Banasthali University

Raghav Naishdhiyam

Suri, Haridutt · 2009/02

PDF Proofread

Front matter

No text on this page.

काव्यमाला.५७. श्रीहरदत्तसूरिविरचितं राघवनैषधीयम् । खोपशव्याख्यासमलंकृतम् । , जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसाददारक- केदारनाथकृपाङ्गीकृतशोधनकर्मणा शिवदत्तशर्मणा, मुम्बापुरवासिपरबोपाहपाण्डुरङ्गात्मजकाशिनाथ- शर्मणा च संशोधितम् , तच्च पणशीकरोपाह्व- लक्ष्मणशर्मात्मजवासुदेवशर्मणा संस्कृतम् । द्वितीयावृत्तिः । तच ता मुम्ब्या पाण्डुरङ्ग जावजी (ऽवगम्यते. इत्येतैः स्वीये निर्णयसागराख्ययन्त्रालये मुद्रयित्वा प्राणाश्यं नीतमाक्षतस्य नाम्नो २. अस्य च का- दशीयविश्वविद्यालयाध्यक्षवि- हाशयानामुद्योगेन प्राप्तम्. पुस्तकलि- शके कृष्णत्रयोदशीन्युते भौमर्कनक्षत्र मुल्यं १० आणक तु D

No text on this page.

काव्यमाला। श्रीहरदत्तसरिविरचितं राघवनैषधीयम् । खोपशव्याख्यासमलंकृतम् । प्रथमः सर्गः । अभिवन्ध परात्मानं गुंगिरं च गुरूनपि । विवर्वरीमि श्रीरामनैषधीयं निजं हरः॥ विशिष्टशिष्टाचारपरम्पराप्राप्तश्रुतिमूलकशिष्यशिक्षादक्षमाङ्गलिकोदामसमुच्चयबीजक- श्यपावतारभगवत्पितृचरणोच्चारणरूपमङ्गलाचरणं पौरस्त्यपुण्यश्लोकस्तवनद्रढिमग्रन्थकारः पर्यगुम्फीत- दशरथ इति नाम्ना वीरसेनः क्षितीशः क्षितितलविबुधानां वन्दथुः प्राग्बभूव । गुरुकविबुधजोषः सामृतो नारदाढ्यः सति नरपतिरने मर्त्यलोकोऽप्यनाकीत् ॥ १ ॥ ननु मङ्गलस्य कियद्धात्वं भवतीत्यपेक्षायामाह-आशीर्नमस्क्रिया वस्तुनिर्देश इति त्रिधा । अत्र वस्तुनिर्देशात्मकं मङ्गलं वितायते । अत्र पद्ये सालिनीवृत्तम् । मनौ मित्रे इति नगणस्य । मित्रत्वम् । नातः परमसौख्यकृदतो न द्वयप्रक्षेपः । 'दो धः सौख्यम्' इति श्रीनारायणभट्टारिकायां दकारस्य पूर्वन्यासः । पैङ्गलादा- हृत्य व्याचष्टे सः। अवर्णात्संपत्तिर्भवतीति अकारव्यामिश्रदकारपाठः । किमेतावता २. अस्य च का- १. अयं हि हरदत्तसूरिनर्गगोत्रोत्पन्नजयशंकरात्मज आसीदिति चरमपद्यतोऽवगम्यते. देशकालौ तु न ज्ञायेते. तथापि वैयाकरणसिद्धान्तकौमुदीप्रणेतृश्रीभट्टोजिदीक्षितस्य नान्नो 'दीक्षिताः' इति पदेन लेखस्योपलम्भात्ततोऽर्वाचीन इति तु गम्यते. व्यस्य पुस्तकमेकमेव श्रीकश्मीरनरेशपुस्तकालयतः पञ्चनददेशीयविश्वविद्यालयाध्यक्षवि- द्वद्वरश्रीयुतस्टैन (Dr. M.A. Stein) महाशयानामुद्योगेन प्राप्तम्. पुस्तकलि- खनकालस्तु-'आकाशाम्नायाद्रिचन्द्रे (१७४०) शके कृष्णत्रयोदशीन्युते भौमर्कनक्षत्रे ह्यलिखत्प्रेमवल्लभः ।' इति स्फुटमेव लिखितः.

काव्यमाला। प्रयासेनेति चेत् । 'अक्षरे परिशुद्धे तु नायको भूतिमृच्छति' इति ग्रन्थकृत्परमफल- प्राप्तिः, आनुषङ्गित्वेन श्रोतॄणां पाठकर्तृणां च फलातिशायनं बोभवतीति । प्राक दशरथ इति क्षितीशो बभूव । कथंभूतः । वीरसेनः वीरा सेना यस्य सः । 'शूरो वीरश्च विक्रान्तः' इत्यमरः । निलिङ्गोऽयम् । 'गोस्त्रियोः-' इति ह्रस्वः। 'स्त्रियाः पुंवत्' इति पूर्वस्य ह्रख(पुंव)त्त्वम् । 'शूर वीर विक्रान्तौ' चौरादिको धातू । पचा- यच् । 'पृतनानी किनी सेना' इति शब्दार्णवः । रणानिवर्तिनी सेनेति ध्वनितम् । तथा स्मृतिश्च-'द्वाविमौ पुरुषौ लोके सूर्यमण्डलमेदिनौ । परिवाद योगयुक्तश्च रणे चाभिमुखो हतः ॥' बभूवेत्यत्र 'वा पदान्ते' इति गुरुवम् । पुनः कथंभूतः। क्षितितल- विवुधानां वन्दथुः । क्षितितले विबुधा इव ब्राह्मणाः । 'आश्रमोऽस्त्री द्विजात्यग्रजन्मभूदे- ववाडवाः' इति कोशः । रूपकालंकारः। उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' इति समासः । तेषां विप्राणां वन्दथोनमस्कारकर्ता स्तोता च । 'वदि अभिवादनस्तुत्योः' इति अर्थद्वय निर्देशात् । 'शीशपिरुगभिवन्दिजी विप्राणिभ्योऽथुः' वन्दतेरनेन सूत्रेणा- थुप्रत्ययः । यदा कर्तरि तदा स्तोता नमस्कर्ता च ज्ञेयः यदा कर्मणि तदा स्तुत्यो न- न्तव्यश्चेति भावः । कर्मणि षष्टी । क्षि निवासगत्योः । क्षियन्ति भूतान्यस्यामिति संज्ञायां क्तिन् । वयोरूपादीनां न हि सर्वेषां नम्रत्वं जायते इति विशेषोक्तिरलंकारः। साकूतस- वैविशेषणवात्परिकरश्च । विबुध इति । 'इगुपधज्ञाप्रीकिरः कः' इति कप्रत्ययः। कृद्रहणे गतिकारकपूर्वस्यापि ग्रहणम् । पुनः कथंभूतः । गुरुकविबुधजोषः। 'कृपोरुच' इति कु- प्रत्ययः । गृणाति हितं शिष्यायेति गुरुः । गुरुश्च कविश्च विबुधश्चेति द्वन्द्वः । जोषणं जोषः । तेषां जोषणं यस्य स इति बहुव्रीहिः । 'जुषी प्रीतिसेवनयोः' । 'हलच' इति घञ् । कर्तरि कप्रत्ययप्रसङ्गात् । गुरुर्वशिष्टः, कविर्वाल्मीकिः, वुधः पण्डितजनः। जा- त्याख्यामेकत्वम् । तेषां नित्यसेवकः । पुनः कथंभूतः। सामृतः। अमृतेन सह वर्तत इति सामृतः। 'वोपसर्जनस्य' इति सहस्य सः। 'अमृतं विघसो यज्ञशेषभोजनशेषयोः' इत्यमरः। 'अमृतं यज्ञशेषे स्यात्पीयूषे सलिले घृते' इति मेदिनिः । यज्ञशेषभुगिति तात्पर्यार्थः । पुनः कथंभूतः । नारदाढ्यः । नराणां समूहो नारम् । 'तस्य समूहः' इत्यण् । तस्मै ददतीति नारदा दानशौण्डास्तैः : सभायामात्यो युक्त इत्यर्थः । यत्सर्वास्थानसभायां महोदारा एव प्रिया आसन् । न तु कृपणाः। नामग्रहणस्यापि तेषां धर्मशास्त्रे निषिद्धवात् । 'आत्म- नाम गुरोर्नाम नामातिकृपणस्य च । श्रेयस्कामो न गृह्णीयाज्ज्येष्ठपुत्रकलत्रयोः ॥' इति स्मृतिः । तस्मिन् नरपतिरत्ने सति मर्त्यलोकोऽप्ययमनाकीत् । 'रत्नं स्वजातिश्रेष्ठेऽपि वले सलिलकानने' इति तायकवचनम् । नाक इवाचारीत् । 'सर्वप्रातिपदिकेभ्यः क्विपू वा वक्तव्यः' इति विप् । 'सनाद्यन्ताः-' इति धातुलम् । लुङ् । न हि मर्त्यलोकस्य स्वर्ग• सास्यं जातु भवति वैधात् । तत्रत्यानां साधर्म्यं सत्युपमा घटते । व्यतिरेकश्च कुतः स्यादित्याशङ्कायामाह-श्लिष्टविशेषणमाहात्म्यात्स्वर्गस्य साम्यं भवत्येव स्वर्गे गुरुवह- पतिः । कविः शुक्राचार्यः । बुधो ग्रहश्वान्द्रिः। अमृतपानं तेषाम् । नारदो देवर्षिरपि १ सर्गः] राघवनैषधीयम् । mm तत्र विजृम्भते । एवमत्रापि सर्व प्रियते । एवं सति वर्गसामग्रोसाकल्लव्यवच्छेदा भावाद्दशरथे सति शव्दलेपोपमालंकारो विलसतीति विदांकुर्वन्तु सहृदयाः। 'वादेलीये समासे सा कर्माधारक्यचि क्यढि । कर्मकर्णमुल्येतहिलोपे क्वि' समालगा ॥' इति काव्यप्रकाशे निरूपितम् ॥ इदानीमत्रैव पद्ये चमत्कारधारामपारा वर्पती नलकथामपि कविरवातीतरत् । एवं सर्वत्राग्रे वोतरिष्यति क्रमेण । नलपक्षे इति योजनिका-प्रार वीरसेन इति क्षितीशो वभूव । प्राक् कृतयुगे। नान्नेति 'प्रकृत्यादिभ्य उपसंख्यानम्' इति तृतीया । नायतेऽभ्यस्यते इति नाम । 'नामन्सीमन्-' इत्यादिना सूत्रेण निपा- त्यते । वीरसेननामा नलस्य पिताभूत् । क्षितेरीशो राजा । कथंभूतो वीरसेनः । दश- रथः दशमु दिक्षु रथोऽव्याहतो यस्य स इति बहुव्रीहिः। यद्वा 'दशि दर्शनानयोः' इलाकुस्मीयो धातुः । दसेत्येके । शसयोरमेदादलंकारशास्त्रे । दशः शत्रुदंशको रथो यस्य स इति बहुव्रीहिः । दसेः पचाद्यच् । 'अनित्यण्यन्ताश्चरादयः' इत्युक्तत्वात् । यद्वा 'ते- नातिकामति' रथेनातिकामति रथयति दशानां दंशकानां कुटिलानां रथेनातिकामक इत्यर्थः । दशानां ज्ञानकर्मेन्द्रियाणां रथः प्रवर्तक इव मनसः सारयित्वात्प्राधान्यम् । साक्षान्मनोरूप इवेति रूपकम् । यद्वा दानं दः । घबर्थे कविधानम् । दानं रक्षणं वितरणं वाश्यन्ति क्रशयन्ति इति दशा दैत्यराक्षसाः । तद्वधको रथो यस्येति धर्मगुप् इति फ- लितोऽर्थः । देह रक्षणे । इदाञ् दाने । द्वौ धातू वर्तते यतः। तथा गुरुः सुमतिः, जातूकोऽभूदस्य कविः,युधः शास्त्रव्याख्याता पण्डितस्तेषां जोपः सेवनं यस्य स इति । नलपक्षेऽप्यन्यत्समानमितेि ॥ रामोऽभिरामः सनलः प्रतीतः पुत्रोऽभवत्तस्य सुसत्यसंधः । सलक्ष्मणः सद्धरतः सशत्रुहा चतुर्विधत्वं गतवानिवैकः ॥ २ ॥ तस्य रामः पुत्रोऽभूत् । कथंभूतः । सलक्ष्मणः सदूरतः सशत्रुहा । ह आर्यम् । वेति निश्चये । 'वा स्यादिकल्पोपमयोरेवार्थेऽपि समुचये' इति विश्वः । एकः । 'एकरे- वाद्वितीयं ब्रह्म' इति श्रुतिः । रामहृदये 'रामं विधि परं ब्रह्म' इति वचनात्परमात्मलम् । बासवाश्यानां शिरोधार्यत्वात् । चतुर्विधत्वं गतवान् । ब्रह्म मायाशवलं जगदुपादान- कारणम् इति वेदान्तिराद्धान्तः । न पटत उद्भवः प्रकृतिपुरुषयोरुभययुजा भवन्त्य- नुभृतः' इत्यादि वेदस्तुतिवचनं च । एवं सति आत्मानं न्यूधिकं चतुर्धास्थादिति भावः । वास्तवमेकत्वं गतोऽपि भगवानवतारं कल्पयन् भूभारहरणार्थ तावद्वा ददृशे कथंभूतो रामः । अमिरामः सुन्दरः । 'भैगो द्वौ, वले रामो नीलचारुसिते त्रिपु' इ. यमरः । अभिः परितोभावे वर्तते । पुनः कथंभूतः । सनलः । 'पणु दाने' तानादिकः । पः सः । सन्वन्ति विप्रेभ्यो ददति हिरण्यं ये ते सनाः। पचाद्यन् । आकृतिगणवात् । तान् लाति स्वीकरोतीति संभावनायाम् । सनलः । आतोऽनुपसर्गे कः । यद्वा । सनिर. ध्येपणासत्कारपूर्वको गुर्वादिव्यापारः । सनिं कुर्वन्ति सनयन्ति ते सनाः टिलोपः । तान् १. रामपक्षे 'गतवान्द वैकः' इति मूलपाठः प्रतीयते.

४ काव्यमाला। लाति गृहाति इति तादृशः । उदारप्रिय इति भावः । पुनः कथंभूतः । प्रतीतः । 'ख्याते हष्टे प्रतीतोऽमिजातस्तु कुलजे जने' इति कोशः । ख्यातो दिक्षु लोकत्रये । पुनः कथंभूतः । सुसत्यसंधः । अतिशयेन सत्यसंघः सत्यप्रतिज्ञः। 'संधा प्रतिज्ञा मर्यादा श्रद्धा संप्रत्ययः स्पृहा' इति तातायिके । 'स्वत्यतीव च निर्भरे' इति च । 'रामो द्विर्नाम भाषते' इत्यध्यात्मरामायणे । अन्यसत्यवद्य(क)लक्षण्यं ध्वन्यते सुशन्देनेति बोध्यम् । पुनः कथंभूतः । सलक्ष्मणः लक्ष्मणसंज्ञभ्रातृसहितः । पुनः कथंभूतः। सद्भरतः प्रशस्त. भरतभ्रातृक इत्यभिप्रायः । सन्भरतो यस्य स इति बहुप्रीहिः । पुनः कथंभूतः । सश. त्रुहा शत्रुघ्नभ्रातृसहितः । 'वोपसर्जनस्य' सहस्य सः । गुरुरेव प्रीणन् एवं गुणवतां तेषां निरूप्य तादृशि नामानि चकारेत्यर्थः । दशरथस्य लोकपाला इव चत्वारः पुत्रा अभूव नित्यर्थः फलितः । रमु क्रीडायाम् । 'अकर्तरि च कारके संज्ञायाम्' इत्यधिकरणे घञ् । पद्मपुराणे-'रमन्ते योगिनो यस्मिनित्यानन्दे चिदात्मनि । इति रामपदेनासी परं ब्रह्माभिधीयते ॥' इति । काश्यां तारकोपदेशमन्त्रोऽप्ययमेव बोध्यः । भगवानपि य- पुत्रत्वमनीचके तस्य दशरथस्यापि गुणवत्तां वर्णयितुं पारयेदित्यपि ध्वन्यते । 'इदमु- तममतिशयिनि व्यतथे वाच्याध्वनिर्बुधैः कथितः' इति भरतर्षिसूत्रं साक्षादेवरूपमुत्तमं काव्यम् । रसानुगुणा एव वर्णा गुम्फिताः ॥ नलपक्षे इत्यम्-तस्य वीरसेनस्य नलः पुत्रोऽभवत् । त्यदादीनां युद्धिस्थपदार्थपरामर्शकलात् । 'तस्येदम्' इत्यादि ज्ञापकात् तच्छन्दः प्रसिध्यर्थकः । त्रैलोक्ये प्रसिद्धः । 'प्रकान्तप्रसिद्धानुभूतार्थस्तच्छन्दो यच्छ- ब्दोपादानं नापेक्षते' इत्युक्त काव्यप्रकाशे । कथंभूतः । रामः । 'रः पावके च तीक्ष्णे च राः स्मृतः स्वर्ण वित्तयोः' इति विश्वः । रं पावकममति सेवत इति रामः। सदाहिता- निरिति तात्पर्यार्थः । 'अम गत्यादिधु' । 'गतेः पत्योः शब्दसंभक्तयोरादिशब्देन ग्रहः' इति दीक्षिताः । अमतेः पचाद्यच् । पुनः कथंभूतः । अभिरामः सुन्दरोऽत्यर्थ प्रतीतो हसन्मुखः । 'ख्याते हष्टे' इति कोशे तथा दर्शनात् । 'प्रतिपूर्वादिणः कर्तरि तः'। 'सं- पूर्वाद्धात्र आतश्वोपसर्गे' इति कर्मण्यङ् । 'लक्ष्मीवांलक्ष्मणः श्रीलः' इत्यमरः । अमात्यादि- भिर्लक्ष्मीवद्भिर्युकः इत्यर्थः । पुनः कथंभूतः । सद्भरतः विभीति भरः । 'डभृञ् धा. रणपोषणयोः' तस्य भावस्त्वतलौ । प्रकृतिजन्यवोधप्रकारस्वाद्यर्थः । सतां साधूनां पोषकता यस्य स इति बहुव्रीहिः । उपसर्जनहवलम् । 'आपोऽन्यतरस्याम्' इति विक- ल्पस्तु कप्येव । असाधुपोषकत्वं धर्मशास्त्रे प्रत्याख्यातम् । तथा च योगीश्वरः-'भक्का- वकाशाम्युदकमन्त्रोपकरणव्ययान् । दत्वा चोरस्य वा हन्तुर्जानतो दम उत्तमः ॥' इति । अत एव 'अदान्तान् दमयेत्' इति गौतमस्मृतिः । शिष्टपालनं च दुष्टनिग्रहमन्तरेण न संभवतीति विज्ञानेश्वरः । सर्वत्र सभामाशब्दलेपोपमालंकारः केचित्पदेषु प्रकृ. तिप्रत्ययश्लेषः । शास्त्रान्तरसंवादित्वेन निर्दूषणत्वं सर्वम् । याकूत विशेषणत्वेन परिकरच । संसृष्टिरर्यालंकारी या रसध्वनिश्चात्र वोध्यः । एकोऽपि नलो लक्ष्मणादिभेदत्रयमवगाह्य चतुर्विधत्वं प्राप्तवानिवेत्युत्प्रेक्षालंकारः । 'संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्' इति १ सर्गः] राघवनैषधीयम् । भरतसूत्रम् । इवशब्दोऽत्र व्यञ्जकः । उपजातिच्छन्दः । त्रिष्टुब् जगतीसांकर्यात् । 'घुनामनरकात्राणात्पुत्र इत्युच्यते' इति पुत्रशब्दव्युत्पत्तिः । 'पुनातीति वा पुत्रः' इति भाष्यकाराः श्रीशब्दशास्त्रस्येति दिक् । 'भ्रातृपुत्रौ स्वसूदुहितृभ्याम्' इति सूत्रं यदा भगवान् व्याचष्ट 'बिभर्तीति भ्राता, पातीति पिता, मान्यत इति माता, पुनातीति पुत्रः' इति ॥ सद्वृत्तसर्वकषयुद्धशौण्डहिंसीरदोद्धरणाय धात्रा । धात्रीप्रतोषाय समभ्युदायि क्षोणीतले सद्दयनः स एकः ॥ ३ ॥ धात्रा क्षोणीतले स एकः समभ्युदायि । 'डुधाञ् धारणपोषणयोः' । दधाति प्रजाः पुष्णातीति धाता तेन पृथिव्यां स प्रसिद्धः । श्रुत्यादिषु एकः । “एकमेवाद्वितीयं ब्रह्म' इति श्रुतेः । अद्वितीयश्चिदात्मा भगवान् रामः । समभ्युदायि । प्रकटीकृत इत्यर्थः । स- म्यक् समीचीनविचारेण समभिपूर्वादयतेः कर्मणि चिण् । उदयमानं प्रेरितवान् सत्प्रैरि । कर्मणि लुङि । 'गत्यर्थाः प्राय उत्पूर्वा उदयार्थाभिधायकाः' इतिभट्टमल्लकोशे उक्तम् । अत एव 'उदयति विततोलरश्मिरज्जौ' इति माधः । किंभूतः सः। सद्दयनः। 'दय दानगतिरक्षणहिंसादानेषु' । भावे ल्युट् । सतां दयनं रक्षा यस्य सः। परमकारुणिक इत्यर्थः । कस्मै प्रयोजनाय । सद्वृत्तेत्यादि । सत्प्रशस्तं वृत्तं चरितं येषां ते सद्वृत्ताः सा- धवस्तेषां सर्वकषा बाधकाः सूचकलात् । 'सर्वकूलाभ्रकरीषेषु कषः' इति खशि मुम् । 'सर्वकषः खलः' इति दीक्षिताः । सूचनं हि प्राणवियोगानुकूलव्यापारानुकूलखाद्धिसैव । ताडनादिवधान्ता हिंसैव । तथाविधाश्च युद्धशौण्डहिंसीराश्च संग्रामप्रवीणाः । सतां हिं- सका ये रावणादयस्तेषां दर्पोद्धरणाय अहंमदध्वंसाय । हृञ् हरणे । उत्पूर्वोऽयं हरति. रुत्पाटने वर्तते । तादर्थं चतुर्थी । पुनः प्रयोजनान्तरं विशिनष्टि-धात्री पृथ्वी निः- खाध्यायवषट्कारत्वात्पातकपीडिता भारायमाणा दैत्यैस्तस्याः प्रतोषाय अत्यन्ततोषाय प्रादुर्भावं प्राप्तः । 'यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥' इति गीतासु। तादर्थ्यऽत्रापि चतुर्थी । 'वृत्तं पद्ये चरित्रे च'। 'शौण्डो दक्षः प्रवीणः स्यात्' इति हैमः । 'हिंसीरो व्याघ्ररसो(दुष्टयो):' इति रभसः । 'हिंसेरीरन्' । 'एके मुख्यान्यकेवलाः' इत्यमरः । ण्यन्तात्तुषेरेरच् । उपसर्गद्योतकलम् । अनन्यसाधारणत्वं रामस्यैतावता व्यज्यते । रतिर्देवादिविषया व्यभिचारी तथाजितः । भावः प्रोक्तः' इति नारायणविषयिणी रतिरत्र व्यङ्ग्या सर्वत्रावसेया ॥ नलपक्षे- एवासद्दयनः स एको मुख्य इति विशेषः । असत्सु तमःखभावेषु दयनं हिंसा यस्य स इति बहुव्रीहिः। 'दय दानगतिरक्षणहिंसादानेषु' । शेषं समानमत्रापि प्रतिपत्तव्यम् । गृहे तिष्ठतामपि तमःखभावं विविच्य युद्धशौण्डत्वे सति तिरस्कारकत्वमभूदिति भावः । एवं च पौनरुक्त्यं त्रापि न शङ्कनीयम् । उपेन्द्रवजेन्द्रवज्रयोरेवानोपजातिकत्वम् । उप- जातिच्छन्दोऽत्र ॥

६ काव्यमाला ॥ निवृत्तचूडादिक एष रूप्यः पुरोधसा शास्त्रनिरुक्तवर्मना । शिखण्डकी पर्यरमद्वयस्यैरवद्वयस्यं चरितं न्यशाम्यत् ॥ ४ ॥ एष वयस्यैः सह पर्यरमत् । एष रामः उत नलः वयसा तुल्या वयस्याः। 'नौवयो-' इत्यादिना तुल्यार्थे यत् । 'वयस्यः स्निग्धसवयाः' इत्यमरः । तैः स्निग्धैः सह । सह- योग विनापीह सहार्थे तृतीया प्रतिपत्तव्या । 'वृद्धो यूना' इति निर्देशात् । पर्यरमत् । 'व्याङ् परिभ्यो रमः' इति रमेः परस्मैपदं बोध्यम् । इतस्ततो व्यलासीत् । किंभूत एषः । रूप्यः प्रशस्ताकारवान् । 'रूपादाहतप्रशंसयोः' इति यप् । 'रूप्यः प्रशस्तरूपे स्यात्' इति धरणिः । पुनः कथंभूतः । पुरोधसा वशिष्ठेन, सुमतिना वा शास्त्रे निरूपितं यद्वर्त्म मार्ग- स्तेनैव निर्वृत्तं चूडादिकं कर्म यस्येति बहुव्रीहिः। शेषाद्विभाषा' इति कप् । 'चूडा कार्या यथा कुलम्' इति योगीश्वरः । विद्यारम्भादय आदिशब्दोपादेयाः । पुनः कीदृशः। शि- खण्डकी । काकपक्षः शिखण्डकः । 'अत इनिठनौ' इति मत्वर्थीय इनिः । पुनरेषः । अखत् खीय इवाचरत् अखदित्यर्थः । य एव ददर्श स एवाहंमतोऽस्मीति हार्दात् अपि च एष द्वयस्यं चरितं न्यशाम्यत् । द्वयं द्रुतमार्ग स्यन्ति नाशयन्तीति द्वयस्याः साधवः तेषु योग्य इयस्यं वेदान्तविषयावच्छिन्नचरितं न्यशाम्यत् शुश्राव । 'निशाम्यतीति श्रवणे घ्रातौ जि. प्रति शिवति' इति भट्टमल्लकोशः । निपूर्वकस्य शमेः श्रवणार्थकत्वम् । योगवाशिष्टरामायणे वेदान्तचर्चाश्रवणं गुरुणा वर्णितं रामं प्रति । तत्रापि सुमतिः कृतयुगे नलं प्रति वर्णयांचने पुण्यश्लोकस्तेनाभूदिति ज्ञेयम् । यद्वा स्वः प्रमाणमेषां खद्वयसाः। प्रमाणे द्वयसच् । न स्वद्वयसाः अस्वद्वयसाः । तत्र साधुः अखद्वयस्यम् । कौमारपोगण्डयोरपि अवस्थयोः स्थविरचरितमेव श्रोतुकाम आसीदिति विशेषोक्तिरलंकारः । अभङ्गोपमासंसृष्टिः। अद्भुतो रसः । वयोरूपविभूतीनां मदकारणता भवत्यन्येषाम् । अनयोस्तु प्रहत्वं जातमिति भावः । जगतीभेदेन सहोपजातिरियम् । पुरोधा अपि अन्वर्थ एवासीत् । कति पुरो- धसो दुर्वृत्ता अपि भवन्ति माघमाहात्म्यादिप्रसिद्धाः । इदं ध्वनयितुं शास्त्रनिरुक्केति विशेषणम् ॥ सगाधिसूनूक्तिसमहणोऽगावाग्दर्शनं क्षोणिसुपर्वणां तत् । सिद्धास्पदं देवनदीभुवं च सरित्सरः प्रस्रवणानि वुन्दन ॥५॥ स द्राक् क्षोणिसुपर्वणां तद्दर्शनमगात् । दाशरथेः पक्षे-स रामो द्राक् शीघ्रंक्षोणि- सुपर्वणां भूदेवानाम् । विप्राणामिति यावत् दर्शनं नयनविषयमगात् प्राप्तवान् । विश्वामि- श्रेण पथि । नीयमानस्तांतानुषीन् पश्यन् तत्प्रसिद्धमित्यर्थः । यद्दर्शनं दुर्लभतरं तद्दर्श- नम् । कथंभूतः सः । गाधिसूनूक्तिसमहणः । यज्ञविघातशान्तये दशरथं याचितवान् । यदा तर्हि खयमेव दशरथसंतापं दूरीकृत्य विश्वामित्रमईयांचके । गमिष्यामीति ब्रुवन् सम्यकू, न तु शङ्कमान एव । इति रामायणकथानुसंधेया। गाधिनीम राजा तत्पुत्रो विश्वामित्रस्तद्वचनं तदुक्तिस्तदर्हणा यस्य स इति बहुव्रीहिः । किं कुर्वन् । सिद्धास्पदं १ सर्गः] राघवनैषधीयम् । सरित्सरः प्रस्रवणादिमध्ये मार्ग वुन्दन् । 'उबुन्दिर् निशामने' धातुः । निशामनं दर्शनम् । च देवनदीभुवमगात् । राजर्षेर्भगीरथस्य चरितं भागीरथ्या नयनं सकारणं सम्यगजा. नात् । य एव गत्यर्थास्त एव प्राह्यर्थी ज्ञानार्थाश्चेति शाब्दिकराद्धान्तः। भवनं भूः । संपदादित्वाद्भावे किप् । वुन्दिः खरित् ॥ नलपक्षे तु-गाधीत्यादि । 'गाध प्रतिष्ठा लिङ्गयोपॅन्थे च'। औणादिको णिनिः । इनिर्वा भुवश्च' इति चकारात् । गाधिनश्च गा. धिनश्च गाधिनश्चेति कृतद्वन्द्वानामेकशेषः । प्रतिष्ठावन्तश्च लिप्समानाश्च श्लोकैः स्तुव- न्तश्च तेषां (ये सूनवस्तदुक्तीनाम् ) मनसापि हीनलमविचारयन् किंतु सम्यगर्हणां कु- र्वन् परितो निषधदेशं चरन् । तत्तन्मुनीनां पुष्करादिवासिनां दर्शनसगात् दर्शनार्हत्वात् सिद्धानामाश्रमं कपिलादीनां सरितः सरांसि प्रस्रवणानि वुन्दन् पश्यन् देवनदीभुवं च मुनिभ्य एव अमरतरङ्गिणी चाजानात् । विशेषणानां तुल्यत्वमवसेयमन्येषाम् । उपे- न्द्रवजेन्द्रवज्रयोरेवोपजातित्वं स्मरणीयमत्र पद्ये विशारदैः ॥ गीर्वाणसिन्धोरुदयं च कौशिकान्निशम्य विस्मेरमुखो बभूव । न ताटकां खच्युतिमाजघान नो खतो द्विजातिप्रणयाय केवलम् ॥६॥ स इत्यनुवर्तते । स च स्मेरसुखो बभूव । किं कृत्वा । कौशिकाद्विश्वामित्रात् गीर्वाण. सिन्धोः उदयं निशम्य । गिर एव वाणा येषां ते गीर्वाणा देवाः शापानुग्रहसमर्थत्वात् तेषां सिन्धु दी गङ्गा । 'देशे नदविशेषेऽन्धौ सिन्धुर्ना सरिति स्त्रियाम्' । तस्या उत्पत्ति निशम्य श्रुत्वा मत्पूर्वजा इत्थंभूता जाताः, यैरित्थं सामर्थ्यमद्भुतं दर्शित मिति । विस्मेर- मुखः ईषद्धसनशीलः । 'स्मिङ् ईषद्धसने' । उपसर्गास्तत्तदर्थान्विशिंषन्ति' इति भा. ध्यम् । विपूर्वोऽयमाश्चर्ये । 'विश्वामित्रेऽपि कोशाच्चोलूकयोरपि कौशिकः' इति विश्वः । निपूर्वः शमः श्रवणे । स रामः स्वच्युति ताटकां नो आजघान । इति नेति काकुः । अपि तु आजघानैवेत्यर्थः । तत्र हेतुमाह-केवलं स्वतः खकार्यमुद्दिश्य नो आजघान अपि तु द्विजातिप्रणयाय स्वीयानां सुनीनां च्युति शो यस्याः सा तादृशम् । च्युङ् गतौ । गतिरत्र भ्रंशः। 'स्कन्नं पन्नं च्युतं गलितम्' इति कोशप्रामाण्यात् । 'स्वज्ञाता- वात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने' इत्यमरतार्तीयीके । ताडकां राक्षसीमाज- धानेव, केवलं निश्चितं द्विजातीनां प्रणयः प्रेम तस्मा एव । नन्विह शक्यते । 'अवध्या ब्राह्मणा गावः स्त्री तपस्वी च रोगमाकू' इति स्मृतिः धर्मस्थापनायावतरन् स्त्रीवध- कातरो रामः कुतो नाभूदिति । तद्विशङ्कनं परिह्रियते । उत्सर्गापवादन्यायेनैव सर्वत्र शास्त्रस्थितिः उत्सर्गवाक्यमिदम् । अपवादस्तु-'विप्रं दुष्टां त्रियं भ्रूणपुरुषघ्नीमगर्भि- णीम् । सेतुभेदकरी वाप्सु शिलां बध्वा प्रवेशयेत् ॥' इति । योगीश्वरवाक्यं कथं संगतं स्यात् तस्माद्विप्रादिहन्त्री तु हन्तव्येति निर्णयः शास्त्रे । अत एव द्विजातिप्रणयायेति ध्वनकं पदं प्रक्षिप्तम् । अन्यथा कुतर्करचना न कार्या कुतार्किकैः । विश्वामित्रमुखाद्विप्र- वधकारिणीं श्रुत्वा घृणासहासीदिति भावः। ताटकापक्षे क्षिपकादित्वादित्वं न बोद्ध- व्यम् । रूढिपक्षे रूढियोगमपहरतीति परिभाषया नेति डित्यादिवत् ॥ नलपाक्षे तु काव्यमाला। पूर्वार्धे कौशिकात्समस्तकोशज्ञासुमतेः सकाशात् कोशपदं चोपलक्षणम् । न हि व्याक- रणं विना कोशान् ज्ञातुं शक्यन्ते । न हि महाभाष्यं विना वैयाकरणो व्याख्यायते । न ही भाष्यपारीणः शास्त्रान्तरानभिज्ञो भवतीति समस्त विद्यार्णवावगाहित्वं सुमतेचं. न्यते । कारणमालालंकागे व्यज्यते । अपि च स नलः अखलः अखाननात्मीयान् रिपुं स्तस्यति नाशयति इत्यखतः । 'तसु उपक्षये' देवादिकः विप् । 'अधातो:-' इति नि. पेधान्न दीर्घः । विरोघे नसमासः । 'अप्राशस्त्यं विरोधश्च' इति भाष्यात् । न ताटकां स्वच्युति नो जघान । कस्मै प्रयोजनाय । केवलं द्विजातिप्रणयाय । नताः प्रणताः सा- धवः । 'प्रणतदेहिनां पापकर्शन मि' ति भागवते द्रष्टव्यम् । तानटन्ति यान्तीति नताटा वैष्णवानुसारिणः । 'अट पट गतौ' । पचाद्यच् । नताटानां कमानन्दो यस्याः सा । 'मुख शीर्पजलेपु कम्' इति विश्वः । सेदृशी-खच्युतिः निरन्तरं स्वर्णवर्षणं तां च्युतिं नो दूरीचकारेत्यर्थः । आहन्तेवारणार्थकत्वमत्र ध्येयम् । कोशाध्यक्षवैमनस्यप्रतिपादितवर्ण. वर्षरोधानुकूलव्यापारवत्ता कदाचित्रासीदिति भावः । च्युतिर् आसेचने । 'सर्वधातुभ्यः किन्' । वर्षणमित्यर्थः। द्विजातीत्यादिपदे तादर्थे चतुर्थी । अदेशकालश्रद्धादिव्याहत. तामसादिसंप्रदानकदानं कदाचित्तस्य नैवासीदिति व्यअयितुं केवलद्विजातिपदद्वयसं- दर्भणमवसीयतां पण्डितः। 'निणीते केवलमिति त्रिलिप्रत्येककृत्नयोः' इति तातीयीके। शेपं समानम् । जगल्या सहोपजातित्वम् ॥ सुवाहुमारीचवृतं पदं ययौ सत्रं रिरक्षीः समजीघटच्च । द्रुतिं खगैः स व्यपनेतुमिच्छन्नुद्यानगेवाश्रयदाङ्गनार्तिः ॥ ७ ॥ आमनातिः सुवाहुमारीचपदं ययौ । आमनमानासमूहः । 'तस्य समूहः' इत्यण् । तस्य स्त्रीसमूहस्य यन्मूर्ति दृष्ट्वा कामवाधा प्रतिग्राममासीत् । आननस्यार्तिर्यस्मात् । पञ्च- म्यर्थे वहुव्रीहिईटव्यः । ईदृशो भगवान् स सुवाहुश्च मारीचश्व ताभ्यां व्रतं पदं स्थान 'गौणमुख्ययोर्मुख्य कार्यसंप्रत्यः' इति परिभापया रक्षसां राजानी द्वौ गृहीतौ । उप- लक्षणमन्येपामतः राक्षसवृतं पदं स्थानं ययौ जगाम । किं चिकीर्षुः सः । सत्रं विश्वा- मित्रयज्ञं रिरक्षी रक्षितुमिच्छुः । सन्नताविप । 'र्वोरुपधायाः-' इत्यनेन दीर्घः । 'सत्र- माच्छादने यज्ञे सदादाने धनेऽपि च' इत्यमरः । च मारीचादीनां खगैः द्रुति समजीघ- टव सम्यक् चके । चेष्टा व्यापारः क्रियेति भाष्यात् करोत्यर्थवाचकलात् । किं चिकी- पैन् । आश्रमाद्यपनेतुमिच्छन् यज्ञार्थम् । ‘णी प्रापणे' व्यपपूर्वो दूरीकरणार्थः । महर्षि- व्यथां नुनुत्सने वेति भावः । 'स्यादुद्यानं निःसरणे वनमेदे प्रयोजने' इत्यमरः सामान्य. काण्डे । तेषां मुनीनां यज्ञविघ्नविघातप्रयोजनमेवाश्रयत् सेवितवान् । 'परित्राणाय सा- धूनाम्' इत्यादि गीतासु प्रतिपादितत्वात् ॥अथ नलपक्षे व्याख्यानम्-सुवाहुमारीच- खगैर्वृतं पदं ययौ । तर्हि कश्चन सुवाहुर्नाम वली राजा आसीत् । तमेव करदयांचकार मर्दयित्वा वहुधा । अथ वा शोभना वाहवो दोर्दग्डा येषां ते क्षत्रियकुमरास्तेपामपि घातकत्वादिग्विजये सुबाहुमारी । 'सुप्यजातौ णिनिस्ताच्छील्ये'। सुबाहुमारी खगैर्हसै- १ सर्गः] राघवनैषधीयम् । ९ .. वृतं पदं तडागस्थानं ययौ । किंभूतं पदम् । उद्यानमेव । नन्ववधारणं किमर्थम् । अन- नदाहव्यथाशान्तये तादृशपदयानस्यौचित्यात् । कथंभूतः सः। आमनार्तिः भागनी दमयन्तीजा आतिः पीडा यस्य स इति वहुव्रीहिः । तस्येदम्' इत्यण् । 'टिहा-' इति टीप् । 'स्त्रियाः पुंवत्' इति हिखः] पुंवद्भावकृतलम् । पुनः कीदृशः । सत्रं रिरक्षीः सदा दानं रक्षितुमिच्छुः । कदाचिदपि प्रार्थितविघातकत्वं तस्य नाभूत् । च द्वतिं व्यप. नेतुमिच्छन् आश्रयदेव । 'टुदु उपतापे' । स्वादिः । द्वति कामजसंतापं तत्र गम. नेन दूरीचिकीर्षन्नपि अनिवार्यवात्तामाश्रयदेव सेवितवानेव । चकारो द्वितीयोऽप्यस्ति । च खगैर्हसैः समजीघटत् । आत्मानमिति शेषः। चपरे णौ रूपम् । संगमितवानित्यर्थः। द्रौहिणरत्नस्वर्णमयगात्रविचित्रहंसदर्शनातां प्रति सांमुख्यमकरोत् । अर्थालंकारेष्वपि परिकरालंकारः । शब्दालंकारस्तु सर्वेष्वेव वर्तते। संस्कृतभापारूपोऽर्थान्तरलेषसंघटितो दुर्घटः कव्यन्तरैः स्वप्नेऽपि व्यधायि प्रवन्धोऽयम् ॥ मारीचमादुद्रुवदुग्रतेजा एकं परे नेशुरथो सलक्ष्मणः । जग्राह हांसी पदवीं बुधादितां नीचीनदेहो दयितार्तिजोपः ॥ ८ ॥ श्रीरामपक्षे-पूर्वलोकात्स इत्यनुवर्तते । स लक्ष्मणः मारीचमादुनुवत् द्रावयामास । वाणेनेति शेषः । 'दुद्रु गतौ' । चटपरे णौ रूपम् । अतिरं द्रावयांचके । कथंभूतः । उग्रतेजाः उग्रं तेजो यस्य सः एकमन्यं मुवाहुमदुद्रुवत् , न विलापितवान् न मारितवान् , अपि तु अनीमरदेव । 'विलीने द्रुतविद्रुती' । इत्थमर्थान्तरदर्शनादत्रैव द्वावौँ । ‘एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथा । साधारणे समानेऽल्पे संख्यायां च प्रयुज्यते ॥' परे अन्ये क्षणानेगुः । 'नाशः पलायने मृत्यावपध्वस्तावदर्शने' इति हैमः । सलक्ष्मण इति पदेन अन्ये सर्वे लक्ष्मणेनैव हताः शूरंमन्या इति ध्वनितम् । अथ नीचीनदेहो दयितातिजोपः बुधादितां हांसी पदवीं जग्राह । अथ निवर्हणान- न्तरं नीचीनो देहो यस्य सः । तथा पराक्रमे कृतेऽपि अनुखत एवेति ध्वनयितुं 'विभा- पधेिरदिक् स्त्रियाम्' इति खार्थे खप्रत्ययः । ईनादेशः 'आयनेयी-' इति सूत्रेण । दयितानां भक्तानां या आर्तिस्तां स्वयं जुपते इति कर्मण्यण् । 'यदा यदा हि धर्मस्य' इति स्मृतेः । भक्तानुग्रहार्थमवतारान् करोतीति भगवता व्यासेन निणीतवात् । हांसी हंसः सूर्यः । 'भानुहसः' इति कोशात् हंसस्येयमतिप्रकाशरूपा या पदवी तां जग्राह । तमोरूपराक्षसवाढ कलात् । ‘पदवी मृतिः' इत्यमरः । कथंभूतां पदवीम् । बुधैः पण्डितैरर्दितां प्रार्थिताम् । 'अर्द गतौ याचने च' । भौवादिको धातुः । 'बुध वृद्धौ पण्डितेऽपि' इति सामान्य काण्डे । 'हरिश्चन्द्रो रन्तिदेवो उज्वृत्ति शिविर्वलिः । व्याधः कपोतो वहयो ह्यध्रुवेण ध्रुवं गताः ॥' इति भागवते परोपकारस्यातिवर्णनात् । स्वयं स्तुत्यस्तान् महपान तुटावेति वन्यते ॥' अथ नलपक्षे व्याख्या-लक्ष्मणो लक्ष्मीवान् स एकं मारीचमादुद्रुवत् तेषां खगानां मध्ये इति प्रकरणमेव । 'शेपे' इति लक्षणं चाधि- कारश्च । मरीचिमिव्याप्तं मारीचम् । शैषिकोऽण् । व्याप्तेऽथ सुवर्णमणिकान्तिघ्राजिष्णु- राघव ०२ १० काव्यमाला ब्रह्ममण्डलप्रथानखात् अभ्यधाविष्ट । किंभूतः । उग्रतेजाः । परे तु नेशुः । पलायन्ते इति भावः । अथो पलायनानन्तरं नीचीनदेहः नीची नो वामनीभूतो देहो यस्य सः। कपटेन ग्रहीष्य इति बुद्ध्या निश्चित्य दयितार्तिजोषो दमयन्तीतो या आर्तिस्तज्जोषः अपारकामबाधाव्याप्तदेहः कश्चनात्रार्थे सहायं कुर्यादिति समालोच्य हंसानां हंसस्य प्रधा- नस्य वा तस्यैव पदवीं सरणिं जग्राह । मार्गरोधाद्धस्तेन जग्राहेत्यर्थः। ब्रह्मप्रेरितः सोऽपि जगृहे । अन्यथा कथं गृह्येत । कथंभूतां पदवीम् । बुधादितां पण्डितैरर्दितां बाधिताम् । विहामनिग्रहस्य साधूनामनहितखात् । 'अर्द हिंसायाम्' चौरादिको धातु- ोध्यः । क्तप्रत्यये द्वयोरेव तुल्यं रूपम् । तदेव छन्दः ॥ वैदेहमाश्रित्य पतिंवरोद्धं यज्ञार्थकेतं प्रभुमानयन्तम् । निमन्त्रितं धीरवरस्तदानीं विवाहचेता जनकास्पदं तत् ॥ ९॥ रामपक्षे-धीरवरः पण्डितश्रेष्ठो विश्वामित्रः तं प्रभुं तज्जनकास्पदमानयत् । प्रसि. द्धार्थस्तच्छब्दः काव्यप्रकाशे व्याख्यातः । तत्प्रसिद्ध जनकास्पदं मिथिलापुरमानयत् प्रापयामास । किं कृत्वा । पतिंवरोद्रं यज्ञार्थकेतं वैदेहमाश्रित्य पतिंवरा स्वयंवरा सीता तस्याः सकाशात् उद्भा अधिकं शोभा यस्य सः । साक्षालक्ष्मीः पृथ्वीतः प्रादुर्भूता यस्य यज्ञवाटे इति प्रतिष्ठाधिक्यं तदवधि तस्यासीत् । 'पतिवरा च वर्या च' इत्यमरः । तदानीमेव कौशिकनिमन्त्रणार्थ जनकेनागतं यज्ञायायं यज्ञार्थस्तादृशः केतो निमन्त्रणं यस्य सः । 'केत श्रावणे निमन्त्रणे च' । चौरादिको धातुः । केतनं केतो भावे घञ् । तं वैदेहम् । विदेहानां देशानां राजा वैदेहो जनकः विदेहस्य युवापत्यं पुमान् इति वा वैदेहः । आश्रित्य पूजया योग्यया संसेव्येत्यर्थः । 'श्रिञ् सेवायाम्' । 'षडा भवन्ति' इति श्रुतेः । अतः पूर्वकाले क्त्वो ल्यप् । कथंभूतं प्रभु रामम् । निमन्त्रितम् । नितरा- सर्थेषु मन्त्रिता यस्य स इति वहुव्रीहिः । 'गोस्त्रियोः' इति ह्रस्वम् । कथंभूतो धीर- वरः । विवाहे चेतो यस्य सः । रामलक्ष्मणयोर्विवाहो जनकपुर्या द्रुतं स्यादिति चिन्ता यस्य स इति ॥ अथ नलपक्षे वर्णनम्-धीरवरः तं प्रभुं वैदेहं यज्ञार्थकेतमानयत् । 'धीरः पण्डितमन्दयोः' इति धरणिः । तेषु श्रेष्ठो नैषधः कार्ये प्रभुं समर्थम् । कार्थ- शब्दोऽध्याहार्यः । यथा क्रियतामित्यत्र कर्ता स्वयमाक्षिप्यते तथात्रावसेयम् । क्रियाकारकसंबन्धस्य नित्यसंपृक्तखात् । वीनां पक्षिणां देहाः विदेहाः। विदेहानां हंसानामीशो वैदेहः । तस्येदम्' इत्यण् । 'शेषे' इति वाण । 'विविष्किरपतत्रयः' इत्य- मरः । तं हंसराजं यज्ञार्थः पञ्चमहायज्ञार्थस्तत्रैवोद्याने स्थान विशेष रचितोऽभूत् । केतः स्थानम् । 'कित निवासे रोगापनयने च' । स्वादौ धातुः । ततो घजि रूपम् । निवासे खार्थे सन्विधानं नाकार्षीत् , अतः सन्न । कथंभूतं तम् । पतिवरोद्धं पतिंवरा खयंवरा दमयन्ती तस्या उद्धा अतिशयितः प्रकाशो यस्मात् । 'लद्योग्या अभूतपूर्वा दमयन्ती अस्ति । तदर्थमहं घटिष्ये' इत्याकारकः प्रकाशो हंसादेव नलस्य समजनिष्टः । पुनः कथंभूतम् । निमन्नितम् । नितरां मन्त्रिता गुप्तपरिभाषणं यस्य सः । 'चतु- १ सर्गः] राघवनैषधीयम् । ११ कर्णस्य मन्त्रस्य ब्रह्माप्यन्तं न गच्छति' इति बृहस्पतिः । 'मत्रि गुप्तपरिभाषणे' धातुः । किं कृत्वा । ईषदाश्रित्य । पूर्व ग्रहणानन्तरं क्षणं तत्र स्थित्वेत्यर्थः। कथंभूतं यज्ञार्थ- केतम् । तत्प्रसिद्ध जनकास्पदं पितुः स्थानम् । वीरसेनेनैव पित्रा पूर्व पाठहोमादि- पञ्चयज्ञार्थं तत्र रचितमित्यर्थो व्यङ्ग्यः । इन्द्रवज्रोपेन्द्रवज्रयोरुपजातिच्छन्दः। अतो ब्रह्ममरालादद्भुताईवान्मद्विवाहघटनं स्यादिति चेतो यस्य स इति गूढो व्यङ्ग्यः । इदं नलविशेषणं बोध्यम् ॥ सत्तर्कवामास्पदमिद्धतेजाः : प्रयाय पूतां तनुमाचचार । परिच्छदस्य प्रगुणो नलो यो वाचंयमस्यास्य पराभिसारी ॥१०॥ रामपक्षे-इद्धतेजाः अस्य वाचंयमस्य परिच्छदस्य पूतां तनुमाचचार । इद्धं दीप्तं तेजो यस्य स इद्धतेजाः तादृशो रामः । 'वाचंयमपुरंदरौ च' इति सूत्रेण निपातितो मुनिवाचकोऽयम् । 'तपखी तापसः पारिकाङ्क्षी वाचंयमो मुनिः' इत्यमरः । 'परिच्छदः परीवारः' इति हैमः : पाषाणभूताहल्याया मुनिशापेन पवित्रां तनुमकार्षीत् । आचरति कृअर्थे । 'अनुतिष्ठत्याचरति' इति भट्टमल्लकोशे । न्यायशास्त्रकारकखात् प्रमाणादिषो- डशपदार्थनिरूपकलात् । (सत्तों गौतमः) तस्य वामा अहल्या तदास्पदं पाषाणीयस्थान नमिति तात्पर्यार्थः । तत्पदमधिष्ठाय चरणरजःकणैरिति व्यज्यते । देवविषयरतिः कवे- य॑झ्या । उत्तमकाव्यलक्षणं काव्यप्रकाशे । कथंभूतो रामः । प्रगुणः सरलाशयः। 'ऋ- जावजिह्मप्रगुणौ' इत्यमरः । पुनः कथंभूतः । अनलः । 'अलं भूषणपर्याप्तिवारणेषु' । अलतीति अलः । नालः समर्थों यस्मात् । भक्तानुग्रहातिसमर्थः इति यावत् । पुनः कथंभूतः । पराभिसारी परेषु प्रल्हादादिषु अभि समन्तात्सरतीत्यभिसारी । 'दूराना- स्मोत्तमाः पराः' इति त्रिकाण्ड्याम् ॥ नलपक्षे तु-इद्धतेजाः सत्तर्कवामास्पदं प्रयाय पूतां तनुमाचचार । इद्धं तेजोविशेषयुक्तत्वात् यस्य स इति बहुव्रीहिः । सौवर्णतनुलात् विरञ्चियानलात् । तथा हंसः । पटपुटीति चुरादौ दण्डके तर्कभाषार्थः । सन् तर्को भाषा संस्कृतरूपो येषां ते च ते वामा रमणीया विप्राः । 'वामौ वल्गुप्रतीपौ द्वौ' इ- यमरः । 'विपरीते सुन्दरे च वामो वामा तु योषिति' इति संसारावर्तः। तेषामास्पदं स्थानं यज्ञमन्दिरं गत्वा पूतां पवित्रां तनुमाचचार अकार्षीत् । होमधूमविप्रदर्शनादिना तनोः पवित्रत्वं शालायां सर्वेषां भवति। यतः-यो नलः पराभिसारी अस्य वाचंयमस्य परिच्छदस्य बुद्धिपरिकल्पितस्य प्रगुणः सोऽयं राजहंसस्तनुं पूतामाचचारेत्यन्वयः । प्रवर्णिता गुणा येन सः । 'प्रादिभ्यो धातुजस्य' इति वार्तिकवचनेन बहुव्रीहिर्बोध्यः । वाचंयमो भक्तिरस्येत्यण् । वृद्धलाप्राक् वृद्धिर्न दृश्यते । वाचंयमभक्तस्यास्य नलस्ये- त्यन्वयः। तिरश्चामयं दौत्ये सर्वोपहसनीयः स्यात् इत्थं निचिन्त्य रहस्यभेदभिया वि- विक्के मन्त्रमकार्षीत् । तत्रैव यज्ञशालायां गत्वा प्रोक्तवान् ॥

१२ काव्यमाला। विदेहराजः पुरमच्छगत्य दत्तार्घकः सर्वसमक्षमेषः । हिरण्मयी रत्नविचित्रितां तां ननन्द निःशेषपतद्विहाराम् ॥ ११ ॥ एष विदेहराजस्तां पुरमच्छगत्य ननन्द । विदेहानां हंसानां राजा । टच । स पुरं यज्ञागारमगात् । ‘अगारे नगरे पुरम्' इत्यमरः । यज्ञागारसंमुखं गत्वा । अच्छगत्येत्य- स्यार्थः । ननन्द जहर्ष । कथंभूतः सः । दत्तार्घकः सर्वसमक्षं सर्वेषां प्रत्यक्षं विरञ्चि- वाहनमिति क्षमापयित्वा विमोच्य पूजितवात् दत्तोऽ? यस्मै । चतुर्थ्यर्थे बहुव्रीहिः । कथंभूतां पुरम् । हिरण्मयीं स्वर्णमयीम् । रत्नैर्माणिक्यादिभिर्विचित्रिताम् । पुनः कथं- भूताम् । निःशेषपतद्विहाराम् । निःशेषाः सकला ये पत्रिणस्तेषां रमणं यस्यां सा ताम् । पुरशब्दस्य त्रीलिङ्गत्वात्पूःशब्दोऽत्र ऊह्यः । द्वितीयायां तस्य रूपम् । 'पूरगारे च न- गरे' इति हैमः । अथ श्रीरामपक्षे-एष विदेहराजः पुरमच्छगत्य ननन्द जल्हाद विदेहानां रांद विदेहराद तस्य पुरं मिथिलामच्छगत्य संमुखं गत्वा ननन्द । कथंभूतः। सर्वसमक्षं दत्तार्घकः । 'शेषाद्विभाषा' इति कप् समासान्तः । 'मूल्ये पूजाविधावर्घः' इत्यमरः । कथंभूतां पुरम् । हिरण्मयीं स्वर्णप्रचुराम् । पुनः कथंभूताम् । रत्नैर्मणिभि- विचित्रिताम् । विस्मयाधायिनीम् । पुनः कथंभूताम् । निःशेषपतद्विहाराम् । संपूर्णाः पतन्तः पक्षिणः पिकादयस्तेषां स्फीता समत्वाद्विहारः क्रीडा यस्यां सा । यद्वा अवि- वान्धकारग्रस्तपतन्जनज्ञानोपदेशरूपमार्तण्डप्रकाशद्वारा तेषां ब्रह्मानन्दाखादो यस्यां सा । मोक्षधर्मादौ जनकमहाराजवृन्दस्य तादृशवर्णनस्य भारतादौ प्रसिद्धत्वात् । उपजाति- च्छन्दः॥ विना बभाषे कुहकं सवान्ते तपखिना क्षोणिपतिविनीतः । कोदण्डमग्र्यं परिदर्शयंस्त्वं रामाय तोषं खलु लप्स्यसे मे ॥ १२ ॥ श्रीरामपक्षे-तपस्विना सवान्ते कुहकं विना विनीतः क्षोणिपतिबंभाषे । 'यज्ञः सवोऽध्वरो यागः' इत्यमरः । सवान्ते यज्ञान्ते । कुहको नटविद्याज्ञे कुहकं कुहना छले' इति मेदिनी । तपखिना विश्वामित्रेण । 'अस्मायामेधास्रजो विनिः' । तपःशब्दाद्विनि- प्रत्ययः । 'तसौ मत्वर्थे' इति मत्वम् । अतो रुत्वं न । 'विनीतं शिक्षिते नम्र' इति हैमः। विनीतो नम्रः क्षोणिपतिर्जनकः बभाषे उक्तः । कि मिति । हे राजन्, रामाय अत्र्यं 'कोदण्डधनुर्माहेश्वरं परिदर्शयन् त्वं मे । पञ्चम्यर्थे शेषे षष्ठी । मत्तः तोषमानन्दं खलु निश्चयेन लप्स्यसे प्राप्स्यसि । संशयो नास्ति खलुशब्दार्थः । माहेश्वरस्य चापस्याय्यत्वं श्रेष्ठत्वं वर्तते । येन स्वयंवरे राजानः सलज्जाः वान् गृहान् गताः । रामस्तु तादृश- धनुरारोपणे योग्यः समर्थत्वात् तव दुहितुर्वरस्त्वमपि परमानन्दं प्राप्स्यसि नान्यः क- श्चिद्योग्य इति भावः । तत्र कपटं विना परमर्षिरुभयोहितं विधातुं प्रावर्तिष्ठेति ध्वन- यितुं कुहकं विनेति पदं प्रायुत ॥ अथ नलपक्षे विवृतिः-सवान्ते । 'पुञ् अभिषवे' । 'पीडनं सुरासंधानं चाभिषवः' इति दीक्षिताः । निग्रहान्ते मोचने कृते सुखोपविष्टेन, १ सर्गः] राघवनैषधीयम् । १३ अत एव अतपस्विना संतापरहितेन विना पक्षिणा हंसेन । 'संतापतपसोस्तपः' इति हैमः । कुहकं विना छलं विना सत्यं राज्ञि दृष्ट्वा विनीतः क्षोणिपतिनलो बभाषे कथितः। किमिति । अयं बन्धनं दण्डं परिदर्शयन् त्वं कोऽसि । 'अस्तिर्भवन्तीपरः [वृत्तः लक्षाः' इति] अप्रयुज्यमानोऽप्यस्तीति 'गम्यते' इति भाष्यकाराः । अतोऽसीति स्वय. मेव संनिधत्ते । मे मत्तः खलु रामाया अयः प्राप्तिर्यस्मात् स प्राप्तिरूपश्चासौ तोषश्च तं मत्तो लप्स्यते । 'अय गतौ' भौवादिको धातुः । घजथै कविधानम् । ब्रह्मवाहन- खादेवं पीडाकरः कोऽसि । एतत्प्रयोजनं मम तदागतः । दमयन्ती सत्पत्नी मद्वचनेन भवित्रीति भावः । उपजातिवृत्तम् । अकुहकं यथा स्यात्तथा विनीतः क्षोणिपतिनलो बभाषे इति ॥ स्फीतेन राज्येन न मोदमेषि कोशेन पूर्णेन न वाहनेन । यथेमकेन व्यतिपातिना पुरा प्रयाति नूनं गुणवान्भवन्भवान् ॥ १३ ॥ रामपक्षे हे राजनिति अध्याहियते। त्वं स्फीतेन राज्येन मोदं हर्ष नैषि न प्राप्नोषि न प्राप्स्यसि । वर्तमानसामीप्ये लट् भविष्यति । तथा पूर्णेन कोशेन नैषि न प्राप्नोषि । तथा वाहनेन नैषि यथा गुणवान् भवन् भवान् व्यतिपातिना इसकेन पुरा हर्ष प्रयाति प्रयास्यति स्फीतेन बहुना । 'मुद हर्षे' मोद इति धञ् रूपम् । कोशोऽर्थसमूहः । 'सर्व स्याद्वाहनं यानम्' इत्यभिधानकोशः । गुणशब्दात्प्रशंसायां मतुप् । भवनिति भू. धातोः शतृप्रत्ययः । भवान् पूज्यार्थे युष्मच्छब्दार्थेऽवसीयते । व्यतिपातेर्णिनिः । प्रति- स्पर्धियोग्यपराक्रमकर्रेत्यर्थः । व्यतिशब्दः कर्मव्यतिहारद्योतकः । इमकेन कुमारेणा- प्यमुनेत्यर्थः । 'हखे' इत्यर्थे अकच् सर्वनाम्नः । प्रयाति प्रयास्यति । पुरेत्यासन्ने भवि- ध्यति काले धनुर्भङ्गानन्तरमिति ध्वनितम् ‘यावत्पुरानिपातयोर्लट्' इति भविष्यदर्थे लटू बोध्यः ॥ अथ नलपक्षे व्याख्यानं दर्शयति-यत्तदोर्नित्यसंबन्धात् 'तथा' इति व्या- क्षिप्यते । हे राजन् , गुणवान् सत्यशीलदयाक्षमार्जवादिगुणयुक् भवान् त्वं यथा इम- केन पुरःस्थितेन हंसेन व्यतिपातिना ब्रह्मवाहनवात् आकाशे विशिष्टेस्योऽपि अधि. कमुड्डीयमानेन स्फीतेन न कोशेन न वाहनेन नन्दिष्यति । 'पात उड्डयने' । 'पाते निपातश्चादिनाशयोः' इति हैमः । व्यतिशब्दोऽतिशायनद्योतकः । मां विसृज तव कार्यमहं कर्ता । त्रिष्टुप्जगत्योरुपजातिः । 'इत्थं किलान्यावपि मिश्रितासु स्मरन्ति जातिष्विदमेव नाम' इति वचनप्रामाण्यात् । ध्वनिकाव्यमुत्तमं दर्शितम् ॥ उदीरितोऽसाविति तेन शान्तो विसृष्टवानैशपरं विलोक्य । खगग्रहाभ्याग्रहणं चिकीर्षुः पौखं त्वरावत्तदुपाजहार ॥ १४ ॥ रामपक्षे वर्णनम्-तेनोदीरितः शान्तो जनकः इत्यसौ पौंस्नं विसृष्टवान् । किं कृत्वा । ऐशपरं विलोक्य ऐशं माहेश्वरं धनुः तत्परं रामं विलोक्य । किं चिकीर्षुः । खगग्रहाभ्याहरणं चिकीर्षुः खगान बाणान् गृह्णाति इति खगग्रहं धनुः तेषां ग्रहो .

१४ काव्यमाला। हणं यस्येति तस्याभ्याहरणं सभायां सर्वसमक्षं यदानयनं तच्चिकीर्षुः तत्कर्तुमिच्छुः । अथ त्वरावत्पौंस्नं तद्धनुरुपाजहार । सहसाधिका मल्लप्रायाः पुरुषाः शीघ्रं महता कृ- च्छ्रेण निकटमानिन्युरित्यर्थः । पुंसां समूह इत्यर्थे नञ् प्रत्ययः। 'स्त्रीपुंसाभ्यां ननौ भवनात्' इति सूत्रेण । 'जित्वरा संभ्रमे । घटादेः षित्त्वादङ् । अडन्तं स्त्रियामेव । ईशः शंकरः तस्येदमैशं तत्परं यस्य स इति बहुव्रीहिः । इमकेनेति पूर्वपवादनुवर्तते । इमकं राममित्यर्थः। 'अर्थवशाद्विभक्तिपरिणामः' । इत्थं भाष्यं जागरूकम् । 'अनाप्यकः' इत्यत्राककारकस्येत्यनादेशाभावः । विश्वामित्र विशेषणे विधित्सिते तेनेत्यस्य तमैशपरं विलोक्येति स्पष्टमेव ॥ अथ नलपक्षे व्याख्यानमाह-तेन पक्षिणा शान्तोऽनलोऽसौ इति व्यङ्गयेनोदीरितः । पण्डितस्तं विसृष्टवान् विससर्ज । किं कृत्वा । ईशानामि- न्द्रादीनामपीशो ब्रह्मा । त्यदादीनां बुद्धिस्थपरामर्शकलात् 'तस्येदम्' इत्यणि तस्येद- मित्यत्रेदंशब्दस्येशार्थप्रतिपादनं बोध्यम् । स पर उत्तमो यस्य स इति बहुव्रीहिः 'दूरा- नात्मोत्तमाः पराः' इति त्रिकाण्ड्याम् । विरञ्चिराक्रोशं चरेचेन्ममानिष्टं स्यादिति शङ्क- मानः । विलोकि विचारे द्रष्टव्यः । यद्यपि शालायां पूजित एवास्थात्पक्षी तथापि गच्छ यथेच्छमिति वाज्ञापितोऽभूदिति ध्वन्यते विसृष्टवानिति पदेन व्यज्यते । किं चिंकीर्घः । खगग्रहाभ्याहरणं चिकीर्षुः खगग्रहो हंसग्रहः तस्मादाद्वासुदेवाद्भीः तस्या आहरणं स्वीकारः आसमन्तादङ्गीकारः । 'हरणं प्रापणं स्वीकारः स्तेयं नाथनं च' इति दी- क्षिताः कौमुद्यां व्याचख्युः । 'अकारो वासुदेवः स्यात्' इत्येकाक्षरकोशः । 'अहिंसास- त्यमस्तेयम्' इति धर्मलक्षणम् । 'न हिंस्यात्सर्वभूतानि' इति श्रुतिः । ताडनादिव- धान्ता हिंसा प्रोच्यते इति विचार्येत्यर्थः । सात्विकानामिदं गर्हितमिति भावः । खराब- त्पौंस्नं तदुपाजहार । अदूरस्थो बाह्यदेशं पुरुषसमूहस्वरावान् तच्छासनं विसर्जयत पक्षिण इत्येवंरूपं छुपाजहार । अधिकमा समन्तादङ्गीचक्रे इति भावः । 'उपोधिके च' इति ज्ञापकादुपशब्दार्थवृत्तित्वं सिद्धम् । ततश्च सर्वे विसर्जिता इत्यर्थः । शरासनं वेगवशेन कृष्ट्वा रामोऽभनक्तं जनकाद्भुतप्रदः। विसिष्मिये भूपसभं पराक्रमं वीक्ष्यास्य मावतरत्वमै ॥ १५ ॥ रामपक्ष-रामो वेगवशेन तच्छरासनं कृष्ट्वाभनक् । कथंभूतो रामः । जनकाद्भुत- प्रदः । भूपसभमस्य पराक्रमं वीक्ष्य विसिमिये अस्य मावतारखमैट्ट इत्यन्वयः। रामो दाशरथिर्वेगवशेन जववशात् शरासनं कृष्ट्वा आकृष्य अभनक् वभञ्ज । कथंभूतो रामः । जनकाद्भुतप्रदः तदाश्चर्यदः तं पराक्रमं वीक्ष्य । 'शौर्योद्योगौ पराक्रमौ' । मिङ् ईषद्ध- सने । 'विस्मयोऽद्भुतगर्वे स्यात्' इति हैमः । अस्य वासदेवस्य मावतारत्वमैट्ट तुष्टाव । 'ईइ स्तुतौ' । लुग्विकरणाल्लुङि रूपम् । साक्षानारायण एवावतीर्णोऽत्र । ऐश्वरं धनु- भक्तुं को वा समर्थो नारायणं विनेति भावः ॥ नलपक्षे-रामो नलः । [नैगमों द्वौ] बले. रामो नीलचारुसिते त्रिषु' इत्यमरः । अतिसुन्दररूपत्वानलस्यारण्यपर्वणि भारते १ सर्गः] राघवनैषधीयम् । १५ वर्णितत्वात् । चारुवाची सर्वत्र रामशब्दः कोशप्रामाण्यात् । पूर्व वेगवशेन तं हमें कृष्ट्वा आकृष्य रागवेगार शरासनम् । 'शू हिंसाया' । 'ऋदोरप्' करः शरः गुरु इति रूपाणि । शरो वधः । 'सस गतिदीयादानेषु' आदानं ग्रहणं वधाय ग्रहणम् । 'ताड- नादिवधान्ता या सा हिसैव प्रकीर्तिता' इति मेदिनी। निप्रहाय ग्रहणमभनक् मर्द. यामास । दूरीचकारेत्यर्थः । जातकारुण्यः परनिग्रहोपहिसारूपमेव विचार्य दृरीवकार तदित्यर्थः । अथ जनकाद्भुतप्रदं विशिनष्टि-जनानां काढते आनन्दाश्चर्ये प्रददातीति जनकाद्भुतप्रदो हंसः प्रकरणाहन्ध एव आर्य कृतवान् । 'पुखशीर्पजलेषु कम्' इति विश्रः । अथ भूपसभं पराक्रमं दृष्ट्वा वीक्ष्य अपि च मावतरत्वं मानुगावतारं हरि- मिव वीक्ष्य ऐ । 'ईड दुतौ' लङ् । वर्ण यामास । अवतरतो भावोऽवतरत्वं शत्रन्ता. द्भावे लप्रत्ययः । इन्द्रवज्रोपेन्द्रवज्रयोरेवोपजातिः ॥ अभिख्यया या दमयन्त्यपूर्वलावण्यभाजः प्रथितेह सीता । सा राजवक्रोचितसङ्गभीतान्नलेन राजीववनी यथैव ॥ १६ ॥ शतादिरानन्द उपैतु तूर्णं राज्ञः कुलं हंसकुलैरमान्यः । चक्रेण शक्रेण समस्य तस्य सोऽयं स्वकार्यव्यवसायसायः ॥ १७ ॥ रामपक्षे-अपूर्वसौन्दर्ययुक्तान् स्त्रीसमूहान् दमयन्ती कान्या तिरस्कुर्वती या सीता प्रथितास्ति राजवफा सा उचितसमभीतात् प्राप्नोलेव । केन का इव । नलेन राजीववनीव । 'राजासौ रोहिणीप्रियः' इति कोशः । राजयद्वकं यस्याः सा चन्द्रा- ननेति फलितार्थः । 'दमु उपशमे' । हेतुमण्यन्तः । 'लावण्यं रामणीयकम्' इति धरणिः । 'विसप्रसून राजीवपुष्वाराम्भोरुहाणि च' । शतादिरानन्दस्तु कुलं पुरमुपैनु । कस्य । राज्ञः । किंभूतः । हंसकुलैरमान्यः । कथंभूतस्य राज्ञः । चक्रेण शकेण समस्य तस्य सोऽयं स्वकार्यव्यवसायसायः अस्ति । शतशब्द आदी यस्य सः । उत्तरपदे आनन्दो यस्य स इत्यर्थाच्छतानन्दो गौतमपुत्रो नः पुरोहितस्तत्रायोध्यायां गच्छतु शीघ्रम् । किंभूतः । हंसकुलैरमान्यः । 'हंसो मराले सूर्ये च न्यासभेदेऽपि कीर्तितः' इति केशवः । 'कुलं गोत्रे च संघाते कुलं जनपदे गृहे' इति मेदिनी । हंसः सूर्यः कुलं येषां ते हंसकुलाः सूर्यवंश्याः तैन मान्यो यस्मात् । अथ वा एन भगवद्वासुदे. वेनापि मान्यः । मान पूजायाम् । 'चक्रं चानीकमस्त्रियाम्' इति कोशः । कार्या ये व्यवसाया उद्यमास्तेषां सायोऽन्तः । कार्येषु निश्चितार्थ इत्यर्थः । सर्वथास्यार्थस्य कर्तव्यलात् । 'अन्तः स्वरूपे निकटे नाशनिश्चययोरपि' इति हैमः । 'उद्यमे व्यवसायः स्यानिश्चयेऽपि च पुंस्ययम्' इति रन्तिदेवः ॥ अथ नलपक्षे व्याख्या-इह सीता । इ: कामः, एर्हस इहसः सोऽस्यास्तीति:इहसी तामीता मनसा प्रपना अतिकन्दर्पभवन्मू- तिपनी लमेव मनसा प्रागेव प्राप्ता । 'वीगति-' इत्यत्रेकारोऽपि धात्वन्तरं प्रग्लि- प्यते' इति दीक्षिताः कौमुद्यामाहुः सर्वसंमतत्वात् । ततो निष्ठायाम् ईत इति रूपम् ।

काव्यमाला। टाप् । अभिख्यया नाम्ना 'अभिख्या नामशोभयोः' इत्यमरः । या दमयन्ती राज- वक्रा सोचितसाभीतात् । कथंभूता । अपूर्वलावण्यभाजः अपूर्वसौन्दर्यभाजां ना- रीणां मध्ये । यतश्च 'निर्धारणम्' इति निर्धारणे षष्ठी । एकत्वे च निधारणं भवति । 'जातिः पदार्थः' इति स्वीकारात् । “मिदचोऽन्त्यात्परः' इति सूत्रेऽज्ग्रहणमत्र ज्ञापकं बोध्यम् । प्रथिता विख्यातास्ति । 'अस्तिर्भवन्तीपरः' इति भाष्यम् । चन्द्रानना सा भवत्पत्नी भवतु । योग्यत्वात् । ‘णल गन्धे' । का केनेव । 'नेलो नालमथानियाम्' । कमलवनी नलेन यथा । त्वमपि नलनामासि कमलवनीस्थानीया सा तवैव योग्या- स्तीति भावः । ननु तत्र दूतो घटकः कः स्यादित्यशङ्याह-हंसकुलैरमान्यः शता- दिरानन्दः सोऽयं तूर्णं भीमस्य पुरम् उपैतु मल्लक्षणः पुरः स्फुरत्यक्षी प्रसिद्धः दौत्येन । शतपदमने कसंख्यामवगाहते । देवशतेष्वपि श्रेष्ठः । आदिशब्दः श्रेष्ठवाची प्रथमस्याग्रे- सरत्वात् । आनन्दयति रूपेण वाचा सर्वानित्यानन्दः । नन्दयतेः पचाद्यच् । हंसकुलैः नैकब्रह्मयानमरालैः न मान्यो यस्मादिति पञ्चम्यर्थे बहुव्रीहिः । उपैतु गच्छतु । कथंभूतस्य तस्य राज्ञः । चक्रेण बलेन इन्द्रेण तुल्यस्य कुण्डिनेश्वरस्य । अयं स्वकार्य- व्यवसायसाय एव । आत्मन एव कार्योद्योगनिश्चयोऽस्तीति भावः । मदेकसाध्यं तत्प्रा- पणमिति ध्वन्यते । युग्मम् । 'षोऽन्तकर्मणि' । भावे घञ् । 'आतो युक्' । कोशः प्रागेवाभिहितः । तदेव वृत्तम् । मां दूतं शीघ्रं समाज्ञापय पाण्डुवादिकामबाधां जहि इत्येवं हंसेन ध्वन्यते ॥ स राजहंसो वचनं महार्थं निगद्य मौनं जुजुषेऽभिरामम् । आरामभूतः प्रससाद रामो मध्येसभं सज्जनवन्दनीयः ॥ १८ ॥ रामपक्षे-राजहंसो जनको नाम अभिरामं महाथ वचनं निगद्य मौनं जुजुषे । 'स्युरुत्तरपदे-' इत्यादिवाक्यात्कोशस्य हंसस्य श्रेष्ठवाचकत्वं ज्ञेयम् । राज्ञां मध्ये हंस- मिवेति 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' इति समासः । अभिरामं सुन्दरम् । महार्थमर्थगम्भीरं निगद्य तूष्णीं वभूवेत्यर्थः । 'जुषी प्रीतिसेवनयोः' । लिट् । कथं- भूतो राजा । मध्येसभं सज्जनवन्दनीयः । आरामभूतो रामः प्रससाद । कथंभूतो रामः। सज्जनैर्वन्दनीय इति श्रीरामविशेषणमपि घटते । मध्ये पाठादेहलीदीपन्यायेनोभाभ्यां संबध्यते । 'वदि अभिवादनस्तुत्योः' । तृतीयासमासः । आरामभूत उपवनत्वं प्राप्तः । 'पारे मध्ये षष्ठ्या वा' इति मध्यशब्दपूर्वनिपातः । अयं भावः-शतानन्दयानेनाह्वा- नेन च पितुर्जनके प्रीतिमानभूद्रामः । अथ नलपक्षे-स राजहंसः हंसानां राजा महार्थं वचनमभिधाय मौनं सेवितवान् । कथंभूतम् । अभिरामं सुन्दरम् । रामोऽत्र नलोऽतिसुन्दरखात् । प्रागेवोकम् । 'नैगसौ द्वौ बले रामो नीलचारुसिते त्रिषु' इति १. 'नाला न ना पद्मदण्डे' इति मेदिनीसंवादादमरेऽपि 'नाला नालम्' इत्यस्यैव पाठस्य संमतत्वादत्रापि 'नालेन राजीववनी' इति पाठस्यैव योग्यत्वात्.

१ सर्गः] राधवनैषधीयम् । १७ वचनात् । नलस्य प्रकान्तवात् । नलायेति शेषः । मध्येसभं तत्र शालायां प्रस- नोऽभूत् । कथंभूतः । आरामभूतः । ज्ञानोपदेशद्वारा तापापहारेण शैत्यकारकत्वात् । अत एवोद्यानत्वं प्राप्तः । सज्जनैर्वन्दनीयः । दयाक्षमार्जवसंतोषादिशालिलात् । त्रिभिर्विशेषकम् । तदेव वृत्तम् ॥ विदर्भभूः प्रापि विनायकेन नरेशितुः शासनहारकेण । सुतस्य पाणिग्रहणं चिराय मा भूदिति प्रीतियुतोऽवदद्वराम् ॥ १९ ॥ रामपक्ष-विनायकेन विदर्भभूः प्रापि । 'विनायको गणपतौ शिक्षके दण्डधारके' इति हैमः । विशेषशिक्षकेण शतानन्देन । 'इभी ग्रन्थे । तौदादिकः । दर्भो ग्रन्थः । विशिष्टा दर्भा ग्रन्था यत्र वासिष्ठरामायणादयो ग्रन्था अज्ञानध्वान्तदलका यत्र तादृश- साकेतभूः प्राप्तेत्यर्थः । कथंभूतेन । नरेशितुः शासनहारकेण । नराणामीशिता जनकः तस्य शासनस्य हारकेण प्रापकेण । 'हृञ् हरणे' । ण्वुलू कर्तरि । 'ईश ऐश्वर्ये' । तृचू । प्रीतियुतः स मुनिः सुतस्य वत्पुत्रस्य परिग्रहणे चिराय मा भूदिति । वरां दशरथं गला अवदत् । 'देवोद्धृते वरः श्रेष्ठे त्रिषु क्लीवं मनाविप्रये' इत्यमरः । वरः श्रेष्ठः पुत्रो ह्यो रामो यस्य सः । 'अकारो वासुदेवः स्यात्' इति कोशः। वराशब्दस्य द्वितीयैकवचने वरामिति रूपमवबोध्यम् । जनकप्रेरितोऽहमागतः, धनुर्भङ्गानन्तरं विवाहो निर्णीतः, ससैन्यामात्यस्त्वं मिथिलां द्रुतं याहीति भावः ॥ अथ नलपक्षे व्याख्या-पूर्व नल: प्रससाद । हंसवचनमाय॒त्युक्तं तत्पदेन व्यज्यते । यदि भवान् दौत्ये शक्तस्तर्हि ग. च्छतु कार्य करोत्विति प्रसादे हेतुः । विनायकेन वीनां नायकेन हंसेन विदर्भभूः विदर्भ- देशभूः प्रापि । 'चाणक्येन नन्दानादृतेन श्राद्धे जिघांसता नन्दान् गच्छता दर्भाश्च- रणत उदका उत्पाटितास्तस्माद्विदर्भदेशत्वं जातम्' इति बृहत्कथासरित्सागरे द्रष्टव्यं कथानुसंधानम् । कथंभूतेन । नरेशितुः नलस्य शासनहारकेण आज्ञापितवार्ताप्रापिणा। 'पार्थिवे तनये सुतः' इत्यमरः । विनायको हंसः वरां दमयन्तीं तत्रावदत् । सुतस्य राज्ञस्वद्योग्यस्य नलस्य त्वत्पाणिग्रहणं चिराय विलम्बेन मा भूदिति । कथंभूतः । प्रीतियुतः । 'षु प्रसवैश्वर्ययोः' इति धातोः सुत इति रूपम् । 'क्तित्तौ च संज्ञायाम्' । ब्रह्ममरालवचनं ब्रह्मणा देवेन लिखितमिदं स्वीकृत्य विहरिष्यसीति भावः ॥ भैमी गुणैर्गुम्फितमूर्तिमाराद्भवत्कृतोद्वाहविधानशोभः । यदीह रामे निनयेद्विदेहभूस्तदैव सार्थक्यमुपैति नान्यथा ॥ २० ॥ रामपक्षे-यदीह रामो भैमी निनयेत् तदैव विदेहभूः सार्थक्यमुपैति अन्यथा न । कथंभूतो रामः । आराद्भवत्कृतोद्वाहविधानशोभः । कथंभूतां भैमीम् । गुणैर्गु- म्फितमूर्तिम् । दशरथं किमुवाचेत्याह-यदि इह अनावसरे । भीमाच्छं- करादेव यस्य सः भीमो जनकः तस्यापत्यं स्त्री भैमी । अन्यस्मानृपात्ख- नेऽपि यस्य भीनास्तीति भावः । 'टिड्डा-' इति डिप् । तां सीतामत्र परि- १८ काव्यमाला । णीय चेत्प्रापयेत् तदैव सा पुरी विदेहानां जनकानां भूः सार्थक्यं प्राप्नोति नान्यथा । श्रीसंकाशा सा नारायणेनैव रामेण संयोगमहति उत्कटबोधशालित्वं तेषा. मद्यैवोचितं भवति । अन्यथा नैव । कथंभूतो रामः । भवता कृता उद्वाहविधानशोभा यस्य सः । भवता तत्र शीघ्रं गन्तव्यम् । अतो जनकप्रेरितोऽहं समागत इति ध्वन्यते । कथंभूतां भैमीम् । गुणैः शीलसौन्दर्यादिमिर्गुम्फिता मूर्तिर्यस्याः सा । एवं च विल- म्बो न कार्योऽद्यैव गन्तव्यमित्युक्तं भवति शतानन्देन मुनिना ॥ अथ जलपक्षे व्याख्या-हे राजपुत्रि, यदि खामिति शेषः । इह रामः इ: कामस्तमपि सौन्दर्येण हन्ति ताडयती इहः स चासौ रामश्च अतिसुन्दरो नलः आत्मपुरं निनयेत् परित णीय गच्छेत् भीमस्यापत्यं स्त्री भैमी तां खां त्राणं निनयेत् तदैव विदेहभूः । 'पण्डा संवेदनं विदा' इति शब्दार्णवः । विदया बुद्ध्यैव ईहा व्यापारः क्रियामात्रं येषां ते विदेहाः नीतिशास्त्रपारीणास्तेषामियं भूः सार्थक्यं महात्मवमुपैति । नान्यथा । अन्यस्मै खां ददानो भीमो वुद्धिमान्यं लोके प्रकटयिष्यति इति हार्दोऽभिप्रायः । कथं- भूतो नलो रामशब्दलक्षितः । भवत्कृतोद्वाहविधानशोभः। भवत्या कृता कण्ठे माला- प्रक्षेपेण स्वयंवरे उद्वाह विधानस्य शोभा यस्य सः । 'सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः' इति वार्तिकवचनम् भवत्या कृता भवत्कृता इति रूपनिष्पत्तिर्वोध्या । कथंभूतां खाम् । गुणैर्गुम्फितमूर्तिम् । 'आराहूरसमीपयोः' इत्यमरः । आरान्निकटकाले विवाह- स्तव यथा स्यात्तथा यतनीयम् । त्रिष्टुब्जगत्योरुपजातिः। प्रस्तारे भेदवशादवसेया छन्दश्चितितत्त्वज्ञैः॥ स राजहंसो निगृहीतसंवित्सत्तर्कजोषां पुरमाजगाम । विहाय सा खेचरवृत्रहेव नभोविमानैरिव वीतिवर्यैः ।। २१ ॥ रामपक्षे-स राजहंसोऽपि पुरमाजगाम। राजश्रेष्ठो दशरथोऽपि पुरं मिथिलामागात् । कथंभूतो राजा। गृहीतसंवित् । 'स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु' इत्यमरः । क्रियाकारः संकेत इत्यर्थः । तयङ्ग्यवाच्यवृत्तिं पुरस्कृत्य संप्रजगामेति तात्पर्यार्थः । कथंभूताम् । सत्तर्कजोषाम् । सन्तस्तो यस्मिन् स गौतमस्तत्प्रधाना अन्ये च मुनयो यत्र सत्तकै जुषन्ते इति सतर्कजोषाः । अर्शआद्यचू । अस्यां सन्तीति पूर्विशेषणम् । कुतर्कश्रयणं यत्र स्वप्नेऽपि नास्ति 'किमीहः किंकायः' इत्यादिरूपः । तादृशीं नगरी नभोविमानैरिव वीतिवर्यैः नभ आकाशं वेगेन मान्त इव । 'मा माने' धातुः । उत्प्रे- क्षालंकारः । नभसो विशेषेण मानं येषां ते । वीतीनां तुरगाणां वर्याः श्रेष्ठा- स्तैरश्वैरतिशीजगाम । सपरिच्छ इति भावः । 'घोटके वीतितुरग-' इति कोशः । केन क इव । विहायसा खेचरवृत्रहा इव । उपमालंकारः। शब्दालंकारसंसृष्टिकाव्यं काव्य- प्रकाशे स्फुटीकृतम् ॥ अथ नलपक्षे व्याख्या-स राजहंसो ब्रह्ममरालोऽपि सतर्क- जोषां नलनगरीमाजगाम । विहायसा आकाशमार्गेणेत्यन्वयः। कथंभूतः। गृहीतसंवित् अवश्यं तस्यैव जलस्य वरणं कर्तार्ह इति दमयन्तीतः प्राप्य निःसंदेहसंकेतः । संवि- १ सर्गः] राघवनैषधीयम् । १९ । संकेत इति प्रागेव व्याख्यातम् । क इव । खेचरवृत्रहा गरुङ इव । कैः सार्धम् । तैः खकीयैर्हसैर्वान्धवैः सार्धम् । कैरिव । नभसि विमानैरिव व्योमयानैरिव विरञ्चेविमा- नत्वात्तेषाम् । वीनां पक्षिणामीतिर्गतं तेन गतेन वर्याः श्रेष्ठाः संडीनोड्डीनपारीणास्तैः सहेति निर्गलितोऽर्थः । 'विशेषणसूत्रे बहुलग्रहणादृक्षः शिशिपा शिंशिपावृक्ष इति प्रयोगा जायन्ते' इति भाष्ये भवव्याख्यानादीनि वर्यपरनिपातो जात इति बोध्यम् । अत्रोपेन्द्रवजेन्द्रवज्रयोरुपजातिः॥ पुरस्क्रियां तस्य यथा विधानं विधाय हांसप्रवरस्य राजा। वार्ती किलाचूचुदप्रमेयं सुसहवद्यं गणसेव्यमानम् ॥ २२ ॥ रामपक्षे-राजाऽप्रमेयं दशरथं वार्तमचूचुदत् किल । किं कृत्वा । हांसप्रवरस्य तस्य यथा विधानं पुरस्क्रियां विधाय । कथंभूतं दशरथम् । सुसत्यवद्यम् । पुनः कथं- भूतम् । गणसेव्यमानम् । प्रकरणाद्दशरथः प्रक्रान्तः । 'वात फल्गुन्यरोगे च' इत्य- मरः । कुशलमित्यर्थः । चुदिः पृच्छायामपि वर्तते । 'अहमपीदमचोद्यं चोद्यम्' इति महाभाष्ये तद्राजसूत्रे पृच्छायां प्रयोगात् । विक्रमादिना प्रमातुमशक्यमप्रमेयम् । 'शकि लिङ् च' इति कृत्यप्रत्ययः । 'हंसः सूर्ये मराले च हंसो जीवात्मनि स्मृतः' इति यादवः। हांसानां राज्ञां प्रवरस्य श्रेष्ठस्य तस्य पुरस्कियां पूजां विधाय कृला। कुशलं पप्रच्छेति तात्पर्यार्थः । 'वदः सुपि क्यप् च' इति पक्षे यत् । अतिसत्यवचन मित्यर्थः । गणेन सेनासमूहेन सेव्यमानमाराध्यमानम् ॥अथ नलपक्षे-राजा नलः तस्य हांसप्रवरस्य हंससमूहश्रेष्ठस्य । 'तस्य समूहः' इत्यण् । यथा विधानम् । विधानसतिक्रम्येत्यव्ययी- भावः । पुरस्क्रियां पूजां विधाय वात कल्याणमचूचुदत् किल पुनः प्रसिद्धम् अनुपम सत्यवादिनं गणेन हंससमूहेन सेव्यमानमन्वीयमानम् । उपजातिवृत्तम् ॥ गुरुर्वसिष्ठः करपल्लवेन युनक्तु वैवाहिकवर्यदिष्टे । वावर्तनं साकृत पूर्वमेव वधूर्नृपेत्याह च तं विदेहः ॥ २३ ॥ रामपक्षे व्याख्या-च पुनर्विदेहस्तमित्याह-वसिष्ठो गुरुरय वैवाहकवर्यदिष्टे । सेति वर्तते । 'अर्थवशात् विभक्तिपरिणामः' इति परिभाषा भाष्ये रूढा । तस्याः करपल्लवेन श्रीरामकरपल्लवं युनक्तु । विवाहे दीव्यन्तीति वैवाहिकाः । शशिकरमूलादि- भगणा ज्योति शास्त्रोक्ताः सन्ति तादृशे वर्षे निर्वेधे से संयोजयतु । दिष्टे काले प्रशस्ते। वधूः सीता धनुर्भङ्गानन्तरं वावर्तनं पूर्वमेवाकृत । 'वृतु वरणे' । वाग्रहणं वृतुधातोराद्या- वयवसिच्छन्त्याचार्याः । अत एव 'वृत्ते तु वृत्तवावृत्तौ' इत्यमरः । अवारीदिति।मालयेति भावः । हे नृपेति संवोधनं जनकीयम् । अणीयान् विलम्बोऽपि मम नास्ति । घटकता भवदधीनेति भावः ॥ अथ नलपक्षे व्याख्या-च पुनर्विदेहस्तसाह-वेः पक्षिणो देहो यस्य सः। आहेति बभूवेत्यर्थेऽव्ययं वर्तते । हे नृप, वसिष्ठः सुमतिः पुरोधाः । 'अतिशयेन वशी वसिष्ठः' इत्यतिशायन इष्ठन्प्रत्ययः । गुरुर्महान् । 'गुरुनिषेकादिकरे २० काव्यमाला । पित्रादौ सुरमन्त्रिणि । दुर्जरालधुनोश्चापि गुरुमहति वाच्यवत् ॥' इति विश्वः । महान् विद्वान् सुमतिरित्यर्थः । तदीयकरपल्लवेन वदीयकरपल्लवं युनक्तु । 'युजिर् योगे' लोट् । अहं तथा वाग्मितां व्यधां यथा नलमेव खयंवरे वरिष्यामि पुरुषान्तरनामग्रहण मपि न करिष्य इति प्रत्यज्ञास्त । सा श्रेयः परं ब्रह्मवाक्यादरीरधं गमनमात्रविलम्बोऽयं पदार्थ इति भावः । ब्रह्मयानत्वात्कामरूपिता तस्य संप्रति विदेहत्वं स्वीकृतमिति ध्वन. यितुं विदेहपदं प्रक्षिप्तम् ॥ स जालपादः पुरमाजगाम महेनलो धोरणतोऽभ्ययासीत् । तत्रान्तरे देवऋषिश्च नाकं शक्रास्पदं प्राप जवेन जिन्वन् ॥ २४ ॥ रामपक्षे -स जालपात् अः परम् आजगाम । अनलः सन् घोरणतो महे अभ्य- यासीत् । तत्रान्तरे देव ऋषिश्च नाकं जिन्वन् शकास्पदं जवेन प्राप । 'जल घातने । जालं घातनं तेन सह वर्तन्ते इति सजालाः हिंस्रा राक्षसादयस्तेषु पादो यस्य सः । रक्षोमूर्धमु पादप्रहारदानक्षमः ओ वासुदेवो रामः परं पितरम् । 'दूरानात्मोत्तराः पराः' इति तृतीयकाण्डे । 'पृ पालनपूणयोः' । पिपर्ति पालयतीति परः पोपकं पितरं पूर्व- माजगाम । स्वकेतादागतं प्रत्युजगानेत्यर्थः । ततो नालः समर्थो यस्मात् । अलं भूर- णपर्याप्तिवारणेपु । अलतीत्यलः । पचाद्यच् । न अलो यतः । धोरणेनेति धोरणतः । 'आद्यादिभ्य उपसंख्यानम्' इति वार्तिकेन तृतीया) तसिप्रत्ययः । 'सर्व स्याद्वाहनं यानं युग्मं पत्रं च धोरणम्' इत्यमरः । वाहनेन महे विवाहोत्सवशालायामभ्ययासीत्। अगमत् । परिणयार्थमिति तात्पर्यम् । तत्रावसरे देवो राजा दशरथः ऋषिर्वसिष्टय नाकं न विद्यते अकं दुःखं यस्मिन् सः नाको ज्ञानपूर्णः ब्रह्मानन्दाखादं तं जनक जिन्वन् प्रीणयन् शकास्पदमिन्द्रास्पदतुल्यस्थानम् । 'आस्पदं प्रतिष्टायाम्' निपातनम् । उद्वाहस्थान प्राप । पृथक् पृथक् । 'जिवि प्रीणने' जिन्वन् प्रीणयन् ॥ अथ नलपक्षे व्याख्या–स जालपादो हंसः। 'जालपादो मराले स्यात्' इति हैमः । जालाकाराः पादाः अस्येति स हंस उत्कृष्टं परं ब्रह्मलोकमगात् । तत्र महे नलो घोरणतो धोरणेन धो. रणं यानमारुह्य । त्यक्लोपे पानी । महे विवाहशालायां स्वयंवरेऽभ्ययासीत् । तत्रा- न्तरे देवऋषि रदश्च । समासेऽप्ययं प्रकृतिभावः । 'ऋत्यकः' इति । जवेन वेगेन जिन्वन् प्रीणयन् नाकं निरन्तरसुखम् । 'अकं पापे च दुःखे च' इति विश्वः । 'नभ्रा. नपान्-' इति प्रकृतिभावः । शकास्पदममरावती प्राप । पूर्ववदुपजातिवृत्तम् । 'राजा भट्टारको देवः' इति कोशः ॥ अपूपुजद्विष्टरगन्धमाल्यैवं मुनि संविधया यथावत् । भैमी स्फुरन्तीं प्रभयातिसर्वो जिष्णुर्विवोढुं यतते न किंवा ॥ २५ ॥ रामपक्षे-अतिसो जनकः ज्ञान विज्ञानसंपत्त्या सर्वानतिकान्तो जनकः विष्टरगन्ध- मात्यैर्यथावत् देवं दशरथं मुनि वशिष्टं गुरुं तेषां संविधया सामय्या मधुपर्कादि.

१ सर्गः] राघवनैषधीयम् । २१ भिरपूपुजत् आनर्च । 'पूज पूजायाम्' । चौरादिको धातुः । चपरे णो रूपम् । उत्त- रालंकारेण आह चेति लब्धम् । जिष्णुः गस्नुप्रत्ययान्तः । रामः प्रभया कान्या स्फु. रन्तीं भैमी सीतां मीर्मायस्य सः भीमो जनकः तस्यापत्यम् । 'तस्येदम्' इत्यण् । 'टिद्वाणञ्-' इत्यादिना टोप् । वा अवधारणे प्रश्न वा । विवोढुं परिणेतुं न यतते किम् । 'यती प्रयो' । एतावद्विलम्बो न कर्तव्यः । सुलमातिवर्तनमन्याय्यमिति भावः ॥ अथ नलपक्षे-जिष्णुः पुरंदरः । 'जिष्णुलेखर्पभः शक्रः' इति वचनात् । यथावत् तदह मिति संविधया । 'विधा विधौ प्रकारे च' इति कोशः । विष्टरगन्धमाल्यैः । विष्टर आसनम् । गन्धश्चन्दनम् । माल्यं माला । एमिरुपचारैर्देवं मुनि नारदर्पिमपूपुजत् । आनर्च । उत्तरालंकारेण तद्वाक्यं वक्ष्यमाणमूह्यम् । जिष्णुः पुरंदरो भवानतिसर्वो भूला प्रभया स्फुरन्ती भैमी वाशब्दः कक्षे । निपातानामेकार्थत्वात् । विवोढुं न यतते किम् आश्चर्यमिदम् । इन्दाण्या तव फल्गुरूपया किं भवति यदि दमयन्ती स्वयंवरे न लभसे तर्हि त्रिलोकीपत्यभिमानित्वं तव व्यर्थमेवेति ध्वनितम् । पूर्वववृत्तम् ।। आनन्दशब्दोत्तरमाह सौरं वचोविलम्ब गमयन्सुलग्ने । जितोर्वशीको सुरराट् विलोकितुं वैवाहशालं स हरिः प्रतत्वरे ॥२६॥ रामपक्षे-आनन्दशब्दोत्तरः शतानन्दो नाम सोरं दशरथं सूरस्य सूर्यस्य गोत्रापत्यं पुमान् सौरः तं वच आह विलम्बं गमयन् शीघ्रता ज्ञापयन् । य एव गत्यर्यास्त एव ज्ञानार्थाः । 'नलिवयुकमन्यसदृशाधिकरणे तथा ह्यर्थगतिः' इति भाष्यात् । किमा- हेत्याह-अविलम्बमस्तु विलम्बाभावोऽस्तु कार्ये इति । सुरराट् रामो जितोर्वशीको सीतां विलोकितुं द्रष्टुम् । 'नातश्च' इति कप् । वैवाहमुद्दिश्येत्यध्याहारः । तसरे वरया जगाम ॥ अथ नलपक्षे-आनन्दशब्दोत्तरः । 'सत्यं ज्ञानमानन्दं ब्रह्म' इति श्रुतिः। आनन्दस्य श्रीकृष्णाख्यव्रह्मणः । शब्द उपसर्गाद्याविष्कारे च । शब्दनं शब्दः । भावे घञ् । अद्वैतब्रह्मनामकीर्तनमेव उत्तरं यस्य सः नारदः सौरं सुराणामीशम् । 'तस्पेदम्' इत्यण् । सुलग्ने दमयन्ती विवाहलग्ने अविलम्ब शैघ्यं गमयन् ज्ञापयन् वच आह । पूर्वोक्तं वचनमुज्जगारेत्यर्थः । सुरराट् इन्द्रः । जितोर्वशीकां तां विलोकितुं वैवाहशालं विवाहकर्तारो भूग वैवाहाः । 'शेपे' इत्यण् । वैवाहानां राज्ञां शाला वैवाहशालम् । 'विभाषा सेना-'इति नपुंसकत्वं हस्खत्वं बोध्यम् । उद्दिश्येत्यध्याहारः । प्रतवरे बरया अब्राजीदित्यर्थः । कथंभूतः हरिः । यमादिसहितः। उपलक्षणतया व्याख्यानम् । 'का प्रीतिः सह मार्जारः' इतिवत् । त्रिष्टुवजगत्योरुपजातिवृत्तम् ॥ आमोदवांस्तं पवनः सिपेवे स्वःकौसुमोद्धान्तपटुद्विरेफः । प्रातिप्कशी वानल आतनोत्तदा प्रियासमक्षं गत उग्रतेजाः ॥ २७ ॥ रामपक्षे-खःकौसुमोड्रान्तपटुद्विरेफः आमोदवान् पवनः तं सिपेवे । कुसुमानां समूहः कौसुमम् । 'तस्य समूहः' इत्यण । वर्गस्य कौसुमं मान्दारपारिजातं तत्रोद्धान्ताः राघव०३ २२ काव्यमाला। पटवो गुजनप्रवीणा द्विरेफा यस्मिन् सः पवनो वायुः तं रामं भगवन्तमगोचरस्तदा सेवितवान् । 'पेट सेवने लिट् । उप्रतेजा वा निश्चयेन तदा अनले वैवाहिकेऽना ज्वलति सति प्रातिष्कशी सहायतामातनोत् । वेदवाक्यैरपरित्यागं जन्मपर्यन्तं प्रियायाश्चकारेत्यर्थः । 'प्रतिष्कशव कशेः' इति सुद ब्राह्मणादित्वात्म्यम् । पिलान्हीप् । 'अस्थिमिरस्थीनि संदधामि' इति वचनात् । 'प्रतिष्कशः सहाये स्याद्वार्ताहरपुरोगयोः' इति विश्वः । कथंभूतः प्रियासमक्षं गतः । अचलप्रन्ध्यनन्तरं मण्डपे यावने ध्यात इति भावः । प्रिया सीता तस्याः समक्षं प्रत्यक्षं गतः । 'प्रतिपरसमनुभ्योऽक्ष्णः' इति समासान्तः ॥ नलपक्षे-उप्रतेजा नल इन्द्रस्य तदा दौत्यं प्रातिष्कशी- मातनोत् चकार । इन्द्रेण 'त्वमेवारसत्कामव्यथावारणाय गच्छ, अन्तर्धान विद्यया महत्तया कोऽपि जनो न द्रष्टा' इत्युकः । कथंभूतः । प्रियासमक्षं गतः । 'आमोदः सोऽतिनिहारी' इति कोशः । खःकुसुमादिविशेषणं सौन्दर्यद्योतकम् । पक्षद्वयेऽपि तुल्यः परिकरालंकारः । त्रिष्टुब्जगत्योरुपजातिवृत्तं वोध्यम् ॥ नारस्य सो गोचर एव हारं पर्यष्टवीत्तत्वयमेव तत्र । विहाय तत्किं जगदीश्वरेण संपर्चनं वामहतश्चरेकिम्(त्कः) ॥ २८ ॥ रामपक्षे-तत्र शालायां प्रक्रान्तत्वात्पूर्व स जनकः कन्यापिता नारस्य नरसमूहस्य अविषय एकान्तत्वात् , हारं पर्यष्टवीत् । हरेनारायणस्यावतार नारदाधुकं रामं वर्णितवानित्यर्थः । इत्याह चोत्तरालंकारेण तद्वैष्णवं धाम जगदीश्वरेण संपर्चन संयोगं त्यक्त्वा को वामः प्रतिकूलकारी अत्र कं पुरुपान्तरं गच्छेत् । आस्महेत्यर्थः । तस्मादुचितकारित्वं संप्रति ममैव वृत्तम् । किमन्यत्कुत्सितमेव ॥ अथ नलपक्षे- नारस्य रक्षिवर्गस्य राजमन्दिरेऽगोचरोऽन्तर्धान विद्यया स नलस्तत्र कन्यापुरे खयमेव हारमिन्द्रचरितं पर्यष्टवीत् पुनः पुनर्वर्णयांचके । तज्जगदीश्वरेण संपर्चन विहाय को वामो मन्दो मे संपर्चनमितोऽत्र चरेत् । न कोऽपीति काकुव्यङ्ग्यम् । त्रिलोकनाथेन शची. पतिना सह नन्दनादिवनेपु रंस्यसे वयं मानवाः के वराका इति भावः । वा निश्चयः । एवं वाणस्य मनसा सत्यवादित्वं ध्वनितम् । उपजातिवृत्तम् ॥ सखीसहस्रेण समन्वितां तां चेतो हरन्तीमपि वैवुधस्य । अनन्यचितां समवेक्ष्य नान्यगेत्यचष्ट जिप्णुं स परीत्य तत्र ॥ २९ ॥ रामपक्षे-तत्र स परीत्य अनन्यचित्तां तां नान्यगेत्यचष्ट । कथंभूताम् । जिष्णु नार्यन्तरजयनशीलाम् । कर्तरि प्णुप्रत्ययः । पुनः कथंभूताम् । सखीसहस्रेण समन्वि. ताम् । पुनः कथंभूताम् । वैवुधस्यापि चेतो हरन्तीम् । अमिमिति शेषः । सोऽनि.परि. क्रम्य अन्यत्र रामं विना नास्ति चितं यस्याः सा ईशी तां वीक्ष्य अन्यंगा मनसापि नास्तीति अचष्ट । चक्षि दर्शनेऽपि ज्ञानदृष्ट्या विचारयामास । लहि रूपम् । विबु. धानां समूहो वैयुधं तस्य । तडियोतमानां विस्मायकरूपां समवेक्ष्य तुतोष ।

१ सर्गः] राघवनैषधीयम् । २३ । मनसा रामस्तदेति भावः ॥ नलपक्षे-स परीत्य तत्र इन्द्रादिस्थाने परावृत्य अन्यगा सा नास्तीति जिष्णुमिन्द्रमचष्ट कथयामास । 'चक्षिा व्यक्तायां वाचि ।' अर्थद्वयं विडन्ते दर्शितम् । किं कृत्वा । अनन्यचित्तां समवेक्ष्य । नान्यत्र चित्तं यस्याः सेति बहुव्रीहिः । कथंभूताम् । विशेषणपदं प्राग्वत् । कन्यापुरे तागतरूपा मया दृष्टा । मां विहायेन्द्रपनी भवेति चोद्यमाना नाजीगणद्युष्मान् मामेवावृणीतेति तात्पर्याधः । 'अभावे नए नो नापि मा म मालं च वारणे' । माशब्दोऽव्ययं निषेधार्थेऽमरेण प्रति- पादितः । 'खरादिनिपातमव्ययम्' इति सूत्रे मनोरमायां दीक्षिता अप्याहुः । मान्यगा । नान्यगेत्यर्थः । त्रिजगत्योरुपजातिः ।। हरे विजानीहि नरस्य वृत्तं प्रतिप्कशत्वं कृतवान्यथाहम् । उजिज्झिषास्या मनसः कदाचिन्नवास्ति मे को सूतिकत्वबुद्ध्या ॥३०॥ रामपक्षे-पुना रामो जिष्णुं रूपेण स्त्रीजिसरी सीतामाह-हे हरे, हरा वशीका- रिका चासो ईलक्ष्मीरिव तत्संबोधनम् । हे हरे मदशीकत्रि सीते, नरस्य वृतं विजा- नीहि । 'नृ नये' । पचाद्यच् । नयज्ञस्य मे वृत्तं चरित्रं विजानीहि । यथा वहिसमीपे शपथानका प्रतिष्कशत्वं सर्वथा सहचरो भविष्यामीति कदाचिन्मे मनसोऽस्यास्तव उजिज्झिपा नास्ति । 'उज्झ उत्सर्गे' जिहासा इत्यर्थः । सनन्तादप्रत्ययः। केन हेतुना । कौसतिकत्वबुद्धया । 'कुमृतिनिकृतिः शाट्यम्' इत्यमरः । कुत्सिता सतिः शीलमस्य को- सतिकस्तरवम् । कपटिखवुद्ध्या रूपसाधनं प्रतिष्कशशब्दस्य कोशश्च प्रागेव दर्शितः ॥ अथ नलपक्षे-हरा चेतोहरा ई त्रिलोकीशत्वलक्ष्मीर्यस्य स इति तत्संवोधनम् । हे हरे, नरस्य मे वृत्तं साध्वसाधु विजानीहि यथाहं तव प्रतिष्कशत्वं वाताहरत्वं कृत- वान् । दौत्यमित्यर्थः । यूयं देवाचतजानीपे सर्वसाक्षित्वात् सत्यमसत्यं वा अस्या दम. यन्त्या मे मनसः उजिज्झिपा नैवास्ति । प्रतिसंदेशं भवतेऽवोचत्कि करवाणि अहम् , कालत्रयेऽपि मां विहाय पत्यन्तरं करोति, मम तत्र को दोष इति भावः । प्राग्वदृत्तम् ।। तस्यां सभायां समलंकृतायां गतव्यलीकः स्थितिमाततान । सकौतुका खे सुरपातिरस्थान्नापी तु रामान्यरान्निरास्वत् ॥ ३१ ॥ रामपक्षे-गतव्यलोको रामः समलंकृतायां तस्यां सभायां स्थितिमाततान । 'व्यली त्वप्रियेऽनृते'इत्यमरः । गतो व्यलीको यतः सत्यवादी रामः तस्यां सभायां स्थितिम- वस्थानंचकार । तदानी रामविवाहोत्सवदर्शनाय खे सकौतुकासुरपालिरस्थात् । 'पालिः स्यख्यरूपतिपु' इति तातीयीकेऽमरः । नापी सीता तु । नृपस्यापलंत्री (रामान्यमुरान् निरास्थत् तत्याज) रामान्यसुरान् खेऽवस्थितान् हताशान् कृत्वा रामनेवाणीतेति भावः ॥ अथ नलपक्षे-छलेन पचनलीत्वं भूमिष्ठत्वं विधाय दमयन्त्याशया याकरोत् सा दमयन्ती सत्ये नखावस्थानं खचिहं विधाय तस्थौ सा नलमेवावृणीतेति सत्यपाशेन •: १. 'नान्यगा' इत्यस्य स्थाने 'मान्यमा' इति पाठः स्यात.

२४ काव्यमाला। बढेत्यदुतो रसः । उत्तरालंकारेण सर्वो गम्भीरार्थो लभ्यतेऽलंकारस्यैव तादृशी शक्तिः समुज्जृम्भत इति ज्ञेयम् । रामशब्देनामिरामः सुन्दरो नल एव । कोशः सुन्दरवाची प्रागेव दर्शितः। पूर्वार्ध नलपक्षेऽपि समानम् । प्राग्वद्वत्तम् ॥ वृन्दारका प्राप्तवरः स पावकः सौरी प्रतिश्रुत्य परार्धवर्णाम् । इयेष गन्तुं समितः प्रतीक्ष्यः संप्राप्य सद्यौतकमुन्नतेच्छः ॥ ३२ ॥ रामपक्षे–स पावकःप्रतीक्ष्यः समितो गन्तुमिवेष । 'पूञ् पवने' । अहल्यापावनःस रामः सर्वेषां पूज्यः । 'पूज्यः प्रतीक्ष्यः' इति कोशः। समितः सभातः गन्तुमयोध्यां प्रति इयेष । यद्वा समितप्रतीक्ष्य इत्य विसर्गः पाठः । संगतपूज्यः दशरथवसिष्ठादिसहितः । कथंभूतः । वृन्दारकै रूपिक्षत्रियैरपि । 'वृन्दारको रूपिमुख्यो' इति कोशः । अप्राप्ता वरा श्रेष्टा यस्य स इति बहुव्रीहिः । किं कृता । परार्ध्यवर्णा श्रेष्ठवर्णा सौरीम् । 'तस्ये. दम्' इत्यण् । सूर्यस्य प्रभामिव प्रतिश्रुत्य अनीकृत्य । परिणीयेति यावत् । पुनः किं कृला । सद्यौतकं संप्राप्य उन्नतेच्छो महेच्छः सन् कुअरदासीदासादियुतं जनकदत्तं परिवह संप्राप्य स्खयोग्य मिति तात्पर्यार्थः । 'यौतकादि तु यद्देयं प्रदायो हरणं च तत्' इति त्रिकाण्ख्याम् ॥ अथ नलपक्ष-वृन्दारकेभ्यः इन्द्रादिभ्यः संतुष्टेभ्यः आप्राप्तवरं नानावरान् प्राप्य स्वत एव सत्यपूतत्वात्कथाभिः पावकः कलिदोपन्नः संगतपूज्यः सुमत्यादिपूज्यः गन्तुं निषधपुरीमियेप अवाञ्छत् । 'पूज् पवने' । ण्वुल । किं कृला । परार्ध्यवर्णा सौरी सूर्यप्रभामिव दमयन्ती प्रतिश्रुत्य अन्नीकृत्य विवाहानौ । किं कृत्वा । उन्नतेच्छः सद्यौतकं योग्यं पारियाँ गंप्राप्येत्यर्थः। पूर्ववत् त्रिष्टव्जगत्यो- रुपजातिवृत्तम् ॥ पदं स्वकीयं त्रिदशाः समीयुः पुरी निजां क्षोणिपतिः प्रतस्थे । त्रियोजनं यावदतीतवान्पथं तावत्सपलैरुदजृम्भ(म्भ्य)ताध्वनि ॥ ३३ ।। रामपक्षे-कौतुकद्रष्टारस्त्रिदशाःप्रसन्नाः खकीयं पदं समीयुः । 'इप गता' लिट् । जग्मुः । क्षोणिपतिनिजां पुरी प्रतस्थे । यात्रियोजनं पथम् 'वाटः पथश्च मार्गश्च' इति त्रिकाण्डशेषः। त्रियोजनमिति पात्रादित्वानपुंसकत्वम्। पथशब्दोऽकारान्तः । मार्गमती तवान् अतिचक्राम तावत्सपनैरुदम्भ (म्भ्य) तावनि वहुभिः शिष्यैः सह परशुरामेण मुख्येन च उदजृम्भ(ग्भ्य)त प्रकटीभूतम् । इत्थं वहुवचनं सर्वेषां तदाज्ञाकारत्वात् ।। अथ नलपक्षे ते इन्द्रादयः पदं खं ययुः क्षोणिपतिनलः निजां पुरी निषधराजधानी प्रति प्रतस्थे यावत्रियोजनं पथमतीतवान् तावत्सपनैः क्षत्रियः स्वयंवरे तिरस्कृतैः अध्वनि बहुभिः समेत्य उदजृम्भ(म्भ्य)त प्रकटीभूतम् । त्रिपदं बहुखोपलक्षणं वोध्यम् । नलपक्षे वयंवरसमाजे तु इन्दाणी भलीकरोतीति नायुध्यन् । नलस्त्वनैषीत् । प्राग्वदत्तम् ॥

सर्गः] । राघवनैषधीयम् । २५ खरोधकः कार्णधनुर्विकृप्य खगेन सैन्यैरनुगम्यमानः । सत्यापकः क्षत्रियजित्वरस्य संसृष्टपातेन गमं व्यतानीत् ॥ ३४ ॥ रामपक्षे-क्षत्रियजिवरस्य कार्ण धनुर्विकृष्यकेन वाणेन तदीयखयानरोधकः सत्यापकः सत्यवचनकर्ता तेन परशुरामेण संस्पृष्टपात् स्पृष्टचरणः सन् गर्म व्यतानीत् अकापात् । सैन्यैरनुगम्यमानः त्रिःसप्तकृतः क्षत्रियजयशीलक्रुद्धो रामस्तं तर्जयामास । वैष्णवं धनुस्तद्धस्तादाच्छिद्य समारोप्य तदीयवर्गमार्गरोधको दाशरथिरेकेन वाणेना. सद्भुतं कर्म यदाकरोत् तदा तचरणस्पृग्जामदग्न्यो जिहाय । एवं रामायणकयो- तरालंकारेण व्यज्यते । सप्रति वर्गमार्गपरिघत्वं विधाय रामं मुमोच नान्यथेति ध्वन्यते । एतादृशकाव्यस्यैव काव्यप्रकाशे उत्तमकाव्यत्वं दर्शितम् । 'तत्प्रयोजको हेतुश्च' इति 'तृजकाभ्यां कर्तरि' इति निषेधस्यानित्यत्वदर्शना खरोधक इति समासः कृत इत्यवसेयम् ॥ अथ नलपक्षे-ये क्षत्रिया मार्गे नैषधेन संप्रहर्तुमागतास्तैरेव स नलः स्पृष्ट वरणः सन् निषधपुर प्रति गमं चचार । कथंभूतः। क्षत्रियजित्वरस्य स- त्यापकः तेषां क्षत्रियाणां मध्ये कश्चन दिग्विजये सर्वेभ्यः श्रेष्ठः क्षत्रिय आसीत् तं बवा गृहीतचरणं तयाज यदा शपथमकारयत्तेन । 'सत्यं शपथतथ्ययोः' इत्यमरः । धावणे णिजा पुक् च वार्तिकात् । खगेनेति 'जात्याख्यायाम्' इति सूत्रेण खगैरित्यर्थः । जाता- वेकवचनम् । जेयकृष्णदेवता काणम् । 'सास्य देवता' इत्यण । सैन्यैः सह महायुद्धं विधाय तपःसामर्थेन तान् जिला पुरं प्रति जगामेति भावः । इन्द्रवज्रोपेन्द्रवज्रयो. रुपजातिः ॥ लसत्पताकं नगरं प्रविश्य जैत्रो धनुप्मान्प्रणनाम मातृः । ज्येष्ठागुरूस्ता महनीयरूपां श्वश्वो विलोक्य प्रमदं परापन् ।। ३५ ॥ रामपक्षे-लसत्पताकं नगरं प्रविश्य मातः प्रणनाम तिस्रः गुरूः श्वश्रूज्येष्ठा सीता ववन्दे। तां महनीयरूपां ता विलोक्य प्रमदं हर्ष परापन् अलभन्त। गुरू गोष्पतिपित्राद्यो' इत्यमरः । 'वोतो गुणवचनात्' इति ङीप् । गुवाः गुरूः रूपद्वयम् । तामिति सीतो. पलक्षणम् । ऊर्मिलादयश्च तथाचक्रुः । अनन्तरं सर्वा दृष्ट्वा ननन्दुरिति भावः ॥ अथ नलपक्षे–स नलोऽपि तादृशं नगर प्रविश्य मातृः प्रणनाम । वीरसेनपत्न्योऽन्याः वहर आसनिति द्योत्यते । ताः प्राग्वदेव तां दमयन्तीं दृष्ट्वा जहूपुरिति तात्पर्यार्थः । इन्द्रवज्रोपेन्द्रवज्रयोरुपजातिः ॥ पुरस्थं परात्मानमाढ्यं गुणौघैः श्रिया सेव्यमानं कदाचित्प्रशान्तम् । विभीताश्रयः सान्तरः ख्यातकीर्तिः कलि म सोऽभ्याययौ नारदाहः ॥३६॥ रामपक्षे कदाचिनारदाहः कलि म पुरस्थं परात्मानमभ्याययौ । कथंभूतम् । गुणैरास्यम् । पुनः कथंभूतम् । श्रिया सेव्यमानम् । पुनः कथंभूतम् । शान्तम् । कथं. ।

२६ काव्यमाला। भूतो नारदः । विमीताश्रयः । पुनः कयंभूतः । सान्तरः । पुनः कयंभूतः । ख्यातकीर्तिः। नारद इत्याहा नाम यस्य स इति । 'त्रियाः पुंवत्' इति पुंवद्भावः (१) । नामेति प्रसिद्धावव्ययम् । अग्निमाणवक इतिवत्साध्यवसाना लक्षणा बोध्या। साक्षात्कलिकार- कत्वात्कलिरेव पुरि अयोध्यायां तिष्टन्तं परात्मानं 'रामं विद्धि परं ब्रह्म' इत्यध्यात्म- रामायणे । व्यापकं भगवन्तमभिमुखीकृत्य आययौ सौन्दर्यादिगुणसमूहपूर्ण त्रिया सीतया स्त्रिया सेव्यमानं प्रकर्पण शमनिष्ठं विशेषेण संसारागीता विभीता ध्रुवादयस्तेषां विद्यानुशासनेनाश्रयं शरण्यान्तरेण भेदेनान्यत्र कर्तव्येऽन्यवाताव्यवहारकलम् । मेद- शिक्षासु हितमित्यर्थः । 'अन्तरमवकाशावधिपरिधानान्तधिमेदतादर्थे । छिद्रात्मीय. विनावहिरवसरमध्येऽन्तरात्मनि च ॥' इत्यमरः। ख्याता प्रसिद्धा त्रिलोक्यां वार्ता गस्य सः ॥ अथ नलपक्षे–इन्दादिदेवतिरस्कारात्कुपितः कलिस्तदानीं निषधपुरी. मागत्य विभीतवृक्षाश्रयो भूला अवकाशान्वेषी पुराणादिख्यातवार्तः कलिः साक्षानि- टापरनामा स पुरस्थमुत्तमबुद्धि प्रशान्तं नलमाकान्तवान् । अभ्याङ्पूर्वो यतिराक्रमणे । उपसर्गास्त्वर्थविशेषद्योतकाः । चरणप्रक्षालनाभावमात्ररन्ध्रान्वेषणात् । कथंभूतः । नारदाहः नराणां समूहो नारम् । 'दो अवखण्डने' । नारं पति खण्डयति इति नारदः, नारद इत्याहा यस्य सः । कलिवेशे सति पुण्यात्मापि दुर्बुद्धिर्भवति इत्यर्थः । भुजग- प्रयातं छन्दः ॥ ततो वैष्णवीं भारती लोकनन्दां परानन्दधुं प्राप शृण्वन्नृमौलिः । उदाराः समस्ताः समस्ताविपुस्तं पुरा वृत्तगुम्फैरुदन्तैः समस्तैः ॥ ३७॥ रामपक्षे-ततो नृमौलिः परानन्दधुं प्राप । नृणां मध्ये मौलिरिव । 'मौलिः किरीटे धम्मिल्ले ककेलिनुमचूडयोः' इति विश्वः । 'स्युरुत्तरपदे व्याघ्रः-' इति कोशः : । एवं मौलिशब्दस्य श्रेष्टार्थाभिधायित्वम् । रामस्वतो नारदात्परानन्दं प्राप । किं कुर्वन् । लोकानन्दां वैष्णवीं शृण्वन् श्रीमद्भगवद्गुणानुवादरूपामत एव लोकानन्दाम् । 'टुनदि समृद्धौ' । कर्मण्यण् । टाप् । 'तितोऽथुच्' । 'स्यादानन्दथुरानन्दः-' इति त्रिकाण्ड्याम् । शृण्वन् सन् समस्ता उदाराः पुरावृत्तादिभिः तं समस्ताविपुरित्यन्वयः। 'उदारो दातृमहतोः' इति कोशः । 'इतिहासः पुरावृत्तम्' इति च । 'गुम्फ ग्रन्थे' तौदादिकः । भावे घञ् । इतिहासगुम्फितैरित्यर्थः । वहुवी हिसमासात् । सद्वृत्तस्यान्तो निश्चयो यत्र आध्यात्मिकज्ञानप्रकाशस्य नीत्यादेवेति भावः । तं रामम् । 'एञ् स्तुतौ' । लुङ् 'स्तुसुधूभ्यः' इतीट् । सम्यग्वर्णयामासुः। सभायां कदा राजा रामः स्यादिति स्मार्पः । वैष्णवीमिति । विष्णोरियम् । तस्येदम्' इत्यण ॥ अथ नलपक्षे- नृमौलिनलो राजा ततो विवाहोत्तर मध्येसभं उमतिजातूकर्ण्यचकदाल्भ्यादिभ्यो वैष्णवीं भारती भृण्वन् परानन्द) प्राप । कथंभूताम् । लोकानन्दाम् । उदारा इत्यादि च पूर्ववदेव विशेषणविशिष्टत्वं प्रतिपत्तव्यम् । भुजङ्गप्रयातं छन्दः॥

१ सर्गः] राघवनैषधीयम् । २७ तदीयाधिराज्यं विहन्तुं तदानीं नृपानुज्ञया मन्थरा दुःप्रवृत्तिः । समुद्रूपिताप्यास वार्ता कलीया यतः पुष्कराक्षी प्रजज्वाल कोपात् ३८ रामपक्षे तदा तदीयाधिराज्यं विहन्तुं नृपानुज्ञया मन्धरा दुःप्रवृत्तिरभूदिति शेषः । 'कर्मणि द्वितीया' इति सूत्रं व्याचक्षमाणो भाष्यकार आह-अस्तिर्भवन्तीपरः प्रथमपुरुषेऽप्रयुज्यमानोऽप्यस्तीति गम्यते । वृक्षः प्लक्षः अस्तीति गम्यते । नन् पान्तीति नृपाः लोकपाला इन्द्रादयस्तदनुज्ञया इन्द्रादिदेवे राज्यस्थे रामे राक्षसवधो न भविष्यतीति विचार्य नोदिता वाणी मन्धरा वुद्धा वा विवेशेति सा कैकेयीद्वारा विघ्नं करिष्यतीति प्रविष्टा वाक् सर्व विपरीतं मन्धरामाविश्य चक्रे इति रामायणकथा- नुसंधेया । दुष्टा प्रवृत्तिर्वार्ता यस्याः सा तथाभूता मन्धराख्या कैकेयीपरिचारिकाभूत् । यतः कारणात् पुष्कराक्षी कैकेयी कोपाजज्वाल । अत एव समुहूपितापि पण्डित- निन्दितापि रामराज्याभिषेकविनराजसंस्थादिदुर्वाती कलीया कलियुगीया त्रेतायुगे आस बभूवेत्यर्थ लिट् प्रतिरूपकमव्ययम् । उत्तरालंकारेण कथानुसंधेया। 'पुष्कर पजे व्योग्नि द्वीपेऽम्भति नपुंसकम्' इति हैमः ॥ अथ नलपक्षे-तदानीं नृपानु- ज्ञया तदीयाधिराज्यं विहन्तुं दूरीकर्तु मन्थरा । 'मन्य विलोडने' । 'मथि हिंसायां च' । मन्धनं मन्धः । मन्थं नाशं राति ददातीति मन्थरा । 'रा दाने' । दुःप्रवृत्तिः समुदृपितापि कलीया आस । नृपानुज्ञयेति पदेन कलियुगाविष्टः कदाप्यतथाचरितो नृपो नलः सभायां कितवराजमर्मया सह दीव्येत्यचूचुदत् । समुत्कर्षेण धर्मादिशास्त्रेषु दृपितापि सा वार्ता कलीया कलौ साध्वी कलहकारिणी । 'सर्वत्र अग्निकलिभ्यां ढक् वक्तव्यः' इति ढकोपवादत्वेन 'वा नामधेयस्य' इति युद्धाच्छः शैपिकः । चण्डतरा वभूव । यतः कारणात् पुष्करश्वासावक्षीच पुष्कराक्षी। वहुलग्रहणात्पुष्करशब्दस्य पूर्व. निपातः । अक्षाः कूटत्वेनास्य सन्तीत्यक्षी। 'अत इनिठनो' इति इनिर्मवीयः। लिहशेपः शब्दालंकारः । एवं च प्रजज्वालपदेन राज्यकोशादिकमपहत्य नलीयं दुष्ट- दायादः पुष्करो राज्यश्रिया द्यतजितयातीव चदाशे । नलो भ्रष्टश्रीको हतराज्योऽभू. दिति तिपदव्यप्रयम् । 'ज्वल दीप्ती' भावादिकः लिए । 'अक्षास्तु देवनाः पाशकाश्च ते' इत्यमरः । सन्नपि तथा चकार अन्येषां का कथेति भावः । भुजङ्गप्रयातं छन्दः ॥ अयं सुतः स्ताद्भरतो हि राज्ये वम्भ्रम्यमाणो विपिनेऽवसीदेत् । वधूसमेतो वरदानतः पुरा राजानमित्याह कनिष्ठमाता ॥ ३९ ॥ रामपक्षे-कनिष्टमाता । रामस्येति शेषः । राजानं दशरथमिसाह-किमिति । भरतः सुतो राज्ये स्तात् । वधूसमेतो वम्भ्रम्यमाणोऽयमवतीदेत् । कुतः । वरदानतः कारणात् । आभ्यां वराभ्याम् । दैवासुरयुद्धेऽक्षकीलः पतितः । कैकेयी द्रागवरुद्ध रथायथास्थानस्थं कृतवती तदा वरद्वयं न्यासभूतं नृपदत्तं तत्रादधे । तस्यमिदानी ययाचे । एकेन भरतामिपेकः स्यात् , अपरेण ससीतो रामो दण्डकान् गच्छतु नो ।

२८
काव्यमाला।
चेन्मरिष्यामीति सा निर्ववन्ध । तदा सत्यपाशवद्धो राजा तथैवाकरोदिति व्यज्यते
प्रवन्धरूपरामायणकथानुसंधानमित्यवसीयतां बुधैः॥ अथ नलपक्षे-कनिष्ठमाता ।
'कनिष्ठोऽतियुवाल्पयोः' इत्यमरः । कनिष्ठस्य तुच्छस्य लघुपदार्थस्य माता उच्चर्वका !
'माङ् माने शन्दे च'। जौहोत्यादिको धातुः । 'ण्वुल्तृची' इति कर्तरि तृचि
कृते सौपरे प्रसूवाचिमातृशब्दवद्रूपं जायते । पुष्करः कितवो राजानं नलमाह-
किमिति । हि अयं मलक्षणो जनः पुरा पूर्वकाले चूतकाले वरदानतः वरस्य श्रेष्ठस्य
पणे राज्यदालाद्धेतोः राज्ये निषधराज्ये स्तात् । भरतः । 'अप्यथातिशयो भरः'।
इत्यमरः । भरेणातिशयेन तस्यति व्यथते इति भरतः । 'तमु उपक्षये' । देवादिको
धातुः । ततः किए । अधातोरित्युक्तः 'अलसन्तस्य' इति दी| न सौ परे । 'सुतः
पार्थिवपुत्रयोः' इति तृतीये काण्डे : बल्लक्षणः सुतो राजा दुःखी नितरां दमयन्ती-
सहितो वने वम्भ्रम्यमाणोऽटन् अवसीदेत् । अथैव मम राज्यं लब्धा वनं गच्छेति
भावः । त्रिष्टुन्जगत्योरुपजातिः ॥
अक्षैर्निहीनत्वमवामुवन् राट् सलक्ष्मणोऽगापितृसद्म तूर्णम् ।
साध्वीयुतस्तादृशवेषदर्शनाद्यलापि पौरैर्धिगितीरयद्भिः ॥ ४० ॥
रामपक्षे-सलक्ष्मणो राट् साध्वीयुतस्तूर्ण पितृसद्म अगात् । कथंभूतो रामः ।
अक्षैनिहीनखमवाप्नुवन् । पौरस्तादृशवेषदर्शनात् व्यलापि । कथंभूतः पौरैः । घिगि-
तीरयद्भिः । निर्वन्धेन सीतयानुयातः प्रणामाय दशरथमन्दिरमयासीत् शीघ्रमेव ।
'अथाक्षमिन्द्रिये । ना द्यूतामे कर्पचके व्यवहारे कलिगुमे' इति तृतीयेऽमरोकिः ।
वो राजा भूला व्यवहारानारदोकान् । व्यवहाराध्यायेऽष्टादश करिष्यतीति पूर्वदिने
सर्वैरवधृतम्। अथ दण्डकगमनावधारणेन तैर्व्यवहारैवियोगमाप्नुवन् इति गूढोऽमिसंधिः।
'सती साध्वी पतिव्रता' इति कोशेऽमिसंधिः। विलपिः परिदेवने । 'विलापः परि-
देवनम्' इत्यमरोक्तिः । तादृशवेषदर्शनात् चीरवल्कलधारणात् ॥ अथ नलपक्षे-
लक्ष्मणः स राट् नलः । 'राजा राट् पार्थिवः' इत्यादिकोशः । साध्वीयुतः दमयन्त्या
युतः तूर्ण द्राक् पितृसद्म । तस्मिन्दिने नगरान्ते श्मशानकुट्यां न्यवात्सीत् । श्मशानं
स्थापितृवनम्' इत्यमरः । अगादगमत् । 'लक्ष्मीवालक्ष्मणः श्रीलः' इति कोशे ।
सामुद्रिकरेखात्मकपद्मादिराजचिहसमेतः पाणिपादे पूतपूर्वगत्या वा अथ पौरैर्निषध-
वास्तव्यः पट्टचीरधारिखदर्शनात् ताशवेपदर्शनादित्यस्यार्थः । 'ईर क्षेपे' चौरादिकः ।
'इतीरिते वचसि वचस्विना' इति माघात् । 'भव शरणमितीरयन्ति ये वै त्यज भट'
इति विष्णुपुराणाच व्यकवागर्थवं निणोंतमेव । ईरयद्भिः । कथयद्भिरित्यर्थः । त्रिष्टुक्.
जगत्योरुपजातिः॥
आर्योंक्तितः को न चिराय यायाद्वनं न सत्यात्परमोऽस्ति धर्मः ।
मुनीन्वुधानित्यथ संकथय्य प्रणम्य विश्राण्य वसून्यगाद्वनम् ॥ ४१ ॥

१ सर्गः]
राघवनैषधीयम् ।
२९
रामपक्षे-कः पुरुषः आर्योंकितः आर्यः पिता तद्वचनादनं चिराय अतिशीघ्र
न यायात् न गच्छेत्पुत्रः । अपि तु यायादेव । सत्यात्परमो धर्मो न । अथ रामो
बुधान् पण्डितान् मुनीन् संकथय्य संवादविषयीकृत्य प्रणम्य वसूनि हिरण्यादीनि
विश्राण्य दत्त्वा वनमरण्यमगात् ॥ अथ नलपक्षे-'अभावे नयनो नापि' इत्यमरः ।
अ आर्यः इति पदच्छेदः । कृतसवर्णदीर्घकः सन् अनार्योक्तितः न यायात् । अपि तु
गच्छेदेव । यतः सत्यात्परो धर्म एव न । 'सत्यं ज्ञानमनन्तं ब्रह्म' इति श्रुतेः।
सत्यस्य धमैकचरणत्वात् । पणबन्धे मयोक्तत्वात् । शेषं पूर्ववत् । त्रिष्टुब्जगत्यो-
रुपजातिः॥
बहिः पुरं यस्तमसा परिप्लुतोद्देशं व्यवालोकत चीरवासाः ।
व्यत्यक्रमीत्तत्र निशां समस्तां खास्तारयोग्योऽऽपि विधेर्नियोगात् ॥४२॥
रामपक्षे विवरणम्-चीरवासाः बहिः पुरं यन् तमसापरिप्लुतोद्देशं व्यवालो-
कृत । तत्र खास्तारयोग्योऽपि विधेर्नियोगात् समस्तां निशां व्यत्यक्रमीत् । चीराणि
वासांसि यस्य सः। 'अपपरि-' इति समासः। अत एव ज्ञापकाद्वहिर्योगे पञ्चमी ।
पुरादहिरित्यर्थः । यन् गच्छन् रामस्तमसानदीव्याप्तोद्देश व्यवालोकत विशेषेण ददर्श ।
'मुङ् गतौ' । परिपूर्वो व्याप्त्यर्थः । पर्यङ्कादिस्वापयोग्योऽपि भुवि तृणेषु तां रात्रि
व्यतिवायामास दैववशात् । वस्तुतस्तु आत्मेच्छानुसारी भगवान्नरलीलां कुर्वनिति
वेदान्ति सिद्धान्तः ॥ अथ नलपक्षे-चीरवासा नलः पुराबहिर्गच्छन् गाढान्धकार-
व्याप्तोद्देशं ददर्श । तत्र तमसेति व्यस्तं पदं ज्ञेयम् । तत्र श्मशानार्थस्तु पितृस त्यस्य ।
'श्मशानं स्यात्पितृसद्म' इति कोशात् । श्मशान एव रात्रिं समस्तां व्यतिक्रान्तवान् ।
अतदर्होऽपि विधीच्छयान्वभूत् । 'स्तृञ् आच्छादने' । आस्तारे वे घञ् खार्थि-
कात् । व्यत्यक्रमीदित्यत्र 'हृयन्त' इति न वृद्धिः । प्राग्वद्वत्तम् ॥
निषादराह् संवदनाधिगन्ता सलक्ष्मणस्तां रजनीं व्यतीत्य ।
उत्तीर्णकूलंकषकोऽतियत्नात्कुट्यां न्यवात्सीत्प्रमदासमेतः ॥ ४३ ॥
रामपक्षे-सलक्ष्मणः प्रमदासमेतः निषादराट् संवदनाधिगन्ताभूत् । 'अस्तिर्भ-
वन्तीपरः' इति भाष्यं प्रागेवोक्तम् । निषादराट् गुहस्तत्रागत्य संवादमकरोत्तेन
कृतसंवादो भक्त्या तां निशां व्यतीत्य प्रभात उत्तीर्णभागीरथीकः प्रयत्नाद्गुहानीतनावा
पारेगङ्गं कुट्यां न्यवात्सीत् ॥ अथ नलपक्षे-कश्चिनिषादानां श्रेष्ठः श्मशाने नलप्रि-
योऽवसत् तेन संवादं विधाय तां रात्रिं विनीय ततः कांचित्सरितमुत्तीय प्रयत्ना-
कुत्रचिज्जीर्णसभामण्डपान्तिके तमचीकरदिति हार्दोऽभिप्रायः । इन्द्रवज्रोपेन्द्रवज्र.
योरुपजातिः॥
सद्वापरं तु कलिना हृतवासाः सुन्दराङ्गोऽयम् ।
सहचैलखण्ड आटीद्वनाद्वनं कान्तयावियुतः ॥ ४४ ॥

३० काव्यमाला। रामपक्षे-कान्तया अवियुतः सहितः सद्वापर ससंदेहं यथा स्यात्तथा कलिना कलिः कलहः कैकेयीकृतदुष्टकलहेन हृतवासा हृतवस्त्रश्चलचीरसहितः सुन्दरदेहो- ऽयं रामो वनादनं पूर्ववनं परित्यज्योत्तरवनमाटीत् । 'अट गतौ' लुङ्। वभ्राम । 'संदेह- द्वापरौ' इत्यमरः । सीता सौधयोग्याङ्गना सकण्टके हिंस्रव्याघ्रवने कथं भयाज्जी. विष्यतीति कथं च भ्रमिष्यतीति संदेहवान् । 'कलिस्तिष्ये च संग्रामे संख्याने कलहे मतः' इति हैमः। 'चैलं वसनमंशुकम्' । पेशलमूर्तिभंगवानेव वनेषु परोपकाराय वभ्रा- मेति भावः ॥ अथ नलपक्षे-द्वापराख्ययुगसध्रीचीनाधमकलियुगेन व्याप्तसुन्दरदे- होऽर्धचीरवस्रोऽधिरजनि पक्षिहतवसनः शून्यसभामण्डपस्थच्छुरिकया शयानाया दम- यन्या वस्त्रा नमवाच्छित्त्वा क्रूरबुद्धिः कल्पावेशात्तां विहाय तद्वियुक्त एव वनादनं यधाम । सा तत्रैव परिश्रान्तादृटपूर्वघोरभ्रमणलेशा(वना)न्यद्राक्षीदिति तात्पर्यार्थः ।। दावं संदह्यमानं चण्डरवं वहिनैक्षिष्ट । नागेशं च तदन्तस्त्रात्वा तदंशितो व्यकृत । अग्रिमसौन्दर्यदिशं श्रित्वावसनं ततोऽवाजीत् ॥ ४५ ॥ रामपक्षे-वहिना दह्यमानं चण्डरवं दावमैक्षिट। अरण्ये भ्रमन् चटचटायितशब्द कुर्वाणं वनं ददर्श । वहिना भयंकरेग । 'दवदावी वनारण्यवह्नी' इत्यमरः । इह वन- वाची । तदन्तस्तन्मध्ये नागेशं लक्ष्मणमित एहीति नार्गान्तरे नीला त्राला रक्षिता तत्र दंशितस्वदंशितः । 'संनद्धो वर्मितः सज्जो दंदितो व्यूढकटः' इत्यमरः । 'दशि. दंशने' चौरादिको धातुः खार्थ णिच् । अग्रे निशाटो भवेदिति समनात । ताशस्थले. ऽपि अव्यकृत इति च्छेदः । 'अभावे नबनो नापि' इत्यनिषेधेऽव्ययम् । न व्यकृत । विकारं न लेभे इत्यर्थः। 'अकर्मकाञ्च' इति कृवस्ता। पूर्वरूपम् । अथ तृतीयार्धव्याख्या- 'शेपं गाथात्रिभिः पमिश्चरणैश्चोपलक्षिताः' इति गाथाछन्दः।तप्याख्यानं पद्यानन्तरम् । ततोऽग्रिमसौन्दरी आवसनमदिशां श्रिला अबाजीत् । ष्यनः पिलात् 'षिद्गौरादिभ्यत्र' इति की । 'हलसद्धितस्य' इति यलोपः । 'अकारो वासुदेवः स्यात्' । 'वस नेहेच्छाप- हरणेपु।' आसमन्तात्पीतिसहितं यथा स्यात्तथा महासुन्दरी सीतारामदिशामनुसत्य भीता वनमैक्षिष्ट ददर्श । 'ईक्ष दर्शने' । 'बज गौ' । 'वदब्रज-' इति वृद्धिः । अग्रिमा सौन्दरी यस्याः सा ॥ अथ नलपक्षे-स नलोऽमिना दयमानं चण्डरवं दावं वनमैक्षिष्ट ददर्श । 'ईक्ष दर्शने' लुङ् । तन्मध्ये नागानामीशं कर्कोटकं दयमान भीत. भीतं पाहीति वदन्तं वाला रक्षिला पुनरग्रे रक्षार्थ तइंशितवद्दष्टः सन्व्यकृत रूप्यं श्यामत्वं हस्वत्वं च लेभे । अतिसुन्दरत्साकोऽपि सेवकं न करिष्यतीति सौन्दर्य व्यप- नीय ऋतुपर्णनगरे कंचित्कालं व्यपगमय पश्चादनेनावृताको वसनेन पूर्वरूप प्राप्स्यसीति उपदिश्य वखं दत्त्वा विससति भारतकथानुसंधानं कृला व्याख्यातव्यम् । अग्रि. मसौन्दर्य दिशं श्रेष्ठसौन्दर्यदायकं वसनं तदत्तं त्रिखा संगोप्य ततोऽयोध्या प्रत्यवाजीत् ।

१ सर्गः] राघवनैषधीयम् । ३१ स नलो भूमिपतिः तेन दष्टोऽसौ हिताय शीघ्रमेव खतिश्यामानोऽभूत् । तथाभूतं विकारं नलः प्रापत् । त्रित्वा स्कन्धे गुप्तं परिष्ठाप्येत्यर्थः ॥ आकालिकवैकृतवान्पुरः पुरं प्राप शौर्ययुतः । मतमार्तुपर्णमखिलवाणकरं भारमास बहिः ।। ४६ ॥ रामपक्षे-शौर्ययुतः आकालिकवैकृतवान् पुरोऽग्ने मतमिष्टमार्नुपर्णपुरं प्राप । 'अगारे नगरे पुरम्' इत्यमरः । कथंभूतम् । अखिलवाणकरम् । पुनः कथंभूतम् । भारम् । तावद्वहिरास । रामो वाल्मीकारीत्यर्थः । आसमन्तारकालयति गोयन्ननान् प्राणिमात्रं वा । 'कल विल क्षेपे' चुरादिः । इत्याकालि । तादृशश्चासौ कश्च आकालिको यमः । 'को ब्रह्मात्मानिलार्केषु शमने सर्वनानि च' इति विश्वः । तस्मिनपि वैकृत- वान् भगवान् । 'त उतपराक्रमन्य विगणय्य शिरो नितेः' इति श्रीमद्भागवते वेद- स्तुतौ । विकृतमेव वैकृतम् । प्रज्ञाद्यण खार्थे मनुप् । युतः शौर्यण पराक्रमेण युतः । ऋतून वसन्तादीन् पर्णयति हरितयति प्रकाशयति तपोवलेन युगपदपि पर्ण चुरादिः । ऋतुपर्णस्य कवेः । वाल्मीकेरिदम् । 'तस्येदम्' इत्यण । कविरात्मनीन मिलने पद्ये- अनुवादाद्वाल्मीकिर्लभ्यते । 'कविर्वाल्मीकिशुक्रयोः' इति हैमः । कथंभूतं पुरम् । अखि- स्त्राणकरं सर्वरक्षाकरम् । गोव्यातादीनामपि प्रशान्तवैरत्वात् । पुनः कथंभूतम् । भारं कान्तिप्रदम् । अथ चित्रकूट वसताविति सांनिध्यतः पदस्य च । 'सांनिध्यतः सिद्धपदस्य वृद्धाः' इति शक्तिप्राहकत्वाच्छास्त्रेषु ॥ अथ नलपक्षे-'आकालिकडाद्य- न्तवचने' इति व्याकरणे सूत्रम् । आशुनश्वर इत्यर्थः कृतः । यदैव वसनपरिधायी तदैव म्वरूपभागिति आकालिकवकृत्यं स्वरूपस्य । आकालिकय कृतवान् शौर्ययुतः । पूर्व दिग्विजये पुरोऽये आतुपर्णपुरमयोध्याख्यं प्राप । कथंभूतम् । अखिलवाणकर पुण्यश्लोकत्वादस्य । भाभी र इव । अग्मितेजसमित्यर्थः । 'रः पावके च तीक्ष्णे च राः स्मृतः स्वर्णवर्णयोः' इति विश्वः । प्राग्यहिरास द्वारात् अनाहूतः प्रविशति । उद्यो- गपर्वण्युक्तत्वाद्वहिरतिष्टदानिवेदनात् । कश्चन शालिहोत्रपारीणो द्वारि तिष्टत्यन्येन वार्ता. मावेदयांचके इति भावः । राजान्तिककर्मकरोऽस्तीति ॥ द्वारि ध्रियते रामो दिदृक्षते सत्यपूतं त्वाम् । इत्युक्तः साकेतेट्परिचर्यायै पुनः सोऽभ्येत् ॥ ४७ ॥ रामपक्षे-रामो दाशरथिद्वारि ध्रियते सत्यपूतं त्वां दिक्षते इत्युक्तः स वाल्मीकिः साकेतेट्परिचर्याय बहिरभ्यत् संमुखं प्राप । 'धृट् अवस्थाने' । तिष्ठतीत्यर्थः । दिक्षते इति 'ज्ञाश्रुस्मृशाम्' इत्यात्मनेपदमवसीयताम् । 'माकेतः स्यादयोध्यायाम्' इति धरणिः । 'परिचर्या तु शुश्रूषा' इति त्रिकाण्ज्याम् । तादर्थे चतुर्थी । वाल्मीके: सत्यवादिलात् ॥ अथ नलपक्षे-रामः सुन्दरो भूतपूर्वगत्या । यद्वा 'रामो नीलचारु- सिते त्रिषु' इत्यमरः । एतर्हि रामो नीलः कृष्णवर्णः सर्पदष्टवात् । साकेद ऋतुपर्णः

३२
काव्यमाला।
पृथक्पदच्छेदः । परिचर्यायै । शालिहोत्रपारावारीणत्वान्मुनिवदभ्यर्हणीयो भवति ।
अभिपूर्वादिणो लट् । ऋतुपर्णः सत्यवादी पुराणप्रसिद्धः। तमाणिहदित्यर्थः । अन्येन
निवेदिते वृत्तश्रुते वहिरभ्येत् । उपगीतिः ॥
एकं तं श्रद्धाय हरिकार्यगृहीततादृशाभं सः ।
कृतसंवित्कं बहुधा न्यवीवसत्तत्र हर्यर्थम् ॥ १८ ॥
रामपक्षे-स कविः हरिकार्यगृहीततादृशाभमेकं तं बहुधा कृतसंवित्कं श्रद्धाय तत्र
हर्यर्थ न्यवीवसदित्यन्वयः । 'एकमेवाद्वितीयं ब्रह्म' इति श्रुतिः । 'एके मुख्यान्यकेवलाः'
इति कोशः । 'यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु' इति कोशः । हरेरिन्द्रय
कार्याय गृहीततादृशाकारं गृहीतमावतारं बहुधा कृतसंभाषणम् । 'स्रो संविज्ञानसंभा-
पाकियाकाराजिनामसु' इत्यमरोकिः । शेषाद्विभाषा' इति कए । कृत्सं वित्कमस्य व्याख्या-
नम् । श्रद्धाय अतीवाहत्य तत्र तागृहे शिष्यरचिते हर्यर्य हरिर्यमः तदर्थ तनि-
वृत्तये । 'अर्थोऽभिधेयरैवस्तुप्रयोजन निवृत्तिपु' इति थान्तेऽमरोक्तिः । मृतिं तरेयं श्री.
रामदर्शनादिति तत्त्वज्ञः खकथासंवादपूर्वकमीश्वरं वासयामास । 'वस निवासे' हेतुम-
णिच् लुङ् । 'श्रदन्तरोरुपसर्गवहृत्तिः' इति ल्यप् ॥ अथ नलपक्षे-स ऋतुपर्णः एक
साक्षाच्छालिहोत्रमुनिमिवाश्वविद्यायामश्व कार्याय गृहीततादृशवाहुकरूपं बहुधा कृतसं.
भापणं नलसारथिरवर्तिपीत्यादि ब्रुवाणमादृत्य सर्वाश्वपालाध्यक्ष कृषा हर्यथं तुरगार्थ
तत्र निवासयामास । कोशस्तु प्रागेवोकः । आर्याछन्दः ॥
अथ चित्रकूटवसतौ रेमे रामोऽभिरामगतिः ।
कविमात्मनीनमभयं शिश्राय कथाभिरुत्तमाभिस्तम् ॥ ४९ ॥
रामपक्षे-अथाभिरामगतिः स रामः चित्रकूटवसतौ रेमे । तु पुनरात्मनीनमभयं
कविमुत्तमाभिः कथाभिः शिश्राय । चित्रकूटाख्यः पर्वतः । 'वसती रात्रिवेश्मनोः'
इति मेदिनी । अभिरामा मुक्तिरूपा गतिर्यस्मात् । 'कविः काव्यकरे शरौ कविर्वाल्मी-
किशुक्रयोः' इति धैजयन्ती । 'आत्माध्चानौ खे' इति प्रकृतिभावान टिलोपः। अभयम् ।
रामोपासकत्वात् । उत्तमकथाः अध्यात्मविद्यया विचित्रोपनिषद्धर्माः । 'घिञ् सेवायाम्'
लिट् ॥ अथ नलपक्षे-अथानन्तरं रामः श्यामो बाहुकश्चित्रकूटवसतो चित्रकूटा इव
गिरिशिखराणीव वसतयो गृहा यस्मिनिगमेऽयोध्याख्ये रेमे व्यलासीत् । कथंभूतः ।
अभिरामगतिः प्रशस्वानां नृणां गतिः शरणं तनिगमे यः कविः सूरिरासीत् तमेवा.
मनीनमात्महितं तथानघं निष्पापं विचार्य कथाभिरुत्तमाभिहरिकीर्तनगर्भाभिः शिवाय
पर्यपेविष्ट । वैष्णवसमासत्रापि न व्यरंसीदिति भावः । तं प्रसिद्धक विमेव । 'प्रकान्त.
प्रसिद्धानुभूतार्थस्वच्छन्दो यच्छब्दोपादानं नापेक्षते' इति काव्यप्रकाशे राधान्तः ॥
सौधायिततार्णगृहो मृग्यमृगोयुक्तयोषाकः ।
अवरजनिव्यतिकीर्णः कचिद्दिष्टं व्यतीयाय ॥५०॥

१ सर्गः] राघवनैषधीयम् । ३३ रामपक्षे-सौधायिततार्णगृहः मृग्यमृगः युक्तयोषाकः अवरजनिव्यतिकीर्णः। राम इत्यनुवर्तते । कंचित् दिष्टम् । 'कालो दिष्टोऽप्यनेहापि' दिष्टं कालं व्यतीयाय । सौध इवा. चरितं तृणरचितं गृहं यस्य सः । तस्येदम्' इत्यण् । सौधशब्दादाचारक्यङन्तानिष्टा- कर्तरि । युका योषा यस्य सः । 'शेषाद्विभाषा' इति कप् । अवरा जनिर्यस्य सोऽनुजो लक्ष्मणः तेन सहितः । 'संपर्के च व्यतिकरः प्रकारबातयोरपि' इति हैमः । व्यतिपूर्वः किरतिरेष्वर्थेषु वर्तते । मृग्या अन्वेषणीया मृगा यस्य सः क्षात्रधर्मसात् ॥ अथ नल. पक्षे-अयुक्तयोषाक इति पूर्वरूपेणाकारलेपः । दमयन्तीरहितः अवरजनिभिरश्वपालैब- हुभिः सहित इत्यर्थः । शूदादयोऽप्यश्वीया भवन्तीत्यर्थः । शेपं प्राग्वत् । उपगीतिवृत्तम्॥ खर्यातवृद्धभूपा गतरामा यातलक्ष्मणा सा पूः । श्रितभरता विलपन्ती वभ्राजे तर्हि नो नूनम् ।। ५१ ।। रामपक्षे-खातो वृद्धो दशरथभूपो यस्याः सा गतरामा यातलक्ष्मणा, श्रित- भरता विलपन्ती सा पूरयोध्या न वभ्राजे नूनं निश्चयेनेयर्थः । मातुलगृहात् शीघ्रायातभरतापि ॥ नलपक्षे-सा निपधपुरी वर्गतवीरसेना गतरामः । रामः पूर्व सुन्दरखानलस्यावार्यः । प्रोपितनला निर्गतलक्ष्मणा निर्गतश्रीमन्जना धितभरता पुष्करप्रियवानटा एव बहुलास्तत्राभूवनिति भावः । 'भरता इत्यपि नटाचारणास्तु कुशीलवाः' इत्यमरः । विलपन्ती नलमेव पुण्यश्लोकं शोचन्ती तर्हि तदा प्रोषिते नले नाघ्राजिटेत्यर्थः । नूनम् । आर्याउन्दः ॥ श्यामाझं हरिमित्रं कविराडदचीचरज्जातु । द्विजको वरवर्णोऽहं प्रतिरोधि तयाटमाखेटी ॥ ५२ ।। रामपक्षे-जातु कदाचित् वाल्मीकिः कविराट श्यामा मेघश्यामं राम हरेरि- न्द्रस्य मित्रं तत्कार्यार्थावतारत्वात् खां कथमिति शेपः । उदचीचरत् उवाच । अहं द्विजकः । फुत्सायां कन् । शूदाचारो द्विजोऽहं पुरा आखेटी मृगयातत्परः प्रतिरोधि- तया चौर्यवृत्त्या। 'प्रतिरोधिपरास्कन्दि' इत्यमरः । आटमभ्रमिपम् । 'आखेटो मृगया स्त्रियाम्' इति कोशः । अत इनिर्मबर्थीयः । प्रतिरोधीति ताच्छील्ये णिनिः । व्याधक- मति प्राग्जन्मवृत्तवर्णनम् ॥ अथ नलपक्षे-कविराट् वुधश्रेष्ठ ऋतुपर्णः जातु हरि- मित्रमश्वमित्रं वाहुकं खां कथामुदचीचरत् । द्विजैरनुकम्पितो द्विजकः वरवर्णः महायशाः अहं जात्वेव न तु सर्वदा आखेटी मृगयार्थमाटम् । अस्य पार्श्वचरः प्रतिरो- धित्वेन मृगाणां व्याध इव । उपगीतिः ।। सप्तऋषींस्तेजोभिः : प्रकाशमानान्समद्राक्षम् । दर्शनलब्धविवोधो रामाख्यां प्रोजपन्नस्थाम् ।। ५३ ।। रामपक्षे-हे राम, तेजोमिः प्रकाशमानान् सप्तऋषीन् । 'समासेऽप्ययं प्रकृति- भावः' इत्युक्तम् । समद्राक्षं दृष्टवान् । शेर्लुङ । दर्शनानन्तरमेव लब्धबोधोऽहं रामे- राघव.४ ३४ काव्यमाला। तिवर्णद्वयं प्रोजपन् । वृषलतुल्यत्वाद्युत्क्रमोपदिष्टं जपन् । प्रोद्यगय मिदम् (8) । तत्रै. वातिष्टम् । 'गातिस्था-' इति सिचो लुक् । अस्थादिति ॥ नलपक्षे-मृगयार्थ वने धावंतानेवापश्यं सप्त ऋषीन् । दर्शनलब्धवोधोऽहमपि रामेति परब्रह्माख्यां प्रकर्षण जपनस्थाम् । उपगीतिवृत्तम् ॥ चलितोऽपि दूरदूरं हरिशरणोऽन्तर्दधुस्ते च । भुवनेशगुहां चित्रां तत्राहं तन्महोऽपश्यम् ॥ ५४ ॥ रामपक्षे-च पुनस्तेऽन्तर्दधुः । हरिशरणोऽहं दूरदरं चलितोऽपि भ्रष्टसमाधी भवनपि दृढं तन्मुकुन्दशरणलात् चित्रां भुवनेशगुहां भुवनेशः साक्षी चिदात्मा तद्रुहा हृदयगुहा । 'गुहां प्रविष्टावात्मानी-' इति व्याससूत्रात् । तत्रानिर्वचनीयं तन्महो ज्योतीरूपमपश्यं भगवन्तमिति तात्पर्यार्थः ॥ नलपक्षे-ऋतुपर्णोकिः । च तेऽन्त- दधुः । हरिशरणोऽहं दूराहूरं चलितः अपि पुनः शरयूरामयोर्मध्ये भुवनेश्वरशिवगुहां पाताले वर्तमानां कूर्माचले चित्रामद्धतां स्मरस्मेरसुधामाख्याप्रयितां दुरन्तां तत्र मूर्ति- त्रयात्मकं तेजोलक्षणं भुवनेश्वरमद्राक्षम् । दशदिग्गमनं ततो भवतीति कूर्माचलेऽस्तीति स्कन्दपुराणान्तर्गतभुवनेशानमाहात्म्यमवलोक्य बुधैः प्रतिपत्तव्यम् ॥ आव्रज्य चिरात्तेऽमी नाकुं पुपुवुर्दयार्दा माम् । ऋतुपर्ण कविमुक्त्वा खैरव्रज्या व्यचारिपुर्जोपम् ।। ५५ ।। रामपक्षे-तेऽमी ऋषयश्चिराद्वहुवर्षान्ते आव्रज्य आगत्य नाकुं वल्मीकभूमि पुपुवुः पवित्रीचक्रुः स्पर्शादिभिः । कथंभूताः । दयाः ऋनुपर्ण कविं प्रोच्य खैर- व्रज्याः स्वच्छन्दगा जोपं व्यचारिपुः । 'वामलूरश्च नाकुश्च' इति । कोशः । 'मन्दखच्छ- न्दयोः खैरः' इति च । 'व्रज्याटाट्या पर्यटनम्' इति । खैरं व्रज्यं गमनं येषां ते इति बहुव्रीहिः । 'तूष्णीमर्थे सुखे जोषम्' इति तृतीये। ऋतूनां सर्वेषां पर्णत्वं हरितीभावः । सार्वकालिकत्वं यत्प्रभावादेतादृशं कविमादिकविशब्दमाज मामभिषायेत्यभिप्रायः । अतःपरं वाल्मीकिः कविराद परमर्षिर्भविष्यसीति वरं ददुः ॥ अथ नलपक्षे-तेऽमी ऋपयश्चिराद्विलम्वेन आव्रज्य आगत्य आ समन्तात्कुः पापं यस्य स आकुः । पापकु. सेपदर्थे कुः' इत्यमरः । 'अत्युधैः सौ' इतिवत्कृते वहुव्रीही जायन्ते । तमीदृशं मां दयार्दा न पुपुवुरिति न, पुपुवुरेव । काकुः कषि पण्डितमृतुपर्ण मामभिधाय जोष खैर- चारिणो व्यचारिपुः । वाहुकं प्रति ऋतुपर्णोकिरियम् । अद्भुतभुवनेशाख्यशंकरदर्शनात्त्व. मुत्तमश्लोको राजर्षिर्भविष्यसि पण्डितोऽपि भवितेति प्रसादं चक्रुः ॥ श्यामाङ्गो हरिमित्रं विसिप्मिये तां कथां श्रुत्वा । अथ भरतः परिकरवान्स्थलीमयोध्यां सतीर्थोऽगात् ॥ ५६ ॥ रामपक्ष-इयामामो हरिमित्रं ता का श्रुत्वा विसिध्मिये । अथ सतीर्थः परि. करवान् भरतः अयोध्यां स्थलीमगात् । मेघश्यामागलादामस्य श्यामा इति नाम ।

१ सर्गः] राघवनैषधीयम् । ३५ हरेरिन्द्रस्य मित्रं विसिमिये । 'मिङ् ईपद्धसने । आश्चर्ययुक्तोऽभूत् । मानुषचेष्टां दर्शयन् अनन्तर मातरे संतज्यं कृतपश्चिमऋतुः पुरोधसा समं तीर्थ शब्देन पुरोधा वसिष्ठः परिवारेण समस्तेन सहितः ससैन्यः श्रीरामपदभाक् पादचारेण । अयमेवो. त्कर्षेण ध्यायन्तीति अयोध्या मुनयः । 'अयः शुभावहो विधिः' इत्यमरः । 'आतोऽनु- पसर्गे कः' । अर्श आद्यच् । अयोध्यावन्ती । 'मतौ बहवः' इति दीर्घः । अगात् जगाम । स्थली चित्रकूटस्थलीम् ॥ अथ नलपक्षे-हरेरश्वजातमित्रम् । श्यामाको वाहुकस्वां कथां ऋतुपर्णाच्छुखा विसिप्मिये । अनन्तरमेव कश्चिन्नटराजो भरतः सपरिकर उपयोगिकलत्रादिना युतः । 'भरता इत्यपि नटाः' इत्यमरः । सोपाध्यायः परमैन्द्रजालिकः सर्वत्र लब्धप्रतिष्ठाकः अयोध्यां स्थली पुरी वा अगात् । 'स्वर्णेऽपि राः परिकरः पर्यक्षपरिवारयोः' । 'तीर्थ शास्त्रावरक्षेत्रोपायोपाध्यायमन्त्रिषु' इति विश्वः । मूलविभुजादिलादात इति ध्यायतेः कः । उपगीतिः॥ भरतः प्रणीतपूजो मध्येमार्ग स्थलान्तरे विरजन् । पूर्वास्पदं हरिपदं हित्वा तृणयन्सकोटीरः ॥ ५७ ।। मध्येमार्ग भरद्वाजादिमिः प्रणीतपूजो भरतः स्थलेऽन्यत्र विरजन विरक्क आसीदि- त्यर्थः । 'अस्तिर्भवन्तीपरः' इति भाप्यं प्रागेव दर्शितम् । तत एवाध्याहार्यम् । हरि- पदं हिला पूर्वापदं तृणयन् सकोटीर आसीत् । यत्र रामेण निकेतः कृतस्तत्पदं हिला अन्यत्र वासं तृणीकुर्वन् सकोटीरो जटाजूटभाक् आसीत् । 'कोटीरो मुकुटे प्रोक्तः कोटीरः स्याजटासटे' इति रभसकोशः । तृणशब्दाद्धालथे णिच् ॥ अथ नलपक्षे- भरतो नटः स मध्येमार्गम् । अव्ययीभावः । 'पारेमध्ये-' इति निपातनादेवम् । अन्यैः पूजितोऽपि पूर्वेषां पूर्वेषां पूर्ववंश्यानामास्पदं स्थानं विहाय इन्दप्रस्थापितं पदा- न्तरं तृणयन् कोटिप्रदं तमृतुपर्ण मत्वा तमेवाभ्यधावत् । भरतप्रोकं नटसूत्र- मधीत इति भरतः । 'प्रोतालुक्' इति अणो लुक् । 'भरता इत्यपि नटाः' इत्यमरः। उपगीतिवृत्तम् ॥ श्यामाझं गुणवत्त्वात्प्राणंसीद्धर्षकण्टकितः । आयोध्योऽपि ददर्श प्रभु तमुच्चैर्गुणं भरतम् ॥ ५८ ।। रामपक्षे-हर्षकण्ट कितः स इत्यनुवर्तते । गुणवच्चात् मेघवर्णलात् श्यामा राम प्रांणसीत् । आयोध्यः प्रभुरपि । अयोध्याया राजा आयोध्यः । रामोऽपि उचैर्गुणं भरतं ददर्श । 'रोमाञ्चनं कण्ट कितसमम्' इति मेदिनी । तारकादित्वादितच् । कथं. भूतः। हर्षेण सरोमाञ्चः । रामदर्शनजन्यहर्षेण रोमाञ्चितः सालिकलात् । पितृदत्तराज्य सक्ला तं प्रभुमेव शरणं चकार । यतः–णम प्रहत्वे शब्दे च' । लुङ् । उच्चैगुणमिति परिकरालंकारोऽयम् ॥ अथ नलपक्षे-हर्पकण्ट कितः स भरतो नटः श्यामानं बाहु- कम् अधिकगुणवत्तादर्शनाद्ववन्दे । तदनु अयोध्याया राजा ऋतुपर्णोऽपि उच्चैर्गुणं ३६ काव्यमाला। नटराजं तं भरतं ददर्श अद्राक्षीत् । वासादिकं दत्त्वा कृपया यशोऽर्थम् । आर्यावृत्तम् ॥ करुणं रसं प्रकटयन्भरतः सर्वाव्यमूमुहत्तत्र । खर्याततातवृत्तं प्रथयन्नस्थात्सहानुजः श्रमणि ।। ५९ ॥ रामपक्षे-तत्र भरतः करुणं रसं प्रकटयन् विलपितं तातमुद्दिश्य कुर्वन् सर्वा- न्मुनिस हितान् व्यम्मुहत् मोहयामास । कथंभूतः सः । खर्याततातवृत्तं प्रथयन् । कथं- भूतं वृत्तम् । श्रमणि श्रमणककथायुक्तम् । शीघ्रं राजा मृतोऽभूत् इत्यंभूतः सहानुजो. ऽस्थात् । हा हेति आर्तनादभाकरुणरसं व्यजयन् लक्ष्मणादीन् मोहयांबभूव । खर्गत- दशरथचरितमेव ख्यापयंस्तत्र तस्थौ ॥ अथ नलपक्षे-नवरस्यां करुणं रसं प्रकटयन् तत्र सभायां सर्वान्मोहितवान् । स्वर्यातर्तुपर्णतातस्य चरितं विस्तारयन् तद्रूपानुसंधा- नेन स्वभ्रातृयुक् बहुव्यजितलीलादर्शनश्रमणं यथा स्यात्तथाऽस्थात् । खर्यातेत्यत्र ऋतु- पर्णस्येति शेषः । गीतिवृत्तम् ॥ वाप्पायमाणकण्ठो रामो राजाधिराजोऽसौ ववृते तदा बहुतपास्तस्मै राज्यं समर्पयामास ॥ ६० ॥ रामपक्षे-असौ रामस्तदा वाष्पायमाणः । आर्याश्व (2) 'वाष्पोमभ्यामुदमने' इति क्यङ् वाष्पमुद्रमतीत्यर्थे । ववृते बभूव । बहुतपाः। 'तपस्वपसि संतापे' इति हैमः । 'तप संतापे' । 'सर्वधातुभ्योऽसुन्' । वहुसंताप इत्यर्थः । तस्मै भरताय अयोध्याराज्यं खमेव शाधि अहं नायामीति पितृदत्तवात्तुभ्यं तावत्कथयिला समर्पयामास । तत्प्रे. म्णातुपत्तुतोष ॥ अथ नलपक्षे-राजाधिराजोऽसौ नल एव संप्रति नीलरूपत्वाद्रामः। 'रामो नीलचारुसिते त्रिपु' इति कोशः प्रागुक्तः । 'नानार्थे तात्पर्याद्विशेषावगतिः' इति भाष्यादत्र नीलार्थे तात्पर्यम् । [सर्व]दत्वानलस्य नीलत्वं तादृग्वहुगुणं दृष्ट्वा नटं परसेव. कत्वाद्रष्टराज्यत्वात् । 'रा दाने' । घव) कविधानम् । राणं रः रस्य ऋतुपर्णदानस्य आज्यं घृतं वहुलं घृतं समर्पयामास । ददावित्यर्थः । वीरसेनदमयन्यादिखरूपदर्शनातादवस्थ्या- नाप्रारम्मे इति भावः । 'घृतमाज्यं हविः सपिः' इति कोशः । उद्गीतिवृत्तम् ॥ स तु पादुकापुरस्कृन्नन्दिग्रामे तदीयभक्तियुतः । आदेशकारिजनतापुरस्कृतस्तीर्थभाग्रेमे ॥ ६१ ॥ रामपक्षे-सतु नन्दिप्राने रेमे । कथंभूतः । पादुकापुरस्कृत् तदीयभक्तियुतः आदे- शकारिजनतापुरस्कृतः। तीर्थभाव । पादुकां पुरस्करोतीति उपपदसमासः। 'किव्वा' इति क्किप् । तीर्थशब्देन गुरुः रामपादुकां पुरस्कृत्य भक्तियुतस्तदीयशब्देन पादुकापरामर्शः । सदादीनां पूर्वपरामर्शकत्वात् 'पुरस्कृतः पूजितः स्यात्' इति हैमः। आदेश आज्ञा तत्का- रिणी या जनता तया पूजितः राज्यं भवतामेव भवदासोऽहं यावदागर्म पुरमविशन्नेव पादुकाकिंकरो भवदाज्ञया शासिष्यामि राज्यमिति निगद्य निवल नन्दिग्रामे वसन् रा. - १ सर्गः ] राघवनैषधीयम् ३७ ज्यमशिषद्भरत इति भावः ॥ अथ नलपक्षे-तु पुनः स नलो द्वितीयपक्षे तस्यैव प्रकान्तवात्स इति नलः परामृश्यते । तु पुनः स नलः ऋतुपर्णपादुकापुरस्कृत् प्रतिदिनं प्रणामकारी वाहुकरूपत्वात् । नन्दिग्रामे नन्दिनो हर्षका प्रामा यनगरस्याभितः सन्ति तादृशे इति वहुव्रीहिः । तत्र वसन् । 'टुनदि समृद्धौ' णिनिः । अत इनिर्वा । रेमे व्यलासीत् । कथंभूतः भादेशकारिजनतापुरस्कृतः सर्वेऽश्वपालास्तदीयास्तदीयकिंकरा राजादेशादभूवन् । यतः तीर्थभाक् सरस्वादिलायी । आर्यावृतम् ॥ अथ कासारे नलिनी विनायकेन व्यदर्शि तदा । अवलम्बितजाग्रत्ता प्रत्यूपे घूर्णमानतनुः ॥ ६२ ।। अथ भरतविसर्जनोत्तरं चित्रकूटपर्वतैकदेशे नातुं गतेन रामेण कासारः कश्चित्पद्मिनी- मण्डितोऽदर्शि । वेः पक्षिणो गरुडस्य नायकः श्रीशस्वेन रामेण। 'नायको नेतरि श्रेष्ठे हार- मध्यमणावपि' इति विश्वः । तत्र कासारे तडागे काचिनलिनी कमलिनी नलमस्यास्त्रीति नलिनी व्यदर्शि दृष्टा । दृशेविण । कथंभूता । अवलम्बितजाग्रता । 'कृत्तद्धितसमासे- भ्यः संवन्धामिधानं भावप्रत्ययेन' इति सिद्धान्तः । प्रत्यूषे प्रातःकाले । अवलम्बिता आश्रिता जाग्रता विकासो यया सा । रात्री पद्मानां संकोचात् । पुनः कथंभूतः । घूर्ण- मानतनुः 'घुण पूर्ण भ्रमणे' । वायुवशाद्रमन्ती मूर्तिर्यस्याः सा । एतामेव पुनर्वर्ण- यिष्यति कविर्नलपक्षे ॥ अथ नलपक्षे-यदा नलो विहाय जायां गतोऽभूत् ततः कावस्था दमयन्या अभूदित्याह-यत्र जीर्णसभामध्ये नलः शिश्ये । तया सह तत्र विदूरे कासार आसीत् । कासार इति सप्तमी गायां घोष इतिवत् । उकं हि भाष्ये- साधकतमसूत्रे व्याभूतेन तमग्रहणेनेदं ज्ञापितम् । 'कारकाधिकारे गौणमुख्यन्यायो न प्रवर्तते' इति परिभाषा । गमायां गावः । कूपे गर्गकुलं तेनेत्यादिप्रयोगाः सिद्धाः । क. स्यानन्दस्यासार आगमो यस्मादिति यौगिकोऽयं कासारशब्दः। विनायकेन केनचित्कलि. विधिकरेण पक्षिश्रेष्ठरूपधारिणा हतनलचीरवरेण सरसि तनिकटे तस्मिन्काले नलिनी नलः पतित्वेनास्या अस्तीति । अत इनिर्मलीयः । 'ऋग्नेभ्यः' इति डीप । नलपनो । दमय- न्तीत्यर्थः । व्यदर्शि दृष्टा । नलगमनानन्तरं प्रातः प्रबुद्धा । कथंभूता । अवलम्बित. जाग्रत्ता इत्यादिविशेषणानि प्राग्वत् । पतिदर्शनाभावात् घूर्णमानमूर्तिः । श्रमचितत्वेन व्याकुला 'कां दिशं यामि हा विधे किं करोमीति वचनात् । कलिदूतस्तु दमयन्यो- (दंपत्यो)वियोगदुःखं दृष्ट्वा जहर्षेति भावः । उपगीतिवृत्तम् ।। वनजातकान्तिपूरादूरपतित्वात्सवाप्पजला । शवरकरानभिमृष्टा साक्षान्मन्दाकिनी यस्मात् ॥ ६३ ॥ रामपक्षे-त्रिमिर्विशेषकमिदं वोध्यम् । पुनः कथंभूता । वने जले । 'जीवनं भुवनं वनम्' इति कोशः । जातः कान्तिपूरो यस्याः सा । 'पूरक्षुरप्रचुकाश्च' इति काण्ज्याम् । अदूरपतिसूर्यत्वात् । 'बापमश्रु च' इति कोशः । प्रातर्नदीतडागादी -.

३८ काव्यमाला। बाष्पोद्गमो भवति । नीहारवत् ततोऽम्बुकणाः परिस्रवन्ति । तत्र कविरुत्प्रेक्षते- खण्डिता नायिकेव पधिनी स्त्री रुरोद सवाष्पजला मन्ये । पुनः कथंभूता । शवरक- रानभिमृष्टा शवरकरेण किरातादिह स्तेन वृपलादिवारणान्मुनिभिर्मन्दाकिनीजल खाद- नभिमृष्टा अस्पृष्टा । तमेवार्थ द्रढयति-यतः साक्षान्मन्दाकिनी तत्समीपस्थानां तत्प्र- स्रावलात् सरस्यादीनाम् । अतो नीचस्पर्शरहिता ॥ अथ नलपक्षे-कथंभूता सा दम- यन्ती । 'क्ष जै पै क्षये' धातुः । जनेर्जायतेश्व के तुल्यं जात इति रूपं भवति । वने जातः क्षीणः कान्तिपूरो यस्याः साक्लेशाधिक्यात् सवाष्पजला अश्रुवर्षवर्षिणी दूरप- तित्वात् । 'मन्दाः किरातशवरपुलिन्दा म्लेच्छजातयः' इत्यमरः । श्रमन्ती वने शवरं कामुकं दृष्ट्वा भस्मीचकार पातिव्रत्येन शाशास्त्रायाः न तु तत्स्पृष्टासीत् । तत्र हेतुमाह- साक्षागौरीव सतीव मन्देपु मूढवुद्धिषु आकिनी । 'अक अग कुटिलायां गतौ' 'सुप्य- नातौ' इति णिनिः । कुटिलगामिनी । 'दुष्टेषु मायाचारो मायया वर्तनीयः' इत्युद्योगे विदुरवाक्यं परो धर्मः । एवं शवरकरेणास्पृष्टवाभिप्रायचेष्टादर्शनादेव चचण्डे । उपगीतिः॥ अजगरगुप्तिपरोऽपि प्रियभक्तेः खण्डकोऽपि विधुः । स नलिन्या विधुरासीच्छेपितभूतिः क्षणे तस्मिन् ॥ ६४ ॥ अजगरगुप्तिपरोऽपि अपि पुनः प्रियभक्तः खण्डकोऽपि विधू राक्षस इव बभूव नलिन्यास्तस्मिन् क्षणे शेपितभूतिरासीत् । 'अजा विष्णुहरच्छागाः' इत्यमरः । 'शब्दे'। गरणं गरः । 'ऋदोर' । गोपनं गुप्तिः । गरच गुप्तिध गरगुप्ती अजस्य शिवस्य वर्णन. रक्षणपरोऽपि कालकूटदाहशमकत्वाद्गुप्तिपरोऽपि प्रियस्य रवे केः खण्डकः । 'खडि खण्डने' । रात्रिकरत्वात्संकोचकरत्वात् । 'विधुः शशा कर्पूरे हृषीकेशे च राक्षसे' इति हैमः । राजा चन्द्रोऽपि । स प्रत्यूपे तु धूसरकान्तित्वात् शेषिता फलावशेषा भूतिः संपत्तिर्यस्य स शेषितभूतिः शरे नलिन्याः शापादिव तीक्ष्णकान्तिरासीदिति व्यज्यते । 'शिष असर्वोपयोगे' । इतरनितिपूर्वकावस्थानं शेषपदार्थः । एवं नलिन्याः पग्रिन्या राक्षस इवासीद्धूसर इति फलितोऽर्थः ॥ अथ नलपक्षे-भ्रमन्या वने दम यन्त्या अजगरप्रस्ताया असिना तं हत्वा रक्षापरोऽपि तत्कर्षणादादकत्वाद्विधुरपि व्यभिचारचित्तत्वात् नलखण्डकत्वात्तस्य नलिन्या विधुरिव राक्षस इव क्रुद्धया तया पते. त्युक्तत्वाद्भस्मावशेषीभूतः तत्र क्षणे शेषितभूतिरित्यासीत् । काव्यलिङ्गरूपकालंकारयोः संसृष्टिः । एतेन दमयन्याः पातिव्रत्यमाहात्म्यं ध्वन्यते । उपगीतिकृतम् ॥ मुनिमण्डलान्तरगता जाताहादा चिरेण पुनः । कृतसौहित्या रुचिरा क्षणेन नष्टं तदादर्शत् ।। ६५ ॥ रामपक्षे-प्रातर्मुनिमण्डलमध्यगता मानकालेऽचिरेण पुनर्जीतादादा सत्सत्रात १. 'भेदाः किरात-रत्येव पाठोऽमरकोपे तूपलभ्यते.

१ सर्गः] राघवनैषधीयम् । ३९ कृतसाहित्या कृतं सौहित्यं प्रीणनं तोषो यया सा रुचिरा सौन्दर्यवती सा नलिनी नष्ट खगृहेषु कृतागमं मुनिमण्डलं तत्समयेऽदर्शत् ददर्श ॥ नलपक्षे-अजगरं भली- कृत्याने वनं गता सा दमयन्ती अतर्कितमाश्रमस्थं मुनिमण्डलं दृष्ट्वा तदन्तरगता क्षुत्त- व्याप्ता तत्कृतातिथ्येन जाताहादा पुनरचिरेण शीघ्रं कृतसौहिला कृततृप्तिक्रिया रुचिरा तदा क्षणेनैव तन्मुनिमण्डलमन्तर्हितं ददर्श । उपगीतिः ॥ वाताधूतोदचलत्कान्तारनतिः सुबाहुसार्थपरा । करिवरयूथाद्वीता प्रोदचलढूरतोऽपि ततः ॥ ६६॥ रामपक्षे-सा रामदृष्टा नलिनी वाताधूता कान्तारगतिः मुबाहुसार्थपरा उदच- लत् । वातेन कम्मिता सा कान्तानां स्त्रीणां निग्रहिवादरा शीघ्रा गतिर्यस्यां सा मुनि. पन्नीकृतावगाहा मुयाहूनां शोभनभुजलतानां स्त्रीणां सार्थ एव पर उत्तमो यस्याः सा। 'दूरानात्मोतमाः पराः' इत्यमरः । उदचलत् । 'चल कम्पने' लङ् । चकम्पे । ततो दूर- तोऽपि करिवरयूथाद्भीतातीव जस्ता मामुच्छेदयेयुरिति वेपथु भेजे मन्ये वाताधूता न कम्पमाप्ता। अपितु इत्थं विचिन्त्येत्युप्रेक्षालंकारोवन्यते काव्यप्रकाशे ॥ नलएक्षेतु. मुन्यन्तर्धानानन्तरं चक्रवातव्याधूता तर्हि । कान्तारोऽस्त्री महावनम्' । कान्तारे महारण्ये गतिर्गमनं यस्याः सा । सुबाहुश्चेदिराजस्तत्सार्थ चेदिपु गच्छन्तं पथि प्राप्य तत्परा रात्री दैववशात्करियूथे तत्र प्राप्ते तैर्जिघांसितेऽकल्याणीति दिने दृष्टा प्राक् दन्तिवृन्दाद्रीता पश्चाद्दुष्टेभ्यो विरुद्धभापिभ्योऽपि सुभीता प्रकर्षेण चकम्पे इति भावः । अयाजीच ततोऽपि दूरम् । आर्यावृत्तम् ॥ सा चैलपण्डधात्री दोधूयितमाप दौर्जनात्सङ्गात् । चेदीशो जननी तां विभृयातर्हि स्थितिं दध्याम् ॥ ६७ ॥ रामपक्षे-पुनः कथंभूता सा नलिनी आसीत् । चलपण्डधात्री सा दोर्जनात्सझात् दोधूयितमाप । 'चैलं वस्त्रेऽधमे त्रिषु' इत्यमरः । चैलाश्च षण्डाश्च ये केचित्नातुमागताः कासारे तेषामपि सौगन्ध्येन परमेण धात्री पोषयित्री । दधावस्तृच् । 'ऋनेभ्यः' इति डीए । तत्र दुर्जनसन्नात् अतिकम्पमाप । कैश्विचालितापि तदा कथं दध्यौ चेद्यदि जन- नीनामीशो मामिति शेषः । विभूयात् विचिन्य खहस्ते धारयेत् तदैवाहं स्थितिमुत्त. मरक्षां दध्यां धारयेयम् । 'अस्मद्युत्तमः' इत्यत्र व्याख्यातम् । प्रयुज्यमानेऽप्रयुज्यमाने चोतमः स्यादस्मदि । अतोऽहमिति परं लब्धम् । अजा माया तत्प्रभुरपि राम एव जातिसरा सा नलिनी मनसा सस्मार । चेदीशस्य रामस्य इनोऽकारो वासुदेवो यस्याः सा ईश्वरी सीता जगजननी मां धारयेत् तदैवाहं स्थितिमती स्यामिति तात्पर्य मम मोक्षः स्यात् ॥ अथ नलपक्षे-वस्त्रखण्डधात्री । 'चैलं चेलं षण्डखण्डौ हनूमान् हनुमानपि' इति द्विरूपकोशः । सा दमयन्ती दुर्जनसार्थवाहसात् अतिकम्पं प्रापत् । दुर्जनस्या- यम् । 'तस्येदम्' इत्यण् । अतःपरं सा चिन्तां चके । विस्तीर्णकान्तारीभूतचेदिनगरं प्र.

४० काव्यमाला। तिष्ठासती चेदिपावेदीनामोद चेदीद तस्य चेदीशः इनः । 'इनः सूर्ये प्रभो राजा' इत्य- मरः । प्रभवी जननी मन्मातृभगिनी सुवाहुमाता मां विभूयात् तर्हि अत्र कंचित्कालं स्थितिमात्मरक्षां दध्यां नान्यथा । अरं दध्यामिति पूर्ववधाख्या। 'ईश ऐश्वर्ये' । कतार विप् । सभाः श्लेषो विचित्रः शब्दालंकारः। दोधूयितमिति । 'धून कम्पने' । अस्माद्यङ. न्ताद्भावे कप्रत्ययो वोद्धव्यः॥ एवं विचिन्तयन्ती तथावनं खल्ववारुणत्पुरगा । पुण्यश्लोकोत्तंसः पौरविमर्द जहन्मनसा । अनसूयाभर्तारं दृष्ट्वा गत्वाभ्यवन्दिष्ट ॥ ६८ ॥ रामपक्षे-युग्म लोकेनान्वयः। एवं पूर्वोकं विचिन्तयन्ती पुरगा। 'पुर अप्रगमने' पुरतीति पुरः। इगुपधारकः' । 'गमेडः'। 'अन्येषामपि दृश्यते'।पुरं ब्रह्मादिदेवाप्रेसरं राम गच्छतीति पुरगा खलु निश्चयेन तथा तेनैव प्रकारेणैव अवनं रामहस्तप्राप्तिरक्षणमवा- रुणत् प्राप । 'अवरोधस्तिरोधाने प्राप्तावन्तःपुरेऽपि च' इति विश्वः । 'विदते विन्दति प्राप्तौ भवनेवसुपद्धिच(2) इति हैमः। भक्तचिन्तान प्रभुणा रामेण स्नानं कुर्वता सीतार्थ विचिन्त्यात्तागृहं गला तस्यै भ्रमझमरशोमिनी दत्तेति भावः ॥ नलपक्षे-सा दम- यन्ती विचिन्तयन्ती चेदिपुरगा राजमात्रा मध्येरध्यं यान्ती लावण्यशालिनी दृष्टय प्रसा दाद्धात्रीमुखेनाहूता हानीता कृतसंभाषणा सर्व वृतं निवेदितं श्रुत्वा संबन्धमात्मनो निणीय पुत्र्य समर्प्य समयं कृलाश्रुमुखी महतादरेणकान्ते वासं दत्वा स्थापयामा- सेति भारतकथा वन्यते । 'प्रवन्धेऽप्यर्थशक्तिभूः' इति सव्यतथं महाकाव्यत्वात् । षट्- चरणं गाधाछन्दः । इत्थं वनमवारुणत् प्राप ॥ रामपक्षे-पुण्यश्लोकोत्तंसो रामः । 'पुंस्युत्तंसावतंसौ द्वौ कर्णपूरे च शेखरे' इत्यमरः । पौराणामयोध्यावास्तव्यानां नकदिनं गतागतलाद्विमर्द समर्दमाशय मनसा तं चित्रकूट जहत् त्यजन् । अनसूयाभार- मत्रि प्रजापतिं गत्वा सद्वयो दृष्ट्वा तमभ्यवन्दिष्ट प्राणसीत् । वदे ङि रूपम् । 'वदि अ. भिवादनस्तुलोः' । अथ नलपक्षे-पुण्यः पवित्रः लोको यशो यस्य स पुण्यश्लोकस्तेषा- मुसंसः शेखर इव सत्यादिगुणशालित्वात् स नलो मनसा गुणवस्वादनसूयाभतारं गुणेषु दोषारोपणमसूया न विद्यतेऽसूया यस्य सोऽनसूयः तादृशश्वासावश्वानसूया विश्वपा- वत् स चासौ भर्ता तमनसूयाभर्तारं भगवन्तं वासुदेवं गत्वाभ्यवन्दिष्ट । शालिहोत्रज्ञो- ऽसि तच्छास्त्रमस्मभ्यं देहीति यदा पौरविमर्दोऽभूत् तं जहत् 'नाभ्यस्ताच्छतुः' इति नं नुम् । मनसा विरकेन तत्रैव नगरे गोविन्दालयोऽभून्महान् तदासौ शीघ्रं गत्वा नारा- यणमूर्तिमभ्यवन्दिष्ट अस्वावीदपूपुजन । भर्तारं त्रिलोकीपोष्टारम् । उपगीतिवृत्तम् । इतः प्रभृति नलिनीरूपकालंकारो गतः । प्रकरणान्तरमाख्यायते ।। अवरुद्धगन्धवनितो वीरसुतस्तत्र विन्नमहः । लडितनिम्नग आछुत्पारं तीरं सयोषवरः ।। ६९ ।।

१ सर्गः] राघवनैषधीयम् । ११ रामपक्षे-अवरुद्धगन्धवनितः विनमहः वीरसुतः अभूत् । अस्तिर्भवन्तीपरः। अनसूयाप्राप्तानरागसीतासहितः । अवरुधिः प्राप्ती प्राग्दर्शितः । वनितातिसुन्दरी । वीरस्य दशरथस्य सुत इति । यद्वा विर्गरुडः । विना ईरो गतिर्यस्य सः । 'ईर गतौ कम्पने च' । 'सुतः पार्थिवपुत्रयोः' इत्यमरः । गरुडगामी चासौ राजा च । वीरसुतो राम इत्यर्थः । “विद लामे' । 'नुदविद-' इति निष्ठातस्य नलम् । अनिट् । 'मह पूजा- याम् ' पनर्थे कः । महः प्राप्तपूजस्तस्मान्मुनेः पुनरन्येयुरप्रे प्रियासन् लद्वितमहासरित् । 'युष सेवने' सौत्रो धातुः । योषणं योपः सेवा सयोषा वरा सीता यस्य सः । शुश्रूषा- परेति भावः । पारं तीरं महानद्याः पारं तीरं नववारम् आर्च्छत् प्राप । 'ऋगतिप्राप- णयोः' लट् ॥ अथ नलपक्षे-'गन्धो गन्धक आमोदे लेशे संवन्धगर्वयोः' इति विश्वः । 'अवरोधस्तिरोधाने इति हैमः । गन्धो गर्वः वनिता दमयन्ती अवरुद्ध गन्ध. वनिते यस्य सः । अन्तर्हितदर्पोऽन्तर्हितपनीको राजा बाहुकत्वेन प्रसिद्धोऽयोध्यायां गुणवत्तामधिकां विलोक्य सज्जनैः पूजितो वीरसुतः वीरसेनपुत्रो लद्धितनीचजनस्त्य- कसनः निनं नीचं गच्छतीति निम्नगा नीचाः । 'निम्नगो नीचमवें स्याद्भेद्यवत्सरिति स्त्रियाम्' इति शब्दार्णवः । वीरसेन इत्यत्र सेनलोपस्तु । 'इग्यणः संप्रसारणम्' इति सूत्रं विशृण्वानो भाष्यकार आह-दृश्यन्ते च पदेषु पदैकदेशान् प्रयुञानाः । यथा देवदत्तः दत्तः देवः' इति तथात्रापि ज्ञेयम् । पुनः कथंभूतः । गोविन्ददेवालये स. योषवरो यस्य सः। हे हरे, विमुकत्रीकोऽहमचिरेण पत्नों प्राप्नुयाम् इति वरयाचनं यस्य सः । पारमिति वेदान्तवाक्यादरात्परतरं ब्रह्मैव आर्छत् शरणीचकार न वा- चीनान्देवान् । एतेन नलस्य पारीणवमपि शास्त्रेषु ध्वन्यते । वाह्यचेष्टास्तु जनकादिव- लोकसंग्रहार्थमेव चकारेत्यर्थः । उपगीतिवृत्तम् ।। असुरविराधोन्माथी विरहितवनितस्ततो ह्यभवत् । पुण्यजनदानकारः शरभङ्गास्वाश्रयस्तुत्यः ॥ ७० ॥ रामपक्षे-अप्रै विराधेन रक्षसा हृतभार्यस्तदनु खमुत्पतन्तं तं शस्त्रेण निहत्य । उन्मायो घातः । 'घातोन्मायवधा अपि' इत्यमरः । पुण्यजनस्य राक्षसस्य । 'दाप् लवने' ल्युट दानम् । तस्य छेदकारी असिना । विरुद्धलक्षणया पुण्यजनशब्दः । 'यातुधानः पुण्यजनः' इति कोशात् । तदनु शरभामुनेस्तस्यात्मीयस्य श्रयः शरणं स्तुत्यः स्तुतियो. ग्योऽभवत् । तेन तुष्टुवे इत्यर्थः । अथ नलपक्षे-विरहितवनितो दमयन्तीरहितः । अतिशयोक्तिरलंकारः । असुरास्तमोरूपास्तमोरूपविरोधकारकजनोन्माथी तत्संसर्गरा. हित्यात् निरहंकार इति तात्पर्यम् । 'राध संसिद्धौ' । विपूर्वो राधिर्विरोधे । 'विराद्ध एवं भवता' इति माथे । तदनन्तरं यदाजदत्तं धनं तत्पुण्यजनेभ्यो व्यतारीत् एवं पुण्यज. नदानकारः शरभनः । 'शू हिंसायाम्' । शरो हिंसा । 'ऋदोरप्' । तस्य भनो यस्य सः। शरभन्नः साधुः स चासौ स्यश्च आयो यस्य स स्तुत्योऽतिस्तुतियोग्यो वलभलात् वीरसुतो नल इति गूढोऽभिप्रायसंधिः । आसीदिति क्रिया क्रियान्तराभावे योज्या । प.

४२ काव्यमाला। च्यादिक्रियादर्शनव्यवच्छेदे सति अन्तरबखादस्त्रिक्रिया सर्वत्र योज्या । नलपक्षे 'दाञ् दाने' धातुयुटि तुल्यमेव रूपम् ॥ अजिरमहौषीत्परभागात्मानं यस्ततः श्रमकृत् । पिप्राय तेन रामः सुतीक्ष्णमानी पलाद्विषये ॥ ७१ ।। रामपक्षे-'अजिरं विषये काये' इत्यमरः । आत्मानं सर्वभूतान्तःस्थं रामं यन् जानन् परमात्मानम् । 'इण गतौ' शतृप्रत्ययः । ये गत्यास्त एव ज्ञानार्थाः' इ. त्युकलात् । परभाग उत्तमसेवी । 'दूरानात्मोत्तमाः पराः' इत्यमरः । 'श्रम तपसि खेदे च' । दिवादिः । श्रमकृत तपस्वी चितिं विधाय रामस्य पुरस्तात्कायमजिरशब्देनाही- पीत् । ज्वलिते वहौ । श्रमकृदिति विशेषणाच्छरभा इत्यनुवर्तते । तेन रामः पिप्राय संतुतोष । अग्रे याला रामः पलाद्विषये रक्षोविषये । पलं मांसमत्तीति पलात् । संचर- कोणपेदेशे इत्यर्थः । सुतीक्ष्णमानी सुतीक्ष्णमुनिपूजितः सुतीक्ष्णस्य मानः पूजा सु. तीक्ष्णमानः सोऽस्यास्तीति मत्वाय इनिः । 'मान पूजायाम्' । ण्यन्तादेरन् । 'तलं स्थादामिषे पलम्' इत्यमरः ॥ अथ नलपक्षे-ततः श्रमकृत्तपश्चरन् । 'श्रमस्तपसि खेदे च' इति हैमः । आत्मानं सरयूतीरे ध्यानस्थो ब्रह्मयन् परभाक् सत्सेवी रामः। प्रागेव कोश उक्तः । श्याममूर्तिनलः । अपि च स्वयंवरेऽमिना वरो दत्तः सदा मदुप- स्थानं मरणादेव तव भविष्यतीति । रं पावकममति सेवते इति रामः। 'रः पावके च तीक्ष्णे च' इति विश्वः । अग्निशुश्रूषापरस्तेन अजिरशन्दादिविषये मनसाहीपीत तत्साज । तेन कर्मणा पिप्राय तुतोष । प्राणयात्रार्थमेव चेष्टां कृतवान् । अमेः पचा. यच् । पलाद्विषये सुतीक्ष्णमानी पलाशनाश्वपालविषमस्थितोऽपि सुतीक्ष्णमानी । 'मन खम्मे' चुरादिः । अतितीक्ष्णजनत्यागी तदोधकलात् । आसीदिति अहितव्यम् । उपगीतिः॥ स किलेध्मवाहतातपदं सिषेवे गतिः पठताम् । हृतहेतिस्तत उच्चैः पञ्चवटीमास्थितो रेमे ॥ ७२ ।। रामपक्षे-पठतामधीयानानां गतिः शरणं स रामः इध्मवाहोऽगस्त्यपुत्रो वनप. र्वणि प्रतिद्धस्तस्य तातोऽगस्त्यस्तस्य पदं स्थानं सिषेवे कंचित्कालं तस्थौ । 'गतिर्वहणे मार्गे शरण्यावगमेऽपि च' इति हैमः । सर्वेषां ब्रह्मण्येव तात्पर्यमिति ततोऽगस्त्याहत- हेतिः । "ऋ गतौ' । य एव गत्यर्थास्त एव प्राध्याश्च । ऋताः प्राप्ता हेतयो दिव्यास्त्र. प्रामा येन स इति बहुव्रीहिः । उपमहत्त्वेनोपलक्षितो रामः पञ्चवटीमास्थितः पर्णशा- लायां रेमे व्यहरव किलेवि पुराणप्रसिद्धम् ॥ अथ नलपक्षे-पठतां शालिहोत्रं प- ठतां नृणां गतिराचार्यभूतः स नलः प्रकृतो बुद्धिपरामृष्टवात् इध्मानि काष्ठानि वह- न्वीति इध्मवाहः काष्ठविक्रयिणः ते च ताता अनुकम्प्याश्च । 'तातोऽनुकम्प्ये जनके' इति विश्वः । तेषां दुर्वलानां करुणया पदं परित्राणं सिषेवे । पौनःपुन्येनाकार्षित् ।

१ सर्गः] राघवनैषधीयम् । ४३ 'पदं व्यवसितत्राणस्थानलक्ष्माधिवस्तुपु' इत्यमरोक्तिः । ततो दयाशाली तत्रैव सरयू. तीरे समीपे च उच्चैः पचानां वटवृक्षाणां समाहारः पचवटी । 'द्विगोः' इति डीप । विधामार्थ निषस्तः किल रेमे । उपगीतिः । ऋतं सत्यमेव हेतिर्यस्य स इति ऋत हेतिः । 'सत्यं तथ्यमृतं सम्यक्' इत्यमरः । 'हेतिरायुधकीलयोः' इति मेदिनी ॥ सह जोपः सावरजः प्रतिदिनसवनश्चिराय वसन् । अतिपेशलया ऽपरया स वित्रिये कान्तमुक्तिमुदा ॥ ७३ ।। रामपक्षे-सीतासहितः सलक्ष्मणः प्रतिदिनं सवनं स्नानं यस्य स गौतमीनायी चिरं वसन् स रामः अतिपेशलया भतिसुन्दर्या अपरया अधमया सूर्पनखया कान्तभ- किमुदा भर्तुर्भावो भक्तिपूर्व सहर्षया विविये अबियत । 'नीट् वृणात्य' देवादिकः । लिट् । राक्षस्यः कामरूपलात्सौन्दर्य उलेन कुर्वन्ति । तत्पेशलत्वं त्वं मम पतिर्भवेति त्रुवत्या राक्षस्या ॥ अथ नलपशे-'पह मर्षणेऽमिभवे च'। पर्थे कः । सहनं सहः । 'युप सेवने' सौत्रो धातुः । योपणं योपः । तितिक्षासेवी । अवरजः शूदा(दा)श्वपाल- हुमिः संगतः। प्रतिदिनलायो सरय्वां चिराय तनगरे वसन् अतिपेशलया परया बुध्या । बुद्धित्रिधा व्यासोक्तत्वात् । सात्विकी, राजसी, तामसी चेति । परया उत्तमया सा. विक्या युज्या । वित्रिये वृतः । कथंभूतया बुद्ध्या । कान्तस्य भक्तिः कान्तभकिः तद्- न्मुत्प्रीतिर्यस्याः सा यथा सती स्वकान्तं न जहाति तथा नाजहात् । उपगीतिः ॥ लक्ष्मणजोषाद्विरता यदा तमेवाभजबहुधा । विनसा व्यधायि शीघ्र सरुषा सा नैव रूपवती ॥ ७४ ।। रामपक्षे-यदा लक्ष्मणजोपाद्विरता बहुधा तमेव लक्ष्मणं परावृत्य पतिर्भवेत्यभजत् । अहं कलत्रवानिति रामेण प्रत्याख्याता कामार्ता तदा रूपवती प्रशान्तसौन्दर्या । प्रशं. सायां मतुप् । सरुपा तेनैव लक्ष्मणेन शीघ्रं छुरिकामादाय विनसा विना व्यधायि सा। राक्षसीत्यर्थः । विनसोपलक्षितेत्यर्थः । इत्थंभूतलक्षणे तृतीया द्रष्टव्या ॥ अथ नलपक्षे व्याख्या-तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्' इति भगवद्गीतासूकलात् यदा कदाचिदविवेकवती वुद्धिलक्ष्मण जोपाद्विरता श्रीमद्राजादिसेवनानिवृत्ता वहुधा बहुभिः प्रकारैः तमेव नलं ततः परायाभजत् । तदा सरुपा व्याससूत्रार्थतत्त्वज्ञेन तेन नलेन शीघ्र चित्तसमाधानेन ज्ञानातिना विनसा छिन्ननासिकेव चके कविरुत्प्रेक्षते । यद्वा द्वितीयोऽर्थः । 'पस कौटिल्ये' नसनं नसः कौटिल्यं तदहिता वेदान्तशालाभ्यासवलेन व्यधायि चके तथा सती पुनर्विवेकवतीं बुद्धिमशिधियत् ॥ खरदूषणगारम्या पृतनाग्रा पर्यगाद्भूयः । खरदूषणमुख्यास्ते रामं जन्नुर्वलेन वृताः ।। ७५ ॥ रामपक्षे-खरदूषणगारम्या पृतनामा भूयः पर्यगात् पराल अगाव सूर्पणखा कौणपी अहं निरपराधा पचवटीवासिना तापसेन चरन्ती खेच्छया व्यग्रा कृता नरमा- ४४ काव्यमाला। श्रेण। तच्छ्रुला तामेव पुरोधाय पृतना चमूश्चतुर्दशसहस्राणि रक्षांसि तेपामप्रा। 'प्राणाय्या- प्रीयमप्रियम्' इत्यमरः । तदप्रेसरारामं दर्शयामास ते खरदूषणमुख्या महाचक्रेण वृताः शितैः शरैः रामं जघ्नुः ताडयामासुः । हन्तिस्ताडनार्थोऽत्र । 'आजघ्ने विषमविलोचनस्य वक्षः' इति भारविः ॥ अथ नलपक्षे-सा तामसी बुद्धिर्न लेन विनसेव कृता । ततः परावृत्य खराणि तीक्ष्णानि दूषणानि येषां ते खरदूषणाः अतिप्रवणपापसमूहाः ब्रह्मह. त्यादयस्तत्समीपगामिनी महाराजमहामोहसेनामुख्याभूत् । तद्वलमादाय कामक्रोध- नृशंसत्वयावाक्पारुष्यादिकास्वत्र रामं श्यामा नलं जपूर्विव्यधुः । स तु पुरुषसूक्ता- दिपाठेन द्वादशाक्षरवैष्णवमन्त्रेण तत्कटकं पलायनपरं चके । सा तामस्यपि पराजिता पलायिष्ट तद्रतविध्वस्तपलायितैः सह । उपगीतिः ।। नैव चचाल तदासौ निहन्यमानोऽपि पुण्ययशाः। लक्ष्मणनिक्षिप्तवरो व्याधूना तप्रतिक्रियस्तान्द्राक् ॥ ७६ ॥ रामपक्षे-तदासौ तेनिहन्यमानोऽपि नग इव रामो नैव चकम्पे । 'चल कम्पने' लिट् । कथंभूतः । पुण्ययशाः पुण्यकीर्तिः । नामोचारणमात्रेण सतां गतिप्रदत्वात् । पुनः कथंभूतः । लक्ष्मणनिक्षिप्तवरः । लक्ष्मणे निक्षिप्ता वरा श्रेप्रिया सीता येन सः । निक्षिप्ता न्यस्तेत्यर्थः । संग्रामसमये मेष्यतीति । 'गोत्रियोः' इति हखः । आमेयं वारुणेन जघानेत्यादि तदनप्रतीकारकदिव्यास्त्रैः प्रतिकर्ता व्यपोहिता शीघ्रं चतुर्दशसा. हस्रं वलममीमरदित्यर्थः ॥ अथ नलपक्षे-तादृग्वलसंस्थानेऽपि पुण्य यशा नलः स्थिरबुद्धिवात् लक्ष्मणेषु श्रीमदान्धेषु निक्षिप्ता वा । 'पृञ् वरणे' । संसारवेष्टकत्वा- द्वरा अविद्या येन स इति बहुव्रीहिः । त्वं मदान्धेषु गच्छेति तां प्रत्याय परया विद्यया नैव गिरिरिव चकम्पे विष्णुभक्त्येति भावः । किं तु श्रवणादिभिस्तान् पातकसमूहान् द्राक् प्रतिकारकैर्भजनैाधूनादिति भावः । श्रीमद्भागवतीयपुरंजनोपाख्यानोक्तरीत्या- तिशयोक्त्यलंकारेण सर्वमारोप्यम् । उपगीतिः ॥ प्रतिपक्षहाचकासीत्प्रतिविधि पारीण उग्रतपाः । सहजोषः सावरजो विललास पुनः कुटीजोषः ॥ ७७ ।। रामपक्षे-प्रतिविधिपारीणः प्रतिकारपारगामी उप्रतपा भयंकरतापकः खयं च महातपाः खरदूषणादिप्रतिपक्षहन्ता अचकासीत् रराज । पुनः कथंभूतः । पञ्चवटीकु- टीजोषः । 'जुषी प्रीतिसेवनयोः' । जोषणं जोषः । भावे घम् । कुट्याः पदवट्याः जोषः सेवकः । तत्र निवसन् विललास । किंभूतः । सहजोषः जोषया सीतया सहितः सावरजः सलक्ष्मणः । 'यवीयोवरजानुजाः' इत्यमरः ॥ अथ नलपक्षे–वेदान्तशा. खानुगा व्याख्या । प्रक्रिया प्रारदर्शिता । पारगामीत्यादि समानम् । सहजोषः ति. विक्षुः । योषेण सहितः सेवकश्च । सहं तिरस्कारं सहत इति सहजोषः । उपपत्तिः शब्दस्य प्रारदर्शिता । पुनः कुटीजोषः आर्तुपर्णे तागृहे वसन् । 'वासः कुटी द्वयोः शाला' इत्यमरः । अश्वसंबन्धिविलासेन सहाकरोदित्यर्थः । उपगीतिः ॥ .

१ सर्गः] राघवनैषधीयम् । ४५ सा रावणान्तमार्छद्विनसा दायादपिञ्जना मङ्गु आचक्रन्द परात्मश्रयणोत्था घातवणिनी तत्र ॥ ७८ ॥ रामपक्षे-विनसा दायादपिजना सा मङ्गु रावणान्तमार्छन् । 'अन्तः स्वरूपे निकटे नाशनिश्चययोरपि' इति हैमः । रावणसमीपं जगाम । 'दायादी सुतवान्धवी' । 'पिजि हिंसायाम्' । दायादानां बान्धवानां पिअनं मारणं यस्याः सा । विगतनासिक- योपलक्षिताम् । 'दाङ्महु सपदि दुते' इत्यमरः । महु शीघ्रम् । तत्र रावणसभायां सा शूर्पणखा परास्मश्रयणोत्थाघातवर्तिनी आचकन्द रुरोद । परात्मनो विष्णोः श्रयणं येषां ते परात्मश्रयणा वैष्णवाः पञ्चवटीवास्तव्यमुनयः अस्मत्प्रतिकूलाः तदुत्यो य आघातः कदनं खगादीनां तस्य चरितस्य वर्णनशीलाः । वर्णयवस्वाच्छील्ये णिनिः । भवदादि. टमुनिपुत्रभक्षणशीलाया मे तापसाभ्यां तत्र वसयां मुनिहिताभ्यां चतुर्दशसाहस्रख- रादिघातोऽकारि । सहासं मे दशा चैपा कृता इति वदन्यरोदीदिति रामायणकथा- नुसंधेया ॥ अथ नलपक्षे-सा परा विवेकवती बुद्धिर्जातदायादपिअनाविकौटिल्या द्राक् रावणान्तं महामोहनृपतेः सकाशं जगाम । अविद्यासंघस्य महामोहमूलवात्स एव राजा समुज्जृम्भते । 'प्रत्यन्तो म्लेच्छ देशः स्यात्' इति कोशस्वारस्यात्तदधिष्ठानो महामोह इति मीमांसनीयम् । रावयति रोदयति सर्वान् यमनगरवर्धित्वादिति महा. मोहः स चाहंममतामूलकः तत्प्राचुर्य तमःप्रधानेषु ज्ञेयम् । 'विषय्यन्तःकृतेऽन्य- सिन् सा स्यात्साध्यवसानिका' इति काव्यप्रकाशे व्याख्यातम् । शुद्धलक्षणायां महामो. हशब्दानुपादानम् । रावण एवायमित्यध्यवसानात् । विस्तरभीत्या बहुलं नोच्यते- ऽस्माभिः । परात्मनो विष्णोः श्रयणं यस्य स नलस्तदुत्थो य आत्मीयाघातस्तद्वर्णिनी- त्यर्थः । विपक्षवर्धकलात्तस्य आत्मनश्च हीयमानवल वादाचक्रन्द विललापेति तात्प. याधः । गीतिः ॥ विगतस्पशत्त्वलघुतः को न कुलं घातयेन्मूढः । इत्थं संश्रुतकदनो मारीचं शिश्रिये जवतः ॥ ७९ ॥ रामपक्षे-किमाहेत्याह-विगतस्यशत्त्वलघुतः को मूढः कुलं न घातयेत् । अपि तु सर्वोऽपि । 'अपसर्पश्वरः स्पशः' इत्यमरोक्तिः । विगतचारत्वेन लघुता यस्य सः । चारनेत्रविहीनः को मूढो राजा बादशः कुलं वंशं न मारयेत् । अपि तु मारयेदेव । इत्थं 'कद वैश्लव्ये' घटादिः । संश्रुतकुलनाशो गत्वा वेगेन मारीचं राक्षसं समुद्रकूले वसन्तं प्राह-शिश्रिये कार्यार्थ सामपूर्व शिधिये इति पदव्ययम् । इत्थमिति त्यदा- दीनां बुद्धिस्थपरामर्शकत्वात् जनस्थाने मायामृगो भूत्वा रामं वधयनेव दवीयोदेश गमय, अहं त्वामनुगत्वा तज्जायां हवा पारेसमुद्रं नीत्वा रंस्थे तया सहेति रामायण- कथानुसंधेया । प्रवन्धोऽयमित्वंपदद्योत्यः । इत्थमिति देहलोदीपन्यायेनोभाभ्यां संवध्यते ॥ अथ नलपक्षे-समहामोहस्य तामसराजसत्वान्महामोहः शब्दादिवि- राघव. ५ ४६ काव्यमाला। पयग्रामसकाशं गत्वा खप्ने विषयमृगतृष्णासमूहं तस्मै नलाय तत्र द्रुतं प्राहिणोत् । मरी- चीनां विकारो मारीचम् । 'मृगतृष्णा मरीचिका' इत्यनुशासनम् । मध्याहार्के सैकत. पुरोऽपि पयःपूरत्वमापद्यते इति प्रसिद्धम् । तदस्मिन्नास्तीति विषयग्राम एव मा. रीचः । अर्शभायच् । निद्रावस्थायां रामं श्यामाकं मिथ्याभूतमारीचं दर्शयध्वम् । नि- गीयांध्यवसानरूपातिशयोक्त्यलंकारेणोपमानमात्रं शिष्यते भरतानुशासनात्काव्यप्रकाशे 'विहाय सि विहारिणी लसतु नाम सौदामिनी' इत्यादि दृष्टान्ता द्रष्टव्याः । आनृशंस्येन नृशंसत्वादयोजिता इति नलेन महामोहसेनाकदनं कृतं पूर्वम् । इदानी विषयग्रामं मारीचं परिणती मिथ्याभूतं साकेते नलाभ्यासे प्रेषयामासेत्यर्थः । उपगीतिवृतम् ॥ अभ्यर्थितस्तु तेन प्रोद्विग्नमना गतो रामम् । महसान्धमाक्षिपन्तं सगरं प्रैक्षिष्ट गत्वा सः ।। ८० ॥ रामपक्षे-तेन रावणेन तु निधयेन अभ्यर्थितो मारीचः प्रोद्विमचित्तः पञ्च वटीस्थं रामं गतः पूर्व रामचरितश्रवणेऽपि यदासौ नामस्त तदा तस्मादेव मर्तव्यमिति नि- श्चित्य गतोऽयमिति प्रोद्विग्नचित्तपदेन ध्वन्यते । कथंभूतः । महसा तेजसा ज्ञानप्रका. शेन अविद्यान्धकारमाक्षिपन्तं गला रामं प्रैक्षिष्ट स प्रशन्दो दूरवाची । 'क्षौद्रेऽप्यन्धं तमस्यपि' इति कोशवाक्यम् । कथंभूतम् । सगरम् । 'गृ शन्दे' । 'ऋदोरप्' । गरेण मुनिस्तवेन सहितम् । मुनिभिः स्तूयमानमित्यर्थः ॥ अथ नलपक्षे-तेन महामोहेन राज्ञा तु निश्चयेनाभ्यर्थितः शन्दादिविषयग्रामरूपो मारीचः प्रोद्विग्नमना भीतचित्तो रामं नलं गतः । कथंभूतम् । महसा ज्ञानप्रकाशेबान्धमविद्यान्धकारमाक्षिपन्तम् । परया सात्त्विकबुद्ध्याश्लिष्टम् । स विषयरूपमारीचः प्रैक्षिष्ट । स्वप्ने इति शेषः । राज्यलक्ष्मी दृष्ट्वा चित्रां हरिं ध्यावा प्रवुद्धः सन् मारीचं फल्गूकृत्य व्यनीनशत् । प्रत्युत्तरेणावपालादि- स्तुत्या युक्तं प्रैक्षिष्ट मारीचः ध्यानविषयत्वे हरेविषयमानो वरीमशीतीत्यर्थः ।। निस्तहणं चिकीर्षन्प्रार्थितमपदिश्य कान्तायाः। प्रतिदूरं प्रणियातोऽमुप्य पलाशोद्विपस्तहि ।। ८१ ।। रामपक्षे-कान्तायाः सीतायाः प्रार्थितं प्रकृष्टकनकमृगमानयेति याचितं व्यप- दिश्य लक्ष्यीकृत्य तस्य मारीचस्य निस्तहणं निहननं चिकीर्षन् रामो मायाविना वधि- तोऽतिदूरं प्रणियातोऽभूत् । कथंभूतः । अमुष्य पलाशो द्विपत् वैरी । पलमनातीति पलाद । 'अश भोजने' । 'किप च' इति कर्तरि विप् । 'द्विषः शतुर्वा' इति पक्षे षष्टी । प्रणियात इति 'नेर्गद-' इति गत्वं बोध्यम् ॥ नलपक्षे-कान्तायाः परस्या बुद्धर- पसारणरूपं प्रार्थितमपदिश्य खने विषयव्यतिकरस निहननं कर्तुमिच्छन् दूरमविका. न्तोऽतिदूरं खहृत्पद्मवती शाक्षी चिद्रूपखं प्रणियातः शरणीचके । कथंभूतो नलः । अमुष्य पलाशो रक्षोरूप विषयव्यतिकरस्य संसारहेतोर्द्विषन् शत्रुः । उपगीतिः ४७ १ सर्गः] राघवनैषधीयम् । अतिलक्ष्मणान्तसंस्था क्रन्दं पर्युह्य कान्ता सा । खाम्यास्ते शत्रुहतिः परं प्ररक्षेहि शीघ्रमित्यवदत् ॥ ८२ ॥ रामपक्षे-अतिलक्ष्मणान्तसंस्था सा सीता कन्दं पयूष हे देवर, शत्रुहतिर्मम खामी आस्ते । परं स्वामिनं प्ररक्ष शीघ्रमिहि गच्छेत्यवदत् । 'तु हि च म ह वै पाद- पूरणे पूजने स्वति' इत्यमरः । अतिशयितप्रशस्तश्वासी लक्ष्मणश्चेति कर्मधारयः । 'अन्तः खरूपे निकटे' इति हैमः । रामसंघुपितमाचर्य यतो मारीचः प्राणान् जहाँ इति सीता बभ्राम ॥ अथ नलपक्षे-सा प्रसिद्धा परा कान्ता नाली अतिशयितश्री- मनिकटसंस्था परा आत्मध्यानवशात्पलायितायास्तस्याः क्रन्दं पयूय वितयं शत्रूणां हतिर्यतस्तादृशो मुकुन्द आस्ते तमेव शीघ्रमिहि प्रपद्यम्ब प्ररक्ष उपसगांवोपाय भौतिक पिण्ड मित्यवदत् । उपगीतिः ॥ अतिलक्ष्मणो न मेने प्रभाववित्तस्य तद्वचनम् । समुदासिष्ट त्वराणीविजनासीनोऽपरां शोचन् ॥ ८३ ।। रामपक्षे-तस्य प्रभावविदिति लक्ष्मणः तद्वचनं न मेने । तर्हि किम करोदि. त्याह-वराणीविजनासीनः अपरां छायासीतां शोचन् कौणपो मामन्तरेण हरिष्य. वीति शोचन् । कयंभूतः । प्रभाववित् त्रिलोकीसंहारेऽपि समर्थः । प्रभुणा हतः क- व्यादः तदनुकरणी विलपति सा तु वाक्पाटवं यदाकापीत्तदापासरदित्यर्थः । आसे- लुइ ॥ अथ नलपक्षे केवलवृत्तये ऋतुपर्ण विना श्रीमतोऽन्यानतिकान्तः अतिल- क्ष्मणः श्यामानस्तस्य साक्षिचैतन्यस्य प्रभाव वित् तद्वचनं सालिकधीवचनं न मेने इति न । अपि तु मेने इति काकुः । स्वप्नावस्थायामिति शेषः । अपरां शोचन विषयव्यतिक- रेण तुच्छापरा मां भ्रंशयितुमागता ध्यानानुभावादात्मनः कन्दन्ती दुर्दशापलायितेति कटंगतेति शोचन् । शेपं समानम् । उद्गीतिः ॥ बलवन्तमरिं हत्वा निरवारीदुत्तमश्लोकः । रावण इह चावसरे भिक्षुवपुस्तामुपासापीत् ॥ ८४ ॥ रामपक्षे-उत्तमलोको रामः मायापारीणलालवत्तां मरीचस्य । परिकरालंकारः । क्लवन्तं मारीचं हत्वा निरवारीत् आहादिष्ट । 'आहादने निर्वृणोति' इति भहमलः । च पुनः इहावसरे भ्रातृदयरहितसमये मिक्षुवपुः संन्यासिरूपो रावणः तामुपासापात् आजगाम ॥ अथ नलपक्षे-उत्तमश्लोकः पुण्यकीर्तिनलः बलवन्तं विषयव्यतिकरमरि हला निरवारीत् । 'निर्वाक् परमानन्दे' इति शब्दार्णवः । च पुनरिहावसरे अभिक्षुव. पुर्महामोहः गृहिमेदः नलकृतेनानुशयेन मरिष्यतीति रागवतीं तां बुद्धिमनुनेतुनुपा. सात् । उपगीतिः ॥ बहुधा प्रतार्य जहे छायां शोशुच्यमानां ताम् । खगराजमात्रशरणां त्रिकूटधरकेतनो दुष्टः ॥ ८५ ।।

४८ काव्यमाला। रामपक्षे-त्रिकूटधरकेतनो दुष्टः बहुधा प्रतार्य शोशुच्यमानां छायां तां सीता जहे कथंभूताम् । खगराजमात्रशरणाम् । अहार्यधरपर्वताः' इति कोशः। त्रिकूटाचलवासी दुष्ट कितवः । 'कित निवासे' । भावे ल्युट् । मध्येमार्ग जटायुमात्रशरणां दाशरथप्रीतिवि चाराद्रावणेन घोरं युद्धं कृत्वा प्राणत्यागी स ईदृशः शरणं रक्षणं यस्याः सा शरणं रक्षण नान्यः कोऽपीति व्ययितुं मात्रशब्दः । हा रामेति शोशुच्यमानाम् । शुचेर्यहन्तात्क तरि शानचू । विहायसा रथेन नीयमानां तां जहे ॥ अथ नलपक्षे-त्रिकूटधरके. तनो दुटो महामोहः त्रयः कूटा इव कामक्रोधलोभा यस्य तादृशधरनिवासी प्राणिदे. हरूपोऽधरः । 'त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः' इति भगवद्वाश्यात् । रोख्य माणां रागवतीं बुद्धिं मा कृथा इति बहुधा प्रतार्य जहे । शीघ्रं पौनःपुन्येन शोचत तां रागवती बुद्धिम् । कथंभूताम् । खगराजमात्रशरणां खगराजस्य मा लक्ष्मीः शोभा 'लक्ष्मीः संपदि शोभायाम्' इति हैमः । तां त्रायत इति खगराजमात्रः स विष्णुः शर णम् । 'शु हिंसायाम्' । ल्युट् । घातसाधनं यस्याः सा । हरिनामशरणा एव तां हाई पारयन्तीति गूढोऽभिप्रायः । विशेष्यं विनापि बुद्धिस्थविशेषणपदानि प्रयुज्यन्ते इत्य र्थवत्सूत्रे ज्ञापितं सूत्रकारेण । शब्दरूपशब्दस्य विप्रकृष्टस्यानुवृत्तेरभावात् । अतएवो योगपर्वणि विदुरवाक्यम्-'एकया द्वे विनिर्जित्य त्रीचतुर्भिर्वशं कुरु । पञ्च जिल। विदित्वा च सप्त जित्वा सुखी भव ॥' इति । विशेष्यमत्रापि नास्त्रि । उपगीतिः ॥ हिंसीरमध्यसंस्था ह्यशोकवनिकागता रामा । आश्रयमेवाशोचत्पौरस्त्यं ध्यानमूकत्वा ।। ८६ ॥ रामपक्षे-हिंसीरं राक्षसीन्दं तन्मध्यसंस्था अशोकवनिकागता रामा सीता ध्यानेन मूकत्वं यस्याः सा ध्यानमूकत्वा हि निश्चयेन पौरस्त्यं पति राममाश्रयं शरण- मेवाशोचत् ॥ अथ नलपक्षे-नास्तिक्यमदक्रोधादि हिंसीरमध्यसंस्था हि ध्यानमू- कत्वा रागवती धीः अशोकवनीतः तत्राशोकवृक्षसमूहान्तराले जनाश्रयोऽभूत् तत्रस्थः कं सुखं सखदे । 'केणः' इति हवः । तत आगता तिरस्कृता नलेन पौरस्त्यमाश्रयमे- वाशोचत् स दुर्जयो वैरिसेनिः कदा मया भमः करिष्यत इति । उपगीतिः । श्यामाङ्गो व्यावृत्य व्यचिनोदपरां रजोव्याप्तः । नापश्यद्यलपच्च प्रादर्शल्लक्ष्मणं तत्र ॥ ८७ ॥ रामपक्षे-रजोव्याप्तः श्यामा रामः मेघश्यामत्वात् अपरां छायासीतां व्यचि. नोत् अन्वेषयामास । 'संवीक्षणं विचयनम्' इत्यमरः । तत्र नापश्यत् लक्ष्मणं प्रादर्शत् । च पुनर्व्यलपत् । दीपकालंकारः । भावशवलता च व्यमया ॥ अथ नलपक्षे-श्या- माझो वाहुको नाम जाग्रदवस्थायां ज्ञानकर्मेन्द्रियव्यापारवत्तां प्रकाशते । जाग्रदवस्था ध्वनयितुमेव कविना रजोव्याप्तमिति पदं प्रयुक्तम् । एतत्प्राचीनपोष्वत एव खना- वस्था ध्वनिता रजोव्याप्तो व्यावृत्य निवृत्य पूर्वव्यापारात् अपरां राजसी घियमन्षियेष । - १ सर्गः] राघवनैषधीयम्। ४९ महतामपि शोचावेशात् कदाचिद्रजोगुणव्यतिषको जायत एवेति सूचितम् । 'मनसो निग्रहं मन्ये वायोरिव सुदुष्करम्' इति गीतासु । तत्र नापश्यद्रागाकुलो दमयन्तीत्य- मिभूतां विचिन्वन्नपि लक्ष्मणमृतुपर्ण प्रणामार्थ प्रादर्शत् । उपहरे दमयन्तीप्रेम्णा व्यल- पच्छ । उपगीतिः॥ कृतसंभाषोऽनेन प्राभ्राम्यत्कानने प्रचरन् । खगराजगतिं कृत्वा व्यायतदोषं कबन्धमथ ।। ८८ ॥ ग्रसमानं निजमूर्तिं प्रैक्षिष्ट विकर्तनेन पुनः सः । युक्त्या युक्त्वा व्यचरत्स कानने श्रीमतां धुर्यः ॥ ८९ ॥ (युग्मम्) रामपक्षे-कानने प्रचरन् अनेन कृतसंभाषः प्राभ्राम्यत् दूरदेशेऽभ्रमीत् । प्र. शब्दो दूरवाची । युग्मश्लोकेनान्वयः। सीतां व्याहृतकदुर्वार्ता सौमित्रिराचष्ट अतोऽहं निरगनमिति । पुनरने गतौ मध्येमार्ग जटायुषा किंचित्संभाष्य तद्गतिं वैकुण्ठीयां विधाय । अथाग्रे व्यायतदोषं कबन्धं रामः प्रैक्षिष्ट । कथंभूतम् । व्यायतदोषं योजना. यामबाहुम् । पुनः कथंभूतम् । निजमूर्तिमात्मदेहं असमानं मध्ये पातात् । पुन. विकर्तनेन तद्वाहुच्छेदेन युक्त्या युक्त्वा संयोज्य पुनः श्रीमतां धुर्यो रामः स कानने दण्डकवने व्यचरत् ॥ अथ नलपक्षे-अनेन ऋतुपर्णेन कृतसंभाषः कुत्रचिन्नरोपवने महति प्रचरन्नभ्राम्यत् । पुनः कथंभूतः।श्रीमतां विज्ञानसंपत्तिमतां धुर्यः स नलः कदा- चित्पञ्चाशत्कोटियोजनपृथ्वीमण्डलव्यापकत्वाद्दीर्घभुजमिव । केन विषयसुखेन । 'सुखशी- पजलेषु कम्' इति विश्वः । बन्धः संसारबन्धो यस्मात् तमीदृशं निजमूर्ति असमान- मिव प्रैक्षिष्ट स्वप्ने जागरे च तदा खगराजगतिम् । 'खं ब्रह्म' इति श्रुतेः। खेन गरो वर्णनं यस्य स चासावजश्च तद्गतिं तदवबोधं युक्त्या करणभूतया तं कबन्धं ज्ञाना- सिना विकर्तनेन संयोज्य कानने । 'सत्यं ज्ञानमानन्दं ब्रह्म' इति श्रुतेः । केनानन्देनाननं जीवनं यतः। 'अन प्राणने' ल्युट । तत्र ज्ञानात्मके परे ब्रह्मणि व्यचरत् । इत्थं नलो वष्टत इति भावः । उपगीतिः ॥ शबरीकृतसंवादो गतिदोऽज्ञानां परं सरोऽजुषत । सावरजो धुर्यमतिर्विलक्षणं कान्तिपूरवहम् ।। ९० ॥ रामपक्षे- शबरीकृतसंवादः अज्ञानां गतिदः सावरजः धुर्यमतिः विलक्षणं का. न्तिपूरवहं सरः अजुषत ॥ नलपक्षे-निगीर्याध्यवसानरूपातिशयोक्त्यलंकारः । अहं तां शबरी कदाचिच्छोकतमःप्रादुर्भावेन तया कृतसंवादः गला रात्रौ पुष्करं हन्यां वा इत्यादि तत्संवादः पुनर्जागरे तद्विधूय अज्ञानां गतिदो ज्ञानद्वारा परं सर आनन्द- रूपं ब्रह्मसरः अजुषत असेवत । सावरजः शूद्राश्वपालान्तरसहितः।धुर्या मतिर्यस्य सः। कथंभूतं सरः । विलक्षणमनिर्वचनीयं कान्तिपूरवहं कोटिसूर्यसमप्रभम् । 'तमेव भान्त- ५० काव्यमाला। मनुभाति' इति श्रुतेः । पूरः । 'भेदाः किरातशवर-' इत्यमरः । गत्यर्थानां ज्ञानार्थ- चात् कातिदैक्षित्वं (2) व्याख्यातम् । गतिज्ञानम् ॥ पवमानजनस्तावच्छ्यामावयवेन संवदितुम् । आयात्सुग्रीवसुहृद्विनयेन च वार्तमाचारीत् ॥ ९१ ॥ रामपक्षे तावत्सुग्रीवमित्रं पवमानजनो हनुमान् श्यामावयवेन संवदितुमायात् वार्तमाचारीत् यावत्सरसि गतं तव । वृतसमूहम् । 'तस्य समूहः' इत्यण् । की युवां त्रैलोक्यकर्तारौ भासेथे इत्यादि पवमानजनो वायुपुत्रो हनूमान् । जननं जनः । 'जनि- वध्योश्च' इति घलि वृद्धिनिषेधः । श्यामावयवो रामः । 'रामः श्यामः प्रसन्नः' इति रामायणे ॥ नलपक्षे-तावत्सुग्रीवो भीमः तत्सुहृत् । सुग्रीवत्वं च हरिनामकीर्तनाचा- रुकण्ठत्वं भवति । 'वायिते ते नयने नराणाम्' इत्यादि श्रीमद्भागवतं प्रमाणम् । पव- मानः पवित्रस्तादृशो जनो विप्रः भूदेवत्वात् । श्यामावयवेन बाहुकेन संवादं कर्तुमपू- वंशीलत्वात् चतुर्दिक्षु भीमप्रेरिता द्विजा गतास्तस्य नलस्यान्वेपणाय तेपामेक ऋतुपर्णन- गरे वसन् सायं विलापगर्भपा शुश्राव तत्समीपमागत्य विनयनेन वार्तमाचारीत् तद्वृत्त- व्यतिकरं चित्ते प्रणिधाय जहादे शृण्वन् । उपगीतिः ॥ किं वार्तमाचारीत् इत्याह-नलपक्षे-स भीमप्रेरितो द्विजस्तं वाहुकमाह- लोकोत्तरवृत्तान्तः सलक्ष्मणस्त्वं विराजसे श्रीमान् । हरिणा मैत्री क्षिप्रं स्वकार्यघटनां प्रकुर्वीथाः ॥ ९२ ॥ रामपक्षे-अम हे सलक्ष्मणस्त्वं लोकोत्तरवृत्तान्तो मतिमानतिमेधावी विराजसे । उत्तरालंकारेण रामेणापि खवृत्तमुक्तोऽसाविति गम्यते । सलक्ष्मणपदेन । हरिणा क- पिना सुग्रीवेण क्षिप्रं मैत्री कुरु । कथंभूताम् । स्वकार्यस्य सीताप्राप्तिरूपकार्यस्य घटना यस्याः सा । इत्थं विनयेन हनूमान् राममाहेति बोध्यम् ॥ अथ नलपक्षे-लक्ष्मणः प्रशस्तसामुद्रिकचिहानि प्रशस्तबुद्धिः स प्रसिद्धस्त्वं भवसि कश्चित् कल्पाविष्टपतिकृत- त्यागातया भैम्या पसे नासूयितव्यम् इत्यादिगाथाः कथयस्त्वं लोकोतरवृत्तान्तस्त्र- मिति पदेन वस्तुना काव्यलिजालंकारो व्यज्यते । इत्थं सायं वदन्तमाकर्ण्य विप्रो नल इति ज्ञात्वा तदन्तिकगामी प्रशंसा लोकोत्तरेत्यादि चके इति ध्वनिः । अतः परं हरि- णाच्युतेन दारसंयोगदां मैत्री प्रकुर्वीथाः कुरु साधो इति ब्राह्मणो निपुणाय निपुणं गूढार्थमुत्तरमदादिति साकूतम् ॥ ओमित्युक्त्वा मैत्री विशेषतो हारगस्तु भवन् । रामः कृतवान्मैत्री दार्थेन तदाप्रभृत्येव ।। ९३ ।। रामपक्षे-रामो मित्रं मारुतिमोमित्युक्ला तथैव करिष्य इति प्रोच्य विशेषतस्तु हारगो हरेरयं स्कन्धः । 'तस्येदम्' इत्यण् । हारेण स्कन्धेन गन्ता भवन तदाप्रभृत्येव ऋष्यमूकस्थमुग्रीवेण सह दाढन मैत्री कृतवान् अनिसाक्षिकत्वेन वालिनं हलाला राज्ये १ सर्गः] राघवनैषधीयम् । ५१ स्थापयिष्यामीति दाढर्थम् ॥ अथ नलपक्षे-स रामो नलो मिजं विप्रमोमित्युक्ता तु पुनर्विशेषतोऽस्मरणादिव व्यतिकरभजनं कुर्वन् तदाप्रभृत्येव कामनामुद्दिश्य दाढउँन मैत्री कृतवान् । उपगीतिः ॥ तत्प्रत्ययाय मतिमान्व्यातततृणराजसंभेदः । कान्ताभूषणसङ्गः कालमतिक्रान्तवांस्तत्र ॥ ९४ ॥ रामपक्षे-तत्र मतिमान् रामः कालमतिकान्तवान् । कथंभूतः । व्याततः कृतः तृणराजानां सप्तानां वाणेन संमेदो येन सः । 'तृणराजाहयस्तालः' इत्यमरः । पुनः कथंभूतः । कान्ताभूषणसमः रक्षसा विहायसा नीयमानामिज्ञानाय सीताभूषणं नूपुर- ममुद्यत्तद्रूपणजाताहादः ॥ अथ नलपक्षे-तत्र तादृशहरिज्ञानाय व्याततः तृणस्य राजश्व संभेदः संगमनं येन सः तयोरभेदप्रतिपत्तिः । अत एव प्रशस्तबुद्धिः । 'भिनी दारितसंगती' इति विश्वः । कान्तश्चासावश्च स भूपणं येषां तद्भकास्तत्सङ्ग इत्यर्थः । कालमतिकान्तवात् । उपगीतिः ॥ बलिवालिघातकारी धीसचिवहादसंतुष्टः । वर्षणकालविनायी सलक्ष्मणोसत्परो व्यलसत् ।। ९५ ॥ रामपक्षे-वली चासौ वाली च तद्धातकारी एकवाणेन । धीसचिवो हनूमान् तत्कृतहादतुष्टः वर्षचतिवाही। 'विनयोऽपहृतौ दण्डे शिक्षानम्रखयोरपि' इति हैमः । अत्र 'विनीञ् हरणे' । लक्ष्मणयुक् । असन्तः पापाः परे शत्रयो यस्य सः असत्परः । व्यलसत् व्यहरत् ॥ अथ नलपक्षे-चली यो वाली तद्धातको यो रामो भगवांस्त- मृच्छति शरणीकरोति इति 'सुप्यजातो-'इति णिनिः । धीसचिवेति । धीरेव सहा- यभूता यस्य स ज्ञानजन्यहादेन संतुष्टः । वर्षगकालः प्रादकालः तद्विनायी प्रशस्व- पद्मादिरेखाचिहः । असत्परः दुर्जनशत्रुः । तत्र व्यलसत् अश्वपालन क्रियादिनाकरोत् । उपगीतिः॥ भीमगृहं गतवत्या द्विजवचनप्रीतिकारिण्या। अन्वेष्टं सांकेत्य तर्खादाय प्रतिष्कशा निरयुः ॥ ९६ ।। रामपक्षे-तर्हि प्रतिष्कशा अन्वेष्टुं निरयुः । किं कृत्वा । भीमगृहं गतवत्या द्विज- वचनप्रीतिकारिण्याः सीतायाः सांकेसमादाय । 'भीमोऽम्लवेतसे शंभी भीमसेने भया- नके' इति हैमः । 'दन्त विप्राण्डजा द्विजाः' इत्यमरः । जटायुर्वचनेन प्रीतिदायिन्या भयंकर लाशगृहं गतवत्याः अन्यत्र वा स्यात्स्थापिता चारेणेति चतुर्दिक्षु ते ययुः। तत्संकेतान् बहूनादाय । 'प्रतिष्कशः सहाये स्याद्वार्ताहरपुरोगयोः' इति शब्दार्णवः । अथ नलपक्षे-भीमगृहं प्रागेव द्विजेन प्रापितेत्युत्तरालंकारेण सूच्यते । प्रतिष्कशाः। नलमिति शेषः । अन्वेष्टुं निरयुः । भीमप्रेरिता दूता दिक्षु जग्मुरित्यर्थः । किं कृता । - ५२ काव्यमाला। पूर्व द्विजवचनप्रीतिकारिण्याः भीमगृहं गतवत्या दमयन्याः सांकेर वरच्छेदादि आ- दाय गृहीला । उपगीतिः ॥ प्राप्तसुवर्णसमुद्रः पवमानजनस्तु तत्रैकः । साङ्गदराट् हरिभक्तः पुरीमयोध्यां हिरण्मयीं वातः ॥ ९७ ।। रामपक्षे-तत्रैकः पवमानजनो हनूमान् वायुपुत्रः हिरण्मयीमयोध्यां पुरीं लङ्का प्राप्तः । तु सावधारण्यः । कथंभूतः । प्राप्तसुवर्णमुद्रिकः । अरादसहितः । हरेकः योद्धुमशक्याम् । अनेनैव (एन विष्णुनैव) योध्यामिति वा । भकवादेव तत्र गत इति ध्वनयवाह ॥ अथ नलपक्षे-तत्रैकः पर्णादो नाम विप्रः सुवर्णमुद्रां गृहीला तामयोध्यां प्राप्तः । 'ब्राह्मणा जलमं तीर्थम्' इत्या दिवाक्याजाताः पावकाः पवमानाः । ताच्छील्ये चानश् । पूइयजोः शानच् वा । पवमानश्चासौ जनश्चायात् । किं कृला । शोभना भैम्युक्ता वर्णास्त एव मुद्रिका यत्र सः । साझ ददातीति साङ्गदस्तादृशो राट् राजा यस्य सः । 'हेमनी शफै रौप्यः' इत्यादि साङ्गगोदानं यथा तथा सर्वाणि दानानि यस्य भीमस्याभूवन् । पुनः कथंभूतः । हरिभक्तः । कथंभूतामयोध्याम् । हिरण्मयीम् । दाण्डिनायनसूत्रे निपातितो हिरण्मयशब्दः । उद्गीतिवृत्तम् ॥ ग्राहतिमिङ्गिलजुष्टां नदीशवेलां विलोक्य पुनः । संपातिवाक्यमहनः संतीर्य कराशिमेतरताम् ।। ९८ ॥ रामपक्षे-पुनः संपातिवाक्यमहनो हनूमान् कराशिं संतीर्य तां पुरीमेतः । कि कृत्वा । ग्राहतिमिशिलजुष्टां नदीशवेलां विलोक्य । तत्पर्वतगुहास्थजटायुरनुजसंपाति- वाक्यस्य महनं पूजनं यस्य सः । गृध्रवादित एवाहम् अशोकवनिकास्थ सीतां पश्यामि तत्रैवास्ति सेति ॥ अथ नलपक्षे-संपातिवाक्यमहनः प्राह तिमिलिजुष्टां नदीशवेलां पुनर्विलोक्य कराशिं संतीर्य तामेतः । ग्राहति मिशिलाकारा मण्डलेश्वराः कुण्डिनायो- ध्यान्तरालवर्तिराजाः तैर्जुष्टां प्रीणितां नदीशवेलामिव दमयन्तीं विलोक्य पुनः कराशि नानानदीनदजलपूरां दृष्ट्वोत्तीर्य पवमानजनोऽन्यः कश्चिद्विजस्वामयोध्यामेत आगतो- ऽभूत् । संपातिनः शीघ्रोहयनपक्षिण इव दूता ये प्राहीयन्त तद्वाक्यमहनः सत्यवशा इमे इति कृततद्वाक्यपूजनोऽयोध्यामेतः आगमत् । इदं सामरूपकम् ॥ प्राप्तसुवर्णसुमुद्रः पुण्ययशःप्राप्तसांकेत्यः । उषितपुरीको मतिमान्नरदेवमवारुणत्तूर्णम् ।। ९९ ॥ राम(नल)पक्षे-प्राप्ता सुवर्णा इव सुमुद्राः शोभनमुद्रा येन सः । 'मुद्रामुलीयके चिहे मुद्रा प्रत्ययदायिनी' इति रभसः। पुण्ययशःप्राप्तसांकेयः पुण्य यशा बाहुकस्तस्मात् प्राप्तं सांकेर क्रियाकारः मा स्म तप्यथा मामजहात्स इति कलेनियोगात्त्वजातनखम- सानन्तरं विधिर्वर्धयिष्यति एवं सायं पुनर्भाषणेन नल एवाय मिति तं प्रधार्य उषिता १ सर्गः राघवनैषधीयम् । ५३ पुरी अयोध्या येन स मतिमांस्तूर्ण नरदेवं राजानं भीमाख्यं तूर्णमेवारुणत् प्रापत् । 'अ. वरोधस्तिरोधाने' इत्यादिकोशस्तु प्रागुपन्यस्वः॥अथ प्राप्तेत्यादि रामचन्द्रपक्षेव्याख्या- नम्-सुवर्णचूडामणिं प्रत्ययदायकं प्राप्य पुण्ययशसा हेतुभूतेन सांकेत्यमुपलभ्य । 'उष दाहे'। दग्धाशेषलो बुद्धिमानरदेवं रामं हनूमान् पवमानजन इति प्रकरणादनुवर्तते। प्रापत् । उपगीतिः॥ भीमपुरीमृतुराजः स्वयंवरार्थं गतः समाहूतः । हरिचङ्करभाक् मतिमान्सलक्ष्मणो बाहुकाग्रसरः ।। १०० ।। रामपक्षे-माहृतः स ऋतुराजः स्वयंवरार्थ भीमपुरी गतः । कथंभूतः। हरिचार- भाक् । पुनः कथंभूतः । मतिमान् । पुनः कथंभूतः । सलक्ष्मणः । पुनः कथंभूतः । वाहुकाप्रसरः । 'ऋतूनां कुसुमाकरः' इति गीतासु । साक्षाद्वसन्त इव रूपकम् । मया सीतया लक्ष्म्या आहूतः शीघ्रमागच्छेति हनूमद्रधभाक् । 'चरः स्यन्दने तृप्तौ' इति हैमः । 'चरो रथः' इति कृदन्ते दीक्षिताः । वाहव एव का मायप्राया येषां ते वाहुका वानरा अग्रेसरा यस्य सः । वाहू निजौ काविव कृतान्ताविव यस्येति खबाहुदण्डवली- ति भावः । 'शमने सर्वनानि कः' इति विश्वः । भीमपुरी रावणपुरीम् ॥ अथ नल- पक्षे-भीमेनेति शेषः । खयंवरं करोमि भैम्या इति समाहूत ऋतुराजः नामग्रहणे पूर्वोक्तभाष्यानामैकदेशग्रहणम् । नन् (टच् ) समासान्तः । ऋतुपर्णो राजा स्वयंवरार्थ भीमपुरी कुण्डिनं गतः । कथंभूतः । अश्वयुक् रथारूढः मतिमान् लक्ष्मणः श्रीमान् सः। पुनः कथंभूतः । याहुक एवाग्रसरो यस्य सः । उपगीतिः ॥ उत्तमचरितो गच्छन्पथि राजा बाहुकाक्षिककृत् । परिगणिताक्षावयवीवरुद्धहरिहृत्कुतूहली नृपतः ॥ १०१ ॥ रामपक्षे-उत्तमचरितः पयि पाहुकाक्षिककृत् परिगणिताक्षावयवः गच्छन् अवरुद्ध हरिहत् राजा नृपतिः कुतूहली आसीत् । अस्तिर्भवन्तीपरः इति । वाहुकाः कपय एव आक्षिका व्यवहारष्टारोऽध्यक्षास्तकर्ता चमूपतित्वदौवारिकत्वप्रेष्यत्वादिति युक्ताः कृताः परिगणिताक्षावयवः अष्टादशभेदो व्यवहारवृक्षो मन्वायुक्तो मिताक्षरायाम् । ते सर्वे येन विचारिता भगवता प्राप्तसुग्रीवहादामिप्रायः रामकार्य मया कर्तव्यमेवेति नृन् यन्ति शोषयन्तीति नृपा राक्षसाः । 'पै औं वै शोषणे' । तांस्तस्यतीति । 'तसु उपक्षये' दिवादिः। नृपतः पदजित् गर्जन्तं सागरं दृष्ट्वा गगनाकारं दृष्ट्वा कुतूहली रामोऽभूदि- त्यर्थः ॥ अथ नलपक्षे-पथि गच्छन्नुत्तरीयदूरगमे परिगणितविभीतकपत्रफलः विद्या- विनिमयप्रतिझया वाहुकस्याक्षहृदयज्ञत्वकृत् । अक्षोऽत्र विभीतकः स्वयं वाहुकात्प्रा. ताश्वहृदयः उत्तमचरितः पुण्यश्लोकर्तुपर्ण आसीत् कुतूहली इति तात्पर्यम् । 'अस्तिर्भव- न्तापरः' इति महाभाध्ये प्रागेव कथितोपपत्तिः । उद्गीतिः ॥ पा- - ५४ काव्यमाला। कृतसेतुर्हरियानस्तीर्णनदीशो विभीषणाश्रयणः । भीमपुरीमृतुराजोऽवारौत्सील्लक्ष्मणाग्रसरः ॥ १०२ ।। रामपक्षे-बद्धसेतुः । भृकुटिवशात् इति शेषः। हरियानो हनूमद्यानः तीर्णसमुद्रः। आदिकर्मणि निष्ठा । तरीतुमारुच्च(रब्धः) विभीषणेन आश्रयणं दुरात्मरावणपरिहरणेन यस्य स इति बहुव्रीहिः । समुद्रतीरप्राप्तेन लक्ष्मणोऽस्त्रचतुर्यस्य सेनाग्रसर ऋतुराजः इव सौन्दर्येण रामो भीमपुरी रक्षःपुरी भयंकरीमवारौत्सीत् । अवरुधेलृट् । समन्ताद्वरोध ॥ अथ नलपक्षे-योषिद्रूपं महान्तमपि धर्मतो भ्रंशयतीति ध्वनयनेवाह-कृतसेतुः द्वि. तीयः पतिर्न भवतीति जाननपि ऋतुपर्णः कृतसेतुः । 'कृञ् हिंसायाम्' । स्वादिः छिनधर्म- सेतुः । अश्वरथगविभीषणैः शान्तैराश्रयणं यस्य सः । तीर्णा नदीशा महानद्यः पयि येन सः लक्ष्मणः पनादिरेखायुक्तः । बाहुकोऽप्रसरो यस्य सः भीमपुरी सायं त्वरया अवारौ सीत् प्राप । कोशः रुधेः प्राप्त्यर्थे प्रागेव दर्शितः । आयोवृत्तम् ॥ हीनां स्वयंवरेण न्यशीशमत्तां पुरी मतिमान् । भीमप्रत्युद्गमनोऽभ्यागममात्रस्फुरद्धिषणः ॥ १०३ ।। रामपक्षे-मतिमान् रामः तां पुरी लक्षां न्य शीशमत् । लुङ् । ददर्श । निपूर्वः श- मिर्दर्शने। प्रेरणांशत्यागहेतुमण्ण्वन्तस्य रूपमिदम् । उक्तं च हरिणा-'निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिष्यते' 'उबुन्दिर निशामने' इति धातुपाठे ज्ञापकाद्दर्शनार्थः । कथंभूतो रामः । भीमः राक्षसैः प्रत्युद्गमनं यस्य सः इत्युत्प्रेक्षा व्यङ्ग्या ध्वनिनिरूपणे काव्यप्र- काशे चतुर्थोक्लासे बुधैरवसीयताम् । पुनः कथंभूतः । अभ्यागममात्रस्फुरद्धिषणः सं- प्राममात्रप्रकाशमानवुद्धिः । कंदा हत्वा मृधे दयितामिमं दुष्टं लप्से इति । एतावन्मात्रा- वधृतशेमुपीकः। 'त्रियाः पुंवत्-' इति पुंवद्भावः । 'गोस्त्रियोः-' इति प्रान्तस्य हवः। कथंभूतां पुरीम् । परेण हीनाम् । 'देवाढते वरः श्रेष्ठे' इति कोशः । 'वरो जामातरि प्रोक्तः' इति हेमचन्द्रः । लाशब्दस्य स्त्रीत्वम् । समासोक्किरलंकारः। मन्ये ताशी लका हिरण्मयी खानुरूपवरेण हीनाभूत् ॥ अथ नलपक्षे-मतिमाऋतुपर्णतां पुरीम. शीशमत् । कथंभूताम् । स्वयंवरेण हीनाम् । स्वयंवरचर्चापि यत्र नाभूत् कथंभूतो राजा । भीमेन राज्ञा ऋतुपर्णः समागम इति कृतप्रत्युद्गमः तस्याभ्यागमेनैवाहं वधि- तोऽस्मीति धिपणा प्रादुर्भूता । उपगीतिः ॥ भैम्यालिः केशिनिका कारिणिकी वीरसेनसुतम् । अभ्याजगाम विनयाज्जलवहिनिमीलनासक्ता ॥ १०४ ।। रामपक्षे-विनयात् भैमी आलिः वीरसेनसुतमभ्याजगाम । विगतो नयो विनयः प्रादिसमासः । विनयमयते इति विनयात् विनय औद्धत्यम् । उद्धतेत्यर्थः । भीमस्य भ. १. 'कदा हत्वा मृधे दुष्टमिनं दयितां लरये' इति योजना कार्या.

१ सर्गः] राघवनैषधीयम् । ५५ यंकरस्य रावणस्येयम् । 'तस्येदम्' इत्यण् । 'टिड्डा-' इति टीप् । कौणपी आलिः पतिः। 'वीच्यालिरावलिः पतिः श्रेणी लेखास्तु राजयः' इत्यनुशासनम् । वीरा विक्रमशालिनी आक्षी सेना यस्य स वीरसेनो रामः स चासौ सुतश्चेति कर्मधारयः । 'सुतः पार्थिवपुत्रयोः' इत्यमरः । रामं राजानमभ्याजगाम । योद्धमागमत् । कथंभूता भैम्यालिः । केशिनिका। अतिशायने मत्वर्थीयो महाभाष्यवचनात् भूमनिन्देत्यादि वोध्यम् । लम्बाः केशा अस्याः सन्तीति । अवक्षेपणे कन् । रूक्षपिललम्बकेशा। कारणिकी। 'परीक्षकः कारणिकः' इति तृतीय काण्डे । कथं विक्रमो मनुष्यादिरयमिति परीक्षमाणा युद्धे । पुनः कथंभूता। जलं वारुणास्त्रं भ्रातृभ्यां प्रहितं युधि वहिरानेयं तनिमीलनं व्युपदशनं प्रत्यस्तैस्तत्रा. सक्केति फलितोऽर्थः ॥ अथ नलपक्षे-भीमेन राज्ञा प्रागेव कुत्रचिदुपकार्यापार्थे वाहुकायावस्थानं दत्तं परीक्षार्थ कोऽपि न पश्येद्गतागतमिहेति । तत्र दमयन्तीप्रेरिता केशिनीसखी वाल्यादारभ्य हितैषिणी । अनुकम्पायां कन् वोध्यः । सखी विचक्षणा कारणिकी परीक्षिका विनयात् विनयवत्वेन वीरसेनसुतं नलमभ्याजगाम संमुखमायात् । कथंभूता । जलवाहिनिमीलनासका । केनचिदत्रास्मै पचिक्रियायै जलवही नैव देयौ । यदि नलोऽभविष्यत्तर्हि देववरसामर्थ्याध्यमत्रोपास्थापयिष्यन चेनेति दमयन्तीनी या सा तथाकापीत् प्रत्यहने वेति गूडोऽभिप्रायः । उपगीतिः ।। द्विनिमीलनापि शत्तया नलेन निर्वर्णितोद्गमद्वितया । कृतसंवादा बहुधा प्रतियाता सा पति तूर्णम् ॥ १०५ ।। रामपक्षे-सा भैम्यालिः तूर्ण रावणं पति प्रतियाता परागृत्य गता। कथं. भूता । रक्षःशक्त्या द्विनिमीलनापि अनलेन बलदहितुल्यरामेण निर्वर्णितो दर्शित उद्गमः प्रकाशो द्वितयस्य जलवहयनद्वयस्य यस्यै सेति व्यधिकरणपदो वहुव्रीहिः । 'सप्तमी विशेषणे' इति सूत्रे ज्ञापितवात् वहुधा कृतसंवादा अनेकप्रकारस्तिष्ठ तिछेति कटुवाक्य रामेण सह कृतसंवादापि रोरूयमाणा हतविध्वस्वा तमेव रावणं शरणं ग. तेति व्यज्यते । तूर्ण प्रतियातेति पदव्यतिकरो व्यकः ॥ अथ नलपक्षे-द्विवारित- द्वितयापि नलेन देवशक्त्या दर्शितद्वया दारकद्वयदर्शनादिना बहुधा कृतसंवादापि सुप. रीक्षया निश्चिता(त)नलागमा दमयन्ती स्वामिनी शीध्र प्रत्ययासीत् ॥ मन्दोदरी तु भीमं जगाद नृपतीन्द्र कालरूपत्वात् । चर्कर्ति सांशयिक्यं केवलमिह वीरसेनसुतः ॥ १०६ ॥ रामपक्षे-तु पुनरेवं सति मन्दोदरी जगाद । किमिति । भीमं भयंकररूपं रावणं नृणां पति शो येभ्यस्तेषामिन्द्र हे राक्षसेन्द्र सर्वराजवाधकलाद्वा । पतेरोणादिक इन् । वीरा सेना यस्य सः वीरसेनसुतः। 'सुतः पार्थिवपुत्रयोः' इति कोशः। कालरूपलात्का- लवत् श्यामरूपत्वात् मम केवलं निश्चितमिह लायां युद्धे सर्वराक्षसकुलं घातयिष्यतीति सांशयिस्यं परमसंशयम् । अतिशयेन करोति ॥ नलपक्षे-तु पुनः मन्दोदरी भीमं ५६ काव्यमाला। राजानमिह केवलं कालरूपलात्कृष्णवर्णस्वात् वीरसेनसुतो राजा मम संशयं चर्कति । कृलो घम् (यङ्) लुगन्ताल्लुट् । अन्येभ्योऽपि श्रुतत्वात्स एव । मन्दः कृशः उदरदेशो यस्याः सा । 'मूढाल्पापटुनिर्भाग्या मन्दाः स्यु तु शारदा' इति कोशोकलाद । कृशोदरी दमयन्तीत्यर्थः । आर्यावृत्तम् ॥ इत्युक्तः कृतहूर्ति स नतसुतं तं निरैक्षिष्ट । आत्मजयाततहर्षः खाहेयहतेः खरूपसंपत्तिम् ॥ १०७ ।। रामपक्षे-मन्दोदर्या यदेत्थमुक्तस्तदा पुत्रमिन्द्रजितमाजुहाव रामजयाय । इत्युक्तः स कृताहुतिराहानं यस्य तं प्रसिद्धं त्रिलोक्यां पादयोः प्रणतं सुतं मेघनादं निरैक्षिष्ट । कथंभूतं तम् । वाहेयधृतेः ब्रह्मास्त्रसास्वादिधारणात् अवश्यं जेष्यामि राममिति आत्म- जये आततो हर्षों यस्य तम् । 'दृतिकुक्षिकलशिवस्त्यहेर्छन्' । आहेयमिति शैषिके. ध्वर्थेषु । स्वरूपसंपत्तिः खरूपं खभावः । 'खरूपं च स्वभावध' इति कोशात् । खभा- वादेव संपतिर्यस्य स तम् ॥ अथ नलपक्षे-दमयन्त्येत्युक्तः स भीमो नाम बाहुक- व्याज नलमाह्वयत् । कृतहूतिं कृताहूतिर्यस्य तम् । 'हूतिराकारणाह्वान' इति वचनम् । प्रणतसुतं चरणपतितनलं निरैक्षिष्ट । आत्मजया दमयन्या ततो हर्षो यस्य तम् । सुष्टु अहिदत्तवस्त्रधृतेधारणमात्राच्छिन्नसंदेहस्वरूपसंपत्तिं कन्दर्पतुल्यपूर्वखरूपसंपत्तिमत एच सर्वेऽप्यानन्दस्वरूपा जाता इत्यर्थः । अहिः कर्कोटकः प्रागुक एव । 'सुतः पार्थिवपु. त्रयोः' । उद्गीतिः ॥ रामाभ्यागम एव द्राग्रावणराण्महामोहः । अतिकायाकम्पनयुग्देवान्तनरान्तयुक्सकुलः । सह कुम्भकर्णमेघो वज्रखगैरस्तमायिष्ट ॥ १०८ ॥ रामपक्षे-रामाभ्यागमे सत्येव द्राक रावणराट् अस्तमाविष्ट अस्तंगतः । 'संग्रामा- भ्यागमाहवाः'। कथंभूतो रावणराट्। महामोहः अतितमसा महामोहो यस्य सः। अतिकायः सेनापतिः अकम्पनदेवान्तकनरान्तकादयः कुम्भकर्णमेघनादौ च । कुलेन सह गणयि- तुमशक्यतात् । वज्रतुल्यखगै रामस्य लक्ष्मणस्य जेनीयमाणाः पृथिव्यां शिश्यिरे । रामयोरभ्यागम एवेति समासे द्वयोरमेदालक्ष्मणोहः कर्तव्यः । सरूपलादेकशेषः ॥ अथ नलपक्षे-रामस्य नलस्य संगमे सत्येव कल्पावेशाद्रावणराडिव महामोहः षड्व- र्गपडूादिगणसहितो निगीर्याध्यवसानरूपातिशयोक्न्या तेषां सर्वेषां कविना कौणपरू- पत्वं दर्शितम् । शीघ्रमेवानश्यदित्यर्थः । षट्पदीगाथावृत्तम् ॥ वियतः कौसुममपतत्पुण्यचरित्रस्य मूर्ध्नि तदा (वर्षम्) । अपणायन्विबुधास्तं क्षौणीशी नीतितो हृष्यत् ॥ १०९ ॥ रामपक्षे-पुण्यचरित्रस्य रामस्य शिरसि वियत आकाशात कौसुमम् । तस्य समूहः' इत्यण् । पुष्पवर्षमपतत् तदैवागत्य इन्द्रादयोऽपणायन् अस्तुवन् । 'पण स्तुती' । क्षीणी- १ सर्गः] राघवनैषधीयम् । ५७ शस्येयमपत्यं स्त्री सीता नीत्या अग्निशुद्धात्मदेहकरणरूपनीत्याहृष्यत् अनन्दत् । लोकाप- वादपरिहारपूर्वकभर्तृसमागमात् ॥ एवमेव नलपक्षे-तत्रापि पुण्यश्लोकोपरि पुष्पवर्षम- पतत् । कलिजये दयितासंगमे स्वरूपप्राप्ती सत्यामिन्द्रादयोऽस्तुवन् यथोचितकारि. खात् क्षीणीशी दमयन्ती खकृतनीतिफलवत्तादर्शनादहृष्यत् ऋतुपर्णश्चकितो गृहा- नगात् ॥ कर्णीरथगा साध्वी शुचिवर्णितवृत्तवैशिष्ट्या । आब्राझं भुवि गीता नृपदयिताजीहपत्सम्यान् ॥ ११० ॥ रामपक्षे-नृपदयिता सीता सभ्यानजीहपत् । कथंभूता सा । कीरथगा नायु- चितप्रवहणाख्ययानगा । पुनः कथंभूता । साध्वी पतिव्रता । शुचिनामिना वर्णितं वृत्तस्य चरित्रस्य वैशिष्ट्यं यस्याः सा । भुवि आबाह्यं ब्रह्मलोकावधि तोष्ट्रय्यमाना । 'तत्र साधुः' इति सभाशब्दाद्यत् ॥ नलएक्षे-शुचिभिर्मेधातिथिसुमतिजाबालिना- रथै(द)वर्णितचरितप्राशस्त्या दमयन्ती प्रायोतिष्ट । शेष समानम् । उपगीतिः ।। व्यावृत्ते ऋतुराजे यथागतं सत्सभाजनो विधिवत् । प्रासादवर्यसंश्रित्कलितगुरूद्धीक्षणोऽभासीत् ॥ १११ ॥ रामपक्षे-ऋतुराजे व्यावृत्ते सति विधिवत्सभाजनः प्रासादवर्यसंश्रित्कलितगुरुद्वी- क्षणोऽभासीत् दाशरथिः प्रकरणालभ्यते विशेष्यः । ‘रा दाने' । मतूनामात्मशक्त्या लोके राति ददातीति ऋतुदः । 'आतोऽनुपसर्ग कः' । प्रस्तुदः स चासावजश्व ऋतुराजो वि. रश्चिः । ऋतुपटं प्रतिवर्ष प्रकटीकरोति प्रत्यक्षं लोके दरीदृश्यताम् तस्मिन् राममभि- हत्य स्खधाम गते सति । 'समाज प्रीतिसेवनयोः' । सतां सेवक इति पूजक इति सतां पू. जकः लदायामेव प्रासादवर्यसंश्रित् विधिवत् यथार्ह कलितगुरूद्वीक्षणः कृतदशरथदर्श- नोऽभिवन्ध । 'कलिधातुरनेकार्थः । कलितं कृतं गुरोरुद्वीक्षणं येन सः । 'भा दीप्तौ' लुङ् । यथा लोके पितृभक्तः कोऽपि नास्ति, तथा भक्तिस्फीतां विधाय पूर्णचन्द्र इव व्यच. कासीत् । न चेदं नास्ति । 'वहां अपि धातवो भवन्ति' इति भूवादिसूत्रं व्याच. क्षाणो भाष्यकार आह ॥ अथ नलपक्षे-तुपर्णे राज्ञि यथागतं खीयामयोध्यां प्रति गते सति विप्रादीनां यथार्ह कृतपूजो नलः श्वगुरब्रह्मर्पिप्रभृतीनां गुरुजनानां प्रीतिनि- शामनव्यापारो यस्य स प्रासादश्रेष्टं कौण्डिनमधिष्टाय कंचिदिष्टं व्यद्योतिष्ट । आर्यास्त्तम् ।। पुण्यजनेशेन ततः प्रातिठेन प्रणीतवरिवस्यः । वैमानपुप्परथभाक्सलक्ष्मणो द्राग्गतः स्वपुरीम् ॥ ११२ ।। रामपक्षे-ततः प्रातिप्टेन प्रतिष्टायामनुभावी प्रातिष्ठः । 'शेपे' इति सूत्रेणाण् । आदिवृद्धिः । शेषे' इति लक्षणं चाधिकारश्चेति सिद्धान्ते व्याख्यातम् । लहाराज्यप्रति- टानुभावी विभीषणस्तेन रक्षोधिपतिना प्रणीतवरिवस्यः कृतपूजनशुश्रूषः वैमानपुष्परथ- .. राघव.

५८ काव्यमाला। - भाक् विमानानामीटे प्रभुर्भवति वैमानश्वासी पुष्पपटिसरथश्च । मध्यमपदलोपी समासः। वैमानपुष्परथं भजतीति भजो विः । पुष्पकमध्यारुह्य लक्ष्मणयुक् द्राक् खपुरीमयोध्यां गन्तुमारेमे आदिकर्मणि निष्टा गत इति ॥ अथ नलपक्षे-ततः पुण्यजनाः कुण्डिनभ- वास्तेषामीशेन प्रभुणा भीमेन मासमात्रं व्यतिवाय कृतपूजनो विमानानुकारिपुष्परथारूढः। 'असौ पुष्परथश्चित्रयानं न समराय यत्' इति कोशः । लक्ष्मीवान् स नलः स्वपुरी नि. पधपुरी द्राक् गतः । आर्यावृत्तम् ।। तीर्थेशपौरसङ्गश्चतुरङ्गवलावराश्रितो नन्दी । अक्षहृदयी जिताक्षः सपुष्कराक्षः पदं प्रार्च्छत् ॥ ११३ ।। रामपक्षे-पुष्कराक्षः स रामः पदमयोध्यानगरं प्रार्छत् प्राप । कथंभूतः । ती- थशे प्रयागे पौराणां सो यस्य सः । पुनः कथंभूतः । चतुरनवलावराश्रितः हस्त्यश्वादि- चतुरावलेन अवराभ्यां भरतशत्रुघ्नाभ्यां श्रितः सेवितः अवरजन्मत्वात् अनुजाभ्यामि- सर्थः । कथंभूतः । नन्दी अत एवाधिकहर्षः । अक्षेषु व्यवहारेपु हृदयं प्रशस्तं चित्त- मस्यास्तीति अक्षहृदयी । प्रशंसायां मत्वीय इनिः । 'अथाक्षमिन्द्रिये । ना द्यूताने कर्प- चके व्यवहारे कलिगुमे' इत्यनुशासनमामरम् । जिता अक्षाः पाशका येन । स्वप्नेऽपि यू- तव्यसनं नाभूदिति भावः । एवं स कमलपत्राक्षः पदं प्राच॑त् । 'पुष्करं पङ्कजे व्योग्नि' इति कोशः ॥ अथ नलपक्षे-'तीर्थ शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु । अवतारर्पि- जुटाम्भः' इत्यमरः । उपाध्यायादिपौरजनसमः चतुरावलाश्रितः श्वशुरदतत्वात् अवराः कृषीवलादयः तैश्च सह नन्दी प्रमोदभाक् अक्षहृदय युध्यस्ख द्यूतं वा कुरु सर्वज्ञोऽह- मित्युक्तो हष्टः । पुष्करोऽक्षकोडां पुनस्तेनाकापोर । एतच स पुष्कराक्षपदेन व्यज्यते । काव्यप्रकाशे व्याख्यातम् । पुष्करेण आक्षं कीडनं सवर्णदीचे सति । पुष्करेण आक्षम- क्षकीडनं यस्य स इति वहुव्रीहिः । जितं जयोऽर्यस्य स इति बहुव्रीहिः । पदं राज्यम- पहतं प्रार्छत् प्राप । नैपध इत्यर्थः । स तु हीणः सन् नलेन स्वग्राम प्रेपितो निरकामत् । अनन्तरं दमयन्तीमाहास्त स्फीतपरिवर्हाम् ॥ आङ्गिरसाभैविप्रैरभिषिक्तो देववृन्दनुतः । अधिराजं करकर्षां क्षौणीशीसंयुतो व्यचकात् ॥ ११४ ॥ रामपक्षे-स इत्यनुवर्तते । वसिष्टेन राज्याभिषेकसंभारे कल्पिते सति आशिरसो वृहस्पतिः तत्तुल्यैरौर्वशेयादिभिर्महर्षिभिः सिंहासनोपविष्टो रामः ससीतः पुण्यतीर्थ- जलैः सर्वाधिदेवस्तूयमानः । अधिराज राजभ्यः इति विभक्त्यर्थेऽव्ययीभावः । क. रान् कर्षति तच्छीलस्तदाचकात् अराजिष्ट । चकासेलेडि रूपम् ॥ अथ नलपक्षे- निपधस्थब्राह्मणादिभिः सर्वैः संभूय मारल्यसाधकाभिषेकसर्व विपत्कर्तनं विधिवत्समा- नैर्यथाविधि पुनरभिषिको मृतागत इव पुण्यश्लोकलाखस्थैः मुरैरपि दत्तमण्यादिसंभारः प्रीत्याधिराजकरानादाय दमयन्तीसंयुतो व्यचकात् विदिद्युते । उपगीतिः ॥

५९ १ सर्गः] राघवनैषधीयम् । कामोऽयं कथमङ्गी वृत्रनोऽयं कथं द्विनेत्र इति । ब्रनोऽयं न हि तीक्ष्णस्तदित्थमूहा व्यकल्पन्त ॥ ११५ ॥ नलपक्षे-यदि कन्दर्पः कथमजी तस्यानमसात् , यदि वृत्रनः द्विनेत्रत्वं कथं सह- साक्षत्वादिन्द्रस्य, यदि चण्डांशुस्तर्हि तीक्ष्णत्वं कथं न स्यात् , तदा ऊहास्तार्किका इत्थं व्यकल्पन्त विकल्पांश्चक्रुः । ससंदेहालंकारोऽयम् ॥ नलपक्षेऽपि समानार्थमिदम् ।तुल्य- सौन्दर्यलात् । आर्यावृत्तम् ॥ कपिकच्छूः शत्रूणां मित्राणामास पाठीरः । कल्पतरुर्दीनानां वनीपकानां स वीरसेनसुतः ॥ ११६ ॥ रामपक्षे-मालारूपकेणाह-शत्रूणां कपिकच्छुः कण्डरावत् रामपक्षे प्राक् मि. त्राणां तु पाठीरो मलयज इव आस वभूवेत्यर्थे तिप्रतिरूपकमव्ययं बोध्यम् । दीनानां याचकानां कल्पतरुरिव दानशौण्डत्वात् । कथंभूतो रामः । वीरसेनसुतः वीरा रणानिव- तिनी सेना यस्य सः स चासो सुतश्च । 'ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः' इत्य- मरोक्तिः ॥ नलपक्षेऽपि इत्थंभूतोऽथों व्यवसातव्यः ।। परस्परिताख्यं रूपकं काव्यप्रकाशे । लोकंपृणः प्रणयकृद्धरिवर्याणां गुणोच्चरणी । पवमानजनाश्लेपी विसृष्टहरिकोऽकरोद्राज्यम् ॥ ११७ ॥ रामपक्षे–स इत्यनुवर्तते । राज्यमकरोत् । कथंभूतः। [लोकं] पृणः। 'लो. कस्य पृणे' इति सूत्रेण मुम् । 'पृण प्रीणने' तौदादिकः । इगुपधलात्कः । प्रणयकृत् । लोकान् प्रीणाति इति व्युत्पत्तिः । 'प्रणयास्त्वमी । विस्रम्भयाच्याप्रेमाणः' इति तृतीये । विश्वासकृत् हितेषु प्रेमकृत् प्रणयं करोतीत्युपपदसमासः । हरिवर्याः सुग्रीवादयः तेषां विसर्जनकाले मध्येसभं गुणवर्णनकृत् तेन तेषां प्रेमकारकत्वं जातम् । पुनः कथंभूतः । पवमानजनो हनूमान् तदालिजानकारी । 'सुप्यजाती-' इति णिनिः । विस्टाः स्वदेश प्रति हरयः पूर्णकामा येन सः । 'शेषाद्विभाषा' इति कप् समासान्तः॥ अथ नलपक्षे- हरिरेव क्यों येषां ते हरिवर्याः परमवैष्णवास्तेषां गुणोचारणे प्रणयकृत् प्रेमकृत् पवमा- नजना विप्रास्तदालेपी भत्या हरिं कायन्ति गणयन्ति । कैगै शब्दे'। हरिका वैष्णवाः विसृष्टं दानं हरिकेभ्यो यस्य सः । 'सृज विसगै' । नपुंसके भावे कः। विपूर्व उत्सर्जन. विसर्जने । एतादृक् राज्यं नलोऽकरोत् ॥ घटदोहिन्यो गावः फलपूर्णा विदिद्युते वसुधा । व्यसनानि पुष्कसमपि त्यक्त्वारण्यं प्रयातानि ॥ ११८ ॥ रामपक्षे-रामे राज्यं शासति गावो घटपूरकदोहाः आसन् , वसुधा फलसंपूर्णा विदिद्युते इति भयं कुतः। व्यसनानि पानाक्षादीनि पुष्कसं चण्डालमपि लक्ला घोरं वनं ६० काव्यमाला। प्रयातानि । इदमद्रुतमासीदिति भावः । तस्मिन् पञ्चमानजनाश्लेषिणि राजनि सति इति 'अर्थवशाद्विभक्तिपरिणामः' इति भाष्ये परिभाषा । अनुवर्तते पूर्वतः पदमिदम् ॥ इत्यमेव नलपक्षेऽपि । अद्भुतो रसो व्यङ्ग्यः । उपगीतिः ॥ कलशोद्भवादयस्तं दिदृक्षवो द्राक्समायाताः । रावणविमर्दतोषाः सलक्ष्मणं प्राणुवस्तोत्रैः ॥ ११९ ॥ रामपक्षे-तं रामं दिदृक्षवः कलशोद्भवादय ऋषयः आयाता द्राक् शीघ्रं रामाया. गय कलशभूरगस्त्यः रावणचूर्णीकरणतोषाः सलक्ष्मणं भूभारहारकत्वात्स्तोत्रः प्राणुवन् । 'गु स्तुतौ' लुङ् । आदादिकः । उपसर्गादिति णवम् । सलक्ष्मणमिति मेघनादस्याप्यज- प्यत्वं चित्रं लक्ष्मणेन कृतं हननमिति ध्वनयामासुः ॥ अथ नलपक्षे-अतिश- योक्त्या रावणो महामोहोऽध्यात्मविद्यया नलः(लेन) सोऽपि हतः पुण्यश्लोक वात् । तस्य] दिदक्षयागस्त्यादयः श्रीमजनसमेतं तं कृतयुगे तुष्टधुरित्यर्थः । उपगीतिः ॥ शम्बूकहिंसयापि ब्राह्मणवरदायको राजा । पार्थिव्या गर्भरुचा जड़ादे संशयच्छेत्ता ॥ १२० ॥ रामपक्षे-'शम्बूकः शूद्रतापसे' इति मेदिनी । शुगतापसहिंसयापि मृत विप्रपुत्रवर- दायको रामोऽन्तरागत्य गर्भरुचा पार्थिव्या राजपुच्या सीतया आजहादे आननन्द । व्यवहारेपु संशयच्छेत्ता ॥ अथ नलपक्षे–गर्भागारं वासगृहम्' इत्यमरोक्तिः । 'ह. श्यन्ते च पदेपु पदैकदेशान् प्रयुमानाः' इति महाभाष्यम् । गर्भे वासगृहे कोष्ठागारे. ऽपि दीपं विना रुक् कान्तिर्यस्याः सान्यत्र का कया तादृशसौन्दर्यवती दमयन्ती राज्ञी तस्याभूदिति विशेषः । शेपं समानम् ॥ कव्यन्तगामिनी तां पदान्तरस्थानसेवनां साध्वीम् । मुनिवरयोपा भेजुः समीपमागत्य लब्धार्थाः ॥ १२१ ।। रामपक्षे-रावणगृहे चिरस्थितां तां वाल्मीकेरन्ते प्रयातां तां मुनिवरयोपा भेजुः सिपेविरे । पदान्तरस्थानसेवनां कथम् । 'पदंशब्दे च वाक्ये च' इति विश्वः । वाल्मीक्या- श्रमोऽयं मिथिलायां जनकस्थानमिति शब्दभेदमात्रभेदात् स्थानान्तरमिति प्रतीतेलों के भगवद्भकसाम्याजनकस्थानमिति पारीणत्यम् । साध्वी पतिव्रतां लब्धार्थाः सनीपमा. गत्यासनिवताः(१) । 'अन्तः समोपे' इति प्राकोशे प्रोकम् । 'कविर्वाल्मीकिशुकयोः' इति च । उत्तरालंकारेण पुनलोकापवादमिया पुनर्लक्ष्मणेन त्याजिताभूदिति व्यज्यते तदाश्रमे ॥ अथ नलपक्षे-मुनिवरयोपा जातूकादिजोषास्तां साध्वी दमयन्ती भेजुः । कथंभूताम् । पण्डितपार्श्वगामिनीम् । तिथिनिर्णयादिसंशयच्छेदनाय जातु प्रासादान्तर. स्थानसेवनां नव्यगृहस्थान् विहाराय तत्र नले गते सति । कथंभूता योषाः । समीपमा. गत्य दौर्गलभाजो लब्धार्थाः व्रतादौ स्वर्णवर्षकरणात् ॥

१ सर्गः] राघवनैषधीयम् । ६१ सकुशलवार्तापतियुग्दमयन्ती पार्थिवी नित्यम् । प्राणेशानुध्याना कालं व्यत्यक्रमीद्भूयः ॥ १२२ ॥ रामपक्षे-तत्राश्रमे कुशलवनामकपुत्रद्वयसहिता दमं करोति दमयन्ती तथा कुर्वती दमयन्ती । नामधातुखात् 'न पादस्याङ्-' इति निषेधो न धातुपाठस्थस्यैव निषे. धात् । कथंभूता । आर्ता दुःखिता अपतियुक् पतिहीना नित्यमनुध्यानमनुगृहे प्राणेशस्य अनु वीप्सया ध्यानं यस्याः सा भूयः स्फीतं कालं व्यतिक्रान्तवती । 'पृथिव्या क्राजौ।' 'टिड्डाणञ्-' इति ङीप् ॥अथ नलपक्षे-कल्याणवार्तासहिता। 'कुशलं क्षेममस्त्रियाम्।' पतियुक् दमयन्ती राज्ञी भूयः कालं बहुहायनी व्यत्यक्रमीत् । कथंभूता प्राणेशस्य अ- नुग्रहो यस्याः सा । 'अनुध्यानमनुग्रहे' इत्युत्पलमालाकोशात् ॥ यज्ञेषु स्वार्चाकं सौशील्यादेरधीयन्तम् । प्रकलय्य भूरितोषा प्रियं विवेकावहं मेने ॥ १२३ ॥ रामपक्षे-भूरितोषा विवेकावहं प्रियं मेने । बहुतोषा सा सीता तत्राश्रमे विवेक- कारिणमावहति । करोतीत्यर्थः । 'कृतौ करोत्यावहति विदधात्यादधत्यपि' इति भहम. लकोशः । प्रियं रामं मेने । किं कृत्वा । स्वस्या अची प्रतिमा यस्य सः पत्नी विना य- ज्ञाभावात् । 'प्रतिकृतिरर्चा पुंसि' इत्यमरः । पुनः कथंभूतम् । सौशील्यादेरधीयन्तम् । सौशील्यादिगुणयुतां सीताम् । परोक्षे सरन्तम् । 'अधीगर्थदयेशाम्' इति कर्मणि षष्ठी। प्रकलय्य श्रुत्वा । 'इक् स्मरणे' । नित्यमधिपूर्वः॥ अथ नलपक्षे–'अर्च पूजायाम्' । 'गुरोश्च हलः' इत्यप्रत्ययः । वस्या एव पूजा यस्य स तम् । योषिदन्तरपरिग्रहाभा- वात् प्रकलय्य श्रुत्वा । कलिधातुरनेकार्थः । शेषं प्राग्वत् । उपगीतिः ॥ प्राचेतसार्तनेन प्राप्तपदा सा रसाश्रयणा । भद्रासनोपविष्टाहीशमहातद्यशोऽगासीत् ॥ १२४ ॥ रामपक्षे-सा सीता तद्यशः अगासीत् । 'गै शब्दे' लुङ् । प्राचेतसस्य वाल्मीकेः वनेन प्रागयोध्यायां रामसमीपागता आर्तनं दया । ऋतिः सौत्रः । 'अर्तनं च ऋतीया च' इत्यमरः । प्राप्तस्थाना पश्चाच्छपथान्तरं रसा सिंहासनारूढां पातलमनैषीत् पुत्री- त्वान्नागैः सहागता। यज्ञाधिष्ठाने इत्यर्थः । रसाया भुव आश्रयणमालम्बनं यस्याः सा तादृशी सीता पतिव्रता अहीशैर्मातृवन्महो यस्याः सा तक्षकवासुक्यादिभिः तत्रस्थापि तद्यश एवा(गा)सीत् । अद्भुतो रसः ॥ अथ नलपक्षे-सा दमयन्ती तद्यशो नलकीर्ति- मेवागासीत् प्रकृष्टं चेतो येषां ते प्रचेतसो विप्राः पर्णादादयः प्रचेतसामिदं प्राचेतसम. तनं कृपा तयैव प्राप्तराज्या प्राप्तपतिका रसानां शृङ्गारादीनामाश्रयणं यस्याः सा । 'श्रिञ् सेवायाम्' । राज्ञा सह सिंहासनोपविष्टा हि निश्चयेन ईशैलॊकपालैर्महा पूजा यस्याः सा। पुण्यश्लोकत्वात् । 'मह पूजायाम्' । 'घअर्थे कविधानम्' । वेदशास्त्रपारीणत्वात्प्रचेतस्त्वं विप्राणामेव श्रीमद्भागवतेऽवधारितम् ॥ ..

६२ काव्यमाला। ॥ १२५ ॥ रामपक्षे-नल एव नृसोमः तीर्थ गतः अग्निहोत्रसहितः नृषु सोम इव । 'उपमितम्' इति तत्पुरुषः । रामो विरक्ततीर्थ गोप्रतराख्यं सरस्वदन्तर्गतं गतः । कथम् । तत्तदेषु कुशादत्यादिपु न्यस्तामु ताः कुशलवसहिता भ्रातपुत्रा येन सः । विगतः शेषो यस्मात् दुर्वासःशापभील्या त्यकलात् अमुष्मिन्नेव उत्कण्ठितमानसः । अमत इति सार्व विभ- क्तिकस्तसिः । सन्नान् शरणागतान सीदतो लाति अनुगृहातीति सनलः । पुनः श्रुत्वागमनं हरीणां समूहेन हारेण पौरेण पौरसमूहेन च वां विना मरिष्याम इति प्रार्थितः समागतः शन्या अयोध्या आसीत् ॥ अथ नलपक्षे-सानलः अग्निहोत्र एव नृसोमः हारेण पौरेण समागतः स नल आसीत् । हरेरयं भको हारः । जात्यपेक्षयैकत्वम् । वैष्णवसमूहेन पौ. रेण पौरसमूहेन प्रेम्णा प्राक् समागतः संगतः संश्चासौ नलः पण्डितो नलः स्थितः पुन- स्तीर्थ ब्रह्मद्रवं गतः । कथंभूतः । तत्तत्पदव्यस्तसुतः तेषु तेषु स्थानेषु स्वकृताः सुताः पा- थिवा न्यस्ता येन सः निपधपुर्यामिन्द्रसेनं म्वपुत्रं प्रत्यतिष्टिपत् अमुतः अवोधा दूरतः विशेषे परे ब्रह्मणि सचिदानन्दरूपे उत्कण्ठितं मानसं यस्य सः । 'अदसस्तु विप्रकृटे' इति मनोरमायामुक्तत्वात् । अदसो दूरवाचित्वम् । सप्तम्यर्थे तसिः । 'तसेच' इति तसि- लादेशः । विभक्तित्वं प्रारदेशीयत्वात् । त्रिष्टुप्जगत्योरुपजातिः ।। । ॥ १२६॥ रामपक्षे-कश्चन अवरजोऽपि त्रिदिवे जिगमिपुं रामं न जही । सरयूजलमव- गाह्य परं पदं वैष्णवमध्यगात् प्राप । सदेहः जघन्यजोऽपि आयोध्यः सारथ्वं जलम- वगाय परं पदं विमानस्थोऽमात् । श्रीरामकरुणया केवलं स रामो भुवि यशसा यश:- शरीरेणैव शिशिषे कर्मकर्तरि लिट् । शिषः अशिष्यत ॥अथ नलपक्षे-तमलपालनजन्य- प्रेम्णा कश्चन वृपलोऽपि मनसा स्वर्ग जिगमिपुस्तं न जही । मनसेत्यध्याहार्यम् । स नलः प्रियया सह कं ब्रह्मवमवगाह्य निरस्तमुखान्तरं ब्रह्मानन्दं प्रविश्य वैकुण्टमगमत् । केवलं स नलो यशसा भुवि पर्यशिष्यत । अद्यापि यदुपाख्यानश्रवणात्संकीणैरपि मुच्यते इति भावः । द्रुतविलम्बितवृत्तम् । 'को ब्रह्मात्मानिलार्केपु शमने सर्वनानि च । पावके च नयूरे च सुखशीर्षशलेषु कम् ॥' इति विश्वः। शेषं प्राग्वत् । पर्यन्ते ग्रन्थकारः शब्दब्रह्मरू- पभगवचरणारविन्दस्मरणरूपमनलं व्यता नीत् । 'मालादीनि मालमध्यानि मालान्तानि शास्त्राणि सुखदानि भवन्ति' इति महाभाष्ये ॥ इति श्रीहरिदत्तसूरिकृते महाकाव्ये राघव नैषधीये प्रथमः सर्गः । । १-२. आदर्शपुस्तके श्लोकायं नोपलभ्यते.

२ सर्गः] राघवनैषधीयम् । ६ द्वितीयः सर्गः। कुशेन्द्रसेनौ गुणतो वरिष्ठौ ज्येष्ठौ तदीयाङ्गभुवौ पुरस्यौ । श्रीरामचन्द्रस्य नलस्य वृत्तं विडम्बयन्ती तु धरामशिष्टाम् ॥ १ ॥ क्रमेण पुष्पाकरमुख्यपर्टी विभूतिमत्प्रेक्ष्य समुजिहानम् । सि(शि)ञानमञ्जीरवराङ्गनाभिर्विजतुः खोपवनेषु नाट्यवत् ॥२॥ (वसन्तवर्णनम।। भ्रमद्रमरसंचया ऋतुपुरंदरं सेवितुं मनोहरविकूजितैः पटहवाद्यमातेनिरे । पिका मधुरकूजितैरिव वितेनिरे नाकिनां मनःप्रणयकारकं परमगानमुच्छ्वासिताः ॥ ३ ॥ नृप इव वसन्ते समागते भ्रमझमरसमूहा विशिष्ट कूजितैः सेवितुं पटहवाद्यं चकुरिन । उत्प्रेक्षालंकारो व्यायः । वलुनालंकारो व्यज्यते । यत्र वादिशब्दा न भवन्ति पिका अपि तं सेवितुं मधुरगानं चक्रिरे इव ।। काचित्सखी मानवती प्रत्याह- अये मतिमतां वरे प्रणयभङ्गमेतर्हि नो कुरुप्प वशगं पति विरहदाहदग्धा यदि । कृतान्तनगरातिथिर्भवसि चातुरी कास्ति ते जगाविव रुतच्छलाद्विहगरा पिको माधये ॥ ४ ॥ अये इति कोमलामन्त्रणेऽव्ययम् । माधये वैशाखे रुतच्छलात् सखि त्वां शिक्षयति न रोति किमिति अनदाहव्यथाक्रान्ताति । प्रणयभान यदि मरिष्यति का चातुरी भवित्री। 'सर्वथात्मानं गोपयेत्' इति श्रुतिः । अत्राप्युत्प्रेक्षा ॥ मरन्दनिवहै तं कुसुमवृन्दमुद्भातव- चलत्किसलयाङ्गुलिः परिननर्त वल्लीततिः । निशाकरकरास्ततो बहुलकाममादीपय- नृणां विरहिणां मनोविलुठिता जडीकारकः ॥ ५ ॥ समासोतिरलंकारः । वल्लीततिरूपा या स्त्री चलत्किसलयाहुलिः सा परिननतव न. गिकावत् मनोविलुटिता इति । 'लुट प्रतीपाते' । मनसो विलुटतं प्रतीपातो यैस्ते इति बहुबीहिः । शेष स्पष्टम् । पृथ्वीछन्दोऽत्र ॥

६४ काव्यमाला। पलाशतां प्रियारहां पलाशशाखिनो ययुः । खरै खैहत्यजामसूनिवासितुं क्षमाः ॥ ६ ॥ प्रिया रहन्ति त्यजन्तीति प्रियारहस्तेषां प्रियारहाम् । 'रह त्यागे' । भौयादिकः । पलाशशाखिनः कौणपतां विरहिणां ययुः । पलमनन्तीति व्युत्पत्त्या । पलं मांसम् । 'प. लमामिषम्' इत्यमरः । पादादियमकः शब्दालंकारः । कया रीत्या । खगनखैरिव किंशु- कैहत्यजां यतोऽसूनिवासितुं यत्नमचीकरन् । 'क्षमं शक्के हिते त्रिषु' इत्यमरः । प्रमा. णिकावृतम् ॥ हिरण्मयातपत्रतां स कर्णिकार आगतः । वसन्तभृपतेः सुहृन्मुरान्तकाङ्गनाप्रियः ॥ ७ ॥ कर्णिकारस्य पीतवर्णत्वात् वसन्तराजसेवायै स्वर्णच्छत्रता समागतः । मुरान्तकामनाः पोडशसहस्रमिता या भागवते वर्णितास्तासां प्रियः प्रागभूत् यत् कर्णिकारोऽपि तथा रु. तुराज शिश्रिये प्राग्वत् ॥ सौगन्ध्यं स्थलकमलं बभार भूरि- प्राचुर्याद्दिश इव दाप्लु(स्नु ?)तामकार्षीत् । क्षुद्रोऽपि क्षितिपतिभाग्यगन्धजोपी खाक्रीडे हरिणदृशा तदा चुकूः ॥ ८ ॥ स्थलकमलं पाटलापुष्पं सौरभ्यातिशयं दधानं असन्ते दिशो दिङ्नार्याः समीपे स्व. कीयदानशौण्डतामिवाकापीत् । समासोक्तिरलंकारो दिश इति स्त्रीलिहलाच्छन्दस्य । प. रिमलो नावासीत् । किं तु विट इव दिग्योषिते सौरभ्यमदात् । क्षुद्रोऽपि मधी स्वा- क्रीडे खोद्याने राजाहगन्धजोपी मृगदृशा सह चुर्दे चिकोडे । प्रहर्षिणीवृत्तमेषु ॥ चण्डांशोः खरकिरणैः प्रतप्यमानाः शुप्यन्ति प्रकटितदौर्बलीकनद्यः । इत्थं हि वहृदि विचार्य जझुकन्या- वर्वर्धात्तदवधि हैमतोनिवार्छत् ॥ ९ ॥ जदुकन्या हैमेन इत्थं नावधीत् । वृधेय इलुन्ताल्लङि रूपम् । किंतु दुर्वलनद्यः शो- पिता रवितापेन अहं तु वरीवृध्याम् तदा अत्युल्लासो मम भविष्यतीत्युत्प्रेक्षालंकारः ॥ आयाते मयि यदि जिग्रसीर्जनोऽयं क्षुद्रत्वं विचकत एव तर्हि, लोके । नैश्यं मे मधुरिति सस्यमूरिसंप- न्मेषार्के विलसति युक्तमेव गोपाम् ।। १० ॥

२ सर्गः ]
राघवनैषधीयम् ।
६५
जिप्रसीवुभुत्सि(क्षि)तो जनोऽयम् । प्रसेः सन्नन्तात्विप् । मधुविचारयामास । हेम-
न्तदिशिरयोर्गोधूमाद्यभावात् क्षुधितो जनः यदि मय्यपि तथा तहशित्वं मम गतम् ।
इत्थं मेषस्थे सूर्ये विलसति सति गोपां राज्ञामिदमेव युक्तम् । विचकते प्रकटीभवति प्रभोः
क्षुद्रत्वं न युक्तमिति मधुळचीकरत् ॥
उल्लासो न भवति जाड्यतो नृणां द्रा-
गुष्णत्वादपि परिदूयते नितान्तम् ।
वासन्तं दिननिकरं किमेतदूरी-
साम्यात्कः प्रकटितनिर्वृत्तिं व्यधत्त ॥ ११ ॥
नृणां जाड्यादुल्लासः प्रीतिनं भवति उष्णवादपि द्राक् परिदूयते । एतद्वितकों को
ब्रह्मा प्रकटितानन्दः साम्यं दिवाराव्योwधत्तेत्यर्थः । प्रकटितानन्दं साम्यं यतः ॥
मानुप्यं विलसितमेव मय्युदीते
प्रादुःप्याद्यदि कथमातिशायनं मे।
मत्वेदं दहनविधानभूसुरत्व-
प्राप्तर्धिः खत इह संवभूव चैत्रः ॥ १२ ॥
मय्युदीते उदिते सति । वीगतीत्यत्र इकारोऽपि धालन्तरं प्रश्लि यते । ततः क्त
उत्पूर्व उदयवाची । 'गत्यर्थाः प्राय उत्पूर्वा उदयार्थाभिधायकाः' इति भहमलकोशः ।
यदि मानुपक्रियामानं मयि प्रकटे प्रादुःष्यात् स्फुरेत् तर्हि ममाधिक्यं कुतः । इदमा.
कलय्येव अग्निहोत्रारम्भवतवन्धनादिक्रियाधारभूतो मधुश्चत्र आसीत्ततो व्यतिरिक्तत्वं
जातममुष्य । प्रहर्षिणी वृत्तम् । अतिशायनस्य कारकमिति 'तस्येदम्' इत्यण् । स्वतः
खयमेव संबभूवात्मशक्क्या न तु तपःप्रभावात् ॥ इति वसन्तवर्णनम् ॥
(ग्रीष्मवर्णनम् ।)
नवमालिकानवमालिका व्यजनैर्मुहुः कृतवीजना ।
तप आगते वरनायिकाजनि न स्मरातपतापिता ॥ १३ ॥
नवनालिकापुप्पैनवमालिका यस्याः सा । व्यजनैर्नुहुर्वारंवारं कृतवीजना वरनायिका-
तपे ग्रीष्मे आगते सति सारातपतापिता कामाग्नितापिता नाजनि न बभूव अतिदाह-
वशादीष्मे वीणामनगवाला हसति यत् ॥
दर्श दर्शितदैन्य एव कतिचित्कांश्चित्कलाः प्राप्तवा-
न्मत्तो मत्त इवायमिन्दुरधिकं जाड्याश्रयो हैमनः ।
मत्तेजस्तपसि व्यनीनशदरं मत्त्वेति नूनं रवि-
ग्रीप्मे भीष्मकरैविशोषयति किं क्रोधाज्जगद्यायतः ॥ १४ ॥

काव्यमाला। दर्शितदैन्य एव मत्तः कतिचित् कलाः प्राप्तवान् हैमनो हेमन्तप्रकाशो जाज्यायो विधुरयं तपसि मत्तेजो व्यनीनशत्राशयामास । लघुरविरिति मत्वा ग्रीष्मे कोधाजगति व्यायतो दीर्घ इव मीप्मैः करैविशोषयति नूनम् । उत्प्रेक्षालंकारः। शार्दूलविक्रीडितं वृत्तम् ॥ (वर्षावर्णनम् ।) अथ वर्षावर्णनमाह- वार्षेण पशिलजलेन परौद्धतीका नद्यो जनव्यतिकरव्यतिमज्जनोत्काः । आसन्नचित्रमिह तुच्छजनोऽपि राज- संमानमीषदधिगम्य सतां निहन्ति ॥ १५ ॥ जनव्यतिकरव्यतिमजनोत्का वार्षण पशिलजलेन परौद्धतीका नद्यः आसन् इह चित्रं न । तुच्छजनोऽपि ईषद्राजसंमानमधिगम्य सतां निहन्ति पीडयति । 'जासिनिप्र. हण' इति कर्मणि पटी विधानाद्वितीया न भवति । वसन्ततिलका वृत्तम् ॥ वारां सुपूरमपि कर्षकभूरिसौख्यं निर्मुच्य नारसिपुरम्वुधरास्तदानीम् । यच्छन्नपि प्रचुरभूरि महाजनोऽपि(हि) खं नैव वर्णयति सर्गनिसर्ग एषः ।। १६ ॥ तदानीमम्बुधराः कर्षकभूरिसौख्यं वारां सुपूर प्रवाहं निर्मुच्यापि नारसिपुः न ज- गर्जुः । 'रस शब्दे' । 'अतो हलादेः- इति वृद्धिविकल्पः । यच्छन्नपि प्रचुरधनो रा. जादिः खं नव वर्णयति एप सर्गनिसर्ग एव सृष्टिस्वभाव एव । 'स्वर्गेऽपि भूरिचन्द्रौ द्वा' इत्यमरः । अतः प्रचुरभूरीति न पौनरुक्त्यम् । वसन्ततिलका वृत्तम् ।। पुष्टास्ते कर्णधारा जलधरपटलीव्याप्तकाले मयूरा नाट्यं सौख्यातिशीत्या व्यदधत मधुरं चातकाश्चातकान्न(न)। गोत्रागोत्रा च गोत्रा बहुरसभरिता दीनदैन्यं व्यपोह- पत्रैः पुप्पैः फलैश्च प्रकटितविभवा प्राप्तपालाशसंपत् ॥ १७ ॥ जलधरपटलीव्याप्तकाले कर्णधारा नाविकाः पुष्टा धनादिभिरासन् । तत्काले तरणनै- रन्तर्येण गर्वाधिक्यादतिरिक्थलाभोऽनायासेन व्यज्यते । मयूराः सौख्यानाट्यं व्यदधत चकुः । मधुरं यथा स्यात्तथा चातकाश्चातका जला[नां] याचका(नां] नाभूवन् । गोमिर्ज. लेनाणकारिका गाः पालयन्ती तृणसंपत्त्या गोत्रा पृथ्वी रसबाहुल्यपूर्णा कृषीवलानां देन्यं व्यपोहत् निरास्थात् । जीविकावाहुल्यात् । भूरिपलाशयुक् फलपुष्पादिभाक् । पृथ्वीविशेषणानि । खग्धरावृत्तम् ॥

२ सर्गः] राघवनैषधीयम् । ६७ (शरद्वर्णनम् ।) हिमोपमा वारिघरास्तु शारदा न स्तोकदानक्षमणा बभूवुः । वित्त विनष्टे परमोऽपि मयों याच्ञामपारां बरिभति लोके ॥ १८ ॥ हिमोपमा निर्जलाः शारदा अल्पदानसमर्था न वभूवुः । विनटे वित्ते यथा मोऽपि दानमास्तां(?)लोकेऽपरां याच्यां परिभर्ति तथा । त्रिष्टुब्जगलोरुपजातिः ॥ (हेमन्तवर्णनम्।) प्रचण्डहिमवर्षणात्कमलिनीरुचिं भ्रंशय- कलव्यतिकरच्छदान्वरतरून्विचेलांश्चरन् । गति तनुभृतां हरन्प्रकटयन्नृणां निःखतां हिमागम ऋतुर्गुणी हिमचलैर्नृभिः समरे ॥ १९ ॥ फलव्यतिकरेण छदयन्ति जीवयन्ति सर्वानिति तानपि नमीकुर्वन् प्रचण्ड हिमवर्ग- णात्कमलिनीरुचि भ्रंशयन् वस्त्रहीनानां मार्गरोधं कुर्वन् निर्धनत्वं प्रकटयन् । हिमाग- मऋतुरित्यत्र समासेऽप्ययं प्रकृतिभाव इति हिमजलमात्रेण नृनिर्गुणवान् स्मृत इति । पृथ्वीछन्दः ॥ (शिशिरवर्णनम् ।) अधरदशनरागो मारुतो वाति पूर्ण वरयुवतिजनानामौपपत्यं दधानः । तपसि परतपांसि व्यञ्जयन्व(न्ध)मिन्नृणां शिशिर इति स यत्र प्रोदगाद्भाप्रियंगुः ॥ २० ॥ वत्र ऋती तूर्ण वरयुवतिजनानामधरखण्डगाढप्रेमा । 'रागोऽनुरागे सात्सये' इति विश्वः । औपपलं जारकर्म दधान इव मारुतो बुद्धिपूर्व वाति । कथंभूतः ऋतुः । . (घ)मिन्नृणां तपसि माघे परतपांसि प्रातःलानगायत्रीजपदानहवनादीनि पुराणोक्तानि व्य - जयन् प्रकटीकुर्वन् । एको हिमाद्री तदा पल्लवितः प्रियंगुर्भवति वृक्षो नान्यः हिमशी- लात् इत्यवधायाह-भातिप्रयंगुरिति । 'भा दीप्तौ' शत्रन्तः । भातिप्रयंगुरेव यस्मिन् स शिशिर इति ऋतुः प्रोदगात् व्यभिष्ट । राजकुमारद्वये भुवं शासति वर्णनमका- पात् यतः कविक्रतुपटकस्यातो भूतप्रयोगः । प्रोत्पूर्वादेतेलुङ् इत्यवसीयता पण्डितः । उक्तं हि भाष्ये तृतीयाध्याये-'यह हि तत्कालिकानां राज्ञां क्रियास्ति प्रत्ययेऽधिकरणम्' इति । तस्थुः पर्वताः, अवहनद्यः, इति उदाहरणानि प्रयुकानि भगवता । विस्तरनिया न वहूकमस्माभिः ॥ इति सर्वर्तुवर्णनम् ॥ - ६८ काव्यमाला। गर्गर्षिवंशतिलको जयशंकराख्यो ज्योतिर्विदां प्रणयकृत्सुकवीन्द्रमान्यः । अध्यात्मिकावगतिशान्तिपरायणोऽभू- द्धर्मोपदेशनपटुर्नयबोध आसीत् ॥ २१ ॥ तत्सूनुर्हरदत्त इत्यमलघीः श्रीमत्फणीन्द्रोदिते भाप्ये पाटवतः प्रथामधिगतश्छन्दश्चितीनां वुधः । साहित्यार्णवमन्थनक ॥ २२ ॥ गर्गषीत्यादिपद्यानि स्पष्टार्थानि । प्राप्तादनाः । 'अद अतिकमसिंहयोः' । प्राप्तमदैव. मतिक्रमणमनादं यैस्ते इति प्राप्तादना इति प्रकर्षभ्रमणाः प्रकर्षण भ्रमणं येषां भ्रम वित्ता- लाभार्थ दूरगता इति महाकाव्यम् । काव्यस्य शुभाचार्यस्य सुकाव्यं प्रशस्तकाव्यं तद्व- काव्यं तुल्यम् । 'क वर्णने' । 'ऋहलोर्ण्यत्' । अत एव परममुत्कृष्ट इति भावः । समजीघटत् निरमासीत् । एतावद्रूढमत्र शेयम् ॥ इति श्रीहरदत्तसूरिकृते महाकाव्ये राघवनपधीये द्वितीयः सर्गः । समाप्तमिदं महाकाव्यम् ।

No text on this page.

Raghav Naishdhiyam

Author
Suri, Haridutt
Title
Raghav Naishdhiyam
File name
Raghav Naishdhiyam
Text
OCR done
Citation
1926
Published
2009/02
Publisher
Nirnayasagar Press, Bombay
Language
Sanskrit
Pages
72
Library
Banasthali University
Classification
Literature
DLI number
415128
Barcode
99999990066633.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
Rights
Copyright permitted
VMLT id
UDMSBQp3uyk
Download PDF

Raghav Naishdhiyam