Scl
Kavyalankarasutrani Vol I V
Front matter
No text on this page.
U2UCU21
S
मा
पण्डितवरवामनविरचितानि
काव्यालंकारसूत्राणि
स्वीयवृत्तिसमेतानि ।
निर्णयसागर प्रेस, मुंबई २
मूल्यम् १-४-० रूप्यकम्
5555555555
य
-
No text on this page.
पण्डितवरवामनविरचितानि
काव्यालंकारसूत्राणि
KĀVYĀLĀNKĀRASŪTRĀNI
स्ववृत्तिसमलंकृतानि
चतुर्थं संस्करणम् १९५३
श्रीमदिन्दिराकान्ततीर्थचरणान्तेवासिभिः
नारायण राम आचार्य "काव्यतीर्थ"
इत्येतैष्टिप्पण्यादिभिः समलंकृत्य संशोधितम्
निर्णय सागर प्रेस, मुंबई २
मूल्यं १-४-० रूप्यकम्
All Rights Reserved
Printer & Publisher:-Laxmibai Narayan Chaudhari, for the
Nirnaya Sagar Press, 26–28, Kolbhat Street,
Bombay 2
काव्यालंकारसूत्राणां विषयानुक्रमः।
अध्यायः
१
२
१४
२०
शारीरं नाम प्रथममधिकरणम् ।
१ प्रयोजनस्थापना।
२ अधिकारिचिन्ता रीतिनिश्चयश्च ।
३ काव्याङ्गानि काव्यविशेषाश्च ।
दोषदर्शनं नाम द्वितीयमधिकरणम् ।
१ पदपदार्थदोषविभागः।
२ वाक्यवाक्यार्थदोषविभागः
गुणविवेचनं नाम तृतीयमधिकरणम् ।
१ गुणालंकारविवेकः शब्दगुणविवेकश्च ।
२ अर्थगुणविवेचनम् ।
अलंकारिक नाम चतुर्थमधिकरणम् ।
१ शब्दालंकारविचारः।
२ उपमा विचारः।
३ उपमाप्रपञ्चाधिकारः।
प्रायोगिकं नाम पञ्चममधिकरणम् ।
२९
४८
१ काव्यसमयः ।
२ शब्दशुद्धिः।
No text on this page.
भूमिका वृत्तिसमेतकाव्यालंकारसूत्राणां प्रणेता श्रीवामनपण्डितः कदा कुत्र समुत्पन्न इति न सम्यनिर्णेतुं शक्यते. किं त्वयं ख्रिस्ताब्दीयसप्तमशतकोत्तरार्धान प्राचीनः, यतोऽयं भवभूतिप्रणीतोत्तररामचरितादिश्लोकानुदाहृतवान्. अथ च ध्वन्यालोक- लोचने प्रथमोध्योते 'वामनाभिप्रायेणायमाक्षेपः, भामहाभिप्रायेण तु समासोक्ति- रित्यमुमाशयं हृदये गृहीत्वा समासोक्त्याक्षेपयोरिदमेकमेवोदाहरणं व्यतरद्वन्थकृत्' इति वदन्तः श्रीमदाचार्याभिनवगुप्तपादा ध्वन्यालोककर्तुः श्रीमदाचार्यानन्दवर्ध- नाद्वामनस्य प्राचीनत्वं प्रकटयन्ति. तस्माखिस्ताब्दीयनवमशतकोत्तरार्धानाधस्तनो वामनः, भाति चायं काश्मीरकः अष्टमशतके कश्मीरमहीपतेर्विपश्चिद्वरस्य श्रीज- यापीडस्य मैत्री कश्चन वामनाभिध आसीत्. स एवायं काव्यालंकारसूत्रप्रणेतेत्यपि केचन काश्मीरका वदन्ति. काशिकावृत्तिकारो वामनस्त्वस्माभिन्नः, प्राचीनश्च, ध्वन्यालोकलोचन काव्यप्रकाश-अलंकारसर्वस्वादिग्रन्थरतेष्वपि वामनमतं समुपन्य- स्तमुपलभ्यते, अस्मिन्नन्थे वृत्तौ अमरुशतक-उत्तररामचरित-कादम्बरी-किराता- र्जुनीय कुमारसंभव मृच्छकटिक-मेघदूत-रघुवंश-विक्रमोर्वशीय-वीरचरित-वेणीसं- हार-शाकुन्तल-शिशुपालवध-हर्षचरितादिग्रन्थेभ्यः समुद्धृत्योदाहरणानि दत्तानि सन्ति. किं च कामन्दकीनीति-नाममाला-हरिप्रबोधानाम् , विशाखिल-शूद्रक-कवि- राजानां च नामान्यप्यत्र समुपलभ्यन्ते. महेश्वरकृता टीकाप्यस्य ग्रन्थस्य वर्तते. अयं ग्रन्थः प्रथम १८७५ मिते खिस्ताब्दे जर्मनीदेशे जेनाख्य (Jena) १. भवभूतिः खिस्तान्दीयसप्तमशतकोत्तरार्धे कान्यकुब्जमहीपालस्य यशोवर्मणः सभा. यामासीदिति सुप्रसिद्धमेव. २. काव्यमालायां मुद्रितस्य ३७ पृष्ठे टीकायाम् . ३ कश्मी- रेष्ववन्तिवर्मराज्यसमये नवमशतकोत्तरार्थे श्रीमदानन्दवर्धन आसीदिति राजतरङ्गिण्या: प्रतीयते. ४. 'मनोरथः शङ्खदत्तश्चटकः संधिमांस्तथा । बभूवुः कवयस्तस्य वामनायाश्च मत्रिणः ॥' इत राजतरङ्गिणी. ५. चीनदेशातीर्थयात्रार्थ भारतवर्षे सप्तमशतकपूर्वार्धे कश्चन हुएन्-त्सङ्ग (Hiouen-Tsang) नामा पुरुषः समागतः. तदात्र वाम- नप्रणीतायाः पाणिनि सूत्रव्याख्यायाः (काशिकायाः) पठनपाठनेषु प्रचार आसीदिति तदीययात्रावर्णनपुस्तकात्पाश्चात्यैः पण्डितैरधिगतम्. ६. विशाखिलः कलाशास्त्रकर्ता. ७. टीका त्वस्माभिनोंपलब्धेति मूलग्रन्थ एव प्रकटीकृतः.
नगरे कापेलर ( Professor: Cappeller) नाम्ना विदुषा मुद्रितः. तत्पुस्त- कमस्मिन्देशे न सर्वसुलभम्. पुनः ५८८३ मिते ख्रिस्ताब्दे कलकत्तानगरे आन- न्दरामबडुयाभिधेन मुद्रयित्वा वाग्भटालंकार-सरस्वतीकण्ठाभरणाभ्यां संबद्ध एव स्थापितः, मुद्रणेऽपि सूत्रवृत्त्युदाहरणानां पार्थक्यं न सम्यग्विहितमिति तत्पुस्तकं हस्तलिखितपुस्तकसमानमेव. अतो वयमस्य प्रत्नस्यात्युपयुक्तस्य ग्रन्थस्य मुद्रणे प्रवृत्ताः. चतुर्थसंस्करणेऽवलंबितादर्शाः एतइन्थस्याद्यावधि मुद्भितं संस्करणद्वयं प्राय आदिमस्य पुनर्मुद्रणमेवासीत् । प्रथम संस्करणं त्वनवधानतादिप्रसूतदोषैः सर्वथाजुष्टमासीदित्येतत्संस्करण काम- धेनुटीकासहाय्येन निरुक्तदोषानपाकृत्य यावयुद्धयुदयं परिष्कृतं वरीवर्तते । क. सूत्रवृत्तिसमेतं नात्यशुद्ध पुस्तकमेकमस्मत्संग्रहस्थम्. तत्पत्राणि ५५. जय- पुरराजगुरुभश्रीलक्ष्मीदत्तसूनुभट्टश्रीदत्तानां पुस्तकम् प्रायः शुद्धम् तत्पत्राणि ४०. ख. कामधेनुटीकासमेतं पुस्तकमेकम् . तत्पत्राणि १३९. कलकत्तामुद्रितं च. ग. द्रविडवीरेश्वरशास्त्रिभिर्वा राणसीतः प्रहितम्. तत्तु नातिशुद्धमन्तिमाध्यायस्य त्यास्त्रंशन्मितसूत्रपर्यन्तमेवास्ति. तत्पत्राणि ६१. एवं निर्दिष्टादर्शाधारेण मुद्रितानि सवृत्तीनि काव्यालंकारसूत्राण्येतानि प्रमोदा- वहानि भवन्त्वलंकारशास्ने प्रविविक्षुणां सच्छात्राणामिति शिवम्. १. प्राचीनेष्वलंकारनिबन्धेषु (अस्मदवलोकितेषु) वामनवृत्तिरेवोत्कृष्टा । तस्यां हि कापि कापि स्वोक्तौ समीचीना युक्तिरुद्भाविता । (शब्दशुद्धिं विना ) अप्रासङ्गिकविषयो नावर्णि, नापि च शृङ्गाररसः, यदनुषगादश्लीलतादोषस्य संभवः । अत एव नास्ति तत्रा- श्लीलतादोषः। नापि चेयं वृत्तिरतीव विस्तृता । प्रसिद्धेषु तावदलंकारनिबन्धेषु बालानां प्रथमपाठोपयोगिनी एषैवेति मन्यामहे । इति स्वमुद्रितकाव्यप्रकाशोपोदाते न्यायरन- श्रीयुतमहेशचन्द्रपण्डिता..
पण्डितवरश्रीवामनविरचितानि काव्यालंकारसूत्राणि खवृत्तिसमेतानि । शारीरं नाम प्रथममधिकरणम् । प्रथमोऽध्यायः। प्रणम्य परमं ज्योतिर्वामनेन कविप्रिया । काव्यालंकारसूत्राणां खेषां वृत्तिर्विधीयते ॥ काव्यं ग्राह्यमलंकारात् ॥१॥ काव्यं खलु प्राधमुपादेयं भवति, अलंकारात् । कोव्यशब्दोऽयं गुणालंकारसंस्कृतयोः शब्दार्थयोर्वर्तते । भक्त्या तु शब्दार्थमात्रवचनो- ऽत्र गृह्यते । कोऽसावलंकार इत्यत आह--- सौन्दर्यमलंकारः॥२॥ अलंकृतिरलंकारः । करणव्युत्पत्त्या पुनरलंकारशब्दोऽयमुपमादिषु वर्तते । स दोषगुणालंकारहानादानाभ्याम् ॥ ३॥ स खल्वलंकारो दोषहानात् , गुणालंकारादानाञ्च संपायः कैवः । १. 'परमात्मानं' क. २. 'तेषां' क. ३. 'शक्त्या ख. लक्षणयेत्यर्थः, ४. 'कवेः' ख-पुस्तके नास्ति. टिप्प-1 काव्यलक्षण तु रसगङ्गाधरकारैः 'रमणीवार्थप्रतिपादकः पादः काव्यम्', मम्मटेन 'तददोषौ शब्दार्थों', 'प्रज्ञानवनवोन्मेषशालिनी प्रतिमा मता । तदनुप्राणनाजीवेट्वर्णनानिपुणः कविः । तस्य कर्मस्मृतं काम्यम्' इतिच भामहेन लक्षितम् । 'वाक्यं रसात्मकं काव्यम्' इति साहित्यदर्पणकारेणोकम् ।
२ काव्यालंकारसूत्राणि [अधिक० १ - शास्त्रतस्ते ॥४॥ ते दोषगुणालंकारहानादाने शास्त्रादसात् । शास्त्रतो हि ज्ञात्वा दोषाञ्जह्यात् , गुणालंकारांश्चाददीत । किं पुनः फलमलंकारवता काव्येन, येनैतदर्थोऽयं यत्न इत्याह- काव्यं सदृष्टादृष्टार्थम् , प्रीतिकीर्तिहेतुत्वात् ॥५॥ काव्यं सत् चारु दृष्टप्रयोजनम् , प्रीतिहेतुत्वात् । अदृष्टप्रयोजनम् , कीर्तिहेतुत्वात् । अत्र श्लोकाः 'प्रतिष्ठां काव्यबन्धस्य यशसः सरणिं विदुः । अकीर्तिवर्तनीं त्वेवं कुकवित्वविडम्बनाम् ॥ कीर्ति स्वर्गफलामाहुरासंसारं विपश्चितः । अकीति तु निरालोकनरकोदेशदूतिकाम् ॥ तस्मात्कीर्तिमुपादातुमकीर्ति च व्यपोहितुम् । काव्यालंकारशास्त्रार्थः प्रसाद्यः कविपुंगवैः॥ इति काव्यालंकारसूत्रवृत्तौ शारीरे प्रथमेऽधिकरणे प्रथमोऽध्यायः। - द्वितीयोऽध्यायः॥ प्रयोजनस्थापना । अधिकारिनिरूपणार्थमाह- अरोचकिनः सतृणाभ्यवहारिणश्च कवयः ॥१॥ १. 'कवेः शास्त्रतस्ते च ख. २. 'ते चैते' ख. ३. 'हि' क-पुस्तके नास्ति. ४. 'येन तदर्थोऽयंक. ५. 'इत्यत आहे' क. ६. श्लोकः' क. ७. वर्तनी-मार्गः. ८. 'त्वेव' क. ९. 'च' ख. १०. 'तु निबर्हितुम्' क. ११. प्रयोजनस्थापनमधि- कारि-'ख. १२. 'नास्ति रोचकं रुचिकर द्रव्यं येषां तेऽरोचकिनः । अपरिचिता- लंकारशामा इत्यर्थः । सतृणमभ्यवहरन्ति भुजत इति सतृणाभ्यवहारिणः । दोष- गुणविवेकशून्या इत्यर्थः।' इति ख-टिप्पणम्. 'सतृणमभ्यवहरति सतृणाभ्यवहारी भाषिकेकी' । इति श्रीकण्ठचरितटीका (२।२८.) १३. 'कवयः' क-पुस्तके नास्ति.
अध्यायः२ सू.४-६] अधिकारिनिरूपणम् AD - इह खलु द्वये कवयः संभवन्ति-अरोचकिनः, सतृणाभ्यवहा- रिणश्चेति । अरोचकि-सतृणाभ्यवहारिशब्दौ गौणार्थो । कोऽसावर्थः ? विवेकित्वमविवेकित्वं चेति । तदाह- पूर्वे शिष्याः, विवेकित्वात् ॥ २॥ पूर्वे खल्वरोचकिनः, शिष्याः शासनीयाः। विवेकित्वाद्विवेचनशील- त्वात् । नेतरे, तद्विपर्ययात् ॥ ३॥ इतरे सतृणाभ्यवहारिणो, न शिष्याः। तद्विपर्ययादविवेचनशील- त्वात्। न च शीलमपाकर्तुं शक्यम् । नन्वेवं न शास्त्रं सर्वाग्राहि स्यात् , कुतस्तदुपादीयते तदाह- न शास्त्रमद्रव्येष्वर्थवत् ॥ ४॥ न खलु शास्त्रमद्रव्येष्वविवेकिष्वर्थवत् । निदर्शनमाह- न केतकं पङ्कप्रसादनाय ॥ ५॥ नहि कतकं पयस इव पङ्कस्य प्रसादनाय प्रभवति । अधिकारिणो निरूप्य रीतिविनिश्चयार्थमाह- रीतिरात्मा काव्यस्य ॥६॥ रीति मेयमात्मा काव्यस्य । शरीरस्येवेति वाक्यशेषः । १. 'भ्यवहारिणी' ख. २. 'यदाह' क. ३, 'अनुग्राहि स्यात्को वा मन्यते सदाह' क. ४. प्रयोजनवदित्यर्थः. ५. कतकं जलप्रसादको 'निर्मली' इति प्रसिद्धः - - फळविकोष: 'भवतीतिक ७ रीतितिश्रयास्त ४ - काव्यालंकारसूत्राणि [अधिक० १ को पुनरियं रीतिरित्याह- विशिष्टा पदरचना रीतिः ॥७॥ विशेषवती पदानां रचना रीतिः । कोऽसौ विशेष इत्यत आह- विशेषो गुणात्मा ॥ ८॥ वक्ष्यमाणगुणरूपो विशेषः । सा त्रिधा–वदर्भी गौडीया पाञ्चाली चेति ॥९॥ सा चेयं रीतिस्त्रिधा भिद्यते--वैदर्भी, गौडीया, पाञ्चाली चेति । किं पुनर्देशैवशा व्यवद्गुणोत्पत्तिः काव्यानाम् , येनायं देशविशेष- व्यपदेशः । नैवम् । यदाह- विदर्भादिषु दृष्टत्वात्तत्समाख्या ॥ १० ॥ विदर्भगौडपाश्चालेषु देशेषू तत्रत्यैः कविभिर्यथास्वरूपमुपलब्धत्वात्त- द्देशसमाख्या । न पुनर्देशैः किंचिदुपक्रियते काव्यानाम् । तासां गुणभेदाढ़ेदमाह- समग्रगुणोपेता वैदर्भी ॥ ११॥ समौरोजःप्रसादप्रभृतिभिर्गुणैरुपेता वैदर्भी नाम रीतिः। अत्र श्लोकः- 'अस्पृष्टा दोषमात्राभिः समग्रगुणगुम्फिता । विपञ्चीस्वरसौभाग्या वैदर्भी रीतिरिष्यते ।।' - me .. १. "किं पुनः' क. २. 'विशिष्टपद' क. ३. 'वैदर्भी गौडीया पाचाली' इति ख-पुस्तके नास्ति. ४. "देशविशेषे ख. ५. 'नैव' ख. ६. 'देशेषु' क-पुस्तके नास्ति, ७. 'लब्धत्वाद्देशसमाख्या' क. ८. 'अत्र श्लोकः' इति क-पुस्तके नास्ति.
अध्यायः २ सू.७-१२] रीतिनिरूपणम् ५ - तामेतामेवं कवयः स्तुवन्ति- 'सति वक्तरि सत्यर्थे सति शब्दानुशासने । अस्ति तैन्न विना येन परिस्रवति वाङ्मधु ॥' अंत्रोदाहरणम् ( शाकुं. २।६)- 'गहिन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु । विस्रब्धैः क्रियतां बराहपतिभिर्मुस्ताक्षतिः पल्वले विश्रान्ति लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ॥' ओजाकान्तिमती गौडीया ॥ १२ ॥ ओजः कान्तिश्च विद्यते यस्यां सा ओजःकान्तिमती गौडीया नाम रीतिः । माधुर्यसौकुमार्ययोरभावात् समासबहुला अत्युषणपदा च । ४ अत्र श्लोकः- 'समस्तास्युटिपदामोजःकान्तिगुणान्विताम् । गौडीयाँमिति गायन्ति रीतिं रीतिविचक्षणाः॥' उदाहरणम् (महावीरच० ११५४)--- 'दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोधत- ष्टंकारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः । द्राक्पर्यस्तकपालसंपुटमितब्रह्माण्ड भाण्डोदर- भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति ॥ १. 'अलंकारादिसौभाग्यां तामेकामेव स्तुवन्ति कवयः' ख. २. रीत्यात्मक वस्तु. ३. 'अत्र' क-पुस्तके नास्ति. ४. 'विद्यते यस्याः सेयं क. ५. 'उत्कट' ख. ६. 'गुणा- विताम्' क. ७. 'अपि' क. ८. 'पर्याप्त' क. टिप्प०-1 'वैदर्भीरीतिसंदर्भ कालिदासः प्रगल्भते' इत्येवोपदर्शयितुं 'गाहन्ताम्' इति कालिदासस्य पद्योदाहृतमन्त्र ।
w - काव्यालंकारसूत्राणि [अधिक० १ माधुर्यसौकुमार्योपपन्ना पाञ्चाली ॥ १३ ॥ माधुर्येण सौकुमार्येण च गुणेनोपपन्ना पाञ्चाली नाम रीतिः । ओजःकान्त्यभावानुल्बणपदा विच्छाया च । तथा च श्लोकः- 'आश्लिष्टश्लथभावां तु पुराणच्छाययान्विताम् । मधुरां सुकुमारां च पाञ्चाली कवयो विदुः ॥' अत्रोदाहरणम्- 'ग्रामेऽस्मिन्पथिकाय पान्थ ! वसतिनँवाधुना दीयते रात्रावत्र विहारमण्डपतले पान्थः प्रसुप्तो युवा । तेनोत्थाय खलेन गर्जति घने स्मृत्वा प्रियां तत्कृतं येनाद्यापि करकदण्डपतनाशङ्की जनस्तिष्ठति ॥' एतासु तिसूषु रीतिषु रेखाखिव चित्रं काव्यं प्रतिष्ठितमिति । तासां पूर्वा ग्राह्या, गुणसाकल्यात् ॥ १४ ॥ तासां तिसृणां रीतीनां पूर्वा वैदर्भी ग्राह्या, गुणानां साकल्यात् । न पुनरितरे, स्तोकगुणत्वात् ॥१५॥ ईंतरे गौडीयपाञ्चाल्यौ न ग्राह्ये, स्तोकगुणत्वात् । तदारोहणार्थमितराभ्यास इत्येके ॥ १६ ॥ तस्या वैदU एवारोहणार्थमितरयोरपि रीत्योरभ्यास इत्येके मन्यन्ते। तत्तु न अतत्त्वशीलस्य तत्त्वानिष्पत्तेः ॥ १७ ॥ नह्यतत्त्वं शीलयतस्तत्त्वं निष्पद्यते । १. 'अनुल्बणश्लथविच्छाया च' क. २. क-पुस्तके नास्ति. ३. 'तो' ख. ४. 'च्छाययाश्रिता' ख. ५. 'सुकुमारी ख. ६. 'यथा' क. ७. 'विवाह' क. ८.क- पुस्तके इयं वृत्ति स्ति. ९. ख-पुस्तके 'तत्तु न' इति सूत्रबहिर्भूतम् ; 'त' क.
अध्यायः २ सू. १३-२१] रीतिनिरूपणम् निदर्शनार्थमाह- न शणसूत्रवानाभ्यासे त्रसरसूत्रवानवैचित्र्यलाभः ॥१८॥ नहि शैणसूत्रवानमभ्यस्यन् कुविन्दस्त्रसरतूंत्रवानवैचित्र्यं लभते। सापि समासाभावे शुद्धवैदर्भी ॥ १९ ॥ सापि वैदर्भी रीतिः शुद्धवैदर्भी भण्यते, यदि समासवत्पदं न भवति। तस्यामर्थगुणसंपदास्वाद्या ॥ २० ॥ तस्यां वैदभ्ा अर्थगुणसंपदास्वाद्या भवति । तदुपारोहादर्थगुणलेशोऽपि ॥ २१ ॥ तदुपधानतः खल्वर्थगुणलेशोऽपि स्वदते। किमङ्ग ! पुनरर्थगुणसंपत्। तथा चाहुः- 'किं त्वस्ति काचिदपरैव पदानुपूर्वी यस्यां न किंचिदपि किंचिदिवावभाति ।' ['आनन्दयत्यथ च कर्णपथं प्रयाता चेतः सताममृतवृष्टिरिव प्रविष्टा ॥] 'वचसि यमधिशय्य स्यन्दते वाचकश्री- वितथमवितथत्वं यत्र वस्तु प्रयाति । उदयति हि स तादृक् क्वापि वैदर्भरीतौ सहृदयहृदयानां रञ्जकः कोऽपि पाकः ॥' १. 'सण' क. २. 'वाने' ख. ३. 'सण' क. ४. 'तन्तु' क. ५. 'वैचित्री ख. ६. 'सापि च समासाभावे शुद्धबैदर्भी भण्यते । यदि समासवत्पदं न भवति तस्यां वैदामर्थगुणसंपत्वाद्या भवति । तदुपारोहादर्थगुणलेशोऽपि तदुपदानतः ॥ १९ ॥ 'खल्वर्थ-'ख. ७. 'समासवर्तिपदं' क. ८. 'यथात्वं क.
काव्यालंकारसूत्राणि [अधिक० १ सौपि वैदर्भी, तात्स्थ्यात् ॥ २२ ॥ सापीयमर्थगुणसंपत् वैदर्भीत्युच्यते । तात्स्थ्यादित्युपचारतो व्यवहारं दर्शयति । इति काव्यालंकारसूत्रवृत्तौ शारीरे प्रथमेऽधिकरणे द्वितीयोऽध्यायः । - - तृतीयोऽध्यायः। अधिकारिचिन्तां रीतितत्त्वं च निरूप्य, काव्याङ्गान्युपदर्शयितुमाह- लोको विद्या प्रकीर्णं च काव्याङ्गानि ॥१॥ उद्देशमेणैतन्याचष्टे- लोकवृत्तं लोकः ॥२॥ लोकः स्थावरजङ्गमात्मा तस्य वर्तनं वृत्तमिति । शब्दस्मृत्यभिधानकोशच्छन्दोविचितिकलाकामशानदण्ड- नीतिपूर्वा विद्याः॥३॥ शब्दस्मृत्यादीनां तत्पूर्वकत्वं पूर्व काव्यबन्धेष्वपेक्षणीयत्वात् । तासां काव्यानत्वं योजयितुमाह- शब्दस्मृतेः शब्दशुद्धिः॥४॥ शब्दस्मृतेर्व्याकरणाच्छब्दानां शुद्धिः साधुत्वनिश्चयः कर्तव्यः । शुद्धानि हि पदानि निःशकैः कविभिः प्रयुज्यन्ते । अभिधानकोशात् पदार्थनिश्चयः ॥५॥ पदं हि रचनांप्रैवेशयोग्यं भावयन् संदिग्धार्थत्वेन न गृहीयान्न वा १. 'सापीय ख. २. 'वैदर्भी उक्ता' ख. ३. ख-पुस्तके नास्ति. ४. 'अधि- कारवत्ता रीतिनिश्चयश्च' ख. ५. 'क्रमेणैव' ख. ६. 'विद्याः' क. ७. 'तत्पूर्वत्वं काव्य क. ८. 'साधुत्वे' क. ९. क-पुस्तके नास्ति. १०. 'निष्कम्पैः' क. ११. 'कोषतः' ख. १२. 'प्रयोग्यप्रवेश' क. - अध्यायः ३ सू. २२-८] काव्याङ्गनिरूपणम् ९ - जह्यादिति काव्यबन्धविघ्नः। तस्मादभिधानकोशतः पदार्थनिश्चयः कर्तव्य इति । अपूर्वाभिधानलाभार्थत्वं त्वयुक्तमभिधानकोशस्य, अप्रयुक्तस्या- प्रयोज्यत्वात् । यदि प्रयुक्तं प्रयुज्यते तर्हि किमिति संदिग्धार्थत्वमाश- ङ्कितं पदस्य ? तन्नः तत्र सामान्येनार्थावगतिः संभवति । यथा 'नीवी'. शब्देन जघनवस्त्रग्रन्थिरुच्यत इति कस्यचिन्निश्चयः । स्त्रिया वा पुरु- षस्य वेति संशयः 'नीवी संग्रथनं नार्या जघनस्थस्य वाससः' इति नाममालाप्रतीकमपश्यत इति । अथ कथं-- 'विचित्रभोजनाभोगवर्धमानोदरास्थिभिः । केनचित्पूर्वमुक्तोऽपि नीवीबन्धः श्लथीकृतः ॥' इति प्रयोगः ? भ्रान्तेसैपचाराद्वा । छन्दोविचितेवृत्तसंशयच्छेदः ॥६॥ काव्याभ्यासाद्वृत्तसंक्रान्तिर्भवत्येव । किं तु मात्रावृत्तादिषु क्वचि- संशयः स्यात् । अतो वृत्तसंशयच्छेदश्छन्दोविचितेर्विधेय इति । कलाशास्त्रेभ्यः कलातत्त्वस्य संवित् ॥ ७॥ कला गीतनृत्यचित्रादिकास्तासामभिधायकानि शास्त्राणि विशाखि- लादिप्रणीतानि फलाशास्त्राणि, तेभ्यः कलातत्त्वस्य संवित् संवेद॑नम् । नहि कलातत्त्वानुपलब्धौ कलावस्तु सम्यङ्गिबन्धुं शक्यमिति । कामशास्त्रतः कामोपचारस्य ॥८॥ 'संवित्' इत्यनुवर्तते । कामोपचारस्य संवित् कामशास्त्रत इति । कामोपचारबहुलं हि वस्तु काव्यस्येति । १.ख-पुस्तके नास्ति.२. -सामान्येनापि' क. ३. 'नीविराग्रन्थनं ख. ४. 'अथ कथं केनचित् पूर्वमुक्तो नीवीवन्धः श्लथीकृत इति प्रयोगः' ख. ५. 'उपमानाद्वा' क. लक्षणयेत्यर्थः. ६.'वृत्तं' ख. ७. 'छन्दःशास्त्रतः' क. ८. ख-पुस्तके नास्ति. ९. 'तत्त्वसंवित्' क. १०. 'संवेदना' ख. ११. 'संविदिति तस्यानुवर्तते' क. १२. क-पुस्तके नास्ति. १३. प्रतिपाद्यवित्यर्थः. .
१० काव्यालंकारसूत्राणि [अधिक० १ दण्डनीतेनयापनययोः॥९॥ दण्डनीतेरर्थशास्त्रान्नयस्यापनयस्य च 'संविदिति । तत्र षाड्गुण्यस्य यथावत्प्रयोगो नयः । तद्विपरीतोऽपनयः । नहि तावविज्ञाय नायक- पतिनायकयोवृत्तं शक्यं काव्ये निबन्धुमिति । इतिवृत्तकुटिलत्वं च ततः ॥१०॥ इतिहासादिरितिवृत्तं काव्यशरीरम् , तस्य कुटिलत्वं ततो दण्डनीते- बलीयस्त्वाबलीयस्त्वादिप्रयोगो व्युत्पत्तिमूलत्वात्तस्याः । एवमन्यासामपि विद्यानां यथास्वमुपयोगो वर्णनीय इति । लक्ष्यज्ञत्वमभियोगो वृद्धसेवावेक्षणं प्रतिभानमवधानं च प्रकीर्णम् ॥ ११ ॥ तंत्र काव्यपरिचयो लक्ष्यज्ञत्वम् ॥ १२ ॥ अन्येषां काव्येषु परिचयो लक्ष्यज्ञत्वम् । ततो हि काव्यबन्धस्य व्युत्पत्तिर्भवति ॥ काव्यबन्धोद्यमोऽभियोगः ॥ १३ ॥ बन्धनं बन्धः, काव्यस्य बन्धो रचना काव्यबन्धः । तत्रोद्यमोऽभि- योगः। स हि कवित्वप्रकर्षमादधाति । काव्योपदेशगुरुशुश्रूषणं वृद्धसेवा ॥ १४ ॥ १. 'संविज्ज्ञानं ख. २. 'काव्येषु निबटुं शक्यमिति'. ३. 'ततः इतिहासादि' क. ४. 'काव्यार्थ' ख. ५. 'राबलीयसादिप्रयोगव्युत्पत्ति' क. ६. 'यथायथं' ख. ७. ख-पुस्तके एतत्सूत्रं पूर्वसूत्रान्तर्गतमेव स्थापितम्. ८. 'अन्येषु' क. ९. 'रचना काव्यवन्धः' इति ख-पुस्तके नास्ति. १०. क-पुस्तके नास्ति. ११.'आ- राधयति' क. १२. 'शुश्रूषणं च' क.
अध्यायः ३ सू. ९-१९] काव्याङ्गनिरूपणम् काव्योपदेशे गुरव उपदेष्टारः, तेषां शुश्रूषणं वृद्धसेवा । ततः काव्यविद्यायाः संक्रान्तिर्भवति । पैदाधानोद्धरणमवेक्षणम् ॥ १५ ॥ पदस्याधान न्यासः, उद्धरणमैपसारणम् । तयोः खल्ववेक्षणम् । अत्र श्लोको- 'आधानोद्धरणे तावद्यावदोलायते मनः । पदस्य स्थापिते स्थैर्ये हन्त सिद्धा सरस्वती ।। यत्पदानि त्यजन्त्येव परिवृत्तिसहिष्णुताम् । तं शब्दन्यासनिष्णाताः शब्दपाकं प्रचक्षते ।।' कवित्वबीजं प्रतिभानम् ॥ १६ ॥ कवित्वस्य बीजं कवित्वबीजं जन्मान्तरागतसंस्कारविशेषः कश्चित् , यस्माद्विना काव्यं न निष्पद्यते, निष्पन्नं वाऽवहासायतनं स्यात् । चित्तैकाग्र्यमवधानम् ।। १७ ॥ चित्तस्यैकाग्र्यं पावार्थनिवृत्तिः तदवधानम् । अवहितं हि चित्तम- र्थान् पश्यति। तद्देशकालाभ्याम् ॥ १८॥ तत् अवधानं देशोत्कालाच समुत्पद्यते । को पुनर्देशकालावित्यत्राह- विविक्तो देशः ॥ १९ ॥ विविक्तो निर्जनः । १. क-पुस्तके नास्ति. २. 'काव्यच्छाया' क. ३. संक्रामति' क. ४. 'पदा- धानोद्धरणे चावेक्षणम्' ख. ५. 'अपस्मारः' क. ६. 'तत्' क. ७. 'आस्थापिते' ख. ८. 'जन्मान्तरागत' इति क-पुस्तके नास्ति. ९. ख-पुस्तके नास्ति. १०. 'च हास्यायतनं' क. ११. 'चित्तकाम्यमन्यार्थनिनिवृत्तिः' ख. १२. 'अर्थान्न पतति' क. १३. 'देशकालाभ्यां संपद्यते' क. - काव्यालंकारसूत्राणि [अधिक० १ - - रात्रियामस्तुरीयः कालः ॥ २० ॥ रात्रेामो रात्रियामः प्रहरः तुरीयश्चतुर्थः काल इति । तद्वशा- द्विषयोपरतं चित्तं प्रसन्नमवधत्ते । एवं काव्याङ्गान्युपदर्य, काव्यविशेषज्ञानार्थमाह- काव्यं गद्यं पद्यं च ॥ २१ ॥ गद्यस्य पूर्व निर्देशो दुर्लक्ष्यविषयत्वेन दुर्बन्धत्वात् । यथाहुः- 'गद्यं कवीनां निकष वदन्ति' इति । तच्च त्रिधा भिन्नमिति दर्शयितुमाह- गद्यं वृत्तगन्धि चूर्णमुत्कलिकाप्रायं च ॥ २२ ॥ तल्लक्षणान्याह- पद्यभागवद्वृत्तगन्धि ।। २३ ॥ पद्यस्य भागाः पद्यभागास्तद्वत् वृत्तगन्धि । यथा--'पातालतालुतलवासिषु दानवेषु' इति । अत्र हि वसन्ततिलकाख्यस्य वृत्तस्य भागः प्रत्यभिज्ञायते । अनाविद्धललितपदं चूर्णम् ॥ २४॥ अनाविद्धान्यदीर्घसमासानि ललितान्यनुद्धतानि पदानि यस्मिंस्तद- नाविद्धललितपदं चूर्णमिति । यथा- अभ्यासो हि कर्मणां कौशलमावहति । नहि सकृन्निपातमात्रेणोदबिन्दुरपि प्रावणि निम्नतामादधाति'। विपरीतमुत्कलिकाप्रायम् ॥ २५॥ विपरीतमाविद्धोद्धतपदमुत्कलिकाप्रायम् । यथा--- १. ख-पुस्तके नास्ति. २. विषयादुप' क. ३. 'काव्यविशेषकथनार्थमाई' क.; 'काव्यनिशेषस्य ज्ञानार्थमाह' ख. ४. 'पूर्वनिर्देशो दुर्बन्धत्वात् विषयत्वेन दुर्बोध- त्वात् ख. ५. 'निपतितमात्रेण' क. - - अध्यायः ३ सू. २०-३१] काव्याङ्गनिरूपणम् १३ 'कुलिशशिखरखरनखरप्रचयप्रचण्डचपेटापाटितमत्तमातङ्गकुम्भस्थलगलन्म. दच्छटाच्छुरितचारकेसरभारभासुरमुखे केसरिणि' इति । पद्यमनेकभेदम् ॥ २६॥ पद्यं खल्वनेकेन समासमविषमादिना भेदेने भिन्नं भवति । तदनिबद्धं निबद्धं च ॥२७॥ तदिदं गद्यपद्यरूपं काव्यमनिबद्धं निबद्धं च । अनयोः प्रसिद्धत्वा. ल्लक्षणं नोक्तम् । क्रमसिद्धिस्तयोः स्रगुत्तंसवत् ॥ २८ ।। तयोरित्यनिबद्धं निबद्धं च परामृश्यते । क्रमेण सिद्धिः क्रमसिद्धिः । अनिबद्धसिद्धौ निबद्धसिद्धिः स्रगुत्तंसवत् । यथा सजि मालाया सिद्धायामुत्तंसः शेखरः सिध्यति । केचिदनिबद्ध एव पर्यवसिताः, तद्रूषणार्थमाह- नानिबद्धं चकास्त्येकतेजःपरमाणुवत् ॥ २९ ॥ न खल्वनिबद्धं काव्यं चकास्ति दीप्यते । यथैकतेजःपरमाणुरिति । - अत्र श्लोकः 'असंकलितरूपाणां काव्यानां नास्ति चारुता । न प्रत्येकं प्रकाशन्ते तैजसाः परमाणवः ।।' इति संदर्भेषु दशरूपकं श्रेयः ॥ ३० ॥ संदर्भेषु प्रबन्धेषु दशरूपकं नाटकादि श्रेयः । कस्मातदाह- तद्धि चित्रं चित्रफ्टवद्विशेषसाकल्यात् ॥ ३१ ॥ १. 'भार' क-पुस्तके नास्ति. २. 'भेदेनोपेतमिति' क. ३. ख-पुस्तके नास्ति. ४. 'नग्दूषणार्थ' ख. ५. 'इवेति' ख. ६. 'तदाह' क-पुस्तके नास्ति, ७. 'तद्विचित्रं' ख.
काव्यालंकारसूत्राणि [अधिक० २ तदशरूपकं हि यस्माच्चित्रं चित्रपटवत् । विशेषाणां साकल्यात । ततोऽन्यभेदक्लप्तिः ॥ ३२॥ ततो दशरूपकादन्येषां भेदानां क्लप्तिः कल्पनमिति । दशरूपक- स्यैव हीदं सर्व विलसितम् , यच्च कथाख्यायिके महाकाव्यमिति । तल्लक्षणं च नातीव हृदयंगममित्युपेक्षितमस्माभिः । तदन्यतो ग्राह्यम् । इति काव्यालंकारसूत्रवृत्तौ शारीरे प्रथमेऽधिकरणे तृतीयोऽध्यायः । समाप्तं चेदं शारीरं प्रथममधिकरणम् । - दोषदर्शनं नाम द्वितीयमधिकरणम् । प्रथमोऽध्यायः। काव्यशरीरे स्थापिते काव्यसौन्दर्याक्षेपहेतवस्त्यागाय दोषा विज्ञा- तव्या इनि दोषदर्शनं नामाधिकरणमारभ्यते । दोषस्वरूपकथनार्थमाह- गुणविपर्ययात्मानो दोषाः ॥१॥ गुणानां वक्ष्यमाणानां ये विपर्ययास्तदात्मानो दोषाः । अर्थतस्तदवगमः ॥२॥ गुणस्वरूपनिरूपणात्तेषां दोषाणामर्थादवगमोऽर्थासिद्धिः । किमर्थं ते पृथक्प्रपञ्यन्त इत्यत्राह- सौकर्याय प्रपञ्चः ॥३॥ सौकर्यार्थः प्रपञ्चो विस्तरो दोषाणाम् । उद्दिष्टा लक्षगलक्षिता हि दोषाः सुज्ञाना भवन्ति । १. 'दशरूपकमेव' क. २. 'यदुत' क. ३. क-पुस्तके नास्ति. ४. 'तदन्य- दूह्यम्' ख. ५. 'च' क-पुस्तके नास्ति. ६. 'ज्ञातव्या' ख. पुस्तके नास्त्रि. ८. 'विस्तरो' क-पुस्तके नास्ति. - १५ o- - अध्यायः १ सू. ३२-८] पदोषनिरूपणम् पददोषान्दर्शयितुमाह- दुष्टं पदमसाधु कष्टं ग्राम्यमप्रतीतमनर्थकं च ॥ ४ ॥ क्रमेण व्याख्यातुमाह शब्दस्मृतिविरुद्धमसाधु ॥ ५॥ शब्दस्मृत्या व्याकरणेन विरुद्धं पंदमसाधु । यथा-'अन्यकारक- वैयर्थ्यम्' इति । अत्र हि 'अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीरा- शास्थास्थितोत्सुकोतिकारकरागच्छेषु' इति दुका भवितव्यमिति । श्रुतिविरसं कष्टम् ॥ ६॥ श्रुतिविरसं श्रोत्रकटु पदं कष्टम् । तेंद्धि रचनागुम्फितमप्युद्वेजयति । यथा- - 'भचूचुरश्चण्डि ! कपोलयोस्त कान्तिद्वं द्राग्विशदः शशाङ्कः ।' लोकमात्रप्रयुक्तं ग्राम्यम् ॥ ७॥ लोक एव यत्प्रयुक्तं पदं, न शास्त्रे; तद्भाम्यम् । यथा--'कष्टं कथं रोदिति फूत्कृतेयम्' । अन्यदपि तल्लगल्लादिकं द्रष्टव्यम् । शास्त्रमात्रप्रयुक्तमप्रतीतम् ॥ ८॥ शास्त्र एव प्रयुक्तं यत् , न लोके तदप्रतीतं पदम् । यथा--- 'किं भाषितेन बहुना रूपस्कन्धस्य सन्ति मे न गुणाः । गुणनान्तरीयकं च प्रेमेति न तेऽस्त्युपालम्भः ॥' १. 'असाधुपदम्' क. २. 'हि' क पुस्तके नास्ति. ३. 'अन्यः कारकः' इति विग्रहे दुगागमो भवति. तेन 'अन्यत्कारकवैयर्थ्यम्' इति साधु. ४. क पुस्तके सूत्रमेतत्रुटितम्. ५. 'तद्विरचनात्' क. ६. प्रयुक्तं यन शास्त्रे तद्भाम्यं पदम. ७. 'भल्ल' क. तल्लशब्दस्तडागवाचकः. ८. 'पदम्' क-पुस्तके नास्ति. ९. 'गुण। नन्तरीयकं च' ख. १०. 'मेऽस्त्युपालम्भः' क.
- - १६ काव्यालंकारसूत्राणि [अधिक० २ अत्र रूपस्कन्धनान्तरीयकपदे न लोक इत्यप्रतीतम् । पूरणार्थमनर्थकम् ॥ ९॥ पूरणमात्रप्रयोजनमव्ययपदमनर्थकम् । दण्डापूपन्यायेन पदमन्यद- प्यनर्थकमेव । यथा- 'उदितस्तु हास्तिकविनीलमयं तिमिरं निपीय किरणैः सविता।' अत्र 'तु'शब्दस्य पादपूरणार्थमेव प्रयोगः । न वाक्यालंकारार्थम् ॥ १० ॥ अपवादार्थमिदम् । वाक्यालंकारप्रयोजनं तु नानर्थकम् । यथा- 'न खल्विह गतागता नयनगोचरं मे गता' इति । तथा हि खलु हन्तेति । संप्रति पदार्थदोषानाह- अन्यार्थनेयगूढार्थाश्लील क्लिष्टानि च ॥ ११ ॥ 'दुष्टं पदम्' इत्यनुवर्तते । अर्थतश्च वचनविपरिणामः । अन्यार्था- दीनि पदानि दुष्टानीति सूत्रार्थः । एषां क्रमेण लक्षणान्याह- रूढिच्युतमन्यार्थम् ॥ १२॥ रूंदेश्श्युतं रूढिच्युतम् , रूढिमनपेक्ष्य यौगिकार्थमात्रोपादानात् । अन्यार्थं पदम् । स्थूलत्वात्सामान्येन घटशब्दः पटशव्दार्थ इत्यादिक- मन्याथ नोक्तम् । यथा--- 'ते दुःखमुच्चावचमावहन्ति ये प्रसरन्ति प्रियसंगतानाम् ।' -- - १. 'ए' क-पुस्तके नास्ति. २. क-पुस्तके नास्ति. ३. 'नारबकम्' क. ४. तयेत्यादिका पतिः क पुस्तके नास्ति. ५. 'दोष क. ६. "श्लिष्टानि' क. ७. 'पदं दुष्टं' क. ८. 'अर्थाच्च विभक्तिविपरिणामः' का 'अर्थतश्च वचनं परिणामः ख. ९ 'अन्यार्थनेयानेयादीनि ख. १०. 'रूढिच्युतं' ख.
अध्यायः १ सू. ९-१४] पददोषनिरूपणम् - अत्र आवहतिः करोत्यर्थो धारणार्थे प्रयुक्तः, प्रस्मरतिर्विस्मरणार्थः प्रकृष्टस्मरणे इति। कल्पितार्थ नेयार्थम् ॥ १३॥ अश्रौतस्याप्युन्नेयपदार्थस्य कल्पनात्कल्पितार्थ नेयार्थम् । यथा- 'सपदि पक्लिविहंगमनाममृत्तनयसंवलितं बलशालिना। विपुलपर्वतवर्षि शितैः शरैः प्लवगसैन्यमुलूकजिता जितम् ॥' अत्र विहंगमश्चक्रवाकोऽभिप्रेतः । तन्नामानि चक्राणि, तानि बिभ्रतीति विहंगमनामभृतो रथाः । पतिरिति दशसंख्या लक्ष्यते । पतिर्दश विहंगमनामभृतो रैथा यस्य स पतिविहंगमनामभृद्दशरथः । तस्य तनयाभ्यां रामलक्ष्मणाभ्यां संवलितं प्लवगसैन्यं जितम् । उलक- जिता इन्द्रजिता। 'कौशिक' शब्देनेन्द्रोलकयोरभिधानमिति 'कौशिक'- शब्दवाच्यत्वेनेन्द्र उलूक उक्तः । ननु चैवं रैथाननामादीनामपि प्रयोगोऽनुपपन्नः, न तेषां निरूंढलक्षणत्वात् । अप्रसिद्धार्थप्रयुक्तं गूढार्थम् ॥ १४ ॥ यस्य पदस्य लोकेऽर्थः प्रसिद्धश्चाप्रसिद्धश्च, तदसिद्धेऽर्थे प्रयुक्तं गूढार्थम् । यथा- 'सहस्रगोरिवानीकं दुःसहं भवतः परैः' इति । सहसं गावोऽक्षीणि यस्य स सहस्रगुरिन्द्रः । तस्येवेति गोशब्दस्या- ह्मिवाचित्वं कविष्वप्रसिद्धमिति । १. 'अश्रुतार्थस्य कल्पना कल्पितार्थ' ख. २. 'तानि' ख-पुस्तके नास्ति. ३. 'रथा' क-पुस्तके नास्ति. ४. 'रथाङ्गनामप्रयोगो' ख. ५. 'रूढ' ख. ६. 'पदस्य ख-पुस्तके नास्ति, ७. 'प्रसिद्धार्थे' ख. ८. 'वाचकत्वात्' ख. ९. 'कविषु' क-पुस्तके नास्ति. १०. 'इति' ख-पुस्तके नास्ति. टिप्प०--1 नेयोन्यायपरिहारण कवेः स्वेच्छया कल्पनीयो यस्य त यार्थम्। रूढिप्रयोजनाभ्यां विरहिताशक्यसंबन्धमात्रेणाशस्यार्थोपस्थापनेति भावः । २ हाच्या - १८ काव्यालंकारसूत्राणि [अधिक० २ असभ्यार्थान्तरमसभ्यस्मृतिहेतुश्चाश्लीलम् ॥१५॥ यस्य पदस्यानेकार्थस्यैकोऽर्थोऽसभ्यः स्यात् , तदसभ्यार्थान्तरम् । यथा-'वर्चः' इति पदं तेजसि विष्ठायां च । यत्तु पदं सभ्यार्थवाचकमप्येकदेशद्वारेणासभ्यार्थ स्मारयति, तद- सभ्यस्मृतिहेतुः। यथा--'कृकाटिका' इति । न गुप्तलक्षितसंवृतानि ॥१६॥ अपवादार्थमिदम् । गुप्तं लेक्षितं संवृतं च नाश्लीलम् । एषां लक्षणान्याह- अप्रसिद्धासभ्यं गुप्तम् ॥ १७ ॥ अप्रसिद्धासभ्यार्थान्तरं पदमप्रसिद्धासभ्यं यत् तद्रुप्तम् । यथा-'संबाधः' इति पदम् । तद्धि संकटार्थ प्रसिद्धम् , न गुह्यार्थमिति । लाक्षणिकासभ्यान्वितं लक्षितम् ॥ १८ ॥ तदेवासभ्यार्थान्तरं लाक्षणिकेनासभ्येनार्थेनान्वितं पदं लक्षितम् । यथा-'जन्मभूः' इति । तद्धि लक्षणया गुह्यार्थम् , न स्वशक्त्यति । लोकसंवीतं संवृतम् ॥ १९॥ लोकेन संवीतं लोकसंवीतं यत् तत् संवृतम् । यथा--'सुभगा' 'भगिनी' 'उपस्थानम्' 'अभिप्रेतम्' 'कुमारी' 'दोहदः' इति । १. 'स्मृतिकरमश्लीलम्' क. २. 'संवृत्तं लक्षितं ना' क. ३. 'गुप्तं पदं यथा' ख. ४. 'प्रसिद्धसंकटार्थम् क. ५. 'लाक्षणिकासभ्यं' क. ६. 'सभ्यार्थान्तरलाक्ष- ख. ७. 'लोकसंवीतमनुज्ञातं संवृतम् । यथा' क.
अध्यायः १ सू. १५-२१] पददोषनिरूपणम् १९ अत्र हि श्लोकः- 'संवीतस्य हि लोकेन न दोषान्वेषणं क्षमम् । शिवलिङ्गस्य संस्थाने कस्यासभ्यत्वभावना ॥' तत्रैविध्यम् , ब्रीडाजुगुप्सामङ्गलातङ्कदायिभेदात् ॥२०॥ तस्याश्लीलस्य त्रैविध्यं भवति, ब्रीडाजुगुप्सामङ्गलातङ्कदायिनां भेदात् । किंचित् व्रीडादायि भवति । यथा-'वाकाटवम्' 'हिरण्यरेताः' इति । किंचित् जुगुप्सादायि भवति । यथा-'कपर्दकः' इति । किंचित् अम- ङ्गलातङ्कदायि भवति । यथा-'संस्थितः' इति । व्यवहितार्थप्रत्ययं क्लिष्टम् ॥ २१ ॥ अर्थस्य प्रतीतिरर्थप्रत्ययः । स व्यवहितो यस्माद्भवति तद्वयवहिता- र्थप्रत्ययं क्लिष्टम् । यथा- 'दक्षात्मजादयितवल्लभवेदिकानां ज्योत्स्नाजुषां जललवास्तरलं पतन्ति ॥' दक्षात्मजास्ताराः । तासां दयितो दक्षात्मजादयितश्चन्द्रः । तस्य वल्लभाश्चन्द्रकान्ताः । तद्वेदिकानामिति । अत्र हि व्यवधानेनार्थप्रत्ययः । अन्यत्रारूढत्वात् । अरूढावपि यतोऽर्थप्रत्ययो झटिति न तक्लिष्टम् । - यथा- 'काञ्चीगुणस्थानमनिन्दितायाः' इति । १. 'हि' ख-पुस्तके नास्ति. २. 'कृतम्' क. ३. 'भवति' क-पुस्तके नास्ति. ४. 'संस्थितम्' ख. टिप्प०-1 अत्र 'कार' शब्देन गुह्याङ्गप्रतीतेर्वीडादायित्वमुक्तम् । 2 'पर्द'- शब्दोऽपानवायुप्रतीतिकरत्वाजुगुप्साव्यञ्जकः। 3 'संस्थित'शब्दस्य मृतार्थक- स्वादातरदायित्वम् , तथा चामर:-'प्रमीतः संस्थितो मृतः' इति ।
काव्यालंकारसूत्राणि [अधिक० २ अन्त्याभ्यां वाक्यं व्याख्यातम् ॥ २२ ॥ अश्लील क्लिष्टं चेत्यन्त्ये पदे । ताभ्यां वाक्यं व्याख्यातम् । तदप्य- श्लीलं क्लिष्टं च भवति । अश्लीलं यथा- 'न सा धनोन्नतिर्या स्यात्कलत्रसुखदायिनी । परार्थबद्धक्ष्याणां यत्सत्यं पेलवं धनम् ॥' 'सोपानपथमुत्सृज्य वायुवेगसमुंद्धतम् । महापथेन गतवान् कीर्त्यमानगुणो जनैः ।' क्लिष्टं यथा- धम्मिल्लस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशावाक्ष्याः । रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम् ॥' एतान पैदपदार्थदोषान् ज्ञात्वा कविस्त्यजेदिति तात्पर्यार्थः। इति काव्यालंका रसूत्रवृत्तौ दोषदर्शने द्वितीयेऽधिकरणे प्रथमोऽध्यायः । -- - द्वितीयोऽध्यायः। पदपदार्थदोषान्प्रतिपाद्येदानी वाक्यदोषान्दयितुमाह- भिन्नवृत्तयतिभ्रष्टविसंधीनि वाक्यानि ॥१॥ दुष्टानीत्यभिसंबन्धः। क्रमेण व्याचष्टे- खलक्षणच्युतवृत्तं भिन्नवृत्तम् ॥२॥ १. 'च अन्त्ये' ख. २. 'रतिदायिनी' क-ग. ३. 'वायुवेगः समुद्यतः' क-ग. ४. 'पदमदार्थ' क; 'एतान्यपि च पदपदार्थ' ग. ५. 'इति संबन्यः' ग. ६. 'लक्षणच्युतः' ख. टिप्प०-1 अत्र कुरङ्गशावाक्ष्या धम्मिल्लस्य शोमामवलोक्य कस्य मनोन हृष्यतीति प्रतीतिव्यवधानात् क्लिष्टत्वम् ।
अध्यायः २ सू. २२-४] वाक्यदोषनिरूपणम् २१ - खसाल्लक्षणाच्युतं वृत्तं यस्मिंस्तत् स्वलक्षणच्युतवृत्तं वाक्यं भिन्न- वृत्तम् । यथा- 'अयि ! पश्यसि सौधमाश्रितामविरलसुमनोमालभारिणीम् ॥' वैतालीययुग्मपादे लवक्षराणां षण्णां नैरन्तयं निषिद्धम् । तच्च कृतमिति भिन्नवृत्तत्वम् । विरसविरामं यतिभ्रष्टम् ॥३॥ विरसः श्रुतिकटुर्विरामो यस्मिंस्तद्विरसविरामं यतिभ्रष्टम् । तद्धातुनामभागभेदे स्वरसंध्यकृते प्रायेण ॥४॥ तद्यतिम्रष्टं धातुभागभेदे नामभागभेदे च सति भवति । स्वरसंधिना- ऽकृते प्रायेण बाहुल्येन । धातुभागमेदे मन्दाक्रान्तायां यथा- 'एतासां राजति सुमनसां दाम कण्ठावलम्बि ।' नामभागभेदे शिखरिण्यां यथा- 'कुरङ्गाक्षीणां गण्डतलफलके स्वेदविसरः।' मन्दाक्रान्तायां यथा- 'दुर्दर्शश्चक्रशिखिकपिशः शाङ्गिणो बाहुदण्डः ।' धातुनाममागपदग्रहणात्तद्भागातिरिक्तभेदे न भवति यतिभ्रष्टत्वम् । यथा मन्दाक्रान्तायाम्- 'शोभा पुष्यत्ययमभिनवः सुन्दरीणां प्रबोधेः ।' १. 'मन्दाक्रान्तायां' क-ग-पुस्तकयो स्ति. २. 'यथा शिखरिण्याम्' ग. ३. 'मन्दाक्रान्तायां' क-ग-पुस्तकयो स्ति. ४. 'मन्दाक्रान्तायां यथा' क-पुस्तके नास्ति. ५. अस्मादलेख-पुस्तके "अन्ये तु पदान्त एवं प्रतिसिध्यन्ति पदं च विभ. त्यन्तम् । यथा-'निकामं क्षामाङ्गी सरसकदलीगर्भसुभगाकलाशेषा मूर्तिः शशिन इव नेत्रोत्सवकरी। अवस्थामापन्ना मदनदहनोद्दामविधुरा प्रियं नः कल्याणी रम- यति मनः कम्पयति च ॥" इत्यधिकमस्ति. - ."
२२ काव्यालंकारसूत्राणि [अधिक० २ - । शिखरिण्यां यथा- 'विमिश्रः श्यामान्तेष्वररपुटसीत्कारविरुतः ।' 'स्वरसंध्यकृते' इति वचनात्स्वरसंधिकृते भेदे न दोषः । यथा- 'किंचिद्भावालसमसरलं प्रेक्षितं सुन्दरीणाम् ।' न वृत्तदोषात्पृथग्यतिदोषः, वृत्तस्य यत्यात्मकत्वात् ॥५॥ वृत्तदोषात्पृथग्यतिदोषो न वक्तव्यः, वृत्तस्य यत्यात्मकत्वात् । यत्या- त्मकं हि वृत्तमिति भिन्नवृत्त एव यतिभ्रष्टस्यान्तर्भावान्न पृथग्ग्रहणं कार्यम् । अत आह- न, लक्ष्मणः पृथक्त्वात् ॥ ६॥ नायं दोषः, लक्ष्मणो लक्षणस्य पृथक्त्वात् । अन्यद्धि लक्षणं वृत्तस्य, अन्यच्च यतेः । गुरुलघुनियमात्मकं वृत्तम् । विरामात्मिका चै यतिरिति । विरूपपदसंधि विसंधिः ॥७॥ पदानां संधिः पदसंधिः; स च स्वरसमवायरूपः प्रत्यासत्तिमात्ररूपो वा । स विरूपो यस्मिन्निति विग्रहः । पदसंधेरूप्यं विश्लेषोऽश्लीलत्वं कष्टत्वं च ॥ ८॥ विश्लेषोऽवग्रहो विभागेन पदानां संस्थितिरिति । अश्लीलत्वम् अस- भ्यस्मृतिहेतुत्वम् । कष्टत्वं पारुष्यमिति । विश्लेषो यथा- 'मेधानिलेन अमुना एतस्मिन्नद्रिकानने ।' 'कमले इव लोचने इमे अनुबध्नाति विलासपद्धतिः।' 'लोलालकानुबद्धानि आननानि चकासति ।' १. 'शिखरिण्यां यथा क-पुस्तके नास्ति. २. 'चीत्कार' क-ग. ३. 'विलक्षणं' क-ख. ४. 'नियामकं' ख. ५. 'च' ग-पुस्तके नास्ति. ६. 'इति' ग-पुस्तके नास्ति. ७. 'पद्धतिम्' क. E ANDHAmimination अध्यायः २ सू. ५-१०] वाक्यदोषनिरूपणम् २३ - --- अश्लीलत्वं यथा- 'विरेचकमिदं नृत्तमाचार्याभासयोजितम् ।' 'चकाशे पनसप्रायैः पुरी घेण्डमहाद्रुमैः।' 'विना शपथदानाभ्वां पदवादसमुत्सुकम् ।' कष्टत्वं यथा- 'मायुद्गमगर्भास्ते गुर्वांभोगा द्रुमा बभुः ।' एवं वाक्यदोषानभिधाय वाक्यार्थदोषान्प्रतिपादयितुमाह- व्यर्थैकार्थसंदिग्धायुक्तापक्रमलोकविद्या विरुद्धानि च ॥९॥ 'वाक्यानि दुष्टानि' इति संबन्धः । क्रमेण व्याख्यातुमाह व्याहतपूर्वोत्तरार्थ व्यर्थम् ॥ १० ॥ व्याहतौ पूर्वोत्तरावर्यो यस्मिंस्तव्याहतपूर्वोत्तरार्थ वाक्यं व्यर्थम् । यथा- 'अद्यापि स्मरति रसालसं मनो मे मुग्धायाः स्मरचतुराणि चेष्टितानि ।' मुग्धायाः कथं स्मरचतुराणि चेष्टितानि? तानि चेत्कथं मुग्धा ? अत्र पूर्वोत्तरयोरर्थयोर्विरोधाव्यर्थमिति । १. 'अश्लीलं च' का 'अश्लीलं' ग. २. 'वृत्तमाचार्याभ्यास-'ख. ३. 'खण्ड' क-ग. ४. "विनाशपथदीनायां यदवादयदुत्सुकम्' का "विनाशपथदानायदधारय- दुत्सकम्' ग. ५. 'गुरुभोगा' क. ६. 'निरूपयितुं' क. ७. 'प्रयुक्तार्थापक्रम' ग. ८. 'विरुद्धाविरुद्धानि' ग. ९. 'च' ख-पुस्तके नास्ति. १०. 'पूर्वोत्तरार्थों ख. ११. 'वाक्यं' क-ग-पुस्तकयो स्ति. १२. 'रसोल्लसत्' ख. १३. 'मुग्धा चेत्' ग. १४. 'अत्र' क-ख-पुस्तकयो स्ति. टिप्प०-1 रेचको नाम कर-कटि-ग्रीवाभ्रमणात्मको नृत्तविशेषः, रेचकहीन विरेचकम् । विरेचकशब्दस्याश्लीलत्वमत्र स्फुटमेव ।
काव्यालंकारसूत्राणि [अधिक० २ - उक्तार्थपदमेकार्थम् ॥ ११ ॥ उक्तार्थानि पदानि यस्मिंस्तदुक्तार्थपदमेकार्थम् । यथा- 'चिन्तामोहमनङ्गमङ्ग! तनुते विप्रेक्षितं सुभ्रवः ।' अनङ्गः शृङ्गारः । तस्य चिन्ता मोहात्मकत्वाच्चिन्ता-मोहशब्दौ प्रयुक्तावुक्तार्थौ भवतः । एकार्थपदत्वाद्वाक्यमेकार्थमित्युक्तम् । न, विशेषश्चेदेकार्थ दुष्टम् ॥ १२॥ न गतार्थ दुष्टम् , विशेषश्चेत्प्रतिपाद्यः स्यात् । तं विशेष प्रतिपादयितुमाह- धनुाध्वनौ धेनुःश्रुतिरारूढेः प्रतिपत्त्यै ॥ १३ ॥ 'धनुाध्वनौ' इत्यत्र 'ज्या' शब्देनोक्तार्थत्वेऽपि धनुःश्रुतिः प्रयु- ज्यते, आरूढेः प्रतिपत्त्यै आरोहणस्य प्रतिपत्त्यर्थम् । नहि धनुःश्रुति- मन्तरेण धनुष्यारूढा ज्या धनुज्येति शक्यं प्रतिपत्तुम् । यथा- 'धनुर्व्याकिणचिह्नेन दोष्णा विस्फुरितं तव' इति । कर्णावतंसश्रवणकुण्डलशिरशेखरेषु कर्णादिनिर्देशः संनिधेः॥१४॥ कर्णावतंसादिशब्देषु कर्णादीनामवतंसादिपदैरुक्तार्थानामपि निर्देशः संनिधेः प्रतिपत्त्यर्थमिति संबन्धः । नहि कर्णादिशब्दनिर्देशमन्तरेण कर्णादिसंनिहितानामवतसादीनां शक्या प्रतिपत्तिः कर्तुमिति । यथा - 'दोलाविलासेषु विलासिनीनां कर्णावतंसाः कलयन्ति कम्पम् ।' 'लीलाचलच्छ्रवणकुण्डलमापतन्ति ।' 'आययुभुङ्ग खराः शिरःशेखरशालिनः । १. "विश्लेषितं' ख. २. 'चिन्तामोहाद्यात्मकत्वात्' क; 'चिन्तामोहात्मकत्वात्' ग. ३. 'दुष्टं पदं ख. ४. 'धनुःप्रतीतिरारूढे प्रतिपत्तो' क. ५. 'अपि' ख-ग- पुस्तकयो स्ति. ६. 'कर्तुमिति' ख-ग-पुस्तकयो स्ति. ५. 'मुखराः' ख-ग. - 2 'शायिनः'ग.
अध्यायः २ सू. ११-१८] वाक्यदोषनिरूपणम् २५ ॥ मुक्ताहारशब्दे मुक्ताशब्दः शुद्धः ॥१५॥ 'मुक्ताहार'शब्दे 'मुक्ता'शब्दो 'हार'शब्देनैव गतार्थः प्रयुज्यते शुद्धेः प्रतिपत्त्यर्थमिति संबन्धः । शुद्धानामन्यरत्नैरमिश्रितानां हारो मुक्ताहारः । यथा- 'प्राणेश्वरपरिष्वङ्गविभ्रमप्रतिपत्तिभिः। मुक्काहारेण लसता हसतीव स्तनद्वयम् ॥' पुष्पमालाशब्दे पुष्पपदमुत्कर्षस्य ॥ 'पुष्पमाला'शब्दे 'माला'शब्देनैव गतार्थ 'पुष्प'पदं प्रयुज्यते उत्क- र्षस्य प्रतिपत्त्यर्थमिति । उत्कृष्टानां पुष्पाणां माला पुष्पमालेति । यथा- 'प्रायशः पुष्पमालेव कन्या सा के न लोभयेत् ।' ननु 'माला'शब्दोऽन्यत्रापि दृश्यते; यथा रत्नमाला, शब्दमालेति । सत्यम् ; स तावदुपचरितस्य प्रयोगः। निरुपपदो हि 'माला'शब्दः पुष्परचनाविशेषवाभिधत्त इति । करिकलभशब्दे करिशब्दस्ताद्रूप्यस्य ॥ १७ ॥ 'करिकलभ'शब्दे 'करि'शब्दः कलमेनैव गतार्थः प्रयुज्यते ताद्रूप्यस्य प्रतिपत्त्यर्थमिति । करी प्रौढंकुञ्जरः, तद्रूपः कलभः करिकलम इति । यथा- 'त्यज करिकलभ! त्वं प्रीतिबन्धं करिण्याः।' विशेषणस्य च ॥१८॥ विशेषणस्य प्रतिपत्त्यर्थमुक्तार्थस्य पैदस्य प्रयोगः। यथा- 'जगाद मधुरां वाचं विशदाक्षरशालिनीम् ।' १. 'अमिश्राणां' क. २. 'स्तनद्वयी' क. ३. 'पुष्पशब्दः' क. ४. 'कन्यकाक ख-ग. ५. 'पुष्पमालारचना' ख. ६. 'एव' ख-ग-पुस्तकयो स्ति. ७. 'तादू- प्यस्य प्रतिपत्त्यर्थम्' ख. ८. 'करिणः प्रौढकुञ्जराः' क. ९. 'इति' क-पुस्तके नास्ति. १०. "शब्दस्य क. ११. मालिनीम्' क. - २६ काव्यालंकारसूत्राणि [अधिक० २ - तदिदं प्रयुक्तेषु ॥ १९॥ तदिदमुक्तं प्रयुक्तषु, नाप्रयुक्तेषु । नहि भवति-यथा 'श्रवणकुण्डलम्' इति, तथा 'नितम्बकाञ्ची' इत्यपि । यथा वा 'करिकलभः' इति, तथा 'उष्ट्रकलभः' इत्यपि । अत्र श्लोकः-- 'कर्णावतंसादिपदे कर्णादिध्वनिनिर्मितिः । संनिधानादिबोधार्थ स्थितेष्वेतत्समर्थनम् ॥' संशयकृत्संदिग्धम् ॥ २० ॥ यद्वाक्यं साधारणानां धर्माणां श्रुतेः, विशिष्टानां चाश्रुतेः संशयं करोति, तत् संशयकृत् संदिग्धमिति । यथा- 'स महात्मा भाग्यवशान्महापदमुपागतः ।' किं भाग्यवशान्महापदमुपागतः, आहोखिदभाग्यवशान्महतीमापदम् ? इति संशयकृद्वाक्यं प्रकरणाद्यभावे सतीति । मायादिविकल्पितार्थमप्रयुक्तम् ॥ २१ ॥ मायादिना विकल्पितोऽर्थों यस्मिंस्तन्मायादिविकल्पितार्थमयुक्तम् । अस्तोकमुदाहरणम् । क्रमहीनार्थमपक्रमम् ॥ २२॥ उद्देशिनामनुदेशिनां च क्रमः संबन्धः, तेन हीनोऽर्थों यसिंस्तत्क्रम- हीनार्थमपक्रमम् । यथा- १. 'वा' ख-पुस्तके नास्ति. २. 'चाक्षुतेः' का 'च श्रुतेः ग. ३. 'इति' ख- पुस्तके नास्ति. ४. 'आपदमुपागत' इति क. ५. 'इति' ग-पुस्तके नास्ति. ६. 'अत्र स्तोक' ख; 'श्लोकं' ग. ७. 'उद्देशितानामनुद्देशितानां' ख. ८. 'हीनो' क. टिप्प०-1 अयं तावविविधः-दुष्कम-प्रक्रमभङ्गभेदात् । अर्थक्रमस्याप्रश- स्तत्वे दुष्क्रमत्वाख्या, महीनत्वे च प्रक्रमभङ्ग इति ।
अध्यायः २ सू. १९-२३] वाक्यदोषनिरूपणम् - 'कीर्तिप्रतापौ भवतः सूर्याचन्द्रमसोः समौ ।' अत्र कीर्तिश्चन्द्रमसस्तुल्या, प्रतापः सूर्यस्य तुल्यः । सूर्यस्य पूर्व- निपातादपक्रमः । अथवा प्रधानस्यार्थस्य प्रथमनिर्देशः क्रमः । तेन हीनोऽर्थो यस्मिंस्तदपक्रमम् । यथा- 'तुरंगमथ मातङ्गं प्रयच्छास्मै मदालसम् ।' देशकालखभावविरुद्धार्थानि लोकविरुद्धानि ॥ २३ ॥ देशकालस्वभावैर्विरुद्धोऽर्थों येषु तानि देशकालस्वभावविरुद्धार्थानि वाक्यानि लोकविरुद्धानि । अर्थद्वारेण लोकविरुद्धत्वं वाक्यानाम् । देशविरुद्धं यथा- 'सौवीरेष्वस्ति नगरी मधुरा नाम विश्रुता। अझोटनालिकेराख्या यस्याः पर्यन्तभूमयः ॥' कालविरुद्धं यथा- 'कदम्बकुसुमस्मेरं मधौ वनमशोभत ।' स्वभावविरुद्धं यथा- 'मत्तालिमङ्खमुखरासु च मञ्जरीपु सप्त- च्छदस्य तरतीव शरन्मुखश्रीः।' सप्तच्छदस्य स्तबका भवन्ति, न मञ्जर्य इति स्वभावविरुद्धम् । तथा- 'भृङ्गोवैः कलिकाकोशस्तथा भृशमपीड्यत । यथा गोप्पदपूरं हि ववर्ष बहुलं मधु ॥ कलिकायाः सर्वस्या मकरन्दस्यैतावद्वाहुल्यं स्वभावविरुद्धम् । १. 'अत्र' इत्यारभ्य 'अपक्रमः' इतिपर्यन्तं क-पुस्तक, 'अत्र' इत्यारभ्य 'यथा' इति पर्यन्तं च ग-पुस्तके नास्ति. २. 'मे प्रयच्छ ग. ३. 'विरुद्धार्थर क. ४. 'नालि- केराका' क; 'नालिकेराद्या' ख. ५. 'विरुद्धार्थ क. ६. "विरुद्धार्थ क. ७. 'इति खभावविरोधः । यथा' क; 'इति । खभावविरुद्धं यथा। ख. ८. 'संधावपीयत' क. ९. 'कलिकाकोषस्य मकरन्दस्यैव तावत्' क. - - - काव्यालंकारसूत्राणि [अधिक० २ - कलाचतुर्वर्गशास्त्रविरुद्धार्थानि विद्याविरुद्धानि ॥२४॥ कलाशास्त्रैश्चतुर्वर्गशास्त्रैश्च विरुद्धोऽर्थो येषु तानि कैलाचतुर्वर्गशास्त्र- विरुद्धार्थानि वाक्यानि विद्याविरुद्धानि । वाक्यानां विरोधोऽर्थद्वारकः । कलाशास्त्रविरुद्धं यथा- 'कालिङ्ग लिखितमिदं वयस्य ! पत्रं पत्रहरपतितकोटिकण्टकामम् ।' कालिङ्गं पतितकोटिकण्टकाग्रमिति पत्रविदामाम्नायः । तद्विरुद्धत्वात् कलाशास्त्रविरुद्धम् । एवं कलान्तरेष्वपि विरोधोऽभ्यूह्यः । चतुर्वर्गशास्त्रविरुद्धानि तूंदाहियन्ते 'कामोपभोगसाकल्यफलो राज्ञां महीजयः।' 'धर्मफलोऽश्वमेधादियज्ञफलो वा राज्ञां महीजयः' इत्यागमः । तद्वि- रोधाद्धर्मशास्त्रविरुद्धार्थमेतद्वाक्यमिति । 'अहंकारेण जीयन्ते द्विषन्तः किं नयश्रिया ।' द्विषज्जयस्य नयमूलत्वं स्थितं दण्डनीती, तद्विरोधादर्थशास्त्रविरुद्धार्थ वाक्यमिति । 'दशनाङ्कपवित्रितोत्तरोष्ठं रतिखेदालसमाननं स्मरामि ।' 'उत्तरोष्ठमन्तर्मुखं नयनान्तमिति मुक्त्वा चुम्बननखरदशनस्थानानि । इति कामशास्त्रे स्थितम् । तद्विरोधात्कामशास्त्रविरुद्धार्थ वाक्यमिति । 'देवताभक्तितो मुक्तिर्न तत्त्वज्ञानसंपदा ।' एतस्यार्थस्य मोक्षशास्त्रे स्थितत्वात्तद्विरुद्धार्थम् । १. 'विरुद्धानि' ख. २. 'विरुद्धार्थों' ख. ३. 'कलाविरुद्धचतुर्वर्ग' ख. ४. 'विरु- द्धानि विद्या-' ख. ५. 'च यस्य' ख. ६. 'कण्टकत्रि' क. ७. 'कोटि' क-पुस्तके. नास्ति. ८. 'तद्विरोधात्' क, ९. "विरुद्धत्वम्' क. १०. 'अत्यूह्य खः 'मभ्युपेयः' ग. ११. 'तु' क-पुस्तके नास्ति. १२. 'विरुद्धमेतद्वाक्यम्' क; "विरुद्ध वाक्य' ग. १३. 'विरुद्धत्वम्' क"विरुद्धम्' ग. १४. 'वाक्यमिति' क-ग-पुस्तकयो स्ति. १५. 'इति' ग-पुस्तके नास्ति. १६. 'कामशास्त्रसूत्रे ख. १७. 'देवताज्ञानतो' ख, अध्यायः १ सू. २४-२] गुणनिरूपणम् २९ एते वाक्यवाक्यार्थदोषास्त्यागाय ज्ञातव्याः । ये त्वन्ये शब्दार्थ- दोषाः सूक्ष्मास्ते गुणविवेचन एवोच्यन्ते । उपमादोषाश्चोपैमाविचार इति । इति काव्यालंकारसूत्रवृत्ती दोषदर्शने द्वितीयेऽधिकरणे द्वितीयोऽध्यायः । समाप्तं चेदं दोषदर्शनं द्वितीयमधिकरणम् । - गुणविवेचनं नाम तृतीयमधिकरणम् । प्रथमोऽध्यायः। यद्विपर्ययात्मनो दोषास्तान्गुणान्विचारयितुं गुणविवेचैनमधिकरण- मारभ्यते। तत्रौजःप्रसादादयो गुणाः, यमकोपमादयस्त्वलंकारा इति स्थितिः काव्यविदाम् । तेषां किं मेदनिबन्धनमित्याह- काव्यशोभायाः कारो (र्मा गुणाः ॥१॥ ये खलु शेब्दार्थयोधर्माः काव्यशोभा कुर्वन्ति ते गुणाः । ते चौजः- प्रसादादयः । न यमकोपमादयः; कैवल्येन तेषामकाव्यशोभाकरत्वात् । ओजःप्रसादादीनां तु केवलानीमस्ति काव्यशोभाकैरत्वमिति । तदतिशयहेतवस्त्वलंकाराः ॥ २॥ तस्याः काव्यशोभाया अतिशयस्तैदतिशयस्तस्य हेतवः । तुशब्दो व्यतिरेके । अलंकाराश्च यमकोपमादयः । १. "अन्ये च ये' ग. २. 'शब्दार्थयोः' क. ३. 'वक्ष्यन्ते' ख. ४. 'च' ख- पुस्तके नास्ति. ५. 'इति' ख-पुस्तके नास्ति. ६. 'वाक्यशब्दार्थदोषविभागः' क. ७. 'विवेचनाधिकरणं' क. ८. 'धर्मगुणाः' ख. ९. 'शब्दार्थधर्माः' क. १०. 'अस्ति ख-पुस्तके नास्ति. ११. 'कारित्वं' ग. १२. 'तदतिशयः' क-पुस्तके नास्ति. टिप्प०-1 लक्षणमिदं दूषितं मम्मटेन-'काव्यशोभाद्याः कर्तारो धर्मा गुणास्तदतिशयहेतवस्स्वलंकाराः' इति तदपि न युक्तम् । अतः किं समस्तैगुणैः कास्यव्यवहारः, उत कतिपयैः ? यदि समस्तैः, तत्कथमसमम्तगुणा गौडी पाजाली चरीतिः काव्यस्यात्मा? इत्यादिना ।
काव्यालंकारसूत्राणि [अधिक० ३ अत्र श्लोको- - 'युवतेरिव रूपमङ्ग ! काव्यं स्वदते शुद्धगुणं तदप्यतीव । विहितप्रणयं निरन्तराभिः सदलंकारविकल्पकल्पनाभिः ॥' 'यदि भवति वचश्च्युतं गुणेभ्यो वपुरिव यौवनवन्ध्यमङ्गनायाः । अपि जनदयितानि दुर्भगत्वं नियतमलंकरणानि संश्रयन्ते ।' पूर्वे नित्याः ॥३॥ पूर्व गुणा नित्याः । तैर्विना काव्यशोभानुपपत्तेः । एवं गुणालंकाराणां भेदं दर्शयित्वा, शब्दगुणनिरूपणार्थमाह- ओजःप्रसादश्लेषसमतासमाधिमाधुर्यसौकुमार्योदारतार्थ- व्यक्तिकान्तयो बन्धगुणाः ॥ ४ ॥ बन्धः पदरचना । तस्य गुणा बन्धगुणा ओजःप्रभृतयः । तान्क्रमेण दर्शयितुमाह- गाढवन्धत्वमोजः ॥५॥ बन्धस्य गाढत्वं यत्तदोजः । यथा- 'विलुलितमकरन्दा मञ्जरीनतयन्ति । न पुनः 'विलुलितमधुधारा मञ्जरीलोलयन्ति ।' शैथिल्यं प्रसादः ॥ ६॥ बन्धस्य शैथिल्यं शिथिलत्वं प्रसादः । नन्वयमोजोविपर्ययात्मा दोषः, तत्कथं गुण इत्यत आह- गुणः संप्लवात् ॥ ७॥ गुणः प्रसादः। ओजसा सह संप्लवात् । स शुद्धस्तु दोष एवेति । १. 'वाक्यं क. २. 'पूर्वे खलु खः पूर्वेत' ग. ३. 'नर्तयन्तः' क. ४. 'मधु- धारां मजरी' ग. ५. 'प्रसादः ख पुस्तके नास्ति. ६. अस्याने 'न शुद्धः' इति सूत्र- त्वेन ग-पुस्तके पठ्यते; क-पुस्तके च त्रुटितम्. ७. 'संशुद्धस्तु' क; 'शुद्धस्तु' ग. - अध्यायः १ सू. ३-१०] गुणनिरूपणम् ३ - ननु विरुद्धयोरोजःप्रसादयोः कथं संप्लव इत्यत आह- स त्वनुभवसिद्धः ॥ ८॥ स तु संप्लवस्त्वनुभवसिद्धः तद्विदां रत्नादिविशेषवत् । अत्र श्लोकः- 'करुणप्रेक्षणीयेषु संप्लवः सुखदुःखयोः । यथानुभवतः सिद्धस्तथैवोजःप्रसादयोः ॥' साम्योत्कर्षों च ॥९॥ साम्यमुत्कर्षश्चौजःप्रसादयोरनुभवादेव । साम्यं यथा ( रघु. ३७०)- 'अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दत्त्वा यूने सितातपवारणम् ॥' क्वचिदोजः प्रसादादुत्कृष्टम् । यथा- 'ग्रजति गगनं भल्लातक्याः फलेन सहोपमाम् ।' कचिदोजसः प्रसादस्योत्कर्षः । यथा- 'कुसुमशयनं न प्रत्यग्रं न चन्द्रमरीचयो न च मलयज सर्वाङ्गीणं न वा मणियष्टयः॥' मसृणत्वं श्लेषः ॥१०॥ मसृणत्वं नाम यस्मिन्सति बहून्यपि पदान्येकवद्भासन्ते । यथा (कुमार. १।१)- 'अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः।' w- ॥ - न पुनः 'सूत्रं ब्राह्मसुर :स्थले-', 'भ्रमरीवल्गुगीतयः', 'तडित्कलिलमाकाशं' इति । १. 'करुणा' ख. २. 'यथा' क-ग-पुस्तकयो स्ति. ३. 'यथा' ख-ग- पुस्तकयो स्ति.
३२ काव्यालंकारसूत्राणि [अधिक० ३ - एवं तु श्लेषो भवति- 'ब्राह्मं सूत्रमुरःस्थले', 'भ्रमरीम गीतयः', 'तडिजटिलमाकाशम्' इति । मार्गाभेदः समता ॥ ११॥ मार्गस्याभेदो मार्गाभेदः समता । येन मार्गेणोपक्रमस्तस्यात्याग इत्यर्थः । श्लोके प्रबन्धे चेति । पूर्वोक्तमुदाहरणम् । विपर्ययस्तु यथा- 'प्रसीद चण्डि ! त्यज मन्युमासा जनस्तेवायं पुरतः कृताञ्जलिः। किमर्थमुत्कम्पितपीवरस्तनद्वयं त्वया लुप्तविलासमास्यते ॥' औरोहावरोहक्रमः समाधिः ॥ १२ ॥ आरोहावरोहयोः क्रम आरोहावरोहक्रमः समाधिः परिहारः । आरोहस्यावरोहे सति परिहारः, अक्रोहस्य वाऽऽरोहे सतीति । तत्रारोहपूर्वोऽवरोहो यथा- "निरानन्दः कौन्दे मधुनि परिभुक्तोज्झितरसे ।' अवरोहपूर्वस्त्वारोहो यथा- 'नराः शीलभ्रष्टा व्यसन इव मन्जन्ति तरवः ।' आरोहस्य क्रमोऽवरोहस्य च क्रम आरोहावरोहक्रमः, क्रमेणारोहण- मवरोहणं चेति केचित् । यथा- 'निवेशः स्वःसिन्धोस्तुहिनगिरिवीथीपु जयति ।' न पृथक्, आरोहावरोहयोरोजाप्रसादरूपत्वात् ॥१३॥ न पृथक्समाधिर्गुणः । आरोहावरोहयोरोजःप्रसादरूपत्वात् । ओजो- रूपश्चारोहः प्रसादरूपश्चावरो इति । - - १. 'मार्गाभेदः' ख-पुस्तके नास्ति. २. 'तथाय' क. ३. 'आरोहावरोहयोः क्रमः' ख. ४. 'पूर्वको' ख. ५. 'आरोहस्य च' ख. ६. 'च' ग-पुस्तके नास्ति. ७. 'तु' ग.
काव्यालंकारसूत्राणि [अधिक० ३ - :स्थले', एवं तु श्लेषो भवति- 'ब्राझं सूत्रमुरः 'भ्रमरीम गीतयः', 'तडिजटिलमाकाशम्' इति । मार्गाभेदः समता ॥ ११ ॥ मार्गस्याभेदो मार्गाभेदः समता । येन मार्गेणोपक्रमस्तस्यात्याग इत्यर्थः । श्लोके प्रबन्धे चेति । पूर्वोक्तमुदाहरणम् । विपर्ययस्तु यथा- 'प्रसीद चण्डि ! त्यज मन्युमञ्जसा जनस्तेवायं पुरतः कृताञ्जलिः । किमर्थमुत्कम्पितपीवरस्तनद्वयं त्वया लुप्तविलासमास्यते ॥' ऑरोहावरोहक्रमः समाधिः ॥ १२ ॥ आरोहावरोहयोः क्रम आरोहावरोहक्रमः समाधिः परिहारः । आरोहस्यावरोहे सति परिहारः, अक्रोहस्य वाऽऽरोहे सतीति । तत्रारोहपूर्वोऽवरोहो यथा- 'निरानन्दः कौन्दे मधुनि परिभुक्तोज्झितरसे ।' अवरोहपूर्वस्त्वारोहो यथा- 'नराः शीलभ्रष्टा व्यसन इव मजन्ति तरवः ।' आरोहस्य क्रमोऽवरोहस्य च क्रम आरोहावरोहक्रमः, क्रमेणारोहण- मवरोहणं चेति केचित् । यथा- 'निवेशः स्वःसिन्धोस्तुहिनगिरिवीथीपु जयति ।' न पृथक्, आरोहावरोहयोरोजप्रसादरूपत्वात् ॥१३॥ न पृथक्समाधिर्गुणः । आरोहावरोहयोरोजःप्रसादरूपत्वात् । ओजो- रूपश्चारोहः प्रसादरूपश्चावरो इति । - - १. 'मार्गामेदः' ख-पुस्तके नास्ति. २. 'तथायं' क. ३. 'आरोहावरोहयोः क्रमः' ख. ४. 'पूर्वको' ख. ५. 'आरोहस्य च ख. ६. 'च' ग-पुस्तके नास्ति. ७. 'तु' ग.
काव्यालंकारसूत्राणि [अधिक०३ - -- विपर्ययस्तु यथा- 'चलितशबरसेनादत्तगोशृङ्गचण्ड- ध्वनिचकितवराहव्याकुला विन्भ्यपादाः ।' अजरठत्वं सौकुमार्यम् ॥ २१ ॥ बन्धस्याजरठत्वमपारुष्यं यत्तत्सौकुमार्यम् । पूर्वोक्तमुदाहरणम् । विपर्ययस्तु यथा- 'निदानं निद्वैतं प्रियजनसैडक्त्वव्यवसितिः सुधासेकैप्लोषौ फलमपि विरुद्धं मम हृदि ।' विकटत्वमुंदारता ॥ २२॥ बन्धस्य विकटत्वं यदसावुदारता । यस्मिन्सति नृत्यन्तीव पदानीति जनस्य वर्णभावना भवति तद्विकटत्वम् , लीलायमानत्वमित्यर्थः । यथा- 'स्वचरणविनिविष्टै पुरैर्नर्तकीनां झंणिति रणितमासीत्तत्र चित्रं कलं च ।' न पुनः,- 'चरणकमललग्नै पुरैर्नर्तकीनां झंटिति रणितमासीन्मच चित्रं च तत्र ।' अर्थव्यक्तिहेतुत्वमर्थव्यक्तिः॥ २३ ॥ यत्र झंटित्यर्थप्रतिपत्तिहेतुत्वं स गुणोऽर्थव्यक्तिरिति । पूर्वोक्तमुदा- हरणम् । प्रत्युदाहरणं तु भूयः सुलभं च । औज्वल्यं कान्तिः ॥ २४॥ बन्धस्योज्वलत्वं नाम यदसौ कान्तिरिति । तदभावे पुराणच्छाये- स्युच्यते । यथा-- 'कुरङ्गीनेत्रालीस्तबकितवनालीपरिसरः।' १. 'अपरुषत्व' क. २. 'पृथक्त्वव्यवसितं सुधासेकालावो' क. ३. 'प्लोषैः' ख. ४. 'यत्सा' क, 'यदेषा' ग, ५, 'इति' ख-पुस्तके नास्ति. ६. 'वर्णना' क. ५. 'तद्धि विकटत्वम्' क. ८. 'झटिति' ख, 'अगिति' ग. ९. 'युक्तैः' ख. १०.'- मितिकग. ११. 'झगिति' कग, १२. 'च भूयः सुलभ' ख. १३. 'पुराणी' क. -
३५
अध्यायः १ सू. २१-२४] गुणनिरूपणम्
विपर्ययस्तु भूयान्सुलभश्च ।
श्लोकाश्चात्र भवन्ति-
पदन्यासस्य गाढत्वं वदन्त्योजः कवीश्वराः ।
अनेनाधिष्ठिताः प्रायः शब्दाः श्रोत्ररसायनम् ॥
अथत्वमोजसा मिश्रं प्रसादं च प्रचक्षते।
अनेन न विना सत्यं खदते काव्यपद्धतिः ॥
यत्रैकपदवद्भावः पदानां भूयसामपि ।
अनालक्षितसंघीनां स श्लेषः परमो गुणः ॥
प्रतिपादं प्रतिश्लोकमेकमार्गपरिग्रहः ।
दुर्बन्धो दुर्विभावश्च समतेति मतो गुणः ॥
आरोहन्त्यवरोहन्ति क्रमेण यतयो हि यत् ।
समाधिर्नाम स गुणस्तेन पूता सरस्वती ।।
बन्धे पृथक्पदत्वं च माधुर्यमुदितं बुधैः ।
अनेन हि पदन्यासाः कामं धारामधुश्च्युतः ।।
बन्धस्याजरठत्वं च सौकुमार्यमुदाहृतम् ।
एतेन वर्जिता वाचो रूक्षत्वान्न श्रुतिक्षमाः॥
विकटत्वं च बन्धस्य कथयन्ति युदारताम् ।
वैचित्र्यं न प्रपद्यन्ते यया शून्याः पदक्रमाः॥
पश्चादिव गतिर्वाचः पुरस्तादिव वस्तुनः ।
यत्रार्थव्यक्तिहेतुत्वात्सोऽर्थव्यक्तिः स्मृतो गुणः ॥
१. 'च' क. २. 'पदपद्धतिः' क. ३. 'न्यासः' ख. ४. 'मधुच्युताः' क.
'रोक्षस्वान श्रुतिक्षमाः' क. ६. 'च' ख-पुस्तके नास्ति. ७. 'यथा' ख.
काव्यालंकारसूत्राणि [अधिक० ३ औज्वल्यं कान्तिरित्याहुर्गुणं गुणविशारदाः । पुराणचित्रस्थानीयं तेन वन्ध्यं कवेर्वचः ।। यथा हि च्छिद्यते रेखा चतुरं चित्रपण्डितैः । तथैव वागपि प्राज्ञैः समस्तगुणगुम्फिता ।। नासन्तः, सद्वेद्यत्वात् ॥ २५॥ न खल्वेते गुणा असन्तः, संवेद्यत्वात्तद्विदाम् । सवेद्यत्वेऽपि प्रान्ताः स्युरित्यत आह- न भ्रान्ताः, निष्कम्पत्वात् ॥ २६ ॥ न गुणा श्रान्ताः, एतद्विषयायाः प्रवृत्तेनिष्कम्पत्वात् । न पाठधर्माः, सर्वत्रादृष्टेः ॥ २७॥ नेते गुणाः पाठधर्माः, सर्वत्रादृष्टेः । यदि पाठधर्माः स्युस्तर्हि विशे- षानपेक्षाः सन्तः सर्वत्र दृश्येरन् । न च सर्वत्र दृश्यन्ते । विशेषापेक्षया विशेषाणां गुणत्वाद्गुणाभ्युपगम एवेति । इति काव्यालंकारसूत्रवृत्तौ गुणविवेचने तृतीयेऽधिकरणे प्रथमोऽध्यायः । - द्वितीयोऽध्यायः। शब्दगुणविवेके कृते संप्रत्यर्थगुणविवेचनार्थमाह- त एवार्थगुणाः ॥१॥ त एवौजःप्रभृतयोऽर्थगुणाः १. "विपश्चितः क. २. 'विच्छिद्यते' क. ३. 'पदविप्लुता' क. ४. 'संवेद्यत्वात क. ५. 'संवेद्यत्वे' क. ६. 'नित्रान्ताः' क-ख. ७. 'निष्क्रम्यत्वात्' ग. ८. 'तर्हि' क-ग-पुस्तकयो स्ति. ९. 'विवेचन' क. १०. “एवौजःप्रसाद ख. man Man - - अध्यायः २ सू. २५-२] गुणविवेचनम् ३७ वाच्यवाचकद्वारेण शब्दार्थगुणानां भेदं दर्शयति- अर्थस्य प्रौढिरोजः ॥२॥ अर्थस्याभिधेयस्य प्रौढिः प्रौढत्वमोजः । 'पदार्थे वाक्यवंचनं वाक्यार्थे च पदाभिधा । प्रौढिाससमासौ च साभिप्रायत्वमस्य च ॥' पदार्थे वाक्यवचनं यथा (रघु. २।७५)- 'अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः।' अत्र चन्द्रपदवाच्येऽर्थे 'नयनसमुत्थं ज्योतिरत्रेः' इति वाक्यं प्रयु- क्तम् । पदसमूहश्च वाक्यमभिप्रेतम् । अनया दिशाऽन्यदपि द्रष्टव्यम् । तद्यथा- 'पुरः पाण्डुच्छायं तदनु कपिलिना कृतपदं ततः पॉकोत्सेकादरुणगुणसंसर्गितवपुः । शनैः शोषारम्भे स्थपुटनिजविष्कम्भविषम वने वीतामोदं बदरमरसत्वं कलयति ॥' न चैर्वमतिप्रसङ्गः। काव्यशोभाकरत्वस्य गुणसामान्यलक्षणस्याव- स्थितत्वात् । वाक्यार्थे पदाभिधानं यथा- 'दिग्येयं न भवति किं तु मानुषी' इति वक्तव्ये 'निमिषति' इत्याहेति । अस्य वाक्यार्थस्य व्याससमासौ । व्यासो यथा- 'अयं नानाकारो भवति सुखदुःखव्यतिकरः सुखं वा दुःखं वा भवति न भवत्येव च ततः । १ 'प्रौढत्वं यत्तदोजः' ग. २. 'रचनं' क. ३. 'रचनं' ख. ४ 'प्राय क. ५. 'पाकोत्सेधादरुणमणि' ख. ६. 'शेषारम्भे' क. ७. 'वीजामोद' ख. ८. 'न चाति' ग. ९. 'सामान्यस्य ख. १०. 'अस्यैव' क. ११. 'न भवति भवत्येव' ख. mam - ३८ काव्यालंकारसूत्राणि [ अधिक०३ पुनस्तस्मादूर्ध्व भवति सुखदुःखं किमपि तत् पुनस्तस्मादूर्ध्व भवति ने च दुःखं न च सुखम् ॥' समासो यथा (कुमार. ६।९४)- 'ते हिमालयमामन्य पुनः प्रेक्ष्य च शूलिनम् । सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः ॥' साभिप्रायत्वं यथा- 'सोऽयं संप्रति चन्द्रगुप्ततनयश्चन्द्रप्रकाशो युवा जातो भूपतिराश्रयः कृतधियां दिष्ट्या कृतार्थश्रमः।' 'आश्रयः कृतधियाम्' इत्यस्य वसुबन्धुसाचिव्योपपरत्वात् साभि- M प्रायत्वम् । एतेन, - - 'रतिविगलितबन्धे केशपाशे सुकेश्याः' इत्यत्र 'सुकेश्याः' इत्यस्य च साभिप्रायत्वं व्याख्यातम् । अर्थवैमल्यं प्रसादः ॥३॥ अर्थस्य वैमल्यं प्रयोजकमात्रपरिग्रहे प्रसादः । यथा- 'सवर्णा कन्यका रूपयौवनारम्भशालिनी ।' विपर्ययस्तु- 'उपास्तां हस्तो मे विमलमणिकाञ्चीपदमिदम् ।' 'काञ्चीपदम्' इत्यनेनैव नितम्बस्य लक्षितत्वाद्विशेषणस्याप्रयोजकत्वमिति। घटना श्लेषः॥४॥ क्रमकौटिल्यानुल्बणत्वोपपत्तियोगो घटना । स श्लेषः । यथा (अमरु, १६)- 'दृष्ट्वैकासनसंगते प्रियतमे पश्चादुपेत्यादरा- देकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः। १. 'नहि' ख. २. 'च सुबन्धु' ग. ३. 'उपलक्षणत्वात्' ग. ४. 'इत्यत्र सुकेश्या' क-ग-पुस्तकयो स्ति. ५. 'इत्यस्यापि' क. ६. 'अर्थवैमल्यं' क-ग. ७. 'रूपशीलयौवनशालिनी' ग. ८. 'उपास्ते' ख. ९. 'संस्थिते ख.
अध्यायः २ सु. ३-७] गुणविवेचनम् ईषद्वक्रितकंधरः सपुलकः प्रेमोल्लसन्मानसा- मन्तहाँसलसकपोलफलको धूर्तोऽपरा चुम्बति ॥' शृद्रकादिरचितेषु प्रबन्धेष्वस्य भूयान्प्रेपश्चो दृश्यते । अवैषम्यं समता ॥५॥ अवैषम्यं प्रक्रमाभेदः समता । क्वचिद्धि प्रक्रमोऽपि भिद्यते । यथा- 'च्युतसुमनसः कुन्दाः पुष्पोद्गमेष्वलसा द्रुमा मलयमरुतः सर्पन्तीमे वियुक्ततिच्छिदः । अथ च सवितुः शीतोल्लासं लुनन्ति मरीचयो न च जरठतामालम्बन्ते क्लमोदयदायिनीम् ॥ ऋतुसंधिप्रतिपादनपरेऽत्र द्वितीये पादे केमभेदः, मलयमरुतामसा- धारणत्वात् । एवं तु द्वितीयः पादः पठितव्यः- 'मनसि च गिरं बनन्तीमे किरन्ति न कोकिलाः । इति । सुगमत्वं वाऽवैषम्यमिति । यथा (कुमार.१।१)- 'अस्त्युत्तरस्यां दिशि देवतात्मा' इत्यादि । प्रत्युदाहरणं सुलभम् । अर्थदृष्टिः समाधिः ॥६॥ अर्थस्य दर्शनं दृष्टिः, समाधानकारणत्वात् समाधिः। 'अवहितं हि चित्तमर्थान्पश्यति' (१।३।१७) इत्युक्तं पुरस्तात् । अर्थो द्विविधः, अयोनिरन्यच्छायायोनिर्वा ॥७॥ योऽसावर्थः प्रस्तुतः सोऽर्थो द्विविधः-अयोनिः, अन्यच्छाया- १. 'परा' क. २. 'प्रयोगः' ग. ३. 'अलसहमा' ख. ४. 'नवजरठतां' ख. ५. 'प्रक्रम' ख. ६. 'तु' ख-पुस्तके नास्ति. ७. इदं सूत्रत्वेन ख-पुस्तके पठ्यते, तदने च 'सुखेन गम्यते ज्ञायत इत्यर्थः । इत्यपि वाक्यं दृश्यते. ८. 'इति' ख. अस्मादनन्तरं ख-पुस्तके 'केयमवगुण्ठनवती-' इत्यादि शाकुन्तलपञ्चमाङ्कस्थं पद्य कोष्ठकान्तलिखितमस्ति. ९. 'समाधिकारण क-ग. १०. 'प्राक् ग.
- काव्यालंकारसूत्राणि [अधिक०३ योनिश्चेति । अयोनिरंकारणः, अवधानमात्रकारण इत्यर्थः। अन्यस्य काव्यस्य च्छाया अन्यच्छाया तेद्योनिर्वा । तद्यथा- 'आश्वपेहि मम शीधुभाजनाद्यावदग्रदशनैन दश्यसे । चन्द्र ! मैदशनमण्डलाङ्कितः खं न यास्यसि हि रोहिणीभयात् ॥' 'मा भैः शशाङ्क ! मम शीधुनि नास्ति राहुः खे रोहिणी वसति कातर! किं बिभेषि । प्रायो विदग्धवनितानवसंगमेषु पुंसां मनः प्रचलतीति किमत्र चित्रम् ॥' अत्र पूर्वस्य श्लोकस्यार्थोऽयोनिः, द्वितीयस्य चान्यच्छायायोनिरिति । अर्थो व्यक्तः सूक्ष्मश्च ॥८॥ अयोनिरन्यच्छायायोनिश्चेति योऽयमर्थः,स द्वेषा-व्यक्तः सूक्ष्मश्च । व्यक्तः स्फुट उदाहृत एव । सूक्ष्मं व्याख्यातुमाह- सूक्ष्मो भाव्यो वासनीयश्च ॥९॥ सूक्ष्मो द्वधा भवति-भाव्यो वासनीयश्च । शीघ्रनिरूपणागम्यो भाव्यः। एकाग्रताप्रकर्षगम्यो वासनीय इति । भाव्यो यथा- 'अन्योन्यसमिलितमांसलदन्तकान्ति सोल्लासमाविरलसंवलितार्धतारम् । लीलागृहे प्रतिकलं किलकिञ्चितेषु व्यावर्तमानविनयं मिथुन चकास्ति ॥' वासनीयो यथा- 'अवहित्थवलितजघनं विवर्तिताभिमुखकुचतटं स्थित्वा । अवलोकितोऽहमनया दक्षिणकरकलितहारलतम् ॥' १. 'अनल्प' ग. २. 'तद्ययोनिः' ख. ३. 'यद्दशन' ख. ४. 'इत्यर्थः' क. ५. 'द्विधा' ख. ६. 'स्फुटं' क. ७. 'सूक्ष्म' ग. ८. 'इति' क-ग-पुस्तकयो- स्ति. ९. 'तत्र भाव्यो' क. १०. 'संवलित' ख. ११. 'प्रविरले ख; 'प्रविकलं' क. १२. 'किलकिश्चितेन' ग. - 50 - अध्यायः २ सू. ८-१३] गुणविवेचनम् उक्तिवैचित्र्यं माधुर्यम् ॥ १० ॥ उक्तेर्वैवित्र्यं यत्तन्माधुर्यमिति । यथा- 'रेसवदमृतं कः संदेहो मधून्यपि नान्यथा मधुरमधिकं चूतस्यापि प्रसारसं फलम् । सकृदपि पुनर्मध्यस्थः सन् रसान्तरविजनो वदतु यदिहान्यत्स्वादु स्यात्प्रियादशनच्छदात् ॥' अपारुष्यं सौकुमार्यम् ॥ ११ ॥ परुषेऽर्थेऽपारुष्यं सौकुमार्यमिति । यथा-भृतं यशःशेषमित्याहुः, एकाकिनं देवताद्वितीयमिति । गच्छेति साधयेति च । अग्राम्यत्वमुदारता ॥ १२॥ ग्राम्यत्वप्रसङ्गेऽग्राम्यत्वमुदारता । यथा- 'स्वमेवंसौन्दर्या स च रुचिरतायां परिचितः कलानां सीमानं परमिह युवामेव भजथः। अपि द्वन्द्वं दिष्टया तदिति सुभगे ! संवदति वा- मतः शेष चेत्स्याजितमिह तदानीं गुणितया ॥' विपर्ययस्तु- 'स्वपिति यावदयं निकटे जनः स्वपिमि तावदहं किमपैति ते । इति निगद्य शनैरनुमेखलं मम कर स्वकरेण रुरोध सा॥' वस्तुस्वभावस्फुटत्वमर्थव्यक्तिः ॥१३॥ वस्तुनां भावानां स्वभावस्य स्फुटत्वं यदसावर्थव्यक्तिः । यथा- 'पृष्ठेषु शङ्खर्शकलच्छविषु च्छदानां राजीभिरक्षितमलतकलोहिनीभिः । गोरोचनाहरितबभ्रुबहिःपलाश- मामोदते कुमुदमम्भसि पल्वलस्य ॥' १. 'उक्तऽर्थे वैचित्र्यं तन' क. २. 'सरसममृतं' ख. ३. 'द्राक्षायाश्च प्रसन्नतरं फलम् शाई. प. ४. 'अमृतं यशःशेषमित्याहुः' ख. ५. 'सीमान्त' क. ६. 'तुदति' ग. ७. 'सुभगत्वं वदति' ख. ८. 'अथ' क. ९. 'सकल' ख. m- ४२ काव्यालंकारसूत्राणि [अधिक० NIAC- यथा वा- 'प्रथममलसैः पर्यस्ताग्रं स्थितं पृथुकेसरै- विरलविरलैरन्तःपत्रैर्मनाझिलितं ततः । तदनु वलनामात्रं किंचिब्यधायि बहिर्दलै- मुकुलनविधौ वृद्धाब्जानां बभूव कदर्थना ॥' दीप्तरसत्वं कान्तिः ॥ १४ ॥ दीप्ता रसाः शृङ्गारादयो यस्य स दीप्तरसः, तस्य भावो दीप्तरसत्वं कान्तिः । यथा- 'प्रेयान् सायमपाकृतः सशपथं पादानतः कान्तया द्वित्राण्येव पदानि वासभवनाद्यावन्न यात्युन्मनाः। तावप्रच्युतपाणिसंपुटलसन्नीवीनितम्बं तो धावित्वैव कृतप्रणाममहहा प्रेम्णो विचित्रा गतिः ॥' एवं सान्तरेष्वयुदाहरणीयमिति । अत्र श्लोकाः- 'गुणस्फुटत्वसाकल्ये काव्यपाकं प्रचक्षते । चूतस्य परिणामेन स चायमुपमीयते ॥ सुप्तिसंस्कारमात्रं स्याक्लिष्टवस्तुगुणं भवेत् । काव्यं वृन्ताकपाकं तज्जुगुप्सन्ते जनास्ततः ।। गुणानां दशता त्यैक्तो यस्यार्थस्तदपार्थकम् । दाडिमानि दशेत्यादि न विचारक्षमं वचः॥' इति काव्यालंकारसूत्रवृत्तौ गुणविवेचने तृतीयेऽधिकरणे द्वितीयोऽध्यायः । समाप्तं चेदं गुणविवेचनं तृतीयमधिकरणम् । १. 'पर्यस्तापस्थित' क. २. 'कृतप्रणामकहहा' ख, ३. 'रसान्तरे' ख; 'रसा- न्तरे' ग. ४. 'उदाहार्यम्' ग. ५. 'उपनीयते' क. 'परिमीयते' ग, ६. "क्लिष्ट' ख. ७. 'दर्शनान्मुक्तो' ख. ८ 'अर्थगुणविवेचनम्'.
अध्यायः १ सू. १४-२] अलङ्कारनिरूपणम् आलंकारिकं नाम चतुर्थमधिकरणम् । प्रथमोऽध्यायः। गुणनिर्वा काव्यशोभा । तस्याश्चातिशयहेतवोऽलंकाराः । तन्निरू- पणार्थमालंकारिकमधिकरणमारभ्यते- तत्र शब्दालंकारौ द्वौ यमकानुप्रासौ क्रमेण दर्शयितुमाह- पदमनेकार्थमक्षरं चावृत्तं स्थाननियमे यमकम् ॥१॥ पदमनेकार्थ भिन्नार्थमेकमनेकं वा तद्वदक्षरमावृत्तं स्थाननियमे सति यमकम् । खावृत्त्या सजातीयेन वा कारूयैकदेशाभ्यामनेकपादव्याप्तिः स्थाननियम इति । यानि त्वेकपादभागवृत्तीनि यमकानि दृश्यन्ते तेषु लोकान्तरस्य संस्थानं यमकापेक्षयैव स्थाननियम इति । स्थानकथनार्थमाह पादाः पादस्यैकस्यानेकस्य चादिमध्यान्तभागाः स्थानानि ॥२॥ पादाः, एकस्य च पादस्यादिमध्यान्तभागाः, अनेकस्य च पादस्य त एव स्थानानि । पादयमकं यथा-- "असज्जनवचो यस्य कलिकामधुगर्हितम् । तस्य न स्याद्विषतरोः कलिकामधु गर्हितम् ॥' एकपादस्यादिमध्यान्तयेमकानि यथा- 'हन्त हन्तररातीनां धीर! धीरर्चिता तव । कामं कामन्दकी नीतिरस्या रस्या दिवानिशम् ॥' 'वसुपरासु परासुमिवोज्झतीष्वविकलं विकलङ्कशशिप्रभम् ।' प्रियतमं यतमन्तुमनीश्वरं रसिकता सिकतास्विव तासु का ॥' १. 'गुणानां नित्या' ग. २. 'लक्षयितुं' क. ३. "वावृत्तं ग, ४. 'नियमे सति' ख. ५. 'खवृत्त्या' क., 'आवृत्त्या' ग. ६. 'च' ख-पुस्तके नास्ति. ७. 'पदस्य' क. ८. 'एकस्य क. ९. 'यमकं ख. १०. 'यतमन्तुं' क-ग. - -
४४
काव्यालंकारसूत्राणि
[अधिक०४
'सुदृशो रससरेचकितं चकितं भवतीक्षितमस्ति मितं स्तिमितम् ।
अपि हासलवस्तवकः स्तव कस्तुलयेने तु कामधुरां मधुराम् ॥'
पादयोरादिमध्यान्तयमकानि यथा-
'भ्रमर! द्रुमपुष्पाणि भ्रम रत्यै पिबन्मधु ।
का कुन्दकुसुमे प्रीतिः काकुं दत्त्वा विरौषि किम् ॥'
'अप्यशक्यं त्वया दत्तं दुःखं शक्यन्तरात्मनि ।
बाष्पो वाहीकनारीणां वेगवाही कपोलयोः॥'
'सपदि कृतपदस्त्वदीक्षितेन स्मितसुचिना स्मरतत्त्वदीक्षितेन ।
भवति बत जनः सचित्तदाहो न खलु मृषा कुत एव चित्तदाहो ।'
एकान्तरपादान्तयमकं यथा-
'उद्वेजयति भूतानि यस्य राज्ञः कुशासनम् ।
सिंहासनवियुक्तस्य तस्य क्षिप्रं कुशासनम् ॥'
एवमेकान्तरपादादिमध्ययमकान्यूह्यानि ।
समस्तपादान्तयमकं यथा-
'नतोझतभ्रगतिबद्धलास्यां विलोक्य तन्वीं शशिपेशलास्याम् ।
मनः किमुत्ताम्यसि चञ्चलास्यां कृती स्मराज्ञा यदि पुष्कला स्याम् ॥'
एवं समस्तपादादिमध्यान्तयमकानि व्याख्यातव्यानि । अन्ये च
संकरजातिभेदाः सुधियोत्प्रेक्ष्याः ।
अक्षरयमकं त्वेकाक्षरमनेकाक्षरं च ।
एकाक्षरं यथा-
'नानाकारेण कान्ताभूराराधितमनोभुवा ।
विविक्तेन विलासेन ततक्ष हृदयं नृणाम् ॥'
१. 'ननु' का 'तु न' ग. २. 'चित्तदाहः' ख. ३. 'पादयमकं क. ४. 'यमक
च भवति । यथा' ख. ५. 'कुतो' ग. ६. "पादादियमकानि' क; 'पादयमकानि'
ग. ७. 'व्याख्यातानि' क. ८. 'नानाविधेन' ख.
- अध्यायः १ सू. ३-६] अलङ्कारनिरूपणम् एवं स्थानान्तरयोगेऽपि द्रष्टव्यः । सजातीयनरन्तर्यादस्य प्रकों भवति । स चायं हरिप्रबोधे दृश्यते । यथा- 'विविधधववना नागगर्धधनानाविविततगगनानाममजानाना। रुरुशशललना नाववन्धु धुनाना मम हि हिततनानाननस्वस्वनाना ॥' अनया च वर्णयमकमालया पदयमकमाला व्याख्याता । भङ्गादुत्कर्षः ॥३॥ उत्कृष्टं खलु यमकं भङ्गाद्भवति । शृङ्खला परिवर्तकचूर्णमिति भङ्गमार्गः॥४॥ एते खलु शृङ्खलादयो यमकभङ्गानां प्रकारा भवन्ति । तन्क्रिमेण व्याचष्टे- वर्णविच्छेदचलनं शृङ्खला ॥५॥ वर्णानां विच्छेदो वर्णविच्छेदः, तस्य चलनं यत्सा शृङ्खला । यथा-कलिकामधुशब्दे कामशब्दविच्छेदे च तस्य चलनम् ; लि-मवर्णयोर्विच्छेदात् । सङ्गविनिवृत्तौ स्वरूपापत्तिः परिवर्तकः ॥६॥ अन्यवर्णसंसर्गः सङ्गः, तद्विनिवृत्तौ वरूपस्यान्यवर्णतिरस्कृतस्यापत्तिः प्राप्तिः परिवर्तकः । यथा-- 'कलिकामधु गर्हितम् ।' इति । अत्र 'अर्हितम्' इति पदं गकारस्य व्यञ्जनस्य सङ्गात् गर्हितम्' इत्यन्यस्य रूपमापन्नम् । तत्र व्यञ्जनसङ्गे विनिवृत्त स्वरूपमापद्यते- १. 'च' क-ग-पुस्तकयोनास्ति. २. 'तन' ग. ३. "वर्णविच्छेदः' ख-पुस्तके नास्ति. ४. 'कलिकामधुक् शब्दे' ग. ५. 'मधुशद' क; 'काशब्दे शुशब्दे' ग. ६. 'शब्दयोः' क-ग. ७. निवृत्ता' ख. ८. 'मरूपम्य' ख. ९. व्यजनस्य गका- रस्य सझे क.
४ काव्यालंकारसूत्राणि [अधिक० ४ अर्हितमिति । अन्यवर्णसंक्रमेण भिन्नरूपस्य पदस्य ताद्रूप्यविधिरयमिति तात्पर्यार्थः । एतेनेतरावपि व्याख्यातौ । पिण्डाक्षरभेदे स्वरूपलोपचूर्णम् ॥ ७॥ पिण्डाक्षरभेदे सति पदस्य स्वरूपलोपश्चूर्णम् । यथा- 'योऽचलकुलमवति चलं दूरसमुन्मुक्तशुक्तिमीनां कान्तः । साग्नि बिभर्ति च सलिलं दूरसमुन्मुक्तशुक्तिमीनाकान्तः ॥' अत्र 'शुक्ति'पदे 'क्ति'इति पिण्डाक्षरम् । तस्य भेदे शुक्तिपदं लुप्यते । ककार-तिकारयोरन्यत्र संक्रमात् । दूरसमुन्मुक्तशुक् अचल- कुलम् , तिमीनां कान्तः समुद्रः । अत्र श्लोकाः- अखण्डवर्णविन्यासचलनं शृङ्खला मता । अनेन खलु भङ्गेन यमकानां विचित्रता || यदन्यसङ्गमुत्सृज्य नेपथ्यमिव नर्तकः । शब्दस्वरूपमारोहेत् स ज्ञेयः परिवर्तकः ।। पिण्डाक्षरस्य भेदेन पूर्वापरपैंदाश्रयात् । वर्णयोः पदलोपो यः स भङ्गश्चूर्णसंज्ञकः ।। अप्राप्तचूर्णभङ्गानि यथास्थानस्थितान्यपि । अलकानीव नात्यर्थं यमकानि चकासति ।। विभक्तिपरिणामेन यत्र भेङ्गः क्वचिद्भवेत् । न तदिच्छन्ति यमकं यमकोत्कर्षकोविदाः ।। आरूढं भूयसा यत्तु पदं यमकभूमिकाम् । दूष्येच्चन्न पुनस्तस्य युक्तानुप्रासकल्पना ।। १. 'अयं ख-पुस्तके नास्ति. २. "पिण्डाक्षरस्य' क. ३. 'साग्निं' ख. ४. 'समा- श्रयात् क. ५. 'भेदः' कग. ६. 'प्रायो यमककोविदाः ख.
अध्यायः १ सू. ७-१०] अलङ्कारनिरूपणम् - विभक्तीनां विभक्तत्वं संख्यायाः कारकस्य च । आवृत्तिः सुप्तिङन्तानां मिथश्च यमकाद्भुतम् ।। शेषः सरूपोऽनुप्रासः ॥८॥ पदमेकार्थमनेकार्थं च स्थानानियतं तद्विधमक्षरं च शेषः । सरूपोऽन्येन प्रयुक्तेन तुल्यरूपोऽनुप्रासः । ननु च 'शेषोऽनुप्रासः' इत्येतावदेव सुत्रं करमान्न कृतम् ? आवृत्तिशेषोऽनुप्रास इत्येव हि व्याख्यास्यते । सत्यम् । सिध्यत्येवावृत्तिशेषे, किं त्वव्याप्तिप्रसङ्गः । विशेषार्थं च सरूपग्रहणम् । कात्स्येनैवावृत्तिः, कात्स्यैकदेशाभ्यां तु सारूप्यमिति । अनुल्बणो वर्णानुप्रासः श्रेयान् ॥ ९ ॥ यो वर्णानामनुप्रासः स खल्वनुल्बणोऽपीनः श्रेयान् । यथा- 'क्वचिन्मसृणमांसलं क्वचिदतीव तारास्पदं प्रसन्नसुभगं मुहुः स्वरतरङ्गलीलाङ्कितम् । इदं हि तव वल्लकीरणितनिर्गमैर्गुम्फितं मनो मदयतीव मे किमपि साधुसंगीतकम् ॥' उल्बणस्तु न श्रेयान् । यथा--- 'वल्लीबद्धो जूटोटमटति रटत्कोटिकोदण्डदण्डः' इति । पादानुप्रासः पादयमकवत् ॥ १० ॥ ये पादयमकस्य भेदास्ते पादानुप्रासस्येत्यर्थः । तेषामुदाहरणानि यथा- 'कविराजमविज्ञाय कुतः काव्यक्रियाऽऽदरः । कविराजं च विज्ञाय कुतः काव्यक्रियादरः ॥' 'आखण्डयन्ति मुहुरामलकीफलानि बालानि बालकपिलोचनपिङ्गलानि ।' 'वस्त्रायन्ते नदीनां सितकुसुमधराः श्रीशसंकाश! काशाः काशाभा भान्ति तासां नवपुलिनगताः श्रीनदीहंस! हंसाः । १. 'इत्थं ग. २. 'शेषस्वरूपो' क-ग. ३. 'अस्थानानियमेन' ख. ४. 'च' ख-पुस्तके नास्ति. ५. 'विशेषे' ग. ६. 'च' ख. ७. 'लीन इव' ग.
काव्यालंकारसूत्राणि [अधिक०४ हंसाभाम्भोदमुक्तः स्फुरदमलरुचिर्मेदिनीचन्द्र ! चन्द्र- श्चन्द्राङ्कः शारदस्ते जयकृदुपनतो विद्विषां काल ! कालः ॥' 'कुवलयदलश्यामा मेघा विहाय दिवं गताः कुवलयदलश्यामो निद्रां विमुञ्चति केशवः । कुवलयदलश्यामा श्यामालताद्य विज़म्भते कुवलयदलश्यामं चन्द्रो नभः प्रैविगाहते ॥' एवमन्येऽपि भेदा द्रष्टव्याः। इति काव्यालंकारसूत्रवृत्तावालंकारिके चतुर्थेऽधिकरणे प्रथमोऽध्यायः । द्वितीयोऽध्यायः। संप्रत्यर्थालंकाराणां प्रस्तावः, तन्मूलं चोपमेति सैव विचार्यते- उपमानेनोपमेयस्य गुणलेशतः साम्यमुपमा ॥१॥ उपमीयते सादृश्यमानीयते येनोत्कृष्टगुणेनान्यत्तदुपमानम् । यदुप- मीयते न्यूनगुणं तदुपमेयम् । उपमानेनोपमेयस्य गुणलेशतः साम्यं यद- सावुपमेति । नॅनूपमानमित्युपमेयमिति च संबन्धिशब्दावेतौ; तयोरेकत- रोपादानेनैवान्यतरसिद्धिः । यथा--'उपमितं व्याघ्रादिभिः सामान्या- प्रयोगे' (पा. २।१।५६) इत्यत्रोपमितग्रहणमेव कृतं, नोपमानग्रहणमिति; तद्वदनोभयग्रहणं न कर्तव्यम् ,-सत्यम् । तत्कृतं लोकप्रसिद्धिपरिग्रहा- र्थम् । यदेवोपमेयमुपमानं च लोकप्रसिद्धं तदेव परिगृह्यते, नेतरत् । नहि यथा 'मुख कमलमिव' इति, तथा 'कुमुदमिव' इत्यपि भवति । १. 'वपुः' क. २. 'उपगतो' क. ३. 'प्रतिगाहते' क. ४. 'भेदा' ख-पुस्तके नास्ति. ५. 'उपमानोपमेयस्य गुणशालिनः साम्यमुपमा क. ६. 'अन्यस्य यत्त- दुप' ख. ७. 'यन्यून' क-ख. ८. 'ननु चोप' ख. ९. 'पादानेन चान्य' ख. १०. 'सामान्यप्र' क-ख. ११. 'कर्तव्यमिति' ख. १२. 'तत्कथं' क. १३. 'अपि' ख-पुस्तके नास्ति. १४. ग-पुस्तके भवतीत्यस्मादरे 'अथवा लौकिक्याश्च कल्पिताया उपमाया ग्रहणं मा विजानीहि एतदर्थमुभयग्रहणम्' इत्यधिकमस्ति.
- अध्यायः २ सू. १-३] उपमानिरूपणम् गुणबाहुल्यतश्च कल्पिता ॥२॥ गुणानां बाहुल्यं गुणबाहुल्यम् , तत उपमानोपमेययोः साम्यात्क- स्पितोपमा । कविभिः कल्पितत्वात् कल्पिता । पूर्वा तु लौकिकी । ननु कल्पिताया लोकप्रसिद्ध्यभावात्कथमुपमानोपमेयनियमः ? गुणबाहुल्यस्यो- त्कर्षापकर्षकल्पनाभ्याम् । तद्यथा- 'उद्गर्भहूणतरुणीरमणोपमर्द- अग्नोन्नतिस्तननिवेशनिभं हिमांशोः । विम्ब कठोरबिसकाण्डकडारगौरै- विष्णोः पदं प्रथममग्रकरैय॑नक्ति ॥' 'सधोमुण्डितमत्तहूणचिबुकप्रस्पर्धि नारङ्गकम् ।' 'अभिनवॉशसूचिस्पर्धि कर्णे शिरीषम्' । 'इदानी प्लक्षाणां जरठदलविश्लेषचतुर- स्तिभीनामाबद्धस्फुरितशुकचनूपुटनिभम् । ततः स्त्रीणां हन्त क्षममधरकान्ति तुलयितुं समन्तानियोति स्फुटसुभगराग किसलयम् ॥' तद्वैविध्यम् , पदवाक्यार्थवृत्तिभेदात् ॥ ३॥ तस्या उपमाया द्वैविध्यम् , पदवाक्यार्थवृत्तिमेदात् । एका पदार्थ- वृत्तिः, अन्या वाक्यार्थवृत्तिरिति । पदार्थवृत्तिर्यथा- 'हरितनुषु बभ्रुत्वग्विमुक्तासु यासां कनककणसधर्मा मान्मथो रोममेदः।' वाक्यार्थवृत्तिर्यथा (रघु. ६।६०)- 'पाण्ड्योऽयमंसार्पितलम्बहारः क्लुप्ताङ्गरागो हरिचन्दनेन । आभाति बालातपरक्तसानुः सनिझरोदार इवाद्विराजः ॥' १. ख-पुस्तके नन्वित्यादि कल्पनाभ्यामित्यन्तं कोष्ठकान्तः स्थापितमस्ति. २. 'भग्नोन्नति' क-ग. ३. 'कुसुमस्पर्षि' ग. ४. 'चतुरशिखानामाबंधः स्फुरति' क 'चतुरस्विभीनामावद्धस्फुरति' ग. ५. 'उद्भाति' ख. ६. 'कनककलशधर्मा' ग. ४ काव्या० ५० काव्यालंकारसूत्राणि [अधिक०४ सा पूणा लुप्ता च ॥४॥ सा उपमा पूर्णा लुप्ता च भवति । गुणद्योतकोपमानोपमेयशब्दानां सामग्र्ये पूर्णा ॥५॥ मुणादिशब्दानां सामग्र्ये साकल्ये पूर्णा । यथा- 'कमलमिव मुखं मनोज्ञमेतत्' इति । लोपे लुप्ता ॥६॥ गुणादिशब्दानां लोपे वैकल्ये लुप्ता। गुणशब्दलोपे यथा---'शशीव राजा' इति । द्योतकशब्दलोपे यथा-'दूर्वाश्यामेयम्' इति । उभयलोपे यथा--'शशिमुखी' इति । उपमानोपमेयलोपस्तुपमाप्रपञ्चे द्रष्टव्यः। स्तुतिनिन्दातत्त्वाख्यानेषु ॥ ७ ॥ स्तुतौ निन्दायां तत्त्वाख्याने चास्याः प्रयोगः। स्तुति-निन्दयोर्यथा- 'स्निग्धं भवत्यमृतकल्पमहो कलत्रं हालाहलं विषमिवापगुणं तदेव ।' तत्त्वाख्याने यथा- 'तां रोहिणीं विजानीहि ज्योतिषामत्र मण्डले । यस्तन्धि ! तारकान्यासः शकटाकारमाश्रितः॥' हीनत्वाधिकत्वलिङ्गवचनभेदासादृश्यासंभवास्तदोषाः ॥८॥ १. समयशब्द ख. २. 'उपमानोपमेयशब्द' ग. ३. 'प्रपञ्च एवं ग. ४. 'निन्दायां च'ख. ५. 'तत्त्वाख्यानेषु' ग. ६. 'निन्दादयो' क. ७. विषमिव प्रगुण' का "विषमिवाप गुणं' ग. - अध्यायः २ सू.४-१०] उपमादोषनिरूपणम् - - तस्या उपमाया दोषा भवन्ति हीनत्वमधिकत्वं लिङ्गभेदो वचन- भेदोऽसादृश्यमसंभव इति । तान्क्रमेण व्याख्यातुमाह जातिप्रमाणधर्मन्यूनतोपमानस्य हीनत्वम् ॥९॥ जात्या प्रमाणेन धर्मेण चोपमानस्य न्यूनता या तद्धीनत्वमिति । जातिन्यूनत्वरूपं हीनत्वं यथा- 'चण्डालैरिव युष्माभिः साहसं परमं कृतम् ।' प्रेमाणन्यूनत्वरूपं हीनत्वं यथा- 'वहिस्फुलिङ्ग इव भानुरयं चैकास्ति ।' उपमेयादुपमानस्य धर्मतो न्यूनत्वं यत्तद्धर्मन्यूनत्वम् । तद्रूपं हीनत्वं यथा- 'स मुनिान्छितो मौज्या कृष्णाजिनपटं वहन् । ध्यराजनीळजीमूतभागाश्लिष्ट इवांशुमान् ॥' अत्र मौजीप्रतिवस्तु तडिन्नास्त्युपमान इति हीनत्वम् । न च कृष्णा- जिनपटमात्रस्योपमेयत्वं युक्तम् , मोठ्या व्यर्थत्वप्रसङ्गात् । ननु नील- जीमूतग्रहणेनैव तडित् प्रतिपाद्यते,-तन्न; व्यभिचारात् । अव्यभिचारे तु #वन्ती प्रतिपत्तिः केन वार्यते ? । तदाह- धर्मयोरेकनिर्देशेऽन्यस्य संवित्, साहचर्यात् ॥१०॥ धर्मयोरेकस्यापि धर्मस्य निर्देशेऽन्यधर्मस्य संवित् प्रतिपत्तिर्भवति । १. 'धर्मतो' ग. २. 'प्रमाणन्यूनत्वं तद्रूपहीनत्वं' क. ३. 'विभाति' ग. ४. 'यत्' ख-पुस्तके नास्ति. ५. 'व्यरोचत्' ख. ६. 'उपमान' ख. ७. 'संभवन्ती' ख. ८. 'विचार्यते' क. ९. 'अन्यस्य' ग. टिप्प--1 'अत्र चण्डालत्वजातेन्यूनतया दुष्कर्मकारिस्वध्यक्तेरनुचितार्थ- त्वम्' इति प्रदीप उत्तम् । 2 इदं नारदमुनिवर्णनम् ; मौझ्या मुख्यतृण- निर्मितमेखलयेत्यर्थः। ?
- काव्यालंकारसूत्राणि [अधिक०४ कुतः ?, साहचर्यात् । सहचरितत्वेन प्रसिद्धयोरवश्यमेकस्य निर्देशेऽन्यस्य प्रतिपत्तिभवति । तद्यथा- 'निर्वृष्टेऽपि बहिर्घने न विरमन्त्यन्तर्जरद्वेश्मनो लूतातन्तुततिच्छिदो मधुपृषत्पिङ्गाः पयोबिन्दवः । चूडाबर्बरके निपत्य कणिकाभावेन जाताः शिशो- रङ्गास्फालनभन्ननिद्रगृहिणीचित्तव्यथादायिनः ॥' अत्र मधुपृषतां वृत्तत्वपिङ्गत्वे सहचरिते। तत्र 'पिङ्ग'शब्देन पिङ्गत्वे प्रतिपन्ने वृत्तत्वप्रैतिपत्तिर्भवति । एतेन 'कनकफलकचतुरस्र श्रोणिबिम्बम्' इति व्याख्यातम् । अत्र कनकफलकस्य गौरत्वचतुरस्रत्वयोः साहचर्याच्च- तुरसत्वश्रुत्यैव गौरत्वप्रतिपत्तिरिति । ननु च यदि धर्मन्यूनत्वमुपमानस्य दोषः, कथमयं प्रयोगः- 'सूर्याशुसंमीलितलोचनेषु दीनेषु पद्मानिलनिर्मदेषु । साध्व्यः स्वगेहेष्विव भर्तृहीनाः केका विनेशुः शिखिनां मुखेषु ॥' इति ?। अत्र बहुत्वमुपमेयधर्माणामुंपमानात्,-न; विशिष्टानामेव मुखाना- मुँपमेयत्वात् , तादृशेष्वेव केका विनाशस्य संभवात् । तेनाधिकत्वं व्याख्यातम् ॥ ११ ॥ तेन हीनत्वेनाधिकत्वं व्याख्यातम्-जातिप्रमाणधर्माधिक्यमधिकत्वm- मिति । - जात्याधिक्यरूपमधिकत्वं यथा- 'विशन्तु विष्टयः शीघ्रं रुद्रा इव महौजसः ।' १. 'भवति' क-ख-पुस्तकयो स्ति. २. 'रङ्काच्छादन' क. ३. 'प्रतीतिः' क. ४. 'दिनेषु' ख. ५. 'निर्मलेघु खः 'नर्मदेषु' क. ग. ६. 'उपमानतः' ख. ७. 'उपमेयत्वम्' क. ८. 'वृष्णयः' क-ख.
अध्यायः २ सू. ११-१४] उपमादोषनिर्धारणम् - प्रमाणाधिक्यरूपं यथा- 'पोतालमिव ते नाभिस्ते स्तनौ क्षितिधरोपमौ । वेणीदण्डः पुनरयं कालिन्दीपातसंनिभः ॥' धर्माधिक्यरूपं यथा- 'सरश्मि चञ्चलं चक्रं दधद्देवो व्यराजत । सवाडवाग्निः सावर्तः स्रोतसामिव नायकः ॥' 'सवाडवाग्निः' इत्यस्य प्रतिवस्तुन उपमेये ऽभावाद्धर्माधिक्यमिति । अनयोर्दोषयोर्विपर्ययाख्यस्य दोषस्यान्तर्भावान्न पृथगुपादानम् । अत एवास्माकं मते षडदोषा इति । उपमानोपमेययोर्लिङ्गव्यत्यासो लिङ्गभेदः॥१२॥ उपमानस्योपमेयस्य च लिङ्गयोय॑त्यासो विपर्ययो लिङ्गभेदः । यथा- 'सैन्यानि नद्य इव जग्मुरनर्गलानि ।' इष्टः पुंनपुंसकयोः प्रायेण ॥ १३ ॥ पुंनपुंसकयोरुपमानोपमेययोर्लिङ्गभेदः प्रायेण बाहुल्येनेष्टः । यथा-'चन्द्रमिव मुखं पश्यति' इति, 'इन्दुरिव मुखं भाति' इत्येवं- प्रायं तु नेच्छन्ति । लौकिक्यां समासाभिहितायामुपमाप्रपञ्चे च ॥१४॥ लौकिक्यामुपमायां समासाभिहितायामुपमायामुपमाप्रपञ्चे चेष्टो लिङ्गभेदः प्रायेणेति । लौकिक्यां यथा- 'छायेव स तस्याः' 'पुरुष इव स्त्री' इति । १. 'उपमेयत्वाभावात्' ख; 'उपमेयाभावात्' ग. २. 'एवंप्रायं क. ३. 'उप- मायां क-पुस्तके नास्ति. ४. 'इवास्तीति' ग टिप्प०-1 अन प्रमाणतोऽप्युपमानाधिक्यम् । - काव्यालंकारसूत्राणि [अधिक० ४ - - समासाभिहितायां यथा- 'भुजलता नीलोत्पलसहशी' इति । उपमाप्रपञ्चे यथा- 'शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य । दूरीकृताः खलु गुणैरुयानलता वनलताभिः ॥' एवमन्यदपि प्रयोगजातं द्रष्टव्यम् । तेने वचनभेदो व्याख्यातः ॥१५॥ तेन लिङ्गभेदेन वचनभेदो व्याख्यातः । यथा- 'पास्यामि लोचने तस्याः पुष्पं पुष्पलिहो यथा।' अप्रतीतगुणसादृश्यमसादृश्यम् ॥ १६ ॥ अप्रतीतैरेव गुणैर्यत्सादृश्यं तदप्रतीतगुणसादृश्यमसादृश्यम् । यथा- 'अथ्नामि काव्यशशिनं विततार्थरश्मिम् ।' काव्यस्य शशिना सह यत्सादृश्यं तदप्रतीतैरेव गुणरिति । ननु चार्थानां रश्मितुल्यत्वे सति काव्यस्य शशितु यत्वं भविष्यति,- मैव॑म् ; काव्यस्य शशितुल्यत्वे सिद्धेऽर्थानां रश्मितुल्यत्वं सिद्ध्यति। नाप्यर्थानां रश्मीनां च कश्चित्सादृश्यहेतुः प्रतीतो गुणोऽस्ति । तदेव- मितरेतराश्रयदोषो दुरुत्तर इति । असादृश्यहता ह्युपमा, तनिष्ठाश्च कवयः ॥१७॥ असादृश्येन हता असादृश्यहता उपमा, तन्निष्ठा उपमाननिष्ठाश्च कवय इति । उपमानाधिक्यातदपोह इत्येके ॥१८॥ उपमानाधिक्यात् तस्यासादृश्यस्यापोह इत्येके मन्यन्ते । यथा- १. 'नीलोत्पलसदृश' का 'नीलोत्पलं दृश्यते' ग. २. 'एतेन' ग. ३. 'तुख्यत्वे सिद्धे' क. ४. 'नैवम्' क. ५. 'उपमानानामाधि' क. vey अध्यायः २ सू. १५-२१] उपमादोषनिरूपणम् 'कर्पूरहारहरहाससितं यशस्ते।' इति । अत्र कर्पूरादिभिरुपमानैर्बहुभिर्यशसः सादृश्यं 'सुस्थापितं भवति, तेषां शुक्लगुणातिरेकात् । न, अपुष्टार्थत्वात् ॥१९॥ उपमानाधिक्यात्तदपोह इति यदुक्तं,-तन्न; अपुष्टार्थत्वात् । एकस्मि- नुपमाने प्रयुक्ते उपमानान्तरप्रयोगो न कंचिदर्थविशेषं पुष्णाति । एतेन 'बलसिन्धुः सिन्धुरिव क्षुभितः' इति प्रयुक्तम् । ननु 'सिन्धु'शब्दस्य द्विः प्रयोगात्पौनरुक्त्यम् ,-न; अर्थविशेषात् । बलं सिन्धुरिव वैपुल्या- द्वलसिन्धुः सिन्धुरिव क्षुभित इति क्षोभसारूप्यात् । तस्मादर्थमेदान्न पौनरुक्त्यम् । अर्थपुष्टिस्तु नास्ति । सिन्धुरिव क्षुभित इत्यनेनैव वैपुल्यं प्रतिपत्स्यते । उक्तं हि (४।२।१०)-'धर्मयोरेकनिर्देशेऽन्यस्य संवित्, साहचर्यात् ।' इति । अनुपपत्तिरसंभवः ॥ २०॥ अनुपपत्तिरनुपपन्नत्वमुपमानस्यासंभवः । यथा- 'चकास्ति वदने तस्याः सितच्छाया विकासिनः । उन्निद्रस्यारविन्दस्य मध्ये मुग्धेव चन्द्रिका ॥' चन्द्रिकायामुन्निद्रत्वमरविन्दस्येत्यनुपपत्तिः । नन्वर्थविरोधोऽयमस्तु, किमुपमादोषकैल्पनया ? न; उपमायामतिशयस्यैष्टत्वात् । कथं तर्हि दोष इत्यत आह- न विरुद्धोऽतिशयः ॥ २१ ॥ ? १. संस्थापितं' ख. २. 'इत्युक्तं' क. ३. 'उपमानानन्तर' ख. ४. 'प्रयाग- त्वात्' ख. ५. 'क्षोभसारूप्यात्' क. ६. 'अर्थविशेषात्पुष्टिस्तु' ग. ७. 'इति वैपु- स्यम्' क-ग. ८. 'विकासिनि ख.क. ९. 'विकल्पनया' क. १०. 'इष्टार्थत्वात् ख.
५६ काव्यालंकारसूत्राणि [अधिक०४ विरुद्धस्यातिशयस्य संग्रहो न कर्तव्य इत्यस्य सूत्रस्य तात्पर्याथैः । तानेतान्पंड्डपमादोषान् ज्ञात्वा कविः परित्यजेत् । इति काव्यालंकारसूत्रवृत्तावालंकारिके चतुर्थेऽधिक रणे द्वितीयोऽध्यायः । - - तृतीयोऽध्यायः। संप्रत्युपमाप्रपञ्चो विचार्यते,-कः पुनरसावित्याहः प्रतिवस्तुप्रभृतिरुपमाप्रपञ्चः ॥१॥ प्रतिवस्तु प्रभृतिर्यस्य स प्रतिवस्तुप्रभृतिः । उपमाया: प्रपञ्च उप- माप्रपञ्च इति । वाक्यार्थोपमायाः प्रतिवस्तुनो भेदं दर्शयितुमाह- उपमेयस्योक्तौ समानवस्तुन्यासः प्रतिवस्तु ॥२॥ समानं वस्तु वाक्यार्थः, तस्य न्यासः समानवस्तुन्यासः । उपमेय- स्यार्थाद्वाक्यार्थस्योक्तौ सत्यामिति । अत्र द्वौ वाक्यार्थी; एको वाक्या- र्थोपमायां इति भेदः । तद्यथा (रत्ना..)- 'देवीभावं गमिता परिवारपदं कथं भजत्येषा। न खलु परिभोगयोग्यं दैवतरूपाङ्कितं रैनम् ॥' प्रतिवस्तुनः समासोक्तेर्भेदं दर्शयितुमाह- अनुक्तौ समासोक्तिः ॥३॥ उपमेयस्यानुक्तौ समानवस्तुन्यासः समासोक्तिः। संक्षेपवचनात्समा- सोक्तिरित्याख्या । यथा- 'श्लाघ्या ध्वस्ताध्वगग्लानेः करीरस्य मरौ स्थितिः ॥ धिङमेरौ कल्पवृक्षाणामव्युत्पन्नार्थिनां श्रियः ॥' १. 'षड्दोषानुपमायाः' ख. २. 'उपमाकथनम्' ग. ३. 'इति' क-ख-पुस्तक- यो स्ति. ४. 'यस्येति' ख. ५. 'वाक्यार्थोपमयोरिति' क; 'वाक्यार्थः प्रतिवस्तूप- मायामिति' ख. ६. 'भजत्वेषा' ग. ७. 'रत्नम्' इत्यस्मादनन्तरं क-पुस्तके 'अत्रैको वाक्यार्थः' इत्यधिकमस्ति. ८. 'उपमानस्य' ख. - - - अध्यायः ३ सू. १-६] उपमाप्रपश्चनम् समासोक्तरप्रस्तुतप्रशंसाया भेदं दर्शयितुमाह- किंचिदुक्तावप्रस्तुतप्रशंसा ॥ ४ ॥ उपमेयस्य किंचिल्लिङ्गमात्रेणोक्तौ समानवस्तुन्यासोऽप्रस्तुतप्रशंसा । यथा-- 'लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह संप्लवन्ते । उन्मज्जति द्विरदकुम्भतटी च यत्र यत्रापरे कदलिकाण्डमृणालदण्डाः ॥' अप्रस्तुतस्यार्थस्य प्रशंसनमप्रस्तुतप्रशंसा । अपह्नुतिरपि ततो भिन्नति दर्शयितुमाह- समेन वस्तुनान्यापलापोऽपह्नुतिः ॥ ५॥ समेन तुल्येन वस्तुना वाक्यार्थेनान्यस्य वाक्यार्थस्यापलापो निह्नवो यस्तत्त्वाध्यारोपणायासावपद्भुतिः । यथा- 'न केतकीनां विसलन्ति सूचयः प्रवासिनो हन्त हसत्ययं विधिः। तडिल्लतेयं न चकास्ति चञ्चला पुरः स्मरज्योतिरिदं विवर्तते ॥' वाक्यार्थयोस्तात्पर्याचांद्रूप्यमिति न रूपकम् । रूपकं तु कीदृशमित्याह- उपमानेनोपमेयस्य गुणसाम्यात्तत्त्वारोपो रूपकम् ॥६॥ उपमानेनोपमेयस्य गुणसाम्यात्तत्त्वस्याभेदस्यारोपणमारोपो रूपकम् । उपमानोपमेययोरुभयोरपि ग्रहणं लौकिक्याः कल्पितायाश्चोपमायाः प्रकृतित्वमत्र यथा विज्ञायतेति । यथा ( उत्त. राम. १।३९)- १. 'काचनेयं ख. २. 'यत्रोत्पलानि राशिना सह इति, द्विरदकुंभतटी च यत्र इति यत्रापरे इति चाप्रस्तुतस्य' ख. ३. 'यस्तस्याध्यारोपणासा' ख; 'यस्तत्वापरो- पेणासा' ग. ४. 'प्रवर्तते' ख. ५. 'रूपकं दर्शयितुमाह' ग. ६. विज्ञायत इति' ख.
काव्यालंकारसूत्राणि [अधिक० ४ 'इयं गेहे लक्ष्मीरियममृतवर्तिनयनयो- रसावस्याः स्पों वपुषि बहलश्चन्दनरसः । अयं कण्ठे बाहुः शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥' मुखचन्द्रादीनां तूपमा समासात् न रूपकत्वं युक्तमिति । रूपकाच्छ्रेषस्य भेदं दर्शयितुमाह-- स धर्मेषु तत्रप्रयोगे श्लेषः ॥७॥ उपमानेनोपमेयस्य धर्मेषु गुणक्रियाशब्दरूपेषु से तत्त्वाध्यारोपस्तव- प्रयोगे तन्त्रेणोच्चारणे सति श्लेषः । यथा- 'आकृष्टामलमण्डलाग्ररुचयः संनद्धवक्षःस्थलाः सोष्माणो व्रणिनो विपक्षहृदयमोन्माथिनः कर्कशाः। उद्वृत्ता गुरवश्च यस्य वशिनः श्यामायमानानना योधा मारवधूस्तनाश्च न द॑धुः क्षोभ स वोऽव्याजिनः ॥' यथा च गौणस्यार्थस्यालंकारत्वं तथा लाक्षणिकस्यापीति दर्शयितु- माह सादृश्याल्लक्षणा वक्रोक्तिः॥८॥ बहूनि हि निवन्धनानि लक्षणायाम् । तत्र सादृश्याल्लक्षणा वक्रो- क्तिरिति । यथा- 'उन्मिमील कमल सरसीना कैरवं च निमिमील मुहूर्तात् ।' अत्र नेत्रधर्मावुन्मीलननिमीलने सादृश्याद्विकाससंकोचौ लक्षयतः । 'इह च निरन्तरनवमुकुलपुलकिता हरति माधवी हृदयम् । मदयति च केसराणां परिणतमधुगन्धि निःश्वसितम् ॥ - - १. 'वल्लि' क. २. 'न तत्त्वा' ख. ३. 'वारवधू' ख. ४. 'ददुः क. ५. 'हि' क-पुस्तके नास्ति. ६. 'लक्षणायाः' क. ७. 'सादृश्याद्या' ग.
अध्यायः ३ सू. ७-९] रूपक-वक्रोक्तिभ्यामुत्प्रेक्षाया भेदः अत्र च निःश्वसितमिति परिमलनिर्गमं लक्षयति । 'संस्थानेन स्फुरतु सुभगः स्वर्चिषा चुम्बतु द्याम् ।' 'आलस्यमालिङ्गति गात्रमस्याः ।' 'परिम्लानच्छायामनुवदति दृष्टिः कमलिनीम् ।' 'प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । 'ऊरुद्वन्द्वं तरुणकदलीकाण्डसब्रह्मचारि ।' इत्येवमादिषु लक्षणार्थो निरूप्यत इति लक्षणाया झटित्यर्थप्रतिपत्ति- क्षमत्वं रहस्यमाचक्षत इति । असादृश्यनिबन्धना तु लक्षणा न वक्रोक्तिः । यथा- 'जरठकमलकन्दच्छेदगौरैमयूखैः ।' अत्र च्छेदः सामीप्याद्रव्यं लक्षयति; तस्यैव गौरत्वोपपत्तेः । रूपकवक्रोक्तिभ्यामुत्प्रेक्षाया भेदं दर्शयितुमाह- अतद्रूपस्यान्यथाध्यवसानमतिशयार्थमुत्प्रेक्षा ॥९॥ अतद्रूपस्यातत्स्वभावस्य, अन्यथा तत्स्वभावतयाऽध्यवसानमध्यवसायः, न पुनरध्यारोपो लक्षणा वा । अतिशयार्थमिति भ्रान्तिज्ञाननिवृत्त्यर्थम् । सादृश्यादियमुत्प्रेक्षेति । एनां चेवादिशब्दा द्योतयन्ति । यथा--- 'स वः पायादिन्दुर्नवबिसलताकोटिकुटिल: सरारेर्यो मूर्ध्नि ज्वलनकपिशे भाति निहितः । सवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा कपालेनोन्मुक्तः स्फटिकवलेनाकुर इव ॥' १. 'खाचिषा' क. २. 'चुम्बितुं' ख. ३. 'इति' क-पुस्तके नास्ति. ४. 'तु' ख-पुस्तके नास्ति. ५. 'साम्यात्' ग. ६. 'उत्प्रेक्षायां' क. ७. 'इति च ख. ८. 'चेवादिशब्दो द्योतयति' क-ग. .. ma- काव्यालंकारसूत्राणि [अधिक० ४ . उत्प्रेक्षवातिशयोक्तिरिति केचित् , तन्निरासार्थमाह- संभाव्यधर्मतदुत्कर्षकल्पनातिशयोक्तिः॥ १० ॥ संभाव्यस्य धर्मस्य तदुत्कर्षस्य च कल्पनाऽतिशयोक्तिः । यथा- 'उभौ यदि व्योनि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् । तेनोपैमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः॥' यथा वा- 'मलयजरसविलियतनवो नवहारलताविभूषिताः सिततरदन्तपत्रकृतवक्ररुचो रुचिरामलांशुकाः । शशभृति विततधान्नि धवलयति धरामविभाव्यतां गताः प्रियवसतिं प्रयान्ति सुखमेव निरस्तभियोऽभिसारिकाः ॥' यथा भ्रान्तिज्ञानस्वरूपोत्प्रेक्षा तथा संशयज्ञानस्वरूपः संदेहोऽपीति दर्शयितुमाह उपमानोपमेयसंशयः संदेहः ॥ ११ ॥ उपमानोपमेययोरतिशयार्थं यः क्रियते संशयः स संदेहः । यथा- 'इदं कर्णोत्पलं चक्षुरिदं वेति विलासिनि । न निश्चिनोति हृदयं किंतु दोलायते मनः ॥' संदेहवद्विरोधोऽपि प्राप्तावसर इत्याह--- विरुद्धाभासत्वं विरोधः ॥ १२ ॥ अर्थस्य विरुद्धस्येवाभासत्वं विरुद्धाभासत्वं विरोधः । यथा- 'पीतं पानमिदं त्वयाद्य दयिते ! मत्तं ममेदं मनः पन्नाली तव कुङ्कुमेन रचिता रक्ता वयं मानिनि !। १. 'धर्मस्य' ख. २. 'संभावस्य ख. ३.'तदा' ख. ४. 'चेति' ख. ५. 'मम' का 'मम' ग. ६. 'विरोधाभासत्वं' ग. ७. 'आभासनं क. ८. 'विरोधः' ख. - पुस्तके नास्ति. टिप्प-1 भन्न प्रस्तुताप्रस्तुतयोरभिसारिकाचन्द्रयोवक्षिकशुक्लगुण- साम्येनेकात्म्यवर्णनात् सामान्यालंकार इत्यन्ये।
अध्यायः ३ सू. १०-१५] विरोधाद्विभावनाया भेदः १ -- त्वं तुङ्गस्तनभारमन्थरगतिर्मानेषु मे वेपथु- स्त्वन्मध्ये तनुता ममातिरहो प्रेम्णो' विचित्रा गतिः ॥' यथा वा( अमरु. ३४)- 'सा बाला वयमप्रगल्भवचसः सा स्त्री वयं कातराः सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् । साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥ विरोधाद्विभावनाया भेदं दर्शयितुमाह- क्रियाप्रतिषेधे प्रसिद्धतत्फैलव्यक्तिर्विभावना ॥ १३ ॥ क्रियायाः प्रतिषेधे तस्या एव क्रियायाः फलस्य प्रसिद्धस्य व्यक्ति- विभावना । यथा- 'अप्यसज्जनसांगत्ये न वसत्येव वैकृतम् । अक्षालितविशुद्धपु हृदयेषु मनीषिणाम् ॥' विरोधप्रसङ्गेनानन्वयं दर्शयितुमाह- एकस्योपमेयत्वोपमानत्वेऽनन्वयः ॥ १४ ॥ एकस्यैवार्थस्योपमेयत्वमुपमानत्वं चानन्वयः । यथा (हनु. ना. १४।१८)- गंगन गगनाकारं सागरः सागरोपमः । रामरावणयोयुद्धं रामरावणयोरिव ॥' अनन्यसादृश्यमेतेन प्रतिपादितम् । क्रमेणोपमेयोपमा ॥ १५॥ १. 'मारस्य चित्रा' ख. ग. २. 'यथा वा' ग-पुस्तके नास्ति. ३. अयं श्लोकः क-पुस्तके नास्ति. ४. 'मनसः' ख-ग. ५. 'फलस्य' ग. ६. 'सिद्धस्य क. ७. 'यथा' ख-पुस्तके नास्ति. ८. 'उपमानोपमेयत्वे क; 'उपमेयत्वमुपमानत्वं च' म. ९. 'वा' क. १०. ख-पुस्तके पूर्वोत्तरार्धयोयत्ययः; क-पुस्तके तु पूर्वाध नास्ति. ११. 'अन्यासादृश्य' ग. १२. 'प्रतिपद्यते' क-ख. - - काव्यालंकारसूत्राणि [अधिक० ४ एकस्यैवार्थस्योपमेयत्वमुपमानत्वं च क्रमेणोपमेयोपमा । यथा- 'खमिव जलं जलमिव खं हंस इव शशी शैशीव हंसोऽयम् । कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ॥' इयमेव परिवृत्तिरित्येके तन्निरासार्थमाह- समविसदृशाभ्यां परिवर्तनं परिवृत्तिः ॥ १६ ॥ समेन विसदृशेन वाऽर्थेनार्थस्य परिवर्तनं परिवृत्तिः । यथा- 'आदाय कर्णकिसलयमियमस्मै चरणमरुणमर्पयति । उभयोः सदशविनिमयादन्योन्यमवञ्चितं मन्ये ।' यथा वा- 'विहाय सा हारमहानिश्चया विलोलदृष्टिः प्रविलुप्तचन्दना । बबन्ध बालारुणबभ्रु वल्कलं पयोधरोत्सेधविशीर्णसंहति ॥' उपमेयोपमायाः क्रमो भिन्न इति दर्शयितुमाह- उपमेयोपमानानां क्रमसंबन्धः क्रमः॥१७॥ उपमेयानामुपमानानां चोद्देशिनामनुद्देशिनां च क्रमेण संबन्धः क्रमः। यथा- 'तस्याः प्रबन्धलीलाभिरालापस्मितदृष्टिमिः । जीयन्ते वल्लकीकुन्दकुसुमेन्दीवरनजः ॥' क्रमसंबन्धप्रसङ्गेनैव दीपकं दर्शयितुमाह- उपमानोपमेयवाक्येष्वेका क्रिया दीपकम् ॥ १८॥ उपमानवाक्येषूपमेयवाक्येषु चैका क्रिया अनुषङ्गतः संबध्यमाना दीपकम् । - - १. 'एकस्योपमेयत्वे उपमानत्वे क्रमेण क. २. 'शशाङ्क इव हंस क-ग. ३. भन चास्य ग. ४. 'अस्मादनुचरणमर्थयति मेला' क; 'अनादिह करन- मर्पमति बाला' ग, ५, 'यष्टिः' क. ग. ६. 'प्रबुद्ध' क, 'प्रवृद्ध'ख. ५. 'लक्षयितुं क. ८. 'उपमानोपमेयादि' क.
अध्यायः ३ सू. १६-२१] उपमानिरूपणम् ६३ तत्रिविधम् । आदिमध्यान्तवाक्यवृत्तिभेदात् ॥ १९ ॥ तैत्रिविधं भवति । आदिमध्यान्तेषु वाक्येषु वृत्तेर्भेदात् । यथा- 'भूष्यन्ते प्रमदवनानि बालपुष्पैः कामिन्यो मधुमदमांसलैर्विलासैः । ब्रह्माणः श्रुतिगदितैः क्रियाकलापै राजानो विरलितवैरिभिः प्रतापैः ॥' 'बाष्पः पथिककान्तानां जलं जलमुचां मुहुः । विगलत्यधुना दण्डयात्रोद्योगो महीभुजाम् ॥' 'गुरुशुश्रूषया बुद्धिर्मधुगोष्ठ्या मनोभवः । उदयेन शशाङ्कस्य प्रयोराशिविवर्धते ॥' दीपकवन्निदर्शनमपि संक्षिप्तमित्याह- क्रिययैव खतदर्थान्वयख्यापनं निदर्शनम् ।। २० ॥ क्रिययैव शुद्धया स्वस्यात्मनस्तदर्थस्य चान्वयस्य संबन्धस्य ख्यापन संलुलितहेतुदृष्टान्तविभागदर्शनान्निदर्शनम् । यथा- 'अत्युच्चपदाध्यासः पतनायेत्यर्थशालिनां शंसत् । आपाण्डु पतति पत्रं तरोरिदं बन्धनग्रन्थेः ॥ पततीति क्रिया, तस्याः खं पतनम् । तदर्थोऽत्युच्चपदाध्यासः, तयो- रन्वयोऽत्युच्चपदाध्यासः पतनायेति शंसनम् । तस्य ख्यापनमर्थशालिनां शंसदिति। इदं च नार्थान्तरन्यासः; स तु यथाभूतः, तमाह- उक्तसिद्ध्यै वस्तुनोर्थान्तरस्यैव न्यसनमर्थान्तरन्यासः ॥२१॥ उक्तसिथै उक्तस्यार्थस्य सिद्ध्यर्थं वस्तुनो वाक्यार्थान्तरस्यैव न्यसन- मर्थान्तरन्यासः। वस्तुग्रहणात् पदार्थस्य हेतोन्यसनं नार्थान्तरन्यासः । यथा-'इह नातिदृग्गोचरमस्ति सरः, कमलसौगन्ध्यात्' इति । १. 'तत्रैविध्यम्' क. २. 'तनिधा' क. ३. 'वृत्तिभेदात्' क. ४. “पयोधिर- भिवर्धते' क. ५. 'संलुलितहेतु' का 'संबुद्धिहेतु' ख. ६. 'शंसनम्' क-ग-पुस्त- कयो स्ति. ७. 'वाक्यार्थस्यार्थान्तरस्येव' क. ८. 'पदार्थस्य' क. powe ४ - काव्यालंकारसूत्राणि [अधिक० ४ अर्थान्तरस्यैवेति वचनम् , यत्र हेतुर्व्याप्तिगूढत्वात्कथंचित्प्रतीयते तत्र यथा स्यात् । 'यद्यत्कृतकं तत्तदनित्यम्' इत्येवंप्रायेषु मा भूदिति । उदाहरणम् (किरात. ८।३७)- 'प्रियेण संग्रथ्य विपक्षसंनिधावुपाहितां वक्षसि पीवरस्तने । स्त्रजं न काचिद्विजहौ जलाविला वसन्ति हि प्रेम्णि गुणा न वस्तुनि ॥' 'अर्थान्तरन्यासस्य हेतुरूपत्वात् हेतोश्चान्वयव्यतिरेकात्मकत्वात् न पृथग्व्यतिरेकः' इति केचित् , तन्निरासार्थमाह- उपमेयस्य गुणातिरेकित्वं व्यतिरेकः ॥ २२ ॥ उपमेयस्य गुणातिरेकित्वं गुणाधिक्यं यत् अर्थादुपमानात् स व्यति- रेकः । यथा- 'सत्यं हरिणशावाक्ष्याः प्रसन्नसुभगं मुखम् । समानं शशिनः किं तु स कलङ्कविडम्बितः ॥' कश्चित्तु गम्यमानगुणो व्यतिरेकः । यथा--- 'कुवलयवनं प्रत्याख्यातं नवं मधु निन्दितं हसितममृतं भग्नं स्वादोः पदं रससंपदः । विषमुपहितं चिन्ताव्याजान्मनस्यपि कामिनां चतुरमधुरैौलातत्रैस्तवार्धविलोकितैः ॥' व्यतिरेकाद्विशेषोक्तेर्मेदं दर्शयितुमाह- एकगुणहानिकल्पनायां साम्यदाय विशेषोक्तिः ।। २३ ॥ एकस्य गुणस्य हानेः कल्पनायां शेषैर्गुणैः साम्यं यत्तस्य दाय विशे- षोक्तिः । रूपकं चेदं प्रायेणेति । यथा (कुमार. १११०)- १. 'हेतुप्राप्तिगूढत्वात्' क; 'हेतुर्व्याप्तिरूढत्वात्' ख. २. 'तत्रोदाहरणम्' क. ३. 'पीवरस्तनी' क. ४. 'गुणातिरिक्तत्वं यत्' क. ५. 'चतुरललितैलीलातन्त्रः ख, 'चतुरचतुरैर्लीलारम्भैः' ग. ६. 'यत्र तस्य' ख.
- अध्यायः ३ सू. २२-२५] व्याजस्तुतेाजोक्तिभिन्नत्वम् 'भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः।' 'द्यूतं हि नाम पुरुषस्यासिंहासनं राज्यम् ।' (मृच्छ. अं. २) 'ईय ह्यकमला लक्ष्मीः।' 'हस्ती हि जगमं दुर्गम् ।' इति ।' अत्रापि 'जङ्गम'शब्दस्य स्थावरत्वनिवृत्तिप्रतिपादनत्वादेकगुणहानि- कल्पनैव । एतेन- 'वेश्या हि नाम मूर्तिमत्येव निकृतिः।' 'व्यसनं हि नाम सोच्छ्वासं मरणम् ।' 'द्विजो भूमिबृहस्पतिः। इत्येवमादिष्वेकगुणहानिकल्पना व्याख्याता । व्यतिरेकविशेषोक्तिभ्यां व्याजस्तुति भिन्नां दर्शयितुमाह- संभाव्यविशिष्टकर्माकरणानिन्दास्तोत्रार्था व्याजस्तुतिः ॥२४॥ अत्यन्तगुणाधिको विशिष्टः, तस्य च कर्म विशिष्टकर्म, तस्य संभाव्यस्य कर्तुं शक्यस्याकरणान्निन्दा विशिष्टसौम्यसंपादनेन स्तोत्रार्था व्याजस्तुतिः । यथा- 'बबन्ध सेतुं गिरिचक्रवालैर्बिभेद सप्तैकशरेण तालान् । एवंविधं कर्म ततान रामस्त्वया कृतं तन्न मुधैव मर्वः ॥' व्याजस्तुतेयाजोक्तिं भिन्नां दर्शयितुमाह- व्याजस्य सत्यसारूप्यं व्याजोक्तिः ॥ २५॥ व्याजस्य च्छद्मनः सत्येन सारूप्यं व्याजोक्तिः, यां मायोक्ति- रित्याहुः । यथा- 'शरश्चन्द्रांशुगौरेण वाताविढेन भौमिनि !। काशपुष्पलवेनेदं साश्रुपातं मुखं कृतम् ॥' १. 'कापुरुषस्य ग. २. "राज्यमिति' ग. ३. 'निद्रेयं' क. ४. 'लक्ष्मीरिति' ग. ५. 'नाम' क. ग-पुस्तकयो स्ति. ६. 'स्तोत्रार्थ' ख. ७. 'साम्योपादानेन' क; 'साम्यापादनेन' ग. ८. 'स्तोत्रार्थ ख. ९. 'मायोक्ति' ख. १०. भाविनि' ग. , ५काव्या.
काव्यालंकारसूत्राणि [अधिक०४ - WARD व्याजस्तुतेः पृथक्बुल्ययोगितेत्याह- विशिष्टेन साम्यार्थमेककालक्रियायोगस्तुल्ययोगिता ॥ २६ ॥ विशिष्टेन न्यूनस्य साम्यार्थमेककालायां क्रियायां योगस्तुल्ययोगिता। स्था- 'जलनिधिरशनामिमां धरित्री वहति भुजंगविभुर्भवद्भुजश्च ।' उपमानाक्षेपश्चाक्षेपः ।। २७ ॥ उपमानस्याक्षेपः प्रतिषेध उपमानाक्षेपः, तुल्यकार्यार्थस्य नैरर्थक्य- विवक्षायामाक्षेपः । यथा- 'तस्याश्चेन्मुखमस्ति सौम्यसुभगं किं पार्वणेनेन्दुना सौन्दर्यस्य पदं दृशौ च यदि चेकिं नाम नीलोत्पलैः । किं वा कोमलकान्तिभिः किसलयैः सत्येव बिम्बाधरे हाँ धातुः पुनरुक्तवस्तुरचनारम्भेष्वपूर्वो ग्रहः ॥' उपमानस्याक्षेपः, आक्षेपतः प्रतिपत्तिरित्यपि सूत्रार्थः । यथा--- 'ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानानखक्षताभम् । प्रसादयन्ती सकलङ्कमिन्दु तापं रवेरभ्यधिकं चकार ॥ अत्र शरद्वेश्येव, इन्दु नायकमिव, रवेः प्रतिनायकस्येवेत्युपमानानि गम्यन्त इति । तुल्ययोगितायाः सहोक्तेर्भेदमाह- वस्तुद्वयक्रिययोस्तुल्यकालयोरेकपदाभिधानं सहोक्तिः॥२८॥ वस्तुद्वयस्य क्रिययोस्तुल्यकालयोरेकेन पदेनाभिधानं सहार्थशब्द- सामर्थ्यात् सहोक्तिः। यथा- 'अस्तं भावान् प्रयातः सह रिपुभिश्य संहियन्तां बलानि ।' अत्रार्थयोयूनत्वविशिष्टत्वे न स्त इति नेयं तुल्ययोगितेति । १. 'एककालक्रियायोगः एककालायां' क. २. 'उपमानाक्षेपः' ग. ३. 'नैर- यविवक्षायामाक्षेपः' ग. ४. 'ह्रीधातुः' क; 'ही धातः' ग. ५. 'ततान' ख. ६. 'द्वयक्रिययोः' ख. ७. 'न त इति न तुल्य' ख. 'न इति नेयं तुल्य' ग. - m - अध्यायः ३ सू. २६-३३] सहोक्ति-संसृष्टिनिरूपणम् ६७ समाहितमेकमवशिष्यते, तल्लक्षणार्थमाह- यत्सादृश्यं तत्संपत्तिः समाहितम् ॥ २९ ॥ यस्य वस्तुनः सादृश्यं गृह्यते तस्य वस्तुनः संपत्तिः समाहितम् । यथा- 'तन्वी मेघजलाईपल्लवतया धौताधरेवाश्रुभिः शून्येवाभरणैः स्वकालविरहाद्विश्रान्तपुष्पोद्गमा । चिन्तामौनमिवास्थिता मधुलिहां शब्दैविना लक्ष्यते । चण्डी मामवधूय पादपतितं जातानुतापेव सा ॥' अत्र पुरूरवसो लतायामुर्वश्याः सादृश्यं गृह्णतः सैव लतोर्वशी संपन्नेति। एते चालंकाराः शुद्धा मिश्राश्च प्रयोक्तव्या इति विशिष्टानामलंकाराणां मिश्रत्वं संसृष्टिरित्याह-- अलंकारस्थालंकारयोनित्वं संसृष्टिः ॥ ३० ॥ अलंकारस्थालंकारयोनित्वं यदसौ संमृष्टिरिति । संसृष्टिः संसर्गः संबन्ध इति । तद्भेदावुपमारूपकोत्प्रेक्षावययौ ॥ ३१ ॥ तस्याः संसृष्टेभैदावुपमारूपकं चोत्प्रेक्षावयवश्वे ति । उपमाजन्यं रूपकमुपमारूपकम् ॥ ३२ ॥ यथा- 'निरवधि च निराश्रयं च यस्य स्थितमनिवर्तितकौतुकप्रपञ्चम् । प्रथम इव भवान् स कूर्ममूर्ति यति चतुर्दशलोकवल्लिकन्दः ॥' एवं 'रजनिपुरंधिरोतिलकः शशी' इत्येवमादयस्तद्देदा द्रष्टव्याः । उत्प्रेक्षाहेतुरुत्प्रेक्षावयवः ॥ ३३ ॥ १. 'तत्र लक्षणार्थ' क. २. 'गृह्णानस्य' क. ३. 'यत्तदसौ' ग. ४. 'इति' क. ग-पुस्तकयोनास्ति. ५. 'इह' ख. ६. 'रजनिचरपुरंध्रि' क. ७. 'लोकतिलकः शशी' ग. ८. 'द्रष्टव्या इति' ख. - ६८ काव्यालंकारसूत्राणि [अधिक०५ उत्प्रेक्षाया हेतुरलंकार उत्प्रेक्षावयवः । अवयवशब्दो बारम्भक लक्षयति । यथा-- 'अङ्गुलीभिरिव केशसंचय संनिगृह्य तिमिरं मरीचिभिः । कुङ्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥' ऐभिर्निदर्शनैः वीयैः परकीयैश्च पुष्कलैः । शब्दवैचित्र्यगर्भयमुपमैव प्रपञ्चिता ॥ अलंकारैकदेशा ये मताः सौभाग्यभागिनः । तेऽप्यलङ्कारदेशीया योजनीयाः कवीश्वरैः ।। इति काव्यालंकारसूत्रवृत्तावालंकारिके चतुर्थेऽधिकरणे तृतीयोऽध्यायः ।, समाप्तं चेदमालंकारिकं चतुर्थमधिकरणम् । - प्रायोगिकं नाम पञ्चममधिकरणम् । प्रथमोऽध्यायः। संप्रति काव्यसमयं शब्दशुद्धिं च दर्शयितुं प्रायोगिकाख्यमधिकरण- मारभ्यते । तत्र काव्यसमयस्तावदुच्यते- नैकं पदं द्विः प्रयोज्यं प्रायेण ॥१॥ एकं पदं न द्विः प्रयोज्यं प्रायेण बाहुल्येन । यथा---'पयोद पयोद' इति । किंचिद्धि-चौदिपदं द्विरपि प्रयोक्तव्यमिति । नित्या संहितैकपदवत्पादेष्वर्धान्तवर्जम् ॥ २ ॥ नित्या संहिता पादेष्वेकपदवदेकस्मिन्निव पदे । तत्र हि नित्या १. 'अलंकारः' ख-पुस्तके नास्ति. २. 'ऽस्या रूपकं सूचयति' ख. ३. 'अत्रै- भिलक्षणैः खीयैः' ख. ४. 'बहुवैचित्र्य' ख. ५. 'सौभाग्यशालिनः' क. ६ 'आलं- कारिकाधिकरणेऽर्थालंकारकथनं ग. ७. अस्याग्रे 'उपमाप्रपञ्चाधिकारः' इति क्वचित्. ८. 'प्रायोगिकार्थमधिकरणमाह' ग. ९. 'उच्यत इत्याह' क. १..'प्रयोक्तव्य' ख. ११. "दिवादि' क-ख. १२. 'इति दर्शयति' क-ख.
अध्यायः १ सू. १-६] काव्यसमयनिरूपणम् ६९ - संहितेत्याम्नायः । यथा-'संहितैकपदे नित्या नित्या धातूपसर्गयोः' इति । अर्धान्तवर्जमर्धान्तं वर्जयित्वा । न पादान्तलघोर्गुरुत्वं च सर्वत्र ॥ ३ ॥ पादान्तलघोगुरुत्वं प्रयोक्तव्यम् , न सर्वत्र न सर्वस्मिन्वृत्त इति । यथा- 'यासां बलिर्भवति मगृहदेहलीनां हंसश्च सारसगणैश्च विलुप्तपूर्वः । तास्वेव पूर्वबलिरूढयवाङ्कुरासु बीजाञ्जलिः पतति कीटमुखावलीढः ॥' एवंप्रायेष्वेव वृत्तेष्विति; न पुनः- 'वरूथिनीनां रजसि प्रसर्पति समस्तमासीद्विनिमीलितं जगत् ।' इत्यादिषु । चकारोऽधान्तवर्जमित्यस्यानुकर्षणार्थः । न गये समाप्तप्रायं वृत्तम् , अन्यत्रोद्गतादिभ्यः संवादात् ॥४॥ गद्ये समाप्तप्रायं वृत्तं न विधेयम् ; शोभानंशात् । अन्यत्रोद्गता- दिभ्यो विषमवृत्तेभ्यः, संवादात् गद्येनेति । न पादादौ खल्वादयः ॥५॥ पादादौ खल्वादयः शब्दा न प्रयोज्याः । 'आदि'शब्दः येषामादौ प्रयोगो न लिष्यति ते गृह्यन्ते; न पुनर्बत-हन्तप्रभृतयः । नार्वे किंचित्समाप्तं वाक्यम् ॥६॥ वृत्तस्यार्धे किंचिरैसमाप्तं वाक्यं न प्रयोक्तव्यम् । यथा- 'जयन्ति ताण्डवे शंभोगुराङ्गुलिकोटयः । कराः कृष्णस्य च भुजाचक्रांशुकपिशस्विषः ॥' १. 'समासप्रायं ख. २. 'समासप्राय' ख. ३. 'असमाप्तं वाक्यं न विधेयं प्रयोक्तव्यम्' क; ४. 'चकाङ्क' ख. ..
काव्यालंकारसूत्राणि [अधिक० ५ - न कर्मधारयो बहुव्रीहिप्रतिपत्तिकरः ॥७॥ बहुव्रीहिप्रेतिपत्तिं करोति यः कर्मधारयः स न प्रयोक्तव्यः। यथा- 'अध्यासितश्चासौ तरुश्चाध्यासिततरुः' इति । तेन विपर्ययो व्याख्यातः॥८॥ बहुव्रीहिरपि कर्मधारयतिपत्तिकरो न प्रयोक्तव्यः। यथा- 'वीराः पुरुषा यस्य स वीरपुरुषः' । 'कलो रवो यस्य स कलरवः।' इति । संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ ॥९॥ संभाव्यस्य निषेधस्य निवर्तने द्वौ प्रतिषेधौ प्रयोक्तव्यौ । यथा- 'समरमूर्धनि येन तरस्विना न न जितो विजयी त्रिदशेश्वरः । स खलु तापसबाणपरम्पराकवलितक्षतजः क्षितिमाश्रितः ॥' विशेषणमात्रप्रयोगो विशेष्यप्रतिपत्तौ ॥१०॥ विशेष्यस्य प्रतिपत्तौ जातायां विशेषणमात्रस्यैव प्रयोगः। यथा ( रघु. ३९)- 'निधानगीमिव सागराम्बराम् । अत्र हि पृथिव्या विशेषणमात्रमेव प्रयुक्तम् । एतेन 'झुद्धस्य तस्याथ पुरामरातेर्ललाटपट्टादुदगादुदर्चिः ।' 'गिरेस्तंडित्वानिव तावदुच्चकैर्जवेन पीठादुदतिष्ठदच्युतः ।' इत्यादयः प्रयोगा व्याख्याताः । सर्वनाम्नानुसंधिवृत्तिच्छन्नस्य ॥ ११ ॥ सर्वनाम्नाऽनुसंघिरनुसंधानं प्रत्यवमर्शः कार्यः । वृत्तिच्छन्नस्य वृत्तौ समासे छन्नस्य गुणीभूतस्य । यथा- 'तवापि नीलोत्पलपत्रचक्षुषो मुखस्य तद्रेणुसमानगन्धिनः' इति । १. 'विप्रतिपत्ति' क. २. "विप्रतिपत्ति क. ३. 'विप्रतिपत्ति क. ४. 'निषेधौ क. ५. 'यशस्विना' क. ६. 'एवं' क-पुस्तके नास्ति. ७. "गिरेस्तरित्यानित्या- दयः' क.ग. - अध्यायः १ सू. ७-१४] काव्यसमयनिरूपणम् - - संबन्धसंवन्धेऽपि षष्ठी क्वचित् ॥ १२ ॥ संवन्धेन संबन्धः संबन्धसंबन्धः, तस्मिन् षष्ठी प्रयोज्या क्वचित् , न सर्वत्रेति । यथा---'कमलस्य कन्दः' इति । कमलेन संबद्धा कमलिनी नलिनी तस्याः कन्द इति संबन्धसंबन्धः । तेन केदलीकाण्डादेयो व्या- ख्याताः। अतिप्रयुक्तं देशभाषापदम् ॥ १३ ॥ अतीव कविभिः प्रयुक्तं देशभाषापदं प्रयोज्यम् । यथा- 'घोषिदित्यभिललाष न हालाम्' इति । अत्र 'हाला' इति देशभाषापदम् । अनतिप्रयुक्तं तु न प्रयोज्यम् । यथा- 'कथेलीकाननालीरविरलविलसत्पल्लवा नर्तयन्तः' इति । अत्र 'कथेली पदम् । लिङ्गाध्याहारौ ॥ १४॥ लिङ्गं चाध्याहारश्च लिङ्गाध्याहारावतिप्रयुक्तौ प्रयोज्यौविति । यथा- 'वत्से ! मा बहु निःश्वसीः कुरु सुरागण्डूषमेकं शनैः' इत्यादिषु गण्डूपशब्दः पुंसि भूयसा प्रयुक्तः, न स्त्रियामानातोऽपि स्त्रीत्वे। अध्याहारो यथा- 'मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा । वाहिनीजलभरः कुलिशं वा स्वस्ति तेऽस्तु लतया सह वृक्ष ! ॥' अत्र हि 'धाक्षीत्' इत्यादीनामध्याहारोऽन्वयप्रयुक्तः । १. 'कमलिनी' ख. ग-पुस्तकयो स्ति. २. 'कमल' ख; 'कदल' ग. ३. 'दयो- ऽपि ख. ४. 'कोली' ख. ५. 'नर्तयन्ति' का 'नर्तयन्ते' ग. ६. 'कथेली' ख. ७. 'इति' क.ग-पुस्तकयो स्ति. ८. 'वज्रमिन्द्रकरविप्रमृतं वा' क.ग. ९. 'क्रिया- पदानामध्याहारो' ग. १०. 'अयं प्रयुक्त इति' ख; 'उत्पशप्रयुक्ततया युक्त इति' ग. टिप्प०-1 'ककेली'शब्दोऽशोके नातिरूढः । - ७२ काव्यालंकारसूत्राणि [अधिक० ५ लक्षणाशब्दाश्च ॥१५॥ लक्षणाशब्दाश्चातिप्रयुक्ताः प्रयोज्याः । यथा द्विरेफोदरशब्दौ अमरचक्रवाकार्थो लक्षणापरौ । अनतिप्रयुक्ताश्च न प्रयोज्याः। यथा-द्विकः काक इति । न तद्धाहुल्यमेकत्र ॥१६॥ तेषां लक्षणाशब्दानां बाहुल्यमेकस्मिन्वाक्ये न प्रयोज्यम् । शक्यते ह्येकस्यावाचकस्य वाचकवद्भावः कर्तुम् , न बहूनामिति । स्तनादीनां द्वित्वाविष्टा जातिः प्रायेण ॥ १७ ॥ स्तनादीनां द्वित्वाविष्टा द्वित्वाध्यासिता जातिः प्रायेण बाहुल्येनेति । यथा-'स्तनयोस्तरुणीजनस्य -' इति । 'प्रायेण' इति वचनात्कचिन्न भवति । यथा-'स्त्रीणां चक्षुः' इति । अथ कथं द्वित्वाविष्टत्वं जातेः ? तद्धि द्रव्ये, न जातो; अतद्रप- त्वाजातेः । न दोषः; तेंदूपत्वाज्जातेः । कथं तदद्रूपत्वं जातेः ? तद्धि जैना जानन्ति । वयं तु लक्ष्यसिद्धौ सिद्धपरमतानुवादिनः, न चैवमति- प्रसङ्गः, लक्ष्यानुसारित्वान्यायस्येति । एवमन्यापि व्यवस्थोरा । इति काव्यालंकारसूत्रवृत्तौ प्रायोगिके पञ्चमेऽधिकरणे प्रथमोऽध्यायः । - द्वितीयोऽध्यायः। सांप्रतं शब्दशुद्धिरुच्यते- रुद्रावित्येकशेषोऽन्वेष्यः॥१॥ १. 'द्विरेफरथचरणशब्दो' ख. २. 'प्रयोक्तव्याः ख. ३. "वाक्ये तर्षेकस्या- कर्तुं शक्यो न ख; 'शक्येन टेकस्य वाचकवद्भावो न' क. ४. 'इति' ख-पुस्तके नास्ति. ५. 'तस्याः' क-ख. ६. 'तद्रूप' क. ७. 'तद्धि' क-ग-पुस्तकयो स्ति. ८. 'इति' ख-पुस्तके नास्ति. ९. 'व्यवस्थाप्यूया' ख-ग. १०. "शुद्धिरुच्यते इत्याह ख. 'शुद्धयेत्यत आह' ग.
? अध्यायः २ सू. १५-३] शब्दशुद्धिनिरूपणम् ७३ 'रुद्रौ' इत्यत्र प्रयोगे एकशेषोऽन्वेष्योऽन्वेषणीयः। रुद्रश्च रुद्राणी चेति 'पुमान्स्त्रिया' (पा. ११२।६७) इत्येकशेषः । स च न प्राप्नोति । तत्र हि 'तल्लक्षणश्चेदेव विशेषः' इत्यनुवर्तत इति तत्रैवकारकरणात् स्त्रीपुंसकृत एव विशेषो भवतीति व्यवस्थितम् । अत्र तु 'पुंयोगादा- ख्यायाम्' (पा. ४।११४८) इति विशेषान्तरमप्यस्तीति । एतेन 'इन्द्रौ भवौ शेर्वी' इत्यादयः प्रयोगाः प्रत्युक्ताः । मिलिक्लविक्षपिप्रभृतीनां धातुत्वम् , धातुगुणस्यासमाप्तेः॥२॥ मिलति-विक्लबति-क्षपयतीत्यादयः प्रयोगाः। तत्र मिलि-क्लबि-क्षपि- प्रभृतीनां कथं धातुत्वम् ? गणपाठात् गणपठितानामेव धातुसंज्ञाविधा- नात् । तत्राह-धातुगणस्यापरिसमाप्तेः । 'वर्धते धातुगणः' इति हि शब्दविद आचक्षते । तेनैषां गणपाठोऽनुमतः शिष्टप्रयोगादिति । वलेरात्मनेपदमनित्यम् , ज्ञापकात् ॥ ३॥ धलेरनुदात्तेत्त्वादात्मनेपदं यत्तदनित्यं दृश्यते-'लज्जालोलं वलन्ती' इत्यादिप्रयोगेषु । तत्कथमित्याह-ज्ञोपकात् । किं पुनस्तज्ज्ञापकम् ? चक्षिडो छैनुबन्धकरणम् । चक्षिङ इकारेणैवानुदात्तेन सिद्धमात्मने- पदम् ; किमर्थं ङित्करणम् ? तक्रियते अनुदात्तनिमित्तस्यात्मनेपदस्या- नित्यत्वज्ञापनार्थम् । एतेन वेदि-मसि-तर्जि-प्रभृतयो व्याख्याताः। आवेदयति-भर्स- १. 'इति' ख. पुस्तके नास्ति. २. 'शा' ख-पुस्तके नास्ति. ३. 'प्रयुक्ताः' क. ४. "मिलिविक्लविक्षपयति' क. मिलिविक्लविक्षपि' ग. ५. "विक्लवते' क. ६. 'अत आह' क-ग. ७. 'धातुसंज्ञागणस्यापरिसमाप्तेः' ग. ८. 'चले:' ख. ९. 'ज्ञापक- त्वात् ग.१०. 'चले.' ख. ११. 'चलतीत्यादि' ख. १२. 'पदेषु' ग. १३. 'ज्ञाप- कत्वातू' ग. १४. 'ज्ञापकत्वं' ग. १५. 'अत आह' ख. १६. 'अनुबन्ध' ख. १७. 'अनुदात्तत्वेनात्मनेपदं सिद्ध' क. १८. 'यत्' क-ग. १९. 'तेन विदि' क; "एतेनावेदितभर्तिसततर्जितप्रभृतयो' ग.
द्रष्टव्यः, न काव्यालंकारसूत्राणि [अधिक० ५ यति-तर्जयतीत्यादीनां प्रयोगाणां दर्शनात् । अन्यत्राप्यनुदात्तनिबन्धन- स्थात्मनेपदस्यानित्यत्वं ज्ञापकेन द्रष्टव्यमिति । क्षीयत इति कर्मकर्तरि ॥४॥ क्षीयत इति प्रयोगो दृश्यते, से कर्मकर्तरि द्रष्टव्यः । क्षीयते- स्नात्मनेपदित्वात् । बिंद्यत इति च ॥५॥ खिंद्यत इति च प्रयोगो दृश्यते, सोऽपि कर्मकर्तर्येव कतरि; अदैवादिकत्वात्स्विदेः । मार्गरात्मनेपदमलक्ष्म ॥६॥ चुरादौ 'मार्ग अन्वेषणे' इति पठ्यते 'आ धृषाद्वा' इति विकल्पित- णिकः । तस्माद्यदात्मनेपदं दृश्यते--मार्गन्तां देहभारं-' इति, तद- लक्ष्म अलक्षणम् । परस्मैपदित्वान्मार्गेः । तथा च शिष्टप्रयोगः-- 'करकिसलयं धूत्वा धूत्वा विमार्गति वाससी।' लोलमानादयश्चानशि ॥७॥ लोलमानोवेल्लमान इत्यादयश्चानशि द्रष्टव्याः ।शानचस्त्वभावः, पर- मैपदित्वाद्धातूनामिति । लभेर्गत्यर्थत्वाण्णिच्यणौ कर्तुः कर्मत्वाकर्मत्वे ॥८॥ अस्त्ययं लभियः प्राप्त्युपसर्जनां गतिमाह, अस्ति च यो गत्युपसर्जनां win- १. 'अत्रापि क-ख. २. 'यः स' ख. ३. 'क्षयतेः'ख. क्षियोराल्मने ग. ४. खिद्यत इत्यपि च ख; "भिद्यते' ग. ५. 'खिद्यते' ख; "भिद्यते' ग. ६. 'देहभावं' का 'देहसारान्' ग. ७. 'तथाय' क. ८. 'धुत्वा धुत्वा' ग. ९. 'च' काग-पुस्तकयो स्ति.
- .. . अध्यायः २ सू. ४-११] शब्दशुद्धिनिरूपणम् प्राप्तिमाहेति । अत्र पूर्वस्मिन्पक्षे गत्यर्थत्वाल्लभेणिच्यणौ यः कर्ता तस्य गत्यादिसूत्रेण कर्मसंज्ञा । यथा- 'दीर्घिकासु कुमुदानि विकास लम्भयन्ति शिशिराः शशिभासः ।' द्वितीयपक्षे तु गत्यर्थात्वाभावाल्लभेर्णिच्यणौ कर्तुर्न कर्मसंज्ञा । यथा- 'सितं सितिन्ना सुतरां मुनेर्वपुर्विसारिभिः सौधमिवाथ लम्भयन् । द्विजावलिब्याजनिशाकरांशुभिः शुचिस्मितां वाचमवोचदच्युतः ॥' ते-मे-शब्दौ निपातेषु ॥ ९॥ त्वया मयेत्यस्मिन्नर्थे ते-मे-शब्दौ निपातेषु द्रष्टव्यौ । यथा- 'श्रुतं ते वचनं तस्य', 'वेदानधीत इति नाधिगतं पुरा मे।' तिरस्कृत इति परिभूते, अन्तर्युपचारात् ॥ १० ॥ तिरस्कृत इति शब्दः परिभूते दृश्यते-'राज्ञा तिरस्कृतः' इति । स च न प्राप्नोति । 'तिरः'शब्दस्य हि 'तिरोऽन्तों' इत्यन्तों गतिसंज्ञा । तस्यां च सत्यां 'तिरसोऽन्यतरस्याम्' (पा. ८।३।४२) इति सकारः । तत्कथं तिरस्कृत इति परिभूते ? आह–अन्तर्युपचारादिति । परिभूतो पन्तर्हितवद्भवति । मुख्यस्तु प्रयोगो यथा-- 'लावण्यप्रसरतिरस्कृताङ्गलेखाम्' इति । नैकशब्दः, सुप्सुपेति समासात् ॥ ११ ॥ 'भरण्यानीस्थानं फलनमितनैकद्रुममिदम्' इत्यादिषु नैकशब्दो दृश्यते, स च नै सिध्यति । नसमासे हि 'नलोपो नत्रः' (पा. ६।३।६३) इति नलोपे 'तस्मान्नुडचि' (पा. ६।- ३।७४ ) इति नुडागमे सत्यनेकमिति रूपं स्यात् । निरनुबन्धकस्य नशब्दस्य समासे लक्षणं नास्ति । तत्कथं नैकशब्द इत्यत्राह-सुप्सु- पेति समासात् । १. 'इदं क-पुस्तके नास्ति. २ 'न' ख-पुस्तके नास्ति. ? - काव्यालंकारसूत्राणि [अधिक० ५ मधुपिपासुप्रभृतीनां समासो गमिगाम्यादिषु पाठात् ॥ १२॥ 'मधुपिपासुमधुव्रतसेवितं मुकुलजालमजृम्भत वीरुधाम्' इत्यादिषु मधुपिपासुप्रभृतीनां समासो गमिगाम्यादिषु पिपासुप्रभृ- तीनां पाठात् । 'श्रितादिषु गमिगाम्यादीनाम्' इति द्वितीयासमासलक्षणं दर्शयति । त्रिवलीशब्दः सिद्धः संज्ञा चेत् ॥ १३ ॥ त्रिवलीत्ययं शब्दः सिद्धो यदि संज्ञा । 'दिक्संख्ये संज्ञायाम्' (पा. २।११५०) इति संज्ञायामेव समासविधानात् । बिम्बाधर इति वृत्तौ मध्यमपदलोपिन्याम् ॥ १४ ॥ 'बिम्बाधरः पीयते' इति प्रयोगो दृश्यते, स च न युक्तः। 'अधर- बिम्ब' इति भवितव्यम् । 'उपमितं व्याघ्रादिभिः-' (पा. २१११५६) इति समासे सति। तत्कथं बिम्बाधर इत्यत्राह----वृत्तौ मध्यमपदलोपिन्यां शाकपार्थिवादित्वात्समासे मध्यमपदलोपिनि समासे सति बिम्बाकारोऽधरो बिम्बाधर इति । तेन 'बिम्बोष्ठ'शब्दोऽपि व्याख्यातः । अत्रापि पूर्व- वद्वृत्तिः । शिष्टप्रयोगेषु चैष विधिः । तेन नातिप्रसङ्गः । आमूललोलादिषु वृत्तिर्विस्पष्टपटुवत् ॥ १५ ॥ 'आमूललोलम्', 'आमूलसरलम्' इत्यादिषु वृत्तिर्विस्पष्टपटुवत् । मयूरव्यंसकादित्वात् । लोलमिव लोलम् , आमूलं च तल्लोलं चेति । न धान्यषष्ठादिषु षष्ठीसमासप्रतिषेधः, पूरणेन तद्धितान्तत्वात् ॥ १६ ॥ 'धान्यषष्ठम्', 'तान्युञ्छषष्ठाङ्कितसैकतानि' इत्यादिषु न षष्ठीसमास- १. 'गम्यादिषु' ख. २. 'समासे' क-ख-पुस्तकयो स्ति. ३. 'अपि' क-ग- पुस्तकयो स्ति. ४. 'प्रयुक्तेषु' ग, ५. 'सरस' क. ।
अध्यायः २ सू. १२-२१] शब्दशुद्धिनिरूपणम् प्रतिषेधः; पूरणेन पूरणप्रत्ययान्तेन तद्धितान्तत्वात् । षष्ठो भागः षष्ठ इति । 'पूरणाद्भागे तीयादन्' (पा. ५।३।४८) 'षष्ठाष्टमाभ्यां अच' (पा. ५।३।५०) इत्यन्विधानात् । पत्रपीतिमादिषु गुणवचनेन ॥१७॥ 'पत्रपीतिमा', 'पक्ष्मालीपिङ्गलिन्नः' इत्यादिषु षष्ठीसमासप्रतिषेधो गुणवचनेन प्राप्तः, बालिश्यात्तुं न कृतः । अवो बहुव्रीहिय॑धिकरणो जन्माधुत्तरपदः॥१८॥ अवयों न वर्जनीयो व्यधिकरणो बहुव्रीहिः। जन्माद्युत्तरपदं यस्य स जन्माधुत्तरपदः । यथा- 'सच्छास्त्रजन्मा हि विवेकलामः', 'कौन्तवृत्तयः प्राणाः' इति । हस्ताग्राग्रहस्तादयो गुणगुणिनोर्मेदाभेदात् ॥ १९॥ हस्ताग्रम् , अग्रहस्तः, पुष्पाग्रम् , अग्रपुष्पमित्यादयः प्रयोगाः कथम् ? आहिताम्यादिप्वपाठात् । पाठे वा तदनियमः स्यात् । आँह-गुणगुणि. नोर्भेदाभेदात् । तत्रे भेदात् हस्ताग्रादयः । अभेदादग्रहस्तादयः । पूर्वनिपातेऽपभ्रंशो रक्ष्यः ॥ २० ॥ काष्ठतृणं तृणकाष्ठमिति यदृच्छया पूर्वनिपातं कुर्वन्ति, तत्रापभ्रंशो क्ष्यो परिहरणीयः । अनित्यत्वज्ञापनं तु न सर्वविषयमिति । निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः, परिगणनस्य प्रायिकत्वात् ॥ २१ ॥ 'अनभिहिते' इत्यत्र सूत्रे 'तिवृत्तद्धितसमासैः' इति परिगणनं १. 'पक्ष्मालीपिङ्गलिन्ना' ग. २. 'तु' क-ग-पुस्तकयो स्ति. ३. 'कण्ठे वृत्तयः' ख. ४. 'अत आह' ख. ५. 'तत्र' ख-पुस्तके नास्ति. ६. 'पूर्वनिपातापभ्रंशो' क; 'लघ्वक्षरपूर्वनिपातेऽपभ्रंशो वयः' ग. ७. 'वयंः' ग. ८. 'ज्ञापक' ख.
m- काव्यालंकारसूत्राणि [अधिक० ५ कृतम् । तस्य प्रायिकत्वान्निपातेनाप्यभिहिते कर्मणि न कर्मविभक्ति- भवति । यथा (कुमार. २।५५)- विषवृक्षोऽपि संवर्य स्वयं छेत्तुमसांप्रतम्' इति । 'पण्डितं मूर्ख इति मन्यते'। शक्यमिति रूपं कर्माभिधायां लिङ्गवचनस्यापि सामान्योपक्रमात् ॥ २२ ॥ शंकेः 'शकिसहोश्च' (पा. ३।११९९) इति कर्मणि यति कृते शक्यमिति रूपं भवति कर्माभिधायां कर्मवचने । लिङ्गवचनस्यापि सामान्योपक्रमात् विशेषानपेक्षायामिति । यथा- 'शक्यमोषधिपतेनवोदयाः कर्णपूररचनाकृते तव । अप्रगल्भयवसूचिकोमलाश्छेत्तुमग्रनखसंपुटैः कराः ॥' अत्र भाष्यकृद्वचनं लिङ्गम् । यथा- 'शक्यं च श्वमांसादिभिरपि क्षुत्पतिहन्तुम्' इति । न चैकान्तिकः सामान्योपक्रमः । तेने 'शक्या भङ्गं झटिति बिसिनीकन्दवचन्द्रपादाः' इत्यपि भवति। हानिवदाधिक्यमप्यङ्गानां विकारः॥२३॥ 'येनाङ्गविकारः' (पा. २।३।२०) इत्यत्र सूत्रे यथाङ्गानां हानि- स्तथाधिक्यमपि विकारः । यथा---'अक्षणा काणः' इति भवति, तथा 'मुखेन त्रिलोचनः' इत्यपि भवति । न कृमिकीटानामिति, एकवद्भावप्रसङ्गात् ॥ २४ ॥ 'आयुषः कृमिकीटानामलकरणमल्पता' इत्यत्र कृमिकीयनामिति viare.anter १. 'कर्माभिधानं' क. २. 'शकेः' इति ख पुस्तके पूर्वसूत्रे क्षिप्तम्. ३. 'तदाह' क-ख. ४ 'झगिति' क. ५ 'विकाराय' क.
अध्यायः २ सू. २२-२९] शब्दशुद्धिनिरूपणम् प्रयोगो न युक्तः, 'क्षुद्रजन्तवः' इत्येकवद्भावप्रसङ्गात् । न च मध्यम- पदलोपी समासो युक्तः; तस्यासर्व विषयत्वात् । नं खरोष्ट्रौ, उष्ट्रखरमिति पाठात् ॥२५॥ 'खरोष्ट्रौ वाहनं येषाम्' इत्यत्र खरोष्ट्राविति प्रयोगो न युक्तः गवाश्वप्रभृतिषु 'उष्ट्रखरम्' इति पाठात् । आसेत्यसतेः ॥ २६॥ 'लावण्यमुत्पाद्य इवास यत्नः' इत्यत्रासेत्यसतेर्धातोः 'अस गतिदीन्यादानेषु' इत्यस्य प्रयोगः, न अस्तेः; भूभावविधानात् । युध्येदिति युधः क्यचि ॥ २७॥ 'यो भर्तृपिण्डस्य कृते न युध्येत्' इति प्रयोगः, स चायुक्तः; युधेरात्मनेपदित्वात् । तत्कथं युध्येदि- त्यत्राह-युधः क्यचि । युधमात्मन इच्छेधुंध्येदिति । विरलायमानादिषु क्यङ् निरूप्यः ॥ २८ ॥ 'विरलायमाने मलयमारुते' इत्यादिषु क्यङ् निरूप्यः। भृशादिषु पाठात् । नापि क्यष् ; लोहितादिष्वपाठात् । अहेतौ हन्तर्णिच, चुरादिपाठात् ॥ २९॥ 'घातयित्वा दशास्यम्' इत्यत्राहेतौ णिच् दृश्यते, स कथमित्यंत आह-चुरादिपाठात् । चुरादिषु 'चट स्फुट भेदे' 'घट संघाते' 'हन्त्यर्थाश्च' इति पाठात् । १. ख-पुस्तकेऽस्याग्रिमस्य च सूत्रस्य विपर्ययः. २. 'वृषभं चानयेति' ग. ३. 'पाठो' ख. ४. 'युध्यते' क-ख. ५. 'तत्' ख-पुस्तके नास्ति. ६. 'इच्छति' क-ख. ७. 'युध्येदिति' क-ख-पुस्तकयो स्ति. ८. 'अपाठात्' क-ख. ९. 'चुरा- दिषु' क. १०. 'इत्याह' ग-पुस्तके नास्ति.
८० काव्यालंकारसूत्राणि [ अधिक० ५ - अनुचरीति चरेष्टित्त्वात् ॥ ३० ॥ 'अनुचरी प्रियतमा मदालसा' इत्यत्रानुचरीति न युक्तः; ईकाराभावात् । तत्कथम् ? । आह- चरेष्टित्त्वात् । पचादिषु चरडिति पैठ्यते । केसरालमित्यलतेरणि ॥ ३१ ॥ 'केसरालं शिलीन्,' इत्यत्र केसरालमिति कथम् ? । आह-अलते- रणि । 'अल भूषणपर्याप्तिवारणेषु' इत्यस्माद्धातोः केसरशब्दे कर्मण्युप- पदे 'कर्मण्यण' (पा.३।२।१) इत्यनेनाणि सति केसरालमिति सिध्यति । पत्रलमिति लातेः के ॥ ३२॥ 'पत्रलं वनमिदं विराजते' इत्यत्र पत्रलमिति कथम् ? आह- लातेः के । 'ला आदाने' इत्येतस्माद्धांतोरादानार्थात् पत्रशब्दे कर्मण्युप- पदे 'आतोऽनुपसर्गे कः' (पा. ३।२।३) इति कप्रत्यये सतीति । महीधादयो मूलविभुजादिदर्शनात् ॥ ३३ ॥ महीध्र-धरणीधादयः शब्दा मूलविभुजादिदर्शनात्कप्रत्यये सतीति । महीं धरतीति महीध्र इति । एवमादयोऽन्येऽपि द्रष्टव्याः॥ ब्रह्मादिषु हन्तेनियमादरिहाद्यसिद्धिः ॥३४॥ ब्रह्मादिषूपपदेषु हन्तेः किब्बिधौ ‘ब्रह्मभ्रूणवृत्रेषु-' (पा. ३।२।८७) इति नियमात् 'ब्रह्मादिष्वेव, हन्तेरेव, विवेव, भूतकाल एवेति चतुर्विध- श्चात्र नियमः' इति नियमात अरिहा, रिपुहा, इत्येवमादीनामसिद्धिः। ब्रह्मविदादयः कँदन्तवृत्त्या ॥ ३५ ॥ १. 'तत्कथम्' क-पुस्तके नास्ति. २. 'पाठात् ख. ३. 'इत्यस्मात्पर्याप्यर्थ केसरशब्दे' क. ४. “सिध्यति' ख-पुस्तके नास्ति. ५. ग-पुस्तकमेतावत्पर्यन्तमस्ति. ६. 'धरणीध्रा इत्यादयः' क. ७. 'कृदन्तस्य' क.
८१ - अध्यायः २ सू. ३०-३९] शब्दशुद्धिनिरूपणम् ब्रह्मवित् , वृत्रभिदित्यादयः प्रयोगा न युक्ताः । 'ब्रह्मभ्रूण-' (पा. ३।२।८७) इत्यादिषु 'ब्रह्मादिषु हन्तेरेव' इति नियमात् । आह- कृदन्तवृत्त्या । वेत्तीति वित् । भिनत्तीति भित् । 'क्विप् च' (पा. ३।२।७६ ) इति क्विम् । ततः कृदन्तैर्विदादिभिः सह ब्रह्मादीनां षष्ठी- समास इति । तैर्महीधरादयो व्याख्याताः॥ ३६॥ तैर्ब्रह्मविदादिभिर्महीधरादयो व्याख्याताः । धरतीति धरः । मह्या धरो महीधरः । एवं गङ्गाधरादयो व्याख्याताः । भिदुरादयः कर्मकर्तरि कर्तरि च ॥ ३७॥ 'भिदुरं काष्ठम्' 'भिदुरं तमः' 'तिमिरभिदुरं व्योम्नः शृङ्गं-' इति, 'छिदुरातपो दिवसः' 'मत्सरच्छिदुरं प्रेम' 'भङ्गुरा प्रीतिः' 'मातङ्गं मान- भङ्गुरम्' इत्यादयोऽपि प्रयोगा दृश्यन्ते । ते कथमित्यत्राह–ते कर्म- कर्तरि कर्तरि च भवन्ति । 'कर्मकर्तरि चायमिष्यते' इत्यत्र हि चकारः कर्तरि चेत्यस्य समुच्चयार्थः । गुणविस्तरादयश्चिन्त्याः ॥ ३८ ॥ 'गुणविस्तरः', 'व्याक्षेपविस्तरः' इत्यादयः प्रयोगाश्चिन्त्याः; 'प्रथने वावशब्दे' (पा. ३।३।३३) इति घप्रसङ्गात् । अवतरापचायशब्दयोर्दीर्घह्रखत्वव्यत्यासो बालानाम् ॥३९॥ अवतरशब्दस्यापचायशब्दस्य च दीर्घत्वहस्वत्वयोर्व्यत्यासो बालानां बालिशानां प्रयोगेष्विति । ते बैवतरणमवतार इति प्रयुञ्जते मारुताव- १. 'शब्दप्रयोगाः' क. २. 'ब्रह्मादिषु हन्तेरत्र नियमात्' ख. ३. 'भिदुर तमः' क. पुस्तके नास्ति.. ४. 'ते' क-पुस्तके नास्ति. ५. 'भवन्ति' क-पुस्तके नास्ति. ६. 'व्याक्षेपः' ख. ७. 'ह्यवतर अवतारः क. ६ काव्या.
८२ काव्यालंकारसूत्राणि [अधिक० ५ तार इति । स ह्ययुक्तः; भावे तररैविधानात् । अपचायमपचय इति प्रयुञ्जते-पुष्पापचय इति । अत्र 'हस्तादाने चेरस्तेये' (पा. ३।३१४०) इति घशाप्त इति । शोभेति निपातनात् ॥ ४०॥ शोभेत्ययं शब्दः साधुः, निपातनात्-'शुभ-शुम्भ शोभार्थी' इति । शुभर्भिदादेराकृतिगणत्वार्दङ् सिद्ध एव । गुणप्रतिषेधाभावस्तु निपात्यत इति । 'शोभार्थी' इत्यत्रैकदेशे किं शोभा, आहोखिच्छोभ इति विशे- षावगतिराचार्यपरम्परोपदेशादिति । अविधौ गुरोः स्त्रियां बहुलं विवक्षा ॥४१॥ अविधै 'गुरोश्च हलः' (पा. ३।३।१०३ ) इत्यविधाने स्त्रियां बहुलं विवक्षा क्वचिद्विवक्षा, क्वचिदविवक्षा, कचिदुभयमिति । विवक्षा यथा-ईहा लज्जेति । अविवक्षा यथा--आतङ्क इति । विवक्षाविवक्षे यथा--बाधा बाधः, ऊहा ऊहः, व्रीडा वीडः, इति । व्यवसितादिषु क्तः कर्तरि, चकारात् ॥४२॥ व्यवसितः, प्रतिपन्न इत्यादिषु भावकर्मविहितोऽपि क्तः कर्तरि, गत्यादिसूत्रे चकारस्यानुक्तसमुच्चयार्थत्वात् । भावकर्मानुकर्षणार्थत्वं चकारस्येति चेत्, आवृत्तिः कर्तव्या । आहेति भूतेऽन्यणलन्तभ्रमाद् अवो लटि ॥ ४३ ।। 'ब्रुवः पश्चानां-' (पा. ३१४४८४) इत्यादिना आहेति लट् व्युत्पा- दितः। स भूते प्रयुक्तः-'इत्याह भगवान्मभुः' इति । अन्यस भूत- 74 १. 'रलविधानात् क. २. 'भवचायमवचयः' ख. ३. 'अन' क-पुस्तक नास्ति, ४. 'दकः सिद्धत्वादेवख. ५. 'पारम्पर्योपदेशात्' क. ६. 'कर्तरि कः' ख. ७. 'तदावृत्तिः' स. ८. 'डलन्त' ख.ग.
अध्यायः २ सू. ४०-४६] शब्दशुद्धिनिरूपणम् ८३ कालाभिधायिनो लिटि लन्तस्य भ्रमात् । निपुणांश्चैवं प्रयुञ्जते-'आह स्म स्मितमधुमधुराक्षरां गिरम्' इति । 'अनुकरोति भगवतो नारायणस्य' इत्यत्रापि 'मन्ये' 'स्म' शब्दः कविना प्रयुक्तो लेखकैस्तु प्रमादान्न लिखित इति । शबलादिभ्यः स्त्रियां टापोप्राप्तिः ॥४४॥ 'उपस्रोतःस्वस्थ स्थितमहिपङ्गाग्रशबलाः स्रवन्तीनां जाताः प्रमुदितविहंगास्तटभुवः ।' 'भ्रमरोत्करकल्माषाः कुसुमानां समृद्धयः।' इत्यादिषु स्त्रियां टापोऽप्राप्तिः। 'अन्यतो ङीष्' (पा.४।१।४०) इति ङीष्विधानात् । तेन शबली, कल्माषीति भवति । प्राणिनि नीति चिन्त्यम् ॥ ४५ ॥ 'कुवलयदलनीला कोकिला बालचूते' इत्यादिषु नीलेति चिन्त्यम् । कोकिला नीलीति भवितव्यम् ; नीलशब्दात् 'जानपद-' (पा.४।१।४२) इत्यादिसूत्रेण 'प्राणिनि च' (वा. २४५७) इति ङीविधानात् । मनुष्यजातेर्विवक्षाविवक्षे ॥ ४६॥ 'इतो मनुष्यजातेः' (पा. ४।११६५), 'ऊतः' (पा. ४।१।६६) इत्यत्र मनुष्यजातेर्विवक्षा; अविवक्षा च लक्ष्यानुसारतः। 'मन्दरस्य मदिराक्षि! पावतो निम्ननाभि न भवन्ति निम्नगाः । वासु वासुकिविकर्षणोद्भवा भामिनीह पदवी विभाष्यते ॥' अत्र मनुष्यजातेर्विवक्षायां 'इतो मनुष्य जातेः' (पा.४।१।६५) इति डीषि सति 'अम्बार्थनद्योईस्वः' (पा. ७।३।१०७) इति संबुद्धौ ह्रस्वत्वं १. 'डलन्तस्य ख. २. 'स्वेवं ख. ३. 'मधुमजदक्षरा क. ४. प्रमादान' क- पुस्तके नास्ति, ५. 'गोवर्ग' ख. ६. 'सेनेत्यादि भवति' इत्यन्त क-पुस्तके नास्ति. ७. 'इति इत्यत्र च विवक्षा अविवक्षा च' ख. ८. 'पाशवासुकि क. १. 'संबुद्धी' ख-पुस्तके नास्ति.
काव्यालंकारसूत्राणि [अधिक० ५ - सिध्यति । नाभिशब्दात्पुनः इतश्च 'प्राण्यङ्गात्-' (वा. ३१८९) इती- कारे कृते निम्ननाभीके इति स्यात् । 'हेतोष्ठरागैनयनोदबिन्दुभिर्निममनाभेनिपतद्भिरक्षितम् । च्युतं रुषा भिन्नगतेरसंशयं शुकोदरश्याममिदं स्तनांशुकम् ॥' अत्र निममनामेः' इति मनुष्यजातेरविवक्षेति ङीष् न कृतः। 'सुतनु जहिहि कोपं -' इत्यत्र मनुष्यजातेर्विवक्षेति 'सुतनु'शब्दात् 'ऊंडुतः' (पा. ४।१।६६) इत्यूङि सति हस्वत्वे 'सुतनु' इति सिध्यति । 'वरतनु- रथवास्मिन्नैव दृष्टा त्वया मे' । अत्र मनुप्यजातेरविवक्षेत्यूङ् न कृतः । ऊकारान्तादप्यू, प्रवृत्तेः ॥ ४७ ।। उत ऊङ् विहित ऊकारान्तादपि क्वचिद्भवति; आचार्यप्रवृत्तेः । कासौ प्रवृत्तिः ? । 'अप्राणिजातेश्चारज्वादीनाम्' (वा. २५०२) इति अलाबूः कर्कन्धरित्युदाहरणम् । तेन 'सुश्रु ! किं संभ्रमण' । अत्र 'सु 'शब्द ऊङि सिद्धो भवति । ऊङि त्यसति सुभूरिति स्यात् । कार्तिकीय इति ठञ् दुर्धरः ॥ ४८ ।। 'कार्तिकीयो नभखान्' इत्यत्र 'कालाहम्' (पा. ४।३।११) इति ठञ् दुर्धरः । ठम् भवन् दुःखेन ध्रियत इति । शार्वरमिति च ॥४९॥ 'शार्वरं तमः' इत्यत्र च 'कालाहम्' (पा. ४।३।११) इति ठञ् दुर्धरः। शाश्वतमिति प्रयुक्तेः ॥५०॥ १, "सवि.क. २. 'वृत्तोष्ट ख. ३. 'नित्रनामे:' ख. ४. 'मान' क. ५. 'सुतनु- शब्दान्मनुष्यजाते' ख. ६. 'ऊडकृत ऊकि सति' स. ७. "पूर्ववत् इखत्वे सुतनु- शब्दः सिध्यति' ख. ८. 'प्रिया में स्व. ९. "किं सुश्रु' क. १०. 'इत्यत्र स शब्दा- दूङ् सिद्धो भवति'ख, ११. 'हे सुबू' ख. १२. 'भवन' ख. १३. "प्रयुकः क.
अध्यायः २ सू. ४७-५४] शब्दशुद्धिनिरूपणम् 'शाश्वतं ज्योतिः' इत्यत्र शाश्वतमिति न सिध्यति; 'कालाह (पा. ४।३।११) इति ठप्रसङ्गात् । 'येषां च विरोधः शाश्वतिकः' (पा. २।४।९) इति सूत्रकारस्यापि प्रयोगः । आह-प्रयुक्तेः । 'शा- श्वते प्रतिषेधः' इति प्रयोगात् शाश्वतमिति भवति । राजवंश्यादयः साध्वर्थे ये' भवन्ति ॥५१॥ राजवंश्याः, सूर्यवंश्या इत्यादयः शब्दाः 'तत्र साधुः' (पा. ४।४।- ९८) इत्यनेन साध्वर्थे यति प्रत्यये सति साधवो भवन्ति । भवार्थे पुनर्दिगादिपाठेऽपि 'वंश' शब्दस्य वंशशब्दान्तान्न यत्प्रत्ययः; तदन्त- विधेः प्रतिषेधात् । दारवशब्दो दुष्प्रयुक्तः ॥ ५२ ॥ 'दारवं पात्रम्' इति 'दारव'शब्दो दुष्प्रयुक्तः । 'नित्यं वृद्धशग- दिभ्यः' (पा. ४।३।१४४) इति मयटा भवितव्यम् । ननु विकारा- वयवयोरर्थयोर्मयडू विधीयते । अत्र तु 'दारुण इदम्' इति विवक्षायां दारवमिति भविष्यति ? नैतदेवम् ; 'वृद्धाच्छः' (पा. ४।२।११४ ) इाते च्छविधानात् । मुग्धिमादिष्विमनिज् मृग्यः ॥ ५३॥ मुग्धिमा-प्रौढिमेत्यादिषु इमनिज् मृग्यः अन्वेषणीय इति । औपम्यादयश्चातुर्वर्ण्यवत् ॥ ५४॥ औपम्यं, सांनिध्यमित्यादयश्चातुर्वर्ण्यवत् ‘गुणवचन-' (पा. ५:१।- १२४) इत्यत्र 'चातुर्वर्ण्यादीनां (स्वार्थे] उपसंख्यानम्' (वा.३०९१) इति वार्तिकात्स्वार्थिकष्यजन्ताः । १. 'ये सति' ख. २. 'इलादयः साधावर्थ यो यस्तत्र साधुरिति तस्मिन्सति भवन्तीति' क. ३. 'वंशशब्दस्य' इति ख-पुस्तके नास्ति. ४. 'इत्यादिषु' ख. ५. 'चातुर्वर्ण्यवत्खार्थिकः यम् स्यात्' क. mamein काव्यालंकारसूत्राणि [अधिक०५ ष्यजः पित्करणादीकारो बहुलम् ॥ ५५ ॥ गुणवचनब्राह्मणादिभ्यः' (पा. ५।१।१२४ ) इति यः प्यञ् तस्य षेत्करणादीकारो भवति, से बहुलम् । 'ब्राह्मण्यम्' इत्यादिषु न भवति । सामग्र्यम्' इत्यादिषु विकल्पितः। सामग्र्यं सामग्री, वैदग्ध्यं वैदग्धीति। धन्वीति ब्रीह्यादिपु पाठात् ।। ५६॥ व्रीह्यादिषु 'धन्वन्' शब्दस्य पाठात् धन्वीति इनौ सति सिद्धो भवति । चतुरस्रशोभीति णिनौ ॥ ५७ ॥ 'बभूव तस्याश्चतुरस्रशोभि वपुर्विभक्तं नवयौवनेन ।' इत्यत्र 'चतुरस्रशोभि' इति न युक्तम् । ब्रीह्यादिषु 'शोभा'शब्दस्य पाठे. ऽपि इनिरत्र न सिध्यति; 'ग्रहणवता प्रातिपदिकेन' तदन्तविधिप्रति- षेधात् । भवतु वा तदन्तविधिः । कर्मधारयान्मत्वर्थीयानुपपत्तिः, लघु- त्वात्क्रमस्येति बहुव्रीहिणैव भवितव्यम् । तत्कथमिति मत्वर्थीयस्याप्राप्तौ चतुरस्रशोभीति प्रयोगः ? । आह----णिनौ । चतुरस्रं शोभत इति ता- च्छीलिके णिनावयं प्रयोगः । अथ 'अनुमेयशोभि' इति कथम् ? । नह्यत्र 'पूर्ववद्वृत्तिः शक्या कर्तुमिति, शुमेः साधुकारिण्यावश्यके वा णिनिं कृत्वा तदन्ताच्च भावप्रत्यये पश्चाबहुव्रीहिः कर्तव्यः-अनुमेयं शोभित्वं यस्येति । भावप्रत्ययस्तु गतार्थत्वान्न प्रयुक्तः । यथा-निरी- कुलं तिष्ठति', 'सघीरमुवाच' इति । १. 'गुणवचने' ख. २. 'स' क-पुस्तके नास्ति. ३. क-पुस्तके सामम्यमित्या- दिसूत्रं पूर्वसूत्रवृत्तावन्तर्भावितम्. ४. "विकस्पेन' ख. ५. 'इति' ख-पुस्तके नास्ति. ६. 'धन्वन्' ख. ७. 'युक्तः' । 'ब्रीह्यादौ शोभाशब्दपाठेऽपि' क. ८. 'प्रातिपदिके- नेति' क. ९. भवितव्यमिति मत्वर्थीयस्याप्राप्तिः। तत्कथं चतुरन' क. १०. 'पूर्ववत्कृ- दवृत्तिः'ख.११. 'तदन्ताद भावप्रत्ययः ग, १२. 'युक्तः' क.१४. 'निराला'ख. टिप्प०-1 तथोक्तम्-'अहणवता प्रातिपदिकेन वदन्तविधिर्नेप्यते' इति ।
अध्यायः २ सू. ५५-६२] शब्दशुद्धिनिरूपणम् कञ्चुकीया इति क्यचि ॥ ५८ ॥ 'जीवन्ति राजमहिपीमनु कञ्चुकीयाः' इति कथम् ? मत्वर्थीयस्य च्छप्रत्ययस्याभावात् । आह-क्यचि । क्यचि अच् प्रत्यये सति कञ्चुकीया इति भवति । कञ्चकमात्मन इच्छन्ति कञ्चुकीयाः । बौद्धप्रतियोग्यपेक्षायामप्यातिशायनिकाः ॥ ५९ ॥ बौद्धस्य प्रतियोगिनोऽपेक्षायामप्यातिशायनिकास्तरबादयो भवन्ति- 'धनतरं तमः', 'बहुलतरं प्रेम' इति । कौशिलादय इलचि वर्णलोपात् ॥ ६० ॥ 'कौशिलः, वासिल' इत्यादयः कथम् ? । आह-~-इलचि वर्ण- लोपात् कौशिक-वासिष्ठादिभ्यः शब्देभ्यो नीतावनुकम्पायां वा 'घनिलचौ च' (पा. ५।३।७९) इति इलचि कृते 'ठाजादावूर्व द्वितीयादचः' (पा. ५/३।८३ ) इति वर्णलोपाध्यिति । मौक्तिकमिति विनयादिपाठात् ॥ ६१ ॥ मुक्तव मौक्तिकमिति विनयादिपाठाद्रष्टव्यम् । 'खार्थिकाश्च प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते' इति नपुंसकत्वम् । प्रातिमादयः प्रज्ञादिषु ॥ ६२ ॥ प्रीतिभादयः शब्दाः प्रज्ञादिषु द्रष्टव्याः । प्रतिभा-विकृति-द्विता- दिभ्यः शब्देभ्यः प्रज्ञादिपाठादेणि स्वार्थिके कृते प्रातिभ, वैकृतं, द्वैत- मित्यादयः प्रयोगाः सिध्यन्तीति । १. 'भत आह' ख. २. 'बहुतरं' क. ३. 'वाशिल' ख. ४. 'कथं कौशिक- वशिष्टादिभ्यो' ख. ५. 'वा' ख-पुस्तके नास्ति. ६. 'सिध्यतीति' क. ७. 'योगात्' ख. ८. 'मुत्तव' क-पुस्तके नास्ति. ९. ख-पुस्तके 'स्वार्थिकाथवर्तन्ते' इति सूत्रत्वेन गणितम्. १०. 'प्रतिभादयः' क. ११. 'प्रतिभादयः क. १२. 'अपि ख.
८८ काव्यालंकारसूत्राणि [अधिक० ५ न सरजसमित्यनव्ययीभावे ॥६३ ॥ 'मधु सरजसं मध्येपद्मं पिबन्ति शिलीमुग्वाः' इत्यादिषु सरजसमिति न युक्तः प्रयोगः अनव्ययीभावे; अव्ययी- भाव एव 'सरजस'शब्दस्येष्टत्वात् । न धृतधनुषीत्यसंज्ञायाम् ॥ ६४ ॥ 'धृतधनुषि शौर्यशालिनि' इत्यत्र 'धृतधनुषि' इत्यसंज्ञायां न युक्तः प्रयोगः; 'धनुषश्च'( पा. ५१४।१३२ ) इत्यविधानात् । संज्ञायां छैनङ् विकल्पिनः वा संज्ञा- याम्' (पा. ५।४।१३३ ) इति । दुर्गन्धिपद इदुर्लभः ।। ६५ ॥ "दुर्गन्धिः कायः' इत्यादिषु 'दुर्गन्धि'पदे इत् समासान्तो दुर्लभः; उत्पूत्यादिषु दुःशब्दस्यापाठात् । सुदत्यादयः प्रतिविधेयाः ॥ ६६ ॥ 'सा दक्षरोषासुदती ससर्ज' इति, "शिखरदति पतति रशना' इत्यादिषु सुदत्यादयः शब्दाः प्रतिविधेयाः; दैत्रादेशलक्षणाभावात् । तत्र प्रतिविधानम्----'अग्रान्त-' (पा. ५।४।१४५) आदिसूत्रे चकारस्यानुक्तसमुच्चयार्थत्वात्सुदत्यादिषु दत्रादेशः” इत्येके । अन्ये तु वर्णयन्ति-'सुदत्यादयः स्यभिधायिनो योगरूढशब्दाः । तेषु 'स्त्रियां संज्ञायाम् (पा. ५।४।१४३) इति दत्रादेशो विकल्पेन सिद्ध एव' इति । क्षतढोरस इति न कप् , तदन्तविधिप्रतिषेधात् ॥ ६७ ॥ 'प्लवंगनखकोटिभिः क्षतढोरसो राक्षसाः' १. पाठः' क. २. 'प्रयोगः' क-पुस्तके नास्ति. ३. "ह्यनाद्विकल्पों क. ४. 'दुर्ग न्धीति दुर्लभः' ख. ५. 'इत्यादिषु समासान्तो' ख. ६. 'शब्दाः' क-पुस्तके नास्ति ७. 'आदेश' ख. ८. 'तच्च क. ९. 'सूत्रेण ख. १०. 'राक्षसः इत्यत्र दृढोरस इति उरःप्रमृतिभ्या का अध्यायः २ सू. ६३-७३] शब्दशुद्धिनिरूपणम् ८९ इत्यत्र 'दृढोरः' शब्दात् 'उरःप्रभृतिभ्यः कैप्' (पा. ५।४।१५१) इति कप् न कृतः; 'ग्रहणवता प्रतिपदिकेन' इति तदन्तविधेः प्रति- षेधात् । समासवाक्यं त्वेवं कर्तव्यम् --~-क्षतं दृढोरो येषामिति । अवैहीति वृद्धिरवद्या ॥ ६८॥ अवैहीत्यत्र वृद्धिरवद्या, गुण एव युक्त इति । अपाङ्गनेत्रेति लुगलभ्यः ॥ ६९ ॥ अपाङ्गे नेत्रे यस्याः सेयमपाङ्गनेत्रेत्यत्र लुगलभ्यः । 'अमूर्धमस्तका- स्वाङ्गादकामे' (पा. ६।३।१२) इति सप्तम्या अलुग्विधानात् । नेष्टाः श्लिष्टप्रियादयः, पुंवद्भावप्रतिषेधात् ॥ ७० ॥ श्लिष्टप्रियः, वृद्धकान्त इत्यादयो नेष्टाः । "स्त्रियाः पुंवत्-' (पा. ६।३।३४) इति पुंवद्धावस्य प्रियादिपु निषेधात् । दृढभक्तिरिति सर्वत्रेति ॥ ७१ ॥ 'दृढभक्तिरसौ ज्येष्ट। अत्र पूर्वपदस्य 'अस्त्रियां' विवक्षितत्वात् । जम्बुलतादयो हस्खविधेः ।। ७२ ॥ जम्बुलतादयः प्रयोगाः कथम् ? । आह-हस्वविधेः । 'इको हखोऽङयो गालवस्य' (पा. ६।१६१) इति हस्व विधानात् । तिलकादयोऽजिरादिपु ।। ७३ ।। तिलकादयः शब्दा अजिरादिषु द्रष्टव्याः । अन्यथा 'तिलकवती, कनकवती'त्यादिषु मतुपि 'मतौ बईचोऽनजिरादीनाम्' (पा. ६।३।- १. 'कप न कृतः' ख. २. 'प्रातिपदिकेनात तदन्तविधिः' क. ३. 'अवैहि इति वृद्धिरवद्या गुण एवान'ख. ४. 'दृढभक्तिरसा क. ५. 'दृढभक्तिरसी ज्येष्टेक- पुस्तके नास्ति. ६. 'अस्नियां विवक्षितत्वात् क. ७. 'जलजम्बु'ख.ग. ८.'प्रयोगा' क-पुस्तके नास्ति. ९. 'बढ्यो' ख. १ काव्यालंकारसूत्राणि [अधिक०५ ११९) इति दीर्घत्वं स्यात् । केचित्तु वर्णयन्ति- 'नद्यां मतुप्' (पा. ४।२।८५) इति यो मतुप् तत्रायं विधिः, तेषां मतं न; अमरावती- त्यादीनामसिद्धेः। निशम्य-निशमय्यशब्दो प्रकृतिभेदात् ।। ७४ ॥ निशम्य-निशमय्येत्येतौ शब्दौ श्रुत्वेत्येतस्मिन्नथें । शमेः ल्यपि त्यपि लघुपूर्वात्' (पा. ६।४।५६) इत्ययादेशे सति निशमय्येति भवि- तव्यम् , न निशम्येति । आह-प्रकृतिभेदात् । शंमेवादिकस्य निश- म्येति रूपम् । 'शमो दर्शने' इति चुरादौ णिचि मित्संज्ञकस्य निश- मय्येति रूपम् । संयम्य-नियम्यशब्दौ, अणिजन्तत्वात् ॥ ७५ ॥ कथं संयम्य-नियम्यशब्दौ ? । 'ल्यपि लघुपूर्वात्' (पा. ६।४।५६) इति णेरयादेशेन भवितव्यम् । आह-अणिजन्तत्वात् । धातोणिच् ने कृतः; गतार्थत्वात् । यथा--'वाचं नियच्छति' इति । णिजनवगतौ तु णिच् प्रयुज्यत एव । यथा---'संयमयितुमारब्धः' इति । अपीयेति पीङः॥ ७६ ॥ प्रपीयेत्ययं शब्दः 'पीङ् पाने' इत्येतस्य । पिर्वतेहि 'न ल्यपि, (पा. ६।४।६९) ईतीत्वप्रतिषेधात्प्रपायेति भवति । दूरयतीति बहुलग्रहणात् ॥ ७७ ॥ 'दूरयत्यवनते विवस्वति' इत्यत्र दूरयतीति कथम् ? । णाविष्ठवद्भावे 'स्थूलदूर--' (पा.६।४।१५६) इत्यादिना गुणलोपयोः कृतयोर्दवयतीति १. 'नामरावतीत्यस्यापि सिद्धिः' क. २. 'अत्र शमेपि' क. ३. शमादेः शमो' क. ४. 'नियम्यशब्दो' ख. ५. 'तुन' क. ६. "नि ख. ५. 'अयं ख-पुस्तके नास्ति. ८. 'हि' ख-पुस्तके नास्ति. ९. "इति हवप्रति स. १०. 'भवितव्यम् ख.
अध्यायः २ सू. ७-८१] शब्दशुद्धिनिरूपणम् ९१ भवितव्यम् । आह-बहुलग्रहणात् । प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च' (गण.२०३) इत्यत्र बहुलग्रह्णात् 'स्थूलदूर ' (पा. ६।४।१५६) आदिसूत्रेण यद्विहितं तन्न भविष्यतीति । गच्छतीप्रभृतिष्वनिषेध्यो नुम् ।। ७८ ।। 'हरति हि वनराजिर्गच्छती श्यामभावम्' इत्यादिषु गच्छतीप्रभृतिषु शब्दे यु 'श्यपश्यनोनित्यम्' इति नुम- निषेध्यो निषेद्भुमशक्यः । मित्रेण गोप्त्रेति पुंवद्भावात् ॥ ७९ ॥ 'मित्रेण गोप्त्रा' इति कथम् ? । गोप्तृणेति भवितव्यम् । 'इकोऽचि विभक्तौ' (पा. ७।३।७३ ) इति नुविधानात् । आह-~-पुंवद्भावात् । 'तृतीयादिषु भापितपुंस्कं पुंवगालवस्य' (पा. ७१।७४ ) इति पुंबद्भा- वेन गोप्नेति भवति । वेत्स्यसीति पदभङ्गात् ॥ ८० ॥ 'पतितं वेत्स्यति क्षिती' इत्यत्र वेत्स्यसीति न सिध्यति; इप्रसङ्गात्। आह-पदभङ्गात् । वेत्स्यसीति पदं भज्यते-वेत्सि, असि । 'असि'- इत्ययं निपातस्त्वमित्यस्मिन्नर्थे । कचिद्वाक्यालंकारे प्रयुज्यते । यथा-- 'पार्थिवस्वमसि सत्यमभ्यधाः' इति । कामयानशब्दः सिद्धोऽनादिश्चेत् ।। ८१॥ 'कामयान'शब्दः सिद्धः 'आगमानुशासनमनित्यम्' इति मुक्यकृते, यद्यनादिः स्यात् । १. "मत्र' ख-पुस्तके नास्ति. २. 'प्रभृतिभ्यो' ख. ३. 'हरति वचनराजिक. ४. 'प्रतिशब्देषु' क. ५. 'वेत्स्तीति' क. ६. 'अत माहस... 'मसि' ख-पुस्तके नास्ति. ८. 'निल निपातः । त्वमित्येतस्मि म क. ९. पार्थिव ख. १०. "सिद्धः' ख-पुस्तके नास्ति. ११. 'युक्यकृते स. १२. 'स्मादिविक, mmswwwmom ammign now HAIN ९२ काव्यालंकारसूत्राणि [अधिक० ५ सौहृद-दौहंदशब्दावणि हृद्भावात् ॥ ८२ ॥ सुहृदय-दुहृदयशब्दाभ्यां युवादिपाठादणि ते हृदयस्य हृद्भावे आदिवृद्धौ सौहृद-दौ«दशब्दौ भवतः । सुहृदुहृच्छब्दाभ्यां युवादिपाठा- देवाणि कृते 'हृद्धगसिन्ध्वन्ते-' (पा. ७।३।१९) इति हृदन्तस्य तद्धि- तेऽणि कृते सत्युभयपदवृद्धौ सत्यां सौहार्द दौहार्दमिति भवति । विरम इति निपातनात् ।। ८३ ॥ रमेरनुदात्तोपदेशत्वात् 'नोदात्तोपदेशस्य--' (पा. ७।३।३४) इत्या- दिना वृद्धिप्रतिषेधस्याभावात्कथं विरम इति ? । आह-निपातनात् । निपातनं तु 'यम उपरमे' इत्यत्रोपरम इति। एतत्तु चोपलक्षणम्- अतन्त्रं चोपोपसर्ग इति। उपर्यादिषु सामीप्ये द्विरुक्तेषु द्वितीया ।। ८४ ॥ उपर्यादिषु शब्देषु सामीप्ये द्विरुक्तेषु 'उपर्यध्यधसः सामीप्ये (पा. ८।११७) इत्यनेन 'उपर्यादिषु त्रिषु द्वितीयामेडितान्तेषु' इति द्वितीया । वीप्सायां तु द्विरुक्तेपु षष्ठ्येव भवति- 'उपर्युपरि बुन्द्रीनां चरन्नीश्वरबुद्धयः । इति । मन्दं मन्दमित्यप्रकारार्थत्वे ॥ ८५ ॥ 'मन्दं मन्द हुँदति पवनः' (मेघ. पूर्व. ५) इत्यत्र 'मन्दं मन्दम्' इत्यप्रकारार्थे भवति । प्रकारार्थत्वे तु 'प्रका गुणवचनस्य' (पा. ८।१।१२) इति द्विवंचने कृते कर्मधारयवद्धार मन्दमन्दमिति प्रयोगः। मन्दं मन्दमित्यत्र तु 'नित्यवीप्सयोः' ( (पा १. 'भवत इति' क. २. 'ऽणीत्युभयपद' क. ३. 'इत्यत्र चोपसर्ग इति' क ४. 'सामीप्येषु' ख. ५. "त्रिषु' क-पुस्तके नास्ति, ६. 'इत्या प्रकारार्थत्वे' ख ७. 'तुदति' ख. ८. 'तु' ख-पुस्तके नास्ति. - अध्यायः २ सू. ८२-९०] शब्दशुद्धिनिरूपणम् ८।१।४) इति द्विर्वचनम् । अनेकभागात्मकस्य नुदेर्यदा सर्वे भागा मन्दत्वेन ब्याप्तुमिष्टा भवन्ति तदा वीप्सेति । न निद्रागिति, भष्भावप्राप्तेः ॥ ८६ ॥ 'निद्राद्रुक्कादयेयच्छविरुपरिलसद्धर्घरो वारिवाहः' इत्यत्र 'निद्रौद्रुक्' इति न युक्तः। 'एकाचो बशो भष्-' (पा. ८।२।३७) इति भप्भावप्राप्तेः । अनुप्रासप्रियस्त्वेपभ्रंशः कृतः । निष्पन्द इति पत्वं चिन्त्यम् ॥ ८७ ॥ नह्यत्र षत्वलक्षणमस्ति । सुषामादिपाठोऽप्यस्य न निश्चितः । नाङ्गुलिसङ्ग इति मूर्धन्यविधेः ॥ ८८ ।। 'म्लायन्त्यङ्गुलिपङ्गेऽपि कोमलाः कुसुमस्रजः' इत्यत्र 'अङ्गुलिसङ्गः' इति न युक्तः; 'समासेऽङ्गुलेः सङ्गः' इति मूर्धन्यविधानात् । तेनावन्तिसेनादयः प्रत्युक्ताः ॥ ८९ ॥ तेन 'अङ्गुलिसङ्गे' इत्यनेन 'अवन्तिसेनः' 'इन्दुसेनः' एवमादयः शब्दाः प्रत्युक्ताः प्रत्याख्याताः । 'सुषामादिषु च' (पा. ८।३।९८) 'एति संज्ञायामगात्' (पा. ८।३।९९ ग.) इति मूर्धन्यविधानात् । नेन्द्रवाहने णत्वम् ; आहितत्वस्याविवक्षितत्वात् ॥१०॥ 'कुथेन नागेन्द्रमिवेन्द्रवाहनम्' इत्यत्र 'इन्द्रवाहन'शब्दे 'वाहन- माहितात्' (पा. ८।४।८) इति णत्वं न भवति; आहितत्वस्याविवक्षि- १. 'तुदेः ख. २. 'ध्रुगिति' क. ३. 'ध्रुक' क. ४. 'ध्रुगिति' क. ५. 'स्वय- मपभ्रंशः' क. ६. 'न' क-पुस्तके नास्ति. ७. 'अवन्तिसेना इत्येवमादयः' ख. ८. 'प्रत्याख्याताः' क पुस्तके नास्ति. १. 'सुषमादिग्विति संज्ञायां मूर्धन्य' ख. १०. 'इन्द्रवाहनशब्दे' क.
काव्यालंकारसूत्राणि [अधिक० ५
तत्वात् । स्वस्वामिभावमात्रं यत्र विवक्षितम् । तेन सिद्धम् ‘इन्द्रवाहनम्'
इति ॥
सदसन्तो मया शब्दा विविध्यैवं निदर्शिताः ।
अनयैव दिशा कार्य शेषाणामप्यवेक्षणम् ।।
इति काव्यालंकारसूत्रवृत्तौ प्रायोगिके पञ्चमेऽधिकरणे द्वितीयोऽध्यायः ।
समाप्तं चेदं प्रायोगिकं पञ्चममधिकरणम् ।
समाप्तोऽयं ग्रन्थः ॥
-aanemara+
'या' ख-पुस्तके नास्ति. २. "विविच्याल्पे न ख. ३. 'दोषाणां' क.
काव्यालङ्कारसूत्रानुक्रमकोशः सूत्राणि अधि. अ.सू. अर्थवैमल प्रसादः २ . ८ ९ अधि. अ. सू. सूत्राणि ३. २. ३ अग्राम्यत्वमुदारता ३. २. १२ अर्थव्यक्तिहेतुत्व- मजरठत्वं सौकुमार्यम् ३.१.२१ मर्थव्यक्तिः अतद्रूपस्यान्यथाध्यवसान- अर्धस्तदवगमः मतिशयार्थमुत्प्रेक्षा ४. ३. ९ । अर्थस्य प्रौदिरोजः मनाविद्धललितपदम् १. ३. २४ अर्थो द्विविधः, अयोनि- अनुक्तौ समासोक्तिः रन्यच्छायायोनिर्वा ३.२. अनुपपत्तिरसंभवः ४. २.२० अर्थो व्यक्तः सूक्ष्मश्च ३.२. अनुल्बणो वर्णानुप्रासः अवतरापचायशब्दयो- श्रेयान् र्दीर्घहस्वस्वव्यत्यासो अनैकान्त्याच ३.१.१५ बालानाम् ५. २.३९ अन्त्याभ्यां वाक्यं अविधौ गुरोः स्त्रियां बहुलं व्याख्यातम् विवक्षा अन्यार्थनेयगूढार्थाश्लील- अवैहीति वृद्धिरवद्या ५.२.६७ क्लिष्टानि च असादृश्यहता झुपमा, अपाङ्गनेवेति लुगलभ्यः ५.२.६८ तनिष्ठाश्च कवयः अपारुष्यं सौकुमार्यम् ३. २. ११ अप्रतीतगुणलादृश्यम- भारोहावरोहक्रमः साहश्यम् समाधिः अप्रसिद्धार्थप्रयुक्त गूढार्थम् भारोहावरोहनिमित्त अप्रसिखासभ्यं गुप्तम् समाधिराख्यायते अभिधानकोशात् माहेति भूतेऽन्यणलतभ्रमा- पदार्थनिश्चयः हुवो लटि ५.२.४३ भरोचकिनः सतृणाम्यव- इ हारिणश्च कवयः १. २. इतिवृत्तकुटिलत्वं च ततः १. ३. १० मर्थदृष्टिः समाधिः ३. २. ६ इष्टः पुनपुंसकयोः प्रायेण १.२.५ . . .
काव्यालंकार २ सूत्राणि अधि. अ. सू. सूत्राणि अधि. अ. सू. . . उक्तसिद्धयै वस्तुनोऽर्थान्तर एकगुणहानिकल्पनायां स्यैव न्यसनमर्थान्त- साम्यदाय विशेषोक्तिः ४. ३. २३ रन्यासः ४. ३. २१ एकस्योपमेयत्वोपमानत्वे- उक्तार्थपदमेकार्थम् २.२.११ ऽनन्वयः उक्तिवैचित्र्यं माधुर्यम् ३. २. १० ओ उपमानाधिक्यात्तदपोह ओजःकान्तिमती गौडीया १. २. १२ इत्येके ४. २. १८ ओजःप्रसादयोस्तीवावस्था, उपमानेनोपमेयस्य गुण- ताविति चेदभ्युपगमः ३. १. १६ लेशतः साम्यमुपमा १. २. 9 ओजःप्रसादश्लेषसमता- उपमानोपमेययोलिङ्ग- समाधिमाधुर्यसौकुमा- व्यत्यासो लिङ्गभेदः ४. २. १२ र्योदारतार्थव्यक्ति- उपमानोपमेयवाक्येष्वेका कान्तयो बन्धगुणाः ३. १. ४ क्रिया दीपकम् औ उपमानोपमेयसंशयः औज्वल्यं कान्तिः ३.१.२४ संदेहः ४. ३. ११ औपम्यादयश्चातुर्वर्ण्यवत् ५. २. ५४ उपमानोपमेयस्य गुणसाम्या- त्तत्त्वारोपो रूपकम् ६ कञ्चुकीया इति क्यचि उपमेयस्य गुणातिरेकित्वं करिकलभशब्दे करिशब्द- व्यतिरेकः स्वादूप्यस्य उपमेयस्योक्तौ समान- कर्णावतंसश्रवणकुण्डल- वस्तुन्यासः प्रतिवस्तु १.३.२ शिरःशेखरेषु कर्णादि- उपमेयोपमानानां निर्देशः, संनिधेः क्रमसंबन्धः क्रमः ४. ३.१७ | कलाचतुर्वर्गशास्त्रविरुवा- उपर्यादिषुः सामीप्ये थोनि विद्याविरुद्धानि, २.२.२४ द्विरुक्तेषु द्वितीया कलाशास्त्रेभ्यः कलातस्वस्थ संवित् उकारान्तादृप्यूङ, प्रवृत्तेः ५. २. ३५ कल्पिवार्थ नेयार्थम् १३ सूत्रानुक्रमकोशः ३ आंच.. म. . निषेभ्यो नुम् * . धर्मा गुणाः सूत्राणि अधि.अ. सू. सत्राणि कवित्वबीजं प्रधानम् क्षीयत इति कर्मकरि कामयानशब्दः सिद्धो- अनादिश्चेत् विद्यत इति च कामशास्त्रतः कामोपचारस्य १.३. कार्तिकीय इति ठञ् दुर्धरः५. २. ४८ गच्छनीप्रभृतिघ्य- काव्यं गधं पद्य च काव्यं ग्राह्यमलंकारात् ग वृतगन्धि पूर्णमुरक- काव्यं सदृष्टादृष्टार्थम् , लिकामायन प्रीतिकीर्ति हेनुस्वात् गाढबन्धवमोजः काव्यबन्धोधमोऽभियोगः १.३.१३ काव्यशोभायाः कतारो गुणः संप्लवात गुणद्योतकोपमानोपमेय- काव्योपदेशगुरुशुश्रूषणं शम्दानां सामध्ये पूर्णा ४.२. वृद्धसेवा १.३.११, गुणवाहुल्यतश्च कल्पिता ४, २. किंचिदुक्तावप्रस्तुताशंसा ४. ३. गुणविपर्ययात्मानो दोषाः २. १. केसरालमित्यलतरणि ५. २.३३ गुणविन्तरादयचिन्त्याः कौशिलादय इलधि वर्ण- लोपात् घटना मेषः क्रमविधानार्थ वा क्रमसिन्डिस्तयोः सगुस- चतुरस्रशोमीति णिनी सवत् विसकाध्यमवधानम् क्रमहीनार्थमपक्रमम् क्रमेणोपमेयोपमा छ क्रिययैव स्वतदर्यान्वय- छन्दोविचितेर्वृत्तसंशय- ख्यापन निदर्शनम् क्रियाप्रतिषेधे प्रसिदताफळ- व्यक्तिर्विभावना १.३.१३ जम्बुलतादयो विधेः ५.२.४२ क्षताडोरस इति न कर, आतिप्रमाणधर्मन्यूनतोप- तदन्तविधिप्रतिषेधात् ५.२.६७ मानस्या हीनत्वम् . . .
काव्यालंकार- - अधि. अ. सू. अधि, अ. सू. १ 4 ९ . . सूत्राणि सूत्राणि त तेन वचनभेदो व्याख्यातः ४. २. १५ त एवार्थगुणाः ३. २. तेन विपर्ययो व्याख्यातः ५.१. ततोऽन्यभेदक्लप्तिः १. ३. ३२ तेनाधिकत्वं व्याख्यातम् ४. २. ११ तत्तु न; अतत्वशीलस्य तेनावन्तिसेनादयः तत्त्वानिष्पत्तः प्रत्युक्ताः ५.२.८९ तत्रिविधम् , आदिमध्या- तेमेशब्दौ निपातेषु न्तवाक्यवृत्तिभेदात् ४. ३. १९ तैर्महीधरादयो व्याख्याताः ५. २. ३६ तत्र काव्यपरिचयो लक्ष्य- ज्ञत्वम् १. ३. १२ दण्डनीतेर्नयापनययोः १.३. ९ तदतिशयहेतवस्त्वलंकाराः ३. १. २ दारवशब्दो दुष्पयुक्तः ५.२.५२ तदनिबद्धं निबद्धम् १. ३. २७ दीप्तरसत्वं कान्ति: ३.२.१४ तदारोहणार्थमितराभ्यास दुर्गन्धिपद इदुर्लभः इत्येके १. २. १६ दुष्टं पदमसाधु कष्टं ग्राम्य- तदिदं प्रयुक्तेषु २. २. १९ मप्रतीतमनर्थ कंच तदुपारोहादर्थगुणलेशोऽपि १. २. २५ दूरयतीति बहुलग्रहणात् ५. २. ७७ तद्देशकालाभ्याम् १. ३. १८ दृढभक्तिरिति सर्वत्रेति तवैविध्यम् , पदवाक्यार्थ देशकालस्वभावविरुद्धा- वृत्तिभेदात् र्थानि लोकविरुद्धानि २. २. २३ तद्धातुनामभागभेदे स्वर- घ सन्ध्यकृते प्रायेण २.२. ४ धनुाध्वनौ धनुःश्रुतिरा- तद्धि चित्रं चित्रपटवाद्वि- रूढेः प्रतिपत्य शेषसाकल्यात् १.३.३१ धन्वीति बीमादिषु पाठात् ५. २. तद्भेदावुपमारूपकोटप्रेक्षा- धर्मयोरेकनिर्देशेऽन्यस्य वयवो संवित् , साहचर्यात् ४. २. १० तस्यामर्थगुणसंपदाखाद्या १. २. २० तासां पूर्वा ग्राह्या, गुण- न, अपुष्टार्थत्वात् साकल्यात् न, भसंपृक्तत्वात् तिलकादयोऽजिरादिषु न कतकं पङ्कप्रसादनाय . . . . . . . . . .
सूत्रानुक्रमकोशः अधि. अ.म. सूत्राणि अधि. अ. सू. -- . . . . सूत्राणि न खरोष्ट्रौ, उष्ट्रग्वरमिति न शणमुग्रवानाभ्यासे अस. रमुत्रवानवैचित्र्यलाभः १. २. १८ पाठात् न गये समाप्तप्राय वृत्तम् , न शास्त्रमद्रव्येष्वर्थवत् १. २. अन्यत्रोद्गतादिभ्यः न सरजसमित्यनम्ययीभावे५. २. ६३ संवादात् ४ ' नाङ्गलिस्पङ्ग इति मृधन्य- न गुप्तलक्षितसंवृतानि विधः न तद्वाहुल्यमेकत्र ५. २. १६ नानिबन्द्धं चकारत्येकतेजः- न धान्यपष्टादिषु षष्टीस- परमाणुवत् १.३.२९ मासप्रतिषेधः, पुरणेन ना किंचिन्समाप्त तद्धितान्तत्वात वाक्यम् न मृतधनुपीत्यसंज्ञायाम् ५. २. ६४ नासन्तः सद्यस्वात न निद्राद्रुगिनि, नित्या मंहितैकपदवत्पादे- भभावप्राप्तेः न पाठधर्माः, सर्वत्रादृष्टेः ३. १. २७ ঘোষ न पादादौ खल्वादयः निपातेनाप्यभिहिते कर्मणि न पादान्तलघोगुरुत्वं च न विभक्तिः, परिगण- सर्वत्र ३ नस्य प्रायिकरवात न पुनरितरे, स्तोकगुणत्वास. १. २. १५ নিষা-নিম্নমহা न पृथक; भारोहावरोह- प्रकृतिभेदात् योरोजःप्रसादस्वात् ३.१.१३ निष्पन्द इनि पत्वं न भ्रान्ताः निष्क्रम्पन्वात् ३.१.२६ चिन्त्यम् न, लक्ष्मणः पृथक्वात् २. २. ५ नेवरे, तद्विपर्ययात् ३ न, वाक्यालंकारार्थम् २.१.१० नेन्द्रवाहने गत्वम् ; माहि- न, विरुद्धोऽतिशयः तस्वस्याविवक्षितस्वात् ५. २. ८९ न, विशेषश्चेदेकार्थ दुष्टम् २. २.२५ नेष्टाः लिएप्रियादयः, न वृत्तदोषारपृथग्याति- पुवन्नावप्रतिषेधात् दोषः; वृत्तस्य यत्या- नक पर द्विः प्रयोज्य स्मकत्वात् प्रायेण .
काव्यालंकार- - wr अधि.अ.स. सूत्राणि अधि. अ. सू. सूत्राणि नैकशब्दः सुप्सुपेति समासात् प्राणिनि नीलेति चिन्त्यम् ५. २. ४५ प्रातिभादयः प्रजादिषु ५.२.६२ २. १ .. १. ३. २६ भादुत्कर्षः कर्तरि च पत्रपीतिमादिषु गुणवचनेन ५. २. विद्याधर इनि वृत्तौ मध्य- पत्रलमिति लातेः के ५. २. ३२ मपदलोपिन्याम् पदमनेकार्थमक्षरं चावृत्तं बौद्धप्रतियोग्यपेक्षायामप्या- स्थाननियमे यमकम् ४. १. निशायनिकाः पदसंधर्वैरूप्यं विश्लेषो- ब्रह्मविदादयः कृदन्तवृत्या ५.३.३५ अश्लीलत्वं कष्टत्वं च २. २. ८ ब्रह्मादिषु इन्तेनियमाद- पदाधानोद्धरणमवेक्षणम् १. ३. १५ रिहाधसिद्धिः ५.२.३४ पद्यभागवद्वृत्तगन्धि पद्यमनेकभेदम् पादाः पादस्यैकस्यानेकस्य भिदुरादयः कर्मकर्तरि चादिमध्यान्तभागाः ५.२.३७ स्थानानि २ मिसवृत्तयतिभ्रष्टविसंघीनि पादानुप्रासःपादयमकवत् १.१.१० वाक्यानि पिण्डाक्षरभेदे स्वरूपलोप- म चूर्णम् पुष्पमालाशब्दे पुष्पपद- मधुपिपासुप्रभृतीनां समा- मुत्कर्षस्य सो गमिगाम्यादिपु पूरणार्थमनर्थकम् पाठात् पूर्वनिपातेऽपभ्रंशो रक्ष्यः ५.२.२० मनुष्यजातेर्विवक्षाविवझे ५. २. ४६ पूर्वे नित्याः ३ मन्दं मन्दमित्यप्रकारार्थत्वे ५. २. ८५ पूर्वे शिष्याः, विवेकित्वात् १. २. ३ मसूणत्वं श्लेषः थक्पदत्वं माधुर्यम् ३. १. २० महीनादयो मूलविभुजादि- प्रतिवस्तुप्रभृतिरुपमा- दर्शनात् प्रपञ्च: ४. ३. ५ माधुर्यसौकुमार्योपपमा प्रपीयेति पीडा पाखाली १ . . .. .
सूत्रानुक्रमकोशः सूत्राणि নাসি . . ॐ . . अधि. अ. स. मायादिविकल्पितार्थम- लभेगत्यवाणिगच्या प्रयुक्तम् कर्नुः कर्मत्वाकर्मन्ये मार्गाभेदः समता लाक्षणिकामभ्यान्वित मार्गेरात्मनेपदमलक्ष्म मित्रेण गोप्रेति पुंबद्भावात् ५, २. ७९ लिनाध्याशारी मिलिलविक्षपिप्रभृतीनां लोकमानप्रयुक, ग्राम्यम् २. १. धातुत्वम्, धातु गुण- लोकवृत्तं लोकः स्थासमाप्तः कोकमयात मंतम् मुक्ताहारशब्दे मुताशब्दः लोका विद्या प्रकीच शुढेः काव्यागानि मुग्धिमादिप्विमनिज् मृग्यः.. २. ५३ लोपे लुप्ता मौक्तिकमिति विनयादि- लोलमानादयश्वानशि लौकिक्यां समासामि- हितायामुपमाप्रपचे च ४. २. १४ यत्साश्यं सरसंपतिः समाहितम् युध्यदिति युधः क्यान्वि ५. २.२७ वर्गविछेदचलनं शहला ५. १. बलेरारमनेपदमनित्य राजवंश्यादयः साध्वथै ये शापकात भवन्ति ५. २. ५१ वस्तुस्वभावस्फुटत्वमर्थ- रात्रियामस्तुरीयः व्यक्ति ३.२.१३ रीतिरात्मा काव्यस्य ६ विकटस्यमुदारता ३.१.२२ रूढिच्युतमन्यार्थम् २. १. १२ विदर्भादिषु टिस्वात् रुद्रावित्येकशेषोऽन्विप्यः' ५.२. विपरीतमुत्कलिकाप्रायम् १. ३. २५ लक्षणाशब्दा ५. १. १५/विरम इति निपातनात् लक्ष्यज्ञत्वमभियोगो वृद्ध- विरलायमानादिपु क्या सेवावेक्षणं प्रतिभानम निरूपयः वधान छ प्रकीर्णम् विरसविराम यतिम्रष्टम् क . , १ है क ल M काव्यालंकार- अधि. अ. सू. . . . ३. विशेषो गुणात्मा १.२. शैथिल्यं प्रसादः ६ . . सूत्राणि अधि. अ. सू. सूत्राणि विरुद्धाभासत्वं विरोधः ४. ३. १२ शब्दस्मृतेः शब्दशुद्धिः विरूपपदसंधि विसंधिः २.२. शब्दस्मृत्यभिधानकोश- विविक्तो देशः च्छन्दोविचितिकला- विशिष्टा पदरचना रीतिः १.२. कामशास्त्रदण्डनीति- विशिष्टेन साम्यार्थमेक- पूर्वा विद्याः शार्वरमिति च कालक्रियायोगस्तुल्य- योगिता शाश्वतमिति प्रयुक्तेः शास्त्रतस्ते विशेषणस्य च २.२.१८ विशेषापेक्षित्वात्तयोः शास्त्रमात्रप्रयुक्तमप्रतीतम् २. १. शृङ्खला परिवर्तकश्चूर्ण- मिति भङ्गमार्गः वेत्स्यसीति पदभङ्गात् ५.२.८० शेषः सरूपोऽनुप्रासः व्यर्थैकार्थसंदिग्धायुक्ताप- ३. १. क्रमलोकविद्याविरु- शोभेति निपातनात् द्धानि च २.२. श्रुतिविरसं कष्टम् व्यवसितादिषु क्तः कर्तरि, चकारात् ५. २.४२ ष्यजः पित्करणादीकारो व्यवहितार्थप्रत्ययं क्लिष्टम् २. १. २१ बहुलम् व्यवहितार्थप्रत्ययं क्लिष्टम् २.२.२१ व्याजस्य सत्यसारूप्यं संदर्भपु दशरूपकं श्रेयः १. ३. ३० व्याजोक्तिः ४.३.२५ संवन्धसंबन्धेऽपि षष्ठी व्याहतपूर्वोत्तरार्थ व्यर्थम् २. २. १० कचित् संभाव्यधर्मतदुत्कर्षकल्प- शक्यमिति रूपं कर्माभि- नातिशयोक्तिः धायां लिङ्गवचनस्यापि संभाव्य निषेधनिवर्तने हो सामान्योपक्रमात् प्रतिषेधौ शबलादिभ्यः स्त्रियां संभाव्यविशिष्टकर्माकरणा- टापोआप्तिः निन्दास्तोत्रार्थी व्याज- शब्दस्मृतिविरुद्धमसाधु '२. १. स्तुतिः सूत्रानुक्रमकोशः . . . . . सौकर्याय प्रपञ्चः . . सूत्राणि अधि. अ.स. सूत्राणि अधि.अ. संयम्य-नियम्यशब्दो, सापि समासाभावे शुन्छ- अणिजन्तत्वात् ५.२. ७५ वैदर्भी संशयकृत्संदिग्धम् २.२.२० सा पूर्णा लुता च सङ्गविनिवृत्ती स्वरूपापत्तिः साम्योत्कर्षों च परिवर्तकः ६ सुदत्यादयः प्रतिविधेयाः ५.२. ६६ स त्वनुभवसिद्धः सूक्ष्मो भाग्यो वासनीयश्च ३. २. स दोषगुणालंकारहाना- ३ दानाभ्याम् सौन्दर्यमलंकारः २ स धर्मेषु तन्त्रप्रयोगे श्लेषः ४.३. सौहृददौ«दशब्दावणि समग्रगुणोपेता वैदर्भी १.२.११ हद्भावात् समविसहशाभ्यां परि- स्तुतिनिन्दातत्त्वाख्यानेषु ४.२. वर्तनं परिवृत्तिः समेन वस्तुनान्या- स्वलक्षणच्युतवृत्तं भिन्नवृत्तम् पलापोऽपह्नुतिः सर्वनाम्नानुसंधिवृत्ति- ह ५. १. ११ हस्ताग्राग्रहस्तादयो गुण- सर्वलक्षणच्युतवृत्तं गुणिनोर्भेदाभेदात् भिन्नवृत्तम् २. २. २ हानिवदाधिक्यमप्यकानां सा त्रिधा वैदर्भी गौडीया, विकारः ५.२.२३ पाञ्चाली चेति ९ हीनत्वाधिकत्वलिङ्गवचन- सादृश्याल्लक्षणा वक्रोक्तिः ४.३. ८ भेदासादृश्यासंभवास्त- सापि वैदर्भी, तास्थ्यात् १. २. २२ दोषाः .
सूत्रानुक्रमकोशानुबन्धः अतिप्रयुक्तं देशभाषापदम् ५. १. १३ अनुचरीति चरेष्टित्त्वात् ५. २. ३० अर्थतस्तदवगमः २. १. २ अलंकारस्थालंकारयोनित्वं संसृष्टिः ४. ३. ३० अवयों बहुव्रीहिय॑धिकरणो जन्माधुत्तरपदः ५. २. १८ अवैषम्यं समता ३. २. ५ असभ्यार्थान्तरमसभ्यस्मृतिहेतुश्चाश्लीलम् २. १. १५ अहेतौ हन्तर्णिचू चुरादिपाठात् ५. २. २९ आमूललोलादिषु वृत्तिर्विस्पष्टपटुवत् ५. २. १५ आसेत्यसतेः ५. २. २६ उत्प्रेक्षाहेतुरुत्प्रेक्षावयवः ४. ३. ३३ उपमाजन्यं रूपकमुपमारूपकम् ४. ३. ३२ शुद्धिपत्रम् पृष्टे पतिः ३९ ४१ २ अशुद्धम् वदी प्रबन्धे वैवित्र्यं शा पूणा 'प्राक्' पुरस्तात् वैदर्भी प्रबन्ध वैचित्र्यं शार्ज पूर्णा 'पुरस्तात्' प्राक् ४१ २७ ५० १ ३९ १९ वृत्त्युदाहृतपद्यानुक्रमकोशः श्लोकाः अधि.अ.म. अ - उ अचूचुरच्चण्डि अत्युच्चपदाध्यासः अथस अद्यापि स्मरति अन्योन्यसंमि अप्यशक्यं अप्यसज्जन अभिनवकु अभ्यासो हि कर्मणां अयं नानाकारो अयि पश्यसि अवहित्थव असज्जनवचो अस्त्युत्तरस्यां अहंकारेण जी अधि. अ. सू. श्लोकाः इयं गेहे लक्ष्मी २. १. ६ इह च निरन्त ४.३.२० ३. १. ९ उत्तरोष्ट २. २. १० उदितस्तु ३. २. ९ उद्गर्भहूण ४. १. २ उद्वेजयति भू ४. ३. १३ उन्मिमील २. उपर्युपरि बुद्धी १. ३. २४ उपस्रोतः ३. २. २ उपास्तां हस्तो २. २. २ उभौ यदि ३.२. ९ २ ऊरद्वन्द्वं ३.१.१० २. २. २४ एतासां राजति ४.३. ८ ए आकृष्टामल आखण्डयन्ति २.२.२३ आदाय कर्ण . आययु आलस्य आश्वपेहि मम ४.३. कदम्बकु ४. १. १० कमलमिव ४. ३. १६ कमले इव २. २.१४ कविराजम ४. ३. ८ कलिकामधु ३. २. ५ काचीगुणस्था कामोपभोग ४.३.११ कालिङ्ग लिखि ४. २. २ / किं भाषितेन ६ २.१.१९ इदं कणोत्पलं इदानी प्ल २.१.
२ काव्यालंकारसूत्र- अधि. अ. सू. श्लोकाः अधि. अ. स. कीर्तिप्रतापौ श्लोकाः कुथेन नागे कुरङ्गाक्षीणां कुरजी कुलिशशिखर कुवलयदल कुवलयवनं कुसुमशयनं क्वचिन्मसूण ३. १.१० ४. ३. १७ ४.२. २. २.२२ २. २. २२ ५. २. ९० तडित्कलिल २. २. तस्याः प्रब ३. १. २४ तां रोहिणीं १. ३. २५ तुरंगमथ ४. १. १० ते दुःख ४. ३. २२ ते हिमालय ३. १. ९ त्यज करिक ४.१. ९ त्वमेवंसौन्दर्या २. १. १२२ ३.२. २ २. २. १७ ३. २. १२ ख २. १. १९ खमिव जलं जल गगनं गगना गाहन्तां महिषा गुरुशुश्रुषया ग्रथनामि ग्रामेऽस्मिन्पथिका २.२.२४ ३.२. २ २. २. ३. २. ४ २.२.२४ ४. ३. २ १. २. १२ ४. ३. १५ दक्षात्मजाद दशनाङ्कप ४. ३. १४ दिव्येयं १. २. ११ | दुर्दर्शश्चक ४. ३. १९ दृष्ट्वैकासन ४. २. १६ / देवताभक्तितो ३. २. १३ । देवीभावं गमिता दोर्दण्डाञ्चित २. २. दोलाविलासेषु ४.२.२० ४. २. ९ धनुाकि ३. १. २२ धृतधनुषि ३.१.२० २.२.११ न केतकीनां ३.२. ५ न खल्विह नतोबत २. २. १८ नराः शील न सा धनोन्नति चकाशे पनस चकास्ति वदने चण्डालैरिव चरणकमल चलितशबर चिन्तामो च्युतसुमनसः २. २. १३ ५.२.६४ २ . ज . । जगाद मधुरां जरठकम २. १.२२ .
वृत्त्युदाहृतपद्यकोशः अधि. अ. स. लोकाः आंध... . . श्लोकाः नानाकारेण निवेशः निदानं निद्वैतं निद्राहकाद्रव्य निरानन्दः निवृष्टेऽपि २ ३. १. १२ भूष्यन्ते ३.१.२१ मृगौघः . ५.२. ८६ भ्रमर दुम ३.१.१२ ४. २. १० | मजयुद्गम मत्तालिङ मधु सरजसं . . ५.२.८८ य पाण्ड्योऽयमं पातालतालु पातालमिव पार्थिवस्त्वमसि पास्यामि पीतं पानमिदं पुरः पाण्डु पृष्ठेषु शङ्खश प्रत्यूषेषु प्रथममलसः परिम्ला प्रसीद चण्डि प्राणेश्वरपरि प्रायशः पुष्पमा प्रियेण संग्रथ्य ४. २. ३ मनसि च गिरं १.३.२३ मन्दरस्य ४. २.११ मलयजरसविलिप्त ५.२.८० मा भैः शशाङ्क ४. २. १५ मेघानिलेन ४.३.१२ म्लायन्त्य ३.२. २ ३.२.१३ योऽचलकु ४. ३. ८ ३.२.१३ रतिविगलि ४.३. ८ रसवदमृतं ३.१.११ २. २. १५ लावण्यसिन्धु २.२.१६ लीलाच ४.३.२० लोलालका ३.२.१४ र ३.२. २ . प्रेयान् साय प्लवंगनख ब ४.१.१० वसुपरासु वस्त्रायन्ते न ५. २. ५७ वह्निस्फुलिङ्ग ४. ३. १९ विचित्रभोजना M बभूव तस्याः बाष्पः पथि काव्यालंकारसूत्रवृत्त्युदाहृतपद्यकोशः अधि. अ.सू. ४. २. ११ . २.१.१४ श्लोकाः विना शपथ विमिश्रः श्या विरेचकमिदं विलुलि विविधधर विशन्तु विहाय सा व्रजति गगनं ३. २. ३ अधि.अ.सू. श्लोकाः २. २. सरश्मि चञ्चलं २. २. सवः पायात् २. २. ८ सहस्रगोरि ३. १. ५ सवर्णा कन्यका ४.१. २ सा दक्षरोषा ४. २. ११ साबाला ४.३.१६ सुदृशो रस ३. १. ९ सूत्रं ब्रा सूर्यांशुसं सैन्यानि नद्य ४. २. १४ सोऽयं संप्रति २. २. ४. ३. ३. सौवीरेष्व स्निग्धं भव ४.३.१२ २ ३.१.१० ४. २. १० श शुद्धान्तदुर्लभमिदं ४. २. १३ ३. २. २ शोभा पुष्य श्लाघ्या ध्वस्ताव २.२.२३ ४.२. २२ २.१.१३ स्वचरण स्वपिति यावदयं ३. १. ३.२.१२ ह संपदि पति संस्थानेन सत्यं हरिण सद्योमुण्डि स महात्मा सपदि कृतपद स मुनिर्ला ४. १. २ ४.३.२२ ४. २. हन्त हन्तर हरति हि ४.१. २ हरितनुषु ब ४.२. ९ हृतोष्ठरागै ३
No text on this page.
नाहानात मा IELeven संग्राह्यालङ्कारग्रन्थाः म.रू. आ. अलङ्कारसर्वस्वम् - राजानकरुय्यककृतं, जयरथकृतटीका- सहितम् । अस्मिन् शब्दार्थो भयविधालङ्काराणां मनोहरतया विवेचन विद्यते, यत एवार्य अन्यः ( रसादिज्ञान विना) अलङ्कारजिज्ञासूनामतीवोपयोगीति प्रसिद्धिः सर्वत्र । उज्वलनीलमणिः-श्रीमद्रूपगोस्वामिप्रणीतः, श्रीजीवगो- खामिप्रणीतया लोवनरोचनाव्याख्यया, श्रीमद्विश्वनाथ- विरचितया आनन्दचन्द्रिकाव्याख्यया च सहितः । काव्यप्रदीपः -महामहोपाध्यायश्रीगोविन्दविरचितः, तत्सुदुपा- ख्यवैद्यनाथकृतया टीकया सहितः । अस्मिन् ग्रन्थे काव्य- प्रकाशवत् १० उल्लासाः सन्ति । काव्यानुशासनम्-श्रीमद्वाग्भटविरचितम्, खकृतटीका- समलङ्कृतं च । ...... दशरूपकम्-श्रीधनजयविरचितं, धनिककृतया अवलोक- ३ .. ४७ टीक्रयान्वितः । साहित्यसार:-अच्युतरायप्रणीतः, स्वकृतटीकयालखतः । ८ निर्णय सागर प्रेस, मुंबई २ mmsin amadows-
No text on this page.
No text on this page.
No text on this page.