Ou

Vyaakarand-a Siddhaanta Sudhaanidhi 306

Suri Vishveshvara

PDF Proofread

Front matter

184601
THE
CHOWKHAMBA SANSKRIT SERIES,
ACTION OF RAREENADRDINARYSANSKATTWore
NO. 306
व्याकरणसिद्धान्तसुधानिधिः।
sernama
पर्वतीयविश्वेश्वर रिविरचितः ।
पापालिका परिशोषितः।
TYÄRARAN DIHANTA BUDILÂNIDHI
Br
712
Vivalkaranopadhyaya and Sahitva tirth
Pandit Malhava Sastri Bhandari
PUBLISTRIDESORDBI THE SECRETARY
HOKHAMBASANBHATISERIES OFFICEF SENARESS
ENTERTTOHARRASSOWITHLIPZIG
PARRITATEEHTHARAMMUKUNDAUNLOMBA/
S 491.2 Frostmaco, POOKSELLERS LONDON
Prindel /
-since Da Gupta,
V85
IRPE

UNIVERSAL
LIBRARY
OU_184601
LIBRARY
UNIVERSAL

OSMANIA UNIVERSITY LIBRARY PF 12 Author Call N.S491-25/V82V Acersion No.3 12.26 विश्वेश्वरसूरि rite व्या सिधान्तसुधानिधिः 1921 This book should be returned on or before the clutclaseiharko leto. अध्वर्युक्रतुरनपुंसकम्॥४॥ अध्ययुगातहोतारो यजुःसामग्विदा क्रमाव । इत्यमरः ।

११०१ व्याकरणसिद्धान्तसुधानिधौ बितीपाध्याये अत्राध्वर्युशन्दो यजुर्वेदपः । तत्रोत्पन्नस्य विनियुक्तस्य वा क्र. तोर्वाचकानामल्लीबाना द्वन्द्व एकवत् । अर्कासमेघम् । साहा- तिरात्रम् । अध्वर्युपदं किम् । इषुचत्रौ । उद्भिवलभिदौ । सा- मवेद एषां विधानम् । क्रतुशब्दस्य सोमयागेषु रूढत्वादर्शपो णमासावित्यादौ नेति वृत्तिः। अनपुंसकं किं राजसूयवाजपेये । अर्ध दिपाठालीबत्वपक्षे प्रत्युदाहरणम् । अध्ययनतो ऽविप्रकृष्टा- ख्यानाम् ॥ ५॥ अध्ययनेन निमिचेन येषामविप्रकृष्टा संनिहिता आख्या तेषां द्वन्द्व एकवत् । पदकक्रमकम् । क्रमकातिकम् । पदं क्रमं वापीते इति क्रमादिभ्यो वुन् । चि संहितामधीते वार्तिकः । उक्थ्या- दित्वाक पदाध्ययनोत्तरं क्रमाध्ययनं इति पौर्वापर्य सनिधिः । अन्त्ये तु क्रमाध्ययनस्य संहिताध्ययनव्यतिरेकप्रयुक्तव्यतिरेका जियोगित्वमेव तयति बोध्यम् । अध्ययनतः किम् । पितापुत्रौ । अविमकृष्टेति किम् । याज्ञिकवैयाकरणौ । जातिरप्राणिनाम् ॥६॥ प्राणिभिन्नत्तिर्या जाति: तद्वाचिनो द्वन्द्व एकवत् । आराश• स्त्रि । जातिः किम् । नन्दकपाश्चजन्यौ एकव्यक्तिकत्वान्न जा- तित्वम् | अमाणीति किम् । ब्राह्मणक्षत्रियविदशुद्धाः । नानिवयुक्तन्यायेन द्रव्यत्तिजातेरेव प्रहः । नेह रूपरसौ । गमनाकुश्चने । पृथिव्यप्तेजोवायूनामि. स्यादौ तु द्रव्यमाधान्यं विवक्षितम् । बदरामलकानीत्यादरिष्ठत्वा- चतुर्थपादे प्रथममाहिकम् । १। द। रक्षिता तु विविधास्तरुशैला इत्यादौ मध्यमपदलोपः। विशिष्टलिङ्गो नदीदेशोऽग्रामाः॥७॥ अग्रामा इति बहुवचनं सौत्रम् । भिन्नलिङ्गानां नदीवाचिनां देशवाचिनां च ग्रामभिन्नानां इन्द्र एकवत् । उध्यश्चरावती च उ. ध्येरावति । कुरवश्च कुरुक्षेत्रं च कुरुकुरुक्षेत्रम् । भिन्नलिङ्ग: किम् । मङ्गायमुने । मद्रकेकयाः । नदीदेवा इति किम् । कुक्कु- टमयूयौँ 'अग्रामा इत्यत्र नगराणां प्रतिषेधः' अभक्ष्यो ग्रापा- क्कुट इत्यादौ नगरस्पापि ग्रामशब्देन ग्रहणादारम्भः । नगराणां नायं पर्युदास इत्यर्थः । मथुरापाटलिपुत्रम् । 'उभयतश्च प्रामाणां प्रतिषेधः' । ग्रामनगरयोर्द्वन्द्व ग्रामनिमित्तः प्रतिषेध एव प्रवर्तते इत्यर्थः । मौर्य नगरम् । केतक्ता ग्रामः । शार्यकेतवते । अग्रा. माः किम् । जाम्बवं नगरम् । शालूकिनी ग्राम: । जाम्बवशाल- किन्यौ । देश इह जनपदः तेन पर्वतानां न कैलासगन्धमादने । क्षुद्रजन्तवः॥८॥ एषां द्वन्द्र एकवत् । यूकालिक्षम । क्षुद्रजन्तुरनस्थि स्यादथवा क्षुद्र एव सः। शतं वा प्रमृतौ येषां के चिदानकुलादपि ॥ पश्चादुपन्यस्त एव पक्षो व्यापित्वाद्राह्य इति ग्रन्थकुतः। येषांचविरोधःशाश्वतिकः॥९॥ विरोधो वरम् । नतु सहानवस्थानादि । प्रतियोग्यभावयो. ।

..
११०४ व्याकरणसिद्धान्तसुधानिधौ द्वितीयाध्याये
रित्यादावतिमसङ्गात् । शाश्वातिकः सार्वदिकः । निपातनादिका-
देशः तत्वं चात्र एकार्थाभिनिवेशपयुक्तत्वाभावः । गोव्याघ्रम् ।
गजसिंहम् । शावतिकः किम् । देवासुरैरमृतमम्बुनिधिर्ममन्थे ।
एतेन तेषां न नित्यो विरोधो मथनप्रवृत्तिकाले तदभावादिति
निरस्तम् । कालानवच्छिन्नत्वेन वैरविवक्षायां गोव्याघ्रमित्यादा-
वव्याप्तः । विषयान्तरसंचारसुषुप्त्यादौ तद्विच्छदस्यावश्यकत्वात् ।
इह पशुशकुनिन्द्रैकवन्दावविकल्पस्थावकाशो महाजोरभ्रं म-
हाजोरभ्रांः । हंसचक्रवाकम । हंसचक्रवाकाः । येपांचेत्यस्य श्र-
मणब्राह्मणम् । मार्जारमूपकम् । अश्वमहिपम् । काकोलूकामे-
त्यत्र परत्वाद्विभाषा प्राप्ता च कारस्य निर्धारणार्थतया तां बाधि-
त्वा एकवन्दाव एव । तेन पशुशकुनिद्वन्दे विरोधिनां पूर्व विप्रतिषेध
इति नारभ्यम् ।
शूद्राणामनिरवसितानाम्॥१०॥
अबहिः कृतानां शुद्राणां द्वन्द्र एकवत् । तक्षायस्का-
रम् । रजकतन्तुनायम् । निरवसानं बहिःकारः। तच्चार्यावर्तात
स च प्रामादर्शात्मसक्कालिकवचनात् । दक्षिणेन हिमवन्तं उ.
त्तरेण पारियात्रमिति भाष्यम् । आदर्शादयः पर्वतविशेषा इति
कैयटः । एवं तु किष्किकगान्धिकं शक्यवनम् । शौर्यक्रौश्चीमति
न सिध्येत् । ग्रामघोषनगरादिभ्यो बहिर्भावविवक्षायां चण्डाल-
मृतपा इत्यादावव्याप्तिः । यज्ञात्कर्मणस्तदुक्तौ तक्षायस्कारामिति
न स्यात् । तस्मात्पात्रादवहिः कृतानामित्येवार्थः ।
गवाश्वप्रभृतीनि च॥११॥

चतुर्थ पादे प्रथममाह्निकम् । १ ११०५ एतानि कतैकवद्भावानि निपात्यन्ते । गवाश्वम् । गावि. कम् । गडकम् । अजाविकम् । अजैडकम् । एषां पशुद्धन्द्रविक- ल्पः प्राप्तः । कुब्जवामनम् । कुन्जकैरातम् पुत्रपौत्रम् । श्वचण्डा- लम् । स्त्रीकुमारम् । दासीमाणवकम् । उष्ट्रखरम् । भाटीपच्छ. दम् । प्राणिजात्यर्थानां विगर्थः । अपाणिजातीनामबहुपकृत्य- थः पाठः । उष्ट्रशशम् । मूत्रशकृत् । मूत्रपुरीषम । यकृन्मेदः । मांसशोणितम् । दर्भपुतीकम् । अर्जुनपुरुषम् । तृणोलपम् । दासी- दासम् । अव पुमास्त्रियेत्येकशेषाभावः । कुटीकुटम् । भागव- तीभागवतम् । अत्रवार्तिकम् । 'गवानप्रभृतिषु यथोच्चारितं द्वन्द्ववृत्तं' यदूप. विशिष्टमुच्चारितं तत्रैवैकवद्भाव इत्यर्थः । तेनावङादेशाभावपक्षे न । 'अपशवो वा अन्ये गोअश्वभ्यः पशवो गोअशाः ॥' ॥ विभाषावृक्षमृगतृणधा- न्यव्यञ्जनपशुशकुन्यश्वव- डवपूर्वापराधरोत्तराणाम्॥१२॥ शकुन्यन्तानां द्वन्द्वः अन्यत्कण्ठोक्तं द्वन्दुत्रयं चैकवदा । वृक्षादौ विशेषग्रहणम् । एकपदस्य द्वन्द्वाभावात्पदद्वयकशेषात् पर्यायद्वयस्यापि विरूपाणामपि समानार्थानामित्येक शेषात् । सा. मान्यविशेषयोश्च द्वन्द्वनिषेधस्य वाचनिकत्वात् । प्राच्यभरतेष्वि. ति निर्देशादनित्यत्वेऽपि प्रकृने निषेधस्यैत्र प्रवृत्तेः । प्लक्षम्यग्रोधम् प्लक्षन्यग्रोधाः । रुरुपतम् । रुरुपृषताः । कुशकाशम् । कुशकाशाः । व्रीहियत्रम् । व्रीहियवाः । दधिधृतं दधिको । १३९ ११०६ व्याकरणसिद्धान्तसुधानिधौ द्वितीयाध्याये गोमहिषम् । गोमहिषाः । तित्तिरिकपिञ्जलम् । तित्तिरिकपिञ्ज. लाः । अनवडवम् । अश्ववडवो । पूर्वापरम् । पूर्वापरे । अधरो. तरम् अधरोत्तरे। अत्रवार्तिकम्- 'बहुप्रकृतिः फलसेनावनस्पतिमृगशकुनिक्षु- द्रजन्तुधान्यतृणानाम् ॥ समस्यमानपदानां बहुवचनान्तत्वे सखे. वैषां द्वन्द्वः एकवद्भवति नान्यथेत्यर्थः । अनेन प्रकरणविहत एवैक वद्भावो नियतविषयत्वेन व्यवस्थाप्यते नस्वेतत्सूत्रविहित एव । प्लक्षन्यग्रोधावित्यत्र जातिरमाणिनामिति नित्यैकवद्भावप्रसङ्गात् । बदरामलकम् । बदरामलकानीति भाष्यम् । तत्र वदरामलका- नीति प्राप्त जातिरमाणिनामिति नित्य एकवद्भाय इति व्या- चष्ट कैयटः। केचित्तु नित्य एकवद्भावे प्रामे विकल्पोऽनेन क्रियते इ- त्याहुः। अन्ये तु अस्य बहुप्रकृतिके विकल्पविधिपरत्वेऽन्यत्र नि- सैकनद्भावापत्त्या बदरामलके तिष्ठत इति भाष्यविरोधानेदं युक्त- मिसाहुः । अत्रायं वाक्यार्थः । फलादीनां द्वन्द्वोऽनेन लक्षणान्तरेण वा एकवद्भवन बहुप्रकृतिरेव । तेन प्लान्यग्रोधी, त्रीहियवौ, कुश- काशौ इत्यादौ प्रकृतविकल्पो जातिरमाणिनामिति निषेधश्च न । एतत्सूत्रोपात्तानां तु विषयविभागः प्रदयते । अमाणिनां नियं प्राप्त विकल्पो विधीयते सचैकजातिव्याप्यानां जातीनां-पदा. यविभाजकोपाधिसाक्षाव्याप्यजातिव्याप्यानामिति यावत् । वि. जातीयानां तु यथाप्राप्तं ।वीहिकुशलक्षामित्यत्र जातिरमाणिना- मिति नित्यः प्लक्षशब्दस्पर्शम् । प्लक्षशब्दस्पर्शाः, इत्यत्र चार्थे इन्द्र इत्युभयम् । अद्रव्यत्तिजातितया शब्दत्वादेर्जातिरमाणि- चतुर्थपादे प्रथममासिकम् । १ । ११०७ नामित्पस्यामः । हस्त्यश्वादिषु सेनाङ्गत्वान्नित्यं प्राप्तो विक- ल्पः । मृगशकुन्यशे तु यो विभाषा प्राप्त एकवचनो द्वन्द्वः स मृ. गविशेषाणां तेरे सह नान्यैरीित । इतरैः सह वितरेतरयोग एवं- ति फलितोऽर्थः। तेन पूर्वापरम, अधरोत्तरमिति व्याख्यातम् । अश्ववडव- ग्रहणं पशुद्वन्द्वत्वादेव सिद्धेः प्रतिपदविधानार्थम् । तेनैकवद्भावपक्षे पूर्ववदश्ववडवावित्येतद्वाधित्वा सनपुंमकमियस्य प्रतिः। तच्छ- ब्देनैकवद्भावविशिष्टपरामर्शाद । पूर्ववदिति तु एकवद्भावाभावप- क्षे प्रवर्तते इति ॥ विप्रतिपिद्धं चानधिकरण- वाचि ॥१३॥ ॥ नियमार्थमिदम् । एकवद्भावविशिष्टो यो द्वन्द्वो विकल्पेन प्राप्तःस विरुद्धवचनानां यदि भवति तदा अद्रव्यवाचिनामेवेति । तेन वि- रुद्धद्रव्यार्थानामितरेतरयोग एव । शीतोष्णे उदके स्तः । अत्र विरुद्धत्वं परस्परात्यन्ताभावसामानाधिकरण्यं परम्परया जल. स्योष्णवं तवारको गुणद्रयविशिष्टजलयोर्विरोधः । विप्रतिषि- दं किम् । नन्दकपाञ्चजन्यम् । पाक्षिकः समाहारद्वन्द्वः । काम- क्रोधाविति प्रत्युदाहृतं वृत्तौ । तत्राहुः-शोतोष्णं मुखदुःख- मित्यादिवत्पाक्षिकैकवद्भावो दुरिः । प्रकृतसूत्रस्य नियमार्थ- त्वात् । नचाद्रव्यवाचिनां यदि भवति तदा विपतिषिद्धानामेवे. ति तदभिमायः । शीतोष्णे उदके इत्यस्यानधिकरणवाचीत्येतत्- मत्युदाहरणतया तत्रैव लिखितत्वात् , उक्तरीत्या तत्रापि पा- शिकैकवद्भावापसेः ।

११०८ व्याकरणसिद्धान्तसुधानिधौ द्वितीयाध्याये ...वित्यादौ समाहारद्वन्द्वे नपुंसकता स्यादिति वदन्ति । ए. तन जन्माद्यस्य यत इति सूत्रे जन्मादीति सौत्रनपुसकत्वानु- रोधेन जन्मस्थितिभङ्गमिति शाङ्करभाष्यं व्याख्यातम् । अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः । पञ्चपूली । अतइत्य धिकारे द्विगोरिति डीविधानं चेह लिङ्गम् । 'वावन्तः' आवन्तो- द्विगुः स्त्रियां वा । पञ्चखट्वम् । पञ्चखट्वी । स्त्रीत्वपक्षे उपसर्जन- इस्त्र इति पूर्व व्याख्यातम् । 'अनो नलोपश्च, वा च द्विगुः स्त्रियाम'। पञ्चतक्षम् । पञ्चत- क्षी । नचान्तर्वतिविभक्त्या पदत्वान्नलोपसिद्धिरिति वाच्यम् । उत्तरपदले चापदादिविधाविति प्रत्ययलक्षणनिषेधात् । 'पात्रा- धन्तस्य प्रतिषेधः । पश्चपात्रम् । त्रिभुवनम् । चतुर्युगम् । द्विमा. सम् । पात्रादिराकृतिगणः । अव्ययीभावश्च ॥१८॥ नपुंमकं स्यात् । अधिस्त्रि उन्मत्तगङ्गम् । पूर्वपदार्थप्राधान्ये लिङ्गाभावे, अन्यपदार्थप्राधान्ये विशेष्यलिङ्गे प्राप्तेऽयमारम्भः । चकारात्पुण्याहम् । मुदिनाहम् । 'पुण्यमुदिनाभ्यामहःलीबत्वम् । कर्मधारये राजाहःसखिभ्यइतिटच् । रात्राहाहाः पुंसीत्यपवादः । सुदिनशब्दःप्रशस्तार्थः। 'मुदिनासु सभासु कार्यमेतत्मविचिन्वीत विशेषतः स्वयंवे तिदर्शनात् । 'पथ: संख्याव्ययादे'। त्रयाणां पन्थाः त्रिपथम् । विरूप: पन्थाः विपथम् | समासान्ताव्यभिचारिसंख्यादिपथशब्दसाहचर्या- दव्ययादेपि कृतसमासान्तस्यैवेदम् । नेह । अतिपन्थाः सुप. न्याश्चति । नपूजनादिति समासान्तनिषेधः । स्वतिभ्यामवोत प. रिगणनात्सत्पथश्चाचितेऽध्वनीति सिद्धम् ।

चतुर्थपादे प्रथममाह्निकम् । १ । ११११ व्यध्वो दुरध्वो विपथः कदवा कापथः समाः । इत्यत्र विषथं कापमित्येवपाठ इति क्षीरस्वाम्यादयः । केचित्तु वारः पथश्च मार्गश्चेति त्रिकाण्डशेषात्पथेगतावित्य- स्मादाचे पथते व्याप्नोतीति पथशब्दोऽकारान्तः । नचैवं विपथ इत्यादि रूपसिद्धावपि कांपथ इत्यस्यानुपपत्तिः। काशब्दस्य पथि- शाब्दे एव विधानादिति वाच्यम् । ईषदर्थे कादेशे कुत्सायामर्थतः पर्यवसानादित्याहुः। अन्ये त्वेवं सति पथोत्रिभाषति मूत्रवैयं स्यात । अपथ- मित्यस्य पथशब्दादेवापथं नपुंसकमित्यनेनापन्था इत्यस्य च पथि- शब्दनैव सिद्धरित्याहुः । अपरे तु अपथं नपुंसकमिति कृतसपामान्ननिर्देशसामर्थ्या- पथिशब्दे नमस्तत्पुरुषादिति समासान्तनिषेधस्य असनत्यादी चरितार्थस्य नित्यं बाधः प्राप्तः अतोऽपन्था इत्यस्य सिद्धये पथो. विभाषेति सूत्रमित्याहुः । तचिन्त्यम् । पथशब्देनैवोक्तरीत्याऽपथशब्दसिद्धौ तद्धाधे- ऽपि क्षतिविरहात् । अपथमित्यत्र कृतसमासान्तस्य पथो निर्देश इत्याग्रहस्य निर्बीजत्वात् । पथःसंख्याव्ययादेरित्यत्र षष्ठयनविशे- षणान्वयादेव पथिशब्दनिर्देशनिर्णयसंभवात् । अपथोविपथः काप- थ इत्यादिरूपासिद्धरिष्टापत्तेश्च । एतेनापथं नपुंसकमितिसूत्रे रात्रा- हाहाः इति सूत्रानन्तरं पथः संख्यतिवार्तिकस्य पठितत्वात्मक्रमा- नुरोधात्कृतसमासान्त एव न्याय्य इत्यपास्तम् । प्रयोजनाभावे साहचर्यस्याकिञ्चित्करत्वात् । पत्तु वार्तिकस्यावश्यकत्वे तेनैवापथशब्दसिद्धौ सूत्रवैयर्थ- मित्याशङ्कष कैयटेनोक्तं सूत्रस्य पूर्वकालत्वादिति, तत्र पथशब्द- १११२ व्याकरणसिद्धान्तसुधानिधी द्वितीयाध्याये मकारान्तं विना नकिश्चिदनुपपन्नमिति व्यर्थ एव तदुपन्यासः प्र. त्युत पथशब्दसचे सूत्रस्य तद्धांटतपथशब्दविषयत्वेनापि व्या. ख्यातुं शक्यतया भिन्नविषयत्वात् वार्तिकेन सूत्रस्य गतार्थत्वात् शङ्कव न स्यादिति वदुक्तावत्र कैयटक्किकायाः प्रातिकूल्यमिति यत्किञ्चिदेशत् । इदंच क्लीबत्वविधानं पराल्ल जताया एवापवादः। सेन विपथा नगरीत्यत्र बहुव्रीहौ पन्धानमतिक्रान्तातिपथेति तत्पुरुषे च तदभावः । 'द्विगुप्राप्तापन्नालंपूर्वतिसमासपुने ति अतिपथेत्यत्र परवल्लिङ्गताप्रतिपधात् । नचैवमुत्पथमिति प्रतीकस्य कुगतीत त- त्पुरुष इतिकैयटव्याख्यानविरोधः। तत्रोत्कृष्टः पन्था इति विग्र- हेण पथ उद्गत इतिविग्रहाभावेन गनिसमासत्वाभावात्परवल्लिङ्ग- स्यैव प्राप्तः । तस्मादुत्तरपदार्थप्राधान्ये इदं क्लीवत्वविधान- मिति सिद्धम् ॥ तत्पुरुषोऽनकर्मधारयः॥१९॥ कर्मधारयशब्दः समानाधिकरणतत्पुरुषपरः । एवंच खण्डश- क्तिपक्षे तत्पुरुषस्य पृथक्शक्तिविषयतया नपदेनापि तदन्वयः। तथा च नञ्तत्पुरुषांभन्नः समानाधिकरणतत्पुरुषभिन्नश्च तत्पुरुष इत्यर्थः । केचित्तु नविद्यते नकर्मधारयत्वं यत्र भावप्रधान्यादि- त्याहुः । अधिकारोऽयम् । ननु संज्ञायामित्युत्तरसूत्रे नास्योपगो. गः । संज्ञायां कथान्तस्योशीनविषंगस्य तत्पुरुपातिरिक्तस्य न. कर्मधारयरूपम्य वा समासस्यासंभवात् । अनादिसंज्ञाया एल तत्र ग्रहणादिदानीतन्या अनुपादानात् । नाप्युपज्ञोपक्रममितिसूत्रे षष्ठीतत्पुरुषव्यतिरेकेण तदादित्वासंप्रत्ययात् । नापि च्छायेति सूत्रे षष्ठीतत्पुरुषं विना पूनपदार्थबाहुल्यानवबोधात् । नापि संभत्य. त्राशालति वचनारसंघातार्थस्यैव सभाशब्दस्य ग्रहणात समूहि- चतुर्थपादे प्रथममाह्निकम् । १ । १११३ व्यतिरेकेण समूहानुपपत्त्या षष्ठीतत्पुरुषस्यैव ग्रहणसंभवात् इति चेत्सत्यम् । विभाषासेनेत्यादिमुत्रे तदुपयोगात् । तत्रार्थवशाषष्ठी- तत्पुरुषपर्यवसानानुपपत्तेः । तत्पुरुषः किम । दृढसेनो राजा । अनञ् किम् असेना । अकर्मधारयः किम् । परमसेना । इहाधि- कारपाठस्तु मन्दबुद्ध्यनुग्रहार्थमित्याहुः ।। संज्ञायां कन्थोशीनरेषु॥२०॥ कन्थान्तस्तत्पुरुषाक्लीवं स्यादुशीनरदेशोत्पन्नकन्यापाः संज्ञा चेत् । मुशमस्यापत्यानि सौशमयः तेषां कन्धा सौशामिकन्थम् । संज्ञायां किम् वीरणकन्या । उशीनरेषु किम् । दाक्षिकन्था । उपज्ञोपक्रमं तदाद्याचि ख्यासायाम् ॥२१॥ उपज्ञायते इत्युपज्ञा । आतश्वीपसर्गे इति कर्मण्यङ् । उपक्रम्यते इत्युपकमः । कर्माण घञ् । नोदात्तोपदेशस्यति न वृद्धिः । उपज्ञा. शब्दान्त उपक्रमशब्दान्तश्च तत्पुरुषः क्लीबं स्यात् उक्तधात्वर्थयोः माथम्यविवक्षायाम् । पाणिनेरुज्ञा पाणिन्युपर्श ग्रन्थः । नन्दोप- क्रम द्रोणः । आचिख्यामाग्रहणात् मंबन्धात्रविक्षायां देव- दसोपज्ञा रथः ॥ छाया बाहुल्ये ॥२२॥ पूर्वपदार्थबाहुल्ये सति छायान्तस्तत्पुरुषः क्लीयं स्यात् । इथूणां छा- या इक्षुच्छायम् । एकस्येक्षोरुपजीव्यच्छायां प्रसपयोजकत्वात् । इक्षुच्छायानिषादिन्य इति तु जासभिप्राय एकत्वे, आसमंन्ता.

१११४ व्याकरणसिद्धान्तसुधानिधी वितीयाध्याये निषादम्य इति केचित् । सभा राजाऽमनुष्यपूर्वा ॥२३॥ राजपूर्वो मनुष्यभिन्नपूर्वश्व सभाशब्द : क्लीव स्यात् । इनसमम् । ईश्वरसभम् । पर्यायस्यैवेष्यते । इदंच सभाशब्दोत्तरमकारप्रश्लेषा- पर्युदासलभ्यमित्युक्तं प्राक् । नेह । राजसभा । चन्द्रगुप्तसभा । विशेषस्य राजत्वानवच्छिन्नशक्यताकत्वात् न राजमादृश्यम् । नृ: पतिसभामगमन्नवेपमान इति तु नृपतिशब्दस्य गजपतिवद्राजविशे- पार्थत्वादिति कचित् । नृपतिबाब्दे बहुव्रीहिः । सभाशब्देन कर्म- धारयः अनकर्मधारय इत्युक्त नलीवत्वमित्यन्ये । अमनुष्यशब्दो रूढ्या रक्षः पिशाचादिपरः । रक्षः सभम् । नेह काष्ठसभा। अशालाच ॥२४॥ शालाबाची संघातवाची च सभाशब्दः। राजामनुष्यपूर्ववे पू. वेण पूर्वस्य क्लीवत्वमुक्तम् । संघातार्थार्थमारम्भः । स्त्रीमभम् । स्त्रीसं- घात इयर्थः । अशाला किम् । अनाथसभा। अनाथकुटीत्यर्थः । विभाषासेनासुराच्छायाशा लानिशानाम् ॥२५॥ एतदन्तस्य तत्पुरुषस्य वा क्लीवत्वम् ब्राह्मणसेनम् । ब्राह्म- णसेना । यकसुरम् । यवमुरा । कुड्यच्छायम् । कुड्यच्छाया । शोभार्थोऽध्यत्र छायाशब्दः । 'क तच्छयच्छायलयोऽपि पल्लवे' । गोशालम् गोशाला | श्वनिशम । श्चनिशा । कृष्णचतुर्दशी- त्याहुः । तिरश्चामपिफलकामनास्तीति पूर्वपक्षोपन्यासार्थ 'शुनश्च- १११५ चतुर्थपादे पथममाह्निकम् । १ । तुर्दश्यामुपवसतः पश्याम इति शावरभाष्योक्तेः। परवल्लिङ्गं द्वन्द्वतत्पुरुपयोः२६॥ एतयोरुत्तरपदलिङ्गसदृशं लिङ्गं स्यात् । कुक्कुटमयूर्याविमे मयू- रीकुक्कुटाविमौ । अर्घ पिप्पल्या अपिप्पली । उत्तरपदार्थप्रधा. नस्य स्वयमेव सिद्धेः इन्द्रस्योभयपदार्थप्रधानतया पर्यायेण लिङ्गद्वयप्राप्ती नियमार्थ तत्पुरुषे विध्यर्थं च । 'द्विगुणाप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वक्तव्यः । पञ्च- कपालः पुरोडाशः । प्राप्तजीविकः । आपन्नजीनिकः । अलंजी. विकः । निष्कौशाम्बिः । अत्रेदमवधेयम् । अवयवार्थव्यतिरिक्त समुदायाभावपक्षे द्वन्द्वतत्पुरुषयोरित्यस्य सप्तम्यन्तत्वे द्वन्द्वे तत्पु- रुषे च यत्परं तद्वल्लिङ्गं भवतीति सूत्रार्थः । तथा च कार्यिणोऽनुपा- दानात्परशब्दस्य ससंबन्धिकत्वात्तदाक्षिप्तपूर्वपदस्यैव कार्यप्रसङ्गे मयूगकुक्कुटावित्यत्र पूर्वपदस्य पुंस्त्वातिदेशे स्त्रीप्रत्ययनित्तिः । कुक्कुटमयूर्यावित्यत्र स्त्रीप्रत्ययश्च स्यात् । यदि तु षष्ठीनिर्देशो व्यतिरिक्तश्च ममुदाय इत्याश्रित्य स- मासादन्यवल्लिङ्गमतिदिश्यते उत्तरपदार्थलिङ्गसदृशं समासार्थस्य लिङ्गान्तरमिति तदाश्ववडवावित्यत्र परवल्लिङ्गे प्राप्ते पूर्वपदार्थील- ङ्गसदृशं लिङ्गं समामार्थस्य विधीयते नतूत्तरपदार्थस्येति स्त्रीत्व- स्यानिवृत्तेरापः श्रवणे प्राप्ते लुग वक्तव्यः स्यात् । तदुक्तम् । 'समासादन्यादतिवेदशवडवयोष्टाब्लुगूवचन मिति । समासार्थस्य पुंस्त्वेऽपि उत्तरपदार्थस्य स्त्रीत्वानपायात् । नचोपसर्जनह खत्वेन निस्तारा । द्वन्द्वे सर्वेषां प्रथमानिर्दिष्ट स्वेऽप्युपसर्जनसंज्ञाविरहात् सर्वपदार्थप्रधानत्वात् उपसर्जनसंज्ञाया. श्वानर्थवाव । अतएव राज्ञः कुमार्या इत्यत्र न हस्व इति मागु-

१.११६ व्याकरणसिद्धान्तसुधानिधी द्वितीयाध्याये
क्तम् । नच समुदायार्थेऽवयवार्थस्य गुणभावादुपसर्जनत्वमिति
वाच्यम् । व्यतिरिक्तसमुदायरूपद्वन्द्वार्थाभ्युपगमेऽपि अवयवार्थानां
कार्यसंबन्धात्फलतः प्राधान्यसवात् ।
अभ्युपेत्य तु ब्रूमः । एवमपि कुक्कुटमयूर्यावित्यत्र दोपताद.
वस्थ्यम् । अथ तत्र पुनः स्त्रीप्रत्ययात्मिद्धम् । तदुक्तं 'परवल्लिङ्ग-
मिति शब्दशब्दार्थाविति' तन्त्रादिना लिङ्गाभिधायी प्रत्ययो नमः
भवति तत्रार्थस्यैवातिदेशः । मयुरीकुक्कुटाचित्यादौ उभयसंबन्धे
तूभयोः कुक्कुटमयूर्यावित्यादि । एवं चौपदेशिकस्य ह्रस्वः आ-
तिदेशिकस्य श्रवणंचेति सिद्धमिष्टम् । नच पुनई स्वापत्तिः । अनु.
पसर्जनत्वात्तदन्तस्याप्रातिपदिकत्वाच । नचैवमपि दत्तागाग्र्याय-
प्यो, दत्ताकारीषगन्ध्ये इत्यत्रहस्से कृते समामात्पुनःप्फष्यको
स्यातामिति वाच्यम् । भस्याटेतद्धिते इति पूर्वोत्पन्नयोनितिम-
भवादिष्टापत्तेः । मैवम् दत्ता च युवतिश्चदत्तायुवती इत्यत्रतिप्रत्य-
यद्वयश्रवणापत्तेः । भसंज्ञा विरहेण तत्र पुंवद्भावानुपपत्तेः ।
तस्मादुपसर्जनहस्त्रे दोष एवेति स्थितम् । इति प्राप्ते ।
सिदान्तः 'समासादन्यलिङ्गमिति चेदश्ववडवयोष्टाब्लुवचनं
निपातनासिद्ध'मिति । विभागक्षमृगति सूत्रे अनवडवेति इस्वो-
चारणेन टायो निवृत्तिनिपात्यते इति भावः । द्विगुप्राप्तेति वार्ति-
कमपि प्रत्याख्यातं भाष्ये । तथाहि-परवल्लिङ्गंदन्द्रस्येत्येव वक्त-
व्यम् । नचपूर्वकायोऽपिप्पलीसादेरसिद्धिः । कर्मधारयाश्रयणे.
नैकदेशिसमासस्यार्द्धनपुंसकमित्यस्य च प्रत्याख्यानात । नचषष्ठी-
समासनिवृत्यर्थ तत् । तस्यापीटतायाः प्रागुक्तत्वात् । पूर्वापरेत्य-
प्रापि षष्ठीममासस्यानभिधानादेव वारण भवादिति ।
पूर्ववदश्ववडवौ ॥२७॥

चतुर्थपादे प्रथममाह्निकम् । १ । १११७ द्विवचनमतन्त्रम् । अर्थातिदेशोऽयम् । परवल्लिङ्गतापवादः । अश्वघडयौ । अश्ववडवान् । अश्ववडवैर्जवनरित्यादि ॥ हेमन्तशिशिरावहोराने च- च्छन्दसि ॥२८॥ पूर्ववत् । हेमन्नाशिशिरातूनांपीणामि । हेमन्त शिशिरंच हेमन्त- शिशिरौ । हेमन्तः शिशिरोऽस्त्रियामिति शिशिरशब्दस्योभयलि. गत्वावहेमन्तशिशिराविति न पठनीयामिति केचित् । वस्ततस्तु नपुं. मकशिशिरशदस्योत्तरपदवेऽपि छन्दसि हेमन्तशिशिगवित्यस्य नियमार्थमेतत् । अहोरात्र शिवे स्थानाम् । द्विवचनमतन्त्रम् । अ- र्थातिदेशतया निपातनत्वाभावात् । तेन 'पूर्वपक्षाश्रितयोऽपरपक्षाः पुरीषमहोरात्राणीष्टका' 'अहोरात्राणि विदधत्' । न चेदं समा- हारद्वन्द्वे सत्येक शेषादेव सिद्धम् । तत्रापि पुंस्त्वस्य वक्ष्यमाणत्वा- त् । लोके तु दुःखे हेमन्तशिशिरे । अहोरात्रौ पुण्यौ । रात्राहाहाः पुंसि ॥२९॥ एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव । रात्रे पुर्वभागः पूर्वरात्रः। ए- कदेशिसमासः । 'अहः सर्वैकदेशे' त्यच् पूर्वाह्नः । राजाहः सखि- भ्यइति टच । 'अहोह एतेभ्य'इत्यहादेशः । अहोदन्तादितिणत्वम् । घहः । 'नसंख्यादेः समाहारे' इति अह्नादेशनिषधः । 'अष्टखो- रेव' इतिटिलोपः । परवल्लिङ्गमित्यस्यैवायमपवादः । सन्निधानात् । परत्वात्तु समाहारे नपुंसकस्य बाधः। अहोरात्रः । नच रात्रादीनां समासोत्तरपदानामेवानेन पुंस्त्वं विधीयते । तदन्तस्य तु परवाद- स्यनेनैव सिदमिति वाच्यम् । समाहारे नपुंसकापतेः । तस्य पर-

११.८ व्याकरणसिद्धान्तसुधानिधी वितीयाध्याये
वदित्येतदपत्रादत्वात् । नचेष्टापत्तिः । मासेन स्यादहोरात्रः ।
ते तु त्रिंशदहोरात्र इत्यादिविरोधात । द्विरात्रस्त्रिरात्र इत्यादौ तु
संख्यापूर्वाराविरिति लिङ्गानुशासने विशिष्टपुंस्त्वावधानात् कृत्या.
धुक्तं पुंस्त्वं चिन्त्यम् । 'अनुवाकादयः पुमीतिवाच्यम्' । अनुवा-
कः । शंयुवाकः सूक्तवाकः । वाक्यविशेषार्थकत्वाक्लीवत्ता-
दारम्भः।
अपथं नपुंसकम् ॥३०॥
तत्पुरुषे । अन्यत्र स्वपथा नगरी । समासान्तविशिष्टनिषधाने
ह। अपन्थाः।
अर्धर्चाः पुंसि च ॥३१॥
चकारेण क्लीबानुकर्षः। आदिपरिग्रहार्थ बहुवचनम् । आकृति-
गणोऽयम् । तेच गणरत्ने संगृहीतास्तएव चास्माभिरक्षरक्रमेण नि.
बध्यन्ते।
अर्दचकूर्चकवचक्रकचा वर्चस्कपङ्कालीकाः ।
निष्कानीकपिनाकाढकमोदककटकटङ्कपिण्याकाः ॥ १ ॥
मञ्चकपञ्चकदण्डकतण्डकषष्ठिकचषकमरकशोकाः ।
शाकाशोको शुल्क मस्तकवरका विटङ्कपिटकशुकाः ॥ २॥ .
फलकनपुंसकमूलकपातकनखपुङ्खशङ्खाश्च ।
शृङ्गविडङ्गतडागोद्योगनिदाधा ध्वजवजाम्भोजाः ॥ ३ ॥
कुओवाजाकुक्कुटकिरीटकुटकूटकर्यटकपाटाः ।
नटनिकटशकटकंकटपटपेटमठकण्ठकाण्डदण्डानि ॥ ४ ॥
नीडाण्डमण्डखण्डा खाढतृणस्थाणुवेणुरेणुतृणाः।
तोरणसुवर्णभूषणकार्षापणवारणचरणरणाः ॥ ५ ॥

चतुथपादे प्रथममालिकम् । १ । १११९ बाणवणापराण्हद्रोणावृतहस्तपलितघृतभूताः । कुस्तक्ष्वोडितहत्तप्रयुतवसन्तामृतायुता वास्तु ॥ ६ ॥ पुनपुंसकयोः शेषाद्धीपण्याककण्टकाः । मोदकस्तण्डकष्टङ्कः शाटकः खर्वटोऽबुंदः ॥ ७ ॥ घातकोद्योगचरकनमालामलका नडः । कुष्टं मुण्डं सीधु पुस्तं वोडित क्षेमकुट्टिमम् ॥ ८ ॥ संगमं शतमानार्भशंवलाव्ययताण्डवम् । कविवं कन्दकासं पारावार युगन्धरम् ॥ ९ ॥ पूयं पत्रीवपात्रीचे यूपं चमसचिक्कसौ । अद्धर्चादौ घृतादीनां पुंस्त्वाचं वैदिकं ध्रुवम् ॥ १० ॥ तन्नोक्तमिह लोकेऽपि तच्चेदस्त्यस्तु शेषवत् । पिण्याकतिलखलि ॥ तण्डक परिस्वारः-च्छदोगानां ग्र. न्थविशेषः । दण्डकं छेदः । खटः चतुश्शतग्रामाणां संग्रहस्था. नम् अर्बुदोऽक्षिरोगसंख्याभदौ । पातको गोहत्यादिः । चरकं वै- यविशेषः । नडोऽन्तः सुषिरं तृणम् । पुस्तं मांसशष्कुली। द्वे कृष्णले रूप्यमाषो धरणं पोडशैव ते। शतमानं तु दशभिः धरणैः पलमेश्च ।। इति स्मृतिः । अर्भोऽक्षिरुक् । शंवलः पथि व्ययः। कवियम- श्वमुखवन्धनम् । पारमवारंच नदीतीरे । पूर्व क्लिन्नामृक् । प्रग्रीवं वातायनम् । पात्रीवं यज्ञोपकरणम् । विष्कम यवपृष्ठम् । प- रवल्लिङ्गमित्यतिदेशोपयोगप्रसङ्गात्पाणिनीयलिङ्गानुशासनसूत्राणि व्याख्यायन्ते । लिङ्ग । स्त्री। अधिकारसूत्रे एते । आद्यो व्यापकः । द्विती- यः पुंसात्येतत्पर्यन्तः । ऋकारान्तमातृदुहितस्वस्यातृननान्दरः। अन्येषामृदन्तानां डीपविधानात् । स्वस्रादिसप्तकमध्येच तिस-

११२० व्याकरणसिद्धान्तसुधानिधौ द्वितीयाध्याये
चतम एतत्स्थानिनो त्रिचतुरो भदन्तत्वाभावात् । पञ्चैवमे स्त्री.
लिङ्गाः।
अन्यूप्रत्ययान्तोधातुः । अनिप्रययान्तेऽवनिरित्यादिः ।
ऊपत्ययान्तश्चमृपित्यादिः । प्रत्ययतिकिम् । देवयतः किए ।
दयूः । विशेष्यनिभ्न एव ।
अशनिभरण्यरणयः पुंसिच । अन्यन्तत्वान्नित्यस्त्रीत्वप्राप्ती
पाक्षिकपुस्त्वार्थभारम्भः । इयमयं वाऽशनिरिति ।
मिन्यन्तः ॥ मिप्रत्ययान्तो निमत्ययान्तो धातुः स्त्रियाम् ।
भूमिः । ग्लानिः । भवामि भवानी सादौ असत्वभूतत्यान्नातिव्याप्तिः।
वह्निवृष्टयग्नयः पुंसि । पूर्वस्यापवादः ।
श्राणियोन्यूमयः पुंसिच ॥ इमयं वाश्रोणिः ।
क्तिनन्तः ॥ कृतिरित्यादि
ईकारान्तश्च लक्ष्मीरित्यादि
ऊङावन्तश्च कुरूः ॥ विद्या
वाद्यन्तमेकाक्षरम् ॥ ईदृदन्तं प्राग्वत श्रीः । भूः ।
एकाक्षरं किम् । वातममीः॥
विंशत्यादिरानवत: ॥ तद्गुणमविज्ञानी बहुव्रीहिः ।
आङभिव्याप्तौ । इयं विंशतिः । त्रिंशत् चत्वारिंशत् । पञ्चा.
शत् । षष्ठिः । सप्ततिः । अशीतिः । नवतिः ।।
दुन्दुभिरक्षेषु ॥ दुन्दुभ्या किल. तत्कृतं पतितया यह्रौपदी
हारिता । अक्षेति किम् । केनास्मसिंहनादप्रतिरमितसखो दुन्दुः
भिस्ताडितोऽयम् ॥
नाभिरक्षत्रिये ॥ इयं नाभिः ।।
उभारन्यत्र पुंसि ॥ दुन्दुभिभिश्चोक्त पस्मिन्नर्षे पुं.
सि । नाभिः क्षत्रियः । 'समुच्चमत्पङ्कजात्रकोमलैरुपाहितश्री.

चतुर्थपादे प्रथममाह्निकम् । १ । ११२१ ण्युपनीवि नाभिभिरितिभारविप्रयोगात्पुंस्त्वमपि । लिप लोकाश्रयत्वात् । नाभिमुख्यनृपे चक्रमध्यक्षत्रिययोः पुमान् । द्वयोः प्राणिप्रतीके स्थान स्त्रियां कस्तूरिकामदे। इति मेदिना। तलन्तः स्त्रियां स्यात् । शुक्लस्य भावः शुक्लता । ब्राह्मणस्प कर्म ब्राह्मणता । ग्रामाणां समूहो ग्रामता । देव एव देवता । भूमिवित्सरिल्लतावनिताभिधानानि । भूभूमिः । विद्युत्सौदामनी । सरिनिम्नगा । लता वल्ली । वनिता योषित् । यादो नपुंसकम् । सरिदर्थोऽपि यादःशब्दः क्लीयम् । भास्क स्रगदिगुष्णिगुपानहः । इयं भा इसादिः । स्थूणोणे नपुंसकेच । स्रियां क्लीबेच स्युः । स्थूणा । स्थूणम् । ऊर्णा । ऊर्णम् । स्थूणा स्तम्भः । ऊर्णा मेषादिलोम । गृहशशाभ्यां क्लीबे । नियमार्थम् । गृहस्थूणम् । शशो- ण शशलोमनीयमरः। प्रावृट् विपद् रुदतृद्वित्विषः । स्त्रियां स्युः । विपुषः स्पर्शमात्रवेद्या जलकणा इति वाचस्पतिमिश्राः। दर्विविदिवेदिखनिशान्यश्रिवेशिकृष्योषधिकव्य- हुलयः । पक्षे डीप् । दर्वी । दर्विरित्यादि । तिथिनाडिसचिवीचिनालिधूलि(किकि)केलि छवि- राश्यादयः । इयं तिथिरित्यादि । तिथयो द्वयोरियमरः । नि- खिलान्निशिपूर्णिमातिथीन् । इतिश्रीहर्षः । शष्कुलिराजिकुव्यशनिवर्ति भुकुटि त्रुटि वलि पक्यः । एतेऽपि स्त्रियां स्युः । प्रतिपदापद्विपत्संपत् शरत्संसत्परिषदुषः संवित्- क्षुत्पुन्मुत् समिधः । इयंप्रतिपदित्यादि । उषाः प्रातर्देव- १४१

११२२ व्याकरणसिद्धान्तसुधानिधी वितीयाध्पाये
ता । जगद्वन्द्या देवीमुषसमित्र वंदे भगवतीमिति भवभूतिः ।
आशीर्षुः पूर्गीरः । इयमाशीरित्यादि ।
अप्सुमनः समासिकतावर्षाणां बहुत्वंच । पुष्पार्थों
ऽत्र सुमनःशब्दः । प्रायिकं चैषां बहुत्वम् । एका च सिकता तै.
लदानेऽसमति भाष्यम् । समां समां विजायते इति सूत्रम् ।
वेश्या शानसुमना इव वर्जनीयोत मृच्छकटिकायाम् ।
सक्त्वक् ज्योग्वाग्यवागूनौस्फिचः । स्पष्टम् ।
तृटिसीमा संवध्याः । स्पष्टम् ।
चुल्लिवेणि खार्यश्च । स्पष्टम् ।
ताराधाराज्योत्स्नादयश्च । शलाका स्त्रियां नि-
त्यम् । नित्यग्रहणमन्येषां कचियभिचारमूचनार्थम् ।
इति च्याधिकारः
पुमान् । अधिकारोऽयम् । अधिकारान्तरपर्यन्तः ।
घनवन्तः । पाकस्त्यागः । करो गरः । भावार्थ एवेदम् ।
नपुंसकतविशिष्टे भावे क्तल्युड्यां स्त्रीत्वविशिष्टे तु क्तिनादि.
भिर्वाधिान परिशेषात् । कर्मादौ तु घनाद्यन्तमपि विशष्पलिङ्गं
'संबन्धमनुवतिष्यते इति भाष्यप्रयोगात् ।
घाजन्तश्च । विस्तरः । गोचरः। चयः । जयः।
भयलिङ्गभगपदानि नपुंसके स्पष्टम् ।
नउन्तः । यज्ञः। यत्नः ।
याच्ञास्त्रियाम् । पूर्वापवादः ।
क्यन्तो घुः। किमत्ययान्तो घुमंज्ञो धातुः पुंसि । आधिः ।
निधिः । उदधिः । क्यन्तः किम् दानम् । घुःकिम् । जज्ञिर्जीजम् ।
इषुधिः स्त्रीच । पूर्वस्यापवादः ।
देवासुरात्मस्वर्गगिरिसमुद्रनखकेशदन्तस्तनभुज

चतुर्थपादे प्रथममाह्निकम् । १ ।
११२३
कण्ठखड्गशरपङ्काभिधानानि । एतत्पयार्याः पुति । देवाः।
अमरः । असुरा दैत्याः । आत्मा क्षेत्रज्ञः । स्वर्गः नाकः । गि-
रिः पर्वतः । समुद्रोऽकूपारः । नखः कररुहः । केशः कचः । द.
त: दशनः । स्तनः कुचः । भुजो दोः । कण्ठः गलः । खङ्गः
करवालः । शरो मार्गणः । पङ्कः कर्दमः इत्यादिः।
त्रिविष्टपत्रिभुवने नपुंसके । स्वर्गपर्यायत्वेन प्राप्त
पुंस्त्वापवादः।
द्यौःस्त्रियाम् । द्योदिवोस्तन्त्रेणोक्तिः ।
इषुवाहूस्त्रियाच । चारपुंसि ।
बाणकाण्डौ नपुंसकेच । प्राग्यत् । नान्तः । रा-
जा । तक्षा । अपवादो वक्ष्यते ।
ऋतुपुरुषकपोलगुल्ममेधाभिधानानि.। ऋतुर्यज्ञइसादि
अभ्रं नपुंसकम् । मेघनामत्वेन प्राप्तपुंस्त्वापवादः।
उकारान्तः । प्रभुः । इक्षुः । विशेषवचनाभावे चेदम् ।
धेनुरज्जुकुहूसरयुतनु करेणु प्रियंगवः स्त्रियाम् ।
समासे रज्जुः पुंसिच । कर्कटरज्ञा । कर्कटरज्जुना ।
श्मश्रुजानुवसुस्वादश्रुजतुत्रपुतालूनि नपुंसके
वसुचार्थवाची। तेन वसुमयूखाग्निधनाधिपेषु इत्यादी
पुंस्त्वम् ।
मदुगुमधु शीधुसानुकमण्डलूनि नपुंसकेच । चात्पु.
सि । रुत्वन्तः । मेरुः । सेतुः ।
दारुकशेरुवस्तुमस्तूनि नपुंसके । पूर्वापवादः ।
प्राग्रश्मरकारान्तः । रश्मिदिवसाभिधानमियतः पाक्
अकारान्त इत्याधिकारः।
कोपधः । स्तबका कल्कः ।

११२४ व्याकरणसिद्धान्तसुधानिधी वितीयाध्याये चिबुकशालूक प्रातिपदिकांशुकोल्मुकानि नपुं- सके। पूर्वापवादः। कण्टकानीकसरकमोदक चषकमस्तक पुस्तक तटाक निष्क शुष्कवर्चस्क पिनाक भाण्डक पुलाकानि नपुंसकेच। टोपधः । अकारान्तत्वे सति टोपधः पुंसि । घटः । पटः । किरीटमुकुटललाटवटवीट शृंगाट कराट लोष्टानि नपुंमके । कुट- कूटकबाटकर्पट तटनिकटकीटकटानि नपुंसकेच । चात्पुंसि । णोपधः । गुणः । पाषाणः । ऋणलवणपर्णतोरणरणोष्णानि नपुंसके । पूर्वा पवादः । कार्षापणस्वर्णमुवर्णवणचरणपणविपाणचूर्णतृणानि नपुंसके च । थोपधः । रथः । काष्ठपृष्ठरिक्थोक्यानिनपुंसके। काष्ठा दिगास्त्रियाम् । इमाः काष्ठाः । तीर्थप्राथयू- थगाथानि नपुंसके च । नोपधः । इनः । फेनः । जघनाजिन तुहिन कानन जि. न विपिन वेतन शमनमिथुनश्मशानरत्ननिम्नचिह्नानि नपुंसके । पूर्वापवादः । मानयानाभिधान नलिनोद्यानशयनासनस्थान चन्द- नालानसंमानवसनभवनसंभावनविभावन विमानानि नपुंसके च । पोपधः । यूपः । दीपः । पापरूपोडुप तल्पशि. पपुष्पशप समीपतिरीपाणि नपुंसके । पूर्वापवादः । शूर्पकुतपकुणपद्धीपविटपानिनपुंसकेच । शूर्पः इदं शूर्पमित्यादि भोपधः । स्तम्भः कुम्भ: तलमं नपुंसकम् । पूर्व स्यापवादः । जृम्भं नपुंसकेच । मोपधः । सोमः । भीमः। रुक्म सिध्मयुग्मध्मगुल्माध्यात्म कुङ्कुमानि नपुं- चतुर्थपादे प्रथममाह्निकम् । १। ११२५ सके । पूर्वापवादः। संग्रामदाडिमकुसुमाश्रम क्षेमचौमहोमोद्दामानि नपुंसकेच । योपधः । समयः । हयः । किसलयहृदयोत्तरीयाणि नपुंसके । गोमयकषाय. मलयान्वयाव्ययानि नपुंसकेच । रोपधः । क्षुरः । अङ्कुरः। बाराग्रस्फारतकचक्रवप्रक्षिप्रक्षुद्रच्छिद्र नारतीरदू. रकृछरन्ध्राश्रश्वभ्र(ग)मीर तिमिरक्रूरविचित्रके यूरके. दारोदर शरीरकन्दर मन्दारपञ्जरजठराजिरवैरचाम- रपुष्करगह्वरकुहरकुटीरकुलीरचत्वार काश्मीरनीरा- म्बरशिशिर तन्त्रमन्त्रक्षेत्रमित्रकलत्रचित्रसूत्रव क्त्र- नेत्रगोत्राङ्गुलित्रभलत्रास्त्रशास्त्रवस्त्र पत्र पात्रक्षे. त्राणि नपुंसके । पूर्वापवादः। शुक्रमदेवतायाम् । इदं शुक्रं रेतः । चक्रवज्रान्धकार सारवारपारक्षीरतोमर शृङ्गारभृ. गारमंदारोशीरतिमिरशिशिराणिनपुंसकेच । सोपधः । वत्सः । वायसः । महानसः। पनसबिसबुस साहसानि नपुंसके । चमसां. सरसनिर्यासोपवासकार्पासवास मास कांसमांसानि नपुंसकेच । कंसं चापाणिनि । कंसोऽस्त्री पानभाजनम् । पाणिनि तु कंसो राजा । समाप्तोऽकारान्ताधिकारः। रश्मिदिवसाभिधानानि । एतानि पुंसि । रश्मिः मयूखः । दिवसः । घस्रः । दीधितिः स्त्रियाम् । पूर्वापवादः ।

११२६ व्याकरणसिद्धान्तसुधानिधी वितीयाध्याये दिनाहनी नपुंसके । तद्वत् । मानाभिधानानि । कुडत्रः । प्रस्थः । द्रोणाढको नपुंसकेच । इदं द्रोणम् अयं द्रोणः । खारीमानिके स्त्रियाम् । इयं खारी । इयं मानिका । दाराक्षतलाजामूनां बहुत्वंच । एते वयंमिमे दाराः । नाडयपजनोपपदानि व्रणाङ्गपदानि । अयं नाडी- वणः । अपाङ्गः जनपदः । उक्तस्थले क्लीवत्वानिवृत्त्यर्थं सूत्रम् । मरुद्गरुत्तरदृस्विजः अयं मरुदित्यादि । ऋषिराशिदृतिग्रान्टाक्रिमिध्वनिबलिकौलि मौलि. रविकविकपिमुनयः । ध्वजगजमुञ्जपुञ्जाः । हस्तकुन्त वातवातदूतधूर्तसूतचूतमुहूर्ताः । मुहूर्तो- ऽस्त्रियामित्यमरः। खण्डमण्डकरण्डवरण्ड तुण्डगण्ड मुण्डपाखण्ड शिखण्डाः । वंशांशपुरोडाशाः । पुरोदाश्यते इति पुरोडाशः । नि. पातनाडत्वम् । ह्रदकन्दकुन्दवुद्भुदशब्दाः । अर्घपथिमध्यभुक्षिस्त- म्बनितम्बपूगाः । पल्लव पलवल कफरेफ कटाहनियूहम- ठमाण तरङ्गतुरङ्गगन्धस्कन्धमृदङ्ग सङ्ग समुद्रपुरवाः । सारथ्यतिथिकुक्षिबस्ति पाण्यालयः। इति पुंल्लि. प्राधिकारः। नपुंसकम् । अधिकारोऽयम् । भावे ल्युडन्तः। हसनम् । भावे किम् । इध्मत्रश्चनः । -- कुठारः। निष्ठा च । भाव इत्यनुवर्तते । हसितम् । गीतम् ।

चतुर्थ पादे प्रथममाह्निकम् । १ । ११२७ त्वष्यौ तद्धितौ । शुक्लत्वं । शौक्लयम । पित्वसामर्थ्या- पक्षे स्त्रीत्वम् । चातुर्यम् । चातुरी । सामान्यम् । सामग्री। कर्मणिच ब्राह्मणादिगुणवचनेभ्यः । ब्राह्मणस्य कर्म ब्राह्मण्यम्। यद्यढक् यगनण्वुञ्छाश्च । भावकर्मणोरनुत्तिः । स्तेनाद्यत् । स्तेयम् । सख्युर्यः । सख्यम्। कपिज्ञात्योढक । कापेयम् ज्ञातेयम् । पत्यन्तपुरोहितादिभ्यो यक् । आधिपत्यम् । प्राणभृजातिवयोवचनोद्गात्रादिभ्योऽन् औष्ट्रम् । औद्गात्रम् । युवादिभ्योऽण् । द्वैहायनम् । द्वन्द्वमनोज्ञादिभ्यो वुन् । पैतापुत्रकम् । मानोज्ञकम् । हौत्रादिभ्यः । अच्छावाकीयम् । अव्ययीभावः । अधिस्त्रि । 'द्वन्दैकत्वम् । पाणिपादम् । अभाषायां हेमन्तशिशिरावहारानेच । अनकर्म- धारयस्तत्पुरुषः । अधिकारोऽयम् । अनल्प छाया शरच्छायम् । राजामनुष्यपूर्वा सभा । इनसभामित्यादि । सुरासनाच्छायाशालानिशास्त्रियांच । शिष्टः परवत् । अन्यत्तत्पुरुषः परवल्लिङ्गः स्यात् । रात्राहाहाः पुंसि । अपथपुण्याहे नपुंसके । संख्यापूर्वारात्रिः । संख्येति किम् । सर्वरात्रः । द्विगुः स्त्रियांच । पञ्चमूली । त्रिभुवनम् । इसुसन्तः । हविः । धेनुः ।

११२८ व्याकरणसिद्धान्तसुधानिधौ द्वितीयाध्याये अर्चिः स्त्रियांच । इयमिदंवाऽचिः । च्छदिः स्त्रियामेव पटलं छदिरित्यमरः । साहचर्याक्लीवे इतित्वमरव्याख्यातारः। मुखनयनलोहवनमा सरुधिरकामुक विवरहल ध. नान्नाभिधानानि । मुखम् । आननम् । नयनम् । लोचन. मित्यादि । सीरार्थीदनाः पुंसि । वक्त्रनेत्रारण्यगाण्डीवानि- पुंसिच । अटवी स्त्रियाम् । लोपधः । कुलम् । कूलम् । स्थलम् । तुलोपलतालकुस्मृलतरल कवलदेवलवृषलाः पुंसि । अ- यं तूलः। शीलभूलमालसामलकमलतलमुसलकुण्डलपल- लमृणालवालनिबलपलगलावडालाखिल शुलाः पुंसिच। शतादिःसंख्या । शतम् । सहस्रम् । शतादिरिति किम्। एको द्वौ बहवः । पूर्वपदभ्रमनिरासार्थ संख्यापदम् । शतशृ. को नाम पर्वतः। शतायुतप्रयुताः पुंसिच। लक्षाकोटी स्त्रियाम् । कियती पञ्चसहस्री कियती ल- क्षाकोटिरपि कियती । 'वा लक्षा नियुतंचतदित्यमरालीबेऽपि लक्षम् । शङ्कुः पुंसि । सहस्रः कचित् । मन्यच्कोऽकर्तरि । मन्नन्तो यकः क्लीबें नतु कतीर । चर्म । वर्म । यच् किम् । अणिमा। महिमा । अतरिकिम् । ददाति दामा। ब्रह्मन् पुंसिच । नामलोमनी नपुंसके । प्रपश्चार्थम् ।

चतुर्थपादे प्रथममाह्निकम् । १ । ११२९ असन्तो ह्यच्कः ॥ यशः । मनः तपः । यचकिम् चन्द्रमा: ॥ अपसरा: स्रियाग ॥ प्रा .. परम् । छत्रम् ॥ यात्रामात्राभस्त्रादंष्ट्रावरत्राः स्त्रियामेव ॥ भृत्रा मित्र छात्रपुत्रमन्त्र]वृत्रमेद्रोष्ट्राः पुंसि ॥ तस्यमित्राण्य. मित्रास्ते इति माघः ॥ पत्रपात्रपवित्रसूत्रच्छत्राः पुंसिच॥ बलकुसुमयुद्ध- पत्तनरणाभिधानानि ॥ पद्मकमलोत्पलानि पुंसिच । वापुंसिपद्ममित्यमरः॥ पद्माहिमेप्राषिखञ्जरीटानिति श्रीहर्षः ।। आहवसंग्रामौ पुंसि ॥ आजिः स्त्रियामेव । फल- जातिः । फलवाची शब्दः क्लीये। आमलकम् । आम्रम् ॥ वृक्षजातिः स्त्रियामेव । कचिदेवेदम् । हरीतकी ।। वियजगच्छकन् कृषत् पृषत् शकृत् यकृहुदहिया तः नवनीतावतानृतामृतनिमित्तवित्तपित्तव्रतरजत. तपलितानि ॥ श्राद्धकुलिशदेवपीठकुण्डाङ्गाङ्गददधि- सक्थ्याज्यस्यदाकाशकण्वबीजानि दैवं पुंसिच ॥ धा. न्याज्यसस्य रूप्य कुप्यपण्यधिष्ण्यहव्यकव्यकाव्यम. त्यापत्यमूल्यशिक्यकुज्यहम्पतूपसैन्यानि ॥ बन्दबह- दुःखबडिशपिच्छबिम्बकुटुम्बशरवृंदारकाणि ॥ अक्ष- मिन्द्रिये ॥ इति नपुंसकाधिकारः। स्त्रीपुंसयोः।गोमणियष्टिमुष्टिपाटलिशाल्मलितृटि- मषिमरीचयः ॥ मन्युसिन्धुकर्कन्धु किष्कुकण्डुरेणवः ।। गुणवचनमकारान्तं नपुंसकंच ॥ त्रिलिङ्गमिति फलिता- थः । पटु, पटुः, पद्वी ॥ अपत्यार्थतद्धिते ॥ औपगवः ॥ औपगवी ।। १४२

११३० व्याकरणसिद्धान्तसुधानिधौ द्वितीयाध्याये
इति स्त्रीपुंसाधिकारः॥
पुनपुंसकयोः घृतभृतमुस्तक्ष्वेलितैरावतपुस्तकवुस्तः
लाहि ॥ शङ्गारोद्यमशल्पदृढाः ॥ व्रजकुञ्ज.
कुथकूर्चपुच्छदाभोहचंदर्भपुच्छाः॥ कयन्धौषधायुधा.
न्धाः ॥ दण्डमण्डखण्डशवसैन्धवपाश्र्वाकाशकुशका-
शांकुशकुलिशाः ॥ शलाकायां कुशा । अयोविकारः कुशा ।
गृहमेहदेहपट्टपटहाष्टापदाम्बुदककुदाश्च ।।
इति पुनपुंसकाधिकारः ॥ अविशिष्टलिङ्गम् ॥
अव्ययम् ॥ कतियुष्मदस्मदः। णान्तासंख्या । शिष्टा
परवत् ॥ षान्तनान्तभिन्ना संख्या विशेष्यालिङ्गा ।।
गुणवचनं च । धमिलिङ्गमित्यर्थः ॥
कृत्याश्च ॥ करणाधिकरणयोल्युंद ॥ सदीनि
सर्वनामानि ॥ स्पष्टाय त्रिसूत्री । इति पाणिनीयलिङ्गा-
नुशासनं सम.प्तम् ॥

चतुर्थपादे प्रथममाह्निकम् । १ । ११३१ प्रकृतमनुसराम: इदमोऽन्वोदशेऽशनुदात्त स्तृतीयादौ॥२२॥ अन्वादेशविषयस्येदंशब्दस्य तृतीयादावनुदात्तोऽशादेशः स्यात् एकस्मिन् विधावुद्देश्यत्वेनोपात्तस्य विध्यन्तरेऽप्युपदेशो- पादानमन्वादेशः । पश्चात्कथनमात्रस्य तथात्वे देवदत्तं भोजय इमंच यज्ञदत्तमित्याचक्ष्यमाणस्यैनादेशस्य प्रसङ्गात् । प्रत्यासत्या इदमैव कथितस्यानुकथनमेव तथेतिभ्रान्तिनिरासा- र्थम्-अन्वादेशश्च कथितानुकथनमात्रमिति भाष्यम् । तेन शब्दान्तरेणेदमा वेति नाग्रहः । अतएवैकस्याभिधेयस्य पूर्वश- ब्देन प्रतिपादितस्य द्वितीयं प्रतिपादनमन्वादेश इति वृत्तावु म् । उद्देश्यत्वंच तत्कोटिप्रवेशसाधारणम् । वन्यद्विपेनोन्मथिता- स्वगस्य, अथैनपद्रेस्तनयाशुशोचेत्यत्रास्येत्यस्योद्देश्यत्वविशेषण- त्वात । अथ कथं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापयति । अत्राहु:-तदमुमिति अदाशब्दएव पाठ्यइति । अन्ये तु भीरुरयमिति न विधिः किन्त्वनुवाद इति । तन्न । पर्वतोवह्निमानित्यत्र वरिव विषयताविशेषस्यैवात्र विधिपदार्थत्वादज्ञातज्ञापकत्वरूपस्य विधित्वस्याविवक्षितत्वात् । अयं भीरुरित्यानुपूर्व्या इदमुद्देशेन भीरुत्वस्य विधेयत्वावश्यक- त्वात् । अपूर्व बोधयितुमित्यस्य कोथः, सम्बोध्यं बोधयितुमि- तिवा यं कंचिदिति वा । नाद्यः । सम्बोधनरहितवाक्ये त- दसिद्धेः। तदेनमुल्लाङ्घतशासनं विधेरित्यादेरसिद्धेश्च । ना त्यः । प्रकृतेऽपि तस्य सत्वात् ।

११३२ व्याकरणसिद्धान्तसुधानिधौ वितीयाध्याये तस्माद्वाक्यद्वयस्य परस्परनिरपेक्षत्वे सत्यवान्वादेशः । अ. त्रापि भीरुत्वस्य तच्छब्देन हेतुत्वातीतेरेकवाक्यत्वान्न तथा । वन्यद्विपेनोन्मथिता वगस्येत्यस्य शोचन हेतुत्वेऽपि तस्यशब्दा- नुपात्तत्वान्नदोष इति के । एतेनायं दण्डोहरानेन । एतमा- तंडित विद्यादित्यपि व्याख्यातम् । मर्यादाभिविौच य इत्य- नेन सहैकवाक्यत्वात् । तदुक्तंवृत्तिकारैः-यत्र किञ्चिद्विधाय वाक्यान्तरेण पुनरन्यदुपदिश्यते सोऽन्यादेशः, इहतु वस्तुनि- देशमात्रं कृत्वैकमेव विधानमिति । एतेन निरपेक्षत्वान्नान्वादे- शत्वामिसपास्तम् । अनु-पश्चादादेशो विधिरिति निराकासव स्य प्रतीयमानत्वात्(१)। यत्तु तथापि तदेनमुल्लसितशासनविधे विधेहि कीनाशनि- केतनातिथिमित्येतद्विरोध इति तन्न । यद्वाक्यापेक्षमन्वादेशत्वं तद्वाक्यार्थमात्रस्यान्नादेश वाक्यार्थहेतुत्वे एवान्वादेशावाभावात्। तदेनमित्यत्र चानेकवाक्यार्थानां हेतुत्वादिति दिक् । हे रोहिणि त्वमसि शीलवतीषु धन्या । एनं निवारय पति सखि दुर्विनीतम् । जालान्तरेण मम वासग्रहं प्रविष्टः । श्रोणीतटं स्पृशति किं कुलधर्म एषः। इत्यत्र स्वयं श्रोणीतदं स्पृशति एनं निगरयेति व्ययासे. न योज्यम् । आशीविषेण रदनच्छददंशदानमेतेन ते पुनरनर्थ- तया न गण्यमित्यत्र वन्वादेशविषयत्वमविवक्षितम् । अभून्नृपो विबुधसख इत्यत्रानद्यतनत्ववदित्याहुः । ननु टायामोसि चान्वादेशो वक्ष्यते, अन्याः सर्वा हलाद- य एव विभक्तयः, तत्र इद्रूपलोपेविसिद्धमतोऽनुदात्तत्वमात्र (१) गम्यत्वादिति पाठान्तरम् ।

चतुर्थपादे प्रथममाह्निकम् । १ । ११३३ विधेयमिति चेत् । न, साकच्कार्थमादेशारम्भात् । नहि तत्रे. द्रूपलोपो लभ्यते । अक इति प्रतिषेधात् । इमकाभ्यां छात्रा भ्यां रात्रिरधीता, अथो आभ्यामहरप्यधीतमिति । शिकरणं तु सर्वादेशार्थम् । अन्यथाऽलोन्त्यस्य स्यात् । नचान्त्यादेशे प्रयोजनाभावादेतद्वयावृत्तिः, सदायत्वेनैव तत्राकारसत्त्वादिति वाच्यम् । आदेशान्तरप्रतिषेधार्थत्वेन सा- र्थक्यसम्भवात् । मो राजि समः कावित्यादिवत् । यद्वाऽकारद्व- यात्मकोयमादेशो ऽनेकालत्वात्सर्वस्य भविष्यतीति न कर्तव्यं शित्वम् । यद्वाऽनुदात्तत्वमात्रं विधेयम् । विचित्रास्तद्धितवृत्तय इत्यन्वादेशेऽकचोऽनुत्पत्तेः । महाविभाषाधिकारेण व्यवस्थित- विभाषाविज्ञानात् । नचाकचं विनाऽज्ञातार्थानवबोधः । आदे- शपक्षेऽपि समानत्वात् । प्रकरणादिना तदुपपादने त्वकचमन्तरे- णापि तदुपपत्तेः । लाघवस्य सम्भवात् । अत्रेदमवधेयम् । अन्वादेशपक्षे आभ्यामिति सर्वानुदास- म् । सुप्स्वरेण विभक्तरप्यनुदात्तत्वात् । अन्वादेशत्वाभावे तु अन्तोदात्तम् । उडिदंपदाद्यप्पुमरैयुभ्य इति विभक्तरुदा. तत्वात् । नन्वन्वादेशत्वेऽपि उक्तसूत्रेण विभक्तरुदात्तत्व स्या- त् । नचेष्टापत्तिः । प्रतेवभूविचक्षणशंसामि, आभ्यां गा अनुइ- त्यादौ तददर्शनात् । मैवम् । अन्तोदात्तग्रहणानुवृत्या अन्तो- दात्तादिदमादेः परस्या एवं विभक्तेरुदात्तविधानात् । अशश्चा- नुदात्तत्वात् । स्यादेतत् । तथापि सावेकाचस्तृतीयादिर्विभक्तिरिसाद्यु. दात्तत्वं दुवारम् । साविति सप्तमीवहुवचनस्य ग्रहणात् । यत्तु हरदत्तः । उडिदमिति सूत्रेन्तोदात्तानुवृत्तिसामर्थ्या- मात्र सावेकाच इत्यस्य प्रवृत्तिः । अनेन तेन वा उदात्तले त्रि- ११३४ व्याकरणसिद्धान्तसुधानिधौ बितीयाध्याये चत्वाभावाच्च शेषाभावात् । नच पदीमेना उशत इत्यत्र शमोव्यावृत्या तस्य चरितार्थत्वम् । तत्र सावकाच इत्यस्याप्रवृत्तेरिति वाच्यम् । ग्री- वायां बद्धोऽपि कक्ष आसनि मत्स्यं नदीन उदमिक्षियन्तमित्या- दिवारणाय एकाच इत्यस्यावश्यमनुवर्त्यतया तत एव सिद्धेः । अन्तोदात्तानामेवासन्नित्यादीनामादशविधौ पाठात् । यद्वा सा. विति प्रथमैकवचनमेव ग्राह्यम् । नच त्वयेत्यत्रातिप्रसङ्गः । नगो- श्वन्साववर्णेति प्रतिषेधात् । शेपेलोपष्टिलोप इति पक्षे सावेका । रूपविवक्षायां प्रयोजनाभावादभिरित्यादौ प्राप्तिरेव नास्तीति । तचिन्त्यम् । आभ्यामिरोतव्यावस्यैवान्तोदात्तानुवृत्तपक्षी- णत्वात् । नहि तत्र सावेकाच इत्यस्य प्रवृत्तिः । सप्तमीबहुवच ने एषु इत्यत्र ए इतिरूपं तस्याभ्यामित्यत्राभावात् , तथाच एभिरग्ने सुन्वन्तिसोमान्पिवासि त्वमेषामित्यादौ एइति रूपसत्वाद्विभक्ते रुदात्तत्वप्रमङ्गः स्यादेव । अन्ये त्वन्वादे- शेऽशमुदाहरन्ति । सप्तमीबहुवचनेएविति अशादेशे भवत्ये. काच । प्रथमैकवचने त्वयमेकाच् नभवतीति स्वरापसङ्गइति कै. यटग्रन्थानुमारादिष्टापत्तिवैदिकपाठविरोधात् । द्वितीयसमाधा- नमप्ययुक्तम् । रूपाविवक्षायां दोषाभ्यां स्वाहेबादौ तैतिरीयके मध्योदात्तविरोधापत्तेः। प्रथमैकवचने तस्यैकाच्त्वात् । इन्द्रो जातो वसितस्य राजेत्यत्रान्तोदात्तत्वानुपपत्तेश्च । यानितिरूपस्य पष्ठयामभावात् । सप्तमीबहुवचनग्रहणे तु यादिति तकारान्तप्रकृ. तिरूपस्य षष्ठयामपि सत्त्वात्सिद्धं विभक्तेरुदात्तत्वमिति । अत्रदीक्षिताः-सावेकाच इत्यत्राप्यन्तोदात्तग्रहणमनुवर्तनी. यमतोऽन्वादेशे आभ्यामभिरित्यादौ नोदात्तत्वप्रसङ्गः । वृत्तिका. रादिभिस्तदनुक्तावपिफलानुरोधेन तदनुवर्तने बाधकाभावात् ।

चतुर्थ पादे प्रथममाह्निकम् | १ । ११३५ एतदरतसोबतसौ चानु- दात्ती ॥३३॥ अन्वादेशविषयस्यैतदो ऽशस्यात् सचानुदात्तस्त्रतसोः पर. तस्तौ चानुदात्तौ स्तः । एतस्मिन् ग्रामे सुख वसामः, अथो वाधीमहे ऽतो न गन्तास्मः। व्रतसोः प्रत्ययस्वरेणोदात्तत्वं माभूदिखनुदात्तारम्भः । ननु त्रतसिलोः कृतयोः प्रकृतेर्लिस्वरेणोदात्तत्वे शेषनि- घातेनानुदात्तश्चतयोर्भविष्यतीति व्रतसौचानुदात्तावित्यंशो न कार्य इति चेत् । न, लित्स्वरस्य परत्वेऽपि नित्यत्वादनुदात्त- स्यैव प्रसङ्गात् । कृताकृतप्रसङ्गित्वेन तस्य नित्यत्वात् । लित्स्व. रस्त्वनुदात्ते कृते नपवर्तते । अनुदात्तविधानसामर्थात् । तत- च पूर्वस्य उदात्तभाविनो विरहे वततोः यथामाप्तः प्रत्यय- स्वर एव यथा स्यात् । अपवादनिर्मुक्ते उत्सर्गस्य प्रवृत्ति- नियमात् । अत एव गोः पदनं दृष्टोदेव इत्यत्र वर्षपमाण- ऊलोपश्चास्यान्यतरस्यामिति णमुल ऊकारलोपस्य च सहविधा- नात् लित्स्वराभावे प्रत्ययायुदात्तत्वे सति कृदुत्तरपदप्रकृतिस्वरे- णान्तोदात्तंपदमिति सिद्धान्तः । तस्मादवश्यारभ्यमनुदात्तत्वम् । द्वितीयाटौस्स्वेनः ॥३४॥ द्वितीयायां टापि ओसोश्चेदमेतदोरेनादेशः स्यादन्वादेश- विषये । इमं छात्र छन्दोऽध्यापय, एनं व्याकरणमध्यापयेत्यादि । एतं छात्रं छन्दोऽध्यापय, अथो एनं व्याकरणमध्यापेयत्यादि । यद्यपि पूर्वसूत्रे इदमित्यस्य नानुवृत्तिः तथाप्यत्र स्थानि.

११३६ व्याकरणसिद्धान्तसुधानिधौ द्वितीयाध्याये विशेषानुपादानादवश्याक्षेप्ये तस्मिन्नपेक्षालक्षणेनाधिकारेण पूर्व- सूत्रोपात्तपोरिदमेतदोरनुवृत्तेः स्थानित्वसिद्धिः । एतमातं ङितं विद्यात् , अयं दण्डो हरानेन इत्यादौतु यथादेशस्तथा व्या. ख्यातम् । तथाचैतच्छब्दस्य पूर्वोक्तार्थचतुष्टयपराकारपरामर्षक- त्वात् डिद्विधावुद्देश्य परामर्शकत्वमेव नास्ति । उभयभिन्नार्थे डिस्वामित्यस्यैव चतुर्थचरणानुसारेणार्थसिद्धत्वात् । अयं दण्ड इत्यत्रापि इदमुद्देशेन दण्ड एवं विधेयः । तथा च पूर्वविधावुद्देश्यत्वेन दण्डस्यानुपादानानान्वादे- शत्वम् । अतएव पूर्वस्मिन् विधावुद्देश्यत्वेनोपात्तस्येत्युक्तम् । नच तत्र मानाभावः। भाष्यायुदाहृतस्योक्तप्रयोगस्यैव तथात्वात् । अथ कथं 'शोणं पदप्रणयिनं गुणमस्य पश्य किंचास्य सेवनपरैव सरस्वती या । एनं भजस्व सुभगे भुवनाधिनाथं के वा भजन्ति तमिमं कमलाशयाने'ति । नचान्वादेशमादाय द्वि- तीयस्यनान्वादेशत्वमिति वाच्यम् । अन्वादेशलक्षणस्य साधार- ध्यात्तथाकल्पने मानाभावात् । नच विध्यर्थकप्रत्ययान्तपदघ. टितवाक्ये एव तदिति वाच्यम् । मानाभावात् । अथैनं प्रत्य. वोधयदित्यादिप्रयोगविरोधाच । उच्यते तदंशब्दस्योद्देश्यपरामर्पकत्वाभावात, तच्छब्दे- नैव निर्दिष्टत्वात् । नच वैय्यर्थ्यम् । संभेदे[१] तदभावात् । अत एव 'योविकल्पमिदमर्थमण्डलं पश्यतीश निखिलं भवद्रपुः । आ. त्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भय'मित्यत्र इदं. शब्दस्य तच्छब्दसमानार्थकत्वं काव्यप्रकाशादावङ्गीकृतं एवं 'यत्तदुर्जितमत्युग्रं क्षात्रं तेजोऽस्य भूपतेः । दीव्यतास्तदा तेन नूनं तदपि हारितम् , ॥ 'करवाल करालदोः सहायो युधि यो- (१)संभेदे नान्यतर वैयर्थ्यमिति न्यायात् ।

चतुर्थपादे द्वितीयमाह्निकम् । १ । ११३७ ऽसौ विजयार्जुनैकमल्लः । 'यदि भूपतिना स तत्र कार्ये विनि- युज्येत ततः कृतं कृतं स्यात्' । इत्यादौ यच्छब्दाव्यवहितोचरव. तिनोस्तददसोरपि उद्देश्यमात्रसमर्षकत्वमित्यप्युक्तम् । एतेन त्व- मेव तमिममित्यपिव्याख्यातम् । एकपद्येन योजयितुमशक्यत्वा- त् । नचविनिगमकाभावः । प्राथम्यस्यैव तथात्वात् इमं प्रसिद्धं । यः पूर्वभुक्तस्तं वरुणं केचन भजन्तीत्यर्थात् । एतेन 'विबुधैरसि यस्य दारुणैरसमाते परिकर्मणि स्मृतः । तमिमं कुरु दक्षिणेतरं चरणं निर्मितराग मे हिमे' इति कुमारप्रयोगः । 'तमिमं ज्योति. टोमादिभिरिष्टै' रिति कुसुमाञ्जालश्च व्याख्यातः । अतएव 'तमेतं वेदानुवचनेन विविदिपन्तीति बृहदारण्यक सङ्गच्छते । 'तमा- त्मेत्येवोपासीतेत्यारभ्येत्येषसेतुर्विधरण' इत्यन्तैः मूत्रादिभिः उक्तम् । एतं बुद्धः माक्षिणमिति व्याख्यातत्वाच । 'नपुंसकैकवचने एनदिति वक्तव्यम्' । अन्यथाऽतोमित्यम्भावे एन. मित्यापत्तेः कुण्डमान य प्रक्षालयनत्परिवर्तयेनत् । नन्वेसर्वत्रा- प्येनत् एव वक्तव्यः त्यदायत्वेनपुल्लिंगएनमित्यस्यक्लीवसाधार- ण्ये नएनौएनान एने एनानीत्यस्यचसिद्धेरितिचंत न एनाछितकइ- त्यस्य चेष्टत्वात् अंतरङ्गानपिविधीन्नहिरङ्गोलुग्गाधतइतित्यदायत्वं बाधित्वालुक्प्रवृत्तौमत्ययलक्षणनिषेधात्यदायत्वस्याप्रवृत्तेः । अत्रभाष्यं 'यथालक्षणप्रयुक्ते' इति प्रयोगानुपलम्भे लक्ष. णानुमारेण संस्कारप्रवृत्तिः तत्र नलुमताङ्गस्येत्यत्रांगाधिकार निर्देशे तद्वहिर्भूते एतदादेशविधौ प्रत्ययलक्षणत्वादेनछितक इति भाग्यं अथांगसम्बन्धिकार्यमापस यलक्षणनिषेधो नत्वं गाधिका- रविहितत्वाग्रहः तदा एतच्छितक इति भाव्यमिति संप्रदायविदः। केचित्तु एतद्धितइत्येव भवति सुपोधात्वितिलुकाएनस्यैनदादे. शस्य वाबाधात् एनदित्यस्य तकाराचारणसामदेिकपदाश्रय. १४३ ११३८ व्याकरणसिद्धान्तसुधानिधी वितीयाध्याये वेनांतरंगे स्वमोलुंकि प्रवृत्तावपि बहिरंगे समासलुकि तदप्रवृत्तेः । आर्द्धधातुके ॥ ३५॥ ध्यक्षत्रियेतियावदधिकारोयं ननु व्यक्तौ पदार्थे तत्तद्यक्ती नां विशिष्य शास्त्रतात्पर्यविषयत्वादार्द्धधातुक इति परसप्त म्याभाव्यं तथाच पूर्वमार्द्धधातुकप्रत्ययोत्पत्तिः ततोवक्ष्य- माणैरादेशैर्भाव्यं अन्यथानिमित्ताभावात् तत्रार्द्धधातुकविशेषा- श्रयेषुजग्ध्यादिपुयद्यापनदोषस्तथापिसामान्याश्रयेषु अम्तेर्भूः अ. जेर्वी चक्षिङः ख्यानादिषुदोषोदुवारः तथाहि भव्यं प्रवेयं आ. ख्येयं इति नस्यात् ण्यत्पत्ययोत्तरं आदेशेतच्छ्रवणप्रसङ्गात् पूर्व- हलन्तत्वेन यत्प्रत्ययस्यदुर्लभत्वात नचजातिपक्षमाश्रित्याधा. तुकसामान्यमुपजीव्यं नतुविशेष इति वाच्यं निर्विशपसामान्या- भावात लव्यपव्यमित्यादावार्द्धधातुकसामान्ये गुणावादेशयोः कृतयोहलतलक्षणस्यज्यतोवारवाश्च । दित्स्यधित्स्यमिति आर्द्ध- धातुकसामान्ये अतोलोपेकृतेण्यत्प्रसङ्गाच्च नचाविशेषणजध्या. दीविधायसार्वधातुकेनेतिनिषेधोविधास्यतेनत्वार्द्धधातुकइयधि- कार इति वाच्यं सत्रभेदप्रसङ्गात् । उच्यते जातिपक्षएवःश्रयणीयः नचदित्स्यमितिदोषः अचोयदि सत्रत्यमज्ग्रहणमजंतभूतपूर्वादपितदर्थमिति वक्ष्यमा- णत्वात् नचजातेः परत्वासम्भवः अतएवविषयसप्तम्या- श्रयणात् तथाचधिधातुकविवक्षायां प्रथातएवादेशादिप्रवृत्ती पश्चाद्ययानिमित्तं प्रत्ययविशेषाव्यवतिष्ठन्ते बुद्धिस्थत्वं च अभि- व्यक्तप्रत्ययविशेष आर्द्धधातुकमित्याकारकवुद्धिविषयत्वमेवेति बोध्यं । व्यक्तिपक्षेतुआर्द्धधातुकास्वितिपठितव्यं अर्श आदित्वाद- च् सति सप्तम्या आद्धधातुकपरासुशब्दसंहतिषुव्युत्पाद्यमाना.

चतुर्थपादे द्वितीयमाह्निकम् । २ । ११३९ स्वस्त्यादीनां भ्वादय आदेशाइत्यर्थः । नन्वङ्गाधिकारस्थेआधा- तुकाधिकार एवजयादीविधायायमधिकारस्त्यज्यतां मैवं जक्ष. तुः अधिजगेअध्यगीष्ट नभूव विव्यतुः इत्यत्रतत्तदादेशानामा. भीयत्वेनासिद्धत्वादुपधालोपाल्लोपत्ववुग्यणामभावापत्तेः । न- च तर्हि तेप्यत्रैव विधीयन्तामिाते वाच्यम् । गतो गतवानित्य- त्रानुनासिकलोपस्य सिद्धत्वादतोलोपापत्तेः । आधधातुकोपदे- शकाले यदकारान्तमिति व्याख्यायासिद्धवत्सूत्रप्रयाख्याने तु एक आर्द्धधातुकाधिकारो मास्तु । आङ्गस्यैवाधिकारस्य विषयस. प्समीत्वं परसप्तपीत्वं चेतिज्ञापकवलेनोभयरूपतासम्भवात् । अदोजग्धिप्ति किति ॥३६॥ अदो जग्ध्यादेशः स्यात् । ल्पपि तादौ कितिच । प्रज- ग्ध्यम् । जग्धः जग्धिः । अन्नमित्यत्रतुन । अन्नास्म इति निपा- तनादिति वृत्तिः। ननु ल्यबोदशात्पूर्व क्वाप्रत्ययमाश्रित्यैव जग्धिरस्तु कि- ल्यपः पृथग्ग्रहणेन । नच परत्वात्पूर्वमेव ल्यप् । प्रकृत्यादेश- स्य तकारादिप्रत्ययमात्रापेक्षयान्तरङ्गत्वान् । ल्पबादेशस्य तु पूर्वपदापेक्षसमासापेक्षत्वेन बाहिरङ्गत्वादितिचेन् । मैवम् । अन्तरङ्गानपिविधीन् बहिरङ्गो लुग्वाधते इति ज्ञा- पनार्थत्वात् । तेन प्रधाय प्रस्थायेत्यादौ दवातेहि भावं स्थाधा- तोरित्वं च बाधित्वा ल्यवादेशः । अन्यथाऽन्तरङ्गत्वात्तयोः प्रसङ्गेल्यबादेशस्योपदोशवद्वचनपनादिष्टार्थ बहिरङ्गलक्षणत्वादि. ति वचनमाश्रयणीयं स्यात् । तेन प्रदायेत्यत्र न ददादेशः प्रखन्येसत्र जनसनेत्यात्वाभावः, येविभाषेति विकल्पः । प्रक्र.

११४० व्याकरणसिहान्तसुधानिधौ द्वितीयाध्याये म्येत्यनुनासिकस्य किझलोरिति दीर्घाभावः, आपृच्छ प्रदीव्ये. स्पत्र नशूठाविति बोध्यम् । अत एव व्याघ्रभूतिरवादी- जग्धिविधियपियत्तदकस्मासिद्धमदस्ति कितीति वि. धानात। हिप्रभृतींस्तु सदा बहिरङ्गो ल्यब्भवतीति कृतं तदु विद्धि। जग्धो सिद्धेऽन्तरङ्गत्वात्तिकितीति ल्यबुच्यते । ज्ञापयत्यन्तरङ्गाणां ल्यपा भवनि वाधनम् । लुङ् सनोर्घस्ल ॥ ३७॥ अर्घस्ल आदेशो लुङि सनिच । लदित्वादङ् । अवस- त् । अत्तुमिच्छति निघत्मति । सन्यङोरिति द्वित्वम् । हलादिः शेषः । सन्यत इतीत्वम् । कुहोश्चुरिति अभ्यासे जकारः । अ. ध्युपसंख्यानम् । पात्तीति प्रघसः । घञपोश्च ॥ ३८॥ अनयोरिल । घासः । प्रघसः । उपसर्गेऽद इत्यप् । बहुलं छन्दसि ॥ ३९ ॥ घस्तां नूनम् । मन्त्रेघसे युपधालोपाभावार्थ बहुलोपादा. मम् । आत्तामत्समध्यतो मेदउद्धृतम् । बहुलं छन्दसीत्यडभा- वः । सम्धिश्चमे । व्याख्यातम् । लिटयन्यतरस्याम् ॥ ४०॥ अदो लिटि अयमादेशो वा स्यात् । जघास आद । न. च भ्वादिषु घाल अदने इति स्वतन्त्रोऽपि धातुः तस्य जघासे- चतुर्थपादे द्वितीयमाह्निकम् । २ । ११४१ ति, अत्तेश्चादति सिद्ध किमनेनेति वाच्यम् । तम्यासार्वत्रिक- फवज्ञापनार्थत्वात् । तथाच यत्र लिङ्गं वचनं वास्ति तत्रैव त- स्य प्रयोगो नान्यत्र । तथाहि-पाठः शपि परस्मैपदे लिङ्गम् । घसति । घसतु । अघसत् । घसेत् । लुदिकरणमाङ । अ- घसदित्यादि । अनिद्कारिकामु पाठो वलायाधधातुके । घ. स्ता । घत्स्यति इत्यादि । मृघस्यदः क्मरजिति विशिष्यांपा. दानात् घस्मरः । अन्यत्रानभिधानम् । वेजो वञिः ॥४१॥ केनो लिटि परे वयिरादेशो वा उवाय । ऊयतुः । ऊयुः । 'लिटि वयोय'इति यकारस्य संप्रसारणनिषेधः । वौ, ववतुः । परित्यादि । आदेशाभावपक्षे रूपम् । हनो वध लिङि ॥४२॥ लुङिच ॥ ४३॥ अत्र वधादेशः । वध्यात् । अबधीत् । विधिलिङस्त्वार्ध. धातुकत्वाभावान्न । हन्यात् । अकारस्योच्चारणार्थत्वे लुङि अतो हलादेलघोरिति हलन्तलक्षणावृद्धिः स्यात् । हन्तीति व. धकः । हन्तेर्बुल् । औषसंख्यानिको वधादेशः । तत्रातउपधा- या इति वृद्धिः प्राप्ता, जनिबध्योश्चेति यद्यपि निषिद्धा, तत्रापि स्थानिवद्भावाद्धनस्त इति तकारोऽन्तादेशः स्यात् । अवधीदि- त्यादौ एकाच उपदेशेऽनुदात्तादिति इप्रतिषेधश्च स्यात् । इनि प्राप्ते वार्तिकम् । 'आदेशे वृद्धितत्वप्रतिषध इविधिश्चेति । तथाचोक्तवचनादतिप्रसङ्गममाधानमिति वार्तिकाभिप्रायः ।

११४२ व्याकरणसिद्धान्तसुधानिधौ दितीयाध्याये भाष्यकृतस्त्वाहुः-अदन्त एवायम् । तेनातो लोपस्य स्थानिवद्भावाद्धलन्तत्वं नास्तीति वृद्धरप्रसङ्गः । तत्वमप्यलो- न्त्यस्य विधीयमानमकारस्य लुप्तत्वान्न भवति । स्वराविधीस्था. निववाभावात् । नापिधकारस्य अल्लोपस्य स्थानिवत्वेन धका. रस्यान्तत्वाभावात् । स्वोपदेशेऽनेकाच्वाच नेट्वतिषेध इति । अन्यत्स्थानिवत्सूत्रे निर्णीतम् । अत्मनेपदेष्वन्यतरस्याम्॥४४॥ हनो वधादेशो वा । आत्मनेपदं यो लुङ् तत्परे आर्द्धधातु. के । आवधिष्ट । आवधिषाताम् । आवधिषत । आहत । आ- हसाताम् । आहसत । आङो यमहन इत्यात्मनेपदम् । हनः सिजिति कित्वम् । अनुदात्तोपदेशेति नलोपः । पूर्वमूत्रे योग- विभागसामर्यादात्मनेपदेषु लिङि नास्य प्रवृत्तिः ।। इणो गा लुङि ॥४५॥ इण्गतौ इत्यस्यगा इत्यादेशो लुङि । गातिस्थेति सिचो. लुक् । अगात् । इण्वदिक इतिवक्तव्यम् । अध्यगात् । अध्यगुः । आत इति झेर्जुम् । णौ गमिरवोधने ॥४६॥ इणो गमिः स्याण्णौ नतुबोधने । गमयति । बोधने तु प्र. स्याययति । इण्वदिक इति वक्तव्यम् । अधिगमयति । इक स्मरणे। अत्र केचित् । आर्धधातुकबहिर्भूतानामपि कार्याणामतिदे- शः । तेनेणोयण इकोऽपि । अधियन्ति । अधीत्य । एति.

चतुर्थपादे द्वितीयमाह्निकम् । २ । ११४३ स्तुशास्विति क्यबित्याहुः । अन्येतु आर्धधातुकीयानामेवातिदेशादिय डेन । अधीयन्ति. अत एव 'ससीतयोराघव गोरधीयन्निति भटिरित्याहुः । सानि च ॥४७॥ इणो गमिः स्यान्नतुबोधने । जिगमिषति । बोधने तु प्र. तीषिषति । इह सनि कृतेऽजादेर्द्वितीयस्येति वचनात्सनएव द्वि. त्वम् । सन्यत इतीत्वम् । आदेशपत्यययारिति षत्वम् । बोद्ध. मिच्छतीत्यर्थः । अतिदेशादिकोऽपि । अधिजिगमिषति । कर्म णि तङ् । अज्झनगमां सनीति झलादौ सनि दीर्घः । गमेरि. ट् परस्मैपदेषु इत्युक्तेरात्मनेपदे तदभावात् । जिगांस्यते । अधि. जिगांस्यते । अनादेशगमेरेव दीर्घविधानात्मकृतिगर्न र्दीर्घः । जिगंस्यते । सञ्जिगंसते । इङश्च ॥४८॥ इङ् अध्ययनेऽस्वगपिः स्मात्सनि । अधिजिगांसते । अ. ध्ययनं कर्तुमिच्छतीत्यर्थः । गाङ् लिटि ॥४९॥ इङो गाङ् स्याल्लिटि परे विवक्षिते वा । अधिजगे । नच स्थानिवद्भावादात्मनेपदसिद्धौ डिववैयर्यम् । गाङ्कुटादिभ्य इत्यत्रेणो गादेशस्य ग्रहणं माभूदित्यर्थकत्वात् । अन्यथा अगासातां ग्रामौ देवदत्तेनेत्यत्र डित्वादीत्वप्रसङ्गात् । न च गाङ्गतावित्यस्यैव तत्रोपादानम् । तदीयङकारस्यैवात्मनेपदप्रवर्त- नेन चरितार्थत्वादादेश ङित्वस्य त्वनन्यार्थत्वेन बलवत्त्वात् ।

११४४ व्याकरणमिद्धान्तसुधानिधौ द्वितीयाध्याये अथ सानुबन्धाद्यत्र षष्ठयुच्चार्यते तत्रेत्संज्ञायामकृतायामेवा- देशपत्तिः । कृतायां वा इत्संज्ञायां तन्निबन्धनकार्याणि न प्र. वर्तन्ते इति ज्ञापनार्थ ङकारनिर्देशः । तदुक्तम्-ज्ञापकं वा सा• नुबन्धस्यादेशवचन इन्कार्याभावस्येति तेन चक्षिङः ख्याआदेशे निसमात्मनेपदं न भवति किन्तु जित्वाद्वैकल्पिकमेव । पचमानो यजमान इत्यत्र टितइत्येत्वं न । नन्दना कारका । इत्यत्र युवो. रनाकावित्यादेशयोः कृतयोः उगितश्चेति डीप् , उगिदचामिति नुम् च न भवति । ल्युः कर्तरीत्यमरेण पुस्त्रोक्ने प्रायिकत्वात् । अत एव विशिष्य सा भीमनरेन्द्रनन्दनेति श्रीहर्षः । नन्वेवं तस्थस्थमिपां तान्तन्ताम इत्यत्र मिपोऽनुबन्धवि. शिष्टस्य निर्देशादमादेशस्य पित्वानुपपत्तौ सार्वधातुकमपिदिति- डित्वादचिनवम् , अकरवमित्यादौ कितिचेति निषेधाद्गुणो न स्यात् । माहिस्मचिनवमित्यवानुदात्तत्वं च न स्यात् । एवं घेदवेत्थ इत्यत्रापि तिप्सिपोरादेशे गुणो न स्यादिति चेन्न । पकारमपनीय तस्थस्थीमनामित्येव पठनीयत्वात् । गल्थलोर्विधी तिप्सिपोरनुबन्धविशिष्टयोरनुपादानाच्च । अत्र भाष्यम् । बि. स्करणसागादेव तविकल्पसिद्धेः । तिप्तसिइत्यादौ उपात्ता. नामेवात्मनेपदानामत्व विधानात् । सिद्धं तु युवोरनुनासिकत्वा- दिति वक्ष्यमाणत्वात् । ततश्च स्थानिनोरेवोगित्वाभावे तदादेशयो. रुगित्वस्य दुरापास्तत्वात्।तस्माद्विशेषणार्थमेवङित्वमितिस्थितम् । . विभाषालुङ् लङोः ॥५०॥ अनयोरिडो गाङ् वा । अध्यगीष्ट । अध्यगीषाताम् । अ. ध्यगीषत । गाङ् कुटेतिङित्वात् घुमास्थागेति इत्वम् । पक्षेऽध्यै- ष्ट । अध्यैषाताम् । अध्यैषत । अध्यगीष्यत । अध्यष्यत ।

चतुर्थपादे प्रथममाह्निकम् । १ । गौ च संश्चङोः ॥ ५१ ॥ ॥ इङो गाङ् वा स्यात् सन्परे चपरे च णौ । अधिजिगापयि. पति । अध्यापिपयिषति क्रीजीनां गावित्यात्वम् । अध्यनी- गपत् । अध्यापिपत् ॥ अस्ते ः ॥५२॥ अस्त भावः स्यादार्धधातुके । तत्रास्तेः प्रयोगनिवृत्यर्थः आरम्भः । भविता । भवितुम् । इन्दामासेत्यादावनुप्रयोगविधा- नसामर्यान्न भूभावः । अन्यथाऽभूततद्भावेऽस्तिकृभूयोगे इति प. ठित्वाऽस्ति प्रत्याहारादहिः कुर्यात् । यथान्यासे मयो यण इति भकारवकारयोत्वेिऽर्धमात्रागौरवात् । यद्वा क्रस्चानुप्रयुज्यत इति वा ब्रूयात् । प्रादुरासबहुलक्षपाच्छविः इत्यादौ तिङन्त- प्रतिरूपकमव्ययमखण्डमेव । एतेन प्रादुरासुरथ कामकेलय इत्यपि व्याख्यातम् । आमत्यसतेरिति वामनः । अस गति. दीप्त्यादानेषु । लुका निर्देशादस्य न भूभावः ॥ । ब्रुवो वचिः ॥५३॥ बृञ् व्यक्तायां वाचि । अस्य वचिरादेश आर्धधातुके ।। बचपरिभाषणे लुङ् । वच उम् । अवोचत् ॥ चक्षिङः ख्याञ् ॥५४॥ लिटि च॥ अत्र भाष्यम् । खशाञ् इत्ययमादेशः । पूर्वत्रासिदमित्यधि- ११४६ व्याकरणसिद्धान्तसुधानिधौ द्वितीयाध्याये कारे णत्वप्रकरणानन्तरं शस्य यत्वं विभाषा वक्तव्यम् । तथाच तस्यासिद्धत्वात्तन्निमित्तककार्य न भवति । किन्तु शकारनिमित्त कमेव । चर्वस्य तु परत्वात्तस्मिन् कर्तव्ये यत्वं सिद्धमेति चत्वं न प्रवर्तते इति ख्यातेत्यादि सिद्धम् । यत्वाभावपक्षेतु खकारस्य चर्बेन ककारे कृते क्शातेत्यादि सिद्धम् । तथाच वार्तिकम् । असिद्धे शस्य यवचनं विभाषेति । तेन मुष्ठुप्रचष्टे सुप्रख्यः । आतचोपसर्गे इति कः । सुप्रख्यस्य भावः सौपख्यम् । योपधलक्षणो बुञ् न किन्तु ष्यत्र । तथाप्रख्येन निर्वृत्तो देशः सौप्रख्यः तत्र भव इत्यर्थे सौप्रख्यीयः । धन्व- योपधादिति बुञभावे वृद्धाच्छः । आख्यात इत्यत्र संयोगा. देरातो धातोर्यण्वत इति निष्ठानत्वाभावः । पुख्यानमित्यत्र पुमः खय्यम्पर इति रुत्वाभावः । पर्याख्यानमित्यत्र शकारेण व्यव- धानात्कृत्यच इतिणत्वाभावः । ख्याप्रकथने इसस्यापि तथा लुबयोगाप्रख्यानादिति निपातनात् । नमः ख्यात्रे इत्यत्र स. स्थानत्वाभावात् शपरे इसम्यैव प्रवृत्तिः । जिव्हामूलीयस्येयं पूर्वाचार्यसंज्ञा । तस्मात्स्वशानादेश इति स्थितम् । वर्जने प्रति षेधो वक्तव्यः । अवसंचक्ष्याः । परिसंचक्ष्याः वज्या इत्यर्थः । असनयोश्वप्रतिषेधः । नृचक्षारक्ष इति वेदे । तृचक्षोरक्ष इति लोके । विचक्षणः । अनुदात्ततश्च हलादेरिति युच् । बहुलं त. ण्यनवधक गात्रविचक्षणाजिराद्यर्थम् । सर्वप्रकरणापक्षोयमारम्भः। तणि इतिसंज्ञाछन्दसोः पूवाचार्यसंकेतः । अन्नम् । अत्र ज. अध्यादेशाभावः । वधक इतिण्वुल । तत्र वधादेशा विधीयते । गात्रम् । इण औणादिके ष्ट्रनि गादेशः । विचक्षण इति ख्या- आदेशाभावः । अजिरेत्यत्र वीभावाभाव इत्यर्थः । अत्रेदमवधेयम्-ख्याप्रकथने इत्यप्यदादौ पठ्यते । ससा- :

चतुर्थषादे प्रथममाह्निकम् । १ । ११४७ धातुकमात्रविषयः । अन्यथा तस्मान्नमः ख्यात्रे इत्यत्र जिह्वा. मूलीयस्य दुरितया सस्थानत्वं नमः ख्यात्रे इति वार्तिकस्या- सङ्गतिप्रसङ्गात् इति केचित् । तचिन्त्यम् । तावतापि यत्र जिह्वामूलीयासक्तिस्तादृशसम- भिव्याहारे तत्पयोगो नास्तीत्येव कल्ययितुमुचितत्वात् । न. ध्याख्यति नत्वनिर्देशप्रसङ्गाच । रुगाप्रकथने इत्यस्य प्रतिप. दोक्तत्वात्स निषेधो नतु खशाबादशस्य । तत्र यत्वस्य लाक्ष- णिकत्वादितिकैयटोक्तेश्च । लुब्योगाप्रख्यानादित्यत्र निपातना. प्रणलाभाव इति प्रतिपादककैयटग्रन्थविरोधाच । एतेन नध्याख्येत्यत्र ख्याग्रहणं नकर्तव्यमेवेति निरस्तम् । भाष्यवार्तिककाराभ्यां तथानुक्तत्वात् । एतेनख्याधातुरपि खशादियत्वविधिरप्युभयसाधारण इति हरदत्तमाधवादिग्रन्थो- प्यपास्तः । चलिङमुपक्रमाव तद्विधानात्सार्वधातुकेऽपि वशा. दिप्रयोयापत्तेश्च । इष्टापत्तेश्च स्वपरग्रन्थविरुद्धत्वात् । एतेन गो. संख्य इत्यत्र गाः सञ्चष्टे इत्येव विग्रह इत्यपि निरस्तम् । अत एव संपूर्वस्य ख्याते प्रयोग इति तत्र न्यामकारः । अतएव दृशे विख्येचेति मूत्रे ख्यातेरपि केप्रत्यय इति तेनैवोक्तम् । संख्येति- प्रयोगस्तु आदेशस्यति तदभिप्रायः । एतेन ख्याधातौ नेतिके. चिदिति प्राचीनोक्तिव्याख्याता । पुख्यानमित्यत्रफलैकरूप्यार्थ नभवत्येवेत्यर्थकत्वात् । वुरुत्वजिह्वामूलीयानां तुतवेष्टत्वात् । रूपद्वये बाधकाभावात् । नचाप्रख्यानादित्यादेशप्रयोगेऽप्युपप- त्तपिकत्वानुपपत्तिः । असनयोश्च निषेधात् । बाहुलके च प्र- माणाभावात् । इति दिक् । वालिटि। ५५।

१.१४८ व्याकरणसिद्धान्तसुधानिधी द्वितीयाध्याये पूर्वोक्तं लिटि वास्यात् । चख्यौ । चक्शौ । चचक्षे । च. यो द्वितीयाः शरि पौष्करसादेरिति ककारस्य न खकारः । अजेय॑घापोः।५६। अज गतिक्षेपणयोः अस्य वीत्यादेशो वा म्यादार्धधातुकवि- पये घामपञ्च वर्जयित्वा । विवाय । विव्यतुः । विव्युः । वीभा. वनिषेधे क्यच उपसंख्यानम् । समज्या । नचापोऽकारमारभ्य क्यपः पकारेणप्रत्याहारासिद्धमिति वाच्यम् । संवीतिरिसत्र वीभावानुपपत्तेः । वस्तुतो वाग्रहणमनुवर्णं व्यवस्थितविभाषया व्याख्येयम् । तेन प्रवेता, प्रवेतु, प्रवीतोरथः, संवीतिरित्यव बीभावः । समाजः उदाजः। समजनं समज्येत्यत्र तदभावः । तेन वलादावार्धधातुके ल्युटिच विकल्पः । प्राजितेत्यपि सिद्धम् । नियन्ता प्राजिता यन्ता मूत इत्यमरः। प्राजनम् । प्रवयणम् । नचैवं वायावित्यस्य वैयर्थम् । नहि तद्वि कल्पार्थम् । अपितु यजि. मनीति बाहुलकाधुचि अनतर्वीभावाविधानार्थम् । तेन वायुरिति सिद्धमिति भाष्यम् । एवं थलादी आजिथेत्यादि ज्ञेयम् । पूर्वमेव प्रत्ययोत्पत्तेई लादित्वाद्यङ्। वैवीयते । यङ्लुक्तु न । लुकाविषया. पहारादार्धधातुकव्यत्यभिव्यक्त्यभावात । संग्रहः कौस्तुभे उक्तः । अजेर्वी वेति घअपोः क्यपि चायं न संमतः । वलादौ यो च वान्यत्र नित्यमित्येव निर्णयः । आर्धधातुकाधिकारः समाप्तः । ण्यक्षत्रियार्षत्रितो यूनि लुगणिोः ।५८।

चतुर्थपादे प्रमथमाह्निकम् । १ । ११४९ क्षत्रियपदं तद्गोत्रपरम् । ऋषेरपत्यमार्षम् । इतश्चानिन इति ढकि प्राप्ते शिवादित्वादण् । आर्षेयं वृणीते इत्यादौ शुभ्रा. दिवाढक् । ण्यप्रत्ययान्तात्क्षत्रियगोत्रप्रत्ययान्तादृष्यभिधायिनो गोत्रप्रत्ययान्तात् भितश्च परयोयुवाभिधायिनोराणिबोलक् वा । कुर्वादिभ्यो ण्यः । कौरव्यः पिता । ततो यूनीञ् । तस्य लुक् । कौरव्यः पुत्रः। यस्तु तिकादौ कौख्य शब्दः नत्र कुरुनादिभ्यो ण्य इति वि हितक्षत्रियगोत्रोपादानात्कौरव्यायाणिरितिफिञ् । इदं तु ब्राह्मण गोत्रम् यः । ऋष्यन्धकेत्यण् । इञ् । तस्य लुक् । श्वाफल्कः पिता । श्वाफल्कः पुत्रः । क्षत्रिय । वसिष्ठादृष्यण् । तत इञ् तस्यलुक् । वासिष्ठः पिता । वासिष्ठः पुत्रः । आर्ष । विदा- यञ् । यूनि इन् । तस्य लुक् । वैदः पिता। बैदः पुत्रः । जित् । अगो यथा-तिकादिभ्यः । फिन् । तस्मायूनि पाग्दी- व्यतोऽण् । तस्य लुक् । तैकायनिः पिता । तैकायनिः कुत्सायाम् सौवीरगोत्रं च विनेदम् । तत्रफेच्छचेति छप- पुत्रः । सङ्गात् ॥ यमुन्दश्च सुयामाच वार्ष्यायणि फिनः स्मृताः । इति परिगणनस्यार्षत्वादितिवृद्धाः । एभ्यः किम् । शिवा. दिभ्योऽण् । यूनि इञ् । तस्य लुक् । कौहडः पिता । कौहाडिः । पुत्रः । यूनि किम् । वामरथ्यस्य छात्राः वामरथाः । कुर्वा. दिभ्योण्यः । कण्वादिभ्योगोत्रे इति शैषिकोऽण् । वामरथ्यस्य कण्वादिवत्सर्वमिति कुर्वादिषु पाठान्न तस्य लुक् । अणियोः किम् । दाक्षेरपसं युवा दाक्षायणः । यबिनोश्चेति अब्राह्मणगोत्रमात्रायुवप्रत्ययस्योपसंख्यानम् । मात्रपदं का- सयपरम् । क्षत्रियादिजाति विनापि अब्राह्मणत्वमात्रेण ततः फक्।

११५० व्याकरणसिद्धान्तसुधानिधी वितीयाध्याये परस्याणिभिन्नस्यापि लुमित्यर्थः । बौधिः पिता । बोधिः पुत्रः। जावालिः पिता । जाबालिः पुत्रः । औदुम्बरिः पिता । औदु. म्वरिः पुत्रः । भण्डिजङ्घकणखरको वैश्यौ ताभ्यामत इञ् । त- दन्तात्फको लुक् । पाण्डिजावः पिता पुत्रश्च । कार्णखरकि- रप्येवम् । पैलादिभ्यश्च ॥ ५९॥ युवप्रत्ययस्य लुक् स्यात् पीलायावत्यण् । अणो यच इति फिञ् तस्य लुक पैलः पिता पुत्रश्च । अन्य पैलादय इसन्ताः । तेभ्य इनः प्राचामिति लुक्सिद्धावप्यमागर्थः पाठः । पैलशालङ्कि, सात्यकि, सात्यंकामि, औदवजि, आदमेयि, औदश्चि,औदमञ्जि, दैवस्थानि, पैङ्गलि, औदयिनि, भौलिङ्गि, वाणि, सौमनि, औ- दमानि, औञ्जिह्मयनि, औञ्जिहानि, औदशुद्धि, आकृति- गणोऽयम् । तद्राजाचाण इत्यन्तगणमूत्रम् । तद्राजमंज्ञकादणः परस्य युवप्रत्ययस्य लुक् । यमगधेत्यण । अणोय व इति फिञ् । तस्य लुक आङ्गः पिता पुत्रश्च ॥ इञःप्राचाम्॥६०॥ गोत्रे य इञ् तदन्तायुवप्रत्ययस्य लुक् तच्चेद्रोत्रं माचाम् । नच प्राचामिति विकल्पार्थम् । अभियुक्तव्याख्यानात् । पन्ने प्राप्त अङ्गारं येन पन्नागारः । तत इञ् । यजिनोश्चेतिफन् । तस्य लुक् । पानागारिः पिता पुत्रश्च(१) । प्राचां किम् । दाक्षिः । (१) मन्थरा मन्दा एषणा यस्य मन्थरैषणः विरक्तत्वात् मा. इति पुस्तकान्तरे पाठोऽधिकः म्धरैषणिः पितापुत्रश्च चतुर्थ पादे प्रथममाह्निकम् । १ । ११५१ पिता दाक्षायणिः पुत्रः॥ न तौल्बलिभ्यः ॥६॥ तौल्बवल्यादिभ्यः परस्य युवमत्ययस्य पूर्वेण प्राप्तो लुक् न । तुल्वल स्यापत्यं तौल्वलिः पिता । फन् । तौल्वलायनः पु. तः । तौल्वालि, तैल्वलि, धारणि, पाराणि । धारयति पारयति- भ्यां नन्वादिल्युः । तत इञ् । दैलीपि, देवालि, दैवमित्रि, दै. वयज्ञि । देवा मित्रमस्य । देवेभ्यो यज्ञमस्यंत्यर्थः । प्राणेहति, चापटकि, आनुहरति, वाफल्कि, आनुमति, आहिसि, आसुरि, आयुधि, नैमिषि, आसिबन्धकि, बलि, पौष्कि, पौष्करसादि- आनुहारति । पुष्करे तीर्थविशेपे सीदति पुष्करसत् । अनुहरती- क्यनुहरत् । बाहादित्वादिन् । अनुशतिकादित्वादुभयपदवृद्धिः। पौष्यि, वैरीक, बैहति, विलक्षणोकर्णो अस्य वैकणिः । कामाले। उपकोशलो हुने कामलायन इति छन्दोग्योपनिषत् । कारेणुपा- लि । करेणुं पालयति करेणुपालः । श्रीः । इति श्रीसिद्धान्तसुधानिधौ द्वितीयस्य चतुर्थपादे प्रथममादिकम् ॥

११८२ व्याकरणमिद्धान्तसुधानिधौ द्वितीयाध्याये तद्राजस्य बहुपुतेनैवास्त्रियाम्६२ तद्राजपत्ययस्य लुक्स्यात्स्वार्थमात्रकृते बहुत्वे नतु स्त्रिया म् । ऐक्षाकः । ऐवाको । जनपदशब्दात् क्षत्रियाद तस्य ब. हुत्वेलुक् इक्ष्वाकवः । इक्ष्वाकूणां दुरापेऽर्थे इति कालिदासः । कथं तर्हि ऐक्ष्वाकेषु च मैथिलेषु च फलन्त्वस्माकमवाशिष इति मुरारिः । अत्राहुः-इक्ष्वाकुपुजनपदेषु भवः । कोपधादण् । अस्य तद्राजवाभावान्न लुक् इति । कोख्याः पशवः । तस्यामे- व रघोः पाण्डया इत्यादौ कौख्ये पाण्डंयच साधव इति व्या- ख्येयमिति । रघूणामन्वयं वक्ष्ये, ते यूयं रघवः प्रसिद्धमहसो यः सोपि देवाधिपः । निरुध्यमाना यदुभिः कथञ्चिदियादौ त- द्राजवाभावादपत्यप्रत्ययस्य लोपानुपपत्तावपि तदपत्ये लक्ष. णेति ग्रन्थकृतः । वंशत्वं जन्यजनकान्यतरत्वम् । अन्यस्य दु. पंचत्वात् । तथाच रघोरपत्यानां जन्यान् जनकांश्च वक्ष्ये । ज- नकत्वं साक्षात्परम्परासाधारणम् । जनकत्वेन रघुपर्यन्तानां ज- न्यत्वेन दशरथादीनां सङ्ग्रहः । तेषामपिरघोरपत्यत्वात् तज्जन फत्वेनाजस्यापि सङ्ग्रह इति न दोषः । प्रकृतमनुसरामः । इह बहुपदं बहुवचनपरमर्थपरं वेति सं. शयः । उभयत्र लिङ्गसद्भावात् । तथाहि-तेनैवेति वचनमा- छ लिङ्गम् । तद्धि प्रियो वाङ्गो येषां ते पियवाङ्गाः इत्यत्र लुको वारणार्थम् । नचतत्संम्भवति । तद्राजस्य बहुत्वे वृत्यभावेन लुगप्रसक्तौ तद्वारणायोपायस्यानुपादेयत्वात् । बहुवचनपरत्वे तु तत्र लुक्ससक्तिः । तथाच तेनैवेत्येतदुपादानं स्वप्रयोज्यनि- पंधप्रतियोगिप्रमञ्जकत्वेन बहुष्वित्यस्य बहुवचनपरत्वं ग्राहयती. ति फलितार्थः, चतुर्थपादे द्वितीयमाह्निकम् । २ । द्वितीये त्वस्त्रियामिति लिङ्गम् । तद्धि आझ्यः स्त्रियइयत्र- लुकोऽप्रवृत्त्यर्थम् । नचोक्तरीया तत्रास्ति लुगापत्तिः । स्त्रीप्रसय. व्यवाहितत्वेन बहुवचनस्य तद्राजात्परत्वाभावात् । भवति तु वह्व- थत्वे आङ्गीशब्दवाच्यानां स्त्रीणां बहुत्वादिति पूर्ववदर्थपरत्वग्राह- कत्वमिति । तत्रायः पक्षः बहुवचने पर लुगित्ययुक्तः । अन्यथा यस्त्रियामिति निषेधः कर्तव्य इति गौरवम् । एतद्रीत्यातु स्त्रीपत्यय- व्यवधानादेव तदप्रत्तो निषेधानुपयोगात् । नचाम्बष्ठ्यस्याप- सानि बवयः स्त्रिया आम्बष्ठ्याः । दृद्धकोसलाजादादिति ज्य- छ । यङः श्चाविति चाप् । सवर्णदीर्घः । सचान्ताद्भावान्न व्यव- घायक इति लुप्रसङ्गात्पूर्वपक्षेऽप्यस्त्रियामित्यावश्यकमिति वाच्य. म् । अचः परस्मिन्निति स्थानिवद्भावेन लुगप्रसक्तः । नच सिद्धान्तेऽपि तेनैवेसस्यानुपादानाल्लाघाम् । प्रियवाङ्गा इत्यत्र समासार्थबहुत्वे तद्राजान्नस्य बव्हर्थकताभावादेव लुगम- सङ्गादितिवाच्यम् । तथापि गार्यश्च वात्स्यश्च वाज्यश्च गर्गवत्स. वाजा इत्यादौ लोपप्रतियोगिनोऽपत्यप्रत्ययस्यैकस्मिन्नेवार्थे उत्प. नत्वात् बर्थत्वाभावाल्लुक न स्यात् । तदुक्तं द्वन्द्वेऽबहुषु लुम. चनमिति लुगर्थे वचनान्तरमारम्भणीयं स्यादित्यर्थः । नचपूर्वपक्षेऽ पि बहुवचनेपरे लुम्विधानात्तस्मिन्नितिीनोंदष्टेपूर्वस्यति परिमापो- पस्थाने प्रत्येकस्य बहुवचनपरत्वाभावाल्लोपो न स्यात् । समासा- दुत्पन्नस्य बहुवचनस्यान्त्यादेव परत्वादिति वाच्यम् । अन्त्यमात्र- स्य तावत् सिद्धः। किश्च विदस्यापत्यानि बहूनि वैदाः । विदादित्वादञ् । बि- दानामपत्यं युवा बैदः, वैदौ । अतइञ् । ण्यक्षत्रियापजित इतिलु- क् । अत्र बहुवर्थेपु उत्पन्नोऽपत्यप्रत्ययो युवापत्यविवक्षायां द्वि- त्वविशिष्टे एकत्वविशिष्टेवाऽर्थान्तरे संक्रान्तः । तस्य बहुपूत्पन्नत्वा- . १४५ ११५४ व्याकरणसिद्धान्तसुधानिधौ द्वितीयाध्याये त लुक्प्राप्तौ अलुगवचनमारम्भणीयं स्यात् । प्रययपक्षेतु बहुव. चनपरत्वाभावादेव नलुक् । तदुक्तम्- गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य प्रवृत्ती धेकयो गिति । येकयोरिनिभावप्रधानो निर्देशः[१]नचात्र गोत्रे ऽलुगचीति सूत्रेणाजादौ प्राग्दीव्यतीये परे लुनिषेधादेव सि. द्धिरितिवाच्यम् । अजादिप्रत्ययपरत्वाभावात् । वर्णाश्रयेच प्रत्य- यलक्षणनिषेधात् । एवं वैदस्य वैदयोर्वाऽपत्यं बहबो माणवकाः बिदाः। अत्रापि यजमोश्चेति लुङ्न स्यात् । अञो बहुप्रकृतित्वाभा वात् । नच प्रत्ययग्रहणे तदन्त ग्रहणादनन्तस्यैव बहुत्वेन विशेष. णाल्लुकसिद्धिरितिवाच्यम् । काश्यपप्रतिकृतयः काश्यपा इत्यत्रा- तिप्रसङ्गात् । कश्यपस्य गोत्रापत्यं काश्यपः । बिदादित्वादब् । तत्प्रकृलय इत्यर्थ इवेप्रतिकृताविति कन्प्रत्ययः । जीविकाथेचाप- ण्य इति वा । आर्चासुपूजनार्थासुचित्रकर्मध्वजेषु चेति पाठाद्वा त- स्य लुक् । एतस्यानन्तस्य बहुषु वृत्ते प्रसङ्गात् । तस्मादयो बहुष्वित्येव तत्र वक्तव्यम् । प्रत्ययादर्शनस्यैव लुगादिसंज्ञाविधाना- व । प्रत्ययानामेव कार्यभाक्त्वेन बहुत्वेन तेषामेव विशेषणीयत्वात् । तथाच बिदा इत्यत्रामत्ययस्यैकस्मादवोत्पन्नतया लुङ नस्यादि. ति लुग्वचनं कर्त्तव्यम् । तदुक्तम्-एकवचनस्य द्विवचनान्तस्य प्रवृत्तौ बहुषु लोपो यनि इति । उक्तार्थम् । अथोच्यते । युगपदधिकरणवचने द्वन्द्ववचनात् गर्गवत्मवाजा इत्पत्र वर्तिपदत्रयस्यार्थत्रयवाचकत्वात्मत्येकं तदाजपत्ययानां ब. हुत्वार्थकत्वमस्त्येवेति द्वन्द्रे पूर्वोक्तमबहुषु लुग्वचनमनारभ्यमेवेति । ताहि पूर्वपक्षिणापि बहुवचने परे लुगङ्गीकारात् बहुवचनं प्र. त्येक गादपि परतोऽस्त्येवेति न तदोषावकाश इति समानम् । [१] पुस्तकान्तरे निर्देश इत्यस्याग्रे 'उक्तार्थम् इति पाठोऽधिकः ।

चतुर्थपादे द्वितीयमाह्निकम् । २ । ११५५ नच लुकि कृते कथं तदिति वाच्यम् । प्रत्ययलक्षणेन निर्वाहात् । नच नलुमनाङ्गस्यति तनिषेधः शक्यः । लुमता लुप्तो यः प्रत्यय- स्तस्मिन् यदङ्ग तस्य यत्कार्य अङ्गाधिकारविहितं तद्वहिर्भूतं वा तम्न भवतीति तयाख्यानात् । लुकच प्रत्ययस्यैव कार्य नतु समस्त. स्याङ्गस्येति प्रत्ययलक्षणस्य सुलभत्वात् । एतेनाङ्गानतिक्रान्तोऽ त्यङ्ग इत्यत्र अतिआङ्ग जम् इति स्थितेऽन्तरङ्गानपीति न्यायेन लुकि पूर्व कृते बहुवचनपरत्वाभावात्तद्राजलोपो न स्यात् । नन्वेवं पञ्चभिर्गार्गीभिः क्रीतः पटः पञ्चगार्यो दशगार्य इत्यत्रातिप्रसङ्गः । क्रीतार्थस्याहीयस्य ठकोऽध्यर्धेति लुक् । लु- कतद्धितलुकीति स्त्रीप्रत्ययस्य लुक् । तत्र यज्लुकोऽङ्गकार्यत्वाभा- वादुक्तरीत्या प्रत्ययलक्षणप्रवृत्याभिसमाश्रित्य यानोश्चेति लुक. प्रसङ्गात् पश्चगर्गो दशगर्ग इत्यस्यापत्तेः । नचास्त्रियामिति नि- हिः । वर्तिपदार्थस्यार्थान्तरेऽर्थे पुंसि संक्रान्तत्वादिति चेत । न । इष्टापत्तेः । गर्गेभ्य आगतं गर्गरूप्यं गर्गमयमित्यत्र लौकिकविग्रहे मुबन्तप्रयोगेऽपि प्रातिपदिकादेव प्रत्ययोत्पत्त्या बहुवचनपरत्वा• भावाल्लुङ् न स्यादित्यपि परास्तम् । समर्थानां प्रथमावत्यधि कारात्सुबन्तेनैव सामर्थ्यात् । सुबन्तस्यैव द्वितीयस्य सम्बन्धा- त् । प्रातिपदिकाधिकारस्य तु वृद्धादिविशेषणार्थत्वात् । नन्वेवं विदानामपत्यं वैदः वैदौ इत्यत्र लुक् स्यादिति सिद्धा- न्तिनं प्रतिउक्तापत्ति सङ्गच्छते । उक्तरीत्या बहुवचनपरत्वेन पूर्वपक्षिणाप्यलुको वक्तव्यत्वात् । यदि त्वचीयनेनैव निषेधः। वर्णाश्रये इति निषेधस्य वर्णरूपाश्रयकार्यनिषेधकत्वेन प्रत्यय. स्यासाधारणं यद्रूपं तत्वेन यत्र निमित्तस्त्रं तद्विषयकवाभावात् । अतएव गोहितमित्यादाववादेशादयो न भवन्ति । अच्त्वस्य प्रत्ययाप्रत्ययसाधारणपेन वर्णाश्रयत्वात् । अतृणेडित्यत्रेमाग- ११५६ व्याकरणसिहान्तसुधानिधौ दितीयाध्याये मस्तु तिपो लुप्तत्वेऽपि प्रत्ययलक्षणेन भवत्येव । तस्य हलादि- पित्सार्वधातुकाश्रयत्वात् । सार्वधातुकत्वस्य प्रत्ययत्वव्याप्यत्वा- त् । एवं लुकोऽपि अजादिमत्ययाश्रयत्वेन वर्णाश्रयत्वाभावा- दित्युच्यते तदपि तुल्यम् । अथवाऽविशेषणालुकं विधाय हलि. नेनि निषेधो वक्तव्यः । तेन गर्गरूप्यमित्यादौ नदोषः । नचैवं विदानामपत्यं बहनो माणवका इत्यत्रापि अलुक्स्यादिति वा- च्यम् । अपराधिकारादन्यत्र लौकिकस्यापत्यमात्रस्य गोत्रस्य ग्रहणान् । युवबहुत्वे वर्तमानस्यैव यत्राश्चोते लुक्सम्भवात् । नच तत्राप्यलुकात्तिः स्यादिति वाच्यम् । समर्थानांपथमा- दित्यस्यानुत्या समर्थानां प्रथमस्य गोत्रप्रत्ययस्यालुग्भवति इति व्याख्यानात् । प्राथमकल्पिके प्रत्ययार्थे वर्तमानस्य तस्य प्राथम्यं यथा गार्गीया इत्यादौ । प्रकृतेतु युवप्रत्ययस्य लुकि कृते गोत्रप्रत्ययान्तस्य बैदशब्दस्य युवलक्षणं द्वितीयमर्थमुपसंक्रान्त- त्वान्नप्राथम्यमिति पुनरलुग्विध्यप्रवृत्तेः । इदंचावश्यमभ्युपगम्यम् । अत्रिभरद्वाजिका, वसिष्ठकश्यपिका, भृग्वाङ्गरसिका, कुत्सकु- शिकिका, अपत्यानीति 'इतश्चानिम' इति ढक् । भरद्वाजस्या- पत्यानि । विदादित्वादञ् । उभाभ्यां युवबहुत्वेऽत इञ् । तस्य ण्यक्षत्रियाति लुक् । आत्रभृगु कुत्मेतिहको लुक् । योश्चति अबो लुक् । अत्रिभरद्वाजानां मैथुनिकति द्वन्द्वादबुन् वैरमैथुनि- कयोरितिबुन् । कश्यपकुत्साभ्यामञ् । वशिष्ठादिभ्य ऋष्यण् । यदि द्वितीयमर्थमुपसंक्रान्तस्याप्यलुक् स्यात्तदा गोत्रेलुग. चीति यथाश्रुतन्यासेsपि अलुक् दुर्वारः स्यात् । यद्वा गर्गभा. विकाग्रहणं नियमार्थम् । गगादिभ्यो यञ् । तस्य लुक् । भृगु. शब्दादृष्यण् । तदन्ता न्यञ् । तस्य लुक् । गर्गभृगूणां मैथुनि. केति चुन् । अत्रात्रिभृगुकुत्सेत्यादिना लुक् प्राप्तो गोपवनादि चतुर्थपादे छिायमाह्निकम् । २ । ११५७ पाठेन प्रतिषिध्यते । यदिच द्वितीयमर्थमुपसंक्रान्तस्या- प्यलुक् स्यात्तदा गोपवनादिषु गर्गभाविकापाठो व्यर्थः स्यात् । अनो द्वितीयमर्थमुपसंक्रान्तस्यालु बिधि प्रवर्तते इति तेन ज्ञाप्य- ते इति नकोऽपि दोष इति कल्प्यते ! इदमपि समानम् । यदप्यु तं बैदस्य बैदयोऽपत्यं बहवो माणवका विदाः । अत्रानो बहुपकृतिकवाभावाल्लुक्न स्यादिति । तदप्यसत् । अनन्तंयर- हुष्षिति व्याख्यानेन तत्सम्भवात् । नच काश्यपप्रतिकृतयः काश्यपाइत्यत्र दोषः । अपत्य बहुवे वर्तमानस्यैवअनन्तस्य तत्रग्रहणात् । प्रतिकृतिबहुत्ववृत्तेः काश्यपाइसजन्तस्य लुगास- तः लोपप्रतियोगिपसयार्थत्वेन साजात्यविवक्षयोक्तार्थलाभात् । गोत्रयूनोरपत्यत्वेन साजात्यसत्वात् । प्रतिकृतेश्च तदभावात् । तस्मात्सिद्धान्तेऽपि नगौरवम् । इति चेत्सत्यम् । तथापि पूर्वप- क्षेजप दोषस्यानुपन्यासादिति प्राप्ते---- सिद्धान्तमाह भाष्यकारः । बहूवचने परतो लुगित्युच्यमाने अत्रय इत्यत्र दोषः । तथाहि-अत्रिशब्दादितश्चानिन इति ढक् । कित इत्यन्तोदात्तत्वम् । तत्र जसि परतो लुकिक्रियमाणे- ऽनुदात्तस्य च यत्रोदात्तलोप इत्युदात्त नित्तिस्वरेण जस उदा. तवं स्यात् । अर्थपक्षेतु लुकः परनिमित्तत्वाभावान्न तत्प्रसङ्ग इति जसोऽनुदात्तौ सुप्पिती इत्यनुदात्तत्वमेव । आंग्यः स्त्रिय इत्यादिवारणाय त्वस्त्रियामिति कृतमेवोत दिक् । अथास्त्रियामिति पर्युदासः, प्रसज्यप्रतिषेधो वा आये गा. गीच वात्स्यश्च वाज्यश्चति द्वन्द्वे सर्वेषां लुक् स्यात् । एकैकस्य शब्दरूपस्य स्त्रीपुंसात्मकसमुदायाभिधायित्वात् । अन्त्ये तु नेति स्पष्टमेवेति चेदत्रापि भाष्यम् । देवा ज्ञातुमर्हन्तीति । देवा दि- व्यदृशः पण्डिता इति यावत् । तत्रद्वेधा कैपटेन व्याख्यातम् ।

११५८ व्याकरणसिद्धान्तसुधानिधौ द्वितीयाध्याये पर्युदासस्यैकवाक्यतया लाघवान्याय्यत्वमिति केचिदाहुः । अ. न्ये तु गार्गीशब्देन स्त्रीत्वप्रयुक्तानामर्थानामभिधानायसोलुका नभाव्यम् । अन्येषां तु भाव्यमित्याहुः । अथ यत्र लोपभाजां तद्रहितानां चममासस्तत्रलोपप्रतियोगि- प्रत्ययान्तपदस्य बहथत्वाल्लोपः, उत तेनैवेतिवचनात नलोपः। [१]अविद्यमानसनिधिकृतत्वात बहुत्वस्य तन्मात्रकृतत्वाभावादि- ति चेत् । अत्रापि भाष्यम् । उभयथापीति ज्ञापकसद्भावात् । भृगु- वत्साग्रायणेषु, अगायेगालवानामिति च प्रयोगदर्शनात् । आ- घे हि द्वौ लोपिनौ । आग्रायणस्तु नडादिफगन्तत्वात्तद्राज- संज्ञानास्तीयलोपी द्वयोश्च लुक् कृतः । अन्त्येतु द्वौ लोपिनौ । गालवस्तु ऋष्यणन्तः पूर्ववन्न लोपी । नच लोपिनो लोपः कृत इति तथाच ज्ञापकद्वयसद्भावादुमयमप्युपपन्नमिति भावः । यस्कादिभ्योगोत्रे ॥६॥ एभ्यः परस्य गोत्रमत्ययस्य लुक् स्यात् तत्कृते बहुत्वे नतु स्त्रियाम् । गोत्रे कुआदिभ्यश्च्फञ् इति गोत्रपत्ययप्रकरणं तस्मा. दन्यत्र लौकिकगोत्रग्रहणम् । अपत्याधिकारे गोत्रग्रहणसामा- देव पारिभाषिकगोत्रग्रहणम् । यस्काः । लह्याः । बहुषुकिम् । या. स्कः । लाह्यः । स्त्रियांतु यास्क्यः स्त्रियः । गोत्रीकम् । यास्काः छा- त्राः। यस्क लह्य द्रुह्य अयस्थूण तृणकर्ण एते पञ्च शिवादी इयण । सदामत्त कम्बलभार अहियोग कर्णाटक पिण्डाजक बकसक्थ एभ्यः षड्भ्य इञ् । विधि कटू अजवस्ति मित्रयु एभ्यश्चतुर्यः शुभ्रादित्वात् । रक्षोमुख जङ्घारथ मन्थक उत्कांस कटुक पुष्कर- सत् वेषपुर परिमेखल कोष्टुपाय क्रोष्टुमान क्रोष्टुपाद शीर्षमाय [ १ ] अलुप्यमानसंनिधिकृतत्वात् । इति पाठान्तरम् ।

चतुर्थपादे द्वितीयमाह्निकम् । २ । ११५९ एभ्यो द्वादमाभ्य इञ् । यद्यपि तौलाल्पादौ इनः प्राचामिति प्रा. तस्य लुक् प्रतिषेधाय पठितस्य पुष्करसदि सस्य प्राच्यत्वे विवा- दाभावात् । बहुच इनः प्राच्यभरतेष्वित्येव लुमिद्धः । तथा. पि गोपवनादिपतिषेधवाधाय तस्य यस्कादिषु पाठः । तत्र तौ- ल्वल्पादय इत्यस्य कौश्चित्पठ्यमानत्वात । यैस्तु तत्र नपठ्यतेते. रप्यस्मादेवज्ञापकात्तौलाल्यादिप्रकृतिभूतानां तुल्वलेत्यादीनां गोपननाद्यन्तर्भावस्यानुमेयत्वात् । खरपद अस्य नडादित्वात्फ- क् । पदक पर्पक आभ्यामत इञ् । भलन्दन अम्माच्छिवादि- स्वादण । भण्डिल भाण्डक भण्डिव भण्डित एभ्यश्चतुर्योऽश्चा- दित्वात्फञ् । यज्ञोश्च ॥ ६४॥ गोत्रे यद्यजन्नमनन्तंच तदवयवयोरेतयो क् तस्कृते बहुत्वे. नतु स्त्रियाम् । गर्गाः । वत्साः । गर्गादिभ्यो यमो लुक् । बि. दाः । ऊर्वाः । विदाधनो लुक । तत्कृतोत किम् । प्रियगार्याः अन्यपदार्थकृतमिह बहुत्वम् । अस्त्रियां किम् । गार्यः स्त्रियः । गोत्रेकिम् । द्वैप्याः । द्वीपादनुसमुद्रं यञ् । औत्साः । उत्सादि. भ्योऽन् । प्रवराध्यायप्रसिद्ध महगोत्रम् | नेह। पौत्रदौहित्राः । सद्राजसंज्ञाहितानां लुगर्थमेतदादिरारम्भः । यादीनामेकस्य द्वयोर्वा तत्पुरुषे पठ्या उपसंख्यानम् । आदिपदेन वक्ष्यमाणानामपि बहुत्वे लुग्भाजामुपग्रहः । आ- दिशब्दस्य व्यवस्थापरत्वात् । गाय॑स्य गार्ययोर्वाकुलं गा. र्यकुलं गर्गकुलंबा । बैदस्य बैदयोर्वा कुलं वैदकुलं विद कुलं वा। यनादीनां किम् । आङ्गकुलादौ माभूत् । संख्याविशेषग्रहणं किम् । गाणां कुलं गर्गकुलम् । परत्वाद्विकल्पो माभूत् । तत्पु.

११६० व्याकरणसिद्धान्तसुधानिधौ द्वितीयाध्याये रुषेतिकिम । गार्यस्य समीपमुपगाग्र्यम् । षष्ठयाः किम् । शो. भनगार्यः । कर्मधारये माभूत् । अत्रिभृगुकुत्सवसिष्ठगोत- माङ्गिरोभ्यश्च ॥६५॥ बहुवे गोत्रप्रत्ययस्य लुक स्यात् । अत्रयः । भृगवः । कु- साः । वमिष्ठाः । गोतमाः । अङ्गिरसः। यथावाङ्गिरसः पूर्व भृावश्चापमोधरे । अत्रयश्च वसिष्ठाश्च ततस्त्वापसेधिमोत आ थर्वणश्रुतिः । तेनैवेत्येव प्रियात्रेयाः । अस्त्रियमित्येव । आ. त्रेयः स्त्रियः । वव्हच इञःप्राच्यभरतेषु ६६ पाच्यगोत्रे भरतगोत्रे च वर्तमानस्य बह्वप्रकृतिकस्य इनो बहुत्वे लुक् । पन्नागाराः । मन्थरैषणाः । युधिष्ठिराः । अ- जुनाः । बव्हचः किम् । चैकयः । पौषयः । प्राच्यभरतेषु कि- म् । बालाकयः । हास्तिदासयः । इह कर्मधारये प्राच्यग्रहणं व्यर्थम् । व्यावयाभावात् । द्वन्द्वे तु अन्यत्र भरतानामभावात् । प्राच्यग्रहणेनैव सिद्धिः। यद्यपि सामान्यविशेषपोर्वाचानको द्वन्द्रनिषेधः तथापि सौ. वत्वादेव तत्संभवः । एवं चान्यत्र प्राच्यग्रहणे भरतग्रहण नभ- वतीति ज्ञापनाय भरतानां पृथङ्ग निर्देशः । सेनेनः प्राचामित्या त्र भरतगोत्रग्रहणं न । औद्दालकिः पिता । औद्दालका. यनः पुत्रः।

चतुर्थपादे द्वितीयमाह्निकम् । २ । ११६१ न गोपवनादिभ्यः॥ ६७ ॥ गोत्रप्रत्ययस्य न लुज । गौपवनाः । ॐग्रवाः । विदाधन्तर्ग- णो गोपवनादिः । तत्समाप्तये मध्ये वृत्करणाभावात् । आगणा- न्ताद ग्रहणे प्राप्ते गोपवनादिप्रतिषेधः प्राग्यरितादिभ्य इति वाच्यम् । तेन हारिता इत्यत्रालुगव ।। तिककितवादिभ्यो द्वन्द्वे ॥१८॥ एभ्यो गोत्रप्रत्ययस्य बहुपुलुक्दन्द्रे । तैकायनयश्च कैतवा- यनयश्च तिककितवाः । तिकादिभ्यः फिनो लुक् । नच गणे इन्द्ररूपाणामेव पाठात्तिकादिभ्य इत्येवोच्यतामिति वाच्यम् । द्वन्द्रे पूर्वपदानामेव प्रत्ययस्य लुक् नतूत्तरपदानामिति शङ्का- निवृत्यर्थत्वात् । चाङ्करयश्च भाण्डीरथयश्च वङ्खरभण्डीरथाः । अत इञो लुक । औपकायनाश्च लामकायनाश्च उपकलमकाः । नडादिफको लुक् । माढकयश्च नारकयश्च मढकनरकाः । अत इञो लुक् । वाकनखयश्च श्वागुरपरिणद्धयश्च वकनखन गुरपार- णद्धाः । औब्जयश्च काकुभाश्च उब्जककुभाः । अत इशि- वाधणार्यथाक्रमं लुक् । लाङ्कयश्च शान्तमुखयश्च लङ्कशान्तमुखाः। अतइञोलुक् । (१) औरगयश्च शालङ्कपश्च उरगवालयः । तिका- दिफितइनालक काणाजिनयश्च कार्णसुन्दरयश्च कृष्णाजिन- कृष्णमुन्दराः । अतइनोलुक् । आग्नि वेश्याश्च दाशेरकयश्चाग्निवे- शदाशेरकाः । गर्गादियोऽतइञश्च लुक् । भ्राष्ट्रक यश्च कापिष्ठ. लयश्च भ्राष्ट्रककपिष्ठलाः । अाइनो लुक् ॥ [१] औरगायनयश्चेतिपाठः साधुः ११६२ व्याकरणसिद्धान्तसुधानिधौ द्वितीयाध्याये उपकादिभ्योऽन्यतरस्यामद्वन्द्वे॥ एभ्यो गोत्रात्ययस्य बहुस्ने वा लुक् द्वन्द्वेऽद्वन्द्वे च । अद्वन्द्व पदस्य द्वन्द्रानुत्यभावज्ञापकत्वात् । एषां मध्ये त्रयो द्वन्द्रास्ति. ककितवादिषु पठ्यन्ते इति वृत्तिः । कैयटस्तु भ्राष्ट्रकि कापि छलि इति इन्द्रस्य तिककितवादिषु पाठोऽनार्पः । भ्रष्ट्रककपि- छलाः । भ्राष्ट्रीककापिष्ठलयः इति भाष्योदाहरणादित्याह । त- स्मात्कृष्णाजिनकृष्णसुन्दराः अनयोः पूर्वेण द्वन्द्वे नित्यो लुक् । अद्वन्द्वे विकल्पः । उपका औपकायनाः । लमका लामकायनाः । कृष्णाजिनाः कार्णाजिनयः । कृष्णसुन्दराः कार्णसुन्दरयः । अ- न्येषां तु द्वन्द्वे तदभावे वा विकल्पेन लुक । भ्रष्ट्रकाः । भ्राष्ट्रक- यः। कापिष्ठलाः । कापिष्ठलयः । बडारक अडारक भ्रटुक अकन्धक पिङ्गलक पिष्ट सुपिष्ट मयूरकर्ण खरिज शाबाषण पत- अल कावेरिणि गडु उपितक कुश कुत्म निदाघ कलशीलकण्ठ कामकण्ठ कृष्णपिङ्गलकर्ण पर्णक जटिलक बधिरक जन्तुक अनुलोम प्रतिलोम अविदग्ध प्रतान अनभिहित ।। आगस्त्यकौण्डिन्ययोरगस्ति- कुण्डिनच् ॥ ७० ॥ एतदवयवस्याणो यनश्च गोत्रात्ययस्य बहुषु लुक् । प्रकृ. तिभागस्य यथाक्रमं उक्तावादेशौ च स्याताम् । अगस्तयः कुण्डिनाः ननु द्वयोविशिष्टयोरेवादेशद्वयं यथाक्रमं विधीयतां कि प्रत्यय लोपं विधाय प्रकृतिभागस्यादेशकरणेनेति चेत् न, आग स्तीया इत्यस्यासिद्धिसङ्गात् । अगस्त्यादृष्याण आगस्त्यः। अग- चतुर्थपादे द्वितीयमाह्निकम् । २ । ११६३ स्तीनां छात्रा इनि भाग्दीव्यतीयेऽजादौमत्यये विवक्षितेऽप्य- गस्तीत्यादेशापच्या वृद्धत्वाभावाच्छो न स्यात् । लुकं कृत्वा- ऽगस्तीत्यादेशविधाने तु तत्र गोबेलुगनीति लुकप्रतिपघात । तत्संनियोगांशष्ट आदेशापि नभवति इति वृद्धत्वाच्छपायये मूर्य- तिप्पागस्त्यति यलोपे चकने आगरी माइति मिदम् । कौण्डि- न्येतु उभयथापि न विशेषः । कौण्डिन्यशब्दात्कण्यादिभ्योगोत्र इत्यणि कृते आपल्यस्येति पलोपेच कौण्डिनाः छात्राइत्येव- सिद्धेः । चकारः स्वरार्थः । कुण्डिनीशब्दस्पेनिप्रत्यये मध्योदा- तत्वात् । गर्गादिभ्यो यञ् । भस्याटेइति पुत्रद्भावे नस्तद्धिते इति दिलोपे कोण्डय इति स्यात् अस्मादेव निपातनान्न पुंवत् । यस्येतिचेतीकारलोपः । वस्तुतष्टिलोपाभावमात्रं निपात्यम् । सुपोधातुप्रातिपदिकयोः॥७१॥ अदिप्रभृतिभ्यः शपः एतयोरवयवस्यमुपो लुक् । पुत्रमात्मन इच्छति पुत्रीय- ति । सनाद्यन्ता इति प्रत्ययविशिष्टस्य धातुसंज्ञायां पुत्रपदो- तराद्वितीयाया लुक । सुवन्ताक्यच् । राज्ञः पुरुषो राजपुरुषः ।। ॥७२॥ एभ्यः शपो लुक् । अत्ति । योन्यदेवमुपासते इत्यादी आसतेरादानार्थे रूपम् । आश्वसे युनिशाचराः । न विश्वसेदवि- वस्ते इत्यादौ गणकार्यस्यानित्यत्वान्न लुक । घटादयः पित इयेव सिद्धे क्षमूष् इति पित्करणेन ज्ञापिनत्वादिति केचित् । पचाद्यजन्तादाचारकिवित्यन्ये । एतेन पथिकवनिता प्रत्ययादा- श्वसन्ति इति मेघदूतं, देवीगिरां दीर्घतरं वसन्तीति भानुदत्त. प्रयोगश्च व्याख्यातः ।।

११६४ व्याकरणसिद्धान्तसुधानिधौ द्वितीयाध्याये
बहुलं छन्दसि ॥७३॥
बहुलं शापो लुक । वृहं हनति वहा । अहिः शयते । वहु-
लोक्तरन्यत्रापि । बाध्य नो देवाः ॥
यङोऽचि च ॥७॥
अच्प्रत्यये परे यङो लुक् । ले लुवः । पोपुवः । पचायच् ।
इदमेव ज्ञापयति सर्व धातवः पचायन्त:पातिन इति । चकाराद-
न्यत्रापि बहुलम् । वेभिदीति । चच्छिदीति । अत्राच्यत्ययनि-
मित्तको लुक परनिमित्तकः चकारलभ्यस्त्वनैमित्तिक इति विवे-
कः । अत्र भाष्यमते छन्दसीत्यस्यानुत्तिः नतु वृत्तिमते । हु.
श्रुवोरित्यत्र सार्वधातुकग्रहणेन कचिद्भापायामादि यङ्लुको भा.
ष्यकारेणापि स्वीकारात् । पूर्वप्रयोगानुसारेणैव प्रयोगव्यव.
स्थासंभवाद
नन्वत्राजिति प्रत्याहारः एव गृह्यतामिति चेत् । अत्राहुः।
तथासत्यणीत्येवावक्ष्यत् । यहन्तादन्यस्याचोऽसंभवात् । नच
पापच्य इत्यत्र तत्संभवः । शपा व्यवधानात् । एकादेशस्य
स्थानिवद्भावात् । लिटस्त झयोरेशित्वाम आवश्यकत्वात् । अमन्त्र
इतिवचनान्मन्त्रे कश्चित्तत्संभवे तु या प्रत्ययेन साहचर्यात् ।।
जुहोत्यादिभ्यः लुः ॥७॥
मण्डकप्लुत्या शपोऽनुवृत्ति तुमन्निहितस्यापि यङः श्लाविति
द्वित्वविधानसामर्थ्यात् । अन्यथा सन्यङो रित्यनेनैव सिद्धेः॥
बहुलं छन्दसि ॥६॥

चतुर्थपादे द्वितीयमाह्निकम् । २ । ११६५ शप श्लुः स्यात् । जुहोत्यादिभ्योऽपिकचिन्न । देवतानो स्व. स्ति मघवा धाविन्द्रः । दाति प्रियाणि । अन्यस्मादपि । पूर्णा विष्टि । जनिमाविवक्ति ।। गातिस्थाघुपाभूभ्यः सिचः ७७॥ एभ्यः सिचो लुम् परस्मैपदेषु । लुगवानुवर्तते नतु श्लुः । व्याख्यानात् । गादेशस्यश्तिपि शब्लुकानिर्देशात् । इणादेशो गा अत्र गृह्यते नतुगै इत्यादिः । अतएवगामादाग्रहणेष्वविशेष इत्यस्य न प्रत्तिः । अन्यव्यात्तरूपेणैवोपादानात् । गादेश. स्य लुमात्रविषयकवेऽप्यनुकरणेऽपि प्रकृतिवदित्यतिदेशेन शपो लुक्मवृत्तेः । अगात् । अस्थात् । अदात । अधात् । पि. बतेरेवग्रहणं नतु पातेः । लुम्विकरणालुग्विकरणयोरलुचिकरण- स्यैव ग्रहणात् । अपात् । अभूत् । अस्त्यादेशस्यापीदं रूपम् । आर्धधातु कमात्रविषयकस्यतस्य शपो लुक्सम्बन्धाभावेन लु. विकरणपरिभाषाण अप्रवृत्तेः । गैशब्द इत्यस्य त्वगासी- व, पारक्षणे अपासीत् । यमरमनमातामितीट्सको । पैशोषणे इत्यस्यापि नसंग्रहः लाक्षणिकत्वात् । परस्मैपदे किम् । अगासाता ग्रामौ देवदत्तेन । अत्रभूभ्य इतिभीधातोर्डसानिर्देशः । एरनेकाचइति यण । तेन माभेः शशाङ्कममसीधुनि नास्ति राहुरिति सिद्धमिति कल्प- नमनादेयम् । मास्मभैषस्त्वियाद्यैव इतिभट्टिविरोधात् । माभेर्मास विक्था इति तु छान्दसम् । माभेरिति तु प्रामादिकमित्याहुः आगमशासनस्यानित्यवादीडभावे वा समाधेयम् ॥

११६६ व्याकरणसिद्धान्तसुधानिधी द्वितीयाध्याये बिभाषा प्राधेशाच्छासः॥७८॥ पूविपये वा लुक् । धेटः पूर्वेण प्राप्त इनरेणत्वमाप्ते विक- ल्पः । अघ्रात् । अधात् अशात् । अच्छात् । असात् । शोछो तनूकरणे पोऽसकर्मणि । पक्षे अघ्रासीदित्यादि । परस्मैपदे किम । अघ्रासत सुगनमो देवदत्तन । कर्माणाङ् । तनादिभ्यस्तथासोः ॥७९॥ मिचो वालुक् तथासोः परतः । थासासाहचर्यादे कवचनस्य तस्य ग्रहणम् । अतत । अतथाः । अतनिष्ट । अननिष्ठाः। अमात असाथाः । जनसनेत्यात्वम । पक्षेऽमनिष्ट अमनिष्ठाः । यूयम. तनिष्टेत्यत्र न लुक् । बहुवचनस्यात्रानुपादानाद । - मन्त्रे घसहरणशवृदहा- चकृगमिजनिभ्यो लेः॥८॥ एभ्यो ललक मन्त्रे । अक्षन् पितरोपीमदन्त पितरः । घ. स्लादेशेगमहनेत्युपधालोपः । शाप्तिवाति पत्वम् । अडभावे मात्वा कासो अशिवाप्स उक्षन् । कौटिल्ये इत्यस्य गुणवि. शिष्टस्य निर्देशः । अकारउच्चारणार्थः । पाहमित्रस्य । धूर्तिः प्रणङ् मर्यस्य । नशेति कुत्वम् । इति वृाग्रहणम् । सु- रुचो वेन आवः । गानआधक् । दादेर्धातोरिति घत्वम् । एका च इति भष्भावः । आदिति आकारानग्रहः आमाद्यावापृथिवी अ. न्तरिक्षम् । जुवर्जने । भारोअस्मिन् महाधने परावर्क् । प. राव रभृद्यथा । अक्रन् कर्म कर्मकृतः । आम्मन् । मन्त्रपदं चतुर्थपाद छितीयमाह्निकम् । २। १९६७ ब्राह्मणस्याप्युपलक्षणम् । अज्ञत वा अस्य दन्ताः । ऐतरेय ब्राह्म- णे हरिश्चन्द्र प्रतिवरुणस्योक्तिः । लिग्रहणमादिः सिचोऽन्यतरस्पामिति स्वरस्याप्रत्यर्थम् । अन्यथासिचमेवावतिष्यांदति कयटहरदत्तादयः । नचलिलि. टोरपि लोपापत्तिः । सिचः स्थानिभूतो योलिः इति व्याख्या- नातू । केचित्तु विभाऐत्यनुनसते । न ता अगृभ्णन्नननिष्टहिष- इत्याद्यनुरोधात् । तेन सिनत्यादिकमपि अफलाम् । नचलिङ्ल टोलुंगापत्तिः । छन्दपि रूपान्तरपाना पायत्तादियाहुः । आमः ॥८१॥ इजादे श्वेत्यादिनाम् वक्ष्यते । ततः परस्य लुक । ईहांचक्रे । तिवाद्यादेशापवादत्वाल्लावस्थायामेवायम् । तेन चक्षुः कामं या- जयांचकारेत्यादावामन्तस्यातिङन्तवादनिघातः । अनुप्रयुज्यमा. मानस्य च निघातः । आमन्तस्थ सुबन्तत्वात्पदत्तम् । कृन्मेज- न्स इत्यव्ययत्वात्सुपोलोपः । कृतिङित्यत्र तिङ्भाविन एवल- कारस्य कृत्संज्ञानिषेधात् । नचै यहाकारयां धकारत्यत्र तिवा- दिलुकि सति गतिर्गत तिडिचोदात्त वतीति प्रशब्दस्य निघातो नस्यात् । आमन्तस्य तिङन्तत्वाभावादिति वाच्यम् । प्रशब्द- स्प कारयामित्यनेन समामे सपासवरेणान्तोदात्तेऽव्ययपूर्वपद. प्रकृतिस्वरेण चादयुदात्ते पाले सहाधेन कृत्स्वरे कृते शेपनि- घातेनैव प्रशब्दानुदात्तत्वसिद्धः । नच नकारयांचकारेत्यादौ सुबन्तलेन ननमासापत्तिः । ततश्च नकारलोपापत्तिरिति वा- च्यम् । अनभिव्यक्तार्थेनापन्तेन सह सामर्थ्याभावात् । आमोललोपेलुङ्लोटोरुपसंख्यानम् । तां वैजापयोवि- दामक्रन । अस्य भवन्तो विदाङ्कन्तु । लिग्रहणानुवृत्याऽन्यत्र ११६८ व्याकरणसिद्धान्तसुधानिधौ द्वितीयाध्याये नप्राप्नोतीत्यारम्भः । अनुप्रयोगवचनमापत्तिसयमावलोपस्ये- ष्टत्वात् तदनुत्तिर्नेतिभाष्यम् । तत्रनिपातनेनापि लुमिद्धिारति- कैयटः । आमन्तस्यानभिव्यक्तपदार्थत्वात्स्वाभाविक्येव तरबादे- रनुत्पत्तिलुग्दारेणान्याख्यायते ।। अव्ययादाप्सुपः ॥८२॥ अव्ययाद्विहितस्यापः सुपश्च लुक् । तत्र शालायाम् । अथ तत्र बार्तिकम् । अव्ययादापो लुग्वचनानर्थक्यं लिङ्गाभावा- दिति । नच स्त्रीसमानाधिकरणत्वात्तदापत्तिः । भूतामयंब्राह्मणी- त्यत्रातिप्रसङ्गात् । यद्यपि एकत्वे सुः इत्यायेकवाक्यत्वे मुबुत्प. तिनप्राप्नोति । अव्ययानां संख्याराहित्यात् । तथाप्यविशेषेण- स्वाद्युत्पत्तौ येकयोरित्यादिनियमविधिः । यद्वाऽस्मादेव ज्ञापका. त्सुबुत्पत्तिः । तेनपत्यय लक्षणेन पदत्वाद्रुत्वादिसिद्धिः । अतएव घटो नेसादौ शङ्खः पाण्डुर इत्यादौच निपातोत्तरविभक्तीनां प्र. तियोगित्वादी लक्षणति तार्किकसंप्रदायः ॥ नाव्ययीभावादतोम्त्वप- ञ्चम्याः॥८३॥ अत्र योगविभागः । अदन्तादव्ययीभावात्सुपो लुङ् न ततोऽम्त्वपञ्चम्याः । पञ्चमी भिन्नस्यामादेशश्च । अलुक् सर्ववि. भक्तिसाधारण अम्भावस्तु पञ्चमीभिन्नस्यैवेति फलितम् । अ. न्यथा पञ्चम्यां अम इवालुकोऽपि प्रत्यापत्तेः । यद्वा तुशब्दो- ऽवधारणार्थः । तथाचापश्चम्या अमेव लुक् तु तस्था अपीसेक- वाक्यतायामपि तदर्थसिद्धिः । दिशयोर्मध्यमपादशम् ।

चतुर्थपादे द्वितीयमाह्निकम् । २ । पञ्चमीप्रतिषेधेऽपादानपञ्चम्या ग्रहणम् । नेह आपाटलिपुत्रं दृष्टो देवः । कर्मप्रवचनीययोगेऽत्र पञ्चमी । यद्वाऽव्ययीभावाविहि- तायाः पञ्चम्या अमादेशनिषेधः । अत्रतूत्तरपदाद्विहिता सा । त- स्याश्च समासावयवत्वात्तस्यच प्रातिपदिकत्वाल्लुकि कृते समासा- सुशब्दे उत्पन्ने तस्या अम्भावः । यदातु समासाद्रिहिता पञ्चमी तदा श्रूयते एव । आउपकुम्भात । कुम्भस्यसमीपमित्यव्ययी- भावः । तत आयोग पञ्चमी । । तृतीया सप्तम्योर्वहुलम् ॥८४॥ अम्भावः स्यात् । उपदिशम् । उपादेशेन । उपदिशे ए- तेन 'प्रतिहट्टपथे घरट्टजादिति नैषधं (१)व्याख्यातम् । सप्तम्या ऋद्धिनदीसमाससंख्यावयवेभ्यो नियमिति वाच्यम् । बहुलन. हणसिद्धार्थकथनमेतत् । ऋद्धिः-सुमद्रम् । सुमगधम् । नदीसमा- स:-उन्मत्तगङ्गम् । लोहितगङ्गम् । संख्या-एकविंशतिभारद्वाज त्रिपञ्चाशद्गौतमम् । एकविशानिर्भरद्वाजाः । त्रिपश्चाशद्गीतमय- श्याः इति संख्यावंश्यनेति समासः । वर्तिपदानां स्वार्थ विशिष्टार्थान्तराभिधायित्वाद्गौतमभारद्वाजशब्दयोरेकत्वविशिष्टयो- रेकत्वविशिष्टेऽर्थान्तरे संक्रमात्तद्राजस्येति लुगभाव इति कैयटः । वृत्तिप्रवेशात्मागेव गणां कुलं गर्गकुलमित्यादिवल्लोपप्रस ङ्गाद्भाष्यप्रयोगादेव नलोप इति दीक्षिताः । ततः सप्तमी । नि. त्याऽम्भावः । लुटःप्रथमस्य डारौरसः॥८५॥ लुडादेशस्य प्रथमपुरुषस्प एते आदेशाः म्युः । नच टेरेत्व. (१) नैषधीयचरिते द्वितीयसर्गे पञ्चाशीतितमोऽयं श्लोकः। १४७ ११७० व्याकरणसिद्धान्तसुधानिधी वितीयाध्याये मात्मनेपदे परत्वात्स्यादिति वाच्यम् । पुनः प्रसङ्गविज्ञानेन त. तदुत्तरमेवोक्तादेशानां प्रवृत्तेः । ईजतुरित्यादौ संप्रसारणे कृते द्वित्ववत् । ननु स्थानिनः षट् आदेशास्तु त्रयः अतो यथासंख्येन कथं निर्वाह इति चेव । न, अर्थत आन्तयण व्यवस्थासंभवात् । यद्रा डारौरसश्च डारौरसश्चेत्येकशेषाश्रयणात,कृतकशेषाणां द्वन्द्वे तु ए. कत्रचनद्विवचनयो , बहुवचनैकवचनयो रौ,द्विवचनबहुवचनयोश्च रसादेशः स्यात् । कृनद्वन्द्वानामेकशेषे तु तिप्तम्झीनां डारौरसः क्रमेण । तआतांश इत्येषां डारौरस इतीष्टमिद्धिः । अयमों भाष्ये-- डारौरसः कृते टेरे यथा द्वित्वप्रसारणे । समसंख्यन नार्थोऽस्ति सिद्धं स्थानेऽर्थतोऽन्तरा ॥ आन्तयतो व्यवस्था त्रय एवेमे भवन्ति सर्वेषाम् । टेरेत्वंच परत्वात्कृतेऽपि तस्मिन्निमे सन्तु ॥ इति । स्यादेतत् । डादेशोऽलोन्त्यपरिभाषयाऽन्त्यमात्रस्य प्रामो. ति । नच शिकरणेन निर्वाहः सार्वधातुकत्वापत्त्या श्वः कर्ते. त्यत्र तास्यनुदात्तेदिति सूत्रेण तासेः परं लसार्वधातुकमनुदात्त- मित्यस्य निघातस्यापत्तेः । तिङतिङ इति निघातस्य तु न प्रस- ङ्गः । नलुटीति निषेधात् इति चेत् । न, अन्त्यादेशेऽपि टिलोपेन आख्याततकारसहितस्यैव आसो निवृत्त्या कासिद्धेः। नचान्त्यस्य डादेशे तकारान्त नाङ्गम् । तकारस्य प्रत्ययावयवत्वात् । प्रत्ययाव. धिकपूर्वभागस्यैवाङ्गसंज्ञाविधानादिति वाच्यम् । डिलसामाग- संज्ञामङ्गसंज्ञां विनैव तत्प्रवृत्तेः । नचैवं तिङ्ग्रहणेन ग्रहणं न स्या- व रूपान्तरापत्तरिति वाच्यम् । पचन्ति पचन्तु इत्यादिवदेकदे- शाविकृतस्यानन्यत्वात् । अथवा सादेशः प्रत्ययसंजसंज्ञा लोपश्चेत्येतेषां पूर्वपूर्वसा- चतुर्थपादे द्वितीयमाह्नकम् । २ । ११.७१ पेक्षत्वादनेकाल्वादेष सिद्धम् । अन्तादेशत्वे हि प्रत्ययावयव एव स्यानतु प्रत्ययः । समुदायस्पैव तथात्वात् । तदभावे च ने. संज्ञा । सदभावेच न लोपः । अतः पूर्वमनेकाल्वात्सर्वदिशः । तत इत्संज्ञादीति न क्षतिः । यदा अ, अ इति प्रश्लिष्टनिर्देशोऽयम् । तेनानेकालत्वात्सर्वादेश इति भाष्यम् । स्यादेतत् । तिवादीनांलसार्वधातुकानुदात्तत्वं परमात्माप्नोति। शब्दान्तरमाप्त्याऽनुदात्तस्यादेशानां चानित्यत्वात् । तथाच तेषा. मुदात्तलं न स्यात् । इति चेत् । न, अन्तरङ्गतादादेशानामेव प्रथमं प्रकृतेः । नच तथापि तेषामनुदात्तत्वं क्रियतामु लोप इति वीक्षायां परत्वाहिलोप एव ततः पुनः प्रसङ्गविज्ञानादनुदात्तय मेव डादीनां स्यादिति वाच्यम् । टिलोपानन्धरं स्वरविप्रतिषेधाश्र- येण उदात्तनिटत्तिस्वरस्यैव तास्यनुदासोदेयनुदात्तत्वं बाधित्वा प्रवृत्तेः । नतु तथात्मनेपदैकवचनस्य तस्य स्थाने योऽमादेशः तत्रपरत्वाहिलोपे कृते पश्चादेवानुदात्तत्वप्ररयाऽनुदात्तस्य च यत्रोदाचलोष इत्यस्याप्रवृत्तेः । अनुदात्ते कृते सति तद्विशिष्ट- निमित्तको यत्रोदात्तलोपस्तत्रैव तत्संभवात् विस्थानीयडादेशस्तु तिपः पित्वेनानुदात्तत्वात्स्थानिवद्भारेनानुदात्त इति तत्र स्यादे वोदात्तनिवृत्तिस्वरेणोदात्तत्वम् । तकारस्थानीयडादेवो तुतास्यनु. दात्तेदियस्य प्रवृत्ति विनानुदासस्पचेति स्वरस्यैवानवकाशवेन तयोप्रितिषेधायोगादिति चेत् । अत्र भाष्यकाराः । लसार्वधातुकानुदात्तत्वं हि प्रत्ययस्व. रस्यापवादः । नचापवादविषये उत्सर्गा अभिनिविशन्ते तथाच परत्वाहिलोपे कृतेऽपि अनुदात्तस्यचति स्वरः प्रवर्तते एव । उ- दात्तत्वाभावमात्रस्य तत्रत्यानुदात्तशब्देन विवक्षितत्वात् । एवं स्थि- ते शास्त्रीयानुदात्तलाभावेऽपि डादेशे प्रत्ययस्वरस्य प्रवृत्तिविर- ११७२ व्याकरणसिद्धान्तसुधानिधी द्वितीयाध्याये हेण उदात्तत्वाभावरूपानुदात्तत्वस्य सत्चात् उदात्तनिवृत्तिस्वरो निःप्रत्यूह एव । नचतासेरुदात्तत्वात्पूर्वमेव टिलोपप्रवृत्तरुदात्त- लोपोऽपि कथमिति वाच्यम् । वाधकाभावेन उदात्तविशिष्टस्यैवता. सेः प्रवृत्तेः डादेशेतु अपवादप्रत्तेर्भावितया पूर्व न प्रययस्वरप्रति रिति वैषम्यम् । तस्मात्पदद्वयेऽपि स्वसिद्धिीरति सर्व शिवम् । इति श्रीसिद्धान्त सुधानिधौ द्वितीयाध्यायस्य चतुर्थपादे द्वि. तीयमान्दिकम् । पादोऽध्यायश्चायं समाप्तः । सद्विद्वत्पदवाक्यमाननिगमाकूपारपारङ्गम. श्रीलक्ष्मीधरलब्धबोधजनुपा विश्वेश्वरेणादिते । श्रीसिद्धान्तसुधानिधौ सुधिषणैरध्यायमध्यायत(१) ध्यायध्यायमिहाभिधेयमधुना शोधाय धी(यताम् ॥१॥ (१) अधिकमायतोऽध्यायतः अतिथिस्तृत इत्यर्थः ।

15 अथ तृतीयोऽध्यायः प्रत्ययः ॥१॥ अधिकारोऽयम् । पञ्चमसमाप्तिपर्यन्तम् । अत्र विधीयमा- नाः प्रत्ययसंज्ञाः स्युः । तेन प्रकृयादौ नातिव्याप्तिः । अथैवमापि हनस्त च, पुजतुनोः पुक् इत्यादिविकारागमेषु अतिव्याप्तिा- रा। नच परत्वाभावात्तेषां संज्ञा न भविष्यतीति वाच्यम् । श्न- म्बहुजकक्षु परत्वं विनापि प्रत्ययत्वस्वीकारादिति चेत् । अत्राहुः-प्रयोजनाभावान्न तेषां संज्ञति । तथाहि-परवि- धानार्थ न तेषां तत्संज्ञा। षष्ठथैव स्थानसंबन्धावयवसंबन्धान्यतरस्य प्रतिपादितत्वात् । नाप्युदात्तत्वार्थम् । आगमानां विशिष्यानु- दात्तस्वरविधानात् । विकाराणां तु निरकानां स्वरस्यैव विरहा. तु । साच्कानां तु प्रीत्तकालेएवान्तरङ्गत्वात्स्थानिस्वरमत्तेः । पञ्चमीनिर्देशाभावाच्च । नच तव्यतिरेकेणापि प्रत्ययसंज्ञावलादेव परत्वं स्यादिति वाच्यम् । षष्ठथैव स्ववाक्योपात्तसंबन्धविशेषोक्तो विरोधाद्वाक्यान्तरोपात्तपरत्वान्वयानुपपत्तेः । नन्वेवं गापोष्टगित्यादावानन्तर्यसंबन्धे षष्ठीविज्ञानात्प्रत्ययविज्ञानो- स्पत्तावपि विकारागमस्थलेऽनुवाद्यस्य षष्ठीनिर्दिष्टत्वात् प्रत्ययवि. धिनस्यात् । पञ्चमीनिर्देशाभावात् । श्रुतयोरेवस्थान्यादेशयोराग मागामिनोश्च संबन्धप्रतिपादने वाक्यस्योपयोगात् । वाक्यान्तरस्य- च संबन्धविशेषकल्पकस्याभावात् । नच हनस्तचेत्यत्र धातोरिति- पुजतुनोः पुगिसत्रच प्रातिपदिकादिति पञ्चम्यन्तस्यानुवृत्त्या तेन प्रत्ययविधिः । भूयमाणेनच षष्ठयन्तेन स्थान्यादेशभावस्यागमाग मिभावस्य च निर्वाह इति वाच्यम् । इन्तेरादेशविधावपयोगा- १९७४ व्याकरणसिद्धान्तसुधानिधौ तृतीयाध्याये त् । विभक्तिभेदाच । तेनधातोविशेषयितुमशक्यतया हन्तेस्त- कारादेशो धातुमात्राच क्यप् इति वाक्यार्थप्रसङ्गात् । यद्वा हन्तेस्तो भवति धातोः क्यप् भवति कस्माद्ध. न्तरित वाक्यभेदेन हन्तिना धातुविशेषणात् । यद्वा पहासंज्ञाक- रणमन्वर्थत्वविधानार्थम् । तेन निरर्थकानां विकारागमानां न प्र- त्ययसंज्ञा । विकारागमानांचानर्थकत्वमन्वयव्यतिरेकाभ्यां प्रकृते. रेव तदर्थत्वात् तरवादिवदर्थान्तरद्योतकवाभावानिर्विवादम् । नच प्रत्ययसंज्ञासिद्धौ प्रकृत्यर्थेनैवार्थवच्चानिर्वाह इति वाच्यम् अर्थवत्त्वाभावेन प्रसयत्वमेव नास्तीत्युक्तौ उक्तयुक्तेरन्योन्याश्रय. अस्तत्वेनानुल्लासात् । अथप्रत्याययतीति कर्तृसाधनः प्रत्ययशब्दः उत प्रत्याय्यते इति कर्मसाधनः ? नाद्यः । स्वार्थिकेष्वव्याप्तः । प्रकृसतिरि काविषयबोधस्य तैरजननात् । नान्त्यः । यस्यार्थः प्रकृत्या प्र. त्याय्यते स प्रत्याय्यमानार्थ इति तदर्थात् । स्वार्थिकसन्प्रत्यये संगृहीतेऽपि इच्छार्थकसनादावव्याप्तेः । इच्छार्थानां तषां प्रकृति योध्यार्थबोधकत्वादितिचेत् उच्यते । एक एव शब्दोऽनेकशक्तियोगात्पत्तिनिमित्तर- यावच्छिन्नोऽधिक्रियते इति यथासंभवमुभपत्र संज्ञाप्रवृत्तिः । ज्य- न्तस्य निपातनादचि णेलुक । नचागमेऽप्येवं स्यादिति वाच्यम् । प्रत्ययस्यागमव्यतिरेकेणापि प्रयोगादागमस्य तु सदभावादिति प्रत्ययस्यैवान्वयव्यतिरेकाभ्यामर्थवत्वपर्यवसानात् । अनुन्यासकारस्तु प्रतियन्त्यर्थमनेनति करणेऽपत्ययः। य. द्वा पुंसि संज्ञायां घप्रत्यय इत्याह । नच ल्युटा बाधितत्वात्करणे कथमुक्तप्रत्ययौ । क्तल्युट्तुमुन्खलर्थे वासरूपविधेरभावादिति वा. च्यम् । तत्र करणाधिकरणयोरित्यस्य स्युटोऽनुपादानादिाते अ.

प्रथमपादे प्रथममाह्निकम् । २ । -- न्यत्र विस्तारः। तत्सिद्धं यौगिकोऽयं प्रत्ययशब्द इति नचप्रकृत्यादावप्तिव्या- प्तिः । अधिकाराविशेषविहितत्वस्य प्रयोगोपाधित्वात तत्पकारक- बोधाभावेनोक्तधर्मे रूढयवच्छेदकत्वस्य वक्तुमशक्यत्वात् अत एवं गोशब्दशक्तौ गोत्वं नोपाधिस्तत्प्रकारकबोधादिति न्यायचिन्ताम- णावुक्तम् । नैयायिकास्तु-- यादृशार्थप्रकृसन्यो निपातान्यश्च त्तिमान स तादृशार्थे शब्दः स्यात् प्रत्ययोऽसौ चतुर्विधः ।। याशार्थत्यस्य वृत्तावप्यन्वयः। वृत्तिः शक्तिनिरूढलक्षणा वा । प्राशस्त्ये मतुपो विधानात् । तथाच याशार्थप्रकृतिनिपात- भिन्नत्वे सात यः शब्दो यादृशार्थे उक्तान्यतरत्तिमान् स ताह. शार्थक प्रत्ययः । उक्तान्यतरवृत्या गुणगुपिनोः स्थितिप्रस्थान- योश्च बोधके शुक्लस्थादौ व्यभिचारवारणाय प्रकृतिभिन्नोते । शतया समुच्चयादिबोधके चादिनिपाते तद्वारणाय निपातभिन्ने ति । स्वरादयस्तु स्वपरतायामेव प्रकृतयो नवेकत्वादौ । तृती- यादौ सत्यापि कर्मत्वादेर्लक्षणा न निरूढा । मायशः प्रयोगविर- हात् । पशुना रुद्रं यजते इत्यादौ त्वानुशासनिकत्वात् । स्वार्थि- कप्रसयमात्रस्य स्वरूपमर्थः । तेन जुगुप्तते देवतत्यादौ स्वार्थिक सन्तलादौ नातिव्याप्तिः । भावघनादीनामप्युक्तैव गतिः । भाव- पदस्य धात्वर्थस्वरूपपरत्वात् । अन्यथा पाकं पश्येत्यादौ धात्वर्थ स्य कर्मत्वान्वयो न स्यात् । सुवर्थे धात्वन्धयस्याव्युत्पत्तेः । यद्वा इतरार्थानवाच्छिन्ने स्वार्थे यो बोधनाक्षमः । तिर्थस्य निभायन्यः स वा प्रत्यय उच्यते ।

११७६ व्याकरणसिद्धान्तसुधानिधौ तृतीयाध्याये यः शब्दः शब्दान्तराविशेषिततया यादृशस्वार्थविशेष्यकतिङ. र्थप्रकारकान्वयवोधने स्वरूपयोग्यः स नाशार्थे प्रत्ययः । चैत्रोऽ स्तीसादौ पदान्तरार्थानाच्छन्नस्वार्थ नाम्नि तिङान्वयबोधकत्वमे- वेति नातिव्याप्तिः । चैत्रत्वविशिष्टचैत्रस्यैकनामार्थत्वेन तत्रैव कृत्य. न्वयात् । पदान्तरार्थ धर्मितावच्छेदकीकृत्य यदर्थप्रकारकवोधो न भवत्येव तत्वमित्यर्थात् । पदान्तरपदेन च प्रत्ययवाभिमतार्थप्र. कारकबोधो विशेष्यतासंवन्धेन यच्छदार्थे भवति तद्भिन्नपदं ग्राह्य . म् । अन्यथा तिङपेक्षया भेदस्य चैत्रपदेऽपि सत्त्वात्तदर्थचैत्रत्व- धर्मितावच्छेदककचैत्रविशेष्यकतिर्थकृतिप्रकारकबोधोदयेनाति- व्याप्तिः । यजत स्थीगते इत्यादौ तिङ, पुत्रीयतीत्यादौ क्यजा- दीनां, पाचकोस्तीत्यादौ कृता, काश्यपिरित्यादौ तद्धिनानां प्रक. त्यर्थावीच्छन्ने एव सार्थे कृत्यादौ तिङयस्य वर्तमानत्वादेवोधक- त्वं नतु तदवच्छिन्न इति न तेष्वव्याप्तिः । निभनीकाशादीनां. समासमात्रप्रयोगभाजां तादृशस्त्रार्थ तिर्थान्वयवोधं प्रति स्वरू. पायोग्यत्वात् तद्वारणाय निभायन्यत्त्वमपि निवेश्यामित्याहुः ।। परश्च ॥२॥ स्पष्टोऽर्थः । ननुपञ्चमीनिर्देशपरशद्वाथ्याहारेण गापोरि- त्यादिषष्ठीनिदेशे च आनन्तर्याश्रयेण परत्वसिद्धौ व्यर्थमेतदिति- चेत् । न, पञ्चम्याकाभितस्थावधेः पूर्वशब्देनापि समर्पणसंभवा- त् । आनन्तर्यस्यापि पूर्वत्वेन निर्वाहसंभवात् नियमार्थतया सूत्र प्रवृत्तेः । नच बहुजकचोः पूर्व मध्ये च विधेबहुजेत्र पूर्वमकजेव मध्ये इति नियमार्थत्वात् प्रत्ययान्तराणां तदेशव्याच्या पर- त्वमेवाद्भिविष्यतीति वाच्यम् । मध्यस्थानियतत्वेन टेः पागि त्येव मध्यविशेषस्य तेन नियमेऽपि मध्यानारस्य व्यावर्तयितुम- प्रथमपादे प्रथममाह्निकम् । १ । ११७७ शाक्यत्वात् । बहुजकचोविधेयत्वेन पुरस्तादेव बहुच् । प्राक्टेरेषा- कच् इत्यस्यैव नियमार्थतया प्रययान्तरे देशभेदस्य व्यावर्तयि- तुपशक्यत्वाच्च । नच तस्मादित्युत्तरस्येत्यनेन निस्तारः । परस्य सतो यत्कार्य तत्रैव तत्पत्तेः । धर्मिणः परत्वविधाने तस्यानु. पयोगात् । नियमार्थस्यापूर्वविधौ अप्रत्तेः । ननु नित्यशब्दपक्षे स्वभावत एव परस्य सनादेः साधुत्वमात्रं प्रतिपाद्यते । कार्यशब्दपक्षेऽपि न परग्रहणेनार्थः । तस्मादित्य- स्य पञ्चमीनिर्देशलिङ्गेन प्रदेशेपूपस्थितस्य द्वेधार्थपर्यवसानात् । सत एव कायित्वेनोपादाने उत्तरस्य कार्य भवतीति कार्यापेक्षा षष्ठी । अमत एवं विधाने उत्तरस्य भावो भवतीति भावापेक्षया कर्तृषष्ठीति ज्ञापनात् । नचैवं सन्निसादिप्रथमानिर्देशनरर्थक्यामिति वाच्यम् । निर्देशमात्रार्थत्वात् । पश्चात्परस्य सनो भावो भवतीति षष्ठीकल्पना । यद्वाऽनियतदेशे सनादेरुत्पत्तावपि कृत्कृत्यप्रययादिसंज्ञा- शास्त्रकार्य यद्विधीयते तन्नान्यदेशस्य । यदेशस्य च शास्त्रीय कार्य तद्देशस्यैव साधुत्वात्प्रयोगो भविष्यतीति न दोषः । विकारागमेषु च पूर्वोक्तरीतेरनुसतव्यत्वात् । गापोष्टगित्यादौ घातोरित्यधि- काराद्धातोः परष्टक गापास्त्वनन्तर इति व्याख्येयम् । नचायो- गासमवायिनां किवादीनां सर्वदा लोपप्रतियोगिनां तस्मादित्युत्त- रस्येत्यस्यानुपस्थानादनियतदेशे लोपः स्यात्तद्वारणाय परभूता- नामेव लोपो यथास्यादित्येवममिति वाच्यम् । अनुबन्धासंज- नेन लिङ्गेन तेषां परभूतानामेव लोपनिर्णयात् । अनुबन्धकार्यस्य कितीसादिविहितस्य परभूतप्रत्ययाश्रयत्वात । तस्मिन्निति निर्दिष्टे पूर्वस्येति वचनात् । नचानियतदेशपक्षेऽपि पाक्षिक परामुप- जीव्यैवानुवन्यासस्य कृतार्थत्वात् कथं नियमेन परत्वसिद्धि- १४८ ११७८ व्याकरणसिद्धान्तसुधानिधी तृतीयाध्याये रिति वाच्यम् । पाक्षिकवैयर्यस्य तथापि दुष्परिहरत्वात् । स्पृ. शोनुदक इत्यादौ सकृत्श्रुतायाः पञ्चम्याः पूर्वपरान्यतराध्या- हारेणोपपत्तौ यदा पूर्वशब्द एवाध्याहियते तदानुबन्धानर्थक्यस्य दुर्वारतया परभूतलोपलिङ्गत्वे वाधकाभावाच्चेति प्राप्ते । मिदान्तः । प्रयोगनियमा) वेति । काशब्दो वातिकमते विवाद्यर्थ परवचनामिति पक्षस्य स्थितत्वाद्विकल्पार्थे । भाष्यमते तु उक्तरीसान्यथासिद्धत्त्वात्तहत्यिर्थे परभूतानामेन प्रयोगो नत्वपरभूः तानायेवोत नियमामिदम् । नचविपरीतमयोगस्यादर्शनान्न तथेति वाच्यम् । सदेवदत्तो बाभ्रव्यो माण्डव्यो लामकायन इति प्रयो- क्तव्ये वभ्रुमण्डलमक इति, किमस्य प्रपाणमिति वक्तव्ये कि मस्यद्वयसमिति च प्रयोगादर्शनात् तदसाधुत्वदर्शनाय नकेवला प्रकृतिः प्रयोक्तव्या, न केवल प्रत्यय इति, नियमो बोध्यते । न च चन्द्रो मुखमीत्यादाविवाभेदोपचारात्कथमसाधुत्वमिलि वाच्य. म् । मृत्यादावपि तदभेदोपचारदर्शनादपत्यार्थस्य नियमेनान- गगात् । तदुक्तं हारणा- सोऽयमित्यभिसंबन्धात्तद्धितेन विना यदि । बत्रादयः प्रयुज्येरन्नापत्ये नियमो भवेत् ॥ तस्मादपत्यविवक्षायामभेदोपचारव्यतिरेकेण गर्गा इति बहु. वचनान्तवदेकवचनान्तानां बनादीनां प्रयोगो माभूदिति नियमार्थ वचनम् । एतेन रघूणामियादी अभेदलक्षणेति सांप्रदायिकग्रन्थो व्याख्यातः । अभेदोपचारेणैव प्रयोगनिषेधात् । अत एव शाक्ति- भ्रमेण गवि प्रयुक्तो गवयशब्दोऽसाधुः। सादृश्यलक्षणया तु साधुरे- वेत्यभ्युपगमः । उभयनियमश्चायम। तस्मादित्युत्तरस्येतिसिद्धे प्रकृतेः पर एवं प्रयोगो नतु पूर्व इति, माकदाचिदमयुक्तो भूदितिच । ननु वावचने परत्वोपलक्षितः सन् पक्षे भवति, पक्षे तु नैवात्पद्यते इति - प्रथमपादे प्रथममाह्निकम् । १ । ११७९ पाक्षिकप्रत्ययानुत्पत्यर्थ परग्रहणमस्तु । परत्वस्य प्रयोगे नियतवे- न निवृत्तौ तात्पर्यायोगान् । अन्यथा तत्र प्रत्ययानुवृत्त्या वाव- चनेन प्रत्ययसंज्ञाया एक विकल्प: स्यादितिचेन्न । तत्र वृत्तिपक्ष सनो नित्यत्वात् । कर्तुमिच्छतीत्यतिपक्षे च तदनुत्पत्ते - वचनस्य प्रत्याख्यानात् । तस्मात्मयोगनियमार्थमेवेति स्थितम् ॥ आधुदात्तश्च ॥३॥ नन्दस्वरस्याच उच्चारणानुपपत्तेरन्तोदात्तमध्योदात्तानुदात्त. सरितानां च चित्चरित्व पिचतित्वालङ्गेन प्रत्ययविशेषे नियत. वात्पारिशेष्यात्प्रसगातराणामायुदात्तत्वसिद्धिरिति चेत् । न, चिदादीनामनियतस्तरप्राप्तौ अन्तोदात्त एव चिदिति नियमो नतु चिदेवान्तोदात्तइति स्वरान्तरस्य तत्र व्यावृत्त्यनुपपत्तेः । तथा चताल्लङ्गरहितानां प्रत्ययानामनियमेन स्वरमाप्ती नियमार्थमिदम् । स्यादेतत् । नित्यादिनित्यं प्रत्ययस्यच अदुपदेशाल्लसर्वि- धातुकमनुदात्तं मुष्पिती चेति स्वरान्तरसंनिधावेवाादाचानुदा- तत्वे विधीये याताम् । अलं प्रसयसंज्ञासंनियोगेन तद्विधानेन । एवमायुदात्तानुदात्तयोः सकृद्रहणे लाघवमिति चेत् । मैवम् । तथामति प्रययग्रहणे यस्मात्सविहितस्तदादेस्तदन्तस्य चेति परि- भाषया प्रकृतिप्रत्ययसमुदायस्पादिरुदात्तोऽन्त श्चानुदात्तः स्या- त् । आयुदात्तश्चेत्यस्य तु प्रतियोगमुपस्थाने आयुदात्तत्वविशि- ष्ट एव तव्यादिरुत्पद्यतेऽनुदात्तत्वविशिष्टश्चतिवादिरिति नदोषः । उत्पन्नस्यैव प्रत्ययस्य तदादिग्रहणादिकार्यसंवन्धात् उत्पद्यमान- स्य तदयोगात् । स्यादेतत् । नित्यादिनित्यमित्यारम्भादेवात्र न तदादिग्र- हणम् । अन्यथा प्रत्ययस्यचस्यनेनैव सिद्धौ तद्वैयपित्तेः । एवं ११८. व्याकरणसिद्धान्तसुधानिधौ तृतीयाध्याये धातुपातिपदिकयोरन्तोदात्तत्वावधानसामी त्सुप्पितींचेत्यत्रापि न सदन्तग्रहणम् । अनुदात्तप्रत्ययपरत्वस्थंले एव तयोरन्तोदात्तत्व- विधेः सप्रयोजनवान् । यातीत्यादौ कृष्णतर इत्यादौच पिति प्रत्यये तच्छ्रवणात् । यात इत्यादौ मतिशिष्टेन प्रत्ययस्वरेण तद्धा- धात् । नचास्ते, शेते इत्यादौ तास्यनुदात्तदिति लसार्वधातुकानु- दात्तत्वे धातुस्वरस्पावकाशोऽस्त्विति वाच्यम् । न्यायसाम्येन त त्रापि तदादिग्रहणप्रसङ्गात् । नच यथान्यासे लवितव्यमित्यादौ तव्यप्रत्ययस्योत्पत्तिशिष्टायुदात्तत्वत्तेस्तदुत्तरं प्रवर्तमान इडाग- मः शेषनिघातेनानुदात्तो भवति । उक्तरीत्यातु तव्यप्रत्ययोत्पत्य. नन्तरं आधुदात्तत्वं बाधित्वा परत्वादिडागमे कुने पुनः प्रसङ्गवि. ज्ञानात्पवर्तमानमायुदात्तत्वं इडागम एव विश्राम्येदिति वाच्यम् । आगमानामनुदात्तत्वस्यावश्यमारम्भणीयतया तेनैव गतार्थत्वात् । तथाहि-लूछेदने लुटि तिपो डा तासिः इट् । यद्यत्रेटोऽनु- दात्तत्वं नस्यात्तदा तासिभक्तत्वादिडुदाता। शेपनिघातेन च तास्थाकारोऽनुदात्तः । टिलोपे कृते तस्योदात्तलोपत्वाभावादाका रस्योदात्तनिवृत्तिस्वरेणादात्तत्वं न स्यात् । इटोऽनुदात्तत्वे तु तास्या कारस्योदात्तत्वादुदात्तनिवृत्तिस्वरः सिद्ध्यति । अत्र ह्याचुदात्तस्य इटश्च प्राप्तौ परत्वादिट् । कृताकृतपसङ्गित्वेन द्वयोनियत्वात् । नचोटि को शब्दान्तरमाप्तेः स्वरोऽनित्य इति वाच्यम् । स्वरकृते इठोऽपि शब्दान्तरप्राप्त्या तथात्वात् । आगमवत्स्वरस्यापि श. ब्दभेदहेतुत्वात् । श्रुतिभेदस्योभयत्र साम्यात् । अथान्तरङ्गत्वादाद्युदात्तत्त्वमेव पूर्व प्रवर्तते । उत्पत्तिसंनि. योगशिष्टत्वात् । उत्पन्ने प्रत्यये प्रकृतिप्रत्ययावाश्रित्याङ्गस्येडागम इति बहिरङ्गत्वात् । नचप्रसयग्रहणपरिभाषया प्रत्ययाश्रयणे प्र- कृतिरप्पाश्रितेवेति वाच्यम् । प्रत्ययस्वविधौ तदादिविधिर्नास्ती- प्रथमपादे प्रथममाह्निकम् । १ । ११८१ ति अस्य समनन्तरमेवोक्तत्वात् । तथाचायुदात्तवानन्तरं प्रवर्त- मान इट् शेषनिघातेनानुदात्त एव भविष्यतीत किमित्यागमाना- मनुदात्तलमारभ्यमितिचेत् । न । तथापि लविपीयेत्यत्राशीलिङि विशेषविहितत्वात्पूर्व सीयुटि कृते पश्चाल्लादेशप्रवृत्त्या तत्र प्रवर्त- मानमाादात्तत्वं सीयुट एव स्यात् । आगमानामनुदाचत्वविधाने तु सीयुटोऽनुदात्तत्वे कृते इटोदित्यकारादेशस्योदात्तत्वं सिद्ध्य- तीति तस्यावश्यमारभ्यत्वात् । एवंचागमे कृते तद्विशिष्टस्यैव प्रत्ययत्वं नतु केवलस्थापीति भाष्याभिप्रायो लभ्यते । अन्यथा सीयुटि कृतेऽपि इटः प्रत्ययत्वे तदुदात्तत्वस्य सिद्धावनुपपत्य- भावादिति केचित् । अन्ये तु आगमविशिष्टस्य केवलस्यच प्रत्ययत्वात्कदाचि. त्सीयुट ईकार एवोदात्त: स्यात् इति तव्यावृत्त्यर्थमागमानामवि- द्यमानवचनमावश्यकमेव । अतएव प्रत्ययादेझस्यान्तादेश इति व्या. ख्यानं निर्दोषम् । शयांतरित्यत्र अडाटोः कृतयोरपि झकारस्य प्रययादित्वानपायादिति व्याचख्युः । यत्तु आगमा अनुदात्ता इति विशेषवचनेन सीयुटोऽनुदात्त- त्वे तत्रोदात्तत्वस्य न प्रवृत्तिरिति । तदमत् । तद्वचनानारम्भपक्ष एवोक्तापत्तेर्भाष्यकृद्भिपन्यासात् । उक्तदोषभयादेवागमानुदा- तत्ववचनस्याश्रितत्वात् । तच्च ज्ञापकबललभ्यम् । यासुट्परस्मै- पदेषूदात्तो ङिच्चेति यासुट उदात्तवचनेनागमान्तराणामनुदा- तत्वानुमानात् । नचचिनुयादिसादौ पिद्भक्तत्वाद्यासुटोऽनुदात्त. स्वप्रसङ्गे उदात्तविधानार्थत्वमेव तस्योति वाच्यम् । अपिञ्चलिङि- सेवं यासुट्झनियोगेन लिङोऽपिचविधाननापि तादृशार्थसिद्धेः । यथान्यासे.हि नवमात्रा: । उक्तन्यासे षडेवेति लाघवसम्भवात् । तथाच गुरुतरन्यासकरणसामर्थ्यादागमा अनुदात्ता इति ज्ञापन- १९८२ व्याकरणसिद्धान्तसुधानिधौ तृतीयाध्याये मव्याहतम् । यद्यप्यागमैः स्वोत्तरस्याच आदिवनिरासात्कथमायुदात्त. त्वम् । आगमानामविद्यमानवद्भावातिदेशे तु अबादेशादिकं न स्यात् । स्तरविधावेवाविद्यमानतमितिचेत् । लवितेत्य- त्रोदात्तादनुदात्तस्पेति स्वरितो न स्यात् । तृन्नन्तायुदात्तं तत् । शेषनिघातेन द्वयोरनुदात्तत्वम् । तत्राविद्यमानवद्भावेनेटः स्वरितत्वानुपपत्तेः । नचषष्ठिकस्वरविधावेव तदतिदेश इति वाच्यम् । चिन्तित इयत्र निष्ठाच दव्यजनादिति स्वरप्रसङ्गात् । तथापि प्रत्ययस्वरविधायुक्तातिदेशान्नदोषः । सचातिदेशो ज्ञाप. कसिद्धः । प्रत्ययायुदात्तत्वे कर्तव्ये यद्यागमानामादित्वविघा- तकतं स्यात् तदाचिनुयातामियादौ यामुटः प्रत्ययादित्वात्मि- द्धमुदात्तत्वमिति यासुट उदात्तत्ववचनं व्यर्थ स्थादतः प्रत्यया. दुयुदासत्वे कार्ये आगमानामविद्यमानवद्भावं ज्ञापयतीति ना- नुपपत्तिः । तस्मादागमानुदात्तत्वानुरोधादाप प्रत्ययसंज्ञासांने- योगेनाद्युदात्तत्वं नारम्भणीयम् । अथ सौम्नी माथुरीत्यादौ विभज्यान्वाख्याने स्त्रीघ्न ई इति स्थिते आदयुदात्तत्वं बाधित्वा परत्वाद्यस्येतिचेति अकारलोपे कृते उदात्तनित्यभावादुदात्तनिवृत्तिस्वरो न स्यात् । प्रत्ययसं- ज्ञासंनियोगेन त्वायुदात्तत्वविधानेऽणो लोपप्रत्तेः पूर्वमेवोदात्त- स्वादनुदात्ते डीपि परेच तल्लोपादुक्तस्वरासिद्धिरीितचेत्तदप्य. सत् । स्वार्यादीनां क्रमेण प्रतीतिरितिन्यायेन स्त्रीत्वानिमित्तकमा त्ययस्य बहिरङ्गत्वात्तन्निमित्तकस्य लोपस्यापि तथात्वेन प्रथ- ममन्तरङ्गस्यायुदात्तस्यैव प्रवृत्तौ उक्तस्वरसिद्धः । एवमङ्गस्य भ. स्येत्यस्य चापेक्षितत्वादपि लोपस्य बहिरङ्गत्वमवसेयम् । अन्य- था औत्सी कंसिकी आत्रेयीत्यत्रापि लोपेन जित् नित् कित प्रथमपादे प्रथममाह्निकम् । १। १९८३ स्वराणां बाधापत्तौ उदात्तनिवृत्तिस्वरो न स्यात् । यद्यपि जिदा. दिस्वराणां प्रत्ययस्वरापवादत्वादेव बलवत्वं कसन क्रीता कंसि- की। कंसाहिठाजति ठचश्चित्करणसाम मित्पूिर्वमिकादेशः ततः प्रत्ययाद्युदात्ततं सतश्चादेरुदात्तत्वं अन्त्यस्य लोप इति नास्ति विप्रतिषेधः । तथाप्यात्रेयीत्यत्र इतश्चानिज इति ढक् । आयना. दिपूपदेशिनद्वचनं स्वरसिध्यमिति पूर्वमेयादेशः ततो ङीप् । अ- त्रान्तरङ्गपरिभाषां विनोदात्तनिवत्तिस्वरो न स्यात् । अतः प्र- त्ययसंज्ञासन्नियोगेनाद्युदात्तवचनं व्यर्थमिति पूर्वपक्षः । सिद्धान्तस्तु उक्तन्यासे परत्वाद्धातुस्वरं प्रत्ययस्वरो वाधेत यथान्यासे तु प्रत्ययस्वरं धातुस्वरो बाधते परत्वादिति । अस्मि- नेव प्रदेशे आयुदात्तावधानं युक्तम् । प्रामाणिकगौरवस्य न्या- य्यत्वात् । तथाहि प्रत्ययादयुदात्तस्यावकाशः समत्वमित्यत्र प्रकृते. रनुदात्तत्वे धातुस्वरस्य प्रययो यत्रानुदात्तः तत्र पचतीत्गदौ गोपायति धूपायतीत्यत्र धातोरन्तइति भवति विप्रतिषेधेन । तत्राह गुपित्यस्य पूर्वमन्तोदात्तः तत आयप्रत्ययः सनाद्यन्ताइति धा- तुसंज्ञा । तत्र स्वरद्वयमाप्तौ अन्तोदात्त एव । तथापचतीत्यादी कार्यामत्यादौच सावकाशयोः पिचतिवानिवन्धनयोरनुदात्तस्व. रितयोः कार्या हार्यत्यत्र टापि पूर्वमेकादेशे कृते तस्य पूर्व प्रत्य- तवद्भावात्तित्स्वरः परं प्रत्यादिवद्भावात्तु पित्स्वरः प्राप्नोति । विप्रतिषेधात्तित्स्वरः । पित्स्वराच्चित्स्वरो विप्रीतषेधेन । पित्स्व. रस्यावकाशः पूर्वोक्तः । चित्स्वरस्य चलनः कम्पन इति युनन्त- म् । आम्बष्ठ्या सौवर्येत्यत्र यङ श्चापि को उभयं प्राप्नोति । चित्स्वरो भवति परत्वाद । वस्तुतस्तु नायं विप्रतिषेधो युक्तः । आयप्रत्ययस्य संनियो- गशिष्ठत्वादायुदात्तत्वे कृतेऽपि सति शिष्टस्वरबलीयस्त्वमिति ११८४ व्याकरणसिद्धान्तसुधानिधौ तृतीयाध्याये रीत्या पश्चात्पत्तधातुमंज्ञानिवन्धनस्यान्तोदात्तस्य निर्वाधला. त् । पित्स्वरसित्स्वरयोराप तथा शब्दान्तरप्राप्त्या तयोरनित्य- त्वेऽपि परत्वात्पूर्व स्वरिते कृते एकादेशप्रवृत्तेः स्वरितानुदात- पोरेकादेशोऽन्तरतमत्वात्तित्स्वरः । स्वरितेऽनुदात्तभागस्यापि सच्चात् । आम्बठ्यत्यत्रापि चित्करणसामर्थ्यादन्तोदात्तसिद्धेः । नच(१) सामान्यविघातार्थश्चकार इति न साममिति वाच्यम् । तावनगात्रार्थत्वे टाप्रकरणे एव तद्विधानप्रसङ्गात् । तस्मात्संज्ञा- सन्नियोगेन प्रत्ययानामायुदात्तत्वाविधानं सार्थकमिति सिद्धम् । अनुदात्तौ सुप्पितौ॥४॥ पूर्वापवादः । सुपः पितश्च प्रसया अनुदात्ताः। मुप्त्वाप. स्वाभ्यामनुगमय्य मूत्रे द्वित्वम् । दृपषदौ दृषदः । पचति पठति। गुप्तिकिन्धः सन्॥५॥ गुप् गोपने । विज् निशाने । कितनिवासे रोगापनयेच । मानुत्तरसूत्रे वक्ष्यते एते अनुदात्तेतो निर्दिश्यन्ते इतिभाष्यम् । तत्स्वरसादेव 'स्वाश्रयं कश्चिकित्सतु' इति खण्डनव्याख्यायां चि. कित्सतामिति युक्तमिति वर्द्धमानः । कैयटस्तु क्रमदर्शनाय कि- तिपठितो नत्वयमनुदात्तेदिति पाचख्यौ । वक्ष्यमाणेष्वेवार्थेषु एतेषामात्मनेपदित्वमर्थान्तरेऽननुबन्धाश्चुरादय एवैते बोध्याः । अयं चाविशेषो मुनित्रयानुक्तोऽपि इच्छासन्विधौ श्रुतस्य वा. ग्रहणस्यैतत्सूत्रद्वये व्यवस्थितविभाषात्वेनाविशेषपुरस्कारेणैव सनोविधानाद्वृत्तिकारादिभिः प्रयोगानुसारादुपनिबद्धः । अत एतदर्थेषु धात्वन्तरत्वादेषां निसं सन्विषयत्वादनुदात्तरूपलिङ्गस्या- (१) सामान्यग्रहणाविघातार्थ इति पुस्तकान्तरे पाठः ।

प्रथमपादे प्रथममाहिकम् । १। ११८५ चयो चरितार्थत्वात्समुदायविशेषकत्वमिति सन्नन्ते च आत्मनेपदम. वर्तकत्वम् । अगं विशेषः । गुपेनिन्दायां सन् । तिनः क्षमायाम् । कितेाधिप्रतीकारे निग्रहे अपनयने नाशने संशये च । मा- नजिज्ञासायाम् । बधेश्चित्तविकारे । दानेराजी । शानेनिशाने इति । सनाद्यन्ता धातव इति धातुत्वम् । तङ् सन्यङोरिति द्रित्वम् । धातोरियविहितत्वान्नार्धधातुकत्वम् । तेनेड्गुणौ न । यद्यपि हलन्ताचेति सन: कित्वादपि गुणाभावः सुसाधः त- थाप्युक्तरीया तत्पसक्तिरेव नास्तीति किन्तदनुसरणेन । जुगु- प्प्तते । तितिक्षते । चिकित्सति । प्रत्ययान्तत्वादाम् । जुगुप्ता चक्रे इत्यादि । मान्वधदानशानुभ्यो दी- घंश्चाभ्यासस्य ॥६॥ एभ्यः सनस्यात् अभ्यासस्य दीर्घश्च । मान पूजायाम् । वध बन्धने । अत्र दानशानौ स्वरितेतौ। आद्यौ अनुदात्तेतौ । मीमांसते । बीभत्सने भष्भावचः । दीदांमति । दीदांसते । शी. शांसति । शीशांसते। ननु दीर्घत्वमभ्यासाकारस्य प्राप्नोति । विशेषविधेः सा. मान्यबाधकतया सन्यत इतीत्वस्य दुर्लभत्वात् । अभ्यासस्ये- तिवचनादभ्यासप्रतीक्षायामपि इत्वापेक्षायां प्रमाणाभावात् । उच्यते । ईचाभ्यासस्येति मूत्रयितव्यम् । नचैवं हलादिः शेषस्यापिवाधापत्तिः । ईचाच इति वाच्यत्वात् । हलादिशेषवि- नाऽभ्यासस्याजन्तत्वाभावेन तदबाधात् । यद्वा दीर्घश्वेतोभ्यास. स्योति मूत्रणीयम् । तथाचानुवादसामादित्वप्रवृत्यानन्तरं दी. १४९ ११८६ व्याकरणसिद्धान्तसुधानिधौ तृतीयाध्याये घः । पद्वाऽऽभ्यासस्येति छेदः । अभ्यासस्य विकार आभ्यासः। सचादित्वमेव । लोपस्याभावरूपतया तदादेशस्य विधातुमश- क्यत्वात् । तत्मयोज्यनितिप्रतियोगित्वं हि स्थानित्वम् । इ- स्वाकारस्यैव दीर्घविधानेतु तद्धितनिर्देशवैयर्थ्यम् । दीर्घश्रुत्या. ऽचश्चेति परिभाषोपस्थानात् । अजन्तस्य इस्वस्य दीर्घस्य वा दीर्घविधाने विशेषाभावात् । यद्वासनिमित्तकविकारस्यैव ग्रहणात् वस्तुतस्तु अभ्यासविकारेवपवादा उत्सर्गान बाधन्ते इति दी?कित इसकिद्ग्रहणेनज्ञापयिष्यमाणत्वादित्वानन्तरमेव दीर्घ इति नदोषः । भामत्यां तु मीमांसाशब्दो मामाने इत्यस्मादु स्पन्नः । नच तस्य मूत्रेऽनुपादानात्सनो ऽसिद्धिः । मानित्यने. नैव नकारातत्वं निपात्योक्तधातोर्ग्रहणसम्भवात् । मुण्डमिश्रा- दिसूत्रे हलकलयोरदन्तत्ववत् इति शब्दतात्पर्याभ्यामुक्तम् । नच सनिमीमेति इस्भावापत्तिः । धादिसाहचर्येणेच्छासन्येव तद्विधानादिति दीक्षिताः। एवंच नान्तत्वनिपातनस्य स्वकल्प- नायामन्तर्भावो न युक्तः । वाचस्पतिमिरैः स्वयमेवोक्तत्वात् । मानपूजापामिति वृत्तिग्रन्थो भक्त्वाव्याख्येय इत्यपि मिश्रताप- र्यकल्पनमयुक्तम् । तस्मादपि सन्प्रत्ययस्य मित्रैरेव लिखितत्वात् । अतएव मामाने इत्यस्मान्मीमांसाशब्दे पूजितविचारार्थत्वं प्र. सिद्धिवशात् । मानपूजायामित्यस्मात्तु स्मृत्यैवेति तत्र कल्पतरू- कारैरुक्तमिति दिक् । धातोः कर्मणः समानकर्तृ- कादिच्छायां वा ॥७॥ अत्रार्थद्वारके कर्मत्वसमानकर्तृकत्वे तेच सन्निधानादिच्छा.

प्रथमपादे प्रथममालिकम् । १ । ११८७ निरुपिते एव तथाच धात्वर्थविषयकेच्छाया धातोः सन् । सधा- त्वर्थ इच्छा च समानकर्तृके स्याताम् । इच्छाया धात्वर्थकसमेत्र- तत्वे सतीति यावत् । अतएवजिज्ञासा इत्यादौ स्वसमानाधिकरण- झानेच्छायाः प्रतीतिः । पक्तुमिच्छति पिपक्षति चैत्रः । सन्म- कृत्यर्थस्य सनर्थ इच्छायां विषयत्वेनान्वयः । चैत्राभिन्नकर्तृका पाकविषयिका इच्छेति सनविशेष्यको घोषः । सन्नन्तस्य धातु- त्वेनेच्छायाः प्रधानत्वात् । न्यायमते तु सविषणकपातूत्तराख्यातस्याश्रयलाक्षणिक- लेनेच्छाया आश्रये तस्याभेदेन चैत्रेऽन्वयः । पाकविशेष्यके- च्छाश्रयाभिन्नः चैत्रः। मणिकृन्मते तु इच्छाया एवाश्रयत्वसम्बन्धेन चैत्रेऽन्वयः । आख्यातं च धातुसाधुत्वार्थमित्युक्तेच्छाश्रयश्चैत्र इतिषीः । ओदनं बुभुक्षते इत्यत्रभोजनविशेष्यतया ओदनस्य इच्छाविषयत्वानु- भवाद्धातोः सन्प्रत्ययाभिधेयेच्छाप्रकारवाचित्वं । पाकं चिकीर्ष. तीसत्रापि प्राधान्येन पाकस्येच्छाविषयत्वमनुभूयते नतुकृतः इत्याहुः। केचित्तु सकर्मकधातावपि कर्माविवक्षायामकर्मकेऽपि गृहे तिष्ठासतीत्यादौ धात्वीवषयकेच्छाया एवानुभवः । अतः स्थि- तिप्रकारकगृहविशेष्यकेच्छाभिप्रायेण गृहं तिष्ठासनीति नपयो- गः । नच विशेष्यत्वस्यौदनं बुभुक्षत इसादौ द्वितीयार्थत्वाभावे पाकलं चिकीर्षति शत्रुधननाशेच्छायां शत्रुधनं चिकीर्षतीय- पि स्यादिति वाच्यम् । कृञ् योगे साध्यत्वाख्योद्देश्यत्वाख्य- विषयतयोरन्यतरस्यैव द्वितीयार्थत्वादित्याहुः । स्यादेतत् । धातोरित किमर्थम् । नचसोपसर्गात्तद्वारणार्थ तत् । अन्यथा द्विवचनाडागमावुपसर्गस्यैव स्यातामिति वाच्य- ११८८ व्याकरणसिद्धान्तसुधानिधौ तृतीयाध्याये म् । कर्मत्वसमानकर्तृकत्वयोरूपादानात्तयोश्च क्रियैकनिरूप्यता. त् । क्रियायाश्च धातुमात्रवाच्यत्वात् । उपसर्गस्यच द्योतक- मात्रत्वात् । धातोरेव तदुत्पत्तिसम्भवात् । वाचकत्वपक्षेऽपि विशे- ध्यमात्रस्य कर्मत्वं विशेषणात्तु सामानाधिकरण्यप्रयुक्ता द्वितीयेति पक्षे उपसर्गार्थस्य पृथगकर्मकत्वात् । कटोऽपि कर्म भीष्माद. योऽपीति पक्षपि समुदायस्याकर्मकत्वात्तस्मादनुत्पत्तेः । अन्य. याघातोरित्युक्तेप्यनिस्तारात् । अर्थद्वारके हि समुदायस्य क. मत्वे आश्रीयमाणेऽवयवस्याकर्मकत्वात् ततः सन् प्रत्ययो न स्यात् । कर्मण इति पञ्चम्यन्तनिर्देशात् । नच कर्मण इतिष- ष्ठीमाश्रित्य कर्मणोऽत्रयवाद्धातोः सन् इत्यर्थ इति वाच्यम् । के. वलाद्धातोस्तदनुत्पत्तिप्रसङ्गात् । तस्मात् अडादीनां व्यवस्थायै पृथक्त्त्वेन प्रकल्पनात् । धातूपसर्गयोर्धातुः क्रियावाचीति निर्णयः । नापि सुबन्तात्सनुत्पत्तिवारणार्थ तत्र विशेषविहितानां क्यजादीनां अपवादविधया बाधकत्वात् । नच सनो वैकल्पि- कत्वात्तदभावपक्षे क्यजादीनां सावकाशत्वमिति वाच्यम् । उ. सर्गापत्रादयोयोरपि वैकल्पिकत्वे अपवादनिमुक्ते उत्सर्गस्या- प्रवृत्या वाक्यस्यैव प्रवृत्तेः। सुबन्तादुत्पद्यमानेन सना इच्छा- नवबोधादनभिधानेनापि तद्वारणस्य सुकरत्वाच्च । नच प्रातिप- पदिकात्सनुत्पत्तिवारणार्थम् । कर्मणइति वचनात् कर्मत्वेच मति मुबन्तताया आवश्यकत्वात् । तदेतदाह वार्तिककारः । “कर्मग्र. हणात्सविधौ धातुग्रहणानर्थक्यम्" । सोपसर्गकति चेत् । क- मंविशेषकस्वादुपसर्गस्यानुपसर्ग कर्म सोपसर्गस्य हि कर्मत्वे धालधिकारेऽपि सनोऽविधानमर्मत्वादिति प्राप्ते- सिद्धान्तः । यचावदुक्तम् । अनभिधानादिति तदगतिक- प्रथमपादे प्रथममाह्निकम् । १ । १९८९ गतिमात्रम् । लक्षणाश्रयणादिलक्ष्यव्यवस्था न्याय्या । गत्यन्त- राभावात्तु पचनीयादौ लक्ष्यानुरोधेन लक्षणव्यवस्थापनात् । यदप्युक्तम् । क्यजादीनामपत्रादत्वादिति तदप्यमत् । आत्मी. यत्वेन सुबन्तच्छायामेव क्यजादेविधानाद्राज्ञः पुत्रमिच्छनीत्या. दौ परकीयत्वन तदिच्छायां मनो दुरित्वात् । अथात्र समानकर्तृकत्लग्रहणादेव न दोषः। सुबन्तेन सह सपा- नककत्वानुपपत्तेः। पुत्रादेः सत्वभूतार्थाभिधायित्वात्साध्यस्यैव- साधनसम्बन्धयोग्यत्वात् । नच कटं करोतीयादौ कटादीनामपि- सत्त्वभूतार्थपरत्वात्कथं साधनाकाङ्केति वाच्यम् । शब्दान्तरस- निधानादेव तत्र साध्यत्वपययात् । तदुक्तं हरिणा- निर्वयों वा विकार्यो वा प्राप्यो वा साधनाश्रयः । क्रियाणामेव साध्यवासिद्धरूपोऽभिधीयते ॥ अतो नैतदर्थ धातुग्रहणमित्युच्यते तथापि आसितुमिच्छति- शयितुमिच्छतीत्यादौ तुमुनन्तस्य साध्यरूपाभिधायित्वाकर्तृ- योगसम्भवातत्र सनो दुर्वारत्वात् । क्यचि मान्ताव्ययप्रतिषेधस्य वक्ष्यमाणत्वात् । नन्वच्छतीत्यनेन तुमुनो निमित्तेन इच्छाया अभिधानान्न सन् । उक्तार्थानामपयोगात् । तुमुन उपपदनिमि. तकत्वेन तदभावे तुमुनोऽसम्भवेन इच्छतीयस्य प्रयोगं बाधि. त्वा सन्विरुपपादत्तात् इति चेत् । सत्यम् । तथाप्यासनमिच्छतीति ल्युटो भावमात्रविहितवा- दिच्छार्थोपपदनिमित्तत्वाभावात्सनो दुर्वारत्वात् । नचात्रापि ल्यु- डभिधेयभावस्य सत्वरूपत्वान्न समानकर्तृकत्तयोग इति वाच्यम् । धातुवाच्यक्रियाया असत्यभूतत्वात्तदपेक्ष्य समानकर्तृकत्वोपपत्तेः। अथ वृत्तिसमानार्थकेन वाक्येन भवितव्यम् । आसिसिषते इसस्य चासितुमिच्छतीति वाक्यं समानार्थम् । समानककत्वस्योभयत्र ११९० व्याकरणसिद्धान्तसुधानिधौ तृतीयाध्याये प्रत्ययात् । आसनमिच्छनीयत्र तु स्वस्य परस्य वेति संशया- समानकर्तृकत्वमतीतिनियमाभावात्सन्न भविष्यति । समानत कत्वस्य तत्र सनान्तर्भावयितुमशक्यत्वात् । अन्यथा पातुपदो. पादानेऽपि संगतमिच्छति देवदरो पादत्तेनेत्यत्र सनो दुर्वा- रत्वात् । इह केवलस्य धातोः प्रयोगाभावात्क्त्वाप्रत्ययोपादान- म् धातोरेवें सन्प्रत्ययस्यापाद्यत्वात । समानकर्दकत्वप्रतिषि- पादयिषायां संजिगंसते वत्सो मात्रेति सन इष्टत्वात् । एवं कर्मसमानकर्तृकग्रहणमपि व्यर्थम् । संकीर्णप्रयोगदर्शने साध्वसाधुविभागार्थ हि शास्त्रारम्भः। गमनेनेच्छति देवदत्तस्यभो. जनमिच्छतत्यिर्थेच जिगमिषति बुभुक्षते इयादिप्रयोगादर्शनात् । इच्छायां सविधानेनैवोपपत्तेः । इच्छायाः कर्मणोऽवश्यंभावात् । संनिधानात्मकृत्यर्थस्यैव कर्मत्वाश्रयणात् । समानकर्दकत्वस्यापि प्रत्यासत्त्यैव सिद्धिसम्भवादितिचेन्न । अङ्गपरिमाणार्थ कर्मणो धातर्वित्यन्यतरस्योपादानावश्यकत्वात् । समानककत्वस्य गुरुत्वात् । इच्छायां वेत्युच्यमाने प्रत्ययपरत्वेन प्रकृतेराक्षेपेऽपि प्राचिकीर्षदित्यादौ सोपसर्गस्यारत्वं स्यात् । साक्षात्कातिविशे. पनिर्देशोतु अंगस्वरूपस्य मुज्ञानत्वात् । इदंच यद्यपि अन्यतरग्रहणेनापि सिध्यति तथापि धातुग्रहण. मेवावश्यकम् । धातोरिति शब्दमुच्चारिहितत्वात्सन आर्धधातु. कसंझाया आप सिः तेन शिशयिषते इत्यादौ गुण इट्च सि. द्धः । पूर्वसूत्रदयावहितस्य तु सनो नार्धधातुकत्वमित्युक्तमेव । नचेकोझलिति सनः कित्चविधानं गुणनिषेधार्थं सत् स्वपयो- ज्यनिषेधपतियोगिमसंजकलेनार्धधातुकलं सन आक्षेप्स्यतीति वाच्यम् । सामान्पेन सापकत्वे सर्वत्र तत्मसङ्गात् । विशेषविषय. वे विगम्तान्यस्मिंस्तदनाक्षेपात ।

प्रथमपादे प्रथममाहिकम् । १। पदप्युक्तम् । सोपसर्ग न कर्मेति । तदप्यमत् । संघातेन क्रियाविशेषपक्रमादर्थद्वारकस्य कर्मवस्य समुदाय एवं विश्रा- तेः । विशिष्टक्रियाया एव साधनानिर्वर्णत्वात् । नहि विशेषण विशेष्ययोः स्वस्वकारणनिर्वयत्तानीलघटयोरिवानार्थः समाजः तत्रनीलवघटत्वयोभिन्नकारणप्रतियोगिककार्यतावच्छेदकतया वि- शिष्टस्यार्थसिद्धत्वादत्र तु प्रकर्ष प्रात कारणान्तरस्याकल्पितला. व । नचोपसर्गस्य द्योतकत्वाद्विशिष्टो धात्वर्थ एवेति वाच्यम् । तथापि तादृशविशेषस्यात्र शब्दानुपासत्वेन संघातस्यैव विशिष्टप- तीयन्वयव्यतिरेकपयोजकान्वयव्यतिरेकप्रतियोगितया तस्मादेव सन्प्रत्ययापत्तेः। यत्तूपपदमातडित्यत्रोक्तम् । साधनं हि क्रियां निवर्तयति. तामुपसर्गो विशिष्टि इति तदपि विशिष्टक्रियोत्पत्तिमाश्रित्यैवे. त्यविरोधः । पूर्व धातुः साधनेन युज्यते इति पक्षेऽपि प्रकृते वि. शिष्टक्रियाया एवं कर्मत्वस्य प्रतिपिपादयिषितत्वात्सोपसर्गात्सन्म. समभवाच्च । यदाप विशिष्टात्सन्प्रसयो नस्यादिति तदप्यसत् । कर्मणो ऽवयवाद्धातोरिति व्याख्यानात् । नचैवं केवलादप्रसङ्गः । व्यप. देशिद्भावेन केवलस्यापि स्वावयवत्वात् । अनुदात्तङिन इत्या- दौ डिन्दन्तस्येति व्याख्यानावश्यकत्वे शीडादेर्डिन्दन्तवस्य तथैव वाच्यत्वात् । नचैवं महान्तं पुत्रमिच्छतीत्यादौ क्यजाप स्यादिति वाच्यम् । सुबन्ताक्यविधानेन वस्य पदावधित्वात्समर्थपरिभा. पोपस्थानेन सापेक्षत्वादसामर्थ्यात् । सविधौ तु पदविधिवाभा- वात्सापेक्षत्वेऽपि सन्प्रत्ययः। यद्वा धातुरेव विशिष्टक्रियावाची उपसर्गस्तु द्योतक इति न. सापेक्षत्वम् । वावचनं तु पर्थम् । रेकार्थीभावविषयत्वात् ।

११९२ व्याकरणसिद्धान्तसुधानिधौ तृतीयाध्याये वाक्यस्यच व्यपेक्षाविषयत्वाद्भिन्नविषये बाध्यबाधकभावानुपप- क्या वाक्यस्य सुस्थत्वात् । प्रत्युत वावचनेन एकार्थीभावपक्ष सनभावस्य विधातुपशक्यतया प्रत्ययसंज्ञाया एवाभावस्य विधे. यत्वादानर्थक्यापत्तेः । तन्निबन्धनकार्यविकल्पापत्तेश्च । अत्रवार्तिकम् । तुमुनन्ताद्वा, तस्य लुग्वचनमिति । अयमर्थः। तुमुनन्तात्सनिति लक्षणं कर्तव्यम् । समानकर्तृकधातुकर्मपदाना- मनुपादानेन लाघवात् । वचनसामर्थ्याच्चोपपदश्रवणं बाधित्वा पक्षे तदीयेऽर्थे रानपत्ययो भवति । इच्छाग्रहणं प्रत्ययार्थनिर्देशा- पावश्यं कर्तव्यम् । तुमुनश्च लुग्वक्तव्यः । नन्वेवं तुमुनन्तस्य प. दत्वात्तुमुन् लुकि वृत्ते जिघांसनीयादौ नलोपादिप्रसङ्ग इतिचेत् । अत्राहुः । सिद्धं बहिरङ्गमन्तरङ्गे इति लुकोऽसिद्धत्वान्नदोष इति । अस्मिन् सूत्रन्यासे इकोझलिति ज्ञापकाद्वार्धधातुकत्वमाक्षे- प्पमिष्टसिध्द्यर्थम् । 'लिकुत्तमाद्वा सन् उत्तमस्य च लोपो वक्त. व्यः' । कुर्यामिति इच्छात चिकीर्षति । अत्र चैत्रश्चिकीर्षतीत्यत्र सन्प्रत्ययप्रकृतस्तिङन्तत्वात्तिङ्ङतिङ इति निघात: आत्मविशेष. गुणविशेषकान्निवाचकस्य इपेरर्थे चायं विधीयते नतुनाश्य. विकरणयोरियवधेयम् । 'आशङ्कायामचेतनेषूपसंख्यानम्' श्वा मुमूर्षति । कूलं पिप- तिषति । यद्यपि वा चेतन एव तथापि दुःमसक्तः दुःखाभावम. पोजकत्वेन मरणेच्छायास्तत्रासंभवादिदमुक्तम् । अचेतनग्रहणं नकर्तव्यामति यावत् । भाष्यकारस्तु चष्टादिना इच्छामनुमाय कटं चिकर्षितीत्या. दिप्रयोगवत् अवयवशैथिल्यलोष्ठपतनादिलिङ्गकेच्छानुमित्या उ. क्तस्थलेऽपि सन्प्रत्ययः । वस्तुतः कूलादौ इच्छाया असत्वेऽपि क्षतिविरहात् । नच लांष्ठपतनादाविच्छाकार्यत्वमेव नास्ति इतिवा.

प्रथमपादे प्रथममाह्निकम् । १। १९९३ - च्यम् । आरोपेणैव भ्रमानुमितिनिर्वाहात् । 'उपमानाद्वा सिद्ध'. मिति तु प्रत्याख्यातम् । 'नवै तिङन्तेनोपमानमतीति । अत्र व्याचक्षते । तिङन्तार्थेन नोपमानम् । क्रियायाः साध्यैकस्वभा. बत्वात् । अनिष्पनरूपत्वात् । इदं तदिति परामर्षाभावात् । ता- दृशपरामर्शविषयवस्तुगोचरत्वाच्चोपमानोपमेयभावस्य । नहि देव. दत्तो गच्छती सादौ देवदत्तादिशद्धेन स गच्छत्ययं पचतीत्यादी तदिदमाद्यैः पदैर्यथा देवदत्तादीनां परामर्षः तथा क्रियाया अ. स्ति । इयमित्यादिना क्रियायाः सिद्धरूपापनाया एवाभिधा. नात् । किंबहुना क्रियादिगदैरपि पचतीयादि समानाकारकप्र. त्ययानुपधानात् । अत एवोक्तं मीमांसकैः- यादृशी भावनाख्याते धात्वर्थश्चापि तादृशः । नासौ तेनैव रूपेण कथ्यतेऽन्यः पदैः कचित् ॥ नच तथाप्युपमानापमेयभावस्य कानुपपतिरिति वाच्यम् । साधारणधर्मनिबन्धनत्वादुपमायाः असिद्धायाश्च क्रियाया धर्मा- नाश्रयत्वात् । तदाश्रयत्वाङ्गीकारे तु सिद्धरूपत्वापत्या स्वरूप- मच्यवप्रसङ्गादित्याभिप्रायस्थ पञ्चमे वक्ष्यमाणत्वात् । नचासि- देऽपि घटादौ प्रागभावप्रतियोगित्वादिधर्माणां सवादिदमयुक्त. मिति वाच्यम् । प्रतीतिबलादन्यथानुपपत्या च तत्र तथात्वेऽपि प्रकृते मानाभावात् । अत एवातीतघटादौ घटत्वं नास्तीति ता. किंकाः । अपिच परिपूर्णेन चन्द्रादिना न्यूनधर्मस्य मुखादेरुप. मानक्रिया च सर्वा स्वाश्रये परिसमाप्ता । उत्कर्षापकर्षहीनत्वा- व । तदुक्तम् । येनैव हेतुना हंसः पततीसभिधीयते । अतो तस्य समाप्तत्वादुपमानार्थो न विद्यते ।। अधः संयोगहेतुत्वस्योभयसमवेतपतने साम्यमेवात्र समाप्तिप- १५० ११९४ व्याकरणसिद्धान्तसुधानिधौ तृतीयाध्यापे दार्थः । भिन्नजातीयानां च क्रियाणां सादृश्यं नास्ति । उभयानु. गतधर्मस्यैवोपमानियामकत्वात् । क्रियात्वस्य स्वकिश्चित्करत्वा. त् । तदेतदभिप्रेत्योत्प्रेक्षायां लिम्पतीव तमोऽमानि वर्षतीवा- अनं नमः । इत्युदाहृत्याचार्यदण्डनोक्तम् । केषाश्चिदुपमाभ्रान्ति रिवश्रुत्येह जायते । नोपमानं तिङन्तेनेत्यतिक्रम्याप्तभाषितम् ॥ अयमर्थः किमत्रोपमानम् । न तावत्कर्ता । तस्य धात्वर्थभा. बनायां विशेषणत्वेन इवार्थे प्रकारत्वासम्भवात् । अन्यविशेषण- स्यान्यत्रान्वयायोगात् । तदुक्तम्- कर्ता यापमानं स्यान्यग्भूतोऽसौ क्रियापदे । स्त्रक्रियासाधनव्यग्रो नालमन्यध्यपेक्षितुम् ।। स्वविशेष्यक्रियायां साधनं विशेषणत्वेनान्वयः । तत्र व्यग्रः तदनये निराकासः । अन्यक्रियाभिन्न व्यपेक्षितुं स्वप्रकारकान. यबोधे विशेष्यतामापादयितुमसमर्थः । नच यथा पृथिव्यामेव ग- न्ध इत्यादी सप्तम्यर्थविशेषणस्यापि पृषिव्यादरेवकारार्थेऽन्यो- न्याभावेऽन्वयायोभयत्र युगपदेवान्वयो व्युत्पत्तिवैचित्र्यात् । य. द्वा एनकारस्य समभिव्याहतपदार्थतावच्छेदकावच्छिन्नान्यत्वबो. धकत्वमिति कल्प्यते । तथात्र कर्तुर्भावनायां सादृश्येच सममेवा. चयः । यद्वा उवपदस्य कर्तुमादृश्यपरत्वमिति वाच्यम् । तथापि लेपकर्तृमदृशं तम इति बोधासम्भवात् । धात्वर्थस्य कतीर विशे- पणत्वानुपपत्तेः । क्रियामाधान्यभापत्तेश्च । नच लेपकर्तृमश. तमाकतका लेपक्रियेति बोधोऽस्त्विति वाच्यम् । विकल्पासह- वान् । किमत्राख्यातार्थस्य कर्तुः सादृश्ये क्रियायां चान्वयः उस कई विशिष्ट एवेवपदार्थः । नायः । धात्वर्थे एव तदन्वयात् । नान्त्यः । सहि धात्वर्थलेपस्योभयत्रानयात् । लेपकर्तृ सादृश्यस्ये.

प्रथमपादे प्रथममाह्निकम् । १ । ११९५ वपदार्थवाद्वा । नायः । तस्य विशेषणवायोगात् । नान्यः । उपमानस्य इवादिपदार्थवहिर्भावनियमात् । उपमेयतावच्छेदकरूपा- नवच्छिन्नत्वेन प्रतियोग्युपस्थितेः । सादृश्यबुद्ध्यपेक्षितत्वाच्च- लेपकर्तृत्वेनैव सादृश्यविवक्षायां धर्मोपमानयोरैक्यापत्तेश्च । घ. मन्तिरण च लेपकर्तृसादृश्यस्य प्रकृतानुपयोगात् । अप्रसिद्ध सादृश्यस्थले तनिमित्वधर्मोपादानावश्यकत्वाच्च । चन्द्र इव मुख- मित्यादौ प्रसिद्धिवलादाहादकत्वादिप्रत्ययसम्भवेन धर्मलोपो. पादानयोः स्वीकारेऽपि 'त्रिविष्टपं तत्खलु भारतायते' इत्यादी. 'सुपर्वभिः शोभितमन्तराश्रिौ' रित्याउनुपादाने सादृश्यानुल्लास- स्याभियुक्तानुभवसिद्धत्वात् इत्यन्यत्र विस्तरः । नापि लेपनमेवो- पपानम् । लेपक्रियातमसोः साधारणधर्माभावात् । लेपनस्यैत्र तद्धर्मत्वासंभवात् । धर्मर्मिभावस्य भेदनिबन्धनत्वात् । धर्मध- मितावच्छेदकरूपभेदस्य भेदाभेदवादिभिरप्यङ्गीकारात् । भेदमा- दायापौनरुत्यम् । अभेदमादाय सामानाधिकरण्यमिति तत्सिद्धा- न्तात् । अाएव कार्यादिस्थलेऽप्यन्यप्रकारेणैव भेदाभेदाभ्युप- गमः । तदुक्तं भामत्याम् । कार्यरूपेण नानात्वमभेदः कारणात्मना । हाटकाद्यात्मना भेदः कुण्डलाद्यात्मना भिदेति । तदिदमुक्तं- यदिलिम्पनमेवेष्टं लिम्पति म कोऽपरः । स एव धर्मो धर्मी चेत्यनुन्मत्तो न भाषते इति । स्यादेतत् । 'तेन तुल्यं क्रियाचे दितिसूत्रे क्रियाया उपमेय- त्वं सूत्रवार्तिकभाष्यसिद्धं उक्तयुक्यां तन्न स्यात् । उपमेयभू. ताया अपि क्रियायाः सामान्यधर्माश्रयत्वविवक्षायां सत्वरूप. त्वप्रसादुपमानक्रियातो वैलक्षण्यनिरुक्तरिति चेत् ।

११९६ व्याकरणसिम्हान्तसुधानिधौ तृतीयाध्याये उच्यते । क्रियाया उपमानत्वं नास्तीत्यत्रैव ग्रन्थकाराणां तापर्यम् । सत्त्वरूपत्वप्रसङ्गस्तु युक्त्यन्तरस्योपलक्षणम् । तथाहि कूलं पिपतिपतीन्यपदाध्याहारो विवक्षितः, अन्यथानुपपत्त्या लक्षणा वा ? नायः । पिपतिषायाः सादृश्यप्रतियोगित्वं, कू. लस्य वा । नाधः । धात्वर्थस्य वाक्यार्थे प्राधान्योपगमात् । भावप्रधानमाख्यातमिति निरुक्तस्मरणाच्च । नच सत्वार्थकापेक्ष. यैव विशेष्यत्वं तदर्थ इति वाच्यम् । नहीदं वाचनिकं येनोक्त. रीत्या व्यवस्थाप्पेत किन्तु लाघवतर्कसहकृतानुभवसिद्धं तथा. चान्यत्र तदन्वये कार्यकारणभावकल्पनावश्यकत्वम् । आख्या- तार्थकोदेरपि लिङ्गसंख्यानन्वायत्वेन तत्रापि तद्विशेषणत्वाप- तेश्च । फलस्यापि तथावाच्च । नचाख्यातार्थापेक्षयैव प्राधान्ये तात्पर्यम् । प्रथमान्तस्य विशेष्यत्वप्रसङ्गात् । तस्माक्रियान्तरापे- क्षया तिङन्तक्रियायाः प्राधान्यम् । अत एव पचति भवति पश्य मृगो धावति इसादौ कलकर्मत्वाभ्यां पाकधावनक्रिययोर्भव- नदर्शनक्रियान्वयः । भोक्तुं पचतीत्यादौ सामानाधिकरण्येन तु. मुन्मकृत्यर्थस्य तिङन्तार्थक्रियान्वयश्च सूत्रसिद्ध इत्यग्रे विस्तरः । किच क्रियासादृश्यस्य कूले नान्वयः । अयोग्यत्वात् । अ. न्यस्य चानुपस्थितत्वात् । न द्वितीयः । कूलमाश्यस्यापि पि. पतिषायामभावात् । एतेन इवद्योतकत्वेनाप्यनिस्तारः । नापि लक्षणोत द्वितीयः । पिपतिषासदृशे लक्षणायाः शङ्कितुमप्यशक्य- स्वात् । क्रमिकम्यापारसमूहस्यैव क्रियात्वेन धातोस्तदतिरिक्तांश. बोधने लक्षणयाप्यसामर्थ्यात् । अत एवेच्छाजन्यसदृशस्य सन- थतया तस्यच पतनान्वयात् । कुलकर्तृकं इच्छाजन्यसदृशं पतन. मिति बोधोऽप्यनाशकाः । प्रकृयर्थप्रकारकबोधप्रति प्रत्ययजन्यो. पस्थितिहेतुतायाः क्लुप्तत्वात् । इच्छाजन्यत्वस्य पदार्थान्तरमापा- प्रथमपादे प्रथममालिकम् । १ । रणतया उपमानविशेषानवधारणाच्च । ताशपसनपरत्वेऽपि गौ- रवाधिक्याच्च। ब्राह्मणवदधीते इत्यादौ तु ब्राह्मणपदस्य तदपादानका- ध्ययनपरत्वेऽपि तिङन्तानुपस्थाप्यत्वादध्ययनस्य वतिमत्ययार्थे सादृश्ये प्रतियोगित्वेनान्वयः । तस्यच तिङन्तार्थाध्य यनक्रिया- पामिति नदोषः । रोदितीव गायतीत्यादौ तु सादृश्यसम्बन्धेन क्रियागाः क्रियान्तरेऽन्वयः । इवपदस्य तात्पर्यग्राहकत्वात् । अआ एवासत्वरूपत्व निर्वाहः । पदान्तरार्थे विशेषणत्वानापन्न- वात् । कर्मतकर्तृत्वयोरपि संसर्गताया एवोक्तत्वात् । नचोप- मेयक्रियाया अधिकरणत्वापत्तिरितिवाच्यम् । त्तिनियामकसं- बन्धावच्छिन्नाधिकरणत्वस्यैव मुख्यत्वात्तस्य चात्रानवगमात् । वै- शिष्ट्यमात्रस्य तथाले पर्वतीयो वह्रिरित्यादौ व्यभिचारात । अतएव भट्टमो मृतलाभाययोस्तादात्म्याङ्गीकारे भुतले घटाभाव इत्यादावाकाटोत्थापनार्थ सप्तम्या उपयोगो नत्वधिकरणत्वबो- धार्थमिति सिद्धान्तः । एवंच कारकविभक्तिप्रकृतिपदानभिधेयत्वादेवासत्त्वभूतत्वम् । लिङ्गानन्धयस्तु स्पष्ट एव । संख्या तु यद्यपि उष्ट्रासिका आस्य. नते हतशायिकाः शय्यन्ते इति भाष्यप्रयोगबलात्मतीयते तथापि ण्वुलर्थे भाव एव तदन्बयो नतु धात्वर्थे । तस्य संख्यांशे निरा- काशतेन तदन्वयानुपपत्तेः । अन्यथा चैत्रेण स्थीयते इत्यादी एकत्वस्याप्यन्वयापत्तेः । एतेन कारकसंख्याधन्वयेऽपि सर्वनाम- परामपानईत्वादेवासत्वरूपतेत्यपास्तम् । संकोचे मानाभावा. दित्यग्रे विस्तरः। प्रकृतमनुसरामः। यद्वा इच्छेत्रेच्छा इच्छाशब्दस्य सत्त्वभूना. र्थाभिधायित्वाचदर्थस्योपमानत्वात् । अत इच्छासदृशेऽपि व्या.

११९८ व्याकरणसिद्धान्तसुधानिधी तृतीयाध्याये पारे सन्धिधिः । सच व्यापारोऽवयवसथल्यप्रयोजकत्वेन कू. लावयनिष्ठस्पन्दादिः । लक्ष्यानुरोधेन गौणमुख्यन्यायाम- श्या उभयत्र प्रत्ययः । यतु समाधानान्तरं भाष्ये सर्वस्य वा. चेतनावत्वात् । आस्कन्दकपिलकेत्युक्ते तृणमास्कन्दयति, अ. यस्कान्तमयः संक्रामति, शृणोत ग्रावाण इति लिङ्गाच्चेति । यच व्याख्यातं आत्मौद्वैतदर्शने एतत् । वैचित्र्येण च सर्व- पदार्थानामुपलम्भात सर्वत्रातिप्रसङ्गो नोद्भावनीय इति तत्मौदि. घादमात्रम् । ब्रह्मैवेदं सर्वमियादी बापायामध्यासे वा सामाना- धिकरण्यं नत्वभेदे इति वेदान्तिभिरभ्युपगमात् । अतएवोक्तम् । अस्ति भाति मियं रूपं नामचेत्यंशपञ्चकम् । आयं त्रयं ब्रह्मरूपं जगदूपं ततो द्वयम् ॥ खातानिजलोर्वीषु देवतियङ्नरादिषु । अभिन्नाः सच्चिदानन्दा भियते रूपनामनी ॥ इति । सांख्यरपि अचेतनप्रकृतिपरिणामित्वाभ्युपगमात् इति- दिक् । ग्रामं गन्तुमिच्छनीत्यत्र ग्रामगमनयोरुभयोरपि इषिकर्म- वे ग्रामाय गन्तुमिच्छनीति गत्यर्थकर्मणीति चतुर्थी न स्यात् । गतिकर्मताभावात् । गमेापः कर्म इषेस्तु गमनामेत्युक्ती च इष्पते ग्रामो गन्तुमित्यत्र कर्मप्रत्ययेन ग्रामस्याभिधानं न स्यात् । तस्येषिकर्मत्वाभावात् । सप्रकृयर्थसाधनस्व. प्रकारस्यैव प्रत्ययाभिधेयत्वात् । तस्माद्गमेग्रामः कर्म इषेस्तु ग्रामो गमनं चेति सिद्धान्तः । इष्यने ग्रामोगन्तुामसत्र गमनस्य ग्रामार्थवादप्राधान्याद्भिन्नकक्षयोः कर्मणोरेकेनाभिधातुमशक्य. त्वात् । प्रधाने कार्यसंप्रत्ययाद्रामस्पैवाभिधानम् । इपिक्रियाया- श्वाख्यातान्तवाच्यतया प्राधान्यात्प्रधानशत्यभिधानेन ग्रामात्म. थमा । गमिक्रियाया गुणात्तदपेक्षया द्वितीयाचतुयोरनुपपत्तेः। :

प्रथमपादे प्रथममाहिकम् । १ । ११९२ गुणस्य प्रधानविरुद्धकार्यानारम्भकत्वादिति प्रागुक्तम् । शपिकान्मतुवर्धापाच्छैषिको मतुवधिकः । सरूपः प्रत्ययो नेष्टः सन्नन्तान्न सनिष्यते ।। यद्यपि सनैव इच्छाया अभिधानान्न पुनः सन्निति न वक्तुं शक्यम् । पाकेच्छायास्तेनाभिधानेऽपि पाकेच्छाविषयकेच्छाया अनुक्तत्वात् । अन्यथा प्रतीषिषतीत्यत्र इपेरपि सन्न स्यात् । तथापि वाचनिक एवायं निषेधः । इच्छासन्नन्ते चायम् । जिगुमिषते मामांसिपते इत्यादौ स्वार्थसन्नन्तादिच्छासन इ. ष्टत्वात् । शपिकादित्यादावुदाहरणम्-शालायां भवः शालीयो घटः तत्र भत्रमुदकमिति पुनः छ प्रत्ययो न । विरूपस्तु भव- त्येव । अहिच्छत्रे भव आहिच्छत्रः तत्रभव आहिच्छत्रीयः। द. ण्डोऽस्यास्तीति दण्डिकः सोस्यास्तीति पुनर्गठन् । विरूपस्तु भवत्येव । दण्डिगती सेनेति । एांच वह्निमद्वानिति तार्किकमयो- गाः प्रामादिकाः । तसौ मत्वर्थेइति भसंज्ञात्वात्पदर्यिस्य जश्त्व. स्य च दुर्लभत्वात् । इति श्रीसिद्धान्तसुधानिधौ तृतीयाध्यायस्य प्रथमे प्रादे प्रथमादिकम् ।

अथ द्वितीयमाह्निकम् । सुप आत्मनः क्यच् ॥ ८॥ स्वाश्रयसम्बन्धित्वेनेच्छाविषयार्थकात्सुबन्तात्क्यच्मययो वा । स्वपदमिच्छापरम् । स्वाश्रयत्वं समवायित्वं घालव- परत्वात्सुपो लुक् । क्याच चेतीत्वम् । पुत्रमात्मन इच्छति पुत्री- पति । पुत्रविषयकेच्छ।बोधे पुत्रस्य स्वीयत्वं स्वरूपसदेव प्रयो- गनियामकं तत्र तस्य शाब्दे प्रकारतानुभवविरोधात् । यद्यपि क्यचश्चकारो नान्तोदात्तत्वार्थः एकाच्वेन प्रययस्वरेणैव सिद्धेः पूर्व प्रत्ययस्वरः पश्चात्सतिशिष्टो धातुस्वर इति क्रमस. चात् । नापि क्यचिचेत्यत्र विशेषणार्थः । तदनुबन्धकग्रहणे नातदनुबन्धकस्येत्यतएव क्यषो व्यारत्तेः । तन्मात्रानुवन्धकम- पहाय तत्तदतिरिक्तोभयानुबन्धकस्य न ग्रहणमियस्य तदर्थत्वात् । नापि नाक्ये इत्यत्र सामान्यग्रहणविधातार्थः । अन्यथोक्तरीत्या ततक्यषो ग्रहणं न स्यात् । ननु इच्छेति भावप्रसयः । आत्मन इति कर्तरि षष्ठी । क्रिपाकारकसम्बन्धस्यान्तरणत्वात् । तथाच राज्ञः पुत्रमिच्छीत्यत्रापि क्यस्यात् । मैवम् । आत्मन इति विशेषणवैयर्यात् । उक्तसम्बन्धमनादृत्य सुबन्तेनैवान्वयात् । त. द्वारकस्यैवात्मन इच्छासम्बन्धस्य वाच्यत्वात् । तथाचेच्छासमवा- यिनः सुबन्तस्य च यःप्रसिद्धसम्बन्धस्तस्येष्यमाणतावच्छेदकत्वे क्यजिति फलितप । अन्यथा एपितृस्वामिजन्यत्वस्य राजपुत्रेऽपि सत्त्वादोषतादवस्थ्यात् । मात्वाका अघायवो विदनित्यादौ तु व्यसनस्य स्वसंबन्धित्वेनेच्छानुपपत्या छान्दसाक्यच । ज्ञा. पकं चालवाधनार्थमाकारविधानम् ।

No text on this page.

न्यायरसिकों को अपूर्व लाभ। * कारिकावली* मुक्तावनी और न्यायचन्द्रिका सहित भारतवर्षके प्रायः सभी पंडित तथा विद्यार्थिगण विश्वनाथन्या. यपंचानन कृत 'न्यायसिद्धान्तमुक्तावली से परिचित हैं, तथा पढ़ले पहाते भी हैं। क्योंकि ऐसा न्याय वैशेषिक के मत का नवीन और प्राचीन दोनों लेखशैली से बना हुआ दूसरा ग्रंथ अभीतक प्रचलिर नहीं है । परन्तु वह मी प्रायः जगह २ पर नयी न्यायाली अधिक होन से न्यायशाल के सिद्धान्तमात्र का परिचय चाहनेवाला के लिये वैसी उपयोगी नहीं है जैसी पदर्शनयालगाता पं. नारायणतीर्थ कृत 'न्यायचन्द्रिका । यह सोचकर हमने यह अपूर्व व्याख्या परीक्षार्थियों के उपकारार्थ दुढिराजशास्त्री कृत टिप्पणी सहीत मुक्कावली के साथ अपने यहां सुंदर बम्ब साइप में शद्ध कराल मुद्रित की है । • एयचंद्रिकाका महत्त्व ग्रंथ देखनेही मालुम पड़गा उसके विषय में अधिक लिखना व्यर्थ है । ग्रंथ का मूल्य भी सब के उपकारार्थ १) रु. म.त्र मखा गया है। इसके अलाव हमारे या हरतरह के संस्कृतग्रन्थ तथा भाषा- मान्य की कमी मिलती हैं और भी हमारे यहां हर तरह की उमाई गथा जिल्द क गंधाई का कार्य भी होता है। एक बार पत्र व्यवहार कर दीये, और पुस्तकों का बड़ा सूचीपत्र मुफ्त मंगाकर देखीये । पुस्तक मिलंग का पता- जयकृष्णदास-हरिदास गुप्त, चौखम्बा संस्कृत सीरिज आफिस विद्याक्लिास प्रेल, गोपालमंदिरोन, बनारस सिटी। -

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

Vyaakarand-a Siddhaanta Sudhaanidhi 306

Author
Suri Vishveshvara
Title
Vyaakarand-a Siddhaanta Sudhaanidhi 306
File name
Vyaakarand-a Siddhaanta Sudhaanidhi 306
Text
OCR done
Citation
1924
Publisher
Pan'd'ita Mahaadeva Shaastrii
Language
Sanskrit
Pages
107
Library
Ou
Classification
Language. Linguistics. Literature
DLI number
368399
Barcode
2030020032371.00
Scanning centre
RMSC, IIIT-H
Rights
IN_COPYRIGHT
VMLT id
UNajZTnX35m
Download PDF

Vyaakarand-a Siddhaanta Sudhaanidhi 306