Scl
Shri Raghavendra Vijayah
Front matter
No text on this page.
May
tu CUL
श्रीपरिमळग्रन्थ
प्रकाशनमालाङ्क: १०
साहित्य
विभागाङ्क: ३.
MAINSAIRS
श्रीमद्राघवेन्द्रविजयः
विद्वत्कुलावतंसः महाकविमिः
श्रीमन्नारायणाविरचितः
विद्यावैभव, वेदान्तशिरोमणि, कवितिलकेत्यादि बिरुदभाग्भिः
राजा. श्री. गुरुराजाचार्यैः
संस्कृतश्च
प्रकाशकाः
श्री परिमळग्रन्थ प्रकाशनमन्दिरम्
नञ्जनगूडु
१९५८
PRICE 1-0-0]
[ POSTAGE EXTRA]
( All Rights Reserved by Publisher
PRINTED AT
PARIMALA PRESS.
100 Ft. ROAD, MYSORE.
॥ श्री॥ ॥ श्रीमन्मूलरामो विजयते ॥ ॥ श्रीगुरुराजो विजयते ॥ श्रीमदानन्दतीर्थीय सच्छास्त्रामृतवर्षकः । श्रीमत्परिमळोनाम भाति प्रकटनालयः॥ श्रीमत्परिमळग्रन्थप्रकाशनमन्दिरत काव्यालङ्कारविभागे इतः वे॥ राजा. एस्. गुरुराजाचार्यैः वेदान्तशिरोमणि कवितिलकेत्यादि बिरुद- वृन्द भूषितैः कृता 'कमलेश कीर्तन मञ्जरी' प्रकाशिता । तदनु श्रीमद्राघ- वेन्द्रगुरुसार्वभौमै विरचिता तेषां पूर्वाश्रम तनूभवैः कविकुलललामभूतैः श्रीलक्ष्मीनारायणाचार्यै विरचितापूर्वव्याख्यायुता 'श्रीरामचारित्रमञ्जरी' प्राकाशि। इदानीं श्रीगुरुसार्वभौमानामावाल्यादाश्रमानन्तरं दैनन्दिन पूजाद्यनु- ष्टानाद्यसाधारण चारित्र्यवर्णनपरं तेषां पूर्वाश्रम भागिनेयैः षट्शास्त्र पाथोदि- पारङ्गतैः गुरुसार्वभौम प्रसादायत्त निखिल विद्यावैभवैः श्रीनारायणाचार्यै विरचितं 'राघवेन्द्र विजया' भिधं महाकाव्यं प्रकटीकर्तुमुद्यताः । अस्य व्याख्याद्वयं वर्तते । तयाख्याभ्यां सह ' राघवेन्द्रविजयः' अचिरादेव प्रकटी क्रीयते । इदानी पारायण सौकर्याय मूलमात्रं प्रकटी कृतम् । अस्य पारायणेन श्रीगुरुराजप्रसादभागिनो यदि भवेयु र्वाचकाः तदा सार्थकमिदं मन्यामहे । एव मेव ग्रन्थप्रकाशने सर्वानुकूल्यं संपादयन्त्विति श्रीगुरुसार्व- भिमानभ्यर्थयामहे || विलंब सं॥ निजश्रावण कृष्ण २| भानुवासरः महासदनम् न ज न गू हु. 31-8-19.58 इति विद्वज्जन वशंवदाः प्रकाशकाः श्रीपरिमळग्रन्थप्रकाशनमन्दिरम्
No text on this page.
॥ श्रीः॥
॥ श्रीमन्मूलरामो विजयते॥
॥ श्रीगुरुराजो विजयते ॥
श्रीमद्राघवेन्द्रविजयः
विद्वत्कुलावतंसैः महाकविभिः
श्रीमन्नारायणाविरचितः
अथ प्रथमः सर्गः
॥ श्रीगुरुभ्यो नमः हरिः ॐ ॥
श्रीमल्लक्ष्मीनृसिंहस्यं श्रियं दिशतु मे नखः ।
स्वभक्ताभीष्टदानाय समुपात्तदशाकृतेः
॥ १ ॥
॥ २ ॥
वस्तु स्तुतं सुरस्तोमैरस्तु शस्तं मया स्तुतम्
मस्तुहस्तं प्रस्तुताय श्रुतिमस्तकविश्रुतम्
श्रीमदानन्दतीर्थेन्दुभासनं मम मानसे ।
आशासे साधुशब्दार्थसरिदीशाभिवृद्धये
॥ ३ ॥
॥ ४ ॥
श्रीराघवेन्द्ररत्नानां रसनारङ्गनर्तकी ।
शब्दाम्बुधिशरज्ज्योत्सा शरणं मम शारदा
कठिनापि कविश्लाघ्या त्रिविक्रमसरस्वती ।
सुवर्णयोगसंदृश्या वरा वज्रमणिर्यथा
॥ ५ ॥
वाणी पाणितलासक्तवीणारवविडम्बिनी।
नानाप्रबन्धचतुरा भाति नारायणार्यगी:
॥ ६ ॥
२
श्रीमद्राघवेन्द्रविजयः
वृन्दारवनमन्दारमकरन्दसहोदरी ।
विश्रुता विजयं दद्याव्यासतीर्थार्यभारती
व्याससूत्रपदार्थोपन्यासमाकर्ण्य मान्यपि ।
व्यासराजस्य भजते दासतां को न कोविदः
॥ ८ ॥
चतुःषष्टिकलाविद्याजुषे विद्वन्महोजुषे ।
जयीन्द्रज्योतिष कुयों वन्दनानि यशोमुपे
॥ ९॥
सुधीन्द्रयोगिनं सेवे साधुसत्कृतसंपदम् ।
स गद्यपद्यनिर्माणविद्यायाः प्रथमं पदम्
॥ १० ॥
श्रीमतो राघवेन्द्रस्य नमामि पदपङ्कजे ।
कामिताशेषकल्याणकलनाकल्पपादपौ
मुहुः स्मारितवाल्मीकिं पुनस्तं नौमि दैशिकम् ।
यो विस्तीणों रामकथां स्रग्धराभिः समग्रहीत
॥ १२ ॥
मूकोऽपि यत्प्रसादेन मुकुन्दशयनायते ।
राजराजायते रिक्तो राघवेन्द्रं तमाश्रये
॥ १३ ॥
प्रसाद्य नरपञ्चास्यं प्राप्तं वैदुप्यमद्भुतम् ।
येन लक्ष्मीनृसिंहेन तातपादं तमाश्रये
॥ १४ ॥
॥ १५ ॥
प्राप्तान्यनुतिपापौघरसनां पावयाम्यहम् ।
गुर्वन्तर्यामिभगवत्स्तुतिगङ्गाम्बुमज्जनात
कलये कवनं किञ्चित्कवीनां सहवासतः ।
पाटीरगिरिसान्निध्यान्निम्बद्भुरिव सौरभम्
॥ १६ ॥
प्रथमस्सर्गः
Maina
॥ १७॥
दृष्टं गुरुप्रसदनमदृष्टं च फलं कृतेः ।
यथा स्विष्टकृतो ब्रह्मसूत्राद्यप्रणवस्य च
श्रेयांसि श्रयते को वा प्रसादेन विना गुरोः ।
कैवल्यमिव गोविन्दकारुण्येन विना जनः
॥ १८॥
कविताफलमन्यत्किं गुरूणां गुणवर्णनात् ।
अपवर्ग विनान्यत्किं ब्रह्मजिज्ञासने फलम्
गुरुपादरजस्सङ्गाद्विमलं कवनं मम ।
कलुषं वारि कतकरजसा किं न निर्मलम्
॥ २०॥
॥ २१ ॥
रमणीयापि कविता न हृद्या यद्यसत्परा ।
निसर्गमधुरा दुष्टजिह्वासक्तेव शर्करा
अभव्यमपि मे काव्यं सेव्यं गुरुगुणाश्रयम् ।
घनाघनगतं वारि यथा लवणवारिधेः
॥ २२ ॥
॥ २३ ॥
॥ २४ ॥
अदोषाप्यगुणेत्युक्तिस्त्यक्तुं युक्ता न मे बुधैः ।
पतिव्रतागुणेत्येव पत्या किं त्यजते प्रिया
अदोषं गुणवदृश्यं सर्वैः सर्वार्थदायकम् ।
परं ब्रह्मेव यत्काव्यं श्रुत्युक्तं तत्तु दुर्लभम्
काव्ये गवेषते कश्चिद्दोषमेव गुणं परः ।
पिचुमन्दं यथा काकः पिकश्चूतलतां यथा
अस्मद्गुरूणामाधिक्यं कविः को वाऽनुवर्णयेत् ।
तथापि तत्प्रसादेन भक्त्या किंचिद्वदाम्यहम्
॥ २५ ॥
॥ २६॥
श्रीमद्राघवेन्द्रविजयः
॥ २७॥
देवानामिव देवेन्द्रो यो दत्त इव योगिनाम् ।
दुग्धाब्धिरिव सिन्धूनां गुरूणामिव पूर्णधीः
तिग्मांशुरिव तेजस्वी शीतांशुरिव शीतलः ।
यः सिन्धुरिव गम्भीरो धराधर इव स्थिरः
॥ २८ ॥
शारदाया दयामेव शास्त्राणां परिशीलने ।
विविधग्रन्थकरणे यः सहायं समाश्रितः
॥ २९ ॥
वेदव्रजावनोद्यक्तं विद्यादेवी विलोक्य यम् ।
व्यस्मरद्वहुरूपेण तपस्यन्तं समीरणम्
॥ ३० ॥
कलिकालकलालूनमूलजालकला लता ।
यद्वागमृतसेकेन पुनस्संजातपल्लवा
॥ ३१ ॥
॥ ३२ ॥
ललाटरेखादम्भेन बिरुदाक्षरशालिनः ।
जयस्तम्भायिता यस्य प्रतिधीराः पराजिताः
श्रोतृणां श्रवणान्यासन् यद्वागमृतसेवया ।
नित्यापि तदयोग्यत्वान्न तथाहीन्द्रियान्तरम्
॥ ३३ ॥
॥ ३४ ॥
प्रतीपविद्वत्पाथोधिमथनोत्सवचुञ्चुना ।
वादमन्दरशैलेन येनावापि यशोमृतम्
हिरण्यगर्भमूर्तिस्थपुरुषस्येव यद्यशः ।
ततो बहिः प्रसृमरं राजते रौप्यसंपुटम्
गुरुरायः स्वसिद्धान्तप्रतिष्ठापनपण्डितम् ।
श्रुत्वा यं व्यासनिकटे निश्चिन्त इव वर्तते
॥ ३५ ॥
॥ ३६॥
प्रथमस्सर्गः गोपायति दृढं यस्मिन्नवनीदेवताकुलम् । शयानः शेषशय्यायां निद्रातीव हरिश्विरम् ॥ ३७॥ पदेपदे प्रपन्नानां संपदः स्मृतिसंभवाः । परीभावप्रदे यस्मिन् शैले शेते नु शंकरः ॥ ३८ ॥ ॥ ३९ ॥ व्याख्यां प्रख्याप्य विख्यातौ संख्यावत्सु यदीरिताम् । सुरलोके सुरगुरुः पाताले फणिनां पतिः चित्ते चेन्मृदुता शिरीषसदृशे हैय्यंगवीनं शिला- गाम्भीर्य यदि यस्य सोन्धुरुदधीः शास्त्रेषु चेत्पाण्डिती । आचार्यो विबुधेशितु: कलयते विद्यार्थितामादरा- दौदार्थ यदि कल्पपादपमुखाः सभावयन्तेऽर्थिताम् ॥ ४०॥ ॥ ४१ ॥ तस्मान्महामहिम्नेऽस्मै मनः स्पृहयते मम । तद्वौरवेण मत्काव्यमङ्गीकुर्वन्तु सज्जनाः श्रीमत्कश्यपवंशवार्धिशशिनः षड्दर्शनीवल्लभ- श्रीलक्ष्मीनरसिंहवित्तविदुषः श्रीवेङ्कटाम्बामणौ । जातेनार्यदयासुधामयगिरा नारायणेनोदिने काव्ये चारुणि राघवेन्द्रविजये सर्गो जयत्यादिमः ॥ ४२ ॥ इति प्रथमसर्ग:
६
श्रीमद्राघवेन्द्रविजयः
अथ द्वितीयः सर्गः
रामावतारस्य हरेरधत्त सेवां हनुमद्वपुपा समीरः ।
भीमात्मना यादवभूषणस्य मध्वात्मना व्यासमुनित्वभाजः ॥ १ ॥
आभाष्य भाप्यं निगमान्तसूत्रव्याख्यात्मकं पूर्णमतिर्गुरुनः ।
संपादयध्वं मतसंप्रदायसमृद्धिमित्यादिदिशेयमीश्वरान् ॥ २ ॥
भाष्यामृतोत्पादकरोऽनुभाष्यश्रीमान्स भाष्यान्तरकल्पशाखी ।
व्यासं गुरुं संश्रयते बदर्यामानन्दतीर्थाभिधदुग्धसिन्धुः ॥ ३ ॥
सिद्धान्तसंरोहविधौ नियुक्तेप्वेतेप्वनेकवतिषु प्रधानः ।
प्रेमास्पदं स्वीयगुरोः स पद्मनाभार्यवर्योऽकृत दर्शनर्द्धिम्
सत्तर्कदीपावलिमत्युदारां सन्न्यायरत्नावलिमप्यनिन्द्याम् ।
भाष्यानुभाष्याशयबोधहेतु ततान यस्तार्किकमोलिरत्नम्
॥ ५॥
व्याख्यासु यः पाणिनिसूत्रभाष्यव्याख्यादशां व्यञ्जयति स्म साक्षात् ।
छन्नो यवन्या प्रतिपादनेन सहस्रधा सूत्रपदाशयानाम्
गुरोनियोगादधिगम्य राज्यं शिष्यस्तदीयो नृहरिव्रतीन्द्रः ।
गजेशकोशस्थितराममूर्ति पूर्णप्रबोधाय समार्पयत्ताम् ॥ ७॥
सा यत्र रामप्रतिमास्ति तत्र चतुःपुमर्थी सततं चकास्ति ।
आदिश्य चैवं गुरुणैव दत्तामानर्चयस्तामनिशं यमीन्द्रः
अन्ते वसंस्तस्य गुरोरनेनासभाजयत्तां प्रतिमां वितीर्णाम् ।
संवर्धयन्नादिमसंप्रदायमन्योऽभवन्माधक्संयमीन्द्रः ॥ ९॥
॥ ८॥
द्वितीयसर्गः मुनेरमुष्मादनवद्यबोधात्कृतोपदेशः प्रतिमां च गृह्णन् । क्षोभ विधातुं प्रतिवादिवाचमक्षोभ्यनामा मुनिराविरासीत् ॥ १०.॥ दृढासिना तत्त्वमसीतिवाचा सामर्थ्यभाजा परजीवभेदे । अवैदिकाम्यं मुनिरेष विद्यारण्यं शरण्यं कुदृशां बिभेद ॥११ ।। तल्लब्धबोधो विमतैकबाधो जयैकभूमिर्जयतीर्थनामा । व्याचष्ट पूर्णप्रमतिप्रणीतं सर्वप्रबन्धं सरसैर्वचोभिः ॥ १२ ॥ असौ कदाचिद्गृहिभावकाले विधाय धाटी तुरगाधिरूढः । अक्षोभ्यतीर्थाश्रिततीरसीमामलोभ्यतीथा तटिनीमयासीत् ॥ १३ ॥ अनुद्धृतं वारि समुद्धतश्रीः पीत्वा मुखेनैव तृषाकुलेन । मुनि समीपे मननकतानमसावनंसीदवलोक्य मूर्धा ॥ १४ ॥ अभ्यर्थितस्तेन मुनिः सभक्त्या संन्यासमन्याशवारिपानात् । अमंस्त तं पूर्णमतिप्रदिष्टं व्याख्यातृभावे वृषमन्यभावे ॥ १५ ॥ विधाय तं संयमिनं प्रहृष्टे गुरौ तदीयारुषिताः पुनस्तम् । निन्युः पुरीं तत्र भयेन भार्याजनेन दृष्टः स तु शेषवेषः ॥ १६ ॥ ततोऽतिविश्वासयुजा नगर्याः पित्रादिना बन्धुजनेन तूर्णम् । आनीय तस्मै मुनये स दत्तः शास्त्राण्यमुष्मादखिलामि लेमे ।। १७॥ तस्मादुपेता प्रतिमा हरेः सा क्रमेण सिद्धान्तसमृद्धिहेतुः । विद्याधिराजव्रतिनं कवीन्द्र वागीशमस्मादपि रामचन्द्रम् ॥ १८ ॥ अन्ते वसंस्तस्य नृसिंहदेवोपान्ते वसंस्तत्कृपया प्रतीतः । विजित्य सर्वान्विबुधेन्द्रयोगी बभौ हरेरपितजैत्रपत्रः ८ श्रीमद्राघवेन्द्रविजयः जितारिरस्माद्रधुनन्दनोतस्ततः सुरेन्द्रव्रतिनो बभूवुः । पवित्रिताभूदखिला धरित्री चिरं गृहीतानशनव्रतैस्तैः ॥ २० ॥ विद्वद्वरोस्माद्विजयीन्द्रयोगी विद्यासु हृद्यास्वतुलप्रभावः । रत्नाभिषेकं किल रामराजात् प्राप्यानलक्ष्मीनकृताग्रहारान् ॥ २१ ॥ वाक्ये पदे पादविलोचनोक्तौ व्यासीयशास्त्रे च कृतान्प्रबन्धान् । आस्तां बुधः श्रोतुमशेषमेषामाख्याः समाख्याद्यदि पण्डितोऽसौ॥२२॥ सा रामचन्द्रप्रतिमा जयन्द्रिात्सुधीन्द्रयोगीन्द्रमगात्क्रमेण । विस्तीर्णकीर्तिर्विभावावन्यां विख्यातविद्वज्जनवन्धपादः ॥ २३ ॥ पवित्रितामेष धरां वितन्वन् सञ्चारतो दिग्विजयापदेशात् । श्रीवेङ्कटक्ष्मापरिणीसमक्षे वादेन विद्वपिबुधान् विजिग्ये ॥ २४ ॥ समेत्य शङ्खादिमजैत्रचिटं नृपादमुष्मादपि सह्यजायाः । तटस्थितां तापससेवितां तां पुरीं प्रपेदे पुनरुक्तनाकाम् ॥ २५ ॥ सदा परीता परिणाहवारिप्रवाहरीत्या भुवि सह्यपुच्याः । पराजिताखण्डलपत्तनश्रीर्या कुम्मघोणाभिधया समिन्धे ॥ २६ ॥ पातालपर्यन्तनिविष्टमूलां वैरिञ्चगेहव्यतिलचि मौलिम् । पीताम्बरां हाटकहारिशोभां मन्ये स लक्ष्मी परदेवतां याम् ॥ २७ ॥ अध्यासिता राजतसालमध्ये आसारसौधच्छलमाधवेन । खेयाम्बुधौ क्षीरमये निविष्टश्वेतादिमद्वीपमयी रमा या ॥ २८ ॥ स्वयंभुवा या ससृजे पुरस्ताद्ब्रह्माण्डसृष्टेः परिशीलनाय । नो चेदमुष्याः कथमीदृशी स्याद्विशालता विश्वनिवासयोग्या ।। २९ ॥
(2)
द्वितीयस्सर्गः
९
यत्वेयखेलद्विपदानवारिगन्धे तदम्भोरुहसौरभे च ।
लोभानमन् कंचन नाप भृङ्गो नैवातिवाञ्छस्य निजेष्टलाभः ॥३०॥
दत्तो महादानकृता विधात्रा सरोजसद्माण्डकटाह एव ।
या स्वर्गसत्याञ्चितलोकयुक्ता नो चेत्स तद्वान्विधिरस्तु केन ॥ ३१ ॥
न केवलं यहलभीविहङ्गाः प्रांशुस्थिता नन्दननीडभाजः ।
गीर्वाणवाण्या विहगान्विवादेविजिग्यिरे हन्त विचित्रवाग्भिः॥ ३२ ॥
वर्धिष्णुसौधाग्रविभिन्नपद्मजन्माण्डनिर्यद्वहिरम्बुपूरम् ।
वदन्ति गङ्गां परता कथं वा स्याद्वामनाङ्गे हिणाण्डभेदः ॥ ३३ ॥
मध्यंदिने यौवतनर्मकीर्णकस्तूरिकापकिलसौधशृङ्गे ।
रथं नु मग्नं परिकृष्य यस्यां श्रान्तोर्कवाजी समया करोति ॥ ३४ ॥
अगाधपाथःपरिखां यदीयामम्भोनिधिः स्वेन समीचकार ।
गाम्भीर्यगर्वेण जडाश्रयत्वादेनं रुपागस्त्यमुनिः पपौ किम् ॥ ३५ ॥
पद्मात्मभूब्रह्महिरण्यगर्भस्रष्ट्रत्वहंसाश्रयवाक्प्रियत्वैः ।
चतुर्मुखत्वेन च धातृभावाच्चकास्ति यस्याश्चतुराननत्वम् ॥ ३६ ॥
दम्भोलिपाणिर्धरणीधरेन्द्रदम्भादयासीदधिभूमि यस्याम् ।
अम्भोमुचस्तस्य वियोगभीतास्तम्बेरमेन्द्राः परितश्चरन्ति ॥ ३७॥
खेये यदीये कलशाम्बुराशौ वैशाखशैलान्मणिजालसालैः ।
उदारधेनुद्युमणीन्दिराभिर्योगादपां तद्बहुधेति मन्ये ॥ ३८ ॥
भुञ्जानकञ्जाननसौधसद्ममध्यं समागादिति सूरसूतः ।
यदीयदौवारिकदारितोरुस्तेनासृजाद्याप्यरुणो ह्यनूरुः ॥ ३९ ॥
श्रीमदाघवेन्द्रविजयः
०
11-४४ ॥
स्वीयावनैश्चर्यकलान्य शिक्षाकृते रमेशांशनृपेण यस्याम् ।
मुक्तारुणेन्द्रोपलसौधदम्भाद्गुणत्रयं किं क्रमशो गृहीतम् ॥ ४० ॥
रत्नप्रभाबन्धुरजालजालश्शृङ्गैरनेकैरनुयाति सौधः ।
नीलाकृतिः स्वात्मनि लक्ष्यलोकः श्रीमान्यदीयः पुरुषस्य रूपम् ॥ ४१॥
कानीनजाताः श्रुतयश्चतस्रो विभिद्य सालं व्यतिलविताभ्रम् ।
द्वारैरवापुर्विदुषो यदीयानद्यापि तान्येव तु मोपुराणि ॥ ४२ ॥
वृत्तं यदीयं चरणैश्चतुर्भिद्विरैरुपेतं चतुरस्रसालम् ।
श्रीचक्रबिन्दं सततं श्रितस्य महीगृहं मन्त्रविदो वदन्ति ॥ ४३ ॥
गगिरीन्द्रर्जवतो विहङ्गैस्तु स्तुरबॅर्मिलितं तरङ्गैः ।
चतुःप्रतोलीचतुरास्यसिन्धुं चतुप्पथं सञ्जगदुर्यदीयम्
विचित्रयत्पण्यगृहाणि का विस्मृत्य धात्रानुकृतं जनानाम् ।
समार्पयत्सद्मनिबोधनार्थ शृङ्गाटकं ज्ञापकहंसपादम्
पाकाहिते यन्नृपवैभवेन पराजिते हन्त विसृज्य सिन्धुम् ।
बृहत्कुचा यत्प्रमदाजनानां चरन्ति यस्यां गिरयो निकामम् ॥ ४६ ॥
विभाकरेऽस्तेपि विकासमाजां निरन्तरं संसृतहंसकानाम् ।
घनागमेप्यभ्युदयं गतानां पङ्केरुहैर्यत्प्रमदापदानाम् ॥ ४७ ॥
न चन्द्ररेखा नखरेण कप्ता न मोहनं केवलदर्शनेन ।
न लक्ष्णता नैव रुचिर्न हारास्तैरदिभिर्यद्रमणीकुचानाम् ॥ ४८ ॥
न बन्धकत्वं शकुलेषु दृष्टं न चोत्पले चञ्चलताम्बुजेषु ।
स्वतो तनोर्बाधकतानबाणे यदङ्गनानां नयनरमीषाम् ॥ ४९ ॥
॥ ४५ ॥
द्वितीयस्सर्गः ११ न वक्रिमा बहिणबहिबई न तैजसैकासिकतान्धकारे । न मेघवृन्दे चिरकालनैल्यं यदङ्गनाकेशभरैरतस्तैः ॥ ५० ॥ न भ्रूविलासा नतमां स्थिरश्री नारसोक्तिनतमां च यस्य । तेनेन्दुना यत्प्रमदामुखानां कथं कवीन्द्राः कथयन्तिसाम्यम् ॥ ५१ ॥ तस्यां नगयों सुकृते बदयाँ भवाब्धितर्याम्बुधसिंहदर्याम् । विचित्रनाओं विजितेन्द्रपुर्या चिरं न्यवात्सीत्सितसौधगौर्याम् ॥ ५२ ॥ अतुलविविधविद्वन्मण्डलीलाल्यमानः प्रभुमणिरघुनाथप्रौढभूपालकेन । मिहितनिखिलविद्वन्मौलिपादः सुधीन्द्रः परजनदुरवापं प्राप हेमाभिषेकम् ॥ ५३ ॥ श्रीमत्कष्यपवंशवार्धिशशिनः षड्दर्शनीवल्लभ श्रीलक्ष्मीनरसिंहवित्तविदुषः श्रीवेङ्कटाम्बामणौ । जातेनार्यदयासुधामयगिरा नारायणेनोदिते काव्ये चारुणि राघवेन्द्रविजये सो द्वितीयोऽभवत् ॥ ५४ ॥ इति द्वितीयस्सर्गः
१२
श्रीमद्राघवेन्द्रविजयः
अथ तृतीयः सर्गः
अवनं सवनादिसत्क्रियाणामवनीदानववैरिणां निदानम् ।
भवति स्म मुनीशितागुणानामवलम्बो भुवि गौतमाभिदानः ॥ १ ॥
प्रकृतिः परदेवताप्रपत्तिप्रभृतीनां करणेन सद्गुणानाम् ।
प्रथितव्रततापसव्रजानां विकृतीनां सगुणेव निर्गुणेष्टयाः ॥ २ ॥
अकृतासुरसार्थमोहनार्थं नयशास्त्रं स तु पञ्चलक्षणात्मा ।
मुहुरागमभेदकृन्मुनीन्दोरवतारस्य निमित्ततामयासीत् ॥ ३ ॥
अधरीकृतलेखपाललोके बहुमुक्ताफलभाजि साधुवृत्ते ।
अभवन्नविभाविताग्रभागे मुनिवंशे वसुधासुधाशनेशाः
जनकोपमकन्यकेन्वयेस्मिन्निजताताधिकनन्दने गुणौधैः ।
अनुजातसमानपूर्वजातेऽभवदेको भुवि कृष्णनामधामा ॥ ५ ॥
स दधार धरोदरे प्रसिद्धा निरवद्या विविधा द्विजातिविद्याः ।
स बभूव च वैणिको यथार्थ निजविद्याधरतां विधातुकामः ॥ ६ ॥
उपदिश्य स कृष्णभूवलारेनिजगान्धर्वकलां कलामगृह्णात् ।
घनमौक्तिकगुच्छहारपूर्वा बिरुदाली गुरुदक्षिणापदेशात् ॥ ७ ॥
गुणवारिधिराविरास विद्याचणकृष्णार्यमहीसुराधिनेतुः ।
कनकाचलनामपुण्यनामा कनकोर्वीभृदिवापरोतिधीरः
उदभूदधिभूतले द्विजेन्द्रादधिभूरागममौलितन्त्रभाजाम् ।
अवदन् किल तिम्मणार्यमार्यास्सुहृदो वेङ्कटौँलनाथनाथम् ॥९॥
॥ ८॥
तृतीयस्सर्गः
३
अधिकृत्य स बाल्य एव शास्त्राण्यधिकं वैणिकवर्णगानविद्याम् ।
नगरं विजयाख्यमध्यतिष्ठज्जननीतातनुहृज्जनाधिवासम् ॥ १० ॥
स्मृतिवन्निगमस्य पद्मिनीवदिननाथस्य मुनेररुन्धतीव ।
रजनीसुहृदः कुमुद्रतीय महिला तस्य ललास गोपिकाम्बा ॥ ११ ॥
अभजन्नृपतेर्दिनप्रदीप्तं स तु विश्वक्प्रबलं प्रतापरश्मिम् ।
दिनमण्यनुवर्तितम्ब शान्त्यै स्वसमानेतरवाक्तमिस्रराशेः
॥ १२ ॥
ध्रुवमेष दिनप्रदीपमागादयिताकीर्तितमो गुणप्रमायै ।
गुणिनः सकलस्य बाह्यतेजोयुतचक्षुर्विषयत्वमादधानः
॥ १३ ॥
यजनादिम जकर्म कुर्वन् द्विजवर्क नगरे चिरं न्यवात्सीत् ।
रमणीमणिगोपिकाम्बयाऽसौ सहितश्चन्द्रिकया सहेव चन्द्रः ॥ १४ ॥
नगरान्निरगान्नरेन्द्रयोग्यात् सहजायः ससुहृज्जनोऽसुती सः ।
अखिलार्थितदानदक्षशेषाचलभूषामणिदेवतां दिदृक्षुः ॥ १५ ॥
तनुजानतुलानवाहतुकामौ तपसा तोषयतःस्म दम्पती तौ ।
निजवंशजवन्दनीयदेवं परथापत्यसुख कथं जनानाम् ॥ १६ ॥
अथ तुण्डिरमण्डलेऽग्रहारे लसिते पट्टणिनाम्नि वासयोग्ये ।
कमलारमण प्रसाद्य कान्तामिलितः कानपि वत्सराननैषीत् ॥ १७ ॥
सुषुवे सुगुणां सुतां सुवेषां गुणसिन्धुं तनयं च गोपिकाम्बा ।
अचिरेण जनिष्यमाणसूनोरतुलां कीर्तिमिव क्रमात्प्रतापम् ॥ १८ ॥
कुलदैवतदैशिकप्रसादात्प्रभवापत्यपुरस्सरोऽतुलश्रीः ।
स चकार च वेङ्कटांबिकाख्यां स्वसुताया गुरुराजनाम सूनोः ॥ १९ ॥
श्रीमद्राघवेन्द्रविजयः मिलितौ खलु दर्शपूर्णमासौ फलदौ तद्वदसौ सुतोऽसहायः । न सुखाय भवेदितीव सोऽयं प्रभुमन्यं सुतमर्थयांबमूवे ॥ २० ॥ महिदासमिवेतरा महान्तं हरिदिन्दं च यथेव पौरुहूती । उरुशेवधिमुर्वरेव तस्मादुदरेऽधत्त कुमारमुत्पलाक्षी ॥ २१ ॥ शशिनाथकला किमब्धिवेला निजभर्तुः फलिता नु पुण्यरेखा । किमु साकृतिरागतस्म कीर्ति तमूर्तिः किमु कौमुदी किमेषा ।। २२ ॥ उदरस्थसुतेन्दुचद्रिकायां विततायामखिलाङ्गपाण्डुतायाम् । सहितौ सुतनोरुरोजचक्राविति चक्र न तपोनिधिर्यदन्तः ॥ २३ ॥ तनुशायिशिशोविरागता किं वितताऽङ्गेषु विशाललोचनायाः । परथा सततं हिते तरुण्या रुचिते वस्तुनि किंतरां विरागः ॥ २४ ॥ न परं सदृशं प्रसन्नताद्यैर्धवलिम्नाऽपि तदाननं सुधांशोः । अकलङ्कतयाऽवनौ प्रसिद्धं सकलङ्केन कथं समत्वमेति ॥ २५ ॥ कृशताऽजनि याऽवलमदेशे ववृधेऽङ्गे कतिचिदिनान्यशेषे । वशतां नहि याति मध्यसंस्थाप्युपचारेण विना घनाश्रिताल्पा॥ २६॥ सभयो विधुरेष सह्यकेयात्स्वमपर्तुत्य निगुहितुं प्रवृत्तः । निजलक्ष्म निरस्य रोमराजि निभृतोगर्भमुपेयिवानमुप्याः ॥ २७ ॥ कमितुः किमु मोहनाय कामोऽकृत कामं कठिनौ कुचौ तदीयौ । निजन्चुकनीलिमाऽपदेशादचिरोपात्ततमोगुणावभूताम् ॥ २८ ॥ ततनाभिनिभालवालमध्यादुदयद्रोमलताऽऽख्य कल्पशाखी । फलितोऽजनि किं पयोधराभ्यामुदयञ्चचुकनैल्य भृङ्गभाग्भ्याम् ॥२९ ।।
तृतीयस्सर्गः
१५
mom
BOLATE
मnceOD
कुचयोर्चुगलं कुलाद्रिसारं कथमेषा तु बभार गर्भकाले
इति विस्मयता कुतः कवीनां फलिनी चिन्तयतां सुरद्रुशाखाम् ॥
तनयाभ्युदयादृणत्रयस्याप्यपनोदं कमितुर्विधातुमस्याः ।
पुरतोऽकृत तस्य लक्ष्मरेखात्रिवलीरजभवो निरस्तरूपाः
॥३१॥
विमतं निखिलं च दृश्यभावाद्भविता सत्यमितीदृशानुमाने ।
अधिमध्यमपास्य हेत्वसिद्धि प्रधिमा कोऽपि शनैश्शनै जृजम्भे ॥
उदरे सुतनोरचाक्षुषत्वं शुभरूपे महति प्रवेशहीनम् ।
विहितं त्रिवलाविवेतदङ्गे पशुयूपे यदरनिसाप्तदश्यम् ।। ३३ ॥
उदरस्थशिशोरुदेष्यतोऽस्य वसने लोहितमृत्तिकाऽनुरागः ।
इति तद्वटनाय किं नु शोणां मृदमासेवत सादरं मृगाक्षी ॥ ३४ ॥
धुनदी यमुना विजेतुकामा कुरलालिच्छलतो नु कोमलाङ्गयाः ।
कुचमेरुयुगान्निपत्य रोमावलिदम्भादगमञ्च मव्यदेशम् ॥ ३५ ॥
वसुधासुरवासवस्य गर्भ कृतवासस्य नतभ्रुवोर्भकस्य ।
अजनिष्ट मनोरथोनुरूपः क्रमशः प्राप्तवति द्वितीयमासे ॥ ३६ ॥
भवने भुवनं कृशानुतप्तं परितृप्तं नवशातकुम्भकुम्भैः ।
अपहाय नदीपयो हिमानीधवलं केवलमैच्छदच्छबुद्धिः ॥ ३७ ॥
रसनानयनान्तरङ्गरम्यं भवने भोजनसाधनं विसृज्य ।
परकीयगृहादुपाहृतं तद्रुचिरं वारुचि बाप्यभुङ्क्त सैषा ॥ ३८ ॥
विदुषी विविधाः कथा वितेने विहगाधीश्वरवाहनाह्वयाङ्काः ।
वदति स्म वदावदावलीनां बसति स्मासन एव संततं सा ॥ ३९ ॥
श्रीमद्राघवेन्द्रविजयः
पदमेकमलक्तकेन हीनं पदमेषा विदधाति नाङ्गणेषु ।
विविधानि विसृज्यपूर्णसंध्या समरागाणि सदाम्बराणि वष्टि ॥ ४० ॥
स कदाचन शोभनेऽह्नि सूनोविंदवे पुंसवनच्छलेन भुक्तिम् ।
पटपक्कफलेन गर्भभाजो जनिशिष्टोत्र भवेदितीव धर्मः
॥ ४१ ॥
असविष्ट सुतं द्विजेन्द्रपत्नी शुभलले परिपूर्णदृष्टिभाजि ।
अखिलद्विजराजवन्दनीय द्विजराजं दिगिवामराधिपस्य ॥ ४२ ॥
सहितात्मजजन्मवाक्सुधाब्धेस्सरितोसौ सलिले ममज्ज विप्रः ।
द्विजवन्द्यमहोदये पितॄणामृणपङ्काम्बुनिधेस्तदोन्ममज्ज ॥ ४३ ॥
भुवनेस्य समोर्भकस्य दृष्टो न मयेतीव वदन् स्वहेतिहस्तात् ।
परितो वलतस्तुरीयधर्मे हविरादाजनकार्पित हुताशः ॥४४ ॥
प्रददौ बहुकर्मधारयेण स्वबहुव्रीहिमुपाददे ह्ययान्यान् ।
स तु तत्पुरुषैः पुनर्वितीर्णानचितद्वन्द्वफलान् धृताव्ययित्वात् ॥४५||
अचिरात्कृतमज्जनोतिशुभ्रः सहसाऽप्राप्तरजस्तमोगुणोयम् ।
कथमिन्दुसमोन्यथेति कान्तानिकरो वर्णयति स्म सूतिकान्तः ॥४६॥
सहजो हि गुणो मदीयमज्जुद्विजसंसेवनमस्य मे पदस्य ।
इति दर्शयता पदं निजास्ये मणिडोलामधिशायिना कृतं किम् ॥४७॥
उदयास्तपटीरहेमपृथ्वीधरपर्यन्तधराचरैर्जनौधैः ।
अभिवन्द्य इतीव बालकस्य व्यतनोद्वेङ्कटनाथनाम तातः ॥ ४८ ॥
घटते तनयेऽभिधा तदंशे गुणवृद्धयर्थमनूक्तिसिद्धये च ।
अतिदेशकृते हरेर्गुणानां विवदन्ते स्वलु जैमिनीयशौण्डाः ॥ ४९ ॥
(3)
तृतीयस्सर्गः
१७
अधिसद्मतलं सुतस्य मूर्त्या स्फुटमङ्गीकृतजानुचंक्रमस्य ।
चतुरंनिवृषाकृतेः कदाचित्सुरभेराकृतिरेकदाऽन्वकारि
॥ ५० ॥
तनयस्य नवप्रवालवल्लीलसदङ्गुष्ठविराजितातननाब्जम् ।
हृदयाम्बुजमन्तरात्मगर्भ प्रकटं दर्शयतीव सज्जनानाम्
विदधन्नवनौ निसर्गरक्तं प्रतिलीलं मुहुरुत्पतन्यतन्सः ।
लसतिस्म करिष्यमाणलक्ष्मीपतिपादानतिशीलनाय वैषः
॥ ५२ ॥
बहिरङ्गणसीम्नि केलिभाजः तनुलग्ना रजसां रराज राजिः ।
जगदात्मविकारसूक्ष्मरूपप्रकृतिर्विष्णुगतेव दृष्टियोग्या ॥ ५३॥
महनीयगुणस्य मासि षष्ठे सुतमन्नाशननामधर्मवन्तम् ।
अतनिष्ट ततस्तृतीयवर्षे चतुरस्यास्य चकार चौलकर्म
॥ ५४ ॥
विलिख्य भूमौ प्रथमं कुमारं रेखामिमामोमिति संपठेति ।
पित्रा नियुक्तः पुनरब्रवीत्तमल्पे कथं सा गुणपूर्णसंज्ञा
॥ ५५ ॥
इति वदन्तमवेक्ष्य सुहृज्जनाः श्रुतिशिरोदृढवासनमानसन्।
कथमचं शिशुरीदृशवाक्पिता सुकुतवानिति विस्मयिनोऽभवन् ॥५६॥
तनूजामष्टाब्दां ससहजयुगां काव्यकुशलां
सुभद्रां भद्राङ्गीमिव मुसलिकंसारिसहिताम् ।
स दद्यां कस्मैचद्विदितकुलसंजातविदुषे
चकारेत्थं बुद्धिं तनयवदनालोकमुदितः
॥ ५७॥
१८ श्रीमद्राघवेन्द्रविजयः श्रीमत्कश्यपवंशवाधिशशिनः षड्दर्शनीवल्लभ- श्रीलक्ष्मीनरसिंहवित्तविदुषः श्रीवेङ्कटाम्बामणौ । जातेनार्यदयासुधामयगिरानारायणेनोदिते काव्ये चारुणि राघवेन्द्रविजये सर्गस्तृतीयोऽभवत् ॥ ५८ ॥ इति तृतीयसर्गः चतुर्थस्सर्गः अथ चतुर्थस्सर्गः ॥श्री हयग्रीवाय नमः हरिः ॐ॥ अथेन्द्ररक्षोत्सुकवामनोद्भवप्रसिद्धिमत्काश्यपवंशसंभवः । भुवि श्रुतो डकिपुराधिनायको बभूव तिम्मष्णढणायकाभिधः ॥ १ ॥ तदन्ववाये जनितो द्विजोत्तमो महीतले तिम्मरसायनामभाक् । उवास नारीसरसीतिविश्रुतां पुरीमुदारो निजतेजसार्जिताम् ॥ २ ॥ अजायतास्मादवनीसुरोत्तमाद्भुवि प्रतीतः फणिशायिसंज्ञया । चकार वासं कृतमालिकापगापयःपवित्रे मधुराभिधे पुरे ॥ ३ ॥ अरातिविद्वद्विजयार्थवृद्धिमत्सरस्वतीनित्यनिवासमन्दिरम् । अभूदभूतोपमवृद्धिसागरः सुतोस्य लक्ष्मीनरसिंहनामभाक् ॥ ४ ॥ कृतोपनीतेः सुकृताकृतेरयं सुतस्य वैवाहिक शोभनोदयम् । चिकीर्षुरागात्किल यत्र संस्थितौ सुताविवाहोत्सवकारिदम्पती ॥ ५ ॥ समागतं समझ सुतोचितं वरं स्वकीयवंशानुगुणान्वयोद्भवत् । सुताकरं ग्राहयति स्म मान्यधीरपूजयत्तत्पितरौ सबान्धवौ ॥६॥ अथोपनीतिं विदधे पिताग्रतः समुद्भवस्यात्मगुणानुकारिणः । मुतस्य गर्गः शितिवासनो यथा स्ववैरिधात्रीमथ नाग्रजामनः ।। ७ ।। ऋतौ वसन्तेऽनुजमष्टहायनं तमग्रजो मासि मधावुपानयत् । निघण्टुनानालिपिलब्धनैपुणं पितुः समानं कलयन्निवात्मनः ॥ ८ ॥ उपास दत्तं कुतुकेन शेमुषीनिधिः स लक्ष्मीनरसिंहदैशिकम् । तपोधिसांदीपनिभूसुरोत्तमं यथा यशोदातनयस्त्रयीमयम्
श्रीमद्राघवेन्द्रविजयः
॥ ११ ॥
द्विपञ्चकृत्वश्श्रुतिमात्रतः श्रुते त्रिविष्टपोद्यानवनीमहीरुहः ।
बटुर्द्वितीयां बटुभिर्वयस्समैरधत्त शाखां धरणीसुरेश्वरः ॥ १० ॥
असावगृह्णादपि काव्यमग्रिमं महीसुरोनध्ययने वयस्समैः ।
अचष्टधीमाननिरीक्षितं पुनस्तदेव पृष्टं गुरुणान्यवासरे
रहोदिवारात्रमसंख्यचिन्तनं सतीर्थ्यसार्थेन कुतूहलात्कृतम् ।
सुजातकर्मातिशयं सुते कृतं चकार पित्रेव महीयसा मतौ ॥ १२ ॥
विहारभेदान्विविधान्विशालधीः सकृद्विलोक्यैव सखिवजैः कृतान् ।
तानेव संगृह्य तपोभिशीलनाकृते सदैवातनुते स्म सादरम् ॥ १३ ॥
स वायुवेगात्सरितोप्यवातरत्स्वबाहुना बाण इवातिरंहसा ।
ऋजुव्रजन्वक्रपदार्थपद्धति स्वहृद्दजुब्रह्मगतिं नयन्निव
निरन्तरं सृष्टसमीरणस्वनः प्रधानलीलाः पुलिने सखिवजैः ।
जनिप्यमाणान्यजपाङ्गरेचकप्रधानयोगं गुणयन्निवातनोत् ॥ १५ ॥
सरस्वतीमच्चतुरास्यभासुरे स्व भूभवेऽस्मिन्सरतिर्वसाम्यहम् ।
इतीव मारः सततं विराजते सहेत को वा सहजे समुन्नतिम् ॥
महामति माणवकं च तद्वचः कृताधिवासं सहशारदं विधिम् ।
विदुः परं ब्रह्म सदागमं ब्रुवद् द्विमत्स्यरूपं नयनद्वयं विभोः ॥१७॥
कपोलराजन्नवरोमवल्लरीनिवेष्टितुं याति तदा तदामनम् ।
समानतां तेन यदा बहिर्गलत्कलङ्करेस्वावृतमिन्दुमण्डलम् ॥ १८ ॥
गलान्तपीतप्रसवासवैः पुनस्तदीयलोभाच्चलितालिभिर्युतम् ।
शरत्सरोजातमिवास्य भासते मुखं परीत नबगण्डरोमभिः ॥ १९ ॥
चतुर्थस्सर्गः
विलम्बिते श्मश्रुमहः परं पराद्वितय यश्शृंखलमध्यसीमनि ।
तदाननच्छद्मसुवर्णभाजने विराजते विस्तृतशास्त्रशेवधिः ॥ २० ॥
करीश्वराणां धरणीसमागमे भवेदुपादानमसंशयं ध्रुवौ ।
अमुष्य नोचेत्परथा कथं क्षिते भैवेदयं श्यामलिमा मनोहरः ॥ २१ ॥
अमुञ्चदेणांकविभावरी शितु दैलेनं कृत्वाऽस्य ललाटमण्डलम् ।
सरोजभूम्तस्य कलङ्करेखिकां चकार चिल्लालतिकामपि प्रभोः ॥ २२॥
नवाकृतेरस्य ललाटतामसी विटार्धबिंबाग्लसत्सुधारसम् ।
उदग्रनासाभ्रममार्गनिर्गमं बिभर्ति नोचेदमृतं कुतोधरे ॥ २३ ॥
रजोगुणस्तस्य मनोऽतिनिर्मलं प्रवेष्टुकामोऽप्यपटुस्तपोबलात् ।
दुराशया हन्त चिरं विवर्तते दृशोयुगल्यामधरेऽतिभासुरे ॥ २४ ॥
मनोहरे तन्मुखगर्भमन्दिरे चिरं रसज्ञानिभतूलिकाञ्चिते
वचोऽधिदेव्यां शयनक्रियाजुषो रदावलि हारलतेति मन्महे ॥ २५ ॥
सरन्ध्रकर्णद्वयमान्ध्रदेशिकाः पयोजकन्यामनुबीजरेखिके ।
सुवेषवेदप्रणवौ तु संजगुः सुमेधसोऽस्या द्रविडावनीसुराः ॥ २६ ॥
अनङ्गकुम्भीशितुरेतदाननप्रभासुधोदन्वति खेलतश्विरम् ।
सहैव वव्वा सहसा समुद्यतौ कराविवेते लसितेऽसिते ध्रुवौ ॥ २७ ॥
अमुप्न शुद्ध हृदयं पयोधिजामनोहरान्तःपुरमेव मन्महे ।
उरःकवाट स्तनकीलकीलितं प्रयाति यद्रोमलताभशृङ्खलम् ॥ २८ ॥
यदीयनासानिटिलद्युतिच्छलद्युसिन्धुसिन्धुप्रभुसंगमस्थले ।
स्फुरन्महावर्तविभूषितान्तरे विभिन्नवेले इव चिल्लबल्लिके ॥ २९ ॥
श्रीमद्राघवेन्द्र विजयः
तदानने कान्तिपयःपयोनिधौ निमज्जनोन्मजनकेलिकारिणा ।
सुमेषुणा नूनमिमौ समुद्यतौ भुजौ भुवा रूपभृतौ व्यराजताम् ॥३०॥
अनन्तकल्याणगुणैकमन्दिरं हरिं जगद्व्याप्तततनुं हृदन्तरे ।
विधातुकामस्य भुजान्तरं क्रमादमुष्य विस्तारमपारमध्यगात् ॥३१॥
मनोरमेशास्पदमस्य मञ्जुलं विहर्तुमम्भोरुहसायकेऽञ्चति ।
उरोव्यलासीत्फलके दरोन्नते भटैस्तदीयैः बहिरर्पिते इव ॥ ३२ ॥
मृणालवल्ली कथयन्ति कन्धरां मुखारविन्दस्य विकस्वरश्रियः ।
परे तु नालं मृदुलं गलं जगुर्मुखाभिधाभृन्मुकुरस्य मन्दिरम् ॥ ३३ ॥
उपेयुषो जागरदायिनो हरेः हृदम्बुजादक्षि ततो हृदम्बुजम् ।
अमुष्य कण्ठस्थितनैजसात्मनो गृहाणि रेखात्रितयं गलान्तरे ॥ ३४ ॥
अमुप्य लोकत्रयलक्षणक्रियानिबोधनायेह नृणां तनूदरे ।
महामहिम्नोऽस्य वलित्रयच्छलात्कृता विधात्रा किमु चिह्नरेखिका॥३५॥
सदैव दाहो हननं कपीश्वरै रगस्त्यपानं मथनं महीमृता ।
इतीव संत्यज्य समुद्रमादरादमुष्य कम्बुर्गलतामवाप्तवान् ॥ ३६ ॥
करौ कृतौ चेन्नवचूतपल्लवी कथं सहेते सतताम्बुसङ्गतिम् ।
सदोद्यतस्यास्य सुकर्मदानयोरितीव वेधाः कमले करैर्व्यधात् ॥ ३७ ।।
पदे कृते चेत्कठिने मया पदा व्रजेदयं तन्न सहे नवाकृतेः।
चिरे यानेन बजेद्वसुन्धरामितीव वेधा मृदुलेऽव्यधादिमे ॥ ३८ ॥
ऋणादृषीणमथ मुक्तभाजनं मुमुक्षुरम्यः सुधियामृणद्वयात् ।
तदनजो वीक्ष्य विवाहमङ्गलं विधातुमैच्छद्गुरुराजनामभाक् ॥ ३९ ॥
चतुर्थस्सर्गः
-
तदाग्रहारे महनीयवैभवे निजाग्रहारस्य समीपवर्तिनाम् ।
ललास काचित्स्वकुलम्य सद्गुणैः समेऽन्ववाये जनितान्यकन्यका ॥
समुद्रपनी भवितेति सादरं प्रसाद्य वाणीमसृजत् पितेति वा ।
सरोवरो नाभिरिवेति वा पुनः सरस्वतीत्येव जुहाव तां जनः ।। ४१ ।।
विवेकनैपुण्यविनीतिदाक्षिणींपतीशभावप्रमुखा निजा गुणाः ।
सुजातमात्रा अपि शोमनाकृतेः समेनरास्ते सफला इवासते ॥ ४२ ॥
पदेपदे पल्पकान्ति सम्पदा निगूढगुल्फे नखराः प्रभाकराः ।
निरस्तकूर्माकृतिनीचजानुनी करौ तदूरू
करिणो मनोहरौ ॥ ४३ ॥
घनं तदीयं जघनं यथोचितं कृशं विलग्नं तु कुशेशयेशयौ ।
नखानि रत्नानि बिसानुजौ भुजौ गम्भीरनाभेर्गमनं विमोहनम् ॥ ४४ ॥
गलोतुलोस्याः फलके च तालुनी मुखं तदीयं शशिनास नोन्मुखम् ।
रदाश्च कुन्दान्यधरं सुधारसं समुन्नता गन्धफलीव नासिका ॥ ४५ ॥
शिशोरमुष्यास्तिलकस्य केलिनीसखस्य डोलेव ललाटपट्टिका ।
शतुष्कपर्दायसशृङ्खलाश्रिता ललन्तिकारत्ननिगुच्छराजिता ॥ ४६ ॥
तामुद्विवक्षुः सुरभौ समागते वटुव्रतानां च चतुष्टयं मुदा ।
विधाय भाष्यं लिखति स्म वेङ्कटो विकल्पितं सिन्धुनदीनिमज्जनः॥४७॥
सगोपिकाम्बिकाग्रजः सुहृजनैस्समन्वितै : ।
उपाविशत्सुपूजितो मुदैव कन्यकापदम्
॥ ४८ ॥
श्रीमद्राघवेन्द्रविजयः .. श्रीमत्कश्यपवंशवार्धिशशिनः षड्दर्शनीवल्लभ श्रीलक्ष्मीनरसिंहवित्तविदुषः श्रीवेङ्कटाम्बामणौ । जातेनार्यदयासुधामयगिरा नारायणेनोदिते काव्ये चारुणि राघवेन्द्रविजये सर्गश्चतुर्थोऽभवत् ॥ ४९॥ इति चतुर्थस्सर्गः
(4)
पञ्चमस्सर्ग:
२५
अथ पञ्चमस्सर्गः
अथ विवाहसमुत्सुककन्यकागुणमणी पितरौ निजमन्दिरात् ।
अगमताममिवीक्षुतुमादराद्वरमुपागतमात्मपुरोदरम् ॥ १ ॥
द्रुतमुपेत्य वरं पितरौ चिरान्मुहुरवेक्ष्य मुदं समवापतुः ।
पदयुगप्रणतस्य यवीयसोऽस्य चतुरस्य समाशिषमूचतुः ॥ २ ॥
समसमाः परिषस्वजिरे मुदाऽधिकसमान्पृथुकाः प्रणमन्ति च ।
बहुवयोभिरिता बहुलाशिषं जगदिरे विविधेष्वपि बन्धुषु
निजगृहोपमनैजनिकेतनं जितविशालपुरं निजसंपदा ।
अनयतां विनयावनतं वरं समुहृदं सुहृदा सह दम्पती
बहुविधं परमान्नरसायनं वरनरोभ्यवहृत्य तदाहृतम् ।
निबिडपडवितानकशीतलेप्यहह तुष्टुवुरातपभोजनम्
अभिदिदृक्षुजने वरमादरादुपगते भवनं तदनुज्ञया ।
कृतपरस्परसंकथनो जनः सुखमुवास निशामिह वेश्मनि
विदशदेवदिशाधरकंधरे समुदिते नलिनीपरिणेतरि ।
त्रिपदया सवितारमृचा वरं परिणुवन्तमुपासत सज्जनाः
॥ ७॥
॥ ८ ॥
वसनवाहनकुङ्कुमचन्दनै विविधरम्यरसैः परिपूज्यतम् ।
त्वरितमारभताभ्युदयोत्सवं द्विजवरैः पितरौ सह समनि
सगग्रवस्तूनि नवग्रहेभ्योप्यनुग्रहार्थं निरवग्रहार्थम् ।
कुतूहलातौ कुलदेवतायै समर्पयामासतुरादरेण
॥ ९॥
२६ श्रीमद्राघवेन्द्रविजयः विरचय्य तु दीक्षितः प्रयाजं तनुते हन्त यथा प्रधानयागम् । अतनोत्किल कन्यकाप्रदानं मधुपर्केरभिपूज्य तज्जनस्तम् ॥ १० ॥ वरमुखेन्दुविलोकनसंकुचल्लपनफुल्लसरोरुहकन्यकाम् । अयमश्यदियं च वराननद्विजसखं ससितोत्पललोचना ॥ ११ ॥ इन्दुवदनाकलितमन्दहसनानां कुन्दरदनाहसितहंसगमनानाम् । कन्तुकसमाकृतिपयोधरयुगानां कन्तुनिजजङ्गमजयध्वजलतानाम् ॥ आगत्य द्रुतमबलाप्रहर्षणीकाप्यालोक्यागमनमनङ्गसायकाङ्गी । नारीणामुचिततराङ्गरागपुष्परानर्च स्मितलपनातिरोहितासु ॥ १३ ॥ जितनीलकण्ठशुकमजुभाषिणी परपुष्टसधुवतिगीतगीतितः । सदनप्रियालकुसुमालयो वधूवरवीक्षणागतसुरार्पिता इव प्रमिताक्षरामृचमनूद्य सुहृत्समुपाहृतान्यभिनवानि मुहुः । विविधां पुरोहितजनावनयो र्वसनानि संसदि समार्पयताम् ॥ १५ ।। मथनसंस्कृतिसंततसंभ्रमत्सितगुरूज्ज्वलदीपकभाजनम् । भ्रमयतः स्म वधूवरसन्मुखं द्रुतविलम्बितमेत्य वराङ्गने नानाविद्याशालिनीवृद्धिमाजां भूदेवानां भूषणै राजमाना । वेदानुच्चैरुच्चरन्ती किरन्ती दम्पत्योरित्याशिषः संसदूचे ॥ १७ ॥ बालावेतावामुतां दीर्घमायुर्नित्यां प्रीति चाष्टपुत्रान्गुणाढ्यान् । शस्तं वित्तं संततिं शोभमानां सौख्यं धन्यौ धान्यभूगोसमृद्धिम् ॥ इन्द्राणी बलरिपुवैरिणीव वाणी लोकेशे कलशपयोधिकन्यकेव । गोविन्दे गरलगले गिरीन्द्रकन्या कन्या स्यादयितमनःप्रहर्षणीयम् ॥
पञ्चमस्सर्गः
नत्वा हरिं गुरुमनन्तरमार्यनारीसेवारतावसितवारिजलोचनाभिः ।
दृष्टौ वसन्ततिलकाविव तावभातां तत्रान्तरे सुकुतुकं सुमनःपरीतौ ॥
नियुज्य वंशस्थनितम्बिनीवधूपितावरीयार्य जनार्चनाकृते।
वधूवरौ वारिजलोचनाबुभौ परस्परं भोजयितुं प्रचक्रमे ॥ २१ ॥
भूदेवान्भोजयित्वा तदनु तदुचितैरम्बरैर्दक्षिणाभि-
स्ताम्बूलैस्तोषयित्वा विरचितनियमस्त्रीण्यहान्येवमेषः ।
विद्वत्सङ्घ निकामं विनयमुखगणैनन्दयन्वेङ्कटार्यो
दीक्षां प्राप्येव यज्वातदनु निशि मुदा शेषहोमं व्यतानीत् ॥ २२ ॥
आगच्छन्पथि वध्वा साकं सर्वैः समं निजग्रामम् ।
काननभूषु वधूनां दोहललक्ष्मीरपश्यदुरुमेधाः ॥ २३ ॥
चकितहरिणशावकेक्षणस्त्रीचरणहतोपि पुनः पुनर्यदीयः ।
ननु हसितरामशोकशाखी प्रकटयितुं नितरामशोकभावम् ॥ २४ ॥
कुरबकविटपे कुशेशयाक्ष्याः कुचयुगलस्तबकेन कोमलाङ्गयाः ।
किमकृत समवायिना वसन्तस्तबककुलानि तदाकृतीनि यस्मिन् ॥२५॥
बकुलतरुरवाप्य वारिजाक्ष्या मुखरससेवनमुन्नतोऽबलायाः ।
प्रतिकृतिमकृतेव पक्षमलाक्ष्याः प्रसवपरंपरया तदङ्गभाजा ॥ २६ ॥
कुवलयदलनीललोचनाभिस्तिलकतरुष्ववलोकितेषु नूनम् ।
प्रतिफलितविलोचनानि नो चेत्समरुचिभाञ्जि कथं नुमानि तेषाम् ।।
परिहसनपराः पयोरुहाक्ष्यः सुमकपटेन हसन्तमाबबन्धुः ।
व्रततिततिभिरङ्गना न मेरुं परिहसतीवि विलोक्य किं मदीयम् ॥ २८॥
श्रीमद्राघवेन्द्र विजयः
करपरिमिलनात्कुशेशयाक्ष्याः प्रतिविटपं विकचत्प्रसूनशाली ।
समयमभिनिरीक्षितावकाशो व्यपगतनिद्र इवास यत्र चूतः ॥ २९ ॥
कुवलयदलनीललोचनानां तनुरुचिमीक्षितुमीक्षितोगनाभिः ।
तिलकतरुरुदप्रसूनजालैर्दशशतलोचनतामवाप नूनम् ॥ ३० ॥
शुकपिककलकण्ठकिन्नरस्त्रीस्मयहरविस्मयगानमानताझ्याः ।
सकुतुकमुपकर्ण्य संमुदेन प्रसवकुलं प्रववर्ष किं प्रियालः ॥ ३१ ।।
अशोकवृक्षाः कमलेक्षणानां मनोज्ञपादाम्बुजताडनेन ।
उल्लासमापुस्सहसा तदानीं यथैव लीलाकमलैयुवानः
॥ ३२ ॥
भुजालताभिस्तरुणीजनानां मदान्वितानां परिरम्भणेन ।
अगाद्विकासं कुरवोपि पश्चान्नद् द्विरेफैः सुरवो बभूव ॥ ३३ ॥
चन्द्रानानां शपरेक्षणानां कुम्भस्तनीनां कुटिलालकानाम् ।
विलासिनीनां द्युतिमाललम्बे गण्डूषशीधोर्बकुलोवसेकात् ॥ ३४ ॥
आलोकनादायतलोचनानां मदोद्धतानां प्रकटानुरागम् ।
दधार शोभा तिलकद्रुमाणां पाली सभृङ्गस्तबकैस्तदानीम् ॥ ३५ ॥
गीत्या महत्या कलकण्ठकण्ठ्या विकासमाधत्त तदा प्रियालः ।
तन्मञ्जरीषट्चरणादिगीत्या वियोगिनीचित्रमिदं विषादम् ॥ ३६ ॥
पद्माननानां वदनानिलेन श्रियं विवढे खलु सिन्धुवारः ।
बाह्वालतास्पर्शनतो रसालस्तदाङ्कुरैः कण्टकितो व्यलासीत् ॥ ३७ ॥
वार्ताविशेषैर्वनजेक्षणानां पिकप्रियानिःस्वनलालनीयैः ।
उदकुरोभूदथ कर्णिकारो रागश्च यूनां हृदये तदानीम् ॥ ३८ ॥
पञ्चमस्सर्गः २९ मुखानुरागान्महिलाजननां चाम्पेयशाखी नवपल्लवौधैः । समुत्थितैस्तत्क्षणजातशोभैस्तदाऽनुरागी समभूद्विचित्रम् ॥ ३९ ॥ यासां नमेरुः कुचगौरवेण तुलायितो नाजनि हासपात्रम् । नकारयुक्तत्पदबाच्यभूरुहो जहास हासैः कुसुमैश्च तासाम् ॥ ४० ॥ षडघ्रिसंघारवकैतवेन गायन्मुदा माधवकीर्तिमुच्चैः । द्विजप्रवेकैय॑रुचत्प्रवीतः शुको यथा तत्र हि किंशुकद्रुः ॥ ४१ ॥ किंशुकः कुसुममालया वने फुल्लया च नितरां विदिद्युते । दानवारिमसुरान्त्रमालया मण्डितं खलु विडम्बयन्निव ॥ ४२ ॥ स इत्थमालोक्य वनं गतानां विलासिनीनां विहृतिप्रभेदान् । उपेन्द्रवज्रायितकायसारो गृहं प्रविश्याब्दगणान्मुमोद ॥ ४३ ॥ श्रीमत्कश्यपवंशवार्धिशशिनः षड्दर्शनी वल्लभ श्रीलक्ष्मीनरसिंहवित्तविदुषः श्रीवेङ्कटाम्बामणौ । जातेनार्यदयासुधामयगिरा नारायणेनोदिते काव्ये चारुणि राघवेन्द्रविअये सोऽभवत्पञ्चमः ॥४४॥ इति पञ्चमस्सर्गः
३०
श्रीमद्राथवेन्द्रविजयः
अथ षष्ठस्सर्गः
वध्वा साकं तत्र तुण्डीरदेशे वासं कृत्वा वेङ्कटार्यों महात्मा ।
बंशाचार्य श्रीसुधीन्द्रं दिक्षुः चारुप्रज्ञः प्राविशच्चोलदेशम् ॥ १ ॥
मन्दमन्दं मारुतस्पर्शमात्रात् निर्मर्यादं यत्र निष्यन्दमानैः ।
माकन्दानां मार्गभूमध्यगानां पृथ्वी चैत्रेष्वात्तपङ्का मरन्दैः ॥ २ ॥
सयक्ष्माभृन्नन्दिनीतीरदेशे भूयोभूयो भूसुपर्वाग्रहाराः।
ग्रामे ग्रामे तद्गृहाणां सहस्रं गेहेगेहे पण्डिता एव सर्वे ॥३॥
ग्रामेग्रामेऽध्यापका जातमात्राः गेहेगेहे सर्वशास्त्रागमानाम् ।
सायंप्रात:मधूमातिनीलं रूपोपेतं यत्र नीरूपमभ्रम् ॥ ४ ॥
नित्यं यस्मिन् उर्वरवाखिला भू: सालाः पूर्णा एव सर्वे फलौघैः ।
पृथ्वीदेशादीक्षिता एव सर्वे सह्यक्ष्माभृन्नन्दिनीसन्निधानात् ॥ ५॥
देशे तस्मिन् भूमिभूषायमाणे कुर्वन्वासं कुम्भघोणे सुधीन्द्रम् ।
दृष्ट्वा नित्यं मानितस्तेन विद्याभ्यासोद्युक्तो वेङ्कटार्यो विशिष्य ॥ ६॥
शाब्दं भाष्यं जायदेवी च टिकां भाई तन्त्रं भामति गौरवञ्च ।
व्यासोक्तां चन्द्रिकां वेकटार्यः यद्यद्वेद्यं तत्तदभ्यस्यति स्म ॥ ७ ॥
प्रातः स्नात्वा साधु वेदान्तभाष्यं शाब्दं पश्चात्तर्कशास्त्रं ततस्सः ।
पूर्व तन्त्रं चावेदन्वेङ्कटार्यों तुर्ये यामे कांश्चिदंब्दाननैषीत ॥ ८ ॥
द्रष्टुं कृष्णं दक्षिणद्वारकेशं प्राप्तस्साकं वेङ्कटो दैशिकेन ।
मायावादित्रातमध्ये निषण्णं कंचिद्भिक्षु दृष्टवान् वावदूकम् ॥ ९ ॥
षष्ठस्सर्गः ३ ब्रह्माभिन्नोजीवसंघः कुतस्त्वं ब्रूहीत्युक्ते केनचित्तबुधेन । मिथ्या यस्माद्विश्वमित्युक्तमाने किंचतोऽस्मिन्नात्र मानं त्वयोक्तम्॥१०॥ शास्त्रे नोक्तो न श्रुतः केनचिद्वा यः किंचातः शब्द उक्तस्त्वयेति। उक्ते तेन प्रावदद्वेकटार्यो व्यक्तंयस्त्वं नाशृणोः शाब्दभाष्यम् ॥११॥ श्रुत्वाकोपात्तस्य शिप्योथ कश्चिब्दाष्यं क त्वं केदृशस्तेऽभिमानः । पृष्टश्चत्तां प्रक्रियां किं ब्रवीषीत्युक्तस्तेनानुक्तवानेवमेषः ॥ १२ ॥ दण्डेनान्यस्ताडितः कुण्डलीव'प्साधातोर्यलुगन्तस्य रूपम् । शत्रन्तस्येत्यर्धवाक्ये स पाप्सत्तस्येत्युक्त्वा वादिनं पृच्छति स्म ॥१३॥ एतद्धातोः किं यगन्तस्य रूपं बृहीत्युक्ते चिन्तयन्नधयामे । तत्रत्यानां दैशिको मायिभिक्षुस्तुप्णीमासीदुत्तरेऽभासमाने ॥ १४ ॥ दृष्ट्वा सर्व दैशिकः श्रीसुधीन्द्रः प्रागज्ञातं कौशलं शाब्दभाप्ये । प्राचीनाख्यां तां महाभाष्यपूर्वा प्रादादस्मै पश्यतां पण्डितानाम् ॥१५|| तञ्जापुर्यामन्यदा शुल्बसूत्रं व्याख्यातारं वावदूकं जयन्तम् । राज्ञो विद्वान्यज्ञनारयणेज्याशीलोत्तसस्तं ननन्दातिमात्रम् ॥ १६ ॥ कालेनास्मिन् काकतालीयशब्दे जेतारं तं यायजूकान्कवीन्द्रान् । तस्यां पुयाँ तप्तमुद्राङ्कने च प्रौडं मेने यज्ञनारायणस्तम् ॥ १७ ॥ विद्योद्योगाद्वासरान्यापयन्तं प्राप्तौन्नत्यं पातुकं निर्धनत्वम् । अत्यासन्नश्रीनिदानेन्दिरेशध्यानोपायो बुद्धिवार्धि सिषेवे ॥ १८ ॥ पा. स्थाधातोः सथात्सत्
श्रीमद्राघवेन्द्रविजयः
अब्दस्यैकं वत्स्यतो नास्य नव्यं स्थूलं वस्त्रं संततं चाल्पमौल्यम् ।
नव्यं वस्त्रं नैव सूक्ष्मं कदापि क्षौमे तस्मिन् का कथाकिंचनस्य ॥१९॥
तैलाभ्यङ्गं वत्सरस्यैकवारं नैतस्यास्ति प्राज्यमाज्यं कथं स्यात् ।
अमिष्टोमे नाधिकारी कथं स्यात् ज्योतिष्टोमेज्यांत्यसंस्थादिकारी॥२०॥
कालेकाले लभ्यते नास्य भुक्तं लब्दं चेत्तद्भुज्यते हन्त भूमौ ।
पात्राभावादेकदा नार्थितेपि क्षुहाधायाः शान्तिमेवालभिष्ट ॥ २१ ॥
छिन्ने वस्त्रे भिन्न पानीयपात्रे जीर्णस्थल्यां दस्युभिर्नीयमाने ।
प्रागाकृष्टं भाविकौपीनमस्य छागे यागे प्रागिवाभूत्प्रयाजः ॥ २२ ॥
विष्णोरेको वासरो वर्धमानेऽलोके कृप्तः पञ्चषस्तस्य गेहे ।
इष्टौ पञ्चैवोदितास्ते प्रयाजाश्चातुर्मास्येप्वेधमाना नवासन् ॥ २३ ॥
पश्चालब्धा यादृशी श्रीस्तदीयैस्तस्याः साम्यं लभ्यते चेत्कदाचित् ।
अप्येतस्याः सम्पदो नोपमानं लभ्यं लोके सम्यगालोचितेपि ॥ २४ ॥
एवं चेदप्यादुराद्भोक्तृचिह्न सन्धार्यायं शास्त्रमुख्यादजस्रम् ।
हर्ष प्राप्ता ह्यात्मधर्मानुरूपा पत्याकारस्पर्शनालापजातम् ॥ २५ ॥
दृष्टस्वन्पः श्रीसुधीन्द्रोथ विद्यासाम्राज्याहं तं पयोधि गुणौधैः ।
ज्ञात्वा विद्यासंप्रदायं स गोप्तुं पारित्राज्यं प्रार्थयामास धीरम् ॥ २६॥
काहं न्यासः कुत्र वा वेदविद्यासाम्राज्यं ते क्वापि विद्याऽहमार्य
पारं सिन्धो भारमूवा विवेकी गन्तुं यत्नं को जनः संतनोति ॥२७॥
इत्युक्तस्तं प्राह नावोहि बह्वः शान्तिर्दान्ति/रतोदारता च ।
केतुस्तासां मत्प्रसादो गरीयान् विद्यन्ते किं दुर्घटं सिन्धुबाने ॥२८॥
(5)
षष्ठस्सर्गः
३३
३
IMONIPATRA
एकान्ते तैर्बोधितः प्रत्यवादीद्वाला भार्या बालको नोपनीतः।
बालश्चाहं नाश्रमे मेस्ति वाञ्छा निर्बन्धश्चेन्निर्गमिष्यामि नूनम् ॥२९॥
श्रेयोतीते कीदृशोत्रानुरागः का वा भार्या जानतो नन्दनः कः ।
स्त्रीसम्पर्को दुःखदाय्येव नूनं दृष्टान्तोस्मिन्वालिधर्मात्मजाद्याः ॥ ३० ॥
अक्ष्णा काणं कर्णपर्यन्तनेत्रं लोभागारं सन्ततौदार्यभाजम् ।
सन्ध्योपासावर्जितं यायजूकं दुष्टाचारं साधु कर्माचरन्तम् ॥ ३१ ।।
क्रूरं शान्तं रागशीलं विरक्तं मत्तं मुग्धं वृद्धिमन्तं युवानम् ।
दुष्टं साधुं दुर्विनीतं विनीतं लक्ष्मातीतं लक्षणोधैरुपेतम् ॥ ३२ ॥
ॐकारशं सागसर्वागमज्ञं वैरागारं वर्धितस्निग्धभावम् ।
अज्ञोत्तंसं ज्ञानिनामग्रगण्यं व्यक्ताकूतं लब्धगम्मीरभावम् ॥ ३३ ॥
गत्वागम्यं पूजयित्वाप्यपूज्यं सोढ्वा मानं तेन चादाय किञ्चित् ।
नालम्बुद्धिर्दीयमानेपि तासां जातात्मानं क्लेशयित्वापि नूनम् ॥३४॥
वेदव्याख्यासम्पदो नैव युक्ता व्यासंगे ते मज्जतो गेहजाते।
तस्मादाशां मुञ्च तस्यां तरुण्यां शीघ्रं कुर्या बालमङ्गोपनीतम् ॥ ३५ ॥
श्रुत्वाऽश्रुण्वन्नेवमुक्तं गुरूणां गत्वायादेप चिन्तां दुरन्ताम् ।
निर्यायादित्येष निश्चित्य तावन्मरेतै रक्षति स्मैनमेषः
स्थास्यामश्चेल्लभ्यते संयमित्वं गच्छामश्चेत्तेऽधुना मां शपेरन् ।
स्थातुं शक्यं नैव गन्तुं च शक्यं कुर्मः किं वेत्यात्मनाऽध्यायदित्थम् ॥
कर्णाकर्णी प्राप्य हृत्कर्णशल्यं कान्तोदन्तं सा सरस्वत्युदग्रैः ।
अश्रुब्यूहै: प्रोक्षतीवात्महव्यं पूतं दातुं तद्वियोगानलाय ॥ ३८॥
३
४
श्रीमद्राघवेन्द्रविजयः
तस्यां रात्रयामन्त्ययामार्धभागे कांचिद्देवीं काञ्चिकालक्ष्यनीवीम् ।
शय्योपान्ते शारदाम्भोजनेत्रामध्यासीनां विस्मितः पश्यति स्म ॥३९॥
कैषा योषा काञ्चनानयंभूषा दोषाधीशानना चारुवेषा ।
दोघातीता सान्द्रधम्मिल्लदोषा भाषादेवी सर्वसाक्षान्मनीषा ॥ ४० ॥
यद्वा नारी किन्नरी वोरगी वा देवस्त्री वा हन्त या काचिदस्तु ।
कस्मादेषाऽभ्यागता मत्समीपं प्रोवाचैषा चिन्तयन्तं तमित्थम् ॥४१॥
कानीनोसौ कन्यकाभावमादाद्भोग्याया मे संततं पण्डितानाम् ।
तस्माज्जातानन्दतीर्थप्रियाऽहं विद्यालक्ष्मी विद्धि मां विद्वदाद्य ॥४२॥
बालामेनामेधयामास मध्ये भाष्यक्षीराध्यासवाक्कामधेनोः ।
अक्षोभ्यश्रीपादशिप्याग्रगण्यैः प्रौढोत्तंसेः प्रापितं यौवनं मे ॥ ४३ ॥
उर्वी सर्वा येन राजन्वतीत्वं राज्ञा हन्त प्राप यत्पादभाजा ।
तेषां व्यासाचार्यराजेश्वराणां संगृह्याहं पाणिमद्धा समिद्धा ॥ ४४ ॥
आकल्पं मेऽकल्पयज्जीवनेच्छो सं वल्ल्यास्तर्कनाट्योत्सुकायाः ।
सौधायान्न्यायामृताद्वृद्धिमत्यास्तात्पर्याद्या चन्द्रिकाख्या स यस्याः॥
विख्यातो यः श्रीजयीन्द्रवतीन्द्रस्सख्या लब्धा साधुकीर्तिर्मयोाम् ।
व्याख्याव्याजादालवालं व्यतानीत्तस्या वल्ल्या न्यायपूर्वामृतस्य ॥४६॥
चित्रैर्वर्णैः शोभितं श्लाषितार्थं व्याप्तं देशे क्षौमवासेतिनुत्नम् । .
प्रायच्छन्मे कण्टकोद्धारदम्भादाचन्द्रार्कस्थायि चारुप्रभावः ॥ ४७ ॥
भूषापेटी तत्त्वमाणिक्यपेट्या मुक्ताभूषां न्यायमुक्तास्रजा मे।
यद्यत्कृसं भूषणत्वेन वध्वास्तत्तद्वन्थैरातनिष्टातुलश्रीः
॥ ४८॥
षष्ठस्सर्ग:
वादे नित्यं वैरिविद्वजयश्रीराजस्थान प्रापिता मां त्वयेति ।
व्याख्याव्याजात्तर्कनृत्तस्य मह्यं रङ्गस्थानं निर्ममे श्रीसुधीन्द्रः ॥ ४९ ॥
व्यासेनोक्तं व्याकरोद्यद् द्वितीयस्कन्धं प्रायो दुर्गमेकादशं च ।
मौलेर मौक्तिकं तन्ममासीन्नाराम नाटकं चित्रगद्यम्
॥ ५० ॥
सर्व व्यर्थ भाति मे जीवनाड्याश्छिन्ने मूले चन्द्रिकासौधवल्ल्याः।
व्याख्यानात्त्वं व्याकरोरूढमूलां धर्मो नोचेद्धर्मचिन्ता क दृष्टा ॥५१॥
जानीहि त्वं वेङ्कटार्य त्वदायें वासो यन्मे वत्सरद्वन्द्वमेव ।
तध्याख्याने लब्धवर्णो न चास्ति विद्वत्सङ्घ नैव भावी त्वदन्यः ॥५२॥
श्रीरामार्चा पूज्यते येन तस्मिन् वासो यन्मेकल्पययासदेवः ।
कर्मन्दीन्द्ररेव पूजापि कृप्ता तस्मात्साहं तेषु नित्यं वसामि ॥ ५३॥
तस्मादङ्गीकृत्य कर्मन्दिभावं राजा विद्याराज्यलक्ष्म्या भव त्वम् ।
नोचेल्लुम्पेन्नित्यवाचां विचारैः साकं लोके वैष्णवः संप्रदायः ॥ ५४ ॥
उत्सूत्रत्वं केवलं नाद्यपक्षे न्यायौघानां किं तु तत्पुस्तकानाम् ।
रक्षाभावाद्भक्षणामूषिकानां मायावादिब्रह्मवन्निर्गुणानाम् ॥ ५५ ॥
आये तन्त्रे प्रक्रियायां विचारस्तत्रैव स्यात्कर्मणां निर्णयोपि ।
किंचात्रैव न्यायपूर्वी सुधाख्यां भाष्यारम्भं शाब्दिका एव कुर्युः ॥५६॥
वक्ता विष्णोरुत्तमत्वं कथायाः भूपालानां भाति विद्वत्सभायाम् ।
शक्तेभानोः शक्तिपाणेर्गणेशः शक्रादीनां धूर्जटेवा तदा स्यात् ॥५७॥
३६
श्रीमद्राघवेन्द्रविजयः
छात्रागारं शश्वदेकप्रकारं वेदोद्घोषैर्वैदिकानामुदारम् ।
गोमायूनां जल्पकानामजस्रं कारागारं सर्वदेशे तदानीम् ॥ ५८ ॥
वृन्दानीव क्ष्माधराणां तदानीं हेत्या जिष्णोश्छिन्नपत्राणि कीटः ।
वेदान्तानां पुस्तकान्यार्यलोके पोज्झानि स्युर्महापाठकानाम् ॥ ५९ ॥
आचार्याणां कर्मठानां मठानां वेद्यां विद्यात्तत्वमिथ्यात्ववादः ।
माभावाद्वासनावासितानां तत्रत्यानामण्डजानां तदानीम् ॥६० ॥
देवागारं दैशिकानां प्रदीपज्वालामालादीप्यमानं तदा तु ।
सूर्यालोकं संश्रितोलूकलोकं सूर्यालोकेनोज्झितं नो लभेत ॥ ६१ ॥
हन्तेदानी देवताया गुरूणाम गारं गुग्गुलुब्यूहधूमैः ।
दीपैदीतैदीप्यमानं तदानीं नित्यासत्तालातभूतास्यदीपैः ॥ ६२ ॥
उल्लोचानामुन्नतानां प्रकीर्णैः धूलीवृन्दैथूसरा केतकानाम् ।
वेदी स्यात्तद्देवतामन्दिरांणां रथ्या धूलीधूम्रवर्णा तदानीम् ॥ ६३ ॥
नेदानीमेतादृशः संप्रमोदः पारिवाज्यं यादृशः प्राप्यते चेत् ।
संप्राप्ता त्वां न त्यजामि क्षणं वा स्वप्ने वाऽहं न स्मराम्यन्यभिक्षुम् ॥
विव्यायत्तं ते यतित्वं न शक्यं त्यक्तुं प्राप्तुं त्वद्वशत्वं ममापि ।
इत्युक्त्वा सा मन्त्रमस्योपदिश्य स्वीयं देवी पश्यतोन्तर्दधेऽद्धा ॥६५॥
भूयोभूयो बोधितस्साधकैस्तैः पारिव्राज्यं वाधकैरन्यथात्वे ।
स्मारस्मारं देवतोक्तं च विद्वानुद्युङ्क्ते स्म स्वात्मजस्योपनीतौ ॥६६॥
सोमादिभ्यो देवताभ्यः प्रदानं पुत्रस्यैतन्मुख्यमेवंविधस्य ।
लोके गौणं नुनमित्थं वदन्तं दृष्ट्वा को वा नाश्रु सर्वो मुमोच ॥ ६७ ॥
षष्ठस्सर्गः
PRIOR
संन्यासश्चेहीयतेऽत्रैव मोहाद्भार्या कुर्यात्साहसं तस्य नूनम् ।
इत्यालोच्य श्रीमुधीन्द्रोऽथ योगी साकं यायात्तेन तञ्जापुरीं सः ॥६८॥
आशापाशा वैरजा होमसंस्था संस्थाकेसत्येष निघ्नंस्तमांसि ।
स्नातस्सिन्धोरुदतो दीधितीनां धामेवायं भाति रक्तांशुकश्रीः ॥ ६९॥
लग्ने लग्नगुणे निलिम्पगुरुणा दृष्टे विमृष्टे द्विजै-
रेनं संमदभागधीहि भगवो ब्रह्मेत्युदीर्य स्थितम् ।
आलोक्योपदिदेश दैशिकवरस्तस्मै सतारं पुरा
स्वप्नेऽस्वमदुरापवैभवनिधिलब्धां ददौ चाभिदाम्
तस्य नाम स ददे सदाशिषा राजराज इव राजितः श्रिया ।
रामभद्र इव भद्रभाजनं तत्कृपेव जगतां हिते रतः ॥ ७१ ।।
श्रीसुरेन्द्रवदयं तपस्यया श्रीजयीन्द्र इव कीर्तिसम्पदा ।
विश्रुतोहमिव वादसङ्गरे राघवेन्द्रयतिराट् समेधताम् ।। ७२ ॥
मन्त्रैः पूतैर्वारिजायैः प्रसूनैर्मुक्तामुख्यै रत्नजालैरुपेतैः ।
वार्भिः शङ्खापूरितैः सोभिषिच्य प्राज्ञं विद्याराज्यराजं वितेने ॥७३॥
श्रीरामार्चा व्यासदेवोपली द्वौ शास्त्रौघानां पुस्तकं चामरे च ।
तच्छत्रं स्वर्णयानं सवाद्यं प्रादादस्मै राजचिहं स सर्वम् ॥ ७४ ।।
आचार्ये राजमाना श्रुतिशिखरकला राज्यलक्ष्मीः सुधीन्द्रे
मुक्त्वा तं तुङ्गभद्रातटभुवि गुरुभिजमानं तपोभिः ।
राजन्तं कुम्भघोणे रघुपतिचरणासेवनासक्तचित्त
विद्वांसं वर्धमानं गुणगणजलधिं संश्रिता राघवेन्द्रम्
॥ ७५ ॥
ARE श्रीमद्राघवेन्द्रविजयः श्रीमत्कश्यपवंशवार्धिशशिनः षड्दर्शनीवल्लभ- श्रीलक्ष्मीनरसिंहवित्तविदुषः श्रीवेङ्कटाम्बामणौ । जातेनार्यदयासुधामयगिरा नारायणेनोदिते काव्ये चारुणि राघवेन्द्रविजये सर्गोद्य षष्ठोऽभवत् ॥ ७६ ॥ इति षष्ठस्सर्गः सप्तमस्सर्गः अथ सप्तमस्सर्गः : ॥ श्रीगुरुभ्यो नमः हरिः ॐ ॥ स कदाचिदातमना हरेः स्थलान्यखिलानि पुण्यसरसीश्च वैष्णवीः । अवलोकितुं यतिवरो धृतव्रतः प्रथमं सुरप्रभुदिशं प्रतस्थिवान् ।। १ ।। अनमन्नमजनमनोविनोदनं द्विपरीशमीशमघराशिभञ्जने । अगमत्ततो निगमगीतसद्रतः परिपूर्णदेवनगरं गुणाकरम् ॥ २ ॥ अथ लोकमातरमवन्दतेन्दिरामनवद्यहृद्यमणिशृङ्गमन्दिराम् । वदनेन कान्तिसदनेन पुष्णती नमतो निरस्तममतो यतीश्वरः ॥ ३ ॥ गुरुपूर्णबोधमतसिन्धुचन्द्रमा यतिराडुपादिशदगाधमेधसाम् । अथ मानपद्धतिपुरःसरं कृती निजदर्शनं निखिलसम्पदां पदम् ॥ ४ ॥ कमलालये कमलया कटाक्षितो यमिराडवाप यमराडपायदम् । प्रणिनंसुरमहिलं कृपोर्मिलं सरलं श्रितेषु गरलं खलेखिले ॥ ५ ॥ सततं प्रणम्य सततादिनिस्वनो धिषणाभिनन्दिधिषणो धुतेषणः । समगादगाधपयसा पयोधिना सह सङ्गमं सपदि सह्यजन्मनः ॥ ६ ॥ इह दातुमस्य यतिपुङ्गवस्य सा महनीयरत्नमथ रत्नगर्भया । धृतमन्तराप्तुमुदितादरा भुवो विवरं विवेश विवशैव सम्भ्रमात् ॥ ७ ॥ अवगाह्य सह्यतनयासरस्वतोर्विमले चिरं व्यतिकरे व्यराजत । हृदि भावितो हरिरिवोदितस्तथा सरिदीशदर्शनकृतानुसंमदः ॥ ८ ॥ अधिरुह्य तीरमविषयतेजसां निलयं कृतापविलयं कृपालयम् । कलयन्सुवास दलयन्तमापदं मुरहारिणं मुनिवरो हृदन्तरे
श्रीमद्राघवेन्द्रविजयः
हृदि बद्धशुद्धिभिरुदारबुद्धिभिः प्रतिषिद्धसिद्धजनगर्वसिद्धिभिः ।
परितो वृतः परिजनैरुपेयिवान् स तु चम्पकाधिपपुरं ततः परम् ।।
स ददर्श देवमतिदर्शनश्रियं हरिभक्तिदर्शनविरोधिक र्शनः ।
चिरमास्त तत्र परमास्तिकाग्रणीहदि मेस्तु लोलमतिवस्तु संस्तुवन् ।।
न्यनवीदथैनमनवीनवाग्झरीशिरसां विकल्पवचसां निगुम्भनैः ।
परिभक्तिपूरपरिवाहमोहदैः परिणद्धभक्तजनचित्तसंपदैः ॥ १२ ॥
हृदि बोधदुग्धरसवासनाकृतेः परिनिर्मिताविव पयोजतल्लजौ ।
अपवर्गमार्गपरिबोधनाय मे चरणौ तवेश किमु चिह्नपल्लवौ ॥ १३ ॥
उपरिश्रितेन पुरतश्च नश्वरव्यवहारदूरगगिरामनावृतम् ।
प्रणवद्वयेन मणिनूपुरात्मना परिकर्मिते तव पदेपदे मुदाम् ॥ १४ ॥
रुचिवारिपूररुचिरं भुजान्तरं शिशिरं तटाकमवगाह्य तावकम् ।
त्यजति श्रमं ब्रजति हर्षमद्य मे भवधर्मतापमपनीय दृग्गवी ॥ १५ ॥
अरुणाधरं तरुणचन्द्रसुन्दरं करुणाधरं वदनमीश तावकम् ।
स्मितकान्तिपूरनवचन्द्रिकाभरैभव शावरं क्षिपति भव्यचेतसाम् ॥१६॥
परितः स्थितेपि चिकुरौघशावरविलुटद्भिराननविधी विभाविते ।
तिलकेन नद्धकुलकेन सा दरं नहि वेत्ति बालतममत्युदारगीः ॥१७॥
अलकावृतालिकमुदारमुन्नसं स्मितफुल्लगण्डतलमुल्लसन्मुखम् ।
दरवामभागनतमौलिमोहनं तव देव नैव हृदयं जहातु मे ॥ १८ ॥
इति बाष्पगद्गदतयाऽतिमन्धरं प्रमदप्रवाहकृतकान्तिकन्धरम् ।
रचितस्तुतिः कृतनतिस्समेयिवान् स तु रामसेतुमवलोकनोल्मुकः॥१९॥
(6)
सप्तमस्सर्गः
अथ लोचनातिथिमसावपांनिधि निधिरहणीयमहसामुदारधीः ।
अकरोदपारमकरोदपांकुलं सुकरं श्रमापनयशक्तिशीकरम् ॥ २० ॥
मुनिधुर्यदर्शनकुतूहलादिव प्रथम प्रधावितमहोर्मिमुत्सुकः ।
अनुधावितास्सरभसं यदूर्मयः पुरतोऽभिगन्तुमलसा विचुक्रुशुः ॥२१॥
पुरतस्समुद्यततरङ्गहस्तया समुदीतपन्नगफणामणीगणैः ।
धृतमङ्गलार्थमणिदीपमालया यतिराडसेव्यत तदीयवेलया ॥२२ ॥
वदने विधुं करतले सुरद्रुमं नयने सुधामधिमनः श्रियं च यः ।
निजसन्तति यतिवरेऽनुसन्दधन्मुदितो ननर्त स तरङ्गरिवणैः ॥ २३ ॥
अपि सैकतं बहुतरङ्गसंकुलं तटमक्षमस्स तु किलातिलचितुम् ।
अत एव भङ्गमतिनैल्यमप्यगादयशोभरेण सुयशोहरेण यः ॥ २४ ॥
हृतकल्पभूरुहतया पुनश्च भाजककल्पकल्पतरुरोहणाय यः ।
हलसंस्कृतो लहरिभिस्समन्ततः सकरीषराशिरपि सान्द्रशैवलैः ॥२५॥
परिवृत्य पूरितजलामपां भ्रमिं स्फुरितास्फुरद्रुचिरविद्रुमां प्रगे ।
कवयो हि यत्र वरुणालये निशाकृतदीपशान्तिमभितः शशङ्किरे ॥
यतिनेतृवादरणधुर्यभास्करे प्रकटीकृते हि पतिना रसातलात् ।
तमसां ततियदभियाद्भियोद्गता बहिरप्युदीक्षितुमभूजडीकृता ॥ २७ ॥
मुखराण्डजा मणिमरीचिमौक्तिकैः प्रकटप्रवालमुकुला यदूर्मयः ।
मरुता नतोन्नतिभृतो विरेजिरे वरुणालयोपवनशाखिका इव ॥ २८ ॥
अमुमेत्य मुख्यतममाश्रयं निज हरिरेष मां प्रतिनिधिं त्यजेदिति ।
लुठति स्म यस्सभयमूर्मिभिश्श्वसन्निजरोधसि क्षितिगवीव रोधसि॥२९॥
१२
श्रीमद्राघवेन्द्रविजयः
PARE
सरिदीशितुः प्रतिसरित्कृतोदयाः पुरतोऽस्य मारपृथुका वितन्वते ।
रभसेन यस्य लहरीकशाहता भ्रमिकैतवेन लिपिलेखनक्रियाः ॥३०॥
अपि शेषपूर्वकपुनस्मृतिस्थितावपि पूर्वपश्चिमदिशोरुदन्वति ।
न कथाभिदेति विभुना भिदा कृता कृतसेतुना लसति यः पयोन्ततः ॥
छिदुरस्य यस्य रघुवीरसायकैर्वसुधापटस्य विवरं निपीव्यता ।
विधिना कृता नु नवसन्तुसन्ततिर्नलसेतुना नवमनन्यदिच्छता ॥३२॥
मरुदुल्लसल्लहरिनीविसन्ततेर्गुरुपूरनामवरुणालयच्छदेः ।
यदि याति यत्र दृढमध्यवंशतां नलसेतुरेतु भवधर्मभञ्जनः ॥ ३३ ॥
सुमसौभरेण जनरञ्जनोन्मुखे तटनामके धरणिसुन्दरीमुखे ।
निदधात्युदग्रनलसेतुनासिकं मुखमात्मनश्चलितविश्वतोमुखम् ॥ ३४ ॥
रघुवीरदुस्तरशराग्रशोषिते यदगाधतापललसञ्चयेखिले ।
अतनिष्ट सेतुरदसीयपृष्ठतः स्फुरदस्थिवंश इति संशयं मुहुः ॥ ३५॥
परिशेषितं कलिबलेन यत्पदं सुकृतस्य यत्कृतभयं यदन्तरे ।
जलदुर्गमेत्य कलितापदुर्गमं विधुनोति सेतुवपुपा विरोधिनाम् ॥३६॥
परिमार्दुमात्मतनयाश्रुशोकजं सघृणं भुवा भुजलता प्रसारिता ।
क्षितिसुन्दरी न किरतीति यज्जले नलसेतुरस्तु कृतचूर्णपद्धतिः ॥३७||
अवलोक्य सेतुमवलोक्य वैभवं कमलेशकान्तिरमलाशयस्ततः ।
परपूर्वसिन्धुपरिणीसमागमे स ममज पाथसि नमज्जनावनः ॥ ३८॥
उपसाद्य तीरमवसद्यमादिमैस्स नियम्य चित्तमनियम्यसम्पदम् ।
रघुवंशदीपमघदंशभञ्जनं सदयं विधाय हृदयं प्रवेशितम् ॥ ३९ ॥
सप्तमस्सर्गः
अवनीसुधाशसवनाशभूरुहो वनशैलमाप वनराशितस्ततः।
भवनाशनं सपवनाशशायिनं नमनैरुपेतुमवने कृतादरम् ॥ ४०॥
प्रथिते यदीयशिरसि प्रसेदिवान्सततं विधुर्यदि समग्रतेजसा ।
कलयेत को नु कथमित्यसन्मति स तु रम्यपर्वत इति श्रुतो यतः ॥४१॥
यदुदग्रशृङ्गतरुसङ्घसेचने न धनाधनो न च वियन्नदी प्रभुः ।
शबराङ्गनाचतुरगीतिकाद्रवदृषदां शिरस्सु निपपात तद्भरः ॥ ४२ ।।
मधुरे यदीयशिखरेतिभास्वरे मुनयो विमुक्तिगतये समुद्गताः।
अनवेक्ष्य हन्त सृतिमच्चरादिकान्न भवं ब्रजन्ति हरिभक्तिगौरवात् ॥
विदधाति सिद्धमहिलाजनो विधुं रजनीषु यम्य शिखरे तिरोहितम् ।
स्तनवाससा परिविधूपलस्रवज्जलवर्षशान्तिमभिलक्ष्य कुत्रचित् ॥४४॥
प्रणिपत्य तत्र पुरुषं पुरातनं लसितं स सुन्दरवराभिधं हरिम् ।
निरगादनन्तशयनं ततो गुरुः प्रणिपत्य तं च समगाजनार्दनम् ॥४५॥
अधिताम्रपणि स निमज्ज्य तत्तटे लसिताः प्रणम्य नवदेवताः पराः ।
कृतमालिका सरिदलंकृतामगान्मधुराभिधां मधुरवाङ्महापुरीम् ॥४६॥
तददीशसंसदि विजित्य पण्डितान् बहुमानितो यतिवरो महीभृता ।
अभिवन्द्य सुन्दरवरं हरं शनैरथ रङ्गवल्लभमुपेयिवानयम् ॥ ४७ ॥
तत्र श्रीरङ्गनाथं तरुणतरणिऋग्वेदरूपे विमाने
कावेरीवारिपूरप्रसमरपवनानन्दितानन्तभोगे ।
वन्धं देवैश्शवानं द्रुहिणभवमुखैरिष्टदं राघवेन्द्रः
सानन्दं तं प्रणम्य प्रकटितविभवं तां निशामत्यनैषीत् ।
॥४८॥
४४ श्रीमद्राघवेन्द्रविजयः श्रीमत्कश्यपवंशवार्धिशशिनः षड्दर्शनीवल्लभ- श्रीलक्ष्मीनरसिंहवित्तविदुषः श्रीवेङ्कटाम्बामणौं । जातेनार्यदयासुधामयगिरा नारायणेनोदिते काव्ये चारुणि राघवेन्द्रविजये सर्गोऽभवत्सप्तमः ॥ ४९ ॥ इति सप्तमस्सर्गः
(7)
अष्टमस्सर्गः
अथ अष्ठमस्सर्गः
॥ १ ॥
॥ २ ॥
॥ ३ ॥
॥ श्रीगुरुभ्यो नमः हरिः ॐ ॥
श्रीशपादसरसीरुहभृङ्गो मध्वमौनिमतसिन्धुमृगाङ्कः ।
मानपद्धतिमुखं मतमाख्याच्चन्द्रिकान्तमसकृञ्चतुरोसौ
प्राप्य रङ्गपरिणेतुरनुज्ञां तन्नियुक्तसकलर्तुसहायः ।
तत्कृपाकवचमात्मनि कुर्वन्नुत्तरां दिशमगाद्गुरुतेजाः
नामपर्वतमुपेत्य नृसिंहं नामसंस्मृतिधुताघजनौघम् ।
तं प्रणम्य तरुणार्कसमाभं तां निशामिह गुरुवसति स्म
सोथ भल्लपुरि भैरवभट्टो वीरभद्र इति विश्रुतविद्वान् ।
नर्मणैव परिभूय नरेन्द्राहामरत्नमचिरात्समगृह्णात्
विष्णुमङ्गलपुरे विलसन्तं देवमीक्ष्य विपुलश्रियमस्मात् ।
संवृतः परिजनैः स कुमारक्षेत्रमेत्य नमति स्म कुमारम्
श्वित्रिणोपि यदुपेत्य विमुक्तास्सद्य एव निजपातकसंघात् ।
सर्वसंपदभिवृद्धिकरोस्मिन्वासरान् कतिपयान्वसति स्म
रौप्यपीठपुरगं रुचिराङ्गं रुक्मिणीपतिमपश्यदुदारात् ।
पूर्णबोधगुरुभिः सकलज्ञैः सन्निधापितमघौघविदूरम्
चन्द्रिका विवरणं समतानीत्संचरन्नपि स पुण्यमहीषु ।
वेत्ति वर्णनिचयं समयानां संख्यया सह धियैष सहाथैः
॥ ४ ॥
॥ ८ ॥
चन्द्रिकाप्रवचनं दशकृत्वः सोकृतातिशयमात्मनि वाञ्छन् ।
पूर्णमास इव कर्मणि भूयोभ्यासमभ्यधिकतत्फलकाङ्क्षीः ॥९॥
४६
श्रीमद्राघवेन्द्र विजयः
सूत्रपात्ररुचिरं कलितर्धि न्यायपूर्वकसुधाज्यभरेण ।
तन्त्रदीपमनुबोधयदर्थ भाष्यवार्तिकमयं तनुते स्म
॥ १०॥
ब्रह्मसूत्रगणकाञ्चनसूत्रां कण्ठभूषणमशेषवुधानां ।
बुद्धिशाणपरिशाणविदीप्तां न्यायमौक्तिकततीमतनिष्ट
॥ ११ ॥
चन्द्रिका विवरणं न समाप्तं यावदेतदुभयं विरचय्य ।
न्यायगर्भनयवन्नयशाली तत्समापयदनन्तरमार्यः ॥ १२ ॥
भाव्यसंशयमहो गुरुवंशे दर्शनश्रुतिपरस्सुमतीन्द्रः ।
तस्य सार्थकमिदं सकलं स्यादित्यवेत्य कृतवान् कृतिसार्थम् ॥१३॥
राघवेन्द्रयतिराडसमानरुत्सवैर्बहुविधैरुचितज्ञः ।
कारितै ऋतुषु षट्स्वपि शिष्यैर्लोकमण्डलमनन्दयदेषः ॥ १४ ॥
श्रीरामदेवस्य महोत्सवे हरिं विलोक्य तं सेवितुमादरादिव ।
मनोज्ञमाकन्दमरन्दधारया कृताभिषेकः सुरभिः समाययौ ॥ १५ ॥
मधुस्तदा मन्मथसार्वभौमे विनिर्गते मानभृतां जयाय ।
प्रसूनमाध्वीकणसेकतोसावरण्यवीथीरकरोदपांसूः ॥ १६ ॥
शनैःशनैश्चन्दनभूधराच्यान्मरकुमारास्तरुपल्लवेषु ।
विन्यस्य पादं कुसुमैः सहासैः सचक्रमोभूमरप्रणादः ॥ १७ ॥
वल्लरीषु मलयाचलानिलस्पन्दितासु परपुष्टभामिनी ।
कामदिग्विजयकाहलनादभ्रान्तिदं निनदमातनुते स्म ॥ १८ ॥
मल्लिकासुमसमुत्थरजोभिर्वल्लिकाभिरभितः कृतभूषः ।
मारनीरशरधिर्मधुमासः प्रादुरास पथिकासु दुरासः
॥ १९ ॥
अष्ठमस्सर्गः
आगतो जनिमधुर्मधुरश्रीर्मानमत्र ननु मन्दसमीरः ।
हन्त पान्थजन न त्यज कान्तामित्यघुष्यदधिकं कलकण्ठः ॥ २० ॥
चञ्चलद्युतिसमद्युतिचञ्चत्पल्लवावलिपरीतजनेषु ।
स्यन्दमानमधुवर्षिषु कामं वर्षवासरमहान्यनुचक्रुः ॥ २१ ॥
मारुताभिमुखषट्पदमण्डल्याकृतिस्मृतिभवापथिकेषु ।
अन्तकं मुधतयादिदीशे किं कुण्डलीकृतिरहो कुटिलेन ॥ २२ ॥
पुष्पपल्लवमुखेन महान्तं पर्युपास्त समयः पुरुषं यत् ।
माधवश्रियमगान्महनीयामप्रियामयमयोगिजनस्य ॥ २३ ॥
शाखिनः किसललोहितमौलिप्रावृति विरचयन्नृतुपुंसः ।
बाणमेव मदनोकृतबर्हिर्यष्टुमध्वगवधाय वनेषु ॥ २४ ॥
शातकुम्भमयकुम्भकुचानामनिपातमतिदुर्लभमेत्य ।
संमदेन सहसा किमशोकः कुड्मलैरभवदुत्पुलकाङ्गः ॥ २५ ॥
स्वीकृतं विदधिरे सुमनोभिः स्वाविसेवनमशोकमनङ्गम् ।
धार्मिकं च सुदृशः सततं तौ हन्त पान्थजनहन्तृपदे स्तः ॥ २६ ॥
॥ २७ ॥
पुष्पितस्य बकुलस्य समन्तादुद्गतास्सुमनसः सुमनोभिः ।
अङ्गनास्य मधुनाध्वगयूनामापदागमनमत्र शशंसुः
रामचन्द्रमथ रामनवम्यामिष्टदैवममृतरुपकलुप्तः ।
पञ्चभिः परमराघवयोगी भक्तिपूर्वमभिषिञ्चति तत्र
मल्लिकायुवतियौवनधाता मन्मथप्रभुपरीभवदाता ।
काननज्वलनबालकमातावासरोजनि सरोजलपाता
॥ २८॥
॥ २९ ॥
४८
श्रीमद्राघवेन्द्रविजयः
जृम्भिते च मिहिरे भुवि शैत्यं कूपमाप तरुणीकुचदुर्गम् ।
किंचिदन्यदिनसंधिमवाप्तुं छायया सह परं चरति स्म ॥ ३० ॥
तापयत्यतितरां तरणियल्लोकबन्धुरिति नाम कथं स्यात् ।
तत्सखस्य शुचिता शुचिमासश्चतका भुवि विचुक्रुशुरित्थम् ॥ ३१ ॥
छायया सह दिवैव करायैः शम्बराम्बरहरेम्बररत्ने ।
ज्येष्ठपूर्वमभियायिनि नूनं कोपताम्रनयना नलिनीति ॥ ३२ ॥
भाविशेषणमवेत्य दुरन्तं पद्मसायकहिताय पयांसि ।
कामिनीकुचतटेषु वसन्तो विन्यधत्त यदिमावतिशीतौ ॥ ३३ ॥
वारिनर्मपरियौवतवक्षोजातसङ्गमवशात्सरसीनाम् ।
शैत्यमाप परितप्तजडानां किं न यच्छति सुवृत्तसमाजः ॥ ३४ ॥
वैरिचन्द्रगुणपक्कणभीत्या चक्रवाकमिथुनं परिशुष्यत् ।
आतपत्रविलसदिवसेभ्यः पारितोषिकमदात्परिणाहम् ॥ ३५ ॥
सामवर्तिहरितं ससुतेति प्राप्य तां हृतवसुर्दिशयार्कः ।
दूरतः परिहरन्नथ पश्चात्तापतः प्रतिययौ धनदाशाम् ॥ ३६॥
तत्र तत्रभवतायतिनेत्रा राघवेन्द्रगुरुणा क्रियतेन्यैः ।
फुल्लतल्लजसरोजसरस्यां जानकीपरिवृढप्लवकेली ॥ ३७॥
पूर्णरोचिषि तुषारमधीचौ भानुमालिनि गतेम्बरमध्यम् ।
योयमारभत कर्म हि चातुर्मास्यनाम रचयन् हरिपूजां ॥ ३८ ॥
तद्गतैरनुदिनं क्रियमाणेष्वेकवासरकृतं विभवं यः ।
कश्चिदाह यदि हन्त निवृत्तिं ब्राह्मणः श्रुतिततिं स लभेत ॥ ३९ ॥
अष्ठमस्सर्गः
वारिदावलितिरोहितमित्रं मानसाभिमुखपाण्डुरपत्रम् ।
नृत्यदद्रितनयासुतपत्रं दीव्यति स्म दिनमङ्गजमित्रम्
॥४४ ॥
प्रावृडिन्दुसहजां परिणेतुः शब्दमण्डलसमाश्रयशौरेः ।
कुङ्कुमाक्तमचिरादुपवीतं पाकशासनशरासमिषाभात् ॥ ४१ ॥
पीतपुष्करकलापपयोभ्यो निर्गतैरिव जलैर्जलदेभ्यः ।
पद्मरागमणिविद्रुमभज्ञैरिन्द्रगोपनिकरैः स्थगिता भूः ॥ ४२ ॥
इन्द्रनीलकुलनीलधनालीमध्यवृत्तिचपलेव चकाशे ।
प्रावृडब्जनयना चिकुराली यल्लकोल्लसितकुङ्कुमरेखा ॥४३॥
कुम्भसम्भवगुरोरुपदेशं प्राप्तकाम इव दक्षिणदेशम् ।
जृम्भमाणजलधौ जलपाने वारिवाहनिवहो विशति स्म
पाकवैरिवनसिन्धुतरङ्गा कृष्टरूढतरुमूलकलापा ।
व्योम्नि विद्युदिव काञ्चनवल्ली काममभ्रमरिता निपतन्ती ॥ ४५ ॥
व्योन्नि सान्द्रतखारिदवृन्दे विद्युतासु विततासु समन्तात् ।
फुल्लमीलितपयोरुहपङ्क्त्या पुष्पवत्समुदयावनुमेयौ ॥ ४६॥
निर्गतानि दिवि सूर्यविभिन्नग्रीष्मवासरमदावलकुम्भात् ।
नौक्तिकानि सह मस्तकमांसैः सेन्द्रगोपकरका अनुचक्रुः
दुग्धवारिधिपयस्यधिवर्ष शाझिणि स्वपति शेषशरीरे ।
मीलनान्नयनयोस्तनुलक्ष्म्यौ मेघपूर्णगगने घुमणीन्दू
स्वामिनिक्षतवसौ दिननाथे यत्पुराजनि दिनेष्वतिकार्यम् ।
तद्विमर्शमधिगम्य दिनानामद्य हृद्ययतवासरवृद्धिः ॥ ४९ ॥
:
॥४७॥
॥ ४८॥
श्रीमद्राघवेन्द्रविजयः
स्वप्रियां जलजनीं परिभूय प्रोर्मयत्तुहिनहन्तृदिनेभ्यः ।
तादृशी दिनकरे दिनवृद्धिर्या निशाक्षयविधावपि दक्षा
॥ ५१ ॥
पूर्णिमाहनि सपूषणि मध्ये पुष्करं लसति पुष्करनेत्रम् ।
पूजयन्यतिवरैरिह चातुर्मास्यनामनियमं विदधाति
दुर्दिने हरिकटाक्षविहीने पङ्किले च समये समतीते ।
संप्रबुद्धहरिवीक्षणगोभूद्रासरोथ विशदीभवदाशः
॥ ५२ ॥
मल्लिकाक्षनिवहेषु मनोज्ञेप्वम्बुजेषु मुंदिरेषु शरेषु ।
तत्रतत्र विशदं महिमानं दर्शयन् विहरति स्म स कालः ॥ ५३ ॥
दिग्जयोन्मुखनृपव्रजकीर्त्या गर्भिणीकृतशरदिनलक्ष्म्याः ।
व्यक्तकीरततिरोमलतायाः पाण्डिमाजनि पयोधरदृश्यः ॥ ५४ ॥
वीक्ष्य संयमिवरस्य पयोदा दानकेलिमतुलां धनलक्ष्याः ।
हन्त वर्षविमुखाः समभूवन् पाण्डुरा भृशकृशाश्च शुचैव ॥ ५५ ॥
आत्मनोभिमुखमागतमेनं वीक्ष्य संयमिवरं धनदाशाम् ।
हर्षितो नु विचचार तदने हंसपालिरिव वारिदपुञ्जः ॥५६॥
वारिदागमयुगान्तविरामे नैकरूपसरसीमिषशौरेः ।
नाभिपद्मनिवहा इव पद्मा व्यञ्जयन्त्यलिविधि विलसन्तः ॥ ५७ ॥
उत्थितस्य सरसीरुहनाभेश्चन्द्रसूर्यनयनस्य तदानीम् ।
शंसतः स नलिनीरजनीशौ संप्रबोधमधिकं विलसन्तो
।। ५८ ॥
प्रावृडागमयुगान्तसमुद्यद्वारिवाहजलधौ विनिवृत्ते ।
सौकतोत्कर इव क्षणदायाश्चन्द्रिका बुधजनैरुदलेखि ॥ ५९॥
अष्टमस्सर्गः
काम्यकर्मचयभञ्जनहेतृभूतदर्शनमिमं यमिधुर्यम् ।
वीक्ष्य बिभ्यदिव तत्फलभूतं शालिवृन्दमभवद्भयनम्रम्
प्राबृडाहितजलाक्रमभङ्गां सस्थमञ्जरिविभूषितगात्रीम् ।
मातरं क्षितिमवेक्ष्य वनाली पक्कदाडिम फलेन जहास
॥६१ ॥
मातुलंगलतिकामिह चूते स्प्रष्टुमुद्यतिफलस्तनमध्ये ।
मोहिते च मरुता वनराजिः पक्कदाडिमफलेन जहास
॥ ६२ ॥
भानुमालिनि गतेथ तुलायां रामनाथपुरमेत्य चिराय ।
सह्यभूधरसुतासलिलेस्मिन्मज्जनेन मुदितोभवदेपः
मानिनीजनविमोहनचूर्णैः सारसेषु नृपसैन्यरजोभिः ।
व्योममण्डपकमौक्तिकगुच्छराविरास समयो हिमपूरैः
पद्मिनीमनवलोक्य पतङ्गो मन्ददीधितिरिहास हिमोधैः ।
रव्यदर्शनवशादिव शोकादब्जिनी च तुहिनैः किमु लीना ॥ ६५ ।।
उष्णरश्मिरधिकं हिमभीतो हव्यवाहदिशमिच्छति गन्तुम् ।
अग्निरस्त्युत न वेति विवेक्तुं प्रागयादिव समीरणचारः ॥ ६६ ।।
पाण्डुरङ्गपुरविठ्ठलमीक्ष्य प्रस्थितः स करवीरपुराख्यम् ।
पत्तनं विरचयन्हरिपूजां तत्र वासमकरोच्चिरकालम्
॥ ६७ ॥
गौतमाघपरिहारिणि तोये स्नानकर्म विरचय्य स विद्वान् ।
पूजितः प्रतिपदं प्रतिधीरैः प्राविशत्किल पुरीं विजयाख्याम् ॥ ६८ ॥
मुद्रयारिदरयोर्मिलितान्योरङ्कितानकृत शिष्यसमूहान् ।
वादिनोपि परिभूय विशिष्य श्वेतमातपनिवारणमामोत् ॥ ६९ ॥
श्रीमद्राघवेन्द्रविजयः स्नातवानथ बुधैः सह कृष्णानिम्नगापयसि निर्जितमारः । तत्तटे जयगुरूदितटीकां व्याकृतापि यतिराडणुभाष्यं ॥ ७० ॥ तत्रतत्र विरचय्य स वासं पुण्यभूषु पुरुषोत्तमभक्तः । श्रीमहीधर मुपेत्य च तुझं वेङ्कटेशमवलोकितुमागात् ।। ७१ ॥ नत्वा देवं वेङ्कटेशं यतीन्द्रः कृत्वा वासं वासरान्कांश्चिदत्र । काञ्चीमागात्काञ्चनागाररम्यां नत्वा विष्णु चानमत्पार्वतीशम् ॥ ७२ ॥ शोणाद्रिमासाद्य निषेव्य शम्भु वृद्धाचलं प्राप्य विलोक्य रुद्रम् । श्रीमुष्णमभ्येत्य वराहरूपं विष्णुं प्रणम्यष नुतिं व्यतानीत् ॥ ७३ ॥ कृत्वा दिग्विजयमुपागतस्य दूरे कावेरीशिशिरजलावलोकमात्रात् । यत्सौख्यं समजनि तत्सुखं मुरारेः प्रायः स्यादिति यदि का कथेतरेषाम् ॥ ७४ ॥ श्रीकुम्भघोणनगरीं प्रविशत्युदारां रामार्चयोरुतपसैव कृशे यतीन्द्रे । मन्ये कथं नु जनतामहितामयोध्या रामेण तेन भरतेन कृतप्रवेशाम् ।। प्रहृष्टेन चित्तेन मध्येप्रतोल्यां महाधीविलासेन तात्कालिकेन । भुजङ्गप्रयातेन भूदेववन्धो हनुमन्तमित्थं प्रणोति स्म देवम् ।। ७६ ।। वायश्चित्रैः शङ्खभेरीमृदङ्गैः फुल्लैः पुप्पैर्विविध- मनुजैः कीर्यमाणैः समन्तात् । वीथ्यांवीथ्यां युवतिकरगारार्तिके राघवेन्द्रो रामे पूर्व प्रविशति मठं प्राविशत्संपदाढ्यम् (8) अष्ठमस्सर्गः श्रीमत्कश्यपवंशवार्धिशशिनः षड्दर्शनीवल्लभ- श्रीलक्ष्मीनरसिंहवित्तविदुषः श्रीवेङ्कटाम्बामणौं । जातेनार्यदयासुधामयगिरा नारायणेनोदिते काव्ये चारुणि राघवेन्द्रविजये सर्गो जयत्यष्टमः इति अष्टमस्सर्गः
श्रीमद्राघवेन्द्रविजयः
अथ नवमस्सर्गः
॥ श्रीगुरुभ्यो नमः हरिः ॐ ॥
मागधा मधुभिदङ्ग्रिपङ्कजे जागरूकमपि संयमीश्वरम् ।
बोधयन्ति वचनैर्बुधोत्तमं काव्यवर्णनविधौ कृतादरैः
मङ्गलानि कुरु पद्मसोदरैः संयमीन्द्र जगदादृगञ्चलैः ।
पश्य दृश्यविभवं दिनागमं दिक्षुदिक्षु मुखरीकृतागमम्
पाकशासनपुरे गुरूदितैर्हन्त वेदवचनैरपाकृते ।
अन्धकारदुरपह्नवगेहे शक्रदिङ्मुखमिदं प्रसीदति
॥ २ ॥
॥ ३ ॥
शातमन्यवदिशा निजेश्वरे भानुमालिनि समागमोन्मुखे ।
पूर्वमेव वितनोति पाण्डिमक्षौमनिर्मलवितानमम्बरे ॥ ४ ॥
अन्धकारभरवारणबजे काल्यकेसरिविदीर्णमस्तके ।
शोणितीघ इव शक्रदिङ्मुखे शोणिमा लसति तारमौक्तिकैः ॥ ५ ॥
व्योमरामपरिभाविशावरव्याजपन्नगमयास्त्रसन्ततेः ।
भञ्जनाय पुरतोरुणानुजः प्रादुरस्त्युदयरागकैतवात् ॥६॥
व्योमदम्भमधुगोलसंचरद्वातसंघसरघा निराकृतिम् ।
आतनोति समयः पुरा दिशा शोणिमाग्निशिखया विदीप्तया ॥ ७ ॥
॥ ८ ॥
व्योमनामभृति कुम्भसंभवे वारिधिं पिबति शार्वराभिधम् ।
औषसारुणिमदम्भतः शनैः पद्मरागनिकरो विज़म्भत्
अम्बरस्य तिमिरालिनीलिकानीलितस्य हरिदिङ्मुखाञ्चले ।
काल्यरक्तिमनिभेन काञ्चनीरेखिकातिरुचिरा विराजते
॥ ९ ॥
नवमस्सर्गः
काल्यमल्लवर एष शार्वरद्वेषिमल्लमभिहन्तमुद्यतः ।
क्षिप्तरक्तिमरजा विदर्शयत्यर्कबिम्बनिभमुष्टिमग्रतः
॥ १० ॥
उद्विविक्षुहृदयो निशाल्वयः प्राग्दिशं तदुपकण्ठमादधे ।
काल्यरागमयमादिभूषणं भानुबिम्बमणिरञ्जितान्तरम्
॥ ११ ॥
हन्त शक्रहरिता दिनागमे यावकारुणपदाभिताडनात् ।
छायया सह समागमासहात्पाटलोजनि पयोजनिशिता
॥ १२ ॥
प्रातरम्बुनि निमज्ज नीरधेरुत्थितो हरिदिशा निजालिके ।
अर्कमण्डलमिषेण वासरः शोणिमाक्षतललाम संदधे
अन्धकारयवनीमपाकृतामारचय्य दिवसेन्दिरा नटी ।
व्योमरङ्गमभजत्प्रभाञ्चितं कुर्वती खगरवेण शिञ्जितम् ॥ १४ ॥
अन्धकाररिपुभूमिमृद्गणं जेतुमुत्कमनसो विभावसोः ।
बन्दितो नु बिरुदालिवाचकाः प्राग्विशन्ति मुखरा विहङ्गमाः॥१५॥
विप्रयुक्तसखिहृन्मलिम्लुचे विद्रुते सति विधौ निशात्यये ।
पद्मिनी विगतसाध्वसा शनैः फुक्लमावहति पद्मलोचनम् ॥ १६ ॥
चक्रवाकमिथुनार्धरूपिणीं पूरयेति विहिता समस्यकाम् ।
मीलिताब्जनयना शुचिम्मिता पूरयत्यहह तां पयोजिनी ॥ १७ ॥
निद्रिते त्वयि पुरा द्विजाधिपे स्वैरमेव चरति स्म चन्द्रमाः ।
याति बोधमधुना द्विजाधिभूर्नाममात्रभूदुपैति साध्वसात् ॥ १८ ॥
चक्रवाकविरहामिधूम्यया शार्वरेण जगती निपीडिता ।
तन्निवृत्तिसुखिताधुना ततो मन्दमुच्छसति मारुतच्छलात् ॥ १९ ॥
श्रीमद्राघवेन्द्रविजयः
एवमादिमगोक्तिमाधुरीवारिपूरकृतसेचनादिव ।
बोधमेत्य यतिराट् समुत्थितो द्वीपिचर्ममयतल्पतल्लजात् ॥ २० ॥
द्वादशस्तुतिपुराणसंततीः श्रोतुमाननसमूहमेकदा ।
स्वं दशाधिकनवाननोदिशद्विश्वमूर्तिरिव चक्षुरागतः ॥ २१ ॥
आनतो भवदनन्तमग्रतः संयमीन्दुरवलोक्य सज्जनात् ।
आदरेण सुजनैः समर्पिताः श्रेयसे सततमा शिषोग्रहीत् ॥ २२ ॥
स प्रणम्य तुलसीवनस्थितामिन्दिरां तदनु तत्पदाश्रितम् ।
वायुनन्दनमवन्दतादरादिन्दिरेशकरुणैकमन्दिरम्
॥ २३ ॥
सोधिरुह्य शिबिकां गजेन्द्रमुक्त्युक्तिसंस्तुतिकृतादरः शनैः ।
स्नातुमभ्युपगतस्तरङ्गिणी दक्षिणापथनिलिम्पनिम्नगात् ॥ २४ ॥
तीरभूरुहसुमानि तज्जले संनिपत्य सुमनस्त्वमामुवन् ।
जातिमात्र इति तद्गताभवयाक्रियातदितरेप्वपि स्कुटम् ॥ २५ ॥
यां प्रवाललहरी मनोहरामुद्वहत्यधिवसन्तमम्बुधौ ।
तीरचम्पकसुमोत्करा लसन्त्युत्सवाय कृतदीपिका इव
॥ २६ ॥
शोषकेण मरुता कथं नु या वर्धिता च कथमित्यविस्मयः ।
सा यदुल्लसदनन्तरूपिणी याति रङ्गपतिशेषतां सदा ॥ २७ ॥
सह्यभूधरसरस्सरोजिनीसारसश्रितमरन्दसंततिम् ।
या बिभर्ति परथा रमेत किं तत्र रङ्गपतिभृङ्गतल्लजः
॥ २८ ॥
तत्तटोपवनसीम्नि वाहनात्सोवरुह्य यमिधुर्यचन्द्रमाः ।
क्षालयन् करपदं समृजलैर्दन्तपङ्क्तिपरिशोधनं व्यधात् ॥ २९ ॥
नवमस्सर्गः
५७
कल्पिताचमनमत्र सादरं स्नानकर्म कुरुते स्म शास्त्रतः ।
अष्टषद्विषडक्षरहरेमानितर्मनुवैरेलिया क्रमात्
॥ ३० ॥
जप्यसूक्तजपशुद्धवारिणा प्रोक्षयन्यतिवरः शिरो निजम् ।
स्नातवान्विहितमृद्विलेपनोऽनुच्छसंस्त्रिरघमर्षणं जपन् ॥ ३१ ॥
उच्चरन्प्रणवमुत्थितोसिचत् स्वात्मगं पुरुपसूक्ततो हरिम् ।
विष्णुपादसलिलं पिबन् सुरांस्तर्पितानकृत मन्त्रवारिभिः ॥ ३२ ॥
सालमल्लकमवस्तलोहिते वाससी तदनु संयमीश्वरः ।
ऊर्ध्वपुण्डूमतनिष्ट गोपिकाचन्दनेन सहपञ्चमुद्रिकम् ॥ ३३ ॥
अदानविधिमर्व्यवैभवः संविधाय हृदि वेदमातरम् ।
सादरं तदनु तारकं ततो मन्त्ररत्नमपि मौनतोजपत्
॥ ३४ ॥
तत्तटोपवनमेत्य पावनी: सोशृणोद् द्विजमुखात्कथा हरेः ।
आदिदैशिकसमर्चितोपलव्यासमूर्तिपरिपूजनोत्सुकः ॥ ३५ ॥
अभ्यपिञ्चदथ पङ्कजेक्षणं वारिमध्यकृतदुग्धधारया ।
संन्यवेदयदयं मनोहरं मौद्गमन्नमुरुधाधिकं नवम्
संप्रणम्य विनयीन्द्रयोगिनं तापसोपमवुधबजावृतः ।
सोविरुह्य मणिरम्यपादुके दैशिको मठमथ प्रतस्थिवान्
शङ्खदुन्दुभिमृदङ्गकाहलीम डिण्डिममुशृङ्गाजीरैः ।
चक्रवाद्यनिनदैश्च तज्जनाः पूरयन्ति पुरतोस्य दिङ्मुखम् ॥ ३८ ॥
पावयन्नथ महीं पदेपदे पार्वतीशमभिवन्ध पद्धतौ ।
प्राविशत्ससुर विष्टपागमो मूर्तिमानिव मठं तथागमः ॥ ३९ ॥
५८
श्रीमद्राघवेन्द्रविजयः
॥ ४० ॥
शान्तिवाचनपुरस्सरं वरं भाष्यमेव स विशिष्य संसदि ।
व्याकरोति विदुषां निराकरोत्यन्धदर्शनकुयुक्तिसंहतिम्
ब्रह्म सद्गुणमदोषमीक्षितं गम्यमाहुरिव लक्षणैः क्रमात ।
सूत्रभाष्य इति तेन भापिते तत्र कश्चन सुधीरचोदयत् ॥ ४१ ॥
नित्यवाग विषयस्य सर्वथारम्भणं न विषयस्य युज्यते ।
नामधेयमिह यजडं मृषा जातमर्थरहितं स्वचिन्तनन्
॥ ४२ ॥
नात्मतत्त्वमपि तत्र नापरश्चेष्टितादिबहुलिङ्गसिद्धितः ।
जीवभिन्नपरमोप्यमानको न स्वयं च यदहंधिया यतः
॥ ४३ ॥
किंच किं फलममुष्य वेदने कर्मणैव भवति स्वरादिकम् ।
नापि मुक्तिरधु व तद्विदां दृश्यते न यदसावपि कचित् ॥ ४४ ॥
अत्र कश्चिदमुमभ्यचोदयच्छुद्धमस्य विषयं स्वमानसम् ।
शुद्धवेदनफलं वदन्न चेद्वन्धमङ्ग इति किं ततो वद ॥ ४५ ॥
॥ ४६॥
इत्युदीरितगिरातिरोषितस्यद्वचः प्रतिवचोन्य आददे ।
यत्तु शुद्धमुदितं न मानसं तन्नयुक्तमिति हन्त चिन्त्यते
यन्न भाति जडजीवभेदनं कर्तृतादिविरहोऽद्वितीयता ।
एकतापि तदसारमात्मनोऽभिन्नमैतदिति चेदसंशयः
॥ ४७ ॥
अन्यदेतदिति नापि युक्तिमत्संमृषेति हि विकल्पनाक्षमम् ।
तत्स्वरूपमिति चेन्न भासते तत्र नैव तव युज्यते भ्रमः ॥ ४८ ॥
अत्र तद्भमनिरासनोत्सुकः सस्मितं सदयमब्रवीद्गुरुः ।
अस्ति किंचिदहमर्थतः परं विष्णुनाम गुणपूर्णम तम्
॥ ४९ ॥
नवमस्सर्गः
यद्विचारविषये निगद्यते ब्रह्मनाम परजीवभेदकम् ।
मुक्तिरेव फलमस्य वेदनात्प्रक्रमोस्य विषयादिमांस्ततः ॥ ५० ॥
एवमादिपरमात्मचिन्तनैरास्त संयमिवरोतिहर्पितः ।
तत्र सोनुभवलिप्सया दिवो मध्यसीमनि रविळलम्बत ॥ ५१ ॥
अस्ते ध्वान्ते समस्ते प्रतिभटसरणी गत्वरे प्रादुरासी-
च्छायारूपं तदेतच्छरणमुपगतं पादमूलं जनानाम् ।
हन्तामन्दप्रतापै रपि मम किरणैः शक्यते तन्न भेत्तुं
धिमामित्याकुलोर्कः प्रतपति कलयन्व्योममध्ये विलम्बम् ॥ ५२ ॥
वक्राम्भोजं विधत्ते मम सुहृदमिति प्राप्तरोषो विवस्वान्
म्लानं मीनेक्षणानां नयनयुगमयं कल्पयन्नुल्बणश्रीः ।
तच्छायाधारिणोस्मानपि तपति मुहुस्तं समाधेहि पाही-
त्यारादम्भोजिनीनां शकुलकुलमयादाकुलं पादमूलम् ॥ ५३ ॥
माध्यन्दिनस्तानकृते महान्तं मुनीन्द्रमित्थं किल कालशंसी ।
आगत्य मध्यन्दिनवानमस्मै न्यवेदयत्प्राप्तमहप्तचेताः ॥ ५४ ॥
व्याख्याय शिष्यनिवहाय चिराय सोय-
माम्नायमौलिवचनानि मनोहराणि ।
माध्याहिकानि विविधानि विधातुकामः
कर्माणि मन्दमुदतिष्ठदुदग्रकीर्तिः
निष्कुटविलसत्पुष्करवत्यां पुष्कलकीर्तिर्मस्करिधुर्यः ।
साधु निमज्ज्य सुधीजनमान्यो माधवमङ्गलगेहमयासीत् ॥ ५६ ॥
डम्भासोढा काममम्भोरुहाढ्यैरम्भःपूर्ण कुम्भमादौ समय॑ ।
आजह्यान्तर्मातृकादीनशेषान् देवान् देवैः पीठगैः पार्श्वगैश्च ॥५॥
६० श्रीमद्राघवेन्द्रविजयः शालिग्रामानन्बुजाक्षस्य मूर्ति मन्त्राम्भोभिः संयमीन्द्रोभिषिच्य । नव्यैः युप्पैरातनिष्टातिरम्यै रत्नरध्य रामचन्द्रस्य पूजाम् ॥ ५८ ॥ वाजिमेधयजिना विकल्पितं शङ्ख्वारि शिरसा स धारयन् । राजसूययजिनापि सम्मतं विष्णुपादसलिलं पिबत्यसो ॥ ५९ ॥ स्वत कवेरजापयोनघं हि किं पुनह रेः । पदं समाश्रितं चतुःपुमर्थदं भवेदिति ॥ ६० ॥ पश्चात्कृत्वा हरिपदनति संयमीन्द्रोथ भुक्तवा पुण्यं भैक्ष्यं तदनुरचयन् तर्कशब्दादिशास्त्रैः । विद्रूपैर्विविधनगरात्प्राप्तवद्भिर्विनोद ध्यायन्विष्णुं समयमनयत्सोयमासायमेवम् श्रीमत्कश्यपवंशवार्धिशशिनः षड्दर्शनीवल्लभ श्रीलक्ष्मीनरसिंहवित्तविदुषः श्रीवेङ्कटाम्बामणौं । जातेनार्यदयासुधमयगिरा नारायणेनोदिते काव्ये चारुणि राघवेन्द्रविजये सर्गोभवन्नावमः ॥ ६२ ॥ इति नबनस्सनः
१)
दशमस्सर्गः
१
अथ दशमस्सर्गः
॥ श्रीगुरुभ्यो नमः ॥ श्रीराघवेन्द्रगुरुभ्यो नमः ॥ हरिः ॐ
उत्तरामुखतया वलमाने सायमर्यमरथेऽभिसुमेरु ।
तन्मुखोल्लसितसारथिभासा पाटला स्फुरति पाशभृदाशा
सायमन्तिकचरन्मुनिपालीगीतसामनिनदेन शताङ्गे ।
विद्रुतारुणमणीजलसेकालोहितायति सरोरुहबन्धुः ॥ २ ॥
निधुताखिलतमा निजजन्मारभ्य विष्णुपदसेवनशीलः ।
स्वस्वरूपमगमत्परमाविर्भूतमेष मिहिरोरुणभावम्
रागिण स्वमवलोक्य निकामं रागिणां च विषमां गतिमीक्ष्य ।
वस्तुमापदपरागसमीपं मन्दमन्दमरविन्दकुटुम्बी
विप्लवं व्रजति कान्तिकलत्रे पद्मिनीमपरवारिधिजाताम् ।
उद्विविक्षुहृदयो हरिदश्वो याचितुं तमगमत्तटिनीशम्
सान्ध्यरागमयपावकदीप्तं लोकमीक्ष्य शकुनाभयमूढाः ।
प्राद्रवन् झडिति शावकवर्ग वीक्षितुं विहितभूरिनिनादाः ॥ ६॥
पग्निनी परिचिता सततं नः साबतात्मपतिना वियुतेति ।
सद्य एव वियुतानि बभूवुश्चक्रवाकपततां मिथुनानि ॥ ७॥
एकचक्रमवलम्व्य शताङ्गं बाधते विरहिणले मिहिरोसौ ।
इत्यवेत्य मदनः स्वयमाधादेकचक्रमयमाशु शताङ्गम् ॥ ८॥
अम्बराभिधहरिन्मणिपात्रे शङ्खविष्णुपदवारि दधानम् ।
हेमभाजनयुगं शशिभान्वोर्मण्डलद्वयमिदं कलयामः
॥९॥
श्रीमद्राघवेन्द्रविजयः
पूर्वभूमिधरगाधिसुतेन प्रेरित रविमयाब्जभवास्त्रम् ।
तहसत्यपरशैलवशिष्ट कोपवहिरिव सान्ध्यमरीचिः ॥ १० ॥
अम्बुजेप्वरयुतेषु वियोक्तुं सायशाणकषणेन सुतीक्ष्णम् ।
किं चकार निजकञ्जकलम्बं ताडगेव यदभून्मुकुलं तत् ॥ ११ ॥
वीक्ष्य पद्मविपिनेषु पुरा यत्केसरिश्रियमदुद्रवदारात् ।
तां विलोक्य शिथिलां पुनरागात्तत्तथैव तिमिरद्विपवृन्दम् ॥ १२ ॥
अर्चयन्मधुकरच्छलशालिग्राममेष समयाभिधयोगी ।
सायमम्बुजसमुद्गममध्ये सन्निधाय विदधेऽस्य च मुद्राम् ॥ १३ ॥
पद्मिनी पतिशुचा भ्रमरालीकङ्कणे निरसितुं कृतचेताः ।
अब्जपाणिमनिलेन विलोलं हन्त हन्त समकोचयदाशु ॥ १४ ॥
रश्मिजालमधिकं भुवनाब्धेः कालधीवरवरः परिकृष्य ।
पङ्कशैवललुठज्झषसंघ ध्वान्ततारनिभतो गगनेऽधात्
॥ १५॥
चन्द्रदीधितिनटी दिवसान्तः सादरं नटयितुं भुवनान्तः ।
संविकीर्य किमु तारसुमोघं ध्वान्तनीलयवनी पुरतोऽधात् ॥ १६ ॥
वर्षके सति तमिस्रजलौघं व्योमनामनि घनाघनसंघे ।
दीपिकास्तत इतो वलमानाः शक्रगोपनिकरा इव रेजुः
॥ १७ ॥
दग्धतामुपगतेषु मनोभूर्वह्निनायुगपदेषु निकामम् ।
भञ्जिते सति हि शार्वरधूमे रेजुरग्निकणिका इव दीपाः ॥ १८ ॥
भानुकार्तयुगधर्मविलोपाज्जृम्भिते जगति शार्वरपापे ।
अस्फुरस्तत इतः किल दीपा रक्षिता इव तपोङ्कुररेखाः ॥ १९ ॥
दशमस्सर्गः
कालनामनिजनाटकमध्ये दीपिकावलिनिभेन विधात्रा ।
उद्यदिन्दुमयदीपवरस्य प्रागतानि किमु सूचनभङ्गी
॥ २० ॥
चन्द्रिकापि यदि संघटिताशा ध्वान्तदीपततिसंगतिकाले ।
किं त्रिवेणिकथयास्ति कवीनां स्वल्पतोपि जहतां पुनरुक्तिम् ॥ २१ ॥
व्योमगुग्गुलुतरोधवला निर्यासपङ्किरिव तारकराजिः ।
शार्वरेभकषणा लुलिताः किं तत्कणा भुवि तमोमणिदम्भात् ॥२२॥
शर्वरीशशरदा परिमृष्टः शारिव्रजघनाघनसंघः ।
दृश्यते स्म शनकैधवलश्रीश्चन्द्रिकालहरिकामपदिश्य
॥ २३॥
॥ २४ ॥
कालकालवदनेन तमिः स्मश्रुलेन शरदेन च तारैः ।
अन्वरेण वियुजां ग्रसनार्थ सान्ध्यरागरसना प्रसृता नु
विप्रयुक्तसुदृशां विनयाथ ध्वान्तकल्पजलधावभिवृद्धे ।
बिम्बनश्रियमवापुरुडूनां ज्योतिरिङ्गणगणस्फुरणानि
॥ २५ ॥
मारकारुकृताधितमिस्रं गोलमब्धिनलिनीविरहानेः ।
ऊर्मिभस्रपवनैरतितप्तं शीतरश्म्युदयरागमिषेण
॥ २६ ॥
नियंतो भुवि निलिम्पतटिन्याः कौमुदीमिषपयःप्रकरस्य ।
मौक्तिकभ्रम इव प्रचकाशे पूर्वशैलशिखरे शशिबिम्बम् ॥ २७ ॥
॥ २८ ॥
पूर्वसिन्धुसलिलेन निषेक्तुं तारकाङ्कुरततिं ततरश्मि ।
इन्दुबिम्बपिटकं किमु दधे दक्षिणोत्तरहरित्परिणीभ्याम्
उत्क्षिपत्युदयरक्तिममौलिप्रावृति हरिदिशा हरिणाक्षी ।
मन्दमिन्दुवदनं किमुदञ्चत्याहता नटितुमम्बररङ्गे
॥ २९ ॥
श्रीमद्राघवेन्द्र विजयः
पान्थसंहृतिकृते कृतचेता यष्टमादितहविर्नवनीतम् ।
द्रौतमेष विपमेपुरुदन्वन्मौलि लविधुबिम्बनिभेन
॥ ३० ॥
चक्रवाकमिथुनच्छलनीरक्षीरयोरकृत हन्त विभागम् ।
व्योमनामसरसीकृत केलिः सायमेषसितरश्मिमराल:
॥ ३१ ॥
पूर्वभूमिधरवेदिगतोद्यद्रागवयुपरिरश्मिघृताक्ताम् ।
संपचन् विधुवपां समयोऽधाद्योजिताम्बरवपाश्रपणीकाम् ॥ ३२ ॥
अन्धकारनिभकल्पविरामे विप्लुतं जगदिदं विधुवेधाः ।
किं ससर्ज तदिदं यदमुष्मिन्नुद्यते सति परं विललास
संयमीन्द्रविविधोक्तिविलासं श्रोतुमुत्सुकमना दिवसान्ते ।
उन्ममज्ज जलविधुदम्भादर्शयन् फणगणान् फणिराजः ॥ ३४ ॥
रक्तयोरभिमुख स्थितिभाजोः पद्मिनीकुमुदिनीपरिणत्रोः ।
कः करोतु बत बिम्वविवेकं नापरत्र यदि लक्ष्मविलासः
॥ ३५ ॥
पूर्वशैलवृषभाचलदृश्यं देवतीर्थमधिगम्य सुधांशुम् ।
हृष्यतोस्य भुवनस्य न मोघं चन्द्रिकात्मसुकृतत्वमयासीत् ॥ ३६ ।।
विष्टपे विधुरुचा विदधाने क्षीरसागरनिमज्जनकेलिम् ।
पाठकर्म स समाप्य सरस्यां मनुमन्त उद्युक्त यतीन्द्रः ॥ ३७ ॥
स्नानकर्म विरचय्य वसानो वाससी त्रिपदया सवितारम् ।
वन्दते स्म तदनु त्रिदशेशं विष्णुमैहत समर्हितुमर्हम्
॥ ३८ ॥
दशमस्सर्गः
६५
अर्पयन्भगवते सुममाल्यं प्रीणयन् सपयसा च फलेन ।
हेमपात्रविलसद्ध सारारार्तिकेण कलयंस्तमहृप्यन्
मन्त्रपुष्पमधिमौलि दधानो यन्त्रितान्यविषयो रघुनेतुः ।
सादरं दरनिमीलतनेत्रः स्तोतुमारभत संयमिधुर्यः ॥ ४० ॥
वेदसिद्धमणुतोप्यणुभावं मोददायि महतोपि महत्त्वम् ।
बिभ्रतं प्रथयितुं मनवे त्वां मीनतां शरणयामि भवन्तम् ॥ ४१ ॥
वेदविप्लुतिकृति विधिजाड्यं हन्त हन्तुमदधाज्जलजन्म ।
मीनभावनभरेण ततो मे विस्तृणीहि विमलं प्रतिबोधम् ॥ ४२ ॥
आत्मनैव कमठेन वितन्वन्मन्दरेण च भवानरणी द्वे ।
मथ्नतोत्थितहलाहलवह्नि होतुमिन्द्ररिपुवृन्दहवींषि ॥ ४३ ॥
॥४४॥
आदिसूकरधरोद्धरणं ते सिन्धुबन्धुजठरात् श्रुतिगीतम् ।
मादृशां भवपयोधिगतानां रक्षणे परिचयं तदवैमः
पूर्णचन्द्रगतलक्षणरेखा लक्षिता यदि तदैककलायाम् ।
संश्रितेन्दुमणिदंष्ट्रधरं स्यात्सोपमा भवति सूकररूप
तावकं नरहरेऽतिविरुद्धं वेषधारणमिदं तनुते नः ।
अत्यसंघटितकर्म च कृत्वा पालये प्रणतमित्युपदेशम्
॥ ४५ ॥
दारितोदरहिरण्यकशत्रोरान्त्रमाल्यकलितं तव रूपम् ।
नारसिंह कलयेऽननुभूतं शारदं जलधरं सहशम्पम्
॥ ४७ ॥
जानतां निजमनः परमाणौ मातुमेव वलिनिग्रहदम्भात् ।
वामनं यदभवत्तव रूपं तत्सुखेन भगवन्हृदि कुर्मः
॥ ४८ ॥
श्रीमद्राघवेन्द्रविजयः
चन्द्रमा इव भुवो रचयन्नक्षत्रयोगमपि यत्त्वमलासीः ।
तेन शात्रवयशोम्बुजराजीमुद्रणं तव कृति बहु मन्ये ॥ ४९ ॥
तारणे दुरितनीरनिधेर्न: सेतुभावमचिरेण यियासोः ।
भासते तव विभो करुणायाः पूर्वरङ्ग इव दक्षिणसेतुः ॥ ५० ॥
बन्धनाय कृतमात्मजनन्या तादृशं च गुणमङ्गयकरोर्यत् ।
तेन निर्गुणमतानि निरस्यन्दर्शयस्यपि निजां गुणवत्ताम् ॥ ५१ ॥
सर्वदेवरथचेष्टनमङ्गीकुर्वतस्तव सदैव जगत्याम् ।
अर्जुनकरथसारथिभावो विस्मयाय विदुषां न कथंचित् ॥ ५२ ॥
त्वं कुचेलमुनिमीश कुचेलाद्यपणेन कृतवानकुचेलम् ।
सोभवत्तदपि चारुकुचेलालंकृतस्तदिदमद्भुतमासीत् ॥ ५३ ॥
एवमादिविविधैरवतारैः पालिताखिलजनौंघ ममाघम् ।
सन्निरस्य कमलास्य नमस्यां स्वीकुरुष्व रघुवंशवतंस ॥ ५४ ॥
इत्युदीर्य विनतोपि नयेन प्रार्थितस्तदनु संसदमागात् ।
सत्पथं विशदयन् समुदीतः पूर्वशैलमिव कैरवबन्धुः ॥ ५५ ॥
प्रांशुयन्मणिगवाक्षविनिर्ययोसरिजलवशात्समुपेत्य ।
अक्षमा इव लुठन्ति यतीन्दुच्छत्रचामरमिषेण मरालाः ॥ ५६ ॥
व्योमलङ्घनमदेन समुद्यन् यन्निरुद्धगतयो दिवि ताराः ।
तत्प्रभु शरणयन्ति यतीन्दं मौक्तिकासनगमौक्तिकदम्भात् ॥ ५७ ।।
नाद्भुतं श्रितवतां सततं यस्तम्भदुर्गुणलयो भवितेति ।
संनियच्छति निगृह्य समस्तं स्तम्भमप्यतिमहान्तमसौ यत् ॥ ५८ ॥
दशमस्सर्गः
संचरन् कचन यत्र दिदृक्षुश्चन्द्रकान्तमणिमण्टपतोधः ।
आदृतः शशिरुचा बत सिद्धः पर्वहास्यत परत्रगतेन
॥ ५९ ॥
संचरन् शिखिमुखोरगपीतस्वाश्रयानिललयात्सधनेषु ।
सम्पतत्सु पतितो भुवि सिद्धा विस्मयं दधति हन्त यदन्तः ॥६०॥
न त्यजन्ति मिहिरं तव यात्राङ्गारचर्वणचणा हि चकोराः ।
पक्षिभाषणकृते यदि नामावालिखिल्यनिगमाध्ययनानि ॥६१ ॥
तत्र चन्द्रमणिकुट्टिमसिन्धौ मौक्तिकासनमये भुजगेन्द्रे ।
राजते रघुपुरन्दरनामा पाटलाम्बरधरः परमात्मा
॥ ६२ ॥
केचन प्रतिपुरंदरमेनं पर्युपासत बुधाः प्रतिमान्तैः ।
कुर्वतेत्र पदपूर्वसमस्यापूरणं च कवयः पुरतोस्य
॥ ६३ ॥
श्रियः पतिः श्रीमति शासितुं जग-
निपीय यस्य क्षितिरक्षिणः कलाः ।
श्रियः कुरूणामधिपस्य पालनीः
श्रियः स दत्तांत्विह ते पुरःस्थितः
॥ ६४ ॥
सन्तं श्रीरमणं प्रियं यतिवरं व्यासस्य भावे भृशं
दुर्वारामितमायिभिक्षुतिमिरे पर्वस्थचन्द्रं भुवि ।
सत्संघस्तुतमिष्टदक्षितिरुहं वन्दारुविप्राश्रयं
तं नत्वा सकलो दुरूहसुदृशं संयाति विद्यादिकम्
॥ ६५ ॥
श्रीमद्राघवेन्द्रविजयः
श्रीमत्कश्यपवंशवार्धिशशिनः षड्दर्शनीवल्लभ
श्रीलक्ष्मीनरसिंहवित्तविदुषः श्रीवेङ्कटाम्बामणौं ।
जातेनार्यदयासुधमयगिरा नारायणेनोदिते
काव्ये चारुणि राघवेन्द्रविजये सर्गोन्तिमोभूदिह
॥ श्रीः ॥
इति दशमस्सर्गः
इति श्रीमद्विद्वत्कुलावतंस महाकवि श्रीमन्नारायणार्य विरचित
श्रीमद्राघवेन्द्रविजयः समप्तिमगमत्
॥ समाप्तोऽयं प्रन्थः ॥
श्रीमदस्मद्गुर्वन्तर्गतश्रीमद्राघवेन्द्रगुर्वन्तर्गतश्रीमद्भारतीरमणश्रीहनुमद्भीममध्वा-
त्मकमुख्यप्राणान्तर्गतः श्रीमूलरामचन्द्रः प्रीयताम् ॥
॥ श्रीकृष्णार्पणमस्तु ॥
॥ श्री: ॥ शुद्धाशुद्ध पत्रिका पत्रं पंक्तिः २० २ ६ १४ ५ २ १ शुद्धम् वाणीपाणि महोमुषे यशोजुषे नित्यानि शिला रुदधिः वाचा खेलविप परथा द्वाररुपेत लाल्यमान वर्य इंहिता परथाऽपत्य सुतोसहायः चित्रं देप्यतस्स्याहमने वदावदाबलाना १० १ १३ १ । अशुद्धम् चाणी पाणि महोजुषे यशोमुषे नित्यापि शिला- रुदधीः वाच खेलहिप परता द्विरैरुपेत लाल्यमानः वर्ण दयिता पाथापत्य सुतोऽसहायः चक्रं देप्यतोऽस्य वमन- वदावदावलीनां लक्तकेन सहसाऽप्राप्त विराजितातननाज मानसन् वृद्धि द्भवत् जामन: सुरोनध्ययने गुरुणान्य बिंबाप्रलसत् वचोऽधिदेव्यां नैजसात्मनो करयंधात् १ ८ १५ २० १ - " १३ सहसाऽपास्त विराजिताननाब्ज ३ १३ १९ ९ १३ १६ ३ " २० मानस बुद्धि द्भवम् जन्मनः सुरोऽनध्ययने गुरुणाऽन्य बिंबाप्रगलत् वचोधिदेव्याः तैजसात्मनो करौव्यधात् " १ १२ २२ " १६ पत्र पंक्तिः २३ ३ ६ ११ " २ ३१ ३२ ९ १६ १८ ३४ or r mv ३५ a w au w अशुद्धम् मसृजत समेनराम्ते पृथ्वीदेशा किंचतो स्वन्प: ॐकारशं मत्यरत चशक्य धीशानना मध्व मेकादशं चाभिदाम् स्वलेखिले कृतेः गुरुतेजाः कांक्षी कलितधि श्वतका तखारिदवृन्दे प्रोर्म ध्द्वातसन्ध विजृभत् निशिता शुद्धम् मसूजन समेतराम्ते पृथ्वीदेवा किंचातो स्वामः ॐकाराचं मत्यरत नशक्य धीशानानना मवा मेकादशं অালিঘাম स्वलेऽग्विले कृते दुरुतेजाः काक्षी कलितधि चातका तरवारिदवृन्दे प्रेम ध्वान्तसन्च विāभते नीशिता ३९ १२ ४० : .. ४५ १ १५ ६ १४ 9 ५६ १० सज्जनात् निम्नगात् नुच्छसं ग्यतः मैतदिति पूर्णमतम् डम्भासोढा भङ्गी मनतोत्थित रचयन्नक्षत्र पतितो प्रतिमान्तः सज्जनान् निम्नगाम् नुच्छ्वसं मितः मेतदिति पूर्णमद्भुतम् डम्भासेढः १६ २९ २ १ मनताकृत विरचन्नक्षत्र पतिता निगमान्तः - ६७ .
No text on this page.
1-0-0 . 0- 8-0 1 . 0-12-0 2. 8-0 00 Our Publications ! 1. Madhva's Tattva Vada 2. Bramhasutra Nyaya Sangraha 3. Saiva Sarvasva Khandanam 4. Bheda Vidya Vilasa 6. Sanatana Dharma Pradipa 6. Dwaita Pradipa 7. Kamalesha Kirtana Manjari 8. Sattatva Ratnavali 9. Upasamhara Vijaya 10. Ramacharitra Manjari 11. Sri Raghavendra Vijaya 12. Dashavatara Stavana 1- 1.0 1-80 3- 0-0 16-00 2- 8.0 0-120 1.00 0- 4.0 .. Our Next Publications 1. PARA TATTVA PRAKASHIKA (By Sri Vijayindra Tirtha) 2. BHATTA SANGRAHA (By Sri Raghavendra Tirtha) 3. SRI KRISHNA CHARITRA MANJARI (By Sri Raghavendra Tirtha) Sri Parimala Publishing House, NANJANGUD. Parimala Press Mysore.
No text on this page.
No text on this page.