S.P College, Srinagar
The Svacchandatantram Vol Vi
Front matter
No text on this page.
PRATAP
verv
Use
VUT
Written
TO THE READER.
KINDLY
this book
carefully It the book is disfigured
marked on
while
possession the book
have
be
replaced by a new copy a paid for in
the book bo volume of set
set of
which single volumes are not available the
price of the whole set will be realised
case
C. L. 29,
COLLEGE
...
LIBRARY
Class No.......89.1.2.3.8......
Book No......$.97..k............2
Acc. No.......
109.56..........
No text on this page.
A DEPARTMENT JAMMU
EHL Ho vis viwe
Washmir Series of Texts and studies.
No. LVI.
THE
SVACCHANDA TANTRAM
WITH COMMENTARY
BY
KSHEMARĀJA
EDITED
BY
PANDIT MADHUSŪDAN KAUL SHASTRĪ, . a., 1. 0. L.
VIDYĀVĀRIDHI,
Superintendent Research Department,
His Highness' Government,
JAMMU & KASHMIR,
SRINAGAR.
Published under tho Authority of the Government of
His Highness Rājarājes'vara Mahārājādhiraja
s'ri MAHĀRĀJA HARISINGHJI BAHADUR,
0.C. S. I., O. C. J. E., K. C. V.O.,
MAHĀRĀJA OF JAMMU AND KASHMIR.
Volume YI
& KA
Rouvaa
BOMBAY:
PRINTED AT THE `NIRNAYA SAGAR' PRE88.
1935. A.D.
No text on this page.
THE KASHMIR SERIES
OF
TEXTS AND STUDIES.
No text on this page.
Hashmir Series of Texts and Studies.
No. LVI.
THE
SVACCHANDA TANTRAM
WITH COMMENTARY
BY
KSHEMARĀJA
EDITED
BY
PANDIT MADHUSŪDAN KAUL SHASTRĪ, H. A., M. O. L.
VIDYĀVĀRIDHI,
Superintendent Research Department,
His Highness' Government,
JAMMU & KASHMIR,
SRINAGAR.
Published under the Authority of the Government of
His Highness Rājarājes'vara Mahārājādhiraja
s'ti MAHĀRĀJA HARISINGHJI BAHADUR,
0. C. S. l., G. C. 1. E., K. C. V.0.,
MAHĀRĀJA OF JAMMU AND KASHMIR.
Yolume VI
QMENT JAMMO
&
TASHAME
mis Davis
BOMBAY:
PRINTED AT THE ‘NIRNAYA Sagan' Press,
1935. A. D.
10956
'-
6
श्रीसोमानन्दनाथप्रभृतिगुरुवरादिष्टसन्नीतिमार्गो
लब्ध्वा यत्रैव सम्यक्पटिमनि घटनामीश्वराद्वैतवादः ।
कश्मीरेभ्यः प्रसृत्य प्रकटपरिमलो रञ्जयन्सर्वदेशान्
देशेऽन्यस्मिन्नदृष्टो घुसृणविसरवत्सर्ववन्द्यत्वमाप ॥ १ ॥
तरत तरसा संसाराधि विधत्त परे पदे
पदमविचलं नित्यालोकप्रमोदसुनिर्भरे ।
विमृशत शिवादिष्टाद्वैतावबोधसुधारसं
प्रसभविलसत्सद्युक्त्यात्तःसमुत्प्लवदायिनम् ॥२॥
MUV39383HLOEMiniwwS
30
काश्मीर-संस्कृतग्रन्थावलिः।
ग्रन्थाङ्कः ५६
श्रीखच्छन्दतन्त्रम् ।
श्रीमहामाहेश्वराचार्यवर्य-श्रीक्षेमराजकृतोद्दयोताख्यटीकोपेतम् ।
श्रीराजराजेश्वर-महाराजाधिराज-काश्मीरनरेन्द्र-श्रीहरिसिंहजी-
बहादुराज्ञया
रिसर्च-कार्यालयाध्यक्ष-पण्डित-मधुसूदनकौल-शास्त्रिणा
उद्दिष्टकार्यालयस्थेतरपण्डितसहायेन
संशोधनादिसंस्करणोत्तरं
संपाद्य
मुम्वय्यां 'निर्णयसागर' मुद्रणालये मुद्रापयित्वा प्राकाश्यमुपनीतम् ।
पष्टो भागः
JAMMO
DEPAL
&
Kundard
संवत् १९९२.
काश्मीर-श्रीनगर स्वान्दः १९३५.
(अस्य प्रन्थस्य मुद्रापणाद्यधिकाराः प्रोक्तमहाराजवर्यः स्वायत्तीकृताः सन्ति)
( All rights reserved.)
Printed by Ramchandra Yesu Shedge, at the 'Niroaya-sagar' Press,
26-28, Kolbhat Lane, Bombay.
Published by Pandit Madhusudan Kaul Shastri, M. A, 4. 0. Lo
for the Rescarch Department,
Jammu and Kashmir Goveroment, SRINAGAR.
अथ श्रीस्वच्छन्दतन्त्रम् । श्रीमन्महामाहेश्वराचार्यश्रीक्षेमराजकृतोड्योताख्य- विवरणोपेतम्। چه ( एकादशः पटलः ) सृष्टि... स्वस्वरूपात्मशक्त्यैव स्वाभिन्न संसृजञ्जगत् । संहरंश्च जयत्येकः स्वच्छन्दो बोधभैरवः ॥ १॥ यदुक्तम् 'अत्रारूढस्तु कुरुते शिवः परमकारणम् । ...॥' (१०।१२५८) इत्यादि, तत् निर्णाययिषुः पटलसंगतिं कुर्वती श्रीदेव्युवाच मया ज्ञात- स्त्वत्प्रसादात्सुराधिप । जगत्सृष्टिस्त्वया देव नतु वर्णिता ॥१॥ अध्वायं तु सूचिता २ स्वच्छन्दतब्रम् । [ ११ पट० अयमिति भुवनात्मा । जगदिति देहगत- बाह्यगततत्त्वाध्वरूपमेव । सूचितेति 'नादविन्द्वादिकं कार्यमित्यादिजगदुद्भवः ।' (१०।१२६४) इति ॥ १॥ अतश्च त्वं अध्वसृष्टिं महादेव कथय स्व प्रसादतः। हे महादेव अशेषविश्वप्रभो द्योतनादिस- तत्त्व, व आत्मन् , प्रसादतोऽन्त र्मल्यगम- नात् तात्त्विकार्थानिगृहनेन अध्वनः सृष्टिमु- त्पत्तिं कथय । सृष्टिमित्युपलक्षणपरं स्थिति- संहारयोरपि अभिधास्यमानत्वात् ॥ एतन्निर्णयाय श्रीभैरव उवाच योऽसौ सूक्ष्मः परो देवः कारणं सर्वगः शिवः॥२॥ निमित्तकारणं सोऽत्र कथितस्तव सुव्रते। योऽसाविति प्रतिपादितनिःसामान्यचिदा- नन्दघनः, परः सूक्ष्म इत्यन्तःकरणस्यापि अगो- ३ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । mm , चरः, देवो द्योतनादिसतत्त्वः, कार्यते स्वशत्या आभास्यते अनेन कार्यमिति कारणं कर्ता विशे. षानुपादानात् सर्वत्र, तथा कार्यतेऽनेन कार्य, कार्यतेऽस्मिन्निति च कारणं तेन स्वतन्त्रः कर्ता वशक्त्यैव स्वभित्तौ सर्वमाभासयतीत्यर्थः । य- द्वक्ष्यति 'स्वतेजसा वरारोहे..............।' (१११४) इत्यादि । यच्च तदाभासयति, न तत् व्यतिरि- कमित्याह सर्वगः इति सर्व गच्छति प्राप्नोति सर्वात्मतां गृह्णाति, अथच तद्गच्छति आभा. सयति अधितिष्ठति च तावदशेषव्यापकतदना- च्छादितखप्रकाशतया स्वप्रकाशस्य अस्य सिद्धौ न वराकं प्रमाणमुपयुक्तं प्रत्युत एतदा. यत्ता प्रमाणादिवस्तुसिद्धिः । अतश्च शिव उन्मीलननिमीलनाद्यवस्थावपि श्रेयःस्वभाव एव इत्येवंभूतो यः, सोऽत्र जगति कर्तव्ये निमित्तकारणं तव सुव्रते तदद्वयसमापत्तिका- रणभूते कथितः, नतु व्यापकत्वनित्यत्वमात्रेण दिक्कालादिसाधारणेन, नापि उपादानाद्यपेक्ष- कार्यजनकत्वेन कुम्भकारादिसाधारणेन रूपेण ४ स्वच्छन्दतब्रम् । [११ पट० यथा अन्येषामद्वैतोपदेशायोग्यानामुक्तः। एव- मीश्वरस्यानीश्वरत्वमेवोपेतम् । यथोक्तमन्यैः 'ये त्वीश्वरं व्यपदिशन्ति निमित्तहेतुं दत्तस्तिलाञ्जलिरमीभिरिहेशितायै । अन्याङ्गतोपगमनेन वशीकृतस्य कामीश्वरस्थितिममी वत संगिरन्ते ॥ इति । तस्माद्यथोक्तमेव साधु ॥ ननु निष्प्रयोजना न प्रेक्षापूर्वकारिणां प्रवृ- त्तिरस्ति, नच अस्य इयजन्तुचक्रायासदायां सृष्टौ किमपि प्रयोजनमुत्पश्याम इत्याशङ्का शमयितुमाह अकामात्संसृजेत्सर्व जगत्स्थावरजङ्गमम् ॥३॥ स्वतेजसा वरारोहे व्योम संक्षोभ्य लीलया । अकामात् परिपूर्णत्वेन फलानभिलाषात् , लीलया स्वतन्त्रक्रीडयैव, सर्व स्थावरजङ्गमं जगत् जीवात्मकं निर्मिमीते; नतु जीवा नाम नित्याः केचित्संभवन्ति । एवं हि अनादिमति ५ ४ श्लो० ] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । संसारे जीवानामानन्त्येऽपि प्रतियुगमेकैक. मुक्तौ संसारोच्छेद एव स्यात् । तेन परमेश्वर एव स्वच्छस्वच्छन्दचिन्मात्रमूर्तिः 'स्वशक्तिप्रचयोऽस्य विश्वम्' ( ३।३० ) इति शिवसूत्रोक्तस्थित्या स्वरूपगोपनासतत्त्ववे- द्यवेदकप्रपञ्चरूपं जगत् दर्पणनगरवदनतिरि- क्तमपि अतिरिक्तमिव आभासयति । एवं च न कश्चिद्व्यतिरिक्तो जीवपदार्थोऽपि यदाया- सकत्वेन भगवतोऽप्रेक्षापूर्वकारिता स्यात् । ईदृशं च जगदसौ न व्यतिरिक्तेन कारणेन केनचित् प्रकाशयति, अपितु स्वतेजसा 'तस्य देवातिदेवस्य परबोधस्वरूपिणः । विमर्शः परमा शक्तिरवियुक्तो यया प्रभुः॥' इति श्रीकालिकाकुलोक्तस्थित्या व्योम उन्म- नावरणं स्वस्वरूपमेव संक्षोभ्य 'अत्रारूढस्तु कुरुते शिवः परमकारणम् ।' (१०।१२५८) इत्युक्तदृशा व्यापिनीशक्तिसदाशिवादिभावा- भावात्मकस्वशक्तिभित्तिभूतसमनाशक्तिभूमि- कामाश्रित्य समनात्मकस्वशक्तिभित्तौ स्वशक्त्यैव परमेश्वरेण जगत् भास्यते इति तात्पर्यम् ॥
६ स्वच्छन्दतन्त्रम् । [११ पट० अतश्च यत्प्राक् कारणशब्दस्य अर्थत्रयं व्याख्यातं, तदेव इह स्फुटीभूतम् , अत एव अत्र न व्यतिरिक्तमुपादानं किमपि, अपितु तदेव व्योमेत्याह उपादानं तु तत्प्रोक्तं संक्षुब्धं समवायतः॥४॥ तदेव व्यापकावरणस्वखरूपं व्योम समवा- यतो नित्याविभिन्नविमर्शमयपराशक्तिसंबन्धात् संक्षुब्धं भावितसंक्षोभं योग्यस्पर्शभूमिकाप्र- दर्शनेन किञ्चिच्चलमिव इदन्ताभासोल्लासभि- त्तिभूतत्वावभासनेन उच्छलदिव । वस्तुतो ह्युन्मनाख्यैव परविमर्शमयी पारमेश्वरी स्वात- व्यशक्तिरहन्तैकरसा स्वरूपगोपनक्रीडा सदा- शिवानाश्रितपदात्मकसर्वभावाभाससूत्रणभि- त्तिकल्पसमनारूपतया स्फुरति । इत्थं च कर- णाधिकरणोपादानरूपमशेषं विश्वकर्तुः परमे- श्वरादभिन्नमेवेति प्रतिपादितं भवति ॥४॥ यथा च भगवता प्रकाशमानतया खाव्य- तिरिक्तमपि व्यतिरिक्तमिव जगदाभास्यते, ५ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । तथा तन्मध्यनियतपौर्वापर्यावभासात्मा महा- मायाशक्तिभूमौ मायापदे च विचित्रः कार्यका- रणभावोऽपि प्रदर्श्यते । यथोक्तं प्रत्यभिज्ञायां 'मूर्तिवैचित्र्यतो देशक्रममाभासयत्यसौ । क्रियावैचित्र्यनिर्भासात्कालक्रममपीश्वरः ॥' (२।१।५) इति ॥४॥ तदेतदुपपादयितुमाह तस्माच्छ्न्यं समुत्पन्नं शून्यात्स्पर्शसमुद्भवः। तस्मान्नादः समुत्पन्नः पूर्व वै कथितस्तव ॥५॥ तस्मात्समनाशक्तिरूपायोम्नःशून्यमनाश्रित- भट्टारकान्ताशेषविश्वावभासप्रशमाभावावभा- सात्मकव्यापिनीपदमुत्पन्नम्। ततोऽपि प्रतिपा- दितरूपप्रसुप्तभुजगाकारशक्तितत्त्वात्मा स्पर्शः। इत्थमेकैव परमेशेच्छाशक्तिः परसूक्ष्मस्थूलरू- पतया मेयाभाससूत्रणामयी समना व्यापिनी शक्तिरिति चोच्यते एकस्या अपि इच्छायाः सूक्ष्मरूपज्ञानक्रियाशक्तिसंभेदेन त्रित्वात् । त- ८ स्वच्छन्दतन्त्रम् । [ ११ पट० स्मादपि शक्त्यात्मनः स्पर्शात् शून्यरूपवाच्य- वाचकोभयात्मकस्य जगतो मध्यात् प्रथमं सम- स्तवाचकाविभागमयो नाद उत्पन्नः। संशब्देन उत्पाद्यमानस्य सर्वस्य कार्यस्य शक्त्यात्मकका- रणभित्तिसंलग्नता उच्यते । पूर्वमिति नादा- वरणरूपणाद्यवसरे ॥ ५॥ यश्च अयं नाद उक्तः अष्टधा स तु देवेशि व्यक्तः शब्दप्रभेदतः। स्वयमव्यक्तध्वनिरूपोऽपि वक्ष्यमाणैर्भेदैर- ष्टधा व्यक्तरूपतां प्राप्तः ॥ तद्यथा घोषो रावः स्वनः शब्दः स्फोटाख्यो ध्वनिरेव च ॥६॥ झाङ्कारो ध्वङ्कृतश्चैव अष्टौ शब्दाः प्रकीर्तिताः। एते च धर्मशिवाचार्येण स्वपद्धता 'एतेषां लक्षणं वच्मो गुरुपारम्परागतम्' ८ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । ९ इत्युपक्रम्य इत्थं व्याख्याताः 'श्रवणाङ्गुलिसंयोगाद्यः शब्दः संप्रवर्तते । दीप्तवह्निस्वनाभासः स शब्दो घोप उच्यते ॥ तदन्तेऽनुभवो यस्य ईपन्मर्म विसर्पिणः । भिन्नकांस्यनिभो रूक्षः स रावः स्यात्तदन्तगः ॥ ततो वंशध्वनिप्रख्यो निवाते सौम्यवर्पवत् । स नादः स्वन इत्युक्तस्तत्परः कथितो ह्यसौ ।। चतुर्थः स तु वै शब्दः सर्वशब्दभवारणिः । आत्मानं रावयन्नादः खे यथा भ्रमरीरवः ॥ वाक्यस्य स्फुटतां धत्ते वर्णभेदावभासकः । स्फोट इत्युदितो नादः पञ्चमः शास्तृभिस्ततः ॥ ततोऽतितानधर्मित्वान्नादः श्रोत्रसुखावहः । विपश्याः पञ्चमी तत्रीं हत्वा तीव्रप्रयत्नतः ॥ यथा व्यज्यत आकाशे स पष्ठो ध्वनिसंज्ञितः । सर्वतत्रीसमाघाताद्वीणायामिव साधु यः ।। मृदुस्तब्धं निनदति झाङ्कारः सप्तमस्त्वसौ । घण्टानिनादानुकृतिः कदाचिद्यज्यतेऽन्यथा ॥ तुङ्गमेघध्वनिनिभः सोऽष्टमो ध्वकृतः स्मृतः।' एषामष्टानामपि नवमस्तु महाशब्दः सर्वेषां व्यापकः स्मृतः॥७॥ सदा यस्मा- सर्वभूतेष्ववस्थितः। नदत्यसौ २ १० स्वच्छन्दतन्त्रम् । [११ पट० 'शक्तिमध्यगतो नादो वंशनादान्तसंनिमः।' इति यो नादः प्रतिपादितः, स महाशब्दः सर्वेष्वन्तःसंज्ञबहिःसंज्ञेषु स्थावरादिदेवयोन्य. न्तेषु भूतेषु अवस्थितः । अत एव हि 'नादाख्यं यत्परं वीजं सर्वभूतेष्ववस्थितम् ।' इत्याद्युक्तिप्रतिपादितया नादाख्यया विमर्शस- त्तया सर्वेषां सत्त्वम् ॥ यत एवमतः तस्मात्सदाशिवो देवो व्यक्तो वै दृक्रियात्मकः ॥८॥ स एव नादो ज्ञानक्रियारूपसदाशिवभहा- रकाभिव्यक्तिसतत्त्व इत्यर्थः॥८॥ अथ अस्मात् नादाद्विन्दुः समुत्पन्नः सूर्यकोटिसमप्रभः। अन्तःकृतज्ञानशक्तिप्रधाननादपरामर्शः स- मस्तवेद्याविभक्तः क्रियाशत्त्यात्मा प्रकाशो बिन्दुः समस्तवेद्याविभिन्नप्रथत्वादेव सूर्यको- टिसमप्रभः॥
चैव १० श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । ११ स दशधा ज्ञेयो दशतत्त्वफलप्रदः॥९॥ दशधा वर्णरूपेण दशदैवतसंयुतः। क्रियाशक्तिप्रधानो बिन्दुरन्तर्गतेच्छाज्ञानश- क्तिद्वयः,एकैकस्याश्च शक्तेः सर्वशक्तिसंभेद इति नव शक्तयः, एतत्सामरस्यात्मा मुख्यो दशमः स्वभाव इति दशधात्वमस्य । तच्च 'सितं रक्तं च पीतं च कृष्णं हरितपिङ्गलम् । नीलं विचित्रवर्ण तु स्फटिकाभं मनोरमम् ॥' (१५१) इति द्वादशपटलवक्ष्यमाणवर्णवरूपभेदेन दश- धा। तत्रैव 'कुङ्कुमाभं च नारेशं त्रिनेत्रं तु जटाधरम् । पूर्वाननमभिध्यायेद्वायुभक्षस्य यत्फलम् ॥ तत्पुण्यफलमानोति ।' (१२२) इत्यादितत्पुरुषादिदेवतापञ्चकध्यानं तत्फलप- ञ्चकं च प्रतिपादयिष्यति । तथा तत्रैव अन्तर्ग- तनादानुद्भिन्नाकारबिन्दुप्रकाशापेक्षया 'घण्टानादस्य वा ध्यानात्सिद्धिः पाण्मासिकी भवेत् । ईप्सिता मर्त्यलोके तु सिद्धिस्तस्य प्रजायते ।।
१२ खच्छन्दतन्त्रम्। [ ११ पट० लिङ्गध्यानं तु यः कुर्यात्पूर्ववीजेन संयुतम् । मासेनैकेन पश्येत्स सूक्ष्मलिङ्गं तनूपरि ॥ शुद्धस्फटिकसंकाशं तदृष्ट्वा तु विमुच्यते । सिद्धिस्तु मानुषे लोके षण्मासेन प्रजायते ॥' इत्यन्तर्गतनादाविभक्तप्रकाशविन्द्वात्मषष्ठदेव- ताध्यानं तत्फलं च प्रतिपादयिष्यति । तथा 'निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च । कलाचतुष्टयोपेतो ध्यातव्यो विन्दुरीश्वरः ॥' (१५४) इत्यादि अभिधास्यति। इत्थं दशदैवतसंयुतो नि- वृत्त्यादिकलाभिश्च सह दशतत्त्वफलप्रद इति व्याख्येयम्।टीकाकारैस्तु एवमेतत्पूर्वापरमपरा- मृश्य 'स चैव दशधा'. इत्यादिविद्यातत्त्वविषयो ग्रन्थः, तत्र च षण्ठ- वर्णान् बिन्दुविसर्गौ च वर्जयित्वा अकारादि- वर्णदशकयुक्तत्वं तत्संभिन्नैकैककादिव्यञ्जनदे- वतायोगादशदैवतत्वम् , एतद्वर्णदशकाभिव्य- तत्वात्सर्ववाअयरूपं फलं दशधा अत्रेति य- त्वकल्पनया व्याकारि, तदुपेक्ष्यम् । विद्या- तत्त्वविषयस्तु ग्रन्थः तसाद्विद्या ततो माया ।' (१११५३) १३ ११ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । इत्यग्रे भविष्यति । एतदपि तैर्न परामृष्टम्- इत्यलं पूर्वैः सह निर्वन्धेन ॥ अथ एतस्मात् बिन्दोः सदाशिवो ज्ञेयः सोऽष्टभेदाङ्गसंयुतः॥१०॥ पञ्चब्रह्मकलाभिश्च विद्याङ्गैः शक्तिभिर्युतः। पञ्चभिश्च महाज्ञान- मूर्तिभिश्च समन्वितः ॥ ११॥ स सदाशिव इति यः पूर्वं भौवनेऽध्वनि विन्द्वावरणादधः स्थूलरूप उक्तः, तस्यैव हि सकलाद्यष्टभेदैरङ्गैः परिवारैः पञ्चभिरीशानादि- ब्रह्मभिः सर्वज्ञत्वादिरूपैर्वेदनप्रधानैः षड्रिङ्गैर्वा- माद्याभिर्विद्याद्याभिश्च शक्तिभिस्ताराद्यष्टात्रिंश- कलाभिः पञ्चवक्रोद्भूतस्रोतःपञ्चकरूपैर्महद्भि- निशास्त्रैः ओंकारादिभिर्दशभिर्विजयादिभिर- टादशभिश्च मूर्तिभिर्व्यक्तत्वं पूर्वमभिहितम् । अतो यदन्यैबिन्दुः सदाशिव इति पठित्वा घो- १४ स्वच्छन्दतत्रम् । [११ पट० पाद्यष्टकाङ्गयुक्तनादाख्यसदाशिवरूपो बिन्दु- रिति सामानाधिकरण्येन व्याख्यातं, तदसत्॥ किंच स एवापररूपेण परमात्मा शिवोऽव्ययः। यः पूर्व परमकारणरूपोऽव्ययः शिव उक्तः स एव अपररूपेण सदाशिवभट्टारकः, न त्वसौ व्यतिरिक्त इत्यर्थः ॥ अतः द्विधावस्थः स च ज्ञेयः सोचारोच्चारवर्जितः ॥ १२॥ मुद्रामन्त्रस्वरूपेण स एव च पुनर्दिधा। क्रियाज्ञानस्वरूपेण इच्छारूपस्वरूपतः ॥ १३ ॥ यःशिवोऽव्यय उक्तः, स द्विधा व्यापकत्वेन अवस्थितो ज्ञेयो ज्ञातव्यः।कथमित्याह सहोच्चा- रेण ऊध्र्वोच्चारणरूपेण बिन्दुनादादिपरामर्शा- त्मना रूपेण वर्तते, उच्चारवर्जितस्त्वशेषविश्व- १५ १४ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । व्यापिपरमशिवात्मा स्वभावः एतत्स्वरूपप्रात्यु- पायात्मनापि मुद्रामत्रस्वरूपेण द्विधा । मुद्रा हि परतत्त्वप्रतिविम्बभूता अन्तःसंविद्रविणमुद्र- णात् मुदं रान्ती पाशमोचनभेदद्रावणकारिणी तत्तत्संनिवेशरूपतया परस्फारमनुकुर्वती, तथा मनोऽपि अन्तर्गुप्तभाषणात्मकपरपरामर्शसत- त्वेन मननत्राणधर्मा परतत्त्वप्राप्युपायः परमे- शात्मैव । परमेश्वर एव हि उपेयपदवदुपाय- रूपतया स्फुरितः। किंच क्रियाशक्तिप्रधानेन ईश्वरभट्टारकात्मना ज्ञानशक्तिप्रधानेन च स- दाशिवभट्टारकात्मना स एव स्फुरितः, तथा इच्छाशक्त्यात्मना अनाश्रितरूपेण स्वरूपेण च शक्तिमद्रूपपरमशिवात्मना ॥ १३ ॥ न केवलमित्थमुपेयात्मना उपायात्मतया शक्तिवैचित्र्येण भगवानेवं भाति, यावत्समस्त- शास्त्रीयलौकिकव्यवहारगतसर्ववाचकात्मतया तद्वाच्यवस्त्वात्मतया चेत्याह शब्दावबोधरूपेण वस्तुरूपस्वरूपतः। न १६ स्वच्छन्दतनम् । [११ पट० शब्दरूपेण तदवबोधरूपेण तथा शब्दवा- च्यवस्तुरूपेण स्वरूपेण च पूर्णचिदात्मनेत्यर्थः। वरूपेणेत्युक्तेरिदमाकूतं-यदशेषशब्दार्थचिन्ता- रूपतया स्फुरन्नपि परमेश्वरोऽपरिम्लानचिदा- नन्दघन एवेति सर्वमिदं परभैरवाद्वैतरूपमेव । तदुक्तं मयैव हेयं केचन मन्यते जगदिदं वाह्यं तनुस्थं परे मेश्वरान्तनिवेशकेप्यथ परे देहे परस्मिन्स्थितौ । (१) भिन्नं भाति न जातु यत्पुनरिदं चिद्भानुभासस्ततो भाभि मि निजाभिराभिरभितो विश्वात्मभिभैरवः॥ इति । येषां तु परमेशमायाशक्त्यावृतत्वादेत- प्रथायोग्यता नास्ति, तदभिप्रायेण 'समनान्तं वरारोहे पाशजालमनन्तकम् ।' (४।४३२) इत्यादि उक्तमिति न पूर्वापरवैषम्यं किंचित् ॥ तदित्थं स्थूलः सूक्ष्मः परश्चैव परातीतो निरञ्जनः ॥ १४॥ व्योमरूपस्वरूपेण समनोन्मन एव च। , १७ १६ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । उन्मनातीतो देवेशि शिवो ज्ञेयः शिवागमे ॥१५॥ योऽसावुन्मनाक्रमं जानामीत्युक्तामुन्मनाश- क्तिमतिशयन इतः प्राप्तस्तद्धाराधिरूढः शक्ति- मदात्मा शिवागमे शिवःश्रेयःस्वभाव उच्यते, स्थूलो भूम्यादिप्रकृत्यन्तेन रूपेण, सूक्ष्मः पुमादिमायान्तेन, परः शुद्धविद्यादिशक्तित. त्त्वान्तेन स्फुरितस्तथा व्योमरूपेण अना- श्रितात्मना स्वरूपेण, किंच समनोन्मने शक्ती विद्येते यस्यासौ समनोन्मनस्तद्रूपीत्यर्थः अशेष- विश्वात्मना परमेश एव स्फुरतीति यावत् ॥ एवं स्थूलाद्युन्मनान्तं विश्वं परमेशमयमेवे- त्युपसंहारदृष्ट्या उक्त्वा प्रसरक्रमेणापि तत्त- कारणात्मना स एव स्फुरतीत्यादिशति उन्मनासमनास्थानं शिवेन समधिष्ठितम् । पञ्चकारणरूपेण तदधः पुनरेव सः॥१६॥ तिष्ठत्यस्मिन्विश्वमिति स्थानमुन्मनारूपं खा- ३
१८
स्वच्छन्दतन्त्रम् ।
[११ पट०
तन्यशक्तिरूपं, तत्वातत्र्यावभासितं च यत्
भावाभावरूपाशेषसूत्रणात्म समनारूपं स्थानं
तत् शिवेन सम्यगधिष्ठितं स्वभित्ती स्वाभेदेन
अवभासितमित्यर्थः । तस्याः समनाया अध
इति व्याप्यात्मनि शून्यातिशून्ये पदे चिदान-
न्देच्छाज्ञानक्रियाख्यशक्तिपञ्चकप्रधानेन अना-
श्रितादिव्याप्यन्तपश्चकारणरूपेण स एव शिवः
पुनरपि स्थितः, न पुनरनाश्रितादयस्तछ्यति-
रिक्ताः केचित् ॥ १६ ॥
किंच एतत्
कारणं पञ्चकं देवि
अधिष्ठाय त्वधस्ततः ।
ततोऽनाश्रितादिपञ्चकारणात्मनो रूपादधः
शक्तिब्रह्मबिलसुषुम्नानादनादान्तबिन्दुपदानि
अधिष्ठाय अभेदेन तद्भूमीराभास्य एतत्कारण-
पञ्चकं स्थितमित्यनुषङ्गः॥
एतद्विभजति
व्यापकः शक्तिमूर्धस्थो
बिलहारमनाश्रितः॥१७॥
१९ तथा १८ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । अनन्तश्च सुषुम्नेश- स्त्वनाथश्चोर्ध्वगस्तथा। व्योमरूपी महादेवि बिन्द्वीशः परिकीर्तितः॥१८॥ व्यापक इति व्यापिभट्टारकः प्रपञ्चव्याप्त्या, शक्तिमूर्धस्थ इति शक्त्यावरणरूपो यो मूर्धा तत्स्थ इति तद्गतः 'स्थूलः सूक्ष्म ।' (११।१४) इत्युक्तकारणपञ्चकात्मतया स्फुरितः, अनाश्रितभट्टारको विलद्वारमिति तदधिष्ठातृ- ब्रह्मरूपः, एवमनन्तः सुषुम्नावरणाधिष्ठातृसुषु- म्नेशरूपः, अनाथ ऊर्ध्वग इति नादान्ताधि- ष्टार्ध्वगेशरूपः, व्योमभट्टारकोऽपि बिन्द्वावर- णगतशान्त्यतीताख्यबिन्द्वीशमूर्तिः । ननु च अनाहतानाथानन्तव्योमव्यापिनो ये पूर्वमुदि- ष्टास्ते यद्युत्तरा भूमीरानुलोम्येन भजन्ते, तद- नाश्रितः शक्तिमूर्धस्थ इत्याद्युक्त्या भवितव्यम्। अथ प्रातिलोम्येन तथा 'व्यापी तु शक्तिमूर्धस्थो बिलद्वारं खरूपक' इत्यादि दर्शनीयं, तत्कोऽत्र क्रमः। एक एव
२०
स्वच्छन्दतत्रम् ।
[११ पट०
पञ्चशक्तिसामरस्यात्परमेश्वरो यथावातत्र्यम-
नाश्रितादिव्याप्यन्तकारणपञ्चकरूपतां प्रपञ्च.
व्याप्त्या श्रित्वा शक्त्यादिविन्द्वावरणगतत-
तदीशमूर्तिरूपतयापि स्फुरितः, नत्वत्र आनु-
लोम्यं प्रातिलोम्यं वा किंचित् अपितु अक्रम
एवात्र क्रमो वास्तवेन वृत्तेन सर्वेषां भगवदे-
कमयत्वादित्याशयेन अयमीदृशः क्रमोऽत्र प्र-
दर्शितः। एवमुत्तरत्रापि स्मर्तव्यम् । तदुक्तं
श्रीप्रत्यभिज्ञायां
'या चैपा प्रतिभा तत्तत्पदार्थक्रमरूपिता ।
अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः॥ (११७१)
इति ॥ १८॥
इमामेव अभेदसारां प्रपञ्चव्याप्तिं सार्धश्लो-
केन प्रदर्शयति
अनाश्रितः स्वयं ब्रह्मा
समधिष्ठाय संस्थितः।
अनाथो विष्णुरित्युक्त-
स्त्वनन्तो रुद्र एव च ॥१९॥
२१ २२ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । व्योमरूपीश्वरः प्रोक्तो व्यापी चैव सदाशिवः। अनाश्रितभट्टारक एव स्वयं साक्षाद्रह्मा समधिष्ठाय संस्थित इति भूरादिब्रह्मलोकान्त- मित्यर्थात् ॥ किंच व्यापकश्च पुनर्देवि हाटकः परमेश्वरः ॥ २० ॥ विद्यामन्त्रगणैर्युक्तः सप्तपातालनायकः । अनन्तश्चैव देवेशि रुद्रः कालाग्निविग्रहः ॥२१॥ अनाथोऽनन्तरूपेण स्थितश्याध्वनि धारकः । अनाश्रितो महादेवि स्थितो वै हहुकः प्रभुः ॥२२॥ अनन्तरूपेणेति कर्परिकाधोगतानन्तभट्टार- कारमना, अध्वनीति कर्परिकापर्यन्ते । हहुक हु २२ स्वच्छन्दतब्रम् । [११ पट० इति पूर्वोक्तानन्तभुवनान्तर्वर्ती । तदेवं स्थूलेन हूहुकादिना सूक्ष्मेण ब्रह्मादिना च पञ्चकेन एक एव परमेश्वरः पूर्वोक्तपञ्चशक्त्यात्मा स्वच्छ- न्दनाथः प्रपञ्चव्याप्त्या स्फुरित इत्यनेनापि आशयन 'स्थूलः सूक्ष्मः परश्चैव परातीतो निरञ्जनः। (११।१४) इति श्लोकाध संगमयितव्यम् । अनाश्रितादि- पञ्चकस्य एवं प्रपञ्चव्याप्तिं तथा सर्वादेरनाश्रि- तनाथस्य सर्वान्तहहुकनाथरूपतां प्रदर्शयन् स. र्वमिदं निरञ्जनसतत्त्वमेवेति शिक्षयति वस्तु- तोऽनाश्रितभट्टारकस्य निरञ्जनपरभैरवखरूपा- व्यतिरेकात् ॥ २२॥ यदाह स्वशक्त्याश्रितः स भगवां- स्तेन गीतस्त्वनाश्रितः। वा विशेषानुपादानात् विश्वस्य प्रभवभूता या पारमेश्वरी वातघ्यशक्तिस्तामाश्रितःसाक्षा- त्तद्भित्तौ तदविभिन्नस्फारतया स्फुरति । परमे- २३ २४ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । श्वरो हि इच्छाशक्त्यात्मना अनाश्रितभट्टारकः स्वरूपकल्प एव । यदाह श्रीप्रत्यभिज्ञाकारः 'सा द्वितीयैव शिवताः इति ॥ अतश्च तस्याश्रितं जगत्सर्व- मुन्मन्यन्तं वरानने ॥ २३॥ उन्मनी शक्तिरन्ते यस्य समनावधेर्जगतः, तत् तस्य आश्रितमनाश्रितभट्टारकरूपशिवत. वाश्रितमित्यर्थः ॥ २३ ॥ यथाच पारमेशी परां विश्वधारिकां वात- घ्यशक्तिभित्तिमाश्रित्य अनाश्रितनाथः, तथाच परमूर्तिहूंहुकभट्टारकोऽपि तामेव आश्रित्य स्थित इत्याह संस्थितश्चाम्भसो मूर्ध्नि शक्त्याधारस्तु हहुकः । शक्त्याधार इति अपरशक्त्याश्रयः। अम्भ- सो मू(त्यनेन अस्य देशनिर्देशः। यत् श्री.
२४
स्वच्छन्दतन्त्रम् ।
[११ पट०
भुल्लकः शक्त्याधार इति ब्रह्माण्डकपरिकारूपा-
धारशक्त्याश्रय इतीहापि व्याकार्षीत् , तदस्य
विस्मृतवस्तुसमर्थनचरमेवेत्युपेक्ष्यम् ॥
किंच
अप्तत्त्वं चैव तदध
आग्नेयं तदनन्तरम् ॥ २४॥
वायव्यं नाभसं चैव
तन्मात्राणीन्द्रियाणि च ।
विषयाश्च मनश्चैव
अहङ्कारस्त्वनुक्रमात् ॥ २५॥
बौद्धं गौणं च देवेशि
प्राकृतं पौरुषं तथा ।
नियतिः कालरागौ च
विद्या चैव कला तथा ॥२६॥
मायातत्त्वं तथा विद्या
ईश्वरश्च सदाशिवः।
बिन्द्वर्धेन्दुनिरोधी च
नादो नाडी त्वतः परम् ॥२७॥
२५ २९ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । अधो ब्रह्मबिलं देवि शक्तितत्त्वं ततः परम् । पञ्चकारणसंयुक्ता व्यापिनी च ततः परम् ॥२८॥ समना उन्मना चैव प्रक्रियाण्डैर्युता प्रिये। विषया इति ये पूर्व रश्म्यावरणगता उक्ता- स्त इह विषयाकारतया स्थिताः । ततश्च य- दाह श्रीभुल्लको विषया महाभूतस्वरूपा एवेह इन्द्रियग्राह्या इन्द्रियोक्त्यनुषङ्गेण प्रसङ्गादुक्ता इति, तदसत् । वौद्धमित्यादौ तत्त्वमिति योज- नीयम् । नाडीति सुषुम्नावरणगता च सुषुनैव । अधो ब्रह्मबिलमिति अपास्य ऊर्ध्वं ब्रह्मबिलमिति टीकाकारपाठो न साधुः ऊर्ध्ववदधोऽपि सुषुम्ना- न्तस्य अध्वनो ब्रह्मबिलव्याप्तत्वात् पृथिव्यादि- तत्त्वानामुत्तरोत्तरमन्तर्बहिायवस्थित्या प्र- तिपादितत्वात् । उन्मनाया विशेषणं प्रक्रि- याण्डैर्युतेति प्रोक्तया प्रक्रियया स्थिता अण्डा खच्छन्दतन्त्रम्। [११ पट० २६ ब्रह्माण्डप्रकृत्यण्डमायाण्डशक्त्यण्डास्तैर्युता सं- बद्धा । ते हि सर्वे तदेकाश्रयाः॥ एतत्संकलयति एवं वै प्रक्रियाण्डं तु अधोज़ संव्यवस्थितम् ॥२९॥ प्रोक्तप्रक्रियया स्थितं यदण्डमित्येकवचनात् मायाण्डं शक्त्यण्डं चैकरूपं, तदध ऊर्ध्वं च अ- न्तर्वर्तितत्तत्तत्वगीकारेण सम्यक् सबाह्याभ्य- न्तरव्याप्त्या विशेषेण अवस्थितम् ॥ किं शक्त्यण्डमायाण्डद्वयमेव अन्तर्वर्तितत्त- तत्त्वोर्ध्वाधरादिव्याप्त्या स्थितं, नेत्याह एवंविधान्यधोऽधो वै ऊोवं च समन्ततः । एवंविधानीति बहुवचनेन मायाण्डान्तर्ग- तप्रकृत्यण्डब्रह्माण्डपरामर्शस्तेषां बहुत्वात् तदुक्तं श्रीमालिनीविजये 'पृथग्द्वयमसंख्यातमेकमेकं पृथग्द्वयम् ।' (२०५०) इति । एवंविधानीत्युक्तिः अधोऽध ऊवोवं च समन्ततः इत्यनेन व्याख्याता ॥
२७ ३२ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । बहुवचनसूचितमनेकत्वं स्फुट यति यथा आत्माणवो देवि असंख्याता व्यवस्थिताः॥३०॥ एवं वै प्रक्रियाण्डानि त्वसंख्ययान्यनेकशः। व्यवस्थिता इति ऐश्वर्या मायाशक्त्या तथा संकुचितत्वेन आभासनादित्यर्थः। प्रकृत्यण्डा- नीति बहुवचनात्प्रकृत्यण्डब्रह्माण्डरूपाणीत्यु- क्तमेव ॥ तर्हि तान्यपि विभागेन किं न वर्ण्यन्ते । यतः एकेन वर्णितेनेह सर्वोऽध्वा वर्णितः प्रिये ॥३१॥ यथा ह्यकं तथा सर्व प्रक्रियाण्डं स्थितं प्रिये । सर्वेषां प्रक्रियाण्डानां ॥३२॥ स्वस्वरूपेण सुबते २८ स्वच्छन्दतत्रम् । [११ पट० व्यापकस्तु शिवः सूक्ष्मः सबाह्याभ्यन्तरं स्थितः। सर्वातिशयनिर्मुक्तः सर्वकारणवर्जितः॥३३॥ सृष्टिसंहारनिर्मुक्तः प्रपञ्चातीतगोचरः। खेन अनपायिचित्प्रकाशात्मना स्वरूपेण सर्वेषां सूक्ष्मः शिव इति परमशिवभट्टारको बहिरन्तश्च व्यापकः स्थितश्चित्प्रकाशात्मकपर- मशिवरूपतां विना कस्यापि सत्तासिद्धेः शिव- मयमेव विश्वमित्यर्थः। शिवसदाशिवेश्वरादी. नामधराधरापेक्षया यथोत्थानमतिशयोऽस्ति । परमशिवस्तु चित्प्रकाशमात्रात्मतया महास- त्तात्मा महासामान्यरूप इति एतदन्यस्य अति- शयावधेरभावात् सर्वातिशयैर्निर्मुक्तः सर्वका- रणं सर्वकारणवर्जितश्च नित्योदितचिदेकमूर्ति- रिति तत्रेण व्याख्येयं यतः सृष्टिसंहाराभ्यां निर्मुक्तः । सर्वस्य हि जगत एष एव भगवान् -
२९
३४ श्लो० ] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् ।
स्वच्छस्वच्छन्दचिदेकमूर्तिः स्रष्टा संहर्ता च,
नतु
अस्यापि अन्यस्तस्य कल्प्यमानस्यापि
एतत्प्रकाशात्मतां विना अनुपपत्तेः। किंच अयं
प्रपञ्चं वैचित्र्यमतीतः स्वचित्प्रकाशैकमयत्वेनैव
प्रकाशमानो गोचरो जगदात्मा सर्वो विषयो
यस्य । तदुक्तं श्रीप्रत्यभिज्ञायां
'स्वात्मेव स्वात्मना पूर्णा भावा भान्त्यमितस्य तु ।' (२।१७)
इति ॥
किंच अयं
निर्मलो विमलः शान्त-
स्त्वध ऊर्ध्वं व्यवस्थितः ॥३४॥
निर्गता आणवाद्या मला यस्मात् तथाभूतो-
ऽसौ, विमलः चित्प्रकाशैकमूर्तिः, अतश्च सम-
स्तभेदोपशमात् शान्तः, तथापिच स एव अध
इति मायादिक्षित्यन्ततया, ऊर्ध्वं च शुद्धविद्या-
दिशिवान्ततया, विविधेन रूपेणावस्थितो न हि
तत्प्रकाशातिरिका कापिकस्यापि कदापि सत्ता
अस्तीत्युक्तत्वात् ॥ ३४ ॥
३० स्वच्छन्दतन्त्रम् । [११ पट० एतत् दृष्टान्तप्रमुखं घटयति आकाशस्य यथा नोवं नमध्यं नाप्यधः क्वचित् । एवं सर्वगतो देवः शिवः परमकारणम् ॥ ३५॥ व्याप्य देवि जगत्सर्व व्योमसु व्योमवस्थितः । व्योमसु गृहघटाद्यवच्छिन्नेषु आकाशप्रदे- शेषु यथा व्योम अभेदमयमेव स्थितं, तथा जगत्सर्वं प्रकाशमानत्वात्प्रकाशमयं चित्प्रका- शात्मा शिवः अभेदेन व्याप्य स्थितः । अत एव अस्य देशकालादिकृत ऊर्ध्वमध्याधरभेदो न कश्चित् ॥ एतदेव अद्वयज्ञानं परमोपादेयमित्याह एवं ज्ञात्वा वरारोहे न भूयो जन्मभाग्भवेत् ॥३६॥ एवं शिवभट्टारकस्यैव स्वप्रकाशमयसमस्त-
३१
३८ श्लो.] श्रीक्षेमराजाचार्यकृतोक्ष्योताख्यटीकोपेतम् ।
जगदभेदव्याप्तिं प्रदर्य, तत्प्रपञ्चरूपाणां ब्रह्मा-
दीनां यावती व्याप्तिस्तामपि दर्शयति
कारणानां पुनर्व्याप्ति
कथयामि समासतः ।
पूर्वमनाश्रितादेः परमकारणपञ्चकस्य हुहु-
कान्तं व्याप्यव्यापकभावो दर्शितः, इदानीं तु
तस्यैव अपररूपतया ब्रह्मादिपञ्चकरूपस्य तत्त्वा-
यधिष्ठानद्वारिका व्याप्तिः प्रदर्यते
तत्त्वे तु पार्थिवे ब्रह्मा
अधिष्ठाता व्यवस्थितः॥३७॥
अप्तत्त्वे तु स्थितो विष्णू
रुद्रस्तेजसि संस्थितः।
ईश्वरो वायुतत्त्वे तु
आकाशे तु सदाशिवः ॥३८॥
व्यवस्थितः । पूर्व
'कलानां यावती व्याप्तिस्तत्वानां तावदेव हि। (५।१३)
इत्युक्तत्वात्प्रतिष्ठादिकलाव्याप्ततत्त्वानुसायप्त-
त्त्वादितत्त्वखरूपं मन्तव्यम् ॥ ३८ ॥
३२ खच्छन्दतन्त्रम् । [११ पट. आदित्यश्च स्मृतो ब्रह्मा सोमो विष्णुश्च सुव्रते। ग्रहाणामधिपो रुद्रो नक्षत्राणां तथेश्वरः॥३९॥ यजमानस्तु देवेशि स्वयं देवः सदाशिवः । इह पृथिव्यादिपञ्चकं सूर्यः सोमो यजमा- नश्चेति या अष्टौ महेश्वरस्य मूर्तयः, ततः क- लाव्याप्तिसतत्त्वं मेयरूपं पृथिव्यादिमूर्तिपञ्चक ब्रह्मादिकारणैरधिष्ठितमित्युक्तम् । यत्तु करणपक्ष निविष्टा च याजमानी मूर्तिः पञ्चमीति, तत्रापि ब्रह्माद्यधिष्ठितत्वमुक्तम् । आदित्य इति प्राणो दक्षिणस्रोतश्च । सोमोऽपानो वामस्रोतश्च । ग्रहनक्षत्राधिपौ बाह्यौ सोमसूर्यों प्रमेयप्रकाशे- नोपयुक्तौ । सदाशिवस्य यजमानत्वमशेषप्रमे- यप्रमाणाधिष्ठातृपरप्रमातृमयत्वात् ॥ समस्तमहेश्वरमूर्त्यधिष्ठातारो ये ब्रह्मादय- स्तऽपि सद्यआदिभगवन्मन्त्रमया एवेति इत्थ.
५३ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । ३३ मपि परमेश्वराद्वयमयमेव जगदित्यादिशति सद्योजातस्तु वै ब्रह्मा वामो विष्णुः प्रकीर्तितः॥४०॥ अघोरो रुद्र इत्युक्त- स्तथा पुरुष ईश्वरः। ईशानस्तु वरारोहे स्वयं देवः सदाशिवः ॥४१॥ यच्च एतत् ब्रह्माद्यधिष्ठातृ भगवच्छक्तिरूपं सद्यआदिमत्रपञ्चकं, तदेव वेदादिसमस्तशास्त्र- प्रपञ्चरूपमित्याह सद्योजातस्तु ऋग्वेदो वामदेवो यजुः स्मृतः। अघोरः सामवेदस्तु पुरुषोऽथर्व उच्यते ॥४२॥ ईशानश्च सुरश्रेष्ठः सर्वविद्यात्मकः स्मृतः । ऋगादिवेदाः प्रत्येकं कर्मदेवताज्ञानकाण्डा- ५ ३४ खच्छन्दतनम् । [११ पट० त्मका मन्तव्याः। सर्वविद्यात्मक इत्युक्त्या प्रो- क्तोऽपि प्रविभागः अस्यैव भगवतः प्रपञ्च इति शास्त्रक्रमेणापि भगवदद्वयमयमेव जगत् ॥ ज्ञानक्रमेणापि अद्वैतमित्याह लौकिकं देवि विज्ञानं सद्योजाताद्विनिर्गतम् ॥४३॥ वैदिकं वामदेवात्तु आध्यात्मिकमघोरतः। पुरुषाच्चातिमार्गाख्यं निर्गतं तु वरानने ॥४४॥ मन्त्राख्यं तु महाज्ञान- मीशानात्तु विनिर्गतम्। लौकिकं वार्तादण्डनीत्यायुर्वेदधनुर्वेदनाट्य- वेदादिप्रतिपाद्यकृषिनयानयचिकित्सादिविज्ञा- नम् । वैदिकं नित्यनैमित्तिककाम्ययज्ञादिस्व- रूपम् । आध्यात्मिकं सांख्ययोगादिप्रतिपादि- तप्रकृतिपुरुषविवेकज्ञानसर्ववृत्तिनिरोधज्ञानादि- कम् । आतिमार्गिकं वेदसांख्ययोगायुक्तोपा- सात्मकप्रसिद्धमार्गातिक्रान्तं सामान्येन पारमे- ३५ ४६ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । शशास्त्रप्रतिपादितविविधमुद्रामण्डलक्रियायु- पायरूपं विज्ञानमिह अभिप्रेतं, नतु विशिष्टं चतुष्टयात् । मन्त्राख्यमिति तत्रैव पारमेशेषु शा- स्त्रेषु पञ्चप्रणवाधिकारप्रतिपादितनीत्या मब्रेषु आ समन्तात् ख्यानं यस्य तथाभूतं यन्महा- ज्ञानं मनवीर्यदं ज्ञानपादप्रोक्तक्रियादितत्रात्म- कविज्ञानाद्वैलक्षण्येन अनुभवसारतां मन्त्राणां प्रथयति ॥ पञ्चतत्त्वाधिष्ठानद्वारेण विश्वाधिष्ठातृत्वं ब्र. ह्मादिकारणपञ्चकस्य उक्तं, वितत्य तु प्रतिपा. दयितुमाह तथा तत्त्व विभागेन पुनश्च शृणु सुव्रते ॥४५॥ चतुर्विंशतितत्त्वानि ब्रह्मा व्याप्य व्यवस्थितः । प्रधानान्तं देवेशि गुणतत्त्वस्य पृथगविवक्षितत्वात् चतुर्वि- शतितत्वानि व्याप्येति प्राग्वदभेदेन अधि- ष्ठाय, अत एव प्रतिपादितहृदयविषया आलो. तु ३ स्वच्छन्दतत्रम् । [११ पट. चनादिसृष्टिकारिणी ब्राह्मी व्याप्तिरस्तीति तत्र तत्र उच्यते ॥ पौरुषं तु जनार्दनः ॥ ४६॥ नियतेरथ मायान्तं रुद्रो व्याप्य व्यवस्थितः। विद्या तथैश्वरं तत्त्वं व्याप्तं चैवेश्वरेण तु ॥४७॥ ऊर्ध्व सदाशिवो देवः सर्व व्याप्य व्यवस्थितः। ऊर्वमिति सदाशिवशक्तिशिवाख्यं तत्त्व- त्रयम् । सदाशिव इति अनाश्रितपरव्या- येत्यर्थः ॥ आत्मविद्याशिवाख्यतत्त्वत्रयविभागेन कारणानां विश्वाधिष्ठितत्वमाह तत्त्वत्रयविभागेन पुनर्वक्ष्यामि सुव्रते ॥४८॥ कारणव्याप्तिमिति शेषः॥४८॥ च ५१ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । ३७ तत्र आत्मतत्त्वे तु वै ब्रह्मा मायान्ते च व्यवस्थितः। विद्यातत्त्वे तथा विष्णु- वित्सादाख्यगोचरम् ॥४९॥ शिवतत्त्वे तथा रुद्रो विज्ञेयस्तु वरानने। सादाख्यमूर्ध्वमध्वानं सर्व व्याप्य व्यवस्थितः ॥५०॥ सादाख्यगोचरमिति सदाशिवतत्त्वम् । सर्व- मिति शिवतत्त्वान्त एव ब्रह्मविष्णुरुद्रान्ता ब्र- ह्मणो व्याप्तिः, ईश्वरसदाशिवान्ता विष्णोः, शिवरूपा रुद्रस्येति कारणपञ्चकस्यापि अनया भङ्गया अभेद एव दर्शितः ॥ ५० ॥ न केवलं कारणपञ्चकमेतावत्कारणत्रय- व्याप्तिसतत्त्वं, यावत्कारणत्रयमपि पारमेशरी- यादिशक्तित्रयपरमार्थमित्याह रौद्या अधिष्ठितात्मा वै स रुद्रः परिकीर्तितः ।
३८ खच्छन्दतघ्रम् ॥ [११ पट. व्याप्तश्च वामया विष्णु- ज्येष्ठया च पितामहः ॥५१॥ समस्तरुग्द्रावणात् विश्ववमनादभेदप्राधा. न्यप्राशस्त्यप्रकर्षाच रौद्रीवामाज्येष्ठाख्याः याः शक्तयस्तासामधिष्ठाने क्रमव्यतिक्रमः परमा- र्थाद्वयक्रमवस्तुतत्त्वप्रदर्शनाय ॥ ५१ ॥ किंच ज्ञानशक्तिः स्मृतो ब्रह्मा क्रियाशक्तिर्जनार्दनः । इच्छाशक्तिः परो रुद्रः परशब्दस्त्रिष्वपि संबध्यते । अत्रापि क्रमा- न्यथात्वे प्रोक्त एव आशयः॥ यश्च अयं परो रुद्रः स शिवः परिगीयते ॥५२॥ विष्णुः सदाशिवो देवो ब्रह्मा चैवेश्वरस्तथा। एवं शक्तित्रयेण अपरं कारणत्रयमिव त- यापकं परमपि कारणत्रयमधिष्ठितमित्युक्तं भवति ॥
३९ ५४ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । तदित्थमुपायोपेयायेकात्म्योक्त्या कारणग- ताधिष्टात्रधिष्ठेयमुखेन समस्ताध्वव्याच्या मूर्त्य- ष्टकाधिष्ठितयुक्त्या वाचकमुखेन तज्ज्ञानदृष्ट्या तद्वाच्यषट्रिंशत्पञ्चत्रिंशत्तत्त्वभेदोक्तिद्वारेण श. क्तित्रयाधिष्ठाननिरूपणक्रमेण च परभैरवाद्व- यमयं जगदिति व्याप्यव्यापकसतत्त्वप्रदर्शनेन परमोपनिषदिकमर्थ्य प्रपञ्चप्रकान्तजगत्स्पृष्ट्य. पेक्षं कार्यकारणविभागवैचित्र्यमेव अनुबध्नाति सदाशिवः शिवादेवि उत्पन्नः प्रभुरीश्वरः ॥ ५३॥ यद्यपि 'पिन्दोः सदाशिवो ज्ञेयः। ।'(११।१०) इति प्रागुपक्षिप्तं, तथापि प्रतिपादितव्याप्य- व्यापकभावपरमार्थदृशा विन्दुपर्यन्ते प्रस्मृत्य शिवभट्टारक एव प्रपञ्चव्याप्त्या सदाशिव ई- श्वरश्च प्रभुः संपन्न इति अत्र तात्पर्यम् ॥५३॥ तस्माद्विद्या ततो माया तत इति विद्यातत्त्वात् । एषां च तत्त्वा- नामुत्पत्तिकमे युक्तिः पूर्वमेव दर्शिता ॥
स्वच्छन्दतत्रम् ।
[११ पट०
किंच
विद्यायाः पुनरीश्वरः।
ज्ञानशक्तिकराग्रेण
स्वेच्छया परमेश्वरः ॥५४॥
सप्त कोटीस्तु मन्त्राणां
सृजेज्ज्ञानक्रियात्मिकाः ।
'अष्टवर्गविभिन्ना तु विद्या सा मातृका परा।'(१०।११४४)
इति पूर्वमुक्तखरूपाया विद्यायाः सकाशात् पर-
मेश्वर इति परमशिवस्वरूप ईश्वरभद्दारकः खे-
च्छामात्रेण अनुग्रहाख्यकृत्यप्रपञ्चनार्थ ज्ञानश-
क्तिरेव कराग्रं तेन सात कोटीर्मत्राणां मननत्राण-
सतत्त्वानां सृजति। ज्ञानशक्तिकरणत्वात् सृज्य-
मानत्वाच्च एताःकारणानुगुण्येन ज्ञानक्रियात्मि-
का इति पूर्णज्ञानक्रियासतत्त्वा भोगमोक्षप्रदाः॥
परमेश्वर इति विशेषणेन ईश्वरस्य परम-
शिवरूपत्वमुक्तं यतस्तत एव तत्सृष्टानां मत्रा-
णामणुशक्तिशंभुपक्षतया सर्वत्रैव अनुग्रहार्थ-
मवस्थितत्वमस्तीत्याह
ते च सादाख्यपर्यन्ते
पार्थिवाद्ये तु सुव्रते ॥ ५५॥
४१ ५७ श्लो.] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । अनुग्रहं प्रकुर्वन्ति देहिनां भुवने स्थिताः। पृथ्व्याद्यनाश्रितान्ते यानि भुवनानि तेषु स्थिताः सन्तो देहिनां भोगमोक्षरूपमनुग्रह प्रकर्षेण अनवरतं कुर्वन्ति ॥ एते च शिवशक्तिसमाविष्टा- स्त्रिनेत्राश्चन्द्रमौलयः ॥५६॥ शिवशक्तिसमाविष्टत्वादेव एषामनुग्रहक- र्तृत्वम् ॥ ५६ ॥ युक्तं च एतद्यतः रुद्रमूर्तिभिरेकोऽसौ शिवः परमकारणम् । जगद्व्याप्य स्थितो मायी शूलपाणिरनेकधा ॥ ५७ ॥ रुद्राः सर्वरुग्द्राविणो मत्राः । एकोऽपि अनेकधा रुद्रमूर्तिभिर्जगद्व्याप्य स्थित इत्यत्र विशेषणद्वारको हेतुर्मायीति । स्वरूपगोपना- रूपया महामायाशक्त्या हि असौ अनुग्रहा- ६
४२
स्वच्छन्दतघ्रम् ।
[११ पट०
ख्यकृत्यनिर्वाहाय नानारुद्रमूर्तिभिः स्फुरितः।
मायाशक्त्यैव वक्ष्यमाणजगद्रूपतया परमेश्वरः
स्वाभासस्वच्छस्वच्छन्दचिदानन्दसुन्दरः वखा-
तत्र्यात् दर्पणनगरवत् वानधिकेनापि अधिके-
नेव केन नाम रूपेण न भवतीत्युक्तमसकृत्,
अतो यत् श्रीसद्योज्योतिषा उक्तम्
'एकः शिवोऽविकारी तच्छक्तिश्चाप्यतो न तौ योग्यौ ।
बहुधा स्थातुं यद्वा चैतन्यविनाकृतौ विकारित्वात् ॥(त०४५)
इति, तत् प्रोक्तश्रुतियुक्तिभ्यां बाधितत्वादपर्या-
लोचिताद्वयवादसतत्त्वमित्युपेक्ष्यमेव ॥ ५७ ॥
किंच अयमाश्रितानन्तभट्टारकमूर्तिः
ज्ञानशक्त्या पुनश्चैव
समालोक्य वरानने।
इच्छाशक्त्या समाविष्टः
क्रियाशक्त्या तु सुव्रते ॥५८॥
मायातत्त्वं जगद्वीज
नित्यं विभुतयाव्ययम् ।
तत्स्थं कृत्वात्मवर्ग तु
युगपत्क्षोभयेत्प्रभुः ॥ ५९॥
४३ , ५९ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । जगतः कलादिक्षित्यन्तस्य विश्वस्य यहीज कारणं मायातत्त्वं नित्यमिति तच्छक्तरनिदं- प्रथमिकतया प्रवृत्तत्वात् , अत एव च अव्ययं, नतु तत्त्वात्मतया तन्नित्यमविनाशि च भवति 'ततो माया' इत्युक्तत्वात् तत्संहारस्य प्रतिपाद- यिष्यमाणत्वात् ; एवंभूतं यत् मायातत्त्वं त- स्थमिति तद्वशाद्गोपितज्ञानक्रियारूपमात्मवर्ग कृत्वेति स्वभित्तावाभास्य, पुनश्च तं तथाविधं ज्ञानशक्त्या समालोक्य युगपदक्रममेव क्षोभ- येदिति सर्वकर्तृत्वसर्वज्ञत्वनैराकांक्ष्याकालक- लितत्वसार्वात्म्यरूपाद्धर्मात् अपरामर्शनमय- किञ्चित्कर्तृत्वकिंचिज्ज्ञत्वसाकांक्षत्वकालकलि- तत्वनियतोत्थापककलाविद्यारागकालनियत्या- स्मककञ्चुककलनापुरःसरं प्रधानकारणकार्य- परवशं संपादयति परमेश्वरः । कीदृगसावि- त्याह इच्छाशक्त्या क्रियाशक्त्या च समाविष्टः 'एवंभूतमिदं वस्तु भवत्विति यदा पुनः । जाता तदैव तत्तद्वत्कुर्वत्यत्र क्रियोच्यते ॥' (८।१५) इति श्रीमालिनीविजयनिर्दिष्टनीत्या इच्छामा- त्रानन्तरमेव क्रियाशक्त्या आभासयतीत्यर्थः ५९ १४ स्वच्छन्दतघ्रम् । [११ पट. युगपत्क्षोभयेदित्युक्तिं दृष्टान्तेन परिघटयति हेलादण्डाहतायाश्च बदर्या वा फलानि तु । तिर्यगूर्ध्वमधस्ताच्च निर्गच्छन्ति समासतः ॥६०॥ वाशब्द इवार्थे । बदर्या इव फलानि मा- याया आत्मानः समनन्तरवक्ष्यमाणतिर्यगू/- धरभूमीगच्छन्ति ॥ ६॥ तत्र भाजनं मुक्तेस्तु येऽत्र अनुध्याताः शिवेन तु । ऊर्ध्व गच्छन्ति ते सर्वे शिवं परमनिर्मलम् ॥६१॥ अनुध्याता इति कृतशक्तिपाताः । यदुक्तं श्रीश्रीकण्ठ्यां 'यया विना न सर्वज्ञः शिवः सा शक्तिरैश्वरी । या सा शिवप्रयुक्ता तु पशूनां मोक्षयेत्ततः ॥ पतेदीक्षानुसन्धाने दीक्षा ज्ञानादिलक्षणा ।'
६३ को०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । ४५ इति । ऊर्ध्वमिति शिवैक्यप्राप्तिरेव एषामूर्ध्वग- तिरित्यर्थः ॥ ६१॥ तथा विद्याया भाजनं तिर्यङ्- मन्त्ररूपा भवन्ति वै। तदुक्तमन्यत्र 'विद्याविद्येशत्वं त्वपरा मुक्तिः.......।' (त० ५१) इति ॥ किंच संसारभाजनं ये तु मलकर्मकलान्विताः ॥ ६२॥ अधस्तात्ते वजन्त्यत्र घोरेऽध्वन्यतिदारुणे। मल अख्यात्यात्मक आणवः, शुभादिवास- नात्मकं कर्म, कलादिकं तु मायीयम् । घोरे भेदमये अतिदारुणे दुःखबहले ॥ ६२॥ एवं प्रसङ्गात्मत्राणां बद्धमुक्तानां च स्वरूपं प्रतिपाद्य प्रकृतामेव तात्वीं सृष्टिं दर्शयति ४६ स्वच्छन्दतन्त्रम् । [११ पट० तस्मात्कला समुत्पन्ना विद्या रागस्तथैव च ॥६३ ॥ कालो नियतितत्त्वं च पुंस्तत्त्वं प्रकृतिस्तथा। केवलमेतदुच्यते कञ्चकपञ्चकवलिताः पु- मांसो भोक्तारः, भोग्यसामान्यरूपा च प्र- कृतिः युगपदेव मायातः संभूता भोक्तृभो- ग्ययोः परस्परापेक्षित्वात् , अतोऽत्र कलादीनां युगपदेव तस्मादिति मायातत्त्वादुद्भव उक्तः। श्रीमालिनीविजये तु कलातो विद्यादिचतुष्टयं प्रकृतिश्च, श्रीरौरवादौ तु कला रागविद्ये प्रसूय, अव्यक्तं जनितवतीत्यादिरागमेषु यः क्रम उक्तः, तथा क्वचित्कञ्चकानां चतुष्टयं क- चित्रयमिति संख्यान्यथाभावोऽपि दृश्यते, न तत्र भ्रमितव्यम् । 'कदलीगर्भदलवन्मोदकादिरसादिवत् । कदम्बगोलवच्चित्राः कञ्चकाश्वित्रसंविदः॥ इति श्रीत्रिकसारनिरूपितनीत्या कश्चिद्रज्यन्वे- त्ति कश्चिच्च विदव्रज्यतीत्यादिः पुंसां विचित्रप्र- तीतिक्रमानुसारी कञ्चकक्रमः अन्यथा अन्यथा ४७ ६५ श्लो० ] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । च संभाव्यते प्रतिपुं कलादितत्वक्रमस्योक्तत्वा- दिति तदनुसारं तत्तच्छास्त्रावतारकैस्तथा तथा क्रमभेदमात्रप्रतिपादनमेतत् कृतमन्तर्भावान- न्तर्भावाच्च संख्याभेदोऽपि दर्शितः। वस्तुतश्च किंचित्करोमीत्यादिप्रतीतिपश्चकाक्षिप्ततत्त्वपश्च ककञ्चकवलिताः पुमांसो भोक्तारः, किश्चिदं शात्मा भोग्यसामान्यरूपा प्रकृति यातो युगपदेव उद्भता इति एतत्तत्रोक्तमेव ज्यायः प्रतिभाति॥ अथ सत्त्वं रजस्तमश्चैव प्रकृतेस्तु गुणास्त्रयः ॥६४॥ त्रिरूपं गुणतत्त्वं जातमित्यर्थः ॥ ६४ ॥ एतत् व्यापारभेदेन विभजति सत्त्वं प्रकाशजनकं प्रवृत्तिजनकं रजः। तमोऽवष्टम्भकं प्रोक्तं विज्ञेयं तु गुणत्रयम् ॥ ६५॥ ॥
खच्छन्दतघ्रम् । [११ पर अवष्टम्भकमावारकम् । अत्र सर्वत्र उपपत्तिः प्रागेव दर्शिता ॥६५॥ गुणत्रये अधिष्ठातृदेवता आह सत्त्वं ब्रह्मा रजो विष्णु- स्तमो रुद्रः प्रकीर्तितः। सामानाधिकरण्योत्या अधिष्ठात्रभेद एव आदिष्टः। अधिष्ठातारोऽपि व्यापारभेदात् त्रयः, वस्तुतस्तु एक एव परमेश्वरस्तत्तद्व्यापार इति ॥ पूर्वोपक्रान्तमेव अर्थ भावप्रत्ययभङ्गया प्रथयति ब्रह्मत्वे सृजते लोका- विष्णुत्वे स्थितिकारकः॥६६॥ रुद्रत्वे संहरेत्सर्व जगदेतचराचरम् । एतदनुसारतश्च जाग्रत्स्वप्नसुषुप्तं च तिस्रोऽवस्थाश्च तद्गताः ॥६७॥ तद्गता इति सत्त्वादिगुणवशोत्थिता इत्यर्थः॥
६९ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । ४९ अथ गुणेभ्यो धिषणा जाता धिषणा बुद्धिः॥ साच भावभेदैः समन्विता। भावा धर्मादयः, भेदाश्च अहङ्कारेन्द्रिया- दयो वक्ष्यमाणाः॥ किंच ब्रह्मा तत्राधिपत्येन बुद्धितत्त्वे व्यवस्थितः॥६८॥ सर्वज्ञं च तमेवाहु- बोद्धानां परमं पदम् । तमेव ब्रह्माणं सर्वज्ञं, नतु सर्वकर्तारं बौ- द्धानां परमं पदं मोक्षधाम आगमिकाः कथ- यन्ति । सर्व एव तदेवाहुरिति पाठः सर्व एव आ- गमिका बुद्धितत्वं बौद्धानां परमं पदमाहुरिति व्याकार्यः॥ एवमुत्पत्तिप्रतिपादनप्रसङ्गेन बुद्धिवृत्त्यात्म- कहर्षविषादादिरूपक्षणिकज्ञानसन्ततिभावना- , ५० स्वच्छन्दतनम् । [११ पट० निष्ठानां बौद्धानां बुद्धितत्त्वप्राप्तिरेव मोक्ष इति प्रतिपाद्य, वाद्यन्तराभिमतप्राप्यपदरूपान्मो- क्षाभासान्प्रदर्घ्य शैवानां सर्वोत्तमसत्यमोक्ष- भाजनत्वमिति स्फुटयति । यदुक्तं पुरस्तात् 'इत्येवंवादिनां तेषां वादानां तु शतत्रयम् । त्रिषष्टिरधिकाश्चान्ये वादिनां भ्रान्तचेतसाम् ॥ अज्ञानतिमिरान्धानामुन्मीलनकदुत्तमम् ।' (१०।६८१) इत्यादि । तत्र गुणेष्वारहतानां च परमं पदमिति संबन्धः, एवमुत्तरत्र । आ- हता हि लोकपञ्जरस्थानीयशोकमोहाद्यावरणस्य तप्तशिलारोहादितपोवशात् प्रशमे सुखसंविदा- स्मकपुद्गलोन्मजनान्मुक्तिमाहुः, सुखं च सत्त्व- गुणरूपमिति गुणेषु स्थिताः॥ प्रधानं वेदवादिनाम् ॥ ६९ ॥ ते हि 'अजामेकां लोहितशुक्लकृष्णांबढी प्रजाः सृजमानांसरूपाः। अजोझेको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः।' (श्वे० ४१५) ५१ ७० श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । इत्यादि वदन्तः प्रायः प्रकृतिमेव परं पद. मित्याहुः । तदुक्तं गीतासु 'त्रैगुण्यविषया वेदा.... ।' (भ० गी० २।४५) इति ॥ ६९॥ पौरुषं चैव सांख्यानां सुखदुःखादिवर्जितम्। तेषां हि सुखदुःखाद्यात्मकप्रकृतिविविक्त- चितिशक्तिमात्ररूपवरूपावाप्तिर्मोक्षः॥ षड्विंशकं च देवेशि योगशास्त्रे परं पदम् ॥ ७० ॥ पढिशमेव पढेिशकम् । यद्यपि 'तदा द्रष्टुः स्वरूपेऽवस्थानम् '( यो० सू० ११३) इत्युक्त्या विविक्तपुंरूपतावाप्तिर्योगस्थैर्मोक्ष उ- कः, तथापि 'क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ।' ( यो० सू० १।२४) इत्येतत्सूत्रभाष्ये भगवता व्यासमुनिना प्रा- ग्बन्धकोटिवयो मुक्तपुरुषेभ्योऽपि ईश्वरस्य नित्यनिर्मुक्तत्वनित्यैश्वर्ययोगरूपो विशेषो द.
५२ स्वच्छन्दतन्त्रम् । [११ पट० र्शित इति पञ्चविंशसंख्यकमुपेक्ष्य, तदनुग्रह- कारि षड्विंशकमीश्वररूपं परमं पदं योगशास्त्रे दर्शितम् ॥ ७० ॥ व्रते पाशुपते प्रोक्त- मैश्वरं परमं पदम् । 'लाकुलं मौसुलं चैव द्विधा तत्रं प्रकीर्तितम् ।' इति द्विधा यत्पाशुपतं, ततो मौसुलस्य निणे- ष्यमाणत्वात् लकुलेशप्रतिपादितमेव इह पा. शुपतव्रतमुच्यते । तत्र च ईश्वरतत्त्वावाप्तिरेव परमं पदम् । पूर्वमेव 'व्रतं पाशुपतं दिव्यं ये चरन्ति जितेन्द्रियाः । भसनिष्ठा जपध्यानास्ते व्रजन्त्यैश्वरं पदम् ॥' (१०।११७०) इत्युक्तम् ॥ पाशुपतभेद एव तु क्रियाप्रधाने मौसुले कारुके चैव मायातत्त्वं प्रकीर्तितम् ॥७१॥ श्रीलकुलेशशिष्येण मुसुलेन्द्रेण कारोहण- स्थानावतीर्णेन च अपरेण मायातत्त्वगतक्षेमेश- ब्रह्मखामिप्राप्तिहेतुक्रियाबहुलाः खे खे शास्त्रे ५३ ७३ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । व्रतविशेषा उक्ता इति मायातत्त्वमेव तत्र परमं पदम् ॥ ७१॥ तथाच मायातत्त्वनिविष्टः क्षेमेशो ब्रह्मणः स्वामी तेषां तत्परमं पदम्। यथासंख्येन ॥ येऽपि वैमलाख्याः पाशुपतभेदाः, तथा पञ्चार्थप्रमाणाष्टकोक्तोपासापराः परे, तेषामी- श्वरतत्त्वगततेजेशध्रुवेशी परं पदमित्याह तेजेशो वैमलानां च प्रमाणे च ध्रुवं पदम् ॥ ७२॥ वैमलप्रमाणशास्त्रनिष्ठो हि दीक्षाज्ञानविशुद्धात्मा देहान्तं याव चर्यया। कपालव्रतमास्थाय स्वं स्वं गच्छति तत्पदम् ॥७३॥ दीक्षाज्ञानविशुद्धात्मेतिपदेन प्रोक्तक्रिया- प्रधानव्रतमात्रनिष्ठमौसुलकारुकेभ्योऽत्र विशेषो दर्शितः। स्वं खं प्रोक्ततेजेशध्रुवेशरूपम् । य. दुक्तं पुरस्तात् ५४ खच्छन्दतन्त्रम्। [ ११ पट० 'तेजेशश्च ध्रुवेशश्च प्रमाणानां परं पदम् ।' (१०।११७४) इति ॥ ७३ ॥ ये तु कपालाद्यस्थिव्रतधारिणः पूर्वोक्तला- कुलाम्नायात् 'भस्मनि शयीत' इत्यादिपाशुपतशास्त्रचोदनातः जपभस्मक्रियानिष्ठा- स्ते वजन्त्यैश्वरं पदम् । अत्र मध्ये मौसुलादिविषयां मायातत्त्वाव- स्थितिमुल्लङ्घय 'व्रते पाशुपते प्रोक्तमैश्वरं परमं पदम् ।' (१११७१) इति यत् व्युत्क्रमेण उक्तं, तन्मौसुलादीनां पाशुपतभेदप्रदर्शनाय ॥ तदेवमा बौद्धेभ्यो लाकुलान्तास्तत्वाध्वभो- गभाजो, नतु मुक्ताः। ये तु षट्स्रोतोभेद- भिन्नं शैवशास्त्रमास्थिताः, तेषां सर्वाध्वनो विनिष्क्रान्तं शैवानां तु परं पदम् ॥७४॥ उक्तं च अन्यत्र 'वेदादिभ्यः परं शैवं......
७६ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । ५५ इति । यत्तु शैवाद्वामं तु दक्षिणम् । दक्षिणात्परतः कौलं कौलात्परतरं नहि ॥' इत्युच्यते, तत् शिवप्रोक्तशास्त्राणामवान्तरवै- चित्र्यप्रतिपादनाभिप्रायेणैव । शैवाद्वाममित्यत्र हि शैवशब्देन अनुत्तीर्णशिवपदप्रापकं कैरणादि सिद्धान्तशास्त्रमुच्यते ॥ ७४॥ तदेवं प्रासङ्गिकमेतन्निीय प्रकृतमाह बुद्धितत्त्वादहङ्कारः पुनर्जातस्त्रिधा प्रिये सात्त्विको राजसश्चैव तामसश्च प्रकीर्तितः ॥७५॥ पारिभाषिकसंज्ञाभेदस्तु प्रातिलोम्यक्रमेण भूतादिकृतश्चैव तैजसश्च त्रिधा स्थितः । तत्र तन्मात्राण्यथ भूतादे- स्तेभ्यो भूतान्यजीजनत् ॥७६॥ परमेश्वर इति शेषः। भूतानां स्थूलसूक्ष्मा- णामादिःकारणमिति व्युत्पत्तितोऽपि भूतादिः॥
५६ स्वच्छन्दतन्त्रम् । [११ पट० तन्मात्राणि आह शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः । एतानि पञ्च ख्यातानि तन्मात्राणि एषां मध्ये क्रमेण तु ॥७७॥ शब्दायोम समुत्पन्नं स्पर्शाद्वायुस्तथा पुनः। रूपात्तेजः समुत्पन्न- मापो जाता रसात्पुनः॥७८॥ गन्धात्तु पृथिवी जाता स्पर्शादयो यथोत्तरं पूर्वपूर्वतन्मात्रसहि- तवारवादीनां यादिगुणानां कारणमिति समा- नतत्रादनुसतव्यम् ॥ तदेतत् तन्मात्रभूतजन्म समासात्कथितं तव ।
५७ ८१ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । किंच कर्मेन्द्रियाणि जातानि तस्माद्वैकारिकादथ ॥७९॥ विकारोऽन्यान्यरूपतात्मकं चाश्चल्यं प्रयो- जनं यस्य तद्वैकारिकं राजसमिह विवक्षितम् । अथेति पादपूरणाय ॥ ७९ ॥ कानि तानीत्याह वाक्पाणिपादं पायुश्च उपस्थश्चेति पञ्चमम् । तथा बुद्धीन्द्रियाणि पञ्चैव तैजसात्तु भवन्त्यथ ॥ ८० ॥ अथेति प्राग्वत् । तेजः प्रकाशः प्रयोजनं यस्य, तत् तैजसं सात्त्विकमिह अभिप्रेतम् ॥ तानि आह श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी । चाञ्चल्यात् सर्वविषयप्रकाशकत्वाच्च
५८
स्वच्छन्दतन्त्रम्।
व्याप्त
[११ पट०
उभयात्म मनः प्रोक्तं
सर्वेन्द्रियाणि तु ॥८१॥
व्यातृ इति तृन् प्रत्ययः, अत एव सर्वेन्द्रि.
याणीत्यत्र षष्ट्यभावः। श्रीपूर्वशास्त्रे तु
......... तेजसात्तस्मान्मनोऽक्षेशमजायत ।
वैकारिकात्ततोऽक्षाणि
॥ (१॥३१)
इति प्रक्रियाभेदमात्रमस्ति ॥ ८१ ॥
तदेवंप्रतिपादितोत्पादक्रमाणि सर्वाणि ए-
तानि तत्त्वानि
आत्मोपकारकाण्येव
कथितानि यथार्थतः।
वक्ष्यमाणविभागस्य आत्मनो लौकिकालौ-
किकभोगतत्साधनतदाश्रयादिदानेन यथार्थेन
निजनिजानुरूपप्रयोजनसंपादनेन एतानि उप-
कारकाण्येव ॥
एतत्कृतविचित्रोपस्कार आत्मा
अतश्च
विचित्ररूप इत्याह
आत्मा चैवान्तरात्मा च
बाह्यात्मा चैव सुन्दरि ॥८२॥
५९ ८५श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । निरात्मा परमात्मता- न्कथयामि समासतः । यथा अबुधश्च बुधश्चैव बुध्यमानस्तथैव च ॥८३॥ प्रबुद्धः सुप्रबुद्धव पुनश्च कथयामि ते । एतानित्येव ॥ तत्र प्रधानसाम्यमाश्रित्य सुखदुःखविवर्जितः॥८४॥ यदा तस्मिन्स्थितो देवि तदात्मा तु स उच्यते। प्रधानस्य प्रकृतिरूपस्य यत् साम्यं गुणानाम- न्योन्याभिभवाद्यभावात् सामरस्येन अवस्थानं, तदाश्रित्य । तस्मिन्निति प्रधान एव । सुखादि- रहितः प्रकृतिलीनत्वाद्ध्यामूढः । यद्वक्ष्यति 'गुणसाम्यमनिर्देश्यमप्रतक्यमनौपमम् । तस्मिञ्जगदशेपं तु प्रसुप्तमिव तिष्ठति ॥' (११२८३) ६० स्वच्छन्दतत्रम् । [११ पटक इति । एवमेष कञ्चकमात्रशरीरः प्रकृतिलीन आत्मेत्युक्तः॥ अयमेव च पुर्यष्टकसमायोगा- त्पर्यटेत्सर्वयोनिषु ॥ ८५॥ अन्तरात्मा स विज्ञेयो निबद्धस्तु शुभाशुभैः। आन्तरसूक्ष्मशरीरात्मकपुर्यारम्भकतन्मात्र- पञ्चकमनोबुझ्यहंकारात्मकं पुर्यष्टकं, तत्संबन्धा- द्वासनारूपैः शुभाशुभैः निबद्धः सन् योनेर्यो- न्यन्तरं प्रसरन्नात्मबाह्यात्मनोरन्तर्मध्ये अव- स्थितत्वादन्तरात्मा ज्ञेयः ॥ एष एव तु बुद्धिकर्मेन्द्रियैर्युक्तो महाभूतैः समावृतः ॥८६॥ बाह्यात्मा तु तदा देवि भुङ्क्तेऽसौ विषयान्सदा। स्थूलदेहवानिति यावत् ॥
८८ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । ६१ यदा तु अयं भूतभावविनिर्मुक्त- स्तत्त्वधर्मकलोज्झितः ॥ ८७॥ मलधर्मेकयुक्तात्मा मायाधर्मतिरस्कृतः। निरात्मा तु तदा ज्ञेयः भूतैः स्थूलसूक्ष्मैः भावैश्च बुद्धिधर्मैर्विनि- मुक्तः, तत्त्वधर्मेण पुंस्तत्त्वात्मना रूपेण कलो- पलक्षितेन च कञ्चुकेन उज्झितः, केवलं मल. धर्मेणैव एकेन अपूर्णमन्यतात्मकाणवमलव- भावेन युक्तः संकुचितस्वभावः, यतो मायायाः पूर्वोक्तशक्तिरूपायाः, नतु तत्त्वात्मनः, धर्मेण अख्यात्यात्मना रूपेण तिरस्कृतः संकुचिता- भासीकृतः, एवंभूतो निरात्मा आत्मनः पू. वोक्तपाशशतवलितात् पुंस्तत्त्वलक्षणात् खभा- वात् निष्क्रान्तः परमेशशास्त्रदृशा अभ्यस्त- मायापुंस्तत्त्वविवेकज्ञानो विज्ञानाकल इत्यर्थः । यदुक्तं श्रीपूर्वे २ स्वच्छन्दतन्त्रम् । [११ पट० ...........तत्र विज्ञानकेवलः । मलैकयुक्तः...... ॥ (११२३) इति । मलकर्मकयुक्तात्मेति अपपाठः ॥ यदा तीव्रतमानुग्रहात्पूर्णतया स्फुरत्ययं, तदा परमात्माथ कथ्यते ॥८८॥ नतु पूर्ववत्पशुरूपः ॥ ८८॥ यतः मलकर्मकलायैस्तु निर्मुक्तश्च यदा प्रिये। साध्वसमतीतश्च मायामोहोज्झितश्च यः॥८९॥ निर्मलत्वं यदा याति पदं परममव्ययम्। परमात्मा तदा देवि प्रोच्यते प्रभुरव्ययः॥९॥ यत एव आणवादिमलत्रयेण निःशेषेण संसारपर्यन्तेन रूपेण मुक्तः, अत एव सर्व समनान्तमध्वानं सम्यक् तेषां विलापनयुक्त्या अतीतो नक्कापि अध्वनि गृहीतात्माभिमानः, अतश्च मायामोहेनेति ६३ ९२ श्लो०] श्रीक्षेमराजाचार्यकृतोद्दयोताख्यटीकोपेतम् । 'कर्मरूपा स्थिता माया यदधः शक्तिकुण्डली। (१०।१२६३) इति पूर्वमुक्ता या माया, तत्कृतेन मोहेन सुसूक्ष्मेणापि महामायासंकोचेन उज्झितो र- हितः, इत्थंभूतः सन् यदा परमं पदं परमशिवै- क्यरूपं निर्मलत्वमायाति, तदा असावव्ययोऽ- विनाशी प्रभुः सर्वत्र स्वामी परमात्मेत्युच्यते॥ अथ अबुधादिभेदान् व्याकर्तुमुपक्रमते अबुधं च पुनर्देवि कथयामि समासतः। तथाच तत्त्वभूतात्मसंहारे कलाक्षित्यन्तगोचरे ॥९१॥ मायासाम्यनिशायां वै संहृत्य परमेश्वरः। निर्व्यापारो भवेत्ताव- द्याव? नोदयः पुनः॥९२॥ 'अबुधस्तिष्ठते तत्र इति वक्ष्यमाणेन संबन्धः। कलादिक्षित्यन्तं यानि तत्त्वानि त्रिंशत्, तेषां तदाश्रयाणां च
६४
स्वच्छन्दतघ्रम् ।
[११ पट०
स्थावरादिब्रह्मान्तानां चतुर्दशानां भूतानां य
आत्मा स्वभावः, तस्य संहारे प्रवृत्तः परमेश्वरो
मायायाः साम्यं समस्तविकृतिप्रशमात्मकं त-
देव विश्वप्रखापात् निशा तस्यां मायीयमशे-
षमध्वप्रपञ्चमनन्तभट्टारकमुखं संहृत्य निर्व्या-
पारो भेदसृष्ट्यनुन्मुखस्तावद्भवति, यावत् वक्ष्य-
माणमायानिशाकालप्रशमात्मा नोदय इति,
यावन्नायं सुखप्रवृत्तः । तत्प्रवृत्तौ हि स पुनर-
न्तर्मुखेन जगत्सृजन्सव्यापार एव भवति॥९२॥
अस्मिंश्च समये
सुखदुःखाद्यभावश्च
ह्यात्मवर्गस्य कर्मणः।
कर्मणः कार्यस्य, कलादिक्षित्यन्तदेहयोगेन
उल्लास्यस्य आत्मवर्गस्य सर्वस्य जीवजातस्य
सुखदुःखशरीराद्यभावो
भवति गाढमूढत्वं
संपद्यत इत्यर्थः॥
तदाहि असौ आत्मवर्गः
मलनिद्राविमूढात्मा
रुद्धचैतन्यदृक्तियः ॥९३॥
६५ ९५ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । न विजानाति शब्दादी- नात्मानं च वरानने । कारणं न विजानाति नच स्थानं स्वकं प्रिये ॥९४॥ सर्वमेतन्न जानाति यतो लुप्ताक्षकियः। अबुधस्तिष्ठते तत्र यावन्मायाअहर्मुखम् ॥ ९५॥ मलेन अख्यात्यात्मना जनितया निद्रया स्वापेन विशेषेण मूढो जाड्यं प्रापित आत्मा, यतश्च रुद्धे चैतन्यात्मिके पूर्णे दृक्रिये यस्य, यतश्च संहारवशात् लुप्ते अक्षसंवन्धिन्यौ दृक्रिये यस्य तथाभूतोऽयम्, अत एव न विजानाति शब्दादीन् आत्मानं च ग्राहकस्वरूपम् , ईदृगह- मिति अन्तःकरणेनापि निश्चिनुते न । कारणं च परमेशमीशव्यामोहादिदशोत्थापकं खं च मा- यात्मकं स्थानमाश्रयं न जानाति। एतत्सर्व यतो न जानाति ततोऽयमबुध्यमानत्वादबुधः। तत्रेति मायायां तावदास्ते यावन्मायीयमहर्मुखम् । ९ स्वच्छन्दतन्त्रम् । [११ पट० मायाअहर्मुखमिति सन्ध्यभावश्छान्दसः। यतः- शब्दापेक्षं तत इति अध्याहार्यम् । तदयमित्थं मायालीनः प्रलयाकलोऽबुध इत्यक्तः। यस्तु पूर्व 'प्रधानसाम्यमाश्रित्यः ।' (११।८४) इति ग्रन्थेन आत्मा उक्तः, स प्रकृतिलीन इति विशेषः ॥ ९५॥ तदित्थम् अबुधस्तु समाख्यातः अथ बुधं चैव निबोध मे। तत्र परिपाकगते कर्म- णीश्वरेच्छाकरोद्धृते ॥ ९६ ॥ प्रकाशं नायनं यह- दनुगृह्णाति भास्करः। करणान्यनुगृह्णाति तहदीश्वर आत्मनाम् ॥९७॥ आत्मनामनेककर्ममध्यात् कस्मिंश्चित्कर्मणि उद्रेकवशात् परिपाकगते फलदानयोग्ये अस्य
६७
तदनुग्रहं विना
९८ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् ।
अणोः अस्मात्कर्मण ईदृक् फलमस्तु इतीह-
गीशस्य अनन्तमूर्तेर्भगवतो या इच्छा, सैव
करस्तेन उद्धृते अनन्तकर्मसन्ततिमध्यात् नि-
प्कृष्य तं तमात्मानं प्रति भोगाय योजिते सति,
तेषामेव आत्मनां कलादीनि करणानि अनुगृह्णा-
ति उन्मीलयति, येन ते आत्मानः किंचित्क-
र्तृत्वादिप्रतीतिभाजो जायन्ते । अत्र दृष्टान्तो
यथा नायनं प्रकाशं भास्करोऽनुगृह्णाति । यथा
नासौ भावान् प्रकाशयति,
एवमीश्वरानुन्मीलिताः कलादयो न किंचि-
स्कर्तृत्वादिप्रतीतिभाजः आत्मनः संपादयन्ती-
ति सर्वत्र ईश्वरेच्छेव भगवती भवति ॥९७॥
तदनुग्रहादेव हि आत्मा
कलोन्मीलितचैतन्यो
विद्यादर्शितगोचरः।
एतत् पूर्वमेव व्याकृतम् ॥
किंच
रागोऽस्य रञ्जकत्वेन
विषयानन्दलक्षणः॥९८॥
६८
खच्छन्दतन्त्रम् ।
[११ पट०
सामान्यविषयाभिष्वङ्गात्मा रागःअस्य पुंसो
रञ्जकत्वेन स्थितः ॥ ९८॥
तथा
कालो वै कलयत्येनं
तुट्यादिप्रलयावधिः।
नियतिनिश्चितं नित्यं
योजयेच्च शुभाशुभे ॥९९॥
एतदपि प्रागेव निर्णीतम् ॥ ९९ ॥
संयोज्य च तत्फलमस्य
परमाणुसहस्रांशा-
न च न्यूनं न चाधिकम् ।
तदित्थं कलादिपञ्चकवेष्टितोऽयं
पुंभावं समनुप्राप्य
तत्त्वे च पुरुषाह्वये ॥१०॥
वर्तते इति शेषः।
'आख्यालयश्च विज्ञेयौ नामपर्यायनामनी ।'
इत्युक्तेः संज्ञायां रूढ आह्वयशब्दः। पुरुष इति
आयो यस्य तत् पुरुषाह्वयम् ॥ १००॥
१०२ श्लो०] श्रीक्षेमराजाचार्यकृतोद्दयोताख्यटीकोपेतम् । पुरुषशब्दमक्षरसाम्येन निर्वक्ति पुरं प्रधानमित्युक्तं प्रपञ्चानेकसंकुलम्। तत्पुरं पोषयेद्यस्मा- त्तस्माद्वै पुरुषः स्मृतः॥१०१॥ बुद्ध्यादिक्षित्यन्तेन अनेकेन प्रपञ्चेन परि- णामभूयस्त्वेन संकुलं व्याप्त प्रधानं यस्मात् पोषयेत् आत्मप्रकाशाभिनिवेशनेन चेतनाय- मानं संपादयेत् , तम्मादयं पुरुष इत्युक्त इत्यर्थः। प्रपञ्चानेकेति पूर्वनिपातव्यत्ययश्छान्दसः १०१ तदित्थं प्रधानाशयमापन्नमिमं यतः श्रीकण्ठनाथस्तु नियत्या कर्मतः पशुम्। प्रधानपाशजालेन वेष्टयेदसमञ्जसम् ॥ १०२॥ पशुमाणवपाशपाशितं कलादिकञ्चकवलितं च पुरुष प्रधानाशयमापन्नं प्रधानान्तेऽध्वनि अधिकृतःश्रीकण्ठनाथःप्रधानसंबन्धिना पाश- स्वच्छन्दतत्रम्। [११ पट० जालेन नियतिवशोत्थितकर्मानुसारमसमञ्ज- सम् अनात्मनि अभिनिवेशनाय अननुरूपमेव वेष्टयेत् ॥ १०२॥ प्राधानिकपाशवेष्टनं स्पष्टयति बद्धस्त्रिगुणबन्धेन बुद्ध्या वैकारिकेण तु। तन्मात्रेन्द्रियबन्धेन दृढं भूतैश्च वेष्टितः ॥ १०३॥ पूर्व सत्त्वादिगुणैर्वलितः, ततस्तत्परिणामक्र. मादध्यवसायात्मना बुद्ध्या, ततोऽभिमानात्मक- दुरतिक्रमणीयविकारप्रयोजनेन वैकारिकादिरू- पेण अहंकारेण। वैकारिकेणेति उपलक्षणपरम् । ततोऽपि आहङ्कारिकेण तन्मात्रेन्द्रियवर्गेण, त- तोऽपि तन्मात्रकायेंराहारादिवशोत्थशुक्रशो. णितक्रमप्रसृतैः स्थूलैर्भूतैर्दृढं गाढं कृत्वा अयं वेष्टितो बद्धः ॥ १०३ ॥ कीशोऽयं बद्धः संचरति ह्येवं मायाद्यवनिगोचरे।
१०६ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीको पेतम् । ७१ एवं बद्धो मायादिभूम्यन्ते संचरति योने- योन्यन्तरं श्रयति ॥ अतश्व संसारी प्रोच्यते तस्मा- संसरेद्यत्पुनः पुनः ॥१०४॥ एवमित्थंनिरुक्तस्य पुरुषस्य संसारिणः शब्दादिविषया यस्मा- द्विद्यन्ते विषयी ततः। एष एवेत्यर्थः ॥ अतश्च अयं विषयाः परमित्याह ख्यादयो ये विषयाः, तदेव परं प्रकृष्टं वस्त्विति ब्रूते ॥ कीदृशा विषयाः नानाभेदैर्विसर्पिताः ॥ १०५॥ नानाकर्मविपाकैश्च नानाभेदैरिति उपलक्षिताः। विसर्पिता उप- संप्राप्ताः । नानाकर्मविपाकैः सहेत्यर्थः॥ सुखदुःखादिभेदैः ७२ स्वच्छन्दतत्रम् । [११ पट० वै यस्मा- (a तदेतान्विषयानयं भुङ्क्ते तद्भावभावितः। तेषां विषयाणां भावेन सत्तया भावितो वासितान्तःकरणः ॥ एवं भुङ्क्ते त्तस्माद्भोक्ता स उच्यते॥१०६॥ स इति विषयी ॥ १०६ ॥. किंच अयं तस्मिंस्तज्ज्ञो वरारोहे क्षेत्रे वै कार्षको यथा । तस्मिन्निति भूतपर्यन्ते क्षेत्रे । तज्ज्ञ इति क्षेत्रज्ञ उच्यते । कार्षको यथेति दृष्टान्तपक्ष क्षेत्र केदारः॥ दृष्टान्तं श्लेषच्छायया स्फुटयति महाभिलाषमालोक्य कृषेरै लोभलाङ्गलैः ॥ १०७॥ यथा कार्षकः कलुषजलरजोविश्रान्तिर्मा स्यादितीदृशमहाभिलाषमालोक्य विचार्य तत् १०९ श्लो० ] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । क्षेत्रं लाइलैहलैः कृषत्युल्लिखति, तथा .... 'अभिलाषो मलोऽत्र तु ॥' (स्व०४।१०५) इत्युक्तस्थित्या मलरूपमभिलाषं विमृश्य दे- हात्मकक्षेत्रं बहुलोभेन कृषति कर्मबीजवा. पयोग्यं करोतीति रूपकश्लेषच्छायया उक्तिः ॥ अथच वपेच्च मोहभावेन मनोवाकायिकं सदा । धर्माधर्ममयं बीजं प्रविकीर्य समन्ततः ॥१०८॥ मोहभावेनेति महायासदायि एतदित्यवि- चारेण । वपेदिति क्षेत्रपरिनिष्ठितं संपादयेत् ॥ तदुत्तरकालं च तस्माद्वै अङ्कुरोत्पत्तिः तस्मादेव बीजात् नानाशरीरेन्द्रियात्मनो- ऽङ्करस्योत्पत्तिर्भवति ॥ कीदृशीत्याह सुखदुःखफलोदया। सुखरूपस्य दुःखफलस्य उदयो यत्र ॥ १० ७४ खच्छन्दतन्त्रम्। [११ पट० सा च अङ्कुरोत्पत्तिः वर्धते कामक्रोधेन सिक्ता रागाम्बुना भृशम् १०९ अतश्च यस्मिन्देशे च काले च वयसा यादृशेन च। उप्तं शुभाशुभं कर्म तत्काले लभते फलम् ॥११०॥ तत्काले इति भाविजन्मगततारुण्यादिस- मये इत्यर्थः ॥ ११०॥ लब्ध्वा च तत् विविधाकारं पूर्वकर्मवशाद्बुधः। बुध इति यो निर्णेतुमुपक्रान्तः ॥ तदेवमयमीदृशं क्षेत्रं यस्मादेवं विजानाति तस्मात्क्षेत्रज्ञ उच्यते ॥१११॥ भुङ्क्ते तु ११४ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । ७५ तदित्थं विषयान्बुध्यते यस्मा- दुधस्तस्मात्प्रकीर्तितः। इत्थमयं बुधः पुरुषः संसारी विषयी भोक्ता क्षेत्रज्ञ इति च तत्तदर्थानुगताभिः संज्ञा- भिरुच्यते ॥ बुध्यमानं लक्षयति तदेवानिष्टरूपेण यदा भावयते पुमान् ॥११२॥ बुध्यमानस्तु स तदा तदेवेति विषयभोगादि। एतदेव विभजति अधुना कथयामि ते। तथा यदा जुगुप्सते भोगा- शुभांश्चैवाशुभांस्तथा ॥११३॥ कृत्रिमानेव मन्येत परं वैराग्यमाश्रितः।
७६ स्वच्छन्दतब्रम् । [११ पट० मायाद्यवनिपर्यन्त- मिन्द्रजालं तु बुध्यते ॥११४॥ मायेत्यादिना तत्तत्तत्वभुवनभोगेष्वपि भेद- मयेषु अस्य विरक्तिर्दर्शिता ॥ किंच पुत्रमित्रकलत्राणि सुहृत्स्वजनबान्धवाः। यदर्जितं मया द्रव्यं शुभेनाप्यशुभेन वा ॥ ११५॥ तद्धोक्ष्यन्ते विमे सर्वे निरातङ्का निराकुलाः। एकाकी चाहमेवैष यास्यामि यमसादनम् ॥११६॥ तस्माच्च न शुभा ह्येते वैरिणोऽनर्थकारिणः। मित्रं परस्परोपकारवशात् स्निग्धं, सुहृत्तु अकारणमेव शोभनहृदयः। खजनोदासादिः। सदनमेव सादनम् ॥
१२० श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । न केवलं पुत्रादिभ्य एव जुगुप्सते, यावत् स्वात्मीयमप्ययं देहं नित्यमेव जुगुप्सते ॥११७॥ शुक्रशोणितसंभूतं विषयोरगदूषितम् । नानाव्याधिसमाकीर्ण जरामृत्युभयाकुलम् ॥ ११८॥ अतश्च सोऽहमस्मि मलाकीर्णे कथमत्र रमाम्यहम् । सोऽहमस्मीति आगमाद्यवगतसत्यात्मवरू. पो भवामि । मलमशुचिद्रव्यम् ॥ तदित्थमयमाविर्भूतवैराग्यः नित्यमुद्विग्नचित्तस्तु चिन्तयेहै पुनः पुनः ॥११९॥ कथं मुक्तिर्भवेदस्मा- संसाराहुरतिक्रमात् ।
खच्छन्दतन्त्रम् ।
[११ पट०
एवं प्रबुद्धो देवेशि
तल्लयस्तत्परायणः ॥ १२०॥
सर्वारम्भविनिर्मुक्तः
प्रमुक्तः प्रोच्यते तदा।
प्रबुद्धस्तु समाख्यातः
सुप्रबुद्धं तु मे शृणु ॥ १२१ ॥
दीक्षाज्ञानेन योगेन
चर्ययाप्यथ सुव्रते।
यदा प्राप्तः परं स्थान-
मध्वातीतं निरामयम् ॥१२२॥
विरजो विमलं शान्तं
प्रपश्चातीतगोचरम्।
निष्कम्पं कारणातीतं
सर्वज्ञं सर्वतोमुखम् ॥ १२३॥
सुतृप्तानादिसंबुद्धं
स्वतन्त्रं नित्यमेव हि।
अलुप्तशक्तिविभवं
सुप्रबुद्ध सनातनम् ॥ १२४॥
१२६ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । तस्मिन्युक्तस्तदात्मा वै तद्गुणैस्तु समन्वितः। सुप्रबुद्धः स एवोक्तो भैरवस्य वचो यथा ॥ १२५॥ न चाधिकारिता दीक्षां विना योगेऽस्ति शांकरे । इह आत्मा अन्तरात्मा च उक्तः, विज्ञाना- कलो निरात्मेति, प्रलयाकलोऽपि अबुध इति, सकल एव च बाह्यविषयाववोधात् बुद्ध इति, आयातशक्तिपातो बुद्ध्यमानः, शिवयज्ञदीक्षितः प्राप्तज्ञानः प्रबुद्धः, स्वभ्यस्तज्ञानस्तु प्राप्तशिवै. कात्म्यो निश्चलप्रतिपत्तिजीवन्मुक्तः सुप्रबुद्ध इति शुद्धात्मा बुद्ध्यमानः प्रबुद्धः सुप्रबुद्धः परात्मेति चतुर्विध उक्तः ॥ एवमात्मोपयोगितत्त्वसर्गनिरूपणानन्तरं ज्ञानियोगिनः प्रति उपयोगिनो हेयोपादेयता- प्रदर्शनाय आत्मनोऽवस्थाविशेषान् निरूप्य 'गुणेभ्यो धिपणा जाता भावभेदैः समन्विता ॥' (११।६८) इत्युपक्रान्तान्भावभेदान्निरूपयितुमाह ८० स्वच्छन्दतन्त्रम् । [११ पट० अधुना कथयिष्यामि भावभेदान्वरानने ॥ १२६ ॥ भावयन्ति वासयन्ति अन्तःकरणमिति भावा धर्मादयोऽष्टौ ॥ १२६ ॥ तत्र आदी भेदानाह कारणानि दश त्रीणि कार्य च दशधा प्रिये । भावानपि आह एकादशेन्द्रियवधा अहङ्कारस्तु वै त्रिधा ॥१२७॥ बुद्धिरष्टविधा चैव पञ्चधा तु विपर्ययः। अत्र अहङ्कारस्त्रिविधो भेदमध्ये गणनीयः॥ अथ नामान्येषां विभागेन कथयामि यथाक्रमम् ॥ १२८॥ तत्र कार्यविषयाणि कारणानि, कार्याणि ८१ १३२ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । च स्थूलानि सूक्ष्मप्रतीतिहेतुभूतानीत्याशयेन उद्देशवैपरीत्येन नामानि आह पृथिव्यापस्तथा तेजो वायुराकाशमेव च ॥ १२९॥ गन्धो रसश्च तन्मात्रे रूपतन्मात्रमेव च। स्पर्शः शब्दश्च पञ्चैव एतत्ते तन्मात्राणीरितानि तु ॥१३०॥ ईरितानि उदीरितानि ॥ १३० ॥ दशधा कार्य कीर्तितं नामसंख्यया । अथ वाक्पाणिपादं पायुं च उपस्थं च तथा विदुः ॥१३१॥ श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चेति कीर्तितम् । बहिष्करणकं देवि दशधा संव्यवस्थितम् ॥१३२॥ ११ ८२ स्वच्छन्दतनम् । [११ पट० मनोऽहङ्कारबुद्ध्याख्यं त्रिधान्तःकरणं स्मृतम् । एवं त्रयोविंशतिधा कार्यकारणानि उक्त्वा, इन्द्रियासामर्थ्यरूपानिन्द्रियवधाख्यान् भावान् यथाक्रमं व्यनक्ति मूकता कौण्यपङ्गुत्वं तथानुत्सर्गतापि च ॥ १३३॥ निरानन्दश्च विज्ञेयो बधिरत्वं तथैव च। शीर्णता चैव गात्रस्य तथा चान्धत्वमेव च ॥१३४॥ अनास्वादस्त्वगन्धश्च अनवस्था मनस्यथ । इतीन्द्रियवधाः ख्याता एकादश तु तत्क्रमात् ॥१३५॥ । तत्क्रमादिति प्रोक्तवाक्पाण्यादिक्रमात् ॥
१३९ श्लोक०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । ८३ प्रागेव च तैजसो वैकृताख्यश्च भूतादिश्च तृतीयकः । अहङ्कारस्त्रिधा प्रोक्तो मया ते वरवर्णिनि ॥ १३६॥ अथ धर्मो ज्ञानं च वैराग्य- मैश्वर्यं च चतुर्थकम् । अधर्म च तथाज्ञान- मवैराग्यमनैश्वरम् ॥ १३७॥ अष्टावते समाख्याता बुद्धेर्धर्मादयो गुणाः। किंच तमो मोहो महामोह- स्तामिस्रोऽन्यो विपर्ययः॥१३८॥ अन्धतामिस्रमित्याहु- रेवं पञ्च विपर्ययाः । गुणबुझ्यहङ्क्त्तन्मात्रात्मनि सूक्ष्मशरीरे इ.
८४ स्वच्छन्दतघ्रम् । [११ पट० न्द्रियभूतात्मके स्थूलदेहे दृष्टानुश्रविकैः स्पृह- णीये शब्दादिविषयपश्चके य आत्माभिमानः, स क्रमेण तमो मोहो महामोह इत्युच्यते । यस्तु शरीरबाह्यविषयापकारिणि द्वेषः, स ता- मिस्रः । तद्वियोगभयात् त्रासोऽन्धतामिस्रः॥ तदेवं भावभेदाः समाख्याताः पञ्चाशत्ते यथाक्रमम् ॥१३९॥ अथ धर्मादीनां प्रभेदान्प्रतिपादयन् सां- ख्योक्तांस्तुष्टिसिद्ध्यादीन् दर्शयितुं प्रक्रमते पुनश्चाष्टौ तु ये बुद्धे- भैदा धर्मादयः स्थिताः । तेषां भेदा यथा भिन्ना- स्तथाहं कथयामि ते ॥१४॥ पुनःशब्दः कथयामीत्येतदनन्तरं योज्यः॥ धर्माद्यष्टकरूपा या बुद्धिः, सा ज्ञानाख्य- भेदवज बध्नाति सप्तधा सा तु - पुंसः संसारवमनि ।
१४४ श्लो०] श्रीक्षेमराजाचार्यकृतोश्योताख्यटीकोपेतम् । ८५ अष्टमेन तु मोचयेज्ज्ञानभावेन सांख्यज्ञानरतान्नरान् ॥१४॥ सांख्येत्याद्युक्तेः सांख्यदृष्टावेव ते मुक्ताः, नतु इहेत्याशयोऽग्रे व्यक्तीभविष्यति ॥१४१॥ एषां धर्मादीनां मध्यात् ज्ञानं च सात्त्विकं प्रोक्तं त्रयोऽन्ये राजसाः स्मृताः । तामसाश्चाप्यधर्माद्या- श्चत्वारो वै वरानने ॥ १४२॥ त्रय इति ऐश्वर्यवैराग्यधर्माः ॥ १४२ ॥ किंच धर्मश्च ज्ञानं चैवाष्टधा स्मृतम् । वैराग्यं नवधा चैव- मैश्वर्यं चाष्टधा विदुः॥१४३॥ एत एव विपर्यस्ता अधर्माद्याः प्रकीर्तिताः । दशधा प्रोक्तो ८६ स्वच्छन्दतन्त्रम् । [११ पट० एत एव ते धर्मादयो यथाप्रोक्तसंख्या- प्रभेदा इत्यर्थः ॥ तत्र धर्म दशविधं तावदाह अक्रोधो गुरुशुश्रूषा शौचं सन्तोष आर्जवम्॥१४४॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्कता। एवं दशविधो धर्मः कथितस्तु वरानने ॥ १४५॥ अकल्कता अपापचित्तता॥ १४५॥ ज्ञानभेदानाह तारं सुतारं तरणं तारकं च प्रमोदकम् । प्रमुदितं रम्यकं च सदाप्रमुदितं तथा ॥ १४६ ॥ एतज्ज्ञानं समाख्यातं समासात्परमेश्वरि।
८७ १४९ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । यत् पूर्वं पुंस्तत्त्वभुवननिर्णयावसरे 'तारा चैव सुतारा च. ....।'(१०।१०७१) इत्यादि सिद्ध्यपेक्षया स्त्रीपाठेन उक्तं, तत् सांख्योक्तोहादिरूपसिध्यष्टकं ज्ञानविशेषम- इत्याशयेन । इह ज्ञानसामानाधिकरण्येन नपुं- सकनिर्देशेन उक्तौ केवलं पूर्वं मोदमानेति यत्पठितं, तत्स्थान इह तरणमिति पाठमात्र- भेदः, नतु वस्तुभेदः कश्चित् ॥ पूर्वोक्तं तुष्टिनवकमपि वैराग्यप्रभेदरूप- मित्याह अम्भा च सलिला ओघा वृष्टिसंज्ञा तथापरा ॥ १४७॥ सुतारा च सुपारा च सुनेत्रा च परा स्मृता । अष्टमी च कुमारी स्या- दुत्तमाम्भसिका तथा ॥१४८॥ तदित्थं वैराग्यं नवधा चैव कथितं तु मया तव ।
८८ स्वच्छन्दतत्रम् । [ ११ पट० तदेतत्सिद्धितुष्टिसप्तदशकमिह तारादिदे- वताधिष्ठितत्वादेवमभिहितमिति प्रागेवोक्तम् ॥ अथ ऐश्वर्य विभागतो दर्शयति अणिमा लघिमा चैव महिमा प्राप्तिरेव च ॥ १४९॥ प्राकाम्यं च तथेशित्वं वशित्वं च ततः परम् । यत्रकामावसायित्व- मष्टमं परिकीर्तितम् ॥ १५०॥ ऐश्वर्यमष्टधा चैव कथितं तु वरानने अथ अक्रोधादिविपरीतान् क्रोधादीनधर्म- भेदानाह क्रोधश्चागुरुशुश्रूषा अशौचं च ततः परम् ॥१५॥ असन्तोषोऽनार्जवं च हिंसा चासत्यमेव च ।
८९ १५५ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । स्तेयमब्रह्मचर्य च तथा चैव सकल्कता ॥१५२॥ एवमेष समाख्यातो दशधाधर्मसंग्रहः। अज्ञानभेदानाह अतारमसुतारं च अतारणमथापि च ॥ १५३ ॥ अतारकं च देवेशि चतुर्थ परिकीर्तितम् । अप्रमोदोऽप्रमुदित- मरम्यकमथापि च ॥ १५४॥ असदाप्रमुदितं त- दज्ञानं चैवमष्टधा। एता एव सांख्यरूहादिसिद्धिविपरीता अष्टौ बुद्धेरशक्तय उक्ताः ॥ अवैराग्यभेदानाह अनम्भा असलिला च अनोघावृष्टिरेव च ॥ १५५॥ १२
९.
खच्छन्दतनम्।
[११ पट०
असुतारमसुपार-
मसुनेत्रमतः परम् ।
अकुमारी च विज्ञेया-
नुत्तमाम्भसिका तथा ॥१५६॥
तदित्थम्
अनणिमालघिमा चै-
वामहिमा महेश्वरि ।
अप्राप्तिरप्राकाम्यं चा-
नीशित्वं च तथैव च ॥१५७॥
अवशित्वं तथा चैवा-
यत्रकामावसायिता।
तदित्थम्
अनैश्वर्यं च देवेशि
अष्टधा परिकीर्तितम्।
एवं तत्त्वसर्गान्तरितो यो भावसगोंऽभि-
हितः, स यथा यत्र स्थितस्तत्प्रतिपादयितुमाह
अनैश्वर्यादिभिश्चैते
पैशाचाद्या अधिष्ठिताः॥१५८॥
१६१ श्लो०] श्रीक्षेमराजाचार्यकृतीक्ष्योताख्यटीकोपेतम् । अधिष्ठिता व्याप्ताः॥१५८ ॥ अतश्व यथाक्रमेण तेष्वष्टौ संस्थितान्कथयामि ते । तेषु पैशाचादिषु । अष्टावनैश्वर्यादीन् । तत्र अनैश्वर्यं हि पैशाचे अवैराग्यं च राक्षसे ॥१५९॥ याक्षे चैव तदज्ञानं गान्धर्वेऽधर्म एव च। धर्म चैव तथैन्द्रे तु ज्ञानं सौम्ये प्रतिष्ठितम्॥१६०॥ प्राजापत्ये मैश्वयं ब्रह्मणि स्थितम् । प्रधानतयेति शेषः ॥ यञ्च एतदैश्वर्यमुक्तं चतुष्पष्टिगुणं चैत- पदे ब्राह्मे व्यवस्थितम् ॥१६॥ तु वैराग्य- ९२ खच्छन्दतघ्रम् । [११ पट० षट्पञ्चाशद्रुणं तच्च प्राजापत्ये व्यवस्थितम् । अष्टचत्वारिंशद्गुणं सौम्ये वै परिकीर्तितम्॥१६२॥ चत्वारिंशद्गुणं चैव माहेन्द्रैश्वर्यमुच्यते । द्वात्रिंशद्गुणितं देवि गान्धर्वेश्वर्यमुच्यते ॥ १६३॥ चतुर्विंशगुणं याक्षं षोडशं राक्षसं स्मृतम्। ऐश्वर्यमष्टगुणितं पैशाचं परिकीर्तितम् ॥१६४॥ एवं स्थितं तदैश्वयं देवयोनिषु सुव्रते। देवयोनिष्विति अर्थलब्धमभिदधतोऽयमा- शयः-याहक्सार्वभौमस्य नरपतेरैश्वर्य, ततोऽष्ट- गुणं पैशाचं, ततोऽप्युत्तरोत्तरमष्टगुणं राक्षसा- दिषु, अन्यथा अवधेरभावे किमपेक्षमष्टगुण- ९३ १६६ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । त्वादि स्यात् । एवं ब्राह्मैश्वर्यापेक्षं पिशाचानाम- नैश्वर्यमेव उल्वणं, चक्रवर्त्यपेक्षया तु अष्टगुण- मैश्वर्यमुच्यते ॥ एवंविधैश्वर्यव्यतिरिक्तास्तु ये धर्मादयः, ते अन्ये सप्त स्वरूपेण संस्थिता देवयोनिषु ॥ १६५॥ यद्यपि सर्वे बुद्धिधर्माः सन्ति, तथापि पै- शाचादिक्रमेण अनैश्वर्यादेरेकैकस्य प्रकर्षः, अन्येषां तु अपकर्ष इत्युक्तम् ॥ १६५ ॥ न केवलमित्थमेते देवयोनिषु गुणप्रधान- भावेन स्थिताः, यावत् एत एव सुसंकीर्णा मानुषेषु व्यवस्थिताः। सुष्टु संकीर्णा अलक्ष्यमाणविवेकाः, अत एव मानुष्यमेकरूपम् ॥ तिर्यग्भेदे का वार्ता इत्याह प्रधानगुणभावेन स्थावरान्तं व्यवस्थिताः॥१६६॥ पश्वादयस्तामसत्वात् अधर्मादिचतुष्टय- ९४ खच्छन्दतन्त्रम् । [११ पट० मयाः। तत्रापि च यथोत्तरमधर्मादयः प्रकृ. ष्यन्ते ॥१६६॥ अथ अत्रैव यथाविभक्तविषये भावभेदे गुणत्रयस्य व्याप्तिं वै कथयामि यथास्थिताम् । तत्र सत्त्वेनाधिष्ठिता देवा ब्रह्माया मघवान्तकाः॥१६७॥ ब्रह्माया मघवदन्ताश्चत्वारः सत्त्वप्रधानाः॥ गन्धर्वयक्षमनुजा दैत्याश्चैव तु राजसाः। यातुधानाः पिशाचाश्च तामसाः परिकीर्तिताः॥१६८॥ दैत्या यक्षप्राया एव ॥ १६८ ॥ रजःसत्त्वोत्कटा ज्ञेया ऋषयः संशितव्रताः। संशितं सुतीक्ष्णं व्रतं ज्ञानविज्ञानोपायानु-
९५
१७० श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् ।
ष्ठाननियमो येषां ते देवमानुपान्तरालप्रायत्वात्
रजःसत्त्वाभ्यामुत्कटाः ॥
ये च एते देवाद्या ऋषिपर्यन्तयोनिभेदाः
अन्योन्याभिभवास्ते च
पृथिव्यां संव्यवस्थिताः १६९
यातुधानप्रभृतिभिर्देवर्षिप्रभृतयो दुर्वृत्तेन
भूर्लोकेऽभिभूयन्ते, तैरपि ते शौर्यतपोमन्त्रा-
दिप्रभावात् , नतु गुणा अन्योन्याभिभवाः पृ-
थिव्यामिति व्याख्येयं तेषामन्योन्याभिभवा-
दिरूपतायाः सर्वत्र अविशेषात् पृथिव्यामिति
विशेषचोदनाया अनुपपत्तेः ॥ १६९ ॥
किंच
अत्यन्ततमसाविष्टाः
स्थावराश्च सरीसृपाः ।
वृक्षादयः सर्पाद्याश्च गाढतामसा मोहको-
धमयत्वात् ॥
किंच
पादपादविहीनाश्च
तामसाः परिकीर्तिताः॥१७०॥
९६ स्वच्छन्दतन्त्रम् । [११ पट० सरीसृपाद्या विज्ञेयाः सरीसृपा आदौ येषां प्रातिलोम्यक्रमण पक्ष्यादीनां ते सरीसृपाद्याः पश्वन्ताः सर्व एव तामसाः, किन्तु पादपादविहीना इति सरीसृ- पेभ्यः पक्षिणां पादेन हीनं तामसत्वं, तेभ्योऽपि मृगाणां,तेभ्योऽपि पशूनाम्। तदीदृशी गुणव्या- तिरिह भगवता विभज्य दर्शिता, सांख्यैस्तु 'ऊर्च सत्त्वविशालस्तमोविशालस्तु मूलतः सर्गः । मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः ॥ (५४) इति अविशेषेण देवयोनिपश्वादिमनुष्याणां सत्त्वतमोरजोमयत्वं दर्शितम् ॥ तदित्थं गुणवैचित्र्येण दर्शिता ये स्थावरान्तास्तु सुव्रते। चतुर्दश योनिभेदाः॥ एषामन्तर्गताश्चान्या अनन्ता एव योनयः ॥१७१॥ मानुषेषु तथानन्ता भेदानन्त्यव्यवस्थया ।
९७ १७४ श्लो०] श्रीक्षेमराजाचार्यकृतोझ्योताख्यटीकोपेतम् । न शक्या गदितुं ता वै कर्मानन्त्यप्रभेदतः ॥ १७२॥ मानुषेष्विति पुनर्विशेषोक्त्या दिग्देशका- लसमाचारादिवैचित्र्येण तेषामनन्तशाखत्वं क- थयति । कर्मसंवन्धिनोऽनन्तात्प्रभेदादिति यो- न्यानन्त्यहेतुः ॥ १७२ ॥ किंच गुणास्तु मानुषे लोके धर्माद्या इव संस्थिताः । यथा 'एत एव सुसंकीर्णा मानुषेषु व्यवस्थिताः।(११।१६६) इति धर्माद्याः मनुष्याणामुक्ताः, तथा गुणा अपि अलक्ष्यमाणविशेषा इत्यर्थः ।। अधर्मादिभिर्गुणैश्च ये संकीर्णा मानुषाः, तदुपदेसृणि धर्मायेषु निबद्धानि यानि ज्ञानानि सुव्रते ॥१७३॥ अधर्मायेषु यानि स्यु- स्तानि ते कथयाम्यहम्। सुसंकीर्णा १३ ९८ खच्छन्दतत्रम् । [११ पट० धर्मायेष्विति तद्विषये तद्वाचके इत्यर्थात् । ज्ञानानि शास्त्राणि ॥ तत्र हेतुशास्त्रं च यल्लोके नित्यानित्यविडम्बकम् ॥१७४॥ नित्यत्वानित्यत्वाभ्यां साध्याभ्यां विडम्ब. यति वञ्चयति प्रतिपाद्यं तत्त्वतस्तन्निश्चयायो- गादिति नित्यानित्यविडम्बकम् । भावप्रधानो निर्देशः ॥ १७४॥ किंच वादजल्पवितण्डाभिः यदुक्तं प्रमाणतर्कसाधनोपालम्भः सिद्धा. ताविरुद्धः पक्षप्रतिपक्षपरिग्रहो वीतरागकथा- रूपो वादः। स एव च्छलजातिनिग्रहोपपन्नः पुरुषशक्तिपरीक्षार्थों जल्पः। प्रतिपक्षस्थापन- हीनस्तु वितण्डा॥ एवंभूतं हेतुशास्त्रं सदागमबाह्यं तर्कशास्त्रं यत्, तेन विवदन्ते ह्यनिश्चिताः।
९९ १७७ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । न विद्यते निश्चितं वस्तुसतत्त्वनिश्चयो येषां, ते विवदन्ते इदं तत्त्वमिदं नेति परस्परव्याहतं रटन्ति ॥ यतस्तेषां हेतुनिष्ठानि वाक्यानि नतु आगमिकार्थविचाररूपाणि ॥ अतश्च वस्तुशून्यानि सुव्रते ॥१७५॥ ज्ञानयोगविहीनानि देवतारहितानि तु । तेन एषां धर्मार्थकाममोक्षेषु निश्चयो नैव जायते ॥१७६॥ अत एव एतानि अज्ञानेन निबद्धानि त्वधर्मेण निमित्ततः। उक्तं च प्राक् 'गुरुदेवाग्मिशास्त्रस्य ये न भक्ता नराधमाः । असद्युक्तिविचारज्ञाः शुष्कतर्कावलम्बिनः ।।
१०० स्वच्छन्दतघम् । [११ पट० भ्रमयत्येव तान्माया मोक्षे मोक्षलिप्सया ।' (१०।११४१) इति । तथा 'सत्पथं तु परित्यज्य नयति द्रुतमुत्पथम् ।' (१०।११४०) इति ॥ यत एवंभूतं हेतुशास्त्रं, तेन निरयं ते प्रगच्छन्ति ये तत्राभिरता नराः ॥१७७॥ किंच अधर्मनिमित्तकाज्ञानमयेषु शुष्कतर्केषु अवैराग्यादनैश्वयं भुञ्जते निरये सदा। अतश्च अधर्माज्ञानावैराग्यानैश्वर्याख्या बु- द्धिधर्माः चत्वारस्ते वरारोहे दुःखदा नरके सदा ॥ १७८॥ मोहकाः सर्वजन्तूनां यतस्ते तामसाः स्मृताः। एवमधर्मादिचतुष्टयमयानि शुष्कतर्कशा. स्त्राणि उक्त्वा धर्मादिनिबद्धानि शास्त्राणि आह
१८१ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । १०१
धर्मेणैकेन देवेशि
बद्धं ज्ञानं हि लौकिकम्॥१७९॥
लौकिकं वार्तादण्डनीत्यादि ॥ १७९ ॥
धर्मज्ञाननिबद्धं तु
पाञ्चरात्रं च वैदिकम् ।
पाश्चरात्रैरभिगमनोपादानेज्यादिधर्मवत्
'भूत एव स स्वयं भवति ।'
इत्यादि ज्ञानमप्युपदिश्यते । वैदिकैरपि कर्मा-
नुष्ठानवत्
'पुरुष एवेदं सर्वम् । (ऋ० वे० १०१९०१२)
इति ज्ञानकाण्डादौ ज्ञानमप्युच्यते ॥
बौद्धमारहतं चैव
वैराग्येणैव सुव्रते ॥ १८० ॥
बद्धमित्येव ॥ १८०॥
ज्ञानवैराग्यसंबद्ध
सांख्यज्ञानं हि पार्वति ।
ज्ञानं पुस्प्रकृतिविवेकोपलब्धिः॥
ज्ञानं वैराग्यमैश्वर्य
योगज्ञानप्रतिष्ठितम् ॥१८॥
१०२
स्वच्छन्दतन्त्रम् ।
[११ पटक
पातञ्जलादौ विभूतिपादे ऐश्वर्यस्यापि
उक्तत्वात् ॥ १८१ ॥
एवं लौकिकादीनि योगान्तानि शास्त्राणि
धर्मादिरूपबुद्धिधर्मनिष्ठानि, तदुत्तरं तु पार-
मेश्वरं
अतीतं बुद्धिभावाना-
मतिमार्ग प्रकीर्तितम् ।
लोकातीतं तु तज्ज्ञान-
मतिमार्गमिति स्मृतम्॥१८२॥
बुद्धिभावानां सर्वेषां प्रोक्तप्रपञ्चानां धर्मादी-
नामतीतमिति द्वितीयास्थाने व्यत्ययेन षष्ठी।
तदेतदतिमार्ग शास्त्रं मार्ग पशुलोकमतीत-
मिति कृत्वा ॥ १८२॥
तदेतत्स्पष्टयति
लोकाश्च पशवः प्रोक्ताः
सृष्टिसंहारवर्मनि।
तेषामतीतास्ते ज्ञेया
येऽतिमार्गे व्यवस्थिताः॥१८३॥
१८५ श्लोक०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । १०३ सृष्टिसंहारमार्गे ये पशवः स्वस्रष्टसंहा- त्मकं संवित्तत्त्वं न जानन्ति तत एव स्मृज्य- मानाः संहियमाणाश्च, ते सर्व एव इह लोका उच्यन्ते । तदतीता अतिमार्गस्थाः ॥ १८३ ॥ यतः कपालबतिनो ये च तथा पाशुपताश्च ये। सृष्टिर्न विद्यते तेषां चः अप्यर्थे भिन्नक्रमः । ये कपालनतिनः पाशुपताश्च, तेषामपि सृष्टिर्नास्ति; किमङ्ग स- ध्विोत्तीर्णानां शैवानामिति अर्थात् ॥ का तर्हि एषां स्थितिरित्याह ईश्वरे च ध्रुवे स्थिताः ॥१८४॥ उक्तं च प्राक् 'दीक्षाज्ञानविशुद्धात्मा देहान्ते शैवचर्यया । कपालवतमास्थाय स्वं खं गच्छति तत्पदम् ।। जपममक्रियानिष्ठास्ते वजन्त्यैश्वरं पदम् ।' (१११७४) इति ॥ १८४ ॥ ननु सर्वस्य अध्वनः सर्गसंहारपात्रत्वादी-
१०४
स्वच्छन्दतब्रम् ।
[११ पट०
श्वरतत्वस्थानामेषामपि ताभ्यां भवितव्यम् ।
उच्यते। तावन्मात्राख्यात्यंशसंहार एषां परभै.
रवस्वरूपापत्तिः, नतु पशुवत् संहृतस्वरूपाः
पुनः सृज्यन्ते । तदाह
यस्मान्मोक्षं गमिष्यन्ति
अपुनर्भवकारणम् ।
तस्मायुक्तमुक्कं सृष्टिर्न विद्यते तेषामिति
संबन्धः ॥
ये तु न अतिमार्गस्थाः, तेषां
लौकिकानां पुनः सृष्टिः
पुनः संहार एव च ॥१८५॥
अतश्च ते
संसारचक्रमारूढा
भ्रमन्ति घटयन्त्रवत् ।
घटयमरघट्टः ॥
एतदेव उपपादयति
धर्माद्यरकसंयुक्त-
मष्टारं चक्रकं प्रिये ॥ १८६ ॥
१८९ श्लो०] श्रीक्षेमराजाचार्यकृतोक्ष्योताख्यटीकोपेतम् । १०५ ईश्वराधिष्ठितं देवि नियत्यादण्डकाहतम् । मलकर्मकलाविद्धं भ्रमते कालवेगतः ॥ १८७॥ धर्मादयो ये संसारकारणभूतास्त एव अरा इव अरकाः परिभ्रमणहेतवः । यदाहुः 'धर्मेण गमनमूर्ध्वम् । .....।' (सां० का० ४४) इत्यादि । कुत्सितं चक्र चक्रकं, नियतिरेव आवर्तमानो दण्ड एव दण्डकः, तेन आहतं प्रेरितं, मलेन आणवेन, कर्मणा, कलोपलक्षि तेन मायीयेन विद्यादिना आविद्धं वेगेन प्रे- रितं, कलनामयकालतत्वकृतवेगेन भ्राम्यति॥ यत ईदृशमेतदतिविषमं चक्रं, ततः लौकिकाद्येपु ज्ञानेपु ये तेष्वभिरताः प्रिये। हेतुशास्त्रपरा ये तु ये चान्ये पापकर्मिणः ॥१८८॥ ते सर्वे चास्य चक्रस्य नान्तं पश्यन्ति मोहिताः । १४
१०६
खच्छन्दतनम् ।
[११ पट०
तेष्विति प्रोक्तरूपेषु । ये वित्यनेन लौकि-
कनिष्ठेभ्योऽपि शुष्कतर्कनिष्ठानामौपहत्यं ध्व-
न्यते । मोहिता मायया स्थगितस्वरूपाः ॥
अयं च सर्वशास्त्रेभ्यः शिवशास्त्रस्य वि.
शेषः, यत्
लौकिकाद्येषु ये साध्या
अतिमार्गान्तगोचरे ॥१८९॥
लीलया साधयेत्सर्वान्
शिवज्ञाने महोदये।
ये सिद्धिविशेषा लौकिकादौ साध्यास्तान्
सर्वानतिमार्गलक्षणो योऽन्तः सर्वशास्त्रपरिनि-
ष्ठास्थानं, तगोचरे तद्विषये महोदयहेतौ शि-
वज्ञाने साधको लीलया साधयति ॥
यच्च शैवज्ञानेन साध्यते
न सर्वैः साध्यते तहै
लौकिकादिभिः॥
अत्र हेतुः
यतोऽतीव सुनिर्मलम् ॥१९०॥
शिवज्ञानमिति शेषः ॥ १९॥
१९३ श्लो०] श्रीक्षेमराजाचार्यकृतोझ्योताख्यटीकोपेतम् । १०७ सुनिर्मलत्वमेव स्पष्टयति यतो योजयते देवि अभावे परमे पदे। अविद्यमाना भावभेदरूपाः पदार्था यत्र । एतत्स्फुटयति अभावं भावनातीतं प्रपञ्चातीतगोचरम् ॥ १९१ ॥ मनोबुद्ध्यादिनिर्मुक्तं हेतुवादविवर्जितम् । प्रत्यक्षादिप्रमाणैश्च व्यतीतं प्रभु चाव्ययम्॥१९२॥ सर्वतर्कागमातीतं पाशमन्त्रविवर्जितम् । सर्वज्ञं सर्वगं शान्तं निर्मलं निरुपप्लवम् ॥ १९३॥ अविद्यमाना भावा यत्र तादृशं परमं पदम्। भावनातीतं यतः प्रपञ्चं वैचित्र्यमतीतो गो-
१०८
स्वच्छन्दतम् ।
[११ पट०
चरो विषयतया संभाव्यमानं रूपं यस्य । अत
एव मनोबुद्ध्यादिनिर्मुक्तम्।अत एव च हेतुवा-
देन विवर्जितं सर्वविचारभित्तिभूतत्वाद्विचार-
यितुमशक्यमित्यर्थः । तथा प्रत्यक्षादिप्रमा-
णाविषयः प्रमाणानामपि स्वप्रकाशतद्भित्तिव-
शेन प्रकाशनात् सर्वावभासोल्लासकत्वाच्च ।
प्रभु प्रभवनशीलं स्वतन्त्रम् । नच उल्लास्यवि.
नाशे अस्य अन्यस्येव मनागपि अन्यथाभाव
इति अव्ययमिति।सर्व तर्यते विचार्यते यैर
गमैरिति आगमविशेषैः पारमेश्वरैस्तेषामेव स.
वैविचारकत्वात् , तानपि अतिक्रान्तं तेषामपि
अविषयः, यतो मायान्तरशुद्धावगैः पाशैः शु-
द्धावस्थैश्च मन्त्रैर्विवर्जितम् । सर्वं जानात्यभे-
देन पश्यति, सर्व गच्छति अधितिष्ठति व्याप्नो-
ति, तथापिच तेन न मनागपि आरूष्यते इति
शान्तं चिदेकरूपं, तथापिच निष्कान्ता उद्भूता
आणवादिमला यस्मात्ताह, ईदृगपि च ते.
रसंस्पृष्टत्वात् निरुपप्लवं निर्विकल्पं सतताव-
भास्वरसर्वाभासकस्वतन्त्रचिदेकरूपम् ॥ १९३॥
१९५श्लो०] श्रीक्षेमराजाचार्यकृतोक्ष्योताख्यटीकोपेतम् । १०९ किंच सर्वशक्त्यात्मकं ह्येक स्वतन्त्रानाथनादिमत् । सर्वातिशयनिर्मुक्त- मनादिभववर्जितम् ॥ १९४॥ सर्वज्ञानपदातीतं शैवं ज्ञानं परं स्मृतम् । 'शक्तयोऽस्य जगत्कृत्स्नं इति नीत्या जगदात्म कसर्वशक्तिस्वभावम् । ए- कमद्वितीयम् । स्वमात्मीयं रूपमेव तत्रं पञ्चधा- कृत्यकर्मणि उपकरणं यस्य, तत्स्वतन्त्रम। तथा न विद्यतेऽन्यो नाथो यस्य तदनाथं विश्वेश्वरम् । तथा अनादिमत् सर्वस्यादिभूतम् । सर्वर्ज्ञानक्रि- यादिविषयैर्निर्मुक्तं विश्वातिशायिनिरतिशयचि. न्मात्ररूपमित्यर्थः। अनादिना अहंप्रथमिकाप्र- वृत्तेन भवेन वर्जितमस्पृष्टम् । सर्वेषां बौद्धसांख्य- लाकुलादिज्ञानानां यत्पदं खं स्वं विश्रान्तिधाम तदप्युठंध्य स्थितम् । एवंभूतं यत् परमनुत्तरं -- स्वच्छन्दतनम्। ११० [११ पट० शिवज्ञानं, तत् अनुभवरूपं स्मृतमविच्छिन्नेन पारम्पर्येण प्रतीतमित्यर्थः॥ एवं तत्वभूतभावभेदसृष्टीः प्रतिपाद्य, धर्म- ज्ञानादिनिबद्धलौकिकादिज्ञाननिरूपणपूर्व शै. वज्ञानमाहात्म्यं च निर्णीय उक्ततत्त्वादिसृष्टि- मनुवादभङ्गया उपसंहरन् शिवज्ञानमाहात्म्यमेव अधिकावापेन दर्शयति एवं सृष्टानि तत्त्वानि ज्ञानानि च वरानने ॥ १९५॥ तत्त्वैरेतैर्जगत्सर्वं विसृष्टं सचराचरम् । विशेषेण सृष्टं चतुर्दशविधभूतसर्गात्मना प्रपश्चितम् ॥ किंच भुवनानि विचित्राणि शतशोऽथ सहस्रशः॥ १९६॥ तत्त्वाभ्यन्तरसंस्थानि यानि भुवनानि भुवनाध्वनि उक्तानि, तानि अपि तत्त्वैरेव स्मृष्टानि ॥
१९८ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । १११ तथा प्रोक्तज्ञानरूपाणि शास्त्राणि विविधानि च । न केवलं भुवनानि शास्त्राणि च तत्त्वाभ्य. न्तराणि, यावत् विज्ञानं कुहकं शिल्पं सिद्धिसन्दोहलक्षणम् ॥१९७॥ सर्वं तत्त्वेषु बोद्धव्यं विविधं मन्त्रमण्डलमुद्रादिज्ञानं, तथा कुहकं विस्मापकं मितहृदयप्रत्ययकारि इन्द्रजालप्रायं, शिल्पं चित्रपुस्तपुत्तलिकानृत्तगीतादि, सि- द्धीनां वश्याकर्षणादिरूपाणां सन्दोहं समूह लक्षयति दर्शयति च यत् ज्ञानं, तत् सर्व तत्त्वेष्वस्तीति ज्ञेयम् ॥ यतः सर्वतत्त्वेषु दृश्यते । तत्तत्तत्त्वौचित्येन तत्त्वसाक्षात्कारादिभिरुप- लभ्यते ॥ न केवलं तत्त्वेषु साधकोपयोगि ज्ञेयमस्ति, यावत् ११२ स्वच्छन्दतन्त्रम् । [११ पट० : प्रक्रिया शिवदीक्षा च तत्त्वैरेतैर्हि लभ्यते ॥ १९८॥ पूर्वोक्ततत्त्वादिप्रदर्शनरूपा ज्ञानशालिनां साधकानां च उपयोगिनी या प्रक्रिया, तथा त. तत्तत्त्वगतविचित्रभुवनभोगोचिततत्तद्योनिभे- दोपपत्तिनिष्कृतिकर्मादिपाशप्रशमः शिवयोज- निका च एतैरुक्तरूपैस्तत्त्वैर्लभ्यते, न अन्यथा। तदर्थं यथोक्ततत्त्वस्वरूपमवश्यज्ञेयम् ॥ १९८ ॥ युक्तं च एतत् यतः नास्ति दीक्षासमो मोक्षः 'दीक्षैव मोचयत्यूचं शैवं धाम नयत्यपि ।' इति हि प्रतिपादितमन्यत्र । दीक्षा च यैर्मत्रैः क्रियते, तद्वीर्यरूपा न विद्या मातृका परा। साहि भगवती अशेषवाच्यवाचकात्मकज गदभेदचमत्कारात्मकशब्दराशिविमर्शपरमार्था सर्वमन्त्रारणिस्तत्र तत्र आगमेषु निर्दिश्यते। सा च एषा विश्वावमर्शनेन परं ज्ञानं प्रयच्छति ॥ तच्च प्रतिपादिताध्वप्रक्रियामयमेवेत्याह २०० श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । ११३ न प्रक्रियापरं ज्ञानं प्रक्रियातः परमन्यज्ज्ञानं परितुच्छमेव ॥ ज्ञानं ज्ञेयस्य ज्ञापकमिति पूर्वनिरूपित- नीत्या ज्ञानेन लक्षणीयो यो लक्ष्यभूतपरतत्त्वै- कात्मा योगस्ततोऽन्यो मितयोगो हेय एवेत्याह नास्ति योगस्त्वलक्ष्यकः॥१९९॥ अविद्यमानं परं लक्ष्यं विश्रान्तिधाम यस्य तादृशो योगो नास्ति । विद्यमानोऽपि मित- योग इह अनुत्तरचर्चायामयोग एवेति योज. निकोक्तः परयोग एव इह योगः ॥ १९९ ।। एवं परपुरुषार्थप्रापकदीक्षातदुपयोगिमातृ- काप्रक्रियाज्ञानालक्ष्यकयोगस्वरूपमेतत्सर्वमेव सातिशयं वस्तु पारमेश्वर एव शासने उपदि- श्यते इति तदेव सर्वशास्त्रोत्तममिति निरूपयति तत्सर्वं कथितं देवि शिवज्ञानमहोदधौ । शिवज्ञानमेव अगाधत्वात् समग्रज्ञाननदीभे- दविश्रान्तिधामत्वात् समस्तसम्पत्समवाप्तिहे- तुत्वाच्च महोदधिः ॥
११४ खच्छन्दतन्त्रम्। [११ पट० प्रकृतमुपसंहरन्नन्यदवतारयति एवं सृष्टिः समाख्याता स्थितिः संहार उच्यते ॥२०॥ संहारश्चेत्यर्थः । तत्र स्थितिर्नियतिकाला- वस्थानात्मा, तत्प्रान्ते च संहारस्तथेति ॥२०॥ यतः प्रभृति प्रवृत्तो यादृशश्च यस्य स्था- प्यस्य संहार्यस्य च कालः, तत्सर्वमादेष्टुमाह मानुषाक्षिनिमेषस्य अष्टमांशः क्षणः स्मृतः। क्षणद्वयं तुटिज्ञेया तवयं तु लवः स्मृतः॥२०१॥ लवद्वयं निमेषस्तु ज्ञातव्यो गणितक्रमात् । दश पञ्च निमेषाश्च काष्ठा चैव प्रकीर्तिता ॥२०२॥ त्रिंशत्काष्ठाः कला ज्ञेया मुहूर्तास्त्रंशदेव ताः।
११५ २०५श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । मुहूर्तस्तु पुनस्त्रिंश- दहोरात्रस्तु मानुषः ॥२०३ ॥ शास्त्रव्युत्पिपादयिषितानां मनुष्याणां खानु- भवसिद्धो योऽक्षणो निमेषः पक्ष्मसंकोचस्तदीयो योऽष्टमांशः अत्यन्तमणीयान् कालावयवः अ- क्षिनिमेषकालप्रतीत्यैव कल्प्यमानः, स क्षणः। लव इति यः प्राणीयस्युटिकालः । यदुक्तं प्राक् 'त्रुटयः पोडश प्राणे पूर्व हि कथिता मया । वाह्येनैव तु कालेन ते लवाः परिकीर्तिताः ॥ (७।२७) इति । लवद्वयं निमेष इति क्षणाष्टकरूपः । मुहूर्त इति द्विघटिकारूपः ॥ २०३ ॥ किंच अहोरात्रशतैश्चैव त्रिभिः षष्टयधिकैः प्रिये । संवत्सरस्तु विज्ञेयो मानुषः कमलेक्षणे ॥२०४॥ संवत्सरशतं पूर्ण- मायुज्ञेयं तु मानुषम् । विंशत्यधिकं हि शतं परमायुरिति प्रसिद्धम् ।।
११६ स्वच्छन्दतब्रम् । [ ११ पट० यदुक्तं षष्ट्यधिकाहोरात्रशतत्रयेण वत्सर इति, तदेव पक्षमासादिविभागपूर्वं स्फुटयति दश पञ्च त्वहोरात्राः पक्षस्तु परिकीर्तितः॥२०५॥ पक्षद्वयेन मासस्तु ऋतुर्द्विगुण एव सः। ऋतुहयेन कालः स्या- दयनं च त्रिभिस्त्रिभिः॥२०६॥ ताभ्यां द्वाभ्यां वरारोहे वर्ष तु परिगीयते । कालश्चतुर्माससंज्ञः । अयनमुत्तरायणं द- क्षिणायनं च ॥ इत्थमयनद्वयात्मको यो मनुष्याणां वत्सरः, स एव पित्र्योऽहोरात्र इत्याह दक्षिणं चायनं रात्रि- रुत्तरं चायनं दिनम् ॥२०७॥ पितृणां तदहोरात्र- मनेनाब्दस्तु पूर्ववत् ।
२०९ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । ११७
एवं दैवस्त्वहोरात्र-
स्तत्राप्यब्दादि पूर्ववत् ॥२०८॥
आदिशब्दात्पक्षमासादि । इत्थं पितॄणां
देवानां च तुल्या अहोरात्रकलनेति पुराणपु-
स्तकेषु दृश्यते, अद्यतनैस्तु 'ऋतुर्द्विगुण एव
सः' इत्यतोऽनन्तरं
'कृष्णपक्षस्त्वहश्चैव शुक्लस्तु रजनी भवेत् ।
पितॄणां सोऽप्यहोरात्रस्त्वनेनाब्दस्तु पूर्ववत् ॥'
इति विपर्यास्य पठित्वा मानुष्यो मासः पित्र्यो-
होरात्र इति व्याख्यातं, तेषां च सांवत्सरिकी
पितृदिनव्यवस्था लौकिक्यपि स्थितिःप्रसृता ।।
तदेवं मानुषषष्ट्यधिकत्रिशताब्दपरिमाणो
यो दिव्यो वत्सरस्तमाश्रित्य
द्वादशाब्दसहस्राणि
विज्ञेयं तु चतुर्युगम् ।
द्वादशाब्दसहस्राणि विज्ञेयं चतुर्युगम् ॥
अत्र च अयं विभागः
चतुर्भिस्तु कृतं देवि
सहस्रेस्तु यथाक्रमम् ॥२०९॥
११८ स्वच्छन्दतनम् । [११ पट० त्रेता ज्ञेया त्रिभिर्देवि द्वाभ्यां वै द्वापरः स्मृतः। सहस्रेणैव वर्षाणां विज्ञेयस्तु कलिः प्रिये ॥२१०॥ एवं दश वर्षाणां सहस्राणि ॥ २१०॥ यत्तु अवशिष्टं सहस्रद्वयं, ततः सन्ध्यायस्य मानं तु कथयामि युगे युगे। आद्यन्तगतस्य ॥ तत्र शतानि चत्वारि कृते त्वादिरन्तश्च कीर्त्यते ॥२११॥ त्रेते शतत्रयं ज्ञेयं द्वापरे तु शतद्वयम् । कलौ चापि शतं ज्ञेयं सन्ध्यामानमिदं स्मृतम् २१२ एवं च कलेरन्ते शतं कृतस्यादौ चत्वारि शतानि इति कलिकृतयुगयोःसन्ध्या पञ्च श- । २१४ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम्। ११९ तानि, एवं कृतत्रेतयोः सन्ध्या सप्त शतानि, त्रेताद्वापरयोः पञ्च शतानि, द्वापरकलियुगयोः त्रीणि शतानीति गणयित्वा सहस्रद्वयम् । एतत् प्रागुक्तेन सहस्रदशकेन सह द्वादशसहस्रं चतुर्युगम् । यदा तु 'सन्धिसन्ध्यंशमानं तु कथयामि.. इति पाठः, तदा प्रोक्तोभयमेलनात्ससन्धिमा- नमेकैकशतं तु सन्ध्यंशमानं ज्ञेयम् ॥ २१२ ॥ एतदेव च लौकिकेन पुनश्च कथयामि ते। यावत्संख्याकं भवति ॥ त्रिचत्वारिंशल्लक्षाणि सहस्राणि च विंशतिः॥२१३॥ लौकिकेन मानेन त्वियं संख्या चतुर्युगे। वर्षाणामिति शेषः॥ तु मानेन तु १२० स्वच्छन्दतन्त्रम् । [११ पट० विभागेनापि एकैकस्य पुनर्देवि युगस्य कथयामि ते ॥२१४॥ लौकिकवर्षसंख्याम् ॥ २१४ ॥ दश सप्त च लक्षाणि सहस्राण्यष्टविंशतिः। कृतस्यैतद्भवेन्मानं आद्यन्तगतचतुःशतसन्ध्यंशयुक्तस्य, नतु केवलस्य । एवमुत्तरत्र ॥ त्रेतायाः कथयामि ते॥२१५॥ षण्णवतिः सहस्राणि लक्षाणि द्वादशैव तु । त्रेतायुगस्य मानं तु द्वापरस्य निबोध मे ॥२१६॥ चतुःषष्टिः सहस्राणि ह्यष्टौ लक्षाणि सुव्रते।
२२० श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । १२१ द्वापरस्य तु मानं च कलेस्तु कथयामि ते ॥२१७॥ द्वात्रिंशत्तु सहस्राणि लक्षाणां च चतुष्टयम् । एतन्मानं कलेः प्रोक्तं समासात्तव सुव्रते ॥ २१८॥ तदित्थं वर्षेस्तु मानवैर्देवि मानमेतद्युगे युगे। एवमुक्तदिव्यलौकिकाब्दमानानुसारेण चतुर्युगैकसप्तत्या भवेन्मन्वन्तरं पुनः ॥२१९॥ एतच्च अस्य सन्ध्यामानविहीनं तु युगैर्मलं प्रकीर्तितम् । एतद्दिव्येन मानेन मानं मन्वन्तरे स्मृतम् ॥२२०॥ १६ १२२ स्वच्छन्दतन्त्रम् । [११ पट० चतुर्युगशतानि द्वादशाब्दसहस्राण्येकस- सत्या गणयेत् ॥ २२० ॥ एतदेव च मानं वर्षमानैः पुनश्चैव लौकिकैः कथयामि ते । सप्तषष्टिस्तु लक्षाणि त्रिंशत्कोट्यो वरानने ॥२२१॥ सहस्रविंशतिज्ञेयं मानं मन्वन्तरे प्रिये। सषष्टिशतत्रयकलनया मन्वन्तरकाल एव च ऐन्द्रस्थितिकालः॥ एवमेवंविधैः चतुर्दशभिर्देवेशि कल्पो मन्वन्तरे भवेत् ॥२२२॥ मन्वन्तरसन्ध्यामानमाह मन्वन्तरे व्यतिक्रान्ते चान्यस्मिन्पुनरागते।
२२४ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । १२३
पञ्च वर्षसहस्राणि
मध्ये सन्ध्या भवेत्सदा॥२२३॥
दिव्यानीत्यर्थात् ॥ २२३ ॥
अयं तु विशेषः, यत्
आदी सहस्रं सर्वेषा-
मन्ते चापि पुनस्तथा ।
ब्रह्मदिनगतमन्वन्तरापेक्षया आदावन्ते
चेति प्रथममन्वन्तरस्यादौ चरममन्वन्तरस्यान्ते
सहस्रमेकमधिकमिति ॥
तदित्थं ससन्ध्याकालचतुर्दशमन्वन्तरकालः
कल्पो ब्रह्मदिनं प्रोक्तं
चतुर्युगसहस्रकम् ॥२२४॥
कल्पते विश्वमस्मिन्निति कल्पः एकसप्तत्या
चतुर्युगैश्च मन्वन्तरगुणितैः षडिरूनं चतुर्युग-
सहस्रं भवति । मन्वन्तरेषु सन्ध्याकालोऽप्यु-
कनीत्या द्वासप्ततिसहस्र इति तदीयचतुर्युग-
षट्रेन सहस्रमानमेतदुक्तम् ॥ २२४ ॥
१२४ स्वच्छन्दतन्त्रम् । [११ पट. एतच्च वर्षमानेन दिव्येन पुनश्च कथयामि ते । संख्यातमिति शेषः ॥ तु दिव्येनैव तु ब्रह्मणस्तु तदाह कोटिरेका वर्षाणां लक्षाणां चैव विंशतिः॥२२५॥ मानेन दिनं भवेत् । द्वादश सहस्राणि सहस्रगुणितानि एवमेव भवन्ति ॥ ईदृशस्य अस्य ब्राह्मदिनस्य षण्णवत्या सहस्रेस्तु सन्ध्याकालः प्रकीर्तितः॥२२६॥ अष्टौ चतुर्युगानि षण्णवत्या वर्षसहस्त्रैर्भ- वन्ति । तत्र प्रातःसन्ध्यायां दिनशतानि च- त्वारि चतुर्युगानि, सायंसन्ध्यायां चत्वारीति तु मानेन २२९ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । १२५ विभागः । निशाद्यन्तगतानि अप्येवमेवेत्यष्ट- युगः प्रातः सायं च सन्ध्याकालः ॥ २२६ ॥ एतच्च लौकिकेन अधुना कथयामि ते । सङ्ख्यातमिति शेषः ॥ तदाह वर्षवृन्दानि चत्वारि त्वर्बुदत्रयमेव च ॥ २२७ ॥ कोटिद्वयं च देवेशि दिनं पैतामहं स्मृतम् । सन्ध्या कोटित्रयं चैव पञ्च लक्षाणि कीर्तिता ॥२२८॥ चत्वारिंशत्तथा षष्टिः सहस्त्राणि तथैव च। षण्णवतिसहस्राणि सषष्टिशतत्रयकलितानि एवमेव भवन्ति । अतश्च यत् श्रीभुल्लकः 'सन्ध्याकोटित्रयं लक्षाणि चतुःसप्ततिरेव च ।' इत्यादि पठितवान् , तदुपेक्ष्यम् ॥
.१२६ स्वच्छन्दतब्रम्। [ ११ पट. यथाच अयं पश्चिमः सन्धिरेवं हि सन्धिः सन्ध्याकालः ॥ तथा पूर्वसन्ध्यापि तत्समा ॥२२९॥ तदित्थं ब्रह्मदिनावधिका नरकैः सह सप्तानां पातालानां तथा प्रिये। लोकानां चैव सप्तानां स्थितिरेषा प्रकीर्तिता ॥२३०॥ लोकानां तनिवासस्थानानां भूरादीनाम् ॥ तथा एषामेव संहारं च पुनर्देवि शृणुष्व कथयामि ते। ब्रह्मणः स्वदिनान्ते वै कल्पः संहार उच्यते ॥२३१॥ स्वदिनान्त इति तनिशायाम् । कल्प इति
२३३ श्लो०] श्रीक्षेमराजाचार्यकृतोद्दयोताख्यटीकोपेतम् ।
१२७
कल्प्यते च्छिद्यते अस्मिन् विश्वमिति कृत्वा ।
संहार इति संहारकालः ॥ २३१ ॥
तत्र
दिनेनैकेन ब्राह्मण
इन्द्राश्चैव चतुर्दश।
राज्यं कृत्वा क्रमाद्यान्ति
मन्वन्तरव्यवस्थया ॥२३२ ॥
प्रतिमन्वन्तरं राज्यं कृत्वा एकैक इन्द्रः
खकाँचित्येन गच्छति ॥ २३२ ॥
ततः संहरते विश्वं
सप्तलोकान्तगोचरम् ।
सुप्ते पितामहे देवि
ऊर्ध्व कालाग्निरीक्षते
॥२३३॥
तत इति चतुर्दशेन्द्रान्ते। पशुवन्निद्रायमा-
णेन ब्रह्मणा जनितविस्मयो यावत्कालाग्निरू-
ख़मीक्षते,
तावत्सप्तलोकान्तगोचरं विषय-
जातं संहरति ॥ २३३॥
१२८
स्वच्छन्दतन्त्रम् ।
[११ पट०
अथ निरीक्षणसमये
तस्य वै दक्षिणं वक्र
महाज्वालां विनिक्षिपेत् ।
अतश्च
तस्माद्वक्रान्महाज्वाला
लक्षयोजनविस्तृता ॥२३४॥
ऊर्ध्व प्रयाति सा दीप्ता
तीव्रवेगा सुदुःसहा।
अत्र च अवसरे सप्तसु
लोकेषु ये स्थिता लोका
ये च पातालवासिनः॥२३५॥
सुखदुःखोभये क्षीणे
मोहं भूयिष्ठमागते।
सत्तामात्रास्तु
ते सर्वे
भवन्ति ब्रह्मविष्टपे ॥२३६॥
ये चेति चशब्दान्नरकादिक्षेत्रगताः।ब्रह्मवि-
छपे सत्यलोकोवर्तिनि ब्रह्मभुवने ॥ २३६ ॥
२३९ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम्। १२९ कियदवधिका एषां मूढतेत्याह यावन्नोदयनं भूयः सुखदुःखादिकर्मणाम् । तावत्तिष्ठन्ति ते मूढा यावब्रह्मा न बुध्यते ॥ २३७॥ सुखदुःखयोरादिशब्दात् जन्मायुषोर्हेतुभू- तानि कर्माणि, तेषाम् । उदयो विपाकः ॥२३७॥ ये तु रुद्रलोकाधिपतयः पातालपतयश्च ये। कूष्माण्डहाटकाद्यास्तु ते तिष्ठन्त्यतिनिर्मलाः॥२३८॥ नतु मनागपि म्लायन्ति ॥ २३८ ॥ किन्तु निर्व्यापारास्तु ताव- द्यावत्सृष्टिः पुनर्भवेत् । निवृत्तानुग्रहादिव्यापाराः ॥ ते १७ १३० स्वच्छन्दतन्त्रम् । [११ पट० अथ शून्यभूतेषु लोकेषु ज्वाला दहति दुर्धरा ॥२३९॥ सा दहेन्नरकान्देवि पातालानि समन्ततः। त्रील्लोकांश्चैव दहति भूर्भुवःस्वःपदान्तिकान् ॥२४०॥ शून्यभूतेषु लोकेष्विति तन्निमित्तं,नरकेभ्यः प्रभृति स्वर्लोकान्तं दहति ॥ २४०॥ ये तु अन्ये, ते धूमेन च त्रयो लोका विनश्यन्ति वरानने। महोजनस्तपःसंज्ञाः सप्तमस्तु सत्यलोकोऽपि सुव्रते ॥२४॥ पूर्वे च सर्वे तिष्ठन्ति मोहितात्मानो निद्रया ते मृतोपमाः।
२४५ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । १३१ अथ एवं दग्ध्वा जगत्सर्व ज्वाला वकं विशेत्पुनः॥२४२॥ कालाग्नेर्दक्षिणमेव ॥ २४२ ॥ ततो वान्ति महावाता ब्रह्मनिःश्वाससम्भवाः । ते नाशयन्ति च तद्भस्म जगद्दाहोद्भवं प्रिये ॥२४३॥ अथ ब्रह्मप्रस्वेदजं वारि तज्जगत्प्लावयेत्पुनः। तेनैव वारिणा देवि जगदेकार्णवं भवेत् ॥२४४॥ कालवयूष्मजोऽस्य प्रखेदः ॥ २४४ ॥ अथ निशाक्षये पुनः स्थित्वा सुखदुःखफलोदये।
१३२ स्वच्छन्दतघ्रम् । [११ पट० कर्मतः सर्वलोकस्य ब्रह्मा लोकपितामहः ॥२४५॥ शून्यभूतां समालोक्य भगवान्प्रभुरिच्छया। षड्डिधां कुरुते सृष्टिं यथापूर्वव्यवस्थया ॥ २४६॥ कर्मपरिपाकक्रमेण कर्मिणां सुखदुःखफ- लस्य उदयो यत्र तादृशे राज्यन्ते । स्थित्वा अनुपशान्तनिःशेषनिद्रासंस्कारो भूत्वा । कर्मतः परिपक्वादिच्छामात्रात् । षड्डिधामिति नारकि- स्थावरसरीसृपादिपश्वन्तां त्रिविधी क्रमाक्रम- मपचितां तामसी, तमोरजःसमाविष्टां मानवीं, रजःसत्त्वसमाविष्टां मौनी, सात्विकींतु दैवीम् । व्यवस्थयेति भुवनादिमर्यादया ॥ २४६ ॥ तत्र प्रथमां तामसी सृष्टिं करोति तमसोत्कटान् ।
१३३ २५९ श्लो०] श्रीक्षेमराजाचार्यकृतोद्दयोताख्यटीकोपेतम् । नरकान्विविधाकारान् ततः अंशेन अंशेन तमसोऽनुत्कटत्वे पशून्वै स्थावरान्तगान् ॥२४७॥ पशूनिति सरीसृपपक्षिमृगपशूनित्यर्थः ॥ ततोऽपि तमोरजःसमावेशा- न्मानवान्संसृजेत्पुनः । रजःसत्त्वसमाविष्टः सृजेन्मुनिवरेश्वरान् ॥२४८॥ एवमियत्पर्यन्तं ब्रह्मणः क्रमाक्रमं निद्रा- संस्कारस्य अधिकाधिकतरत्वम् ॥ २४८॥ अथ गतनिद्रः : प्रवुद्धस्तु सत्त्वनिष्ठो जगत्पतिः । सृजेद्देवान्सलोकांश्च पूर्वयैव व्यवस्थया ॥ २४९॥ सह लोकैस्तनिवासस्थानैर्वर्तन्ते ये तान् । एतच्च विशेषणं सिंहावलोकितन्यायेन पूर्व- १३४ खच्छन्दतनम्। [११ पट० त्रापि सम्बध्यते । पूर्वव्यवस्था पैशाचादि- ब्रह्मान्ता ॥ २४९ ॥ इत्थं षद्धिधायां सृष्टौ निष्पन्नायां ततो रुद्रेन्द्रसूर्येन्दु- नक्षत्राणि ग्रहेश्वराः। अधिकारं प्रकुर्वन्ति स्वे स्खे विषयगोचरे ॥२५० ॥ पारमेशान्नियोगात् दिने दिने सृजत्येवं ब्रह्मा ॥ कालाग्निस्तु संहरेच्च दिनक्षये। अस्य च ब्रह्मणः दिनमानं च यत्प्रोक्तं रात्रिसंख्या च तावती॥२५१॥ तदित्थम् अहोरात्रेण चानेन अब्दं वै पूर्ववत्स्मृतम् । शतत्रयेण षष्ट्यधिकेन ॥.
२५४ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । १३५ अब्दानां तु शते पूर्णे महाकल्पः स उच्यते ॥२५२॥ ब्राह्मे वर्षशते देवि दिव्यान्यब्दानि मे शृणु। एकनवतिकोटिस्तु तथा लक्षाणि विंशतिः॥२५३॥ तथा सप्तैव खर्वाणि निखर्वाष्टकमेव च। ब्राह्मं वर्षशतं चैत- ज्ज्ञातव्यं कालवेदिना ॥२५४॥ दिव्यवर्षमानेन ब्राह्ममहः सन्ध्याकालं विना सविंशतिलक्षा कोटिरेकेत्युक्तं, रात्रिश्च तावतीति कोटिद्वयं सचत्वारिंशल्लक्षम् । एतद्दि- नानां शतत्रयेण सपष्टिना गुणितमष्टौ वृन्दानि, षडर्बुदानि, चतस्त्रश्च कोटयो भवन्ति । सन्ध्या- कालोऽपि षण्णवत्या सहस्रैर्य उक्तः, सोऽपि शतत्रयेण सषष्टिना कलितः संस्तिस्त्रः कोटयः, पञ्चचत्वारिंशल्लक्षाणि,षष्टिः सहस्राणि भवन्ति ।
१३६ खच्छन्दतनम् । [११ पट० सोऽपि सायंप्रातर्भेदाद्विगुणः सन्कोटयः षट् लक्षाण्येकनवतिर्विशतिः सहस्राणि भवन्ति । उभयं वृन्दान्यष्टौ, अर्बुदानि सप्ततिरेकनव- तिर्लक्षाणि, विंशतिः सहस्राणि भवन्ति ८७०९१२०००० । एतदपि वत्सरसङ्ख्या शतेन कलितं निखर्वाण्यष्टौ खर्वाणि सप्त वृन्दस्थाने शून्यमेकनवतिः कोव्यो लक्षाणि विंशतिरिति ८७०९१२०००००० । इत्थमेषा यथोक्तैव सङ्ख्या भवति। एकान्ननवतिः कोट्य इति अपपाठः॥ तदित्थं दैविकेन मानेन मानमित्थं प्रकीर्तितम् । अथ एतदेव लौकिकेन तु मानेन पुनश्चैव निबोध मे ॥२५५॥ तद्यथा द्वात्रिंशदब्दकोट्यस्तु तथा खर्वाष्टकं प्रिये। तु २५७ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । १३७ खर्वद्वयं च देवेशि निखर्वाः पञ्च एव तु ॥२५६॥ शङ्कुत्रयं पद्ममेक सागरत्रयमेव च। पूर्वोक्तैकनवतिकोट्या दैविकमानकलितस्य ब्राह्मवर्षशतस्य लौकिकवत्सरमानेन षष्टि- शतत्रयकलनया उक्तैव सङ्ख्या आयाति । यत्तु श्रीभुल्लकः ........"थाब्दकोट्यस्तु एकं चैवाव॒दं प्रिये । खर्वाशीतिस्तथा चैव निखर्वाणां च पञ्चकम् ॥ चतुष्टयं च शङ्कनां त्रिंशत्सागर एव च ।' इति अपठत् , तदसङ्गतत्वादुपेक्ष्यमेव ॥ इत्थं लौकिकाब्दमानेन एतद्देवि समाख्यातं ज्ञातव्यं च मुमुक्षुभिः ॥२५७॥ महाकल्पान्तावस्थितिदाय्यपि ब्रामं पदं सं- हियमाणत्वात्पर्यन्तविरसम्, एवं वक्ष्यमाण- नीत्या अनाश्रितान्तमपीति सर्वथा स्वस्ति स्वप्नो- पमेभ्यो भोगेभ्य इति मत्वा दिक्कालाकाराक- १८
१३८
खच्छन्दतत्रम् ।
[११ पट०
लितचिदनपरभैरवस्वरूपसमापत्तिरेव मुमुक्षु
भिराश्रयणीयेति तात्पर्यम् ॥ २५७ ॥
उपसंहरति
एतल्लौकिकमानेन
ब्राह्ममब्दशतं स्मृतम् ।
उक्तवक्ष्यमाणपरिमाणोपयोगिन्या एकादि-
परार्धान्तायाः सङ्ख्यायाः क्रमेण रूपं लक्षयति
एकं दशगुणं पूर्व
शतं दशगुणं तु तत् ॥२५८॥
शतं दशगुणं कृत्वा
सहस्रं परिकीर्तितम्।
सहस्रं दशगुणित-
मयुतं तद्धि कीर्तितम् ॥२५९॥
दशायुतानि लक्षं तु
नियुतं दश तानि च ।
दश तानि चकोटिः स्यात्
दश कोटिस्तथार्बुदम् ॥२६०॥
२६४ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम्। १३९ अर्बुदैर्दशभिर्वृन्द खर्व दशभिरेव तैः। दशभिस्तैनिखर्व तु शङ्कुः स्याद्दश तानि तु॥२६१॥ शङ्कुभिर्दशभिः पद्म दश पद्मानि सागरः। सागरैर्दशभिर्मध्य- मन्त्यं तैर्दशभिः स्मृतम् २६२ अन्त्यं दशाहतं कृत्वा परार्ध परिकीर्तितम्। उपसंहरति एवमष्टादशैतानि स्थानानि गणितस्य तु ॥२६३॥ भवन्तीति शेषः ॥ २६३ ॥ एवं प्रसङ्गात्सङ्ख्यास्वरूपमुपदर्य प्रकृतमाह महाकल्पस्य पर्यन्ते ब्रह्मा याति परे लयम् ।
खच्छन्दतन्त्रम्। [११ पट० अवृत्तपरशक्तिपातः परे इति सापेक्षतया प्रकृष्टे समनन्तरे कारणे लीयते, वृत्तपरशक्ति- पातस्तु परमशिवे परमिन् ब्रह्मणि व्रजेत् । इति पूर्वग्रन्थेऽयमेव आशयः। एवमुत्तरत्रापि अनुसतव्यम् ॥ यश्च अयमेवमुक्तो महाकल्पः विष्णोश्च तद्दिनं प्रोक्तं रात्रि तत्समा भवेत् ॥२६४॥ ब्रह्माण्डानुविषयलोकस्थस्य ॥२६४ ॥ किश्च अनेन परिमाणेन तस्याब्दं तु विधीयते। अह्नां चैव शतत्रयेण सषष्टिना ॥ वर्षाणां च सोऽपि याति परे लयम् २६५ इत्थं विष्णोरायुर्यदेवोक्तं रुद्रस्यैतदिनं भवेत् । शते पूर्ण २६८ श्लो०] श्रीक्षेमराजाचार्यकृतोयोतायटीकोपेतम् । रुद्रलोकस्थस्य ॥ स च दिने दिने सृजत्यन्यौ ब्रह्मविष्णू प्रजापती ॥२६६ ॥ प्राक्पृष्टयोः परब्रह्मणि लयादन्यं विष्णुंमृ- ष्ट्वा, तन्मूर्त्याविष्टो ब्रह्माणमप्यन्यं सृजतीत्यर्थः॥ युक्तं च एतत् यस्मात् ब्राह्मी च वैष्णवी शक्ति- रधिकारपदं गता। यं चाधितिष्ठत्यात्मानं तत्संज्ञां स प्रपद्यते ॥२६७॥ चो भिन्नक्रमः । पारमेश्वरी ब्राह्मी वैष्णवी च शक्तिर्यमात्मानं पुद्गलमधितिष्ठत्यधिकुरुते, स आत्मा तत्संज्ञामिति ब्रह्मत्वं विष्णुत्वं च प्राप्नोतीत्यर्थः ॥ २६७ ॥ प्राप्य च तद्रूपत्वमसौ तदाधिकारं कुरुते इच्छया परमात्मनः ।
१४२ स्वच्छन्दतघ्रम् । : [११. पट० परमात्मनो निर्णीतस्वरूपस्य परमशिवस्य नतु परेच्छाधिष्ठितोत्तरोत्तरकारणस्य इच्छया । यथाच ब्रह्मविष्णू पारमेश्वरी ब्राह्मी वैष्णवी शक्तिः परमार्थतः, तथा विश्वमिदं पारमेश्वर- शक्तिमयमेवेत्याह ब्रह्मविष्ण्विन्द्ररुद्राश्च विद्येशा ईश्वरस्तथा ॥२६८॥ लोकाधिपाश्च देवेशि तथाच भुवनाधिपाः। ग्रहादिमातरो रुद्रा योगनक्षत्रराशयः ॥२६९॥ शक्तियुक्तास्तु ते सर्वे भवन्ति तदधिष्ठिताः। तत्पराक्रमवीर्यास्तु स्वकीये तु पदे स्थिताः॥२७॥ लोकाधिपा इन्द्राद्या लोकपालाः । ग्रहाद- यश्च मातरश्चेति द्वन्द्वः, मातरो ब्राहयाद्याः। योगाः सुनफाद्या ज्योतिःशास्त्रप्रसिद्धाः। ते २७२ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । १४३ सर्वे इति उक्तास्तया परमेश्वरेच्छया अधि- ष्ठिताः सन्तः शक्तियुक्ता निजनिजसामर्थ्य- भाजो भवन्ति ॥ २७० ॥ पूर्वं ब्राया वैष्णव्या च अधिष्ठितत्वं ब्रह्मवि- ण्वोरुक्तम्, इदानीं तु ब्रह्मादिभिरपि सह स- वेषां परशक्त्यधिष्ठितत्वमतश्च सर्वमिदं जगत् शिवस्यैका महाशक्तिः शिवश्चैको ह्यनादिमान् । सा शक्तिर्भिद्यते देवि भेदैरानन्त्यसम्भवैः ॥ २७१ ॥ महती स्वातत्र्याख्या शक्तिः। शिवः प्रका. शानन्दधनः श्रेयोरूपः। चकारात्.शक्तिरपि एका अद्वितीया अनादिमती च भेदैर्नानावैचि. त्र्यैर्भिद्यते ग्राह्यग्राहकाद्याभासतया स्फुरति ॥ शिवशक्यद्वयमयतां. प्रासङ्गिकीमुक्त्वा प्र- कृतमाह एवं वै कुरुते सृष्टिं रुद्रश्चैव दिने दिने।
१४४ स्वच्छन्दतत्रम् । [११ पट० संहारं च दिनान्ते वै सा च संसाररूपस्य रात्रि तत्समा भवेत् ॥२७२॥ दिनरात्रिसाम्यमेव ईश्वरेच्छातः सूर्यसोम- सञ्चारादिति टीकाकारमतमसमञ्जसं तत्तद्भुव- नतदीश्वरप्रभाभास्वरेषु ब्रह्मादिलोकेषु सूर्या- दीनां प्रकाशकत्वेन क्वापि अश्रुतत्वात् ॥२७२॥ hor दिनरात्रिप्रमाणेना- नेन स्याद्वत्सरोऽस्य च । अस्येति रुद्रस्य ॥ वत्सराणां शते पूर्णे शतरुद्रदिनक्षयात् ॥२७३ ॥ सोऽपि याति परं स्थानं यद्गत्वा निष्कलो भवेत् । रौद्रं वर्षशतं शतरुद्राणां दिनं, तस्य क्षयः पर्यन्तः॥
२७७ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । १४५ तदन्ते च तस्मिन्स्थाने पुनश्चान्य- स्तत्समश्च प्रभुर्भवेत् ॥२७४॥ रौद्रशक्तिसमायोगा- ब्रह्मविष्ण्विन्द्रनायकः । तदित्थमहोरात्रादिकलनया शतरुद्रास्तु देवेशि स्वाब्दानां तु शतक्षये ॥२७५॥ ते प्रयान्ति परं तत्त्वं ततोऽण्डं तु विनश्यति । शतरुद्रजीवितावधिब्रह्माण्डस्थितिकाल इत्यर्थः ॥ कीगण्डमित्याह सर्वभूतगुणाधारं सर्वतत्त्वालयालयम् ॥२७६॥ सपर्वतवनोद्यान- द्वीपसागरमण्डितम्। इ १९
१४६
[११ पट०
खच्छन्दतनम् ।
विमानमालाकुलितं
ग्रहनक्षत्रमण्डितम् ॥ २७७॥
देवदानवगन्धर्व-
सिद्धविद्याधरोरगैः।
ऋषिभिर्मानुषाद्यैश्च
सप्तलोकनिवासिभिः ॥२७॥
नरकैश्चैव पातालै-
युक्तं भुवनमण्डितम् ।
सर्वेषां भूतानां पृथ्व्यादीनां, गुणानां च श-
ब्दादीनां,भूतगुणानां च पाण्डित्यशौर्यादीनामा-
श्रयः, तथा सर्वतत्त्वालयानां षटिंशत्तत्त्वम-
यानां नानाशरीराणामालयो निवासरूपः।
ईदृशं च
अशेषभुवनाधार-
मण्डमप्सु प्रलीयते ॥२७९॥
एवं च यथोत्पादं तत्त्वानि स्वकारणेष
लीयन्ते । यद्वक्ष्यति
'आपस्तेजसि लीयन्ते । (१२२८४)
इत्यादि ॥ २७९॥
२८१ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । १४७ इत्थं शतरुद्रान्तायां स्थितौ संहृतायां व्र- ह्माण्डोर्ध्वाधरकर्परिकोपरिवर्ती संहर्तृरूपः ततः कालाग्निरुद्रश्च कालतत्त्वे लयं ब्रजेत् । अशेषविश्वकलनाकारित्वात्कालश्च असौ तत्त्वं च तदिति कालतत्त्वमकालकलितः पर- मेश्वरः॥ यद्येवम्, अबादितत्त्वसंहारं कः करोती. त्याशङ्कय आह अप्तत्त्वात्तु समारभ्य यावन्मायान्तगोचरम् ॥२८०॥ तत्सर्व संहरेत्कालः स्वयमेव चराचरम् । काल इति अशेषविश्वकलनः परमेश्वर एव ऊवार्श्वभुवनेशमूर्तिमाविश्य अधोऽधोवर्तित- त्वसंहारं क्रमेण करोतीत्यर्थः। एतच्च अग्रे व्यक्तीभविष्यति ॥
१४८ स्वच्छन्दतघ्रम्। [११ पट० शुद्धेऽध्वनि कः संहर्तेत्याह तदू शुद्धमध्वानं यावच्छत्यन्तगोचरम् ॥२८॥ तत्सर्व संहरेहोर- मघोरो घोरनाशनः। शक्त्यन्तस्य अध्वनो घोरमिति विशेष णात् मायादिक्षित्यन्तस्य घोरतरत्वमिति अर्था- दवगतम् । न विद्यते घोरं भेदसंसृष्टं रूपं यस्य सोऽघोर इत्ययमों घोरनाशन इत्यनेन व्याख्यातः। अत्रापिच यथोत्तरमीश्वरसदाशि- वादितत्त्वेश्वरमूर्त्याविष्ट एव अघोरभट्टारकः अ- धराधरतत्त्वं संहरतीत्यर्थो वक्ष्यमाणग्रन्थसङ्गत्या बोद्धव्यः॥ प्रसङ्गागतं संहर्तृविचारमुपसंहरति त्रिष्वेवं संस्थितो रुद्रः कालरूपी महेश्वरः॥२८२॥ त्रिषु पृथ्वीमायाशक्त्यन्तेषु पदेषु । एव- १४९ २८३ श्लो०] श्रीक्षेमराजाचार्यकृतोक्ष्योताख्यटीकोपेतम् । मिति संहर्तृतया । रुद्र इति कालाग्निरुद्रो भुवि, कालरूपी मायान्तं पदं कलयन्ननन्तभ- हारकः, शक्त्यन्तेषु महेश्वरः । अथवा एको महेश्वरो रोदनद्रावणकारित्वाद्रुद्रस्त्रिषु पदेषु संहर्ता कालाग्निरुद्रादिवैचित्र्येण स्थित इत्यर्थः ॥ २८२॥ एवं प्रासङ्गिकमर्थमुपसंहृत्य प्रकृतमनुसरति ततः संहरते तोय- ममरेशशतात्यये। कालरूपी तेजस्तत्त्वाधिष्ठितो रुद्रः अमरेशसम्बन्धि. वर्षशतसङ्ख्यातस्खदिनान्ते तोयं जलतत्त्वं सं- हरतीत्यर्थः । अमरेशस्य च शतरुद्रायुष्काल- परीमाणं दिनमिति तदनुसारेण प्राग्वद्वर्ष, तच्छतमायुस्तदपि तेजस्तत्त्वाधिपतेर्दिनमि- त्यादि उत्तरोत्तरं क्रमेण अनुसरणीयम् । 'अम- रेशः शतात्यये' इति अपपाठः स्वशतात्यये तस्य संहर्तृत्वायोगात्तदधरवर्तिशतरुद्रात्ययेऽपि तोय- तत्त्वसंहाराभावात् ॥
१५० स्वच्छन्दतब्रम् । [११ पट० तदेव आदिशति एवं भूताद्यावरण- पतयश्च शतात्यये ॥ २८३ ॥ संहरन्ति च देवेशि सृजन्ति च परस्परम् । भूततन्मात्राद्यावरणेश्वरा यथोत्तरमैश्वराणि अधराधरतत्त्वानि तदीश्वरसंबन्धिवर्षशतान्त- रूपे स्खदिनान्ते संहरन्ति, पुनस्तावत्कालखरा- त्र्यन्ते अन्यानि सृजन्ति । क्वचित्तु 'एवं भूतपतीनां तु प्राप्ते वर्षशतात्यये । यातैस्तैर्निष्कलस्थानं ततो भूतानि शाङ्करि ॥ संहरन्ति च देवेशि सृजन्ति च परस्परम् ।' इति पाठः। अत्रापि यथोत्तरमधराधरगतानि तत्त्वानीति व्याख्येयम् ॥ तत्त्वानां परस्परलयात्मकं संहारं स्फुटयति आपस्तेजसि लीयन्ते तत्तेजश्चानिले पुनः॥२८४॥ तथानिलोऽम्बरं प्राप्य सह तेनैव लीयते।
२८७ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । १५१ तन्मात्रेषु प्रलीयन्ते यथोत्पन्नानि च क्रमात्॥२८५॥ तन्मात्राण्यप्यहङ्कारे सेन्द्रियाणि यथाक्रमम् । स बुद्धौ सा च गहने गुणसाम्ये प्रलीयते ॥ २८६॥ गुणसाम्यमनिर्देश्य- मप्रतय॑मनौपमम् । तस्मिञ्जगदशेषं तु प्रसुप्तमिव तिष्ठति ॥ २८७॥ सह तेनैव लीयते इति तेन अन्तःकृतपृथिव्य- तेजोरूपतत्त्वत्रयेण वायुना सह व्योम लीयते । क लीयते इत्यत आह तन्मात्रेषु इति।प्रलीयन्ते इति बहुवचनस्य प्रशब्दस्य च अयमाशयः यत् व्योम तल्लीनानि पृथिव्यप्तेजोवायुतत्त्वानि स्व- कारणेषु तन्मात्रेषु प्रकर्षेण लीयन्ते तन्मयानि भवन्ति । यथोत्पन्नानीति एकत्वादिक्रमेण यथा जातानि, तथैव । तेन पृथ्वी तन्मात्रपञ्चके, ॥
१५२ स्वच्छन्दतन्त्रम् । [११ पट० आपश्चतुष्टये, तेजस्तत्रये, वायुस्तद्वये, व्योम शब्दतन्मात्रे। गन्धो रसतन्मात्रे, तथा उपस्थः पायौ, पायुः पाणावित्यादिक्रमोऽनुसर्तव्यः । गहने इति प्रधानतत्त्वे । उपमैव औपमम् । इत्थं क्ष्मादिबुध्यन्ते प्रकृतिविश्रान्ते सति तावदन्त- मशेषं जगद्गाढनिद्रामूढमास्ते ॥ २८७ ॥ इत्थं प्रकृत्यन्ते संहृते सति परमाणुप्रमाणेन लीनं संतिष्ठते जगत् । परमाणुना अत्यन्तमणीयसा परमपेलवेन च इन्द्रियाद्यगोचरेण रूपेण जगत् चराचरं प्रलीनमास्ते ॥ यच्च प्रकृतितत्त्वनिविष्टानां रुद्राणां पूर्वोक्त- कलनया आयुः, तत् षड़िशकस्य रुद्रस्य चैतदिनमिह स्मृतम् ॥२८८॥ गुणतत्त्वेन सह प्रधानान्तं तत्त्वपञ्चविंशति- गतानां पञ्चविंशत्या प्रघट्टकैरवस्थितानां स- २९० श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । १५३ र्वेषां रुद्राणां स्वामी श्रीकण्ठनाथ इह षड्विंश- कोऽभिप्रेतः ॥ २८८ ॥ अस्य प्रजाः प्रजानां पतयः पितरो मानवैः सह । साङ्ख्यज्ञानेन ये सिद्धाः वेदेन ब्रह्मवादिनः ॥२८९ ॥ छन्दः सामानि चोङ्कारो बुद्धिस्तद्देवताः प्रिये। अह्नि तिष्ठन्ति ते सर्वे परमेशस्य धीमतः॥ २९०॥ प्रजाः प्रजायमानानि चतुर्दशविधभूतानि । पतयो भुवनेशाः। पितरो मन्वाद्याः। प्रजाग्र- हणसङ्ग्रहीतानामपि मानवानां पुनरुपादानं वै- चित्र्योत्थापककर्मकारित्वेन संसारे वात् । साङ्यज्ञानं प्रकृतिपुरुषविवेकप्रत्ययः । वेदेन ब्रह्मवादिन इति 'पुरुष एवेदं सर्वम् ।' (ऋ० १०१९०२) प्रधान- २० स्वच्छन्दतन्त्रम् । १५४ [११ पट० इति ब्रह्म ये वदन्ति वेदान्तविदः । तद्देवता इति बुद्धितत्त्वगता ब्रह्माद्या देवयोनयः। पर- मेशस्येति भुवनाध्वनि वर्णितमाहात्म्यस्य अहि तिष्ठन्ति दिनारम्भेऽभिव्यज्यन्ते ॥२९०॥ किश्च अस्य दिनान्ते ते प्रलीयन्ते पुनरपिच रात्र्यन्ते विश्वसंभवः। अथ अव्यक्ततत्त्वस्थरुद्रसम्बन्धिदिनावधे- र्मानुष्येण दिव्येन च अब्दमानेन कलयितु- मशक्यत्वात् बुद्धितत्त्वगतब्रह्मसम्बन्धिभिः प्र- लयोद्भवैः सङ्कलनां कर्तुमाह षट्त्रिंशत्तु सहस्राणि ब्रह्मणां प्रलयोद्भवाः॥२९॥ दिनं प्रोक्तं रुद्राणां तन्निवासिनाम्। पूर्वोक्तनीत्या बुद्धितत्त्ववर्ती ब्रह्मा गुणतत्त्व- गतरुद्रदिनान्ते संहियते, तद्दिनारम्भे च अव्यक्ते च
२९३ श्लोक०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । १५५
अन्यः सृज्यते इति तदीयेऽब्दे सषष्टिशतत्रयं
धीगतब्रह्मणां प्रलयोल्लासा भवन्ति । तावांश्च
गुणतत्त्ववासिरुद्राणां जीवितावधिः । सच
अव्यक्तनिष्ठरुद्राणां दिनकालः। तदिदं यदी-
दृगव्यक्तस्थरुद्राणां दिनमुक्तं, तस्य च अवान्तर
उच्यते ब्रह्माण्डप्रलयप्रधानप्रलयमध्यवर्ती ज.
लादिगुणान्ततत्त्वविषयो विचित्रो यः संहार
उक्तः, सोऽत्रान्तरप्रलयो मन्तव्यः ॥
कस्तस्य प्रलयस्य तदन्ते च स्पृष्टेः कर्तेत्याह
तस्मिन्संहरते सर्व
प्रधानस्य दिनक्षये ॥ २९२ ॥
राज्यन्ते च सृजेद्भूयः
श्रीकण्ठो विश्वनायकः।
यथाच अस्य गुणमस्तकवर्तिनोऽपि विश्व-
नायकत्वं, तथा दशमपटले वितत्य दर्शितम् ॥
अथ
तस्याप्यनेन न्यायेन
परिमाणस्थितिर्भवेत् ॥२९३॥
१५६ स्वच्छन्दतत्रम् । [११ पट० यस्मात्प्रलयकोट्यश्च व्यतीताश्च सहस्रशः। अनेन न्यायेन स्थितिरिति सषष्टिशतत्रय- दिनसङ्ख्याब्दशतावधिः । प्रलयकोव्य इति अधोवर्तितत्त्वतत्त्वेशगताः॥ एतदवध्यन्ते च ततो नियतिकालौ च रागो विद्या कला तथा॥२९४॥ परस्परं लयं यान्ति क्रमात्सर्वे स्वमानतः। तत इति श्रीश्रीकण्ठीयाधिकारसमाप्तौ। क्रमादिति कलाद्यानुलोम्यक्रमेण यत् कञ्चुक- पञ्चकं देशवैचित्र्येण अवस्थितं, तत् नियत्यादि प्रातिलोम्यक्रमेण चूर्णपाषाणजलवत् परस्परं लीयते । स्वमानत इति कञ्चुकवासिसर्वरुद्रस- म्बन्धिशतवर्षान्ते । अनेन च एतद्दर्शितं-य. सर्वेषां कञ्चकवासिनां सपुंस्तत्त्वरुद्राणां युगप- देव च प्रलय इति । तथाच पूर्व तेषां 'तसात्कला समुत्पन्ना विद्यारागौ तथैव च । कालो नियतितत्त्वं च पुरुषः प्रकृतिस्तथा ॥ (१११६४) २९७ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । १५७ इति सृष्टिरपि युगपदेव उक्ता । भुवनादिदेश- व्यवस्था तु पृथगिति तदाशयेन क्रमात्सर्वे इति इह उक्तम् ॥ तदित्थं कलाद्यवनिपर्यन्तं गहनेशदिनक्षये ॥ २९५॥ नानाभुवनविन्यास- रचनादिविभूषितम् । सगुणाधारपर्यन्त- रुद्रक्षेत्रज्ञसङ्कुलम् ॥२९६ ॥ गहनेशे लयं याति मूलप्रकृतिकारणे। गहनेशो मायातत्त्वगः रुद्रः । रच- नादीति आदिशब्दाद्विभवः । 'अधश्छादनमूर्ध्व च रक्तं शुक्लं विचिन्तयेत् । मध्ये तमो विजानीयाद्गुणास्त्वेते व्यवस्थिताः ॥'(२०६६) इति पूर्वोक्तनीत्या आधारो माया, स पर्यन्ते यस्य तद्गुणाधारपर्यन्तं कलातत्वं सहगुणाधा- आद्यो १५८ स्वच्छन्दतघ्रम् । [११ पट० रपर्यन्ता ये रुद्रक्षेत्रज्ञास्तैः सङ्कुलम् । गहनेशे इति गहन ईशः प्रभुर्यस्य, तस्मिन् गहनेशे मायातत्त्वे मूलप्रकृतेः प्रधानस्यापि कारणे ॥ तच्च तथालीनं सत् रात्र्यन्ते जायते भूयो गहनेशप्रचोदनात् ॥ २९७॥ तदित्थमस्य अहोरात्रस्त्वयं प्रोक्तः प्राकृतः परमेश्वरि । प्रकृतिरिह विशेषाचोदनात् कलादिक्षित्य- न्तस्य विश्वस्य कारणं माया उच्यते, तस्या अयं प्राकृतो मायीयः॥ तद्गतश्च यो रात्रिकालः प्रलयश्च स एवोक्तो भूतानां परमेश्वरि ॥२९८॥ कलातत्त्वान्तानां सर्वेषां प्रकृष्टचिरतरका- लानामधस्तनकालापेक्षया कलयितुमशक्यत्वात् प्राधानिककालमवधिं कृत्वा कलयितुमाह
२९९ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । १५९
प्राधानिकपरार्धन
दशधागुणितेन तु।
माया संहरते सर्व
पुनश्चैव सृजेजगत् ॥ २९९ ॥
प्रधानस्य अयं प्राधानिकः कालः, तस्य
यत् परार्धं पूर्वोक्तः सङ्ख्याविशेषस्तेन । दशधा-
गुणितेनेति दशपरार्धगुणितेन प्राधानिककालेन
मायाया दिनं, रात्रिश्च तावती भवतीत्यर्थः ।
एतदुक्तं भवति-प्रधानाधिष्ठातृरुद्रायुष्कालो यः
कञ्चकनिवासिनां दिनं, तत् सपप्टिशतत्रयक-
लितमब्दस्तच्छतेन तदायुरिति अत्र न ईदृशी
कलना क्रियते, अपितु स कञ्चुकवासिदिनात्मा
प्राधानिकः कालः परार्धदशकेन गुणितःकञ्चक-
वासिनामायुः, तच्च गाहनिकं दिनमित्ययमत्र
पूर्वतो विशेषो दर्शितः। इत्थं च परार्धदशक-
गुणितो यः प्राधानिककालस्तस्य शततमो
भागः कञ्चकवासिनां वर्ष, तस्यापि षष्ट्यधिक-
त्रिशततमो भागोऽत्र दिनमिति इत्थमत्र वर्ष-
दिनादिव्यवस्था कार्या ॥ २९९ ॥
१६० स्वच्छन्दतब्रम् । [११ पट० एवमुक्तपरार्धदशकगुणितं तत् गहनेशदिनं तत्कलनया वर्ष, तच्छतरूपो यो गहनेशाव- स्थितिकालः; स एव तदाश्रयस्य मायातत्त्वस्य कालः। तमवधिं कृत्वा ईश्वरतत्त्वाधिष्ठातुरीश्व- रस्य दिनपरिमाणं दर्शयितुमाह मायाकालपरार्धस्य शतधागुणितस्य च। ईश्वरः कुरुते सृष्टिं पुनश्च संहरेजगत् ॥ ३००॥ अत्रापि मायाया योऽवस्थितिकालस्तस्य यत् पराधं तस्य शतधागुणितस्येति परार्धशतस- वयातस्य । तावत्कालमीश्वरः सृष्टिं स्खदिने, संहारं वरात्रौ शुद्धविद्यातत्त्वान्तस्य विश्वस्य करोतीत्यर्थः। शतधागुणितस्येत्युक्तेरयमाशयः- यत्किल मायावधिः कालः परार्धेर्दशभिर्गुणितो विद्यातत्त्वाधिपतेरनन्तनाथस्य अधिकारकालः, तत्रापि पूर्ववद्भागकलनया वर्षदिनप्रविभागो ज्ञेय इत्येवंविधो योऽनन्तनाथाधिकारकाल:, ॥
३०२ श्लो०] श्रीक्षेमराजाचार्यकृतोक्ष्योतायटीकोपेतम् । १६१ सोऽपि परार्धदशकगुणित ईश्वरस्य दिनमिति । अत्रापि उक्तक्रमानुसारिवत्सरतच्छतात्मा ई- श्वराधिकारकालः ॥ ३०० ॥ सोऽपि प्रक्रान्तरीत्या परार्धशतगुणितः सदाशिवनाथस्य दिनमिति तदन्तेऽसावधोवर्ति विश्वं संहरतीत्याह ततः सदाशिवो देवः स्वमानेन च संहरेत् । सृजते च पुनर्भूय आत्मीये देव्यहर्मुखे ॥३०१॥ खमानेनेति अवतरणिकायामेव व्याख्या- तम् । पुनर्भूयः भूयो भूय इत्यर्थः ॥ ३०१ ॥ तदित्थं महाप्रलय एवोक्तः सादाख्ये तु दिनहये। पूर्वोक्तमायीयप्रलयापेक्षया अयं महान् शुद्धाध्वनोऽपि संहरणात् ॥ अनेन च परिमाणेन अयमपि ववर्षशतान्ते बिन्दुतत्त्वे लयं याति पञ्चमन्त्रमहातनुः ॥ ३०२॥ २१
खच्छन्दतन्त्रम् ।
[११ पट.
१६२
बिन्दुतत्त्वे इत्यभिधानात्तदधोगतो भुव-
नाध्वा प्रतिपादितः,
स्थूलः
सदाशिवोऽत्र वि-
वक्षितः। बिन्दुतत्त्वे लयं याति बिन्द्वीश्वररू-
पतामाविशति ॥ ३०२॥
तथाविधश्च असौ
बिन्दुं चैवार्धचन्द्रं तु
भित्त्वा चैव निरोधिकाम् ।
नादतत्त्वे लयं याति
गृहीत्वा सचराचरम् ॥३०३॥
बिन्द्वर्धचन्द्रनिरोधिकाभूमीः क्रमाक्रमं प.
रार्धशतगुणितपरिमाणदिनादिव्यवस्थाकलिता.
वस्थितीराविश्य स्थलः सदाशिवभट्टारको ना-
दात्मनि सूक्ष्मे सदाशिवपदे लीयते तदात्मा
जायते इत्यर्थः ॥ ३०३॥
सोऽपि च
नादः सौषुम्नमार्गेण
भित्त्वा ब्रह्मबिलं प्रिये।
शक्तितत्त्वे लयं याति
शक्तितत्त्व दिनक्षये ॥३०४॥
३०५ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । १६३ नादात्मा सूक्ष्मः सदाशिवनाथः पूर्वोक्तक- लनागणितसुषुम्नेशदिनान्ते तद्रूपतां श्रित्वा तथैव तदवधिकालगणनागणितब्रह्मेशदिनान्ते ब्रह्मरन्ध्रस्थब्रह्मरूपतां श्रित्वा तदीयावस्थिति- काले तथैव गणिते यच्छक्तितत्वस्थदेवता- दिनं, तदन्ते तन्मयीभवतीत्यर्थः ॥ ३०४ ॥ अथ शक्तितत्त्वदिनावधिः कियान्कालः स्यादित्याह परार्धः सतु विज्ञेयः कालस्तु वरवर्णिनि। पूर्व 'प्राधानिकपरार्धेन दशधागुणितेन च ।' (११।२९९) इति, तथा 'मायाकालपरार्धस्य शतधागुणितस्य च ।' (११।३००) इति उक्तत्वात् शक्तितत्त्व दिनान्तात्मा कालः परार्धपरार्धात्मा अतिविततसङ्ख्यो विज्ञेयः, नतु एकपरार्धमात्ररूपः पूर्वोक्तव्याघातापत्तेः । तथाहि भुवनाध्वनि तत्त्वानामुत्तरोत्तरं देशप्र- माणे प्रकर्ष उक्तस्तथेह स्थित्यादिकालोऽप्युत्त- रोत्तरं प्रकृष्यत एवेत्यस्य ग्रन्थस्य तात्पर्यम् । इत्थं परार्धपरार्धमानं शक्तिदिनं, तावत्येव च
१६४
खच्छन्दतन्त्रम् ।
[११ पट.
तदीया रात्रिरनया कलनया यद्वर्षशतं, त-
दन्ते शक्तितत्त्वाधिष्ठातृसूक्ष्मदेवताधिकारपरि
समाप्तिः॥
तच शिवतत्त्वस्थस्य
व्यापीशस्याप्यहर्मुखम् ॥३०५॥
तत्र असौ
ततश्च संसृजेद्भूयो
व्यापी व्योमस्वरूपिणि ।
लीयते सोऽप्यनन्तेशे
सोऽनाथे सोऽप्यनाश्रिते ३०६
खाधिकारपरिसमाप्तौ लीयते ॥ ३०६ ॥
अथ अस्य अनाथान्तविश्वाश्रयस्य अना-
श्रितनाथस्य कियदिनं स्यादित्याह
शक्तिकालपरार्धस्य
कोटिधागुणितस्य च ।
अनाश्रितस्य देवस्य
दिनमेतत्प्रकीर्तितम् ॥३०७॥
यः परार्धपरार्धात्मा शक्तिकाल उक्तस्तस्य
प्रकरणात् परार्धकोटिगुणितस्य यः काला,
तदनाश्रितस्य दिनम् ॥३०७॥
३०९ श्लो०] श्रीक्षेमराजाचार्यकृतोक्ष्योताख्यटीकोपेतम् । १६५ अथ अनेन परिमाणेन परार्धगुणितेन तु। सोऽपि याति परं स्थानं कारणं स्वमनाश्रयम् ॥३०८॥ परार्धपरार्धरूपो यः शक्तिकालः परार्धकोट्या गुणितोऽनाश्रितदिनात्मा, सोऽपि परार्धेनेति परार्धपरार्धेन गुणितोऽनाश्रितस्य अधिकारकाल इति तच्छतभागतत्सषष्टित्रिशतभागाकर्षणा- दस्य वर्षदिनव्यवस्था प्राग्वदनुसरणीया। तदि- स्थमतिविततकालाध्वगतस्वाधिकारकालपरिस- माप्तावनाश्रितनाथः स्वमनाश्रयं, कारणमिति 'अत्रारूढस्तु कुरुते शिवः परमकारणम् । सृष्टिं... ॥ (१०।१२५८) इत्यायुक्तनीत्या परमशिवमेव, तिष्ठति अस्मि- विश्वमिति व्युत्पत्त्या स्थानं, याति तदेकात्मा भवति ॥ ३०८॥ यश्च अयमियतीमतिविततविततामध्वधा- रामधिरूढः स कालः साम्यसंज्ञश्च १६६ खच्छन्दतब्रम् । [११ पट० यथा गुणानां साम्यं प्रधानं, तथा सर्वेषां स्मृ- ष्टिस्थितिसंहारक्रियाकलनाभासानां यत् साम्यं प्रकर्षापकर्षशून्यं वपुः, तत् साम्यं ज्ञेयम्। स. मताश्रयः साम्येन, कल्यमानत्वादेव च काल- शब्देन उक्तः॥ वैषम्यनिवृत्त्यात्मकसाम्यात्मकत्वादेव च अयं जन्ममृत्युभयापहः । समापन्नस्येत्यर्थः॥ अथ ततोऽप्यूर्ध्वममेयस्तु कालः स्यात्परमावधिः॥३०९॥ नित्यो नित्योदितो देवि अकल्यश्च नं कल्यते। साम्यसंज्ञः कालःप्रशान्तनिःशेषवैषम्यात्म- तया कल्यमानत्वात्प्रमेयस्तथा नायम्,अत एव परमोऽवधिः सर्वप्रमेयप्रमात्रादिप्रतिष्ठापदमु- न्मनापरतत्त्वसामरस्यात्मपरप्रमातृरूप इत्यर्थः । चो ह्यर्थे । यतो न कल्यते, अत एव अकल्यः॥
३१२ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । १६७ कथं तर्हि कालशब्दोऽत्र प्रवृत्त इत्याह स चाधः कलयेत्सर्व व्यापिन्यादिं धरावधिम्॥३१०॥ तुट्यादिभिः कलाभिश्च देव्यध्वानं चराचरम् । साम्यसंज्ञं कालं भित्तिभूतमवधिमाश्रित्य तदुद्भूतं व्यापिन्यादिं सर्वमिति धरान्तमध्वानं यतः कलयत्यन्तःप्रकाशैकात्म्येन स्थितं बहिर्वे- चित्र्यशतैः प्रक्षिपति, बहिराभासितं च अन्तः क्षिपति नानात्वेन च परिगणयति, यत एव सर्व कलयति ततोऽयं काल उच्यते इत्यर्थः ॥ एतदेव अधिकावापेन अनुवदन्नुपसंहरति ऊर्ध्वमुन्मनसो यच्च तत्र कालो न विद्यते ॥३११॥ न कल्यः कल्यते कश्चि- निष्कलः कालवर्जितः। यः शाङ्कर्युन्मनातीतः स नित्यो व्यापकोऽव्ययः३१२ उन्मनसः सम्बन्धि ऊर्ध्व परतत्त्वात्मकं य.
१६८ खच्छन्दतन्त्रम् । [११ पट. त्पदं तत्र कलनाहेतुः कालो नास्ति यस्मान्न तत्र कल्यः कलनाहः कोऽपि कल्यते सर्वस्य तत्र परमशिवैकात्म्येनैवावस्थितेः। यतश्चायम- प्रमेयत्वात्तुट्यादिकलाभ्यः कालावयवरूपेभ्यो निष्क्रान्तस्तेन क्रमाद्यवभासात्मककालवार्जितः, तद्रूपो न भवति केवलं प्रोक्तव्याख्यासतत्त्ववि- श्वकलनाकारित्वात्कालः इत्युक्तः। अव्यय इति अपरिक्षीयमाणमूर्तिः। उक्तं च योजनिकायां 'सर्वकालं तु कालस्य व्यापकः परमोऽव्ययः । उन्मनान्ते परे योज्यो न कालस्तत्र वर्तते ॥ (४।२८७) इति ॥ ३१२॥ यस्मात् तस्यादौ यादृशं रूपं कल्पान्ते चैव तादृशम्। आदौ सृष्टिकाले॥ किश्च अरूपो रूपनिर्मुक्तः सोऽनादिर्भववर्जितः ॥३१३॥ सर्वज्ञः सर्वकर्ता च दानादिगुणवर्जितः।
३१५ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । १६९ रूप्यन्ते इति रूपाणि देशकालाकारनि- यमा न विद्यन्ते यस्य, अत एव रूपेभ्य इद- मीदृगित्यादिरूपव्यापारेभ्यो निर्मुक्तः, यतो. ऽनादिस्तत एव भवेनोत्पादेन वर्जितोऽसं- स्पृष्टः । सर्वज्ञ इति प्राग्वत् । सर्वेण रूपेण कर्ता सर्वात्मना स्वतन्त्रः । चकारो । चकारो ज्ञत्वकर्तृत्वयोः सामरस्यमाह । यश्च व्यतिरिक्ते ज्ञेये कार्ये ज्ञाता कर्ता च, असावनादिभिःप्रवाहनित्यतया वर्त- मानैर्गुणैर्मायाधर्मेर्युक्तो भवति । अयं तु अभे- दसर्वज्ञसर्वकर्तृत्वात्मकत्वात्तैरसंस्पृष्टः ॥ एवमपि ततो नान्यत्किञ्चिदस्ति, अपितु स एवापररूपेण स्वस्वातत्र्यात्स्फुरन्नपि उन्मन्या मूर्ध्नि संस्थितः ॥३१४॥ अतश्च अयं देवदेवो जगन्नाथ: परमात्मा शिवोऽव्ययः । पूर्वानुक्रमयोगेन सोऽकामात्सृजते जगत्॥३१५॥ जगता कालाव्यादिशिवान्तेन नाथ्यते इति २२ १७० खच्छन्दतन्त्रम् । [११ पट० जगन्नाथः । पूर्वानुक्रमयोगेनेति समनापदमा- रुह्य तत्तत्कारणमूर्त्याश्रयणेनेत्यर्थः । अकामा- दित्थमिदमेवमहं करोमीति सङ्कल्पं विना । शिष्टं प्रागेव व्याख्यातप्रायम् ॥ ३१५ ॥ अकामादित्याक्षिपन्ती श्रीदेवी उवाच अकामस्य क्रिया नास्ति निष्क्रियश्च सृजेत्कथम् । एतं प्रश्नवरं गुह्यं कथय स्व प्रसादतः ॥३१६॥ सर्वा गमनपचनादिक्रिया सङ्कल्पपूर्वा, स- ङ्कल्पश्च चिदानन्दघने भगवति नेष्टः, तत्कथ- मक्रियस्य स्रष्टुत्वं; अथच चित्प्रकाशात्मकपर- मेश्वरस्वरूपव्यतिरिक्तस्य अन्यस्य सत्त्वमेव न घटते किमङ्ग कर्तृत्वम्। अत एतं प्रश्नानां मध्ये वरमुत्कृष्टं प्रश्नमेतन्निर्णयाच्च सर्वसंशयोच्छि- त्तिर्भवति प्रसादतस्तत्त्वार्थोन्मीलनेन कथयेति एतन्निर्णयमादिश ॥ ३१६ ॥ इत्थं पृष्टः श्रीभैरव उवाच आदित्यस्य मणेर्यद्व- त्तापितादविरश्मिभिः।
३१८ श्लो० ] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । १७१ वह्निः संजायते तस्मा- द्रवेस्तत्र न कामिता॥३१७॥ मणेरपि न कामित्वं तद्देवस्य चेष्टितम् । यः किल कुम्भकारादिः स्वव्यतिरिक्त कार्य किमपि प्रयोजनमुद्दिश्य जनयति, तस्य सङ्कल्पं विना तत्पूर्वकक्रियानुदयान्मा भूत् कर्तृत्वं परमेश्वरस्य स्वतनभद्दारकस्य इदमेव परमेश्वर- त्वं यदयं 'सृष्टिसंहारकर्तारं ।' (११३) इत्याद्युक्तनीत्या स्वचिद्भित्तौ स्वातन्यशक्त्या दर्प- णनगरवत् स्वानतिरिक्तमपि अतिरिक्तमिव शि- वादिक्षित्यन्तमनन्तावान्तरवैचित्र्यचित्रितमा- भासयंस्तावदशेषचमत्कारात्मकपूर्णानन्दघन- खभाव एवेति वस्तुखभावमात्रसाम्येन सूर्यसं- स्पृष्टसूर्यकान्तोत्थवह्विरत्र दृष्टान्तः ॥ तदाह आदित्यवच्छिवो ज्ञेयः शक्तिर्मणिरिव स्थिता ॥३१८॥ नतु जाड्यं भिन्नत्वं च दान्तिके शङ्कनीयं दृष्टान्तदा न्तिकयोः सर्वसाधायोगात्॥
स्वच्छन्दतन्त्रम् ।
खरूपमेव
१७२
[११ पट०
किश्च
ऋतुकालमिताहृक्षा-
कालोऽङ्गुरनियोजकः।
यहच्छिवसमायोगा-
तद्वच्छक्तेर्जगत्स्थितिः ॥३१९॥
ऋतुकालभाजस्तरोर्यथा अयं स्वभाव एव-
यदकुरादिवैचित्र्यवत्त्वं, तथा नित्यावियुक्तचि.
दानन्दात्मनोः शिवशक्त्योः
एतत्
यत् कृत्यपञ्चकप्रपञ्चात्मना स्फुरणम् । तदुक्तं
शिवसूत्रेषु
'स्वशक्तिप्रचयोऽस्य विश्वम् ।' (३।३०)
इति । इत्थं च एवंविधाशेषविश्वचमत्कारसार-
परमशिवात्मकखचिद्भूमिविमर्शनं सर्वशास्त्रेषु
परमोपादेयं जीवन्मुक्तिप्रदमुच्यते इत्याशयेन
प्रश्नवाक्ये गुह्यमभिहितमिति शिवम् ॥३१९॥
शम्भोः पूर्णानन्दचिद्रनराशेः
शक्तिर्वाह्याभासनात्मोच्छलन्ती ।
देवीत्रैतैकात्मरूपामिमां तां
खां सम्पूर्णी देवतामामृशामि ॥
इति श्रीस्वच्छन्दोड्योते एकादशः पटलः सम्पूर्णः ॥११॥
अथ
श्रीस्वच्छन्दतन्त्रम् ।
श्रीमन्महामाहेश्वराचार्यश्रीक्षेमराजकृतोझ्योताख्य-
विवरणोपेतम्।
( द्वादशः पटलः )
स्वात्मनि स्वेच्छया क्लृप्ततत्तत्तत्वस्फुटद्युतौ ।
खाभिन्ना भासयन्सिद्धीः स्वच्छन्दो जयति प्रभुः ।।
पटलसङ्गत्यर्थमुक्तमनुवदन्ती तत्त्वसिद्धि-
बुभुत्सया श्रीदेव्युवाच
सृष्टिः स्थितिश्च संहार-
स्तत्त्वानां कथितस्त्वया ।
जगत्संभवहेतुश्च
जगतस्तत्त्वभूतभावभुवनादिरूपस्य हेतुः पर-
मकारणं परमशिवः ॥
एतच्च
त्वत्प्रसादाच्छ्रुतं मया ॥१॥
प्रसादादि प्राग्वत् ॥ १॥
२
खच्छन्दतनम् ।
[१२ पट०
इदानीं तु
तत्त्वविज्ञानमाख्याहि
सिद्धिस्तेषु यथा भवेत् ।
विज्ञानं धारणादिक्रमेण साक्षात्कारः । ते-
विति तद्विषया
सिद्धिर्यथा स्यात् ॥
एतद्गदितुं श्रीभैरव उवाच
पृथिव्यादि शिवान्तं च
कथयामि समासतः॥२॥
यथा देहे यथाच बहिः स्थितम् । समा-
सतः सङ्केपेण, विस्तरतस्तु अग्रे धारणावसरे
भविष्यति ॥२॥
तत्र
पृथ्वी कठिनरूपेण
शृणु देहे यथा स्थिता ।
यथा इति येन मांसादिना प्रकारेण ॥
तदाह
मांसेऽस्थिषु तथा चैव
स्नायुलोमनखेषु च ॥३॥
३ ६ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । मजान्त्रेषु च विज्ञेया पृथ्वी पञ्चगुणोत्कटा। एतच्च अग्रे स्फुटीभविष्यति ॥ कफामृगाममूत्रेपु रसस्वेदवसासु च ॥४॥ शुक्रे च संग्रहे चैव स्थिता आपश्चतुर्गुणाः। देहे इत्येव । रस आहारपानपरिणामोत्थ आद्यो देहधारको धातुः । संग्रहः पार्थिवादीनां मांसादिभावेन परिणतानां संश्लेषः ॥ पचने दहने चैव तेजस्यूष्मणि संस्थितम् ॥५॥ आहारादेः पाकनिमित्तं महाक्षारजननात्म- कदाहाय परासह्यदीप्तये उपलभ्योष्मसम्पत्तये च देहे तेजः स्थितम् ॥ ५॥ तेजस्त्वेवं स्थितं देवि प्रकाशे च त्रिलक्षणम् । प्रकाशे इति नेत्ररश्मिद्वारेण वस्तुप्रथनाय ।
४ स्वच्छन्दतघ्रम् । [१२ पट० त्रयो रूपस्पर्शशब्दा लक्षणं यस्य । एतच्च अदृष्टवशात् देहे अनुद्रिक्तरूपस्पर्श स्पष्टम् ॥ वायुरुच्छ्रासनिःश्वास- स्पर्शनव्यूहलक्षणः ॥६॥ मूत्रोच्चारविसर्गेषु अन्नपानप्रवेशने। स्पर्शनं बाह्याभ्यन्तरस्पर्शग्रहणम् । व्यूहो रचना । उच्चारो मलपरिणामः । विसर्गों बहिष्कृतिः॥ तदित्थं वायुरेभिः स्थितो देहे विज्ञेयस्तु द्विलक्षणः ॥७॥ एभिर्व्यापारैरुपलक्षितः । द्वौ शब्दस्पर्शी लक्षणं ज्ञप्तिहेतुर्यस्य स द्विलक्षणो द्विगुणः ॥७॥ एकलक्षणमाकाशं कथयामि यथा स्थितम् । एकः शब्दो लक्षणं यस्य । तत्र पृथिव्याः खटखटारूपः, जलस्य च्छलच्छलता, तेजसो धगधगाकृतिः,वायोःशुकशुकाखभावः, आका• ९ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । शस्य प्रतिश्रुत्कार ख्यः शब्दः; स्पर्शोऽपि पृथ्व्याः पाकजोऽनुष्णाशीतः, जलस्य शीतः, तेजस उष्णः,वायोरपाकजोऽनुष्णाशीतः; पृथ्व्याः सि- तादि नाना रूपं,जलस्य सितं,तेजसो भावरम् ; पृथ्व्याः षड्विधो मधुरादिरसः, जलस्य मधुरः, पृथ्व्या एव तु सुरभिरूपो गन्ध इति। विशिष्ट- रेव तैर्गुणैर्देहे पृथिव्यादिभूतानि लक्षणीयानि ॥ यथास्थितमित्युक्तं स्पष्टयति सुषिरात्मकं तु विज्ञेयं नवधाच्छिद्रलक्षणम् ॥८॥ च्छिद्राणि द्वाराणि ब्रह्मरन्ध्रचक्षुः- श्रोत्रघाणास्यचूचुकनाभिलिङ्गगुदगतानि लक्षणं यस्य ॥८॥ इत्थं नवद्वारलक्षित शब्दात्मकं गुणं ह्येत- कथितं तव सुव्रते। एवं देहे भूतपञ्चकं प्रदर्श्य, तदुपस्थापक- तत्प्रकाशकानि कन्द्रियबुद्धिमनांसि प्रका- श्यन्द्रियकारणभौतिकरूपादिप्रतीतिवशानुमे. नव ६ स्वच्छन्दतन्त्रम् । [ १२ पटक यानि रूपाद्यविशेषरूपाणि तन्मात्राणि उपपा- दयिष्यति । तत्र तावत् वागिन्द्रियं वदेहाणी सा च वाणी चतुर्विधा ॥९॥ संस्कृता प्राकृती चैव अपभ्रष्टानुनासिका। 'संस्कृता नाम दैवी वागन्याख्याता महर्षिभिः।' इति तत्रभवद्भर्तृहरिणा उक्ततात्पर्या संस्कृता। प्रकृतिभूताया वर्णलोपान्यथाभावादिक्रमेण आयाता प्राकृती । यदाहुः 'तद्भवस्तत्समो देशी विविधः प्राकृतक्रमः।' इति। अपभ्रष्टा देशभाषा विचित्राः । अनुना- सिका नासिकामनुगता गीयमानाक्षररूपा व- र्णाङ्गमितिप्रसिद्धा ॥ छेदनं भेदनं दानं व्यधनं शिल्पयोजनम् ॥१०॥ ग्रहणं विजयश्चैव सर्व हस्तेन्द्रिये स्थितम् ।
७
१३ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् ।
छेदनं रज्वादिषु। भेदः शरादिकृतो लक्ष्या-
धिष्ठः। विजयो युद्धं । विजयी इति वा पाठः ॥
समनिम्नोन्नताश्चैव
लोष्टकण्टकवालुकाः ॥ ११॥
कर्दमो जलदुर्गाणि
रथ्याट्टालकपर्वताः।
पादेन्द्रियेण गम्यन्ते
देशान्तरगमागमे ॥ १२॥
देशान्तरगमनागमननिमित्तं समनिम्नादि-
स्थानानि पादेन्द्रियेण गम्यन्ते ॥१२॥
उत्सर्गे पर्दिते चैव
पायुर्वं चेष्टते सदा।
उत्सर्गो मलमोक्षः पर्दितं गुदरन्ध्रेण कु-
त्सितशब्दः॥
आनन्दकृदुपस्थश्च
गम्यागम्यप्रवर्तकः ॥१३॥
आनन्दकृत्त्वादेव विहितनिषिद्धादौ सर्वत्र
प्रवर्तनमस्य स्वभावः, अत एव तनियमः शास्त्रे
क्रियते ॥ १३ ॥
स्वच्छन्दतघ्रम् ।
[१२ पट०
तदित्थं
कर्मस्वेतानि वर्तन्ते
तेन कर्मेन्द्रियाणि तु।
यथा च एतानि ईशि, तथा
बुद्धीन्द्रियाणि देवेशि
वर्तन्ते बुद्धियोगतः ॥१४॥
बुद्धर्ज्ञानस्य योगः सम्बन्धस्तत्र तन्निमित्तं
प्रवर्तन्ते ॥१४॥
तत्र वितत्य शब्दाख्यविषयप्रभेदनिरूपण-
पूर्व श्रोत्रेन्द्रियस्य तदुपलब्धिसाधनत्वमाचष्टे
षड्जाख्यर्षभगान्धार-
मध्यमाः पञ्चमः प्रिये ।
धैवतो निषधश्चैव
स्वराः सप्त प्रकीर्तिताः॥१५॥
गान्धारो मध्यमः षड्ज-
स्त्रयो ग्रामाश्च पार्वति ।
इत्थं
सप्त स्वरास्त्रयो ग्रामा
मूर्छनाश्चैकविंशतिः ॥ १६॥
९ २० को०] श्रीक्षेमराजाचार्यकृतोक्ष्योताख्यटीकोपेतम् । तान एकोनपञ्चाश- दित्येतत्सुरमण्डलम् । तदित्थं सूक्ष्मशब्दाः स्मृता ह्येते चराचररवस्थिताः ॥ १७॥ सूक्ष्मध्वनिमात्ररूपाः, अत एव चराचरे सर्वत्र रवरूपतया ध्वनिमात्रावस्थिताः॥१७॥ अथ स्थूलांश्चैव प्रवक्ष्यामि यथावत्तान्निबोध मे। भेरीपटहशङ्खोत्थो मृदङ्गपणवोत्थितः ॥ १८॥ वेणुगोमुखशब्दश्च मन्दलो दर्दुरो ध्वनिः । तन्त्रीवाद्यानि चित्राणि करवाद्यानि यानि च ॥ १९॥ संयोगजवियोगोत्थाः काष्ठपाषाणवारिजाः ।
१० स्वच्छन्दतन्त्रम् । [१२ पट० अपभ्रंशोऽनुनासिक्यः संस्कृतः प्राकृतो रवः ॥ २०॥ संयोगजा हुडुकादिहस्तसंगोत्थाः, विभा. गजास्तु दलादिविश्लेषोदिताः ॥ २० ॥ तदित्थं सप्तस्वरप्रतिष्ठानि व्यक्ताव्यक्तानि चैव हि। उक्तानुक्तानि गृह्णाति श्रवणेन्द्रिययोगतः ॥ २१ ॥ वाद्यसंस्कृताद्यात्मकानि सर्वाणि शब्दरू- पाणि सप्तस्वरात्मकध्वनिविशिष्टनिष्ठानि श्रो. त्रेण पुरुषो गृह्णाति ॥ २१ ॥ ततश्च शब्दोऽस्य विषयो ह्येष येन बुद्ध्येत पुद्गलः। एष प्रोक्तरूपः सर्वः शब्दोऽस्य श्रवणेन्द्रि- यस्य विषयः। कस्य अस्येति । आह येन पुद्गलः पुमान् बुद्ध्येत जानीयात् । एवमुत्तरत्रापि सं- गतिः कार्या ॥
११ २५ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । मृदुं च कठिनं चैव कर्कशं शीतलं तथा ॥२२॥ उष्णं च पिच्छिलं लोप्टं कर्दम वालुकास्तथा। शरकुन्तासिघातादि ताडनं छेदनं तथा ॥ २३ ॥ एतानि वै विजानाति स्पर्शनं च त्वगिन्द्रियम् । स्पर्शनं सत् जानाति स्पर्शनक्रमेण वेत्ती. त्यर्थः॥ तदित्थं स्पर्शोऽस्य विषयो ह्येष येन बुद्ध्येत पुद्गलः ॥ २४॥ अथ चक्षुरिन्द्रियकर्माणि कथ्यमानानि मे शृणु। सितं रक्तं च पीतं कृष्णं हरितधूम्रकम् ॥२५॥ च
१२
स्वच्छन्दत म्।
[१२ पट
कपिलं पिङ्गलं बभ्रु
अन्यान्यपि विशेषतः।
रूपाणि ॥
तथा
नरनारीपर शुमृगा-
ज्योतिःस्थावरजंगमम्॥२६॥
तदित्थं
रूपाकृतिविविक्तानि
चक्षुः पश्यति सर्वदा।
रूपं सितादि, आकृतिः संस्थान; ताभ्यां
विविक्तानि विलक्षणानि वस्तूनि चक्षुः पश्य-
तीत्यस्य कर्तृत्वमुपचरितम् ॥
तदेवं
रूपाख्यो विषयो ह्यस्य
येनात्मा प्रतिबुद्ध्यते ॥२७॥
मधुराम्लरसं चैव
लवणं कटु तिक्तकम् ।
कषायमिश्रं स्वादु च
जिह्वा वेदयते रसम् ॥ २८॥
३१ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् ।
१३
इत्थं
रसोऽस्य विषयो ह्येष
येन बुद्ध्येत पुद्गलः।
सुरभिर्दिव्यगन्धश्च
दुर्गन्धश्चाप्यनेकधा ॥२९॥
उभौ जिघ्रति नासाग्रे
नासा की अग्रे स्थितावुभौ जिघ्रति ॥
अतश्च अस्य अयं
विषयो गन्धसंज्ञितः।
येनासौ बुद्ध्यते क्षेत्री
अहङ्कारेण मोहितः ॥३०॥
शरीरादौ बद्धाभिमानत्वादेव व्यतिरेकेण
विषयान्वेत्ति। एतच्च पूर्वत्रापि संबन्धनीयम् ॥
संकल्पे च विकल्पे च
दशधाक्षेषु धावति ।
अनिवारितसन्देह-
मजय्यं सर्वदेहिनाम् ॥ ३१ ॥
१४ स्वच्छन्दतब्रम् । [१२ पट० मनश्च कथितं ह्येत- धर्माधर्मनिबन्धकम् । बुद्धिकर्मेन्द्रियविषये यः इदं श्रितमिदमादधे इति संकल्पः, यश्च इदमीशमिति निश्चयात्मा विकल्पः; अत्र धावति यथा तथा प्रवर्तते; अत एव एतत् अनिवारितसन्देहं सर्वत्र ससंशयं, ज्ञानयोगं विना यत् न केनचिजेतुं पार्यते; धर्मा- धर्माभ्यां निबनातीति तन्निबन्धकं तत्सङ्ग- मकृत् ॥ अथ इन्द्रियकार्यरूपाद्युपलब्ध्यनुसारेण देहे तन्मात्रावस्थिति दर्शयितुमाह स्वरूपधर्म वक्ष्यामि तन्मात्राणां यथार्थतः ॥३२॥ अर्थः प्रयोजनं तदनुसारेण तन्मात्राणां खरूपमुपागतनियताश्रयावस्थितिरूपं धर्म स्व भावं वच्मि ॥ ३२ ॥ तत्र गन्धं तु गन्धतन्मात्रं नासिकाग्रेण जिघ्रति ।
३५ श्लो०] श्रीक्षेमराजाचार्यकृतोझ्योताख्यटीकोपेतम् । जिह्वया रसतन्मात्रं रसं गृह्णाति संस्थितम् ॥३३॥ चक्षुषा रूपतन्मात्रं रूपं गृह्णात्युपागतम् । गृह्णाति स्पर्शतन्मात्रं त्वचा स्पर्शमुपागतम् ॥ ३४॥ शब्दं च शव्दतन्मात्रं गृह्णाति श्रवणेन तु। गन्धादिप्रतीतिसाधनघ्राणादीन्द्रियाश्रय- नासिकादिक्षेत्रगतमदृष्टवशादुद्भूतगन्धतन्मा- त्रादिकं कर्तृ तेनैव घ्राणादिना गन्धादिगुणं गृ- हातीति संगतिः। अत्र च अयमाशयः-यदाहङ्का- रिकत्वात् व्यापकत्वेऽपि इन्द्रियाणां गन्धतन्मा- प्राद्यवस्थितिनियमितं नासिकादिक्षेत्रमभिव्य- क्तिस्थानमिति,तत एव समुद्भूतवृत्तिगन्धतन्मा- नियन्त्रिता गन्धस्योपलब्धिर्भवतीति नियमि- ततन्मात्रोपरक्ताहङ्कारिकत्वमिन्द्रियाणाम् , अ- न्यथा सावयवत्केवले आहङ्कारिकत्वे नियत- १३ खच्छन्दतन्त्रम् । ।१२ विषयसंबन्धो न घटते नैयायिकवद्वा केवल- भौतिकत्वे तु अहंप्रतीत्यनुगमो न स्यात् ॥ एतदुपसंहरति सूक्ष्मस्तन्मात्रधर्मोऽयं भूतानां प्रकृतिक्रमात् ॥३५॥ यतो भूतानां प्रकृतयस्तन्मात्राणि तत एव तत्तत्तन्मात्राधिष्ठिततत्तदिन्द्रियकारणकपृथि- व्यादिभूतगतगन्धादिगुणोपलब्धिर्भवतीत्यय- मिन्द्रियगतानां तन्मात्राणां सूक्ष्मः सर्वजना- सञ्चेतितो धर्मोऽस्ति ॥ ३५॥ देहे अहङ्कारस्थिति दर्शयति वैकारिकस्ततश्चोर्ध्व बुद्ध्यते येन पुद्गलः। अहं विद्वानहं भोगी त्वहं जातो महाकुले ॥३६॥ अहं दाता च भोक्ता च तेजस्वी बलवानहम्।
१७ ४० श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । अहं योद्धा च संग्राम शत्रवश्च मया जिताः॥३७॥ धर्मशीलश्च गुणवान् श्रेयस्कर्ता ह्यहं परम् । अहं पापी दुराचारो मूर्खश्चाहं दुराकृतिः ॥ ३८ ॥ न दत्तं न मया भुक्तं मत्समो नास्ति दुःखितः। इत्यहङ्कारचित्तानां ममत्ववशवर्तिनाम् ॥३९॥ अहङ्कारो निबध्नाति संसारे दृढबन्धनैः । विद्वान् बोद्धा पापी,-इत्यादिसात्त्विक्यादि- प्रतीतिरूपैः संसारहेतुभिर्बन्धनैरहङ्कारो नि- बभाति जनान् । ऊर्ध्वमिति एतावदन्ततत्त्व- व्यापकत्वेन ॥ c ३
१८
स्वच्छन्दतघ्रम् ।
[१२ पट०
तदित्थं
त्रिविधस्याप्ययं धर्मो-
ऽहङ्कारस्य प्रकीर्तितः॥४०॥
यत्तु 'वैकारिकस्ततश्चोर्ध्वम्' इत्युक्तं, तदह-
कारस्य राजसताप्राधान्यदर्शनाय ॥४०॥
अथ धर्ममुखेन धर्मिरूपाया बुद्धदेहे स.
त्तामाह
बुद्धिधर्मास्ततो वक्ष्ये
धर्मादींस्तव सुव्रते।
धर्मो ज्ञानं च वैराग्य-
मैश्वर्य च चतुष्टयम् ॥४१॥
अधर्मश्च तथाज्ञान-
मवैराग्यमनैश्वरम् ।
एषां मध्यात्
बध्नाति सप्तधा सा तु
ज्ञानभावेन मोहयेत् ॥४२॥
साक्ष्यसिद्धानिति अर्थात् ॥ ४२ ॥
४६ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । १९ एषा च इत्थं मुख्यतया लक्ष्यते इत्याह बुद्धिश्चाध्यवसायं च करोति विविधेष्वपि । वस्तुषु ॥ धर्मादीनामथाष्टानां लक्षणानि शृणु प्रिये ॥४३॥ तत्र उपवासो जपो मौन- मक्रोधोऽस्तेयमार्जवम् । सत्यं शौचं च दानं च दया क्षान्तिश्च सर्वदा ॥४४॥ विद्याभ्यासश्च लज्जा च इन्द्रियाणां च निग्रहः। इष्टापूत तं तीर्थसेवा पितॄणां चैव तर्पणम् ॥४५॥ अभयं सर्वसत्त्वेभ्यो जीवितस्य च रक्षणम्।
२०
स्वच्छन्दतन्त्रम् ।
[१२ पट०
धीगुणः
ह्येष
गुरुशुश्रूषा
प्रथमो
धर्म इत्यभिधीयते ॥ ४६॥
इह यः पूर्व
'अक्रोधो शौचं सन्तोष आर्जवम् ।
अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्कता॥(११११४५)
इत्येवं दशविधो धर्म उक्तः, तस्यैव सप्रपश्चभ-
जयन्तरप्रतिपादनमेतत् । तथाच इन्द्रियाणां
निग्रहो ब्रह्मचर्यस्य प्रपञ्चोक्तिः । लज्जा उप.
वासो जपो मौनं दानं दया क्षान्तिरिष्टापूर्ता-
दित्रयं च अकल्कतायाः प्रपञ्चः। विद्याभ्यासो
जीवितरक्षा
च गुरुशुश्रूषायाः फलम् । सर्व-
सत्त्वाभयमहिंसारूपम् । स्तेयवर्जनक्षान्ती स-
न्तोषार्जवरूपे ॥ ४६॥
तदित्थं
धर्मकर्मनिबद्धानां
संसारमनुवर्तिनाम् ।
पुनर्मात्यं पुनः स्वयं
तिर्यक्त्वं च पुनः पुनः॥४७॥
भवतीति शेषः॥४७॥
५० श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । २१ एवं धर्मभावः समाख्यातः इदानीं ज्ञानभावं च मे शृणु। भावं बुद्धिधर्मम् ॥ तमेव स्फुटयति चतुर्विंशतिकः पिण्डः करणेन्द्रियसंयुतः॥४८॥ प्राकृतः स तु विज्ञेयो धर्माधर्मप्रवर्तकः मनोवाकायव्यापारधर्मार्जकः अकर्ता निर्गुणश्चाहं तेन प्रकृतिभिन्नस्य न मे बन्धोऽस्ति प्राकृतः॥४९॥ केवलमिदं सर्व प्रकृत्या कारितं मन्ये बुद्ध्यादिद्वारेण प्रवर्तितमिति निश्चिनोमि ॥ तदीशविवेकज्ञानोत्थात् वासनादेव मुच्यते।
२२. खच्छन्दतत्रम् । [१२ पट० वासनं संस्कारः । मुच्यते इति साङ्ख्य- भिक्षुः॥ तदेतत् साङ्ख्यज्ञानं मया प्रोक्तं प्रकृतेर्येन मुच्यते ॥ ५०॥ कतिपयं कालं पृथग्भवति ॥ ५० ॥ अथ मुक्तं प्रकृतिबन्धात्तं पुनर्बध्नाति वेश्वरः। सच बद्धः संसरते भूयो यावद्देवं न विन्दति ॥ ५१ ॥ ईश्वरं सृष्टिकर्तारं सर्वजन्तुनिबन्धकम् । प्रकृतेर्जडायाः कर्तृत्वाघटनात् पुंसस्तदनभ्यु- गमात् संसर्गेऽपि जगदुदयो न स्यादिति तयो- बन्धमोक्षनिर्मातारं यावदीश्वरं न लभते ता- वत्साळ्यमुक्तोऽपि पुनः प्रत्यावर्तते तत्त्वज्ञाना- नुदयात् ॥
२३ ५४ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । वैराग्यं लक्षयितुमाह वैराग्यात्सन्त्यजेत्पुत्रा- न्दारानिष्टान्सुसंमतान् ॥५२॥ हस्त्यश्वरथयानानि सुहृद्भोगधनानि च । सुष्टु संमताननुकूलान् । किञ्च उपवासं जपं तीर्थ पञ्चाग्निं जलशायिताम् ॥५३॥ उपास्यैतानि घोराणि देहं सन्त्यजति क्षणात् । दक्षिणाझ्याहवनीयगार्हपत्यौपसदिकसावि- त्राख्याग्निपञ्चमध्यावस्थानं ग्रीष्मे पञ्चाग्याख्यं तपः । एतानीति तपांसि ॥ कथं त्यजतीत्याह गिरिवृक्षजलाग्निभ्यः प्रहारोद्वन्धनाशनैः ॥ ५४॥ गिर्यादीनाश्रित्येत्यर्थः। वृक्षःप्रयागादिस्थितो वटः।आशनमशनमापूर्वस्य अभातेःप्रयोगः॥
खच्छन्दतन्त्रम् । [१२ पट० २४ तदेवंप्रायाणि अन्यानि अपि वैराग्यं तु समाश्रित्य कुरुते साहसान्यपि। ऐश्वर्यभावमापन्नो द्रव्यैस्तृप्तिं न गच्छति ॥५५॥ न दारैर्न धनैर्भोगैः परिवारैर्न वाहनः । तपो व्रतानि मन्त्रांच ऐश्वर्यार्थे तु साधयेत् ॥५६॥ किञ्च युद्ध द्यूतं तथा मायां चौर्य चानृतहिंसनम् अन्यान्यपि त्वयुक्तानि विस्रम्भच्छलघातिताम् ॥५७॥ ऐश्वर्यभावमापन्नः करोति च बहून्यपि। (.. دنت را .
२५
६० श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् ।
तपोव्रतादीनि सात्विकस्य, युद्धादीनि तु
राजसस्य, आश्वासहननादीनि तामसस्य अर्था-
हरणकारणानि ॥
धर्मादिचतुष्टयं प्रदर्य, अधर्मादीनपि दे-
हिनो दर्शयति क्रमेण
प्राणिहिंसारतो नित्यं
चौरिकानृतदम्भवान् ॥ ५८॥
याचको दुःखदाता च
भवेच्चाधर्मचेष्टितम् ।
चौरिका चौर्यम् । प्राणिहिंसारतत्वादि एत-
धर्मस्य चेष्टितं भवतीत्यर्थः ॥
नास्ति धर्मो न चाधर्मः
स्वर्ग मोक्षं च को गतः॥५९॥
अज्ञानभावमापन्नः
सर्व मिथ्येति भाषते ।
नित्यं दुःखी परप्रेष्यो
भारं यानं वहन्नपि ॥६०॥
२६ स्वच्छन्दतघ्रम् । [१२ पटक कृच्छ्रजीवी च सतत- मवैराग्ये न खिद्यते । सतीत्यर्थः ॥ राज्यं कृत्वा तु सामन्तः सामन्त्याद्रामभुग्भवेत् ॥६१॥ ग्रामाष्टस्तदर्धन वर्ततेऽसावनीश्वरः। न शोचति न चोद्विग्नः क्रीडते पूर्वराज्यवत् ॥ ६२॥ अनैश्वर्यस्य भावोऽय- मेवं ते समुदाहृतः। अथ देहस्थम अव्यक्तं त्रिगुणं वक्ष्ये संसारस्य प्रवर्तकम् ॥६३॥ ईश्वरेच्छात इति अर्थात् ॥ ६३ ॥ एतस्मादेव यस्माच जगदुत्पत्तिः प्रकृतिस्तेन चोच्यते।
६६ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । २७ एतदेव प्रकर्षेण क्रियते प्रपञ्चयते बुझ्यादि. क्ष्मान्तं सर्वमस्यामीश्वरेणेति प्रकृतिः ॥ किश्च देहावस्थितिप्रतीतिहेतुम् अस्य धर्म प्रवक्ष्यामि रजःसत्त्वतमोऽभिधम् ॥ ६४॥ तत्र प्रकाशभावः सत्त्वं च धर्मः सत्त्वसमाश्रितः । प्रकाशभावोऽर्थाकृतिसंवेदनं, सत्वं शुद्ध- चित्तता यया पूर्वोक्तो धर्मः ॥ सत्त्वसंबन्धादेव यश्च परेषां धनान्नादेः संविभागी च सततं नित्यं सत्त्वोपकारकः ॥६५॥ क्षमादयासमायुक्तो ज्ञानविज्ञानपारगः । स सात्त्विक इत्यर्थः । सत्त्वोपकारको दानं विनापि वागादिना प्राण्युपकारी ।
स्वच्छन्दतन्त्रम्।
[१२ पट०
किञ्च
प्रीतिर्दानं धृतिर्मेधा
तपः शौचं दमस्तथा ॥६६॥
ऋतवाक्समदृष्टिश्च
दिव्यबुद्धिप्रबोधनम्।
यस्मिन्नेते
सदा
धर्मा
भवन्ति पुरुषोत्तमे ॥ ६७॥
स सात्त्विकस्तु
विज्ञेयः
समष्टिः स्वात्मनि इव परत्र प्रतिपत्तिः ।
दिव्यबुद्धिः प्रतिभा ॥
अथ
रजोधर्मांश्च मे शृणु।
निस्त्रिंशश्वातिलोभी च
विद्वेषी क्रोधनस्तथा ॥६८॥
कामी हर्षसमाविष्टो
दुःखार्तः पर्यटेत्सदा।
मानी दम्भसमायुक्तो-
ऽप्यहङ्कारे व्यवस्थितः॥६९॥
७२ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योतारख्यटीकोपेतम् । २९ नित्यं युद्धरतः शूरः कामी सन् हर्षयुक्तः, नतु सन्तोषसुखवा. निति ॥ एवंविधो यः, तस्य एतत् निस्त्रिंशत्वादिकं राजसं गुणलक्षणम् । अथ कामक्रोधाभिभूतत्वं लोभेन च समन्वयः॥ ७० ॥ ईर्ष्या दम्भो विषादश्च मद उन्माद एव च । निद्रालस्यमकर्मित्वं दौर्मेध्याज्ञानिते तथा ॥७१ ॥ अधर्मताबुद्धिमत्त्वं नास्तिक्यं छलचित्तता। एतत्सर्व तमः तमोगुणरूपम् ॥ अतश्च चिह्नानि चैतानि
३०
स्वच्छन्दतन्त्रम् ।
[१२ पट०
दृश्यन्ते यत्र मानवे ॥७२॥
तामसः स तु विज्ञेयः
पुरुषः कलुषाशयः ।
तदित्थं
एतत्रिगुणमव्यक्तं
त्रिगुणं समुदाहृतम् ॥७३॥
एतत् त्रिभिर्गुणैर्युक्तत्वात् त्रिगुणम् ॥७३॥
एतत्सम्यग्विदित्वा तु
मुच्यते प्राकृतैर्गुणैः।
विदित्वा प्रमेयतया परिच्छिद्य, प्राकृतैर्ध-
मैंर्मुच्यते प्रकृतिवैव्यक्त्यमेति ॥
वस्तुतस्तु न स मुच्यते यत एतावती
अस्य प्रतीतिर्यदुत
गुणधर्मा न चैवाह
बुद्ध्यहङ्घद्गुणो न हि ॥ ७४॥
करणेन्द्रियहीनश्च
भूततन्मात्रवर्जितः।
अकर्ता निर्गुणश्चाहं
चिन्मात्रः पुरुषः स्मृतः॥७९॥
३१ ७८ श्लो०] श्रीक्षेमराजाचार्यकृतोझ्योताख्यटीकोपेतम् । करणबाह्येन्द्रियाधिष्ठातृसमः । स्मृत इति पुराणादिप्रणेतृभिः । अतश्च अहमकर्ता ॥७५॥ अत एव मानसं वाचिकं चैव शारीरं कर्म यत्कृतम् । तत्सर्व प्रकृत्या कारितं मन्ये प्रकृतिप्रयुक्तैर्मनःप्रभृतिभिः कृतमिति अ. वैमि ॥ एवं च न प्रयोजकत्वं, नापि मुख्यं कर्तृत्वं पुंसोऽस्तीति कृत्वा अकर्ता पुरुषः स्मृतः ॥७६ ॥ एवं संन्यस्य कर्माणि वर्तते नच नित्यशः । नाहं कर्ता न मे बन्ध एवं बुध्येत यो नरः ॥७७॥ प्रकृतेः स विमुच्येत यावन्न सृजतीश्वरः।
३२
स्वच्छन्दतन्त्रम् ।
[१२ पट०
एवमितिवचनेन कर्माणि संन्यस्येति स-
ङ्गतिः॥
प्रकृतिमात्रविवेकमात्मनो मन्यमानः अ-
का जडायाः प्रकृतेः कर्तृत्वमधिष्ठातुरीश्व-
रस्य बन्धादिकर्तुश्च अकर्तृत्वं मोहात् मन्यमान-
स्तत्त्वाप्रज्ञानात् कंचित् कालं निवृत्तप्रकृतिसंब.
न्धोऽपि न तत्त्वतः प्रकृतिबन्धात् प्रमुच्यते।
तदाह
सावयज्ञानेन संमूढो
मुक्तिरित्यभिमन्यते ॥ ७८॥
न हि मुक्तिर्भवेत्तस्य
कंचित्कालं विदेहता।
कंचित्कालं या विदेहता सा न मुक्तिर्यत-
स्तस्मात्साह्मयज्ञानेन मोहितो मुक्तिरिति मि-
ध्यैव जानाति ॥
केवलमेतावज्ज्ञानादसौ
तिष्ठेत्प्रकृतिनिर्मुक्तः
सृष्टिसंहारवर्जितः॥७९॥
३३ ८१ श्लो०] श्रीक्षेमराजाचार्यकृतोक्ष्योताख्यटीकोपेतम् । यावत्करोत्यसौ स्मृष्टि- मीश्वरः परमेश्वरः। इदमेव अस्य प्रकृतिनिर्मुक्तत्वं यत् प्रकृति- कार्यशरीरादिसर्गसंहारवर्जितत्वम् । एवं च या- वदीश्वरः पुंसां भोगाय पुनः सृष्टिं न आरभते, तावदसौ प्रकृतिलीनप्राय एव आस्ते इत्युक्तं भ- वति । नच एतावन्मात्रस्रष्ठत्वमस्य ऐश्वर्यम् , अपितु शुद्धाशुद्धसर्वाध्वविषयमित्याशयेन पर- मेश्वरः अनाश्रितान्तस्य विश्वस्य प्रभुरित्युक्तम्॥ तत ईश्वरे पुंसां कर्मपरिपाकानुसारिभोग- दानाय सृष्ट्याभिमुख्यमाश्रयति साङ्ख्ययोगी तावत्प्रकृतिबन्धेन संसारे क्षिप्यते पुनः ॥८०॥ क्षिप्तः संसरते भूयः संसारे घोरसागरे। धर्माधर्मनिबद्धस्तु साइयज्ञानेन मोहितः॥८१॥ तावत् प्रकृतादविशिष्टो यःप्रकृतिबन्धस्तेन।
स्वच्छन्दतघ्रम् ।
[१२ पट०
३४
घोरो विभीषिकाशतप्रदो दुरन्तत्वाच्च सागर
इव सागरः । यद्यपिच नाहं कर्ता प्रकृतिरेव
कीत्यनेनावसितं तथापि तत्तस्या
जडत्वात्
नोपपन्नं, बुद्धेश्चिच्छायायोगे चेतनत्वमुपचरितं
कथं मुख्यं कर्तृत्वं स्यात्, प्रकृतेश्च सत्त्वोद्रेका-
भावात् चिच्छायाग्रहणायोग्यतया उपचरितमपि
चेतनायमानत्वं नास्तीति कथं कर्मसंबन्धः,
कथं वा ज्ञानान्नैष्कर्म्यप्राप्तिः, अतोऽवश्यमी.
श्वरेच्छावशोत्थापितकलादिसंबन्धहेतुकं पुंसो
मितविषयं कर्तृत्वमस्तीति अनादिभवोपार्जि-
तधर्माधर्मनिबद्धत्वमस्य साह्मयज्ञानमोहितस्य
अस्तीति युक्तमुत्पश्यामः ॥ ८१ ॥
इत्थमीश्वरेच्छातः संसारसङ्करतोऽयम्
अहं कर्ता च भोक्ता च
ईश्वरो बलवानहम् ।
इति मन्यमानः
ममत्वेनैव संमूढो
भ्राम्यते घटयन्त्रवत् ॥८२॥
३५ ८३ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । अहङ्कारपूर्वकत्वात् ममकारस्य । भ्राम्यते इति ईश्वरेण ।। यदुक्तं गीतासु 'ईश्वरः सर्वभूतानां हृद्येप वसतेऽर्जुन । भ्रामयन्सर्वभूतानि यत्रारूढानि मायया ॥' (१८।६९) इति ॥ ८२॥ एतदुपसंहरति साङ्ख्यज्ञानं मया प्रोक्तं इह पूर्वं यत् प्रनितं 'तत्त्वविज्ञानमाख्याहि सिद्धिस्तेषु यथा भवेत् ।'(१२।२) इति, तन्निर्णयाय देहाश्रयाणि धरादिप्रकृत्य- न्तानि तत्त्वानि प्रतिपादितानि, अधुना उ. चारणादिक्रमेण तत्तत्सिद्ध्यर्थं साक्षात्कार्यमेत- कार्यतत्त्वस्वरूपं स्थूलदृशा प्रदर्य, सूक्ष्मदृशा परदृशा च आत्माश्रयाणि नियत्यादिसमस्तानि शुद्धविद्यादिशिवान्तानि च सिद्ध्यर्थमेव तत्वा- न्तरध्यानानि दर्शयन्नुपक्रमते शृणु ध्यानाधिदैवतम् । पृथिव्यादितत्त्वानां ध्यानं तत्संवाच्यतत्त्वा- धिष्ठातृदेवतास्वरूपं च वक्ष्यमाणतत्तत्सिद्धिप्रदं ३६ [१२ पट० खच्छन्दतन्त्रम् । शृपिवति संबन्धः । अत्र च आदौ 'समयाचारयुक्तस्य साधकस्य वरानने । जायते विविधा सिद्धिर्गिरिगह्वरमाश्रिते ॥ सुशुद्ध भूप्रदेशे तु ।' (६२) इत्यादिक्रमेण पूर्वोक्तभैरवपूजापूर्वकं पृथ्व्यादि- तत्त्वध्यानमारब्धव्यम् ॥ तत्र तावत् पृथ्वीं कठिनरूपेण चतुःसागरमेखलाम् ॥ ८३॥ सपर्वतवनाकी) मृगपक्षिसमाकुलाम् । सुस्थिरां पीतवर्णाभा- मूबीजेन समन्विताम् ॥ ८४॥ ध्यात्वा तत्सिद्धिमभ्येति चतुःसागरमेखलादिरूपा या पूर्व पृथ्वी उक्ता, तां सुस्थिरकठिनपीतवर्णाभां भुवना- ध्वप्रतिपादिततत्तद्देवतात्मिकां सर्वदेहे गतां ध्यात्वा तत्सिद्धिमेति तन्मयः साधको भवति।
८५ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् ।
अस्याश्च पूर्वोक्तरसात्मप्रक्रियया
'धरित्र्यादिप्रधानान्तमूकारो वाचकः स्मृतः।' (५।५)
इति कृत्वा ऊकारवीजवाच्यत्वमुक्तम् । ध्यात्वे-
त्युक्त्या ध्यानात्पूर्वं धारणा आक्षिप्ता। सा च
'स्वदेहं हेमसङ्काशं तुर्याश्रं वज्रलाञ्छितम् ।' (१२।२२)
इतीदृग्धारणापूर्व पृथ्वीध्यानमभ्यस्येत् ॥
विषसत्त्वान्निवारयेत् ।
विषं स्थावरजङ्गमादि रूपं, सत्त्वान् पिशाचा-
पस्मारादीन् शक्तिस्तम्भनादिक्रमेण हेलयैव
नाशयति ॥
समापन्नपृथ्वीध्यानस्तु असौ
अचाल्यः सर्वभूतानां
यथैव वसुधा भवेत् ॥ ८५ ॥
एतत्
'..... तत्सिद्धिमभ्येति ।' (८४)
इति पूर्वोक्तेः स्फुटीकरणम् । यथैव वसुधेति पृ.
थ्वीजयेन तदधिष्ठातृवत् तत्र ऐश्वर्यमाप्नोति ।
एवमुत्तरत्रापि योज्यम् ॥ ८५॥
३८ खच्छन्दतन्त्रम्। [ १२ पट० जलध्यानमाह जलापूरितसर्वाङ्गो जलध्यानेन पूरयेत् । एवमभ्यस्यमानस्तु विषसत्त्वान्विनाशयेत् ॥८६॥ तृष्णादाहविनिर्मुक्त ईतिभिश्च विवर्जितः। जगदापूरयेत्सिद्धः पूर्वबीजसमन्वितः ॥ ८७॥ जलध्यानेन पूरयेदिति अङ्गोपाङ्गप्रसरण- क्रमेण विश्वमापूरितं भावयेत् । एवमभ्यस्य- विषादि नाशयेदिति आप्यायनयुक्त्या साध्य- माप्याययति प्रशान्तविषभूतदोषं करोति, स्वयं च तत्तत्सन्तापाद्यवसरेषु तृष्णादिभिरीतिभिश्च सर्वोपद्रवैर्विवर्जितः क्रमाच्च सिद्ध निष्प- नातत्वध्यानो जगदपि अम्भोवदेव आप्या- ययति। पूर्वबीजमूकार एव प्रधानान्तं तस्यैव इति ८८ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् ३९ वाचकत्वेन उक्तत्वात् । अत्रापि 'जलात्मकं स्मरेदेहं सितं शीतं सुवर्तुलम् ।' (१३।२) इति श्रीपूर्वोक्तनीत्या कमललाञ्छितसितार्ध- चन्द्रमण्डलात्मिकां जलधारणां बवा ऊकारप- रामर्शपूर्व प्रानिर्दिष्टदेवताधिष्ठितं जलमयं स्व- देहं ध्यायेत् ॥ ९७ ॥ 'स्वशरीरोत्थितो वहिर्वलन्वै सर्वदाहकः । त्रिकोणं चिन्तयेद्देहं रक्तज्वालावलीधरम् ।।' (१३।२१) इति श्रीपूर्वनिरूपितवह्निधारणया स्वदेहंध्यात्वा कुर्यात्कर्मसहस्राणि स्वबीजेन तु बीजितः। बीजितः परामर्शयुक्या योजितः। खबीजं रेफ इति असदिह तथा प्रक्रमाभावात् । प्रधा. नान्तं देहाश्रयाणि तत्त्वानि उक्त्वा तत्त्वध्या. नप्रतिपादनस्य अयमेव आशयः-यत् नवा- त्मप्रक्रियया ऊकारादिवाचकपरामर्शपूर्वमेत- सिद्धिः स्यादिति ॥
स्वच्छन्दतन्त्रम् । ४० [१२ पट० कृष्णरेण्वात्मको वायु- ध्येयो बीजेन संयुतः ॥ ८८॥ पूरयेद्वै जगदेहान् अत्रापि 'स्वदेहं चिन्तयेत्कृष्णं वृत्तं पविन्दुलाञ्छितम् चलं सधूधूशब्दं च ॥' (१३०३४) इति श्रीपूर्वोक्तवायवीयधारणापूर्वकात् ध्या- नात् जगद्गतान्देहानुच्छासमात्रेण पूरयेदा प्याययेत् ॥ ८८॥ ध्यानप्रकर्षातु सिद्धश्चाश्चर्यकारकः। वायुतत्त्वाधिष्ठातृदेवताप्रभावास्किं किं न करोतीत्यर्थः॥ सुषिरात्मकं स्वदेहं तु जगच्च सुषिरात्मकम् ॥ ८९॥ ध्यायेत्प्रकृतिबीजेन एकारेण ॥ एवं च चित्रकर्माणि कारयेत् ।
९१ श्लो०] श्रीक्षेमराजाचार्यकृतोझ्योताख्यटीकोपेतम् । यदुक्तं श्रीपूर्वे 'षण्मासाद्गगनाकारः सूक्ष्मरन्धैरपि व्रजेत् वत्सरत्रितयात्सार्धाद्योम एव भविष्यति इच्छयैव महाकायः सूक्ष्मदेहस्तथेच्छया अच्छेद्यश्चाप्यभेद्यश्च ॥ (१३।४७) इत्यादि । प्रास्थित्यैव कर्मेन्द्रियबुद्धीन्द्रियतन्मात्र- ध्यानानि क्रमेण आह । तत्र वागिन्द्रिये तथा वह्नि- ातो वाक्सिद्धिदायकः॥९॥ तथेति ......ज्वलन्दै सर्वदाहकः ।' इति यथा पूर्वमुक्तः । स तु सर्वदेहगतः, अयं तु जिह्वानुसारिहृदयादिमूर्धान्तवागिन्द्रियदे- हाश्रय इति विशेषः ॥ ९० ॥ इन्द्रः पाणावभिध्यातः पीत इति अर्थात् ॥ येन असौ बाहुशाली त्वजेयकः। खार्थे कन् ॥ ६ ४२ खच्छन्दतन्त्रम् । [१२ पट० पादयोर्दूरसंचारं ध्यातो विष्णुः प्रयच्छति॥९१॥ पायौ मित्रः सितो ध्यातः पायुव्याधिविनाशकः। शिश्ने प्रजापतिं श्याम ध्यायेद्युक्तेन चेतसा ॥ ९२॥ जितेन्द्रियश्च भवति त्विच्छया रमते शतम् । पूर्वबीजमनुक्तमत्र योज्यम् । विष्णुः कृष्ण- वर्ण इति अर्थात् ॥ श्रोत्रेन्द्रिये दिशश्चित्रा ध्यायेबीजेन संयुताः ॥ ९३ ॥ दिशोऽधिष्ठातृदेवताः। चित्रा नानारूपाः । बीजं प्राग्वत् ॥ ९३ ॥ यश्च ईदृगसौ सकृदुक्तं च गृह्णाति महान्तमपि शब्दसन्दर्भमिति अर्थात् ॥
४३ ९७ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । अस्य च अभिसन्धिमात्रात् दिग्यात्रा चैव सिद्यति । दूरतरदिक्प्राप्तिरपि भवति॥ मारुतं कृष्णरूपेण ध्यायेत्तु त्वचि संस्थितम् ॥१४॥ यः स दंष्ट्राद्यभेद्यः स्यात् अस्य च न क्वचिज्जायते व्यथा । वज्रदेहो जायत इति यावत् ॥ आदित्यं चक्षुषि ध्याये- जिह्वायां वरुणं तथा ॥ ९५॥ नासायां पृथिवीं पीतां मनसीन्, तथैव च । पीतकं गन्धतन्मात्रं रसतन्मात्रकं सितम् ॥१६॥ रक्तं रूपतन्मात्रं कृष्णं तु स्पर्शसंज्ञितम् । तु 82 खच्छन्दतन्त्रम् । [१२ पट० अरूपं शब्दतन्मात्र ध्यातव्यं बिन्दुरूपि च ॥९७॥ विषयेष्वीप्सितां सिद्धि जानाति च विचिन्तितम् । तन्मात्राणां घ्राणायादीनि स्थानानि चतुर- सादिरूपं च श्रीपूर्वतो ज्ञातव्यं यथा 'पीतकं गन्धतन्मात्रं तुर्याश्रं पञ्चसंमितम् नासारन्ध्राग्रगं ध्यायेद्वज्रलाञ्छनलाञ्छितम् ।' इत्यादि, तथा 'जलवुद्धदसङ्काशं जिह्वायां चाग्रतः स्थितम् । चिन्तयेद्रसतन्मात्रं जिह्वाग्राधारमात्मनः ॥ सुशीतं षसं स्निग्धं तद्गतेनान्तरात्मना ।' इति, 'एकान्तस्थो यदा योगी विनिमीलितलोचनः । शरत्सन्ध्याभ्रसङ्काशं यत्तत्किश्चित्प्रपश्यति ॥ तत्र चेतः समाधाय यावदास्ते दशाहकम् । तावत्प्रपश्यते तत्र विन्दून्सूक्ष्मतमानपि ॥ केचित्तत्र सिता रक्ता नीलाः पीतास्तथापरे । तान्दृष्ट्वा तत्र सन्दध्याचेतोऽत्यन्तमनन्यधीः॥ षण्मासात्पश्यते तेषु रूपाणि सुबहून्यपि ।'
९८ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । तथा 'षट्कोणमण्डलान्तःस्थमात्मानं परिभावयेत् । रूक्षमजनसङ्काशं प्रत्यंशं स्फुरिताकुलम् ।। ततोऽस्य दशभिर्देवि दिवसैस्त्वचि सर्वतः । भवेत्पिपीलिकास्पर्शस्ततस्तदनुचिन्तयन् । वज्रदेहत्वमासाद्य पूर्वोक्तं पूर्ववल्लभेत् ।' इत्यादि, तथा 'कर्णी पिधाय यत्नेन निमीलितविलोचनः । यं शृणोति महाघोपं चेतस्तत्रानुसन्धयेत् । दीप्यते जाठरो वह्निस्ततोऽस्य दशभिर्दिनैः । दूरात्कथनविज्ञानं पण्मासादुपजायते ॥' (१४॥३५) इति । विन्दुरूपि चेति तन्मात्रविषयं यथा. योगं योज्यम् । विषयेष्वीप्सितां सिद्धिमिति चक्षुरादिविषयेषु तथा प्रोक्तशा तन्मात्राधि- ष्ठितत्वादिन्द्रियाणां तन्मात्रविषयेषु रूपादिषु देशकालस्वभावविप्रकृष्टेषु उपलव्ध्यादिकाम् । जानाति च विचिन्तितमिति यस्य कस्यचित्सं. बन्धि विचिन्तितं सङ्कल्पसिद्धिं जानातीति ए- षां मनोध्यानसिद्धिः॥
स्वच्छन्दतन्त्रम् । [ १२ पट० ४६ अहङ्कारधारणामाह वैकारिके तथा रुद्रो ध्यातव्यः सिद्धिमिच्छता॥९८॥ अतश्च ध्यानात्सिद्धिमवाप्नोति मुक्ताहङ्कारबन्धनाम् । मुक्तमहङ्कारबन्धनं यस्य तादृशी परप्रमा- त्रैकात्म्यप्राप्तिपर्यवसानामित्यर्थः। अत्रापि 'षोडशारं सरेच्चक्रमात्मन्यहमनन्यधीः । एषोऽहमिति सश्चिन्त्य स्वकार्यपरिवारितम् ॥ अप्रधृष्यो भवेद्योगी ।' (१६१८) इत्यादि श्रीपूर्वोक्तमनुसन्धेयम् ॥ अथ ब्रह्माणं बुद्धिसंस्थं तु ध्यायेद्युक्तेन चेतसा ॥९९ ॥ स्मरन्वै पूर्वबीजेन पूर्वबीजेनेति ऊकारेण । एतच्च पूर्वत्रापि अ.
४७
१०१ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् ।
नुसन्धेयम् । स्मरणं ध्याने हेतुः । अत्रापि
'उदितादित्यबिम्बाभं हृदि पद्ममनुमरेत्
धर्मादिभावसंयुक्तमष्टपत्रं सकर्णिकम् ।' (१६।८)
इत्यादि अनुसतव्यम् ॥
एवंध्यानवतः
ज्ञानौघः संप्रवर्तते।
दिव्या च जायते बुद्धिः
संशयोच्छित्तिकारिका ॥१०॥
भूतं भव्यं भविष्यच्च
प्रत्यक्षं संप्रजायते।
ज्ञानौघादिकमत्र ध्येयब्रह्माख्यदेवतारूप-
मिति ज्ञातव्यम् ॥
अथ
प्रकृतिः कृष्णवर्णा तु
रक्तशुक्ला विराजते ॥ १०१ ॥
गुणत्रयमय्याः प्रकृतेरधिष्ठातृदेवता एषा
अनेकवर्णा उक्का ॥ १०१ ॥
४८ स्वच्छन्दतन्त्रम् । [१२ पट० इत्थं च त्रिवर्णायाः रक्तं च हृदयं तस्याः शिष्टमूर्ध्वमधश्च गात्रमस्याः सितं कृष्णं चेति अर्थात् ॥ एषा च बहुपादभुजानना। ध्यातव्या तत्त्वबीजेन यदीच्छेत्सिद्धिमात्मनः॥१०२॥ सर्वपुरुषान्प्रति विचित्रप्रकाशप्रवृत्तिस्थितिप्र- दत्वादस्या बहुवादिवे तत्वस्य प्रकृत्याख्यस्यैव यहीजं प्रक्रान्तप्रक्रियया ऊकारस्तेनैव तत्त्वाधि- ष्ठात्री एषा ध्येया। एवंच वदतोऽयमाशयः- यत्पारमेश्वरे सर्वतत्त्वानि तत्तद्देवताधिष्ठितान्ये- व, न तु एषां जडत्वमेवमिति अत्र देवताप्रधान- मेव तत्त्वध्यानमुक्तम्। आत्मनः सिद्धिः प्रकृति- विविक्तस्य उपलब्धिः॥ १०२ ॥ एवं हि आत्मा मुक्तप्रकृतिबन्धनः सिद्धश्चैव स्वतन्त्रश्च दिव्यदृष्टिश्च जायते।
४९ १०४ श्लो०] श्रीक्षेमराजाचार्यकृतोद्योताख्यटीकोपेतम् । सिद्ध इति प्रकृतिविवेकेन उपलब्धोऽत एव स्वतत्रः, नतु प्रकृतिवशस्तथा च दिव्या लोकोत्तरा स्वपरविषया दृष्टिः सम्यक्प्रतीति. यस्य तादृग्भवति ॥ यावता कालेन एषा अस्य सिद्धिस्तदादेशाय आह षण्मासाभ्यासयोगेन दिव्या दृष्टिः प्रवर्तते ॥१०३॥ एष च अभ्यासकालः सर्वतत्वविषयो मन्तव्यः ॥ १०३ ॥ तदित्थं दिव्यदृष्टयुत्पत्ती त्रैलोक्ये यत्प्रवर्तेत प्रत्यक्ष तस्य जायते। तदेव देवमनुष्यतिर्यग्रूपे लोकत्रये यत् सूक्ष्मव्यवहितविप्रकृष्टादिकं किंचित्प्रवर्तते प्र. कृतितो जायते, तदस्य सर्व प्रत्यक्षीभवति ॥ उपसंहरति एष ते प्राकृतो योग उक्तः एवं प्रकृत्यन्ते शरीरे तत्वानां स्थिति स्वच्छन्दतनम् । [१२ पट ५० धारणादिक्रमेण च तत्तत्सिद्धिहेतुत्वमुक्त्वा, तत्त्वान्तरध्यानानि उपक्षेप्तुं प्रकृतिसाक्षात्कारा- न्मायासाक्षात्कारस्य लोकोत्तरतामादिशति देवः मोक्षकरः परः ॥१०४॥ पर इति मायाख्यः प्रकृतेः साक्षात्कार- योगादपि पर उक्तः। स च मोक्षकरः मायो- त्तरणात् प्रभृत्येव हि मोक्षमार्गसोपानपदप्रवृत्तिः पुस्प्रकृतिविवेकज्ञानिनां पुनर्बन्धाविर्भावस्य उ- क्तत्वादेव ॥ १०४॥ देहावस्थितिप्रकृत्यन्ततत्त्वेषु ध्यानपूर्वाः सि. द्धीःप्रतिपाद्य, एतदधिष्ठातृपुंस्तत्त्वध्यानोत्थसि- द्धिप्रतिपादनाय आह अतः परं तु पुरुषः ध्येय इति शेषः॥ स च पद्ममध्ये व्यवस्थितः। 'साक्षात्कृत्स्नमिमं देहं यद्यपि व्याप्य तिष्ठति । तथाप्यस्य परं स्थानं हृत्पङ्कजसमुद्कम् ।।' इति हृदब्जकर्णिकास्थः॥
१०६ श्लो०] श्रीक्षेमराजाचार्यकृतोक्ष्योताख्यटीकोपेतम् । ५१ किमस्य स्वरूपमित्याह चित्स्वरूपश्च चिन्मात्र एव । यथोक्तं शिवसूत्रेषु 'चैतन्यमात्मा ।' इति ॥ अत एव अस्य भेदवायुपगतो न कश्चिद्वा. स्तवो भेद इत्याह सर्वेषु देहमापूर्य संस्थितः ॥ १०५॥ परमेश्वरमायाशक्तिवशादवभासितभेदेषु स- र्वप्राणिषु संस्थितः, अतश्च तदुपाधिभेदादयं भिन्न इव न वस्तुत इति सर्वेविति संस्थित इति बहुवचनैकवचनयोराशयः ॥ १०५ ।। इत्थं पुर्यष्टकसङ्कोचनाभासनादेव च स जीव इति विख्यातो येन जीवति तत्पुरम् । पुरं शरीरम् ॥ एतदेव व्यतिरेकेण दर्शयति निर्गतेन मृता येन ५२ स्वच्छन्दतन्त्रम् । [१२ पट० अचेताः शीर्यते तनुः ॥१०६॥ इत्थं च मायाशक्त्या पुर्यष्टकादौ गृहीता- भिमानोऽयं बध्यते विश्वभित्तिभूतपरिपूर्णबोधरूपतया स्फुर- नपि असौ सङ्कोचावभासात्मना तावता अंशेन खयमेव बध्यते । यथोक्तं प्राक् 'आत्मना बध्यते ह्यात्मा'................।' (१०।३६०) इति ॥ यदा तु तेन भित्तिभूतेन शुद्धविद्याशक्त्या सङ्कोचावभासोऽस्य विलाय्यते, तदा मुच्यतेऽसौ वै न च देहपाते अस्य मुक्तिरपितु जीवतोऽपि अस्येत्याह सुखदुःखानि वेत्ति च। उक्तं च प्राक 'जीवन्नेव विमुक्तोऽसौ यस्येयं भावना स्थिता ।' (७।२५९) इति । देहपाते तु परमशिव एव असाविति कस्य कुतो मुक्तिरित्यभिहितमेव ॥
१०८ श्लो०] श्रीक्षेमराजाचार्यकृतोझ्योताख्यटीकोपेतम् । ५३ तदीशचितिमात्ररूपस्य न तस्य रूपं वर्णों वा प्रमाणं दृश्यते क्वचित् ॥१०७॥ वर्णो ब्राह्मणादिः, रूपं सितादि, प्रमाणं आरोहमहदादि इदन्तानिर्देश्यत्वाभावात् । इदं च भेदस्य अवास्तवतैवेत्यादिशति । अथच चि. रस्वरूपत्वात् सततं प्रथमानमूर्तेरस्य प्रत्यक्षानु- मानाद्याख्यं नवार्थाभासरूपं प्रमाणं न क्वचित् दृश्यते नैव उपपद्यते। यथोक्तं श्रीप्रत्यभिज्ञायां 'प्रमातरि प्रमाणे तु सर्वदा भातविग्रहे । किं प्रमाणं नवाभासः सर्वप्रमितिभागिनि ॥' (२।३।१६) इति । श्रुत्यन्तेषु अपि 'विज्ञातारमरे केन विजानीयात् ।' इति । क्वचिच्छब्देन असम्भाव्य एव अयमर्थ इत्यादिष्टं भगवता ॥ १०७ ॥ यतश्च अयं न कथञ्चिद्विषयीक्रियते, अत एव न शक्यः कथितुं वापि अपिशब्दात् सङ्कल्पयितुं वा ।।
५४ खच्छन्दतन्त्रम् । [१२ पटक अतश्च अयं सूक्ष्मश्चानन्तविग्रहः। अत एव व्यनक्ति वालाग्रशतभागस्य शतधा कल्पितस्य तु ॥१०८॥ तस्य सूक्ष्मतरो जीवः सचानन्त्याय कल्पते । वालस्य यदग्रं तस्य यः शतभागस्तस्य शतधा कल्पितस्येति तमपि सूक्ष्मतया तथा कल्प्यमानत्वादेव वेद्यपदपतितमनादृत्य प्रकृष्टः सूक्ष्मो जीवो येन केनापि प्रकारेण वेद्यः, तत एव चित्खरूपवेदकैकात्मकत्वादानन्त्याय देश- कालाकारापरिच्छिन्नत्वादशेषैकात्म्याय कल्पते तद्रूपतया स्वखातघ्यात् स्फुरति; नतु केनचित् तथा कल्प्यते इति । कल्पितत्वं कल्पनोत्थापि- तत्वं, क्लप्तिस्तु स्वयमेव तथावस्थितिः॥ एवमकल्पितत्वादध्येयस्यापि अस्य वक्ष्य- माणकञ्चुकाविष्टस्य अदूरविप्रकर्षण उत्प्रेक्ष्यसि- ११० श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । ध्यङ्गध्यानमाह आदित्यवर्ण रुक्माभ- मबिन्दुमिव पुष्करे ॥१०९॥ पश्यन्ति तारकमिव योगिनो दिव्यचक्षुषा। आदित्यवर्णमिति तथा रुक्मस्य हेम्न इव आभा प्रकाशो यस्येत्यनेन दीप्तत्वमात्रमस्य उक्तं, नतु आकृतिमत्त्वम् ; पुष्करे पद्मेऽब्बिन्दुमिवेत्यनेन शरीरादिभूम्यस्पर्शित्वं; तारकमिवेत्यनेन तु स्फु- रत्तासारत्वम् । दिव्यचक्षुषेति खसंवेदनेन ।अत्र च प्रातिलोम्येन नवात्मसंबन्धी द्वितीयो वर्णो वाचकत्वेन प्रकरणानुसारं योजनीयः । तारक- मित्यनेन च प्रकृतिबन्धात्तारकत्वमेव तयान- स्योक्तमिति सिद्धिरपि निर्दिष्टा । दिव्यच- क्षुषेत्यनेनापि तद्ध्यानाद्योगिनोऽशेषप्रकाशकं चक्षुर्दिव्यमाविर्भवतीति सिद्धिनिर्देशः कृतः । तदेवं पुर्यष्टकवशिनोऽस्य एतद्ध्यानं, वास्तवेन तु चितिमात्रात्मना रूपेण ध्यातव अयं; नतु ५६ स्वच्छन्दतत्रम् । [१२ पट० ध्येयः। चिदात्मैव च सर्वाधिष्ठातृदेवतेत्याश- येन आत्मनोऽत्र देवतान्तराधिष्ठितत्वं नोक्तम्॥ यश्च अयं चितिस्वभावत्वात् वर्णरूपादिर- हितः पुरुष उक्तः, असौ रागविद्याकलोपेतः कालबद्धो हि रूपवान् ॥११॥ प्राङितिरूपकलादितत्वपञ्चकात्मककञ्च- कावृत आत्मा रूपवानिति आदित्यवर्णत्वादि- ध्येयरूप उक्तः ॥ ११०॥ अथ 'प्रकृतिः पुरुषश्चैव ।' (५।११) इत्यादिप्रोक्तनवात्मप्रक्रियया नियतिध्यानमाह श्यामवर्णेन विज्ञेया स्थिता जीवस्य देवता। दक्षिणेन सिताङ्गी तु वामेनासितरूपिणी ॥१११॥ जीवस्य जीवता नियतिनियन्त्रणाप्राणैवे. त्याशयेन देवतेत्युक्तम् । नियामकत्वादेव च ५७ ११३ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । श्यामा । श्यामच्छायत्वेऽपिच अस्या दक्षवा- मभागयोः सितासितत्वेन धर्माधर्मोत्थापकत्व- मुक्तम् ॥ १११ ॥ अस्याश्च तद्वर्णानि च वक्राणि मण्डलानि विशेषतः। दक्षिणे सितानि वामे च असितानीति वक्र- चतुष्टयमपि दक्षिणतः सितं वामतोऽसितम् । मण्डलानीति वक्राङ्गोत्थितानि प्रभामण्डल- कानि ॥ एषा च सितासितरूपत्वादेव पुरुषं कर्मबन्धेन बध्नाति अस्य च सुखदुःखं प्रयच्छति ॥११२॥ तदीदृशीमेनां नियतिं च विजानीया- दनिवायां सुरासुरैः। सर्वो हि तन्नियन्त्रितः॥ ८ ५८ खच्छन्दतन्त्रम् । [ १२ पट० इत्थमेषा पूर्वबीजसहध्याना द्विरूपेण समन्विता ॥ ११३।। पूर्वबीजेन प्रक्रान्तनवात्मसंबन्धिना वका- रेण सह ध्यानं तत्परामर्शसहितं चिन्तनं यस्याः, सा तथा प्रोक्तसितासितात्मकद्विरूप. युका ॥ ११३ ॥ तस्याश्च इत्यर्थः ॥ ध्यानात्सिद्धिमवाप्नोति कासौ सिद्धिरित्याह नियतेश्च विमुच्यते। न भूयो नियत्या नियम्यते अथ कालतत्त्वध्यानमाह त्रिनेत्रं च चतुर्वकं कृष्णवर्ण चतुर्भुजम् ॥११४॥ संहरन्तं दुराधर्ष- मनन्तं कालमीश्वरम् ।
५९ ११६ श्लो०] श्रीक्षेत्र मराजाचार्यकृतोड्योताख्यटीकोपेतम् दुराधर्ष परमयोगिव्यतिरेकेण न अन्येन अभिभवनीयम् । अनन्तमन्येन अपरिच्छेद्यम् । ईश्वरं विश्वसर्गसंहारप्रभविष्णुम् । ईदृशं कालं ध्यायेत् ॥ अतश्च अस्य स्वबीजध्यानरूपज्ञः कालेन नहि कल्यते ॥११५॥ खबीजं नवात्मसंबन्धी लकारः ॥ ११५॥ ये तु कालवञ्चनाय न यतन्ते, ते चक्रवत्परिवर्तन्ते कालध्यानविवर्जिताः। तदुक्तं तत्रभवता हरिणा 'जलयत्रभ्रमावेशसदृशीभिः प्रवृत्तिभिः । स कालः कलयन्सर्वान्कालाख्यां लभते प्रभुः ॥ इति ॥ यत एवं, तस्मादुक्तदेवतारूपं एवं कालं सदा ध्यायेत् ६० स्वच्छन्दतन्त्रम् । [१२ पट० एवं हि ध्यातुः प्रोक्तकालवश्चनरूपा ध्येयसिद्धिश्च जायते ॥११६॥ न केवलं कालाधिकारोक्तमृत्युञ्जयप्रकारात् कालजयो भवति, यावत्प्रोक्तकालध्यानादपी- त्यर्थः ॥ ११६॥ एवंप्रकारावमृष्टप्रकृत्यन्ततत्त्वध्यानादनन्तरं य-व-लकारवाच्यं पुंनियतिकालानां सिद्ध्यङ्गं ध्यानमुक्त्वा, नवात्मप्रक्रियया पुमादितत्वत्र- येण सह यथाक्रमं युगलकस्थित्या निरूपिताना- मत एव तद्वर्णावमृश्यानां रागविद्याकलानामपि ध्यानमाह रागं तु रक्तवर्ण वै विद्यां श्यामां सुलोचनाम् । सितवर्णा कलां ध्याये- चैतन्योन्मीलिनीं तु ताम् ॥११७॥ सुलोचनामिति काकाक्षिवत् । अत्रापि चतु र्वक्रचतुर्भुजत्वे प्राग्वदनुसरणीये । कलाया वि- .... ११८ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । ६१ शेषणं चैतन्योन्मीलिनीमिति । यथोक्तं प्राक् 'कलोन्मीलितचैतन्यो इति । एतच्च .... 'विद्यादर्शितगोचरः।' (१११९८) इत्यादिकोपलक्षणपरम्। तानि च तत्त्वानि आ- त्माश्रये हृदि ध्यानक्रमसाक्षात्कारतो वेद्यीक- रणीयानि ॥ ११७॥ व्यामोहकत्वप्रशमनाय मायाया ध्यानमाह कृष्णवर्णा च रक्ताक्षी दीर्घदन्ता सुलोचना। कचोर्ध्वपिङ्गकेशी च स्थूलकाया महोदरी॥११८॥ सर्वजन्तुव्यामोहकत्वादस्या ईदृग्रूपं ध्यान- मुक्तम् । कचेपूर्ध्वमिति उत्थिताः पिङ्गाः केशा यस्याः । इह यद्यपि केषांचित् तत्वानां स्वरूप. मात्रं ध्यानमुक्तमन्येषामाकृतिमद्देवतारूपत्वं तद्देवताधिष्ठितत्वं, तथापि सर्वत्र तत्तदाभासरू. पाणां तत्त्वानां तत्तद्देवताधिष्ठितत्वमेव सा- ६२ स्वच्छन्दतनम् । [१२ पट० ध्विति तत्तद्देवताधिष्ठितमूर्तीन्येव सर्वतत्त्वानि ध्यातव्यानि ॥ ११८ ॥ सर्वजन्तुव्यामोहकत्वमेव अस्याः स्फुटयति या पातयति भूतानि ब्रह्माद्यानि पुनः पुनः। पातयति स्वरूपाच्छादनप्रमुखं संसारीणि कुरुते ॥ ततश्च तैः निर्वैरपरिपन्थित्वा- न्माया ग्रन्थिर्दुरुत्तरा ॥११९॥ निर्वरं निष्कारणमेव परमेश्वरवातव्यशक्ति- रूपा माया परिपन्थिनी पूर्णखरूपगोपनेन सङ्कुचितक्षेत्रज्ञस्वरूपोत्थापिका, तद्रूपत्वादेव च पुंबन्धिका माया ग्रन्थिरित्युच्यते ॥ ११९ ॥ अतश्च परमेश्वरानुग्रहं विना न केनचिदु. त्तीर्यते इत्याह साङ्घयवेदपुराणज्ञा अन्यशास्त्रविदश्च ये।
१२२ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । ६३ यतः ते न तां लङ्घयितुं शक्ता ये चान्ये मोक्षवादिनः॥१२०॥ अन्यशास्त्रममाहेश्वरम् ॥ १२० ॥ सर्व एव क्लिश्यन्ति मायया भ्रान्ता अमोक्षे मोक्षलिप्सया। खच्छस्वच्छन्दचिद्धनपरभैरवैक्यापचयात्मना मुक्तेरन्यो यः कश्चिन्मोक्ष उच्यते, स तावद. ध्वोत्तीर्णतायामपि इतराध्वानुत्तरणादमोक्षे मो. क्षावभासः ॥ स्वबीजध्यानयोगेन पूर्वध्यानस्वरूपतः ॥ १२१ ॥ दीक्षासिना च तां छित्त्वा विशन्ति शिवमव्ययम् । खबीजं नवात्मसंबन्धी मकारस्तस्य ध्यानं परामर्शस्तत्प्रधानेन सहितं यत् पूर्वोक्तं 'कृष्णवर्णा च रक्ताक्षी ..... । (१२।११८) स्वच्छन्दतघ्रम् । [१२ पट० ६१ इत्यादि ध्यानं तत्स्वरूपतो हेतोर्या पूर्वोक्ता नि- रूपिता दीक्षा सैव असिः खड्गस्तेन तां मायां छित्त्वा शिवं विशन्ति तदैकात्म्यमायान्ति ॥ शुद्धविद्याध्यानमाह चतुर्वर्णा भवेद्विद्या सावर्णव्यापिनी स्मृता॥१२२॥ सितरक्तपीतकृष्णा ध्यातव्या सुषिरात्मिका । आकाशवायुमारूढा रूपयौवनशालिनी ॥ १२३ ॥ hor her 'सामानाधिकरण्यं च सद्विद्याहमिदन्तयोः। (३।१।३) इति प्रत्यभिज्ञायां निर्दिष्टरीत्या अशेषवाच्यवा- चकाविभागप्रकाशमय्याः शुद्धविद्यायाः सर्व. वाचकतद्वाच्यव्यापि रूपमित्थमादिशति परमे- श्वरः। तथाहि चतुर्भिरम्बाज्येष्ठारौद्रीवामा- ख्यैबिन्दुसृष्टरेखाशृङ्गाटकार्धचन्द्रसन्निवेशैराग- मोक्तरूपैर्वर्णनं खरूपव्यक्तीकरणं यस्याः, ६५ १२३ श्लो०) श्रीक्षेमराजाचार्यकृतोक्ष्योताख्यटीकोपेतम् । अतश्च वर्णानामादिक्षान्तानां व्यापिनी प्रोक्त- शक्तिचतुष्टयक्रमेण पञ्चाशद्वर्णभट्टारकात्मक- स्वरूपोत्थापिका स्मृतेति अविच्छिन्नेन पारम्प- येणाधीतेत्यनेन समस्तवाचकव्यापि रूपमस्या उक्तम् । सितेत्यादिना तु समस्तवाच्यवाचकं पञ्चतत्त्वदीक्षानिरूपितनीत्या पृथिव्यादितत्त्व. पञ्चकात्मनो विश्वस्य पीतसितरक्तकृष्णसुषिरा. त्मकत्वात् तद्व्यापिन्या देव्यास्तथारूपता उक्ता। यतश्च अस्याः प्रतिपादितयुक्त्या समस्तवाचक- व्यापित्वमत एव इयमाकाशवायुं सर्ववर्णोद- यास्पदं सौषुम्नं पदमारूढा । पूर्वोक्तनीत्या वर्ण- कुण्डलिन्याः प्राणकुण्डलिनीवाहनस्वादशेषवा- च्यपरिपूर्णत्वादेव च इयं रूपयौवनशालिनी उक्ता। चतुर्वक्रेत्यादिरपपाठो भुवनाधिकारे 'अष्टवर्गविभिन्ना तु विद्या सा ........।' (१०।११४४) इत्युपक्रम्य विद्याधिष्ठितानां वामादिशक्तीना- मपि 'तप्तचामीकराकाराः पश्चवक्रा.. . . . .।' (१०।११४६) इत्यादिध्यानाभिधानात् ॥ १२३ ॥ ९ ६६ स्वच्छन्दतत्रम् । [१२ पट० तदीदृशी एषा स्वबीजेन तु सा ध्येया नवात्मसंबन्धिना क्षकारेण ककारसकारा. कारपिण्डीकरणयुक्त्या स्वीकृतविश्वात्मना कूट- बीजेन पराम्रष्टव्या ॥ एवं च साधकस्य अशेषविश्वप्रकाशात्मिका तत्सिद्धिश्चैव जायते । चकारेण दण्डापूपिकान्यायेन अणिमादिस- म्पत् समुच्चिता ॥ तदेषा अशेषविश्वात्मताप्रथनयुक्त्या अनु- त्तरधामविकासात्मकपरफलपर्यवसायिनी दिव्या सिद्धिरमोघा तु अतश्च अयं साधकः सिद्धविद्यश्च जायते ॥ १२४॥ सिद्धा वशवर्तिन्यः सप्तकोटिसङ्ख्या विद्या यस्य ॥ १२४ ॥ किंच वेद लोकांस्ततः सर्वान् ६७ १२६ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । लोकयन्तीति लोका रुद्रक्षेत्रज्ञाः, लोक्यन्ते इति लोकाः शुद्धविद्यादिक्षित्यन्तानन्ततत्त्वा- दिमायापदार्थाः, तान्वेत्ति स्वाधारवर्तिनः सर्वान स्वसामानाधिकरण्येन पश्यति ॥ न केवलमयं सर्वज्ञो भवति, यावत् कामरूपी स गच्छति । शिववत् स्वेच्छामात्रेण तत्तदाकारनिर्माता भवतीति यावत् ॥ अथ ईश्वरतत्त्वप्रभोरीश्वरस्य प्रागादिवत्र- ध्यानमाह कुङ्कुमाभं च नारेशं त्रिनेत्रं तु जटाधरम् ॥ १२५॥ पूर्वाननमभिध्यायेत् नराणामीश्वरस्य अनुग्रहादिकर्तुस्तत्पुरुषभ- हारकस्य इदं नारेशम् । अर्धनारीशमिति अप- पाठः । भुवनाध्वनि 'तस्योत्सङ्गगता विद्या ।' (१०।११५८) इस्युक्तत्वादर्धनारीश्वरतायाः का सङ्गतिः॥ ...
६८ स्वच्छन्दतन्त्रम् । [१२ पट० तदीदृशं यत् पूर्वमाननं, तद्ध्यानात् प्रकृष्ट- तपोनिष्ठस्य वायुभक्षस्य यत्फलम् । तत्पुण्यफलमाप्नोति वायुव्याच्या अस्य वक्रस्य आगमे उक्त- त्वात् तद्ध्यानप्रारम्भे एतद्ध्यातुः फलमिहैव आविर्भवति ॥ क्रमात्तु अश्वमेधायुतस्य च ॥ १२६ ॥ फलमाप्नोति ॥ १२६ ॥ ध्यानप्रकर्षाच्च अस्य जगच्च वशमायाति यतः सर्वत्र जगत्रये क्रमते सिद्धिमेति च । तत्तद्भुवनेशवत् प्रभवति, अणिमादिमांश्च भवति ॥ एतच्च अस्य षडिर्मासैरसन्देहः
६९
॥
१२९ श्लो. ] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् ।
मासषकध्यानात् निश्चितं भवतीत्यर्थः ॥
दक्षिणस्य ध्यानं वक्तुमुपक्रमते
दक्षिणं च तथैव हि ॥१२७॥
ईश्वरस्य । त्रिनेत्रं ध्यायेदिति तथैवेत्यस्य
अर्थः ॥ १२७॥
विशेषं तु आह
नीलाम्बुदप्रतीकाशं
पिङ्गभ्रूश्मश्रुलोचनम् ।
भृकुटीकरालवक्रं च
कपालाहिविभूषितम् ॥१२८॥
बहुरूपजटाधारं
दक्षिणं तस्य चिन्तयेत् ।
वक्रं चेति चस्त्वर्थो विशेषद्योतकः। द्वितीयो
दक्षिणशब्दः साधकानुकूल्यवाची ॥
इत्थं च एतत्
सुखदुःखविनाशाय
ईतिज्वरविनाशनम् ॥ १२९ ॥
स्वच्छन्दतघ्रम् । [१२ पटक विशेषस्तु विषग्रहादि सर्वं तु ध्यानान्नाशयते क्षणात् । किञ्च अग्निवज्ज्वलते योगी जरामृत्युविवर्जितः ॥ १३०॥ क्रमते सर्वलोकान्वै सिद्धश्च समतां व्रजेत्। सिद्धः प्राग्वत् मासषध्यानात् । क्रमते स्वामित्वेन अधितिष्ठति । समतां व्रजेत् परमे- शसाम्यमेति ॥ पश्चिमवक्रध्यानमाह सितं त्रिनयनं देवि साक्षसूत्रकमण्डलु॥ १३१ ॥ पश्चिमं वदनं ध्याये- दिव्यसिद्धिप्रदायकम् । दिव्यसिद्धिरणिमादिका ॥
१३४ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम्। ७१ इयांश्च एतद्ध्यानस्य महिमा, यत् हत्वा प्राणिसहस्राणि परदारशतानि च ॥ १३२॥ अलेपको विशुद्धात्मा सिद्धि प्राप्य शिवो भवेत् । हन्तिरिह हिंसाओं गत्यर्थश्च क्रमेण । न केवलं प्राप्तसाधकदीक्षः सद्योवक्रध्यानादणि. मादिसिद्धिं प्राप्य शिवो भवति, यावत् महापा. तकयुक्तोऽपीत्यर्थः। अतश्च प्रायश्चित्तविषयमपि एतद्ध्यानं निरूप्यमित्यादिष्टम् ॥ उत्तरास्यध्यानमाह त्रिनेत्रमुत्तरं वक्र रक्तोत्पलसमद्युति ॥ १३३ ॥ यत् ध्यानात्तस्य जगत्सर्व वशमेति न संशयः । मासषट्वं ध्यातुरिति अर्थात् ॥
स्वच्छन्दतन्त्रम्। ७२ [१२ पट० तु किश्च तपते वर्षते चैव सृजते संहरत्यपि ॥ १३४॥ ईप्सितां लभते सिद्धिं योऽब्दमेकं चिन्तयेत् । आत्मनेपदानि व्यत्ययात् ॥ ऊर्ध्वास्यध्यानमाह सितमूध्वं सदा ध्याये- च्छलहस्तं जटाधरम् ॥ १३५॥ व्याघ्रचर्मपरीधानं साक्षसूत्रकमण्डलु। वीणाडमरुहस्तं च नागयज्ञोपवीतकम् ॥ १३६॥ चन्द्रमूोर्ध्वलिङ्गं च ध्यायेन्नित्यं महेश्वरम् । ऊर्ध्वलिङ्गमिति मौलिस्थाने लिगाकारम् । महेश्वर इति पदेन एकवकं महेश्वरं ध्यायेत् १३८ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । ७ ३ नतु वक्रमात्रमस्य इत्यर्थः। नित्यमिति मासषद यावत् ॥ अतश्व तु देहेन '.... अनेनैव सर्वज्ञः कामरूपवान् ॥१३७॥ भवतीति शेषः ॥ १३७ ॥ एवमीश्वरतत्त्वाधिष्ठातुरीश्वरस्य आकृति- मतो ध्यानमुक्तम् । अथ अस्यैव 'विन्दुश्चैवेश्वरः स्वयम्' । (४।२६४) इतियोजनिकाग्रन्थदृशा सर्वमिदमहमित्यशे- षविश्वाभेदवेदनात्मकबिन्दुरूपस्य अन्तर्गतवि- श्ववाचकविभागमयनादध्यानमाह घण्टानादस्य वा ध्याना- त्सिहिः पाण्मासिकी भवेत् । ईप्सिता मर्त्यलोके तु सिद्धिस्तस्य प्रजायते ॥ १३८॥ घण्टारवाकारस्य बिन्द्वन्तर्गतनादामर्शस्य ध्यानात् पाण्मासिकी सिद्धिर्भवेदिति षद्धिर्मा- १० ७४ स्वच्छन्दतब्रम् । [१२ पट० सैर्नादामर्श साक्षात्काररूपा सिद्धिस्तस्य भवति। तत्सिद्धौ च यथेष्टसिद्धवस्तुप्राप्तिदेहस्थस्यैव अस्य घटते ॥ १३८॥ अथ अस्यैव अन्तर्भूतनादमशेषविश्वाभेदवे- दनात्मकं बिन्दुप्रकाशमयं पूर्वमीशानवक्रध्यान- मूर्ध्वलिङ्गमिति यत् लिङ्गमुक्तं, तस्य ध्यानमाह लिङ्गध्यानं तु यः कुर्या- त्पूर्वबीजेन संयुतम् । मासेनैकेन पश्येत्स सूक्ष्म लिङ्गं तनूपरि ॥ १३९॥ शुद्धस्फटिकसङ्काशं तदृष्ट्वा तु विमुच्यते। लीनमनभिव्यक्ततया अन्तःस्थितं विश्वम- स्येति लिङ्गमशेषविश्वाभेदवेदनात्मकबिन्दुप्र- काशमयम् । पूर्वमीशानवक्रमूर्ध्वमात्रम् । पूर्व बीजं नवात्मकसंबन्धी रेफः, सच पूर्वदिग्वत्र- ध्यानेऽपि परामर्शकत्वेन अनुसन्धेयः । सूक्ष्म सर्वेन्द्रियविषयं पश्येत् तत्प्रकाशमयः स्फुरेत् । विमुच्यते जीवन्मुक्तिमासादयते ॥ ट १४२ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । ७५ यदि तु एतद्ध्यानवतः सिद्ध्यभिलाषो भ- वति, तदा सिद्धिस्तु मानुषे लोके षण्मासेन प्रजायते ॥१४॥ तां दर्शयति त्रैलोक्यदर्शने बुद्धिः प्रत्यक्षा तस्य जायते त्रैलोक्यदर्शनविषये साक्षात्काररूपा धीरस्य उदेति साक्षात्कृताशेषविश्वोऽयं भवतीत्यर्थः । तथा आक्रामेत्सर्वलोकांश्च स्ववशान्कुर्यात् ॥ किंच ईश्वरेण समो भवेत् ॥ १४१॥ देहस्थोऽपि ईश्वरभट्टारकतुल्यो भवति १४१ इदं च अस्येश्वरतुल्यत्वं, यत् सोमार्को चक्षुषी स्यातां चक्रे वै धी रथस्य तु ।
७६
स्वच्छन्दतत्रम् ।
[१२ पटक
तन्मात्राणि हयास्तस्य
मनःसारथिचोदितः ॥ १४२॥
अहङ्कारो भवेद्योद्धा
गुणश्वास्य महाधनुः ।
इन्द्रियाणि शरास्तस्य
मृगो धर्मः प्रकीर्तितः॥१४३॥
इह अनुन्मिषितविवेकप्रज्ञः सत्वादिगु-
णबद्धः पुर्यष्टकाविष्टोऽहङ्काराधिष्ठितमनःप्रवर्ति-
तैरिन्द्रियैर्विषयानाहरन्धर्माधर्माभ्यां बध्यते ।
यस्तु ईश्वराराधनात्प्राप्ततत्साम्यो योगीन्द्रः
स देहावस्थितोऽपि पुर्यष्टकं रथमिव वासना-
त्मकतन्मात्रकेण बहिः प्रवर्तमानं विवेचिकया
धिया चक्ररूपया सम्यक्सञ्चार्यमाणमारूढो
ज्ञानशक्तिक्रियाशक्तिमयसोमार्काभ्यां चक्षुभ्यां
विश्वमालोचयन्दीप्तेन्द्रियशक्तिग्रस्यमाने विष-
यग्रामे न कदाचित्पशुजनसुलभैर्धर्मादिवि-
कल्पैः स्पृश्यते इति निस्वैगुण्यः पूर्णाहंभाव.
मयोऽयम् । शिष्टं काव्यमात्रम् ॥ १४३ ॥
१४५ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । अतश्च एवं स क्रीडते योगी परमात्मनि हृत्स्थिते । पुण्यपापैर्वर्तमान इच्छया परमेश्वरि ॥ १४४॥ एवं पूर्वोक्तनीत्या परमात्मनि हृत्स्थिते वर्तमानः 'सर्वज्ञः सर्वकर्ता च व्यापकः परमेश्वरः । स एवाहं शैवधर्मा इति दााच्छिवोदयः ॥ (१०९) इति विज्ञानभैरवादिष्टनीत्या तदभेदविमर्शमयो योगी स इच्छया पुण्यपापैः क्रीडनप्रायः क्रीडति न अस्य जातुचित् संस्पर्श इति यावत् ॥ १४४॥ अथ तीव्रतमशक्तिपाताभावादेवमस्य अभे- दप्रतिपत्तिर्न प्ररोहति, तदापि धर्माधर्मबन्ध- प्रशमोपायमादिशति देवः कृपालुतया नाहं कर्ता न मे बन्धः सर्वमीश्वरकारणम् ।
स्वच्छन्दतन्त्रम् ।
[ १२ पट०
मत्वा चेश्वरविज्ञानं
सर्वकर्माणि सन्त्यजेत् ॥१४५॥
इतिशब्दोऽध्याहार्यः ॥ १४५ ॥
अतश्च
धर्माधर्मस्य कर्तृत्वे
प्रेरको हृदि संस्थितः।
सर्वस्य ॥
यः
तमहं शरणं प्राप्तो
नमे बन्धोऽस्ति कर्तृता॥१४६॥
सदाशिवोऽष्टभेदेन
पूर्वबीजसमन्वितः।
ध्येयः पूर्वोक्तरूपेण
तत्सिद्धिफलमिच्छता ॥१४७॥
अष्टभेदेनेति सकलादिमूर्त्यष्टकेन युक्तः ।
पूर्वबीजं नवात्मसंबन्धी हकारः। पूर्वोक्तेन भुव-
नाध्वनिरूपितेन रूपेण । तत्सिद्धिफलं तत्सम-
त्वावाप्तिः
: ॥१४७॥
१४९ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् एवं स्थूलमस्य ध्यानमुक्त्वा, सूक्ष्ममाह नादं वै व्यापकं ध्याये- दहोरात्रायनेषु च । व्यापकमिति पूर्वोक्तघोषादिशब्दाष्टकव्या- प्तिरूपत्वादेव कालाधिकारोक्तप्राणापानरूपस्य अयनानां च दक्षिणोत्तरवाहरूपाणां व्यापकं सर्वेषां ध्वनिमयत्वात् । अत एव घण्टारवतु ल्यात् स्थूलादैश्वरात् नादादयं विलक्षणः सर्व- शब्दव्यापकः सूक्ष्मनादभेदः॥ ध्यानतश्च अयं दक्षिणोत्तरसंक्रान्त्या विषुवज्ज्ञस्य मोक्षदः॥ १४८॥ दक्षिणोत्तरसंक्रान्तिपश्चचषकान्ते पुटद्वय समवाही यो यो विषुवत्संक्रान्तिकालस्तत्र यो नादं जानाति उपलभते, तस्य अयं मोक्षं ददाति ॥ १४८॥ अस्य स्वरूपं दर्शयति वंशध्वनिसमप्रख्यः ८० स्वच्छन्दतब्रम् । [१२ पट० शान्तनादस्तु स स्मृतः । सदाशिवः स विज्ञेयः घोषादिविशेषरूपतोपशमात् शान्तः प्रोक्त- स्थूलसदाशिवविलक्षणः॥ अस्य च ध्यानात्सिद्धिफलं शृणु॥१४९॥ मासमात्रेण तेजस्वी वागीशस्तु द्वितीयके । तृतीये पश्यते सिद्धा- न्दिव्यदृष्टिश्चतुर्थके ॥ १५०॥ या तु वलीपलितनाशादिरूपा, सा सिद्धिस्तु मानुषे लोके वत्सरार्धे न संशयः। किश्च दिव्या सिद्धिस्तथाब्देन सायुज्यं तु द्वितीयके ॥१५१॥ द्वितीयेऽब्दे सदाशिवैकात्म्यमित्येवं पदं १५४ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । ८१ भवति ॥ १५१॥ सदाशिवपदे नामध्यानमुक्त्वा, सप्रयोगं बिन्दुध्यानमाह षण्मुखीकरणं कृत्वा ध्यायेद्देवं सदाशिवम् । बिन्दुत्रयमित्यर्थः ॥ अङ्गुष्ठाभ्यां श्रुती नेत्रे तर्जनीमध्यमाक्रमात् ॥१५२॥ शेषाभ्यां वृणुयाघ्राणे षण्मुखे किल बद्धधीः । तध्यानाच्च दशधा वर्णरूपेण दृश्यते च सदाशिवः ॥१५३॥ बिन्दुरूप इति अर्थात् ॥ १५३ ॥ सितं रक्तं च पीतं च कृष्णं हरितपिङ्गलम् । नीलं चित्रकवणं तु स्फटिकाभं मनोरमम् ॥१५४॥ स्फटिकाभं स्वच्छं, मनोरमं तु ११ ८२ स्वच्छन्दतघ्रम् । [१२ पट 'चन्द्रमण्डलसङ्काशं ..।' (१५६) इत्यादिवक्ष्यमाणरूपमुपादेयम् ॥ १५४ ॥ यदाह दृष्ट्वा सर्वाणि रूपाणि त्यजेत्तानि विचक्षणः। एकमेव तु गृह्णीया- दन्ये तु गुणरूपकाः ॥ १५५॥ विचक्षणस्तत्त्वज्ञानाभिनिविष्टः। एकमिति मनोरमम् । अन्ये इति रूपविशेषाः। गुणरूपा अनुपादेयाः ॥ १५५ ॥ तदेकमाह चन्द्रमण्डलसङ्काशं विद्युत्पुञ्जनिभेक्षणम् । तारकाचलिताकारं बिन्दुमेवं विलक्षयेत् ॥१५६॥ विद्युत्पुञ्जनिभमीक्षणं प्रकाशो यस्य । तार- कायाश्चलितस्य चलनस्य आकारो यस्य स्फुरत्ता- रकातुल्यमिति यावत् ॥ १५६ ॥ एवं सदाशिवस्य बिन्दोरीग्रूपं, यस्तु ई- श्वरतत्त्वगतः सः
.....
१५८ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । ८३
निवृत्तिश्च प्रतिष्ठा च
विद्या शान्तिस्तथैवच ।
आभिः कलाभिः संयुक्तो
ध्यातव्यो बिन्दुरीश्वरः॥१५७॥
अत एव एकादशबिन्दुस्वरूपप्रतिपादनाव-
सरे
दशदैवतसंयुतः।' (११।१०)
इति ग्रन्थोऽस्माभिः-सद्योजातादिदेवतापञ्चकं,
घण्टानादः, निवृत्त्यादिकलाचतुष्टयं च ध्येयं
यदिह प्रतिपादितं तदाशयेन तत्र प्रतिपा.
दितः ॥ १५७॥
उपसंहरति
बिन्दुध्यानं समाख्यातं
ऐश्वरं सादाशिवं च द्विविधमपीति यावत्॥
शक्तिलक्षं निबोध मे।
शक्तिर्लक्ष लक्षणं येन, तादृशं ध्यानं बुध्य
खेत्यर्थः॥
तदेवं
खं वीक्ष्य मीलिताक्षो य-
दुद्यद्भास्करसन्निभम् ॥ १५८॥
८४ स्वच्छन्दतन्त्रम् [१२ पटक ईक्षते च महत्तेजः शक्तिः प्रभ्वीति सा स्मृता । खमिति ब्रह्मरन्ध्रम् । प्रभ्वी नादान्तान्ते प्रभवनशीला ॥ सा च तत्र पीता रक्ता तथा कृष्णा स्फटिकाभा मनोरमा ॥१५९॥ द्रष्टव्या परमा शक्तिः ज्ञानवशप्रकटीभूता ज्ञातव्या । ततश्च तां दृष्ट्वा शिवतां व्रजेत् । तत्पदोचिता परमशिवरूपा ॥ अथ व्यापिनी च ततश्योर्चे पञ्चरूपां विचिन्तयेत् ॥१६॥ कारणैः स्वैः समोपेतां व्याप्यादिभिः॥ तां च ध्यात्वा स्वच्छन्दतां व्रजेत् ।
८५ १६२ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । समनादिपदासादनयुक्त्येति अर्थात् ॥ अथ पूर्वनिर्णीतरूपां क्रमेण समनामुन्मनां चोक्तां ध्यायेद्युक्तेन वेतसा ॥ १६१॥ अत्र च शक्त्यादिशिवान्तध्याने नवात्मसं. बन्धी प्रणवो वाचकत्वेन पराम्रष्टव्यः । ध्याये- दिति खविमर्शवलेन विमृशेदिति यावत् १६१ अतश्च ध्यानात्सिद्धिमवाप्नोति यया असौ व्यापकः प्रभुरख्ययः । समनाध्यानात् 'तत्रारूढस्तु कुरुते शिवः...... ।' (१०।१२५८) इति यः पूर्वमुक्तो व्यापकादिरूपः शिवः, तद्रूपो भवतीत्यर्थः ॥ उन्मनाध्यानातु ततश्चोर्चे शिवः शान्तः समनान्ताशेषविश्वप्रशमात् शान्तः परम- शिव एव भवतीत्यर्थः ॥
८६ स्वच्छन्दतन्त्रम् । [१२ पट० स च पूर्व वै कथितो मया ॥१६२॥ 'शिवस्यो शिवो ज्ञेयो यत्र युक्तो न जायते ।' इत्यादौ, तथा 'स्थूलसूक्ष्मप्रभेदेन तदेकं संव्यवस्थितम् ।' (४।२९५) इत्याद्युद्देशेषु च ॥ १६२ ॥ इहापि तत्स्वरूपं दर्शयितुमाह चक्षुषा यश्च दृश्येत वाचो वा यश्च गोचरः। मनश्चिन्तयते यानि बुद्धिर्यानि व्यवस्यति ॥१६३॥ अहङ्कतानि यान्येव यच्च वेद्यतया स्थितम् । यश्च नास्ति स तत्रैव त्वन्वेष्टव्यः प्रयत्नतः ॥१६४॥ स इति चित्प्रकाशघनः परमशिवो भावा- भावमये विश्वस्मिन् , त्रिजगति चित्प्रकाशैका- त्म्येन प्रकाशमानोऽन्वेष्टव्यःप्रत्यभिज्ञेयः-यथा अयं सच्चिदात्मा प्रकाशो महेश्वरः यत्प्रकाशा- भेदेन विश्वमिदंप्रकाशते प्रकाशबाह्यस्य कस्यापि
८७
१६६ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् ।
प्रकाशनानुपपत्तेः, यस्त्वेव विश्वप्रकाशात्मा स्व.
प्रकाशः प्रकाशः प्रकाशते, स एव अहमिति ॥
एवंविधस्य च परतत्त्वैकतानहृदयस्य न
देशाश्रमादिनियमः कोऽपीत्याह
यत्र तत्र स्थितो देशे
यत्र तत्राश्रमे रतः।
सुखासीनः संयतात्मा
एकचित्तः समाहितः ॥१६५॥
स्वच्छन्दं समनुस्मृत्य
अभावं भावयेत्सदा ।
सुखासीनो विदितवेद्यत्वात् प्राणायामाद्या-
यासरहितः । संयतात्मेति एकचित्तपदेन व्या-
ख्यातः । समाहित इति व्युत्थानेऽपि परतत्त्व-
परामर्शनिष्ठः । स्वच्छन्दं समनुस्मृत्येति विश्वा-
भासात्मचित्प्रकाशरूपत्वेन विमृश्य । अभावं
भावयेदिति चित्प्रकाशव्यतिरिक्तं न किञ्चिदपि
कदापि अस्तीति प्रत्यभिजानीयात् ॥
अतश्च
भावनात्तस्य तत्त्वस्य
तत्समश्चैव जायते ॥ १६६ ॥
८८ खच्छन्दतत्रम् । [१२ पटक देहावस्थायामपीति यावत् ॥ १६६ ॥ युक्तं च एतत्, यस्मात् ये धर्मास्तस्य चाख्याताः पूर्वं ते वरवर्णिनि । सर्वज्ञत्वादयः॥ तैस्तु धर्मेः समायुक्तो योगी वै भवति प्रिये ॥१६७॥ स्वरूपरूपकध्यानं तत्त्वानां कथितं मया । स्वरूपं कठिनत्वादि, रूपकं पीतत्वादि । अतश्च एवं ज्ञात्वा च ध्यात्वा च सियते मुच्यतेऽपिच ॥१६८॥ सिद्धिरपिअत्रत्या मुक्तिपर्यवसायिनी एवेति शिवम् ॥ १६८॥ समस्ततत्त्व विभवपूर्णस्फारप्रथात्मकः । चिदानन्दघनः स्वात्मा स्वच्छन्दो जयति प्रभुः॥ इति श्रीक्षेमराजविरचिते स्वच्छन्दोड्योते द्वादशः पटलः ॥
अथ
श्रीस्वच्छन्दतन्त्रम् ।
श्रीमन्महामाहेश्वराचार्यश्रीक्षेमराजकृतोड्योताख्य.
विवरणोपेतम्।
(त्रयोदशः पटलः)
परामृतरसस्फारसारसंबोधहितः।
सर्वसंपत्प्रदः श्रीमान्स्वच्छन्दो जयति प्रभुः ॥
एवमियति द्वादशपटलान्तेऽस्मिन्ग्रन्थैकदेशे
द्वाविंशतिरनुष्ठानभेदा दर्शिताः। तद्यथा मातृ-
काभैरवः, श्रीस्वच्छन्दभट्टारकः कपालीशादि-
भैरवाष्टकपरिवृतः,
'यस्त्वंशकविशुद्धः स्याद्भरवोऽत्र वरानने ।
तं मध्यमस्थं संपूज्य तत्स्थाने मध्यमं न्यसेत् ॥' (८।२५)
इत्यंशकविचारोक्तग्रन्थहशा कपालीशादिनाथाः
खाम्यावरणवैचित्र्येण अवस्थिता अष्टौ, नवा-
त्मा पृथक् पृथक् पदनवकभेदेन नवधा, सामु.
दायिकस्थित्या एकः, द्वात्रिंशद्देवीभिः परिवृतः
कोटराक्षभट्टारकः, केवलो वा । अथ इदानीं
१२
९० स्वच्छन्दतघ्रम् । [१३ पट० सकलदर्शनसारभृतं त्रयोविंशतितमं केवलमेव निष्कलनाथमयं स्वच्छन्दं 'स्वच्छन्दं समनुस्मृत्य ...।' (१२।१६६) इति पटलान्ते पटलसंगत्यर्थमासूत्रितं निर्णा- ययितुं श्रीदेव्युवाच सारं यदस्य तन्त्रस्य यागं तु परमेश्वर । तमाख्याहि समासेन साधकानां हिताय वै॥१॥ इज्यते इति यागः सर्वतन्त्रसारभूतो नि- कलनाथः, यजनं यागस्तदाराधनप्रकारस्तं द्विविधं कथय ॥ १॥ एवंप्रश्नितः श्रीभैरव उवाच मूलबीजाक्षरं मन्त्र- नायकं परमीश्वरम् । प्रणवासनमारूढ- मङ्गवः समन्वितम् ॥२॥ पूर्वोक्तद्रव्यसंघातैः पूजयेत्परमेश्वरम् ।
३ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । ९१ परं मूलवीजात्मकमक्षरं चतुष्कलभट्टारकम् । ईश्वरमिति खच्छन्दभैरवं देवतारूपम् । परमे- श्वरं सर्वप्रभुम् । मन्त्राणामावरणगतानां सर्वेषां वाचकम् । प्रणवासनादि प्राग्वत् । अङ्गैरिति सर्वज्ञत्वादिपरमार्थैः 'सान्तं दीर्घस्वरैः पनि ।' (१७१) इति पूर्वोक्तः, वक्रैश्चेति 'यादिवान्तान्यक्षराणि संहारेण युतानि च ।' (१।४५) इति पूर्वोक्तैरेव, नतु श्रीकालोत्तरोक्तनिष्कला- भिन्नप्रायव्याप्तिकप्रासादभट्टारकबुद्ध्यसु(?)प- श्चकसंभिन्नहकारात्मकैरिति व्याख्येयं 'क्रियादिभेदभेदेन तत्रभेदो यतः स्मृतः । तस्मात्तत्र यथोक्तं तत्कर्तव्यं नान्यतत्रतः ॥' इति श्रुतेः। तेन यथोक्तैरेव अङ्गवक्रमत्रैः सम्यगिति अभेदेनैव अन्वितं, नतु आवरण- स्थित्येत्यर्थः । अत एव श्रीमदघोरेश्वर्यापि अ- भेदेनैव अन्वितम् । 'तस्य देहार्धगां गौरीमुत्सङ्गे वा प्रकल्पयेत् ।' इति यद्यपि शाक्तस्फारप्रधानेषु शास्त्रेषु क- ल्पिता श्रुतिरस्ति, तथापि इह अङ्गवक्रमत्र- वत् शक्तिमत्स्वरूपाभिन्नैव असाविति गीकृ- ९२ स्वच्छन्दतघ्रम् । [१३ पट० तशाक्तस्फार एव अयमत्रत्यः शक्तिमन्मन्त्रः। पूर्वोक्तमित्यनेन मूर्तिन्यासकलान्यासादि सर्व संगृहीतं, केवलं सकलन्यासो निष्कलनाथेनैव सकलनिष्कलव्याप्तिना कार्यः। भगवत्कोटरा- क्षस्य पश्चादस्य उक्तत्वात् तद्वत् दशभुजोऽय. मिति केचित् , स्वच्छन्दनाथत्वादष्टादशभुज एवेति गुरवः । द्रव्यसवातैरित्यनेन सिद्ध्यङ्गं यजनं महासम्भारेण कर्तव्यमिति ॥ नियतपूजितस्य अस्य स एव होमविन्यासः संस्कृते अग्नौ विन्यस्तस्य भगवतः शतं सहस्त्रं वा अष्टोत्तरमाज्यादिना पूर्णान्तो होमः कार्य इत्यर्थः । एतच्च शिवधर्मिसाधकदीक्षादीक्षितस्य कर्म आरम्भणीयं वा अन्यस्य ॥ नि तस्य च दीक्षा सैव प्रकीर्तिता ॥३॥ सैव पूर्वोक्तैव ॥३॥ एवं पूर्वोक्तशिवधर्मिदीक्षादीक्षितो भग- वति अर्चातर्पणे विधाय ९ ३ ६ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । दशलक्षं जपेद्यस्तु एकचित्तः समाहितः। समुद्रगसरित्तीरे सहायैः परिवर्जितः॥४॥ होमयेन्नरमांसस्य लक्षमेकं सगुग्गुलम् । जितेन्द्रियैकचित्तस्तु ब्रह्मचर्ये व्यवस्थितः॥५॥ असाध्यं साधयेदेवि नात्र कार्या विचारणा । एकत्र निष्कलभट्टारके एव जप्यमाने चित्तं यस्य, अत एव समाहितः । समुद्रगा च असौ सरिदिति महानदीत्यर्थः । सहायैः परिवर्जित इति यथा आराध्यो देव एकवीरस्तथा आरा- धकोऽपीत्यर्थः। 'यथा होमस्तथा जपः ।' इति नीत्या होमेऽपि एकचित्तत्वादि उक्तम् ॥
९४ स्वच्छन्दतन्त्रम् । [१३ पट० किञ्च अस्य यानि कानीह कर्माणि चतुष्पीठस्थितानिच ॥६॥ अधमान्यथ मध्यानि ह्यत्तमानि वरानने। तानि सिद्ध्यन्ति देवेशि भैरवस्य वचो यथा ॥७॥ विद्यामत्राणां पीठचतुष्टयात्मनि पारमेशे शास्त्रे यानि कर्माणि कार्याणि इह जगति पाता. लाकाशतत्त्वतत्त्वेश्वरव्याप्तिहेतुभूतानि अधमा- दिरूपाणि स्थितानि, तानि कृतपूर्वसेवस्य यो- गिनः सिद्धयन्तीति योज्यम् ; नतु कुहकवाद्या- दीनि अधममध्यमादिरूपाणीति व्याख्येयं 'कृतान्यपि हि कर्माणि सिद्ध्यन्ति जपलक्षतः ।' इति पूर्व परिमितपूर्वसेवासाध्यत्वेन एषां चो- दितत्वात् । भैरवस्य वचो यथेत्यनेन नात्र मा. याप्रमातृसुलभः संशयो ग्राह्य इति आदि- शति ॥ ७॥ अथ इदानीं मुख्यसिद्धिसाधनपरस्यापि अस्य साधकस्य क्वचित् क्वचिदवसरे उपयोगीनि ९५ १० श्लो० ] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । प्रकृत्यादिवश्यानि कर्माणि द्रव्यमन्त्रयुक्तिसा- ध्यानि आर्यादिवृत्तान्तरैरादेष्टमाह अथातः संप्रवक्ष्यामि कारिकाकोशमुत्तमम् । यं ज्ञात्वा देवदेवेशि विचरन्तीह साधकाः ॥८॥ 'खल्पाभिधानेनार्थो यः समासेनोच्यते बुधैः । सूत्रतः सानुसतव्या कारिकार्थोपदर्शिनी ॥ इतिलक्षितानां कारिकाणां कोशं समूहम् । उत्तममिति वीरविषयत्वादविघ्नफलविषयमि- त्यर्थः । अत एव विचरन्तीति करतलप्राप्तसर्व- सिद्धिका यथारुचि विलसन्तीत्यर्थः॥ ८॥ বথ अभिमुखखड़ निपातित- शूरशिरः शोषितं समादाय । रक्तालक्तकलिखितं साध्यतनौ मन्त्रयुक्तमभिधानम् ॥९॥ प्रेतानले विधाय निशि यत्कृते शतं जपति । सुतप्तं ९६ स्वच्छन्दतघ्रम् । [१३ पट० असुरेन्द्रचक्रवर्तिन- मसुरेन्द्रगुरुं वा तमानयत्यनिलवेगात् शिरः कपालं, शोषितं निर्मासीकृतं, रक्तन प्रेतसम्बन्धिना सहितमलतकं रक्तालतकं तेन लिखितं, मत्रयुक्तमिति तद्विदर्भितमिति पश्चमप्रयोगे 'मत्रविदर्भित ।' (१६) इत्युक्तेः, ज्ञातं तच्च ललाटे लेख्यम् , यद्वक्ष्यति सप्तमे प्रयोगे 'नाम च तस्य ललाटे. ।' (२०) इति, अभिधानं साध्यनाम नयेत्यूहान्तं साध्य- तनावेव तद्रव्योल्लिखिते साध्यदेहे प्रेतानौ निशि सुष्टु तप्तं विधाय यस्य साध्यस्य कृते तद्दिगभिमुखं यथालिखितं शतं जपति, तं साध्यं यथाविनियोगाय वायुवेगादिति अति- शीघ्रमानयति ॥ १०॥ प्रेतालक्तकलिखितं नरशिरसि प्रेतवह्निसन्तप्तम् । यमलोकादप्यचिरा- दानयति बलेन पूर्ववत्साध्यम् ११ ९७ १४ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । पूर्ववत्साध्यं मयुतं साध्यनाम शतं जप- तीति अनुवर्तते । प्रेतालतकं प्रेतशरीरोत्थं रक्तम्। नरशिरसीति अशूरसम्बन्धिनि अपीति पूर्वस्माद्विशेषः ॥ ११ ॥ मृतनार्या वामपदा- दुबडायास्तु पांसुलीं समादाय । रुधिरालक्तकरोचन- या साध्यतनुं मन्त्रसंयुक्ताम् १२ खदिरानले राव्यर्धे संमुखो जपशतेन । आनयति शचीमहल्या- मथवा दिवसस्य शतभागात् १३ संयुक्तामित्यन्ते लिखितामिति योज्यं सुत- तामित्यत्र कृत्वेति । रोचना इह नरसत्का । पांसुली पार्णिकास्थीति अन्ये। दिवसस्य शत- भागेति सूक्ष्मः कालः ॥ १३॥ उहद्धस्त्रीतनुवा- मां ः पांसुलीं समादाय । सुतप्तां १३
९८
स्वच्छन्दतन्त्रम् ।
[ १३ पट०
प्रेतालतकनिजरुधि-
ररोचनाभिर्विलिख्य साध्यतनुम् १४
प्रेतानले सुतप्तां
शताभिजप्तां स्वनाममन्त्रयुताम्।
कृत्वा यक्षसुरासुर-
पन्नगनारीःसमानयत्याशु॥ १५॥
पूर्वं प्रेतरक्तं, इह तु
निजरक्तमिति विशेषः॥
निजवामकरेऽलक्तक-
रोचनया साध्यनाम परिलिखितम्।
मन्त्रविदर्भितमेत-
जपशतयुक्तं सुतापितं रात्रौ॥१६॥
खदिरानले विधूमेऽ-
सुरगुरुमप्यानयत्यनिलवेगात् ।
विदर्भितं नाम्नोऽन्ते। मत्रविन्यासः पूर्वमेव
दर्शितः॥
साध्यमभिधानलिखितं
भूमितले गैरिकेण रक्तेन ॥ १७॥
९९ २१ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । गन्धोहर्तितवाम- हस्तेन तु तत्त्वबीजयुक्तेन । आक्रम्य भूमिलिखितं साध्याभिमुखोऽर्धरात्रकाले तु १८ क्षितिपतिमपि सामात्यं चानयति निमेषशतभागात् । अभिधानद्वारेण प्राग्वत् मत्रविदर्भितेन लि. खितं कृत्वा । गैरिकं हिङ्गुलकम् । रक्तेन प्रेतो. त्थेनैव अत एव भूमितलमेतत् इमाशानिकम् । अत्र च प्राकरणिकः शतजापयोगः स्थित एव ॥ नृकपालमध्यलिखितं रोचनया रक्तमिश्रया साध्यम्॥१९॥ नाम च तस्य ललाटे मन्त्रेण विदर्भितं समालिख्य । गन्धोदकेन लिप्तं नृकपालं वै द्वितीयमादाय ॥२०॥ कृत्वा कपालसंपुट- मथ मृतसूत्रेण वेष्टयेत्सम्यक् ।
१०० स्वच्छन्दतन्त्रम् । [१३ पट० खदिराङ्गारसुतप्तं सिक्थकलिप्तं तु तत्पुनः कृत्वा २१ यावत्सिक्थकमेत- कपाललग्नं विलीयते तावत् । सुरपतिमप्याकर्षति जपशतयोगान्निमेषमात्रेण ॥ २२॥ मृतसूत्रेण वक्ष्यमाणछुम्मकायुक्त्या मृत- स्नायुना । जपोऽत्र रात्रावेवेति स्थितमेव ॥२२॥ भित्तौ गैरिकलिखितं मन्त्रार्णविदर्भितं तदभिधानम्। साध्याभिमुखो रात्रौ वामकराक्रान्तमथ जपन्क्रुद्धः ॥२३॥ क्रोङ्काराङ्कुशयोगा- दानयति सुरासुरान्क्षिप्रम् । भित्ताविति इमाशानिक्याम् । तदभिधान- मिति आनयनेप्सितसुरासुरनाम ।कोङ्काराङ्कुश- योगादिति अङ्कुशाकारलिखितकोङ्कारवामकरा- क्रान्तिवशादित्यर्थः ॥
२६ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । १०१ रणशस्त्रघातपतितं नरपिशितं त्रिमधुसंयुतं जुहुयात्२४ विपरीतचक्रमुद्रा बद्धा साध्यं तु निक्षिपेन्मध्ये । संपीडितकरसंपुट- विह्वलवकं करान्तरे ध्यात्वा ॥२५॥ आनयति महापुरुष क्षितिपतिमपि दिवसशतभागात् । 'भ्रमेणाङ्गुलिकाभ्यां स्याचक्रं दुष्टविकर्तनम् ।' इति प्रसारिताङ्गुलिकोत्तानवामोपरिनिविष्ट- दक्षहस्तस्य प्रसारिताङ्गुलिकस्य तलसकर्षेण, वामकनीयसीपार्श्वप्राप्तदक्षतर्जन्या भ्रमणात्या चक्रमुद्रा आगमेषु स्थिता, तां विपरीतामिति वामकनीयसीपादिक्षिणस्यान्तःप्रवेशेन बद्धा तन्मध्यगतं साध्यं करपीडनविह्वलीभूतं ध्यात्वा मन्त्रविदर्भितं साध्यनाम शतसंख्यया जवा प्रोक्तद्रव्येण निशि होमं कुर्वन्नृपतिमपि विधे- यीकरोतीत्यर्थः। रात्रौ श्मशाने जपहोमादि प्राकरणिकमत्र स्थितमेव ॥ .
१०२ स्वच्छन्दतन्त्रम् । [ १३ पट० शितशस्त्रपातरहित- ध्वजनरशीर्ष प्रगृह्य लक्ष्मयुतम् २६ तत्र त्रिरूपगदितं धाम लिखित्वाभिपूजयेद्यस्तु। तस्य हरिपवनकमलज- धनदयमेन्द्राः ससिद्धगन्धर्वाः ॥२७॥ विविधवरसिद्धिजातं विदधति विचित्रास्तथापराः सिद्धीः । आदौ शस्त्रेण अक्षतो यो ध्वजेनरस्तस्य शीर्ष शूलारोपितपुरुषकपालम् । तत्र प्राग्वत् शोषिते त्रिरूपगदितमिति आकृतिमन्मुखलिङ्गरूपम- व्यक्तलिङ्गाकृति धाम मूलमत्रवाच्यं दैवतं लिखित्वा उत्कीर्त्य यो नित्यमर्चति, असौ लोकपालानपि वशीकुर्यात् ॥ एतदेव भङ्गया स्फुटयति श्लोकद्वयेन व्यक्ताव्यक्तं तथा व्यक्त- त्रिरूपकम् ॥२८॥ मव्यक्तं तु १०३ ३२ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । धाम चाराधयेत्सम्यक् तत्र यस्तु विचक्षणः । जायते त्रिविधा सिद्धि- गिरिराजतनूद्भवे ॥२९॥ सुनिश्चितमतेः सम्यक् गिरिराजस्य तस्य वै। तत्रेति त्रिशूलारोपितनरकपाले। गिरिराज- स्येति वक्ष्यमाणछुम्मकादृष्ट्या साधकेन्द्रस्य ॥ अत्र द्रव्यविशेषहोमसाध्यं वशीकारमाह रक्तचन्दनधूलिं तु राजिकां लवणं तथा ॥३०॥ पादधूलिं तु साध्यस्य एकीकृत्य तु पेषयेत् । जपन्स्वच्छन्ददेवं तु निर्मश्नंश्च करद्वयम् ॥ ३१ ॥ चिताग्नौ जुहुयाचूर्ण चाण्डालाग्नावथापिवा।
१०४
स्वच्छन्दतन्त्रम् ।
[१२ पट०
साध्यस्याभिमुखो भूत्वा
प्रयोगमिममाचरेत् ॥ ३२॥
शतमेकं जपेद्याव-
तावदाकर्षयेन्नृपम् ।
पादधूलिः पुंसो दक्षिणात् पादात् नार्या
वामात् गृहीतव्या । प्रणवं निष्कलनाथं नमो-
ऽन्तमुच्चार्य अमुको मे वशीभवतु वाहेत्यू-
हान्तो मन्त्रो जपे होमे च प्रयोक्तव्यः ॥
एवमाकृष्टश्च असौ साधकस्य
वशमायाति भूनाथ
आत्मना च धनेन च ॥३३॥
न अत्र संशयः कार्य इत्याह
सिद्ध एष प्रयोगस्तु
नान्यथा ते वदाम्यहम् ।
एवं वशीकृतौ प्रयोगदशकमुत्तमादिसिद्ध्यर्थ
च प्रयोगमुक्त्वा, स्तम्भने प्रयोगमाह
तामेव
धूलिं संगृह्य
लोहचूर्णविमिश्रिताम् ॥३४॥
१०५ ३८ श्लो०] श्रीक्षेमराजाचार्यकृतोक्ष्योताख्यटीकोपेतम् । श्मशानचीरके बडा सप्तजप्तां चतुष्पथे। निखन्याष्टांगुलं भूमौ रिपुनामसमन्विताम् ॥ ३५॥ निक्षिपेद्यस्य नाम्ना तां स क्षणात्स्तम्भितो भवेत् । श्मशानचीरके शववस्त्रखण्डे । सप्तजप्तामिति अमुकं स्तम्भयेत्यूहभाजा निर्दिष्टमन्त्रेण ॥ उन्मादे प्रयोगमाह तामेव धूलिं संगृह्य पञ्चकोन्मत्तसंयुताम् ॥ ३६॥ बड्डा तां प्रेतवस्त्रण रिपुनामसमन्विताम् । शतजप्तां तु तां कृत्वा श्मशाने निखनेगुतम् ॥ ३७॥ भवत्युन्मत्तकः साध्यः पञ्चविधमुन्मत्तकं मूलकाण्डपत्रपुष्पफला- ख्यावयवपञ्चकयुक्तं धत्तूरकम् । अत्रापि अमुः कमुन्मादयेत्यूहः कार्यः ॥
खच्छन्दतन्त्रम् । [१३ पट० अस्य प्रत्यानयनमाह उद्धृतायां तु मुच्यते । निवृत्तोन्मादो भवति ॥ कथमित्याह उद्धृतं वस्त्रमादाय क्षीरेण परिशोधयेत् ॥ ३८॥ प्रत्यानयनमेतद्धि सिद्धमेव न संशयः । उद्धृतं श्मशानभवनादाकृष्टम् ॥ पुनरपि आकर्षणे प्रयोगान्तरमाह अथ रक्ताश्वमारस्य कुसुमानि समाहरेत् ॥ ३९ ॥ शतमष्टोत्तरं तेषां शतजप्तं तु कारयेत् । सकृजप्तेन पुष्पेण लिङ्गमूर्धनि ताडयेत् ॥ ४० ॥ एवं दिने दिने कुर्या- दशाहं सुसम माहित १०७ ४४ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । रक्ताश्वमारस्य लोहितकरवीरस्य प्रोक्तेति- कर्तव्यताकानि पुष्पाणि प्रत्यहं गृहीत्वा पृथक पृथक् सुरक्षितानि स्थापयेत् ॥ ततस्त्वेकादशैतानि संगृह्य कुसुमानि तु ॥४१॥ महानदीं ततो गत्वा तत्रैकैकं प्रवाहयेत् । आनुपूर्येण सर्वाणि सकृजप्त्वा तु मन्त्रवित् ॥४२॥ प्रथमदिनपुष्पाणामादौ प्रवाहणं, ततो द्वि- तीयादिदिनपुष्पाणामिति आनुपूार्थः ॥४२॥ यत्तेषां पश्चिमं पुष्पं प्रतिस्रोतः प्रयाति हि। ॥ ऊर्ध्व वहतीत्यर्थः तद्गृहीत्वाम्बुसंमिश्रं दन्तैरस्पृष्टमापिवेत् ॥४३॥ पीतजलं कुर्यात् ॥ ४३ ॥ ततोऽश्वमारकुसुमं रक्तं वै शतमन्त्रितम् ।
१०८
स्वच्छन्दतत्रम् ।
[१३ पर०
तर्जन्यग्रे तु तत् कृत्वा
अङ्गुष्ठेनाक्रमेद्बुधः ॥४४॥
दक्षिणेन ॥ ४४॥
अथ
भ्रामयेत्सव्यतः पुष्पं
यस्य नाम्ना तु मन्त्रवित् ।
स्वच्छन्दं जपमानस्तु
तमाकर्षयते
द्रुतम् ॥४५॥
सव्यत इति दक्षिणे पायें। अत्रापि अमुक-
माकर्षयेति प्रयोगः॥४५॥
आकृष्टस्य विसर्जने प्रयोगमाह
अपसव्यं भ्रामयित्वा
पुनस्तस्य विसर्जनम् ।
अपसव्यं वामपार्श्वे तदश्वमारपुष्पं भ्रामय-
न्साधकस्य यथोपयोगं विनियुक्तस्य विसर्जन
करोतीति शिवम् ॥
खातव्यशक्त्या परया नानाश्चर्यप्रदर्शकः ।
जयत्यनुग्रहकरः स्वच्छन्दः परभैरवः ॥
इति श्रीखच्छन्दोयोते क्षेमराजकृते त्रयोदशः पटलः ॥१३॥
अथ श्रीस्वच्छन्दतन्त्रम् । श्रीमन्महामाहेश्वराचार्यश्रीक्षेमराजकृतोड्योताख्य- विवरणोपेतम् । ( चतुर्दशः पटलः) मोचयति पाशजालाद्रावयति भिदं मुदं राति । मुद्रयति विघ्नतस्करलुण्ठनतो मत्रसिद्धिसङ्घातम् ।। तत्संवित्स्फाराननुकृतिरूपान्व्यनक्ति या शम्भोः। आकृतिरूपा मुद्रा जयति विभोरर्चनादिनिर्वा ।। त्रयोदशभिः पटलैः समय्यादिचतुष्टयनिर्व य॑नित्यनैमित्तिककाम्यकर्म सम्पूर्णमुदितम् । तत्र रक्षासन्निधितदनुप्रवेशादिप्रयोजनं 'मुद्रां प्रदर्शयेत्पश्चात्रिधा त्रैकाल्यकर्मणि ।' (२।१०२) इति यत् पूर्व कायवाअनोनिवर्त्यमुद्रास्वरूप- मुक्तम्, तत् विवक्षुः श्रीभैरव उवाच मुद्राणां लक्षणं वक्ष्य अस्मिंस्तन्त्रे यथास्थितम् । अस्मिस्तत्रे प्रोक्तप्रयोजना भगवदायुधानु- ११० स्वच्छन्दतन्त्रम् । [१४ पट० काररूपा या मुद्राः, तासां लक्षणं तत्त्वव्यवस्था- पकं रूपं वक्ष्यामीति प्रतिजानाति ॥ अत्र यद्यपि "खगखेटकधारिणम् ।' (२।९०) इति आयुधक्रम उक्तः, तथापि 'कपालं चैव खट्वाङ्गमनुक्तेषु प्रयोजयेत् ।' (२१) इति भाविनीत्या कपालखट्वाङ्गयोः सर्वावरण- गतदेवतासाधारणत्वात् श्रीकोटराक्षभट्टारक. विषये च तयोः प्राधान्यादादौ तन्मुद्रा- लक्षणमाह उत्तानमञ्जलिं कृत्वा कपालं परिकीर्तितम् ॥१॥ एषा च विश्वसमाहरणप्रवृत्तसंवित्स्वरूपानु- कारिणी । यदुक्तं मयैव श्रीभैरवानुकरणस्तोत्रे 'शाक्ताण्डखण्डमध्ये विश्वरसमेवमहं समाहरामि सदा । व्यञ्जयसि करकपालगरुधिरभिषादेतदिव मेऽन्तः ॥ इति । यद्यपि "मुण्डखट्वांगधारिणम् ।' (२।९१) इति पूर्व पठितं, तथापि इह कपालमुद्रोक्तेर्मुण्ड- स्थाने कदाचित्कपालं भवतीत्यादिशति। मुण्ड.
३ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् ।
मुद्रापि खगवत् मुष्टिदर्श दर्शनीया ॥१॥
तिर्यकृत्वा करं वाम
कनिष्ठाद्यङ्गुलित्रयम्।
अङ्गुष्ठेनाक्रमेद्देवि
ऋज्वीं कृत्वा प्रदेशिनीम् ॥२॥
पराङ्मुखं करं कृत्वा
स्कन्धदेशे निवेशयेत् ।
खटाङ्गं कीर्तितं ह्येतत्
वाममितिनिर्देशात कपालमुद्रा दक्षिणेन
निर्देश्येति ध्वनति। तथाच श्रीमालिनीविजये
'निम्नं पाणितलं दक्षमीपत्तत्कुञ्चिताङ्गुलि ।
कपालमिति विज्ञेयम्।
॥' (१७।२३)
इति । अङ्गुलित्रयमिति मुष्टिसंनिवेशेन स्थित
मित्यर्थात् । पराङ्मुखमिति स्कन्धापेक्षया ।
एतन्मुद्रासतत्त्वमपि तत्रैव स्तोत्रे प्रदर्शितं
'निःशेपाहतसारा मय्येव जगत्स्थितिस्तदेकमये ।
इति खट्वाङ्गकरङ्कोद्वहनच्छलतो ददास्याज्ञाम् ।'
इति ॥
अथ
। खड्गमुद्रां निबोध मे ॥ ३ ॥
खच्छन्दतनम्। [ १४ पट. ११२ अङ्गुष्ठेनाक्रमेदेवि सकनिष्ठामनामिकाम् । मध्यमां तर्जनीं चोर्ध्व खङ्गमुद्रा प्रकीर्तिता ॥४॥ स्कन्धक्षेत्रे पराङ्मुखदक्षकरप्रदर्शनीया एषा। कृत्वेति शेषः । यदुक्तं तत्रैव 'अन्तःशक्तिकृपाणी व्यनक्षि संसृति विभेदिनीमसिना । निजशक्तिमहिमस्वीकृतसमस्तविश्वा हि वीरवराः॥' इति ॥ ४॥ मुष्टिं बवा कनिष्ठां च प्रसार्येत वरानने। आत्मनः संमुखं कृत्वा स्फरस्ते कथितो मया ॥५॥ कृस्वेति वामहस्तमित्यर्थात् । स्फर इति स्फर इत्युच्यमानम् । उक्तं च तत्रैव 'भवभयहर्ता सोऽहं स्फराख्योऽवस्थितोऽसि मा भैष्ट । इत्यास्फोटितखेटकदर्शनतो दिशसि नः खामिन् ॥' इति ॥ ५॥ मुष्टिं बवा तु देवेशि तर्जन्यूज़ तु कुञ्चयेत् ।
श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । अङ्कुशः कथितो ह्येष दक्षिणपाणिं निर्वर्त्य । उक्तं च तत्रैव 'भेदमयमखिलमेतन्निजशक्त्यैवाक्षिपामि संहर्तुम् । इत्यङ्कुशधारणतः स्फुटयति परभैरवोऽस्माकम् ।' इति ॥ अथ वामपाणिना प्रदश्यां पाशमुद्रां निबोध मे ॥६॥ तर्जनी वर्तुलां कृत्वा मूलेऽङ्गुष्ठस्य योजयेत् । पाशस्तु कथितो ह्येष दुष्टजालनिबन्धकः ॥७॥ अङ्गुष्ठस्येति तत्स्थाने मुष्ट्याकृतिवामसम्ब- न्धिनः। दुष्टजालं विघ्नसमूहः । अस्यापि तत्रैव तत्त्वं प्रदर्शितं 'निजशक्तिपाशवलितश्विद्भस्मना कल्यते महाकालः । इति पाशधारणवशात्प्रथयानः कालकालस्त्वम् ॥' इति ॥७॥ मुष्टिं बड्डा वरारोहे संप्रसार्य प्रदेशिनीम् । १५ स्वच्छन्दतघ्रम् । [१४ पट० नाराचस्तु समाख्यातः समासात्तव भैरवि ॥८॥ संप्रसार्येति धनुरारूढनाराचवत्पार्श्वस्थित्ये- त्यर्थः। अस्यापि समनन्तरवक्ष्यमाणपिनाकमु. द्रासहितस्य तत्रैव स्वरूपं निर्णीतं 'कोदण्डारूढशरप्रदर्शनाहह्मविष्णुरुद्रेशान् । ससदाशिवकारणहरिणाञ्छत्या भिनत्सि युगपत्त्वम्॥ इति ॥ ८॥ मुष्टिं बड्डा प्रसार्येत तर्जन्यङ्गुष्ठकं ष्ठकं प्रिये अग्रे निकुञ्चयेत्किञ्चि- पिनाकं परिकीर्तितम् ॥९॥ पिनाकं धनुः । अग्रे किश्चिदाकुश्चनात् धनु- एव सन्निवेशो भवति । अस्यापि सतत्त्वमुक्तमेव ॥९॥ अग्रप्रसारितो हस्तः श्लिष्टशाखो वरानने। राकार
१२ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् ।
११५
पराङ्मुखं तु तं कृत्वा
त्वभयः परिकीर्तितः ॥ १०॥
पताकहस्तो दक्षिणः स्वशरीरपराङ्मुख
उत्थित इत्यर्थः । उक्तं च तत्रैव
'अभयेन च भयान्युन्मूलयता प्रकाश्यते सततम् ।
विश्वानुग्रहकरणस्वभावता तव करण तेन ॥'
इति ॥ १०॥
वामं भुजं प्रसार्येव
जानूपरि निवेशयेत् ।
प्रसृतं दर्शयेदेवि
वरः सर्वार्थसाधकः॥ ११ ॥
उक्तं च तत्र
'वरदेन पाणिना त्वं विश्वविभूतिप्रदत्वमभिनयसि ।
न खलु परतत्त्वनिष्ठो वित्तमलैः स्पृश्यते जातु ।'
इति ॥ ११ ॥
घण्टाकारं करं वाम
कृत्वा चैव त्वधोमुखम् ।
दक्षहस्तस्य तर्जन्या
घृषेघण्टा प्रकीर्तिता ॥ १२॥
स्वच्छन्दतघ्नम् । दङ्ग ११६ [१४ पट० अस्यापि वक्ष्यमाणवीणाडमरुमुद्राभ्यां सह तत्रैव सतत्वं दर्शितं 'वीणाघण्टाडमरूनुड्डामरदर्शयन्निदं दिशसि । वृत्तित्रिभेदभिन्नं नादामर्श निमालयन्नन्तः ॥ इति ॥ १२॥ कनिष्ठिकां समाक्रामे- ठेन समाहितः प्रसार्य चाङ्गुलीस्तिस्र- स्त्रिशूलं परिकीर्तितम् ॥१३॥ समाहित इति । तत्तत्संवित्स्फारात्मकवीर्य- सारतां सर्वमुद्राणामनुसन्दधीतेति अनेन आ- दिशति । वीर्यं च अस्य तत्रैव दर्शितं 'ज्वलदिच्छादिकशक्तित्रितयां तां सुन्दरां परां शक्तिम् । देवानुकरोषि बहिस्त्रिशूलधारण मिषेण नित्यमपि ॥' इति । एषा च पराङ्मखी जन्माधारात् प्रो. ल्लसच्छिखिशिखारूपा बिन्द्वन्तमेत्य अरात्रयो- ल्लासेन द्वादशान्ते प्राप्तस्थितिर्निबन्धनीयेति गुरवः ॥ १३ ॥ दण्डो वै मुष्टिबन्धेन अनुकार्य इति शेषः । उक्तं च स्तोत्रे १५ श्लो० ] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । ११७ 'जगदखिलं मच्छक्क्या दमितं सर्वा व्यवस्थितीर्धत्ते । इति दण्डधारणवशायनक्ति चिद्भरवोऽस्माकम् ॥' इति । गुरवस्तु 'दण्डाख्यामृष्टसौषुम्ननाडीपथविराजिता ।' इति ॥ वजमुद्रां निबोध मे। वामहस्तमधः कृत्वा उत्तानं तु समाहितः ॥१४॥ दक्षं चाधोमुखं कृत्वा त्वङ्गुष्ठं च कनिष्ठिकाम् । उभयोरपि सङ्घष्य वजमुद्रां प्रदर्शयेत् ॥ १५॥ उत्तानमिति विरलं प्रसारिततर्जनीमध्याना- मिकं दक्षं च तादृशमेव तदुपरि पराङ्मुखं न्य- स्तमुभयोः परस्परमङ्गुष्ठकनिष्ठिकाबन्धनेन पा- चकृतकूर्परविन्यासेन पार्श्वसन्निविष्टतामस्याः सूचयति । वीयं च तत्रैव दर्शितम् 'इच्छादिकनिजशक्तिप्रकाशिताधःस्थगोचरत्रितयाम् । स्वामेव परां शक्तिं वज्रमयीं वहसि पडरां त्वम् ॥' ।
खच्छन्दतन्त्रम् । [१४ पट० इति । गुरवोऽपि 'वज्रमुद्रा बन्धकी सुस्थितिः स्वस्तिकायते ।' इति ॥ १५॥ डमरूं मुष्टिबन्धेन दक्षहस्तस्य सुव्रते। सुषिरेण समायुक्तं दर्शयेत्तु वरानने ॥ १६॥ तत्त्वमस्याः प्रदर्शितमेव ॥ १६ ॥ मुद्गरं तु प्रवक्ष्यामि हस्तौ द्वौ संप्रसारयेत् । मुद्गरः कथितो ह्येष संप्रसारयेदिति संमुखौ प्रसारयेत् परस्परसं- लग्नाविति अर्थात् । अस्या अपि परशुमुद्रया सह तत्रैव तत्त्वं दर्शितं 'मुद्गरपरशू विभ्रद्वन्दवनादानुकाररूपौ त्वम् । भेदविभेदनशकलनपरत्वमीशान निर्दिशसि ॥ इति । गुरवोऽपि 'गाढग्रन्थिगणास्फोटो मुद्रेण प्रवर्तते ।' इति । श्रीपूर्वशास्त्रे तु मुद्गरमुद्रा त्रिशिखा दर्शिता । तथाच १९ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । ११९ 'करावूर्ध्वमुखौ कार्यावन्योन्यान्तरिताङ्गुली । अनामे मध्यपृष्ठस्थे तर्जन्यौ मूलपर्वतः ।। मध्ये द्वे तु युते कार्ये कनिष्ठे परुषावधि । तर्जन्यौ मध्यपार्श्वस्थे विरले परिकल्पिते ।। मुद्गरस्त्रिशिखो ह्येष क्षणादेवोपकारकः । (७।२७) इति ॥ अथ वल्लकी च निबोध मे ॥ १७॥ वल्लकी वीणाम् ॥ १७ ॥ हस्तौ प्रसारयेदेवि उत्तानौ तु समाहितः। अनामे कुञ्चयित्वा तु वीणामुद्रा प्रकीर्तिता ॥ १८॥ कुब्जा वीणाविषया। एषा वामपार्श्वे प्रदर्श- नीया। अस्याः सतत्त्वं दर्शितमेव ॥ १८ ॥ प्रसारयेदङ्गलीस्तु कनिष्ठानाममध्यमाः। अङ्गुष्ठेनाक्रमेदाद्यां परशुः समुदाहृतः ॥ १९॥ खपराङ्मुखेन दक्षहस्तेन स्कन्धदेशे प्रदर्श- १२० स्वच्छन्दतत्रम् । [१४ पट० नीयोऽयम् । तत्त्वमस्याः पूर्वमेव दर्शितम् । एताश्च मुद्रा गुप्ताः प्रदर्शनीयाः, अगुप्ते तु आयतनादौ वस्त्राच्छादिताः, अथवा स्मर्तव्या एवेति गुरवः । केचिदत्र परशुमुद्रास्थाने 'भ्रामयेदङ्गुले द्वे तु चक्रं दुष्टनिकृन्तनम् ।' इति पठन्ति । अन्यैस्तु एतत्प्रसङ्गात् शङ्खपद्म- मुद्रालक्षणमपि क्षिप्तम् , अपरैस्तु परशुलक्षणं 'राजावर्त निभो देवि मुद्गरः परशुस्तथा ।' इति एतदनन्तरं पठितम् । तत् सर्वमुपक्रमोप- संहाराननुरूपत्वादुपेक्ष्यम् । एवं च प्रायशो ग्रन्थान्तरप्रक्षेपो ग्रन्थविपर्यासः पाठविपर्या. सश्च अस्य ग्रन्थस्य दुर्मेधोभिः परिकल्पितः शत- शाखो दृश्यते । सोऽस्माभिः पुरातनपुस्तकान्वे- यावद्गति अपसारित इति आस्ता- मेतत् ॥ १९॥ एतदुपसंहरन्प्रकृते योजयति एता मुद्रा महादेवि भैरवस्य प्रदर्शयेत् । आवाहने निरोधे च तथा चैव विसर्जने ॥ २० ॥ षणतो २२ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । १२१ एता इत्युपसंहारात् कः परशुमुद्रायाः परो ग्रन्थेऽवसरो भैरवस्य उक्तः, कश्चक्रपद्मादिमुद्रा- णामवकाशोध्यानग्रन्थे तेषामनुदेशादिति यथा- पठितमेव साधु । आवाह नेत्यादिना 'मुद्रां प्रदर्शयेत्पश्चात्रिधा त्रैकाल्यकर्मणि ।' (२।१०२) इति पूर्वोक्तमेव निर्वाहितम् ॥ २०॥ अथ ये वक्राङ्गभैरवाद्या आवरणस्थाः, तेषां साधारणं मुद्राबन्धं प्रदर्शयति कपालं चैव खट्टाङ्ग- मनुक्तेषु प्रदर्शयेत् । सर्वेषां ज्ञानक्रियाशक्तिस्फारसारत्वात् मुद्राणां सन्निवेशमुक्त्वा यथौचित्यमासां मानसं रूपमाह कपालं धवलं ज्ञेयं खटाङ्गं च तथैव हि ॥ २१ ॥ त्रिशूल चैव नाराचं खड्गो नीलोत्पलप्रभः। स्फरं रक्तं पिनाकं च कृष्णं संपरिकीर्तितम् ॥ २२॥ १६ १२२ स्वच्छन्दतन्त्रम् । [१४ पट० घण्टा हेमप्रभा ज्ञेया- कुशो मरकतप्रभः । पाशो भिन्नाञ्जननिभः स्फटिकाभोऽभयः स्मृतः॥२३॥ वरश्चित्तप्रसादेन ध्यातव्यो वरवर्णिनि । डमरूं हेमसङ्काशं वीणां चैतत्समप्रभाम् ॥२४॥ दण्डं रक्तं विजानीया- हजं पीतं विचिन्तयेत् । राजावर्तनिभो देवि मुद्गरः परशुस्तथा ॥२५॥ चित्तप्रसादेनेति प्रसादश्चित्ततुल्योऽनुपाधि- संवित्प्रकाशरूप इति यावत् ॥ २५॥ उपसंहरति मुद्रापीठं समाख्यातं चतुर्वर्गफलोदयम्। न केवलं पूर्वनिर्दिष्टनीत्या इदं तत्रं विद्याम- २७ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । १२३ ब्रमण्डलपीठरूपं यावदिह मुद्राश्रयतया मुद्रा- पीठरूपमपि चतुर्वर्गस्य समय्यादिचतुष्टयस्य रक्षासन्निधितत्वानुप्रवेशहेतुत्वात् फलोदयो य- तः। एतत् 'चतुष्पीठं महातत्रं चतुर्वर्गफलोदयम् ।' (१।५) इत्यस्य ग्रन्थस्य निगमनरूपम् ॥ एवं मुद्राणां कायीयं मानसं च रूपमुक्त्वा, वाचिकमपि आह प्रणवासनमारूढा ओंकाराद्या वरानने ॥२६॥ स्वनामकृतविन्यासा नमस्कारावसानिकाः । भगवच्छक्तिरूपाणां मुद्राणां स्वरूपं विमृ- शेत् ॥ एवं सन्निवेशबन्धध्यानमन्त्रपरामर्शस्फुटी- कृता एता विघ्नत्राणभगवत्स्वरूपसन्निधानतदनु- प्रवेशनादिरूपाणि साधयन्ति महादेवि फलानि विविधानि तु॥२७॥ देव्या महत्पदेन विशेषणेन मुद्रावीर्यज्ञतां १२४ स्वच्छन्दतन्त्रम् । [१४ पट० प्रकाशयन्मुद्राणां वीर्यमेव सारभूतमिति शिक्ष- यति ॥ २७॥ पाटलिकं प्रमेयमुपसंहरति निर्विघ्नकरणं ख्यातं मुद्राणां लक्षणं प्रिये। वेदितव्यं प्रयत्नेन साधितव्यं महात्मना ॥२८॥ यद्यपि भगवत्सन्निधानतदनुप्रवेशादौ विघ्न- व्युदासार्थं समय्यादिभिरपि एतत् मुद्रालक्षणं ज्ञातव्यं, तथापि साधकेन विशेषतो ज्ञातव्यं मुद्राबन्धरक्षितस्यैव अस्य साध्यसिद्धेः। यथोक्तं पूर्वशास्त्रे 'याभिस्तु रक्षितो मत्री मत्रसिद्धिमवाप्नुयात् ।' (७१) इति शिवम् ॥ २८ ॥ स्वावष्टम्भवशोन्मिपन्निजमहामत्रावमर्शस्फुरत्- स्वच्छन्दस्फुरणामयाः परतरस्फारामृतस्यन्दिनः । उद्यन्त्येव तनावकृत्रिमतया द्रागेव मुद्राक्रमा यस्य त्रोटति पाशकुञ्जरभरः पायात्स एकः शिवः ॥ इति स्वच्छन्दोयोते मुद्राप्रकाशः चतुर्दशः पटलः ॥१४॥ ॥
अथ
श्रीस्वच्छन्दतन्त्रम् ।
श्रीमन्महामाहेश्वराचार्यश्रीक्षेमराजकृतोड्योताख्य-
विवरणोपेतम्।
...
( पञ्चदशः पटलः )
.....
.. स्वात्मविश्रान्तेः स्वच्छन्दो जयति प्रभुः ॥
अथ समयिमध्ये
समयिनां ताबिकव्यव.
हारगोपनेन निर्विघ्नसिद्धिसम्पत्त्यर्थं प्राक्प्रमेय-
शेषतया पटलमारभमाणश्छुम्मकाशर्मपर्याय-
पारिभाषिकसंज्ञाभिर्लोकोत्तरव्यवहारप्रवर्त्तनेन
गूढतया शास्त्रस्य अस्य रहस्यतां दर्शयितुं
श्रीभैरव उवाच
जपध्यानादियुक्तस्य
चर्याव्रतधरस्य च।
छुम्मकाः संप्रवक्ष्यामि
साधकस्य वरानने ॥१॥
१२६ स्वच्छन्दतन्त्रम् । [ १५ पट० छुम्मका तत्समयानुप्रविष्टसश्चित्या पारि- भाषिकी संज्ञा । साधकस्येति प्राचुर्याश्रयेण ॥ तत्र भैरवस्तु स्मृतो धाम सर्वदस्तु गुरुः स्मृतः। साधकस्तु गिरिज्ञेयः पुत्रको विमलः स्मृतः ॥२॥ आराध्यदेवतायाः परमोपादेयत्वात् तदुप- क्रमा इयमुक्तिः । धामेति सूर्यसोमवह्नितेज. सामपि प्रकाशकत्वात् विश्वविश्रान्तिस्थानक- त्वाच्च धाम । सर्वद इति स्वात्मनि परिपूर्णतया निराकांक्षस्य गुरोः परार्थंकप्रयोजनत्वात् । गि- रिरिति अप्रकम्प्यत्वादाराधनकतत्परः । विमल इति सर्वस्या आन्तरभूमेः संशोधनात् विगत- मलः । स्मृत इति अविच्छेदेन पारम्पर्येण । एवमुत्तरत्र ॥२॥ समयी कान्तदेहस्तु भगिन्यो बलदर्पिताः ।
१२७ ४ श्लो०] श्रीक्षेमराजाचार्यकृतोक्ष्योताख्यटीकोपेतम् । कान्तदेह इति कान्तः शुद्धविद्यानुप्रवेशेन दीप्तिमान्देहो यस्य । मन्त्रसिद्धिफलेन याः स. आतदा नार्यस्ता भगिन्य इव मत्राराधननिष्ठा- नामिति तथोक्ताः ॥ सर्वेषामेषां यागोपयोगिद्रव्यविशेषविषयां छुम्मकामाह मद्यं हर्षणं ज्ञेयं हर्षयतीति कृत्वा ॥ मुदिता तु सुरा स्मृता ॥३॥ मुदितेति मुदितं हर्षस्तद्धेतुत्वात् ॥ ३ ॥ तु तथा मत्स्या जलचरा ज्ञेयाः जलचरजातेः श्रीचर्याकुलनिरूपितनीत्या चरुभोजनतो दीक्षितत्वात् भैरवयागे परमोपादे- यत्वमित्येवं छुम्मकया निर्देशः॥ मांसं च बलवर्धनम्। मांसेन असाधारणचमत्कारहेतुना रसादि- धातुषट्कपरिपुष्टिक्रमात् बलस्य वीर्यस्य वर्धनात् 'जग्धिपानकृतोल्लासरसानन्दविजृम्भणात् ।' (७२)
१२८
स्वच्छन्दतन्त्रम् ।
[१५ पटक
इति श्रीविज्ञानभट्टारकनिरूपितनीत्या योगिनं
प्रति बलस्य स्पन्दात्मनः शाक्तवीर्यस्य विवर्ध-
नादुत्तेजनादेवमभिधानम् । गोवलीवर्दन्यायेन
च मत्स्यात् मांसं व्यतिरिक्तमुच्यते ॥
जातं प्ररूढमित्याहु-
म॒तं चैव पराङ्मुखम् ॥४॥
देहप्राणादिवन्धसांमुख्यादपवृत्तमित्याहुः पा-
रम्पर्यनिष्ठाः ॥४॥
रक्तं त्वमृतमित्याहुः
पद्मनालोऽन्त्रसञ्चयः ।
शुक्रं चन्द्रः समाख्यातः
स्नायुः सूत्रं प्रकीर्तितम् ॥५॥
तत्तद्रहस्ययागविशेषोपयोगिनां रक्तहृत्पद्मा-
त्रशुक्रस्नायूनाममृतं पद्मनालश्चन्द्रः सूत्रमिति
गुप्तानि सङ्केतनामानि परमाप्यायहेतुत्वात् क-
र्णिकादलादियुक्तत्वादस्थूलदीर्घरूपत्वात् सित-
वाह्लादकत्वयोगात् तत्तदुपहियमाणवस्तुग्रथन-
हेतुत्वाञ्चेति एतेऽत्र हेतवः क्रमेण योज्याः।
पद्ममित्यत्र आवृत्त्या द्विः पद्मशब्दः स्थितः,
तेन हृत् पद्ममित्येवमभिधातव्यमित्यर्थः॥५॥
७ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । किश्च वीरचर्यास्थानं श्मशानं डामरं ज्ञेयं समस्तशङ्कातङ्कत्रोटकत्वेन उड्डामरत्वात् डामरम् ॥ तत्रत्येऽपि क्वचित्कर्मणि सहचरतया उपयुक्तः राक्षसस्तु भयङ्करः । पिशाचो रोमजननः अधीराणां मितहृदयत्रासप्रदत्वात् भयेन रोमोलसरणाच॥ क्वचित् रहस्याचारे उपयुज्यमाना रुहा ज्ञेया रजस्वला ॥६॥ रोहतीति रुहा वीरचर्याया आश्रयभूता ॥ रात्रिं वै च्छादिकां विद्धि प्रापयति वीराचारमिति च्छादिका ॥ यत्र तु रहस्यवीराचारो दर्शनीयो न छादयति पशूनामदर्शनपथं भवति, तत् प्रकाशश्च दिनं भवेत् । १७ १३० स्वच्छन्दतन्त्रम् । [१५ पट० प्रकटस्वात् प्रकाश इत्युच्यते इत्यर्थः ॥ अथ नेत्रजिह्वादौ कर्मविशेषोपयोगिनि शरीरावयवे पारिभाषिक सङ्केतं करोति नयने चञ्चले ज्ञेय जिह्वां संग्राहिकां विदुः ॥७॥ लम्बिकादिरससाहित्वात् ॥७॥ तथा करौ धनकरौ ज्ञेयौ पादौ सहचरौ विदुः। परमेश्वरताप्राप्तिहेतुपूजानिधानकर्तृत्वादेके- कस्य गमनाद्यनुपपत्तेश्च । किश्च लिङ्गं सन्तोषजननं भगः प्रीतिविवर्धनः ॥८॥ स्पष्टार्थसंज्ञे ॥८॥ क्वचित् वीरपाशच्छेदादावुपयुज्यमानं शस्त्रं विभागजननं १० श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । १३१ तथा कर्तरी कार्यसाधिका। कार्य पाशसूत्रादिकर्तनं साधयतीति । तथा दूती संवाहिका ज्ञेया समं सह वाहयति निर्वाहयति वीर स्य रहस्याचारमिति संवाहिका दूती भार्या उच्यते, अथ दूती घण्टा सममान्तरध्वनिना वाहयति प्रापयति बाह्यमिति कृत्वा संवाहिका ॥ तथा धूपो हादन उच्यते ॥ ९॥ गन्धः सन्तोषजननः गन्ध इति समालम्भनद्रव्यम् । छुम्मके एते स्पष्टार्थे ॥ राजानो धारकाः स्मृताः। ये धारकाः पिष्टादिमया दीपाधारास्ते राजन्ते दीप्यन्ते इति कृत्वा राजान उक्ताः, अन्ये तु ये राजानो भूमिपालास्ते धारयन्ति पूजा इति कृत्वा धारका इति व्याख्यावन्तः॥
१३२ खच्छन्दतन्त्रम् । [१५ पट० पशुर्विबोधको ज्ञेयः यः पशुर्देवताभ्य उपहारीक्रियते, स वसा- मृगायाहारक्रमेण विवोधयति तास्ताः संवि- देवता इति विबोधकः ॥ यस्तु देवताभिः साधितो विशिष्टः कश्चित् चरुकः, सः चरुकः सार्वकामिकः ॥१०॥ सर्वान् कामान् समवाप्नोतीति कृत्वा ॥१०॥ अन्नं साधनमित्युक्तं यत्पुनरन्नं, तत् साधनमिति उक्तम् ॥ वसा मण्डमिहोच्यते । सर्वजनसाधारणत्वात् मण्डमिव मण्डमा- चामः॥ अथ दिशां मुखं तु श्रवणं श्रवणं श्रोत्रं दिग्देवताधिष्ठितत्वात् दिशां मुखमिति उच्यते ॥ त्वक् च संवेदनी स्मृता॥११॥ संवेद्यते अनया स्पृश्यं वस्तु इति कृत्वा ॥
१४ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । १३३ तु घ्राणं सुस्थितमित्युक्तं सुगन्धिद्रव्याघ्राणक्रमेण सुखेन स्थितं स्थानं संविदो यस्मिन्निति कृत्वा ॥ मुखं प्रविचारकम् । मुखमिति उपहार्यपशुशिरः प्रविचार्यते चक्षुरादिद्वारेण रूपादिवस्तु येनेति कृत्वा प्रवि- चारकमुच्यते ॥ पशुः प्रचारो विज्ञेयः प्रचारस्य विश्वेन्धनक्षारविमोकस्य हेतुत्वात् प्रचारः ॥ एवं पश्वङ्गविषयां छुम्मकामुक्त्वा अन्या अपि आह माता धात्रीति कथ्यते ॥१२॥ पितरं सृष्टिकर्तारं भ्रातरं पालकं विदुः। भगिनी शुभकरी ज्ञेया सखी सर्वार्थसाधिका ॥ १३॥ मित्रं गुणानां जननं
१३४
स्वच्छन्दतघ्रम् ।
[१५ पट०
गुणनाशं रिपुं विदुः।
स्पष्टम् ॥
पुनः शरीरावयवेषु च्छुम्मकाः प्राह
छित् स्फिजौ कीर्तितो देवि
छिनत्ति द्विधा प्रकाशयति अधःकायसंस्था.
नमिति च्छित् ॥
दृष्टिश्चक्षुः प्रकीर्तितम् ॥ १४ ॥
दृष्टिदर्शनव्यापारः । चष्टे व्यनक्ति रूपमिति
चक्षुः॥१४॥
दशनाः खण्डका ज्ञेयाः
खण्डयन्तीति कृत्वा ॥
आधार उदरं स्मृतम् ।
उदरं यत्तदशितादेरा समन्तात् धारणादा-
धारः॥
हृदयं गुह्यमित्युक्तं
हृत्स्थानं गुह्यात्माश्रयत्वात् गुह्यम् । यत्तु
गुह्यं, तत् प्रीतिविवर्धनमिति
पूर्वमेव उक्तम् ॥
कठिनं त्वस्थि विद्धि हि ॥१५॥
१७ श्लो०] श्रीक्षेमराजाचार्यकृतोझ्योताख्यटीकोपेतम् । १३५ मेदो वसां विजानीयात् अस्थि कठिनमित्युच्यते । यत्तु मेदः, तत् मेदयतीति कृत्वा वसा ॥ मज्जा पुष्टिकरः स्मृतः । मज्जाख्यस्य धातुविशेषस्य पुष्टिहेतुत्वात्पुष्टि कर इति उक्तः ॥ विष्ठां विदूषिकां विद्धि विदूषयति विकृतां शारीरी स्थिति सम्पा- दयतीति कृत्वा ॥ मूत्रं स्राव इहोच्यते ॥ १६ ॥ स्रवणं स्त्रावः ॥ १६ ॥ कालेयकं तु कुसुम कालेयकं कृष्णपद्मम् । तत् कुसुममिव कुसुम- मिति चमत्कृतिकारित्वेन देवतात्महेतुत्वात् ॥ धूमं धृतिकरं विदुः। श्मशानोत्थितोऽत्र धूमो विवक्षितः। सच देवतानां प्रियत्वात् धृतिकर इति उक्तः ॥ मेलकं चैव सङ्घातः १३६ स्वच्छन्दतब्रम्। [ १५ पट० देवतानां सम्बन्धि यत् मेलकं मेलनं, तत् सङ्घात इति उच्यते ॥ एतन्मेलकोपदेशेन यः देवानां पुत्रः सोद्दयोतकः स्मृतः ॥१७॥ उद्दयोतयति अज्ञाननिवारणेन जगदिति कृत्वा ॥ १७॥ किंच दुहिता हादिका ज्ञेया हादयति तत्त्वोपदेशेन जगदिति कृत्वा । क्षुब्धं वै चलितं विदुः । आरुरुक्षुः प्राथमिके योगाभ्यासे स्थित्यला- भात् क्षुब्धश्चलित इति उच्यते ॥ दूषको जार इत्युक्तः यः क्वचिदिज्यादौ दूषकः, स ज्यानिहेतु- त्वात् जार इति उक्तः॥ पीतं वन्दितमेवच ॥१८॥ भक्षितं प्राप्तमित्याहु- श्छर्दितं विकृतीकृतम् । यत् रहस्यद्रव्यं किंचित्पीतं, तत् वन्दित- प्राप्तमित्याहुः २० श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । १३७ मुच्यते । एवमेव यत्किञ्चित् भक्षितं, तत् । छर्दितं यत्किञ्चिन्नैवेद्य संवा. दिभक्तितारतम्यात् बहु अशितं सत् प्रमादात् वान्तं, तत् विकृतीकृतं वाच्यम् ॥ इत्थं दूषितं कर्षितं ज्ञेयं यत्किञ्चिन्नलकादि दूषितं, तत् कर्षितं ज्ञे- यमाहृतचरमित्यर्थः॥ संमतं समयं विदुः ॥ १९॥ पारमेशः समयोऽवश्यानुष्ठेयत्वात् संमत- मिति उक्तः॥१९॥ महल्लो रक्षको ज्ञेयः यः पारमेशाचारस्य रक्षकः, स महल्ल उच्यते महदुत्तमं पारमेशपदं लातीति कृत्वा ॥ छगलस्तु कनिष्ठकः। यश्छगलः पशुः, स कनिष्ठक उच्यते । क्रमो ज्येष्ठमध्यमत्वात् ॥ विनयो देहकर्म स्यात् तद्धि विनीततां करोति ॥ १५ १३८ स्वच्छन्दतनम् । [१५ पटक साधनं तु जपः स्मृतः ॥२०॥ साध्यतेऽनेन भुक्तिमुक्ती इति साधनम् ॥ होमितं सिद्धिजननं होमकर्मापन्नं हविर्यत् , तत् सिद्धिं त्रिविधां जनयतीति ॥ तथा विभागो रोचकः स्मृतः । चरुकादेर्यो विभागो विभजनं, स रोचकः रोचयति परां प्रीतिं जनयतीति कृत्वा ॥ कदम्बं वृन्दमित्याहुः देवतानां वीरद्रव्यादीनां यत् वृन्दं समूह, तत् कदम्बं वदन्ति ॥ विरलोऽश्लिष्ट उच्यते ॥२१॥ यो वीराचारात् पृथग्भूत इत्यर्थात् ॥२१॥ विमलः शिष्य इत्युक्तः यः शिष्यः शासनीयः, स गुरुप्रसादा विग- तमल इति कृत्वा विमलः ॥ इच्छा चाज्ञा प्रकीर्तिता। गुर्वादीनां सम्बन्धिनी आज्ञा यत्र लब्धा, १३९ २३ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । तत्र असौ तदीयानुग्राहिका इच्छा स्थितेति यावत् ॥ देवतादर्शनं यत्तत् किञ्चिदसामान्यमेतदित्थं विमृष्टमित्यर्थः । लब्धं शस्त्रहतं विदुः ॥२२॥ यः शस्त्रहतः पशुः, तं लब्धमिति आम- नन्ति ॥ २२॥ निशाचरो बिडालः स्यात् निशायां चरो यस्य वीरस्य, स बिडाल उ- च्यते । बिडालो हि रात्रावाखूनाहरति, अयं तु वीरपशून् । नखिनश्च विदारकाः। ये वीरपशूनां विदारकाः, ते नखिन उच्यन्ते विदारकत्वसाधात् ॥ आनीतं सारितं ज्ञेयं महाचर्वादि यदानीतं, तत् सामरस्येन सं. जातमिति कृत्वा सारितमिति उच्यते ॥ रक्षितं पिहितं तथा ॥२३॥ यत् रक्षितं, तत् पिहितमिति वाच्यम् ॥
१४० खच्छन्दतन्त्रम् । [१५ पट० अथ कदाचित् तीनशक्तिपातवशात् समासा- दिते मेलके तत्तत्तत्त्वसाक्षात्कारमार्ग साधके. न्द्रस्य देव्यो दर्शयन्तीत्यादिशति अनुग्रहपरः परमेश्वरः शिखां संस्पृशते या तु सा तु शक्तिं विनिर्दिशेत् । शिरः प्रदर्शयेद्या तु सा च बिन्दु विनिर्दिशेत् ॥२४॥ ललाटं दर्शयेद्या तु ईश्वरं सा विनिर्दिशेत् । तालुकं दर्शयेद्या तु तया रुद्रः प्रकीर्तितः॥ २५॥ जिह्वां प्रदर्शयेद्या तु विद्यां साथ विनिर्दिशेत् । सप्त कोट्यस्तु मन्त्राणां तस्या ज्ञेयास्तु सुव्रते ॥२६॥ घण्टिकां दर्शयेद्या तु तयानन्तः प्रदर्शितः।
२९ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । १४१ कण्ठं तु संस्पृशेद्या सा कालतत्त्वं विनिर्दिशेत् ॥२७॥ हृत्पद्मं दर्शयेद्या तु पुरुषं सा विनिर्दिशेत् । नाभिं प्रदर्शयेद्या तु प्रकृति सा विनिर्दिशेत् ॥२८॥ तस्याधस्ताद्बुद्धितत्त्वं यदि स्यादर्शनं प्रिये। प्रशान्ताशेषतरङ्गशिवधामनि परमनिर्वाण- रूपे न काचित्सिद्धिरस्तीति कृत्वा साधकेभ्यो मेलकावसरे वरदानोद्यता देव्यः सिद्धिमाधारा- धिरूढाच्छक्तिस्थानात्प्रभृत्येव ददतीति तदुप- क्रममेव निर्देशः कृतः। बिन्दुमिति अशेषवा- च्यवाचकाविभागप्रकाशं सादाशिवं धाम । कीर्तित इति मया साक्षात्कृत इति दर्शितः। सप्त कोव्य इत्युक्तेः साधकस्य अस्याः सकाशात् तत्तन्मत्रसिद्धिलाभो भवतीति।तालुकं तालुर- न्ध्रम्। घण्टिकातदधो लम्बमाना लम्बिकाख्या १४२ स्वच्छन्दतन्त्रम्। [१५ पट० शक्तिः । अनन्त इति मायातत्त्वाधिष्ठाता । कालनियतिपुरुषतत्वैर्नवात्मप्रक्रियावत्कलावि- द्यारागतत्त्वानि संगृहीतानि दर्शितानि । यदि स्यादिति यदि तया साक्षात्कृतं भवेदित्यर्थः ॥ किश्च यदा गुह्यं स्पृशेदेवि तदा असौ - अहङ्कारोऽधिदैवतम् ॥२९॥ साक्षात्कृतंसूचयतीत्यर्थः । अत्रैव च अन्त- भूतस्येन्द्रियतन्मात्रषोडशकस्य दर्शनं,न पृथक् ॥ किच कटिं सन्दर्शयेद्या तु व्योम तत्राधिदैवतम् । ऊरुको दर्शयेदेवि पवनं सा विनिर्दिशेत् ॥३०॥ जानुनी दर्शयेद्या तु तया तेजः प्रकीर्तितम् ।
१४३ ३४ श्लो०] श्रीक्षेमराजाचार्यकृतोड्योताख्यटीकोपेतम् । जचे प्रदर्शयेद्या तु वरुणं सा विनिर्दिशेत् ॥ ३१॥ एवं मेलकावसरे देवीभिश्छुम्मकायां दर्शि- तायां प्रतिछुम्मका यादृक् साधकेन दर्शयि- तव्या, तादृशीमाह शरीरं दर्शयेदेवि सर्वदेवमयं प्रिये। तदा अस्य पूजाग्निजपयुक्तस्य ध्यानयुक्तस्य मन्त्रिणः॥३२॥ समयाचारयुक्तस्य कालांशकविदः प्रिये। क्रियोपेतस्य देवेशि योगिन्यस्तु वरप्रदाः॥३३॥ दर्शयन्ति महाध्वानं नानाभोगसमन्वितम् ।
१४४ स्वच्छन्दतब्रम् । [१५ पट० गिरिराजस्य देवेशि यं गत्वा फलमश्नुते ॥ ३४ ॥ क्रिया प्रोक्तरूपा । दर्शयन्ति स्वदेहस्थमेव प्रत्यक्षीकारयन्ति । गिरिराजस्य साधकेन्द्रस्य । यं गत्वेति साक्षादनुभूय गमेानार्थत्वात् । फलमश्नुते इति तत्तद्भोगभुग्भवति ॥ ३४॥ किश्च अस्य एता योग्यतातिशयात् भैरवेण समाज्ञप्ताः शक्तयस्तु वरानने। अन्याश्च सिद्धीविविधा अधमा मध्यमोत्तमाः ॥ ३५॥ अन्यतन्त्रसमुत्थाश्व साधयन्ति न संशयः । भैरवेण समाज्ञप्ता इत्यनेन परमेश्वर एव इत्थं साधकस्य अभीष्टदानाय उद्यच्छतीत्याह । न संशय इति निश्चितमेव एतदित्यर्थः ॥
१४५ ३८ श्लो०] श्रीक्षेमराजाचार्यकृतोयोताख्यटीकोपेतम् । उपसंहरति एवं संक्षेपतः प्रोक्तं मेलकं तु वरानने ॥ ३६॥ सतताभ्यासयोगेन योग्यतमता जाता ॥ तस्मै ददते चरुकं स्वकम् । दद दाने इत्यस्य अयं प्रयोगः। वकं स्वा- स्मार्थ साधितमसामान्यमित्यर्थः । तदाह यस्य संप्राशनाद्देवि वीरेशसदृशो भवेत् ॥ ३७॥ संप्राशनमविकल्पमाहरणम् । वीरेशो भैर- वनाथः ॥ यत एवं तस्माद्यानार्चने होम जपं च वरवर्णिनि। १९ १४६ स्वच्छन्दतन्त्रम् । [१५ पटक कुर्वन्ति भावितात्मान- स्ततः सिद्ध्यन्ति मन्त्रिणः॥३८॥ भावितात्मत्वं सुदृढ आश्वासः ॥ ३८॥ धुरन्धुराः । संपूर्णसिद्धीर्विदधत्स्वच्छन्दो जयति प्रभुः ॥ सर्वत्रैव स्फुरति सततं सर्वसर्वात्ममूर्ति- योऽसौ स्वच्छोच्छलितललितो बोधसिन्धुः समन्तात् । स्वच्छन्दोऽयं जयति भगवान्सर्वसम्पन्निधान- स्फीतस्फूर्जनिरुपमसुधास्फारसारस्वशक्तिः ॥ इति श्रीस्वच्छन्दोक्ष्योते छुम्मकाप्रकाशः पञ्चदशः पटलः । नाम्नैव भेददृष्टिर्विधुता येनाखतत्रतातत्त्वा । श्रीमत्स्वतत्रतत्रं भेदव्याख्यां न तत्सहते ॥ भेददर्शनसंस्कारतन्तुसन्ततमादितः । स्वच्छवच्छन्दचित्स्वात्मसतत्त्वं नेक्षते जनः ॥ गतानुगतिकप्रोक्तभेदव्याख्यातमोऽपनुत् । तेनाद्वैतामृतस्फीतः स्वच्छन्दोयोत उम्भितः॥ श्रीब्रह्मदेवादिगुरुक्रमाद्यः श्रुत्वा चिरं व्याकृतवान्स्वतत्रम् । श्रीमान्प्रयागो गुरवस्तथान्ये तेऽभ्यर्थनायां पुनरप्रवृत्तौ ॥
३८ श्लो०] श्रीक्षेमराजाचा साचार्यकृतोड्योताख्यटीकोपेतम् । १४७ निस्सीमजन्ममरणादिव संप्ररूढ- भेदाधिवासितमना न यदभ्यमंस्त । ॥ ॥ श्रीभैरवीयपरमाद्वयशक्तिपात- पूताः सदैव गुरवो गलितापरेच्छाः । स्वच्छस्वतन्त्रमतिसुन्दरमात्मतत्त्वं संप्राप्नुवन्तु सह दीक्ष्यजनैरजस्रम् ॥ पूर्णानुभवसद्युक्तिः सदाचारपरम्परा । विश्रान्ता यत्र यस्मिंश्च कार्ताक्षं गुरवोऽप्यगुः ॥ तत्त्वोपदेशाद्यो विद्यासुधाम्भोधिसुधाकरः । यत्कृतैः शास्त्रसद्वृत्तिमण्डनैर्मण्डितं जगत् ।। अकस्मात्सर्वशास्त्रार्थज्ञत्वाद्यं लक्ष्मपञ्चकम् । यस्मिञ्छ्रीपूर्वशास्त्रोक्तमदृश्यत जनैः स्फुटम् ।। हेलावलोकनादेव जन्तून्योऽमोचयत्क्षणात् । श्रीमतोऽभिनवाच्छास्त्रमागमय्य गुरोरिदम् ॥ व्यावृणोत्क्षेमराजस्तत्पादधूलिपवित्रितः । ग्रस्तोऽयं सकलो भवो विगलिताः कर्माणुमायामला: प्राप्तानन्दघना स्थितिः किमपरं लब्धः प्रकाशः परः। श्रीमच्चेतनभैरवस्तुतिरसास्वादेन लब्धोदयै- रसाभिर्विमले हृदम्बरतले निर्यत्रणं स्थीयते ।
१४८ स्वच्छन्दतत्रम् । [१५पट० स्वतन्त्रः स्वच्छात्मा स्फुरति सततं चेतनशिवः परा शक्तिश्चेयं करणसरणिप्रान्तमुदिता । तदाभोगैकात्म प्रसरति समस्तं जगदिदं न जाने कुत्रायं ध्वनिरनुपतेत्संमृतिरिति । इति श्रीमन्महामाहेश्वराचार्यविपश्चिच्चक्रवर्तिश्रीमदभिनवगुप्तपाद- पद्मोपजीविश्रीमत्क्षेमराजविरचितः श्रीस्वच्छन्दोद्दयोतः सम्पूर्ण इति शिवम् ॥
No text on this page.