Sringeri Sharada Peetham
Paramalaghumanjusha
Front matter
परमलघुमञ्जूषा
श्रीमन्नागेशभट्टविरचिता
पर्वतीयनित्यानन्दपन्तेन
टिप्पण्या परिष्कृत्य संशोधिता ।
PARAMALAGHUMANJUSHA,
BY
SRT NAGESA BHATTA,
Edited with notes by
Prvatiya Nityauanda Panta,
PUBLISHED AND SOLD BY
H. D. GUPTA & SONS.
PROPRIETORS,
THE CHOWKHAMBA SANSKRIT Book DEPOT;
BENARES CITY,
Printed by Jai Krishna Das Gupta,
at the Vidya Vilas Press,
BENARES.
1917.
शुद्धिपत्रम्। पृ. प. शुद्धम्। १० १८ ४११५ ५७ १३ ६१ २० ६७८ अशुद्धम्। त्वानरासः भाष्याकार: इतरोतरा प्रागमेव भिव्याहात् विषयाता तिजश्वपि करिष्ययते वाङ्गीरेणैव व्यवस्थिरिति हेतुद्भावे मत्कार्यामिति घटाका श्रयत्वं चेत्रण घटितत्वत्वा प्रवर्तानादि सङ्काया रकच्छाया: कर्मत्वत् ग्रागं सामयी शब्दवात त्वनिरासः भाष्यकार: इतरेतराः प्रागेव- भिव्याहारात् विषयता- तिक्ष्वपि- करिष्यते वाङ्गीकारेणैव व्यवस्थितिरिति हेतुमद्भावे मत्कार्यमिति घटका श्रयस्व चैत्रेण घटितत्वा प्रवर्तनादि सङ्ख्या कारकेच्छायाः कर्मत्वम् ग्राम सामीप्य शब्दवत् ७९ १६ ८३७ ८४१२ ८४ १५ ८६७ ८८१३ १००१ १०८१२ N श्रीगणेशाय नमः। परमलघुमञ्जूषा शिवं नत्वा हि नागेशेनानिन्या परमा लघुः ॥ वैयाकरणसिद्धान्तमञ्जूषैषा विरच्यते ॥ १ ॥ तत्र वर्णपदवाक्यभेदेन स्फोटस्विधा । तत्रापि जातिव्यक्तिभेदेन पुनः षोढा । अखण्डपदस्फोटोऽख- ण्डवाक्यस्फोटश्चेति संकलनयाऽष्टौ स्फोटाः । तत्र वाक्यस्फोटो मुख्यः, तस्यैव लोके ऽर्थबोधकत्वात्तनै- वार्थसमाप्तश्चेति । तदाह न्यायभाष्यकार:-"पद- समूहो वाक्यमर्थ समाप्तौ" इति । अस्य समर्थमिति शे- पः । तत्र प्रतिवाक्यं सङ्केनग्रहासम्भवाद् वाक्यान्वा. ख्यानस्य लघूपायनाशक्यत्वाच्च कल्पनपा पदानि पविभज्य पदे प्रकृतिपत्ययभागान्प्रविभज्य कल्पि. ताभ्यामन्वयव्यतिरेकाभ्यां तत्तदर्थविभागं शास्त्रमा- त्रविषयं परिकल्पयन्ति स्माचार्याः । तत्र शास्त्रक्रियानिर्वाहको वर्णस्फोटः । प्रकृ. तिप्रत्ययास्तत्तदर्थवाचका एवेति तदर्थः । उपसर्ग-
२
परमलधुमञ्जूषायाम्
निपातधात्वादिविभागोऽपि काल्पनिकः । स्थानिनो
लादय आदेशास्तिवादयः कल्पिता एव । तत्र ऋ.
षिभिः स्थानिनां कल्पिता अर्थाः कण्ठरवेणैवोक्ताः।
आदेशानां च स्थान्यर्थाभिधानसमर्थस्यैवादेशत्वमि.
तिभाष्यन्यायात्तेऽर्थाः । एवं च स्थानिनां वाच.
कत्वमादेशानां वेति विचारो निष्फल एव । कल्पि-
तवाचकत्वस्योभयत्र सत्त्वात् । मुख्यं वाचकत्वं तु
कल्पना बोधितसमुदायरूपे पदे वाक्ये वा, लोका.
नां तत एवार्थबोधात् ।
उपेयप्रतिपत्त्यर्था उपाया अव्यवस्थिताः ।
इति न्यायेन व्याकरणभेदेन स्थानिभेदेऽपि न
क्षतिर्देश भेदेन लिपिभेदवदिति दिक् ।
तत्र "प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि" इति
गौतमसूत्रे शब्दश्चाप्तोपदेशरूपः प्रमाणम् । आप्तो
नामानुभवेन वस्तुतत्त्वस्य कात्स्न्येन निश्चयवान्
रागादिवशादपि नान्यथावादी यः स इति चरके
पतञ्जलिः।
तद्धर्मावच्छिन्नविषयकशाब्दबुद्धित्वावच्छिन्नं प्र.
ति तद्धर्मावच्छिन्ननिरूपितत्ति विशिष्टज्ञानं हेतुः ।
अत एव नागृहीतवृत्तिकस्य शाब्दबोधः । अत एव
-
शक्तिविचारः। ३ च "नैहि गुड इत्युक्ते मधुरत्वं प्रकारतया गम्यते" इति समर्थसूत्रभाष्यं सङ्गच्छते । गुडादिशब्देन गुड- स्वजात्यवच्छिन्नो गुडपदवाच्य इत्येव बोधो जाति- प्रकारकः । मधुरत्वं तु 'गुडो मधुर ऐक्षवत्त्वाद्'इत्यः नुमानरूपमानान्तरगम्यम् । विशेष्यविशेषणभावव्य. त्यासेन गृहीतशक्तिकस्य पुंसो घटपदाद् घटत्ववि. शिष्टबोधवारणाय तद्धर्मावच्छिन्नति । ज्ञाने वृत्तिवै. शिष्टयं च स्वविषयकोबुद्धसंस्कारसामानाधिकर ण्य-स्वाश्रय पदविषयकत्वोभयसम्बन्धेन बोध्यम् । अतो नागृहीतवृत्तिकस्य, नापि विस्मृतत्तिकस्य, नापि तत्पदमजानतो, नापि घटपदादाश्रयत्वेनोप. स्थिताकाशस्य, नापि जनकतयोपस्थितचैत्रादेश्व बोधः । संस्कारकल्पिका च वृत्तिस्मृतिरेव शाब्द- १ गुड इत्युक्ते मधुरत्वं प्रकारतया नहि गम्यते इत्यन्वयः। २ इदं शब्दस्य बोधविषयत्वाभिप्रायेणोक्तमिति बोध्यम् । ३ स्मृतेः शाब्दबुद्धिं प्रति न जनकत्वं किन्तु उबु. द्धसंस्कारस्यैवेति मतमभिप्रेत्येदम् । स्पष्टं चेदं संक्षेपशारीरके प्रथमाध्याये अन्विताभिधान- निरूपणावसरे इति तत एवावगन्तव्यम् ।
परमलघुमञ्जूषायाम् बुद्धिरेव वेत्यन्यदेतत् । सा च वृत्तिस्त्रिधा-शक्तिलक्षणा व्यञ्जना च । . तत्र शक्तिः कः पदार्थ इति चेत् । अत्र तार्किकाः-'अस्माच्छन्दादयमों बोद्धव्यः' इ त्याकारा 'इदं पदमिममर्थ बोधयतु'इत्याकारा वेश्वरेच्छा शक्तिः लाघवात् ! सैव सङ्केतः सम्बन्धः । शक्तेर्यद्यपि विषयत्वलक्षणः सम्बन्धः पदेऽर्थे बोधे च तथाऽपि बोधनिष्ठजन्यतानिरूपितजनकतावत्वेन शक्तिविषयो वाचकः, पदजन्यबोधविषयत्वेन शक्तिविषयो वाच्य इति नातिप्रसङ्गः । यद्यपि प्रथमं शक्तिग्रहो वाक्य एव तथाऽप्यावापोद्वापाभ्यां शास्त्रकृत्कल्पिताभ्यां तत्तत्प- दशक्तिग्रह इत्याहुः। तन्न । इच्छायाः सम्बन्धिनोराश्रयतानियामक- वाभावेन सम्बन्धत्वासम्भवात् । “सम्बन्धो हि स. म्बन्धिद्वयभिन्नत्वे सति द्विष्ठत्वे च सति आश्रयतया विशिष्टबुद्धिनियामकः"इत्यभियुक्तव्यवहारात् । यथा : घटवद् भूतलमित्यादौ संयोगरूपः सम्बन्धः सम्बन्धि : भ्यां भिन्नो द्विष्ठो घटनिरूपितसंयोगाश्रयो भूतलमिति- विशिष्टबुद्धिनियामकश्च, नात्र तथा घटशब्द इच्छावान् तदर्थो वा इच्छावानिति व्यवहारः । तस्मात्पदपदा- शक्ति विचारः। ५ र्थयोः संम्बन्धान्तरमेव शक्तिः वाच्यवाचकभावाप. रपर्याया । तद्राहकञ्चेतरेतराध्यासमूलकं तादात्म्यं १ बोधजनकत्वस्यापि आश्रयतानियामकत्वाभावान सम्बन्धत्वम्।नापि तस्य शक्तित्वम् । प्रयोज्यप्रयोजकव्य- वहारं पश्यताबालेन प्रयोज्यस्य प्रवृत्त्या तस्य ज्ञानमनुमाय ज्ञानस्योपस्थितत्वाच्छब्दमेव कारणत्वेन गृहीत्वा ऽस. म्बद्धस्य कारणत्वानुपपत्तिज्ञानपूर्वकं कल्प्यमानस्य स्वयमनुपपद्यमानत्वेन गृहीतजनकत्वरूपस्य तद्घटि- तस्य वा ग्रहीतुमनुचितत्वात् । तस्मात् सबन्धान्तरमेव वाच्यवाचकभाव इति लघुमञ्जूषायां स्पष्टम् । २ इतरेतराध्यासो मूलं शापकं यस्येत्यर्थः । तथाहि- शब्दार्थों परस्परतादात्म्यवन्तौ इतरेतराध्यासवत्त्वात्, यत्र यत्र इतरेतराध्यासस्तत्र तत्र तादात्म्यं यथा गुणगु. णिनोः । यत्र न तादात्म्यं न तत्र इतरेतराध्यासः यथा घटपटयोः । गुणगुणिनोश्च इतरेतराध्यासो नीलो घट इत्यादौ प्रत्यक्षादिप्रतीतौ दृष्टः । शब्दार्थयोरितरेतराध्या- सोऽपि "शब्दार्थप्रत्ययानामितरेतराध्यासात् सङ्करः" इति पतञ्जलसूत्रे (पा० ३ सू. १७) "गौरिति शब्दो गौरित्यर्थो गौरिति ज्ञानम्" इत्यनुभवप्रदर्शनेन भाष्य कारेण स्पष्टीकृतः । रामेति द्वयक्षरं नामेत्यादिना अग्रे मूलेऽपि स्फुटः । तस्मात् अन्वयव्यतिरेक्यनुमानेन शब्दार्थयोस्तादात्म्यं सिद्धम् ।
६ परमलघुमजूषायाम् : तदेव सम्बन्धः ! उभयनिरूपिततादात्म्यवानुभय (१) तादात्म्यस्य च सम्बन्धत्वं रूपवान् घटः, जाति- मान् पट इत्यादौ आश्रयताबुद्धिनियामकत्वात् प्रसिद्ध- म् । इदमेव भेदाभेदघटितं नैयायिकैः समवायशब्देन व्यवाहियते । तस्यातिरिक्तत्वाङ्गीकारश्च अनवस्थाप. त्यादिदूषणग्रस्तः । ततश्च प्रकृतेऽपि शब्दार्थयोः दी. पादिगतशक्तेः दीपालोकसम्बद्धविषयप्रकाशकत्वस्यै. व दृष्टत्वेन पदशक्तेरपि पदसंबद्धविषयप्रकाशकत्व. सम्भवेन अन्यसम्बन्धे प्रमाणाभावेन पूर्वोक्तानुमा- नेन च तादात्म्यसम्बन्ध एवाङ्गीक्रियते । राहोः शिर इत्यत्र औपाधिकभेदेन षष्ठयुपपादन परभाष्यप्रामाण्यात्तु केवलाभेदस्य सम्बन्धत्वं नाङ्गो- क्रियते, नतु भेदाभेदघटितस्य तादात्म्यस्य तद्भाष्येण सम्बन्धवानरासः । अन्यथा उपाधीभूतशिरश्चैतन्यस- मूहस्यापि राहुपदार्थत्वे समूहसमूहिनोरात्यन्तिकभे. दस्य कस्यापि मतेऽभावेन समवायाङ्गीकर्तृभिरपि तत्र समवायानङ्गीकारेण अन्यसम्बन्धस्य तत्रासत्त्वेन षष्ठशु- पपादनं भाष्योक्तमसङ्गतमेव स्यात् । तस्माद् भेदाभे- दघटितस्य तादात्म्यस्य सम्बन्धत्वं निर्दुष्टम् । तत्र क्वचिद्भेदः काल्पनिकः, अभेदो वास्तवः। यथा गुणगुण्या- दौ । क्वचिदभेदः काल्पनिकः भेदो वास्तवः । यथा श. ब्दार्थयोः । शब्दादेव अर्थसृष्टिरिति पक्षे तु तत्राप्यभे- दो वास्तवः भेद एव काल्पनिकः । तत्राभेदस्य उद्भूत- त्वविवक्षया "वृद्धिरादैच" "रामेति द्वयक्षरं नाम मानभ- शक्तिविचारः। इत्यर्थपदयोर्व्यवहारात् । शक्तेरपि कार्यजनकत्वे स. म्बन्धस्यैव नियामकत्वात् । दीपादिगतप्रकाशकत्वश- तावपि आलोकविषयसम्बन्धे सत्येव वस्तुप्रकाश. कत्वं नान्यथेति दृष्टत्वात् । तदुक्तं हरिणा, उपकारः स यत्रास्ति धर्मस्तत्रानुगम्यते । शक्तीनामप्यसौ शक्तिर्गुणानामप्यसौ गुणः ॥ इति । उपकार उपकार्योपकारकयोर्बोधशतयोरुपकार. स्वभावः सम्बन्धो यत्रास्ति तत्र धर्मः शक्तिरूपः कार्य दृष्ट्वा ऽनुमीयते । असौ सम्बन्धः शक्तीनामपि कार्यजनने उपकारकः गुणानामपि द्रव्याश्रितत्वनि. यामक इति हेलाराजः। स सम्बन्धः पदे वाक्ये च । तदाह न्यायभा. ध्याकार:-"समयज्ञानार्थ चेदं पदलक्षणाया वाचो. ऽन्याख्यानं व्याकरणं वाक्यलक्षणाया वाचो ऽर्थल. क्षणम्'इति । अनेन पदेष्विव वाक्येष्वपीश्वरसमय तः पिनाकिनः" इत्यादिनिर्देशाः । भेदस्योद्भूतत्वविक्ष- या च "तस्य वाचकः प्रणवः” “उओ वाचकं प्रगृह्यप- दम्" इत्यादयः प्रयोगाः । एवं गुणगुण्यादिस्थलेऽप्यु दाहायमित्यलम् ॥
८ परमलघुमञ्जूषायाम् इति स्पष्टमेवोक्तम् । तस्मादितरेतराध्यासः सङ्केत- स्तन्मूलकं तादात्म्यञ्च सम्बन्ध इति. सङ्घातार्थः । तदुक्तं पातञ्जलभाष्ये, “सङ्केतस्तु पदार्थयोरितरेतरा. ध्यासरूपः स्मृत्यात्मको योऽयं शब्दः सोऽर्थो यो. ऽर्थः स शब्द" इति । स्मृत्यात्मक इत्यनेन ज्ञातस्यैव सङ्केतस्य शैक्तिबोधकत्वं दर्शितम् । " १ स्मृतौ आत्मा स्वरूपं यस्येत्यर्थः । स्मर्यमाण- इति यावत॥ २ शक्तिबोधकत्वमिति । अयं भावः-प्रत्यक्षतो दृश्यमाने एव घटे "कोऽयम्” इति “किनासको ऽयम्” इति वा प्रश्ने घटोऽयम्" इत्युपदेशे- " वृद्धिरादैच्" इत्याधुपदेशेन च घटं घटप. दाभिन्नत्वेन आदेचश्च वृद्धिपदाभिन्नत्वेनावगच्छति । त. दभिन्नत्वं च तदात्मकत्वम् । तदात्मकत्वग्रहे च तत्र बोधात्मकघटाद्यभिव्यक्तिशक्तिं गृह्णाति, घटादौ मृदा. द्यात्मकत्वग्रहे मृदादौ प्रत्यक्षात्मकघटाद्यभिव्यक्तिशः क्तिमिव । अथ प्रयोगादिना पदज्ञाने जाते शक्तिविषय. कसंस्कारोवोधे चं शाब्दबोधो जायते । स्वशक्त्या स्व- सम्बद्धस्यैवाभिव्यक्तिदर्शनाद् घटादिपदशक्त्या घटा- दिपदसम्बद्धस्यैव घटादेः शाब्दबोधरूपाभिव्यक्तिर्वा- च्या। ततश्च पूर्वोक्तरीत्या तादात्म्यसम्बन्धसिद्धिः। यत्रापि घटपदं घटस्य वाचकं प्रगृहपदम् उओ शक्तिविचारः। .. . वाचकम् इत्युपदेशः, तत्रापि अभेदसहचरितस्यैव भेद. स्य ग्रहो भवति, नतु शुद्धभेदस्य प्रहः । शुद्धभेदग्रहे शक्तिग्रहानुपपत्तेः । पटादिप्रतियोगिकशुद्धभेदवत्त्वेन गृहीते मृदादौ पटादिशक्तिग्रहस्य अजननात् । निमित्ते- ऽतिप्रसङ्गस्तु न शङ्ख्यः । उपदाने एव शक्तिस्वीकारात् । स्फोटात्मकशब्दादेव सृष्टिरिति पक्षमाश्रित्य शब्दे अ. र्थोपादानत्वस्य सुवचत्वात् । बौद्धस्यैवार्थस्य शाब्दबो- धविषयत्वमिति पक्षे सुतरां तत्संभवाच्च । दृष्टिसृष्टिः वादे शङ्काया एवानुत्थानाच । एवं च व्यवहारादेरपि शक्त्यनुमानम् इतरेतराध्यासात्मकसङ्केतानुमानपूर्वकमे- व । इतरेतराध्यासात्मकसद्देन्तश्च “योऽर्थः स शब्दः यः शब्दः सोऽर्थः” इत्याकारक ईश्वरकृतः वाच्यवाचक- भावरूपां शक्तिं ग्राहयति । तदुक्तं पातञ्जलभाष्ये "त- स्य वाचकः प्रणवः" इति सूत्रे (पा० १ सू० २७) "स्थितोऽस्य वाच्यस्य वाचकेन सम्बन्धः । सन्तस्तु ईश्वरस्य स्थितमेवार्थमभिनयति । यथाऽवस्थितः पिता- पुत्रयोः सम्बन्धः सङ्केतेनावद्योत्यते, अयमस्य पिता अ- यमस्य पुत्र इति" इति । अनेन च ईश्वरसङ्केतस्य शक्ति- प्राहकत्वं स्पष्टमेवोक्तम् । उपदेशरूपस्य पूर्वोक्तसङ्केतस्य इतरोतराध्यासोल्लेखित्वात्तादात्म्यग्रहपूर्वकशक्तिग्रहजन- कत्वं तस्य दर्शितम् । एतेन नैयायिकोक्तम् ईश्वरसंके- तस्य शक्तित्वं निराकृतं वेदितव्यम् । यथा घटशब्दो घ. टस्य वाचक इत्युपदेशरूपः संकेतः शक्तितो भिन्नः त. थैव महर्षीणां साक्षाद् ईश्वरकर्तृकः तादृश उपदेशः शक्तितो भिन्न एव वाच्यः । दृष्टानुसारेणैव कल्पनाया , - १० परमलघुमञ्जूषायाम् उक्त ईश्वरसङ्कत एव शक्तिरिति नैयायिकमतं न युक्तम् । 'अयमेतच्छक्यः,"अत्रास्य शक्तिः'इत्यस्य सङ्केतस्य शक्तितः पार्थक्येन प्रसिद्धत्वात् । अत एव न्यायवाचस्पत्ये उक्तम्-सर्गादिभुवां महर्षिदेचताना- मीश्वरेण साक्षादेव कृतः सङ्केतस्तद्व्यवहाराचास्म- दादीनामपि सुग्रहस्तत्सङ्केतः' इति । तस्य च तादात्म्यस्य निरूपकत्वेन विवक्षितोऽर्थः शक्यः, आश्रयत्वेन विवक्षितः शब्दः, शक्त इत्युच्य- ते । शब्दार्थयोस्तादात्म्यादेव 'इलोकमशृणोदथार्थ शृणोति अर्थं वदति' इत्यादिव्यवहारः । "ओमित्ये. काक्षरं ब्रह्म" "रामेति यक्षरं नाम मानभङ्गः पिनाकिनः", "वृद्धिरादैच्" इतिशक्तिग्राहकश्रुतिस्मृतिविषये सामानाधिकरण्येन प्रयोगश्च । तादात्म्यं च तद्भिन्नत्वे सति तदभेदेन प्रती- उचितत्वात् । उक्तंच नागेशेन "अयमेतच्छक्योऽत्रास्थ शक्तिरित्यस्य संकेतस्य शक्तितः पार्थक्येन प्रसिद्धत्वात्" इति । इच्छारूपसंकेतस्य शक्तित्वं तु प्रागमेव निर- स्तम् । तस्मात् इन्द्रियशक्तिवत् पदशक्तिरपि भिन्नैव तद्राहकं च इतरेतराध्याससिद्धं तादात्म्यमिति सर्व सुस्थम् ।
शक्तिविचारः। ११ यमानत्वमिति भेदाभेदसमनियतम् । अभेदस्या- ध्यस्तत्वाचन तयोर्विरोधः। यत्तु तार्किकाः, शब्दार्थयोस्तादात्म्यस्वीकारे मधु. शब्दोच्चारणे मुखे माधुर्यरसास्वादापत्तिः, वह्निशब्दो. च्चारणे मुखे दाहापत्तिरित्याहुः । तन्न । भेदाभेदस्यो. पपादितत्वात् । वस्तुतो बौद्ध एवार्थः शक्या, पदमपि स्फाटोत्मकं प्रसिद्धम्, तयोस्तादात्म्यम् । तत्र बौद्धे व- यादावर्थे दाहादिशक्तिमत्त्वाभावात् । अत एव "श- ब्दज्ञानानुपाती वस्तुशून्यो विकल्पः" इति विकल्पसूत्रं सङ्गच्छते । शब्दज्ञानमात्रेणानुपाती बुद्धावनुपतन. शीलो वस्तुशून्यः बाह्यार्थरहितः विशेषेण कल्प्य तइति विकल्पः, बुद्धिपरिकल्पित इति तदर्थः । अत एव- एष वन्ध्यासुतो याति खपुष्पकृतशेखरः। कूर्मक्षीरचये स्नातः शशशृङ्गधनुर्धरः ॥ इत्यत्र वन्ध्यासुतादीनां बाह्यार्थशून्यत्वेऽपि बु- द्धिपरिकल्पितं वन्ध्यामुतशब्दवाच्यार्थमादायार्थव वात्प्रातिपदिकत्वम् । अन्यथाऽर्थवत्त्वाभावेन प्रा. तिपदिकत्वाभावात्स्वाद्युत्पत्तिर्न स्यात् ! यत्तु शश- शृङ्गमित्यत्र शृङ्गे शशीयत्वभ्रम इति तार्किकैरुक्त- म् । तन्न । शशशब्दवाच्यजन्तुदर्शनरूपबाधे सति १२ परमलघुमञ्जूषायाम् . शशशृङ्गं नास्तीति वाक्ये शशशृङ्गमित्यस्य मातिप. दिकत्वानापत्तेः । अर्थपदयोस्तादात्म्यात्तत्तदर्थता- दात्म्यापनः शब्दो भिन्न इति हेतोरर्थभेदाच्छब्दभेद इति व्यवहारः । समानाकारमात्रेण तु एकोऽयं शब्दो वहर्थ इति व्यवहारः । सा च शक्तिस्साधुष्वि- वापभ्रंशेष्वपि, शक्तिग्राहकशिरोमणेर्व्यवहारस्य तुल्य- स्वात् । व्यवहारदर्शनेन च पूर्वजन्मानुभूतशक्तिस्म. रणम् । अत एव बालानां तिरश्चां चान्वयबोधः । न हि तेषां तदैव तत्सम्भवः । यत्तु तार्किका:-असाधुशब्देन साधुस्मरणद्वारा ऽर्थबोध इत्याहुः । तन्न । साधुस्मरणं विनाऽपि बोधा- नुभवात् । तद्वाचकसाधुशब्दमजानतां बोधानापत्तेश्च । न च शक्तिभ्रमाद् बोधो ऽसाधुशब्देष्विति वाच्यम् । निस्सन्देहप्रत्ययस्य बाधकं विना भ्रमत्वायोगात् । अत. एव स्त्रीशूद्रबालादीनामुच्चरिते साधावर्थसंशये तदपभ्रंशेनार्थनिर्णयः। अत एव “समानायामर्थावगतो शब्दैश्चापशब्दैश्च शास्त्रेण धर्मनियमः" इति भाष्यम् , वाचकत्वाविशेषेऽपि नियमः पुण्यपापयोः । इति हरिकारिका च सङ्गच्छते । अत एवार्य: म्लेच्छाधिकरणं सङ्गच्छते । तत्र हि यद्यपि आर्या शक्तिविचारः। यवशब्दं दीर्घशुके प्रयुञ्जते, म्लेच्छास्तु प्रियङ्गो प्रयु. ञ्जते, तमेव च बुध्यन्ते, तयाऽप्यार्यप्रसिद्धर्बलवत्त्वाद् वेदे दीर्घशूकपरतैवेति सिद्धान्तितम् । तव तु म्लेच्छ. बोधस्य शक्तिभ्रममूलकत्वेन भ्रान्तिविषयरजतज्ञा. नस्येव म्लेच्छमसिद्धवस्त्वसाधकतयाऽऽर्यम्लेच्छप- सिद्धयोः कस्या बलवत्त्वमिति विचारासङ्गतिः स्पष्टैव । साधुत्वं च व्याकरणान्वाख्येयत्वं पुण्यजनकताव च्छेदकधर्मवत्त्वं वा । तद्भिन्नत्वमसाधुत्वम् । सा च शक्तिस्त्रिधा, रूढिोगो योगरूढिश्च । शास्त्रकल्पिताव यवार्थभानाभावे समुदायार्थनिरूपि- तशक्ती रूढिः, यथा मणिनूपुरादौ । शास्त्रकल्पिता- वयवार्थनिरूपिता शक्तियोगः, यथा पाचकादौ । शास्त्रकल्पितावयवार्थान्वितविशेष्यभूतार्थनिरूपिता श- क्तियोगरूढिः, यथा पङ्कजपदे । तत्र पङ्कजानकर्तृ पद्म- मिति बोधात् । पझेऽनुपपत्तिप्रतिसन्धानं मम्बन्धपति- सन्धानं च विना न लक्षणावसरः । क चित् तात्प. यंग्राहकवशात्केवलरूढ्यर्थस्य केवलयोगार्थस्य च बोधः, भूमौ पङ्कजमुत्पन्नं कल्हारकैरवमुखेष्वपि पङ्क- जेष्वित्यादौ। स्पष्टं चेदम् "आद्"िइतिसूत्रे भाष्ये । अश्वगन्धादिपदमोपधिविशेष रूढम् , अश्वसम्ब- परमलघुमजूषायाम् धिगन्धवत्तया वाजिशालाबोधे यौगिकम् । इदं यौगिकरूढमित्युच्यते । एवं मण्डपपदं गृहविशेष रूढं, मण्डपानकर्तरि यौगिकम् । सैषा शक्तिः संयोगादिभिर्नानार्थेषु नियम्यते । तदुक्तं हरिणा- संयोगो विप्रयोगश्च साहचर्य विरोधिता। अर्थः प्रकरणं लिङ्ग शब्दस्यान्यस्य सन्निधिः ।। सामर्थ्य मौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥ इति । एते संयोगादयो नानार्थेषु शब्देषु शब्दार्थस्या. नवच्छेदे सन्देहे तदपाकरणद्वारा विशेषार्थनिर्णाय- का इति तदर्थः । संयोगविप्रयोगयोरुदाहरणे सब. त्सा धेनुरवत्सा धेनुरिति । साहचर्यस्य रामलक्ष्मणा- विति । साहचर्य सादृश्यं सदृशयोरेव सहप्रयोग इति नियमात् । रामार्जुनगतिस्तयोरित्यादौ विरोधेन तत् । अञ्जलिना जुहोति अञ्जलिना सूर्यमुपतिष्ठत इत्यत्र जुहोतीत्यादिपदार्थवशाद् अञ्जलिपदस्य तत्तदाका- राञ्जलिपरत्वम् । सैन्धवमानयेत्यादौ प्रकरणेन तत् । "अक्ताःशंकरा उपदधाति"इत्यादौ "तेजो वै घृतम्" १ सवत्सा इत्युक्त धेनुरेव प्रतीयते इत्यर्थः। २ मृत्तिकामिश्राः क्षुद्रपाषाणाः शर्कराः।
शक्तिविचारो लक्षणाविचारश्च । इति घृतस्तुतिरूपाल्लिङ्गादक्ता इत्यस्य घृतसाधन. काञ्जनपरत्वम् । रामो जामदग्न्य इति जामदग्न्यपद- सन्निधानाद्रामः परशुरामः । अभिरूपाय कन्या देया इत्यादौ अभिरूपतरायेति सामर्थात् प्रतीयते । यश्च निम्मं परशुना यश्चैनं मधुसर्पिषा । यश्चैनं गन्धमाल्याथैः सर्वस्य कंटुरेव सः ।। इत्यत्रौचित्यात् परशुनेत्यस्य छेदनार्थत्वम् , म. धुसर्पिषा इत्यस्य सेचनार्थत्वम्, गन्धमाल्यायैरि- त्यस्य पूजनार्थत्वम् । भात्यत्र परमेश्वर इत्यत्र रा. जधानीरूपदेशात्परमेश्वरपदं रानबोधकम् । चित्र. भानुर्भातीत्यादौ रात्रावनौ दिवा सूर्ये । व्यक्तिलिङ्गम् । मित्रो भाति मित्रं भातीत्यादावादी सूर्योऽन्त्ये सुहृत् । स्थूलपृषतीमित्यादौ स्वरात्तत्पुरुषबहुत्रीह्यर्थनिर्णयः ।। इति शक्तिनिरूपणम् ॥ ननु लक्षणा कः पदार्थ इति चेत्, अत्र तार्किका:- स्वशक्यसम्बन्धो लक्षणा । साच द्विधा । गौणी १ अप्रिय इत्यर्थः । कटुशब्द इत्यादाविव कटुशब्दोऽ प्रियार्थकः । अन्यथा निघण्ट्वादौ तस्य तीक्ष्णरसमरीच. शुण्ठीपिप्पल्याद्यर्थकत्वेन दृष्टत्वात् तस्य च निम्बेऽभावा. दसङ्गतिः स्पष्टैवेति बोध्यम् ।
शुद्धा च परमलघुमञ्जूषायाम् । स्वनिरूपितसादृश्याधिकरणत्वस- म्बन्धेन शक्यसम्बन्ध्यर्थप्रतिपादिका गौणी । तद- तिरिक्तसम्बन्धन शक्यसम्बन्ध्यर्थप्रतिपादिका शु. द्धा । प्रकारान्तरेणापि सा द्विविधा । अजहत्स्वार्था जहतस्वार्थी च । स्वार्थसंवलितपरार्थाभिधायिका ऽजहत्स्वार्था । तेन छत्रिणो यान्ति, कुन्तान् प्रवेशय, यष्टी प्रवेशय, काकेभ्यो दधि रक्ष्यतामित्यादौ छ- त्रिसहितसेना-कुन्तास्त्रसहितपुरुष-यष्टिसहितपुरुष- काकसहितसर्वदध्युपघातकबोधः । स्वार्थपरित्यागे. नेतरार्थाभिधायिकाऽन्त्या। तत्परित्यागश्च शक्या. र्थस्य लक्ष्यार्थान्वयिना ऽनन्वयित्वम् । तेन गां वा. हीकं पाठयेत्यादौ गोसदृशलक्षणायामपि न गोस्त. दन्वयिपाठनक्रियान्वयित्वम् ! साच लक्षणा ता. स्थ्यादिनिमित्तिका । तदाह, तास्थ्यात्तथैव तादात्तत्सामीप्यात्तथैव च । तत्साहचर्यात्तादर्थ्याज् ज्ञेया वै लक्षणा बुधैः।।इति। तात्स्थ्यान्मश्चा हसन्ति ग्रामः पलायितः । ता- द्धात्सिंहो माणवका, गौर्वाहीकः । तत्सामीप्या- द्यायां घोषः । तत्साहचर्याद्यष्टीः प्रवेशय । ताद- •दिन्द्रार्था स्थूणा इन्द्रः । अन्वयाद्यनुपपत्तिप्रति :
लक्षणाविचारः। सन्धानश्च लक्षणाबीजम् । वस्तुतस्तु तात्पर्यानुप- पत्तिप्रतिसन्धानमेव तद्बीजम् । अन्यथा गङ्गायां घोष इत्यादौ घोषादिपदे एव' मकारादिलक्षणापत्तिस्ताव- ताऽप्यन्वयानुपपत्तिपरिहारात् । गङ्गायां पापी गच्छ- तीत्यादौ गङ्गापदस्य नरके लक्षणापत्तेश्च । अस्माकं तु भूतपूर्वपापावच्छिन्नलक्षकत्वे तात्पर्यान दोषः । "नक्षत्रं दृष्ट्वा वाचं विसृजेद्"इत्यत्रान्वयसम्भवेऽपि तात्पर्यानुपपत्त्यैव यैव लक्षणास्वीकारात् । एकानुगमक- स्वीकारेण निर्वाहे ऽनेकानुगमकस्वीकारे गौरवाच । विशिष्टार्थबोधकशब्दस्य पदार्थैकदेशे लक्षणायां जह दजहल्लक्षणति व्यवहरन्ति वृद्धाः । वाक्यार्थे कि- श्चिदंशत्यागः किञ्चिदंशपरिग्रहश्च । अत्र ग्रामैकदेशे पटैकदेशे च दग्धे ग्रामो दग्धः पटो दग्ध इति. व्य- . १ लक्षणायाः शक्यसम्बन्धस्य बीजं ज्ञापकमित्य- थैः । तथाहि-गङ्गायां घोष इत्यादौ प्रवाहादिरूपशक्या- र्थीपस्थितौ तत्र अन्वयायोग्यत्वादिना तात्पर्यविषयत्वा- भावे ज्ञात गङ्गापदादेः प्रवाहादिसम्बन्धित्वेनोपस्थित. तीरादिना स्वशक्यसम्बन्धरूपः सम्बन्धो गृह्यते "तीरं गङ्गापदशक्यसम्बन्धि" इति । अनन्तरं तदुपस्थिती अन्वययोग्यत्वादिना तत्र तात्पर्यविषयत्वे निश्चित तद्विषयकः शाब्दबोधो जायते इति ।
१८ परमलघुमजूषायाम् वहारः । "तत्त्वमसि"इत्यत्र सर्वज्ञत्वाल्पज्ञत्वयोस्त्याग शुद्धचैतन्ययोरभेदान्वयः। स्क्वोध्यसम्बन्धो लक्षणेति के चित् । गभीरा या नद्यां घोष इत्याधनुरोधात् । तथाहि-न ता चद् गभीरपदं तीरलक्षकं, नद्यामित्यनन्वयापत्तेः : नहि तीरं नदी। अत एव न नदीपदेऽपि । गभीरप- दार्थानन्वयात् । न हि तीरं गभीरम् । न च प्रत्येक पदद्वये सा; विशिष्टनदीबोधानापत्तेः । तस्मात्समुदा- यबोध्यगभीरत्वविशिष्टनदीपदार्थः, तत्सम्बन्धो ल. क्षणेति । द्विरेफपदस्य स्वलक्ष्यभ्रमरशब्दवाच्यार्थे लक्षणायां लाक्षेतलक्षणति व्यवहारः । स्वबोध्यप- दवाच्यत्वं सम्बन्धः । प्रकारान्तरेण पुनर्लक्षणा द्विविधा । तथा हि- प्रयोजनवती रूढा लक्षणा द्विविधा पता । इति । असति प्रयोजने शक्यसम्बन्धो निरूढलक्षणा । त्वचा ज्ञातमित्यादौ यथा त्वचस्त्वगिन्द्रिये । इयं तु शक्त्यपरपर्यायैवेति बोध्यम् । गङ्गायां घोष इत्यत्र तीरे गङ्गागतशैत्यपावनत्वादिप्रतीतिः प्रयोजनम् । गौर्वाहीक इत्यत्र सादृश्यं लक्ष्यतानच्छेदकं गवाभे. दप्रत्ययः प्रयोजनम् । कुन्ताः प्रविशन्तीति भीतिपला.
लक्षणाविचारः। यमानवाक्ये कुन्तविशिष्टपुरुष कुम्लततैभण्यप्रतीतिः प्रयोजनमित्याहुः। तन्न । सति तात्पर्ये सर्वे सर्वार्थवाचका इति भाष्याल्लक्षणाया अभावात् । वृत्तिद्वया- वच्छेदकद्वयकल्पने गौरवात् । जघन्पत्तिकल्पनाया अन्याय्यत्वाच्च । कथं तर्हि गङ्गादिपदात्तीरप्रत्ययः। १ अयं भावः-प्रवाहादिसम्बन्धित्वंनोपस्थिततीरा- दौ गङ्गापदादेः "सर्वे सर्वार्थवाचकाः" इति भाष्यात् सामान्यतः पूर्वमेव ज्ञातः शक्तिरूपः सम्बन्ध एव कल्पनीयो, न तु शक्यसम्बन्धरूपः। तथा सति तयो- रुभयोः शाब्दबोधजनकपदार्थोपस्थितिजनकपदपदार्थ- सम्बन्धत्वरूपं शाब्दबोधजनकपदपदार्थसम्बन्धत्वरूपं वा वृत्तित्वं कल्पनीयम् , शाब्दबोधकारणतावच्छेदक त्वम् उपस्थितिकारणतावच्छेदकत्वं च शक्तित्वश- क्यसम्बन्धत्वयोरुभयोः कल्पनीयम् , इति गौरवम् । शक्तिकल्पनापक्षे तु तस्या एव वृत्तित्वकल्पनं, तत्त्वस्यै- वच तत्तदवच्छेदकत्वकल्पनमिति लाघवम् । तन्मते अन्यदपि गौरवं भूषणादौ स्पष्टं प्रतिपादितं तत् तत एवावगन्तव्यम् । व्यवहारादिना गङ्गापदादौ तीरादि- शक्तेः पूर्व विशेषरूपेणाग्रहणे अप्रसिद्धात्वाद् लक्षणाप- देन व्यवहार इति बोध्यम् । २ अन्याय्यत्वादिति । पूर्वोपस्थितशक्तिसम्बन्धस्य वृत्तित्वकल्पनमुपेक्ष्य पश्चादुपस्थिततद्घटितसम्बन्धस्य .
परमलघुमजूषायाम् भ्रान्तोऽसि, सति तात्पर्य सर्वे सर्वार्थवाचका इति भाष्यमेव गृहाण । तथाहि-शक्तिििवधा-प्रसि. द्वाऽप्रसिद्धा च । आमन्दबुद्धिवेद्यात्वं प्रसिद्धात्व- म् । सहृदयहृदयमात्रवेद्यात्वमसिद्धात्वम् । तत्र गङ्गादिपदानां प्रवाहादौ प्रसिद्धा शक्तिः, तीरादौचा प्रसिद्धति किमनुपपन्नम् । ननु सर्वे सर्वार्थवाचका इति चेद् ब्रूषे तर्हि घटपदापटप्रत्ययः किन स्यादिति चेन्न । सति तात्पर्य इत्युक्तत्वाचात्पर्याभावादिति गृहाण । तात्पर्य चात्र ऐश्वरं देवतामहर्षिलोकवृद्ध- परम्परातोऽस्मदादिभिलब्धमिति सर्व सुरूढम् । ननु व्यञ्जना कः पदार्थः १। उच्यते । मुख्या- थबाधनिरपेक्षं बोषजनको मुख्यार्थसम्बन्धासम्बन्ध- साधारणः प्रसिद्धामसिद्धार्थविषयको वक्त्रादिवैशि- ट्यज्ञानप्रतिभाधुबुद्धः संस्कारविशेषो व्यञ्जना । अत एव निपातानां द्योतकत्वं स्फोटस्य व्यङ्ग्यता च हर्यादिभिरुक्ता। द्योतकत्वं च स्वसमभिव्याहृत- पदनिष्ठशक्तिव्यञ्जकत्वमिति । वैयाकरणानामप्येत. स्वीकार आवश्यकः । एषा च शब्दतदर्थपदपदैकदे- शवर्णरचनाचेष्टादिषु सर्वत्र, तथैवानुभवात् । वक्त्रा- बृत्तित्वकल्पनाया अनुचितत्वादित्यर्थः । :
व्यञ्जनाविचारः स्फोटविचारश्वः । २१ .. दि वैशिष्टयज्ञानं च व्यङ्गयविशेषबोधे सहकारीति न सर्वत्र तदपेक्षेत्यन्यत्र विस्तरः । यत्तु तार्किकाः लक्षणयैव गतार्था व्यञ्जनेति न सा स्वीकार्येत्याहुः । तन्न । लक्षणाया मुख्यार्थबाधपूर्वकलक्ष्यार्थबो- धकत्वात् । मुख्यार्थसम्बद्धार्थस्यैव लक्षणाया बोधक- त्वात् व्यअनाया अतथावेन तदनन्तीवाचेति दिक् ।। ननु कोऽयं वृत्त्याश्रयश्शब्दः । वर्णाः प्रत्येक- मिति चेद्, न । द्वितीयादिवर्णोच्चारणवैयापत्तेः । नापि वर्णसङ्घातः । उच्चरितप्रध्वंसित्वेन गैगपद्या. सम्भवात् । अभिव्यक्तेरुत्पत्तेर्वा क्षणस्थायित्वाक्ष- णात्मककालस्य प्रत्यक्षायोग्यत्वेन तदवच्छिन्नवर्ण- स्याप्यप्रत्यक्षत्वात् । उच्चारणाधिकरणकालोत्तरका- १ वक्त्रादयश्च वक्तृबोद्धव्यकाकुवाक्यवाच्यान्य- सन्निधिदेशकालप्रस्तावचेष्टादयः । प्रस्तावः प्रकरणम् , इतरे प्रायःप्रसिद्धाः। ते चेमेऽर्थशक्तिमूलव्यञ्जनयाऽर्थाव. बोधे सहकारिण इति केचित् । अपरे तु शब्दशक्तिमूल- व्यञ्जनास्थलेऽप्येषां सहकारिता । अत एव शालकादिना प्रयुक्ते 'सुरभिमांसं भवान् भुइँ' इति वाक्येऽश्लीलार्था- न्तरप्रतीतिः, नतु गुर्वादिप्रयुक्त इत्याद्यन्यत्र-विस्तरः ।
२२
परमलघुमजूषायाम्
लवृत्तिध्वंसप्रतियोगित्वमुञ्चरितप्रध्वंसित्वम् । इको
यणचि"इत्यादौ तस्मिन्नितिपरिभाषोपस्कृतवाक्यार्थे-
ऽयं पूर्वोऽयं पर इति नष्टस्य प्रत्यक्षविषयेदंशब्देन
पौर्वापर्यव्यवहागयोगाच्च ।
यत्तु तार्किका:-वर्णानामनित्यत्वेऽपि उत्तरो-
तरवणे पूर्वपूर्ववर्णवत्त्वमव्यवहितोत्तरत्वसम्बन्धेन
संस्कारवशाद गृह्यते इति पदस्य प्रत्यक्षत्वाच्छाब्द.
बोधः । यद्वा पूर्वपूर्ववर्णजाः शब्दाः शब्दजशब्दन्या-
येन चरमवर्णप्रत्यक्षपर्यन्तं जायमाना एव सन्तीति न
पदप्रत्यक्षानुपपत्तिः। यद्वा पूर्वपूर्ववर्णानुभवजन्यसं
स्कारसधीचीनचरमवर्णानुभवतः शाब्दबोध इत्याहुः॥
तन्न । आधेऽयं पूर्वोऽयं पर इत्याभिला.
पासम्भवेन अव्यवहितोत्तरत्वसम्बन्धायोगात् ।
नष्टविद्यमानयोरव्यवहितोत्तरत्वसम्बन्धस्य वक्तुम.
शक्यत्वाच्च । द्वितीये शब्दजशब्दन्यायेन पदप्रत्यक्षो.
पपादनेऽपि पदस्थाविद्यमानत्वेन तत्र शक्त्याश्रयत्वस्य
ग्रहानुपपत्तेः । अविद्यमाने आश्रयत्वाङ्गीकारे नष्टो
घटो जलवानित्यायापत्तेश्च । तृतीये येन क्रमेणानुभ.
वस्तेनैव क्रमेण तत्संस्कारस्थितिरित्पत्र विनिगम.
काभावात् सरो रसो नदी दीन इत्यादौ विपरीत.
स्फोटविचारः । संस्कारोबोधेन प्रसेकमन्यार्थप्रत्ययापत्तेः । उत्पत्ति- विनाशवपूर्ण समुदायरूपपदस्य मनुष्यादिवतेंदे “एक इन्द्रशब्दः क्रतुशते प्रादुर्भूतो युगपत्सर्वयागेष्वङ्गं भवति" इनिभाष्यविरोधापत्तेश्च । प्रादुर्भूतोऽभिव्यक्तः । ननु कस्तार्ह वृश्याश्रयशब्दः। स स्फोटात्मक इति गृहाण ॥ ननु कोऽयं स्फोटः ? । उच्यते । चतुर्विधा हि वागस्ति-परा पश्यन्ती मध्यमा वैखरी च । तत्र मूला. धारस्थपवनसंस्कारीभूता मूलाधारस्था शब्दब्रह्मरूपा स्पन्दशन्या बिन्दुरूपिणी परा वागुच्यते । नाभि- पर्यन्तमागच्छता तेन वायुनाऽभिव्यक्ता मनोगोचरी- भूता पश्यन्ती वागुच्यते । एतद् द्वयं वागब्रह्म योगिनां समाधौ निर्विकल्पकसविल्पकज्ञानविषय इत्युच्यते । ततो हृदयपर्यन्तमागच्छता तेन वायुनाऽभिव्यक्ता त- तदर्थवाचकशब्दस्फोटरूपा श्रोत्रग्रहणायोग्यन्वेन सू. क्ष्मा जपादौ बुद्धिनिर्लाह्या मध्यमा वागुच्यते । तत आस्यपर्यन्तमागच्छता तेन वायुनो माक्रामता च मूर्धानमाहत्य परात्य च तत्तत्स्थानेष्वभिव्यक्ता परश्रोत्रेणापि ग्राह्या वैखरी वागुच्यते । तदाह- परा वाङ् मूलचक्रस्था पश्यन्ती नाभिसंस्थिता । हृदिस्था मध्यमा ज्ञेया वैखरी कण्ठदेशगा॥ इति।
. परमलघुमजूषायाम् वैखर्या हि कृतो नादः परश्रवणंगोचरः। .... मध्यमया कृतो नादः स्फोटव्यञ्जक उच्यते ॥ इति च। युगपदेव मध्यमावैखरीभ्यां नाद उत्पद्यते । तत्र... मध्यमानादोऽर्थवाचकस्फोटात्मकशब्दव्यञ्ज- का। बैखरीनादो ध्वनिः सकलजनश्रोत्रमात्रग्राह्यो भेदिनादवानिरर्थकः । मध्यमानादश्च सूक्ष्मतरः कर्णपिधाने जपादौ च मूक्ष्मतरवायुव्यङ्ग्यः शब्दब्र. ह्मरूपस्फोटव्यञ्जकश्च । तादृशमध्यमानादव्यङ्ग्यः श- ब्दः स्फोटात्मको ब्रह्मरूपो नित्यश्च । तदाह हरिः, अनादिनिधनं ब्रह्म शब्दत्तचं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः।। इति । स च यद्यप्येकोऽखण्डश्च, तथाऽपि पदं वाक्य जपाकुसुमादिलौहित्यपीतत्वादिव्यञ्जकोपरागवशाद् : लोहितः पीतः स्फटिक इति भानवद् वर्णादिव्यङ्गयः वर्णरूपः पदरूपो वाक्यरूपश्च । यथा च मुखे मणि. कृपाणदर्पणव्यञ्जकोपाधिवशादैर्ध्यवर्तुलत्वादिभानं त- द्वत् । तदुक्तम्, पद न वर्णा विद्यन्ते वर्णेष्वत्रयवा न च ।
--
स्फोटविचार:
२५
वाक्यात्पदानामसन्तं प्रविवेको न कश्चन ॥ इति ।
किश्च । व्यञ्जकध्वनिगतं कत्वगत्वादिकं.स्फोटे
भासते । बिम्बगतधर्मवैशिष्ट्येनैव प्रतिबिम्बस्य लो
केऽवधारणाद् । व्यञ्जकरूषितस्यैव स्फटिकादेर्भा-
साच्च यथा चैकस्याकाशस्य घटाकाशो महाकाश
इत्यौपाधिको भेदः, यथा चैकस्यैव चेतनस्यौपाधिको
जीवेश्वरभेदो जीवानां च परस्परं भेदः, एवं स्फोटे
व्यञ्जकध्वनिगतकत्वादिभानात्ककारो बुद्ध इत्यौ-
पाधिको भेदव्यवहारः । औपाधिको भेद इत्यत्रो-
पाधिः घट-कत्वादिभिन्न उपधेयस्तु आकाशस्फोटा
दिरेक एवेति तात्पर्यम् । पदवाक्ययोस्सखण्डत्वपक्षे
त्वन्तिमवर्णव्यङ्ग्यः स्फोट एक एन । पूर्वपूर्ववर्णस्तु
तात्पर्य ग्राहकः। न्यायनये चित्रगुरित्यादौ चित्रा.
दिपदवत् ॥
ध्वनिस्तु द्विविधः । प्राकृतो वैकृतश्च । प्रकृत्या-
ऽर्थवोधनच्छया स्वभावेन वा जातः स्फोटव्यञ्जकः
प्रथमः प्राकृतः । तस्मात्प्राकृताज्जातो विकृतिविशि-
ष्टश्चिरस्थायी निवर्तको वैकृतिकः ।
हरिरप्याह,
स्फोटस्य ग्रहण हेतुः प्राकृतो ध्वनिरिष्यते ।
ग
परमलघुमजूषायाम्
शब्दस्योर्धमभिव्यक्तवृत्तिभेदे तु वैकृताः ।।
ध्वनयः समुपोहन्ते स्फोटात्मा तैर्न भिद्यते। इति।
शब्दस्याभिव्यक्तरूवं, वैकृता धनयो जायन्ते
इति शेषः । वृत्तिभेदे इति ।
अभ्यासार्थे द्रुता वृतिमध्या वै चिन्तने स्मृता।
शिष्याणामुपदेशार्थ वृत्तिरिष्टा विलम्बिता॥ इति-
तिसृषु वृत्तिषु समुपोहन्ते कारणानि भवन्ति
स्फोटस्तु तेन भिद्यत इति तदर्थः ।
अत्रेदं बोध्यम्-केनचिद् घटमानयेति वैखरीनादः
प्रयुक्तः, स केनचिच्छत्रिीन्द्रयेण गृहीतः, स नाद इन्द्रि-
यद्वारा बुद्धिहृद्गतस्सन्नर्थबोधकं शब्दं स्वनिष्ठकत्वा-
दिना व्यञ्जयति तस्मादर्थबोधः । स्फुटत्यर्थोऽस्मादिति
व्युत्पत्त्या स्फोटः । उच्चारयितुस्तु युगपदेव मध्यमावै.
खरीभ्यां नाद उत्पद्यते । तत्र वैखरीनादो वह्नः फूत्का-
रादिवन्मध्यमानादोत्साहकः, मध्यमानादः स्फोट
व्यञ्जयतीति शीघ्रमेव ततोऽर्थबोधः । परस्य विलम्बे.
नानुभवसिद्धत्वात् । अतएव श्रोत्रोपलब्धिर्बुद्धिनि.
ह्यः प्रयोगेणाभिज्वलित आकाशदेशः शब्द इ.
त्याकरग्रन्थस्संगच्छते । कत्वादिना श्रोत्रोपलब्धित्वं
स्फोटात्मकपदादिरूपेण तु बुद्धिनिर्ग्राह्यत्वम्, म च
२७ । आकाङ्क्षाविचारः। प्रयोगेण वैखरीरूपेणाभिज्वलितः स्वरूपरूषितः कृ. त इति तदर्थः । तत्रापि शक्यत्वस्येव शक्ततावच्छे- दिकाया वर्णपदवाक्यनिष्ठजातेर्वाचकत्वम् । तदुक्तम्, अनेकव्यक्त्यभिव्यझ्या जातिःस्फोट इति स्मृतेति। तस्मादष्टविधस्फोटात्मकश्शब्दो वृत्याश्रयः । वस्तुतस्तु वाक्यस्फोटो वाक्यजातिस्फोट एव वा वृत्त्याश्रयः । तत एव लोकेऽर्थबोध इत्यायुक्तत्वादि- ति सर्व मुस्थम् । इति स्फोटनिरूपणम् ।। अथ शाब्दबोधसहकारिकारणानि आकाङ्क्षा- योग्यताऽऽसत्तितात्पर्याणि । वाक्यसमयग्राहिका- SSकासा । साचैकपदार्थज्ञाने तदर्थान्वययोग्यार्थस्य. यज्ज्ञानं तद्विषयेच्छा “अस्यान्वय्यर्थः कः" इत्येवंरूपा पुरुषनिष्ठैव, तथापि तस्याः स्वविषयेऽर्थे आरोपः। अ- यमर्थोऽर्थान्तरमाकाङ्क्षति इति व्यवहारात् । इदमेवा- भिधानापर्यवसानमित्युच्यते' । पदे तु नारोपः, अर्थबोधोत्तरमेवाकासादयात् । पदं साकासमिति तु साकासार्थबोधकमित्यर्थकम् । तदुक्तं समर्थसूत्रे भा. प्ये "परस्परव्यपेक्षां सामर्थ्यके । का पुनश्शब्दयो- यंपेक्षा । न ब्रूमश्शब्दयोरिति किं तर्हि अर्थयोरि- १ अभिधानस्यापर्यवसानम् अपूर्णतेत्यर्थः ।
२८ परमलघुमजूषायाम् ति"। ईदृशजिज्ञासोत्थापक चैकपदार्थेऽपरपदार्थव्य - तिरेकायुक्तस्यान्वयबोधाजनकत्वस्य ज्ञानमिति त द्विषये तादृशान्वयबोधाजनकत्वेऽप्याकाङ्क्षति व्यव. हारः । यद्वा उत्थापकनाविषयतान्यतरसम्बन्धेनोभ यसम्बन्धेन वाऽर्थान्तरजिज्ञासा आकाङ्क्षा । आद्यं. पश्य मृगो धावतीत्यत्र, दर्शनार्थस्य कारकधावना- काङ्क्षोत्थापकत्वं धावनं तु तद्विषय एव । अन्त्यं प. चति तण्डुलं देवदत्त इत्यादौ, क्रियाकारकयोयोरपि परस्परं तदुत्थापकत्वात्तद्विषयत्वाच्च । अतएव घटः कर्मत्वम् आनयनं कृतिरित्यतो घटमानयेतिवन्नान्व- यबोधः । आकाङ्क्षाविरहात् । घटमानयेति विभक्त्य- न्ताख्यातान्तयोरेव साकासत्वाच्च । योग्यता च परस्परान्वयप्रयोजकधर्मवत्वम् । तेन पयसा सिञ्चतीति वाक्यं योग्यम् । अस्ति च सेका- १ एतादृशज्ञानस्य बोधहेतुत्वात् एकवारमन्वयबोधे जाते तदजनकत्वज्ञानाभावात् न पुनरन्वयबोधः । अन्व- यबोधश्च तदाकासितसकलक्रियाकारकादिविषयो वि- वक्षितः । तेन खण्डवाक्यार्थबोधोत्तरं न महावाक्या. थबोधानुपपत्तिः। एतन्मूलिकैव च सकृदुश्चरितः शब्दः सकृदर्थ गमयतीति व्युत्पत्तिः इत्यादि लघुमञ्जूषायां स्पष्टं तत एवावगन्तव्यम् ।
योग्यतासत्तितात्पर्याणां विचारः। २९ न्वयप्रयोजकद्रवद्रव्यत्वं योग्यता जले, करणत्वेन ज. लान्वयप्रयोजकाद्रीकरणत्वं योग्यता सेकक्रियायाम् । अत एव वह्निना सिञ्चतीति वाक्यमयोग्यम् । वः सेकान्वयप्रयोजकद्रवद्रव्यत्वाभावात् । एतादृशस्थलेषु नान्वयबोधः किंतु प्रत्येक प- दार्थबोधमात्रमिति नैयायिकाः । तन्न । बौद्धार्थस्यैव सर्वत्र बोधविषयत्वेन बाधस्याभावात् ॥ हरिरप्याह- अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति चेति । अतो वन्ध्यासुतादिशब्दानां प्रातिपदिकत्वम् । वहिना सिञ्चवीन्यतो बोधाभावे तद्वाक्यप्रयोक्तारं प्रति “अद्रवेण वह्निना कथं सेकं ब्रवीषि'इत्युपहासा- नापत्तेश्च । वाक्यार्थबोधे जाते बुद्धार्थविषये प्रवृत्तिस्तु न भवति बुद्धार्थेऽप्रामाण्यग्रहादित्यन्यत्र विस्तरः ।। प्रकृतान्वयबोधाननुकूलपदाव्यवधानमासत्तिः । गिरिराग्निमानित्यासन्नम् । अनासन्नं च गिरि(क्त- मग्निमान्देवदत्तेनेति । आसत्तिरपि मन्दबुद्धरवि- लम्बेन शाब्दबांधे कारणम् । अमन्दबुद्धेस्त्वासत्य- भावेऽपि पदार्थोपस्थितावाकासादितोऽविलम्बेनैव बो- धो भवतीति न बोधे तस्याः कारणत्वम् । ध्वनितं परमलघुमञ्जूषायाम् चेदं नेपदान्तसूत्रे भाष्ये । स्थाल्यामोदनं पचती. त्यादौ स्थाल्यामित्यस्यौदनपदेन व्यधानेऽपि प्रक- तान्वयबोधानुकूलत्वादासन्नत्वाक्षतिः ॥ एतद्वाक्यं पदं वा एतदर्थबोधायोचारणीयमि- तीश्वरेच्छा तात्पर्यम् । अत एव सति तात्पर्य सर्वे सर्वार्थवाचका इति शाब्दिकनये घटशब्दात्पट- प्रत्ययो नेत्याद्युक्तम् । नानार्थस्थले लोके तात्प- य॑न्तु एतत्पदं वाक्यं वा एतदर्थप्रत्ययाय मयोच्चा यते इति प्रयोक्तुरिच्छारूपन् । तात्पर्यनियामकं च लोके प्रकरणादिकमेव । अतो भोजनप्रकरणे सैन्ध- वमानयेत्युक्तं सैन्धवपदेन लवणप्रत्ययः । युद्धाव- सरेऽश्वप्रत्ययः । वेदवाक्ये ऐश्वरतात्पर्यादर्थबो- धः। ननु प्रकरणादीनां शक्तिनियामकत्वे शक्त्यैव १ तत्र हि स्वरदीर्घयलोपेष्वित्यादिवार्तिकस्य सं. ग्रहसिद्धार्थकत्वप्रतिपादनार्थमिदमुक्तम् “आनुपूर्येण. संनिविष्टानां यथेष्टमभिसम्बन्धः शक्यते कर्तुं नचैता- न्यानुपूर्येण संनिविष्टानि । अनानुपूर्येण संनिविष्टाना- मपि यथेष्टमभिसम्बन्धो भवति । तद्यथा अनड्वाहमुद- हारि या त्वं हरसि शिरसा कुम्भं भगिनि साचीनम- भिधावन्तमद्राक्षारित्यस्य यथेष्टमभिसम्बन्धो भवति उदहारि भागनि या त्वं कुम्भं हरसि शिरसा अनड्वाह धात्वर्थविचार। निर्वाहे किन्तात्पर्येणेति चेन । अस्माच्छन्दादर्थ- द्वयविशेष्यको बोधो जायते अर्थद्वये शक्तिसत्त्वात्ता त्पर्य तु केति न जानीम इत्यनुभवविरोधात् । अत एव च पय आनयेत्युक्तेऽप्रकरणज्ञस्य दुग्धं जलं वा आनेयमिति प्रश्नः सङ्गच्छते। इत्याकासादिविचारः ।। अथ सकलशब्दमूलभूतत्वाद्धात्वर्थो निरूप्य. ते ! तत्र फलानुकूलो यनसहितो व्यापारो धात्व- र्थः । फलत्वं च तद्धात्वर्थजन्यत्वे सति कर्तृप्रय. यसमभिव्याहारे तद्धात्वर्थनिष्ठविशेष्यतानिरूपितम- कारतावत्वम् । विभागजन्यसंयोगादिरूपे पतत्यादि- धात्वर्थे विभागसंयोगयोः फलत्ववारणायोभयम् । कर्मप्रत्ययसमभिव्याहारे तु फलस्य विशेष्यता । व्यापारत्वं च धात्वर्थफलजनकत्वे सति धातुवाच्यत्व- म् । अनुकूलत्वं संसर्गः । अनुकूलत्वं च फलनि- ष्ठजन्यतानिरूपितजनकत्वम् । "भावप्रधानमाख्यातं साचीनमभिधावन्तमद्राक्षीरिति"। १ विभागस्य फलत्ववारणाय सत्यन्तोपादानम् ।सं. योगे तद्वारणाय प्रकारतावत्त्वान्तम् । तेन वृक्षात् पर्ण भूमौ पततीत्यादौ विभागाश्रयस्य वृक्षादेः संयोगाश्रय- स्य भूम्यादेश्च न कर्मत्वमित्यादिकमूह्यम् ।
परमलघुमञ्जूषायाम् सत्वप्रधानानि नामानि" इति निरुतोक्तव्यापारवि शेष्यको बोधः । तत्र तिवाच्यं संख्याविशिष्टकारक कालश्च व्यापारविशेषणम् ॥ परे तु फलव्यापारयोर्द्धातोः पृथक्शक्तावुहे. श्यविधेयभावेनान्वयापत्तिस्तयोः स्यात् । पृथगुपस्थि. तयोस्तथा अन्वयस्यौत्सर्गिकत्वात् । किश्चैकपदे व्यु- त्पत्तिद्वयकल्पनेऽतिगौरवम् । तथाहि-फलविशेष णकव्यापारबोधे कतप्रत्ययसमभिव्याहृतधातुजन्योप- स्थितिः कारणं व्यापारविशेषणकफलबोधे कर्म मत्ययसमाभिव्याहृतधातुजन्योपस्थितिः कारणमिति कार्यकारणभावद्वयकल्पनम् , धातोरर्थद्वये शक्ति- द्वयकल्पनं, धातोर्बोधजनकत्वमंबन्धद्वयकल्पनं चा- तिगौरवम् । तस्मात्फलावच्छिन्ने व्यापारे व्या. पारावच्छिन्ने फले च धातूनां शक्तिः, कर्तृकर्मार्थ. कतत्तत्प्रत्ययसमभिव्याहारश्च. तत्तद्वोधे नियाम. क इत्याहुः ।। १ यद्यपि फलावच्छिन्नव्यापारत्वस्य व्यापारावा छिन्न फलत्वस्य च शक्यतावच्छेदकत्वकल्पनप्रयुक्तं गौरवमेतेषां मते स्फुट तथापि भिन्नशक्तिवादिनां फल- विशेषणकव्यापारविशष्यकावान्तरवाक्यार्थबोधे कर्तृ धात्वर्थविचारः। यत्तु मीमांसकाः फलं धात्वों व्यापारः प्रत्य: यार्थ इति वदन्ति । तन्न । लाकर्मणीत्यादिसूत्रविरो- धापत्तेः नहि तेन व्यापारस्य प्रत्ययार्थता लभ्यते । किश्च पचति पक्ष्यति पकवानित्यादौ फूत्का- रादिप्रतीतये तत्रानेकप्रत्ययानां शक्तिकल्पनापेक्षयै- कस्य धातोरेव शक्तिकल्पनोचिता । किश्च फूत्कारांदः प्रत्ययार्थत्वे गच्छतीत्यादौ तत्प्रतीतिवारणाय तद्बोधे पचिसमभिव्याहारस्यापि कारणत्वकल्पनेऽतिगौरवम् । किश्च सकर्मकाकर्मकव्यवहारोच्छेदापत्तिः । प्रत्ययसमभिव्याहृतधातुजन्यसमूहालम्बनात्मकोपस्थि. तिः कारणं, व्यापारविशेषणकफलवोधे कर्मप्रत्ययसम- भिव्याहृतधातुजन्यसमूहालम्बनात्मकोपस्थितिः कारण- मिति कार्यकारणभावद्वयकल्पनेऽतिगौरवम् । विशिष्ट. शक्तिवादिनां तु तत्तत्समभिव्याहारवशाद् अवान्तरवा- क्यार्थबोधस्थानीया विशिष्टोपस्थितिरेवेति न तेषा- मुक्तकार्यकारणभावद्वयम् । एवं धातोः फलव्यापारस. मूहार्थे उपस्थितिशक्तिकल्पनं विशिष्टार्थे शाब्दबोध. शक्तिकल्पनं, शक्तेः बोधजनकतायाश्च असम्बद्ध धातौ अनुपपत्त्या विशिष्टार्थनिरूपितसम्बन्धद्वयकल्पनं विशिष्टधातावित्यात गौरवम् इति दिक् ।
परमलघुमञ्जूषायाम् च प्रत्ययार्थव्यापारव्यधिकरणफलवाचकत्वं सकर्मकत्वं तन्मते तत्समानाधिकरणफलवाच- कत्वमकर्मकत्वं च, प्रत्ययार्थव्यापाराश्रयत्वं कर्तृ. त्वम्, घटं भावयतीत्यादौ णिजथव्यापारव्यधिकरण फलाश्रयत्वेन घटादेः कर्मत्वमिति वाच्यम् । अभि- धानानभिधानव्यवस्थोच्छेदापत्तेः । न च व्यापा. रेणाश्रयाक्षेपात्कर्तुरभिधानम् , कर्माख्याते च प्र. धानेन फलेन स्वाश्रयाक्षेपाकर्मणोऽभिधानमिति वा- च्यम् । जातिशक्तिवादे जात्याक्षिप्तव्यक्तेरिवाश्रयमा. धान्यापत्तौ क्रियाप्रधानमाख्यातमितियास्कवचोवि. रोधापत्ते। किञ्च फलस्य धातुना तदाश्रयस्य चाक्षेपेणे- व लाभसम्भवेन लाकर्मणीत्यस्य वैयपित्तेः । कर्मकर्वकृतां कारकभावनोभयवाचकत्वे गौरवाच । किश्च भावविहितघनादीनां व्यापारावाचकत्वे ग्रामो गमनवानित्याधापत्तिः । तद्वाचकत्वे तेनापि स्वाश्रयाक्षेपे कर्तुरभिधानापत्तिः । किञ्च गुरुः शिष्याभ्यां पाचयतीत्यादौ "हेतुम- तिच" इतिसूत्रबलात् प्रयोजकव्यापारस्य णिजर्थत्वे स्थिते प्रयोज्यव्यापार आख्यातार्यो वाच्यः, एवञ्च धात्वर्थविचारः । संख्यायाः स्ववाचकाख्यातार्थव्यापारेऽन्वयिन्येवा- ऽन्वयाच्छिष्याभ्यामिति द्विवचनानापत्तिः। पाचयती. त्येकवचनानापत्तिश्च । गुरोरनभिधानेन तत्र प्रथमाया अनापत्तेश्च । शिष्यशब्दात्तदापत्तेश्चत्यन्यत्र विस्तरः । सर्वकारकान्वयितावच्छेदकधर्मवती क्रिया । यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते ॥ आश्रितक्रमरूपत्वात्सा क्रियेत्यभिधीयते ॥ १ ॥ गुणभूतैरवयवैः समूहः क्रमजन्मनाम् ॥ बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ॥२॥ इति भूवादिसूत्रस्थभाष्यार्थप्रतिपादकहरिग्रन्था- त् । क्रम जन्मनां व्यापाराणां समूहं प्रति गुणभृतै- रवयवैर्युक्तः संकलनात्मिकयैकत्वबुद्ध्या प्रकल्पिता- भेदरूपः समूहः क्रियेति व्यवह्रियते इति द्विती. यकारिकार्थः । अत्रावयवाश्रयं पौर्वापर्यं समु. दायाश्रयमेकत्वम् । क्षणनश्वराणां णां वस्तुभूतसमुदायाभावात् बुद्ध्येत्युक्तम् । प- चति पक्ष्यतीत्वादावसिद्धम् , अपाक्षीदित्यादौ सिद्ध वा साध्यत्वेनाभिधीयमानं क्रिया । आश्रितेति योगदर्शनं कृतम् अवयवानां क्रमेणोत्पत्या । अत एवाश्रितक्रमरूपा क्रियेति आदिमकारिकार्थः । व्यापारा.
परमलघुमञ्जूषायाम् एकैकावयवेऽपि समूहरूपारोपादधिश्रयणकालेऽपि पचतीति व्यवहारः। तदुक्तम्- एकदेशे समूहे वा व्यापारणां पचादयः । स्वभावतः प्रवर्तन्ते तुल्यरूपं समाश्रिताः इति ॥ अत्र केचित् । सिद्धत्वं क्रियान्तराकाजोत्थाप. कतावच्छेदकवैजात्यवत्वे सति कारकत्वेन क्रियान्व- यित्व सति कारकान्तरान्वयायोग्यत्वम् । साध्यत्वं च क्रियान्तराकासानुत्थापकतावच्छेदकं सत् कारकान्त. रान्वययोग्यतावच्छेदकरूपवत्त्वम् । हिरुगायव्ययानां साध्यत्वाभावेऽपि क्रियावाचकत्व व्यवहारस्तु क्रि. यामात्रविशेषणत्वात् । तत्र मिद्धत्व पाक इत्यादौ घनादिवाच्यम् । साध्यत्वं तु सर्वत्रैव धातुप्रतिपा- घम् । ननु हरिं नमेच्चत्सुखं यायात् इत्यत्र क्रियाया अपि क्रियान्तराकासत्वेन सिद्धत्वमस्ति इति चेन्न । चेच्छब्दसमभिव्याहारेणाकाटोत्थापनात् इत्याहुः । वस्तुतः साध्यत्वं निष्पाद्यत्वमेव तद्रूपेणैव बो. धः । स्पष्टं चेदम् उपपदमतिङित्यादौ भाष्ये । ननु घटं करोतीत्यादौ द्रव्यस्यापि साध्यत्वेन प्रतीतिरिति चेन्न । करांतिपदादिसमभिव्याहात् तथा प्रत्ययेऽपि स्वतो घटादिपदाद् द्रव्यस्य सिद्धत्वेनैव प्रतीतेः ।
-- धात्वर्थविचार अस्तिभवतिवर्ततिविधतीनामर्थः सत्ता । सा चानेककालस्थायिनीति कालगतापर्येण क्रमक. तीति तस्याः क्रियास्वम् । सत्तेहास्मधारणम् । सक- मकत्वश्च फलव्यधिकरणव्यापारवाचकत्वं, फलसमा- माधिकरणव्यापारवाचकत्वमकर्मकत्वम् । कचिनु फ- लांशाभावादकर्मकत्वम् । यथाऽस्त्यादौ कवलं सत्ता- दिरेवार्थः । फलांशस्य सूक्ष्मदृष्टयाऽप्यप्रतीवेः । उत्पन्नस्य सत्वस्य स्वरूपधारणरूपां सत्तामाचष्टे ऽस्त्यादिरिति निरुक्तोक्तेश्च । वस्तुतस्तु शब्दशास्त्रीयकर्मसंज्ञकार्यान्वय्यर्थक- त्वं सकर्मकत्वम् । तदनन्वय्यर्थकत्वमकर्मकत्वम् । नेनाध्यासिता भूमय इत्यादिसिद्धिः । अन्वयश्च पृथग्बुद्धेन संसगरूपः । अन्वयपदस्य तत्रैव व्यु. पत्तेः । तेन जीवतीत्यादौ न दोषः । तत्र प्रा. णादिरूपकर्मणो धारणार्थधात्वर्थात्पृथगबोधादिति सुप आत्मन इति सूत्रे भाष्ये स्पष्टम् । अधिशीङ्स्थे- त्यनेन भुमय इत्याधारस्य कर्मत्वम् । जानातेविषयतया ज्ञानं फलम् , आत्ममनःसंयो. गो व्यापारः । अतएव मनो जानातीत्युपपद्यते। आ- त्माऽत्रान्तःकरणं, मनोऽपि तवृत्तिविशेषरूपम् । आ- घ परमलघुमजूषागम् स्मा आत्मानं जानातीत्यादौ अन्तःकरणावच्छिन्नः कर्ता शरीरावच्छिन्नं कर्मेति कर्मवत्सूत्रे भाष्ये स्पष्टम् । यत्तु आवरणभङ्गो विषयता वा फलम् , व्यापारस्तु ज्ञानमेवेति । तन । कर्मस्थक्रियकत्वाप- तेः। तद्व्यवस्था चेत्थमुक्ता हरिणा, विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता । क्रियाव्यवस्था वन्येषां शब्दैरव प्रकल्पितेति ॥ अस्यार्थः । यत्र कर्मणि कतैरि वा क्रियाकृतो विशेषः कश्चिद् दृश्यते तत्र क्रिया व्यवस्थितेत्युच्य. ते । नन्वेवं पच्यादिकर्तर्यपि श्रमादिरूपविशेषस्य दर्शनादिदमयुक्तम् । किञ्च चिन्तयति पश्यतीसादी नां कर्तृस्थभावकत्वानुपपत्तिः । कर्तरि क्रियाकृतवि. शेषाभावात् । अत आह अन्येषामिति । मते इति शेषः । यत्र कतकर्मसाधारणरूपं फलं शब्देन प्रति पाद्यते स कर्तृस्थभावकः-यथा पश्यति घट, ग्राम गच्छति, हसतीत्यदौ । तत्र विषयातासमवायाभ्यां ज्ञा. नमुभयनिष्ठं, संयोगश्चोभयनिष्ठः । एवं हासोऽपि । न हि विषयताऽऽवरणभङ्गायेवम् । यत्र कत्रवृत्तिकर्मस्थ. फलं स कर्मस्थभावकः । यथा भिनत्तीत्यादौ। न हि द्विधाभवनादि कथमपि कर्तृनिष्ठमिति हलाराजः ।
धात्वर्थविचारः। ३९ तथा चावरणभङ्गस्य विषयतायाश्च कर्ममात्रनिष्ठत्वा. जानातेरपि कर्मस्थक्रियकत्वापत्तिरित्य लम् । इच्छतेरिच्छानुकूलं ज्ञानमर्थः । अतीतानागत योरपि बुद्ध्युपारोहात् फलशालित्वम् । पतिर्गमिवत्सकर्मकः । नरकं पतित इत्यादिन- योगात् । विभागजन्यसंयोगमात्रपरत्वेऽकर्मक इति । कुल उत्पत्तिव्यधिकरणस्तदनुकूलो व्यापारोऽर्थः । फलमात्रार्थकत्वेऽकर्मकत्वापत्तियतिवत् । किञ्च क- मस्थ भावकत्वाभावात् कर्मकर्तरि यगायनापत्तिः । कृतिरित्यादौ धातूनामनेकार्थत्वात् यत्नमात्रे वृत्तिः । यद्वा यत्नकृतिशब्दयोरपि व्यापारसामान्यवाचितैव । अत एव स्थालीस्थे यत्ने पचिना कथ्यमाने स्थाली पचतीति कारके इति सूत्रे भाष्ये उक्तमित्य लम् । यत्तु तार्किका:-फलव्यापारौ धात्वर्थः । ल. काराणां कृतावेव शक्तिर्लाघवात् , नतु कर्तरि, कृ. तिमतः कर्तृत्वेन तत्र शक्तौ गौरवात् । प्रथमान्तपदेनैव तल्लाभाच्च । आख्यातार्थे धात्वर्थो विशेषणं, प्रकृत्य- र्थप्रत्ययार्थियोः सहार्थत्वे प्रत्ययार्थस्यैव प्राधान्या- त् । प्रथमान्तार्थे आख्यातार्थो विशेषणम् । अनुकूल त्वमाश्रयत्वञ्च संसर्गः । तथाच चैत्रः पचतीत्यादौ ४० परमलघुमञ्जूषायाम् विक्लित्त्यनुकूलव्यापारानुकूलकृतिमांश्चैत्र इति बोधः । रथो गच्छतीत्यादौ रथस्याचेतनत्वात् यत्नशून्यत्वेन व्यापारे आश्रयत्वे वा आख्यातस्य लक्षणेत्याहुः ॥ तन्न । युष्मदस्मदोलकारेण सामानाधिकर- ण्याभावात् पुरुषव्यस्थाऽनापत्तेः । पचतं चैत्रं पश्य, पचते देवत्ताय देहीत्यादौ शतृशानजादीनामपि ति. बादिवल्लादेशाविशेषेण तेभ्यः कृतिमात्रबोधापत्तश्च । नचेष्टापत्तिराश्रयाश्रयिभावेन कर्मणि सम्पदाने च कृतेरन्वयादिति वाच्यम् । नामार्थयोरभेदान्वयो व्युत्पन्न इतिव्युत्पत्तिभङ्गापत्तेः। ननु फलमुखगौरवं न दोषायेति न्याये- न शत्रादीनां कर्तरि शक्तिः तिबादीनां कृतावे. व इति चेन्न । स्थान्येव वाचको लाघवात्, आदे. शानां बहुत्वेन तेषां वाचकत्वे गौरवमिति हि तव मतम् । एवं च तिबादीनां शत्रादीनां च स्थानि- स्मारकतया लिपिस्थानीयत्वं, बोधकस्तु लकार एव । म च शत्राद्यन्ते कर्तरि शक्तस्तिबाद्यन्ते कथं कृति बोधयत् । अन्यायश्चानेकार्थत्वमिति न्यायात् । ननु लः कर्मणीति सूत्रे कर्तृकर्मपदे भावपधाने, तथाच कर्तृत्वं कृतिः कर्मतं फलं तयोः शक्तौ सूत्र- धात्वर्थविचारः। ४१ सरसः । कर्मप्रत्ययान्ते पच्यते ओदनो देवदत्तेने- त्यादौ देवदननिष्ठकृतिजन्यव्यापारजन्यविक्लित्तिमान् ओदन इति बोधः । कर्तरि कृदिति सूत्रे तु कर्तरीति पदस्य धर्मिप्रधानत्वात् कृत्याश्रये शत्रादीनां श- क्तिरिति चेन्न । कर्तरि कृदिति सूत्रे यत्कर्वग्रहणं तस्यैव लाकर्मणीति सूत्रे चकारानुकृष्टत्वेन भाव- प्रधानत्वे सूत्रस्वरसाभावात् । शत्रादीनां स्थान्या- भिधानसमर्थस्यैवादेशत्वमिति न्यायेन स्थान्यर्थेन नि- राकासवादाकासित विधानं ज्याय इति न्यायाल कर्तरि कृदित्यनेन शक्तिग्रहाभावात् । अन्यथा देव- दत्तेन शय्यमाने आस्यमाने च यज्ञदत्तो गत इत्यादौ भावे शानजनापत्तेः । ननु नामार्ययोरभेदान्वयानुरोधात शंतृशानजा- दीनां कर्तरि शक्तिरिति चेन्न । पचतिकल्पं पच- तिरूपं देवदत्त इत्याद्यनुरोधेन तिनश्वपि कर्तुरेव वाच्यत्वौचित्यात् । किञ्च कृतिवाच्यत्वे रथो गच्छतीत्यादौ आश्र- ये लक्षणास्वीकार गौरवापत्तिः । अभिहितत्वान- १ भावविहितलकारस्थानिकभिन्नानामिति शेषः । तेन न पूर्वप्रयोगासङ्गतिः।
४२ परमलघुमजूषायाम् भिहितत्वव्यवस्थोच्छेदापत्तिश्च । न चानभिहितइति सूत्रस्थानभिहितसंख्याकेइत्यर्थवर्णनमिति वाच्यम् । कृत्तद्धितममासैः मङ्ख्याऽभिधानस्याप्रसिद्धत्वात् । किञ्च यत्रोऽपि व्यापारसामान्यं धातुत एवं लभ्यते, स्थालीस्थे यत्ने पचिना कपमाने स्थाली पचतीति कारके इत्यधिकारसूत्रे भाष्यप्रयोगात्,अनन्य लभ्यस्यैव शब्दार्थत्वात् कृतौ शक्तेरुक्तिसम्भव एव नेत्यलम् ॥ आख्यातार्थे धात्वर्थो विशेषणमित्यस्य निरा. करणमवशिष्यते । तथाहि । प्रकृत्यर्थप्रत्ययार्थयोः सहार्यत्वे प्रत्ययार्थस्यैव प्राधान्यामित्युत्सर्गः । पा. चक औपगव इत्युदाहरणं, पाकक्रियाश्रयः उपगु. सम्बन्ध्यभिन्नापत्यमिति प्रत्ययार्थस्य प्राधान्यन्त योरर्थे । तत्रापि प्रत्ययवाच्यस्वार्थस्य प्राधान्यम् । घोत्यस्य त्वप्राधान्यमेव । यथा अजा इत्यत्र स्त्रीत्व. विशिष्टपशुविशेष इति बोधः । तस्योत्सर्गस्य भावप्र- धानमाख्यातं सत्चप्रधानानि नामानीति यास्कव- चनमपवादः । तेनाख्याते तिङन्ते क्रियाया एवं प्रा. धान्यं शाब्दबोधे न प्रत्ययार्थस्येति बोध्यम् । यत्तु आख्यातपदेन तिङ्मात्रग्रहणाद्भावप्रधान मित्यत्र षष्ठीतत्पुरुषाश्रयणात् प्रत्ययार्थप्राधान्य.
-- धात्वर्थविचारः। ४ मेव फलतीति । तन्न । आख्यातमाख्यातेन क्रियासा. तत्ये इति सूत्रे आख्यातपदेन तिङन्तस्यैव ग्रहणात् । उत्सर्गेगैव निर्वाहे यास्ककृतापवादवचनवैयापत्ते. श्व । तस्माद्भावप्रधानमित्यत्र बहुव्रीहिः । आख्यात- पदेन तिङन्तस्यैव ग्रहणमित्यलम् । प्रथमान्तार्थमुख्यविशेष्यको बोधस्तार्किकमते इति निराकर्तुमवशिष्यते । तथा हि शाब्दिकमते पश्य मृगो धावतीत्यादौ मृगकर्तृकं धावनं दृशिक्रि. यायाः कर्म, प्रधानं दृशिक्रियैव । तथा च मृगक- नुकधावनकर्मकं प्रेरणाविषयीभृतं त्वत्कर्तृकं दर्शन- मिति बोधः । तत्र मृगो धावतीत्यत्र विशेष्यभूतधा- वनरूपायवाचकस्य धावतीत्यस्य प्रातिपदिकत्वाभा. वान द्वितीया । कर्मत्वन्तु संसर्गमर्यादया भास- ने । एवं पचति भवतीत्यत्र पचिक्रियाकर्तृका स. त्तेति बोधः। पच्यादयः क्रिया भवतिक्रियायाः कत्रों भवन्तीति भूवादिसूत्रस्थभाष्यात् । उक्तश्च हरिणा, सुबन्तं हि यथाऽनेकन्तिङन्तस्य विशेषणम् । तथा तिङन्तमप्पाहुस्तिङन्तस्य विशेषणमिति ॥ ताकिमनेतु अन्य देशसंयोगानुकूलपावनानुकूल ४४ परमलघुमञ्जूषायाम् कृतिमन्मृगकर्मकं प्रेरणाविषयीभूतं यद्दर्शनं तदनुकूल कृतिमांस्त्वमिति बोधः। तत्र विशेष्यभूतार्थवाचकमृग. शब्दस्य प्रातिपदिकत्वात् दृशिक्रियाकर्मत्वाच्च द्विती- यापत्तौ धावन्तं मृगं पश्यतिवत् पश्य मृगन्धावतीत्या. तेः । अप्रथमासमानाधिकरणे शतृशानचोर्नित्य- स्वादेवंप्रयोगविलयापत्तेश्च ।। ननु विशिष्टार्थवाचकस्य धावति मृग इति वाक्यस्य कर्मत्वेऽपि पृथङ् मृग इत्यस्य प्रा. तिपदिकस्य कर्मत्वाभावान्न द्वितीयेति चेन्न । अनाभिहित इन्यधिकारसूत्रप्रघट्टके अभिधानश्च ति. कुत्तद्धितसमासरित्येतत्परिगणनप्रत्याख्यानपरभा. ध्यरीत्या द्वितीयाऽऽपत्तेः । तथाहि-कटं भीष्मं कुर्वि- त्यादौ विशेष्यकटशब्दादुत्पन्नाद्वितीयया कर्मत्वस्यो- तत्वात् विशेषणीभूतभीष्मशब्दाद् द्वितीया न स्या- दतः परिगणनं भाष्ये कृतम् । तत्पत्याख्यानश्च : सर्वकारकाणां साक्षात्स्वाश्रयद्वारा वा अरुणाधिकर- णन्यायेन भावनान्वयस्वीकारात् । अत एवोक्तम्भा- ध्ये कटोऽपि कर्म भीष्मादयोऽपीति । तत्र कटनिष्ठ- कर्मत्वोक्तावपि भीष्मत्वादिगुणावीशष्टकर्मत्वानु क्तस्तस्माद् द्वितीयेति तात्पर्यम् । उभयोः पश्चात्पर.
निपातार्थविचारः। ४५ स्परमन्वयस्तु विशेष्यविशेषणभावेन । अयमेवाक्यः पार्णिकः इत्युच्यते । एवमेवान्वयोऽरुणाधिकरणे अरुणया पिङ्गाक्ष्य कहायन्या सोमं क्रीणातीत्यत्र क्र- यणक्रियायां मीमांसकैस्स्वीकृतः । तस्माद्धावति मृग इत्यत्र उभयोः कर्मत्वे धावतीत्यस्य प्रातिपदिकत्वा- भावाद् विशेषणत्वेनान्यत्र निराकासत्वांच द्वितीयो. त्पत्त्यभावेऽपि मृगशब्दाद् द्वितीया दुर्वारैवेत्यवेहि । शाब्दिकमतेतु क्रियाविशेषणत्वेनेतरार्थे निराकास- त्वाद् मृगशब्दान्न द्वितीया । तार्किमते तु विशेष्या. र्थवाचकात् मृगशब्दात् राज्ञः पुरुषमानयेतिवद् द्वि- तीया दुर्वारेत्यलमतिविस्तरेण । इति धात्वर्थनिर्णयः। अथ निपातार्थनिर्णयः । अनुभूयते सुखं, सा. क्षात् क्रियते गुरुरित्यादौ निपातानां द्योतकत्वेना- नुभवसाक्षात्काररूपफलयोर्धात्वर्थत्वेन सकर्मकत्व- म् । कर्मसंज्ञकार्यान्वय्यर्थकत्वं सकर्मकत्वमितिनि- कृष्टमतेऽपि फलाश्रयतया कर्मसंज्ञकस्य धात्वर्थफले एवान्वयौचित्येन द्योतकत्वमावश्यकम् । द्योतक- त्वञ्च स्वसमभिव्याहृतपदनिष्ठदृत्युद्वोधकत्वम् । क- चित्तु क्रियाविशेषाक्षेपकत्वं द्योतकत्वम् । यथा प्रा. देशं विलिखतीत्यादौ विर्मानक्रियाक्षेपकः । प्रादेश- परमलघुमञ्जूषायाम् विमाय लिखतीत्यर्थावगमात् । अत्र एव अथ शब्दानुः शासनमित्यत्राथशब्दस्य प्रारम्भक्रियाक्षेपकत्वं कैय. टायुक्तं सङ्गच्छते । कचित्तु सम्बन्धपरिच्छेदकत्वं घोतकत्वम् । यथा कर्मप्रवचनीयानाम् । विशिष्टस्य न धातुत्वम् । अपाठात् । अडायव्यवस्थापत्तेश्च । यत्तु तार्किकाः-उपसर्गाणां द्योतकत्वं तदितर निपातानां वाचकत्वं,साक्षात्मत्यक्षतुल्ययोरिति को. शात् । नमःपदेन देवाय नम इत्यादौ नमस्कारार्थस्य, दानावसरे गवे नम इत्यत्र पूजार्थस्य प्रसिद्धत्वा. च । सकर्मकत्वञ्च स्वस्वसमभिव्याहृतनिपातान्य. तरार्थफलव्यधिकरणब्यापारवाचकत्वम् । कर्मत्व. श्च स्वस्वसमभिव्याहृतनिपातान्यतरार्थफलशालित्व- मित्याहुः । तन्न । वैषम्ये बीजाभावात् । अनुभूयते इत्यनेन साक्षाक्रियते इत्यस्य समत्वात् । नामार्थ- धात्वर्थयोर्भेदेन साक्षादन्वयाभावात् निपातार्थधा- त्वर्थयोरन्वयस्यैवासम्भवात् । निपातार्थफलाश्रय- खेऽपि धात्वर्थान्वयं विना कर्मत्वानुपपत्तेश्च । यदपि केचिच्छाब्दिकाः-निपातानां वाचकत्वे शाभनः समुच्चय इतिवत् शोभनश्व इत्यापत्तिः । घटस्य समुच्चय इतिवत् घटस्य च इत्यापत्तिश्चेत्या- निपातार्थविचार। । तन्न । शब्दशक्तिस्वभावेन निपातः स्वार्थस्य परविशेषणत्वेनैव बोधनेन विशेषणान्वयाप्रसङ्गात् । षष्ठयप्राप्तेश्च । किञ्च घटं पटश्च पश्येत्यादौ घट- मित्यस्य क्रियायामेवान्वयः । अत एव ततो द्वि- तीया । घटं समुच्चयवन्तं पटम्पश्योति बोधः । समुच्चयस्य प्रतियोग्याकासायाँ सनिहितत्वात् १ प्रकारतासम्बन्धेन शाब्दबोधं प्रत्येव चादिनि- पातविशषजन्योपस्थितेः कारणत्वं, नतु यत्किञ्चिदर्थ- निष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धन शाब्दबोधं प्रति कारणत्वम् । अतो न शोभनादिपदार्थान्वयस्त- त्र। घटो नास्तीत्यादौ नञ्जन्योपस्थितेः विशेष्यता- सम्बन्धेन घटप्रकारकशाब्दबोधं प्रत्यपि कारण- त्वाङ्गीकारात् निपातविशेषति उपात्तम् । सामान्यत एव विशेष्यतासम्बन्धेन किश्चिदर्थनिष्ठप्रकारताकशा- ब्दबोधं प्रति चादिानपातविशेष जन्योपस्थितः कारण स्वानङ्गीकारात् प्रतियोगित्वादिसम्बन्धेन घटादिपदार्थ- स्य समुच्चायादावन्वयसम्भवेन षष्ठयापत्तिरपि इत्थमेव वारिता । चशब्दद्योत्यसमुच्चयस्यासत्त्वभूतत्वात् षष्ठयः प्राप्तेश्चति क्वाचित्को उपपाठः । मातुः स्मरतीत्यादौ असत्त्वभूतक्रियान्वये गृहस्थोपरीत्यादौ तादृशाव्यया- न्वयेऽपि षष्टया दृष्टत्वात तेन हेतुना तद्वारणासम्भवा. दिति बोध्यम् ।
४८ परमलघुमन्जूषायाम् घटस्य प्रतियोगित्वं, पटे तु समुच्चयस्य भेदे. नान्वयो न तु पटस्य समुच्चये इति क षष्ठयापाद- नम् । नामार्थयोरभेदान्वयव्युत्पत्तिस्तु निपाताति- रिक्तविषया। निपातानामर्थवत्त्वमपि द्योत्यार्थमादायैव । शक्ति- लक्षणा-द्योतकताऽन्यतमसम्बन्धेन बोधकत्वस्यैवार्थ- वश्वात् । नसमासे उत्तरपदार्थप्राधान्यं योत्यार्था- पेक्षयैव । प्रतिष्ठते इत्यत्र तिष्ठतिरेव गतिवाची, धातू- १ अत्र ( घटमित्यस्य क्रियायामेवान्वयः) इत्यादेः ( क षष्ठयापादनम् ) इत्यन्तस्य स्थाने ( घटपदस्थ घ. टप्रतियोगिकसमुच्चयवति अप्रासद्धा शक्तिरेव लक्ष- णा ) इत्यादिः पाठोऽस्ति, स न युक्तः सन्दर्भविरुद्ध. न्वात् लघुमञ्जूषाऽसंमतत्वाच्चति बोध्यम् । २ अतः समुच्चयस्य अनुयोगित्वसम्बन्धन पटेऽन्त्रयो नानुपपन्न इति भावः । लिङ्गसख्यान्वय्यर्थप्रतिपादकत्व- मेव नामत्वं, तच निपानेषु नेत्यतोऽपि न तद्व्युत्पत्ति विरोधः । यद्वा समुच्चयवांश्वार्थः । तेन अभेदान्वयः समञ्जस एवत्यादि लघुमञ्जूषायां स्पष्टम् । ३ प्राचीनानां वाचकत्वपक्षे शोभनश्चेत्यादिदूषण- स्याभिधानमसंगतमिति प्रतिपादितम् । इदानीं द्योत- कत्वपक्षेऽपि न किंचिद् दूषणमिति नैयायिकान् प्र. त्युच्यते--निपातानामिति ।
निपातार्थविचारः। ४९ नामनेकार्थत्वात् । प्रशब्दस्तु तदर्थगत्यादित्वस्य द्योतकः। अत एव धातुः पूर्व साधनेन युज्यते पश्चादुपस- र्गेणेति सिद्धान्तितम् । साधनं कारकम् तत्प्रयुक्तका- र्येण, उपसर्गेण उपसर्गसंज्ञकशब्देन । तत्र हि भाष्ये “पूर्व धातुरुपसर्गेण युज्यते पश्चात्साधनेनेति । नैतत्सारं पूर्व धातुस्साधनेन युज्यते पश्चादुप- सर्गेण साधनं हि क्रियां निर्वतयति तामुपसर्गो वि- शिनष्टीति । सत्यमेवमेतत् । यस्त्वसौ धातूपसर्गयो- १ तदर्थगतेः स्थाधात्वर्थगतेः आदित्वस्य द्योतक इत्यर्थः । तेन प्रतिष्ठते इत्यस्य गन्तुं प्रवर्तते इत्यर्थों बोध्यः। २ निर्वतयति साध्यत्ववैशिष्ट्यन बोधयतीत्यर्थः। ३ विशिनष्टि स्वद्योत्यविशेषणवैशिष्ट्यन बोधयती. त्यर्थः । साध्यत्वेन ज्ञानं विना क्रियायोगे विहितोपसर्ग- संज्ञकशब्दैोगाज्ञानादिति पूर्व धातुः साधनेन युज्यते पश्चादुपसर्गेणेत्यस्य तात्पर्यम् । ४धातूपसर्गकार्यस्य सुडादेरन्तरङ्गत्वोपपादनायाह य स्त्वसाविति । यः धातूपसर्गसंबन्धकृतत्वेनाभिमतोऽर्थः तं धातुः उपसर्गसंज्ञकशब्दयोगं विनाऽपि अभ्यन्तरं कृ- त्वाऽर्थत्वेनाङ्गीकृत्य साधनेन युज्यते इत्यर्थः । एवं च पूर्व मुपसर्गयोगो नाम तदर्थसंबन्धः। ततः उपसर्गशब्दयोगात् परमलघुमञ्जूषायाम् रभिसम्बन्धस्तमभ्यन्तरं कृत्वा धातुस्साधनेन युज्य- ते । अवश्यं चैतदेवं विज्ञेयं यो ह्येवं मन्यते पूर्व धातुः साधनेन युज्यते पश्चादुपसर्गेणेति तस्य आस्यते गु- रुणा इत्यकर्मकः उपास्यते गुरुरिति केन सकर्मकः स्यात्" इति । हरिणाऽप्युक्तम्, धातोस्साधनयोगस्य भाविनः प्रक्रमाद्यथा । धातुत्वं कर्मभावश्च तथाऽन्यदपि दृश्यताम् ।। बुद्धिस्थादभिसम्बन्धात्तथा धातूपसर्गयोः । अभ्यन्तरीकृतो भेदः पदकाले प्रकाशते ।। इति । अस्यार्थः । यथा भाविसाधनसम्बन्धाश्रयणेन क्रियावाचित्तमाश्रिस धातुसंज्ञोच्यते, यथा च सन्म- त्यये चिकीर्षिते भावीषिकर्मत्वमाश्रित्योपक्रमे एवे पूर्व साधनकार्ययोगः, ततः उपसर्गशब्दयोग इति "पूर्व धातुः साधनेन युज्यते, पूर्व धातुरुपसर्गेण युज्यते"इति परिभाषाद्वयस्यापि तात्पर्यम् । एवं च सुटः पूर्वोपस्थित- भूषणाद्यर्थनिमित्तकत्वेनान्तरङ्गत्वमुपपन्नम् । यत्तु उ- पसर्गकार्य नानिमित्तकं तत्तु पूर्वागतसाधनांनमित्तक- कार्याद बहिरङ्गमेव । तेन प्रत्ययः अध्ययनम् इत्यादौ य. णादिकमेवान्तरङ्गत्वात् भवति । अत एव रध्ययने इत्यादिनिर्देशलङ्गातः इत्यादिकमन्यतो बोध्यम् ।
--- निपातार्थविचारः । षिकर्मत्वमुक्तम् , तथा भाव्युपसर्गसम्बन्धादुपक्रमे एवं विशिष्टक्रियावाचकत्वं दृश्यताम् । धातूपसर्गयो. स्सम्बन्धं बुद्धिविषयीकृत्योपसर्गार्यकृतो विशेषः धा. तुनैवाभ्यन्तरीकृतः पदप्रयोगकाले उपमर्गसम्बन्धे सति प्रकाशते । श्रोतुरिति शेषः । उपसर्गयोगात्मा- गव धातुनैवोपसगार्थविशिष्टः स्वार्थ उच्यते इति ता- त्पर्यम् । पूर्व धातुरुपसर्गे गेति तु तदर्थस्य धात्वर्था- न्तर्भावाद् व्यवहारः। चन्द्र इव मुखमित्यादौ चन्द्रपदस्य स्वसदृशे ऽप्र- सिद्धा शक्तिरेव लक्षणा। नभिवयुक्तमन्यसदृशाधिक- ; रणे इति न्यायात् । इवपदं तात्पर्यग्राहकम् । तात्प- यग्राहकत्वञ्च स्वसमभिव्याहृतपदस्यार्थान्तरशक्ति- द्योतकत्वमित्यागतम् इवनिपातस्य द्योतकत्वम् । यत्तु इवार्थस्सादृश्यं तत्र प्रतियोग्यनुयोगिभावेनैव चन्द्रमुखयोरन्वयोपपत्तौ किं लक्षणया। तथा च च- न्द्रप्रतियोगिकसादृश्याश्रयो मुखमिति बोध इत्याहुः । तन्न । चन्द्र इव मुखं दृश्यते चन्द्रमिव मुखं पश्यामी- त्यादौ चन्द्रपदस्य मुखरूपकर्मसामानाधिरण्या- भावादुक्तानुक्तत्वप्रयुक्तविभक्त्यनापत्तेः । षष्ठ्यापत्तेश्च। परेविवशब्दस्योपमानताद्योतकत्वम् । उपमान- ५२ परमलघुमञ्जूषायाम् तश्च उपमानोपमेयोभयनिष्ठसाधारणधर्मवत्वेनेषदि. तरपरिच्छेदकत्वम् । तद्धर्मवत्तया परिच्छेद्यत्वञ्चो- पमेयत्वम् । साधारणधर्मसम्बन्धश्च कचिद् विशेष्य- तयाऽन्वेति कचिद् विशेषणतया । एवञ्च चन्द्र इव आहादकं मुखमित्यादौ आह्लादकोपमानभूतचन्द्रा- भिन्नमालादकं मुखमिति बोधः । चन्द्र इव मुख- माडादयतीत्यादौ चोपमानभूतचन्द्रकर्तृकाहादाभिन्नो मुखकर्तृकाहाद इति बोधः । इदम् उपमानानि सामान्यवचनैरित्यत्र भाष्ये स्पष्टामिन्याहुः । १ तत्र हि भाष्ये "किमिहोदाहरणम् । शस्त्री- श्यामा । क्व पुनरयं श्यामाशब्दो वर्तते । शस्च्यामित्याह। केन तहींदानी देवदत्ताऽभिधीयते । समासेन । (यदि श्यामाशब्देन शस्त्री अभिधीयते उपमेयं समासेन अ. भिधीयते तर्हि पुंस्त्वविशिष्टदेवदत्तादेरपि उपमेयत्वे श्या- मशब्दस्य तदनभिधायकत्वात् स्त्रीत्वविशिष्टशव्यभि- धायकत्वाच्च टापि) शस्त्रीश्यामो देवदत्त इति (पुंलिङ्ग- प्रयोगो) न सिध्यति । गोस्त्रियोरुपसर्जनस्येति इस्वत्वं भविष्यति । यद्येवं कुम्भकपाललोहिनी इत्यत्र वर्णादनुः दात्तादिति अनुपसर्जनलक्षण ईकारो न प्राप्नोति । एवं तहि शस्यामेव शस्त्रीशब्दो देवदत्तायां श्यामाशब्दः । एवमपि समानाधिकरणनेति वर्तते, व्यधिकरणत्वात्स- मासो न प्राप्नोति । किं हि वचनान्न भवति । यद्यपि ता. ।
निपातार्थविचारः। वद्वचनात्समासः स्यात् । इह खलु मृगांव चपला मृग- चपलेत्यत्र समानाधिकरणलक्षणः पुंवद्भावो न प्राप्नोति । एवं तर्हि तस्यामेवोभयं वर्तते । युक्त चैतत् ? इतरथाहि बहुपक्ष्यं स्यात् । यदि तावत् एवं विग्रहः करिष्यते श. स्त्रीव श्यामा देवदत्तति, शस्त्यांश्यामेत्येतदपेक्ष्यं स्यात् । अथाप्येवं विग्रहः करिष्ययते, यथा शस्त्री श्यामा तद्व दियं देवदत्तति, एवमपि देवदत्तायां श्यामेत्यतदपक्ष्यं स्यात्" इत्युक्तम् । तत्र तस्यामेवेत्यस्य उपमेयायामेवे- त्यर्थः । उपमानशब्दोऽपि सादृश्यमूलकाभेदाध्यवसा. यात उपमेये एव वर्तते इति भाष्याशयः । सादृश्यनि. हाय च तत्प्रयोजकस्य साधारणधर्मस्य श्यामत्वादेः घनश्यामो देवदत्त इत्यादौ तन्त्रादिना उपमाने उपमे. यचोभयत्रान्वयः तथाच उपमानश्यामघनाभि नः श्यामो देवदत्त इति बोधः । अत एव सूत्रे सामान्यवचनैरिति वचनपदमुपात्तम्। तेनच साधारण- धर्मत्वेन बोधकता लभ्यते । साधारणधर्मत्वं च अने कवृत्तिधर्मत्वम् । उभयत्र श्यामत्वादेरन्वयाभावे च अ. नेकवृत्तिधर्मत्वेन श्यामादिपदानां तद्बोधकत्वाभावा. समासो न स्यात् । तस्मात् सौत्रवचनपदस्वारस्येन उभयगतगुणवाचकत्वादिति उपमानानीतिसुत्रस्थभा. प्याञ्च उभयत्र साधारणधर्मान्वयः शाब्दः । तत्प्रयो. ज्यः सादृश्यान्वयस्तु आर्थः । नतु पूर्वपदस्य घनशब्दा- दः लक्षणया तत्सदृशान्वयबोधः शाब्दः । तथासति उपमानत्वेन बोधकानि सामान्यधर्मविशिष्टोपमेयवचनैः समानाधिकरणैः समस्यन्ते इत्यर्थन “उपमानानि परमलघुमञ्जूषायाम् नञ् द्विविधः। पर्युदासः प्रसज्यप्रतिषेधश्च । तत्रारोप- विषयत्वं नपर्युदासांत्यम्। । आरोपविषयत्वद्योत- कत्वञ्च नञः समभिव्याहतघटादिपदानामारोपितप्र- : सामान्यवचनैः” इत्यनेन समासानापत्तेः । पूर्वपदस्य लक्षणया उपमेयपरत्वेन उपमानवाचकत्वाभावात् । वृत्तिविग्रहयोः समानार्थत्वाय तद्विग्रहवाझ्यापि घन इव श्याम इत्यादी लक्षणया तत्सदृशपरत्वस्यावश्यकत्वे. न विग्रहवाक्यीयमुपमानवाचकत्वमपि नाश्रयितुं शक्य. ते । घनेन तुल्य इत्यादिकं तु न तद्विग्रहवाक्यम् । अ- न्यथा मृग्या तुल्या चपलत्येतद्विग्रहवाक्यक मृगचपले- त्यत्र पुंवद्भावानापत्तिः । सामानाधिकरण्याभावात् । षष्ठीतत्पुरुषादावतिव्याप्तिवारणाय · वृत्तौ विग्रहे च सामानाधिकरण्यस्य पुवद्भावेऽपेक्षितत्वात् । वृत्ति- विग्रहयोः समानार्थकत्वनियमभङ्गापत्तिश्च । त् "तस्यामेवोभयं वर्तते” इति भाष्यस्य पूर्वपदस्य उप. मानवाचकत्वेऽपि सादृश्यमूलकाभेदाध्यवसायात् उप- मेयपरत्वामत्येव पूर्वोक्तं तात्पर्य समीचीनम् । ततश्च वि. ग्रहे वृत्तौ च पूर्वपदस्य उपमानत्वविशिष्टार्थपरत्वात् उत्तरपदार्थसाधारणधर्मस्य च उभयत्रान्वयात् समासः, वृत्तिविग्रहयोः समानार्थकत्वं, साधारणधर्मान्वयप्रयो ज्याभेदान्वयबोधश्च सिध्यन्ति । ततश्च मूले प्रदर्शितो बांधः उक्तसूत्रस्थभाष्यसम्मत इति संक्षपः इति लघु मञ्जूषायां विस्तरः। तस्मा.
निपातार्थविचारः। . हात्तिनिमित्तबोधकत्वे तात्पर्यग्राहकत्वम् । प्रवृत्तिनि. मित्तं घटत्वब्राह्मणत्वादि । तस्मात् अब्राह्मण इत्यादौ आरोपितब्राह्मणत्ववान् क्षत्रियादिरिति बोधः । अत एवोत्तरपदार्थप्राधान्यं नञ्तत्पुरुषस्येति प्रवादस्स- ङ्गच्छते । अत एव च तस्मै ब्राह्मणाय असः शिव इत्यादौ सर्वनामकार्यम् । अन्यथा गौणत्वान्न स्या- त् । प्रतिनिमित्तारोपस्तु सदृशे एव भवतीति पर्यु: दामः सदृशग्राहीति प्रवादः । पर्युदासे निषेधस्त्वा- थः । अन्यस्मिन्नन्यधर्मारोपस्तु आहार्यज्ञानरूपः । बाधकालिकमिच्छानन्यं ज्ञानमेवाहार्यमिति वृद्धाः । सादृश्यादयस्तु प्रयोगोपाधयः, पर्युदासेत्वार्थिका: र्थाः । तदुक्तं हरिणा, तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नर्थाः षट् प्रकीर्तिताः ॥ इति । तत्सादृश्यं गर्दभेऽनश्वोऽयमित्यादौ । अभाव- स्तु प्रसज्यप्रतिषेधे वक्ष्यते । तदन्यत्वम् अमनुष्यं प्राणिनमानयेत्यादौ । तदल्पत्वम् अनुदरा कन्या इत्यत्र, अर्थात्स्थूलत्वनिषेधेनोदरस्याल्पत्वं गम्यते । अप्राशस्त्यं ब्राह्मणे अब्राह्मणोऽयमिति प्रयोगे। विरो- धः असुरः अधर्म इति प्रयोगे ।
परमलघुमञ्जूषायाम् पर्युदासस्तु स्वसमभिव्याहृतपदेन सामर्थ्या समस्त एव (प्रायः) । कचित्तु “यजतिषु येयजामहं करोति नानुयाजेषु"इत्यादौ घटः अपटो भवतीत्यर्थ- के घटो न पट इत्यादौ च समासविकल्पादसमासे. ऽपि । अत्रान्योन्याभावः फलितो भवति । प्रस. ज्यप्रतिषेधस्तु समस्तोऽसमस्तश्चेति द्विविधः । तत्र विशेष्यतया क्रियान्वयनियमात्सुबन्तेनासामर्थेऽपि असूर्यललाटयोरित्यादिज्ञापकात्समासः । तदुक्तम्, प्रसज्यप्रतिषेधोऽयं क्रियया सह यत्र नञ् । इति । अत्र क्रियापदं गुणस्याप्युपलक्षणमिति बहवः । अत एव नसूत्रे भाष्ये "प्रसज्यायं क्रियागुणौ ततः पश्चानितिं कुरुत" इत्युक्तम् । उदाहरणम् नास्मा. कमेकं प्रियमिति । एकप्रियप्रतिषेधे बहुप्रियप्रतीतिः । एवं न सन्देहः नोपलब्धिः इत्याधुदाहरणं गुण- स्य । सन्देहादीनां गुणत्वात् । क्रियोदाहरणम् अनचिच गेहे घटो नास्तीत्यादि । तस्य समस्तस्य तु अत्यन्ताभाव एवार्थः । असमस्तस्य तु असन्ताभा- योऽन्योन्याभावश्च । तादात्म्येतरसम्बन्धाभावोऽत्य- न्ताभावः । तादात्म्यसम्बन्धाभावोऽन्योन्याभावो भेद १) एतन्मध्यस्थः पाठः बहुषु पुस्तकेषु नास्ति ।
निपातार्थविचारः। इत्यर्थः । अमूर्यपश्या राजदाराः, गेहे घटो नास्ति, घटो न पटः इत्युदाहरणानि । प्रागभावप्रध्वंसाभावी तु न नञ्योत्यौ। तत्रात्यन्ताभावो विशेष्यतया तिङन्तार्थ- क्रियान्वय्येव । नर्थात्यन्ताभावविशेष्यकबोधे तिङ्समभिव्याहृतधातुजन्योपस्थितेः कारणत्वात् । तथा च घटो नास्तीत्यादौ घटकर्तृकसचापति- योगिकोऽभाव इति बोधः । अत एवाहं नास्मि त्वं नासीत्यादौ घटौ न स्तो घटा न सन्तीत्यादौ च पु रुषवचनव्यवस्थोपपद्यते । अन्यथा युष्मदादस्ति- १ प्रकारतासम्बन्धेनेति शेषः । कारणतावच्छेदकश्च विशेष्यतासम्बन्धो बोध्यः । एतादृशकार्यकारणभा- बागीरेणैव घटो न जायते इत्यादी घटोत्पत्यभावादिः प्रतीयते न तु तदभावोत्पत्त्यादिः । एवं च अनुगतरूपेण कार्यकारणभावकल्पने लाघवात् सर्वत्रैव तथा बोधः अ. ड्रोकार्यः। न क्रोधो नच मात्सर्य न लोभो नाशुभा मतिः। भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥ इत्यत्र तु प्रत्येकं भवतीत्यस्य, भवन्तीत्यत्र च एते नेत्यस्थाध्याहारण अन्वय उपपादनीयः । एवमन्यत्रापि बोध्यम् । :- ५८ परमलधुमञ्जूषायाम् सामाननाधिकरण्याभावात् मदभावोऽस्तीत्यादा- विव सा न स्यात् । असंदेह इत्यादौ तु आरोपितार्थ- कनबैव समासः । अत्यन्ताभावस्तु फलित एव । वायौ रूपं नास्तीत्यत्र तु तात्पर्यानुपपत्त्या रूपप्रति योगिकात्यन्ताभावे लक्षणा । तेन वावधिकरणि. का रूपाभावकर्तृका सत्तेति बोधः । वस्तुतस्तु सम- नियताभावैक्यमाश्रित्य फलितार्थ एवायम् । अरू- पमस्तीत्यर्थकं वा तत् । एतेनात्यन्ताभावप्रकारकक्रि याविशेष्यको बोध इति तार्किकोक्तमपास्तम् ।। नन्वेवं घटसत्तारूपोऽर्थः प्रथम बुद्धो नमा नि. वर्तयितुमशक्यः, सतो निषेधायोगात्, असतस्त्वस- वादेव निवृत्तिसिद्ध्या निषेधो व्यर्थः । तदुक्तम्, सतां च न निषेधोऽस्ति सोऽसत्सु च न विद्यते । जगत्यनेन न्यायेन नार्थः प्रलयं गतः ।। १ रूपाभावस्यैव बोधविषयत्वेन तात्पर्यविषयत्वा- दिति भावः। २ रूपसत्ताऽभावविषयके शाब्दबोधे जाते तत्सम- नियतो रूपाभावोऽर्थादेव प्रतीयते इति भावः । ३ अब्राह्मण इत्यादाविव आरोपितरूपत्ववान् यः वायुवृत्तिस्तत्कर्तृका सत्तेत्येव शाब्दबोधः। तदभावबो- घश्चात्रापि आर्थ एवेति बोध्यम् । .
निपातार्थविचारः। ५९ इति चेन । बौद्धो हि शब्दो वाचकः बौद्ध एवार्थो वाच्य इत्युक्तत्वात् बुद्धिसतोऽप्यर्थस्य नबा बाह्यसत्तानिषेधात् । बुद्धौ सन्नपि घटो बहिनास्ती- त्यर्थात् । न च घटास्तिपदाभ्यां या घटविषयाऽस्ति. बुद्धिर्जाता सा नना निवर्त्यते किं बौद्धार्थस्वीकारे- णेति वाच्यम् । बुद्धेश्शब्दावाच्यत्वेन ना तनिषे. धायोगात् । एतेन बौद्धार्थमस्वीकुर्वन्तो नबर्थबोधाय कष्टकल्पनां कुर्वन्तस्तार्किकाः परास्ताः । घटो न पट इत्यत्र घटपदस्य घटप्रतियोगिकभे- दाश्रये अप्रसिद्धा शक्तिरेव लक्षणा नञ्पदं तात्पर्य ग्राहकम् । तात्पर्यग्राहकत्वं द्योतकत्वमेवेत्युक्तम् । अत एवान्योन्याभावबोधे प्रतियोग्यनुयोगिपदयोः समानविभक्तिकत्वं नियामकमिति वृद्धोक्तं सङ्गच्छते । यत्तु घटपदं घटप्रतियोगिके लाक्षणिकं नञ्पदं तु भेदवति, अतो घटमतियोगिकभेदवान्पट इति बोध इति तार्किकैरुक्तम् । तन्न । भेदवति नञर्थे भेदस्यैक- देशत्वात् तत्र घटार्थानन्वयापत्तेः । पदार्थः पदार्थेना- न्वेति न तु पदार्थैकदेशेनेति न्यायात् । पदद्वये ल. क्षणास्वीकारे गौरवाच्च । भाष्यमते लक्षणाया नि- पातानां वाचकत्वस्य च स्वीकाराभावादिति संक्षेपः।
६० परमलघुमञ्जूषायाम् एक्शब्दस्यार्थोऽवधारणमसम्भवश्च । एवे चा नियोगे इति वार्तिके नियोगोऽवधारणं तद. भावोऽसम्भव इति कैयटोक्तेः । अनयोरर्थयोरेवशब्दो घोतकः । अत एव तं विनापि तदर्थप्रतीतिः सर्व : वाक्यं सावधारणमिति वृद्धोक्तं सङ्गच्छते । लवण- मेवासौ भुक्ते इत्यादौ प्राचुर्यार्थकस्य, घट एव प्रसि- द्ध इत्पादावप्यर्थकस्य, केच भोक्ष्यसे इसादाव- सम्भवार्थकस्य च तस्य सत्त्वमित्यालङ्कारिकाः । तच्चावधारणं त्रिविधम् । विशेष्यसङ्गतैवकारेऽन्ययो- गव्यवच्छेदरूपं, विशेषणसङ्गतैवकारेऽयोगव्यवच्छेद- रूपं, क्रियासङ्गतै वकारे ऽत्यन्तायोगव्यवच्छेदरूपम् । विशेष्ये, पार्थ एव धनुर्धरः । पार्थेतरावृत्ति यद्धनुर्धर त्वं तादृशधनुर्धरत्ववान् पार्थ इति बोधः इत्यन्य. स्मिन्धनुर्धरत्वसम्बन्धव्यवच्छेदः । विशेषणे, शङ्कः पाण्डुर एत्र । अयोगः सम्बन्धाभावः तस्य व्यव- च्छेदो निवृत्तिः, द्वाभ्यां निषेधाभ्यां प्रकृतार्थदाढ्य बोधनेनाव्यभिचरितपाण्डुरत्वगुणवान् शङ्ख इति बोध इत्ययोगव्यवच्छेदः । न तु नील इति हि फल- ति । क्रियायां, नीलं सरोजं भवत्येव । अत्य- न्तोऽतिशयितोऽयोगः सम्बन्धाभावस्तस्य व्यवच्छे- निपातार्थविचारः। ६१ दोऽभावः । तथा च कदाचिन्नीलत्वगुणवदभिन्नं. यत्सरोज तत्कर्तृका सत्तेति बोधः । कदाचिदन्यादृश- गुणसंयुक्तमित्यपि गम्यते इत्यत्यन्तायोगव्यवच्छे. दः । कचिदेवशब्दं विनापि नियमप्रतीतिः । तदुक्तं भाष्ये-अभक्ष्यो ग्राम्यकुक्कुट इत्युक्ते गम्यते एतत् आरण्यो भक्ष्य इति । सर्व वाक्यं सावधारणमिति न्यायात् । आलङ्कारिका अपि परिसङ्ख्याऽलङ्कार- प्रकरणे प्रमाणान्तरेण प्राप्तस्यैव वस्तुनः पुनः शब्दे. न प्रतिपादनं प्रयोजनान्तराभावात् स्वतुल्यान्यव्य- वच्छेदं गमयतीति । भागवतेऽपि, । लोके व्यवायामिषमद्यसेवा नित्यास्तु जन्तोन हि तत्र चोदना । व्यवस्थितिस्तेषु विवाहयज्ञ- सुराग्रहैरासु निवृत्तिरिष्टा ।। इति । व्यवायो मैथुनम् , आमिषं मत्स्यादि, मद्यम्- एतेषां सेवा जन्तोः प्राणिमात्रस्य नित्या रागतः प्राप्ताः । अतस्तत्र चोदना विधिर्नास्ति । नन्वेवम् "ऋतौ भार्यामुपेयात्" "हुतशेषम्भक्षयेत्” “सौत्रा- मण्यां सुराग्रहान् गृह्णाति" इत्येतेषां वैयर्थम् । भायाँ विवाहिताम् । तत्राह व्यवस्थिरिति । तेषु पुनः परमलघुमञ्जूषायाम् प्रापणमित्यर्थः । नियमस्यान्यनिवृत्तिफलकत्वादाह आम निवृत्तिरिष्टेति । अन्येष्विति शेषः । तदुक्तम् , विधिरसन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसङ्खयेति गीयते ।। इति । स्वर्गकामो ऽश्वमेधेन यजेतेति विधिः । क्षुत्पतिघा- तो यद्यपि शशकादिमांसः श्वादिमांसैश्च भवति तथापि शशकादिमांमैरेव कर्तव्य इति परिसङ्ख्यायते पञ्च पञ्चनखा भक्ष्या इत्यनेन । नखविदलनावह. ननाभ्यां बीहेनिस्तुषीकरणं प्राप्तम् , तत्रावहननेन निम्तुषीकरणं पुण्यजनकमिति त्रीहीनवहन्तीत्यनेन नियम्यते । यद्यपि परिसङ्ख्यायां नियमे च स्वार्थ- हानिः प्राप्तबाधः परार्थकल्पनाचेति दोषत्रयं तथा- प्यनन्यगत्या स्वीक्रियते इति वृद्धाः । पञ्च पश्चन. खा इत्यस्य नियमत्वेन भाष्ये व्यवहृतत्वात् अन्यनि- चत्तिरूपफलेनैक्याच्च नियमपदेन परिसङ्ख्याऽपि व्याकरणे गृह्यतइति संक्षेपः । अथ दशलकारादेशार्थाः । यद्यपि लकाराणामेवार्थनिरूपणं तार्किकैः कृतं तथापि उच्चारित एव शब्दोऽर्थप्रत्यायको नानुचारित इति भाष्याल्लोके तथैवानुभवाच्च तदादेशतिङामर्थो लादेशार्थविचारः । निरूप्यते । वर्तमाने लडित्यादिविधायकलाकर्मणीति- शक्तिग्राहकसूत्राणामादेशार्थ स्थानिन्यारोप्य प्रवृत्तिः। तत्र सङ्ख्याविशेष-कालविशेष-कारकविशेष-भावा. लादेशमात्रस्यार्थाः । तथाहि । लडादेशस्य वर्त- मानकालः, शबादिसमभिव्याहारे कर्ता, यञ्चिण्- समभिव्याहारे भावकर्मणी, उभयसमभिव्याहारे एकत्वादिसङ्ख्या चार्थः । तदाह- फलव्यापारयोस्तत्र फले तङन्यक्चिणादयः । व्यापारे शश्नमाधास्तु धोनयन्त्याश्रयान्वयम् ॥ फलव्यापारौ तु धात्वर्थावित्युक्तमेव । तत्र तिङ्समभिव्याहारे तदर्थसङ्ख्या तदर्थकारके विशेषणम् । कालस्तु व्यापारे । तदाह- फलव्यापारयो(तुराश्रये तु तिङः स्मृताः । फले प्रधानं व्यापारस्तिर्थस्तु विशेषणम् ।। तिङर्थः कर्ता व्यापारे, कर्म च फले विशेषणम् । क्रियाप्रधानमाख्यातमिति यास्कोक्तो क्रियापदं कर- णव्युत्पत्त्या व्यापारपरं कर्मव्युत्पत्त्या फलपरमिति बोध्यम् । तथाच ग्रामं गच्छति चैत्र इत्यत्रैकत्वाव- च्छिन्नचैत्राभिन्नकर्तृको वर्तमानकालिको ग्रामाभिन्न- कर्मनिष्ठो यस्संयोगः तदनुकूलो व्यापारः, ग्रामो
६४
परमलंघुमजूषायाम्
गम्यते मैत्रेणेत्यत्र तु मैत्रकर्तृकवर्तमानकालिकव्या.
पारजन्यो ग्रामाभिन्नकर्मनिष्ठः संयोग इति च
बोधः । वर्तमानकाललं च प्रारब्धापरिसमाप्तक्रियो-
पलक्षितत्वम् ।
लितिङस्तु भूतानद्यतनकालः परोक्षत्वं चा.
धिकोऽर्थः । शेषं लड्वत् । परोक्षत्वं च कारके विशे.
षणं न तु क्रियायां, तस्या अतीन्द्रियत्वेन लिमूत्रे
भाष्ये प्रतिपादनात् व्यभिचाराभावात् । कृभ्वाद्य
नुपयोगस्थले कृभ्वसां क्रियासामान्यमर्थः । आम्-
प्रकृतस्तु तत्तक्रियाविशेषः । सामान्यविशेषयोरभे.
१ शेष लड्वदिति । शेषं संख्याकारकं लड्नादित्यर्थः ।
एवमुत्तरत्र सर्वत्र बोध्यम् ।
२ कारके, क्रियाविष्टे इति शेषः । तेन गमनादिक्रि-
यानाविष्टस्य देवदत्तस्य दर्शनेऽपि न “देवदत्तो जगाम"
इत्यादिप्रयोगानुपपत्तिरिति बोध्यम् ।
३ अतीन्द्रियत्वेनेति । न च तस्या अतीन्द्रियत्वे पश्य
मृगो धावतीत्यत्र धावनस्य दर्शनविषयत्वानुपपत्तिरिति
वाच्यम् । तत्र दृशेर्शानसामान्यार्थकत्वाङ्गीकारात् ।
शीघ्रं शीघ्र देशान्तरसंयोगदर्शनेन च धावनमनुमीयते
इति तस्यानुमितिविषयत्वमेव पश्य मृगो धावतीत्यत्र
बुध्यते इति भावः।
लादेशार्थविचारः। - दान्वयः । अकर्मकप्रकृतिकामन्तानुप्रयुक्तकृभ्वसा. मकर्मिकैव क्रिया । वस्तुतस्तु अनुपयुक्तानां कृभ्वसां : फलशून्यक्रियासामान्यवाचकत्वमेव । सकर्मकाकर्मक- त्वव्यवहारस्तु आम्प्रकृतिभूतधातोरेवेति निष्कर्षः। ए. वश्च एधाञ्चके चैत्र इत्यत्र एकत्वावच्छिन्नपरोक्षत्वाव. च्छिन्नचैत्रकर्तृका भूनानद्यतनकालाधिकरणिका वृद्ध्य भिन्ना क्रियेति बोधः । परोक्षत्वं च साक्षात्कृतमित्येता. दृशविषयताशालिज्ञानाविषयत्वम् । भूतानद्यतनत्वं च अद्यतनाष्टपहरीव्यतिरिक्तत्वे सति भूतन्वम् । लुडादे- १ साक्षात्कृतमित्येतादृशविषयताशालिज्ञानाविषय- त्वमिति । अनेन "सुप्तोऽहं किल विललाप" इत्यादौ स्वकृ. तविलापस्य स्वप्रत्यक्षत्वेऽपि परोक्षत्वमुपपन्नम् । तत्का. ले साक्षात्करोमि इत्येवं साक्षिभास्यत्वेऽपि निद्रादिदो षात् तदंशे संस्कारानुदयेन साक्षात्कृतत्वावच्छिन्नविष- यताशालिशानाविषयत्वस्य सुवचत्वात । अतएव साक्षा. करोमि इति त्यक्त्वा साक्षात्कृतमित्युपात्तमिति भावः । २ अद्यतनाष्टप्रहरीव्यतिरिक्तत्वे सतीति । अद्यतना. ! नद्यतनविभागश्च त्रेधा। अतीताया रात्रः पश्चाधनागामि. न्याः पूर्वार्धेन च सहितो दिवसोऽद्यतनस्तद्भिन्नोऽनद्यतन इत्येकः प्रकारः । अतीताया रात्रंः अन्त्यतृतीयभागेन आ- गामिन्या आद्यतृतीयभागद्वयेन च सहितो दिवसोऽद्यत. नः, तद्भिन्नोऽनद्यतन इति द्वितीयः । उदयादुदयं याव. ..
परमलघुमञ्जूषायाम् शस्य तु भविष्यदनद्यतनार्थोऽधिकः। शेष लड्वत् । भ- विष्यत्त्वं च वर्तमानप्रागभावप्रतियोगिक्रियोपलक्षित- त्वम् । लुट्तिङस्तु भविष्यत्मामान्य मर्थः । लेतिङस्तु विध्यादिरर्थः । छन्दसि लिङर्थे लेडिति सूत्रात् । ल. प्रक्रियातो लेटोऽडाटाविति विशेषः । भवाति भवती- तिप्रयोगदर्शनान् । लोतिङस्तु विध्यादिरर्थः। तत्रा. धीष्टं सत्कारपूर्वको व्यापारः, आगच्छतु भवान् जलं गृह्णातु इत्यादौ । सम्प्रश्नोऽनुमतिः, गच्छति चेत् भ. वान् गच्छत्वित्यादौ । लङादेशस्य तु भृतानद्यतनत्व मधिकोऽर्थः । शेषं लड्वत् । लिङादेशस्य तु विध्या दिरर्थः । तत्र विध्यादिचतुष्टयानुस्यूतप्रवर्तनात्वेन चतुर्णा वाच्यता लाघवात् । तदुक्तं हरिणा, अस्ति प्रवर्तनारूपमनुस्यूतं चतुलपि । तत्रैव लिङ् विधातव्यः किं भेदस्य विवक्षय।।इति। दद्यतनः, तद्भिन्नोऽनद्यतन इति तृतीयः । अत्र च देशा- चाराद् व्यवस्था ज्ञया । १ अधीष्टमिति । बहुषु पुस्तकेषु अधीष्ट इति पुलि- पाठो दृश्यते । तत्र भावक्तान्तादर्शआद्यज् बोध्यः । तत्र भावक्तान्तस्य सत्कारोऽर्थः, तत्पूर्वको व्यापारश्च अच्प्रत्ययान्तार्थः।
नैयायिकानां मते लकारार्थविचारः। प्रवर्तनात्वं च प्रवृत्तिजनकज्ञानविषयतावच्छे. दकत्वं, तचेष्टसाधनत्वस्यैवेति तदेव लिडर्थः । न तु कृतिसाध्यत्वं, तस्य यागादौ लोकत एव लाभादित्यन्यलभ्यत्वात् । न च बलवदनि- ष्टाननुबन्धित्वं, द्वेषाभावेनान्यथासिद्धत्वात् इत्यन्यत्र विस्तरः । लुङादेशस्य तु भूतसामान्यमर्थः । भूतत्वं च वर्तमानध्वंसप्रतियोगिक्रियोपलक्षितत्वम् । ल- ङादेशस्य तु क्रियातिपत्तौ गम्यमानायां हेतुहेतुद्भावे च गम्यमाने भूतत्वं भविष्यत्वञ्चार्थः । आपादना तु गम्यमाना । भूते, एपश्चेदलप्स्यत ओदनमपक्ष्यत् । भविष्यति, मुष्टिश्चेदभविष्यत्मुभिक्षमभविष्यदिति सङ्क्षपः अथ नैयायिकानां मते सझेपाल्लकाराणामों निरूप्यते । तत्र लडादिलङन्ता दश लकाराः । तत्र लकारस्थ कर्ता कालः सङ्ख्या चेति त्रयोऽर्थाः । तत्र कर्तेति पातञ्जलाः । लः कर्मणिचेति सूत्रे च. कारेण कर्तुः परामर्शात् । कर्तृस्थाने व्यापार इति भाहाः। यत्न इति नैयायिकाः । युक्तं चैतत् । व्यापा. रताद्यपेक्षया लाघवेन यत्नत्वस्यैव शक्यतावच्छे. दकत्वात् । शक्ततावच्छेदकच लकारसाधारणं ल. - ६८ परमलघुमजूषायाम् त्वमेव । भवतीत्यादौ चादेशेनादेशिनो लस्यैव स्मर णादन्वयधीः । आदेशेषु बहुषु शक्तिकल्पने गौर- वात् । तदस्मरणे च शक्तिभ्रमादेवान्वयधीः । चैत्रो गन्ता गतो ग्राम इत्यादौ सामानाधिकरण्यानुरोधेन यथायथं कर्तृकर्मणी कृताच्ये । नचैवं लटः शतशा. नचावित्यनेन शतृशानचोरादेशत्वात्कथं कतारे शक्तिः। आदेशिशक्त्या निर्वाह एवादेशशत्यकल्पनांत । चैत्रः पचनित्यादौ सामानाधिकरण्यानुरोधादादे- शिशक्त्याऽनिर्वाहादत्रादेशेऽपि शक्तिः । इयांस्तु विशेषः । लत्वेन यत्ने शक्तिः आत्मनेपदत्वेन फले । मैत्रेण गम्यते ग्राम इ. त्यादौ मैत्रत्तिकृतिजन्यगमनजन्यफलशाली प्रा. म इत्यन्वयवोधात् । कृतिश्चात्र तृतीयार्थः । जन्यत्वं संसर्गः । मैत्रः कृतौ विशेषणं, सा च गमने, तच्च फले, तच्च ग्रामे । ग्रामं गच्छति मैत्र इत्य त्र तु ग्रामवृत्तिफलजनकगमनानुकूलकृतिमान्मैत्र इति बोधः । फलं च द्वितीयार्थः । जनकत्वं संसर्गः । ग्रामश्चात्र फले विशेषणं, तद् गमने, तच्च कृतौ, सा मैत्रे इति विशेष्यविशेषणभावभेदेनैव कर्मक तृस्थलीयबोधयोर्विशेषः । तावन्तः पदार्थास्तूभयत्रैव नैयायिकानां मते लकारार्थविचारः। ६९ तुल्याः । मैत्रेण ज्ञायते इष्यते क्रियते घट इत्यादौ तु वृत्तिस्तृतीयाया, विषयता त्वाख्यातस्यार्थः । मैत्र- त्तिज्ञानविषयो घट इति बोधः । घटं जानाति मैत्र इत्यादौ तु विषयता द्वितीयाया, आश्रयत्वं चाख्या- तस्यार्थः । घटविषयकज्ञानाश्रयो मैत्र इति बोधः । कालश्चातीतवर्तमानानागतात्मा यथायथं लडादे- रर्थः । लटो भवतीत्यादौ वर्तमानत्वं, लङ्लुङ्लिटाम् अभवत् अभूत बभूवेत्यादौ भूतकालः, लुइलुटोर्भविता भविष्यतीत्यादौ भविष्यत्कालः । लिङ्लोइलेटां भ. वेत् भवतु आग्नेयोऽष्टाकपालो भवतीत्यादौ विधिः । सङ्ख्या च केवलार्थः। लेटस्तु छन्दस्येव प्रयोगः । तत्र दीर्घत्वमपि विकल्पेन, भवति भवातीति दर्शनात् । तत्र व्या- पारादिबोधकेन लटा वर्तमानत्वं व्यापारादावेव बोध्यते । पचतीत्यादितो वर्तमानपाकानुकूलव्यापा- रवानिति बोधात् । एवमन्यत्रापि । ब्यापारबोधकाख्यातजन्यवर्तमानत्वप्रकारकबो. धे आख्यातजन्यव्यापारोपस्थितेर्हेतुत्वकल्पनान्नाति. प्रसङ्गः।
परमलघुमञ्जूषायाम् व्यापाराबोधकज्ञाधात्वादिसमभिव्याहृताख्यात- जन्यवर्तमानत्वप्रकारकबोधे तु तादृशधातुजन्यो- पस्थितिहेतुः । कार्यताकारणतावच्छेदिका च प्र. त्यासत्त्या विषयतैवेति नातिप्रसङ्गः । जानाति- इच्छति यतते इत्यादौ वर्तमानत्वाश्रयज्ञानाश्रयत्वा- दिबोधस्यैवानुभविकत्वात् । तत्र लटा शक्त्या वर्तमानत्वं लक्षणयाऽऽश्रयत्वं बोध्यतइति विशेषः । लटा स्वाधिकरणकालोपाधि. स्पन्द एव वर्तमानः प्रत्याय्यते । वर्तमानसामीप्ये विहितेन तु स्वानधिकरणसमीपवर्ती तादृशकालः । तत्रापि शक्तिलक्षणा वेत्यन्यदेतत् । नन्वेकपदोपस्थितयोः कृतिवर्तमानत्वयोः कथं मिथोऽन्वयः । तत्पदजन्यशाब्दबोधे पदान्तरजन्यो- पस्थितेहेतुत्वात् । कार्यतावच्छेदिका च प्रत्यासत्तिः प्रकारता । कारणतावच्छेदिका च विशेष्यतेति । अन्यथा हरिपदार्थयोः, दण्डेनेत्यादौ च करण- त्वैकत्वयोर्मियोऽन्वयापत्तेः । मैवम् । तत्तत्पदान्यत्व- स्योक्तव्युत्पत्तौ प्रवेशात् । कथमन्यथैवकारार्थयोर- न्ययोगव्यवच्छेदयोर्मियोऽन्वयः। घटो नश्यतीत्यादौ वर्तमानोत्पत्तिकत्वं प्रति.
७१ । नैयायिकानां मते लकारार्थविचारः । योगित्वं च लडर्थः । आचं नाशे प्रकारः, द्वितीयं घटे प्रकारः । वर्तमानोत्पत्तिकनाशप्रतियोगी घट इति बोधस्यानुभविकत्वात् । अत्र च वृत्तिद्वयस्य यु. गपद्बोधकत्वं सर्वैरेषितव्यम् । तादृशोत्पत्तिकत्वाति- योगित्वयोरर्थयोयुर्गपदेव बोधात् । नच तादृशोत्पत्ति- कत्वमेवार्थोऽस्तु । धात्वर्थस्य नाशस्य घटे प्राति- पदिकार्थे साक्षादन्वयासम्भवात् । न च प्रतियो- गित्वमेवार्थोऽस्त्विति वाच्यम् । चिरनष्टेऽपि नश्यती- ति प्रसङ्गात् । एतेनात्र वर्तमानत्वमेवार्थो नोत्पत्तिरित्यपास्तम् । केचित्तु लत्वमेवात्र प्रतियोगित्वस्य वृत्यवच्छे. दकं लट्त्वन्तु तादृशोत्पत्तिकत्वस्य । एकधर्मावच्छि- नवृत्तिद्वयस्यैव न युगपद्वोधकत्त्वम् । अन्यथा दण्डेनेत्यादौ करणत्वैकत्वयार्बोधो न स्यात् इसाहुः। अन्ये तु नश्यतीत्यादौ लटा नाशसामग्रयेव बोध्यते । तेन न चिरनष्टे नश्यतीति प्रसङ्गः । अतएव विन- इयत्ता विनाशसामग्रीसानिध्यमित्याहुः प्रामाणिकाः। आख्यातात्क्रियाविशेश्यको बोध इति वैयाकर. णाः भाट्टाश्च । आद्यनये धात्वर्थः क्रिया । चैत्र स्तण्डुलं पचतीत्यादितश्चैत्रकर्तृकतण्डुलकर्मकपाक ७२ परमलघुमञ्जूषायाम् इति धीः । अन्त्यनये भावना क्रिया प्रत्ययार्थः । चैत्रीयपाककरणिका तण्डुलकमिका भावनेति बोधः। प्रथमान्तार्थविशेष्यक एव बोधः । ओदनकर्म- कपाकानुकूल कृतिमांश्चैत्र इति बोध इति नैयायि. काः। द्वितीयाद्यर्थकमकरणत्वादेः क्रियायामेव स. मतेऽन्वयः। लङस्तु शक्यो ह्योऽनद्यतनकालः । लुङस्तु भूत- सामान्यम् । भूतत्वं च वर्तमानध्वंसप्रतियोग्युत्पत्ति कत्वं, न तु तादृशप्रतियोगित्वमेव । चिरोत्पन्नेऽपि पूर्वेधुरभवदितिप्रत्ययापत्तेः । नष्ट इत्यादौ नाशे त दन्वयासम्भवाच्च । उत्पत्तेस्तु देशकालादावन्वयान दोषः । अभवदित्यादौ तु धातुनोत्पत्तिः प्रत्याय्यते, नष्ट इत्यादौ तादृशोत्पत्तिकत्वं प्रत्ययेनेति विशेषः । लिटस्तु भूतकाल इव परोक्षत्वमप्यर्थः । अहं चका- रेत्यादिप्रयोगादर्शनात् । ननु चैवं णलुत्तमो वेति ज्ञापकात् उत्तमपुरुषस्तत्र स्यादिति वाच्यम्। सु- सोऽहं किल विललाप मत्तोऽहं किल विचचारेत्यादौ चित्तविक्षेपादिना पारोक्ष्यमुपपाद्य तत्र सूत्रसार्थक्य. सम्भवात् । तत्र च परोक्षत्वेन पारोक्ष्यसादृश्ये तात्पर्यम् । चक्रे सुबन्धुरिति तु न लिदप्रयोगोऽपि तु नैयायिकमते लकारार्थविचारः । तिङन्तप्रतिरूपको निपातः । लुइलुटोस्तु भविष्यत्कालः । भविष्यत्वं व. र्तमानप्रागभावप्रतियोग्युत्पत्तिकत्वम् । उत्पत्तौच दे शविशेषः कालविशेषश्चाधिकरणत्वेनान्वेति । गृहे घटो भविता अब घटो भविष्यतीत्यादौ धातुनो- त्पत्तिः प्रत्याय्यते, वर्तमानमागभावप्रतियोगित्वमा. श्रयत्वं च प्रत्ययेन । गृहाधिकरणकवर्तमानप्राग- भावप्रतियोग्युत्पत्याश्रयो घटः, अद्यतनप्रागभावप्र. तियोग्युत्पत्त्यायो घट इत्यन्वयबोधात् । वर्तमान- प्रागभावप्रतियोगित्वमात्रस्य लुडाद्यर्थत्वे श्वो गृहे समुत्पद्य परशः प्राङ्गणं गमिष्यति मैत्रे परश्वः प्रा गणे मैत्रो भविष्यतीति प्रसङ्गः । केचित्तु देशविशेषः कालविशेषश्च प्रागभावे प्र. तियोगिनि चान्वेति । परश्वः प्राङ्गणे मैत्रो भविष्य. तीत्यस्य परश्वोत्तिः प्राङ्गणवृत्तियः भागभावस्त- स्पतियोग्युत्पत्त्याश्रयः परश्वोत्तिः प्राङ्गणवृत्तित्र इति बोधः । तेन नोक्तातिप्रसङ्गः । एतेन श्वोभावि. नि घटे अद्य भविष्यतीति प्रसङ्गो निरस्त इत्याहुः ।। नङ्ख्यतीत्यादौ वर्तमानप्रागभावप्रतियोग्युत्पत्ति कत्वं प्रतियोगित्वं च प्रत्ययार्थः । श्वो घटो नवयती- छ ७४ परमलघुमजूषायाम् त्यादौ श्वोवृत्तिः वर्तमानप्रागभावप्रतियोगिनी योत्प त्तिस्तदाश्रयनाशप्रतियोगी घट इत्यन्वयबोधः। य- त्वत्र वर्तमानमागभावप्रतियोगित्वमेव प्रत्ययार्थ इति तन्न। श्वोभाविनाशके घटे अद्य नश्यतीति प्रसङ्गात् । पक्ष्यतीत्यादौ आद्यपाकव्यक्तिप्रागभावगर्भमेव भविष्यत्वम्, पकवानित्यादौ चरमपाकव्यक्तिध्वं. सगर्भमेव भूतत्वं भासते । तत्तत्समभिव्याहारस्य तादृशबोधे हेतुत्वात् । तेन पाकमध्ये कस्याश्चित्पा- कव्यक्तेरनुत्पादेऽपि कस्याश्चिदतीतत्वेऽपि न पक्ष्यति पकवानित्यादिप्रयोगः ।। लिङो विधिराशीश्चार्थः । यजेतेत्यादौ विधिः, आशीस्तु भूयादित्यादौ । सा च शुभाशंसनं तदिच्छे. ति यावत् । लोटस्तु विधिरनुमतिर्वा । गच्छत्वित्य- त्रानुमतिविषयगमनानुकूलकृतिमानिति बोधस्यानुभ- विकत्वात् । विधिः प्रवत्तनेति भाहाः । लिग्निष्ठो व्यापारः " १ श्वोभावी नाशो यस्य तस्मिन्नित्यर्थः । २ यद्यपि लोके आज्ञादिरूपो ऽभिप्रायविशेष एव प्रवर्तना तथापि वेदे पुरुषाभावाच्छब्दनिष्ठ एव स आ. श्रीयते इति भावः।
नैयायिकमते लकारार्थविचारः । पदार्थान्तरं, लिङ्पदज्ञानमेव वा । तस्य प्रवर्तनात्वेने ज्ञानं शब्दाधीनपत्तौ कारणम् । लिङ्कवणे आ- चार्यो मां प्रवर्तयतीति ज्ञानाद्वानयनादौ प्रवृत्तेः । आचार्यनिष्ठप्रवर्तना स्वभिप्रायविशेष एवेत्याहुः । तन्न । स्तनपानादिप्रवृत्ताविष्टसाधनताज्ञानस्य हेतुता- या आवश्यकत्वात् तत एवोपपत्तौ प्रवर्तनाज्ञानस्य हेतुत्वे मानाभावात् । स्वर्गकामो यजेतेत्यादौ प्रवर्तना- - १ क्लुप्तेन लिङ्पदज्ञानेनैवोपपत्तौ पदार्थान्तररूप. व्यापारकल्पनाया अनुचितत्वात् । तथाहि । प्रवृत्तिहे. तुव्यापारः प्रवर्तना । विधिशब्दो हि पुरुषप्रवृत्तिरूपार्थ- भावनां दशलकारसाधारणाख्यातत्वेन बोधयति, ज्ञातै. वच सा अनुष्ठातुं शक्यतइति भवति विधिशब्दस्य ज्ञा. नद्वारा प्रवृत्तिहेतुत्वम् । तस्य च प्रवृत्तिज्ञानद्वारा प्रवृ- त्तिहेतुत्वं "विधिशब्दः प्रवृत्तिबोधहेतुशक्तिमान्" इत्येवं ज्ञातस्यैवेति तादृशशक्तिमत्वेन ज्ञानमेव तस्य प्रवृत्ति. हेतुापार इति स एव प्रवर्तनाख्यां लभते । ज्ञानातिरि- कव्यापारकल्पने मानाभावादिति भावः । २ प्रवर्तनात्वेनैव ज्ञानस्य प्रवृत्ति प्रति कारणत्वान्न लोकवेदयोरननुगमः । लिशवणे अयं मां प्रवर्तयतीति- प्रतीतिसाक्षिकस्य प्रवर्तनात्वस्य आज्ञादिष्विव शब्द- व्यापारेऽपि सत्त्वादिति भावः। ३ इष्टसाधनत्वमाप प्रेरणात्वेनैव शक्यं, न स्वरूपतः।
परमलघुमञ्जूषायाम् विषयो यागकरणिका स्वर्गकर्मिका भावनेति बोधस्य प्रेरणात्वापेक्षया तस्य गुरुत्वात् । इष्टत्वांशं विहाय साधनत्वमात्रस्य वाच्यत्वेच आख्यातत्वांशोपस्थितप्र- वृत्त्या सह समानाभिधानश्रुत्या साधनत्वान्वयसम्भवे पदान्तरोपस्थापितस्वर्गेण सह समभिव्याहाररूपवा क्येन तदन्वयासम्भवात् प्रवृत्तिसाधनत्वरूपप्रेरणात्वे. एव पर्यवसानमिति इष्टसाधनत्वं न पदार्थः । किन्तु वाक्यार्थः । तथाहि । प्रवर्तनाविषयीभूताऽऽर्थभावना कि- म्भावयेदिति भाव्याकालायां समानपदोपत्तिमपि धा. त्वर्थमपुरुषार्थत्वाद्भाव्यतयाऽन्वयायोग्यं विहाय भिन्न- पदोपात्तमन्यविशेषणमपि स्वर्ग कामपदसम्बन्धात् पु. रुषार्थतयाऽवगतं साध्यत्वान्वययोग्य भाव्यत्वेनाश्रय- ति । अपुरुषार्थकर्मिकायास्तस्याः प्रवर्तनासाध्यत्वानुप- पत्तेः। एवञ्च स्वर्गभावनासाधनत्वात्स्वर्गरूपेष्टसाधन. त्वमपि प्रवर्तनायाः सिध्यति । पुरुषप्रवृत्तिरूपार्थभावना च यागव्यापारं विना स्वर्ग साधयितुं नालभिति याग. स्य स्वर्गसाधनत्वमाक्षिप्यते । नतु यागस्ग स्वर्गसाधनत्व वाक्यप्रमाणगम्यम् । यजधातोरकर्मकत्वेन तत्र द्विती- यान्तस्वर्गपदार्थस्य कर्मत्वेनान्वयायोगात् । तस्मात् फलसाधनत्वस्य प्रवर्तनात्वेनैव वाच्यतेत्यादिकं मण्ड- नमतसमर्थनं चैयाकरणादिसंमतमम्यतो विस्तरेणाव- गन्तव्यम् । मानाभावादिति तु नैयायिकमतनिरूपणप्र. स्तावे ग्रन्थकारेणोक्तमिति तत्कथनं वैयाकणसंमतमिति न भ्रमितव्यम् ।
नैयायिकमते लकारार्थविचारः। ७७ परैरभ्युपगमात् प्रवर्तनाविषयत्वमात्रज्ञानात् प्रवृत्त्यनु पपत्रावश्यकस्वर्गसाधनत्वादिज्ञानादेव तत्र प्रवृत्तेः। कार्य विधिरिति प्रोभाकराः । स्वर्गकामो यजे. १प्राभाकरा इति । तेहि प्रवृत्ति प्रति कार्यताज्ञानस्य कारणत्वमभ्युपगच्छन्ति । तथाहि । कार्यताशानं द्विचि- धम्-मयेदं कर्तुं शक्यते इत्येवंरूपमेकम् , मयेदमवश्यं कार्यमित्येवंरूपं द्वितीयम् । तत्राद्य पदार्थयोग्यतागम्य मिति न प्रवृत्तौ कारणम् । द्वितीयमिष्टलाधनत्वादिशा- नजन्यमिति चिकीर्षाद्वारा प्रवृत्तिहेतुः । अत एव इष्ट- साधनत्वेनाशाते मध्यन्नभोजने, बलवदनिष्टसाधनत्वेन झाते विषसंयुक्तानभोजनेच न प्रवृत्तिः । निरुक्तस्य का. यंताज्ञानस्य इष्टसाधनत्वज्ञानाद्यभावेऽजननात् । प्रवृत्ति प्रति इष्टसाधनत्वज्ञानादीनां त्रयाणां कारणत्वकल्पना- पक्षा लाघवेन उक्तकार्यताज्ञानस्यैव चिकीर्षाद्वारा कारणत्वकल्पनं समुचितमेव । प्रकरणादिहेतुकतात्प. यज्ञानस्य फलभूनशाब्दबोधकारणत्वकल्पनवत् । त. स्मात् कार्यताशानमेव प्रवर्तकमिति तदेव लोक विध्यर्थः। वेदे तु कार्य विध्यर्थः । तृप्तिकामः पचेदित्यादौ लोके पाकादौ तृप्तिरूपफलसाधनत्वस्य लौकिकप्रमाण- गम्यत्वेन तेन रूपेणावगते पाकादौ काम्यसाधनताशा. नाधीनकार्यताज्ञानवस्वरूपनियोज्यत्वविशिष्टान्वये का. यत्वान्वयो यथा भवितुमर्हति तथा स्वर्गकामो यजेते. त्यादौ वेदे यागादौ कार्यत्वान्वयो न भवितुमर्हति ।
परमलघुमञ्जूषायाम् तेत्यादौ स्वर्गकामनियोज्यकं यागविषयक कार्यमिति प्राथमिको बोधः । मनियोज्यकं यागविषयकं स्थायि स्वर्गसाधनं कार्यमिति द्वितीयः । स्वर्गकामनियोज्यको यागः स्वर्गकामकार्य इति तृतीयः । स्वर्गकामो याग- कर्तेति चतुर्थः । अहं स्वर्गकामोऽतो यागो मत्कृतिसाध्य इति पञ्चमः । न च प्रथम एव स्वर्गकामकार्यों याग इति बोधोऽस्तु, तथा च कार्यत्वे एव शक्तिर्न कार्ये इति वाच्यम् । (यागादिक्रियायां नियोज्यान्वयं विना कार्यत्वान्वयानुपपत्तेः।)नियोज्यत्वं हि क्रियानिष्ठका. म्यसाधनताज्ञानाधीनमत्कार्यामितिबोधवत्वम् । तत्तु स्वर्गकामनाविशिष्टे योग्यता ऽवच्छेदकतया भासते । क्षणिकयागे काम्यस्वर्गसाधनत्वरूपयोग्यताऽभावेन त- ज्ज्ञानाधीनकार्यताज्ञानवत्वरूपनियोज्यत्वविशिष्टान्वयरू- पाया योग्यतायाः कार्यत्वान्वयप्रयोजिकाया अभावात् । अतः अपूर्वरूपकार्य विध्यर्थमङ्गीकृत्य स्वर्गकामनियो- ज्यकं यागविषयक कार्यमिति प्रथमबोधोत्तरमपूर्वोप. स्थितौ तत्र द्विवीयबोधेन स्थायित्वस्वर्गसाधनत्वयो ग्रहे तद्वारा यागे स्वर्गसाधनत्वग्रहात् तत्र कार्यत्वबोध उपपादनीयः। अत एव च अतीन्द्रियस्य तस्य कार्यत्वोप पत्तिः।चतुर्थबोधस्तु प्रथमप्रतीतकृतेराश्रयान्वयलाभार्थ म् । पञ्चमस्तु यागे असाधारणप्रवृत्त्युपपादनार्थमित्यलम् नैयायिकमते लकारार्थविचारः। घटेन जलमाहरेत्यत्र घटे छिद्रतरत्ववत् । न च यागे स्वर्गसाधनत्वज्ञानं विनेदृशं नियोज्यत्वं भातुमहति । न वा यागे स्वर्गसाधनत्वं प्रथममेव शक्यं ज्ञातुम् । तद्धि साक्षात् परम्परया वा । नाद्यः । आशुविनाशि- नो यागस्य कालान्तरभाविनि स्वर्गरूपफले साक्षाद- हेतुत्वात् । नान्यः । परम्पराघटाकापूर्वानुपस्थितेः। अतो यागविषयक कार्यमिति प्रथमबोधादपूर्वोप- स्थितौ तद्वारा यागे स्वर्ग साधनत्वग्रहात् तत्र का- यत्वबोध इत्युक्तम् । नियोज्यत्वं च पदानुपस्थित- मपि योग्यतया शाब्दबोधे भासते द्वारमियत्र पि. धेहीतिवत् । प्रवर्तकज्ञान विषयो विधिरिति नैयायिकाः । प्रवर्तकं च कृतिसाध्यत्वेष्टसाधनत्वबलवदनिष्टा- ननुबन्धित्वानां ज्ञानम् । अतस्तेषु लिङ्शक्तित्रयम् । सुमेरुशृङ्गाहरणनिष्फलाचरणमधुविषसंपृक्तानभोजने. षु प्रवृत्तिवारणाय यथासंङ्घयं त्रयाणामेव ज्ञानं प्रवर्तकम् । यत्तु समुदिते शक्तिरेकैवेति । तन्न । वि. शेष्यविशेषणभावे विनिगमकाभावेन त्रिष्वेव पृथ. क्शक्तेः । एवञ्च स्वर्गकामो यजेतेत्यादौ स्वर्गका. मीयो यागः कृतिसाध्यः इष्टसाधनं बलवदनिष्टाननु.
परमलघुमञ्जूषायाम् बन्धीचेति बोध इत्येके। वस्तुतो नामार्थधात्वर्थयोर्भेदेन साक्षादन्वय स्याव्युत्पन्नतया तादृशयागानुकूलकृतिमान् स्वर्ग: काम इसेव बोधः । कृतिसाध्यत्वं च प्रवृत्तिसाध्य. त्वम् । अतो न समुद्रतरणादौ प्रवृत्तिः । इष्टसाधनत्वं चेष्टनिष्ठसाध्यतानिरूपकत्वमतो न तृप्तस्य भोजने प्र. वृत्तिः । बलबदनिष्टाननुबन्धित्वं तु स्वजन्यष्टोत्प- त्तिनान्तरीयकदुःखाधिकदुःखाजनकत्वम् । न हि सुख दुःखैर्विना लभ्यते इति न्यायेन नान्तरीय किश्चिद् दुःखमिष्टोत्पत्ताववश्यंभावि तदतिरिक्तदुः- खराहित्यमेव तत्वम् । ब्राह्मणो न हन्तव्य इत्यादौ नमः कृतिसा. ध्यत्वेष्टसाधनत्वनिषधे स्वारस्याभावात्तेन बलवद. निष्टाननुबन्धित्वनिषेधाद् ब्राह्मणवधो बलवदनि. जनक इत्यर्थः पर्यावस्यति । एतेन समुदिते लि- कः शक्तिकल्पनमपास्तम् ।। यद्यपि प्रकृत्यान्वितस्वार्थबोधकत्वं प्रत्य- यस्येति व्युत्पत्या नबर्थे बलवदनिष्टाननुवन्धि. त्वान्वयोऽसम्भवी तथाप्यन्यथानुऽपपत्त्या एतद तिरिक्तस्थले एवं सा व्युत्पत्तिः । अत एव नैयायिकमते लकारार्थविचारः । नातिरात्रे षोडशिनं गृह्णातत्यिादौ पोडशिग्र- हणाभाव इष्टसाधनमिति बोध इति दीधिति. कृतः । न हन्तव्य इत्यादौ हननाभावविषयकं का- र्यमिति बोध इति गुरवः । ननु पचतीत्यादौ ल- डायवर्तमानत्वादेर्यत्ने एवान्वयान सा व्युत्पत्तिः । मैवम् । यत्र प्रत्ययत्वं तत्र प्रकृत्यान्वितस्वार्थबो. धकत्वमिति व्याप्तेः । यः प्रत्ययार्थः स प्रकृयर्थस्य विशेष्यतया भासते इति व्याप्तेश्च ।। लेटस्तु यच्छब्दासमभिव्याहनस्यैव विधिरर्थः । समिधो यजतीत्यादौ विधिप्रत्ययात् । देवांश्च या. भिर्यजते ददाति च य एवं विद्वानमावास्यां यजते इत्यादौ तदप्रत्ययादिति ॥ लङस्तु भूतत्वं क्रियातिपत्तिश्चार्थः । अतिप- त्तिरनिष्पत्तिरापादनारूपा । सा च शक्या । सा चापादना तर्कः । तर्कत्वं च मानमत्वव्याप्यो जा- तिविशेषः । एधांश्चेदलप्स्यत ओदनमपक्ष्यत् इत्यादौ एधकर्मको भूतत्वेनापादनाविषयो यो लाभस्तदनुकू- लकृतिमान् ओदनकर्मको भूतत्वेनापादनाविषयो यः पाकस्तदनुकूलकृतिमांश्चेति बोधः । भविष्य. ति क्रियातिपदनेऽपि लुङ् । यदि सुदृष्टि-
८२
परमलघुमजूषायाम्
रभविष्यत् तदा सुभिक्षमभविष्यदितिप्रयोगद.
र्शनात् । भूनत्वभविष्यत्त्वयोर्बोधनियमस्तात्पर्या-
त् । यदि स्यादित्यादौ लिङोऽप्यापादनायां श
क्तिः । यदि निर्वह्निः स्यात् तर्हि निधूमः स्यादि-
त्यादौ तस्या एव प्रतीतेः । लाघवेन स्थानिनां वा.
चकत्वात् सङ्ख्यापि लकारार्थः ।।
इति लकारार्थनिर्णयः॥
अथ कारकाणि निरूप्यन्ते ॥
कर्ता कर्म च करणं सम्प्रदान तथैव च ।
अपादानाधिकरणमित्याहुः कारकाणि षट् ॥
तत्र क्रियानिष्पादकत्वं कारकत्वम् । तच क.
दिीनां षण्णामपि । तत्र प्रकृतधातुवाच्यव्यापारा-
श्रयत्वं कर्तृत्वम् ।
धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते ।
इति हर्युक्तेः । अन्यकारकनिष्ठो व्यापारस्तु
न प्रकृतधातुकाच्यः । यथा वह्निना पचतीत्यत्र व.
हिनिष्टः प्रज्वलनादिः । अन्यकारकनिष्ठव्यापारा.
श्रयस्य कर्तृत्ववारणाय धातुवाच्येति । तत्रोक्ते तु
कारकमात्रे प्रथमैव । तिङममानाधिकरणे प्रथमा
अभिहिते प्रथमेति वार्तिकद्वयात् । मूत्रमते तु कर्तु
कादिकारकविचारः । ८३ कर्माधर्थकप्रत्ययेन कर्नादेरुक्तत्वात् प्रथमायाः प्रा- तिपदिकार्थ एवार्थः । तस्य चाख्यातार्थकादिना- ऽभेदान्वयेन प्रथमार्थस्य कारकत्वम् । अत एवा. ख्यातार्थद्वारकक्रियान्वयात् *तदर्थस्य क्रियाजनक- * ननु परम्परया क्रियान्वितस्य कारकत्वे राज्ञः पु. रुषमानयेत्यादौ राजादीनामपि कारकत्वापत्तिः । न च क्रियानिष्ठविषयताविशिष्टविषयताश्रयत्वं कारकत्वम्- विषयतावै, साक्षात् परम्परया वा स्वनिरूपितत्वं, स्वनि- रूपितविषयतासामानाधिकरण्यम् एतदुभयसम्बन्धेन- तथाच राजनिष्ठविषयतायाः परम्परया क्रियाविषयता- निरूपितत्वेऽपि क्रियाविषयतानिरूपितविषयतासामाना. धिकरण्याभावान्न राज्ञः कारकत्वापत्तिरिति वाच्यम्। सु. न्दरस्य राज्ञः पुरुषमानयेत्यादौ सुन्दरपदार्थस्य परम्प- रया क्रियाविषयतानिरूपितराजपदार्थनिष्ठविषयता- समानाधिकरणसुन्दरत्वावच्छिन्नविषयताश्रयत्वेन का. रकत्वापत्तेः साक्षात् क्रियाविषयतानिरूपि- तविषयतासामानाधिकरण्यनिवेशेऽपि चैत्रेण स्वस्य पुत्रो दृश्यते इत्यत्र चैत्रस्य स्वपदार्थत्वेनापि कारक- त्वापत्तिः, सुन्दरश्चैत्रो गच्छतोत्यादौ सुन्दरपदार्थस्य कारकत्वानापत्तिश्चेति चेन्न कारकत्वव्याप्यक- तृत्वर्कमत्वादिसम्बन्धेतरसम्बन्धाघटितपरम्परया कि याविषयतानिरूपितविषयताश्रयस्यैव कारकत्वस्वी- कारात् । चैत्रो गच्छतीत्यादौ आख्यातार्थाश्रये चैत्र- -- परमलघुमञ्जूषायाम् त्वादस्याः कारकविभक्तित्वेन भाष्ये व्यवहारः । चैत्रो भवतीत्यत्र एकत्वावच्छिन्नचैत्राभिन्नकर्तृकं भ. वनमिति बोधः । आख्यातकृदादिना कर्नादेरभि. धानेऽपि प्रथमयाऽनुद्भूतकर्तृत्वादिशक्तिः प्रतिपा. द्यते इति तात्पर्यम् । कर्माख्याते तु चैत्रेण ग्रामो ग म्यते इत्यत्र चैत्रकर्तृकव्यापारजन्य एकत्वावच्छि- नग्रामाभित्रकर्मनिष्ठः संयोग इति बोधः । सम्बो- धनप्रथमार्थस्यापि अनुवाद्यत्वेनोद्देश्यतया युष्मदर्था- भेदेन *विधेयक्रियायामन्वयात् क्रियाजनकत्वरूपं 1 का- स्य विशेषणत्वेऽपि अभेदस्य सम्बन्धत्वाभावेन तस्य सम्बन्धानवच्छिन्नतया तद्घटितपरम्परायाः कर्मत्वा दिसम्बन्धेतरसम्बन्धाघटितत्वात्कारकत्वम् । चेत्रण स्वस्य पुत्रो दृश्यते इत्यादौ तु स्वपदार्थस्य पुत्रपदार्थे निरूपितत्वसम्बन्धेन विशेषणत्वात् तद्धटितपरम्परा. याः कर्तृत्वादिसम्बन्धेतरसम्बन्धघटितत्वत्वान्न रकत्वम् । कटादेः अधिकरणस्यापि परम्परया कि यान्वयेऽपि तद्घटितपरम्परायाः कर्तृत्वादीतरसम्ब- न्धाघटितत्वान्न कारकत्वानुपपत्तिरिति दिक् । *विधेयक्रियायामिाते । “सिद्धस्याभिमुखीभाव. मात्र सम्बोधनं विदुः । प्राप्ताभिमुख्यो ह्यत्मिा कि यासु विनियुज्यते” ॥ इति हर्युक्तेः विधेयक्रियायामेव. सम्बोधनप्रथमान्तार्थान्वयलाभात् प्रवृत्तिनिवृत्त्योश्च ..
कारकार्थविचारः। तत्फलत्वात् प्रवर्तानादियिषयक्रियायामेव तदन्वयः । अत एव वजानि देवदत्तत्यादौ जानीहोत्यादिः शेष आवश्यकः । अस्मत्पदार्थकर्तृकबजनस्य देवदत्तोहे. श्यकप्रवर्तनाविषयत्वाभावात् । विधेयक्रियायामन्व- योऽपि लोडर्थप्रवर्तनान्वयद्वारकः । प्रवर्तनायामुः देश्यनानिरूपकत्वसम्बन्धेन प्रकृत्यर्थान्वयः । तस्या. श्व विषयतासम्बन्धेन धात्वर्थे । अभिमुखीभावमात्रसं. बोधनस्य प्रकृत्यर्थे एवान्वयः । अभिमुखोभावश्च प्रयोक्तृवचनार्थज्ञानायादरवैशिष्टयेनावस्थानम् । अय. मेव प्रयोकिच्छाविषयप्रकृतवाक्यार्थविषयकबोधानुकूलो व्यापारः। तदाश्रयत्वं सम्बोध्यत्वम् । एतद्व्यापारानु- कूलस्य सम्बोधनविभक्त्यन्तशब्दप्रयोगरूपप्रयोक्तृव्या- पारस्येतरनैरपेक्ष्येणैव प्रतीतेस्तस्य न वाक्यार्थत्वम् । अ- भिमुखीभावस्यापि प्रातिपदिकार्थत्वमेव । तथाच राम मां पाहीत्यादौ अभिमुखीभवद्रामाधुद्देश्यकप्रवर्तनाविषयो मत्कर्मकं रक्षणमिति बोधः । राम देवदत्तं मा पाहीत्यादौ च देवदत्तरक्षणं रामोद्देश्यकनिवर्तनाविषय इति बोधः । वजानि देवदत्तत्यादौ जानीहीत्यध्याहारस्वीकारादेव स. म्बोधनस्य कर्तृत्वव्यवहारो वृद्धोक्ता संगच्छते । अन्यथा वजनक्रियाकर्तृत्वस्थाभावात् तत्र स दुरुपपादः । अ- स्माकं तु सूपपादः । तस्यैव त्वंपदाथत्वेन अध्याहृतक्रि- याकर्तृत्वात् । अतएवच तिङ्समानाधिकरणे प्रथ मेति वार्तिकमते प्रथमा सिध्यति । तिङ्समानाधि- करणयुष्मत्पदसमानाधिकरणत्वात् । तदू ध्वनयन्नाह ।
परमलघुमजूषायाम् कारकत्वम् । देवदत्त त्वं गच्छेत्यादौ अभिमुखीभव देवदत्ताभिन्नयुष्मदर्थोद्देश्यकप्रवर्तनादिविषयो गमन- मिति बोधः । अत एव- आश्रयोऽवधिरुद्देश्यः सम्बन्धः शक्तिरेव वा । यथायथं विभक्त्यर्थाः सुपा कर्मेति भाष्यतः ॥ इत्यभियुक्तोक्तं-- मुपां कर्मादयोऽप्यर्थाः सङ्कया चैव तथा तिङाम् । इति भाष्यं च सङ्गच्छते । अनुक्तकादिषु तृतीयादयो विभक्तयः, अनभिहिताधिकारे तासां विधानादित्यन्यत्र विस्तरः ।। ननु क्रियानिमित्तत्वं कारकत्वमिति स्वीकार्य: मिति चेन्न । चैत्रस्य तण्डुलं पचतीत्यत्र सम्बन्धिनि अभिमुखीभवद्देवदत्ताभिनयुष्मदर्थेति । श्रूयमाणपदवृत्त्यैव बोधस्वीकारात् देवदत्तपदेनैव लक्षण. देवदत्तोद्देश्यकप्रवर्तनाविषयज्ञानरूपवाक्यार्थबो. धनात् एकति वाक्यप्रिति परिभाषितं वाक्यलक्ष. णमपि समन्वेतीति आमन्त्रितनिधातसिद्धिः । एतेन अध्याहृतक्रियायामन्वये वजानीत्यनेनैकवाक्यत्वाभा. वान्निघातो न स्यादित्यपास्तम् । नद्यास्तिष्ठति कूले इत्यादाविव परम्परया व्रजानीत्यनेनान्वयस्व अध्या. हृतक्रियान्वयेऽपि सत्त्वेनैकवाक्यत्वस्य सुलभत्वा- श्वेति दिक् ॥ अत्र या are. ...M. कारकार्थविचारः। चैत्रादावतिव्याप्तेः । अनुमत्यादिप्रकाशनद्वारा स. म्पदानादेरिव तण्डुलादिद्वारा सम्बन्धिनोऽपि क्रि- यानिमित्तत्वात् । किन्तु क्रियान्विताविभक्त्यर्था- वितत्वं क्रियानिवर्तकत्वं वा कारकत्वम् । वि. शेष्यतया क्रिया सुप्तिङन्यतरविभक्यर्थेऽन्वे- ति । स च विशेष्यतयैव चैत्रघटादौ । षष्ठय- र्थस्य तण्डुलादिनामार्यान्विततया क्रियाऽनन्वित. त्वात् । अत एव षष्ठयर्थस्योपपदविभक्त्यर्थस्य च न कारकत्वं क्रियान्वयाभावादिति शाब्दिकाः । उ. पपदविभक्तीनामपि सम्बन्ध एवार्थः । चैत्रस्य पच. तीत्यादावपि तण्डुलादिपदाध्याहारेणैव बोधः । ष. ष्ठयर्थसम्बन्धस्य नामार्थेनैव क्रियायाः कर्मवादिनैव साकारत्वेन सम्बन्धक्रिययोनिराकासत्वात् । यत्तु कारकान्तराप्रयोज्यत्वे सति कारकचक्र- प्रयोजकत्वं कर्तृत्वमिति । तन्न । स्थाली पचति अ. सिश्छिनत्तीत्यादौ स्थाल्यादेः कारक चक्रायोजक त्वात्कारकान्तरप्रयोज्यत्वाच्च तत्त्वं न स्यादित्यलम् । कर्मत्वं च प्रकृतधात्वर्थप्रधानीभूतव्यापारपयो- ज्यप्रकृतधात्वर्थफलाश्रयत्वेनोद्देश्यत्वम् । इदमेव क- मलक्षणे ईमिततमत्वम् । गां पयो दोग्धीसादौ प.
८८
परमल घुमजूषायाम्
..
योवृत्तियों विभागस्तदनुकूलो व्यापारो गोत्तिः तद.
नुकूलश्च गोपत्तिः । अत्र पयसः कर्मत्वसिद्धये प्रयो-
ज्यत्वनिवेशः । जन्यत्वनिवेशे तन्न स्यात् । प्रयागा-
काशी गच्छतीत्यत्र प्रयागस्य कर्मत्ववारणाय प्र.
कृतवात्वर्थफलेति । नहि विभागः प्रकृतधात्वर्थः कि-
न्तु नान्तरीयकतया गमने उत्पद्यते । प्रयागस्य फल.
तावच्छेदकसम्बन्धेन फलाश्रयत्वेनानुद्देश्यत्वाच ।
सम्बन्धः
फलस्य व्यापारे स्वानुकूलत्वं-स्वेच्छाधी.
नेच्छाविषयत्वम्-सदुभयसम्बन्धेनान्वयः । ताह.
शलम्बन्धघटकेच्छीयविषयतावच्छेदकश्च
फलतावच्छेदकः तथा च तण्डुलं पचतीत्या-
दौ "समवायेन विक्लित्याश्रयस्तण्डुलो भवतु" इत्या-
रकेच्छायाः कर्तृनिष्ठत्वेन ताहशेच्छोयफलनिष्ठविषय.
तावच्छेदकत्वस्य समवाये एव सत्त्वेन तत्संबन्धेन
फलाश्रयस्यैव कर्मत्वं, नतु कालिकादिना फलाश्रयस्य ।
तत्संबन्धस्य निरुक्तच्छीयविषयतावच्छेदकत्वाभावात् ।
एवं प्रामाद्विभजते इत्यादौ विभागसमानाधिकरण
व्यापारार्थकोवपूर्वकभजधातुयोगे प्रामादेन कर्मत्वम् ।
तस्य प्रकृतधात्वर्थव्यापारप्रयोज्यविभागरूफलाश्रयत्वे.
ऽपि "अनुयोगित्वेन विभागाश्रयोऽहं भवानि' इत्याका-
रकेच्छाया एव तत्र कर्तृनिष्ठायाः प्रतीयमानत्वेन अनुयो.
गित्वस्यैवेन्छीयविषमतावच्छेकत्वेन तेन सम्बन्धेन
कारकार्थविचारः। ८९ ननु प्रकृतधात्वर्थग्रहणेनैवात्र वारणादुद्देश्य- त्वनिवेशः किमर्थ इति चेन्न । तस्यासाधारणं प्रयोजनं काशी गच्छन्पथि मृत इति काश्या: फलाश्रयत्वाभावेऽपि फलाश्रयत्वेनोद्देश्यत्वसत्त्वात्क- मत्वम् । ननु काशी गच्छति चैत्रे चैत्रः काशी विभागरूपफलाश्रयत्वाभावात् । ग्रामं त्यजतीत्यादौ त्य: जधातुयोग तु प्रामादेः कमत्वं भवत्येव । तत्र त्यजधा- तुना कर्तृव्यापारव्यधिकरणविभागस्यैव प्रतीत्या "प्र. तियोगित्वेन विभागविशिष्टो ग्रामो भवतु" इत्याकारके. च्छाया एव तत्समभिव्याहारे प्रतीत्या च प्रतियोगित्वस्यै- वेच्छीयविषयतावच्छेदकत्वेन तत्संबन्धेन फलाश्रयत्वस्य सत्वात् । एवं च प्रयागात् काशीं गच्छति इत्यत्र नवीनमते पञ्चम्युपपत्तये विभागस्य धात्वर्थत्वेऽपि व्यापारसमानाधिकरणस्यैव विभागस्य प्रतीत्या अ- नुयोगित्वस्यैव फलतावच्छेदकत्वात्तेन सम्बन्धेन फ. लाश्रयत्वेन प्रयागस्यानुद्देश्यत्वान्न कर्मत्वमिति भावः । गमधात्वादिसमभिव्याहारेऽपि विभागस्य धात्वर्थवं ध्रुवमपाये इति सूत्रे शब्देन्दुशेखरे स्पष्टमभिहितमिति तत एवावगन्तव्यम् । जन्यतावच्छेदकस्य, प्रकारता. वच्छेदकस्य वा फलतावच्छेदक संबन्धत्वमिति तु न युक्तम् । तथासति ग्रामं त्यजति प्रामाद्विमजते इत्यादौ सनवायस्यैवाविशेषेण फलतावच्छेदकत्वादुभयत्रापि ग्रामादेः कर्मत्वापत्तरित्यन्यत्र विस्तरः ।
९० परमलधुमञ्जूषायाम् गच्छति न प्रयागमिति प्रयोगानुपपत्तिः, प्रयागस्य फलाश्रयत्वेनोद्देश्यत्वाभावादिति चेत्, उच्यते । कर्मलक्षणे ईप्सिततमपदस्य स्वार्थविशिष्टयोग्यता- विशेषे लक्षणा । तथाच प्रकृतधात्वर्थप्रधानीभूतव्या. पारप्रयोज्यप्रकृतधात्वर्थफलाश्रयत्वेनोद्देश्यत्वयोग्य- ताविशेषशालित्वं कर्मत्वम् । तच प्रयागस्याप्यस्तीति. कर्मत्वं तस्य भुलभम् । एतेन कार्यान्तरं कुर्वति चैत्रे किंग्रामंगच्छति अथ वा आदनं पचतीति प्रश्ने न ग्रामं गच्छति नौदनं पचतीत्यादिप्रयोगा व्याख्याताः। यत्र तु ताडनादिना पराधीनतया विषभोजनादिकं तत्र विषादि तादृशफलाश्रयत्वेनोद्देश्यमेव । अत एब "आतश्च विषमीप्सितं यद्भक्षयति ताडनात्" इति भाष्यं सङ्गच्छते । एतेन कशाभिहतः कारागारं गच्छ. तीति व्याख्यातम् । कालत्रये काशीगमनशून्ये चैत्रे काशी गच्छति चैत्र इति वारणाय विशेष इति । काश्याः फलाश्रयत्वेनोद्देश्यत्वयोग्यतासत्वेऽपि तद्वि- शेषाभावान कर्मत्वत् । तद्विशेषश्च व्यापारसमकालि. कस्तटस्थजनगम्यः । किश्च ईदृशस्थले तद्विशेषवत्त्वे. पि निषेध एवानुभवसिद्ध इति कार्शी न गच्छतीति किमनुपपन्नम् ।
कारकार्थविचारः। नन्वनं भक्षयन् विषं मुझे ग्रामं गच्छस्तृणं स्पृशतीत्यादौ विषतृणयोरुद्देश्यत्वाभावात् कथं कर्मत्वमिति चेच्छृणु । तथायुक्तमिति लक्षणान्त- रात् । प्रकृतधात्वर्यप्रधान भूतव्यापारमयोज्यमकृत- धात्वर्थफलाश्रयत्वमनीप्सितकर्मत्वमिति तदर्थात् । प्रयागात्काशी गच्छतीत्यत्र प्रयागस्य कर्मत्ववारणा- य प्रकृतधात्वर्थफलेति । द्वेष्योदासीनकर्मसंग्रहार्थमि- दं लक्षणम् । दुहादीनां व्यापारद्वयार्थकत्वपक्षे अ- कथितश्चेति व्यर्थ, पूर्वेणैवेष्टसिद्धेः । एकव्यापारबो- धकत्वपक्षे तु सम्बन्धषष्ठीबाधनार्थम् । तत्पक्षे कर्म सम्बन्धित्वे सति अपादानादिविशेषाविवक्षितत्व- मकथितकर्मत्वमिति तृतीयलक्षणेन गां पयो दोग्धी- त्यादौ गामित्यस्य कर्मत्वसिद्धिरित्यन्यत्र विस्तरः। यत्तु तार्किकाः । कर्मत्वं तु न करणव्यापार्य: त्वं, तद्धि करणजन्यव्यापारवत्त्वम् । दात्रेण धान्य लुनातीत्यादौ हस्तादिकरणजन्यव्यापारवति दात्रा- दावतिव्याप्तेः । नापि क्रियाजन्यफलशालित्वं तत् । चैत्रश्चत्रं गच्छतीत्यापत्तेः । संयोगरूपफलस्योभ- यकर्मकर्तृनिष्ठत्वात् । नापि परसमवेतक्रियाजन्य- फलशालित्वं तत् । गमिपत्योः पूर्वस्मिन्देशे त्यजेश्चो- ९२ परमलघुमजूषायाम् त्तरस्मिन्देशे कर्मत्वप्रसङ्गात् । नदी वर्धतइत्यादौ अ- वयवोपचयरूपडिक्रियायाः तीरप्राप्तिरूपफलाश्रये तीरे कर्मत्वापत्तेश्चेति ॥ अत्र ब्रूमः-धात्वर्थतावच्छेद- कफलशालिवं कर्मत्वं, तादृशफलं च गमेस्संयोग- स्त्यजेर्विभागः पतेरधोदेशसंयोगः । अघोदेशरूप- कर्मणो धात्वर्थनिविष्टत्वादकर्मकत्वेन पर्ण वृक्षाद् भूमौ पतति । संयोगमात्रफलपक्षे वृक्षाद् भूमि पत- तीति । ननु चतुर्थलक्षणेऽपि चैत्रश्चैत्रं गच्छतीत्याप. त्तिस्तत्र हि धात्वर्थतावच्छेदकफलं संयोग इति चेन्न । लक्षणे व्यापारानधिकरण वे सतीतिविशेष. णदानादित्याहुः॥ तन्न । काशी गच्छन् पथि मृत इत्यादौ काश्याः, काशी गच्छति न प्रयागमित्यादौ प्रयागस्य, ग्राम न गच्छतीत्यादौ ग्रामस्य च तादृशफलशालिवाभा- वादेतस्य लक्षणस्यात्र सर्वत्राव्याप्तः । ननु वृक्षं सजति खग इत्यत्र वृक्षस्य विभाग- रूपफलाश्रयत्वेनापादानत्वमस्त्विति चेन्न । अत्र हि विभागः प्रकृतधात्वर्थः । यत्र च विभागो न प्रकृत- धात्वर्थस्तद्विभागाश्रयस्यैवापादानत्वं, यथा वृक्षात्प- कारकार्थविचारः। ततीसादौ । यत्र च प्रकृतधात्वर्थो *विभागस्तत्रोभ- यप्राप्ती अपादानमुत्तराणि कारकाणि बापन्ते इति भाष्ययुक्तेः कर्मस्वम् ।। अनुक्ते कर्मणि षष्ठीद्वितीये, भारतस्य श्रवणं भारतं शृणोतीति यथा ॥ सकर्मकत्वं च फलव्यधिकरणब्यापारवाचकत्व- म् । फलसमानाधिकरणव्यापारवाचकत्वमकर्मकत्वम्। अद्य देवदत्तो भवति उत्पद्यत इत्यर्थः । अत्रोत्पत्ति- रूपं फलं बहिनिस्सरणं च व्यापारः देवदत्तनिष्ठ एव । व्यापारमात्रवाचकत्वं वाऽकर्मकत्वम् । अस्ति भवति विद्यते वर्ततइत्यादिधातुषु फलस्य सर्दुर्वि- ज्ञेयत्वात् । सत्ता हि स्थितिरूपो व्यापारविशेषः । देवदत्तोऽस्तीत्यादौ देवदत्तकर्तृका सत्ते सेव बोधा- च । फलव्यापारयोर्धातुर्वाचक इति तु बाहुल्याभि- प्रायेणेति दिक् । स्वनिष्ठव्यापाराव्यवधानेन फलनिष्पादकत्वं करणत्वम् । इदमेव साधकतमत्वम् । क्रियायाः परिनिष्पत्तिर्यव्यापारादनन्तरम् । विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम् ॥ इति हयुक्तः। क्रियाया इत्यस्य फलामिका- * फलतावच्छेदकसंबन्धेन च फलाश्रयत्वमिति शेषः ।
1rNIMA ९४ परमलघुमञ्जूषायाम् या इत्यर्थः । रामेण बाणेन हतो वालीत्यादौ धनुरा- कर्षणादेापारस्य बाणव्यापारात्पूर्वमपि कर्तरि स. वात् । रामाभिन्नकर्तुनिष्ठव्यापारप्रयोज्यो यो बाण- निष्ठो व्यापारस्तजन्यं यत् प्राणवियोगरूपं फलं तदा. श्रयो वालीति बोधाच्च । रामो बाणेन वालिनं हन्ती- खादौ कर्तृप्रत्यये बाणव्यापारजन्यो यो वालिनिष्ठः प्राणवियोगस्तदनुकूलो रामकर्तृको व्यापार इति बोधः । अर्थाद्रामव्यापारप्रयोज्यो बाणव्यापार इति पार्णिको बोधः । कादिपञ्चकारकाणां करणत्व- वारणाय व्यापाराव्यवधानेनेति दिक् । *क्रियामात्रकर्मसम्बन्धाय क्रियायामुद्देश्यं यत् कारकं तत्त्वं सम्प्रदानत्वम् । यथा ब्राह्मणाय गां ददातीसादौ दानक्रियाकर्मीभूतगोसम्बन्धाय ब्राह्म- णो दानक्रियोद्देश्यः । गोब्राह्मणयोः स्वस्वामिभा- वः सम्बन्धः, चैत्रो मैत्राय वार्ताः कथयतीत्यत्र मैत्रवार्तयो यज्ञातृभावः सम्बन्धश्च । यत्तु वृत्तिकाराः-सम्यक्पदीयते यस्मै तत्सम्प्र. *अत्र मात्रशब्दः कात्स्न्ये । तथाच क्रियासामा- न्यस्य कर्मणा सम्बन्धायेत्यर्थः, नतु दानरूपाया एव । तेन चैत्रो मैत्राय वार्ताः कथयतीत्यादौ कथनादिसंग्रहः।
कारकार्थविचारः । ९५ दानमित्यन्वर्थसंज्ञेयम् । तथा च गोनिष्ठस्वस्वत्वनि- वृत्तिसमानाधिकरणपरस्वत्वोत्पत्त्यनुकूलव्यापाररूप- क्रियोद्देश्यस्य ब्राह्मणादेरेव सम्प्रदानत्वम् । पुन ग्रहणाय रजकस्य वस्त्रदाने रजकस्य वस्त्रं ददातीति सम्बन्धसामान्ये षष्ठयवेत्याहुः ।। तन्न । खण्डिकोपाध्यायः शिष्याय चपेटां ददा. तीतिभाष्यविरोधात् । कर्मणा यमभिप्रैतीतिसूत्र- व्याख्यावसरे भाष्यकृता ऽन्वर्थसंज्ञाया अस्वीका. राच । अत एक- तदाचक्ष्वासुरेन्द्राय स च युक्तङ्करोतु यत् । इति सप्तशतीश्लोकः सङ्गच्छते । तस्माद्रजका. य वस्त्रं ददातीत्यादि भवत्येव । अत्राधीनीकरणेऽर्थे ददात्तिः । चपेटां ददातीत्यत्र न्यसनेऽर्थे इति । सम्प्रदानचतुर्थर्थ उद्देश्यः । तथा च ब्राह्मणो- द्देश्यकं गोकर्मकं दानमिति बोधो मैत्रोद्देश्यक वार्ता. कर्मकं कथनमिति च । अकर्मकक्रियोद्देश्यत्वं सम्प- दानवामिति लक्षणान्तरम् । यथा पत्ये शेते इत्या- दि । पत्युद्देश्यक नायिकाकर्तृकं शयनमिति बोधः । ननु दानादीनां तदर्थत्वात्तादर्थे चतुर्येव सिद्धौ किं कर्मणा यमिति सम्पदानसंज्ञया, चतुर्थी परमलघुमञ्जूषायाम् सम्प्रदाने इति सूत्रं तु रुच्यर्थानामिति विषये चतु- Wथमिति चेन्न । दानकर्मणो गवादेर्लाह्मणार्थत्वेऽपि दानक्रियायाः परलोकार्थत्वात् । अत एव तादर्थ्य. चतुर्थी दानकर्मणो गवादेः सम्पदानार्थत्वेऽपि दान- क्रियायास्तदर्थत्वाभावेन चतुर्थ्यन्तार्थस्य दानक्रिया. यामन्वयानापत्त्या कारकत्वानापत्तिरिति हेलाराजः॥ उपकार्योपकारकत्वसम्बन्धस्तादर्थ्यचतुर्थ्यर्थः । ब्राह्मणाय दधीत्यादौ ब्राह्मणोपकारकं दधीति बो. धादिति दिक् । तत्तकसमवेततत्तत्क्रियाजन्यप्रकृतधात्ववाच्य- विभागाश्रयत्वमपादानत्वम् । तदेवावधित्वम् । विभागश्च न वास्तवसम्बन्धपूर्वको वास्तव एव, किन्तु बुद्धिपरिकल्पितसम्बन्धपूर्वको बुद्धिपरिकल्पि. तोऽपि । माथुराः पाटलिपुत्र केभ्य आध्यतरा इत्या- दौ बुद्धिपरिकल्पितापायाश्रयणेनैव भाष्ये पञ्चगी- साधनात् । अत एव चैत्रान्मैत्रः सुन्दर इत्यादिलों के प्रयोगः । *वृक्षं त्यजति खग इत्यादावपादानत्व. वारणाय प्रकृतधात्ववाच्येति । परस्परस्मान्मेषावप- सरत इसत्रापादानस्वाय तत्तत्कत्रिति । तत्तत्प- * अऋत्यं तत्त्वं पूर्वमुक्तम् ।
कारकार्थविचार । ९७ शुविशेषनिष्ठव्यापारजन्यविभागाश्रयस्तत्तत्पशुविशे- षः । किं च मेषपदवाच्ययोः पशुविशेषयोः क्रिया- श्रयत्वविवक्षा, परस्परपदवाच्चयोस्तयोस्तु. विभा- गाश्रयत्वविवक्षेत्यौपाधिकस्तयोर्भेदः । शब्दस्वरू- पोपाधिकृतभेदोऽप्यर्थे गृह्यते । यथाऽस्मानमात्मना वेत्तीत्यादौ शरीरावच्छिन्नं कर्तृ, अन्तःकरणाव- च्छिन्नं करणं, निरवच्छिन्नं निरीहं कर्म । एकस्यैव शब्दभेदाइँदः। शब्दालिङ्गितस्यैव सर्वत्र भानात् । तदाह- न सोऽस्ति प्रत्ययो लोके यशब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्व शब्देन भासते ॥ इति । ननु ह्येतदोपाधिकभेदमादायैवात्रापादानत्वे सिद्धे किं तत्तत्कसमवेतत्यनेनेति चेन्न । पर्वतात्प. ततोऽश्वात् पतत्यश्ववाह इसादावश्वस्यापादानत्वाय तत्स्वीकारात् । ननु वृक्षात्पर्ण पततीत्यादौ तादृश फलाश्रयत्वात्पर्णस्याप्यपादानत्वं विभागस्य द्विष्ठ- स्वादिति चेन्न । परया कर्तृसंज्ञया बाधात् । अत एवापादानमुत्तराणि कारकाणि बाधन्ते इति भाष्यं सङ्गच्छते । यत्तु केचिद्-गत्यनाविष्टत्वे सति तज्जन्यवि. झ ९८ परमलघुमञ्जूषायाम् . भागाश्रयत्वमपादानत्वमिति । तन्न । तत्तद्वाक्ये मेषाश्वयोरपादानत्वानापत्तेः । यदपि अपसरत इति मृधातुना गतिद्वयस्याप्युपादानादेकनिष्ठां गतिं प्रती- तरस्यापादानत्वमविरुद्धमिति । तन्न । क्रियाया एक- त्वात् । अत एव "न वै तिङन्तान्येकशेषारम्भं प्रयो- जयन्ति क्रियाया एकत्वात्" इति भाष्यं सङ्गच्छते । पञ्चम्यर्थोऽअधिः । वृक्षावधिकं पर्णकर्तकं प तनमिति बोधः । पर्वतावधिकपतनाश्रयाभिन्नाश्वा- वधिकमश्ववाहकतकं पतनमिति बोधः । परस्परमे- पावधिक द्वित्वावच्छिन्नमेषकर्तृकमपसरणमिति बोध इति दिक् । कर्तृकर्मद्वारकफलव्यापाराधारत्वमधिकरणत्वम्। यथा स्थाल्यामोदनं गृहे पचतीत्यादौ कर्मद्वारकवि- क्लित्तिरूपफलाधारः स्थाली, कर्तृद्वारकव्यापाराधारो गृहमिति । ननु साक्षात्क्रियाधारयोरोदनचैत्रयोरधि- करणत्वलब्धो परम्परया तदाधारयोहस्थाल्योस्त- त्संज्ञा त्वयुक्तेति चेन्न । परत्वात्कनुकर्मसंज्ञाभ्यां साक्षादाधारीभूते बाधान * । स्थाल्यधिकराणिका या *वाधादिति । अतएव गृहं प्रविशति, मोक्षमिच्छति इत्यादौ न सप्तमी । मोक्षे इच्छाऽस्ति इति तु प्रत्य.
कारकार्थविचारः। ९९ ओदननिष्ठा विक्लित्तिस्तदनुकूलो गृहाधिकरणको *मैत्रकको व्यापार इति बोधः । तच्चाधिकरणं त्रिधा । अभिव्यापकमौपश्लेषिकं. वैषयिकं चेति । तत्र सकलावयवव्याप्ती व्यापकाधा- रत्वम् , यथा तिलेषु तैलमस्तीत्यादि । उप समीपे श्लेषः सम्बन्ध उपश्लेषस्तत्कृतमौपश्लेषिकम् । अत एव इको यणचीत्यादावौपश्लेषिकाधारे सप्तम्युक्ता योपात्तेच्छारूपकर्तृद्वारा अस्तिक्रियायामन्वयाद्वोध्यम् । धातूपात्तेच्छायामन्वयेतु कर्मत्वात् कर्तृकर्मणोरिति षष्ठयेवेति दिक् । *अन्ये तु गृहाधिकरणको यश्चैत्रस्तत्कर्तृको व्या. पारः, स्थाल्यधिकरणको य ओदनस्तनिष्ठा या वि- क्लित्तिरित्येवम् अधिकरणकारकस्य कर्तृकर्मणोरेवान्व. यः । अत एव अक्षशौण्ड इत्यादौ समासः सिध्यति । क्रियायामन्वये तु शौण्डादिना सामर्थ्यात् समासो न स्यात् । शौण्डादिपदस्य आसक्तशौण्डादौ ल- क्षणया अन्तर्भूतासक्त्यादिक्रियाद्वारा सामोपपादनं तु न युक्तम् । अक्षविषयकशौण्डत्ववान् इति बोधस्यैव ततो जननात्, विवक्षितत्वाञ्च । अक्षशौण्डस्य धनमित्या. दौ शौण्डादेरकर्तृत्वे तु अगत्या आसक्तशौण्डादौ लक्षणा- श्रवणम् । तत्र शौण्डत्वस्य विधेयत्वेनाविवक्षितत्वा- लक्षणाश्रयणेऽदोषात् । एतेन तत्र लक्षणास्वीकारेऽत्रापि लक्षणोचितेत्यपास्तम् इत्याहुः ।
परमलघुमञ्जूषायाम् संहितायामिति मूत्रे भाष्ये । तत्राजादिसामप्यीमेवे- गादीनाम् । “यन्मासेऽतिक्रान्ते दीयते तस्य मास औपश्लेषिकमधिकरणम् मासिकं धान्यम्"इत्युक्तं तत्र च दीयते " इति सूत्रे भाष्ये । यत्तु कटे आस्ते इत्यौपश्लेषिकोदाहरणमुक्तं कै- यटेन, तदयुक्तम्, उक्तभाष्यविरोधात् । एतद्द्वयाति. रिक्तं वैषयिकमधिकरणम् । कटे आस्ते जले सन्ति मत्स्या इत्यादि । अभिव्यापकातिरिक्तं गौणमाधिक- रणमिति बोध्यम् । सप्तम्यर्थोऽधिकरणमिति दिक् । ज्ञापकक्रियाश्रयवाचकादुत्पन्नायाः सत्सप्तम्यास्तु क्रियान्तरज्ञापकत्वमर्थः । तत्रानिीतकालिकायाः+ * अग्रे वृक्षः कपिसंयोग्यस्तीत्यादौ अग्राधिकरणिका कपिसंयोगविशिष्टवृक्षकर्तृका सत्ता इति बोधे संयोग- स्याव्याप्यवृत्तित्वात् वृक्षस्यावयवान्तरे मूलादौ कपि. संयोगविशिष्टवृक्षाभावप्रतीतेः कपिसंयोगे अग्रावच्छेद्य. त्वं फलति । शिरसि मे देवना इत्यादि तु अवच्छेद्या- वच्छेदकभावसम्बन्धस्याप्याधारतानियामकत्वादुपपाद- नीयम् । +अनिीतकालिकाया इति । एवम् अनिर्णीतदेशि- काया निर्णीतदेशिका लक्षणम् । सति गुणे द्रव्यत्वमस्ती त्यादौ गुणांनष्ठसत्ताज्ञाप्या द्रव्यत्वनिष्ठा सत्तेति बोधः ।
Maminauk smals कारकार्थविचारः। क्रियाया निर्णीतकालिका ज्ञापिका । गोषु दुखमा. नासु गत इत्यादौ गोनिष्ठदोहनक्रियाज्ञापितगमना. श्रयश्चैत्र इति बोधः। कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभा. वादिः सम्बन्धः षष्ठया वाच्यः । तत्र राज्ञः पुरुष ज्ञाप्यज्ञापकभावस्योत्सर्गतः सामानाधिकरण्ये सत्येव प्रतीतेः सामानाधिकरण्येन गुणविशिष्टं द्रव्यत्वमिति फलति । एतन्मूलक एव सत्सप्तम्या वैशिष्टयमर्थ इति तार्किकाणां प्रवादः । जले पीते तृषा शाम्यतीत्यादी भूतार्थकप्रत्ययसमभिव्याहारे एतद्योगे हेतुत्वस्याप्या- कासया प्रतीतेः अस्या निमित्तसप्तमीत्वव्यवहारोऽपि इति दिक् । ज्ञाप्यज्ञापकभावश्च तत्तच्छब्दबोध्यत्वेन विवक्षित एवैतच्छास्त्रप्रवृत्तौ निमित्तं, नतु वह्निधूमयोरिव व्यभिचारादर्शनसहकृतभूयोदर्शनाश्रयः । तथासति उदिते आदित्ये तमो नष्टामत्यादावेव स्यात्, गोषु दुह्यमानासु गत इत्यादौ कादाचित्कगमने विवक्षिते न स्यात् इति बोध्यम् । * दुह्यमानगोशाप्यगमनाश्रय इति शब्दतो बोधे गोपिकत्वस्य विशेषणीभूतदोहनक्रियाद्वारैव पर्यव- सितत्वात् गोनिष्ठदोहनक्रियाज्ञाप्यगमनाश्रयश्चैत्र इति बोधः फलितो भवति । एवमेव सति गुणे द्रव्यत्वामित्या- दावपि बोध्यम् ।
-~~ . १०२ परमलघुमञ्जूषायाम् इत्यादौ षष्ठीवाच्यमम्बन्धस्याश्रयायिभावसम्बन्धे. न पुरुषेऽन्वयः । राजनिरूपितसम्बन्धवान् पुरुष इति बोधात् । ननु सम्बन्धस्योभयनिष्ठत्वात् पुरुष शब्दादपि षष्ठ्यत्पत्तिरस्त्विति चेन्न । राजसम्ब- न्धिपुरुष इति विवक्षायां राजशब्दादेव षष्ठी, प्रकृ- त्यर्थप्रत्ययार्थयोः प्रत्ययार्थस्यैव प्राधान्यमिति व्यु. स्पत्त्यनुरोधात् । अन्यथा तद्विवक्षायां राजा पुरुष- स्येति पुरुषशब्दात् षष्ठयां पुरुषार्थ प्रति षष्ठयर्थस्य विशेषणत्वापत्त्या व्युत्पत्तिभङ्गापत्तेः । अत एवाह- भेद्यभेदकयोश्चैकसम्बन्धोऽन्योन्यमिष्यते । द्विष्ठो यद्यपि सम्बन्धः षष्ठयुत्पत्तिस्तु भेदकात् ।। इति । भेदकः सम्बन्धनिरूपको, भेद्यःसम्बन्धाश्रयः । इति षट् कारकाणि ॥ अथ नामार्थः ॥ अत्र मीमांसकाः । शब्दानां जानौ शक्तिलाघवात् । व्यक्तीनामानन्त्येन तत्र शक्तौ गौरवात् । "नागृहीतविशेषणा बुद्धिर्विशेष्यउपजायते" इति न्यायस्य विशेषणे शक्तिर्विशेष्ये लक्षणेति तात्पर्यात् । किश्च एकस्यां व्यक्तौ शक्त्युपदेशे व्य- नामार्थविचार क्त्यन्तरे तदभावेन तद्बोधाप्रसङ्गात् । गामानये. सादावन्वयानुपपत्त्या तदाश्रयलक्षकत्वेन निर्वाह- श्चेत्याहुः। तन्न । गोत्वमस्तीत्यर्थेऽन्वयानुपपत्त्यभावेन गौरस्ती- ति प्रयोगे व्यक्तिभानानापत्तेः ।व्यक्तीनामानन्त्येऽपि शक्यतावच्छेदकजातेरुपलक्षणत्वेन तदैक्येन च ताह- शजात्युपलक्षितव्यक्तौ शक्तिस्वीकारेणानन्तशक्तिक- ल्पनाविरहेणागौरवात् । लक्ष्यतावच्छेदकतीरत्वादिवत् शक्यतावच्छेदकस्यावाच्यत्वे दोषाभावान् । नाम- हीतेति न्यायस्य विशेषणविशिष्टविशेष्यवोधे तात्पर्य ऽपि त्वदुक्ततात्पर्ये मानाभावात् । जातेरुपलक्षकत्वेन तदाश्रयसकलव्यक्तिबोधेन व्यत्यन्तरबोधामसङ्गभ- गाच्च । तदाह- आनन्त्येऽपि हि भावानामेकं कृत्वोपलक्षणम् । शब्दः सुकरसम्बन्धो न च व्यभिचरिष्यतीति ।। युक्तं ह्येतत् । शक्तिग्रहं व्याकरणोपमान- कोशाप्तवाक्याद्वयवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः- १०४ परमलघुमञ्जूषायाम् इत्येतेषु शक्तिग्राहकशिरोमणिर्व्यवहारो व्यक्ता- वेध शक्तिं ग्राहयति । गवादिपदेन लोके व्यक्तरेव बोधात् ।। वस्तुतस्तु “न ह्याकृतिपदार्थकस्य* द्रव्यं न पदार्थ" इति सरूपसूत्रभाष्याद्विशिष्टमेव वाच्यं तथै- वानुभवात् । अनुभवसिद्धस्यापलापानहत्वाच्च । लिङ्गमपि नामार्थः । प्रययानां द्योतकत्वात् । अन्यथा वागुपानदादिशब्देभ्य इयं तव वागिति स्त्रीत्वबोधानापत्तेः । अयमितिव्यवहारविषयत्वं पुंस्त्व- म्, इयमितिव्यवहारविषयत्वं स्त्रीत्वम् , इदमितिव्यव- हारविषयत्वं क्लीबत्वमिति विलक्षणं शास्त्रीयं स्त्रीपु- नपुंसकत्वम् । अत एव खवादिशब्दवाच्यस्य स्त- नकेशादिमत्त्वरूपलौकिकस्त्रीत्वाभावेऽपि तद्वाचकाहा- बादिप्रत्ययः । सङ्ख्याऽपि नामार्थः । विभक्तीनां द्योतकत्वात् । अत एव आदिभिटुडव इति सूत्रे आदिरिति बहुत्वे एकवचनम् । वाच्यत्वेऽन्वयव्यतिरेकाभ्यां जसं विना नामार्थबहुत्वप्रतीत्यभावापत्तेः । कारकमपि प्रातिपदिकार्थ इति पञ्चकं प्रातिप- * मते इति शेषः।
नामार्थविचारः । १०५ दिकार्थः । नन्वन्वयव्यतिरेकाभ्यां प्रत्ययस्यैव तद्वाच्यमिति चेन्न । दधि तिष्ठति दधि पश्येयादौ कादिकारकप्रतीतेः प्रत्ययं विनापि सिद्धत्वात् । न च लुप्तप्रत्ययस्मरणात्तत्पतीतिरिति वाच्यम् । प्रस- यलोपमजानतोऽपि नामत एव तत्पतीतेः । विशेषणतया शब्दोऽपि शाब्दबोधे भासते । यु- धिष्ठिर आसीदित्यादौ युधिष्ठिरशब्दवाच्यः कश्चिदा- सीदिति बोधात् । न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमित्र ज्ञानं सर्व शब्देन भासते ।। इत्यभियुक्तोक्तः। ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा । तथैव सर्वशब्दानामेते पृथगवस्थिते ॥ विषयत्वमनात्य शब्दैर्नार्थः प्रकाश्यते । इति वाक्यपदीयाच्च । अत एव विष्णुमुच्चारये- त्यादावर्थोच्चारणासम्भवाच्छब्दप्रतीतिः । अत एवा. नुकरणेनानुकार्यस्वरूपप्रतीतिः । तथाहि स्व. सदृशशब्दमात्रबोधतात्पर्यकोच्चारणविषयत्वमनुकरण- त्वम् । स्वसदृशशब्दमतिपाद्यत्वे सति शब्दत्वमा नुकार्यत्वम् । तत्रानुकार्यादनुकरणं भिद्यते इति परमलघुमञ्जूषायाम् तयोर्मेदविवक्षायामनुकार्यस्वरूपप्रतिपादकत्वेनार्थक त्वात् प्रातिपादिकत्वात्स्वादिविधिः । भेदपक्षज्ञापकः भुवो वुग्लुङ्लिटोरित्यादिनिर्देशः । अनुकार्यादनु- करणमभिन्नमित्यभेदविवक्षायां चार्थवत्त्वाभावान्न प्रातिपदिकत्वं, न वा पदत्वम् । अभेदपक्षज्ञापकस्तु भू सत्तायामित्यादिनिर्देशः । प्रातिपदिकत्वपदत्वा- भावेऽपि भू इत्यादि साधु भवत्येव ।। नन्वपदं न प्रयुञ्जीतेति भाष्यादसाध्विदमिति चेन्न । अपदमित्यस्य हि अपरिनिष्ठितमित्यर्थः । १. रिनिष्ठित्वं च अप्रवृत्तनित्यविध्युद्देश्यतावच्छेदका- नाक्रान्तत्वम् । देवदत्तो भवतीत्यादौ तिङतिङ इति निघाते जातेऽतिङन्तपदपरतिङन्तत्वरूपोद्देश्यताव- च्छेदकसच्चे अपरिनिष्ठितत्ववारणाय अप्रवृत्तेति । स्वरतीत्यादिविकल्पसूत्रस्य पाक्षिकप्रवृत्तौ सेद्धेत्या- दावसाधुत्ववारणाय नित्यविधीति । अभेदपक्ष तु अर्थवदिति सूत्रस्यार्थवत्त्वरूपोद्देश्यतावच्छेदका- नाक्रान्तत्वात् सूत्राप्रवृत्तावपि भू इत्यादि परिनि- ष्ठितम् । परिनिष्ठितसाधुशब्दौ पर्यायौ । नन्वनुक- रणस्यानुकार्यस्वरूपबोधकत्वस्याभावेन कथमनुः कार्यस्वरूपप्रतीतिरिति चेत्, सादृश्याख्यसम्बन्धे.
समासादिवृत्त्यर्थविचारः। १०७ नेति गृहाण | यथा मैत्रसदृशपिण्डदर्शने मैत्रस्मरणम् एवं भू इत्याद्यनुकरणज्ञाने तादृशानुकार्यस्य ज्ञान- मिति सझेपः । अथ समासादिवृत्त्यर्थः । वृत्तिाधा । जहत्स्वा- र्थाऽजहत्स्वार्था च । अवयवार्थनिरपेक्षत्वे सति समु- दायार्थबोधिकात्वं जहत्स्वार्थात्वम् । अवयवार्थसंचलि- तसमुदायार्थबोधिकात्वमजहत्स्वार्थात्वम् । रथन्तरं सामभेदः, शुश्रूषा सेवा इति पूर्वस्या उदाहरण म् । राजपुरुष इत्यादावन्त्या । समासादिपञ्चसु वि- शिष्टे एव शक्तिर्न त्ववयवे । रथन्तरं, सप्तपर्णः, शु- श्रूषेत्यादौ अवयवार्थानुभवाभावाद । अत एव भा- ध्ये व्यपेक्षापक्षमुद्भाव्य अवैतस्मिन्व्यपेक्षायां साम- थ्र्ये योऽसावकाथीभावकृतो विशेषः स वक्तव्य इत्युक्तम् । धवखदिरौ, निष्कौशाम्बिः, गोरथो, घृत- घटो, गुडधानाः, केशचूडः, सुवर्णालङ्कारो, द्विदशाः, सप्तपर्ण, इत्यादी साहित्य-क्रान्त-युक्त-पूर्ण-मिश्र- सङ्घात-विकार-सुच्प्रत्ययलोप-वीप्साद्यर्था वाच- निका वाच्या इति तद्भाष्याशयः ।। यत्तु व्यपेक्षावादिनो नैयायिकमीमांसकादयः- न समासे शक्तिः । राजपुरुष इत्यादौ राजपदादेः '- - परमलघुमञ्जूषायाम् सम्बन्धिनि लक्षणयैव राजसम्बन्धवदभिन्नः पुरुष इति बोधात् । अत एव राज्ञः पदार्थंकदेशत्वान्न तत्र ऋद्धस्येत्यादिविशेषणान्वयः । पदार्थः पदार्थेनान्वेति नतु पदार्थैकदेशेनेत्युक्तेः । सविशेषणानां वृत्तिर्न, वृत्तस्य च विशेषणयोगो नेत्युक्तेश्च । न वा घन- श्यामो, निष्कौशाम्बिः, गोरथ इत्यादाविवादिप्रयोगा- पत्तिः । लक्षणयैवोक्तार्थतया उक्तार्थानामप्रयोग इति न्यायेन इवादीनामपयोगात् । नापि विभाषेति सूत्रमा- वश्यकं,लक्षणयाराजसम्बन्ध्यभिन्न इति बुबोधयिषाय समासस्य, राजसम्बन्धवानिति बुबोधयिषायां विग्रह- स्य च प्रयोगनियमसम्भवात् । नापि "शक्तिः पङ्कज- शब्दवात्" इति पङ्कजशब्दप्रतिद्वन्द्विता शक्तिसाधिका। तत्रावयवशक्तिमजानतोऽपि ततो बोधात् । न च शत्यग्रहे लक्षणया तस्माद्विशिष्टार्थप्रत्ययः सम्भवति । अत एव राजपदादिशक्त्यग्रहे राजपुरुष इत्यादिषु न बोधः । न च चित्रगुरित्यादौ लक्षणासम्भवेऽप्यष- ठयर्थबहुव्रीहौ लक्षणाया असम्भवः,बहुव्युत्पत्तिभञ्ज- नापत्तेरिति वाच्यम् । प्राप्तोदक इत्यादौ उदकपदे एव लक्षणास्वीकारात् । पूर्वपदस्य यौगिकत्वेन तत्र लक्षणाया धातुप्रत्ययतदर्थज्ञानसाध्यतया विलम्बि.
समासादिवृत्यर्थविचारः । १०९ तत्वात् । प्रत्ययानां सन्निहितपदार्थगतस्त्रार्थबोध- कत्वव्युत्पत्त्यनुरोधाच । घटादिपदे चातिरिक्ता श- क्तिः कल्प्यमाना प्रत्येक वर्णेषु बोधकत्वेऽपि विशि- टे कल्प्यते. विशिष्टस्यैव सङ्केतितत्वात् । प्रकृते चा- त्यन्तसन्निधानेन प्रत्ययान्वयंसौलभ्यायोत्तरपदे एव लक्षणा कल्प्यतइति विशेषः । स्वीकृतं च घटादिपदेष्व. पि चरमवर्णस्यैव वाचकत्वं मीमांसकंमन्यैरित्याहुः । अत्रोच्यते । समासे शत्यस्वीकारे विशिष्टस्या- र्थवत्त्वाभावेन प्रातिपदिकत्वं न स्यात् । अत एवा- र्थवत्सूत्रे भाप्ये "अर्थवदिति किम् , अर्थवतां समुदा- योऽनर्थकः “दश दाडिमानि षडपूपाः कुण्डमजाऽजि- नम्"इति प्रत्युदाहृतम् । एवं च राजपुरुषपदयोस्त्व- न्मते प्रत्येकमर्थववेऽपि समुदायस्य दशदाडिमादि- वदनर्थकत्वात्प्रातिपदिकत्वानापत्तेः । न च कृत्तद्धि- तेति सूत्रे समासग्रहणात् तत्संज्ञेति वाच्यम् । तस्य नियमार्थताया भाष्यकृतैव प्रतिपादितत्वात् । अन्यथा- सिद्धिं विना नियमायोगात् । अत एव राज्ञः पुरुषः देवदत्तः पचतीत्यादिवाक्यस्य *मूलकेनोपदंशमि- * ननु राज्ञः पुरुष इत्यादिवाक्यस्य नैयायिकमते अर्थवत्त्वाभावादेव प्रातिपदिकत्वे न स्यात् अत आह ।
११० परमलघुमञ्जूषायाम् त्यादेश्च न प्रातिपदिकत्वम् । किश्च समासे शक्त्यस्वी. कारे शक्यसम्बन्धरूपलक्षणाया अप्यसम्भवेन ला- क्षणिकार्थवत्वस्याप्यसम्भवेन सर्वथा प्रातिपदिक- त्वाभाव एव निश्चितः स्यादिति स्वाद्यनुत्पत्तौ अपदं न प्रयुञ्जीतति भाष्यात् समस्तप्रयोगविलयापत्तेः ।। अथ तिसरझीत्यतः तीत्यारभ्य ङ्योस्सुबिति पकारेण तिप्प्रत्याहारो भाष्यसिद्धः । तत्पयुदासे. नातिप्पातिपदिकमित्येव सूत्र्यताम् , ततः समासश्चे- ति सूत्रं नियमार्थमस्तु किं सूत्रद्वयेनेति । मुप्तिङन्त- भिन्न प्रातिपदिकमित्यर्थात् समासस्यापि सा स्या- दिति समासश्चेत्यस्य नियमार्थत्वं मुलभमिति चेत्स. त्यम् । प्रत्येकं वर्णेषु संज्ञावारणायार्थवदित्यस्यावश्य- कत्वेन समासेऽव्याप्तिस्तदवंस्थैव । तथा च प्रातिपदि- मूलकेनोपदंशमिति । नैयायिकमते उत्तरसूत्रे अर्थवत्पदा- संबन्धात् कृद्रहणपरिभाषया कृदन्ततदादित्वादत्राति- प्रसङ्गो दुर्वार एवेति भावः । किं च बहुपटव इत्यस्य तद्धितान्तत्वाभावात,परमगाायण इत्यस्य तद्धितान्त- तदादित्वाभावात् , कुमार्याः राज्ञा श्रितेन च युगपद् वृत्तौ राजकुमारीश्रित इत्यस्य समासत्वाभावाच्च उत्तर- सूत्राप्रात्या अर्थवत्त्वाभावेन च पूर्वसूत्रस्याप्यप्राप्त्या प्रा- तिपदिकत्वानापत्तौ स्वादिविधानानापत्तिरिति दिक् ।
समामादित्यर्थविचारः । १११ कसंज्ञारूपकार्यमेवार्थवच्चमनुमापयति । समासोऽर्थवा- न्यातिपदिकत्वात् यन्नार्थक्त् तन्न प्रातिपदिकम् अभे- दविवक्षापक्षे भू मत्तायामित्याद्यनुकरणवदिति ॥ यत्तु पदार्थः पदार्थेनेति, वृत्तस्य विशेषणयोगो नेति वचनद्वयेन ऋद्धस्येत्यादिविशेषणान्वयो न भवति, तत्तु समासे एकार्थीभावे स्वीकृतेऽवयवानां निर- र्थकत्वेन विशेषणान्वयासम्भवात् फलितार्थपरप. स्माकं, युष्माकं तु अपूर्ववाचनिकमिति गौरवमि- त्यग्रे वक्ष्यते ॥ यत्तु प्रत्ययानां सन्निहितपदार्थगतस्वार्थबोध- कत्वव्युत्पत्तिरिति । तन्न । उपकुम्भम् अर्धपिप्पली. त्यादौ पूर्वपदार्थे विभक्त्यर्थान्वयन व्यभिचारात् । मम तु प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वव्यु- तेः विशिष्टोत्तरमेव प्रत्ययोत्पत्तेर्विशिष्टस्यैव प्रकृ- तित्वात् विशिष्टस्यैवार्थवत्त्वाच्च न दोषः। किं च राजपुरुषादौ राजपदादेः सम्बन्धिनि स- म्बन्धे वा लक्षणा। नाद्यः । राज्ञः पुरुष इतिविवरण. विरोधात् । वृत्तिसमानार्थवाक्यस्यैव विग्रहत्वात् । अन्यथा तस्माच्छक्तिनिर्णयो न स्यात् । नान्त्यः । राजसम्बन्धरूपपुरुष इसन्वयमसङ्गात् ।
११२ परमलघुमञ्जूषायाम् - ननु तर्हि वैयाकरण इत्यस्य व्याकरणमधीते इति पाचक इत्यस्य पचतीति कथं विग्रहः । वृत्तिस- मानार्थत्वाभावादित्यत आह- आख्यातं तद्धितकृतोर्यत्किञ्चिदुपदर्शकम् । गुणप्रधानभावादौ तत्र दृष्टो विपर्यय इति ॥ तद्धितकृतोर्यत्किश्चिदर्थबोधकं विवरणमाख्यातं तिङन्तमिति यावत् , तत्र विवरणवित्रियमाणयोर्वि- शेष्यविशेषणभावविपर्ययो दृष्ट इति । कृदन्ततद्धि- तान्तयोराश्रयप्राधान्यम् आख्याते व्यापारस्यति बो ध्यम् । ननु रथन्तरशब्दादथिकस्यापि प्रत्ययः कि- न स्यादिति चेन्मैवम् । रूढियोगार्थमपहरतीति न्या. यात् । ननु विशिष्टशक्तिस्वीकारे पङ्कजपदादवयवार्थ- प्रतीतिर्माभूत् , ममुदायशक्त्यैव कमलपदवत् पुष्पवि- शेषप्रत्ययः स्यादिति चेन्न । जहत्स्वार्था तु तत्रैव यत्र रूढिर्विरोधिनी । इत्यभियुक्तोक्तः अवयवार्थसंवलितसमुदायार्थे पद्मे शक्तिस्वीकारात् । अत एव चतुर्विधः शब्द:- यथा रूढः, योगरूढः, यौगिकः, यौगिकरूढश्चेति । अवयवार्थमनपेक्ष्य समुदायशक्तिमात्रेणार्थबोधकत्वं रूढत्वम्-रथन्तरमियादौ । अवयवार्थसंवालितस.
- समासादिवृत्त्यर्थविचारः। ११३ मुदायशत्याऽर्थबोधकत्वं योगरूढत्वम्-पङ्कजमित्यत्र । अवयवशक्त्यवार्थबोधकत्वं यौगिकत्वम्-पाचिकापा- ठिकेत्यादौ । अवयवशक्त्या समुदायशक्त्या चार्थबोध- कत्वं यौगिकरूढत्वम् । मण्डपानकर्तृपरोऽपि गृहवि- शेषपरोऽपि मण्डपशब्द उदाहरणमिति विवेकः ।। व्यपेक्षापक्षे दूषणं शक्तिसाधकम् । हरिरप्याह- समासे खलु भिन्नैव शक्तिः पङ्कजशब्दवत् । बहूनां वृत्तिधर्माणां वचनैरेव साधने ॥ स्यान्महगौरवं तस्मादेकार्थीभाव आश्रित इति । पङ्कजशब्द योगार्थस्वीकारे शैवालादेरपि प्रत्य- यः स्यात् । वृत्तिधर्मा विशेषणलिङ्गसङ्ख्याद्ययोगाद- यः सविशेषणानां वृत्तिर्नेत्यादिवचनैरेव साध्या इति- तत्तद्वचनस्वीकार एव गौरवम् । मम तु एकार्थीभाव- स्वीकारात् अवयवार्थाभावाद्विशेषणाद्ययोगो न्या- यसिद्धः वचनं च न कर्तव्यं न्यायसिद्धं चेति ला. घवम् । व्यपेक्षायां दूषणान्तरमाह- चकारादिनिषेधोऽथ बहुव्युत्पत्तिभञ्जनम्। कर्तव्यन्ते न्यायसिद्धं त्वस्माकन्तदिति स्थितिः।। घटपटाविति द्वन्द्वे साहित्यद्योतकचकारनिषेध- स्त्वया कर्तव्यः । आदिना घनश्याम इत्यादौ इवश• परमलघुमञ्जूषायाम् ब्दस्य । मम तु सात्याधवच्छिन्ने शक्तिस्वीका- रादुक्तार्थानामप्रयोग इति न्यायात्तषामप्रयोगः । बहुव्युत्पत्तिमअनमिति । अषष्ठ्यर्थबहुव्रीही प्राप्तो- दक इत्यादौ पृथक्शक्तिवादिनां मते प्राप्तिकर्षभिन्न- मुदकमित्यादिबोधोत्तरं तत्सम्बन्धिग्रामलक्षायामपि उदककर्तृकमाप्तिकर्म ग्राम इत्यर्थाला प्राप्त प्राप्तेति- क्तप्रत्ययस्य कर्थकस्य कर्मार्थे लक्षणा, ततोऽपि समानविभक्तिकनामार्थयोरभेद एव संसर्ग इति व्यु- स्पत्त्या उदकाभिन्न प्राप्तिकर्मेति स्यात् । उदकस्य कर्तृतया प्राधावन्वये तु नामार्थयोरभेदान्धयव्युत्पत्ति- भञ्जनं स्यादिति तात्पर्यम् । नामार्थप्रकारकशाब्द- बुद्धित्वावच्छिन्नं प्रति विभक्त्यर्थोपस्थितेः कारणत्व- मितिव्युत्पतिभञ्जनं च । मम तु पृथक्शत्यनङ्गीकारात् विशिष्टस्यैव विशिष्टार्थवाचकत्वात नामार्थद्वयाभावात् न कचिदनुपपत्तिरित्यलम् ।। श्रीशिवभट्टसुतसतीदेवीगर्भज. नागेशभकृता परमलघुमञ्जूषा समाप्ता ।।