Prakrit Bharati Academy, Jaipur

Sidhantnidanam Part 1

Gannath, Sain Kaviraj · 2010/06

PDF Proofread

Front matter

All Right Reserved. [अस्य प्रन्थस्य मुद्रणे पाठोद्धरणे भाषान्तरीकरणे च सर्वऽधिकाराः स्वायत्ताः।] Printed & Published by Kaviraj S K Sen, M.Sc AT KALPATARU PRESS- Kalpataru Palace, 223, Chittaranjan Avenue, CALCUTTA-6 PREFACE To the First Edition KY The object of the present works is to present in easy and up-to dat: manner the Etiology, Pathology and Symptomatology oi Diseases from the standpoint of Ayurvedic Mledicine Much doubt and discrepancy have arisen in the understanding of Nidan (the collective Ayurvedic name for these subjects) owing to the average teacher and student not clearly grasping the true spirit and import of the great Ayurvedic Samhitas of old, which -by the way are properly studied only by a few scholars. Mine is an attempt io clear up the mist and to pave the way for a better uñuerstanding of the subject The old work of Madhavn kay of Bengal, known commonly as Madhava Niranam, has held the field for several centuries, Though a valuable compilation by itself, it is in my humble opinion, not the most suitable work for the beginner as it is intended and employed to be It often lacks the perspicuity of the tine style of the Rishis and fails to grasp the necessity of the student's preliminary grounding in Anatomy and Physiology and in the great Theory of Tridosha on which all such works are based This theory. I may add, is perfectly compatible with the findings of modern Physiology without the necessity of distorting ancient Ayurvedic texts, though the average Ayurvedic teacher on one side and his foreign rival on the other have often failed to do justice to it Besides centuries have rolled by since the work of Mudhava was written and the symptoms and manner of incidence of certain diseases have changed greaily Even novel diseases seem to have appeared to have appeared ingenious but futile attempts have often been made to explain them away by Ayurvedic practitioners who seem to forget that even Charnka and Sushruia had clearly grasped the possibility of new or ‘undescribed' diseases. All this I am afraid, has given rise to sophustry and lacks that liberal and laborious spirit of research which the sage writers of Ayurveda have always advocated Becteriology too as a subject closely allied to Pathology, has been much neglected, even though a clear recognition of the share of microbes and animal parasites in the causation of certain diseases occurs in all the ancient Samhitas of Ayurveda in my opinion, we can no longer afford to ignore this important subject and the advances made in it by modern workers.

( 11 ) Keeping all these facts in ven, I have endeavoured to write this work of Nidanan on modern lines The text is mainly that of the old Samhitas, though I have, where necessary, niade a few additions in my own language to bing the subject fairly up-to-date For the selection and arrar gement of the text and my new commentary I am alone responsible, In the latter, I have endeavoured to fill in the gaps that exist and to correct erroneous impressions which have gained currency I have also attempted to explain and establish what might appear to be innovations to conservative scholars, by quoting plenty of evidences from ancient tells in support of my views. How far I have been successful in my efforts can be judged only by those who are capable of judging such a highly technical work impartially But I do venture 10 hope that my work will be found a useful companion to the student and teacher alike. It may not be out of place here to add why I have written this work in Sanskrit It will readily appear to all thoghtful men that Sanskrit is yet the classical language of Ayurveda and it is the only medium through which all Ayurvedic practitioners of India can be approached I crave the indulgence of my learned critics and readers for the crrors which may have crept into my work I would be much obliged to them for pointing these out to me for the improvement of future editions, should I be fortunate enough to see then through the press CALCUTTA, 1926 GANANATH SEN PREFACE To the Fourth Edition In editing the fourth edition of this work, I have taken some pains to make it more useful by certain additions and emendations I hope it will be as welcome as its predecessor. My best thanks are due to Ajurvedic scholars, both of the ancient and of the modern type, who have introduced this work as a text-book in many Ayurvedic Schools and Colleges of India. CALCUTTA, February 1950 SUSHIL KUMAR SEN १९३५ तमांग्लवर्षे नवेम्बरमासोय पञ्चमदिनादारभ्य दिनत्रयन् काशीहिन्दुविश्वविद्यालये सम्मिलितायाः (निखिल भारतीय प्रधान वैद्यकाचार्यवृन्दभूयिष्ठायाः) त्रिदोषचर्चापरिषदो निर्णयाः ।* श२॥ सर्वायुर्वेदकार्यमूलभूतत्वात् विदोपज्ञानं सप्रयोजनम् । वातादीना धातुत्वं दोपत्वं मलत्वं च अवस्थाविशेपेणाभिध्यज्यते । तच्च परस्पराऽविरुद्धम् । ३।४। सर्वप्राकृतकर्मसु सकर्तृत्वनियामकत्वे सति स्वानन्त्येण दूषणशीलत्वं दोपत्वम् , तच्च वातादिषु निप्येव नान्यन। तस्मात् त्रय एव दोषा। ५। शक्तव्याधिष्ठितत्वेन स्वतन्तावस्थित्यभावात् वातादीनां न शक्तित्वं किन्तु द्रव्यत्वमेव । ६। पित्त-कफयोरवस्थाभेदेन स्थूलत्वं ( चक्षुरिन्द्रियग्राह्यत्वम् ), सूक्ष्मत्वं ( चक्षुरिन्द्रियाऽग्राह्यत्वम् ) च । । वायोस्तु पित्तकफापेक्षया सूक्ष्मत्वम् अव्यक्तो व्यक्तकर्मा च-इत्यभिधानात् । उपाधिनिष्ठस्य तु वोयोर्वहिरिन्द्रिय , प्राह्यत्वमपि नो नभ.- इति-वत् । ७। अतृप्टोपगृहोतानि पञ्चमहाभूतान्येव वातादीनामुपादानानि । तदुत्पत्तिकमस्तु चरके शरीरस्थाने ३ अध्याये निदिष्टः । यथा “तत्र पूर्व चेतनाधातुः सत्वकरणो गुणग्रहणाय । प्रवर्तते । स गुणोपादानकाले अन्तरिक्ष पूर्वतरमन्येक्ष्यो गुणेभ्य उपादत्ते । प्रलयात्यये सिसृचर्भूतान्यक्षरभूत सरवोपाढान. पूर्वतरमाकाशं सृजति ; ततः क्रमेण अव्यक्तान् धातून वाय्यादिकाश्चतुर' ; तथा देहग्रहणेऽपि प्रवर्तमान पूर्वतरमाकाशमेवोपादत्ते, ततः कमेण व्यक्ततरगुणान् धातून वाय्यादिकाश्चतुरः। सर्वपि तु खल्येतद् गुणोपादानमणुना कालेन भवति ।" ८। वातादीना स्वरूपं ( तन्मात्रविषयकधीविषयः ) चरकोक्तं ( यथा )- वायो - "रोक्ष्यं लांघवं वैशद्य गतिः अमूर्त्तत्वं चेति वायोरात्मरूपाणि ।" पित्तस्य - "औष्ण्य तेक्षण्य लाघवम् अनतिस्नेहो वर्णश्च शुक्लारणवों • एते च निर्यायः सिद्धान्तनिदानोक्त सिद्धान्ते सर्वथा सवादिन.-इति सुधीभिविभावनीयम् । .. .. " -हात प्रकाशकस्य।

गन्धश्च विस्रो रसौ च कटुकारलौ पित्तस्यात्मरूपाणि ।" श्लेष्मणस्तु-
"स्नेह-शोषल्य-माधुर्य मात्ानि श्लेष्मण आत्मरूपाणि भवन्ति ।"
इति । गुणाः कर्माणि च ग्रन्थोक्तान्येव ।
है। वातादीनां प्रत्येक पञ्चविधत्व वास्तविकम् , तच्च स्थानकार्यभेदो पन्नम् ;
कार स्वरूपभेदस्तु तन्निवन्धन एव ।
१० । रोगान प्रति सदूष्याणा वातादीना समवायिकारणत्वम् , सूक्ष्मरूपाणान्तु
निमित्तकारणत्वम् ।
दोषदूंष्यसम्मूर्छनायाश्च असमवायिकारणत्वम्
रोगविशेषान् प्रति कीटादीनान्तु निमित्तकारणत्वम् ।
.
-
श्रीमधुसूदन विद्यावाचरपति. (जयपुरम) स्व० गणनाथ लेन शर्मा ( महामहो-
व.लकृष्ण अमरजी पाठकः (डाक्टर)
पाध्याय । सभापति
लक्ष्मीराम स्वामी ( जयपुरम् )
श्रीराजेश्वर शास्त्री द्राविड' जि० श्रीनिवासमूर्ति (वैद्यरत्न)
श्रीदेवनायक आचार्यः
सत्यनारायण शास्त्री (वैद्य., कोशी )
यादवजी त्रिकमजी आचार्य. । मन्त्री-मुम्बई।
वामनशास्त्री दातारः ( मन्त्री-नासिक )

, ग्रन्थकत्तुनिवेदनम् । ( प्रथमावृत्तौ ) आयुर्वेदाध्योयिभिश्छा प्रथमेव निदानमध्येयमितीयं परम्परा सम्प्रति सर्वत्र भारते प्रचरतितराम् । परम् अविदित वात-पित्त कफतत्त्वा अनाकलितशारीर- परिचयाश्च शिण्या निदानमधीयाना बहुधा प्रमाद्यन्ति, व्याकुलीकुवन्ति च परमर्षीणामभिप्रायमिति सुविदित विदितवेदितव्यानाम् । न हि सूत्रस्थाने दोष- दूष्यादिविवरणमप्रतिपाद्य व निदानस्थानमुपदिदिशु प्राञ्च । तरमान्निदानाध्यायि- भिरादौ शरीरविज्ञानभित्तिक दोपण्यादिविवरणमवश्यमेवाधिगन्तव्यमिति कस्ता- बदन चक्षुप्मानुदासोत? किञ्च कालान्तरपरिणामादिनानाकारणवशादिवानी प्रादुर्भूता• केचन नवीना रोगाः, विपरिणतलक्षणाश्च केचन प्राचीनाः, विलुप्ताश्चापरे शास्त्रोक्ता:-- इत्याकलय्य साम्प्रतिको प्रवृत्तिमुद्दिश्य यथादृष्टमुपदेष्टव्यानि रोगाणा लक्षणानि । न हि तानि यथावदुपलभ्यन्ते प्राचीनसंग्रहम्यः । अथापि संक्रामकरोगानां विवरणे योऽसौ बहुप्रमाणसिद्धो जीवाणुकारणवादः परमपीणा सुसम्मतोऽप्यधुना वेद्य विस्मृतप्राय. सोऽपि सत्यनिर्धारणार्थं संक्रमण- वारणार्थ चिकित्म विशेषाभ्युपगमार्थञ्च पुनरपि वैद्यरवश्यं प्रतिपत्तथ्य -- इत्यपि सुवेदं सूक्ष्मदृशाम् । दुर्व्याख्यात-दुरधातशास्त्राथविषमूर्छिता च वैद्यकसरस्वती सम्प्रति परमर्षिवचनामृतप्रसादपरिहीनेव लक्ष्यते। साऽस्माभिः शुश्रूषापर. पुनः स्वस्थता प्रापणीया। तदिदं प्रयाजनजातं विमृशता मया स्वल्पमतिनाऽपि यथाज्ञानं श्राम्यता सिद्धा- न्तनिदानाख्योऽयं ग्रन्थो निरमायि । भूना चानोपन्यस्तानि प्राचामेव वचनानि सिद्धान्तनिर्णयार्थमाभनवतस्त्रसग्रहार्थं स्पष्टतरार्थप्रतिपादनाथञ्च स्वरचितान्यपि कानिचत् । मूलग्रन्थाथ स्फुटीकत्तु विवृतिश्चान मया स्वयमेव व्यधायि । तक कर्कशाश्व विचारा यथाशक्ति परिहताः शिष्यवोधसौकाय । अथेदानीमभ्यथये--निर्मत्सरैमहानुभावैः प्राण चारध्यापितोऽय प्रन्थो वैद्यकाध्यायिनामुपकाराय सम्पद्यताम् , तथाऽभ्यापिताश्चाऽकुण्ठवुद्धय प्रवत्तन्ता भिषज. क्रमैसु इति । इयञ्चापरा प्रार्थना विद्वन्मुख्येभ्यः - नवीनसरणी प्रवृत्तस्य स्वत्पमतमें प्रमादा सुलभा इति सकरुणमुपेक्ष्य दोपान् सफलता नेयो मे श्रमः, प्रदर्शनीयाश्च । अपुरोभागितया मे त्रुटयः- इति । किञ्च-- मुद्राकर-कराधात खिन्ना चेन्मम भारती। कृपाकराम्बुजाम” सन्तः सञ्जीवयन्तु ताम् ॥ इति प्रार्थना- विद्वज्जनानुचरस्य सेनोपाल- स्व० गणनाथशर्मणः ग्रन्थकर्तुनिवेदनम् । ( द्वितीयावृत्तौ) अखिलकल्याणगुणाकर श्रीमन्नारायणचरणानुफम्पया प्रथमावृत्तिमुद्रितपु "सिद्धान्तनिदान" पुस्तकेषु सत्वरं नि.शेषता गतेषु कियता कालेन दुर्लभतां प्रामो- ऽभूदयं प्रन्थः। ततश्च अध्येतृजनानामनुरोधादियमस्य द्वितीयावृत्ति प्रकाश्यते किश्चित्परिवर्तन-परिवर्द्धनादिसहिता । जीवत्कचेश्च वेद दोपाय पल्पने इति क्षन्तव्योस्मि सुधीजनैः । किञ्च, नाधापि द्वितीयं खण्डमस्य प्रकाशितमिति यत्सत्यं कृपागसमात्मान मन्थे। हन्त दैवदुर्विपापहेतोधर्मपत्नीवियोगेन निजा- ऽस्वास्थ्येन कार्यवाहुल्येन च प्रपीडितो नालमास वुधजननियोगमनुपालवितुमिति मर्पणीयो मे मन्तुः सहृदयः। आशासे च सत्वरमेवास्य द्वितीयं खण्डं प्रकाशयितुं क्षम विधास्यति मा श्री भगवतः करुणेति शम् । आषाढ़ी पूर्णिमा, विद्वज्जनचरणानुचरस्य सेनोपोह- स्व० गणनाथशमणः सं० १९८४ । ( चतुर्थयावृत्ती ) ग्रन्थकर्तुनिवेदनम् श्रीमन्नारायणकरुणावतारस्य भगवतो धन्वन्तरेः करुणया सिद्धान्तनिदानस्य प्रथमखण्डात्मकस्यापि द्वितीयोवृत्तौ एव तृतीयावृत्तौ ग्रन्थसहस्रद्वयी नि शेपता गति चतुर्थयावृत्तिरस्याधुना प्रकाश्यते। ये च खलु सहृदयाः ग्रन्थममं समाद्रियमाणाः पठन-पाठनेनास्य सफठता सम्पादयामासुः तान् प्रति हार्दिकी कृतज्ञतां निवे- दयामः। न हीदृश सौभाग्य जीवतो ग्रन्थकर्तुः प्रायेण भारते दृश्यते । अथ चतुर्थयावृत्तिसम्पादनावसरेऽस्माभिरस्य प्रन्थस्य कचित् क्वचित् किञ्चित्- परिवर्तन-परिवर्द्धनाभ्या यथामति सौष्ठवं व्यधायीति वुधैरवधेयम् । विशेषतश्चेह वातवलासकज्वरप्रसङ्ग स्वकीयं मतं किञ्चित् परिवर्तित भूयस्तरदर्शनेनेति क्षन्तव्योऽस्मि मनस्विभिः। माघ पूर्णिमायां सम्बत् २००६ विदुषां विधेय श्रीसुशीलकुमारशर्मणः कलकत्तामहानगरीत ~ (पृष्ठाडाः) ४ ६ १५ १७ २२ २६ ૨૮ ३८ सिद्धान्तनिदान-प्रथमखण्डस्य सूची। (विषयोः ) दोषदृष्यव्याधिनिणयः प्रकृतिस्थवानादिकर्माणि दोषष्यनिर्णयः विकृतवातादिकर्माणि दोपक्षयलिङ्गानि दोष वृद्धिलिङ्गानि दोषाणां सामता निरामतादि दूष्यक्षयलिङ्गानि दृष्यवृद्विलिङ्गानि व्याधिस्वरूपनिरूपणम् व्याधिनिष्पत्तिकमा व्याधिविज्ञानम् निदानम् पूर्वरुपम् रूपम् उपशयः सम्पाप्तिः व्याधिपरोक्षा ज्वरलक्षणम् ... निजज्वराः रूपम् वातवरलिडानि पित्तज्वरलिङ्गानि श्लेष्मज्वरलिङ्गानि द्वित्रिजज्वरलिद्धानि सान्निपात्तिकचरलिङ्गानि अभिन्यामज्वरः सान्निपातज्वरेषु मर्यादा सान्निपातज्वगन्तेभाविन उपद्रवाः सन्निपातज्वराणा साध्यासाध्यता .. आगन्तुज्वराः विपाभिपङ्ग जा आगन्तुकज्वराः परिसंख्यानम् आन्त्रिकज्वरः (Typhoid Fever) ४५ ४६ ५४ ६० ६२ ६४ ६४ ६६ ६८ ६६ ७२ ७३ ७४ ( ० ) (पृष्ठाङ्काः) ७८ ८२ ८३ ६१ ६३ ... ६८ १०० १०२ १८४ १०५ १०६ (विषयाः) afF97FFIT: ( Plague ) श्लेष्मकबरः ( Influenza) सन्धिकज्वर' ( Rheumatic Feler ) श्वसनकज्वरः ( Pneumonia ) आक्षेपकज्वरः (Cerebio-Spinal Fever ) मसूरिका ज्वरः वृहन्मसूरिका ( Small Pon ) कृतमसूरिका गोमसूरिका च लघुमसूरिका ( Chiken Pos ) t'htfragt leasles ) दण्डकग्वरः( Denguc ) कर्णमूलिकज्वरः ( Mumps ) विषमज्वराः विषमज्वरजातयः Frasat: ( Malaual kemittent Fever ) सततकज्वर कालज्वरः ( Kala-Azar ) अन्येशु एक-तृतीयक चातुथकाः ( Malarial Fever ) विषमज्वर सामालिङ्गानि वातवलासकज्वरः ( Nephritic Fever प्रलेपकज्वरः ( Hectic Ferer) श्लपदिकज्वर ( Filarial Fever ) औपद्रविकज्वरः देशान्तरीयन्वरः ज्वरावस्थाविशेपाः ज्वरस्य वेगभेदेन भेदद्वयम् आमसम्पर्कण भेदत्रयम् ऋतुभेदेन भेदद्वयम् ज्वरमोक्षस्य द्वविध्यम् विज्वरलक्षणम् ११० - .. ११२ ११३ ११५ ११७ ११८ ११६ ११६ १२० १२१ १२३ १२४ १२६ १२८ १२६ " ॥ ओ नमः आयुर्वेदाचार्येभ्यः ।। सिद्धान्तनिदानम् । जयन्त्यपूर्वाः श्रीविष्ण-पादाम्बुजरजःकणाः । मोहान्धतमसाच्छन्न-जनदृष्टिप्रसादनाः॥ १ ॥ स्मरामि जगदम्बिकाचरणचारुपद्मद्वयं परिस्फुरदसीमके भुवनकारणे वारिणि । तटीयनखकेशरोल्लसदमन्दकान्तद्युति मंदोयहृदयामम्बरे दिशतु चन्द्रिकाशुभ्रताम् ।। निदाने स्वच्छसिद्धान्तवोधिनी बुधतोषिणी ॥ स्वकृतौ क्रियतेऽस्माभिविवृतिस्तत्त्वदर्शिनी ॥ मूलेऽतिविस्तरभियोऽनुक्त बमः सविस्तरम् । अर्थान् प्रविशदीकुर्मी निरस्यामश्च संशयान् । न तर्ककर्कश व्यर्थमारटामः कटूत्कटम् । उपयोगिनि तत्त्वे तु विस्तरं साधु मन्महे ॥ काऽपारमायुपः शास्त्र व संकीर्णा मतिश्च नः। तथापि गुरुकारुण्यं स्थिरोलम्वं श्रिता वयम् ।। इह खल्वायूर्वेदो नाम निखिलरुजातजनपरित्राणपुण्यव्रत शास्त्रं यद् ब्रह्मादौ भगवान् लोकपितामहो निर्ममे, ब्रह्मणः प्रजापतिरधिजग्राह, प्रजापतेरश्विना- वश्विभ्यामिन्द्रः, ततो धन्वन्तरिभरद्वाजौ, ताभ्याञ्च सुश्रु तोरभ्राग्निवेशभेलप्रभृतयः संहिताकृतः पुराणाः। सोऽयमायुषः पुण्यतमो वेदो यं हेतुलिङ्गौषधज्ञानाख्य- स्कन्धत्रयविभक्तमनन्तपारमामनन्ति स्म निकालदर्शिनो महर्पयोऽनन्तत्वात् वैकालिकनिखिलविकार-हेतु-लिङ्गौपधानाम्, उपदिदिशुश्च-'न चैव यस्ति सुतरा मायुर्वेदस्य पारम्, तस्मादप्रमत्तः शश्वदभियोगमस्मिन् गच्छेत् । कृत्स्नो हि लोको बुद्धिमतामाचार्यः शत्रु श्चोऽबुद्धिमतामतश्चाभिसमीक्ष्य बुद्धिमताऽमित्रस्यापि धन्यं यशस्यमायुष्यं पौष्टिकं लौकिकमभ्यूपदिशतो वचः श्रोतव्यमनुविधातव्यञ्च"-इति (च० वि० ८ अ० )।

२ ६ - भगवतः सिद्धान्त-निदानम् । आयुर्वेदमहाम्भोधि-पारोत्तीर्णधियं गुरुम् । विद्याकल्पद्रुमं तातं विश्वनाथं नमाम्यहम् ॥ २ ॥ अथ गच्छति कालेऽस्माकमधन्यतया विलुप्तप्रायासु चरक-दृढवल नागार्जुना. दिप्रतिसंस्कृत-भग्नावशेपासु चाऽग्निवेशसुश्रुताद्यनेकमहर्षिसंहितामु नातिपुष्कल- शान-नानानिवन्धृजन-जल्पकल्पनाजलदाच्छन्नायाञ्चाऽर्पज्ञानप्रभाया प्रादुर्वभूवः पर शतानि तन्त्राणि-यान्यनाण्यपि रवल्पतरविपयाण्यपि वहुमन्योनाः कूप- मण्ड कवद् इयत्तया परिच्छिन्नमपारमायुर्वेदविषयमाचक्षतेऽधुनातना वहवः। तदि- दानीमित्थंगते प्रतिसंस्कारापुरणान्या सवर्द्धनोये वैद्यकनये हेतुलिङ्गाल्यं तस्यादिमं स्कन्धद्वयं रुगविनिश्चयसाधनमधिकृत्य लभ्यमानचरकसुथ तसहितादिभ्यः प्रामा- णिकान्यार्पवचासि संगृह्य, संकलय्य च तदर्थान, संयोज्य चाभिनवैः प्रत्यक्षसिद्ध- स्तत्त्वैर सिद्धान्तप्रन्थ निम्मिमाण प्राच्यप्रतीच्यचिकित्सातत्त्वाधिगमकृतवहुश्रमो ग्रन्थकृदखिविघ्नोपशमकामो श्रीविष्णोश्चरणस्मरणपूर्वमुपक्रमते- जयन्तीत्यादि। अपूर्वा इतरविलक्षणाः अचिन्त्यमहिमानः श्रीविष्णा- भगवतो वासुदेवस्य पादाम्बुजयोः रजःकणाः जयन्ति सर्वोत्कर्पण वर्तन्ताम् । अथ कथमपूर्वाः १ यतो मोहान्धतमसाच्छन्नजनदृष्टिप्रसादनाः । मोहोऽज्ञान- मेवान्धतमसमन्धकरणं तमः, तेनाच्छन्नानां मोहान्धानामिति यावत् । जनानां दृष्टिप्रसादना नेत्रप्रसादकराः। इतरे तु रज.कणाः स्पर्शमात्रण प्रसन्नामपि दृष्टिं कलुषीकुयुः, इमे तु नितरामन्धस्यापि दृष्टि प्रसादयेयुरित्येपामपूर्वत्वम् । अत्रेदं ध्वन्यते ये ताबदाधूनिकाऽल्पज्ञनिवन्धृजनग्रन्थमालालोकनेनाऽभिप्रायाऽना- कलनेन वाऽच्छन्नदृष्टयो नाल द्रष्टुमायुर्वेदस्योदारानन्तविषयता, ननु तेषामपि दृष्टिरुन्मोलतां श्रीमन्नारायणचरणरेणुव्यतिकरणेति ॥ १ ॥ अथ प्रथकृदायुर्वेदाचार्या स्वगुरु स्वर्गतं पितर प्रसिद्धयशस विद्याकल्प- द्रुमेत्यन्वर्थनामानं विश्वनाथभिषजं नमस्यति, स्ववुद्धिवैशद्यार्थमवश्यस्मरणीयत्वाद् गुरुचरणानाम्-आयुर्वेदेति । आयुर्वेद एव महाम्भोधिटुरव गाहः समुद्रस्तस्य पारोत्तीर्णा पारङ्गता धोर्यस्य तं तादृश सर्वायुर्वेदस्वतन्त्र वहविद्यानिष्णातत्वाद् वाराणसेयपण्डितैर्विद्याकल्पद्रुमनाम्ना, प्रख्यापितमित्यादि स्पष्टम् । तादृशगुरो रधीतायुर्वेदो न खलु सुधियामनादरणीयवचनोऽस्मीति ध्वनितोऽर्थः ॥ २॥ २। विलोपादिकारणानि चासख्यानि अस्माभिर्दर्शितानि प्रत्यक्षशारीरस्य उपोद्घातभागे। २। नागाज्ज न सुश्रुतप्रतिसस्कर्ता न वेति सशयितमेव ( दृश्यतां तत्र व ) । तथापीह प्रचलितमतानुसारेण नागार्जुनस्य नामग्रहणम् ।

प्रस्तावना w । - , नानातन्त्रप्रवृद्धानां भिपजां नाल्पसेधसाम् । ज्ञानस्य सारमादाय रुगविनिश्चयलाधने । आईं वचः समाहृत्य नापं निहत्य च भ्रमम् । सत्यञ्च कं समाहृत्य सिद्धान्तः संविधीयते । ३ ॥ अथ "अभिधेयफलज्ञान-विरहस्तिमितोद्यमा । श्रोतुमल्पमपि ग्रन्थ नाद्रि- यन्ते हि साधवः"--इति स्मरन् स्वेटदेवतागुरुनमस्कारानन्तरं प्रयोजनाभिधेय- सम्बन्धान व्याचष्टे-नानातन्त्रति श्लोकद्वयेन । रुजो रोगास्तेपा विनिश्चय 'अमु प्रदेशमाश्रित्येत्यादि"-वक्ष्यमाणाशेपविशेषप्रकारक ज्ञान, तस्य साधने हेतु लिङ्गनानारये आयुर्वेदस्यादिमे स्कन्धहये। सिद्धान्तो नाम वहुपरीक्षासंसिद्धः सहेतुको निर्णयः । तथाहि चरकः- 'सिद्धान्ता नाम यः परीक्षकैवहुविधं परीक्षितो हेतुभिः साधयित्वा स्थाप्यते निण य." इति ( च० वि० ८)। संवि- धीयते सम्यक् प्रतिपाद्यतं मयेति शेषः । एतेन रोगाणां हेतुलिङ्गज्ञान प्रयोजनं, तसिद्धान्तसमुदायोऽभिधेयस्तेन चास्य प्रन्थस्य प्रतिपाद्यप्रतिपादकभावलक्षण. सम्बन्ध इत्यभिहित भवति । सिद्धान्त इति कथनेन ग्रन्थस्य सिद्धान्तनिदानमिति नामख्यापनमुपादेयताव्यञ्जनञ्च स्फुटीभवतः । ननु अनन्तपारस्तावदयमायुर्वेदो- ऽपरिसंख्येयाश्च रोगस्तित् कथमेपा विनिश्चये स्वल्पायुपा स्वल्पज्ञानेनैकेन भवता शक्यं सिद्धान्तसंविधानमित्याह-नानातन्त्रेत्यादि नानातन्त्राणि प्राच्य- प्रतोच्य-पुराण-नवीनाखिलप्रामाणिकजन-प्रणीतचिकित्साशास्त्राणि, तेषु प्रबुद्धाना सम्यक परिनिष्ठितमतीना नाल्पमेधसामतएव निखिलार्थग्रहण-धारणसमर्थानां भिपजां चिकित्सकानां ज्ञानस्य निश्ययात्मकबोधस्य सारमहापोहादिप्रपञ्चविरहितं निष्कर्ष मादाय गृहीत्वा । तथाच शक्यमस्मादशैरपि श्राम्ययिथासम्भवं सिद्धान्तसंविधानमिति भावः । ननु अनृषिरश्रद्धेयवचनो भवान्, सत्सु नानामुनीनां वचनै र्निबद्धेषु माधवकरादिकृतेषु प्रसिद्ध निवन्धेषु निष्फलारम्भश्च त्याशंक्याह- आर्ष मित्यादि । आर्षमृषिप्रणीत वचः समाहृत्य लभ्यमानचरक-दृढ़वल- नागार्जुनादिप्रतिसंस्कृताग्निवेश-सुश्रुतादितन्त्रभ्यो यथालाभमवितथतत्त्वाभिधान पर सङ्कलय्य । किञ्च अनार्षमनृपिभि कृत लोकरविवेकिभिराषत्वेन गृहीतं भ्रममग्ने बहुधा दर्शयिष्यमाण निहत्य निष्कास्य, असत्यमिति दूरात् परिहत्य । न हि नीरजस्तमसस्ते महर्ष योऽसत्यं ब्रूयुः, एतानि तावदाप वचसा मध्ये निवन्धृ. जनभ्रान्तवचास्येवासत्यप्रतिपादकानीति तान्यवश्यमनार्षाणि परित्याज्यानि चेति . ४ नम्वाप्ताः , सिद्धान्त-निदानम् । अथ दोपदूष्यव्याधिनिर्णयः । वायुः पित्तं कफश्चेति शारीरो दोपसंग्रहः । मानसः पुनरुहिप्टो रजश्च तम एव च ॥ ४ ॥ भावः । तदुक्तं - "येषां निकालसमलं ज्ञानमव्याहत सदा । आप्ताः शिष्टा बिवृद्धास्ते तेपो ज्ञानमसंशयम्''-इति । एवञ्च सत्यप्रियाणामाप्ताना महणा चरणानुसरणेन एकं सत्यं प्रमाणसिद्धं समादृत्य बहुमानेन गृहोत्वा । वक्तृ विशेषनिःस्पृहगुणगृह्यतया ल्वमन्थे निवेश्येति भावः । किल परमर्पयः श्रद्धेयवचनाः, अनाप्तास्त्वन्ये न श्रद्धेयवचना-इति चेत, दृश्यतां चरकानुशासनम्- "आप्तागमस्तावद्व दो यश्चान्योऽपि कश्चिदार्थादविपरीतः परीक्षकः प्रणीतः शिष्टानुमतो लोकानुग्रहप्रवृत्तः शास्त्रवादः-स चाप्तागमः" इति (च० सु. ११४०) । तथाच-यथालाभमृषिप्रणीतरवितथार्थैरनृपिप्रणीतैश्च वचनै, सत्यनिर्धारणपरोऽयं सिद्धान्तग्रन्थः प्रेक्षावप्रियो भवितुमर्हति, प्रत्यक्षादिप्रमाण-सुपरीक्षितसत्यादरणस्य नियतश्रेयस्करत्वात् ॥३॥ अथ शास्त्रारम्भे प्रतिपाद्यव्याधिविज्ञानमूलभूतं प्रतिपाद्यव्याधिविज्ञानमूलभूतं दोपदूष्यादिविवेकमुपक्रमते चरकीयश्लोकेन (च० सू०१ अ०) - वायुरिति। दूषयन्ति शरीरं मनश्चेति दोषाः। तेषा संग्रहः समुच्चयः, वक्ष्यमाणभेदप्रपञ्चसोपो वा, उद्दिष्ट. कथितः परमर्षिभिः पूर्वः। स च शारीरःशरोरसम्बन्धी दोषसग्रहः---वायुः पित्तं कफश्चेति त्रितयात्मकः। मानसः पुनरसौ रजश्च तमश्चैवेति द्वितयात्मकः । एवकारेण सत्त्वं व्यवच्छिनत्ति, सत्त्व ह्यविकारि गुण एव न दोषसंज्ञामहतीति । अयमभिसन्धिः। सत्यपि घनिष्ठ परस्परसम्वन्धे द्विविधाः खल्वाधिष्ठानभेदतो रोगा: वक्ष्यमाणस्वरूपाः-शारोरा मानसाश्च, तत्र शारीराणा रोगाणामाभ्यन्तरहेतुभूता विकृता वातादयस्ते हि तथा- भूता विकुर्वन्ति दूष्याणि रसरक्तादीनि, मानसानान्तु रोगाणामाभ्यन्तरहेतुभूते प्रवृद्ध रजस्तमसी, ताभ्यां हि तथाभूताच्या कामक्रोधमोहोन्मादादिपरीतं भवति मन इति । अत्र दमवधेयम् । वातादीना विकृतानामेव दोपसज्ञा मुख्या अविकृतानान्तु तेषां धातुसंज्ञा, क्वचिद् गौणी वा दोपसंज्ञा स्वरूपयोग्यत्वात् । रजस्तमसी तु प्रवृद्ध दोषसंश, स्वभावस्थे पुनस्ते अपि प्रवृत्तिनियमार्थे गुणसंज्ञ प्राहु. । तथाच सावया:-“सत्वं लघु प्रकाशकमिष्टमुपष्टभ्भकं चलञ्च रजः। गुरु वरणकमेव तमः प्रदीपवश्चार्थतो वृत्तिः । प्रीत्यप्रीतिविषादात्मकाः प्रकाश - प्रवृत्ति-नियमार्थाः । अन्योन्याभिभवाश्रय-जनन-मिथुनवृत्तयश्च गुणाः ॥' इति ( साड्वयकारिकायाम् ) ५ दोपदूष्यनिर्णयः। नित्याः प्राणभृतां देहे वातपित्तकफास्त्रयः । विकृताः प्रकृतिस्था वा तान् बुभुत्सेत पण्डितः ॥ ५ ॥ सन्ति चात्र विशेषप्रतिपादकानि भगवद्वचनानि - "सत्व रजस्तम इति गुणाः प्रकृतिसम्भवाः । निवघ्नन्ति महावोहो देहे देहिनमव्ययम् ॥ तत्र सत्वं निर्मल- त्वात् प्रकाशकमनामयम् । सुखसगेन वध्नाति ज्ञानसंगेन चानघ । रजो रागात्मकं विद्धि तृणासङ्गसमुद्भवम् । तन्निवनाति कौन्तेय कासगेन देहिनम् ॥ तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत।। सत्त्वं सुखे सञ्जयति रजः कर्माणि भारत । ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत । रजस्तमश्चाभिभूय सत्वं भवति भारत | रजः सत्वं तमश्चैव तम' सत्वं रजस्तथा ॥ सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते । ज्ञानं यदा-तदा विद्याद् विवृद्धं सत्वमित्युत ॥ लोभः प्रवृत्तिरारम्भः कम्मैणामशम' रपृहा । रजस्येतानि जायन्ते विवृद्ध भरतपैभ ।। अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । तमस्येतानि जायन्ते विवृद्ध कुरुनन्दन ॥” (गीता १४श अ०)। विस्तरस्त्वेपामाकरे द्रष्टव्य प्रष्टव्यश्च गुरुचरणेभ्य । अथ काय-मनसोः सम्वन्धश्च परस्परमतिघनिष्टोऽत्र प्रसंगे स्मर्त्तमः। तेन कायिकव्याधोना मानसोपाय-साध्यता, मानसव्याधीना कायिकोपाय साध्यता च बहुधा द्रष्टव्या । अतएव हि श्रूयते चरके-"रजस्तमोस्यान्तु मन परीतं सत्त्वसंशकम् । शरीरस्य समुत्पत्तौ विकाराणा च कारणम् ।" (च० सूत्र ०२५) अथ शारीर-मानसरोगेषु शारीराणामेष रोगाणा प्रधानत्वात् तन्मूलहेतुभूत- दोषविवरणं सम्यक् प्रतिपादयितुं प्रपञ्चति पुनश्चरकीयश्लोकेन -नित्या इति । एतेषु पूर्वोक्त षु शारीर-मानसदोपेषु मध्ये प्राणभृता प्राणिनामाकीदमनुष्याणा देहे त्रयो वातपित्तकफा नित्या. नियतावस्थायिनो यावच्छरीरावस्थानाः, विकृताः प्रकृतिस्था वेति द्विधा वर्तमानाश्च रोगारोग्य करा इति शेषः । तत्र विकूता क्षयं वा वृद्धिं वा प्राप्ता रोगकरा', प्रकृतिस्था' स्वभावस्थाः शरीरधारणहेतवः पुनरारोग्यकरा. -~-इत्यभिप्राय । अतश्च हेतोः पण्डितः प्राशस्तान् बुभुत्सेत बोधुमिच्छेत् , दुर्बोधानपि तान् स्वरूपतो वेत्त प्रयतेत । अत्र वातपित्तकफा इति त्रयाणा नामत' पृथङ निर्देशेऽपि पुनस्त्रय इति कथनं नियमार्थम् । तथाच वातादयस्त्रय एव न नित्ये, पातञ्जलोक्त रुपायैस्तयो. सर्वथा तिरोभावसम्भवादित्यभिसन्धिः । श्रूयते च ‘रजस्तमोभ्या निर्मुक्ता"- इत्यादि । एवञ्च वातादिदोषत्रयाहृते शरीरमेब शोर्यते, रजस्तमोभ्या निमुक्तं तु मन सत्त्वमालेऽवतिष्टमानं महीयते-इत्यथाऽबसेय. ॥ ५ ॥ - दोषा नित्याः, रजस्तमसी तु + सिद्धान्त-निदानम् । ६ . [ अथ प्रकृतिस्थवातादिकर्माणि । ] अथादौ द्विविधा एते प्रसाद--सलमेदतः । सारभूताः प्रसादाः स्युः किट्ठभूता मलाः स्मृताः ॥ ६ ॥ उतसाहोच्छारस-निःश्वास-चेष्टा धातुगतिः समा । 'समो मानो गतिसतां वायोः कर्माऽविकारजम् ॥ ७॥ एतेषाञ्च वातादीना स्वरुपं दिङमात्रण बोधयितुमाह-अथेति । अथैते वातादयस्त्रयो दोषा आदौ प्रागवान्तरविभागाद् द्विविधाः स्वरूपभेदेन बोद्धव्या । स्वरूपभेदश्च प्रसाद-मलभेदतः । तत्र सारभूताः अच्छभागभूतास्ते प्रसादभूतास्तै स्तथाविधैरेव विक्षपादानविसर्गकर्मभिः शरीरधारणात् । किट्टभूता.,-किट्ट नाम लोहादीना माताना यस्त्याज्यो भागः, तादृशत्याज्यभागरूपा., मलाः स्मृताः मलिनीकरणाद्धेतोः । अयमभिसन्धिः-एते खलु वातादयः शरीरे द्वधाऽवतिष्ठन्ते, तन तेषा ये सूक्ष्माऽसूक्ष्माः सारभूताः शरीरधारण-चालनान्नविपाचन-पोषणादिका- रिणो भागास्ते प्रसादाः । शरीरबाधकरास्त्याज्यभागास्तु श्लेष्मसिङ्घाणकाधा मल- भूताः । एवञ्च प्रसादभूतेष्वेव तेषु वातादिसंज्ञा मुख्या; मलभूतेषु तु गौणीत्याचा-- णामभिप्रायः। तथाच चरकः- "शरीरधातव. पुनद्विविधाः सग्रहण -मलभूताः प्रसादभूताश्च । तब मलभूतास्ते ये शरीरस्यावाधकराः स्युस्तद्यथा-शरीर- च्छिद्रेपूपदेहाः पृथगजन्मानो बहिमुखाः परिपक्काश्च धातव., प्रकुपिताश्च वातपित्त- श्लेष्माणः, ये चान्येऽपि केचित, शरीरे तिष्ठन्तो भावाः शरीरस्योपघातायोपपद्यन्ते सर्वास्तान मलान सञ्चश्महे, इतरास्तु प्रसादान्" इति ( च० शा०६ अ० )। तथाच न भ्रमितव्यम्-वायु. साधारणो मरुदेव, पित्त मुखादिनिर्गत पीतद्रव्यमे व, श्लेष्मा नासदिनिर्गतो मलविशेष एवेति । वातादिस्वरूपविवरणञ्च विस्तरतः प्रसङ्गशेषे विचारयिष्यामः ॥ ६ ॥ सम्प्रति वातादीनामविकृतानां स्वरूप कार्यमुखेन परिचाययति चरकीयैरेव श्लोकै. ( च० सु० १८ अ० )--उत्साहेत्यादिभिः । उत्साहः कारम्भप्रदो रजोगुणप्रभवो मानसव्यापारः । उच्छासः श्वासपथेन वाह्यवायोराकषणम् । निःश्वासः आकृष्टश्वासवायोनिरसनम् । चेष्टा तावदिह अविकृतचेष्टा भाषणादानग- मनादि । समा धातुगतिः-यातूना रसादीनामविषमा गतिनिखिलशरीरसम्प्रीणनाय : यथायथस्थानगमनम् । एतेन हृदयाद्धमनीषु, धमनीभ्यो जालकमार्गः सिरासु, सिराभ्यश्च पुनर्ह दयाभिमुख प्रवर्त्तमाना रक्तसंवहनक्रिया', अन्याश्च मूत्रविसर्गाथा १। एषा च रक्तसवहनक्रियाऽस्मदीय प्रत्यनशारीरे सम्यग् वर्णिता।

दोपदूष्यनिर्णयः । दर्शनं पक्तिरुष्मा च क्षु त तृष्णा देहमाई वम । प्रभा प्रसादो मेधा च पित्तकर्माऽविकारजम् ॥ ८ ॥ वातकृता एवेति सूच्यते । गतिमता पुरोपादोनां वहिनिःसरता' समः स्वभावानुकूलो मोक्षो विसर्गश्च - इत्येतनखिल रजोगुणात्मकल्य प्रवृत्तिधर्मिणो वायोरविकार प्राकृतं कर्मेति । वायुपदञ्च 'वा गति गन्धनयो रिति धातो । एप तावत् संक्षेपः, विस्तरस्तु चरके वातकलाकलीये प्रतिपादितः, यथा "वायुस्तन्त्रयन्त्रधरः, प्राणोदान - समान व्यानाऽपानात्मा, प्रवर्तकश्चेष्टानामुच्चावचाना, नियन्ता प्रणेता च मनसः, सर्वेन्द्रियाणामुद्योतक ,सर्वेन्द्रियार्थानामभिवोढ़ा, सर्वशरीरधातुव्यू हकर. सन्धानकरः शरीरस्य प्रवत्त को वाचः,प्रकृतिः स्पर्शशब्दयोः, श्रोत्रस्पर्शनयोर्मुलं,हर्पोत्साहयोर्यानिः समीरणोऽग्नेः, दापसंशोपणः, क्षेप्ता बहिर्मलाना स्थूलाणुस्रोतसा भेत्ता, कर्ता गर्भाकृतीनाम्, आयुषोऽनुवृत्तिप्रत्ययभूतो भवत्यकुपितः इति ( चc सू० १२ अ० )। एवंविधश्च वायुरचिन्त्याऽतीन्द्रियशक्तिक सूक्ष्मद्रव्यस्वरूप इत्यो विशदीकरिष्याम'। अथ प्रकृतिभूतस्य पित्तस्य कार्यजातं संक्षिप्याह दर्शनमिति। दर्शन रूपोद्भासनम् । दृष्टिनाडीवितानभूनाया नेत्राभ्यन्तरीय चरमवृतौ आलोचक पित्तस्य नाम तेज प्रकाशनवस्तुविशेषस्याऽवस्थानात्तस्य कर्म दर्शनं रूपवस्तुमतिभासन मुच्यते तद्बोधविशेषस्तु वायुना प्रकाशितरूपस्य दृग्रिनाडीमार्गेण मस्तिष्कप्रापणे सति' समुद्भवति । अतएवोक्तं चरके - 'सर्वेन्द्रियार्थानामभिवोढ़ेति" । पक्तिः पाको भुक्तजरणात्मक , स च आमाशये अम्लरसनावात् पक्वाशये पित्तकोषाधा- गत क्षारपित्तादिसंयोगाच्च सम्पद्यते । रसस्य च यकृत्प्लोहोर्विंचरतो रञ्जकपित्तेन यः पाको रागदः साऽपि पक्ति । द्वयञ्च तदाग्नेयं कर्म पाचक-रञ्जक पित्तजम् । अपरश्च पाको धात्वग्निजन्यो धातौ धातौ धातुपरिणामकृत् । तदेतत्त्रितयं पक्तिपटाभिधेयम् । ऊष्मा शरीरस्थरवाभाविक सन्तापः । क्षुत् क्षुधा -बुभुक्षा ! तृष्णा पिपासा जलाकांक्षा । तानीमानि कर्माणि पित्तकृतानि, अग्निरुपेण पित्तन दन्दह्यमानेषु शरीरधातुपु नेपामुद्भावात् । देहमाईव देहरय मृदुता स्वेदादिकृता । स्वेदो हि पित्तमव उच्यते, तत्कृतञ्च माहवं त्वचि प्रसिद्धम् । अथवा त्वगधःस्थस्य मेदस. पित्ततेजसा नियतं विलाय्यमानस्य सम्पर्कात्त्वचि मार्दवं स्वाभाविकम् । प्रभा कान्तिः, भ्राजकपित्तस्य त्वचि स्थितस्य भ्राजनधर्मत्वात्। प्रसादः मनसः प्रसन्नता । मधा स्मृति । ते च द्वे सत्त्वगुणोद्भ ते मनोनिष्ठ, सत्त्वगुणभूयिष्ठत्वात् १।२। एतद् व्याख्यान 'प्रत्यक्षशारीरस्येन्द्रियखराडे द्रष्टव्यम् । ३। दृश्यता चरकीय- चिकित्सास्थाने १६ अध्याय । - सिद्धान्त-निदानम्। स्नेहो बन्धः स्थिरत्वञ्च गौरवं वृषता बलम् । क्षमा धृतिरलोभश्च कफकाऽविकारजम् ॥ ६ ॥ एवं विभिन्नकाणः प्रत्येक पञ्चधा स्थिताः । प्रसादभूता वाताद्यास्तैः शरीरं प्रधार्यते ॥ १० ॥ -- - पित्तस्य तेजोधर्मिणः । श्रूयतेच-पित्तं सत्त्वगुणात्तरम्'- इति । तत्सव पुनरप्यन सप्रपञ्च वक्ष्याम । एवंविधच्च पित्तं धातुभूतं मू मूर्तस्वरूपं स्यादित्यवधेयम् । अथ प्रकृतिभूतस्य कफस्य कार्य्यजातमाह-स्नेह इति। स्नेहः स्निग्धता सर्वधातुण्वाप्यभागयोजनात्। सोमगुणात्मको हि श्लेष्मा सर्वधातूनामार्द्रता विदधद् रक्षति कायं शोषणतः, अन्यथा सर्वमपि पित्ततेजसा शुष्येत । वन्धो बन्धनं यथा सर्वास्थिसन्धीनाम् । सन्धयो हि स्नायुनिबद्धा अस्थ्ना नियतघर्षणेन क्षीयेरन प्रच्यवेरंश्च स्थानाद् यदि श्लेष्मधराख्यकलान्तर्गतःश्लेपक श्लेष्मा घर्षणजक्षयवारणेन तेपा बन्धनं नाभिरक्षेत् । तथाच वन्ध इत्यस्य वन्धाभिरक्षणमित्यर्थः । श्लेष्मपदञ्च "श्लिप आलिङ्गने' इति धातोः। स्थिरत्वमङ्गानां दायम् । गौरवं प्राकृत शरीर- गौरवमशून्यतारूपम् । वृषता शुक्रलत्वम् । वलं व्यायामादिसहिष्णुता । तदेतत्तयमुपचय धर्मत्वात् श्लेष्मकृतम्, उपचयप्रदो हि श्लेष्मा प्रकृतिस्थः। तमोगुणस्य च सत्त्वादिनियामकस्य अनतिप्रवृद्धस्य क्षमादिप्रभवत्वात् क्षमादित्रयं हि शौर्य- चाञ्चल्य लोभानां नियमनेन सम्भवति, नियमनञ्च तमोगुणस्यैव धर्मः। प्रवृद्धस्तु श्लेष्मा प्रमादालस्यमोहादिकर इति न कश्चिद् विरोध । अत एवोक्त' "तमोगुणाधिकः श्लेष्मा"-इत्यादि । स चाय सौश्यः श्लेष्मा धातुभूतो मूर्ता- मूर्तस्वरूप स्यादित्यधुनाप्युन्नेयम् ॥ ६ ॥ तदेतदखिलं कर्म नानाप्रकारकं प्रसाद्भूतवातादिकृत, तत्तत्कर्मामूलञ्च शरीर- धारण प्राणिनामित्युक्तमुपसंहरति शिष्यबुद्धिवैशद्याय-एवमिति। ते पूर्वोक्ता वाताद्या वातपित्तकफा. एवमुक्तप्रकारेण विभिन्नकाण. पृथक्कर्मनिष्पादकाः सम्पद्यन्ते प्रत्येकं पञ्चधा स्थिता सन्तः, स्थानकाय॑भेदेन एकैकस्य पञ्चभेद- स्वीकारात् । यथा सुश्रु ते "प्राणोदानौ समानश्च व्यानश्चापान एव च । स्थानस्था मारुता पञ्च यापयन्ति शरारिणम् ॥ वायुर्यो वक्त सञ्चारी स प्राणो नाम देहधृक् । २ . १।२ एतत् पाठद्वय गाङ्ग धरेणोद्धृतम् । श्लेष्मा सत्वगुणप्रधान इति प्रत्ययस्तु केषाञ्चित प्रामादिक-व । स चस्माभिरग्रे निरस्त w आम दोपटूप्यनिर्णयः। ते च प्रसादा द्विविधाः सूक्ष्म-स्थूलविक्षेदतः। तत्र वायुः सदा सूचा इतौ तु दयालकौ ॥ ११ ॥ सोऽन्न प्रवेशयत्यन्तः प्राणाश्चाप्यवलरवते । प्रायशः कुरुते दुष्टो हिकावासादिकान गदान् ॥ उदानो नाम यस्तृध्वमुपैति पवनोत्तम । तेन सावितगीतादि विशेपोऽभिप्रवर्तते। ऊर्ध्वजत्नुगतान् रोगान् करोति स विशेषतः ॥ पक्काशयचरः समानो वहिसङ्गतः । सोऽन्न पचति तज्जाश्च विशेपान् विविनक्ति हि । गुल्माग्निसङ्गातीसारप्रभृतीन् कुरुते गदान् । कृतनदेहचरो ध्यानो रससंवहतो- धतः । स्वेदारटुक्रावणो वापि पञ्चधा चेष्यत्यपि । क्रुद्धश्च कुरुते रोगान प्रायशाः सर्वदेहगान् ॥ पक्काधानालयोऽपानः काले कर्षति चाप्ययम् । समीरणः शनमून- शुक्रगर्भार्त्तवान्यधः । क्रुद्धश्च कुरुते रोगान् घोरान् वस्तिगुदाश्रयान् ।" इति (सु० निदान० १ अ० ) । तेपाञ्च वायुभेदानां शारीरवादिविशेषाः प्रत्यक्षशारीर- नाडीखण्डे प्रतिपादिता द्रष्टव्याः । पञ्चधा पित्तस्वरूपं चाह सुश्रुतो यथा-'पक्का- माशयमध्यरथं र पित्त चतुविधमन्नपान पचति, विवेचयति च रस-दोष-मल-पुरीषाणि । तत्रस्थमेव चात्मशक्तया शेपाणा पित्तस्थानाना शरीरस्य चाग्निकर णाऽनुग्रह करोति,- तस्मिन् पाचकोऽग्निरिति संज्ञा । यत्तु यकृत्प्लीह्रोः पित्त तस्मिन् रञ्जको- ऽग्निरिति संज्ञा,-स रसस्य रागकृटुक्तः। यत् पित्तं हृदयसंस्थितं तस्मिन् साधको. ऽग्निरिति सज्ञा सोऽभिप्रार्थितमनोरथसाधनकदुक्तः । यद् द्वाट्या पित्तं तस्मिन्नालो चकोऽग्निरिति संज्ञा,-स स्वरूपग्रहणेऽधिकृतः। यत्तु त्वचि पित्त, तस्मिन् भ्राज कोऽग्निरिति संज्ञा,-सोऽभ्यङ्गपरिपेकावगाहालेपनादीनां क्रियाद्रध्याणां पक्ता, छाया- नाञ्च प्रकाशकः ।" इति ( सु० सूत्र० २१ अ०) । अथ श्लेष्मणो भेदा अपि कर्मभेदेन पञ्चव । तट्यथा सुश्रुते- 'माधुर्य्यात् पिच्छिलत्वाच्च प्रक्लेदित्वात्तथैव च । आमाशये सम्भवति श्लेष्मा मधुरशीतलः' (सु० सूत्र० २१ अ०) । तत्र 'फ्लेदक' इति संज्ञा। "उरःस्थस्त्रिच सन्धारणमात्मवीर्येणान्नरससहितेन हृदयावलम्बनं (च) करोति ।"तस्मिन् ‘अवलम्वक' इति संज्ञा । श्वासपथादीना किञ्चित् श्लेष्मणाऽलेपन स्वाभाविकमस्यैव श्लेष्मणः कर्म । या च तन्वच्छलसीका फुस्फुसधरकलाकोषयो. हृदयधरकलाकोपे च स्वाभाविकी, सापि इहैवान्तर्भूता। "जिह्वामूलकण्ठस्थो जिह्वन्द्रियस्य सम्यग्रसज्ञाने वर्त्तते ।" तस्मिन् 'रसक' इति 'बोधक' इति वा संज्ञा। "शिरःस्थः स्नेहसन्तर्पणाधिकृतत्वादिन्द्रियानामात्मवीरेंणानुग्रह करोति ।” तस्मिन् १। अत्र मध्यस्थमभ्यन्तरस्थ, न तु अन्तरालस्थमिति व्याख्येयम् । ब्रह्महृदयवाचि । तवण- प्रत्यक्षशारीरस्य नाढीखराडे द्रष्टव्यम्। २। अत्र हृदयपद २ सिद्धान्त-निदानम् । 'तपक' इति संज्ञा । “सन्धिरधातु श्लेप्सा ससन्धिसंग्लेपात् सर्वसन्ध्यनुग्रह रोति।" तस्मिन् 'श्लेपक' इति लंगा। सोऽयं पञ्चविधस्वरुपः श्लेमा निखिलमपि शरीरमुदक्कर्माणाऽनुगृहाति । अतश्च विभुरूपेण सर्वशरीरचरोऽसी सर्वधातूनामनु- गहकः। प्रकटितरूपाणि चास्य प्रसादनधस्मत्वात प्रसादास्याः प्रसन्नाच्छधातुरूपा वियाः । तैश्च तथाभूतैः शरीरं प्रधार्यत, प्रकण रयते । मलभूतदपिरीदृशानु- अहकर्मणामशध्यत्वात् ।। १० ॥ जन्वेते वातादयो मूर्त्ता असूर्ता वा, तन वायुस्तावदऽमूर्तोऽस्तु, पित्तश्लेप्माणौ तु सूर्तावेव स्यातामिन्याशङ्कां निरस्यति संशयच्छेदिना वचनेन-तं चति। ते च पूर्वोक्तकर्माणः प्रसादाः प्रसादरूपा दोषाः द्विविधाः, द्वधा वर्तन्ते रवरुपेण । सूक्ष्मस्थूलविभेदतः, सूक्ष्मरूपेण स्थूलरूपेण च विशिष्टभेददर्शनान् । सूक्ष्मत्वं च लामेह अदृश्यत्वमतीन्द्रियत्वं वा, स्थूलत्वन्तु दृश्यत्वमिन्द्रियगोचरत्वं वा। नन्वेव वागुरपि सूक्ष्मः स्थूलश्चेति द्विविधः स्यादिति विशेषमाह -तत्रोति। तत्र तेषा मध्ये वायुः सदा सर्वास्ववस्थासु सूक्ष्मः, अप्रत्यक्षो विधु त्-प्रवाहवद् अचिन्त्यातीन्द्रियशक्तिकः क्रियामानानुमेयश्च । इतरौ पित्तश्लेप्माणौ तु द्वयात्मको सूक्ष्मरुपतः स्थलरूपतश्च वर्त्तते शरोरे। तन वायोः सूक्ष्मत्वं चरके वात- कलाकलीयाध्याये यथा प्रतिपादितं तथा प्रागदर्शयाम । सुश्रु तेऽप्युक्तम्- "स्वयम्भूरेष भगवान् वायुरित्यभिशब्दितः। स्वातन्त्रयान्नित्यभावाञ्च सर्वगत्वा- तथैव च। सर्वेषामेव सर्वात्मा सर्वलोकनमस्कृतः। स्थित्युत्पत्तिविनाशेपु भूतनामेष कारणम् । अव्यक्तो व्यक्तकर्मा च रूक्षः शीतो लघुः खर. । तियं ग्गो द्विगुणश्चैव रजोवहूल' एव च। अचिन्त्यवीर्यो दोंपाणां नेता रोगसमूहराट" इत्यादि (सुनिदान० अ०)। पित्तस्यापि सर्ववातीन्द्रियत्वमन्यत्र पाचकपित्तात् । पाचकपित्त ह्यामाशये अम्लरुपमप्रतश्च पच्यमानाशयात प्रभृति कटुक्षाररूपमुप- लभ्यते। दृश्यञ्च तत् स्वाभाविकं सद्यो विपाटितोदरस्य जीवतः, विकृतच मुखादिनिर्गतं प्रच्छदैतः पुरूषस्य । तदेतत् स्थूलरुपं पित्तस्य । सूक्ष्मा तु रसरक्तादिधातुविपरिणामिनी क्रिया सन्तापशोषणाऽदानादिक्रिया च सूक्ष्मस्यैव पित्तस्य । तदपि पाचकपित्तस्यैव सूक्ष्मरूपेण चरतश्चरकमते धात्वग्निसंज्ञस्य कर्मेति आचार्याः ।तथाहि सुश्रु ते-तत्रस्थमेव चात्मशक्तया शेषानां पित्तस्थानाना शरीरस्य १। द्विगुण इति सत्त्वतमःसम्पृक्तः, तेन तेजसस्य सत्तवगुणस्य सम्पर्कादुप्ण , सौम्यस्य तमोगुणस्य सम्पकांच्छीतश्च स्वयं तु स्वभावाद्रजोगुणभूयिष्ठ इत्यभिप्राय । २ । त्रिरूप हि स्थुल पित्त पाचकाख्य सूवेद शारीरक्षः । तद्धि प्रामाशये अम्लरस ग्रहण्यां पित्तकोषादागत क्टुतिक्त-ज्ञारप्राय, अग्न्याशयान्न स्त्रुत च कटुज्ञारम । अतएव पित्त क्वचिदम्ल, क्वचित् कटु चाहूरिति सत्त्वम् । .

१ । दोषदृष्यनिर्णयः। ११ मलभूतौ तु नियतं स्थूलौ पित्तकफी स्मृतौ । ते प्राकृताः प्रसादाः स्युर्विकृता मलसंज्ञकाः ॥ १२ ॥ चाग्निकर्मणाऽनुग्रहं करोति" इति (सु०सूत्र० ११ अ०)। "जाठरो भगवानग्निरीश्वरो- ऽन्नस्य पाचकः। सौक्ष्भ्यासानाददानो विवेक्तु नैव शक्यते' - इति च । अथ श्लेष्मा पुनः स्थूलप्राय उदकगुणभूयिष्ठः । किन्तु तर्पकाख्यः श्लेष्मा सूक्ष्मप्रायः । यश्चामाशये क्ले दकाख्यः श्लेष्मा स्थूलस्तस्यापि सूक्ष्मो भागः सर्वशरीरचरः सवैधातु- व्याप्यभागयोजक:-- इत्याहुः । यथा सुश्रूते-'स तत्रस्थ एव स्वशक्तया शेषाणा श्लेष्मस्थानाना शरीरस्य चोदककर्मणानुग्रहं करोतीति ।" वस्तुतस्तु-अवलम्वक रसक-श्लेपकाख्याः श्लेष्मभेदाः स्थूला एव सर्वजनदृश्याः, तनावलम्वकः श्वासपथा- देरभ्यन्तरतः स्वाभाविकाऽद्रताप्रदः। रसको जिहादेराद्रतासम्पादकः स्वाभाविक- लालारुपः स्वादग्रहणसहायः । श्लेषकः सन्ध्यान्तःस्नेहवत् पिच्छिलपदार्थमयः- इति । उक्तञ्च-स्नेहाभ्यक्ते यथा त्वक्ष चक्र साधु प्रवर्तते । सन्धयः साधु वर्तन्ते सश्लिष्टाः श्लेष्मणा तथा ।" इति । तर्पकोऽपि श्लेष्मा नासाचक्ष रादीनामाद्र ताप्रदः स्थूलभूयिष्ठ एवेत्येके। अन्ये तु-सोऽम् "इन्द्रियाणामात्मवीर्येणानुग्रहं करीती"ति कृत्वा शिरसि सौम्यगुणाधानकरः सूक्ष्म एवेत्यामनन्ति। वस्तुगत्या तु तस्यापि द्व रुप्यमेव तत्त्वम् । किञ्च स्थिरत्व गौरव-वृपता-वल क्षमादिकर्माणि पूर्वोक्तानि प्राकृतस्य सूक्ष्मस्यैव सर्वशरीरचरस्य श्लेष्मणः कार्याणि स्युः। न हि तत्तत्- स्थानमात्रव्यापकैरवलम्बकोदिस्थूलश्लेष्मभेदैः सुकराणि तानि कार्याणि कयाऽपि कल्पनया । एवञ्च प्रसादभूताना वातादीना निखिलशरीरधारणाय स्थूणात्रय- भूतानामखिलं कर्मजातमुपसहरत्याचार्य:- 'विसर्गादानविक्षेपैः सोमसूर्यानिला यथा। धारयन्ति जगद् देहं कफपित्तानिलास्तथा" इति-- (सु० सूत्र० २१ अ० ) । यत्तु सुश्रूते कचित् शोणितस्यापि दोषत्वमुक्तं "तैरेव शोणितचतुर्थे"रिति (सु० सूत्र० २१ अ० ), तदौपचारिक, व्रणाना विशेषण शोणितसन्धानीयत्वात् । वस्तुतस्तु स्वतन्त्रदूषणात्मकत्वाभावात् प्रकृत्यारम्भाकत्याभावाच्च दूष्यतैव शोणितस्य, न दोषत॥ ११ ॥ अथ पित्तश्लेष्मणोर्मलभूतयोः स्वरूप विशिनष्ठि-मलभूताविति । मलभूतौ किट्टरुपौ पित्तकफौ तु नियत सदैव स्थूलौ स्मृतौ, न तु पूर्ववद् द्वयात्मको। तथाच अम्लपित्तादिविकारेषु मुखादिनिर्गतमम्लरसं, कटु तिक्त क्षार-रसं वा सम- धिकं पित्तम्, प्रतिश्यायादौ नासादिनुतः पुष्कलश्च श्लेष्मा-इति द्वयमपि किट्ठरूप- मेवावगन्तव्यम्। ईदृशयोश्च किट्टरुपत्वं प्रतिपादयत्याचाय्य:-"किट्टमन्नस्य १२ सिद्धान्त निदानम् । " विमूत्र रसस्य च कफोऽसृजः । पित्तं मासस्य च मलो मलः स्वेदस्तु मेदसः" इति (च० चिकि० १५ अ० ) किट्टस्वरूपञ्च यथा-६"पित्तं तीक्ष्णं द्रवं पूति नीर पीलं तथव च । उष्णं कष्टुरसञ्चच विदग्धं चासमेव च ॥ श्लेष्मा श्वेतो गुरु, स्निग्धः पिच्छिलः शीत एवं च मधुररत्वविदग्धः स्याद् विदग्धो लवणः स्मृतः” इति (सू० २१ अ०)। वायुस्तु सदा सूक्ष्म एव तस्य मलपरिणामासम्भवात् । पत-"पक्षाशयन्तु प्राप्नस्य शोष्यमाणरय वह्निना । परिपिण्डितपक्कस्य वायुः (चाँद कटुभावतः इति, (च०चि० १५अ०)-तत्र वायु पदेन अन्नादिविपरिणामजन्यो पापविशेष उच्यते आनाहाटोपादिकरः, तवरोधश्च स्वाभाविकवायुक्रियाजन्या- अन्नसंकोचनादि-दौल्येन मलादिनिःसारणकर्मण. सम्यगयोगादेव भवति । अध शिष्यवुद्धिवैशधाय वातादीना प्रकृति-विकृतिभाव सम्वन्धमपि स्फुट प्रदर्शयति ----ले इति। ते वांतादयः प्राकृताः स्वाभाविका एव प्रसादाः प्रसादलशाः प्राक्तरवरूपाः, प्रसादनकर्माणः । तैरेव ह्यव्यापन्नः प्रसन्नात्मेन्द्रियमनाः स्वस्थो भवति पुरुषः । विकृता विकृति प्राप्तास्तु ते मलसंज्ञकाः, मलिनीकरणाद्धेतोः । उक्तञ्च---"शरीरदूपणाहोपो धातवो देहधारणात् । वातपित्तकफा ज्ञेया मलिनी- करणामला इति (शाङ्ग वपू० ५ ०अ०)अन बहुवचनमतन्त्रम्', पित्त-कफयो पञ्चकट्यग्रहणेन वा साधु। आहुश्च प्राञ्चः- “पित्तादेवीष्मणः पक्तिर्नराणा मुपजायते । पित्तञ्च व प्रकुपितं विकारान् कुरुते वहन् । प्राकृतश्च चलं श्लेष्मा वैकनो मल उच्यते । स एवौज. स्मृतं काये स च पाप्मोपदिश्यते । सर्वा हि चेष्टी वातेन स प्राणा. प्राणिना स्मृताः। तेनैव रोगा जायन्ते तेन चैवावरुध्यते।” इति (च० सूत्र. १७ अ०)। तदेवं बुद्धिमता प्रसादभूताना मलभूतानाञ्च वातादीनां मेदः पर्वतवदप्रकाप्य सदा स्मर्तव्यः, यतोऽमु भेदमजानन्तो वहुधा व्याकुलीकुर्वन्ति परमपी णामभिप्रायमनेके भिषग्वा. । ईदञ्चालावधेयम् । एतेपा दोपाणा प्रसादभूताना मलभूतानाञ्च सत्यपि महति भेद प्रसादमलभावसम्वन्धोऽप्यतितरा नेदिष्ठो व्यवसेय , सूक्ष्माणां प्रकृतिभूताना दोषाणा प्रसादाख्याना कारणभूताना स्थूलेषु विकृतिरूपेषु मलाख्येषु कार्यभूतेषु परिणामदर्शनात्, पञ्चतन्मात्राणा पञ्चमहाभूतेषु परिणामवत् । एवञ्च यत्र यत्र कायांशे विशेपेण मलपरिणामो वैकृत-लक्षणदर्शनं वा वातादीनां तत्रैव तेपामवस्थान विशेषः कल्प्यते, स्थूलबद्धीना वोधसौकाय । तथाहि चरके महारोगाध्याथे-'तेषा १। अतन्त्रर्माित न तन्त्रोक्तसंख्यावचनेऽभिप्राय.। बायोमलत्वाभावात्। पित्तपञ्चक-कफपञ्चकयो ग्रगोन वा सजतं वहृवचनम् । २ । तेनवेति वातप्रस्टगे मलसज्ञा वयोनों पदिष्टति लक्षणीयम् । .

दोपटूप्यनिर्णयः। कफ. तैयाणामपि दोषाणा शरीरे स्थानविभागमनुव्याख्यास्यामः । (तद्यथा-वस्तिः पुरीषाधानं कटिः सक्थिनी पादावस्थीनि च वातस्थानानि,-- तत्रापि पक्काशयो विशेषेण वातस्थानम्। स्वेदो रसो लसीका रुधिरमामाशयश्चेति पित्तरथानानि, तंत्राप्यामाशयो विशेषेण पित्तस्थानम् । उरः शिरो प्रीवा पर्वाण्यामाशयो मेदश्च श्लेष्मण. स्थानानि, तलापि उरो विशेषेण स्लेष्मरथानम् ।। इति (च० सूत्र० २० अ०) । परमार्थतस्तु वातादयः सर्वशरीरचराः । अतश्चानुपदमेव दृश्यते चरके तत्व--- "सर्वशरीरचराः खलु वातपित्तश्लेष्माणः सर्वस्मिन् शरारे कुपिताकुपिताः शूभा शुभानि कुर्वन्ति" इति । किञ्चतेषु वातादिषु प्रसादभूतेषु वायुरेव प्रधानम्, पित्तकफयोस्तदधीनत्वात् । उक्तश्च-("वायुरायुर्वल वायुर्वायुर्धाता शरीरिणाम् । वायुर्विश्वमिदं सर्वं प्रभुर्वायुश्च कीत्तित." इति (च० चिकि० २८ अ० ) । उक्तञ्च-" पित्त पॉ पङ्गुः पङ्गयो मलधातवः । वायुना यत्र नीयन्त तत्र वर्षन्ति मेघवदिति ॥") (शङ्ग ० पू० ५ अ०)। ननु वायुश्चेदतीन्द्रिय एत्र तर्हि किमिदमुच्यते-रुक्षः शीतो लघु. सूक्ष्म- श्चलोऽथ विशदः स्वरः। विपरीतगुणैद्रेव्यैर्मारुतः सम्प्रशाम्यति"इति (च० सू० १ अ),। नहि रूक्षत्वशोतत्वादिगुणा अतीन्द्रियस्य स्युरिति चेत्, उच्यते । रूक्षत्वादिगुणा हि वायोः प्रवृद्धवाते शरीरे दृश्या', तविपरीतोपशायितादि-काानुमेयाश्च । खलु ते साक्षादिन्द्रियगोचरा अस्मादृशाम् । अत एव सूक्ष्मत्वमपि युगपदुद्दिशति भ्रमवारणाथमाचाय्यः । सुश्रुते चोक्त "अव्यक्तो व्यक्तकर्मा च"- इति । शीतत्व तु वायो:स्वाभाविकमपि न नियतं दृश्यते,-तस्य यागवाहित्वात् । तथाा क्त 'योगवाहः पर वायुः संयोगादुभयाथैकृत् । दाहकृत्तेजसा युक्त. शीतकृत सोम- सश्रयात्” इति । एवंविधगुणसमूहसपन्नश्च वायुरतीन्द्रियस्तन्नयन्त्रधरः सर्वथा सर्वैर्भार्यथाशक्ति वेदितव्यः । अथैपा वातादीना प्रकृत्यारम्भक्त्व चाऽहुराचार्या गर्भाधानकाले मातापित्रो. शारोरावस्थाविशेषानुसारतो जातस्य प्रकृतिनिष्पत्तेः । तदाह सुश्रुतः (शा० ४अ)- "शुक्रशोणितसयोगे यो भवेद् दोष उत्कटः । प्रकृत्तिर्जायते तेन तरया मे लक्षण शृणु" ।-इत्युपक्रम्य 'तत्र जागरूकः शीतद्व पी दुभंगः स्तेनो मत्सय॑नाया गान्धर्वचित्तः स्फुटितकरचरणोऽतिरुक्षश्मथ केशनख क्रोधी दन्तनखादी च भवति ॥ अधृतिर दृढसौह्रद कृतघ्नः कृशपरुषो धमनीततः प्रलापी। द्रुतगतिरटनोऽनवस्थितात्मा वियदपि गच्छति सम्भ्रमेण सप्तः ।। ( इति वातप्रकृते लक्षणम् ) । "स्वेदनो दुर्गन्ध. १। एकवचनमतन्त्रम् यतो द्वि-त्रदोषाधिकत्वात शुक्रशोणितयोमिश्र-वभावतापि हन्यते बहुधा।

सिद्धान्त-निदानम् । १६ - त एते रसादिशुक्रान्ता धातवः” इति ( प्रत्यक्ष० २१०)। वाग्भटस्त्वाह "रसासृङमांसमेटोऽस्थि-मज्जशुक्राणि धातवः । सप्त दूष्याः, मला मूत्रशकृत्स्वेदा- दयोऽपि च ।" (अष्टाङ्गहः सन० १२०)। व्याख्यातञ्चेदमरुणद तेन- "शदादयो सला उच्यन्ते । अपिचेति शब्दाद् दूष्याश्चेति । न केवलं रसादय एव दूण्याः, यावन्मला रतेऽपि वातादिभिर्दू प्यन्त इति दूज्याः। एवाच रसादीनो दूष्यसंज्ञा धातु सज्ञा च, विनसूत्रादीना तु मलसंज्ञा दूप्यसना चेति ।" सोऽय शारीरदृप्यस् ग्रहः । मानसरोगेपु तु रजस्तमसो दोषौ, मनश्च दूप्यम्। तत्र दूष्यान्तरासम्भवात् । तत्सहगामिनी वातादिविकृतिस्तु भवत्येव प्रायस्तुल्यनिदानसम्भवत्वात् । इदञ्चालवधेयम् । एतेषा रसरक्तादीना दूप्याणां वातादिभिराश्रयाश्रयिभावोऽति घनिष्ठः । यथाह वाग्भट: “तत्राास्थनि स्थितो वायुः पित्तं तु स्वेदरक्तयोः । श्लेष्मा शेपेपु नेपामाश्रयायिणो मिथः । यदेकस्य तदन्यस्य वर्द्धन-क्षपणौषधम् । अस्थि- मारूतयोनॆवम् ।”- इति ( अष्टाङ्गह० सूत्र० १५० )। अतएव वातवृद्धौ अस्थि- पर्वमेदादि, पित्तवृद्धौ स्वेदरक्तढुष्ट्यादि लिङ्ग प्रायिकमित्याद्यनुव्याख्यास्यामः । ढोपाणा सामता चाने वक्ष्यमाणा अविपक्वान्नरससम्पादेव विज्ञया। अथैवं दोषदूप्यसग्रहमुपक्रम्य तत्स्थानान्याचष्ट-तदधिष्टानमिति। तेषा दोपाणां दूष्याणाश्चाधिष्ठानमाश्रयस्थान पृथविधा आशया. शास्त्रे समुपदिष्टाः प्रत्यक्षदृश्या । अत्र आशेरते दोषधातुमला एषु- इति व्युत्पत्या आशयपदेन श्वस- नान्नविपचनमूत्रोच्चारविभजन शोणितसवहनादिक्रियाकराणा फुस्फुसाऽमाशयान्त्र वृक्तहृदयादोना ग्रहणम्, आद्यपदेन सिराधमन्यादीनाञ्च। आशयवर्णनविस्तरस्तु अस्मदीय प्रत्यक्षशारीने प्रतिपादितो द्रष्टव्य । दिग्दर्शनार्थन्तु इहापि किञ्चिदुद्धियते "आशया नाम--श्वसनान्नपचनशोणितस्वहनादिक्रियाकरा वहवः । तेपा तिसृषुगुहा स्ववस्थानम् । तास्तु यथा-शिरोगुहा, उरोगुहा, उदरगुहा चेति । तत्र शिरोगुहायां मस्तिष्कमनुमस्तिष्क सुपुम्नाशीपंकञ्च । तदेतत्त्यं निखिलसज्ञाचेष्टामूलं, येन सम्बध्यते निन्नतः सुपुम्नाकाण्ड'' पृष्टवशान्तरस्थः। सेयं प्रथमा शिरोगुहा व्याख्याता भवति । उरोगुहाया -फुस्फुसद्वयं हृदयञ्च प्रधानम् । नत्र श्वसनार्थों फुस्फुसौ श्वासपथेन कण्ठाभिगतेनोरसि द्वेधाविभक्तेन प्रतिवद्धौ। शोणितसंग्रहणलेरणार्थकं हृदयं पुण्डरीकाकार फुस्फुसयोरन्तरालस्थम्, तन्त्र प्रतिवद्ध महासिराहय महाधमनीमूलं सिराधमन्यश्च यथास्थान वक्ष्यमाणाः । सेय द्वितीया उरोगुहा व्याख्याता भवति । १। चातादीनां तु दोषतज्ञा धातुसंज्ञा च, क्वचित् मलसज्ञाऽपि- इत्य क्तपर्वम् । २ । यद्यपि मध्ये पतिचित नाडीकेन्द्र पलनित मोऽपि स्ताकेन सज्ञाचेष्टाधारः, तथापि सुख्यतया ऊर्ध्वाधोगामि- नाडीवमधर एवाऽयमिति प्रत्यक्षशारीरे द्रष्टव्यम् । -- . दोषदूष्यनिर्णयः। [ अथ विकृतवातादिकर्माणि ] दोषाणां विकृतिद्वधा दूष्याणाञ्च तथा मता । नयजा वृद्धिजा चेति ज्ञातव्या सा प्रयत्नतः ॥ १४ ॥ उदरगुहायां-भुक्तमात्रस्याधारो दृतिसमाकार आमाशयः, स नाभेरूडू बामतो मध्यतश्च । पच्यमानस्य पक्कस्यः चाशयः पक्वाशयः, स नामेरधः परितश्च । पका- शयश्च मलाशयश्चान्त्राणि चेत्यनन्तरम्' । पाचक-रञ्जक-पितयो. प्रभवो यकृत्, तत्र संलग्नः पित्तकोप. रजकपित्तप्रभवः प्लीहा। यकृत् प्लीह्रोश्च स्थिति क्रमेण दक्षिणतो वामतश्चामाशयात् । पृष्टत आमाशयस्य कुठारिकाकारोऽग्न्याशय. । मूत्रप्रभवौ महाशिम्बीवीडाकारो कीपौ वृक्को नाम कटिपार्श्वयो.। वृक्कप्रभवस्य मूत्रस्रोतोभ्या समागतस्य सूत्रस्याशयो बस्ति म स नाभेरध.। योनेरूद्ध मुखप्रतिवद्धः क्षुद्रकलशाकारो गर्भाशय , स स्त्रिया एव । सोऽयं स्वमुष्टिमात्रा- कारोऽगृहीतगर्भायाः, गृहीतगायास्तु यथागर्भमभिवईते । तस्य चोभयो. पायो वीजकोपो नाम, तौ वीजस्रोतोभ्या प्रतिवद्धौ गर्भाशयेन-तावेव तु पुरुपस्य वहि.स्थितौ भवतः । तौ मुष्की नाम शुक्रप्रभवौ ( शुक्रवहस्रोतोस्या सहितौ ) । सेयं तृतीया उदरगुहा व्याख्याता । एतास्तिस्रो गुहा यासु निखिलाशयावरोधः ।” अथ वातादीना प्रसाद मलभावास्यां स्थिताना प्राकृतं रवरूप निरूप्य सम्प्रति तविकृतेः दृष्यविकृतेश्च प्रकाशद्वयं दर्शयति-दोपाणामिति । दोपाणा वातपित्तकफाना दूष्याणा रसरक्तादीनाञ्च विकृति स्वभावविपर्ययो दधा द्विप्रकारा सम्मताऽचार्याणाम्-क्षयजा वृद्धिजा चेति । तत्र क्षयो हासः, वृद्धिरुपचय प्रकोपो वा । न च प्रकोपो वृद्धरतिरिक्तं किञ्चिदिति शङ्कयम् । यत्तु चरके-“क्षय स्थानञ्च वृद्धिश्च विशेया त्रिवित्रा गति"रिति, तत्र स्थानमित्यस्य समत्वमित्यर्थ. सम्प्रदाय प्रसिद्धः। तेन क्षयवृद्धी विकृतिप्रकारभूते, समत्वञ्च प्राकृतमित्याचार्याणा- मभिप्रायः । ननु स्थानान्तरगमनमपि वक्तव्य, यढाह चरक:- "प्रकृतिस्थं यदा पित्तं मारुत श्लेष्मणः क्षये। स्थानादादाय गानेषु यत्र यत्न प्रसपंति । तदा तोदश्च दाहश्च तत्र तत्रानवस्थित.' । गात्रदेशे भवेत्तस्य श्रमो ढौवैल्यमेव च ।” इति चेत् ?-मैवम् । दोपस्य उन्मार्गगमनमपि स्थानान्तरे वृद्धिरेव कोपापरपर्य्यायः, वृद्धेरेव वाऽसौ प्रकारभेट ! तथाच वागभट “कोपम्तून्मागंगामिता" इति । सेयं विकृति सर्वेः प्रयत्ने तव्या । १। तुल्यार्थ कम । २ । एतदृष्टान्ताश्च-विसूचिकादौ द्रष्टव्या । विसूचिकाया हि तीव्रातीसारण आप्यभागक्षयात् ग्लेप्मक्षयः, ततश्च तोद्दाहादय । .

१८ सिद्धान्त-निदानम् । सा भुक्तरलसूला स्यात् प्रायेण प्रकृतियथा । धातुवैषम्यजा रोगा आरोश्यं धातुसान्यजम् ॥ १५ ॥ अथ विकृतिमभिधाय तन्निदानं व्याचष्टे -सेलि। सा विकृतिःपाणा दूष्याणाञ्च प्रायेण भूना, भुक्तरसमूला प्रकृतिवत्। यथा भुक्तरसा मधुराद्याः ( देश कालादयश्च ) सम्यगुपयुक्ता' दोपाणां प्रकृति स्वाभाविकमान वस्थिति जनयन्ति, विकृतिमपि तथैव दुरुपयुक्ता.--इति निकपः । तथाच चरकः--'तत्र दोषमेकैकं त्रयस्त्रयो रसा जनयन्ति । यथा कटु तिक्त कषाया वातं जनयन्ति, मधुराम्- लवणास्त्वेनं शमयन्ति । कटुकाललवणा: पित्तं जनयन्ति, मधुरतिक्तकषायारत्वेनं शमयन्ति । मधुराम्ललवणाः श्लेष्माणं जनयन्ति कटुतिक्तकपायास्त्वेनं शमयन्ति" इति (च० वि० १ अ० )। इह जनन्तित्यस्य वृहणाणुफैधयन्तीत्यभिप्रायः । तच्च वर्धनं स्वाभाविक-बृहणमानं चेत् प्रकृति. न्यूनाधिकमात्रञ्चेद् विकृतिः । वृहणप्रयोजनन्तु नित्यापचय पूरणाय। अतएव सुश्रु त.-- "अविदग्धः कर्फ पित्तं विदग्धः पवन पुनः । सम्यग विपक्को नि सार आहारः परिवृ येत् ।।" (सु० सू० ४६) ननु वातादयः प्राणभृता देहे नित्या इत्यभिहितं, कथं तर्हि तेषा वृद्धि-क्षयौ- इति चेत् शृणु। देहे रथूलशरीरे नित्याः यावच्छरीरास्थाना - - इत्यापेक्षिक नित्यत्वम्, गोत्पत्तिकालादामरणं दोपावस्थितेः । ते च नियतं क्षयवृद्धिशीला: स्रोतस्वतीजलवत् दिनक्तु -मिथ्याहार-विहारहेतो यत्प्रतीकाराय दिनचर्यादि- व्यवस्था प्राचाम्। नन्वमूर्तस्य वायोरतीन्द्रियावस्थयोः पित्त-कफयोश्च कथङ्कार ज्ञायेयातां क्षयवृद्धी-इति चेत, उच्यते । यथा हि अतोन्द्रियाणा सत्त्वरजस्तमसा स्वाभाविक- कर्मापचयोपचयदर्शनादनुमीयेते क्षयवृद्धी, तद्वदिहापि ज्ञोयेयाताम् , स्थूलपित्त- कफयोर्मात्राक्षय-वृद्धिदर्शनाञ्च । अथ क्षयवृद्धयोः फलमाह-धातुवषम्यजा इति । वैषम्य क्षयवृद्धात्मकं, तच्च धातूनां वातादीनां रसादोनाञ्च । धातुशब्देन सर्वेपामेपामुपादानात् । तज्जातास्तत्- समुत्था हि रोगा व्याधयो वक्ष्यमाणस्वरूपा.। आरोग्यं रागाभाव. स्वास्थ्यं, तद् धातुसास्यजम् , धातूना स्वाभाविक परिमाणावस्थानस्य फलभूतम् । न च साम्यं नाम धातूना परिमाणममत्वमिति सशयितव्य, तेषा पुरुपे स्वभावत., आहार-विहारादि-भेदतश्च परिमाणभेद नियमात्' । तेन साम्य नाम वैकारिक- १। नि सृष्टसारो नि सार, समर्पितसार -इत्यर्थ । सुश्रुताद्युक्तमजलिपरिमाण तु प्रायिकम् । २ 4 १६ दोपक्षयलिङ्गानि ! ( तत दोपक्षयलिङ्गानि) तत्र वातनये मन्दचेष्टता वचसोऽल्पता । अल्पहर्षः प्रमोहश्च श्लेष्मवृद्धश्च लक्षणम् ॥ १६ ॥ पित्तक्षये तु मन्दोमा मन्दाग्नित्वं प्रभाल्पता। श्लेष्मक्षये रुक्षताऽन्तहस्तृष्णा च जागरः ॥ १७ ॥ अन्यत्राऽमाशयात् सर्वाशयानां शिरसस्तथा । शून्यता सन्धिशैथिल्यमिति लिङ्गानि षड् विदुः॥ १८ ॥ वैषम्याभाव इति वाच्यम् । सुश्रुतश्चाह- 'वेलक्षण्याच्छरोराणामस्थायित्वात्तथैव च। दोप-धातु-मलानान्तु परिमाण न विद्यते।” इति (सु० सूत्र० १६ अ०) । आयुर्वेदप्रयोजनश्च वेंकारिक-चैपम्यनिवारणमाहुः, तदुक्तम्--"क्षीणा वर्द्धयितव्याः" इत्यादि ।। १५॥ अथ सौभूत-बचोऽनुवादेन क्षयवृद्धिलिङ्ग पादौ क्षयलिङ्गानि चतुमुपक्रमते वातादिक्रमेण -तत्रति धातुवैपम्यप्रकारेषु मध्ये वातस्य पूर्वोक्ता- चिन्त्याऽतीन्द्रिय-शक्तिकस्य क्षये सति मन्दचेष्टता उत्साहोच्छाास-निश्वासादोनां स्वाभाविक-कर्मणां मन्दतो। वचसो वाफ्स्फुरणस्योल्पता । अल्पहर्षों विपाद- प्रवणता, स्त्रीपु प्रहपंमान्यञ्च । प्रमोहः प्रमूढप्रायसंज्ञता, नव मूर्छा । श्लेष्म- वृद्धिलिङ्गानि च वक्ष्यमाणानि शैत्य-श्वैत्यादीनि सम्भवन्तोति शेषः। तदेतद् वीज रूपेण वातक्षयस्य लक्षणम् । वाग्भटश्चाह-'लिङ्ग क्षीणेऽनिलेऽङ्गस्य सादोऽल्प भाषितेहितम् । सज्ञामोहस्तया श्लेष्मवृद्धयक्तामयसम्भव " इति । अष्टाङ्ग हृ० सूत्र० ११ अ० )। सोऽयं संक्षेपा वातक्षयलिङ्गानां सग्रहः । विस्तरस्य तु न प्रमाणमस्ति,-य खल्विह सर्वतन्त्र-यन्त षु स्वाभाविक-क्रियाल्पतालक्षणमनिमान्ध करकम्माद्यनेकरूपं स्वरूपेणाऽनाकलयन्तः क्रियासु विमुह्यन्ति स्वल्पचियः ॥ १६ ॥ पित्तनये इति । मन्दोमा स्वाभाविक-शरोरसन्तापस्याल्पता । मन्दा- ग्नित्वं क्षुत्रायाः अन्नजरणशक्तश्चाल्पता। प्रभाल्पता कान्तरल्पता, स्वाभाविक देह- माद वाभावात्, प्रभाया. भ्राजक पित्तकृतत्वाच्च । एतत्त्रयञ्च वोजरूयं लिङ्गमुक्तम्. विस्तरतस्तु दृष्टिशक्तिहासो मन प्रसादाभावो मेधाल्पतादि' चेत्यादि पूर्वोक्त- स्वाभाविक-पित्तकम्मैणा वालक्षण्यहानिरूप समुन्नेयम् । अथ श्लेष्मक्षयलिङ्गोन्याह-श्लेष्मति सौश्रु तवचसैव । रूक्षता स्नेहाभावः । तत १। ग्रालाचक पित्तादीना क्षयादिति भावः।

२० सिद्धान्त-निदानम् । Hom - ( अथ दोषवृद्धिलिङ्गानि ) वातवृद्धौ परुषता त्वचः कार्यश्च कृष्णाता। गात्राणां स्फुटनश्चोष्णकामिता चाल्पलिद्रता । वलाल्पत्वं तथा गाढवत्स्वं जागरादि च ॥ १६ ॥ अन्तदहि , तृष्णा चेति त्रय स्वाभाविकसोमगुणक्षयजम् । जागरो निद्राविरहः, निद्रायास्तम.प्रभवत्वात् तमोगुणाविकश्व श्लेष्मेत्यवोचाम । अन्यत्रामाशयादिति- उरः शिरश्चामाशयश्चेति त्रयाणा श्लेष्मस्थानानां मध्ये आमाशयस्य न भवति मान्यता, उर.शिरसोस्तु स्वाभाविक-वोधन-तर्पण-श्लेष्मक्षयोद् भवत्येवेत्यभिप्रायः । नन्द्रामाशयेऽपि क्लेदनश्लेष्मणोऽल्पत्वाच्छून्यतैव स्यादिति चेत्, उच्यते । श्लेष्मक्षये तृष्णाधिक्ष्येन जलादिपानाधिक्यात् तत्र प्रायः पूर्णतैव स्यादिति वि वायवाऽह -- अन्यत्रामाशयादिति । तदेतत् सौश्रु तमतम् । वागभटम्तु अविशिष्य सर्वश्लेष्मा- शयाना शून्यत्वमाह यथा- 'कफे भ्रमः। श्लेष्माशयानां शून्यत्व द्रव- श्लथसन्धिताः ।" इति ( अष्टाङ्ग ६० सूत्र० ११ अ० ) । सन्धिशैथिल्यं सन्ध्यन्तः- स्थित-श्लेष्मधर कलासु श्लेपक श्लेष्मणोऽल्पत्वात् । तदेतल्लिङ्गषटकं सामान्यादव- गन्तव्यं, विशेषतस्तु बल वृषता स्थैर्यादि हास. किञ्चिद् वात-पित्तवृद्धिलिङ्गानि च समुन्नेयानि ॥ १७ । १८॥ अथ वृद्धिलिङ्गान्याह पुन' सौश्रुतवचाऽनुवादेनैव वातवृद्धाविति । वातवृद्धौ वायुप्रकोपे सति त्वचः परुषता रूक्षता । कार्य कृशता शरीरस्य । कृष्णता श्यामाभता विणमूत्रनखचर्मणाम् । गात्राणा स्फुटनमङ्गमदः। उष्णकामिता वायोः स्वाभाविक शैत्याधिक्यप्रतीकाराय उष्णाशनवसनादेराकांक्षा । गाढवञ्च स्त्व पुरीषस्य कठिनी भाव । जागरः निद्राल्पत्वम् । आदि चेत्यन्येषामसख्यानां वातद्धिलिङ्गानां ग्रहणम् । तथाहि तद्धिस्तरवर्णनपरं सुदान्तसेनकृत प्राचीनपद्यद्वयम्-"आध्मान- स्तम्भ-रौक्ष्य-स्फुटन-विमथन क्षोभ-कम्प प्रतोदा', कण्ठध्वसावसादौ श्रमक-विलपनं स्त्रस शूल प्रभेदा. । पारुष्यं कर्णनाटो विषयपरिणति भ्रश दृष्टिप्रमोहो, विस्पन्दोद्- घट्टनानि ग्लपनमशयनं ताडन पोडनञ्च ।। नामोन्नामौ विषादो भ्रमपरिपतनं जरभणं रोमहपों विक्षेपाऽशेप शोष-ग्रहण-शुषिरता च्छेदन वेष्टनञ्च । वर्ण श्यावोऽरुणो वा तृडपि च महती स्वापविश्लेप सङ्गा, विद्यात् कर्माण्यमूनि प्रकुपित मरुतः स्यात् अन चैतावान् विशेषो लक्षणीय' - परुषतादीनि in न लिङ्गोनि निरामवायोरेव, आध्मानशूलादीनि कानिचित् तु सामवायोः । कपायो रसश्च" ॥ इति ।

२१ दोषाणा सामता-निरामतादि । पित्तवृद्धौ तु सन्तापः पीतभाः शीतकामिता। पोविणमूत्रता दाहः स्वेदाया चाकृतिः स्फुटा ॥ २० ॥ श्लेप्सवृद्धौ भवेत् शत्यं श्वैत्यं गौरवमेव च । तन्द्राऽवसादः स्तमित्यं प्रसेकश्च श्लथाङ्गता ॥ २१ ॥ सुदान्तलेनीय- पद्य षु तु सर्वत्र द्विविधानामपि लिङ्गानां समावेशः। इह तु साम निराम-लक्षणविवेकोऽने पृथग वक्ष्यते ।। १६ ।। पित्तवृद्धाविति । सन्ताप , स्वाभाविक- सन्तापस्याधिक्य हस्तपादनेत्रदाह- लक्षणं, ज्वरलक्षणं' वा वृद्धस्तारतम्येन । पोत्मा, त्वच पीता तिः। शीत- कामिता, सन्तापहरणाथ शीतरपृहा। पीतविण्मूत्रता रचाभाविकाधिका । दाहः करचरणादीनाम् । स्वेदः धर्माधिक्यम् । आकृतिलिङ्गम् । विस्तरस्तु सुदान्तसेनोये पद्यषु यथा "विस्फोटाम्लक -धमका प्रलपन स्वेदस्तुतिमू च्छेन, दौगन्ध्यं दरण मदो विसरणं पाकोऽरतिस्तृड्भ्रमौ । ऊष्माऽतृप्ति-तम प्रवेश-दह्न कटुम्लतिक्ता रसा, वर्ण पाण्डुविवर्जितः कथितता कर्माणि पित्तस्य वै ॥” इति । ननु सुश्रुते पीत- विण्मूत्र-नेत्रत्वमित्युक्त, तत् कथमिह पीतनेत्रता नोच्यते ? शृणु । कामलायामेव पितनेत्रता भवति, न सर्वत्र पित्तकोपे । सा च प्रायेण ग्रहण्यां पित्तनि स्रवनिरोधेन सम्भवति, याकृतपित्तस्योन्मार्ग-गमनात् । न च तत्र पीविटकता प्रायः पीत्तनि स्त्रव-निराधात् । अतो युगपन्नोक्तम् ।। २० ।। श्लेष्मवृद्धाविति। शैत्य शीताधिक्यम् । श्वैत्य श्वेताभता विन्मूत्र-नेल- चर्मणाम् । गौरव गात्राणाम् । तन्द्रा निद्रासङ्ग । स्तमित्य गात्राणामाद-पटाव गुण्ठितवत् प्रतीति । प्रसेको मुखे लालाधिक्यं यावत् प्रतिश्यायोऽपि। श्लथा- ङ्गता अङ्गाना शिथिलीभावः। तान्येतानि संक्षेपतो लिङ्गानि। विरतरतस्तु यथा- "तृप्तिस्तन्द्रा गुरुता स्तमित्यं कठिनता मलाधिक्यम् । स्नेहाऽपक्त्युपलेपा., शैत्यं कण्डू प्रसेकश्च । चिरकत्तै त्वं शोथो, निद्राधिक्य रसौ पटुस्वादू । वर्ण श्वेतोऽलसता कर्माणि कफस्य जानीयात्" -- इति सुदान्तसेनः । तान्येतानि वातादीनामेकेकस्य क्षय-वृद्धि-लिङ्गान्यभिहितानि। द्वयोः संसर्गे १। स्वाभाविक सन्ताप-तु अाधुनिक-तापमानयन्त्र-परिमाणेन ६ डिग्रीत् ॥ डिग्री- प्रमाण जिह्वाधः, कज्ञायान्तु किञ्चित न्यूनम्। २ । प्रलपनम्-उद्दामप्रलाप. यथा उन्मत्तम्या विलपनन्तु विषण्णस्येव । . ।

सिद्धान्त-निदानम् । ( अथ दोपाणा समता-निरामतादि ) ऊष्मणोऽल्पचलत्वेन धातुमाद्यमपाचितम् । दुष्टमासाशयगतं प्रचरनमासंक्षते ॥ २२ ॥ आमेन तेन संयुक्ता दोषा दूज्याश्च दूषिताः । सामा इत्युपदिश्यन्ते ये च रोगास्तदुभवाः ॥ २२ ॥ त्रयाणा सन्निपाते वा यथासम्भव लक्षणानामपि साङ्कठमुन्नेयम् । तदुक्तम्- "द्विदोपलिङ्गः ससर्गः सन्निपात स्त्रिलिङ्गकः' इति । इदञ्च सामान्यत सलिङ्ग लग्राहक सूत्रमाहुराचार्य्याः- “दोषा' प्रवृद्धा रख लिङ्ग दर्शयन्ति यथावलम् । क्षीणा जहति लिङ्ग व समा स्वं कर्म कुर्वते ।।' इति ( सु० सूत्र० १७ अ० ) ।। २१ ॥ अथ प्रवृद्धानां दोपाणा साम-निरामता भेदात् लक्षणेषु वैशे दर्शयितुमुपक्रममाण आदौ तावदामपदाथै व्याचष्ट-ऊष्मण इति। ऊमणः कायाग्नेरल्पबलत्वेन दोर्वल्येन । अल्पबलत्वचेदमाहारापेक्षया । यस्य ह्यग्निर्यावन्तमाहार सुखेन जरयति तस्य तावद्वलोऽग्निरुच्यते । स चेदधिकमाहारं मानागुरु वा द्रव्यगुरु वा भुक्ते, न त सुखेन जरयतीति तस्य स्वाभाविकोऽप्यग्निस्तदाहारापेक्षया अल्पवलः । तस्मात् प्रागसत्यपि अग्निमान्य आहारादिदोषादग्निशक्ततिक्रमणेन-इत्यभिसन्धिः । आद्य धातु रसाख्यम् । अपाचित सम्यगपरिणतम्, अतएव दुष्ट विकृतम् । आमाशयगतमामाशयादुत्थितम् । न त्वामाशय एवाऽवतिष्टमानम्, रसस्य सर्वशरीरचरत्वात् । स हि आमाशयादेरभू य रसवहस्रोतोभिर्यदादिमार्गेण हृदय प्रविशति, चरति च क्रमात् कृत्स्नमपि देवमभिव्याप्य रक्तेना'ऽपृथगभूय । तथाचाहुः- "कृत्स्नदेहचरस्यापि रसस्य हृदयं स्थलम् । पूर्व समानमरुता यदयं हृदये धृतः ॥” अन्यत्न चोत्तम- "आरह्म धमनोर्गत्वा सवोन धातूनय रस." इत्यादि। वाग भटोऽप्याह-"व्यानेन रसधातुहि विक्षेपोचितकर्मणा। युगपत् सर्वतोऽजत्रं देहे विक्षिप्यते सदा ॥” इति ( अष्टाङ्ग० ह० शा० ३ अ०)। तस्मात् दुष्टरसस्य सर्वशरीरचरस्य सम्पर्कात् समानकारण-प्रवृद्धानां दोषाणामपि सर्वदेह- चगणां विशिष्टानि लिङ्गानि कृत्स्नेऽपि देहे द्रष्टव्यानोति तत्त्वम् ॥ २२ ॥ अथ शास्त्ने व्यवहारार्थ सामेतिपदमपि स्पष्ट निक्ति-आमनेति तेन आमेन दुष्ठरसेन संयुक्ता अतएव दूपिता दोपा वातादयो दूष्या रक्तादयश्च । रसस्य आमपदेनैव ग्रहणात् दूष्यपर्दैन नेह रसस्य ग्रहणम् । केचित्तु आमपदार्थ विपा- ' ! रस रत्तसबहनप्रकाविस्तर प्रत्यक्षशारीरे धमनीखगडाटो द्रष्टव्य ।

२३ दोपाणा सामता-निरामतादि । "स्रोतोरोध-वलनश-गौरवानिलमूढताः । आलस्याऽपक्ति-निष्ट व-सलदासचिलमाः । लिङ्गमलानां सामानां निरामाणां विपर्ययः" ॥ २४ ॥ वायुः सामो विवन्धाऽग्निसाद-तन्द्राऽन्त्रकूजनैः । वेदना-शोथ-निस्तोदैः क्रमशोऽङ्गानि पीडयेत् ॥ २५ ॥ ? त्मक रसस्यं पृथडमत्वा रसः साम' इति काचित्कं व्यवहारं समर्थयन्ते । सामा इत्युपदिश्यन्ते-सामसंज्ञया शास्त्रे व्यवहियन्ते । ये च रोगा इति । तदुद्भवाः सामदोपादि-कृता रोगा अपि उपचारात् सामा इत्युच्यन्ते - यथा सामोऽय ज्वर., सामोऽसावतीसार इत्यादि ।। २३ ।। अथ सामदोषाणां सर्वसाधारणानि लिङ्गान्याह- स्त्रोतारोधति स्रोतो- रोधो विण्मूदादि-स्रोतसां रुद्धवभावः सुखेनाऽप्रवृत्तिरिति यावत्। पारमार्थिक- स्रोतोरोधे तु दारुणो मारको वो रोग.। वलभ्रंशोऽकस्माद् बलहानि.। गौरव शिर.कोष्टादीनाम्। अनिलमृढता वाया किकर्त्तव्ययिमूढतेव, आनुलोम्याभावः स्तब्धता वा। आलस्यमनुत्साहः। अपक्ति अन्नविपाकस्य मन्दता। निष्ट वो मुखप्रसेक । मलभेद. अतोसारः। तनुस्रोतो रोधेन मलविबन्ध एवोक्तः, कथ पुनरतीसारोऽपि ? उच्यते। सविवन्धोऽतिसार, उदावत्तो वा-इत्यवस्था- भेदेनोभयोः सम्भव इति न दोप । अरुचिरन्नस्याऽनभिनन्दनम्। क्लमः अकृतश्रमस्यापि श्रमबोधः। तान्येतानि लिङ्गानि प्रायः सबत्नैव दापसामतीयां सम्भवन्तीति सामान्यतो निदर्शति-लिङ्ग मलानां सोमनामिति । एकवचनेन प्रायिक योगपद्य लिङ्गानो विवक्षितम् । निरामाणा दोषाणान्तु विपर्याय . सत्स्वपि दोपवृद्धि-लिङ्गषु स्रोतोरोधादीना वैपरीत्यमभाव एव किञ्चिद्भावो वा। यथा चैतत् तथाऽनुपदमेव प्रतिपादयिष्यते ॥ २४ ॥ तत्र सामवायोलिङ्गान्याह-वायुरिति । विवन्ध स्त्रोतोराधो वायोरानु- लोम्यभावात् मलादेः कृच्छेण वा नैव वा प्रवृत्ति । अग्निसाद पाचकाग्नेर्मन्दी- भावः। अन्त्रकूजनमन्त्रेपु गुडगुडाशब्द , स च मलोद्भूत-बापस्याधिक्येनोद्भवाद्- निर्गमाच्च सवति । वेदना यतस्ततः कटी-पादि-पीडा, कर्त्तनवत् पीडा वा । शोथ. शनत्वं, यथा आमवातादौ सन्धिपु। निस्तोद सूचीवेधवद् व्यथा। क्रमश- इत्यनेन आदौ विवन्धादोनि लिङ्गानि कोष्ठे दर्शयित्वा अकृतप्रतीकारो वायु. क्रमात .

सिद्धान्त-निदानम् । फैनवान् पिण्डितः पाण्डुनिःसारोऽगन्ध एव च । पक्काः स एव विज्ञ यश्छेदवान वक्तशुद्धिकृत् ॥ ३१ ॥ (अथ दूष्यक्षयलिङ्गानि) रसे क्षोणे श्रमशापो रौक्ष्यं शब्दासहिष्णुता। रक्तेऽम्ल-शिशिरप्राति-निराशथिल्यस्थताः ॥ ३२ ॥ सांलेऽक्षग्लानि-गण्डस्फिकशुष्कता-सन्धिवेदनाः । अथ निरामश्लेष्मलक्षणमाह--फेनवानित्यादि। पकः निरामः स एव फेनवानीपतफेनिलस्तन्तुलत्वाल्पत्वात पिण्डित्तश्च । पाण्डुगेषत्पीताभश्वेतः । निःसारो लधुर्जले प्रतरणशीलः। अगन्धो गन्धरहित' छेदवान् अनुपलेपो, कासतः पुंसः शीघ्रमेव निःसरणशील'। वक्तशुद्धिकन मुखस्य विशदताप्रदः, पैच्छिल्याप- गमात् । नन्वेवंविधोऽपि श्लेष्मा मलभूत एव शरीरवाधकरत्वात् ? सत्यं, सामावस्थाया पैच्छिल्यादियुतः स एव श्लेष्मा पक्कावस्थायामेवंविधो निरेति । सर्वथा दोपशुद्धौ तु प्रायो विलीयत एव सः, तिष्टति तु केवलमलक्ष्यप्रायः स्वाभाविकस्नेहन-तर्पणश्ले'मरूपेणेति विवेकः ॥ ३१ ॥ अथ दोषाणा क्षय-वृद्धिलिङ्गान्यभिधाय दूष्याणा धातु मलाना लक्षणान्याचष्टे वागभटानुसारिवचनैः-रसे इत्यादिमिः । श्रमः, अकृतश्रमस्यापि श्रन्त्यिनुभवः। शोषः - शरीरस्य शुष्कता, नीरसवत् प्रतीतिः । निःस्नेहता बहिरन्तश्च । शब्दासहिष्णुता वालरोदनादिश्रवणमात्रेणापि हव्याकुलता । अतएव सुश्रुतः "रसक्षये हृत्पीडा कम्प शोपः शून्यतास्तृष्णा च" इति (सु० सूत्र० १५ अ०)। तृष्णाकस्पयोः सम्भवश्च अतिमात्ररसक्षये इति स्मर्त्तव्यम् । रक्त-इति । क्षीणे इति सर्वत्रानुवर्तते। सिराशैथिल्यं । सिरासु पूर्णरक्तप्रवाहाभावात् सिरा-धमनीप्राचीरिकाणा स्थितिस्थापकत्वदौर्बल्याद् वा अतिमृदुस्पर्शतारुपम् । अत्र सिरापदं मिरा धमनीना वाचकमुपलक्षणेन । सुश्रुते तु पृथगभिहिता धमनीनां कोमलता यथा-शोणितक्षये त्वक्पारुष्यमम्लशीतप्रार्थना सिरांशैथिल्यं धमनीनामतिमृदुलस्पर्शता" इति । मांसे- इति । अक्षग्लानि- रिन्द्रियदौर्बल्यम् । गण्डस्फिक्शुष्कतेति, मासलप्रदेशाना शोष इति यावत् । स्फिग् नितम्वः । सन्धिवेदना मांसपेशीनो दौर्बल्यात् स्वल्पेऽपि श्रमे तत्संवृतसन्धिषु रुजाप्रादुर्भावः, न ह्यन राग शोफवती वेदना भवति । सुश्रुतस्तु सविस्तरमाह-- १। यथा रक्तनावे चिपूचिकादौ वा । सिराशैथिल्यम् Low blood-pressure क्षय-वृद्धि रोक्ष्य-रुक्षता --- २७ ॥ दूप्यक्षयलिङ्गानि। मेदसि प्लीहवृद्धिश्च रूज-सुप्त-कृशाङ्गता ॥ ३३ ॥ अस्न्यस्थितोदः शातश्च दन्तकेशनखादिषु । अस्थ्नां मजनि सौषिर्य भ्रमस्तिमिरदर्शनम् ॥ ३४ ॥ शुक्रे चिरात् प्रसिच्येत शुक्रं शोणितमेव वा । तोदोऽत्यर्थ वृषणयो-मेढ़े धूमायतीव च ।। ३५ ॥ पुरीपे वायुरन्त्राणि सशब्दो वेष्टयन्निव । कुक्षौ भ्रमति यात्यूचं हृत्पार्श्वे पीड़यन् भृशम् ॥ ३६ ॥ 'मासक्षये स्फिग गएडोष्ठोपस्थीरु-वंक्षण कक्षा पिण्डिकोदर-ग्रीवाशुष्कता रौक्ष्यतोदो गात्राणा सदन धमनीशैथिल्यञ्च" --इति। मेदसि-इति । मेदसि क्षीणे प्लीहवृद्धिश्चेति चकारात मांसक्षयलिङ्गान्यपि भवन्ति । ननु विषमज्वरादौ प्लीहवृद्धिः मेदस्विनः क्षोणस्य च द्रागेव भवति, सा कथद्वारं व्याख्येयेति चेत् , शृणु । तत्र बरकरमूक्ष्मक्रिमीणां प्लोहाश्रयणात् आदौ प्लोहशोथस्तेन किञ्चित् लोहवृद्धि, ततश्च क्रमेण रस-रक्त मास मेद क्षयाद् विशिष्टा प्लीहाभिवृद्धि., सा च क्षोणमेदसा तूर्णमेव भवति । सुप्ताङ्गता सज्ञावहनाड़ीनां क्षीणत्वात्। यावत् चेष्टावहनाडी- नामपि तथात्वात् चेष्टादविल्यञ्च। सन्धिवेदना चानापि प्राय. सन्धिवेष्टनमेदो- मासक्षयात् श्लेषकश्लेष्मणोऽप्लत्वाच्च श्रमोत्थ-रुजारूपा। तत्र तर्पणी चिकित्सा चतु.स्नेहादिम नेन स्निग्धान्नपानादिभिश्च कर्तव्या । अतएवान "मेदुरमास- प्रार्थना चे"ति सुश्रुतेनाभ्यधायि ॥ ३२-३३ ॥ अस्थिन-इति,। अस्थ्ना तोद तेषु सूचीशतवेधनवत् पीड़ा । दन्तादीना पात. शीर्णता वा। अतएव सुश्रुतः - "अस्थिक्षये अस्थिशूलं दन्तनखभङ्गश्च"-इति । अस्थनाम् -- इति । मजनि क्षीणे अस्थनां सौपिर्य- मिति योजना। तञ्च तेषा प्रायेण घुणभक्षितवंशवत् नि सारता भगुरता च । शुक्र-इति। शुक्रे क्षोणे चिरान् प्रसिच्यते शुक्रं शेणितं वा व्यवायत', न च तत्र व्यवाये सुखानुभवोऽपि स्वाभविको भवति । मेढ़ धूमायतीव, अत्युष्णधूम- सन्तप्तमिवानुभूयते ॥ ३४-३५॥ अथ मलानामपि दूष्यत्वादन व पुरीप-मूत्र-स्वेदादीना क्षयलिङ्गान्याह पुरीष- इत्यादिभिः प्राचा श्लोकः । अथान जिज्ञासा-कथन्तावद् मलाना दोषाणां च क्षय , सम्यगनुत्पत्त्या वा वहुप्रवृत्त्या वा? तत्र बमः । उभयथापि क्षयो भवति, अमभ्यगत् शातः, २८ सिद्धान्त निदानम् मूत्र ऽल्पं सूत्रयेत् कृच्छाद विवणं लास्गेव वा। स्वेदे जोपच्युतिः स्तव्ध-रोमता स्फुटनं त्वचः ॥ ३७॥ ( अथ दूष्यवृद्धिलिङ्गानि) रसः प्रवृद्धा लिङ्गानि श्लेष्ववत् कुरुते भृशम् । रक्तं तु वृद्ध जनयेट धमनीनां प्रपूर्णताम् ॥ पत्या च बहुप्रवृत्त्या च । यथा ग्रहण्यादौ शोणितस्य असस्यगुत्पत्त्या पाण्डुता, सा पूर्वस्थितरय स्वाभाविकशोणितस्य धातुभिरुपयुज्यमानस्य पुनरापूरणाभावात् , यथा च रक्तपित्ते रक्तार्शसि वा बहुतरशोणितप्रवृत्त्या शोणितक्षयात् पाण्डुता। तस्मात् सम्यगनुत्पत्तिवहुप्रवृत्तिर्वा क्षयहेतुभूता, क्षयस्तु फल मिति तत्त्वम् । स एव ल्याय इहापि सर्वत्र योज्यः । ननु नायं न्यायो मलपक्षे घटते, रसादीना शरीरपोषण- फर्मतया इष्टत्वात्, मलानान्तु शरीरदूपणकर्मतया अनिष्टत्वात्-इति चेत् ? मैवम् । मला हि मूत्र पुरीपदायः शारीरं त्याज्यभाग विपभूतं वहिर्नयन्ति, ते चावरुद्धाः शरीरे तद्विपोपचयमापादयन्ति, अतिप्रवृत्तास्तु न केवलं शारीरविप किन्तु शारीरधातूनपि विशेषतश्च किट्टभाग निःसारयन्ति । असम्भवन्तश्च स्वेदमूत्रादयः शारीरविषम- निष्काशयन्तो वहुविधान् रोगान् जनयन्ति यथा मूत्राघाते भ्रमाऽक्षेपादीन् । तस्मान्मलाना न सर्वथा अनिप्रत्वम् । पुरीपपले परमेको विशेष । पुरीषस्य क्षयो बहुप्रवृत्येव प्राय , न पुनरनिप्पत्त। अभुतानस्य तु सर्वधातुक्षयेण सह अनिष्पत्तेर्वा कथञ्चित् पुरीपक्षयः । मूत्रक्षयस्तु अल्पप्रवृत्त्यादिलक्षणः मूत्रस्य. स्वल्पनिप्पत्त्या। मूत्रस्य वहुप्रवृत्त्या तु काले मूत्रक्षय ---यथा मधुमेहादौ । अथ अतोसारादिभि. पुरीऐ क्षीणे कुक्षौ वायुभ्र मति अन्त्राणि वेष्टयन्निव । किचात्र हुत्पाश्वपीडापि वायुना महाप्राचीरायाः प्रतिघातेन, आमाशयस्य प्रतिलोमसङ्कोचेन च, यावद दौवल्यमपि । मृत्र -- इति । मूत्र क्षीणे मूत्राघातादौ । कृच्छाद वहुप्रयत्नेन । मृत्राघातश्च वृक्कयोमूत्रप्रभवयोः क्रियाप्रतीघातजन्यः । मूत्ररुच्छ्ररोगस्तु पृथगेव, तन हि मूत्रप्रसेकाल्य मूत्रनालस्य संकोचतः कृच्छ्रण मूत्रनिगम । स्वेद इति । स्वेदक्षये स्वेदाऽनिप्पत्त रोम्नां मूलशोपात् पातः, कर्कगत्वात् स्तब्धता च । त्वचश्च स्नेहमार्दवाभावात् स्फुटितत्वम ॥ ३६-३७ ॥ अथ दूप्याणा क्ष्यलिङ्गान्यभिधाय तेषां वृद्धिलिङ्गान्याह रसः प्रवृद्ध-इति । रम प्रवृतः मन् श्लेप्मवन् लिङ्गानि कुरते । श्लेष्मवृद्धौ यानि लिङ्गानि शैत्य- २६ दृग्यवृद्धिलिङ्गानि। पित्तवृद्धश्च लिङ्गानि ब्रण-बीसर्प-विद्रधीन् । कुष्ठ-बातास्त्र-पित्तास्त्र-रक्तत्वङ्-नेत्र-सूत्रताः ॥ ३८॥३६॥ मांसं गण्डाऽव॒द-ग्रन्थि-गण्डोरूदरवृद्धताम् । कण्टादिष्वधिमांसं च, तद्वन्सेदस्तथा श्रमम् । अल्पेऽपि चेष्टित श्वासं स्फिकस्तनोदरलम्बनम् ॥ ४० ॥ ३ S १ . दैत्यादीनि पूर्वोक्तानि तान्येव भृशं जनयतीत्यर्थः। ननु वातक्षयेऽपि श्लेष्म- वृद्धयुक्तामयसम्भवः स्यादित्युच्यते वागभटादिभिराचायः, तत् कथङ्कार ज्ञायता रसवृद्धिांता,वातक्षयोवेति चेदुच्यते। वातक्षये अल्पं भापितेहितं, स्वल्पेनापि श्रमेण अवसादः, शब्दादीनामसहिष्णुतेत्येवमादीनि लिङ्गानि दौवल्यविशेपश्चेति विशेषः। रसवृद्धौ तु हल्लास-प्रसेकादीनामधिक्यम्। श्लेष्मवृद्धभैदरतु प्रतिश्या- यादिलिङ्ग वस्तुतस्तु दुष्करमेव प्रायेण तद्भदाकलनम्। अपतर्पणादि चिकित्सा तु समाना। अथ रक्तं वृद्धं सत् धमनीना प्रकर्षण पूर्णता' रक्तसम्पोड़नाधिक्य जनयेत, पित्तवृद्धिलिङ्गानि च। ते च व्रणा वीसर्पः विद्रधिश्चेति त्वङ्मासादिविकाराः सामान्यत । वातास्त्र वातरक्तं, पित्तास्त्रं रक्तपित्तमित्यर्थः । ननु पित्तवृद्धिलिड्पु पीतविषमूत्रतोक्ता, इह तु रक्त त्वङ् नेत्र-मूत्रतोच्यते इति स्वोक्तिविरोधः-इति चेत् । सत्यम्, रक्तवृद्धावय विशेषः ।। ३८-३६ ॥ अथ मांसं वृद्ध सत् गण्डादीन् रोगान् करोति। अत्र गएडशब्देन गलगण्डो गण्डमाला च गृह्यते -इत्यरुणदत्तः । तच्चिन्त्यम् । मासक्षोणेष्वेव गण्डमालाना प्रायोदर्शनात्, गलगण्डस्य वातश्लेष्ममेदोदुष्टिहेतुकत्वाच । वस्तुतस्तु, इह गण्ड- शब्देन पिड़कोच्यते, तथैव दर्शनात् । तथाच विश्वः-गण्डःकपोले पिड़के योगभेदे च गएडके" इति । गम्भीरव्रणादीना प्रायेण मेटोमासदोपत पव सम्भवाच । अग्रे द्वितीयपादे तु गण्डोरूदरवृद्धतामित्यस्य गण्डादिपु अवयवेषु मासवृद्धि करोतीत्यर्थः । कण्ठादिषु च अधिमासं ग्रसनिकादी मासाकुरान् कण्ठशालूकञ्च कुरुते । मेदस्तु वृद्ध अल्पेऽपि चेष्टिते श्रमं श्वासं च करोति, तथा स्किको स्तनयोरुदरस्य च धमनोप्रपूर्णता= High Blood-pressure सा च प्रायेण वहभोजिनाम् , फिरङ्गादि रोगिणाञ्च। १ --- सिद्धान्त-निदानम् । [ अथ ध्या धिनिष्पत्तिकमः ] दोषाणां सञ्चयः कोपः प्रसरः स्थानसंश्रयः। व्याधिव्यक्तिरिति ज्ञ या परिणामपरस्परा ॥ ४५ ॥ संग्रह । व्याधयस्ले तथात्वे तु लिङ्गानोष्टानि नामयाः" इति । अस्य ह्ययमभिप्राय:- ज्ञानार्थ रोगलज्ञाविशेषप्रतिपत्तये संग्रहे निदानस्थानादौ यानि तत्तद्रोगनिर्वाहक लक्षगान्युक्तानि, ते व्याधयमस्तत्तलिङ्गसमष्टय एवं व्याधयः। तथात्वे तत्तद्रोग- संजानिर्वाहकत्वे च लिङ्गान्येवेटानि न त्वामयाः, तत्तलिङ्गबोधिताभ्यन्तर-विकृति- विशेषा इति। नन्येवं लिङ्गानुमे पाश्चेद्दामयाः, भिन्ना एव ते लिङ्गभ्यस्तर्हि स्वरूपतो रोगाणामज्ञाने नैतावता तृप्तिः सूक्ष्मदृशामिति चेत्, सत्मम्। तत्तल्लक्षण समष्टिवोधिताभ्यन्तरविकृतिपरम्परा एव परमार्थतो रोगा व्याधय गम्भीरदर्शिना सिद्वान्त.। तथापि वक्ष्यमाणसम्प्राप्तिबोधेन तद्बोधसम्भवात् नैदानिकानां लिङ्ग- समष्टिषु व्याधिपदव्यवहारो गौणोऽपि पर्याप्तप्रयोजनः- इति तत्त्वम् । ते चैते व्याधयो नानाविधविभागहेतुभिरनेकविधो उच्यन्ते । यथा अधिष्ठानभेदाद् द्विविधाः-शारीरा मानसाश्च । वाह्याभ्यन्तरहेतुभेदाद् वा द्विविधाः -आगन्तवो निजाश्च । वलप्रवृत्तिभेदात् सप्तविधाः, यथा सुश्रुते व्याधिसमुद्दशीचे-"आदि वलप्रवृत्ताः जन्मवल प्रवृत्ताः, दोपवलप्रवृत्ताः, सङ्घातवलप्रवृत्ताः, काल बलप्रवृत्ताः, दैवबलप्रवृता , स्वभावबलप्रपत्ताश्चेति" ( सु० सूत्र० २४ अ० )। चिकित्सा- सौकर्येण वा द्विविधा' साध्या असाध्याश्च । चतुविधा वा-सुखसाध्याः, कृच्छसाध्याः, याप्याः, प्रत्याख्येयाश्चेति । तैरतैर्विशेषणे विविध विशेषिता व्याधयो बहुधाऽस्मिन् शास्ते श्रूयन्ते इति अविरोधेनोपन्यासः ॥ ४४ ॥ अथ व्याधिनिष्पत्तिःपैः कथङ्कारं क्रियते इति तत्क्रनपरम्परा व्याचष्टे- दोषाणामिति । दोपाणा वातादीनाम् उपलक्षणेन आगन्तुविषाणाच' शरीरप्रविष्टानाम् , सञ्चयादि व्याधिव्यक्ति पर्यन्ता परिणामपरम्परा ज्ञया । सञ्चः कोपश्चेति वृद्वेरेवावस्थाद्वयम् । ततः प्रसरः सर्वत्र शरीरे । ततो हृदय- यकृत् प्लीह फुस्फुसादि-स्थानेषु एकस्य एकाधिकस्य वा दोषस्य सश्रयः सम्यगा- श्रयणम् । ततो व्याधेव्यक्ति प्रकाश स्वैलिङ्गः। सेय परिणामानामुत्तरोत्तर- विलक्षणावस्थाना परम्पराक्रमधारा सम्यग् विज्ञातव्येत्यक्षरार्थ । तत्र -- है १। यथा अलर्क विषादीना क्रमेण सञ्चयाद्यवस्थाः, अन्ते च जलनासादि। . Pear व्याधिस्वरूपनिरूपणम् । ३३ १ . अत्रेदमवधेयम्। सञ्चयो नाम सम्यगुपचयः, अस्वाभाविकोपचय इति यावत् कोपः किण्व-पिष्टसमवायोत्थसुरासन्धानवविकृतिपूर्वमुन्मार्गगमनम् । उभयमप्येतत् वृद्धेरेवान्तर्भूतम्। उक्तञ्च वागभटेन- "वृद्धिहि हुधा चय-प्रकोपभेदेन' ( अष्टाङ्ग- सं० सू० २१ अ० ) । पुनश्च द्विविधा-प्राकृत-वैकृतभेदेन । तन्न प्राकृती चतुर्विधा- वयोऽवस्थाश्ता, दैनन्दिनी, भुक्तपरिणामजा, आर्तवी चेति । तत्र वयोऽवस्थाकृता यथा - वाल्ये प्रवर्द्धते श्लेष्मा, यौवने पित्तम, वार्धक्ये वायुः। दैनन्दिनी यथा-- पूर्वाहे कफः, मध्याह्न पित्तम् , अपराह्ने वायु. । प्रदोषे कफः, मध्यराने पित्तम् , रात्रिशेषे वायुरिति च। भुकपरिणामजा यथा- अनजरणास्यारम्भे कफा, मध्ये पित्तम् , शेपे वायु । आत्तैवी यथा-वसन्ते कफः, शरदि पित्तम् , प्रावृषि वायुः । वचनश्चात्र सर्वार्थसंग्रहकम्- "बायोऽहो-रात्रि-भुक्तानामन्तमध्यादिगाः क्रमात्” इति ( अष्टाङ्गहः सू० १ सु०)। सुश्रुते तु स्पष्टतरमुक्तम् यथा-( वायुः ) "स शीताभ्रप्रवातेषु धर्मान्ते च विशेषत. । प्रत्यूपस्यपराहे च जीर्णऽन्न च प्रकुप्यति"। ( पित्तम् ) “तदुष्णैरुष्णकाले च मेधान्ते च विशेषतः। मध्याह्न चाधराने च जीयंत्यन्ने च कुप्यति" ॥ (कफः ) "स शीतैः शीतकाले च वसन्ते च विशेषतः। पूर्वाले च प्रदोपे च भुक्तमात्रे च कुप्यति" ॥ (सु० सू० २१ अ०) इति । वैकृतौ चयकोपौ तु प्रायेणैतदतिरिक्तहेतुसम्भवौ पृथगेव, प्राकृतहेतुजेर्विकारैः सङ्कीर्णौ च बहुधा । न हि प्राकृत-वैकृत विकारा सर्वत्र सर्वथा पृथग विवेत्तु शक्या:-इति सोपः। ननु यदुक्तं चय- प्रकोपौ वृद्धरेव प्रकारौ इति, तत्र कथमनयोर्भेदप्रतिपत्ति. ? उच्यते । सञ्चिताना दोपाणी स्वस्थानेष्वेव स्वालक्षण्यवाहल्यं निदान-प्रद्वपादि च तत्र भेदकं स्यात्, कुपितानान्तु उन्मागगमनमपीति विशेषः । यथाहै वागभटः- 'चयो वृद्धिः स्वधाम्न्येव प्रदीपो वृद्धिहेतुषु । विपरीत-गुणेच्छा च, कोपस्तून्मार्ग- गामिता।" इति ( अष्टाङ्गसं० सू० २० अ०)। अथ कोपश्चेदुन्मार्गगामिता तहिं प्रसरात् को भेदः । उच्यते । कोपे हि तल्लिङ्गानि स्वस्थानेषु, अन्यत्र च प्रायः प्रादुर्भवन्ति, नैव वा कोपाल्पत्वे । तदुक्तं--"कृत्स्नेऽर्धेऽवयवे वापि यत्राङ्ग कुपितो भृशम् । दोषो विकार नभसि मेघवत् तत्र वर्षति । नात्यर्थ कुपितश्चापि लीनो मार्गेषु तिष्ठति । निष्प्रत्यनीका कालेन हेतुमासाद्य कुप्यति ।" इति (सू० सू० २१ अ० )। प्रसरे तु दोषा एकशो द्विशः समस्ता वा १ । किराव सरावीज, पिष्ट तण्ड लादीनां तयो. सम्मेलनेन यत् कालकृत सन्धानमुत्सेचनक्रिया मुराजननी तद्वद दोपदूष्यसम्मूर्च्छना। २ । निप्प्रतीकार । ५ mata ३४ सिद्धान्त-निदानम् । व्याधयोऽपरिसंख्येय निघलाना सवन्ति हि । रुजा-वर्ण-समुत्थान-स्थान-संस्थान-नामभिः ॥ ४६॥ + - ते तूत्तरासु नेकधा सर्वत्र प्रसरन्ति महानिवोदकसञ्चयः सेतुमवदाय्ये प्रधावितः । तेन तीव्रज्वर- मोहादीनि सर्वाङ्गगतानि लिङ्गानि प्रादुर्भवन्ति आ-स्थानसंश्रयात् । स्थानसश्रये तु प्रायः शाम्यति प्रसरः, स्पष्टीभवन्ति च स्थानाश्रयलिङ्गानि. क्वचिदनुवर्तन्ते च सामान्यलिङ्गानि-- इति तत्त्वम् । त एते पञ्च परिणामाः, पञ्च क्रियाकालाश्च तत्र तत्र क्रमश उपदिष्टाः पूर्वाचाय्यः । तद्विस्तरः सौश्रुत व्रणप्रश्नाध्याये द्रष्टव्यः । ननु सञ्चयादिभेदज्ञानरय सूक्ष्मवुद्धिवेद्यस्य किं फलम् । किञ्च, लिङ्गमात्रज्ञानेनैव प्रतीकारसम्भवे किमनेन विवेकन ? -इति चेत्, शृणु। सञ्चयादिज्ञानेन प्रतीकार सौकर्यमनागतव्याधिप्रतिषेधश्चेति तत्प्रयोजनमाकलयन्ति सुभिषजः । तदुक्तम् सुश्रुते-"सञ्चयेऽपहृता दोपा लभन्ते नोत्तरा गती.। गतिषु भवन्ति बलवत्तरा. ॥"- इति, “सञ्चयञ्च प्रकोपञ्च प्रसरं स्थानसश्रयम् । व्यक्ति भेदं च यो वेत्ति दोषाणा स भवेद् भिपक् ॥” इति च । अथ व्याधीनामसख्येयत्व सहेतुक प्रतिपादयति चरकीयश्लोकेन-व्याधय इति ( च० स० १७ अ०)। व्याधयो रोगा अपरिसंख्येयाः, एतावन्त इति सख्यया व्यवच्छेत्तुमशक्या भवन्ति । हीति निश्चये । 'कथमेवमित्याह-रुजावणेत्यादि । रुजाः पीडाविशेषाः, वर्णा जातयः, रोगाणा भोग्यकालादिविचिनाचिन्त्यस्वभाव- दर्शनात् । समुत्थानानि निदानानि । स्थानानि आमाशय-पक्काशय फुस्फुस हृद्यन्नादीनि रोगाधिष्टानानि । संस्थानानि लक्षणानि । नामानि । संज्ञाविशेषाः । तेर्भिद्यमानाः सन्तः। नामेतिपदेन प्रत्येक सम्वन्थः न तु नामभेदादपि भेद इति व्याख्येयं, तादृशभेदकल्पनाया अयुक्तत्वात्। तथाहि रुजाभेदाद् व्याधिभेदो यथा अतीसारप्रवाहिकयोः। वर्णभेदाद् भेदो यथा तृतीयक-चतुर्थकज्वरयोः । समुत्थानभेदाद् भेदो यथा धुस्तूराहिफेन-जन्यविपलक्षणादीनाम् । स्थानभेदाद् भेदो यथा स एव वायुः सक्थिगतो गृध्रसी, वाहुगतश्च विश्वची जनयति । तदेवं रोगाणामनन्तत्वे सिद्धेऽपि ज्ञाततमा केचिदवश्य ज्ञातव्याः। चरकोऽनुपदमेव-"व्यवस्थाकरणं तेपा यथास्थूलेषु सग्रहः” इति ॥ ४६॥ अतएवाह १। दृष्टान्ताश्चात्र मसूरिकाद्या. स्मर्तव्या । २। क्रिया चिकित्सा। IN - एव व्याधिस्वरूपनिरूपणम् । दोपदूष्यगणेऽभिन्ने संमूर्च्छन-विशेषतः । अदृष्ट-देश-कालादि-परिणामादलेकधाः ॥ ४७॥ पुराणाः प्रविलीयन्ते नवीनाः प्रादुरासते। विभिद्यन्ते स्थिताश्चाथ नृणां नानाविधा गदाः ॥ ४८ ॥ अथैपा वक्ष्यमाणरोगाणा केषुचित् कालान्तर-परिणामादि-कारणविशेप- वशाद्विलुप्तप्रायेपु. अन्येषु रूपान्तरं प्राप्तेषु, अपरेषु च नवीनरूपैः प्रादुर्भूतेषु तत्तद्रोगविनिश्चयोपक्रमाऽसमर्थप्रायानुपलभ्य वैधविधोपजीविन आभिप्राय स्पष्टोकुर्वन्नाह-दोषदृष्येति । दोपा वातपित्तकफोः, दूष्योणि रसरक्तादीनि, तेपां गणः समूह , तस्मिन्नभिन्ने सर्वत्र सर्वदा स्वरूपतस्तथाविध वर्तमानेऽपि । अदृष्टदेशकालोदिपरिणामाद्धेतोः -अदृष्टस्य पूर्वस्मिन्नस्मिंश्च जन्मनि शुभाशुभकर्मफलरूपस्य, देशानां कालस्य चानेकधा परिणामात् नानाविध- विपर्ययात् । कालाटोत्यादिपदेन नानाविधमिथ्याहारविहाराणामधुना प्रचलिताना ग्रहणम् , तानेव हीदानी नियमेनोपयुञ्जते वहवः, ततोऽपि नवनवरोगविशेपसमुद्भव इति भाव। संमूर्छनविशेषतः--तथाविधविपर्ययजनित-दोपदूष्यसंघटनप्रकार- भेदात् । पूराणाः, प्रसिद्धाः प्राचां ग्रन्थोक्ताः। प्रविलीयते विलुप्तो भवन्ति, गदा रोगा इत्यन्वयः। नवीना अभिनवाश्च रोगाः प्रादुरासतं प्रादुर्भुय तिष्ठन्ति । विभिद्यन्ते स्थिताश्चेति - त एव रोगाः भिन्नरूपाः सन्तो रोगान्तर- वत् प्रतीयन्ते । तत्र पुराणरोगाणां विलोपो यथा शूकदोष-केशसोमंतकृज्ज्वरादीनाम् तथाहि सुश्रुते व्याधयस्तत्र जायन्ते दश चाष्टौ च शूकजा" इत्यादि. "असाध्यो बलवान् यस्तु केशसीमन्तज्वर.” इति च। स्थितानां भिन्नरूपत्वं--यथा माधवीयनिदानोद्धृत-चरकोक्त समत्रिदोष-सन्निपातादेः । नहीदानी प्रायः सन्निपात ज्वरे--कोठाना श्यावरताना मण्डलानाञ्च दर्शन" भवति । नवानां प्रादुर्भावः, यथा फिरङ्गरोग प्रन्थिकाऽशेपक-ज्वरादीना वक्ष्यमाणानाम् । अत्र चार्थे प्राचा सम्मतिर्थथा चरके-"विकारनामाकुशलो जिहियान्न कदाचन । नहि सर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः"-इति । अस्य ह्ययमभिसन्धिः । अनन्ताः खलु रोगा अधूवस्थितयश्च, अमी च समुत्पन्नाः समुत्पद्यमानाः समुत्पत्स्यमानाश्च न तावत्सर्वे शक्या निर्देष्टुमियत्तया नामत । ये पुनरिदानी प्रसिद्धास्तेऽस्माभिर्निहिस्यन्ते नामलक्षणादिभिः , कालान्तरागामिनस्तु लक्षणादि- परिलक्षणेन सम्यग वेदितव्याः। न चेद लज्जापदं यदस्मदीयसंहितायामपि , खल्व- ३६ सिद्धान्त-निदानम् । प्रबन्धेषु ततः प्राचामुक्तानुक्काकृती"गदान् । आविष्कृततमान् बला फुटलिङ्गान् लमालतः॥ ४६ ॥ केपाश्चिद्रोगाणा न लभ्येरन् लक्षणादोनीति । निरवधिहि कालो विपरिणामी नियतपरिवृत्तिशीलञ्च जगत् , कथं स्वत्र नियमो ध्रवसंस्थानलक्षणास्तथाविधा एव सदा वर्तेरन् रोगा इति । अन्यवाह सुश्रुतोऽपि- अनुक्तमपि दोषाणां लिङ्गाधि- सुपाचरेत्” इति (सु० सू० ३५ अ० )। अस्य ह्ययमभिप्रायः। वहव स्माभिरभिहिता रोगाः, सन्ति चेतरे समुत्पत्स्यमाना थे नेह शक्या विवरीतुम । उपक्रमस्तु तेषां लक्षणदर्शनाद्दोपसंयोगविशेपानुमानतो दर्शितदिशा तत्तद्दोष- प्रशमनाथु पायविधानेन विधेय इति । तन्वेवमास्तां नवीनरोगसंघो नाम, तथापि यदि सौश्रुतेङ्गितानुसारेण तत्त- द्रोगारम्भकटोपानुमानपुरःसर दोषप्रशमनभेषजादिप्रदानेनैव तत्तद्रोगनिवृत्तिः, अलं तहि नवीनरोगलक्षणपरिज्ञानप्रयासेनेति चेत् उच्यते । त्रिविधो हि रोगाणामुपक्रमो भवति हेतुप्रत्यनीको व्याधिप्रत्यनीक उभयप्रत्यनीकश्चेति । तन स्वल्पबलदोषारब्धो हेतुप्रत्यनोकोपक्रमेण, मध्यवलदोषारब्धो व्याधिप्रत्यनीकोपक्रमेण, महाबलदोपारब्ध- स्तूभयप्रत्यनीकोपक्रमेण प्रशाम्यति रोगः, इति चिकित्सातत्वविदा सिद्धान्तः । बक्ष्य- माणनवीनरोगास्तु प्रायशो मध्यवलदोपारब्धा महाबलदोषारब्धा वा दुरुपक्रमाश्चेति व्याधिप्रत्यनीको हेतुव्याधिप्रत्यनीको वैषां भवितुर्महत्युपक्रमः। तादृशोपक्रमश्च व्याधिविशेषनिश्चायकात्तचिकित्साविशेषोपदेशकादागमाते न शक्यः कत्तुंम् । सौश्रुतोपदेशस्तु स्वल्पवलनवीनरोगेष्वेव चरितार्थो नाधिकबलनवीनरोगेष्वित्यमोघ एवायमभिनवरोगलक्षणपरिज्ञानप्रयास.। किञ्च, अनभ्यस्तनवीनरोगलक्षणविशेषो भिपङ् नवीनरोगेषु परिज्ञात-रोगलक्षणसादृश्यदर्शनात् सशयानो नैव वा शकनुया- द्रुजा' प्रोतिकत्तु, हन्याद्वाऽतुरमञ्चसोपक्रमणेन । न चायमलं पूर्वत एव प्रतिविधातु वक्ष्यमाणश्वसनकसन्निपातस्य पञ्चमे सप्तमे वा दिवसे भविष्यन्तीमकस्माज्ज्वर- निमुत्तिं वहुधा प्राणान्तकरीम्, आन्त्रिकाख्ये सन्निपाते च द्वितीये तृतीये वा सप्ताह जनिष्यमाणं रक्तस्त्रावञ्च प्राणान्तकम् । तस्मादितोऽपि पुष्कलफलो नवीनरोगल- क्षणास्यासप्रायास.:।। अतएवाहुः-'तस्माद्विकारप्रकृतीरधिष्ठानान्तराणि च । समुत्यानविशेपाश्च वुद्धा कर्म समाचरेत् ।।" इति ( च० सू० १८ अ० ) ॥४६४८ ॥ अर्थन कालिकनिखिलरोगाणामानन्त्य विशदीकृत्य विवक्षतं प्रतिजानीते- विन्धेष्विति । ततः, यत एवं तस्माद्वतोः । प्राचां पूर्वाचार्याणा प्रवन्धेषु ।

३७ . व्याधिस्वरूपनिरूपणम् । निजाश्चागन्तुकाश्चेति सामान्याद व्याधयो द्विधा । तेष्वेके कर्मजा अन्ये कुलजाश्चेति निश्चयः॥ ५० ॥ ग्रन्थेषु उक्ताकृतीननुक्ताकृतींश्च, स्पष्टोक्तस्वरूपानस्पष्टोक्तस्वरूपाननभिहितस्वरूपा- श्चेति फलितार्थः । स्फुटलिङ्गान् परिव्यक्तलक्षणत्वेन सुप्रसिद्धान् गदान रोगान् समासतः सक्षेपतो व्रमो वर्णयामः । नन्वपरिसख्येया रोगो इति स्वय प्रतिपाध कथमधुना त एव परिसंख्याय वर्णनीयास्त्वयेत्याशंक्य विशेषणमाह- आविष्कृत- तमानिति । आविष्कृततमाः सम्यक स्वरूपादिपरिज्ञानेन य इदानी परिज्ञाततमास्ता- नेव व मो न तु सर्वान् , सर्वेषां स्वरूपवचनस्याशक्यत्वात् । दयश्चापी शैली यदाविष्कृततमवचनं नाम । तथाहि चरकः - "अशीतिर्वातजा विकारा” इत्युपक्रम्य उपसंहरति "इमे ह्याविष्कृततमा" इत्यादि । ( च० सू० ११ अ०) । एवञ्च कालान्त- रागामिनोऽपि रोगाः स्फुटलक्षणा अवश्य वेदितव्या वर्णयितव्याश्चेति सूच्यते ।। ४६ ॥ अथ रोगाणामसंख्येयत्वेऽपि सामान्यतो द्वधा विभाग, तन च वैशिष्ट्य दर्शयन्नध्यायमुपसंहरति-निजाश्च इति । निजा मिथ्याहारविहारादिहेतुकाः । आगन्तुका आगन्तुहेतुमाश्च वक्ष्यमाणाः। इति सामान्याद् व्याधयो द्विधा भिद्यन्ते वक्तमानेष्वपि पूर्वोक्ताऽवन्तरभेदेषु। तेषु विशेषमाह-तेष्विति । तेषु चेत्थ भिद्यमानेषु रोगेषु मध्ये एके कर्मजाः पूर्वस्मिन्नस्मिंश्व जन्मनि कृताना कृष्ण- कम्र्मणां विपाकसमुत्थाः। अन्ये केऽपि कुलजाः पितृमातृकुलाभ्यामागताः यथा श्वासोन्मादाऽपस्मार-फिरङ्गरोगाद्याः। इति निश्चयः प्राचामिति' शेपः। ननु कुलजा अपि कर्मजाः, तत्तदरोगिकुलेषु जन्मनोऽपि प्राक्तनकम्मफलभूतत्वादिति चेत् । पवमस्तु । लोके पृथग् व्यवहारदर्शनात् पृथगुक्तिः। अथ कथं जायते कर्मजा इमे रोगाः - इति ? उच्यते । समीचीनोपक्रमेऽपि फलाऽदर्शनादाकलयामः कम्मंजान रोगान् , तपोदानादिभिरुपशमदर्शनाच्च। तदुक्तं---'क्रियाना' कर्मजा रोगाः प्रशमं यान्ति तत्क्षयात्” इति । इति महामहोपाध्याय श्रीगणनाथसेन-शर्म-विद्यासागर-सरस्वती विरचिते सिद्धान्तनिदान - दोपदष्यादिनिर्णयाख्यः प्रथमोऽध्यायः। १। अाधुनिकानान्तु मते न सन्ति प्राक्तन कर्मजाः रोगा नापि पापजाः। रोगोत्पादक- लोकिककर्मजास्तु सन्त्येव । तदेतत् नास्तिकमत नाश्रयणीयम् ।

अथ द्वितीयोऽध्यायः। [ ध्याधिविनानम् ] निदानं पूर्वरूपञ्च रूपञ्चोपशयस्तथा । सम्प्राप्तिश्चेति विज्ञानं रोगाणां पञ्चधा स्मृतम् ॥ १ ॥ - इह खलु रुजन्ति शरीर मनश्चेति शरीरमनसोरावारा विशिष्टलक्षणसमष्टि- भूताः, तद्वोधितास्यन्तरविकृतिविशेषरूपा वा भावा रोगा., रोगविनिश्चयश्च रोगाणां विशेषेण निश्चितं ज्ञानम् . तत्पञ्चभिनिदानादिभि. सुविज्ञातैः सम्पद्यते इति प्रथमतस्तान्याह-निदानमिति । रुजं रोगाणा विज्ञान विशेषज्ञान स्वरूपाव- धारण पञ्चधा पञ्चप्रकारक विदितं प्रसिद्धम् । पञ्चभिर्भावैः सम्पद्यते, पञ्चविधज्ञान- समष्टिभूतमिति फलितार्थ । ते च पञ्च भावाः, निदानं पूर्वरुपं रूपमुपशयः सम्प्राप्तिश्चेति । अन विज्ञानमिति विशिष्ट ज्ञानम् । भावे ल्युट् न करणे । न हि निदानादयो ज्ञानकरणानि किन्तु ज्ञानविषयाः, निदानादिभिरेव हि सुपरिज्ञातैविज्ञातोऽयं रोग इति व्यपदेशात् तज्ज्ञानव्यतिरिक्तस्य रोगविज्ञानस्य चाप्रसिद्धत्वात् । अतएव चरकः तस्माद्व्याधिन् भिषगनुपहतसत्त्ववद्धिहेत्वादि- भिर्भावैर्यथावदनुवुध्येत" इति। अत्र भावैरिति स्पष्टमाह परमपिन तूपायैरिति मतिमद्भिरवधेयम् । यत्तु माधवीयनिदानव्याख्यायां विजयरक्षितः--"व्याधेातव्यस्य पञ्चधा ज्ञानोपाया भवन्ती” त्युपक्रम्य “व्याधिनिश्चयकरण निदानमिति निदानपञ्चक- सामान्यलक्षण" मित्याह तञ्चिन्त्यम् । आपमतविरोधाद्य क्तिविरोधाच्च। तत्रार्ष- मतविरोधो यथा,-सुश्रते"पविधो हि रोगाणा विज्ञानोपायः, तद्यथा पञ्चभिः श्रोत्रादिभिः प्रश्नेन च”–इत्याचक्षाणो धन्वन्तरि षडिधमेव रोगविज्ञानकरण- मन्यदेव निदानादिपंचकादुपदिदेश । एवं चरकेऽपि भगवानालेयः "त्रिविधं खलु रोगविशेषविज्ञान"मित्यारभ्य "प्रत्यक्षतस्तु खलु रोगतत्त्वं बुभुत्समानः सर्वैरिन्द्रियैः सर्वानिन्द्रियार्थानातुरगतान् परीक्षेतान्यत्र रसज्ञानात्" इत्यादिना तथैवानुशास्ति स्म । स्फुटश्चैवमार्षाभिप्रायो यथा एतान्येव जानकरणानि, विज्ञान- विषयास्तु निदानादयो न विज्ञानकरणानीति । अथ निदानादीना करणत्वस्वीकारे युक्तिविरोधोऽपि स्पष्ट एव । व्यापारवद्धि कारण करणमुच्यते, व्यापरश्च निदानादीना न शक्यः सम्यक् प्रतिपादयितुम् । अथ लिङ्गज्ञानेन -- . -- -- कश्चन क : पञ्च निदानम् । [ अथ निदानम् ] वाह्य निमित्तं रोगाणां निदानमिति कीर्तितम् । विधाय धातुवैषम्यं साक्षाद् वा रोगकारि तत् ॥ २ ॥ लिङ्गज्ञानमिति निदानादोनि लिङ्गिनी व्याधेराभ्यन्तरविकृतिरूपस्य बोधकानि, तथा च करणानि सन्त्विति चेत्, मैवम् । न हि निदानादीनां क्वचिद व्याधिबोधक- त्वेऽपि करणत्वं सुसाधम् । न खलु वह लिङ्ग धूमो वह्रिज्ञानं प्रति करणम् यत्र यत्र धूमस्तत्र तत्र वहिरिति व्याप्तिज्ञानन्तु करणम् । तथा चाहुरतार्किका "ध्यापारस्तु परामर्श करणं व्याप्तिधीभवेत्। अनुमाया ज्ञायमानं लिङ्गन्तु करणं न हि" इति । न च निदानादीना सर्वेषां लिङ्गत्वमपि, निदानादिपञ्चकान्तभू ताया सम्प्राप्ताधिलिङ्गत्वाभावात् । व्याधिस्वरूपं हि सप्राप्तिर्वोध्या नतु वोधिका । तथाहि चरकः--"सम्प्राप्तिातिरागतिरित्यनान्तरं व्याधे" इति । एवञ्च "एते पञ्च व्यस्ता. समस्ताश्च व्याधिबोधकाः, न च समस्तपक्षे कृतकरणत्व वाच्यम्" इत्याद्यपि रक्षितोक्तं परास्तम् । न खलु करिणः शुण्ड-कर्ण-चरणादिभिरचयवैद्यस्तैः समस्तैश्च परिज्ञातैः सम्यक् करिपरिज्ञान भवति, कि तर्हि, समस्तैरेव । व्यस्तैः खल्ववयवै परिज्ञातैरवयविपरिज्ञान पुनरन्धेन नीयमानानामन्धानामेव श्रेयसे न चक्षुष्मतामित्यलं बहुप्रसङ्गन ॥ १ ॥ अथ निदानादोना मध्ये प्रथमं निदानपदार्थ व्याचष्टे-बाह्यमिति रोगाणा वाह्य न त्वाभ्यन्तर कारण मिथ्याहारविहाराभिधातादि निदानमिति कोत्तित परिभापितं परमर्षिभि' पूर्वेः। निमित्तपदं समवायिकारणाना दोष दूण्याणामसमवायिकारणस्य तत्संयोगस्य च वारणार्थम् । तच्च निदानं द्विविधं सम्भवतीति दर्शयन्नाह -विधायेति । धातूना वातपित्तकफाना रसरक्तादीनाञ्च वैषम्यं स्वाभाविकपरिमाणविपय्यय विधाय कृत्वा धातुवैपम्पद्वारेणेत्यर्थ. । अथवा साक्षात् प्रथमतो धातुवैपम्यमकृत्वैव सद्यो रोगकारि, रोगाणा शारीरमानसाना व्याधिना करणशीलं तत् सम्पद्यते। ते च रोगाः क्रमेण धातुवैषम्यसम्भूता निजो इति, • आगन्तुहेतुजास्त्वागन्तुजा इत्यागन्तव इति वा व्यपदिश्यन्ते । उक्तश्च--"द्विविधा प्रकृतिरेपामागन्तु-निजविभागात् । मुखानि ते खल्वागन्तोनख दशनपतनाभिवाताभिचाराभिशाप-वध-वन्धन-व्यधन-वेष्टन-पोडन-रज्ज-दहन-शस्त्रा शनि-भूतोपसर्गादीनि । निजस्य तु खलु मुखं वातपित्तश्लैष्मिकं वैषम्यम् ।" इति (च० सू०२० अ० )। १ । प्रकृति स्वभावः । प्रत्यासन्न कारणमिति चक्रः। २ । मुखानि कारणानि ।

४० तद्यथा- - सिद्धान्त-निदानम् । तथाच धातुबैपश्यद्वारेण रोगोत्पादनशील सामान्यं निदान, साक्षाद्रोगोत्- पादनक्षमं विशिष्टं निदानमिति फलितोऽथैः । दोपजत्वसामान्येऽपि विशेषमेतत्- काय्ययोराह चरकः “आगन्तुर्हि व्यथापूर्वमुत्पनो जघन्य' वातपित्तश्लेष्मणा वैषस्यमापादयति । निजे तु वातपित्तश्लेष्माण. पूर्व वैषम्यमापाद्यन्ते जघन्यं व्यथामभिनिवर्तयन्ति"इति । ( च० सू० २० अ०) । एतच्चाखिलमपि निदानं सूक्ष्मदृशा त्रिविधमप्याचक्षते ऋषयः । "दयोस्तु खल्वागन्तुनिजयोः प्रेरणम् – असाम्येन्द्रियार्थसंयोगः प्राज्ञापराधः परि- णामश्चेति"। (च० सू० २० अ०)। तत्र इन्द्रियार्थाना शब्द स्पर्श-रूप-रस- गन्धानामयोगाऽतियोग-मिथ्यायोगा- असात्म्येन्द्रियार्थसंयोगः। वाड्मनःशरीर- प्रवृत्तीनामयोगाऽतियोग मिथ्यायोगाः-प्रज्ञापराधः । शीतोष्ण-वर्ष-लक्षणस्य कालस्याऽयोगातियोगमिथ्यायागाः- परिणामः । अभिघातादीनामधर्मस्य च प्रज्ञापराध एवाऽन्तर्भावः । अब निखिलार्थसंग्राहकं निदानसूत्रमपि चरके यथा-"कालवुद्धीन्द्रियार्थाना योगो मिथ्या न चाति च । द्वयाश्रयाणां घ्याधीना विविधो हेतुसंग्रहः ॥” इति (च० सूत्र० १ अ०) । एवञ्च निदानपदाभिधेयं हेतुजातं वाह्यमेवेति संशयच्छेदि वचः पवस्यति परमषीणाम् । तथाच ' आभ्यन्तर तु निदान दोषा दूष्याश्चेति"-कस्यचिद् वचन- मसमञ्जसमेव । निमित्त हि निदानमुच्यते कुलालादिवत् घटादेः। दोपा दूष्याश्च विक्रियमाणाः समवायिकारणं न निमित्तम् , ततश्च न निदानपदाभिधेयतामहन्तीत्य बोचाम। स्पष्टं चाहुरन्यन - "इह खलु निदान-दोप दूष्यविशेपेभ्यो विकाराणां विघात-भावाऽभावप्रतिविशेपा भवन्तीति" ( च० नि० ४ अ० )। यदि दोपा दृष्याश्च निदानमेव स्युस्तहिं कथं नामेह ते पृथङ् निद्दि श्येरन् ? तस्मानिदान वाह्यमेव नाभ्यन्तरमिति सुदृढः सिद्धान्तः। वङ्गालेनसंग्रहेऽप्युक्तं - "येनाहार- विहारेण रोगाणामुद्भवो भवेत् । क्षयो वृद्धिश्च दोपाणा निदानं हि तदुच्यते ।" इति । अत्रापि दोपनिदानयो. पार्थक्यं स्पष्टम् । इमञ्चाषमतसिद्धान्तं भास्करोदयाख्ये रोगविज्ञाने रपटमाह श्रीगङ्गाधरोऽपि-"त्रिविधान्येतानि विकारस्य धातुवैषम्यस्य बाहानि कारणानि, न च सन्त्याभ्यन्तराणि कोरणानीत्यादि।" एवञ्च "सर्वेषा- मेव रोगाणा निदानं कुपिता मला"इति वाग्भटीयवचने निदानपदप्रयोगो हेतुमात्रपर इत्यवसेयम् । ननु कथं तहि सुश्रुतः "सर्वेषाञ्च व्याधीना वातपित्तश्लेष्माण एव मूल" मिति (सु० सू० २४ अ.) १ उच्यते । सर्वेषा खलु व्याधीना १। जघन्य पश्चात् । २ । प्रेरण प्रयोजकं कारण निमित्तमित्यर्थः । ।

४२ पञ्चनिदानम् । मिथ्याहारविहारादि सामान्य समुदाहृतम् । विशिष्ट विषशस्त्रातिक्रिमिव्यालादि कीर्तिनम् ॥ ३॥ . - समवायिकारणानि वातादीनि, मृदादिवत् घटादेरित्यभिप्रायः । न हि तन निदानपदं प्रायुक्त शास्त्रकारः। आह च तलैव- 'यथाहि कृत्स्नं विकारज्ञात विश्वरूपेणावस्थित सत्वरजस्तमासि न व्यतिरिच्यन्ते एवमेवे" त्यादि ! यत्तु "नानामुनीनां वचनैः" प्रन्थनिर्माण प्रतिज्ञाय सत्सु पूर्वोक्तचरकादिकृत निर्दोषलक्षणेष्वादावेव 'निमित्तहेत्वायतने ' त्यारभ्य इति प्रोक्तो निदानार्थरतद्- व्यासेनोपदेक्ष्यते" इत्यन्तमना सन्दर्भमुद्दधार माधवकरः, तत्रादौ निमित्त- हेत्वायतने" त्यादि निदानलक्षणं तावद् विचार्य्यते । पर्यायकथनं ह्य तन्न लक्षण भवितुमर्हति । नहीन्द्रस्य स्वरूपे वक्तव्ये "इन्द्रो मरुत्वान् मघवा विडोजाः पाकशासनः" इति पर्याप्त लक्षणं भवति । यच्चेदं व्याचक्षाणो विजयः- 'तस्मान्निदानादिभि. पर्यायैरभिधीयमानत्वं निदानत्व" मिति, तदाग्रहमूल मेव । न खल्वेतादृशं लक्षणं कचिद् दृष्ट श्रुतं वा, नाप्येतेन ग्वरूपप्रतिपत्तिः । यच तेन "सेतिकत्र्तव्यताको रोगोत्पादको हेतुर्निदानम्" इति स्वयं लक्षणं सूचयता प्रथम- मेव "सनिकृष्ट-विप्रकृष्ट व्यभिचारि प्राधानिकभेदाच्चतुर्थे"ति हरिचन्द्रकृतं निदान- भेदचतुष्टयमुपन्यस्तं, तदपि चिन्त्यम् । तथाहि "व्यभिचारी हेतु म यो दुर्बलत्याद् व्याधिकरणासमर्थः" इत्युक्तं, तथा चेन्नासौ रोगोत्पादकस्तहि भवत्कृतेन लक्षणेन न व्याप्य इत्यव्याप्तिर्नाम लक्षणदोपः । अस्मन्मते तु रोगोत्पादनशीलं वाह्य निमित्तं निदानमित्युक्तेः नैप दोषः । अथ 'बाह्यभ्यन्तरभेदाच्च द्विधे"ति यदुक्तं तेनैव, तत् सर्वथा प्रामादिकमिति सप्रमाणमवोचाम। एवञ्च दोषदूष्याणा भेदप्रपञ्चकथनं रक्षितकृतं निदानार्थव्याख्यायामनुपयोगीत्यलमकाण्ड भेद विस्तरख्यापनेन ॥ २ ॥ अथ पूर्वोक्त विविध निदान दृष्टान्तप्रदर्शनेन स्फुटीकरोति-मिथ्याहारेति । सामान्य सामान्याख्यं निदानं निजरोगनिमित्त मिथ्याहारविहारादि, आहाराचारादि- व्यतिकमरूपं, समुदाहृत सम्यग उदाहरणेः प्रदर्शित चरकादिग्रन्थेषु। विस्तरश्चान प्राचीन पद्येषु यथा-ध्यायामादपतर्पणात् प्रपतनागङ्गात् क्षयाजागाद्, वेगानाञ्च विधारणादतिशुचः शैत्यादतित्रासतः । लक्ष क्षोम-कपाय-तिक्तकटुकैरेभिः प्रकोपं व्रजेद् वायुरिधरागमे परिणते चान्नेऽपराह्नऽपि च ।। कालोण-विदाहि- तीक्ष्ग लवण क्रोवोपवासातप-लोसंपर्क-तिलातसी-दधि-सुरा-सूक्तारनालादिभि । भुक्ते जीर्य्यति भोजने च शरदि ग्रीष्मे सति प्राणिना मध्याहे च तथाईरानसमये पित्तं .. ६ सिद्धान्त निदानम् । वै । प्रसोई मजेत् ॥ गुरुमधुररसातिस्निग्धदुग्धेशुभक्ष्य द्रवदधि दिननिद्रापूपसर्पिःप्रपूरः तुहिन पतनकाले श्लेषणः सप्रकोपः प्रभवति दिवसादी भुक्तमाने वसन्ते ॥"-. इति । तदिदं सामान्य निदानं धातुवैषम्यं जनयद्रोग निर्वतयत्तीयुक्तपूर्वम् । अथ विशिष्ट विशिधात्यं तु निदानमागन्तुरोगनिमित्तं साक्षाद्रोगफारि विषशस्त्राग्निक्रिमिठ्यालादि- कीर्तितं प्रसिद्धम् । तन विपपानशस्त्रप्रहाराग्निदाहा., स्थूलाः प्रिमयी, व्यालाना सादीना दंशनादि चेति स्थूलतमानि विशिष्ट निदानानि । जीवाण्यपरपायाः कुष्टादिकर्माणः सूट-साः किमयरतु-- सूक्ष्मतमं विशिष्ट निदानमिति विशेषः । अभिधातादिस्थूलकारणमारभ्य जीवाणुपर्यन्त सूक्ष्म यत् किञ्चित् बाह्यकारणं तदेव विशिष्ट निदानमिति फलितार्थः । अथान केचिहिप्रतिपद्यरन्- ननु कोऽयमश्रुतचरो जीवाणुकारणवादो नाम ? नहि जीवाणवो रोगकारणानीति छापि ऋषिभिरनुमतं पश्यामः, उपलभ्यमानाश्च जीवाणवः कााण्येव दोपदूष्यविकारजानि स्युर्न कारणानीति न वयं प्रतिपद्यामहे पाश्चात्यमत जीवाणवः क्वापि रोगकारणमिति । तान् प्रति ब्रूमः। न खलु कल्पनामावमिदं केपाञ्चिद् यदेप जीवाणुकारणवादो नाम, प्रत्यक्षप्रमाणोपलव्धे- स्तदन्वयव्यतिरेकानुविधायित्वाद्रोगाणामार्पसम्मतिदर्शनाञ्च। तत्र प्रत्यक्षप्रमाणो- पलब्धिय॑था संक्रामकरोगेषु कुष्ठयक्ष्मादिषु प्रत्यक्ष दृश्यन्ते सूक्ष्मा जीवाणव शोणितश्लेग्मादिगताश्चक्षुषाऽणुवीक्षणादियन्त्रसहायेन । पृथविधाश्ते प्रति- संक्रामकरोगम् । इदञ्चेदञ्च नः प्रत्यक्ष यतैस्तैर्जीवाणुभिः प्राण्यन्तरेषु परीक्षार्थ सनामितैरुत्पाद्यन्ते ते ते रोगाः । तदन्वयव्यतिरेकानुविधायित्वं च रोगाणां यथा-यत्र यत्र ते ते सक्रामिणो रोगास्तत्र तत्र ते ते जीवाणवः। यत्र यत्न न ते जीवाणवस्त्र तन न ते रोगा इति । तथा च प्रतिपाद्यते काप्यकारणभावः । आपसम्मतिश्चानार्थे भूयसी दृश्यते- तथाहि कुष्टाधिकारे सुश्रुत.-"सर्वाणि कुष्टानि सवातानि सपित्तानि सश्लेष्माणि सकिमीणि भवन्त्युपसंग्रहतस्तु दोषग्रहणमभिभवात्" इति (सु० नि० ५ अ०)। नच वाच्यं सहचारित्वमेवेह क्रिमीणामुपदिष्ट न कारणत्वमिति। यतश्चरकार्थमनुवदन् वाग्भटोऽप्याह- "रक्तवाहिसिरास्थाना रक्तजा जन्तवोऽणवः। अपादा वृत्तताम्राश्च सौक्ष्यात् केचिदर्शनाः। केशादा लोमविध्वंसा लोमट्टीपा उदुम्बराः। षट् ते कुष्ठक- कर्माणः सहसौरसमोतरः” इति । इह इत्युक्ते स्पष्टमेव जीवाणनां कारणत्वम्। एवं सुश्रुतोऽपि "रक्ताधिष्टानजान् प्रायो विकारान .- जनयन्ति ते" (सु० उ० ५४ अ० ) इति रक्तजक्रिमीर्णा प्रायेण रक्ताधिष्टानजरोग- कुष्ठ ककर्माण पञ्चनिदानम् । (अथ पूर्वरूपम् ) पूर्वरूपं भवेल्लिङ्ग भाविव्याधिप्रबोधकम् । सामान्यञ्च विशिष्टश्च द्विधा तदपि कीर्तितम् ॥ ४॥ कारणत्वं प्रतिपदे, दर्शयामास च तास्तान् रोगान् कुष्ठ-वीसर्प पिड़का-मशक- नीलिका तिलकालक-न्यच्छ-व्यङ्गोन्द्रलुप्त प्लीह-विद्रधि गुल्म वातशोणितादीन् (सु० सू० २४ अ०) । इदञ्च जीवाणुकारणवादस्य बीजं दर्शयतः सुश्रुताचार्यस्य संग्रह- वचनम् -'प्रसङ्गाद् गात्रसंस्पर्शानिःश्वासात्सहभोजनात्। सहशय्यासनाचापि वस्त्रमाल्यानुलेपनात् । कुष्ठ ज्वरश्च शोपश्च नेत्राभिष्यन्द एवच । औपसनिक- रोगाश्च संक्रामन्ति नरान्नरम्" इति (सु० नि०५ अ०) । अन ज्वर इति न सवैविधो ज्वरः, किन्तु प्रन्धिकसन्निपातादिरेवेनि व्याख्येयम्। शोपो राजयक्ष्मा। औप- सर्गिकरोगा मसूरिकादयः। तदेवं सुश्रु तेन संक्रामकरोगाणा संक्रमणकारणसूत्रणेन सम्यग् दिग्दर्शिता । "केशादोद्यास्त्वदृश्यास्ते' (सु० उत्तर० ५४ अ०)इति वचनेन अदृश्यत्वञ्च सूचितम्। नाश्चाधुना अदृश्यानपि जीवाणूनणुवीक्षणयन्त्रादिसहायेन चक्षुपा पश्यामोऽपि । तस्मादार्पमताऽविरुद्ध एवायं जीवाणुकारणवादः पाश्चात्यः सम्यक् विस्तारितः परीक्षया ग्रहणीय एव। ननु तहिं परमर्षिभिरेव सर्व कथं न सम्यग् गृहीत इति चेत् , उच्यते। सत्स्वपि व्याधिवीजभूतेषु जीवाणुपु तदुपयोगि क्षेत्रमपेक्षितं, तच्च अब्रह्मचर्यादिक्षामं शरीरमेव । न हि सम्यग् यमनियमादिवतामप्रतिहतशक्तीना किञ्चित्करा रोगजीवाणवः। अतएव पूर्वाचार्य- यम-नियम-दिनचर्याऋतुचर्यादिभि. क्षेत्रसंरक्षणाय बहुधा शास्त्रविधिय॑धायि । इदानीन्तु तादृश-यमनियमाघशक्ताना प्रायशो मिथ्याहारविहारादिभिः समुबरक्षत्र- भूतेषु शरोरेषु प्रकामप्रसरो जीवाणुप्रभाव इत्यस्ति साम्प्रतं जीवाणुतस्वपरिजानस्य सार्थकता । प्रयोजनं चास्य जीवाणुकारणवादस्य जीवाणूना संक्रमणप्रतिषेधो निदानपरिवर्जनं चिकित्साविशेषश्चेत्युपरिष्टाद् दर्शयिष्यामो यथास्थानम् ॥३॥ निदानमभिधाय पूर्वरूपमाचष्टे चरकार्थानुवादेन-पूर्वरूपमिति । भाविनः उत्पत्स्यमानस्य न तूत्पन्नस्य व्याधेः प्रवोधकं सूचकं लिङ्ग लक्षण पूर्वरूपं भवेत् । तदुक्तं "पूर्वरूपं नाम प्रागुत्पत्तिलक्षण व्याधे." (च० नि० १म अ० ) व्याख्यातञ्चदं चक्रपाणिना-'उत्पत्तेः प्राक् प्रागुत्पत्ति, एतेन उत्पत्ते पूर्व यद् : - १ । सक्रमणकारणञ्चात्र क्वचिद् वायुवाहित , क्वचित् स्पर्गवाहित , क्वचिदन्नवाहित वास्तु- इति सुश्रुतौक्त्या स्पष्टम् । -- सिमान्त-निदानम् । सामान्यं दोपकोपरय विश नावबोधयेत् । विशेष बोधयेत् यत्त विशिष्ट पूर्वलक्षणम् ॥ ५ ॥ इति ॥ ननु -- भविष्यव्याधेल क्षण तत् पूर्वस्पमित्यर्थ:-नि। तेन दोपजगोपनं च यन निञ्चिलिङ्ग च्याधिजन्मनः प्राग् दृश्यते नदेव पूर्वरूपम् । नम हान्नी वधा- 'स्तीयासमद्यप्रियता मियता चावगुण्टने ।" (च० चि०८ अ0) नि, "मक्षिका धुणवे.गाना तुणाना पतनानि च । प्रायोऽन्नपान' - इति च अनयोश्चा दोजं द्वितीयमदोपजमातुः। वस्तुतस्तु धातुवैपम्ये जाते स्थानविशेषाधिन- चीतादिभिर्यद् यलिङ्ग पुरुषे जन्यते र वमानपरिशयमन्यैरपि पशिायं वा प्रान्तदेव :पूर्वरूपमिति गृहाते। तन स्वमानपरिमय लिङ्ग यथा दुस्वप्नदर्शनादि । अन्यपरिशयं लिङ्ग यधा कास-ज्वरादि । आहुश्च-'स्थानमंधयिणः मुद्धा भाविव्याधिप्रबोधकम् । दोपाः कुर्वन्ति यरिङ्ग पूर्वरूप तदुच्यते स्थानसंचयिभिः क्रुद्धहि दोपैर्जायमान एव व्याशियते न तु जनप्यमाण इति हेतोधिप्रतिपिमिदमुच्यते- स्थानस्श्रयिणः क्रुद्धाश्च दोषा', कुर्वन्ति च भावि- व्याधिप्रवोधक लिङ्गमिति चेत् । मंचम् । नन दु.खस्योगमा रूपो व्याधि- रभिप्रेत, किन्तु रक्षणसमुदायात्मको ज्वरादिनिस्किः। स च नाधापि सर्वथा जातः । जनिप्यमाणस्य च तस्यैटिङ्ग पूर्वस्प नाम, धातुवै पम्यकृतञ्चैतत् एवञ्च यदाऽगन्तुरोगेषु न प्राग् धातुवैपस्यं तदा न पूर्वरूपमित्यवसेयम् । तच्च पूर्वरूपमवस्थापारम्पर्याद् हिविमित्याह- सामान्यति । तत् पूर्वोक्त पूर्वरूपमपि। अपि शब्दान्निदानवदिति भावः । सामान्यञ्च विनियोति द्विधा द्विप्रकार कीर्तितमुक्तम् । तत्र सामान्यं पूर्वरूपं भाविव्याधिबोधकमपि दोपकोपस्य विशेप, तमो दोपः किंस्थानांश्रयः कुपित इत्येवमादिक, नाववोधन झापयेत् । यत्तु विशेषामीदृश बोधयेत्तहिशिष्ट पूर्वरूपम् । तेन धातुप्यम्यं जातं ज्वरश्च भविष्यतीति सामान्यज्ञानं सामान्यपूर्वरूपेण, स चासौ ज्वरो वातादिदोप- विशेषकृतः स्यादिति विशिष्टज्ञानं विशिष्टपूर्वरूपेण भवतीति फलितार्थः। तच्चैतद् द्विविधं पूर्वरूप क्रुद्धानां दोषाणा स्थानसंश्रयाद्यवस्थानुसारात् प्रायः पौर्वापर्येण लक्ष्यते । तद्यथा सुश्रुते-"श्रमोऽरतिर्विवर्णत्व"मित्यादि ज्वरस्य सामान्य पूर्वरुपमभिधाय पुनरुच्यते - 'जम्भात्यर्थं समीरणात् । पित्तान्नयनयोहः कफा- दन्नारुचिभवेत्”- इत्यादि विशिष्ट पूर्वरूपम् । द्विविधस्य चास्य वलीयस्त्वाद् वलीयस्त्वमसाध्यत्वं वा रोगस्यानुमीयते, निविड़मेघाडम्बरदर्शनाद् भूरियष्टिवत् पञ्चनिदानम् । [ अथ रूपम् ] उत्पन्नव्याधिलिङ्गानि रुपमाहर्मनीषिणः । प्रधानं व्याधिवोधाय ज्ञाननिश्चयदं हि नत् ॥ ६॥ उक्तञ्च-"पूर्वरूपाणि सर्वाणि ज्वरोक्तान्यतिमात्रया। यं विशन्ति विशत्येन मृत्युवरपुर सर । अन्यस्यापि च रोगस्य पूर्वरूपाणि यं नरम् । विशन्त्यनेन कल्पेन तस्यापि मरणं ध्रुवम् ।" इति ( च० इन्द्रिय० ५ ० )। यत्तु वाग्भटवचनमात्रोद्धारी माधवः-'प्राग्रूपं येन्द लक्ष्यते। उत्पित्सु- रामयो दोषविशेपेणाऽनधिष्ठितः। लिङ्गमव्यक्तमल्पत्वाघ्याधीना तद् यथायथाम्" इति-तन्नातिसङ्गतम् , युक्तिविरोधात् । दोपविशेषेणाऽनधिष्ठितश्चेत् नैवोत्- पद्येत रोगः, उत्पद्यत वा आगन्तुरेव, नचागन्तोरस्ति पूर्वरूपम् । न चारुणदत्तव्याख्या नुसारतो "व्यक्तमनधिष्ठित इत्यनुक्तमपि गम्यमानत्वादुक बोध्यम्"इत्यपि सङ्गच्छते । नहीदं कयापि गम्यमानं प्रत्युन न्यूनमेव । अब नन ईपर्थे प्रयोग इति चेत्, तर्हि ईपद्दोयकृतानामेव रोगाणा वुभूषणा पूर्वरुपमनेन लक्ष्येत, न बहुदोपकृताना- मित्य याप्तिः न च दोपविरोणेत्यस्य "वातादिजन्याऽसाधारणवेपथ्यादिने"ति व्याख्यानं रक्षितोक्त शक्यं कथमपि रक्षितु प्रक्षावद्भिः, सर्वथाऽश्रुतचरत्वादी- दृशार्थस्य । न हि दोषपदं कचिदपि लिङ्गवाचि दृष्टं श्रुतं वा । न च तेनोक्तम् "विशिष्टप्रापमाह- लिङ्गमध्यक्त"मित्यादि घ्याख्यानं कथमपि युक्तियुक्तं प्रतीम' । पूर्वा वायविरोधादीशकल्पनाया अन्याय्यत्वाच्च । प्रापसाधारणं खल्विद् लक्षण वागभटेनोपनिबद्धं व्याख्यातञ्च तथैवारुणदत्तेनापि । न चानास्ति लिङ्गमव्यक्तम्"- इत्यादौ किञ्चिदप्यसाधारण लिङ्ग येन विशिष्ट प्राग्रूपमेवानेन लक्ष्येत न सामान्यप्राग्रूप, उभयोरपि अव्यक्तलिङ्गत्वसामान्यात् । अथ यस्य व्याधेयंद्रूपं तदेवाव्यक्त विशिष्टपूर्वरुपमिति चेद् व्याल्यायते, तर्हि रूपत्वप्रसङ्गो दुर्वार. स्यात् , उत्पनरोगेष्वपि । तस्मात् सति पुरस्तान्महर्षिदशिते सरले मार्गे किमनेनाऽनृनुपथग्रहणवृथाग्रहेण ॥ ५॥ अथ रूपपदार्थ बोधयति-उत्पन्नेति । उत्पन्नस्य प्रादुर्भूतस्य व्याधेर्यानि लिङ्गानि लक्षणानि तानि तत्समुदायं रूपं रूपसंज्ञमाहुर्मनीषिणो गम्भीरधियः । बहुवचनोपात्तस्य लिङ्गपदस्य एकवचनान्तरूप-पढेनाभिधानात् लिङ्गसमष्टिरेव रूपं नत्वेकैक लिङ्ग रूपमित्युक्तं भवति । उत्पन्नेति भूतार्थप्रयोगादुत्पद्यमानस्य व्याधेयल्लिङ्गतद्विशिष्ठपूर्वरूपं न तु रूपमिति सृच्यते। दोपदूप्यसंमूर्च्छनमात्रावस्थाया -- जृम्भादाना दर्शनात् अस्य ४६ सिद्धान्त-निदानम् । [ अथ उपशयः ]] औषधानविहाराणामुपयोगं सुखायतिम् । विद्यादुपश्यं व्याधे दलिङ्ग स बोधकः ॥७॥ भविष्यतो व्यार्यलिङ्ग तत् पुन: सामान्य पूर्वरुपमेवेति स्फुटो भेदश्च । प्राधानमिति-व्याधिवोधाय, अयमसौ रोग इति संज्ञानिर्धारणाय, तद्रूपमेव प्रधान परमोपयोगि यतस्तदेव ज्ञाननिश्चयद निःसन्देहज्ञानप्रदायि । अथ रुपलक्षण- प्रसङ्ग चरमः - "प्रादुर्भूतलक्षण पुनर्लिङ्गम्” इति (च० नि० १म अ०)। चायमों व्याख्यातृभिहीतः। प्रादुर्भूतस्य व्याधेयलक्षण लक्षणसमुदायस्तल्लिङ्ग रुपराज्ञम् । नन्येवमुपद्रवारिटयोरपि रुपये प्रसज्येत् ? मैवम् । तयोर्व्याधिलिङ्गत्वा- भावात्। दोपप्रकोपोत्कटताविशेपलिङ्ग खलूपद्रवस्तृष्णामूर्छादिरन्येषु रोगेषु रोगान्तरवत् सम्भवन् । नियतमरणख्यापकञ्चाऽसाधारण लिङ्गमरिष्ट यथा “गोसर्गे वदनाद् यस्य स्वेदः प्रच्यवते भृशम् । लेपज्वरापतप्तस्य टुर्लभं तस्य जीवितम्" इति (च० इन्द्रिय० ८म अ०)। अथ शास्त्र व्यवहारार्थरूपपर्याया यथा चरके- "आकृतिलक्षण चिह्र सरथान व्यञ्जनं रूपमित्यनर्थान्तरमस्मिन्नेवार्थे” इति (च० नि०१ अ०)। ननु लिङ्गसमष्टिरेव चेद्रूपं तर्हि व्याधेरपि ताकयाऽभिहितात् को भेद इति चेत् ,- उच्यते। तत्तल्लक्षणसमष्टिवोधिताभ्यन्तरविकृतिपरम्परा एव परमार्थतो रोगा इति पूर्वोक्तसिद्धान्तस्मरणान्न दोषः। लिङ्गसमष्टीनां व्याधित्वाभिधानन्तु लौकिकसंज्ञाव्यवहारलाघवाय ॥ ६॥ अथोपशयं व्याचष्टे-औषधेति । औषधं जाङ्गलौद्भिदपार्थिवं त्रिविधं भेषजम् । अन्नमाहार । विहारो व्यायामचंक्रमणादिः। तेपा सुखायतिमुत्तर- कालसुखप्रदं न तु केवलं सद्यःसुखप्रदमुपयोगं व्याधेरुपशयं विद्यात् । सुखा- यतिमिति विशेषणेन सामज्वरातस्य दध्यादिपानं सद्यस्तृप्तिकरमपि उत्तरकाले न हितमतो नोपशय इत्युक्तं भवति । व्याधेरित्यभिधानात् स्वस्थस्य पुरुपस्य सुखायतिरन्नायु पयोगो नोपशयपदवाच्य इत्यभिप्रायश्चाकलनीयः। ननु न निदानविषयस्तत् कथमिहोपन्यस्यत इति शङ्का निरस्यन्नाह-गूढलिङ्ग इति। गूढलिङ्ग अस्फुटलक्षणे व्याधौ स उपशय वोधकः रोगसम्प्राप्तसूचकस्तस्मान्निदानविषयः । तदाहुः-'गूढलिङ्ग व्याधि- मुपशयानुपशयाभ्यां परीक्षेत ' इति । रोगवोधकत्वञ्च- यत. खल्वस्य रोगिणः चिकित्माविपय एप', ४७ पञ्चनिदानम्। हेतोधेिश्चोभयोश्च विपरीतः स ग भवेत् । विपरीतार्थकारी वत्यष्टादशविधश्च सः॥८॥ शीतमुपशेते नोष्णं तस्यादस्य पित्तोल्वणो व्याधिः स्यादित्यादि-दिशा द्रष्टव्यम् । अपरञ्चोदाहरणं यथा चरके गुल्माधिकारे---स्नेहोष्णमदनाल्यात यः प्रणश्येत् स वातिकः" इति ; (च० चि०३७ अ.)। तदेताबदुपशवार्थविनानं पर्याप्त निदानोपयोगीति पृथगुक्तम् ॥ ७ ॥ अथोपशयभेशनाह शिष्यबुद्धिवैशद्याय -हतोरिति। ' हेतोाव्युत्पादक- कारणस्य, व्याधेरोगस्य च, तथा उमयोहे तुव्याध्योश्च विपरीतः प्रतिकूलः स वा भवेत् । विपरीतार्थकारी वा, स्वयं विपरीतोऽभवन्नपि विपरीतार्थ रोगोपशमनं कत्तुं समर्थी वा स्यादिति-सोऽयं पडविव उपशयः संक्षेपेण । स च प्रत्येक - मौषधानविहारभेदात्तिविध इति समष्ट्या अष्टादशविधः-इति विस्तराभिधानम् । तदुक्तं चरके - उपशवः पुनर्हेतुयाथिविपरीतानां विपरीनार्थकारिणाञ्चौपधाहार- विहाराणामुपयोगः सुखानुवन्ध. ।। तदुदाहरणानि च स्मरणसुखैः पद्यर्यथा- "शुध्याय कफजे ज्वरेऽतिसुखद (इद हेतुविपरीतमौषधम् ), श्रान्त्युत्थबातोद्भवे पथ्यं मासरसौदन ( इति हेतुविपरीतमन्नम् ), त्वथ दिवास्वप्नोत्थिते श्लेप्नजे रातो जागरणम् (एप हेतुविपरीतो विहारः ) तथाऽतिसरणे पाठादिक स्तम्भनम् इति व्याधिविपरीतमोषध प्रभावात् ), मासूरानमिह (इति व्याधिविपरीतमन्न) प्रवाहण- मुदावर्ते सता सम्मतम् (एष व्याधिविपरीतो विहार ) ॥ भैवज्यं दशमूलक श्वसनजे शोथे ( इदमुभयविपरीतमौषधम् ) अथ तकं हित वातोत्थे ग्रहणीगदे च नियतं ( इत्युभयवितरीतमन्नम् ) तन्द्रां दिवास्वप्नजा रात्री जागरणं जयेद् ( इत्यु भयविपरीतो विहारः) व्रणभवं शाथं प्रलेपोऽगुरोः ( इति हेतुविपरीतार्थंकर- मौषधम् )। अन्नं तत्र विदाहि पथ्यम् ( इतिहेतुविपरीतार्थकारि अन्नम् ) अनि- लोन्मादे तथा त्रासनम् ( इति हेतुविपरीतार्थकारी विहार ) ॥ छा छर्दनकारक मदफलं" (इति व्याधिविपरोतार्थकारि औपधम् ) क्षीरन्त्वतीसारिणे इति व्याधिविपरीतार्थकारि अन्नम् ), वान्तौ वान्तिकर प्रवाहणम् ( इति ध्याधिविपरी- तार्थकारी विहार.) अथो पथ्यं विषेऽन्यविपत् ( इति हेतुव्याधिविपरीतार्थकारि औषधम् )। मद्य मद्यकृते ( इति हेतुव्याधिविपरीतार्यकारि अन्नं ) जलप्रतरणं ध्यायामजन्येऽनिले ( इति हेतुव्याधिविपरीतार्थकारी विहारः)-भेषज्यान्नविहार- वृन्दमखिलं ज्ञयं सुधीर. क्रमात् ॥” इति । . १। मदफल मदनफलम् ।

सिद्धान्त-निदानम् । ४८ [ अथ सम्प्राप्तिः ] अनुमाशयसाश्रित्य दोषा इत्थं गताः स्वयम् । दृष्याश्येवं विकुर्वन्तो लिङ्गान्येतानि वै पृथक । जनयन्ति, गदो जातः सोऽयमीहकप्रकारकः । नेयमेतादृशं प्राहुः सम्प्राप्ति रुग्विचक्षणाः ॥ ६।१०॥ . न अथेदमिहावधेयम् । विपरीतार्थकारिणो भेपजाहारविहाराः रवयमविपरीतवत् प्रनीयन्ते न तु सर्वथा अविपरीता , यतो यदोच्यते "छर्दीषु वहुदोपासु वमनं हितमुच्यते" इति तदा दोपहरणमिष्टमिति, वस्तुतो हेतुप्रत्यनोकतैव । एवं यत्र अहिणविणे आलर्कविपे वा धुल्तूरप्रयोगस्तत्रापि प्रभाववैपरीत्याद् ष्याधिप्रत्यनी. कनैव । आहुश्च - "विष विपनमुक्त यत् प्रभावस्तत्र कारणम् ।" इति ( च० सू० २६ अ०)। तस्मात् सर्वत्र वैपरीत्ये सिद्धेऽपि आपातदृष्ट्या भिन्नानां भेपजा- हाराचाराणा प्रयोगवैशिष्ट्यप्रदर्शनार्थं प्राचामनुरोधादष्टादशविध उपशयो- ऽभिहित । उनु सात्म्यमुपशयश्चेत्यनर्थान्तरं न वा ? उच्यते। द्विविधं सात्म्यं प्रकृति- साल्य व्याधिसात्म्यञ्चेति । तत्र प्रकृतिसात्म्यं-यदाहारविहारादि स्वस्थस्य सुखाय कल्पते। व्याधिसात्म्य-यद् व्याधिनस्तस्य सुखाय, स उपशयः । चानयोरभेदः-यतो यदेव स्वस्थस्य सुखाय तदेव घ्याधिग्रस्तस्य उपशेते इति नियम अतएव उपशयस्य व्याधिसात्म्यपदेनाभिधानम् । व्याधौ सात्म्यं व्याधिसात्म्यम् । यद्वा विशिष्ट आधिर्यस्य सोऽयं व्याधिः रोगग्रस्तः पुरुषः, तस्य सात्म्यं व्याधिसात्म्यम् । यत् पुनरिह रोगिणों नोपशेते, सोऽनुपशय., स परमाथ तो निदानादभिन्न एव । व्याधिवर्द्धननिमित्तत्वेन निदानसामान्योत् । तथापि उपशय- प्रतियोगितया तस्य पृथग् व्यवहोरः । तस्य च व्याध्यसात्म्यमिति सज्ञा । अतएव वागभट:-"विपरीतोऽनुपशयो व्योध्यसात्स्याभिसज्ञित.” इति ॥ ८॥ अथेदानीमशेषविशेषप्रकारकरोगनिरूपणमूलभूता सम्प्राप्ति शिष्यधुद्धिवेशधाय विशदाक्षरैविवृणोति-अमुमाशर्यासति। आशेरते दोषधातुमला एप्विति आशयः, आमाशय-पक्काशय-यकृत् प्लीह हृदय-फुस्फुसाद्याः, व्युत्पत्तिबलात् त्वगादयश्च । अमुमाशय-साक्षात्परोक्षया अनुमानेन वा निरूपितं स्थानविशेषमाश्रित्य अधिकृत्य । स्वयमित्थगताः - क्षीणाः प्रवृद्धा वा पृथग् द्विशस्त्रिशो वा विसन्तः, दोषा वातपित्त- नाकलयामः।

४६ पञ्चनिदानम् । संख्या-विकल्प-प्राधान्य-बल-काल-प्रभेदतः। उपक्रमाय रोगाणां सम्प्राप्तिः परिचिन्त्यते॥ ११ ॥ कफाः, दूष्याणि रसरक्तादोनि, एवमनेन प्रकारेण विकुर्वन्तो विकृतिमापादयन्तः । एतानि दृश्यमानानि लिङ्गानि पृथक-यथा दाहोऽयं पित्तकृतः, गौरवमेतत् कफकृतम्, तोदोऽसो वायुकृतः इत्येवम, जनयन्ति उत्पादयन्ति । सोऽयं लक्षणसमुदायात्मको वा तद्बोधिताभ्यताविकृतिविशेषात्मको वा व्याधिरसौ बहुधा शास्त्रोक्तलक्षण- दर्शनेन भूयोदर्शनेन च प्रत्यभिज्ञातो घरादिसंज्ञः, इद्वप्रकारकोऽभिन्यासादि- जातोयश्च, जातः उत्पन्नः तदेवमेतादृशं यं रुगविचक्षणा नैदानिकाः सम्प्राप्ति प्राहु । सम्यनिरूपिनप्रकाराप्राप्निरभिनिष्पत्तिः सम्प्राप्तिः। अशेषविशेषप्रकारोप- लक्षिता व्याधेिनिमत्ति सम्प्राप्तिरिति संक्षेपः । चरकस्तु इतोऽपि संक्षिप्ततरमाह- "सम्प्राप्तिर्जातिरागतिरित्यनर्थान्तरं व्याधे." इति । अन व्यायाधिजन्मन इति व्याख्येयम् । अन्यथा सम्प्राप्तिजात्यागतिशब्दान् व्याधिसमानार्थान् मन्यमानो विशेषानभिज्ञो व्याविनानयं पुरुष इति वक्तव्ये सम्प्राप्तिमानिति यात्। व्याचष्टे पुनरिदं चरकचतुराननश्चकपाणि -"जातिर्जन्म, लम्प्राप्त्यागतिजातिशब्दयोऽर्यो- ऽभिधीयते व्याधे सः सम्यातिरित्यर्थ । अनेके व्याधिजन्ममानमन्त्यकारण- व्यापारजन्य सम्प्राप्तिमाहुः । इयञ्च सम्माप्तिर्यद्यपि निदानादिवद् व्याधिवोधिका न भवति तथापि नानुत्पन्नस्य व्याधेलक्षणं भवतीति कृत्वा उत्पत्तेाध्युपलम्भकत्वं वर्गयन्ति । एतच्चान्ये नानुमन्यते, यतो नैवं सति सम्प्राप्तितः कश्चिद्विशेपो बाधेरविगम्यते। न चाय नियम -यदुत्पन्न एवं परं व्याधिरुपलभ्यते, यतो निदान पूर्वरुपाभ्यामनुत्पन्नो व्याविर्भावित्वेनोपलभ्यते । तस्माद् व्याधिजनकटोप व्यापारविशेषयुक्तं व्याधिजन्मेह सम्प्राप्तिरिति ।' यत्त वाग्भट.---"यथा दुष्टेन दोपेण यया चानुविसपंता। निवृत्तिरामय- स्यासो सम्माप्तिातिरानति' रिति। अत्र यथा यथेति द्विरभिधाय निवृत्ति- प्रकारमेव विशेषणाभिदधात्याचार्यो न निवृत्तिमात्रमिति निपुणधिया विभा- बनीयम् । अलौ तादशी नित्तिः तत्तत्प्रकारोपलक्षिता रोगात्पत्तिरित्यभिसन्धि- राचार्यस्य, न तु पुनरूत्पत्तिमान्ने प्रयोजनम् ।। ६।१० ॥ अर्थतान् प्रकारविशेषांश्च दिग्दर्शनाय विशद प्राह-संख्येति। संख्यादि- प्रमेदतः प्रकृष्टभेदै. सत्राप्तिः परिचिन्त्यते । किमर्थम् ? उपक्रमाय रोगाणा, ७ ५० सिद्धान्त-निदानम्। चिकित्सासोकाय। पूर्वोक्तलक्षणेन प्राप्तेऽपि वक्तव्ये पुनरभिधान विशेष- प्रतिपादनाय । तन सत्याभेदः प्रायो दोषभेदेन जातिभेदेन च दृश्यते, कचित् साध्यत्वादि- भेदेन च । तत्र दोषभेदेन यथा--"अटो ज्यरा, पञ्च गुलताः" इत्यादि। जाति- भेदेन यथा –सप्त महाकुष्टानि, कपालौदुम्बरादिभेदात् (च० चि० ७ अ०)। उपक्रमविशेषश्च दोपभेदेन प्रसिद्ध एव । जातिभेदेन यथा कपालादिकुष्ट पु पृथगौषधविधानात् । विकल्पः-दोषसाथै लिङ्गबाहुल्यादिदर्शनेन अंशांशकल्पना यथा शैत्य-कम्म-शुपिरता-भ्रमादिभिर्वायोराधिक्यं, दाहतृष्णामोहादिसद्भावात् पित्त- स्येत्यादि । उक्तञ्च सुश्रुते --"सर्व मावस्तिभिर्वापि द्वाभ्यामेकेन वा पुन । संसर्गे कुपितः क्रुद्ध दोष दोपोऽनुवावति' - इति ( सु० सू० २१ अ०) चिकित्सा- क्रमोपदेशश्च तत्रैव यथा-सस यो गरीयान् स्यादुपक्रम्यः स वै भवेत् । शेष दोपाऽविरोधेन सन्निपाते तथैव च ॥” इति। विकलविशेषैः स्थानान्तराश्रयेण च सम्भवन्तो रोगविशेपास्तु चरके कियन्त शिरसीयाध्याये-"प्रकृतिस्थं यदा पित्तं मारुत. श्लेष्मणः क्षये। स्थानादादाय गानेषु यत्र यत प्रसर्पति । तदा तोश्व दाहश्च तत्र तत्रानवस्थितः। गालदेशे भवेत्तस्य श्रमों दीर्वल्यमेव च" इत्यादिसन्दर्भेन प्रतिपादिता नेह विस्तरभयाल्लिखिताः । पधान्यं - व्याधिसङ्करे जाते सोपवे बहुलिङ्ग वा व्याधो एकस्य प्रधानता, अन्यस्य अनुवन्धमात्रता-यथा वातश्लेमन्यो कासप्रतिश्यायादीनामप्रधानता परस्यैव प्रधानता। क्षयरोगे तु अरादीनां सर्वेषामप्रधानता, क्षयस्यैव फुस्फुसक्षतस्य वा प्रधानता। एवं जीर्ण- ग्रहवां अरे जाने प्रड्ण्या. प्रधानता घरल्याप्रधानता। वलं -व्याधे' सर्वसम्पूर्ण- लक्षणत्वे पूर्णवल, मध्यमलक्षगत्वे मध्यवलमित्वेवमादि। कालः-वयोऽहो- रात्रिभुक्तानामन्त्यमब्यादिकमे ग पट्टतुविभागेन च वातादीना क्षयवृद्धिदर्शनात् प्रतिनियतो हासवृद्धिनिरूपितो व्याधिकालः । तत्र वयोऽनुसारेण यथा-वाईक्ये वायुबर्द्धते, यौवने पित्त, वाल्ये का। अहः --शेपे वायुमध्ये पित्तमादी कफ । एवं रावेरपि। भुक्तस्य --अन्ते जीर्णप्रायेऽन्ने वायु', मध्ये पच्यमानेऽन्ने पित्तम् , आदौ भुक्तमान कफः। एवमृतुष्यपि --यथा वर्षातु वायु, शरदि पित्तं, वसन्ते श्लेग्मेति । तदेनं कालादिषु नियमेन वद्धमानो होयमानो वा व्याधितिकादि. प्रकारकसम्प्राप्त्या बोद्धव्यः । ननु चरके-सम्प्राप्तिवर्णने विधिरप्युक्तः, स कथमिह नोच्यते ? सत्य, सख्यायामन्तर्भावेन लाघवान्नोत । विधिहिं गत्यादि- 1., हेतुविशेषमाश्रित्य एकजातीयेषु प्रवर्त्तमानो विभागः यथा द्विविधं रक्तपित्त- - । -- पञ्चनिदानम् । निदानार्थकरो रोगो रोगस्याप्युपलभ्यते । स्वयं शाम्यति तिछे द्वा, बहुधा रोगसङ्कराः ॥ १२ ॥ मूर्द्धगमधोगञ्च ति। संख्या तु दोपजादिभेदेन सजातोयेषु विजातीयेषु च प्रवत्तते इनि संख्यायो विधेन्तर्भावः। विभागहेतुदृष्टान्ताश्च यथा - उपक्रम- सौकर्यहेतुको विभागः - व्याधीना साध्यासाध्य मृदु-दारुणभेदेन । निदान- हेतुको विभाग:-निजागन्तुभेदेन। दोपहेतुको विभागः-यथा अष्टौ ज्वराः इत्यादि । तदेतदशेषविशेषप्रकारकोपलक्षितो व्याधिजन्मावस्थाविशेपः सम्प्राप्ति भिपजा सर्वथाऽवश्यं ज्ञातव्या, रोगतत्त्वपरिज्ञानाय चिकित्सामार्गाविष्करणाय चेति तत्त्वम् ।। ११॥ अथ निदानपञ्चकमभिधाय रोगाणामपि कदाचित्कं निदानत्वं रोगसाङ्कर्यञ्च दर्शयति -निदानेति चरकीयत्रचनेन। एको रोगोऽन्यस्य रोगस्य निदानार्थंकरः स्वयं निदान न भवन्नपि निदानार्य रोगत्पादन कुर्वन्नुपलभ्यते दृश्यते । नन्वेवं सामान्यविशिष्टनिदानाभ्यामतिरिक्तमिदंनिदानमिति चेत् , न। सत्येकस्मिन् दृढमूले रोगे तदुर्वल शरीरय पुरुषस्य स्वल्पेनापि पुननिदानसंयोगेन भूयः प्रकुपितेः प्रायस्तरेव दोपैर्जन्यतेऽपरो रोग., तेन पररोग प्रति पूर्वरोगस्य परम्परयेव कारणता न साक्षात् , कुलालपितुर्धटं प्रति कारणतावत् । अतएवोक्तं महर्षिणा "निदानार्थकर" इति । स चैव निदानार्थ कुर्वन् रोगः स्वयं शाम्यति विलोनप्रायो भवति, कचित्तिष्टहा-इति विचित एव रोगेण रोगस्य सम्बन्धः। अतएवोप- संहरति- 'बहुधा रोगसङ्करा" इति। रोगाणां परस्परमिश्रीभावा नानाप्रकोरा इत्यर्थः। तह,टान्ताश्च चरके यथा-"वरसन्तापाद्रक्तपित्तमुदीर्यते । रक्तपित्ता- ज्ज्वरस्ताभ्यां शोषश्चाप्युजायते । प्लीहाभिवृद्धया जठर जठराच्छोफ एव च । अर्शीभ्यो जठरं दुःखं गुल्मश्चाप्युपजायते। प्रतिश्यायादथो कासः कासात् संजायते क्षयः । यो रोगस्य हेतुत्वे शोषश्चाप्युपजायते। ते पूर्व केवला रोगा. पश्चात्वर्थकारिणः । उभयार्थकरा दृष्यास्तथैवैकार्थकारिण । कश्चिद्धि रोगो रोगस्य हेतुर्भूत्वा प्रशाम्यति । न प्रशाम्यति चाप्यन्यो हेतुत्वं कुरुतेऽपि च एवं कृच्छतमा नृणा दृश्यन्ते घ्याधिसकराः ॥” इति ( च०नि० ८ अ० )। प्रयोजनञ्च व्याधिसङ्करविज्ञानस्य रोगाणा स्वातन्त्य-पारतन्त्यादिविनिर्णयेन चिकित्सापथाविष्करणमिति दिक् ॥ १२ ॥ .

५२ सिहान्त-निदानम् । स एव कुपिता दोषः समुत्थानविशेषतः । स्थानान्तरगतश्चेव जनयत्यासयान् बहन ॥ १३ ॥ तरूमाद्विकारप्रकृतीरधिष्ठानान्तराणि च । समुत्थानविशेषांश्च बुद्धा कम समाचरेत् ॥ १४ ॥ अथ सम्प्राप्तिभेदेन जायमानाना रोगाणामानन्त्यं समासेन प्रतिपादयनात पुन- श्चरकीयवचनेन-ल एवेति । स एव, समान एव दोपो बानादि. । एकवचन- मतन्तं, तेनैको दोपो हो वा दोपो लयो वा दोपा इत्यभिप्रायः । कुपित मुद्रा सन् , उपलक्षणात् क्षीणोऽपि । समुत्थानविशेषतो निदानवैशेयान् । स्थानान्तरगनो नानाविधस्थानसंश्रयं कुश्च । एतेन स्थानसंश्रयभेदकृतानि लिङ्गानि पृथगेव प्रायः--इति सूच्यते । चकारात् विकल्पविशेपैभिन्नलक्षणश्च । वह नामयान रोगान् जनयति । तत्र समुत्थानविशेषतो यथा विजया-धूस्तुरयोतिप्रकोपणत्वे तुल्येऽपि ततकृतलक्षणाना भूयान् प्रभेदः । एवं रथानभेदाद् यथा कुपितो वायुः कण्टगत. स्वरभेदादिमन्त्रगतश्च शूलानाहादि जनयतीत्येवमादि पूर्वमुक्तं, तद्विस्तरश्च चरके त्रिशोथीयाध्याये द्रष्टव्यः । रथानधयेण सम्भवन्तो रोगाश्च चरके कियन्तः- शिरसीये तनभिज्ञगुरुसविधे चावलोकनीयाः ॥ १३ ॥ अथोपसंहरति चरकीयवचमेन - तस्मादिति । तस्मात्--यतो दुर्शिया रोगाणामशेपविशेपप्रकारास्ततो हेतोः। विकारप्रकृतीः रोगस्वभावान-किमारयो- ऽयं रोग, किञ्जातीयः, कदा हासवृद्धिशीलः, पिमुपशय , फेन रोगेण कथकारं संकीर्णः, साध्यो याप्यः प्रत्याख्येयो वा-इत्येवमादीन् विशेपान । अधिष्टानान्तराणि अधिष्ठानानां रोगाश्रयाणामाशयादीनामन्तराणि अवधिविशेपान् , स्थानाश्य भेटान् चा। "अन्तरमवकाशावधिपरिधानान्तहिमेदताद\-इत्यमरः। एतेन दोप- गतिविशेषाः रोगमार्गाश्चोक्ताः। तथाहि चरके,-"क्षयः स्थानञ्च वृद्धिश्च विज्ञ या त्रिविध गतिः। त्रिविधा चापग कोष्ठ-शाखा मर्मास्थिसन्धिपु' इति । समुत्था- नानि निदानानि रोगोत्पादकबाह्यनिमित्तानि। तेपा विशेषान् निमित्तनैमित्तिक- सम्बन्धविज्ञातान् प्रकारान् । तदुक्तं-- 'एको हेतुरनेकस्य तथैकरयैक एव हि । व्याधे रेकस्य चानेको बहूनां बहवोऽपि च । ज्वरभ्रमप्रलापाधा दृश्यन्ते रूक्षहेतुजाः । सक्षेणैकेन वाप्येको ज्वर एवोपजायते ॥ हेतुभित्र हुभिश्चैको ज्वरो रूक्षादिभिर्भवेत् । लक्षादिभिर्वराद्याश्च ध्याधयः सम्भवन्ति हि ॥" इति (च० नि० ८ अ०)। तानेतान् विशेषान् बुद्धा सस्यङ् निरूप्य कर्म समाचरेत् चिकित्सामारभेत, न तु पञ्चनिदानम् । यो ह्यतत् त्रिविधं ज्ञात्वा कर्माण्यारभते भिषक् । ज्ञानपूर्व यथान्यायं स कर्मसु न मुह्यति ॥ १५ पाणिचारान्धवद् भीतभीतवहा किश्चिन्मालदर्शी चिकित्साया प्रवरेत- इत्यभि- सन्धिः ॥१४॥ अथ विकारादीनां सम्यक परिज्ञाने फलमाह चरकवचनेनच-यो हीति- यः खलु भिपगेतत् पूर्वोक्तं विकार कृत्यादित्रय, नानपूर्व शास्त्रोपदेशहितानुभव- पूर्व, तथा यथान्यायं सत्यम् युत्त यनुसारतश्च, ज्ञाचा धर्माणि आरभते चिकित्सायां प्रवर्तते, सामु रोगपशमादिषलवेषु वमनविरेचनादिप्रयोगेषु न मुह्यति मूढ़वन्नापथे गच्छति । - ज्ञानपूर्व यथान्यायमिति विशेषणन्य शास्त्रानु- गत्या स्वविवेकस्यापि प्रयोजनमाविष्करोति । तदुक्तं वाग्भटेन-''अज्ञातशारद- सद्भावान् शास्त्रमानपरायणान । वर्जयेत्तान् भिगदपाशाम पाशान् वैवस्वतानिव । इति-( अष्टाङ्ग सं० उत्तर ४० अ० ) ॥ १५ ॥ इति भारतसम्राटप्रदत्त-महामहोपाध्यायोपाधिक- वैद्यराज- श्रीगणनाथसेन शर्म सरस्वती प्राणाचार्य विरचिते सिद्धान्त-निदाने व्याधिविज्ञानाख्यो द्वितीयोऽध्यायः। .

प्रता:- अथ तृतीयोऽध्यायः । [व्याधिपरीक्षा दर्शनस्पर्शनप्रश्तेविज्ञायन्तां त्रिर्भिगदाः। इति केचिन्न सम्यक् तत् , साधन पड्विधं यतः ॥ १ ॥ श्रोत्र त्वङ् नेत्र-रसना-घाण-प्रश्नैः प्रयोजितः । यथाज्ञान परीनेति धन्वन्तरिरमापत ॥२॥ तत्र श्रौती परीक्षा स्यादुरोरोगेषु तद्यथा । उरसि श्रूयते वायुः सश्लेष्मा वुवुदायितः ॥ ३ ॥ अथ व्याधिविज्ञानमार्गमादौ दर्शयित्वा व्याधिविज्ञानोपायांनुपर्पयति- दर्शनेति । एष सौश्रुतसन्दर्भस्यानुवादः। दर्शनं दृश्यानां विशेषाणामातुरे प्रत्यक्षीकरणम् । स्पर्शनं यकृत्-प्लीहादीनामङ्गुष्टमूलगाया धमन्याश्च । रोगोऽयं कदा किंलक्षणः प्रादुर्भूत इत्येवमादयः । -इति त्रिभिरुपायैः गदा रोगा विज्ञायन्तामिति केचित् । तत्तु न सम्यक् यतः साधनं रोगविज्ञानकरणं षड्- विधमग्ने वक्ष्यते। नन्वेवमालोकादीनामपि साधनताऽस्तु इति चेन्न। सर्व- सामान्योत् । समान हि तावदालोकादिकं सर्वेपास् इह तु परीक्षकनिष्ठविशिष्ट- साधनानोमेवोपयोगः ॥ १॥ धन्वन्तरिमतमाह-श्रोत्रेति । श्रोत्रं श्रवणेन्द्रियं त्वक् स्पर्शनेन्द्रियं, जिह्वा, घाण घाणेन्द्रियम् , प्रश्ना पूर्वोक्ता वागिन्द्रियप्रयुक्ताः। यथाज्ञानमिति गुरूपदेशसहकृत स्वानुभवानुसारादित्यभिप्रायः । धन्वन्तरिरभापति धान्वन्तरीय- सम्प्रदायस्य मतमेत् सुश्रुतोक्तम् । आले यसाम्प्रदायिकास्तु रासनप्रत्यक्ष निषेधन्ति । यथाह चरकः प्रत्यक्षतस्तु खलु रोगतत्त्वं वुभुत्समान' सर्वेरिन्द्रियः सर्वानिन्द्रियार्थानातुरगतान् परीक्षेत, अन्यत्र रसज्ञानात्” इति (च० वि० ४ अ०)। इह ग्रन्थकृतापि रासनी परीक्षा निपिद्धव ॥ २॥ तत्र श्रावणं प्रत्यक्षमाह -तत्रेति । उरोरोगेष्वित्युपलक्षणम् , अन्नकूजन- स्वरभङ्गादीनामपि श्रावणवेच प्रत्यक्ष भवति । उरोरोगाः फुस्फुस हृद्यन्नादिरोगाः । तवैको दृष्टान्तः यथा-श्वासमार्गेषु श्लेष्मणा किञ्चिदावृतमार्ग. श्वासवायुर्जल- बुद्बुदशब्द' कुर्वन् श्रूयते । अपरे दृष्टान्तास्तु यथा-तमकश्वासादौ वंशीध्वनि- वच्छन्द., हृद्रोगेषु हृत्प्रतीघातेन सह नाड़ीधमनवद् ध्वनि', इत्येवमादयो रसना . १। Rales २ | Ronchi 31 Bruit, ५५ इयश्व रोगपरीक्षा। स्वाची परीक्षा शीतोषणा-धमनीगतियोधिनी। यकृत्प्लीहादिसंस्थानसूचनार्थाऽपि सोच्यते ॥ ४॥ गुरुवक्तगम्या'। श्रवणञ्च तद् द्विविधम् । साक्षाद् दूरत एव - यथा श्वासादिरोगे श्वासमार्गस्थो घुघुरशब्द । समोपतो वा-यथा कर्णसंयोगेन। कर्णसंयोगश्च नाडीयन्त्रसहकत. केवलो वा इदानीन्तनानान्तु नाडीयन्त्रविशेपसहकृत एव प्रेयान् , सौकर्यात् । स च नाडीयन्त्रविशेपः' सुश्रुतोक्तनाडीयन्त्रध्वन्तर्भाव्यः । श्रावण-प्रत्यक्षविषयता सुश्रुतेऽप्युक्ता-यथा “मफेन ' रक्तमीरयन्ननिलः सशब्दो निर्गच्छतीत्येवमादय. श्रवणेन्द्रियविज्ञ या.” इति ( सु० सूत्र० १० अ०)। न च शङ्कयं ब्रगास्त्रावादिविज्ञानमेव सुश्रुतसन्दर्भस्य विपयस्तेन शल्यतान्त्रिकाणामेव श्रावणपरीक्षोपदेश इति । कायचिकित्साविपयाणा क्षत्जकासोर क्षतादीनामपि व्रगत्वसामान्यात् , अप्रणेयपि श्वासरोगादिषु श्लेख्नसञ्चयादिविज्ञानार्थं श्रावण- परीक्षाया आवश्यकत्वाच ॥ ३ ॥ स्पर्शनेन्द्रियप्रत्यक्षमाह-वाचो त। शीतोष्णयोरनुभवो यथा ज्वरादिषु । अलक्षगात् खर-श्लक्ष्णादीनामपि त्वगोगादिषु । धमनीगतिरगुष्ठमूलस्थाया' जोवसाक्षिण्या धमम्मा' स्पन्दनम् नाडीगतिरिति लोकप्रसिद्धम् । सा चान्याश्च सर्वा धमन्यो हृदयप्रभवाः । हृदयं हि धमनीद्वारेण सर्वत्र शरीरे शोणित धमति, तत्र पुनरिमे विशेषा लक्षणोयाः संक्षेत्रात् -गति', पतिः, आकृतिः, सहतिश्च । तत्र गतिर्नाम चेगः, यभेदेन नाड़ो मन्दा द्रुता वा भवति । यति.' स्पन्दनानां समान्तरालता विषमान्तरालता वा, यभेदेन नाड़ो समा विसमा वा भवति, हससोदिगतिश्च कथ्यते । आकृति.-रथूल-मध्य-कृशानामन्यतमा यथा समावस्थाया नाड़ी स्थूला पुष्टा वानुभूयते, निरामावस्थायान्तु कृशा क्षोणा वा, मध्याकृतिः स्वभावे। संहति',५ अंगुल्या धमनोनिष्पोड़ने कोमलनया कठिनतया वाऽनुभवः । तदेतचतुष्टय नानाविधविकल्पैभिद्यमानमनेकानुभवविशेषेषु पय्येवस्यति। ते च विशेषाः नाड़ीविज्ञानग्रन्थेभ्यो गुरूपदेशानुभवाभ्या च सवेद्याः । अगुलीचेष्टादिसहकृतां त्वाची परीक्षा पुनर्विशिष्याह-यकृत्प्लीहादीति । सा त्याची परीक्षा यकृत्प्लोहादीना संस्थानविशेषप्सूचनोर्थाऽपि। तत्र दक्षिणतो यद, वामत प्लीहा। आदिपदेन आमाशय-पकाशय-वृक-वस्त्यादीनाञ्च । यत्- प्लीहादीना कियती वृद्वि.,कीदृशं कोठिन्यमित्यादिवोधो हि तत्तदवयवानामगुल्यादिभिः १ | Stethoscope Speed 31 Rythm ४ | Volume sistency or pressure ( Blood-pressure ) ३ ५। Con- सिद्धान्त-निदानम् । चाक्षुषी तु भवेटु वर्णोपचयादिप्रदशिनी । प्रस्नेहादिरसज्ञाने गलनी, सान शस्यते ॥ ५ ॥ माधुर्थ्यादिपरिज्ञानसाधने बहुधा स्थिते । कोऽधुना नु प्रयुञ्जीत जिह्वां मूत्रपरीक्षणे ॥ ६ ॥ घाणेन ज्ञायते गन्धः श्लेष्मपूयास्टगादिषु । कुशलतया पोड़नेन भवतीति चेष्टाविशेषसहकृता त्वाचीयं परीक्षेति विशेपः । सेयं परीक्षा तादृशपरीक्षादक्षगुरूपदेशाद् भूयोदर्शनेन सम्यक् कत्तुं शक्या, न शाखो- पदेशमालेण ॥४॥ चाक्षुपो परोक्षामाह-वानषीति। चाक्षुधी दशनेन्द्रियझता या परीक्षा । वर्णः कृष्णगौरपीतादिः, उपचयः शरीरपुष्टि । आदिपदात् व्रणेषु उत्सेधादिश्च, तेपा प्रदर्शनशीला। नेत्र जिहा-मल सूत्रादि-परीक्षापि चाक्षुपी परीक्षेव । सा च द्विविधा केवला, यन्तादिसहकृता च । तत्र केवला या यन्त्रादि-सहायतां विनैव क्रियते जीयच्छरीरस्य । रोगमृतस्यापि आभ्यन्तरयन्नादिविकृतिदर्शननिपाद्या तत्त्वाविष्करणार्था च परीक्षाक्रियते-यथा - सद्योमृतस्य यक्ष्मिणः उरश्छेदेन दृश्य । फुस्फुसनणादिविकृति । यन्त्रादिसहकृता तु नाड़ीयन्त्रादिभिर्नियाद्या यथा नासा कर्म कण्ठ गुदादिपरीक्षा। नव्यानतेन कचित् अणुवीक्षणादिसहायाऽपि परीक्षाऽस्ति यथा शोणित-श्लेष्मादिपरोक्षा। अथ रासनी परीक्षा निहिश्य निषेवति-प्रमेहेति । रासनी परीक्षा प्रमेहादिरसनाने मूनमाधुर्खादिपरिज्ञाने - इत्यभिसन्धिः । तदेतत् सुश्रुतमतम् । तथाह्य क्त-रसनेन्द्रियविज्ञ याः प्रमेहादिषु रसविशेषाः ।" (सु० सूत्र० १० अ० इति ) सा न शस्यते न प्रशस्ता, जुगुसितत्वात् परोक्षितुर्व्याधिकारित्वात् प्रशस्य- तरपरीक्षान्तरसद्भावाञ्च इत्याकूतम् । तदेवाह-माधुळदीति । माधुर्य्यादि- परिज्ञानसाधने नवाविष्कृत्तपाश्चात्यपरीक्षाविधौ । स च परीक्षाविधिः द्विनद्रव्य संयोगेन वर्णान्तरपरिणामादुपदिष्टः प्रतिपादितश्च तद्ग्रन्थेषु ।। ५।६।। प्राणकृता परीक्षामाह-धाणनेति । श्लेष्मा, पूयम् अमृग् रक्तञ्च,आदिपदात् मल-मूल-रजन्मभृतयः। तेषु गन्धविशेषाः प्रायेण दूरादपि किञ्चित् सन्निकर्षण वा शायन्ते। सुश्रुतेऽयुक्त-"घ्राणेन्द्रियविज्ञ या अरिष्टलिङ्गादिषु व्रणानाम- व्रणानाञ्च गन्धभिशेपा" इति ( सु० सूत्र० १० अ० ) । उक्तश्चान्यत्र -"दुर्गन्ध हरितं श्वावमित्यादि।"

रोगपरीक्षा। प्रश्नस्तु विद्यादखिलं रोगवृत्तान्तमादितः ॥ ७ ॥ इत्थं निखिलवृत्तान्तसम्यगज्ञानपरायणः । स्वातन्त्र पारतन्त्र्यञ्च सावर्यञ्च रुजां विदन् । निश्चिन्वानोऽथ सम्प्राप्ति सम्पूर्णानां प्रयत्नतः। प्रयुञ्जानः क्रियाः सम्यग भिषण याति यशस्विताम् ॥ शास्त्र ज्योतिः प्रकाशार्थ दर्शनं बुद्धिरात्मनः । ताभ्यां भिषक सुयुक्ताभ्यां चिकित्सन् नापराध्यति ॥१०॥ अथ प्राश्नी परीक्षामाह-प्रश्नैरिति । आदितो रोगारम्भात् प्रभृति । अखिलं सर्वम् । तथाच सुश्रुतः - "प्रश्नेन च विजानीयादेशं कालं जाति सात्म्यमातङ्कसमुत्पत्तिं वेदनासमुच्छायं वलमन्तरग्नि वातमूत्रपुरीपाणा प्रवृत्त्य- प्रवृत्ती कालप्रकर्षादीश्च विशेपान्" इति (सु० सूत्र० १० अ०)। प्रश्नाश्च रोगलक्षण- विदैव सम्यक् प्रष्टुं शक्याः, यादृच्छिकप्रश्नास्तु निष्फलप्रायाः। तदेवं सत्स्वपि पट्सु परीक्षाविधिषु रासनपरीक्षाया वजनात् पञ्चविधैव परीक्षा वैद्यः करणीयेति चरका- नुगत एत्र सिद्धान्त. पर्यावस्यति ॥ अथोपसंहरति इत्थमिति । इत्थं परीक्षा- विधिपञ्चकेन । स्वातन्त्रयादि व्याख्यातपूर्वम् । निखिलवृत्तान्ताभिज्ञानं स्वातन्त्रयादि- परिज्ञानञ्च चिकित्साया वहूपकरोति। तदनभिज्ञस्तु भिपगसम्यग्दर्शी रोगमूलम- स्पृशन्नुपद्रवमानं वा लक्षणमात्र वा उपक्रमते, अयशश्च प्राप्नोति यादृच्छिकी वा सिद्धिं भाग्यवशात् । उक्तञ्च सुश्रुते-"मिथ्यादृष्टा विकारा हि दुराख्यातास्तथैव च । तथा दु'परिमृष्टाश्च मोहयेयुश्चिकित्सकम् ।"--इति। सम्पूर्णाङ्गो "अमुमाशय" मित्याद्यशेप विशेपप्रकाराम् । क्रियो. चिकित्साविधीन् । सम्यगिति शास्त्र- युक्तियुक्तोपक्रमस्यैव कर्तव्यतामुपदिशति । तदुक्तं-"याऽत्युदीर्ण शमयति नान्यं रोगं करोति च। सा क्रिया न तु या व्याधि हरत्यन्यमुदीरयेत्'-इति । एवञ्च क्षणिकोपशमनी क्रियां कुर्वाणा अपि बहुधा प्रमाद्यन्ति नव्यभिपजः ॥ ७८18 | अथ स्थूगा-निखननन्यायेन रोगविज्ञानस्य अतिमात्रोपयोगित्वं पुनदर्शयति चरकीयश्लोकाभ्याम्-शास्त्रमिति ( च० सून० ६ अ०)। आलोकचक्षुःसंयोगेन हि रूपाभिव्यक्तियथा भवति तथा दुर्विज्ञयेष्वपि रोगतत्त्वेपु शास्त्रोपदेश विवेकाभ्यां सर्वार्थसिद्धिरित्यभिसन्धिः। शास्त्र ज्योतिरालोकवदिति भावः। आत्मनो बुद्धिदर्शनं चक्षुर्वत् । सुयुक्ताभ्या सम्पायुक्ताभ्याम् । न हि सत्यपि शास्त्र सत्स्वपि सिद्धान्त-निदानम् । आतुरस्यान्तसल्लानं यो नाविशति रोगवित् । ज्ञानबुद्धिप्रदीपेन न स रोगान् चिकित्सति ॥ ११ ॥ च ज्ञानेन्द्रियेषु वुद्धकल्यात् सस्यगज्ञानं सम्भवति । नापराध्यतीति अन्यथाप्राप्ताम- पराधशङ्कां निवर्तयति। उक्तञ्च वाग्भटाचार्येण उक्तञ्च वाग्भटराचार्येण -- 'अज्ञात-शास्त्र सद्भावान् शास्त्रमानपरायणान् । वर्जयेत्तान् भिपपाशान पाशान् वैवस्वतानिव।" चरकेऽ- प्युक्तम् - "आतुराय शयानाय श्रद्दधानाय रोगिणे। यो भेषजमविज्ञाय प्राज्ञमानी प्रयच्छति । त्यक्तधर्मस्य पापस्य मृत्युभूतस्य दुर्मतेः। नरो नरकपाती स्यात्तस्य सम्भाषणादपि ॥” इति ॥ १० ॥ उक्तमेवार्थं द्रढयति पुनश्चरकोयश्लोकेन आतुरस्येति । (च० वि० ४ अ०) यथा हि कस्मिंश्चिदन्धकारमये गृहे प्रदीपं विना प्रविशन् पुरुषो नार्थमभिमतमासा- दयति स्खलति च प्रायेण पदे पदे, तदिति भावः। दृष्टान्तश्चात्रोदाहरन्ति. "पाणिचाराद् यथाऽचक्षुरज्ञानाद् भीतभीतवत्। नौर्मारुतवशेषाज्ञो भिषक् चरति कर्मसु ।” इति। अन्यत्राप्युक्तं--"यस्तु रोगमविनाय कर्माण्यारभते भिषक् । अप्यौपधविधानज्ञस्तस्य सिद्वियदृच्छया। यस्तु रोगविशेषज्ञः सर्वभैषज्यकोविदः । देशकालप्रमाणज्ञस्तस्य सिद्धिरसशयम् ॥" (च० सूत्र० २० अ० ) इति ॥ ११ ।। इति भारतसम्राटप्रदत्त-महामहोपाध्यायोपाधिक- वैद्यावतंस श्रीगणनाथसेन शर्म-सरस्वती प्राणाचार्य विरचिते सिद्धान्त-निदाने रोगपरीक्षाभिधस्तृतीयोऽध्यायः ॥ -- 8 *- ज्वरनिनानम् । स्वेन तेनोमणा चैव कृत्वा देहोष्मणो बलम् । स्रोतांसि रुद्धा सम्प्राप्ताः केवलं देहमुल्वणाः ॥४॥ सन्तापमधिकं देहे जनयन्ति नरस्तदा। भवत्यत्युष्णसङ्गिो ज्वरितस्तेन चोच्यते ॥ ५ ॥ मतन्त्रम् । तेनैको दोपः द्वौ वा दोषौ यो वा दोपाः- इति योजना। रसाख्यं धातुमन्चेत्य अनुगम्य । अन्नस्य सारसूतो धातुरामाशयादन्त्रेभ्यश्चाकृष्यमाणो यकृद्वारेण रसप्रपाद्वारेण वा रक्तस्रोत सञ्चारी रस इत्युच्यते। तदनुगमनञ्च दोषाणा रसायनोः प्रपद्येव । तदुक्त वाग्भटेन - "प्रतिरोगमिति क्रुद्धा रोगाधिष्ठान- गामिनी.। रसायनी प्रपद्याशु दोषा देहे विकुर्वते"। ( अष्टाङ्गह० नि० १५०)। दोपोत्यानञ्चामाशयादित एव सन्भवति, तस्मादामाशये पक्काशये वा निजज्वराणा मूलमन्वेष्यमित्यभिप्रायः । अतएवाग्निवेशनिदाने--"दोषो- ऽजीर्णाज्धरं कुर्यादिति"। यत्तु सुश्रुतेनोक्तं-"दुष्टाः स्वहंतुभिदोषा प्राप्या- माशयमूष्मणे"त्यादि, तत्रामाशय इति आम-पक्काशययोरुपलक्षणं बोध्यम् । भामाशयसमुत्थः पकाशयसमुत्यश्चेति द्विविवज्वरस्य शास्त्रयुक्तिसिद्धत्वात् । पक्ति पाचकाग्निं स्थानात् स्वाधिष्ठानात् समपादनवहमार्गात् , निरस्य वहिस्त्वचि निःक्षिप्य । एतेन निजज्वरेषु लङ्घनप्रयोजनं सूचितम् । तेन वहिनि क्षिप्तेन स्वेनो- मणा पाचकाग्निसन्तापेन देहोष्मणः स्वाभाविकल्य सर्वदिकसन्तापात्मकस्य वलं वलवृद्धिं कृत्वा। स्रोतासि स्वेदादिमार्गान् रुद्धवा आमरसवाहुल्यादाभ्यन्तरसन्तापा धिक्याञ्च स्वेदादिवहस्रोतसामवरोधं कृत्वा। केवलं देहं सर्व कार्य सम्प्राप्ताः । उल्वणाः धातुक्षयकारित्वेन प्रज्वलन्त इव। देहे बहिस्त्वचि धातूनामभ्यन्तर- तश्चाधिकं सन्तापं जनयन्ति। तेन सर्वधातूना दह्यमानत्वेनात्युष्णसर्वाङ्गो नरो अरित उच्यते। तदिदं सम्प्राप्तिवर्णनमानं न लक्षणम् । लक्षणन्तु सामान्यात् सन्तापाधिक्यमिति पूर्वमवोचान । इदश्चात्रावधेयम्-यावद् यावन्मात्र सन्तापाधिक्यन्तावत्तावन्मात्रा कोष्ठाग्नेरपि मन्दताऽवगन्तव्या। अपतर्पणादि प्रयोजनच तावदेव भवितुमर्हति । तेन रससामतानिरसनमेव निजज्वराणा मुख्यचिकित्सितमित्युन्नेयम् । अत एवाहुः-"लङ्घनं स्वेदनं कालो यवाग्वस्तिक्तको रसः। पाचनान्यविपक्कानां दोपाणा तरुणे ज्वरे" इति । आगन्तुचरेषु तु सत्यपि सन्तापाधिक्ये मासरसादि पथ्यमुपदिशन्ति, धातुक्षयवारणायो यत्तु सुश्रुत- वचनोद्वारी माधवः “स्वेदावरोधः सन्तापः सर्वाङ्गग्रहणन्तथा" इत्यादि पर- ६२ १ d सिद्धान्त-निदानम् । ( पूर्वरूपम् ) श्रमोऽरतिर्विवर्णत्वं वैरस्यं नयनालवः । इच्छाद्वषो सुहुश्चापि शीतवातातपादिषु ॥ ६ ॥ जृम्भाऽङ्गमो गुरुता रोमहर्षोऽरुचिस्तमः । अप्रहर्षश्च शीतश्च भवत्युत्पत्स्यति ज्वरे सामान्यतो, विशेषात्तु भात्यर्थं समीरणात् । पित्तानयनयोहः कफानान्नाभिनन्दनम् ॥ ७८ ॥ लक्षणमाह, तत्र स्वेदावरोध इति व्याचक्षाणो डल्लनः "स्वेदावरोधः स्वेदाऽनिर्गमः एतच्च प्रायिकं लक्षणं, पैत्तिके स्वेदनिर्गमाद्'- इत्यभिधे। चरके तु कण्ठेन प्रायिकत्वमुक्तं यथा - 'स्रोतसा संनिरुद्वत्वात् स्त्रेदं ना नाधिगच्छति । स्वस्थानात् प्रच्युते चाग्नौ प्रायशस्तरूणे ज्वरे" इति । तेन"स्वेदोऽग्निः स्विद्यतेऽनेनेति व्युत्पत्त्या तस्यावरोधो दोषव्याप्ति"रिति विजयरक्षितव्याख्यानमाग्रहमूलमेव । वस्तुतस्तु सुश्रुतोक्तिन लक्षणं किन्तु दिक्प्रदर्शनमात्रमिति न दोपः ॥३- ५॥ अथ निजज्यराणां सामान्यपूर्वरूपमाह -श्रमोऽरति-रित्यादिना सौश्रुत- सन्दर्भेण ( सु० उत्तर० ३६ अ० )। श्रमोऽकृतश्रमस्यापि श्रान्तिवोधः। अरतिः शयनासनादौ सुखाभाव । विवर्णत्वं विशिष्टवर्णत्वं रौद्राभितप्तस्व । वैरस्यं स्वाभाविकमुखास्वादस्य विकृतिः । नयनप्लवः वाष्पपूर्ण नेत्रता । शीतादिषु- मुहुः भृशमनवस्थितौ इच्छाहषौ अनुरागविरागो, ओदिपदात् प्रियजनादिष्वपि । अङ्गमदः अङ्गानान्नु व्यत्प्रायता। गुरुता गानाणा शिरसश्च । अरुधिरनादिषु । तमोऽन्धकारदर्शनमिव । अप्रहपः दुःखितप्रायत्वम् । केचित्तु व्याचक्षते-प्रहर्पः कामोद्रेककृतं शिश्नोत्थान, तदभावः प्रमदालिङ्गनेऽपि उद्रे काभाव इति । शीतं हिम विव शीतस्पर्शानुभव । - इत्येतदखिलमेवाल्पाधिकं सामान्यतः, सर्वज्वर- सामान्येन उत्पत्स्यनि भविष्यति ज्वरे भवति-इति परेणान्वय, । परस्मैपदमार्पम् । एकवचनान्तक्रियानिर्देशात् सर्वेपामेव पूर्व रूपाणां युगपत् प्रायोभावित्वं सूच्यते। न च शङ्कयं, सर्वेषां पूर्वरूपाणा दर्शने दुःसाध्यताऽसाध्यता वा स्यात् , यदुक्तं "पूर्वरूपाणि सर्वाणि ज्वरोक्तान्यतिमात्रया। य विशन्ति विशत्येनं मृत्युबरपुरःसर." -इति । अतिमात्रयेत्यभिधानात् । अतिमात्रयैव हि सम्भवन्ति पूर्वरूपाणि सर्वाणि घोरतासूचकानि नत्यल्लमात्रया-इति विशेषविद । है अथ . ? अथ चतुर्थोऽध्यायः। [ज्वरलक्षणम् ज्वरः प्रधानो रोगाणां त्वचि सन्तापलक्षणः । देहेन्द्रियमनस्तापी निजश्चागन्तुजश्च सः॥ १॥ ज्वरम्य सर्वरोगानजत्वात्तन्निदानमेवादावुपक्रमते-ज्वर इति । रोगाणा मध्ये ज्वरः प्रधानः प्राधान्येन ज्ञातव्यः सर्वधातुक्षयापादकत्वात सदरोग- पूर्वजत्वाद् जन्ममरणयोरवश्यम्भावित्वाद् निखिलस्थावरजङ्गमविषयत्वाच्च । ननु यक्ष्मादिषु ज्वरो लिङ्गमात्र, न स्वतन्त्रो व्याधिरिति कथं ज्वरस्य प्रधानतोच्यते ? सत्यं, केषुचिद्रोगेषु ज्वरो लिङ्गमेव, तथापि प्रायः सबैरोगाणां ज्वरपूर्वत्वात् ज्वरजन्यधातुक्षयस्य प्राधानिकलिङ्गत्वात् सर्पाणामिव ज्वराणामप्यसंस्य- जातीयानां प्रभूतानिष्टकारित्वाञ्च तस्य प्रधानता न प्रतिहन्यते । यक्ष्मादिष्वपि प्रवृद्धज्वर विशेषः "प्रलेपक"संज्ञाभिधेयस्तदुपक्रमोऽपि विशेषात करणीयो भवत्येव । अथासौ ज्वरो वहुधा भिन्नरूपोऽपि मूलत एक एवेत्याह चरकानुशासनेन- त्वचि सन्तापलक्षण इति । तथाा क्तं "ज्वरस्त्वेक एव सन्तापलक्षणः" २ इति (च० नि० १ अ०) । ननु रौद्राग्निसेवयापि क्षणिकस्त्वकसन्तापो दृष्ट इति तद्वारणार्थ विशिनष्टि-देहन्द्रियमनस्तापीति । न च देहग्रहणादेव त्वगग्रहणमिति त्वचि सन्तापस्य पौनरुक्तयं शङ्कयं, विशेषप्रतिपत्तेः । त्वग्गतसन्तापविशेषो हि सर्वजनैः सवेद्यः, इतरे सन्तापास्तु रोगि-वैद्याभ्यामेव । देहपदेन हि सामान्यतः सर्वधानूना ग्रहणम्। स च ज्वरः सामान्याद् द्विविधः-निजो दोपकृतः, आगन्तुज आगन्तुहेतुकोऽभिघातादि- निमित्तश्चेति । एवमग्रे सर्वरोगेष्वपि सामान्याद्विविधो विभागो द्रष्टव्यः । यदाहुः "द्विविधा प्रकृतिरेपामागन्तुनिजविभागादिति" (च० सू० २० अ०)। वस्तुतस्तु ज्वरे दोपकृतभेदाद् धातु काल-जात्यादिकृतो भेद एव गरीयान् । अतएव चरकश्चिकि- त्सिते ज्वरस्य पूर्वरूपमात्रमभिधाय विध्यादिकृतानेव भेदान् प्रधानतो व्याचाट, तेषामेव चिकित्सायां परमोपयोगित्वात्, यथा-"द्विविधो विधिभेदेन ज्वरः शारीर- मानसः । पुनश्च द्विविधो दृष्ट. सौम्यश्चाग्नेय एव च । अन्तर्वेगो वहिर्वेगो द्विविधः १। तथाहि चरते-“तमुवाचेश्वर की उवरी लोक भविष्यसि । नमदी निपने च त्वमपि चागन्त रेषु च ॥” इति (च० चि० ३ १०) २ । ननु सन्तापस्तु स्वाभाविक , सन्तापच च मृत्यु नेति चेत, सत्यम् । म्वाभाविक-सन्तापस्य सीमातिकमोऽव अभिप्रेत । स्वाभाविकसन्ताप नव्य परीचया तापमानयन्तार ९७ शादारभ्य ८८ || अशपर्यन्तो दृश्य ने बलमावाविभेटात ॥ तदइन्त ज्वरमन्ताप | कस्यचिन, म्यभाग होनसन्तापस्य ९८ अशाटूई देहेन्द्रियमनस्तापलक्ष्यो ज्वगे भवल्य व ३ । वधाचायवैद्य-"पाकरन म तु नागानामभितापस्तु वाजिनाम् । गवामोयरमनच मानवाना उवरो नत । जावीना पन्नापार में चान्नसी भवेत् । हारिद्रो महिषाणान्तु मृगगेगी नगेषु च । पक्षिणमभिघातस्तु मत्स्य चिन्द्रमदी मतः । पक्षणत पतङ्गा व्यालेष्टवतिकमनक' इत्यादि । अन्यज्ञोक 'जलस्य नीलिमा भूमेरुपगेच कोटर" राहि। - ६० सिद्धान्त-निदानम् । [अथ निजज्वराः] (ज्वरनिदानम्) लिथ्याहारविहारादि निजस्यायतनं स्मृतम् । आगन्तोर्जलवाखादि-वाहितं प्रायशो विषम् ॥२॥ (ज्वरसम्प्राप्तिः) संस्कृष्टाः सन्निपतिताः पृथग वा कुपिता मलाः । रसाख्यं धातुमन्त्य पक्तिं स्थानान्निरस्य च ॥३॥ पुनरुच्यते। प्रोकृतो वैकृतश्चैव साध्यश्चासाध्य एव च। पुनः पञ्चविधो दृष्टो दोषकालवलावलात् । सन्ततः सततोऽन्येधु स्तृतीयकचतुर्थको। पुनराश्रयभेदेन धातूनां सप्तधा मत भिन्नः कारणभेदेन पुनरप्रविधो ज्वरः" इति ॥ १ अथ निजज्वराणा निदानमाह-मिथ्याहारेति । अभ्यस्तानमायतिसुखा- नामोहारविहाराणां वैपरीत्यं मिथ्यात्वम् । निजस्य निजम्वरस्य । जातावेकवचनम् आयतनं निदानम् । “निमित्तहेत्वायतनप्रत्ययोत्थानकारणः । निदानमाहुः पर्यायः' -इत्युक्ते ॥ आगन्तुज्वरहेतुमाह-आगन्तोरिति । आगन्तोज्वरस्य निदानन्तु - जलवायुभ्यां वाहितं विपं जीवाण्यादिनिष्ठमन्यविधं वा प्रायशः। प्रायश इत्युक्तेः अभिधातादीनामपि ग्रहणम् । मनु श्रूयते “दक्षापमानसंक्रुद्धरुद्रनिःश्वासः” एव ज्वरस्यायो हेतुरिति, स कथं नोक्तः ? उच्यते, अस्माकं खल्लिह लौकिरिव हेतुभिः प्रयोजन नालौकिकैः, तेन तृप्यन्तु पुराणपरायणाः पौराणिक्या वार्तयेति तादृश निमित्तं नोक्तम् केचित्त्वाहुः --'क्रोधात् पित्त'मिति चरकीयवचनेन सर्वज्वरेषु पित्ताविरोधिनी क्रिया कार्येत्यनेन सूच्यते--इति । उपन्यस्यन्ति चेह वाग्भटवचनं,-"ऊमा पित्तादते नास्ति ज्वरो नास्त्यूष्मणा दिना। तस्मात् पित्ताविरुद्धानि त्यजेत् पित्ताविकेऽधिकम्"- इति । अन्ये तु रुद्रकोपसम्भूतत्वाज ज्वरस्य देवत्वं मूतत्वञ्च कल्पयन्तः पूजन- मप्युपदिशन्ति । अपरे तु सूक्ष्मदृशः समादधुः-दक्षो हि भगवान् वायुस्तस्याप- मानो वैण्यापादळ कर्म, तेन संक्रुद्धो रुद्रः पाचकाग्निस्तस्य निःश्वासो वहिनिः- क्षेपस्तत्सम्भवो ज्वर इत्यभिसन्धि प्राचामिति ॥२ ॥ अथ निजज्वराणा सम्प्राप्तिमाह चरकवचनैः-संस्कृष्टाः-इति ( च० चि० ८ अ०)। मला दोपा वातपित्ताफाः। संस्कृष्टाः द्विद्धिरवस्थिताः यधा- वातप्लेष्माणौ पित्तश्लेष्माणो वातपित्ते चेति । सन्निपतिताः, यो दोषा युगपत् तारतम्यप्रकारमेदैर्मिलिताः। पृथोपाकशो चा, कुपिताः क्रुद्धाः सन्तः। वहुवचन- - ६३ ज्वरनिदानम्। (वातज्वरलिङ्गानि) वेपथुर्विषमो वेगः कण्ठोध्नुखशोषणम् । निद्रानाशः सुतः स्तस्मो गात्राणां रौक्ष्यमेव च ॥६॥ शिरो-हृद-गावरुवक्त-वैरस्थं बद्धक्टिकता । जुम्भारमान तथा शूलं भवत्यनिलजे ज्वरे ॥१०॥ (पित्तज्वरलिङ्गानि) वेगस्तीक्ष्णोऽतिलारश्च निद्राल्पत्वं तथा वमिः। , कण्ठोष्टमुखनासानां पाकः स्वेदश्च जायते ॥ ११ ॥ प्रलापः कटुता वक्त मूर्छा दाहो मदस्तृष्ण। पोतविशमूत्रनेत्रत्वं पैत्ति के श्रम एव च ॥ १२ ॥ अथ विशिष्टपूर्वरुपमाह विशेषादिति। वाताधिक्ये जुम्लाधिक्य, पित्ताधिक्ये नेत्रदाहाधिक्य, कफाधिक्येऽन्नस्यानभिनन्दन विशेपेणेति स्पष्टम् । एवं द्वन्द्वजे ज्वरे उभयविधयोः पूर्वरूपयो युगपदाधिक्यं सन्निपातज्वरे च त्रिविधानामाणिक्यमुन्नेयम्, तदुक्तं सुश्रुते "सर्वलिङ्गासमावायः सर्वदोपप्रकोपजे। द्वयो योस्तु रूपेण ससृष्ट द्वन्द्वजं विदु."- इति (सु० उ० ३६ अ०)॥६-८॥ अथ सामान्यतो धातज्वरादीना लिङ्गान्याह सुश्रुतवचनै. वेपथुरित्वादिभिः (सु० उत्तर० ३६ अ०)। वेपथु. कम्पः। क्षुतः क्षवस्य स्तम्भोऽनिर्गमनं, क्षवः छिक्का ( हांचोति चङ्गे प्रसिद्धा )। शूलाधमाने सामे वातज्वरे एव भवत न निरामे ।। ६ । १०॥ पित्तज्वरलिङ्गान्याह-वेगस्तीक्षण इति । अतिसारः पित्तस्याधिक्यात् पित्तबहुल एव । वमिरपि प्राय पित्तस्यैव । कण्ठादीना पाक. सत्रणशोथता कचिद् मुखादिक्षतं वा। स्वेदः ज्वरे सत्यपि अन्तरान्तरा उरोललाटादिषु धम्मनिर्गम । प्रलापोऽतितीव्रपित्तज्वरे वातसंसर्गादेव भवति, न सर्वत्र । कट ता तिक्तता, तदुक्तं-कटु स्यात् कटुतिक्तयोरिति । मूर्छा तमःप्रदेशः स्वल्रेनाप्यायालेन। मदः पूगशलाटुभक्षणेनेव मत्तता । भ्रमः चक्राकारभ्रमणेनेव । पीतनेवता ईपत्पीततेव नेतयोर्नतु सर्वथा कामला, कामलाया प्रायेण वर्चसि पित्ताऽभावदर्शनात् । तान्येतानि पित्तज्वरलिङ्गानि कचिदेव सर्वत्र लर्वाणि सम्भवन्ति, सम्भवन्ति च वातपित्तोल्यणसान्निपातिकतया प्रतीयन्ते परन्तत्र शीतोपशमदर्शनात् पित्तचर सिद्धान्त-निदानम् । ॥ (श्लेग्मज्वरलिङ्गानि) गौरवं शीतसुत्क्लेशो रोमहर्षोऽतिनिद्रता । स्रोतोरोधो गल्पत्वं प्रसेको मधुरास्यता ॥ १३ ॥ नात्युष्णगात्रता च्छदिरासादोऽविपाकिता। प्रतिश्यायोऽरुचिः कासः कफजेऽक्ष्णोश्च शुक्लता ॥ १४॥ [अथ द्वि नि दोपजज्वरलिङ्गानि ] द्वयो योस्तु रूपेण संस्कृष्ट द्वन्द्वजं विदुः सर्वलिङ्कसमावायः सर्वदोषप्रकोपजे ॥ १५ ॥ एवोयमिति रुग्विनिश्चयः कियने । विशेषश्चान क्वचित् रक्तकोठादिदर्शनमपि भवति। कचिद् विषमज्वरः रोमान्तिका च एवंविधलक्षणै. सहचरितोपलभ्यते--, इत्यस्माकमनुभव. ॥ ११ ॥ १२ ॥ अथ कफवरलिङ्गान्याह-गौरवमिति। गौरवं गुरुगात्रता। शीतमीष- च्छोतानुभव', न तु विषमवरवदतिमानशीतम्। उत्क्लेशः उपस्थितवमित्वम् । स्रोतोरोधः स्वेदादिमार्गाणा बद्धप्रायता। आदिपदात् विण्मूलादिमार्गाणामपि प्रायः। कचित्तु कफज्वरे सामे मूनाधिश्यमपि दृष्टम्। रुगल्पता रुजा शिरः- पोड़ादोनां मन्दता। प्रलेको लालानावः । अङ्गसादो गानाणा शैथिल्यम्। प्रति- श्यायो नासादिस्त्रावः। अन्यत् स्पष्टम् ॥ १३ ॥ १४ ॥ अथ द्वन्द्वजाना ज्वराणां लक्षणानि पृथगनुक्ता सुश्रुतवचनेनाह-द्वयोर यो- रिति । कैश्चित् वातलिङ्ग, कैश्चित् पित्तलिंगेश्च मिलितै तित्तिक: इत्येवमादिप्रकारेणेति भावः । सर्वलिङ्गसमावायः, सर्वेपां दोषत्रयोत्थाना लिङ्गाना सम्मेलनम्। तन च - केषाञ्चिदेव नियमेन लक्षणानां सम्भवो न सर्वेषा, कचित् तादृशलक्षणसमष्टीनों कचिच्च यदृच्छया मिलिताना दोषलक्षणाना दर्शनात्। अतएव चरकेण दिग्दर्शनार्थ द्वन्द्वजाना ज्वराणां लक्षणान्यभिधाय समाप्तायुक्त'-"तत्र यथोक्ताना ज्वरलिङ्गानां मिश्रीभावविशेषदर्शनात् द्वान्छिक- मन्यतमं ज्वरं सान्निपातिकं वा विद्यात्" इति (च० नि० १३० )। तदेतदखिल- निर्णायक लिङ्गसूत्रमिहोद्धृतेन सौश्रुतवचनेनाऽविसंवादि स्मर्तव्यम् । या तु पुनरिह प्रकृतिसमसमवाय-विकृतिविषमसमवाययो संहतो वाचोयुक्तिरारचिता - - ~~ -- ६ सान्निपातिकज्वरलिङ्गानि। [अथ सान्निपातिकज्वरलिङ्गानि ] निद्रानाशो भ्रमः श्वासस्तन्द्रा सुप्ताङ्गताऽसचिः । तृष्णा मोहो मदः स्तम्भो दाहः शीतं हृदि व्यथा ॥ १६॥ पक्तिश्चिरेण दोषाणामुन्मादः श्यावदन्तता। रसना परुषा कृष्णा सन्धिमूर्धास्थिजा रुजाः ॥ १७ ॥ निर्भुग्नकलुषे नेत्रे कणौ शब्दरुगन्वितौ। प्रलापः स्रोतसां पाकः कूजनं चेतनाच्युतिः ॥ १८ ॥ स्वेद-सूत्र-पुरीषाणामल्पशः सुचिरात् खुतिः । सर्वजे सर्वलिङ्गानि विशेषश्चात्र वक्ष्यते ॥ १६ ॥ विजयरक्षितेन, सा नेह घटते, असम्भवात् । प्रकृतिसमसमवाय विकृतिविषयसम- वाययोरयं ह्यर्थस्तेनैव व्याख्यातः, यथा-"प्रकृत्या हेतुभूतया समः कारणानुरूपः समवायः कार्यकारणभावसम्बन्धः प्रकृतिसमसमवायः, कारणानुरूपं कार्यगित्यर्थः, -शुक्लतन्तुसमवायारब्धस्य पटस्य शुक्लत्वम् । विकृत्या हेतुभूतया विपमः कारणा- ननुरूपः समवायो विकृतिविषमसमवायः, यथा-हरिद्राचूर्णसंयोगे लौहित्यमिति ।" इह तु द्वन्द्वजज्वराणा चरकोक्तलक्षणसमष्टिषु नैकमपि तादृशं लिङ्ग पश्यामो यदोरम्भकदोपद्वयमतिक्रम्य हरिद्राचूर्णसयोगे लौहित्यवद् वैलक्षण्येन वर्तते, तत् कुतो विकृतिविषमसमवायारब्धता ? न च केपाश्चिदेव लिङ्गानां नियमेन दर्शनम् , चरकोक्तदिशैव प्रत्यक्षतश्चानियमस्यैव भूयो दर्शनात् । तस्मात् महर्पिजनोक्त- लिङ्गसूत्रस्मरणेनैव पुष्कल फलसिद्ध किमनेनाऽस्थानप्रयुक्तेने वागविस्तरेण । चरकोक्तलक्षणसमष्टयस्तु दिग्दर्शनार्थमुक्ता वोद्धव्याः। प्रकृतिसमसमवाय-विकृति- विषमसमवाययोः प्रसङ्गस्तु चरकीयविमाने भेषजपरिकल्पनाप्रसङ्गे प्रतिपादितस्तत्रैव सङ्गच्छते, नेह तावदकाण्डे । दोषदूष्यसंमूर्छनविशेषाददृष्टदेशकालादिसयोगतश्च यद् रोगाणामानन्त्यं तत्तु प्रतिपादितमेवास्माभिः ॥ १५ ॥' अथ द्वयुल्बणत्वादिभेदेन त्रयोदशविधेषु दोषसमूच्र्छनादि विशेषादसंरयविधेषु वा सन्निपातेषु प्रायेण सर्वत्र भाविनां लिङ्गानां समुञ्चयं सामान्येनादौ सूचयति सौश्रुतसन्दर्भण-निद्रानाश इति (सु० उत्तर० ३६ ज्ञ०)। निद्रानाशः-अनिद्रता- ।

५ - अभिन्यानज्वरः। ( Sricri 10 Class Siga bulan) नात्युप्रणशीतोऽल्पसंनो वान्तपनी हनम्वरः । खरजिह्वः शुष्ककगठः स्वेदविरामृत्रवर्जितः ॥ २० ॥ सास्रो निर्भग्नहृदयो भक्तह पी हतप्रभः श्वसन निपतितः शेने प्रलापोपवायुतः ॥ २१ ॥ तमभिन्यासमित्याहु-हनोजसमथापरे । सन्निपातज्वरं कृच्छ्रमसाध्यमपरे विदुः ॥ २२ ॥ ऽल्पनिद्रता वा । नमश्चकारुढस्येवानुभवः । तन्द्रा अनिद्वितस्यापि निहितवझावः । सुप्ताङ्गता मक्षिकादिस्पर्णेऽपि गाताणामनुभवमन्दता, नतु सर्वथा स्पर्शागना । मोहो मूर्छितवद्भावः कचिन्मूर्छाऽपि। स्तम्भः स्तब्धताऽनानाम् । इदि व्यथेति उरसि घ्यथा नतु हृद्यन्ते । प्रलापोऽसम्बद्धभाषणम् । बोतसा मुसनासादिरन्ध्राणा पाकः क्षतप्रायता, कचित् सृकण्यादौ पिड़कानिर्गमश्च । कृजनं कण्ठे कपोतरत- वद्धनिः । चेतनाच्युतिः संज्ञानाशः। मूर्छा तु क्षणमात्ररथायिनी, चेतनाच्युतिस्तु दीर्घकालं संज्ञाया अभावोऽल्पता वा। रवेदादीना सुचिरात् त्रुतिनिर्गमः । तान्येतानि लिङ्गानि सामान्यात् सर्वजे सान्निपातिकज्वरे सान्निपातिकज्वरजाति- विति भावः। जोतावेकवचनम् । विशेपश्चात्र वक्ष्यते, अभिन्यासलक्षणादी। त्रयोदशविधाना सान्निपातिकज्वराणा ल्क्षणानि तु चरकादौ द्रष्टव्यानि, विरतर- भिया मूले नोक्तानि । आचार्यमाधवकरोक्त. - "क्षणे दाह. क्षणे शीतम्" इत्यादि लक्षणो ज्वरस्तु समत्रिदोपसान्निपातिको दुर्लभप्रायः। भालुकिभावमिश्राधु का विधु-फल्गु मर्करी-विस्फुरक-शीध्रकारि-कप्फणादि सज्ञाः सान्निपातिकज्वरा अपि तभेदाः साम्प्रत प्रविरला एवेति नोक्ताः ॥ १६ - १६ ॥ अथेदानीमपि प्रसिद्धं घोरतमं सान्निपातिकज्वरविशेषमभिन्यासं नामाऽह सौश्रुतवचनेन-नात्युष्योति । (सुश्रुत० उत्तर० ३६ अ०) । नात्युष्णशीत साधारणागस्पर्शः। अल्पसंज्ञः किञ्चिदिव चेतनावान् । भ्रान्तप्रेक्षी उन्मत्त- वदस्थिरमूढदृष्टिः। सास्त्रः किञ्चिदश्रुपातशील. । निर्भुग्नहृदयः मूढ़चित्तः। भक्तद्वेषी किञ्चिदपि अन्नादिकमनिच्छ.। श्वसन द्रुतश्वासशीलः । निपतितः शेते, काष्टवदचेष्टमानस्तिष्ठति। प्रलापोपद्वायुतः, सर्वथा वाक्शक्तेलापात् / . ६७ . अभिन्यासज्वरः। ( सन्निपातज्बरेपु काल-मर्यादा ) वातपित्तकफैः सप्त-दश-द्वादशवासरान् । प्रायोऽनुयाति मर्यादा मोक्षाय च बधाय च ॥ २३ ॥ इत्यग्निवेशस्य मतं हारोतस्य पुनः स्मृतिः । द्विगुणा सप्तमी चैव नवस्येकादशी तथा ॥ २४ ॥ सन्निपातन्त्ररान्तेभाविन उपद्रवा.) वाधिय॑मङ्गवैकल्यमुन्मादो मूकताऽन्धता । क्वचित् स्युः सन्निपातान्ते एकशो वा द्विशोऽपि वा ॥२५॥ लुप्तप्रायत्वाद् वा प्रलापोपद्रवो नैव भवति, भवति वा स्तोकेन। न तु प्रलापोप- द्रवेण आयुतः अत्यर्थयुत इति डल्वनवद् व्याख्येयम् , असम्भवात् । तं सन्निपात- विशेप केचिदभिन्यासमपरे हतौजसमन्ये कृच्छ्रसन्निपाताख्यं विदुरिति संज्ञात्रयेण व्यवहारः प्राचाम् ॥ २०-२२॥ सन्निपातज्वरमर्यादामाह वाग्भटोयवचनेन वातपित्तेत्यादि- ( अष्टाङ्गह० १ अ०)। वातोलणत्वे सप्ताह, पित्तोवणत्वे दशाह, कफो- वणत्वे द्वादशाहमिति क्रमः। प्राय इत्युक्तेः कचिदन्यथाऽपि मर्यादा भवति । मोक्षाय च वधाय चेति दोषपाके मोक्षो धातुपाके तु वधो मर्यादान्ते वोद्धव्यः । तन्त्रान्तरेऽप्युक्तम् - "पित्तकफानिलवृद्धया दशदिवस-द्वादशाह-सप्ताहान् । हन्ति विमुञ्चति वाऽशु त्रिदोषजो धातुमलपाकात् ।।" तदेतदग्निवेशमतम् हारीतमते तु द्विगुणेत्यादि मर्यादाचतुष्टयम्। द्विगुणा सप्तमी चतुर्दशी, सप्तम्याश्च ग्रहण चकारेण । एवञ्च सप्तम नवम-दशमैकादश-द्वादश-चतुइँशदिनानि, अर्थात् प्रायः समग्रमेव द्वितीयसप्ताहं सर्वेषु सन्निपातज्वरेपु सङ्कटप्रायमाहुद्धाः। केचित्तु द्विगुणेति प्रत्येकशो योजयित्वा व्याचक्षते, तेन चतुद्द शाष्टादशद्वाविंशदिनानामपि लाभः। नन्वेवं चेत् कथं प्रायेण अष्टाविंशतिदिनै+रमोक्षः, उच्यते-दोषवाहु- ल्यात् तत्र चतुर्दशद्वगुण्य, प्रभावविशेषाहा । अत एव मूले प्राय इत्युक्तम् ॥ २३॥२४॥ सन्निपातज्वरान्तेभाविन. काचित्कानुपढ़वानाह वाधिर्यमित्यादि । वाधियं श्रवणशक्तिहानिः । अङ्गवैकल्यं कर-पादादीनां चेष्टाहानिः शोपश्च क्रमश'। उन्मादः उन्मत्तवत् चेष्टाय । मूकता वाक्शक्तिविलोप. गद्गदवाक्त्व वा। अन्धता दृष्टि- शक्तिहानिः । एपाचोपद्रवाणामल्पाधिक्येन एकशो द्विशो वा प्रादुर्भावः ॥ २५ ॥ अथ ६८ सिद्धान्त-निदानम्। सन्निपातज्वरस्यान्ते कर्णसूले सुदारुणः । शोथः सञ्जायते तस्मात् कश्चिदेव प्रमुच्यते ॥ २६ ॥ (सरिपातज्वराणां साध्यासाध्यता ) दोषे विबद्धे नष्टेऽसौ सर्वसम्पूर्णलक्षणः । सक्षिपातज्वरोऽसाध्यः कृच्छ्रसाध्यस्ततोऽन्यथा ॥ २७ ॥ उपद्वान्तरमाह काचित्कमेव सन्निपातेति। साऽयं शोथः कर्णमूलिकास्य- लालानन्थौ कचित् क्षीणस्य दृश्यते, पच्यते च प्रायः, मुच्यतेऽपि कश्चित्तस्मात् । चिकित्साकोशलेन । एप च कर्णमूलशोथः कर्णमूलिकज्वरे वक्ष्यमाणे आदी मध्ये वा जायमानात् कर्ण सूलशोथात् सर्वथा भिन्न एव, तस्य सुखसाध्यत्वात् । अन्यत्रापि श्रूयते- 'ज्वरादितो वा ज्वरमध्यतो वा ज्वरान्ततो वा श्रुतिमूलशोथः । क्रमेण साध्यस्त्वथ कृच्छसाध्यस्तथाऽप्यसाध्यः कथितो मुनीन्द्रैः ॥"-- इति । कर्ण- मूलशोथोद्भवकारणन्तु ज्वरकाले सम्यड्मुखदन्तादिशोधनाभावात् तत्संलग्नाहार शेषोद्भ तविषाणां कर्णमूलिकग्रन्थौ संक्रमणमेव ज्ञयम् । तेन ज्वरितस्य जिह्वादन्त- वेष्टादीनां सर्वदा सम्यक् शोधनमत्यावश्यकमिति मर्त्तव्यम् ॥ २६ ॥ सन्निपातज्वराणा साध्यासाध्यतामाह चरकीयवचनेन-दोषे इति । इह दोघे दूषितमलसूत्रादौ मलभूते पित्ते श्लेष्मणि चेति व्याख्येयम् । विवद्धे अच्यवमाने । अग्नौ जरणशक्तौ। सर्वसम्पूर्ण लक्षण इति सर्वाणि सम्पूर्णानि लिङ्गानि यत्र दृश्यन्ते तत्र प्रायेण असाध्यतेत्यभिप्राय। स्पष्टमन्यत् । ननु बातादीना परस्परविरुद्धगुणानां कथं सम्भूयसमुत्थानं, सम्भूयसमुत्थाने वा कथं न परस्परगुणोपघात इति चेदुच्यते। वायुर्हि योगवाहः यदुक्तं "योगवाहः परं वायुः संयोगादुभयाकृत्" इति, तेन वायुना न कस्य- चिद्विरोधः। अथ पित्तश्लेष्माणौ परस्परविरुद्धावपि स्वभावादेकत्रावस्थायिनौ, विकृतावस्थायां चैकत्र विकृतिलक्षणदर्शिनौ युगपद् भिन्नक्षणेषु वा दृश्यते भूयः । तद्यथा-तिक्तमधुरारयता, ओलस्य-मूछे, उत्क्लेद-वमने चेत्येवमादीनां द्वन्द्वाना युगपदेव सम्भवः, दाह-शैत्यादीना तु भिन्नक्षणेषु । तदुक्तं 'क्षणे दाहः क्षणे शीतम्" इत्यादि । तेन कार्ये न विरोधः पित्तश्लेष्मणोः। दोषाणामविरोधेन प्रवृत्तौ हेतुस्तु चरके यथा-'विरुद्धैरपि न त्वेते गुणैघ्नन्ति परस्परम् । दोषोः सहज- सात्म्यत्वाद् घोरं विषमहीनिव" इति । सहजसोत्स्यत्वात् प्रकृतौ स्वाभाविक- साहचर्यात् । वस्तुतस्तु अचिन्त्यस्वभावादित्येव सुवचम् ।। २७ ।।' .

६६ . अथ आगन्तुज्वराः। अभिघाताभियङ्गाभ्यामभिचाराभिशापतः । आगन्तुर्जायते दोपैर्यथास्वं तं विभावयेत् ॥ २८ ॥ शस्त्र-लोष्ट -कशा-नि-दंशायरभिघातजः । प्रायस्त्र रुजाशोफी वायुना रक्तदूपणात् ॥ २६ ॥ काम-शोक-भय-क्रोधैरभिषक्तस्य यो ज्वरः । सोऽभिवङ्गज्वरो ज्ञ यो यश्च भूताभिषङ्गजः ॥ ३० ॥ अथ आगन्तुज्वरानाह-अभिघातेति । अभिघातजः, अभिपङ्गजः, अभि- चारजः, अभिशापजश्चेति चतुर्विध. समासादागन्तुज्वर इत्यभिप्रायः ।। तनाद्यौ प्रायोदृष्टौ, अन्त्यौ तु विरलो, इदानी तपःप्रभावदौर्बल्यात्। अभिघाताभिषड्ग- पदयोरी तु अनुपदमेव वक्ष्येते। अभिचार श्येनयागादि मारणोच्चाटनकम्भ । अभिशापः गुरु-विग्र सिद्वादीना क्रोधोत्पन्नमहिताशसनम् । तश्चागन्तुज्वरं चतुर्विधमपि दोपकोपनं विशिष्टलक्षणञ्चाहुः। यदुक्तं-'कामशोकभयाद् वायुः, क्रोधात् पित्त"मित्यादि, 'कामाद भ्रमोऽरुचिर्दाहः' इत्यादि च । एप दोपसम्पर्कः परस्ताभाषी न त्वारम्भक इति स्मर्तव्यम् , व्यथायाः एव पूर्व सम्भवात् । यदुक्तं चरके-'ते पूर्व केवलाः पश्चानिजैर्व्यामिश्रलक्षणाः। हेत्वोषधविशिष्टोश्च भवन्त्यागन्तवो ज्वराः ॥” इति (न०नि० ३ अ०)। केवला' व्यथामानरूपाः, हेत्वौषधैरिशिष्टाः विलक्षणाः विशिष्टहेतुका विशिष्टोपक्रमाश्च- इत्यर्थः ॥ २८ ॥ अभिघातजज्वरमाह-शस्त्रलोष्ट ति। कशा चर्मादिमयी रज्जुः। बहि- वहिदाहः। दंशो विपाक्तजन्तुकृत । आदिशब्देन अध्यश्रम तटप्रपातादि । प्राय इति निर्देशो रक्तदूषणहेतुकरुजाशोफयोः श्रमज्वरादौ क्वचिदेव दर्शनात् । रक्तदूपणञ्च विषदिग्वशस्त्राभिधांत-दुर्दग्धादिष्वेव भूम्ना दृश्वते, थेन कचिद् वीसपतानकादिप्रादुर्भावो मरणञ्च ।। २६ ॥ अभिषगन्वरमाह-कामशोकेति चरकीयसन्दर्भेण । अभिषक्तस्य अभि- भूतस्य । यश्च भूताभिपङ्गज इति वचनमङ्गया तस्य गौणत्वं विरलत्वञ्च सूच्यते । इदानीन्तनास्तु भूतावेशं त्रासमानमाहु-मानसरोगविशेपं वा । वृद्धास्तावत् पिशाचादिग्रहावेशो भवत्येवेति मन्यन्ने, व्याचक्षते च “न ते मनुष्यैः सह सविशन्ति न वा मनुष्यानथवा विशन्ति। ये त्वाविशन्तीति वदन्ति मोहात्ते भूतविद्याविपया- .

सिद्वान्त-निदानम् । विषवृक्षानिलस्पर्शात् तथाऽन्यविषसम्मवैः । अभिषक्तस्य चाप्याहु-ज्वरोकेऽभिषङ्गाजम् ॥३१॥ ध्यानं निःश्वासबहुलं लिङ्ग कामज्वरे स्मृतम् । शोकजे बाष्पबहुलं त्रासप्रायं अयज्वरे ॥ ३२ ॥ शिरोरुगरुचिर्यानं लेत्ररागश्च कोपजे। अभिशापाभिचाराभ्यां घोरो दाहादियुग ज्वरः ॥ ३३ ॥ दपोह्या.” इति संशयत्छेदि सौश्रुतवचन देवादिग्रहविषयम् , प्रतिसंस्कर्तुंस्तथै वाभिप्रायदर्शनात्। वयन्तु सर्वत्र योज्यमिदं प्रतीमः ।। ३० ।। अथान्यमपि अभिपङ्गजज्वरमाह-विषवृक्षति चरकवचनेनैव । विषवृक्ष - वनोपकण्ठे चरतस्तीब्रौषधिगन्धघ्राणादिजन्यो ज्वर ओपधिगन्धन उच्यते । तस्यैव प्रकारभेदो वृद्धसुश्रुते तृणपुष्पाख्यः श्रयते । यथा' - "पुष्पेभ्यो गन्धरजसो तेजस्विभ्यो यदाऽनिल:"--इत्यादि । तथा अन्यैर्विपलम्भवैः विकृतपर्युषितमत्स्य- मासादिभिरूपयुक्तेः सविषजीवाण्यादिभिश्च कृता ये घरास्तेऽपि अभियङ्गजाः इत्येके-इत्येकीयनिर्देशेऽपि परमतमप्रतिषिद्धमनुमतमेव चरकेण । अधिकादयः के वन जीवाणुविषकृतज्वरा अव्यभिषङ्गजा एवेति स्पष्टम् । विषम ज्वराणामपि अभिषङ्गजत्वमाहुरेव प्राञ्चः, यदुक्तं -"आगन्तुरनुवन्धो हि प्रायशो विषमज्वरे"इति ( च० चि० ३ अ० ), "केचिद् भूताभिषङ्गोत्थं त्रु वते विषमज्वरम्" इति च (सु० उ० ३६ अ०)। अन भूताभिषङ्गो जीवाणुकृतोऽभिषङ्ग-इति व्याचक्षीरन नव्याः ॥ ३१ ॥ अथ अभिषङ्गनवराणो निमित्तान्यभिधाय लिङ्गानि दर्शयति चरकीयसन्दर्भण ध्यानमिति । ध्यानमिष्टजनस्य। अन्ये त्याहुः-"कामजे चित्तविभ्रंशस्तन्द्रा. ऽलस्यमभोजनम्" इति। शोकजे वाष्पबहुलमश्रुवहुलम् , कदाचिद् दुश्चिकित्स्या- तिसारसहितमपोत्यस्मनुभव., शास्त्रोक्त चैतत्-"शोकोत्पन्नो दुश्चिकित्स्यो- ऽतिसार." इति। भयजे लास एवानिमित्तं बहुशः, कचित् प्रलाप-वेपथ्वादि च। कोपजे तु शिरोरुगादि । क्वचित्तु विनाऽपि ज्वर' तत्तल्लिङ्गम् ।' ३२ ।। अभिशापेति। अभिशापाभिचारौ व्याख्यातौ। दाहादीत्यादिपदेन तृष्णामोहादेडणम् । घोर' सुदुःसहः । वाग्भट, पुनराह-"तत्राभिचारिक- १। एष पाठो वर्तमान सुनते न दृश्यते । एवञ्च rrymu-

७१
ते
आगन्तुकज्वराः ।
विषान्मूर्छातिसाराऽस्य-श्यावता-दाह-हृद्रुजाः ।
सामान्यतो, विशेषात्तु तथास्वं लक्षणेवरः ॥ ३१॥
केवलाः पश्चानिजामिश्रलक्षणाः ।
हेत्वौषधविशिष्टाश्च भवन्त्यागन्तवो ज्वराः ॥ ३५ ॥
मन्त्रहूयमानस्य तप्यते। पूर्व चेतस्ततो देहस्ततो विस्फोटतृड भ्रमैः। स-
दाहमूर्च्छग्रस्तस्य प्रत्यहं वईते ज्वरः इति ।” वस्तुतस्तु "वविध्यादभिचारस्य
शापस्य च तदात्मके। यथाकर्मप्रयोगेण लक्षण स्यात् पृथविधम्" इति
चरकोक्तदिशा बहुधा सम्भवन्ति तल्लक्षणानीति तत्त्वम् ॥ ३३ ॥
विपाभिषङ्ग ज्वरमाह सामान्यतो विषादिति।
मूर्छा मत्तवद्भावः
संज्ञालोपो वा। आस्यश्यावता पीताभश्याममुखच्छवि । दाहः सवगात्रेषु
आमाशयादौ वा। हृद्रुजा हृत्प्रदेशे पीड़ा, हृद्यन्त्रस्य सदनञ्च। तदेतत्
सामान्यतो नानाविधसाधारणं लिङ्गम् । विशेषात्तु यथास्वं, यस्य विषस्य यानि
यानि लिङ्गानि तेस्तैर्युतो ज्वरो भवति । विषञ्च द्विविधं-स्थावरं जङ्गमञ्च ।
तत्र स्थावरं कन्दफलमूलत्वक्पनादिक्रियाभेदादनेकविधम् । जङ्गमञ्च पशु-
पक्षि-सपै कीटादिदृश्यप्राणिविपभेदाद् अदृश्यप्रायसूक्ष्मजीवाणुविषभेदाच नाना-
प्रकारम् । अदृश्यक्रिमिविपयश्चास्माभिः प्रतिपादितचरः प्राचामुक्तिभिः समर्थित-
पूर्वश्च विशिष्टनिदानव्याख्यायाम् ॥ ३४ ॥
अथ आगन्तुज्वराणा वैशिष्ट्यमाह चरकीयवचनेन ते पूर्वमिति ।
(च० नि० ३ अ०) ते पूर्वोक्ता आगन्तवो ज्वराः पूर्वमारम्भकाले केवलाः काम-
क्रोधादिविषान्तहेतुमात्रकृताः, न तु दोपकृताः। पश्चात् समनन्तरकाले निजै-
वातादिकृतैः रोगामिश्रलक्षणाः, पश्चाद्दोषप्रकोपाद्धेतोः वातादिकृतज्वरादीनां
लक्षणमिलितलक्षणाः । आपातदृष्ट्या हि प्रायस्तादृशा एव ते प्रतिभान्तीत्यभिप्रायः ।
हेत्वौषधविशिष्टाश्च, तथाऽपि हेतुभिनिदानरौषधै. क्रोधादिप्रशमनै-विपादिनाशकै-
श्चोपक्रमैविशिष्टा इतरविलक्षणा भवन्ति । ननु वातादिलक्षणसादृश्यात् वातादि-
जन्या एव सन्तु ते रोगाः वातादिप्रशमनरौपधैः सम्यगुक्रम्याश्च, किं तहिं विषादि-
विशेषविज्ञानेन इति न भ्रमितव्यम् । आगन्तुविषादीना प्रभाववैचित्यस्यावश्य-
ज्ञयत्वाद् । विचित्राणि हि तत्र तत्र लिङ्गानि, विचित्रप्रभावैर्भपजादिभिः
प्रशमनीयानि, तानि शिक्षस्व गुरुशुश्रूपया भूयोदर्शनेन चेति परमर्षीणामभि-
सन्धिः ॥ ३५॥

७२ सिद्धान्त निदानम् । [अथ विपाभिपङ्गजा भागन्तुज्यराः ] अथेदानी प्रसिद्धा ये केचिदागन्तवो ज्वगः । नानाविधविपोत्थानारतान् वक्ष्यामः सविरतरम् ॥३६॥ विषञ्च तेषु प्रायेण भवेद जीवाणुसम्भवम् । क्वचिदन्यविधं वाऽपि द्वि-त्रदोषप्रकोपणम् ॥ ३७ ॥ हेतुलिङ्गपृथकत्वेऽपि सामान्यं तेष्विदं स्थितम् । विषं सर्वाशयान् प्राप्य कश्चित् कस्यापि पीड़येत्॥३८॥ ततः श्वासश्च कासश्च मोहोऽतिसरणं वमिः सूत्ररोधश्च हृत्सादः सन्धिशूलञ्च कामला ॥ ३६ ॥ अन्ये चोपद्रवाः केऽपि प्रादुःपन्ति द्विशस्त्रिशः। विषस्वभाववैचित्र्यात् नेत्रचिन्यतस्तथा ॥ ४० ॥ अथैवमागन्तुज्वराणां हेत्वौपधवैशिष्टयमभिधाय इदानी प्रसिद्वान् विशिष्ट . जातीयान् विषाभिषनज्वरानुपक्रमते-अथेदानीमिति नानाविधविपाणि पूर्वोक्तस्थावरजङ्गमानि, तान्युत्थानानि हेतवो येषामिति नानाविधविपोत्थानाः । विषञ्चति प्रायेण जीवाणुसम्भवं क्वचिदन्यविधं पार्थिवादि वा। द्वित्रदोष प्रकोपणं, द्वौ नयो वा परिमाणमेपामिति द्वित्राः, द्वित्राणां दोपाणां प्रकोपणम्- विषस्वभावाद्वा तदल्पाधिक्याद्वा कचिद् द्वि-दोषकोपनं क्वचिद्वा त्रिदोपकोपन- मित्यभिप्रायः। सर्वाशयान आमाशय-पक्काशय-वृक्क-वस्ति-यकृन्-प्लीह-फुसफुस- मस्तिष्कादीन् । आशयानित्युपलक्षणं, तेन त्वक-सन्ध्यादीनामपि ग्रहणम् । कस्य- चिद् रोगिणः कञ्चित् उक्ताशयानामन्यतममाशय पीडयेत् विशेषेणाभिभवेत् । अत्र एकवचनमतन्त्रं, तेन कदाचिद् द्वित्राणामाशयानां सर्वेषां वा युगपत् प्रदूषणं भवत्येव । आशयप्रदूपणलिङ्गान्याह तत इति । ततो हेतोः श्वासादयः अन्ये चोपद्रवा हिक्कादयः द्विशस्त्रिशश्च प्रादुःपन्ति प्रादुर्भवन्ति। तद्यथा--फुसफुसा- क्रमणे सति श्वासकासौ। मस्तिष्कदूपणे मोह तन्द्रा-प्रलापादयः। आमपक्का- शयदूषणे बमिरतीसारश्च । वृक-वस्तिदूपणे मूत्ररोधो रक्तसूत्रता वा। यन्त्र- दूपणे तवसन्नता तक्रियारोधश्च क्रमशः। सन्धिदूषणे सन्धिशोथ शूलादि । ।

७३ विषाभिपङ्गजा आगन्तुज्वराः। (परिसंख्यानम् ) आन्त्रिको अन्थिकश्चापि श्लेष्मकः सन्धिकस्तथा। यश्च श्वसनको नामाऽक्षेपको यश्च वक्ष्यते ॥४१॥ पड़ेते विपजा घोराः सर्वधातुप्रदूषणाः। ज्वराः स्युर्जानपदिकास्तथा वाचनिका अपि ॥ ४२ ॥ मसूरिकाद्या ये चान्ये भू-बायु-जलदोक्तः । काले काले प्रवर्त्तन्ते तेऽपि ज्ञेयास्तथाविधाः॥४३॥ दण्डकाल्यो ज्वरो दुःखस्तथाऽन्यः कर्णमूलिकः । द्वावेतौ स्वल्पविषजौ सुखसाध्यौ विदुर्बुधाः । संक्रामन्ति च सर्वेऽपि श्वसनरपर्शनादिभिः ॥ ४४ ॥ - कचन कचन यकृदूषणे यकृच्छूल-कामलादि । ननु कस्यचित् कोऽप्याशयः कथं दृष्यते इति शङ्काया हेतुद्वयमाह-विपस्वभाववैचित्यात् , विपस्य आशयविशेपाक्रमणशीलत्वात, क्षेत्रस्य रोगिशरीरभ्य वैचिच्यात् आशयविशेपदौर्बल्याचति ॥ ३५/४० ॥ विषाभिपङ्गजानागन्तुज्वरान् साम्प्रतिकप्रसिद्धया नामभिः परिसंचष्ट- आन्त्रिक इति। जानपदिकाः' समग्रे जनपदे युगपत् प्रवर्त्तमानाः, काचनिकाः दृश्यमानाः। भू-वायु-जलदोपत इति चरके जनपदोद्- ध्वंसनीये यथोक्त -"तेषां तथाविधान्तर्हितधर्मणामधर्मप्रधानानामपक्रान्तदेवताना- मृतवो व्यापद्यन्ते। तेनापोऽयथाकालं देवी वर्पति नवा वर्षति विकृतं वा वर्षति, वाता न सम्यगभिवान्ति, क्षितिळपद्यते, सलिलान्युपशुष्यन्ति, औषधयः स्वभावं परिहाय आपद्यन्ते विकृति, तत उद्धृ सन्ते जनपदा' स्पर्शाभ्यवहायंदोषात् ।" इति ( चरक० वि० अ० )। दण्डक कर्णमूलिको द्विदोषप्रकोपणौ प्रायो विषदौर्बल्यादिति चाने वक्ष्यते । श्वसनस्पर्शनादिभिरित्यादिपदान्मलमूत्रादिभिरपि संक्रमो ज्ञयः ॥ ४१-४४॥ १। जानपदिका -एपिडेमिक (Epidemic) २। वाचनिका.-एण्डेमिक (Endemic)- १० अयान्त्रिकज्वरः । | Enterco: Typhoid fever ] (निदानम् ) अध्वोपवाक्लिष्टानां दुर्गन्धाभ्यावासिनाम् । प्रायो मलादिसंस्कृष्टभक्ष्यपानापयोगतः ॥ ४५ ॥ सर्वेश्वृतुषु सूना तु ग्रीप्से शरदि वार्षिके आन्त्रिकाख्यो ज्वरः कृच्छो दृश्यते घोरलक्षणः ॥ ४६॥ तस्य जीवाणवः केचिन्मलमूत्रादिसम्भवाः । विशिष्ट तु निदानं स्युः- (सम्प्राप्तिः) अथाऽन्त्रालयिणश्च ते। रसं रक्तञ्च दोषांश्च कोपयन्त्यचिरादपि क्षिण्वन्ति चान्तिमं भागं क्षुद्रान्त्राणां शनैः शनैः॥ ४७॥४८॥ अथ सामान्येन अन्वाश्रयित्वादान्त्रि काख्यस्य अरस्य निदानमाह -अध्धेति अध्वा मार्गः। अध्वादिक्लिष्टाना दीवेपथश्रान्तानामुपवास कर्शितानाञ्च। प्रायःपदं पूर्वेण योजनीयम् । तेन अन्येषामपि भवतीति सूच्यते । ऋतुविशेपमाह-सर्वे- विति। भूम्ना प्राचुर्येण। दुर्गन्धाभ्यर्णवामिनां दुर्गन्धसमीपे वासशीलानाम् । तान्येतोनि सामान्यनिदाननोति विशेषणमुखेनोक्तानि । विशिष्टं तु निदानं सूचयति -मलादीति। हेतौ पञ्चम्यर्थस्तसिः । कृच्छः कष्टसाध्य. सानिपातिकलिङ्गाना विशेषतो दर्शनात् । अथ विस्तरेण विशिष्ट निदानमुच्यते-तत्रेति । मलमूत्रादि- सम्भवाः तद्रोगजुष्टानां मलमूत्रादिपु सम्भवन्तः। तत्प्रवेशक्रमश्च पानीयजलादि- द्वारेण तल्लिहमक्षिकादीना खाद्यादिस्पर्शन वा। एवञ्च अध्वोपवासोदिसामान्य- निदानविनाऽपि पानीयजलादिदोषाद् भवत्येवासौ ज्वर इति पर्यवस्थति ॥४५॥४७।। अथ जीवाणूना विकारित्व दर्शयति -अथान्त्रेति । अथ ते च जीवाणवो बिशेषेणान्लाश्रमिणो रसमनजं सार, रक्तं शोणितं, दोयाश्च वातादीन् अचिरादपि "शीघ्रमेव कोपयन्ति । अन्त्राश्रयणश्च यद्यपि सार्वत्रिक, तथाऽपि दारुणस्थले वृक- फुस्फुसाद्यन्यशारीरयन्त्राणामपि तदाक्रमणं दृश्यते भूयः । उक्तपूर्वञ्च "विष सर्वाशयान् प्राप्य कश्चित् कस्यापि दूषयेद् इति । अन्त्राक्रमणप्रकारं पुनविंश दयति-क्षिण्वन्तीति । क्षुद्रान्त्रणामन्तिम चरमं भागम। क्वचिद् वृहदन्त्र- J ७५ . । . विषाभिपङ्गजा ओगन्तुज्वरा। ततोऽन्त्रततसंवृद्धौ वचिद्रक्तस्य निःस्त्रवः । भिन्नान्त्रताऽथवाऽलाध्येत्येप वैकृतनिश्चयः ॥ ४६॥ ( पूर्वरूपम् ) शिरोरुगरुचिः सादो विड्विवन्धोऽरतिस्तमः । स्फुटास्फुट पूर्वलिङ्ग प्रायः स्यादान्त्रिके ज्वरे ॥ ५० ॥ तदेव सज्वरं रूपमष्टाहेन स्फुटीभवेत् । ज्वरश्च व ते नित्यं ऋमारोहेण लन्तिः ॥ ५१ ॥ प्रायशो दृश्यते किश्चित् प्लीहश्चाप्यभिवर्द्धनम् । क्वचिच्च सम्भवलयौ गात्रेवारत्तलक्ष्मणाम् ॥५२॥ ॥ (रूपम् ) . स्यादिमभागञ्चति सान्निध्याद् चोध्यम् । क्षिण्वन्ति काष्ठंधुणकीटबद् भक्षयन्ति । शनैः शनैरिति क्रमेण रोगस्य द्वितीयसप्ताहात् परमेव प्रायः- इत्यभिसन्धिः । ततश्च हेतोरन्वक्षतानां सवृद्धौ विशेपेण वृद्धौ सत्या कचिद् रक्तस्य निःस्रवः, दुर्जरखाधादिसम्भवकठिनमलादि-सम्पर्केण क्षतस्य भिन्नीभावादित्यभिसन्धिः । स च क्वचित -न प्रायः। प्रायस्तु स्वत एव काले अन्नक्षतानां सरोहणादारोग्यसम्भवः । इह रक्तस्य निःस्रवो रक्तस्राव. पायुमार्गेण । अथवा भिन्नान्त्रता अन्त्रेषु च्छिद्र- सम्भवात् , तेन उदरगुहाभ्यन्तरत एव रक्तस्त्रावः। असाध्येति । सद्यः शस्त्र- कर्मणा कचित् साध्याऽपि कायचिकित्सकानामसाध्यैव सा प्रायः । वैकृतनिश्चयः आभ्यन्तरविकार निर्णयः सम्प्राप्तिः ॥ ४८ । ४६ ॥ आन्त्रिकज्वरपूर्वरूपमाह-शिरोरुगिति। सादोऽङ्गसदनम् । तमोऽन्ध- कारदर्शनम् । स्फुटास्फुटमिति कचित् पूर्वरूप रफुट दृश्यते, क्वचिन्नापि दृश्यते, तेन सामान्यज्वरसन्देह एव भवति पूर्वम् ॥ ५० ॥ आन्त्रिकज्वरस्य रूपमाह तदेवेति । तदेव पूर्वाक्तं लक्षणपटक ज्वर- सहितमष्टाहेन रूपं रूपाकारेण स्फुटोमवेत्, क्रमात् रपष्टतर प्रतिभोसेत । ज्वर- सन्तापवैशिष्ट्यमाह ज्वरश्चेति । क्रमारोहण लक्षितः पूर्वपूर्वदिनात्, सोपानावलि. न्यायेन तत्तत्परेछु : प्रातःसायंकालयोः क्रमादधिकाधिकसन्तापेन उपलक्षितः । क्रमारोहावरोहप्रकाराश्च प्रथमचित्र दर्शिताः ।

६ सिद्धान्त-निदानम् । पञ्चाहात् परतः प्रायः क्वचिन्नैव चिरेण वा। चणसुटुगादियूषाभं साध्मानसतिसार्यते ॥ ५३॥ अथ द्वितीये सताहे प्रवृद्धस्तिष्ठति ज्वरः । तदा स्युररतिस्तन्द्रा मुखशोषः प्रमीलकः ॥ ५४॥ कालः प्रलापोदोवल्यसाध्मानञ्च विशेषतः । जिह्वा च रक्तपर्यन्ता कर्कशा स्फुटितोपमा ॥ ५५ ॥ सन्तापोऽभ्यधिकश्चापि धमनी नातिचञ्चला। सान्निपातिकलिङ्गानामन्येषाश्चापि सम्भवः ॥५६॥ ज्वरस्य क्रमारोहणञ्च अष्टाहावधि दृश्यते कचित्ततः परमपि द्वित्राणि दिनानि । प्रायश प्लीहाभिवृद्धिरित्युक्तः क्वचिन्नापि भवति । स्मर्तव्यञ्चान, पूर्वतो विषम- ज्वरात्तस्य प्लीहाभिवृद्धिर्नान्त्रिकज्वर निश्चयेन सूचयेदिति । ओरक्तलक्ष्मदर्शनञ्च प्रथमसप्ताहे गौरगान षु स्पष्टं, श्यामाङ्ग तु न स्फुट प्रायः ॥ ५११५२ ॥ पञ्चाहादिति। कचिदतीसारो नैव भवति विलम्वेन वा भवति, यत्र तु भवति तत्र चणकादियूपवत् पीताभमतिसायंते इति निर्णायकं लिङ्गम् । सत्यपि चातीसारे, असति च, आध्मानं तिष्ठतीत्ययमपि रोगप्रभाव एव । प्रमीलकः प्रमूढावस्था । रक्तपर्यन्ता मध्ये मलिना पर्य्यन्तेषु रक्ता । सन्तापोऽभ्यधिकः दैहिकः सन्तापः (१०४ -१०५इतिवत् ) प्रवृद्ध एव तिष्टति स्तोकेन परिवर्तमानः । मानसश्च सन्तापो युगपद् विशेषेण | धमनी नातिचञ्चला, ज्वरवेगाधिक्यादन्यज्वरेषु धमनी (प्रथमचित्रम्) १ २ ३ ४ ५.६७:०२१३२ १३ १४ १५२६ २७१८१६२०२२२२२३२५ ज्गरम्भती-दिन मखा 이 의 १०४ (तापमानदारीता मन्तापारा , 28&RWa wo Namon Na Woda MATA IN VI....। [ आन्त्रिकवरे सन्तापस्य क्रमारोहावरोहादिप्रदर्शकं चित्रम् । ] चित्रे इति चिहाविता रेखा स्वाभाविकसन्तापदर्शिका।

विषाभिपङ्गजा आगन्तुज्वराः। अथास्य दोषपाकेन नैरुज्ये सम्भविष्यति। प्रायस्तृतीये सप्ताह क्वचित्तुयेऽथवा पुनः॥ ५७ ॥ ज्वरः सोपवगणः क्रमेणवाऽवरोहति वैषम्यं वैति, मुञ्चत्तु स द्वाविंशतिवासरैः । अष्टाविंशतिसंख्यैर्वा दिलज्विरता भवेत् ॥ ५८ ॥ यथा अतिचञ्चला भवति नेह तीव्रज्वरेऽपि तथा, ईपञ्चञ्चला तु भवत्येव । अन्येषाञ्च सान्निपातिकलिङ्गाना शिरोलोठनेन्द्रियध्वंसादीनाञ्च सम्भवो दारुणस्थलेग्विति शेषः। तदा च आयुषो योगाहा चिकित्साकौशलाद्वा जीवत्यातुरः ॥ ५३५६ ॥ अथास्येत्यादि । दोपाणा जीवाणुविषकोपिताना वातादीना पाकेन क्रमात स्वभावप्राप्तया नैरुज्ये आरोग्ये सम्भविष्यति सम्पत्स्यमाने सति । एतेन धातुपाके प्राप्त ज्वरावरोहणं न भवति, क्रमाद् वईते च ज्वरः सर्वसम्पूर्णलक्षणो, म्रियते चातुर इति वोध्यम् । तुयें चतुर्थे । ज्वरावरोहणञ्च दुधा भवति, शनै सोपाना- वलिन्यायेन ( दृश्यतां १म चित्रम् ), वैषम्येण विषमगत्या वा। सर्वथा ज्वरमोक्षश्च प्रायशो द्वारिंशतिदिनैरष्टाविंशतिदिन । कचित्तु द्वाचत्वारिंशद्घौ दिनैः । (द्वितीयचित्रम् ) - [ आन्त्रिकसन्निपाते क्षुद्रान्त्राभ्यन्तरस्थानि नतानि तद्रोगमृतस्य अन्तविपाटनेन टर्शितानि।]

७८ सिद्धान्त-निदानम् । वाचत्वारिंशता घोः क्वचिद् वा मुञ्चति ज्वरः । ऋमारोहावरोहाभ्यां पुनदर्शितलक्षणः ॥ ५६ ॥ दशाहात् परतः कापिदारुणो रक्तनिःस्लवः । सोऽतिकृच्छो भवेज्जातु ततोऽप्यारोग्यसम्भवः ॥६० ।। सन्निपातज्वरान्तोक्तं वार्ष्यािदि च बैंकृतम् । कस्यापि जायते, तच्च प्रायः शास्यत्युपक्रमात् ॥६१ ॥ अथ ग्रन्थिकज्वरः। ( Plague or Bubonic Fever ) (परिचयः) प्रायो वंक्षणकक्षादिन्थिशोफरुजाकरः । ग्रन्थिकाख्यो जनपदोदध्वंसी घोरतरो ज्वरः ॥ ६२ ॥ तुल्येऽपि हेतौ स क्वापि भृशं फुस्फुसदूषणात् । सद्यः शोणितनिःष्टव-श्वासकासैहरेदसून ॥ ६३ ॥ 'तादृशस्थले अष्टाविंशतिदिनानन्तर ज्वरस्य पुनरपि पूर्ववत् कमारोहावरोहाभ्यां प्रवृत्तिः । दशाहादिति दशाहादारभ्य वाचत्वारिंशदिनावधि। क्वचिदन्तक्षतेभ्यो दारुणः प्रवाहवदिव प्रवृत्तो रक्तनिःस्रवो भवति, तेन प्रायेण मरणम् । तदुच्यते-सोऽतिकच्छ इति । कचिदारोग्यदर्शनं हि चिकित्साकौशलात्तत्रापि भवत्येव ॥ ५७/६० ॥ अन्यच्च वाधिय्यमूकतादि सन्निपातज्वरान्तेभावि वैकृतं यत् पूर्वमुक्तं तदिहोपि दृश्यते इत्याह-सन्निपातेति । तञ्च वैकृतं विकृतावस्था । उपक्रमात् चिकित्सया प्रायः शाम्यति अपयाति । कस्यचित् किश्चित्तिष्ठति, नापि शाम्यति वेति प्रायःपदेन निर्देशः। इञ्चाग्रेऽपि सर्वेषु तीव्रविषाभिषड्ज्वरेषु योज्यम् ॥ ६१ ॥ अथ द्वितोय ग्रन्थिकाख्य विषाभिपङ्गजज्वरमाह -प्राय इति । वंक्षणं नाम ऊरूदरयोः सन्धिस्थानं, कक्षा तु वाहूरसो.सन्धि । वक्षणादिस्थानेषु च स्वाभाविका- वस्थाना ग्रन्थयो गुञ्जानिम्बफलाद्याकारास्तेषु केपाश्चित् शोफ. शुनता रुजा पीडा च, तयोः कर' सम्पादकः। आदिशब्देन ग्रीवाकफोणिज्ञानुसन्धिष्वपि कचित् । प्राय इत्युक्तेः क्वचिद् विनाऽपि ग्रन्थिशोथं वक्ष्यमाणफुस्फुसादिदूषणमुखेन भयत्येवासौ .

प्रन्थिकज्वरा। अथवा सर्वथा सबंधातून द्रागभिदूपयन् । अभिन्याससमलिङ्गः सोऽगन्थिाप मारयेत् ॥ ६४ ।। (निदानम) निदानमत्र सामान्यं संकुलावसथादिकम् । विशिष्ट तु विपं रक्तचरं जीवाणुसम्भवम् ।। ६५ ॥ ज्वर इति सूच्यते । प्रन्थिकसंज्ञा च प्रायोभाविप्रधानलिङ्गनिवन्धना, प्राधान्येन हि व्यपदेशा भवन्तीति न्यायात् । तेन अग्रन्थिकेऽपि ग्रन्थिकसंज्ञा न विरुध्यते, तुल्यहेतुत्वात् । अत एव काचित्क विशिष्टप्रकारभेदद्धयमाह - तुल्येऽपि हेताविति । पचापि-नतु प्रायः। भृशं फुस्फुसदूपणाद् युगपदुभयोः फुस्फुसयोर्विषसंक्रमात् । अथास्य फुस्फुसाक्रामिणो ग्रन्थिकज्वरस्य लिङ्गान्याह प्रथमत एव सूचीकाहन्यायेन -सद्य इति । शोणितनिष्ठेवः श्वासः कासश्चेति लिङ्गत्रयं प्रधान, तैर्लिङ्ग रूप- लक्षितस्य रोगिणः असून सद्यो हरेदेष ज्वरः । सद्यः तस्मिन्नेव दिने क्वचिद् द्वितदिनैर्वा। धोरतम चरमं प्रकारमाह --अथवेति । द्राग् झटिति । अग्रन्थिमपि किमुत सग्रन्थिम् । ग्रन्थिशोथादर्शनञ्च विपस्य युगपत् सर्वदेहध्यापित्वेन प्रन्थियवरोधाभावात्। ग्रन्थिशोथो हि विपस्य प्रन्थिपु अवरुद्धत्वादेव भवतीति शारीरविज्ञानविदः। एवञ्च त्रिप्रकारकोऽसौ प्रन्थिकज्वरः सम्भवतीति स्मर्त्तव्यम् ॥ ६२२६४ ॥ ग्रन्थिकज्वरनिदानमाह-निदानमिति । संकुलं वहुजनसंकुलम् आव- सथादिकं गृहप्रामादिकम् । तदेतत सामान्यं निदानम् । विशिष्ट निदानमाह- विशिष्ट त्विति : प्रन्थिकप्रदजीवाणुसमुत्थं हि तीव्र विप रक्तचरं विशिष्ट निदानं, सर्वत्र प्रन्थिकरोगिणा प्रन्थिषु शोणितादौ च तदर्शनात् , परीक्षार्थ देशान्तरे संक्रामितैस्तैर्ग्रन्थिकरोगोत्पत्तेश्च । ते च जीवाणवः स्पर्शात् करचरणा- अस्ति च पाश्चात्यनये परीक्षाचतुष्टय (Koch's Law ) जीवाणुकारणतासाधनाय। तद्यथा- (१) तत्तदरोगिषु तत्तज्जीवाण नामवग्य दर्शनमिति प्रथमा परीक्षा । (२) तत्तज्जीवाणुना रोगिशरीराद् वहिमासरसादौ सक्रमिताना पुन: पुनरभिवृद्धिरिति द्वितीया (३) तथा अभिवृद्धाना जीवाणूनां स्वस्थटेहेपु सक्रमणात पुनस्तद्ररोगोत्पत्तिरिति तृतीया। (४) तादृशरोगिदेहात् पुनस्तज्जीवाणूनां लाभ', पुनर्मासय पादौ सक्रमणे तदभिवृद्धिश्चति चतुर्थी । एतत्परीक्षाचतुष्टयमुत्तीर्णानामेव जीवाणनां कारणता स्वीक्रियते पाश्चात्यै , नान्येषामित्यवधेयम् । उक्तार्थ स्मरणमसेन ग्लोक्दयेन यथा- सन्त्येव सति रोगे ते वद्धनते च रसा दिपु । तथाऽभिवृद्धजीवाणुसक्रमाद्रोगसम्भव ॥ तद्रोगिदेहात्तेषां च पुनर्लाभोऽभिवृद्धियुक् । जीवाणुहेतुतासिद्धौ परीनेय प्रकाशिता ।। - ८० सिद्धान्त-निदानम् । ते स्पर्शश्वसनादिभ्यः संक्रामन्ति नगन्नरम् । भूम्ना तद्रोगजुष्टभ्यो सूपिकेभ्यश्च संक्रमः ॥ ६६ ॥ (रुपस् ) . 'आदावेव ज्वरस्तीत्रः क्वचिन्सन्दोऽथवा पुनः । भृशं त्रस्ताङ्गता तृष्णा प्रलापो मूच्र्छन भ्रमः ॥ ६७ ।। निद्रानाशोऽरतिर्मोही मत्तवत् कोऽपि ताम्यति । शेते विसंज्ञो वाऽप्यन्यो यथाऽभिन्यासपीड़ितः ॥ ६८ ।। दग्धवत् कर्कशा जिह्वा धमनी शिथिला भृशम् । ग्रन्थों शोकः क्वचित् पूर्व क्वचिन्मध्ये कचिच्चिरात् । तोदः रूपर्शाऽसहत्वञ्च अन्थौ पाकश्चिरादपि ॥ ६६ ॥ दिषु अदृश्यक्षतादिद्वारेण, श्वासनात् तद्रोगिणो निःश्वासवायुग्रहणात् , आदिपदेन तद्भुकाव शेवभक्षणादेश्च । भूम्ना प्राचुर्येण । मूपिकादिभ्यः संक्राश्चैवं ---तद्रोगाक्रान्ताश्च शतशो मूषिकास्तजीवाणूनामाकरभूता भूमिं दूपयन्ति । तथा च नग्नपादविचारिणा स्फुटितचरणतलादिद्वारेण, तल्लिइमक्षिकादिभिः खाद्यादिदूपणेन वा जीवाणूनां सक्रमः। अथ मन्यसे-अग्निरोहिण्याख्यः प्राचीनाचार्यैरुक्तो रोगस्त्वदुक्तग्रन्थिकबराद- भिन्न एवेति किमनया नवीनकलानया, यदुक्तं -"कक्षाभागेषु ये स्फोटा जायन्ते मांसदारणाः। अन्तर्दाहज्वरकरा दीप्तपावकसन्निभाः ।। सप्ताहाद्वा दशाहाद्वा पक्षाढा नन्ति मानवम् । तामग्निरोहिणी विद्यादसाध्या सर्वदोषजाम् ॥” इति । तत्र व्रमः-अग्निरोहिण्याख्यक्षुद्ररोगे स्फोटाना मासदारणानां सम्भवः, सप्ताहादिना च मृत्युः । इह तु ग्रन्थिभिरुदीक्रपच्यमानैरेव सान्निपातिकज्वरवतः प्रायः शीघ्रतरं मरणं, प्रन्धिपाके तु वहनामारोग्यलाम एव प्रायः--इति भेदः । वस्तुतस्तु अग्नि- रोहिण्येव कालान्तरेण ग्रन्थिकाख्ये ज्वरे विपरिणतेति सुवचनम् ॥ ६५/६६ वैशेष्याभावात् पूर्णरूपमनुक्ता ग्रन्थिकज्वरस्य प्रायिक रूपमाह -आदावेवेति । इति। सर्वत्र पूर्व तीव्रो ज्वरो भवति, मन्दो वा भवति, क्वचित् कम्पादिपूर्वा वा प्रन्थिशोफश्च क्वचित् प्रथमदिन एव दृश्यते, क्वचिद् रोगमध्ये, कचिदन्ते वा -इत्यनुपदं वक्ष्यति। स्रस्ताङ्गता शिथिलाङ्गता। मत्तवत् ताम्यति उन्यः शब्दायते, उत्थाय वा धावति । धमनी अङ्गुष्टमूलगा शिथिला कोमलस्पर्शा, भवति । of ज्वरनिदानम् । द्वित्रैर्वा पञ्चषैर्वाऽपि दशभिर्वा दिनैः क्वचित् । सद्यो वा म्रियते रोगी चिराद्वा कोऽपि सिध्यति ॥७॥ (उपद्रवाः) मूत्रावरोधः कासश्च तथाऽतीसार उल्बणः । छर्दिश्च रक्तपित्तञ्च ग्रन्थिके स्युरुपद्रवाः ॥ ७१ ॥ (साध्यलक्षणम् ) ग्रन्थीनां शीघ्पाकेन बाहूनां वा समुद्भवात् । जरन् वा वालको वाऽपि रोगी जीवेत् कथञ्चन ॥ ७२ ॥ (अरिष्टलक्षणम् ) शोधमिन्द्रियनाशेन सद्यः संज्ञाक्षयेण वा। अतीसारेण वाऽक्रान्तो प्रन्थिरोगी न जीवती॥ ७३ ॥ द्रुता विशेषेण चञ्चला। तोद. सूचीवेधवत् पोडा। रपर्शाऽसहत्वं स्पर्शमात्रेण तीनवेदनाविशेषः। तच हे विशिष्टं भेदकं लिङ्गमिति स्मर्त्तव्यम् । यत्र तु प्रन्यौ पाकस्तत्र प्रायेण रोगी जीवतीति विशेषः । द्वितः, द्वौ त्रयो वा परिमाणमेषा- मिति द्विवाः, तैः। पञ्चपैः पञ्च, पड् वा परिमाणमेपामिति पञ्चषाः, तैः। समासान्तविधेरच् । दशभिर्वा-इति प्रायिकः कालसोमानिर्देशः, तेन दशदिनानन्तरं जीवनाऽशा कर्तव्या ॥६७-७० ॥ काचित्कानुपद्रवानाह-मूत्रावरोध इति । कासः फुस्फुसाक्रमणात् , अतीसारोऽन्त्राणामाक्रमणात् , रक्तपित्तञ्च फुस्फुसाक्रमणादेव प्रायः कचिदन्य- तोऽपि वा मार्गाद्रक्तप्रवृत्तिः। एतानि च सर्वाणि लिङ्गानि युगपत् प्रादुर्भूतानि सर्वथा असाध्यतामेव ख्यापयन्ति, प्रायस्तु नैवं सम्भवन्ति ॥ ७१ ।। साध्यलक्षणमाह-ग्रन्थीनामिति । वहुवचनमतन्त्रं, तेनैको प्रन्धिः प्रन्थि- द्वयं वहवो वा प्रन्थयो यदा शीघ्र पच्यन्ते तदाऽपि साध्यता ज्ञया । तत्र च रोगी यदि वृद्धो वा वालो वा, नतु युवा, तदाऽपि साध्यता सत्येव ग्रन्थिपाके । कथञ्चनेति कृच्छसाध्यतैव दर्शिता आरोग्यमान्धञ्च। सुखसाध्यतो त्वस्य नास्त्येव ॥ ७२ ।। अरिष्टलक्षणान्याह-शोधूमिति इन्द्रियनाशेन श्रवणादिशक्तिलोपेन । सद्यः, प्रथमे दिवसे द्वितीये वा संज्ञालोपेन । स्पष्टमन्यत् ॥ ७३ ।। ॥

सिद्धान्त-निदानम्। अकृष्णं सकर्फ रक्तं टीवेद् यः श्वासपीडितः । आक्रान्त-फुस्फुसः सोऽयमसाध्यः सवथा स्मृतः। अग्रन्थिन्थिकोक्तेश्च लिङ्गे युक्तो यमातिथिः ॥७४ ॥ अथ श्लेष्मकज्वरः। ( Influenza ) प्रादुःषन्तीह यत् प्रायः श्लेष्मजोपद्रवा भृशम् । क्वचिद् जनपदोद्ध्वंसी ज्वरोऽसौ श्लेष्मकः स्मृतः॥७॥ (निदानम् ) वायुवाहित-जीवाणू-विपं युगपदासा । लोकेषु प्रस्मृतं प्रायः श्वासमार्गेण तं ज्वरम् ॥ ७६ ॥ विदधाति क्वचिद् वाऽथ भुक्तमार्गेण संक्रमः । जनाज्जने च संक्रान्तिः श्वसनादि-निमित्ततः॥७७॥ अय द्वितीयमसाध्यलक्षणताह-अकृणामिति । अकृष्णं सिन्दूरोज्ज्वलम् । वक्ष्यमाणे श्वसनकज्वरे तु कृष्णाभरक्तं ष्ठीवति, जीवति च यथा)पक्रमेणेति विशेषः । सोऽयं द्वितीयः प्रकारभेदो प्रन्थिकज्वरस्य । अग्रन्थिरिति तृतीयः। बहिरदृश्यग्रन्थि- शोकोऽप्यन्यै लिङ्ग रुपद्रत', सोऽपि यमातिथिमुमूर्षुः। वस्तुतस्तु अभ्यन्तरत- स्तत्रापि ग्रन्थिशोफ मृतकपरीक्षाया प्रत्यक्षः ॥ ७४ ॥ अथ विपाभिषगजं श्लेष्मकाख्यमागन्तुज्वरविशेप वर्णयिष्यन् संज्ञावीजमाह-- प्रोदुःषन्तीति । इहास्मिन् ज्वरे यत् यस्मात् श्लेष्मजोपद्रवा एव प्रायो भृशं प्रादुर्भवन्ति ततः श्लेप्मकाख्योऽसौ जनपदोद्ध्वंसीति कदाचित् महामारीरूपेणास्य प्रादुर्भाव * स्मारयति ॥ ७॥ निदानमाह - वायुवाहित इति। युगपद् बहुषु जनेष्वेककालम् , अक्षसा झटिति । तथाहि अधर्मवशाद् विशेषेण दूषिते वायुमण्डले अकस्मादेव तज्जीवाणूनां सृष्टिरभिवृद्धिर्वा, ततः श्वासमार्गेण तेपा सर्वतो लोकेषु प्रवर्तनात् तद्विष- + -- ज्वरः। प्रतिघोरमहामारीरूपेण हि प्रादुरभूदेप ज्वर ए १९७५-७६ वर्षयो., येन समग्रेऽपि भूमण्डले लक्षशो मृता मनुजाः। पूर्वमपि वारत्रयमेव बभूवेयाहुरितिहासविद ।

ज्वरनिदानम् । (सम्प्राप्तिः) प्रायश्चास्य विकाराः स्युः श्वासयन्त्रे, कचित् पुनः । अन्नमार्गे समग्नेऽपि, क्वापि वा सर्वधातुषु ॥ ७८ ॥ कफवातोल्वणं तच्च सन्निपातमुदीरयत्। विषं धातून विकुरुते स्तोकेनातिवलेन वा ॥७६ ॥ (रुपम् ) प्रतिश्यायः शिरःशूलं शीतकम्पौ च कुत्रचित् । अङ्गमई कटीपृष्ठोरसां तोत्राश्च वेदनाः॥८॥ कासो ज्वरोऽवसादश्च कायंञ्चोल्पैर्दिनैभृशम् । अत्यर्थ-बलहानिश्च लिङ्गानि श्लेष्मके ज्वरे ॥१॥ सामान्यतो, विशेषात्तु फुस्फुसाक्रमणे सति । सरक्तं ठीवनं प्रायः प्रलापः श्वसनं तथा ॥२॥ प्रसरश्चेत्यभिप्रायः। ननु अजीवाजीवसृष्टिः कथं सम्भवतीति चेत् , आद्यक्षणे स्वीकरणीयैव सा, अन्यथा युगपन्नानादेशेषु तत्प्रादुर्भावाऽसम्भवात् । अन्ये तु नाजीवाजोवसृष्टिरिति मन्वाना जीवाणूनां चिरसत्तां स्वीकुर्वन्ति, तन्मते आकस्मिको अभिवृद्धिः। काले तु जनाजने संक्रान्तिरपि भवत्येव । भुक्तमार्गः मुखगलादिः ॥ ७६-७७ ॥ सम्प्राप्तिमाह-प्रायश्चेति । श्वासयन्त्र सश्वासपथं फुस्फुसद्वयं, तत्र विकाराः व्रणशोथादयः कफपूर्णता च वायुनलिकाना, येन श्वसनाख्यज्वरलिङ्गः सदृशानि कचिद् रक्तष्ठीवनादीन्यपि लिङ्गानि । अन्नमार्गे समनोऽपीनि-आमाशयपक्काशययोः व्रणशोथवत् पीडा, ततो वमेरतीसारस्य च युगपदेकैकशो वा प्रवृत्तिरिति वक्ष्यते । अन्यत् स्पष्टम् । कफवातोल्वणमिति विशेपेण संप्राप्तिवर्णनम् । विकुरुते च धातून स्तोकेन वा तीव्रवलेन वा-इति उभयथाऽपि सम्भवः ॥ ७८-७६॥ श्लेष्मकज्वरलिङ्गान्याह-प्रतिश्याय इति । प्रतिश्यायो नासामार्गण जलवत् श्लेष्मनि स्रवो नेत्ररागादिसहितः। कुत्रचिदित्युक्तः सर्वत्र शीतकम्पो न भवतः। कार्यञ्चाल्पैदिनै रित्यादि । कृशताविशेषः, अत्यर्थवलहानिश्चेति विशिष्ट- लिङ्गद्वय पञ्चपैरेवाहोभिः सम्भवति । वलहानिश्व सर्वासामेव पेशीनां, विशेषेण सिद्वास्त-निदानम् । अथान्नमार्ग त्याकान्ते वभ्यतीलारयोयोः। एकस्य वा प्रवृत्तिः स्थाच्छल क्वापि च कामला॥ ८३॥ अत्यर्थ-विष-योगेण सर्वंधालुप्रदूपणात् । अभिन्यासलमं कापि रूपं तरमान सुच्यते ॥८४ ॥ नैरुज्यं स्वल्पदोषस्य शीघं यद्यपि जायते। बलहानिश्चिराय स्यात् कृच्छा तु बहुदोपता ॥८॥ अथ सन्धिकज्वरः। ( Rheumalic Fever ) (परिचयः) ब्रणशोथ-रुजा-तोदेः सन्धीनापीडयन् भृशम् । ज्वरो घोरः स-हृद्रोगः सन्धिको नाम कथ्यते ॥८६॥ (निदोन सम्प्राप्तिश्च) हेमन्ते शिशिरे चत्तौ बाल्ये वा यौवनेऽपि वा। निःशङ्क-शीत-वर्षादि-सेवयाऽपचिते वले ॥८७॥ तु हृद्यन्त्रपेशीनामिति स्मर्त्तव्यम् । तेन कचिद् हृयन्त्रस्य अवसादान्मृत्यु- रपि। सामान्यत इति पूर्वेण योज्यम् । सरक्तमिति प्रायिक, वहुधा नापि दृश्यते रक्तम् । उभयफुस्फुसाक्रमणञ्च श्लेष्मकज्वरे भूयो दृश्यते । अथान्नमार्ग इति । अन्नमार्गक्रमणन्तु प्रायेण स्वल्पेषु रोगिषु दृश्पते। वस्यतीसारयोश्च विषभक्षणलिङ्गसादृश्यं स्पष्ट, कामलो तु वम्यतीसारनिवृत्तौ दृश्यते, अपयाति च शीघ्रमेव सम्यगुपक्रमेण । कदाचित्तु सर्वाशयानामाक्रमणमपि दृश्यते युगपत् , तदा घोरो विकारः ॥ ८०-८५ ।। सन्धिकज्वरस्य सज्ञावीज परिचयमुखेनाह-ब्रणशोथेत्यादि। व्रणशोथो विदह्यमानता पाकाभिमुखावस्था, नतु पाकः। रुजाः आर्तयः। तोदः सूचीवेधवद् व्यथा । सन्धीन् अस्थिसन्धीन् । स-हृद्रोग इति प्रोयः, कदाचिद- हृद्रोगोऽपि भवत्येव सन्धिकः ।। ८६ ॥ निदानमाह-हेमन्त इत्यादि । हेमन्ते शीतारम्भे शिशिरे शोते च ऋतौ । बाल्ये कुमारावस्थायाम् । अतिशिशोरतु वर्षद्वयादर्वाग् न भवति सन्धिक इति केचित् । अथ

सन्धिकज्वरः।
विषं जीवाणुसम्भूतं धातुपु प्रसृतं गलात् ।
वातपित्तोल्वणं देहे सन्निपातमुदीरयेत् ।। ८८ ॥
ततश्च परितः सन्धीन् व्रणशोथोऽतिदारुणः ।
अन्तःसन्धिवलासश्च बर्द्धमानो विदह्यते ॥ ६ ॥
अभितो हृदयं प्रायः सञ्चयोऽपां कलापुटे ।
हृन्मध्ये हृत्कपाटे वा विकारा ब्रणशोथजाः ॥१०॥
फुस्फुसच्छदशोथोऽपि क्वचित् सव्ये प्रजायते।
फुस्फुसाक्रमणं वाऽपि श्वासकासादिलक्षणम् ॥ ६१ ॥
रुपम् )
ज्वरः साधारणः पूर्व सन्धिशोथस्ततः क्रमात् ।
भृशं स्वेदो रुजास्तीत्रा मूत्राल्पत्वं हृदि व्यथा ॥ १२ ॥
वले अपचिते हीने। गलादिति कण्ठमार्गमाश्रित्य विशेषतश्च कण्ठशालूकाभ्या
मिति केचित् । सम्प्राप्तिमाह-वातपित्तोल्वणमित्यादि । इदञ्च व्रणशोथ-
तोद-भेदादिभिरनुमेयम् । त्रिदोपलिङ्गानि च भूयास्येव दृश्यन्ते। अन्तःसन्धि
सन्धीनामन्तः। वलास. श्लेष्मा इह श्लेपकाख्यः, स च व्रणशोथादेव हैतोवर्द्धमानो
विदह्यते परिमाणाधिकः सन् पच्यमान इव भवति नतु पच्यते। सन्धीन् परित
इति “अभित.परितःसमयानिकपाहाप्रतियोगेऽपि"-इति द्वितीया ॥ ८७-८६ ॥
अथ सन्धिकज्वरे प्रायोभाविनो हृदयन्तविकारानाह-अभित इति।
हृदयमभितः स्थिते कलापुरे हृदयच्छदारये अपां जलस्य व्रणशोथोद्भवलसीकारूपस्य
सञ्चयः । ततश्च हेतोहदि व्यथा वक्ष्यमाणा, प्रायः हृद्यन्त्रस्य स्वस्थानच्युतिश्च ।
अथवा हृन्मध्ये हृत्पेश्यां हृदन्तगु होवरण्या कलायाञ्च, हृत्कपाटे हृत्प्रकोष्ठानां
द्वारभूतेपु तनुकलावृतमांसपत्रकेपु वा (जातावेकवचनम् ) व्रणशोथजा विकाराः
सङ्कोच-संहननाकुरोद्गमादयः। किञ्च फुस्फुसच्छदस्य
तदाख्यकलाया अपि
कचित् शोथ , स च प्रायः सव्ये वामे पार्श्वे दृश्यते हृद्यन्त्रसान्निध्यात्। क्वचित्
फुस्फुसाक्रमणं वा, व्रणशोथस्य तत्रापि प्रसरणात् ॥ ६०-६१ ॥
सन्धिकज्वररूपमाह-ज्वर इति । साधारणः नातितीव्रः सामान्यलक्षणश्च ।
ततः क्रमात् द्वित्रिचतुर्दिनैः सन्धिशोथः पूर्वोक्तप्रकारः। भृश स्वेद इति विशिष्ट
लिङ्ग स्मर्त्तव्यम्। इति व्यथा पूर्वोक्तविकारारम्भात् प्रायेण ॥ २ ॥

८६ सिद्वान्त-निदानम् । सत्रिपातिक-लिङ्गानां केषाञ्चन च दर्शनम्। ज्वरोऽनिघोरः कुत्रापि प्राणहत् सोऽनुपक्रमात् । ॥३॥ शूनां सन्धियु बालानां हृदये च विशेषतः । विकाराः प्रायशो दृश्याः सन्धिकाख्ये ज्वरे ध्रुवम् ॥६|| अथोपक्रम-नैपुण्यालाघवाद वा विपस्य चेत् । जीवति द्वित्रसप्ताहान हृद्रोगो प्रायशस्तु सः ॥ ६५ ॥ पुनरावर्तते चापि केपाञ्चित् सन्धिको ज्वरः। स्लन्धिशोथादियुक्तस्मान् मन्दमारोग्यमश्नुते ॥६६॥ हृद्रोगादायतौ दुःखं प्रायः सर्वस्य जायते । ल श्रम-श्वास-शोथायः क्रमात् सीदन् जहात्यसून् ॥१७॥ सन्निपातिक-लिङ्गानां श्वासकासप्रलापादीनां केपाञ्चन नतु सर्वेपाम् । ज्वरो- ऽतिघोर इति अतितीव्रसन्तापः (१०६-१०७ डिग्रीमितः ) कुत्रापि नतु सर्वत्र । स च अनुपक्रमात् सुशीत-जलसेकावगाहादे-विना प्राणहृत् प्राणान्तकः ॥ १३ ॥ अथ वर्णितानां विकाराणां प्रायोदृष्ट विशेषमाह-यूनामित्यादि। यूनां सन्धिषु वालानां तु विशेषतो हृदये हृद्यन्ते विकारा भवति । 5वं निश्चितम् । अन्न वर्षद्वयादूई म् आषोडशवर्षा वालः, ततः परमात्रिंशतो युवेति ग्रन्थकर्तुंरभि- प्रायः। यद्यपि प्राचां ग्रन्थेषु अन्यथा बाल्य-यौवनयो-निर्देश , तथाऽपि इदानीन्तन जनायुर्दशैनादेवं वयःप्रविभागो न दोषाय ॥ १४ ॥ आरोग्यकालं कृच्छसाध्यताञ्चाह अथेति। अथ चेद् यदि उपक्रम नैपुण्यात् चिकित्साकौशलात् , विषस्य सन्धिकज्वरकरस्य जीवाणुविपस्य लाघवात् मात्रा- लघुत्वात् , रोगिणः स्वाभाविकवलापेक्षया वा विषस्य दुर्वलत्वाद् जीवति रोगी, तदा स प्रायशो हृदरोगी तु भवत्येव ।। ६५॥ सन्धिकज्वरस्य आरोग्योन्मुखावस्थायामपि पुनरावृत्तिशीलतामाह-पुनरिति । "पुष्कलकारणं विनाऽपि पुनरावर्त्तनं रोगस्वभाव एव । तस्मात् पुनरावृत्तात् सन्धिक- ज्वरात् . मन्दं शनैः शनैः। एवञ्च कदाचिन्मास मासद्वयं वा विरुज्यते रोगी ॥६६॥ 'अथ हृद्रोगस्य परिणाममाह-हृद्रोगादिति। आयतौ उत्तरकाले प्रायः, 'कतिचिन्मासानन्तरं वर्षानन्तरं वा। श्रमजः श्वासः श्रमश्वास । सीदन् क्रमशो हीनवलो भवन् स रोगी असून प्राणान जहाति नियते ॥ १७ ॥ ।

अथ श्वसनकज्वरः । ( Pneumonia ) लाक्षारसाभं यः ष्टीवेद रक्त श्वासज्वरादितः। स्त्यान-फुस्फुसमूलस्य तस्य श्वसनको ज्वरः ॥१८॥ (निदानम् ) समाच्छादन-हीनानां दुर्वलानां विशेषतः । दोनानां दूनचित्तानां शोतवर्षादि-बाधनात् ॥ ६६ ॥ अथ विपाभिषड्नज्वर श्वसनकं नाम परिचाययति-लानारसेति । लाक्षारसाभं लाक्षारसवत सकृष्णरक्तवर्ण, तदेतद् भेदकं लिङ्गम् । उज्वल- रक्तप्टीविनस्तु पुसो रक्तमुरःक्षतादिजनितं मन्तव्य प्रायः। असाध्येषु ग्रन्थिकादि- सन्निपातविशेपेष्वपि उज्ज्वलरक्तमेव प्ठीवति । श्वासज्वरादितः द्रुतश्वासेन ज्वरेण च विशेषेण पीड़ित । तदेतत्त्रितयं युगपद् वर्तमान सपद्य व श्वसनकाख्यं सन्निपातं ख्यापयति । यत्र तु क्वचिद् रक्तष्ठीवनं नापि विद्यते तत्रापि फुस्फुस-परीक्षया तन्मूलस्य स्त्यानताकृतः सहतीभावः परिज्ञायते । परीक्षा चेयमाकर्णनेन प्रतिघातोत्थ- शब्दश्रवणेन च क्रियते । तत्राऽकर्णने नाडीधमनवच्छब्दः सूक्ष्म बुबुदोद्गमध्वनिश्च फुस्फुसमूले श्रूयेते, अंगुल्या प्रतिघाते च पाषाणप्रतीघातोत्थ-वद् ध्वनिः। स च तत्रत्य वायुकोपाणामवरोधाद् व्रणशोथज. । श्वसनयन्त्राक्रमणाञ्च श्वसनसंज्ञा, निष्पत्तिः । सोऽयं ज्वरः किञ्चिदन्यविधलक्षणो' भावमिश्रेण तन्त्रान्तरात् कर्कंटक नाम्ना. समुद्धृत... यथा 'इषुणेवाहत पाय तुधते खन्यते हृदि। प्रमीलकः श्वासहिक्का वर्द्धते तु दिने दिने ॥ जिह्वा दग्धा खरस्पर्शा गलः शूकैरिवावृतः। विसर्ग नाभिजानाति कूजेच्चापि कपोतवत् ॥ अतीव श्लेष्मणा पूर्ण. शुष्कबत्तौष्ट- तालुकः। तन्द्रानिद्रातियोगातों हतबाड् निहता तिः ।। न रतिं लभते नित्यं विपरीतानि चेच्छति । आयम्यते च बहुशो रक्तं ष्टीवति चारपशः॥ एष कर्कटको नाम्ना सन्निपातः सुदारुणः।" इति ( भाव प्र०)। यद्यपि रक्तप्टीवनं श्वसनके ज्वरे कचिन्नापि दृश्यते, तथाऽपि प्रायिकलक्षणमिदं वालानामपि परिचयाय पर्याप्तमित्यभिहितमादित एव ।। ६८ ॥ १ | Tubular Breathing २। Fine Chepitations, ३। अन्यविधलनगद तन्त्र नियमेन हिक्कादिदर्शनात् । ।

८८ सिद्धान्त-निदानम् । अभिघातात् क्वचित् पूतिगन्धयोगेन कुत्रचित् । क्वचिद्वा व्याधिनाऽनेन पीड़ितस्याऽतिसङ्गमात् ॥१००) सर्ववतुषु भूना तु वासु शिशिरे मधौ । ज्वरः प्रादुर्भवत्येप जीवाणुविप-सम्भवः ॥ १०१ ॥ (सम्प्राप्ति ) संहत्यास्ट्रङ मूलतः फुस्फुसस्या- ऽसव्ये पाश्व सव्यतो वा द्वयोर्वा । जिघांसन्ति श्वासयन्त्रं विपोत्था दोस्तस्माच्छासकष्ट ज्वरश्च ॥ १०२ ।। (पुर्घरूपम् ) पार्शत्तिः श्वासकोसौ च क्वचित् कम्पोऽवसन्नता। प्रोग्रुपमाहुनिपुणाः प्रायः श्वसन के ज्वरे ॥ १०३ ॥ निदानमाह-समाच्छइनेति । दूनचित्तानां शोकादिग्लानमनसाम् । भूम्ना प्रावुर्यण । शिशिरे शीतत्तौं, मधौ वसन्ते । अन्यत् स्पष्टन् । ६६-१०१ ।। अथ श्वसनकज्वरस्य सम्प्राप्तिमाह-संहत्येति । असव्ये दक्षिणे पार्वे सव्ये वामे वा पार्चे, उभयतो द्वयोर्वा पार्श्वयोः, फस्फुसमूलतोऽमृगरक्त संहत्य उपलक्षणात् दुष्टशोणितं लसीका च स्त्यानीकृत्य । विषोत्थाः श्वासमार्गेपु लब्धप्रवेश-जीवाणुविय-प्रभाव-प्रकोपिता दोपा वातादयः श्वासयन्त्र फुस्फुसं जिघांसन्ति हन्तुमिच्छन्ति, न तु नियमेन नन्ति । ततः कारणात् श्वासकष्टादि- वहु-सन्निपातिक-लक्षण-समन्वितो ज्वरः श्वसनको नाम प्रवर्तते । प्रायेणादौ दक्षिणपार्श्व फुस्फुसस्य सहतीभावो भवतीति दक्षिणपावस्याऽदौ निर्देशः ।। १०३ ॥ पूर्वरूपमाह -पातिरिति । यस्मिन् फुस्फुसे व्रणशोथस्तत्र वात्तिः फुस्फुसच्छदकलाया व्रणशोथस्य प्रसर्पणात्। ततश्चात्र कचिजलसञ्चयोऽपि । अन्यत् स्पष्टम् ॥ १०३।। ܫܟ सान्निपातिकञ्चरलिङ्गानि । ८६ (रूपम् ) प्राक् प्रायः शीतमत्यर्थ ज्वरस्तीब्रोऽरुचिस्तृषा । पार्श्वशूलमथो कासः श्वासवृद्धिः क्रमेण च ॥ १०४ ॥ कासतः शोणितं श्याम सुहुः सान्द्र प्रवर्तते । श्वात्ततो नासिकापाश्वौ स्फुर्जतश्च निरन्तरम् ॥ १०५॥ स्वेदो ललाटं गात्राणि भृशं विद्यन्ति चानिशम् । गौरसर्षपवत् खेदपिड़कानाञ्च दर्शनम् ॥ १०६ ॥ दौर्बल्यं सदनं सोहः प्रलापः कण्ठकूजनम् । परुषा कर्कशा जिह्वा सलिना च भवेद् भृशम् ॥ १०७॥ धमनी युग्मतामेति कोमला स्थूलचञ्चला। यावन्न वरमुक्तिः स्यादु-ज्वरमुक्तरनन्तरम् । विशेषान्-मन्दतामेति रोगेऽस्मिन्निति निश्चयः ।। १०८ ॥ रूपमाह प्रागिति-प्राय इत्युक्तेः कचित् शीत, नापि भवति। तीव्र- ज्वरादयस्तु भवन्त्येव । क्रमेण श्वासवृद्विरिति यथा यथो फुस्फुसमूलमाक्रम्यते- ऽधिकतरं दोपैस्तथा तथा द्रुतश्वासता भवतीत्यभिसन्धिः । कासतः पुरुषस्य श्यामं लाक्षारसाभ सान्द्र वहल शोणितं मुहुरं वारं प्रवर्तते। श्वासतः पुरुषस्य नासिकापाश्वौँ विशेषेण स्फूजत' कम्पेते, तच्चे दमपर निश्चयप्रदं लिङ्ग स्मर्त्तव्यम् । अन्यत् स्पष्टम् ॥ १०४-१०७ ।। धमनीपरीक्षामाह धमनीति- युग्मतामेति युग्मेन द्विढिराहत्य' चलति प्रायः। कोमलादिपदानामा रोगपरीक्षाप्रकरणे वर्णिताः। एवंविधा च धमनी यावज्ज्वरनिमुक्तिन भवति सप्तमे अष्टमे नवसे वा दिने, तावदेव दृश्यते। ज्वर- निर्मुक्तौ तु विशेषान्-मन्दतामेति, स्वाभाविकगतेरपि मन्दतरगतिर्भवतीति विशेषः । अन्यत् स्पष्टम् ।। १०८॥ Dicrotic Pulse १२ 10 सिद्धान्त-निदानम्। लती दिवसे प्रायश्चाष्टले नवलऽथवा । अकस्माज्ज्वरनिर्मुक्तिः स्वेदनाचुर्य्यमेव च ॥ १०६ ॥ प्राणा वा तत्र सुच्यन्ते रोगी वा तत्र मुच्यते। युच्यमानस्तु नरुज्यं शीघ्रमेव समश्नुते ॥ ११०॥ (साध्यासायलनणम् ) एकतः फुस्कुस दुष्ट ज्वरेऽतीव्र स्थित बले । सम्यक पादत्रये लब्धे मन्तव्या सुखसाध्यता ॥ १११ ॥ स्वेदो भृशंज्वरस्तोत्रो वृद्धः क्षीरसोऽथवातुरः । पादत्रयस्य सम्पत्या स तु जीवेत् कदाचन ॥ ११२॥ (अरिष्टलनणम् ) द्वावेव फुस्फुसौ दुष्टौ समग्रो यस्य वैकतः। नासाश्वासौ भृशं स्वेदों दुर्लभं तस्य जीवितम् ॥ ११३ ।। मन्दं किञ्चित् प्रलपति स्वेदनातः प्रमुह्यति । वेपते करपोदञ्च प्राणास्तस्यापि दुर्लभाः ॥ ११ ॥ सप्तमे इति । यद्यपि सर्वसन्निपातानामिदं प्रायिकं लिङ्ग तथापि श्वसनकसन्निपातस्य विशेषतस्तथेति पुनरुक्तं, कचित् पुनरिह शनैरपि ज्वरमुक्तिः । स्वेदमाधुय्येमिति । स्वेदप्राचुर्येण हिमाङ्गता कचिन्नाडीलोपश्च भवति, परं सम्यचिकित्सया जीवति रोगी बहुधा । प्राणा वेति सङ्कठामवस्थां दर्शयति । नरुज्यमारोग्यम् । तच्च प्राय. पशेण मासेन वा भवति फुस्फुसस्य स्वाभाविकावस्था- प्राप्त ॥ १०६-११० ॥ साध्यासाध्यलक्षणान्याह-एकत इति । एकत. एकस्मिन् । फुस्फुसद्वये समाकान्ते त्वतिदु साध्यता] स्थिते वले इति --यदि वृथालवनादिना वलक्षयो न जातस्तदेव ! पादत्रये-भिपगद्रव्याण्युपस्थातेति चिकित्सापादनथे । दुःसाध्यतां दर्शयति-रवेदो भृशमिति । आतुरो रोगी ।। १११–११२ ।। अथ अरिएलक्षणान्याह द्वावति। हावेव, किवा एकत. एकस्मिन् पार्थेऽपि यम्य समनः फुस्फुसो दुष्टो न तु मूलमानम् । नासाश्वासः~नासा- पुटयो. विकारविशेषप्रद. श्वास पूर्वोक्तरूप. । वेपते करपामिति-हस्तपादकम्पनं आक्षेपकज्वरः। अतीसारेण वाऽकान्तो दुर्वारेण भवेद् यदि। क्षीणः श्वसनकेनात्तों दक्षिणाभिमुखो हि सः॥ ११५ ॥ अथ आक्षेपकज्वरः। [ Cerebro-spinal Fever ] (परिचयः) आनिप्यन्ते यतोऽङ्गानि सङ्कोचं यान्ति चाञ्जसा । घोरो ज्वरश्च संज्ञाहृत् सोऽयमाक्षेपको ज्वरः ॥ ११६ ॥ (निदानम् ) वसतां संकुले देशे रजोधूमाकुले चिरम् । दरिद्राणां भवेद भूम्ना सोऽयं जीवाणुसम्भवः ॥ ११७॥ (सम्प्राप्ति ) मस्तिष्कमूले परितः सुषुम्ना- काण्डं च तच्छादिकलान्तराले । विषं क्रमात् पूयसमा लसीका संहत्य दोषानखिलान् प्रकोप्य ॥ ११८ ॥ - किञ्चिन्मानचेष्टया अचेष्टया वा दृश्यमानमतिदौर्बल्यं ख्यापयति । दक्षिणाभिमुखा- यमपुरी गन्तुमुद्यतः ॥ ११३-११४ ॥ अथापरमभिपङ्गज्वरमाह-आक्षिप्यन्त इति। आ समन्तात् क्षिप्यन्ते सङ्कोचप्रसाराभ्यां प्रचाल्यन्ते । वस्तुतस्तु मुहुर्मुहुतसङ्कोचप्रसाराभ्या अन्तराऽन्तरा स्तब्धीभावेन च या विकृतचेष्टा, तस्याः पारिभापिकी सज्ञा 'आक्षेपक' इति । उक्तञ्च-"मुहुर्मुहुस्तदाशेपादाक्षेपक इति स्मृत.”-इति ( सु० सू० १ अ० )। तत्- सहितत्वात् लक्षणया ज्वरोऽयमाशेपकसंज्ञः । स च विरलदृष्टोऽपीदानों सुप्रसिद्धः। अञ्जसा झटिति । संकुले बहुजनाकुले । भूम्ना प्राचुर्येण। कचिद् धनवतामपि ॥ ११६ - ११७ ॥ सम्प्राप्तिमाह-मस्तिष्कमूल इति। द्वाभ्याम् । मस्तिष्क शिरोगुहाभ्यन्तरस्थं निखिल-सज्ञाचेष्टामूलं : यन्त्रमनेकदलप्रविभागाङ्कितं यत् * दृश्यन्तां प्रत्यक्षगारोरोपोद्घातस्म ६३ पत्रे तन्त्रोर्द्धतप्रमाणानि । नाम १२ सिद्धान्त-निदानम् । चेष्टावहानामथ नाडिकाना- मुत्तेजनादाक्षिपदङ्गाकानि । सङ्कोच्य शाखाश्च निहन्ति संज्ञा- साक्षेपके दुर्लभजीवितस्य ॥ ११६ ॥ (रुषम् ) तीवा शिरोरुग वमथुः शीतकम्पौ च जातुचित् । ग्रीवास्तमः ऋग्नाच्छीप पश्चादाकृप्यते वलात् ॥१२०॥ ज्वरश्च वर्द्धते नित्यं शाखाः स्तव्धीभवन्ति च । सङ्कोचं यान्ति चाङ्गानि दृष्टी यातश्च बक्रताम् ॥२२२॥ सहस्त्रारमित्यामनन्ति तान्तिकाः । तन्मूलतश्च निर्गतः सुपुम्नाकाण्ड पृष्ठ- वंशाभ्यन्तरस्थः। नाड्यश्च निखिलसज्ञाचेतावहाः सुषम्नाकाण्डं द्वारीकृत्य मस्तिष्काश्रयाः साक्षाद् वा मस्तिष्कप्रभवा इति शारीरवीजमत स्मर्त्तव्यम् । मस्तिष्कमूले मस्तिष्कस्य सूलप्रदेशे अध.प्रदेशे इति यावत् । सुपुग्नाकाण्ड परितः तत्समन्तात् । अतएव तच्छादिकलान्तराले- तच्छादिनी च एका स्थूलकला वहिःस्था स्थूलपटाकारा, अपरा तत्संलग्ना सूक्ष्मा, तयोरवकाशे। विपं जीवाणुसंघातसमुत्थम् , तद्रोगमृतकपरोक्षाया तनस्थ-लसीकादौ जीवाणुसंघात- दर्शनात् । जीवाणूनां हि शोणितप्रविष्टाना सर्वदोषप्रकोपणानां तवैव विशेषेण विकारप्रदत्वम्। चेष्टावहानामिनि । आशेपो हि चेप्टावहा नाडीराश्रित्य प्रवर्त्त- मानेन वायुसनकवेगेन जन्यते, स च वेगः तादृशनाडीमूलाना मस्तिष्कसुषुम्नाकाण्ड गतानामुत्तेजनविशेपात् प्रवर्त्तते,। यत्तु प्राचां- "यदा तु धमनीः सर्वा कुपितो- ऽभ्येति मारुतः-इति"-तनापि अयमेवाभिप्रायः, परं धमनीपदस्य नाड्यर्थे प्रयोगः । तदेतदखिलमस्माभिः प्रत्यक्षशारीरस्य उपोद्घातभागे विशदं व्याख्यातम् । अन तु दिङमात्रमभिधीयते ॥ ११८- ११६ ।। आक्षेपकरूपमाह-तीति। वमथुः वमिः। जोतुचिद् कदाचिद् । शीर्ष पश्चादाकृष्यते प्रीवापृष्टपेशीना हृढ़सडोचेन। सङ्कोचं यान्ति चाङ्गानि जान्वादिसङ्कोचेन कुण्डलीभूत इव तिष्ठति रोगी। दृष्टी वक्रता यातः केकरतां व्रजतः। लक्ष्मणामिति - अभिघातविशेषेण त्वगधो रक्तस्य कचिदभिधातादिना .

मसूरिकाज्वराः। तन्द्रा प्रलापो मोहश्च आलेपश्चान्तराऽन्तरा। लक्ष्मणां श्यावरक्तानां गानेषु च समुद्भवः ॥ १२२ ॥ सर्वेन्द्रियप्राणाशश्च क्रमादाक्षेपके ज्वरे एकाहान्नियते कश्चिद यहाद्वा दारुणे ग्रहे॥ १२३ ॥ क्लिश्यस्त्रिचतुराल वाऽथ सप्ताहान् विजहात्यसून् । क्वचिच्चतुष्पात्-सम्पत्तौ दिष्टया कश्चन जीवति ॥१२४॥ अथ मसूरिकाज्वराः। मसूरिकाणां वैविध्यं पूर्वयद्यपि कीर्तितम् । प्राधान्याल्लाघवाच्चेह वक्ष्यन्ते तु त्रिधैव ताः ॥ १२५ ॥ तत्राद्या वृहती नाम द्वितीया लघुनामिका । रोमान्तिका तृतीया च त्रिधा भिन्ना मसूरिका ॥ १२६ ।। .. - अथ सपदि स्त्यानीभावाद् यादृशानि भवन्ति लक्ष्माणि, इह प्रायस्तादृशानि लक्ष्माणि दृश्यन्ते सर्वगात्रेपुर विलीयन्ते च तानि स्वत्त एव त्रि-चतुर्दिनः। क्रमादिति शनैः सवन्द्रियप्रणोशः। दारुणस्थले तु सद्य. एव । चतुष्पात्सम्पत्तौ-'भिषग द्रव्याण्युपरथाता रोगी पादचतुष्टयम्' इति शोभने पादचतुष्टये मिलिते। दिष्टया तथापि भाग्येन कचित् कश्चिजीवति । १२०-१२४ ॥ विषाभिषड्जत्वसामान्यात् मसरिकाज्यरानप्यागन्तुज्रेवन्तर्भावय- न्नुपक्रमते-मसूरिकाणामिति । वैविध्यं विविधत्वम् । पूर्वैर्माधव-भाव- मिश्रादिभिरोचार्य, नतु चरक सुश्रुतादिभिः प्राचीनतन्त्रकारैः। तैर्हि सूत्रमात्रेण निर्देशात् । तथाहि क्षुद्ररोगाविकारे सुश्रुतः- "दाह-ज्वर-रुजावन्तस्ताम्राः स्फोटाः सपीतकाः । गानेषु वदने चान्तर्विशयास्ता मसूरिकाः।" इति (सु०नि० १३ अ०)। चरके च श्वयथुचिकित्सिते- "याः सर्वगात्रेषु मसूरमात्रा मसरिकाः पित्तकफात् प्रदिष्टाः" इति (च० चि० १२ अ०)। तन्त्रान्तरे'ऽप्युक्तं-"पित्तं शोणित- संसृष्टं यदा दूपयति त्वचम् । तदा करोति पिड़काः सर्वगात्रेषु देहिनाम्। मसूरमुद्गमाषाणा तुल्याः कोलोपमा अपि। मसूरिकास्तु ता ज्ञयाः पित्तरताधिका १। ढल्लनश्रीकण्ठाभ्यामुद्धतोऽय पाठः ।

६४ -- 7 सिद्वान्त-निदानम् । सू-बायु-जलदोषादेर्भवन्त्यागन्तुहेतवः । संक्रालियो विशेषेण निदाघादौ मधौ च ताः ॥१२७॥ "तासां पूर्व अरः कण्डात्रभङ्गोऽरुचिमः । त्वचि शोथः सवेवण्ये नेत्ररागश्च प्रायशः" ॥ २२८ ॥ अथ बृहन्मसूरिका। [ Small Pox-Variola ] (परिचय) मसूराकारपिड़काः लोन्द्रा गात्रेषु सर्वतः। भवन्ति पाकं गच्छन्ति लीयन्ते च द्रुतं यतः ॥ १२६ ।। बुधैः।" इति। इति। एवञ्च प्राचां समये प्रसिद्धो मसूरिकाख्यः क्षुद्ररोगः कालेन धोररोगे परिणत इति सुवचम् । आहुश्च प्राणान्तकरी जानपदिको मसूरिका सार्द्धसहस्रवर्पेभ्यः प्राङ्नाभूदिति ऐतिहासिकाः। प्राधान्यादिति - वक्ष्यमाण- जातित्रये सर्वेषा मसूरिकाभेदानामनुप्रवेशात् । , लाघबात् संख्यालघुत्वात् । इहास्मिन् ग्रन्थे ॥ १२५–१२६ ।। सूवाचिति । प्रथमोद्भावकाले भूवायुजलदोपहेतोरवश्यस्वीकरणीयत्वात्, अन्यथा अनवस्थाप्रसङ्गः। आदिपदेन रोगिस्पर्शादिकारणं वक्ष्यमाणं गृह्यते । ननु माधवादिभिरुक्तं-"कसलवणक्षारविरुद्वाध्यशनाशनैः। दुष्टनिष्पावशाकाद्य: प्रदुष्टपवनोदकैः। क्रूरग्रहेक्षणाञ्चापि”–इत्यादि कथं संगच्छते ? श्रूयताम् । कटुम्लादिभोजनात् पित्तप्रकोपेण शेत' भवति, प्रदुष्पवनोदकेभ्यस्तु विषसंक्रमः । ननु विप तु पार्थिवमेव स्यात् , पवनोदकयोस्तु तद्वाहकतामात्रमिति चेत् ? सत्यम् । अतएव मूले भूवायुजलदोपादेरित्युक्तम् ।। अतएव आगन्तु-हेतवः, पूर्वोक्तहेतोस्तद्रो- गिस्पर्शनादिप्रविष्ट न विषेण च मसूरिकोत्पत्ते बहुधादर्शनात् । सकामिण्यः, जनाजने संक्रमणशीलाः ॥ १२७ ।। सर्वासा मसूरिकाणा साधारणपूर्वरूपमाह प्राचीनपद्यन-तासामिति । गानभङ्गः, भग्नवद् वेदना गात्रेषु। त्वचि शोथः स्तोकेनैव। सवैवर्यः किञ्चिद्- विशिष्टवर्णतासहितः। कण्डशोथवैवानि पूर्वरूपे बहुधा नापि दृश्यन्ते ।। १२८ ॥ बृहन्मसूरिकापरिचयमाह । मसूराकाराः समग्रमसूर- .. मसूरोकारेति १। एततप्रसङ्गविस्तर परिशिष्टे रोगेतिवृत्तप्रकरणे द्रष्टव्यः । | जीवाणुकारणता च मसूरिकाणां नाद्यापि प्रमाण्पीकृता केनापि ।

मसूरिकाज्वराः। नानोपद्रवसंयुक्तो ज्वरो यत्र सुदारुणः । बृहन्मसूरिका नाम शीतला चेति सा स्मृता ॥ २३० ॥ (निदान सम्प्राप्तिश्च) वावादिदोशदथवान्यरोगि- स्पर्शादथैतत्पिड़कात्वचो बा। नालागलायः प्रविशद विषं तदु- दोषानशेषान् विकरोति सद्यः ।। २३१ ॥ ततो ज्वरः स्यादतिघोरलिङ्गो दोषा विषं तच्च बहिः क्षिपन्ति । गात्रेषु जाताः पिड़कोरततस्ताः पक्काः न्यं यान्ति विषनयेण ॥ २३२ ॥ - सदृशाः, कदोचिबृहत्तराः क्षुद्रतरा वेत्युपलक्षणाद् बोध्यम् । तन्त्रान्तरे चोक्तं- "मसूरमुद्गमापाणा तुल्याः कोलोपमा अपि ।”-इति । कोलोपमत्वञ्च वहनां स्फोठाना समेलनात् क्वचिदेव । सान्द्रा घनसन्निवेशा. - इति भेदक लिङ्गम् ( दृश्यता ३य चित्रम् ) । लधुमसूरिकायान्तु प्रविरलास्ता इत्यग्रे वक्ष्यते । भवन्ति निःसरन्ति । द्रुतमित्यपि भेदकं लिङ्ग, रोमान्त्यो विलम्चेन शनैश्च पिड़कोद्गम-विलयदर्शनात् । शीतलेति संज्ञा । तु लोकप्रसिद्वा भावमिश्राचार्येण स्वग्रन्थे समुपनिवद्धा, परं लिङ्गानि तत्रापि न्यूनानीति विस्तरकथनार्थमेष ग्रन्थः । १२६-१० ॥ निदोनं संप्राप्तिञ्चाह -वायवादीति। आदिपदेन भूजलयोर्ग्रहणम् । संक्रमण- काले वायोः प्राधान्यात्तन्मुखेन निर्देश.। हेत्वन्तरमाह अन्यरोगिणः स्पर्शात् , तदीयपिड़कारसादिसम्पर्कात् । एतद्रोगिण, पिडकात्वचो वा हेतो.। मसूरिका- पिड़काना प्रशोपणकाले मुक्ता यास्त्वचः, तासां विशेषेण सक्रामकत्वमिति विशेष प्रतिपादयितुमेतदभिधानन् । दोषा वातादयः। वहि क्षिपन्ति त्वचि नि.सरयन्ति पिड़काद्वारेण । अन्यत् स्पष्टम् ।। १३१-१३२॥ सा यत्तु तेन शीतलेति सक्षा सर्वमसूरिकासाधारणी कल्पिता, तच्चिन्त्यम् । लोके वृहन्मसूरिकाया, एव ततमज्ञया प्रसिद्धे। न चास्ति वापि चरकादि ग्रन्येषु शीतलेति सज्ञा ततपूजाधु पदेगो बा ।

सिद्धान्त-निदानम् । ६६ तारतम्येन दोषाणां विषस्य च बलाबलात् । पृथग वाऽत्यन्तसान्द्रा वा सरक्ताबा भवन्ति ताः ॥२३३॥ (रूपम् ) आदितः शीतकल्पाभ्यां शिरःशूलेन च ज्वरः । प्रवर्तते बढ़ते च कटीपृष्ट रुजन् अशम् । ततो मोहः प्रलापश्च प्रायेणान्येऽप्युपद्रवाः ।। २३४ ॥ तृतीये तु दिने प्राप्ते ज्वरो व्रजति लाघवम् । पिड़काश्च प्रदृश्यन्ते गन्नीरावगधः स्थिताः ॥ २३५ ॥ केशोन्तेषु ललाटे च तथाच मणिबन्धयोः । समुदस्य प्रसर्पन्ति सुखेऽङ्गा षु च ताः क्रमात् ॥ २३६ ॥ अथ षष्ठे तु दिवले प्रघूर्य्यन्ते जलेन तोः। अष्टमेऽति च पूयेन बर्द्धते च ज्वरस्ततः ॥ २३७ ।। शनकैहीयते चोपि विषे प्रलघुतां गते । प्रायशो द्वादशाहेन शुष्यन्ति पिड़काश्च तोः ॥ २३८ ॥ सरक्ताः चुहन्मसूरिकायाः प्रकारत्रयं वक्ष्यमाण सम्प्राप्तिमुखेन सूचयति–तारतम्येन इति। दोपाणा वातादीना तरतमभावेन, तुल्येऽपि विष क्षेत्रवैचित्यादिहेतो- दीपकोपमानाभेदादित्यभिप्रायः। विपस्य च वलावलात् तीबवलत्वादल्पवलत्वाद् वा हेतो.। पृथक्, असंमिलिताः। अत्यन्तसान्द्राः समिलितप्रायाः। रक्तपूर्णाः ॥ १३१ ॥ वृहन्मसूरिकारूपमाह-आदित इति । आदित आदौ। कटीपृष्ठ रुजन् पीड़यन्निति सूचकं लिङ्ग विशेपेण । अन्येऽप्युपद्रवाः, इन्द्रियनाशादय । कचिन्मरणमपि दृष्ट विपाधिक्येनास्यामेव दशायाम् , तत्र मृतकपरीक्षया अन्तर्निर्गतानां पिड़कानां दर्शनाद्रोगनिर्णय. सम्भवति नान्यथा। तृतीये तु दिने इति प्रायिकमेतत् । कचित् चतुर्थेऽपि दिने पिड़कारस्म । गम्भीरा इति गम्भीरावस्थाना', अयमेवार्थः स्पष्टतरसुक्तस्त्वगधःस्थिता इति विशेषणेन ६७ बृहन्मरिका। विशीर्यान्ते च पक्षण त्रिसप्ताहैस्तु नैरुजम् । यावज्जीवंच लक्ष्माणि तिष्ठन्ति प्रायशस्त्वचि ॥ १३६ ॥ विकाराः सन्निपातोक्तास्तदन्तेसाविनश्च ये ते प्रायेणोत्र जायन्ते श्लेष्मवाधाश्च दारुणाः ॥ १४०॥ लध्वी मसूरिका तु त्वगगतेव । अतएव सुश्रुतो “गातेषु वदने चान्तः" इति स्पष्ट विशिनष्टि वृहतीम् । तेन गलादोनामन्तः, कचिदामाशयादीनामप्यन्तश्च समुद्भवन्ति पिड़का इति स्मर्त्तव्यम् । अन्यत् रपष्टम् । ( दृश्यतां तृतीय-चित्रम् ) ।।१३४-१३८ । तृतीयचिनम् Mormon Aprya Pran वृहन्मसूरिका- पिड़का' ( अत्र पिड़काना घनसन्निवेशो लक्ष्य.) N 20- विशोर्यन्ते इति । नैरुजमारोग्यम् । लक्ष्माणि चिह्नानि, लघुमसृरिका- चिहानि तु द्रुत विलीयन्ते । श्लेष्मवाधाश्च शरुणा', सग्यासमार्गस्य फुस्फुसस्य आक्रमणात् । ततश्च बहुधा म्रियन्ते रोगिण । पूर्वोक्तश्वसनकज्वरसदृशलिङ्ग- रुपद्रुतस्तु मसूरिकावान् नैव जीवति ॥ १३६-१४० ।। ०.

ट सिद्धान्त-निदानम् । (प्रकारनवम्) घोरे विषाभिषङ्ग तु दोषकोपात् सुदारुणात् । पिडका अतिसान्द्रोः स्युः धोरश्चोपद्रवैज्वरः ॥ १४१ ।। अष्टोहात् परतस्तेन प्रायशः स विपद्यते। कुथ्यन्ते वापि पिडकाः ज्ञेया तत्राप्यसाध्यता ॥ १४२ ॥ शोणितेऽतिप्रदुष्ट तु रक्तपित्तं प्रवर्त्तते । रक्तपूर्णाश्च पिड़काः, प्रोणास्तत्रापि दुर्लभाः ॥ १४३ ॥ (प्रमद्भात कृतक-मसूरिका, गो मसूरिका च ) वृहन्मसूरीत्वक् चर्मण्युत्कीर्णा विधिपूर्वकम् । कतिचित् पिड़कोः कृत्वा प्रतिषेधाय कल्पते ॥ १४४ ॥ परं प्राणात्ययः कोपि ततः स्यादिति केचन। गोमसूरीरसेनैव प्रतिषेधन्ति तं गदम् ॥ १४५ ॥ ऽस्य मसूरिकायाः प्राणान्तकं प्रकारनय प्राह -घोरे इति । विपद्यते म्रियते स रोगी-इत्यन्त एकः प्रकारः । अन यदा क्वचिद् जीवति, तदा चिरेण विशीर्यन्तेऽर पिड़काः । अथ कुथ्यन्ते प्रकुथिताः शटिनाः कृष्णाभा भवन्ति पिड़का-इति द्वितीयः प्रकारः। रक्तपित्तं प्रवर्तते मुखेन वा पायुना वा मूत्रमार्गेण वा रक्तनि नबो भवति, पिड़काश्च यथाकालं जलेन पूयेन वा न पूयन्ते किन्तु रक्तन। सोऽय तृतीयः प्रकारः। दृश्यते च कदाचिदेवा लङ्करोऽपि ॥ १४१-१४३ ॥ अथ प्रसङ्गात् प्रतिषेधविधिविषयत्वाच्च कृतकमसूरिकां गोमसूरिकाञ्चाह- बृहन्मसूरीति । बृहन्मसूरोत्वक् तत्पिड़कायाः शुष्कत्वब । सा चेत् विधिपूर्वक स्वस्थ-जनस्य चर्मणि उत्कीर्णा, प्रच्छिते वाह्लादिवर्मणि नासापुटे वा सचूर्ण प्रवेशिता धृष्टा वा स्यात्, तर्हि कनिचित् पिड़का मसूरिकासलिङ्गा.. कृत्वा प्रतिपेधाय पुनराकमणवारणाय कलते। सेयं कृतकमसूरिका भारतोयवैद्य- राविष्कृता प्राग वर्षशतादपि सुप्रचलिता इदानीं विलुप्तप्राया। तत्रभाविनों हह वृहन्मसूरिका , वृहन्मसूरिका गोषु संक्रान्ता गोमसूरिका। तद्रसः प्रच्छिते चर्मण्यर्पितः प्रतिषेधकः ॥१४६ ॥ तत्राद्यः प्रतिषेधो यो यावज्जीवं स तिष्ठति । निरत्ययो भवेदन्यः प्रतिषेधस्तु नश्वरः ॥ १४७॥ । यानी व्यापदमाह परं प्रारणात्यय इत्यादिना । स च क्वचिद् घोररूपाणी पिड़कानां सम्भवात् । गोमसूरीरसप्रयोगविधेशविष्कारस्तु पाश्चात्यैः कृत' मानुपे वृहन्मसूरिका सैव गोषु सक्रान्ता गो-मसूरिका भवति । सक्रमणञ्च तविपसंक्रमादित्यर्थादायाति । प्रच्छिते लेखनशस्तेण कृतसूक्ष्मरेखा पाते गान- चमांशे तस्या गोमसूरिकाया यो रसो लसीका, स चेदर्पित. प्रवेशितः तदा प्रतिषेधकः, वृहन्मसूरिकायाः इति शेषः। अतएवायं प्रतिषेधविधिः पाश्चात्यैर्वहु- परीक्षित प्रयुज्यते राजपुरुपैरिदानीम् स च स्वल्पलिङ्गः स्वयमेव शीघ्र प्रशाम्यति, न च स्क्रामति जनाजनं स्पर्शमात्रेण वृहन्मसूरिकावत् । प्रायश्च तत्पिड़कोद्गमः सर्व गात्रेषु न भवति, तथापि प्रच्छिते स्थाने पञ्चमे पप्ठे वा दिने पिड़कोद्गमस्तद्विलयश्च शनैः पण भवत्येव, पण भवत्येव, तजन्यो उवरश्च स्तोक्न हिनदिनभ्थायी प्रायः । तताध - इत्यादि। तत्र प्रतिषेधविध्योर्मध्ये, आधः बृहन्मसूरीत्वकचूर्णस्य प्रच्छितचर्मणि प्रयोगेण कृतः प्रतिषेधः यात्रजीवं तिष्टती- ति विशेषः । अन्यस्तु निरत्ययः, आविधौ यथा कचित् प्राणहानिशङ्का नेह तथेति हेतोः । परमत्र न्यूनतामाह प्रतिषेधस्तु नश्वर इति । न चिरं तिष्ठति प्रतिषेध इति भावः । तेन द्वितः पुनः सोऽयं विधिरनुष्टातव्यो भवति, अन्यथा क प्रतिषेधः ? इदञ्चालावधेयम् । वृहन्मसूरिकोत्तीर्णस्य न भवति प्राय. पुनराक्रमणशङ्का । तेन दशवर्षाभ्यन्तरे तस्य गोमसूरीरसादान नावश्यकम् । कस्यचित्तु तथाविधः प्रतिषेधो यावजीवं तिष्ठति इति स्मर्त्तव्यम् ।। १४१-१४७॥ 8 "विलियम् जेनर" (William Jenuer ) नाम्ना केनचिद् आंग्लजनेन खु० १७६६ शतके प्रवर्तितोऽय विधिरिङ्गलण्डभूमौ। 1 क्वचित्तु एतविधिनाऽपि व्यापत्तिर्भवत्येवेति स्मर्त्तव्यम् ।

१०० सिद्धान्त-निटानाम। अथ लबुसमरिका। ( Chiken l'ox or Varicella ) (परिचयः) विरलाः कतिचिट् यस्य पिडकाः शीघसम्भवाः । ज्वरः स्वल्पश्च तत्याऽसौ ज्ञेया लघुससूरिका ॥ १४८ ॥ (निदानादि) वाथ्यादे रोगिसङ्गाद वा संक्रान्तं तद्विपं तनौ। दोषको विधायाल्पं निरति त्वचि सत्वरम् ॥ १४६ ॥ अथ लघुमसूरिकामाह-विरल इति । विरला. दूरोन्तरिताः, न तु बृहन्मसूरिकावत् धनसन्निवेशाः ( दृश्यता चतुर्थ चितम् ) ॥ १४८ ॥ - ५ ४र्थ चित्रम् - सम्म है लघुमसूरिका-पिडकाः। अत्रासा विरलत्वं लक्ष्यम् । अथ निदानादि व्याचष्टे-वायादेरिति। वाय्वादेर्हेतुता च पर- म्परया पूर्वोक्तनयेन। वस्तुतस्तु : प्रथमोद्भवकाले क्षितिजमेव विपं स्याद् लघुमसूरिका। ततस्ताः पिड़काः स्वल्पो ज्वरः स्वल्पश्च जायते । शीघमुल्लाघता चापि पिड़कानां प्रशोषणात् ॥ १५० ॥ (रूपम् ) नातितीव्रो ज्वरः स्वल्पलिङ्गः शीघंप्रमुञ्चति । प्रथमेऽहि द्वितीये वा पिडकाः सम्भवन्ति च ॥ १५१ ॥ विरलाः स्वल्पसंख्याकाः क्षुद्रमौक्तिकसन्निभाः। अमध्यनिन्ना भिन्नास्तु तोयमानं स्त्रवन्ति ताः ॥ १५२ ॥ पञ्चपैश्च दिनैः प्रायस्ताः प्रशुष्यन्ति सर्वतः । प्रायोऽष्टमेऽह्नि नैरुज्यं लक्ष्मणाञ्च द्रुतं लयः ॥ १५३ ।। कचिद्विषस्य बाहुल्याद दौर्बल्याद बोथ रोगिणः । कोथं गच्छन्ति पिडकाः नानारूपा भवन्ति वो॥ १५४ ॥ रक्तेन वा प्रपूर्य्यन्ते ज्वरो घोरश्च जायते। कृच्छ्रसाध्यानसाध्यान् वा प्रकारांस्तान् प्रचक्षते ॥ १५५ ॥ जीवाणुकारणता च मसूरिकाणां नाद्यापि केनापि प्रमाणीकृता, तथापि विशेषण संक्रामकतादर्शनाद् तादृश-विषाभिपडोनाऽनुमीयते-इत्यवोचाम । निरेति निगच्छति । - न चात्र वृहम्मसूरिकावदन्तर्वहिश्च पिडकासम्भव' किन्तु त्वचि अतएव त्वगगतेयं मसरिकेत्याहुः पूर्वे । तयधा-"तोयवुवुदसं- काशास्त्वग्गतास्तु मसूरिका.। स्वल्पदोषाः प्रजायन्ते भिन्नास्तोयं स्त्रवन्ति च" इति । अस्याश्च गन्भीरधात्ववगाहिता-विरहात् त्वगगतेति शोभना संज्ञा। उल्लाघता आरोग्यम् ॥ १४६-१५० ॥ अथ रूपमाह-नातितीन इति। क्वाचित्कं वैचित्यमाह कचिद्विपस्य- इत्यादि। एवंविधस्थले बृहन्मसूरिकासाङ्कय्यमामनन्ति केचिद्, विपाधिक्यं दोषकोपाधिक्यं वाऽन्ये। प्रचक्षते वदन्ति विज्ञा इति शेषः । अत्र दमवधेयम् । लघुमसरिकायां तृतीयदिनाभ्यन्तरं पिडकोद्गम', पिडकाना विरलत्वं क्षुद्रप्रायत्वं तोयपूर्णत्वञ्चोदित , मध्यनिन्नत्वाभावः, सत्वरप्रशोपणं, लक्ष्मणां द्रुतं लयश्चेति विशेषा,। वृहन्मसूरिकायान्तु सर्वथा तद्वैपरीत्यम् ।। १५१-१५५॥ ॥ - १०२ सिन्धान निमानम्। अथ रोमान्तिका। (Mcoskis) (परिचय) रोनकृषोन्नतिरूमा गेगिण्यः कफपित्तजाः । कासारोचयासंयुक्ता रोमान्त्यो ज्वरपूविकाः ॥ १६० ॥ (निदानादि ) निदानं पूर्ववत्तरया विपं तु पृथगेव तत् । प्रायेणाभिभवेद वालान् कर्फ पित्तश्च कोपयेत् ॥ १६१ ॥ श्वासमार्गादियु प्रायो विकारान् व्रणशोयवत् । कुरुते तत् क्रमात् , वन निरस्तं च विलोयते ॥ १६२ ।। मसूरिकायास्तृनीया जातिमाह प्राचीनवचनेन-रोमकूपेत्यादिना। ननु रोमान्तिकायाँ क्षुद्रप्रमाणपिडकाना दर्शनात् कथामय मसूरिकेति चेत् । उच्यते । पिडकोद्गम विलयादि बहुलिङ्गसादृश्यात्, कंपाञ्चिदाचार्याणां पढाङ्कानुसरणेन हि मसूरिकेयमुच्यते । यद्यपि चरके मज़रिकाभ्य. पृथगेवाभिहिता रोमान्त्यः-यथा तत्रादौ "शुद्प्रमाणा• पिडकाः शरीरे सर्वाङ्गगाः स-ज्वर-दाह-तृष्णाः । कण्डूयुताः सारुचि सप्रसेका रोमान्तिका पित्तकफात् प्रदिष्टा.".---इति पृथगेवाभिधोय पुनरुक्तं -"याः सर्वगात्रषु मसूरमात्रा मसूरिकाः पित्तकफात् प्रदिष्टाः' - इति (च० चि०१३ अ०), तथापि माधव-शोङ्गधर-भावमिश्रादीनामाचार्याणां संवादेन वर्णनं न दोपाय, तेषामेव ग्रन्थेषु मसूरिकावर्णनविस्तरदर्शनात् । रागिण्यः ताम्राभरागवत्यः । पिडका इति शेषः। रोमान्त्य , रोम्नामन्तेषु जाता इति तत्संज्ञाः। ज्वरपूर्विका इति प्रायः पिडकोद्गमे ज्वरलाघवदर्शनात् । प्रायेणाभिभवेद् बालानित्युक्तेर्बालानां विशेषेण कष्टप्रदोऽयं रोगो बहुधा मारकश्चेत्यभिप्रायः। श्वासमोर्गादिषु, श्वासनलिकासु फुस्फुसयोश्च। तद् विषम्। त्वक्षु चर्मसु निरस्तं निःक्षिप्त सत् प्रविलीयते विलयं याति ॥ १६०-१६२ ॥

रोमान्तिका। १०३ तत्रादितः प्रतिश्यायो ज्वरो गगश्च नेत्रयोः । तन्द्राऽरुचिः क्लसः कासो विड् भेदश्चापि कुत्रचित् । शोणायतोनां ताल्बादौ दर्शनं लक्ष्मणां ध्रुवम् ।। अथ तुर्य्यात्तृतीयाद्वा दिनात्तात्रामलक्ष्मणाम् । स्तोकोन्नतायतानां स्यान्सुखे गात्रेषु चोद्भवः ॥ द्वित्रैश्च दिवसै स्तेषां भवेनिःशेषनिर्गसः ॥ १६३-१६५ ॥ ततो ज्वरश्च लघुतां याति नो चेदुपद्रवाः । यहाल्लयश्च चिह्नानां तुपामत्वगविमोक्षणात् ॥ १६६ ॥ अथ चेद रोगमध्ये वा रोगशेपेऽथवा क्वचित् । तद्वियं श्वासनलिकाः फुस्फुसौ च प्रसर्पति ॥ . रूपमाह-तत्रादित-इत्यादि। विड्भेदः अतीसार , स च कचिदेव, मलधराया कलायां सूक्ष्मपिडकानां निर्गमाद्, विशेषेण पित्तप्रकोपाच्च । कासश्च श्वासनलिकादिपु तादृशपिडकासम्भवात् कफकोपाच्च । शोणायतानामिति तु प्रथमावस्थायां विशिष्ट भेदकं लिङ्ग स्मर्त्तव्यम् । तुर्याच्चतुर्थान्, तृतीयाच्चतुर्थाद् वा दिनादारभ्य दिनद्वयं दिनलयं वा यावदुद्भवन्ति लक्ष्माणि । तानि च सूक्ष्म- पिडकासंघातमयानि विषमवृत्ताधाकाराणि यतस्तत. सम्भवन्ति । स्तोकेन उन्नतानि आयतानि विस्तृतानि चेति स्तोकेन्नतायतानि । आदौ मुखमण्डले दर्शनान्मुखे इति प्रथमतो निर्देशः । नो चेदुपद्रवा.-इत्युक्तरयमभिसन्धि । यदि फुस्फुसाक्रमणात् कासश्वासादयः प्रबलोः स्युस्तदा ज्वरः प्रबल एव तिष्ठति वर्द्धते वा । त्र्यहाल्लयः- दिनत्रयं व्याप्य क्रमशो लयः । तुपाभत्वगिति, पिडकाना सूक्ष्मत्वात्तत्त्वचोऽपि सूक्ष्मास्तुपसदृशा पतन्ति । विशेषेण च तादृशपिढकात्वचो रोमान्तिका- विषाधारभूता. सक्रमणसाधनानि इतरमसूरिकात्वगवत् ॥ १६३-१६६ ।। अथ रोमान्तिकायां प्रायोभाविन. फुस्फुसाक्रमणस्य लिङ्गानि वर्णयति- अथ चेद-इत्यादि। तीव्र हि रोमान्तिकाविष यदि श्वासनलिकाः फुस्फुसी च प्रसर्पति, व्रणशोथेन पीडयतीति यावत् , तदा प्रवलानि श्वासादिलिङ्गानि ।

१०४ सिद्धान्त-निदानाम् । तदा श्वासश्च कालश्च ज्वरवेगश्च वाईत । मोहस्तन्द्रावसादश्च प्रायश्च प्राणसंशयः॥ १६७।१६८॥ नियन्ते च ततो याला विशेषण सहस्त्रशः । जीवन्त्युपकासात् केचित् सुचिर दुर्बलीकृताः ॥ १६६ ॥ गम्भीररक्तचितानां रक्तपित्तस्य चेक्षणात् । वृत्त रक्तातिसारे बा रोमान्त्यां दुर्लभं सुखम् ॥ १७० ॥ दराडकज्वरः। ( Dengue) अस्थिसन्धिरुजास्तीत्रा दण्डाहतिकृता इव । क्वचिद् क्षिप्रोदयलयो वीसपः सर्वगात्रयः ।। १७१ ॥ वरश्च कण्ठरुगयुक्तः पुनरावर्त्तत गतः । सञ्चारिणा सशोथेन लब्धिशूलेन लक्षित. ॥ १७२ ॥ तानि च श्वसनकसन्निपातसदृशानि भूना, केवल रक्तनिष्ठीवनं स्वेदवाहुल्यञ्चन पायो भवतः । उपक्रमात् चिकित्सानैपुण्यात् ।। १६७ -१६६ । अथ रक्तपित्तोल्पणामसाध्या रोमान्ति कामाह-गम्भीरेति । गम्भीराणि त्वचामय. संहतशोणितचिह्नप्रायाणि। रक्तपित्तस्य, उर्दू मधो वा प्रवृत्तस्येति सुख नारोग्य दुलभम् -इत्यु कया असाध्यतामतिकृच्छताध्यता वा ख्यापयति ।। १७०॥ अथ दण्डकारयज्वरलिङ्गान्याह-अस्थिसन्धाति । दण्डाहतिर्दण्ठाघात- स्तत्कृता इव रुजाः अकस्मात् प्रादुर्भवन्ति। इदमेव दण्डकसज्ञाकरणे वीजम् । वोसपैवद् ईषदुन्नत रक्ताभ वृहत्कोठमाय., स च तृतीये चतुर्थे वा दिने क्षिप्रमुदेति; लीयते च क्षिप्र, स्वत एव । क्वचित् श्यामगात्रस्य नापि दृश्यते । पुनरा- वत्तते गतः, दिनैक दिनद्वय वा ज्वरयित्वा मुञ्चति, त्रिचतुरश्च दिने पुनरावर्तते ज्वरः, कवित् पुनरपि किञ्चिद् वीससहित.। कण्ठरुजा सन्धिशूल-शिरःशूलादीनि च प्रायेण ज्वरसहचराणि । प्रतिश्या प्रतिश्यायो नासादिस्ताव । चिरमिति अष्टाहेन । ज्वरनिर्मुकावपि स्थानात् स्थानान्तरं सञ्चरन्त्य. सन्धिल्जाश्चिराय वाधन्ते-- शेषः।

१०५ . कर्णमूलिकज्वरः। प्रतिश्या-कासवान् प्रायेणाष्टाहेन प्रसुच्यते । चिरं सन्धिरुजाः सन्ति स शेयो दण्डकज्वरः ॥१७॥ प्रायोऽसौ जानपदिको वातश्लमप्रकोपनः । वालानां जरताञ्चातिदारुणः परिलक्ष्यते॥१७४॥ कर्णमूलिकज्वरः। ( Mumps) एकतः कर्णमूलेऽथानुपदश्चान्यतः पुनः । शोथः सरुगज्वरो यत्र स ज्ञयः कर्णमूलिकः ॥१७५॥ पञ्चषैस्तु दिनस्तत्र रुजाशोफौ प्रणश्यतः । स्याताञ्च कोषयोः प्रायो दशाहाच्च सुखम्भवेत् ॥१७६॥ स प्रोयो जानपदिको वातश्लष्मकृतो ज्वरः। वालानामथ यूनाञ्च विशेषण प्रवर्त्तते॥१७७॥ इत्यभिसन्धिः । जानपदिको जनपदविशेष व्याप्य युगपद् वहुपु प्रवर्तमान । जरतां वृद्धानाम्। अतिदारुणः क्वचित् प्राणान्तकराऽपि। अन्यत् स्पष्टम् ॥ १६६-१७२ अथ कर्णमूलिकज्वरमाह-एकत इति। अनुपदं दिनैकेन दिनद्वयेन वा। ननु कर्णमूलशोथः पाषाणगर्दभसंज्ञया पूर्वाञ्चोय्यरूक्त एव-यथा "वातश्लेष्म- समुद्भूतः श्वयथुनुसन्धिजः। स्थिरो मन्दरुजः स्निग्थो ज्ञयः पाषाणगर्दभः" इति ? सत्यम्। पर तत प्रायेण एकत एव कर्णमूले शोथ, ज्वरश्च नास्ति । इह क्रमेणोभयतः शोथः सज्वरः, मुष्कादिशीथश्चानन्तरभावी प्राय इति विशेषः । यत्तूक्तं--"ज्वरादितो वा ज्वरमध्यतो वा ज्वरान्ततो वा श्रुतिमूलशोधः। क्रमेण साध्यः खलु कृच्छ्रसाध्यस्ततस्तसाध्य' कथितो भिपग्भिः'- इति। तत्र ज्वरादौ भावी कर्णमूलिकशोथः कर्ण मूलिकज्वर एवास्तु, परमेषः प्रायेण जानपदिक इति विशेषः। रुजाशोफौ प्रणश्यतः, कर्णमूलयोरिति शेपः। पञ्चपै. पञ्चभिः षड्भिर्वा दिनः। स्याताञ्चति ।- रूजाशोफो पुन. वृपणयोरपि प्रायो भवति नतु सर्वत्र । कोषयोरिति सामान्याभिधानात्, पुंसां मुष्कयोः, स्त्रीणा वीजकोषयोरिति बोध्यम् ।

चा कृत्या। १०६ सिद्धान्त-निदानम् । अथ विषमज्वराः। यः स्यादनियतात कालाच्छीतोगाभ्यां तथव च । वेगतश्चापि विपमः त ज्वरो विषमः स्मृतः ॥१७॥ रणीला चीजकोपौ च अभ्यन्तरत एव तलोदरे, उभयतः, तन स्त्रीणा बंक्षणयोई मेकत उभयतो वा रुजाप्रादुर्भावः। दशाहाच्चेति प्रायिकम् ।। १७३-१७५ ॥ अथ विषमज्वराणां सामान्यलिङ्गान्याह भालुकितन्त्रवचनेन-यः स्योद-- इति । अनियतात् कालात् अनियतकालं व्याप्य तदारभ्य वा। शीतोष्णाभ्यां शोतपूर्व दाह दाहपूर्व शीत वेगती विषमः कदाचित्तीवाण कदाचिन्मन्देन चा सन्तापादिना उपलक्षितः। इदञ्च कालादिवपम्यं विषम- ज्वरसज्ञाया वीजम् । वाग्भटोऽप्याह-"विपमो विपमारम्भ-क्रिया-कालो- ऽनुषगवान्' इति ( अष्टाङ्ग ह० नि० २ अ०)। अस्य ह्ययमर्थः--आरम्भश्च क्रिया च कालश्च आरम्भक्रियाकालाः, ते विपमा यत्र स तादृशोऽनुपगवान् अनुवन्धो ज्वरो विषमज्वर इति । तत्रारम्भो नाम ज्वरप्रकृतिः, तई पम्य दाह-शीताभ्यां शीत-दाहाभ्यां चा, कदाचित्तु विनैव उभाभ्याम् । क्रिया ज्वर- सन्तापादिः, तपस्यं कदाचित्तीव्रत्वेन कदाचिन्मन्दत्वेन। कालो हिविधः, आक्रमणकालो भोगकोलश्चेति । तत्राद्यस्य वैपस्यं यथा नियतेऽपि तृतीयादि- ज्वरागम-दिने त्वरया चिराद्वा ज्वरागमः। भोगकालस्य चैपायमल्पाधिककालं ज्वरभोगेन। केचित्तु- एतानि हि प्रायिकलिङ्गानि न लक्षणम् , तत्तु मुक्तानु- वन्धित्वं विषमत्वमित्याहुः। ननु तर्हि कथ सन्ततज्वरस्य विपमत्व, श्रुयते हि - "सप्ताहं वा दशाह वा द्वादशाहमथापि वा। सन्तत्या योऽविसर्गी स्थात् स निगद्यते"--इति । अतएव हि खरनादेनोक्तं- "चत्वारः सन्ततं हित्वा ज्ञेयास्ते विषमज्वराः" इति चेत् , उच्यते । तत्रापि उत्तरकाले मुक्तानु- बन्धित्वदर्शनादस्ति विषमत्वम् । उक्तञ्च-"विसर्ग द्वादशे कृत्वा दिवसेऽव्यक्त- लक्षणः। दुर्लभोपशमः कालं दीर्घमप्यनुवर्तते ।" इति ( च० त्रि० अ० ) तेन सन्ततज्वरस्य विषमज्वरस्वरूपयोग्यतया विषमत्वं सुसाधम् । खरनादस्तु सुस्पष्टलिङ्गभेदप्रदर्शनाय चिकित्साभेदप्रदर्शनाय च सन्ततज्वरं विपमज्वरेभ्यो भिन्नमाहेति समाधि। अथवा मुक्तानुवन्धित्वं विपमत्वमिति लक्षणमेव चिन्त्यम् , विषमज्वरेषु सर्वथा ज्वरमोक्षस्य अदर्शनात् । दृश्यमानेऽपि हि ज्वरमोक्षे तत्र ज्वरस्य चिराय धातुषु प्रच्छन्नतयाऽवस्थानात् । तदुक्त सुश्रुते -- “स चापि विषमो देहं न कदा- . सन्ततः , , विपमज्वराः। १०७ आगन्तुरनुवन्धश्च प्रायशो विषमज्वरे । इति प्राञ्चः स चासौ तु रक्तजा जन्तवोऽणवः ।। १७६॥ चिद् विमुञ्चति । ग्लानिगौरवकार्येभ्यः स यस्मान्न प्रमुच्यते । वेगे तु समति- क्रान्ते गतोऽयमिति लक्ष्यते। वात्वन्तरस्थो लीनत्वान्न सौम्यादुपलभ्यते।" इति (सु० उत्तर० ३८ अ०)। वयन्तु वागभटोक्त 'विषभो विपमारम्भक्रियाकालो- ऽनुपगवान्” इति सर्वाङ्गसुन्दरं लक्षणमेव साधीयो ब्रूमः, सर्वलक्ष्यसमन्वयात् । नव्यास्तु कारणताटवस्थ्यादेव सन्ततज्वरस्य विपमत्व मन्येरन् । तथाहि योऽसौ घरकरो जीवाणुः शोणिते संक्रान्तस्तृतीयकादीन् ज्वरानुत्पादयति, स एवं सन्ततचरिणोऽपि शोणिते प्लीहाटी वा प्रच्छन्नो दृश्यत इति सममुभयोः कारणं, प्रायस्तुल्य-रूपश्चैयां चिकित्साविधिरिति तेषा परीक्षामूलः सिद्धान्तः ।। १७७ ॥ अथ विषमज्यराणा मुख्य निदानमाह प्राचा वचनं द्वारीकृत्य आगन्तुरिति। अनुबन्धातीत्यतुवन्धः सदावस्थायो हेतुः । आगन्तुः साक्षाद् रोगकारि-बाह्यनिमित्त- भूतः। तेन विषमज्वरेषु धातुर्वपम्यं नाद्यो हेतुः, तन्त्तु परस्तादुद्भवतीत्यभिप्रयते । प्रायश इत्युक्त्या क्वचिद् धातुवैपम्यकृतोऽपि विषमज्वरो भवत्येवेति सूच्यते । वक्ष्यति चाने-"टोपोऽल्पोऽहितसम्भूतो ज्वरोत्रसृष्टस्य वा पुनः। धातुमन्यतमं प्राप्य करोति विपमज्मरम्" इति । “इति प्राञ्चः"--इत्युक्त्या अस्य सिद्धान्तस्य प्राचीनत्व स्मथ्यते। यथा सुश्रुत -"ओगन्तुरनुवन्धो हि प्रायशो विषमज्वरे" -इत्यादि। अमुञ्चागन्तुमनुवन्धं व्याचष्टे नव्थमतानुसारेण-सचासौ इति । पूर्वोक्तोऽनुवन्धो हेतुः--रक्तजा रक्तयोनयः अणव सूक्ष्मा अदृश्या केवलचक्षुषा अनिरीक्ष्याः ( अणुवीक्षणयन्तादिसहायेन चक्षुपा तु दृश्याः ) जन्तवः क्रिमि- विशेषाः। सोऽयं नव्यानों परीक्षामूलो निर्णय। (ते च जन्तवः परिशिष्टे चिौ. प्रदर्शनीयाः)। ननु प्राञ्चस्तु भूताभिषड्गमेव आगन्तुहेतुमाहु', तदुक्तं “केचिद् भूताभिपङ्गोत्थं त्रुवते विषमज्वरम्' इति चेत् , सत्यम् । परं सुश्रुते श्रूयते-"परो हेतु. स्वभावो वा विषमे कैश्चिदीरितः। आगन्तुरनुवन्धो हि प्रायशो विषमज्वरे ।" इति । तेन हेतुनिर्णयपने प्राचामपि संशयोऽभूदिति प्रतीमः, एवञ्च कैश्चिदिति निर्देशन अप्रतिसिद्धं हि परमतमनुमत भवतीति न्यायात् प्राचामनुमतमेव भूतेतरागन्तुहेतुकत्व मिति शक्यमसशयं वक्तुम् । अथ चेत् तद्विशेपनिर्णयो नव्यैः सप्रमाणमिदानीमु- स चासो WRMA -- १०८ सिहास-निदान। ते वृत्तताना विविधाः सन्तनादिपु पञ्चसु । दंशादिदंशसंक्रान्ता इति नव्यपरीक्षितम् ॥१८०|| दोपोऽल्पोऽहितसम्भूती ज्वरीतन्ष्टस्य वा पुनः । धातुमन्यतमं प्राप्य करोति विषमज्वरा ॥१८॥ पन्यस्यते, स कथं न गृखताम् ? "धनादावारत्त्यश्याग्ने"-- एनि पाश्चित् सूक्ष्मनिमोणा परिचयश्च प्राचान रक्त एवान्यत्रेत्यादि जीवाणुकारणवादप्रसा पूर्वमवोचौम । अत्रापि सैव दिम् । अथवा भृताभिपदो नाम भृताना सक्षमप्राणिनां जीवाणूनामभिपज इति व्याचक्षीरन् नव्याः ।। १७८ ॥ अथैपां ज्वरकरजीवाणूना:विशिष्टपरिचयमाए नव्यपरीक्षानुसारेण ते वृत्तति । ते जीवाणवः सन्ततादिषु पञ्चसु ज्वरेपु विविधाः प्रायरतुल्यातयोऽपि भिनजातयः । वृत्ताः मण्डलप्रायाः पादादिरहिताः, ताम्राभाश्च। दंशो नाम मशकविणेपः, आदिपदेन मत्कु गादोनोमपि ग्रहणम् । तेया दंशादोना दंशैः संकान्ताः दष्टस्य रोगिणः शोणितात स्वस्यस्म शोणिते सच्चारिता.। अयमभिसन्धिः। विपम- ज्वरक हि जीवाणवः शोणितभुजा दंशादीना शरीरे तद्दष्टरोगिशरीरात् प्रविष्टा बहुधा प्रवर्द्धन्ते वंशविस्तारेण । ततश्च तथाविधजीवाणुजुष्टानां दंशात् स्वस्थशरीरं प्रविशन्ति दशकाले। प्रविष्टाश्च शोणितशोणकणिकालु लब्धाश्रयास्तत्र स्वदेहविभागेन बहुगुणीभूता. पुनः पुनर्नवनवशोणकणिका आक्रामन्तः समप्रमपि शोणितं शीघ्र व्याप्नु वन्ति । ततश्च हेतोः पुनः पुनयंरागमश्चिरानुबन्यश्च ज्वरस्येति नव्यपरीक्षकाणां प्रत्यक्षपरमः सिद्धान्त ॥ १७६ ।। अथ दोपनिमित्तं विषमज्वरमाह सौश्रुतवचनेन -दोषऽल्प इति । अथवा अहितसम्भूतो मिथ्याहारविहारादिकुपितः अल्पः पूर्वावशिष्ठो दोपो वातादिः ज्वरोत्सृष्टस्य विमुक्तधरस्य पुरुषस्य विषमज्वरं करोति । किं कृत्वा ? अन्यतमं धातुं रसरक्तादि प्राप्य विशेपेण दूषयित्वा। अर्थ फलितार्यः -द्विविधी हि विषमज्वरः, आगन्तु. निजश्च । ततोद्यो बाहुल्येनेदानो दृश्यते, द्वितीयस्तु कचिदेव। पूर्वोक्तलक्षणसामान्यात् धात्वाश्रयसामान्याञ्च उभयोरपि विषम- ज्वरसंज्ञा । साम्प्रदायिकास्तु ज्वरोत्सृष्टस्य वा इत्यत्र 'वा' इति पदेन ज्वरोत्सृष्टस्य अज्वरोत्सृष्टस्य चेति व्याचक्षते । तेन ज्वरोत्सृष्टस्य प्रायः, अज्वरोत्सृष्टस्व तु क्वचिदित्यर्थस्तैराकृष्यते । तन्न सम्यक् , इदानी लोके वैपरीत्यदर्शनात् । दृष्टानु- च -- , विषमज्वराः। १०६ अधिशेते यथा भूमि बीजं काले प्ररोहति । अधिशेते तथा धातून् दोपः काले च कुप्यति ॥१८२॥ सारिणो हि खलु नैदानिका भवितुमर्हन्ति, न केवलमन्धपरम्परया गतानु- गतिका इति। अथवा, पुरा ज्वरोतसृष्टस्यैव दोपकृतो विषमज्वरः प्रायिको. ऽभूदिदानीन्तु आगन्तुहेतुकः आरम्भाद्विषमश्च भूम्नेति कालपरिणामकृतं वैपरीत्यमस्तु । तथापि साम्प्रतं दृष्टानुसारि व्याख्यानमेव श्रेयः । न च वाच्यम्, "आरभ्माद्विषमो यस्तु यश्च वा दैर्ध्यरात्रिकः । क्षीणस्य चोतिरूक्षस्य गम्भीरो यस्य हन्ति तम्" इत्युक्तेः आरम्भाद्विपमस्य ज्वरस्य असाध्यत्वमापद्यत इति । इदानीं आरम्भाद्विषमस्यापि ज्वरस्य प्राय. साध्यतोदर्शनात् । जनपदोद्ध्वंसिरूपेण प्राक् पष्टिवर्पेभ्यः प्रादुर्भूतस्य । तस्यैव प्रायेणाऽसाध्यता वभूवेति पुनरद्यापि श्रुयते । एवञ्च कालान्तरपरिणामकृतोऽय व्यतिक्रमः स्वीकार्य्यः ।। १८१ ॥ अथ विपमज्वराणा गतागतहेतुं स्पष्टतरं वर्णयति चरकीयवचनेन- अधिशेते इति । यथा बीजं भूमिमधिशेते भूमौ प्रसुप्त तिष्ठति, काले च प्ररोहति अंकुरीभवति, तथा दोषः, दूषयति रसरक्तादिधातूनिति व्युत्पत्त्या शरीर- प्रदूपणो वातादिः, जीवाणुविशेषो वा धातून रसादीनधिशेते आश्रित्य लीनरितष्टति । काले द्वितीय-तृतीयादिदिने च कुप्यति उल्वणोभवति, प्रवृद्धः सर्वदेह ज्वरयति । सोऽय विषमज्वराणा कालविशेपाश्रयित्वे हेतुरुक्तो वीजांकुरदृष्टान्तेन। संगच्छते चैप दृष्टान्तो जीवाणकारणवादेन । तत्र दमवधेयम् । दृश्यन्ते हि विषमज्वरिणा रक्तकणिकासु प्रत्यह वर्द्धमानो जीवाणवो ज्वरे ज्वरे पृथविधा.। स्वभावतश्च तेषा केषाञ्चिदष्टाभिर्यामरन्येपा षोड़शभिर्यामेरपरेषां च चतुर्विशतियामैः कोटिशः सन्ततिविस्तारः, तेन चान्ये- धुष्क-तृतीयक-चतुर्थकज्वराणा यथाक्रमं काले काले सम्भवः । जीवाणुनां सन्ततिविस्तारकोलश्च प्रायेण ज्वरागमकालः । अत्र चान्योऽपि प्राचा दृष्टान्तो यथा सुश्रुते- 'यथा वेगागमे बेला छादयित्वा महोदधे । वेगहानौ तदेवाम्भस्त- त्रैवान्तनिलीयते। दोषवेगोदये तद्वदीयंत ज्वरोऽस्य वा ।"-इत्यादि। अत्र दोषवेगोदयश्च प्रायेण विपिष्टजीवाणुवंशवृद्धिकृत एव इत्यवोचाम् ॥१८२।।

११० सिद्धान्त-निदानम् । अथ विषमज्वरजातयः। सन्तः सततान्ध स्तृतीयकचतुर्थकाः। यश्च वातवलासाख्यः नयिणाञ्च प्रलेपकः॥१८॥ दादिष्वपरो दृष्टो यश्च श्ल पदिको ज्वरः । यश्चोपद्रविको दृष्टः प्रायशो जीणंरोगिणाम् ॥१८॥ धोतुस्थाः सर्व एवैते विज्ञ या विषमज्वराः । दुश्चिकित्स्या विशेपेण सर्वदोपप्रकोपजाः ॥१८५॥ अथ सन्तत-ज्वरः । (Malarial Remittent Fever ) सप्ताहं वो दशाहं वा द्वादशोहमथापि वा। सन्तत्या योऽविसर्गो स्यात् सन्त नः स निगयते॥१८॥ प्रसिद्धाः अथ विपमज्वरभेदानाह -सन्तत इति । सन्ततादयः पञ्च सजातीयाश्च । कालज्वरश्च किञ्चिद्भिन्नोऽपि सततकभेद एवं प्लीहोदरवानिति वश्यते। वातवलासाख्यो विशिष्टलक्षणको अरस्तु भिन्नजातीयः। प्रलेपकस्तु राजयक्ष्म विद्रध्यादिपु क्षतझोणे च दृश्यते अनुवन्धरूपः, तेन क्षयिणामित्युप- लक्षण बोध्यम् । श्लपदिको नाम दर्श-पौर्णमास्यादिभावी शीतोप्णोपलक्षितो विषमज्वर एव लक्षणसामान्यात् । औपद्रविको ज्यरश्च मुख्यरोगारम्भकदोप- प्रकोपजन्यविकारान्तररूपो जीण रोगिणां ग्रहण्यादिवतां दृष्टः । य एते नवधा संख्याता विषमज्वरा आविष्कृततमा इहोता., सर्वे च ते धातुस्थाः वक्ष्यमाणरीत्या धातुविशेपाश्रयिण. सर्वदोषप्रकोपजाः -प्रायेण आगन्तुहेतु- कत्वेऽपि सर्वत्र काले दोपत्रयप्रकोपसामान्यदर्शनात् सान्निपातिका.। अतएव विशेपेण दुश्चिकित्स्याः चिरानुवन्धित्वात , उक्तञ्च-'स चापि विषमो देहं न कदाचिद्विमुञ्चति । ग्लानिगौरवकार्येभ्यः स यस्मान्न प्रमुच्यते यस्मान्न प्रमुच्यते ,"-इत्यादि । (सु० उत्तर० ३८ अ०)।। १८३-१८५ ।। सन्ततज्वरमाह-सप्ताहमित्यादि प्राचीनवचनेन। द्वितीया चात्यन्त संयोगे। सप्ताहादिकोलं व्याप्य सन्तत्या अनुवन्धेन अविसर्गी अविच्छेदी। " सततकज्वरः। १११ सान्निपातिकवैचित्र्यालिङ्ग युक्तश्च दारुणः । स शीघ शोध कारित्वात् प्रशमं याति हन्ति यो॥१८७॥ विसर्ग द्वादशे कृत्वा दिवसेऽव्यक्तलक्षणः । दुर्लभोपशमः कालं दीर्घमप्यनूवर्तते ॥ १८८ ।। .. अथ सततक-ज्वरः । ( Double Quotidian Fever अहोरात्रे सततको द्वौ कालावनुवर्तते। स कृच्छ्रसाध्या, जीर्णस्तु स कालज्वर उच्यते ॥१८॥ उक्तश्च ननु सन्तत्येत्यनेन गतार्थत्वात् कथ पुनरुक्त-अविसगीति ? सत्यम् , विशेपा- भिधानाथं पुनरुक्तम् । विशेषश्च यथा- न केवलमनुवन्धी किन्तु दारुणसन्तोपाधु प- लक्षितोऽयं घोररूप सर्वधातुमलावगाही ज्वरः कदाचित् सप्ताहवयमपि तिष्टतीति । चरके-“यथा धातूंस्तथा मृत्र पुरीपं चोनिलादयः। अनुवन्धन्ति युगपदवश्यं सन्तते ज्वरे।" इति ( च० चि० ३ अ०)। नन्वविसर्गित्वेऽपि कथं विषमत्वमिति चेद्-अस्योत्तरं विषमज्वरलक्षणव्याख्यानप्रसङ्ग सम्यक् प्रति पादितम् । किञ्च कदाचिदादो अन्येा 'करूपेण तृतीयकरूपेण वा प्रवृत्तस्य ज्वरस्य सपदि सन्ततरूपेण पर्यवसानदर्शनात् स्पष्ट सन्ततादीनामेकजातीयत्वम् । स च सन्ततज्वरः सान्निपानिकवैचित्याद् हेतो दारुणैः सान्निपातिकैलिङ्गः मोहप्रलापादिभिरल्पाधिकमात्रैर्युक्त सन् शोघ्र सप्ताहादिषु कालेबु शाम्यति मारयति वा। उक्तञ्च-“स शुद्धया वाप्यशुद्धया वा रसादीनामशेषतः । सप्ताहादिषु कालेषु प्रशम याति हन्ति वा” इति (च० चि० ३ अ०)। विषमत्वञ्चास्यादावस्फुटमपि, काले यथा स्फुटीभवति तदाह चरकोयवचनेन- विसर्गमिति । अव्यक्तलक्षणः, “धात्वन्तरस्थो लीनत्वान्न सौम्यादुपलभ्यते" - इत्यादि पूर्वोक्कदिशा निगूढलिङ्गः। अन्यत् स्पष्टम् ॥ १८६-१८७ ।। सततकज्वरभाह अहोरात्र इति । द्वौ कालावनुवर्तते इति कालद्वयान्तः कचित सर्वथा मोक्षो भवति, न वा भवति, सन्तापवृद्धिस्तु अहोरात्र द्विर्भवत्येव ॥ १८६ ॥ -

सततकभेदः कालज्वरः।
(Kala-Azar or Leishmaniasis )
यदाऽसौ धातुसंलीनः काले काले पुनर्भवन् ।
अश्नौ मन्दे बले हीने क्षीयमाणस्य देहिनः ॥१६०॥
सयाण्डुशोथवैवर्यः प्लीहोदरयुतो भवेत् ।
दुश्चिकित्स्यतमो घोरस्तदा कालज्वराभिधः ॥१६१॥
विशिष्ट तन्निदानन्तु वृत्तमाया हि जन्तवः ।
ते सूक्ष्माः प्लीहलन्ध्यस्थि वास्तव्या रक्तदूषणाः ॥१६२॥
उपद्रवौ विशेषेण तत्रातीसरणं क्वचित् ।
घाणावा दन्तचेष्टाद वा क्वचिद् रक्तस्नुतिर्मुहुः ॥१३॥
कोथः कपोलमांसेऽन्तः क्वचित् तत्र च दृश्यते ।
प्राणा वा तत्र मुच्यन्ते रोगी वा तत्र मुच्यते ॥१६४॥
सततकभेदमेव सुदारुण कालज्वराख्यमाह-यदेति धातुसंलोनः धातुषु
सम्यक् लोनः, असौ सततको नाम विषमज्वरः। काले काले इति अन्तराऽन्तरा
परिमुच्य पुनर्बिरह्नः प्रादुर्भवन् । अतएवास्य दुश्चिकित्स्यता। पाण्डुः पाण्डु-
वर्ण च्छविः, शोणित--शोणकणिकानां संज्ञयात् । शोथः करपोदमुखेषु विशेपेण,
क्वचिद् उदरादावपि कालेन भवति। वैवर्ण्यम् श्यामाभवर्ण विशेपः ।
कालज्वरस्य विशिष्टलक्षण मन्यन्ते प्रेक्षावन्तः। प्लीहोदरम्-प्रायः सर्वोदर-
व्यापिनी प्लीहाभिवृद्धिः। तलक्षणञ्च सुश्रुते यथा-“वामे च पार्चे परि-
वृद्धिमेति विशेषतः सीदति चातुरोऽत्र । मन्दज्वराग्निः कफपित्तलिङ्ग रुपद्रुतः
क्षीणवलोऽतिपाण्डु ॥"- इति (सु० नि० ८ अ०)। प्रायेण यकृवृद्धिरपि ।
दुश्चिकित्स्यतमो घोर इति सुनिपुणचिकित्साविरहे नियतप्राणहरत्वात् । विशिष्ट
निदानमाह-विशिष्टमित्यादिना। ते च जन्तवः रक्तकणिकानों प्रभवस्थान-
स्थिताः स्वप्रभावाद् रक्तं दूषयन्ति भक्षयन्ति च कणिका - इत्यभिसन्धिः। सोऽयं
नवीनसिद्धान्तो बहुपरीक्षासिद्धः। प्रायिकमुपद्वद्वयमाह-उपद्वाविति ।
यद्यपि नोभयोरुपद्रवयोः सर्वत्र युगपत् सम्भवः, तथापि तयोरेव प्राधान्याद्
द्विवचनेन निर्देशः। चरमावस्थाया प्रायोभावि लक्षणविशेषमाह कोथ इति ।
कश्चित् ततोऽपि मुच्यते इति चित्रम् ॥ १६०. १६४ ॥

विषमज्वरा । ११३ अन्येच एक-तृतीयक-चतुथकाः। (Quotidian Fever, Tertian Fever, Quartan Fever )* अन्येशु कस्त्वहोरात्र एककोलं प्रवर्तते। तृतीयकस्तृतीयेऽहि चतुर्थेऽहि चतुर्थकः ॥ १६५ ॥ गम्भीरधात्वाश्रयिता त्रयाणाञ्चोत्तरोत्तरम् । मृदुर्वा दारुणो वाऽथ द्विधा दृश्यस्तृतीयकः ॥ १६६ ॥ अथ क्रमप्राप्तानन्येा एक तृतीयक चतुर्थकज्वरानाह प्राचीनवचनेन-अन्ये- द्य एक इति । एककालम् एकवारं, नतु तुल्ये काले। एकस्मिन् दिने यस्मिन् काले भवति ज्वरः, अन्यस्मिन् ततः किञ्चित्कालानन्तर किञ्चित्पूर्व वा यातीति नियमस्य प्रायोदर्शनान्। तृतीयकमाह तृतीयक इति । यस्मिन् दिने ज्वरो भवति तत् प्रथम, ततो गणनया दिनमेकं मध्ये परित्यज्य तृतीये दिने तृतीयको नाम ज्वरः प्रवत्तते। एवं मध्ये दिनद्वयं विश्रम्य चतुर्थे दिने यः प्रवर्त्तते स चतुथैकश्चातुर्थको वा। सर्वपाञ्चषामादौ रसरक्ताश्रयिणामपि उत्तरोत्तरगम्भीर- धात्ववंगाहिता स्मर्तव्येत्याह गम्भीरेति। उक्तञ्च सुश्रुते-"सन्ततं रसरक्तस्थः सोऽन्येधु : पिशिताश्रितः । मेदोगतस्तृतीयेऽहि अस्थिमजगतः पुनः । कुर्य्याच्चातु- थकं घोरमन्तकं रोगसङ्कर मिति ( सु० उ० ३६ अ०) । अत्र सन्ततपदं सततकज्वरोपलक्षणम्। धात्वाश्रयनियमश्च प्रायिकगत्या व्याख्येय.। तथाहि- सुश्रुते अन्येद्य ष्कस्य मांसाधयित्वमुक्त, चरके तु "अन्धेद्य ष्क ज्वरं कुर्य्यादपि संश्रित्य शोणितम्”- इति रक्ताश्रयित्वत् ( अपिशब्देन मासस्यापि ग्रहणमिति केचित् )। एव तत्रैव "मासस्रोतास्यनुगतो जनयेत्तु तृतीयकम् । संश्रितो मेदसो मार्ग दोषश्चापि चतुर्थकम् ।”-इत्यपि मतभेदः। (च० चि० ३ अ०)। परम् आदौ रसरक्ताश्रयिणो दोपाः क्रमेण उत्तरोत्तरं मासमेदोऽस्थिमजशुक्रान्तधात्वभिदूपण कुर्वन्तीति चरकसुश्रुताभ्या भिन्नावस्थाविशेषाः वर्णिता इति सुकर समावि. । वस्तुतस्तु अवस्थाभेदेनेव हि विपमाणामन्येषां च ज्वराणा क्रमशो रसरथ-रक्तस्थादि- दशाः सन्भवन्ति । न तु परमार्थत पृथगेव रसस्थ-रक्तस्थादयो ज्वराः । अथ साध्यताभेदेन तृतीयकज्वरस्य चिकित्सोपयोगिभेदद्वयमाह स्वानुभवेन - मृदुर्वति । मृदु स्वल्पलिङ्गः सुखसाध्यश्च, चरकोक्तदिशा मांसान्तधात्वा- त एते पाश्चात्य मतेन "मलेरिया" (Malana) परस्य भेदाः।

११४ सिद्धान्त-निदानम् । कफपित्तात् त्रिकग्राही पृष्ठाद् वातकफात्मकः। बातपित्ताच्छिरोग्राही दोषभेदाच्च स त्रिधा ॥ १६७ ॥ चातुर्थकस्तु विरलस्तथा तत्य विपर्ययः । तो कृच्छ्रसाध्यो विषमा रोगसङ्घरदौ ज्वरो ॥ १६८ ॥ - श्रयणात् । स हि स्वल्पेन कालेन स्वल्पवलेन चोपशाम्यति। दारुणः मूर्छा- प्रलापादिदारुणलक्षणयुतः कृच्छ्रसाध्यश्च - सुश्रुतोक्तदिशा मेदःपर्यन्तधात्वा- श्रयणात्। स चारन्म एव तुल्यवलैर्भपजादिभिरुपक्रान्तश्चेत् प्रशाभ्यति अन्यथा निहन्त्येवाऽतुर सद्य एव, सन्ततरूपेण वा परिणम्य ॥ १६५-१६६ ।। अथ तृतीयकस्य चिकित्साविथिप्रभेददर्शनाय दोषोल्वणताऽनुसारि भेदत्रयमाह कफपित्तादिति। त्रिकं नाम श्रोण्यस्थो लिकास्थ्नो सन्धिस्थानं, तद् गृह्णाति रुजतीति निकग्राही। पृष्टादिति पृष्ठ गृहीत्वा प्रवर्तमानः। ल्यवलोपे पञ्चमी । शिरोनाही शिरोरुजाकरो विशेषेण । सामान्यशिरोरुजा तु प्रायः सर्वत्र विपमज्वरेष दृश्या। ननु विषमज्वराणा सान्निपातिकत्वेऽपि कथं दोषद्वयेन निद्दशः इति चेत् , दोषद्वयस्य उल्वणत्वप्रदर्शनाय विशेषेणाभिधानम्। तदुक्तं "प्रायशः सन्निपातेन दृष्टः पञ्चविधो ज्वरः। सन्निपाते तु यो भूयान् स दोष, परिकीर्तितः ।" इति (च० चि०३ अ०)। किञ्च, त्रिकं वातस्थानं, तस्य कथं कफपित्ताभ्यां ग्रहणमित्याधपि न शङ्कनीयम् । त्रिकस्थो हि वायुयंदा कफपित्ताभ्या विगुणी- क्रियते तदैव तेन निकग्रहणात् । एवं शिर.स्थः स्वभाविकः श्लेष्मा यदा वात- पित्ताभ्यां शोष्यमाणः सजति ललाटकोटरादिषु, तदैव विशेषेण शिरोग्रहणमिति उक्तच-"कुपिताना हि दोषोणां शरोरे परिधावताम् । स्ववैगुण्याद् घ्याधिस्तत्रोपजायते ।"-इति । अनया च दिशा चिकित्साक्रमोऽपि सुगमः। यथा निकग्रहणे विरेचनादिना दोषनिहरणम् , पृष्ठग्रहणे वात-कफविलयनाय रूक्षस्वेदादिप्रयोग, शिरोग्रहणे शिरौविरेचनादिप्रयोगः -इत्यादि । १६७ ।। चातुर्थक ज्वरमाह- चातुर्थकस्त्विति। 'दिनद्वयं विश्वम्य यः पुनरेति स चातुर्थकः' इत्युक्तपूर्वम् । स च विरलः, न प्रायो दृष्टः । तद्विपर्ययश्च "मध्येऽहनी ज्वरयति आदावन्ते व सुश्चति-" इत्येवंरूपः । " इत्येवंरूपः। स विरलतरः । तौ च विषमौ ज्वरौ रोगसङ्करदौ शीघ्रमेव पाण्डुतीसारशोथकामलादिरोगान्तरैः सङ्घीणों कृच्छ्रसाध्यौ स्तः। दिक्। यत्र सङ्ग स चायं - अथ षिषमज्वराणां सामान्यलिङ्गानि । प्रायेण स्युस्त्रयो वेगा अन्येच धकादिके ज्वरे तत्राद्यः शीतकरूपाभ्यां त्वचि श्लेष्मानिलोच्छ्रयात् ॥१६॥ द्वितीये तु तृषा दाहः सम्भ्रमो बमथुस्तथा । विड्भेदो वा क्वचित्-तानि पित्तलिङ्गानि वै विदुः ॥२०॥ ज्वरे विमुच्यमाने तु भृशं स्वेदः प्रवर्तते । निद्रा तन्द्राऽवलादश्च सोऽयं वेगस्तृतीयकः ॥२०१॥ चातुर्थको ज्वरो वहुधा प्रवर्तते दोषकोपभेदादिति तद्विस्तरो भगवता हारीतेनोक्तः। यथा--'चातुर्थको नाम गदो दारुणो विषमज्वरः । शोषणः सर्वधातूनां वलवर्णाग्निनाशनः ॥ त्रिदोषजा विकार, स्यादस्थिमजगतोऽनिल. । कुपितं पित्तमेवं तु कफश्चैवं स्वकालतः ॥ शीतदाहकरस्तीव्रस्त्रिकालं चानुवर्तते । स सन्निपातसम्भूतो विषमो विषमज्वरः ।। ऊ कायस्य गृह्णाति यः पूर्वं सोऽनि- लात्मकः। पूर्व गृह्णात्यध कायं श्लेष्मपूर्वज्वरश्च स." ॥ इति । रक्षितोद्धृते नागभर्तृतन्ते तु इदमधिकं श्रूयते-“मध्यकायं तु गृह्णाति यः पूर्व स तु पित्तजः" इति। वस्तुतस्तु सर्वमेतद् दिग्दर्शनपर सन्तव्य, चातुर्थकज्वरस्य वहुधा वैचित्यदर्शनात्। यत्तु केचित्तृतीयकादिज्वराणामपि विपर्ययानाहुः तश्चिन्त्यम्, विचाराऽसहत्वात् । तृतीयकान्येधु कसततकोना विपर्यया हि कामं विकल्पिता अपि तृतीयकादिसंज्ञा. नातिवर्तन्ते-तहि किमनेन वृथाविस्त'कल्पनेन ॥१६८ ते चैते विषमज्वराः श्रुनिषु 'तक्मन्' संज्ञया निहि टा.। तद्यथा-"नमः शीताय तक्मने नमो रुराय शोचिपे कृणोमि । ये अन्येशु रूमयेधुरभ्येति तृतीयकाय नमो अस्तु तक्मने ॥” (अथर्व० १।२६।४) अथ अन्येधु एकादीनां केपाञ्चिद्विषमज्वराणा सामान्यलिङ्गानि स्वानुभवेन वेगत्रये विभज्व वर्ण यति शिस्यवुद्धिवेशद्याय-प्रायेणेति । प्रायेण भूम्ना, न तु सर्वत्र, अन्यथोपि दर्शनात् । अन्येशु ष्कादिके, अन्येशु ष्क-तृतीयक-चातुर्थकादिपु । तेष्वेव वेगलयस्य भूम्ना दर्शनात्तन्मुखेन निर्देश । वस्तुतस्तु नवीनावस्थाया प्रायः सर्वेष्वपि विषमज्वरेपु त्रयो वेगा. सम्भवन्ति, अन्यत्र सन्ततञ्चरात् । सन्ततेऽपि दृश्यन्त एव ते क्वचिदादौ । तत्र आधः प्रथमो वेग' त्वचि गावचम्मणि श्लेष्मानिलोच्छ्यात् कफवातयोरुत्कटप्रकोपात् शीतकम्पाभ्या प्रवर्तते-इति प्रथमवेगस्य साधारणं रूपम् । तत हि वायो. केवलस्य सश्लेष्मणो वा सार्वत्रिकप्रकोपः, तेन प्रथमवेगे शिरोहृद्गतिरुगादीनि सामान्यवातवरलिङ्गगानि ११६ सिद्वान्त-निदानम् । सर्वे च विषमाः प्रायः पुनरावर्तिनो गताः। अष्टाहात् पनतो वापि कचित् कालान्तरेण वा ॥२०२॥ , वातश्लेष्मज्वरलिङ्गानि वा प्रादुर्भवन्ति । सोऽयं प्रथमवेगो होरामानं होराद्धयं वा प्रायस्तिष्ठतीति स्मर्त्तव्यम्। द्वितीय इति । द्वितीये द्वितीयवेगे ते तुषादाहादिसम्भवः । उक्तञ्च-"त्वकस्थौ श्लेष्मानिलौशीतमादौ जनयतो ज्वरे । तयोः प्रशान्तयोः पित्तमन्ते दाहं करोति च" इति। सम्भ्रमो मनःशरीरयोरस्थिर- त्वम्, कचिद् भ्रमप्रलापौ च । वमथुर्वमिः, स च द्वितीयवेगस्व समाप्तो प्रायः इति तस्य चरमो निर्देशः। विड्भेदः अतीसारः, स च कचिदेव । तान्येतानि पित्तलिङ्गानि विदुर्जानन्ति । विशेषतः पित्तप्रकोपे तु पित्तज्वरलिङ्गानि सर्वाफ्यपि सम्भवन्ति । सोऽयं द्वितीयो वेगो याममातं साधयाम वा तिष्ठति प्रायः। ज्वरे विमुच्यमाने इति तृतीयवेगारम्भः। तदा भृशमतिमात्र स्वेदः, स्वेदनातत्वमिव दश्यते रोगिणः। सोऽयं वेग यामार्द्ध यामं वा तिष्टतीति स्मत्तव्यम् । ननु दाहपूर्वोऽपि विषमज्वर सम्भवति, स कथ नोक्त इति चेत्, सत्यम् । दाहपूर्वो ज्वरो विरल एवेति मूले नाभिहितः । प्रादुभू तश्चासौ कष्टसाध्यतमो भवति। उक्तञ्च –'हावेतौ दाहशोतादौ ज्वरौ ससर्गजौ मतौ। दाहपूर्वस्तयोः कप्टः कच्छसाध्यतमश्च स”- इति । वाग्भटस्त्वाह-"धातून प्रक्षोभयन् दोषो मोक्षकाले विलोयते । ततौ नरः श्वसन स्विधन कूजन् वमति चेटते । वेपते प्रलपत्युष्णैः शीतैश्चाङ्गो हतप्रभः । विसंज्ञो ज्वरवेगातः सक्रोध इव वीक्ष्यते। सदोषशब्दं च शकृद् द्रुवं सृजति वेगवत् ।"इति ( अष्टाङ्ग हु० नि: २१०)। सोऽयं तृतीयवेगस्य लक्षणविस्तरः। तत्र च वेपते इत्यस्य दौर्वल्पहेतोरोषत् कम्पोऽङ्गाना वमनादिश्रमेण वा इत्यर्य', शीताङ्गता च स्वेदकृता। विसंज्ञता वेगवानतोसारश्च कचिदेव, न सनत्रेत्यपि स्मर्त्तव्यम् ॥ १९६-२०१ ।। अथ विषमज्वराणां पुराणीभूताना लिङ्गविशेपानाह-सर्वे चेति। गताः निवृत्तवेगाः तोत्रौपधादिप्रयोगात् स्वतो वा निवृत्तप्राया. । पुनरावर्तिनः, पुनरावर्तनशीलाः। कथ कारं पुनरावर्तन्त इत्याह -- अष्टाहादिति । अष्टाहात् पक्षतो वा अष्टाहं पक्षं वो उल्लंघ्य। ल्यवलोपे पञ्चमी। क्वचित् कालान्तरण मासादिना वेत्यनियमः सूचितः । ननु पुनरावर्त्तकज्वरः पृथगेवश्रूयते यथा चरकः- "व्यायामञ्च व्यवायञ्च स्नान चंक्रमणानि च । ज्वरमुन्को न सेवेत यावन्न वलवान् वातत्रलासक-ज्वरः। ११७ यकृतप्लीहाभिवृद्धिश्च ज्वरे स्याद जीर्णतां गते वलाग्निहानिदैन्यश्च पाण्डता शोथ एव च ॥२०३॥ अथ वातबलासक-ज्वरः !* नित्यं मन्दज्वरो रूक्षः शूनकस्तेन सीदति रतव्याङ्गः श्लेष्मभूयिष्टो नरो वातवलासकी ॥२०॥ आनूपभूमी वसतां स च तण्डुलभोजिनाम् वृश्करोगवतां प्रायो वोलोनां त्वतिदारुणः ॥२०५॥ मवेत्॥ असजातवलो यस्तु ज्वरमुक्तो निपेवते। वय॑मेतन्नरस्तस्य पुनरावर्तते ज्वरः ।। (च० चि० ३ अ० ) इति, भेषज च तत्र किराततिक्तादिकषायं पृथगेवेति चेद् | मैवम् ॥ तोदिप्रतिनिवृत्तो हि पिता पितैव भवति, न पितृव्यः । पुनरावृत्तिश्च मिथ्याहारविहारादोगशेषतो वा विषमज्वरपु मन्तघ्या ||२०|| जीर्णतां गते विषमज्वरे प्रायोभाषि रूपमाह-यदिति । दक्षिणकुक्षिरथो यकृत्. वामकुक्षिस्थश्च प्लीहा स्वभावतः पशुकातोरणान्तः पार्श्वयोः प्रच्छन्नतया तिष्ठतः। तदभिवृद्धिश्च स्पर्शादिवेद्या। अभिवृद्धो यकृत् प्रायेण अङ्गुल्यादि- पीउनात्तत्क्षणे यथा रुज्यते,न तथा प्लीहा । स च कचिद्रुज्यत एव । अति- पुराणावस्थायान्तु अभिवृद्धिः प्लीहा कठिनीभवती ।। अतिकाठिन्यञ्च तस्य कालज्वर सूचकमिप्यवधेयम् । जीर्णता गते पुराणतां प्राप्त ज्वरे । तदुक्त-"निसप्ताहव्यतीतस्तु ज्वरो यस्तनुतां गतः। प्लीहाग्निसादं कुरुते स जीर्णज्वर उच्यते"-इति। अत्र जीर्णता त्रिसप्ताहव्यतीतता। प्लीहाग्निसादगोस्तु अनुपंगमात्रत्वम् , न लक्षणता। केचित्तु “जीर्णस्त्रयोदशदिवस"-इत्याहुः। वलानिहानिर्वलक्षयः अग्निमान्यञ्च । अग्निश्च विषमज्वरिणों प्रायेण स्नेहपचनाक्षमः। पाण्डुता शोणितशीणकणिका- संक्षयात् । उक्तञ्च-"अथवा विपरीपाकं धातुम्वेव क्रमान्मलाः। यान्ति ज्वरमकुर्वन्तस्ते तथाप्यपकुर्वते ॥ दीनता श्वयथुग्लानिं पाण्डुता नान्नकामताम् । कण्डूरुक्कोठपिडका.कुर्वन्त्यग्निञ्च ते मृदुम्"--इति-(च०चि०३अ०) ॥२०३।। अथ वातवलासक नाम शोथसहचरं . विषमज्वरमाह सोचतवचनेन- नित्यमिति । वातवलासको वातवलामकज्वरवान् पुरुषः । वलासो नाम श्लेष्म वातसहितो वलासः सोऽस्यास्तीति वातवलासकः । अर्श आदिभ्योऽच्, वहुव्रीहिर्वा, - Fever of Sub-acute or Chronic Nephritis ११८ सिद्धान्त-निदानम् । अथ प्रलेपक-ज्वरः। (Hectic Fever) प्रातहीनोऽपराह्न यः सायं वाऽपि प्रवर्तते । स्वेदैः प्रलिम्पन् गात्राणि सोऽयं ज्ञेयः प्रलेपकः ॥२०६॥ शोषिणां स भवेत् प्रायो विध्यादिवतां तथा । कफपित्तोल्वणः कष्टो विषमो धातुशोषकृत् ॥२०७॥ संज्ञायां कश्च, तत इणिः । सत्यपि सान्निपातिकत्वे वातकफोल्वणत्वादियं संज्ञा। मन्दज्वरः अलक्ष्यप्रायज्यरः । रूक्षः अस्निग्धत्वनादिः । शूनक. ईषच्छून , सर्वाङ्ग शोथी वा। स च शोथ आदौ मुखे शाखासु च, अधःशाखायोरेव वा दृश्यते, क्रमशश्चोई प्रसर्पति मध्यकाये इति विशेषोऽस्माभिर्वहुशो दृष्टः। स्तब्धाङ्गः, दुर्वलत्वात् सरुजत्वाद्वाऽङ्गानां प्रचेष्टनेऽसमर्थप्रायः। श्लेष्मभूयिष्ठः मुखप्रसेक- शैत्य-कोस-श्वासादिभिरुपद्रुतः, श्लेष्मपूर्णकोष्ठत्वात् प्रायः। अभिवृद्धे तु रोगे फुस्फुसमूलयोरपि सशोथत्वमस्मिन् दृश्यते इति विशेषः । सीदति, हृदयस्य विशेषेण दौवैल्यादुत्तोरत्तरवलहानेश्च हेतो प्रतिदिनमवसन्नो भवति, कालान्तरेण म्रियते च हत्-सादात्। सोऽयं वातवलासको नाम ज्वर कुत्र कीदृशपरिणामो भवतीति स्वानुभवं प्रदर्शयति-आनूपभ्माविति स्पष्टम् । स च ज्वरो वृक्करोग- वता प्रायो भवति, वोलाना तु अतिदारुण. कृच्छसाध्यः ।। २०४-२०५॥ अथ प्रलेपकं नाम विपमज्वरमाह-प्रातरिति। प्रातहीनः स्वल्पतरः प्रच्छन्नो वा। अपराहे मध्याहोत्तरं, सायं सूर्यास्तसमये प्रदोषे वा यः प्रवर्तते प्रकर्षेण उत्तरोत्तराभिवृद्ध्या वत्तते। कि कुर्वन् ? स्वेदः मुहुर्वारंवारं गात्राणि प्रलिम्पन् , पिच्छिलस्वेदजलेन प्रलेपमिव गात्रेषु जनयन् । स च स्वेदः प्रायेण रात्रौ स्नापयतीवातुरम् । ईदृशो यो ज्वरः स प्रलेपको नाम । स केषां भवती- त्योह-शीषिणां राजयक्ष्मिणा विद्ध्यादिवता तथा । विद्रधिर्नाम बाह्य आभ्यन्तरो वा गन्भीरो व्रणशोथो यः पच्यमानः सर्वान् धातून विकरोति । स च यदा वाह्योऽस्थिमासादिसमाश्रित., आभ्यन्तरो यकृदादिसमाश्रितो वा शनैः पच्यते, तदा दोषतयमुदीरयन् धातुविदाहेन प्रायो ज्वर जनयति । सोऽपि पूर्वोक्तलक्षणसामान्यात् प्रलेपकसंज्ञ एव भवितुमहंतीति तस्मिन्नन्तर्भाव्यते। .

अथ श्लपदिक उपरः। ( Filarial Fever ). शाखासु मुष्कयोर्वाऽपि राग-शोथ-रुजाकरः। पक्षान्ते प्रायशो भावी नरः श्लैपदिकः स्मृतः ॥२०॥ अथ औपद्रविकम्वरः। सवषु जीणंरोगेषु ग्रहण्यादौ विशेषतः । दोषत्रये प्रकुपिते स्थादौपद्रविको ज्वरः ॥२०६॥ आदिपदेन वीसाणा ग्रहणम् । विपम इत्युक्त्या अनापि त्रिपमध्यरसामान्यलिङ्गानि पूर्वोक्तानि शीतदाहादीनि स्वल्पाधिकानि भवन्तीत्युन्नेयम् । कष्टः कष्टप्रद । ननु सुश्रुतेनोक्तं-"तथा प्रलेपको ज्ञेयः शोपिणा प्राणनाशनः'- इति, तत् कथं विध्यादिष्वपि स एव ज्वरोऽभिधीयते - इति चेत्। सत्यम् । शोषिणामेव प्रायः प्राणनाशनोऽयं ज्वरो नित्यं प्रवत्तमान., नत्वन्येपामित्याचार्याणामभिप्रायः। बिद्ध्यादिवता तु शस्त्रचिकित्सया सुसाधोऽयम् । अथवा-शोष इति पदं धातुशोपणरोगसामान्यपरं व्याख्येयम् । एप च ज्वर, शोपादीनामनुवन्धरूप एव, न स्वतन्त्र:-इत्यपि स्मत्तव्यम् ।। २०६-२०७ ॥ अथ श्लैपदिकं नाम ज्वरमाह-शाखायामिति । शाखायामूद्ध शाखाया मधःशाखाया वा, तत्रापि कचित् कर प्रकोष्ठयोः पाद-जवयोर्वा, कक्षा-वंक्षण- प्रन्थिषु वा कुनापि। मुष्कयोवृषणयो., तत्कोषीयत्वाच तु विशेषात् । रागो रक्तता विदाहः, शोथ. शूनता, रुजा पीड़ा, तासा कर। पक्षान्ते दर्शपौर्णमास्योः । प्रायशोभावीत्युक्ते कदाचिदेकादश्यादिष्वपि प्रादुर्भवत्येष ज्वरः-इत्यभिप्रायः । सोऽयं कफोवणो विपमज्वर. पूर्वोक्त शोतकम्पादिसामान्यलिङ्गः सम्भवति, प्रायेण स्फुटाऽस्फुट पाद-मुष्कादिशोयस्य अनुवम्धरूपः। आनूपादिभूमिजञ्चायं रोगः श्लोपदो नामेति वक्ष्यते । उक्तं च सुश्रुते –'त्रीण्यप्येतानि जायन्ते श्लीपदानि कफोच्छ्रयात् । गुरुत्वं च महत्त्वञ्च यस्मानास्ति विना कफोत् । पुराणोदक- भूयिष्ठा सर्व षु च शीतला । ये देशास्तेषु जायन्ते श्लीपदानि विशेषतः।" इति (सु० निदान० १२ अ०)। अस्य च रोगस्य रस-रक्तजक्रिमिकृतत्वादितत्त्वं लिङ्गादीनि च यथास्थानं वक्ष्यन्ते ॥ २०८ ॥ अथ औपद्रविकं नाम विषमज्वरमाह-सर्वविति। जीर्णरोगेपु चिरानु- ..

१२० सिद्धान्त-निदानम् । अथ देशान्तरीयज्वगः। देशान्तरेषु दृश्यन्ते शोण-हारिद्रकादयः। ज्वराः केचित् प्रविरलाः, चिन्त्यन्ते नेह तेऽधुना ॥२१०॥ -- वन्धिषु रोगेषु सर्वेष्वपि, बिशेषतस्तु ग्रहण्यादिषु। दोपत्रये वातोदो प्रकुपिते प्रकर्षेण कुपिते सति। औपद्रविको नाम उपद्रवत्वेन सम्भूतः। सोऽयं ज्वरः क्षयादीनामिव नादित एबोनुबन्धभूतः, किन्तु कालक्रमेण प्रादुर्भूतः उपद्रवसंज्ञः- इत्यभिसन्धि । तथाप्रादुर्भूतस्य चास्य विषमारम्भक्रियाकालत्वेन विषमज्वर- सामान्यदर्शनात् विपमञ्बरेष्वन्तर्भावः। कालान्तरेऽपि नियमेनानुषङ्गी च स तत्त- द्रोगाणां कृच्छ्रसाध्यत्वमसोध्यत्वं वा ख्यापयति प्रायः । तद्दष्टान्ताः यथा ग्रहण्यती- सारयोः- 'श्वासशूलपिपासात क्षीणं ज्वरनिपीडितम् । विशेषेण नरं वृद्धमतीसारो विनाशयेत्। इति । पाण्डूरोगे -"ज्वराऽरोचकहल्लासच्छन्तृिष्णाक्लमान्वितः । पाण्डरोगी बिभिपस्त्याज्वः क्षीणो हतेन्द्रियः"....इति । अर्शःसु-"हत्पार्श्वशूलं संमोहश्छदिरङ्गस्य रुग् ज्वरः। तृष्णा गुदस्य पाकश्च निहन्युगु दजातुरम्" । इति दिक् । यत्तूक्तं सुश्रुते-“रोगाणान्तु समुत्थानाद् बिदाहागन्तुतस्तथा। ज्वरोऽपरः सम्भवति तैस्तैरन्यैश्व हेतुभि."-इति, तस्यायमर्थः । रोगाणा नबीनानां पुराणाना वा सम्यगुत्थानादुत्कटतया प्रादुर्भावात् , बिदाहतः पच्यमानविन्ध्यादिहेतोः, आगन्तोवृश्चिक मूषिक-दशनादेश्च निमित्तात् तैस्तैः प्रसिद्धैहे तुभिः, अन्यैरपरैश्च क्षयादिभिः, अपरः उक्तभ्योऽन्यौ ज्वरः सम्भवति । एव च पूर्वोक्तश्लैपदिकादिज्वराः इतरसंहितासु स्पष्ठमनुक्ता अपि सुश्रु तोक्तनयेन सूचिता एव मन्तव्याः ॥ २०६ ।। अथ देशान्तरीयज्वरानद्यापि भारते दुल्लं भानुदिशति-देशोन्तरेष्विति । देशान्तरेपु भारतातिरिक्तदेशेषु । शोणज्वरो' नाम सपदि सर्वकायस्य शोणवर्णप्रदो ज्वरविशेष.। हारिद्रक. शरीरस्य हरिद्रवर्णप्रद. । स च हारिद्रकज्वरः कदाचिद् भारतेऽप्यासीदिति कचिद्वर्णितोऽपि इदोनीन्तु देशान्तरमाने प्रसिद्धाः । प्रविरलाः दुर्लभाः। अत एव हेतोरिदानीमसम्भवात् ते नेह चिन्त्यन्ते लिङ्गादि- वर्णनेन, निष्प्रयोजनत्वाद् । तल्लिङ्गादोनि तु पाश्चात्यचिकित्साशास्त्रेषु स्फुट . वर्णितानि ॥ २१०॥ & Scarlet Fever २ Yellow Fever, अथ ज्वरावस्थाविशेषाः। धात्वाश्रयभेदेन । गुरुता हृदयोत्लशः सदनं छर्य राचको। रसस्थे तु ज्वरे लिङ्ग हैन्यं चास्योपजायते ॥२१०॥ रक्तनिष्ठोवनं बाहो लोहश्छर्टनविभ्रमौ । प्रलापः पिडकास्तृष्णा रक्तप्राप्त ज्वरे तृणाम् ॥२११॥ पिण्डकोद्वेष्टनं तष्णा स्ष्टमूत्रपुरीषता । ऊष्माऽन्तहिविक्षेपौ ग्लानिः स्योन्सांसगे ज्वरे ॥२१२॥ भृशं स्खेउस्तषा मूर्छा प्रलापश्छदिरेव च । दौर्गन्ध्यारोचको ग्लानिमेंदःस्थे चाऽसहिष्णुता ॥२१३॥ सर्वेपामेव ज्वराणामवस्थाभेदेन उत्तरोत्तरगम्भीरधात्वाश्रयणाद् यानि यानि लिङ्गानि सम्भवन्ति तानि पुनर्विशिष्य वर्णयति गुरुतेति । सुश्रुतेप्युक्तं- “वातपित्तकफोत्थाना ज्वराणा लक्षणं यथा । तथा तेपा भिषग् ब्रूयाद् रसादि- प्वपि वुद्धिमान्" इति (सू० उत्त० ३८ अ० )। अस्य ह्ययमभिसन्धिः । ज्वराणां लक्षण यथा दोपक्रमेण विचार्यते तथा रस-रक्ताद्याश्रयणक्रमेणापि विचा- य्यम्, तत्तल्लिङ्गसमुद्भवे तत्तद्धात्वाश्रयणाभिज्ञानादिति । तद्विज्ञानप्रयोजन च पूर्वोक्तवराणां धात्वाश्रयिताज्ञानेन साध्यासाध्यत्वविवेकः चिकित्सापथ- निरूपणञ्चति । गुरुता सबकायस्य गौरवम् । हृदयोत्क्लेशः हृदुपलक्षितदेशस्य अर्थादामाशयस्य उत्कटसङ्कोचः क्षणे क्षणे विवमिषाजनकः । छदिवमिः कफादेः। अरोचकः अन्नस्याऽनभिनन्दनम्। लिङ्गमित्येकवचन- निर्देशात् उक्तलक्षणानि सर्वाणि बहुनि वा युगपद् यथा रसरथज्वर सूचयन्ति, न तु एकैकलिङ्ग पृथगपि तथेत्यर्थाऽवसेयः। एकमग्रेऽप्रि वोध्यम् । दैन्य, नि:- सहायतानुभवः। मोहः प्रमूढत्वं न तु मुर्छा। विभ्रमः, चित्तस्य व्याकुली- भावः। पिड़का. सर्वाङ्ग घु, कचिदेकाङ्ग वा । पिण्डिकोर टनं, जड्वोपश्चिमस्थाना पिण्डिकाख्यपेशीनां वस्ननिष्पीड़नवत् पोड़नानुभव' । सृष्टमूनपुरीपता, मलमूत्रयोः क्षणे क्षणे प्रवृत्तिः। अष्मा, सन्तापाधिक्यं । विक्षेप , अङ्गानां मुहुर्मुदुः प्रचा- लनम्, सर्वाङ्गपेशीनामुष्टनात् । अथ मेद प्राप्तज्वरे लिङ्गम्-पृश स्वेद इत्यादि । स्वेदवाहुल्यञ्च मेदोधातोर्वरोमणा पच्यमानत्वात् । उक्तञ्च-"मुलः स्वेदस्तु सदनभवसादः। , १६ .- १२२ सिद्धान्त-निदानम्। भेदोऽस्थ्यनां कूजनं श्वासो विरेकरछदिरेव च । विक्षेपणं च गोत्राणामेतदस्थिगते बरे ॥२१४॥ तमःप्रवेशनं हिम्का कोलः शत्यं बालिस्तथा । अन्तर्दाहो महाश्वासो मच्छेदश्च मज्जगे ॥२१५॥ मरणं प्राप्नुयात्तत्र शुक्रस्थानगते ज्वरे। शेफसः स्तव्धता मोक्षः शुक्रस्य तु शुक्रस्य तु विशेषतः ॥२१॥ मेदसः” इति । एवञ्च प्रलेपकादिज्वरे यदा यदा विशेषेण मेदःक्षयस्तदा तदा स्वेदवाहुल्यम्। सन्ततज्वरे तु रसरक्तस्ये भूरिस्वेदागमो दुर्लभः। असहिष्णुता- आलोकशब्दादीना सहनाऽशक्तिः, निरन्तर चाञ्चल्यं वा ।। २१०-२१३ ।। भेदोऽस्थनामिति । अस्थ्ना भेदो निर्भेदनवद् रजाविशेष. । कूजन मुहु- मुहुः कातरताव्यजको ध्वनिः । श्वोसो द्रुतश्वसनम् । तमःप्रवेशनं किञ्चिन्मात्र- श्रमेऽपि अन्धकारदर्शनम् । कासः शुष्ककास.। महाश्वास.-उच्च श्वासो यो दूरादपि दृश्यते, न तु मरणपदो महाश्वासः । अन्यथा “महाश्वासोपत्तृष्टस्तु क्षिप्रमेव विपद्यते"-इत्युक्तर्मजागतज्वरस्य सर्वथैव असाध्यता प्रसज्येत । मर्मसु हृदयादिषु च्छेदवत् पीड़ा। तान्येतानि अस्थि-मजगतज्वरलिङ्गानि चातुर्थकज्वरे यक्षमादौ च अवस्थाविशेषेषु लक्ष्यन्ते। शेफस इति । शुक्रस्थानगते शुक्रस्थानं प्राप्ते। किन्तावत् शुक्रस्थानं ?-वृपणौ, पौरुषप्रन्थिः, शुक्रवहे स्रोतसी, शुक्रप्रपे. शेफश्चेति । * अस्ति च सर्वशरीरचरंसूक्ष्मं शुक्रमपरं यत् पौस्त्वचिह्न श्मश्रुलत्वोदि सम्पादयति, तदपेक्षया तु सर्वशरीरमेव शुक्रस्थान सामान्येन । यत्तूक्तं रक्षितेन- “शुक्रस्य सर्वशरीरगतत्वेन शुक्रस्थानाऽसस्सवादिति", तत् शवच्छेदादिपुरस्कृत- शारीरज्ञानाऽभावनिमित्तम् । “यथा पयसि सर्पिस्तु”-इत्यादि प्राचीनवचनस्तु सर्वदेहचर लूक्ष्मशुक्रसारपरम् , न हि तावता प्रत्यक्षदृष्ट शुक्रस्थानं वार्यते । उक्तञ्च चरकेऽपि-"शुक्रवहानां स्त्रोतसां वृपणौ मूलं शेफश्च"-इति (चरक० चि० ५ ज०) शेफसः स्तव्धता चिरानुवन्धो शिश्नप्रहर्षः। शुक्रस्य मोक्ष., मुहुमुहुः क्षरणम् । विशेपत.-इत्युक्तेः शुक्रस्य क्षरणेऽपि शिश्नप्रहर्षो नाफ्यातीति वैचित्यमुन्नेयम् । सोऽयं शुक्रगो ज्वर' सुषुम्नाकाण्डाभिधाते, आलकैविपस्य चरमावस्थायाञ्च दृश्यते ॥ २१४-२१६॥ * तदेतदखिलमस्मदीये प्रत्यक्षशारीरे स्पष्टम् । का १२३ --- ज्वरावस्थाविशेषा। रसरक्ताभिलः साध्यो मेदोषांलगतश्च यः । अस्थिमज्जगतः कृच्छः शुक्रस्थस्तु न सिध्यति ।।२१७॥ वेगभेदेन भेदद्वयम् । ज्वराणां वेगभेदेन सदद्वयमथ व्रवे। अन्तर्दाहोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः ॥२१८॥ सन्ध्यस्थिशूलमरवेदो दोपवच्चोंविनिग्रहः । अन्तर्धेगस्य लिङ्गानि, सोऽयं गम्भीर उच्यते ॥२१६॥ सन्तापोऽह्यधिको बाह्यस्तृष्णादीनां च मादवम् । वहिवेगस्य लिङ्गानि सुखसाध्यश्च स स्वृतः ॥२२०॥ रसरक्तति। ज्वराणामिति । अथ रसस्थ-रक्तस्थत्वादिपरिज्ञानेन साध्यासाध्यतां विविनक्ति चरकीयवचनेन- तल प्रायेण सर्व एव ज्वरो रसस्थः, सामावस्थायाम् । सन्ततज्वरस्तु रसरक्तस्थः। तदुक्तं-"सन्ततं रस रक्तस्थ"-इति । अपरेऽपि सानिपातिकज्वराः रसरक्तस्था एव प्रायः, मांसमेदःस्था वा कालेन धातुपाका- रम्भात्। उत्तरोत्तरगम्भीरधात्यवगाहिता तु विषमज्वराणामेव विशेषात् । अस्थि- मजगतः कृच्छः कष्टसाध्य., नत्वसाध्य । शुक्रस्थस्तु असाध्य एव ।। २१७ ।। ज्वराणा धाप्वाश्रयकृतानि लिङ्गान्युक्ता तन्मूलक स्पष्टतर भेदद्वयमाह- वेगभेदेन ज्वरवेगल्य वाह्याभ्यन्तरताभेदेन । अन्तर्दाहो वहिराल्पत्वेऽपि तीनोऽन्तःसन्ताप । अस्वेदः, स्वेदस्य सर्वथैव अप्रवृत्ति- रीपत्प्रवृत्तिर्वा। दोषव)विनिग्रहः, दोषाणा वर्चसो मलस्य च अवरोधः । सोऽयं गम्भीर इति कथ्यते, तुल्यलक्षणत्वात् । तथाहि पठयते-“गम्भीरो हि ज्वरो ज्ञेयो ह्यन्तहिन तृष्णया । आनद्वत्वेन चात्यर्थं श्वासकासोद्गमेन च"- इति ( सु० उत्तर० ३६ अ० ) आनद्वत्व च दोपव/विनिग्रह एव । गम्भीरत्वञ्च मांसादिगम्भीरधातुप्रविष्टत्वम् तस्मात् यो हि ज्वरश्चरकेऽन्तर्वेग इति पठ्यते स एव सुश्रुते गम्भीर इति। ननु गम्भीरोऽयं ज्वर कतमधात्ववगाही ? न हि रस- रक्तग., तल्लिङ्गासम्भवात्। न च तावन्मांसगः, मासगे सृष्ठमूत्रपुरीपतादर्शनात् । नापि मेदोगः, तत्र भृश स्वेदसम्भवान् । नाप्यस्थिग., अस्थिने विरेकच्छचोदेर्शना- दिति । उच्यते। आमसम्पर्कण किञ्चिद् बैलक्षण्यं मासगादिज्वरेषु दृश्यते, न तु १२४ सिद्धान्त-निदानम् । आमासस्पर्कण भेदत्रयम् । लालापसेको हल्लास-हृदयाशुद्धधरोचकोः । तन्द्राऽलस्याऽविपाकास्य-वरस्यं गोदक्टिकता ॥२२१॥ चुनाशो बहुमूत्रत्वं स्तब्धता बलवान् ज्वरः । आमज्वरस्य लिङ्गानि ल दद्यात्तत्र सेपजम् ॥२२२॥ परमार्थतो भेदः। सादृश्यं त्वस्य मासमेदोऽस्थिगैः सर्वेरपि ज्वरैः स्फुटमेव, इतर- लक्षणसास्यदर्शनात् । तथा चोन्नीयते गम्भीरधात्वनुगोऽयं ज्वरो गम्भीरो नामेति । वहि.गस्य लिङ्गान्याह-सन्तोपोह्यधिक इत्यादि । वाद्यस्त्वाचः । सोऽयं ज्वरो रसरक्तस्थ इयुन्न यम् । स च सुखसाध्य इत्युक्ने गम्भीरज्वरो दुखसाध्योऽसाध्यो वेत्यवगम्यते ॥ २१७ - २२० ॥ अथ ज्वराणा चिकित्साभेदप्रदर्शनाय आमसम्पककृतमवस्थाभेदत्रयमाह प्राचा वचनै-लालाप्रसेक इति। आमलक्षणं चोक्तं यथा "ऊप्मणोऽल्प- वलत्वेन धातुमाधमपाचितम् । दुष्टमामाशयगतं रसमामं प्रचक्षते"- इति । स हि रसधातुरसम्यकपरिणतः सर्वकाये रतन मिश्रीभूय सञ्चरन् वैकृतविशेषयुतां ज्वरावस्था जनयति, सोऽयमामज्वरो नाम । लालाप्रसेकः, मुखे भूरिलालोद्गमः । हृल्लासः, आमाशये पिच्छिलश्लेष्मवाहुल्यादुपस्थितवमनत्वम् । हृदयाशुद्धिः, हृद्योपलक्षित्देशस्य आमाशयस्येति यावत् , अशुद्धिरशून्यता, पूणतानुभवः । अविपाकः अभुक्तस्यापि अजीर्णलक्षणानुवन्धः। आस्य-रस्य, मुखस्य विकृतरसत मुखमाधुर्यादि, विगतरसता वा। स्तब्धता, अन्नादोनां वातपूर्णता, वायोरानु लोम्याभावात् । ज्वरश्च बलवानधिकसन्ताप., आमसस्पःण लब्धवलत्वात् । न दद्यात्तत्र भेपजमिति तु चिकित्सापथमिङ्गितेन प्रदर्शयत्याचार्यः । सेपजमिति चाल मुख्यकपायपरम् , तस्य मात्राबाहुल्येन गुरुतया च दुर्जरत्वात् । लघुभेषजं हि षड़गपानीयादि, स्वल्पमा रसौपधं च आमापाचनाय प्रदत्तं नैतेन वार्यते, तद्वि- धान दर्शनाद् वृद्धवैद्यव्यवहाराञ्च । आमपरिपामश्च सप्ताहेन षड़हेन वा भवति प्रायः, कचित् स्वल्पतरकालेन वा दोषाल्पत्वाद् लवनादिप्रभावाद् वा। तदुक्तं- "सप्ताहेनैव पच्यन्ते दोपधातुगता मलाः । निरामश्चाप्यतः प्रोक्तो ज्वरः प्रायोऽष्टमे- ऽहनि"-इति (च० चि० ३ अ०)। अन्यच्च-“पैत्तिके वा ज्वरे देयमल्पकाल- समुत्थिते । अचिरज्वरितस्यापि भैपज्यं दोषपाकतः"- इति (सु० उत्तर० ३ अ०)। यत्त केचिदमुमेव सप्ताहेनैवेत्यादि वचनं व्याचक्षाण द्विविधा सामा , -- .

ज्वरोवस्थाविशेपाः। १२५ वरवेगोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः । मलप्रवृत्तिरुत्लशः पच्यमानस्य लक्षणम् ॥२२३॥ नतलासता लघुत्वं च गात्राणां ज्वरमाई वाम् । दोपप्रवृत्तिरष्टाहो निरामज्वरलक्षणम् ॥२२४॥ कल्पयन्तोऽश्रुतपूर्वमर्थमस्मादेवाकर्षन्ति, उपदिशन्ति च- "रससोमता तु अष्टाहात परतोऽप्यनुवर्त्तते"-इति, तथाऽनहसूलम् , प्राचां विरुद्धं च। उक्तवचने हि प्राय इत्युक्तः क्वचित् सप्ताहात् परतोऽपि सामतानुवृत्तिरित्यर्थः सुवचः। नत्वनेन द्विविधा सामता-एका रसस्य, अपरा दोषस्य इत्यर्थं. कथमपि प्रतिपाद्यते । रस एव ह्यविपक्क आमसंज्ञा लभते, तत् केयं रससामतेति शशविपाणकल्पना ? वस्तुतस्तु सासता दोषाणामेव, ज्वरादीना च उपचारात्। सा च सप्ताहेनापति प्राय इति प्राचामुपदेशः। यत्र तु सप्तोहात् परतोऽपि दोषाणां सामताऽवशिष्यते, तत्र पाचनमन्यथा शमनमौपधं दीयते- इति सुभिषजा सिद्धान्तः ॥ २२१-२२२ । पच्यमानज्वरस्य लक्षणामाह-ज्वरवेग इति। ननु ज्वरो हि व्याधिः, स कथ पच्यते - इति चेत् , सत्यम्। दोपाणामेव सामाना पच्यमानता ज्वरे उपचर्यते इत्यदोपः। मलप्रवृत्ति' विण्मूलस्वेदाटीना सम्यम् प्रवृत्ति । उत्क्शो विवमिपा ॥२२३॥ निरामज्वरलक्षणम्-क्षुत्क्षामतेति । क्षुतक्षामता क्षुध्रया कातरत्वम् । क्षुदित्युपलक्षणम् । पिपासाया अपि तदानी दर्शनात् । यदुक्त-"क्षुपिपासा- ऽसहोदये"- इति। सम्यककृते हि लड़ने सामताऽपगमात् क्षुत्पिपासयोरस ह्ययोरुदयः प्रसिद्ध । गानाणा लघुत्वं सर्वकायस्य गौरवापगमः, शून्यताऽनुभवो वा। ज्वरमार्दवं सन्तापाल्पत्वम् । दोषप्रवृत्तिः मलमूत्रदोषाणां मलभूतपित्तकफयोर्वा सुखेन वहिः प्रवृत्तिः, यद्वा दोषाणां वातादीना स्वाधिकारेषु स्वाभाविको प्रवृत्तिः। अष्टाहै', दिनाष्टकम् । ननु नेदं लिङ्गम् . न च अष्टाहेन शुद्धिरिति नियम.-इति चेत् । सत्यम् । लक्ष्यतेऽनेनेति लक्षणमिति व्युत्पत्त्या कालोऽपि लक्षणम् । अष्टाहन सामतोपगमश्च प्रायिक । तावान् हि कालः कृतलवनस्य लघुभुक्षानस्य वा सामतापगमाय कल्पते प्राय., न तु यथेष्ट भुञानस्यापि। अत एव वाग्भट:- 'सप्ताहात् परतोऽस्तव्धे सामे स्यात् पाचनं ज्वरे। निरामे शमनं स्तव्धे सामे नौषधमाचरेत"- इति । अस्य यमर्थ । सप्ताहात् परतः निरामता च उभयमपि सम्भवति। तन यदा अकृतलवनादे. पुरुपस्य स्तब्धता -- सामता । - । १२६ सिद्धान्त-निदानम् । तुभेदेन भेदद्वयम् । कालप्रकृतिसुदिश्य प्रोच्यते प्राकृतो ज्वरः । वर्षा-शरद-बसन्तेषु वातायः प्राकृतः ऋसात् ॥ वैकृतोऽन्यः, स दुःसाध्यः प्रायश्च प्राकृतोऽनिलात् । प्राकृतः सुखसाध्यस्तु वसन्त-शरदुभवः ॥२२५२२६॥ मलाना दृश्यते सप्ताहात् परतोऽपि, तत्र निरामय सम्पादनीया लङ्घन' वालुकास्वेदादिना, न तु सुख्यभेषजं कपायादि प्रदेयम् । वन तु स्तब्धता नास्ति, सामताऽवशिष्यते तन आमपाचनं कपायाकिकं दीयत एव । यत्र तु सर्वथाऽपगत सामता, तन शमन ज्वरघ्नोपधादि दीयत इति दिक। केचित्त "ज्वरितं षडहेऽतोते''-इति चरकोयवचनेन सह "सप्तारानात् परमिति" -सौश्रुतवचनं संगमप्य बहुधा वादानुपन्यस्य कटकल्पनया तुल्यार्थमाविष्कृत्य समाधते । तन्नातिमनोरमम् , उसयथाऽपि सम्भवात् ; ; मतभेददर्शनाञ्च । तथाहि क्वचित् पडहेन, क्वचित् सप्ताहेन, कचिदष्टाहेन, क्वापि दशाहेन वा सामतापगमो दृष्टः। मुख्यभेजव्यवस्थाकालमधिकृत्य च दृश्यत एव मतभेद आचार्ष्याणाम् । तथाचोक्तं वाग्भटेन-'"सप्ताहादोषध केचिदाहुरन्ये दशाहत.". एवं चातुरावस्थादर्शनेनैव सामतादि निर्णीयते भेषजकालश्च, न पुनर्दिनगणनामात्रेणेति सिद्धान्त. ॥२२४॥ अथ प्राकृत-वैकृतभेदेन संज्ञाहयं साध्यासाध्यता च विविनक्ति प्राचां वचनैः- कालप्रकृतीत्यादि । कालो वर्षादिः। तस्य प्रकृतिर्वातादिप्रकोपनत्वम् । तोमुद्दिश्य, तदनुसारेण । तदृष्टान्तानाह-वर्षत्यादि। क्रमाद्, यथा वर्षासु वातिकः, शरदि पैत्तिकः, वसन्ते श्लैष्मिकः । तथाच प्राकृतः प्राकृतसंज्ञः । अन्यः कालप्रकृतिवैपरीत्येन जातो वैकृतः, वैकृतसंज्ञः। विकृतस्य भावो वैकृत, तदस्यास्तीति बैकृतः। अश आदिस्योऽच् । स दुःसाध्यः, दुःखसाध्यः । स्वाभाविकदोपकोपातिरिक्ताऽपरदोषकोपसाङ्गात् । क्रिञ्च अनिलाद् वायोर्जातः प्राकृताख्यो यो ज्वरा वोषिकः, स च प्रायो (न तु नियमेन) दुःखसाध्यः। प्रायेणेतिः तथाविध दोषसाऱ्यात् , कायाग्निदौर्बल्यात् , प्रायो लङ्घनाऽसहिष्णुत्वापा। तदुक्तम्--"आदानदुर्वले देहे पक्ता भवति दुर्बलः। स वर्षास्वनिलादीनां दूषणैर्वाध्यते पुनः॥” इति । 'भूवाष्पान्मेघनिःष्यन्दात् पाकोदम्लाजलस्य च वर्षास्वग्निवले क्षीणे कुप्यन्ति पवनादयः ॥” इति च (च० सूत्र० ६ अ०)। इतर- १। अत्र लघन नाऽनशनमन्यत्र लालिपातिकज्वरात्। लघभोजनमपि ल घनमेव । इति ।

ज्वरावस्थोविशेषा.। १२७ प्राकृतयोः सुखसाध्यत्वमाह प्राकृत, इति । स्पष्टम् । तत्र च हेतुरेकदोपजत्वं लड्वनासहिष्णुत्वञ्च । उक्तञ्च--"कफपित्ते द्रवे धातू सहेते लवनं महत्" इति । इदञ्चानाऽवधेयम् । द्विविधः खल्विह दृश्यते प्राचामृतुविभागो-- वर्षप्रधान' शीतप्रधानश्चेति। तन पड़तवो वर्षा-शरद् हेमन्त-वसन्त-ग्रीष्म-प्रोवृपः-इति वर्षप्रधानो विभाग.। वर्षा शरद-हेमन्त-शिशिर-वसन्त-ग्रीष्माः- इति शीतप्रधानो विभागः । तयोराद्यस्य प्राधान्य सुश्रुतेऽभिहित, द्वितीयस चरके उपदेशस्थान भेदात् । तथाहि सुश्रुत.-' इह तु वर्षा-शरद्-हेमन्त-वसन्त-ग्रीष्म प्रावृष इति षड़तवो भवन्ति दोपोपचय-प्रकोपोपशमनिमित्तम्। ते तु माद्रपदाधन द्विमासिकेन व्याख्याताः। तयथा-भाद्रपदाश्वयुजौ वर्षा, कार्तिकमार्गशीर्षों शरत् पौषमाधौ हेमन्तः, फाल्गुनचैत्रौ वसन्तः, वैशाखज्यैप्टौ ग्रीष्मः, आपादश्रावणौ प्रावृडिति ।" (सु० सूत्र० ६ अ०)। चरके तूक्तम् - "इह खलु संवत्सरं पड़ङ्गमृतुविभागेन विद्यात् । तत्रादि- त्यस्वोदगयनमादानञ्च त्रीनृतून शिशिरादीन् ग्रीष्मान्तान् व्यवस्थेत् । वर्षादीन् पुनर्हेमन्तान्तान् दक्षिणायनं विसर्गश्च ।” इति (च० मूत्र० ६ अ०)। अनादान- मादानकालः, विसर्गो विसर्गकालः। ऋतुगणना च चरके माघादारभ्य शिशिर . मुखेनेति विशेषः। ईदृश ऋतुविभागभेदस्य हेतुश्च काश्यपेनोक्तः- "भूयो वर्षति पर्जन्यो गङ्गाया दक्षिणे तटे। तेन प्रावृष-वर्याख्यौ ऋतू तन प्रकल्पितौ। गङ्गाया- उत्तरे कूले हिमवजलसङ्गमे। भूयः शीतमतस्तेषा हेमन्तशिशिरावृतू ।" इति । आचाव्यंभावमिश्रोऽप्याह- "गङ्गाया दक्षिणे देशे वृष्टहुलभावतः । उभौ मुनिभिरा ख्याती प्रवृड्वाभिधावृत्। तस्या एवोत्तरे देशे हिमप्रचुरभावत'। एतावुभौ समाख्यातौ हेमन्तशिशिरावृतू ।" इति । इदञ्चाखिल भारतवर्षविषयम् । इतर- देशेषु तु कचिद्धिमप्रधानता, कचिदुष्णप्रधानता वा, तेन तत्र तत्र शीतोष्णवर्ष- लक्षणोऽन्यविधः कालविभागो दृष्टः । तत्र च दोषोपचयप्रकोपोपशमाः कायस्वा लक्षण्येन वेदितव्याः। इद च वर्षप्रधानमृतुविभागमुद्दिश्य शाङ्गधराचार्य्यस्य संग्रहवचनम्-"ग्रीष्मे सञ्चीयते वायु प्रावृटकाले प्रकुप्यति । वासु चीयते पित्तं शरत्काले प्रकुप्यति । हेमन्ते चीयते श्लेष्मा वसन्ते च प्रकुप्यति । प्रायेण प्रशमं याति स्वयमेव समीरणः। शरत्काले, वसन्ते च पित्तं, प्रवृद्धृतौ कफ. ॥” इति । ननु वासु वायुः कुप्यतोति श्रुयते तदिह कथमुक्तं वर्षालु चीयते पित्तमिति चेत्, श्रुणु। वर्षप्रधानविभागे वर्षापदं प्रावृट्परम् । अथवा वर्षासु वात- १। मुश्रुतेन हि धन्वन्तरिवचनमुपनिवद्धम्। धन्वन्तरिश्च काश्यामुपदिदेश । तत्र वर्षप्रधाना ऋतव । अग्निवेशोपदेशस्तु पाञ्चालभूमौ बभुव, तत्र शीतप्रधाना मृतव। me एवञ्च वर्षप्रधान १२८ मिद्धान्त-निदानम् । ज्वरमोक्षस्य विध्यम् । द्विविधो ज्वरभोदः स्याद दारुगोऽदारुणस्तथा । दारुणस्तोत्रसंक्षोसात् स्वेदमात्राददारुणः ॥२२७।। वहुदोषस्य बलवान् प्रायेणाऽभिनवो ज्वरः । स क्रिया-दोपपत्या चेट विमुञ्चति सुदारुणम ॥२२८॥ प्रकोपोऽनुवर्तत एव स्वलक्षणसामान्यात्, पित्तञ्च सञ्चीयते अन्तराऽन्तरा धर्मा- धिक्यात्, कफश्च स्तोकेन शीतवातारबुसम्पर्कात् । तथायुक्तं-"वास्वग्निवले क्षीणे कुप्यन्ति पवनादयः ।" इति (च० सूत० ६ अ०)। शीतप्रधानविभागे तु श्रीष्टले सञ्चितो वायु. कुप्यति वास्वेव, सञ्चीयते च पीत्तमने शरदि कोपाय, श्लेष्मा च स्तोकेन पूर्वोक्तहेतोः। स च कफः शरदि पित्तप्रभावेन शुष्यमाणोऽपि पुनः सञ्चीयते प्रचुरतर हेमन्तशिशिरयोः, कुपति च भृशं वसन्ते । देशेषु प्रावल्य वातप्रधानरोगाणां शीतज्वरादानाम् , शीतप्रधानदेशेषु तु श्लेष्मप्रधान- रोगाणां श्वसनकज्वरादीनामित्यपि समुत्नेयम् ॥ २२५–२२६ ।। अथ ज्वरमोक्षस्य प्रकारद्वय दर्शयति चरकीयवचनैः द्विविध इत्यादि। दारुणः अकस्मात् प्रवृत्तः, यथा केषुचित् सान्निप्रातिकज्वरेषु सप्तमादिदिनेषु प्रचुरस्वेदोद्- गमादिना । अदारुणः शनैः शनैः प्रवृत्त । तन दारुणो ज्वरमोक्षः, तीव्रसक्षोभात् , तीब्रसंक्षोभं पुरस्कृत्य प्रवर्तते । अदारुणस्तु स्वेदमानात्स्वेदमान पुरस्कृत्य, विनव सक्षोभादित्यर्थः। तीब्रसंक्षोभश्च भूयिष्टस्वेद-मोह-दारुणदौर्बल्यादिरूपः। तद्- दृष्टान्तश्च यथा श्वसनकचरे दर्शित.-"सप्तमे दिवले प्रायश्चाष्टमे नवमे तथा । अकस्माज ज्वरनिर्मुक्तिः स्वेदप्राचुर्यमेव च । प्राणा वा तत्र मुच्यन्ते रोगी वा तत मुच्यते ॥” इत्यादि। यच्चोक्तम्- “सप्तमी द्विगुणा चैव नवम्येकादशी तथा। एषा त्रिदोषमर्यादा मोक्षाय च वधाय च'- इति, तदपि दारुणज्वरमोक्षाभिप्रायेणैव । किञ्च विषमज्वराणामपि दौपिकत्वात् कदाचिद् दारुणो मोक्षः, यथा तृतीयकादिषु प्रायः । उक्तश्च - "ज्वरप्रमोक्षे पुरुप. कूजन् वमति चेष्टते। श्वसन् विवर्ण स्विन्नाङ्गो वेपते लोयते मुहुः ।" इत्यादि ( च० चि० ३ अ० ) ॥२२७-२२८॥ दारुणज्वरमोक्षस्य हेतुमुद्दिशति-बहुदोषस्येति। बहुदोषस्य तीवोद्रिक्त दोषस्य आतुरस्य । अभिनवो नवीनः, न तु जीः । वलचान तीव्रसन्तापादियुत' तादशधरः । क्रियादषोपक्तया--क्रिया सद्योज्वरा हं कर्म स्वेदन-विरेचनादि, तथा । १। दारुणमोक्ष.-CISIS २। अदारुणमोक्ष -Lysis पिज्वरलक्षणम् । कृत्वा दोषवशाहगं क्रमादुपरमन्ति ये। तेपामदारुणो मोनो ज्वराणां चिरकारिणाम ॥२२६॥ विज्वरलक्षणम् । विगतक्लमसन्तापमव्यथं विमलेन्द्रियम् । युक्तं प्रकृतिसत्त्वेन विद्यात् पुरुषमज्वरम् ॥२३०॥ दोषपक्तया स्वता दोषपाकेन वा हेतुना, चेद् यदि विमुञ्चति, तर्हि सुदारुणं यथा तथा विमुश्चति प्रायेण । अदारुणो मोक्षः कदा भवतीत्याह-कृत्वति । दोषवशाद् दोषस्वभावमा- श्रित्य वेगं सन्तापादि कृत्वा ये क्रमादुपरमन्ति शनैर्विरमन्ति, तेपो चिरकारिणां दीर्घकालव्यापिनां ज्वराणां मोक्षः अदारुणः। ईदृशश्च ज्वरमोक्षः प्रोक्ते आन्त्रिक- ज्वरे स्पएः, अपरेषु च केपुचित सान्निपातिकज्वरेषु ।। २२६ ।। अथ विज्वरलक्षणमाह -विगतेति । ननु ज्वरो हि सन्तापलक्षणः सन्ता- पापगमञ्च हालिकादिभिरपि स्पर्शमात्रेण वेद्य, तत् किमनेन विज्वरलक्षणकथनेनेति चेत्। मैवम्। वाह्यसन्तापापगमेऽपि आभ्यन्तरसन्तापस्य बहुधा सूक्षमत्वेना- वस्थितस्य दर्शनात् स्पष्टावगमार्थमभिधानम् । यत्र यत्र चैवमारोग्ये सन्देहः सम्भवति भिषजा, तत्र तत्रैव वक्ष्यते नैरुज्यलिङ्गमग्रेऽपि, यथा अतीसारादिषु । क्लमः अकृतश्रमस्यापि श्रमानुभवः। सन्तापो दैहिकतापाधिक्यम्। व्यथा मानस सन्तापविशेषः। विमलेन्द्रियम् अनाविलेन्द्रियशक्तिम् । प्रकृतिसत्त्वेन स्वाभाविक- वृत्या स्थैर्यादिना क्षुत्पिपासादिना च युक्तम् ॥ २३० ।। इति-वैद्याव स विद्यासागर-सरस्वती-कविराजोपाधिक- महामहोपाध्याय-स्व० गणनाथ सेन-शर्मणः कृती सिद्धान्तनिदाने ज्वराधिकारः। चतुर्थाध्यायः समाप्तः ।

लोऽयम् . श्रीमन्नारायणकरुणावतार श्रीकृष्णचैतन्य तनयोकृत धन्यजनि- श्रीमद्ररघुनन्दनगोस्वामिवंशावतंसस्य निखिलरोढाभूमिसौरभप्रभव श्रीखण्डपुरादिवास्तव्यस्य प्राच्य प्रतीच्यचिकित्सातन्त्रपारङ्गत श्रीकुञ्जविहारिकविराजपौत्रस्य विद्याकल्पगुमेत्यन्वथनामधेय-सर्वातन्त्रस्वतन्त्र- वाराणसीभूषण-सर्वपण्डितमान्यचिकित्सक शरोमणि श्रीविश्वनाथोपम श्रीविश्वनाथकविराजात्मजस्य सरस्वती-प्राणाचार्य विद्यासागर, एम् ए, एल-एम् एस् इत्युपाधिकस्य महामहोपाध्याय स्व० गणनाथ सेन-शर्मणः नवीनकृतौ सिद्धान्तनिदाने प्रथमखण्डम् समाप्तम् । ॥ श्रीकृष्णचरणार्पणमस्तु ॥

No text on this page.

Sidhantnidanam Part 1

Author
Gannath, Sain Kaviraj
Title
Sidhantnidanam Part 1
File name
Sidhantnidanam Part 1
Text
OCR done
Citation
1950
Published
2010/06
Publisher
Culcutta, Kalpataru Palace Chittaranjan Avenue
Language
Sanskrit
Pages
134
Library
Prakrit Bharati Academy, Jaipur
DLI number
327584
Barcode
99999990003168.00
Scanning centre
Banasthali University
Digital publisher
Digital Library of India
VMLT id
UgzVKSM9db8
Download PDF

Sidhantnidanam Part 1