Svclrc

The Kavyalankara Sangraha Of Udaha Bhatta

Mangesh Ramakrishna Telang · 14/11/2002

PDF Proofread

Front matter

THE
KAVYALANKARA SANGRAHA
BY
UDBHATA BHATTA
with the commentary
OF
PRATIHÂRENDURÂJA
EDITED BY
---
MANGESH RÂMKRISHNA TELANG
PUBLISHED BY
TUKÂRÂM JAVAJÎ,
PROPRIETOR OF THE
NIRNAYA-SAGAR" Press,
Bombxy:
1915.
Price 10 Annas.

S.V.0. College
Library.
TIRUPATI.
* 24. No. 32622
( All rights reserved by the publisher.)
Publisher:-Tukaram Javaji,
the Nirnaya-sagar Press,
Printer:
-Ramchandra Yesu Shedge, 23, Kolbhat Lane, Bombay,
32172

काव्यालङ्कारसंग्रहः। श्रीमदुद्भटभट्टप्रणीतः। श्रीमत्प्रतीहारेन्दुराजविरचितया काव्यालङ्कारसार- लघुवृत्त्या समेतः। अयं मङ्गेश रामकृष्ण तेलङ्ग इत्येतेः संस्कृतः। मुम्बय्यां तुकाराम जावजी इत्येतैः खीये निर्णयसागराख्यमुद्रणयन्त्रेऽङ्कयित्वा प्रकाशितः । शके १८३७ सन १९१५. मूल्यम् १० आणकाः।

प्रस्तावना। सिन्भरतखण्डे खल्वद्यावधि बहवः संस्कृतग्रन्थाः संशोध्य मुद्रणद्वारा श्यं नीतास्तत्र तत्र पण्डितप्रकाण्डैः । तथापि कतिचन प्राचीनाः प्रबन्धाः नार्हा अपि पुस्तककोशेष्वेव निलीना वर्तन्ते । तेषामन्यतमोऽयं काव्यालङ्कार- ख्यः प्रबन्धो योऽद्य महता प्रयत्नेन सहृदयहृदयविनोदाय प्रकाश्यते । स्य काव्यालङ्कारसङ्ग्रहग्रन्थस्य प्रणेता उद्भटभट्टः । उद्भटभट्टस्य भट्टोद्धट- चार्यः इत्यपि नामोल्लेखो ग्रन्थान्तरेषु दृश्यते । उद्भटभट्टः कश्मीरेषु जयापीडः सभापतिरासीदिति कल्हणविरचितराजतरङ्गिणीग्रन्थादवंगम्यते । जयापीड- राज्यकालस्तु ख्रिस्त ७७९ वर्षमारभ्य ८१३ वर्षपर्यन्तमासीदिति ज्ञायते । तत्सभापतेरुद्भटभट्टस्यापि जीवितसमयः स एवेति विदुषां निर्णयः। द्भटाचार्येण कुमारसंभवाख्यं काव्यं तथा भामहकृतालङ्कारग्रन्थस्य विवरणं च तमासीदिति ज्ञायते । अत्र प्रमाणं तु अस्यां लघुवृत्तौ "अनेन ग्रन्थकृता रचितकुमारसंभवैकदेशोऽत्र उदाहरणत्वेनोपन्यस्तः” पृ० १५ इति "विशे- लक्षणे च भामहविवरणे भट्टोद्भटेन एकदेशशब्द एवं व्याख्यातः" १३ इति च प्रतीहारेन्दुराजयोक्तिः । काव्यालङ्कारसारलघुवृत्तेः प्रणेता श्रीप्रतीहारेन्दुराजस्तु कोङ्कणदेशवास्तव्यः रषु मीमांसाव्याकरणतर्कसाहित्यशास्त्रपारंगतभट्टश्रीमुकुलादधीतशास्त्रश्चेति अस्या त्तेः प्रारम्भोपसंहारयोः स्थिताभ्यां निम्नलिखितपद्याभ्यां स्फुटं भवति । "विद्वदग्र्यान्मुकुलकादधिगम्य विविच्यते । प्रतीहारेन्दुराजेन काव्यालङ्कारसंग्रहः ॥" "मीमांसासारमेघात्पदजलधिविधोस्तर्कमाणिक्यकोशात् साहित्यश्रीमुरारेर्बुधकुसुममधोः शौरिपादाब्जभृङ्गात् । क १ झळकीकरोपाख्यश्रीवामनाचार्यप्रकाशितसटीककाव्यप्रकाशपुस्तकस्य प्रस्तावनायां पृष्ठे द्रष्टव्यम्।

६ श्रुत्वा सौजन्यसिन्धोजिवरमुकुलात्कीर्तिवल्यालवालात् काव्यालङ्कारसारे लघुविवृतिमधात्कौङ्कणः श्रीन्दुराजः ॥” इति प्रतीहारेन्दुराजस्य जीवितकालस्तु निश्चित्य वक्तुं न शक्यते । तथाप्ययं भट्टोद्भटस्य पश्चाद्बभूवेति व्यक्तमेव । अनेन लघुवृत्तौ भामह-वामन-उद्भट-इत्यादि प्राचीनालङ्कारिकाणामेवोल्लेखः कृतः नतु महिमभट्ट-आनन्दवर्धन-काव्यप्रकाशका- राधभिनवालङ्कारिकाणाम् । अतोऽयं ख्रिस्तवर्षस्य नवमदशमशतकयोर्मध्ये बभूवेति तय॑ते । अस्स ग्रन्थस्यादर्शपुस्तकमेकमेव पुण्यपत्तनस्थराजकीयपुस्तकालयाधिकारिभिः प्रोफेसर विनायक सखाराम घाटे इत्येतैः संस्करणार्थ दत्वानुगृहीतोऽस्मीति कृतज्ञ- तया स्मरामि तेषामुपकृतिम् । कारवारपुरे विद्वदनुचरः श्रावण शु० १२ शके १८३७ मङ्गेशशर्मा.

काव्यालङ्कारसारलघुवृत्तेविषयानुक्रमणी। ... ४९ ... १ ... ... ... रसवत् ऊर्जखि २ पर्यायोक्तम् ३ | समाहितम् ... ... ... " :: ... ४ उदात्तम् ५ लिष्टम् ५३ .. ... ... ... पञ्चमो वर्गः। ... ... ६ प्रथमो वर्गः। मङ्गलाचरणम् पुनरुक्तवदाभासम् छेकानुप्रासः अनुप्रासः परुषावृत्तिः उपनागरिका ग्राम्या लाटानुप्रासः रूपकम् दीपकम् उपमा प्रतिवस्तूपमा द्वितीयो वर्गः। आक्षेपः अर्थान्तरन्यासः व्यतिरेकः... ... " अपहृतिः ... ५८ ... ... " ... ... ... ५९ ९ विशेषोक्तिः १४ विरोधः १६ तुल्ययोगिता २५ अप्रस्तुतप्रशंसा व्याजस्तुतिः ... ६१ ... विदर्शना ... २९ .. ६२ ६३ ... ... ३२/ संकरः ३५ / उपमेयोपमा ३८ सहोक्तिः ... ७ विभावना... ... ... " .. ... ६९ ... ४० समासोक्तिः अतिशयोक्तिः तृतीयो वर्गः। यथासंख्यम् उत्प्रेक्षा खभावोक्तिः चतुर्थो वर्गः। प्रेयस्वत् ३९ परिवृत्तिः... षष्ठो वर्गः। ससंदेहः अनन्वयः... ४३ संसृष्टिः 25 ... ... " ... ४६ भाविकम् ... ७३ ... ... काव्यहेतुः... काव्यदृष्टान्तः ७८

काव्यालङ्कारसारलघुवृत्तौ उपलभ्यमानानि
ग्रन्थानां ग्रन्थकर्तृणां च नामानि
।"
पृ.
अमरुकः
कात्यायन: २५, २६.
चूर्णिकारः २६.
दण्डी २६.
भट्टवामनः १७, ७६, ८१, ८४.
भट्टोद्भटः
१३, ४८, ४९, ५५, ६२
भामहः १, ४७, ६२, ७४, ७८.
भामहविवरणं ( भट्टोद्भटकृतं ) १३.

श्रीः। श्रीमदुद्भटभट्टप्रणीतः काव्यालङ्कारसंग्रहः। श्रीमत्प्रतीहारेन्दुराजविरचितया काव्यालङ्कारसारलधुवृत्त्या समेतः। यलक्ष्म्या हसितैः सितैर्धवलितं नर्मोक्तिलीलाजुषः शौरेः स्फीतगभस्तिकौस्तुभरुचा यच्च क्वचित्पाटलम् । अन्यत्र च्छुरितं यदम्बररुचा हेमप्रभादीप्रया तद्वक्षोऽक्षतशकचापशबलव्योमाभमव्याज्जगत् ॥ १॥ महिषितवपुषि सुरद्विषि दर्शितभयमभयदं घुसद्मभ्यः । नन्दितसुरेन्द्रवन्दितमड्रियुगं गौरि तव वन्दे ॥ २ ॥ विद्वदग्र्यान्मुकुलकादधिगम्य विविच्यते । प्रतीहारेन्दुराजेन काव्यालङ्कारसंग्रहः ॥ ३ ॥ 31 पुनरुक्तवदाभासं छेकानुप्रास एव च । अनुप्रासस्त्रिधा लाटानुप्रासो रूपकं चतुः॥ उपमा दीपकं चैव प्रतिवस्तूपमा तथा । इत्येत एवालङ्कारा वाचां कैश्चिदुदाहृताः ॥ अन्नालङ्कारा अष्टावुद्दिष्टाः । तत्रादौ चत्वारः शब्दालङ्कारा निरू- ताः । रूपकादीनां तु चतुर्णामत्र अर्थालङ्कारता । अत्रानुप्रासे रूपके थाक्रमं विधेति चतुरिति वचनं विप्रतिपत्तिनिरासार्थम् । भामहो हि म्योपनागरिकावृत्तिभेदेन द्विप्रकारमेवानुप्रासं व्याख्यातवान् । तथा पकस्य ये चत्वारो भेदा वक्ष्यन्ते तन्मध्यादाद्यमेव भेदद्वितयं प्रादर्शयत् । तः स्वाभिमतभेदोपदर्शनद्वारेण एवंविधविप्रतिपत्तिनिरासार्थमुद्देशावस्था- २ काव्यालङ्कारसार- .. - यामेवानुप्रासस्त्रिधेति रूपकं चतुरिति चोक्तम् । रूपकं चतुरित्यत्र रूप- कत्वेन सह एकस्मिन्नर्थे वर्तमाना सत्ता रूपकभेदेष्वावर्तमाना प्रतीयते । अतः प्रतीयमाना यासौ रूपकत्वैकार्थसमवेता सत्तात्मिका भवनक्रिया तदभ्यावृत्तावयं "द्वित्रिचतुर्थ्यः सुच्" (पा. अ. ५.४.१८) इति सुच्- प्रत्ययः । रूपकं चतुर्यु भेदेषु चतुरो वारान् भेदात्मना भवतीत्यर्थः । तत्र पुनरुक्तवदाभासं प्रोच्यते- पुनरुक्ताभासमभिन्नवस्त्विवोद्भासिभिन्नरूपपदम् ॥ अभिन्नं वस्तु यस्मिन्नुद्भासते तदभिन्नवस्तु । भिन्नं रूपं ययोः पद- योस्ते भिन्नरूपे । अभिन्नवस्त्विव अभीक्ष्णमुद्भासेते भिन्नरूपे पदे यस्मि- स्तदभिन्नवस्त्विवोद्भासिभिन्नरूपपदम् । एवमयं बहुव्रीहिद्वितयगर्भः पञ्चपदो बहुव्रीहिः । तत्रैकोऽभिन्नवस्त्विति बहुव्रीहिः । अपरस्तु भिन्नरूप इति । तद्गर्भश्चायं बहुव्रीहिरभिन्नवस्त्विवोद्भासिभिन्नरूपपदमिति । अनेन च यत्र भिन्नरूपे पदे एकार्थवदाभासेते तत्पुनरुक्ताभासं काव्यमलङ्कार्य निर्दिष्टम् । यद्यपि पुनरुक्तवदाभासमित्युद्देशे वतिः प्रयुक्तस्तथापि तस्येह गम्यमानार्थत्वा- दप्रयोगः । उद्देशे त्वेवमनभिधानमभिधावैचित्र्यप्रदर्शनार्थम् । काचित् खलु गम्यमानार्थान्वयेन अभिधा प्रवर्तते, काचित्त्वभिधीयमानार्थान्वयेन । तत्रोद्देशे वत्यभिधीयमानसादृश्यान्वयेन अभिधा उपदर्शिता । इह त्वर्थ- सामर्थ्यावसेयसादृश्यान्वयेन । तदेवमर्थसामर्थ्यावसेयेन वत्यर्थेनान्वित पुनरुक्ताभासमत्र काव्यमलङ्कार्य निर्दिष्टम् । पुनरुक्तवदाभासमाने च पदे तस्यालङ्कारः । अत्रालङ्कार्य यत्काव्यं तद्धर्मत्वेन पुनरुक्तवदाभासमानयोः पदयोरलङ्कारत्वमुक्तं न तु स्वतन्त्रतया । फलं चैवमभिधानस्य पुनरुक्तवदा- भासमानपदसमन्वयस्य अलङ्कारताख्यापनम् । अलङ्कारस्य खल्वलङ्कार्यपर- तन्त्रतया निरूपणे क्रियमाणे सुष्ठु स्वरूपं निरूपितं भवति । खात्मन्यव- स्थितस्य तस्यानलङ्कारत्वात् । समुद्कस्थितहारकेयूरपारिहार्याधलङ्कारवत् । अतः पुनरुक्तवदाभासत्वस्यालङ्कारताख्यापनाय काव्यपरतन्त्रतया निर्देशो युक्त एव ।

१ वर्गः] लघुवृत्तौ तस्योदाहरणम्- तदाप्रभृति निःसङ्गी नागकुञ्जरकृत्तिभृत् । शितिकण्ठः कालगलत्सतीशोकानलव्यथः ॥ तदाप्रभृति सतीवियोगादारभ्य स देवः शितिकण्ठो निःसङ्गः सन् दिवसानतिवाहितवानिति वक्ष्यमाणे श्लोके वाक्यार्थपरिसमाप्तिः । कृत्ति- श्चर्म । कालवशेन निवर्तमाना (या) सती (तस्याः) वियोगेन जनितो यः शोकवह्निस्तदुद्भवा पीडा यस्य स तथोक्तः । अत्र नागकुञ्जरशब्दौ शितिकण्ठकालगलशब्दौ च पुनरुक्तवदाभासेते । तथाहि । नागकुञ्जरश- ब्दयोरुपक्रमावस्थायां गजवाचित्वेन एकार्थत्वं प्रतिभाति । पदार्थान्वयपर्या- लोचनया तु तद्बाध्यते । नागशब्दः खल्वत्र हस्तिवाची । कुञ्जरशब्दस्तु, तत्प्रशंसावगतिहेतुः । एवं शितिकण्ठकालगलशब्दयोरपि वली विशेषाव- च्छिन्नशरीरावयवभेदोपेतार्थाभिधायित्वात्पौनरुत्त्यं संभाव्यमानं कालगल- दिति तकारावधिपर्यालोचनया चापसार्यते । तेनात्र पुनरुक्ताभासत्वम् । ननु छेकानुप्रासलक्षणादनन्तरं पुनरुक्तवदाभासोदाहरणं पठ्यते । त- स्कथं पुनरुक्तवदाभासलक्षणव्याख्यानसमय एव तस्योपन्यासः कृतः । उच्यते । उदाहरणप्रदर्शनमन्तरेण लक्षणार्थस्य दुरधिगमत्वादिहैव तदुप- न्यस्तमित्यदोषः । एवमुत्तरत्रापि प्रमेयशब्दानुसारेण ग्रन्थपाठक्रमविपर्या- सेन व्याख्यायां नासूयितव्यम् । पाठक्रमादार्थक्रमस्य बलीयस्त्वात् । छेकानुप्रासः- छेकानुप्रासस्तु द्वयोर्द्वयोः सुसदृशोक्तिकृतौ । 36 द्वयोर्द्वयोरज्झल्समुदाययोः सुष्ठु सदृशे उच्चारणे क्रियमाणे सति छेका- नुप्रासो भवति । तथाविधाः समुदायास्तत्रालङ्कारतां प्रतिपद्यन्ते । द्वयोर्द्व- योरिति(खार्थेऽवधार्यमाणे अनेकस्मिन्निति)द्विवचनं खार्थग्रहणेन वीप्साया निरस्तत्वात् न यावन्तोऽत्र द्विकाः संभवन्ति तेषां सर्वेषामेव सुसदृशत्वं कार्य, किं तर्हि कतिपयानामेव । वीप्सा हि साकल्ये सति भवति । सा चात्र खार्थशब्देन निरस्ता । अवधार्यमाणग्रहणाच्च द्वयोर्द्वयोरेवात्र समुदा- काव्यालङ्कारसार- ययोः सदृशत्वं, नतु त्रयाणां त्रयाणामिति द्रष्टव्यम् । अनेकस्सिन्निति वचनाच असकृदेवंविधरूपोपनिबन्धे सति छेकानुप्रासता न तु सकृदिति मन्तव्यम् । परस्परमेकरूपान्विता रसाद्यभिव्यक्त्यनुगुणत्वेन लब्धोत्कर्षा वर्णास्तत्समुदाया वा शोभातिशयहेतुत्वेन काव्ये क्षिप्यमाणा अनुप्रास- शब्देनान्वर्थेनाभिधीयन्ते । छेकशब्देन कुलायाभिरतानां पक्षिणामभिधा- नम् । तदुक्तम्-"छेकान् गृहेष्वभिरतानुशन्ति मृगपक्षिणः” इति । तेषां च कुलायाभिरतत्वादन्येन केनचिदनायास्यमानानामनेनानुप्रासेन स- दृशी मधुरा वागुच्चरति । अतोऽयमनुप्रासश्छेकैर्व्यपदिश्यते छेकानुप्रास इति । अथवा छेका विदग्धाः । तद्वल्लभत्वादस्य छेकानुप्रासता । तस्योदा- हरणम्- स देवो दिवसान्निन्ये तस्मिशैलेन्द्रकन्दरे । गरिष्ठगोष्ठीप्रथमैः प्रमथैः पर्युपासितः ॥ कन्दरो गुहा । गरिष्ठा गुरुतमाः। 'प्रियस्थिर०' (पा. अ.६.४.१५७) इतीष्ठनि गुरुशब्दस्य गरादेशः । गोष्ठी विदग्धानामासनबन्धः । प्रथमैः प्रधानैः । प्रमथैर्गणैः । पर्युपासितः सेवितः । अत्र सदेवदिवसशब्दौ इन्द्रकन्दरशब्दौ गरिष्ठगोष्ठीशब्दौ प्रथमप्रमथशब्दौ परिउपासशब्दौ च द्वौ द्वौ अज्झल्समुदायौ सुसदृशावुच्चारितौ तेन छेकानुप्रासता । कचित्तु 'निन्ये तस्मिन्' इत्यत्र 'निन्येऽन्यस्मिन्' इति पाठः । तदा चैतदप्युदाहर- णेऽन्तर्भवतीति । अनुप्रासः । स च त्रिविधो वृत्तिसंश्रयात् । यद्वक्ष्यति- "सरूपव्यञ्जनन्यासं तिसृष्वेतासु वृत्तिषु । पृथक्पृथगनुप्रासमुशन्ति कवयः सदा" इति । अस्यार्थः-त्रिष्वेतेषु यथायोगं रसायभिव्यक्त्यनुगुणेषु वर्णव्यवहारेषु यः सरूपाणां व्यञ्जनानां पृथक् पृथगुपनिबन्धस्तमनुप्रासं कवयः सदेच्छ- न्तीति । अतस्तास्तावद्वृत्तयो रसायभिव्यक्त्यनुगुणवर्णव्यवहारात्मिकाः प्रथ- ममभिधीयन्ते । ताश्च तिस्रः, परुषोपनागरिकाग्राम्यत्वभेदात् । me- १ वर्गः] लघुवृत्तौ तत्र परुषा- : .. - 32- शषाभ्यां रेफसंयोगैष्टवर्गेण च योजिता । परुषा नाम वृत्तिः स्यात् ह्रबह्याद्यैश्च संयुता ।। शकारषकारादियुक्तौ वर्णव्यवहारः परुषाख्या वृत्तिः । रेफोपलक्षिताः संयोगाः कर्कादयो रेफसंयोगाः । टकारोपलक्षितो वर्गष्टवर्गः टठडढणेति । अस्यां वृत्तौ योऽनुप्रासः स परुषानुप्रासः । तस्योदाहरणम्- तत्र तोयाशयाशेषव्याकोशितकुशेशया । चकाशे शालिकिंशारुकपिशाशामुखा शरत् ।। तोयाशयेषु अशेषं साकल्येन व्याकोशितानि विकासितानि कुशेश- यानि पद्मानि यया इति समासः । तथा शालीनां धान्यानां किंशारुभिः शूकैः कपिशानि पिञ्जराणि आशामुखानि दिगवकाशा यस्यामिति समासः। अयं च शकारस्य सारूप्येणोपनिबन्धात्परुषानुप्रासः । उपनागरिका- ३५ सरूपसंयोगयुतां मूर्ध्निवर्गान्त्ययोगिभिः । स्पर्शेयुतां च मन्यन्ते उपनागरिकां बुधाः ॥ सरूपाणां वर्णानां ये संयोगाः कप्पच इत्यादयस्तैर्युक्ता । तथा वर्गा- न्यैःअणनभैः : कञ्चण्टन्तम्प इत्यादिरूपतया उपरि ये युक्ताः कादयो मकारान्ताः स्पर्शास्तैर्युक्ता उपनागरिका वृत्तिः । एषा खलु नागरिकया वैदग्धीजुषा वनितया उपमीयते तत उपनागरिका । नागरिकया उपमिता उपनागरिकेति । “अवादयः क्रुष्टाद्यर्थे तृतीयया" इति समासः । तस्या- मुपनागरिकानुप्रासः । तस्योदाहरणं च- सान्द्रारविन्दवृन्दोत्थमकरन्दाम्बुबिन्दुभिः । स्प पन्दिभिः सुन्दरस्पन्दं नन्दितेन्दिन्दिरा कचित् ॥ अत्र दकाराख्यः स्पर्शो नकारेणोपरि व्यवस्थितेन युक्तः सारूप्येणो- . पनिबद्धः । सान्द्रा घना अरविन्दवृन्दोत्था. मकरन्दाम्बुबिन्दव इति संबन्धः । सुन्दरस्पन्दं स्पन्दिभिरिति सामान्यभूतः स्पन्दः सुन्दरस्पन्द- ६ काव्यालङ्कारसार- मिति विशिष्टेन स्पन्देन विशेषितो रैपोषं पुष्णातीतिवत् । सुन्दरः स्पन्दो यस्मिन्निति हि सामान्यभूते स्पन्दने अन्यपदार्थे सुन्दरताविशिष्टं स्पन्दनं वृत्तिपदार्थभूतम् । इन्दिन्दिरा भ्रमराः ॥ ग्राम्या- शेषैर्वणैर्यथायोगं कथितां कोमलाख्यया । ग्राम्यां वृत्तिं प्रशंसन्ति काव्येष्वादृतबुद्धयः ॥ परुषोपनागरिकोपयुक्तवर्णावशिष्टैर्वर्णैर्लकारादिभिरुपनिबध्यमाना ग्राम्या। तस्या एव च अपरं नामधेयं कोमलेति । कोमलाख्यया कथितामिति संबन्धः । तस्यां चानुप्रासो ग्राम्यानुप्रासः । तस्योदाहरणम्- केलिलोलालिमालानां कलैः कोलाहलैः क्वचित् । कुर्वती काननारूढश्रीनूपुररवभ्रमम् ॥ केलिलोलाः क्रीडालम्पटाः । कलैर्मधुरैः । भ्रमो प्रान्तिविपर्ययप्रत्ययः । अत्र लकारककाररेफाः सारूप्येणोपनिबद्धाः । एवमेतास्तिस्रो वृत्तयो व्याख्याताः । तासु च रसाधभिव्यक्त्यानुगुण्येन पृथक् पृथगनुप्रासो निब- ध्यते तदाह- - सरूपव्यञ्जनन्यासं तिसृष्वेतासु वृत्तिषु । पृथक्पृथगनुप्रासमुशन्ति कवयः सदा ॥ अयं श्लोकः सोदाहरणो वृत्तिखरूपनिरूपणप्रसङ्गेन व्याख्यातः । 3५ लाटानुप्रास:- खरूपार्थाविशेषेऽपि पुनरुक्तिः फलान्तरात् । शब्दानां वा पदानां वा लाटानुप्रास इष्यते ।। स पदद्वितयस्थित्या द्वयोरेकस्य पूर्ववत् । वदन्यस्य खतत्र(त्वात् द्वयोर्वैकपदाश्रयात् ।। खंतत्रपदरूपेण द्वयोर्वापि प्रयोगतः। भिद्यतेऽनेकधा भेदैः पादाभ्यासक्रमेण च ॥ शब्दानामनुपलभ्यमानसुप्तिङां तथा पदानामुपलभ्यमानसुप्तिङां, उभ- .. -- -- १ वर्गः] लघुवृत्तौ येषां च शब्दपदानां स्वरूपस्य वर्णात्मनः अभिधेयस्य च निरन्तरशब्द- व्यापारगोचरीकृतस्य वाच्यस्यार्थस्याभेदेऽपि फलान्तरात्तात्पर्यभेदात् पुन- रुक्तिः सा लाटदेशनिवासिजनवल्लभत्वाल्लाटानुप्रासोऽभिधीयते । स च प्रथमं तावत्रिप्रकारः । द्वयोः खतन्त्रयोर्द्वयोः परतन्त्रयोः खत- त्रपरतन्त्रयोश्च भावात् । तत्र यस्तावद्वयोः खतन्त्रयोः स द्विप्रकारः। एकैकस्मिन् पदे पदसमुदायात्मके च पादे भावात् । तदुक्तम्- "खतन्त्रपदरूपेण द्वयोर्वापि प्रयोगतः । भिद्यतेऽनेकधा भेदैः पादाभ्यासक्रमेण च ॥” इति । अत्र हि खतन्त्रपदात्मकत्वेन द्वयोः प्रयोगादेकैकपदाश्रयो लाटानुप्रा- सोऽभिहितः । तस्योदाहरणम्- काशाः काशा इवोद्भान्ति सरांसीव सरांसि च । चेतांस्याचिक्षिपुर्दूनां निम्नगा इव निम्नगाः ॥ आचिक्षिपुरपहृतवन्तः । अत्र काशादयः शब्दा अपरैः काशादिभिः शब्दैः एकरूपा एकाभिधेयाश्च । तात्पर्यभेदेन तु तेषां पुनरुक्तिः । तथा ह्यत्र एकेषां काशादिशब्दानां जातिभेदोपरक्तद्रव्यपरतया प्रयोगः । अप- रेषां तु अनन्वयालङ्कारच्छायया उपमानान्तरव्यावृत्तिपरतया । अत्र च खातन्त्र्यं पदानां, काशादीनामुपलभ्यमानसुप्तिपत्वात् । एकैकरूपतया चावृत्तेरुपनिबन्धः। पदसमुदायात्मकस्य तु पादस्य खरूपार्थाविशेषे तात्पर्यभेदेन पुनरुक्तौ पादाभ्यासपरिपाट्या स्वतन्त्रपदाश्रयो लाटानुप्रासो भवति । पादाभ्यासक्र- मेण चेति क्रमग्रहणेन सकृति स्त्रिश्च पादाभ्यासे ये भेदाः संभवन्ति तत्स्वी- कारेण पादाभ्यासे लाटानुप्रासस्य प्रवृत्तिः सूचिता । तस्योदाहरणम्- स्त्रियो महति भर्तृभ्य आगस्यपि न चुक्रुधुः । भर्तारोऽपि सति स्त्रीभ्य आगस्यपि न चुक्रुधुः ।। महत्यप्यागसीति संबन्धः । तथा ५. सत्यप्यागसीति भर्तृभ्य इति स्त्रीभ्य इति च 'क्रुध दुहे'ति संप्रदानता । अत्र एकत्र पादे नायकगताप- ८ काव्यालङ्कारसार- राधविषयत्वेन स्त्रीकर्तृकः क्रोधाभावः प्रतिपादितः । अपरत्र तु नायिकानां यो भर्तृप्रणयातिक्रमात्मकोऽपराधस्तद्विषयो नायककर्तृकः क्रोधाभावोऽभि- हितः । अतस्तात्पर्यभेदः स्वरूपार्थाविशेषश्च । पदसमुदायात्मकस्य च पादस्याभ्यासः । एवमयं खतन्त्रपदाश्रयो लाटानुप्रासो द्विविधोऽभिहितः । एकैकपदाश्रयः पदसमुदायाश्रयश्च खतन्त्रपदाश्रयो लाटानुप्रासः । द्वयोरनुपलभ्यमानसुप्तिङोः परतन्त्रयोः शब्दयोर्यो लाटानुप्रासस्तस्यापि द्वैविध्यं, पदद्वितयाश्रयत्वेन एकपदाधारत्वेन च । तदुक्तम्-'स पद- द्वितयस्थित्या द्वयोः' इति । सोऽनेकधा भेदैर्भिद्यते इति संबन्धः । तथा द्वयोवैकपदाश्रयादिति । पूर्वस्योदाहरणम्- कचिदुत्फुल्लकमला कमलभान्तषट्पदा । षट्पदकाणमुखरा मुखरस्फारसारसा ।। सारसाः लक्ष्मणाख्याः पक्षिविशेषाः । अत्र कमलषट्पदमुखरशब्दानां खरूपार्थाभेदेऽपि तात्पर्यभेदेन पुनरुक्तिः पदद्वितयाश्रयित्वं च । तात्पर्यभेद- श्वात्र कमलषट्पदशब्दयोः कारकशक्तिभेदात् । तथाहि । पूर्वः कमलश- ब्दोऽत्र विकासक्रियाकर्तृत्वपरतयोपात्तः, उत्तरस्तु भ्रमणक्रियाकर्तृभूतषट्- पदाधारत्वेन । तथा पूर्वः षट्पदशब्दो भ्रमणक्रियां प्रति कर्तृत्वेनोपवर्णितः, उत्तरस्तु क्वाणक्रियासंबन्धित्वेन । मुखरशब्दौ तु विशेषणभूतं सशब्दत्वं भिन्नार्थनिष्ठतयावगमयतः । तथाहि । पूर्वेण मुखरशब्देन शरन्निष्ठं मौख- र्यमवगम्यते, अपरेण तु सारसनिष्ठम् । एवमयं पदद्वितयपरतन्त्रशब्दद्व- याश्रयो लाटानुप्रासोऽभिहितः । एकपदाश्रयशब्दद्वितयवर्ती "द्वयोर्वैकपदाश्रयात्" इत्युक्तः । तस्योदाहरणम्- प' जितान्यपुरकिञ्जल्ककिञ्जल्कश्रेणिशोभितम् । लेभेऽवतंसतां नारीमुखेन्दुष्वसितोत्पलम् ॥ , .

.. १ वर्गः] लघुवृत्तौ अत्र नारीमुखेष्विति वदनानां चन्द्रेणोपमितत्वादसितोत्पलस्य शशक- रूपता ध्वन्यते । किञ्जल्कशब्दयोश्चात्र स्वरूपार्थाभेद एकपदाश्रयत्वं तात्प- र्यभेदश्च । एकस्य जीयमानतया उपादानात् , अपरस्य जयनक्रियाकर्तृभूता यासौ श्रेणिस्तत्संबन्धित्वेन । एवमयं परतन्त्रयोः शब्दयोर्लाटानुप्रासो द्विविधो निरूपितः । खतन्त्रपरतन्त्रयोस्तु यत्रैकस्य शब्दस्य पदान्तरानुप्रवेशः, अपरस्य तु स्वातन्त्र्येण पदरूपतयावस्थानं तत्र भवति । तदुक्तम्---'एकस्य पूर्ववत्त- दन्यस्य स्वतत्रत्वात्' इति । एकस्य पूर्ववत्पदान्तराश्रयेणावस्थानादि- त्यर्थः । तस्योदाहरणम्- पद्मिनी पद्मिनीगाढस्पृहयागत्य मानसात् । अन्तर्दन्तुरयामासुहंसा हंसकुलालयात् ॥ मानसात् सरोविशेषात् । दन्तुरयामासुः महत्त्वाच्छुक्लत्वाच्च उन्नतदन्ता इव चक्रुः । अत्र स्वरूपार्थाभेदेऽपि पद्मिनीशब्दयोहँसशब्दयोश्च तात्पर्य- भेदात्पुनरुक्तिः । एकस्य पदान्तरानुप्रवेशः, अपरस्य च स्वतन्त्रत्वम् । तात्पर्यभेदस्तु एकस्य पद्मिनीशब्दस्य कर्मरूपत्वात् , अपरस्य च स्पृहाविष- यप्रतिपादनार्थत्वात् । तथा एकस्य हंसशब्दस्य दन्तुरणक्रियाकर्तृभूतार्था- भिधायित्वात् , अपरस्य तु कुलसंबन्धित्वात् । एवमयं पञ्चविधो लाटानु- प्रासः प्रतिपादितः । स्वतन्त्रपरतन्त्राणां तस्य प्रत्येकं द्विभेदत्वात् खतन्त्रपर- तन्त्रयोश्च समुदितयोरेकप्रकारत्वात् ॥ रूपकम्- श्रुत्या संवन्धविरहाद्यत्पदेन पदान्तरम् । गुणवृत्ति प्रधानेन युज्यते रूपकं तु तत् ॥ बन्धस्तस्य यतः श्रुत्या श्रुत्यर्थाभ्यां च तेन तत् । समस्तवस्तुविषयमेकदेशविवर्ति च ॥ समस्तवस्तुविषयं मालारूपकमुच्यते । यद्वैकदेशवृत्ति स्यात्पररूपेण रूपणात् ॥ 35 19 36 32 १० काव्यालङ्कारसार- पदान्तरस्य गुणवृत्तेरपरेण पदेन योगे रूपकं भवति । नन्वेवं सति नीलमुत्पलमित्यत्रापि नीलशब्दस्य गुणवृत्तेरुत्पलशब्देन योगे रूपकताप्र- सङ्ग इत्याशङ्कयोक्तं-श्रुत्या संबन्धविरहादिति । श्रुतिनिरन्तरार्थनिष्ठः शब्दव्यापारः । तया श्रुत्या अनुपपद्यमानपदान्तरसंबन्धं सत् पदान्तरं गुणवृत्ति यत्रापरेण पदेन युज्यते तत्र रूपकता । यथा- ज्योत्स्नाम्बुनेन्दुकुम्भेन ताराकुसुमशारितम् । क्रमशो रात्रिकन्याभियोमोद्यानमसिच्यत ॥ इति । अत्राम्बुशब्दो निरन्तरार्थनिष्ठशब्दव्यापारगोचरीकृते उदकत्वे वर्त- मानो ज्योत्स्नाशब्देन सामानाधिकरण्यं नानुभवति । अम्बुत्वज्योत्स्नात्वयो- रेकार्थसमवायाभावात् । अतोऽम्बुगताः शौक्लयाह्लादकत्वप्रसरणशीलत्वा- दयो ये गुणास्तत्सदृशज्योत्स्नागतगुणवृत्तिः सन्नम्बुशब्दो ज्योत्स्नायां वर्तते । तेनाम्बुशब्दस्य श्रुत्या निरन्तरार्थनिष्ठेन अभिधाव्यापारेण यः पदान्तरेण ज्योत्स्नाशब्देन संबन्धस्तच्छून्यत्वाद्गुणवृत्तिता । अतोऽत्र रूपकता । नचैवं नीलमुत्पलमित्यादौ श्रुत्या संबन्धविरहाद्गुणवृत्तित्वं, किंतर्हि खत एवेति न रूपकताप्रसङ्गः। ननु विरुद्धार्थाभिधायिनोः समानाधिकरणयोः शब्दयोर्निरन्तरार्थनिष्ठेन अभिधाव्यापारेण अनुपपद्यमानान्योन्यसमन्वयत्वाद्ययेकस्य लक्षणया गुण- वृत्तित्वमभिधीयते, एवं सति पर्यायेणात्र गुणवृत्तित्वं प्राप्नोति । नियमक- रणाभावात् । ततश्च यथाम्बुशब्दस्य ज्योत्स्नाशब्दसामानाधिकरण्याद्गुणव- त्तित्वमुक्तं, तद्वज्योत्स्नाशब्दस्यापि अम्बुशब्दसामानाधिकरण्याद्गुणवृत्तित्वं कथं न स्यादित्याशङ्कयोक्तं प्रधानेनेति । प्रधानार्थानुरोधेन उपसर्जनस्य लक्षणया गुणवृत्तित्वमुपपन्नम् । प्रधानवशवर्तित्वाद्गुणानामित्यभिप्रायः । अतश्च प्राकरणिकार्थाभिधायित्वात्प्रधानार्थविषयो यो ज्योत्स्नाशब्दः तद- नुरोधेन अम्बुशब्दस्य अप्राकरणिकार्थत्वादप्रधानार्थस्य गुणवृत्तित्वमुपपन्न- मिति न पर्यायेण ज्योत्स्नाम्बुशब्दयोः परस्परानुरोधेन गुणवृत्तित्वप्रसङ्गः । ननु च ज्योत्स्वाम्बुनेत्यत्र अम्बुनः प्राधान्यं ज्योत्स्नायाश्च गुणभावः ।

] १ वर्गः] लघुवृत्तौ ११ तथा हि । एतसिश्लोके तद्भावाध्यवसानेन सेकावच्छादितरूपतया सेका- त्मकत्वेन यासौ व्योम्नो व्याप्तिरसिच्यतेति प्रतिपादिता, तया स्वसाधनभूतं यत्तदम्भोऽपेक्षितं तदत्र ज्योत्स्नया विशिष्यते ज्योत्स्तैवाम्ब्विति । यदत्र सेकसाधनत्वेनाम्बु अपेक्षितं तज्योत्सैवेत्यर्थः । उक्तं च “उपसर्जनोपमेयं व कृत्वा तु समासमेतयोरुभयोः । यच्च प्रयुज्यते तद्रूपकमन्यत्समासोक्तम्" इति । एतयोरुभयोरिति । उपमानोपमेययोरित्यर्थः । तत्कथमिदमुक्तं ज्योत्स्नापदस्य प्राधान्यात्तद्वशेनाम्बुशब्दस्य गुणवृत्तित्वं कल्प्यते इति । उच्यते । अत्र खलु द्वेऽवस्थे विद्यते। एका तावज्योत्लाया अम्बूकरणावस्था। अपरा तु अम्बुत्वमापादिताया ज्योत्स्नायाः सेकसंबन्धरूपा । तत्र यदा तावज्ज्योत्स्ना अम्बुरूपत्वमापद्यते तदा प्राकरणिकत्वात् ज्योत्स्ना प्रधानम् । अम्बु च तद्विपर्ययाद्गुणः । तदानीं चाम्बुशब्दो ज्योत्साशब्दानुरोधेना- म्बुगतशौक्लयादिगुणसदृशगुणयोगाल्लक्षणया ज्योत्स्नायां वृत्तिमनुभवति । तदा च तस्य प्रधानार्थानुरोधाद्गुणवृत्तित्वेन रूपकत्वमुक्तम् । यदा त्वसौ अम्बुशब्द आपादिताम्बुभावज्योत्स्नाभिधायी सन् सेकक्रियया समन्वयमा- पद्यमानो यदेतदत्र सेकसाधनत्वेनाम्बु उपयुज्यते तज्योत्स्नैवेति ज्योत्स्नया विशिष्यते तदा तस्य न रूपकावस्था । पूर्वावस्थायामेवानुभूतगुणवृत्ति- त्वात् । अतस्तस्यामवस्थायामसौ अतिशयोक्तिच्छायां भजते । पूर्वावस्था- पेक्षयात्वेतद्रूपकमुक्तम् । प्रधानानुरोधेन तत्र गुणेषु वर्तमानत्वात् । रूप- कत्वं चात्राध्यारोप्यमाणगतेन रूपेण अध्यारोपविषयस्य वस्तुनो रूपवतः क्रियमाणत्वादन्वथै द्रष्टव्यम् । अत्र चोपमानवर्तिनो ये गुणास्तत्सदृशगुणदर्शनादुपमेय उपमानगतयोः शब्दरूपयोरारोपः । तत्र त्रयो दर्शनभेदाः । केचिदत्र शब्दारोपपूर्वक- मर्थारोपं ब्रुवते, अपरे त्वर्थारोपपूर्वकं शब्दारोपम् । अन्यैस्तु शब्दारोपार्था- रोपयोयोगपद्यमभिधीयते । अयमेव च पक्षो युक्त इव दृश्यते । तदाहुः "शब्दोपचारात्तद्रूपं रूपके कैश्चिदुच्यते । ताप्यारोपतश्चान्यैः शब्दारोपोऽत्र कथ्यते ॥ R १२ काव्यालकारसार- उपमानगुणैस्तुल्यानुपमेयगतान् गुणान् । पश्यतां तु सकृद्भाति तत्र तच्छब्दरूपता ॥” इति । रुम तत्रेति । उपमेये इत्यर्थः । तच्छब्दरूपतेति । उपमानशब्दारोप उपमानरूपारोपश्च । तस्य च रूपकस्य द्विप्रकारता । खकण्ठेन सकलरूपणाभिधानादेकः प्रकारः । तदुक्तम्-“बन्धस्तस्य यतः श्रुत्या तेन तत्समस्तवस्तुविष- यम्" इति । श्रुतिर्निरन्तरार्थनिष्ठोऽभिधाव्यापारस्तस्योदाहरणं 'ज्योत्स्नाम्बुना' इत्याद्युक्तम् । शारितं शबलितम् । अत्र हि सर्वेषामेव रूप्यत्वेनोपात्तानां ज्योत्स्नेन्दुतारारात्रिव्योम्नां यथाक्रममम्बुकुम्भकुसुमकन्योद्यानानि रूपकत्वेन खकण्ठेनोपात्तानि, न त्वक्षिप्तं कस्यचिद्रूपणम् । तेन श्रुत्यैवात्र रूपणा । अतः समस्तवस्तुविषयत्वम् । समग्राणि ह्यत्र रूप्यत्वेनाभिमतानि वस्तूनि स्वकण्ठेनोपात्तस्य रूपकस्य विषयः । अयमसावेकः प्रकारः । यत्र तु किंचित्खकण्ठेन किंचिच्चार्थाद्रूपणं भवति, तत्र श्रुत्यर्थाभ्यां रूपणादपरः प्रकारो भवति । तत्र चैकदेशविवर्तित्वम् , एकदेशविशेषेण वकण्ठोत्तया वर्तनात् । तदुक्तं 'यतश्च श्रुत्यर्थाभ्यां तस्य बन्धस्तेन तदेकदेशविवर्ति च' इति । तस्योदाहरणम्- उत्पतद्भिः पतद्भिश्च पिच्छालीबालशालिभिः । राजहंसैरवीज्यन्त शरदैव सरोनृपाः ॥ पिच्छाल्यः पक्षपतयः । राजहंसा रक्तचञ्चुपादा हंसाः । अवीज्य- न्तेति । वीजिर्धातुष्वपठितोऽपि शिष्टप्रयोगात् मिलिखचिक्लविक्षपिवद्धा- तुतया द्रष्टव्यः । अत्र द्वे रूपणे खकण्ठेनाभिहिते पिच्छालीबालशालिभि- रिति सरोनृपा इति च । तथा हि एकत्र पिच्छाल्यो बालरूपत्वेन रूपिताः, अपरत्र तु सरांसि नृपरूपत्वेन । राजहंसानां चामररूपत्वेन रूपणा अर्था- क्षिप्ता, शरदश्च प्रकृताया नायिकात्वेन । शरन्नायिकया कर्तृभूतया राज- हंसचामरैः पिच्छालीबालशालिभिः सरोनृपा वीज्यन्ते स्मेति पत्र वाक्यार्थः । एवमेतौ रूपकस्य समस्तवस्तुविषयैकदेशविवर्तिलक्षणौ द्वौ प्रकारावुक्तौ ।

- - १ वर्गः] लघुवृत्तौ १३ यदि वा मालारूपकस्य समस्तवस्तुविषयता तत्र ह्येकस्मिन् रूप्ये समु- च्चयेन अस्यन्ते क्षिप्यन्ते बहूनि रूपकाणि । तदुक्तं-'समस्तवस्तुविषयं मालारूपकमुच्यते ।' यद्वेति प्रकारान्तरोपक्षेपार्थः । तस्योदाहरणम्- वनान्तदेवतावेण्यः पान्थस्त्रीकालशृङ्खलाः । मारप्रवीरासिलता भृङ्गमालाश्चकासिरे ॥ वनान्ता बनैकदेशः । वेण्यः केशपाशाः । कालशृङ्खला अन्तकप्रयुक्ता आकर्षणशृङ्खलाः । मारप्रवीरा मन्मथसंबन्धिनो भटाः । अत्र भृङ्गमाला- नामेव केवलानां रूप्यत्वेनोपात्तानां तिस्रो रूपणाः कृताः वनान्तदेवता- वेण्य इत्येवमादिना । तेनात्र समस्तवस्तुविषयता, एकस्मिन् रूप्ये समु- चयेन बहूनां रूपणानां क्षिप्तत्वात्- एकदेशविवर्ति तु पररूपेण रूपणाद्भवति । तदुक्तं 'एकदेशवृत्ति स्यात्पररूपेण रूपणात्' इति । तस्योदाहरणम् । आसारधाराविशिखै भोभागप्रभासिभिः । प्रसाध्यते स धवलैराशाराज्यं बलाहकैः ।। आसारो वेगवद्वर्षम् । विशिखाः शराः । अत्र प्रसाध्यत इत्ययं शब्दः श्लेषच्छायया द्वयोरर्थयोर्वर्तते भूषणे उपार्जने च । तत्र भूषणं प्रकृतम् । शरत्समयो ह्यत्र प्रस्तुतः । तत्र च शुक्लैबलाहकैर्दिशो भूष्यन्ते । यदु- पार्जनं तदप्रकृतत्वादत्र परमन्यत् । तस्य च परस्याप्रकृतस्य उपार्जनस्य यत्तद्रूपं कारककदम्बकं येन तद्रूपवस्क्रियते नृपविशिखराज्यसंग्रामभूम्या- त्मकं तेनात्र यथाक्रमं बलाहकासारधारादिङ्गभोभागानां रूप्यत्वेनाभिम- तानां रूपणा विहिता । तेनात्रैकदेशवृत्तित्वम् । एकदेशवृत्तीत्यत्र हि एकदा अन्यदा ईशः प्रभविष्णुर्यों वाक्यार्थस्तद्वृत्तित्वं रूपकस्याभिमतम् । विशेषोक्तिलक्षणे च . भामहविवरणे भट्टोद्भटेन एकदेशशब्द एवं व्याख्यातो यथेहास्माभिर्निरूपितः । तत्र विशेषोक्तिलक्षणम्-"एकदेशस्य विगमे या गुणान्तरसंस्तुतिः । विशेषप्रथनायासौ विशेषोक्तिर्मता यथा इति । तेनात्र. विशेषोक्तिलक्षणवदेकदेशशब्देन अन्यदा प्रभविष्णुर्वा- : ---- -- 32 २ १४ काव्यालङ्कारसार- Mad क्यार्थ उच्यते, अन्यत्र च अन्यदा प्रभविष्णूपार्जनम् । अप्रकृतं हि तत् श्लेषवशेनात्र नीतं, तेनात्रैकदेशवृत्तिता ।। दीपकम्- आदिमध्यान्तविषयाः प्राधान्येतरयोगिनः। अन्तर्गतोपमाधर्मा यत्र तदीपकं विदुः ।। यत्रान्तर्गतोऽर्थसामर्थ्यावसेयत्वादुपमानोपमेयभावो येषां तथाविधानां धर्माणामुपनिबन्धस्तत्र काव्यदीपकं भवति । तथाविधकाव्य विषयत्वाच्च दीपकस्य तत्काव्यं दीपकमित्युपचारात्सामानाधिकरण्यम् । अत्र च धर्माणा- मेकवारमुपनिबन्धो द्रष्टव्यः । असकृदुपादाने हि तेषां प्रतिवस्तूपमा वक्ष्यति । अत एव चैकदेशवर्तिनामपि तेषां धर्माणां यौ द्वौ उपमानो- पमेयभावेन अवस्थितौ वाक्यार्थौ बहवो वा तथाविधास्तदुद्दीपनहेतुत्वादी- पकता । यावच्च तेषां धर्माणामुपमानोपमेयभावसमन्वयेनात्रोपनिबन्धस्ता वबलात्प्राधान्येतरयोगित्वमापतति । उपमेयस्य प्राकरणिकतया प्राधान्यादु- पमानस्य च तादर्थेन गुणभावात् । एवं च प्राधान्येतरयोगिन इत्ययम- त्रानुवादः । प्राप्तार्थत्वात् । प्राधान्यं च इतरच्चाप्राधान्यम् । ताभ्यां योगः संबन्धो विद्यते येषां ते तथोक्ताः । अस्य च दीपकस्य त्रैविध्यम् , तेषां धर्माणामादिमध्यान्तवाक्यविषय- त्वेनोपनिबन्धात् । तदुक्तम् 'आदिमध्यान्तविषयाः' इति । तत्रादिदीपकस्योदाहरणम्- संजहार शरत्कालः कदम्बकुसुमश्रियः । प्रेयोवियोगिनीनां च निःशेषसुखसम्पदः ।। अत्र संहरणात्मा धर्मः कदम्बकुसुमशोभाकर्मकत्वेन विरहिणीसुख- सम्पत्कर्मकत्वेन च उपनिबध्यमानोऽन्तर्गतोपमः । शरत्समयस्योपवयं- मानतया कदम्बकुसुमश्रीसंहारस्य प्राकरणिकार्थनिष्ठत्वाद्विरहिणीसुखसंप- संहारस्य चापाकरणिकार्थविषयत्वात् । तेनात्रान्तर्गतोपमत्वम् , यथा प्रेयोवियोगिनीनां निःशेषाः सुखसम्पदः संजहार तथा कदम्बकुसुमश्रियो- ज ..

१५ व १ वर्गः] लधुवृत्तौ ऽपीति । शरत्कालशब्दस्य चात्र शरत्समयः श्लेषच्छायया अन्तकानुरञ्जितो वाच्यः । संहारस्यान्तककर्मत्वात् । अत्र च प्रथम एव वाक्ये संजहा- रेत्यस्योपनिबद्धस्य द्वितीयवाक्ये अनुषङ्गच्छायया उपजीव्यमानत्वादादिदीप- कत्वम् । मध्यदीपकस्योदाहरणम्- विदेशवसतिर्यातपतिकाजनदर्शनम् । दुःखाय केवलमभूच्छरच्चासौ प्रवासिनाम् ॥ यातपतिकाः प्रोषितभर्तृकाः । शरदः प्राकरणिकत्वाद्विदेशवसतियात- पतिकाजनदर्शनयोश्चाप्राकरणिकत्वादत्रान्तर्गतोपमता । अत्र च यातपति- काजनदर्शनं दुःखाय केवलमभूदिति मध्यमे वाक्ये प्रवासिदुःखैकहेतुत्व- लक्षणो धर्म उपात्तः सन्नाद्यन्ताभ्यां वाक्याभ्यां पूर्ववदुपजीव्यते । तेन मध्यदीपकता। अन्तदीपकस्योदाहरणम्- तदानीं स्फीतलावण्यचन्द्रिकाभरनिर्भरः । कान्ताननेन्दुरिन्दुश्च कस्य नानन्दकोऽभवत् ॥ तदानीं शरत्समये । अत्र इन्दुः प्राकरणिकः शरत्समयस्य उपवर्ण्य- मानत्वात् । कान्ताननेन्दुस्त्वप्राकरणिकः । अन्ते च सर्वसुखहेतुत्वमुपनि- बद्धं सत् पूर्वत्र उपजीव्यते । तेनात्रान्तदीपकता । एवमेतद्दीपकं लक्षित- मुदाहृतं च ॥ ननु उपमाया 'उपमा दीपकं च' इति पूर्वमुद्दिष्टत्वात् यथोद्देशलक्षण- मिति न्यायात्तस्या एव पूर्व लक्षणं कर्तव्यम् , पश्चात्तु दीपकस्य । तत्कथ- मादौ दीपकं लक्षितमिति वक्तव्यम् । उच्यते । अनेन ग्रंथकृता खोपरचि. तकुमारसंभवैकदेशोऽत्र उदाहरणत्वेनोपन्यस्तः । तत्र पूर्व दीपकस्योदाहर- णानि । तदनुसन्धानाविच्छेदायात्र उद्देशक्रमः परित्यक्तः । उद्देशस्तु तथा न कृतो वृत्तभङ्गभयात् । एवमुत्तरत्रापि लक्षणेषु उद्देशक्रमाननुसा- रणसमाधिर्वाच्यः ॥

१६ काव्यालङ्कारसार- - उपमा- यच्चेतोहारिसाधर्म्यमुपमानोपमेययोः । मिथो विभिन्नकालादिशब्दयोरुपमा तु तत् ।। यथेवशब्दयोगेन सा श्रुत्यान्वयमर्हति । सदृशादिपदाश्लेषादन्यथेत्युदिता द्विधा । संक्षेपाभिहिताप्येषा साम्ययाचकविच्युतः । साम्योपमेयतद्वाचिवियोगाच्च निबध्यते ।। उपमानोपमेयोक्तौ साम्यतद्वाचिविच्यवात् । कचित्समासे तद्वाचिविरहेण कचिच्च सा॥ तथोपमानादाचारक्यच्प्रत्ययवलोक्तितः। कचित्सा कर्तुराचारे क्यङा सा च किपा कचित् उपमाने कर्मणि वा कर्तरि वा यो णमुल्कषादिर तद्वाच्या सा वतिना च कर्म सामान्यवचनेन । षष्ठीसप्तम्यन्ताच्च यो वति मतस्तदभिधये । कल्पप्रभृतिभिरन्यैश्च तद्धितः सा निबध्यते कवि सादृश्यसंबन्धित्वेनोपादीयते यत्प्राकरणिकं तदुपमेयम् । न ख रणिकस्यापि सादृश्यसंबन्धित्वेन अनुपादीयमानस्योपमेयता, यथ पुरुषमानयेत्यत्र पुरुषस्य । पुरुषो पत्रानीयमानत्वेन चोद्यमानत्व प्राकरणिकत्वे सादृश्यसंबन्धित्वेनानुपादीयमानत्वान्नोपमेयः । सादृश्यसंबन्धित्वेनोपादाने यस्य प्राकरणिकत्वं नास्ति तस्योपमानत्वं मेयत्वमिति प्राकरणिकमित्युक्तम् । तदेवं सादृश्यसंबन्धित्वेनोपा यत्प्राकरणिकं तदुपमेयम् । तद्धयुपमानेन सादृश्यप्रतिपादनद्वारेण क्षिप्यते तस्मादुपमेयम् । अप्राकरणिकं तु तथाविधमेवोपमानम् । पमानोपमेययोर्यत्साधर्म्य समानो धर्मः तेन धर्मेण संबन्धो यः सा नोपमेययोः सादृश्यद्वारेण सामीप्यपरिच्छेदहेतुत्वादुपमा । तस्याश्च धिकाराच्चेतोहारित्वं लब्धमेव । काव्यशोभावहानां धर्माणां गुण .... १ वर्गः] लघुवृत्ती १७ क्तत्वे सत्यलङ्कारत्वात् । गुणाः खलु काव्यशोभाहेतवो धर्माः । ते च माधु- योजःप्रसादलक्षणाः । येषां तु गुणोपजनितशोभे काव्ये शोभातिशयहेतुत्वं तेऽलङ्काराः । यदवोचद्भवामनः-'काव्यशोभायाः कर्तारो धर्मा गुणाः। तदतिशयहेतवस्त्वलङ्काराः” इति तेनालङ्कारत्वादेवोपमायाश्चेतोहारित्वं लब्धम् । अतश्चेतोहारीत्यनुवादः । प्राप्तार्थत्वात् । उपमानोपमेयभावश्च नात्यन्तं साधर्म्यण उपादाने सति भवति गौरिवायं गौरिति । अत उक्तं मिथोविभिन्नकालादिशब्दयोरिति । कालादयोऽत्र शब्दप्रवृत्तिनिमित्त- भूता विवक्षिताः । केषांचित्खलु शब्दानां स्वार्थे प्रवर्तमानानां काल: प्रवृत्तिनिमित्तम् , यथा वसन्तादीनाम् । केषांचित्तु दिक्, यथा प्राच्यादी- नाम् । केषांचिज्जातियथा गवादीनाम् । शुक्लप्रभृतीनां तु गुणः। गच्छ- त्यादीनां क्रिया । राजपुरुषादीनां स्वखामिभावादिः संबन्धः । एवमन्यद- प्यनुसतव्यम् । मिथः परस्परं विभिन्नाः कालादयः प्रवृत्तिनिमित्तभूता ययोः शब्दयोस्तथाविधौ शब्दौ वाचकौ ययोरुपमानोपमेययोरिति बहु- ब्रीहिगर्भो बहुव्रीहिः । गौरिवायं गौरित्यभिधाने तु न प्रवृत्तिनिमित्तभेदः । गोत्वस्यैवैकस्य प्रवृत्तिनिमित्तत्वात् । तेन एवंविध उपमानोपमेयभावो न भवति । 'उपमा तु तत्' इत्यत्र वाक्ये तुशब्दोऽलङ्कारान्तरे व्यतिरेके । उपमा पुनरेवंप्रकारेत्यर्थः । एषा चोपमा द्विधा, पूर्णा लुप्ता च । पूर्णा यत्र चतुष्टयमुपादीयते उपमानमुपमेयं तयोश्च साधारणो धर्मः सौन्दर्यादिरुपमानोपमेयभावस्य द्योतक इवादिः । साच पूर्णा त्रिविधा, वाक्यसमासतद्धितावसेयत्वात् । तत्र वाक्यावसेयायाः श्रौतत्वार्थत्वभेदेन द्वैविध्यम् । अव्ययावसेया श्रौती । अव्ययं हि लुप्तविभक्तिकत्वेन उपमानोपमेययोरेकतरत्राप्यविश्रा- न्तत्वादुभयोरप्युपमानोपमेययोरुपमितिक्रियाविषयतया यथायोगं कर्मकरण- भावात्मकं संबन्धमवद्योतयति । अतस्तत्र श्रौती उपमा । तदुक्तम्- 'यथेवशब्दयोगेन श्रुत्यान्वयमर्हति' इति । यथैवशब्दौ चात्रोपलक्षणम् । अव्ययान्तरादपि वाशब्दादेः तेन रूपेण उपमानोपमेयभावस्यावगतेः ।

काव्यालङ्कारसार- - यथा- तां जानीयाः परिमितकथां जीवितं मे द्वितीयं दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् । गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालां जातां मन्ये शिशिरमथितां पद्मिनी वान्यरूपाम् ।। तत्र यथाशब्दयोगे तस्या उदाहरणम्- क्षणं कामज्वरोत्थित्यै भूयः संतापवृद्धये । वियोगिनामभूच्चान्द्री चन्द्रिका चन्दनं यथा ।। अत्र चान्द्री चन्द्रिका उपमेया । चन्दनमुपमानम् । कामज्वरोत्थिति- हेतुत्वं संतापवृद्धिनिबन्धनत्वं चानवस्थितं साधारणो धर्मः । यथा- शब्दश्चाव्ययत्वेन लुप्तविभक्तिकत्वादुपमानोपमेययोरेकतरस्मिन्नर्थे विश्रान्तः श्रौतेन रूपेणोभयाधारमुपमानोपमेयभावमवद्योतयति । तेनेयं संपूर्णा श्रौती च । एवमिवशब्दयोगेऽप्युदाहरणं योज्यम् । नेत्ररिवोत्पलैः पद्मर्मुखैरिव सरःश्रियः । तरुण्य इव भान्ति स्म चक्रवाकैः स्तनैरिव ॥ एवमियमव्ययोपदर्शिता श्रौती संपूर्णा वाक्योपमोक्ता । आ. या तूपमा सदृशादिभिः पदैः श्लिष्टा तस्यां न श्रौतेन रूपेण उभयानु- यायितया उपमानोपमेयभावोऽवगम्यते, अपि त्वर्थात् । सदृशादीनां पदानामुपमानोपमेययोरेकत्रैव विश्रान्तेः । अन्यत्र च तद्गतसादृश्यपर्या- लोचनया तत्संबन्धित्वावगतेः । तेनासौ आर्थी । तदुक्तं 'सदृशादिपदा- श्लेषादन्यथा' इति । अन्यथेति । अश्रौतेन रूपेणेत्यर्थः । तस्या उदाहरणम्- प्रबोधाद्धवलं रात्रौ किञ्जल्कालीनषट्दम् । पूर्णेन्दुबिम्बप्रतिममासीत्कुमुदकाननम् ॥ अत्र कुमुदकाननं विकसितं किञ्जल्कालीनषट्दत्वविशिष्टमुपमेयम् , पूर्णेन्दुबिम्बमुपमानम् , धवलत्वं साधारणो धर्मः । प्रतिमाशब्द उपमानो- १ वर्गः] लघुवृत्ती पमेयभावावगतिहेतुः । स च उपमाने विश्रान्तः । तथाहि । पूर्णेन्दुबिम्ब प्रतिमा प्रतिबिम्ब सदृशमस्येति बहुव्रीहिरत्र क्रियते । तेन प्रतिमाशब्द उपमाने विश्रान्तः । तेन चोपमाने विश्रान्तेनापि अर्थादुपमेयस्य साह- श्यमवगम्यते । सादृश्यस्योभयाधिष्ठानत्वात् । यदापि च पूर्णेन्दुबिम्बेन प्रतिममिति तृतीयातत्पुरुषस्तदाप्युपमेये खकण्ठेनाभिहितं सादृश्यम् । उपमाने च तस्यार्थात्प्रतिपत्तिः । अतो बहुव्रीहौ उपमानगतसादृश्यपर्या- लोचनया उपमेयत्वमवगम्यते । तत्पुरुष तु उपमेयवर्तिसादृश्यविचारेण उममानस्योपमानत्वावगतिरित्यार्थोऽत्रोपमानोपमेयभावः । अत्र च उप- मेयवर्तिकिञ्जल्कालीनषट्पदत्वाभिधानसामर्थ्यादपरमपि साधर्म्यमन मिहि- तमसितोदरत्वलक्षणमाक्षिप्तम् । यथा पूर्णेन्दुबिम्बं शशलान्छनत्वादसि- तोदरमेवं कुमुदकाननमपि किञ्जल्कालीनषट्दत्वादिति । अतोऽसितोदरत्व- लक्षणं धर्ममपेक्ष्य लुप्तैकदेशत्वाल्लुप्तापीयमुपमा । 'नेत्ररिवोत्पलैः' इत्यादौ तु यद्यपि नेत्रोत्पलादीनां समानधर्मा दीर्घत्वनीलत्वादयः खशब्देन नोपा- त्तास्तथापि भान्तीत्यभिधीयमानार्थे तेषामनुप्रवेशासंपूर्णत्वमेवोपमायाः, चतुष्टयोपलम्भात् । नेत्रादीनि ह्यत्रोपमानानि । उत्पलादीन्युपमेयानि । भानं दीर्घत्वनीलत्वादिविशेषणपर्यन्तं साधारणो धर्मः । इवशब्दश्च उपमा- नोपमेयभावावगतिहेतुः । तेनेयमुपमासंपूर्णैव प्रबोधाद्धवलमितीयं त्वसि- तोदरत्वापेक्षया लुप्तत्वेनाप्युक्ता । समासोपमा चैषा पूर्णेन्दुबिम्बप्रतिममिति समासस्य विहितत्वात् । यदा त्वत्र वाक्योपमा विवक्षिता भवति तदैतदे- वोदाहरणं तदुदाहरणार्थत्वेन 'अखण्डेनेन्दुना तुल्यमासीत्कुमुदकाननम्' इत्येवं परिणमयितव्यम् ॥ एवमेषा संपूर्णा वाक्यावगम्या द्विविधोपमा प्रतिपादिता श्रौती आर्थी च । समासावगम्या त्वार्थत्वेन एकप्रकारैवोक्ता ।। या तु तद्धितावसेया संपूर्णा तस्या अपि द्वैविध्यं श्रौतत्वार्थत्वभेदेन । तत्र तस्येवेत्यनेन हि यो वतिर्विधीयते तस्य इवार्थे विधीयमानत्वादिव- शब्दवच्छौतेन रूपेण उभयानुयायितया उपमानोपमेयभावावगतिनिबन्ध- २० काव्यालङ्कारसार- नत्वम् । यः पुनस्तेन तुल्यमिति तुल्यार्थे वतिर्विधीयते ततो ब्राह्मणेन तुल्यमधीते ब्राह्मणवदधीते क्षत्रिय इत्युपमेये यत्तदध्ययनक्रियाद्वारेण विश्रान्त तुल्यत्वं तत्पर्यालोचनया अर्थादुपमानस्योपमानत्वमवगम्यते । तेनार्थस्तत्र उपमानोपमेयभावः । तदुक्तम्-'वतिना च कर्मसामान्य- वचनेन । षष्ठीसप्तम्यन्ताच्च यो वतिर्नामतस्तदभिधेये' इति । कर्म- सामान्यवचनो वतिः 'तेन तुल्यं क्रिया चेद्वतिः' (पा. अ. ५..१.११५.) इति क्रियातुल्यत्वेऽभिधानात् । तेन चाभिधीयते उपमा । वाच्येति पूर्वो- पक्रान्तमत्रानुषज्यते । षष्ठयन्तात्सप्तम्यन्ताच नामतो नाम्नः प्रातिपदिका- दिति संबन्धः ॥ तत्र पूर्वस्या उदाहरणम्- अपि सा सुमुखी तिष्ठेदृष्टेः पथि कथंचन । अप्रार्थितोपसंपन्ना पतितानभ्रवृष्टिवत् ।। अप्रार्थितोपसंपन्ना दृष्टेः पथि कथंचन पतिता तिष्ठेदिति संबन्धः । अत्रानभ्रवृष्टिरुपमानम् , सुमुखी उपमेया । अप्रार्थितोपसंपन्नत्वे सति दृष्टिगोचरपतितत्वेनावस्थानं साधारणो धर्मः । वतिश्च क्रियातुल्यत्वे विधी- यमान उपमेये क्रियाद्वारेण शब्देन वृत्तेन विश्रान्तः संस्तुल्यत्वपर्यालोचन- योपमानस्योपमानत्वमवगमयति । ततोऽत्रार्थादुपमानोपमेयभावः प्रतीयते । तेनेयं संपूर्णा आर्थीच तद्धितावसेया । द्वितीयस्या उदाहरणम्- किं स्युरुत्कलिका मद्वत्तस्या अपि निरर्गलाः । अकाण्डोड्डामरानङ्गहतकेन समर्थिताः ॥ कि अकाण्डोड्डामरोऽनवसरे उद्भटः । प्रचण्ड इति पाठान्तरम् । उत्क- लिकाः उत्कण्ठाः । अत्रामदर्थ उपमानम् । तच्छब्दार्थ उपमेयः। मन्मथेन समर्पिता यास्ता निरर्गलाः उत्कलिकास्तत्कर्तृकं भवनं साधारणो धर्मः । वतिश्चेवार्थे विधीयमानत्वादिवशब्दवदुपमानोपमेययोरेकतरत्राप्यविश्रान्तः श्रौतेन रूपेणोपमानोपमेयांवमेव द्योतयति । तेनेयं संपूर्णा श्रौती च M १ वर्गः ] लघुवृत्तौः तद्धितावसेया । अत्र तु तस्या अपीति पाठे षष्ठ्यन्ताद्वतिविधेयः ॥ यदा तु तस्यामपीति पाठस्तदा सप्तम्यन्तात् । यदुक्तम् 'उपमाने यः संशयः स उपमेयायावर्तत' इति । एवमेषा वाक्यसमासतद्धितावसेया संपूर्णा त्रिवि- धोपमा प्रतिपादिता । तत्र च वाक्यतद्धितावसेययोरुपमयोः प्रत्येक श्रौतत्वार्थत्वभेदेन द्वैविध्यमुक्तम् । समासावसेयायास्त्वार्थत्वमेव । अतः पञ्चप्रकारैषा संपूर्णा । या तु लुप्तैकदेशत्वाल्लुप्तोपमा सा संक्षेपोपमा । तस्याश्च. पञ्चविधत्वं वाक्यसमाससुब्धातुकृत्तद्धितावसेयत्वात् । तत्र वाक्ये या संक्षेपोपमा सा पूर्व- मुदाहृता 'अखण्डेनेन्दुना तुल्यमिति' । अत्र ह्यसितोदरत्वस्य अनुपात्तत्वा- साधारणधर्मानुपादानाल्लुप्तैकदेशत्वमपि विद्यते । समासावसेया पुनः संक्षेपोपमा त्रिविधा । एकद्वित्रिलोपे भावात् । एकलोपे द्विविधा, साधारणधर्मवाचिन. इवादेर्वानुपादानात् । तदुक्तं. 'साम्यवाचकविच्युते रिति । 'तद्वाचिविरहेणेति च । साम्यवाचकः साधारणधर्मवाची । ( साधारणधर्मः ) सौन्दर्यादिः। तद्वाची उपमानो- पमेयभाववाची च इवादिः । अत्र च सर्वत्र प्रकरणे 'संक्षेपाभिहिताप्येषा' इति, 'कचित् समास' इति, 'निबध्यत' इति च त्रयं प्रत्येकं यथोपयो- गमनुषज्यते । तत्र साम्यवाचिवियोगेन समासे या संक्षेपोपमा तस्याः पूर्वमेवो- दाहरणमुक्तं 'पूर्णेन्दुबिम्बप्रतिममिति । अत्र ह्यसितोदरत्वमर्थसामर्थ्या- वसेयत्वाच्छब्देन नोपात्तम् ॥ इवादिवियोगे तु तस्या उदाहरणम्- इति काले कलोल्लापिकादम्बकुलसङ्कुले । त्रिदशाधीशशार्दूलः पश्चात्तापेन धूर्जटिः ॥ तां शशिच्छायवदनां नीलोत्पलदलेक्षणाम् । सरोजकर्णिकागौरी गौरी प्रति मनो दधौ ।। कादम्बाः पक्षिभेदाः । सरोजकर्णिकागौरी गौरीमित्यत्र सरोजकर्णिका उपमानं, गौरी उपमेया, गौरत्वं साधारणो धर्मः । तच्च त्रयंः स्वकण्ठेनो- २२ काव्यालङ्कारसार- -- पात्तम् । इवाद्यर्थस्तु उपमानस्य साधारणधर्मवाचिना सह "उपमानानि सामान्यवचनैः” (पा. अ. २।१।५५ ) इति यः समासस्तत्सामर्थ्यादवग- म्यते । तेनेयमिवादिशब्दलोपालुप्तैकदेशा । एवमेकलोपे सति द्विविधा समासोपमोक्ता। द्वितयलोपे त्वेकप्रकारा भवति, साधारणधर्मवाचिन इवादेश्च युगपद- प्रयोगात् । तदुक्तं 'उपमानोपमेयोक्तौ साम्यतद्वाचिविच्यवात्' । अत्र साम्यशब्देन साम्यवाची शब्दो लक्ष्यते । साम्यविच्यवाञ्चोपमाया असंभवात् । तस्या उदाहरणं 'त्रिदशाधीशशार्दूल' इति, नीलोत्पलदलेक्ष- णम्' इति च । 'त्रिदशाधीशशार्दूलः' इत्यत्र च त्रिदशाधीश उपमेयः, शार्दूल उपमानम् । तच्च द्वयं खकण्ठेनोपात्तम् । इवाद्यर्थः साधारणश्च धर्मस्तेजखित्वादिः सामर्थ्यादवसीयते । 'नीलोत्पलदलेक्षणाम्' इत्यत्र तु नीलोत्पलपलाशानामुपमानत्वं, ईक्षणयोरुपमेयता । एतयोश्च खकण्ठेनो- पादानम् । नीलत्वदीर्घत्वादिसाधारणो धर्म इवाद्यर्थश्च उपमानोपमेयभा- वात्मकः स्वशब्देन अनुपात्तोऽपि समासवशेनार्थसामदिवसीयते । 'त्रिदशाधीशशार्दूल' इत्यस्मात्तु 'नीलोत्पलदलेक्षणामि'त्यस्य बहुव्रीहित्व- कृतो विशेषः । तत्र हि "उपमितं व्याघ्रादिभिः” इति तत्पुरुषो विहितः । एवमेषा साधारणधर्मवाचिन इवादेश्वाप्रयोगात् द्वितयलोपे समासे संक्षे- पोपमोक्ता। त्रितयलोपे तु साधारणधर्मवाचिन उपमेयाभिधायिन उपमानोपमेय- भाववाचिनश्च इवादेर्युगपदप्रयोगात्समासवर्तिनी संक्षेपोपमा भवति । 7 . तदुक्तं “साम्योपमेयतद्वाचिवियोगाच" इति । अत्रापि पूर्ववत्साम्यो- पमेयशब्दाभ्यां तद्वाची शब्दो लक्ष्यते । तस्या उदाहरणं "शशिच्छायव- दनामि"ति । अत्र हि शशिच्छायातुल्या छाया यस्य तथाविधं वदनं यस्या इति बहुव्रीहिगर्भ बहुव्रीहौ शशिकान्तिरुपमानं, वदनकान्तिरुप- मेया । तयोश्च साधारणो धर्म आह्वादकत्वादिस्तुल्यत्वं चेति चतुष्टय- मवगम्यते । शब्दस्पृष्टं तूपमानमेव शशिच्छायेति । तदितरस्योपमेयादे- ..

- १ वर्गः] लघुवृत्तौ । स्त्रितयस्य समाससामर्थेनार्थावसेयत्वात् । एवमेषा त्रितयलोपे समास- वर्तिनी संक्षेपोपमा उदाहृता । तदेवमत्र चतुःप्रकारा लुप्ता समासोपमा प्रतिपादिता । एकलोपे द्वे, द्वितयलोपे एका, त्रितयलोपे चैकेति । सुब्धातुप्रत्ययावसेया पुनरुपमा त्रिविधा क्यच् क्यङ् किप् प्रत्ययाव- सेयत्वात् । क्यच्प्रत्ययावसेयापि त्रिविधा कर्मोपमानकत्वादधिकरणो- पमानकत्वाच्च । तदुक्तं “तथोपमानादाचारे क्यच्प्रत्ययवलोक्तितः" इति । यथा समासे संक्षेपाभिहिता उपमा समाससामर्थ्यादवगम्यमाना निबध्यते तथा कस्मिंश्चिद्विषये उपमानात्कर्मणः अधिकरणाद्वा आचा- रार्थे यथाक्रमं सौत्र औपसंख्यानिकश्च यः क्यच्प्रत्ययस्तबलेन यासौ भणितिस्तत्सामर्थ्यादप्यवसीयमाना निबध्यते । तस्या उदाहरणं- स दुःस्थीयन् कृतार्थोऽपि निःशेषैश्वर्यसंपदा । निकामकमनीयेऽपि नरकीयति कानने । निःशेषैश्वर्यसंपदा कृतार्थोऽपीति संबन्धः । अत्र दुःस्थमिवात्मानमाचर- निति दुःस्थः कश्चिद्दारिद्याद्युपप्लुत उपमानं, भगवदात्मा उपमेयः, आचा- राख्यः साधारणो धर्मः क्यच्प्रत्ययोपात्तः । अत्र चोपमानसाधारणधर्मयोः शब्दस्पृष्टत्वं । उपमेयस्य उपमानोपमेयभावस्य च सामर्थ्यादवगतिः । तेनेयं द्वितयस्य गम्यमानार्थत्वाद्वितयलोपे सति सुब्धातूपमा । एवमियं कर्मोपमानिका सुब्धातूपमा उदाहृता । अधिकरणोपमानिका तु 'नरकीयति कानने' इति । अत्र नरक उप- मानम् , काननमुपमेयम् , क्यच्प्रत्ययोपात्तस्त्वाचारः साधारणो धर्मः । इवादयस्तु क्यच्प्रत्ययसामर्थेनोपमानोपमेयभावस्यावसेयत्वादप्रयुक्ताः । तेनेयं एकलोपे सति सुब्धातूपमा । एवमेषा क्यच्प्रत्ययावगम्या द्विविधा संक्षेपोपमोक्ता। क्यङ्प्रत्ययसामर्थ्यावगम्या तु कषुपमानिका संक्षेपोपमा भवति । तदाह- "कर्तुराचारे क्यङा से"ति, "तथे"ति, "उपमानादाचार" इति । क्वचिदिति च पूर्वोक्तस्यात्रानुषङ्गः । कर्तुरुपमानादुत्तरेणाचारविषयेण क्या काव्यालङ्कारसार- -- सा संक्षेपोपमा क्वचिन्निबध्यत इत्यर्थः । तस्या उदाहरणम्- कृशानुवज्जगत्तस्य पश्यतस्तां प्रियां विना । खद्योतायितुमारब्धं तत्त्वज्ञानमहामहः ॥ खद्योतो ज्योतिर्मालिका। अत्र खद्योतायितुमित्यादौ खद्योत उपमानम्। तत्त्वज्ञानं पदार्थखरूपयाथातथ्यपरिच्छेदः, तदात्मकं यत्तन्महदुत्कृष्टं महस्तेजस्तदुपमेयम् । क्यङ्प्रत्ययोपात्तश्चाचारः साधारणो धर्मः । क्यङ्- प्रत्ययसामर्थ्यावसेयत्वाच्चानेवादेरप्रयोगः । तेनेयमेकलोपेन सुब्धातूपमो- पनिबद्धा। कचित्तु विषये कर्बुपमानिका सा संक्षेपोपमा किपा निबध्यते । स च क्विप् “सर्वप्रातिपदिकेभ्यः किव्वा वक्तव्यः" इत्यनेन विधीयते । तदुक्तं “सा किपा कचिदि"ति । अत्रापि तथेति, उपमानादाचार इति, कर्तुरिति च त्रयमनुषज्यते । तस्या उदाहरणम् -- "कृशानुवजगदि' ति । कृशानुशब्दादाचारक्किबन्ताच्छतरि रूपम् । अत्र कृशानुरुपमानम् , जगदुपमेयम् , आचारश्च साधारणो धर्मः क्किपूसामर्थ्यादवगम्यते । अत्र चोपमानोपमेययोः शब्दोपात्तत्त्वादिवादीनामाचारस्य च अर्थसामर्थ्या- वसेयत्वात्तद्वितयलोपः । न खल्वश्रूयमाणस्य किपोऽर्थाभिधायिता वक्तुं शक्या । एवमेषा सुब्धात्ववसेया त्रिविधा संक्षेपोपमा प्रतिपादिता । क्यच्क्यक्किप्प्रत्ययावसेयत्वात् । क्यच्प्रत्ययसामर्थ्यावसेया तु द्विविधा । ङ् कर्माधिकरणोपमानकत्वात् । क्यपूप्रत्ययावसेया त्वेकप्रकारा । किप्प्रत्य- यावसेयाप्येकप्रकारैव भवति । तदेवमेषा चतुर्विधा सुब्धातुप्रत्ययावसेया संक्षेपोपमोक्ता। कृत्प्रत्ययसामर्थ्यावसेया संक्षेपोपमा द्विविधा, कर्मोपमानिका कय्- पमानिका च । तदुक्तं 'उपमाने कर्मणि वा कर्तरि वा यो णमुल्कषा- दिगतस्तद्वाच्या सेति । कषादिगतः कषाद्यनुप्रयोगक इत्यर्थः । कर्मो- पमानिकायास्तस्या उदाहरणम्- तस्येतरमनोदाहमदहत्प्रज्वलन्मनः। . उमां प्रति तपांशत्याकृष्टबुद्धेः स्मरानलः ॥

- १ वर्गः] लघुवृत्तौ २५ अत्र इतरस्य प्राकृतस्य संबन्धि मन उपमानं, भगवन्मन उपमेयं, दह्य- मानत्वं साधारणो धर्मः । तच्च त्रयं शब्दस्पृष्टम् । उपमानोपमेयभावस्त्वत्र णमुलसामर्थ्यादिवादीनामप्रयोगेऽपि गम्यते । तेनेयमेकलोपे संक्षेपोपमा कर्मोपमानिका कृत्प्रत्ययावसेया । कर्बुपमानिकायास्तु तस्या उदाहरणम्- स दग्धविग्रहेणापि वीर्यमात्रस्थितात्मना । स्पृष्टः कामेन सामान्यप्राणिचिन्तमचिन्तयत् ।। विग्रहः शरीरम् । अत्र सामान्यभूतः प्राणी गुणातिशयशून्य उपमानं, तच्छब्दनिर्दिष्टश्च भगवानुपमेयः, चिन्तयितृत्वं साधारणो धर्मो, णमुल- सामर्थ्याच्च इवादेरप्रयोगेऽप्युपमानोपमेयभावावसायः । तेनेयमेकलोपे सति कर्बुपमानिका संक्षेपोपमा कृत्प्रत्ययावसेया । एवमेषा कृत्प्रत्ययावसेया संक्षेपोपमा द्विविधा प्रतिपादिता । या तु तद्धितसामर्थ्यावसेया वतिशब्दादवगम्यते, सा संपूर्णत्वात्पूर्व- मुक्ता । अन्या त्वसंपूर्ण कल्पबादेः तद्धितस्य प्रयोगादवसीयते । तदुक्तं 'कल्पप्रभृतिभिरन्यैश्च तद्धितः सा निबध्यते कविभिः' इति । प्रभृ- तिशब्देनात्र 'इवे प्रतिकृतौ' इत्यादिविहितानां कनादीनां परिग्रहः । तस्या उदाहरणम्- चण्डालकल्पे कन्दर्पप्लुष्टय मयि तिरोहिते । संजातातुलनैराश्या किं सा शोकान्मृता भवेत् ॥ अत्र चण्डाल उपमानं, मयीत्यस्मदर्थ उपमेयः, कल्पप्प्रत्ययेन च सादृश्यमुपात्तम् । प्रकृत्यर्थसदृशेऽर्थे भगवत्कात्यायनशा कल्पबादीनां विधानात् क्रौर्यादिस्तु धर्मः खशब्दानुपात्तोऽपि . सामर्थ्यादत्रावसीयते । तेनेयमेकलोपे सति तद्धितावगम्या संक्षेपोपमा । एवमश्वक इत्यत्रापि द्रष्टव्यम् । इवार्थोपलक्षिते सदृशे कनो विधानात् । आयशूलिक इत्यादौ तु त्रितयलोपेन तद्धितसामर्थ्यादुपमावसायः । तथाहि, अत्रायःशूलेनान्वि- च्छतीति विगृह्य "अयःशूलदण्डाजिनाभ्या" मिति ठग्विधीयते । अत्र ३ २६ काव्यालङ्कारसार- 35 चायःशूलमुपमानं, अर्थान्वेषणोपायः कश्चिदुपमेयः तीक्ष्णत्वादिः साधारणो धर्मः उपमानोपमेयभावश्चेति चतुष्टयमवगम्यते । तन्मध्यात्स्वशब्दस्पृष्टमु- पमानमयःशूलेनेति । शिष्टशब्दस्य तु त्रितयस्यात्रार्थसामर्थ्यादवगतिः । ननु चात्रोपमानेनायःशूलेनार्थान्वेषणोपायस्योपमेयस्य तद्भावाध्यवसाने- नापादिताभेदस्य प्रतीयमानत्वादतिशयोक्तिरियं न तूपमा । तत्कथमेतदुप- मानोदाहरणम् । उच्यते । यथा 'शशिच्छायवदनाम्' इत्यत्र सत्यपि शशिच्छायाप्रच्छादितरूपत्वे वदनच्छायायाः कथञ्चिद्भेदप्रतिपत्तिपुरः- सरीकारेणोपमाभेदत्वमुपन्यस्तं तथात्रापि भविष्यतीत्यदोषः । तेनायः- शूलिक इत्यत्र त्रितयलोपे सति तद्धितावसेया संक्षेपोपमा भवति । एवं श्वा मुमूर्षति कूलं पिपतिषतीत्यादावपि यदि मरणपतनाद्यानुगुण्यस्य उपमेयभूतस्य तद्भावाध्यवसानात्सन्वाच्यया इच्छयोपमानभूतया समा- पादिताभेदस्य प्रतीयमानस्य भेदावगतिनिबन्धनं किञ्चिद्विद्यते तदोप- माभेदत्वं वाच्यम् । अन्यथा त्वतिशयोक्तिभेदतास्यावसेया । यदाह सन्विधौ भगवान्कात्यायन:- आशङ्कायामचेतनेषूपसंख्यानम्" "न वा तुल्यकारणत्वादिच्छाया हि प्रवृत्तित उपलब्धिरि"ति, "उपमानाद्वा सिद्धमिति" च । अत्र हि 'न वा तुल्यकारणत्वादि'त्यादिना तद्भावा- ध्यवसानं सूचितम् । 'उपमानाद्वा सिद्धमिति तूपमानोपमेयभावः प्रतिपादितः । इयं च धातोः सनो विधानात्तदन्तस्य च धातुत्वा- सुब्धातूपमावत् धातुधातूपमावसेया । एवं वर्तमानसामीप्यादाव- प्युपमाभेदत्वमतिशयोक्तिभेदत्वं वा यथाप्रतीति योज्यम् । चूर्णिकारस्य त्वेवमादौ तद्भावाध्यवसानसमाश्रयेण नातिशयोक्तिभेदत्वमेवेष्टम् । यदाह- "न तिङन्तेनोपमानमस्ती"ति । अत एव दण्डिना "लिम्पतीव तमो- ऽङ्गानि वर्षतीवाञ्जनं नमः । असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता" इत्या- देर्गीकृतातिशयोत्प्रेक्षाभेदत्वमेव महता प्रपञ्चेनाभ्यधायि । तेन कदा १ "धातोः कर्मण." इत्यादि सूत्रभाष्ये स्पष्टांनि एतानि त्रीणि वार्तिकानि । महा- भाष्ये अ. ३ पा. १ आ. १ १ वर्गः] लघुवृत्तौ देवदत्त ग्रामं गमिष्यसि, एष गच्छामीत्यादावपि वर्तमानसामीप्ये वर्तमा- नरूपतया भविष्यत्कालस्याध्यवसानादतिशयोक्तिभेदत्वमेव वाच्यम् । एवमन्यत्राप्यूह्यम् । एवमेषा वाक्यसमाससुब्धातुकृत्तद्धितावसेया संक्षेपो- पमा पञ्चविधा प्रतिपादिता । संपूर्णा तु वाक्यसमासतद्धितभेदेन त्रिविधा पूर्वमुक्ता । आसामेव चावान्तरभेदा अन्ये निर्दिष्टाः । तथाहि, संपूर्णयोक्यितद्धितोपमयोः श्रौतत्वार्थत्वभेदेन प्रत्येकं द्वैविध्यमुक्तम् । संक्षेपोपमायाश्च समासोपमाया एकद्वयत्रयलोपेन चतुर्विधत्वम् । एकलोपस्य हि तत्र द्वैविध्यमुक्तम्, इवादेः साधारणधर्मवाचिनश्च लोपात् सुब्धातूपमायाश्चतुर्विधत्वम्, क्यच- क्यक्किप्प्रत्ययावसेयत्वात् । क्यच्प्रत्ययावसेया हि कर्माधिकरणोपमान- कत्वेन द्विविधोक्ता । कृत्प्रत्ययावसेयायाश्च कर्तृकर्मोपमानकत्वेन द्विविध- त्वम् । तदेवमेषा सप्तदशविधा ग्रन्थकृता उपमा प्रतिपादिता । तदाहुः-- कृत्तद्धितसमासेभ्यः सुब्धातोरथ वाक्यतः । पूर्णा लुप्सैकदेशा च गम्यते द्विविधोपमा ॥ एकद्वयत्रयाणां च लोपात्स्याल्लोपिनी त्रिधा । पूर्वी भेदौ द्विधा चात्र तृतीयस्त्वेकरूपकः ॥ इति पूर्वी भेदौ द्विधा चात्रेति साधारणधर्मवाचिलोपाच्चैकलोपस्य द्वैविध्यम् । द्वितयलोपोऽपि साधारणधर्मवाचीवादिवियोगात्तथा उपमेयवाचीवादिवियो- गावि विधः । एषा चोपमा विचित्रभेदत्वे सत्यपि यत्रैव चेतोहारित्वमस्ति तत्रैवालङ्कारतां प्रतिपद्यते न सर्वत्रेत्युक्तम् ।। प्रतिवस्तूपमा-- उपमानसंनिधाने च साम्यवाच्युच्यते बुधैर्यत्र । उपमेयस्य च कविभिः सा प्रतिवस्तूपमा गदिता ॥ यत्रोपमानोपमेययोः संनिधाने साम्यवाचिनः पदस्यासकृदुपादानं क्रि- यते सा प्रतिवस्तूपमा । ननु यदि साम्यवाचिनः पदस्य तत्रासकृदुपा- दानं क्रियते ततोऽनेकवाक्यत्वमापतति । न चानेकस्मिन् वाक्ये इवादीनि २८ काव्यालङ्कारसार- प्रयुज्यन्ते, एकवाक्यनिष्ठतया तेषामभिधासामर्थ्यावसितत्वात् । अतश्चे- वादीनामप्रयोगे कथं तत्रोपमानोपमेयभावावसाय इत्याशक्याह- प्राकरणिकेतरत्वस्थित्यैकश्चोपमेयतां लभते । उपमानत्वं चापर इत्युपमावाचिशून्यत्वम् ॥ नानावाक्यत्वादिवादीनामप्रयोगेऽपि प्राकरणिकत्वाप्राकरणिकत्वपर्यालो- चनया अर्थसामर्थ्यादत्रोपमानोपमेयभावोऽवसीयत इत्यर्थः । तदाहुः- इवादेरप्रतीतापि शब्दसंस्कारतः कचित् । उपमा लक्ष्यतेऽन्यत्र केवलार्थनिवन्धना ॥ इति इह प्रकारत्रयेण उपमायाः प्रतिपत्तिः । कचिदिवादिशब्दसामर्थ्यादु- पमा वाच्यभूता प्रतीयते, यथा चन्द्र इव मुखमस्या इत्यादौ । कचित्तु तत्तद्विशिष्टसंस्कारसहायाच्छब्दात्स्वार्थाभिधानमुखेन लक्ष्यमाणायास्तस्याः प्र- तिपत्तिः, यथा शस्त्रीश्यामेति । अत्र हि समासनिबन्धनैकपद्यादिसंस्का- रसहिताभ्यां शस्त्रीश्यामाशब्दाभ्यां स्वार्थाभिधानव्यवधानेन लक्ष्यमाणोपमा गम्यते । कचित्तूपमानोपमेयनिबन्धनशब्दसंस्काराभावेऽपि केवलादेवार्थ- सामर्थ्यात्तस्याः प्रतिपत्तिः, यथा रूपकदीपकप्रतिवस्तूपमादिष्वित्यर्थः । अतश्चास्यां प्रतिवस्तूपमायां केवलेनैवार्थसामर्थेनोपमानोपमेयत्वमवगम्यते इत्यदोषः। तस्या उदाहरणम्- विरलास्तादृशो लोके शीलसौन्दर्यसंपदः । निशाः कियत्यो वर्षेऽपि याविन्दुः पूर्णमण्डलः ॥ विरलाः खल्पाः । तादृशः पार्वतीवर्त्तिन्यो याः शीलसौन्दर्यसंपदः तत्सदृश्यः । शीलं सुखभावता । सौन्दर्य लावण्यम् । अत्र संवत्सरमध्य- वर्तिन्योऽखण्डशशिबिम्बा रात्रयो द्वादश उपमानम् । शीलसौन्दर्ययोः संभाराः सकललोकोत्कृष्टाः कतिपयजनजुष उपमेयाः । साधारणश्च धर्मो विरलत्वम् । तच्चोपमानसंनिधाने कियत्य इत्युपात्तम् । उपमेयसंनिधाने तु 4 ... १ वर्गः] लघुवृत्ती २९ विरका इति । इवाद्यनुपादानेऽपि च प्राकरणिकत्वाप्राकरणिकत्वपर्यालोच- नयात्रोपमानोपमेयभावावसायः । तेनेयं वस्तुनि वस्तुनि साधारणोपनिब- न्धात्प्रतिवस्तूपमा ॥ इति महाश्रीप्रतीहारेन्दुराजविरचितायामुद्भटालङ्कारसारसं- ग्रहलघुवृत्तौ प्रथमो वर्गः॥ .. . अथ द्वितीयो वर्ग:॥ आक्षेपोऽर्थान्तरन्यासो व्यतिरेको विभावना । समासातिशयोक्ती चेत्यलङ्कारान्परे विदुः ॥ 'समासातिशयोक्ती चे'त्यत्र समासातिशयशब्दयोरुक्तिशब्दः प्रत्येकम- भिसंबध्यते । आक्षेपः । 36 प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया । आक्षेप इति तं सन्तः शंसन्ति कवयः सदा ॥ इह काचिद्वक्रमणितिस्तथाविधा संभवति यस्यां विधित्सितोऽर्थो निषे- धव्याजेन संस्क्रियते, न तु निषिध्यते । तत्र विधित्सितस्यार्थस्य यः प्रति- घेधः क्रियते स प्रतिषेध इव भवति, न तु प्रतिषेध एव । अवान्तरवा- क्यार्थत्वेन तत्र वाक्यस्यापर्यवसानात् । अवान्तरवाक्यार्थता च तत्र निषेधस्य विधित्सितार्थविरोधाद्भवति । तत्र हि विधित्सितोऽर्थः पूर्वो- पक्रान्तत्वेन स्थेम्नावतिष्ठमानः खविरुद्धत्वेन निषेधं निषेधतात्पर्यात्प्रच्याव्य खगतविशेषाभिधानायावान्तरवाक्यार्थीकरोति । अतोऽनन्तरोक्तेन प्रकारे- णेष्टस्यार्थस्य विशेषमभिधातुं यत्र निषेध इव न तु निषेध एव, असा- विष्टार्थनिराकरणस्य लेशेन संभवदाक्षेपसंज्ञकोऽलङ्कारः सत्कविभिरभिधी- यते । सन्तः कवय इति संबन्धः । तस्य भेदद्वितयोपदर्शनायाह- वक्ष्यमाणोक्तविषयः स च द्विविध इष्यते ।

me- ३० काव्यालङ्कारसार- वक्ष्यमाणमुक्तं चेष्टमाश्रित्य निषेधाभिधानादाक्षेपो द्विविध इत्यर्थः । ननु 'प्रतिषेध इवेष्टस्य' इत्याक्षेपलक्षणमुक्तम् । इष्टत्वं चेच्छाकर्मता। यस्य च वस्तुन इच्छाकर्मता तस्य नावश्यमुक्तिक्रियां प्रति कर्मत्वं भवति । इप्यमाणं हि कदाचिदुच्यते कदाचिन्न । अतश्चेष्टस्योक्तिकर्मतामाश्रित्य यदेतदाक्षेपस्य वक्ष्यमाणोक्तविषयतया द्वैविध्यमुक्तं तन्न संगच्छते इत्या- शवयाह- निषेधेनेव तद्धन्धो विधेयस्य च कीर्तितः॥ विधेयस्य विधातुं ज्ञापयितुमभिमतस्य यो निषेध इव तेनायं वक्ष्यमा- णोक्तविषय आक्षेपो निबध्यते । एतदुक्तं भवति-विधानकर्मताद्वारेणै- वात्र इष्टत्वमवसीयते । निबन्धनान्तराभावात् । विधानकर्मता च विधाना- त्मिकाया उक्तेः कर्मता । साच द्विविधा, आर्थी शाब्दी च । यत्र खशब्द- व्यापारमन्तरेणापि शब्दान्तरव्यापारसहायनिषेधमुखेनैव विधित्सितोऽर्थों- ऽवगम्यते तत्रार्थी । तत्र च वक्ष्यमाणविषय आक्षेपः । यत्र तु विधिमुखे- नैव वक्तुमिष्टस्यार्थस्योपादानं क्रियते तत्र शाब्दी । तत्र चोक्तविषयता आक्षेपस्य । एवं चानन्तरोदितया नीत्या शाब्देनार्थेन च विधिना यदव- सितमिष्टं तस्योक्तिक्रियाकर्मत्वसंभवादुक्तिक्रियायाः कर्मभूतो योऽर्थस्तदा- श्रयं वक्ष्यमाणविषयत्वमुक्तविषयत्वं चाक्षेपस्य निबध्यते । तत्र वक्ष्यमाणविषयस्याक्षेपस्योदाहरणम्- अहो मरस्य माहात्म्यं यद्रुद्रेऽपि दशेशी । मान इयदास्तां समुद्राम्भः कुम्भैर्माने तु के वयम् ॥ अहो इति विस्मये । अत्र मन्मथमाहात्म्यं तदवस्थाविशेषसंस्पर्शेन प्र- तिपादयितुमिष्टम् । तच्च तस्य तथाप्रतिपादन मिथदास्तामित्यादिना निषि- द्धम् । निषेधश्चात्राभिधेयत्वविरोधात् । अभिधेयत्वेन च विरोधं वक्ति । आनन्त्येन तस्य तथाविधस्य वक्तुमशक्यत्वात् । रुद्रेऽपि नाम ईदृशी दशेति हि सामान्यरूपत्वेन मन्मथमाहात्म्यं प्रतिपादितं न तु विशेषरूप- तया। अतो वक्तुमिष्टानां सरमाहात्म्यावस्थाविशेषाणामयमानन्त्येनाभिधान- .

२ वर्गः] लघुवृत्तौ। ३१ निषेध इव नतु निषेध एव । विवक्षितार्थविरोधेनावान्तरवाक्यार्थत्वात् । तथाहि, अत्र समुद्राम्भसः कुम्भर्मातुमशक्यत्वं यदस्मदर्थकर्तृकमभिहितं तत्सादृश्येनानन्त्यविशिष्टत्वेनोत्कर्षयितुमिष्टानां मन्मथमाहात्म्यावस्थावि- शेषाणां पूर्व प्रतिपिपादयिषितत्वेन लब्धप्रतिष्ठानां वाक्यार्थत्वम् । अतश्च तदभिधाननिषेधस्य तद्विरोधादत्रावान्तरवाक्यार्थता । न चावान्तरवाक्यार्थी वाक्यविश्रान्तिस्थानतया वक्तुं शक्यः । न खलु रक्तः पटो भवतीत्यत्र रक्तत्वावच्छिन्नपटभवनपरत्वाद्वाक्यस्य पटभवनपर्यवसानमात्रत्वं सुभणम् । अतोऽत्रापि निषेधस्यावान्तरवाक्यार्थत्वेन वाक्यविश्रान्तिस्थानत्वाभावान्नि- षेधरूपत्वमिव न तु निषेधरूपता । स च निषेधोऽत्रावान्तरवाक्यत्वात्प्रधा- नवाक्यार्थानुगुण्येन प्रवर्तमानः स्खकण्ठेनाभिधानं मन्मथमाहात्म्यावस्थाविशे- षाणां निषेधति, न पुनरर्थसामर्थ्यावसेयमपि । अतश्च समुद्राम्भसः कुम्भै- मातुमशक्यत्वमस्मदर्थकर्तृकं वकण्ठेनाभिहितं यत्तत्सादृश्येनावसिते संवि- ज्ञानपदशून्ये स्मरमाहात्म्यावस्थाविशेषाणामानन्त्यलक्षणे विशेषे वाक्यस्य पर्यवसानं तेनायमिष्टमर्थ प्रतिषेधव्याजेन विशेषेऽवस्थापयति तस्मादा- क्षेपः । अत्र च 'अहो स्मरस्य माहात्म्यं यद्रुद्रेऽपि दशेशी' इत्येतच्छ- ब्दव्यापारसहायेन 'इयदास्ताम्' इति निषेधेनैव खकण्ठेनानुपात्तानामपि मन्मथमाहात्म्यावस्था विशेषाणां वक्ष्यमाणतया सूचनम् । तेषां च तथा सूचितानां निषेधव्याजेन संविज्ञानपदशून्यानन्त्यभेदप्रतिपादनम् । अतो वक्ष्यमाणविषयता आक्षेपस्य । उक्तविषयस्य तु तस्योदाहरणम्- इति चिन्तयतस्तस्य चित्रं चिन्तावधिर्न यत् । क वा कामविकल्पानामन्तः कालस्य चेक्षितः ॥ अत्र चित्रत्वस्योक्तस्योक्तिः क वेति प्रसिद्धत्वादाक्षिप्यते ।.पूर्वत्र खलु विरुद्धत्वमाक्षेपनिबन्धनमुक्तम् , इह तु प्रसिद्धत्वम् । द्वाभ्यामेव च प्रका- राभ्यामाक्षेपो भवति विरुद्धत्वेन प्रसिद्धत्वेन च । उक्तंच-"वस्तु प्रसिद्धमिति यद्विरुद्धमिति वास्य वचनमाक्षिप्य । अन्यत्तथात्वसिध्यै यत्र - ३२ काव्यालङ्कारसार- ब्रूयात्स आक्षेपः" इति । प्रसिद्धत्वं चात्र समर्थयितुं कालसादृश्यमुक्तम् । यथा कालस्यान्तो नेक्ष्यते तद्वत् काम विकल्पानाम् । अतो नैवात्र चित्र- त्वम् । अन्यत्राप्यस्य रूपस्य परिदृष्टत्वादिति । कालतुल्यतया चात्र कामविकल्पानामानन्त्यात्मको विशेषः संविज्ञानपदशून्योऽभिघित्सितः । तस्य च चित्रतया सामान्येन पूर्वमुपक्रान्तस्याधुना निषेधवशेन संविज्ञान- पदशून्येन विवक्षितेन रूपेण वाक्यार्थीभूतत्वान्निषधस्य पूर्ववदवान्तर- वाक्यार्थता । तेन कवेत्ययं निषेध इव नतु निषेध एव । तेनात्रोक्त- विषयता आक्षेपस्य । तदाहुः- शब्दस्पृष्टेऽथवाप्यार्थे वक्तुमिष्टे निषिद्धता । तदङ्गं तद्विरोधेन यत्राक्षेपो भवेदसौ ॥ इति शब्देन स्पृश्यते ( स्पृष्टे ? ) वक्तुमिष्टे उक्त विषये आक्षेपे । वक्ष्यमाण- विषये तु विवक्षितस्य आर्थता । शब्दान्तरव्यापारसहायनिषेधमुखेन त- स्योपस्थाप्यमानत्वात् । यश्चात्रोभयत्रापि निषेधः क्रियते स विवक्षितार्थ- विरोधात्स्वतात्पर्य त्यक्त्वा विवक्षितमेवार्थ संकुर्वैस्तदङ्गता प्रतिपद्यते । अ- तोऽत्र द्विविध आक्षेपो भवतीत्यर्थः । अर्थान्तरन्यासः। 35 समर्थकस्य पूर्व यद्वचोऽन्यस्य च पृष्ठतः। विपर्ययेण वा यत्स्याद्धिशब्दोक्त्यान्यथापि वा ॥ ज्ञेयः सोऽर्थान्तरन्यासः यत्र समर्थ्यसमर्थकभावः सोऽर्थान्तरन्यासः । तत्र हि समर्थकस्य सम- र्थकतावगतिहेतुं व्याप्तिं पक्षधर्मत्वं चानुपन्यस्यार्थान्तरस्येवोपन्यासः क्रि- यते । व्याप्तिपक्षधर्मत्वयोः खशब्देनानुपात्तयोरपि गर्भीकृतत्वात् । अतो- ऽसावर्थान्तरन्यासः । स च चतुर्विधः । तत्र समर्थके पूर्वमभिहिते सम- र्थ्यस्य यत्र पश्चादभिधानं तत्र द्वौ प्रकारौ भवतः । हिशब्दाभिव्यक्तत्वं समर्थ्यसमर्थकभावस्यैकः प्रकारः । तदुक्तं "समर्थकस्य पूर्व यद्वचो- ऽन्यस्य च पृष्ठतः" । इति, "हिशब्दोक्त्ये"ति च । तस्योदाहरणम्-- 3.

२ वर्ग:] लघुवृत्तौ तन्नास्ति यन्न कुरुते लोको ह्युत्पन्नकार्यकः । एष शर्वोऽपि भगवान् बटूभूय स्म वर्तते ।। बभूय अचिरकृतोपनयनत्वमापद्य । अत्र शर्वस्य सर्वलोकातिशायिनो बटूभावेन वृत्तिमनुपपद्यमानतयाशङ्कय तत्समर्थनाय समर्थकं पूर्वमेवोप- न्यस्तं "तन्नास्ति यन्न कुरुते" इति । अत्यन्तकार्यिकत्वादनुचितमपि रूप- मनुभूतवान् शर्वस्तदन्यैवंविधपुरुषवदिति । अत्र च हिशब्देनाभिव्यक्तः समर्थ्यसमर्थकभावः । यत्र पूर्वेणैव क्रमेण समर्थ्यसमर्थकयोरुपन्यासे हिशब्दश्चार्थसामर्थ्याव- सेयार्थत्वान्न प्रयुज्यते तत्र द्वितीयोऽर्थान्तरन्यासभेदो भवति । तदुक्तं "अन्यथापि च" इति । हिशब्दोक्तिमन्तरेणापीत्यर्थः । तस्योदा- का हरणम्- प्रच्छन्ना शस्यते वृत्तिः स्त्रीणां भावपरीक्षणे । प्रतस्थे धूर्जटिरतस्तनुं स्वीकृत्य बाटवीम् ।। भावः आशयः । बाटवीं ब्रह्मचारिसंबन्धिनीम् । अत्र धूर्जटेर्बटुवेषाल- म्बनेन प्रच्छन्ना वृत्तिरनुपपन्नेत्याशक्य तत्समर्थनाय पूर्वमेव समर्थकमभि- हितं "प्रच्छन्ना शस्यते वृत्तिः" इत्यादिना । योषिदाशयपरीक्षणप्रवृत्तत्वा- जटिः प्रच्छन्नां वृत्तिमाश्रितवानिति । हिशब्दश्चात्रातःशब्दसामर्थेन यस्मादित्यस्यार्थस्यावगतत्वान्नोपात्तः । एवमेतौ समर्थकपूर्वोपन्यासावर्थान्त- रन्यासौ द्वावेवोक्तौ । यत्रापि चैतद्विपर्ययेण सामर्थ्यस्य पूर्वमुपन्यासः पश्चा- समर्थकस्य, तत्रापि समर्थ्यसमर्थकभावे हिशब्दावगतेऽर्थाक्षिप्ते च सति दैविध्यम् । तदुक्तं 'विपर्ययेण वा यत्स्याद्धिशब्दोक्त्यान्यथापि वा' इति । पूर्वस्योदाहरणम्- हरोऽथ ध्यानमातस्थौ संस्थाप्यात्मानमात्मना । विसंवदेद्धि प्रत्यक्षं निर्ध्यातं ध्यानतो न तु ।। अत्र हरस्य . व्यवहिताद्यर्थविषयत्वेनाप्रतिहतबाह्येन्द्रियवृत्तित्वात् सति बाह्येन्द्रियजन्यप्रत्यक्षसंभवे ध्यानाश्रयणमयुक्तत्वेन संभाव्य तत्समर्थना- - ...30 काव्यालङ्कारसार- योक्तं 'विसंवदेद्धि प्रत्यक्षम्' इत्यादि । अत्यन्ताविसंवादकोपलब्ध्युपाया- र्थित्वाध्यानमास्थितवान् हर इति । हिशब्दानभिव्यक्ते तु समर्थ्यसमर्थकभावे यत्र समर्थ्यस्य पूर्वमुपन्यास- स्तत्रोदाहरणम्- अपश्यञ्चातिकष्टानि तप्यमानां तपास्युमाम् । असंभाव्यपतीच्छानां कन्यानां का परा गतिः ॥ वहूनामभिमतवरप्राप्त्युपायानां प्रार्थनादीनां संभवे कस्माद्भगवती तपसा शरीरमायासितवतीत्याशङ्कय तत्समर्थनायाभिहितं 'असंभाव्यपती- च्छानाम्' इति । दुःप्रापभत्रभिलाषित्वात्तपः समाश्रितवती । तपांसि भग- वती खेदयन्ति । तानि पुनः सा तथाविधान्युपार्जयति । अतस्तपस्तप्यते तपस्तपःकर्मकस्यैवेति कर्तुः कर्मवद्भावः । एवमेष चतुर्विधोऽर्थान्तरन्या- सोऽभिहितः। ननु यदि समर्थ्यसमर्थकभावे सत्यर्थान्तरन्यासो भवति । एवंसत्यप्र- स्तुतप्रशंसादृष्टान्तयोरपि समर्थ्यसमर्थकभावसद्भावादर्थान्तरन्यासताप्रसङ्गः । तथाहि । “प्रीणितप्रणयि स्वादु काले परिणतं (च यत्) । विना पुरुष- कारेण फलं पश्यत शाखिनाम्" इत्यस्यामप्रस्तुतप्रंशसायां विशेषात्सामा- न्यस्य प्रतिपत्तिर्यथा सेचनादिकं पुरुषव्यापारमन्तरेण वनशाखिना विविध- गुणोपेतस्य फलस्य प्रसूतिर्दैवप्रधाना एवमेतत्सर्वं जगति दैवप्रधानमिति । अत्र च समर्थ्यसमर्थकभावो विद्यते । सर्वं जगच्चेष्टितं दैवप्रधानं पुरुषका- रान्वयव्यतिरेकाननुविधायित्वाद्वनशाखिफलवदिति । ततश्च तत्राप्यर्थान्त- रन्यासत्वप्रसङ्गादलक्ष्यव्याप्तिर्लक्षणदोषः । दृष्टान्तेऽपि च ( समर्थ्य )समर्थ- कभावो विद्यते । तथाहि "त्वयि दृष्ट एव तस्या निर्वाति मनो मनोभव- ज्वलितम् । आलोके हि सितांशोर्विकसति कुमुदं कुमुद्वत्याः ॥ इत्यत्र यथा चन्द्रगुणपक्षपातित्वेन कुमुदिन्याश्चन्द्रालोके कुमुदं विकसति, तद्व- द्गुणपक्षपातित्वात्तस्यास्त्वदर्शने मनो मन्मथाग्निप्रज्वलितमुपशाम्यतीति समर्थ्यसमर्थकभावोऽवगम्यते । तेन दृष्टान्तेऽप्यर्थान्तरन्यासताप्रसङ्ग इत्या- शक्याहm- 31 २ वर्गः] लघुवृत्ती प्रकृतार्थसमर्थनात् । 52 अप्रस्तुतप्रशंसाया दृष्टान्ताच्च पृथस्थितः ।। सत्यमप्रस्तुतप्रशंसायां दृष्टान्ते च समर्थ्यसमर्थकभावोऽवगम्यते, न तु तत्रार्थान्तरन्यासवत्समर्थ्यसमर्थकभावस्य संभवः । अर्थान्तरन्यासे हि सम- र्थ्यस्य यथायोगं पूर्वोत्तरकालभावित्वेन खकण्ठेनोपात्तस्य समर्थनम् , अप्र- स्तुतप्रशंसायां त्वप्रकृतसामर्थ्येन प्रकृतमाक्षिप्यते, न तु वकण्ठेनोपादी- यते, यथा पूर्वोपवर्णिते उदाहरणे । तत्र हि वनशाखिनां फलदर्शनेनाप्र- कृतेन दैवप्रधानेन समग्रजगद्गोचरं दैवप्राधान्यं प्रकृतमाक्षिप्यते, न तु तस्यार्थान्तरन्यासवत्स्वकण्ठेनोपादानम् । अतश्च तत्र सत्यपि समर्थ्यसमर्थ- कभावे शब्दोपक्रान्तप्रकृतार्थनिष्ठत्वाभावान्नार्थान्तरन्यासत्वम् । दृष्टान्तेऽपिच द्वयोरपि समर्थ्यसमर्थकयोः वकण्ठेनोपात्तत्वात्सत्यपि खकण्ठोपात्तप्रकृतार्थ- निष्ठत्वे दृष्टान्तस्य समर्थ्यसमर्थकभावपुरःसरीकारेण प्रवर्तमानत्वान्न भवत्य- र्थान्तरन्यासत्वम् । न खलु तस्य समर्थ्यसमर्थकभावपुरःसरीकारेण प्रवृत्तिः । बिम्बप्रतिबिम्बभावमात्रस्य शब्दस्पृष्टत्वात् । अर्थाद्धि तत्र सम- र्थ्यसमर्थकभावावसायः । अर्थान्तरन्यासेतु समर्थ्यसमर्थकभावेनैवोपक्रमः । तेन यत्र समर्थ्यसमर्थकभावोपक्रममर्थान्तरोपादानं तत्रार्थान्तरन्यासत्वाद्द- ष्टान्तस्यार्थान्तरन्यासताप्रसङ्गो न भवति । तदिदमुक्तं 'प्रकृतार्थसमर्थना- दिति । अत्र प्रकृतशब्दः खकण्ठोपात्तप्रकृतार्थनिष्ठो द्रष्टव्यः । समर्थन चात्रोपक्रमावस्थावलुपात्तम् ॥ व्यतिरेकः विशेषोपादानं यत्स्यादुपमानोपमेययोः । निमित्तादृष्टिदृष्टिभ्यां व्यतिरेको द्विधा तु सः॥ उपमानोपमेययोः परस्परं यत्र विशेषः ख्याप्यते स व्यतिरेकः । तत्र ह्युपमानादुपमेयस्योपमेयादुपमानस्य वा केनचिद्विशेषेणातिरेक आधिक्यं तस्मान्यतिरेकः । स च द्विविधः । तत्र विशेषख्यापननिमित्तस्यार्थसाम- र्थ्यादाक्षेपादेकः प्रकारः । अपरस्तु तस्य स्वशब्देन प्रतिपादनात् । तदुक्तं ..

काव्यालङ्कारसार- 4 'निमित्तादृष्टिदृष्टिभ्यां द्विधा' इति । एतावपि च भेदौ प्रत्येकं द्वि- विधौ । क्वचिद्धि अर्थसामर्थ्याप्रतीयमाने उपमानोपमेयभावे पूर्वोक्तेन प्रकारद्वयेन व्यतिरेकः ख्याप्यते, क्वचित्तु इवादिभिरुपात्तैः । तत्रार्थसामर्थेन यत्रोपमानोपमेयभावोऽवगम्यते तत्र पूर्वस्मिन्प्रकारद्वये पूर्वभेदस्योदाहरणम्- सा गौरीशिखरं गत्वा ददर्शोमां तपःकृशाम् । राहुपीतप्रभस्येन्दोर्जयन्ती दूरतस्तनुम् ॥ राहुणा पीता द्रवद्रव्यस्योदकादेः स्वगलबिलान्तर्भावनं यत्तद्वदात्माभ्य. न्तरीकृता प्रभा यस्य स तथोक्तः । अत्र राहुपीतप्रभत्वविशिष्टस्येन्दोस्तनु- रुपमानं, तपःकृशा पार्वत्युपमेया, अनयोः साधारणो धर्मः स्वभावतः सौ- न्दर्ये सति निमित्तवशाद्विच्छायत्वम् । तच्च स्वकण्ठेनानुपात्तमपि पदार्थस्व- रूपपर्यालोचनया लभ्यते । एवमिवाद्यभावेऽप्युपमानोपमेयभावस्यात्र साम- •त्प्रतिपत्तिर्जयन्तीमिति च उपमानादुपमेयस्य विशेषः ख्यापितः । तस्य च विशेषस्य ख्याप्यमानस्य निमित्तमत्र न वकण्ठेनोपात्तं, अर्थसामर्थ्यात्तु तदवगम्यते । राहुरिन्दुप्रभापाने तथा न समर्थः यथा तपःसातिशयत्वा- त्पार्वत्याः क्षामत्वे इति राहुतोऽपि तपःसातिशयत्वमुपमानादुपमेयस्य वि- शेषनिमित्तमत्रावगम्यते । एवमयमनुपात्तनिमित्तो व्यतिरेकः । उपात्तनि- मित्तस्तु- पद्मं च निशि निःश्रीकं दिवाचन्द्रं च निष्प्रभम् । स्फुरच्छायेन सततं मुखेनाधः प्रकुर्वतीम् ।। मुखमुपमेयम् । पद्ममिन्दुश्चोपमानम् । तच्चात्र द्वयं स्वकण्ठस्पृष्टम् । तयोस्तु साधारणो धर्मः कान्तिमत्तादिरुपमानोपमेयभावश्चेत्येतदुभयं साम- •दवगम्यते । न खल्वत्र वक्ष्यमाणव्यतिरेकवदुपमानोपमेयभावस्य द्यो- तका इवादय उपात्ताः । अधःप्रकुर्वतीमिति चोपमानादुपमेयस्य विशेषः ख्यापितः । तत्र च निमित्तमुपात्तमुपमानोपमेयोभयाधारत्वेन । उपमानयो- स्तावत्पद्मचन्द्रयोर्निशि दिवा च यथाक्रम निःश्रीकत्वनिष्प्रभत्वे, उपमेये तु रात्रिन्दिवं स्फुरच्छायता । अतो विशेषे निमित्तदर्शनेनायं व्यतिरेकः । 34 H - २ वर्गः] लघुवृत्तौ तदेवं यत्रेवादिनोपमानोपमेयभावो नावद्योतितस्तत्र द्विविधो व्यति- रेको दर्शितः । इवायुपात्ते तूपमानोपमेयभावे यो व्यतिरेकस्तमाह- यो वैधये॒ण दृष्टान्तो यथेवादिसमन्वितः। व्यतिरकोऽत्र सोऽपीष्टो विशेषापादनान्वयात् ।। 'यो वैध\ण दृष्टान्त' इति 'विशेषापादनान्वयादिति च व्यतिरेकल- क्षणं योजितम् । वैधय॑ ह्युपमेयधर्मस्योपमाने विगमः । यथेवादिसमन्वित इत्यनेन यथेवाद्यवद्योतितत्वमुपमानोपमेयभावस्याह । तस्योदाहरणम्- शीर्णपर्णाम्बुवाताशकष्टेऽपि तपसि स्थिताम् । समुद्वहन्तीं नापूर्व गर्वमन्यतपस्विवत् ॥ शीर्णपर्णाम्बुवातानामाशो भक्षणम् । अत्रान्यतपखिन उपमानं, भगवत्यु- पमेया, साधारणश्च धर्मः कष्टे तपस्यवस्थितत्वाच्चेतसः सोल्लासता । वति- श्वात्र गर्वोद्वहननिबन्धनं यत्तचेतसः सोल्लासत्वं तन्निबन्धनमुपमानोपमेय- भावमवगमयति । गर्व न समुद्वहन्तीमित्युपमानादुपमेयस्य विशेषः प्रति. पादितः । अन्ये किल तपखिनः सातिशयतपोवशात्समुल्लसितचित्ताः सन्तो गर्व समुद्वहन्ति, भगवती त्वत्यन्तमुपशान्तचित्तत्वान्न तथा । एवं चात्र गर्वोपक्रमावस्थापेक्षमुपमानोपमेययोः सादृश्यं, तदनिर्वाहात्तूपमानादुपमेयस्य व्यतिरेकः । अनिर्वाहे च निमित्तमत्र वकण्ठेनानुपात्तमप्यर्थसामर्थ्यादव- गम्यते अत्यन्तोपशान्तचित्तत्वं नाम । एवमयं निमित्तादर्शने वत्युपात्तोप- मानोपमेयभावो व्यतिरेक उदाहृतः । निमित्तोपादाने तु तस्योदाहरणमु- नेयम् । एवमेते चत्वारो व्यतिरेकाः प्रतिपादिताः । निमित्तदर्शनादर्श- नाभ्यां यौ व्यतिरेको तयोः प्रत्येकमुपमानोपमेयभावस्य इवाधुपादानानुपा- दानाभ्यां द्विभेदत्वात् । एषामपि चतुर्णी व्यतिरेकाणां श्लिष्टोक्तियोग्यश- ब्दोपादाने सति पुनरपरे पूर्वोपक्रान्तेनैव रूपेण चत्वारो भेदा भवन्ति । तदाह- श्लिष्टोक्तियोग्यशब्दस्य पृथक्पृथगुदाहृतौ । विशेषापादनं यत्स्याव्यतिरेकः सं च स्मृतः ॥ - 32 ३८ काव्यालङ्कारसार- 'एकप्रयत्नोचार्याणामि'त्यादिवक्ष्यमाणलक्षणं श्लिष्टम् । श्लिष्टालङ्कारस- मुचितं यदुच्चारणं तत्समुचितस्य शब्दस्य यदा तन्त्रेण सदृशशब्दान्तरोपा- दानहेतुतया वा प्रयोगो न क्रियते अपि तु पृथक् पृथगुच्चारणं, तदा विशेषापादने सति व्यतिरेको भवति । तस्योदाहरणम्--- या शैशिरी श्रीस्तपसा मासेनैकेन विश्रुता । तपसा तां सुदीर्घेण दूराद्विदधतीमधः ।। अत्र शिशिरशोभा उपमानं, भगवती उपमेया, तयोश्च साधारणो धर्म- स्तपोयुक्तत्वं नाम । एकत्र तपो माघो मासः, अपरत्र त्वभ्युदयहेतुः कृच्छ्रा- चरणम् । इवादयश्चात्रानुपात्ता अपि सामर्थ्यादवगम्यन्ते । व्यतिरेकस्तु दूराद्विदधतीमध इति । तस्य च निमित्तं मासैक्यं दीर्घत्वं च तपसोः । तच्च यथाक्रममुपमानोपमेयगतत्वेनोपात्तम् । तत्र च वत्यादिना अनुपात्ते उपमानोपमेयभावे निमित्तदर्शनेन व्यतिरेक उदाहृतः। एवमनया दिशा अन्यदपि श्लिष्टोक्तियोग्यशब्दनिबन्धे सति व्यतिरेकस्य पूर्वोक्तनयेन भेद- त्रयमुदाहार्यम् ॥ विभावना- क्रियायाः प्रतिषेधे या तत्फलस्य विभावना। ज्ञेया विभावनवासौ समाधौ सुलभे सति ।। इह यत्किचिज्ज्ञायते तत्सर्वं क्रियाफलम् । क्रियामुखेन कारणेभ्यः कार्योत्पत्तेः प्रातीतिकेन रूपेण परिदृश्यमानत्वात् सर्वेषां फलभूतानां क्रियैवाव्यवहितं कारणम् । यत्र च क्रिया प्रतिषिध्यते अथ च क्रियाफल- स्योत्पत्तिरुपदिश्यते तत्र विभावनाख्योऽलंकारः । कारणविगमे किल कार्यस्य तत्रोत्पत्तिरुपवर्ण्यते । अतो विरुद्धाभासा भावना उत्पादना, तेन विभावना । नन्वेवं सति व्यर्थदोषत्वप्रसङ्गः विरुद्धार्थ मतं व्यर्थम्' इति अत आह-समाधौ सुलभे सतीति । समाधिः परिहारः । यत्र विरोधस्य सुलभः परिहार इत्यर्थः । तस्या उदाहरणम्- अङ्गलेखामकाश्मीरसमालम्भनपिञ्जराम् । अनलक्तकताम्राभामोष्ठमुद्रां च बिभ्रतीम् ।। - २ वर्गः] लघुवृत्तौ अङ्गलेखा शरीरयष्टिः । काश्मीर कुङ्कुमम् । येयं पीतच्छायता शरी- रस्य सा नायिकानां कुङ्कुमसमालम्भनलक्षणक्रियाकार्या प्रायेण परिदृश्यते, भगवत्यास्तु शरीरे पीतच्छायत्वं न कुङ्कुमसमालम्भनेनोत्पादितम् । अतः कुङ्कुमसमालम्भनलक्षणायाः क्रियाया विगमे फलस्य पीतच्छायत्वस्यात्रो- पदेशः । परिहारश्चात्र खाभाविकतया तच्छायत्वमिति । तेनेयं विभा- वना । अनलक्तकताम्राक्षामित्यत्रालक्तककारणिकाया रागक्रियाया निषेधे तत्फलस्य लौहित्यस्य उत्पत्तिः खाभाविकी निर्दिष्टा । अतो विभावना । अत्र च कुङ्कुमादिसंपाद्येन पिञ्जरत्वादिना उपमानभूतेन खाभाविकस्य पिञ्जरत्वादेरुपमेयभूतस्याभेदाध्यवसायोऽतिशयोक्त्या द्रष्टव्यः ॥ समासोक्तिः- प्रकृतार्थेन वाक्येन तत्समानैर्विशेषणैः । अप्रस्तुतार्थकथनं समासोक्तिरुदाहृता ॥ यत्र प्रस्तुतार्थनिष्ठं वाक्यं तत्समानैर्विशेषणैस्तेनाप्रकृतेनार्थेन तुल्यानि यानि विशेषणानि तद्वारेण सादृश्यवशादप्रस्तुतमर्थमुपमानभूतं कथयति, सा संक्षेपेणोपमानोपमेयलक्षणार्थद्वितयाभिधानात्समासोक्तिः । तस्या उदाहरणम्- 3५ दन्तप्रभासुमनसं पाणिपल्लवशोभिनीम् । तन्वीं वनगतां लीनजटाषट्चरणावलिम् ॥ अत्र दन्तप्रभापाणिजटा भगवतीविशेषणभूता यथाक्रमं लतागतसुम- नःपल्लवषट्चरणरूपेण आरोपेण व्या(प्ताः) (8) तद्भावमापद्यन्ते । तनुत्वं तु भगवतीलतयोः साधारणो धर्मः । वनशब्देन च रूपकप्रतिभो- त्पत्तिहेतुना श्लेषेण भगवतीतपश्चर्याधारभूतमुदकं लताधारेण काननेन रूप्यते । अत एतान्यत्र प्रकृताया भगवत्या अप्रकृतया लतया समा- नानि विशेषणानि । तत्सामर्थेन च प्रकृतया भगवत्या उपमेयभूतया लता उपमानत्वेनाक्षिप्यते । तेनेयं समासोक्तिः ।

काव्यालङ्कारसार- का - अतिशयोक्तिः- निमित्ततो यत्तु वचो लोकातिक्रान्तगोचरम् । मन्यन्तेऽतिशयोक्तिं तामलंकारतया बुधाः ॥ भेदेऽनन्यत्वमन्यत्र नानात्वं यत्र बध्यते । तथा संभाव्यमानार्थनिवन्धेऽतिशयोक्तिगीः॥ कार्यकारणयोर्यत्र पौर्वापर्यविपर्ययात् । आशुभावं समालम्ब्य बध्यते सोऽपि पूर्ववत् ॥ यद्वचनं किंचित्कारणमाश्रित्य लोकातिक्रान्तगोचरमुपनिबध्यते साति- शयोक्तिः । तस्याश्च चत्वारो भेदाः । यत्र भेदे अन्यत्वे अनन्यत्वमैक्यं स एकः । अन्यत्राभेदे ऐक्ये नानात्वं भेदो यत्र स द्वितीयः। तथा बहि- रविद्यमानस्यार्थस्य संभावनामात्रणोपनिबन्धे तृतीयः । कार्यकारणयोस्तु कार्यस्य शीघ्रमेवोत्पादात्पौर्वापर्यविपर्ययेण चतुर्थो भेदः । तत्राद्यस्य भेद- स्योदाहरणम्- तपस्तेजःस्फुरितया निजलावण्यसंपदा । कृशामप्यकृशामेव दृश्यमानामसंशयम् ॥ अत्र यासावकार्यावस्था भगवत्याः पूर्वमभूत्ततो भिन्नमपि तपोजनितं काश्य तदभेदेनोपनिबद्धमकृशामेवेति । तत्र च निमित्तं तपस्तेजसा सवि- शेषत्वमापादितः सौन्दर्यसंभारः । अतो निमित्तवशेन लोकातिक्रान्तो गोचरोऽस्य वाक्यस्य । तेनेयमतिशयोक्तिः । द्वितीयस्य तु भेदस्योदाहरणम्- अचिन्तयच्च भगवानहो नु रमणीयता । तपसास्याः कृतान्यत्वं कौमाराद्येन लक्ष्यते ॥ अत्र भगवती कुमारीभावेऽपि वर्तमाना तदुत्तरकालभाविनी यासौ 'यौवनावस्था तयुक्तत्वेनोपनिबद्धा कौमारादन्यत्वमिति । निमित्तं चात्र तपोजनिता रमणीयता । तेनायमभेदे भेदोपनिबन्धः । - 32 २ वर्गः] लघुवृत्तौ तृतीयस्य पुनर्भेदस्योदाहरणम्- पतेद्यदि शशिद्योतच्छटा पझे विकाशिनि । मुक्ताफलाक्षमालायाः करेऽस्याः स्यात्तदोपमा ।। शशिद्योतच्छटा चन्द्रप्रकाशप्रकारः । अस्याः करे मुक्ताफलाक्षमाला- यास्तदा उपमा स्यादिति संबन्धः । अत्र रजनिकरकरसंपर्के सति कम- लस्य संकोचावलोकनाद्विकाशित्वं बहिरसंभवदपि कविप्रजापतिना प्रति- भोपजनितेन खव्यापारेण संभवद्रूपतया प्रदर्शितम् । अतोऽत्र संभाव्यमा- नार्थनिबन्धः । तस्य च लोकातिक्रान्तगोचरस्यार्थस्य संभावनाया निमित्तं भगवतीकराधारतया मुक्ताफलाक्षमालावलोकनम् । तथाहि-अयं तावल्लो- कातिक्रान्तोऽपरिदृष्टपूर्वोऽसाभिः गौरीकरमुक्ताफलाक्षमालयोराधाराधेयभा- वोऽवलोकितः । तत्सजातीयस्य पद्मस्य विकाशिनश्चन्द्रकराणां च यद्याधाराधेयभावः स्यात्तदात्रोपमानोपमेयभावो भवेदिति संभावना प्रवृत्ता। अतोऽत्र सजातीयपदार्थदर्शनाद्वहिरसंभवदपि वस्तु संभवद्रूपतयोपवर्ण्यते । एकस्मिन् खलु पदार्थे परिदृष्टे अन्यस्मिन्ननवलोकितेऽपि तत्सजातीयसंभा- वना प्रवर्तते । यथा दाक्षिणात्यस्यैकस्मिन्नुष्ट्रे परिदृष्टे सत्यपरिदृष्टोष्ट्रान्तर- संभावना । अतोऽत्र संभावना सनिमित्ता । अनेन च प्रकारेणात्रोपमाना- भावः प्रकृतस्य वस्तुनः प्रदयते नास्त्यन्यत्किंचिदस्योपमानमिति । अत एव संभाव्यमानतयार्थस्योपनिबद्धस्य निराचिकीर्षया यदिशब्दः प्रयुक्तः । यदिशब्देन ह्यत्राशका द्योत्यते । आशङ्का चानिश्चितसद्भावे वस्तुनि भवति । यच्चानिश्चितसद्भावं कविवेधसा संभवद्रूपतयोपदर्शितं वस्तु तस्य पुराणप्रजापतिनिर्मितपदार्थविषयया तद्विरुद्धया लोकप्रतीत्या यावन्निरा- क्रियमाणत्वं तावन्निरुपमत्वं प्रतीयते । एवमयं तृतीयो भेदः । चतुर्थस्तु- मन्ये च निपतन्त्यस्याः कटाक्षा दिक्षु पृष्ठतः । प्रायेणाग्रे तु गच्छन्ति स्मरबाणपरम्पराः ॥ अत्र दिक्षु कटाक्षपातः कारणम् । सरवाणपरम्परागमनं तु कार्यम् । .

४२ काव्यालङ्कारसार- "? .. कार्यकारणयोस्तु कारणस्य नैसर्गिक प्राग्भावित्वं कार्यस्य तु पश्चाद्भावि- त्वम् । इह तु विपर्ययः । कार्यस्य प्राग्भावेनोपनिबन्धनात् । पश्चाद्भावित- त्वेन च कारणस्य कटाक्षा दिक्षु पृष्ठतः पश्चात् पतन्ति अग्रे स्मरबाणपर- म्परा गच्छन्तीति अत्र निमित्तं ( अनु ) कार्यस्य शीघ्रमेवोत्पादः। तेनेदं निमित्ततो लोकातिक्रान्तगोचरं वचनम् । अतोऽतिशयोक्तिः ॥ इति महाश्रीप्रतीहारेन्दुराजविरचितायामुद्भटालङ्कारसार- संग्रहलघुवृत्तौ द्वितीयो वर्गः॥ .. अथ तृतीयो वर्गः। यथासंख्यमथोत्प्रेक्षा स्वभावोक्तिं तथैव च । अपरे त्रीनलङ्कारान् गिरामाहुरलङ्कृतौ ॥ यथासंख्यम्- भूयसामुपदिष्टानामर्थानामसधर्मणाम् । क्रमशो योऽनुनिर्देशो यथासंख्यं तदुच्यते ॥ पूर्वमुद्दिष्टानामर्थानां यदा क्रमेणार्थान्तराण्यनुनिर्दिश्यन्ते तदा यथासं- ख्याख्योऽलङ्कारः । तत्र हि संख्योपलक्षितक्रमानतिक्रमेण शब्देनानुपा- तोऽपि पदार्थानामन्वयः समाश्रीयते । अतो यथाक्रमं पदार्थानामन्वय- ध्वननादेतस्यालङ्कारस्य यथासंख्यता । स चालङ्कारो बहूनामल्पशोऽप्युप- निबध्यमानो यतः शोभावद्धो भवति अतो भूयसामित्युक्तम् । द्वयोर्हि तस्योपनिबध्यमानस्य यावच्चतुर्गुणत्वादिरूपतयोपनिबन्धो न कृतः ताव- च्छोभोपेतत्वं न भवति । भूयसां पुनरर्थानां तद्यथासंख्यमल्पेनैव प्रयासेन रम्यं भवति । तत्र हि तस्य द्विगुणस्य त्रिगुणस्य वोपनिबन्धे शोभातिशयो जायते । तदुक्तम्- तद्विगुणं त्रिगुणं वा बहुद्दिष्टेषु जायते रम्यम् । यत्तेषु तथैव ततो द्वयोस्तु बहुशो निवनीयात् ।। इति ।

Pa- ३ वर्गः] लघुवृत्तौ। ननु "मृणालहंसे"त्यादावुपवर्णयिष्यमाणे उदाहरणे मृणालादिभ्य उपमानेभ्यो बाहादीनामुपमेयानां विशेषख्यापनाव्यतिरेकालङ्कारेण सह- दयहृदयाण्यावय॑न्ते, न तु यथासंख्येन । तत्कथं यथासंख्यमलङ्कार इत्याशङ्कयोक्तम्-"असधर्मणामिति" । यत्रापि हि साधाभावादुपमा- नोपमेयभावाभावेन व्यतिरेकादेरुपनिबन्धाभावस्तत्राप्ययं शोभातिशयमाव- हतीत्यर्थः । यथा- कजलहिमकनकरुचः सुपर्णवृषहंसवाहनाः शं नः । जलनिधिगिरिपद्मस्था हरिहरचतुरानना ददतु ॥ इति । अत्र हि हरिप्रभृतीनां त्रयाणामुद्दिष्टानां कज्जलरुक्त्वसुपर्णवाहनत्वज- कनिधिस्थत्वादयो धर्माः क्रमेणानुनिर्दिष्टाः । न च तत्र परस्परसाधर्म्य विद्यते । अथ च क्रमपर्यालोचनया अर्थानामानुरूप्येण समन्वयप्रतीतेः शोभातिशयो विद्यते । तेनास्य साधाद्यभावेऽपि पृथगलकारताप्रतिल- म्भाद्यत्र साधादि विद्यते तत्राप्यलङ्कारत्वं दुर्निवारम् । अतो "मृणाल- 322 हंसे"त्यादिके उदाहरणे यथासंख्यमङ्गभूतं व्यतिरेकालङ्कारस्य द्रष्टव्यम् । तेनायमङ्गाङ्गिभावे सङ्करः । यद्वक्ष्यति "परस्परोपकारेण यत्रालङ्कृतयः स्थिताः । वातन्त्र्येणात्मलाभं नो लभन्ते सोऽपि सङ्करः" ॥ इति । अतो यथासंख्यं पृथगलङ्कारत्वेनोपदेष्टव्यम् । तस्योदाहरणम्- 34 मृणालहंसपद्मानि बाहुचनमणाननैः । निर्जयन्त्यानया व्यक्तं नलिन्यः सकला जिताः ॥ अत्र बाहुचक्रमणाननानामुद्दिष्टानां यथाक्रमं मृणालहंसपद्मान्यनुनिर्दि- ष्टानि । तद्वशेन च शब्दानुपात्तस्यापि तदन्वयस्य गीकृतत्वेन वक्रमणि- तिसद्भावाद्यथासंख्यमलङ्कारः ।। उत्प्रेक्षा- साम्यरूपाविवक्षायां वाच्येवाद्यात्मभिः पदैः। 33 अतद्गुणक्रियायोगादुत्प्रेक्षातिशयान्विता ॥ यत्रेवादिपदनिबन्धः साम्यस्य च रूपं न विवक्ष्यते तत्रोत्प्रेक्षाल्योऽल- ४४ काव्यालङ्कारसार- कारः । नन्वेवं सत्यसंभवो नाम लक्षणदोषः प्राप्तः। द्योत्यस्योपमानोपमे- यभावस्याभावे सति इवादीनामप्रयोगप्रसङ्गादित्याशङ्कयोक्तं "अतद्गुणक्रि- यायोगादि"ति । द्रव्यधर्मः सिद्धो गुणः । साध्यखभावस्तु क्रिया । इदं खलु विश्वं खतन्त्रपरतन्त्रपदार्थात्मकत्वाद्विविधम् । यश्च स्वतन्त्रः पदार्थः स धर्मीत्यभिधीयते । तच्च इदं तदिति सर्वनामप्रत्यवमर्शयोग्यत्वाद्र्व्यम् । परतन्त्रस्य पदार्थस्य धर्मरूपता । तस्य च द्वैविध्यम् । सिद्धसाध्यताभे- दात् । तत्र यः सिद्धो धर्मः स गुणः । यस्तु साध्यः सा क्रिया । एताव- न्तश्च लौकिकाः पदार्थाः । सामान्यादीनामत्रैव प्रातीतिकेन रूपेणान्तर्भू- तत्वात् । अत्र असौप्रकृतो योऽर्थस्तस्य ये क्रियागुणा अनन्तरोक्तलक्ष- णास्तद्योगात्साम्यरूपाविवक्षायामपि इवादिशब्दप्रवृत्तिरविरुद्धा । यत्र किलोपमानोपमेयभावेन साम्यं तत्रोपमानसादृश्यादुपमानवर्तिनां क्रियागु- णानां उपमेयप्रतीतिर्भवति । उत्प्रेक्षायामपि च योऽसावसः अप्रकृतस्तस्य रिख ये क्रियागुणास्ते तस्मिन्नप्रकृते वस्तुन्युपमानतयानुल्लिङ्गितेऽपि प्रकृते वस्तु- न्यासज्यन्ते । तेनातद्गुणक्रियायोगादस्या इवादिवाच्यत्वम् । अत एवान्य- धर्माणां खधर्मिभूताद्वस्तुन उत्कलितानां रसभावाद्यभिव्यक्त्यनुगुणतया वस्त्वन्तराध्यस्तत्वेन लब्धप्रकर्षाणामीक्षणादियमुत्प्रेक्षा । नन्वेवमपि सुत- रामसंभवः । न हि वस्त्वन्तरधर्मा वस्त्वन्तरे समासक्तुं शक्या इत्याशङ्कयो- क्तम्-अतिशयान्वितेति । पुराणप्रजापतिविहितरूपविपर्यासेन कविवे- घसा पदार्थस्य गुणातिशयविवक्षया रूपान्तरमप्यासक्तुं शक्यत इत्यर्थः । इयं चोत्प्रेक्षा बहिरसंभवतः पदार्थस्य संभवद्रूपतयोपवर्णनाल्लोकाति- क्रान्तविषया संभावना । तस्याश्च द्वैविध्यम् , भावस्याभावस्य च बहिरसं- भवत उपवर्ण्यमानत्वात् । तदाह- लोकातिक्रान्तविषया भावाभावाभिमानतः । संभावनेयमुत्प्रेक्षा येयं लोकातिक्रान्तविषया संभावना उत्प्रेक्षा सा भावस्याभावस्य चा- भिमानात् द्वैविध्यं भजत इत्यर्थः । नन्विवाद्युपनिबन्धे सति यद्युत्प्रेक्षा 33 , ३ वर्गः] लघुवृत्ती ४५ भवतीत्युच्यते, एवं सति "चन्दनासक्तभुजगनिश्वासानिलमूर्छितः । मूर्च्छयत्येष पथिकान्मधौ मलयमारुतः" ॥ इत्येवमादाविवादेरप्रयोगादुत्प्रे- क्षात्वाभावप्रसङ्ग इत्याशङ्कयाह- वाच्येवादिभिरुच्यते । द्विविधा खलूत्प्रेक्षा । काचिदिवादिप्रयोगे सति भवति, काचित्त्वप्रयु- ज्यमानेष्वपीवादिष्वर्थसामर्थ्यादवगम्यमानेषु । तत्र या वाच्या स्वकण्ठे- नेवादिभिर्वक्तव्या सा इवादिभिरुच्यते । या त्वर्थसामर्थ्याक्षिप्तैरिवादिभि- रवगम्यते तत्रेवादीनामप्रयोगः । 'चन्दनासक्तभुजग' इत्यादौ च मलय- मारुतस्य यदेतन्मन्मथाविर्भावनिबन्धनत्वात्पथिकमू हेतुत्वं तत्र भुजग- निश्वासमूच्छितत्वे कारणत्वेनोत्प्रेक्ष्यमाणे इवाद्यर्थोऽर्थसामर्थ्यादवगम्यते । तेनेवादीनामप्रयोगः । इवादिशब्दसामर्थ्यावसेयायामेवोत्प्रेक्षायामिवादीनां प्रयोगात् । तत्र भावाभिमानेनोत्प्रेक्षायां तस्या गुणयोगाध्यासेन प्रवृत्ताया उदाहरणम् अस्याः सदार्कबिम्बस्थदृष्टिपीतातपैजेपैः । श्यामिकाङ्कन पतितं मुखे चन्द्रभ्रमादिव ॥ अस्या मुखे जपैहेतुभूतैः श्यामिकाङ्केन पतितमिति संबन्धः । अत्र जपासक्ता भगवती अर्कमवलोकयतीति तस्याः शशाङ्कसदृशे मुखे श्या- मिका संजाता। तच्चात्र तस्याः श्यामिकाया जन्म अतिशयोक्त्या पात- रूपतया प्रतिपादितं पतितमिति । सा चात्र श्यामिका शशिलान्छनेन शशेन तुल्या । अतस्तस्याः शशिलाञ्छनशशतुल्यत्वादुपसर्जनोपमेयं रूपकं श्यामिकैवाङ्क इत्युपनिबद्धम् । तस्य चाङ्कस्य श्यामिकोपरक्तस्य भगवतीवदननिपाते कारणत्वेनेन्दुभ्रान्तिरुत्प्रेक्षिता । यदेतच्छशिनो ला- ञ्छनं श्यामिकारूपं तद्भगवतीवदन इन्दुभ्रान्त्येव निपतितमिति । इन्दु- भ्रान्तिश्च गुणः । सिद्धरूपत्वे सति द्रव्यधर्मत्वात् । एवं चात्र शशसदृशी श्यामिका चैतन्यशून्यत्वेन भगवतीवदनमिन्दुभ्रान्त्या न गोचरीकरोति । अथ च तस्याः शशभावमापादिताया इन्दुभ्रमलक्षणेन चेतनधर्मेण संबन्धो - + ५ काव्यालङ्कारसार- अ निबद्धः । तेनात्र तस्य वस्त्वन्तरस्य चेतनस्य योऽसौ गुणो भ्रमलक्षणस्त- द्योगादिवादेः प्रवृत्तिः । इन्दुभ्रमश्च भावरूपो गुणः शशीकृतश्यामिकाक- र्तृकतया कविनिबद्धेन वक्त्रा भगवताभिमानेनाध्यवसितः । तेनेयमतद्गुण- योगेन भावाभिमानेन उत्प्रेक्षा । एवं क्रियायोगाध्यासाद्भावाभिमानेन योत्प्रेक्षा तस्यामुदाहार्यम् । अभा- वविषयायाः पुनः क्रियाध्यासेन प्रवृत्तायास्तस्या उदाहरणम्- कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ । अपश्यन्ताविवान्योन्यमीक्षां क्षामतां गतौ ॥ अत्र कपोलफलकयोस्तपोवशात् क्षामत्वमापन्नयोः परस्परादर्शनमभाव- रूपं साध्यत्वात् क्रियारूपंक्षामतायां कारणतयोत्प्रेक्षितम् । तेनेयमतक्रिया- योगादभावाभिमानेनोत्प्रेक्षा । एवमतद्गुणयोगादभावाभिमानेन या उत्प्रेक्षा तस्यामुदाहार्यम् । स्वभावोक्तिः- क्रियायां संप्रवृत्तस्य हेवाकानां निबन्धनम् । कस्यचिन्मृगडिम्भादेः खभावोक्तिरुदाहृता । मृगबालादेः खसमुचिते व्यापारे प्रवृत्तस्य ये हेवाकाः स्वजात्यानुरू- प्येणाभिनिवेशविशेषास्तदुपनिबन्धः स्वभावोक्तिः । तस्याश्चालङ्कारत्वम- साधारणपदार्थखरूपध्वननात् । तस्या उदाहरणम्- क्षणं नंष्ट्वार्धवलितः शृङ्गेणारे क्षणं नुदन् । लोलीकरोति प्रणयादिमामेष मृगार्भकः ॥ नंष्ट्वेति । 'जान्तनशां विभाषा' इत्यनुनासिकलोपस्य विकल्पितत्वाद- प्रवृत्तिः । अत्र मृगपोतकस्य मातरमिव वत्सलां भगवती प्रणयनिर्भरेण चेतसा व्याकुलीकुर्वतः खभावो निबद्धः क्षणमपरिदृश्यमानत्वमर्धकायेन परिवृत्तिः शृङ्गेण च नोदनमित्येवमात्मा ॥ इति श्रीमहाप्रतीहारेन्दुराजविरचितायामुद्भटालङ्कारसार- संग्रहलघुविवृत्तौ तृतीयो वर्गः ।। - ४ वर्गः] लघुवृत्ती अथ चतुर्थो वर्गः। प्रेयोरसवदूर्जखि पर्यायोक्तं समाहितम् । द्विधोदात्तं तथा श्लिष्टमलङ्कारान्परे विदुः ॥ प्रेयोरसवदिति समुदायान्मतुप् । श्लिष्टमिति । तथा उदात्तवविविध श्लिष्टमित्यर्थः । विप्रतिपत्तिनिरासार्थ चात्र श्लिष्टस्य द्वैविध्यमुक्तम् । भामहो हि "तत्सहोत्तयुपमाहेतुनिर्देशात्रिविधं यथा" इति श्लिष्टस्य त्रैविध्यमाह । अतो विप्रतिपत्तिनिरासाय तथेत्युक्तम् । उदात्ते तु द्विधे- त्ययमनुवादो दृष्टान्तत्वार्थः । यथा उदात्तस्य द्वैविध्यं प्रमाणोपपन्नत्वाद- ङ्गीकृतं तथा श्लिष्टस्यापि तदङ्गीकर्तव्यमित्यर्थः ॥ प्रेयस्वत् तावत्- रत्यादिकानां भावानामनुभावादिसूचनैः । यत्काव्यं बध्यते सद्भिस्तत्प्रेयस्खदुदाहृतम् ।। रत्यादयो भावास्त्रिविधाः स्थायिनो व्यभिचारिणः सात्विकाश्च । तत्र- "रतिहासश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्साविस्मयसमाः स्थायिभावाः प्रकीर्तिताः॥ निर्वेदग्लानिशङ्काख्यास्तथासूयामदश्रमाः । आ- लस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिधृतिः ॥ ब्रीडा चपलता हर्ष आवेगो जडता तथा । गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ।। सुप्तं विबोधोऽमर्षश्चाप्यवहित्थमथोग्रता । मतिर्व्याधिस्तथोन्मादस्तथा मर- णमेव च ॥ त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः। त्रयस्त्रिंशदमी भावाः ॥ स्तम्भः खेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्विकाः स्मृताः" ॥ एतेषां पञ्चाशत्संख्यानां भावानां सूचकाश्च- त्वारोऽनुभावादयः । ते चानुभावो विभावो व्यभिचारी खशब्दश्च । तत्रानुभावश्चतुर्विधः । आङ्गिको वाचिकः सात्त्विक आहार्यश्च । आ- ङ्गिको हस्ताभिनयादिः । वाचिकः काकादिप्रयोगः । सात्विकः स्त- म्भादिः । आहार्यस्तु प्रतिशीर्षकञ्चुकादिः । एवमयमनुभावश्चतुःसंख्यः कार्यत्वात्कारणभूतान्भावान् गमयति ।। woma ॥

काव्यालङ्कारसार- विभावस्तु द्विविधः । आलम्बनोद्दीपनरूपत्वात् । तत्रालम्वनविभावो यदाश्रयेण रत्यादीनामुदयः, यथा रामादेः सीतादिः । उद्दीपनविभावस्तु यद्वशेन रत्यादीनां भावानामतिशयेन दीप्तता भवति, यथा ऋतुमाल्यानु- लेपनादिः । एवमेष द्विविधो विभावो रत्यादीनां कारणभूतः । स च कारणत्वात्कार्यभूतान् रत्यादीन् गमयति यथातिबहलनीलजलदोदयो वृष्टिम् । यथा हि कार्यस्य सुविवेचितस्य कारणं प्रत्यव्यभिचारिता एवं कारणस्यापि सुविवेचितस्य कार्य प्रत्यव्यभिचारिता व्यवहारे बाहुल्येन दृश्यते । अतो विभावः कारणत्वात् रत्यादीन्कार्यभूतान् गमयति । व्यभि- चारी तु रत्यादिकानां स्थायिनां भावानामवस्थाविशेषरूपो निर्वेदादिः। स च सहचारित्वात् स्थायिनो भावान्प्रतिपादयति रथस्यैकमिव चक्रं चक्रा- न्तरम् । स्वशब्दस्तु रत्यादिः । स च वाचकत्वाद्भावान् गमयति । रत्या- दीनां च शब्दानां यद्यप्यनुभावैकगोचरस्खलक्षणस्वभावरत्याद्यवगतिनिबन्ध- नत्वं नोपलभ्यते, तथाप्यंशेन रत्याद्यवगतिनिबन्धनत्वमनुभावादिवद्विद्यत एव । यथा खल्वनुभावादयो न स्खलक्षणतया भावानवगमयन्ति अपितु सामान्यरूपतया तद्वत्स्वशब्दा अपीत्यास्ताम् । एवमेते भावानामवगतिहेतवश्चत्वारः । यदुक्तं भट्टोद्भटेन "चतूरूपा भावा" इति । तदेषां रत्यादिकानां भावानां पञ्चाशत्संख्यानां यान्यनुभा- वादिभिश्चतुःसंख्यैः समस्तत्वेन व्यस्तत्वेन च यथायोगं सूचनानि स्वलक्षण- खरूपाणां सामान्यावस्थापादितानां प्रतिपादनानि तैः काव्यमुपनिबध्यमानं प्रेयस्वत् । प्रेयःशब्दवाच्येन प्रियतरेण रत्यालम्बनेन विभावनेन रतिरुप- लक्ष्यते । तया च साहचर्याद्रत्यादयो भावाः पञ्चाशदवगम्यन्ते । एवं च भावकाव्यस्य प्रेयस्वदिति लक्षणया व्यपदेशः । अत्र च भावानामलङ्कारता, काव्यमलङ्कार्यम् । तस्योदाहरणम्- इयं च सुतवात्सल्यान्निर्विशेषा स्पृहावती । उल्लापयितुमारब्धा कृत्वेमं क्रोड आत्मनः ॥ आत्मनः क्रोडे कृत्वेति संबन्धः । अत्रात्मनो वक्षसि निधानमाङ्गि- . - ] " . ४ वर्गः] लघुवृत्तौ कोऽभिनयः, उल्लापनं सान्त्वनं वाचिकः । इममिति इदंशब्देन परामृष्टो यो मृगार्भकः स आलम्बनविभावः । वात्सल्योन्मीलितश्चौत्सुक्यात्मा व्यभिचारीभावः । सुतवाल्लभ्यनिर्विशेषत्वेन हि स्पृहाया रतेरौत्सुक्यभेदा- भिसंबन्धः प्रतीयते । खशब्दस्तु स्पृहेति । एवमयं रत्यात्मको भावो वात्सल्यखभावश्चतुर्भिरनुभावादिभिरत्रावगमितः । अन्येष्वपि भावेष्वेव- मुदाहार्यम् । रसवत्- रसवदर्शितस्पष्टशृङ्गारादिरसादयम् । 32. स्वशब्दस्थायिसंचारिविभावाभिनयास्पदम् ॥ शृङ्गारहास्यकरुणरौद्रवीरभयानकाः। बीभत्साद्भुतशान्ताश्च नव नाट्ये रसाः स्मृताः ॥ एते च शृङ्गारादयो नव यथायोगं चतुर्वर्गप्राप्युपायतया तदितरपरि- हारनिबन्धनतया च रत्यादीनां स्थायिनां नवानां भावानां यः परिपोषस्त- दात्मकाः । अतस्तथाविधेन रूपेणाखाद्यत्वादाखादभेदनिबन्धनेन तान्त्रि- केण रसशब्देनाभिधीयन्ते । निर्वेदादौ तु तथाविधस्याखाद्यस्याभावात्प्र- वृत्तिनिमित्तभेदनिबन्धनस्य तान्त्रिकस्य रसशब्दस्याप्रवृत्तिः । आखाद्यत्वमा- त्रविवक्षया तु तत्रापि मधुराम्लादिवद्रसशब्दप्रवृत्तिरविरुद्धा । यदुक्तं शृङ्गारादीन् रसाननुक्रम्य-"रसनाद्रसत्वमेषां मधुरादीनामिवोक्तमाचार्यैः । निर्वेदादिष्वपि तत्प्रकाममस्तीति तेऽपि रसाः" इति ॥ तदाहुः- चतुर्वर्गेतरौ प्राप्य परिहायौँ क्रमाद्यतः। चैतन्यभेदादास्वाद्यात्स रसस्तादृशो मतः ॥ इति स इति । चैतन्यभेद इत्यर्थः । तादृश इत्यनेन आखादविशेषनिब- न्धनत्वं शृङ्गारादिषु तान्त्रिकस्य रसशब्दस्योक्तम् । एषां च शृङ्गारादीनां नवानां रसानां खशब्दादिभिः पञ्चभिरवगतिर्भवति । यदुक्तं भट्टोद्भटेन- “पञ्चरूपा रसा" इति । तत्र खशब्दाः शृङ्गारादेर्वाचकाः शृङ्गारादयः शब्दाः । स्थायिनो रसानामुपादानकारणप्रख्या रत्यादयो नव भावाः ।

काव्यालङ्कारसार- R संचारिणस्तु निर्वेदादयो रसानामवस्थाविशेषरूपाः । विभावास्तु तेषां निमित्तकारणभूता योषिदादयः ऋतुमाल्यानुलेपनादयश्च । आङ्गिकादयस्तु चत्वारो रसानां कार्यभूता अभिनयाः । एतेषां च खशब्दादीनां पञ्चानां समस्तव्यस्ततया आस्पदत्वाद्येन काव्येन स्फुटरूपतया शृङ्गारादिरसावि- वो दर्यते तत्काव्यं रसवत् । रसाः खलु तस्यालङ्काराः । तस्योदा- हरणम्- इति भावयतस्तस्य समस्तान्पार्वतीगुणान् । संभृतानल्पसंकल्पः कन्दर्पः प्रबलोऽभवत् ।। विद्यतापि स गात्रेण बभार पुलकोत्करम् । कदम्बकलिकाकोशकेसरप्रकरोपमम् ॥ क्षणमौत्सुक्यगर्भिण्या चिन्तानिश्चलया क्षणम् । क्षणं प्रमोदालसया दृशास्यास्यमभूष्यत । कदम्बकलिकाकोशः कदम्बकलिकाभ्यन्तरम् । अत्र भगवत आभि- लाषिकविप्रलम्भशृङ्गारो निबद्धः । तस्य खशब्दः 'कन्दर्पः प्रबल' इति । स्थायी तत्रैव खशब्देनोन्मीलितः कन्दर्प इति । रतिपरिपोषात्मको हि शृङ्गारो रसः। रतिश्च यूनां मन्मथात्मिका । अतो रतिविशेषस्य वाचकत्वा- स्कन्दर्पशब्दः स्थायिनोऽत्र स्खशब्दः । संचारिणश्चौत्सुक्यचिन्ताहर्षाः खश- ब्देनोन्मीलिताः । खेदरोमाञ्चौ च सात्विको खशब्दोपात्तौ । तयोरपि च संचारित्वम् । सात्विकानां स्थायिभावावस्थाविशेषत्वेन निर्वेदादिवत्संचारि- त्वात् । विभावस्तु 'इति भावयतस्तस्य' इति निर्दिष्टः । भगवती हि तत्त. द्गुणोपेतत्वेन विभाव्यमाना विभावः । अभिनयस्त्वत्रापाङ्गाभिनयो नि- र्दिष्टो 'दशा' इति । अतोऽत्राभिलाषिकः शृङ्गाररसः खशब्दादिभिः पञ्च- भिरभिव्यज्यते । एवमन्येऽपि रसा उदाहार्याः । रसानां भावानां च काव्यशोभातिशयहेतुत्वात् किं काव्यालङ्कारत्वमुत काव्यजीवितत्वमिति न तावद्विचार्यते ग्रन्थगौरवभयात् । रसभावखरूपं चात्र न विवेचितम- प्रकृतत्वाबहुवक्तव्यत्वाच ॥

४ वर्गः] लघुवृत्ती ५१ - ऊर्जस्ति- अनौचित्यप्रवृत्तानां कामक्रोधादिकारणात् । भावानां च रसानां च बन्ध ऊर्जवि कथ्यते ॥ कचित्खलु रसभावानां शास्त्रसंविदविरुद्धेन रूपेणोपनिबन्धः क्रियते, कचित्तु तद्विरुद्धेन । तत्र यत्र शास्त्रसंविदविरुद्धेन रूपेण तेषामुपनिब- न्धस्तत्र प्रेयोऽलङ्कारो रसवदलङ्कारश्चाभिहितः। यत्र तु तद्विरुद्धत्वं तन्मू- लकलोकव्यवहारविरुद्धत्वं च तद्विषयाणां रसभावानामुपनिबन्धे सत्यूर्जखि- काव्यं भवति । तत्र हि रागद्वेषमोहकारणका अनौचित्येन रसभावा उप- निबध्यन्ते । अत एव तत्र स्वकल्पनापरिकल्पितत्वेन ऊर्जसो बलस्य विद्यमानत्वादूर्जखिव्यपदेशः । 'ज्योत्स्नातमिस्रे'त्यत्र ऊर्जखिशब्दः (पा. अ. ५।२।११४) ॥ तस्योदाहरणम् । तथा कामोऽस्य ववृधे यथा हिमगिरेः सुताम् । संग्रहीतुं प्रववृते हठेनोपास्य सत्पथम् ॥ अत्र सकललोकातिशायिनो भगवतोऽकृतविवाहकुमारीविषयतया हठ- संग्रहः शास्त्रसंविद्विरुद्धः प्रवृद्धरागकारणक उपनिबद्धः । तेन ऊर्जस्विता । तत्र कामो ववृधे इत्ययं शृङ्गारस्य खशब्दः । तस्य रतिपरिपोषात्मकत्वेन कामवृद्धिखभावत्वात्। कामशब्दस्त्वेतदन्तर्गतः + शृङ्गारस्य यासौ स्थायि- भूता रतिस्तस्याः खशब्दः हिमगिरेः सुतामित्यालम्बनविभावः। हठेने- त्यनेनावेगलक्षणो व्यभिचारीभावः प्रतिपादितः । अपास्य सत्पथमिति मोहः, संग्रहीतुं प्रवृत्त इति आङ्गिकोऽनुभावः । एवमयमत्र पञ्चभिः खशब्दादिभिरू खिलक्षणः शृङ्गारः सूचितः । एवमन्येष्डीलिमotlege खि उदाहार्यम् । Librarg. पर्यायोक्तम्- TIRUPATI. पर्यायोक्तं यदन्येन प्रकारेणाभिधीयते । No.32/22 वाच्यवाचकवृत्तिभ्यां शून्येनावगमात्मना । वाचकस्याभिधायकस्य खशब्दस्य वृत्तिापारो वाच्यार्थप्रत्यायनम्" .. तु -- ५२ काव्यालङ्कारसार- वाच्यस्य त्वभिधेयस्य व्यापारो वाच्यान्तरेण सहाकाङ्क्षासंनिधियोग्यतामा- हात्म्यात्संसर्गगमनम् । एवं विधश्च यो वाच्यवाचकयोापारस्तमन्तरेणापि प्रकारान्तरेणार्थसामर्थ्यात्मनावगमखभावेन यदवगम्यते तत्पर्यायेण खक- ण्ठानभिहितमपि सान्तरेण शब्दव्यापारेणावगम्यमानत्वात् पर्यायोक्तं वस्तु । तेन च स्वसंश्लेषवशेन काव्यार्थोऽलजियते । तस्योदाहरणम्- येन लम्बालकः सास्त्रः करघातारुणस्तनः । अकारि भमवलयो गजासुरवधूजनः । सोऽपि येन कृतः प्लुष्टदेहेनाप्येवमाकुलः । नमोऽस्त्ववार्यवीर्याय तस्मै मकरकेतवे ।। अत्र लम्बालकत्वादयः कार्यरूपत्वात् कारणभूतं गजासुरवधं वाच्य- चाचकव्यापारास्पृष्टमपि गमयन्ति । तेन च तथाविधया विच्छित्त्या अवगम्यमानेनार्थेन ते लम्बालकत्वादयोऽर्था अलत्रियन्ते । तस्मात्पर्या- योक्तमलङ्कारः॥ समाहितम्- रसभावतदाभासवृत्तैः प्रशमबन्धनम् । अन्यानुभावनिःशून्यरूपं यत्तत्समाहितम् ॥ इह रसभावानां शास्त्रसमयाविरुद्धेन तद्विरुद्धेन च रूपेण द्वैविध्यमु- क्तम् । तत्र ये शास्त्रसमयाविरुद्धा रसभावाः ते रसभावशब्देनात्र विव- क्षिताः । तद्विरुद्धास्तु तदाभासाः । तेषां रसभावानां तदाभासानां च या वृत्तिः खाश्रयसंबन्धात्मिका तस्याः प्रशमे निबध्यमाने समाहितालङ्कारो भवति । तत्र हि तेषां रसभावानां समाधानं समाधिः परिहारो भवति । समाहितमिति भावे क्तः । ननु यदि तस्मिन्काव्ये रसादीनां वृत्तिः परिहियते, एवं सति पूर्वर- सादिनिवृत्त्या रसाद्यन्तरोपनिबन्धाद्रसवदाधलङ्कारानुप्रवेशः प्रसक्त इत्या- शङ्कयोक्तं-अन्यानुभावनिःशून्यरूपमिति । अन्यस्य रसायन्तरस्य येऽ- नुभावादयः तैनिःशेषेण शून्यं रूपं यस्य तत्तथोक्तम् । यत्र पूर्वेषां रसा- - 1 ४ वर्गः] लघुवृत्तौ ५३ , दीनां वासनाया दान तेषूपशान्तेष्वपि रसायन्तराणां न खरूपमावि- र्भवति, आविर्भवदपि वा कार्यवशेन केनचित्तिरोधीयते, तत्र समाहिता- लङ्कारो भवति । तस्योदाहरणम्- अथ कान्तां दृशं दृष्ट्वा विभ्रमाच्च भ्रमं ध्रुवोः । प्रसन्नं मुखरागं च रोमाञ्चखेदसंकुलम् ॥ स्मरज्वरप्रदीप्तानि सर्वाङ्गानि समादधत् । उपासर्पगिरिसुतां गिरिशः स्वस्तिपूर्वकम् ॥ समादधन्निजे रूपेऽवस्थापयन् । समादधदित्यभ्यस्तत्वान्नुमोऽप्रवृत्तिः । अत्र भगवता शृङ्गारस्य येऽनुभावाः कान्तदृष्ट्यादयस्तेषामवहित्थेन आका- रप्रच्छादनात्मकेन भावेन तिरोधानं विहितम् । यदुक्तं स्वस्तिपूर्वक- मिति । अनेम ह्याकारतिरोधानमुपदर्शितम् । उदात्तम्- उदात्तमृद्धिमद्वस्तु चरितं च महात्मनाम् । उपलक्षणतां प्राप्तं नेतिवृत्तत्वमागतम् ।। ऋद्धिः सुवर्णादिधनसंपत्तिः । तद्युक्तं वस्तूदात्तम् । तेन च काव्या- र्थोऽलंक्रियते । तस्योदाहरणम्- उवाच च यतः क्रो. वेणुकुञ्जरजन्मभिः । मुक्ताफलैरलङ्कारः शबरीणामपीच्छया ॥ पुखेन्द्रनीलवैडूर्यपद्मरागमयैर्वियत् । शिरोभिरुल्लिखद्यत्र शिखरं गन्धमादनम् ॥ उत्तरोपत्यका यस्य प्रधानखर्णभूमयः। महान्मरकतोर्वीन्ध्रः पादोपान्तं च संश्रितः ॥ बभूव यस्य पातालपातिन्यां संक्षये क्षितौ । पतनं न तया सार्धमायामस्तु प्रकट्यभूत् ॥ यस्य एवंविधरूपता हिमाद्देर्भवती सुतेति संबन्धः । क्रोडः सूकरः । पुट्यो मणिविशेषः । गन्धमादनं पर्वतविशेषः । उपत्यकाः पर्वताधारव- न काव्यालङ्कारसार- तिनो भूमिभागाः । प्रधानं स्वर्ण कार्तखरादि ।' उर्वीधः पर्वतः । संक्षयः कल्पान्तः । भूमेरधोगमनाद्भूम्याश्लिष्टस्य प्रदेशस्य भूमिविविक्तत्वाद्धि- मवतः कल्पान्ते आयामः प्रकटीभूतः । अत्र रत्नादिसंभारो निबद्धः । तेनेदमुदात्तम् । तस्य चालङ्कारत्वं लोकातिशायिरत्नादिकार्यध्वननात् । एवमेतदृद्धिमद्वस्तुनिबन्धनेनैकमुदात्तमुक्तम् । न केवलमृद्धिमद्वस्तूदात्तं यावदर्थप्राप्तावनर्थपरिहारे चोद्यतानां विपु- लाशयानां चेष्टितमपि, तदुक्तम्-चरितं च महात्मनामिति । न च विपुलाशयचेष्टिते उपनिबध्यमाने तस्य शृङ्गारादिरसप्रतिपत्तिहेतुत्वाद्रसव- दलङ्कारानुप्रवेशोऽत्र सुभणः । विपुलाशयचेष्टितस्यात्र वस्त्वन्तरोपलक्षण- त्वेनावान्तरवाक्यार्थीभूतत्वात् । न खल्वत्र महापुरुषचेष्टितं वाक्यतात्पर्य- गोचरतामनुभवति । अर्थान्तरोपलक्षणपरत्वात् । यत्र च रसास्तात्पर्येणाव- गम्यन्ते तत्र तेषां वाक्यविश्रान्तिस्थानत्वेन चतुर्वर्गतदितरप्राप्तिपरिहारो- पायभूतस्थायिभावपरिपोषात्मनास्वाद्यमानत्वाद्रसवदलङ्कारो भवति । तेन कुतोऽत्र रसवदलङ्कारगन्धोऽपि । तदुक्तम्-उपलक्षणतां प्राप्तं नेतिवृ- तत्वमागतमिति । तस्योदाहरणम्- तस्यादिक्रोडपीनांसनिघर्षेऽपि पुनः पुनः । निष्कम्पस्य स्थितवतो हिमाद्देर्भवती सुता ॥ अत्र हिमवतः स्थैर्ये वाक्यार्थीभूते भगवतो वराहवपुषस्त्रैलोक्योद्धरणो- युक्तस्य चेष्टितं वीररसप्रतिपत्तिहेतुभूतमवान्तरवाक्यार्थत्वादुपलक्षणीभू- तम् । आदिक्रोड आदिवराहः । एवं रसान्तरेष्वप्युपलक्षणीभूतेषूदाहार्यम्।।- श्लिष्टम्---- ३५ एकप्रयत्नोच्चार्याणां तच्छायां चैव विभ्रताम् । खरितादिगुणैर्भिन्नैर्बन्धः श्लिष्टमिहोच्यते ॥ अलङ्कारान्तरगतां प्रतिभा जनयत्पदैः । द्विविधैरर्थशब्दोक्तिविशिष्टं तत्प्रतीयताम् ॥ इह खलु शब्दानामनेकार्थानां युगपदनेकार्थविवक्षायां द्वयी गतिः 31 ४ वर्गः] लघुवृत्ती ५५ अर्थभेदेन तावच्छन्दा भिद्यन्ते इति भट्टोद्भटस्य सिद्धान्तः । तत्रार्थभेदेन भिद्यमानाः शब्दाः केचित्तन्त्रेण प्रयोक्तुं शक्याः केचिन्न । येषां हल्खर- स्थानप्रयत्नादीनां साम्यं ते तन्त्रेण प्रयोक्तुं शक्यन्ते । यत्र तु हलामेक- त्वानेकत्वरूपत्वात्वराणां चोदात्तत्वानुदात्तत्वादिना स्थानानां चौष्ठ्यदन्त्यौष्ठ- त्यादिना प्रयत्नानां च लघुत्वालघुत्वादिना भेदस्तेषां तन्त्रेण प्रयोगः कर्तु- मशक्यः । साधारणरूपत्वात्तन्त्रस्य । तदुक्तम्- 'साधारणं भवेत्तन्त्रम्' इति । एवं चावस्थिते ये तन्त्रेणोच्चारयितुं शक्यन्ते ते एकप्रयत्नोच्चार्याः । तद्वन्धे सत्यर्थश्लेषो भवति । तदुक्तम्--एकप्रयत्नोचार्याणामिति । तथा ये तेषामेवैकप्रयत्नोच्चार्याणां शब्दानां छायां सादृश्यं बिभ्रति तदुप- निबन्धे च शब्दश्लिष्टम् । शब्दान्तरे उच्चार्यमाणे सादृश्यवशेनानुच्चारित- स्यापि शब्दान्तरस्य श्लिष्टत्वात् । तदुक्तम्-तच्छायां चैव विभ्रताम् । खरितादिगुणैर्भिन्नैर्बन्धः श्लिष्टमिति । तथा---शब्दोक्तिविशिष्टं त- त्प्रतीयतामिति । एतच्च श्लिष्टं द्विविधमप्युपमाद्यलङ्कारप्रतिभोत्पादन- द्वारेणालङ्कारतां प्रतिपद्यते । अतोऽनेनानवकाशत्वात् खविषयेऽलङ्कारा- न्तराण्यपोद्यन्ते, तेषां विषयान्तरे सावकाशत्वात् । तदुक्तम्-अलङ्का- रान्तरगतां प्रतिमा जनयत्पदैः । द्विविधैरिति । अलङ्कारान्तराणामत्र प्रतिभामात्रं न तु पदबन्ध इत्यर्थः । तदेवं शब्दश्लिष्टमर्थश्लिष्टं च लक्षि- तम् । तस्योदाहरणम्- खयं च पल्लवाताम्रभास्वत्करविराजिनी । प्रभातसन्ध्येवाखापफललुब्धेहितप्रदा ॥ इन्दुकान्तमुखी स्निग्धमहानीलशिरोरुहा । मुक्ताश्री स्त्रिजगद्नं पद्मरागानिपल्लवा ॥ अपारिजातवार्तापि नन्दनश्री वि स्थिता । अबिन्दुसुन्दरी नित्यं गलल्लावण्यबिन्दुका ॥ न केवलं त्वं हिमाद्रेरेवंविधस्य सुता यावत्स्वयं चैवंप्रकारेति च. शब्दः । अत्र भगवती किसलयवदाताम्रौ भावन्तौ दीप्तिमन्तौ यौ करौ ५६ काव्यालङ्कारसार- हस्तौ ताभ्यां विराजते । प्रभातसन्ध्या तु पल्लववदातानै खत आदित्यस्य करैर्मयूखैर्विराजते । अत्र चोभयत्रापि हलादीनां साम्यम् । अतस्तन्त्रेणो- च्चारणसंभवादयमर्थश्लेषः । अस्खापफललुब्धे हितप्रदेत्यत्र तु भगवतीपक्षे अस्खापं सुखेनाप्तुं यन्न शक्यते फलं तत्र ये लुब्धास्तेभ्य ईहितमीप्सितं प्रददातीत्यर्थः । प्रभातसन्ध्यापक्षे तु खापस्य निद्रानुभवस्य यत्फलं श्रम- निवृत्तिलक्षणं तत्र यो न लुब्धः सन्ध्योपासनप्रवृत्तत्वात्तद्विषयं हितमदृष्टं समर्पयतीत्येवं विधेत्यर्थः । अत्र च पूर्वस्मिन्पक्षे ऐकपद्यात् (पा. अ. ६। २।१४४) थाथादिखरेणान्तोदात्तत्वम् । उत्तरत्र पुनरखापफललुब्धे इति हितप्रदेति च अनयोभिन्नपदत्वान्नानाखरत्वम् । अखापफललुब्ध इत्यस्य "तत्पुरुषे तुल्यार्थेति" (पा. अ. ६।२।२) पूर्वपदप्रकृतिवरेणाधुतात्त- त्वात् । हितप्रदेत्यस्य तु (पा. अ. ६।२।१४४ ) थाथादिखरेणान्तोदा- तत्वात् । तेनात्र स्वरभेदः । अस्वापेति अकारस्य फललुब्धे इति च एकारस्य उभयोः पक्षयोर्यथायोगं लाघवालाघवाभ्यां प्रयत्नभेदोऽपि । अत- स्तन्त्रेणोच्चारयितुमशक्यता । एकस्मिंस्त्वत्र शब्दे समुच्चरिते शब्दान्तरस्य तत्सादृश्यात्पतिपत्तिः । अतोऽयं शब्दश्लेषः । एतयोश्च द्वयोरप्यर्थश्लेषशब्दश्लेषयोरुपमाप्रतिभोत्पत्तिहेतुत्वम् । प्रभात- सन्ध्या ह्यत्रोपमानम् । भगवती उपमेया । इवशब्दश्वोपमानोपमेयभावं द्योतयति । शब्दव्यतिरेकेण तु साधारणो धर्मोऽर्थाधिकरणोऽत्र न विद्यते। तेन नेयमुपमा अपितु श्लेष उपमाप्रतिभोत्पत्तिहेतुः । इन्दुकान्तमुखीत्यत्र भगवती चन्द्रवत्सुन्दरं मुखं यस्याः सा तथा- विधा । तथा स्निग्धदीर्घकृष्णकेशी । 'मुक्ता परित्यक्ता अश्रीरशोभा यया सा तथाविधा । त्रैलोक्योत्कृष्टा च । तथा पद्मवत् कमलवत् रागो लौहित्यं ययोस्तथाविधौ पादपल्लवौ यस्यास्तद्रूपा । यदा त्वसौ भगवती रूपक- प्रतिभोत्पत्तिनिबन्धनेन श्लेषेण त्रैलोक्योदरवर्तिमाणिक्यसंभाररूपतया रूप्यते तदा प्रकृतोऽर्थश्चन्द्रकान्तेन्द्रनीलमौक्तिकशोभापद्मरागैरवच्छा- दितरूपतया प्रतीयते, साक्षादेवंविधरत्नमयावयवयोगित्वात् त्रिभु- वनोदरान्तर्गतरत्नसमृद्धिरूपेंति । अत्र च मुक्ताश्रीरित्यत्र खरभेदो ५ वर्गः] लघुवृत्तौ । ५७ विद्यते । बहुव्रीहिपक्षे “बहुव्रीहौ प्रकृत्येति" पूर्वपदप्रकृतिखरत्वात् । तत्पुरुष तु समासान्तोदात्तत्वात् । शिष्टानां तु शब्दानां स्वरभेदो नास्ति । प्रयलगुरुत्वागुरुत्वे तु त्रिजगदलशब्दव्यतिरिक्तेषु तत्तद्वर्ण- विषयतया विद्यते । तेन तत्र शब्दश्लेषता । त्रिजगगनशब्दस्य तूभयत्रापि कस्यचिद्विशेषस्याविद्यमानत्वादर्थश्लेषत्वम् । अपारिजातवार्तापीत्यत्र भग- वत्यजातशत्रुत्वादपगतशत्रुसमूहवार्ता तदीया च शोभा सर्वस्य चित्त- मावर्जयतीत्यतो नन्दना श्रीर्यस्यास्तथाविधा । उदकमध्यवर्तितया च योऽसौ अप्सु उदके प्रतिबिम्बित इन्दुस्तद्वत्सुन्दरी । नित्यं च गकल्लाव- ण्यप्रवाहा । यदा त्वसौ भगवती नन्दनश्रीशब्दस्य देवोद्यानशोभालक्षणा- र्थान्तराभिधायित्वाद्रूपकप्रतिभोत्पत्तिनिबन्धनेन श्लेषेणैतद्भावमापद्यते तदा तत्समाश्रयत्वेन अपारिजातवार्तापीत्यादिपदपर्यालोचनया विरोधप्रतिभाहे. तोरपरस्यापि श्लेषस्याविर्भावो भवति । न खलु देवोद्यानशोभा अविद्यमान- पारिजाताख्यवृक्षविशेषवृत्तान्ता भवति । न चासौ भूमौ तिष्ठति । अवि- न्दुसुन्दरीत्यत्र तु बिन्दुभिर्यस्याः सौन्दर्य नास्ति तस्याः कथं लावण्यबि- न्दवः प्रसरेयुरिति विरोधप्रतिपत्तिहेतुः श्लेषः । अपारिजातवार्तापीत्यत्रा- प्यपगता अरिजातवार्तेति बहुव्रीहौ प्रकृत्येति पूर्वपदप्रकृतिखरत्वम् । तत्पुरुषपक्षेत्वन्तोदात्तत्वम् । अबिन्दुसुन्दरीत्यत्र अबिन्दुवत्सुन्दरीत्युपमा- नत्वा "तत्पुरुषे तुल्यार्थे' त्यबिन्दुशब्दस्य प्रकृतिखरः । तस्य च सप्तम्य- न्तपूर्वपदत्वादनेनैव सूत्रेण प्रकृतिखरेणाद्युदात्तत्वम् । अबिन्दुसुन्दरीत्यत्र त्वव्ययत्वान्नञः पूर्वपदप्रकृतिस्वरत्वेन तदेवः । तेनात्र खरभेदस्याभावः । प्रयत्नभेदकृतात्तु चकारवैचिच्याच्छन्दश्लेषता ।। इति महाश्रीप्रतीहारेन्दुराजविरचितायामुद्भटालङ्कार- सारसंग्रहलघुवृत्तौ चतुर्थो वर्गः ॥ अथ पञ्चमो वर्गः। अपहृति विशेषोक्तिं विरोधं तुल्ययोगिताम् । अप्रस्तुतप्रशंसां च व्याजस्तुतिविदर्शने ॥ ६ काव्यालङ्कारसार- १...... यभावो १. उपमेयोपमां चैव सहोक्तिं संकरं तथा । परिवृत्तिं च जगदुरलङ्कारान्परे गिराम् ।। अपहृतिः- अपह्नुतिरभीष्टा च किञ्चिदन्तर्गतोपमा । भूतार्थापह्नवेनास्या निबन्धः क्रियते बुधैः ।। यत्र भूतं विद्यमानमुपमेयलक्षणमर्थमपहृत्योपमानरूपारोपेणोपमानोपमे- तिरलङ्कारः । अत्र च प्राकरणि- कस्य विद्यमानस्यार्थस्या १.... यद्विद्यमानोऽस्फुटेन रूपणोपमानोपमेयभावश्चकास्तीत्युक्तम्-किञ्चिदन्तर्गतोपमेति । तस्या उदाहरणम्- एतद्धि न तपः सत्यमिदं हालाहलं विषम् । विशेषतः शशिकलाकोमलानां भवादृशाम् ॥ अत्र प्राकरणिकस्य तपसः खरूपमपङत्य हालाहलविषविशेषरूपता- ध्यारोपेण तत्सादृश्यमवगमितम् । तच्चात्र हालाहलविषसादृश्यमुपमेयस्या- पद्भुतत्वान्न स्फुटरूपम् । हालाहलाख्यो विषभेदो यः शीघ्रं व्यापादयति । विशेषोक्तिः- यत्सामग्र्येऽपि शक्तीनां फलानुत्पत्तिबन्धनम् । विशेषस्याभिधित्सातस्तद्विशेषोक्तिरुच्यते ।। शक्तीनां कारकाणां सामग्र्येऽपि अविकलत्वे यः क्रियाफलस्य किञ्चि- द्विशेषमवगमयितुमनुत्पत्तेरुपनिबन्धः सा विशेषोक्तिः । तस्याश्च द्वौ भेदौ । क्वचित्खलु कारणसामग्र्येऽपि यत्कार्य नोत्पद्यते तस्यानुत्पत्तौ खकण्ठेन निमित्तमुपादीयते, क्वचित्त्वर्थसामर्थ्यादवगम्यते तदाह- दर्शितेन निमित्तेन निमित्तादर्शनेन च । तस्या बन्धो द्विधा लक्ष्ये दृश्यते ललितात्मकः ।। १ अयमंश आदर्शपुस्तके त्रुटित उपलभ्यते। ...

५९ d ५ वर्गः] लघुवृत्तौ अदर्शनमनुपादानम् । तत्र द्वितीयस्य भेदस्योदाहरणम्- महर्द्धिनि गृहे जन्म रूपं स्मरसुहृद्धयः । तथापि न सुखप्राप्तिः कस्य चित्रीयते न धीः ।। अत्र धनसंभारयोगः सुरूपत्वं यौवनं चेति यान्येतानि सुखप्राप्तौ कारणान्यविकलानि तत्सद्भावेऽपि क्रियाफलभूतायाः सुखप्राप्तेरनुत्पत्तिरु- पनिबद्धा । पूर्वोक्तानां सुखहेतूनां विस्मयविभावनात्मकविशेषख्याप- नाय । अत्र च निमित्तं स्खकण्ठेनानुपात्तमप्यर्थसामर्थ्यादवगम्यते । विधि- वैधुर्यादिरूपशब्दोऽत्र शरीरस्य रूपमात्राव्यभिचारित्वाद्रूपप्रकर्षतात्पर्येणो- पात्तः । स्मरसुहृद्वयो यौवनम् । यौवने हि मन्मथोभिमुखीभवति । आद्यभेदोदाहरणं तु- इत्थं विसंष्ठुलं दृष्ट्वा तावकीनं विचेष्टितम् । नोदेति किमपि प्रष्टु सत्वरस्यापि मे वचः ॥ अत्र प्रश्नत्वरालक्षणकारणसद्भावेऽपि प्रश्नवचसोऽनुत्पत्तिरुपनिबद्धा । तया च प्रश्नवचनकारणस्य विस्मयविभावनाख्यो विशेषोऽवगम्यते । अत्र च निमित्तं भगवतीगौतेविसंष्ठुलचेष्टितदर्शनं खकण्ठेनोपात्तम् ॥ विरोधः-- गुणस्य वा क्रियाया वा विरुद्धान्यक्रियावचः । यद्विशेषाभिधानाय विरोधं तं प्रचक्षते ।। यत्र कविना गुणस्य वा क्रियाया वा अथवा द्विशब्दस्योपात्तत्वात् द्रव्यस्य विरुद्धोऽन्यः पदार्थः सजातीयो विजातीयो वा वचसा स्वप्रति- भाप्रसूतेन वर्णनिकात्मना क्रियते कञ्चिद्विशेषमवगमयितुं स विरोधा- ख्योऽलङ्कारः । गुणक्रियाद्रव्याणामुत्प्रेक्षालङ्कारलक्षणव्याख्यानसमये स्वरू- पमुक्तम् । क्रिया कारणमुत्पादनं, तत्प्रधानं वचः क्रियावचः। कविप्रतिभया खलु पुराणप्रजापतिनिर्मितशुष्कपरुषपदार्थविलक्षणाः सरसाः पदार्थाः अभिनवा एव निर्मीयन्ते । अतः क्रियावच इत्युक्तम् । तस्यौदाहरणम्- यद्वा मां किं करोम्येष वाचालयति विस्मयः । भवत्याः कायमाकारः केदं तपसि पाटवम् ।। - 32. .

- । ६० काव्यालङ्कारसार- अत्र यदेतत्पूर्वमुपक्रान्तं वचो मे नोदेतीति तस्याक्षेपो यद्वेतिकृतः । किंवा करोमि विस्मयवाचालितः सन् ब्रवीमि भवत्याः केति । एष विस्मयो मां वाचालयतीति संबन्धः । अत्राकृतेः सुकुमारायाः पाटवस्य च कठिनकायसाध्यस्य विरोधो भगवतीनिष्ठत्वेनोपनिबद्धः । तेन च विस्मयविभावनाख्यो विशेषोऽत्र ख्याप्यते । अयं चासिद्धखभावधर्म- निष्ठत्वाद्गुणविरोधः । एवं साध्यस्वभावधर्मनिष्ठेऽपि क्रियाविरोधे उदाहा- र्यम् । तथा द्रव्यविरोधे गुणक्रियाविरोधे गुणद्रव्यविरोधे क्रियाद्रव्य- विरोधे च ॥ तुल्ययोगिता- उपमानोपमयोक्तिशून्यैरप्रस्तुतैर्वचः । साम्याभिधायि प्रस्तावमाग्भिर्वा तुल्ययोगिता ॥ अप्रस्तुतानामेव वा यत्र साम्यमभिधीयते सा तुल्ययोगिता । अत एव प्राकरणिकाप्राकरणिकोभयार्थनिष्ठत्वाभावाचत्रोपमानोपमेयोक्तिशून्यत्वं, प्रस्तावभाग्भिः प्रस्तुतैः साम्याभिधायि वच इति संबन्धः । तस्याः पूर्व- भेदस्योदाहरणम्- त्वदङ्गमार्दवं द्रष्टुः कस्य चित्ते न भासते । मालतीशशभृल्लेखाकदलीनां कठोरता ।। स्वच्छरीरसौकुमार्यदर्शिनः कस्येव चेतसि मालत्यादीनां काठिन्यं न भासत इत्यर्थः । अत्र मालत्यादीनामप्राकरणिकानामेवार्थानां कठोरत्व- लक्षणं साम्यमुपनिबद्धम् । द्रष्टुरिति तृन् । तद्योगे च त्वदङ्गमार्दवमिति "न लोकाव्ययनिष्ठेति षष्ठीनिषेधः । द्वितीयभेदस्सोदाहरणम्- योगपट्टो जटाजालं तारवीत्वमृगाजिनम् । उचितानि तवाङ्गस्य यद्यमूनि तदुच्यताम् ॥ अत्र प्राकरणिकानामपि योगपट्टादीनां भगवतीशरीरे संस्पर्शानौचित्य- लक्षणः समानो धर्मो निबद्धः । तारवीत्वक् वल्कलम् । अङ्गस्य शरीरस्य ।

५ वर्गः] लघुवृत्तौ ६१ 35 - अप्रस्तुतप्रशंसा- अधिकारादपेतस्य वस्तुनोऽन्यस्य या स्तुतिः । अप्रस्तुतप्रशंसेयं प्रस्तुतार्थानुबन्धिनी ॥ अधिकारादुपवर्णनावसरादपगतस्य प्राकरणिकादपरस्य वस्तुनो यत्रो- पनिबन्धः सा अप्रस्तुतप्रशंसा । न चैवमपि तस्या उन्मत्तप्रलापप्रख्यता, यतः सा केनचित्खाजन्येन प्रस्तुतमर्थमनुबध्नाति । तदुक्तम्-प्रस्तुता- र्थानुबन्धिनीति । तस्या उदाहरणम्--- यान्ति खदेहेषु जरामसंप्राप्तोपभोक्तृकाः । फलपुष्पर्धिभाजोऽपि दुर्गदेशवनश्रियः ।। अन कृच्छ्रेण गन्तुं शक्यते यस्मिन्देशे तद्गतकाननानां शोभा अप्रा- करणिक्य एव खदेहजर्जरतयोपवर्णिताः । ताभिश्च सादृश्य स्वाजन्येन भगवतीचेष्टितमुपमेयभूतं एवंविधरूपतयावगम्यते । दुर्गेति “सुदुरोरधि- करण" इति डप्रत्ययः ॥ व्याजस्तुतिः- शब्दशक्तिस्वभावेन यत्र निन्देव गम्यते । वस्तुतस्तु स्तुतिश्चेष्टा व्याजस्तुतिरसौ मता ॥ यत्र शब्दानामभिधायकानां या शक्तिरर्थप्रत्यायनौत्सुक्यं तस्या यः ख- भावो नियतार्थनिष्ठत्वात्मकस्तेन निन्दा गम्यते इव नत्वसौ निन्दैव । पदा- थपर्यालोचनसामोत्थायां स्तुतौ वाक्यार्थीभूतायामवान्तरवाक्यार्थत्वात् । अत एवाह-वस्तुतस्तु स्तुतिश्चेष्टेति । वस्तुत इत्यर्थसामर्थ्यादित्यर्थः । तत्र व्याजस्तुति मालङ्कारो भवति । निन्दाव्याजेन हि सा स्तुतिः । अतो व्याजस्तुतिः। तस्या उदाहरणम्- धिगनन्योपमामेतां तावकी रूपसंपदम् । त्रैलोक्येऽप्यनुरूपो यद्वरस्तव न लभ्यते ॥ अत्र यदेतद्धिग्वादोपहतत्वं रूपसंपदः साक्षाच्छब्दव्यापारेण स्पृष्टं न - - काव्यालङ्कारसार- तत्स्वात्मपर्यवसितं, अर्थसामोत्थलोकोत्तरभगवतीरूपोत्कर्षप्रतिपादनपर्य- वसितत्वात् । अतस्तस्यावान्तरवाक्यार्थता । तेनेयं व्याजस्तुतिः । निन्दा- व्याजेन रूपोत्कर्षस्य स्तूयमानत्वात् । धिगनन्योपमामि "त्युभसर्वतसोः कार्ये" ति द्वितीया ॥ विदर्शना- अभवन्वस्तुसंबन्धो भवन्वा यत्र कल्पयेत् । उपमानोपमेयत्वं कथ्यते सा विदर्शना ॥ यत्र पदार्थानां संबन्धः खयमनुपपद्यमानः सन्नुपमानोपमेयभावे पर्यव- स्यति अथवा उपमानोपमेयभावकल्पनया खात्मानमुपपादयति तत्र विद- शना, विशिष्टस्यार्थस्य उपमानोपमेयभावात्मकस्योपदर्शनात् । तस्या उदा- हरणम् विनोचितेन पत्या च रूपवत्यपि कामिनी । विधुवन्ध्यविभावर्याः प्रबिभर्ति विशोभताम् ।। विधुश्चन्द्रः । विभावरी रात्रिः। अत्र रजनिकररहितविभावरी विशोभत्वस्य यदेतत्कर्मत्वं तत्कामिनीकर्तृकायां भरणक्रियायां न समन्वयं गच्छति । न ह्यन्यस्य संबन्धिनी विशोभामन्यो बिभर्ति । अतः पदार्थसमन्वयस्यात्रानुप- पत्तिः । उपमानोपमेयभावस्त्वत्र वाक्यार्थविश्रान्तिस्थानं कृष्णरात्रिवद्विशो- भतां बिभर्तीति । एवमेतद्भवति वस्त्वसंबन्धे उपमानोपमेयभावकल्पनाया- मुदाहरणम् । यत्र तु पदार्थसमन्वय उपमानोपमेयभावकल्पनया खात्मान- मुपपादयति तस्य विदर्शनाभेदस्योदाहरणमुद्भटपुस्तके न दृश्यते । तस्य तु भामहोदितमिदमुदाहरणम्- अयं मन्दाति खानस्तं प्रति यियासति । उदयः पतनायेति श्रीमतो बोधयन्नरान् ॥ इति तत्र प्रथमोदयसमयविजृम्भमाणस्वकान्तिरहितस्य भाखतो यदेतदस्तमयौ- न्मुख्यं तदुपेतस्य श्रीमतः प्रयोज्यकर्तृन् प्रति पातावसानोदयकर्मकेऽवबोधे तत्समर्थाचरणलक्षणं हेतुकर्तृत्वमुपनिबद्धम् । तथाविधं खलु भावन्तं ५ वर्ग:] लघुवृत्तौ - 30 पश्यन्तः श्रीमन्तो बुध्यन्ते भाखत इव सर्वस्योदयः पातावसान इति । तांश्चासौ तथावबुध्यमानान् खावस्थोपदर्शनेन प्रयुङ्क्ते यथा ममायमुदयः पातावसानस्तथा भवतामपीति । अत्र च प्रेषणाध्येषणयोरभावात्तत्समर्थाच- रणलक्षण एव प्रयोजकव्यापारः कारीषोऽध्यापयति भिक्षा वासयतीति यथा । तेन च प्रयोज्यप्रयोजकभावेन खात्मानमुपपादयितुमुपमानोपमेय- भाव आक्षिप्तः हे श्रीमन्तो यथा ममायमुदयः पतनाय तद्वद्भवतामपीति यूयं बुध्यध्वमिति । तेनानं प्रयोज्यप्रयोजकमावलक्षणेन पदार्थसमन्वयेन खात्मोपपादनायोपमानोपमेयभावस्याक्षेपात् द्वितीयो विदर्शनाया भेदः ।। संकरः- स च चतुर्विधः संदेहशब्दार्थवर्त्यलङ्कारैकशब्दाभिधानानुग्राह्यानुग्राहक- भेदेन । तत्र संदेहसंकरस्तावत्- अनेकालतियोल्लेखे समं तद्वृत्त्यसंभवे । एकस्य च ग्रहे न्यायदोषाभावे च संकरः ।। अनेकस्यालङ्कारस्योल्लेखे चेतस्युपारोहे संदेहसंकरो भवति; न त्वेकश- ब्दाभिधानसंकरादावपि अनेकालङ्कारोल्लेखः संभवति । यथा- मुरारिनिर्गता नूनं नरकप्रतिपन्थिनी । तवापि मूनि गङ्गेव चक्रधारा पतिष्यति । अत्र ह्युपमानोपमेयभावस्तत्प्रतिभाहेतुश्च श्लेषोऽनेकालङ्कार उल्लिख्यते । उपमानोपमेयभावे तावत् गङ्गोपमानम् । चक्रधारा उपमेया । मुरारिनिर्ग- तत्वं साधारणो धर्मः। श्लेषस्त्वत्र नरकप्रतिपन्थिशब्दादात्मानं लभते । एकत्र हि नरको दानवः । अपरत्र त्ववीच्यादिः । एतौ च द्वावलङ्कारावे- कस्मिन्निवशब्देऽनुप्रविशतः । न ह्युपमानोपमेयभावस्तत्प्रतिभाहेतुर्वा श्लेषः समासाद्यभावे इवशब्दादिमन्तरेण खरूपं प्रतिलभते । तेनात्र द्वावलङ्कारा- चेकसिन्वाचके इव शब्देऽनुप्रविष्टौ । यदि चानेकालङ्कारोल्लेखे सति संदे-. हसंकरस्तत एवमादावप्यनेकालङ्कारोल्लेखस्य संभवात्संदेहसंकरप्रसङ्ग इत्या- शयोक्तम्-समं तद्वृत्त्यसंभव इति । तस्यानेकस्यालङ्कारस्य समं युगप- म काव्यालङ्कारसार- द्यदि वृत्तिापारोऽलङ्कार्यालङ्करणात्मको न संभवतीत्यर्थः । पूर्वोक्त तूदाह- रणे मुरारिनिर्गतेति साधारणधर्मोपादानान्नरकप्रतिपन्थिनीति च श्लेषपदो- पदर्शनान्नानेकस्यालङ्कारस्य युगपद्वृत्तेरसंभवः । तेन तत्र न संदेहसंकरता । ननु यद्यनेकालङ्कारोल्लेखे युगपद्वृत्त्यसंभवे च संदेहसंकरत्वम् । एवं सति यत्र प्रतिभामात्रेणानेकस्मिन्नलङ्कारे उल्लिख्यमाने यस्य साधकं प्रमाण- मस्ति स उपादीयते । यस्य तु बाधकं प्रमाणं विद्यते स त्यज्यते । तत्रा- प्यनेकालङ्कारोल्लेखस्य समं तद्वृत्त्यसंभवस्य च संभवात्संदेहसंकरत्वं प्रसज्ज- तीत्याशङ्कयोक्तम्-एकस्य च ग्रहे न्यायदोषाभावे चेति । न्यायः साधकं प्रमाणम् । दोषो बाधकं प्रमाणम् । यत्रानेकालङ्कारोल्लेखे युगपढ़- त्यसंभवे च एकतरस्य ग्रहणे साधकबाधके प्रमाणे समस्तव्यस्ततया न विद्येते तत्र संदेहसंकरः । तेन नानिष्टप्रसङ्गः । तथाहि—यत्र साधकबा- धके प्रमाणे सामस्त्येन विद्यते तत्र यस्य साधकं प्रमाणमस्ति तस्योपादा- नाबाधकस्य प्रमाणोपेतस्य च त्यागादेकस्य ग्रहणं भवति । यत्रापि साध- कबाधकप्रमाणयोर्वैयस्त्येनान्यतरस्य विद्यमानता तत्रापि प्रतिभोल्लिख्यमाना- नेकालङ्कारमध्यात्साधकप्रमाणोपेतस्योपादानात्प्रमाणशून्यस्य चोपेक्ष्यत्वात् , तथा बाधकप्रमाणोपेतस्य परित्यागात्तदितरस्य च पूर्वोल्लिखितस्य पारिशेष्ये- णोपादानादेकस्य ग्रहो भवति । यत्र तु साधकबाधकप्रमाणाभावस्तत्र संदेह एव । एवमयं संदेहसंकरो लक्षितः । तस्योदाहरणम्- यद्यप्यत्यन्तमुचितो वरेन्दुस्ते न लभ्यते । तथापि वच्मि कुत्रापि क्रियतामादरो नरे ॥ अत्र वरेन्दुरिति वर एव इन्दुः, वर इन्दुरिवेति रूपकसमासोपम- योर्द्वयोरलङ्कारयोरुल्लेखः । न च तस्यानेकस्यालङ्कारस्य युगपद्वृत्तिः संभ- वति । एकालङ्कारसंश्रयेणैवालङ्कारस्य कृतकृत्यत्वात् । न चात्र द्वयोर्मध्यादे- कतरस्य ग्रहणाय साधकबाधकप्रमाणयोगः । साधकं हि प्रमाणं विद्यमानं विधिमुखेनालङ्कारं ज्ञापयेत् । तथा बाधकमपि प्रहातव्यालङ्कारनिषेधमुखे- नोपादेयमलङ्कारं पूर्वोल्लिखितं पारिशेष्यादुपादेयतया प्रतिपादयति । अत्र तु द्वयोः साधकबाधकप्रमाणयोरभावात्संदेहः । तेन संकरोऽलङ्कारः ।

५ वर्गः] लघुवृत्तौ ६५ शब्दार्थवर्त्यलङ्कारस्तु- शब्दार्थवर्त्यलङ्कारा वाक्य एकत्र भासिनः । संकरो वा यत्रैकस्मिन्वाक्ये शब्दवर्तिनोऽर्थवर्तिनश्चालङ्काराः संसर्गमुपयान्ति स शब्दार्थालङ्कारः । तस्योदाहरणम् --- इत्थं स्थितिर्वरार्था चेन्मा कृथा व्यर्थमर्थिताम् । रूपेण ते युवा सर्वः पादबद्धो हि किङ्करः ॥ वरार्थी भर्था । किङ्करो दासः । अत्र थकारोपनिबद्धोऽनुप्रासात्मकः शब्दालङ्कारः । अर्थालङ्कारश्वार्थान्तरन्यासो विद्यते । तथाहि-अत्र माकृथा व्यर्थमर्थितामित्युपादित्सितेऽर्थेऽर्थित्वस्याकरणं यदुपनिबद्धं तदनुप- पद्यमानतया संभाव्य तत्समर्थनायोक्तं 'रूपेण ते युवा सर्वः पादबद्धो हि किकर' इति । यो गुणोत्कर्षशाली स नार्थयते, अपित्वर्थ्यते यथा रत्नादि । त्वं च रूपवत्त्वाद्गुणोत्कर्षशालिनी। तस्मादुपादित्सितेऽर्थे तवा- र्थित्वमयुक्तमिति । तेनायं शब्दार्थवर्त्यलङ्कारसंकरः ॥ एकशब्दाभिधानसंकरस्तु- एकवाक्यांशप्रवेशाद्वाभिधीयते । एकस्सिन्वाक्यांशे वाक्यैकदेशे यत्रानेकस्यालङ्कारस्यानुप्रवेशः स एक- शब्दाभिधानसंकरः । तस्योदाहरणम्- मैवमेवास्त्र सच्छायवर्णिका चारुकर्णिका । अम्भोजिनीव चित्रस्था दृष्टिमात्रसुखप्रदा ॥ अत्रोपमालङ्कार उपमाप्रतिभोत्पत्तिहेतुभूतश्च श्लेष इत्येतौ द्वावलङ्कारावे- कस्मिन्वाक्यांशे इवशब्देऽनुप्रविष्टौ । तथाहि-अम्भोजिनी उपमानम्, गौरी उपमेया, दृष्टिमात्रसुखप्रदत्वं साधारणो धर्मः इत्युपमा । सच्छायव- णिका चारुकर्णिकेति श्लेषः । अम्भोजिन्यां हि वर्णा राजवर्तादयः गौर्यों तु गौरत्वम् । अम्भोजिन्यां कर्णिका कमलमध्यवर्तिबीजकोशः । गौर्या तु - 33 काव्यालङ्कारसार- चारू कौँ । कपचात्र समासान्तः । तेनायं श्लेषः । एतौ च द्वावलङ्कारा- वेकस्सिन्वाक्यांशे इवशब्देऽनुप्रविष्टौ । तेनायमेकशब्दाभिधामसंकरः ॥ अनुग्राह्यानुग्राहकसंकरस्तु- परस्परोपकारेण यत्रालङ्कृतयः स्थिताः । स्वातत्र्येणात्मलामं नो लभन्ते सोऽपि संकरः ।। यत्रोपकार्योपकारकभावावस्थितत्वादलङ्काराः स्वातन्त्र्येणात्मानं न ल- भन्ते सोऽनुग्राह्यानुग्राहकसंकरः। उपकार्योऽप्युपकारकमुपकरोति । तदी- यस्योपकारस्य विषयभावेनावस्थानात् । उपकार्ये ह्युपकारकाधेयमुपकारं प्रतीत्सति सत्युपकारकस्योपकारकत्वं भवति । तेनोपकार्येणाप्युपकारकस्यो- पकारः क्रियत इति परस्परग्रहणमत्रोपात्तम्-परस्परोपकारेणेति । तस्यो- दाहरणम्- हरेणेव स्मरव्याधस्त्वयानङ्गीकृतोऽपि सन् । त्वद्वपुः क्षणमप्येष धार्ष्यादिव न मुञ्चति ॥ अत्र धार्थ्यादिव न मुञ्चतीति या असावुत्प्रेक्षा सा हरेणेव स्मरव्याध- स्त्वयानङ्गीकृतोऽपि सन् इत्युपमाप्रतिभोत्पत्तिहेतुश्लेषवशेन स्वरूपं प्रतिल- भते । अनङ्गीकृतो हि अनङ्गत्वमशरीरत्वमापादितः अनूरीकृतश्च । यश्चा- नूरीकृतः क्षणमपि न मुञ्चति, तत्र धार्य हेतुतयोत्प्रेक्षितुं शक्यते । तेन श्लेषवशेनात्रोत्प्रेक्षा आसादितखभावा । अतोऽयमनुग्राह्यानुग्राहकसंकरः । एवमयं चतुर्विधः संकरो नानालङ्कारगतविकल्पव्यवस्थासमुच्चयाङ्गाङ्गि- भावसमाश्रयणेनाभिहितः। तत्रानेकालङ्कारविकल्पात्संदेहसंकरः । विभि- नाधारत्वेन शब्दार्थवर्तिनोरलङ्कारयोरवस्थानाव्यवस्थासमाश्रयः शब्दार्थवर्त्य- लङ्कारसंकरः। एकशब्दाभिधानसंकरे तु समुच्चयेनानेकोऽलङ्कार एकस्मिन् वाक्यांशे इवादावनुप्रविशति । अनुग्राह्यानुग्राहकसंकरे त्वनेकस्यालङ्कार- स्याङ्गाङ्गिभावः । अतो विकल्पव्यवस्थासमुच्चयाङ्गाङ्गिभावसंश्रया एते चत्वारः संकरभेदाः ॥

५ वर्गः] लघुवृत्तौ ६७ - उपमेयोपमा- अन्योन्यमेव यत्र स्यादुपमानोपमेयता । उपमेयोपमामाहुस्ता पक्षान्तरहानिगाम् ।। यत्रोभयोरुपमानोपमेययोः परस्परमुपमानोपमेयभावस्तत्रोपमेयोपमा । उपमेयेनोपमानस्योपमानात् । ननु च प्राकरणिकं साम्याभिधानसंबन्धि उपमेयं । अप्राकरणिकं उपमानं । यदि चात्रोपमेयस्योपमानत्वमभिधीयते, एवं सति तस्य प्राकरणिकत्वं व्याहन्यते इत्याशङ्कयोक्तम्-पक्षान्तरहानि- गामिति । नात्रोपमानोपमेयभावे तात्पर्य किन्तु एतदेव द्वयमेवंविधं विद्यते, न त्वन्यदेतयोः सदृशं वस्त्वन्तरं विद्यते इति । अतश्च एतत्पक्ष- द्वितयव्यतिरिक्तस्य पक्षान्तरस्यात्र हानेर्विवक्षितत्वात् परस्परमुपमानोपमेय- भावो न दुष्यतीति तस्य पक्षान्तरहानौ प्रतिपाद्यायामवान्तरवाक्यार्थत्वे- नावस्थानात्, वरं विषं भक्षय मा चास्य गृहे भुक्थाः इतिवत् । अत्र हि विषभक्षणं न विधीयते । दुर्जनगृहे भोजनपरिवर्जनतात्पर्यात् । एवमिहा- प्युपमानोपमेयभावस्याविवक्षापक्षान्तरहानौ तात्पर्यात् । तस्या उदाहर- णम्- शिरांसि पङ्कजानीव वेगोत्पातयतो द्विषाम् । आजौ करोपमं चक्रं यस्य चक्रोपमः करः॥ अत्र यस्येत्युपात्तस्य त्वत्कृते सोऽपि वैकुण्ठ इत्यत्र तच्छब्दसमन्वयेना- काङ्क्षाविच्छेदो भविष्यति । उत्तरेष्वपि च श्लोकेषु तेनैव यच्छब्दार्थो निरा- काङ्क्षी कार्यः । अत्र करचक्रयोः परस्परमुपमानोपमेयभावः। साधारणश्चात्र धर्मः अतित्वरितत्वेन शत्रुशिरोऽवकर्तनम् । एष चात्रोपमानोपमेयभावः उपमानान्तराभावे पर्यवसितः । यदि परमेतयोरेव परस्परमुपमानोपमेयभावः स्यादन्यत्वे तयोरुपमानं नास्तीति ॥ सहोक्तिः तुल्यकाले क्रिये यत्र वस्तुद्वयसमाश्रिते । पदेनैकेन कथ्येते सा सहोक्तिर्मता सताम् ।।

काव्यालङ्कारसार- , यत्र वस्तुद्वयसमवेते द्वे क्रिये पदेनैकेन तन्त्रवृत्त्या कथ्येते तत्र सहो- क्तिर्नामालङ्कारो भवति । ननु 'संजहार शरत्कालः' इत्यादावपि दीपके पदेनैकेन वस्तुद्वयसमवेते द्वे क्रिये कथ्यते । अतश्च तत्रापि सहोक्तित्वं प्रामोतीति आशङ्कयोक्तम्-तुल्यकाले इति । यत्र सहादिना पदेन तुल्य- कालतामवर्गस्य वस्तुद्वितयसमाश्रिते द्वे क्रिये कथ्येते तत्र सहोक्तित्वम् । न चैवं दीपक इति नातिव्याप्तिः । सहादिना च शब्देन युगपत्कालताया- मवद्योत्यमानायां द्वयी गतिः। कदाचित्खल ययोः क्रिययोस्तुल्यकालता ते क्रिये तुल्यकक्षतया स्वाश्रयविश्रान्तत्वेनाभिधीयेते, यथा देवदत्तयज्ञ- दत्तौ सह भुञ्जाते इति । कदाचित्त्वेकाश्रयविश्रान्तायां क्रियायामभिहि- तायां सहाद्यर्थपर्यालोचनासामर्थ्यादपरस्याश्रयस्य क्रियासंबन्धोऽवगम्यते, यथा देवदत्तो यज्ञदत्तेन सह भुङ्ग इति । तत्रेह द्वितीया गतिराश्रीयते । शाब्देन रूपेणैकत्र क्रियासंबन्धस्य प्रतीतस्यापरत्रार्थेन रूपेणोन्नीयमानत्वेन वक्रमणिते सद्भावात् । एवंविधस्य यत्रैव शोभातिशय विधायित्वं तत्रैव सहोक्तेरलङ्कारता न सर्वत्रेति द्रष्टव्यम् । तस्या उदाहरणम्- द्वि बुजनो मृत्युना साधैं यस्याजौ तारकामये । चक्रे चक्राभिधानेन प्रैष्येणाप्तमनोरथः ॥ यस्य प्रैप्येण इति संबन्धः । अत्र मृत्योर्युजनस्य च मनोरथावाप्तिकर- णलक्षणे द्वे क्रिये पदेनैकेनोक्ते चक्रेऽवाप्तमनोरथ इति । यद्यप्यवाप्तमनो- रथ इति चक्र इति च सुप्तिङन्तत्वभेदेन पदद्वित्वं तथापि क्रियापद. द्वितयोपादानव्यावृत्तर्विवक्षितत्वात्पदेनैकेनेति न विरुध्यते । अथवा चक्रे इति करोति क्रिया सामान्यभूता विशेषमन्तरेणापर्यवस्यन्ती मनोरथावा- प्तिलक्षणं विशेषं गर्भीकरोति । अतश्चात्र सत्यप्यनेकपदत्वे. एकपदीभाव इव प्रकाशते । तेन एकेन पदेनेत्युक्तम् । सार्धे शब्दश्चात्र तुल्यकालताम- वद्योतयति । यस्य प्रेष्येणाज्ञाकारिणा चक्रसंज्ञकेन कर्तृभूतेन , मृत्युना सार्धमपृथक्कालतया युजन आप्तमनोरथः कृत इति । अनेकलोककवली- करणान्मृत्योर्मनोरथावाप्तिः, धुजनस्य च शत्रुविनाशात् ॥ M ५ वर्गः] लघुवृत्तौ ६९ परिवृत्तिः- समन्यूनविशिष्टैस्तु कस्यचित्परिवर्तनम् । अर्थानर्थस्वभावं यत्परिवृत्तिरभाणि सा ॥ कस्यचिद्वस्तुनो वस्त्वन्तरेण परिवर्तनं परिवृत्तिः । सा च त्रिविधा । परिवर्तनकारकाणां परिवर्तनीयेन सह समत्वान्न्यूनत्वादधिकत्वाच्च । तदिदमुक्तम्-समन्यूनविशिष्टैरिति । तत्र यस्याः समोऽर्थः परिवर्त्यते तस्या अनर्थस्वभावता । अर्थशब्देन हि उपादेयोऽर्थोऽभिधीयते,ऽर्थ्यतेऽ- साविति कृत्वा । यत्र च साम्यं तत्रार्थनीयत्वं नास्ति । तेनार्थ्यत्वाभावा- नुगमात्तत्रानर्थत्वमभिधीयते । अतस्तत्रानर्थवभावं परिवर्तनम् । यत्रापि च निकृष्टपरिग्रहेणोत्कृष्टपरित्यागः क्रियते, तत्राप्यनर्थस्वभावता । उपा- देयविपरीतस्योपादानात् । अर्थप्रतिपक्षो ह्यत्रानर्थः । अधर्मानृतवत् । यथा ह्यधर्मानृतशब्दाभ्यां नोत्तरपदार्थाभावमात्रमभिधीयते, नाप्युत्तरप- दार्थतुल्योऽर्थः, किं तर्हि एतत्प्रतिपक्षस्यैवाभिधानं, एवमिहाप्यनर्थशब्देन अर्थप्रतिपक्षस्यैवाभिधानम् । यथा अनर्थों वैरिणामापतित इत्येवमादौ । तेन यत्रोत्कृष्टेन निकृष्टः परिगृह्यते तत्र दुःखहेतुत्वादर्थप्रतिपक्षत्वेनानर्थ- खभावता । यत्र तु निकृष्टेनोत्कृष्टः परिगृह्यते तत्रोत्कृष्टस्य सुखहेतुत्वे- नोपादेयत्वादर्थस्वभावता । तदिदमुक्तम्-अर्थानर्थस्वभाव मिति । तत्र समपरिवृत्तेरुदाहरणम्- उरो दत्वामरारीणां येन युद्धेष्वगृह्यत । हिरण्याक्षवधायेषु यशः साकं जयश्रिया ॥ अत्र उरोदानेन उत्साहो लक्ष्यते यश्चात्र लक्ष्यमाणस्यार्थस्योत्साहस्यो- पायतया प्रतीयते । अभिधेयोऽर्थों वक्षसो दानं नाम,यो हि यत्र वक्ष उद्यमयति स तत्रोत्सहत इति तत्प्रतिभावच्छादितस्योत्साहस्य प्रतीतेः तदपेक्षया समेन समस्य परिवर्तनम् । उरोयशसोः समत्वात् । न्यूनपरिवृत्तेस्तूदाहरणम् नेत्रोरगबलभ्राम्यन्मन्दरादिशिरश्च्युतैः । रैनैरापूर्य दुग्धाब्धि यः समादत्त कौस्तुभम् ॥ - - काव्यालङ्कारसार- नेत्रभूत उरगो वासुकिः । अत्र-कौस्तुभस्योत्कृष्टस्य निकृष्टरत्नपरित्यागेन ग्रहणान्निकृष्टेनोत्कृष्टस्य परिवर्तनम् । विशिष्टपरिवृत्तेस्तूदाहरणम्- यो बलौ व्याप्तभूसीम्नि मखेन द्यां जिगीषति । अभयं वर्गसमभ्यो दत्वा जग्राह खर्वताम् ।। भूसीमा पृथिव्या अवधिः । मखो यज्ञः । अत्र अभयेनोत्कृष्टेन निकृ- टस्य खर्वत्वस्य ह्रखत्वस्य परिवर्तनं अभिधेयापेक्षया पूर्वतरोदाहरणवत्प्रति- भाति । तात्पर्यार्थापेक्षया तु नेयं परिवृत्तिः । यत्तद्देवेभ्यः अभयं प्रतिज्ञातं तदुपायभूताया वामनवेषेण खर्वतायाः परिगृहीतत्वात् । इति महाश्रीप्रतीहारेन्दुराजविरचितायामुद्भटालङ्कार- सारसंग्रहलघुवृत्तौ पञ्चमो वर्गः ॥ अथ षष्ठो वर्गः। अनन्वयं ससंदेहं संसृष्टिं भाविकं तथा । काव्यदृष्टान्तहेतू चेत्यलङ्कारान्परे विदुः ॥ अत्र इतिशब्दस्य वक्ष्यमाणं यदनन्वयादिलक्षणं तदुपक्षेपार्थत्वेन प्रयो- गान्नानन्वयादिस्वरूपपरामर्शार्थत्वम् । इत्येवं वक्ष्यमाणलक्षणकत्वेनानन्व- यादीनलङ्कारान्विदुरित्यर्थः । अतो वेदनक्रियाकर्मत्वादनन्वयमित्यादौ द्वितीया । काव्यदृष्टान्तहेतू चेत्यत्र दृष्टान्तहेतुशब्दाभ्यां काव्यशब्दः प्रत्ये- कमभिसंबध्यते । दृष्टान्तशब्दस्य चात्र पूर्वनिपातोऽभ्यर्हितत्वात् । अभ्य- हितत्वं दृष्टान्तस्य दृष्टान्तप्रतिबिम्बितव्याप्तिमुखेन हेतोः प्रायेण गमकता संप्रत्ययात् । ससंदेहः- उपमानेन तत्त्वं च भेदं च वदतः पुनः । ससंदेहं वचः स्तुत्यै ससंदेहं विदुर्बुधाः ॥ उपमानभेदपूर्वं भेदमभिदधतः कवेः कविनिबद्धस्य वा वक्तुर्वच इति ६ वर्गः] लघुवृत्तौ संबन्धः । संदेहोपेतवचनव्याजेन उपमानेन तत्त्वं तद्भावमभेदमुपमेयस्या- भिधायोत्तरकालं यदा तस्मादुपमानात्तस्योपमेयस्य भेदोऽभिधीयते तदा ससंदेहोऽलङ्कारः । ननु उपमानेन सह पूर्वमभेदेऽभिहिते सति पुनर्यदि तस्माद्भेदस्याभिधानं क्रियते । एवं सति गजस्नानं प्राप्नोतीत्याशयोक्तम्- स्तुत्यै इति । स्तुत्यर्थत्वेन एवंविधा अभिधा समाश्रीयत इत्यर्थः । तस्योदाहरणम्- हस्ते किमस्य निःशेषदैत्यहृद्दलनोद्भवम् । यशःसंचय एष स्यापिण्डीभावोऽस्य किंकृतः ॥ नाभिपद्मस्पृहायातः किं हंसो नैष चञ्चलः । इति यस्याभितः शङ्खमशकिष्टार्जवो जनः ।। आर्जवो मूर्खः । ऋजुत्वयोगात् । अत्र शङ्ख उपमेयः । यशःसंचयो हंसश्चोपमानम् । तयोश्च पूर्वमभेदसंदेहव्याजेनाभिहितः किमेष यशःसं- चयः स्यादिति, तथा किं हंस इति पुनश्चात्रोपमानादुपमेयस्य भेदो वर्णितः । यशःसंचयात्ताव दोपवर्णनं पिण्डीभावोऽस्य किंकृत इति । यशःसंचयः खलु प्रसरणशीलः । अस्य तु तद्विरुद्धः पिण्डीभावो दृश्यते । तेन नायं यशःसंचय इति । हंसात्तु भेदाभिधानं नैव चञ्चल इति । हंसस्य हि चञ्चलत्वं नाम धर्मः । इहच तन्नोपलभ्यते, तस्मान्नैव हंस इति । एवं- विधस्य चात्राभिधानस्य फलं स्तुतिः, यशःसंचयो भगवता खहस्तवर्ती कृत इति, तथासंभाव्यमानहंसागमनं त्रिभुवनोत्पत्तिनिबन्धनं यत्तन्नाभिनलिनं तद्वान् भगवानिति ॥ ससंदेहस्य भेदान्तरमाह- अलङ्कारान्तरच्छायां यत्कृत्वा धीषु बन्धनम् । असंदेहेऽपि संदेहरूपं संदेहनाम तत् ॥ छाया शोभा । यत्र संदेहाभावेऽपि संदेहस्योपनिबन्धे सति न पूर्वव- दुपमानादुपमेयस्य भेद उपनिबध्यते किंतर्षभेद एव संशयच्छायया । तथाविधस्य चोपनिबन्धस्य फलंमलङ्कारान्तरोपजनिता सौन्दर्यप्रतिपत्तिः । यदाह-धीष्वलङ्कारान्तरच्छायां कृत्वा इति । तत्रापि संदेहालङ्कारः ।

७२ काव्यालङ्कारसार- तस्योदाहरणम्- नीलाब्दः किमयं मेरौ धूमोऽथ प्रलयानले । इति यः शङ्कयते श्यामः पक्षीन्द्रेऽत्विषि स्थितः ॥ अत्र मेरोरुपरिवर्ती नीलो बलाहकः कल्पान्तवयाश्रयश्च धूमः इत्येतदु- भयमुपमानम् । गरुडारूढस्तु भगवान् कृष्णवपुरुपमेयः । तेन च उपमा- नद्वयेन संदेहव्याजेन भगवानापादिताभेद उपनिबद्धः किमयमेवंविधः अथैवंविधः इति । ताभ्यां चोपमानाभ्यामुपमेयस्य पूर्ववद्भेदनिबन्धनं नात्र किंचिदभिहितम् । फलं चैवमभिधानस्योपमालङ्कारध्वननम् । एवंविधो- पमानद्वितयसदृशो भगवान्वैनतेयारूढ इति । अनन्वयः-- यत्र तेनैव तस्य स्यादुपमानोपमेयता। असादृश्यविवक्षातस्तमित्याहुरनन्वयम् ॥ यत्र तेनैव न तु वस्त्वन्तरेण तस्यैव वस्त्वन्तरस्योपमानोपमेयभावो भवेत्तत्र वस्त्वन्तरानुगमाभावादनन्वयाख्योऽलङ्कारः । ननु च सादृश्यसं- बन्धे सति प्राकरणिकमुपमेयमप्राकरणिकं तूपमानमित्युपमानोपमेययोर्ल- क्षितत्वात्कथमेकस्यैवोपमितिक्रियायां कर्मत्वं करणत्वं च संभवतीत्याशङ्कयो- तम्-असादृश्यविवक्षात इति । नात्रोमपानोपमेयभावे तात्पर्य किन्तू- पमेयोपमावदुपमानान्तरव्यावृत्तावित्यर्थः । इतिशब्दोऽत्र वक्ष्यमाणोदाहर- णोपक्षेपार्थत्वादनन्वयशब्देन नाभिसंबध्यते । तेन अनन्वयमिति द्वितीया। तस्योदाहरणम्- यस्य वाणी खंवाणीव खक्रियेव क्रियामला। रूपं स्खमिव रूपं च लोकलोचनलोभनम् ॥ अत्र वाणीक्रियारूपाणां त्रयाणामनुपमतया लोकोत्तरत्वं प्रतिपादयि- तुमात्मनैवोपमानोपमेयभावो निबद्धः । संसृष्टिः - अलङ्कृतीनां बबीनां द्वयोर्वापि समाश्रयः । एकत्र निरपेक्षाणां मिथः संसृष्टिरुच्यते ॥

६ वर्गः] लघुवृत्ती .. बहूनामलङ्काराणां परस्परनिरपेक्षाणां द्वयोर्वा तथाविधयोरेकत्र शब्द एव अर्थ एव वा उपनिबन्धे सति संसृष्टिरलङ्कारः। यत्र तु परस्परसापे. क्षत्वं तत्र सन्देहैकशब्दाभिधानानुग्राह्यानुग्राहकसङ्करास्त्रयः पूर्वमभिहिताः । यत्र च शब्दार्थलक्षणाश्रयद्वितयनिष्ठतया अनेकालङ्कारोपनिबन्धस्तत्रापि शब्दार्थवर्त्यनेकालङ्कारसंकर उक्तः । एतद्वैलक्षण्येन तु संसृष्टिः । तस्या उदाहरणम्- त्वत्कृते सोऽपि वैकुण्ठः शशीवोषसि चन्द्रिकाम् । अप्यधारां सुधावृष्टिं मन्ये त्यजति तां श्रियम् ।। तदुत्तिष्ठातिधन्येन केनापि कमलेक्षणे । वरेण सह तारुण्यं निर्विशन्ती गृहे वस ॥ निर्विशन्ती उपभुञ्जाना । अत्र शशी उपसि चन्द्रिकामिव वैकुण्ठः स्वत्कृते श्रियं त्यजति इत्युपमा । अधारां सुधावृष्टिमिति रूपकम् । तथा ह्यत्र लक्ष्म्याः सर्वे पीयूषवृष्टेः संबन्धिनो धर्मा विद्यन्ते केवलं धारासंबन्धो नास्तीत्युपमानगतैकगुणनिवृत्तिद्वारिका शिष्टोपमानगतसकलगुणाभ्यनुज्ञा- रूपारोपणावगम्यते, यथा अयं पुरुषः अकरो हस्तीति । तदेतस्मिन् श्लोके उपमाया रूपकस्य च द्वयोरलङ्कारयोः संसृष्टिः । तयोः केवलाभिधेयाश्रय- स्वात्परस्परनिरपेक्षत्वाच्च । 'तदुत्तिष्ठ' इत्येतच्छ्लोकापेक्षया तु 'कमलेक्षणे' इति समासोपमात्मकमुपमाभेदमाश्रित्य पूर्वोक्तालङ्कारद्वयसंकलनया बहूना- मलङ्काराणां संसृष्टयुदाहरणदिक्प्रदर्शनं द्रष्टव्यम् ॥ भाविकम्- प्रत्यक्षा इव यत्रार्था दृश्यन्ते भूतभाविनः । अत्यद्भुताः स्यात्तद्वाचामनाकुल्येन भाविकम् ॥ सांप्रतिकेन प्रध्वंसाभावेनोपलक्ष्यमाणाः पदार्थाः भूताः, यथा इदानीं युधिष्ठिरादयः। ये तु सांप्रतिकेन प्रागभावेन उपलक्ष्यन्ते ते भाविनः, यथा इदानीं भगवदवतारः कल्की भविष्णुयशाः । एवमनन्तरोपलक्षिताः भूता भाविनश्च येऽर्थास्ते सांप्रतिकप्रध्वंसाभावप्रागभावविविक्ततया वर्त- - ७४ काव्यालङ्कारसार- मानायमानाः प्रत्यक्षा इव यत्र दृश्यन्ते तद्भाविकं नामालङ्कारो भवेत् । अत्र हेतुर्वाचामनाकुलता अर्थानां चात्यद्भुतत्वम् । तदुक्तम्-वाचाम- नाकुल्येनेति । अत्यद्भुता इति च । तत्र वाचामनाकुलता व्यस्तसंबन्ध- रहितलोकप्रसिद्धशब्दोपनिबन्धाज्झगित्यर्थप्रतीतिकारिता । तस्यां हि सत्यां कवेः संबन्धी यो भावः आश्रयः शृङ्गारादिरससंवलितचतुर्वर्गोपायभूतवि- शिष्टार्थोल्लेखी स कविनैव सहृदयैः श्रोतृभिः खाभिप्रायेऽभेदेन तत्तत्का- व्यप्रतिबिम्बितरूपतया साक्षात्क्रियते । श्रोतृणामपि हि तथाविधस्वच्छ- शब्दानुभवद्रावितान्तरात्मनां सहृदयानां खाभिप्रायप्रतिमुद्रा तत्र संक्रामति । अतः कवेर्योऽसावभिप्रायस्तद्गोचरीकृता भूता भाविनोऽपि पदार्थास्तत्र सहृदयैः श्रोतृभिः स्वाभिप्रायाभेदेन प्रत्यक्षा इव दृश्यन्ते । यथा चात्र शब्दगतमनाकुलत्वमनन्तरोक्तेन प्रकारेण हेतुस्तथार्थगतमपि चित्रोदात्तार्थो- पनिबन्धहेतुकमत्यद्भुतत्वं द्रष्टव्यम् । तदुक्तं भाविकमुपक्रम्य भामहेन- "चित्रोदात्ताद्भुतार्थत्वं कथायां खभिनीतता । शब्दानाकुलता चेति तस्य हेतून् प्रचक्षते" इति ॥ खभिनीततेत्यभिनयादिद्वारेण शृङ्गारादिरससं- वलितत्वं चतुर्वर्गोपायस्योक्तम् । तदेवमेवंविधहेतुनिबन्धनं कविश्रोतृभा- वद्वितयसंमीलनात्मकं भाविकं द्रष्टव्यम् । अत एव चात्र कविसंबन्धिनो भावस्य श्रोतृभावाभेदाध्यवसितस्य पुरः- स्फुरद्रूपस्य विद्यमानत्वाद्भाविकव्यपदेशः । भावोऽस्मिन् विद्यते इति भाविकम् । तदाहुः- "रसोल्लासी कवेरात्मा खच्छे शब्दार्थदर्पणे । माधु- यौँजोयुतप्रौढे प्रतिविन्द्य प्रकाशते । संपीतस्वच्छशब्दार्थद्राविताभ्य- न्तरस्ततः । श्रोता तत्साम्यतः पुष्टिं चतुर्वर्गे परांव्रजेत्" इति । स्वच्छ इति प्रसादगुणोऽभिहितः । प्रौढ इति तु सालङ्कारता । संपीतौ सम्यगास्वा- दितौ । तत्साम्यत इति खाभिप्रायाभेदेन कविगतस्याभिप्रायस्याध्यवसाना- दित्यर्थः । तस्योदाहरणम्- करोषि पीडां प्रीतिं च निरञ्जनविलोचना । माया मूल्नया समुद्रीक्षा नानाभरणशोभया । AL on- 37 ६ वर्गः] लघुवृत्तौ अत्राभरणोचितमूर्तित्वेऽपि निरञ्जनविलोचनत्वोपलक्षितादाभरणत्यागा- त्पीडा । सहजसौन्दर्यनिर्भरत्वेन तु आभरणसंपाद्यायाः शोभायाः परिह- श्यमानत्वात्प्रीतिः । तेनात्र सांप्रतिकप्रध्वंसाभावोपलक्षितत्वाद्भूषणसंबन्धो व्यतीतोऽप्यद्भुतो योऽसौ वपुःप्रकर्षस्तद्वशेन प्रत्यक्ष इव कविनोपनिबद्धः । तथैव चासौ सहृदयानां चमत्कारमावहति । संततमुत्कृष्टतया वैचित्र्येण ईक्षणीया आभरणशोभा यस्यामिति बहुव्रीहिः । काव्यहेतु:- श्रुतमेकं यदन्यत्र स्मृतेरनुभवस्य वा । हेतुतां प्रतिपद्येत काव्यलिङ्गं तदुच्यते ॥ यत्र एकं वस्तु श्रुतं सद्वस्त्वन्तरं स्मारयति अनुभावयति वा तत्र काव्य- लिङ्गं नामालङ्कारः । पक्षधर्मत्वान्वयव्यतिरेकानुसरणगर्भतया यथा तार्कि- कप्रसिद्धा हेतवो लोकप्रसिद्धवस्तुविषयत्वेनोपनिबध्यमाना वैरस्समाव- हन्ति न तथा काव्यहेतुः अतिशयेन सर्वेषां जनानां योऽसौ हृदयसंवादी सरसः पदार्थस्तन्निष्ठतया उपनिबध्यमानत्वात् । अतः काव्यलिङ्गमिति काव्यग्रहणमुपात्तम् । न खलु तच्छास्त्रलिङ्गं किं तर्हि काव्यलिङ्गमिति काव्यग्रहणेन प्रतिपाद्यते। । ननु काव्यग्रहणेन कथं काव्यस्य सरसपदार्थनिष्ठतोपदय॑ते । काव्यस्य सरसत्वात् । काव्यं खलु गुणसंस्कृतशब्दार्थशरीरत्वात् सरसमेव भवति, न तु नीरसम् । तथाहि----गुणाः काव्यस्य माधुर्योजःप्रसादलक्षणाः । तत्र माधुर्यमालादकत्वम् , ओजो गाढता, प्रसादस्त्वव्यवधानेन रसाभिव्यक्त्य- नुगुणता । तदेतेषां त्रयाणां गुणानां मध्याप्रसादस्य प्राधान्यम् । माधुर्यो- जसोस्तु तत्तद्रसाभिव्यक्त्यानुगुण्येन तारतम्येनावस्थितयोः प्रसाद एव सोप- योगता । एवं च तत्तद्रसानुगुण्येन माधुौजोभ्यां तारतम्येनावस्थि- ताभ्यां उपकृतो योऽसौ प्रसादात्मा रसानामव्यवधानेन प्रतीतिहेतुर्गुणस्त- दुपेतशब्दार्थशरीरत्वेन काव्यस्यावस्थानात्सरसतैव भवति, न तु नीरसता । यद्येवमिदानीं गुणैरेव कृतकृत्यत्वात्काव्यस्यालंकाराणां तत्र निरुपयोगता - -- काव्यालङ्कारसार क 33 प्राप्नोति । नैवं गुणाहितशोभे काव्ये अलङ्काराणां शोभातिशयविधायित्वा- ल्लौकिकालङ्कारवत् । यथाहि लौकिकानामलङ्काराणां गुणसंस्कृते युवति- वपुषि निबध्यमानानामलङ्कारता एवं काव्यालङ्काराणामपि द्रष्टव्यम् । ननु निर्गुणेऽपि काव्ये अलङ्काराणां गुणवच्छोभाविधायित्वं कस्मान्ने- प्यते । अपरिदृष्टत्वात् । न खलु निर्गुणे काव्ये निबध्यमानानामल- ङ्काराणां जरद्योषिदलङ्कारवच्छोभाविधायित्वं दृश्यते । तथाहि-जरद्योषि- त्यलङ्कारा निबध्यमाना न तस्याः शोभां कुर्वन्ति, प्रत्युत तस्यां निबध्य- मानानां तेषामात्मीयमेव सौभाग्यं हीयते । तथा काव्यालङ्काराणामपि निर्गुणे काव्ये निबध्यमानानां काव्यशोभाहेतुत्वाभावः स्वशोभाहानिश्च भवति । यदवोचद्भवामनः-"युवतेरिव रूपमङ्ग काव्यं खदते शुद्धगुणं तदप्यतीव । विहितप्रणयं निरन्तराभिः सदलङ्कारविकल्पकल्पनाभिः ॥ यदि भवति वचश्च्युतं गुणेभ्यो वपुरिव यौवनवन्ध्यमङ्गनायाः । अपि जन- दयितानि दुर्भगत्वं नियतमलङ्करणानि संश्रयन्ते ॥” इति । अङ्गशब्द इष्टामन्त्रणे । शुद्धगुणत्वात्स्वदमानं सदलङ्कारविकल्पकल्पनाभिर्विहितपरि- चयमतिशयेन खदते इति संबन्धः । अत एवालङ्काराणामनित्यता । गुण- रहितं हि काव्यमकाव्यमेव भवति, न त्वलङ्काररहितम् । अलङ्काराणां गुणो- पजनितशोभे काव्ये शोभातिशयविधायित्वात् । तदुक्तम्-'काव्यशोभायाः कर्तारो धर्मा गुणाः । तदतिशयहेतवस्त्वलङ्काराः । पूर्वे नित्याः ।" इति । पूर्वे इति गुणा इत्यर्थः । लक्ष्ये च अलङ्काररहितमपि केवलगुणसंस्क्रियमाण- शब्दार्थशरीरं काव्यं दृश्यते, यथा अमरुकस्य कवेरनिबद्धशृिङ्गाररसंस्यन्दी 35 श्लोकः-"कथमपि कृतप्रत्यापत्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा ११ व्याजप्रकल्पितमश्रुतम् । असहनसखीश्रोत्रप्राप्तिप्रमादससंभ्रमं विवलितदृशा शून्ये गेहे समुच्छ्रसितं ततः ॥” इति । न खल्वत्रार्थालङ्कारः कश्चित्परि- दृश्यते । अथ. माधुयौजोभ्यां परिबृंहितस्य प्रसादस्य विद्यमानत्वात्काव्य- -रूपता। ननु चात्रापि ईर्ष्याविप्रलम्भविरह विप्रलम्भशृङ्गाराभ्यां खतिरोधानेनो- ७७ ६ वर्गः] लघुवृत्तौ । पकृतः संभोगशृङ्गारो नायिकानिष्ठो निबद्धस्तद्योगाच्च रसवत्त्वमलं भवि- ष्यति । तथाहि 'कथमपि कृतप्रत्यापत्तौ प्रिये' इत्यत्र भागे विरह विप्रल- म्भपूर्वकः प्रियतमचित्तसांमुख्यात्मा संभोगशृङ्गारः सूचितः । स्खलितोत्तर इति तु संजातगोत्रस्खलितत्वात्प्रेयसो नायिकाया ईर्ष्याविप्रलम्भशृंगारो निबद्धः । पुनश्च विरहकृशयेत्यादिभिस्त्रिभिः पादैरवहित्थेन भावेन नायि- काधारमा विप्रलम्भशृङ्गारं प्रच्छाद्य संभोगशृङ्गारेण चित्तोल्लाससूचि- तेन वाक्यार्थसमाप्तिः कृता । तथा हि-विरहकृशेत्यादिना पादेन नायि- कागतो मन्युरवच्छाद्योपदर्शितः । असहनसखीत्यादिना तु गोत्रस्खलितस्य सखीश्रोत्रप्राप्तिं विरहविप्रलम्भकारणत्वेनाशय दृष्टिपरावृत्त्या सखीजन- शून्ये गृहे परिदृष्टे यत्तन्नायिकया समुल्लसितं तदुपनिबन्धात्संभोगशृङ्गारेण वाक्यार्थों निर्वाहितः । तदेवमत्र संभोगस्य विप्रलम्भबाधेन लब्धपद- बन्धस्योपनिबन्धाद्रसवत्त्वमलङ्कारः । तत्कथमत्र निरलङ्कारतोक्ता । उच्यते। न खलु काव्यस्य रसानां वालङ्कार्यालङ्कारभावः, किन्तु आत्मशरीरभावः । रसा हि काव्यस्यात्मत्वेन अवस्थिताः, शब्दार्थौ च शरीररूपतया । यथा ह्यात्माधिष्ठितं शरीरं जीवतीति व्यपदिश्यते तथा रसाधिष्ठितस्य काव्यस्य जीवद्रूपतया व्यपदेशः क्रियते । तस्माद्रसानां काव्यशरीरभूतशब्दार्थविषय- तयात्मत्वेनावस्थानं, नत्वलङ्कारतया । रसाभिव्यक्तिश्च यथायोगं माधुर्यो- जोभ्यां तारतम्येनावस्थिताभ्यामुपबृंहितो योऽसौ प्रसादात्मा गुणस्तेन क्रियते । अतोऽत्र विप्रलम्भशृङ्गारोपकृतस्य संभोगशृङ्गारस्य सगुणका- व्यात्मत्वेनावस्थानं, न तु काव्यं प्रति अलङ्कारतयेति युक्तमिदमुक्तं निर- कङ्कारमपि काव्यं सगुणं दृश्यते इति । एवं रसान्तरेषु भावेषु रसभावा- भासेषु तत्पशमेषु च. वाच्यम् । तदाहुः- "रसाद्यधिष्ठितं काव्यं जीवद्रू- पतया यतः । कथ्यते तद्रसादीनां काव्यात्मत्वं व्यवस्थितम् ॥” इति । यत्तु रसादीनां पूर्वमलङ्कारत्वमुक्तं तदेवंविधभेदाविवक्षया । तदेवं गुणसंस्कृतशब्दार्थशरीरत्वात्सरसमेव काव्यम् । यद्येवं गुणशून्यत्वान्नीरसें व्याकरणादौ भरतादौ च काव्यव्यपदेशो न प्राप्तः । ततश्च "वृत्तदेवा- काव्यालङ्कारसार- दिचरितशंसि चोत्पाद्यवस्तु च । कलाशास्त्राश्रयं चेति चतुर्धा भिद्यते पुनः ॥” इति भामहोदितं विरुध्यते, अत्र हि कलाश्रयशब्देन भरता- द्यभिहितम् । शास्त्राश्रयशब्देन च व्याकरणादि । अतो वक्तव्यमेतत्कथं तत्र काव्यव्यपदेशः इति । उच्यते । मुख्यया तावद्वृत्त्या गुणसंस्कृतश- ब्दार्थशरीरमेव काव्यम् । गुणरहितशब्दार्थशरीरे तु काव्यमाने काव्यश- ब्दस्य काव्यसादृश्यादुपचारात्प्रयोगो भविष्यति । उक्तं च-"काव्य- शब्दोऽयं गुणालङ्कारसंस्कृतयोः शब्दार्थयोर्वर्तते, भक्त्या तु शब्दार्थमात्र- वचनोऽत्र गृह्यते” इति । भक्त्येति उपचारेणेत्यर्थः । तदेवं गुणसंस्कृत- शब्दार्थशरीरत्वात्काव्यस्य सरसत्वमिति ५ तद्विशिष्टं काव्य लिङ्गं सरसपदा- र्थनिष्ठमेव भवति, न तु नीरसवस्तुमात्रनिष्ठं शास्त्रलिङ्गवदित्युपपन्नम् । तार्किकाणां च हेतुव्यापारे द्वैविध्यम् । केचित्खलु तार्किका व्याप्तिग्रहण- काले यदनुभूतं व्यापकं वयादिवस्तु धूमादेाप्यस्य तत्स्मरणमात्रे धूमा- दिहेतुदर्शनप्रबुद्धसंस्काराणां पुरुषाणां हेतुव्यापारं मन्यन्ते । अपरे तु वयादीनां पर्वतादिधर्मविशेषसंबन्धस्य पूर्वमगृहीतस्य धूमादिहेतुव्यापार- सामर्थेन इदानीमेव अवसेयत्वाल्लिङ्गसामर्थ्याल्लिङ्गयनुभवस्यैव उत्पत्ति- माहुः । तदिदमुक्तं स्मृतेरनुभवस्य वेति । तस्योदाहरणम्- छायेयं तव शेषाङ्गकान्तेः किञ्चिदनुज्वला । विभूषाघटनोदेशान्दर्शयन्ती दुनोति माम् ॥ अत्र विभूषणविन्यासास्पदभूता ये कण्ठादयस्तदवशिष्टानामङ्गानां यासौ कान्तिः दीप्तिः तस्या अनुज्वला मलिना यासौ छाया शोभा सा लिङ्गं, तत्सामर्थ्याच्च भूषाविन्यासप्रदेशानां भूषणसंबन्धोऽतीतोऽनुमीयते । तेन तत्काव्यलिङ्गम् ॥ 35 काव्यदृष्टान्त:- इष्टस्वार्थस्य विस्पष्टप्रतिविम्बनिदर्शनम् । यथेवादिपदैः शून्यं बुधैर्दृष्टान्त उच्यते ॥ इष्टस्य प्राकरणिकतया प्रतिपादयितुमभिमतस्यार्थस्य यत्र विस्पष्टतया प्रतिबिम्ब सदृशं वस्तु निदर्श्यते तत्र काव्यदृष्टान्तो नामालङ्कारः ।

६ वर्गः] लघुवृत्तौ Rana ननु "कोपादेकलराघातनिपतन्मत्तदन्तिनः । हरेहरिणयुद्धेषु किया- न्व्याक्षेपविस्तरः" इत्येवमादावपि अप्रस्तुतप्रशंसायामिष्टार्थप्रतिबिम्बनि- दर्शनं विद्यते । तथाहि-अत्र रामदेवस्य मारीचवधे व्यापारो निरा- यासो हरिणहननोद्योगिकेसरिकिशोरप्रतिविम्बितत्वेन निदर्शितः । अतोऽ. त्रापि दृष्टान्तताप्रसङ्गः । नैतत् । यत एतदर्थमेव विस्पष्टग्रहणमुपात्तम् । अत्र हि प्रतिबिम्बादेव बिम्बस्योन्नयनाद्विस्पष्टरूपतया इष्टस्यार्थस्य प्रति- बिम्बनिदर्शनं नास्ति । यत्र तु इष्टमर्थ वकण्ठेनोपादाय तस्य प्रति- विम्बमुपदर्श्यते तत्र दृष्टान्तत्वम् । अतो नातिव्याप्तिः । उपमादावप्येवं. विधस्य रूपस्य संभव इति तन्निराकरणार्थमुक्तम्-यथेवादिपदैः शून्य- मिति । आदिग्रहणेनात्र साधारणधर्मस्यापि परिग्रहः । तस्योदाहरणम्- किञ्चात्र बहुनोक्तेन व्रज भर्तारमाम्नुहि । उदन्वन्तमनासाद्य महानद्यः किमासते ।। अत्र भगवतीकर्तृकाया वरप्राप्तेर्महानदीकर्तृका उदन्वत्प्राप्तेविस्पष्टतया प्रतिबिम्बत्वेनोपनिबद्धा । अतो दृष्टान्तः । एवमेतेऽष्टकषटत्रिकसप्तकैकादशकषट्दैः षड्भिर्वगैरेकचत्वारिंशदलङ्काराः प्रतिपादिताः। ननु यत्र काव्ये सहृदयहृदयाह्लादिनः प्रधानभूतस्य स्वशब्दव्यापारा- 2-१स्पृष्टत्वेन प्रतीयमानैकरूपस्यार्थस्य सद्भावस्तत्र तथाविधार्थाभिव्यक्तिहेतुः 3 काव्यजीवितभूतः कैश्चित्सहृदयैर्ध्वनि म व्यञ्जकत्वभेदात्मा काव्यधर्मोऽ- भिहितः । स कस्मादिह नोपदिष्टः । उच्यते । एष्वेवालङ्कारेष्वन्तर्भा- वात् । तथाहि-प्रतीयमानैकरूपस्य वस्तुत्रैविध्यं तैरुक्तं वस्तुमात्राल- काररसादिभेदेन । तत्र वस्तुमानं तावत्प्रतीयते यथा- चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य । आलिङ्गनोदामविलासवन्ध्यं रतोत्सवं चुम्बनमात्रशेषम् ॥ इति । अत्र हि राहुवधूरतोत्सवस्य या चुम्बनमात्रशेषता तत्कमिका चक्राभि- घातप्रसभाज्ञाकरणिका चकारेति करणलक्षणा क्रियाभिधीयते । सा चैवं- विधा कार्यभूतत्वात्कारणमन्तरेणानुपपद्यमाना तथाविधवैरस्यकारि राहुशिर- 31 -- ८० काव्यालङ्कारसार- श्छेदलक्षणं कारणं नालङ्काररूपं, नापि रसादिरूपं, अपि तु वस्तुमात्ररूपं कल्पयति । अतोऽत्र वस्तुमात्रस्यैवंविधस्य शब्दव्यापारास्पृष्टस्य प्रतीयमा- नता, तद्विषयस्य च काव्यधर्मस्य ध्वननाभिधानस्य वाच्यवाचकव्यापारशू- न्यावगमनस्वभावत्वात्पर्यायोक्तालङ्कारस्पर्शित्वं, तदुक्तम्-"पर्यायोक्तं यद- न्येन" इत्यादि। ननु पर्यायोक्तशब्देन प्रकारान्तरेण उच्यमानत्वात्प्रतीयमानं वस्तु अभिधीयते । तच्चेह प्रतीयमानं प्रधानत्वादलङ्कार्यतया वक्तुं युक्तम् , न त्वलकृतिकारणतया । अतः कथं तस्यालङ्कारव्यपदेशः । उच्यते । प्रधा- नमपि गुणानां सौन्दर्यहेतुत्वादलङ्कृतौ साधनत्वं भजति । दृश्यते हि लोके व्यपदेशः खाम्यलकरणका भृत्या इति । अतोऽत्रापि प्रतीयमानम्य 'सत्यपि प्रधानत्वे स्वगुणभूतवाच्यसौन्दर्यसाधकतमत्वादलङ्कारव्यपदेशो न विरुध्यते । यदि वा भगवद्वासुदेववर्तितया योऽसौ वीररसोऽवगम्यते तदपेक्षया तस्य मुख्ययैव वृत्त्या गुणभूतत्वादलङ्कारता । एवमुत्तरत्रापि यथासंभवं योज्यम् । "स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लहलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । काम सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्व सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥ इत्येवमादावपि रामादीनां शब्दानामसाधारणरूपतया राज्यभ्रंशवन- वाससीताहरणपितृमरणादयो दुःखैकहेतवः खार्थसहचारिणो वस्तुमात्ररूपा व्यङ्ग्यधर्मास्तत्परिणतरूपतया स्वार्थस्य प्रतीतिस्तद्धतुभूतत्वात्पर्यायोक्ताल- ङ्कारसंस्पर्शितैव । न खलु पदे पर्यायोक्तेन न भवितव्यमितीयं राज्ञामाज्ञा सूत्रकारवचनं वा । लक्षणयोगाद्धि विभक्तरूपतावस्थाप्यते । अत्र च पर्यायोक्तलक्षणं विद्यते । वाच्यवाचकव्यापारशून्यस्यावगमनात्मनः प्रका- रस्य सद्भावात् । तेन कथं पर्यायोक्तता न स्यात् । एवमन्यत्रापि वस्तुमात्रे प्रतीयमाने पर्यायोक्तता वाच्या । तस्मान्न वस्तुमाने प्रतीयमाने तदभिव्य- लघुवृत्ती surane ६ वर्गः] ८१ क्तिहेतुः काव्यधर्मो ध्वनि मार्थान्तरम् ॥ अलङ्काराणां तु यद्यपि- "लावण्यकान्तिपरिपूरितदिखेऽसिन् मेरेऽधुना तव मुखे तरलायताक्षि । क्षोभं यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जलराशिरयं पयोधिः" । इत्यादौ प्रतीयमानैकरूपता, तथाप्यनन्तरोक्तलक्षणेष्वलङ्कारेषु अनुप्र- वेशो भविष्यति पर्यायोक्ते वा। तथा ह्यत्र श्लोके मुख्य लावण्यकान्तिप- रिपूरितदिङ्मुखस्य विकसितहासज्योत्स्नस्य संबोधनसामर्थ्यावसिततरलायता- क्षित्वस्य च संनिधानाजलनिधेः क्षोभमुपपत्तिमत्त्वेन संभाव्य तद्भावो जाड्यसमूहावच्छादितखभावत्वादभिहितः । तथाविधार्थपर्यालोचनया चात्र मुखस्य चन्द्रेण रूपणा प्रतीयते । चन्द्रसंनिधानाज्जलनिधेः क्षोभस्योत्पा- ददर्शनात् । न च यस्यालङ्कारस्य प्रतीयमानरूपता तस्येहालङ्कारत्वं केनचि- निवारितमिति प्रतीयमानरूपतया रूपकाख्योऽलङ्कारो भविष्यति । अथवा पर्यायोत्या रूपकस्यात्रावसितत्वात्पर्यायोक्तमलङ्कारः । "सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः । शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥" इत्यादौ तु शूरादिभिः सह सुवर्णपुष्पपृथिवीकर्मकस्य चयनस्यानुपपद्य- मानान्वयत्वात्सादृश्यस्यान्वयेनोपमेयभूतस्य बहुलाभत्वस्य तत्सदृशस्य या लक्षणा तद्वारेण गर्भीकृतोपमानोपमेयभावा असंभवद्वाच्यार्थी निदर्शना द्रष्टव्या । यदुक्तम्-"अभवन्वस्तुसंबन्ध" इत्यादि । भट्टवामनेन चात्र वक्रोक्तिव्यवहारः प्रवर्तितः। यदवोचत्-"सादृश्याल्लक्षणा वक्रोक्तिरिति । "सर्वेकशरणमक्षयमधीशमीशं धियां हरिं कृष्णम् । चतुरात्मानं निष्क्रियमरिमथनं नमत चक्रधरम् ॥" इत्यादावपि श्लेषः । तथा ह्यत्र सर्वैकशरणमक्षयमित्यादीनां शब्दानाम- र्थभेदेन भिन्नत्वे सति यथायोगमेकप्रयत्लोच्चार्याणामेकप्रयत्नोच्चार्यशब्दस- '८२ काव्यालङ्कारसार- की दृशानां वोच्चारणम् । अतो विरोधालङ्कारप्रतिभोत्पत्तिहेतुरत्र श्लेषः । यदु- तम्-''एकप्रयत्नोच्चार्याणाम्" इत्यादि+ एवमलङ्कारान्तरेष्वपि प्रतीयमानेषु वाच्यम् । तेनालङ्कारनिष्ठस्यापि अभिव्यञ्जकत्वस्योक्तेष्वलङ्कारेष्वन्तर्भावादव्यायभावः । रसभावतदाभास- तत्पशमानां तु प्रतीयमानतायामुदाहरणम्- "याते गोत्रविपर्यये श्रुतिपथं शय्यामनुप्राप्तया नितिं परिवर्तनं पुनरपि प्रारब्धुमङ्गीकृतम् । भूयस्तत्प्रकृतं कृतं च शिथिलक्षिप्तैकदोर्लेखया तन्वङ्गया न तु पारितः स्तनभरः ऋष्टुं प्रियस्योरसः॥” इति । तथा हि-अत्र गोत्रस्खलितस्य श्रुतिपथप्राप्तेरीाविप्रलम्भशृङ्गारो नायि- कायाः संमुखीभूतोऽपि संभोगशृङ्गारेण खहेतुसामग्र्यप्रतिलब्धप्रकर्षण तिरो- धाय प्रदर्शितः । नितिं परिवर्तनमित्यादिना हि यथाक्रममा विप्रल- म्भशृङ्गारानुभावस्य परिवर्तनस्य दर्शनप्रार्थनाध्यवसायानुष्ठानात्मिकाश्चतस्रो ऽवस्थाः संभोगशृङ्गारमन्थरीकृतस्वस्वभावत्वेनोपवर्णिताः । पुनश्च संभोगशृ- झारेण वाक्यार्थो निर्वाहितो 'न तु पारितः' इत्यादिना। अतोऽत्र संभोग- शृङ्गारस्येाविप्रलम्भशृङ्गारतिरोधानहेतोः प्रतीयमानता । तत्र च पूर्व रसवत्त्वलक्षणोऽलङ्कारः प्रतिपादितो 'रसवदर्शित' इत्यादिना । एवं रसा- न्तरेष्वपि वाच्यम् । यत्रापि भावास्तथा रसभावाभासा रसभाबतदाभासप्तशमाश्च प्रतीयमा. नास्तत्रापि यथाक्रमं प्रेयस्वदूर्जखिरसमाहितलक्षणालङ्कारयोगो वाच्यः । एवमेतत्प्रधानभूतेषु रसादिषूक्तम् । गुणभूतेष्वपि च रसेदात्तालङ्कारः प्रतिपादितः 'चरितं च महात्मनाम्' इत्यादिना । अतश्च रसादिष्वभिव्य- ञ्जकत्वस्य नार्थान्तरता । एवं च त्रिविधेऽपि प्रतीयमानेऽर्थे यच्छिष्ठानां व्यञ्जकत्वमनन्तरोपवर्णितेषूदाहरणेषु षट्रप्रकारतयोपदर्शितं तस्योक्तेष्वेवा- लङ्कारेष्वन्तर्भायाध्याप्तिः । .

. ६ वर्ग:] लघुवृत्तौ षट्प्रकारता चात्र त्रिविधप्रतीयमानार्थनिष्ठस्यापि व्यञ्जकत्वस्य वाच्यस्य विवक्षितत्वाविवक्षितत्वाभ्यामुक्ता । तथा हि-द्विविधं व्यञ्जकत्वं, वाचक- शक्त्याश्रयं वाच्यशक्त्याश्रयं च । तत्र वाचकशक्त्याश्रयमलङ्काराणामेव व्यङ्ग्यत्वादेकप्रकारम् । तत्र बलङ्कारा एव व्यज्यन्ते, न तु वस्तुमानं नापि रसादयः, यदुक्तम्-"आक्षिप्त एवालङ्कारः शब्दशक्त्या प्रकाशते । यस्मि- ननुक्तः शब्देन शब्दशक्त्युद्भवो हि सः ॥” इति । वाच्यशक्त्याश्रयं तु रसादिवस्तुमात्रालङ्काराभिव्यक्तिहेतुत्वात्रिविधम् । तत्र यत्तावद्वाचकशक्त्या- श्रयं व्यङ्ग्यभूतालङ्कारैकनियतं शब्दशक्तिमूलानुरणनरूपव्यङ्ग्यतया सहृद- यैर्व्यञ्जकत्वमुक्तं "सर्वैकशरणमक्षयम्" इत्यादौ, तत्र शब्दशक्त्या ये प्रतीयन्ते विरोधादयोऽलङ्कारास्तत्संस्कृतखभावं वाच्यमवगम्यते । अतस्तत्र वाच्यस्य विवव । विष्यनिलि पोवा यत्तु वाच्यशत्त्याश्रयं “याते गोत्रविपर्यये श्रुतिपथम्" इत्यादावसं. लक्ष्यक्रमरसादिव्यङ्ग्यनिष्ठं व्यञ्जकत्वमुक्तं तत्रापि वाच्यस्य विवक्षितत्वमेव । वाच्यभूतानुभावादिविवक्षयैव व्यङ्ग्यरसादिप्रतीतेरुत्पादात् । तदेवं वाचक- शक्त्याश्रयव्यङ्ग्यभूतालङ्कारैकनियते वाच्यशक्त्याश्रये चासंलक्ष्यक्रमरसा- दिव्यङ्गयनिष्ठे व्यञ्जकत्वे वाच्यस्य विवक्षितत्वमेव । वस्तुमात्रालङ्कारविष- यस्य तु वाच्यशक्त्याश्रयस्य व्यञ्जकत्वस्य प्रत्येकं वाच्यस्य विवक्षित- स्वाविवक्षितत्वाभ्यां द्वैविध्यम् । तथाहि 'चक्राभिघातप्रसभाज्ञये' त्यादौ वस्तुविषये व्यञ्जकत्वे वाच्यस्य विवक्षितत्वं कार्यविवक्षापूर्वकत्वेन कारण- प्रतीतिप्रसवात् । 'स्निग्धश्यामलकान्ती'त्यादौ तु रामादिशब्दानामर्थान्तर- संक्रमितवाच्यानां वाच्यमविवक्षितम् । व्यङ्ग्यधर्मान्तरपरिणतत्वात् । एवं वस्तुमात्रविषये व्यञ्जकत्वे वाच्यस्य विवक्षाविवक्षे,ऽलङ्कारविषयेऽपि वाच्यशक्त्याश्रये व्यञ्जकत्वे । 'लावण्यकान्ती'त्यादौ एकस्मिन्मन्ये इत्येत- स्मिन्शब्दे यो विशेषोक्त्युत्प्रेक्षयोरनुप्रवेशस्तद्वशेन समासादितस्वभावो. योऽसावेकशब्दाभिधानसंकरस्तत्प्रतिभोत्पत्तिहेतुश्लेषप्रौढीकृतं वाच्यं विवक्षि- तम् । तन्मूलकत्वेन रूपकप्रतीतेरुत्पादात् । .

काव्यालङ्कारसार "सुवर्णपुष्पां पृथिवी'मित्यादौ तु वाच्यस्याविवक्षा । उपमेयस्य बहुलाभ- त्वस्य तत्सदृशस्य या लक्षणा तस्या अत्यन्ततिरस्कृतवाच्यमूलत्वात् । यदि त्वत्र न तिङन्तेनोपमानमस्तीति दृष्ट्या तद्भावाध्यवसानात्सुवर्णपुष्पट्ट- थिवीचयनलक्षणोपमानावच्छादितरूपत्वेन शूरादिविषयस्य बहुलाभत्वस्योप- मेयस्य प्रौढोक्त्या प्रतिपत्तिः, ततोऽत्र प्रौढोक्तिमात्रनिष्पन्नशरीरस्य वाच्य- स्यार्थस्य प्राधान्या"देदेऽनन्यत्वमित्येवमात्मकतयोपवर्णितमतिशयोक्तिभे- दत्वं वाच्यम् । व्यङ्ग्या झुपमा तदानीमत्र गुणीभवति । एवमलङ्कारनिष्ठस्यापि व्यञ्जकत्वस्य वाच्यविवक्षितत्वाविवक्षितत्वाभ्यां द्वैविध्यम् । यन्त्र चाविवक्षा वाच्यस्य वस्तुनिष्ठेऽलङ्कारनिष्ठे वा व्यञ्जकत्वे तत्र व्यङ्गयरसादेझगित्यवगम्यमानत्वादसंलक्ष्यक्रमता द्रष्टव्या। यदुक्तं भवा- मनेन-"लक्षणायां हि झगित्यर्थप्रतिपत्तिक्षमत्वं रहस्यमाचक्षते" इति । अत एव च सहृदयैर्यत्र वाच्यस्य विवक्षितत्वं तत्रैव वस्त्वलङ्कारयोः प्रती- यमानयोर्वाच्येन सह क्रमव्यवहारः प्रवर्तितोऽर्थशक्तिमूलानुरणनरूपव्यङ्ग्यो ध्वनिरित्युक्तं, न तु वाच्य विवक्षायामपि । यत्र च वाच्यस्याविवक्षा पूर्व- मुक्ता "रामोऽस्सी'ति 'सुवर्णपुष्पा'मिति च तत्र वयमधिकारीपेतप्रस्तुता- र्थानुबन्धिवस्तूपनिबन्धादप्रस्तुतप्रशंसाभेदत्वमेव न्याय्यं मन्यामहे । यदुक्तं 'अधिकारादपेतस्ये' त्यादि । यत्तु पूर्वपर्यायोक्तभेदत्वं 'स्निग्धश्यामलकान्ती'त्यादौ रामादीनां शब्दा- नामभिहितं तदुपक्रममात्ररूपतया द्रष्टव्यम् । विवक्षितवाच्यस्य पयायोक्तभे- दत्वात् । यत्र खलु वाच्याविवक्षापूर्वकत्वेन अर्थान्तरं प्रतीयते "चक्राभि- घाते'त्यादावुदाहरणचतुष्टये तत्र पर्यायोक्तभेदता ।.पर्यायोक्तलक्षणस्याप्र- स्तुतप्रशंसालक्षणविचारवशेन तद्व्यतिरिक्तविषयावगाहित्वात् । यत्र त्ववि- वक्षिते वाच्येऽर्थान्तरस्य प्रतीतिस्तत्राप्रस्तुतप्रशंसा । अतश्च पर्यायोक्ता- . प्रस्तुतप्रशंसयोरेव यथाक्रमं विवक्षिताविवक्षितवाच्ययोः सर्वध्वनिभेदसा- मान्यभूतयोर्ध्वनिभेदयोरन्तर्गतिर्वाच्या । 'सुवर्णपुष्पां पृथिवीम्' इत्यादौ तु विदर्शनाभेदत्वं यत्पूर्वमुक्तं तदधिकारोपेतप्रस्तुतार्थानुबन्धिवस्तूपनिबन्धा- ८५ ६ वर्गः] लघुवृत्तौ स्मत्वेनासंभवद्वाच्याया विदर्शनाया अप्रस्तुतप्रशंसाभेदत्वादुपपद्यत एव । एतच्च विद्वद्भिर्विचार्य गृहीतव्यं न त्वविमृश्यैवासूयितव्यमित्यलमतिवा- चालतया। तदेवं वाचकशक्तिमूलेऽलङ्कारैकनियते वाच्यशक्तिमूले च रसादिविषये व्यञ्जकत्वे वाच्यस्य विवक्षितत्वैकरूपत्वम् । वस्त्वलङ्कारविषये तु वाच्यश- क्तिमूले व्यञ्जकत्वे प्रत्येकं वाच्यस्य विवक्षितत्वाविवक्षितत्वाभ्यां द्विभे- दता । अतस्तत्समाश्रयणेन विविधप्रतीयमानार्थनिष्ठस्यापि व्यञ्जकत्वस्य षट्प्रकारता भवति । एतेषां च षण्णां भेदानां मध्याह्वयोर्भेदयोर्वाच्यस्या- विवक्षोक्ता । चतुर्पु विवक्षितत्वम् । यत्र च विवक्षितत्वं तत्र वाच्यस्य खतःसंभवित्वात्प्रौढोक्तिमात्रनिष्पादितशरीरत्वाच्च द्वैविध्यम् । अतस्तत्र तस्याष्टौ भेदा भवन्ति । एते चाष्टौ भेदा वाच्यस्य यत्राविवक्षा तद्विषयाभ्यां पूर्वोदिताभ्यां द्वाभ्यां भेदाभ्यां संकलिताः सन्तो दश संपद्यन्ते । एत एव तु पदवाक्यप्रकाश्यतया द्वैगुण्यं भजमाना विंशतिर्भवन्ति । वर्णसंघटनाप्र- बन्धाधारस्य व्यञ्जकत्वस्य कृत्तद्धितादिगतस्य च पदवाक्यानुप्रवेशेनैवाविर्मा- वात् । पदप्रकाश्यत्वं यथा 'रामोऽस्मीति' । 'चक्राभिघाते' त्यादौ तु वाक्यप्रकाश्यता । यथा च प्रधानभूते व्यङ्ग्ये एषा व्यञ्जकता विंशतिविधा भवति, तथा गुणीभूतेऽपि यथासंभवं योज्येति । तदाहुः- विवक्ष्यमविवक्ष्यं च वस्त्वलङ्कारगोचरे। वाच्यं ध्वनौ, विवक्ष्यं तु शब्दशक्तिरसास्पदे ॥ भेदषटे चतुर्धा यद्वाच्यमुक्तं विवक्षितम् । खतःसंभवि वा तत्स्यादथ वा प्रौढिनिर्मितम् ।। दश भेदा ध्वनेरेते विशतिः पदवाक्यतः । प्रधानवद्भुणीभूते व्यङ्गये प्रायेण ते तथा ॥ इति । विष वस्त्वलकारवाच्ये ध्वनौ प्रत्येकं वाच्यं विवक्ष्ममविवक्ष्यं चेति संबन्धः। विवक्ष्यमिति विवक्षार्हमित्यर्थः । शब्दशक्तिरसास्पद इति वाचकशक्तिस- माश्रयं रसादिव्यङ्ग्यनिष्ठं च व्यञ्जकत्वमुक्तम् । तद्विशिष्टशक्ति व्यञ्जय रसादींश्च व्यङ्ग्यभूतानास्पदीकरोति । एवमेतद्व्यञ्जकत्वं पर्यायोक्तादि भीवितम् । एतच्चेह बहुवक्तव्यत्वान्न वैतत्येन प्रपञ्चितम् । कुशा द्धीनां हि दिमात्र एवोपदर्शिते सति बुद्धिवल्ली प्रतानशतैर्नानादिग्द त्वेन विस्तारमासादयतीति ॥ मीमांसासारमेघात्पदजलधिविधोस्तर्कमाणिक्यकोशात् साहित्यश्रीमुरारेर्बुधकुसुममधोः शौरिपादाब्जभृङ्गात् । श्रुत्वा सौजन्यसिन्धोर्द्विजवरमुकुलात्कीर्तिवल्यालवालात् काव्यालङ्कारसारे लघुविवृतिमधात्कौङ्कणः श्रीन्दुराजः ॥ इति महाश्रीप्रतीहारेन्दुराजविरचितायामुद्भटालङ्कारसार- संग्रहलघुवृत्तौ षष्ठो वर्गः॥ S.V.O. Celleri Library. TIRUPATI. dars. No.32/12 32/22 काव्यालङ्कारसारलघुवृत्तौ उदाहतानां पद्यानामनुक्रमणी । पृ ... ... ... ... ... ८ लेखा .. चन्तय... कान्त श्यचा रिजात १८ ... ... ... ... पेसा सु मन्द २१ .." ... ... ... .. १। ... - ... ५ ... ... १. ... याः सदा हो स्मर... सारधा | काले... चिन्त भाव... विसं... पं स्थिति दुकान्त च सु... तरोप पतद्भिः पृ. | विषयः ३८ केलिलोला ४० क्वचिदुत्फु... ५३ / क्षणं काम... ३४ | क्षणं नष्वा.. ५५ क्षणमौत्सु २० चण्डालक ६२ चक्राभिघा ४५ | छायेयं त ... ३० | जितान्यपु १३ | ज्योत्स्नाम्बुने २१ तत्र तोया... ३१ तथा कामो ५० तदानीं स्फी ५९ तदाप्रभू ६५ तदुत्तिष्ठा ५५ | तन्नास्ति य ४८ तपस्तेजः... ५३ | तस्यादिको १२ तस्येतर ६९ तां जानीया ५३ तां शशिच्छा ५८ | त्वत्कृते सो ४३ | त्वदनमा ७४ | दन्तप्रभा ४६ युजनो मृ... धिगनन्यो... ....७९ नाभिपश्न ... नीलाब्दः कि ... ... ... ७ ३ . ..... .. ... ... ... ... ... ... दत्वा.... ... ... ... :: 0.00 :: .. ६ नाच च वद्धि न... जलहि रोषि पी... पोलफ शा:काशा छात्रब ... ... ... ... . ra ... यत्क । ...

... ... ... ... ... ... .. ... ... पृ. विषयः ६९ लावण्यकां... ४१ / वनान्तदे ३६ / विदेशव ९ विद्वदग्या ... ५३ विनोचिते... ३३ / विरलारता १८ शिरांसि पं ५३ | शीर्णपर्णी ... ४१ स दग्धवि ५९ स दुःस्थीय १ स देवोदि... ... ... ... ... ... ... ... ... 2.. ... .. विषयः नेत्रोरग पतेद्यदि पद्मं च नि पद्मिनी प... पुष्ट्येन्द्रनी... प्रच्छन्नाश प्रवोधाद्ध ... बभूव य मन्ये च नि महर्दिनि महिषित मीमांसासा मुरारिनि मैवमेवा मृणालहं यद्यप्यत्यं यद्वा मां कि यस्याह यस्य वाणी याते गोत्र यान्ति स्वदे या शैशिरी येन लम्बा योगपट्टो यो बलौ व्या ८६ / सवैकश ६३ सा गौरीशि ... ... .... ... .. .. ... ... .. '... ... ... ... ... ... ... ... ... A.. ६५ सान्द्रारवि... ४३ | सुवर्णपु ६४ सोऽपि येन ५९ | संजहार १ स्त्रियोमह... ७२ स्निग्धश्याम ८२ स्मरज्वर ६१ खयं च प... ३८ | खिद्यतापि हरेणेव ६० हरोऽथ ध्या ७० हस्ते किम... .. ... ... ... ... 6. ... .66 ००० ...

ब्रह्मसूत्रशाङ्करभाष्यम्। भामती-कल्पतरु-परिमलव्याख्यासहितम् । ब्रह्मखरूपमात्रप्रकाशनार्थं प्रवृत्तत्वाद्यथार्थाभिधानानि ब्रह्मसूत्राणि खरसतः फलोच्यमानान्यद्वैतमेवावगमयन्ति । तत्परं चेदं शाङ्करभाष्यं प्रसन्नगम्भीर तरैर्व्याख्यानैस्तथा चकास्ते यथा भामत्या । यस्या हि व्याख्या कल्पतरु- मलानन्दसरस्वतीकृतिरतितरामानन्दमलं प्रेक्षकाणामादधाति । तद्विवरणं च 'रिमलामिधानं कल्पतरोः कल्पतरुभावमादधानं सर्वतन्त्रस्वतन्त्रादिविरु- किताप्पय्यदीक्षितेन प्रणीतं शब्दन्यायमीमांसादिशास्त्रप्रक्रियाप्रचुरं विदुषाम- न्तिमानन्दमावहतीत्यवचनसिद्धमिदम् । तेषामेषामेकत्र समावेशेन सहृदय- दयाहादकरी मिमां पञ्चप्रन्थीमद्य प्रकाशयामः । मूल्यं १० रु., मार्ग. १॥ रु. वेदस्तुतिः। (श्रीमद्भागवतदशमगता) लोके व्यवायेतिश्लोकः, जन्माद्यस्येतिश्लोकश्च । काशीनाथोपाध्यायकृतव्याख्योपबृंहितश्रीधरीव्याख्या । श्रीमद्भागवते वेदस्तुत्यादयो निर्दिष्टा विषया अखिलवेद्या गभीराथाश्चेति तिरोहितं विदुषाम् । मूलविषयगाम्भीर्याच्छ्रीधरीव्याख्यापि दुरूहैवासीदिति रमकारुणिकैर्धर्माधिकारैः काशीनाथोपाध्यायः प्रणीतया श्रीधरीप्रकाशव्या- यया सह मुद्रितास्ति । मूल्यं १२. आणकाः, मार्ग. ४ आणकाः. पातञ्जलयोगसूत्रम् । भावागणेशवृत्ति-नागोजीभट्टीयवृत्तिसहितम् । योगशास्त्रस्यातिखल्पः प्रकरणग्रन्थोऽयम् । अस्य १ समाधिपादः, २ साध- पादः, ३ विभूतिपादः, ४ कैवल्यपादश्चेति चलारि प्रकरणानि खनामभिरेव तिपाद्यविषयमाविष्कुर्वन्ति । निर्दिष्टव्याख्याद्वयमप्यर्थस्पष्टीकरणायातिसुल- मूल्यं १२ आ., मार्ग. ४ आणकाः. मस्ति। पाण्डुरङ्ग जावजी,

The Kavyalankara Sangraha Of Udaha Bhatta

Author
Mangesh Ramakrishna Telang
Title
The Kavyalankara Sangraha Of Udaha Bhatta
File name
The Kavyalankara Sangraha Of Udaha Bhatta
Text
OCR done
Citation
1915
Published
14/11/2002
Publisher
Tukaram Jhavji, Mumbai
Language
Sanskrit
Pages
96
Library
Svclrc
Classification
Literature
DLI number
383518
Barcode
99049990028184.00
Scanning centre
S.V. Digital Library, Tirupati
Digital publisher
UDL TTD TIRUPATI
VMLT id
UI1WfdSymQb
Download PDF

The Kavyalankara Sangraha Of Udaha Bhatta