बनस्थली विद्यापीठ

यज्ञमधुसूदून

भण्डारी, चन्द्रराज · 2009/07

PDF Proofread

Front matter

No text on this page.

१ ၁ဝ ခ ခ ခ ခ ခ ခ ခ ခ ခ ခ - ခ ခ ခ ခ ခ ခ rojnbjareofanjaranjanjaolapieokasicorolaolestrotrolooferoeoroledrots CM P *श्री:* यज्ञमधुसूदनः 10000 4868 Socipes DYODHYOGDIOSYOODY यज्ञविद्याप्रकाशकोऽयमपूर्वो ग्रन्थः । विद्यावाचस्पतिश्रीमन्मधुसूदनसूरिणा। प्रणीतः प्रथतामेष श्रीयज्ञमधुसूदनः ॥ CG १०. Locadoa जयपुरराजकीयविद्वन्मण्डलसभाप्रधानपण्डितेन महामहोपदेशकेन समीक्षाचक्रवर्तिना श्रीमधुसूदन-विद्यावाचस्पतिना मैथिलेन प्रणीतस्य यज्ञमधुसूदनग्रन्थस्यायं द्वितीय-परिच्छेदरूपः- . samiti स्मार्तीकुण्डसमीक्षाध्यायः बौदिकसनातनधर्मधुरन्धरस्य जयपुरशेखावाटीप्रान्तस्थमलसी- सरप्रदेशाध्यक्षस्य ठाकुरसाहबश्रीभूरसिंहजीमहोदयस्य सुयोग्यपुत्रेण माननीयकुँवरसाहब-श्रीशिवनाथ- सिंहजीमहोदयेन वैदिकजनानामुपकारार्थ निजद्रव्येण संपूर्णमुद्रणव्ययसाहाय्यभार गृहीत्वा धर्मवुद्धया मुद्रापितः । 101010 सोऽयं श्रीमथुराप्रसादशिवहरेप्रवन्धेन, अजमेरनगरे वैदिकप्रेसनानि मुद्रणयन्त्रालये मुद्रयित्वा प्रकाशितः॥ प्रथमावृत्तिः सन् १६२८ ई. { मूल्यम् १) sayriyo youyouyunyouyenyeoyoyouycycayenye symboycooyeoyoyoye ន ១១ ១១១ ១២ ១ ១ ១ ១ ១ ១ ១ ២២ ១ ១១១

No text on this page.

एष यज्ञमधुसूदनस्त्रिकाण्डः।
तत्राध्याया हाविंशतिः
१ प्रतिपत्तिकाण्डे, अध्यायाः-(६)
१ विहारसमीक्षाध्यायः
२ स्मार्तकुण्डसमीक्षाध्यायः
३ उपकरणसमीक्षाध्यायः
४ यज्ञप्रचयसमीक्षाध्यायः ( यज्ञविटपः)
५ कर्मानुक्रमणिकासमीक्षाध्यायः
६ यज्ञरहस्यसमीक्षाध्यायः
२ प्रयोगकाण्डे त्रयोऽध्यायाः-(३)
१ देवभाषाध्यायः
२ यज्ञकल्पद्रुमाध्यायः
३ अग्निचयनाध्यायः
३ प्राचीनपद्धतिकाण्डे त्रयोदशाध्यायाः-(१३)
१ आधानम्
२ अग्निहोत्रम्
३ दर्शपूर्णमासौ
४ चातुर्मास्यम्
५ आग्रयणम्
६ पशुवन्धः
७ सौत्रामणी
८ ज्योतिष्टोमः
.
१० राजसूयः
११ वाजपेयः
१२ अश्वमेधः
१३ गवामयनमू.

No text on this page.

॥ श्रीः॥ यज्ञमधुसूदने स्मार्तकुण्डसमीक्षाध्यायः। विद्यावाचस्पतिः श्रीमान् महार्यो मधुसूदनः । समीक्षाचक्रवर्तीह स्मातकुण्डं समीक्षते ॥ १॥ यज्ञेश्वरप्रसादाय श्रीयज्ञमधुसूदने । स्मातकुण्डविधिःपाकयज्ञार्थ उपयुज्यते ॥२॥ दाशतानि श्रौतयज्ञसम्वन्धीनि वैतानिकाग्निकुण्डानि । अथातः प्रसङ्गात्, हायसम्बन्धीनि स्मार्त्ताग्निकुण्डान्यपि दर्शयितव्यानि । तत्रादौ मात्रासाधनम् । अङ्गुलमान तावत् कुण्डमण्डपादिसाधने विशिष्योपयुज्यते । तच्च मान- पर तरल चतुर्धा नियम्यते । मानाङ्गुलं, मात्राङ्गुलं, मुष्ट बङ्गुलं, देहतब्धाङ्गुलं देति । यवादिद्रव्यमानसाधितं मानाङ्गुलम् । तथा हि-वातायनपथप्राप्तपु रविर- दिए संचरन्तः सूक्ष्मरेणवस्त्रसरेणव उच्यन्ते । तत्राप्टो परमाणव इष्यन्ते । त्र- वोऽष्टावेको महीरेणुः । महीरेणवोऽष्टावेकं वालाग्रम् । तान्यष्टावेका लिक्षा। शा अष्टावका-यूका । ता अष्टावेको यबः । तेऽष्टावेकमङ्गुलम् । उक्तं च- "त्रसरेणू स्थरेणुर्वालाग्रं तदनु लिक्षा च । यूका यवोऽङ्गुलमिति क्रमतः परमाणुतोऽष्टगुणितानि ।। .

( २ ) रथरेणु,महीरेणु,महीरज इत्येकार्थाः । तेनैकस्मिन्ननुले टौ यवाः स्युः । तथा घा चतुःपष्टियूकाः स्युः । तथा वा पञ्चशतानि द्वादशाधिकानि ( ५१२) लिक्षाः स्युः । तथा वा चत्वारि सहस्राणि परानवत्यधिकानि वालाग्राणि स्युः । (४०६६) : ८ यूकाः ८ यत्राः ८ परमाणवः १ त्रसरेणुः ८ सरेणवः १ रथरेणुः ८ रयरेणवः १ वालाग्रम ८ वालाग्राणि १ लिक्षा लिक्षाः १ युका १ यवः १ अङ्गुलम् तदिदं मानाङ्गुलं त्रिविधम् । उत्तम, मध्यममधमं च । तदुक्तम्- "विन्यस्तैस्तिर्यगटाभिर्यवैर्मानाङ्गुलिः स्मृता । सा तूतमाङ्गुलिः सप्तयचा सैव तु मध्यमा ॥१॥ पड्यवा साऽधमा प्रोक्ता मानाङ्गुलमितीरितम् ।" तिर्यविन्यस्तैरिति उदरमध्यतो योजितैरित्यर्थः । एतच्च लोकसाधारणमङ्गुलमानमुक्तम् । प्रातिस्विकं त्वङ्गुलमानं यजमान- भेदाद् भिद्यते । तच्च मात्रामुलादि भेदात् त्रिविधम् । तत्र मात्राङ्गुलं तावदद्गुष्ठ- सध्यरेखया कल्प्यम् । मध्यमाङ्गुलिमध्यपर्वणा वा । तदुक्तम्- "कर्तुर्दक्षिणहस्तस्य मध्यमाङ्गुलिमध्यतः । पर्वणोरन्तरादैर्घ्य मात्राहुलमुदाहृतम् ॥” इति । मुग्यङ्गुलमप्याह- "विनाङ्गुष्ठेन शेपाभिमुष्टिमङ्गुलिभिः कृत. चतुर्धा विभजेदेको भागो मुष्ट यङ्गुलिः स्मृता ॥" इति । देहलब्धाङ्गुलं तुर्विशत्यधिकशतेन विभक्तस्य पुरुपस्यैको भागः। तदुक्तम्- ( ३ ) यत्किञ्चित्पुरुषायामं विभज्य दशधा पुनः । एकं द्वादशधा भागं कृत्वा तेम्बेकमङ्गुलम् ॥ देहलब्धाङ्गुलं नाम जानीयात् तस्य तत्पुनः ।" इति । अनेनैव प्रमाणेन यवयूकादयोऽपि संग्राह्याः । तथा हि-प्रपदोच्छूितस्योर्ध्व- होपुरुपस्य प्रमाण कम्बया साधितं पौरुपं नाम | कम्बा मानोपयोगिनी वंश- महिका । विशं शतमङ्गुलानां पौरुपं मानमाहुः । पौरुषस्य मानदण्डस्य पञ्चमों- शो हस्तः । हस्तस्य चतुर्विंशोंऽशोऽङ्गुलम् । अङ्गुलस्याष्टमांशो यवः । यवस्याप्ट- वांशो यूकता । यूकाष्टमांशो लिक्षा । एतेपामेव गणितप्रक्रियायामुपयोगो दृश्यते।न स्वतिसूक्षमाणां वालाग्नप्रभृतीनामतस्तदुपेक्षा। अथ चतुर्विशत्यङ्गुलो हस्तः । स हि कफोणिकादि मध्यमानान्तः । " मध्याङ्गुलीकूर्परयोर्मध्ये प्रामाणिका करः ।" इति चौधायनोजेः ॥ साहादि शत्यङ्गुलस्त्वरनिः । स हि हस्तस्य पोडशांशन न्यूनः कफोणिकादि- जिलान्तः । एकविंशत्यङ्गुलस्तु रनिः । स हि बद्धमुष्टिप्रकोष्ठः कफोणिकादि- सुधन्तो हस्तस्याएमांशेन हीनः । महाहस्तः, अरनिहस्तः, रनिहस्तः, इत्येते नयोऽपि हस्तविशेषाः कर्मविपेपूपयुज्यन्ते । शतपथश्रुतौ तु चतुर्विशत्यङ्गुल एवारस्निहस्तो नियम्यते । एतञ्च प्राति- किमानसाधितं प्रातिस्विकमेव हस्तायमाख्यातम् । मानांगुलसाधितं तु हस्त- 'मानं साधारणं स्यात् । तस्यापि त्रैविध्यमाहुः । चतुर्विशतिमितैः पड्यवाङ्गुलैब्रह्म- हल्तः । सप्तयांगुलैर्विष्णुहस्तः । अष्टयवांगुलैः शिवहस्त इति । ... ब्रह्मविष्णुशिवादीनां ये हस्ताः परिकीर्तिताः । पद सप्ताप्टयवैर्मानाङ्गुलैस्तांस्तु प्रयोजयेत् ॥" इति शारदोक्तेः । एवं हस्ताङ्गुलमानानां नानाविध्येतद्व्यवस्थामाहुः। यागौ- पंकरण मानि नुवादीनि च मानांगुलेन साध्यानि । कुण्डन्तु मुष्प्रयङ्गुलेन देहलधावेला या कल्पयेत् । प्रतिमोच्छ्रायो मात्राङ्गुलेन प्रतिमाङ्गानि तु मानाङ्गुलेन कार्याणि । प्रासादादि निर्माणं मात्राङ्गुलेन मानांगुलेन वा संभवति । वेदी, स्थ- शिजला, पीठ,शिविका, रथादग्रस्तुमानाङ्गुलेन कार्याः । वेश्मप्रासादारामादयो विष्णु- ( ४ ) ७ यवाः " - १ मध्यम - १ उत्तम टयवाः हस्तेन, तडागारामक्षेत्रक्रोशादयस्तु शिवहस्तेन कार्य्याः इति विधानपारिजातादिपु निरूपितम् । क्वचित्तु मतभेदो दृश्यते । तेनात्र कामचारो द्रष्टव्यः । अथापि प्रक्रमनिर्वाहोऽनुरोद्धव्यः । यादशहस्ताङ्गुलमानेन यत्किञ्चित्प्रक्रम्यते तत्र तेनैव मानेन सर्वाग्यज्ञानि लाध्यानि । मानसरो यथा न स्यात्तथा कार्यमिति दिक् ॥ ६ यवाः = १ अधमं मानाङ्गुलम् | २४ अधमाङ्गुलानि = १ ब्रह्महस्त: २४ मध्यमाङ्गुलानि = १ विष्णुहस्तः २४ उत्तमाङ्गुलानि = १ शिवहस्तः २१ अंगुलानि = १ रनिहस्तः ४ महाहस्ताः D१ व्यामः २२॥ अंगुलानि = १ अरनिहस्तः ५ महाहस्ताः -१ पुरुपः २४ अंगुलानि = १ महाहस्तः अङ्गुठस्य प्रदेशिन्या न्यासः प्रादेशः । मध्यमया तालः । अनामया गोकर्णः । कनिष्ठया वितस्तिः ॥ सार्द्धदशांगुलः प्रादेशः । प्रादेशद्वयं रत्निः । स एकविंश- त्यङ्गुलः । रत्निद्वयं किकुः । स द्विचत्वारिंशदङ्गुलः ॥ पडङ्गुलं प्रपदम् । प्रपदद्वयं पदं वितस्तिर्वा द्वादशाङ्गुला । वितस्तिद्वयं हस्तश्चतुर्विशत्यङ्गुलः । हस्तद्वयं ब्रह्मतीर्थमष्टाचत्वारिंशदङ्गुलम् । प्रहातीर्थद्वयं धतुर्दण्डः । स चतुर्हस्तः परणवत्य- मुलः । धनुर्दण्डद्वयं नाली । त्रिंशद्धपि नल्वम् ॥ वे धनुः सहस्रे कोशः । क्रोश- द्वयं गव्यूतिः । तत्र चत्वारि धनुः सहस्त्राणि स्युः।गव्यूतिद्वयं योजनम् । तत्राप्टौ धनुः सहस्त्राणि स्युः ॥ १०॥ अंगुलानि= १ प्रादेशः ६ अंगुलानि=१ प्रपदम् = ६ अंगुलानि २ प्रादेशी = १ रत्निः २ पदे =१वितस्ति: १२ २ रत्नी = १ किष्कुः २ वितस्ती =१ हस्त: २४ ॥ २ हस्तौ २ ब्रह्मतीर्थे २ धनुर्दण्डौ = १ ब्रह्मतीर्थ = ४८ अंगुलानि = १ धनुर्दण्ड:= ६६ = १ नाली = ११२ ३० धषि = १ नल्वः २ क्रोशौ =१ गव्यूति: ४०००धषि २००० धषि = १ क्रोशः=२००० ध. २ गव्यूती १ योजनम् =८०० धनूंपि ( ५ ) अथ भूमिसमीकरणम् ॥ २ ॥ तत्र तावजलतुलायन्त्रेण भूमि समीकुर्यात् । उच्च-वर्तुल-प्राकारघटितं जलपूर्णपात्रं यत्र भूतले तलेन चालितं जलं न पातयति, तद्भूतलं समं शेयम् । जलपतने तु यस्यां दिशि पतेत् तत्र दिशि पात्रस्याधस्तान्मृत्तिकां दद्यात् । तदन्य दिशि पात्रस्याधस्तान्मृत्तिकामुद्धरेद्वा । तथा चैपा भूमिर्जलसमीकृता स्यात् ।। अथवा भारयन्त्रेण भूमि समी कुर्य्यात् । तथा हि-समैत्रिभिर्दण्डैः प्रान्तसंलग्नैः समत्रिभुजं समीकरणयन्त्रं भवति । तस्य शिरोधेयकोणे प्रोतमधोवद्धपापाणभारं लम्बसूत्रमालम्वितं क्रियते । अधस्तनस्य तिर्यग्दण्डस्य मध्यभागे छिद्रादिचिह्न क्रियते । यन्त्रे भूमौ समुत्तोलिते सति लम्बसूत्राधः प्रोतभाराग्रमधस्तनदण्डमध्य- गतचिह्नाभिमुखं यथा स्यात् तथा प्रयोजयेत् । तथा प्रयुक्तोऽधस्तनः स दण्डो यन्त्र यत्र भूम्या न स्पृश्यते तत्र तत्र मृदमापुर्य भूमि दण्डेन समीकुर्य्यात् । उक्तं च कुण्डप्रकाशिकायाम--- कीलेनैकीकृते पूले पृथक् सूक्ष्म समाग्रयो। दण्डयोग्रनकन्येऽन्यस्तियं मध्यचिह्नितः ।। १ ।। कीलादिना योजनीयो दण्डः समतया द्वयोः । मूलनोतं लम्बसूत्रमस्पृशद् भारवद् भुवम् ॥ २ ॥ भूस्थेऽप्रयुग्मे मध्याङ्कात् तिर्यग्दण्डगताद्यतः । स्खलेत् तत्पूरयेदन्यं निम्नयेद्वापि युक्तितः ॥ ३ ॥ अङ्के यावत्सूत्रमेति भूरित्थं समतां व्रजेत् । विशोधितायां प्राक तस्यां मण्डपादि समाचरेत् ॥ ४ ॥ इति । मण्डपादिकर्मणि तावदुच्चावचादिप्रदेशवैषम्यनिरसनमा भूमिसमीकरण- मपेक्ष्यते न तु भूमेरप्रवणत्वेऽपि तत्राग्रहः प्रागुदक्प्रवणस्यैव देशस्य देवयजनतया तस्यैव यज्ञोपचारे प्राशस्त्यात् । प्रागुदप्लवने देशे मण्डपादिसमाचरेदिति सि- द्धान्तात् ॥ दिक्साधनकर्मणि तु सर्वथा भूमेः .समतापेक्ष्यते । उच्चावचभूमेः प्रवणभूमेश्च तत्र दोषाधायकत्वात् ॥

(६) A अथ दिक्साधनम् ॥ ३ ॥ तत्रादौ छायामूलकदिसाधनाय शङ्कुक्लूप्तिः । स हि शकुः सूच्यनः सरलः प्रायेण द्वादशाङ्गुलः पृथुमूलः कार्यो येनार्य भूमौ धृतः स्थिरस्तिप्टेत् । अथवा तस्याधस्तादपि कश्चन भागः सूक्ष्मानोऽधिकः कार्यो, योऽस्य भूमौ निखात- स्यान्तः प्रविशेत् ॥ (१) पादोनशगुसंमितव्यासार्द्धन वृत्तं निर्माय तन्मध्ये शकुं संस्थाप्य तस्य दिक्चतुष्टये समाः सपादशकच्चप्रमाणा मध्यमशङ्कोः शिरसा संयोजिता एकी- कृताग्राश्चत्वारः शङ्कवः प्रयोज्याः। यद्यपां सिरांसि मध्यमस्य शिरसा समं युज्यन्ते तर्हि स मध्यमः शङ्खः समोन्नतोऽवधार्यते । समोन्नतस्यैव शङ्कोर्दिक्साधनोपयोगि- त्वात् ॥ (२) अथवा नवाङ्गुलब्यासार्द्धन वृत्तं कृत्वा मध्ये द्वादशाङ्गुलं शङ्कु संस्थाप्य दक्षिणोत्तरयोवी पूर्वपश्चिमयोर्चा वृत्तपाल्यां हस्तोन्मितं समं समीकरणयष्टिद्वयं स्थापयेत् । तयोर्यष्टयोरुपरि हस्तमिता लम्बानुपट्टी समं स्थाप्या । तस्याः प्रान्त- लम्बितेन लस्वसूत्रेण यष्टयोः समोन्नतिर्विज्ञायते । गर्भलम्बितेन तु लम्बसूत्रेण शङ्कुशिरसि समं प्राप्तेन मध्यशङ्कोः समोन्नतिः साधु प्रतिपद्यते । इत्थं प्रकारद्वयेन शङ्खमेव तावत् संशोधयेत् ॥ (३) ततः शङ्खमानार्द्धन साधिकेन कृते वृत्ते मध्यमशङ्कुच्छाया वृत्तपाल्यां यत्र प्रविशति, यत्र वा वहिर्गच्छति तत्रोभयन चिहं कृत्वा तदुपरि सूत्रं दद्यात्, सा प्राची । तामशुद्धां विद्यात् । परदिनेऽप्येचं प्रवेशनिर्गमचिहं कृत्वा दिनद्वयचि- द्वान्तरमिष्टैस्त्रिचतुरायैर्भागैत्रिभज्य तत्रायेत् । छायादिना च प्रवेशनिर्गमान्त-

(७)
रालघटीः संसाध्य ताभिर्घटीभिः प्रगुणितास्तेऽन्तरालभागाः षष्टया भाज्याः ।
लब्धांशैरेष पूर्वदिनकृतः पूर्वभागस्थः प्राचीविन्दुर्दक्षिणायने दक्षिणतः संचाल्यते,
उत्तरायणे तूत्तरतः । सा स्फुटतरा प्राची स्यात् ॥ अथैतवृत्तमध्यं किंचिदुल्लवन्य-
पादोनशकुसंमितव्यासार्द्धनैव द्वे वृत्तार्द्ध परस्परश्लिष्टे कार्ये। तत्र मत्स्ययोर्मध्या-
इक्षिणोत्तरसूत्रं पातयेत् सोदीची। (४)॥.
.
परे तु तारामूलकं दिक्साधनमाहुः । समशीर्पयोर्वशयोरेकमुदीच्यां
संस्थाप्य ततः किञ्चिदन्तरेण दक्षिणस्यां द्वितीय वंशं तथा स्थापयेत्, यथैतद्वंश-
द्वयसंलग्ना ध्रुवतारा दृश्येत । ततस्तयोर्वशयोरधोदेशे चिह्नद्वयं कुर्य्यात् , सोदीची।
चिह्नद्वयान्तरसूत्रेण पूर्वपश्चिमयोर्मत्स्यौ कुर्य्यात्, सा प्राची ॥ (५) ॥
इत्थं सुख्या दिशः संसाध्य दिग्द्वयमध्यलक्षणतः कोणान् साधयेत् । तत्र
चतुर्भिः सूत्रैश्चतुरस्रं क्षेत्रं समं संपद्यते ॥
to
Intram
DIE
उदीची
AI
विधानपारिजातके त्वन्यथाऽप्याहु:-
श्रवणस्योदये प्राची प्राची स्यात् कृत्तिकोदये ।
चित्रास्त्रात्यन्तरे प्राची न प्राची चन्द्रसूर्ययोः ॥ १॥

(८)
रात्रौ संसाधयेत् प्राची साधकेन्द्रः प्रमाणतः ।
कृत्तिका श्रवणं पुप्यं चित्रास्वात्योर्यदन्तरम् ॥ २॥
एतत् प्राच्या दिशो रूपं युगमानोदिते पुनः ॥ इति ।
एतच पूर्वकालानुसारेणोक्तम् । पुरा युगे घेतेषां तारानात्राणां विपुबद्रे-
खायामुपसत्त्या प्राचीलक्षणत्वमालीदिति वेदवाक्यादवगम्यते । अद्यत्वे तु कृत्ति-
फावणादीनां शरवन्नक्षत्रतया न प्राचीलक्षणत्वं संभाव्यते । तस्मात् पूर्वोक्तमेव
साधीय इति दिए ।
अथ मण्डपसाधनम् ॥ ४ ॥
तत्र तावन्मण्डपनिर्माणाय स्थानमाहुः-
समुद्रगा नदीतीरे संगमे वा शिवालये।
आरामे विष्णुगेहे वा देवखातादिसन्निधौ ॥१॥
गृहस्येशानभागे वा मण्डपं रचयेद् दृढम् ।। इति ।।
यदि धामाग्रे मण्डपः क्रियते तदा तद्धामपरिमाणमन्तरं त्यक्त्वा परतो.
मण्डपं कुर्यात् । यत्र तु मण्डपद्वयं क्रियते तत्र प्रथममण्डपपरिमितमन्तरं त्यक्-
त्या द्वितीयमण्डपं कुर्य्यात् । तदुक्तं विश्वम्भरशास्त्रे-
धानो धाम्नान्तरं त्यक्त्वा धामाग्रे यज्ञमण्डपः ।
मण्डपान्तरमुत्सृज्य कर्तव्यं मण्डपद्रयम् ।। १ ।। इति ।।
अथ मण्डपनिम्माणे भूमिमष्टधा परीक्षेत-विकारतः, प्रवणतः, द्रव्यतः,
स्पर्शतः, रूपतः, रसतः, गन्धतः, शल्यतश्चेति । तद्यथा-
१
१-विकार-परीक्षा।
स्फुटिता च सशल्या च वल्मीका रोहिणी तथा ।
दूरतः परिवा भूः कर्तुरायुर्धनापहा ॥ १ ॥
स्फुटिता मरणं कुर्यादूषरा धननाशिनी ।
स शल्या क्लेशदा नित्यं विषमा शत्रुभीतिदा ॥२॥

२-प्रवण-परीक्षा।
ईशकोणलवा सा चं कर्तुः श्रीदा सुनिश्चितम् ।
पूर्वसवा घृद्धिकरी बलदा तूत्तरमवा ॥१॥
विद्वेष मरणं व्याधि कुर्य्यादग्निसवा मही ।
धर्मराजलवा भूमिनित्य मृत्युभयप्रदा ॥ २ ॥
गृहक्षयकरी सा च भूमिर्या नैर्ऋतलया ।
धनहानिकरी पृथ्वी कीर्तिदा बरुणलवा ॥ ३ ॥
पातसवा तथा भूमिनित्यमुढेगकारिणी ।।
३.द्रव्य-परीक्षा।
ब्राह्मणी भूः कुशोपेता क्षत्रिया स्थाच्छराकुला ।
कुशकाशाकुला वैश्या
शूद्रा
सर्व
तृणाकुला ॥१॥
कुशैःशरैस्तथाकाशैर्वाभिर्या च संभृता ।
प्रशस्ता भूर्महाबाहो मण्डपादौ विशेषतः ॥२॥
४-स्पर्श-परीक्षा।
.
शीतस्पष्णिकाले च वह्विस्पर्शा हिमागमे ।
वर्षासु चोभयस्पर्शा सा शुभा परिकीर्तिता ॥ १ ॥
५.-रूप-परीक्षा ।
श्वेता तु ब्राह्मणी पृथ्वी रक्ता वै क्षत्रियः स्मृता ।
वैश्या पीता तु विज्ञेया कृष्णा शूद्रा प्रकीर्तिता ॥१॥
श्वेतारुणा पीतकृष्णा विप्रादीनां प्रशस्यते ।
स्थिरोदका दृढा स्निग्धा भूमिः सर्वसुखावहा ॥ २ ॥
६--रस-परीक्षा ।
ब्राह्मणी घृतगन्धा स्यात् क्षत्रियां रसगन्धिनी ।"
वैश्या तिक्ता च विज्ञेयां शूद्रा स्यात् कटुका च या ॥१॥

(१०)
मधुरा च कपाया च यम्ला च फटुका च या ।
विप्रादीनां प्रशस्ता भूमण्डपादी विशेपतः ॥२॥
७-न्ध-परीक्षा।
काश्मीरचन्दनामोदा फर्मुरागुरुगन्धिनी ।
कमलोत्पल गन्धा च जातिचम्पक गन्धिनी ॥१॥
पाटलामल्लिकागन्धा नागकेसर गन्धिनी ।
दधिक्षीराज्यगन्धा च मधिनु रसगन्धिनी ॥२॥
सुगन्धि नीदिगन्धा च शुभगन्ध युता च या ।
सर्वेपामेच वर्णानां भूमिः साधारणा मता ।।३।।
८--शल्य-परीक्षा।
प्रासादारम्भकाले च गृहादौ च विशेषतः ।
शल्योद्धारः प्रकर्तव्यो यदीच्छेच्छुममात्मनः ॥१॥
प्रासादारम्भकाले च यदन्नं पुरुपः स्पृशेत् ।
वास्तुदेहे दृढं तत्र शल्यं विद्याद्विचक्षणः ॥२॥
फएट्यति शिरः पुंसि शिरः शल्यं समुद्धरेत् ।
शल्यं तत्रास्थि विज्ञेयं खन्यमाने फरत्रये ॥३॥
पाहुकरायनामोया द्विहस्ते लोहशृङ्खला ।
अरुकरट्यनाद्धस्त मात्रे कास्यं विनिर्दिशेत् ॥ ४ ॥
हस्तकण्झ्यनाद्धस्त प्रये कंकालमादिशेत् ।
पृष्ठकण्ट्रयनाद्धरने पहु( बाहु )शल्यं विनिर्दिशेत् ॥ ५ ॥
पादकण्ट्यनाद्धस्ति शल्यं दस्तद्वये भवेत् ।
कुक्षिकण्ट्यनाद्धस्त प्रये पापाणमादिशेत् ।। ६ ॥
जानुकरट्यनाभस्म शल्यं इस्तद्वये भवेत् ।
अङ्गारं च तुपं केशमस्थिशल्यं सयुद्धरेत् ॥ ७ ॥
शिरःशल्येन रोगः स्यादग्निदाहो धनश्यः ।
लौशल्ये तु मृत्युः स्याद विदेशगमनं तथा ॥८॥

(११) कांस्यशल्ये तु भार्या स्यादसाध्वी च यशः क्षयः । कंकालशल्ये मरणं रोगोऽग्निदहनं तथा ।। ६ ।। बाडुशल्ये स्वामिनाशो भार्या वा जायतेऽसती । हस्तिशल्ये राजदण्डा सस्य हानिः पशुक्षयः ॥ १० ॥ पापाणशल्यानुद्धारात् सर्पदंशो भविष्यति । भस्मशल्याउनुद्वारात् क्लेशदुःखमयानि च ॥ ११ ॥ अग्निदाहो मनस्तापो वसतां तत्र जायते । तस्मात् सर्वप्रयत्नेन शल्यमुत्पाटयेन्नरः ॥ १२ ॥ शल्योद्धारं ततः कृत्वा पूरयेत् सुपमं यथा । खन्यमाने जलं यावच्छल्यदोषो न विद्यते ॥ १३ ॥ दूरनीचस्थितं वारि खनितुं नैव शक्यते । पञ्चहस्तं प्रखातव्यं शल्यदोपोपशान्तये ॥ १४ ॥ गोशृङ्गं पीतमण्डूका शंखः शुक्तिश्च कच्छपः । शंबू कश्च प्रशस्ताः स्युर्याश्चान्या रत्नजातयः ॥ १५ ॥ अथ मएउपायतनम् । मण्डपस्त्रिविधः-अवमः, मध्यमः, उत्तमश्च । दशहस्तोऽवमः । द्वादशहस्तो मध्यमः । षोडशहस्त उत्तमः । इत्येकं मतम् ॥ द्वादशहस्तोऽवमः । चतुर्दशदस्तो मध्यमः । अंपादशहस्त उत्तमः । इत्यपरंमतम् ॥ तुलापुरुपदानादौ तु विंशतिहस्त- मिच्छन्ति । एतैरेतैर्हस्तैः क्षेत्रभुजमेकैकं संसाध्य समचतुरस्र मण्डपक्षेत्रं सम्पाद- येत् ॥ हस्तानां शतं दशहस्तस्य, चतुश्चत्वारिंश शतं द्वादशहस्तस्य, षण् नवतं शतं चतुर्दशहस्तस्य । एकोनषष्टयधिके द्वेशते पोडशहस्तस्य, चतुर्विशानि त्रीणि- शतान्यष्टादशहस्तस्य, चत्वारि शतानि विंशतिहस्तस्य, क्षेत्रफलानि । ॥ १० १२ १४ १६ १८ २० हस्तैः १०० १४४ १९६ २५६ ३२४ :...४०० क्षेत्रफलानि विधानपारिजाते तु नवधा मण्डपा नामतो निर्दिश्यन्ते । अष्ट्रहस्तो धनः । दशहस्तो घोरः । द्वादशहस्तो विरामः । चतुर्दशहस्तः काञ्चनः । षोडशहस्तः (१२) कामराजः । श्रष्टादशहस्तः सुघोषः । विशतिहस्तो घर्घरः । द्वाविंशतिहस्तो दक्षः। चतुर्विशति-हस्तो गहन, इति भेदात् ॥ कैश्चित्तु द्वादशहस्तमारभ्याटाविंशति- हस्तान्ता नव मण्डपा इप्यन्ते । अपि च विंशतिहस्तो ब्राह्मणानां, पोडशहस्तः क्षत्रियाणां, खादशहस्तो वैश्यानां, दशहस्तः सच्छूद्राणां, अएहस्तो हीनवर्णानां मण्डपः प्रशस्यते ॥ फैश्चित्तु पोडशचतुर्दशद्वादशहस्ता उत्तममध्यमाधमा इच्यन्ते । इतिः ।। एवं मतभेदेऽपि कार्यकारणानुसारेण व्यवस्था नेया ।। स्थलाद द्वादशाश्गुलोच्छ्रितो मण्डपः स्यूल इष्यते । यथच्छं वातदुच्छ्रायः फ़ार्यः ॥ अपि च-- पाख्यातः साधनैः क्लृप्त। सरलः सममानकः । मनोज्ञो मण्डपो योऽसौ कर्मकर्तुः शुभावहः ॥१॥ अनुक्कसाधनैः क्लृप्तो यदि वा कुटिलाकृतिः । मानाधिकोऽधवा न्यूनो मण्डपः कर्तृनाशकः ।।२।। अथ जम्धूमधूकशालादिसारपहारसंभूता ऋअधः समा द्वादशांगुनपरी पाहाश्चतुरस्रा धर्तुला वा पोडशस्तम्भाः कार्याः । तत्र चत्वारो घेदिकोणस्था अष्टहस्तोन्नताः स्युः । उत्तमे तु मण्डपे मण्डपविस्तारार्द्धमित्याप्टहस्ता नवहस्ता- घा स्युः । अथान्ये चत्वारो मण्डपकोणस्था द्वौ द्वौ तु प्रत्येर्फ चतुर्पु मण्डपद्वारे वित्येपं द्वादशैते बहिः स्तम्भाः पञ्चहस्तोन्नताः स्युः । सर्षे चैते स्वपञ्चमांशै वि . निखेयाः।। न चैते वेधयुक्ता इप्यन्ते । सचूडास्तु सर्वे भवन्ति । चूडं स्तम्भाना- मुपरि कृतं शल्यम् । तानि च शल्यानि स्तम्भप्रमाणाद्वाहानि, न तु पञ्चहस्तादि- स्तम्भप्रमाणेष्वन्तर्भाव्यानि । चूडार्पितापि चोभयतो रन्ध्राणि वलिकास्यानि तिर्यग्दारूणि विन्यसेत् । ततस्तेभ्यो बाह्यस्तम्भमस्तकेभ्यो वेदिकोणस्तस्भचूड़ेपुर सरन्ध्राणि वलीनासानि तिर्यग्दारूणि क्षिप्त्वा तदुर्घ चतसभिवच्छितिं विदध्यात्॥ तासांप वलिकानामुपरितनमुखभागा एकस्मिन्नू+निहिते दारुकुम्भे निक्षेप्याः। पश्चाद्यथावका सर्वत्र काष्ठ्वलिका दत्त्वा कटैरेप मण्डपः परितश्छादनीयः । चतुारो हि मगइपो भवति । तत्रावमे तानि द्विहस्तानि । मध्यसे चतुरंगु.. लाधिकानि । उत्तमे त्वगुलाधिकानि । तानि च मुख्यदिगाश्रितानि कार्यापि, न तु कोणाश्रितानि, दिग्विच्युतानि विषमाणि वा ॥ तेप्येतेषु चतुर्दारेषु वस्वार तोरणानि भवन्ति । तत्र पूर्वादिक्रमेणायशोदुम्बरप्तक्षवटै प्रतितोरण द्वेले कृत्त्या :

॥ (१३) ता अष्टौ द्वारशाखा कार्याः । ताश्वायमे पञ्चहस्ताः, मध्यम पड्ढस्ताः, उत्तम सप्तहस्ताः स्युः । सचूडासु च तास्वधमे द्विहस्तानि, मध्यमे षडगुलाधिकानि, उत्तमे तु द्वादशांगुलाधिकानि दारुफलेकानि स्वविलैर्विन्यसेत् । तेषु दारुफलकेषु मस्तके फलकद्वादशांशेन कीला निक्षेप्याः । ते च अवमे चतुरंगुलाः, मध्यमे सार्धचतुरंगुलाः, उत्तमे तु पञ्चांगुलाः स्युः । एते घ कीला वैष्णवे यागे शङ्ख- चक्रगदापद्माकाराः कार्याः । शैवे तु शूलाकाराः ॥ तद शुलं विटनं क्रियते । तत्र पार्श्वटङ्गे बने स्वाताम् । मध्यमं तु समम् । एतच्च शूलं नवांगुलदीर्घ, दैर्घ्य तुरीयांशमित्या सपादद्वयंगुलविस्तार, तस्य च फलकविले द्वयगुल प्रवेश इत्य- वमे । मध्यमे त्वेकादशांगुलदीर्घ, दैर्ध्य तुरीयांश मित्या पादनियंगुलविस्तारम् । तस्य व्यंगुलं विल प्रवेशः ॥ अथोत्तमे मण्डपे प्रयोदशांगुलदीर्घ, वैय तुरीयांश- मित्या सपादन्यंगुलविस्तारम् । तस्य चतुरंगुलं विलप्रवेश इति विशेषः ॥ सर्वाश्च ताः शाखाः स्वपञ्चमांशेरवटे निक्षिप्यन्ते ॥ प्रथ मण्डपे पूर्वादिक्रमेण ध्वजाः संनिवेश्यन्ते । तदुक्तम्- मण्डपस्य बहिर्दण्डैदशहस्तायतैः सह । पूर्वाद्यष्टसु काष्ठासु ध्वजान् संस्थापयेत् क्रमात् ॥ १॥ तेषां हस्तद्वयं- व्यासो मध्यश्च करसंमितः । व्यासार्द्ध शिखरं पुच्छं हस्तत्रितयमानतः ॥ २ ॥ मत्स्यामं शिखरं प्रोक्तं पुच्छं तु स्यात् त्रिकोणकम् । तयोर्मध्यं चतु कोणं ध्वजमेवं प्रकल्पयेत् ॥ ३॥ तत्र प्रागिन्द्रस्य पीतः पिशङ्गो वा । आग्नेय्यामग्नेरग्निवर्णो रक्तो या। दक्षिणे यमस्य कृष्णः । नैर्ऋत्यां रक्षसां शुकतनुसदृशो नीलः । पश्चिमे वरुणस्य खेतः । वायव्ये वायोधूम्रः, कुण्डप्रदीपे । शुकाम इति कुण्डकल्पद्रुमे । उसरे कुवेरस्य हरिसिताभ: उज्ज्वलः । विचित्र इति केचित् । ऐशान्यामीशस्य शुक्लः । नैर्ऋत- पश्चिमान्तरालेऽनन्तस्य धूम्रवर्णः, कुण्डप्रदीपे । घननिभः कुण्डकल्पद्रुमे पूर्व- शानान्तराले ब्रह्मणो विचित्रः, प्रदीप । अरुणः, कल्पद्रुमे । एते च ध्वजा गजच्छा- गमहिषसिंहमत्स्यमृगाश्ववृषगरुडहंसैरङ्किताः दिग्गजैरङ्किता वा पञ्चहस्तमिता द्विहस्तायताश्च कार्याः । ध्वजदण्डास्तु वंशजा दशहंस्तोच्छ्रिताः स्युः । एवमेव पताकाअपि प्रतिदिशमारोप्यन्ते । ताश्च सप्तहस्तमिता हस्तमात्रायता एकविंशत्यं गुलबिस्तृता वा लोकपालवर्णास्तदायुधाकिता वाहनाहिताश्च कार्याः । तेषां वर्णा श्रायुधानि वाहनानि च पठ्यते-- ।

(१४) सिन्दूराः कर्वरा धूम्रा धूसरा मेघसंनिभाः । हरिताः पाण्डुवर्णाश्च शुभ्राः पूर्वादितः क्रमात् ॥ १ ॥ अथवा पीत श्राग्नेयोऽजनो नीलो हिमप्रमः । शुकामाश्चित्रितः श्वेतोऽरुणो मेघनिभस्तथा ॥ २ ॥ वजं शतिर्दण्डखद्गौ पाशाहकुशगदास्तथा । शलं कमण्डलुश्चक्रं लोकपालायुधान्यपि ॥ ३ ॥ लोकेशवाहनानि स्युर्गजोवस्तोऽथ सरिभः । सिंहो मत्स्यो मृगो बाजी वृपो हंसः सुपर्णकः ॥ ४ ॥ पताकादण्डा अपि वंशजा दशहस्तोच्छूिताः स्युः ॥ ध्वजादि दण्डानां पञ्चांशमानेन भुवि नियोपः स्तम्भवत् कार्यः ॥ अपि चाहुः-तपल्लवमालाढ्यं वितानैरुपशोभितम् । विचित्रवस्त्रसंछन्नं घंटाभिश्च विराजितम् ॥ १॥ सफलैः कदलीस्तम्भैः क्रमुकैर्नारिकेलकैः । फलैर्नानाविध ज्यर्दपणैश्चामरैरपि ।। २ ॥ भूपितं मण्डपं जुर्सान्नानापुप्पसुशोभितम् । कलशैएिटफाभिश्च साधारैः करकैस्तथा ॥ ३ ॥ M IN मा 14 । (१५) अथ वेदीविधानम् ॥ ५ ॥ इदं मण्डपक्षेत्र पूर्वापरतो दक्षिणोत्तरतश्च त्रेधा विभज्य मध्यमे भागे इष्टकाभिश्चिता समा चतुरना पंधी निर्मातव्या । दर्पणोदरसंकाशा निनोन्नतविवर्जिता । शुभाकारा च या वेदी कर्तुः कामफलप्रदा ॥ १ ॥ चक्रपार्धा क्लिनमध्या परुषा गशोभना । मानहीनाधिका वेदी कर्तुः कामविनाशिनी ॥ २ ॥ पक्काभिर्वाप्यपक्काभिरिष्टकाभिमुढे यथा । चतुरस्रा'चतु:कोणा तदभावे मृदापि वा ॥३॥ एवं द्विव्यंगुलैहीना क्षत्रविद् शूद्रजन्मनाम् । सिद्धान्तशेखरे त्वेषा वेदी प्रोक्ता चतुर्विधा ॥ ४ ॥ श्रीधरी सर्वतोभद्रा चतुरस्त्रा च पमिनी । विवाहे श्रीधरी वेदी विंशत्यससमन्विता ॥ ५ ॥ राज्ञां स्यात् सर्वतोभद्रा चतुर्भद्राभिषेचने । तडागादिप्रतिष्ठायां पभिनी पद्मसंनिभा ॥६॥ चतुरस्रा चतु:कोणा वेदी सर्वफलप्रदा । मण्डपस्य नवांशस्तु वेदी स्यान्मध्यवर्तिनी ॥७॥ तस्या उच्छायो घेदीविस्तारस्य तृतीयेन चतुर्थेन पञ्चमेन सप्तमेन नवमेनैकादशेन वांशेन कार्य्यः ॥ तुलादानादिकर्मणि त्विष्टकामयी चतुर्थांशोच्छूिता सा वेदिरुत्तममण्डपे सप्तहस्ता, मध्यमावमयोस्तु पञ्चहस्ता कार्येति व्यवस्थि- तविकल्पमाह । मत्स्यपुराणे- सप्तहस्ता भवेद्वेदी मध्ये पञ्चकराऽथवा:।.. तन्मध्ये तोरणं कुर्यात् सारदारुमयं शुभम् ॥ इति ।। तुलावलम्बनार्थे काष्ठदण्डे तोरणाकृतित्त्वादिह तोरणशब्दः ॥ कर्मविशेष पुनरियं वेदी मण्डपस्यैशान्यामपीष्यते । तदुक्तं विधानपारिजाते-- (१६) तुलापुरुषदानादौ मध्यभागे तु वेदिका । शान्तिके पौष्टिके विप्र शिवकाणे प्रशस्यते ।। १ ।। चतुर्थांशोच्छितिस्तस्या राजहस्तोच्छ्योऽधवा । राजहस्तो मतो विंशत्यंगुलैरेच समितः ।। २ ।। चतुर्विशत्यंगुलस्तु वंशइस्तो विधीयते । पएणवत्यांगुलैरेवं दण्डहस्तो मतो बुधैः ॥ ३ ॥ अष्टादशाङ्गुलोऽप्यन्यः स्वामिहस्तः क्वचिन्मतः । ईशानकोणगा वेदी राजहस्तोच्छ्रिता मता ॥ ४ ॥ अथ कुण्डविधानम् ।। ६ ।। स्थानं मान क्षेत्रं खातो नाभ्योष्ठ मेखला योनिः । इत्यष्टाङ्गं कुण्डं भवति स्मार्तस्य कर्मणः सिद्धये ॥ १ ॥ तत्रादौ स्थानसाधनम् ॥ १ ॥ कुण्डमाकारभेदाइशधा-चतुरस्र, त्र्यसं, पञ्चानं, पडन, सप्तासमष्टानं, पद्म, वृत्तमर्द्धचन्द्रं, योनिकुण्डं चेति । तत्र कामनाविशेपात् फुण्डविशेपोऽपेदयते । पुत्रेप्टो योनिकुण्डं, शुभकर्मस्वर्द्धचन्द्र, शान्तिकर्मणि वृत्तं, पुष्ट्यर्थयागे पद्म, रोगशमने शास्त्रम्, अभिचारशान्तौ सप्तकोणं, मारणच्छेदनयोः पडलं, भूतोत्सादने पञ्चास्र, शत्रुदमने व्यथि कुर्यात् । चतुरस्त्रे तु सर्वार्थसिद्धिरिति । एतश वेदीमकृत्त्वा यत्रैकमेव कुण्डं कुर्वन्ति तत्र नेयम् । वेदीसहकारेण तु कुण्डकरणे घेधनुसारादेव कुण्डानाम् । कामना भेदेन दिविशेपे कर्तव्यता नियम्यते। तथाहि- चतुरस्रं शत्रुस्तम्भे पूर्वस्यां कार्यम् । योनि गार्थमाग्नेय्याम् । अर्द्धचन्द्र शनुमारणे दक्षिणस्याम् । त्रिकोणं विद्वेपणे नैर्ऋत्याम् । वृत्तं शान्तिकर्मणि पश्चिमे कुर्यात् । घट्टचपरिशिष्टे स्वन्यत्रापि कामनाविशेषे वृत्तकुण्डं वेद्याः पश्चिमतो विधीयते- - - भुक्तौ मुतौ तथा पुष्टौ जीर्णोद्धारे विशेषतः। सदा होमे तथा शान्तौ वृत्तं वरुणदिग्गतम् ।। इति ।।

(१७) पडसामुच्चाटनार्थ वायव्ये । पद्मं पुष्टिकर्मण्युत्तरस्याम् । अष्टावं मोक्षायै शान्यामित्यष्टकुएडानि । कामनाभेदादेकमेकं कुण्डं वेदीतो नियते दिग्विशेपे कुर्य्यात् । सर्वकामस्तु नवकुण्डी कुर्य्यात् । परे त्वाहुः-नवकुण्डीकरणे तावच्च- तुरनादीनां पूर्वादिक्रमेणैषा दिग्व्यवस्था काझं । यत्रत्वकमेव कुण्डमिण्यते तत्र सर्वस्वपि कामनासु वेद्याः पश्चिमे एव चतुरस्त्रं वृत्तं वा कुण्डं रचयत् । छिकुण्डी- करणे दक्षिणपश्चिमयोः । त्रिकुण्डीकरण पूर्वदक्षिणपश्चिमेषु । चतुष्कुण्डीकरणे चतुर्दिनु क्रमेण चतुरनमर्द्धचन्द्रं वृत्तं पझं च कुर्यात् ; इति नारदीये । चतुरस्त्र- मेव वेत्यन्ये । पञ्चकुण्डी चेदपेक्ष्यते तर्हि चतुर्दिनु कृत्वा पूर्वेशान्यन्तराले पञ्चम कुर्यात् । इति कुण्डप्रदीपकदाह ॥ ऐशान्यां पञ्चमं कुर्यादिति ज्ञानरत्नावल्या- माम्नायरहस्ये विधानपारिजाते चाहुः । नवकुण्डीविधी त्वष्टदिनु कृत्त्व। पूर्वेशा- न्योरन्तराले नवमं तदाचार्यकुण्डं कुर्यादित्यूह्यम् । एतच्च वृत्तं वा चतुरस्रं वेत्युक्तं विधानपारिजाते ॥ काम्पादन्यत्र तु नित्यनैमित्तिकादौ वर्णभेशत् कुण्ड- व्यवस्था नेया । ब्राह्मणानां चतुरनं पूर्वतः । क्षत्रियाणां वृत्तं पश्चिमतः । वैश्या- नामर्द्धचन्द्र दक्षिणतः । शूद्राणां त्रिकोण नैत्यामिति प्रतिवर्ण दिग्भेदेन कुण्ड- भेदा निरूपिताः ॥. सर्वारयेवैतानि कुण्डानि वेद्याः सकाशात् पदमात्रमन्तरं कृत्वा तत्तद्दिशि रच्यन्ते । पदं द्वादशाङ्गुलम् ॥ विधानपारिजाते तु त्रयोदशांगुलमन्तरामिष्यते । त्रयोदशाकुलं त्यक्त्वा वेदिकायाश्चतुर्दिशम् । कुण्डानि गणनोक्तानि विदध्याद् विधिवद्गुरुः ॥१॥ इत्युक्तेः । केचित्याहुः-वेदीस्तम्भमण्डपस्तम्भयोरन्तरतः कुण्डानि कुर्य्यादिति । तेषा- मपि वेद्या पदान्तर एव तात्पर्य्य नेयम् । नारदीये तु- कुण्डवेद्यन्तरं चैव सपादकरसमितम् । । इत्युक्तेत्रिंशदंगुलमन्तरामिप्यते; तत्कुण्डक्षेत्रगर्भाभिनायं तुलादानादिकर्म- विषयं वा नेयम् । वेदीगर्भादष्टासु दिक्ष्वप्टौ रेखाः कृत्वा तत्तदेखायां तत्तत्कुण्ड- गर्भ प्रकल्प्य कुण्डानि निर्मातव्यानि । येन दिग्विरोधो न भवेत् तथा कुण्ड- रचना कार्या । विनापि कुण्डं वेद्यामेव केचिद्धोमं कुर्वन्ति । विनापि वेदी कुण्ड- मांत्रण होमसिद्धिं केचिदिच्छन्ति । तेषां. मण्डपमध्ये वेदीस्थाने कुण्डरचना भवतीति विशेषः ॥ ३ (१८) वेदी D. अथ मानसाधनम् ॥ २ ॥ दशिता स्थानसंपत्तिः । अथ क्रमप्राप्ता मानसंपचिर्दर्शयितव्या। तत्राहुति संख्यया कुण्डमान नियम्यते । दशहोमे पदमात्रम् । पञ्चाशद्धोमे तु रनिमात्रम् । शतहोमे सत्यरतिमात्रम् । सहनहोमे हस्तमात्रम् । अयुतहोमे द्विहस्तम् । पञ्चा. युतहोमे त्रिहस्तम् । लक्षहोमे चतुर्हस्तम् ।प्रयुतहोमे पडूढस्तम्। प्रञ्चप्रयुते सप्त- हस्तम् । कोटिहोमे चाप्टहस्तम् । नातः परं हस्तवृद्धिः ॥ तेन दशकोटिहोमेऽ- - प्यष्टहस्तमेव स्यादित्याहुः ।। - (१६) पंचाशत पंचायुतम् दश लक्षम् प्रयुतम् पंचप्रयुतम् कोटि आहुतिमानम् १००० १०००० ५०००० १०००००० १०० ५०००००० १००००००० चत्वारोहस्ताः १००००० रत्तिः अरत्तिः पदम् द्वौहस्तौ त्रयोहस्ताः हस्तः अष्टहस्ताः सप्तहस्ताः पड्ढस्ताः कुण्डे हस्तमानम् ॥ १ १ २ ३ w ७ कुण्डेऽङ्गुलमानम् | १२ | २१ २२॥ १२/२१/२२॥ २४/३४ 28 ४११५ ५८.७ ६३।४ 9 विधानपारिजातादिषु विशेषो यथा- प्रोक्तं पंचकर कुंडं दशलक्षाहुतिष्वपि । पड्ढस्तं लक्षविंशत्यां कोट्यद्धे सप्तहस्तकम् ॥ १॥ कोटिहोमे दशकरं प्रोक्तं कुंडं महर्षिभिः । दशहस्तान्न हि परं कुण्डमस्ति महीतले ॥२॥ इति ।। केचित्तु लक्षहोमे हस्तमात्रम् , द्विलक्षे द्विहस्तम् , त्रिलक्षे त्रिहस्तमित्येवं लक्षशा हस्तवृदिव्यवस्थया दर्शलक्षे दशहस्तं स्यात् । नातापरं हस्तवृद्धिः । तेन कोटिहोमेऽपि दशहस्तमेव स्यादित्याहुः ॥ आहुति संख्या १००००० २००००० ३००००० ०००००8 ६००००० ७००००० ८००००० १०००००० कुण्डहस्ताः ३ ४ ५ wr ह १० (२०) कंचित्पुनः - अयुते त्वथ होतव्ये कुण्डं स्याद्धस्तमात्रकम् । द्विगुणं लक्षहोमे तु कोटिहोगे चतुर्गुणम् ॥ १ ॥ इत्यावक्षाणा फोटिहोमे चतुर्हस्तं कुण्डमाहुः । स्कान्दे तुसमन्ततश्चतुर्हस्त- प्रयुक्त्या पोडश हस्तक्षेत्रफलं कुण्डं कोटिहोमे पदन्ति । घृतादिशीघ्रदाहिवस्तुभेदा- दोम्यवस्तु स्थौल्यादितारतम्यानुरोधाच्चैते मतभेदा यथायथं नेयाः । अर्थात् परिमाणमिति कात्यायनपरिभापोक्ते होमीयद्व्यसंभारयोग्यतानुसारेणैव कुण्डमान- तारतम्यस्य नियन्तव्यत्त्वात् ॥ इदं त्वत्रावधेयम् । हस्तमात्रकुण्डस्यैकैको भुजश्चतुर्विशत्य गुलो भवति । किन्तु द्विहस्तकुण्डस्य स एकैको भुजो नाष्टाचत्वारिंशदालो भवति । तावद् भुजकरणे कुण्डस्य चतुर्हस्तत्वसंपत्तेः ॥ तस्माद द्विहस्तादि विज्ञानार्थ प्रकारमाह शुल्बसूत्रे-समचतुरस्राक्ष्णया रज्जुई करणीति । एतदेवोक्तमन्यत्रापि, यथा- पूर्वपूर्वस्य कुण्डस्य कोणसूत्रेण निम्मितम् । उत्तरोत्तरकुण्डानां मानं तत्परिकीर्तितम् ।। इति यामले । पूर्वकुण्डश्रयः कोटिरुत्तरम्येति कल्पना । विज्ञेया सर्वदा तदिहस्तादि विधिस्त्वयम् ॥ १ ॥ इति शारदातिलके। चतुः कोणाक्ष्णया रज्जुः करणी यत्र जायते । फलं द्विगुणितं तत्र चतुरस्र समीरितम् ।। इति कुण्डरत्नाकरे ॥ यथाकथंचिद् हस्तमितस्य चतुरस्रक्षेत्रस्वैशान नैऋतकोणे दत्तसूत्रेण यन्मानं स्यात् तत्ततो द्विगुणहस्तकुण्डस्य पारिभापिक मानं स्यात् । तेन मानेन कृतभुजं चतुरस्रक्षेत्रं पूर्वक्षेत्रापेक्षया द्विगुणं भवति । अतएव एकहस्तकुण्डस्य कोणमानेन समं द्विहस्तकुण्डस्य भुजमान स्यात् । एवं समचतुरस्रस्य द्विहस्तकुण्डस्य कोणसूत्रेण समा यस्य भुजाः स्युस्तञ्चतुरस्त्रं चतुर्हस्तं स्यात् । तथा चतुर्हस्तकुण्डस्य कोणसूत्रेण समा यस्य भुजाः स्युस्तद- एहस्तं स्यात् । एवमुत्तरेपामपि बोध्यम् । तत्रैकहस्तक्षेत्रस्य भुजमानं चतुर्विंश- त्यंगुलानि चेत् तदा कोणस्य मानं कियदिति निर्णेतुं प्रयतन्ते । एके तावदाहुः- 4 (२१) समचतुरस्रक्षेत्रस्य भुजसप्तमाशैर्दशभिः समं कर्णसूत्रं भवति । अथवा कर्णदश- मांशैः सप्तभिः समा सुजो भवति । यथा-चतुर्विंशत्यंगुलभुजके समचतुर्भुजक्षेत्रे त्रीण्यंगुलानि, त्रयो यवाः, तिस्रो यूकाः । तिस्रो लिक्षाः, त्रीणि वालाग्राणि, त्रयो वालाग्रस्य सप्तमांशाश्वेत्येतावान् भुजसप्तमांशः स्यात् । तैर्दशभिस्तुल्यं तत्र कर्ण- सूत्रं स्यात् । सप्तभिः सप्तमांशैः सिद्धस्य भुजस्यापेक्षया त्रिभिः सप्तमांशैस्तत्क- र्णस्य वर्द्धमानत्त्वात् । तथा हि सप्तमांशसप्तके षट्सु स्थानप्वंगुलयवादिरूपेण्वेक- विंशत्यङ्काः पृथकाऱ्यांः । तत्र तावद् वालाग्रसप्तमांशस्यैकविंशत्या त्रीणि वाला- ग्राणि लभ्यन्ते । तद्योगात् लिद्धया वालाग्रचतुर्विशन्या तिस्रो लिक्षा लभ्यन्ते । तद्योगात् सिद्धया लिक्षाचतुर्विंशत्या तिस्रो यूका लभ्यन्ते । तद्योगात् सिद्धया यूकाचतुर्विंशत्या त्रयो यवा लभ्यन्ते । तद्योगादंगुलानां चतुर्विंशतिर्भुजमानं संप- द्यते ॥ अत्रैव सतमांशत्रयवृद्धो तत्को भवति । तद्यथा-षट् स्थानेष्वंगुलयवा- दिरूपेषु नवाङ्काः पृथक् कार्याः । तत्र नवभ्यो वालाग्रसप्तमांशेभ्यो द्वयमवशेष्य सप्तभिरेकं वालाग्रं लभ्यते । तद्योगात् दशभ्यो वालाग्रेभ्यो द्वयमवशेष्याप्टाभिरेका लिक्षा लभ्यते । तद्योगादशभ्यो लिक्षाभ्यो द्वयमशेष्याप्टभिरेका यूका स्यात् । तद्योगादृशभ्यो यूकाभ्यो द्वयमवशेष्याभिरेको यवो लभ्यते । तद्योगादशांगुलानि स्युः । तथा च दशांगुलानि, द्वौ यवौ, द्वे यूके, द्वे लिखे, द्वे वालाग्रे, द्वौ वालाग्र- सप्तमांशौ चेत्येतावतो वर्द्धनांशस्य योगात् चतुस्त्रिंशदंगुलानि यव-यूका-लिक्षा- चालान तत्सप्तमांशानां द्वयं द्वयं चेत्येतावत्कर्णमानं संपद्यते । एवं तत्त्कर्णस्य दश- मांशोऽपि भुजसप्तमांशवदंगुलादीनां त्रयं त्रयं भवति । तैर्दशमांशैरपि सप्तभिः कृतं भुजमानं चतुर्विशत्यंगुलं निष्कृप्यते । स्पष्टप्रतिपत्तये न्यासो यथा-हस्तमात्र क्षेत्रे तावत्- { २२) अंगुलानि, यवः यूका: लिक्षाः वालाग्राणि) सप्तमां. भुजमानम् २४ o . भुजसप्तमांशः ३ ३ ३ ३ ३ ३ भुजसप्तमारासप्तकम् .. २१ २१ २१ २१ २१ २१ तस्य योगरूपम् २४ ० . भुजसप्तमांशत्रिकम् है 8 ह 8 ह 8 तस्य योगरूपम् १० २ २ २ २ २- सप्तकनिकयोगात्कर्णमानम् ३४ २ २ २ २ २ एतत्कर्णदशमांशः ३ ३ ३ ३ ३ ३ कर्णदशमांशसप्तकम् २१ २१ २१ २१ २१ तस्य योगरूपम् २४ ० एवमेव द्विहस्तक्षेत्रे द्रष्टव्यम् । भुजमानं पूर्वकर्णवत् । भुजसप्तमांशश्चत्त्वारि सप्तैका तिनः पट् च । भुजसतमांश सप्तकं त्वष्टाविंशतिरूनपञ्चाशत् सतैकविं- शतिचत्वारिंशद् द्वौ चेति । तस्य योगरूपं तु भुजमानम् । तथा भुजसप्तमांश- त्रिकं द्वादशैकविंशतिस्तिस्रो नवाष्टदश चेति । तस्य योगरूपं तु चतुर्दश पञ्च चतस्रस्तिस्रो द्वे एकश्चेति । सप्तकत्रिकयोर्योगस्तु अष्टचत्वारिंशत् सप्त षट पञ्च चत्वारि त्रय इति । एतदेवेह कर्णमानं स्यात् । तद्दशमांशो भुजसप्तमांशवत् । तत्सप्तकं तु भुजमानं निष्कृष्यते । स्पष्टप्रतिपत्तये तस्यापि न्यासो यथा-- (२३) अं० य० यू० लि० वा० स. भुजमानम् ३४ २ २ २ २ भुजसप्तमांशः or ६ S ३ २१ भुजसप्तमांशसप्तकम् २८ ४९ ४२ तस्य योगरूपम् ३४ २ २ २ २ भुजसप्तमांशत्रिकम् १२ २१ w & १८ S तस्य योगरूपम् ४ ५ 20 لع २ १ सप्तकत्रिकयोर्योगः कर्णमान ४८ ६... ५ ४ ३ एतत्कर्णदशमांशः ४ १ ३ ६ S कर्णदशमांशसप्तकम् २८ ४६ २१ ४२ २ तस्य योगरूपम् २ or २ २ एवं चतुर्हस्तक्षेत्रे भुजमानं द्विहस्तक्षेत्रीयकर्णवत् । तत्सप्तमांशः षट् सप्त सप्त षट् चत्वारि चेति । तत्त्रिकमष्टादशैकविंशतिः पुनरेकविंशतिरष्टादश द्वादश चेति । तस्य योगरूपं विंशतिः सप्त पुनः सप्त तिनश्चत्वारि चेति । एतावतोंशस्य भुजमाने योगादूनसप्तत्यंगुलानि, सप्त यवाः, षड् यूकाः, एका लिक्षा चेत्येताव- कर्णमानं संपद्यते॥

(२५) तदित्यमेकहतनेत्रं भुजमानम् २४ ० कर्णमानम् २ २ २ २ २ .... अन्तरम् १० २ २ २ २ .... द्विहम्नक्षत्र भुजमानम् ३४ २ २ ૨ २ २ कर्णमानम ४८ ६ ५ ४ ३ अन्तरम् १४ ५ ४ ३ २ १ चतुर्हस्तक्षेत्रे भुजमानम् ४८ ७ ६ ५ ३ कर्णमानम् ६४ ७ ६ १ अन्तरम. २० ३ s केचित्तु फिञ्चिन्यूनाधिकपरिमाणमपि तुवते । तथा च हस्तचतुरन्नक्षेत्रीयकर्ण तुल्यभुजस्य द्विहस्तत्त्वे तस्य भुजो हस्त. मात्रीयात् प्रथमाद भुजात् विभिभुजसप्तमांशैवते । तस्य कर्णसूत्रं च प्रथमकर्ण- सूत्रात् प्रिभिः फर्ण दशमशिवर्द्धते । अयनाशकणसंमेन भुजेन चतुरन्त्रनिर्माणे तस्य भुजो हस्तमानीयात् प्रथमाद भुजात् सतभिः सतम शैवद्धते । तस्य कर्ण- मूत्रं च प्रधमकर्णसूत्रादशभिर्दशमांशेवईते । तथा चेदं तृतीयं चतुरन्नं भुजतः फर्णनश्च प्रथमचतुरन्नाद् द्वैगुण्येन प्रायः संपद्यते इति भुजनानाचत्वारिंशदइगुलेन: सनस्यास्य तृतीय चतुरन्नस्य चतुर्दस्तत्वं बाध्यमिति ॥ एतच्चाशुद्धम् । चतुर्वि- शन्यंगुलभुजस्य समचतुरनस्य यथैकाहस्तत्वं तथंगष्टचत्वारिंशदंगुलभुजस्य समचतुरनस्य चतुर्कस्तत्वमिप्यते । उक्तरीत्या तु चतुर्भिलाः पञ्चभिलिक्षाभिः पइभियूकाभिः सतभिरंगुलैः सावययस्य तस्य चतुई स्तत्वं प्रामासीति वैषम्य -~- (२५) भवति । तस्माष प्रकारः सांधीयान् ॥ वस्तुतस्तु भुजवर्ग-कोटिवर्गयोर्योगाङ्कस्य मूलं कर्ममानं भवतीत्याहुः । यथा-हस्तमात्रे क्षेत्रे भुजस्य चतुर्विंशत्यङ्गुलात्म- कतया तद्वर्गः षट्सप्ततानि पञ्चशतानि । भुजकोट्योस्तत्र समानतया कोटि- वर्गोऽपि तावानेव । तयोर्योगाङ्को द्वापञ्चाशान्येकादशशतानि । तन्मूलं चतुस्त्रि- शदासन्नं किञ्चिन्न्यून भवति । चतुस्त्रिंशद्वर्गस्य पट्पचाशैरेकादशशतैस्तु- ल्यत्वात् एतच्च विज्ञानोपपन्नं भवति। अथापि यत्कोणमानेन तुल्यं यस्य भुजमानं तत्क्षेत्रं तत्क्षेत्रापेक्षया द्विगुणमिति वस्तुभूतोऽप्यर्थः क्षेत्रफलविज्ञानादेवोपपद्यते । तस्मादिह द्विहस्तादि फुण्डमानानि क्षेत्रफलविज्ञानात् स्फुटं साधनीयानि । क्षेत्र फलमूलाङ्कस्यैव क्षेत्रभुजमानत्वात् ॥ तथा हि-चतुरस्त्रक्षेत्र विस्तारकृतिः क्षेत्र- फल भवति । विस्तारस्य दैर्ध्यघातेन क्षेत्रमानस्य सुग्रहत्वात् । तथा चात्र चतु- विशत्यङ्गुलो हस्त इति कृत्वा, हस्तमात्रस्य पट्सप्ततानि पञ्चाङ्गुलशतानि क्षेत्रफलं स्यात् ।। ५७६ ॥ एतान्येव द्विगुणित त्रिगुणितादिक्रमेण द्विहस्तत्रिह- स्तादि क्षेत्राणां फलानि स्युः । यथा हि द्विहस्तस्य द्वापञ्चाशान्येकादशाङ्गुल- शतानि ॥ ११५२ ॥ त्रिहस्तस्याष्टाविंशानि सप्तदशाङ्गुलशतानि ॥ १७२८ ॥ चतु- हस्तस्य चतुरुत्तराणि त्रयोविंशतिशतानि ॥ २३०४ ॥ पञ्चहस्तस्याशीतानि अष्टाविंशतिशतानि ॥ २८०॥ पड्ढस्तस्य षट्पञ्चाशानि चतुस्त्रिंशच्छतानि ॥ ३४५६ ॥ सप्तहस्तस्य द्वात्रिंशानि चत्वारिंशच्छतानि ॥ ४०३२ ॥ अग्रहस्तस्या- योत्तराणि पट्चत्वारिंशच्छतानि ॥ ४६०८ ॥ नबहस्तस्य चतुरशीतान्येकपंचा- शच्छतानि ।। ५१८४ ॥ दशहस्तस्य षष्ट्युत्तराणि सप्तपंचाशच्छतानि ॥ ५७६० ॥ पोडशहस्तस्य तु षोडशाधिकानि वानवति शतानि ।। ६२१६ ॥ क्षेत्रफलं नेयानि। w कुण्डहस्ताः १ २ ३ ५ ९ १०।१६ 15 क्षेत्रफलानि एषामेव क्षेत्रफलानां वर्गात्मकानां यानि मूलानि तान्येव तत्तत्कुण्डानां तत्तद्भुजमानानि स्युः । तद्यथा-अङ्गुलानां चतुर्विंशतिरेकहस्तस्य ॥ (२४) ॥ त्रय- स्त्रिंशदंगुलानि, सप्तयवाश्वतो यूका एका लिक्षा, षड्वालाग्राणीति द्विह स्तस्य ( ३३ । ७।४।१।६ ) ॥ एकचत्वारिंशदंगुलानि, चत्वारो यवाः, । ४ (२६) चतस्रो यूकास्तिस्रो लिक्षा स्त्रीणि वालाग्रारणीति त्रिहस्तस्य ( ४६ । ४ । ४।३। ३)॥ अष्टचत्वारिंशदंगुलानि चतुर्हस्तस्य (४८)॥ त्रिपञ्चाशदंगुलानि, पंच यवा, द्वे यूके, पलिक्षा इति पंचहस्तस्य । (५३ । ५।२।६।०) ॥ अष्ट- पंचाशदंगुलानि, पझ्यवा, द्वे यूके, तिस्रो लिक्षाश्चत्वारि वालाग्राणीति पढ- स्तस्य ( ५८ ॥ ६ । २ । ३।४ ) ॥ त्रिपष्टयङ्गुलानि, चत्वारो यवाः सप्तहस्तस्य । ( ६३ । ४ । 01 01 0) ॥ सप्तषष्टयङ्गुलानि, सप्त यवाः, षड् लिक्षा अप्ठह- स्तस्य । (६७।७।०। ६ । ० ) ॥ द्वासप्तत्यगुलानि नवहस्तस्प। (७२ । 01 01 0) ॥ पंचसप्तत्यगुलानि, सप्तयवास्तिस्रो यूका दशहस्तस्येति दिक् । (७५। ७ । ३। ०।०)॥ कुण्डहस्ता २ ३ ५ ६ is १० क्षेत्रफलानि 30 ११५२ ५१८४ ५७६० अंगुलानि २४ | ३३:४१४८५३ ५८६३६७ ७२७५ 'यवाः . ४ ६ ४ ७ क्षेत्रफलमूलाकानि कुण्डानां भुजमानानि ० यूकाः ४ २ २ ३ लिक्षाः १ ३ ६ ३ . ६ वालाग्राणि . . ६ . तथा च-यावद्धस्तभितं कुण्डमभिप्रेतं स्यात् तेन हस्ताङ्केन हस्तमात्रकु- एडक्षेत्रफलं गुणयेत् । तदेव तावद्धस्तकुण्डस्य क्षेत्रफलं स्यात् । यथा चतुर्हस्त- कुण्डेभिप्रेते हस्तकुण्डक्षेत्रफलं षट्सप्तत्यधिकपंचशतात्मकं, चतुर्गुणितं चतुर- धिकत्रयोविंशतिशतात्मकं भवति । तञ्चतुर्हस्तस्य क्षेत्रफलं स्यात् । तन्मूलं त्वष्टा चत्वारिंशदंगुलानि चतुर्हस्तकुण्डस्य भुजमानं स्यादित्येवमूह्यम् ॥ यत्त्वेषां न्यूना- धिकपरिमाणं भुजमाने कचित्पठ्यते तद्गणनासौ काय स्थूलं स्थूलतरं घा (२७) द्रष्टव्यम् । यथा शारदातिल के द्विहस्ते विहस्ते पञ्चहस्ते पड्ढस्तेऽष्टहस्ते च लिक्षाश्वतन उक्ताः । पञ्चहस्ते यूका नोक्ता । षड्ढस्ते यवौ द्वौ । दशहस्ते तु यूकैका लिका । घालाग्रं तु सर्वेष्वेवोपेक्षितम् । तथा च न्यासः । or २ ३ ४ ५ ६ St १० हस्तमानानि २४ ३३४१ ४८५३/५८६३६७/७२/७५ अंगुलानि ५ ६ ४ यवाः ४ 20 . १ यूकाः 20 ४ ४ ० ४ लिक्षाः . १ एवं कुण्डप्रदीपे द्विहस्तस्य त्रयस्त्रिंशत् सप्त पञ्चेति (३३ । ७१५)। त्रिहस्तस्यै कचत्वारिंशञ्चत्वारः पञ्चेति (४१ । ४ । ५) । पञ्चहस्तस्य त्रिपञ्चा. शत् पञ्चतिन इति ( ५३ ॥ ५। ३)। पड्ढस्तस्याष्टपञ्चाशत् षट् द्वे चतन्न इति च (५८।६।२।४) भुजमानान्युक्तानि ॥ क्वचित्तु पञ्चहस्तस्य त्रिपञ्चा शदगुलानि, चतस्रो यूकाः, एका लिक्षा, पड्वालाग्राणि इत्येवं ( ५३.1 0१४॥ १।६) यवपरित्यागेन भुजमानमुच्यते । एवं कुण्डप्रकाशिकायां द्विहस्तस्य चतुस्त्रिंशदलात्मकं भुजमानमुक्तं तदतिस्थूलम् । सूक्ष्मानादरेण. सौकर्याय तथोक्तेः ॥ एवमुत्तरत्रापि फलभेदा उपेक्ष्याः ॥. अथ निरुक्ततत्संख्या न्यूनाधिकसंख्याकहोमप्रयुयुक्षायां तु पूर्वापरसंख्या नुपातेन कुण्डमान कल्प्यते । यथा-चतुःसहस्रहोमे चिकीपिते पूर्वसंख्या सहस्रम् । सहस्रहोमे हस्तमात्रस्य कुण्डस्य- क्षेत्रफल षट्सप्तानि पञ्चाङ्गुल- शतानि (५७६) उत्तरसंख्या स्वयुतम् । अयुतहोमे द्विहस्तकुण्डस्य क्षेत्रफल द्वापञ्चाशान्येकाशाङ्गुलेशतानि (१९५२) तथा च नवसहस्त्रात्मके पूर्वापरसं- ख्यान्तरे यदि पट्सप्ततानि पञ्चाङ्गुलशतानि क्षेत्रफलतया लभ्यन्ते तदा त्रिसहस्रात्मकेंन्तरे कियलभ्यमित्यनुपातेन द्वानवतं शतं (१६२.) प्रमाणान्तरं लभ्यते । तत्र षट्सप्तत्युत्तरपञ्चशतयोगादष्टषणयुत्तरसप्तशती ( ७६८ ) क्षेत्रफलं. भवतिः। तस्य च. वर्गात्मकस्यः मूलं सप्तर्विशत्यङ्गुलानि, पञ्न्क (२८) ययाः, पञ्च यूकाः, पञ्च लिक्षाः स्युः । (२७ । ५१५ । ५) तदेवात्र चतुःसहस्रहोमे कुण्डमानमिति सिद्धम् ।। एवमेवान्यनान्यत्रापि न्यूनाधिकसंख्यायां कुण्डमान संपद्यते । तञ्च कानि- चिदगुलयवयूकालिक्षावालाग्रक्रमेण प्रदर्श्यन्ते ॥ दश ढोमे द्वादशाङ्गुलम् । विंशतिहोमे चतुर्दश पडेकं वे द्वे च । त्रिंशद्धोमे सप्तदश शून्यं पड तिस्रो द्वे च । चत्वारिंशद्धोमे ऊनविंशतिरेकमेकंपञ्च त्रीणि च । पञ्चाशद्धोमे एकविंशतिरिति । पपिहोमे एकविंशतिद्वौतिनः परपट् च । सप्ततिहामे एकविंशतिश्चत्त्वारः सप्तका प्रीणि च । अशीतिहोमे एकविंशतिः सप्त द्वे तिस्त्र इति।नवतिहोमे द्वाविंशतिरंकः पञ्चतिनश्वत्वारि च ॥ अथ शतहोमे द्वाविंशतिश्चत्वार इति । द्विशतहोम द्वाविंशातेः पञ्च द्वे सप्तेति ॥ त्रिशतहोमे द्वाविंशतिः पट पञ्च पडिति । चतुःशतहोम प्रयोविंशतिः शुन्यं शून्यं पञ्चति । पञ्चशतहामे प्रयोविंशतिरेकस्तिनस्तित्र एकश्च । पट्शतहोमे प्रयोविंशतिद्वौं पट शून्यं पञ्च च । सप्तशतहोमे त्रयोविंशतिश्चत्वारः शून्यं पञ्चैकं च। अपशतहामे प्रयोविंशतिः पश्चतिन एका पञ्च च । नवशतहोमे अयोविंशतिः पट् पञ्च परिति ॥ - अथ सहस्रहोमे चतुर्विशतिरिति । द्विसहने पञ्चविंशतिद्वा तिस्रः शून्य पञ्च च । त्रिसहने पविशतिश्चत्वारो द्वे शून्यं सप्त च । चतुःसहस्रे सप्तविंशतिः पञ्च पञ्च पञ्चेति । पञ्चसहस्नेष्टाविंशतिः पट् पट् शून्यं पञ्च च । पट्सहस्र ऊनविंशतिः सप्ततिस्त्रश्चतस्र एकं च । सप्तसहस्रे त्रिंशत् सप्त षट् सप्त पट् च । अष्टसहस्र द्वात्रिंशदिति । नवसहने द्वात्रिंशत् सप्त सप्त शून्यं त्रीणि च । अथायुतहोमे त्रयस्त्रिंशत् सप्त चतन एकापट् च । द्वययुते पट् त्रिंश- दिति । व्ययुते सप्तत्रिंशत् सप्तवतस्रश्चतस्रः सप्त च । चतुरयुते ऊनचत्वारिंशत् पट तिन एका चत्वारि च । पञ्चायुते एकचत्वारिंशञ्चत्वारश्वतम्रस्तिस्रस्त्रीणि च । पडयुते द्वाचत्वारिंशत् सप्ततिस्रः पञ्चैकं च । सप्तायुते चतुश्चत्वारिंशद्वौ- शून्यं द्वे इति । अष्टायुते पञ्वचत्वारिंशश्चत्वारो द्वे द्वे त्रीणि च । नवायुते पर- चत्वारिंशत् पड द्वे एका सप्त च ।

(२६ ) अथ लक्षहोमेऽष्टचत्वारिंशदिति । द्विलक्षे ऊनपञ्चाशद्वौ चतस्र एका द्वे च । त्रिलक्षे पञ्चाशञ्चत्वारः पडेकैकं च । चतुर्लक्षे एकपञ्चाशत् पट् षडेकैकं च । पञ्चल त्रिपञ्चाशच्छून्यं चतस्र एका षट् च । षड्लने चतुःपञ्चाशद् द्वौ शून्यं पञ्चेति । सप्तलक्षे पञ्चपञ्चाशत् प्रयस्तित्र एका पञ्च च । श्रष्टलक्षे षड्पञ्चाशश्चत्त्वारश्चतस्रास्तस्रो द्वे च । नवलक्षे सप्तपञ्चाशद् द्वौ पञ्च षट् षट् च । श्रथ प्रयुतेऽष्टापञ्चाशत् षड़ द्वे तिनश्चत्वारि चेति दिक् ॥

( ३०) कुएडभुजाकुलमानम् आहुति संख्या कुण्डस्य हस्तमानम् अं० | य० यू० लि० | वा० . ० १० १२ हस्तार्द्धः . ० २० १४ ६ १ २ २ ० ३० १७ ६ ३ २ ४० २ ५ سد . ५० | २१ रनिहस्तः २ ६० २१ w mr २१ ४ १ سع ८० २१ ७ २ mr ९० २२ १ ५ ४ १०० | २२ ४ २०० २२५ २ ७ ३०० | २२६ ५ w ४०० | २३ ५ ३ ५०० २३ १ ३ १ . ६०० २३ २ ur ५ (३१) कुण्डभुजांगुलमानम् आहुतिसंख्या कुण्डस्य हस्तमानम् अं०] य०यू० लि० | वा० ७०० २३ ४ ५ ८०० २३ ५ ३. ५ १०० | २३ ६. ५ wr ० . १००० 30 एको हस्तः . २००० २५ २ ३ ५ ४ ३००० २ . ५ २७ ५ ५ . २८ ५००० w ६ ५ ६००० २४ سن ४ १ w w . ७०० ८.०० |३२ १००० ३२ ७ १०००० ३३ ४ ६ | द्वौ द्वौ हस्तौ २०००० . . ३०००० ३७ ७ ४ ४ (३२) -- कुण्डभुजांगुलमानम् आहुतिसंख्या कुँएडस्य हस्तमानम् अं० य०यू० लि० वां० ४०००० ३६। ६ C ५०००० ४ ४ ३ سد त्रयो हस्ताः ६०००० ४२ ५ ܒܫ܂ ७०००० 20 ४ २ २ ८०००० ४५ ४ २ २ ३ ९०००० ४६ ६ २ १००००० ४८ चत्वारो हस्सा . 20 २ ४ or २ ३००००० ४ ur १ १ ४००००० ६ ६ १ १ ५००००० ५३ ६ पञ्चहस्ता: ६००००० ५४ २ ५ ७ ०००० ५५ ३ १ ५ ३ २ 8००००० ७ ૨ ५ ६ ६ १०००००० ।५८ ६ ૨ ४ पढ़स्ताः (३३) इदं चतुरस्रकुण्डविपयं सर्वमुक्तम् । योन्यादिकुण्डेषु पुनरित्थं मार्यम् । यावन्तो हस्ता आहुतिसंख्यानुसारेण कुण्डे चिकीर्पिताः स्युस्तावद्धस्ताङ्गुल- मितं मानदण्डं यजमानपञ्चमांशात्मकहस्ताङ्गुलैमित्या समं संपादयेत् । तत्र मानदण्डे चतुर्विंशत्यंशकाः कार्याः । तदङ्गलमानं स्यात् । तैरैजुलैः साईद्विय- चाधिकत्रिंशदाद्यङ्गुलमानं कृत्वा योन्यादिकुण्डरचना कार्या । वातनाभिकएठमे- खलायोनिरूपाणि पञ्चाङ्गान्यपि तेषु तैरेवाङ्गुलैः संपाद्यानि । इति दिक् ॥ एतच्च सर्वविधकुण्डानां न्यूनाधिकमानसंपादनं धजादिशुभाव संपत्य क्रियते । अष्टौ ह्याया वास्तुशास्त्रे निरूपिताः । अायो दैर्घ्यहतव्यासेऽष्ट भक्त शेषतः क्रमात् । ध्वजधूमौ च सिंहः वा गोखरौ गजवायसौ ॥ तत्र ध्वजसिंहवृषगजाधिपमा आयाः सर्वत्र शस्ताः । समारतु धूम- शुनकरातमध्यांक्षा अनिष्टकराः । कुरडे तु ध्वजधूमौ शस्तौ । तयोरपि ध्वजा- योऽतीवशस्त इत्याहुः । तदुक्तं विश्वकर्मणा- । स्थापने सर्वकुण्डानां ध्वजायः सर्वसिद्विदः। ध्वजायहीनं यत्कुण्डं प्रोकं कर्तुनिष्टकृत् ।। इति ।। आयतत्वेऽपि- गारे तथा कुण्डे धज प्रायः प्रशंस्यते। इत्याहुः । ध्वजायालाभे धूमायेऽपि कार्यम् । तदुक्तं शारदायाम्- ध्वजापरहितं कुण्डं सलक्षणमपि त्यजेत् । अन्ये धूमायमिच्छन्ति दैवज्ञाः कुण्डकर्मणि ॥१॥ अग्निस्थानं होमकुण्डं शालापाकगृहाणि च । धूमे कुर्यात् प्रयत्नेन याज्ञिकानां गृहं तथा ॥ २ ॥ इति ।। वस्तुतस्तु धजायस्यात्र प्रशस्ततमत्वेऽपि कुरजसिद्धौनात्यन्त दस्यापेक्षा । हस्तमात्रे क्षेत्रे चतुर्विंशतिवर्गस्याटभागानिःशेषता प्राप्तौ वायसाय सत्वेऽपि धजायासंभवात् । तस्यानादेयतापत्तेः । यत्तु कुण्डप्रदीपे ध्वजायंसपत्यथ तत्र- ५ ( ३४ ) यूकामात्रं सर्वभुजेष्वत्रिक कार्य यथा त्र क्षेत्रफलेऽष्टभक्त किञ्चिदगुलात्मक- मवशिष्टं स्यादित्युक्तम् । यथा वा- ध्वजायप्राप्तये तिर्यगूर्वमेकाङ्ग्लीयकम् । निरखनेत् सर्वकुण्डानां ध्वजायः कार्तितो बुधैः ।। प्रति शारदायाम् ॥ यावान् कुण्डस्य विस्तारस्तावानरायाम ईरितः । तिर्यगू_ध्वजायार्थ खन्यमेकाङ्गुलाधिकम् ।। इति कुण्डमण्डपे व्याख्यातम् ॥ तत्प्रमाणभावादनादेयम् । चतुर्विशत्यन- लात्मकभुजमानस्यैव शाखसंमतत्त्वादपेनाप्याधिक्ये यज्ञशास्त्रविरोधापत्तेः । "नोपदध्यानेदतिरेचयानीति । एतावद्वा एतद्देवा भकुर्वन्" इति श्रुत्या अक्षेऽ- तिरिक्तफरणस्य विप्रतिपिद्धत्वात् । अपि च मुदिष्टकादिम पकुण्डनिर्माणप्रसझे न्यव यूका लिक्षादिमानेन न्यूनाधिकताया देवैरपि दुर्विशेयत्वं मन्यामहे । श्रतएवे. दृशी सूचमेक्षिका तथा तत्कृतदुष्करव्यापारेण कर्मणो जटिलीकरणं च पुरोडा- शाश्वखुरत्वन्यायेन श्रुत्या प्रतिविध्यते । तथा हि पुरोटाशं प्रकृत्य-"अश्वशफ- मात्र कुर्यादित्युहैक आहुः । कस्तद्वेद यावानश्वशकः ! यावन्तमेव स्वयं मनसा त सत्रा पृथु मन्येत, एवं कुर्याद" इति श्रूयते ॥ एवमिहापि कस्तद्वेद यदिह थूकालिक्षादिभिरन्यूनमनतिरिक्तं चास्तीति । तस्मादिह यूकालिक्षादिभियूं: नाविकताभिमानो मिथ्याव्यामोहमानमतस्तदुपेक्ष्यते । तथा च ध्वजायालाभेऽपि- यथोक्तप्रमाणेन साधितानि कुराडानि सिध्यन्तीति दिक् ।। अपि चाथर्वणवेदानुसारेण तिलो विद्या इप्यन्ते-दैवविद्या, अथर्वविद्या, लोकविद्याचति । एपा हि प्रकृतिभगवती यथायथमिदं जगचक्रवालमनवरतं यया निपत्या निर्वाहयति-उत्पाद्योत्पाद्य पुनः संहारयति तद्विशानं दैवीविद्या । यथा सूर्यचन्द्रपृथिव्यादिसृष्टिः सुवर्णरजतादिसृष्टिः भेषवृष्टिरित्यादयोऽर्था दैव्या नियत्या संपद्यन्ते । अथ मनुष्याणां स्वप्रतिकूलप्रकृतिप्रवाहस्य प्रकृत्यन्तरप्रवाह- योजनया निरसनं तथा स्वानुकूलप्रकृतिप्रवाहस्य स्वाभिमुखीकरणं चेत्येवमादयो- र्था यया निपत्या कर्तुं शक्यते ताशनियतिविज्ञानमाथर्वणीविद्या । यथाऽवरोधे यथा यथा मेघवृष्टिकरणं, वन्ध्यायाः पुत्रोत्पादनं, गृहच्छत्रादिनिर्माणं चाथर्वण्या संपाद्यते अथ तत्तद्देशविशेषे तत्तल्लोकैः स्वदेशपात्रानुकूलव्यवहारसिध्यर्थ बहवोऽर्थाः प्रकल्प्य प्रकल्प्य व्यवहारे नियोज्यन्ते । यथा कुडवप्रस्थाढकद्रोणादिमानानि, यूकायवागुलहस्तादिमानानि, वराटिकाताम्रपणपुराणिका- कार्यापणसुवर्णमुद्रादिमानानि; तेषां तत्तत्कल्पनामूलकं तत्तन्नियतिविज्ञानं लोकविद्यानाम । तासामासां विद्यानामयमायो दैवविद्यार्थोऽथर्वणविद्यार्थो वा स्यात् । अङ्गुलहस्तादिमानप्रकल्पनं तु लोकविद्यार्थः । स च लोकप्रतिपत्तिभेदेन तत्तद्देशे प्रभिद्यते । यथेहदेशेऽगुलहस्तादिमानेन व्यवहाराः प्रवर्त्यन्ते । देशान्तरे पुनरिञ्चफुटादिमानेन व्यवहाराः प्रवृत्ता दृश्यन्ते । तत्र हस्तमानेन हस्तमात्रे कुण्डे ध्वज आयः संपद्यते । अगुलमानेन वायसायः । इञ्चफुटमानेन तु तत्र चतुर्थः शुनकायः स्यादित्यव्यवस्थायामप्रतिपत्तिर्भवति । न च तत्तद्देशे स्वेच्छा- प्रकल्पितमानक्रमानुरोधेन तत्र तत्रायफलोत्पत्ती वैपम्योत्पादनं विज्ञानानुमोदितं संभाव्यते । लोकविद्यार्थानां दैवविद्याथैः सह संप्रयोगस्यानवलुप्तेः । तस्मादवि- शानमेतत् । अतएव ध्वजायालाभेऽपि यथोक्तप्रमाणेन- साधितानि कुण्डानि सिद्धयन्त्येवेति सिद्धम् ।। इत्यायप्रतिपत्तिसाधनम् ॥ अथ क्षेत्रसाधनम् ॥ १॥ कुण्डानामाकारप्रकारः क्षेत्रम् । कुण्डः स्वविग्रहेण यावन्तं प्रदेशमाकामति तत् क्षेत्रम् । तत्र सर्वाधिकार साधारणं सर्वकामप्रदं सर्वविधकुण्डानां प्रकृतिभूतं चतुरनं कुण्डमादौ व्याख्यास्यामः । कुण्डस्य यावान् विस्तारो विवक्षितस्ततो. द्विगुणा रजुमुभयतः पाशां कृत्वा, तत्र विस्तारार्धे शकुनिमित्तं विस्तारार्धार्धे तु कर्षणनिमित्तं चिह्न कृत्वा, तां रखं प्राच्यन्त शंकुद्वये प्रोतां कुर्यात् ॥ ततः कर्ष. णचिह्न दक्षिणाकृप्य शंकुनिमित्त शंकुं निखन्यात् सा दक्षिणा श्रोणिः । एक मुत्त-- रतः । श्रथ पाशौ विपर्यस्य तथा करणे दक्षिणोत्तरावंसौ भवतः । तेन चतुरन संपद्यते। . केचित्तु चतुरस्रसाधने प्रकारान्तरमाहुः । दिक्साधनविधया पूर्वापररेखां दक्षिणोत्तररेखां च निष्पादयेत् । ताइशरेखामान्तचतुष्टयस्य प्रत्येक पार्श्वये (३६) चिकीपिंतपरिमाणस्या मर्द्ध निधाय तत्सन्धौ कोणचिह्नानि कुर्यात् । ततः कोणचिढेषु सूत्रचतुष्टयनिपातनाचतुरस्त्रं संपद्यते इति ॥ यथाकथंचिद्वा चतुर्विंश- त्यगुलैश्चतुर्भिर्भुजः समकर्ण चतुरस्रं निष्पादयेत् । न्यासो यथा- अथ योनिकुण्डम् ॥ २॥ घेद्या श्राग्नेयदिशि योनिकुण्डं संपादयेत् । चतुरस्रक्षेत्रव्यासस्य द्वानवतं शतमंशानां कृत्वा तादृशा ऊनविंशतिर्भागा उत्तरश्रोण्यामूनविंशतिरेव दक्षिण- श्रीयां पुरस्तात् कोणाश्रिता वर्द्धनायाः । ते चोनविंशतिर्भागा यवत्रयोपेतेनाङ्गु- लिद्वंयेन तुल्या भवन्ति । तथा हि हस्तमात्रे कुण्डे चतुर्विशत्यगुलः क्षेत्रव्यासो भवति । अझगुलं त्वयवात्मकम् । तेन द्वानवतं शतमेव यवास्तत्र क्षेत्रव्यासो निष्पद्यते । तेषु चोनविंशत्या यवैः श्रोण्या अभिवृद्धिः कार्यो श्रोण्या रमपर्यन्तं सूत्रद्वये स्थिते त्रिकोणं भवति । मध्यावद्धितश्रोण्यापर्य्यन्तं विततस्य सूत्रस्थाई कृत्वा तदाधारण बहिवृत्ताई भ्रामयेत् दक्षिणतश्चोत्तरतश्च । तथा च योनिकुण्ड ( ३७) संपद्यते ॥ तच्चेदं हस्तमात्रं योनिकुण्डं स्यात् । द्विहस्तादिकुएडेपु त्वगुलस्य पारिभापिकतया यवा अपि पारिभापिका एव ग्राह्याः । द्वानवतशतात्मकस्य क्षेत्रव्यासभागस्यैवेह यवत्वेनेप्यमाणत्वादित्यूह्यम् ।। अथवा चतुरस्रक्षेत्रे नैऋत्यकोणसूत्रस्य वायव्य कोणसूत्रस्य च क्षेत्रमध्यात् फोणपर्यन्तमौ भागाः कायाः । तत्र क्षेत्रमध्यारब्धपञ्चमभानान्ते सूत्रं दत्वा ताशपञ्चभागपरिमितसूत्रत्रिज्यया चहिर्वृत्तार्थ नैऋत्यकोणे वायुकोणे च संपादयेत् । तेन योनिकुण्डं संपद्यते । केचित्तु प्रकारान्तरमाहुः । समचतुरस्त्रक्षेत्रस्य पश्चिमरेखामध्यात् पूर्वरेखा- मध्यभेदिनी क्षेत्रसूत्र पंचमांशेन० । ३८ । ३ । यूकात्रयोपेतपड्यवाधिकचतुरङ्ग लामोनाधिकांगर्भरेखामालिख्य नैत्यदेशे कोणसूत्रस्थतुरीयांश चिह्नं कृत्वाञ्च ह्रो परिविन्यस्तादेः सूत्रस्य पूर्वोक्तगर्भरेखामूला वन्यस्तं प्रान्तं परिभ्रम्य बहिर्वृत्तार्द्ध- निष्पादयेत् । एवं वायव्यकोणेऽपि वहितार्द्ध रचयेत् । ततो गर्भरेखाप्रान्ताद् वृत्तद्वयप्रान्तस्पर्शिसूत्रद्वयं निपात्य पिप्पलपत्राकारं योनिकुण्डं विदध्यादिति ॥ परे त्याहुः । यथाकथंविद्वा सार्द्धद्वियवाधिकैस्त्रिंशदगुलैस्त्रिभिर्भुजैस्त्रि- कोणं प्रागनं कुर्य्यात् । तत्र पश्चिमदिशि यो भुजस्तस्या? कृते जातयोर्दलयोः पश्चादर्द्धचन्द्राकारौ द्वौ नितम्बौ तद्दलार्द्धत्रिज्यया कर्कीटकेन संपाद्यौ ॥ तत इत्थं साविते क्षेत्रे खातं नाभि कण्ठं तिस्रो मेखलाश्च प्राग्वदचयेत् । योनि तु योनिकुण्डेन कुर्य्यादिति बहवः ॥ न्यासस्तद्यथा- - > (३८) अथार्द्धचंद्रकुण्डः ॥ ३ ॥ घेद्या दक्षिणदिश्यर्द्धचन्द्रं संपादयेत् । चतुरन्न क्षेत्रव्यासस्य चतुर्विंशयं- शान् कृत्वा सार्द्धभागद्वयमधः सन्त्यज्य पोडशांशहीनं साईभागद्वयं चोपरिपात्. संत्यज्योभयत्र चिद्वं तत्र तत्र कृत्वोपरि चिहे तिर्यग्दक्षिणोत्तरज्यासूत्रं दत्वा चिवद्वयान्तरसूत्र त्रिज्ययोपरि चिन्हस्य सूत्रेण वृत्तार्द्ध भ्रामयेत् । ततोऽर्द्धचन्द्रं कुराडं भवति ॥ प्रकारान्तरं यथा--चतुरस्रक्षेत्रं नवधा विभज्य तत्राद्यन्ती भागौ त्यक्त्वा अवशिष्टसप्तभागादिमरेखा गर्भदेशे सूत्रादि नियाय तस्यैव भागसप्तकस्यान्तिम- रेखा गर्भदेशे सूत्रान्तं निवेस्य तत्सूत्रपरिभ्रमणेन प्रथमरेखातुल्यविधान्तप्रान्तं वृत्तार्द्ध रचयेत् । अथ प्रथमरेखाप्रान्तद्वयमपि वृत्ताः संयोज्य चन्द्रार्द्ध संपा- दयेत्।। परेवाहुः । यथाकथंचिद्वा सपादयवयुक्तैकोनविंशत्यगुल (१६ । १ । २) व्यासार्द्धमानेन वृत्तं कृत्वा तदर्द्ध कुर्यात् । तदर्धचन्द्रं. संपद्यते ।। इत्थं साबिते क्षेत्रे खातादीनि पञ्चाङ्गानि यथायथं रचेत् ।। तत्र दक्षिणमेखलासूत्तराभिमुखी योनि विन्यसेत् ।। न्यासो यथा- T अथ त्रिकोणकुण्डः ॥ ४ ॥ घेद्या नैऋत्यभागे त्रिकोणकुण्डं सम्पादयेत् । समचतुरस्रक्षेत्रव्यासचतुर्वि- शांशप्रमितान् पञ्चभागान् श्रोण्योः पृथक् परिवर्ध्य दशभागानष्टमांशविकलान् पुरस्तात् संवर्ध्य तेपु पातितैत्रिभिः सूत्रैस्त्रिकोणकुण्डः संपद्यते ॥ परे त्वाहुः-समचतुरस्रक्षेत्रस्य पश्चिमरेखामध्यात् पूर्वस्थितरेखामध्यमे दिनी क्षेत्रसूत्रतृतीयभागाधिका गर्भरेखामालिख्य पश्चिमरेखामांतवयमपि क्षेत्र ( ३६) सूत्रतृतीयभागाधिकं कुर्यात् । ततो गर्भरेखामान्तात् पश्चिमरेखाप्रान्तद्वयस्प. शिसूत्रद्वयं निपात्य त्रिकोण संपादयेत् ।। परे त्वाहुः--यथाकथंचिद्वा सार्द्धषट्त्रिंशदगुलै ( ३६ । ४) स्त्रिभिमुंजे त्रिकोण संपादयेदिति ॥ इत्थं साविते क्षेत्र खातादीनि पञ्चाङ्गानि यथायथं रचयेत् ।। तत्र पश्चिममेखलासु पूर्वाभिमुखी योनि विन्यसेत् ।। तद्यथा-- N अथ वर्तुलकुण्डः। वेद्याः पश्चिमदिशि वृत्तं संपादयेत् । समचतुरस्रक्षेत्रव्यासपोडशांशप्रमित भागमेकं पुरतः संवर्ध्य मध्याधारण वर्धितचिह्नत्रिज्यया मण्डलं कुर्य्यात् । तेन वृत्तकुण्डः संपद्यते ॥ अन्ये त्वाहुः-चतुरस्रक्षेत्रे कोणात् कोणान्तरगामिनः सूत्रस्यार्द्ध कोणार्द्ध- शब्देनोच्यते । कोणार्द्धस्याप्टयाविभक्तस्य यावानष्टमी भागस्तावन्तं भागं चतुर्दिनु वहिविन्यसेत् । ततः क्षेत्रगर्भदेशे सूत्रादि निधाय वहिः स्थिताष्टमभागं विन्यस्तं तस्यैव सूत्रस्य प्रान्तं सर्वतः परिभ्रम्य वृत्तकुण्डं संपादयेत् ॥ परे त्याहुः-यथाकथंचिद्वा सपादचतुर्यवयुक्तत्रयोदशागुलव्यासार्द्धमा- नेन (१३ । ४ । २) वृत्तं कार्यम् । तवृत्तकुण्डं स्यादिति ॥ इत्थं साधिते क्षेत्रे खातादीनि पञ्चाङ्गानि यथायथं रचयेत् । तत्र पश्चिममेखलासु पूर्वाभिमुखीं योनि विन्यसेत् ॥ तद्यथा- श्रथ षट्कोणकुण्डः । ६ वेद्या वायव्यभागे षट्कोणं संपादयेत् । चतुरस्रक्षेत्रे गर्भसूत्रस्य द्वानवतं शतमंशानां कृत्वा तथाविधैः पञ्चविंशत्यशैरुभयतो वर्द्धितस्य दक्षिणोत्तरसूत्र- स्य पूर्वस्य यौ प्रान्तविन्दू स्तयोरधस्तात् सप्तविंशेऽशे मत्स्यतश्चिह्नयेत् ।

(१०) पश्चिात्यस्य तु तस्य चोप्रान्त विन्दूतयोरू लप्तविंशेऽशे मत्स्यतश्चितयेत्।श्रथ पूर्वतः पश्चिमतश्चानाधिशदेशवृद्धौ दक्षिणोत्तरपूर्वभागस्थान्मत्स्यद्वयादारभ्य पुरो वर्द्धित- विहं या सूत्रं दद्यात् । तथा दक्षिणात्तरपश्चिमभागस्थान्मत्स्यद्वयादप्यारभ्य पश्चातचिहं यावत् सूत्रं दद्यात् । मत्स्योः पाश्वंद्यपि सूचदानात् पदकोणं संपद्यते ॥ प्रकारान्तरमप्याहुर्यथा समचतुरनक्षेत्र स्वपष्ठांशमानेनोत्तरतो दक्षिणतश्च वयित्वा तदायतचतुरन्नं संपादयेत् । तस्मिश्च दक्षिणोत्तरायता गर्भरेखां रचयेत् । गर्भरेखाया मध्यविन्दोस्तदुत्तरप्रान्तविन्दोश्च समभुजत्रिकोण पूर्वेशान्यन्तराले पश्चिमवायव्यान्तराले च मत्स्यमुत्पाद्य संपादयेत् । एवमेव गर्भ रेखामध्यात् तदक्षिणप्रान्ता समत्रिकोणं पूर्वाग्नेयान्तराले पश्चिमनैऋत्यान्तराले च मत्स्पेन संवादयेत् । तदित्यं चत्वारो मत्स्या द्वौ च गर्भरेखा प्रास्तारित्येतेषु पन्यु कोणविन्दुपु पाणां योगसूत्राणां निपातनात् पट्कोणं संपद्यते।। परेवाहुः-यथा कथंचिद्वा साईचतुर्यवयुक्त कविंशदङ्गुलै स्त्रिभि जै (३१ । ४१४ स्त्रिकोणमकं प्राङ्मुखं संपाद्य तावता मानेनेवार प्रत्यङमुखं त्रिकोण संपादयेत् । तयोश्च प्रामुखप्रत्यङ्मुखयाईयो त्रिकोणयोरूधिो गेन विन्य- स्तयोरन्योन्येन तृतीये भागे परियोजनात् पटकोण संपद्यते । ततो वाद्यकोण- परकपर्यन्तं खात्या कुण्डं संपादयेदिति ।। इत्थं साविते क्षेत्रे खातादीनि पञ्चाङ्गानि यथायथं रचयेत् । तत्र पश्चिम मेखलासु पूर्वाभिमुखी योनि विन्यसेत् । तद्यथा-- ♡ XA (४१) अथ पद्मकुण्डः । ७ वेधा उत्तरतः पद्मकुण्डं संपादयेत् । चतुरस्रक्षेत्र पूर्वापरतो दक्षिणोत्तर- तश्चाष्टधा विभज्य क्षेत्राद्वहिरप्यष्टमभागेन चतुर्दिक्षु वर्द्धयेत् । ततः क्षेत्रमध्यादष्ट- भांशत्रिज्यया कृतं प्रथमं वृत्तं कर्णिका स्यात् । पुनर्द्वितीयेनाष्टमांशेन वर्द्धितया त्रिज्यया कृतं द्वितीयं वृत्तं केसराणि स्युः । पुनस्तृतीयेनाष्टमांशेन वर्द्धितया नि- ज्यया कृतं चतुर्थ वृत्तं दलकोटयः स्युः । दलानामुपरितनीभूमिदलकोटिः । मध्यतश्चतुर्थेऽष्टमांशे चतुरस्त्रक्षेत्रं परिसमाप्यते । ततः क्षेत्राद्वहिः परिवर्द्धितेन पञ्चमेनाष्टमांशेन वतिया त्रिज्यया कृतं पञ्चमं वृत्तं दलायाभूमिः स्यात् । पञ्च- स्वतेषु वृत्तेपु सर्वत्र वृत्रद्वयपाल्योरन्तरं व्यङ्गुलं द्रष्टव्यम् । हस्तमात्रे क्षेत्रे क्षेत्राटमांशस्य व्यङ्गुलात्मकत्वात् । फेचित्तु पञ्चभिः पोडशाशैहीनस्याऽटमांशस्य क्षेत्रावहिः समन्ताद्वृद्धिमिच्छन्तः सार्द्धसप्तयवैीनं व्यङ्गुलं चतुर्थपञ्चमवृत्त- योरन्तरमाहुः । तथा च तन्मते दलकोटिदलाप्रवृत्तयोरन्तरं चतुकाधिकहत्य- गुलं द्रष्टव्यम् (२१ ० १ ४) इयतैवान्तरेण चतुरस्त्रक्षेत्रतोऽपि वल्दैिलाग्राणि स्पर्शयेत् । श्रथ काणेकां स्वविस्तारतुल्योच्चां विहाय खनेत् । तर्विदमष्टदलं चतु- दलं वा पमं संपद्यते ॥ प्रकारान्तरेणापि तन्निर्माणमुच्यते । प्रतीच्यामिवान वृत्तकुण्डं विधाय तवृतान्मेरवलाभ्यन्तरस्थादन्तरतः समभागं वृत्तत्रयं कुर्य्यात् । तेन मेखलाभ्यन्तरे वृत्तकुण्डं चतुर्धा विभक्तं संपद्यते । तत्र क्षेत्रमध्ये सार्धभागेन विस्तृतासार्धभागेनैव नोच्छ्रिताकर्णिका स्यात् । अवशिष्टेन सार्द्धभागद्वयेन केसरव्यतिरिक्तानि दलान्येव कुर्यात्।तेन चतुर्दलमष्टदलं वा पद्मकुण्डं संपद्यते॥अथवा वृत्तकुण्डं विधाय तन्मध्ये यथाविभागं दलानि कृत्वा पद्मकुण्डं कुर्यादित्याहुः ॥ परे त्याहुः-यथाकथंचि- द्वासार्द्धद्वादशागुलव्यासार्द्धन (१२ । ४) पूर्वमेकं वृत्तं कृत्वा सपादयवयुक्त- पञ्चदशाङ्गुलैः पुनरपरं वृत्तं कुर्यात् । (१५ । १।२ ) ततः केन्द्रात् ककार्ट प्रसार्या वाह्यवृत्तेऽभ्यन्तरवृत्ते चाष्टौ दिचिह्नानि कृत्वा मध्यवृत्ताद्दिगन्तपर्यन्तं दिचिह्नानां मध्यतोऽष्टौ व्यस्त्राणि कार्याणि । तेनाप्टदलं पद्मकुण्डं संपद्यते ॥ तत्र खातादीनि पञ्चाङ्गानि यथायथं रचयेत् । पश्चिममेखलालु पूर्वाभिमुखी योनि विन्यसेत् । तद्यथा- .... (४२) भधाष्टकोणकुण्डः । घेद्या ऐशानी भागेष्टास्नकुण्ड संपादयेत् । चतुरस्रक्षेत्रस्य पूर्वापरं गर्भ- सूत्रं पुरस्तात् पश्चाय तथा वर्द्धयेत् येनेदं गर्भसूत्र फर्णसंमितं स्यात् । कोणात् कोशान्तरस्पर्शिसूत्रं शिल्पशाने कर्णशब्देन व्यपदिश्यते । दक्षिणोत्तरं च गर्भ- सूत्रं कर्णतुल्यत्वाय दक्षिणोचरयोद्धयेत् । ततस्तेषु वर्द्धितगर्भरेखाप्रान्तेषु चतुर्यु चतुरस्रक्षेत्रकोणेषु च चतुर्यु योगसूत्रदानादष्टाश्रिकुण्डं संपद्यते । इति ग्रूमः ॥१॥ प्रकारान्तरं यथा-चतुरस्रक्षेत्रस्य पूर्वापरं दक्षिणोत्तरं च गर्भसूत्रं प्रयोद- शभागैः स्वीयद्वात्रिंशांशसहितैश्चतुर्दिनु वर्द्धयेत् । वतियोः प्रान्तयोः सूत्रदाने- नान्यञ्चतुरस्रं वाां क्रियते । ततो गर्भसूत्रं कोणसूत्रं चान्तरान्तए पुनरन्यारेखा अष्टौ कार्या: । तासामन्तररेखाणां ब्राह्मचतुरने यत्र यत्र योगस्तत्र तत्र चिह्न कृत्वा तेपु योगचिढेपु सूत्रं निपातयेत् । ततोऽष्टभुजक्षेत्रं संपद्यते ॥२॥ तृतीयं प्रकारमप्याहुः-चतुरस्रक्षेत्रं बहिश्चतुर्दिनु द्वादशभागेन वर्द्धयित्वा तत्परिमाणेनापरं बाह्यं चतुरस्रं कुर्यात् । तस्य बाह्यस्थितचतुरस्रस्य गर्भदेशाव- धिर्यावान् कर्णस्तावता मानेन संमितस्य सूत्रस्यादिवाह्यचतुरस्रसंवन्धिनि कोणे निधाय तत्सूत्रं तत्कर्णाभयपायवर्तिनार्वाह्यचतुरस्रभुजयोः प्रसार्या सूत्रप्रान्ते चिह्नयेत् । एवं प्रतिकोणं सूत्रादि निधाय प्रातिलोम्यानुलोम्येन सूत्रस्य बाह्यचतुर- स्ररेखोपरि प्रसारणात् सूत्रप्रान्तेपु चिह्नकरणात् प्रतिदिशं चिह्नद्वयसंपत्या दिक- चतुष्टये चिह्नाष्टकं निष्पद्यते ॥ तचिह्नोपरि सूत्राष्टकनिपादनादष्टाश्रिकुण्डं संपाद- येत् ।

(४३).
परे त्याहुः-यथाकथंचिता द्वाविंशत्यगुलभुजैश्चतुरन्ने कृते चतुर्विक्षु
चतुरङ्गुलैर्वृद्धिः कार्या ॥ तत् प्रान्तात् पार्श्वयोः पादोनषडगुलेषु तिर्यम्
रेखाद्वयं विरचयेत् । ततोऽष्टास्वकुण्डं संपद्यते । तत्र खातादीनि पञ्चाङ्गानि यथा-
पथं रचयेत् । पश्चिममेखलासु, पूर्वाभिमुखी योनि विन्यसेत् । तद्यथा-
urneaamansar...
।
M.ON10.
।
6.sinesMsa.a
IBRUMusMINum
AN
an
इत्थमष्टौ कुण्डानि वेद्या अष्टासु दिनु क्रमेण विहितानि । तेषां पूर्वमाग्नेय
दक्षिणं चेति त्रीणि कुण्डान्युसराग्राणि दक्षिणतो योनीनि कुर्य्यात् । इतराणि
तु नैर्ऋत्यादीनि पञ्चकुण्डानि पूर्वाग्राणि पश्चिमतो योनीनि स्युः । नवकुण्डी
करणे तु नवमं पूर्वेशानमध्यस्थं पूर्वनञ्चतुरस्त्रमुत्तराने दक्षिणतो योनिकुर्य्या-
दित्येके । पूर्वानं पश्चिमतो योनि स्यादिति परे ॥ पञ्चकुण्डयामप्येवं पूर्वेशा
नमध्यस्थं कुर्य्यादिति, कुएरप्रदीपायो । ऐशान्यां दक्षिणयोनिकं कुर्यादित्या.
म्नायरहस्यादयः ॥

(२४) "नवमं कारयेत् कुण्डं पूर्वशानदिगन्तरे । विधाने पञ्चकुण्डानामीशाने पञ्चमं भवेत् ॥" इत्युक्तेः। अथ पञ्चास्त्रकुण्ड।।। ग्रहनिग्रहादिहोमे विधानललितोपदिष्टं पञ्चास्नकुण्डं विदध्यात् । द्वादश- भागवति क्षेत्रव्यासा धीन भागान् स्वविंशांशसहितान् संवर्य तेन व्यासार्द्धन वृत्तं कुयात् । स्वपञ्चमांशयं शून्येन चतुरस्त्रव्यासेन संमिताः पञ्चज्यास्तत्र फुर्य्यात् । ज्यापाशमितैः पञ्चशरैर्युक्ताः पंचचापा यथा स्युस्तथा कृत्वा तांश्चा- पान परिमार्जयेत् । तथा च पंचाधिकुण्डं संपद्यते ॥ १ ॥ अथवा चतुरस्रक्षेत्रस्य वहिः प्रदेशे चतुर्दिनु क्षेत्रसप्तमांश विन्यसेत् । ततः क्षेत्रगर्भविन्यस्तादेर्वाह्यस्थित सप्तमांशापरि विन्यस्तप्रान्तस्य सूत्रस्य सर्वतः परिभ्रमणावृत्तं निप्पादयेत् । अथान्तर चतुरस्त्रस्य यद्देयं तत् स्वीयचतुर्थभागन्यूनं कृत्वा तावता मानेन परिमितानि पंचसूत्राणि यायवृत्तस्यान्तर्विन्यस्य सूत्रसन्धौ कोणं कुर्यात् । तानि पंचसूत्राणि प्रत्येक प्रान्तद्वयसंस्पृथ्वृत्तत्वाद् धनुर्व्याकृतीनि स्युः । ततः पंचसूत्रातिरिक्तं सर्व परिमृज्य पंचास्नकुण्डं संपादयेत् ॥ परेवाहुःयथाकथंचिद्वा पूर्वमेकादशाङ्गुलव्यासार्थेन ( ११) वृत्तं कार्य्यम् । ततः सार्धाष्टादशाङ्गुलैः ( १८ । ४) परं वृत्तं कार्यम् । ततः कृतपंचांशचिह्नादाभ्यन्तरवृत्तावाद्यवृत्ते यवाधिककादशाङ्गुलभुजैः कृतानां त्रिकोणानां पंचानां विन्यासात् पंचानं फुराउँ संपद्यते ॥ खातादिपंचाङ्गानि पूर्ववत् ॥ न्यासो यथा-~~ ....."

(४५) अथ सप्तास्त्रकुण्ड। अभिचारदोषोपशमनहोमेपु विज्ञानललितापदिष्टं सप्तकोणकुण्ड प्रयोजयेत् चतुरस्रक्षेत्रव्यासार्धे षट्त्रिंशद्भागवति सप्तभागान् संवर्ध्य वर्धितेन व्यासार्धन वृत्तं कुर्यात् । तव्यासविंशांशमितैः शरैर्युक्ता सप्तचापा यथा स्युस्तथा तत्र ज्याः सावयेत् । एपाहि ज्या नवगुणितशरमिता द्रष्टव्या। तथा च सप्ताधिकुण्ड संपद्यते ॥१॥ अथवा-चतुरस्रक्षेत्रस्य दशमभागं चतुर्दिक्षु बहिर्विन्यस्य पूर्ववद्वृत्तं कुर्यात् । ततश्चतुरस्रक्षेत्रं चतुःषष्ठया विभज्य तादृशैस्त्रयस्त्रिंशद्भागैः परिमितानि सप्त- सूत्राणि वृत्तस्यान्तर्विन्यस्य सप्तास्नकुण्डं संपादयेत् ।। २ ॥ परे त्वाहुः-यथाकथंचिद्वा यवत्रययुक्तचतुर्दशाङ्गुलव्यासार्धमानेन (१४ । ३) वृत्तं कुर्य्यात् । तत्र सपादद्वादशाङ्गुलैः (१२ । २) सप्तभुजान् विरवयेत् तेन सप्तकोणकुण्डं संपद्यते ॥ तद्यथा-इत्थं चैते कुण्डनिर्माणे यावन्तः प्रकारा आख्यातास्ततोऽप्यन्यथा बहुशः संभाव्यन्ते अन्येऽपि प्रकारा ग्रन्थान्तरेषूपलभ्यन्ते किन्तु फले विशेषाभावाजटिलप्रक्रिया उपेक्ष्यन्ते ॥

(४६) अथ खात:। उकानि दशधा कुएउक्षेत्राणि । अतः परमेषां पंचाङ्गानि खात, नाभि, कण्ठ, मेखला, योनिरूपाणि यथाक्रमं प्रदर्श्यन्त । खननं खातः । कुण्डगतः । समचतुरस्ने कुण्डे चतुरस्रो वृत्ते वृत्त इत्येवं फुण्डानुरूपं कार्यः । अपि च विस्तारतुल्यः खातो विधीयते । कुण्डस्य तिर्य्यङ्- मानं विस्तार उच्यते । तथा च हस्तमात्रे कुण्डे हस्तमात्र पूर्वापरयोदक्षिणोत्त- रयोश्च तिर्यङ्मानं भवतीत्यूधिरमानमपि कुण्डस्य हस्तमात्रमेव कुर्यादित्याहुः । तत्र खातविषये मतद्वयं भवति-प्रथमया मेखलया सहितस्य कुण्डस्योवधि- रमानं ग्राह्यमिति कृत्वा मेखलाया नवाङ्गलोच्चतया तव्यतिरेकेण पञ्चदशाङ्गुलान्य- धस्ताद् भूमि खनेत् । तथा च विस्तारतुल्यं चतुर्विंशत्यङ्गुलमेव कुण्डस्यो; धरमानं संपद्यते । उक्तं च- "कुण्डं जिनागुलं तिर्यगूर्व मेखलया सह । पञ्चत्रिमेखलोच्छ्रायं ज्ञात्वा शेषमधः खनेत् ।।" व्यासात् खातः करः प्रोक्तो निम्नस्तिथ्यङ्गुलेन तु । इति । द्विमेखलापले त्वाचा सप्ताङ्गुलेत्यतः सप्तदशाङ्गुलः खातः । एकमेखलापने पंचमेखलापले चाद्या षडङ्गुले त्यतस्तत्र खातोऽष्टादशाङ्गुलः कार्यः । तदित्थं मेखलोत्सेधान्ती वेनकुण्डोत्सेधो ग्राह्य इत्येक विश्वकर्मसिद्धान्तशेखरादिमतम् ॥१॥ अथवा मेखलानन्तर्भावन कुण्डविस्तारतुल्यः खातः स्यात् । तथा च हस्तमात्रे कुण्डे पूर्वापरयोदक्षिणोत्तरयोश्च साम्येन चतुर्विशत्यनुलां भूमि परिमा- प्याधस्तादपिचतुर्विंशत्यगुलामेव भूमिं खनेत् । न तु पञ्चदशुङ्गलमात्रम् मेखलायाः कुण्डाङ्गत्वेऽपि क्षेत्रवहिर्भूतत्वात्तदुत्सेधस्य कुण्डोत्सेधप्रवेशानौचि- त्यात् ॥ इति द्वितीय वायवीय संहिता गणेशविमर्शिनी प्रयोगलारादि मतम् ।।२॥ अनयोश्च कामचारो वैकल्पिकत्वदित्याह शारदायाम् । पक्षद्वयमिति ज्ञात्वा यथारूचिसमाचरेदिति ॥ वस्तुतस्तु द्वितीयः पक्षो ग्राह्यो बहुसंमतत्वाद्यक्तियुक्त- त्वाच । कुण्डस्य रूप जानीयात् परमं प्रकृतेर्षपुरित्यादिनाभिहिते प्रकृतिशरी- रात्मके कुण्डे मेखलानां भूषणरूपत्वेन विवक्षितत्वादनङ्गत्वात् तत्प्रवेशेन शरी- रसंस्था निर्देशानौचित्यात् । अपि च खातोऽयं दृष्टद्वारा सनिपत्योपकारक (४७) कुण्डस्याङ्गम् मेखलात्वदृपद्वारा भवत्यारादुपकारकं कुण्डस्याङ्गम् । मेखला- भिविनाश्तस्य कुण्डस्य स्वरूपतः सिद्धावण्यनिष्टफलजनकत्वं स्मय॑ते । मरणं छिन्नमेखलमिति । खातेन विना कृतस्य तु कुण्डस्य स्वरूपमेव न सिद्ध भवतीतिस्वरूपोत्पादके खाते स्वरूपानुत्पादकमेखलान्तर्भावो नावकल्पते । उक्तं च योगिनीहृदये- "खातं कुण्डायतेस्तुल्यमङ्गत्वं तस्य कीर्तितम् । संनिपत्योपकारेण मेखला बेदिरिष्यते ॥" इत्यादि । अपि चेयं मेखला क्वचिदेका क्रियते, सा चतुरङ्गुलोच्छ्रिता भवति । क्वचित्पंच क्रियते, तत्र प्रथमा नवाङ्गुलञ्छूितेत्येव मनियतरूपाणां मेखलानां प्रवेशेन कुण्डस्वरूपनिर्माणमनुगतरूपं न स्यात् । अपि च-कुण्डव्यासतुल्यः खात: कार्य इत्युपदिश्यते । कुण्डव्यासस्तु कण्ठादधस्ताचतुर्विशत्यगुलः । कण्ठादुप- रिष्टा पर्विशत्युङ्गल इति मेखलान्तर्भावेण कुण्डस्वरूपाभ्युपपत्तौ पड्विंशत्य- गुलः खातः प्रामोति । तद्यानिष्टम् । तस्माद् द्वितीयः पक्ष एव साधीयानिति कुण्डरत्नाकरादयः प्राहुः ।। मेखलानन्तर्भावेन कुण्डविस्तारतुल्या खातः स्यात् । हस्तमात्रे कुराडे खातोऽयमाख्यातः । द्विहस्तादिष्वप्येतावानवेखातः कार्यो न तु क्षेत्रवृद्धिवत् खातवृद्धिरिहेष्यते । कण्ठमेखलादिवत् खननस्याप्यङ्गतया तद्रू- हेरविवक्षितत्वात् । चयनश्रुतौ सप्तविधायेकशतविधपर्यन्तं पुरुषवृद्धावपि तोष्टकाचयनवृद्धरकल्पनवत् ॥ परेतु- चतुर्विंशतिम भागमगुलं परिकल्प्यतु । चतुर्विशाहगुलं हस्तं कुण्डानां परिकल्पयेत् ॥ १॥ हस्तमात्रं खनेत्तिर्यगूर्व मेखलया सह ॥ इति मोहचूडोत्तरशास्त्रादिषु खातादिमानार्थ पारिभाषिकमङ्गुलमानमिष्यते । तेन चिकीर्षितकुण्डक्षेत्रं चतुर्विंशतिधा विभज्य यावान् चतुर्विंशतितमोभाग:. स्तावत्परिमाणमङ्गुलं परिकल्प्य तादृशाङ्गुलानां चतुर्विंशत्या हस्ते परिकल्पयेत् । तेन हस्तेन परिमितं सर्वकुण्डानां तिर्यक् खातमानं विधाय मेखलासहितस्य खातस्य तेनैव हस्तेन परिमितमूर्वमानं विदध्यादित्याहुः ।।

(४८) । अथ कराठः । . फएठ योष्ठ इत्येकोऽर्थः । स च खातस्य पहिभागे खातमेखलयोरन्तराले चतुर्दिनु परितः समः कुण्डन्यास चतुर्विशांशेन द्वादशांशेन कार्यः । तेन हस्त- माकुण्डे एकाकुलो यद्गुलो वा फण्ठो व्यवतिष्ठते । तत्र वहिरेकाकुलः कण्ठो व्यङ्गुलः कचिदागमे इति सोमशंभुवचनाद्विकल्पः । केचित्तु पार्यद्वयस्थि- तैकाङ्गुलफण्ठद्वययोगाद् द्वयगुलस्वमुक्तामित्याहुः । वस्तुतस्तु-कण्ठस्य द्वयकुलत्वं फामिकादितान्त्रिकमतेनैकमेखलापक्षे नेयम् । तत्साहित्येनैवाक्तेः । यथोक्तं कामिके- क्षेत्राकाशेन तस्योष्ठः स्यात्तद्वदतु भागतः । मेखला पृथुतोच्छ्रायः कुण्डाकारा तु मेखला ।। सर्वेषां तु प्रकर्तव्या मेखलैकात्र लाघवादिति । यत्र द्वादशांशेन कएठः क्रियते तत्रैका मेखला स्यात् । तस्याश्च विस्तारः कुण्डचतुर्थीशमाने पडङ्गुलः स्यात् मेखलोच्छ्रायस्तु कुण्डस्य पष्ठभागेन करणा- धतुरकुलः स्यात् । एकाङ्गुलकण्टपक्षेऽपि कचिदेका मेखला पडङ्गुला क्रियते । : तदुक्तं प्रथमे- "कण्ठाङ्गुलाबहिः कार्या मेखलैका पडगुला । चतुस्त्रिद्वयङ्गुला यद्वा तिस्रः सर्वत्र शोभना ।।" इति । तथा चैकमेखलायचे कण्ठस्य क्वचिद् द्वय१त्वेऽप्यन्यत्र साधारण्येन सर्वत्रै- काङ्गुल एव कण्ठः कार्यः ॥ "खातादेकाङ्गुलं त्यक्त्वा मेखलानां विधिर्भवेत् । एकागुलः स कण्ठः स्यान्मेखला खातमध्यगः ।। इत्युक्तेः । वृद्धौ तु द्विहस्ते द्रव्यङ्गुलं, विहस्ते व्यङ्गुलं, दशहस्ते दशाङ्गुलमि. त्येवं नेयम् ॥ कुण्डपमाङ्गनिर्माणेऽङ्गुलमानस्य पारिभाषिकत्वात् ॥

(४६) अथ नाभिः।४ ला कुण्डगर्ने तत्तत्कुण्डाकारा क्रियते पहझाकारा वा । कुण्डव्यालस्य द्वाद- शांशेन तस्या उच्छ्रायः स्यात् षष्ठांशेन तु विस्तारायामौ स्याताम् । तेनैकहस्ते कुंण्डे द्वयङ्गुलोच्छूिता चतुरङ्गुलायामविस्तारा नाभिः संपद्यते । नाभेः पज्ञाता- रत्वे तनिर्माणप्रकारमाहुः । नाभित्रमाणस्य द्वादशांशं बहिः संत्यज्यावशिष्ट भूमि विधा विभजेत् । मध्ये प्रथमैकांशेन कर्णिका, तद्वहिरेकांशेन केसराणि, तद्वहिरे- कांशेनाप्टो पत्राणि, तद्वहिरवशिष्टद्वादशांशेन दलामाणि स्युरिति ॥ योनिकुण्डे यो- निवत् पनकुएडें नामिन कर्तव्येति बहवः प्राहुः ॥ अथ मेखला ॥५ . कएत्तोऽपि वहिभीगे समन्ततो वृत्तिरूपा मेखला क्रियते । तत्र मतचतुष्टय. म् । एकैव स्यात्, द्वौ वा, तिस्रो वा, पञ्च चेति । उत्तमं त्विह निर्दिष्टं कुण्डं वै पञ्चमेखलम् । द्विमेखलं भवेन्मध्यं हीन स्यादेकमेखलम् ।। १॥ यद्वा मनीषिभिः प्रोत्तम स्यानिमेखलम् । द्विमेखलं भवेन्मध्यं हीनं स्यादेकमेखलम् ॥ २ ॥ इति विधानपारिजातोक्तः ॥ तत्रैकापक्ष, द्विपक्ष पञ्चपक्षाः क्वाचित्काः । एता- पो तस्याः पडङ्गुलो विस्तार श्चतुरङ्गुलस्तूच्छायो विधीयते । पिङ्गलादमते तूच्छा. योऽपि षडङ्गुल एज । "एका पडगुलोत्सेधविस्तारा मेखला मता"। इत्युक्तेः । वैश्चित् त्वेकस्या मेखलाया उच्छ्रायस्तद्विस्तारोऽपि चतुरङ्गुल एवे. प्यते । कुण्डमदीपे तथोक्तेः । द्विमेखलापक्षे तु ते द्वे मेखले पञ्चाङ्गुलाचतुरङ्गुले (५०) फार्थे ॥ क्वचित्तु चतुरझुलव्यङ्गुलरूपे द्वे मेखले विधीयते "पष्ठशिनाष्टमांशेन मेस्त्र- ला द्वितयं मतमिति तान्तरोक्तेः । तत्कामनाविशेष विहितमप्यसांप्रदायिक- वादनादेयम् ॥ अथ बहुमतेन ता मेखलास्तिनः कार्या: । तासां कण्ठतो वहिः संलग्ना प्रथमा चतुरङ्गुलम्, प्रथमातो बहिः संलग्ना द्वितीया ध्यमुलम्, तृतीया प्रत्यनुलं विस्तृता स्यात् । भत्र चतुरजुलादिकमुपलक्षणं कुण्डयष्ठांशादीनाम् । कुण्डपड्भागिका त्वाद्या द्वितीयाऽष्टांशिका स्मृता । तृतीया द्वादशांशा स्याद् इति कापिलपञ्चरात्रोतः ।। अथवा पारिभापिफमत्रागुलं द्रष्टव्यम् । तेन द्विहस्त चतुर्हस्तादिष्वपि फुरडा- नुरूपकल्पिताङ्गुलश्चतुरङ्गुलव्यङ्गुलद्वयकुला एव तास्तिनो मेखला उपपद्यन्ते । उक्तं च शारदायाम्- "कुण्डानां यश्चतुर्विंशो भागः सोङ्गुलसंज्ञकः । विमज्यानेन कर्तव्या मेखलाकण्ठनाभयः ॥ " इति । एवं प्रथमा नवाङ्गुलम्, तृतीया व्यङ्गुलमुच्छ्रिता स्यात् । यस्त्वाहुः-मेख- लाया यावानेवोच्चायस्तावानेव विस्तार इति । तत्समष्ट्यभिप्राय नेयम् । सम- पट्यात्मना हि कण्ठाद्वहिर्नवालस्थलावगाहदर्शनात् । नवाग्मुलोच्छ्रिताया मेखलाया नवाल एव विस्तारः प्रतिपद्यते। चतुरङ्गुलव्यङ्गुलद्रव्यङ्गुलानां मेखलानां योगेन सर्वसमष्टया मेखलाविस्तारस्य नवाङ्गुलत्त्वोपपत्तेः । तथा च कुण्डकण्ठतो मेख- लाया यावदृर्ध्वमानं तावदेव तिर्यमानमिति सिद्धम् ।

(५१) प्रथया-फराठोपलक्षितपार्श्वे नवाङ्गुलोच्छ्रितायाः प्रथमाया मेखलायाश्चतु- रगुलबिस्तृताया घाटे पाचँ संलग्ना पश्चाङ्गुलोच्छूिता व्यङ्गुलविस्तृता द्वितीया मेखला कार्या । तस्या बाह्ये पार्श्वे संलग्ना व्यङ्गुलोच्छ्रिता व्यङ्गुलविस्तृता तृतीया मेखला कार्या। तेन तिसृणामपि मेखलानासुच्छ्रायविस्तारौ समानौ भवतः । उच्छाये विस्तारे च प्रथमा चतुरङ्गुला, द्वितीया व्यङ्गुला, तृतीया द्वयङ्गुलेति । सर्वथापि नवागुल एवोच्छायो विस्तारश्चोपपद्यते । तदुक्तं क्रियासारे- प्रधानमेखलोत्सेधमुक्तमत्र-नवाङ्गुलम् । तद्वाह्ये मेखलोत्सेधं पञ्चाङ्गुलमिति स्मृतम् ॥ १ ॥ तद्वाह्यमेखलोत्सेधमड्गुलद्वितयं क्रमात् । चतुस्त्रिद्वयगुलव्यासा मेखला त्रितयस्य तु ॥ २ इति ।। तदिदं कुण्डरत्नाकरोक्तं मतान्तरं द्रष्टव्यम् ॥ . परे त्याहु:-क्षेत्रस्य द्वादशभागैः प्रथमायाः, अष्टभागैद्वितीयायाः, चतुर्भिर्भागै- स्तृतीयाया उत्सेधः कार्य इति ॥ प्रथमा मेखला तत्र द्वादशाङ्गुलविस्तृता । चतुर्भिरजुलैस्तस्याश्चोन्नतिश्च समन्ततः ॥ १ ॥ तस्याश्योपरिवप्रः स्याच्चतुरङ्गुलमुन्नतः । अष्टाभिरङ्गुलैः सम्यग् विस्तीर्णस्तु समन्ततः ।। २ ।। तस्योपरि पुनः कार्यो वप्रः सोपि तृतीयकः । चतुरङ्गुलविस्तीर्णश्चोन्नतश्च तथा विधिः ।। ३ ।। इति वसिष्टसंहितोक्तः ॥ 4-0.AR AmeeM. अत्र भागः क्षेत्रस्य चतुर्विंशोऽशः । तेनैकहस्ते कुण्डे एकाङ्गुलो, द्विहस्ते.द्वयङ्गु- लस्त्रिहस्ते त्र्यङ्गुल इत्येवं दशहस्तपर्यन्तमूह्यम् ।। विधानपारिजाते त्वेवं पच्यते- (५२) मुण्डे द्विहस्ते तास्ताः स्युस्तकौब्धिगुणसंमिताः । (६।४ । ३) कुण्डे विहस्ते ता ज्ञया युनिभूतगुणागुलाः ॥१॥ (७ । ५ । ३) अब्धिहस्ते तु कुण्डे ता नागतकयुगानुलाः । (८ । ६ । ४) कुण्डे पञ्चकरे नन्दसतभूतागुलैः स्मृताः ॥ २ ॥ (६ ! ७ । ५) ताः स्यु: कुएडे ऋतुकरे दिगवटाउलान्विताः । (१०८) कुण्डे सप्तकरे द्वयं रानवसमाजलाजताः ॥ ३ ॥ ( १२ । ६ । ७) कुरडे बसुकरे ताः स्युर्मानुपायकाडला । (१२ । १०१८) सुरडे नवको विधरुद्रनन्दाजुलाः स्मृताः ।। ४ ।। (१३ । ११ । ६) दिग्वस्तत्रमिते कुण्डे मनुभानुदशाजुलाः । (१४ । १२ । १०) उत्सेधायामतो ज्ञेया मेखलाः सर्वतो बुधैः ।। ५ ।। इति ।। तदित्थं निमेखलापक्षेऽपि मतत्र यमाल्यातम् ॥ २थ केचित् पञ्चमेखला इच्छन्ति । तासां च प्रथमादीनां क्रमेण पडलः, पञ्चाजुलश्चतुरनुलस्यगुलो द्वयनुलश्च विस्तारो विधीयते । तेन पञ्चमेखलाविस्तारात् कण्ठतो वहिर्भागे विंशत्य मुलस्थलावगाहो भवति । उच्छायस्वाला प्रथमाया नवांशैद्धितीयाया: पञ्चमभागोनैनवांशस्तृतीयायाः पञ्चमभागद्वयोर्नवांशश्चतुर्थ्याः पंचभागनयोने नव शैः, पंचम्यास्तु पंचमभागच उष्टयोनैर्नवांशेः कार्यः । तथा चैकहस्ते फुण्डे प्रथमा नबाडुला (६) द्वितीया तपादसताकुला (७) तृतीया साईपञ्चाङ्ग- ला (1) चतुर्थी पादोनच तुरहुला ( ३ पञ्चमी तु इयॉलोत्सेधा (२) संग्द्यते । अनोव्छ्रायः पञ्चमांशेन हसति । स च पञ्चमोशः पड्यवाधिका- गुलामको द्रष्टव्यः ॥ (१।६ ॥ योन्यादिकुएडेपु ता मेखला योन्यायाकारा पव स्युः ॥ .

(५६) अथ योनिः। । ला पृष्टमेखलाया मध्यभागेऽश्वत्थपत्राकृतिनजोण्ठाकृतिर्वा क्रियते। घृतरक्ष- णार्यमन्ताला सा पश्चादुम्नता पुरस्तात्त्वप्रे नता काळें। कूर्मपृष्ठवन्मध्योन्नता कार्येत्येके । लण्डव्यासार्द्धन दीर्वा, व्यासव्यंशेन विस्तृता, चतुर्विंशशिन तून्नता योनिश्चतुर्विशांशमानेनैव चाणाधोमुखेन कुण्डमध्ये प्रविष्टा क्रियते। तेनै- कहस्ते कुण्डे द्वादशाङ्गुलायता अष्टालविस्तृता, एकाङ्गुलोत्सेवा, एका लाग्नेश चाधोमुखेनकुण्डस्यान्तर्विशती संपावते । एपापि समन्तान्नेखलया चतार्षिशांश- मितया युज्यते । एकाङ्गुलमेखला सापेक्षवास्या यङ्गुलोन्नतिरुक्ता विधानपारिजाते- मेखलामध्यतो योनिः कुएडार्द्धात् व्यंशविस्तृता । उन्नतिय?लेनास्याः कुण्डोष्ठी बोधिपत्रवत् ।। इति ।। अधस्तातु सा द्वाभ्यां वृत्ताभ्यिां गजकुम्भाकाराभ्यां युज्यते । कुम्मद्वयसमायुक्तं मध्ये त्वाज्यधृतिस्तथा । अग्रेण कुण्डाभिमुखी किञ्चिहुत्सृष्टमेखला ।। इति विधान पारिजासोक्तेः ॥ यत्तु योन्याः पश्चिमपार्श्वद्वयसंलग्नदेशे नालस्यो- भयपाययोः कुम्भद्वयं कुम्भद्वयाकार वा भूपिण्डद्वयं स्थाप्यमिति केचिदाहुस्त- दशाखीयम् । त्रिकोणपश्चिमभुजावासलग्नयोरर्द्धचन्द्रयोरेवेह कुम्भशब्देन व्यपदेश्यत्वात् ॥ यत्तु- योनिमध्यगतं लिङ्ग तुङ्ग पृथुकराजुलम् । मृत्पिण्डद्वितयं तस्याः पाश्चयोः कुम्भिकुम्भवत् ।। इति साटमेव पिण्डद्वयस्थापन विधान पारिजातादिपु विधीयते । तदेकदेशी- यत्त्वादनादेयम् । योनिशब्दार्थभ्रांत्या तत्राण्डकोशादिसन्निधानकरणस्य सोपधि- कतया निरर्थकत्वात् ॥ कैश्चित्तु सा नालनितम्बयुक्ता क्रियते। तत्र योनिपश्चिमभुजे व्यङ्गुलविस्तृतेन फाटकेनास्या नितम्बो भवति । स च त्रिकोणपश्चिमभुजावः कृतयोर्गजकुंभाका- रयोरईचन्द्रयोरेव संज्ञाविशेयात्मको न तु ततोऽन्यः कश्चिदर्थः । यच पूर्वोक्ताईच.

( ५४ ) न्द्रावधस्तानालस्योभयतः पुनरपरं क्षुद्रमर्द्धचन्द्रद्वयं नितम्बशब्दवाच्यं मृत्तिफया निर्मापयन्ति तदज्ञानात् । एकस्वार्थस्यार्द्धचन्द्रशब्देन कुम्भश देन नितम्बशब्देन श्रोणिशब्देन च विवक्षितत्वात्, पदार्थान्तरत्वे प्रमाणभावात् ।। नालं तु भूतलमा. रभ्य श्रोण्यारन्तरा योनिमूलपर्यन्तं दीर्घ सच्छिद्रमद्धचन्द्रवत् संपद्यते ॥ तत्रेदं सच्छिद्रत्वं द्वेधा प्रतिपद्यत । नालविशेपणतयेत्त्येके, फियाविशेषणतयेत्येके । तत्र नालस्य स्वतएव सरन्ध्रस्वरूपतया तद्विशेषणं व्यर्थं स्यात् । तस्मात् क्रियाविशे- पणमेतत् । मध्यमेखलायां परिधि धारणार्थ सरन्ध्ररूपेण नालसनिवेशस्यावश्यक त्यात् । परिविधारणतिरिक्तं तु स्थलं सर्व परिपूरणीयम् ॥ परिधिर्मेखलान्तः । नालस्य मानमुक्तं प्रयोगसारे- "योन्याः पश्चिमतो नालमायामे चपुरङ्गलम् । त्रिद्वकाङ्गुलविस्तारं क्रमान्न्यूनाग्रामिष्यते ।। इति । तेन चतुरङ्गुलदीर्घमादौ व्यङ्गुलेन मध्ये व्यङ्गुलेन योनिनितम्बमध्ये त्वका लेन विस्तृत कार्य्यम् । शारदातिलकेऽप्याह । दक्षपश्चिमतो नालमायामे चतुरङ्गुलम् । विधाय रन्ध्र मध्यस्थमेखलोपरि शोभनम् ।। " इति ।। पूर्वदक्षिणकुएडयोदक्षिणतस्तदितरेषु तु कुण्डेपु पश्चिमतो नालं कुर्यादिति व्यवस्था नेया। विधानपारिजाते तु नालस्थानमाह- "अधिसंख्यागुलोपेतामुच्छ्राया यामतः समाम् । वेदि विधाय तस्यां तु न्यस्तनालं विधानवित् ।। शेष प्रपूरयेदन्तः परिधिस्थापनाय च । " इति । होतुरग्रे तु योनिरिति शारदोक्तः कुण्डस्य पश्चाद्भागेऽवस्थितस्य प्रामुखस्य होतुरो प्राङ्मुखी योनि रुदङ्मुखस्य तु होतुरने योनिरुदङ्मुखी क्रियते । यहि- श्यायां मेखलायामियं योनिर्भवति स कुण्डस्य पश्चाद्भागः स्यात्, तद्विरुद्धदिश्या च मेखला कुण्डस्याग्रभागः स्यात् । अतएव कुण्डाग्रभागप्रतिपत्यर्थ योनिविध,ने दिनियमः क्रियते । पूर्वाग्यदक्षिणदिश्येपु कुएडेपु पूर्वेशान्यन्तरालकुण्डे पञ्च- कुण्डयाः पञ्चमे कुण्डे च कुण्डस्योत्तरमुखत्त्वविधानाय दक्षिणदिश्यायामेखलाय . (५५) उपरि सा योनिरुत्तरदिङ्मुखी निवेश्यते । इतरेषु तु पंचलु कुण्डेपु कुण्डस्थ प्राङ्मुखत्त्वविधानाय पश्चिममेखलोपरि सा प्राङ्मुखी क्रियते । तदुक्तं त्रैलोक्यसारे- "दक्षिणस्था पूर्वयाम्पे जलस्था पश्चिमोत्तरे । नवमस्यापि कुण्डस्य योनिर्दक्षदलस्थिता ।" इति ।। नवमेऽपि कुण्डे पश्चिमदिशि प्राङ्मुखी योनिरित्याह कुण्डप्रदीपकारः ॥ तंत्रा- वकल्पते । यथा वेदी पृष्ठतः कृता न भवति, होता च प्राङ्मुख उदङ्मुखो वोप- विशति, यथा च ब्रह्माद्युपवेशनस्थानमवशिष्यते तथैव विधातुमौचित्यमिति कुण्डरत्नाकरोक्तन्यायेन नवमे दक्षिणत एव योनेरौचित्यात् । सेयं योनिमेखला- वत् प्रतिकुण्डे विधीयते । योनिकुण्डे तु योनि कुर्याद्वा न कुर्याद्वेति मतद्वयम् । तत्र प्रतिषेधे बहूनां पक्षपातः ॥ द्विहस्तादि-कुण्डवृद्धौ व्यवस्थामाह विधान- पारिजातादौ- एकैकाथुलतो योनि कुण्डेष्वन्येषु वर्द्धयेत् । यवद्वयक्रमेणैव योन्यग्रमपि बर्द्धयेत् ॥ इति ।। सदित्थं स्थानमानक्षेत्रखातनाभिकण्ठमेखलायोनिरूपाणिअष्टाङ्गानि कुण्डस्य व्याख्यातानि । तैरुपेता एव सः कुण्डा निर्माय प्रयोगे नेयाः । तद्व्यतिक्रमे दोपस्मरणात् ॥ तथा चोक्तम्- "खातेऽधिके भवेद्रोगो हीने धेनु धनक्षयः । वक्रकुण्डे तु संतापो मरणं भिन्नमेखले ॥ १ ॥ मेखलारहिते शोकोऽभ्यधि के वित्तसंक्षयः । भार्याविनाशनं प्रोक्तं कुण्डे योन्या विना कृते ॥ २ ॥ अपत्यध्वसनं प्रोक्तं कुण्डं यत् कण्ठवर्जितम् ॥ इत्यादि । तस्मालक्षणलक्षितान्येव कुण्डानि विधेयानि । अत्र विशेषोऽप्युक्त कुण्डरना- करे- कुण्डमत्रोक्तमार्गेण निर्माय सह लक्षणम् । क्षत्रियो वा समृद्धो वा शूद्रस्तानेण बन्धयेत् ॥ १ ॥ तदभावे त्विष्टकाभिः संवध्य सुदृढं यथा । पूर्वोदितप्रकारेण मृदा वा लेपयेत्तथा ।। २ ।। ताण लक्षणोपेतं कुर्य्यान्मृत्तिकयापि वा । एतत्कण्डं चरार्चायां गृहीयान स्थिरार्चने ॥ ३ ॥ - - (५३) अम्लेन ताम्रकुण्डं तु मृन्मयं गोमयाम्मसा। सौधं च सुधिया सम्यक् शोधयेदमरर्पम ।। ४ ।। मृन्मयानां तु कुण्डानां परितः सन्धिभिः सह । रक्तमृच्छालिपिष्टाभ्यां भूपयेदाप्रियं यथा ॥ ५ ॥ इति ।। अथ कुण्डानुकल्पलाधनम् । कुण्डकरणाशक्ती स्वस्रहोमे वा नित्यनैमिचकहोमे वा पार्तव्ये हस्तमात्र. विस्तृतं चतुरन्नं चतुरझुलोच्छूितमेकामुलोच्छूितं वा स्थंडिलं निर्माय तत्र होमः फाय:। "कुण्डाभावे तु होमार्थ स्थंडिलं पीठमेव वा । होमायें स्थंडिलं पीठं कार्यमित्याह शौनकः॥ इति चौधायनोक्तेः । तच स्थंडिल वालुकाभिः कार्य रक्तमृद्रजसो पा । नित्यनैमित्तिके होमे स्थंडिले वा समाचरेत् । हस्तमात्रेण तत्कुादालुकाभिस्तु शोभनम् ।। शकुलोत्सेधसंयुक्तं चतुरनं समन्तत इति शारदो। स्थंडिलं वालुकाभिर्वा रक्तमृद्रजसोऽपि वा । इति क्रियासारोलेश्च । आहुतितारतम्यानुरोधेन तदुच्छ्रायमानं शुल्वफारिकायामुक्तम् । पञ्चाश- द्धोमे तदेकाङ्गुलेन, शतालुतौ द्वयलमानेन, सहस्रहोमे चतुरलैः, अयुतहोमे- ऽष्टाङ्गुलैः, लक्षहोमे पोडशाजुलैः, प्रयुतहोमे विंशत्यङ्गुलैः, कोटिहोमे पञ्चविंश- त्यङ्गुलैरुन्नतं स्थंडिलं कुर्यात् । नातोऽधिक मुन्नतं कुर्यात् । तेनाधिकहोमेऽपि पञ्चाशत्यगुलोचितमेवेदं स्थंडिलमिष्यते । स्थंडिलेऽपि मेखलायोम्यादयः कुएडवदेव संपाद्याः। "कुएटवन्मेखलां कृत्वा योनि कृत्वा ततः परम् । बौधायनमते प्रोक्तं स्थंडिलं चतुरस्रकम् ।। इति चौधायनोक्तेः । स्थंडिलाभावे तु पोठे होमः कार्यः । तत्र योनिमेखला. भावः । तञ्च पीठं स्थंडिलमानतो शेयमुच्चये द्वादशाङ्गुलं स्यात् । सर्वविघ्नोपसर्गविनाशनाय विधीयमाने विनायकस्नानादौ कर्मविशेपे चत्वारि पीठानि कार्याणीत्युक्तं कुण्डप्रदीपे । तत्रादौ पडशीत्यङ्गलैश्चतुरस्रां समकर्णा ( ५७ ) वेदी निर्माय तत्रेशानकोणे पूर्वोत्तररज्जुसंसक्तमूल चतुरस्त्रं समकर्ण प्रहपीठं विदध्यात् । तच द्विहस्तं क्रियते । इति कुण्डोक्तरीत्या श्यस्त्रिंशदङ्गुलैः सप्तयवैश्चत- सृभियूकाभिरस्य भुजाः संपाद्याः । एवं वायव्यकोणे पश्चिमोत्तररज्जुसंसक्तमूलं चतुरस्त्रं लमकर्ण भद्रपीठं नाम स्नानपीठं निदध्यात् । तदपि द्विहस्तं कार्यमिति प्रहपीठवदेवास्य भुजाः संपाद्यन्ते। अथाग्नेयकोणे भद्रपीठस्य समफर्णतया दुर्गापीठं विरच्यते । तच्च पञ्चाङ्गुलानि पूर्वतः पञ्चाङ्गुलान्येव दक्षिणतो वेदीप्रदेशं त्यक्त्वा चतुर्विशत्यङ्गुलं कुर्य्यात् । त्रीण्यप्येतानि पीठानि द्वादशाङ्गुलैरुच्छ्रितानि स्युः । ततो नैर्ऋतकोणे ग्रहपीठसमकर्णतया वह्निपीठ रचयेत् । तदपि दक्षिणतस्त्र्यङ्गुल पश्चिमतोऽपि व्यङ्गुलं वेदीभागं त्यक्त्वाऽष्टाविंशत्युङ्गलैरायतविस्तीर्णं चतुरङ्गुलोच्च समचतुरखं विधीयते । एतद्धोमपीठं विद्यात् । चतुर्णा कर्णसूत्रे समतया भवतः न्यासो यथा- पू.८६ ५ ७२ प्रहपीठ दुगोपीठ १२ २३१०३ २४ ३३७४ ३३७४ 28 ३३/७४ १५०६ भद्रपीठ १२ होमपीठ ३३/७४ ३६४ २१०३ २८ २८ ३३७४ ३ 1४1 प. ६

(५८)
अत्र गणितं कुण्डप्रदीप निरूपितं यथा-भद्रपीठदुर्गापीठान्तरद्वात्रिंशच्च
पञ्च चेति । (३२ । ५) ।। दुर्गापीठहोमपीठान्तरंपविशतिः (२६) ॥ ग्रहपीठदु-
पीठान्तरं प्रयोविंशतिश्च शुन्यं च तिस्रश्चेति ( २३ । । ।३)। भद्रपीठहोमपी-
छान्तरमेकविंशतिश्च शुन्यं च तिनश्चेति (२१ । ०।३) । ग्रहपीठभद्रपीटान्तरं
त्वष्टादश च शून्यं च पट् चेति ( १८ 1 0 1६)॥ पडशीति वर्ग: । परनवत्य.
धिकानि त्रिसप्ततिशतानि (७३६६) ॥ स विनश्चतुर्दशसहस्राणि सप्तशतानि
द्वानवत्यधिकानि ( १४७६२) तस्य मूलमेकविंशं शतं पञ्चोचरं स्यात् । (१२१ ।
५) अयं वेदीकर्णः स्यात् ।। ग्रहपीठे कर्णाटचत्वारिंशत् (४८) होमपीठे कर्णस्तू-
नचत्वारिंशञ्च चतुष्कं चेति ॥ होमपीठान्नैऋतकोणकर्णश्चत्गरश्च द्वौ चंति( ४ ।
२)। एषां संयोगस्त्वेकनपतिश्च पञ्च चेति । घेदीकर्णाच्छोधिते शेपं त्रिंशत्
(३०) एतदेव ग्रहपीठहोमपीठान्तरं वसिष्ठेनोक्तम्-
ग्रहहोमान्तरं कर्णे त्रिंशदलसंमितम् । इति ॥
एवं भद्रपीठे कर्णोऽटचत्वारिंशत् । दुर्गापीठे कर्णत्रयस्त्रिंशञ्च सप्त च चतस्र-
श्चेति । दुर्गापीठादाग्नेयकोणे कर्णः सप्त चैकं चेति । एपां संयोगो नवाशीतिश्च
पञ्च चेति । वेदीकरणाच्छोधिते शेपं भद्रपीठदुर्गापीठान्तरं स्यात् । द्वात्रिंशश
पञ्च चेति । एवमेवान्यत्राप्यूह्यम् ॥
स्थहिलपीठयोरप्यभावे लोहपात्रे वा नूतनमृन्मयपात्रे चा हवनं कार्यम् ।
"अथाग्निकार्य वक्ष्यामि कुएहे वा स्थंडिलेऽपि वा।
वेद्यां वाप्यायसे पाने मृन्मये वा नवे शुभे ॥
इति वायवीय संहितोक्तः ॥ इति कुण्डानुकल्पसाधनम्
कुण्डप्रकाशिका, कुण्डमार्तण्डा, कुण्डकौमुदी ।
कुण्डरत्नाकरा, कुण्ड प्रदीपः, कुण्डदर्पणः॥१॥
कुण्डोद्योता, कुण्डतत्वप्नदीपः कुण्डकारिका ।
कुण्डोदधिः कुण्डासद्धिः कुण्डार्कः कुण्डभास्करः ।। २ ॥
कुण्डकल्पद्रुमः कुण्डरचना कुण्डपद्धतिः ।
कुण्डार्णवः कुण्डविधिः कुण्डश्रीः कुण्डनारदः ॥ ३ ॥

कुण्डाङ्कुशोऽथ कुण्डांशुमालाथो कुण्डनिर्णयः। स्वायंभुवं पञ्चरात्रं कुण्डलक्षणसंग्रहः ॥ ४ ॥ वैश्वम्भरं वास्तुशास्त्रं प्रतिष्ठासारसंग्रहः ।। बौधायनं नारदीयं हेमाद्रिगणितागमः ॥ ५ ॥ तत्वचिन्तामणि: सार तरङ्गिण्यात्मवल्लभः । विधानपारिजातं च शारदातिलकादिकम् ॥ ६ ॥ ज्ञानरत्नावली शुल्बसूत्रार्थः शुल्वकारिका । पुराणानि च सर्वाणि तन्नाम्नाय रहस्यकम् ॥ ७ ॥ एतेष्वेवोदितं कुण्डविधानमिह-दर्शितम् । तेनैष भगवान् यज्ञपुरुषः सुप्रसीदतु ॥ ८॥ मधुसूदनकृत्युक्ते श्रीयज्ञमधुसूदने । स्मातकुण्डसमीक्षाख्यो द्वितीयोऽध्याय ईरितः ॥४॥ इति यज्ञमधुसूदनस्य द्वितीय: कुण्डसमीक्षाभिध: स्मातकुएडाध्यायः समाप्तः। B W ह M M M MA ZA M का ( ५७ ) वेदी निर्माय तत्रेशानकोणे पूर्वोत्तररज्जुसंसक्तमूल चतुरस्रं समकर्ण प्रहपीवं विदध्यात् । तच्च द्विहस्तं क्रियते । इति कुण्डोक्तरीत्या श्यस्त्रिंशदगुलैः सप्तयवैश्वत- सृभिर्युकाभिरस्य भुजाः संपाद्याः । एवं वायव्यकोणे पश्चिमोत्तररज्जुसंसक्तमूलं चतुरस्र लमकर्ण भद्रपीठं नाम स्नानपीठं निदध्यात् । तदपि द्विहस्तं कार्यमिति प्रहपीठवदेवास्यभुजाः संपाद्यन्ते। अथाग्नेयकोणे भद्रपीठस्य समफर्णतया दुर्गापीठं विरच्यते । तच्च पञ्चाङ्गुलानि पूर्वतः पञ्चाङ्गुलान्येव दक्षिणतो वेदीप्रदेशं त्यक्त्वा चतुर्विंशत्यङ्गुलं कुर्य्यात् । त्रीण्यप्येतानि पीठानि द्वादशाङ्गुलैरुच्छ्रितानि स्युः । ततो नै भ्रतकोणे ग्रहपीठसमकर्णतया वह्निपीठं रचयेत् । तदपि दक्षिणतस्त्र्यमुलं पश्चिमतोऽपि त्र्यङ्गुलं वेदीभागं त्यक्त्वाऽष्टाविंशत्युङ्गलैरायतविस्तीर्णं चतुरङ्गुलाञ्च समचतुरखं विधीयते । एतद्धोमपीठं विद्यात् । चतुणां कर्णसूत्रे समतया भवतः न्यालो यथा- - ५ ७२ प्रहपीठ १२ दुगोपीठ २३।०३ ३३७४ ३३७४ २४ ३३/७४ उ.६ १८६ २६ १२१॥५ भद्रपीठ होमपीठ 8I २१४०।३ २८ ३६४ ३३१७४ /४ ३

यज्ञमधुसूदून

Author
भण्डारी, चन्द्रराज
Title
????????????
File name
यज्ञमधुसूदून
Text
OCR done
Citation
1928
Published
2009/07
Publisher
वैदिक प्रेस मुद्रणालय, अजमेर
Language
Sanskrit
Pages
65
Library
बनस्थली विद्यापीठ
Classification
Literature
DLI number
408365
Barcode
99999990064799.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
VMLT id
USxvXr3b7zJ
Download PDF

यज्ञमधुसूदून