटः कीर्तेर्घनाभापधनगजघटाघातनैघण्यनिघ्नो घूर्णत्युः "रघृणिसमाघ्राति घोरोऽस्य खड्गः ॥ ४ ॥ [अस्य टीका त्रुटिता।] चण्डश्चण्डीशचक्षुश्चिरभृतविपमाचिध्वजाच्चानुभाले चण्ड्याश्चामीकरा""जनचयरव......"कौर्यचञ्चः । चित्रं स्वाचान्तवीरा सुरपि(?)रविरुचा चुम्वितश्चाकचिक्या- चक्षुःकर्माणि चूपत्यचिररुचिरुचां वञ्चकोऽस्यासिरुचैः ॥ ५ ॥ [अस्य टीका त्रुटिता।] छा]या......."रूपोच्छलितरिपुशुचौ छादनं कृच्छ्रदेशे छायावाहाशनेनच्छलसमिति लसच्छौर्यकालालिपुच्छम् । ....."तच्छात्रि" 'च्छिदुरगणचणश्छेकहृच्छोककारी छायाकान्तच्छवीच्छाव्यतिकरवशतो मूर्च्छतीद्धोऽस्य खड्गः ॥ ६ ॥ 'वित्तश्छिदुरगणचणः । 'तेन वित्त:-' इति चणम् । छेकानां ना. गराणां हृच्छोककारी ॥ जङ्घालो जैत्रजन्याजिरभुवि जनयञ्जन्तुजाते ज्वराति जीवातुर्बाहुजस्य त्रिजगति जयिनो दोर्भुजङ्गस्य जिह्वा । ज्याजानिर्व्याघ्रजाग्रद्गजरदनशिलाभञ्जनाजस्रयोग्यो जातज्वालो जटावानिह जयति जगजित्वरोऽमुष्य खड्गः ॥ ७ ॥ जमिति ॥ अमुष्य खड्ग इह लोके जयति । किंविधः । जैत्रं जयशीलं यज्जन्य संग्रा. मस्तस्याजिरभुवि जङ्घालः । सत्वर इत्यर्थः । 'जङ्घालोऽतिजवे' इत्यमरः । जन्तुजाते प्रा- णिमात्रे ज्वराति ज्वरपीडां जनयन् । त्रिजगति त्रैलोक्ये जयिनः पराक्रमवतो वाहुजस्य क्षत्रियस्य जीवातुर्जीवनौषधम् । 'जीवातुर्जीवनौषधम्' इत्यमरः । पुनः किंविधः । अथवा त्रिजगति जयिनो दोर्भुजङ्गस्य बाहुसर्पस्य जिह्वा । ज्याजानिर्वसुधाजानि: । 'जायाया निद्' । 'वसुधामौर्योज्यो' इति मेदिनी । व्याघ्राश्च जाग्रद्गजरदनाश्च शिलाश्च तासां भ. जनं तत्राजवं योग्यः । जाता ज्वाला यस्मिन्स तथा। अतएव जटावान् । जगजित्वरः ॥ ।
३४ काव्यमाला। झात्काराजैत्रजन्ये झगिति जनयतो जन्मिकर्णज्वराति झञ्झावातानुकाराञ्झणझणितिझणत्कारिणः प्रोजिहानः । झापाकीं तामवस्था झगिति रिपुजनं ग्राहयन्धूर्जटीष्टां झूरन्नम्राहितेषूज्झितरणरमसं प्रोज्जिहीतेऽस्य खड्नः ।। ८ ।। झादिति ॥ अस्य खड्ग उज्झितरणरभसं संप्रास्तादरं यथा स्यात्तथा प्रोजिहीते ग- च्छति । किंविधः । जैत्रजन्ये जयशीले संग्रामे झगिति झात्काराननुकरणशब्दान्मोजिहानः। कृतवानित्यर्थः । 'ओहाङ् गतौ । किंविधाञ्झात्कारान् । झञ्झावातानुकारान्सवृष्टिक- वातसदृशान् । पुनः किंविधान् । झणझणितिझणत्कारिणः । किंकुर्वन्सन् । झाषाङ्कीं मान्मथीमवस्थाम् । भस्मरूपामित्यर्थः । रिपुजनं वैरिलोकं झगिति शीघ्रं ग्राहयन् । कि- विधामवस्थाम् । धूर्जटेः शंभोरिष्टाम् । नम्रा येऽहितास्तेषु झूरलजन् ॥ टंकारोद्धट्टिता या झटिति विघटयन्कोटिशश्चापयष्टी- ष्टको विद्विगिरीणां करटिकटकटाहातिकुट्टाग्रकोटिः । दुष्कूटैर्यष्टिकूटैः कटुकुटिलसटैः पट्टिशैः कोटिसंख्यैः खेतैर्दुर्घाटवाटान्प्रतिभटसुभटांष्टीकतेऽमुष्य खड्गः ॥ ९ ॥ टमिति ॥ अमुष्य खङ्गः प्रतिभटसुभटान्प्रतिपक्षवीरान्द्राक्शीघ्रं टीकते । तान्प्रति गच्छतीत्यर्थः । किंविधः । टंकारेण शब्देनोद्धहिताः प्रकटिताः [याः] कोटिशोऽसंख्याश्चाप- यष्टीझटिति शीघ्रं विघटयन् । पुनः किंविधः । विद्विषां गिरयस्तेषां टङ्को विदारकः । पुनः । करटिनो गजास्तेषां कटा गण्डस्थलानि त एव कटाहास्तैलादिपाकपात्राणि तेषां कुट्टा पिष्टीकरणसमर्थानकोटिर्यस्येति । किंविधान्प्रतिभटसुभटान् । दुष्कूटैर्दुष्टागैर्य- ष्टिकूटैर्यष्टिसमूहैः कटुकुटिलसटैः पटिशैः खः फलकैर्दुर्घाटो वाटो मार्गो येषां ते । को- टिसंख्यैरिति विशेषणं त्रिष्वपि योज्यम् ॥ ठात्कारी कण्ठसीमन्यतिकठिनतरे स्कन्धपीठे कठोरे पृष्ठाष्ठीलानुकारे शठकमठपतेः कुम्भपृष्ठेऽपि चैथे । द्वान्द्राषिष्ठः कठोरच्छविजरठतरद्योतसंघट्टमूर्छ- कोष्ठाः काष्ठाः प्रकुर्वरिपुशिरसि लुठत्येतदीयः कुठारः॥ १०॥ ठात्कारीति ॥ एतदीयः कुठारो रिपुशिरसि द्राक्शीघ्रं लुठति । किंविधः । ऐभे . हस्तिसंबन्धिनि कण्ठसीमनि कण्ठसमीपदेशे ठात्कारी शब्दकर्ता । किंविधे कण्ठसी- मनि । अतिकठिनतरे । पुनः किंविधः । कठोरे स्कन्धपीठेठात्कारी। पुनः किंविधः । ऐभे कुम्भपृष्ठे ठात्कारी । किविधे कुम्भपृष्ठे । शठकमठपतेधूर्तकच्छपस्य । 'शठो धत्तुरके १.-२. 'कृपाणः' इत्येव पाठो भवेत्. .
खड्गशतकम् । ३६ धूर्ते मध्यस्थपुरुषेऽलसे' इति महीपः । पृष्टाष्ठीलानुकारे पृष्ठस्याष्ठीलं तत्तुल्ये । प्राधिष्ठो दीर्घः। कठोरच्छविः सूर्यस्तस्य जरठतरो यो द्योतः प्रकाशस्तस्य संघटस्तेन मूर्छत् द्विगुणी- भवन् । 'जैक्षित्यादयः षट्' इ[त्यभ्यस्तसंज्ञायां 'नाभ्यस्तात्-' इति नुन्न । किं कुर्व- न्सन् । काष्ठा दिशः कोष्टाः स्वाधीनाः प्रकुर्वन्सन् । 'कोष्ठः कुसूले चात्मीये मध्ये कुक्षे. ऍहस्य च' इति मेदिनी ॥ डिम्भो दण्डायुधस्य प्रधनघनतडिच्चण्डदोःकुण्डलीन्द्र- क्ष्वेडः प्रोद्दण्डदर्पद्विरदननिगडो डिण्डिमः शौर्यभर्तुः । अस्य प्राचण्ड्यभाण्डं घृतमधुपगलद्गण्डवेतण्डशुण्डा- काण्डं खण्डं वितन्वन्युधि धुतजडिमा हिण्डते मण्डलायः ॥ ११ ॥ डिम्भ इति ॥ अस्य मण्डलायो हिण्डत इतस्ततो गच्छति । किंविधः । दण्डायुधस्य यमस्य डिम्भः शिशुः । 'पोतः पाकोऽर्भको डिम्भः' इत्यमरः । प्रधनमेव संग्राम एव घनतडित्तस्याश्चण्डदोर्हस्तः कुण्डलीन्द्रः शेषस्तत्वेडो गरलम् । 'श्वेढस्तु गरलं विषम्' इत्यमरः । प्रोद्दण्डो दो येषां ते ये द्विरदना गजास्तेषां निगडोऽन्दुकः । शौर्यभर्डि- ण्डिमः सूचकवाद्यविशेषः । प्रचण्डस्य भावस्तथा, तद्भाण्डमधिकरणम् । पुनः किं. विधः । युधि संग्रामे धृता मधुपा यैस्तैर्गलन्तः सवन्तो गण्डा येषां ते एवंविधा वे- तण्डा गजास्तेषां शुण्डास्तासां काण्डं समूहं खण्डं च्छेदं वितन्वन्विस्तारयन् । धुतो जढिमा येन सः॥ ढक्कास्वारूढकीर्तिप्रसूतिसुविजयश्रीविवोढा निरूढो वाढं सोढातिगाढप्रहरणसमितौ लीढकोष्णास्त्रसीधुः । रीढा गूढप्रहर्तुढिमकुलगृहं न्यस्तशस्त्रेषु पण्डो नियूढोगाढयुद्धप्रतिहतिषु दृढं ढोकतेऽमुष्य खड्गः ॥ १२ ॥ टेति ॥ अमुष्य खगो नियूंढोद्गाढयुद्धा वीरास्तेषां प्रतिहतयो व्रणास्तासु दृढं ढौकते प्रवर्तते । किंविधः । ढकया विजयमलेन सुठु आरूढा या कीर्तिस्तस्याः प्रसूतिः प्रसर- स्तस्यां सुविजयश्रीस्तस्या विवोढा । निरूढः ख्यातः । अतिगाढप्रहरणा या समितिः सं- ग्रामस्तत्र वाढं सोटा सहनशीलः । पुनः किंविधः । लीढमास्वादितं कोणं किंचिदुष्णं यदस्रं तदेव सीधुर्मयं येन । गूढप्रहर्तुरप्रकटमारणकर्तृ रीढावमानना । द्रढिम्नः कुलगृह दृढताया अधिष्ठानम् । न्यस्तशस्त्रेषु त्यक्तायुधेषु घण्टो निःसारः ॥ प्राणा दर्पस्य पाणी रणशमनशिशोः कार्मणं द्वेषणानां तूर्ण सद्वारबाणत्रणकरणकृती कीर्णदुर्मर्षणार्चिः । १. 'मूर्छ'धातोर्जक्षित्यादित्वे मानाभावेन नुमभावकथनमप्रमाणम्.
काव्यमाला। कोष्णद्विशोणिताक्तः खरकिरणघृणिश्रेणिशाणोऽरुणश्री- रुदूर्गों वारणानां गणमसृणि शृणात्यस्य तीक्ष्णः कृपाणः ॥ १३ ॥ प्राणा इति ॥ अस्य तीक्ष्णः कृपाणो वारणानां गजानां गणं समूहमसृणि सृणिर- हितं यथा स्यात्तथा शृणाति । 'शु हिंसायाम्' । मारयतीत्यर्थः । किंविधः । दर्पस्य बलस्य प्राणाः । बहुत्वेन निर्देशः । रण एव शमनशिशुस्तस्य पाणिहस्तः । पाणी रणेति 'रो रि' इति रलोपे 'ठूलोपे-' इति दीर्घः । द्वेषणानां शत्रूणाम् । 'द्विषवेषणदुहृदः' इत्य- मरः । कार्मणं मूलकर्म । तूर्ण शीघ्रं सद्यद्वारवाणं कवचम् । 'कञ्चको वारणोऽस्त्री' इत्य- मरः । तत्र व्रणकरणं तत्र कृती कुशलः । कीर्ण प्रसारितं दुर्मर्षणं दुःसहमचिर्येन । कोष्णं यट्विषतां शोणितं रक्तं तेनाक्तः सिक्तः । खरकिरणः श्रीसूर्यस्तस्य घृणयो मयूखास्तेषां श्रेणिस्तस्याः शाणो घर्षणपाषाणः । अरुणा श्रीर्यस्य सः । उद्रूर्ण उत्थापितः ॥ तृप्यद्दन्तिक्षितीन्द्रं तरलतरतरत्पत्तिभङ्गं विघूर्ण- तुशाश्वावर्तगत निशिततममिलत्कुन्तसंतानचक्रम् । त्वङ्गत्तीक्ष्णासितूर्वत्तिमिमनतिदलच्छक्तिशुक्तिं रणाब्धि तारस्तूर्णं तितीर्घस्तृणलववदरीनस्य खड्गस्तृणेढि ॥ १४ ॥ तृप्यदिति ॥ अस्य खगोऽरीशस्तृणलववत्तॄणेढि । मारयतीत्यर्थः । 'तह हिंसा- याम्' । किंविधः । तूर्ण शीघ्रं रणाब्धि संग्रामसमुद्रं तितीर्घस्तरणेच्छुः । 'तृ प्लवनतर- णयोः' । तार उज्ज्वलः । किंविधः रणाब्धिम् । तृप्यतो(न्तो) दन्तिन एव क्षितीन्द्राः- (तिध्राः) पर्वता यस्मिन्स तथा । तरलतरा अतिचञ्चलास्तरन्तो ये पत्तयः पदातयस्त एव भङ्गास्तरङ्गा यस्मिस्तम् । विघूर्णन्तस्तुङ्गा येऽश्वास्त एवावर्तगर्ता यस्मिंस्तम् । । त्वङ्गन्तस्तीक्ष्णा येऽसयस्त एव तूर्वत्तिमयो यस्मि- निति तथा तम् । अनसिदलच्छक्तय एव शुक्तयो यस्मिस्तम् ॥ स्थूलं स्थूलं श्वसद्भिः प्रथितपृथुपृषद्वीक्षणैस्तीर्थमात्रं संमन्वानरपाथै शिथिलरणकर्वेपथुव्यर्थशस्त्रैः । संप्राप्तैः स्थाणुसंस्थां प्रथितपथचरैनस्तनेत्रातिथित्वं नीतः प्रत्यर्थिसाथैर्व्यथयति सविधस्थानपीद्धोऽस्य खड्गः ॥ १५ ॥ स्थूलमिति ॥ अस्येद्धः समृद्धः खड्गः सविधस्थानपि समीपवर्तिनोऽपि व्यथयति । कि- विधः । प्रत्यर्थिसाथैः परिपन्थिसमूहैनस्तानि यानि नेत्राणि तत्रातिथित्वं नीतः । दृष्ट इति यावत् । किंविधैः प्रत्यथिसाथैः । स्थूलं स्थूलं दीर्घ दीर्घ श्वसद्भिः । असह्यत्वात् । प्रथितपृथु पृषन्तो विन्दवस्तद्युक्तानि वीक्षणानि येषां तैः । तीर्थमात्रं संमन्वानः । अपार्थ निरर्थकं शिथिला रणकथा येषां तैः । वेपथुना कम्पेन व्यर्थानि शस्त्राणि येषां खड्गशतकम् । ३७ । तैः । अत एव स्थाणुसंस्थां संप्राप्तैः । प्रथितो यः पन्थास्तत्र 'चरन्तीति चरास्तैः । 'महापथस्तु मरणम्' इति ॥ दृप्यद्दोःकालकूटदुमतरुणदलं दर्पदन्तावलेन्द्र- द्राधीयोदानलेखा दरदलितदलेन्दीवरद्रोणिदेहः । दीव्यन्नदाघम(मा)ध्यंदिनदिवसमणियोतदुप्प्रेक्ष्यदीप्ति- दौःस्थित्यं दीर्घदीर्घ दददरिसुदृशां दीप्यतेऽमुष्य खगः ॥ १६ ॥ दृप्यदिति ॥ अमुष्य खड्गो दीव्य(प्य)ते क्रीडते । किंविधः । दृप्यद्यहोर्बाहुः स एव कालकूटद्रुमो विषतरुस्तस्य तरुणदलं नवीनपत्रम् । दर्प [एव] दन्तावलेन्द्रो हस्तीन्द्रस्तस्य दाघीयो(यसी) दीर्घा दानलेखा । दरमीपद्दलितं विशीर्णे दलं यस्यैवंविधमिन्दीवरं तस्य द्रोणिर्मध्यभागस्तद्वद्देहो यस्य स तथा । श्याम इति यावत् । दीव्यद्यन्नैदाघम(मा)ध्यं- दिनमुष्णकालमध्याहं तत्र(हभवों) यो दिवसमणिस्तस्य द्योतः प्रकाशस्तेन दुष्प्रेक्ष्या दी- प्तिर्यस्य सः । अरिसुदृशां वैरिस्त्रीणां दीर्घदीर्घमतिमहद्दौःस्थ्यं दुःस्थस्य भावस्तथा तद्ददत् ।। धैर्यस्याधारयष्टिर्धतविबुधवधूसाध्वसो धाम धाम्नां धूमः क्रोधानलस्य प्रधनरथवरस्योद्धरो धूधरोऽयम् । धीरोदात्तोर्ववाहा धरणिधरधुतस्तीक्ष्णधाराघरोऽद्धा धीरानौद्धत्यभाजो रणधरणिचरानस्य धूनोति खड्गः ॥ १७ ॥ धैर्यस्येति ॥ अस्यायं खड्ग औद्धत्यभाजो रणधरणिचरान्संग्रामभूमिगतान्धीरान्धू- नोति कम्पयति । किंविधः । धैर्यस्य गुणस्याधारयष्टिः । धृतं विबुधवधूनां देवत्रीणां साध्वसं येन सः । धानां तेजसां धामाधिष्ठानम् । क्रोध एवानलस्तस्य धूमः । प्रधनं संग्रामस्तदेव रथवरस्तस्योद्भुरो धर्धरो भारधर्ता । धीरोदात्तः पुरुषश्रेष्ठस्तस्योर्ध्ववाहा हस्तः । 'भुजा वाहा' इति स्त्रीत्वेन निर्देशः । धीरोदात्तलक्षणं रसकलिकायाम्-'चतुर्धा पुरुषः-धीरोदात्तो धीरललितो धीरशान्तो धीरोद्धतश्चेति । तत्र-कृपावानतिगम्भीरो विनीतश्चाविकत्थनः । धीरोदात्तः स विज्ञयो रामो दाशरथिर्यथा ॥' इति । धरणिधरेण राज्ञा धृतः । तीक्ष्णधाराधरः । 'अद्धा' इत्यङ्गीकारेऽव्ययम् ।। नानानीके ननम्रान्नृपतिषु नमयन्नानतानाधिपत्ये निःसापत्न्यं नयन्नानिधनमनिभृतानप्यलं निश्चलत्वम् । निर्मथ्नन्वैरिनारीजननयनसरोजन्म धाराजलेन न्यक्कुर्वन्निधुनीते प्रधनचरनृपानस्य नृत्यन्कृपाणः ॥ १८ ॥ नानेति ॥ अस्य नृत्यन्कृपाणः प्रधनचरनृपान्संग्रामस्थितराज्ञो(जो) निधुनीते । नितरां कम्पयतीत्यर्थः । किं कुर्वन्सन् । नानानीकेऽनीकसैन्ये नृपतिपु मध्ये ननम्रानुद्धतान- -- ३८ काव्यमाला। । मयन्सन् । आनतान्नम्रानाधिपत्ये निःसापत्न्यं सपनरहितं यथा तथा अनिधनं मरणरा- हित्यं नयनिति न किंतु नयन् । अनिभृतानगुप्तानलमत्यर्थ निश्चलत्वं निर्मनन् । दूरी- कुर्वनित्यर्थः । वैरिनार्यः शत्रुस्त्रियस्तासां जनः समूहस्तस्य नयनसरोजन्म नेत्रकमलम् । जात्यभिप्रायेणैकवचनम् । धाराजलेन न्यक्कुर्वन् । पादान्ते पातुकक्ष्मापतिपटलपरापीडपुष्पाधिवासा- त्पुष्यत्पुष्पंधयालीभ्रमकृदपपरीवारपारुष्यपात्रम् । पूष्णः पुष्टप्रकाशप्रतिफलनपरिप्राप्तदिक्श्रीरपूर्वो पौर्वीपर्यापिनष्टि प्रबलपरनृपानस्य पाणौ कृपाणः ॥ १९ ॥ पादेति ॥ अस्य कृपाणः पौर्वापर्यात्प्रबला ये परनृपास्तान्प्रबलपरनृपाशत्रुराजान्पि. नष्टि । मर्दयतीत्यर्थः । किंविधः । पादान्ते पातुकाः पतनशीला ये क्षमापतयो राजान- स्तेषां पटलं समूहस्तस्य परापीड उत्कृष्टशेखरस्तत्र पुष्पाधिवासात्पुष्पसौगन्ध्यात्पुष्यन्ती पुष्टीभवन्ती पुष्पंधयाली भ्रमरपतिस्तस्या भ्रमो भ्रान्तिस्तां करोतीति कृत्. ...तेन यत्पारुष्यं तस्य पात्रमधिष्ठानम् । पूष्णः श्रीसूर्यस्य पुष्टो यः प्रकाशस्तस्य प्रतिफलनं विलासस्तेन परिप्राप्ता दिक्षु दिशां वा श्रीर्येन स तथा । अत एवापूर्वः ॥ स्फारः शश्वद्विधूतौ स्फिरतरकिरणस्फीतम(मा)ध्यंदिनार्क- स्फायत्कान्तिप्रतानप्रतिफलनमरैः शौर्यवः स्फुलिङ्गः । फालः प्रत्यर्थिभूमेः फलमहितगणाभाग्यवृक्षस्य फाण्डं(प्टं) फेरूकुर्वन्समाङ्केवलिपु खपतितान्स्फूर्जतीद्धोऽस्य खड्गः ॥ २० ॥ स्फार इति ॥ अस्येद्धः खड्गः स्फूर्जति दीप्तीभवति । किंविधः । विधूतौ धूनने श- श्वनिरन्तरं स्फिरतरा ये किरणास्तैः स्फीतः प्रकटो म(मा)ध्यंदिनार्को मध्याह्नसूर्यस्तस्य स्फायद्वर्धिष्णु यत्कान्तिप्रतानं तस्य प्रतिफलनभरा द्विगुणभावास्तैः स्फारो दीर्घः । शौर्यवढेः स्फुलिङ्ग इव स्फुलिङ्गः कणः । विशेष्यपरता ज्ञेया । प्रत्यर्थिन एव भूमिः, तेषां वा भूमिः, तस्याः फालो विदारकः । अहिता वैरिणस्तेषां गणः समूहस्तस्याभाग्यं स एव वृक्षस्तस्य फाण्डं(ण्टं) फलम् । समीके संग्रामेऽभिमुखपतितान्फेरूकुर्वन् । अफेरवः फेरु- तामिति । 'अभूत-' इति च्विः । जम्बुकप्रायान्कुर्वनित्यर्थः ॥ विब्बोको बाहुलक्ष्म्याः प्रबलबलभरद्वेषिबालाबलानां बाष्पाम्बूनां निदानं बलभिदुपलकाचिर्विडम्बिप्रकाशः। वंहिष्ठस्तीत्रशोचिःप्रसरशवलितो बीजमिष्टार्थसिद्धे- बाहावस्याम्बरान्तर्विलसति बहुधाडम्बरी मण्डलायः ॥ २१ ॥ वियोक इति ॥ अस्य वाही हस्ते मण्डलामः खड्गो विलसति । 'किंविधः । बाहु- लक्ष्म्या बिब्बोको विलासः । बिव्वोकलक्षणं गीतगौरीपतौ-'इष्टेऽपि वस्तुन्यवहेला' 1
खगशतकम् ।
३९
इति । 'बिब्बोकस्त्वतिगर्वेण वस्तुनीष्टेऽप्यनादरः' इति दर्पणोक्तेश्व । प्रबलो बलभरो
येषां ते ये द्वेषिणस्तेषां बालाबलास्तासां बाप्पाम्बूनामश्रुजलानां निदानं कारणम् । बल-
भिदिन्द्रस्तदुपल इन्द्रनीलपाषाणस्तस्यार्चिस्तस्य विडम्बी अनुकरणकर्ता प्रकाशो यस्य
स तथा । बंहिष्ठोऽतिशयेन बहुरिति । पुनः किंविधः । तीव्रशोचिस्तीक्ष्णरोचिः । सूर्य
इति यावत् । तस्य प्रसरस्तेन शबलितश्चित्रितः । 'चित्रं किर्मीरकल्माषशबलैताश्च
करे' इत्यमरः । इष्टार्थसिद्धे/जमुत्पादकम् । अम्बरान्तराकाशमध्ये बहुधानेकधा
आडम्बरी॥
भास्वद्भावद्गभस्तिव्यतिकरभृतयाभ्रान्तरालेऽभिभूत्या
भूयः संभ्रान्तिभाजां दददहितभुवां भूभुजां स्तम्भमुद्राम् ।
भूम्ना भङ्गानभिज्ञः प्रसभमभिपतत्कुम्भिकुम्भाग्रभेदो-
द्भूतासृग्भासुरश्री रणभुवमभितो भात्यभीकोऽस्य खड्गः ॥ २२ ॥
भास्वदिति ॥ अस्याभीको निर्भयः, अथवा अभीक इव कामुक इव । रूपकम् ।
रणभुवं संग्रामभूमिमभितः समन्ताद्भाति । किंविधः । भास्वतः सूर्यस्य भास्वन्तो ये
गभस्तयः किरणास्तेषां व्यतिकरः संपर्कस्तेन भृतया। पूर्णयेत्यर्थः । [अभिभूत्याभ्रान्त-
राले आकाशमध्ये भूयो वारंवारं संभ्रान्तिभाजामहितभुवां भूभुजां राज्ञां स्तम्भमुद्रां
ताटस्थ्यं ददत् । भूम्ना भङ्गः पराजयस्तटनं(?) वा तस्यानभिज्ञः । प्रसभमभिपतन्तो ये
कुम्भिनस्तेषां कुम्भागभेदस्तस्मादुद्भूतं यदसृग्रक्तं तेन भासुरा श्रीर्यस्य ॥
मीमांसा मेदिनीशानमननमनयोर्मोक्षमार्गः समीके
मानात्सांमुख्यभाजामहिमकरमयूखातिमाद्यन्मरीचिः ।
मन्दं मन्दं मदान्धद्विरदमदमपीपट्टमात्सर्यमूर्छ-
न्मूर्तिर्माद्यत्यमुष्य प्रमदनृपचमूमारणे मण्डलायः ॥ २३ ॥
मीमामिति ॥ अमुष्य मण्डलायः प्रमदाः प्रकृष्टमदा ये नृपा राजानस्तेषां
चमः
सेना
तन्मारणे माद्यति । किंविधः । मेदिनीशानां पृथ्वीशानामनमनं च नमनं च तयोर्मीमांसा
पूर्वोत्तरविचारः । समीके संग्रामे मानात्सांमुख्यभाजां मोक्षमार्गः । अहिमकरः श्रीसू-
यस्तस्य मयूखास्तैः कृत्वा अति अत्यन्तं माद्यन्तो मरीचयो यस्य सः । मन्दं मन्दं म-
दान्धा ये द्विरदास्तेषां मद एव मषीपट्टस्तस्य मात्सर्य द्वेषस्तेन मूर्छन्ती द्विगुणिता मूर्तिः
कायो यस्य । अतिश्यामशरीर इति यावत् ॥
यानं लोकत्रयाप्तावतिशयि यशसोरिक्षयाश्चर्ययज्ञे
यूपो युग्यं दृढीयो युधि युधि विजयं यास्यतः क्षत्रियस्य ।
यात्रायां यूथनाथायतकटयुगली दारयन्यातयामा-
न्योधानस्यन्नमायो जयति जयजुषां नायकः सायकोऽस्य ॥ २४ ॥
काव्यमाला। यानमिति ॥ अस्य सायकः खगः । 'शरे खड्ङ्गे च सायकः' इत्यमरः । जयति । कि- विधः । यशसो लोकत्रयाप्तौ त्रैलोक्यगमने । विषये सप्तमी । अतिशयो यस्यास्तीति तथा। यानं वाहनम् । अरिक्षय एवाश्चर्ययज्ञस्तस्मिन् । यूपो यज्ञस्तम्भः । युधि युधि संग्रामे वि- जयं यास्यतः क्षत्रियस्य द्रढीयो अतिदृढं युग्यं युगस्य वोढा । 'तद्वहति रथयुगप्रासङ्गम्' इति यत् । यात्रायां विजये यूथनाथा गजास्तेषामायता विस्तृता या कटयुगली तां दार- यन् । यातयामान्गतरसान्योधानस्यन्क्षिपन् । दूरीकुर्वनित्यर्थः । अमायो निष्कपटो ममताशून्यो वा । जयजुषां जयवतां नायको मुख्यः ॥ राष्ट्रद्विड्वासराणां रजनिरचरमा वीरशार्दूलसंख्या- रेखा रोदोन्तराले रणरसिकरिपूद्रक्तसंरक्तसारः । रुद्धो(द्धा)रातिप्रचारः करिकरकरटान्दारयन्नेहसारं राजत्यस्यातिसारः परसमरविधौ रक्तधारः कुठारः ॥ २५ ॥ राष्ट्रद्विडिति ॥ अस्य कुठारो राजति । 'राज दीप्तौ' । किंविधः । राष्ट्रं द्विषन्ति ते तथा द्वेषिणस्त एव वासरा दिवसास्तेषां रजनी । नाशकत्वात् । 'कृतिकारात्' इति ङीष् । अतो रजनिरपीति रायमुकुटः । अचरमा प्रथमा । वीरास्त एव शार्दूलास्तेषां संख्यारेखा गणना- रेखा । रोदोन्तराले द्यावापृथिव्योर्मध्ये रणरसिका ये रिपवस्तेषामुदुत्कटं यद्रक्तं तेन संरक्तः सारः स्थिरांशो यस्येति स तथा । रुद्धोऽवरोधितोऽरातिप्रचारो येन सः । अरमत्यर्थे रं- हसा वेगेन करिणो गजास्तेषां कराः शुण्डादण्डाः करटा गण्डस्थलानि तान्दारयन् । अ. तिसारोऽत्यन्तबलः । परसमरविधौ वैरिसंग्रामकर्तव्यतायां रक्तधारः ॥ लक्ष्मीलीलोपधानं कलिकुलनिलयोल्लेखसंतानमूलं लोकालोकावधिक्ष्मावलयमिलदिलाधीशदुर्लक्ष्यखेलः । लूनव्यालेभगण्डोल्लसदलिपटलैलालितोऽमुष्य विद्विड्- लोकातूंल्लेलिहानो विलसति कलहे कालवन्मण्डलायः ॥ २६ ॥ लक्ष्मीति ॥ अमुष्य मण्डलामः कलहे संग्रामे कालवद्यमवद्विलसति । किंविधः । लक्ष्म्या लीलोपधानम् । कलिः कलहस्तस्य कुलं समूहस्तस्य निलयोल्लेखो गृहसंनिवेशस्तस्य सं- तानं विस्तारस्तस्य मूलं कारणम् । लोकालोकः पर्वतः सोऽवधिर्मर्यादा यस्य तदेवंविधं मावलयं पृथ्वीमण्डलं तत्र मिलन्तो य इलाधीशाः पृथ्वीशास्तैर्दुर्लक्ष्या खेला यस्येति सः । लूनाश्छिन्ना ये व्यालेभगण्डा उन्मत्तगजगण्डस्थलानि तेभ्य उल्लसन्ति यान्यलिपटलानि भ्र- मरसंघास्तैलालितः। विद्विड्लोकाः शत्रुजनास्तेपामसून्प्राणाँल्लेलिहानोऽतिशयेनास्वादकः॥ वल्गद्विारवाणावृतविपुलवलद्विग्रहवारवर्ग- वैयात्याद्वीक्षितश्रीरतिनि(वि)कटगतिविस्फुरन्वीतशङ्कः । १. क्लीवता चिन्त्या.
खगशतकम् । - वारंवारं विवस्वघ्यतिकरितरुचा व्योम्नि विद्योतमानो वैरिजातं विशिष्टं विवशयति वरे विग्रहेऽमुष्य खड्गः ॥ २७ ॥ वल्गदिति ॥ अमुष्य खड्गो वरे श्रेष्ठे विग्रहे संग्रामे विशिष्टं महान्तं वैरिव्रातं शत्रुसमूह विवशयति मारयति । किंविधः । वल्गद्भिः संचरद्भिर्वीरवगैवैयात्यानिर्लजत्वाद्वीक्षिता श्री- यस्य । किंविधैर्वीरवर्गः। वारवाणैरङ्गत्राणैः । कञ्चको श(वा)रवाणोऽस्त्री' इत्यमरः। तैरावृता विपुल(ला) वलावला(१)विग्रहाः शरीराणि येषां ते तथा तैः । अतिविकराला गतिर्यस्य सः । विस्फुरन् । वीतशङ्को निर्भयः । वारंवारं विवस्वतः श्रीसूर्यस्य व्यतिकरिता मिश्रिता या रुक्तया व्योम्नि आकाशे विद्योतमानः । दीप्त इत्यर्थः ॥ श्यामैरंशुप्रकाण्डैदिशि दिशि शतशो दर्शयन्स्वान्समूहैः शूराणां शात्रवाणां शमनशिशुशताशङ्कया वीक्ष्यमाणः । शान्तश्रान्तिनुशंसाञ्जगति शकलयन्नाश्रितानां शरण्यः शातः शत्रूनशङ्कं रणशिरसि शृणात्येतदीयः कृपाणः ॥ २८ ॥ श्यामैरिति ॥ एतदीयः कृपाणः शत्रूनणशिरसि अशङ्कं निःशवं शृणाति मारयति । 'शृ हिंसायाम्' । किंविधः । श्यामैरंशुप्रकाण्डैः प्रशस्तांशुभिः । 'प्रकाण्डमुद्धतल्लजौ प्रशस्त- वाचकान्यमूनि' इत्यमरः । दिशि दिशि प्रतिदिशं स्वान्स्वं वा शतशः । बहुधेत्यर्थः । दर्श- यन् । पुनः शूराणां वीराणां शात्रवाणां वैरिणां समूहैः शमनो यमः । 'शमनो यमरा- ब्यमः' इत्यमरः । तस्य शिशुतया तत्पुत्रभावेन वीक्ष्यमाणो दृश्यमानः । संहारकत्वादिति भावः । शान्ता गता श्रान्तिः श्रमो यस्य । जगति नृशंसान् घातुकान् शकलयन्खण्डयन् । आश्रितानां शरण्यः शरणाय योग्यः । शातस्तीक्ष्णः ॥ पागुण्यद्वेपि वृत्ताञ्जगति कलुषयन्स्वाभिलाषे निषण्णा- पाखण्डानेप दुष्टैर्विषमविषहणो मर्षणो धर्षकेषु । पण्डो नम्र द्विपत्यप्यनमति परुषः पुष्टचाषच्छदश्रीः खण्डं विद्वेषणानां परिकृषति रुषामुष्य कृष्णः कृपाणः ॥ २९ ॥ पादिति ॥ एफोऽमुष्य कृपाणो विद्वेषणानां वैरिणां खण्डं समूहम् । 'सपत्नारिद्विपद्धे- पणदुहृदः' इत्यमरः । रुषा क्रोधेन परिकृपति । 'कृष विलेखने' । घर्षयतीत्यर्थः । किं. विधः । षागुण्यम् । 'स्वाम्यमात्यसुहृत्कोशदुर्गराष्ट्रबलानि च' इति । तस्य द्वेषि वृत्तं येषां ते तान् स्वाभिलाघे स्वमते निपण्णान्पाखण्डानास्तिकान् जगति कलुषयन् । दुष्टैर्वि- पमं यद्विपं तद्धन्तीति हणः । धर्षकेषु मर्पणः सहनशीलः । नने द्विषत्यपि घण्टः । सौम्य इत्यर्थः । अनमति उद्धते द्विषति परुपः. कठिनः । पुष्टो यश्चाषः पक्षी तस्य छदः पक्षः । '......'छदः पुमान्' इत्यमरः । तद्वत् श्रीर्यस्येति स तथा ॥ १. 'शमनस्य शिशूनां शतस्याशङ्कया' इति तु मूलानुसारी समासः. ६ ४२ काव्यमाला। संपूर्णः सत्त्वसारैः सुरसरणिसमावर्तिनीनां द्युतीनां सौरीणां संप्रसारैः समसमयसमासन्नतेजःसहस्रः । संग्रामाग्रेसराणां समितिषु सहसा साध्वसं संददानः संपत्त्या साहसस्य स्फुरति सरभसं सर्वतः सायकोऽस्य ॥ ३० ॥ समिति ॥ अस्य सायकः खड्गः साहसस्योद्योगस्य संपत्त्या सरभसं सवेगं सर्वतः स्फु- रति । किंविधः । सत्त्वसारैः संपूर्णः । पुन:-सुराणां देवानां सरणिर्मा! गगनमिति यावत् । तत्र समावर्तिनीनां सौरीणां सूरस्येमाः सौर्यस्तासां युतीनां कान्तीनां संप्रसारैः समसमयं समकालं समासनं प्राप्तं तेजःसहस्रं येन सः । संग्रामाग्रेसराणां युद्धपुरोगा- मिनां समितिषु सभासु सहसा अतर्कितं साध्वसं भयम् । 'भीतिर्भाः साध्वसं भयम्' इत्य- मरः । संददानः । ददातीति ददानः । समुपसर्गः ॥ हाला मोहस्पृहातूंस्तृणमिव जहता हा हलः शत्रुभूमे- हेयो हालाहलश्चाप्यहमहमिकया तन्वतां विग्रहेहाः । हाहेति व्याहरन्त्याप्यहितपृतनया हन्त कण्ठे गृहीतो हन्त्युत्साहान्महीन्द्रान्ग्रहवति कलहे दुःसहोऽमुष्य खड्गः ॥३१॥ हालेति ॥ अमुष्य खड्गो महीन्द्रान्राज्ञ उत्साहाद्धन्ति मारयति । किंविधः । मोहं स्पृहयन्ति ते मोहस्पृहा अज्ञानवन्तो येऽसवः प्राणास्तान् तणमिव जहतां हाला मद्यम् । अनेन सादरता व्यञ्जिता । मोहस्पृहेति भिन्नपदे हालाविशेषणं वा । पुनः किंविधः । शत्रुभूमेः शत्रव एव भूमिस्तस्या हलो विदारकश्च । परमहमहमिकया अहं पूर्वमिति विग्रहे शरीरे ईहा वाञ्छाः । 'स्पृहेहा तड्वाञ्छा' इत्यमरः । तन्वतां विस्तारयतां हेय- स्त्यक्तुं योग्यो हालाहलो विषम् । असंमत इति व्यज्यते । हन्त इति खेदे । हाहेति दुःखितवचनं व्याहरन्त्या अहितपृतनया वैरिसेनया कण्ठे गृहीतः । ग्रहवति हस्ता हस्ति- कतया वृत्ते कलहे दुःसहः सोढुमशक्यः ।। ज्ञेयं ज्ञातुं किल ज्ञः प्रभवति सुबहुज्ञोऽपि साकल्यतः किं ज्ञानं तस्मात्खपुष्पोपममिह हि ततो ज्ञातृता दूरयाता । प्राज्ञः प्रज्ञावति स्यादिति मुदितमतिः स्वस्य वैज्ञानिकत्वं विज्ञानां शात्रवाणां रणशिरसि कृती ज्ञापयत्यस्य खड्गः ॥ ३२ ॥ ज्ञेयमिति ॥ अस्य कृती खड्गो रणशिरसि विज्ञानां शात्रवाणां वैरिणां स्वस्यात्मनो वैज्ञानिकत्वं ज्ञानत्वं ज्ञापयति । दर्शयतीत्यर्थः । किंविधः । इति मुदितमतिः । इतीति किम् । प्रज्ञावति प्राज्ञः स्यादिति । न तु निवुद्धौ प्र(ति)ज्ञः । तदेव प्रकटयति-बहु- ज्ञोऽपि सर्वज्ञोऽपि ज्ञो वुधो ज्ञेयं वस्तु साकल्यतः सामस्त्यतः (ज्ञातुं प्रभवति) किलेति श्रूयते । - खड्गशतकम् । ४३ ज्ञानं किं प्रभवति । नेत्यर्थः । तस्मात् ज्ञानमिह लोके खपुष्पोपमम् । नास्तीत्यर्थः । हीति निश्चये । ततो ज्ञाटता दूरयाता दूरं गता ॥ क्षीराधिः क्षोभहीनः क्षपितमलयशा लक्ष्य नक्षत्रनेतुः क्षीणानां कल्पवृक्षः क्षणजनकतया क्षीणशिक्षापरीक्षः । क्षोण्यां क्षुभ्यद्विपक्षक्षयकृदभिमुखक्षत्रवक्षः क्षतोत्थैः क्षीवः कौक्षयकोऽस्य क्षणचिवदलक्ष्योऽन्तरिक्षेऽप्यलक्षि ॥ ३३ ॥ क्षीराब्धिरिति ॥ अस्य कौक्षेयकः क्षणचिवविद्युल्लतेवालक्ष्योऽपि अन्तरिक्षे आकाशे अलक्षि । किंविधः । लक्ष्यो यो नक्षत्रनेता चन्द्रस्तस्य क्षपितं मल एव यशो येन स तथा । क्षोभहीनः । क्षीराब्धिरिव क्षीराब्धिः । रूपकम् । क्षीणानां क्षणस्योत्सवस्य जनकतया उत्पादकतया कल्पवृक्षः । न क्षीणा अक्षीणा शिक्षा परीक्षा यस्येति स तथा। क्षोण्यां पृथिव्यां क्षुभ्यन्तो ये विपक्षास्तेषां क्षयकृत् । अभिमुखं यत्क्षत्रं तस्य वक्षस्तत्र क्षतमाघातस्तस्मादुथैः । रक्तैरिति यावत् । 'विशेषणाद्विशेष्यप्रतीतिः' इति वामनः । क्षीयो मत्तः ॥ यस्यैकोऽनेकसंखग -गशिरसि ककुप्पान्तविश्रान्तशैल- श्वभ्रान्तस्थैः सपत्नैरपि करकलितः सर्वतो वीक्ष्यमाणः । निःशङ्ख गाहमानोऽनवरतमुचितामात्मनः कोशगुप्ति शत्रूरःकोशमध्यस्थितिरिति बहुधाश्चर्यपात्रं कृपाणः ॥ ३४ ॥ यस्यैक इति ॥ यस्य कृपाणो बहुधा बहुप्रकारमिति आश्चर्यपात्रम् । अस्तीति शेषः । इतीति किम् । एकोऽप्यद्वितीयः करकलितो हस्तधृतोऽनेकसंख्यै रणशिरसि संग्रामम- स्तके कंकुभां दिशा प्रान्ता दिगन्तास्तत्र विधान्ता ये शैला पर्वतास्तेषां श्वभ्रान्ता गर्त- मध्याः । 'गर्तावटी भुवि श्वः' इत्यमरः । तत्रस्यैः सपत्नैः सर्वतो वीक्ष्यमाणः । पुनः अनवरतं निरन्तरं उचितामात्मनः कोशगुप्ति निःशई गाहमानः शत्रूरःकोशो मुहर्ल(?). स्तस्य मध्यस्थितिरिति आश्चर्यपात्रम् ॥ वेगे प्राभञ्जनेऽपि प्रपतति न चलो नैव धाराधराणां वृन्देऽभ्यर्णेऽपि लीनो न च परविपये स्वस्य साध्यस्य हेतुः । नैवाश्रूणां निदानं नयनपथगतो जातु न च्छिन्नमूलो धूमोऽपूर्वः प्रतापज्वलनजनिरसौ जृम्भतेऽमुष्य खड्गः ॥ ३५ ॥ वेगे इति ॥ अमुष्यासौ खगोऽपूर्वो धूमो जृम्भते विकसति । किंविधः । प्राभ- जने प्रभञ्जनस्यायं प्रामजनस्तस्मिन्वेगेऽपि न प्रपतति । गच्छतीत्यर्थः । अन्यो धूमो वायु- वेगेन प्रपतति । चलो नैव । अपरस्तु चलः । धाराधराणां मेघानां वृन्दे समूहे अभ्यर्णेऽपि .४४ काव्यमाला। न] लीनः । अपरो मेघेषु लीनो भवति । च परं परविषये स्वस्य अनि:(?) हेतुः। अन्यो धूम ईदृशो न । नयनपथगतः सन्नश्रूणां निदानं न । अन्यो धूमोऽश्रुनिदानमिति । जातु इति कदाचित् छिन्नमूलो न । अन्यश्छिन्नमूलो भवति । अत एवापूर्ववम् ॥ निष्कम्पो भीषणानां सदसि जनयिता किं च वृद्धस्य तार- श्वेतिम्ना विश्रुतस्य त्रिजगति यशसो जन्मभूः साहसानाम् । प्रौढानामप्यनीके गुरुरुचितकृतौ जृम्भतेऽनीकिनीनां वैपक्षीणामपूर्वः शमनशिशुरसावस्य कृष्णः कृपाणः ॥ ३६ ॥ निरिति ॥ अस्यासौ कृपाणो वैपक्षीणां वैरिणामनीकिनीनामुचितकृतावपूर्वः शमन- शिशुः यमबालक इव जृम्भते । 'शमनो यमराज्यमः' इत्यमरः । किंविधः । भीषणानां सदसि निष्कम्पः कम्परहितः । किं चान्यत् । तारश्वेतिना सोज्ज्वलशुभ्रभावेन त्रिजगति लोकत्रये विश्रुतस्य ख्यातस्य वृद्धस्य पूर्वार्जितस्य यशसो जनयितोत्पादकः । साहसानां जन्मभूः । पुनः प्रौढानामप्यनीके वृन्दे गुरुरुपदेष्टा । उचितकृताविति पदं देहलीप्रदी- पन्यायेनात्रापि योजनीयम् ॥ उत्साहात्स्वेन(१) फुल्लो रिपुनृपतिगणं त्याजयित्वाजिपृष्ठे फूत्कारान्नित्यपुष्टस्तदसुसततगातृप्तिपानक्रमेण । शत्रूणां कालखण्डान्तरपलशकलं रत्नकल्पं दधानः संख्ये प्रेवत्यपूर्वो भुजभुजगफणोऽमुष्य तीक्ष्णः कृपाणः ॥ ३७॥ उदिति ॥ अमुध्य तीक्ष्णः कृपाणो अपूर्वो भुज एव भुजगः सर्पस्तस्य फणः । 'फ- णा द्वयोः' इत्यमरः । संख्ये संग्रामे प्रेवति । किंविधः । स्वेनो(?)त्साहात्फुल्ल: । किं कृत्वा । रिपुनृपतिगणमाजिपृष्ठे । संग्राममध्ये इत्यर्थः । फूत्कारांस्त्याजयित्वा (निजन्तां?)। पुनः किंविधः । तेषां शत्रूणामसवः प्राणास्त एव सततगा वायवस्तेषामासमन्तात् तृप्त्या यत्पानं प्राशनं तस्य क्रमस्तेन नित्यपुष्टः । सर्पाणां पवनाशनेति नाम सान्वयम् । सर्पाणां मणिरपेक्षितः । पुनः---शत्रूणां कालखण्डान्तरं यत्पलं मांसं तस्य शकलं तद्रत्नकल्पं दधानः । धत्तेऽसौ दधानः ॥ सान्द्रच्छायाछटावानपि सकलदिशामन्तरालेऽविपन्नः सिक्तोऽप्यस्तै रिपूणामथ सपदि पयः पायितोऽप्यक्षरूक्षः। वगैः प्राभञ्जनैरप्यतरलितवपुर्दोस्तमालप्ररोहः संग्रामाध्वान्तरीपे विलसति सुतरामेतदीयः कृपाणः ॥ ३८ ॥ सान्द्रेति ॥ एतदीयः कृपाणो दोस्तमालो वाहुरेव तमालवृक्षस्तस्य प्ररोहः संग्रा. मस्य अध्वान्तरीपं द्वीपम् । 'द्वीपो स्त्रियामन्तरीपम्' इत्यमरः । तस्मिन्विलसति । किं- खड्गशतकम्। । विधः । सान्द्रा या छाया कान्तिस्तस्याश्छटा विस्तारस्तद्वानपि सकलदिशामन्तराले मध्ये अविपनः अनष्टा रिपूणामौ रक्तैः सिक्तोऽपि अथान्यत्स यदि पयः पायितोऽप्य. क्षवद्रूक्षः । पुनः किंविधः । प्राभञ्जनैः प्रभञ्जनस्य वायोरिमे तैवेगैरपि अतरलितवपुः ॥ मात्सर्यादन्यजिह्वाशतखननधियेवाननं दारयन्ती संतर्षादेव कोष्णा नवरुधिरवसामजधारा धयन्ती । गण्डूषान्विक्षिपन्ती दिशि दिशि यशसां छद्मना कालजिह्वा शत्रूणां संगराग्रे विलसति सुतरामेतदीया कृपाणी ॥ ३९ ॥ मात्सर्यादिति ॥ एतदीया कृपाणी संगराग्रे संग्रामाग्रे विलसति सुतरामतिशयेन । केव । कालजिह्नति रूपकम् । कालजिह्वा किंविधा । मात्सर्यादन्यजिह्वानां शतं तस्य खननं तद्धियेव तद्बुद्ध्यैव आननम् । शत्रणामिति संबन्धे षष्ठी। दारयन्ती । अत एव संत- पादेव कोष्णा किंचिदुष्णा । पुनः किंविधा । नवं यदुधिरं रक्तवसा च मज्जा च तासां धारा धयन्ती । धेट् पाने । शत्रूणां यशसां छद्मना मिषेण दिशि दिशि गण्ड्यान्वि- क्षिपन्ती ।। क्रीडन्ती द्वन्द्वयुद्धाजिरभुवि कुतुकात्सर्वतः संगताभ्यः खर्वेश्याभ्यः प्रतीक्ष्यामरतरुसुमनोवर्षमुश्चैर्ददाना । देवीकृत्य क्षितीन्द्रांस्तदभिमतकृते वालिका कालरात्रेः शत्रूणां वीतशत विलसति सुतरामेतदीया कृपाणी ॥ ४० ॥ क्रीडन्तीति ॥ एतदीया कृपाणी सुतरां वीतशङ्कं यथा स्यात्तथा विलसति शोभते । किं- विधा । द्वन्द्वयुद्धस्याजिरभुवि द्वन्द्वयुद्धाङ्गणभूमौ क्रीडन्ती खेलन्ती । पुन: किंविधा । कुतुकात्सर्वतः संगताभ्यो मिलिताभ्यः स्वर्वेश्याभ्यः प्रतीक्ष्याः पूज्या अमरा देवास्तेषां तर- वः कल्पवृक्षादयस्तेषां सुमनोवर्षमुच्चकैरतितरां ददाना दत्ते सा तथा । किं कृत्वा । क्षिती- न्द्रान्राज्ञो देवीकृत्य अदेवा देवा इति अभूततद्भावे चिः। किमर्थमित्याह-तदभिमतकृते तेषां क्षितीन्द्राणामभिमतं तत्कृते तदर्थम् । पुनः किंविधा । शत्रूणां विरोधिनां कालरात्रे- वालिका कन्या ॥ प्रत्यर्थिक्ष्मापतीनां प्रतितनु जनयन्स्तम्भवैस्वयकम्प- स्वेदान्वैवर्ण्यमश्रु प्रलयमपि समिन्मण्डपे चण्डतेजाः । धत्ते स्वाङ्गं समुद्यत्पुलकमिति महाश्चर्यपात्रं जयश्री- पाणिग्राहं चिकीर्षुर्जयति रसवतामग्रणीरस्य खड्गः ॥ ४१ ॥ १. 'पुनः किंविधा' इत्ययं पाठः. 'शत्रूणाम्' इत्यतः प्रागेवोचितत्वात् 'कोप्णाः' इति द्वितीयान्तं धाराविशेषणमेव वरम्. -- ४ ४६ काव्यमाला । प्रत्यर्थीति ॥ अस्य खगो जयति सर्वोत्कर्षेण वर्तते । किंविधः । जयश्रीर्जयलक्ष्मी- स्तस्याः पाणिग्राहं पाणिग्रहणं चिकीर्षुः कर्तुमिच्छुः । पुनः-रसवतां रागवतामग्रणीः श्रेष्ठः। पुनः-प्रत्यर्थिनो ये क्षमापतयस्तेषां प्रतितनु प्रतिशरीरं स्तम्भश्च विस्वरस्य भावो वैस्वर्य कम्पश्च स्वेदश्च तान् जनयन्सन् । समिन्मण्डपे संग्राममण्डपे । 'समित्संग्रामसभयोः' इति कोशसारः । विवर्णस्य भावो वैवर्ण्यमश्रु च प्रलयश्च नष्टचेतना तेषां समाहारं तमपि ज- नयन्संपादयन् । 'स्तम्भः स्वेदोऽथ रोमाश्चः स्वरभङ्गश्च वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ साष्टि(त्वि)काः' इत्युक्तेः । पुनः किंकृतः । चण्डं प्रचण्डं तेजो यस्य स तथा । पुनः- इति महाश्चर्यपात्रम् । इतीति किम् । स्वाङ्गं स्वशरीरं समुदात्पुलकं प्रादुर्भूत[रोमाञ्चं] धत्ते, यः पाणिग्रहणकर्ता तस्य स्तम्भादयः सात्त्विकभावा भवन्ति । अत्र तु अन्येषा- मिति एतदाश्चर्यम् ॥ निष्कोशे यत्र कोशं करकमलकृतं धारयन्ति स मूर्ध्नि द्वेषिप्रष्ठास्तदीयः क्षयमगमदलं संचितः किं च कोशः । नान्यं श्लिष्येयमस्मादिति नियमितधीः कोशमुच्चैरधासी- घद्धाराम्भोजयश्रीः स जयति समरेऽमुष्य जैत्रः कृपाणः ॥ ४२ ॥ निष्कोश इति ॥ अमुष्य समरे जैत्रो जयशीलः स कृपाणो जयति सर्वोत्कर्षण वर्तते ।स कः । यत्र यस्मिनिष्क्रोशे पिधानरहिते सति द्वेषिप्रष्ठा वैरिप्रथमाः। प्रष्ठोऽग्रगामी' इत्यमरः । मूर्ध्नि मस्तके करकमलकृतं कोशं मुकुलं धारयन्ति स्म । किं चान्यत् । तदीयो द्वेषिप्रष्ठ- संबन्धी कोश अगारमलमत्यर्थ संचित एकीकृतः । अलं क्षयं नाशमगमत् । यद्धाराम्भो- जयश्रीर्यस्य खड्गस्य धारा तस्या अम्भः पानीयं तस्य जयश्रीः । अस्माच्छनोरन्यं न श्लि- ध्येयमिति नियमितधीनिश्चितबुद्धिः कोशं गोपनवस्तु उच्चैरधासीद्धेद्वाते(?) प्राशनं चका- रेत्यर्थः ॥ सान्द्राम्भोदाभिरामद्युतिहसितमुखां कुन्तभाजां बलानां मध्ये विन्ध्याभगन्धद्विरदकटतटीरक्तसिन्दूरपूर्णा । इन्धे निःसीमपार्श्वद्वितयनियमनैरुजिहानस्वरूपा सीमन्तोल्लेखरेखा समिति मृगदृशोऽमुष्य तीक्ष्णः कृपाणः ॥४३॥ सान्द्रामिति ॥ अमुष्य कृपाणी समिति संग्रामे मृगदृशः सीमन्तोल्लेखरेखेव सीमन्तः केशपद्धतिस्तुदुल्लेखरेखेव । रूपकम् । इन्धे । दीप्ता भवतीत्यर्थः । किंविधा । कुन्तभाजां बलानां मध्ये सान्द्रा येऽम्भोदा मेघास्तेषामभिरामा या द्युतिः कान्तिः सैव हसितं मुखे यस्याः सा । सीमन्तपक्षे कुन्ताः कुन्तलाः। नामैकदेशे नामस्मरणम् । वलाः केशाः । वल- वालो केशपर्यायौ । पुनर्विन्ध्यवदामा कान्तिर्येषां ते च ते.गन्धद्विरदा मत्तगजास्तेषां कटतटी गण्डस्थलतटी तस्या रक्तं तदेव सिन्दूरं तेन पूर्णा । पुनः किंभूता । निःसीमं खङ्गशतकम् । ४७ मर्यादारहितं यत्पाद्वितयं तस्य नियमनैरुजिहानस्वरूपा।सीमन्तरेखापि उभयपार्श्वनियम- नैरुजिहानस्वरूपा भवतीति जातिः ॥ ऊर्वं दीया स्फुरन्त्या रविरुचिविसरैर्मण्डलं दर्शयन्तं बिभ्राणं चञ्चुसूचीमिव निशिततरं शोणमस्त्रेण कोणम् । रंहोभूम्ना प्रपित्सुं रणशिरसि मुहुः कम्पना मन्वते यं श्येनं शत्रुप्रवीरा वय इव स जयत्यस्य तीक्ष्णः कृपाणः ॥ ४४ ॥ अर्ध्वमिति ॥ अस्य स तीक्ष्णः कृपाणो जयति सर्वोत्कर्षेण वर्तते । स कः। शत्रुप्रवीरा वय इव । विशब्दस्य वहुवचनम् । यं कृपाणं श्येनं मन्वते मानयन्ति । किंविधं श्येनम् । उर्ध्वमाकाशे रविरुचिविसरैः सूर्यकान्तिसमूहैः स्फुरन्त्या दीप्त्या मण्डलं बिम्ब दर्शयन्तम् । पुनः किंविधम् । अत्रेण रुधिरेण शोणं निशिततरमतितीक्ष्णं कोणमेकदेशं चञ्चुसूचीमिव बिभ्राणम् । चञ्चास्तीक्ष्णत्वात्सूचीसाम्यम् । श्येनचक्षुः शोणेति जातिः । रहोभून्ना वेग- बाहुल्येन रणशिरसि प्रपित्सुं पतितुमिच्छन्तम् । किंभूताः । प्रवीरा वयश्च मुहुर्वारंवारं कम्पनाः कम्पयुक्ताः। वयोऽपि कम्पनस्वभावाः ॥ उन्मज्जद्दानधाराजलबहलझरीजर्जरान्कूटकल्पा- विन्ध्याद्रिस्पर्धिदन्तावलबलकरटान्कोटिशः कुट्टयन्तम् । आहत्यापहृवानं जननयनगति मन्वते शत्रुवीरा यं दम्भोलि स एष प्रधनभुवि समुज्जृम्भतेऽमुख्य खड्गः ॥ ४५ ॥ उन्मजनिति ॥ स.एषोऽमुष्य खड्गः प्रधनभुवि रणभूमौ समुज्जृम्भते । स कः । शत्रु- वीरा यं दम्भोलिमशनिम् । 'दम्भोलिरशनिर्द्वयोः' इत्यमरः । मन्वते । किंभूतम् । ये द- म्भोलि विन्ध्याद्रिविन्ध्यपर्वतस्तत्स्पधिनो ये दन्तावलास्तेषां बलं सैन्यं तस्य करटा गण्ड- स्थलानि तान्कोटिशोऽनेकशः कुड्यन्तं विदारयन्तम् । किंविधान्दन्तावलबलकरटान् । उन्मजती या दानधारा तस्या जलं तस्य बहला झरी प्रवाहस्तया जर्जरान् । पुनः- कूटकल्पाशिखरन्यूनान् । पुनः कथंभूतं दम्भोलिम् । जननयनगति लोकनेत्रमार्गमाह- त्याहृवानमाच्छादयन्तम् ।। काली कालायसीयैः पटुजरठतरैनिर्मिता सारभागैः श्लिष्टा पर्वद्वयेन स्फुटपुलकवती सर्वतः कम्पमाना । उन्मीलन्त्यूज्जिहीतेऽहितधरणिभुजां तर्जनी तर्जनीयं कालस्याकालकल्पव्यपगमपिशुनामुष्य तीक्ष्णा कृपाणी ॥ ४६ ॥ कालीति ॥ अमुष्य तीक्ष्णा कृपाणी इयं कालस्य यमस्य तर्जन्यङ्गल्युज्जिहीते उर्ध्व काव्यमाला। गच्छति । किंविधा । कालायसस्येमे कालायसीयाः । कालायस लोहम्. । तैः सार• भागनिर्मिता । अत एव काली श्यामा। किंविधैः सारभागैः । पटुजरठतरैरतिवृद्धः । पुनः किंविधा । पर्वद्वयेन श्लिष्टा । स्फुटपुलकवती । सर्वतः कम्पमाना । उन्मीलन्ती । अहितधरणिभुजां वैरिराज्ञां तर्जयन्ती तर्जनां कुर्वती । अनादरे षष्ठी । अकाले असमये कल्पः क्षयस्तस्य व्यपगमः प्राप्तिस्तत्पिशुना सूचका ॥ दूरादेनं जिघांसोरहमहमिकया धावतः प्रातिपक्ष्य- क्ष्माभृद्वर्गस्य भीत्या झटिति निकटतः किं च वैमुख्यभाजः । वेणीवालोक्यते या रणशिरसि मुहुर्कोमयानस्थितानां वृन्दैः पृष्ठे लुठन्ती विलसति सुतरामेतदीया कृपाणी ॥ ४७ ॥ दूरादिति ॥ सेत्यध्याहारः । एतदीया कृपाणी सुतरां विलसति । सा का । या कृपाणी व्योमयानस्थितानां विमानमार्गस्थितानाम् । 'व्योमयानं विमानोऽस्त्री' इत्यमरः । देवानां वृन्दैः समूहैः प्रतिपक्षे भवाः प्रातिपक्ष्याः शत्रवो ये. क्ष्माभृतो राजानस्तेषां वर्गस्य समुदायस्य पृष्ठे लुठन्ती वेणीवालोक्यते दृश्यते । कुत्रेत्यपेक्षायामाह-रणशिरसि मुहुरं- वारम् । किंभूतस्य प्रातिपक्ष्यक्ष्माभृद्वर्गस्य । दूरादेनं कृपाणीपतिं जिघांसोर्हन्तुमिच्छति स तथा तस्य । अहमहमिकया अहं पूर्वमहमिका तया धावतः । किं च झटिति शीघ्र भीत्या भयेन वैमुख्यं भजतीति वैमुख्यभाक्तस्य निकटतः । तसिः ॥ तत्कालं शातकोणव्यातिकरमहिमाविर्भवच्चाकचिक्यं प्रत्युप्तं गाढगाढं वरकनकमये सर्वतो वृन्तदेशे । प्रत्यर्थिक्ष्मापतीन्द्रस्फुटमुकुटशिखाशेखरीभूतनील- ग्रावाणं मेनिरे यं स जयति समरेऽमुष्य जैत्रः कृपाणः ॥ ४८ ॥ तत्कालमिति ॥ सोऽमुष्य जैत्रः कृपाणः समरे जयति सर्वोत्कर्षेण वर्तते । स कः। यं कृपाणं लोकाः प्रत्यर्थिनो ये मापतीन्द्रा राजानस्तेषां स्फुटं मुकुटशिखा मुकुटाग्राणि तेषां शेखरीभूतो मुख्यभूतो यो नीलग्रावा नीलपाषाणस्तं मेनिरे । तत्र या(त)त्वात् । किंभूतं ग्रावाणम् । वरं यत्कनकं सुवर्ण तन्मये वृन्तदेशे मूलप्रदेशे । 'वृन्तं प्रसवबन्ध- नम्' इत्यमरः । सर्वतः सर्वत्र गाढगाढम अश्रान्तं पुष्करान्तस्थितिरथ समये यो विकोषः स्टहायाः पात्रेणावासमाशावलयमपि यशःसौरभेणाश्नुवानः । स्पष्टं संग्रामलक्ष्म्याः श्रवणकुवलयभ्रान्तिमुद्राममुद्रां यो धत्ते स प्रतीतो रणशिरसि जयत्यस्य जैत्रः कृपाणः ॥ ४९ ॥ [अस्य श्लोकस्य टीका त्रुटिता ।]
खड्गशतकम् । ४९ यत्कान्तिनीलनीला विधुतकलिमलातङ्कशङ्कानिदान प्रत्यर्थिक्षोणिपालाधिपतिवरवधूनेत्रधाराधराणाम् । लोकानां नीरनाथभ्रममिह वितरत्नुत्कवन्धैकमूलं रोदोरोकान्तकाले विलसति स चिरायैतदीयः कृपाणः ॥ ५० ॥ [अस्य श्लोकस्य टीका त्रुटिता।] यो लक्ष्मीमुद्दिधीर्षुः सुरभिमणियुते नागराजाश्वरत्ने राभस्यादाजिहीर्घजलजमपि चलद्वाहुदण्डावधूतः । आश्चर्य किं च दित्सन्ननिभृतमखिलोद्वेलपाथोधिनाथ- क्रोडे मन्थाद्रिलीलां कलयति स जयत्यस्य तीक्ष्णः कृपाणः॥५१॥ [अस्य श्लोकस्य टीका त्रुटिता ।] हस्ताने तिष्ठमानो रिपुज""नकृतान्तस्य दुष्प्रेक्ष्यमूर्तिः स्पष्टं यो दुर्निवारो विधिविलासितवत्क्षत्रियाणां सहस्रैः । अश्रान्तं वर्धिताशः स्फुरितविलसितैः सर्वतः कालकूट- भ्रान्ति भूम्ना विधत्ते रणभुवि स जयत्यस्य तीक्ष्णः कृपाणः।।५२॥ अस्य श्लोकस्य टीका त्रुटिता ।] उत्पत्तिस्थानमानन्दितजननभृतस्तद्यशःशीतरश्मे- रम्भः सारः प्रतीतोऽभिनवजलधरश्यामलो वारिराशिः। भीमः कीलालसारैरिह वहति न यो विग्रहं शैशुमारं न वापि प्राप्तसङ्गः स जयति समरेऽमुष्य तीक्ष्णः कृपाणः॥५३॥ [अस्य श्लोकस्य टीका त्रुटिता।] शश्वन्मुट्या गृहीतस्त्रिभुवनविवरव्यापकं भीममूर्तिः पात्रं विश्वस्पृहायाः स्थिरतरकिरणः संततं भ्रान्तिशीलम् । प्रस्निग्धश्यामकान्तिर्विगतमलशरत्पार्वणेन्दुप्रकाशं सूतेऽपूर्व यशो यः स जयति समरेऽमुष्य जैत्रः कृपाणः ॥१४॥ [अस्य श्लोकस्य टीका त्रुटिता । मध्ये सान्द्राम्बुदालीमसृणमलिनिमा सुन्दरश्रीर्मदान्ध- प्रत्यर्थिक्षोणिपालद्विरदकटतटीरक्तसंसिक्तधारः ।
काव्यमाला॥ यः स्पष्टं वीरलक्ष्म्या लसदसितमिलत्पार्श्वकौसुम्भवासः- खण्डभ्रान्ति विधत्ते स जयति समरेऽमुण्य तीक्ष्णः कृपाणः ॥५५॥ [अस्य श्लोकस्य टीका त्रुटिता । प्रादुर्भावप्रतापप्रबलहुतभुजः शत्रुवंशेन्धनस्य प्रष्ठो धाराधराणां रिपुयुवतिजनास्त्रुत्रवन्तीनिदानम् । दुष्प्रेक्ष्यार्चिच्छटावानपि किमपि पयःप्रानतः स्निग्धमूर्ति- विख्यातोऽसंख्यसंख्याजिरभुवि स जयत्यस्य जैत्रः कृपाणः ॥५६॥ [अस्य श्लोकस्य टीका त्रुटिता । प्रत्यर्थिक्ष्मापतीन्द्रद्विरदकटतटीनिर्यदलारुणश्री- हेतुमित्रोदयस्य प्रबलरिपुबलध्वान्तसंहारकालः । उत्साहोदग्रवाहृदयगिरिशिखरे यः प्रभातप्रतीति खीयस्वान्ते विधत्ते स जयति समरेऽमुष्य तीक्ष्णः कृपाणः ॥१७॥ [अस्य श्लोकस्य टीका त्रुटिता।] छाया प्रत्यर्थिपृथ्वीतिलकविटपिनां वञ्चयंश्चक्रवालं कष्टानामर्कतेजःप्रतिफलनभुवां दीपर्यश्चाकचिक्यात् । धीरैरुद्यच्छिरस्वैरपि रणरसिकैर्दुःसहः शात्रवाणां यो मध्याह्नप्रतीतिं जनयति स जयत्येतदीयः कृपाणः ॥ ५८ ॥ [अस्य श्लोकस्य टीका त्रुटिता ।] यो रोदःकन्दरान्तोल्लसदसृगरुणीभूतधाराधरोऽस्त्रे हेतुस्तेजखिभर्तुविघटितसकलद्वेषिचक्रः क्षणेन । कालातिक्रान्तिभीताञ्जलिमुकुलशतैरर्च्यमानः समन्ता- सायंकालप्रतीतिं जनयति स जयत्यस्य जैत्रः कृपाणः ॥ १९ ॥ [अस्य श्लोकस्य टीका त्रुटिता । नक्षत्रोत्थानरभ्यः क्षपितपरमहो वैभवः संधिजाता न्यक्कुर्वन्कान्तिमत्तां दिशि दिशि मसृणं दर्शयन्नीलिमानम् । विख्यातं कालराच्या मुखमतनु तमो निर्विवेकप्रदोष- भ्रान्ति तन्वरिपूणां समिति विजयतेऽमुष्य जैत्रः कृपाणः ॥३०॥ [अस्य श्लोकस्य टीका त्रुटिता।
खड्गशतकम् । ५१ मूकत्वं किं च कोणे क्वचिदपि लयनं नेत्रसंकोचमुद्रां प्रत्यर्थिक्ष्मापतीनां रणशिरसि दिशन्दिग्भ्रमं संभ्रमेण । व्यक्त्या छायापथस्याकलितसुरपथो यो निशीथप्रतीति शोणोत्कीर्णो विधत्ते स जयति सुतरामेतदीयः कृपाणः ॥ ६१ ॥ [अस्य श्लोकस्य टीका त्रुटिता । ख्यातं प्रत्यर्थिशङ्ख श्रुतिविषयहरं संभ्रमात्संजिहीर्ष- र्जाग्रन्निःसीमवेगातिशयविदलितायोधनाम्भोधिमध्यः । कीलालाभ्यन्तराले व्यचरदतिचरं यो दिशन्नादिमत्स्य- भ्रान्ति प्रज्ञावतां स प्रधनभुवि समुज्जृम्भतेऽमुष्य खड्गः ॥ ६२॥ 'युद्धमायोधनं जन्यं प्रधनम्' इत्यमरः । समुज्जृम्भते । स कः । यः प्रज्ञावतां बुद्धिम- तामादिमत्स्यो मत्स्यावतारः श्रीकृष्णः [तभा]न्ति दिशन् । कीलालाभ्यन्तराले उदक- मध्ये । पयः कीलालममृतम्' इत्यमरः ।पक्षे-कीलालं रक्तं तत्रान्तराले तन्मध्ये। 'शोणि- तेऽम्भसि कीलालम्' इत्यमरः । अतिचिरं बहुकाले व्यचरदगच्छत् । 'चर गतिभक्षणयोः' इति । किंविधः । प्रत्यर्थी वैरी स एव शङ्खस्तन्नामा अस(सुरस्तं) संभ्रमादादरात्संजि- हीर्घर्हन्तुमिच्छुः । किंविधं शङ्खम् । ख्यातम् । पुनः-श्रुतिविषयो वेदविषयस्तं हर- तीति हरस्तम् । पक्षे कर्णविषयहरम् । पुनः किंविधः । जाग्रदविदितालस्यो निःसीमो मर्यादारहितो वेगातिशयस्तेन विदलित आयोधनमेवाम्भोधिः संग्रामसमुद्रस्तस्य मध्यो येन स तथा ॥ अश्रान्तं पुष्करान्तःकृतवसतितया स्निग्धजम्बालमूर्ति- भूभृन्नाथोन्नताङ्गव्यतिकरविभवोद्यत्खणत्कारभीमः । शश्वत्पारुष्यशंसी स्फुटमहिममहाविग्रहो मूलकूर्म- भ्रान्ति प्रज्ञावतां यो जनयति स जयत्येतदीयः कृपाणः ॥ १३ ॥ अश्रान्तमिति ॥ स एतदीयः कृपाणो जयति । स कः । यः प्रज्ञावता(तां बुद्धिमतां) मूलकूर्मः कूर्मावतारो हरिस्तद्धान्ति जनयति । किंविधः । अश्रान्तं नित्यम् । 'सततानार- ताश्रान्त-' इत्यमरः । पुष्करान्तः । 'पुष्करं सर्वतो मुखम्' इत्यमरः । कृतवसतितया तत्र 'निवासत्वेन स्निग्धा जम्बालंयुक्ता कर्दमयुक्ता शेवालयुक्ता वा मूर्तिर्यस्य स तथा। पक्षे-[पुष्करं] पिधानं तदन्तः कृतवसतितया स्निग्धजम्बाला मेदका मूर्तिर्यस्य स तथा। 'जम्बालः शैवले पङ्के जङ्गले मेदके' इति मेदिनी । भूभृन्नाथ(थो मन् )दराद्रिस्तस्योनतं ......
काव्यमाला। . यदङ्गं शिखरं तस्य व्यतिकरः संसर्गस्तद्विभवादुद्यन्खणत्कार आघातशब्दस्तेन भीमः । पक्षे-भभृनाथा राजानस्तेषामुन्नताङ्गानि मस्तकास्तव्यतिकरविभवात्संपर्कसामर्थ्यादुद्य- त्खणत्कारस्तेन भीमः । पुनः--शश्वनिरन्तरं पारुष्यशंसी काठिन्यसूचकः । स्फुटम-' हिमा महान्विग्रहो देहो विरोधश्च यस्य सः ॥ उन्मीलद्धासुरश्रीः स्फुटपुलकवपुः क्रूरदंष्ट्राप्रकाण्ड- स्फायद्दीप्तिप्रतानव्यतिकरशबलो दारयन्वल्यगारम् । मग्नां प्रत्यर्थिसैन्याम्बुधिपयसि हठान्मेदिनीमुद्दिधीर्घ- यो मूलनोडलीलां कलयति स जयत्येतदीयः कृपाणः ॥ ६४ ॥ उन्मीलदिति ॥ स एतदीयः कृपाणो जयति । स कः । यो मूलकोड आदिवराह- स्तल्लीलां कलयति अङ्गीकरोति । किंविधः । उन्मीलन्ती भासुरा श्रीर्यस्य स स्फुटं पुलकयुक्तं वपुर्यस्य सः । क्रूरो यो दंष्ट्राप्रकाण्डः प्रशस्तस्तम्ल(जम्भ)स्तत्र स्फायद्व- धिष्णु यद् दीप्ति...."रत्नानां कान्तिविस्तारः ....... । प्रत्यर्थिनो विरोधिनस्तेषां सैन्यं तदेवाम्बुधिः समुद्रस्तस्य पयसि जले मनां मेदिनी हठादुद्दिधीर्घरुद्धर्तुमिच्छुः ॥ दुष्प्रेक्ष्य(सै)रन्यतेजःप्रतिहतिकरणैरचिषां चक्रवालै रोदोरोकान्तरालं पटुविकटसटासंनिभैरश्नुवानः । क्रूरत्वस्यैकपात्रं त्रिजगति न परिच्छिन्नशक्तिस्वरूपो यो भ्रान्ति नारसिंहीं जनयति स जयत्येतदीयः कृपाणः॥६५॥ दुष्प्रेक्ष्यै(रिति ॥ स एतदीयः कृपाणो जयति । स कः । यो नारसिंहीं नरसिंह- स्येयं नारसिंही तां भ्रान्ति जनयति । किंविधः । अर्चिषां तेजसां चक्रवालै रोदोरो- कान्तरालं द्यावापृथिव्यो रोक रन्धं तस्यान्तरालं मध्ये । 'द्यावापृथिव्यो रोदस्यौ' इत्य- मरः । 'छिद्रं निर्व्यथनं रोकम्' इति च । अनुवानो व्याप्नुवानः । पुनः-त्रिजगति क्रूरत्वस्यैकं पात्रम् । न परिच्छिन्नं शक्तिस्वरूपं यस्य स तथा। किंविधैरर्चिषां चक्रवा- लैः । दुष्प्रेक्ष्यैदु:खेन प्रेक्षितुं शक्यैः । पुन:---अन्यतेजसां प्रतिहति शस्तत्करणैः । तत्का- रणैरित्यर्थः । पट्यश्च ता विकटसटाश्च तत्संनिभैस्तत्तुल्यैः ॥ नो दैन्येनाभिभूतो न च वलिविभवं योऽपदेशादहार्षी- न्नान्येभ्यः स्वस्तिकारी न च परिगणितैविक्रमैः संप्रतीतः। नो मायासंवृतात्मा न च नमति पदन्यासमागित्यपूर्व खर्वत्वं विष्टपेषु प्रथयति स जयत्येतदीयः कृपाणः ॥ ६६ ॥ नो दैन्येनेति ॥ स एतदीयः कृपाणो जयति । स कः । यो विष्टपेषु भुवनेषु । 'विष्टपं भुवनं जगत्' इत्यमरः । इत्यपूर्व खर्वत्वं ह्रस्वत्वम् । 'खो ह्रस्वश्च वामनः' इत्यमरः । प्रथ- खड्गशतकम् । ५३ यति ख्यापयति । यो दैन्येन दारिद्येण नो अभिभूतः पराभूतः । च परं यो [न] वलिविभवं वलिसामर्थ्यमपदेशाद्याजादहापीत् । अहरदित्यर्थः । अन्येभ्य इतरेभ्यः स्वस्तिकारी स्त्र- स्तिकर्ता न।'नमःस्वस्ति-'इति चतुर्थी । पुनः-यः परिगणितैविक्रमैः संप्रतीतो न । बहुवि- क्रमवानिति भावः । मायासंवृतस्यात्मा(?)नो । मायाशून्य इत्यर्थः । यश्च न नमति नम्रो न भवति । पदन्यासभाक् । अत एवान्यापेक्षयापूर्वत्वम् ॥ पारुष्यस्यैकपात्रं किल सकलपरक्षत्रसंतानमारः शत्रूयहोःसहस्रव्यपनयनपटुभिन्नभूभृद्विशेपः । वाहाभाजां वरिष्ठैरपि भुवनगुरोः संनिधानाददृश्यो धत्ते यो जामदग्यभ्रममिह स जयत्यस्य जैत्रः कृपाणः ॥ ६७ ॥ पारुष्यस्येति ॥ अस्य जैत्रः कृपाणो जयति । स कः । यो जामदग्न्यभ्रमं धत्ते । धार- यतीत्यर्थः । क्रिविधः । पारुष्यस्य काठिन्यस्यैकं पात्रं किलेति श्रूयते । सकलं यत्पर- क्षत्रं तस्य संतानं वंशस्तस्य मारः मारणम् । मामः (१) घन्। शत्रणां शत्रोर्वा उद्यद्दोःसहस्रं बाहुसहस्रं तस्य व्यपनयनं दूरीकरणं तत्र पटुः कुशलः । भिन्ना भूभृद्विशेषा राजवि. शेषा येन स तथा । बाहामाजां हस्तवतां वरिष्ठैरपि श्रेष्ठैरपि भुवनगुरो यकस्य संनिधा. नाददृश्योऽदर्शनीयः । जामदग्यपक्षे-भुवनगुरोः शिवस्य संनिधानाददृश्यत्वम् ॥ यः कौशल्यार्तिकारी रिपुयुवतिहृदां संप्रहृष्यन्सुबाहु- विश्वामित्रावमानप्रकटितविभवोऽशंकरेष्वासमाथी। हन्ता संग्रामसीम्नि प्रबलबहुगुणामित्रपञ्चाननानां लोकेप्वाश्चर्यरामः स जयति सुतरामेतदीयः कृपाणः ॥ ६८ ।। य इति । एतदीयः स कृपाणो जयति सुतरामतिशयेन । स कः । यो लोकेषु आश्च- र्यराम इव रामः । रामाद्विलक्षणत्वेनाश्चर्यम् । तदेव [विशेष]णैर्विशदयत्तियः कौश- ल्यातिकारीत्यनेन विरुद्धमतः कौ पृथिव्यां शल्यरूपा वैरिणस्तेषामार्तिकारी । रिपुयुवति- हृदां वैरिस्त्रीहृदयाणाम् । अनादरे पष्ठी । संप्रहृष्यन् । 'हन् हरणे'(१) इत्यस्य रूपम् । सु. बाहुर्येन । रामस्ताग्भिन्नः । यो विश्वस्य जगतोऽमित्रास्तेषामवमानोऽनादरस्तेन प्रक- टितो विभवो येन सः । रामस्तु विश्वामित्रमानकर्तेति प्रसिद्धम् । पुनः-यः खड्गोऽशंकरा दुःखकारस्तेषु अस्यतेऽसौ आसस्तन्माथी । रामस्तु शंकरस्येष्वासं कार्मुकं तन्माथी । पुनः देवानाममित्रा "मः दशान- नस्तद्धन्तेत्याश्चर्यरामः ॥ स्निग्धाम्भोदाभिरामधुतिरवनितले मित्रगोपालकानां वृन्दैरालक्ष्यमाणो दिशि दिशि बहुधा विम्बिताशेषलोकः । १ 'मायया संवृत परज्ञानाविषयीकृत आत्मा यस्य' इति पाठो भवेत.
OC काव्यमाला ॥ स्वर्गस्त्रीणामभीष्टं रणभुवि वितरन्खण्डितारातिवाणो कंसारातिप्रतीति जनयति स जयत्यस्य जैत्रः कृपाणः ॥ ६९ ॥ स्निग्धेति ॥ अस्य जैत्रः स कृपाणो जयति । स कः । यः कंसारातिप्रतीतिं श्रीकृष्ण- प्रतीतिं जनयति । "किंविधः । स्निग्धो योऽम्भोदो मेघस्तद्वदभिराम- द्युतिः। पुनः-अवनितले मित्रगोपालकानां मित्राणि गोपालका राजानः। पक्ष-मित्राणि गोपालकास्तेषां वृन्दैः आलक्ष्यमाणो दिशि दिशि प्रतिदिशं बहुधा बहुप्रकारं बिम्बिता अशेषलोका यस्मिन्स तथा । स्वर्गस्त्रीणामभीष्टमीप्सितं [वितरन् ।] रणभुवि संग्रामभूमौ खण्डिता अरातिबाणा वैरिशरा येनेति । पक्षे-खण्डितोऽरातिश्चासौ बाणो बाणासुरो येन। ......"ति ॥ सत्त्वाधिष्ठानभाखत्तनुभिरधिसमित्राङ्गणं सुप्रसिद्धै- धीरैरालोच्यमानः कथमपि विमुखो नम्रबालावलासु । लोकातीतप्रभावातिशयमहिमतः शत्रुकामाहितो यो बुद्धभ्रान्ति विधत्ते स जयति सुतरामेतदीयः कृपाणः ॥ ७० ॥ [सत्त्वे]ति ॥ स एतदीयः कृपाणः सुतरां जयति । स कः । यो बुद्धभ्रान्ति विधत्ते । किंविधः । अधिसमित्प्राङ्गणं संग्रामप्राङ्गणे. । 'समित्सभायुद्धयोः' । [धीरैः] आलोच्यमानः । किंविधैः धीरैः । सत्त्वं सारः सत्त्वांशश्च तस्याधिष्ठानं तेन भास्व- न्तस्तनवः प्र......[ये]षां ते तैः । पुनः किंविधैः । । नम्रा विनीता बालाः शिशवोऽबलाः स्त्रियस्तासु कथमपि विमुखो मारको न भवतीत्यर्थः । [न]म्रा बाला या अबलास्तासु विमुखः पराङ्मुखः । लोकातीतः सर्वाधिक(?)प्रभावातिशयस्तस्य महिमतो महिम्न इति तथा तसिः । ... ...'मे अहितः । पक्षे-शत्रुकामेषु आहितः सादरः ॥ मज्जन्तं दुश्चरित्रप्रतिभयजलधौ संप्लवाद्धर्मराज यो वेगादुद्दिधीर्घः प्रधनभुवि गतो निष्परीवारभावम् । दुर्दान्तानां समाज समहरदहितम्लेच्छभूवल्लभानां कल्किः शोकापनोदी विलसति स चिरायैतदीयः कृपाणः ॥७१॥ मजन्तमिति ॥ स एतदीयः कृपाणश्चिराय बहुकालं कल्किरिव कल्किः । [स] कः । यो दुर्दान्तानां दुष्टानामहिता ये म्लेच्छभूवल्लभा राजानस्तेषां समाजमहरत् । 'हृव् हरणे' । किंभूतः । दुश्चरित्राविरोधे(?). [प्र]तिभयं भीतिस्तदेव जलधिः समुद्र- स्तस्मिन् पर्यन्तं धर्मराजं संप्लवात् सम्यक् प्लुतेर्वेगादुद्दिधीऍरुद्धर्तुमिच्छुः । पुनः--[प्रधन]- भुवि संग्रामभूमौ निष्परीवारभाव निष्पिधानत्वं गतः । कल्किपक्षे-निष्परीवारोऽसहायः । शोकापनोदी शोकनाशकः॥
खगशतकम् । ५५ तथा । यो निष्णातस्त्रिलोक्यां सरभसमहितोत्तुङ्गगोत्रप्रभेदे जिष्णुः संग्रामसीम्नि प्रबलपरबलारातिभावात्प्रतीतः । वृत्रव्यामोहकारी त्रिदशपरिषदा सर्वदा श्लाघ्यमान- श्लोकः शक्रप्रतीतिं जनयति स जयत्यस्य जैत्रः कृपाणः ॥ ७२ ॥ य इति ॥ अस्य जैत्रः कृपाणो जयति । स कः । यः शक्रप्रतीति जनयति । यस्त्रि- लोक्यां सरभसं यथा तथा अहितानां वैरिणां [उत्तुं]गानि यानि गोत्राणि कुलानि तेषां प्रभेदे प्रकृष्टभेदे निष्क्रान्त:(2)। शक्रपक्षे–सरभसाः सवेगा महिताः श्रेष्ठा उत्तुङ्गा उच्चा गोत्रा पर्वतास्तेषां प्रभेदे निष्णातस्तत्परः । जिष्णुर्जयशीलः । कुत्र । संग्रामसीनि । प्रबलं यत्परबलं तस्यारातिभावात्प्रतीतः ख्यातः। 'नपरो बलारातिभावात्प्रतीतः 'बला- रातिः शचीपतिः' इति नाम्ना प्रतीतः वृत्रस्यान्धकारस्य व्यामोहकारी। स्वस्य श्यामत्वात् । पक्षे-वृत्रो दैत्यः । त्रिदशपरिषदा देवसभया सर्वदा श्लाघ्यमानः श्लोको यशो यस्य स श्लोकः पद्यम् । 'श्लोको यशसि पद्ये च' इति कोशः ॥ यः श्रोत्राध्वप्रविष्टोऽप्यरिहृदि जनयत्याधिविस्फोटजातं चक्षुष्यः क्षत्रमानं दहति शिशिरयत्यात्तगन्धोऽपि नम्रान् । किं च द्विटखगधाराजलविलसनतो दीप्यतेऽसंख्यतेजा लोकेऽप्याश्चर्यवहिर्मुधभुवि स जयत्यस्य तीक्ष्णः कृपाणः ।। ७३ ॥ य इति ॥ अस्य स तीक्ष्णः कृपाणो मृधभुवि संग्रामभूमौ जयति । स कः । [लो केऽसंख्यतेजा अतिदीप्त आश्चर्यवही रूपकम् । श्रोत्राध्वप्रविष्टोऽपि कर्णमार्गप्रविष्टः श्रु- तमात्रोऽरिहृदि शत्रुहृदये आधि[विस्फोटजातं जनयति उत्पादयति । चक्षुष्यः सन्दृष्टि- गोचरः क्षत्रमात्रम् । अत्र मात्रपदं साकल्ये । दहति । कैवल्ये वा क्षत्र...। [क्ष]त्रमेव नान्यदिति आत्तगन्धोऽपि नम्रान् शिशिरयति । किं चान्यत् । द्विट्खड्गधारैव जलं वैरि- खड्गधारैव जलं तस्य विलसनतो दीप्यते । अग्नेस्त्वेतद्विलक्षणत्वं इत्याश्चर्यवदित्वमस्य ।। संग्रामे संगतायाः सरभसविलसन्मण्डलायोग्रपाणि- प्रत्यर्थिक्षत्रदृष्टैः समसमयमतिक्रूरकर्मा कृतान्तः । कालः कल्पावसानभ्रमकृदरिजनाशेषकर्मैकसाक्षी यः साक्षादन्तकश्रीः स जयति निशितोऽमुष्य जैत्रः कृपाणः||७४॥ संग्राम इति ॥ अमुष्य निशितस्तीक्ष्णः स जैत्रः कृपाणो जयति । स कः । यः सा- क्षादन्तकश्रीर्यमश्रीः । किंविधः । संग्रामे युद्धे संगताया मिलितायाः सरभसं विलसन् । यो [मण्डला]ग्रः खड्गस्तेनोग्रः क्रूरः पाणिर्हस्तो यस्य एवंविधं प्रत्यर्थिक्षत्रं तस्य दृष्टि- स्तस्याः समसमयं तत्कालमतिक्रूरकर्मा । कृतोऽन्तो नाशो येन सः । कालः श्यामः कल्पावसानस्य भ्रमकृत् । अरिजनस्य शत्रुलोकस्य [अशेष] कर्मणामेकः साक्षी ॥
काव्यमाला। प्रत्यर्थिक्ष्मापतीनामसुहरणविधावुल्वणक्रूरकर्मा शश्वन्मांसास्थिमज्जाव्यतिकरविभवाद्दूरदुष्प्रेक्ष्यमूर्तिः । यः संमूर्छत्कदुष्णक्षतजशवलितः कालरात्रिप्रमोदी क्रव्याहृद्धिं विधत्ते स जयति समरेऽमुष्य तीक्ष्णः कृपाणः ॥७९॥ प्रत्यर्थीति ॥ अमुष्य स तीक्ष्णः कृपाणः समरे जयति । स कः । यः क्रव्यात् । 'राक्ष- सः कौणपः क्रव्यात्' इत्यमरः । तद्बुद्धिं विधत्ते। [किंविधः । प्रत्यथिक्षमापतीनां प्रति- स्पर्धिपृथ्वीपतीनामसुहरणविधौ प्राणहरणविधौ उल्वणक्रूरकर्मा अत्यर्थे क्रूरकर्मा । शश्व- निरन्तरं मांसमस्थि मजा च तेषां व्यतिकरः संपर्कस्तद्विभवात् दूरं दुष्प्रेक्ष्या मूर्तिर्यस्य स तथा । संमूर्छद्विगुणीभवत् किंचिदुप्णं कदुष्णं यत्क्षतजं रक्तं तेन शबलितश्चित्रितः । कालरात्रिर्देवता तत्प्रमोदी तत्संतोषकर्ता ॥ संग्रामोदन्वतां यः प्रभवति विभवात्प्राभवेऽत्युद्धतायाः शश्वत्काबन्धसृष्टेः प्रबलमदवशावल्गनस्यैकहेतुः । दाता प्रत्यर्थिभूतक्षितिभृदभिमतानन्तधाराधराणां जन्ये पाशिप्रतीतिं जनयति स जयत्येतदीयः कृपाणः ॥ ७६ ॥ संग्रामेति ॥ स एतदीयः कृपाणो जयति । स कः । यो जन्ये युद्धे पाशिप्रतीति ज- नयति । 'प्रचेता वरुणः पाशी' इत्यमरः । स कः । यः संग्राम एवोदन्वन्तः समुद्राः । 'उदन्वानुदधिः' इत्यमरः । तेषां प्राभवे पराभवे । 'प्राभवस्तु पराभवः' इति द्विरूपः । प्रभवति समर्थों भवति । कस्मात् । विभवात्सामर्थ्यात् । पुनः किंविधः । अत्युद्धता- याः काबन्धसृष्टेः शिरोविहीनशरीरसृष्टेः । पक्षे-उदकसृष्टेः । शश्वनिरन्तरं प्रबलमदवशा- दूल्गनस्यैकहेतुरेककारणम् । पुनः-प्रत्यर्थिभूता याचकभूताः शत्रुभूताश्च क्षितिभृतो राजानः पर्वताश्च तेषामभिमता ये अनन्तधाराधराः खड्गा मेघाश्च तपां दाता ॥ योऽश्रान्तं पुष्करान्तः कृतवसतितया पांशुपातानभिज्ञो रंहोभूम्ना रिपूर्वीधरभुजविपिनोन्मूलने दृष्टसारः । उत्तुङ्गस्कन्धपीठेप्वविरतविहृतित्तिगन्धः कदाचि- द्वातभ्रान्ति विधत्ते स जयति समरेऽमुष्य तीक्ष्णः कृपाणः ॥७७॥ योऽश्रान्तमिति ॥ अमुध्य स तीक्ष्णः कृपाणः समरे जयति । स कः । यो वातभ्रान्ति वायुभ्रमं विधत्ते करोति । किंविधः । अश्रान्तं निरन्तरं पुष्करान्तः पिधानं मध्ये कृत- वसतितया तत्र स्थित्या पांशुपातानभिज्ञो रजःकणसंसर्गानभिज्ञः । सर्वदा निर्मल इति भावः । पक्षे-पुष्करं व्योम तदन्तःपातित्वात्पांशुपातानभिज्ञः । 'व्योम पुष्करमम्बरम्' इत्यमरः । रहोभूना वेगवाहुल्येन रिपव एवोधिरा राजानस्तेषां भुजास्त एव विपिनं ।
खङ्गशतकम् । ५७ - तस्योन्मूलने दृष्टः सारो बलं यस्य स तथा । पक्ष-रिपव(पूणाम्) इवोर्वीधराणां पर्व- तानां भुजैव विपिनानि तेपामुन्मूलने दृष्टसारः । उत्तुङ्गानि स्कन्धपीठानि तेष्वविरत- विहृतिः । पक्षे--उत्तुङ्गा ये स्कन्धाः सप्तमअवहा (2) व्र(प्र)वहादयः । कदाचित्- नात्तो गन्धो लेशो येन । पक्षे-आत्तगन्धो वे(ने)ति काकुः । गृहीतगन्ध इति यावत् ॥ श्रीदत्वेन प्रतीतस्त्रिषु भुवनतलेषामित्रं समित्यां शश्वल्लीलावदानप्रमदपरवशैः किंनरैर्गीतकीर्तिः । यो विभ्रचोत्तराशां विजितिषु ककुभामाश्रितः सार्वभौम पौलस्त्यस्य प्रतीति जनयति स जयत्यस्य जैत्रः कृपाणः ॥ ७८ ॥ श्रीदेति ॥ अस्य स जैत्रः कृपाणो जयति । स कः । यः पौलस्त्यस्य कुबेरस्य । 'पौलस्त्यो नरवाहनः' इत्यमरः । [तस्य] प्रतीति जनयति उत्पादयति । किंविधः । त्रिषु भुवनेषु लोकेषु श्रीदत्वेन प्रतीतः ख्यातः । समित्यां संग्राम उग्राणां मित्रम् । पक्षे-उग्रः शिवः । 'उग्रः कपर्दी' इत्यमरः । पुनः-शश्वनिरन्तरं लीला विलासस्तस्यावदानं महत्कर्म तस्य प्रमदो हर्षस्तत्परवशैहांधीनः किंनरैर्गीतकीर्तिः । पुनः-ककुभां दिशां विजितिषु उत्तराशां श्रेष्ठाशां विभ्रत् । पुनः-सार्वभौमं सर्वभमिसंवन्धमाश्रितः । पक्षे सार्वभौम दिग्गजमाश्रितः । 'पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः' इत्यमरोक्तम् ।। भीमः कालेषु कालो भृतभुजगवराभोगदुष्प्रेक्ष्यमूर्ति- नित्यं प्रत्यर्थिकामप्रविदलनफलस्पष्टदुर्मुष्टदृष्टिः । इत्थं यः शक्तिभूमप्रथितमहिमतो दर्शितेशानभावः कोणे न क्वापि लीनः स जयति समरेऽमुष्य तीक्ष्णः कृपाणः ॥७९॥ भीम इति ॥ अमुष्य स तीक्ष्णः कृपाणः समरे संग्रामे जयति । स कः । य इत्थम- मुना प्रकारेण शक्तिभूमा शक्तिरुत्साहः। 'शौर्य उत्साहादौ वले स्त्रियाम्' इति मेदिनी। तस्य वाहुल्यं तेन प्रथितः ख्यातो यो महिमा सामर्थ्यम् । तस्मात्तसिः । दर्शित ईशानभावो येन । ईशानपक्षे-शक्तिः पार्वती । "तद्वत्कालः। ईशानपक्षे-'व्योमकेशो भवो भीमः' इत्यमरः । कालेषु यमेषु कालो मृत्युः । पुनः- भृता भुजं गच्छतीति भुजगा वराभोगा श्रेष्ठपरिपूर्णता दुष्प्रेक्ष्या दर्शनायोग्या मूर्तिर्यस्येति स तथा । अथवा भृता भुजगवद्वरा भोगा दुष्प्रेक्ष्या मूर्तिर्येन स तथा । ईशानपक्षे. भृता भुजगावराणामाभोगे न दुष्प्रेक्ष्या मूर्तिर्यस्येति । पुनः कीदृशः । नित्यं प्रत्यर्थिनां वै. रिणां कामं निश्चितं प्रविदलनं तदेव फलं तत्र स्पष्टा प्रकटा दुर्घष्टा दृष्टियस्मिन्स तथा । पक्षे-प्रत्यर्थी यः कामो मदनस्तस्य प्रविदलनमेव फलं तत्र स्पष्टा दुर्घष्टा दृष्टियस्य । - ५८ काव्यमाला। पुनः-क्वापि कोणे न लीनः । पक्षे-कापि शेषे लीनो नेति काकुः । अपि तु एकस्मि- कोणे लीनः ॥ पोत्रं बाहाहलस्य प्रतिसुभटभुवां दारणे यानपात्रं संग्रामाब्धि तरीतुं स्थिरतरमनसः साहसात्क्षत्रियस्य । लोकातीतप्रशस्तिप्रगुणलिपिकृते दोस्तमालस्य पत्रं यः पात्रं शौर्यलक्ष्म्याः स जयति समरेऽमुण्य तीक्ष्णः कृपाणः॥८॥ पोत्रमिति ॥ अमुष्य स तीक्ष्णः कृपाणः समरे जयति । स कः । यः प्रतिसुभटाः स्पर्धिनो वीरास्त एव भुवस्तासां दारणे विदारणे बाहा भुजा सैव हलो लाङ्गलस्तस्य पोत्रं मुखाग्रम् । 'मुखाग्रे कोडहलयोः पोत्रम्' इत्यमरः। लाङ्गलं हलम् इत्यपि । यः क्षत्रियस्य संग्रामाब्धि संग्रामसमुद्रं तरीतुं........... । 'यानपात्रे शिशौ पोतः' इत्यमरः । किंविधस्य क्षत्रियस्य । साहसादुद्योगात्स्थिरतरं मनो यस्य तस्य । यो लोकातीता लोकाधिका या प्रशस्तिस्तस्याः प्रगुणलिपिस्तव कृते तनिमित्तं तदर्थे वा दोस्तमालस्य बाहुतमालस्य पत्रं तमालपत्रस्य लेखनसाधनत्वम् । शौर्यलक्ष्म्याः पात्रं भाजनम् । 'योग्यभाजनयोः [पात्र]म्' इत्यमरः ॥ काली प्रत्यर्थिभूतक्षितितिलककुलप्रांशुकूलंकषालं प्रोन्मीलत्पुष्करान्ता जगति पितृपतेर्व्यञ्जयन्ती स्वसृत्वम् । काबन्धी किं च सृष्टिं दिशि दिशि विपुले विग्रहे दर्शयन्ती कालिन्दीवैतदीया नभसि विजयते तीक्ष्णकोणा कृपाणी ॥ ८१ ॥ कालीति ॥ एतदीया तीक्ष्णकोणा कृपाणी नभसि आकाशे विजयते । केव । कालि- न्दीव यमुनेव । किंविधा । काली श्यामा । पुनः-प्रत्यर्थिभूताः क्षितितिलका राजान- स्तेषां कुलं तत्र प्रांशव उच्चाः। श्रेष्ठा इति यावत् । तेषां कूलं सैन्यपृष्ठं तत्कषतीति कषा। 'कष विलेखने' । 'अथ कूलं तरे(१)सूर्ये सैन्यपृष्ठतडागयोः' इति मेदिनी । पक्षे-क्षिति- तिलका भूम्यलंकाराः पर्वतास्तेषां कुलप्रांशुः श्रेष्ठः कलिन्दस्तस्य कूलंकषा नदी । 'सिन्धुः स्रवन्ती तटिनी तरङ्गिणी कूलंकषा शैवलिनी' इति हलायुधः । अलमत्यर्थं प्रोन्मीलन्पु- करान्तोऽपि धान्तो यस्यां सा । पक्षे-पुष्कराणि जलानि कमलानि वा । 'बिसप्रसून- राजीवपुष्कराम्भोरुहाणि च' इति। 'कबन्धमुदकं पाथः पुष्करम्' इत्यमरः । जगति लोके पितृपतेर्यमस्य । 'धर्मराजः पितृपतिः' इत्यमरः । स्वसत्वं भगिनीत्वं व्यञ्जयन्ती दर्शयन्ती । किं चान्यत् विपुले विग्रहे विरोधे कावन्धी सृष्टिं] शिरोरहितकायसृष्टिं दिशि दिशि दर्श- यन्ती । पक्षे-काबन्धी सृष्टिं जलसृष्टिम् । विग्रहे शरीरे ॥ कीलालैर्वीतमूर्तिः किमपि रुचिभरैर्भासुरत्वं वहन्ती भूभृद्भिः कोटिसंख्यैर्विधुतघनरसं गाहमाना रणाब्धिम् । ।
खङ्गशतकम् ।
५९
।
-
अश्रान्तं शत्रुमध्यास्थितिरपि न पराभूतिभूडिवाग्नि-
ज्वालेवालोक्यते या समिति विजयते सास्य जैत्रा कृपाणी ॥२॥
कीलालैरिति ॥ अस्य सा जैत्रा कृपाणी समिति विजयते । सा का। या वाडवश्चा-
सावग्निश्च स तथा तस्य ज्वालेवालोक्यते । किंविधा कृपाणी । कीलाले रक्तैर्वोतमूर्ति-
ाप्तदेहा । रुचिभरैः कान्तिभरैः किमपि भासुरत्वं दीप्तत्वं वहन्ती । पक्षे-कीलालै-
जलैः । 'शोणितेऽम्भसि कीलालम्' इत्यमरः । रण एवाब्धिस्तं गाहमाना । किंविधं र-
णाब्धिम् । कोटिसंख्यैर्भूभृद्भिः । पक्षे-पर्वतैः । विधुतः धनरसो वीररसः । पक्ष-वि-
धुतो धनरस उदकम् । 'मेघपुष्पं घनरस': इत्यमरः । अश्रान्तं निरन्तरं शत्रुमध्ये आस्थि-
तिरपि पराभूतिः पराभवस्तस्या भूः स्थानं न । जलस्याग्नेश्च विरोधः प्रसिद्धस्तेन
शत्रुत्वम् ॥
प्रत्यर्थिक्षमापतीनां नयनविषयतां यातमात्रातिमात्रं
गात्राण्युद्भूर्णयन्ती दृशि च वि. "स्तप्रमायाः।
आतृप्तिखादितान्यैः स्वयमतिशयितां क्षीवतामश्रुते या
सा पूर्वा वारुणीह स्फुरति सिति(शित)तरामुष्य क्षेत्रा कृपाणी ॥८॥
[अस्य श्लोकस्य टीका त्रुटिता।]
स्निग्धश्यामाभिरामा नभसि सरमसं विस्फुरन्ती वहन्ती
कीलालस्यातिभारं परतपनिधने दर्शितानेकधारा ।
प्रख्यातक्ष्माभृदुच्चैः शिरसि सुबहुशः स्खं पदं दर्शयन्ती
शश्वत्सा कालिकेव प्रसरति समरेऽमुष्य तीक्ष्णा कृपाणी ॥ ८४ ॥
[अस्य श्लोकस्य टीका त्रुटिता।]
चक्षुष्यैवातिमात्रं रसिकजनमनःप्रीतिमुत्पादयन्ती
मात्सर्याद्वैरिपृथ्वीपतितिलकतिरस्कारविद्या विदग्धा ।
प्रत्यग्रोत्फुल्लनीलोत्पलदलरचिता कर्णिकेवानिलक्ष्म्याः
स्निग्धश्यामाभिरामा विलसति सुतरामेतदीया कृपाणी ।। ८५ ॥
[अस्य श्लोकस्य टीका त्रुटिता।]
कीलालान्तर्निमना किल किमपि रसानूभिता सान्द्रशाद-
स्निग्धश्यामाभिरामा धनरसजनिभिर्विस्मयाद्वीक्ष्यमाणा ।
दंष्ट्रौज्ज्वल्येन दीप्ति पयसि विदधती मूलभूदारमूर्ति-
भ्रान्ति या संविधत्ते समिति विजयते सास्य नेत्रा कृपाणी ॥८६॥
६० काव्यमाला ॥ पुनः-दंष्ट्रौज्ज्वल्येन पयस्युदके दीप्तिं विदधती कुर्वती ॥ नीला निःसीमपाता वियति विभवतो विस्फुरन्ती वहन्ती स्निग्धत्वं फेनपुञ्जानिव विमलयशःसंचयानुद्वमन्ती । दुर्लक्ष्या दीप्तिभूम्ना दशशतकरभृद्वाहपतिप्रतीति धत्ते बाहाभृतां या समिति विजयते सास्य जैत्रा कृपाणी ॥ ८७ ॥ नीलेति ॥ अस्य सा कृपाणी जैत्रा समिति विजयते। सा का । या बाहाभृताम् । 'बाहा भुजा' इति स्त्रीलिङ्गे । करवताम् । शूराणामित्यर्थः । दशशतं सहस्रं करान् किरणान् बिभर्तीति भृत्सूर्यस्तस्य वाहा अश्वास्तेषां पतिस्तस्याः प्रतीति प्रत्ययं धत्ते। करोतीत्यर्थः । किंविधा । नीला श्यामा । अश्वपतिरपि नीला वियति आकाशे निःसीम- पाता । तुल्यं(?) विभवतो विस्फुरन्ती । स्निग्धत्वं वहन्ती । विमला ये यशःसंचयास्ता- न्फेण(न)पुञ्जानिवोद्वमन्ती दीप्तेर्भूना बाहुल्येन दुर्लक्ष्या लक्षितुमशक्या ॥ तन्वी नीलाञ्जनामा किमपि निजपरीवारतो निष्पतन्ती स्निग्धत्वस्यातिभूम्नाखिलवपुषि परं पिच्छ(च्छि)लत्वं वहन्ती । भीत्या प्रत्यर्थिपृथ्वीपरिवृढतिलकैर्दन्दशूकीव दृष्टा यात्यर्थ तीक्ष्णवक्त्रा समिति विजयते सास्य जैत्रा कृपाणी॥८॥ तन्वीति ॥ अस्य सा जैत्रा कृपाणी समिति विजयते । सा का । या प्रत्यर्थिनो ये थ्वीपरिबूढाः पृथ्वीप्रभवः । 'प्रभौ परिवृढः' । तेषु तिलका अलंकारभूतास्तैीत्या भ- येन दन्दशूकीव सर्पिणीव दृष्टा । ‘दन्दशूको बिलेशयः' इत्यमरः । तस्य स्त्री दन्दशूकी । दंशेः 'लुप्सद्' इत्यादियङन्तात् 'यजजप' इत्युकञ् । किंविधा । तन्वी कृशा । तुत्थाञ्जनं नीलाञ्जनं तद्वदामा श्यामेत्यर्थः । किमप्यल्पानिजपरीवारतः स्वकोशान्निष्पतन्ती नि- र्गच्छती । पक्षे-परीवारः स्वकुलम् । परीवार इत्यत्र 'उपसर्गस्य घञ्मनुष्ये बहुलम्' इति दीर्घता । स्निग्धत्वस्यातिभून्ना चिकणत्वबाहुल्येनाखिलवपुषि परमत्यर्थे पिच्छिल- त्वमार्द्रत्वं वहन्ती ॥ श्यामा निर्यत्कवोष्णक्षतजभृतमुखी किं च दुष्प्रेक्ष्यमूर्तिः क्षोणीक्षोदान्धकारे पललविशसने पाटवं दर्शयन्ती । निःशङ्का ऋरदंष्ट्राद्वयरुचिशवला राक्षसीभ्रान्तिमारा- दत्ते संख्यावतां या समिति विजयते सास्य जैत्रा कृपाणी ॥ ८९॥ श्यामेति ॥ अस्य सा जैत्रा कृपाणी समिति विजयते । सा का। संख्यावतां पण्डि- पृ.
खगशतकम् । ६१ तानां वा । 'संख्यावान्पण्डितः' इत्यमरः । राक्षसीभ्रान्तिम् । 'आराद्दरसमीपयोः' । दत्ते द. दातीत्यर्थः । किंविधा । श्यामा काली । निर्यद्यत्कवोष्णं किंचिदुष्णं क्षतजं रक्तं तेन भृतं मुखं यस्याः सा । किं चान्यत् क्षोणी पृथ्वी तस्याः क्षोदो धूलिः स एव तस्य वा अन्ध- कारस्तस्मिन्दुष्प्रेक्ष्या मूर्तिर्यस्याः सा तथा । 'चूर्णे क्षोदः' इत्यमरः । पललस्य मांसस्य । 'पिशितं तरसं मांस पललम्' इत्यमरः । विशसने विदारणे पाटवं पटोर्भावस्तं दर्शयन्ती । पुनः किंविधा । निःशङ्का भयरहिता। क्रूरं यद्दष्ट्राद्वयं सूक्कप्रदेशे लोहकीलद्वयं दंष्ट्रेत्युच्यते । तस्य रुचिः कान्तिस्तया श[व]ला चित्रा ॥ तन्त्रज्ञानां निजागावरणकृतधियां साहसैकाग्र्यभाजां पौनःपुन्येन पुंसामसदृशि समितौ धूननान्यनुवाना । निर्भीका मोहयन्ती नयनविषयतां यातमात्रैव योधा- न्भूताविष्टेव यान्यान्विलसति सततं सास्य जैत्रा कृपाणी ॥ ९० ॥ तन्त्रेति ॥ अस्य सा जैत्रा कृपाणी सततं निरन्तरं विलसति । सा का । या भूता- विष्टेव पिशाचाविष्टेव । किंविधा । पुंसां पुरुषाणां असहशि अतुल्ये समिती संग्रामे । पक्षे~सभायाम् । धूननानि कम्पितानि अनुवाना कुर्वाणा । किंविधानां पुंसाम् । तन्त्र- ज्ञानां शास्त्रज्ञानाम् । पक्षे-प्रधानकृत्यवेदिनाम् । पुनः-निजाङ्गानां सप्ताचगणां (सप्त- राज्याङ्गानाम्)। स्वाम्यमात्यसुहृत्कोशदुर्गराष्ट्रबलानि च' इति । तेषामावरणे। पक्षे-निजा- ङ्गानि शरीराणि [तत्र] कृता धियो यैस्ते तथा । तेषाम् । साहसस्योद्योगस्यै- काग्र्यं भजन्ति ते तेषाम् । पौनःपुन्येनावृत्येत्यर्थः । पुनः किंविधा । निर्भीका निर्भया । पुनः-नयनविषयतां नेत्रगोचरतां यातमात्रैव गता सती योधान्वीरान्मोहयन्ती व्यामोहयन्ती ॥ सश्रीका विस्फुरन्ती सततपुलकितं दर्शयन्ती निजाङ्गं सद्रागा वीर्यभाजां मनसि सरभसं क्षोभमुत्पादयन्ती । आश्लिष्यन्ती किलान्यं समिति सुविपुले कण्ठदेशेऽतिगाढं या वारस्त्रीव सक्ता भवति विजयते सास्य जैत्रा कृपाणी ॥ ९१॥ सश्रीकेति ॥ अस्य सा जैत्रा कृपाणी विजयते । सा का । या वारस्त्रीव वाराङ्गनेव सक्ता भवति । किंविधा । सश्रीका शोभायुक्ता विस्फुरन्ती निजाङ्गं सततं पुलकितं रोमाञ्चयुक्तं दर्शयन्ती । सत्सु रागो यस्याः सा। वीर्यभाजां मनसि चित्ते सरभसं सवेगं क्षोभमुत्पादयन्ती । किलेति दृश्यते समिति संग्रामे सभायां वा अन्य सुविपुलं कण्ठदे- शेऽतिगाढं दृढतरमाश्लिष्यन्ती आलिङ्गयन्ती ॥ या दत्ते दृङ्निपातादहितभुजभृतां कम्पमानैव कम्प रक्ता रक्ताक्तिभावं सपदि निपतती तेषु भूम्ना निपातम् ।
६२ काव्यमाला । इत्थं साम्यं प्रकाश्याप्यखिलमनुपमः कोऽपि यस्या विशेष- स्त्वेका पञ्चत्वमाजौ विलसति सुतरां सास्य जैत्रा कृपाणी ॥९२॥ या दत्त इति ॥ अस्य सा जैत्रा कृपाणी विलसति सुतरामत्यर्थम् । सा का । या कम्प- [मा]नैवाहितभुजभृतां वैरिबाहुभृतां दृङ्गिपातात् दृष्टिविषयतात् (?)कम्पं दत्ते ददाति । या रक्ता सती अहितभुजभृतां रक्ताक्तिभावं शोणितसिञ्चनत्वं दत्ते। पुनः-या सपदि तत्कालं तेषु वैरिषु निपतती सती भूम्ना बाहुल्येन निपातं पतनं दत्ते । इत्थमखिलं साम्यं सा. धर्म्य प्रकाश्यापि प्रकटीकृत्यापि यस्याः कृपाण्याः कोऽपि अनिर्वचनीयः, अनुपम उपमा- रहितो विशेष आधिक्यम् । तु पुनरेका अद्वितीया सती अहितभुजभृतामाजौ संग्रामे पञ्चत्वं पञ्चसंख्या पञ्चत्वं मरणं दत्ते इति शब्दबलम् । अयमेव विशेषः ॥ स्वाभावाद्याञ्जनाभा विलसति सततं पालने विष्टपानां संहारे दृश्यते याहितधरणिभृतां रक्तवर्णा मुहूर्तम् । विज्ञानस्तय॑ते या विशदतरयशःसृष्टिषु प्रोज्ज्वला सा नानाश्चर्यस्वरूपा समिति विजयतेऽमुष्य जैत्रा कृपाणी ॥ १३ ॥ स्वाभावादिति ॥ अमुष्य सा जैत्रा कृपाणी समिति विजयते । सा का । या ना- नाश्चर्यरूपा । तदेव विशेषणैविशदयति-या स्वाभावात् स्वभाव एव स्वाभावस्तस्मादञ्ज- नाभा कज्जलकान्तिः सततं निरन्तरं विष्टपानां भुवनानां पालने विलसति । या अहि- तधरणिभृतां वैरिपृथ्वीधराणां संहारे क्षणं मुहूर्त रक्तवर्णा दृश्यते । या विज्ञानैः विशिष्टं ज्ञानं येषां ते तथा तैर्विशदतरं यद्यशस्तत्सृष्टिषु प्रोज्ज्वला प्रकृष्टोज्ज्वला तय॑ते उन्मीयते । अत एव नानाश्चर्यरूपत्वम् ॥ या काली कालसाम्यं जनयति मिषतां निष्परीवारभाव याता या तं विधत्ते रणशिरसि परं निष्परीवारमेव । सास्याश्चर्या रिपूणां निपुणमवयवेष्वनुवानव सङ्गं निःसङ्गास्ताक्षणार्धाकिमपि विदधती दीव्यतीद्धा कृपाणी ॥१४॥ येति ॥ अस्य सा आश्चर्याश्चर्यरूपा कृपाणी इद्धा समृद्धा दीव्यति क्रीडति । सा का। या काली श्यामा मिषतामवलोकयतां कालसाम्यं यमसाम्यं तुल्यतां जनयत्युत्पा- दयति । पुनः-या निष्परीवारभावमावरणरहितत्वं याता प्राप्ता सती रणशिरसि तं परं वै- रिणमवलोकयितारं निष्परीवारशून्यत्वं विधत्ते करोति । किंविधा । रिपूणामवयवेषु ह- स्तादिषु निपुणं यथा तथा सङ्गं नैवानुवाना। अकुर्वतीत्यर्थः । पुन:-क्षणार्धात्तानिपून्कि- मपि निःसहान्सङ्गरहितान्विदधती कुर्वती ॥ ,
खगशतकम् ।
या स्निग्धश्यामलापि स्फुटधवलयशोधाम धाराधरापि
प्रत्यर्थिक्षत्रियान्तःपुरिकजनमनोनल्पसंतापहेतुः ।
एकापि द्वेपणानां हृदयमधि पुनः कोटिधा दर्शयन्ती
स्वाधिष्ठानं समीके विलसति सुतरां सास्य जैत्रा कृपाणी ॥९॥
या स्निग्धेति ॥ अस्य सा जैत्रा कृपाणी समीकै युद्धे । 'मृधमास्कन्दनं संख्यं समी-
कम्' इत्यमरः । सुतरां विलसति । सा का । या स्निग्धश्यामलापि स्फुटधवलयशोधाम
स्फुटं धवलं यद्यशस्तस्य धाम गृहम् । अजहल्लिङ्गेन विशेषणविशेष्यभावः । पुनर्या धाराध.
रापि प्रत्यर्थिनो ये क्षत्रियास्तेषामन्तःपुरजनानां मनांसि तेषामनल्पो बहुर्यः संतापस्तस्य
हेतुः । धारापदेन विरोधः । या धाराधरा सा कथं संतापहेतु: 'धाराधरौ मेघः खड्गौ' इ-
त्यभिधानेन धारापदे खड्गधारा ततो विरोधाभासः । पुनः-या एकापि द्वेषणानां वैरिणाम्।
'सपत्नारिद्विघवेषणदुर्हदः' इत्यमरः । हृदयमधि पुनः कोटिधा कोटिप्रकारम् । 'संख्याया
विधानार्थे धा' इति धा । स्वाधिष्ठानमास्थानमथवा प्रभावः । 'अधिष्ठानं पुरे चक्रे प्रभावे.
ऽध्यासने' इति मेदिनी । दर्शयन्ती प्रकाशयन्ती ॥
या स्वैरं त्यक्तकोषा रणशिरसि दृढं द्वेष्टि विद्वेषिकोषं
या सम्राजः करस्था जनयति निखिलं शत्रुवर्ग करस्थम् ।
या भास्वन्मण्डलस्था गमयति न चिरात्सन्मुखान्वैरिवीरां-
स्तद्भास्वन्मण्डलं सा विलसति सुतरामस्य जैत्रा कृपाणी ॥ ९६ ॥
या स्वैरामिति ॥ अस्य सा जैत्रा कृपाणी सुतरां विलसति । सा का । या स्वैरं त्य-
क्तकोपा दूरीकृतपिधाना रणशिरसि संग्रामे दृढं गाढं विद्वेषिणां वैरिणां कोशमर्थसंघात
द्वष्टि । या सम्राजः सम्यग्राजतेऽसौ सम्राट् तस्य सम्राजः करस्था सती निखिलं समग्रं
शत्रुवर्ग करे करभारे तिष्ठतीति तथा तं जनयति । या भास्वन्मण्डलस्था भास्वद्दीप्तं य-
न्मण्डलं तत्रस्था भास्वत्सूर्यमण्डलं तवस्था तत्संसर्गवतीत्यर्थ दन्ति वा (?) संमुखान्वैरि-
वीरान्योद्धमागतानित्यर्थः । न चिरात् शीघ्रं तद्भास्वन्मण्डलं तत्प्रसिद्धं सूर्यमण्डलं गम-
यति प्रापयति । द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । परिव्राड्योगयुक्तश्च रणे वा-
भिमुखे हतः ॥ इति वचनात् ॥
मुष्टिग्राह्यापि नागायुततुलितबलैर्दस्युभिर्दुहा या
गुप्तिप्राप्तापि जन्ये रिपुहननमयैर्यावदानैः प्रकाशा ।
शीतस्पर्शाप्यरण्ये तृणवदरिकुलं भस्मसाधा विधत्ते
सा शाणोन्मृष्टकोणा विलसति सुतरामस्य जैत्रा कृपाणी ॥ ९७ ॥
६४ काव्यमाला । मुष्टीति ॥ अस्य सा जैत्रा कृपाणी सुतरां विलसति । सा का । या मुष्टिप्राह्यापि मुष्टिना ग्रहीतुं शक्या तथा नागानां गजानामयुतं दशसहस्रं तेन तुलितं तोलितं बलं येषां ते तथा तैः दस्युभिर्वैरिभिः । 'द्विद्विपक्षाहितामित्रदस्युशात्रवशत्रवः' इत्यमरः । दुर्ग्रहा । या गुप्तिप्राप्तापि पिधानान्तरितापि जन्ये युद्धे रिपुहननमयैर्वैरिमारणप्रचुरैवदा- नैर्महत्कर्मभिः प्रकाशा प्रकारा (१)। या शीतस्पर्शापि । आयसः साहजिकः शीतस्पर्शः। अ- रण्ये तणवदरिकुलं भस्मसाद्भस्माधीनम् । तदधीने सातिः' इति सातिप्रत्ययः । विधत्ते करो- तीत्यर्थः । किंविधः । शाणेनोन्मृष्टः कोणो यस्याः सा । शाणस्य उन्मृष्टः कोणो यया सेति वा ॥ ऋज्वङ्गी या स्वयं न क्षणमपि सहते वक्रमावं रिपूणां स्निग्धच्छिन्नाञ्जनाभा स्थगयति धवलं या यशः शात्रवीयम् । ईशा दीर्घा मुहुर्या व्यसनमरिकुले दीर्घदीर्च विधत्ते सा निर्द्वन्द्वं स्फुरन्ती समिति विजयतेऽमुष्य जैत्रा कृपाणी॥९८॥ ऋज्वमिति ॥ अमुष्य सा जैत्रा कृपाणी विजयते । सा का । या स्वयं ऋज्वङ्गी सर- लाङ्गी । क्षणमपि रिपूणां वक्रभावं न सहते । 'सह मर्षणे' । या स्निग्धं छिन्नपर्षितं(?) प(योदञ्जनं कज्जलं तस्याभेवाभा कान्तिर्यस्याः सा । शात्रवीयं शत्रुसंबन्धि धवलं श्वेतं यशः स्थगयति आच्छादयति । या ईशा दीर्घा लाङ्गलदण्डवदीर्घा । 'ईषा वा' इति पाठः । मुहुर्वारंवारमरिकुले दीर्घदीर्घमतिमहव्यसनं दु:खं विधत्ते । किंविधा । समिति संग्रामे निर्द्वन्द्वं स्फुरन्ती ॥ मुग्धा या युद्धभूमावहितनरपतींस्तत्क्षणं मोहयन्ती प्रोद्भूता या विनेत्रा मुहुरभिपतितांस्तान्समुत्कम्पयन्ती । खच्छायासंनिपाते किमपि विदधती संमुखावस्थितांस्ता- नत्यथै भासुरश्रीविलसति नितरामस्य जैत्रा कृपाणी] ॥ ९९ ॥ मुग्धेति ॥ अमुष्य (अस्य) सा जैत्रा कृपाणी नितरां विलसति । सा का । या मुग्धा प्रालसि(?) युद्धभूमावहितनरपतीन्वैरिनृपांस्तत्क्षणं मोहयन्ती व्यामोहयन्ती । पुनः प्रो- द्ता कम्पिता विनेत्रा विगतनेत्रपरिधाना। नेत्रं मथिगुणे वस्त्रभेदे' इति मञ्जरी ।मुहुर्वार- वारमभिपतितानागतांस्तानहितनरपतीन्समुत्कम्पयन्ती सम्यगुत्कम्पयन्ती । पुनः—या स्वच्छायासंनिपाते स्वस्य च्छाया कान्तिस्तस्याः संनिपाते संमुखावस्थितान्संमुखा- गतांस्तानहितान् किमप्यनिर्वचनीयं विदधती कुर्वती । किंविधा । अत्यर्थ भासुरा श्रीर्यस्याः सा ॥ स्वेि स्वे काले .. ........
लोकोक्तिमुक्तावली।
६५
....
..............
॥ १० ॥
स्त्रे स्व इति ॥ एतदीया सा कृपाणी निष्कार्पण्याहितानां निर्गतं कार्पण्यं कृपाणस्य
भावः कार्पण्यं येषां ते निष्कार्पण्या येऽहिता वैरिणस्तेषां हृदि हृदये हठेनाकृष्टा तत्की-
तिर्लक्ष्मीर्वसतु । सर्वदा तिष्ठवित्यर्थः । किंविधा । स्वे स्वे काले स्वस्वसमयेऽतिक्रान्तः.
काशेः पिधानं भयात्सा पुनः स्वगुणविभवतः
श्रीदक्षिणामूर्तिविरचिता
लोकोक्तिमुक्तावली।
शरद्धिमरश्मिवलक्षबृहत्तरमूर्तिलसद्भुजगं
मतगजवक्रमविघ्नकरं मम मानप्तशृङ्खलितम् ।
कपोलगलन्मदवारि विलोलमधुव्रतहर्युपलै-
रलंकृतमहमाकलयेऽनिशमीशसुतं गणपतिम् (१) ॥ १॥
मान्यैः सद्भिर्मत्कृतिः प्रेक्षणीया सा चेत्साध्वी तैस्तथाङ्गीक्रियेत ।
निन्देयुर्वा ते न मे स्याद्विपादो मात्राक्रान्तः को नु पङ्गुत्वमेति ॥ २ ॥
महत्स्वधिगताशेषकल्याणगुणराशिपु ।
मदुक्तिवादोपस्कारवाटिकासूचिविक्रयः ॥ ३ ॥
मदर्वाचीनतादोषात्कृतिरेषा न निन्द्यताम् ।
उपेक्ष्यते पयः किं नु भाण्डवैरूप्यदर्शनात् ॥ ४ ॥
ईशानविष्णुविधिहैमवतीन्दिरावा-
पादाम्बुजानि मनुजाः परिशीलयध्वम् ।
तत्तत्कृपाणुनिचयो नु महर्धये स्या-
ज्जायेत नैकपृषतौघमयी हि सिन्धुः ॥ ५ ॥
माः संसृतिवार्धिमध्यपतितास्तत्कारकं शंकर
सर्वज्ञं शरणागतातिहरणं सम्यग्भजध्वं सदा ।
नैवान्यत्करणीयमस्ति भवतां मुक्त्यै न सेवान्तरं
दत्त्वा किं तरणे तिं ह्यनडुहः पुच्छं च संगृह्यते ॥ ६ ॥
काव्यमाला।
खस्वस्थानस्थितिकृतिविधावक्षमैरन्यदेवै-
नित्यं सेव्यं निखिलभुवनाधारमाधारहीनम् ।
शंभुं मां भजत शरणं मुक्तये नान्यदेवं
दभ्रः किं नु स्वयमपि परालम्बयष्टिर्भवेद्वा ॥ ७ ॥
मा त्वं विषीद मदनान्तकमेव देव-
माराधयेच्छसि सुखं यदि जीवलोके ।
तल्लीनवाडानसकर्मगतिः सदैव
वल्ली न ताम्यति परीतमहाद्रुमा हि ॥ ८ ॥
दक्षाध्वरध्वंससमाश्रितानां रक्षाकरं यात शरण्यमार्याः ।
मा वोऽस्तु भीः संसरणाच्च कालादुक्षा दृढस्तीक्षणतरे विषाणे ॥ ९ ॥
जातं मया पुरारे बहुशो जनिरत्र मे पुनर्मा भूत् ।
देहि तव पादसेवां यावन्मथितं किमोदनाकाङ्क्षा ॥ १० ॥
कमलं तव पदकमले विमले मम देहि चञ्चरीकत्वम् ।
नान्यत्किमपि च काझे पश्चाद्गानं किमस्ति भिक्षायाः ॥ ११ ॥
शिवाख्यया विष्ण्वभिधानतो वा सकृत्तु संकीर्तित एव देवे ।
समस्तपापानि लयं प्रयान्ति किमस्ति कुम्भो हि दृढो गदायाः॥१२॥
विद्यैव दुर्लभतरा विनयेन युक्ता
विप्रास्तदर्थमनुवेलमतो यतध्वम् ।
वृत्त्यादिकं च विदुषां वितरन्ति सर्वे
शाखा प्लवंगममनादधती किमस्ति ॥ १३ ॥
विद्वज्जनो विगतभीविविधेऽपि देशे
विद्याबलाक्रमणभीतप्तमस्तलोकः ।
स्वस्थानवत्स खलु सर्वत ए पूज्यो
व्याघ्रस्य किं निजवने परकानने वा ॥ १४ ॥
वृत्त्यादिकशिंतोऽपि विद्वान्मान्यः स्वदेहयात्रायाम् ।
न सहेत ह्यवमानं व्याघ्रः क्षुधितोऽपि भक्षयेन्न तृणम् ॥ १५ ॥
न ह्येक एव विदुषां सत्कर्ता किंतु यत्र ते याताः ।
तत्रापि सत्कृताः स्युः पश्चादामेऽपि नहि कुलालः किम् ॥ १६ ॥
--
लोकोक्तिमुक्तावली।
६७
जन्मानितेन तदनु श्रुतिचोदितेन
यस्तेजसोज्ज्वलति तं शिशुमप्यनाथम् ।
विप्रं तु योऽवमनुते स भवेद्विनष्टो
बध्येत किं तनुरिति ज्वलनो हि वस्त्रे ॥ १७ ॥
दैवाद्दरिद्रतमतां विदुपि प्रयाते
विप्रे कृशेऽपि मनुजा न कुरुध्वमस्य ।
निन्दां तथापि महती हि तदीयविद्या
क्षीणे गजेऽपि तनुता न पदं प्रयाति ॥ १८ ॥
पूर्व जन्मशतेषु सत्परिचयादभ्यस्तविद्ये द्विजे
मा शङ्कां मनुजाः कुरुध्वमधुना संत्यक्तसर्वेषणे ।
मुक्ते सद्गुरुवीक्षणादिति न वा जानाति शास्त्राण्यसौ
किं नु स्थापितमालिकस्य शिरसो ह्यावर्तको मृग्यते ॥ १९॥
जन्मान्तरेषु कृतपुण्यचयो द्विजोऽयं
विद्यावतां जनिमुपेत्य कुले शुचीनाम् ।
मुत्यै सदैव यतते विरतान्यकृत्यः
शावः करोति पतगः किमु जानुचारम् ॥ २० ॥
प्रज्ञाविशेषपरिबाधितविश्वमोहा-
विज्ञाततत्त्वनिपुणान्विरतान्यकृत्यान् ।
अज्ञातभावचरितान्महतो न निन्द्या-
न ज्ञायते किमिति मूषिकवासलोष्ठम् ॥ २१ ॥
आत्मानन्दरसज्ञानामलं शास्त्रावलोकनम् ।
भक्षितव्या ह्यपूपाः किं गण्यानि सुषिराणि किम् ॥ २२ ॥
वेदानधीत्य विधिवद्गृहमेत्य पश्चा-
दभ्यागतातिथिसुरान्स्वपितॄनुपास्ते ।
यस्तं स्वकर्मनिरतं मनुजाः स्तुवन्ति
ग्रामस्य कीर्तिरशनेऽर्पित एव मातुः ॥ २३ ॥
काव्यमाला । सुता वयं सोमसुतां च पौत्रा विद्यावतां चेति विहायं गर्वम् । द्विजाः समभ्यस्यत वेदविद्यां गजो भवेत्कि न शकृद्गजस्य ॥ २४ ॥ इति विद्वत्प्रशंसापद्धतिः । वासो विप्रा इह खलजनैर्वर्जनीयः प्रयत्ना- होऔरतै रितकरणैराश्रितानां जनानाम् । युष्माभिश्च स्वयमुपगताः प्राप्यते तद्विपत्ति- दग्धोऽपि स्यादपि च स हितः शल्मलिः काचिरेण ॥ २५ ॥ सन्तः कदाचिदपि सख्यमसजनैन कार्य कृते तु हृषिता यदि नीचकृत्ये । युञ्जन्ति कोपविवशाः प्रहरन्ति चैते सख्ये कृते सह शुना लिलिहेदशेद्वा ॥ २६ ॥ सन्तो लोकमशेषमात्मसदृशं संचित्य सद्भावतः संसाराम्बुनिधौ निमग्नमचिरादुद्धर्तुमुद्युञ्जते । मन्दाः खोद्धरणोधतानपि नरान्निन्दन्त्यविज्ञाय ता- न्कूपे श्वा पतितो नतो न मनुते चोद्धर्तुकामानपि ॥ २७ ॥ श्रुत्यन्तस्थपुमर्थसाधनकथारिक्तोऽपि मुग्धो जनः प्रत्यङ्मानपराङ्मुखोऽपि परमान्धर्मानकुर्वन्नपि । नित्यं खोदरपूरणैकनिरतः संभ्राम्यति स्वेच्छया कृत्यं किंचन नास्ति यद्यपि शुनो यानं सदा धावनम् ॥२८॥ खलाः प्रकृत्यैव खला भवन्ति विप्रा भवद्भिर्विहितोपदेशाः । अप्याजवं नैव कदापि यान्ति पुच्छं शुनः किं न्वृजुतां भजेत ॥ २९ ॥ धन्या हि यूयमिह विप्रकुलेषु जाता विप्रात्मजा विटजनैः सह मास्तु. सङ्गः। यद्यस्ति तद्वदशुभाचरिता भवेत वत्सोऽपि खादति मलं हि वराहसक्तः ॥ ३० ॥ प्राप्यापि पूर्वकृतपुण्यचयनित्वं नीचाः सतामविदितव्यसनं द्विजानाम् ।
लोकोक्तिमुक्तावली।
६९
मर्माणि नर्मकृतिभिर्व्यथयन्त्यजत्रं
काको हि वेत्त्यनड्डहो व्रणवेदनां किम् ॥ ३१ ॥
दारान्विहायात्मकुलानुरूपान्वाराङ्गनां वाञ्छति यो विमोहात् ।
घोरान्स पापी नरकान्प्रयायाद्धारान्वहेहुर्ललितो ह्यनड्वान् |॥ ३२ ॥
शास्त्रेषु चार्वाककृतेषु माया नेत्रेषु यः स्यान्मनसः प्रवेशः ।
पात्रे पुरैवाचरितोपचारः पोत्रे वराहस्य स फालबन्धः ।। ३३ ।।
अन्येषामशुभं करोतु नितरामस्मत्प्रियोऽसाविति
प्रज्ञाः साधुजनाः खलेन सह मा मैत्री कुरुध्वं क्वचित् ।
तस्येयं प्रकृतिः सुखेतरकृतिः सर्वात्मना सर्वदा
तिक्तः सन्क्वचिदन्यतो मधुरतां निम्बः किमालम्बते ॥ ३४ ॥
इति दुष्टत्यागपद्धतिः ।
द्वैतालम्बनमार्गकोटिषु परिभ्रान्ताः कुतर्काहता
नानाभूतमहागमेपु बहुधा श्रान्ता भृशं द्वैतिनः ।
आत्मालोकनहेतुभूतममलं ज्ञानं विदुः किं परं
संभूयापि सहस्रमम्बरमणि पश्येयुरन्धाः किमु ॥ ३५ ॥
कृत्वाप्यामरणान्तिकं भुवि जनः काम्यानि कर्माण्यतो
गत्वा स्वर्गमवाप्य तत्फलमधो यात्येव नो मुच्यते ।
वेदान्तेन विमुच्यते विधिवशात्कैवल्यमार्गेण हि
प्राकारं सकलं परीत्य ननु च द्वारेण निर्गम्यते ॥ ३६ ॥
मार्गेरधःपतनहेतुभिराश्रितानां
वेदेतरैर्भवमहाम्बुनिधिस्तरीतुम् ।
शक्येत नैव मनुजा निगमान्तनाव्यो
ह्यश्मप्लवेन तटिनी तरितुं न शक्या ॥ ३७॥
वेदेतराध्वपरिनिष्ठितमानसानां
लोकान्तरं नहि न मुक्तिकथा तथापि ।
संमन्य दुःखबहुला बहवः प्रयासा
ग्रामः खिलोऽपि नहि योजनमात्रहीनः ॥ ३८ ॥
काव्यमाला।
त्रैवर्णिका वेदविदो हि यूयं मा यात कुत्रापि जिनादिमार्गान् ।
प्रवेशमात्रात्पतिता भवेत भ्रष्टं रुमायां लवणं हि सर्वम् ॥ ३९ ॥
द्वैतादिवादनिपुणेष्वपि मानुषेषु
लोकेषु सत्सु बहुधा बत तेषु कोऽपि ।
वेदान्तवादनिरतो न च दृश्यते हि
लभ्येत किं न्वविषु कश्चिदिभः सहस्रे ॥ ४० ॥
मार्गाणां परमार्थभूतविषयानन्दैकसंदायिनां
बौद्धादे रहितस्य मुक्तिकथया स्वर्गादिभोगैरपि ।
दुःखं पश्यत सांप्रतं द्विजवराः प्रेत्याप्यनन्तं भवे-
द्दोग्ध्यधै कुडुवस्य हन्ति पदतश्चक्षुर्यथान्धं भवेत् ॥ ४१॥
इति द्वैतनिन्दापद्धतिः ।
युष्माभिः पुरुषार्थलेशरहितैर्माः किमर्थं धनं
कृत्याकृत्यविवनितैरनुदिनं दुःखेन संचीयते ।
दैवं चोरनृपानिभिर्धनवतां तच्च क्षयं प्रापये-
लूतास्येन तनोति संहरति तत्पुच्छेन शाखामृगः ॥ ४२ ॥
भुङ्गध्वं यत्नविवर्जितं हुतवहे हुत्वा च दत्त्वार्थिने
भाव्यं यद्भवतां तदेव भविता तूष्णी स्थितेऽपि स्वयम् ।
संभ्रान्तैरपि सर्वतः क्षितितले नाभावि संलभ्यते
क्षिप्तोऽप्यम्बुनिधौ किमाढकजलं प्रस्थःप्रगृह्णाति हि ॥ ४३ ॥
भुङ्ग्ध्वं च किंचिदिह वित्तमवाप्य विप्राः
सत्पात्रसाच्च सकलं विनियुग्ध्वमन्यत् ।
नो चेत्परत्र भवतां च सुखं कुतः स्या-
त्पिष्टं हि भक्षितवतां किमपूपमस्ति ॥ ४४ ॥
संपत्तयः सततमम्बुतरङ्गलोला
यावद्भवन्ति मनुजाः पुरुपार्थमाभिः ।
तावत्कुरुध्वमुपकारमुपस्थितानां
नाव्या नदी ननु नखपचसैकता स्यात् ॥ ४५ ॥
लोकोक्तिमुक्तावली। ७१ आचीर्णमशुभं कर्म द्विजा भोगाय कल्पते । आवेष्टितगलो नागः किमदृष्ट्वा हि गच्छति ॥ ४६ ॥ कुरुध्वं स्वोचितं कर्म नोत्तरोत्तरचोदितम् । उच्चैरुड्डीयमानोऽपि कुलिङ्गः स्यान्नु वीश्वरः ॥ ४७ ॥ पापानिवृत्ति सुकृते प्रवृत्ति कुरुध्वमद्यैव जनाः कृतान्तः । हरेत वडा रुइतोऽपि पापान्मुञ्चेत्किमाखौ रुदिते विडालः ॥ १८ ॥ वेदोदितानि सकलानि सदैव कुर्व- कर्माणि तत्फलविरक्तमना मुमुक्षुः । मुक्तो भविष्यति शनैर्न तु वध्यते तैः शुल्कं किमस्ति सरतां हि विधूय भारम् ॥ ४९ ॥ ब्रह्माध्येयमवाप्य विप्रतनयाः प्रागेव पूर्वाश्रम वेदा यत्पुरुपार्थसाधनमतो वाल्यात्प्रभृत्यादरात् । पश्चादर्थविचारयोग्यसमये ध्येतुं कथं शक्यते लभ्येतेह फलापचायसमये किं वापचेतुं सुमम् ॥ ५० ॥ क्धुभिर्वार्यमाणोऽपि कुर्यादध्यात्मचिन्तनम् । प्रवर्ततां घटीयन्त्रं काकोऽपि रटतादृशम् ॥ ११ ॥ विप्रा मुमुक्षा यदि वो न कार्यस्तर्कादिशास्त्रेषु वृथैव यत्नः । वेदान्त एवामृतसिद्धयेऽलमिक्षोरनेकाद्गुडखण्ड एकः ॥ १२ ॥ उच्चावचानि जननानि भवन्ति याव- कर्माणि तावदखिलानि लयं न यान्ति । तत्कर्ममूलहननाय यतध्वमार्या यावच्छिरो न विरमेज्जलबन्धरोगः ॥ १३ ॥ न भेतव्यं द्विजैः क्वापि वैदिकैः क्षुद्रदैवतात् । भीताश्चेदभिभूयेरन्भीताञ्जानाति मर्कटः ॥ ५४॥ विद्यावयःकर्मगुणैर्विशिष्टा व्यावर्तयध्वं कुपथात्स्वभृत्यान् । नो चेत्तदंहो भवतां भविष्यत्युच्चैर्दुमे वाति हि गन्धवाहः ॥ ५५ ॥ १. 'वायसोऽपि सदा रटेत्' इति पाठान्तरम्.
७२ काव्यमाला । बुधा न शोचन्ति मृतानशेषान्कथावशेषान्प्रति ते द्विजेन्द्राः । शोकैरलं शोषणहेतुभूतैर्गताम्भसः किं करणेन सेतोः ॥ १६ ॥ दारिद्यरोगविवशा अपि चेन्मनुष्याः संबद्धमेतदखिलं निजकर्मपाशैः । संचिन्त्य माक्षिपत दैवमहोऽतिरुष्टाः किं भिद्यते हि मुकुरो निजवक्रदोषात् ॥ १७ ॥ वर्णाश्रमाचारमकुर्वतो जनानन्यायचेष्टान्नृपतिस्तु दण्डयेत् । नैमे चरेयुर्हि कुकर्म दण्डिता दग्धो विडालो न महानसं विशेत् ॥ १८ ॥ यावद्भवति पटुत्वं करणानां मुक्तये द्विजश्रेष्ठाः । तावद्यतध्वमनिशं वायौ सत्येव भवति पवितव्यम् ॥ १९ ॥ यूयं चेत्पुरुषार्थिनो द्विजवरा मा मा विलम्बोऽस्तु वो बाल्यादेव यतध्वमक्षपटुता यावत्सदा मुक्तये । पश्चात्प्रत्युत वार्धकाहतधियो मन्दीभवेत ध्रुवं क्षीणः किं महिषो वहेत शकटं शून्यं च भारैरपि ॥ १० ॥ यूयं चेत्पुरुषार्थसाधनपरा वृद्धा द्विजाः सांप्रतं हन्तैतावदहो वयोऽपि गलितं कालेन कामादिभिः । अक्षाण्यद्य विकुण्ठितान्यथ पुनर्युष्मत्प्रयासो वृथा ह्यह्रश्चोरगतस्य सप्तमदिने बन्धः कवाटस्य किम् ॥ ६१ ॥ आत्मानं परमं प्रमाणनिकरैरप्राप्यमव्याहतं ज्ञेयं यद्गुरुवीक्षणादपि जना मूढास्तु मुक्त्वैव तत् । कोशेषु प्रमितेषु पञ्चसु परिज्ञातुं समुटुञ्जते नष्टेभाः कलशान्तरेष्वपि करं कृत्वा विचिन्वन्ति हि ॥ १२ ॥ षड्भावैरनुषुक्त एव सततं तापत्रयेणाकुले कामाद्यैरपि षड्भिरूमिभिरपि ग्रस्ते शरीरे जनाः। बद्धाहंकृतयोऽत्र दुःखमुदितं हाहेति मा क्रुश्यत बद्धा कि पितृकानने हि भवनं कुर्यात्पिशाच्या भयम् ॥१३॥ प्रारब्धानुबुभूपया परवशा वश्येन्द्रिया निःस्पृहाः सन्तः सन्ति सदा निरुद्धमनसो ये यत्र सारग्रहाः ।
लोकोक्तिमुक्तावली। ७३ तनिष्ठा किमवाप्यते द्विजवरै रागाभिभूतैनरैः संराज्ञीक्षणमीक्षितुं न घटते कृत्वा करे मार्जनीम् ॥ १४ ॥ मायाकार्य जगदपि तथा तत्त्वदृष्ट्या विलोक्य प्राज्ञः कुर्वन्परपुरुषयोरेकतां वेदवाक्यैः । आसीतैको न्वहमिति न चेन्मायया मोहितः स्या- दाहातव्यस्तिमिरनिकरः किं प्रदीपे प्रशान्ते ॥ १५ ॥ आयुस्तडिच्चलमपायि शरीरमेत- न्मृत्युप॑सिष्यति कदेति न कोऽपि वेद । अद्यैव तद्भजत मुक्तिपथं द्विजेन्द्रा ज्येष्ठागमावधि हि तिष्ठति किं नु दर्शः ॥ ६ ॥ आत्मास्ति सर्वजगतामाधारः पूर्वमिति विचिन्त्यैव । पश्चात्तत्त्वविचारः कुड्ये सत्येव चित्रकर्म स्यात् ॥ १७ ॥ मन्दोऽपि कार्यान्तरनियंपेक्षः सदाभ्यसेदात्मपरां च विद्याम् । क्रमात्परं ब्रह्म भवेत्स्वयं च यान्त्यां पिपील्यां हि शिला नतास्यात्॥१८॥ विप्रा विहायात्महितं पुमथै किमर्थमन्यार्थमियान्प्रयासः । पुत्रादिदुःखैरपि तापिताः स्थ के वा पिबन्त्यन्यरुजः कषायम् ॥ ६९ ॥ इति शिक्षापद्धतिः । मायान्धकारं तरितुं प्रदीपं वेदान्तविज्ञानमपि प्रपन्नाः । कुर्वन्त्यहो कर्म जुगुप्सितं च दीपं गृहीत्वा हि पतन्ति कूपे ॥ ७० ॥ लब्ध्वापि दुर्लभमिहामृतदं द्विनत्वं तस्मिन्प्रयाति विलयं विभियो मनुष्याः । जायासुतार्थमतिमूढधियो यतन्ते गच्छत्यहो शिरसि किं नु शिरस्त्रयाज्ञा ॥ ७१ ॥ जायेयमेष तनयः पशवो ममैते मायेति सम्यगविचार्य विमूढलोकः । आर्येषु सत्स्वपि ददाति न चैव भुते तोये महत्यपि हि नास्ति जलं पिशाच्याः ॥ ७२ ॥ १०
७४
काव्यमाला ।
कामेषुणा कामरिपोर्मनोऽपि कल्लोलितं का मनुजेषु वार्ता ।
आषाढवाते चलति द्विपेन्द्रे चूलीवतो वारिधिरेव काष्ठा ॥ ७३ ॥
अध्यात्मादिकलापैराक्रान्ते सततदुःखसंसारे ।
दुःखमिदानीमिति या चिन्ता सिकतोदनोपलान्वेषी ॥ ७४ ॥
तापत्रयेण परितापवतां जनानां
काशी रुजापनयनाय शिवाश्रितालम् ।
किं त्वत्र सन्ति यवना निवसन्ति घोरा-
श्छायोत्तमा न सहते तनु वे..."ताहि ॥ ७५ ॥
विद्योपदिश्येत विरक्तिशून्ये विप्रेऽविवेके द्विजराजकेन ।
या वेदविज्ञानरता द्विजाग्र्याः सारण्यविस्तारितचन्द्रिका स्यात् ॥ ७६ ॥
विषोपमे वीतरसे विषक्तो जनोऽयमज्ञो विषये सदैव ।
न तत्र चिन्तासु तथा हि भक्ष्यो घुणस्य निम्बाद इवैव निम्बः ॥ ७७ ॥
दरिद्रभावं निजकर्मवश्ये जने प्रयातेऽपि महारुजापि ।
भवेदमुष्मिन्भवकष्टभावे शिलाहताङ्गे हि पतेद्गदापि ॥ ७८ ॥
प्रारब्धभोगवशतः स्वयमागतानां
दौर्गत्यदुःखविपदां वरकल्प्य हेतुम् ।
दुःखायतेन्य"मूढमना जनोऽयं
को वा विषीदति हि वेद्धरि तिष्ठतिष्ठम् ॥ ७९ ॥
इति विषादपद्धतिः ।
सन्तः स्वान्ते सततममलं संविचिन्वन्ति योगा-
दन्तः सन्तं निगमवचसा प्रत्यगात्मीभवन्तम् ।
मूढो लोको बहिरिव परात्मानमाशङ्कतेऽसौ
अङ्के कृत्वा तनयममलं ग्राममन्वेषते हि ॥ ८० ॥
काम्यानां कतिचित्समापरिमितस्वगैंकसंदायिनां
सद्यःखान्तनितान्तमोहनकृतां कर्ता जनः कर्मणाम् ।
आत्मानन्दमनन्यवेद्यमपरिच्छिन्नं न जानाति तं
विक्रेता लवणस्य वेत्ति किमु तत्कर्पूरमूल्यं परम् ॥ ८१ ॥
लोकोक्तिमुक्तावली । ७५ आत्माभिधं सुखमनन्तमखण्डमेकं यज्ञादिकर्मजनितेन सुखेन तुल्यम् । मा ब्रूहि कर्म सुखदं तदपीति बुद्ध्या रत्नाकरस्य सदृशं नु कुलालकुण्डम् ॥ ८२ ॥ वर्णत्वमात्रसमतामपि यापेताः क्षत्रादयोऽग्रजनितां किमु यान्त्यतस्ते । मन्दा वदन्ति सममात्मसुखेन चान्यं द्रोणं पयः पिबत किं मथितं च तावत् ॥ ८३ ॥ किं नो दुःखहरं सुखं च तनुते किं वेति चिन्ताकुला मा भूताय जना यतध्वमनिशं सर्वात्मना मुक्तये । सायुज्यं यदि सा भवेद्धि भवतां किं वा विचार्य सुखं हैमं भोजनभाजनं भवति चेत्पृच्छयेत किं व्यञ्जनम् ॥ ८४ ॥ सत्यं वस्तु सदात्मरूपममलं सच्चित्सुखं भूसुरा मायास्मिन्परिकल्पितैव न पुनस्तस्याः स्थितिः सात्विकी । तत्कार्यस्य चराचरस्य जगतः सत्वे कथा का भवे- द्रामोऽस्त्येव हि चेक्रियेत परतः सीमाविवादः पुनः ॥ ८॥ कर्माणि जन्मान्तरसंचितानि महान्ति विज्ञानमहाहुताशे । सर्वाणि दग्धानि भवन्ति सद्यो महानलस्यास्ति किमार्द्रभावः ॥ ८६ ॥ लोकेषु सर्वदापि प्राप्तो जीवित्वमा श्वचण्डालात् । आत्मा भवति विशुद्धो मान्यो मणिरेव संकरस्थोऽपि ॥ ८७ ॥ कर्माणि बध्नन्ति शुभाशुभानि कर्तारमौपाधिकमेव जीवम् । परं न तत्साक्षिणमस्तदोषमाभीरमद्याकिमजे शयाने ॥ ८८ ॥ विप्रा विरक्तमनसो गुरुणाप्तवाक्यै- रात्मस्वरूपमुपदिष्टमखण्डमेकम् । एकाकिनो भवत लोकितुमप्रमत्ताः संमद्यते किमवलोकितुमन्तरिक्षम् ॥ ८९ ।।
७६ काव्यमाला। तत्त्वज्ञानान्मायाकर्मविनाशेऽपि न हि भवेद्धस्तम् । प्रारब्धमाशरीराद्वर्षे विरतेऽपि न विरमेत्कणिका -॥ ९० ॥ मुक्तेन कर्मजालैर्लोकहितायैव भवति करणीयम् । न हि तत्फलोपभुत्त्यै पश्चात्पयसो नु सस्यानि ॥ ९१ ॥ यूनामकिंचनानां का वाञ्छा वारसुन्दरीवीथ्याम् । कार्पासपण्यवीथ्याः कौलेयस्यापि कोऽपि संबन्धः ॥ ९२ ॥ सद्गुणां विगतत्रासां परमार्थप्रदायिनीम् । लोकोक्तिमौक्तिकीमालां कण्ठे यद्धमकिंचनाः ॥ ९३ ॥ संमतेन सतां लोके दक्षिणामूर्तिसूरिणा। लोकोक्तिमुक्तामालेयं रचितात्मप्रसिद्धये ॥ ९४ ॥ इति ज्ञानप्रशंसापद्धतिः। समाप्तेयं लोकोक्तिमुक्तावली । श्रीनीलकण्ठदीक्षितप्रणीत आनन्दसागरस्तवः । विज्ञापनाहविरलावसरानवाप्त्या मन्दोद्यमे मयि दवीयसि विश्वमातुः । अव्याजभूतकरुणापवनापविद्धा- न्यन्तः स्मराम्यहमपाङ्गतरङ्गितानि ॥ १ ॥ 'मुनिरस्ति भरद्वाजः ख्यातत्रिभुवनेष्वपि । अन्नैर्यस्य जहौ रामोऽप्यरण्यभ्रमणश्रमम् ॥ १ ॥ तस्यान्वये महत्यासीत्क्षीरोद इव चन्द्रमाः । श्रीकण्ठचरणासक्तः श्रीमानप्पयदीक्षितः ॥ २ ॥ विधित्रयी यदाक्षिप्ता नान्यत्र लभते गतिम् । जयन्त इव दुर्दान्तो जानकीशशरादितः ॥ ३ ॥ आगमैरप्यसैवेद्यमाद्यं यत्तत्त्वमैश्वरम् । आकुमारं परिज्ञातं तदेवासीद्यदुक्तिभिः ॥ ४ ॥ श्रीकण्ठदेशिकग्रन्थसिद्धान्तद्योतचन्द्रिका । श्रीमती निर्मिता येन शिवार्कमणिदीपिका ॥ ५ ॥ १.
आनन्दसागरस्तवः। ७७ आवेद्यतामविदितं किमथाप्यनुक्तं वक्तव्यमान्तररुजोपशमाय नालम् । इत्युच्यते किमपि तच्छ्वणे निधातुं मातः प्रसीद मलयध्वजपाण्ड्यकन्ये ॥ २ ॥ आक्रन्दितं रुदितमाहतमानने वा कस्यामस्तु हृदयं किमतः फलं वा । यस्या मनो द्रवति या जगतां स्वतन्त्रा तस्यास्तवाम्ब पुरतः कथयामि खेदम् ॥ ३ ॥ x x X X X X X xx यं विद्म इति यद्न्थानभ्यस्यामोऽखिलानिति । यस्य शिष्याः स्म इति च श्लाघन्ते स्वं विपश्चितः ॥ ८॥ नाकेऽपि सति देवानां माहात्म्यकलहे मिथः । वादः शाम्यति यद्वाचि विन्यस्य निखिलं भरम् ॥ ९ ॥ आमोदिभिर्वचःपुष्पैरचितो येन शंकरः । तत्याज काशधुत्तूरधारणोपहितां रुजम् ॥ १० ॥ तत्समानप्रभावस्य तदनन्तरजन्मनः । आसीदाच्चादीक्षितस्य पुत्रो नारायणाध्वरी ॥ ११ ॥ जयन्ति तनयास्तस्य पञ्च सौभ्रात्रशालिनः । गर्भदासा महेशस्य कवयश्च विपश्चितः ॥ १२ ॥ तेषामहं द्वितीयोऽस्मि भूमिदेवीतनूभुवाम् । नीलकण्ठ इति ख्यातिं नीतः शंभोः प्रसादतः ॥ १३ ॥ वार्तिकाभरणग्रन्थनिर्माणव्यक्तनैपुणः । श्रीवेङ्कटेश्वरमखी शिष्ये मय्यनुकम्पते ॥ १४ ॥' श्रीनीलकण्ठदीक्षितस्य कृतिषु (१) कलिविडम्बनम्, (२) सभारञ्जनम्, (३) शान्ति- विलासः, (४) वैराग्यशतकम्, (५) अन्यापदेशशतकम्, (६) आनन्दसागरस्तवः, इति पण्णां ग्रन्थानां नीलकण्ठदीक्षितस्य षड्ग्रन्थीति प्रसिद्धिः तत्र ग्रन्थेष्वयमानन्दसागर- स्तवः केवलं काव्यमालायां न प्रख्यापितः इति सोऽपि मुद्रितोऽद्यास्माभिः, अयं न कदापि कस्यामपि लिप्यां मुद्रयित्वा प्राचुर्य नीतः. 'इत्यर्थ्य से किमपि तच्छ्रवणे निधातुम्' क.
७८ काव्यमाला। पर्याकुले मनसि वाचि परिस्खलन्त्या- मावर्तगर्त इव चक्षुषि घूर्णमाने । कस्तेऽभिधास्यति शिवे मम तामवस्थां काले दयस्व कथयामि तवाधुनैव ।। ४ ॥ भक्तिं करोतु नितरां सुरजातिमात्रे ग्रामीणजन्तुरिव पौरजनेषु लोकः । अन्यत्र देवि भवदीयपदारविन्दा- दाकृष्यमाणमपि मे हृदयं न याति ॥५॥ अङ्गीकुरु त्वमवधीरय वा वयं तु दासास्तवेति वचसैव जयेम लोकान् । एतावतैव सुकरो ननु विश्वमात- रुद्दण्डदण्डधरकिंकरमौलिभङ्गः ॥ ६ ॥ वेदान्तवाक्यजनितं विमलं विचारै- रासाद्य बोधमनुचिन्तनतोऽपरोक्षम् । मुक्ति व्रजन्ति मनुजा इति सूक्तिमाया- मालम्ब्य कस्तरितुमर्हति शैलकन्ये ॥ ७ ॥ एकैकवेदविषयाः कति नाम शाखा- स्तासां शिरांसि कति नाम पृथग्विधानि । अर्थावबोधविधुरोऽक्षरलाभ एव केषां नृणां कतिभिरस्तु शरीरवन्धैः ॥ ८॥ न्यायाः परस्परविभिन्नदिशः सहस्र- मुच्चावचानि च भवन्त्युपबृंहणानि । एवं स्थिते गिरिसुते निगमोपलानां तात्पर्यसारमवधारयितुं क्षमः कः ॥ ९ ॥ अस्त्वक्षरग्रहविधिर्जनुषां सहस्र- रापांततो भवतु वापि ततोऽर्थबोधः । १. 'अर्थावबोधविधुराक्षरलाभ एव तेषां शिवे कतिभिरस्तु शरीरबन्धैः' ख.
आनन्दसागरस्तवः । ७९ दुर्वादिकल्पितविकल्पतरङ्गसान्द्रा- न्दुष्पूर्वपक्षजलधीन्कथमुत्तरेयुः ॥ १० ॥ ब्रह्मेति शक्तिरिति बन्धविमोचनीति मायामयीति मदनान्तकवल्लभेति । सप्ताष्टशब्दपरिवर्तनमात्र एव सामर्थ्यमावहति शास्त्रपरिश्रमोऽयम् ॥ ११ ॥ तस्मै प्रसीदसि गिरीन्द्रसुते य इत्थं संपादयेत शनकैरपरोक्षबोधम् । यस्मै प्रसीदसि स च क्षमतेऽववोद्ध- मित्थं परस्परसमाश्रयमेतदास्ते ॥ १२ ॥ आकर्णय त्वमिममभ्युपगम्य वादं जानातु कोऽपि यदि वा हृदयं श्रुतीनाम् । तस्याप्यसंख्यभववन्धशतार्जितोऽयं द्वैतभ्रमो गलतु जन्मशतैः कियद्भिः ॥ १३ ॥ काले महत्यनवधावपतन्कदापि क्वाप्यन्तिमे जनुषि कोऽपि गतिं लभेत । इत्थं समर्थनविधिः परमागमानां पर्यायसूक्तिविधया नयनं नङर्थे ॥ १४ ॥ एकापवर्गसमये जगतोऽपवर्गः सर्वापवर्गसमये पुनरस्तशङ्कः । ईदृग्विधं कमपि पक्षमिहावलम्व्य स्थातुं सुखं क्षममनेन पथा प्रवृत्तैः ॥ १५ ॥ अभ्यस्य वेदमवधाय च पूर्वतन्त्र- मालक्ष्य शिष्टचरितानि पृथग्विधानि । अध्यापनादिभिरवाप्य धनं च भूरि कर्माणि मातरलसाः कथमाचरेयुः ॥ १६ ॥ १. 'विश्वविमोचनी' क.
.. काव्यमाला । १ आयस्य तावदपि कर्म करोतु कश्चि- त्तेनापि मातरधिकं किमिहानुभाव्यम् । आस्ते सुखं य इह भारतवर्षसीम- न्यास्ते स किंचिदित उत्तरतोऽपसृत्य ॥ १७ ॥ कर्म त्यजेम यदि नूनमधः पतेम. यद्याचरेम न कदापि भवं तरेम । कर्म त्यजेदिति चरेदिति च प्रवृत्ता भावेन केन निगमा इति न प्रतीमः ॥ १८ ॥ कर्मण्यकर्मविधिरेष यदाचरन्ति कर्माणि तत्तदनुबन्धजिहासयेति । सत्यं तथाप्यभिनवो भविता न बन्धः प्राचीनबन्धहरणे क इवाभ्युपायः ॥ १९ ॥ प्रारब्धकर्म कियदारभते कियद्वा प्रारप्स्यते कियदिदं क इवावधत्ताम् । कालः कियानिव मया प्रतिपालनीयो यस्य क्षणार्धमपि कल्पशतत्वमेति ॥ २० ॥ पुंसः क्षणार्धमपि संसरणाक्षमस्य सांख्यादयः सरणयो न विशन्ति कर्णम् । संख्याय गाङ्गसिकताः सकलाश्च सूक्ष्मा भुवेति वागिव महाक्षुधयादितस्य ॥ २१ ॥ भक्तिस्तु का यदि भवेद्रतिभावभेद- स्तत्केवलान्वयितया विफलैव भक्तिः । प्रीतिस्त्वयि त्रिजगदात्मनि कस्य नास्ति स्वात्मद्रुहो न खलु सन्ति जनास्त्रिलोक्याम् ॥ २२ ॥ आत्मा समस्तजगतां भवतीति सम्य- ग्विज्ञाय यद्वितनुते त्वयि भावबन्धम् । १. 'किमिवानुभाव्यम्' ख. ।
आनन्दसागरस्तवः । ८१ भक्तिरित्यभिमतं यदि सिद्धमिष्टं व्यर्थ विशेष्यमलमस्तु विशेषणं नः ॥ २३ ॥ खात्मेतरत्वमवधार्य परत्वबुद्ध्या यत्प्रीतये गुरुजनेष्विव सैव भक्तिः । स्यादेतदेवमियमेव तु मे जिहास्या द्वैतभ्रमात्किमधिकं भवबन्धमूलम् ॥ २४ ॥ सेवैव भक्तिरिति कर्मपथप्रवेशः सेव्यप्रसादफलका किल कर्मसेवा । ध्यानप्रवाह इति चेच्छ्रवणात्तृतीयः प्रागेव मातरयमौकलितोऽभ्युपायः ॥ २५ ॥ अत्रैव दास्यसि विमुक्तिमथापि याचे मातः शरीरपतनं मणिकर्णिकायाम् । अस्तु स्वकृत्यमनुकम्पनमीश्वराणां दासस्य कर्मकरतैव तथा वकृत्यम् ॥ २६ ॥ सयो भवेत्सुकृतिनामुपदेशलाभः पापात्मनां बहुतिथे समये व्यतीते । इत्यादिमिः किल पुराणवचोभिरम्ब वाराणसीमपि न याचितुमुत्सुकोऽस्मि ॥ २७ ॥ आक्रान्तमन्तररिभिर्मदमत्सराद्यै- र्गात्रं वलीपलितरोगशतानुविद्धम् । दारैः सुतैश्च गृहमावृतमुत्तमण- मतिः कथं भवतु मे मनसः प्रसादः ॥ २८ ॥ धन्याः कति त्रिभुवने परमोपभोग्यं संसारमेव परमेश्वरि भावयन्तः । आभासरूपमवबोधमिमं समेत्य क्लिश्य कियत्कियदहं त्वमुना भवेन ॥ २९ ॥ १. 'सा भक्तिरित्यभिमतं यदि भक्तिरिष्टम्' क. २. 'सेव्यप्रसादफलकम्' क. ३. 'आकुलितोऽभ्युपायः' क.
८२ काव्यमाला। का संसृतिः किमपचारनिबन्धनेयं कीग्विधस्य तव किं क्षतमेतयेति । प्रश्ने तु नास्मि कुशलः प्रतिवक्तुमेव खेदस्तु मे जननि कोऽप्ययमेवमास्ते ॥ ३० ॥ एवं गतस्य मम सांप्रतमेतदह- मत्रेदमौपयिकमित्थमिदं च साध्यम् । अस्मिन्प्रमाणमिदमित्यपि बोहुमम्ब शक्तिर्न मे भुवनसाक्षिणि किं करोमि ॥ ३१ ॥ न ज्ञायते मम हितं नितरामुपायो दीनोऽसि देवि समयाकरणाक्षमोऽसि । तत्त्वामनन्यशरणः शरणं प्रपद्ये मीनाक्षि विश्वजननी जननीं ममैव ॥ ३२ ॥ किंचिन्मया श्रुतिषु किंचिदिवागमेषु शास्त्रेषु किंचिदुपदेशपथेषु किंचित् । आघ्रातमस्ति यदतो भवतीं वरीतुं गोप्त्रीति काचिदुदपद्यत बुद्धिरेषा ॥ ३३ ॥ ब्रह्मैवमेवमहमेष तदाप्युपाय इत्यागमार्थविधुराः प्रथमे दयाहाः । त्वद्रक्षकत्वगुणमात्रविदो द्वितीया इत्यर्थये सदधिकारनिरूपणाय ॥ ३४ ॥ मातः करोषि ममतां मयि यावदीष- त्तावद्यते मम ततः किमिवास्ति साध्यम् । मामित्थमित्थमुपयुक्ष्व न विस्मरेति किं स्वामिनं त्वरयते क्वचन स्वभृत्यः ॥ ३५ ॥ १. 'कीदग्विधस्य तव किं क्षमते मयेति' ख. २. 'प्रश्नेति' क. ३. 'काचिदुद. युध्यत' क; 'काचिदुपपद्यत' ख. ४. 'इत्यर्थ्यसे' क.
आनन्दसागरस्तवः। १ त्याज्यं त्यजानि विहितं च समाचराणि नित्येषु शक्तिमनुरुध्य हि वर्तितव्यम् । तहृद्धिशक्तिमनुरुध्य न कार्यशक्ति- मित्येतदेव तु शिवे विनिवेदयामि ॥ ३६ ॥ आत्मैव भार इति तं त्वयि यो निधत्ते सोङ्गानि कानि कलयत्वलसः प्रपत्तेः । विश्वत्र सात्र सविलक्षणलक्षणाया वित्रम्भसंपदियमेव समस्तमणि ॥ ३७॥ त्वत्प्रेरणेन मिषतः श्वसतोऽपि मातः प्रामादिकेऽपि सति कर्मणि मे न दोषः । मात्रैव दत्तमशनं असतः सुतस्य को नाम वक्ष्यति शिशोरतिभुक्तिदोषम् ॥ ३८ ॥ मुक्ति सिसाधयिषतां निजयैव बुद्ध्या प्रारब्धकर्म भवतु प्रतिबन्धहेतुः । त्वामेव साधनतयापि समाश्रितानां तुल्यं तदम्ब यदि कस्तव वीरवादः ॥ ३९ ॥ प्रारब्धकर्म गिरिजे भवदाश्रिताना- मन्यत्र संक्रमय नाशय वा समूलम् । मांश्च खल्वपि विषं वपुषि प्रसक्तं संक्रामयन्ति परतोऽपि च नाशयन्ति ॥ ४० ॥ त्वदर्शनश्रवणवन्दनचिन्तनादि- प्वक्षाणि देवि विनियुज्य यथाधिकारम् । रक्षेत्यसंख्यभवसंभृतयैव मैच्या रुन्ध्यां यदि स्थिरममून्यधुनैव न स्युः ॥ ४१ ॥ १. विहितं तु समाचराणि' क. २. 'साङ्गानि कानि कलयन्त्वलसः प्रपत्तेः। विश्वन, साध्वसविलक्षणलक्षणाया' 'समस्तमङ्गम्' ख. ३ क-पुस्तकेऽयं श्लोको न विद्यते.
काव्यमाला । त्रातव्य एष इति चेत्करुणा मयि स्या- त्रायख किं सुकृतदुष्कृतचिन्तया मे । कतु जगत्तिरयितुं च विशृङ्खलायाः कर्मानुरोध इति के प्रति वञ्चनेयम् ॥ ४२ ॥ त्वय्यर्पितं प्रथममप्पययज्वनैव स्वात्मार्पणं विदधता स्वकुलं समस्तम् । का त्वं महेशि कुलदासमुपेक्षितुं मां को वानुपासितुमहं कुलदेवतां त्वाम् ॥ ४३ ॥ मौढ्यादहं शरणयामि सुरान्तरं चे- कि तावता स्वमपि तस्य भवामि मातः । अज्ञानतः परगृहं प्रविशन्परस्य खत्वं प्रयास्यति पशुः किमु राजकीयः ॥ ४४ ॥ आधाय मूर्धनि वृथैव भरं महान्तं मूर्खा निमज्जथ कथं भवसागरेऽस्मिन् । विन्यस्य भारमखिलं पदयोजनन्या विस्रब्धमुत्तरत पत्वलतुल्यमेनम् ॥ ४५ ॥ केदं पतिष्यति वपुः क ततो नु गम्यं को दण्डयिष्यति कियन्तमनेहसं वा । किं तस्य संतरणसाधनमित्यनन्ता चिन्ता स्थिता त्वयि शनैरवतारिता सा ॥ ४६ ॥. ज्ञानं दिशेयमुत तेन विनोद्धरेयं प्रारब्धमप्यपलपेयमुतानुसन्ध्याम् । इत्थं सकृत्प्रपदनैकवशंवदाया मातर्मयि प्रववृते महतीह चिन्ता ॥ ४७ ॥ एतज्जडाजडविवेचनमेतदेव मित्यादितत्वपरिशोधनकौशलं च । १. अप्पयदीक्षितो नीलकण्ठदीक्षितस्य पितामहस्य आचादीक्षितस्याग्रजो भ्राता. अ. प्पयदीक्षित एव अप्पदीक्षितश्च. अप्पयदीक्षितः प्रसिद्धः. .
आनन्दसागरस्तवः। ८५ ज्ञानं च शैवमिदमागमकोटिलम्यं मातुर्यदशियुगले निहितो मयात्मा ॥ ४८ ॥ षट्त्रिंशदावरणमध्यजुषि त्वदनौ हालास्यनाथदयिते निहितो मयात्मा । भूभूतलत्रिदशवर्तिषु कः क्षमेत तच्चक्षुषापि निभृतेन निरीक्षितुं माम् ॥ ४९ ॥ बन्धं हरिष्यसि सुखं वितरिष्यसीति निश्चप्रचं निखिलमम्व तदास्त एव । संप्रत्यहं त्वयि निधाय भरं समस्तं यन्निवृणोमि किमितोऽपि ममापवर्गे ॥ ५० ॥ काश्यां निपातय वपुः श्वपचालये वा वगै नय त्वमपवर्गमधोगति वा । अद्यैव वा कुरु दयां पुनरायतौ वा कः संभ्रमो मम धने धैनिनः प्रमाणम् ॥ ५१ ॥ नाहं सहे तव कथाश्रवणान्तरायं नाहं सहे तव पदार्चनविच्युतिं वा । मोक्षं दिशैतदैविरुद्धमिदं न चेत्स्या- नैवास्तु मातरपवर्गमहोपसर्गः ॥ १२ ॥ आचूडमाचरणमम्ब तवानुवार- मन्तःस्मरन्भुवनमङ्गलमङ्गमङ्गम् । आनन्दसागरतरङ्गपरम्पराभि- रान्दोलितो न गणयामि गतान्यहानि ॥ १३ ॥ पाषाणतोऽपि कठिने शिरसि श्रुतीनां प्रायः परिभ्रमवशादिव पाटलाभम् । १. हालास्यनगरीति दक्षिणमधुराया नाम. २. 'वन्धं हरिष्यति सुखं वितरिष्यतीति .........किमतोऽपि ममापवर्गे' ख. ३. 'धनदः प्रमाणम्' क. ४. 'अविरुद्धमंय न चेत्स्यात् क.
८६ काव्यमाला। अम्ब मरेयममृतार्णवमान्थलब्ध- हैयंगवीनसुकुमारमिदं पदं ते ॥ १४ ॥ ये नाम सन्ति कतिचिद्गुरवत्रिलोक्यां तेषामपि स्वयमुपेतवता गुरुत्वम् । पादेन मूर्ध्नि विधृतेन वयं तवाम्ब संसारसागरमिमं सुखमुत्तरामः ॥ ५५ ॥ साधारणे सरजये निटिलाक्षिसाध्ये भागी शिवो भजतु नाम यशः समग्रम् । वामानिमात्रकलिते जननि त्वदीये का वा प्रसक्तिरिह कालजये पुरारेः ॥ १६ ॥ स्यात्कोमलं यदि मनो मम विश्वमात- स्तत्पादयोर्मुदुलयोस्तव पादुकास्तु स्यात्कर्कशं यदि करग्रहणे पुरारे- रश्माधिरोहणविधौ भवतूपयोगः ॥ १७ ॥ प्रस्निग्धमुग्धरुचिपादतले भवत्या लग्नं दृढं यदिह मे हृदयारविन्दम् । एषैव साग्रभुवनद्विशतीपतित्व- साम्राज्यसूचनकरी तव पद्मरेखा ॥ १८ ॥ अप्राकृती मृदुलतामविचिन्त्य किंचि- दालम्बितासि पदयोः सुदृढं मया यत् । तन्मे भवार्णवनिमज्जनकातरस्य मातः क्षमस्व मधुरेश्वरि बालकृत्यम् ॥ ५९ ॥ यत्रानमन्पशुपतिः प्रणयापराधे मन्दं किल स्पृशति चन्द्रकलाञ्चलेन । पुष्पार्चनेऽपि मृदितं पदयोयुगं त- न्मातस्तुदन्ति. न कथं परुषा गिरो मे ॥ ६० ॥ १. मधुरेश्वरि मधुरानगर्या हालास्यनगर्या ईश्वरि.
आनन्दसागरस्तवः । अव्याजसुन्दरमनुत्तरमप्रमेय- मप्राकृतं परममङ्गलमङ्घ्रिपद्मम् । संदर्शयेदपि सकृद्भवती दयार्दा द्रष्टास्मि केन तदहं तु विलोचनेन ॥ ६१ ॥ दिव्या दृशोऽपि दिविषद्हणोचितानि वस्तूनि काममवधारयितुं क्षमन्ते । त्वन्मात्रवेद्यविभवे तव रूपधेये . त्वद्भाव एष शरणं परिशेषितो नः ।। ६२ ॥ अस्मिन्महत्यनवधौ किल कालचक्रे धन्यास्तु ये कतिपये शुकयोगिमुख्याः। लीनास्त्वदनियुगले परिशुद्धसत्त्वा- स्तानात्मनस्तव नखानवधारयामः ॥ ६३ ॥ आ शैशवान्ममतया कलितस्त्वयासा- वानृण्यमम्ब तव लब्धुमना मृगाङ्कः । स्वात्मानमेव नियतं बहुधा विभज्य त्वत्पादयोर्विनिदधे नखरापदेशात् ॥ ६४ ॥ नान्तः प्रवेशमयते क्रिमपि श्रुतं मे नास्तिक्यवादशिलया प्रतिरुध्यमानम् । तत्पातयाम्यहमिमां महतीमधस्ता- त्पादोदकेन कियता परदेवतायाः ॥ ६५ ॥ सन्नाहिभिर्यमभटैः परिवार्यमाणे मय्यर्भके करुणया स्वयमापतन्त्याः । आकर्णयेयमपि नाम विरामकाले मातस्तवाभिमणिनूपुरशिञ्जितानि ॥ ६६ ॥ ब्रह्मेशकेशवमुखैबहुभिः कुमारैः पर्यायतः परिगृहीतविमुक्तदेशम् । १. 'कलितस्त्वसौ क.
काव्यमाला। उत्सङ्गमम्बं तव दास्यसि मे कदा त्वं मातृप्रियं किल जडं सुतमामनन्ति ॥ ६७ ॥ ऊरौ शिरस्तव निवेश्य दयावितीर्ण- संयानपल्लवसमीरविनीतखेदम् । अत्रैव जन्मनि विभोः परमोपदेश- माकर्णयेयमपि किं मणिकर्णिकायाम् ॥ ६८ ॥ काञ्चीगुणग्रथितकाञ्चनचेलदृश्य- चण्डातपांशुकविभापरभागशोभि । पर्यङ्कमण्डलपरिष्करणं पुरारे- ायामि ते निखिलमम्ब नितम्बबिम्बम् ॥ ६९ ॥ गर्ने निवेश्य भुवनानि चतुर्दशापि संरक्षितुं कैलितनिश्चितया भवत्या । प्राकारमेव रचितं पैरितोऽपि नून- मूहे सुवर्णमयमेदुरपट्टबन्धम् ॥ ७० ॥ मुक्ताश्च खल्वपि यदि त्रिदिवे भवत्या स्तन्याशया स्तनतटं न परित्यजन्ति अस्माकमुद्भटभवज्वरतापिताना- मार्दीभवन्तु वदनानि कुतो न हेतोः ॥ ७१ ॥ नष्टोपलब्धमधिगत्य शिशुं चिरान्मां वात्सल्यविद्रुतहृदः परदेवतायाः। क्लिद्यत्पयोधरविनिःसृतदुग्धविन्दु- निष्यन्दपङ्किरिव दीव्यति हारयष्टिः ॥ ७२ ॥ यत्तद्धनुर्जनमनोमयमैक्षवं ते तस्यास्तु देवि हृदयं मम मूलदेशः । चापाधिरोपणविधौ चरणाञ्चलेन संभाव्यते किल समाक्रमणं कदाचित् ॥ ७३ ॥ १. 'उत्सङ्गमेव' क. २. 'कलितनिश्चलया' ख. ३. 'हरितोऽपि नून' क. --- आनन्दसागरस्तवः । ८९ आस्थाय दारुणतरं कमपि स्वभाव- मत्यन्तदुष्कृतकृतामपि शिक्षणाय । गृह्मासि सायकपदे कुसुमान्यमूनि मातः सुतेषु महती किल रूक्षतेयम् ॥ ७४ ॥ पाशं सृणिं च करयोस्तव भावयन्तः संस्तम्भयन्ति वशयन्ति च सर्वलोकान् । चापं शरं च सकृदम्ब तव स्मरन्तो भूपालतां दधति भोगपथावतीर्णाः ॥ ७९ ॥ पाशाङ्कुशौ तव करे परिचिन्त्य राग- द्वेषौ जयन्ति पैरमार्थविदस्तु धन्याः । एकत्र चापमितरत्र शरं च मत्त्वा व्यावर्तयन्ति हृदयं विषयान्धकूपात् ॥ ७६ ॥ उत्क्रान्तमान्तरमिदं करणं जनाना- मप्येति चन्द्रमिति हि श्रुतयो वदन्ति । आस्तामिदं मम तु देवि मनोऽधुनैव लीनं दृढं वदनचन्द्रमसि त्वदीये ॥ ७७ ॥ विद्यात्मनो जननि तावकदन्तपङ्क्ते- वैमल्यमीहगिति वर्णयितुं क्षमः कः । तत्संभवा यदमला वचसां सवित्री तन्मूलकं कवियशोऽपि ततस्तरां यत् ॥ ७८ ॥ स्वच्छापि ते वहति यत्किल दन्तपतिः स्वच्छन्दनिर्दलितदाडिमवीजशोभाम् । तन्मे रजोव्यतिकराधिकपाटलिम्नि चित्ते परं परिचयादिति चिन्तयामि ॥ ७९ ॥ १. 'भूपालतां धयति' ख. २. 'परमार्थविदस्तुवन्त्याः' ख. ३. अयं श्लोकः ख-पु- स्तके नास्ति. १२ काव्यमाला। . अर्ध जितं त्रिपुरमम्व तव लितं चे- दर्धान्तरेण च तथा भवितव्यमेव । तच्चिन्तये जननि कारणसूक्ष्मरूप- स्थूलात्मकत्रिपुरशान्तिकृते स्मितं ते ॥ ८॥ मत्क्लेशदर्शनपरिद्रवदन्तरङ्ग- हय्यङ्गवीनपरिवाहनिभं जनन्याः । अन्तस्तमोपहमनुस्मरतां जनानां मन्दस्मितं तव तु मङ्गलमस्तु भूत्यै ॥ ८१ ॥ सांसिद्धिकाननसरोरुहदिव्यगन्ध- सान्द्रीकृतेन्दुशकलाकलिताधिवासम् । ताम्बूलसारमखिलागमबोधसारं मातर्विधेहि मम वक्रकलाचिकायाम् ॥ ८२॥ नासामणिस्तव शिवे चिरसंस्तवेन प्रत्याहृते मनसि भाति तपोधनानाम् । अज्ञानसंततिनिशात्ययसूचनार्थ- माविर्भवन्त्यसुरदेशिकतारकेव ॥ ८३ ॥ ताम्बूललक्ष्यपरिफुल्लकपोललक्ष्य- ताटङमौक्तिकमणिप्रतिविम्बदम्भात् । हस्तद्वयव्यतिकरामलसत्त्वमाद्यं वर्ण बिभर्ति जठरे तव वक्त्रबिम्बम् ॥ ८४ ॥ दत्ते श्रियं बहुविधां कुशलानि दत्ते दत्ते पदं सुरपतेरपि लीलयैव । ईदृग्विधाम्ब तव दृष्टिरितोऽधिका वा नाद्यापि कर्णमतिवर्तितुमीश्वरेयम् ॥ ८५ ॥ पाषाणकूटकठिने जनदुर्विगाहे व्यर्थ महत्युपनिषद्विपिने प्रवृत्ता । १. 'ताम्बूलगर्भपरिफुल्लकपोललक्ष्म्यां ताटङ्क० । हस्तद्वयव्यतिकरामलसर्व' ख. २ श्लोकोऽयं क-पुस्तके नास्ति. ।
आनन्दसागरस्तवः । सेव्येत केन तव लोचनचन्द्रिकेय- मेनां निपातय सकृन्मयि तप्यमाने ।। ८६ ॥ कामं शिवेन शमितं पुनरुज्जगार दृष्टिस्तवेति किमियं जननि स्तुतिस्ते । लीलाप्रसूतपुरुषार्थचतुष्टयाया- स्तस्याः परं तु स भवत्यवयुक्त्यवादः ॥ ८७ ॥ सोमो जगजनयितेति यदाह वेदो नेदं लतापरमिति भ्रमितव्यमार्यः । यः शैवसामतनुवतिभवद्गात्मा चन्द्रो जगत्सृजति तत्पर एष वादः ॥ ८८ ॥ सूच्यग्रवद्वसुमतीमणुवच्च मेहें दृष्टिर्यदम्ब तव पश्यति दानशौण्डा । दृष्टास्त्वया वयमपीह तत्वः(ततः) स्मरामो वेशन्तमेव भवसागरमुत्तरङ्गम् ॥ ८९ ॥ वाणीनिकेतनतया घनसारगौराः कतारकेसररुचः कमलानुषङ्गात् । मातर्जयन्ति शरणागतलोकचेतो. मालिन्यमार्जनवशादसिताः कटाक्षाः ॥ ९० ॥ आकर्णमुल्लसति मातरपाङ्गदेशे कालाञ्जनेन घटिता तव भाति रेखा । शैवालपङ्किरिव संततनिर्जिहान- कारुण्यपूरपदवी कलितानुबन्धा ॥ ९१ ।। विश्वं सृजत्यवति हन्ति च यत्कटाक्षो विश्वस्यता कथमसौ चपलखभावः । १. 'भवत्यवयुत्त्यवादः' एवमेव पुस्तक_येऽपि वर्तते. २. 'तव स्मरामो' क. ३. 'भ- वसागरमुत्तरामः' ख. ४. 'कारुण्यपूर्णपदवी' क. ५. 'यः कटाक्षो' क.
९२ काव्यमाला। . एषोऽपि यामनुसरंल्लभते यशांसि तामेव विश्वसिमि देवि तवानुकम्पाम् ॥ ९२ ॥ अधै कलङ्करहिता करुणैव शंभो- रर्धं गुणास्तदितरे सकलाः समेताः। इत्यम्ब संप्रति किल स्फुरितं रहस्य संपश्यतो मम भवन्मयमैशमर्धम् ॥ ९३ ॥ अम्ब भ्रुवोस्तव विचेष्टितमप्रमत्तं संपश्यतां निजनिजार्थनिदेशहेतोः । तन्मूलदेशनिहिता निभृता सुराणां दृष्टिः प्रयाति मृगनाभिविशेषकत्वम् ॥ ९४ ॥ सारं कणं कणमधर्मरुचां सहस्रा- त्संगृह्य निर्मितमिदं तव वक्त्रबिम्बम् । तावत्सुधाकरकलङ्ककुलानि पश्चा- दन्यत्र देवि निहितानि कचापदेशात् ॥ ९५ ॥ विन्यस्तमिन्द्रमणिकन्दलसुन्दरेषु केशेषु ते स्फटिकनिर्मलमिन्दुखण्डम् । आधारसंगतिवशादसितायमान- मिन्दीवरच्छदवतंसदशां बिभर्ति ॥ ९६ ॥ चिन्तामणित्रिभुवनेश्वरि कौस्तुभश्च ख्याती मणी तव गृहाङ्कणकुट्टिमस्थौ । किं रत्नमन्यदुपलभ्य किरीटकोटिं वाचस्पतिप्रभृतयस्तव वर्णयन्तु ॥ ९७ ।। प्रादुर्भवत्तरणिविम्वशतारुणानि पर्याप्तशीतकिरणायुतशीतलानि । शृङ्गारसारपरिवाहमयानि मात- रङ्गानि केऽपि चरमे जनुपि स्मरन्ति ।। ९८ ॥ १. 'पश्यदन्यत्र देवि' क. २. 'वाचस्पतिप्रभृतयस्तव कर्णयन्ति' ख.
आनन्दसागरस्तवः । ९३ प्रत्यग्रकुङ्कुमरसाकलिताङ्गरागं प्रत्यङ्गदत्तमणिभूषणजालरम्यम् । ताम्बूलपूरितमुखं तरुणेन्दुचूडं सर्वारुणं किमपि वस्तु ममाविरस्तु ।। ९९ ॥ अर्धे स्त्रियस्त्रिभुवने सचराचरेऽस्मि- नधै पुमांस इति दर्शयितुं भवत्या । स्त्रीपुंसलक्षणमिदं वपुरावृतं य- तेनासि देवि विदिता त्रिजगच्छरीरा ॥ १०० ।। निर्मासि संहरसि निर्वहसि त्रिलोकी वृत्तान्तमेतमपि वेत्ति न वा महेशः । तस्येश्वरस्य गिरिजे तव साहचर्या- ज्जातः श्रुतिप्वपि जगज्जनकत्ववादः ॥ १०१ ॥ सत्तास्यखण्डसुखसंविदसि त्रिलोकी- सर्गस्थितिप्रतिहतिष्वपि नियंपेक्षा । त्वामन्तरेण शिव इत्यवशिष्यते कि- मध शिवस्य भवतीत्यनभिज्ञवादः ॥ १०२॥ नामित्रविस्तपति नात्र विवाति वातो नास्य प्रवृत्तिमपि वेद जगत्समस्तम् । अन्तःपुरं तदिदमीदृशमन्तकारे- रस्साशास्तु सुखमत्र चरन्ति वालाः ॥ १०३ ।। त्वत्संनिधानरहितो मम मास्तु देश- स्त्वत्तत्त्वबोधरहिता मम मास्तु विद्या । त्वत्पादभक्तिरहितो मम मास्तु वंश- स्त्वचिन्तया विरहितं मम मास्तु चायुः॥ १०४ ॥ त्वं देवि यादृगसि ताहगसि त्वमीह- गेषेति वक्तुमिव बोद्धमपि क्षमः कः । १. 'संसरसिक.
काव्यमाला। मामेव तावदविदन्नतिपामरोऽहं मातः स्तुतिं त्वयि समर्पयितुं विलज्जे ॥ १०५ ॥ काचित्कृता कृतिरिति त्वयि सार्पितेति कापि प्रमोदकणिका मम नान्तरङ्गे । मौढ्यं मदीयमिह यद्विदितं ममैव किं त्वम्ब विश्वसिमि दीनशरण्यतां ते ॥ १०६ ॥ कालानपास्य विषुवायनसंक्रमादी- नस्तंगते हिमकरे च दिवाकरे च । अम्ब स्मरेयमपि ते चरणारविन्द- मानन्दलक्षणमपास्तसमस्तभेदम् ॥ १०७ ॥ चतुरध्यायी रूपं कलहंसव्यञ्जनं जगन्मातुः । अपरब्रह्ममयं वपुरन्तः शशिखण्डमण्डनमुपासे ॥ १०८ ॥ इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकशतप्रबन्ध- निर्वाहकश्रीमन्महाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्याचादीक्षितपौत्रेण श्रीनारायण- दीक्षितात्मजेन भूमीदेवीगर्भसंभूतेन श्रीनीलकण्ठदीक्षितेन विरचितासु कृतिघ्वानन्दसागरस्तवः संपूर्णः । श्रीलोलिम्बराजकृतं हरिविलासम् । प्रथमः सर्गः । रचयति सहसा यचित्रमेतं प्रपञ्चं प्रशमयति च तद्वत्केनचित्कौतुकेन । अविदितमपरैस्तच्चण्डमुण्डादिनाना- दनुजदलनदक्षं शर्वसर्वस्वमव्यात् ॥ १ ॥ १. विषयावनसंक्रमादी' ख. २. आर्येयं ख-पुस्तके नास्ति. ३. "आसी- त्खलु भोजराजमहीपालसमकालिकसूर्यनामधेयनृपतिकिशोरस्वकीर्तिकदम्बधवलितदि- गन्तवृन्दविद्वद्गुणगणविवेकसहृदयहरिहरपदाभिधेयभूभर्तसभायामनेकविद्याकुशलः कविकु- लावतंसो दाक्षिणात्यभूसुरो दिवाकरसूरिस्नु.लिम्बराजो नाम । अनेन च प्राप्त- यौवनदशेनापि निरपत्यस्वज्येष्ठभ्राटकृतसुतनिर्विशेषलालनेन चिरकालं विद्यामनभ्यस्यता १ सर्गः] हरिविलासम् । ९६ सप्तशृङ्गेति यदपि मत्कविता गुणवर्जिता तदपि साधुसुखाय भविष्यति । इह निमित्तमिदं यदुदीर्यते हरिकथा कलिकल्मषनाशिनी ॥ २ ॥ रे रे खलाः शृणुत मद्वचनं समस्ताः स्वर्गे सुधास्ति सुलभा न तु सा भवद्भिः। कुर्मस्तदत्र भवतामुपकारकारि काव्यामृतं पिबत तत्परमादरेण ॥ ३ ॥ सुरासुरानुग्रहनिग्रहार्थ कृपागृहं विग्रहमांदधानः । श्रीकेशवः शैशवमेत्य नन्दगोपालगेहाभैरणं बभूव ॥ ४ ॥ विषयासक्तमनस्कतया विक्षिप्तचित्तेन भोजनसमय एव सदनमुपसर्पता धनार्जनार्थ देशा- न्तरेषु भ्राम्यतोऽप्रजस्य वियोगभरसंतप्तमानसतत्पत्नीकरापहृतभोजनपात्रेण 'याहि दुर्वि- नीत, विफलमियत्कालं परिपोषितोऽसि' इति श्रुतहृदयभेदिदुर्वचसा तथा व्यपादि यथा वि- हायाखिल विषयानतिचिरसमयमधिकदत्तचित्ततयातिकष्टेन विविधविद्यासंपत्त्यर्थे प्रसिद्धदक्षिणदिग्भूधरोपरिविराजमानाष्टादशभुजमहिषासुरमर्दिनीसेवनमात्तबहलविश्वासम- कारि। येन निजजननिखिलमनीषितपूरणकरणदृढव्रतजगदम्बिकाकृता 'तथास्तु' इति वा- क्यव्यजिता प्रसन्नतानेन स्वल्पेनैवानेहसासादीति जनश्रुतिः । ततः प्रभृत्यध्येकघटिकान्त- रालमुत्तमकाव्यपरिगणनीयशतपद्यनिर्माणसामर्थ्यभागभूत् । तथा च तत्कृतवैद्यजीवनगतप- द्यम्-'रत्नं वामदृशां दृशां सुखकरं श्रीसप्तशृङ्गास्पदं स्पष्टाष्टादशवाहु तद्भगवतो भर्गस्य भाग्य भजे । यद्भक्तेन मया घटस्तनि घटीमध्ये समुत्पाद्यते पद्यानां शतमङ्गनाधरसुधास्पर्धावि- धानोद्धरम् ॥' इति । न केवलमेतावदेव, किंतु नानाविद्यापारावारपारीणतापि । तथा च त- त्रैव-~-'आयुर्वेदवचोविचारसमये धन्वन्तरिः केवलं सीमा गानविदां दिवाकरसुधाम्भोधि- त्रियामापतिः । उत्तंसः कविताकृतां मतिमतां भूभृत्सभाभूषणं कान्तोत्तयाकृत वैद्यजी- वनमिदं लोलिम्वराजः कविः ॥' इति । भोजराजसंलापपद्येनास्य तत्समयजीवनमवसी- यते । तत्पद्यं यथा-'भो लोलिम्बकवे कुरु प्रणमनं किं स्थाणुवत्स्थीयते कस्मै भोजनृपाल बालशशिने नायं शशी वर्तते । किं तयोनि विभाति चास्तसमये चण्डद्युतेर्वाजिनः पाद- त्राणमिदं जवाद्विगलितं खे राजतं राजते ।' इति च । अथ प्राप्तभगवतीप्रसादोऽयम- तिचमत्कृतिकारिकाव्यामृतधाराप्रसारशक्तिमान्मनोहरान्काव्यवैद्यकनिबन्धान्प्रणिनायेति । तत्र वैद्यके सुप्रसिद्ध वैद्यजीवनं नामैकम्, अपरश्च वैद्यावतंसो नाम । काव्येषु तु केवल- मस्य महाविपश्चितो नन्दसमप्राप्तिमारभ्योद्धवसंदेशपर्यन्तं हरिलीलावर्णनपरं हरिविलास- नामकमुपमोत्प्रेक्षारूपकादिरमणीयालंकारभूषितमैकमेव नातिप्रसिद्धं कोविदजनमनोविनो- दक्षममुपलभ्यते॥” इति काशीविद्यासुधानिधौ (Vol. II. No.16) बेचनरामशर्मा. १. 'कृपावहम्' ख. २. 'आददानः' ख. ३. 'भरणीवभूव' ख. ।
१ ९६ काव्यमाला। अपिल्लवरुचानुरजिता रिङ्गतो भगवतो मुरद्विषः । अङ्गणेषु निचिताः सितोपलाः पद्मरागपदवी प्रपेदिरे ॥ ५ ॥ परिस्फुरत्कैरवकोशकल्पः कृष्णस्य पाणी नवनीतगोलः । नीतां श्रियं याचितुमाननेन समागतश्चन्द्र इवाबभासे ॥६॥ भगवति यदुनाथे नन्दसद्मावतीर्णे फलदलमुकुलश्रीः शाखिनां सर्वदासीत् । प्रतिदिनमधिकाभूगोधनानां समृद्धिः क्षणमपि न बवाधे व्याधिराधिश्च कंचित् ॥ ७ ॥ सुकृतं किमकारि नन्दपल्या किमु नन्देन वयं न तत्प्रतीमः । विनहार जगद्गुरुर्यदके नवपङ्केरुहलोचनो मुकुन्दः ॥ ८ ॥ मुहुरिति विलपन्ती कुत्र पुत्रः प्रयातो द्रुतगति बहिरन्तः पर्यटन्ती समन्तात् । मरकतमणिमह्यां नाविदन्नन्दपत्नी स्फुटमपि घनकृष्णं बालकृष्णं कदाचित् ॥ ९॥ कस्याश्चिदालिङ्गितबालकायाः प्रतिप्रतीकं प्रचुरोत्सवायाः । कस्तूरिकाक्षिप्तमिव प्रकामं वक्षो मृगाक्ष्याः क्षणमात्रमासीत् ॥ १० ॥ मृगमदतिलकोऽस्य क्रीडतो धर्ममध्ये व्यरुचदमलसान्द्रस्वेदबिन्द्वन्तरस्थः । उडुभिरिव निरुद्धो वक्रनक्षत्रभर्तुः कलितगिलनशकैः सैंहिकेयः समन्तात् ॥ ११ ॥ नन्दश्चिदानन्दमयस्य तस्य मायानुरूपस्य परावरस्य । आलिङ्गनायत्सुखमापदन्तस्तज्ज्ञानभाजोऽनुभवन्ति नान्ये ॥ १२ ॥ कन्दुकद्वयमतीव सुन्दरं राधिकोरसि निरीक्षितं मया । रन्तुमम्ब मम तत्प्रदीयतां स ब्रुवन्निति बहूनहासयत् ॥ १३ ॥ १. 'निहिताः सिताः शिलाः' ग. २. 'माधवायाः' ग. ३. 'रसनिर्भरायाः' ख. ४. 'लिप्तम्' स.
१ सर्गः] हरिविलासम् । ९७ निर्गुणोऽपि गुणिनामंतिप्रियैः स्वैर्गुणैर्जगदिदं चराचरम् । मोहयन्विजयते स गोकुले पुण्यकृन्नयनगोचरो हरिः॥ १४ ॥ गोकुलान्निकट एव देवकीवालको त्रिभुवनैकपालको । लीलयानुचरवर्गवत्सलौ वत्सलौल्यवशतो विचेरतुः ॥ १५ ॥ शयनाशनासनसमागमगीतं कुरुतः स कामकमनीयशरीरौ । सेततं सहैव वसुदेवकिशोरौ वपुरेव भिन्नमुभयोर्न तु चेतः ॥ १६ ॥ अश्विनाविव नितान्तसुन्दरौ चापलानुकृतवालकुञ्जरौ । तौ परस्परवियोगकातरौ भ्रातरौ सह सदा विजहतुः ॥ १७ ॥ पूतना हरिवधार्थमाययौ प्राप सैव वधमात्मनस्ततः । यः परस्य विषमं विचिन्तयेत्प्राप्नुयात्स कुमतिः स्वयं हि तत् ॥ १८ ॥ धरस्य धरणात्करे वनहुताशनप्राशना- दरिष्टवकधेनुकप्रभृतिदानवध्वंसनात् । इहाद्भुतमनुक्षणं शिशुरसौ सरोजेक्षणः क्षणक्षणविलक्षणो ललितलक्षणो व्यातनोत् ॥ १९ ॥ अपि तनुतरमूर्तिर्भूतनाथप्रभावो दधदपि च शिशुत्वं पूतनाघातकारी । अपि परयुवतीप्सुः पूतनामप्रबन्धो मुदमतनुत पित्रोः पूतनारिः स्वसूक्तैः ॥ २० ॥ उज्झितस्वतनया ब्रजस्त्रियः कृष्णमेव रमयांवभूविरे । चित्रमत्र किमु कुर्वते सदा तत्स्पृहामपि गतस्पृहा जनाः ॥२१॥ द्वादत्तदृष्टिरसन्मधुसूदनोऽसौ सद्म प्रविश्य बुभुजे मसृणं समस्तम् । स्नानादिकर्मकरणाय कलिन्दकन्यां माघन्मतंगजगतासु गतासु तासु ॥ २२ ॥ १. 'अगोचरैः ख. २. 'गोपिकामसूणतस्करो' ख. ३. 'गमागम' ख.४. 'नन्दत- नुजौ मनुजेन्द्रौ' ख. ५. 'सह सर्वकालमिह किं तु विचित्रं ख. ६. 'नवनीतजातम्' ग. १३ ९. काव्यमाला। समीक्ष्य समुपागतां सपदि समनः स्वामिनी पलायनपरायणः स नवनीतचोरोऽभवत् । रुपा तमनुयायिनी न भवति स धर्तुं क्षमा घनस्तनपरिश्रमादलसगामिनी कामिनी ॥ २३ ॥ असकृत्प्रनतितकराम्बुरुहस्तदुपद्रुतो द्रुतमुपेत्य रुषा। इति नन्दगोपगृहिणीमवद्रजवासिवामनयनानिकरः ॥ २४ ॥ अनुचितानि वचांसि वदत्यपि क्षिपति वैक्षसि चैष लघूपलान् । अपि च पश्यति कैतवचक्षुषा गतनयस्तनयस्तव सर्वथा ॥ २५ ॥ अस्मासु यातासु वहिः प्रयत्नागृहान्तरं तस्करवत्प्रविश्य । सुतस्तवायं नवनीतदुग्धदधीनि भुङ्क्ते व्रजपालपत्नि ॥ २६ ॥ दत्ते सखिभ्यश्च वहिःस्थितेभ्यः पात्राणि सर्वाणि भिनत्ति पश्चात् । अन्यायमेतादृशमातनोति सदा मदान्नैष बिभेति किंचित् ॥ २७ ॥ एवं गोपीवाक्यमाकर्ण्य सम्यक्ताः प्रत्याह प्रेमपूर्व यशोदा । एतत्सर्वं मेन्निमित्तं क्षमध्वं यूयं यात स्वगृहं भोः सुवृत्ताः ॥ २८ ॥ इत्थं प्रसादं गमितासु सद्यो गृहं गतासु बृजवल्लभासु । सुतं समालिङ्गय भयावलीनं स्वानन्दपीनं जननी जगाद ॥ २९ ॥ किमिति गच्छसि वत्स परालयं स्वगृह एव रमख निरन्तरम् । तव ददे मसृणानि दधीन्यहं गतपयांसि पयांसि बहून्यपि ॥ ३० ॥ इति तव चरितं निशम्य दुष्टं दुरितपथैकपराङ्मुखो व्रजेन्द्रः । अयि सुत यदि ताडनं विदध्यादहह तदा किमिदं चरीकरीमि ॥ ३१॥ अतिदुष्टकंसनृपसाध्वसयोगादिति शिक्षितोऽपि बहुधा जनयित्र्या । पुनरप्यचूचुरदसौ नवनीतं न परोदितं हि कलयन्ति कुमाराः ।। ३२ ।। सततमखिलवालाः कर्मनामान्यगाय- प्रतिभवनममुष्य श्रीपतेरेव तावत् । १. 'अये' ख. २. 'वक्षसिजेषु' ग. ३. 'प्रविष्टः' ख. ४. 'कंचित्' ग. ५. 'क्ष- म्यतां प्रार्थयेऽहं' ग. ६. 'बजगामिनीपु' ग. ७. 'जगाद किंचिज्जननी जनाम्या' ख, ८. 'अपि' ख. ९. 'किमहं' ख. १०. 'मसृणान्यच्चुरदसौ भयहीनो' ग.
२ सर्गः] हरिविलासम् । ९९ अमृतममृततुल्यं शैवलिन्या हि मुक्त्वा विदधति सुधियः किं कूपपानीयपानम् ॥ ३३ ॥ नानागुणैरवनिमण्डलमण्डनस्य श्रीसूर्यसूनुहरिभूमिभुजो नियोगात् । त्रैलोक्यकौतुककरं क्रियते स काव्यं लोलिम्बराजकविना कविनायकेन ।। ३४ ।। इति श्रीमत्सूर्यपण्डितकुलालंकारहरिहरमहाराजद्योतितलोलिम्बराजविरचिते हरिविलासे महाकाव्ये बालक्रीडावर्णनं नाम प्रथमः सर्गः । द्वितीयः सर्गः। नन्दः स्वनन्दनमवेक्ष्य वयोविशेष- संशोभमानवपुष बहुयुक्तियुक्तः । वृन्दावने बहुलबालतॄणाभिरामे रामेण सार्धमव गास्तनयेत्यभाणीत् ॥ १ ॥ ततः पुरस्कृत्य समग्रगोधनं कलिन्दकन्यातटकाननस्थलीम् । प्रभातकाले सखिसंघसंवृतः समाजगामागमदुर्गमो हरिः ॥ २ ॥ विदलिताखिलपान्थपरिश्रमं सुवयसां वयसां कलकूजितैः । प्रविशति स्म वनं पशुजीवनं बहुबलेन बलेन समं हरिः ।। ३ ।। वेणीव भूमृगदृशः स्फुटफेनविन्दु- श्रेणीच्छलेन धृतजातिलताप्रसूना । आलोकिता सखिजनेन समं मुहूर्त निःपक्षमपातममुना यमुना पुरस्तात् ।। ४ ॥ तदवलोक्य विलासकलोचितं पवननर्तितवल्लि समन्ततः । स्तबकचारुविचित्रमहीरुहं प्रचुरमार रमारमणः सुखम् ॥ ५ ॥ तडिदम्बरमम्बुदाभिरामं कृतकर्णाभरणं मयूरपिच्छैः । अंधराधरशालिवंशवाद्यं जगदाचं परमं महश्चकासे ।। उपरि मुरलिकायाः प्राप्तविम्बाधरायाः करकमलनखास्ते बालकृष्णस्य तस्य । १. 'शोभायमान ख. २. 'लता' ख. ३. 'समस्त' ख. ४. 'मधुराधर' ख. ५. 'परमं गोपगत' ग.
काव्यमाला। निविडमिव निखाता दन्तवस्त्रांशुमाला- मिलनबहलरागाः पद्मरागा विरेजुः ॥ ७ ॥ अपि प्रचुरलालसा मधु मधुव्रता नापिब- न्मुखात्तमपि नूतनं तृणचरास्तृणं नाचरन् । मुरारिमुरलिस्वरामृतरसैकवद्धादरा न हंसपिककेकिनः किमपि कूजितं चक्रिरे ॥ ८ ॥ विभुवंशरवश्रवणप्रवणा बुभुजुर्न भुजंगभुजो भुजगान् । निकटेऽपि गतान्गतकेलिकरान्मकरान्न सरःसु बकप्रकराः ॥ ९ ॥ गोदोहनादिगृहकृत्यकृतादराणां नन्दबजाम्बुजसहोदरलोचनानाम् । वेणुखनो यदुपतेः श्रुतमात्र एव वृन्दावनाधिगमनोत्सुकतां व्यतानीत् ॥ १० ॥ प्रेम नात्मतनयस्य न क्षपा भ्रातृभर्तृपितृजापि न त्रपा। भीतिरप्यहह मार्गभोगिनां नैव तद्गमनविघ्नमातनोत् ॥ ११ ॥ प्रस्थिता मणिसुवर्णभूपिताश्चर्चिता मृगमदैर्मगीदृशः। अभिमर्दितमहाभुजंगमा जंगमा इव लता बभाशिरे ॥ १२ ॥ तुङ्गपीनकुचकुम्भशोभिताद्वक्षसश्चलितचैलपल्लवाः । वेणुनादहृतचित्तवृत्तयश्चित्रवञ्चलदृशोऽवतस्थिरे ।। १३ ।। आसामपि प्रेम परं किमात्मनि मनोधिनाथेऽप्यतिबोद्धकामः। . मायामनुष्यः सहसा तदक्ष्णामगोचरो गोकुलपालकोऽभूत् ॥ १४ ॥ भगवति सहसैवान्तहिते संज्वराता च्युतमतिरतिरस्यान्वेपणार्थे समन्तात् । शिव शिव वनमध्ये गोक्षुरक्षत्रचार- क्षतचरणतला स्त्रीमण्डली हिण्डते स्म ॥ १५ ॥ १. 'प्रवणो न भुजंगधुनो बुभुजे भुजगान्' ख. २. 'मकरानपि नैव बकप्रकरः' ख. ३. 'स्मृतमात्र' ख. ४. 'अभिगमनो' ख. ५. 'संभाव्य सौभाग्यमदं मनःस्थमन्तर्गतः सर्वचराचरस्य । अनगरूपः क्षणमानानामगोचरो' ख. ६. अथ हृदि विदधाना विस्मयस्यावतारं गममतिकृति' ग.
२ सर्गः] हरिविलासम् । पप्रच्छ काचन वधूरिति कृष्णसारं कृष्णः सरोजनयनो भवता न दृष्टः । तस्या विलोचनविलासपराजितोऽसौ दुःखीव किंचिदपि नोत्तरयांचकार ॥ १६ ॥ भो भो भूरुह ते दिशो दश गताः शाखाः शिरश्चाम्बरं गोपः कोऽपि तमालकोमलरुचिः कच्चिन्न दृष्टस्त्वया । एवं ताभिरुदाहृते वत मुहुर्वक्तुं वचोऽनीश्वरो मूर्धा वायुचलेन चन्दनतरुः प्रत्युत्तरं दत्तवान् ॥ १७ ॥ अयि तुलसि नमस्ते मुञ्च मौनं कृपातः कथय कथय कृष्णः क्वाधुना वावसीति । भवति परमदुःखं तद्वियोगाग्निना मे करुणमिति मुहुस्तां गोपिका काप्यवादीत् ।। १८ ।। बहे गृहीतुमवतंसकृतेऽतिकान्तो प्राप्तो भवेद्विभुरसौ विदितस्त्वयैव । तत्कथ्यतां सुभग केन पथा प्रयातः काचिन्मयूरमिति गोपगृहिण्यपृच्छत् ॥ १९ ॥ तेदवधि तरलाक्ष्यो लक्ष्यते यः समन्ता- दिह वसति स धूर्तः शीघ्रमायात यूयम् । असकृदिति वदन्ती कामिनी कापि बालं वत कमपि तमालं गाढमालिङ्गते स ॥ २० ॥ यो वासो यमुनातटे विरचितो बैंच द्विजास्तोपिता- श्छायापल्लवसंश्रयैहिममरुद्वदि सोढं च यत् । अत्रैवास्य फलं बभूव तपसा किंचित्कुचानम्रया तन्वङ्गया यदयं स्वयं दृढतरं दोया समालिङ्गितः ॥ २१ ॥ १. 'वर्वतीति' ख. २. 'अन्तिके ते' ख. ३. 'तटभुवि' ख. ४. 'येच ग. ५. 'सकलं' ख.
१०२ काव्यमाला। अनवेक्ष्य तमीश्वरं समन्ताद्वचनागोचरदुर्दशाः स्त्रियस्ताः । यमुनापुलिनं प्रति प्रयाता मधुमत्ता इव भूतले निपेतुः ॥ २२ ॥ अथ ता मदनानलेन दग्धा दिनदीनेन्दुमुखीर्दयासमुद्रः । समजीवयदच्युतः समस्ताः सुदतीः सुष्ठसमागमामृतेन ॥ २३ ॥ ताभिर्युक्तः पद्मपत्रेक्षणाभी राकारात्रिस्वामिरम्याननाभिः । तत्र प्रीत्या पुष्पधन्वेव साक्षाद्रासारम्भं चक्रपाणिश्चकार ॥ २४ ॥ सकलरागविचित्रविचारवत्सहजगाननिबद्धमृगीगणः । नटवदुत्सवकृर्द्रजवल्लवो ब्रजगतो जगतो विभुरावभौ ॥ २५ ॥ नवकुङ्कुमलिप्तविग्रहः श्रवणन्यस्तसुवर्णचम्पकः । विवरावलिनृत्यदङ्गुलिमुरलिं वादयते स्म माधवः ॥ २६ ॥ रदच्छदस्फूर्जदलक्तरागा कस्तूरिकापङ्ककृताङ्गरागा । राधा तदालोकनसानुरागा श्रीरागरागालपनं चकार ।। २७ ॥ तद्रासमण्डलविलोकनकौतुकेन देव्यो ययुत्रिदशवम॑ सुवर्णवर्णाः । उद्वीक्ष्य ता दृढमिदं निरटङ्कि लोकै- रभ्रं विनापि तडितः क्वचिदुल्लसन्ति ॥ २८ ॥ द्रष्टुमभ्यागतं शाङ्गिणो विभ्रमान्भासयन्त्या नभोमण्डलं सर्वतः । दुर्लभोरुश्रिया क्लृप्तकेलिक्रियारम्भया रम्भया रम्भयारं भया ॥ २९॥ तत्र त्रिनेत्रादिसुराः स्वपत्रैः सर्वे समीयुर्जवनैमनोवत् । पश्चाद्गणेशोऽप्यतिकुन्थदाखुस्तदान्तरिक्षे नगरभ्रमोऽभूत् ॥ ३० ॥ निरयस्य निदानमुक्तमौर्यः कुलटात्वं मनसापि सुन्दरीणाम् । अमृताय बभूव तत्तु साक्षाद्रजसारङ्गशां हि चित्रमेतत् ॥ ३१ ॥ रूपविभ्रमगुणोदयेन का मेनकामपि न गोपिकाजयत् । केवला तदपि जीविताधिका राधिका भगवतो हरेरभूत् ॥ ३२ ॥ १. 'मोरध्यमावहन्त्यः' ख. २. 'स्वीय' ख; 'सौख्य' ग. ३. विचारवित्' ख. ४. 'प्रजवल्लभा' ख. ५. 'आद्यः' ख. ६. 'व्रज सत्पद्मदशां विचित्रं' ग. :
३ सर्गः] हरिविलासम् । १०३ इति सुतनुसमूहाभ्यवत्कृप्तकेलिः पथि सुरभिरजोमिलसानिःसारहेलिः । यश इव शशिशुभं श्रीपतिः साग्रजोऽसौ नवजलधरधामानन्दधामाससाद ॥ ३३ ॥ अपि परयुवतीप्सुः पापसंस्पर्शशून्यो दधदपि मनुजत्वं सर्वदेवैकनाथः । अपि तनुतरमूर्तिर्याप्तलोकत्रयोऽसौ नवजलधरधामा नन्दधामाससाद ॥ ३४ ॥ नानागुणैरवनिमण्डलमण्डनस्य श्रीसूर्यसूनुहरिभूमिभुजो नियोगात् । काव्यामृतं हरिविलास इति प्रसिद्ध लोलिम्बराजकविना कविनायकेन ॥ ३५ ॥ इति श्रीमत्सूर्यपण्डितकुलालंकारहरिहरमहाराजद्योतितलीलिम्बराजविरचिते हरिविलासे महाकाव्ये रासक्रीडावर्णनं नाम द्वितीयः सर्गः। तृतीयः सर्गः । इत्थं विधायातिरसेन रासक्रीडां स वृन्दावनमध्यदेशे। इच्छाविहारी सह गोपगोभिर्गोवर्धनं गोधरमाजगाम ॥ १ ॥ तदवेक्षणलोललोचनं जगदानन्दकरं जगद्गुरुम् । तमुवाच विचारचञ्चुरश्चतुरं वाक्यमिदं हलायुधः ॥ २ ॥ विरचयन्ति विहारमिहान्वहं प्रणयिनीजनरञ्जितमानसाः । रुचिरचित्रविहंगमवारिजावृतवनेषु वनेषु वनेचराः ॥ ३ ॥ अनुभवति वियोगं नात्र कोकः कदाचि- कलयति सह सख्यं चम्पकैश्चञ्चरीकः । न विरमति विकासो नीरजानां रजन्यां जनयति बत चित्रं चन्दनः पुष्पयोगात् ।। ४ ॥ १. 'आजगाम' ख.२. 'त्रैलोक्यकौतुककर क्रियते स्म काव्यम्' ख. ३. 'गोधन' ख. ४. 'जनचित्र' ख.
१०४ काव्यमाला। तुङ्गत्वं नितरां निरीक्ष्य सहनं सौभाग्यमप्यद्भुतं दिव्यानस्य मणीस्तथा प्रतिभटान्दिग्दन्तिनां दन्तिनः । अस्यानन्यसमस्य हन्त गिरयो लजाभराहुस्तरा- मैनाकप्रमुखा निपेतुरुदधौ ये निस्त्रपास्ते स्थिताः ॥ ५ ॥ अमरचमरकेशी शश्वदम्भोविहार- त्रुटितललितहारस्त्रस्तमुक्तासमूहैः। मधुकरकृतगानं पद्मखण्डेवखण्ड सरिदुदयमगाधं गाधितां यात्यमुष्मिन् ॥ ६ ॥ मध्यशालिनि सुपर्ववर्त्मनः पार्वणे रजनिजीवितेश्वरे । भूभृतामयमधीश्वरोऽद्भुतं छत्रयुक्त इव शोभतेतराम् ॥ ७ ॥ मुञ्चन्मदं निझरकैतवेन जेजीयतेऽसौ करिराजरूपः । हेमाद्रिमुख्या गिरयः समस्ताः शावत्वमेतस्य विडम्बयन्ति ॥ ८॥ सहकुटुम्बमिहागताः कदाचिजलहीने सति मानसे समस्ताः । श्रमनुत्सु सरःसु राजहंसाः कलहंसाश्च मनोरमा रमन्ते ॥ ९॥ इह प्रतिवनं मदान्मुदिरकालकालं विना नटप्रतिभटः सदा शिखियुवा नरीनृत्यते । द्विपाधिपविदारणारुणनखास्त्रसंत्रासक- न्मृगाधिपभयंकरी न न दरी दरीदृश्यते ॥ १० ॥ इतस्तत इहार्थिनां प्रियपरम्परापूरणा- जयन्ति जगतीरुहः सुरतरुद्रुहस्तत्क्षणात् । हरन्ति च शुकाः स्फुरत्प्रथमपल्लवालीरुचः सुधामधुरवन्धुरध्वनिमुचः शुचः सुज्ञवत् ॥ ११ ॥ समग्रऋतुसंपदा सततसंवृतैः सर्वतः सुरैः सह सुराङ्गनावलिरिहैव संतिष्ठते । स्मरत्यपि न सर्वथा सुभगकंदरं मन्दरं हरेरपि न चास्मरत्कनकमन्दिरं मन्दिरम् ॥ १२ ॥ १. 'रम्यांश्चापि' ख. २. 'पूरणा जयन्ति' ख. ३. 'न. च स्मरति तन्महामणिग- णप्रभाभास्करं प्रसनतरकन्दरप्रकरमान्दिरं मन्दिरम्' ख.
३ सर्गः] हरिविलासम् । १०५ ये ये नृपाः प्रतिनृपालमहाभयेन नानासमृद्धिसुभगानि पुराण्यमुञ्चन् । ते ते तपखिन इवात्र निषेव्यमूल- कन्दोदकानि समयं गमयन्ति तावत् ॥ १३ ॥ क्रीडागृहन्ति लवलीलतिकानिकुञ्जा- स्तल्पन्ति बालमृदुलारुणपल्लवानि । भोगाः प्रसुप्तफणिनामुपबर्हणन्ति मञ्चन्ति चात्र दृषदः कुलटाजनानाम् ॥ १४ ॥ नृपयुवतिकुचश्रीतस्करे कुम्भयुग्मे दिनदलरवितप्ते प्रत्यहं प्रक्षिपन्ति । इँह न कति करीन्द्राः पुष्करालंकृतायां सरिति किमपि पीत्वा पुष्करैः पुष्कराणि ॥ १५ ॥ जलदैलधिभ्रमादुपेतैर्नलमादातुमिव द्विपैविभान्ति । इह साजमिलिन्दमीनवालाबककादम्बकदम्बकास्तडागाः ॥ १६ ॥ अष्टापदद्रुसुमनः सुरभीकृतेषु क्रीडावनेषु शिवयोः स्थितयोविनोदात् । अर्णोरुहासनसुतः कलहप्रियोऽत्र भीतिं करोति महती महतीरवेण ॥ १७ ॥ अस्मिन्कदम्बकलिकाकलितावतंसा गुञ्जावलीललितपीनपयोधराया। दृष्टयैव कस्य वशिनो विषयानुरक्तं चित्तं चिरं वनचरी न चरीकरीति ॥ १८ ॥ इत्थं शृण्वस्तस्य वाणीविलासान्पश्यन्रत्नश्रेणिशोभाविशेषान् । प्रीति प्राप्तो गोदुहां चक्रवर्ती मन्दं मन्दं शैलमध्यारुरोह ॥ १९ ॥ १. 'कुलटाङ्गनानाम्' ख. २. 'तपतपनमहोभिस्तापिते कुम्भयुग्मे युवतिकुचयुग- श्रीधारिणि प्रेरयन्ति' ख. ३. 'इह कति न करीन्द्राः' ख; 'इह मदवदिभेन्द्राः' ग. ४. इमौ श्लोको ख-ग-पुस्तकयोर्न वर्तेते. ५. 'दृष्दैव' ग. ६. 'विषयानुपक्तम्' ख. ७, 'अभ्यारुरोह क.
१०६ काव्यमाला। अलंकृते पुण्यपयःप्रवाहैविश्रान्तिदानोद्यतवृक्षवर्गे । सिद्धाश्रिते श्रीपतिचित्तवृत्तिस्तैस्मिन्प्रसादोदयमाससाद ॥ २० ॥ तंत्राभिरामं नवनीरदाभो विराममासाद्य सुखीबभूव । गाश्चारयंश्चारुतृणस्थलीषु क्रीडामकार्षीदथ नन्दसूनुः ॥ २१ ॥(युग्मम्) अथ तस्य विधातुमर्चनं रुचिराभिः सुमनःसमृद्धिभिः । गिरिराजममुं मनोरमं मधुमुख्या ऋतवः समाययुः ॥ २२ ॥ आरूढो मलयानिलद्विपवरं युक्तो विलासानुगैः पीतः पुष्पविलोचनैर्नवलतापौराङ्गनानां जनैः। अभ्राम्यद्वनपत्तने मधुमहीपालस्ततः कोकिला- लीलालापमिलद्रमद्भमरिकाभाङ्कारभेरीरवैः ॥ २३ ॥ पुष्पाणि प्रथमं ततः प्रकटिताः स्वान्तोत्सवाः पल्लवाः पश्चादुन्मदकोकिलालिललनाकोलाहलाः कोमलाः । इत्थं प्रादुरभूत्तविश्य परितः प्राज्यप्रमोदप्रदः प्रोद्दामद्रुमराजिराजितवनस्थल्यामृतुः मापतिः ॥ २४ ॥ प्रसूनकलिकाकुलैः किसलयैः करस्पर्धिभिः स्फुरन्मधुमदभ्रमझमरकोकिलाकूजितैः । इति क्रमसमुद्गतैरुपवनावलीमण्डली- ममण्डयदिव प्रियामृतुवसुंधरावल्लमः ॥ २५ ॥ सुहृदस्तरुणीनखक्षतानां प्रतिपक्षाः पथिकाङ्गनाजनानाम् । दहनातिदस्यवः समन्ताद्विपिने किंशुककुमला विरेजुः ॥ २६ ॥ किंशुकक्षितिरुहां विलसन्तः कुडमलाः कुटिलतां कलयन्तः । पान्थवारणविदारणताम्राः कामकेसरिनखा इव रेजुः ॥ २७ ॥ आयाति यावन्मधुरेष तावद्वनस्थलीप्रोषितभर्तृकासीत् । अभ्यागतेऽस्मिन्यदनल्पलक्ष्मीः सौरभ्ययुक्ता तिलकं वभार ॥ २८ ॥ १. एतत्पूर्वम् ‘स ततो विचरनितस्ततो वलभद्रेण समं शनैः शनैः । करकङ्कणवद्वसुं. धरातलमालोकयति स्म माधवः ॥' इति श्लोकः ख-पुस्तकेऽधिकः. २. 'तत्र' ख. ३. अयं श्लोकः ख-ग-पुस्तकयो स्ति. ४. 'गणैः' ख. ५. 'कोलाहलः कोमल:' ख. ६. 'उपेत्य ख. ५. 'वनक्षोणीमृतुक्ष्मापतिः ख. ८. इमो श्लोको ख-ग-पुस्तकयोर्न स्तः.
३ सर्गः] हरिविलासम् । कामकेलिकलिकंसमाधवे माधवे वनमुपागते चिरात् । वाग्विलासजितमत्तकोकिलाः कोकिलाः कलरवैर्विजहिरे ॥ २९ ॥ वारस्त्रीव वनस्थली नवनवां शोभा बभारान्वहं पान्थान्पीडयति स्म तस्कर इव क्रूरैः शरैर्मन्मथः । शृङ्गारः सगुणः क्षमापतिरिव प्राप प्रतिष्ठां परां रात्रिः स्वीकुरुते स्म मुग्धललनालज्जेव कार्य क्रमात् ।। ३० ॥ उपवनतरुनृत्याध्यापने लब्धवर्णो विरचितजलकेलिः पद्मिनीकामिनीभिः । प्रियसुहृदसमेषोराययौ योगियोग- स्थितिविदलनदक्षो दक्षिणो गन्धवाहः ॥ ३१ ॥ पैथिकजनजयार्थं चन्दनाद्रेः प्रतस्थे कनककमलधूलीदिग्विताने वितन्वन् । स्मरसमरविशेषश्रान्तशातोदरीणां प्रशमितकुचकुम्भस्वेदनीरः समीरः ॥ ३२ ॥ प्राप्तः प्राज्यमिव श्रमं जलजिनीसौरभ्यभारं वह- नुद्दामस्तवकानमन्नवलतालक्ष्मीमिवालोकयन् । स्वीकुर्वन्मदमन्थरानिव गतेमिभ्रुवां विभ्रमा- न्मन्दं मन्दमुपाजगाम पवनः पाटीरवाटीतटात् ॥ ३३ ॥ अतिमन्दचन्दनमैहीरुहवातं स्तबकाभिरामलतिकातरुजातम् । अपि तापसानुपवनं मदनान्मिदम गुञ्जदलिपुञ्जमकार्षीत् ॥ ३४ ॥ कुपितापि मनःपतिना सह का सहकारविलोकनजातरसा । तरसा रमते स्म न हा रमणी रमणीयतनुः सुतनुः सुरभौ ॥ ३५ ॥ प्रस्फुरत्प्रचुरवालपल्लवा वीरुधश्च तरवश्चकाशिरे । क्रीडिता इव कुसुम्भवारिभिः काममित्रसमये समागते ॥ ३६ ॥ कति कति न वसन्ते वल्लयः शाखिनो वा किसलयसुमनोभिः शोभमाना बभूवुः । १. 'प्राप्तः' ख. २. अयं श्लोकः ख-ग-पुस्तकयो स्ति. ३. 'महीधर' ख.
१०८ काव्यमाला । तदपि युवजनानां प्रीतये केवलोऽभू- दभिनवकलिकालीमारशाली रसालः ॥ ३७ ॥ अनुपमगुण एकः स्यान्महत्वस्य हेतु- बत गुणगणगन्धैः कश्चिदर्थो न तावत् । अतिशयवरवर्णनास्पदं प्राप भूभृ- चतुरचतुरकान्ताकर्णयोः कर्णिकारम् ॥ ३८॥ रूपसौरभसमृद्धिसमेतं चम्पकं प्रति ययुन मिलिन्दाः । कामिनस्तु जगृहुस्तदशेषा ग्राहका हि गुणिनां कति न स्युः ॥ ३९ ॥ अवलोक्य विलासवनस्थली न पथिकैः पथि कैः पतितं भुवि । मैलयगुमसौरभमेदुरोदरसमीरसमीरितवल्लरीम् ॥ ४० ॥ बकुलकुलमिलन्मिलिन्दमाला- मदकलकोकिलकूजितोदयेन । अहनि नियमिनोऽपि तत्त्वचिन्ता- च्युतमतयो मतयोपितो बभूवुः ॥ ४१॥ विकसति सहकारे स्फारसौरभ्यसारे वहति धुतपटीरे मन्दमन्दं समीरे । कलयति कलवाचं कोकिले साभिमानः क्षणमपि न मृगाक्ष्या वल्लभो दुर्लभोऽभूत् ॥ ४२ ॥ कूजितानि कलयन्वनप्रियो न प्रियो विरहिणामजायत । मन्मथाग्निरपि भस्मसादरं सादरं मुनिमनोऽम्वुजं व्यधात् ।। ४३ ॥ विलासिमिरिवोन्मदै रचितरम्यगुञ्जारवैः प्रसूनसुरभीकृतैविंगलितश्रमास्तापसाः। अशोकशिखरस्थितैः सुनयनान्वितैः षट्पदै- निरन्तरनिपेवितामितमधौ मधौ रेमिरे || ४४ ॥ १. अयं श्लोकः ख-ग-पुस्तकयो स्ति. २. 'समवलोक्य' ख. ३. 'मलयजद्रुम' ख. ४. 'अहह' ख. ५. 'कोकिलोके च रुष्टः' ख. ६. 'त्रपाः' ख.
तु कोऽपि तावत् । ३ सर्गः] हरिविलासम् । १०९ दत्ते जनोऽसौ खलु विद्यमानमविद्यमानं न वियोगिनां पुष्पनमन्नशोकः शोकप्रदोऽभूदिति चित्रमेतत् ॥ ४५ ॥ जगौ विवाहावसरे वनस्थलीवसन्तयोः कामहुताशसाक्षिणि । पिकद्विजः प्रीतमना मनोहरं मुहुर्मुहुः कूजितमन्त्रमादरात् ॥ १६ ॥ आस्वादितं स्वादुमरन्दविन्दु स्वच्छन्दमिन्दिन्दिरसुन्दरीभिः । माकन्दपुष्पं प्रमदाजनस्य प्रमोदमामोदभरैरकापीत् ॥ ४७ ॥ वसन्तकाले पथिकैककाले स्फुलिङ्गमालेव वियोगिवर्गान् । उद्धूलिता तापयति स्म धूली धूलीकदम्बस्य समीरणेन ॥ ४८ ॥ पान्थानां प्रमदा इव प्रतिदिनं दैन्यं हूदिन्यो ययु- ईश्यन्ते स दिगम्बरा इव वने पत्रोज्झिताः पादपाः । निःश्वासा इव दुःसहा विरहिणां वाता ववुः सर्वतः पायंपायमिव प्रियाधररसं पाथं पपुः प्राणिनः ॥ ४९ ॥ रेजे पुष्पग्रीष्ममासाद्य मल्ली मल्ली सद्यः संश्रयन्ते स्म भृङ्गाः । भृङ्गैस्तत्रारम्भि हर्षेण गानं गाने लौल्यं लेभिरे योगिनोऽपि ॥ ५० ॥ अपि च नभसि वीक्ष्य व्याप्तदिक्चक्रवालं सजलजलदजालं प्राप्तहर्पप्रकपः । विहितविपुलवडम्बरो नीलकण्ठो विर्मंदमृदुलकण्ठो नाट्यमङ्गीचकार ॥ ५१ ।। महीमण्डलीमण्डपीभूतपाथोध वर्षहर्पासु वासु सद्यः । कदम्बे प्रसूनं प्रसूने मरन्दो मरन्दे मिलिन्दो मिलिन्दे मदोऽभूत् ॥५२॥ दृष्ट्वाडम्बरमम्बरे घनकृतं सौदामिनीनर्तकी- नृत्यारम्भमृदङ्गमङ्गलरवं श्रुत्वा च तद्दर्जितम् । पुष्प्यत्पुप्पभरानताङ्गणतरुस्कन्धावसद्वायस- क्वाणाकर्णनसोत्सवप्रियतमं पान्या ययुमन्दिरम् ॥ ५३ ॥ १. 'अतिचिनम्' ख. २. 'मनोरमन्' ख. ३. 'मालमत्रम्' ख. ४. 'इन्दीवर' ख. ५. अयं श्लोकः ख-ग-पुस्तकयो स्ति. ६. 'पाधः' स. ७. 'अथ नभसि निरीक्ष्य' ख. ८. 'मदमृदुकलकण्ठः' ख; 'मदनमृदुलकण्ठः' ग. ६. 'आरब्ध' ख. .
११० काव्यमाला । अभिनवयवसश्रीशालिनि मातलेऽस्मि- न्नतिशयपरभागं भेजिरे जिष्णुगोपाः । कुवलयशयनीये मुग्धमुग्धेक्षणाया मणय इव विमुक्ताः कामकेलिप्रसङ्गात् ॥ ५४॥ एण्यन्त्यवश्यमधुना हृदयाधिनाथा मुग्धा मुधा कुरुत मा विविधं विलापम् । इत्थं शशंसुरिव गणितकैतवेन पाथोधराः पथिकपङ्कजलोचनाभ्यः ।। १५ ।। आकर्णितानि रसितानि यया प्रसर्प- प्रद्युम्नराजस्थनिःस्वनसोदराणि । उच्चै रणच्चरणनूपुरया पुरंध्या क्षिप्रं प्रियः कुपितयापि तयाभिसस्त्रे ॥ १६ ॥ अम्भोवाहमुरद्विपो निवसनं ध्वान्ताद्रिदिव्यौषधी कंदर्पस्य विलासचम्पकधनुर्वर्षालतामञ्जरी । लेखा व्योमकपोपले विरचिता चामीकरस्य स्फुर- द्धाम्नः पान्थविलासिनीजनमनःकम्पाय शम्पाभवत् ॥ ५७ ॥ हृदयं विदधेऽध्वगवामदृशां गगनं गुरुतल्पवदल्पतरम् । रसदम्वुधरं विलसच्चपलं चपलं चपलं चपलं च पलम् ॥ १८ ॥ तंडिच्चपलचक्षुषां गगनरङ्गनृत्यक्रिया- वशात्सुमनसश्युता इव नवाभ्रधम्मिलतः । दवाग्निजनितापदां क्षितिरुहां मुदं मेदिनी- रजः प्रलयबिन्दवः सलिलबिन्दवस्तेनिरे ॥ ५९ ॥ प्रणतिभिरपि पत्युः प्रार्थनाभिश्च सख्याः क्षणमपि मैनसस्ते मानिनी मानमौज्झत् तमसमशरशस्त्रीभूतगानप्रकारः फणिनमिव शिखण्डी किं न खण्डीचकार ॥ ६० ॥ १. प्रियम्' ख, २. इमौ श्लोकौ ख-ग-पुस्तकयोर्न स्तः, ३. 'न मनस्त:' ख.
३ सर्गः] हरिविलासम् । घनसमयमहीभृत्पत्तनस्याम्बरस्य त्रिभुवनपतिचापं गोपुरत्वं प्रपेदे। अतिविरसवचोभिः प्राप्तपङ्काभिषेकाः कुकवय इव भेकाः खेदयन्ति स लोकान् ॥ ११ ॥ समन्येव निरन्तरं निवसतिमित्राधनालोकनं पन्थाः पङ्कसमाकुलः कलुपता वारां सदा दुर्दिनम् । एवं यद्यपि दूषणानि तदपि स्वर्भूजनोल्लासकृ- सस्योत्पत्तिनिमित्ततैकगुणतः प्रावृट् प्रपेदे यशः ॥ १२ ॥ वृद्धान्तिगेव विजहौ सरिदुद्धतत्वं वेदान्तिनामिव मतं शुचि नीरमासीत् । चन्द्रे प्रभा युवतिवत्र इवाइताभू. द्विद्वत्कवित्वमिव केकिरुतं न रेजे ॥ ६३ ॥ मधुर्मधुरितभङ्गी भेजिरे हंसनादा- स्तुहिनपटललीलां लेभिरे वारिवाहाः । क्षितिरभवदपङ्का किं च रोलम्बबाला- वलिललितनलिन्यः शैवलिन्यस्तदासन् ॥ ६४ ॥ स्फुटं स्फुटपलाशवत्सुभगभासि चऋपुटे विपाककपिशीकृताः कलममञ्जरीविभ्रती । वमौ दिवि शुकावलिः कुवलयच्छविर्जङ्गमा खभावहृदयंगमा विबुधचापलक्ष्मीरिव ॥ १५ ॥ चके चण्डरुचा समं रणमसौ हेमन्तपृथ्वीपति- थे ये तत्र धृताः करप्रतिभटास्ते तेऽमुना तत्क्षणात् । कान्तानां कुचभूधरे निदधिरे मन्येऽहमेवं तदा नो चेन्मन्दकरः कथं दिनकरस्तप्तश्च तन्वीलनः ॥ ६ ॥ १. 'अपि' ख. २. 'जनातादकत्' ग. ३. 'द्धाहनेव' ख. ४. 'मधुरिम' स. ५. 'जिता दिवाकरफरा:स.
११२ काव्यमाला । तपनस्तपति स मन्दमन्दं ज्वलनोऽपि ज्वलति स्म किंचिदेव । शरणं शिशिरेऽथ कि न यूनां युवतीनां कुँचयुग्ममात्रमासीत् ॥६७ ॥ सकलऋतुसमृद्धि तत्र भुक्त्वाभिरामां समसमुदितचिह्नां तत्प्रभावोदयेन । अशितजलधिजायादिव्यदासीरसुभू- सिचयनिचयहारि ब्रह्मगोष्ठं प्रतस्थे ॥ ६८ ॥ काले साध्यमयूखमुग्धमुदिरच्छेदाभिरामाम्बरे गोपस्वामिनि गोकुलं प्रति गते गोधूलिभिषूसरे । वत्सर्मातृविलोकनोत्सुकतरैरारब्धशब्दं मुहु- गोपा वंशजवेणुवादनपराः खं खं गृहं प्राविशन् ॥ १९॥ नानागुणैरवनिमण्डलमण्डनस्य श्रीसूर्यसूनुहरिभूमिभुजो नियोगात् । त्रैलोक्यकौतुककर क्रियते स्म काव्यं लोलिम्बराजकविना कविनायकेन ॥ ७० ॥ इति श्रीमत्सूर्यपण्डितकुलालंकारहरिहरमहाराजद्योतितलोलिम्बराजविरचिते हरिविलासे महाकाव्ये ऋतुवर्णनं नाम तृतीयः सर्गः ॥ चतुर्थः सर्गः। आकारणार्थ वसुदेवसूनोरक्रूरमक्रूरमुखं स्वभावात् । तत्रान्तरे प्रेपयति स कंसो वीरावतंसो धृतदुर्विचारः ॥ १ ॥ भावितद्वदनचन्द्रदर्शनप्रेमपूरपरिपूरितोदरः । रामकृष्णपदपांसुपावनं प्राप गोकुलमसौ कुलोज्ज्वलः ॥ २ ॥ १. 'किं च' ख. २. स्तनयुग्म' ख. ३. एतदनन्तरम् 'अथ सुखमनुभूय भूधरेऽस्मि- नृतुनिकरण विराजिते समन्तात् । निकटमुपगते सहस्ररश्मौ चरमगिरेजमच्युतः प्र- तस्थे ।। गोधनानि पुरतः समाययुर्गोदुहस्तदनु वहभूषणाः । रेजतुर्मुरलिकामनोहरौ तौ तदन्तरगतो नराविव ॥ प्रापदस्तमयमुष्णदीधितिः कामिनीभिरसकृनिरीक्षितः । धूलि- धूसरतनुश्च साग्रजः प्राविशद्रजमसौ जगद्गुरुः ॥' इति श्लोकाः ख-पुस्तकेऽधिकाः. ४. इमौ श्लोकौ ख-ग-पुस्तकयोन स्तः. ५. 'सून्वोः' ख. ६. 'यमसद्म यास्यन्' ख. ।
४ सर्गः] हरिविलासम् । ११३ असंख्यगोसंख्यविराजमाने दीपक्रियासादरसुन्दरीके । संवीक्ष्य नन्दस्य गृहे रमन्तौ मनोरमौ तौ रथमुत्ससर्ज ॥ ३ ॥ निगदितनिजनामा वैष्णवाग्रेसरस्तो रभसरभसयुक्तो विश्ववन्द्यौ ववन्दे । प्रसृतभुजमुभाभ्यां गाढमालिङ्गितः स. शुक इव भवदुःखं नैव किंचिद्विवेद ॥ ४ ॥ नन्दस्तत्र तदैव तावदगमत्प्रेम्णा परेणान्वितो विभ्राणः पुलकान्ननाम शिरसा दोया च तं सस्वजे । तत्पूजामकरोद्यथाविधि ततः सर्वोपचारान्वितां पश्चाद्वाचमुवाच तापशमनी द्राक्षासहलाक्षराम् ॥ ५ ॥ कार्यं त्वद्गुणवर्णनं तदुचितं नैवैकवत्रस्य मे कुर्वे स्वस्तवमप्ययुक्तमधुना युक्तस्तु किंचिद्विदः । प्राप्ता पुण्यपरम्पराद्य महती पापं समग्रं गतं धन्योऽहं धरणौ त्वदीयचरणौ दृष्टौ यदहन्मया ॥६ वचनमित्थमुदीर्य मनोहरं विरमति स्म पतिव्रजवासिनाम् । तदनु तं निजगाद गदाग्रजः प्रियसुहृत्मितपूर्वमपूर्वभाक् ।। ७ ।। प्रशमयितुमधर्म धर्मवृद्धिं विधातुं त्रिभुवनपतिरास्ते त्वगृहे कृष्ण एपः । अयमपि वलभद्रो भद्रकृत्सज्जनानां तव महिममहत्त्वं किं वयं वर्णयामः ॥ ८ ॥ त्रिजगदुदयहेतू ब्रह्मरुद्वेन्द्रचन्द्र- रविदितमहिमानौ रामकृष्णाविमौ यत् । कलितनरशरीरौ त्वद्गृहे गोचरौ स्त- स्तव महिमसमृद्धिं किं वयं वर्णयामः ॥ ९ ॥ आलिङ्गितोऽसौ परमेश्वरेण रामेण पैश्चात्परमादरेण । सँ वैजयन्तिस्थितरेणुसार्थ कायं कृतार्थं मनुते स सर्वम् ॥ १० ॥ १. 'वसन्तौ' ग. २. ५-९ श्लोकाः ख-पुस्तके न सन्ति. ३. 'विश्वैकमनोरमेण' ४. 'हांश्रुसंयुक्तविलोचनोऽसौ धन्यं वपुर्मानयति स्म सर्वम्' ख. ख. १५ ११४ काव्यमाला। नन्देन पश्चात्परिपूजितोऽसौ दिव्यासनस्थो गलिताध्वखेदः । गोपाङ्गनाक्लेशकरं चिराय वक्ता स वाक्यं वदति स्म किंचित् ॥११॥ इहागमनकारणं शृणु सखेऽधुना सादरं हलानहरिदर्शनोत्सुकतरोऽस्ति कंसश्चिरम् । इमौ नय तदन्तिकं त्वमसुरान्तको तत्पगे मुहूर्तमतिसुन्दरं विजयवर्धनं वर्तते ॥ १२ ॥ नन्द ते तनुजदर्शनोत्सुकः कंसभूमिपतिरस्ति संततम् । तत्प्रगृह्य तनयावुभाविमौ सद्य एव मथुरा विलोक्यताम् ।। १३ ॥ तन्निशम्य वचनं तदीरितं तापमाप परमं ब्रजाधिपः । माधवस्तु मुदमापदुत्कटां दैत्यनिर्दलनसाधनोद्यतः ॥ १४ ॥ तैस्येति वक्तुर्वचनावसाने ब्रजेश्वरस्तं पुनराबभाषे । आत्मासि नस्त्वं भगवत्रियत्वात्कुर्मः प्रमाणं भवदुक्तमेव ॥ १५ ॥ उपसि यास्यति यादवनन्दनो मधुपुरी प्रति कंसकृतादरः । इति निशम्य वचो विषदुःसहं निजगदुस्तमरातिमिव स्त्रियः ॥१६॥ अक्रूर ते नामनि निश्चयेन वली बहुव्रीहिसमास एव । अस्माकमात्मानममुं यतस्त्वं कृतान्तवन्नेतुमुपागतोऽसि ॥ १७ ॥ कनककङ्कणकुण्डलमेखलामणिगणांश्च गृहाण सहस्रशः। अयि पवित्र परंतु मधुद्विषं मधुपुरी प्रति मा नय सर्वथा ॥ १८ ॥ अयि नृशंस बलादवलाजनान्नयसि चेत्त्वमभीप्सितमात्मनः । द्रुतमिहानय पातकमन्यथा बजवधूवधजं भवतो भवेत् ॥ १९ ॥ इत्थं कथां कुर्वति तेन साकं कदम्बके बल्लववल्लभानाम् । ग्लौगानिमङ्गीकुरुते स तासां मुखैः समं यामवती वियोगात् ॥ २०॥ प्रौढप्रतापनिलयस्य दिनेश्वरस्य प्राणेश्वरस्य समुपागमनं विदित्वा । १. अयं श्लोकः ख-पुस्तके नास्ति. २. 'उद्धताम्' ख. ३. श्लोकोऽयं ख-पुस्तके नास्ति. ४. १९-२९ श्लोकाः ख-पुस्तके न सन्ति.
४ सर्गः] हरिविलासम् । ११५ द्यौस्तारकासुमनसः सुमुखीव भीता भुक्ताः समं विधुविटेन विलुम्पति स्म ॥ २१ ॥ रक्तोप्णीपं वासरक्षोणिभर्तुः शक्राशाया भालसिन्दूरविन्दुः । प्राचीनाद्रौ प्राप्तसंस्कारसंपन्माणिक्यश्रीतस्करो भास्करोऽभूत् ॥ २२ ॥ रोलम्वानां क्लिश्यतां पनकोशे कारागारे मोक्षमर्कश्चकार । तन्मालिन्यादेप नोपेक्षते स्म प्रायः साधुः सर्वलोकोपकारी ॥ २३ ॥ एवं प्रभाते समुपस्थितेऽसौ कृत्वाशनं तैः सह शोभमानः । नन्दः प्रियायाः सदनं प्रविश्य प्रयाणकालं कलयांचकार |॥ २४ ॥ मथुरागमनं निशम्य सून्वोनयनाम्भोजगलज्जला विषादात् । असदित्यवदत्पतिं यशोदा परिचर्यासु परायणापि शश्वत् ॥ २५ ॥ कंसं कृतान्तसदृशं नयसि ध्रुवं चे. कंदर्पतोऽप्यतिमनोजतनू तनूजौ । सम्यविचारय चिरं हृदि नाथ यस्मा- दृद्धा विचारचतुरा न भवन्ति किंचित् ॥ २६ ॥ न कुरु किमपि चिन्तां विष्णुरेवास्ति कृष्ण- स्तनुजमनुजभावं मा विधेहि त्वमस्मिन् । स्वयमयमविनाशी नाशकर्ता खलानां प्रिय इति पतिनोक्ता सा सुखाव्धौ ममज ।। २७ ॥ उपायनायावनिवल्लभस्य कृत्वाग्रतो गोरसपूर्णकुम्मान् । अनोधिरूढः सह गोपवृन्दैनन्दो ययौ वक्रविडम्बितेन्दुः ॥ २८॥ चरणप्रणतौ जयी भव त्वं जनयिव्या मुहुरित्युदीर्यमाणः । अतिसत्वरगत्वरैस्तुरंगैरतिरम्यं रथमारुरोह कृष्णः ॥ २९ ॥ ततः प्रभाते समुपागतेऽसौ नन्दादिगोपैः सह शोभमानः । आरुह्य तत्स्यन्दनमादिदेवो व्रजाहहिः किंचिदुपाजगाम ॥ ३० ॥ आगम्यतां कमललोचन शीघ्रमेव स्नेहं न मुञ्च न च विस्मर दीनबन्धो । १. 'समुपस्थिते' ख.
काव्यमाला। कृष्ण त्वदेकशरणा वयमत्र सर्वा नार्यः सनीरनयना हरिमित्थमूचुः ।। ३१ ।। अत्रागमिष्याम्यहमाशु तावत्प्रयात यूयं गृहमिन्दुमुख्यः । से इत्थमाश्वास्य वधूर्वचोभिर्मनोहरैर्विश्वपतिः प्रतस्थे ॥ ३२ ॥ सुकृतं सकलं समाप्तमासीदिति मन्ये ब्रजवासिनां जनानाम् । सुहृदानननीरजांशुमाली वनमाली मथुरां यतः प्रतस्थे ।। ३३ ।। आगताः कथमपि व्रज प्रति प्राणनाथविरहाकुलीकृताः । हन्त ता निजगृहेषु संस्थिताः संस्थिता इव सरोजलोचनाः॥३४॥ नापाठयन्मृदुगिरः शुकसारिकास्ता नालालयंश्च नकुलान्पृथुकानिव स्वान् । किंचाम्बुदध्वनिमुचो मुरजस्य नादै- नर्तयन्किमपि केलिकलापियूनः ॥ ३५ ॥ एषा सा यमुना तटे च तदिदं वृन्दावनं पावनं क्रीडाकुञ्जगृहास्त एव सुमनःस्तोमाभिरामश्रियः । तेनैकेन विना परंतु परमानन्देन गोष्ठौकस गाढोद्वेगगतौजसां किमपि हा प्रीतिप्रदं नाभवत् ॥ ३६ ॥ विरहहुतवहाकुलीकृतानां प्रतिदिवसं व्रजवामलोचनानाम् । दिवसगणनयाङ्गुलीदलानां तनु तनु हन्त समग्रमग्रमासीत् ॥३७॥ अपि रजनिषु निद्रादैन्यशून्या दृगासी- दहह दुरतिवाह्यो वर्षवद्वासरोऽभूत् । यदुतिलकवियोगव्याकुलानां वधूनां परभृतकृतजल्पः कालकल्पश्च जज्ञे ॥ ३८ ॥ हर हर विरहाग्नौ प्रौढिमानं प्रयाते मलयजहरहाराहारसंसर्गसारात् । ४ १. 'सर्वराज्ञः' क. २. 'इत्थं समादिश्य वधूरुदरुदग्रवीर्यो हरिरुच्चचाल' ख. ३. श्लोकोऽयं ख-पुस्तके नास्ति, ४. 'प्रीतः पदम्' ख. ५. 'दूना' ख. ६. 'दुरति- वाहो' ख.
४ सर्गः] हरिविलासम् । ११७ ब्रजजनतरुणीनां ताम्रधाम्नां ललानां स्रगपि कुचयुगस्थाङ्गारतां गाहते स्म ॥ ३९ ॥ रतिनायकसायकप्रतप्तवजनारीनयनाम्बुसिन्धुदम्मात् । प्रतिसझ जगाम भानुकन्या किमु कृष्णस्य विलोकनोत्सुकत्वात्।।४०॥ अमृतं गरलं वदन्ति यद्भिषजस्तन्मतमुत्तमं सखि । वितनोत्यमृतद्युतिर्यतः परितापानिति काचिदब्रवीत् ॥ ४१ ॥ अगलन्वलयानि तत्करेभ्यस्तदनङ्गाग्निमिवाक्षमाणि सोढुम् । शयनं च शयेषु तत्कपोलाः किमु कोशेशयसंशयादकुर्वन् । ४२॥ प्रथमाक्षरवर्जितानि तासां भवनानि ब्रजसुभ्रुवामभूवन् । विषयप्रकरो यकारशून्यो न कदाचिच रतिविना विनासीत् ॥ ४३ ।। न शैवलं शैवलिनीपु किंचिन्न पुष्कर पुष्करिणीषु तद्वत् । न वा मृणालानि मृणालिनीषु सरप्रतप्तप्रमदोपचारात् ।। ४४ ॥ चक्षुश्युतप्रचुरपुष्करविन्दुवृन्दै- राभवत्पृथुपयोधरभूधरामाः । मुक्ताफलैर्विदधिरे त्रिपुरारिपूजा प्राप्तुं पुनः प्रियवधूं ब्रजवारिजाक्ष्यः ॥ ४५ ॥ व्यापकोऽस्ति हरिरत्र नर्तको यद्रजान्मधुपुरीमपि यातः । ताभिरम्वुधरवन्धुरकान्तिः सर्वदैव ददृशे स पुरस्तात् ॥ ४६ ॥ पुण्यान्यपुण्यान्यपि पुष्कलानि ब्रजप्रियाणामिति तर्कयामः । सर्वेश्वरस्याद्भुतहर्पहेतोर्योगो वियोगोऽपि वभूव यस्मात् ॥ ४७ ॥ आलिङ्गति स्तनयुगं हरिरादरेण विम्बाधरं पिबति वस्त्रमपाकरोति । वंशीरवैनवनवैश्च मुदं ददाति स्वप्ने कया न ददृशे सुहशेति शश्वत् ॥ ४८ ॥ १. 'कुचतटस्याङ्गारताम्' ख. २. अयं श्लोकः ख-पुस्तके नास्ति. ३. 'अभूत् ख. ४. 'प्रियमिव' ख. ५. अयं श्लोकः ख-पुस्तके नास्ति.
११८ काव्यमाला। वृन्दावनं पुप्पभराभिरामं गोवर्धनः कुञ्जकदम्बशाली । पंतङ्गपुत्रीपुलिनं च दृष्टं नवं नवं तद्विरहं चकार ॥ ४९ ॥ इति तद्विरहानलाकुला ललनाः क्लेशशतानि लेभिरे । भगवानेपि वृक्षपक्षिणः पथि पश्यन्स शनैः शनैरगात् ॥ ५० ॥ वियेति विहृतिभाजा वायुवेगेन विष्व- ग्रथचरणतुरंगोद्धतधूलीभरेण । अपिहितमिहिरेणालिङ्गितायां समन्ता- त्सुरसरिति पयोजैः पङ्कनत्वं प्रपेदे ॥ ५१ ॥ रजनिरजनिजानिचिहचीरौ घनघनसारसमावुभौ युवानौ । कमलदलदृशौ मुकुन्दरामौ पथि परितः पृथुकादयोऽप्यपश्यन् ॥ १२ ॥ गोव्याघ्रण युतान्सहस्थितवता वभ्रद्विजिह्वेन च क्वापि क्वापि शनैः शनैर्मुनिसुतैरारब्धवेदध्वनीन् । प्रैक्षिष्टाध्वनि वृष्णिवंशतिलकशूतादिनानातरु- च्छायावादुफलापनीतपथिकाशेषश्रमानाश्रमान् ॥ ५३॥ अतनुत सुजनस्या श्लेषवत्तत्प्रमोद दिवसकरकुमारीवीचिविस्तारहेतुः । अभिनवसुखखेलच्चञ्चरीकावलीनां कुसुमितलवलीनां गन्धहृदन्धवाहः ।। ५४ ॥ यस्याः पुष्करमन्धकारनिकरश्यामाभमप्यासा मालिन्येन वृतं वपुः स्फटिकवच्छुद्धं विधत्ते क्षणात् । कालव्यालजयेपिणामसिलतां रम्यां रवेरात्मजां तां सौरभ्यवशालिशालिकमलां प्राप त्रिलोकीश्वरः ।। ५५ ॥ वीचिचञ्चलविहंगमावृतां पद्मपङ्किसुरभीकृतोदकाम् । प्राप तां भगवतो विवस्वतो नन्दिनीं स किल नन्दनन्दनः ।। ६६ ।। १. 'गोपकदम्बशालि' ग. २. 'कलिन्दकन्या' ख. ३. 'तद्विरहाकुलाकुला' ग. ४. 'विविधद्विजदुमान्' ख. ५. 'अनिमिषमसकृत्तद्वीक्ष्यमाणेन दूरात्' ख. ६. 'गमनमभि- गतेन' ख. ७. ५२.५५ श्लोकाः ख-पुस्तके न सन्ति. ८. 'भगवतीम्' ख.
- ४ सर्गः] हरिविलासम्। ११९ तावुभावपि रथे स्थितौ सुखं पक्षिणां कलरुतैः कृतादरौ । स्नातुमम्भसि तमश्रेमक्लमध्वंसिनि प्रविशति स्म वैष्णवः ॥ १७ ॥ तमेव साक्षात्पुरुषं पुराणं पुरारिमुख्यामरसेव्यमानम् । स तत्र दृष्ट्वा बहिरन्तरस्थं प्रेम्णा स्तवं तस्य ततान सम्यकू ॥ ५८ ॥ तमेव कृष्णं कनकासनस्थं मनोज्ञमौलि मणिरश्मिसंधैः वक्षःस्थले कौस्तुभशोभमानं स्वर्णाभवस्त्रद्वयमादधानम् ।। ५९ ॥ अलंकृतं चारु चतुर्भुजेषु कौमोदकीकम्बुरथाङ्गपझैः । आलोकयन्तं चतुराननादीन्कृताञ्जलीस्तोत्रकृतः पुरस्तात् ॥६०॥ अजामिल इलातले मलिनमूर्तिरासीन्महा- न्न तेन सदृशः श्रुतो न च विलोकितः कुत्रचित् । सुते त्वदभिधाग्रहात्रिदशमुख्यमुक्तः स ता- निरस्य मरुतोऽखिलांस्त्वयि सुखं खलः खेलति ।। ६१ ।। अपहाय भवत्पदारविन्दं परमानन्दमरन्दशोभमानम् । अधमाः कतिचित्कृपापयोधे विषकल्पान्विषयान्भजन्ति शश्वत् ॥६२॥ मम सूनुरसौ मम प्रियासौ धनमेतन्मम मन्दिरं ममैतत् । इति केशव केऽपि संगिरन्ते न पुनर्नाम तवाभिराममेतत् ॥ ६३ ।। अनित्यसुखलब्धये क्रतुषु कर्मठाः केचन श्रुतेर्वचनमात्रतः पशुवधं सुखं कुर्वते । परंतु न शुकादिवत्समसमस्तभूताः प्रभो भवन्ति भवहेतवे भवति भक्तिमातन्वते ॥ ६४ ॥ निरन्तरनिरादराः सुतसुहृत्सुक्सासु प्रसन्नमृदुमानसा गिरिगुहागृहावासिनः । १. 'बल्लवैः सह दिगीन्द्रवन्दितौ तौ स्थितौ पुलिन एव निर्मले । स्नातुमम्भसि ततः श्रमलमध्वंसकारिणि ममन वैष्णवः॥'ख. २. 'तदध्वज' ख. ३. इमौ श्लोको ख-पुस्तके न स्तः. ४. 'स तु' क; 'अहो अपि तवाभिधास्मरणतः स मुक्तोऽभवत्तदाप्रभृति माधव त्वयि' ख. ५. 'परंतु परमार्थतस्तव पदारविन्दद्वयं कृतान्तकमहाभयं हृदि न चिन्तयन्ति प्रमो' ख.
१२० काव्यमाला । प्रतिक्षणभवत्कथाकलितकौतुकाः लाध्यता नयन्ति मतिमज्जना जनपते जनुः केचन ॥ १५ ॥ जलजन्तुधृतो जेले गजेन्द्रः पशुरप्येष भवत्स्मृति चकार । सदसद्विदुरैरतस्त्वमेव स्मरणीयोऽसि विपत्सु विश्वबन्धो ॥ १६ ॥ गृहं सुरसमृद्धिमप्रियतमा रमास्पर्धिनी मतिर्मुरुगुरुत्वहृदपुरनङ्गभङ्गप्रदम् । यशः शशिवदुज्ज्वलं ज्वलनवत्प्रतापः प्रभो समग्रमिदमाप्यते तव पदप्रसादोदयात् ॥ ६७ ॥ भवज्वरनिवृत्तये पतितपावन त्वत्पद- प्रवालमिदमौषधं हृदि सकृत्सुधीर्धारयेत् । अपि प्रियतमाजनानननिरीक्षणं वर्जये- द्वसेच्च विजने वने फलदलाम्बु "संसेवयेत् ॥ ६८ ।। पदाम्भोरुहाम्भो दधाति त्वदीयं महेशोऽपि साक्षात्सदा मस्तकेन । विधिस्तावदासीद्भवन्नाभिपद्मादतः कः समस्ते समस्तेश्वरः स्यात् ॥ ६९ ॥ समयत्रितयेऽपि सतां त्रसतां चरणौ शरणं भुजगप्रतिमात् । अयि तत्रभवन्भवतो भवतो भवतो भवतोषविशेषकरौ ॥ ७० ॥ अये सुरशिरोमणे प्रतिदिनं प्रणम्यादरा- त्कृताञ्जलिरहं पुनः पुनरिदं जनं प्रार्थये । अनारतगतागतश्रमसमीरकाकोदरं सुरद्रुमसहोदरं भज भजाशु दामोदरम् ॥ ७१ ॥ शिव इति शिवमूर्ते त्वं प्रसिद्धाभिधानः स्तनवसनसमीरस्वच्छचित्तस्य गौर्याः । उपदिशसि सदान्ते प्राणिमात्रस्य कर्णे प्रतिदिनमविमुक्ते मुक्तये रामनाम ॥ ७२ ॥ १. 'सार्थकं नयन्ति मनुजा जनुर्जनपदे गतं केचन' ख. २. 'महागजेन्द्रःख. ३. 'अहो सुखस्यास्पदम्' ख. ४. 'अपथ्यमिह वर्जयेद्विपयवासनालक्षणम्' ख. ५. 'संशीलयेत्' ख. ६. ७०.७२ श्लोकाः ख-पुस्तके न सन्ति.
६ सर्गः] हरिविलासम् । १२१ यज्ञादिकमैककृतादराणां गंतागतप्राप्तिरवश्यमेव । त्वन्नाम नारायण ये स्मरन्ति तरन्ति ते संसृतिसागरं द्राक् ॥ ७३ ॥ अक्रूर इत्थं स्तुतिमीश्वरस्य श्लोकैरतिश्लोककरैरकार्षीत् । ततः प्रणाम से करोति यावत्तावत्रिलोकीतिलकस्तिरोऽभूत् ।। ७४ ॥ आगत्य सूर्यतनयापयसः स तीर- मावश्यकं सकलकर्म समाप्य सम्यक् । आनन्दविस्मयसमूहसमन्वितोऽन्त- नत्वा तमादिपुरुषं रथमारुरोह ॥ ७५ ।। भवविरक्तमना भगवत्प्रियो रविसुतासलिलादहिरागतः । विहितसर्वविधिहृदि विस्मितो रथमथो विदितर्जुपथोऽभ्यगात् ॥ ७६ ॥ नानागुणैरवनिमण्डलमण्डनस्य श्रीसूर्यसूनुहरिभूमिभुजो नियोगात् । काव्यं कृतं हरिविलास इति प्रसिद्धं लोलिम्बराजकविना कविनायकेन ।। ७७ ॥ इति श्रीमत्सूर्यपण्डितकुलालंकारहरिहरमहाराजद्योतितलोलिम्बराजविरचिते हरिविलासे महाकाव्ये भगवद्वर्णनं नाम चतुर्थः सर्गः । पञ्चमः सर्गः। अन्वितं वाजिभिर्वायुवTत्वरैश्चामरैश्चारुभिः शोभितैः सर्वतः । श्रीपतराज्ञया नोदयामास तं गान्दिनीनन्दनः स्यन्दनं सुन्दरम् ।। १ ।। दिव्यरत्नमयमन्दिरत्विषा निर्मितामितनभस्तलश्रियम् । तां जगत्पतिरिवामरावती पश्यति स्म मथुरां पुरी पुरः ॥ २ ॥ अवलोकनलोलविलोचनयोर्यदुनन्दनयोनवयौवनयोः । पथि काचन काञ्चनचारुरुचिः प्रमदा प्रमदातिशयं विदधे ॥ ३॥ १. 'शिरसाभिरामं पुनः पुनः प्रेमसमुद्रमन्नः' ख. २. श्लोकोऽयं ख-पुस्तके नास्ति. ३. 'त्रैलोक्यकौतुककर क्रियते स्म काव्यम्' ख. ४. 'संयुतम्' ख. ५. 'सत्वरैः' ख. ६. 'नौदयामास तं रामकृष्णान्वितम्' ख़. ७. श्लोकोऽयं ख-पुस्तके नास्ति. १६ १ १२२ काव्यमाला। तन्मुखोद्गतकथाकदम्बकाकर्णनाविदितवमवेदनः । माधवोऽथ सहसैव पेशेलां पश्यति स मथुरां पुरी पुरः ॥ ४ ॥ मुग्धाः प्रदीपपटलं प्रशमं नयन्ति यस्यां रतेरवसरे वसनाञ्चलेन । अङ्गस्थभूषणमणिप्रकराः परंतु तासां वृथा विदधते बत चेष्टितं तत् ॥ ६ ॥ पश्यन्ति यत्र यमुनामसकृद्वाक्ष- मार्गमगाङ्कवदनाः परिपूर्णतीराम् । अम्भोविहारविहितादरवारिजाक्षी- वक्षोजवीक्षणविनोदिविटावलीभिः ॥ ६ ॥ दिनकरकरजालैर्यत्र संशोषितेषु प्रलयदहनकल्पैः केलिवापीजलेषु । अलिकुलपरिपीता अप्यमन्दा मरन्दा जलजजठरजाताः पूर्ववत्पूरयन्ति ॥ ७ ॥ आरुह्य सौधशिखराणि नवातपानि पीनस्तनद्वयपरिश्रमतः कथंचित् । प्रक्षालयन्ति वदनं वनिताः प्रभाते यस्यां सदा सुरसरित्सलिलैः सलीलम् ॥ ८ ॥ अन्यत्र भिक्षुर्लभते सुशीलो वपुर्वियोगे परमं पदं यत् । यस्यां सदा मद्यमदप्रसक्ता वाराङ्गनास्तत्लुखमाप्नुवन्ति ॥ ९ ॥ सरभसमवगाह्यते कथंचित्सुतनुजनेन विलासवापिकाम्भः । ज्वलदतुहिनभासि मासि यस्यां चलमकरं मकरन्दवत्सुजातम् ॥ १० ॥ अनुपमरचनानां यत्र लीलागृहाणां मरकतखचितानि प्राङ्गणमातलानि । अविरलरसपानारब्धगानालिकान्ता- कुलकुसुमसुजातैः पारिजातैर्जयन्ति ॥ ११ ॥ १. 'अपि' ग. २. 'पेशलम्' ख, ३. 'पटलीम्' ख. ४. 'मदनकलिकलावित्कामि- नीमण्डनलं प्रचुरकुसुमजातैः पारिजातनयन्ति' ग.
६ सर्गः] हरिविलासम् । १२३ रहसि विलिखितस्य प्राणनाथस्य चित्रे दृढतरपरिरम्भारम्भरङ्कभूमिः । चकितचपलचक्षुर्वीक्ष्य वक्रं सखीनां सितसुभगमुखश्रीलंजते यत्र योषा ॥ १२ ॥ अविरतभगवत्कथैकतानाः प्रमदजलाशश्च्युतप्रपञ्चाः । निमिषमिव दिन नयन्ति यस्यां कति कति भागवतोत्तमा न शश्वत् ॥१३॥ अथ पथि रजकं ददर्श कंचित्प्रभुषु वरो वसनानि तं ययाचे । न स कुमतिरदात्ततः शिरोऽप्तावहरदुदग्रकराग्रमण्डलागः ॥ १४ ॥ अम्बराण्यददतो दुरात्मनो याचितस्य रजकस्य कस्यचित् । न्यकृति कृतवतोऽतिरागवान्कं चकत नृविकर्तनो हरिः ॥ १५ ॥ ततो वसित्वा वसनानि सम्यक्पीताम्बरोऽसावसिताम्बरश्च । शेषाण्यदागोपकदम्बकाय तेषां तदा काचन कान्तिरासीत् ॥ १६ ॥ प्रविवेश पुरीं परैरगम्यां बहुरम्यां स समं समग्रगोपैः । तमवेक्षितुमुज्झितस्वबालापुरवालाश्च समाययुर्गवाक्षान् ॥ १७ ॥ धन्या अहो ब्रजसदा सुदृशः समस्ता यासामसौ यदुपतिः पतिवन्मुदोऽभूत् । सौधान्निरीक्ष्य नरनाथपथे मुकुन्द- मन्योन्यमित्थमवदन्मथुरामहीलाः ॥ १८ ॥ अवनिभ्दवरोधैः सौधतः प्रद्धमन्यं च्युतलसदवतंसं स्पष्टवक्रारविन्दम् । अपगतजनलजं निश्चलाम्भोजनेत्रं जघनशिथिलवस्त्रं श्रीपतिदृश्यते स्म ॥ १९ ॥ सुन्दरैकनृपतिः परमात्मा वीक्षितो मम समस्तसखीभिः । वञ्चिताहमिति वञ्चितनिद्रामृत्युमुत्तमममन्यत काचित् ॥ २० ॥ १. 'शबैकभीरु: ग. २ श्लोकोऽयं ख-पुस्तके नास्ति. ३. १७.२४ श्लोकाः ख-पुस्तके न सन्ति. - + १२४ काव्यमाला। - . - पीताम्बरो जलदनीलरुचिः स कृष्णः श्यामांशुको जलजगौरतनुः स रामः । इत्थं यथार्थमयथार्थविदे जनाय सूचीमुखेन सरलेन शशंस काचित् ॥ २१ ॥ रतिपतिपरिपन्थिपर्वताने कनकलता इव पुष्पशोभमानाः । न किमु रुरुचिरे तदा स्वसौधे प्रचुररुचारुचिराश्चिरं चिरन्धः ॥२२॥ सौन्दर्याणां राशिमेकं मुकुन्दं वारंवारं वारनार्योऽप्यपश्यन् । गत्वा गेहं तस्य शैवालशय्यां सारं सारं स्मारतापादकुर्वन् ॥ २३ ॥ कामं साक्षान्मेनिरे तं समस्ताः कामं कान्ते तेनिरे नैव किंचित् । किं चापश्यन्नैव ताश्चन्द्रचन्द्र 'श्चन्दनं चम्पकानि ॥ २४ ।। धरणिरमणमार्गे कंसदासी त्रिवका मधुमथनमलिम्पच्चारुणा चन्दनेन । स सपदि हृदि हृष्टस्तां मनोज्ञामकार्षी- न्न भवति महतां हि क्वापि मोघः प्रसादः ॥ २५ ॥ आनन्दकन्द यदुराज यदि प्रसन्न- स्तन्मां सुखीकुरु विचित्ररतिप्रकारैः । इत्थं स्मरज्वरवशाहहु भाषमाणां तां साधु साध्विति हरिः प्रहसन्नुवाच ॥ २६ ॥ रामः शौरिनन्दमुख्याश्च गोपा रङ्गस्थाने तस्थिरे ते समस्ताः । अक्रूरोऽथ स्यन्दनस्थोऽतिशीघ्रं रम्याकारं कंसवेश्माविवेश ।। २७ ॥ उभौ कृतशुभाशुभौ सदसतां क्रमादाहृतौ तदास्यसरसीरुहादिति निशम्य कम्पातुरः । १. 'विवका' ख. २. २७.२८ श्लोकयोः स्थाने इमौ श्लोकौ स्तः ख-पुस्तके- 'पीताम्बरो जलदनीलरुचिः स कृष्णः श्यामांशुको जलजगौरतनुः स रामः । इत्थं य- थार्थमयथार्थविदे जनाय सूचीमुखेन सरलेन शशंस कश्चित् ॥ निरीक्षितः सौधशिरः- स्थिताभिस्तां राजधानी पुरसुन्दरीभिः । समग्रगोपावलिमध्यवर्ती विवेश कृष्णश्च सकृ. रणवत्रः ।।.
५ सर्गः] हरिविलासम् । १२५ अनिश्चलमना मनःपवनयोः पुरोगामिनं मनोरमतुरंगमं नृपतिरारुरोह क्षणात् ॥ २८ ॥ तमागतं भृत्यमुखान्निशम्य समस्तसैन्यैः सहितः समन्तात् । कंसः कृतान्तप्रतिमल्लमल्ले रङ्गस्थले मञ्चमुरीचकार ॥ २९ ॥ नागेन्द्रैनंगसोदरैर्मदसरित्संतर्पितेन्दिन्दिरै- रश्चैश्च प्रखरैः खुरोद्धतरजःपुञ्जः प्रलुप्ताम्बरैः । अन्वीतः परितः प्रकाशितगतिडकादितूर्यस्खनैः कंसः कालकरालयोधसहितो रङ्गस्थलं प्राविशत् ॥ ३० ॥ सर्वत्र सर्वेश्वरमेव पश्यन्रङ्गस्थले मञ्चमुरीचकार । ततो ववर्षाशु शरानपारान्भुजंगभीमान्भृशमौग्रसेनिः ॥ ३१ ॥ असिमुशलभृशण्डीमिण्डिमालत्रिशूलैः परशुपरिघकुन्तैर्मुद्गरैस्तोमरैश्च । अपि विशिखगदामिः पट्टिशैश्चैककालं यदुकुलमृगराजौ जन्निरे तस्य योधाः ॥ ३२ ॥ हिममिव हिमजातं भानुमानातपेन द्विरद इव करेण स्तोममम्भोजिनीनाम् । रविकरपरिरम्भः प्रस्फुरन्मडलायं - बलम' यत्र स्थितः कंसमहीश्वरोऽसौ वीरैर्वृतः शस्त्रसमेतहस्तैः । स्थलं तदेवाभिससार शौरिः सिंहो यथा कुञ्जरकेलिकुञ्जम् ॥ ३४॥ जिघांसया तस्य समागता ये मल्ला मदान्धा धरणीध्रकल्पाः । सर्वेऽपि ते तेन बलोद्धतेन नीताः पुरं प्रेतपतेः क्षणेन ॥ ३५ ॥ अथ परमलघिम्ना मञ्चमारुह्य तुझं मृगपतिरिव शृङ्गं भोगिभोगप्रमेण । १. ३०-३३ श्लोकाः ख-पुस्तके न सन्ति. २. 'भटैवतो हस्तग्रहीत शस्त्रैः' ख. ३. 'त्रासेन हीनः सह तैः सुहृद्भिः' ख.
१२६ काव्यमाला। अहह तदसिना द्राक्पातयामास मह्यां नलिनमिव मनोज्ञं कंसकं स प्रकोपात् ।। ३६ ॥ प्रकटितधृतसाराः कांदिशीकत्वमाजां तदनु तदनुगानां शस्त्रवस्त्राणि जद्दुः । अपि पशुपतिडिम्भाः सोत्सवा निर्भयत्वा- न्मदकलकरिकल्पा रङ्गभङ्गं च चक्रुः ॥ ३७ ॥ महामहसमन्वितः समभवद्यशोदापतिः प्रफुल्लनलिनाननः सह समग्रगोधुरगणैः । हतेषु परिपन्थिषु प्रथितपौरुषेषु क्षणा- द्विपत्तितिमिरातुरोद्धरणसूनुना सूनुना ।। ३८ ॥ एष यास्यति बतैककः कथं नाकनाथनगरी स्वमातुलः । प्राहिणोदिति धियेव सत्वरं सीरभृत्तदनु तस्य सैनिकान् ॥ ३९ ॥ प्रभुमपि पशुपालने यदेनं व्रजपतिरादिशति स तत्प्रमाणम् । सदुचितमधमाधमाय तस्मै व्यतरदहो यदसौ स्वरूपयोगम् ॥ ४० ॥ कुसुमवृष्टिरकारि तदा सुरैर्ननृतुरप्तरसश्च पुनः पुनः । जगदिदं गतशल्यमभूत्सुखं विदधिरे च तपांसि तपस्विनः ।। ४ १ ॥ अथ तत्र गैतत्रपमेत्य गृहादतिनिर्दयताडितमस्तकहृत् । परिगृह्य शिरः कुपतेः करयोविललाप विलासवतीनिकरः ॥ ४२ ॥ विले पुरस्याथ विलासवत्यस्तत्रागतास्तत्परिरभ्य दोभ्याम् । हा नाथ हा नाथक हा विलासिञ्जातः कथं मृत्युरसौ तवेति ॥ ४३ ।। फुल्लदम्बुरुहरम्यलोचनं कर्णलम्बिकमनीयकुण्डलम् । केन वज्रकठिनात्मना हृतं प्राणनाथ भवतः शिरः क्षणात् ॥ ४४ ॥ कोटिशः करटिनस्तवाङ्गणे लक्षशश्च ललितास्तुरंगमाः । पत्तिरेव सुकुमार हा कथं त्वं गतोऽसि भुवनान्तरं प्रति ॥ ४५ ॥ १. 'महामहसमुद्भवाद्रजसदामधीशोऽभवत्' ख, २. 'गतत्रपयैत्य' ख. ३. श्लोकोऽयं ख-पुस्तके नास्ति.
५ सर्गः] हरिविलासम् । १२७ . वीर होनवसुदेवसूनुना त्वां निशम्य निहतं महोदयम् । अद्य गोत्रजगणो गृहोदरे नैव मास्यंति मुदातिमेदुरः ॥ ४६ ॥ रुचिरं वचनं दृशौ सुदीर्धे बत निःशेषनिशेपवल्गु वक्रम् । तनुता च तनौ स्तनौ च पीनौ प्रिय विश्वं विफलं विना त्वयैतत् ॥४७॥ हा प्रफुल्लनवकुन्दसुन्दरास्ते न चाप्रतिम भान्त्यमी रदाः । यैर्भवान्व्यरचयद्रेणावलिं कोमलेऽधरदले पुनः पुनः ॥ ४८ ॥ अयि सुभग विना त्वया पुरीयं वयमिव राजति हन्त नैव किंचित् । अहह किमनया महासमृध्या तृणवदसूनपि सांप्रतं प्रतीमः ॥ ४९ ॥ विश्वं विलोकयति विष्वगिदं समस्तं किं त्वं सुखं स्वपिषि भूमितले कठोरे । उत्तिष्ठ वीरवर रत्नमये स्वधाम्नि पुष्पालिशालिशयने शयनं कुरु त्वम् ॥ ५० ॥ भोजनावसर एव भूपतेरेति नाद्य बहिरेव किं स्थितः । सारिका यदि गृहे गदेत्तदा त्वं विपन्न इति को नु तां वदेत् ॥११॥ अयि चुम्बसि चेन्न वक्रपमं कुचयोश्चेत्परिरम्भणं न दत्से । त्रपयास्य जनस्य वार्यते किं किमु कोपो वरिवर्ति चक्रवर्तिन् ॥ १२ ॥ त्वं गमिष्यसि महेन्द्रमन्दिरं भोक्ष्यसे नवनवाश्च सुन्दरीः । हन्त दुःखमधुना क्षणे क्षणे सुन्दरेक्षण न एव केवलम् ॥ १३ ॥ युक्तमेव दिवि गामिना त्वया तव्यधायि यदुपेक्षिता वयम् । ईदृशीं तव दशां निरीक्ष्य नो यन्न दग्धहृदयं विदीयते ॥ १४ ॥ उदितै रुदितैश्च तत्र सेन्व्यिथयामासुरिति क्षितीन्द्रपत्न्यः । अथ तत्समयोचितोक्तिभिस्ता दृढमाश्वासयति स वासुदेवः ॥ ५५ ॥ १. 'न सुखम्' ख. २. 'व्रणावलीः' ख..३. 'पाण्डुरधाम्नि धाम्नि' ख. ४. 'कुरुष्व' ख. ५. 'भोजनप्रसर एष' ख. ६.'वक्रबिम्बम्' ख. ७. 'हा' ख. ८. 'तदुपेक्षिता' ख. ९. 'तन्वीय॑थयन्तीरिति भूमिपालपत्नीः । तपसः प्रशमोचितैर्वचोभिः' ख.
. . १२८ काव्यमाला। ततो व्यधात्पार्थिवमुग्रसेनं बन्धं स्वपित्रोश्च निराचकार । तत्रासतश्चापगतान्दिगन्तान्सुहृज्जनानानयति स देवः ॥ १६ ॥ रुचिरकुचतटीनां नाट्यकाले नटीनां प्रतिगृहमथ तत्र प्रत्यहं प्रादुरासीत् । धिमिकिति धिमिधिद्धिद्धिद्धिधिद्धिद्धिधिद्धि धिगिधिगिधिगि तत्तत्थय्यथय्येति शब्दः ॥ १७ ॥ अद्य वन्द्यचरणः सुरासुरै रन्तुमिच्छति मया समं हरिः । कंसदूतिरिति जातनिर्वृतिदेहगेहसुषमा व्यरीरचत् ॥१८॥ भूषांशुकाश्वगजराजविराजमाना- प्रस्थाप्य नन्दपैशुपालपतीन्समस्तान् । कृष्णस्तया सह सहस्रदलायताक्ष्या ज्योत्स्नाकृतस्मरजनि रजनि निनाय ॥ ५९॥ प्रोहिणोदथ विभुजाङ्गनासान्त्वनाय मतिमन्तमुद्धवम् । सोऽपि तं व्रजमगाद्रथस्थितो विश्वविश्वधृतविष्णुभावनः ॥ ६० ॥ चरमाचलमौलिमण्डनत्वं द्युमणौ प्राप्तवति प्रभोर्भुजिष्यः । अविशद्रजमुद्धवाभिधानो युतमानो रजसा गवां समन्तात् ॥ ११ ॥ संह गणेन गवां ब्रजमुद्धवस्ततरजः कणकच्चरकूर्चकः । प्रियतमास्तनसंगतसाम्ययोविहगयोविरहावसरेऽविशत् ॥ १२ ॥ रेतिपतिपरितापात्पाण्डुगण्डस्थलीभिः प्रतिगृहकृततल्पं पल्लवैर्बल्लवीभिः । विरतसुरतलीलालास्यहास्यप्रसङ्गं बजपुरमभवत्तन्नोद्धवस्योद्धवाय ॥ १३ ॥ १. 'सुहृद्गणान्' ख. २. 'धिमिधिक्तां धिग्धिगित्तां धिगित्तां तगतगतगतत्तत्थे- यिथेयीति शब्दः' ख. ३. 'हरिपाल' ख, ४. 'सहस्रदलायताक्षो' ख. ५. 'प्राहिणो. स सदयो' ख. ६. 'प्रति ययौ' ख. ७. कृतविश्वभावनः' ख. ८. श्लोकोऽयं ख-पुस्तके नास्ति. ९. 'अतिरतिपरितापात्' ख. १०. 'बजनगरमभूत्तन्नोद्धवस्योत्सवाय' ग.
५ सर्गः] हरिविलासम् । on १२९ सहसाङ्गणमागतं रमाया रमणस्यानुचरं स नन्दगोपः । तरसा परिरभ्य सप्रहर्ष गततर्ष विषयेषु विज्वरोऽभूत् ।। ६४ ॥ संपूज्य तं विधिवदुद्धवमासनाद्यैः सम्यक्समग्रविधिविद्विविधोपचारैः । पप्रच्छ गोपपतिरित्थमनङ्गमूर्ति- रास्ते स तत्र कुशली मुशली च तद्वत् ॥ ६५ ॥ पप्रच्छ यद्यद्रजसार्वभौमस्तत्तत्स तस्मै कथयांबभूव । तस्मिन्क्षणे ताः स्मरदुःखदीना मन्दाक्षहीना जगदुस्तमित्थम् ॥ ६६ ॥ कंसो हतः स्वसुहृदामपकारकारी प्राप्तं च राज्यममरेन्द्रपदानुसारि । दास्यन्ति भूमिपतयः शतशः स्वपुत्री- रत्रागमो वत भवेदधुनास्य कस्मात् ॥ ६७ ॥ ग्राम्या वयं क्व पशुपालजनैकभोग्याः सर्वोत्तमः क कमलाकरलालिताभिः । सङ्गोऽस्य यत्समभवत्स घुणाक्षरस्य न्यायस्तदाप्तिरधुना शशशृङ्गतुल्या ॥ ६८ ॥ अकृत सुकृतपुजैः स्वप्नमध्येऽप्यलभ्याः परमपुरपुरन्ध्रीः सैंङ्गलब्धा विहाय । विदितरतिविशेषः श्रीपतिः प्राप्तराज्यो यदनुभवति दासी तन्न संजाघटीति ॥ ६९ ॥ ध्रुवमेतदयोमयं विधिर्विदधे मे हृदयं"...."हि तत् । शतधा न विदीर्यते यतो विरहे दुर्विषये मधुद्विषः ॥ ७० ॥ आगमिष्यति कदाचिदच्युतः कौतुकेन कृपया पुनः पुनः । उद्धव ध्रुवमनेन हेतुना जीवति व्रजविलासिनीजनः ॥ ७१ ॥ १. 'नन्दस्तमित्थमवदननीलमूर्तिः' ख. २. 'गोपविलासवत्यो निरस्तलजा' ख. ३. 'यः' ख. ४. 'प्रार्थयन्तीः' ख. ५. 'दासीः' ख. ६. श्लोकोऽयं ख-पुस्तके नास्ति. ७. 'कृपयाथवा पुनः' ख. १७ : १३० काव्यमाला। हन्त किं न वयमुद्धव दीना दीनबन्धुरपि किं न मुरारिः । हीरुदेति हृदि नामदुपेक्षां कुर्वतोऽस्य परमाद्भुतमेतत् ॥ ७२ ॥ अयि शृणु बत दीनोद्धारकोऽस्यां त्रिलोक्यां सृजति बिरुदमेतन्मूलभूतं पायाः । वयमिह विरहाग्नौ दह्यमाना विमुक्ताः सह स हरिणदृष्ट्या तत्र केलिं करोति ॥ ७३ ॥ अनृतमुद्धव मा वद सर्वथा भगवतः शपथस्तव वर्तते । बत वयस्य सभासु कदापि नः किमपि स स्मरति सरसुन्दरः ॥७४॥ यावदार्य बत जीवितमास्ते तावदेहि दयया परमात्मन् । एवमेव वद तं बत गत्वा ब्रूमहे किमु वयं पुनरन्यत् ॥ ७५ ॥ इति ब्रुवाणो विरराम रामागणो गलगोलवगोसरोजः । ततः स वाक्यं वयमावभाषे दुःखद्रुमोन्मूलनकारि तासाम् ॥ ७६ ॥ उत्कर्षः क्रियते कथं कुमुदिनीबन्धोः प्रतिस्पर्धिनः कृत्वास्यं मलिनं विलोचनजलैः स्फारीभवत्कज्जलैः । आयास्यत्यचिरात्करिष्यति सुखोद्रेकं स वः पूर्वव- द्राकाकैरवबन्धुबन्धुरमुखः कृष्णाभिधानो हरिः ॥ ७७ ॥ इति मधुरवचोभिर्घोषसीमन्तिनीनां मनसि मनसिजाते स्वास्थ्यवासं वितन्वन् । कतिचिदयमनैपीत्तत्र रात्रीस्त्रिलोकी- पतिगुणगणगानोद्भतहपश्रुिपूरः ॥ ७८ ॥ उचितं न करोति कैटभारिः क्षणमप्येकमिहैति यन्न विद्वान् । इति स स्वमनस्यमस्त तत्तद्विरहक्लेशकृशत्वदर्शनेन ॥ ७९ ॥ १. 'अपि सुचरितदीनोद्धारकस्य ख. २. 'सृजतु' ख. ३. 'वियुक्ताः' ख. ४. 'प्रति' ख. ५. 'इतीरयित्वा विरराम रामाकदम्बकं दृक्चलितास्रधारम्' ख. ६. 'तन्मानस- स्वास्थ्यकरं स्वभावात्' ख. ७. 'हर्षाश्रुबिन्दुः' ख. ८.'उचितं न करोति करोति किं व्रजमायाति कदापि यत्न विद्वान् । इति सौवयनस्य तन्यतासौ वनितान्तं विरहाति- दर्शनेन ॥' इति क-पुस्तके क्षेपकः. ।
५ सर्गः] हरिविलासम् । सुजनवरयशोदानन्दसंदर्शनार्थ यदुपतिमिह गत्वा प्रेपर्यवैकवारम् । मुहुरिति मिलिताभिस्ताभिरुक्तो रथस्थः कथमपि हरिदासो गोकुलान्निर्जगाम || ८ || यद्यद्वभाषे सुमुखीसमूहो यद्यत्स तदैन्यमवेक्षते स्म । तत्सर्वमागत्य गुणाकराय न्यवेदयद्भागवतावतंसः ॥ ८१ ॥ सरस्वदुदरे क्षणादलघु हैमहर्म्यस्फुर- चकार पुटभेदनं विगतवेदनं स्वर्गवत् । इभाभ्रशशभृद्रसेन्दु(१६१ ०८)मितसुन्दरीमिः समं स तत्र सुखमन्वभूयदुकुलावतंसो हरिः ॥ ८२ ॥ ज्ञात्वापि गोपललनाः स्वसमागमोत्का नो गोकुलं प्रति जगाम जगन्निवासः । नानानरेन्द्रतनयाहृतचित्तवृत्ति- जीर्ण जलं नवजलैह्रियते हि नद्याः ॥ ८३ ॥ अनन्तः समं तासु कान्तासु लेभे खनागाभ्रचन्द्रर्तुभू(१६१०८०)संख्यसूनून् । गुणज्ञान्गुणानां गणै रञ्जयन्तं जयन्तं जयन्तं कमाहुर्न तेषाम् ॥ ८४ ॥ सदाश्रयी तस्य सदाश्रितस्य निस्तीर्णनानारणसंकटस्य । अज्ञानकान्तारधनंजयस्य धनंजयस्य क्षणराशिरासीत् ॥ ८५ ॥ वाल्यमैञ्युपगतं द्विनमेकं दुर्बलं धृतसरन्ध्रपटार्धम् । अर्चति म परिरभ्य स सम्राट श्रीमदं न कलयन्ति कुलीनाः ॥८६॥ त्वद्वाहोद्भूतधूल्यः करिकरनिकरैः सीकराश्च प्रयुक्ता व्योम व्यापुः समन्ताद्यदुमुकुटमणे तत्र पङ्कोऽद्भुतोऽभूत् । १. एतत्पूर्वम् 'तत्समागमकृते बहु लौल्यं कार्यमप्यतिशयेन शरीरे। वीक्ष्य सोऽप्यहह दुःखसहस्रादश्रुपूरपरिपूर्णगासीत् ॥' इति श्लोकः ख-पुस्तके. २. श्लोकोऽयं ख- पुस्तके नास्ति. ३. 'गणयन्ति' ख.
१३२ काव्यमाला । आगच्छद्भिः सुरैःक्ष्मां तव भजनकृते स्फाटिकीमिः शिलाभि- बद्धः पन्थास्तदानीं सुरसरिदिति तं मानवा मानयन्ति ॥ ८७ ॥ श्रीकृष्ण त्वत्प्रतापेन प्रतप्ताङ्गीर्दिगङ्गनाः । दिग्गजा वीजयन्त्येव कर्णतालैः पुनः पुनः ॥ ८८ ॥ वनेषु वनदेवता दिवि दिवौकसां वल्लभा भुजंगकुलकन्यका भुजगलोकलीलावने । यशः समरसंचितं नरमृगेन्द्र गायन्ति ते प्रभाविजितकौमुदीकुमुदपाण्डुताडम्बरम् ॥ ८९ ॥ इति तस्य कृता स्तुतिः सुदान्ना धनलाभार्थमुपागतेन दूरात् । अवतारशिरोमणिस्ततस्तं धनवन्तं धनमाथवच्चकार ॥ ९० ॥ जनकृतकृतधर्मे तस्य राज्ये समन्ता- दगणितभुजशौर्यौदार्यरूढस्य शश्वत् । गहनगहनमध्ये दस्युनामापि नासी- त्रिदशतरुसमानो याचमानो जनोऽभूत् ॥ ९१ ॥ अपि सचिवसहस्त्रसंयुतोऽसौ स्वयमकरोग्यवहारमेकविद्वान् । क्षणमपि खलसंगतिं न चक्रे सुकविसभासु सभासु नित्यमासीत्॥९२॥ सदा सादरं सुन्दरीगीयमानं पुरग्रामकान्तारकुञ्जोदरेषु । असौ माधवो दुःखवृक्षावलीनां लवित्रं पवित्रं चरित्रं चकार ॥ ९३ ॥ विश्वंभरोऽन्यांश्च निहत्य दैत्यान्विश्वंभराभारमपाचकार । भवाब्धिमज्जज्जनतारकस्य प्रायोऽवतारोऽस्य सदुत्सवाय ॥ ९४ ॥ यस्त्रातुं व्रजमुज्जहार सहसा गोवर्धनं क्ष्माधरं यस्त्रैलोक्यमदर्शयन्निजमुखाम्भोजे यशोदाकृते । यः पुत्रं स्वगुरोर्यमालयगतं शक्त्यानिनाय क्षणा- यो भूभारमपाचकार सकलं तस्मै नमः शाङ्गिणे ॥ ९५ ॥ १. श्लोकोऽयं ख-पुस्तके नास्ति. २. 'सवन' ख. ३. 'हि' ख.
शृङ्गारशतकम्। १३३ सुजनैः कुजनैरपि रत्नकलारमणस्य कवेः कविताश्रवणात् । रमणीभणितं मुरलीरणितं भ्रमरीभणितं तृणवद्गणितम् ॥ ९६ ॥ अतसीकुसुमोपमेयकान्तिर्यमुनाकूलकदम्बमूलवर्ती । नवगोपवधूविनोदशाली वनमाली वितनोतु मङ्गलानि ॥ ९७ ॥ नानागुणैरवनिमण्डलमण्डनस्य श्रीसूर्यसूनुहरिभूमिभुजो नियोगात् । काव्यं कृतं हरिविलास इति प्रसिद्धं लोलिम्बराजकविना कविनायकेन ॥ ९८ ॥ इति श्रीमत्सूर्यपण्डितकुलालंकारहरिहरमहाराजद्योतितलोलिम्बराजविरचिते हरिविलासे महाकाव्ये कंसवधो नाम पञ्चमः सर्गः । गोस्वामिश्रीयुतजनार्दनभप्रणीतं शृङ्गारशतकम् । मलयपवनः क्षीवः कुम्भी क्षपाकरमण्डलं भुवनविदितं श्वेतं छत्रं पिकाः परिचारकाः । विकचतरवो यस्योत्तुङ्गाः पराः पटमण्डपा- स्त्रिभुवनमहाधीशः कामो विभाति जगत्रये ॥ १ ॥ विकचलवलीपुष्पैहरं करोति च गुम्फति प्रचुरमणिभिः क्लुप्तां स्वैरं निजां रशनामपि । सुरतसदने पत्युः प्रीत्यै कला कुरुते परा न तु विधुमुखी दीपे स्नेहं ददाति कथंचन ॥२॥ १. एतयोः श्लोकयोः स्थाने "किं त्यक्त्वा वसति बले क्षितितले पातालमेवाश्रित भो भोगीश्वर हन्त तत्र सततं मां क्लेशयन्त्यर्थिनः । आस्ते कोऽपि हरियाचलगिरी मा. पालचूडामणिस्तेनार्थिप्रकरः कृतो धनदवद्गच्छाधुना त्वं सुखम् ॥ श्रीमान्हामरसोऽभव- द्विजकुलालंकारचूडामणिर्गङ्गानिर्मलमौनिभार्गवकुले तस्मादविः पण्डितः । आसीत्तस्य सुतः सुरासुरकृति येल्हाम्बिकायां चिरालेभे श्रीहरिनाम रत्नमवनीमध्ये तदास्तां चिरम् ॥' इति श्लोकद्वयं कचितू. २. 'त्रैलोक्यकौतुककर क्रियते स्म काव्यम्' ख.
१३४
काव्यमाला॥
कदाचिदारोहति सौधमुन्नतं कदाचिदायाति धरातलं पुनः ।
कदाचिदास्यं विनिवेश्य जालके प्रियं नवोढा तु सलजमीक्षते ॥ ३ ॥
भाले विधाय तिलकं मम नेत्रयोश्च
दत्त्वाञ्जनं हृदि च हारमथो निधाय ।
प्राणाधिपः सखि शनैः करपल्लवेन
नीवीमपास्य हि कुतः सुखमेति भूयः ॥ ४ ॥
उत्साहकारकसखीवचनैविधाय
भूषाविधि कनकगौरतराङ्गकेषु ।
प्राणेश्वरस्य सदनाय कृतप्रयाणा
मुग्धा तथापि हृदि कम्पभरं बिभर्ति ॥५॥
अयि सखि कुरु क्षिप्रं रम्भादलैः शिशिरानिलं
सहचरि तनौ सत्कर्पूरं द्रुतं परिलेपय ।
सरसबिसिनीपत्रैस्तुल्यं प्रिये परिकल्पय
स्फुटमिति विभो तस्या गेहे भवन्ति किलोक्तयः ॥ ६ ॥
कान्तस्ते कमलाभिरामनयने कल्पे हि देशान्तरं
गन्तेति श्रुतमद्य लोकवचनात्तथ्यं किमेतद्वचः ।
पृष्टा सेति मया दयाधननिधे प्रोवाच दीनानना
यत्तद्वक्तुमपि क्षमा न रसना मे जायते सांप्रतम् ॥ ७ ॥
संफुल्लामलमल्लिकासुमसमुद्भूतैः परागोत्करै-
प्प्तः शीतलनीरपूर्णसरसी संपातशीतः परम् ।
आरब्धोद्धरमैथुनोत्थवहुलस्वेदाम्बुसार्दाङ्गना-
वृन्दस्याप्यतिसौख्यदो निशि शनैरायात्ययं मारुतः ॥ ८ ॥
अयि सखि मम प्राणाधीशो गतो विषयान्तरं
कुसुमविशिखस्तस्मादुच्चैर्दुनोति तनुं शरैः ।
लघु कुरु यथा यतं येन सराधिनिवारणे
पटुतरमतेस्तस्याशु स्यादिहागमनं ततः ॥९॥
शृङ्गारशतकम् ।
१३५
कृत्वेन्दीवरभूषणानि रचनां कस्तूरिकायाः स्तनौ
धृत्वा नीलनिचोलमेणनयने त्वं यासि पत्युर्गृहम् ।
प्रावृट्कालपयोधरादिव तडित्कान्तिस्तनोस्ते तथा-
प्येषा हन्ति तमःसमुच्चयमहो निःसृत्य नैशं द्रुतम् ॥ १० ॥
प्रियतम पुरा सर्वस्त्रीभ्यो मयि प्रियताभव-
जगति सकलो जानात्येवं जनः स्फुटमेव ताम् ।
वद किमुधना जातं यस्माद्विहाय हि मां प्रिया-
मपरवनितावृन्दैः साकं करोषि कुतूहलम् ॥ ११ ॥
अयि सखि निशा किं वा घस्त्रः शशी किमु भास्करः
स्फुरति पुरतः कामः किं वा ममास्ति स वल्लभः ।
प्रतिपलमिति प्राणाधीशप्रिया विरहातुरा
कथयति मुहुर्मन्दं मन्दं सखी सविधस्थिताम् ॥ १२ ॥
यत्रानम्रसरोजसाम्यमयते त्रस्तातिदीर्घालक-
व्याजभ्राम्यदनेकभृङ्गपटलीसंजातशोभं मुखम् ।
काञ्चीकाञ्चनकल्पिता वितनुते कोलाहलं कोमलं
तत्तन्व्याः सुरतं स्मृतं हि कुरुते वाधामगाधां हृदि ।॥ १३ ॥
उच्चौ कुचौ कृशंतरा च कटिगंभीरो
नाभिः समुन्नततरं च नितम्वविम्बम् ।
निम्नोन्नतेति सुदृशः सुभगे शरीरे
मग्नं मनो मम न मां पुनरभ्युपैति ॥ १४ ॥
वेणी खड्गसमा भ्रुवौ परिलसवाणासनाभे शुभौ
कर्णी पाशसमौ तथा विजयते नासा च तूणोपमा ।
मुग्धेऽपाङ्गविलोकनं शरसमं जाने ततस्त्वं कृता
प्रायः पञ्चशराभिधक्षितिभुजा शस्त्रस्य शाला निजा ॥ १५ ॥
पूर्णः कलाभिरखिलाभिरौषधीपतिरेष यत्सखि दुनोति मां भृशम् ।
युक्तं हि तन्ननु दयालवो भवेदिह कुत्र लब्धविभवे जलात्मजे ॥ १६ ॥
काव्यमाला।
.
मलिनहृदयो गर्जत्युच्चैर्घनो यदि गर्जतु
प्रकृतिकठिना यस्मादेते भवन्ति हि पूरुषाः ।
त्वमपि चपले कि नो वेत्सि प्रिये विरहव्यथां
दिशि दिशि यतः खिन्नाया मे पुरः परिनृत्यसि ॥ १७ ॥
नो भुङ्क्ते किल वीटिकां न कुरुते संलापमाभाषिता
नो शेते शयने न संमुखमहो सा वीक्षिता चेक्षते ।
हासं न प्रसते प्रहासवचनैर्दत्ते न चालिङ्गनं
स्वान्ते मोदभरं तथापि तनुते नित्यं नवोढा प्रिया ॥ १८ ॥
वीक्ष्य वीक्ष्य हृदि लक्ष्म सपत्न्या अङ्क्रियावकभवं रमणस्य ।
भामिनीकुवलयोपमनेत्रे शोणपङ्कजनिभे लघुचक्रे ॥ १९ ॥
क्रोडस्थायाः सभयहरिणीलोचनाया नितान्तं
गाढाश्लेषाकुलतरतनोः त्रस्तकूर्पासकायाः ।
सब्रीडाया मुकुलितहशो मुञ्च मुश्चेति मन्दं
जल्पन्त्या साधरदलसुधा संस्मृता मां दुनोति ॥ २० ॥
दृष्ट्वाधिविन्नासदनेऽम्वुजाक्षी कान्तं स्मरानेककलाप्रसक्तम् ।
सा तं जगादापि न किंचिदुच्चैः परं सखीनां तु पुरो रुरोद ॥ २१ ॥
पीनोत्तुङ्गकुचान्तरालतरला माला हि मुक्तामयी
हेमोर्वीधरयुग्मकल्पितगमस्वःसिन्धुवद्राजते ।
इत्युक्त्वा परिहासपेशलमतिः कान्तो वयस्ये समा-
मुत्तुङ्गौ मम वक्षनौ दृढतरं जग्राह कामातुरः ॥ २२ ॥
पवनवेल्लितनीलसरोरुहच्छविविजित्वरचारुविलोचने ।
परपुरन्ध्रिपराङ्मुखवल्लभे समुचितं नहि दूषणरोपणम् ॥ २३ ॥
नेत्रे जागरणारुणे विधिनुतः शोणारविन्दश्रियं
भाले तत्पदयावलक्ष्म च पुनः प्रत्यक्षमेवेक्ष्यते ।
लग्ना लोचनचुम्बनेऽञ्जनमयी रेखाधरे राजते
दुष्टस्यास्य तथापि चेतसि मनाग्लज्जापि नो जायते ॥ २४ ॥
शृङ्गारशतकम् । १३७ यामिनीरमणमञ्जुलविम्वं श्रीपराजयविजित्वरवक्रे । त्वामुपैति किल रोपतमित्रं तेन मे भवति चेतसि चित्रम् ।। २५ ॥ विरहजलदो धारातुल्यैर्निरन्तरपातिभि- मदनविशिखैः क्लिन्नं मोहप्रभञ्जनपीडितम् । प्रियतम विना त्वामेणाक्ष स्फुरत्कुचसद्धटं हृदयसदनं दुर्वारो हा प्रपातयतीव तत् ॥ २६ ॥ प्रथमप्रणयस्मृतिप्रजातद्विगुणस्नेहरसातिरेकभाजोः । अरहःस्थितयोविभाति यूनोनयनानामतिमञ्जुलो विलासः ॥ २७ ॥ मामके बत करोषि किमाले कामतप्तहृदि चन्दनचर्चाम् । आवृतो वसनतूलसमूहैर्यन्न नाथमुपयाति कृशानुः ॥ २८ ॥ मुञ्च मानमधुना मज कान्तं मन्दमन्दमयमेति वसन्तः । अत्र भामिनि पिकावलिगीतैर्याति धैर्यगुणमाशु जनानाम् ॥ २९॥ तावद्ध्यर्थतरं सुधासुरुचिरं सन्मन्दिरं सुन्दरं भोगोपस्करचित्रवस्त्रवलिता तावच्च शय्या वृथा । यावहालमृणालकोमलभुजद्वन्द्वामिरामग्रहा- श्लेषप्रोत्थमनोभवो न हि भवेत्प्राणप्रियासंगमः ॥ ३० ॥ दृश्यन्ते विरलानि मारुतपथे यद्यप्युडून्युच्चकै- रस्तक्ष्माधरतश्च पित्सति कलानाथोऽपि पाथोनिधौ। प्राची चञ्चललोचना श्रुतिलसत्ताटङ्कवच्छोभते भानुस्ते हि तथापि याति कठिने मानो न का नो गतिः॥३१॥ तुङ्गवर्तुलकुचोत्तमकोका मञ्जुलत्रिवलिचारुतरङ्गा । कामजश्रमविदारणदक्षा किङ्किणीरणितहंसविरावा ॥ ३२ ॥ लोचनस्फुटसरोरुहरम्या गौरता विमलवारिभृता च । केशशैवलमनोरमकान्तिीति तन्वि तटिनीव तनुस्ते ॥३३॥ (युग्मम्) क्षोणी यस्य कृते ययौ शयनतां कान्तारमावेश्मतां भोगच्छद्मसुदीपिकासु च फणारत्नं च मे दीपताम् ।
१३८ काव्यमाला। ध्वान्तं चैव सहायतां स कठिनस्वान्तोऽत्र नो दृश्यते हे धावत'... ()किं करोमि शरणं गच्छामि कं सांप्रतम् ॥३४॥ दृष्ट्वा कस्मादुपेतो रहसि मृगदृशावेकशय्याप्रसुप्ते कान्तः केलीकलाढ्यो निकटमथ तयोर्मन्दमन्दं जगाम । धृत्वा चैकामुरोजे सहसितमपरां सादरं सत्कपोले चक्रे क्रीडां तथासौ नहृदि किल यथाजन्म(ग्म)तुस्ते विषादम् ॥३५॥ पादयोः पतति यद्यपि नाथः सादरं वितनुतेऽपि चटूनि । कोपनारुणसरोरुहनेत्रा त्यज्यते तदपि हन्त रुषा न ॥ ३६ ॥ समुन्नतकुचद्वन्द्वकाठिन्यजितपर्वते । नवनीतमृदुस्वान्ते कान्ते किं कुरुषे रुषम् ॥ ३७ ॥ उक्ता ब्रवीषि सुरतं न मया निशाया- स्त्वं दौष्टवेन गजगामिनि लजया वा। ताम्बूलकजलकुजामयचिह्नचित्रं तत्संनिवेदयति मां रमणोत्तरीयम् ॥ ३८ ॥ अधरमधरे कण्ठं कण्ठे निधाय भुजं भुजे हृदि च हृदयं मध्ये मध्यं सरोजदृशो दृढम् । सरभसमहो चोरावूरुं पदं च पदे बला- द्गमयति जनो धन्यः कश्चित्समां शिशिरे निशाम् ॥ ३९ ॥ आयास्यामि पुनस्तवान्तिकमहं यामे व्यतीते प्रिये- त्युक्त्वा पङ्कजलोचनां रसभसं कान्ता समाज ययौ। जाते क्वापि च सि(शि)ञ्जिते किमु समायातेति मार्ग मुहु- दर्श दर्शमयो मया निशि मनाग्लब्धो न निद्रारसः ॥ ४० ॥ प्रयाति त्रियामाल्पशेषाधुनापि प्रिये मुञ्च मानं मदुक्तं विधेहि । गतः प्रैति कालः पुनर्नेति जल्पत्यसौ ताम्रचूडोऽपि तारस्वरेण ।। ४ १ ॥ सहायमासाद्य सुधामयूखं प्रिये वसन्तं च वने वसन्तम् । वियोगिनं मां मदनोऽद्य बाणैः शाणे निघृष्टैनितरां छिनत्ति ॥ ४२ ॥ १. 'भ्रातर्गत' इति भवेत्. .
शृङ्गारशतकम् ।
१३९
-
पुप्पवाणशरजालनिपातप्रोत्थरन्ध्रनिचये. हृदि तस्याः ।
नाथ जीवकलनाय विना त्वामद्य कोकिलरुतानि विशन्ति ॥ ४३॥
तस्या गेहमुपेत्य तत्र मृदुला शय्यां विधायोज्ज्वलां
साकूतं परिधाय भूषणगणं चित्राणि वस्त्राणि ताम् ।
कान्ते कामकलाविचक्षणमते कामातुरं पाहि मा-
मालिङ्गयेति मनोरथैर्हि सकलाः पान्थस्य यान्ति क्षपाः ॥४४॥
श्रावं श्रावं गर्जितं वारिदानां स्मारं सारं प्रेयसी कोऽपि पान्थः ।
ग्रामे चके रोदनं वै तथासौ येनाशेपो ग्राम्यलोको रुरोद ॥ ४५ ॥
नलिननयने दृष्ट्वा पूर्व प्रियाम्वुदमागतं
रतिपतिशरप्रोत्थैतिर्महुस्तरलीकृते ।
कलितवसतिर्मानाभिख्यो मरालयुवा क्षणं
स तनुचपलः स्थास्यत्युच्चैस्त्वदीयहृदम्बुजे ॥ ४६ ॥
प्रिये हारं दूरं नय विमलमल्लीसुमकृतं
मुधा वारं वारं किमथ घनसारं कलयसि ।
वयस्ये हा शय्यामपनय नवाम्भोजरचितां
विना कान्तं कान्तं न लगति नितान्तं किमपि मे ॥४७॥ .
नो वेण्यस्ति सुगन्धितैलमसृणा नैवाञ्जनं नेत्रयो-
नों रागोऽधरपल्लवे च मधुरे ताम्बूलजन्मा महान् ।
हारो नैव पयोधरे न रशना मध्ये तथाप्युच्चकै-
स्तारुण्यं हरिणीशस्तु विपुला पुष्णाति शोभां तनौ ॥ ४८ ॥
भुक्तनूतपरिपक्वफलोऽयं सांप्रतं पिकयुवा किल रौति ।
पूर्णकुक्षिरधिकं सखि लोको यत्करोति रचना वचनानाम् ॥ ४९ ॥
अन्याङ्गनाभिरधिकं स करोति केलिं
त्वं तेन मा कुरु विषादमदभ्ररूपे ।
पेपीयते मधुकरः क्व न तं मरन्दं
नो जातु विस्मरति पङ्कजिनी तथापि ॥ ५० ॥
L १४० काव्यमाला। सी सिञ्चति मेदिनीं जलभरैः संप्राप्य कालं परं तामेवोष्णकरः करोति किरणैरुप्रैश्च तप्तां भृशम् । एवं त्वां रमणो विहाय रुचिरे सौख्यं ददातीव तां दुःखं मा कुरु तेन पश्य समयायत्तं समस्तं यतः ॥ ११ ॥ यस्ततान हि पुरा श्रुतो मुदं रोम्णि रोम्णि पुरहा(?) मनोरमः । सांप्रतं प्रियतमं विना प्रिये हन्ति मां स किल केकिनः स्वनः ॥५२॥ मा तिष्ठ कान्ते विजने कदाचिन्नावाच्यमस्तीह खलस्य किंचित् । यः शङ्कते नैव मनाविमूढः कर्णे वदन्वै पुरुषप्रसङ्गम् ॥ ५३ ॥ यद्भक्तो न पयोनिधौ जलचरैर्दग्धो न चौर्वाग्निना पीतः कुम्भभुवा गतो न जठरे नाशं सहाम्भोधिना । गच्छन्व्योम्नि निराश्रयेन पतितो जानेऽहमेवं प्रिये धात्रा हन्त वियोगिदुःखकृतये चन्द्रस्ततो रक्षितः ॥ ५४ ॥ केनायं तव कान्त भालफलके लाक्षारसो लापितः केनेयं विगुणा गुणाढ्यरभसान्माला कृता वक्षसि । इत्युक्तः प्रियया सहासवदनो नत्वा पदाम्भोजयो- रालिङ्गयाशु दृढं कपोलवलये(?) बाला चुचुम्बे चिरम् ॥१५॥ अयि सुन्दरि संप्रति पश्य पुरश्वरमाचलमस्तकमेति रविः । समुपैति तमःपटलीजटिला रजनी कुरु कामकलाः सकलाः ॥ १६ ॥ गतिर्मन्दा दन्ती चपलनयने चारुतुरगौ कटाक्षौघः पत्तिर्वचनरचना चारणततिः । इदं सैन्यं सर्वं तव वपुषि सारङ्गनयने कथं स्थाता पत्यौ वद सपदि मानप्रतिभटः ॥ १७ ॥ कटौ न कलमेखला न कुचमण्डले मालिका शोरपि न चाञ्जनं न पुनरस्ति रागोऽधरे । प्रियेण सहचारिणा मदनतस्करस्योच्चकै- स्ततस्त्वमसि लुण्ठिता निधुवने वने शोभते ॥ १८ ॥ १. 'पुरु हा' इति भवेत्.
शृङ्गारशतकम् । १४१ वकं शारदशुभ्रदीधितिसमं शैवालतुल्याः कचा नेत्रे पङ्कजसंनिभे च मृदुलौ बाहू मृणालोपमौ । इत्थं शीतलवस्तुभिर्विरचिता धात्राजनेत्रा तथा- प्येषा तापपरम्परां वितनुते चित्रं वियोगे स्मृता ॥ १९ ॥ कपोलेऽम्भोजाक्ष्याः प्रियदशनचिह्न प्रियदृशोः सरोजाक्षी वक्रच्युतभुजगवल्लीरसलवम् । सपत्नी दृष्ट्वारादुरुतरविनिश्वासतरलो- न्नतोरोजद्वन्द्वं रहसि शनकै रोदिति मुहुः ॥ १० ॥ कुरङ्गशावाक्षि न पक्षपातस्त्वया विधेयः किल कोकिलेऽस्मिन् । प्रियस्य योगे तव सौख्यदोऽयं पुनर्वियोगे भविता सुखाय ॥११॥ तन्वी नदीयं द्युतिवारिपूर्णा कराम्वुजा मूर्धनशैवलाढ्या । दृङ्नावमारुह्य मनांसि यूनां प्रयान्ति यस्यां हि कुचान्तरीयम् ॥६२।। मुखं चन्द्रः कैश्यं शनिरवनिपुत्रोऽरुणतरो- ऽधरो भावान्भूयः कनकघटितो भूषणगणः । बुधो वाणी हास्यं भृगुमुनिसुतोऽस्या गुरुरयं नितम्बस्तद्वाला प्रविलसति सर्वग्रहमयी ॥ ६३ ॥ विख्याता रघुवंशवद्गुणगणैः शृङ्गारसारा परं शृङ्गारे रसमञ्जरीवदमला माघार्थवत्सत्तनौ । क्लिष्टा नैषधवच्च मानकरणे कादम्बरीवद्रते नानाश्लेषविचक्षणा विजयते सारङ्गरम्येक्षणा ॥ ६४ ॥ माकन्द माकन्दममुं खनित्वा दूरीकुरु त्वं सदनाद्वयस्ये । कान्तं विना मां तु नितान्तमस्य कामो निहन्ति स्फुटमञ्जरीभिः॥६५॥ मासेषु धन्यः सखि पौषमासस्तस्मिन्नमी धन्यतमाः पयोदाः । अकालवृष्ट्या परदेशगामी प्राणेश्वरोऽयं मम रक्षितो यैः ॥ ६६ ॥ सानन्दं कृतकामकौतुककलाश्रेणीपरिश्रान्तया तन्वङ्गया सह सुन्दराम्बरयुते सुप्तस्य मञ्चे निशि ।
१४२
काव्यमाला।
यूनः सौधगवाक्षमार्गपतिताः स्वान्ते नितान्तं नवाः
प्रावृट्कालपयोदपुष्करकणाः कुर्वन्ति तत्समदम् ॥ १७ ॥
निर्व्याजारुणयोर्मया चरणयोर्दत्तो नु लाक्षारसो
दत्तं किं नु न वा दृशोर्मुगदृशः शोभोज्ज्वलं कज्जलम् ।
इत्थं नाथ भवप्रियाङ्गसुषमा संभ्रान्तचित्ता मुहु-
मौ तस्याः परिचारिका प्रतिदिनं शृङ्गारमापृच्छति ॥ ६८ ॥
हे भ्रातर्बलिपुष्ट भूतमखिलं यद्भावि तन्निर्णयं
कर्तुं शक्ततरोऽसि यद्वद कदा कान्तो ममायास्यति ।
इत्युक्त्वा मृगलोचना कृतवती यावत्तु मौनं मना-
क्तावद्वीक्ष्य समागतं प्रियतमं लज्जापरीता बभौ ॥ १९ ॥
गर्जन्त्यम्बुधरा रटन्ति विकट वन्याखिमे बर्हिणो
वायुर्वाति च शीतलः कुसुमितान्वृक्षान्मुहुः कम्पयन् ।
कामः क्रूरतरः करोति कदनं कुन्तान्कठोरैः शरैः
प्राणाः प्राणपति विना सखि कथं स्थास्यन्ति दीना मम ॥७॥
यतः खिन्नो नित्यं मदनशिखिना ग्रामनगरी--
महावीथीमध्ये भ्रमसि विकलस्त्वं खलु युवन् ।
ततो जाने नानेकपगमनशीला हि नियतं
चकोराक्षी सा ते नयनपदवीमागतवती ।। ७१ ॥
इमे लोकाः सर्वे तरुणजनचेष्टासु कुशलाः
समीक्षन्ते सख्यः सुभग विहसन्त्यंत्र निमृतम् ।
अहं खिन्नैकान्तं मनसिजशरैश्चास्मि किमतः
कराकरेवं व्यथयसि वृथा मामसमये ॥ ७२ ॥
सुभग विगता हा ते प्रीतिः क्व सा मयि या स्थिता
प्रथममवलापुञ्जादुच्चैः प्रतिक्षणमुत्तमा ।
यदिह सविधासीनां दीनां मनोजशरैः खरैः
कलयसि न मां नाथानाथां शातिकृशामपि ॥ ७३ ॥
शृङ्गारशतकम् । १४३ अयमपरलतायाः सादरं हन्त पीत्वा मधु मम मकरन्दं पातुमायाति भृङ्गः । इति मनसि विषादं मल्लिके मा कुरु त्वं बत वद मधुपानां मानसे को विवेकः ।। ७४ ॥ सद्वस्त्रसौष्टवभवद्विगुणाङ्गलक्ष्म्यो माणिक्यमर्मकृतभूषणभासमानाः । वातेरितान्बुजविभाचयचारुनेत्राः कस्य स्त्रियो न पुरुषस्य मनो हरन्ति ॥ ७५ ॥ कन्दर्पदर्पकलिताङ्गमनोहराणां प्रेम्णा स्वयं सुरतमन्दिरमागतानाम् । अङ्गानि कोमलतराणि मनोरमाणां धन्या नराः सरभसं हि परिष्वजन्ते ॥ ७६ ॥ विलसति बलबलीपुप्पप्रभूतरजोभरैः सततमवले नन्ता केकी करोति च ताण्डवम् । जलदपटले विद्युदल्ली विभाति विलासिनि त्वमपि च तथा साकं भर्ती विधेहि निजेप्सितम् ॥ ७७ ॥ दूरं गच्छ मयूर चातक युवन्वाचालमुच्चैः कल- ध्वानं कोकिल किं करोषि जलदा रावं निजं स्तम्भय । सख्यः किं कुरुथानुलेपमधुना चन्द्रोल्लसच्चन्दनै- रित्थं सा विरहातुरा तव कृते वाला वदत्याकुला ॥ ७८ ॥ पश्यान्ते तिमिरौघवारणघटाप्रध्वंसपञ्चाननो भानोभूवलयेऽखिले प्रसरति प्रौढो मयूखवजः । ताराभिः सहतारकापतिरसौ मन्दप्रभो दृश्यते नो तस्मादुचितं पुनश्च शयनं जातं प्रभातं प्रिये ॥ ७९ ॥ वर्ष वर्षमचर्षणं पुनरपि प्राप्नोति धाराधरो गाम गाममगामितामपि पुनः कालेऽनिलो गच्छति । ॥
१४४ काव्यमाला। अस्तं सायमुपैति हि प्रतिदिनं प्राप्तोदयोऽप्यंशुमाँ- श्चित्रं भामिनि जातु याति तव नो रोषो हि दोषाकरः ॥८॥ उक्तं दुर्वचनं मया न सुभगे हास्येऽपि दुःखप्रद त्यक्त्वा त्वामयि भाषितैरपि मया नान्याङ्गना लालिता। त्वामेकामनवद्यभूषणभरैः संभावयामि त्वया हे निष्कारणकोपने वद कृतः कोपः किमर्थं मयि ॥ ८१ ॥ पीयूषादप्यधिकमधुरं तद्वचस्ते च नेत्रे चञ्चन्नीलोत्पलदलरुची सोज्ज्वला वक्रकान्तिः । ते ते भावा निधुवनविधौ हन्त बिब्बोकमुख्याः सर्व दुःखं जनयति सखे नः स्मृतं नीरजाक्ष्याः ॥ ८२ ॥ प्राणाधीश पुरः कपीशजनकप्रोद्भूतनूतद्रुम- द्रापिष्ठामितमञ्जरीकवलने सन्त्येकतानाः खगाः । यस्मिन्मञ्जुवनप्रियप्रियतमा गायन्ति सत्पञ्चम तस्मिन्नुत्सहते विहाय तरुणीं गन्तुं मधौ कः पुमान् ॥ ८३ ।। नित्यं पङ्कजिनी यथा मधुलिहः स्वान्ते वसत्युत्तमा नूना कजलनीलनीरघटा चित्ते यथा बर्हिणः । कान्तिश्चन्द्रमसश्चकोरशकुनेनित्यं यथा मानसे सा पङ्केरुहलोचना सखि तथा नित्यं मदीये हृदि ॥ ८४ ॥ कस्मादद्य न भूषितं वपुरिदं सद्भूषणैः काञ्चनैः कस्मादच्छतराणि नाद्य वसनान्यङ्गीकृतानि त्वया । उक्ता सेति मया मनोज्ञ विजने बाला विशालाक्ष मा क्षिप्रं रोदनमेकमेव विदधे प्रत्युत्तरं नो ददौ ॥ ८५ ॥ इतः केकी नादैस्तुदति शतकोटिप्रतिभटै- रितः कामः कामं कठिनतरबाणैः प्रहरति । इतो गर्जत्युच्चैर्जलधरगणो भीमनिनदै- विना नाथं जाने न सखि भविता किं ननु मम ॥ ८६ ॥ ..
शृङ्गारशतकम् । १४५ पूर्व नेत्रयुगं सुखं बहुतरं प्राप्नोति संदर्शना- त्पश्चादुत्सुकतामुपैति हि मनः सानन्दसंभाषणात् । देहो मज्जति कामकौतुकरसाम्भोधौ समालिशाना- कि किं शर्म न संतनोति तरुणप्राणप्रियासंगमः ।। ८७ ॥ मदन किमु न त्वं वै दग्धो हरेण दृगुच्छल- ज्ज्वलनकठिनज्वालाजालप्ररूढकणोत्करैः । किमुत तव नो जाता कान्तावियोगभवा व्यथा विषमविशिखैर्यन्मामेवं दुनोपि वियोगिनम् ॥ ८८ ॥ विदितमंवनौ जन्मस्थानं परं पयसां निधि- स्तव वपुरिदं पीयूपाठ्यं मृणालसमाः कराः । विकचकुमुदान्मृती खिन्नां वियोगजया रुजा हिमकर महच्चित्रं यन्मां दुनोष्यवलां वलात् ॥ ८९ ॥ दूरे द्विष्ठति कामुकः स्मरशरव्राताः परं दुःखदाः प्रोत्कण्ठा तरलं भृशं मम मनः प्राणाः कठोराः पवेः । चन्द्रादच्छतरं कुलं च सहसा लज्जावियोगज्वरः सोढव्याः सखि सांप्रतं कथममी हा दुःसहा वह्नयः ।। ९० ॥ रम्भापत्रविनिर्मितां सुशिशिरां शय्यां चितां वेत्ति सा जानाति स्फुटकंजमुल्मुकसमं न्यस्तं कुचाम्यन्तरे । प्रत्यङ्गं प्रतिलेपितं मलयजं दावानलं मन्यते तस्यास्तापनिवारणाय सुभग त्वामौपधं वेधि तत् ॥ ९१ ॥ आगच्छामि झटित्यहं प्रियतमे कार्य विधायाल्पक गत्वेतस्त्वमिहैव तिष्ठ विजने तावदृहे सुन्दरे । इत्युक्त्वा सखि वञ्चकः स तु गतस्तत्र स्थिता या निशा सर्वा सा हि गता ममातिकुटिलो नो वै तथाप्यागतः ॥९२ ॥ पत्राली न कपोलयोन हृदये हारो शोर्नाञ्जन नो वके वत वीटिका न च कटौ संदृश्यते मेखल्ला । १९ 20 १४६ काव्यमाला। नूनं यत्प्रभवात्स एव सकलैर्भूषागणैः संनिभ- स्तन्वङ्गयाः सुरतान्तकान्तिमतुलां कोपः करोति स्फुटम् ॥९३॥ चञ्चलं किमपि नेक्षणद्वयं नास्ति यद्यपि च वाचि वक्रता । किंचिदुन्नतमुरस्तथापि मे मानसं हरति हन्त सुभ्रवः ॥ ९४ ॥ गाथाभिः सुकृतध्वजाभिरमितैः पद्यैश्च धोत्कटैः प्रध्वस्तामितपापया श्रुतिपुटैनिप्पीतया गीतया । वारं वारमिदं सुशिक्षितमपि वान्तं सखे मामकं सौन्दर्यद्रुममञ्जरीमभिनवामेकान्ततां मुञ्चति ॥ ९५ ॥ अपाकुरु कपोलतः सखि भुजङ्गवल्लीरसं परित्यज कुचस्थलात्रुटितबन्धनं कञ्चकम् । पिधेहि दशनच्छदे दशनजक्षतं लाक्षया वदेत्थमबलागणे गुरुजने कथं यास्यसि ॥ ९६ ॥ चरणपतनैक्यैिीननिरन्तरसेवया प्रियतममनो गृह्णन्त्यन्याः शठा हि पुरन्ध्रयः । मरशरखरैः शोभासारैगन्तनिरीक्षणैः सहचरि मया कान्तः कामं कृतः परिचारकः ॥ ९७ ॥ माहेन्द्रीप्रभवाम्बुवाहपटलप्रत्यग्रबिन्दुवजैः शीता धूलिकदम्बपुष्पजरजःपुजैः सुगन्धीकृताः । मन्दा सुन्दरसुन्दरीजनकचव्यूहान्तरालोद्गते- ता वान्ति वियोगिनामसुखदाः संयोगिनां सौख्यदाः॥९८ ॥ कस्सात्तन्वि तनूनि संप्रति समान्यङ्गानि जातानि ते कलात्कोकनदप्रभं मुखमिदं जातं हि चन्द्रोपमम् । एवं पृच्छति वल्लभेऽम्बुजमुखि प्रोव्य(?)स्वभावादिति व्यावृत्याथ तया सगद्गदरवं मुक्तश्च वाष्पोत्करः ॥ ९९ ॥ प्रावृटकालनवीननीलजलदध्वानं निशीथे मुहुः श्रुत्वात्यन्तभयप्रदं स्मरशरक्षीणा हि पान्थाङ्गना ।
रामकृष्णविलोमकाव्यम् । १४७ C शय्यायामवनौ निपत्य च पुनः शय्यातले भूतले वारं वारमुदयकान्तविरहज्वालाकुलातङ्कति ।। १०० ॥ शृङ्गारशतकमेतज्जनार्दनाख्यद्विजन्मना रचितम् । तिष्ठतु तावद्यावत्तिष्ठति धरणीतलं सकलम् ॥ १०१ ॥ इति श्रीगोस्वामिजगन्निवासात्मजगोस्वामिजनार्दनभट्टकृतं शृङ्गारशतकं संपूर्णम् ॥ दैवज्ञश्रीसूर्यकविविरचितं रामकृष्णविलोमकाव्यम् । स्वकृतटीकया समेतम् । श्रीमन्मङ्गलमूर्तिमार्तिशमनं नत्वा विदित्वा ततः शब्दब्रह्ममनोरमं सुगणकज्ञानाधिराजात्मजः । यद्न्याध्ययनैविनेयनिवहोऽप्याचार्यचर्यामगा- सोऽहं सूर्यकविविलोमरचनं काव्यं करोम्यद्भुतम् ।। छन्दःपूरणमुत्क्रमक्रमविधौ साकाहता तत्पदे- वारम्भाच्चरिते क्रमोऽपि सुतरामेतत्त्रयं दुर्गमम् । एवं सत्यपि मन्मतिः कियदपि प्रागल्भ्यमालम्पते तत्सर्वं गुणिनः क्षमन्तु यदहो यूयं श्रमज्ञाः स्वयम् ॥ कदाचिदपि संतरेत्कृतिपरो नरो नीरधि कथंचिदपि धावति प्रवरधाम धाराध्वनिः । ऋतेऽप्यतिविशारदा प्रचुरशारदानुग्रहं विलोमकविताकृतौ सुकविधीरधारा भवेत् ॥ भागीरथी रामकथातिरम्या कालिन्दिका कृष्णकथा मनोज्ञा । सरस्वती सूर्यकवेस्टतीया नातुं प्रयागेऽत्र मतिः कवीनाम् ॥ समाक्षरानिविषमाक्षरार्धा द्वेधा भवेद्वयत्तकवित्वसीमा । समानभिन्नार्थतया द्विधाद्या भिनाक्षरार्या च भवेद्वितीया ॥ अथ कवित्वपरिभाषा पिङ्गलादौ कथिता- 'अध्याहारो यत्तदोर्वा क्रियायाः पादाद्यन्ते वा विसों विसर्गः । कुत्राप्यूह्या लक्षणाव्यजना वा विद्यादेतां चित्रकाव्यानुपूर्वाम् ॥' नेकाक्षराणि छन्दोक्ति प्रसिद्धाभिधानकम् । नैव व्याकरणक्लिष्टं द्राक्षापाकोऽत्र केवलम् ॥
९४८ काव्यमाला। अथ ययोः कथाप्रसङ्गस्तावेवेष्टदेवतात्वेन प्रणमति- तं भूसुतामुक्तिमुदारहासं वन्दे यतो भव्यभवं दयाश्रीः । श्रीयादवं भव्यभतोयदेवं संहारदामुक्तिमुतासुभूतम् ॥ १ ॥ तं भूसुतामुक्तिं वन्दे । भूसुताया रावणरक्षितायाः सीताया मुक्तिर्मोक्षणं यस्मात्तं राघवं वन्दे । नमस्कारोमीत्यर्थः । किंभूतम् । उदारहासम् । उदारो गम्भीरो हासो यस्या- सौ तथा। उद्वेगनिमित्तेषु सर्वानर्थेषु प्राप्तेष्वप्यनुद्विग्नमित्यर्थः । पुनः किंभूतम् । भव्यभवम् । भव्यः पवित्रो भवोऽवतारो यस्यासौ तथा। अथ कथम् । यतो दयाश्रीश्च बभूवेत्यध्याहारः । दया भूतदया श्रीश्च शोभा च तयोनिदानमित्यर्थः । एतद्रामपक्षे ॥ कृष्णपक्षे तु-श्रीयादवं वन्दे । किंभूतम् । भव्यभतोयदेवम् । भव्या उत्तमा भा दीप्तिर्यस्यासौ सूर्यः । तथा तो- यशब्देन चन्द्रः । जलात्मकत्वात् । तयोद्योतनाद्देवः । सूर्याचन्द्रमसोरपि प्रकाशक इत्यर्थः । तदुक्तम्-'यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चामो तत्तेजो विद्धि मामकम् ॥' अथ किंभूतं यादवम् । संहारदामुक्तिम् । संहारोऽनर्थस्तं ददातीति तथाविधा पूतना तस्या मुक्तिर्मोक्षो यस्मात्स तथा तम् । पुनः किंभूतम् । उत प्रत्युत असुभूतम् । सर्वत्र प्राणरूपेणावस्थितमित्यर्थः । अथवा प्राणनं जीवनं तद्रूपं चैतन्यस्वरूपम् । तदुक्तम्-'अहमात्मा गुडाकेश सर्वभूताशयस्थितः' इत्यादि । पूतनायै मुक्ति दातुमन्तर्यामित्वेन स्वयमेव प्रेरकोऽभूदित्युक्तम् ॥ ननु देहवतोऽपि रामादेः कथमन्तर्यामित्वमित्याशङ्कय तुल्याक्षरयेन्द्रवज्रयाह- चिरं विरंचिर्न चिरं विरंचिः साकारता सत्यसतारका सा । साकारता सत्यसतारका सा चिरं विरंचिर्न चिरं विरंचिः ॥ २ ॥ विरंचिब्रह्मा द्विपरार्धावसानं यावत्सर्वभूतापेक्षया चिरं तिष्ठतीति प्रथमम् । अपरं तु आब्रह्मभुवनाल्लोकाः पुनरावर्तिन इति श्रवणान चिरं विरंचिरिति ज्ञायते । तस्यायुषः परिमितत्वात् । अथ साकारता सत्यसतारकास्ति । सेति तच्छब्देन रामस्य या साकारता सत्यसतारका । तारकेण सहवर्तमाना सतारका । सत्या सती सतारका सत्यसतारका । स- त्यमवाधितं विज्ञानमयं तारकं यद्ब्रह्म तद्रूपेत्यर्थः । रामपक्षे एतत् ॥ कृष्णपक्षे तु- साकारतासत्यसतारकास्ति । या कृष्णरूपिणी साकारता सा सती सर्वदैव वर्तमाना। नि. त्येत्यर्थः । किंभूता । असतारका । तारकाभिः सहवर्तमानं सतारकं व्योम, तन्न विद्यते यस्याः सा असतारका । व्योमापि यस्यां लीयते इतः परं नित्यत्वं किं वर्णनीयमित्यर्थः । चिरं विरंचिरित्यादि पूर्ववत् ॥ अथ रामकृष्णाभ्यां यां मायामवष्टस्य साकारता स्वीकृता तस्याः स्वरूपं समाक्षरया रथोद्धतयाह- तामसीत्यसति सत्यसीमता माययाक्षमसमक्षयायमा । माययाक्षमसमक्षयायमा तामसीत्यसति सत्यसीमता ॥ ३ ॥ -
रामकृष्णविलोमकाव्यम् ।
१४९
असति सत्यसीमता तामसीति । असति शुक्तिकारजतवदसत्ये प्रपञ्चे सत्यसी.
मता सत्यत्वमर्यादा तामसी मायेति । अथास्या असत्यत्वं कार्यवशादनुभ्यत इत्याह-माय-
येति। यया मायया कृत्वा मा लक्ष्मी: अयमान विद्यते यमो नियमो यस्याःसातथा। योग्ये-
योग्ये वा कुत्र स्थातव्यं कियत्कालं स्थातव्यमिति क्षणभङ्गुराया लक्ष्म्या यमो नियमो
नास्ति । उत्तरक्षणे वाददर्शनाअमरूपतेत्यर्थः । कथंभूतया यया। अक्षमसमक्षया ।
न क्षमं अक्षम समक्षं यस्याः सा तथा । तस्या मायायाः स्वरूपे विचार्यमाणे समक्षत्वं
न प्राप्नोति प्रेक्षणेनैव नश्यतीत्युक्तत्वात् । यतः परमात्माज्ञानरूपो मायात्वज्ञानरूपा सा
कथं ब्रह्मसमक्षतां याति । यतो ज्ञानमज्ञानस्यैव धातकमित्यर्थः । एवमुभयत्रापि सममिति
समाक्षरपदद्वयम् ॥
एवमविद्यायाः स्वरूपं निरूप्येदानी विद्यारूपं विषमाक्षरया शालिन्याह-
का तापघ्नी तारकाद्या विपापा त्रेधा विद्या नोष्णकृत्यं निवासे ।
सेवा नित्यं कृष्णनोद्या विधात्रे पापाविद्याकारतानी पताका ॥ ४ ॥
अन त्रिविधसंप्तारतापनी कास्तीति विचार्यमाणे त्रेधाविद्यास्तीति। त्रि:प्रकारा त्रेधा
ऋग्यजुःसामात्मिका । ननु तर्हि न कर्मकाण्डं विद्याशब्दव्यपदेश्यम् । विद्यां चाविद्यां च
'यस्तद्वेदोभयं सह'इत्याद्युक्तत्वादित्याशङ्कयाह । किंभूता त्रेधा विद्या। तारकाद्या । तारकं परं
ब्रह्म श्रीरामाख्यमाचं श्रेष्ठत्वानिरूपणीयत्वेन प्राप्तं यस्याः सा तथा । उपनिषद्विद्यात्मि-
केत्यर्थः । पुनः किंभूता । विपापा विगतं पापमज्ञानं यया सा तथा । अथ तस्याः पापो-
पशामकत्वे दृष्टान्तमाह-निवासे नोष्णकृत्यमिति । नितरां वासो यस्मिन्निति निवासः
शीतलच्छायाद्युपस्कृतं गृहं तस्मिन्नुष्णकृत्यं संतापभवनं नास्ति । तद्वद्वेदार्थपरिशीलनेन
त्रिविधतापोन्मूलनमित्यर्थः । रामपक्षे चैतज्ज्ञेयम् ॥ कृष्णपक्षे तु-कृष्णभक्तिसहकृतैव विद्या
अज्ञाननाशक/त्याह-सेवा नित्यमिति । विधात्रेऽनुष्ठात्रेऽर्जुनाय ब्रह्मणे वा कृष्णनोद्या
नित्यं सेवा पापाविद्याकारतानी भवति । कृष्णेन नोद्या प्रेर्यमाणा नित्यं सेवा अन-
न्यभक्तिः सा पापं दुःखं तन्मूलमविद्याकारोऽज्ञानं तदुभयमपि नाशयति । तदुक्तं भगव-
द्गीतायाम्-'भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्वेन प्रवेष्टुं च
परंतप ॥' इति । अनन्यभक्तिरेव कृष्णसाक्षात्कारे निमित्तमिति सदृष्टान्तमाह-कि-
भूता सेवा । पताका । पताकेव पताका । यथा गरुडलाञ्छनाङ्किता कृष्णध्वजपताका
दृष्टमात्रैव आगतः कृष्ण इति साक्षात्कारं व्यनक्ति तद्वदनन्यभक्तिरपीत्यर्थः ॥
अथ प्रथमं मायापरमात्मनः समक्षं स्थातुं न शक्नोतीति स्वरूपानुसंधानेन मायाया-
स्तिरस्कार इत्युक्तम् । तत्रात्मज्ञाने महानायासः । श्रीरामसेवया तु विद्याप्राप्तिस्तया
तत्कालमेवाज्ञाननिरास इति विषमाक्षरयेन्द्रवज्रयाह-
श्रीरामतो मध्यमतोदि येन धीरोऽनिशं वश्यवतीवराद्वा ।
द्वारावतीवश्यवशं निरोधी नयेदितो मध्यमतोऽमरा श्रीः ॥ ५ ॥
१५० काव्यमाला। वा इत्यथवा स पुमान्धीरः येनानिशं श्रीरामतः मध्यमतोदि श्रीरामतो निमित्तभू- तान्मध्यं मध्येऽवभासमानं प्रपञ्चाख्यमतोदि नाशितम् । स एव धीर इत्यर्थः । किंभूताच्छ्रीरामतः । वश्यवतीवरात् । वशं नेतुं समर्थ वश्यं रूपं तद्वती जानकी तस्या वरात् । भर्तुरित्यर्थः ॥ कृष्णपक्षे तु-निरोधी पुमान्मध्यं नु चिदचिद्रन्थिस्वरूपं मनः इतः प्रपञ्चाद्वारावतीवश्यवशं नयेत् । वायुनिरोधीन्द्रियनिरोधी च पुमान्द्वारावत्या वश्यस्तत्रासक्तः कृष्णस्तत्र वशं नयेत् । योगेन वैराग्येण वा चित्तं निरुध्य श्रीकृष्ण एव एवं वशं नयेदित्यर्थः । तत्र किं भवतीत्याह-अतोऽस्मादुपायाच्छीर्मोक्षलक्ष्मी- रमरास्थिरा भवति । अन्यथा निरोधवानपि विघ्नैरभिभूयत इत्यर्थः । उक्तं च-'तथा न ते माधव तावकाः क्वचिद्भश्यन्ति मार्गात्' इत्यादि ॥ अथ कथाप्रारम्भः-तत्र विश्वामित्रः स्वयज्ञसंरक्षणार्थ रामं याचितुं दशरथं प्रत्यगा. दिति विषमाक्षरया रथोद्ध तयाह- कौशिके त्रितपसि क्षरबती योऽददाद्वितनयस्वमातुरम् । रन्तुमास्वयन तद्विदादयोऽतीव्ररक्षसि पतत्रिकेशिकौ ॥ ६ ॥ यः क्षरव्रती द्वितनयस्वं कौशिकेऽददात् । क्षरेषु सर्वेषु भूतेषु व्रतमभीप्सितपूरणं येन तथाविधो दशरथो द्वयोस्तनययोः समाहारो द्वितनयं तदेव स्वं धनं कौशिके विश्वामित्रे दत्तवान् । ननु प्राणादपि प्रियतमं पुत्राख्यं धनं विश्वामित्रार्थ केन निर्बन्धेन दत्तवानि- त्याशङ्कयाह - किंभूते विश्वामित्रे । त्रितपसि त्रिःप्रकारकं त्रिगुणात्मकं प्रसादक्षोभसमर्थ तपो यस्य स तथा । तस्मिन्किभूतं द्वितनयस्वम् । आतुरम् । पित्रोवियोगादित्यर्थः ॥ कृष्णपक्षे तु-श्रीशुकः परीक्षितं प्रति वक्ष्यमाणं कृष्णकथोद्देशमनुवदति-भो आस्वयन, आ समन्तात्सुष्ठु अयनं गतिः परमार्थगतिर्यस्य तथाविधः परीक्षित् । तद्वित्कृष्णोऽतीव्ररक्षसि न विद्यते तीवं रक्षः यस्मात्तदतीव्ररक्षस्तस्मिन्पूतनाख्ये । तथा पतत्रिकेशिको पतत्री पक्षी बकासुरः, केशी हयरूपी दैत्यः, तयोः कुः पार्थिवशरीरं तस्मिन्नादयोऽस्ति । आसम- न्ताद्दया कृपा यस्य स तथा । पूतनाबककोशिशरीराणि कृपयैवातारयदित्यर्थः । 'किं कर्तुम् । रन्तुं क्रीडां कर्तुम् । क्रीडाछलेनेत्यर्थः ॥ अथ विश्वामित्रेण सह रामं प्रस्थितमाकर्ण्य राक्षसास्ताटकां प्रेषयामासुरित्याह- लम्बाधरोरु त्रयलम्बनासे त्वं याहि याहि क्षरमागताज्ञा । ज्ञातागमा रक्ष हि या हि या त्वं सेना बलं यत्र रुरोध बालम् ॥ ७ ॥ भो लम्बाधरोरु, त्वं क्षरं याहि ।अधरश्च उरूच अधरोरु।लम्बमधरोरु यस्याः सा लम्बाध- रोरू: तस्याः संबोधनम् । तथा किंभूते। त्रयलम्बनासे । त्रये लोकत्रये लम्बी नासा यस्याः सा तथाविधे।त्वं क्षरं नाशयोग्यं मानुषदेहं रामं याहि याहि। आदरे वीप्सितद्विरुक्तिः। किं- भूता त्वम् । आगताज्ञा ।आगता प्राप्ता आज्ञा रावणाज्ञा यया तथा॥ कृष्णपक्षे-श्रीकृष्णं गोकुलस्थितमाकर्ण्य कंसः पूतनामाज्ञापयति-हे पूतने, त्वं तत्र याहि । बलं पुरुषार्थ रक्ष। -
रामकृष्णविलोमकाव्यम् ।
१५१
तत्र त्याह-यत्र सेना वालं रुरोध । इनेन स्वामिना नन्देन सहवर्तमाना यशोदा बालं
कृष्णं रुरोध रुद्धा आच्छाद्य स्थितवती तनेत्यर्थः । कुत एतावन्तं विश्वासं कृतवती-
त्याह-हीति निश्चयेन । ज्ञातागमा ज्ञात आगमो यया सा। कोऽपि बालघातार्थे आ-
यास्यतीति संभावयन्तीत्यर्थः ॥
अथ ताडकया सह शूर्पणखापि समागतेत्याह-
लङ्कायना नित्यगमा धवाशा साकं तयानुन्नयमानुकारा ।
राकानुमा यन्ननु यातकंसा शावाधमागत्य निनाय कालम् ॥ ८ ॥
लकायना तया साकं नित्यगमाभूत् । लङ्कायामयनं गतिर्यस्याः सा शूर्पणखा तया ता-
डकया साकं नित्यगमाभूत् । नित्यं गच्छतीति नित्यगमा । पर्यटनासक्ताभूदित्यर्थः ।
अनुनयमानुकारा । न नुनः प्रेरितोऽनुनः स्वतः प्रवृत्त एवंविधो यो यमः कृतान्तस्तद्व-
दनुकारो यस्याः सा । निष्कृपेत्यर्थः। किंभूता। धवाशा धवविषयिणी आशा यस्याः सा
तथा । रामं भर्तारमपेक्ष्यमाणा ॥ कृष्णपक्षे. -शावाधमा आगत्य कालं निनाय । शवप्रियाः
शावाः कव्यादास्तेष्वधमा बालघातिनी पूतना आगत्य गोकुलं प्राप्य कालं खग्रासकं कृष्णं
निनाय प्राप्तवती । ननु राक्षसी गोकुलान्तर्गता तत्रत्यैः किं पूर्व न निषिद्धत्याह-यद्यतो
राकानुमा । राका पूर्णिमा तया अनुमीयते सा । प्रथमं राकावदतिसुन्दरं रूपं धृतवती त-
दाक्षिण्येन केनापि गृहान्तर्गमनेनाक्षिप्ता । नन्विति निर्धारण । यातकंसा । यातोऽन्तरितः
कंसो यस्याः सा तथा । पुनः कंसेन न दृष्टा । कृष्णग्रस्ता सती विपन्ना इत्यर्थः ॥
अथ विश्वामित्रस्य यागव्यवस्थामनुष्टुबाह-
गाधिजाध्वरवैरा ये तेऽतीता रक्षसा मताः ।
तामसाक्षरतातीते ये रावैरध्वजाधिगाः ॥ ९ ॥
गाधिजो विश्वामित्रस्तस्याध्वरो यागस्तत्र वैरं येषां ते खरदूषणादयस्ते अतीता
रामेण ते हताः । देहादिप्रपञ्चमतिक्रम्य गता इत्यर्थः । किंभूताः । रक्षसा रावणेन
मताः स्वसंमानेन प्रसिद्धाः ॥ कृष्णपक्षे-पूतनावधमाकर्ण्य कंसेनान्ये बकणावर्तादयः
प्रेषिताः इत्याह--तामसाक्षरतातीते कृष्णे सति ये रावैः प्रेषिता दैत्या ते अध्वजा-
धिगा आसन् । तामसाहंकारेणासमन्तादुत्पन्नायाक्षरता प्रपञ्चात्मकता ततोऽप्यतीते
परब्रह्मरूपे कृष्णे सति दैत्या रावैः कंसनिदेशशब्दैरागतास्तेऽध्वजाधिगा गोकुल-
मार्गयाने जाता या आधिर्मानसी व्यथा तां गच्छन्तः प्राप्ताः । अहो गोकुलं गत्वा प्रप-
श्वातीते कृष्णेऽस्माभिः किं कर्तव्यम् । पूतनावन्मर्तव्यमिति पर्याकुलचित्ता आसनित्यर्थः॥
अथ मुनिभिः केवलं रामार्पणवुद्ध्या कृतस्य यागस्य प्रशंसामाह-
तावदेव दया देवे यागे यावदवासना ।
नासवादवया गेया वेदे यादवदेवता ॥ १० ॥
१५२ काव्यमाला। देवे रघुनाथे दया कृपा प्रीतिस्तावदेव संभवतीति। यावद्यागेऽवासना यागे क्रियमाणेऽवा- सना स्वर्गादिभोगप्राप्तये इच्छाराहित्यम् । तस्मात्फलराहित्येन यो यागः स रामप्रीतये भवती- त्यर्थः ॥ कृष्णपक्षे–कृष्णे परब्रह्मस्वरूपतामवधारयन्तो दैत्याः पुनः परामर्श चरित्याह- यादवदेवता कृष्णमूर्तिर्वेदे उपनिषद्भागे या गातुं निरूपयितुं योग्या न तु साक्षात्कारं कर्तुमथवा- न्येन निरूपयितुं न शक्यते इत्याह-नासवादिति । असुसंबन्धि आसवं प्राणात्मकं शरीरम् । अवेत्युपसर्गोऽवलक्षणत्वद्योतकः । तथा चावलक्षणान्मनुष्यदेहात्सकाशानहि निरूपयितुं शक्यते । एवं प्रथमं तस्य निरूपणासंभवे तस्य हननमस्माभिरसंभावितमेवेत्यर्थः । वस्तु- तस्तु आसवात् । आसवादिति मदजननवस्तुमात्रोपलक्षणम् । तस्मान अवया न ज्ञेया । तनिमित्तमासवादु येत्यर्थः । अवयेति अवयायते इत्यवया । 'आतोऽनुपसर्गे कः' इति कः । पश्चाताप । अवपूर्वको यातिरेतिश्च ज्ञानार्थः ॥ अथ स्वयंवरदर्शनार्थ कौशिकेन सह जनकगृहं प्रति गतो रामस्तत्र किं कृतवानित्याह- सभास्खये भग्नमनेन चापं कीनाशतानद्धरुषा शिलाशैः । शैलाशिषारुद्धनताशनाकी पञ्चानने मग्नभये स्वभासः ॥ ११ ॥ अये श्रोतः, अनेन रामेण सभासु शिलाशैः सह चापं भग्नम् । सभासु स्थितासु शि- लावदृढा जानकीविषयिण्याशा येषां ते शिलाशाः राजानस्तैः सह चापं भग्नम् । न के- वलं चापं भग्नम् । राजानो भन्ना भानमनोरथाः कृता इत्यर्थः । कीनाशतानद्धरुषा कीना- शस्य भावः कीनाशता यमरूपता तया आनद्धोऽभिनिविष्टो रावणस्तस्य रुषा कोपेन । प्राचीनवैरानुबन्धिनिमित्तेन पूर्व धनुरुद्धर्तुं प्रवृत्तो रावणो धनुषाधः पतितः, परंतु न हत इति रुषा कोपेनैवेत्यर्थः ॥ कृष्णपक्षे-गोवर्धनोद्धरण इन्द्रो लाघवं प्राप्त इत्याह-पञ्चा- नने नृसिंहे कृष्णे स्वभासः स्वप्रतापान्मग्नभये निःशकं यागं कारयितुं प्रवृत्ते सति शैला- शिषारुद्धनताशनाकी दृष्टः शैलस्य गोवर्धनस्याशिषा अभीष्टपूरणेन रुद्धा रोधं प्रापिता अतएव नता भन्ना हविग्रहणेच्छा यस्य तथाविधो नाकी स्वर्गाधिपोऽभूदित्यर्थः । 'यो गोवर्धनभूधरं करधृतं लीलाम्बुजन्मायितं कृत्वा सप्तदिनानि नाचलदपाद्गोपांश्च घोरापदः । यश्चक्रे निजशासने हरिविरिश्च्याखण्डलादीन्सुरानुद्दण्डानपि सोऽवताजगदिदं गोपालराजो- हरिः ॥ इति श्रीभागवते दशमस्कन्धे ॥ अथ स्वयंवरार्थमागतानां राज्ञां वर्णयन्नाह- न वेद यामक्षरभामसीतां का तारका विष्णुजितेऽविवादे । देवाविते जिष्णुविकारता का तां सीमभारक्षमयादवेन ॥ १२ ॥ यामक्षरभामसीतां लोको न वेद । अक्षरमविच्युतं भाम सौभाग्यं यस्याः सा अक्षरभा- म्नी सा चासौ सीता च तां न जानातीत्यर्थः । अविवादे विष्णुजिते का तारका विष्णुना रामचन्द्रेण जितं विष्णुजितं तस्मिन्विष्णुजिते अविवादे सर्वसंमते सति का तारका ता- रामकृष्णविलोमकाव्यम् । १५३ स्कात्वं का प्राप्नोतीत्यर्थः । तारकासंबन्धस्तु चन्द्रं विनान्येन सह न भवति।प्रकृते रामचन्द्रेण सह सीतैव तारकात्वं प्राप्तुमर्हति । नान्येनेत्यर्थः ॥ कृष्णपक्षे–गोकुलोपरि क्षुब्धस्येन्द्रस्य न किंचिञ्चलतीत्याह-सीम्रो भारः सीमभारः सीमा गिरिमर्यादा तस्या भारक्षमश्चासौ यादवश्व तेन देवशक्त्या अविते रक्षिते गोकुले जिष्णोरिन्द्रस्य शिलावर्षणादिविकारता का। न कापीत्यर्थः । अथ धनुषि भन्ने सति जानक्या रामो वृत इत्याह- तीव्रगोरन्वयत्रार्यो वैदेहीमनसो मतः । तमसो न महीदेवैर्योत्रायन्वरगोव्रती ॥ १३ ॥ तीव्रा गावः किरणा यस्यैवंविधस्य तीव्रगोः सूर्यस्यान्वयं वंशं त्रायन्ते तेऽन्वयत्राः सूर्यवंशाभिमानरक्षका दिलीपादयस्तेष्वार्यः श्रेष्ठः सूर्यवंशालंकरणं रामः वैदेहीमनसो मतः जानक्या मनःपूर्वकं वृतः । धनुःपणवन्धेनेत्यर्थः ॥ कृष्णपक्षे-ब्रह्मसत्रं प्रति गतः कृष्ण- स्तैर्न मानित इत्याह-अत्रायन्वरगोव्रती कृष्णः अन्न ब्रह्मसत्रे आयन्प्राप्तः वरा भाग्य- शालिन्यो गाव एव व्रतं परिपालितत्वेनोपस्थितं यस्यासौ गोव्रती कृष्णः तमसोऽज्ञाना- न्महीदेवैाह्मणैन मानित इत्यध्याहारः ॥ अथ जानक्याः पारमार्थिकं स्वरूपं वर्णयन्नाह- वेद या पद्मसदनं साधारावततार मा । मारता तव राधा सा नन्द साप यादवे ॥ १४ ॥ साधारा मा अवततार । आधारेण विष्णुना सह लक्ष्मीः अवतारं चके । सा का। या पद्मसदनं वेद पद्ममेव सदनं अधिवासस्थलं वेद ज्ञातवती । अनेन लक्ष्म्याः पूर्णावतार इति सूचितम् । अथ वा पद्म विष्णोश्चरणकमलं तदेव सदनं विश्रामस्थलं जानातीति ॥ कृष्ण- पक्षे-अथ कापि गोपिका नन्दं प्रति राधायाः पैशून्यं वदति-~भो सझप गृहाधीश नन्द, सा तव राधा । सेति तच्छब्देन विदितवृत्तान्तेति सूचितम् । तथा यादवे सैवं कृष्णे मारता मदनरूपता इत्येवं समाचारोऽस्ति ।अनेन कृष्णस्य वयःसंबन्धिनी वर्णिता भवति ।। अथेश्वरस्य धनुर्भङ्गमाकर्ण्य परशुरामोऽभ्यगादित्याह- शैवतो हननेऽरोधी यो देवेषु नृपोत्सवः । वत्सपो नृषु वेदे यो धीरोऽनेन हतोऽवशैः ॥ १५ ॥ नृपोत्सवः शैवतो हनने अरोधी । नृपस्य आगतस्य दशरथस्योत्सवो यस्मात्स नृपो. त्सवो रामः शिवस्य पक्षपातीति शैवः परशुरामस्तस्माच्छैवतः हनने कोपाविर्भावेऽप्य- रोधी न रोधं प्राप्तवान् । अकुण्ठितशक्तिरासीदित्यर्थः । विमानस्थितेषु देवेषु पश्यत्सु सत्सु ॥ कृष्णपक्षे-अथ कृष्णस्वरूपं धेनुकवधं चाहयः वेदेऽस्ति वेदे प्रतिपादितो- ऽस्ति स नृषु वत्सपोऽभूत् । अनेन वत्सपैन कृष्णेन धीरो धेनुकः अवशैः असाध्यैस्तज्जा. तीयैरन्यैः सह हतः । मारित इत्यर्थः ।। - १५४ काव्यमाला । . - अथ परशुरामो रामं प्रति सक्रोधं वदति- नगोपगोऽसि क्षर मे पिनाकेऽनायोऽजने धर्मधनेन दानम् । नन्दानने धर्मधने जयो ना केनापि मे रक्षसि गोपगो नः ॥ १६ ॥ भो क्षर नश्वर, मे पिनाके त्वं नगोपगः असि । यद्यपि त्वया जीर्ण धनुर्भग्नं तथापि म- दानते धनुषि नगस्य पर्वतस्योप समीपे गच्छतीति नगोपगः पाषाणस्तत्तुल्योऽसि । मदीय- धनुषोऽतिगुरुत्वेन निश्चेष्टो भवसीत्यर्थः । एवमेतादृशे त्वयि जनकेन यत्कन्यादानं कृतं तदयुक्तमित्याह-धर्मधनेन कन्यालक्षणेन अजने यद्दानं सः अनायः। अजनोऽदानपात्रम्। एवं अदानपात्रे त्वयि यद्दानं कृतं सः अनायः नयो नीतिस्तत्संबन्धी नायः, न नायः अ. नायः । अनीतिरित्यर्थः ॥ कृष्णपक्षे-दैत्यवधं दृष्ट्वा नन्दः कृष्णं स्तौति-भोः कृष्ण, त्वं नन्दानने नासि । नन्द एव आननं मुख्यो यस्मिन्गोकुले तस्मिन् ना पुरुषः परमात्मा असि।बलवत्त्वात् । अतएव किंलक्षणे नन्दानने।धर्मधने जन्मान्तरीयधमैरजितं तस्मिस्तथा नः अस्माकं जयोऽपि त्वमेवासि । केनापि सुकृतविपाकेन गोपगः गोपविशेषेण वर्तमानः सन् मे इति मां रक्षसि ॥ अथ रामं राज्याधिकारिणं दृष्ट्वा कैकेयी सापत्नभावं दर्शयतीत्याह- ततान दाम प्रमदा पदाय नेमे रुचामस्वनसुन्दराक्षी । क्षीरादसुं न स्वमचारु मेने यदाप दाम प्रमदा नतातः ॥ १७ ॥ आमस्वना अपरिपक्ववचना तथा विधा सुन्दराक्षी कैकेयी पदाय राज्यप्राप्तये यद्दाम निर्वन्धकारणं ततान विस्तारयामास । स्वपुत्राय राज्यं देयमिति दशरथाय निर्बन्धं चकारे- त्यर्थः । आमस्वनेति पदेन नेदं मातृकृत्यमिति सूचितम् । अथ कथं दाम ततानेत्याह-इमे रुचा न रुचा दीप्त्या इमे रामादयः पदयोग्या न भवन्ति । तथा तस्याः किं लौकिकं भयं नास्तीत्याह-प्रमदेति । प्रकृष्टो गर्यो यस्याः सा तथा ॥ कृष्णपक्षे--अथ कदाचित्कृष्णेन दधिभाण्डे भन्ने दुग्धनाशे जाते यशोदायाः अतिश्रमोऽभूदित्याह-प्रमदा यशोदा क्षीरा- सकाशादसुं प्राणमपि स्वकीयं न मेने । यथा क्षीरे ममता तथा प्राणे मा भूदित्यर्थः । अथ कृष्णबन्धनार्थ यद्दाम आप प्राप तदचारु कार्यक्षम न भवतीति मेने। अतः दामपूर- णदेतोर्नता नम्रा । परिश्रान्ताभूदित्यर्थः ॥ अथ वनवासार्थ रामे प्रस्थिते सति अहल्यौद्धारणप्रसङ्गमाह- तामितो मत्तसूत्रामा शापादेष विगानताम् । तां नगाविषदेऽपाशा मात्रासूत्तमतो मिता ॥ १८ ॥ मत्तसूत्रामा तां इतः प्राप्तः मत्तः काममोहितः सूत्रामा इन्द्रस्तां प्रति प्रसिद्धामहल्यां प्रति गतः । 'सूत्रामा गोत्रभिजी' इत्यमरः । तथा एप सूत्रामा इन्द्रः शापाद्विगानतां इतः गौतमकृतात् विगानतां सहस्रभगत्वादिलक्षणां प्राप्तः ।। कृष्णपक्षे-पूर्वश्लोके यशोदया कृष्णः दाना बद्ध इति निरूपितं तत्र यमलार्जुनोन्मूलनप्रसङ्गमाह--तां व्यवस्थामनुभूय रामकृष्णविलोमकाव्यम् । १५५ - नगाविषदे कृष्णे सति यशोदा मात्रासु अपाशा तथा उत्तमतो मिता अभूत् । न गच्छतस्तो नगौ स्थावरौ वृक्षौ यमलार्जुनौ ताभ्यां अविषममृतं मोक्षः तत्प्रदे कृष्णे सति यशोदा- मात्रासु दधिदुग्धादिविषयेषु अपाशा अनिर्बन्धा सती उत्तमतः अलौकिककर्म कर्तुः कृ. ष्णान्मिता समर्यादाभूत् ॥ अथ शूर्पणखायाः प्राप्तायाः नासिकानिकृन्तनं कृतमिति शालिनीछन्दसाह.- नासावद्यापत्रपाज्ञा विनोदी धीरोऽनुत्या समितोऽद्यायिगीत्या । त्यागी विद्यातोऽस्मि सत्यानुरोधी दीनोऽविज्ञा पात्रपद्यावसाना ॥ १९॥ शूर्पणखा तावन्नासावद्यापनपास्ति । नासा नासिका तस्या अवयं विगानं छैदलक्षणं तत्र अपनपा निर्लजास्ति । लक्ष्मणस्तु आज्ञाविनोदी आज्ञया रामाज्ञया विनोदो यस्या- तिविनोदी । तथा धीरः उदात्तः श्रीरामस्तु अनुत्या शूर्पणखाकृतया स्तुत्या उपालम्भेन अद्याविगीत्या अकीतिख्यापनेन सस्मितोऽभूत् ॥ कृष्णपक्षे-नारदशापादुन्मोचि ताभ्यां कुबेरपुत्राभ्यां स्तुतः कृष्णस्तौ प्रति खरूपमाह-अहं विद्यातः ज्ञानतस्त्यागी ज्ञानप्रदोऽस्मि । तथा सत्यानुरोधी सत्यं परब्रह्म तत्र अनुरोधोऽत्यासक्तिर्यस्य स तथा । लोकस्तु दीनः विषयसुखासक्तोऽस्ति । अविज्ञा अविद्या तु पात्रपद्यावसाना पात्रं ज्ञान- पात्रं मद्भक्तस्तस्य पद्या पद्धतिर्ज्ञानमार्गनिष्ठत्वं तेनैवावसानं नाशो यस्याः सा तथोक्ता । एवं सति शापनिर्मुक्तिः क्रियत इत्यर्थः ॥ अथ पञ्चवटीवने सपरिग्रहे रामे कृताधिवासे सति किंचिदपूर्व जातमित्याह- संभावितं भिक्षुरगादगारं याताधिराप वनघाजवंशः । शवं जघान स्वपरीधिताया रङ्गादगारक्षुभितं विभासम् ॥ २० ॥ भिक्षः संभावितमगारमगात् । भिक्षुरूपधरो रावणः संभावितं पूर्व निर्मायकत्वेन ज्ञातं अगारं पञ्चवटीस्थलं अगात् । ततः स्वनघाजवंशः याताधिः सन् आप।सुतरां अनघः निष्पापः एवंविधोऽजवंशो ब्रह्मवंशो रावणः यातो गतः आधिश्चिन्ता यस्य जानकी दृष्ट्वा निश्चित: जानकी प्राप। निष्पापवंशोत्पन्नोऽप्येतादृशं निन्धं पापकर्माकरोदित्याश्चर्यादिति सू- चितम् ॥ कृष्णपक्षे-पूर्वोपक्रान्तः कृष्णो रङ्गाद्रगस्थानात्सकाशात् शवं चिन्तयापूर्वमेव गतप्राणं कसं जघान । किंभूतम् । अगारक्षुभितम् । अगारं राजकीयपरिवारस्तस्मिन्क्षु. भितं सक्रोधम् । एष चाणूरघाती कृष्णो बहिः कथं न निःसार्यत इति । पुनः किंभूतम् । विभासं विच्छायं गतकान्तिम् । सद्योऽमृतचिह्नयुतमित्यर्थः । अथ कस्माद्धेतोर्जघानेत्याह- खपराधितायाः । अपराधिनो भावः अपराधिता सुतरामपराधिता तस्यास्तथा । पिट- निर्वन्धाग्रजहननपूतनादिकूटरचनादयो येऽपराधास्तकर्ववादित्यर्थः ॥ अथ मृगयापरावृत्तस्य रामस्य जानकीमपश्यतो निर्वेदमाह- तयातितारखनयागतं मा लोकापवादद्वितयं पिनाके । केनापि यं तद्विदवाप कालो मातंगयानस्वरतातियातः ॥ २१ ॥ . . - १५६ काव्यमाला। तया मागतं तया जानक्या मेति धिक् मृषैव गतं निष्क्रान्तम् । अथ सा स्वतो न गता. बलात्कारेण नीता भविष्यतीत्याह-किंभूतया । अतितारस्वनया । उच्चैराक्रोशमान- यापि । एवं तस्यां गतायां पिनाके लोकापवादद्वितयं जातम् । पिनाके पुरुषार्थाधिष्ठाने लोकापवादद्वितयं अज्ञानेन मृगपृष्ठतो धावन स्त्रीहानिश्चेति अपवादद्वितयम् जातमित्यर्थः।। कृष्णपक्षे-कंसहननात्पूर्वरङ्गमाह-~-यं कंसं केनापि प्रकारेण कालः कृतान्तोपमः कृष्णः अवाप । ननु परब्रह्मस्वरूपस्य कृष्णस्य कंसद्वेषः कथमित्याह-किंभूतः कालः । तद्वित् तदुपस्थितं कंसनिबन्धनं वेत्तीति तद्वित् । अथ स कः प्रकारस्तमाह --किंभूतः कालः।मातंगयानस्वरतातियातः । मातंगः कुवलयापीडस्तस्य यानं धावनं स्वरश्च तद्या- क्रोशस्तमतिलय यातः । कुवलयापीडं मोशन्तं मारयित्वा रङ्ग प्राप्त इत्यर्थः ।। अथ रामस्य पुनर्जानकी प्रति निर्वेदोक्तिमाह- शवेऽविदा चित्रकुरङ्गमाला पञ्चवटीनर्म न रोचते वा । वातेऽचरो नमनटीव चापं लामागरं कुत्रचिदाविवेश ॥ १२ ॥ भो जानकि, अविदा अज्ञानेन मया सह पञ्चावटीनम न रोचते वा। येन त्वं गतासी- त्यर्थः । अथ तदेवाज्ञानं प्रकटयन्नाह~शवे शवीप्रेयराक्षसे चित्रकुरङ्गमालास्तीति माया- मृगमजानता । मयेत्यर्थः ॥ कृष्णपक्षे-कृष्णस्य सामर्थ्य कंसहननात्पूर्वमेव प्रकटीभूत- मित्याह -~यः कृष्णः वाते वात्याभूतदैत्ये तृणावर्ते अचरः अचलोऽभूत्तथा लामागरं कुत्र- चिदाविवेश । लामा पूतना तस्याः गरं विषं नमैव क्रीडामात्रमिव कुत्रचिदाविवेश । न कृष्णे अनेन वाल्ये एतावन्तं पुरुषार्थ कृतवानिक पुनर्यौवने इति सूचितम् । एवमेतदु- भयं सदृष्टान्तमाह-किमिव । नर्मनटी चापमिव नटी नर्तकीचापं भ्रूभङ्गमात्रं दर्शयति । तद्वदित्यर्थः ॥ अथ जानकी स्कन्धे गृहीत्वा सत्वरं निर्गतस्य रावणस्य जटायुना साक सङ्गोऽभू- दिति रथोद्धतयाह- नेह वा लिपसि पक्षिकंधरा मालिनी स्वमतमत्त दूयते । यदूत्तमतम स्वनीलिमाराधकं क्षिपसि पक्षिवाहने ॥ २३ ॥ जटायुः रावणं प्रति वदति-भो स्वमतमत्त, इयं मालिनी दूयते । स्वमतं स्वाग्रह- स्तेन मत्त उन्मत्तः स्वाग्रहमेव करोषि परकीयविचारं न शृणोषि । असावधानत्वादि- त्यर्थः । मालिनी अतिसुकुमारा जानकी दूयते क्लेशं प्राप्नोति । किंभूता पक्षिकंधरा । पक्षिणि स्वपक्षपातिनि मयि कंधरा मन्या यस्याः सा तो इह मत्स्थाने न क्षिपसि वा न मुञ्चसि वा । तर्हि सङ्ग्रामेण मोचयिष्यामीति तात्पर्यार्थः ॥ कृष्णपक्षे-कंसवधे कृते उद्धवाकूरादयः कृष्णं स्तुवन्ति-भो यदूत्तमतम, स्वनीलिमाराधकं स्वस्य नी- लिमा तं आराधयतीति स्वनीलिमाराधकं पुरुषं ते पक्षिवाहने क्षिपसि । यदुषु उत्तमतम श्रेष्टतम त्वदनुस्मृति कुर्वाणं पुरुषं ते पक्षिवाहने गरुडः तस्मिन् क्षिपसि आरोहयसि । ते रामकृष्णविलोमकाव्यम् । १५७ 1 गरुडारूढं कृत्वा वैकुण्ठं प्रति नयसीत्यर्थः । एवमपरोक्षभावनया एतत्फलं कंसस्य श्रीम- साक्षात्कारे प्रवृत्तस्य मुक्तिरित्यत्र किं चित्रमित्यर्थः ।। ततो जटायुवचनाजानकीशुद्धिं लब्ध्वापि दक्षिणतश्चलितस्य रामस्यावस्थामाह- वनान्तयानस्वणुवेदनासु योषामृतेऽरण्यगताविरोधी । धीरोऽवितागण्यरते मृषा यो सुनादवेणुवनयातनां वः ॥ २४ ॥ स रामः योषामृते वनान्तयानस्वणुवेदनासु अरण्यगताविरोधी अभूत् । योषां जा- नकी विना वनान्तेषु यानं परिभ्रमणं तत्र महाक्लेशप्राप्तावपि सुतरामणुवेदनासु । विवेकेन लक्ष्मणकृतेन सान्त्वनेन च ईषत्क्लेशेषु जातेषु सत्सु अरण्यगताः वानराः अविरोधिनो मित्राणि वयस्याः यस्य स्त्रीवेदनासूभृतासु सतीषु वानरैः सह सख्यं यजातं तेन विश्रा- न्तिरभूदित्यर्थः ॥ कृष्णपक्षे -कृष्णे विहाय गोकुलं मथुरां गते सति विरहखिन्ना गोप्यो मिथः प्रोचुरित्याह-~-अगण्यरते धीरः वः अविता इति । मृषा गणयितुं संभावयितुं योग्य गण्यं न गण्यं अगण्यं अलाध्यं कुब्जया सह रतं तत्र धीरः निर्लज्जत्वेन प्रवृत्तः कृष्णः वः अविता पुनर्गोकुलमागत्य रक्षिष्यतीति मृषा असत्यं तत्कुतः सुनादवेणुस्वनयातनां किं न स्मरतीत्यध्याहारः । सुष्ठु नादो यस्यासौ सुनादः एतादृशः वेणुस्तस्य स्वनस्तेन कृतां यातनां दूराद्वेणुस्वनमाकर्ण्य यावत्कृष्णदर्शनं तावत्पर्यन्तं या यातनाविरहदुःखम- स्माकं किं पुनस्तस्मिन् परदेशं गते सतीति किं न स्मरतीत्यर्थः ॥ अथ पूर्वश्लोके अणुवेदनास्विति पदेन महति दुःखे सति कथं विश्रान्तिरित्याह- किं नु तोयरसा पम्पा न सेवा नियतेन वै वैनतेयनिवासेन पापं सारयतो नु किम् ॥ २५ ॥ पम्पा तोये रसः स्वादुता यस्याः सा तोयरसा एवंविधा पम्पा किं नास्ति।अस्त्येवेत्यर्थः। तथा-~-वै इति निश्चयेन । नित्यनियतेनता हनुमता सेवा किं नास्ति । अस्त्येव । एवमुभयथापि रामस्य विश्रान्तिर्विरहदुःखेऽप्यासीदित्यर्थः ।। कृष्णपक्षे-गोप्यः उद्धवं परिहसन्ति-वैन- तेयनिवासेन गरुडनिवासेन कृत्वा पापं सारयतो दूरीकुर्वतः पुरुषस्य किं नु वाच्यमित्य. ध्याहारः । कृष्णोपासनया निष्पापस्त्वं कथमस्मान्प्रतारयसीति सूचितम् ॥ अथ वालिना हृतदारः सुग्रीवो रामं शरणं प्रयात इत्याह- स न तातपहा तेने खं शेनाविहितागसम् । संगताहि विनाशे खं नेतेहाप ततान सः ॥ २६ ॥ स न तातपहा रामः शेन स्वं तेने न तस्य नम्रस्य शरणं गतस्य आतपं संतापं ह- न्तीति तथाविधो रामः शेन सुखेन स्वं तेने । आश्वासजनितसुखेन स्वं स्वकीयं सुग्रीवं तेने विस्तारितवान् । न विहितं न संपादितम् आगः अपराधो येन तथा । निरपराध- त्वेनाविहितागसमिति सूचितमित्यर्थः ॥ कृष्णपक्षे-उद्धवः गोपिकां प्रति कृष्णस्याश्रित- पक्षपातं वदति-स नेता नियन्ता कृष्णः इह सरस्वतीरसं स्थानं नन्दं संकटके आप प्राप - - १५८ काव्यमाला । तथा संगताहिविनाशे स्वं जनं ततान । संगतः प्राप्तः यो अहिः सर्पस्तस्य विनाशे कृते सति स्वकीयं जनं गोकुलस्थितं ततान विस्तारयामास । नन्दं निधनशङ्कया मुमूर्षु विस्ता- रितवान् स किं भवतीत्युपेक्षत इति सूचितम् ॥ अथ वालिनं हत्वा सुग्रीवपत्नी मुमोचेत्याह- कपितालविभागेन योपादोऽनुनयेन सः । स नये न नु दोषायो नगे भाविलतापिकः ॥ २७ ॥ स रामः अनुनयेन प्रीत्या कपितालविभागेन योषादोऽभूत् । कपिर्वाली तालाश्च तद्रक्षकास्तेषां विभागेन विच्छेदेन योषां ददातीति योषादः योषां सुग्रीवपत्नी दत्तवान् ॥ कृष्णपक्षे-गोपिका वदन्ति–स कृष्णः नये नीतिमार्गे नास्ति । नु इति वितर्के । किंतु दोपायोऽस्ति।दोषाणां दुःखानां आयः प्राप्तिर्यस्मात्स तथा। पुनरायास्यतीति चेन्न । कुतः । यथा नगे भाविलतापिकः नगे पर्वते भाविनी या लता वल्ली सहकारशाखा तत्र पिकः पिकतुल्यः । यथा यमसंभावितार्थः तद्वदित्यर्थः ॥ अथ वालीपुत्रः अङ्गदो रामं प्रति वदति- ते सभा प्रकपिवर्णमालिका नाल्पकप्रसरमभ्रकल्पिता । ताल्पिकभ्रमरसप्रकल्पना कालिमार्णव पिक प्रभासते॥ २८ ॥ भो राम, ते सभा प्रकपिवर्णमालिकास्ति । प्रकृष्टा ये कपयो वानरास्तेषां ये वि- चित्रवर्णास्तेषां माला यस्यां सा तथा नानाविधवानरश्रेणीसंपन्ना । सा तु अल्पकप्रसरं यथा भवति तथा अल्पसंख्याका परंतु अभ्रकल्पिता नास्ति । अभ्रे आकाशे मेघमण्डल- पर्यन्तं वा नास्ति । अनेन रक्षःपतिः आकाशे प्रकल्पितास्तीत्यर्थः ॥ कृष्णपक्षे-गोपि- कास्तावदन्योपदेशेन पिकं प्रति वदन्ति-भोः कालिमार्णव मालिन्यसमुद्र पिक कोकिल, त्वयि ताल्पिकभ्रमरसप्रकल्पना प्रभासते । तल्पे भवं ताल्पिकं सुरतं तस्य भ्रमरस्तत्र यो रसः स प्रभासते स्वप्ने सुरतभ्रमे यावान् रसः स एव त्वयि भासते । न साक्षादस्म- सुरतसुखं तत्तु तव स्वप्नेऽपि दुर्लभमित्यर्थः ॥ अथ रावणो यद्यपि सकलसैन्यसन्नाहवानस्ति तथापि तत्र वीरलक्षणं नास्तीत्याह- रावणेऽक्षिपतनत्रपानते नाल्पकभ्रमणमक्रमातुरम् । रन्तुमाक्रमणमभ्रकल्पना तेन पात्रनतपक्षिणे वरा ॥ २९ ॥ रावणे अक्रमातुरं यथा भवति तथा आक्षिपतनत्र पानते सति अल्पकभ्रमणं न भवि- ष्यति न क्रमः अक्रमः परस्त्रीहरणादिकस्तेन आतुरं यथा स्यात्तथा अक्षिपतनं रामस्य दृष्टिपातस्तेन या त्रपा लज्जा तया रावणे नने सति पर्याकुलतया यत् भ्रमणं चित्तभ्रमः किं न भविष्यति । भूयादेव । अहो वीरव्रतमतिक्रम्य पापं कृतवतो मम जयो नास्त्येवेति लज्जया कृत्वा चित्तस्यैव किं त्रासो न भविष्यतीत्यर्थः ॥ कृष्णपक्षे-उद्धवो गोपिकाः प्रति वदति-भो गोप्यः, तेन आक्रमणं दैत्यनिबर्हणादिकं तथा अभ्रवत्कल्पना मेघ.
रामकृष्णविलोमकाव्यम् । १५९. - श्यामता चरन्तुं क्रीढार्थमवलम्बिता तत्स्थानेऽनेन तस्य न किमपि प्रयोजनं तत्र तेन का. रणेन सा मेघश्यामता पात्रनतपक्षिणे वरा पात्रे नताः पात्रनताः पुरुषास्तेषां पक्षो यस्य स तत्पक्षी तस्मै कृष्णाय वरा कल्पिता। भक्तानां ध्यानगोचरत्वायेत्यर्थः । तथा च भ. वतीनां ध्यानयोगेनैव कृतार्थत्वमस्तीति सूचितम् ॥ अथ सीताशुद्ध्यर्थमादिष्टो हनुमान् रामं प्रति विद्युन्मालयाह- देवे योगे सेवादानं शङ्का नाये लङ्कायाने । नेयाकालं येनाकाशं नन्दावासे गेयो वेदैः ॥ ३० ॥ अये श्रीराम, लङ्कायाने लङ्कां प्रति गमने शङ्का नास्ति । कुतः । यतो दैवे योगे सेवा- दानं जातमस्ति । देवसंबन्धी दैवस्तस्मिन् तव योगे या सेवावलम्वितास्ति । अतो लङ्का- गमने त्वत्सेवाया एव सामर्थ्यमित्यर्थः ॥ कृष्णपक्षे -पुनरुद्धवः कृष्णं स्तौति-स कृष्ण: नन्दावासे नन्दबजेऽभूत् । स कः । येन आकाशं नेयाकालं नेतुं संहर्तुं योग्यो नेयः आसम- न्तात् कलयति तत् एवंविधमाकाशं काले आकाशादिकमपि संहते क्षमः । तत्रभवतीनां सारः श्रमः कियानित्यर्थः । किंभूतः । वेदैः गेयः गातुं योग्यः । अथ जानकीशुद्धिं कृत्वा परावृत्तो हनुमान् रामं प्रति वदतीति समाक्षरया शालि- न्याह- शङ्कावज्ञानुत्त्वनुज्ञावकाशं याने नद्यामुग्रमुद्याननेया । याने नद्यामुग्रमुद्याननेया शङ्कावज्ञानुत्त्वनुज्ञावकाशम् ॥ ३१ ॥ हे राम, सा जानकी उग्रमतिक्लेशं यथा भवति तथा नद्यां कुल्यायां उद्याने नेया उद्याने क्रीडावने नेतुं योग्या नेया अस्ति । तथा सीता कृत्रिमसरिदुपकण्ठे उद्यानेऽस्ती- त्युक्तम् । इत्यं त्वं रावणस्य क्रीडावनं गन्तुं कथमवकाशं लब्धवानित्याह-~~याने प्रयाण- काले अनुज्ञावकाशं यथा भवति तथा शङ्कावज्ञानुत् तु श्रीमदनुज्ञालब्धावकाशत्वेन शङ्का- वज्ञे नुदिते । तथा शङ्का राक्षसभयं तत्कृतावज्ञा जम्बूवनपालादिकृता । तदुभयं मया नि- राकृतमित्यर्थः । कृष्णपक्षे-गोकुलात्परावृत्त उद्धवः कृष्णं प्रति वदति-भोः कृष्ण, उद्याननेया कापि गोपिका नद्यां याने उग्रं अतिक्लेशं यथा भवति तथा तिष्ठति । या त्वया पूर्व स्कन्धोपरि धृत्वा उद्यानं प्रति प्रापिता तर्हि तस्या दयितदेवरादयः किं न सन्तीत्याह-हे कृष्ण, सा गोपिका अहं पुनरागमिष्यामीति श्रीमदनुज्ञया लब्धावकाशं यथा स्यात्तथा शङ्कावज्ञा सती तिष्ठति । शङ्काया दयितभयं तस्य' अवज्ञा अवगणना यस्याः सा दयितदेवरादीनां शङ्काभयं तथा तत्कृतविकाराद्यविगणय्य प्राणावशेषा ति- ष्ठति । एवं तयैकया विनान्याः सर्वा अपि मया संबोधिता इत्युक्तं भवति ॥ अथ समुद्रं नियम्य लङ्कां गन्तुं शक्तोऽपि रामः क्षुद्रवानरकौतुकं द्रष्टुं सेतुबन्धार्थ- मादिदेशैत्याह- वा दिदेश द्विसीतायं यं पाथोयनसेतवे । वेतसेन यथोपायं यन्तासीद्विशदे दिवा ॥ ३२ ॥ -- काव्यमाला। सं- - १६० वेति अथवा स रामः यं कंचिद्वानरं पाथोयनसेतवे दिदेश । पाथसामुदकानामयनं यस्मिन् पाथोयनः समुद्रस्तस्य सेतवे सेतुबन्धायादिदेश आज्ञापयामास ।. किमर्थे परम् । द्विसीतायं यथा स्यात्तथा । द्वयोः सीतयोः समाहारो द्विसीतं तस्यायःप्राप्तिः। किं पुनरेकसी- तालब्धिः । अपरं सेतुबन्धाख्यं पुरुषार्थ सीताद्वयलाभो भविष्यतीत्युत्साहेनादिदेशेत्यर्थः ।। कृष्णपक्षे-कंसे हते मातामहायोग्रसेनाय राज्यं दत्त्वा स्वयं तत्सैन्यपतिर्वभवेत्याह-स कृष्णः यथोपायं वेतसेन यन्तासीत् । यथोपायं राजनीतिमनतिक्रम्य वेतसेन वेत्रधारत्वेन नियन्तासीत् विशदे दिवा सुमुहूर्तोपलक्षिते दिवा दिवसे ॥ अथ राक्षसैः सह संग्रामोपस्थितः श्रीरामो हनुमत्प्रशंसामाह- वायुजोऽनुमतो नेमे संग्रामेऽरवितोऽह्नि वः । वह्नितो विरमे ग्रासं मेनेऽतोऽमनुजो युवा ॥ ३३ ॥ हे वानराः, वः इति युष्माकं मध्ये अरवितः अह्नि वा संग्रामे उपस्थिते सति वायुजो- ऽनुमतः अस्ति । न रवियस्मिस्तत् अरवि तस्मिन् । रात्रावित्यर्थः । वा अहि दिवा वासं ग्रामे उपस्थिते सति हनुमानेव अनुमतः संमतः । रात्रौ दिवा वा मायाविभिः सह ग्रामे वायुपुत्र एव निर्वाहयिष्यतीत्युक्तं भवति । इमे सर्वे वानराः नानुमताः न संमताः ॥ कृष्णपक्षे-कंसादिहनने राज्यस्थापने वा कृष्णस्य किं चित्रं वर्णनीयमित्याह- यः विरमे प्राप्ते सति वहितः वहिमेव ग्रास भक्षत्वेनोपस्थितं मैने । अमनुजः देवः सन् युवा पराक्रमी । तत्र न किमपि चित्रमित्यर्थः॥ अथ रामरावणयोर्युद्धप्रसङ्गे वानरैर्व्याकुलितो रावणो रामेण सह न प्रभावमगा- दित्याह- क्षताय मा यत्र रघोरितायुरङ्कानुगानन्यवयोऽयनानि । निनाय यो वन्यनगानुकारं युतारिघोरत्रयमायताक्षः ॥ ३४ ॥ यत्र अङ्कानुगानन्यवयोऽयनानि सन्ति तत्र इतायुः रघोः क्षताय माभूत् । अङ्क अनु- गच्छन्ति ते अङ्कानुगाः शरणं गता वानरास्तेष्वनन्यं वयः जन्म येषां ते अनन्यवयसः सुग्रीवहनुमदादयस्तेषां अयनानि संग्रामे व्यूहप्रवेशपरिसरणानि यत्र तत्र इतायुर्दशास्यः रघोः रामचन्द्रस्य क्षताय शस्त्रादिभिर्घाताय मानसमर्थोऽभूत् । प्रथमतो वानरैरेव व्या- कुलीकृतः रामेण सह योद्धुमलब्धावकाशोऽभूदित्यर्थः ॥ कृष्णपक्षे-वृन्दावने कृष्णो दैत्यानवधीदित्युक्तम् । तत्र त्रयमतिभयानकं हतमित्याह-यः आयताक्षः कृष्णः युतारि- घोरत्रयं मुक्ति निनाय । युताः योगं प्राप्ताश्च अरयश्च तेषु घोरत्रयं निनाय प्रापित- वान् । पूतना अघासुरः केशी चेति भयानकं त्रयं स्वान्तिके प्रापितमित्यर्थः । अथ भयानकमेव व्यनक्ति-किंभूतं घोरत्रयम् । वन्यनगानुकारं वने स्थितः वन्यः स चासौ नगः पर्वतस्तद्वदनुकारो यस्य सः । तथा अतिप्रचण्डमित्यर्थः ॥ ते रामकृष्णविलोमकाव्यम् । अथ सपरिवारस्य रावणस्य तारके परब्रह्मणि प्रवेशोऽभूदित्याह--- तारके रिपुराप श्रीरुचा दाससुतान्वितः । तन्वितासु सदाचारु श्रीपरा पुरि के रता ॥ ३५ ॥ रिपुः श्रीरचा तारके आप रिपुः रावणः श्रीर्मोक्षलक्ष्मीः तस्याः रुग्दीप्तिः प्रकाशस्ते- नेत्यर्थः । किंभूतः । दाससुतान्वितः । दासाश्च कुम्भकर्णादयः सुता इन्द्रजिदादयस्ते सर्वेऽपि तारकं प्राप्ता इत्यर्थः ॥ कृष्णपक्षे-सदा चारु यथा स्यात्तथा तन्वितासु गोपीधु श्री- परा पुरि के रता आसीत् । तनुना शरीरेण इतासु प्राप्तासु गोपिकासु मध्ये श्रियः लक्ष्म्याः परा श्रीपरा द्वितीयलक्ष्मीरिव सैरन्ध्रीपुरि मथुरायां के परब्रह्मणि कृष्णे रता- सीत् । गोकुले कृष्णविरहेण तदा ध्याननीतासु सतीषु मथुरायां कृष्णस्य सैरन्ध्या साकं गार्हस्थ्यमभूदित्यर्थः ॥ अथ रावणे सपरिवारे हते सति लङ्का हतप्रभाभूदिति विद्युन्मालयाह- लङ्का रङ्कागाराध्यासं याने मेया काराव्यासे । सेव्या राका यामे नेया संध्यारागाकार कालम् ।। ३६ ॥ याने रामागमने सति लङ्का रङ्कागाराध्यासं यथा स्यात्तथा मेयाभूत् । लङ्का नगरी रङ्कस्थागारं रङ्कामारं तस्य अध्यासो भ्रमस्तेन ज्ञातुं योग्याभूत् । इयं लद्वा तु कस्य- चिंद्रकस्य अगारमिति भ्रमेण ज्ञाताभूदित्यर्थः । कस्मिन्सति । काराव्यासे सति कारा बन्दीगेहें तस्य अव्यासे अविस्तारे सति । कारा विस्तारं निर्भिय बन्दीभूतेषु देवेषु । निर्मो- -चितेषु सस्वित्यर्थः ॥ कृष्णपक्षे-पूर्व सैरन्ध्या साकं कृष्णस्य गार्हस्थ्यमभूत्तत्र दृष्टान्त- माह-~~-सेव्या सेवितुं योग्या सेव्या अतिरमणीयमभूदित्युक्तम् । सैरन्ध्री यामे संयोगावसरे कालं मेघश्यामं कृष्णं प्रति नेया नेतुं योग्या नेयाभूत् । अन्वयोग्यपदेनोभयोः संयोगे शोभाति- शयः सूचितः । काकमिव राका संध्यारागाकारमिव पूर्णचन्द्रोदयोफ्लक्षिता राका संध्या- रागाकारं रय यथा शोभातिशयशालिनी भवति तद्वदित्यर्थः ।। गोदावरीब्रह्मगिरेः सकाशात्संप्रापिता प्रागुदधि प्रयत्नात् । येनर्षिणा सोऽपि पुनः प्रतीपमानेतुमादि प्रभवेक्किमेताम् ॥ एवं विलोमाक्षरकाव्यकर्तुभ्यांसमायासमवेक्ष्य तज्ज्ञाः । जानन्त्विमा चित्रकवित्वसीमां दैवज्ञसूर्याभिवसंप्रदिष्टाम् ॥ इति श्रीदेवज्ञपण्डितसूर्यकावविरचितं विलोमाक्षररामकृष्णकाव्यं । समाप्तम् ।