The Asiatic Society, Kolkata
Vishnusamhita
Front matter
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.
TRVANDRUM SANSKRIT SERIES.
No. LXXXV.
THE
VISHNUSAMHITÂ
EDITED BY
MAHÂMALOPADHYAYA
T. GANAPATI SA STRI,
Honorary Member of the Royal Asistio Society of Great Britain and Ireland;
Ilonorary Duotor of Philosophy, University of Tubingen;
Curator oj like Depurlment for the Publication of
Sanskrit Manuscripts, Trivandrum.
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF
IL ER HIIGIINESS THE HANTARANI REGEXT OF TRAVANCORE.
TRIVANDRUM :
PRINTED BY THE SUPERINTENDENT, GOVERNMENT PRESS,
1925.
All Rights Reserved.]
No text on this page.
अनन्तशयनसंस्कृतग्रन्थावलिः ।
ग्रन्थाङ्कः
विष्णुसंहिता
संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण
लण्डनपुरस्थराजकीयैष्याखण्डीयविद्यासेवकसमाजपूज्यसभ्यपदभाजा
पिहेच्. डि. (टूबिञ्जन्) पदसत्कृतेन
महामहोपाध्यायेन
त. गणपतिशास्त्रिणा
संशोधिता।
साच
अनन्तशयने
महामहिमश्रीसेतुलक्ष्मीमहाराज्ञीशासनेन
राजकीयमुद्रणयन्त्रालये तदध्यक्षेण
मुद्रयित्वा प्रकाशिता।
कोलम्बाब्दाः ११०१, ऊस्ताब्दाः १९२५.
No text on this page.
PREFACE. C The Vishnusamhita in 30 chapters ascribed to Vishnu is an abridgement of the voluminous work of the same name containing 108 chapters. This work is the source of Tantrasannuchchaya and other later treatises on Tantra. The edition of the work is baseil on the following palm leaf manuscripts in Malayalam characters about a century old. 1. (**) Belonging to Mr. Jatuvedan Naravanan Namburi, Vilavanukodie. 2. Do. The Chirakkal Palace, 3. Do. Do. 4. () Do. Mr. Manayathattu Narayanan Namburi, Vaikam. 5. (*) Do. Kalpakamangala Mattom Matnalikkarai. 6. (7) Do. Mr. Raman Pillai, Kochunarayana Pillai, Cherthala. Trivandrum, T. GANAPATI SĀSTRI. 22-2-1101.
No text on this page.
निवेदना।
अतिविपुलाया अष्टोत्तरशताध्यायात्मिकाया महत्या विष्णुसंहितायाः
सङ्ग्रहात्मिका त्रिंशदध्यायेयं विष्णुप्रोक्ता विष्णुसंहिता नाम । एषा मन्ये
तन्त्रसमुच्चयादीनां तन्त्रनिबन्धानामुपजीव्य आकरः ।
एतत्संशोधनाधारभूता आदर्शग्रन्थास्तावदेते--
१. जातवेदनारायणनम्बूरिसम्बन्धी क.संज्ञः ।
२. चिरक्कल राजसम्बन्धी
ख.संज्ञः।
३.
ग.संज्ञः।
४. मनयत्ताट्ट नारायणसम्बन्धी घ.संज्ञः।
५. मणलिक्कर कल्पकमङ्गलमठसम्बन्धी उ.संज्ञः ।
६. चतल कोच्चुनारायणसम्बन्धी चसंज्ञः।
सर्व एते केरलीयलिपयः वर्षशतवृद्धदेशीयास्तालपत्रात्मकाश्च ।
तथा
अनन्तशयनम् ,
२२-२-११०१.
त. गणपतिशास्त्री.
No text on this page.
विषयानुक्रमणी। पटल:. विषयः. पृष्ठम्. पृष्ठम्. पटलः. विषयः. ११६ १ : १२८ ६ १३९ ११ १४८ २० १५४ २६ १६४ ३४ १७३ १८१ १ तन्त्रोद्देशः २ तन्द्रव्याख्या ३ विष्णुवैभवम् ४ क्षेत्रनिर्णयः ५ मन्त्रोद्धारः ६ अर्चनाविधि: ७ मुद्रालक्षणम् ८ अग्निसंस्कारः ९ मण्डललक्षणम् १० दीक्षाविधिः ११ दीक्षिताभिषेकः १२ भूमिलक्षणम् १३ प्रासादविधि: १४ बिम्बलक्षणम् ५५ प्रतिष्ठापटकम् १६ बिम्बशुद्धिः १७ अधिवासः १८ प्रतिष्टाविधि: १९ प्रतिष्ठानन्तरक्रिया २० उत्सवविधिः २१ यात्रा २२ बलिदानविधिः २३ विश्वार्चनम् २४ जीर्णोद्धारः ६५ प्रायश्चित्तविधिः २६ स्वपनविधिः २७ प्रोक्षणविधिः २८ कर्मशेपः २९ समयाचारलक्षणम् ३० भ.गवतो योगः १९७ ६२ ७१ । २०३ २२२ २३१ २४॥ १०६
No text on this page.
॥ श्रीः॥ श्रीगणेशाय नमः। विष्णुसंहिता। अथ प्रथमः पटलः। श्रीशैलशिखरे सिद्धमासीनं तन्त्रपारगम् । प्रणम्यात्युज्ज्वलाकारं पृष्टवानौपमन्यवः ॥ १ ॥ भगवन् ! दुर्निरीक्ष्योऽकै जित्वेवासि स्थितस्त्विषा । नेदृशं जात्वहं रूपं दृष्टवानस्मि कस्यचित् ॥ २ ॥ किं देवाना भवानेको मुनीनामथवा नृणाम् । त्वामहं प्रष्टुमिच्छामि तव विस्मापितस्त्विषा ॥ ३ ॥ तेजसोऽत्युज्ज्वलस्यास्य श्लाघनीयः समुद्भवः । कुतोऽत्रागाः किमर्थ वा कतमे जन्म वा कुले ॥ ४ ॥ कृतकृत्योऽस्पृहो वा त्वमतुल्यमहिमा ध्रुवम् । त्वद्वोत्रनामकर्मादि याथातथ्येन सर्वशः ॥५॥ महत् कौतूहलं श्रोतुमविज्ञेयं नचन्मया । इति पृष्टोऽब्रवीत् सिद्धो हरि ध्यात्वा कृताञ्जलिः॥ ६ ॥ हर्षगद्गदया वाचा सरोमाश्चाश्रुविक्रियः । श्रृयतामखिलं वक्ष्ये मायैवैषा हि वैष्णवी ॥ ७॥ १. 'त्यद्भुतस्या' ख. ग. प. पाठः. G.P.T. 2042. 600: 19-8-99. " विष्णुसंहितायां बुद्धयाचक्षार्थनानात्वैर्या मोहयति देहिनः । सुमतिर्नाम बैदोऽहमृषेरिध्मवतः सुतः ॥ ८ ॥ साङ्गेषु त्रिषु वेदेषु तन्त्रेषु च कृतश्रमः । बाल्येऽहं ब्रह्मचर्येण शैलेऽस्मिन् विमलोदके ॥ ९ ॥ रैभ्यस्य जपतोऽभ्याशे चिरं शुश्रूषकोऽवसम् । चिरदृष्टं दिक्षुस्तमिमं पूर्वोपकारिणम् ॥ १० ॥ इहागतोऽस्मि भद्रं ते विष्णुलोकाद् विहायसा । औपमन्यवः को नु मन्त्रस्त्वया लब्धः पुरेह जपतो गुरोः ॥ ११ ॥ किमन्यहा यदभ्यासात् परिणामोऽयादृशः। सिद्धः तस्मिन्ननुपदिश्यैव मन्त्रसिद्धया तिरोहिते ॥ १२ ॥ • रुदन का गतिरित्युच्चैरीष खेऽस्फुटा गिरम् । गतिस्तारनमोनामेत्यनयां दुर्गमार्थया ॥ १३ ॥ शिवमन्त्रं स्मृतं जप्त्वा तत्सियाद्राक्षमीश्वरम् । तेनोक्तो ब्रह्ममन्त्रं त्वं जपेत्येनं ततोऽजपम् ॥ १४ ॥ ततश्चाविरभूद् ब्रह्मा वरदो लोकभावनः । तेनाप्युक्तोऽस्मि नम्रोऽहं विष्णुमन्त्रस्तु जप्यताम् ॥ १५॥ ततो जटाक्षमालादितपोलिङ्गधरावुभौ । मन्वानस्तावपर्याप्तौ पर्याप्तं विष्णुमेव च ॥ १६ ॥ १. 'वैदेह' स. ग. प. पाठः प्रथमः पटलः। षडक्षरं जपन् मन्त्रमहर्निशमनाकुलमूं। विश्वरूपमरूपं तं दृष्टवानस्मि रूपिणम् ॥ १७॥ शङ्खचक्रगदापद्मशासिशरखेटकैः। श्रीवत्सकौस्तुभापीतकौशेयर्वनमालया ॥१८॥ किरीटहारकेयूरकुण्डलादिविभूषणैः । अलङ्कतमुदाराङ्गमप्रमेयं सुरोत्तमम् ॥ १९ ॥ दिव्यरूपं खगारूढं दिव्यगन्धानुलेपनम् । सहस्रादित्यसंकाशं दुनिरीक्षं सुरासुरैः ॥ २० ॥ ऋग्यजुस्सामजैर्मन्त्रैः स्तोत्रैश्च विविधैरैपि प्रसाचैनं ततो भक्त्या व्यज्ञापयमहं पुनः ॥ २१ ॥ भगवन् ! देवदेवेश! वासुदेव! जगत्पते!। तज्ज्ञानं मेऽनुगृह्णीष्व येन स्यात् कृतकृत्यता ॥ २२ ॥ इत्युक्तो भगवान् प्रीतः प्राह गम्भीरया गिरा । दिष्टया ते वत्स! धीः शुद्धा सुमत्याख्या तवामृषा ॥२३॥ परितुष्टोऽस्मि भद्रं ते तस्माद् वक्ष्यामि ते हितम् । शृणु त्वं दीक्षितो भूत्वा पूर्वमीश्वरसंहिताम् ॥ २४ ॥ ईश्वराद् ब्रह्मणः पश्चात् तथैव ब्रह्मसंहिताम् । मद् विष्णुसंहितां श्रुत्वा ततो ज्ञानमवाप्स्यसि ।। २५ ।। यो मन्त्रास्त्वया जप्ताः शिवस्य ब्रह्मणो मम । तस्मादनुग्रहेणापि त्रिभ्यो भाव्यं तव क्रमात् ॥ २६ ॥ इत्युक्त्वान्तर्हिते देवे स्मृतः प्रादुरभूच्छिवः । स नतं प्राह मां प्रीतो विष्णूक्तं क्रियतामिति ॥ २७ ॥ १. 'क्ष्यं' घ, पाठः. २. 'विभुम् ॥' ख. ग, पाठः, विष्णुसंहितायो ततो दीक्षाविधि, कृत्वा तस्मादीश्वरसंहिताम् । .. अवाप्य द्वादशाध्यायां निर्बीजार्चाविधायिनीम् ॥ २८ ॥ ततः स्मृतागताद् देवाद् ब्रह्मणो ब्रह्मसंहिताम् । श्रुत्वा द्वात्रिंशदध्यायां बीजाबीजार्चनाश्रयाम् ॥ २९ ॥ ततः स्मृतागतं देवमष्टबाहुमधोक्षजम् । पूर्ववत् प्रणिपत्याहं व्यज्ञापयामिदं पुनः॥ ३० ॥ देवदेव! नमस्तेऽस्तु वासुदेव! सुरोत्तम!। ईश्वराद् ब्रह्मणश्चाहं श्रुतवानस्मि तत्कृते ॥ ३१ ॥ संहिते सर्वलोकेश! त्वन्नियोगाद् यथाविधि । अतस्त्वमनुगृह्णीष्व यथावद् विष्णुसंहिताम् ॥ ३२ ॥ इति विज्ञापितो भक्त्या भगवान् विष्णुरव्ययः । आचष्टाखिलसिद्धयर्थी विस्तीणां विष्णुसंहिताम् ॥ ३३ ॥ अष्टोत्तरशताध्यायामष्टैश्वर्यादिसिद्धिदाम् । ज्ञानचर्याक्रियायोगशुभपादचतुष्टयाम् ॥ ३४ ॥ बीजाबीजसबीजा_विधानादिसमन्विताम् । ततो नष्टः क्षणान्मोहः कामेषूपरता स्पृहा ॥ ३५ ॥ छिन्ना मे संशयाः सर्वे प्रसन्ना चाभवन्मतिः। प्रकाशं चाभवत् साक्षात् तद् विष्णोः परमं पदम् ॥३६॥ दिव्यतूर्यरवो जज्ञे पुष्पवृष्टिश्च शोभना । समन्तात् सुखसंस्पर्शः सुगन्धिश्च समीरणः ॥ ३७॥ १. 'प्रणम्य प्राञ्जलिर्भूत्वा त' क. पाठः. २ 'माद चाम' ख. ग, पाठ, प्रथमः पटलः। ततश्चान्तर्हिते तस्मिन् भगवत्यखिलेश्वरे। जपार्चादिपरो भूत्वा कश्चित् कालमिहावसम् ॥ ३८ ॥ जपतो मे कदाचित्तु पुष्पवृष्ट्यादि पूर्ववत् । सुनिमित्तान्वितं जज्ञे सर्वाश्चक्षुभिरे दिशः ॥ ३९ ॥ ततो द्रुतमुपागम्य ताक्ष्यों मां हरिशासनात् । आदाय दिव्यया गत्या विष्णुलोकमुपानयत् ॥ ४० ॥ तत्रे साक्षान्महाविष्णुं ब्रह्मादिभिरभिष्टुतम् । दिव्यरूपं पुनदृष्ट्वा प्रणम्यातिष्ठमग्रतः ॥ ४१ ॥ स प्रीतो मत्समीपे त्वं वमेति वरदोऽब्रवीत् । सुसुखं तत्समीपेऽहमुषित्वा बहुवत्सरम् ॥ ४२ ॥ प्राप्याष्टगुणमैश्चर्य तत्प्रसादादनत्ययम् । द्युतिं चेमामिह प्राप्तश्चरल्लोकान् यदृच्छया ॥ ४३ ॥ त्वं तु भक्तो विनीतश्च श्रोतव्यं चैव तेऽखिलम् । अशक्याल्पेन कालेन सा श्रोतुं विष्णुसंहिता ॥ ४४ ॥ वक्ष्याम्युद्धृत्य सारं ते यथा न स्यादिहाश्रुतम् । मया पृष्टो यथा भूयो भगवान् सङ्ग्रहेच्छया ॥ ४५ ॥ सारभूतां ममावोचत् संक्षिप्तां विष्णुसंहिताम् । तन्त्रोद्देशोऽथ तद्व्याख्या वैभवं क्षेत्रनिर्णयः ॥ ४६ ॥ मन्त्रोद्धारोऽर्चना मुद्रा संस्कारोऽमेश्व मण्डलम् । दीक्षाभिषेचनं भूमिः प्रासादो बिम्बलक्षणम् ॥ ४७॥ १. 'रतो भू' ख. ग. पाठः. २. 'तः' क. पाठः. ३. 'नन्बय' ख. ग. पाठः, ५. 'यथेच्छया' घ., 'यथेप्सया' क. पाठः, ५. 'प्स' घ. पाठः.
विष्णुसंहितायां प्रतिष्ठापञ्चकं चैव बिम्बशुद्धिक्रमस्तथा। अधिवासः प्रतिष्ठा च प्रतिष्ठानन्तरक्रिया ॥ ४८ ॥ उत्सवश्व तथा यात्रा बलिविश्वार्चनं तथा । जीर्णोद्धारो महोत्पातशमनं स्लपनं तथा ॥ ४९ ॥ प्रोक्षणं कर्मशेषश्च समयाचारसङ्ग्रहः । योगो भागवतश्चैवमध्यायास्त्रिंशदेव तु ॥ ५० ॥ याष्टोत्तरशताध्याया महती विष्णुसंहिता । तत्रोक्तानां तु सर्वेषामर्थानामिह सङ्ग्रहः ॥ ५१ ॥ सेयं गुह्यतमा पुण्या स्पष्टार्था विष्णुसंहिता । भुक्तिमुक्तिप्रदा ज्ञेया विष्णुना स्वयमीरिता ॥ ५२ ।। इति विष्णुसंहितायां प्रथमः पटलः । अथ द्वितीयः पटलः। अथ वक्ष्यामि संक्षेपात् तन्त्रव्याख्यानमादितः। येन सम्यक्कृतेनेह सिद्धिर्भवति शाश्वती ॥ १ ॥ दीक्षाभिषेकवान् भक्तो ब्राह्मणः समयस्थितः । परानुग्रहवान् वाग्मी सिद्धः सिद्धान्तपारगः॥ २ ॥ वादजल्पवितण्डाभिः परतन्त्रविघातकृत् । सर्वलक्षणसम्पन्नः सत्यवादी दृढव्रतः ॥ ३ ॥ निर्दोषो योगविद् दान्तः कर्मज्ञः कालवित्तमः । व्याचक्षीतोपसन्नेभ्यः स्वशिष्येभ्यो विशेषतः॥ ४ ॥ दीक्षितेभ्यो विनीतेभ्यो भक्तेभ्यश्चापि यत्नतः । द्विजेभ्योऽधीतवेदेभ्यः श्रद्दधानेभ्य एव च॥५॥ १. 'पुण्यतमा गुया स्फुटार्था' ख. ग. पाठः,
द्वितीयः पटकः ।
अभिवाद्य गुरुं शिष्यः सुखासीनः प्रयत्नवान् ।
पठेत् प्रणवपूर्व तु शृणुयाञ्च पुनर्गुरोः ॥ ६॥
अभ्यसेञ्च द्विजैरेव तादृशैक्षितैः सह ।
ज्ञात्वैवमभिषिक्तस्तु परेभ्यः प्रतिपादयेत् ॥ ७ ॥
दीक्षयेच्च ततः शिष्यान् कुर्याच्च स्थापनादिकम् ।
दीक्षितोऽपि न शूद्रस्तु पठेच्च शृणुयात् तथा ॥ ८ ॥
गुरुदत्तं जपेन्मन्त्रमर्चयेत् स्थण्डिले च सः ।
व्याख्यास्थापितदेवा होमेष्वस्य न कर्तृता ॥ ९ ॥
दीक्षितस्यापि किन्त्वेष कामं विप्रेस्तु कारयेत् ।
सर्वेऽर्थी येन तन्यन्ते त्रायन्ते च भयाज्जनाः ॥ १० ॥
इति तन्त्रस्य तन्त्रत्वं तन्त्रज्ञाः परिचक्षते ।
वेदमूलतया तन्त्रमाप्तमूलतयाथवा ॥ ११ ॥
पुराणवत् प्रमाणं स्यात् तथा मन्वादिवाक्यवत् ।
दृष्टानुमोपमाशाब्दैरर्थापत्त्या च पञ्चधा ॥ १२ ॥
सर्वेऽप्यर्थाः प्रतीयन्ते यदि नाभासता भवेत् ।
दृष्टमक्षोद्भवं ज्ञानं शब्दादिविषया मतिः॥ १३ ॥
प्रमाणं विषयाक्षादिदोषैराभासता स्मृता
ततः सामान्यतो दृष्टं पूर्ववच्छेषवत् त्रिधा ॥ १४ ॥
अनुमानं भवेद् भाविभूतार्थज्ञानसाधनम् ।
उपमा यत्र सादृश्यादुपमेयार्थदर्शनम् ॥ १५ ॥
यार्थादापद्यते सेयमर्थापत्तिरिहेष्यते ।
वेदतन्त्रादिभेदेन शाब्दं तु बहुधा स्मृतम् ॥ १६ ॥
विष्णुमंहिताया स्वयंप्रकाश एकेषामात्मान्यैरनुमीयते । प्रकृतिश्च विकृत्योभावागमैर्विविधैरपि ॥ १७ ॥ निष्कलः सकलै वैः सृष्टैः स्रष्टानुमीयते । ज्ञात्वैवं सृज्यते सर्वमिति सर्वज्ञ एव सः ॥ १८ ॥ आप्तप्रोक्ततया तन्त्रं प्रमाणमिति ये विदुः । वेदप्रामाण्यमप्याहुराप्तमूलतयैव ते ॥ १९ ॥ तच्छैववैष्णवब्राह्मसौरकौमारभेदतः । पञ्चधा भिद्यते तन्त्रं वक्तृणां च विशेषतः ॥ २० ॥ विष्णोर्धर्मप्रवक्तृत्वात् तत्प्रोक्तं मनुवाक्यवत् । ब्रह्माविष्णू हि धर्माणां प्रवक्तारौ बुधैः स्मृतौ ॥ २१ ॥ यथा तु वेदवृक्षस्य शाखाभेदा ह्यनेकशः तथा भेदाः समाख्याताः पञ्चरात्रस्य सूरिभिः ॥ २२ ॥ क्रियापाठविशेषैस्तु भिद्यन्ते ते पृथक् पृथक् । तन्मूलानि च तन्त्राणि मुनिभिर्देवमानुषैः ॥ २३ ॥ बहुधा सम्प्रणीतानि तेनेदं बहुधा स्मृतम् । तथा बहुविधेऽप्यस्मिन् पञ्चरात्रेऽतिविस्तरे ॥ २४ ॥ अभेदेन स्थितं तत्त्वमेकमेव तु नान्यथा । गोचरं कुलमित्युक्तमनुष्ठानविशेषतः ॥ २५ ॥ तदेव ज्ञापकं तेषां देशिकत्वे न संशयः । वैखानसाः सात्त्वताश्च शिख्यकान्तिकमूलकाः ॥ २६ ॥ १. 'धा' ग, पाठः.
द्वितीयः पटलः । गोचरास्तु समाख्याता वासुदेवाद्यजाश्रयाः । भिद्यन्ते पञ्चधैते तु गोचराः पारमार्थिकाः ।। २७ ।। अर्चनं सर्वकालं तु देवदेवस्य नित्यशः। अयाचितोपपन्नेन कुटुम्बस्य च पोषणम् ॥ २८ ॥ वृत्तिभेदः किया चेति यत्र वैखानसं कुलम् । एककालं द्विकालं वा विष्णोराराधनं स्फुटम् ॥ २९ ॥ क्षत्रवृत्त्योफ्पन्नेन कुटुम्बस्य च पोषणम् । नावर्तनं च सङ्ग्रामे सर्वशास्त्रेषु कौशलम् ॥ ३० ॥ एतैस्तु लक्षणैर्युक्ताः सात्वतास्ते प्रकीर्तिताः। कृषिवाणिज्यगोरक्षा द्विकालं विष्णुपूजनम् ॥ ३१ ॥ एतच्च दृश्यते यत्र शिखिनस्ते प्रकीर्तिताः। शुश्रूषणं द्विजातीनां भैक्षवृत्त्या च वर्तनम् ॥ ३२ ॥ सकृच्चाराधनं येषां ते तथैकान्तिकाः स्मृताः। एककालं द्विकालं वा त्रिकालमथवा पुनः ।। ३३ ।। अर्चनं देवदेवस्य मनोवाक्कायकर्मभिः अयाचितोपपन्नेन वर्तनं येषु दृश्यते ॥ ३४ ॥ वशिष्याद् वर्तनं वापि ते ज्ञेया मूलसंज्ञकाः । प्रत्येकं पञ्चभिर्भेदैस्तोन्यासन् पञ्चविंशतिः ॥ ३५ ।। तन्त्राणि पुनरेतेषामपर्यन्तः प्रविस्तरः। भक्ताश्च भगवद्भक्ता दासाः पा(र्ष ? रिष)दास्तथा । १. 'दा' ग. पाटः. २. 'स्तम्यास' ख. ग. पाठः, विष्णुसंहितायां इति भागवतान्तोऽन्यो विभागश्वेह कीर्तितः। भक्ता वर्णरताः शान्ता वैष्णवा ये त्वदीक्षिताः ॥ ३७॥ दीक्षिता भगवद्भक्ता दासा वै नैष्ठिकाः स्मृताः । पार्षदास्तक्रियैकस्थास्तन्निवेदितवृत्तयः ॥ ३८ ॥ नित्यमातोद्यवाद्यैस्तु पूजका ब्रह्मचारिणः । विप्रा भागवता ज्ञेयाः सर्वोत्कृष्टतमास्तु ते ॥ ३९ ॥ समयी पुत्र कश्चैव साधको देशिको गुरुः । इति दीक्षितभेदोऽन्यो विहितश्वेह विष्णुना ॥ ४० ॥ मण्डलं विधिनालिख्य परिवारवदर्चितम् । दर्शयेद् यमिहाचार्यः समयी नाम स स्मृतः ॥ ४१॥ । मण्डले देवमाराध्य साङ्गमूर्ति यथाविधि । दर्शयेत् स्वयमाचार्यः पुत्रको नाम स स्मृतः ॥ ४२ ॥ प्रदर्य मण्डलं हुत्वा मन्त्रानग्नौ यथाविधि । दीक्षयेद् यं गुरुः शिष्यं साधकः स तु मन्त्रभाक् ॥४३॥ मण्डलाराधनाहोमविधानैरखिलैः क्रमात् । दीक्षयेद् यं गुरुः शिष्यं स तन्त्रज्ञस्तु देशिकः ॥ ४४ ॥ दीक्षितः समयाचारशीलवान् सर्वतन्त्रवित् । अभिषिक्तस्तु विज्ञेयो गुरुानार्चनादिकृत् ॥ ४५ ॥ वर्णेषु विप्रा विप्रेषु वैष्णवास्तेषु दीक्षिताः। तेषु मन्त्रविदस्तेषु तन्त्रज्ञास्तेषु पूजकाः ॥ ६ ॥ तेषु च ग्रन्थवन्तोऽत्र पाठकास्तेषु तद्विदः । तेषु सिद्धाश्च तेष्वेवमभिषिक्तो विशिष्यते ॥ ४७ ॥ C ..
ततोऽनुग्रहकर्तास्माद् व्याख्यातास्मात् स्वयं हरिः। सङ्ग्रहादेवमाख्याता मया ते तन्त्रगोचराः ॥ ४८ ॥ सेव्यास्तत् प्रेप्सुभिनित्यं विष्णोर्यत् परमं पदम् । रात्रयो गोचराः पञ्च शब्दादिविषयात्मिकाः ॥ ४९ ॥ महाभूतात्मका वात्र पञ्चरात्रमिदं ततः । अवाप्य तु परं तेजो यत्रैताः पञ्च रात्रयः ॥ ५० ॥ नश्यन्ति पञ्चरात्रं तत् सर्वाज्ञानविनाशनम् । अध्येतव्यमतः श्राव्यमनुष्ठेयार्थमादरात् ॥ ५१ ॥ प्रमाणप्रवरं तन्त्रं पञ्चरात्राख्यमीदृशम् । एताभ्यः पञ्चरात्रिभ्यो व्यतिरिक्त निरञ्जनम् ।। ५२ ।। यदा पश्येत् परं तत्त्वं तदा मुक्तः स नान्यथा । स एव देशिको ज्ञेयः संसारार्णवतारकः॥ ५३ ॥ स एव भगवान् विष्णु फलस्तदनुग्रहः । इति विष्णुमंहितायां द्वितीयः पटलः ।। २ अथ तृतीयः पटलः । सिद्धः- अथ वक्ष्यामि संक्षेपाद् विष्णोर्वैभवमुत्तमम् । येन ज्ञातेन शुद्धात्मा वैष्णवं पदमाप्नुयात् ॥१॥ देवतेह परं ज्योतिरेक एव परः पुमान् । स एव बहुधा लोके मायया भिद्यते स्वया ॥ २ ॥ पुरुषाख्यः स्वयं मायां प्रकृतिं व्यज्य स द्विधा । स्थितैस्त्रिधा च सत्त्वादिगुणभेदात् प्रतीयते ॥ ३ ॥ १. 'बा' ख. पाठः. २. 'ने', ३. 'तं त्रि' ख. ग. पाठः, १२. विष्णुसंहितायो. विष्णुब्रह्मशिवाख्योऽसौ स्थित्युत्पत्त्यन्तकृन्मतः । मूर्तयो वासुदेवाद्या धर्मज्ञानादिभेदतः ॥ ४ ॥ चतस्रस्तस्य विज्ञेया वेदवर्णयुगाश्रयाः । परमेष्ठी पुमान् विश्वो निवृत्तिः सर्व इत्यसौ ॥ ५ ॥ पश्चधोपनिषद्भेदान्महाभूतत्वमागतः । मनःश्रोत्रादिभिः षड्भिरङ्गैश्च हृदयादिभिः ॥ ६ ॥ षडक्षरात्मको नित्यमृतुभिश्चैष भिद्यते । सप्तव्याहृतिभिर्लोकश्छन्दोभिः ऋतुभिस्तथा ॥ ७॥ सप्तधा भिद्यमानोऽसौ विज्ञातव्यो विचक्षणैः । अष्टप्रकृतिभिश्वासावष्टमूर्तिभिरेव च ॥ ८ ॥ अष्टाक्षरमयो नित्यमष्टधा चैष भिद्यते । नारायणो नृसिंहश्च वराहो वामनस्तथा ॥ ९ ॥ रामब्रह्मेन्द्रसूर्याश्च चन्द्रस्तैनवधा स्थितः । इन्द्रोऽमिश्च यमश्चैव नितिर्वरुणस्तथा ॥ १० ॥ वायुश्च सोम ईशानो ब्रह्मानन्तश्च ते दश । एकादशेन्द्रियैभिन्नस्तथा हादशमासपैः ॥ ११ ॥ स त्रयोदशधा चैव विश्वेदेवादिभिः स्मृतः। स चतुर्दशधा भिन्नो मनुभिश्चाक्षुषादिभिः ॥ १२ ॥ तिथिभिश्चैव विज्ञेयः स पञ्चदशधा स्थितः । स्वरैः षोडशधा भिन्नो दिक्कोणावान्तरैस्तथा ॥ १३ ॥ ३ -------- '', २. 'वा', ३. 'स्मृ', ४. 'श्चैव तथा' ख. ग. पाठः.
तृतीयः पटलः । मूर्त्यन्तरै विज्ञेयो बहुधा तस्य विस्तरः । एकद्वित्रिचतुष्पञ्चषडाद्या विश्वतोमुखाः ॥ १४ ॥ मुखभेदाः समाख्यातास्तस्य विश्वात्मनो हरेः । द्यादयो विश्वतःपाणेर्भुजभेदास्तथा स्मृताः ॥ १५ ॥ विविधाभरणा दीर्घा विविधायुधधारिणः । मूर्धानश्चैव तस्योक्ता लसन्मकुंटकुण्डलाः ॥ १६ ॥ सहस्रं पौरुषे सूक्ते पादाश्चाक्षीण्यनेकशः । हिरण्यगर्भोऽनेकात्मा विमलः श्याम एव च ॥ १७ ॥ नीलः पीतश्च रक्तश्च नानावर्णश्च कीर्तितः। चन्द्रादित्यौ स्मृतौ तस्य वामदक्षिणलोचने ॥ १८ ॥ ब्रह्माणमाहुर्मूर्धानं केशांश्चास्य वनस्पतीन् । भ्रुवोर्मध्यं तथा रुद्रं सोमं च मनसि स्थितम् ॥ १९ ॥ एकादशास्य विज्ञेया रुद्राः कण्ठं समाश्रिताः । नक्षत्रग्रहताराश्च दशनास्तस्य कीर्तिताः ॥२०॥ धर्माधर्मों तथोर्ध्वाधरोष्ठसम्पुटमाश्रिता। इन्द्राग्नी तालुके तस्य जिह्वा चैव सरस्वती ॥ २१ ॥ दिशश्च विदिशश्चैव श्रोत्रयोः संव्यवस्थिताः । वायुः प्राणेषु विज्ञेयो मरुतोऽङ्गुलयः स्मृताः ॥ २२ ॥ ऋषयो रोमकूपस्थाः समुद्रा वस्तिगोचराः । नयश्च वसुधा चास्य नागाश्च नलके स्थिताः ॥ २३ ॥ १. 'स्तु', २. 'करकु' ख. ग. पाठः.
. विष्णुसहिताया जानुस्थावश्विनौ देवौ पर्वताश्चोरुसंश्रिताः। गुह्येऽस्य गुह्यका ज्ञेया वसवः वश्वोरैसि स्थिताः॥ २४॥ नखाग्रेषु च विज्ञेया दिव्या ओषधयः स्थिताः । नासिकायाः पुटौ ज्ञेयावयने दक्षिणोत्तरे ॥ २५ ॥ ऋतवो बाहुमूलस्था मासास्तस्य करेषु च । ललाटाग्रे स्थिताः सिहा भ्रुवोर्मघाः सविद्युतः ॥ २६ ॥ यक्षकिन्नरगन्धर्वा देतया दानवास्तथा । राक्षसाचारणाश्चास्य जठरं तु समाश्रिताः ॥ २७ ॥ पितरः प्रेतकृश्भाण्डवताल मथास्तथा । पातालगोचराश्चास्य पादयुग्मे व्यवस्थिताः ॥ २८ ॥ पार्श्वयोस्तस्य विज्ञेया यज्ञा वैदिकतान्त्रिकाः । अग्निहोत्रादिकर्माणि वर्णाश्रमगतानि च ॥ २९ ॥ स्वाहास्वधावपट्काराः सर्वे:स्य हृदये स्थिताः। ये वै सहस्रनामानो विष्णवः परिकीर्तिताः ॥ ३० ॥ सहस्रमूर्तयस्तेऽत्र यथायोगमवस्थिताः । यतः सहस्रसंख्यापि बहुसंख्या प्रकीर्तिता ॥ ३१ ॥ मूर्तयश्चास्य सर्वास्ताः संख्यातीता ह्यनेकशः । देवादीनां च सर्वेषां मूर्तयोऽत्रैव कीर्तिताः ॥ ३२ ॥ तस्मात् सहस्रमूर्तिः सन् विष्णुः सर्वात्मको मतः। दर्पणानां बहुत्वे तु दृश्यते नैकता यथा ॥ ३३ ॥ १. 'रुसंस्थि' क., 'ररम्थि' ख. ग. पाठः. २. 'च', ३. 'लाः ' ख. ग, घ, पाठ.. ४. 'य' क. पाठः. ५. 'सं ख. ग. पाठः. ६. 'संवि' ख. ग. घ. पाठः, १५ तृतीयः पटलः । तद्वद् बहुत्वं मन्यन्ते विष्णोस्तस्याल्पचेतसः। यथाम्भसीन्दुबिम्बानि प्रतिशब्दाश्च नैकधा ॥ ३४ ॥ एकोऽप्यात्मा बहुष्वेवमित्याहुस्तत्त्वदर्शिनः । परमार्थमजानन्तो मूढास्त्वज्ञानमोहिताः ॥ ३५ ॥ क्षेत्रज्ञस्य बहुत्वं हि वदन्तीह रमन्ति च । ब्राह्मणा यस्य मुखतः क्षत्रिया यस्य बाहुतः ॥ ३६ ॥ या यस्योरुतो जातास्तद्विष्णोः परमं पदम् । ईदृशं तं महाविष्णुमप्रमेयमनामयम् ॥ ३७ ।। तत्प्रसादाढते वक्तुं ज्ञातुं वा नैव शक्यते । सर्वदेवाश्रयो विष्णुः सर्वे देवास्तदात्मकाः ॥ ३८ ॥ अशेषं वाङ्मयं चेदं लोकालोकं चराचरम् । व्याप्तं विष्णुशरीरेण वायुनेवाम्बरं सदा ॥ ३९ ॥ सर्वे विष्णुपरा देवाः सर्वशास्त्रेषु कीर्तिताः । यतो जाताखिला सृष्टिरन्ते तल्लयभागिनी ॥ ४० ॥ ततोऽन्यः पुण्डरीकाक्षात् को विश्वं व्याप्य तिष्ठति । आधाराधेयभावेन द्विधावस्थो जनार्दनः ॥ ४१ ॥ सर्वभूतहितायासौ स्थितः सकलनिष्कलः । एवं चोभयरूपोऽसौ ज्ञयो विष्णुः परीत् परः ॥ ४२ ॥ स्थूलसूक्ष्मपरत्वेन त्रिधा च भगवान् स्थितः । प्रभविष्णुमहाविष्णुः सदाविष्णुश्च स स्मृतः ॥ ४३ ॥ १. 'रावरः' क. पाठः.
विष्णुसंहितायां स ह्यात्मा चान्तरात्मा च परमात्मा च सं स्मृतः। वैराज लैङ्गिकं चैशं बहिरन्तश्च सर्वशः॥४४॥ शब्दादिश्चिन्मयं रूपं जाग्रत्स्वप्नसुषुप्तिगम् । मन्त्रानुस्वारनादेषु त्रयमन्वेषयेद् बुधः ॥ ४५ ॥ वेदे साङ्खये च योगे च पञ्चरात्रे च केवले । धर्मशास्त्रे पुराणे च मुनिभिर्देवमानुषैः ॥ १६ ॥ पठ्यते निखिलैनित्यं विश्वं विष्णुमयं जगत् । अतीतानागतं चैव वर्तमानं च किञ्चन ॥ ४७ ॥ इन्द्रियाणीन्द्रियार्थाश्च भूतान्तःकरणानि च । अव्यक्तं त्रिगुणा माया विद्या धर्मादयस्तथा ॥ ४८ ॥ नियतिश्च कला कालः सर्वमन्यच्च तन्मयम् । विष्णुरेव परो देवः सर्वभूतेष्ववस्थितः ।। ४९ ॥ सर्वभूतानि चैत्रासौ न तदस्तीह यन्न सः । देवासुरादयो माः पशवश्च सरीसृपाः ॥ ५० ॥ तरुवल्लीतृणौषध्यो महाभ्राशनिविद्युतः । शैलाब्धिसरिदारामनगराणि सरांसि च ।। ५१ ॥ लोकाश्वानन्तकालाग्निप्रेतावासोरगालयाः। सप्त भूरादयो ब्राह्मशैववैष्णवसंज्ञिताः ॥ ५२ ॥ सर्वे च विष्णुनैकेन व्याप्ता इत्यवधारय । वराहो भार्गवः सिंहो रामश्रीधरवामनाः ॥ ५३ ॥ १. 'कीर्तितः' ख. ग. घ. पाठः. २. 'वि' ख, 'थ' ग. प. पाट:. . ३. 'ल', ४. 'त्र' ख. ग. घ. पाठः, तृतीया अश्वकृष्णौ च विश्वेषां लोकैरण्डं सहाखिलम् यचानुक्तमशेषेण विष्णोरेता विभूतयः ॥ ५४ ॥ विश्वव्यापितयैवैष विष्णुत्वं प्राप्तवान् प्रेभुः । वसनात् सर्वभूतेषु वासुदेवत्वमेव च ॥ ५५ ॥ आदिमूर्तेः समाकृष्ट इति सङ्कर्षणः स्मृतः। प्रद्युम्नो घुम्नपुष्टत्वादनिरुद्धोऽनिरोधनात् ॥ ५६ ॥ अच्युतोऽच्यवनाद् योगात् त्रिधामा धामभिस्त्रिभिः । विलोमेन्द्रियगम्यत्वाज्ज्ञेयोऽन्तर्याम्यधोक्षजः ॥ ५७ वैकुण्ठामलवर्णत्वाद् वैकुण्ठश्चायमुच्यते । केशौ सर्गान्तयोरस्य स्त इत्येवैष केशवः ॥ ५८ ॥ नरनारीप्रकर्तृत्वान्नराणां चायनादयम् । नारायणो नरोत्थानामयनत्वादपां च सः॥ ५९ ॥ माधवो मधुपूत्पत्त्या धवत्वाद् वा श्रियः स्मृतः । गां विन्दतीति गोविन्दो दुःखानां हरणाहरिः ।। ६०॥ मध्वाख्यासुरघातित्वादुच्यते मधुसूदनः । त्रिभिः स्वैविक्रमैर्व्याप्त इति ज्ञेयस्त्रिविक्रमः ॥ ६१ ॥ वामनो ह्रस्वतायोगाच्छ्रीधरो वहनाच्छ्रियः । हृषीकाख्येन्द्रियेशत्वादृषीकेशोऽयमीरितः ॥ १२ ॥ पद्मं नाभेरभूद् यस्य पद्मनाभस्ततः स्मृतः । उदरालम्बि दामास्येत्युक्तो दामोदरश्च सः ॥ ६३ ॥ स रुद्रो रोदनाज्जातो ब्रह्मा बृंहणकर्मणा। इन्द्रश्च परमैश्वर्याद् वहनाद् वह्निरुच्यते ॥१४॥ १. 'स' क. पाठः. २. 'वि' ख. ग. घ. पाठः. ३.क. ग, पाठ: D
विष्णुसंहितायां
'यमः संयमनात् पुंसां वरणाद् वरुणस्तथा ।
वायुर्वानात सवात सोम ईशश्वेष्टो जनेष्वतः ॥ ६५ ॥
आदित्योऽदितिपुत्रत्वाश्चन्द्रश्चन्दयतीति सः।
इत्येवं गुणवृत्त्यायैः शब्दैरेकोऽप्यनेकधा॥६६॥
प्रतीयतेऽम्भसीवेन्दुर्बहुत्वं नास्य तावता ।
यथा सर्वगतो वायुरतिसूक्ष्मो न दृश्यते ॥ ६७ ।।
तथा सर्वगतो विष्णुरजस्तग्जैस्तु दृश्यते ।
इच्छाज्ञानक्रियाभेदात तिस्रो वै तस्य शक्तयः॥ १८ ॥
याभिहादशधा भिन्नाश्चतस्रस्तस्य मूर्तयः ।
सा तु शक्तिः परा सूक्ष्मा येच्छाख्या कामरूपिणी ॥ ६९॥
ओतं प्रोनं यया सर्व दृश्यते सचराचरम् ।
हिधा विभज्य सात्मानं क्रियाज्ञानप्रवर्तनम् ॥ ७० ॥
प्रकरोति जगत कृत्स्नं स्वतन्त्रमिव तहशात् ।
क्रियाशक्त्यापरो विष्णुः ज्ञानशक्त्या खगेश्वरः ।। ७१ ॥
तं यज्ञपुरुषं प्राहुस्तपश्छन्दोमयं खगम् ।
इच्छाशक्त्या तु विज्ञेयः पुरुषो यः परोऽव्ययः ॥७२॥
ज्ञानपूर्व प्रवर्तेत क्रिया कर्ता ततः पुनः ।
ज्ञानाधारा क्रिया ज्ञेया न चैका संप्रवर्तते ॥ ७३ ।।
क्रियाज्ञानप्रभेदेन शक्तिरेका परस्य नुः ।
द्विधा व्याप्य जगत् कृत्स्नं चराचरमवस्थिता ।।७४ ॥
शक्तिशक्तिमतोर्यस्मान्न भेदोऽस्ति परस्परम् ।
अभिन्नं तेन बोहव्यं क्रियाज्ञानद्वयं बुधैः॥ ४५ ॥
॥ तृतीयः पटलः । एक एव त्रिधारूपो भेदेनानेन संस्थितः । क्रिया ज्ञानं तथेच्छा च त्रितयं चैकमेव हि ॥ ७६ ।। उपचारः स्मृतो भेद एकस्यैव महात्मनः । खगोपेन्द्रशिवाश्चैवमभिन्नास्तेन कीर्तिताः ॥ ७७ ।। इन्द्रियाणीन्द्रियार्थाश्च बुद्धेरेव विभूतयः । अहङ्कारविकाराश्च जलबुबुदवन्मताः ॥ ७८ ॥ गोष्वप्यनेकवर्णासु यथा क्षीरैकवर्णता। तथाश्रयेषु भिन्नेष्वप्येकरूपमवेक्ष्यताम ॥ ७९ ।। क्षणभङ्गि जगत् सर्व विद्धयेतत् सचराचरम् । तदभङ्ग्येकमेवेह यद् विष्णोः परमं पदम् ॥ ८० ॥ तस्येश्वरस्य चैश्वर्यात् सर्वमेतत् प्रवर्तते । सेश्वरं हि जगत् कृल्नं नानीश्वरमिदं भवत् ॥ ८१॥ क्षेत्रज्ञस्य बहुत्वं च वदन्त्यज्ञानमाहिताः । न क्षेत्रज्ञबहुत्वं तु तत्त्वज्ञानां तु सम्मतम् ।। ८२ ।। उपाधिभेदाद् ये त्वाहुबहुत्वं परमात्मनः । संसरन्त्येव ते मूढा नाप्नुवन्ति परं पदम् ॥ ८३ ॥ येषां विश्वसृजोऽप्यस्य सर्वज्ञत्वमनीप्सितम । तैः प्रमाणप्रमयानां सम्बन्धी नोऽवधारितः ॥ १४ ॥ संस्थानिनां समुत्पत्त्या जगतो जन्म जन्मतम् । तदीशकृतमन्योऽलं प्रकृतेन हि चोदने ॥ ८५ ॥ तस्मादीशकृतं विश्वं तदूढं तन्मयं तथा। तत्पालितं तदर्थं च तदीयं चेति गृह्यताम् ॥ ८६ । ॥
२. विष्णुसहितायां तस्येशस्य देवस्य प्रभावो नन्वदुर्गमः । स्वयमेव स तं वेद यदि वा न तथा श्रुतेः ॥ ८७ ॥ यतो जाताखिला सृष्टिरियं को वेद तत् परम् । अर्वाग्देवा हि तत्सृष्टा ब्रह्माद्या अपि मूर्तयः ॥ ८८ ॥ तथापि महिमोद्देशस्तस्योक्तोऽचिन्त्यरूपिणः । बक्ति यन्महिमानन्त्यं न ते विष्णविति श्रुतिः ॥ ८९ ।। इति विष्णुसंहितायां तृतीयः पटलः ॥ अथ चतुर्थः पटलः । भथ वक्ष्यामि संक्षेपात् क्षेत्रक्षेत्रज्ञनिर्णयम् । सृष्टिसंहारयोगं च भोक्तृभोज्यत्वसंयुतम् ॥ १ ॥ क्षेत्राख्या प्रकृतिज्ञेया तडित् क्षत्रज्ञ ईश्वरः । उभयं चेदमत्यन्तमभिन्नामिव तिष्ठति ॥२॥ अव्यक्तं बुद्धयहङ्कारौ तन्मात्राणीह पञ्च च । एकादशेन्द्रियैर्भूतैः क्षेत्रमेवं प्रकीर्तितम् ॥ ३ ॥ स्थूलसूक्ष्मविभागेन द्विधा क्षेत्रमवस्थितम् कार्यषोडशकं स्थूलं सूक्ष्मं बुद्धयादिमात्रजम् ॥ ४ ॥ तदनित्यं च नित्यं च शरीरं सर्वदेहिनाम् । पुर्यस्यामुषितो भोक्ता पुरुषश्चैष कथ्यते ॥ ५ ॥ चिन्मात्रः पुरुषो व्यापी व्याप्यो पूस्त्रिगुणा जडा। तन्नियोगात् स्वतन्त्रव सूते भावान् हरत्यपि ॥६॥ १. 'यां वैभव प', २. 'प्य पुंस्त्रीगु' ख. ग. पाठः, चतुर्थः पटलः । परार्थाचेतनासूक्ष्मा त्रिगुणा नित्यविक्रिया। प्रकृतिर्गुणभेदात् तु बुद्धयादिविकृतिस्त्रिधा ॥ ७ ॥ सत्त्वं सुखं रजो दुःखं तमो माहव ते गुणाः । तेऽन्योन्याभिभवव्यक्तमिथुनाश्रयवृत्तयः ॥ ८ ॥ लघुप्रकाशकं सत्त्वं क्रियानिबन्धकृद् रजः । तमो गुरुनिरोध्येते सितरक्तासिताः स्मृताः ॥ ९ ॥ त्रिभिरेव गुणैरतेः प्रकृतिस्थैः समन्विताः । सर्वे भावा भवन्त्येते श्रेष्ठमध्यमकन्यसाः ॥१०॥ प्रकृतेर्गुणसंयोगभेदरकोऽप्यनेकधा । निर्गुणोऽपि पुमान् भाति स्फटिकोऽन्यरिवान्वितः ॥११॥ सात्त्विकैरर्चयेन्मुक्त्यै भाव गाय राजसः । तामसैः परपीडादौ मिश्रितैमिश्रसिद्धये ॥ १२ ॥ तस्मात् तं प्रत्युपासीनः सर्वान् भावानतन्द्रितः । . कुर्याच्च साच्चिकानेव भावानन्यापमर्दनात् ॥ १३ ॥ महदाख्याष्टधा बुन्हिाताव्यक्ताद गुणस्त्रिभिः । चतुरेकत्रिभंदा सा बुद्धिरविधा रमता ॥ १४ ॥ धर्मों ज्ञानं च बगरमश्वयं नत्वबुद्धयः । अवैराग्यं रजावुद्धिवाद्यास्तमाधिकाः ॥ १९ ॥ . यमश्च नियमा धमों मनायाक्कायनांक्रयः । देवप्रसादनायामी कर्तव्या मक्षिकादिभिः ॥ १६ ॥ ३ १. 'म' ख. ग. पाठः, २२ विष्णुसंहिताया श्रद्धा धृतिः प्रसादाख्यो मानसो धर्म उत्तमः । सत्यप्रियहितालापो वाग्धर्म इह कीर्तितः ॥ १७ ॥ शारीरः परिचर्याशुद्यनुग्रहमयस्त्रिधा । एत धर्मास्तु कर्तव्या वर्णाश्रमगताश्च ये ॥१८॥ वैदिकाम्तान्त्रिका वास्य सिडिर्भवति नान्यथा । ज्ञानं तु मोक्षधर्मार्थकामाङ्गत्वाच्चतुर्विधम् ।। १९ ।। द्विधा विवेकनिर्वेदकृतं वैराग्यमिष्यते । आद्यमाभ्यन्तरं मुक्त्यै बाह्यमन्यत्तु बन्धनम् ॥ २० ॥ जातो बुडेरहङ्कारस्त्रिविधस्त्रिगुणात्मकः । येन जन्तुरनात्मानमात्मानमिव मन्यते ॥ २१ ॥ वैकृतः सात्त्विका गो राजसस्तैजसाहयः । भृतादिस्तामसो नाम्ना गर्वभेदा इमे स्मृताः ॥ २२ ॥ वैकारिकादहङ्कारात् पञ्च बुद्धीन्द्रियाणि चे समुत्पन्नानि यैर्ज्ञानं नरस्यार्थेषु जायते ॥ २३ ॥ कर्मेन्द्रियाणि पञ्चैव कर्मार्थानि च तैजसात् । मनो जातं हिरूपं च ततः सङ्कल्पसाधनम् ॥ २४ ॥ मनः श्रोत्रादिषु ज्ञेयं चित्तं वागादिषु स्मृतम् । भूतादेः पञ्च जातानि तन्मात्राणि यथाक्रमम् ॥ २५ ॥ शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः । परमेष्ठ्यादयो जया विष्णोस्ताः पञ्च शक्तयः॥ २९॥ १. 'यं त्रिधा', २. 'तु' ख, ग. पाठः, चतुर्थः पटलः । २३ याभिरेष परो देवः परमे व्योनि तिष्ठति । चिच्छक्तिः सर्वकार्यादिकूटस्था परमेष्ठ्यसौ ॥ २७ ॥ द्वितीया तस्य या शक्तिः पुरुषाख्यादिविक्रिया। विश्वाख्या विविधाभासा तृतीया करणात्मिका ॥ २८ ॥ चतुर्थी विषयं प्राप्य निवृत्त्याख्या स्थिता पुनः । पूर्णज्ञानक्रियाशक्तिः सर्वाख्या तस्य पञ्चमी ॥ २९ ॥ एताभिः शक्तिभिर्युक्तः परमात्मा निरञ्जनः । उत्पत्तिस्थितिसंहारहेतुः स्यादकियोऽपि सन् ॥ ३० ॥ निग्रहानुग्रहौ चौपि करोति जगतः प्रभुः । एकैकोत्कर्षभेदेन पञ्चधा पञ्चशक्तिभिः ॥ ३१ ॥ पश्चात्मानः स्मृता ह्येते सूक्ष्मरूपा व्यवस्थिताः । संसारविषयातीता योगगम्याः सनातनाः ॥ ३२ ॥ एतत् सूक्ष्मशरीरं तु कथितं मूर्तिकारणम् । तन्मात्रेभ्यस्तु भूतानि क्रमाज्जातानि पञ्च वै ॥ ३३ ॥ व्योम वायुश्च तेजश्व जलं पृथ्वी च पञ्चमी । एतत् स्थूलशरीरं तु सर्वाधारं प्रजायते ॥ ३४ ॥ श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं बुद्धीन्द्रियाणि तु । कर्मेन्द्रियाणि वाक्पाणिगुह्यपायवळ्यः स्मृताः ॥ ३५ ॥ एवं सृष्टिः शरीरान्ता स्थूलसूक्ष्मविभागतः । कीर्तिता ते मया सर्गविपरीतो लयक्रमः ॥ ३६ ॥ १. 'व', २. 'दिः कू' क. पाठः, ३. 'वा', १. स्थि' 1. ग. पाठः. ५. 'स्थूलश' ख, पाठः, ६. 'मुक्तिका' ख. ग. पाठ:.
विष्णुसहितायां 'यथैकसूक्ष्मदेहोऽपि देही जन्मनि जन्मनि । देहैग्नेकतामेति तथा देवोऽपि मूर्तिभिः ॥ ३७ ॥ परस्य पुरुषस्यैव नयः कोटिशोऽपगः । जातिनामस्वरूपाणां भदा भिन्ना इव स्थिताः॥ ३८ ॥ शरीरं भौतिक भार कमीः नेमणाजितैः। दीर्घ भ्रमन्ति गंगार सामगी जनाः ॥ ३९ ॥ शुभेन कर्मणा यान्ति गतिमूवीं शुभाम् । अशुभेनाशुभां चैव तथा गनिमधोमुखीम् ॥ ४० ॥ पुमांसो व्याकृते मनाचिद्रूपा अपि ते स्वतः । अशक्ताः स्वं परं ज्ञातुमाश्रयध्वान्तमोहिताः॥४१॥ गगद्वेषादयस्तेषां दोषाः प्रकृतिसम्भवाः । संसारवासनामेव कुर्वन्न्यस्य पृथग्विधाम ॥ ४२ ॥ तेषां सत्त्वगुणोद्रके गनिर्देवत्वमिप्यते। मानुष्यं रजसा प्रोक्तं तिर्यक्त्वं तमसा तथा ॥ ४३ ॥ एवं शरीरिणः सर्वे गच्छन्ति विविधां गतिम् । कालचक्रं समामा भ्रमन्त्यज्ञानमायया ॥ ४४ ॥ यत्र व्यस्ताः समस्ता वा धर्माद्याः सात्त्विका गुणाः। म प्रियोऽस्याप्रियथान्यो यत्राधर्मादयः स्थिताः॥४५॥ प्रलयान्ते तु सम्प्राप्ते निर्व्यापारः परः पुमान् । विज्ञानघनरूपोऽसौ परमे व्योम्नि तिष्ठति ॥ ४६ ॥ यत एवमतो लब्ध्वा शरीरं सर्वसाधनम् । शुभं कर्मव कर्तव्यं तत्प्रसादाय मानवैः ॥ ४७ ॥ १. 'द' ख. ग. घ. पाठः.
.२५ चतुर्थः पटलः । प्रसादितेऽस्मिन् सर्वेषां स्ववर्णाश्रमकर्मभिः । सर्वे हस्तगताः कामा मुक्तिश्चान्ते न दुर्लभा ॥ ४८ ॥ कार्यार्था मूर्तयस्तस्य लोकानुग्रहहेतवः । अतः साकारमिष्टेमं भक्त्याप्याः सर्वसिद्धयः ॥ ४९ ॥ भक्त्यैव परया तुष्टो देवदेवः स योगिनाम् । पूजाद्यनुग्रहायादौ रूपं भेजे चतुर्भुजम् ॥ ५० ॥ तस्मात् तेनैव रूपेण ध्येयोऽय॑श्च सदा बुधैः । आकारेऽस्मिन् कृता पूजा स्तुतिर्वा ध्यानमव वा ॥ ५१ ॥ विधिना शास्त्रदृष्टेन देव एव कृता भवत । उदयायापरः पूज्यो निर्वाणाय परः पुमान् ॥ ५२ ।। पूर्वाह्ने चापराह्ने च पूजनं शम्यत तयाः । श्याममष्टभुजं देवं कल्पयित्वा मवाहनम् ॥ ५३ ।। सायुधं सपरीवारमुदयार्थी प्रपूजयेत । शुद्धस्फटिकसङ्काशं शङ्खचक्रगदाधरम् ॥ ५४ ॥ चतुर्भुजमनन्तस्थं यजेन्मोक्षाय भक्तितः । सृष्टिबीजं विदुः पद्मं चक्रं स्थितिनिबन्धनम् ॥ ५५ ॥ गदाशङ्खौं च संहारमुक्त्यर्थो सर्वदा स्मृती । सर्वतत्त्वयुतस्यैव पूजा संहारमार्गतः ॥ ५६ ॥ ध्यानं फलानपेक्षित्वमिति मोक्षार्थिनां क्रमः । उत्तरोत्तरभूयिष्ठं कर्मवाग्बुद्ध्युपासनम ॥ ५७ ।। तामसं राजसं चैव सात्त्विकं च तथा भवेत ! समयोऽग्रे समाचारः स्वाध्यायो द्रव्यसङ्ग्रहः ॥ ५८.॥ १. 'व' क. पाठः.
२५ विष्णुसंहिताया शुद्धिर्यागः स्तुतिर्ध्यानमित्येवं विधिरष्टधा । द्विविधः पुरुषो भक्तो दीक्षितोऽदीक्षितस्तथा ॥ ५९ ।। दीक्षितः सर्वकर्तान्यः समयार्चनमात्रभाक् । नित्यार्चा समयो भक्तविश्वासः पूजनादरः ॥ १० ॥ यत्नः कथाश्रुतिः शान्तिरनाजीवो व्रताष्टकम् । स्वारामोत्पादितः पुप्पैर्वन्यः क्रीतैस्तु वार्चयेत् ॥ ११ ॥ प्रतिग्राह्यं न पूजार्थं दातुरेव फलं यतः। अलाभे गन्धपुष्पाभ्यां पुप्पैरपि सेमर्चयेत् ॥ ६२ ॥ पुष्पालाभ तु तोयन तोयालाभे तु चेतसा ॥ ६२१ ।। इति वि.संहितायां चतुर्थः पटलः । १ अथ पञ्चमः पटलः। . अथ वक्ष्यामि संक्षेपान्मन्त्रोद्धारविधि परम् । यस्मिन् सम्यकृत मन्त्रा वीर्यवन्तः स्युरिष्टदाः॥१॥ विविक्ते सुसमे दशं शुचौ स्निग्धे मनारमे । पुष्पप्रकरसंकीण मन्त्रोद्धार समाचरेत् ॥ २ ॥ झावाचान्तः कृतन्यासा गन्धपुष्पाद्यलंकृतः। सानुगः प्रयतो मन्त्री सूत्रपातं प्रकल्पयत् ॥ ३ ॥ चतुष्पष्टिपदं कृत्वा चन्दनंन सुगन्धिना । आदिहान्तां समालिख्य मातृकामष्टवर्गिणीम् ॥ ४॥ आदिपतौ हिशो वर्ग वर्गशोऽन्यत्र चान्ततः। नादात् सर्वगतादष्टवर्गोत्पत्तिमनुस्मरेत् ॥ ५ ॥ 3. 'तैव्यैर्व' क. पाठः. २. 'त' ख, ग, प. पाठः. ३. 'ता' ६. पाठः.
पश्चमः पटलः । २७ १ . नादोऽकारः स्वयं जातो वासुदेवात्मकस्ततः । संकर्षणाख्ययाकार इकारश्च शिवाख्यया ॥ ६ ॥ ईकारश्च ततो जातस्तौ च संकर्षणात्मकौ। ब्रह्मोकारोऽत ऊकारः प्रद्युम्नाख्यौ च ती स्मृतौ ॥७॥ हंसाख्योऽस्माहकारोऽत ऋकारश्चानिरुद्धकः । लुकारो महदाख्योऽज लुकारश्च ततोऽजनि ॥ ८ ॥ ततो रुद्राख्य एकार ऐकारश्चाप्यनन्तरः। प्राजापत्याख्य ओकार औकारश्च तदात्मकः ॥९॥ बिन्दुस्तस्माद्वरीशात्मा विसर्गोऽस्माच ते स्वराः । तस्माद्वरीशाद् ब्राह्मयादिमातृभेदेन सप्तधा ॥ १० ॥ कादिवर्गा यशादी च न्यस्तव्यास्तेऽन्यपतिषु । एवं सरस्वती देवीमष्टवर्गात्मिकां शुभाम् ॥ ११ ॥ गन्धपुष्पैर्यजेद् वर्णदेवतानामभिः क्रमात् । ततो गारुडमश्विभ्यामुद्धृतं वर्णहारकम् ॥१२॥ यमाख्यमोद्वयं चेष्ट्वा तेन मन्त्रान् समुहरेत् । प्रणवाष्टाक्षरोडारे वासुदेवः स्वयं भवेत ॥१३॥ षट्के संकर्षणो ब्रह्मा गायत्र्यां चाक्रिके हरः । प्रद्युम्नस्त्वजितोद्धारे नारसिंहेऽनिरुद्धकः ॥ १४ ॥ वासुदेवादिभिः वे स्वे बीजमन्त्राश्च हेतयः । आदित्येनैव तूडार्याः पञ्चोपनिषदादयः ॥ १५ ॥ आधादिमुहरेत् पूर्व पुनस्तत्रैव पञ्चमम् । षष्ठान्तं चादिवर्गोनं त्रयमेकत्र योजयेत् ॥ १६ ॥ १. 'दीर्घस्तदाख्य' ख. ग. पाठः, २. 'माद्वयं' क. पाटः. ३. 'सर्वान २ ख.ग.घ, पाठः, २८ विष्णुसंहितायां एतत् तत् परमं तत्त्वमक्षरं परमं पदम् । अनेनैवार्चनं विष्णोर्जपो होमश्च मोक्षदः ॥ १७ ॥ त्रिदेवगुणवेदाग्निसन्ध्यालोकदशास्वयम् । वेदादिरक्षरव्याप्न्या सर्वमन्त्रादितां गतः ॥१८॥ पञ्चमान्तं परं तारात पठान्तं सत्रयोदशम् । देवनाम चतुर्थ्यन्तमित्यतन्मन्त्रलक्षणम् ॥ १९ ॥ एवं पडक्षरी मन्त्री निर्बीजोऽष्टाक्षरस्तथा । द्विषट्के भगवन्नन्द्रा नमस्कारात परो भवेत् ॥ २० ॥ बीजं तारादिनत्यन्तं सर्वत्राख्या न चेत् परा । यत्राख्या तु चतुर्थ्यन्ता नमस्कारस्तदान्ततः ॥ २१ ॥ चतुर्थमष्टम बीजमादिपष्ठान्तबिन्दुम् । हृदयं तदबीजस्य विष्णुबीजं च यद् विदुः ॥ २२ ॥ द्वितीयाद्यं शिरश्चास्य बिन्द्वन्तमुपकल्पयेत् । अष्टमाद्यं शिग्वाबीजं तृतीयम्वरभेदितम् ॥ २३ ॥ चतुर्थ कवचं चान्त्ये पश्चमस्वरबिन्दुमत् । तदेवास्त्रं भवेतं तस्य षोडशस्वरसंयुतम् ॥ २४ ॥ एतत पञ्चाङ्गमुद्दिष्टं निर्बीजस्य पडात्मनः । यदाख्याजातिभिर्युक्तं सर्वकामप्रदं विदुः ॥२५॥ हृद्वीजं मूलमङ्गानि हिचतुष्षष्ठयोगतः । नेत्रान्तानि षडप्याहुदिशान्त्यचतुर्दशैः ॥ २६ ॥ नमोन्तानि निराख्यानि साख्यानि तु सबीजके प्रणवानन्तरं बीजमनन्ते चेन्नमोन्वितम् ॥ २७ ॥ १. 'तु प' क. पाठः. २. 'तम्', ३. 'जता' ग. पाठः. १. 'मत् ५. 'दस्य' ख. ग, पाठः. .
पञ्चमः पटलः। १९ १ २ सबीजस्येदमुद्दिष्टं मूलमन्त्रस्य लक्षणम् । तारात् सबिन्दुकैर्वर्णः स्वरभेदितबीजकैः ॥ २८ ॥ नमोन्ताख्यैः षडङ्गानि नेत्रान्तं तत् प्रकल्पयेत् । हृदयं कुन्दसङ्काशं शिरो भिन्नाञ्जनप्रभम् ॥ २९ ॥ शिखा तु पिङ्गला ज्ञेया कवचं हेमसन्निभम् । विद्युदाकारमस्त्रं स्यान्नेत्रं ज्वलनसन्निभम् ॥ ३० ॥ ज्ञानसन्तोषनित्यत्वस्वातन्त्र्याविनवैभवैः । हृदयादिगुणैर्युक्तः सकलोऽनुग्रहादिकृत् ॥ ३१ ॥ म्वाहाकारवषटकारौ होमे शान्तिकपौष्टिके । नमस्कारो जपार्चादावैश्वर्य प्रणवोऽन्ततः ॥ ३२ ॥ आदौ तारनमोमध्ये बिन्हन्ताः षोयरावलाः। पराय भगवत्स्थाने पञ्चोपनिषदादिषु ॥ ३३ ॥ प्रथमः परमेष्ठयात्मा पुरुषात्मा तथापरः । विश्वात्माथै निवृत्त्यात्मा सर्वात्मा पञ्च ते स्मृताः॥३४॥ आवाहने विसर्गे च योज्याः पञ्च क्रमोनमात् । प्रोक्षणे शान्तिहोमे च द्रव्यशुद्धौ च कीर्तिताः॥३५॥ पुरुषः प्रकृतिश्चोभौ जीवप्राणसमाह्वयौ । बुद्धयंहकारसङ्कल्पास्तन्मात्राणीन्द्रियाणि च ॥ ३ ॥ भूतानि चेति बिन्द्वन्तैर्मादिकान्तैरनुक्रमात् । पञ्चविंशतितत्त्वानि विज्ञातव्यानि देशिकैः ॥ ३७॥ अष्टमान्त्यं स्वरान्त्याभ्यां कालदिङ्मन्त्रयोः क्रमात् । खकारो वैनतेयस्य विनेशस्य ततः परम् ॥ ३८ ॥ १. 'तान्यस्य क' ख. ग. प. पाठः. २. '३', ३. 'च', ., 'क', ५. 'न्तः स्वरान्ताभ्यां' ख, ग. पाठः, विष्णुसंहितायां कालबीजमनन्तस्य दी(रङ्गानि तस्य षट् । अक्षबीजं तु वर्णान्त्यं चक्रमण्डलकल्पने ॥ ३९ ॥ पद्मस्य प्रणवोऽस्यांशाः पत्रकेसरकर्णिकाः । ह्रस्वाक्षराणि बीजानि नाभिस्थे सवनत्रये ॥४॥ असंवृतस्वरैः कालमरेमासेषु योजयेत् । अविसर्गः स्वरराद्यैर्वामदक्षिणपार्श्वयोः ॥ ४१ ।। राशीनां तैर्विसर्गाद्यैरप्यूह्यास्तिथयो द्विधा। अश्वयुक्प्रभृतीन्येषु नक्षत्राणि यथाक्रमम् ॥ ४२ ॥ बिन्द्वन्तैगदिकान्तैस्तु हादिमान्तैर्नव ग्रहाः । अर्कादयः स्वराशिस्था राहुकेतू च यद्गतौ ॥ ४३ ॥ सकारश्च षकारश्च नेम्योरन्तर्बहिष्ठयोः। प्रकृत्यादीनि तत्त्वानि योज्यानीह पृथक् क्रमात ॥४४॥ द्वादशाक्षरबीजैस्तु योज्या विष्ण्वादयोऽरगाः । ऋतवो मूलबीजैस्तु वसन्ताद्या यथाक्रमम् ॥ ४५ ॥ चक्रमण्डलयागे तु विशेषोऽयमिहोदितः। भद्रकस्थण्डिलार्चासु न मन्त्राः कालसंश्रयाः ॥ १६ ॥ नामाष्टकैद्विषट्कस्थं विद्महेधीमहेन्वितम् । क्रमेण कल्पयेत् तन्नो विष्णुरन्ते प्रचोदयात् ॥ १७ ॥ गायत्री वैष्णवी ज्ञेया सर्वपापहरा त्वियम् । यद् दत्तमनया सर्व प्रतिगृह्णाति देवराट् ॥ १८ ॥ . १. 'चक्रस्य', २. 'रं मासे', ३. 'नि प्रथिषु क' ख. ग. पाठः. 1. 'या. ५. 'के' क. पाठः.
पञ्चमः पटलः । उपचारे चे योक्तव्या पक्वे पूर्णाहुतौ च सा । सहस्रारेति संकीर्त्य हुंकारं फट् च योजयेत् ॥ ४९ ।। षडक्षरमिदं ज्ञेयं सुदर्शनमखण्डितम् । क्षुप्रभूतपिशाचादिवारणं रोगनाशनम् ॥ ५० ॥ सचतुर्दशबिन्दन्त्यं नारसिंहं च तादृशम् । विलोमाष्टमवर्गाणस्तारपूर्वैरबिन्दुभिः ।। ५१ ॥ वासुदेवादयो योज्या नमोन्ता दिक्षु मूर्तयः । दीर्धेस्तैरेव कोणेषु शान्तिः श्रीश्च सरस्वती ॥ ५२ ॥ रतिश्चेति क्रमाद् योज्याश्चतस्रो मूर्तिशक्तयः । अष्टमस्यादिबीजं तु डिसप्तान्तेन संयुतम् ॥ ५३ ॥ सप्तमस्य द्वितीय व तृतीयं च तथा भवत् । द्वितीयस्य तृतीयं च तृतीयावरणे क्रमात ॥ ५४ ।। दीर्घोऽन्त्यादिस्तु बिन्द्वन्तो द्वितीयस्य द्वितीयकः । बिन्देकादशसंयुक्तः सोऽन्त्यादिश्च सबिन्दुकः ॥ ५५ ॥ दिक्कोणेषु क्रमादष्टौ बीजानि कथितानि च । वर्गादिभिः क्रमाद् बीजैरिन्द्राद्याः परितः स्मृताः ॥५६॥ बज्रादयोऽस्त्रमन्त्राच तद्वितीयः सबिन्दुभिः । विष्वक्सेनोऽन्तवौंकारो नमोन्तः परिकीर्तितः ॥ ५७ ॥ सर्वासां देवतानां तु गुणशक्तिसमन्वयात् । बीजानि कल्पयेद् विद्वान् पञ्चरात्रविशारदः ॥ ५८ ।। १. 'प्र' क. घ. पाठः. २. तौ' ख. ग. पाठः, ३२. विष्णुसंहिताया अक्षराणि तु वाक् प्रोक्ता न सा प्रक्षीयते किल । तस्माद् वर्णे गृहीतेऽपि न शून्यं पुटमुच्यते ॥ ५९॥ व्यञ्जनानि स्वरानत्र गृह्णीयाच्च पृथक् पृथक् । तद् गृहीतं गृहीतं च सन्धयित्वान्यदुद्धरेत ॥ १० ॥ सकलीकरणं नाम मन्त्रसंस्कार उत्तमः । तस्मादुहरणं कार्यमिष्टु। कोष्ठेषु मातृकाम् ॥ १ ॥ अनक्षरेषु कोष्ठेषु पूजयेन्मन्त्रमुद्धृतम् । एवं समुद्धृता मन्त्राः प्रणवादीपितोक्षराः ॥ ६२ ॥ वीर्यवन्तो भविष्यन्ति भुक्तिमुक्तिफलप्रदाः । गत्वैकान्ते शुचौ देशे स्नाताचान्तो जितेन्द्रियः ॥१३॥ मण्डले देवमाराध्य साङ्गं सावरणं कमात् । जपेत् षड्विंशति लक्षान् व्रतस्थोऽनन्यमानसः ॥ १४ ॥ तिलानां घृतमिश्राणां सहस्रं चैव होमयेत् । ततस्तु सिध्यते मन्त्रो वरदश्चापि जायते ॥ १५ ॥ सप्तलोक्यां यदिष्टं स्यादात्मनः सुखसाधनम् । तड़ोग्यत्वमनेनाशु याति ध्यानप्रयोगतः ॥ ६६ ॥ देवशक्तिरमोधैषा न कचित् प्रतिहन्यते । देवदानवयक्षेषु किम्पुनर्मानुषे जने ॥६७ ॥ यक्षिणी किन्नरी चाथ दिव्ययोषा च मानुषी । तस्य षट्पञ्चसप्तैकमासतः किंकरी भवेत् ॥ ६८ ॥ . १. 'तु, २. 'ताः क्रमात् ।। वी' ख. ग. पाठः. ३ 'क्ष' क. पाठः. १. 'नान्य ख. ग. पाठः. ५. 'व्या या या च' क, पाठः.
पञ्चमः पटलः। ३५ २ नाम संकीर्त्य साध्याया बीजान्ते वशमेत्विति । बीजमन्ते च योक्तव्यं ज्वलहह्निस्फुलिङ्गमुक् ॥ ६९ ।। क्रुद्ध प्तप्रयोगेण साधयेदचिराद् बलात् । एवमेवाभिचारेषु फटकारान्तं प्रयोजयेत् ॥ ७० ॥ नामान्ते नाशमायातु विशेषोऽयं च विद्यते । नामान्ते नम इत्युक्त्वा ततो बीजं विचिन्तयेत् ॥ ७१॥ आकर्षे च वशीकारे विशेषोऽयमिहोदितः । विसंज्ञं विह्वलं साध्यमायान्तं चिन्तयेदलम् ॥ ७२ ॥ कलशो हेमरत्नाढ्यरतद्धृतोऽविरतां वहन् । ध्येयः स्वपुरतो धारां धनस्यापरिमाणतः ॥ ७३ ॥ भूतिकामस्य योगोऽयं नाम्ना वैश्रवणस्य हि । प्रयच्छत्विति नामान्ते वसुनाम सनामकम् ॥ ७४ ।। वशीकारे परां कन्यामाप्नोति चिरमभ्यसन् । लभ्यतामिति नामान्ते तस्याः संपरिकीर्तयेत् ॥ ७५ ॥ उच्चाटे गच्छतु ज्ञेयमायात्वानयनेऽभ्यसेत् । प्रीतावावहतु प्रीतिं विद्वेषे द्वेपमृच्छतु ।। ७६ ॥ यत् सिसाधयिषुर्विहानिदं सिद्ध पुनर्जपेत् । तस्य सिध्यति तत् क्षिप्रं किन्तु श्रद्धाभियोगतः॥ ७७ ॥ हही तु प्लुतं चिन्त्यं ज्वलदष्टतनौ स्थितम् । अनेनैवात्मनः कृत्वा सकलीकरणं तनौ ॥ ७८ ॥ १. 'रु' क. पाटः, २. 'हरितः' ख, ग. पाठः.
३५. विष्णुसंहितायां येन यन स्वग्णता युक्तं यत्र नियुच्यते । तदेतत भाधान्याश न मावमिति धारणा ॥ ७९ ॥ यी ५७मा पटलः । अथ वक्ष्यामि मान स्नानाचामादि पूजनम् । येन सम्यक्तनः माया लिजिमाप्नुयात् ॥ १ ॥ तीर्थे नद्यां नमक वा नधोगत्या कुशादिमान् । मृदमन्त्र म पायवर्जिताम ॥२॥ अंबणा काय विभजेत विधा। अरण रहदा सामोस्तान कवचेन च ॥३॥ प्रदक्षिणा किन्ना मजलम् । पूर्वाशेन म भजन विरोमिति ॥ ४ ॥ द्वितीयनारायः विधिपर्वकम् । तृतीयं विश मनाम पिक विमोपशान्तये ॥ ५ ॥ प्रतिस्रोतः पुनजननी यात्वा तु वैष्णवम् । तीर्थ गुनः समानाय विधिनाचश्य वाग्यतः ॥ ६ ॥ मन्त्रन्यासं कमातला प्रोक्ष्य मूलादिभिस्तथा । ततश्चाचम्य कुर्वात प्राणायामत्रयं क्रमात् ॥ ७ ॥ मूलमन्त्रेण माङ्गेन व्यम्तेन सुसमाहितः । नाभ्यालिटन तोयेन ततस्तंनाघमर्षणम् ॥ ८ ॥ ... 'सम्यक्प्रक्षाक., 'निलायक्षा' ध. पाठः. २. 'व्यस्त्रेण सु' क.पाट:. ३. म्यां' स्व. ग पाट:. १. 'तत्त्वेन' क. पाठः, वष्ठः पटलः। ३५ समस्तेन समुद्दिष्टं सर्वपापहरं तथा । कृत्वाभिषेकमुत्तीर्य परिधाय सिताम्बरम् ॥ ९ ॥ आचान्तो न्यस्य सम्प्रोक्ष्य कुशाग्रैः पूर्ववत् क्रमात् । उपविश्य शुचौ देशं प्राणायानवयं चरेत् ॥ १० ॥ परतत्त्वेन कृत्वैवं नमस्कृत्य - भाजयेत् । उपस्थानं ततः कुर्यात परत न देशिकः ।। ११ ॥ ध्यात्वा ज्योतिर्मयं विष्णु माइलाश जलाध्यदः । स्थित्वाष्टोत्तरजनेश मूलमन्त्रात् ।। १३ ॥ गायच्या चैव नेष्याम: उपविश्य शुची दश लामास ।। १ ।। विष्ण्वादिदवताश्चपनि मन नया । तर्पयेत् तानशेषण पश्चाती न महरत ।। १४ ॥ मूलमन्त्र जपन् गच्छेद दास्यतभिनय हरिन । आजानु पादा प्रक्षाल्य हस्ताबाकापर पुनः १५ ॥ त्रिः पिबेद् ब्रहातीर्थन दिसन्मय मुख पुनः । वामहस्तं च पादी च प्रात्याङ्गानि पुनः स्पृशेत् ॥ १६ ॥ वेदास्त्रयस्त्रिभिः पानेः पितरइन पितामहाः । क्रमशस्तृप्तिमायान्ति तथैव प्राण तामहाः ॥ १७ ॥ मार्जने प्रथमे ब्रह्मा हितीये दक्ष एव च । तत्राथर्वेतिहासाश्च तृप्तिमायान्ति संस्मृताः ॥ १८ ॥ चक्षुषोः स्पृष्टयोस्तृप्तिं चन्द्रादिन्यौ प्रयास्यतः । अङ्गुष्ठेऽनामिकां कृत्वा तर्जनी पवनो नसोः ॥ १९ ॥ १. 'मेण तृप्ति' ख, ग. पाठः.
३६ विष्णुसंहितायां कनिष्ठां कर्णयोर्दनौ बाहोरङ्गुष्ठकेन च । शक्रशैलाश्च तृष्यन्ति नाभौ विष्णुश्च मध्यया ॥२०॥ महाविष्णुः सदा विष्णुश्चतुर्भिहदि केऽखिलैः । एतदाचमनं प्रोक्तं दीक्षितस्य विशेषतः ॥ २१ ॥ यागस्थानं समासाद्य देवं संस्मृत्य वाग्यतः। अस्त्रेण गृहमालोक्य वेदि स्थण्डिलमेव च ॥ २२ ॥ ततः प्रदक्षिणीकृत्य नमस्कृत्य समाहितः । कृत्वोपवीतवहस्त्रमुत्तरं प्राङ्मुखः शुचिः ॥ २३ ॥ नारसिंहेन दिग्बन्धं कृत्वा पद्मासनस्थितः । परतत्त्वं समुच्चार्य कृत्वा ब्रह्माञ्जलिं शुभम् ॥ २४ ॥ प्राणायामत्रयं कुर्याद् धारणात्रयसंयुतम् । नाभिमण्डलमध्ये यं धनं चण्डानिलात्मकम् ॥ २५ ॥ विश्लेषयदधं देहात सर्वगात्रोपशोपकम् । धारयेद्धृदये चानि तारेणादुिपाहृतम् ॥ २६ ॥ ज्वालाभिस्तिर्यगृाधा दहन्तं काष्ठवत् तनुम् । शिखान्ते जीवमायोज्य बीजन सुसमाहितः॥ २७ ॥ गत्वा सुषुम्नारन्ध्रेण ततोऽर्कस्योपरिस्थितात् । चन्द्रादमृतमानीय स्वतनुं भस्मसात्कृताम् ॥ २८ ॥ प्लावयित्वा नवं देहं पार्थिवैः परमाणुभिः । जलबुहुदमध्यस्थं प्राजापत्यं तु कल्पयेत् ॥ २९ ॥ आत्मानं योजयित्वात्र सर्वज्ञं गतकल्मषम् भस्त्रशोधितयोर्मुलं करयोापकं न्यसेत् ॥ ३०॥ १. 'सूर्यात्मानं योजयित्वा स' ख. ग. पाठः.
षटः पटलः । ३७ 3 दक्षिणेऽङगुष्ठमारभ्य बीजानि क्रमशो न्यसेत् । ताराद्यन्तानि वामेऽपि तलान्तमुभयत्र तु॥ ३१॥ अङ्गानि च तयोय॑स्य सर्वाङ्गे व्यापकं न्यसेत् । प्रथमं मूर्ध्नि विन्यस्य ललाटे च द्वितीयकम् ॥ ३२ ॥ तृतीयं हृदये चैव चतुर्थ नाभिमण्डले । पञ्चमं तु न्यसेर्वोः पादावस्थं तु षष्ठकम् ॥ ३३ ॥ सृष्टिन्यासोऽयमासाने कर्तव्यः काम्यसिद्धये । स्थिते कुर्यात् स्थितिन्यासं नाभ्यादि हृदयान्तकम् ॥ ३४ ॥ शयिते संहतिन्यासं पादादि प्रतिलोमतः । स्थितिन्यासो गृहस्थस्य सृष्टयाख्यो ब्रह्मचारिणः ॥ ३५॥ मुमुक्षोः संहतिन्यास एवं न्यासस्त्रिधा स्मृतः । एवं न्यासविधिं कृत्वा ताराद्यन्तैः षडक्षरैः ॥ ३६ ॥ हृदयादीनि चाङ्गानि स्वस्थानेषु नियोजयेत् । जप्त्वा मन्त्रं ततोऽस्त्रेण संविध्य शकलं त्यजेत् ॥३७॥ पुष्पमस्त्रेण च क्षिप्त्वा सम्भारानुपकल्पयेत् । अस्त्रक्षालितपात्रस्थे गन्धपुष्पान्विते जले॥३०॥ मन्त्रं न्यस्याष्टकृत्वस्तु प्रणवेनाभिमन्त्रयेत् । ततस्तु प्रोक्षणं कुर्यादस्त्रमन्त्रेण सर्वतः ॥ ३९ ॥ फटकारान्तेन मेधावी ततः पठिं प्रकल्पयेत् । मण्डले स्थण्डिलेऽर्चायां पूजयेद्धृदि वा बुधः ॥ ४० ॥ १. 'णा', २. 'म' ख. ग. घ. पाठः. ३. 'स्वस्वस्थाने नि ख.ग.पाठ:.
३८ विष्णुसहितायां स्थण्डिलाद्यर्चनात् सिद्धो हत्पद्मे मनसार्चयेत् । धर्माधर्मादिपादेषमनन्तमयमासनम् ॥४१॥ त्रिगुणाकलितं मायाविद्यासितसितास्तरम् । विपुलं स्थाण्डिलेऽभ्यर्च्य गन्धपुष्पैर्यथाक्रमम् ॥४२ ॥ तस्योपरि तथा पद्मं प्रणवेन समाहितः । तदंशैः सूर्यमोमाग्निमण्डलात्मत्रयं पुनः ॥ ४३ ॥ उपर्युपरि सङ्कल्प्य पत्रकेमरकर्णिकाः । विमलोत्कर्पिणी ज्ञाना क्रिया योगा यथाक्रमम् ॥ ४४ ॥ प्रही सत्या तथेशा चै केसरेष्वष्ट शक्तयः । मध्यतोऽनुग्रहा चान्ते पूज्याः सर्वार्थसिद्धये ॥ ४५ ॥ हृद्येवं योगपीठस्थं ध्यात्वा विष्णुमतन्द्रितः । क्षालिते तैजसे पात्रे गन्धपुष्पयुतोदके ॥ ४६ ॥ प्रणवेन स्मरेद् विष्णुमव्यक्तस्योपरिस्थतम् । विष्णुमूर्तिं ततो ध्यात्वा सर्वतेजोमयं विभुम् ।। ४७ ।। कर्णिकोपरि सञ्चिन्त्य निरुध्य सकलीकृतम् । पूजयेत् साङ्गमव्यग्रो भक्त्यार्थ्यादिभिरच्युतम् ॥ ४८ ॥ पूर्वेण हृदयं न्यस्य दक्षिणेन शिरस्तथा । पश्चिमेन शिखां चैव कवचं चोत्तरेण तु ॥ ४ ॥ आग्नेयादिषु कोणेषु पूजयेदस्त्रमुत्तमम् । वासुदेवादिकान् न्यस्य दिक्षु शक्तीश्च कोणतः ॥ ५० ॥ तहहिः शङ्खचक्राब्जगदा दिक्षु निवेशयेत् । कोणेषु च ततः शाखेटखड्गशरान् न्यसेत् ॥ ५१ ॥ १. 'तां तनुम्', २. 'गेति शक्तयः', ३. 'ना' ख. ग. पाठः. १. 'अमूर्त तुत' ख, ग., 'ममूर्त तं त' घ. पाठः. .४ षष्ठः पटलः । इन्द्रमग्निं यमं चैव निक्रति वरुणं तथा । वायुं सोमं तथेशानं स्वासु दिक्षु क्रमान्न्यसेत् ॥ ५२ ॥ वजं शक्तिं च दण्डं च खड्गं पाशं ध्वजं तथा । गदां त्रिशूलं च बहिस्तेषामस्त्राणि कल्पयेत् ॥ ५३ ॥ अग्रतो वैनतेयं तु तृतीयावरणाद् बहिः। विष्वक्सेनं तथैशान्यां द्वितीयावरणाद् बहिः ॥ ५४॥ सर्वेषामपि चैतषां प्रत्येकं पद्ममासनम् । नामभिः कल्पयेद् विहानयं देवाय भक्तितः ॥ ५५ ॥ पाद्यमाचमनीयं च नानमालेपनं तथा। वस्त्रालङ्कारपुष्पाणि धूपदीपनिवेद्यकम् ॥ ५६ ।। तत्सर्व विष्णगायच्या दातव्य तु यथाक्रमम् । दत्त्वा देवाय भृषान्तं स्नानाद्यङ्गेपु कल्पयेत् ॥ ५७ ।। गायच्या च ततः पुष्पं देवायान्येभ्य एव च । व्यस्तेन मूलमन्त्रेण समस्तेन च तैः सह ॥ ५८ ।। यागोऽयं तस्य विज्ञेयः सदान्येऽाः स्वनामभिः । परतत्त्वेने व्याप्यान्ते पूजयेत् तं सनातनम् ॥ ५९ ॥ धूपं दीपं निवेद्यं च दत्त्वारमै विधिपूर्वकम् । यथासम्भवतोऽन्येषां निवेद्यमुपकल्पयेत ॥ ६० ॥ अग्नौ च कल्पयेत् साङ्गं योगपीठस्थमुज्ज्वलम् । परिस्तरणपर्युक्षापवित्रकरणादि यत् ॥ ६१ ॥ प्रणवेनैव सर्व तत् कृत्वाथाज्येन होमयेत् । दशांशमङ्गमूर्तीनामन्येषामेकशः कमात् ॥ ६२ ॥ १. 'क्रमात्' ख. ग. पाठः. २. 'न चाप्यन्ते' ख. ग. प. पाठः, विष्णुसंहितायां नमः पारिषदेभ्यश्चेत्यष्टदिक्षु बलिं हरेत् । आचम्य सकलीकृत्य जप्त्वा स्तुत्वा प्रणम्य च ॥६३ ॥ अर्घ्य दत्त्वा क्षमस्वेति संहत्य हृदि योजयेत् । ध्यायेज्ज्योतिर्मयं देवं शङ्खचक्रगदाधरम् ॥ ६४ ॥ पीतवस्त्रमुदाराङ्गं सर्वाभरणभूषितम् । शुद्धस्फटिकसङ्काशं वासुदेवं चतुर्भुजम् ॥ ६५ ॥ शङ्खचक्रगदापाणिं धृतश्रीवत्सकौस्तुभम् । तथा सङ्कर्षणं ध्यायेज्जातरूपसमप्रभम् ॥ ६६ ॥ दूर्वामरकतप्रख्यं प्रद्युम्नं च तथा स्मरेत् । नीलाम्बुदप्रतीकाशमनिरुद्धं तथैव च ॥ ६७ ॥ शान्तस्फटिकसङ्काशां श्रियं पद्मरजःप्रभाम् । सरस्वती तथारूपां रतिं श्यामां तु चिन्तयेत् ॥ ६८ ॥ शुक्लवर्ण तथा शखं चक्रमग्निसमप्रभम् । गंदां चैव हरिद्राभां सुवर्णाभं तु पङ्कजम् ॥ ६९ ॥ गदां स्त्रीलक्षणयुक्तां सर्वसंहारकारिणीम् । खड्गमाकाशसंकाशं ध्यायेच्चक्रसमाकृतिम् ॥ ७० ॥ शार्ङ्ग च तत्समं पीतमधोभागे गदासमम् । शरं च धनुराकारं खेटकं खड्गसन्निभम् ॥ ७१ ॥ चक्रमुग्रं प्रभूताक्षं नाभ्यरप्रथिनेमिकम् । लेलिहानं दुरालोक भ्रमहह्निस्फुलिङ्गमुक् ।। ७२ ॥ चतुर्बाहुं द्विबाहुं वा दंष्ट्रिणं पिङ्गमूर्धजम् । लम्बोदरं तथा शङ्ख हुस्वकुञ्चितमूर्धजम् ॥ ७३ ।। १. 'मयं प्रभुम्' ग. पाठः. २. 'चलद्व' ग., 'ज्वलद्ध' ख. पाठः सप्तमः पटलः। ४ इन्द्रः श्यामो यमः पीतो वरुणः श्याम एव च। शङ्खामलरुचिः सोमो वह्निः शोणस्तु कीर्तितः॥७४ ॥ सदंष्ट्रो निक्रातः श्यामो वायुधूम्रः प्रशस्यते । ईशानस्तु भवेद् रक्त एवं ध्यायेत् क्रमादिमान् ॥ ७५ ॥ इन्द्राकारं भवेद् वज्रं चित्रशास्त्रोदितं तु वा। एवमरत्राणि दिक्पानामन्येषां च प्रकल्पयेत् ॥ ७६ ॥ अग्निवर्णश्चतु हस्ताक्ष्यों लूनागनासिकः । प्रसन्निव दृशा ध्येयो महापक्षो महाबलः ॥ ७७ ॥ विष्वक्सेनोऽभ्रवर्णस्तु शङ्खचक्रगदाधरः । पञ्चमूर्धा चतुर्बाहुरनन्तः पृष्ठतो हरेः ॥ ७८ ॥ ध्येयोऽन्ये पार्षदास्तस्य ज्ञातव्याश्चागमान्तरे । योऽनेन विधिना विष्णुं पूजयेद् भक्तिमान् नरः ॥ ७९ ॥ तस्य हस्तगताः कामा इहामुत्र च योगिनः ॥ ७९३ ॥ इति विष्णुसंहितायां षष्टः पटलः ॥ अथ सप्तमः पटलः। अथ वक्ष्यामि संक्षेपान्मुद्राणां लक्षणं परम् । न्यासादिषु प्रयुज्यन्ते यथा मुद्राः सुगोपिताः ॥ १ ॥ अञ्जलिः प्रथमा मुद्रा क्षिप्रं देवप्रसादनी । वन्दनी हृदयासक्ता किञ्चिद् दक्षिणतो नैता ॥ २ ॥ १. 'हुरनन्तः पृष्ठतो हरेः' ख. ग. पाठः, २. 'अर्चनाध्यायः ॥ घ. पाठः. ३. 'न'. ख. ग. पाठ::
१३ विष्णुसंहितायां ऊर्ध्वाङ्गुष्ठो वाममुष्टिदक्षिणोऽङ्गुष्ठबन्धनः । वामस्य तस्य चाङ्गुष्ठो भवत्यूर्ध्वमुखः स्थितः ॥ ३ ॥ तिस्रः साधारणा मुद्रा मूर्तीनामिह कीर्तिताः । पद्मासनगतो मार्ने कुर्यादालिबन्धनम् ॥ ४ ॥ मुद्रा ब्रह्माञ्जलि म देवसान्निध्यकारिणी। अनया बद्धया चैव नित्यं तुप्यन्ति देवताः ॥ ५ ॥ तस्मात् तु सर्वदेवानां मुद्रामेनां प्रदर्शयेत् । सम्मुखौ प्रसृतौ कृत्वा किञ्चिदाकुञ्चिताङ्गुली ॥ ६ ॥ अङ्गुष्ठाभ्यां लिखेदन्तर्मुद्रषावाहिनी स्मृता । कृत्वा नताङ्गुली हस्तावृङ्गुिष्ठौ तु चालयेत् ॥ ७ ॥ सान्निध्यमुद्रिका ज्ञेया न्यस्तवत स्थापनी भवेत् । उभावन्तर्गताङ्गुष्ठौ मुष्टी कुर्यान्निरोधिनी ॥ ८ ॥ सहतौ तु करौ कृत्वा मध्येऽङ्गुष्ठौ निपीडयेत् । प्रसार्य चाङ्गुलीः सर्वा मुद्रेयं परमेष्ठिनः ॥ ९ ॥ एकैकस्य क्रमादन्या अङ्गुलीश्च नियोजयेत् । पुरुषादिक्रमेणैव सर्वमुद्राः प्रकल्पयेत् ॥ १० ॥ सप्तजन्मकुंत पाप यच्च पातकपञ्चकम् । मुद्रापञ्चकविज्ञानान्नश्यत्येव न संशयः ॥ ११ ॥ वामहस्तेन मुष्टिं तु कृत्वाङ्गुष्ठं समुच्छ्रितम् । हदि संयोजयेदेतां गृहीत्वेतरमुष्टिना ॥ १२ ॥ ३ ४ १. 'सव्यम्य', २. 'हस्तौ कि स्व. ग. जठः. ३. 'ष्टिं', ४. 'धनीम्', सप्तमः पटलः । ४३' O योनिमुद्रा त्वियं प्रोक्ता वैष्णवी भुक्तिमुक्तिदा । दर्शयेद् देवदेवस्य बद्ध्वा पद्मासनं पुरः ॥ १३ ॥ दृष्ट्वैवं दर्शितां सद्यः प्रणामं यान्ति देवताः । यक्षविद्याधराद्याश्व भ्रमन्ति भयमोहिताः॥१४॥ वामहस्तमथोत्तानं कृत्वोत्तानं च दक्षिणम् । संश्लिष्य भ्रामयेत् पश्चाद् ग्रथित्वा चाङ्गुलीः क्रमात् ।। कोटिमुद्रा त्वियं प्रोक्ता देवदेवस्य च प्रिया । अनामामध्ययोर्भध्ये निवेश्याङ्गुष्ठमायतम् ॥ १६ ॥ दक्षिणस्य तु हस्तस्य मुद्रेयं हृदये स्मृता । निर्वयं मुष्टिमाहन्यादङ्गुष्ठाग्रेण तर्जनीम ॥ १७ ॥ स्थापयेत् तु ललाटान्ते मुद्रेयं शिरसि स्मृता । वर्तयित्वा दृढां मुष्टिं कुर्यादङ्गुष्ठमूर्ध्वगम् ॥ १८ ॥ स्थापयेत् तां शिखादेशे शिखामुद्रा प्रकीर्तिता । सम्प्रवेश्यान्तरङ्गुष्ठौ वेष्टयित्वा समन्ततः ।। १९ ।। संहरेत तत्प्रदेशिन्यौ मुद्रेय कवचे स्मृता । अग्रहस्तं परावृत्य बद्ध्वा नाराचमुष्टिवत ॥ २० ॥ विसृजेत् तिर्यगायम्य मुद्रास्त्रत्येयमीरिता । भ्रूमध्ये स्थापयद् बद्ध्वा शिखामुद्रामधामुखीम् ॥२१॥ नेत्रमुद्रेयमाख्याता पड़तास्त्वङ्गमुद्रिकाः । आत्मरक्षणमेताभिः कर्तव्यं साधकैः सदा ॥ २२ ॥ कृत्वाङ्गुष्ठौ समावृर्व बद्ध्वा हस्ता परस्परम् । योगसम्पुटमुद्रेयं ध्याने सर्वत्र युज्यते ॥ २३ ॥ १. 'तां' ख. ग. घ. पाठः.
४४० विष्णुसंहिताया तथैवच्छिद्रवत् कृत्वा कुर्यानपूर्वन्यधोमुखीम् । अभिषेक प्रयोक्तव्या मुद्रेयं पावनी परा ॥ २४ ॥ मणिबन्धसमो हस्तावू शाखाः प्रसारिताः । अन्तःप्रवेशिताङ्गुष्ठौ पद्ममुद्रासने स्मृता ॥ २५ ॥ मणिबन्धसमौ हस्तौ तिर्यक् सम्भ्राम्य चक्रवत् । पर्यायेण प्रयोक्तव्या चक्रमुद्रा महोदया ॥ २६ ॥ मुष्टिं कृत्वा तु हस्ताभ्यामङ्गुष्ठौ विनतावुभौ । युक्त्वा सम्भ्राम्य निर्मुक्ती गदाख्या विघ्ननाशिनी ॥२७॥ निबध्य दक्षिणाङ्गुष्ठं वाभहस्तस्थमुष्टिगम् । कृत्वा चाङ्गष्ठतजन्यौ संयुक्त प्रसृते समे ॥ २८ ॥ तिस्रस्तु दक्षिणस्यान्या बनीयुमीटमूर्ध्वतः । शङ्खमुद्रेयमुद्दिष्टा द्रव्याणां स्थापने परा ॥ २९ ॥ धनुषस्तु धनुर्मुष्टिः शरमुष्टिः शरस्य च। खड्गस्य कोशविश्लेषो मुद्रा खेटस्य मण्डलम् ॥ ३० ॥ उभे कनिष्ठिके बद्ध्वा प्रदेशिन्यावुभे तथा । हस्तावुभौ परावृत्तावङ्गुष्ठौ सहितावधः ॥ ३१ ॥ मध्यमानामिके युक्ते चालयेत् पक्षयुग्मवत् । चद्धा गरुडमुद्रेयं वाहनादौ बलावहा ॥ ३२ ॥ विरलो;ङ्गुलिं हस्तं कृत्वायामन दर्शयेत् । मुद्रानन्तस्य विज्ञेया शयनादौ प्रयुज्यते ॥ ३३ ॥ कृत्वोत्तानावुभौ हस्तौ सम्पुटानौ प्रसारितो। कुर्वीत प्रार्थनामुद्रां सान्निध्यादिषु सर्वदा ॥ ३४ ॥ १. 'ता' ख. ग. घ. पाठः, २. 'लीक. पाठः
सप्तमः पटलः ।
५
श्रीवत्सकौस्तुभार्थः स्यादुसस्पर्श द्विपार्श्वगः ।
ऊर्ध्वमुद्रां प्रयुज्यादावुत्तानीकृत्य तां पुनः ॥ ३५
मुश्चेद् वामकनिष्ठादिक्रमान्मूर्तिचतुष्टये ।
किश्चिदाकुञ्चिताग्राम्तु योजयित्वाङ्गुलीः शनैः ॥ ३६ ॥
तर्जन्यौ मध्यमापृष्ठे योजयित्वा विचक्षणः ।
अङ्गुष्ठाभ्यां लिखेदन्तः शक्तीनां योनिसंज्ञिता ॥ ३७॥
वामहस्तेन सङ्ग्रह्य कर तिर्यक्प्रसारितम् ।
संहतं चालयेदेषा ध्वजमुद्रा प्रकीर्तिता ॥ ३८ ॥
मध्यानामान्तरेऽङ्गुष्ठा निर्गतो मध्यमानता !
दक्षिणस्य तु मष्टौ स्यान्मुद्रा वनायकी स्मृता ॥ ३० ॥
ऊर्ध्वाङ्गुष्ठो भवेन्मुष्टिर्लिङ्गमुद्रा शिव रमृता ।
तर्जयेद् वामतर्जन्या नासाग्रासन्नया जगत ॥ ४० ॥
विष्वक्सनस्य सा मुद्रा जीर्णोद्धारादिपु स्मृता ।
मानसो रूपसङ्कल्पो मुद्रा मोक्षार्थिनां स्मृता ॥ ११ ॥
इतरेषां तु हस्ताभ्यां प्रयोगः शस्यत बुधः ।
नान्यसन्दर्शने मुद्रा नानिमित्तं च बन्धयेन ॥ ४२ ॥
गुह्यमेतद्धि तन्त्रपु तस्माद रहसि योजन।
मुदं कुर्वन्ति देवानां राक्षसान् द्रावन्ति च ॥ ४३ ॥
इत्येवं सर्वमुद्राणां मुद्रात्वं तान्त्रिका विदुः ।
पटान्ते बन्धयेन्मुद्रा नचापि कथयेद् बुधः ॥ ४५ ॥
कथनाजायते स्रसस्तस्माद् गोप्याः सदा बुधः ।
आनन्त्यादखिला मुद्रा वक्तुं ब्रह्मन् ! न शक्यत ॥ ४५ ॥
५६ विष्णुसंहितायां २ देवतानां बहुत्वाच मुद्रोदेशो मयेरितः । प्रणामप्रार्थनाद्यास्तु मुद्राः सर्वदिवौकसाम् ॥ ४६ ॥ अच्युतस्यापि पूजायामज्ञानां कल्पयेदिमाः। अलाभे सर्वमुद्राणामञ्जलिहदि मूर्ध्नि वा ।। ४७ ॥ सामान्यमुद्रा विज्ञेया सर्वेषां च दिवौकसाम् मन्त्रश्च प्रणवो योज्यः सिद्धिरेवं भविष्यति॥ ४८ ॥ पूर्व कृत्वा करन्यासं मुद्राबन्धः शुभो भवेत् । अन्यथा विफलाः सर्वा भविष्यन्ति न संशयः ॥ ४९ ॥ वृथान्यदर्शने वापि प्रयुक्ता विफलास्तथा । कुप्यन्ति देवताश्चास्य सिद्धिमाशु हरन्ति च ॥ ५० ॥ गुप्तं मुद्रागणं यस्तु यथाकालं प्रदर्शयेत् । कामाः सर्वेऽस्य सिध्यन्ति प्रीयन्ते चास्य देवताः ॥५१ ।। सामान्याख्या विशेषाख्यास्तथाङ्गाख्याश्च कीर्तिताः। तथैव परिवाराख्या मुद्रा ह्येताश्चतुर्विधाः ॥ ५२ ॥ * मध्यमानामिक विद्वान ङ्गुष्ठाभ्यां तु पीडयेत् । कनिष्ठा तर्जनीयोज्या श्रीवत्सस्य प्रदर्शयेत् ॥ ५३ ॥ अनामा पृष्ठसंलग्मा दक्षिणस्य कनिष्ठिका । कनिष्ठया तु सङ्ग्रह्य तर्जन्यानामिकां तथा ॥ ५४ ॥ गृहीत्वानामिका मध्यामङ्गुष्ठं चौछूितं कुरु । तस्मिन्नङ्गुष्ठके श्लिष्टा वामहस्तस्य तर्जनी ॥ ५५ ।। १. 'शान्मयेरिता', २. 'त' ख. ग. पाठः. एतत्पद्यात् पूर्वमेतत्पटलान्तस्थितम् । एवं चतुर्विधा इत्यादिपद्यं पठनीयमिति व्याख्यातः प्रतीयते ।
अष्टमः पटलः। २ मध्यमे मध्यमां कृत्वा चाङ्गुष्ठं मणिबन्धने । कौस्तुभस्य स्वियं मुद्रा दर्शनीया च साधकैः ॥ ५६ ॥ 'सम्मुखावुच्छ्रितौ हस्तौ व्योममध्ये विमोचयेत । 'तर्जन्यङ्गुष्ठको श्लिप्य मालामुद्रां प्रदर्शयेत ॥ ५७ ।। एवं चतुर्विधा मुद्रा गोप्या यत्नेन सर्वदा प्रयोज्याश्च यथाकालं साधकैः सिद्विकाङक्षिभिः॥ ५८ ॥ इति विष्णुसंहितायां सप्तमः पटलः ।। अथ अष्टमः पटलः। अथ वक्ष्यामि संक्षेपादग्निसंस्कारमुत्तमम् । प्राच्यां कुण्डमुदीच्यां वा स्थण्डिलं वाप्यसम्भवे ॥१॥ द्विहस्तमेकहस्तं वा चतुरश्रं त्रिमेखलम् । हिमेखलं वा कुण्डं स्यादेकमेखलमेव वा ॥ २ ॥ एककुण्डस्य मानार्ध खातमन्यत्र तत्समम् । द्वादशाष्टचतुर्भिः स्यादङ्गुलैर्मेखलोन्नतिः ॥ ३ ॥ सात्त्विकी राजसी चात्र तामसी मेखलाः स्मृताः। चतुरङ्गुलविस्ताराः सर्वास्ता हस्तमात्रके ॥ ४ ॥ द्विगुणे द्विगुणा ज्ञेया योनिः पश्चिमतो भवेत् । चतुर्दशाङ्गुला पश्चात् तन्नालं चतुरङ्गुलम् ॥ ५ ॥ अष्टाङ्गुलं भवेद् वृत्तं निर्वाहस्तु षडङ्गुलः । गजोष्ठसदृशोऽश्वत्थपत्राग्राकार एव वा ॥ ६ ॥ १. 'मान्म', २. 'मं', क. पाठः, ३. 'या', ४. 'म्य' ख. ग. पाट:. ५. 'णा' क. पाठः.
१८ विष्णुसंहितायां प्राजापत्या गोष्ठाग्रा योनिरन्या तु वैष्णवी । कुण्डस्था वैष्णवी शक्तिः प्रकृतिस्त्रिगुणात्मिका ॥ ७ ॥ सा योनिः सर्वभूतानां सिद्धीनां च विशेषतः । प्राच्यां शिरः समाख्यातं बाहू दक्षिणसौम्ययोः ॥ ८ ॥ उदरं कुण्डमित्युक्तं योनिः पादौ च पश्चिमे। पदान्येकोनपञ्चाशत कुण्डे सप्तविभाजिते ॥ ९ ॥ आदिहान्तां क्रमात तेषु पदेषु परिकल्पयेत । प्रणवं पूर्वमुद्दिश्य मेखलात्रितयेऽशकान् ॥ १० ॥ व्यापिनं पुरुषं नादं स्मरेद् व्याप्तां च मातृकाम् । विसर्ग योनिमध्ये च ध्यात्वाग्नीषोमबिन्दुकम् ॥ ११ ॥ गर्भरूपा तु मा योनिर्मातृकेयं तदुद्भवा । पितृमय॑मरांशम्यां प्रादक्षिण्येन पूजयेत् ॥ १२ ॥ हकारं मध्यकोठेऽन्त्यं विष्णुं जीवात्मकं तथा । गर्ताकारोदरा सेयं प्रकृतिर्गर्भभागिनी ॥ १३ ॥ ज्ञातव्या साधनवं परां सिडिमभीप्सता । गायत्री कुण्डम्पेयं चतुर्विंशतिधा स्थिता ॥ १४ ॥ तारात्मकः पुमान् विष्णुराधिष्ठातात्र कीर्तितः । नाभिगुह्यान्तरं विद्यादग्निस्थानं तु देहिनाम् ॥ १५ ॥ तत्रैवाधीयते गर्भस्तत्र होमश्च सिद्धये । चतुर्विंशाङ्गलं कुण्डं गायत्रीसंख्यया स्मृतम् ॥ १६ ॥ चतुर्विंशतितत्त्वानि द्विहस्ते व्यङ्गुलानि तु । "स्वराः पञ्चदशाधस्ताद् योनिः ॥ १७ ॥ पञ्चदशाङ्गुला भष्टमः पटलः। षोडशः सविसगोंऽत्र नाभ्यन्ते संव्यवस्थितः । सैव शक्तिः परा विष्णोः परमामृतवाहिनी ॥ १८ ॥ अग्नीषोमात्मिका दिव्या सर्व ज्ञेयं च तन्मयम् । साग्निरूपेण संहारं सोमरूपेण चोदयम् ॥ १९ ॥ करोति बिन्दुयुग्मस्था नित्यमेषा मदिच्छया । ब्रह्मलोकं स्थिता भिवा गता मा ममालयम् ॥२०॥ पितृयानं च वामे स्याद् देवयानं च दक्षिणे । मध्येमे ब्रह्मणो मागों मुक्तये मैवमीरिता ॥ २१ ॥ साग्निरूपा व्रजत्यूचं सोमरूपा जत्यधः । वामदक्षिणतो हित्वा स्थिता व्याप जगत्रयम् ॥ २२ ॥ इडा च पिङ्गला नाड्यौ वामदक्षिणपार्श्वयोः । सुषुम्नोर्ध्वगता नाडी मोक्षमार्गस्तु स स्मृतः ॥ २३ ॥ तत्र चित्तं समाधाय धर्माधर्मविजितम । सर्वरोगविनिर्मुक्तो लयमायान्यसंशयम् ॥ २४ ॥ एवं कुण्डशरीरं तु ज्ञातव्यं मातृकामयम् । लीयते विश्वमत्रेति कुण्डं तहिश्व कुण्डनात् ॥ २५ ॥ तस्मात् कुण्डेऽत्र होतव्यं विधिदृष्टन बर्मना । सुसंस्कृते यथा क्षेत्रे फलं प्राप्नोति कपकः ॥ २६ ॥ हुतभुक् च तथा ज्ञेयः संस्कृतः फलदो नृणाम् । यथैवाज्यस्य संस्कारः कर्तव्योऽग्नेस्तथैव च ॥ २७ ॥ होतव्यं संस्कृते तस्मादौ नामस्कृते बुधैः । शिष्यस्यैव तु संस्कारो वह्नराज्यस्य वात्र यः ॥ २८ ॥ १. 'अघ. पाठः, २. ये च ब्रक. घ. पाठः. ३. 'सः' ख. ग, घ.पाठः, विष्णुसंहितायाम् नाग्न्यर्थस्तत्त्वतस्तस्मादिष्टो यागेषु सर्वथा । मथितं मणि वाथ श्रोत्रियागारजं तु वा ॥ २९ ॥ शरावेणाग्निमानीय तमस्त्रेण तु शोधयेत् । संहारमुद्रया तस्य जीवमात्मनि योजयेत् ॥ ३०॥ शय्यों तु चिन्तयित्वादी धर्माधर्मादिसंयुताम् । वरास्तरणसंछन्नां धूपामोदाधिवासिताम् ॥ ३१ ॥ सुगन्धकुसुमाकीर्णी नानाद्रव्यैश्च शोभिताम् । ध्यायेल्लक्ष्मी च वायूपां भूषितां नवयौवनाम् ॥ ३२ ॥ साभिलाषामृतुस्नातां फुल्लपङ्कजधारिणीम् । एवं च चिन्तयेत् सौम्यं सदा प्रेहसिताननम् ॥ ३३ ॥ रथिनं समासक्तदृष्टिं देवीमुखाम्बुजे। एवंरूपावुभौ ध्यात्वा गन्धपुष्पैः प्रपूजयेत् ॥ ३४ ॥ देवस्य शुक्लमध्यस्थमग्निबीजं तु चिन्तयेत् । गर्भाशयप्रविष्टं तु तद्रक्तेन समन्वितम् ॥ ३५ ॥ देवं विसर्जयेत् पश्चाद् गर्भाधाने कृते तथा। कुण्डभूतां ततो देवीं वहिभूतं च तं स्मरेत् ॥ ३६ ॥ तत्पुंसवनसीमन्तजातनामाशनक्रियाः । हृदयादिभिरष्टाष्ट हुत्वाज्यं कल्पयेत् क्रमात् ॥ ३७ ॥ वौषडन्तेन मन्त्रेण प्लुतान्तेन यथाविधि । पृथक् पूर्णाहुतिं दद्याद् गन्धपुष्पैश्च पूजयेत् ॥ ३८ ॥ प्रणवस्तु सुबो ज्ञेयो मातृका मुगिति द्वयम् । पुरुषप्रकृतित्वेन विज्ञातव्यं विचक्षणैः ॥ ३९ ॥ ४ १. 'प्यादि चि', २. 'वि', ३. 'सति ।' ख. ग. पाठः १.६ ख.पाठः अष्टमः पटलः ५ रनिमात्रं स्रुवं कुर्याद् वर्तुलं यङ्गुलं मुखम् । गोष्पदं तु यथा मनमल्पपङ्के तथा भवेत् ॥ ४० ॥ वर्तुलानन्तरग्रन्थिविष्कम्भेणाङ्गुलो भवेत् । दण्डैस्तु वर्तुलाकारो ग्रन्थिवक्रादिवर्जितः ॥ ४१ ॥ क्रमात् तनूकृताग्रोऽधो नाडी स्याच्चतुरङ्गुला। स्वयं निपतितः शुष्को दग्धो भन्मश्च दन्तिना ॥ ४२ ॥ दुष्टदेशैभवो वक्रः स्फुटितश्च सकोटरः । सक्षतः कृमिजुष्टोऽन्यवृक्षजश्चान्यतोमुखः ॥ ४३ ॥ स्रुवः स्यादभिचाराय स्रुग्वा तस्मान्न कारयेत् । क्षीरवृक्षोद्भवः शान्त्यै खादिरः सर्वकामदः ॥ ४४ ॥ ब्रह्मवर्चसकृद् ब्राह्मो जुहूर्बाह्मी सदा भवेत् । ऋग्वेदाद्यास्त्रयो वेदा ब्रह्माद्याश्चैव देवताः ॥ ४५ ॥ भूरादयोऽग्नयोऽवस्थाः सवनान्यक्षराणि च । प्रणवांशकमाइण्डग्रन्थिवृत्तपु कल्पयेत् ॥ १६ ॥ बाहुमात्रा स्रुचं सप्तषट्पञ्चाङ्गुलविस्तराम् । कारयेन्मध्यतो वृत्तं त्रिभागेन च खातयेत् ॥ ४७ ॥ तिर्यगृवं समं तस्य बहिर_ तु शोधयेत् । अङ्गुलस्य चतुर्थाशं शपाऽध तथान्ततः ॥ ४८ ॥ खातस्य मेखला रम्यां शेपार्धन तु कारयेत् । कलाध्यर्धाङ्गुलायामं कण्ठं व्यंशकविस्तृतम् ॥ ४९ ॥ १. 'त्रः सुवः कार्यो' ख. ग. पाठः, २. 'ण्डोऽस्य वर्तुल: कार्यों म', ३. 'शोद्भवो', ४. 'न्यो', ५. 'मा', ६. 'वक्रे', ७. गते' क. 'त', ९. 'स्तरम्' .ख. ग. पाठः ५२ विष्णुसाहतायाम् चतुरङ्गुलविस्तार मुखं पञ्चाङ्गुलं तथा । समायामं तु कर्तव्यं शुभं हंसमुखाकृति ॥ ५० ॥ धोराकुल्या च तन्मध्य वृत्तगर्तप्रवेशिनी । कण्ठे कनीयसा नाहं सुषिरं तस्य कल्पयेत् ॥ ५१ ॥ धारा स्यात्तदधाभाग दण्डमूले च युक्तितः। शेषं दण्ड सुवृत्तं च क्रमेणाग्रं तनूकृतम् ॥ ५२ ॥ प्रादक्षिण्याद् बिदस्यान्तय॑म्तव्याः पोडश स्वराः। दण्डेऽन्ये कोणतोऽन्तःस्था बिलपार्वाग्रगाः परे ॥ ५३ ।। तया पूर्णात्र दातव्या सुवसम्पुटगुप्तया । सुवण केवलेनापि होमस्तत्सहितेन च ॥ ५४ ।। स्रुचा नो स्नुवया तारः केवलोऽपि हि सिद्धिदः । सृष्टयर्थोऽयं सुवस्तस्भात तेनासीनस्तु होमयेत् ॥ ५५ ॥ स्थित्यर्थ नुक तथा पूर्ण तिष्ठन्नेव तु दापयेत् । गायत्री तु जुनामी स्थाच्चतुर्विंशदङ्गुला ॥ ५६ ॥ दण्डाग्रेऽस्यां मुखान्तगण्डयोराज्यवर्त्मनि । हृदयादीनि नेत्रान्तान्यङ्गानि परिकल्पयेत् ॥ ५७ ॥ तारोपस्तीर्णया निन्यं तया पक्के तु होमयेत् । प्राणापानस्वरूपा च सुकसुत्रौ कथितावुभौ ॥ ५८ ॥ कर्तव्यौ नाभिसंलग्नौ प्राणस्थानं तु तद्विदुः । धूमस्तु नासिका ज्ञेया पार्श्वयोः कर्णचक्षुषी ॥ ५९ ॥ पूर्वापरं ललाटास्यं वह्विस्थानमिदं भवेत् । कृत्वोल्लेखादि गायथ्या परिधायाचितेऽनले ॥ ६ ॥ १. 'मुखं ' ख, ग. पाठः. २. 'कार्यकु' क. घ. पाठः... 'ना' ख.ग. पाठ अष्टमः पटलः ।. पूर्ववत् पङ्कजं ध्यात्वा सर्वतत्त्वान्यनुक्रमात् । मध्ये जनार्दनं ध्यायेत् सूर्यकोटिसमप्रभम् ॥ ६१ ॥ आहुतीनां सहस्रेण तर्पयेत् तं शतेन वा । दश पूर्णाहुतीस्तत्र मूलमन्त्रेण होमयेत् ॥६२ ॥ दशांशेनेतरांश्चैव तर्पयेञ्चरुणैव वा । नैत्यकेतुविधिोप कर्तव्यो दीक्षितैर्द्विजैः ।। ६३ ॥ शोषदाहामृतप्लावकाठिन्यपरिकल्पनैः । तत्तबीजकृतैः शोध्यं वडेरायतनं सदा ॥ ६४ ॥ यत्परिस्तीर्यते दभैर्यत्प्रणीता निधीयते । यहह्मा कल्प्यते चात्र सर्व तहिनशान्तये ॥ ६५ ॥ स्निग्धे प्रदक्षिणावर्ते सुसमिद्धे हुताशने । विधूमे लेलिहाने च होतव्यं कर्मसिद्धये ॥ १६ ॥ अल्पतेजाच रूक्षश्च शुक्लः कृष्णश्च योऽनलः । भूलेही विष्फुलिङ्गी च दुर्गन्धश्च न शस्यते ॥ ६७ ॥ रूपादिभेदतः काळी कराळी च मनोजवा । लोहिता चार्धधूम्रा च ज्वाला चाथ स्फुलिङ्गिनी ॥ विश्वरूपति सप्तैता जिहा ज्ञया हविर्भुजः । ताभिरस्य मुखं पूर्ण विदीर्ण सप्तजिह्नकम् ॥ ६९ ॥ लेलिह्यमानमुज्ज्वालं सदा ध्येयं जुहूपता । कधि जुहुयादाज्यमन्नं ग्रासार्धमात्रकम् ॥ ७ ॥ शुक्तिमात्राहुतर्दिनः क्षीरस्य मधुनस्तथा । यवतण्डुलशालीनां प्रसूतिः पृथुकस्य च ॥७१ ।। १. 'काम्यसि', २. 'साप्तजिहकम्' ख. ग. पाठः, विष्णुसंहिताया लाजानां मुष्टिमात्रं तु फलानां स्वप्रमाणतः । भक्ष्याणामभयामात्रं मूलानां खण्डनत्रयम् ॥ ७२ ॥ . दूर्वाणां च त्रयं साग्रं सक्तूनां कर्षमात्रकम् । तिलानां सर्षपाणां च मुद्गानां चैव पञ्चकम् ॥ ७३ ।। एकैकं चैव होतव्यं पुष्पाणां समिधां तथा । चतुर्ग्रहीतमापूर्य सुवेणाज्यं महानुचा ।। ७४ ॥ पुर्णाहुतिस्तु दातव्या नित्यमच्छिन्नधारया । अरनिमात्रमिध्माख्यं समित्पूगं घृताप्लुतम् ॥ ७५ ।। पालाशं युगपन्नित्यं होतव्यमविकम्पेितम् । सुवेणाज्यमुपस्तीर्य जुह्वां पिण्डद्वयं चरोः ॥ ७६ ॥ घृताभिधारितं पक्वं यत् साद्यन्तस्रुवाहुति । एवमेकैकपिण्डं तु पुनर्दिरभिधारितम् ॥ ७७ ।। प्रधानाहुतिहोमान्ते होतव्यं स्विष्टकृद् भवेत् । अन्यत् सर्व घृताभ्यक्तं दक्षिणस्य करस्य तु ॥ ७८ ॥ जुहुयाद्देवतीर्थेन कनिष्ठामूलवर्तिना । सुवेणैव द्रवद्रव्यं दधिक्षीरादि सर्वदा ॥ ७९ ॥ होतव्यं विधिना सर्वमन्यथा दोषमाप्नुयात् । पूर्व त्रिः क्षालितैः शालितण्डुलैरमलैश्चरुम् ॥ ८ ॥ यन्त्रेणाग्नावधिश्रित्य श्रपयेद् व्यजनानिलैः । संस्कृत्य विधिना चाज्यं दर्भेः सम्मृज्य च स्रुवम् ॥ निधाय परिधीनद्भिः परिषिच्याग्निमर्चयेत् । इध्माघाराज्यभागेषु हुतेष्वाहूय देवताम् ॥ ८२ ॥ १. 'कमेव', २. 'लिप' ख. ग. पाठः. ३. 'दाम' क. प. पाठः. ....
नवमः पटलः। पकमन्यच होतव्यं समिदादि यथाक्रमम् | आधारवत् क्रमो ह्येष कर्तव्यः सिद्धिमीप्सता ॥ ८३ ॥ आधायामि परिस्तीर्य संस्कृत्याभ्यर्च्य च कमात् । होतव्यमखिलैव्यैरयमापूर्विको विधिः ॥ ८४ ।। होमशेष समाप्याथ विधिनोहास्य देवताम् । स्वशक्त्या दक्षिणां दद्यादेवं सिद्धयन्ति सिद्धयः॥ सामान्येन समाख्यातमग्निकार्यमिदं मया । विशेषतस्तु कर्तव्यं तत्र तत्रैव वक्ष्यते ॥ ८६ ॥ इति विष्णुसंहितायामभिकार्योऽष्टमः पटलः ।। प अथ नवमः पटलः । अथ वक्ष्यामि संक्षेपान्मण्डलं सार्वकामिकम् । यद् ज्ञात्वा मुनयः सम्यक् परां सिद्धिमितो गताः ॥ यागभूमि परीक्ष्यादौ सर्वदोषविवर्जिताम् । शल्यैर्विमोचितां यत्नात् समां पूर्वोत्तरप्लवाम् ॥ २ ॥ शोधयित्वा यथान्यायं मण्डपं तत्र कारयेत् । चतुरनं चतुरिमेकहारमथापि वा ॥ ३ ॥ तोरणध्वजसंयुक्तं वितानादिविभूषितम् । समङ्गलाङ्कुरादर्शलाजकुम्भाष्टमङ्गलम् ॥ ४ ॥ अग्न्यायतनसंयुक्तमादर्शसमवेदिकम् । संस्कृत्य मार्जनालेपगव्यगन्धाक्षतादिभिः ॥ ५ ॥ १, इत्यमिकार्यपटलोऽष्टमः ख. ग. पाठः.
५६ विष्णुसंहितायो सूत्रपातं ततः कुर्यात् दिग्विभागानुरूपतः । प्रापश्चिमायते सूत्रे मध्याङ्कोभयपार्श्वगौ ॥ ६ ॥ कृत्वाङ्को लाञ्छयेत् ताभ्यां मत्स्यौ दक्षिणसौम्ययोः । तयोश्च सूत्रमास्फाल्य लाञ्छयेद् दिक्षु मानतः ॥ ७ ॥ द्वाभ्यां द्वाभ्यामथाङ्काभ्यां लाञ्छयेत् कोणमत्स्यकान् । बाहुसूत्राणि चास्फाल्य चतुरथ प्रसाधयेत् ॥ ८ ॥ समं पोडशधा भक्त्वा सूत्राण्यास्फाल्य भद्रकम् । आलिखेन्मण्डलं तत्र चतुरश्रं सुशोभनम् ॥ ९ ॥ पञ्चवर्णश्चतुर्दार मिताजं तत् सपीठकम् । चतुभिर्नवकैः पद्मं पीटं पतयैकया बहिः ॥ १० ॥ द्वाभ्यां वीथीं तथा हाराण्यजस्थानं तु वर्तयेत् तदर्धे द्वादशांशोने चतुर्धावर्तितंऽशकैः ॥११॥ 'पृथिव्यादीनि तत्त्वानि कर्णिकादित कल्पयेत् । कर्णिकां केसरान् सन्धीन दलान्यग्राणि च क्रमात् ॥१२॥ कोणसूत्रं समास्फाल्य कुर्यादष्टदलं यथा । क्षिप्तेषु सन्धिसूत्रेषु दलसन्ध्यन्तरेण तु ॥ १३ ॥ दलान्यग्राणि मानेन पावस्थेन च वर्तयेत् । पीठे त्रिभिश्चतुर्भिश्च पादगात्राणि कल्पयेत् ॥ १४ ॥ हऽन्तर्बहिश्च चत्वारि द्वारे द्वारे तु मार्जयेत् । त्रीण्येकं चैव शोभार्थमुपशोभार्थमन्यथा ॥ १५॥ षड्भिः कोणं लतापत्रवितानैवींथिरुज्ज्वला । एकहस्तं द्विहस्तं च चतुर्हस्तं च भद्रकम् ॥ १६ ॥ १. 'श्चत्वारि बाबानि द्वा' क. घ. पाठः, नवमः पटलः । ततोऽधिकं तु चक्राब्जमष्टहस्तान्तमिष्यते । द्वादशारत्निका वेदिर्दशाष्टारनिरेव वा ॥ १७ ॥ तस्या द्वादशभागेन मध्यतोऽक्षं प्रकल्पयेत् । नाभिं च तावती क्षेत्रमराणां द्विगुणं बहिः ॥ १८ ॥ नाभिवन्नेमिवीथ्योश्च क्रमात् क्षेत्राणि कल्पयेत् । अक्षभूमिं त्रिधा कृत्वा कर्णिकादि यथाक्रमम् ॥ १९ ।। वर्तयेन्नाभिसंस्थानि दलान्यग्राणि कल्पयेत्। त्रिनाभि द्वादशारं तच्चक्राब्जं शुभवीथिकम् ॥ २० ॥ कल्पयेद् विदिशोऽरस्था दिशोऽरान्तरगोचराः । तुल्यमेवोभयोर्मानं सर्वत्र परिकल्पयेत् ॥ २१ ॥ अरं द्वादशधा कृत्वा सूत्राण्यूर्ध्वगतानि च । मूलाग्रयोरराः स्थला वृत्तरूपाश्च मध्यतः ॥ २२ ॥ पिपीलिकोदराः कार्या विपरीता यवोदराः । नेमिक्षेत्रं द्विधा कृत्वा प्रथयश्चाधरोत्तराः॥ २३ ॥ चतुर्विंशतिधा कार्यास्ते चाराग्रान्यसन्धयः । बहिरावरणं चात्र नेमिमानेन कल्पयेत् ॥ २४ ॥ तत्र स्थानानि कल्प्यानि दिक्पालानां यथाक्रमम् । चतुरश्राणि सर्वाणि तालमात्राणि कल्पयेत् ॥ २५ ॥ बहिर्दारादि कर्तव्यं चतुरश्रं यथोदितम् । एवं मण्डलमालिख्य रजोभिः पूरयेत् क्रमात् ॥ २६ ॥ सितरक्तासितापीतश्यामैरेवान पञ्चभिः । सर्वत्र कर्णिका पीता सितान्यब्जदलानि च ॥ २७ ॥ १. 'कुर्यादरा' ख. पाठः. २. 'स्ताश्चारा', ३. ३. 'त् सितरक्तासितापीत' ख. ग. पाठः १ ५८. विष्णुसंहितायां पृथुलारुणमध्यानि पतिान्येव यथाक्रमम् । केसराण्यच्छबिन्द्वग्राण्युज्ज्वलानि प्रकल्पयेत् ॥ २८ ॥ दलान्तराणि श्यामानि व्योमबाह्येऽश्रयोऽरुणाः । सिता धर्मादयः श्यामास्तथाधर्मादयः स्मृताः ॥ २९ ॥ द्वाराणि तु सितान्येव चतुर्दिक्षु प्रकल्पयेत् । उत्तरादीनि सर्वाणि विप्रादीनां यथाक्रमम् ॥ ३०॥ शोभा रक्तोपशोभा तु पीता नीलं च कोणकम् । भद्रकेऽन्यद्यथाशोभं सर्ववर्णैस्तु कल्पयेत् ॥ ३१॥ चक्राब्जेऽपि तथा पद्मं त्रिधा नाभिमथालिखेत् । सितरक्तासितैः पीताः सर्वेऽराः सितसन्धयः॥३२॥ प्रथयः शुक्लकृष्णाः स्युर्व्यत्ययात् पीतसन्धयः । नानावर्णानि कार्याणि दिक्पानां स्वस्तिकानि तु॥३३॥ पीताच्छपाटलश्यामकृष्णरेखास्तु तबहिः । सितरक्तासितास्तिस्रो भद्रके विहिताः क्रमात् ॥३४॥ द्वारादि भद्रके यत्तत् चक्राब्जेऽपि बहिस्तथा । कल्पनीयं प्रयत्नेन दीक्षायां देशिकोत्तमैः ॥ ३५॥ येन रूपेण यल्लेख्यं विधिवच्चकमण्डलँम् । तहणेनैव रजसा तत्तत्पूरणमत्र तु॥३६॥ रत्नैरोषधिभिलॊहैर्गन्धै जैश्च धातुभिः। पत्रैश्च याज्ञिकैर्वृक्ष रजांस्येतानि कल्पयेत् ॥ ३७॥ मुत्यै न्यासोऽपसव्येन देवतीर्थेन तु श्रियै । सर्वकामसमृद्धयर्थ कर्तव्योऽङ्गुलिभिस्तु सः ॥ ३८॥ १. 'ह्या', २. 'शुक्लपीतारुणश्या', ३. 'द', ४. ४. 'ले', 'स्य प, ६. 'विद्वान् र' ख. ग. पाठः. २ ६ नवमः पटलः । •५९ ग्रन्थिवक्रशस्थूलनिम्नोन्नतविमिश्रणैः। छिट्टैश्च बहवो दोषा रेखाच्छदो न सर्वथा ॥३९॥ प्रमादायत्र शिष्याणां मण्डलस्य तु लेखने । ग्रन्थ्यादि स्यादतन्द्री तु समये कुशलो गुरुः॥ ४० ॥ कर्णिकाकेसरादीनि ललितानि प्रयोजयेत् सकृदर्पणमात्रेण न पुनः परिवर्तनैः ।। ४१ ॥ कर्णिकामुच्छ्रितां कुर्यात् पत्ररेखाश्च सर्वतः । कनिष्ठामध्यमाङ्गुष्ठमिता रेखास्त्रिधोच्छ्रिताः ॥ ४२ ॥ मुख्ये मध्येऽधमेऽब्जादिक्रमादूह्यश्च तत्क्षयः । तन्मध्येषु रजोन्यासस्तत्तत्पादोच्छ्रितो भवेत् ॥ ४३ ॥ ग्रन्थ्यादिपरिहारेण प्रयत्नाद् देशिकोत्तमः। सर्वत्र समरूपाणि रजांसि विकिरेत् क्रमात् ॥ ४४ ॥ कुड्ये पटे च तचकं लिखितं मानयोगतः । पूजनीयं गृहे नित्यं क्षुद्रभूतादिशान्तये ॥ ४५ ॥ काले स्वयं तु सम्पश्येन्न तत् साधारणो जनः । तस्यानुध्यानमात्रेण सर्वमेनो विशीर्यते ॥ ४६ ॥ तस्यान्तिके न तिष्ठन्ति वेताला ब्रह्मराक्षसाः । इदं चक्रमुपारूढो विष्णुः सर्वजगत्प्रभुः ॥ ४७ ॥ पूज्यो भक्तैः प्रयत्नेन सदा सर्वार्थसिद्धये । असम्भवे द्विहस्तादिमानेनाप्यर्चनादिषु ॥ ४८ ॥ चक्राब्जं वेर्तयेहिहानल्पं नानल्पसम्भवे । असम्भवेऽपि स्थानानि नेम्यन्तानि न हापयेत् ॥ ४९ ॥ १. 'तत् सन्धयेत् कु', २. 'नश्यते'; ३. 'क. पये' क. प. पाठः.
विष्णुसंहितायां १ बहिरावरणं त्वल्पे कल्पनीयं यथेप्सितम् । वर्णाः सितारुणाः पीताः कृष्णाः शान्त्यादिदेवताः ॥ योज्या युगेषु वेदेषु वर्णेषु च यथाक्रमम् । युगान्तरानुलोमाङ्गरूपं श्यामं तु पञ्चमम् ॥ ५१ ॥ पञ्चवर्णमयं विश्वं तन्मात्रा मूर्तिभेदतः । विषयेन्द्रियभेदाच्च पञ्चधेदमवस्थितम् ॥ ५२ ॥ नादरूपेण विज्ञेयं व्याप्तमाद्यक्षरेण तु । वर्णादिकल्पनातीतं तद्विष्णोः परमं पदम् ॥ ५३ ॥ व्यापिनी तु परा शक्तिररूपा सर्वतोमुखी । अविमुक्तस्तया देवो द्रष्टव्यः साधकैः सदा ॥ ५४ ॥ अवर्णा सा समाख्याता सर्ववर्णा च साधकैः तही सा परा माया प्रकृतिः सा गुणात्मिका॥ ५५ ॥ एकैव सा परा सूक्ष्मा गुणभेदात् त्रिधा भवेत् । तझेदादेवभेदोऽपि ब्रह्मोपेन्द्रहरात्मकः ॥ ५६ ॥ पञ्चधा सा भवेत् पश्चाद् यथा पूर्व मयोदितम् । तद्भेदानुविधायित्वं देवस्य श्रुतिदर्शनात् ॥ ५७ ॥ कल्पितं मुनिभिर्भेदास्त्वसंख्येया गुणोद्भवाः । पुरुषं मण्डलं विद्यात् पद्मं हृदयमस्य तु ॥ ५८ ॥ बाहुन्तरगतं मध्यं नाभिमूलेऽब्जनालकम् । पदे हे पश्चिमद्वारे ज्ञातव्ये दक्षिणोत्तरे ॥ ५९ ॥ पद्मनालं नवच्छिद्रं विमलादिकलाश्रयम् । तस्य मूलं भवेत् सूक्ष्मो बीजरूपो जनार्दनः ।। १, 'थोचित' ग. पाठः. २. 'देवा क. पाठः.
नवमः पटलः। ६१ आधारभूतं सर्वस्य महिम्नि स्वे व्यवस्थितम् । पद्ममूलं विजानीयाद्यतोऽकारादयोऽभवन् ॥ ६१ ॥ मरुतः कण्टका नाले ग्रन्थिर्गुणमयो महान् । बुद्धिभेदा दलान्यष्टौ धर्माधर्मादयस्ततः ॥ ६२ ॥ नालान्तेऽहंकृतोऽनन्तस्तन्मात्रेन्द्रियभूतभृत् । पद्मोऽव्यक्तमकारादिभेदोऽकेंन्द्वग्निमण्डलम् ॥ ६३ ॥ बुद्धिगर्वमनोमात्रा दक्षिणादिदलाष्टकम् । इत्यन्ये विमलाद्यष्टशक्तिजं चापरे विदुः ।। ६४ ॥ अण्डमध्यगतं पद्म विश्वस्यायतनं महत् । मायाण्डाधः कपालस्था विद्या चोर्ध्व व्यवस्थितों॥६५॥ पुरीततं हृदब्जस्य कल्पयेत् प्रतिवारणम् । तबाह्यतः पुराकारो वैराजो देव उच्यते ।। ६६ ॥ पीताच्छारुणकृष्णेषु श्यामे च मादयः स्थिताः। वसवोऽब्जदलाग्रस्था रुद्रादित्याश्च केसराः ॥ ६७ ॥ मरुतो दलसन्धिस्था रेणवो ग्रहतारकाः। दलान्तराग्ररेखासु सरितः सागरास्तथा । ६८ ॥ मेरुस्तु कर्णिकान्तस्थो बीजेषु मुनयः स्थिताः । सूर्येन्दग्निगतो विष्णुस्तानतीत्य स्थितस्विषा ।। ६९ ॥ तत्स्वरूपं परं नित्यं यः पश्यति स पश्यति आत्मानमन्तरात्मानं परमात्मानमित्यपि ॥ ७० ॥ ११ १. 'तः', २. 'तः' क. पाठः. ३. 'मा' ख. पाठः. ४. 'चा', ५. 'तम्', ६. 'ह्ये तत्पुरा', ७. 'इप्यते' क. घ. पाठः. ८. 'स्तथा', ९. 'स्य रू', १०. 'दिव्यं यः', ११. 'मस्यति' ख. ग. पाठः.
६ विष्णुसंहितायां तस्य तुर्य परं रूपं यः पश्यति स एव सः । यक्षाद्याः कण्टेका नाले रोमाण्यप्सरसः स्मृताः ॥७१ ॥ सूत्रं प्रजापतिः पत्रमूले प्राणादिवायवः । चक्रमण्डलमध्यस्थ आत्मा सर्वेश्वरो हरिः ॥ ७२ ॥ निष्कलस्तु समाख्यातः परमे व्योम्नि संस्थितः । एवं यो वेत्ति देवं तं मण्डलान्तर्गतं तथा ॥ ७३ ॥ स हित्वा वैष्णवी मायामाप्नुयात् परमं पदम् । अविधानेऽपि यो देवं मण्डलान्तःस्थितं यजेत् ॥ ७४ ॥ पश्येद् वा तेन देवेशः साक्षाद् दृष्टो भवेद् ध्रुवम् । मण्डलेऽत्र भवेन्नित्यं सान्निध्यं सर्वरूपिणः ॥ ७५ ॥ तस्मात् तीर्थादिपुण्येभ्यो विशिष्टं मण्डलेऽर्चनम्। इति विष्णुसंहितायां नवमः पटलः ।। २ ३ अथ दशमः पटलः । अथ वक्ष्यामि संक्षेपाद् दीक्षापूजाद्यनुग्रहम् । शिष्याधिकारसिद्यर्थं निर्वाणार्थ च योगिनाम् ॥ १ ॥ दीयन्ते सिद्धयः सर्वाः क्षीयन्ते ग्रन्थयोऽप्यतः । दीक्षात्वमेवं दीक्षाया धर्माधर्महदात्मनः ॥ २ ॥ वसन्तग्रीष्मयोदीक्षा कार्या वा कार्तिकादिषु । शरदाषाढयोश्रोक्तो वर्णजानामनुग्रहः ॥ ३ ॥ १. णि', २. 'न', ३. 'ला' क. घ. पाठः. ४. 'ति म- ण्डलपटलो नवम:' ख. ग. पाठः.
दशमः पटलः । ६३ जातिशौचगुणान् पूर्व परीक्ष्य स्वयमादरात् । शुद्धान् गुरुर्विजानीयात् स्त्रीशूद्रांस्तु विशेषतः ॥ ४ ॥ ते तु भक्तिं ततो ज्ञात्वा कर्तव्यां परमेश्वरे । देववद् भक्तिमन्तोऽस्य कुर्युः शुश्रूषणं ।चरम् ॥ ५ ॥ भगवंस्त्वत्प्रसादेन संसारार्णवतारणम् । इच्छामश्चैहिकी सिद्धि विशेषेण तपोधन ! ॥ ६ ॥ इति विज्ञाप्य सन्तोष्य दानानुगमसान्त्वनैः । तदिच्छयोक्तसम्भारानाहरेयुर्यथाबलम् ॥ ७ ॥ द्रव्याण्यानोग्य संशोध्य पूर्वेधुरधिवास्य च । द्वादश्यां दीक्षयेच्छिशप्यानिष्ट्वा देवं विधानतः ॥ ८ ॥ देवालयनदीतीर्थगोष्ठारामादिसन्निधौ । ब्राह्मणादिविभागेन यागस्थान प्रकल्पयेत् ॥ ५ ॥ दीक्षार्थिनस्तु यावन्तः सम्भवन्त्यत्र वैष्णवाः । ते सर्वे सममेवात्र यतेरन्नात्मशक्तितः ॥ १० ॥ यत्नोऽर्थो वाधिको यस्य फलं तस्याधिकं तथा । वित्तशाठ्यं तु यः कुर्यान्नरकं स पतेद् ध्रुवम् ॥ ११ ॥ वैष्णवैरभ्यनुज्ञातो दीक्षितैः कुशलैः सह । स्नात्वाचम्य शुचिर्भूत्वा कृतनित्यः स्वलंकृतः ॥ १२ ॥ यागार्थ कल्पितां भूमिमाचार्यः स्वयमाविशेत् । सञ्चिन्त्य मनसा देवं सकलं मण्डलात्मकम्॥ १३ ॥ संस्कृत्य विधिना वेदि कलशन्यासमारभेत् । नृसिंहजप्तान सिद्धार्थान् फडन्तेन विकीर्य तु॥१४॥ १. 'समीक्ष्य' ख. ग. पाठः, २. 'iq' क. घ. ग. पाठः. ३. 'नीय सं' ख. पाठः... 'प्र' क. घ. पाटः.
ur विष्णुसंहितायां मूलेन विकिरान जप्त्वा पञ्चगव्यं तु साधयेत् । गोमूत्रं प्रणवेनैव विसर्गेण तु गोमयम् ॥ १५ ॥ बिन्दन्तेन पयो दद्याद् दधि दीर्घण विष्णुना । घृतमाद्येन शुद्धेन विष्णुबीजेन पूजयेत् ॥ १६ ॥ गोमूत्राद् गोमयं त्वध क्षीरमष्टगुणं ततः । दधि सप्तगुणं दद्यादाज्यं चैव चतुर्गुणम् ।। १७ ॥ त्रिबीजेन कुशैः प्रोक्ष्य मूलेन विकिरान् क्षिपेत् । त्रिरेव प्राङ्मुखस्तिठस्तं ध्यात्वोत्तानपाणिना ॥१८॥ पीठन्यासक्रमादीशे कलशं कर्करीयुतम् । सरत्नं निव्रणं रम्यं लाहज सूत्रोष्टतम् ॥ १९॥ पूरयित्वाचयद् विद्वान् गन्धपुष्पैर्यथाक्रमम् । धर्माधर्मादिपीठस्थं पङ्कजं कलशे न्यसेत् ॥ २० ॥ क्षादिमूर्तिशिफानाळसरःकण्टकरन्ध्रकम् । धर्माद्यन्तःस्थयुग्ग्रन्थिसाधर्म्यादिनपुंसकम् ॥ २१ ॥ कायैस्त्रिभिस्त्रिभिः पत्रैः कर्णिकान्तः समन्वितम् । विसर्गबिन्दुदीप्ताग्रपूर्वादिस्वरकेसरम् ॥ २२ ॥ तारांशत्रितयोपेतमात्मविद्यापरक्रमात् । नादशक्तियुतं मध्ये तत्रावाह्यार्चयेत् प्रभुम् ॥ २३ ॥ वर्धन्यां चासने सिद्धे तस्मादावाहनं भवेत् । आज्येऽर्थे च प्रणीतायां सुक्खुवेषु विशेषतः ॥ २४ ।। पागव्ये चरौ कुण्डे मण्डले विष्णुहस्तके । पूजयित्वा तथा साङ्गं कलशस्थं तु केशवम् ॥ २५ ॥ १. 'रा' क. घ. पाठः दशमः पटलः । ४ १६५ अग्रतोऽस्त्रेण वर्धन्या मण्डपस्य समन्ततः। अच्छिन्नां पातयेद् धारामीशायन्तं प्रदक्षिणम् ॥ २६ ॥ पश्चात् तेनैव मार्गेण साधकः कलशं नयेत् । संहत्य विकिरान् सर्वान् विकीर्णान् पात्रगैः सह ॥ २७ ॥ सर्वधान्यस्थितं कुम्भं पूजयेद् वर्धनी तथा। नवेनांशुकयुग्मेन वेष्टयेत् तं सितेन तु ।। २८ ॥ घेटिकां च तथैकेन रक्षा चास्त्रेण कल्पयेत् । विकिरदस्त्रजप्तैश्च सर्वधान्यैः समन्ततः॥ २९ ॥ सम्मृज्य स्थण्डिले देवमर्चयित्वा यथाविधि । मूलेन मूर्तिभिश्चाग्नौ संस्कृते अपयेच्चरम् ॥ ३० ॥ क्षालिताज्याक्तसक्षीरामुखामारोप्य तण्डुलान् । क्षालितान् समुपस्तीर्णान् न्यस्यालोड्यावघट्य च ॥ ३१॥ उपस्तीर्योदगुद्वास्य क्षालितं प्रोक्ष्य पूजयेत् । कुर्याद् भस्मोर्ध्वपुण्ड्रं च तत्पाद्येऽष्टाक्षरेण तु ॥ ३२ ॥ उपस्तीर्य शुभे पात्रे क्षिप्तं प्रत्यभिघार्य च । अभिघार्य क्षतं चायं भागं देवाय कल्पयेत् ॥ ३३ ॥ द्वितीयं कलशस्थाय वद्विस्थाय तृतीयकम् । घृताप्लुतं तु मूलंन जुहुयादाहुतित्रयम् ॥ ३४ ॥ तच्छेषेण बलिं दद्यात् पार्षदेभ्योऽष्टदिक्क्रमात् । प्रणवेन पुरा पीत्वा पञ्चगव्यं चतुर्थकम् ॥ ३५ ॥ भागं शिष्यैः सहाश्नीयाद् गुरुः कायविशोधनम् । सप्ताभिमन्त्रितं प्राच्यां निखातं द्वादशाङ्गुलम् ॥ ३६ ॥ १. 'संगृह्य वे', २. ई' ख. पाठः, ३. 'खण्डिका', ४. 'स्तु क' क.घ. पाठः.
६६ विष्णुसंहितायां भक्ष्यं तैर्दन्तकाष्ठं च क्षीरवृक्ष जमव्रणम् । शुभं परीक्षयेत् तेन शान्तिहोमोऽशुभे स्मृतः॥ ३७॥ आचान्तः सकलो भूत्वा प्रार्थयेद् गुरुरच्युतम् । प्रदक्षिणमुपावृत्य नमस्कृत्य प्रसाद्य च ॥ ३८ ॥ संसारार्णवमनानां पशूनां पाशमुक्तये । त्वमेव शरणं देव ! सदा त्वं भक्तवत्सल ॥ ३९ ॥ देवदेवानुजानीहि प्राकृतैः पाशबन्धनैः। पाशितान् मोक्षयिष्यामि त्वत्प्रसादात् पशूनिमान् ॥ लब्धानुज्ञस्तु संशोध्य धारणाभिरुषितान् । अस्त्रेण प्रोक्ष्य लिङ्गस्थान् पशून् स्वात्मनि योजयेत् ॥ सम्प्रोक्ष्य तं पुनर्देह वातानिधृतमग्रतः । भस्मकूटमिव ध्यात्वा प्लावयेद् वारिणाखिलम् ॥ ४२ ॥ उदकैकनिधिं सम्यग् ध्यात्वा संसारमण्डलम् । कल्पयेत् पार्थिवीं शक्ति ब्रह्माण्डैकस्वरूपिणीम् ॥ ४३ ॥ तन्मात्रोसम्भृतां शुभ्रां वृत्तां बुहुदसन्निभाम् । लिङ्गे संक्रामिते ध्यायेत् पुरुषं प्रणवात्मकम् ॥ ४४ ॥ विभक्तेन्द्रियसंस्थानं वृद्ध्याब्देनाण्डभेदिनम् । शकले रोदसी मध्ये प्रजापतिमिमं स्मरेत् ॥ ४५ ॥ प्रणवेन पुनः प्रोक्ष्य सकलीकृत्य देशिकः । खहस्ते सकलं ध्यायेन्मण्डलादिकमादरात् ॥ ४६ ॥ चतुर्दारं पुरं तच्च ब्रह्मतीर्थाद्यनुक्रमात् । मध्ये पद्मं यथाप्रोक्तं पत्राण्यङ्गुलयः स्मृताः ॥ ४७ ॥ १. 'ह' ख. पाठः. २. 'त्र' ग. पाठः, ३. 'त्वा म' क. घ. पाठः :
---
६७
दशमः पटलः ।
कर्णिका तलमध्यं तु पर्वाण्यस्य तु केसराः।
अग्निस्थानं च मध्येऽत्र तन्मध्ये केशवः स्थितः ॥ ४८ ॥
मण्डलत्रितयस्यान्तः सूर्यकोटिसमप्रभम् ।
त ध्यात्वा पूजयेन्मध्ये गन्धपुष्पैर्यथाक्रमम् ॥ ४९ ॥
तं हस्तं दापयेन्मूर्ध्नि शिष्यस्य सुसमाहितः ।
हस्ते विष्णुः स्थितो यस्मिन् विष्णुहस्तस्तु स स्मृतः ॥
जन्मान्तरसहस्रेस्तु यत् पापं सश्चितं पुरा ।
सर्व तत् स्पर्शमात्रेण विलयं यात्यसंशयम् ॥ ५१ ॥
एवमेकं बहून् वापि जनयेद् ध्यानयोगतः ।
एवं संशुद्धदेहं तं गन्धपुष्पैः प्रपूजयेत् ॥ ५२ ।।
करौ सम्मृज्य मूलेन नेत्रे बद्ध्वा सुवाससा ।
नेत्रमन्त्रेण मेधावी सदशेनाहतेन तु ॥ ५३ ॥
शिष्यं पुष्पाञ्जलिधरं प्राङ्मुखं तु प्रवेशयेत् ।
ब्राह्मणादिक्रमेणैव बहवश्च विविक्षवः ॥ ५४ ।।
द्वारं तु दक्षिणं श्रेष्ठं मण्डपस्य प्रवेशने ।
उत्तरादीनि चत्वारि विप्रादीनां विशेषतः ॥ ५५ ॥
पुरप्रवेशनं कार्य शिष्यकामानुरूपतः ।
प्रजाबलार्थसौभाग्यं रत्नान्नविजयस्त्रियः ॥ ५६ ॥
धृतिमोक्षायुरारोग्यं पशुपुत्रसुखादि च ।
पूर्वादिषु प्रवेशे स्यात् करं दत्त्वा प्रवेशयेत् ॥ ५७ ॥
कृतप्रदक्षिणं शिष्यं क्रमाद् वन्दितदिक्पतिम् ।
देवाभिमुखमानीय प्राङ्मुखं स्थापयेत् ततः ॥ ५८ ॥
विष्णुसंहितायां तूष्णीं स गुरुणोद्दिष्टो यतवाक्कायमानसः । जानुहयेन भूमिं तु विष्टभ्य नतिपूर्वकम् ॥ ५९ ॥ ध्यात्वा देवं हरि भक्त्या सूर्यकोटिसमप्रभम् । लक्ष्म्या समन्वितं सौम्यमष्टबाहुमलङ्कृतम् ॥ ६० । समाहितः क्षिपेन्माल्यं गुर्वादेशप्रतीक्षया । तन्नेत्रावरणं मुक्त्वा पुष्पपातं विलोकयेत् ॥ ६१ ॥ पुष्पपातानुरूपेण मूर्तिनाम्ना तमाहयेत् । अमन्त्रमर्चनं तत्र कारयेद् देवमूर्तिषु ॥ १२ ॥ देवान्तं ब्राह्मणस्योक्तं बर्मान्तं क्षत्रियस्य तु । गुप्तान्तं नाम वैश्यरय शूद्रे दासान्तमुद्दिशेत् ॥ ६३ ॥ स्त्रीणां दवाति नाम स्यात् सा मूर्तिस्तस्य कामदा। दृष्टमात्रे प्रणश्यन्ति मण्डले पापसञ्चयाः ॥ ६४ ॥ धूपं दीपं क्रमाद् दत्त्वा निवेद्यं चात्र कल्पयेत् । प्रकृत्यादिपृथिव्यन्तं साधिभूताधिदैवतम् ॥ ६५ ।। अध्यात्मसंहतं सर्व क्रमाच्छिष्यतनौ न्यसेत् । दक्षिणेनोपवेश्यैनं दर्भपाणिं तु वाग्यतम् ॥ ६६ ॥ अन्वारब्धेन होतव्यमाचार्यण विजानता अग्नौ सम्पातविधिना तत्त्वानां तु शतं शतम् ॥ ६७ ॥ दत्त्वा पूर्णाहुतिं सर्व कुम्भेशाय निवेदयेत् । करणी कर्तरी चाथ रजांसि घटिकां तथा ॥ ६८ ॥ यच्चान्यदुपयोगि स्यात् सर्व तद् वायुगोचरे । साङ्गेन मूलमन्त्रेण परामृश्याधिवासयेत् ॥ ६९ ॥ १. 'स' क. घ. पाठः. २. '' ख. पाठः. ३. 'मिप्यते', , 'श्याथ' क. घ. पाठः दशमः पटलः । १ ततः शयीत तैः शिष्यैः कुशानास्तीर्य तं स्मरन् । दुःस्वप्नादिषु शान्तिः स्यान्नान्यथा सिद्धिरैहिकी ॥ ७० ॥ प्रातः स्नात्वा विसृज्येशं मण्डले पुनरर्चयेत् । प्रवालमुक्ताभरणहेमपुर्वमनोहरैः ॥ ७१ ॥ निवेधैर्विविधैश्वानि सन्ताहूय तान् क्रमात् । पूर्ववत् कृतदेवा नये पद्मासनस्थितान् ॥ ७२ ।। सम्प्रोक्ष्य सकलीकृत्य विष्णुहस्तेन के स्पृशेत् । प्रकृत्यादिपृथिव्यन्तां सृष्टिं ध्यात्वाखिला क्रमात् ॥ तन्मात्रभूतां तदेहे जीवेन समतां गताम् । तारेणात्मनि संयोज्य ध्यात्वा समरसीकृतम् ॥ ७४ ॥ जीवं तदेहकालाग्निशक्तियोनिसमर्पणात् । गर्भ जन्माधिकारं च भोगं नाशं च पञ्चभिः ॥ ७५ ॥ अष्टाष्टाहुतिभिहेत्वा नरके च तथा पुनः । पाताले भुवि संशोध्य स्थावरत्वादिजन्मभिः ॥ ७६ ॥ विलोमं शूद्रविक्षत्रब्राह्मणत्वेषु योजयेत् । क्रियाः षोडश मूलेन पाकयज्ञादिभिः क्रमात् ॥ ७७ ॥ शोधयित्वाश्वमेधान्तैः कल्पयेदन्त्यमाश्रमम् । कृत्वान्त्येष्टिं पिशाचाादेयोन्यष्टकविभागतः ॥ ७८ ।। त्रिसुरान्तं क्रमान्नीत्वा नाशयेत् कर्मबन्धनम् । ततः सम्प्रोक्ष्य तदेहमाहुतीनां शतेन तम् ॥ ७९ ॥ सृष्टीश्वरमुदासीनं पूर्णाहुत्या च कल्पयेत् । मूलजप्तेन शुक्लेन रजसा हृदि ताडयेत् ॥ ८ ॥ १. 'शन्' ख. ग. पाठः. २. 'भिः कृत्वा' क. घ. पाठः, गे। नियो' ख. पाठः, ४. 'वित्वाय' क. घ. पठः. २ ४ १ विष्णुसंहितायाम् वियुक्ष्वहुंफडन्तेन नाम्ना तत्त्वाक्षरादिना । विश्लेष्यायाहिहामन्तबीजाद्यामन्त्रितेन च ॥ ८१ ॥ आदाय समतां नीत्वा युवहुंफडिति क्रमात् । प्रकृत्याकृत्य तेनैव संहरान्तेन होमयेत् ॥ ८२ ॥ बह्वावखिलतत्त्वानामालयेऽव्याकृते हरौ । लीयमानं क्रमात् सर्व तत्त्वाध्वानं स्मरेद् बुधः॥ ८३ ॥ शुद्ध परेण तत्त्वेन पूर्णाहुत्या च सन्धयेत् । एवं तत्त्वानि संशोध्य प्रकृतिं परमात्मनि ॥ ८४ ॥ विलाप्य ज्ञानयोगेन दद्यात् पूर्णाहुतिं बुधः । निर्वाणे प्रकृति दग्ध्वा सन्दध्यात् पूर्णया परे ॥ ८५ ॥ अधिकारे समादध्यान्नरं प्राकृतमीश्वरे । इष्ट्वा देवमशक्तौ तु सर्वोपकरणान्वितम् ॥ ८६॥ सद्योऽधिवास्य द्वादश्यां दीक्षयेत् स्थण्डिलेऽपि वा। अष्टाष्टाहुतिभिः पूर्व क्रमात् तत्त्वानि शोधयेत् ॥ ८७ ॥ मनसो वासना येयं सा मुक्तेः परिपन्थिनी। तच्छुडया शुध्यति क्षेत्री दुष्टया दृष्यते च सः॥८८ ॥ मनसो वासनोच्छेदः कर्मबन्धविमोचनात् । निर्बीजकरणं तस्य शोधनं समुदाहृतम् ॥ ८९ ।। गुरुणा योजितो नित्यं योगी योगं समभ्यसेत् । न सिध्यति विना तेन योगो नास्त्यत्र संशयः ॥ ९०॥ दग्धाङ्गं विस्फुलिङ्गाभमाकृष्य स्वौजसा गुरुः । नाभिदेशात् परे तत्त्वे पूर्णाहुत्या नियोजयेत् ।। ९१ ।। १. रन् बु', . २. 'मा' क. घ. पाठः, एकादशः पटलः। ततः संसारविषयः : स्वभावाद् विनिवर्तते। ततस्ताञ्छिक्षयेत् सर्वान् समयाञ् श्रावयेद् गुरुः॥ ९२ शिष्योऽपि गुरुपादारों कृत्वा दद्याच दक्षिणाम् । शक्या हिरण्यवस्त्रादि भक्त्यात्मानं च सर्वथा ॥ ९३ ॥ तत्तुष्टयेशो भवेत् तुष्ट एवं सर्वार्थसिद्धयः ॥ ९३३ ॥ इाते विष्णुसंहितायां दशमः पटलः ॥ : अर्थकादशः पटलः अथ वक्ष्यामि संक्षेपाद् दीक्षितस्याभिषेचनम् । पुत्रको देशिको वापि येनाचार्यत्वमृच्छति ॥ १ ॥ प्रथमं समये दीक्षा तन्त्रज्ञाने ततोऽर्चने तिस्रो ह्येताः प्रयोक्तव्या दीक्षा धर्मविवृद्धये ॥ २ ॥ आलिख्य मण्डलं पूर्व परिवारसमायुतम् । दर्शयेच्छिष्यमाचार्यो यमसौ समयी स्मृतः॥३॥ मण्डले देवमाराध्य पुष्पाञ्जलिपुरत्तरम् । दर्शयेद् विधिना यं तु स भवेत् तन्त्रदाक्षितः॥४॥ अग्नौ हुत्वाखिलान् मन्त्रान् पूजायत्वा च तं प्रभुम् । दर्शयेद् विधिना यं तु स ज्ञेयो देशिकोऽर्चकः ॥ ५ ॥ पुत्रकोऽधीत्य तन्त्राणि द्वितीयं मन्त्रमाप्नुयात् । तृतीयं पूजयेद् देवमित्येवं त्रिविधः क्रमः ॥ ६ ॥ एकेनैव प्रयोगेण तिस्रो दीक्षा ह्यनुग्रहे । समयग्रन्थपूजार्थाः कर्तव्यास्तत्त्ववेदिना ॥ ७ ॥ १. 'ज्ञापये' क. घ. पाठ:. ६. 'न्त्रा' ख. ग. पाठः, ३. 'क्षां' क. घ. पाठः, ४., ५. 'यस्तु' ख. पाठः. ६. 'णां', ७, ‘मात्', ८, 'स्त्व' क. घ. पाठः, द विष्णुसंहितायाम् पूर्वं कृत्वा तु संस्कारं गर्भाधानादिकं क्रमात् । व्रतबन्धान्तमाचार्यस्तत्त्वेन परमेण वै ॥ ८ ॥ एकैकं दशहोमेन ततस्तत्त्वानि संहरेत् । वेकारादीनि तत्त्वानि पञ्चभूतात्मकानि वै ॥ ९ ॥ ध्यात्वा शिष्यशरीरे तु षष्ठं क्षेत्रज्ञलक्षणम् । होमेन शोधयित्वान्ते पूर्णया योजयेत् परे ॥ १० ॥ पञ्चभूतस्वरूपेण तत्र माया व्यवस्थिता । षष्ठं तु परमं तत्त्वमबद्धं परमार्थतः ॥ ११ ॥ न स्वभावस्व विच्छित्तिर्भवेदग्न्यौप्ण्यवद् यतः । तस्माद् घटादिवद् बडो व्योमवत् परमं पदम् ॥ १२ ॥ एवं ज्ञात्वा तु मेधावी व्यतिरिक्तं निरञ्जनम् । घटवद् यः स्मृतो बन्धस्तं होमेन विनाशयेत् ॥ १३ ॥ पृथिव्यादि समारभ्य बेकाराद्यैरतु पञ्चभिः । एकैकं शतहोमेन क्रमात् तत्त्वानि शोधयेत् ॥ १४ ॥ पञ्च पूर्णाहुतीर्हत्वा बन्धच्छदं च भावयेत् । क्षेत्रज्ञं शतहोमान्ते मायाबन्धविवर्जितम् ॥ १५ ॥ ध्यायन् पूर्णाहुतिं दद्यान्मुक्तिदीयमुत्तमा । समयादिविभागेन कर्म यस्य यदीरितम् ॥ १६ ॥ तदेवास्य पुनः कार्य प्रायश्चित्तविधावपि । अब्देऽब्देऽपि च कर्तव्या दीक्षा शिष्येष्वनुग्रहात् ॥ १७॥ यागै दशभिर्यस्तु दीक्षितोऽसौ हरिः स्वयम् । यं तु शिष्यं गुणोपेतमाचार्य कर्तुमिच्छति ॥ १८ ॥ १. 'यत् स्मृ', २. दत्त्वा ब' क. घ. पाठः, ३. वापि' ३ " क, ख. पाठः, एकादशः पटलः। ७३ १ तस्याभिषेचनं कुर्याद् विधिनानेन मन्त्रवित् । राज्ञोऽभिषेचनं कुर्याद् विधिनानेन मन्त्रिणः ॥ १९ ॥ साधकस्यानपत्यस्य दरिद्रस्य च रोगिणः । पूर्ववन्मण्डलं कृत्वा सर्वलक्षणलक्षितम् ॥ २० ॥ समभ्यया॑त्र देवेशं हुत्वाग्नौ च यथाविधि । कलशान् स्थापयेदने निर्दोषान् सूत्रवेष्टितान् ॥ २१ ॥ पञ्चरत्नसमायुक्तान सहिरण्यान् सपल्लवान् । वेष्टितान् वस्त्रयुग्मैस्तु चतुरो दिक्ष्वनुक्रमात् ॥ २२ ॥ मध्यतः पञ्चमं चैव सर्च सापिधानकम् । प्रणवं कलशे पूर्व सर्वमन्त्रात्मकं न्यसेत् ॥ २३ अकारं दक्षिणे चैव सर्वतन्त्रात्मकं बुधः । पश्चिमे विष्णुगायत्रीमधिकारमयीं तथा ॥ २४ ॥ उत्तरेऽपि न्यसेद् विष्णुं सर्वगं ज्ञानविग्रहम् । मध्यमे वैष्णवं बीजं शब्दब्रह्म सनातनम् ॥ २५ ॥ ततस्तानर्चयेत् सर्वान् गन्धपुष्पाक्षतैः क्रमात् । योगाधिकारतन्त्रार्थसर्वविद्यासमन्वितान् ॥ २६ ॥ यथोक्तमातृकाब्जस्थतारादिज्योतिषोऽखिलोन् । मन्त्रतन्त्रादिरूपेण ध्यात्वा देवं पृथक् क्रमात् ॥ २७ ॥ सहस्रावर्तितं कुर्याच्छतावर्तितमेव वा । एकैकं कलशं त्वेवमाचार्यः सुसमाहितः ॥ २८ ॥ ततो होमं चै कुर्वीत यथावत् साधकेश्वरः । उपसंहारमार्गेण निर्वाणाख्यं यथोदितम् ॥ २९ ॥ १. 'न्त्रवित्' ख. पाठः, २. 'ला.' ग. पाठः. ३. 'तु', 1. 'स्ये' क. प. पाठः ७४, विष्णुसंहितायाम् एवं योगविधानेन कृत्वा तत्राधिवासनम् । अभिषेकं ततः सम्यक् कुर्याद् वै साधकस्य तु ॥ ३० ॥ मण्डपस्योत्तरे पार्थे पूर्व कृत्वा सुशोभनाम् । एकहस्तां द्विहस्तां वा चतुर्हस्तां तु वेदिकाम् ॥३१॥ तालोच्छितां चतुःस्तम्भे मण्डपे छदनान्विते । वितानवस्त्रसञ्छन्ने स्रग्दामादिविभूषिते ॥ १२ ॥ अलंकृते यथाशोभं लाजकुम्भश्चतुर्दिशम् । लिखित्वा स्वस्तिकं मध्ये चतुरश्रं सुशोभनम् ॥ ३३ ॥ सितेन रजसा तत्र श्रीपर्णीद्रुमसम्भवम् । भद्रपीठं तु संस्थाप्य चतुरश्रं नवं शुभम् ॥ ३४ ॥ अनन्तं साम्बुजं तस्मिन् धर्मादिमयमर्चयेत् । ततोऽग्रे प्राङ्मुखः स्थित्वा ध्यात्वा पीठगतं प्रभुम् ॥ मनसा पूजायत्वा तु कार्यमेनं निवेदयेत् । भगवन् ! दीक्षितस्योक्तमाचार्यत्वेऽभिषेचनम् ॥ ३६ ।। तत् करिष्याम्यनुज्ञातन्वया सर्वार्थसिद्धये । लब्धानुज्ञस्ततः कुर्यादभिषेकं यथाविधि ॥ ३७ ॥ सृष्टिक्रमेण नै ध्यात्वा तत्वाध्वानं सुभावितः । प्रवेशयेद् गुरुः शिष्य प्राङ्मुखं शुक्लवाससम् ॥ ३८ ॥ ध्यात्वानन्तासनस्थं तमचितं विष्णुमव्ययम् । आनीय कलशानत्र स्वासु दिक्षु निवेशयेत् ॥ ३९ ॥ स्त्रीभिः सुस्तरकण्ठाभिगीयमानेऽथ मङ्गले । शख़तूर्यनिनादेन नीराजनपुरस्सरम् ॥ १० ॥ १. 'कुर्याद् सम्बन 2' ख. ग. पाठः. २. 'तु', ३. 'स' ग. पाठः. ५., ५. 'तं'. 1. 'र्यादिना' क. घ. पाठः.
एकादशः पटरु: ७५ ततोऽभिषेचयेत् सार्ध ब्रह्मघोषेण देशिकः । पूर्वोक्तैरेव मन्त्रैस्तु ध्यात्वा मन्त्रात्मकं जलम् ॥ ४१ ॥ प्रतिकुम्भं तथाभ्यर्च्य धूपयित्वा यथाक्रमम् ! चतुर्भिः पञ्चमेनाथ परज्ञानात्मकेन च ॥ ४२ ।। नीराजनं पुनः कृत्वा पूजयेद् गन्धपुष्पकैः । परिधाप्य नवे वस्त्रे शोभने तमुपागतम् ॥ ४३ ॥ आचान्तमुपवेश्याग्रे वृमीं दत्त्वा स्वयं गुरुः । सोऽपि प्रणम्य देवेशं तस्यामासीत वाग्यतः ॥ ४ ॥ सकलीकृत्य मन्त्रैस्तं पूजयेत् पूर्ववत् पुनः । योगपट्टकमुष्णीषं चक्रं चैवाङ्गुलीयकम् ॥ ४५ ॥ अधिकार स्वकीयं च तत्त्वं चास्मै निवेदयेत् । दद्याच्च वैष्णवं ज्ञानं संसारच्छेदकारणम् ॥ ४६ ॥ श्रावयेत् समयांश्चैतांस्तन्त्रोक्तान् देशिको तमः । अनुग्राह्यास्त्वया शिष्या वैष्णवाः शुभचारिणः ।। ४७ ॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा योषित एव वो अन्यदेवरता ये तु चातुर्वाञ्च ये बहिः ॥ ४८ ॥ डाम्भिकाः पापकर्माणो देवब्राह्मणनिन्दकाः । तेषामनुग्रहो नैव कर्तव्यो वैष्णव ! त्वया ॥ ४९ ॥ समीपे तु गुरुयंत्र न कर्तव्या स्वतन्त्रता । बहुयोजनमात्रे तु आचार्यों यत्र तिष्ठति ॥ ५० ॥ तत्र दीक्षा न कर्तव्या अनुक्तेन त्वयानघ ! गुरुपूजा च कर्तव्या यथा विष्णोस्तथा त्वया ॥ ५१ ॥ १. 'रि' ग. पाठः. २. 'ततः क', ३. 'गंदेगका', १. 'श्चैव सन्त्रो', ५. 'च' क. घ. पाठः. ६. पाया' य. . .::.
." ७६. विष्णुसंहितायाम् व्याख्यानादिषु कालेषु स्मर्तव्यश्च सदा गुरुः। न कदाचित् त्वया कार्यमप्रमाणं गुरोर्वचः॥ ५२ ॥ कृते प्रभादे कर्तव्यं प्रायश्चित्तं तदाज्ञया। न कदाचिश्च कर्तव्यो लोकोद्वेगस्त्वयानघ! ।। ५३ ॥ वैष्णवानां च वैभाप्यं यञ्च लोकेऽपि गर्हितम् । प्रतिपत्तिश्च वृद्धानां कर्तव्या शास्त्रतस्त्वया ॥ ५४ ॥ अभिमानो न कर्तव्यः रवनेष्वपि कदाचन । समयाश्च त्वया वत्स ! आचाराश्च मयोदिताः॥ ५५ ॥ पालितव्याः प्रयत्नेन यावज्जीव ममाज्ञया । आचार्यो वैष्णवे तन्त्र वं भव प्राणिनां प्रियः ॥ ५६ ॥ शिष्यास्त्वामुपसर्पन्तु तेषु वर्तस्व शास्त्रवत् । नार्थलोभेन वर्तथा नाशया न भयेन वा ॥ ५७ ॥ पञ्चरात्रे विशेषेण देवं च सततं स्मर । अयनादिपु कालेषु यष्टव्यो विष्णुरव्ययः ॥ ५८ ॥ गुरवः पूजनीयाश्च मनोवाक्कायकर्मभिः । वृथा हिंसा न कर्तव्या भर्तव्याश्च स्वशक्तितः॥ ५९॥ दीनानाथास्तथान्धाश्च पूज्या विप्राश्च सर्वदा । उद्युक्तः सर्वदा तिष्ठेन्नित्यकर्मण्यतन्द्रितः ॥ ६ ॥ स्वल्पमह्नो जपं कुर्यात् स्वल्पमग्नौ च होमयेत् । स्वल्पं वै ध्यानमातिष्ठेत् सत्रमेतत् सदा गुरोः ॥ ६१ ॥ एवमुक्त्वा गुरुः शिष्यं देवाग्रस्थं सुचेतसम् । तन्त्रं चैवाखिलं दद्यात् साधके मन्त्रमेव तु ॥ ६२ ॥ १. 'हि', २. 'न' क. घ. पाठः. ३. 'को' क. पाठः. ३ एकादशः पटलः । देवस्य पुरतो गन्धपुष्पाक्षतयुतै लैः । चुलुकं पूरयित्वा तु मन्त्रमुच्चार्य तत्करे ।। ६३ ।। प्रदद्यात् सिध्यतां शीघ्रं तवेष्टं मन्त्रजं फलम् । इत्युक्तः स्वयमुत्थाय कृत्वाचार्य प्रदक्षिणम् ॥ ६४ ॥ आसने स्थापयित्वास्य पादौ प्रक्षाल्य भक्तितः । तोषयेद् धनधान्येन शक्तिभक्तिवशाद् गुरुम् ॥ ६५ ।। परितोष्य तु पाणिभ्यामुपसगृह्य पादयोः । प्राय पूजय देवं त्वमित्यनुज्ञापयेद् गुरुम् ॥ ६६ ॥ लब्धानुज्ञः स शिष्योऽपि ततः प्रभृति पूजयेत् । एवं तेनाननुज्ञातो यः पूजां कुरुते नरः ॥ ६७ ॥ न तस्य पूजया सिद्धिरिति शास्त्रस्य निश्चयः । तस्मान्मण्डलमध्यस्थं देवमाचार्यपूजितम् ॥ ६८ ॥ दृष्ट्वानुज्ञां गुरोः प्राप्य पूजयेत् पुरुषोत्तमम् । एवं यो वैष्णवी दीक्षां कुर्यात् कारयिता च यः ॥ ६९ ॥ तावुभौ गच्छतः स्वर्ग नरकं च विपर्यये विष्वक्सेनं च यागान्ते दिश्यैशान्यां प्रपूजयेत् ॥ .. ॥ पिङ्गश्मश्रृं विवृत्ताक्षं गदापाणिं चतुर्भुजम् । शकचक्रधरं देवं जगत्संरक्षणे स्थितम् ॥ ७१ ।। तर्जयन् वामतर्जन्या नासाग्रासन्नया जगत् । वारुणे मण्डले साङ्गं शिष्टद्रव्यैस्तु पूजयेत् ॥ ७२ ॥ विसृज्योक्तेन विधिना मण्डलस्थमधोक्षजम् । निर्माल्यं सकलं तस्मै समाहृत्य निवेदयेत् ॥ ७३ ॥ १. 'दानेन' क. प. पाठः.
विष्णुसंहितायो तस्य वि वां नमः वं वीं स्वाहेति च यथाक्रमम् । क्से बूं वयट तथा विष्वं वै हुमित्यपि कल्पयेत् ॥ ४॥ क्सेन वः फडिनीमानि पञ्चाङ्गानि तदर्चने । प्रणीतास्थं जलं सिक्त्वा प्रस्तरोपरि तेन तु ॥ ७५ ॥ आत्मानं मह शिष्यस्तु प्रोक्ष्याग्नि च विसर्जयेत् । विष्वक्सेनं विराज्यास्मै निर्माल्यं सकलं ततः॥ ७६ ॥ पूर्वदत्तं जलेगाधे धृतमन्यैर्निधापयेत् । वैष्णवान पूजयेच्छक्त्या ब्राह्मणांस्तु विशेषतः ॥ ७० ॥ अनिवारितमन्नाद्यं सार्वजन्य च कारयेत् । एवमाचार्यता प्राप्तो दीक्षितो धर्मवत्सलः ॥ ७८ ॥ वणोश्रमरता भक्ता विनांतः समयान्वितः। एककालं द्विकालं वा त्रिकालं वार्चयेद्धरिम् ॥ ७९ ॥ शिष्यानथानुग्रहीयाद् दीक्षापूजाभिपेचनैः । स्थापनादिक्रियायां च तथाचार्यत्वमर्हति ॥ ८ ॥ दीक्षान्ते चाभिषकान्ते शक्त्या सम्पूज्य वैष्णवान् । प्रभातेऽवभृथं गच्छेद् यत्र तीर्थ परं भवेत् ॥ ८१ ॥ तत्र स्नात्वार्चयित्वा च ब्राह्मणैः स्वस्ति वाचयेत्॥८१॥ इति विष्णुसंहितायामभिषेको नामैकादशः पटलः ॥ १ २ अथ द्वादशः पटलः । अथ वक्ष्यामि संक्षेपाद् यागभूमेस्तु लक्षणम् । यत्रेष्ठा विधिवैद् देवं लभ्यन्ते सर्वसिद्धयः ॥ १ ॥ १. 'समर्चयेत्', २. 'कपटल एकादशः ।।' ख. ग. पाठः. ३. 'ना दे' ख. ग. घ. पाठ:.
द्वादशः पटलः । ७९ विधोत्तमाधमा मध्या चतुर्धा जातिभेदतः। सुपद्मा भद्रिका पूर्णा धूम्रत्यपि तथैव भूः ॥ २ ॥ बहुपांसुरशुष्काम्बुः क्षिप्रं त्रीह्यादिरोहणा । प्रदक्षिणजला श्रेष्ठा समा शीतोष्णकालयोः ॥ ३ ॥ नदी- पूर्ववहा यत्र क्षीरपुष्पफलद्रुमाः । रमन्ते यत्र गोमाः समा स्निग्धा च सोत्तमा ॥ ४ ॥ शङ्खाभ्रादिस्वरा चेष्टा सवर्णा सर्ववर्णिनाम् । अलाभे कृत्रिमैवं स्यादधमा स्यादतोऽन्यथा ॥ ५ ॥ सर्वप्लवा च मध्योक्ता लक्षणेश्च शुभाशुभैः । चतुरश्राष्टषड्भागपादाधिकसमायता ॥ ६ ॥ विप्रादीनां स्मृता भूमिः सर्वेषां वोत्तमस्य या ! सिता रक्ता च पीता च कृष्णा विधादिभूस्तथा ॥ ७ ॥ मधुरा च कषाया च तिक्त! च कटुका क्रेमात् घृतासृक्चरुविड्गन्धा बहुवर्णा तु जिता ॥ ८ ॥ धान्यपूर्णामकुम्भस्थवर्धमानाज्यवत्तिभिः । सितादिभिर्निशि ज्ञया प्रचाल्यावृत्य दर्शनात ॥ १ ॥ खाते राज्युषितः पुष्पैस्तथा ज्ञेया मितादिभिः । वल्मीकशर्करारन्ध्रतुषाङ्गारास्थिभस्मभिः ॥ १० ॥ केशकर्दमकोटेश्च संयुक्तां वर्जयन्महीम् । धूम्रतारौक्ष्यदौर्गन्ध्यकाठिन्यैश्वाशुभा मही ॥११॥ अदिक्स्था जलहीना च कुटिला द्विगुणायता। वृत्ता पञ्चत्रिषट्कोणा चार्धचन्द्रा च शूमिका ॥ १२॥ १. 'श खामा', २. 'तथा । घृ', ३. 'येत् क्षितिम्' ख. ग. पाठः, २० विष्णुसहितायां पीलुशेल्वक्षवेण्वर्कस्नुपिशाचकटुद्रुमैः। श्येनगृध्रःगोमायुसूकरध्वारक्षवानरैः ॥ १३ ॥ रक्षोयमाग्निवाताप्यनिम्नत्वेन च निन्दिता । मध्यनिम्ना सगर्भा च प्रतिलोमा च नेष्यते ॥ १४ ॥ कुशैः शरैश्च दूर्वाभिः काशैश्च ब्राह्मणादिभूः । पुष्पैर्दीपैश्च विज्ञेया नत्वा विज्ञाप्य तं प्रभुम् ॥१५॥ निमित्तं ब्रूहि मे देव कल्पप्रोक्तं द्विजादिकम् । वर्णार्थ तु प्रयुक्त तु ततो वर्तिचतुष्टये ॥ १६ ॥ मुहूर्ते गमिते यस्य दीपो ज्वलति तस्य भूः । वास्तु संकीर्णमिष्टं च सर्वेषां सर्वभासनात् ॥ १७ ॥ न्यग्रोधोदुम्बराश्वत्थप्लक्षाः पूर्वादयः शुभाः । एते व्यस्ताः समस्ता वा शस्ता वामास्त्वकामदाः॥१८॥ नादेयं तु जलं श्रेष्ठं दिक्षु सर्वास्ववस्थितम् । कूपमैन्द्रशसौम्येषु न चैकसलिलं शुभम् ॥ १९ ॥ जलादिवृक्षगुल्माश्च पूर्वादिषु शुभाः स्थिताः । शिग्रुनिम्बादयश्छेद्यास्तत्र हस्तशतान्तरे ॥ २० ॥ बहिःस्थिता न दोषाय मध्ये कार्यास्तु वा शुभाः। द्विगुणं गृहवृक्षोच्चं त्यक्त्वा दोषाय न स्थिताः ॥ २१ ॥ गृहोच्चद्विगुणाद् बाह्ये फलपुष्पगुमास्तथा । बकुलाशोकपुन्नागनागचन्दनचम्पकाः ॥ २२ ॥ बिल्वाम्रपनसाद्याश्च पलाशाद्याश्च शोभनाः । अन्तस्सारं बहिस्सारं निस्सारं सर्वसारकम् ॥ २३ ॥ १. 'मिन्द्रेश' ख. ग. पाठः.
द्वादशः पटलः । तु ८१ चतुर्धा स्थावरं तेषामसारं न गृहाग्रतः। कदल्यादि बहिर्धार्य गृहपृष्ठान्तपक्षतः ॥ २४ ॥ सर्वसारं तु सर्वत्र चिञ्चादि परिकीर्तितम् । अन्तस्सारं तथा विद्याद् बहिस्सारमसारवत् ॥ २५॥ अपि सौवर्णकं वृक्षमुपगेहं न धारयेत् । गुल्मवल्ल्योषधीनां नैकान्तो विधिरीदृशः ॥ २६ ॥ चन्दनागरुकर्पूरकदम्बतिलकार्जुनैः । क्रमुकैर्नालिकेरैश्च कुशैर्दर्भः समावृता ॥ २७ ॥ पद्मोत्पलवनाकीर्णा तोयाबैन्द्रोत्तरप्लवा । केतकीक्षुसमाकीर्णा सुपद्मा शान्तिदा मही ॥ २८ ॥ नदीसागरपर्यन्ततीर्थायतनमाश्रिता । क्षीरवृक्षसमाकीर्णा फलवृक्षसमाकुला ॥ २९ ॥ उद्यानोपवनोपेता फुल्लगुल्मलताकुला | पश्चिमे याज्ञिकैर्वृक्षैत्रीहिक्षेत्रेण दक्षिणे ॥ ३० ॥ भद्रिका भूमिराख्याता सुखदा तत्र यज्वनाम् । किंशुकाशोकवकुलैरङ्कोलैश्चैव निम्बकैः ॥ ३१ ॥ खदिरै रोहितः प्ल:र्माधवीचम्पकासनैः । कुलस्थतिलनिष्पावकोद्रवैश्च समाकुला ॥ ३२ ॥ गिरिपार्धाश्रिता चैव गिरेः शिखरमाश्रिता । अप्रभूतोदका भूमिः सौ पूर्णेति च पुष्टिदा ॥ ३३ ॥ पीलुवेणुवनाकीर्णा स्नुहिश्लेप्मातकान्विता । विभीतकार्कसङ्कीर्णा कठिना शर्करान्विता ॥ ३४ ॥ १. 'रास्तेषां' ख. ग. पाठः. २. 'नं तु द' ग., 'त्रं च द' ख. पाठः. ३. 'सा हि पूर्णेति पु' ख. ग. पाठः, . ८५ विष्णुसंहितायां श्येनगृध्रक्षगोमायुसूकरध्वाङ्क्षसकुला । सोषरा गर्भयुक्ता च क्षयदा धूनिका भवेत् ॥ ३५ ॥ एवं परीक्ष्य यत्नेन गन्धवर्णरसादिभिः । गुल्मादि परिशोध्यात्र कर्षयेल्लाङ्गलैः शुभैः ॥ ३६ ॥ पञ्चधा दशधा वापि सर्वधान्यानि वापयेत् । कर्षयित्वाथ भूयोऽपि कुर्यात् पुष्पफलान्विताम् ॥ ३७ ॥ अत्यन्तोपहता या तु तस्याः शुद्धिरथोच्यते । शतशः कर्षयित्वा तु गोकुलं तत्र वासयेत् ॥ ३८ ॥ ततो वर्षोषिते कृष्ट्वा तिलादीन्यत्र वापयेत् । यदा सस्येषु पुष्पाणि फलानि च भवन्ति हि ॥ ३९ ॥ तदा कृष्टा पुनर्भूमिः शुद्धिमृच्छत्यसंशयम् । भूतक्रूरबलिं तत्र पूर्व दत्त्वा विचक्षणः ॥ ४० ॥ यावत् प्राकारपर्यन्तं तावत् कुर्यात् परिग्रहम् । भूतानि राक्षसा वापि यत्र तिष्ठन्ति केचन ॥ ४१ ॥ ते सर्वे ह्यपगच्छन्तु स्थानं कुर्यामहं हरेः । इत्यनुज्ञाप्य भूतादीस्ततस्तं विधिमाचरेत् ॥ ४२ ॥ इन्द्रादीशावसानं तु शङ्कुहिगुणवेष्टनात् । निमित्तैः शोभनैर्मन्त्री कुर्यात् सूत्रप्रसारणम् ॥ ४३ ॥ पुन्नामैकतरूद्भूता निघृणाः शङ्कयो दृढाः । प्राङ्मुखेनाष्टधा ताड्याः पूजिता लोहमुद्रैः ॥ ४४ ॥ खात्वा पुरुषमात्रं तु जलाश्मान्तमथापि वा। ततो न्यस्य घटं मध्ये विधिनापूर्णमर्चितम् ॥ ४५ ॥ १. 'व्य' ख., 'प्य' ग. घ. पाठः, २. 'नान्तं श' ख. ग. पाठः. -- द्वादशः पटलः । सं सरत्नं धान्यराशिस्थं मुहत्ते मङ्गलान्विते । सुमृद्धिः खातमापूर्य हस्तपूरं ततोऽश्मभिः ॥ १६ ॥ पादोनं प्लावयित्वाहिः पालाशाश्वत्थमुद्गरैः । आकोट्य घर्षयित्वा च सुदृढं कारयेत् तलम् ॥ ४७ ॥ द्वारदेशेऽर्चयेद् देवं स्थण्डिलेऽग्निं च तर्पयेत् । चतुरश्रं समं कृत्वा तत्र वास्तुं च पूजयेत् ॥ १८ ॥ सूत्रपातं पुनः कुर्यादेकाशीतिपदं यथा । सुसमः सुखदो वास्तुर्विषमो न सुखावहः ॥ ४९ ॥ दध्यक्षताज्यपुष्पाम्बुहेमरत्नैः प्रदक्षिणम् । मङ्गलार्थं लिखेत् पूर्व नाङ्गुल्यायैः कदाचन ॥ ५० ॥ ईशमूर्ध्नि निर्ऋत्यमौ तत्रोत्तानशये स्थितान् । कुशपुष्पाक्षतान्नाद्भिर्गन्धपुष्पैः प्रपूजयेत् ॥ ५१ ॥ ब्रह्मा नवसु मध्ये स्याद् दिक्षु षट्के द्विकेऽन्यतः । द्वात्रिंशद् बहिरीशादिक्रमादास्तु देवताः ॥ ५२ ॥ ब्रह्मा मध्यपदे पूज्यः तत्प्राच्यामार्यकस्ततः । सावित्रः सविता चाग्नौ ततो द्विपदगौ स्मृतौ ॥ ५३ ॥ विवस्वान् दक्षिणे षट्के जयन्तेन्द्रौ हिकहये । षट्के तु पश्चिमे मित्रो वायव्यद्विकयोः पुनः ॥ ५४ ॥ राजयक्ष्मा च रुद्रश्च षटके क्षितिभृदुत्तरे । आपैवत्सस्तथापश्च डिकयोस्तहहिः शिवः ॥५५ ॥ १. 'कल्पये', २. 'कृत्वा एका' ख. ग. पाठः. ३. 'तः ।' ख. पाठः. १. 'ना' क. पाठः. ५. 'पस्तथापवत्सश्च ख. पाठः, १ विष्णुसंहितायां पर्जन्यश्च जयन्तन्द्रसूर्यसत्यभृशाम्बराः । प्राच्यामग्न्यादिकान् वक्ष्ये पूषा च वितथस्तथा ॥५६ ॥ गृहक्षता धर्मराजा गन्धर्वो भृङ्गराजकः । मृगश्च नैर्ऋते कोणे पूजयेच्च पितृस्ततः ॥ ५७ ॥ दौवारिक च सुग्रवि पुष्पदन्तं जलाधिपम् । असुरं चैव शोषं च पापयक्ष्माणमेव च ॥ ५८ ॥ वायुं नागं तथा मुख्यं भल्लाटं सोममेव च । अदिति दितिं कुबेरं च बहिरीशादिषु क्रमात् ॥ ५९ ।। चरकी च विदारी च पूतनां पापराक्षसीम् । शर्वस्कन्दं चार्यमाणं जम्भकं पिलिपिञ्जकम् ॥ ६० ॥ दिक्षु तेषां बलिं दत्त्वा मध्यादारभ्य सर्वतः । भूतेभ्योऽपि बलिं दद्यादष्टदिक्षु यथाक्रमम् ॥ ६१ ॥ पूजिता वास्तुदेहस्थास्त्रिपञ्चाशत् तु देवताः । सिद्धये स्युरनाय गृहभाजामपूजिताः ॥ ६२ ॥ सङ्कल्पितोपवासस्तु सुस्नातः सुसहायवान् । सुलिप्तायां समासीनः क्षितौ रात्रावुदङ्मुखः ॥ ६३ ॥ जपेत् खानप्रदं मन्त्रं यावन्निद्रावसंगतः। ततः पश्यत्यसौ स्वप्नं तद्भमिफलसूचकम् ॥ ६४ ॥ सुस्वप्नेऽत्र गृहं कुर्यात् सुगृहक्षदिनोदये। सुमृदा स्थण्डिलं कृत्वा चतुर्हस्तं सुशोभनम् ॥६५॥ १. 'पितृतस्त' क. पाठः. २. 'रोगं ना' ख. ग. पाठः. ३. 'न्दो- ऽयमावश्च ज', ४. 'अ' क. पाठः, ५. 'ब' ख. ग. पाठ:. ६. 'न' क. घ. पाठः.
द्वादशः पटलः । २ :१५ प्रलिप्य पद्ममध्यस्थमुदकुम्भं निवेशयेत् । सर्वोषधियुतं भद्रं रत्नगर्भ सपल्लवम् ॥ ६६ ॥ सितचन्दनदिग्धाङ्गं पद्ममालाविभूषितम् । सितवस्त्रयुगच्छन्नमव्यग्रं स्वस्तिकान्वितम् ॥ ६७ ॥ तन्मुखे प्रणवेनादौ ध्यात्वा कमलमुज्ज्वलम् । साङ्गुलीयकरो मन्त्री ग्रहांस्तत्र प्रकल्पयेत् ।। ६८ ॥ बद्धपद्मासनान् हृष्टान् पूजयेच्च स्वनामभिः । सूर्य रक्तं सितं सोमं रक्तमङ्गारकं पुनः ॥ ६९ ॥ बुधं चामीकरप्रख्यं कृष्णवर्ण शनैश्चरम् । पीतं बृहस्पति शुक्र शुक्लमेव तु कल्पयेत् ॥ ७० ॥ राहुं चासितपीताभं कृष्णं केतुं यथाक्रमम् । स्ववर्णलक्षितैः पुष्पैः सर्वेऽास्तु विधानतः ॥ ७१ ॥ कुर्याद्दोमं बलिं चान्ते गीतवादित्रसंयुतम् । स्तुतिं कृत्वा ग्रहाणां तु पवित्रं स्तोत्रमीरयेत् ॥ ७२ ॥ शुभाशुभमहार्थानि निमित्तानि ग्रहाधिप!। दिव्यान्तरिक्षभौमानि पृच्छतो मे प्रकाशय ॥ ७३ । इत्युक्त्वोद्धृत्य तं कुम्भं शाकुनं सूक्तमुच्चरन् । परितो भ्रामयेद् यत्नाज्जयशब्दादिसंयुतम् ॥ ७४ ॥ अनिष्टदर्शनेऽप्येवं भूमौ स्थापितपूजितम् । उद्धृत्य भ्रामयेद् भूयस्तदा खे दृश्यतेऽद्भुतम् ।। ७५ ।। सिद्धानां दर्शनं शब्दः सातपा वृष्टिरेव वा । रत्नपुष्पफलान्नानां धान्यमध्वाज्यवाससाम् ॥ ७६ ॥ १. 'पुष्पमा', २. 'हं' ख. ग. घ. पाठः. ३. 'रक्तकृष्णं श'' ख. ग. पाठः. १. 'येदेवं तदा' ख. ग. पाटः. ४ . 4. विष्णुसंहितायां दधिपाठीनभेकाना सूत्रस्य पिशितस्य च । कूर्मस्य वा महीपृष्ठे प्रपातो नभसः शुभः ॥ ७७ ॥ नृपब्राह्मणकन्यानां पूर्णकुम्भस्य दर्शनम् । हस्त्यश्चशिखिहंसाभ्रशङ्खवेणुसमाः स्वराः ॥ ७८ ॥ इत्येवमादयो ज्ञेयाः कर्मकाले विचक्षणैः। स्पृष्टे घाते श्रुते दृष्टेऽप्यनिष्टे वर्जयेत् क्षितिम् ॥ ७९ ॥ दिनमन्यत् समासाद्य प्रागुक्तविधिवर्त्मना । सुनिमित्तं च विज्ञाय कर्ता वै कर्म कारयेत् ॥८॥ तथेष्टानि क्षमेत्युक्त्वा ब्राह्मणैः स्वस्ति वाय॑ च । बालिं दत्त्वा खनेत् प्राग्वत् तां धरां पूरयेत् पुनः । गृहमध्ये तु मेधावी शुभां पूर्वप्रकल्पिताम् । न्यसेत् कूर्मशिलां चैव यस्यां कूर्मों निवेश्यते ॥ ८२ ॥ राजतं विन्यसेत् कूर्म सौवर्ण तहदेव तु । पूर्ववत् कल्पयेत् पद्मं साष्टवर्गी च मातृकाम् ॥ ८३ ॥ आधारशक्तिमत्रेष्ट्वा नत्वा विज्ञापयेत् ततः। त्वमेव परमा शक्तिस्त्वमेवासनधारिका ॥ ८४ ॥ सन्तृप्तया त्वया देवि! स्थातव्यमिह सर्वदा। कूर्मराजमकूपारं तथा विश्वस्य धारकम् ॥ ८५ ॥ ध्यात्वा पूर्वोक्तपद्मस्थं स्वनाम्नैव तु पूजयेत् । नमस्ते कूर्मरूपाय विष्णवे विश्वधारिणे ॥ ८६ ॥ १. 'नाः' ख. ग. पाठः. २. 'तत्र वै' क. पाठः. ३. 'चयेत् ख.ग.प.क.पाठः.
त्रयोदशः पटलः । करिष्यमाणं प्रासादमिह त्वं धर्तुमर्हसि । इति विज्ञाप्य तं भक्त्या गणेशं चात्र पूजयेत् ॥ ८७ ।। कूर्मस्य दक्षिणे पार्थे पद्मं कृत्वा तु पूर्ववत् । नामयुक्तेन बीजेन गन्धपुष्पादिभिः क्रमात् ॥ ८८ ॥ कुर्याद् बीजस्य पञ्चाङ्गं त्रिदीर्घ द्वादशान्तगैः निवेध लड्डुकापूपपृथुकादि विशेषतः॥ ८९ ॥ ध्यायेद् गजाननं रक्तं बृहत्कुक्षि चतुर्भुजम् । पाशाङ्कुशधरं भक्ष्यं दधानं दन्तमेव च ॥ ९ ॥ एवं सम्पूज्यते नित्यं गणेशो यत्र भक्तितः। विनास्तत्र न जायन्ते वर्धन्ते चात्र सम्पदः ॥ ९१ ॥ मण्डले स्थण्डिले चैनं यागे यागे च पूजयेत् । गणेशं विधिना योऽसौ सम्यक् सिद्धिमवाप्नुयात् ।। सुसमं स्थण्डिलं कृत्वा शङ्ख चात्र यथाविधि । छायायोगेन विज्ञाय दिग्विभागमसंशयम् ॥ ९३ ॥ दिचिह्नान्यश्मसूल्लिख्य जगतीक्षेत्रबाह्यतः । रक्ष्याण्यागृहसिद्धेस्तु प्रासादं कारयेत् ततः॥ १४ ॥ इति विष्णुसंहितायां वास्तुपटलो द्वादशः ॥ . अथ त्रयोदशः पटलः। अथ वक्ष्यामि संक्षेपात् प्रासादविधिमुत्तमम् । यत्तियाव्यवसायोऽपि सद्यः सर्वाधनाशनः॥१॥ १. 'न्या' ख. ग. पाठः. २. 'यां भूपट' घ. द. पाठः.
८ विष्णुसंहितायां अष्टेष्टकानिधानेऽपि फलं वक्तुं न शक्यते । अनुमेयं हि तैनैव फलं प्रासादविस्तरे ॥ २ ॥ सर्वयज्ञतपोदानतीर्थवेदेषु यत् फलम् । तत् सर्व कोटिगुणितं यजमानस्य जायते ॥ ३ ॥ द्रव्यसंस्थानभेदाच्च फलं भूयोऽस्य वर्धते । हितं नातःपरं तस्माच्छक्तैः कार्य तु सर्वथा ॥ ४॥ वृषाभ्यां कपिलाभ्यां तु समाभ्यां प्राङ्मुखो गुरुः । कृष्ट्वासनमयैरेव यष्टीयुगहलैर्भुवम् ॥ ५ ॥ द्वादशाक्षरमन्त्रेण नववस्त्राद्यलंकृतः। शम्यासमीकृते गोभिः सस्यमुत्पाद्य खादयेत् ॥६॥ पुनः कृष्टेष्टकाघानं कुर्याद् द्वारे तु कल्पिते । द्वारस्य दक्षिणे भागे कर्तव्या प्रथमेष्टका ॥७॥ उल्लेखाद्याज्यभागान्तं कृत्वोदस्थण्डिले क्रमात् । पक्कं च विष्णुगायच्या हुत्वाथाज्याहुतीः क्रमात् ॥ ८॥ व्यस्तैरष्टाक्षरैरैष्टौ व्याहतीन्द्रादिभिस्ततः । अग्नये चैव सोमाय आहेभ्योऽपि यथाक्रमम् ॥ १ ॥ नक्षत्रेभ्यश्च भूतेभ्यो नागेभ्य इति चैव हि। देवताभ्यश्च सर्वाभ्यो विश्वेभ्यश्चेति देशिकः ॥ १० ॥ विष्णवे चेति हुत्वान्ते व्याहृतीर्जुहुयात् ततः। समिदाज्यचरून् हुत्वा गायत्र्याष्टोत्तरं शतम्॥११॥ ततः स्विष्टकृतं हुत्वा होमशेषं समाप्य च । इष्टकासु च मूलेन सम्पाताज्यं समर्पयेत् ॥ १२॥ १. नवैः ।' ख. ग. पाठः. २. 'स्थाने तु' ख. ग. घ. रु. पाठः. १. 'भ्योऽथ भू' ख. ग. घ. पाठः.
प्रयोदशः पटलः । अश्वत्थशङ्कुना रेखाः पूर्वाग्राश्चोत्तरायकाः। तारेणाष्टौ समालिख्य प्राङ्मुखः सुसमाहितः ॥ १३ ॥ चतुरश्रे चतुष्कोष्ठे न्यस्याग्न्यनिलकोष्ठयोः । पूर्वाग्रसूत्रे सौम्याग्रे तथैव निर्ऋतीशयोः ॥ १४ ॥ स्थित्वा कृताञ्जलिः पश्चाद् ध्यात्वा देवमधोक्षजम् । मूलमष्टशतं जप्त्वा द्वादशाक्षरमेव च ॥ १५ ॥ ततः स्वाक्षरसङ्ख्यातो जपेदष्टाक्षरं बुधः। प्रभुं तं प्रणतो ध्यात्वा कोष्ठेष्वष्टभिरक्षरैः ॥ १६ ॥ अग्न्यादीन्द्रन्तिमष्टौ ता इष्टका विन्यसेत् क्रमात् । उपानड्वत् प्रयुञ्जीत वर्जयेन्निम्नमुन्नतम् ॥ १७ ॥ इष्टकास्तु निधायैवं श्वभ्रं सम्पूर्य वारिभिः । सम्पातरत्नगन्धाढ्यैविमलैस्तु सुगन्धिभिः ॥ १८ ॥ कलशे पूरितैः पूर्वमचितैर्मन्त्रसंस्कृतैः । शुक्लपुष्पाक्षतान् न्यस्य तारेणावर्तमीक्षयेत् ॥ १९ ॥ शुभाशुभाविहावर्ती ज्ञातव्यौ दक्षिणोत्तरौ । शाल्यादिक्षेत्रमृत्साभिगर्त प्रच्छादयेत् ततः ॥ २० ॥ विसृज्य शिल्पिनोऽत्रापि कल्पयेत् स्वप्नदर्शनम् । शुभे लाभोऽशुभे मोक्षः शान्तिः कार्या त्वदर्शने ॥ २१ ॥ गर्भाधानं ततः कुर्यान्नागर्भे धाम्नि सम्पदः। मृत्तिका दश सभाह्या मूलानि जलजानि च ॥ २२ ॥ धातवो रत्नबीजानि लोहादि च यदिण्यते । अष्टाङ्गुलं तदर्बोच्चं पादहीनोत्तरच्छदम् ॥ २३ ॥ १. 'शा' ख. ग... पाठः. N विष्णुसंहितायां सान्द्रं ताम्रमयं श्लक्ष्णं गर्भपात्रं च शोभनम् । मुगुप्तं तद्यथा भित्तौ भित्तिमानेन वा भवेत ॥ २४ ॥ पादुकापार विप्रस्य भुवि गज्ञाऽन्ययोरधः । द्वारस्य दक्षिणे भागे तृतीयांश हिशेषिते ॥२५॥ गोमूत्रेणाप्लते न्याम्येद् हारमूलस्य पार्श्वतः । क्षालिते पञ्चगव्येन पात्रे स्मिन् परिशोधिते ॥ २६ ॥ धारणाभियथान्यायं ध्यात्वा पाठेऽक्षराम्बुजम् । भूमण्डलमनन्तस्थं मशैलाम्भोधिदिग्गजम् ॥ २७ ॥ प्रादक्षिण्येन कृत्वान्तः पूर्व मागरमृवृतिम् । दिग्विदिक्षु च मध्ये च गायच्या विन्यसेन्मृदः ॥ २८ ॥ गिरितीर्थनदीभ्यश्च हृदात कर्कटकालयात । वल्मीकखलदन्त्युक्षङ्गभ्यश्चाहताः क्रमात् ॥ २९ ॥ पङ्कजोत्पलयोर्मले कुमुदस्य च देशिकः । दिक्षु लोहितकस्यापि चत्वार्येवं क्रमान्न्यसेत् ॥ ३० ॥ मनशिला हरीतालमञ्जनं श्यामसीसके । सौराष्ट्रीं रोचनां चैव गैरिकं पारतं तथा ॥ ३१ ॥ वज्रमौक्तिकवेडूर्यशङ्खरफटिकपुप्यकान् । चन्द्रकान्तं महानीलं पद्मरागं तथा पुनः ॥ ३२ ॥ शालिनीवारको चैव ककुमापकुलस्थकान् । निष्पावतिलमुद्गांश्च पाकपूर्णान् ससर्पपान् ॥ ३३ ॥ दिक्षु काञ्चनरूप्यायस्त्रपूण्यथ हिरण्मयम् । सुवर्ण कूर्मरूपं च शङ्ख चक्र च कोणतः ॥ ३४ ॥ 'स्वरकक' घ. पाठः २. 'ल' ख, ग, घ... पाठः प्रयोदशः पटलः । धनुर्गदाम्बुजं मध्ये प्रत्येकं च हिरण्मयम् । एतत् सर्व समानीय न्यस्तव्यं गर्भभाजने ॥ ३५ ॥ कृत्वैवं पञ्चगव्येन प्रोक्ष्य द्वादशविद्यया । अनेर्दक्षिणतः कृत्वा जुहुयात् पूर्ववत् क्रमात् ॥ ३६ ॥ घृतं द्वादशभिर्वदिक्पैनारायणन च । तारादिना हुतान्तन वक्ष्यमाणैश्च नामभिः ।। ३७ ।। बीजानि सर्वधातृनि सर्वलोकाश्च पर्वताः । समुद्राः सर्वतीर्थानि नद्यश्नाथ दास्तथा ॥ ३८ ॥ पातालाश्चाथ नागाश्च दिग्गजा वृषभास्तथा । व्याहृत्यन्तं ततो हुत्वा सम्पातविधिनैव तु ॥ ३९ ॥ आज्यं समर्प्य तत् पात्रं विधाया करस्थितम् । जप्त्वा मन्त्रं भुवै ध्यात्वा प्राइसुखा निशि देशिकः ॥४॥ सुमुहूत्तें द्विजानुज्ञा प्राप्ता तत्वादिनिस्वनैः । शक्तिं ध्यात्वायित्वास्यों गर्भभूतमिदं स्मरन् ॥ ४१ ॥ ब्रह्माण्डं पार्थिवं शुभ्रं गृहभृत्तिप्रसुतये । ध्यात्वास्मिन् पूर्ववचोर्वी शनैर्मन्त्रमुदीरयेत् ॥ ४५ ॥ सर्वभूतधरे! कान्त ! पर्वतस्तनमण्डित । समुद्रपरिधाने ! त्वं देवि ! गर्भ समाश्रय ।। ४२ ।। एवं न्यस्ते तु गर्भेऽस्मिन् सर्वत्र च सुखं भवेत् । हिरण्यं दक्षिणां देवा प्रासादं कारयत ततः ॥ ४५ ॥ हास्र्थापनादधः प्राग्वदिष्ट्वा वास्तुं यथाक्रमम् ॥ कृत्वा होमं च संस्पृश्य शक्त्या रत्नादि विन्यसेत् ॥४५॥ १. 'श्च', २, 'स्या' क. पाया, ३. 'वयात प्रा' न. ग. पाठः, १. स्था' ख. ग. घ.., पाठ::
९५ विष्णुसहितायां द्वारमाच्छाद्य वस्त्राभ्यां गव्यादिक्षालितं शुभम् । गन्धादिभिः समभ्यर्च्य शान्तिहोमादिसंयुतम् ॥ ४६ ॥ मुहूर्ते स्थापयेद् विद्वान् मध्यान्मध्यं विमुच्य तु । आत्मतत्त्वमधो न्यस्य विद्यातत्त्वं च शाखयोः॥४७॥ परतत्त्वं च मध्ये तेत् सुशिरस्संव्यवस्थितम् । स्थापयेत् प्रणवेनाथ पूजयच्च पुनः क्रमात् ॥ ४८ ॥ स्थिराप्रमेयव्यापित्वबोधनित्याविनाशिताः । तृप्तिश्च सप्त होतव्याः क्रमादाहुतिसप्तकैः ॥ ४९ ॥ प्रतीहारादयो देवा ये तस्मिन् संव्यवस्थिताः । नामभिस्तेऽत्र होतव्यास्ततो देयश्च तहलिः ॥ ५० ॥ भित्तिस्तम्भादिविन्यासे सिरामर्मादिपीडनम् । सर्वथा परिहर्तव्यं वास्तुकोपोऽन्यथा भवेत् ॥ ५१ ॥ किञ्चिदुत्तरतो नीत्वा पूर्वतो वा सिरादिवित् । स्तम्भादीन् विन्यसेदेवं वेधदोषो न जायते ॥ ५२ ॥ प्रारद्वारमृषभस्थं स्याद् ध्वजस्थं पश्चिमामुखम् । अन्यथा सर्वनाशः स्यादायदोषान्न संशयः ॥ ५३ ॥ प्राग्रारं ग्राममध्ये स्यात् पश्चिमे चोत्तरे तथा । दक्षिणन्द्रामिषु प्रायः पश्चिमद्वारमिष्यते ॥५४॥ . त्रिंशदन्तं त्रिहस्तादि सप्तान्तैकादिभूमिकम् । वृत्तं वा चतुरनं वा दर्शनीयं तु कारयेत् ॥ ५५ ॥ भूवृद्धया वायुवतीन्द्रवरुणार्केन्दुविष्णवः । गृहाणां देवता ज्ञेया भूमानां मूर्तयोऽपराः ॥ ५६ ॥ १. 'तु मु', 'तिः मु' ख. पाठः, २. 'नैव पू ख. ग. पाठः. ३. 'तयः स' ख, पाठः, १. में क. पाठः, त्रयोदशः पटलः । '९३ शयानासीनतिष्ठन्तो गच्छन् पूर्वे च योगिनः । भूमीनां देवता ज्ञेया दिक्कोणस्थास्ततोऽपराः ॥ ५७ ॥ वराहो नारसिंहश्व श्रीधरच हयाननः । जामदग्न्यश्व रामश्च वामनः कृष्ण एव च ॥ ५८ ॥ तत ऊर्ध्वं चतुर्दिक्षु वैनतेयं प्रकल्पयेत् । मध्ये ब्रह्मा शिवोऽन्ते स्यात् कलशे तु स्वयं हरिः ॥५५ ।। कलशान्ते महाविष्णुः सदाविष्णुस्तदग्रतः। ज्ञातव्या गृहगर्भार्चाः स्थूलसूक्ष्मपरात्मिकाः ॥ ६ ॥ अनन्तं पादुकं विद्यादात्मतत्त्वेश्वरं प्रभुम् । विद्यातत्त्वमधिष्ठानमित ऊर्ध्व परं तथा ॥ ११॥ . वेद्यामिन्द्रादयो दिक्स्था विष्वक्सेनः प्रणालके । पादुकाद्यघिजङ्घोरु पट्टिकान्तं प्रतिः कटिः ॥ ६२ ॥ मेखला रशना कुक्षिगर्भः स्तम्भाश्च बाह्वः । मध्यं नाभिश्व हृत् पीठमपानं जलनिर्गमः ॥६६॥ पादाधारस्त्वहंकारः पिण्डिका बुद्धिरुच्यते । तदन्ते प्रकृतिः पद्मं प्रतिमा पुरुषः स्मृतः ॥ ६४ ॥ घण्टा जिह्वा मनो दीपो दारु स्वायुः शिलास्थि च । त्वक् सुधा लेपनं मांसं रुधिरं तत्र यो रसः ॥६५॥ चक्षुः शिखरपार्श्वे तु ध्वजाग्रं च शिखा भवेत् । नलकुम्भो भवेत् पाणिरि प्रजननं स्मृतम् ॥ ६६ ॥ शुकनासैव नासोक्ता गवाक्षं श्रवणं विदुः। कपोतालि तथा स्कन्धं कण्ठं चामलसारकम् ॥ ६७ ॥ १, 'म' ख. ग. प. . पाठः. २. 'तं' म्व. ग. पाठः, विष्णुसंहिताया घटं शिरो घृतं मज्जा वाङ् मन्त्रः सेचनं पयः । नामशत्यादिवर्णान्नधूपेषु विषयाः स्थिताः ॥ ६८ ॥ रन्ध्र वातायने धाम्नि लेपे स्थैर्ये च खादयः । पर्वाणि सन्धयो ज्ञेया लोहबन्धास्तथा नखाः॥६९॥ केशरोमाणि चैवास्य विज्ञेया दुग्धकूर्चकाः। प्रासादपादमात्रोच्चः प्राकारः परितो भवेत् ॥ ७० ॥ गोपुरं पादहीनोचं तत्सम मण्डपं विदुः । पाठद्विगुणविस्तारो गरुडस्य च मण्डपः ॥ ७१ ॥ तावन्तो लोकपालानां विष्वक्सेनस्य चालयाः । पृष्ठेऽनन्तस्य चाग्नेय्यां हविश्शाला च तावती ॥ ७२ ।। मातृणामालयाः कार्या दक्षिणे चोचरे तथा । इन्द्राग्नीशगताः कार्याः सर्वे प्रत्यङ्मुखा गृहाः ॥ ७३ ।। रक्षोवरुणवायव्यगताश्च प्राङ्मुखास्तथा । दक्षिणोत्तरयोः कार्याः प्रासादाभिमुखा यथा ॥७४ ॥ तुषहीनैरनुत्तानैरष्टभिर्मध्यमैर्यवैः । उत्तम सप्तभिर्मध्यमधर्म षडभिरङ्गुलम् ॥ ७५ ॥ गायत्र्यक्षरसंख्योतेरङ्गुलैरेव साधितः । यो हस्तस्तेन मातव्यं सर्वे त्रिविधमिष्यते ॥ ७६ ॥ शिलाभिरिष्टकाभिर्वा काष्ठेवा मृद्भिरेव वा। कुर्यात प्रासादविस्तारं सदोषं तु विवर्जयेत् ॥ ७७ ॥ वृद्धां बालां च चण्डाली गर्भिणी दुष्टभूमिजाम् । शिला त्यक्त्वा शुभामन्यां गृहीयाद् वर्णयोगतः ॥७८॥ त्र स्व. ग, पाठः. २. धा' ख. ग. पाठः.
९५ प्रयोदशः पटलः। पुल्लिङ्गे प्रतिमा प्रोक्ता स्त्रीलिङ्गे पीठिका स्मृता । रत्नन्यासादधस्तात्तु नपुंसकशिलेष्यते ॥७९॥ कार्या गृहानुरूपार्चा गृहं वार्चानुरूपतः । न्यायोऽयं पीठिकादीनामपि ज्ञेयो विचक्षणैः ॥ ८ ॥ न जीर्णरुपैयुक्तैर्वा शिलायैष्णवं गृहम् । कारयेत् पीठिका वार्चामाभिचारोऽन्यथा भवेत् ॥ ८१ ॥ पुरातन्यो विवर्णाः स्युरपक्वाश्चात्र नेष्टकाः। गर्भवन्तः स्वयं शुष्काः पतिता वाग्निदूषिताः ॥ ८२ ॥ असारा दुष्टदेशस्था दृषिताथापि न द्रुमाः । कटुकण्टकिपैशाचक्षुद्रचैत्यादयस्तथा ॥ ८३ ।। शूलसूचिध्वजस्तम्भचक्रयष्टिकृतानि च । न युञ्ज्याच्छास्त्रविद् गेहे नोत्तमं योजयेदधः ।। ८४ ॥ घटीयन्त्रादिदारूणि न कपित्थाक्षजानि च । वाहयेन्मूलमग्रेण नोत्तमं सन्धयेन्नये ।। ८५ ।। नाधामुखं नियुञ्जात न तथा दक्षिणामुखम् । अनुयागे नवान्येव द्रव्याणि शुभदानि तु ॥ ८६ ॥ प्रासादेऽधःशिलादीनि शुभान्यन्यानि वेच्छया । यदा!त्पाटिता स्थाप्या तदा पूर्व पीठिका ॥ ८७ ॥ इति विष्णुसंहितायां त्रयोदशः पटलः ।। ४ १. 'पसंयुक्तैः शि' ख. ग. पाठ:. २. 'क्लाः' ख. पाठः. ३. 'ण' क. ख. ग. पाठः. ४. 'चो' ख. ग. पाठः, ५. 'यां प्रासाद.. विधिस्त्रयोदशः । घ. क. पाठ:.
विष्णुसंहितायां अथ चतुर्दशः पटलः । *अथ वक्ष्यामि संक्षेपात् प्रतिमालक्षणं परम् । योनिसंस्थानभेदं च साधकानां हिताय वै ॥ १ ॥ रत्नलोहशिलाधातुमृत्काष्ठालेख्यभेदतः। प्रतिमा सप्तधा ज्ञेया निर्दोषा रत्नलोहजा ॥२॥ बहुदोषा शिला सा तु पुण्यशैलोद्भवेष्यते । वारुण्यैन्द्री तथाग्नेयी वायवी भूश्चतुर्विधा ॥ ३ ॥ आद्ययोर्या शिला सैषा निर्दोषापि तु नान्ययोः ! निमग्ना भुवि या रम्या स्निग्धार्ककिरणोज्झिता ॥ ४॥ एकवर्णा सुवर्णा च सवर्णा चातिशोभना । श्वेताब्जाभा मृगे ग्राह्या सौम्या विप्रस्य सा शिला ॥ ऐन्द्री रक्ता कुलस्थाभा ज्येष्ठायां क्षत्रियस्य तु । फल्गुन्यां भगदेवत्या पीता वा हरिता विशः ॥ ६॥ कृष्णा मुद्गनिभाश्विन्यां शूद्रस्यैवाश्विदेवता। विशाला नातिबहला छिद्रवन्मधुरस्वरा ॥ ७ ॥ रम्भादलाकृतिः स्त्री स्याच्छीतला च मनोरमा । गम्भीरनिनदा गुवीं सुदृढा विस्फुलिङ्गिनी ॥ ८॥ अश्वत्थवटपत्राभा विशाला बहला पुमान् । नपुंसकं द्वयाकारों तद्धीना या सपर्पटा ॥ ९ ॥ निबिडावयवा स्निग्धा धीरशब्दा सुतिला । सुगन्धरसरूपाढ्या युवतिः सा सुशोभना || १० ॥ १. 'सेष्टा नि' ख. ग. ह. पाठः. २. 'र' ग. पाठः, ३. 'सुखरूप' रसायाया यु' ख., 'गन्धरूपरसादया या यु' क. पाठः, १. 'ती' ख. ५. 'तु' ख. ग., 'ति'. पाठः. मयं पटलः समनन्तरपटलानन्तरं प. पाठे पठ्यते । ४ ग..पाठ.
चतुर्दशः पटलः । बाला शस्त्रासहा मृही पिच्छिला पल्लवास्थिरा । चण्डाली शुल्किनी वा स्याद् यस्यां नरमते मनः॥११॥ सा हि मण्डूकखण्डा च वृद्धा रूक्षातिझर्झरा । बहुवर्णातिनीला च धूम्रा च स्थूलरोमिका ॥ १२ ॥ हीनस्वनां च निन्द्याङ्गी सोष्णा चण्डालिका स्मृता । वल्मीकवृक्षसंलग्ना वहिवातातपाहता ॥ १३ ॥ चितिचैत्यसमीपस्था बाह्यालीढान्त्यसेविता । ग्रहजुष्टा विवर्णा च चत्वरान्त लोषिता ॥ १४ ॥ कल्पितान्यत्र शिष्टा च संस्कृता येनकेनचित् । सगर्भमण्डलच्छिद्रसन्धिकीलकजालका ॥ १५ ॥ स्फोटावर्तसिराग्रन्थिभेदयुक्ता च वर्जिता । हीनरेखोत्तमा हीना हीना रेखोत्तमोत्तमा ॥ १६ ॥ शिलासवर्णा रेखाः स्युः सुवर्णाश्चातिशोभनाः । इन्द्रायुधपताकोर्मिकलशाभा मनोरमाँ ॥ १७ ॥ सदा वृद्धिकरी ज्ञेया गोब्राह्मणहितावहा । श्रीवत्सशङ्खचक्राब्जनन्द्यावर्तप्रदक्षिणा ॥ १८ ॥ तोरणच्छत्रवस्त्रोक्षकन्यास्रक्कुसुमोपमा । प्रासादस्वस्तिकाश्वेभवर्धनी शफरोपमा ॥ १९ ॥ रथेक्षणाङ्गुलीकूर्मचामराङ्कशकसरी । रत्नाभरणगोवृक्षपेत्रचन्द्रार्कतारकाः ॥ २० ॥ १. 'रा' ङ. पाठः. २. 'म' क. पाठः. ३. 'र्णरेग्वा तु मुवर्णा चातिशोभना।' क. ख. घ. पाठः. ४. 'मा: च. पाठः. ५. 'चक्रच' ख. ग. पाठः.
३ ९८ विष्णुसंहितायां पवित्रकुण्डिकादर्शमृगहंसादयः शुभाः। एकहिबहुविच्छेदे पुत्रेशगृहिणीक्षयः ॥ २१ ॥ वस्थूलकृशा रूक्षाश्छिन्नाग्राश्च न शोभनाः । सङ्कीर्णा बहुवर्णा च यस्यां नेष्टा च सा शिला ॥ २२ ॥ अ वृद्धिकृदि शत्रुघ्न, संवृतमशोभनम् । सन्ध्यक्षरेषु वृद्धिः स्यात् कादिमान्तेषु सम्पदः ॥ २३ ॥ पायोगवाहेपूच्चाटो रादौ भीपुष्टिशान्तयः । सिद्धिरूष्मसु मोक्षोऽन्त्ये तिर्यग्रेखास्त्वशोभनाः ॥ २४ ॥ सगर्भोडाट्यमाना या भिद्यते शिथिलध्वनिः । मण्डलादियुतोष्णा वा विवर्णा वापि तां त्यजेत् ॥ २५॥ शिलायां क्षालितायां तु यदि किञ्चिन्न लक्ष्यते । मध्यमा सा शिला ज्ञेया होना युक्ता शुभाशुभैः ॥ ध्वनिर्घण्टानिभो यत्र स्फुलिङ्गाश्छेदने सदा । दृश्यन्ते तच्छिरस्तस्याः पृष्ठमूर्ध्वमधोमुखम् ॥ २७ ॥ द्विजो वा शिल्पिना कन्या यद् ब्रूयादधिवासिता । तच्छिरः स्यात् ततो वक्रं कल्पयेदविकल्पितम् ॥ २८॥ प्राक्पश्चिमशिरा ग्राह्या प्राक्प्रत्यग्हारवेश्मनोः । अलाभे याम्यसौम्याग्रा कोणाग्रा तु न शस्यते ॥ २९ ॥ स्थण्डिले देवमिष्टोदौ ब्राह्मणैः स्वस्ति वाचयेत् । सुदिने प्राश्य दध्यन्नं रक्षामङ्गलपूर्वकम् ॥ ३० ॥ १. 'णां' ख. ग. पाठः. २. 'म' क. ख. ग. पाठः. ३. 'स- धिरू' क. घ. पाठः. ४. 'ते' ख. ग पाठः. ५, ५. 'ज' क. ख. ग, 'जा' उ. पाठः. ६. 'नः' च. पाठः. ७. 'ष्टया' क. पाठः. * अयोगवाही बिन्दुविसर्गों ४ चतुर्दशः पटलः १९ २ शस्त्राण्यस्त्रेण सम्पूज्य शोभनान्यभिधाय च । अयःकूटादि सङ्ग्रह्य प्राङ्मुखो वाप्युदङ्मुखः॥ ३१ ॥ मङ्गलानि च सन्दृश्य निमित्तानि परीक्ष्य च । प्रतिमार्थ तु निर्गच्छेदाचार्यः शिल्पिभिः सह ॥ ३२ ॥ वियोराज्ञी सदा ध्यायन्नग्रतोऽर्यकरः स्थितः । निमित्तैः शोभनैर्गच्छेत् कृत्वैवं पुनरन्यथा ॥ ३३ ॥ निर्गतस्तु शिलां पश्येत् तदाप्रभृति नित्यशः । प्रतिमां कारयेत् कर्ता तत्कर्मान्तं हविष्यभुक् ॥ ३४ ॥ सोमेशेन्द्रेषु न स्याचेत् तादृशी शोभना शिला । सिद्ध शिलाकरं गच्छेत् कृत्वा दिग्यजनं पुनः ॥ ३५ ॥ दिशो विरोच्य चास्त्रेण रक्षामङ्गलपूर्वकम् । तत्राधिवासनं कुर्यादाचार्यः प्रयतो निशि ॥ ३६ ॥ शिलाया मण्डपं कृत्वा परिश्रित्य समन्ततः। चतुर्दिक्षु पताकाभिश्चतुर्वर्णाभिरन्वितम् ॥ ३७ ॥ इष्ट्वा हरिं च दिग्देवान् भूतक्रूरबलिं हरेत् । देवाग्रे दर्भशय्यायामुपोष्य नियतेन्द्रियः॥ ३८ ॥ आचार्यः सुस्थितो विष्णुं ध्यात्वा मन्त्रमुदीरयेत् । नमः सकललोकाय विष्णवे प्रभविष्णवे ॥ ३९ ॥ विश्वाय विश्वरूपाय स्वप्नाधिपतये नमः । तेनाष्टशतजप्तेन ततः स्वप्नं स पश्यति ॥ ४० ॥ शोभनं स्याच्छुभे स्वप्ने कर्तव्या शान्तिरन्यथा । शोभनां तु शिलां ज्ञात्वा वर्ण लिङ्गं शिरस्तथा ॥ ४१ ॥ १. 'या' ख. ग. पाठः. २. 'लोक्य चा' क. ख. घ. क. पाठः.
ܕܘܐ
विष्णुसंहितायां
उहुध्यस्खेति मन्त्रेण लाञ्छयेत् तत्र तत्र तु ।
आचार्योऽस्त्रेण कृत्वैवं शिल्पिभिहियेत् ततः ॥ ४२ ॥
देवमिष्ट्वा बलिं दत्त्वा कृत्वाथ स्वस्तिवाचनम् ।
शिलां रथे समारोप्य प्रयत्नादानयेत् ततः॥ ४३ ॥
रथशिल्पिविकारादौ शतमस्त्रेण होमयेत् ।
ध्वजादिघोषैः पर्येत्य शालायामुत्तरे न्यसेत् ॥ ४४ ॥
संकल्प्य प्रतिमामेकां शिलायां वृक्ष एव वा ।
नान्यां तु प्रतिमां कुर्यात् कृता भवति निष्फला ॥ ४५ ॥
स्वयमुत्पादिता मुख्या क्रीता द्रव्यैस्तु मध्यमा ।
विदितावयवैः शुद्धा या हृदादिषु साधमा ॥ ४६ ॥
शिलायामिव संस्कारः कर्तव्यो दारुकर्मणि ।
दारुचन्दनशम्याकमधूकासनबिल्वकाः ॥ ४७ ॥
सरलः स्पन्दनः सालः स्तबकः स्तम्भकस्तिमिः।
वरणस्तिन्दुकाशोकपर्णीपनसशिशपाः ॥ ४८ ॥
अन्येऽपि याज्ञिका वृक्षाः सारवन्तश्च शोभनाः ।
ऋजुः स्निग्धः समोऽशाखः शुभदेशोद्भवो घनः ॥ ४९॥
अगर्भवणरन्ध्रादिदृढमूलः शुभो मतः !
दक्षिणप्रवणः शुष्को दग्धः पक्षिग्रहाश्रयः ॥ ५० ॥
पतितश्चैत्यवल्मीकचितादिस्थश्च नेप्यते ।
अधोभागं तु संशोध्य दर्भानास्तीर्य सर्वतः ॥ ५१ ॥
गायत्रीपरिपूतेन सर्वतः प्रोक्ष्य वारिणा ।
हुत्वानेनैव मन्त्रेण क्षीरवृक्षसमिच्छतम् ॥ ५२ ॥
चतुर्दशः पटलः । १०१ यत्परं वैष्णवं तत्त्वं यच्च भागवतं पुनः । तत्सर्वमेकसलीनमस्मिन् देहे विबुध्यताम् ॥ ५३ ॥ धर्म पुण्यं तथा सत्यं सर्वमेकत्र वर्तताम् । वृक्ष! लोकस्य शान्त्यर्थ गच्छ देवालयं शुभम् ॥ ५४॥ देवत्वं यास्यसे तत्र दाहच्छेदविवर्जितम् । जलपुष्पप्रदानेन सधूपैलिभिस्तथा ॥ ५५ ॥ लोकास्त्वां पूजयिष्यन्ति ततो यास्यसि निर्वृतिम् । गन्धपुष्पैश्च संपूज्य बलिं दत्त्वा च पूर्ववत् ॥ ५६ ॥ स्वप्नं दृष्ट्वा द्विजायोक्त्वा शोभनान्यभिधाय च । पूर्वोत्तरमुखो मन्त्री जप्त्वेदविष्णुरित्यूचम् ॥ ५७ ॥ मध्वाज्याक्तकुठारेण स्मृत्वास्त्रं छेत्तुमारभेत् । दिवा वारेभिरेत्येवं पातं तस्य समुद्धरेत् ॥ ५८ ॥ सोमेन्द्रेशेषु तत्पातः शुभोऽन्यत्र न शस्यते । भन्मेऽस्मिन् कारयेच्छान्ति महाव्याहृतिहोमतः ॥ ५९ ।। अमआयाहिमन्त्रेण पतितं शोधयेद् द्रुमम् । चतुरनं ततः कृत्वा रथेनाश्मवदानयेत् ॥ ६० ॥ मृत्तिकाप्येवमानेया सवर्णा दोषवर्जिता । पुण्यादायतनाद् रम्यादुद्धृतासीति चाहता ॥ ६१ ॥ अपक्वं पार्थिव शस्तं पक्वमत्र विगर्हितम् । कपिलाज्यातसीतैलकषायैश्चूर्णसंयुताम् ॥ ६२ ॥ श्रीवेष्टकादिसंयुक्तां पेषयित्वा पुनःपुनः । मासपक्षोषितां कृत्वा कारयेत् प्रतिमां ततः॥ ६३ ॥ १. 'या' रु. पाठः.
२ १०२ विष्णुसंहितायां संस्कृतं प्रतिमाशूलमधिवास्याग्रमण्डपे । रत्नन्यासं पुरा कृत्वा मुहूर्ते स्थापयेद् गुरुः ॥ ६४ ॥ लोहे सिक्थमयीमर्ची कारयित्वा मृदावृताम् । सुवर्णादीनि संशोध्य विद्राव्याङ्गारवत् पुनः ॥ ६५ ॥ कुशलैः कारयेद् यत्नात् सम्पूर्णी सर्वतोपनाम् । पुष्टिदार्चा तु सौवर्णी राजती कीर्तिदा स्मृता ॥ ६ ॥ ताम्रजा धनपुत्रार्थ मणिजा सुखदा भवेत् । दारुजा श्रीकरी ज्ञेया मृन्मयी सर्वकामदा ॥ ६७ ॥ एकबरं शिलालोहरत्नधातुमयं भवेत् । बहुबेरं तु मृदारुकृतमालेख्यमेव च ॥ ६८ ॥ प्रासाद एव तु स्थाप्या या शिलादारुमृन्मयी। प्रतिमान्या गृहे पूँज्या प्रासादे च यथाविधि ॥ ६९ ॥ अङ्गुष्ठादिवितस्त्यन्तं गृहे संस्थाप्य पूजयेत् । प्रासादे चोर्ध्वमाहस्तात् परं प्रासाद एव तु ॥ ७० ॥ जङ्गमं पूजयेन्नित्यमावाहनविसर्गतः। नावाहनविसर्गाभ्यामेकबेरं प्रतिष्ठितम् ॥ ७१ ॥ कर्मा! लोहजां कृत्वा पादमात्रां शुभाननाम् । मूलानुरूपसंस्थानां शोधयित्वा यथाविधि ॥ ७२ ॥ तस्यामाबाह्य सम्पूज्य लेप्यादौ विसृजेत् पुनः । द्वारोच्चेऽष्टांशहीने स्यात् त्रिभक्तेऽर्चा हिभागिका॥७३ १. 'वसुदा' ख. ग. पाठः. २., ३. 'वी' ख. ग. के. पाठः ४. 'यो' ख. ग. पाठः. ५. 'विनावाहविस' क. ख. ग. इ. पाठः ६. चेद् द्वि' ख. ग. पाठः.
चतुर्दशः पटलः । १०३ नवांशोने समस्ते वा पादोना वापि तत्समा । उत्तम पार्थिवे मानं दारवे मध्यमं भवेत् ॥ ७४ ॥ मणिजे चाधमं ज्ञेयमिच्छयान्यत्र कल्पयेत् । उत्तमा दशतालार्चा नवताला तु मध्यमा ॥ ७९ ॥ अष्टतालाधमा ज्ञेया देव्यः स्युश्चाष्टतालिकाः । दशधा नवधा चेष्टं मानं कृत्त्वैकमंशकम् ॥ ७६ ॥ भक्त्वा द्वादशधा ज्ञेयं स्वाङ्गुलं येन मीयते । प्रीवाहृन्नाभिमेदान्त मुखमानेन कल्पयेत् ॥ ७७ ॥ तद् भङ्क्त्वा मूर्ध्नि कण्ठाचिजानुदेशे समं न्यसेत् । जबोरू द्विगुणौ कार्यों बाहू चाजानुलम्बिनौ ॥ ७८ ॥ किञ्चिदूनाः प्रमाणेन ज्ञेयाश्चैवोपबाहवः । किरीटमधिकं कुर्यात् पद्मं नालं च मानतः ॥ ७९ ॥ तिर्यक् षोडशसूत्राणि सप्तोर्वानि च कल्पयेत् । तिर्यगूर्ध्वगतैः सूत्रैर्मुखे द्वादशधा कृते ॥ ८० ॥ केशपञ्चमसूत्रस्थं मध्यकान्तरितं द्वयोः । पदयोरक्षिणी कार्ये पदमानेन विस्तृते ॥ ८१ ॥ तयोर्मध्ये शुभा नासा कार्याक्षिद्विगुणायता। तारे सृक्वान्तसूत्रस्थे कंबीरौ पुटसंमितौ ॥ ८२ ॥ कुर्याद् भ्रसूत्रगौ कर्णी नेत्रे नेत्रान्तरायते । तारके तत्रिभागस्थे ज्योतिषी तत्रिभागतः ॥ ८३ ॥ नेत्रवन्नासिकाग्रोच्चं निम्नं मूलं तदर्धतः । निष्पावाभौ निम्नपुटौ भ्रूमध्यं नेत्रमध्यवत् ॥ ८४ ॥ १. 'पुटा निप्पावबीजाभौ भ्रू' क. पाठः. 3 yܪܟ विष्णुसंहिताया अधरस्तत्समोऽन्योष्ठगोजिकामानमर्धतः । कर्णायामस्तु नासावद् विस्तारश्च तदग्रवत् ॥ ८५ ॥ तुटुको नेत्रसूत्रस्थौ तद्विस्तारेण सम्मितो। ललाटकण्ठविस्तारो नासिकाद्विगुणो मतः ॥ ८६ ॥ चिबुको कर्णमूलात् तु नासिकादिगुणायता । स्तनान्तरं मुखं विद्याद् द्विगुणं चैव कक्षयोः ॥ ८७ ॥ कण्ठोद्विगुण एवष्टा नाभिदश तु विस्तरः । कटौ नेत्राधिकरयंशं स्तनकक्षान्तरं विदुः ।। ८८ ।। तावत् कक्षांसमध्यं च कारयेत् स्कन्धमुन्नतम् । कटिवत् सन्धिकक्षान्तं प्रकोष्ठं नासिकाधिकम् ॥ ८९ ॥ तत्र मध्यमयोर्मानं नासिकाधरयोगतः । कल्पयेदर्धपर्वोने तथा तर्जन्यनामिक ॥ ९० ॥ तयोरप्यर्धपर्वोने तथाङ्गुष्ठ कनिष्ठिके । तले नेत्राधिकायामे मध्यमायामविस्तरे ॥ ५१ ॥ तत्राङ्गुष्ठप्रदेशिन्योनत्रसम्मितमन्तरम् । अन्तरं मध्यमातुल्यं कनिष्ठामणिबन्धयोः ॥ ९२ ॥ मणिबन्धस्तु नासावत् ततोऽङ्गुष्ठान्तरं तथा । हिगुणो बाहुविस्तारो नेत्रोनं चैव कोपरे॥ ९३ । सर्वत्र त्रिगुणोनाहो बाहू गोपुच्छवच्छुभौ। मध्यमापर्वणी पूर्वे समे शेषं तदर्धकम् ॥ ९४ ।। १. 'को' ख. ग. पाठः. २. 'णेयांमध्यं कण्ठं सा नेत्रसम्मिता। स्तना' ङ. पाठः. ३. 'न्तं ना', १. 'णो मतः ।' ख. ग. पाठः, 'ण्ठाद' च. पाठः.
चतुदशः पटलः । ३ अष्टाशोनानि पर्वाणि ततो देशिन्यनामयोः । पादोनानि कनीयस्था योनव्यान्यनुरूपतः ॥ ९५ || तर्जनीमध्यमापर्वसमे चाङ्गुठपर्वणी । सर्वाङ्गुलीषु कार्याः स्युग्मपर्वार्धतो नखाः ॥ ९६ ॥ नाहोऽङ्गुष्ठस्य नासाबदष्टांशोनस्ततोऽन्ययोः ततश्चैवं कनिष्ठायो वृत्ते भुजसमे स्फिजौ ॥ ९७ ॥ ऊरू मुखवदक्ष्यूनं जानु जङ्घा मग्वार्धतः । मुखायततला पादा पुरस्ताज्जङ्घया समा ॥ ९८ ।। कृमन्त्रितौ क्रमानाची तत्राङ्गष्ठो तदर्धको । प्रदेशिन्यौ च तत्तुल्ये हीनाः शेषा नखान्नखम् ॥ ९९ ॥ अनङ्गुष्ठास्त्रिपर्वाण' नखा रक्तार्धचन्द्रवत् । नाहोऽङ्गुष्टेऽन्यमध्यावत् तर्जन्यङ्गुष्ठदैर्ध्यवत ॥ १० ॥ अष्टांशोनाः क्रमादन्याः कारयदनुरूपतः । कर्णपाशौ च केशाश्च भूपावस्त्रायुधानि च ॥ १० ॥ सन्निवेशाथ योक्तव्या यथाशोभं विजानता। विशालधवलाताम्र पक्षमले चैव लोचने ॥ १.२॥ साधारणीव दृष्टिः स्यात् पश्यतां नाधऊर्ध्वगा । पटे वा लेखयित्वैवं तं पटं साधकः स्वयम् ॥ १०३ ।। एकान्ते तु प्रतिष्ठाप्य पूजयेन्नित्यमादरात । बिम्बोच्चार्ध तु पीठोच्चमायामो विम्बमानतः ॥ १०४ ॥ १. 'या' ख. ग. पाठः. २. 'यमो क' ङ, पाठः. ३. 'मादुनौ' ख. ग., 'मान्नोचौ' ङ. पाठः, १०५ विष्णुसंहितायां केशान्तमुखमानो वा पद्मतुल्यो जलाश्रयः । नाधिकं पीठभिष्टं तु जङ्गमस्य षडङ्गुलात्॥१०५॥ अङ्गुलाभ्यां नच न्यून लोहजस्यैकयोनिकम्। शैलमन्यत्र विज्ञेयं रत्नजानां तु लोहजम् ॥ १०६ ॥ इति विष्णुसंहितायां चतुर्दशः पटलः ।। 7 अथ पञ्चदशः पटलः । अथ वक्ष्यामि संक्षेपात् प्रतिष्ठापञ्चकं क्रमात । परमेष्ठयादिभिर्मन्त्रैः कर्तव्यं तु विशेषतः॥ १ ॥ स्थापनास्थापना चैव तथा संस्थापना पुनः । प्रस्थापना च पञ्चोक्ताः प्रतिष्ठापनया सह ॥ २ ॥ स्थितासीनशयानानां यानगस्य चलस्य च । या क्रिया पञ्चधा प्रोक्ता सा प्रतिऐति कीर्तिता ॥ ३ ॥ स्थाने सौम्या भवेन्मतिः सौम्याग्नेयी तथासने । आग्नेयी शयनेऽन्यत्र यथाकामं तु कल्पयेत् ॥ ४ ॥ सात्त्विकी राजसी चापि तामसी च यथाक्रमात् । सिता रक्तासिता मूर्तिः श्यामा सर्वत्र वा भवेत् ॥ ५॥ स्थिता तु दैविकी मूर्तिः परस्य परमात्मनः । किञ्चिन्मानुषसंयुक्ता त्वासीनान्या समोच्यते ॥ ६ ॥ स्थाने तु व्यापको विष्णुाप्यव्यापक आसने । व्याप्यस्तु शयने ज्ञेयः सवनत्रयदेवताः ॥ ७ ॥ १. 'ति प्रतिमालक्षणश्चतुर्द' ख. ग. पाठः. २. 'यां पञ्चदशः प्रनिमापट' घ. पाठः. ३. 'त्रिधा क' क. पाठः.
पञ्चदशः पटलः । १०७ पार्श्वयोब्रह्मरुद्राभ्यामर्केन्दुभ्यां तदन्तिके । पृष्ठे श्रिया सरस्वत्या शान्त्या रत्या च पार्श्वयोः ॥ ८ ॥ वराहहयशीर्षाभ्यां तत्पृष्ठे दशभिः स्थितः । पार्थेऽजभृगुदक्षैश्च रुद्राग्निमनुभिस्तथा ॥ ९ ॥ संनत्कुमारस्कन्दाभ्यां श्रीस्थानस्थितसिद्धिभिः । आमीनश्चामरव्यग्रकराभिर्दादशावृतः ॥ १० ॥ प्रद्युम्नेनानिरुद्धेन नाभिपद्मस्थितेन च । पञ्चभिः शयितोऽग्रस्थमार्कण्डेयमहीयुतः ॥ ११ ॥ त्रिधोक्तानां तु सर्वेषामेषामन्यतमान् क्रमात् । यानगस्य परीवारान् यथाकामं प्रकल्पयेत् ॥ १२ ॥ तथा धनुर्गदाचक्रशलासिशरलाङ्गलैः । खेटकेन च पद्मन वृतः साधारणैर्भवेत् ॥ १३ ॥ चतुर्मुजः स्थितो देव आसीनोऽष्टभुजो भवत् । शयानस्येन्छया योज्या भुजाः सर्वत्र वेच्छया ॥ १४ ॥ पञ्चोपनिषदस्वेताः सुसूक्ष्मा देवशक्तयः। पञ्चतन्मात्रशब्देन कीर्तिता वेवादिभिः ॥ १५ ॥ पञ्चताः सहता यस्माच्छक्तयः सर्वहेतवः। पञ्चभिर्युक्त एवाभिः स सर्गादौ प्रवर्तते ॥ १६ ॥ निग्रहानुग्रहौ चापि करोतीशः स्वतोऽक्रियः । स्थापनादिपु सर्वत्र पूर्णश्वर्यस्तु नान्यथा ॥ १७ ॥ गुणप्रधानतो भेदात् संहतास्वेव शक्तिषु । विभागः पञ्चधा ज्ञेयो नैकशः पृथगस्थितः ॥ १८ ॥ १. 'स्कन्दसनत्कुमाराभ्यां' ख. ग. पाठः.
2ܘ ܕ विष्णुसंहितायां विचित्रकार्यकरणसम्बन्धो भोगकारणम् । इत्यन्ये शक्तयश्चास्य सकार्यकरणास्तथा ॥ १९ ॥ अतः प्रतिष्ठानिपुणैराचार्यस्तन्त्रपारगैः । संहतास्ताः प्रयोक्तव्या बिम्बैश्चर्यप्रसिद्धये ॥ २० ॥ स्थापनादिविभागः स्याद् बिम्बविन्यासजोऽप्यतः। प्राधान्यख्यापनार्थव भेदोक्तिरिति तद्विदः ॥ २१ ॥ पञ्चशक्तिमये सूक्ष्मे देहे साधारणे पुनः । मूर्तयस्तस्य मूलाङ्गविशेषाद् बहुधा स्मृताः ॥ २२ ॥ वृत्तायते च प्रासादे चतुरश्रायते तु वा । स्थाप्यं शयनमन्यत्र स्थितासीनयियासवः॥ २३ ॥ यत्र वा तत्र वा काले प्रतिष्ठा मुक्तये कृता । उत्तरे त्वयने कार्या शुक्लपक्षे च मुक्तये ॥ २४ ॥ • पुनर्वस्वश्विनीश्रोणापुष्यहस्तोत्तरत्रये । रेवतीरोहिणीस्वातीभरणीपु च शस्यते ॥ २५ ॥ प्रतिपञ्च द्वितीया च पञ्चमी च त्रयोदशी । दशमी पौर्णमासी च द्वादशी तिथयस्त्विमाः ॥ २६ ॥ सोमो बृहस्पति भार्गवोऽथ बुधस्तथा । एत साम्यग्रहा याच्या वारादयनिरीक्षणः ॥ २७ ॥ सप्तमान्नवमाद् वापिं प्रागव स्याच्छुभहान । पञ्चमाद् वाङ्कुरारापास्त्रकालाक्षार्चनान्वितः ॥ २८ ॥ त्रिविधं पात्रमुद्दिष्टं मङ्गलाङ्कुररोपणे । पालिका घटिका चैव शरावश्चति भेदतः ॥ २९ ॥ १. 'तल्लिङ्ग पाठः. .
पञ्चदशः पटलः । १०९ विष्णुब्रह्मशिवाधीशा निर्दोषाः सर्वकर्मसु । प्रत्येकं द्वादश ग्राह्याः पालिकाः षोडशैव वा ॥ ३० ॥ पञ्चविंशाङ्गुलोचास्तास्तद्वक्त्रं षोडशाङ्गुलम् । षडङ्गलं चतुष्कोच्चं पठिं तत्सन्धिरङ्गुलम् ॥ ३१ ॥ घटिकामानमङ्गुल्यः : षोडश द्वादशैव वा। पश्च वक्त्राणि विक्षुर्व मितानि चतुरङ्गुलैः ॥ ३२ ॥ पालिकापीठवत् पीठं नालं तु चतुरङ्गुलम् । तालास्याचं शरावं तु चतुरङ्गुलपीठकम् ॥ ३३ ॥ त्रिपतीकृत्य पात्राणि सुगुप्त स्थान उत्तरे । अग्न्यादीशानपर्यन्तं स्थापयित्वा प्रयत्नतः ॥ ३४ ॥ मृहालुकाकरीपैस्तु पूरितान्युत्तरोत्तरम् । दृर्वादिभिरलंकृत्य धान्यकर्चस्थितानि च ॥ ३५ ॥ यवमुद्गतिलबीहिमापशिम्बकुलुस्थकान् । प्रियङ्सर्षपश्यामराजमाषाढकीयुतान् ॥ ३६ ॥ द्वादाशाक्षरमन्त्रेण क्षालयेचे शुभानिमान् । पुण्याहं वाचयित्वादी ब्राह्मणः स्वस्ति वाच्य च ॥ अष्टाक्षरेण बीजानि क्रमात् तेषु विनिक्षिपेत् । प्रादक्षिण्येन पूर्वानक्रमादवहिता गुरुः ॥ ३८ ॥ जितं ते पुण्डरीकाक्ष ! नमस्ते विश्वभावन! । सुब्रह्मण्य ! नमस्तेऽस्तु नमः पुरुष! पूर्वज! ॥ ३९ ॥ त्रितारकनमोऽन्तेन तेनैवं सवनत्रये । कूर्चपाणिः क्रमात सिञ्चद् गन्धहारिद्रवाग्णिा ॥ ४० ॥ 'च्छुद्धवारिणा । च. पाट:. २. भि' ख. ग. पाठः.
ܘܨܶܨ विष्णुसंहितायां देवतानामभिस्तानि गन्धपुष्पैश्च पूजयेत् । पात्राणां देवताः प्रोक्ता बीजानामधुना शृणु ॥ ४१ ॥ यवसर्षपमुद्रेषु ब्रह्मा रुद्रो हरिः क्रमात् । वायुः पूज्यस्तु निष्पावे स्कन्दश्चैव प्रियङ्गुके ॥ ४२ ॥ माषेविन्द्रः कुलुस्थेऽग्निः शालिवकर्को यमस्तिले । वरुणो राजमाषे श्रीराढक्यां श्यामगः शशी ॥ ४३ ॥ मण्डलेषु सकूर्चेषु पूजयित्वाष्टदिक्क्रमात् । रात्रीशेभ्यो बलिं दद्यात् पार्षदान्तं जलान्वितम् ।। पललं रजनीचूर्ण सलाजं दधिसक्तुकम् । भूतकूरबलिं दद्यात् पूर्व भूतप्रहर्षणम् ॥ ४५ ॥ द्वितीयं पैतृकं चैव दद्यात् सतिलतण्डुलम् । धानोडुम्बिकलाजैस्तु ततो यक्षबलिं हरेत् ॥ ४६ ॥ नालिकेरपयस्सक्तुशालिपिष्टविमिश्रितम् । चतुर्थ निशि वै दद्यात् ततो नागबलिं बुधः ॥ ४७ ॥ पञ्चमं तु बलिं दद्याद् ब्राह्मं पद्माक्षतैर्युतम् । चरुणापूपयुक्तेन षष्ठं शैवबलिं हरेत् ॥ ४८ ॥ गुलान्नं वैष्णवं चैव सप्तमं तदनन्तरम् । पायसं कृसरं दद्यादष्टमं नवमं तथा ॥ ४९ ।। शुद्धवासाः शुचिर्भूत्वा नियतात्मा हविष्यभुक् । प्रतिरात्रं बलिं दद्यात् ततः स्नानं समाचरेत् ॥ ५० ॥ प्रातः कर्मदिने दत्त्वा पश्चात् कर्मणि योजयेत् । प्रविशेत् गुरुरेवात्र नान्यः कोऽपि कथञ्चन ॥ ५१ ॥ १. 'च। भू', २. 'लैः । धा', ३. 'र्थेऽहनि वै ख. ग. पाठः. ५. 'द्यात् प' क. ख. ग. पाठः.
पम्चदशः पटलः । उच्छिष्टाद्यशुभं सर्व वर्जयेच प्रयत्नतः। अदत्त्वा तु बलिं तत्र न कुर्यात् पालिकाकियाम् ॥५२॥ बल्यदाने तु नैष्फल्यात् सर्वथाङ्कररोपणम् । बलिना सह कर्तव्यं प्रयत्नाद् देशिकोत्तमैः॥ ५३ ॥ मण्डपे स्तम्भमूलेषु धान्ययुक्तेषु विन्यसेत् । कर्मारम्भेषु पात्राणि सम्यगूढाकुराणि तु ॥ ५४ ॥ श्यामेषु द्रव्यनाशः स्याद् रक्तेषु कलहो ध्रुवम् । तिर्यग्गतेषु रोगः स्यादप्ररूढे मृतिर्भवेत् ॥ ५५ ॥ शुभं पीतेषु शक्लेषु समेपूर्वप्वृजुष्वपि । तस्मात् सर्वप्रयत्नेन सदा रक्ष्याण्यतन्द्रितैः ॥ ५६ ॥ यदाङ्कुराणि रोहन्ति तदाप्रभृति नित्यशः । मार्जनं ग्रामवाथीनां कृत्वासिच्य समन्ततः॥ ५७ ॥ नास्तिकोन्मत्तपापण्डिपतिनादीक्षिताशुचीन् । ततो निर्वास्य यत्नेन यागद्रव्याणि सहरेत् ॥ ५८ ।। प्रासादस्याग्रतः कृत्वा मण्डपं चतुरश्रकम् । चतुरिं वितानादिशोभितं सुपरिच्छदम् ॥ ५९ ॥ तोरणान्यथ चत्वारि पञ्चहस्तोच्छ्रितानि च । ध्वजानष्टौ पताकाश्च नवमं तार्यलक्षणम् ॥ ६० ॥ प्रासादविस्तरोत्सेधान् दशद्वारायतं ध्वजम् । घंटा हैमादयो ग्राह्या मालिका वा नवाः शुभाः॥ ६१ ।। लोहजं च महत् पात्रं कुम्भं द्रोणवहं तथा । प्रस्थोहहानि चत्वारि चरुस्थालीश्च शोभनाः ॥६२॥ 'सर्ववी' ख. ग. पाठ:.
११२० विष्णुसंहिताया आज्यस्थाली प्रणीती च समिदर्भकुशास्तथा । सौवर्णगजते चान्ये पात्र हे प्रसृतोहहे ॥ ६३ ॥ अाद्यर्थानि चान्यानि लोहान्यजनिभानि च । आयुधानि तथान्यानि जातिहममयानि च ॥ ६४ ॥ कूर्म गरुडमब्जं तु रत्नानि विविधानि च । लोहान् धातूंच बीजानि वीं वजुहूस्रुचः ॥ ६५ ॥ मृत्तिकाघटिकाः सूत्ररजांसि कुसुमानि च : गन्धगुग्गुलुनैलानि दधिक्षारगुलं मधु ॥ ६६ ॥ गव्यं घृतं च होगार्थ गामयं मूत्रमेव च । कम्बलाजिनखट्वाश्च शयनं च नवं शुभम् ॥ ६७ ।। उपधानद्वयापतं सकपालस्थलहयम् । शुक्लास्तरणसंयुक्तं वस्त्राणि विविधानि च ॥ ६८ ॥ सवत्सां कपिलां चको हेमशृङ्गी पयस्विनीम् । सुरभीश्च चतस्रोऽन्या दोहनानि शुभानि च ॥ ६९ ॥ कपायार्थास्वचश्चैव होमद्रव्याणि सर्वशः। भूषणानि च रम्याणि चक्रिकापल्लवांस्तथा ॥ ७० ॥ दूर्वाद्योषधिजातानि फलानि मधुराणि च । मूलान्युहर्त्तनादीनि हैमं यज्ञोपवीतकम् ॥ ७१ ॥ मङ्गलानि शुभान्यष्टौ कुण्डिकां वर्धनी तथा। शुष्कन्धनानि दीपांश्च सूत्रं धान्यानि तण्डुलान् ॥ ७२ ।। चतुर्विधं तथा वाद्यं गायकान् नर्तकांस्तथा । विप्रान् वेदविदः शान्तान् वैष्णवांस्तु विशेषतः ।। ७३ ।। १. 'ताश्च' ख. ग. पाठः.
पश्चदशः पटलः। ६१३ शब्दन्यायनिमित्तज्ञान प्रयोगज्ञांश्च वैदिक। मुहूर्तज्ञांश्च कालज्ञान् वतिनो मन्त्रपाठ कान् ।। ७४ ।। यतींश्च विमलज्ञानांस्तक्षकांदच विशेषतः। उक्तानुक्तं च यत् सर्व कार्ये दृष्ट्वा तदाहरेत् ।। ७५ ।। यागोपकरणं सर्व स्थानादि च विशेषतः । सर्व भोगेन दुष्टं स्यात् तस्मात सर्व नवं शुभम् ॥ ७६ ।। मलक्षालनमात्रेण शुद्धिर्भवति लौकिकी। देवपूजासु शास्त्रोक्तं स्नानं स्यात कायशोधनम् ।। ७७ ।। लोकसंव्यवहारेषु धर्मशास्त्रान्तरेषु च । विहिताः शुद्धयो ग्राह्या विष्णुभनन धीमता ।। ७८ ॥ खननादीनि दुष्टायाः शोधनानि विदुर्भुवः । शुद्धामपि तु यागार्थ गोमयेनोपलेपयेत् ।। ७९ ।। तंद् धेनुजं नवं भूस्थं क्षीराद्यपि मुगालिनम् । घृतं विलीनमुत्पूतं सुगन्धीष्टं विशेषतः ॥ १० ॥ गां लिप्त्वास्त्रेण संविध्य हस्तं प्रक्षाल्य सम्मृशेत् । प्रोक्ष्याक्षतैः मसिद्धार्थः किरेत् तत स्थानशोधनम् ॥८१॥ तोयेन साम्लकल्केन तानं हैमं तु बारिणा । राजतं गृहधूमेन पलालाङ्गारकेण वा ॥ ८२ ।। लोहजं भस्मना शुध्येच्छादि लवणेन च। मृदद्भिः फलपात्राणि दारवाणि तु तक्षणात् ॥ ८३ ॥ पार्थिवानि तु दाहेन नवान्येवाददीत वा। लेपगन्धापनोदेन शुद्धिः सर्वस्य कीर्तिता ॥ ८४ ॥ १. 'ज्ञान् कलाज्ञांश्च व्र' क. घ. पाठः, २. 'ऽपि' स्व. पाठः. ३. 'स्नपनं का' ख, ग, ङ. पाठः.
१० विष्णुसंहितायां सकूर्चे गन्धपुष्पाये जले ताराभिमन्त्रिते। ध्यात्वा मन्त्रमयं ज्योतिः प्रोक्षणं द्रव्यशोधनम् ॥ ८५ ॥ अक्षाराकलुषं शुद्ध भूरि नद्यादिसम्भवम् । सुरसं दुर्जनास्पृश्यमम्भः स्यात् सर्वकर्मसु ॥ ८६ ॥ लोही पात्रवदर्चापि शोध्या चूर्णैस्तु शैलजा । शोधनं दारवस्यैवं चित्रस्य मलहोनतः ॥ ८७ ॥ मार्जनं मणिजानां तु धातुजानां तु शैलवत् । एवं संशोध्य संहत्य सृष्ट्वाङ्गैः सकलीकृतम् ॥ ८८ ॥ शुध्यत्यस्थावरं बेरं स्थावरं स्नपनादिभिः । मार्जनादेव शुध्यन्ति क्षालनाद् वा कुशादयः ॥ ८९ ॥ सदर्भासन आसीनः पूजास्थानादधः सुधीः । दर्भपाणिः सकूर्चेन वारिणा मन्त्रतेजसा ॥ ९० ॥ प्रोक्षणाच्छोधयेत् सर्वमात्मानं धारणादिभिः । न्यासश्च प्रणवो दर्भाः प्रशस्ता मन्त्रशोधने ॥ ९१॥ आवृत्तिगणनं मुद्रा ध्यानं च परिकीर्तितम् । सत्यप्रियहिनैर्वाचो ज्ञानं तुष्टिश्च चेतसः ॥ ९२ ॥ सर्वेषामपि विज्ञेया भक्तिरेका विशोधिनी । स्थलज करवीरादि जलजं कभलादि च ॥ ९३ ॥ अवर्जितं नवं पुष्पं सुगन्धि विनिवेदयेत् । यत्किञ्चित् पीतवर्ण तु सितं वा शुचिनाहृतम् ॥ ९ ॥ अवस्वाहतमम्लानं पुष्पं स्याद् ग्राह्यमापदि । सच्छिद्रं मुकुलं जीर्ण पतितं पात्रवर्जितम् ।। ९५ ॥ १. 'लोहपा' क. पाठः. २. 'दाहतः' क, ख. ग. पाठः, पश्चदशः पटलः । ܟܪܟ भुक्तशेषमगन्धं च केशकीटादिमिश्रितम् । पुष्पमापद्यपि त्याज्यमर्कपत्रगतं तथा ॥ ९६ ।। प्रतिषिद्धानि पुष्पाणि सुस्नातोऽपि यदि स्पृशेत् । लायात् पुनरशक्तश्चेदुपस्पृश्यार्चयेत् प्रभुम् ।। ९७ ॥ स्वयं पत्न्यथवा पुत्रः शिष्यो वा पुष्पमाहरेत् । शुद्धपाणिः सुपात्रस्थं पिधायानातपे न्यसेत् ॥ ९८ ॥ रात्रिपुष्पैर्यजेद् रात्रौ दिवापुष्पैर्दिवा तथा । आपत्काले यथायोगं प्राप्तकालं तु शस्यते ॥ ९९ ॥ निर्गन्धमपि मन्दारपीतकोरण्डकादि यत् । प्रशस्तं तदपि ग्राह्यं गिरिकादिवर्जितम् ॥ १० ॥ दूर्वापामार्गभद्राणां तुलसीगन्धपूर्णयोः । तमालाश्वत्थविल्वानां शम्याः कुशपलाशयोः ॥ १०१ ॥ पत्राणि धातकी ब्राह्मीभृङ्गागामपि पुष्पवत । यवप्रियङ्गुनिष्पावमुद्गमाषचणाङ्कुरान् । १०२ ॥ सुसंभृतानलूनाग्रान् पुप्पालाभे प्रेकल्पयेत् । पुष्पं स्वारामजं मुख्यं मध्यमं वन्यमाहृतम् । १०३ ॥ अधमं क्रीतमायां फलं दातुः प्रतिग्रहे । पृथग्वा सह वा पिष्टैः सिताम्रन्दुरुगायसैः ॥ १०४ ॥ कृत्रिमैर्चियद् गन्धैः प्राण्यङ्गरहितः शुभैः । सालसर्जपुराणां वा दामलेव्येन्द्वयोरुजाम् ।। १०५ ॥ धूपमाज्यादिसंयुक्तं शुभे पात्रे निवेदयेत् । तैलेनाज्येन वा दीपं दारुस्नेहेन वापदि॥ १०६ ॥ १. 'निवेदयेत् ' च. पाटः. २. 'पी', ३. नु, ४. 'जा' ख. ग.पाट, विष्णुसंहितायां सूत्रवर्तियुतं दद्यादमुखानिलदीपितम् । त्रिः क्षालितैरनुत्स्विन्नैरमलैः शालितण्डुलैः ॥ १०७ ॥ शृतं घृतोपदंशादियुतमन्नं निवेदयेत् । कालपक्वान्यदुष्टानि फलानि मधुराणि च ॥ १०८ ॥ अलाभे केवलैः पुष्पैर्जलैर्वा मनसार्चयेत् ॥ १०८३ ।। इनि विष्णुसंहितायां पञ्चदशः पटलः ॥ अथ षोडशः पटलः । अथ वक्ष्यामि संक्षेपाद् बिम्बशुद्धिं यथाक्रमम् । आचार्य वरयेत् पूर्व ततः कर्माणि कारयेत् ॥ १॥ देवस्तु द्विविधो ज्ञेयः स्थावरो जङ्गमस्तथा । प्रतिमा स्थावरो देव आचार्यों जङ्गमस्तथा ॥ २ ॥ भक्तानुकम्पी भगवान् विधिमन्त्रपुरस्कृताम् । पूजां तयोः प्रगृह्णाति याज्यो नान्यथा हरिः ॥ ३ ॥ आचार्यानुमतादेव क्रिया कार्या विजानता । तत्पूजयैव देवश्च वरदो नान्यथा भवेत् ॥ ४ ॥ दीक्षादिसंस्कृतः शान्तो विद्वानक्रोधनो युवा । समयाचारकृद् वाग्ग्मी वर्णाश्रमगुणान्वितः ॥ ५ ॥ आचार्यः सर्वथा ग्राह्यः स्थापनादिषु यज्वना । सर्वरोगोपशान्तेन भद्राकारेण धीमता ॥ ६॥ १. 'यां प्रतिष्ठापटल: पश्चदशः ॥' च. पाठः. २. 'वेशो व स. ग.पाठः.
ܦܪܨ षोडशः पटलः । श्रोत्रियेण गृहस्थेन स्थाप्यो देवस्तु सिद्धये । कुलीनाः शुचयो दक्षा दीक्षितास्तन्त्रपारगाः ॥ ७ ॥ भक्तो दक्षा विनीताश्च विप्रा मूर्तिधराः स्मृताः । देवागारे गृहे नद्यास्तीरे गोष्ठे तरुस्थले ॥ ८ ॥ अन्यत्र वा शुभे स्थाने दुर्जनालोकजिते । गोमयेन समालिप्ते पञ्चगव्यादिशोधिते ॥ ९ ॥ आसने वस्त्रसंवीते सदर्भे प्रार्थितं गुरुम् । चतुर्भिर्मूर्तिपैः सार्धमष्टद्वादशभिस्तु वा ॥ १० ॥ उपवेश्य यथान्यायं पाद्यादिभिरथार्चयेत् । पूर्वोत्तरदिशाभागे प्रागग्रेषु कुशेषु च ॥ ११ ॥ यजमानः शुचिर्भूत्वा पूजाद्रव्याणि सादयेत् । प्रणवेन सकूर्चानि पात्राणि तु शुभानि च ॥ १२ ॥ वस्त्रकुण्डलयुग्मानि भूपणानि शुभानि च । कूर्चसंस्कृततोयेन प्रोक्ष्योत्तानानि वै क्रमात् ॥ १३ ॥ कूर्चेषु प्रणवेनैव विन्यस्यार्थ्यादि योजयेत् । कुशाग्रयवसिद्धार्थतिलमापफलाक्षतैः॥ १४ ॥ सक्षीरगन्धपुष्पैश्च योजयित्वाय॑मर्चयेत् । पाद्यमाचमनीयं च पात्रयोरन्ययोस्तथा ॥ १५ ॥ मन्त्रयेत् पुनरेतानि मूला.मूर्तिभिस्तु वा । दत्त्वा कूर्चान्यथैतेषामासनार्थं तु वाग्यतः ॥ १६ ॥ सपवित्रैजलैः पादौ क्षालयेदृदयेन तु । शिरसाचमनं दद्याच्छिखया चाऱ्यामेव च ॥ १७ ॥ १. 'ता वेदपा', २. 'क्तियुक्ता वि' च. पाठः. ३. 'क्षयेत् तानि' च. पाठः, ४. 'तिलसि', ५. 'यवमा' ख, ग. पाठः, विष्णुसंहिताया वस्त्रयुग्मानि भूषाश्च शेषाभ्यां तु निवेदयेत् । पायसं भोजयेत् साज्यं प्रणम्य विधिनाय॑ च ॥ १८॥ सोष्णीषं गुरुमाचान्तमाभवाद्य प्रसाद्य च । यथालाभं सुवर्णादि दद्याद् देवमनुस्मरन् ।। १९ ॥ ऋत्विग्भ्योऽपि तथा दत्त्वा वरयेत् प्रणिपत्य तान् । कार्यमुक्त्वा विधानेन पूजयेच्च पुनः पृथक् ॥ २० ॥ सन्तोष्य प्रियवादैश्च प्रणम्य प्रार्थयेत् ततः । मया सम्पूजितैरत्र दक्षिणाभिश्च तोषितैः ॥ २१ ॥ क्रियतां विष्णुयागो मे प्रार्थयामि प्रसीदतु । इत्युक्त्वा दक्षिणे पाणावालम्ब्य वरयेत् क्रमात् ॥ २२ ॥ तत्रों तथा करिष्यामीत्याचार्यस्तु समीरयेत् । एवं वै सर्वयागेषु गुरुं सम्पूज्य यत्नतः ॥ २३ ॥ प्रणिपत्विजस्तेभ्यो दत्त्वाऱ्या वरयेद् बुधः । पुनरेवं तु तन्त्रज्ञान् दीक्षितान् होमिनस्तथा ॥ २४॥ वेदाध्ययनकर्तृश्च शुद्धान् वै मन्त्रपाठकान् । कल्पयेद् यजमानस्तानाचार्यवचने स्थितान् ॥ २५ ॥ वास्तुसङ्ग्रहमारभ्य तीर्थस्नानावसानिकम् । कारयेत् सर्वमेतेन भक्त्या हरिमिवार्चयेत् ॥ २६ ॥ शयने सन्निवेश्यादौ बिम्बं तु सुपरीक्षितम् । गृहीत धनदौनेन पूजयित्वात्र शिल्पिनः ॥ २७ ॥ नयनोन्मीलनं तुष्टैः कारयेच्च यथाविधि । प्रणवेन तु कर्तव्यः प्रतिमालोकसङ्ग्रहः ॥ २८ ॥ १. 'म' क. पाठः. २. 'यन्', ३. 'धान्येन' ख. ग. पाठः, षोडशः पटलः । प्लुतं प्रणवमुच्चार्य पादयोस्तां तदा स्पृशेत् । प्रक्षाल्य वारिभिः पूर्व दभैः संघृष्य सर्वतः ॥ २९ ॥ स्पृष्ट्वा गोवालकैश्चनां घृताक्तां क्षालयेत् ततः । शमीपल्लवसंयुक्तानक्षतान् संस्कृतेऽनले ॥ ३० ॥ भूरादिसत्यपर्यन्तैः प्रत्येकं जुहुयाच्छतम् । स्थूलदेहो यतो विष्णुर्वैराजश्रुतिदर्शनात् ॥ ३१ ॥ तस्मादेवं हते विष्णोः सम्पूर्णा प्रतिमा भवेत् । ब्राह्मणैः स्वस्ति वाच्याथ शाकुनं सूक्तमुच्चरन् ॥ ३२ ॥ दत्त्वा दूर्वाक्षतान् मूर्ध्नि प्रणवेन समाहितः । नीराजनं ततः कुर्यान्मङ्गलानि च दर्शयेत् ॥ ३३ ॥ अपराह्ने तु सम्प्राप्त मूर्तिपैः सहितो गुरुः । गत्वा नद्यां तटाके वा देवखाते मनोरमे ॥ ३४ ॥ तोयपूर्णेऽथवा पात्रे सम्पूज्य वरुणं पुनः । सपताकं तटं कृत्वा शोधितं सर्वतो वृतम् ॥ ३५ ॥ संहत्याग्निमयं ध्यात्वा बिम्बं संहारमार्गतः। दभैर्वस्वैश्व संछाद्य फलकायां निवेश्य च ॥ ३६ ॥ शङ्खदुन्दुभिनिर्घोषैर्जयशब्दैश्च संयुतम् । योगपीठं स्मरञ् ज्योतिबिम्बमप्सु निवेशयेत् ॥ ३७ ।। लोकपालान् बहिर्ध्यात्वा पञ्चमन्त्रैश्च रक्षयेत् । प्राशिरः शाययित्वैवं बिम्बं तोयेऽधिवासयेत् । ३८ ॥ त्रिरात्रमश्मनो लोहमेकरात्रं मणिं निशाम् । स्नात्वाचम्य शुचिर्भूत्वा वस्त्रालङ्कारभूषितः ॥ ३९ ॥ १. 'पुनः।', २. 'तम्', ३. 'पुनः कु', ४. 'ब्दपुरस्सरैः ।' ख. ग. पाठः. ५. 'ज' च. पाठः, विष्णुसंहितायां मूर्तिपैः सार्धमागम्य प्रासादं सप्रदक्षिणम् । न्यासादिकं क्रमात् कृत्वा दक्षिणे प्राङ्मुखः शुचिः ॥ प्रासादं शोधयेत् सम्यक् मुक्तमानं तु तक्षकैः । सूत्रेण दर्भदाम्ना च वेष्टयित्वा समन्ततः ॥ ४१ ॥ अस्त्रदृष्टया समालोक्य गर्भागारं पुनस्तथा । कुशास्त्रमार्जितं तोयैः प्रोक्ष्य गन्धैश्च लेपयेत् ॥ ४२ ॥ सर्षपाक्षतदूर्वाभिः समन्ताद् विकिरेत् पुनः । ततश्चास्त्रेण सम्प्रोक्ष्य कुर्यात् तालत्रयं तथा ॥ ४३ ॥ दूर्वाक्षतकुशाग्रेस्तु विकिरेत् पञ्चशक्तिभिः । सर्जश्रीवेष्टलाक्षाजश्वेतलोध्रफलादिभिः ।। ४४ ॥ अष्टाक्षरेण सर्वत्र धूपं दत्त्वा सदीपकम् । पूर्णकुम्भं च धान्यं च न्यस्य पुष्पास्त्रमोचनम् ॥ १५ ॥ कृत्वा राक्षोनसूक्तेन पञ्चगव्येन सर्वतः । चक्रमन्त्रेण च प्रोक्ष्य गोमयेनोपलेपिते ॥ ४६ ॥ आग्नेय्यां स्थण्डिले होममारभेत यथाविधि रक्षोहणादिमन्त्राभ्यां पक्कैमाज्यं च होमयेत् ॥ ४७ ॥ कृणुष्वाष्टादशैर्भूयो येदेवा इति पञ्चभिः । जातवेदादिभिश्चैव क्रमाद् व्याहृतिभिस्तों ॥४८॥ अपामार्गसमिद्भिस्तु शतमष्टोत्तरं ततः । चक्रमन्त्रेण वै हुत्वा हविराज्यं समापयेत् ॥ ४९ ॥ २. 'पुनः', ३. 'कं द्वाभ्यां च', १. 'मव्यग्रः' क. पाठः. ४. 'त' ख. ग. च. पाठः १२१ १ षोडशः पटलः। वस्त्रेणानीय पात्रे तु होमभस्मसमायुतम् । आज्यशेषमपां शेषमपामार्गरसैर्युतम् ॥ ५० ॥ मन्त्रयेच्चक्रमन्त्रेण शतमष्टोत्तरं ततः। पलाशाश्वत्थशाखाभिः प्रोक्ष्य सर्वत्र मन्दिरे ॥ ५१॥ कृणुष्वेत्यादिभिः पश्चाद् विकिरेद् यवसर्षपैः । तालत्रयं पुनः कुर्यादग्निप्राकारमेव च ॥ ५२ ॥ पुनरष्टशतं जप्त्वा चक्रं श्वभ्रं च पूजयेत् । एवं कृत्वाथ राक्षोघ्नं निशि विप्रांश्च भोजयेत् ॥ ५३ ॥ तमेवैशेऽग्निमाधाय स्थण्डिले ब्रीहितण्डुलैः । तत्पूर्वे स्थण्डिले क्लुप्ते वस्त्रास्तीणे घटं न्यसेत् ॥ कुशदूर्वाशमीपर्णकूर्चस्थं जलपूरितम् । जातिहेम न्यसेत् तस्मिन् विधिना शान्तिमर्चयेत् ॥ पाद्यादिभिः क्रमाद् द्रव्यैः शन्नोदेवीत्यूचा ततः। वास्तोष्पतेतिमन्त्राभ्यां पक्कं हुत्वा घृताहुतीः ॥ ५६ ॥ वास्तोष्पतेध्रुवेत्यायैः षड्भिर्जातादिपञ्चभिः । शन्नवर्गेण जुहुयात् पुनर्व्याहृतिभिस्तथा ॥ ५७ ।। शमीसमिघृतान्नाज्यं तयैवर्चा तु होमयेत् । दूर्वाभिश्वाथ मूलेन संगव्याभिः समापयेत् ॥ ५८ ॥ हुतशेषं ततो दद्यादग्रेणाग्निं कुशेषु च । नमोरुद्रेति तोयाज्यस्त्वं विप्रयजुपोक्षणम् ॥ ५९ ॥ १. रे॥ अपामार्गसमित्सपिरन्नमाद्यं च होमयेत् । अन्त्रमन्त्रेण हात- व्यमष्टोत्तरशतं पुनः ।। ततः स्विष्टकृतं हुत्वा प्रोक्ष्य सर्वत्र मन्दिरे । कृणुष्वे' क. पाठः. २. 'गव्यं चाथ स' ख. ग. पाठः, 3 १२२ विष्णुसंहितायां शान्तितोयसमायुक्तं कुर्याच्च स्वस्तिवाचनम् । पुण्याहं मूर्तिपैः सार्ध शिवं वास्त्विति वाचयेत् ॥ ६० ॥ ब्राह्मणान् भोजयेत् पश्चात् पायसं हादशोत्तमान् । मण्डपे शोधिते स्थाप्या अन्तस्तम्भेष्वृगादयः॥ ६१ ॥ द्वारेषु च समालानि तोरणानि यथाक्रमम् । सुशोभनाख्यमाश्वत्थं सुभद्राख्यमुदुम्बरम् ॥ ६२ ।। नैयग्रोधं सुकर्माख्यं सुहोत्रं प्लाक्षमेव च । स्योनापृथिवीमन्त्रेण प्रक्षिपेत् साक्षतांस्तिलान् ॥ ६३ ॥ उच्छ्रयस्वेति संस्थाप्य प्रादक्षिण्येन पूजयेत् । दिक्षु पीतोऽरुणः श्यामः कृष्णोऽच्छः कृष्णपाण्डरः ॥ पद्मवर्णश्च चित्रोऽष्टौ ध्वजाः स्थाप्या यथाक्रमम् । कुमुदः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः ।। ६५ ॥ शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः । इत्येते पूजनीयाश्च ध्वजानामधिदेवताः ।। ६६ ।। अनेककोटिसंधैश्च भूतैः प्रत्येकशो वृताः । पूर्णकुम्भान् प्रतिद्वारं हो हौ विन्यस्य पूजयेत् ॥ ६७ ॥ पद्मरागप्रवालाप्सु प्राक् पूज्यौ पूर्णपुष्करौ । वैडूर्यपुष्यतोयस्थौ तथैवानन्दनन्दनौ ॥ ६८ ॥ वीरसेनसुषेणौ च नीले मरतके तथा । सम्भवप्रभवों चैव मुक्तास्फटिकतोययोः ॥ ६९ ॥ वास्तुपूजां पुरा कृत्वा तोरणध्वजपूजनम् । भूमेः परिग्रहोऽग्नेश्च संस्कारोऽनन्तरः स्मृतः ॥ ७० ॥ १. 'ता' ख. ग. पाठः.. २. 'त्यै' क. पाठः, ३ षोडशः पटलः । त्रातारं यदुलूकोऽथ इमं मे सन्त इत्यूचेः। दिक्पालकलशाचीयां तन्मन्त्री इह कीर्तिताः ॥ ७१ ॥ बढचोऽध्वर्यवश्चैव छन्दोगाथर्वणा द्विजाः। धर्मशास्त्रार्थतत्त्वज्ञा दिक्षु पारायणे स्मृताः ॥ ७२ ।। ऐतिहासिकवाक्यार्थतत्त्वज्ञा ब्रह्मवित्तमाः । कोणेषु मूर्तिपा एव कल्प्या होमेष्वनुक्रमात् ॥ ७३ ॥ स्वां स्वां विद्यां पठन्तस्ते तच्चित्ता निशि जागृयुः । स्वस्तिके मूलविन्यस्तधान्येऽष्टककुशान्विते ॥ ७४ ॥ द्वादशाक्षरमन्त्रेण शयनं तत्र कल्पयेत् । कलशान स्थापयेदष्टौ पीठस्य परितः क्रमात् ॥ ७५ ।। अद्भिः सम्पूरितान् सर्वान् धान्यराशिगतान शुभान् । सपल्लवमुखान् सूत्रवेष्टितान वस्त्रवेष्टितान् ॥ ७६ ॥ व्यस्तरष्टाक्षरैरेतान गन्धपुष्पैश्च पूजयेत् । योगपीठं प्रकल्प्यात्र शक्तिपर्यन्तमचयेत् ॥ ७७ ॥ सर्वधान्यैश्च पुप्पैश्च निवपेत पीठपर्ययात । विद्याधिपतयश्चात्र पूजनीयाः समन्ततः ॥ ७८ ।। विष्णुमैन्द्रे ततस्तत्र दक्षिणे मधुसूदनम् । त्रिविक्रमं तु वारुण्यां वामनं तु तथोत्तरे ।। ७९ ।। श्रीधरं तु तथाग्नेय्यां हृषीकेशं तु नैर्ऋते पद्मनाभं च वायव्यां दामोदरमथापरे ॥ ८० ॥ ऐशान्यां तस्य पीठस्य स्थापयेज्जलभाजनम् । सोष्णीषः सोत्तरीयश्च वाग्यतो वारि गालयत् ॥ ८१ ।। १. 'चा', २. 'सेक. पाटः. ३. 'न्याप्टककु' ख. ग. पाठः, १२४ विष्णुसंहितायां नवेनारोमवस्त्रेण प्रोक्षितेन च मन्त्रतः। पूरयेत् प्रणवेनैव पात्रं कुसुमवारिणा ॥ ८२ ॥ पूजयेत् पूरयित्वा तु द्वादशाक्षरविद्यया । रक्षितव्यं वितानाथैः सम्यगाच्छाद्य सर्वतः॥ ८३ ॥ मङ्गलाङ्करपात्राणि मङ्गलानि च विन्यसेत् । शङ्ख चक्रं पताकां च श्रीवत्सं दर्पणं वृषम् ॥ ८४ ॥ मत्स्ययुग्मं च कुम्भं च मङ्गलानि प्रचक्षते । कुर्यान्मण्डपमैशान्यां चतुरश्रं समन्ततः॥ ८५ ॥ चतुर्हस्तं चतुःस्तम्भं मध्ये पीठसमन्वितम् । स्नानद्रव्यैश्च संयुक्त क्रमात् कुम्भेषु पूरितैः ॥ ८६ ॥ अष्टोत्तरशतं हुत्वा घृतमष्टाक्षरेण तु । सम्पाताज्येन संस्पृश्य कलशानभिमन्त्रयेत् ।। ८७ ॥ हिरण्यवर्णा हरिणीमिति सर्वान् यथाक्रमम् । तत्राची तु समानीय स्नापयेदेकबेरके ॥ ८८ ॥ रत्नन्यासं पुरा कृत्वा लेप्यार्चा क्रियते यदा । प्रतिमान्या तु कर्तव्या लोहजा कर्मकारणात् ॥ ८९ ॥ प्रतिष्ठान्यासमुद्रादि मूलार्चायां प्रकल्पयेत् । स्नानादिशेषकर्माणि कर्मा यामिति स्थितिः॥ ९ ॥ मूला वापि कर्मा तथा तोयेऽधिवासिताम् । उद्धृत्य विधृतां यत्नाच्चतुर्भिर्मूर्तिधारकैः ॥ ९ ॥ दर्भपाणिः स्थितो विद्वानुपतिष्ठेत संस्थिताम् । नमस्तेऽर्चे! सुरेशानि ! प्रतीके विश्वकर्मणः ॥ ९२ ॥ १. 'वी' ख. ग. पाठः. २. 'लेप्यार्चा' क. पाठः. ३. दीन् . क' ख. ग. पाठः.
१२५ पाडशः पटलः । प्रभाविताशेषजगद्धात्रि! तुभ्यं नमो नमः। त्वयि सम्पूजयामीशं नारायणमनामयम् ॥ ९३ ॥ रहिता योनिदोषैरत्वमृद्धियुक्ता सदा भव । विज्ञाप्यैवं दुकूलांशुसिद्धार्थकयुतं शुभम् ॥ ९४ ॥ ऊर्णासूत्रेण बध्नीयात् कौतुकं दक्षिणे करे । अङ्गुष्ठानामिकाभ्यां तु सारयित्वा जितादिना ॥ ९५ ॥ अष्टाक्षरेण संजप्तं सप्तधा विनशान्तये । ततोऽर्चा तु सुवस्त्राढ्यां ब्रह्मयानेन तां नयेत् ॥ ९६ ॥ शाकुनेनैव सूक्तेन वितानाद्युपशोभिताम् । त्रीणीत्यास्थाप्य पीठे तां भद्रं कर्णेति कीर्तयेत् ॥ ९७ ॥ तेजोऽसीति समालिप्य गव्येनाज्येन साधकः । चूर्णैस्तोयैश्च संक्षाल्य स्नापयेत् तैयथाक्रमम् ॥ ९८ ॥ मृत्कषायौषधीतीर्थैर्गव्यैर्व्यस्तैः समस्तकैः । नद्यास्तटाभ्यां सङ्ग्रह्य मृदं वल्मीकजां तथा ॥ ९९ ॥ कुलीरवासतः क्षेत्राद् विषाणायाच्च वेदितः। शमीपलाशखदिरबिल्वाश्वत्थविकङ्कताः ॥ १० ॥ उदुम्बराश्च न्यग्रोधकषायाङ्गानि चैव हि। शङ्खपुष्पी प्रियङ्गु च विष्णुकान्तीं शतावरीम् ॥१०॥ दूर्वी चैवामृतां चैव गृह्णीयाद् रजनीं वचाम् । हिरण्यवर्णाः शुचयः समुद्रज्येष्ठेति च क्रमात् ॥ १०२ ।। इदमाप इमं मे च तीर्थ तं विनियोजयेत् । गायत्रया चैव गोमूत्रं गन्धद्वारेति गोमयम् ॥१०३ ॥ १. 'दजली ब' क. पाठः, २. 'न्तं वि'.ख. ग. पाठः.
। विष्णुसंहितायां आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि । तेजोऽसि शुक्रमित्याज्यं देवस्यत्वा कुशोदकम् ।। १०४॥ पञ्चगव्यं पयस्वत्या यासां गन्धोदकं तथा । आपोहिष्ठेति वै दद्यात् स्वच्छतोयं ततः परम् ॥ १०५ । परमेश्वरमन्त्रेण स्नापयेत् सकलेन च । मधुवातेति संयोज्य तैजसे मधुसर्पिषी ॥ १०६॥ उद्घाट्य नयने चास्य ततो हेमशलाकया । चित्रं देवेत्युचा चैकमाप्यायस्वेत्यूचापरम् ॥ १०७ ॥ यजमानेश्व गां दद्याद् गोविन्दः प्रीयतामिति । सापयेत् कलशैः पश्चात् चतुर्भिः कोणगैरपि ॥१०८ ॥ ब्रह्मश्रीचम्पकक्षीरनीपाम्रबकुळार्जुनैः । साशोकैः पल्लवैमन्त्री हंसः शुचिषदित्यूचा ॥ १०९॥ . पद्मकं रोचनां दृर्वी दर्भस्तम्बाच्छसर्षपान् । चन्दने जातिरावर्त कुन्दं विष्णोरराटया ॥ ११ ॥ यवव्रीहितिला हेम रजतं कूलमृद्वयम् । गोमयं भूम्यसंस्पृष्टं सोमं राजानमित्यूचा ॥ १११ ॥ शमीवर्यमृताक्रान्तिसहाभृङ्गमहौषधीः । श्यामाकं विश्वतश्चक्षुरिति तैः स्नानमाचरेत् ॥११२ ॥ आवाहयेत्ततो देवं पीताम्बरधरं हरिम् । एोहि भगवन् ! विष्णो! लोकानुग्रहकारक ! ॥ ११३ ॥ यज्ञभागं गृहाणेमं वासुदेव! नमो नमः । पाद्यमाचमनं चाय॑ दद्यान्मूलेन व ततः ॥ ११४ ॥ १. 'नोऽस्य गां', २. 'पि, ३. 'यी' ख. ग. पाठः.
षोडशः पटलः। १२७ अहते वाससी. दद्यात् पवित्रं चाष्टकेन तु । सौवर्ण दापयेत् सूत्रं विष्णुगायत्रिया पुनः ॥११५॥ भूषणानि ततो दद्याद् द्वादशाक्षरविद्यया । नीराजनं ततः कुर्याद् गन्धपुष्पाक्षतादिभिः ॥ ११६ ।। स्रग्भिश्च धूपदीपैश्च फलगोरोचनाञ्जनैः । पादुकव्यजनच्छत्रमधुपर्कैश्च पूजयेत् ॥११७॥ वारिधारां च मूलेन पातयेद् देवपादयोः । आचामं च पुनधूपं मुखवासं च दर्पणम् ॥ ११८ ॥ अङ्गरागं च मालां च दद्यात् पुष्पाञ्जलिं ततः । सामभिश्च ततः स्तुत्वा पवित्रं स्तोत्रमीरयेत्॥ ११९ ॥ पुण्याहं चात्र कुर्वीत वैष्णवैः सह मन्त्रवित् । .तिलाश्च दक्षिणा देया वैष्णवेभ्यो यथाविधि ॥ १२० ।। समाहितः स्मरेत् पश्चाद् भक्त्या तु पुरुषोत्तमम् । एवं कृत्वा तु तामर्चामानयेच्छयनं प्रति ॥ १२१ ॥ पौरुषेण तु सक्तेन शङ्कभर्यादिनिस्वनैः । हादशाक्षरमन्त्रेण शयने सन्निवेशयेत् ॥ १२२ ।। अयं स इति चोक्त्वान्ते सर्वयोगेश्वरीमिति। जपेदष्टाक्षरं मन्त्र मङ्गलानि च विन्यसेत् ॥ १२३ ॥ हेमपात्रे घृतं पूर्ण शिरःस्थानेऽस्य विन्यसेत् । राजतं मधुपूर्ण च पादस्थाने विचक्षणः ॥ १२४ ॥ सक्षीरं ताम्रपानं च दक्षिणेने प्रकल्पयेत् । लोहपात्रगतं वामे शान्तितोयं च विन्यसेत् ॥ १२५ ॥ १. 'रो', २. 'सम्यगर्पये' ख, ग. पाठः. ។
१२८
विष्णुसंहितायां
मृत्पात्रे पञ्चगव्यं च पञ्चमं तु तदग्रतः।
तेषामालभनं कुर्यात् परमेष्ठ्यादिभिः क्रमात् ॥ १२६ ॥
चतुरश्रं धनुर्वृत्तं त्रिकोणं च यथाक्रमम् ।
कारयेद् दिक्षु चत्वारि कुण्डानि कुशलो गुरुः ॥ १२७ ॥
अरत्निमात्रे पीठस्य समन्ताद्धस्तमानतः।
त्रिमेखलानि सर्वाणि कार्याण्यर्धावटानि च ॥ १२८ ॥
आचार्यकुण्डादुहृत्य पश्चादन्येषु निक्षिपेत् ।
कुण्डेषु संस्कृतं वह्निं कृत्वोल्लेखादिकं क्रमात् ॥ १२९ ॥
जननादिविहीनं तु प्रकृतिन्यासपूर्वकम् ।
स्वशाखाग्निमुखान्तेऽन्नं गायल्या जुहुयुःक्रमात ॥१३०॥
हृदयं पूर्वकुण्डे तु दक्षिणे तु शिरस्तथा ।
पश्चिमे तु शिखां कुर्यादुत्तरे कवचं तथा ॥ १३१ ।।
नेत्रास्त्रयोर्न कार्योऽत्र होमः स्यान्मूर्तिभिस्तु वा ।
समिदाज्यचरून लाजान् सर्षपांश्च यवास्तिलान् ॥ १३२॥
वीहीनाज्यं पुनश्चैवं सर्वकुण्डेषु होमयेत् ।
मूलेनाष्टसहस्रं तु तदाचार्यस्तु होमयेत् ।। १३३ ॥
शतमष्टोत्तरं चात्र पूर्णा दद्यात् शतेशते ॥ १३३३ ।।
इति विष्णुसंहितायां षोडशः पटलः ॥
.
.
अथ सप्तदशः पटलः ।
अथ वक्ष्यामि संक्षेपादधिवासनमुत्तमम् ।
यद्योगाज्जायतेऽर्चायां सदा सन्निहितो हरिः॥१॥
अस्वदग्धौ करौ जातावन्यौ तत्त्वमयौ स्मरेत् ।
प्रणवाङ्गुष्ठको कार्यों तौ स्वराङ्गुलिपर्वकौ ॥ २ ॥
सप्तदशः पटलः ।
१२९
सबिन्दुकतलौ सर्गपृष्ठगौ वामदक्षिणौ ।
व्यञ्जनानि पृथङ न्यस्य नादमङ्गुष्ठयोन्यसेत् ॥ ३ ॥
रेचयित्वा ततो वायुं प्रविशत् तत्र पूरके ।
विद्याकोशं ततः पश्चादानुपूर्येण मन्त्रवित् ॥ ४ ॥
महाभूतमयं देहं धर्माधर्मसमन्वितम्
शुष्कं दग्धं क्रमाद् ध्यात्वा प्लावितं च स्वबीजकैः ॥५॥
बिन्दुरूपयुत ध्यायेदात्मानं व्योम्न्यवस्थितम् ।
यथा सिक्ताद् भवेद् बीजादङ्करस्तद्वदात्मनः ॥ ६ ॥
प्रभवं चिन्तयेद् दिव्यं प्रणवत्वमुपागतम् ।
त्रिगुणामष्टधीयुक्तां प्रकृति तां विदुर्बुधाः ॥ ७ ॥
आद्यावकारौ बुद्धयाख्यौ इकारौ चाप्यहङ्कृतिः ।
मनो द्वौ तत्परौ व्योमपञ्चतत्त्वं स्वरान्तिकम् ॥ ८॥
आत्मजीवोदरश्रोत्रजिह्वाघ्राक्षित्वचः क्रमात् ।
ऊष्मान्तस्थाः शिरःकूटं बाहुजङ्ग्रे च वर्गशः ॥ ९ ॥
कवर्गोऽङ्गुलयः सर्वाः स्थूलदेहोऽयमीदृशः ।
सूर्याम्बुजस्थं वागीशं वागीश्वर्या समन्वितम् ॥ १० ॥
सर्वशक्तियुतं मन्त्रमष्टबाहुं हरिं स्मरेत् ।
दिवाकरसहस्राभं दुनिरीक्ष्यं मुरासुरैः ॥ ११ ॥
ब्रह्मरन्ध्रेण देहान्तः प्रविशन्तं विचिन्तयेत् ।
व्यापक विन्यसेन्मूलमङ्गानि च यथाक्रमम् ॥ १२ ॥
आत्मानं सर्वगं ध्यात्वा सर्वशं विष्णुमव्ययम् ।
कुर्याद् भावान्वितो विष्णोरधिवासनमुत्तमम् ॥१३॥
विष्णुसंहितायां
बिम्बाभिमानिनं जीवं तारकल्पितमाहृतम् ।
ध्यानेनात्मकतां नीत्वा पृथिव्यादीनि संहरेत् ॥ १४ ॥
शुष्कदग्धाप्लुतोळप्सु ता वह्नौ सोऽनिले स खे ।
पञ्चतत्त्वमयं विश्वं विलीनं व्योम्नि भावयेत् ॥ १५ ॥
तन्मनोगर्वधीमायाक्रमात् तारेश्वरं नयेत् ।
तां स्वामव्याकृति मायामधिष्ठाय सिमुक्षया ॥ १६ ॥
नादात्मा परमेष्ठयादिपञ्चकं सकलं सृजेत् ।
प्रणवात्मा स्वयं विष्णु कारादिषु मूर्तयः ॥ १७ ॥
वासुदेवादयः कान्ताः खादि क्ष्मान्तं च पञ्चकम् ।
स्थूलदेहोऽयमाख्यातस्तस्य विष्णोः षडात्मनः ॥ १८ ।।
सोऽनिरुहाब्जसम्भूतः पृथिव्यात्मा प्रजापतिः ।
सर्गभिन्नादतो विष्णोर्जात इत्यज उच्यते ॥ १९ ॥
स सृष्ट्वा पूर्वमप्तत्त्वं ससर्जाण्डं च पार्थिवम् ।
एवं सृष्टिरियं जाता चतुर्दशजगन्मयी ॥ २० ॥
तदण्डं पञ्चभूतात्मभूतं शुभ्रं हिरण्मयम् ।
बिम्बं ध्यात्वा स्वयं विष्णुजींवं संक्रामयेद्दतम् ॥
स विष्णुस्तारजीवात्मा नांदिभिः पञ्चशक्तिभिः ।
लिपिमूलाङ्गविन्यासैः सकलोऽष्टभुजो भवेत् ॥ २२ ॥
शयने स्थापयित्वा! ततो हुत्वा घृतं कमात् । .
कुर्यात् षोडशकं न्यासं नाहुत्वा न्यास इप्यते ॥ २३ ॥
तारव्याहृतिलिप्यृक्षकालवर्णज(लाल) श्रुतिः ।
वैराजदेवतायज्ञगुणास्त्राणि यथाक्रमम् ॥ २४ ॥
सप्तदशः पटलः। १३१ तैः शक्तिमन्त्रजीवान्तैन्यासः षोडशधा स्मृतः। होमयेत् प्रणवं पूर्व मात्रात्रयविभेदितम् ॥ २५ ॥ ब्रह्माणं केशवं रुद्रं पादहन्मस्तके न्यसेत् । आहुत्यष्टशतं चात्र होतव्यं तैरनुक्रमात् ॥ २६ ॥ व्याहृतित्रितयं चैव त्रैलोक्यप्रीणनाय वै । अकारादिक्षकारान्तं मातृकां होमयेत् ततः ॥ २७ ॥ ताल्वास्यवीक्षणश्रोत्रदन्तोष्ठेषु कजिह्वयोः । असंवृता नसोर्गण्डद्वितये चैव संवृताः ॥ २८ ॥ नाभिहच्छोणिजठरेश्रोत्रदन्ताग्रनासिकाः । दृष्टिस्त्वगिति कूटाद्या दोर्जङ्घाङ्गुलयस्तथा ॥ २९ ॥ नक्षत्रग्रहताराश्च हुत्लाङ्गेषु निवेशयेत् । दृशोरुरोधीवाग्रेतोललाटाङ्घिकचे ग्रहाः ॥ ३० ॥ रोहिण्यादिक्रमादेवं नक्षत्राणि च होमयेत् । हृत्ककेशललाटास्यनासिकादशनेष्वथ ॥ ३१ ॥ श्रुत्यो होः करद्वन्द्वे स्तनयोः कुक्षिपार्श्वयोः । कट्यां चक्षुषि लिङ्गेऽण्डे पायावृवोंश्च जङ्घयोः ॥ ३२ ॥ पादयोश्च क्रमादेवं कृत्तिकान्तोडुकल्पना । ध्रुवो नाभ्यां स्थितस्तस्य कण्ठे सप्तर्षयस्तथा ॥ ३३ ॥ कटिदेशे स्थितं तस्य विज्ञेयं मातृमण्डलम् । पदानि त्रीणि पादेऽस्य वनमाला तु वीथिका ॥ ३४ ॥ रोमाणि तारकासंघा अगस्त्यः कौस्तुभो मणिः । कालरूपं यजेत् पूर्व संवत्सरतनुं हरिम् ॥ ३५ ॥ १. 'रे। ख. ग. पाठः.
१३२ विष्णुसंहितायां कास्यह*विस्तनक्रोडकटिव्यूरुनलाघ्रिषु । चैत्रादयः स्थिता मासा द्वादशैवं सफाल्गुनाः ॥ ३६ ॥ उत्पूर्वश्चानुपूर्वश्च परिपूर्वश्च वत्सरीः । सम्पूर्वश्चेति विज्ञेयाः चत्वारस्तस्य बाहवः ॥ ३७ ॥ पर्वाण्यस्याङ्गपर्वाणि ऋतवश्वाङ्गसंज्ञकाः । अहोरात्राणि चास्थीनि रोमाण्यल्पाः क्षणादयः ॥ ३८ ॥ कृतादि मुखहृच्छोणिपादे युगचतुष्टयम् । मन्वन्तराणि बाह्वोश्च विभागेन प्रकल्पयेत् ॥ ३९॥ परार्धद्वितयं जके महाकल्पं शिरो विदुः । अयने हे पदे चैवमुक्तः संवत्सरांकृतिः ॥ ४० ॥ मुखबाहूरुपादस्था वर्णाश्च ब्राह्मणादयः। पादाङ्गुलीषु विज्ञेया वर्णाः सङ्करजातयः ॥ ४१॥. सर्वाङ्गसन्धिषु तथा उत्कृष्टाः सङ्करास्तु ये । गावो मुखेऽस्य विज्ञेयाः स्तनयोश्चाप्यजाविकाः ॥ ४२ ॥ पदोरेकशफा ऊोर्टाम्यारण्या व्यवस्थिताः । केशेषु मेघा विज्ञेया रोमाण्यभ्राणि तस्य वै ॥ ४३ ॥ सर्वाङ्गावयवा नद्यः समुद्राः कुक्षिसंस्थिताः । यज्ञास्तस्य शिरो ज्ञेयमृग्वेदो दक्षिणो भुजः ॥ ४४ ॥ सामवेदः स्मृतो वामः सर्वोपनिषदो हृदि। इतिहासपुराणानि जङ्घ यजुरुरः स्मृतम् ॥ ४५ ॥ अथर्वाङ्गिरसो नाभिः कल्पसूत्राणि पादयोः । शीक्षा व्याकरणं वक्र तर्कः कण्ठं समाश्रितः ॥ ४६ ॥ १. र' क. पाठः. २. 'र्णस' ख. ग. पाठः. व्यख्यानाद् द्विस्तनमित्येकम् ।
सप्तदशः पटलः।
१३३
मीमांसा हृन्निरुक्तं च छन्दो ज्योतिश्च चक्षुषी।
गारुडं भूततन्त्रं च श्रोत्रयुग्मे व्यवस्थितम् ॥ १७ ॥
हस्तयोश्च धनुर्वेद आयुर्वेदश्च कीर्तितः ।
योगशास्त्राणि हृद्येव नीतिशास्त्राणि पादयोः ॥ १८ ॥
वाग्गीतं करयोजृत्तं कला विद्याश्च रोमसु ।
धौमूर्धन्दर्कनेत्रस्य घ्राणे प्राणान्मकोऽनिलः ॥ ४५ ॥
नाभ्यां व्योमाब्धयो बस्तौ पादे भूः मचलाचला ।
हिरण्यगर्भ मूय॑स्य सीन केशेषु विन्यमेत ॥ .. ॥
रुद्रं ललाटे भ्रकुटावन्तकं श्रवणेऽश्विनी ।
मुखे वैश्वानरं न्यस्य जिह्वायां च सरस्वतीम ॥ ५१ ॥
रुद्रान् दत्सु वसून् कण्टे दृश्यादित्यान् निवेशयेत् ।
बाहोरिन्द्रं बलिं चैव प्रह्लादं वामके स्तने ॥ ५२ ।।
दक्षिणे विश्वकर्माणं नारदं कुक्षिसंस्थितम् ।
अनन्तं वामकुक्षिस्थं वरुणं बस्तिसंस्थितम् ॥ ५३ ॥
मित्रं पायौ कटौ तायं विश्वान् देवान तथोरगान ।
पितॄन् जानुहये यक्षान् नले गुल्फे तु राक्षसान् ॥ ५४ ॥
पिशाचान् प्रपदे पायोन्य॑सेद् विद्याधरांस्तथा ।
ग्रहांस्तले नखेष्वेव जम्भकादीन् सपूतनान् ॥ ५५ ॥
अङ्गुल्योऽप्सरसः कट्यां कात्तिकेयगणेश्वरी ।
गन्धर्वानोष्ठयोय॑स्य सर्वभूतानि पृष्ठतः ।। ५६ ॥
मत्स्यं के पादयोः कूर्म वराहं जङ्घयोयंसत ।
नरसिंहं ललाटे तु वामनं मुखमध्यतः ॥ ५७ ॥
विष्णुसंहितायां १ नाभिहत्कटिगुह्येषु रामान् कृष्णं च विन्यसेत् । कलिकनं जानुदेशे तु नरनारायणौ पदे ॥ ५८ ॥ न्यसेद् बाहुषु चैवास्य तथा बाहुसहस्रिणम् । अश्वमेधः शिरस्तस्य नरमेधो ललाटकम् ॥ ५९ ॥ गजसूयो मुखं चैव गोसवः कण्ठसंस्थितः । द्वादशाहश्च हृदयमहीनो नाभिसंस्थितः ।। ६० ॥ विश्वजिद् विश्वमेधं च कटिदेशे व्यवस्थितौ । अमिष्टोमोऽस्य लिङ्गस्थो वृषणे चातिरात्रकः ॥ ६१ ॥ अप्तोर्यामस्तथोरुस्थः पोडशी जानुगोचरे । उक्थ्यश्च वाजपेयश्च नले त्वमिस्तु पादयोः ॥ ६२ ॥ चातुर्मास्यानि चैवास्य बाहुष्वेव नियोजयेत् । सौत्रामणिं तले न्यस्य पश्विष्टिं चाङ्गुलीगताम् ॥ ६३ ॥ दर्शश्व पौर्णमासश्च दृशो रोमाणि चेष्टयः । म्वाहाकारवषट्कारौ स्तनयोः संव्यवस्थितौ ॥ ६४ ॥ बाह्वोरङ्गुलयः पञ्चमहायज्ञाः प्रकीर्तिताः । हृदयं दक्षिणा तस्य दर्भाः केशास्त्वगम्बरम् ॥६५॥ मुखमाहवनीयाग्निर्हन्नाभी दक्षिणापरौ । प्रवग्र्यो भूषणं तस्य सवनानि गतित्रयम् ॥ ६६ ॥ पाकयज्ञा हविर्यज्ञाश्चरणाङ्गुलयः स्मृताः । आज्यभागौ दृशौ ज्ञेयो वेदी श्रोणी मुखं हविः ।। ६७ ।। होमेन प्रीणयेत् पूर्व तनुं तस्य गुणात्मिकाम् । धर्म तु विन्यसेन्मूर्ध्नि दशधा संव्यवस्थितम् ॥ ६८ ॥ १. 'म्ये', २. 'के', ३. 'सो' क. पाठः. ॥
सप्तदशः पटलः । २३५ ज्ञानं हृद्यष्टधा गुह्ये वैराग्यं नवधा न्यसेत । ऐश्वर्य चाष्टधा पादे सेयं गुणमयी तनुः ॥ ६९ ॥ शङ्खचक्रगदापद्मन्यासः साधारणः स्मृतः। विशेषा ये च तन्त्रोक्ता मूर्तिभेदेन तान्यपि ।। ७० ॥ हृदि शान्तिर्ललाटे श्रीर्मुखे चास्य सरस्वती । रतिर्गुह्ये नले प्रीतिः कीर्तिस्तु परितो भवेत् ॥ ७१ ।। कुक्षौ तुष्टिस्तनौ पुष्टिः शक्तिन्यासोऽयमीरितः। मन्त्रन्यासोऽक्षराङ्गात्मा पूर्वमेव समीरितः ॥ ७२ ।। श्रीवत्समुरसि न्यस्य कौस्तुभं नाभिमण्डले । वनमालां गले न्यस्य मुद्रान्यासोऽयमीरितः ॥ ७३ ॥ नाभेरधस्तादुत्थाप्य करणैश्च समन्वितम् । तन्मात्रदेहप्राणैश्च पश्चभिर्व्याप्य विग्रहम् ॥ ७४ ॥ ऐश्वर्यधर्मज्ञानैश्च वैराग्येण च संयुतभ । स्फुरद्रश्मिप्रतानेन व्याप्ताशपदिगन्तरम् ॥ ७५ ।। दिवाकरसहस्राभामिडया ब्रह्मरन्ध्रगम् । स्थित्वा किञ्चित ललाटेऽन्तः प्रविशन्तं विचिन्तयेत् ।। शीर्षण्यांस्तु दश प्राणान् तत्रस्थोऽपि नियोजयेत । कर्णिकाद्वारमार्गेण प्रविश्य हृदयाम्बुजम् ॥ ७७ ।। वृत्तिपञ्चकभेदेन प्राणादींस्तत्र योजयत् । पादनासान्तरे प्राणमपानं पृष्ठता न्यसंत ॥ ७८ ।। व्यानं सर्वगतं चैव उदानमुदरोर्ध्वगम् । समान नाभिहृदये नागादीन्यथ पञ्च वै ॥ ७५ ॥ १. 'पे ख. ग. पाठः, १
१३६
विष्णुसहिताया
पुर्यष्टकं हृदि न्यस्य तन्मध्ये पुरुषोत्तमम् ।
अनुग्रहकर सौम्यं सर्वज्ञं विश्वतोमुखम् ॥ ८ ॥
ध्यायेदेवं कृते सार्चा सजीवा जायते क्षणात् ।
अधिवासे न सा कार्या न्यासाः पञ्चदशैव तु ॥ ८१ ॥
सजीवकरणं कुर्यात् स्थापिते मधुसूदने ।
जीवन्यासक्रम यस्तु न जानात्युपदेशतः ॥ ८२ ॥
आचार्या न स मन्तव्यो निग्राह्यस्तस्करो यथा।
एतस्मिन्नेव काले तु पिण्डिकां चाधिवासयेत् ॥ ८३ ॥
न्यासक्रमस्तु तत्रापि कथ्यमानोऽवधार्यताम् ।
शोधयित्वा पुरा दर्भ मृत्त्वग्गव्याम्बुभिः क्रमात् ॥८४ ॥
तत्राधिवासयेद विद्वान् प्रकृति पिण्डिकात्मिकाम् ।
मातृका विन्यसेत् तत्र शक्तिरूपां प्रकल्पयेत् ।। ८५॥
प्रणवं विन्यसन्मध्ये तद्वारे पोडश स्वरान् ।
व्यञ्जनानि च नहाही पर्जन्यादि प्रदक्षिणम् ॥ ८६ ॥
तत्रैव विन्यसेत पद्म पद्म स्थाप्याश्च शक्तयः ।
अनुग्रहं यया युक्तो नित्यं स कुरुते प्रभुः ॥ ८७ ॥
स्थितस्तस्यां सदा पृज्यः परात्मा हरिरव्ययः ।
पाद्यगन्धादिभिर्देवीं बलिभिश्व प्रपूजयेत् ॥८८ ॥
अहतैश्चैव वासोभिलक्ष्मीरूपां च कल्पयेत् ।
होमं शत्त्यष्टकान्तानां कुर्यादाचार्य एव तु ॥ ८९॥
अयनस्य च शक्तेश्व प्रासादस्य ततः क्रमात् ।
तत्रोक्तस्तत्त्वविन्यासः पूर्वमेवाधुना स्मृतः ॥ ९ ॥
तथा पुरुषरूपं तं कल्पयित्वा यथाक्रमम् ।
प्रासादं पूजयेत् पश्चाद् गन्धपुष्पादिभिः शुभैः ॥ २१ ॥
सप्तदशः पटलः। ततो ब्रह्मशिलां चात्र शोधितामधिवासयेत् । अनन्तासनविन्यासो नपुंसकशिलोपरि ॥ ९२ ॥ नपुंसकं परं ब्रह्म सर्वाधार तदुच्यते । आलिखेन्मण्डलं चात्र तण्डुलैः पञ्चरङ्गिकैः ॥ १३ ॥ चतुरश्रं चतुर्दारं मध्ये पद्मसमन्वितम् । पूर्व तु सकलीकृत्य प्रतिमां देशिकोत्तमः ॥ ९४ ॥ अङ्गप्रत्यङ्गभेदेन स्वकल्पोदितवर्मना। साङ्गं प्रपूजयेद्देवं गन्धपुष्पादिभिः क्रमात् ॥ ९५ ॥ अलङ्कारैनिवेद्यैश्च यथाविभवविस्तरम् । मण्डलेऽभ्यर्चयेद्विद्वान् साऊं देवमधोक्षजम् ॥ ९६ ॥ अर्चायां या तु विन्यस्ता मूर्तिस्तां तत्र कल्पयेत् । साङ्गं सपरिवारं च तत्रेष्वा विधिनाच्युतम् ॥ ९७ ॥ हुत्वाग्निं च यथान्यायं पार्षदेभ्यो बलिं हरेत् । आद्याश्च कर्मजाश्चैव ये भूताः प्राग्दिशि स्थिताः ॥९८॥ प्रसन्नाः परितुष्टास्ते प्रतिगृह्णन्त्विमं बलिम् । दक्षिणे पाश्चमे चैव उत्तरे च नियोजयेत् ॥ ९९ ॥ गन्धपुष्पाणि धूपं च दीपमन्नं जलं क्रमात् । विदिक्षु च यथान्यायं दद्याच्चैव ततो बलिम् ॥ १० ॥ वृक्षेषु पर्वताग्रेषु ये विदिक्षु च संस्थिताः । भूमौ व्योम्नि स्थिता ये च तेऽपि गृह्णन्त्विमं बलिम् ॥१०॥ विनायकाः क्षेत्रपाला ये चान्ये बलिकाक्षिणः । पूर्वाधाः पार्षदाश्चैव प्रतिगृह्णन्त्विमं बलिम् ॥ १०२ ॥ १. 'पयित्वाधि' स. ग. पाठः. T १३८ विष्णुसहितायां परितोऽनेन वै दद्यात् परिभ्रम्य प्रदक्षिणम् । आचम्यान्तः प्रविश्याथ कृतन्यासः समाहितः ॥ १०३ ॥ शान्ति व्याहृतिभिर्तुत्वा ततो देवं क्रमात् स्पृशेत् । घृतं भूरिति हुत्वा द्वौ पादौ देवस्य संस्पृशेत् ॥ १० ॥ दना च भुव इत्येवं ततो नाभ्यन्तरं स्पृशेत् । क्षीरं स्वरिति हुत्वाथ ततोऽस्य हृदयं स्पृशेत् ॥१०५॥ भूर्भुवः स्वश्च हुत्वैवं मधुना मूर्ध्नि संस्पृशेत् । सर्व मूलेन हुत्वान्ते सर्वगात्रं तु संस्पृशेत् ॥ १.६ ॥ अष्टाष्टाहुतयश्चात्र निर्दिष्टाः शान्तिकर्मणि । सुवेण द्रव्ययुक्तेन स्पर्शनं चात्र कीर्तितम् ॥ १०७ ॥ द्रव्ये द्रव्ये तथा स्पृष्ट गन्धपुष्पैः समर्चयेत् । क्षालयित्वा स्रुवं पैश्चात् कार्या द्रव्यान्तराहुतिः ॥१८॥ चतस्रो धेनवः स्थाप्या दक्षिणद्वारसन्निधौ । उत्तराभिमुखाः शान्ता रज्जुबडाः सवत्सकाः॥१०९ ।। गङ्गा च यमुना चैव तथा गोदा सरस्वती । नामभिः पूजयित्वा ता गन्धपुष्पैर्यथाक्रमम् ॥ ११ ॥ दुहेत्ता विष्णुगायच्या तयैव श्रपयेचरुम् । निवेदयेत् तया चैव तयैवान्ते बलिं हरेत् ॥ १११ ॥ भोजयेद् ब्राह्मणांस्तत्र भक्तान् द्वादश पायसम् । मण्डपस्योत्तरे पाचँ हिरण्यं दक्षिणा भवेत् ॥ ११२ ॥ . १. 'दो' ख. ग. पाठः, २. 'कुयात् पश्चात् द्र' क. पाठः. ३. नीयास्ता' क. घ. पाठः. ४. 'श्चैव भ' क., 'चात्र भ' प. न. पाठः.
अष्टादशः परलः। १३९ सुरभीश्च गुरोर्दद्याद् विष्णुमें प्रीयतामिति । एवं कृत्वा ततः पश्चाद् रात्रौ जागरणं भवेत् ॥११३ ॥ शङ्खतूर्यादिसंयुक्तं नृत्तगीतादिसंयुतम् । सेतिहासपुराणाभिः कथाभिश्च नयन्निशाम् ॥ ११४ ॥ प्रभाते सुदिने वारे पुण्यराश्युदये तथा । मौहूतिकोपदिष्टेन लग्नेन स्थापयेत् सुधीः ॥ ११५ ॥ इति विष्णुसंहितायामधिवासपटलः सप्तदशः ॥ अथाष्टादशः पटलः । अथ वक्ष्यामि संक्षेपात् प्रतिष्ठाविधिमुत्तमम् । वास्तुयागं पुरा कृत्वा मुहलें स्थापनं भवेत् ॥ १ ॥ कृत्वा नान्दीमुखं शक्त्या षडष्टौ द्वादशाथवा । भोजयेद् ब्राह्मणान् शान्तान् वैष्णवांस्तु विशेषतः ॥ दद्याद्वस्त्राङ्गुलीयादि हिरण्यं च स्वशक्तितः। प्रासादस्य तु सर्वस्य मार्जनं कारयेत्ततः ॥ ३ ॥ तथाचाभ्यन्तरं दर्भः सशलाकैः प्रयत्नतः। पञ्चगव्येन गन्धैश्च प्रोक्ष्य मूलाभिमन्त्रितैः ॥ ४ ॥ होमार्थ वालुकाभिस्तु प्रासादस्य समन्ततः । कारयेच्चतुरश्राणि स्थण्डिलानि यथाक्रमम् ॥ ५॥ दिक्षु चाष्टासु कृत्वैवमष्टौ च कलशान् न्यसेत् । कुसुमोदकसम्पूर्णान् सपिधानान् सपल्लवान् ॥ ६ ॥ सप्तसप्तविभागेन गर्भागारे विभाजिते । ब्रह्मदेवमनुष्याणां पिशाचानां पदानि तु ॥ ७ ॥ १. 'शस्तान्' ख. ग. पाठः, . ૨ 34 विष्णुसंहितायाम् मध्यादारभ्य यत्नेन क्रमाद् ज्ञेयानि सर्वतः । ब्राह्मः पञ्चदशांशः स्याद् देवभागास्त्रयोदश॥ ८॥ एकादश नवांशाश्व शिष्टयोः पृष्ठभागतः । गमनं त्रिविधं प्रोक्तं पृष्ठसौम्येशभेदतः ॥ ९ ॥ कल्पनीयं यथान्यायं द्रव्यसंस्थानयोगतः। स्थितासीनशयानानां स्थानानि परिकल्पयेत् ॥ १०॥ ब्रह्मांशे मध्यमं त्यक्त्वा द्वितीयं चापि पृष्ठतः । स्थितैकबेरबिम्बस्य तृतीये स्थानमिष्यते ॥ ११ ॥ त्रिभक्ते द्वारविस्तारैत्रिसप्तांशेषु मध्यमे । मध्याधुनोत्तरे सूत्रं गमनार्थ प्रकल्पयेत् ॥ १२ ॥ पश्चिमोत्तरसंयोगे कर्णसूत्रं प्रकल्प्य तु । बिम्बाङ्गुलियवेनैशे गमयेद् द्वियवेन वा ॥ १३ ॥ ब्रह्मभागं परित्यज्य स्थानार्चा स्थाप्यते यदि । तन्मण्डलाधिपो राजा स्थापकश्च विनश्यति ॥ १४ ॥ क्रिया च निष्फलैव स्यात् तस्माद्यत्नेन मापयेत् । किश्चिन्मानुषमाश्रित्य कुर्यादासनकर्म च ॥ १५ ॥ देवमानुषभागाभ्यां कुर्याच्च शयनं बुधः। अर्चनापीठिका ब्राह्मे स्थापना दैविके यदा ॥ १६ ॥ मानुषेऽस्य परीवाराः पैशाचे त्वायुधानि च । कृत्वा पादशिलास्थानं वृत्तं वा चतुरश्रकम् ॥ १७ ॥ पादपीठस्य चाधस्तात् ततो ब्रह्मशिलां न्यसेत् । त्वमेव परमा शक्तिस्त्वमेवासनधारिका ॥ १८ ॥ १. 'रे', २. 'शं तु म ।' ख. ग. पाठः.
अशदशः पटलः। १ . देवाज्ञया त्वया देवि! स्थातव्यमिह सर्वदा । इति विज्ञाप्य तां पूर्व गन्धपुष्पैः प्रपूजिताम् ॥ १९ ॥ ध्यात्वोवीं स्थापयेद्गर्ने मन्त्रेणानेन देशिकः । स्थितं चराचरं यस्यां रत्नानां निधिरव्ययः ॥ २० ॥ सा त्वं ब्रह्मशिलारूपा तिष्ठात्र धरणि! स्थिरा। एवं संस्थाप्य तां भूयो गन्धपुष्पैः प्रपूज्य च ॥ २१ ॥ रत्नन्यासं ततः कुर्याद् विधिदृष्टेन वर्त्मना । गर्ताश्च निम्नावरणाश्चत्वारो विहिताः क्रमात् ॥ २२ ॥ मध्यान्तमष्टदिक्ष्वष्टौ न्यस्तव्यानि यथाक्रमम् । तेषु बीजानि रत्नानि धातुलोहायुधानि च ॥ २३ ॥ सर्वद्रव्याणि संयोज्य ब्रह्मस्थाने तु विन्यसेत् । ये गुणाः प्रथिता विष्णोरैश्वर्याष्टकसंज्ञया ॥ २४ ॥ तानि रत्नानि दिकस्थानि न्यासकाले विचिन्तयेत्। वायुव्योमान्तरस्थानि येषां बीजानि ते गुणाः ॥ २५ ॥ ईशित्वादिक्रमात् सम्यक् पूर्वाद्याशाविह स्मृताः। मध्ये तु प्रणवो ज्ञेयो गुणाष्टकयुतः पुमान् ॥ २६ ॥ शोधयेत् पञ्चगव्येन गर्तमष्टाक्षरेण तु । प्रोक्षयेद् गन्धतोयैश्च द्वादशाक्षरविद्यया ॥ २७ ॥ होमकर्म ततः कुर्यात् प्रासादोत्तरपार्श्वतः । लौकिक चामिमानीय शरावेऽभिनवे ततः ॥ २८ ॥ वैष्णवीकरणं कुर्यात् संस्कृतं वह्निमानयेत् । अष्टाक्षरेण जुहुयादाज्याहुतिसहस्रकम् ॥ २९ ॥ १. 'जयेत् ॥ ध्या' ख. ग. पाठः.
. विष्णुसंहितायाम् ततः समित्सहस्रं च द्वादशाक्षरविद्यया। हुत्वाज्यं चाथ गायत्रया रत्नानि समुपस्पृशेत् ॥ ३० ॥ आज्याहुतिसहस्रं वा गायत्त्यैवात्र होमयेत् । अथवाष्टशतं मुख्यं मध्यमं चाधमं भवेत् ॥ ३१ ॥ तया संस्पृश्य रत्नानि गर्तेषु विनिवेशयेत् । न गर्नादधिक द्रव्यं न हीनं च प्रकल्पयेत् ॥ ३२ ॥ कचिहव्यसमं गत कारयेत् कुशलो गुरुः । अष्टाक्षरस्य वर्णैस्तु व्यस्तैरेव यथाक्रमम् ॥ ३३ ॥ यवादीन् दिक्षु विन्यस्य मध्ये सिद्धार्थकं न्यसेत् । ततो वज्रादिरत्नानि पद्मरागं च मध्यतः ॥ ३४ ॥ मनःशिलादिधातूंश्च पारतं तं तथा न्यसेत् । सुवर्णादीनि दिक्ष्वष्टौ मध्ये पद्मं हिरण्मयम् ॥ ३५॥ संस्पृशेद् विष्णुगायत्च्या ततो गतं सदक्षिणम् । बीजादीनामलाभेऽपि तत्स्थानेषु यथाक्रमम् ॥ ३६ ॥ शालिमुक्ताहरीतालसुवर्णानि न्यसेद् बुधः । पुण्याहं वाचयेत् पूर्व वैष्णवैः सह मन्त्रवित् ॥ ३७॥ रत्नन्यासं ततः कृत्वा पिण्डिकां तत्र विन्यसेत् । प्रणीय वैष्णवं वह्निमैशान्यां मूलविद्यया ॥ ३८ ॥ जुहुयात् समिधो ब्राह्मीः सहस्रं शतमेव वा। अष्टोत्तरमथाज्येन गायत्या विष्णुसंज्ञया ॥ ३९ ॥ मूर्तिशक्तिभिरङ्गैश्व घृतमेव यथाक्रमम् । हुत्वा च शक्तितो विद्वान् शान्तितोयं समाहरेत् ॥४॥ १. 'तुं च पा' ख. ग., 'तूनि पा' . पाठः.
अष्टादशः पटलः । ततश्चाग्निं समानीय वैष्णवैर्मन्त्रवित्तमः। होतव्यमष्टदिक्ष्वेवं समिहिर्मूलविद्यया ॥४१॥ पलाशखदिराश्वत्थप्लक्षन्यग्रोधजास्तथा । काश्मर्यो रोहिताश्चैव बिल्वोदुम्बरजाः क्रमात् ॥ ४२ ॥ हादशाङ्गुलमानास्ताः समिधस्तु प्रकीर्तिताः । कनिष्ठिकाप्रमाणाश्च पृथगष्टसहस्रिकाः ॥ ४३ ॥ एवं कृत्वा दिशाहोमं शान्तिवारि समाहरेत् । वैष्णवे ताम्रपात्रे तु सर्वकुम्भोपसंभृतम् ॥ ४४ ॥ शतवारं तु मूलेन मन्त्रयित्वाथ देशिकः । अष्टाक्षरस्य वर्णैस्तु पूरयित्वा प्रदक्षिणम् ॥ ४५ ॥ प्रणवेन तु सर्पूज्य गन्धपुष्पैर्यथाक्रमम् । करगुप्तं तदादाय सपिधानं सवस्त्रकम् ॥ ४६॥ ध्यात्वात्र परमं विष्णुं तेजोरूपमनामयम । कर्मा यास्ततो मूनि सिश्चेदोमित्युदाहरन् ॥ ४७ ॥ सिक्त्वा तु प्रतिमामूनि सर्वतीर्थमयं जलम् । विसृज्य वाससी पूर्वे वस्त्राभ्यां छादयेत् पुनः॥ ४८ ॥ गन्धपुष्पादिभिः सम्यग् यथाविभवमर्चयेत् । उत्तिष्ठेति समुत्थाप्य शङ्खदुन्दुभिनिःस्वनैः॥ ४९ ॥ प्रतिमामानयेद् विद्वान् प्रासादस्य प्रदक्षिणम् । अतो देवेति सूक्तेन मूर्तिपैः सहितो गुरुः ॥ ५० ॥ १. 'व', २. 'स' ख. ग. पाठः. ३. 'ह' क.घ.. ४. 'स्पृश्य ग' ख. ग. पाठः. ". 'वविस्तरम् क. ग. पाठः. पाठ..
विष्णुसंहितायाम् द्वारदेशे च दत्त्वायं मुहूर्ते शोभने ततः । प्रवेशयेत् प्रयत्नेन प्रासादं देशिकोत्तमः ॥ ५१ ॥ प्रवेश्यान्तयथा किञ्चिदधश्चोर्ध्व न संस्पृशेत् । पीठं प्रदक्षिणीकृत्य ततः सर्वेण विन्यसेत् ॥ ५२ ॥ ध्यायेञ्च परमं विष्णुं निष्कलं मन्त्रवित्तमः । सुलने स्थापयेद् ध्यात्वा सर्वतत्त्वमयं सुधीः ॥ ५५ ॥ लोकानुग्रहहेत्वर्थ स्थिरीभव सुखाय नः । सान्निध्यं हि सदा देव! प्रत्यहं परिवर्तय ॥५४॥ मा भूत् प्रजाविरोधोऽस्मिन् यजमानः समृदयताम् । सभूपालं तथा राष्ट्रं सर्वोपद्रववर्जितम् ॥ ५५ ॥ क्षेमेण वृद्धिमतुलां सुखमक्षयमश्नुताम् । इत्युक्त्वाग्रे पठेच्चास्य विश्वतश्चक्षुरित्यृचम् ॥ ५६ ॥ सजीवकरणं कृत्वा पञ्चोपनिषदा क्रमात् । शान्ति हुत्वा यथान्यायं देवं तमभिषेचयेत् ॥ ५७ ॥ ध्यात्वा तु निष्कलं विष्णुं सकलं भावयेत्ततः । आकाशं तस्य मूर्तिः स्यात् पृथिवी तस्य पीठिका ॥५८ ॥ विग्रहं कल्पयेत् तस्य तेजसः परमाणुभिः । तेजोमयं ततो ध्यात्वा शङ्खचक्रगदाधरम् ॥ ५९ ॥ मन्त्रन्यासं ततः कुर्यात् सर्गस्थित्यन्तभेदतः । तेजोमयं ततो ध्यात्वा सकलं सकलेश्वरम् ॥ ६ ॥ निरुध्य प्रणवेनाथ विभक्तेन्द्रियविग्रहम् । सर्वशक्तिसमायुक्तं सर्वावयवसुन्दरम् ॥ ६१ ॥ १. 'तस्य' ख. ग. पाठ::
अष्टादशः पटलः॥ पीताम्बरकिरीटादिप्रोज्ज्वलं प्रोज्ज्वलायुधम् । अर्चयेत् सकलीकृत्य साङ्गं सावरणं ततः ॥ १२॥ दर्शयित्वाथ मुद्रां च प्रणमेद् दण्डवत् क्षितौ । ब्रह्मादिपरिवारांस्तु स्वनाम्नास्त्राणि विन्यसेत् ॥ ६३ ॥ अर्चयित्वा स्वमुद्राश्च दर्शयेत् पार्षदान् पृथक् । पूजयित्वा ततो देवं प्रणम्याञ्जलिमुद्रया ॥ ६४ ॥ जपेदष्टशतं मूलमनुज्ञाप्य तमीश्वरम् । निर्गम्याभिमुखो भूत्वा पुष्पतोयादिसंयुतम् ॥ ६५ ॥ द्वारि चण्डं प्रचण्डं च देवदौवारिकावुभौ । नमोन्तेन स्वनाम्ना तु स्थापयित्वा बलिं हरेत् ॥ ६६ ॥ वैनतेयमनन्तं च गणेशं दक्षिणेश्वरम् । लोकपालांश्च संस्थाप्य विष्वक्सेनं च पूजयेत् ॥ १७ ॥ लंप्येऽधिवास्य कर्मा! प्रवेश्य सुरमन्दिरम् । इयं सा देव ते मूर्तिरोमित्युक्त्वात्र विन्यसेत् ॥ ६८ ।। जीवन्यासादि सर्व तु कर्तव्यमिह पूर्ववत् । स्नानादीनि तु कर्माणि कर्मार्चायां प्रयोजयेत् ॥ ६९ ॥ तत्त्वन्यासादि सर्व तु मूलार्चायामिति स्थितिः । विष्णुपारिषदान् सर्वान् बलिपीठे प्रकल्प्य तु॥७. उपस्पृश्य कृतन्यासः प्रविश्यान्तर्गृहं सुधीः । मूलमष्टशतं जप्त्वा देवं तमभिवादयेत् ॥ ७१ ॥ स्तोत्रैर्नानाविधैः स्तुत्वा महापुरुषपूर्वकैः । प्रणाममुद्रया पश्चादष्टाङ्गं प्रणिपत्य च ॥ ७२ ॥ १. 'च' ख. ग. पाठः ७.॥
विष्णुसंहितायाम् नृत्तं गीतं च वाधं च विविधं कारयेत् ततः। तत्रानिवारितं यत्नादन्नाद्यं चापि कारयेत् ॥ ३ ॥ आचार्य पूजयेत् पश्चाद् दक्षिणाभिः समूर्तिपम् । यागोपयोगि यद् द्रव्यं सर्व चास्मै निवेदयेत् ॥ ७४ ॥ वैष्णवान् पूजयेत् पश्चाद् यथाविभवविस्तरम् । लाक्षा सर्जरसः शङ्खः सिकता कुरुविन्दकः ॥ ७५ ॥ पुरं हिङ्गुलकं बोळा फलक्वाथेन बन्धनम् । विमलाद्यष्टकं पेष्यं द्रवद्रव्यमनुग्रहाः ॥ ७६ ॥ नवशक्तिमयो बन्धो लक्ष्मीमाधवयोर्भवेत् । एवं कृत्वाष्टबन्धं तु घृताथैः पञ्चशक्तिभिः ॥ ७७ ॥ कास्यद्गुह्यपादेषु कुर्याद् दूर्वाभिरर्पणम् । ततः सम्पूज्य संहृत्य दर्वस्त्रैश्च वेष्टयेत् ॥ ७८ ॥ तिथिहोमस्तु कर्तव्यस्तथा तिथ्यधिपस्य च । ऋक्षहोमो वारहोमस्तद्देवत्यश्च मन्त्रिणा ॥ ७९ ॥ मुहूर्तदेवताहोमो ग्रहहोमस्तथापरः । सम्पातं योजयेत् तत्र कलशे तु पुनःपुनः ॥ ८॥ गुरुमूर्तिधरैः सार्ध सम्पूज्य कलशं ततः । गृहीत्वा स्नापयेद् देवं कृत्वा पुण्याहमङ्गलम् ॥८१ ॥ वादिवशङखनादेश जयशब्दैश्च संयुतम् । वैष्णवैश्च तदा सूक्तैर्जयशब्दैश्च नादयेत् ॥ ८२ ॥ गन्धपुष्पैश्च वस्त्रैश्च धूपदीपैश्च पूजयेत् । चतुर्विधं निवेद्यं च ततो देवाय कल्पयेत् ॥ ८३ ।। १. 'कल्पये' ख. ग. पाठः.
अष्टादशः पटलः । १४७ बलिं च विकिरेद् यत्नाद् ब्राह्मणैः स्वस्ति वाचयेत्। एवं कृतेऽत्र तिथ्यृक्षवारराशिग्रहोद्भवाः ।। ८४ ॥ नश्यन्ति सकला दोषास्तस्मात् कार्य तु मर्वथा। यजमानं ततः पश्चाद् विष्णुकुम्भजलेन तु ॥८५ ॥ स्नापयित्वार्चनं कुयादाचार्यः स्वयमेव च । ततः स गुरुणा सार्ध पत्न्या पुत्रैस्तथानुजैः ॥ ८६ ।। सितवाधरो भक्त्या देवं तमभिवादयेत् । त्रिधा कृत्वात्मनो वित्तं भागं देवाय कल्पयेत् ॥ ८७ ॥ भागं भार्यासुतादीनां भागमाचार्यदक्षिणाम् । प्रीतिदानं च दातव्यं पूजोपकरणानि च ॥ ८८ ।। यो ददाति तदा किञ्चित् सर्व बहुफलं भवेत् । धूपदीपादि संस्थाप्य देवागारं तु घट्टयेत् । ८९ ॥ नोडाटयेत् ततः पश्चात् त्रीण्यहानि तु कश्चन । दक्षिणान्नाद्यहोमैस्तु पूजा तत्र विधीयते ॥ ९ ॥ मन्त्रस्य प्रीणनं कुर्यात् स्थापिते पुरुषोत्तमे । घृतेन पयसा दध्ना शुद्धनोयेन वा सकृत् ॥ ९१ ॥ स्नापयित्वा तु कर्माची चन्दनाद्यैः समालभेत् । भूषणैर्गन्धपुष्पैश्च धूपदीपैश्च शक्तिनः ॥ १२ ॥ निवेधैर्विविधैश्चापि ब्राह्मणानां च पूजनैः। प्रीणयेत् प्रयतो भक्त्या तमाचार्य प्रसादयेत् ॥ ९३ ।। दद्याच्च दक्षिणां तत्र विष्णु प्रीयतामिति । प्रतिष्ठापञ्चकेऽप्येवं विधिः साधारणः स्मृतः॥ १४ ॥ १. 'कृत्वा आ' क. पाठः.
१५८ विष्णुसंहितायाम् मन्त्रसंयोगभेदस्तु पूर्वमेव मयोदितः । ग्रामं परिभ्रमेद् रात्रौ दीपिकाशतसंयुतम् ॥ ९५ ॥ केतुभिर्विविधाकारैर्वितानैर्विविधैरपि । भेरीशङ्खनिनादैश्च जयशब्दैश्च संयुतम् ॥ ९६ ॥ बलिं च सर्वतो दद्यात् ततः शान्तिर्भविष्यति ।। ९६ ॥ इति विष्णुसंहितायां प्रतिष्ठापटलोऽष्टादशः ॥ अथैकोनविंशः पटलः। अथ वक्ष्यामि संक्षेपात् प्रतिष्ठानन्तरक्रियाम् । पूर्ववत् स्थण्डिलान्यष्टौ होमार्थ दिक्षु कल्पयेत् ॥ १ ॥ उल्लेखनादिकं कृत्वा पूर्वोक्तविधिना क्रमात् । प्रणीय वैष्णवं वह्निं जुहुयुर्दिक्षु दीक्षिताः॥ २ ॥ इन्द्रक्रतुमिति प्राध्याममिंदूतं हुताशने । नाकेसुपर्ण याम्यायां नैर्ऋत्यां मोषुणःपरा ॥ ३ ॥ यंरक्षन्तीति वारुण्यां वायवायाहि पावने । सोमराजानमित्येवं सौम्ये शार्वे त्रियम्बकम् ॥ ४ ॥ पञ्च तारान पुरोऽनूच्य प्रत्येकं पूर्वतः क्रमात् । अमीभिर्जुहुयुमन्त्रैः पक्वं विधिवदृत्विजः ॥ ५ ॥ पलाशखदिराश्वत्थप्लक्षन्यग्रोधबिल्वजाः। औदुम्बराच काश्मयः समिधोऽष्टशतं पृथक् ॥ ६ ॥ तावदाज्यान्नलाजादीन हुत्वा शेषं समापयेत् । समिदादि यथालाभमिन्द्राद्यस्त्रैश्च होमयेत् ॥७॥ १. 'वायवे' क. ख. ग. पाठः, एकोनविंशः पटलः । १४९ इन्द्रादीन् होमयित्वैवं स्वमन्त्रैरष्टादिक्षु च । सम्पाताज्ययुतैस्तोयैर्घटस्थैर्मन्त्रसंस्कृतैः ॥ ८ ॥ संस्थाप्य पीठिकास्वेतान् गन्धायैः पूजयेत् क्रमात् । स्कन्दमैन्यां प्रतिष्ठाप्य षण्मुखायेति विद्यया ॥९॥ शास्तारमग्नौ भांबीज भूताधिपतये नमः । ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥ १० ॥ वाराह्येन्द्री च चामुण्डी याम्ये वै सप्त मातरः। वीरभद्रगणेशाभ्यां सह प्राकारपार्श्वतः ॥ ११ ॥ वीरभद्रः स्वराः सर्वे सप्तवर्गास्तु मातरः । कूटो गणपतिश्चेति क्रमाज्ज्ञेया च मातृका ॥ १२ ॥ प्रणवेन वमन्त्रैर्वा नैर्ऋत्यां तु दिवाकरम् । 'घषोत्कायेति मन्त्रो वा हुतान्तस्तद्विधौ भवेत् ॥ १३ ॥ पश्चाद् ब्रह्मा स्वषट्केण तथान्यस्तत्सदित्यपि । ततो भूरिति बीजेन वैराहो वायुगोचरे ॥ १४ ॥ दुर्गा हीङ्कारपूर्वेण सा नाम्नोत्तरतस्तथा। सश्रीधरहयास्या वा वागीश्वर्यादिमातरः ॥ १५ ॥ वागीश्वरी क्रिया कीतिर्लक्ष्मीः सृष्टिश्च पञ्चमी । विद्या कांन्तिरिति ज्ञेयाः शङ्खचक्रगदाधराः॥१६॥ चतुर्थषष्ठौ बिन्द्वन्तौ द्वादशोऽथ त्रयोदशः । आद्यश्चैकादशो यो द्वितीयश्चन्द्रगाः स्वराः॥१७॥ विष्वक्सेनोऽदितौ स्थाप्यः शङ्खचक्रगदाधरः । तर्जयन् वामतर्जन्या नासायासन्नया जगत् ॥ १८ ॥ १. 'वा' ख. ग. पाठः, १५० विष्णुसंहितायाम् गन्धपुष्पैः समभ्यर्च्य शिष्टद्रव्यैस्तु याज्ञिकैः । देवोपयुक्तं पुष्पादि यत् प्रासादान्तरस्थितम् ॥ १९ ॥ तत् सर्वमस्मै दत्त्वान्ते वस्त्राभ्यां परिवेष्टयेत् । ईशानं चेशदिग्भागे स्वमन्त्रैः स्थापयेत् ततः ॥२०॥ कुमुदाद्याचे पीठेषु पूर्वादिध्वजदेवताः । प्राकारात्तु बहिः स्थाप्याः पूज्याश्च बलिभिःक्रमात् ॥२९॥ बलिपीठे बलश्चाग्रे सगणो भूतनायक। : स्थापयित्वार्चयित्वा च सर्वान् विज्ञापयेत् ततः २२॥ यावदत्र जगन्नाथो बिम्बमाश्रित्य तिष्ठति । तावदत्रैव रक्षार्थ यूयं तिष्ठत सर्वदा ॥ २३ ॥ अन्तर्मण्डलदण्डार्धदण्डे स्यादन्तहारका । मध्यहारा द्विदण्डा च चतुर्मर्यादभित्तिका ॥ २७ ॥ सप्तदण्डायता कार्या मर्यादाभित्तिका ततः । मुखायामस्त्रिभागेन पादेनार्धन वा ऍनः ॥ २५ ॥ बलिपीठसमुत्सेधो गर्भागारपतेः समः । पूजापीठसमो वापि षडूनो वा प्रकीर्तितः ॥ २६ ॥ उत्सेधं दशधा कृत्वा सप्तांशस्तस्य विस्तरः । सप्तविंशतिधा कृत्वा सममेव तदुच्छ्यम् ॥२७॥ एकांशं पादुकं विद्यात् चतुर्भिर्जगतीं पुनः । त्रिभागं कुमुदं चैव तथैकांशेन पट्टिकाम् ॥ २८ ॥ दशांशं कण्ठमित्याहुरंशाभ्यां कम्बुनिद्रवौ । त्रिभिः कपोतमित्याहुरेकांशेनाप्रपट्टिकाम् ॥ २९॥ १. 'श्व भूतेशाः पू', २. ' मृतः', ३. 'कुर्यान्' ख. ग. पाठ:.
एकोनविंशः पटलः । -.१५१ बंशकं पद्ममन्ते स्यादेतत् पीठस्य लक्षणम् । उत्तमाधममध्यत्वं बिम्बयोगात् प्रकल्पयेत् ॥ ३० ॥ उत्तमानां तु बिम्बानां वर्जिते मध्यमाधमे । वर्जिता पीठिकाश्चाष्टौ मध्यमाधमयोस्तथा ॥ ११ ॥ पीठिकानां विपर्यासे कुलनाशो भवेद् यतः । स्वानां स्वानां विपर्यासो न कार्योऽतः सुखार्थिभिः ॥३२॥ उत्सेधनिर्गमौ तुल्यौ पादुकस्य प्रकीर्तितौ । जगतीकुम्भयोः सन्धौ तावदन्तर्गतं भवेत ॥ ३३ ॥ भागं कुम्भोत्तरे कृत्वा भागाध पट्टिकां ततः । भागमेकं त्रिभागैकं कुर्याद् वै कण्ठपादुकम् ॥ १४ ॥ भागार्धान्तर्गतं कण्ठं पादमात्रौ तु मेखला । विस्तारादष्टभागैकं पादविस्तार उच्यते ॥ ३५ ॥ चत्वारो हादशैवं वा कर्तव्याः कण्ठपादुकाः । कण्ठाग्रपट्टिकां कुर्याद् यथावत् कुम्भपट्टिकाम् ॥ ३६ ॥ भागं बाह्यगतं चैव वलभ्यर्ध तु भङ्गुरम् । अन्तर्भङ्गुरवद् भागं सलिलं सर्वतो भवेत् ॥ ३७ ॥ ऊर्ध्व तु पट्टिका ज्ञेया पद्माकृतिरथान्तरे । तत्पीठं मध्यतः कृत्वा मण्डपं लक्षणान्वितं ॥ ३८ ॥ बीजाङ्कुरध्वजारोहबलिमङ्गलपूर्वकम् । उत्सवान्नाथपुण्याहस्थानशुद्ध्यादिसंयुतम् ॥ ३९ ॥ समन्तात् पीठविस्तारं लिखित्वा भद्रकाष्टकम् । कलशान पूरयित्वाष्टौ घृतैर्धान्यैस्तु वाम्बुभिः ॥ १० ॥ १. क. पाठः.
तु १५२ विष्णुसंहितायाम् सर्वरत्नसमायुक्तं वस्त्रयुग्मैस्तु वेष्टयेत् । लोहजं मृण्मयं वान्यं पीठस्योपरि कल्पयेत् ॥ ११ ॥ भूतनाथस्य चारभ्य भूतानां च प्रदक्षिणम् । गन्धादिनार्चयित्वा फलैः पुष्पैश्च सर्वतः ॥ ४२ ॥ भक्ष्यभोज्यादिसंयुक्तं कलशांश्चैव पूर्ववत् । वस्त्रैः संवेष्टयेत् सर्वान् नवैः केशादिवर्जितैः ॥ १३ ॥ होमार्थ तु द्विजा प्राह्या अष्टौ चत्वार एव वा । स्वयं वैकं प्रकुर्वीत पूर्वोक्तविधिना गुरुः ॥ ४ ॥ वेदाध्ययनसंयुक्तं तथा जागरणं निशि । प्रासादाभ्यन्तरे देवमाराध्य विधिपूर्वकम् ॥ ४५ ॥ बलिदानं यथाशक्ति सर्व कृत्वा तु पूर्ववत् । सर्वेषां मूर्तिपानां तु होमयेन्मूलविद्यया ॥ ४६ ॥ यथा स्वनाममन्त्रेण समिदाज्यहवींषि च । लाजांश्च सर्षपांश्चैव तथा सक्तून यवास्तिलान् ॥ १७ ॥ दधि क्षीरं तथा क्षौद्रं पुष्पाणि तु फलानि च । सर्व साज्यं तु होतव्यं सर्वशान्तिकरं शुभम् ॥ १८ ॥ अष्टोत्तरसहस्रं वा शतं वा होमयेत् पृथक् । दद्यात् पूर्णाहुतिं चात्र प्रतिद्रव्यं विधानतः ॥ १९॥ शङ्खतूर्यादिसंयुक्तं दिक्षु भूतबलि हरेत् । ओन्नमः प्राच्येभ्यो भूतेभ्यो विश्वभूतेभ्यः, नमोऽस्तु विश्वरूपेभ्यो विरूपेभ्यश्च वो नमः ॥ ५० ॥ ओम् नमोऽस्तु दक्षिणेभ्यश्च भूतेभ्यः शार्ङ्गधन्वनः । नमो हाहाभ्यो भूतेभ्यः सर्वेभ्यो वो नमोनमः ॥ ५१ ॥ १. 'श्वरूपेभ्यश्च वो' क. पाठः.
२ एकोनविंशः पटलः । १५३ ओन्नमः पाश्चात्त्येभ्यो भूतेभ्यो भैरवेभ्यो विष्णुपाल- केभ्यो वियदेग्रहोदरवर्तिभ्यो हुं फटू ओं गच्छतै ठठ । विष्णु- गणानामतो बलिमुपाहरामि भद्रं नो ददत प्रीणयत स्वाहा । ओन्नमो विष्णुभूतयें उदीच्येभ्यः सकलजन्तुहित- करेभ्यो विश्वपालकेभ्यो वो नमः स्वाहा । सुस्नातः स्वस्तिवाच्याथ ब्राह्मणानामनुज्ञया । देवस्य महती पूजां कृत्वा भक्त्या समाहितः ॥ ५२ ।। वैनतेयं च सम्पूज्य परिवारं च शक्तितः । भूतनाथमथाराध्य मूर्तिपान पूजयेत् क्रमात् ॥ ५३ ॥ अपूपसक्तुभिर्धानाफलभक्ष्यसमन्वितैः । एतत्सर्व क्रमात् कृत्वा ब्राह्मणानां च तर्पणम् ॥ ५४ ॥ दक्षिणा चात्र दातव्या ब्राह्मणेभ्यः स्वशक्तितः। गन्धपुष्पैरथाभ्यर्च्य बलिपीठं समाहितः ॥ ५५ ॥ भूतनाथं प्रतिष्ठाप्य कुम्भतोयेन सेचयेत् । इतरान् सेचयेद् दिक्षु मूर्तिपानां यथाक्रमम् ॥ २६ ।। आचार्यो यजमानश्व बलिपीठं प्रदक्षिणम् । अभ्यर्च्य गन्धपुष्पायैः प्रणमेद् भूतनायकम् ॥ ५७ ॥ पायसं कृसरं चैव गुंलान्नं घृतसंयुतम् । दक्षा मधुर्फलैर्युक्तं पूजयेद् भूतनायकम् ।। ५८ ॥ १. 'दहनोदार' क, 'दहनोद' ख. ग. पाठः. २. 'हू' ग. पाठः. ३. 'त गच्छत ठ' ख. पाठ:. १. 'भ्यो हुं फट् । ओं नमो विष्णुभूतेभ्य उ' ह. पाठः, ५. 'मन्वितः ॥' क. पाठः, ६. 'गन्धतो' ख. ग. पाठः, ७. 'चित्रानं' ख, ग. घ. पाठः. ८. 'समायुक्तं' क. पाठः, - १५ विष्णुसंहितायां आचार्यो मूर्तिपालेभ्यो दक्षिणां दापयेत् ततः । पूर्ववत् स्नपनं कुर्याद् देवदेवस्य शक्तितः ॥५९ ॥ स्वानशेषैस्तु कुम्भस्थैराचार्यों मूर्तिपैः सह । प्रोक्षयेत् परिवारांस्तान् गन्धादिभिरथार्चयेत् ॥ १० ॥ इंति विष्णुसंहितायाम् एकोनविंशः पटलः ।। अथ विंशः पटलः। अथ वक्ष्यामि संक्षेपादुत्सवस्य विधिं परम् । स्थापितोऽपि विना येन प्रसीदति न केशवः॥१॥ अब्दमर्धं त्रिमासं वा मासं पक्षमसम्भवे । नवाहं वापि सप्ताह पञ्चाहं नेष्यते परम् ॥ २॥ माघे वा मार्गशीर्षे वा चैत्रे वैशाख एव वा। पौषे वा फाल्गुने कुर्यादुत्सवं बहुविस्तरम् ॥३॥ प्रत्यब्दं नियतं कुर्याच्छक्त्या सर्वार्थसाधनम् । पुण्याहेनोत्सवारम्भे ध्वजस्थापनमाचरेत् ॥ ४ ॥ सप्ताहिकचतुष्कादौ मङ्गलाङ्कुररोपणम् । श्रवणान्तं तु संकल्प्य तीर्थस्नानावसानिकम् ॥ ५ ॥ कारयेदुत्सवं भक्त्या विष्णोर्विष्णुपरायणः । स्थापयेदुत्सवारम्भे ध्वजं गरुडलक्षणम् ॥ ६ ॥ दिक्षु चाष्टौ यथान्यायं पताकादीन समुज्ज्वलान् । ध्वजोत्थाने कृते किश्चिन्न विगैरभिभूयते ॥७॥ कलशेन समं कार्य ध्वजस्यारोहणं तदा । पूर्ववन्मण्डपं कृत्वा वेदिं च सुपरिश्रिताम् ॥ ८ ॥ १. 'य', २. 'न्धपुष्पैर' ख. ग. पाठः, विंशः पटलः। १५५ अमेश्व जननं कुम्भमूर्तिपानां च कल्पनम् । ध्वजदण्डः समः कार्यों दृढो व्रणविवर्जितः ॥ ९ ॥ कर्मान्तरानियुक्तश्च न शुष्कः पतितः स्वयम् । पुण्यावियोगे समाह्यः सुलग्ने शकुनैः शुभैः ॥ १० ॥ ब्राह्मणैः स्वस्तिवाच्यादौ शुचिः स्नातः स्वलकृतः । तथाविहिजैर्युक्तो जयशब्दादिसंयुतः ॥ ११ ॥ मध्वाज्याक्तकुठारेण पूर्वोचरमुखो गुरुः । छित्त्वा वंशमुपानीय कलशैः स्नापयेच्छुभैः ।। १२ ।। मृत्कषायौषधीतीर्थैर्गन्धपुष्पैश्च पूजयेत् । पताका च शुभा कार्या सिता तदवलम्बिनी ॥ १३ ॥ स्याद् देवागारशिखरत्रिभागसमलम्बिनी। दभैरावेष्टिता घण्टाचामरादर्शसंयुता ॥ १४ ॥ सम्मुखं लेखयेत् तत्र विनताकुलनन्दनम् । आजानुनाभिकण्ठाग्रं सितपीतारुणासितम् ॥ १५ ॥ दुनिरीक्षं सुरैर्दैत्यैालान्वितविलोचनम् । अनन्तायष्टनागेन्द्रधरं नीलाग्रनासिकम् ॥ १६ ॥ सहस्रादित्यसंकाशं मनसावाह्य विन्यसेत् । पूजयेद् गन्धपुष्पैश्च मन्त्रेणानेन मन्त्रवित् ॥ १७ ॥ तारादिः पक्षिराजायहुतान्तोऽष्टाक्षरस्तु यः । सम्बुद्धिरूप एव स्यादावाहनविसर्गयोः ॥ १८ ॥ चन्दनम्रग्बलि ध्यानैः शयनेऽभ्यर्च्य वासयेत् । होमं च विधिवत् कुर्याद् वर्गाद्यैः कादिशान्तगैः । १. 'ममार्जनी' इति मूलपाठः.
१५९ विष्णुसंहितायां हुतान्तैः प्रणवाद्यैश्च तिलान् ब्रीहिसमन्वितान् । चतुर्भिरक्षरैर्दिक्षु चवर्गानन्तरविना ॥ २० ॥ अष्टोत्तरसहस्रं तु वैनतेयपदान्वितैः । आज्याक्तं होमयेत् सर्व निवेद्यं च चतुर्विधम् ॥ २१ ॥ बलिं च परितो दद्याद् भूतानां ध्वजवासिनाम् । अनेककोटिसंख्यानां भूतानां चापि पार्षदाम्॥२२ ॥ प्रभातेऽभ्यर्चयित्वैव ब्राह्मणांश्चैव तर्पयेत् । ध्वजवाहनभूतोऽसौ विष्णोर्विष्णुपराक्रमः ॥ २३ ॥ सुपर्णः प्रीयतां मह्यं विनताकुलनन्दनः । इत्युच्चार्य ततो गच्छेद् देवतायतनं प्रति ॥ २४ ॥ ध्वजमादाय तैः सार्धं देवमूर्तिधरैईिजैः। वेदतूर्यादिनिर्घोषैः सुलग्ने स्थापयेद् ध्वजम् ॥ २५ ॥ मुक्तागारुडहेमानि गर्ने विन्यस्य रोहयेत् । ओन्नमोऽष्टकुलनागभूषणाय नागशोणितलिप्ताङ्गाय सप्तपातालवासिजनविक्षोभणकराय महाशैलसञ्चालनायारुण- कनीयसे पुरुषोत्तमवाहनाय विनतानन्दकराय त्रैलोक्यवि- क्षोभणाय देवदानवगन्धर्वोरगमथनायामृतमथनाय मातुरर्थे नागमोहनाय हन हन विनान् नाशय स्वाहा । अनेन स्तुतिमन्त्रेण स्तुत्वा तं विहगेश्वरम् ॥ २६ ॥ सान्निध्यं कल्पयेत् तस्य पक्षिराजस्य सर्वदा । ततः प्रभृति तत्स्थानं नोपसर्पन्ति राक्षसाः ॥२७ ॥ पिशाचा दन्दशूकाश्च तस्मात् कार्यों ध्वजोच्छ्रयः । स्नपनं चात्र कर्तव्यं प्रासादस्य तथैव च ॥ २८ ॥ १. 'वा' क . ख. पाठः २. 'ध्वजस्य च ख. ग. घ. पाठः.
विंशः पटलः । १५७ कलशं पूरयेच्छुभ्र फलैर्नानाविधैः शुभैः । सर्वधान्यैस्तथा शुक्लैः कुसुमैश्च सुगन्धिभिः ॥ २९ ॥ तत्त्वानां तु यथा न्यासस्तदुक्तं प्रथमं तत्र । यजमानोऽनुगैः सार्धं ध्वजमन्दिरयोः पुनः॥३०॥ प्रदक्षिणं त्रिधा कृत्वा गच्छेदवभृथं ततः शुभं तीर्थं प्रविश्यात्र गङ्गामावाहयेत् पुनः ॥ ३१ ॥ देवि! विष्णुपदे! शुद्ध! सर्वपापव्यपोहिनि!। नन्दनीत्येव ते नाम नलिनी मालिनीति च ॥ ३२॥ दक्षापत्या च विहगी सर्वभूतप्रियेति च । शरणं त्वां प्रपन्नोऽस्मि पापान्मोचय मा चिरम् ॥ ३३॥ ध्यात्वा जपन्निम मन्त्रं वारि विक्षोभ्य पाणिना। मज्जेद् येऽन्येऽत्र मज्जन्ति सर्वे ते स्युरकल्मषाः ॥३४॥ मूलाङ्गैस्तर्पयेत् तत्र मुनीन् देवान् ऋषींस्तथा । पार्षदांश्च भवेत् तृप्तिस्तेषां द्वादशवार्षिकी ॥ ३५ ॥ दीक्षान्ते च प्रतिष्ठान्ते कुर्यादवभृथं तथा । सर्वतीर्थसमं पुण्यं भवत्येव न संशयः ॥ ३६ ॥ ध्वजानन्यांस्तथा स्थाप्य दिशापालाङ्कचिह्नितान् । स्वमन्त्रैः पूजयेद् दिक्षु सर्वेभ्यश्च बलिं हरेत् ॥ ३७ ।। ग्रामवीथीश्च सम्मृज्य प्रोक्ष्य गन्धोदकैस्ततः। समन्ताद् विकिरेत् पुष्पैः शोभनैश्च सुगन्धिभिः ॥३८ ॥ १. 'भिः । स्नपनं तेन कर्तव्यं प्रासादस्य ध्वजम्य च । तत्त्वा' क. पाठः. २. 'सं तदु' क. ख. घ. पाठः. ३. 'पुनः' क. ख. पाठः. १. 'ततः। 5. पाठ:. ५. 'सर्वान्', ६. 'मयं पु' ख, ग. पाठः, १५८ विष्णुसंहितायां ग्रामपर्यन्तदेशे च प्रामान्तश्चत्वरेषु च । चैत्यारामेषु गोष्ठेषु देवतायतनेषु च ॥ ३९ ॥ तोरणैश्च पताकाभिर्मण्डलैश्चोपशोभयेत् । कदलीनालिकेरेक्षुपगपुष्पफलद्रुमैः॥ ४ ॥ दीपप्रासादयन्त्रैश्च कुर्याच्छोभा समन्ततः । सवनेषु बलिं दद्याद् गन्धपुष्पादिसंयुतम् ॥ ११ ॥ पूजयित्वा यथान्यायमुत्सवेषु विशेषतः । संस्त्राप्य शुद्धतोयैश्च पयोदध्याज्यगन्धकैः ॥ ४२ । गन्यैश्च नालिकेरादिलिप्त्वा गन्धैः सुयोजितैः । हृद्यैः सुधूपितैश्वित्रैः परिधाप्य नवांशुकैः ॥ ४३ ॥ पुष्पैर्मनोहरैः पुण्यैर्विविधैश्च विशेषतः । मालास्रग्भिः समन्ताच्च सन्धूप्यायःपुरादिभिः ॥४॥ सरत्नहेमभूषाभिर्भक्त्या दीपैश्च पूजयेत् । स्वादुभिः सोपदंशैश्च प्रभूतैराज्यसंयुतैः ॥४५॥ चतुर्विधैर्दधिक्षीरगुलाद्यैश्च निवेद्यकैः । गीतसङ्गीतवादित्रबहुलं भक्तहर्षणम् ॥४६॥ विविधानाधभूयिष्ठमुत्सवं कारयेत् ततः । कृत्वा नित्यबलिं दद्यात् तत्रोत्सवबलिं पुनः ॥ १७ ॥ विशेषेण च कर्तव्यं सर्वमङ्गलसंयुतम् । स्त्रियो द्विजाश्च दृष्टाश्च भक्ताश्च जयपाठकाः ॥ ८ ॥ देवस्य परितो गत्वा मुच्यन्तेऽखिलपातकैः। नृत्तगीतादिभिश्चात्र विशालं कुर्युरुत्सवम् ॥ १९ ॥ १. 'योजितैः', २. '' ख. ग. पाठः, १५९ विंशः पटलः । शनैः प्रदक्षिणं गच्छेद् बलिं देद्याच्च देशिकः । यावन्त्युत्सवक्लप्तानि दिनान्येवं समाचरेत् ॥ ५० ॥ गन्धपुष्पाक्षतैः स्रग्भिः फलैश्च विविधैः शुभैः । किरेयुः कौतुकं भक्ताः कालचक्रमथापि वा ॥५१॥ एवं त्रिधा परिभ्रम्य षडहानि यथाविधि । सप्तमेऽडि ततः कुर्यात् पुष्पयागं हरिप्रियम् ॥ ५२ ॥ पूर्वेधुर्भूशयो भूत्वा नियतात्मा हविष्यभुक् । उपोष्य निशि देवस्य कुर्यात् कौतुकबन्धनम् ॥ ५३ ।। कर्माची तु समाराध्य मण्डपे समलङ्कृते । प्ररोहघटिकाभिस्तु शरावैदिग्विदिग्गतैः ।। ५४ ॥ वैष्णवैः कारयित्वा तु घृतारोपणमादितः । जयमङ्गलघोषैस्तु प्रदर्यादर्शमङ्गलम् ॥ ५५ ॥ जितं त इति बनीयात् कौतुकं दक्षिणे करे । आचार्यस्यापि कर्तव्यं तदा कौतुकबन्धनम् ॥ ५६ ॥ चामरैस्तालवृन्तैश्च वीजयेन्मङ्गलान्वितम् । शयने सन्निवेश्या मनिर्वाणप्रदीपकैः ॥ ५७ ॥ रात्रिशेष समासीत सन्धूप्यायःपुरादिभिः । प्रातः स्नात्वार्चयित्वा च कृत्वा मङ्गलवाचनम् ॥ ५८ ॥ प्रामप्रदक्षिणं चात्र पिष्टचूर्णानि कारयेत् । उलूखले नवे शुद्धे दूर्वादिभिरलंकृते ॥ ५९ वैष्णवीभिस्तु दासीभिर्हिजैर्वा सुशुभानि तु । लिप्त्वाज्येन तु ताम! मूलबिम्बमथापि वा ॥ ६ ॥ १. 'कुर्याच' ख. ग. पाठः.
विष्णुसंहितायां . हेमचूर्णादिभिः सम्यक् परिमृज्य समन्ततः । हरिद्रामुद्गसम्मित्रैर्भक्तानां मूर्ति विन्यसेत् ॥ ६१ ॥ गन्धचूर्णैश्च विमृजेत् प्रतिमा तहदेव तु । सापयेद् वेदिकामध्ये पूरितैस्तीर्थवारिभिः ।। ६२ ।। गन्धतोयैश्च दातव्यं भक्तानां मूर्ध्नि तजलम् । दत्त्वा सुवर्णचूर्ण च पूजयेद् विधिना पुनः॥६३ ।। सात्वाचम्य पुनर्वेयां शोधितायां समन्ततः । चतुस्तोरणयुक्तायां विकिरेत् सर्षपाक्षतैः ॥ ६४ ॥ कलशैरङ्कुरैदीपैर्दपणाद्यैश्च भूषयेत् । दामानि लम्बयेत् तत्र मुक्तादामानि चाभितः ॥ ६५ ॥ कुम्भेशवर्धनीभ्यां तु कृत्वादौ भूपरिग्रहम् । पूर्ववत् सूत्रयित्वात्र कारयेत् पुष्पमण्डलम् ।। ६६ ।। पञ्चवर्णैः शुभैः पुष्परम्लानैश्च सुगन्धिभिः । मन्दारपीतकोरण्डैः पद्मबिल्वदलैरपि ॥ ६७ ॥ जपादिवर्जितैः शु?यथावर्णविभागतः । मध्ये सकर्णिकं पद्ममष्टपत्रं सुशोभनम् ॥ ६८ ॥ षभिर्वादशभिर्वापि दलैर्युक्तं प्रकल्पयेत् । पीतैस्तु कर्णिका कार्या रक्तवर्णैस्तु केसराः॥६९ ॥ हरितैः सन्धयश्चात्र शुक्लैरेव दलानि तु । भद्रकं वा लिखेत् तत्र चक्राब्जं वा यथारुचि ॥ ७० ॥ बहिरावरणे चाष्टौ पद्मान्यष्टदलानि तु । मूत्तीनां चाथ देवीनां तथा पुष्पमयान्यथ ॥ ७१ ।। १. 'त्र' क. पाठः. २. 'रष्टद' ख. ग. पाठः, ...
विशः पटलः । मुद्राणां लोकपालानां तथैवावरणहये। आदिपद्मार्धमानेन मूर्तिपद्मानि कल्पयेत् ॥७२॥ तदर्धेन तु मुद्राणामिन्द्रादीनां प्रकल्पयेत् । तावता वैनतेयस्य विष्वक्सेनस्य चैव हि ।। ७३ ।।. पश्चिमं वाहयेद् द्वारं वीथीश्च परितो भवेत्()। पुष्पदन्तप्रदेशे स्यात् सञ्चारो मूर्तिधारिणाम् ॥७४॥ एवं पुष्पमयान्येव कुर्यात् पद्मानि सर्वशः । द्वारादिक बहिः सर्व यथाशोभं प्रकल्पयेत् ॥५॥ योगपीठं तु सम्पूज्य सगात्रं सपरिच्छदम् । प्रतिमामादिपद्मस्य कर्णिकायां निवेशयेत्॥ ७६ ॥ पूजयेत् पूर्ववद् देवं न्यासं कृत्वा यथाविधि । मूर्तिशत्यस्त्रलोकेशाः पूज्याः पद्मेषु तेषु च ॥ ७७ ॥ गन्धैः पुष्पैश्च धूपैश्च दीपैरन्नैश्च शोभनैः। पूजयित्वा यथान्यायमग्निकार्य समारभेत् ॥७८ ॥ चतस्रः पालिकाः पूर्वमनेः कृत्वा चतुर्दिशम् । चतुरश्च चरून् कृत्वा यथावित्तानुसारतः ॥७९॥ पूर्ववत् संस्कृते बह्रौ चतुधैंक विभज्य वा । कृत्वोपस्तरणादीनि प्रथमं तु निवेदयेत् ॥ ८ ॥ द्वितीयं जुहुयादग्नौ घृताक्तं प्राग्वदेव तु । तृतीयं परिवारेभ्यो दत्त्वान्ते बलिमेव च ॥ ८१ ॥ चतुर्थ प्राशयेत् साज्यं शेषं कृत्वा तु पूर्ववत् । हिरण्यं दक्षिणां दद्याद् ब्राह्मणांश्चैव भोजयेत् ॥ ८२ ॥ १. 'त:' क. ख, पाठः.
विष्णुसंहितायां नृत्तगीतादिभिः स्तोत्रैवेदनादैश्च पुष्कलैः । पूजनैवैष्णवानां च प्रीणयेदखिलेश्वरम् ॥ ८३॥ द्वादश्यां श्रवणेऽप्येवं कुर्याद् यागं विचक्षणः । सप्तमे सप्तमे कुर्याद् विष्णुयागमतन्द्रितः ॥ ८४ ॥ संवत्सरं तथा कृत्वा विष्णुलोके महीयते । अयने विषुवे चैव सोमसूर्यग्रहे तथा ॥ ८५ ॥ संक्रमे विष्णुपञ्चम्यां कृत्वेष्टं प्राप्नुयात् फलम् । प्रथमे दिवसे रात्रौ कुर्याद् ग्रामप्रदक्षिणम् ॥८६॥ अह्नि प्रदक्षिणं कुर्याच्छेषेषु दिवसेषु च। बलिं च सर्वतो दद्याद् भूतेभ्योऽन्तर्बहिस्तथा ॥८७ ॥ परिभ्रमणकाले च मण्डलेषु बलिं हरेत् । कौतुकस्य पुरस्तात् तु गन्तव्यं बलिदायिभिः ॥ ८८ ॥ गन्धपुष्पादिसंयुक्तं जलदानसमन्वितम् । बलिविक्षेपणं कुर्याद् बलिमुद्रां च दर्शयेत् ।। ८९ ॥ कुमुदादिध्वजेशानां पञ्चाशद्गणनायकाः । भवन्ति शतशस्तेषां तथैव च सहस्रशः ॥ ९० ॥ तेषामयुतशस्तेषां लक्षशः कोटिशस्ततः । असंख्येयाश्चरन्त्येते ग्रहाश्चाष्टविधा भुवि ॥ ११ ॥ देवासुराश्च गन्धर्वा यक्षाः पितृगणास्तथा । नागा रक्षःपिशाचाश्च कुमुदादिगणाः क्रमात् ॥ ९२ ॥ ३ ३. 'जे पञ्चपञ्चा' १. 'वा', २. 'भू' क. ख. पाठः. ऊ. पाठः. १.. 'ग्राः' ग. पाठः, विशः पटलः । १६३ तत्र पश्चाशदाख्या ये चतुश्शतमहागणाः । चत्वारिंशत्सहस्रं तु ये तेषां परिचारकाः ॥ ९३ ॥ तेषां तु पूजया सर्वे शमं यान्ति न संशयः । विविधा विविधे स्थाने तिष्ठन्तो विविधायुधाः ॥ ९४ ॥ विविधैर्भयरोगाद्यर्बाधन्तेऽतिक्रमे नरान् । वैष्णवीभिस्तु विद्याभिर्निवा नान्यथा कचित् ॥ ९५ ॥ कुमुदादिगणेशानां बलिं दद्यात् तु नित्यशः । गणानां परिवाराणामुत्सवेषूत्सवेषु च ॥ ९६ ॥ चत्वारिंशत्सहस्राणों दत्त्वा पीठे समापयेत् । ओं नमः पार्षदेभ्यश्च दद्याच्छेषं जलाप्लुतम् ॥ ९७ ॥ भूमौ प्रतिदिशं चात्र दद्याच्छान्तिकरं सदा । तीर्थस्नानदिनात् पूर्वदिने कृत्वा महोत्सवम् ॥ ९८ ।। विनेशं देवताश्चान्यास्तत्र यत्नेन पूजयेत् । तत्र सायं परिभ्रम्य दत्त्वा चैव महाबलिम् ॥ ९९ ॥ प्रविश्य देवमाचार्यः प्रार्थयेत् सुसमाहितः । तीर्थयात्रा त्वया देवश्व कर्तव्या सुरेश्वर ! ॥ १० ॥ तत्र प्रतिसरारम्भं त्वमनुज्ञातुमर्हसि । लब्धानुज्ञस्तु निर्गम्य यजमानसमन्वितः ॥ १.१ ॥ ततः कौतुकबन्धादि कर्त्तव्यं सर्वमाचरेत् ॥ १०१६ ॥ इति विष्णुसंहितायामुत्सवपटलो विंशः ।। १. 'वा' क. स. पाठः. २. 'णां बलिपीठे क' पाठः. ३. '' क.ख. ग. ङ, पाठः ४॥ विष्णुसंहितायाम् . अथैकविंशः पटलः । अथ वक्ष्यामि संक्षेपाद् यात्रामस्य शुभाशुभाम् । तीर्थयात्रा शुभा ज्ञेया साशुभा या स्वमन्दिरे ॥ १ ॥ पूर्वेधुरुत्सवं कृत्वा निशि दद्यान्महाबलिम् । विष्णुपारिषदेभ्यश्च प्रमथेभ्यो नमोनमः ॥ २ ॥ मातृभ्यस्तद्गणेभ्यश्च सर्वेभ्यो वै नमोनमः । इत्येवं सर्वतो दत्त्वा प्रविश्य प्रार्थ्य पूर्ववत् ॥ ३ ॥ पीठे.सास्तरणे देवं पुण्याहस्वस्तिवाचनैः । कृतकौतुकमाराध्य ततः स्तोत्रादि कीर्तयेत् ॥ ४ स्वातः स्वलकृतः प्रातः कृत्वा यागं पुरोदितम् । षड्भिः कनिक्रदत्पूर्हत्वा स्वस्त्यादिपञ्चकैः ॥५॥ मूलेनाष्टशतं चैव समिदाज्यचरून् क्रमात् शकुनानि परीक्ष्याथ स्नानयात्रां प्रयोजयेत् ॥ ६ ॥ रथं वा कुञ्जरं वास्य यात्रावाहनमानयेत् । नानावादित्रकुशलान् बहूंश्च परिचारकान् ॥ ७॥ छत्रध्वजपताकाश्च भटान् दासांश्च भक्तकान् । ब्राह्मणांश्च समानीय मुहूर्ते शोभने गुरुः ॥ ८॥ पुण्याहं वाचयित्वात्र प्राप्तानुज्ञो द्विजोत्तमैः। देवं प्रदक्षिणीकृत्य प्रणिपत्य पुरः स्थितः ॥९॥ पीठे विन्यस्य कर्माची कार्य विज्ञापयेच्छनैः । कर्मार्चा तीर्थयात्रार्थ तवेयं कल्पिता हरे ! ॥ १० ॥ १. 'जयेत्' ग. पाठः. २. ३ः कृत्वा' स्व. ग. पाठः. १. 'मि:' १. 'दि क. पाठः ४ क.ख...पाठ:
एकविंशः पटलः । तीर्थयात्रां कुरुष्वास्यां संक्रम्यानुग्रहाय नः। ततः संहृत्य तोमर्चामुत्पाद्ये विधिपूर्वकम् ॥ ११ ॥ .. तस्यामावाहयेद् देवं पञ्चोपनिषदैः क्रमात् । आवाहितमनुस्मृत्य दत्त्वाय॑ प्रतिपूज्य च ॥ १२ ॥ सदशेन नवेनैव वस्त्रयुग्मेन वेष्टयेत् । सोष्णीषः सोत्तरीयश्च कृतन्यासः समाहितः ॥ १३ ॥ दक्षिणेन तमादाय पाणिना वाग्यतः स्वयम् । शिष्यैः परिवृतो गच्छेन्मण्डपं समलंकृतम् ॥ १४ ॥ तत्र मङ्गलवादं तु सर्वमङ्गलसंयुतम् । कुर्यादत्र द्विजाः सर्वे वदेयुश्च तथास्त्विति ॥ १५ ॥ मण्डपद्वारमासाद्य दत्त्वार्य सह मूर्तिपैः । गेहं प्रदक्षिणीकृत्य ततो गच्छेद् बहिः पुनः ॥ १६ ॥ उदकुम्भं हविश्छत्रं यांगोपकरणानि च । प्ररोहघटिकाश्चान्ये धारयेयुर्द्विजोत्तमाः ॥ १७ ॥ बहिनिर्गम्य घोषेण महता वाग्यतः स्वयम् । वाहनं गरुडं ध्यात्वा पूजयित्वाधिरुह्य तम् ॥ १८ ॥ गच्छेत् तु योजनादर्वाङ् नदी वान्यजलाशयम् । दिङ्मन्त्रेण बहिस्सालं कृत्वा पूर्व प्रदक्षिणम् ॥ १९ ॥ गच्छेयुर्वाग्यताः सर्वे सोत्तरीयाः स्वलंकृताः । पथि घोषं जना वाद्यैीतनृत्तरवैस्तथा ॥ २० ॥ वाहनैर्विविधैश्चापि कुर्वीरन देवतुष्टये । तोरणाभ्यन्तरे गत्वा मण्डपं तीर्थपार्श्वतः॥२१॥ १. 'कर्मार्चा' क. ख. पाठः. २. 'व्य' . पाठः. ३. 'यो' क. स. प...पाठः, विष्णुसंहितायाम् वेदि परिश्रितां कृत्वा पीठे देवं निवेशयेत् । दीक्षितैः पाचयित्वात्र पायसं विजने कचित् ॥ २२ ॥ दत्त्वा पाद्यादि सर्वेण तमादाय नदीं व्रजेत् । वारिणा तीर्थमावाह्य वैष्णवं तत्र पावनम् ॥ २३ ॥ तीर्थे त्रिधा निमज्ज्यास्मिन् मन्त्रेण परमेष्ठिना । निवेश्य पीठे दत्त्वायं पाद्यमाचमनं तथा ॥२४॥ आपोहिष्ठादिभिः प्रोक्ष्य पञ्चभिश्च समाहितः । तमादाय पुनर्मजेत् तोये कृत्वाघमर्षणम् ॥ २५ ॥ तत्र स्नानं महापुण्यं सर्वपापहरं विदुः । पीठे निवेश्य वस्त्रे द्वे परिधाय नवे स्वयम् ॥ २६ ॥ आचम्य तु कृतन्यासः पूजयेद् विधिना पुनः । आज्ययुक्तं निवेद्यं च दत्त्वास्मै विधिपूर्वकम् ॥ २७ ॥ तीर्थेऽस्मिन् वैष्णवे पुण्ये स्नातोऽसि पुरुषोत्तम! । अतस्त्वमनुगृह्णीष्व स्वस्थानोपाश्रयेण नः ॥ २८ ॥ इति प्रार्थ्य तमादाय पूर्ववद् वाहनं नयेत् । तमारुह्य यथापूर्व प्रासादमशनैर्नयेत् ॥ २९ ॥ यात्राहयेव गृहं प्राप्य बिम्बे संक्रामयेत् ततः। दोषोऽन्यथा महानत्र कर्तृणां भवति ध्रुवम् ॥ ३० ॥ गत्वा गर्भगृहं पीठे निवेश्य सुसमाहितः । तोयेन गन्धपुष्पैश्च बुद्धयावाह्य समन्त्रकम् ॥ ३१ ॥ मूलबिम्बे यथान्यायं सर्वेण प्रतिरोपयेत् । यात्रादावन्ततश्चैवमावाहनविधिः स्मृतः ॥ ३२ ॥ १. 'मापनोपा' उ. पाठः. २. 'त्रा ह्येवं गृ', . ३. 'ये सग- न्धपुष्पे तु बु' उ. पाठः.
एकविंशः पटलः । १६७ सकलीकृतमाराध्य दत्त्वार्य प्रणिपत्य च । निर्गच्छेद् द्वारमावृत्य ब्राह्मणांश्वात्र भोजयेत् ॥ ३३ ॥ निशि दद्याद् बलिं चैवं शुभयात्रा मयोदिता। अशुभा वास्तुसिद्धयर्था कथ्यमानावधार्यताम् ॥ ३४ ॥ प्रासादे शिथिले जीर्णे मृद्विम्बे चित्र एव वा । निष्कामयेन्नवे गेहे विधिनानेन देवताम् ॥ ३५ ॥ पर्जन्ये वा जयन्ते वा दित्यैदियोश्च सम्भवात् । प्रारद्वारे पश्चिमद्वारे मृगदौवारिकस्थितम् ॥ ३६॥ प्रासादाभिमुखद्वारमल्पगेहं नवं शुभम् । एकभूमिकमग्रीवं मृद्भिः काष्ठैरथापि वा ॥ ३७॥ पीठं काष्ठमयं रम्यं सश्वभ्रं कारयेत् ततः । कुर्याल्लोहमयं बिम्ब दारवं वास्त्रमापदि ॥ ३८ ॥ सम्यक् संक्रामणमिहेष्यते। मासादि द्वादशाब्दान्तं कालमत्र प्रचक्षते ॥ ३९ ॥ नवं गेहं तु संशोध्य सर्व कृत्वाथ पूर्ववत् । राक्षोघ्नमादितः कृत्वा सर्वकर्माण्यतश्चरेत् ॥४॥ स्थापनोक्तविधानेन मण्डपं कारयेत् पुनः । ध्वजतोरणसंयुक्तं मण्डयेदरादिभिः ॥ ४१ ॥ गव्यैरस्त्रेण सम्प्रोक्ष्य मध्ये स्वस्तिकमालिखेत् । व्रीहिभिः स्थण्डिलं कृत्वा तस्मिन् वासोभिरास्तरेत् ॥ तण्डुलान् निक्षिपेत् तस्मिन् कम्बलादिभिरास्तरेत् । कुशैर्वस्त्रैश्च पुष्पैश्च गन्धादिभिरथार्चयेत् ॥४३ ॥ कृते कालावधौ १. 'त्यु द. पाठः.
१६८ विष्णुसंहितायां जलेऽधिवास्य कर्माचा प्रक्षाल्य सलिलैः शुभैः । मृत्तोयैः पत्रतोयैश्च कषायगव्यपञ्चकैः ॥४४॥ गन्धपुष्पैरलंकृत्य वस्त्रैराच्छाद्य शाययेत् । शङ्खभर्यादिनादेन गन्धपुष्पादिसंयुतम् ॥ ४५ ॥ आ सप्तरात्रात् सन्ध्यासु देवताभ्यो बलिं हरेत् । शृण्वन्तु देवताः सर्वाः प्रासादमिममाश्रिताः ॥ १६ ॥ यदुच्यमानमस्माभिरनुगृह्णन्तु तेन नः। पूर्वैः पूर्व कृतमिदं देवालयमसारवत् ॥ १७ ॥ प्राप्त कालवशाद् भूयो वयं तत् कर्तुमुद्यताः । कालेनैतावता भूयः प्रासादेऽस्मिन् पुनर्नवे ॥ १८ ॥ प्रापयामो वयं सत्यमित्युक्त्वा घोषयेद् बुधः । मासादाक् तु कालश्वेत् तत्र संकोच इष्यते ॥ ४९ ॥ प्रासाददेहसंस्थानि सर्वतत्त्वान्यनुक्रमात् । देवताश्च तथा हत्वा परिवारसमायुतम् ॥ ५० ॥ ध्यात्वा संहारमार्गेण यथावद् देशिकोत्तमः । तेजोरूप तु तत् सर्व मूलबिम्बे नियोजयेत् ॥५१॥ तदूर्ध्वं च तथा कृत्वा संक्रामयितुमारभेत् । प्रविश्य गर्भगेहं तु मूर्तिपैः सहितो गुरुः ॥५२॥ पुण्याहं वाचयित्वाथै ब्राह्मणैः स्वस्ति वाचयेत् । देवस्य महतीं पूजां कृत्वा भक्त्या यथाविधि ॥५३ ॥ प्रणिपत्यं पुरः स्थित्वा कार्य विज्ञापयेच्छनैः। भगवन् ! वास्त्वभिनवं बिम्बं च तव शोभनम् ॥ ५४ ॥ १. 'शोधये' ङ, पाठः, २. 'त्र' ख. ग. पाठः ३. 'म्बं तव सुशो' क. ख. पाठः. ३ एकविंशः पटलः। कारयिष्यन्ति ते भक्तास्तदनुज्ञातुमर्हसि । क्लेशवासस्त्वया देव ! रोचनीयोऽल्पके गृहे ॥५५॥ यावन्नवं शुभं कृत्वा पुनः संस्थापयामहे । ततो लोहमयं कुम्भं शोधितं सूत्रबोष्टितम् ॥ ५६ ॥ देवस्य पुरतो न्यस्य सपवित्राक्षतादिकम् । ततो निर्गम्य तैः सार्ध बिम्बसंस्कारमारभेत् ॥ ५७ ॥ संहारसृष्टियोगेन ध्यात्वा तत्त्वान्यनुक्रमात् । जननादिक्रमाद्धुत्वा तत्त्वान्यग्नौ. यथाविधि ॥ ५८ ॥ निर्गत्य पृच्छदाचार्यः कर्तृन कालावधिं पुनः । कियन्तं कालमत्रेशः प्रवासवसतिं वसेत् ॥ ५९ ॥ मासादूर्ध्वं हादशाब्दादाक् कालावधिः स्मृतः । नार्वाङ् नोज़ क्लेशवासं वासुदेवोऽनुमन्यते ॥ ६ ॥ इति पृष्टास्तु ते ब्रूयुः कालावधिमसंशयम् । विश्राव्य कालनियमं देवता नीयते बहिः ॥ ६१ ॥ विज्ञापयेत् ततो देवं प्रविश्य सुसमाहितः । कालं कर्तृभिरुद्दिष्टं ततः कुर्यादिमं विधिम् ॥ ६२ ॥ यात्राहोमादिसंयुक्तं मुहूर्ते शोभने गुरुः । हुत्वा वास्तोष्पतिं सद्यो देवं निष्कामयेद् बहिः ॥ ६३ ॥ कलशं पूजयित्वाग्रे पूरितं वस्त्रवेष्टितम् । कुम्भे तस्मिन् विधानेन योगपीठं प्रकल्पयेत् ॥ ६४ ॥ सहेमरत्नगन्धाम्भोजाम्बूनदमयाम्बुजम् । आवाह्य विधिना तस्मिन् देवदेवं सनातनम् ॥ ६५ ॥ १. 'नि च के' ग. पाठः. 'स्थापयि' क.ख. पाठः, ३. 'सत्रवे' क. ग. घ. पाठः. ४. 'जे' अ. पाठः. २. X विष्णुसहितायान" पञ्चोपनिषदैर्मन्त्रैर्मन्त्रमूर्तिसमन्वितम् । दत्त्वार्य पूजयित्वात्र गन्धपष्पैः प्रणम्य च ॥ ६६ ॥ वस्त्रादिवेष्टितं बिम्बं प्रयत्नात् परिकल्प्य च । कलशं धारयन् मूर्धा निर्गच्छेद् वाग्यतो गुरुः ॥ ६७ ॥ शङ्खदुन्दुभिनिर्घोषैर्जयशब्दैश्च पुष्कलैः । गेहं प्रदक्षिणीकृत्य ब्रह्मघोषसमन्वितम् ॥ ६८ ॥ शनैः शनैर्बजेद् यत्नाद् वस्त्रालङ्कारभूषितः । शाकुनस्वस्तिसूक्ताभ्यामतोदेवादिना तथा ॥ ६९ ॥ अन्तमण्डपमानीय स्थापयेच्छयने हरिम् । द्वादशाक्षरमन्त्रेण न्यासं मूलेन कल्पयेत् ॥ ७० ॥ सूक्तेन च स्तुतिं कृत्वा पौरुषेण विचक्षणः । विष्णुसूक्तेन मूलेन द्विषट्केनाष्टकेन च ॥ ७१ ॥ नामभिः केशवाद्यैश्च दद्यात् पुष्पाणि भक्तितः। शालितण्डुलसम्पूर्णाञ् जलपूर्णानथापि वा ॥ ७२ ॥ घटान् प्रागादि विन्यस्य केशवादीन् प्रपूजयेत् । प्रणवेनैव तान् सर्वान् देवादाहत्य विन्यसेत् ।। ७३ ॥ मूर्तिदेव्यो बहिः पूज्या मुद्रा दिक्पाश्च तहहिः । स्तुत्वानुज्ञाप्य तं देवं प्रथमा शान्तिमभ्यसेत् ॥ ७४ ॥ दिक्कुण्डेष्वग्निमाधाय पूर्ववन्मूर्तिधारकाः । आधिवासनिकान् होमानारभेरन् यथापुरम् ॥ ७५ ।। हुत्वा देवमनुज्ञाप्य कुर्याच्छान्ति च देशिकः । स्पृष्ट्वा मन्त्रैस्ततो जप्त्वा क्षालयेद् गव्यपञ्चकैः ॥ ७ ॥ . 'त: ङ. पाठः.
१ एकविंशः पटलः। व्यस्तैश्चैव समस्तैश्च कषायामलकाम्बुभिः । हेममिश्रजलैः पश्चात् स्नापयेच्छुद्धवारिभिः ॥ ७७ ॥ सूक्तैः स्तुत्वार्चयेद् देवं गन्धपुष्पादिभिः क्रमात् । कलशान् स्थापयेत् पश्चाद् द्वारदेशेषु सर्वतः ।। ७८ ॥ द्रव्याणि पूजनार्थानि होमानि च संभैरते । तूर्यवादित्रहस्तांश्च कल्पयेत् कुशलान् बहून् ॥ ७९ ॥ एतत् सर्वमुपानीय निमित्तान्युपलक्ष्य च । स्थानानि देवतानां च कल्पयित्वा यथाक्रमम् ॥ ८० ॥ दुःस्वप्नादिषु जातेषु प्रायश्चित्तानि कारयेत् । मूलेन जुहुयादाज्यं सहस्रं शतमेव वा ॥ ८१ ॥ पुण्याहजयघोषैश्च मुहूर्ते शोभने गुरुः । देवं प्रदक्षिणं कृत्वा लब्धानुज्ञः कृताञ्जलिः ।। ८२ ॥ सम्पूज्य विधिना देवं पुण्याहजयमङ्गलैः । प्रणवेन तमुत्थाप्य शाकुनेन तु देशिकः ॥ ८३॥ स्वस्तिसूक्तेन चानीय प्रविशेत् सप्रदक्षिणम् । प्रविश्य तैः समादिष्टं कालं विज्ञाप्य विष्णवे ।। ८४ ॥ स्थापयेत् प्रतिमा तत्र मन्त्रमेतमुदीरयेत् । भगवन्नल्पगेहेऽस्मिन् वासः क्लेशोऽपि ते हरे ! ॥ ८५ ॥ वस्तव्यो भगवंस्तावद् यावद् गेहं समाप्यते । कारकस्य परामृद्धिमनुजानन् महोदयाम् ॥ ८६ ॥ भक्तानामनुकम्पार्थमिह त्वं स्थातुमर्हसि । इत्युक्त्वा किश्चिदानम्य सिञ्चेत् तद्वारि मूर्धनि ॥ ८७ ॥ १. 'हि' क. पाठः. २. 'ह', ३. 'कलशान्' उ. पाठः, 'णीकृत्य ल' क. ख. ग. पाठः, ४ १०२ विष्णुसंहितायां पञ्चोपनिषदान् मन्त्रान् ध्यात्वा सर्वेण देशिकः । सृष्टिन्यासं ततः कुर्यात् पौरुषं सूक्तमुच्चरेत् ॥ ८८ ॥ ततो मूर्त्या तु संयोज्य पूजयेत् कल्पवर्मना । कल्पयेत् परिवारांश्च दिशाहोमान् प्रकल्पयेत् ॥ ८९ ॥ दक्षिणां च ततो दद्यादन्नायं चात्र कारयेत् । यन्नोक्तं तच्च वै कुर्यात् प्रतिष्ठाविधिना सुधीः ॥ ९० ॥ निष्कामादिप्रवेशान्तं कर्ता स्यान्नियतो व्रती। जीर्णे बिम्बेऽधिवास्यैवं विष्वक्सेनात्मना स्वयम् ॥ ९१ । विधिनोडास्य यानेन नीत्वागाधे जले क्षिपेत् । नवं बिम्बं तु संस्थाप्य तत्रावाह्यार्चयेत् पुनः ॥ ९२ ॥ गृहे जीणे द्वयोर्वैवं कृत्वा शीघ्रतरं पुनः । नवीकृत्य यथान्यायं लेप्यार्चा गृहमेव वा ॥ ९३ ॥ संस्कृत्य सकलं कृत्वा पुरादिष्टेन वर्त्मना । आवाह्य पूर्ववद् विद्वान् पञ्चोपनिषदैर्हरिम् ॥ ९४ ॥ अधिवास्याग्रतश्चैवं पुनर्मूले नियोजयेत् । बिम्बं यदि नवं तत्राप्यर्वागावाहनात् क्रियाम् ॥ ९५ ॥ सर्वां पूर्वोक्तविधिना कृत्वास्थाप्याभिषेचयेत् । पूर्ववत् सकलीकृत्य पूजयेत् पुरुषोत्तमम् ॥ ९६ ॥ प्रतिष्ठाविधिना सर्व ततः कुर्याद् विचक्षणः । तबिम्बमपि संस्कृत्य कौतुकत्वेन कल्पयेत् ॥ ९७ ॥ इति विष्णुसंहितायोमेकविंशः पटलः ।। १. 'दि', २. 'शो' क ख. घ. पाठः. ३. 'कल्पयेत्' उ.पाठः. १. 'त्पाद्य या क.ख. ग. ङ. पाठः ५. 'ये चैवं क. ख. पाठः, ६. 'यां यात्रापटल एकविंशः । ङ. पाठः, २ द्वाविंशः पटलः। अथ द्वाविंशः पटलः ।.. अथ वक्ष्यामि संक्षेपाद् बलिकर्म यथाक्रमम् । त्रिसन्ध्यमुचितं नित्यमुत्सबादौ विशेषतः ॥ १ ॥ आराध्य विधिना देवं गन्धपुष्पादिभिः क्रमात् । संस्कृतं संस्कृते वह्नौ देवायान्नं निवेदयेत् ॥ २ ॥ तच्छेषेणैव कर्माचीपीठं पात्रे प्रकल्पयेत् । विना मन्त्रेण लोकानौ बल्यर्थमपि पाचयेत् ॥ ३ ॥ स्थाल्यां तु तण्डुलाञ शुद्धान निरुप्तान मूलविद्यया । प्रोक्ष्य त्रिधा परिक्षाल्य प्रज्वाल्यानं च तेजसा ।। ४ ।। पचेद् व्यजनवातेन हविर्न स्कन्द्यते यथा । अभिधार्यावतार्याथ विन्यसेत् पात्रट्टितम् ॥ ५ ॥ पात्रेऽन्यस्मिन्नुपस्तीर्य क्षिप्तं प्रत्यभिधार्य च । साज्यं निवेदयेद् भागं देवायान्यं च होमयेत् ॥ ६ ॥ गोमयेनोपलिप्यैशे पात्रं दर्भेषु सादयेत् । हैमं वा राजतं तानं रत्निमात्रं तु मण्डलम् ॥ ७ ॥ अष्टाक्षरेण सम्प्रोक्ष्य सम्यक् प्रोत्तानितं जलैः । अभिघार्य हविश्शेषं हृदा तस्मिन् विनिक्षिपेत् ॥ ८॥ पीठं प्रकल्पयेत् तेन कर्मार्चा यत्र नेप्यते । अन्यदा मसृणीकृत्य दध्याज्यनेदितं शुभम् ॥ ९ ॥ शिवकं कारयेत् तेन चतुरङ्गुलविस्तरम् । हादशाष्टाङ्गुलोत्सेधं पडङ्गुलमथापि वा ॥ १० ॥ विन्यस्य काञ्चनं मूर्ध्नि शक्तिमावाह्य पूजयेत् । परमेष्ठयात्मिकी मध्ये पुरुषादिसमावृताम् ॥ ११ ॥ १. 'वेषु वे', २. 'त्य' क. ख. पाठः. ३. 'द्धा', ४. 'घटि'. ह. पाठः.
विष्णुसंहितायां तस्मिन् संस्थापयेदा सर्वेणावाह्य पञ्चभिः । मूलेनाबाह्य वा हेन्नि वर्णमूर्तिवृतं हरिम् ॥ १२ ॥ गन्धपुष्पैस्तमभ्यर्च्य ध्यात्वा सवनभेदितम् । तत्पात्रं स्थापयन्मूर्ति दीक्षितस्य द्विजन्मनः ॥ १३ ॥ उष्णीषादियुतो मौनी गृहीत्वा व्याहृतिं जपेत् । देवस्य पुरतः स्थित्वा प्रणम्य तु बैहिर्बजेत् ॥ १४ ॥ शङ्खदुन्दुभिनिर्घोषैर्जयशब्दैश्च पुष्कलैः । अष्टमङ्गलसंयुक्तं वितानाद्युपशोभितम् ॥ १५ ॥ देवनागाप्सरोयक्षमुनिगन्धर्वकिन्नराः । सर्वे चानुगमिष्यन्तो ध्येयाः स्वगुणसंधूताः ॥ १६ ॥ गन्धं पुष्पं जलं धूपं दीपं छत्रं च चामरम् । मङ्गलानि हविर्घण्टां गृह्णीयुस्तत्र दीक्षिताः ॥ १७ ॥. निर्गम्य शमितङ्गाह्मणानामनुज्ञया । मङ्गलानि गुरु याद् द्विजाश्चान्ये तथास्त्विति ॥ १८ ॥ जगन्निर्माणसंहारस्थित्यनुग्रहहेतवः । देवानामीश्वरा देवा मङ्गलं प्रदिशन्तु नः ॥ १९ ॥ विष्णुब्रह्मा च रुद्रश्च प्रचण्डचण्ड एव च । गरुत्मान् ऋषभश्चैते मङ्गलं प्रदिशन्तु नः ॥ २० ॥ इन्द्रश्चाग्निर्यमश्चैव निक्रतिवरुणस्तथा । वायुर्वैश्रवणेशानौ मङ्गलं प्रदिशन्तु नः ॥ २१ ॥ १. 'स्तमाराध्य ध्या' ख. ग. पाठ'. २. 'तः' इ. पाठः. ३. 'पु- न ख. ग. पाठः. ४. 'युताः' क. ख. ग. पाठः. ५. 'त्य', ६. 'वै', ७. 'ना' ख. ग, पाठः, वराहनरसिंहौ च रामश्रीधरवामनाः । हयास्यवासुदेवौ च मङ्गलं प्रदिशन्तु नः ॥ २२ ॥ पूरुश्च निर्ऋतिश्चैव सिंहो नारायणाच्युतौ । अनिरुद्धो हरिः कृष्णो मङ्गलं प्रदिशन्तु नः ॥ २३ ॥ कुमुदः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः । शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः ॥ २४ ॥ देवदौवारिकाश्चैते मङ्गलं प्रदिशन्तु नः। अष्टोत्तरसहस्रं तु विष्णुपारिषदाश्च ये ॥ २५ ॥ अनुपारिषदाश्चान्ये मङ्गलं प्रदिशन्तु नः।। भूलोकभुवर्लोकाद्याः सप्त लोकाः प्रकीर्तिताः ॥ २६ ॥ सागराश्च तथा सर्वे मङ्गलं प्रदिशन्तु नः। तथा पाताललोकाश्च रुद्रलोकाः सुखोषिताः॥ २७ ॥ दिक्षु सर्वासु तिष्ठन्तो मङ्गलं प्रदिशन्तु नः । वेदाश्चाप्युपवेदाश्च सेतिहासाः कथा अपि ॥ २८ ॥ षडङ्गानि च शास्त्राणि मङ्गलं प्रदिशन्तु नः। गङ्गा च यमुना चैव तथा गोदा सरस्वती ॥२९॥ नर्मदा चैव कावेरी मङ्गलं प्रदिशन्तु नः । सूर्यादयो ग्रहाश्चाथ मेषाद्या राशयस्तथा ॥३०॥ मासाश्चापि सविण्याद्या मङ्गलं प्रदिशन्तु नः । सर्वे विद्येश्वराश्चापि ये दिव्या ये च मानवाः॥ ३१ ॥ दिव्यन्तरिक्षभूमिस्था मङ्गलं प्रदिशन्तु नः। धेरा ध्रुवश्च सोमश्च आपश्चैवानलोऽनिलः ॥ ३२ ।। १., २. 'लो' ङ पाठः. ३. 'याधराश्चैव' ख. ग., 'श्वेश्वरा' उ. पाठः, 'पारो' क. ख. ग. घ. पाठः.
विष्णुसहितायां प्रत्यूषश्व प्रभातश्च मङ्गलं प्रदिशन्तु नः। यज्ञाश्च पञ्चयज्ञाश्च पाकयज्ञास्तथैव च ॥३३॥ सर्वयज्ञमहायज्ञा मङ्गलं प्रदिशन्तु नः । कुमार्यश्च कुमाराश्च गणेशाश्च विनायकाः ॥ ३४ ॥ साश्च किन्नराश्चौपि मङ्गलं प्रदिशन्तु नः । मृगव्याधश्च शर्वश्व निऋतिचाज एकपात् ॥ ३५ ॥ अहिर्बुनिः पिनाकी च भवनोऽथेश्वरस्तथा । स्थाणुर्भवश्च पौंपारिर्मङ्गलं प्रदिशन्तु नः ॥ ३६ ॥ धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा । इन्द्रो विवस्वान् पूषा च पर्जन्यत्वष्ट्रविष्णवः ॥ ३७ ॥ एते वै द्वादशादित्या मङ्गलं प्रदिशन्तु नः । यवक्रीतश्च क्रीतश्च अर्वा वसुविभावसू ॥ ३८ ॥ कक्षीवान् नारदः कण्वो मङ्गलं प्रदिशन्तु नः। उन्मुचिः प्रमुचिश्चैव आत्रेयोऽगस्त्य एव च ॥ ३९ ।। दृढायुश्चध्मवाहश्च मङ्गलं प्रदिशन्तु नः । दृषद्गुह्यमहद्गुह्यपरिवाजास्तथैव च ॥ ४० ॥ एकद्वित्रिसमाख्याता मङ्गलं प्रदिशन्तु नः। कश्यपोऽत्रिर्वसिष्ठश्च भारहाजोऽङ्गिरास्तथा ॥४१॥ कौशिको भगवांश्चैते मङ्गलं प्रदिशन्तु नः । आवहो विवहश्चैव उद्वहः सुवहस्तथा ॥ ४२ ॥ परीवहो विवहश्चैते मङ्गलं प्रदिशन्तु नः। श्वेतकेतुश्च व्यासश्च वाल्मीकिः सुयशास्तथा ।। ४३ ॥ १. 'स' क. ख. पाठ:. २. 'एते' .क. ख. T. घ. पाठः. . ३. श्चैिव म' ख. ग. पाठः. ४. 'चा' ङ. पाठः.
. . द्वाविशः पटलः। १७७ और्वशेयश्च शक्तिश्च तथा चैव पराशरः। सप्तैते दिव्यमुनयो मङ्गलं प्रदिशन्तु नः॥ ३४ ॥ एवं मङ्गलवादात् ताः सिद्धिं यच्छन्ति देवताः। सर्वकर्म समारम्भे कर्तव्यं च सेमङ्गलम् ॥ ४५ ॥ मण्डपदारमासाद्य शहतूर्यादिनिस्वनैः । हाःस्थादिभ्यो बलिं दद्याद् गन्धपुष्पादिसंयुतम् ॥ ४६॥ एभिमन्त्रैरुपस्थाय स्वमन्त्रैरभिपूज्य तान् । तत्र तत्र बलिं दद्याद् देवदृष्टयावलोकितम् ॥ ४७ ॥ नमस्ते द्वारपालाय चण्डायामिततेजसे । नरसिंहतनूजाय चक्रेणाङ्कितमौलये ॥ ४८ ॥ नमस्ते द्वारपालाय प्रचण्डायामितौजसे। नरसिंहतनूजाय शङ्खनाङ्कितमौलये ॥ १९॥ वाहनाय महाविष्णोस्ताायामिततेजसे। गरुडाय नमस्तेऽस्तु सर्वसर्पेन्द्रमृत्यवे ॥ ५० ॥ दैत्यदर्पविनाशाय सहस्राक्षाय धीमते । कुलिशव्यग्रहस्ताय नमस्तेऽस्तु शतक्रतो! ॥ ५१ ॥ मुखं यः सर्वदेवानां येन हव्यं च नीयते । येन प्रवर्तते सर्व नमस्तस्मै हविर्भुजे ॥ ५२ ॥ येन सहियते सर्व येन धर्मश्च रक्ष्यते । यस्माद् बिभेति लोकोऽयं प्रेतनाथ! नमोऽस्तु ते॥५३॥ राक्षसा यातुधांनाच पिशाचाश्चाश्रयन्ति यम् । तस्मै निर्ऋतिरूपाय रक्षसां पतये नमः ॥ ५४॥ १. 'सु' क. पाठः.
॥ विष्णुसंहितायां येन सेरक्ष्यते सर्व यस्मिन् सर्व प्रतिष्ठितम् । अमोघपाशहस्ताय तस्मैपांपतये नमः ॥ ५५ ॥ पूर्यन्ते च ह्रियन्ते च येन प्राणादयः क्रमात् । भूतानां पतये नित्यं नमस्तस्मै मरुत्पते ! ॥ ५६ ॥ यत्प्रसादाजगत् कृत्स्नं धनेन परिपूर्यते । यक्षगुह्यकनाथाय धननाथ! नमोऽस्तु ते ॥ १७ ॥ येन कालाग्निना लोको युगान्तेष्ववगृह्यते। तस्मै ते ब्रह्मणः पुत्र! विरूपाक्ष ! नमोऽस्तु ते ॥ ५८ ॥ वीरभद्र ! नमस्तेऽस्तु नमो विनेश्वराय च । ब्राह्मयादिभ्यश्च सप्तभ्यो मातृभ्यो वै नमो नमः ॥ ५९ ॥ श्रीधराय नमस्तेऽस्तु नमस्तेऽश्वमुखाय च । वागीश्वर्यादिमातृभ्यः सर्वाभ्यो वै नमो नमः ॥ १० ॥ विष्वक्सेन! नमस्तेऽस्तु देवनिर्माल्यधारिणे । शङ्खचक्रगदापाणे! महापारिषदेश्वर! ॥ ६१ ॥ ये समस्तं जगद् व्याप्य तिष्ठन्ति बलिकाक्षिणः । विष्णुपारिषदाः सर्वे गृह्णन्तु बलिमुत्तमम् ॥ ६२ ॥ इत्याघोष्य बहिर्दिा गणैरष्टविधैः सह । कुमुदादिबलिं दत्त्वा बलिपीठे बलिं हरेत् ॥ ६३ ॥ भूता इति दिक्षुधं भूतनाथाय मध्यतः । मुष्टिना मुष्टिना सर्वान् प्रीणयेद् विष्णुपार्षदान् ॥ ६४ ॥ गृह्णन्तु बलिमेतं तु बाह्यस्था विहगाननाः । क्रूरा येऽल्पसत्त्वाश्च भूतप्रेतनिशाचराः ॥ ६५ ॥ १. 'सर्व ध' ख. ग. रु. पाठः. ये ये द्वाविंशः पटलः। ... । ४ वेतालाश्चैव मातङ्गा हीनाहीनाश्च ये गणाः । सर्वेषामेव तेषां च हरामि बलिमुत्तमम् ॥ ६६ ॥ सर्वेभ्यश्चैव भूतेभ्यः सगणेभ्यो नमो नमः । त्रिः प्रदक्षिणमावृत्य बलिना तोषयेद् गणान् ॥ ६ ॥ सबने सबने चैव नृत्तगीतादिसंयुतम् । गन्धपुष्पादि दत्त्वान्ते बलिशेषं जलाप्लुतम् ॥ ६८ ॥ निहरेदों नमो विष्णुपार्षदेभ्य इति ब्रुवन् । - आचम्य प्रयतो विष्णुं स्मरनेत्य समाहितः ॥ ६९ ।। सर्वेणारोप्य तामी पुनमले नियोजयेत् । विष्वक्सेनाय तत् सर्व समाल्यं दापयेडविः ॥ ७॥ पिण्डे तु बलिपात्रे वा पतिते दूषितेऽपि वा। तत्रे प्रक्षाल्य तत् स्नात्वा कृत्वा न्यासं यथाक्रमम् ॥ परिश्रित्याशु तां भूमि गोमयेनोपलेपयेत् । पायसं श्रपयित्वात्र घृतमिश्रं सुशोभनम् ॥ ७२ ॥ लिखित्वा स्वस्तिकं तत्र चूर्णैः शालिनिशामयैः । व्रीहिभिः स्थण्डिलं कृत्वा तस्मिन्नास्तीर्य चाम्बरम् ॥ नण्डुलैच कुशैः पुष्पैः प्रोक्ष्यास्त्रेण समाहितः । मूलेन विन्यसेत् पात्रं प्रणवेन स्पृशेत् ततः ॥ ७४ ॥ पुनश्चास्त्रेण सम्प्रोक्ष्य दक्षिणे शान्तिमर्चयेत् । उल्लेखनादिकं कृत्वा संस्कृत्यानि यथाविधि ।। ७५ ॥ १. 'नागाश्च' च. पाठः. २. 'निर्माल्यं ख. पाठ:. ३. बिम्बे वाब' क.ख. ग. पाठः. १. 'तु' ख. ग. पाठः ५. 'त:च. पाठः. ६. 'नानुले' क. पाठः. ६ 'विष्णुसंहितामों हुत्वान्नं मूलन्त्रेण प्रणवेनाज्यमेव च । अष्टोत्तरशतं वापि सहस्रं वा यथाक्रमम् ॥ ७६ ॥ हविश्शेषं ततः पश्चाद् बलिपात्रे तु निक्षिपेत् । तत् कृत्वा पूर्ववत् प्रोक्ष्य मूलेनावाहनं भवेत् ॥ ७ ॥ पाचमध्ये ततो दत्त्वा गन्धपुष्पैरथार्चयेत् । नमस्कृत्य ततः स्तुत्वा स्तोत्रैरेवं निवेदयेत् ॥ ७८ ॥ भगवन् ! बलिपातस्य प्रायश्चित्तविधिर्मया । कृतोऽयं त्वत्प्रसादेन सम्पूर्णः शान्तिदोऽस्तु नः ॥ ७९ ॥ पुण्याहं वाचयित्वा च ब्राह्मणैः स्वस्ति वाचयेत् । नमस्कृत्य ततः स्तुत्वा सोत्तरीयः समाहितः ॥ ८ ॥ उदृत्य ब्याहृतीर्जप्त्वा मूर्ध्नि तारण विन्यसेत् । शङ्खतूर्यादिसंयुक्तं शनैर्गत्वा प्रदक्षिणम् ॥ ८१॥ ' अन्तः प्रवेशयेत् पश्चादेशान्यां स्थापयेद् बुधः । उदास्यान्नं बहिस्त्यक्त्वा विष्वक्सेनाय कल्पयेत् ॥ ८२॥ पात्रं प्रक्षाल्य तोयेन विधिनाचम्य च स्वयम् । प्रासादे विन्यसेत् पात्रं ततः कुर्याच्च शान्तिकम् ॥८३॥ राशिचक्रविधानेन केशवादीन् यथाक्रमम् । चक्राब्जे पूजयेद् विद्वानमिकार्यसमन्वितम् ॥ ८४ ॥ बलिपातदिगीशं च तन्मासाधिपमेव च । तिथ्यृक्षवारराशीनां देवताश्चापि तर्पयेत् ।। ८५ ॥ इति विष्णुसंहितायां बलिदानविधिर्नाम द्वाविंशः पटलः ।। १. 'धात् ग' ख. ग. पाठः, . प्रयोविंशः पटलः। १८१ अथ त्रयोविंशः पटलः। अथ वक्ष्यामि संक्षेपाद् विश्वा! सर्वभूतिदाम् । दिग्विभागसमायुक्तां सर्वलोकहिताय वै ॥ १ ॥ विधिवत् स्थापिते देवे यथान्यायं प्रपूजयेत् । कर्तव्या विश्वदेवार्चा वृद्ध्यर्थं सर्वदोपि वा ॥ २ ॥ मध्ये साङ्गं यजेद् विष्णुं दिग्विदिक्षु ततः सुरान् । पूर्वादौ पुरुषं सत्यमच्युतं चानिरुद्धकम् ॥ ३ ॥ विश्वरूपं च वैकुण्ठं सर्व भावनमेव च । विद्याधिपतयश्चैते शङ्खचक्रगदाधराः ॥ ४॥ विष्णुरूपाः सदा पूज्याः सगणास्तु पृथक् पृथक् । शक्तयोऽष्टौ भृशादिस्थाः सुरूपाः सर्वकामदाः॥५॥ प्रज्ञा बुद्धिः स्मृतिः कीर्तिः श्रुतिर्मेधा धृतिः क्षमा । शङ्खः सुदर्शनहलौ गदामुसलखगकाः ॥ ६॥ धनुः स्रगुत्तमा चाष्टौ दिग्विदिक्षु च तबहिः। वज्रदण्डत्रिशूलानि पाशोऽस्त्राणि तथैव च ॥७॥ ततः शक्तिश्च शस्त्राणि वैष्णवास्त्रं भृशादिपु । अस्त्रावरणमेवं तु शूलं सपरशुं यजेत् ॥ ८ ॥ इन्द्रो यमश्व वरुणः सोमोऽमिनिक्रतिस्तथा । वायुरीशान इत्यष्टौ लोकपालास्तु तद्वहिः ॥९॥ आदित्या विश्वदेवाश्च मरुतो विघ्ननायकाः । स्कन्दो रुद्राश्च वसवश्वाश्विनौ च भृशादिषु ॥१०॥ १. 'सिद्धिदाम्', २. 'था', ३. 'धु', ४. 'श्च' ख. ग. पाठः
१४२
विष्णुसंहितायां
बहिर्ग्रहगणाः पूज्याः पितृयक्षगणास्तथा ।
गन्धर्वाः सर्वभूतानि चाम्बिका राक्षसास्तथा ॥ ११ ॥
विद्याधराश्च सिद्धाश्च पूज्याः सर्वे स्वनामभिः ।
ततोऽप्सरोलोकमातृकूष्माण्डाश्च पिशाचकाः ॥ १२ ॥
नागाश्च किन्नराः सा व्याधयश्च भृशादिषु ।
नन्दनः कुमुदश्वाथ हाःस्थौ दक्षिणवामयोः ॥ १३ ॥
गृहगोपुरमध्येऽर्यो ध्वजोऽश्वस्तभृशान्तरे ।
रथो गृहेन्द्रमध्ये स्यात् पर्जन्येन्द्रे खगेश्वरः ॥ १४ ॥
पुंशङ्खमध्यगः पूज्यः सुवर्चाः कलशाधिपः ।
पुरप्रासादमध्येऽच्यों बलाख्यो मण्डपाधिपः ॥१५॥
भाण्डागारेऽक्षयः पूज्यो जलस्थाने तथा नरः ।
सभास्थानेऽहुतो वृद्धिकरश्चाथ महानसे ॥ १६ ॥
उन्मादः पचनागारे तर्पणो भोजनालये।
कुन्दरः कुसुमागारे निर्गमे विक्षरस्तथा ॥ १७ ॥
बलश्चातिबलश्चोभौ पीठेऽच्यौँ बलिरक्षकौ ।
विकटश्च विरूपाक्षः पूर्वगोपुरपालकौ ॥ १८ ॥
द्वाःस्थौ दक्षिणवामस्थौ भीमरूपौ गदाधरौ ।
सनातनश्च सनको दक्षिणद्वारपालकौ ॥ १९॥ .
पूजनीयौ प्रयत्नेन खड्गमुद्गरधारिणौ ।
दण्डपाशधरौ शान्तप्रमोदौ चैव पश्चिमे ॥ २०॥
उत्तरे सर्वदः सर्वदमनश्चापतृणिनौ ।
चरको बहिरीशाने विदारोऽनौ तु पूतनः ॥ २१ ॥
त्रयोविंशः पटलः । वै १८३ नैऋते वायुबाह्ये तु राक्षसः पापचारकः । बलिपीठाधिपः प्राच्यां देवो नन्दिकरो यमे ॥२२॥ पश्चाद् विभीषणः सौम्ये सुलभस्थानपालकाः । येऽनुक्ता मातरोऽनन्तो विष्वक्सेनो ध्वजाधिपाः॥ २३ ॥ वन्तः क्षेत्रपालाश्च ते पूज्यास्तत्र तत्र वै। स्थितासीने चतुष्षष्टिः सुप्ते तेऽशीतिरेकिनी ॥ २४॥ सामान्यं तु शतं त्रेधा प्राकारान्तविभाजनम् । अन्तश्चतुष्कं प्रासाद द्विगुणं च प्रकल्पयेत् ॥ २५ ॥ दक्षिणे नन्दनं द्वाःस्थं चतुर्बाहुं गदाधरम् । तथैव कुमुदं कुर्याद् वामे पट्टसपाशिनम् ॥ २६ ॥ अङ्गुल्यर्धायुग् वामे कुर्यादालयमासने । शते पादप्रविष्टाः स्युः परिवारालयाः पृथक् ॥ २७ ॥ यथैव तु चतुष्षष्टौ संगमस्थाः सुराः पृथक् । तथा शतपदे प्रोक्ता गर्भादिपरिकल्पना ॥ २८ ॥ चतुर्थे सङ्गमेऽर्यम्णो विवस्वन्मित्रभूभृताम् । पुरुषाद्यालयं कुर्यात् सावित्राद्याद्यसङ्गमे ॥ २९॥ : विश्वादीनां मादेवं स्थानानि परिकल्पयेत् । तृतीये सङ्गमेऽर्यम्णः पञ्चमे तु विवस्वतः ॥ ३० ॥ तृतीये तस्य मित्रस्य पञ्चमेऽस्य तृतीयके । भूभृतः पञ्चमे तस्य तृतीयेऽर्यमपञ्चमे ॥ ३१ ॥ १. "म' च. पाठः.,२. 'तु' ख. घ. पाठः. ३. 'च' क. पाठः. १. 'पदानि स्युस्तद्वत् सङ्गेन्द्ररुद्रयोः । विभावनालयं चात्र कुर्याद् वत्साद्य- सलमे ॥ क. ख. ग. ल. च. पाठः.
विष्णुसंहिताबा प्रज्ञादीनां क्रमादेवमालयाः परिकीर्तिताः । शङ्खादयोऽर्यमादीनां चतुर्णामाद्यसङ्गमे ॥ ३२ ॥ मुसलाद्यालयाश्चैवं सावित्राद्यायसङ्गमे । सङ्गेऽयमसवित्रादिहादशानां द्वयोईयोः ॥ ३३ ॥ किश्चित्सूत्रं विमुच्याथ वज्राद्यस्त्राणि कल्पयेत् । वज्रदण्डादयोऽस्त्रैः स्वैः स्थाप्या भूतगणैः सह ॥ ३४ ॥ भान्विन्द्रसङ्गमाद्यष्टस्थानेष्विन्द्रादिलोकपाः सङ्ग भृशखयोर्गेहक्षतवैतथयास्तथा ॥ ३५ ॥ गन्धर्वभृङ्गयोश्चैव द्वाःस्थसुग्रीवयास्तथा । श्वासशोषणयो गमुख्ययोदित्यूकाख्ययोः ॥ ३६ ॥ जयपर्जन्ययोश्चान्ये सम्पूज्या देवतागणाः । बाह्येऽयमवारीशसोमानां तु ग्रहादयः ॥ ३७ ॥ अग्नेः पितृणां रोगेशोर्बहिः स्युश्चण्डिकादयः । खबाह्येऽप्सरसः पूष्णि पितृभद्रविनायकाः ॥ ३८॥ कूष्माण्डास्तु मृगे द्वार्थे पिशाचाः शोषणेऽहयः । मुख्ये तु किन्नराः सर्पा व्याधयस्त्वर्गळे शिवे ॥ ३९॥ सत्ये रङ्गं जलस्थानं पर्जन्ये कारयेद् बुधः। चरकस्य विदारस्य पूतनस्य च रक्षसः ॥ ४०॥ ईशाग्निपितृरोगाणां बाह्ये कोणे स्मृता गृहाः । तबाह्यतस्तु मर्यादाभित्तिरुच्छ्रितगोपुरा ॥४१॥ बलिपीठं तु कर्तव्यं शास्त्रतो गोपुराद् बहिः । शक्रगोपुरमध्ये तु ध्वजस्थाने विधीयते ॥ ४२ ॥ १. 'मन्त्य स' क. पाठ:. २. 'स्थाने च सत्यभृशयोः पूषावितथयो- स्तथा' क. ख. पाठः. ३. 'यत्तप' ख. पाठः, १, 'स' ख. ग. प. पाठ:
प्रयोविंशः पटलः । ५ तत्राश्वरथतायाणामालयाः परितः क्रमात् । शेखगोपुरमध्यस्थः कर्तव्यः कलशाधिपः ॥ ४३ ॥ तथा पुरुप्रासादान्तः स्थितः स्यान्मण्डपाधिपः । भल्लाटसङ्गमे चैव भाण्डागारं प्रकल्पयेत् ॥ १४ ॥ माहेन्द्रे तु सभास्थानं सत्ये स्याद् भोजनालयः। पूष्णि पाको मृगे पुष्पं पुष्पदन्तेऽम्बुनिर्गमः ॥ ४५ ॥ सत्ये वा स भवेत् कूपः कर्तव्योऽदितिगोचरे । असुरे तु बलिस्थानं गन्धो रोगे प्रकीर्तितः ॥ ४६ ॥ ईशोऽग्निः पितरो रोग इति देवास्तु कोणगाः । अर्गले क्षेत्रपालस्य भृङ्गे वै शास्तुरालयः ॥ ४७ ।। एष पूर्वमुखस्योक्तो विधिविश्वार्चने हरेः। ध्वजादि विपरीतं स्यात् पश्चिमाभिमुखस्य तु ॥ १८ ॥ असुरे स्यात् तदा रङ्गं सत्ये च बलिमण्डपः। महेन्द्रे जलमार्गः स्यादयं शतपदे विधिः ॥ ४९ ॥ सङ्गमस्थास्तु चत्वार इतरे सङ्गमेश्वराः । एतावांस्तु चतुष्षष्टौ विशेषोऽत्र प्रकीर्तितः ॥ ५० ॥ कुमुदः करवीरश्च द्वारपालौ चतुर्भुजौ। पुरतः सङ्गमेऽयम्णश्चतुर्थे गरुडालयः॥५१॥ सुभद्रस्य सुबाहोश्च विजयस्य बलस्य च । कुमुदस्य मुनेश्चैव विष्वक्सेनस्य चालयाः ॥ ५२ ॥ आमेयादिषु कर्तव्या गणेशानां प्रकीर्तिताः। सर्वे चतुर्भुजाः कार्या गदाचक्रासिधारिणः ॥५३ ॥ १. 'कीर्तिताः ।' क. ख. पाठः. २. 'क्रमात् पुंशङ्खम' ख. ग. ३. 'पूरुषम' क. पाठः. पाठः, १८६ विष्णुसंहिताया सुवर्णशङ्खनीलाभ्रकृष्णपिञ्जरगौरकाः । श्यामश्च तेऽर्यमादिस्था लोकपालाश्च कीर्तिताः॥५४॥ प्राकारस्थास्तु कर्तव्याः क्षेत्रपर्यन्तदेवताः । भानोस्तु पुरतश्चक्रं ततो गोपुरपीठके ॥ ५५ ॥ ततश्चतुर्ष कोणेषु रक्षसां स्थानमुच्यते। एकाशीतौ च परितः पदं त्रित्रिकसंख्यया ॥ ५६ ॥ गणेश्वरा दिगीशाश्च कर्तव्याः स्वपदस्थिताः। शेषं कुर्याद् यथोद्दिष्टं विष्णोरावरणक्रमम् ॥ ५७ ।। बहिः प्राकारकोणस्थाः कर्तव्या रक्षसां गृहाः । गोपुरादि च कर्तव्यं बलिपीठान्वितं तथा ॥५८ ॥ एवमेव विधानेन कृत्वा विष्णोरिहालयम् । सर्वकामानवाप्नोति गच्छेद् विष्णुपदं पुनः ॥ ५९ ॥ शङ्खचक्रगदाखड्गमुसलं हलमेव च । चापोऽङ्कुशं स्रगेतेषामालयाश्चात्र कीर्तिताः ॥ १० ॥ पयोहेमखनीलासृक्पद्माभ्रामितडित्प्रभाः। मूर्ध्नि स्वाङ्कसमायुक्ताः कर्तव्या हरिहेतयः ॥ ६१ ॥ पूर्वास्त्वप्रतिचाल्याः स्युरितराश्चास्थिराः शुभाः। अन्योन्याभिमुखाः कार्यास्तथान्ये दक्षिणोत्तराः ॥१२॥ स्थानेश्वरस्य देवस्य यत् पूर्वकृतमास्पदम् । तस्य प्रतिमुखे कार्य नान्यास्पदमशत्रुभिः ॥ १३ ॥ अज्ञानादिह यः कुर्यान्लश्येत् स्थानं श्रिया सह । अन्योन्याभिमुखे चोभे न कार्ये देवतागृहे ॥ १४ ॥ १. 'तत्रि', २. 'थेष्टं हिवि' क. पाठः, ३. 'तः' घ, पाठ
प्रयोविंशः पटलः ।
१४७
भन्योन्यपृष्ठसंस्थे च राजराष्ट्रादिनाशने ।
नानुपृष्ठं तथा कुर्यात् कृते चान्यो निषिच्यते ॥ ६५ ॥
व्यत्यस्तमेकसूत्रस्थं न कुर्यादेव सर्वथा ।
यतोमुखः प्रधानः स्याद् देवाश्चान्ये ततोमुखाः॥१६॥
कर्तव्याः परिवारास्तु प्रधानाभिमुखाः सदा ।
एकसूत्रं तथाक्रम्य विपरीतं न कारयेत् ॥१७॥
अन्योन्यं दक्षिणाक्षिभ्यां प्रशस्तं दर्शन द्वयोः ।
अप्रशस्तं च विज्ञेयं तथा वामाक्षिदर्शनम् ॥ १८ ॥
परिवारविधौ चापि सूत्रमाक्रम्य नाचरेत् ।
अङ्गुलं गोलकं वापि परिहत्यैव कारयेत् ॥ ६९ ॥
आसनं ग्राममध्ये तु पूर्वतोमुखमिष्यते ।
ग्रांमस्याभिमुखं त्वेवं स्थानं पूर्वे च पश्चिमे ॥ ७० ॥
शयनं दक्षिणस्यां तु कर्तव्यं पश्चिमामुखम् ।
उत्तरस्यां तु शयनं पूर्वतोमुखमेव च ॥ ७१ ॥
क्षेत्रभागवशादेव कर्तव्यं त्वन्यथामुखम् ।
देवाग्रे दक्षिणेनाथ सर्वतो वा जलाशयाः ॥ ७२ ॥
न रुद्राभिमुखं कुर्याद् ग्रामं नगरमेव वा ।
नोच्चस्थानगतं चैव दुर्गादिस्थानमिप्यते ॥ ७३ ॥
यत्र नीचे स्थितो विष्णुरुच्चैरन्याश्च देवताः ।
विनश्येदचिरादेव तत् स्थानं राष्ट्रमेव वा ॥ ७४ ॥
अरण्ये पर्वते तीर्थे नदीतीरे च सङ्गमे ।
क्षेत्रे च श्रद्धया कुर्याद् युक्त्या भूम्यादिसङ्ग्रहम् ॥५॥
१४
विष्णुसंहिताया
देवभागस्थितं देवं स्वयं तहागसंस्थितः।
अर्चयीत प्रयत्नेन पैशाचासुरवर्जितम् ॥ ७६ ॥
ब्रह्मस्थानगतं वापि देवदेवं समर्चयेत् ।
देवभागस्थितस्त्वेव द्रव्यस्तडागसंस्थितैः ॥ ७७ ॥
विदिक्सूत्रं परित्यज्य दक्षिणं पार्श्वमाश्रितः।
अर्चयेत् तं प्रयत्नेन यस्तु सिद्धिमभीप्सति ॥ ७८ ॥
जपं सम्पुटविन्यस्तं देवपार्थे निधापयेत् ।
अथवा जप्तमानं तु दद्याद् भगवते सदा ॥ ७९ ॥
ब्रह्मसूत्रं परिहरेत् पूजनाजपकालयोः।
अविनो भवति ह्येष जपाचनविधिः सदा ॥ ८ ॥
एवं क्रमेण यो विष्णुमर्चयेद् भक्तिसंयुतः ।
स भोगानीप्सितान् भुक्त्वा विष्र्णोर्याति सलोकताम् ॥
एवमिष्ट्वा यथान्यायं सर्वदेवगणान्वितम् ।
ततः स्वशक्तियोगेन विष्णोः स्नानं समाचरेत् ॥ ८२ ॥.
सर्वदेवार्चना होमः कर्तव्यश्व स्वनामभिः ।
सर्वेषां समिदाज्यान्नैर्हविषाज्येन वा पृथक् ॥ ८३॥
भूतेभ्यश्च बलिं दद्याच्छक्तया विप्रांश्च भोजयेत् ॥ ८३३ ॥
इति विष्णुसंहितायां विश्वार्चनं नाम त्रयोविंशः पटलः ।
अथ चतुर्विशः पटलः।
भथ वक्ष्यामि संक्षेपाजीर्णोद्धारविधि परम् ।
स्थापनात् सर्वथा कार्यों यस्मिन् दशगुणो विधिः॥१॥
चतुर्विशः पटलः । १८५ सर्वात्मनो हरेबिम्बे भने जीणे चले स्थिते। प्रोमराष्ट्रादिनाशः स्यात् तस्मात् कार्या तदुद्धृतिः॥ २॥ देहं देही यथा जीर्ण त्यक्त्वा देहान्तरं ब्रजेत् । त्यक्त्वा जीर्ण तथा बिम्बं देवोऽपि भजते नवम् ॥३॥ अची त्यजति देवेशो जीर्णा जीर्णामिव स्रजम् । मा विक्षन् यातुधाना इत्युडरेदविलम्बितम् ॥ ४ विप्रान् सद्यः समाहूय तन्त्रज्ञान् वेदपारगान् । शतं सहस्रमयुतमधिकं वा यथाबलम् ॥ ५ ॥ तानर्चितान् यथाशक्ति भक्त्या कृत्वा प्रदक्षिणम् । नमोब्रह्मण्यमन्त्रेण प्रणिपत्य समाहितः ॥ ६॥ आशिषो वाचयेद् बहीराचार्यस्तु समूर्तिपः । जितं त इति नत्वा तान् पुनरुत्थाय वाग्यतः ॥७॥ देवं च मनसा ध्यात्वा बद्धाञ्जलिरिदं वदेत् । पूजाबिम्बमिदं विष्णोः स्थापितं पूर्वसूरिभिः ॥ ८ ॥ अनेन दूषणेनाद्य दूषितं चेह वर्तते । दुष्टबिम्बस्य चोद्धारः कर्त्तव्य इति शासनम् ॥ ९ ॥ आगमस्य वयं कर्तुं व्यवसायमुपास्महे । तत्रेदं यदि कर्तव्यमागमार्थतया भवेत् ॥ १०॥ भवन्तो नोऽनुजानन्तु भवेमाज्ञाकरा वयम् । क्रियतामिति निश्शङ्कमनुज्ञातो द्विजोत्तमैः ॥११॥ निवेदयेत् पुनश्चेदं तेभ्यो लोकहितेप्सया। यथैव देवपूजायां विनियुक्तमनिन्दितम् ॥ १२ ॥ १. 'राजरा' क. ख. पाठः. २. 'स्मृ' घ. पाठः विष्णुसहितायां द्रव्यं पुष्पादिकं पश्चान्निर्माल्यमिति निन्द्यते । एवं बिम्बमदुष्टं यत् पूजायां विनियुज्यते ॥ १३ ॥ तदेव दूषितं पश्चान्निर्माल्यमिति निन्द्यते । तस्माद् दुष्टमिदं बिम्बं भवद्भिर्मुक्तसंशयः ॥ १४ ॥ निर्माल्यबुद्धया त्यक्तव्यमिति शास्त्रस्य शासनम् । तत आघोषयेयुस्ते ब्राह्मणा मुक्तसंशयाः॥१५॥ शान्तये यजमानस्य गुरोक्रत्विग्जनस्य च । राज्ञो जनपदस्यास्य ग्रामस्य नगरस्य च ॥१६॥ ततो निष्काम्य देवेशमात्मसात्कृत्य वा गुरुः । आवाह्य कलशे वाथ बिम्बोद्धारविधि चरेत् ॥ १७ ॥ प्रासादस्याग्रतः कुर्याच्छान्तिहोमं यथाविधि । दूर्वास्त्रिमधुराक्ता वा समिधः क्षीरिणां तु वा ॥ १८ ॥ सावित्र्या तत्र होतव्याः सांज्याश्वाष्टसहस्रशः । व्याहृत्युपनिषद्भिश्व शान्ति पश्चात् तु वाचयेत् ॥१९ ॥ शान्तिरस्तु शिवं चास्तु पुष्टिरस्त्वस्तु मङ्गलम् । खस्ति चास्तु समृद्धयस्तु सर्वेषां सन्तु सम्पदः ॥ २० ॥ गोब्राह्मणेभ्यः क्षत्रेभ्यो विद्रेभ्यस्तथैव च । लोकेभ्यः सर्वभूतेभ्यो राज्ञे जनपदाय च ॥ २१॥ राष्ट्रायास्मै विशेषेण ग्रामाय नगराय च । अस्मै च यजमानाय सभृत्याय सबन्धवे ॥ २२ ॥ बिम्बोद्धारविधेरस्तु साकल्यमिति घोषयेत् । आचार्य यजमानोऽत्र प्रणिपत्य प्रसाद्य च ॥ २३ ॥ १. 'सर्वैश्वा' . पाठः.
चतुर्विशः पटलः । हेमरत्नादिदानेन महता परितोषयेत् । आत्मीयं च धनं सर्वमात्मानं च निवेदयेत् ॥ २४ ॥ हिरण्यं गां महीमश्वान् रत्नं वासश्च कुञ्जरम् । भूषणानि स्त्रियो दासानासनं शयनं तथा ॥ २५ ॥ यच्चान्यद दयितं शक्यं तत्तद् दद्यादिति स्थितिः । मूर्तिपेभ्यश्च दातव्यं तत्पादमधिकं तु वा ॥ २६ ॥ देहन्यासं ततः कृत्वा प्रलयोदयसंयुतम् । आचार्यः सगणो बिम्बमलङ्कुर्यात् प्रयत्नतः ॥ २७ ॥ ततस्ते कृतपुण्याहा बद्धोष्णीषाः समाहिताः । वाग्यताः कृतरक्षाश्च तिष्ठेयुर्बडकौतुकाः ॥ २८ ॥ आचार्यों यजमानस्य हेमजं कङ्कणं करे । चक्रमन्त्रेण बध्नीयादलाभे पीतमालिकाम् ॥ २९ ॥ जप्त्वा सिद्धार्थकान् दद्यादाचार्यः स्थपतेरपि । ततस्तूर्यरवैर्दिा वेदनादैश्च घोषयेत् ॥ ३० ॥ ऋषभं कुञ्जरं वाग्रे स्थापयेत् समलङ्कृतम् । बालरज्ज्वादिभिर्बद्ध्वा यन्त्रयोगं च कल्पयेत् ॥ ३१ ॥ उच्छञ्चस्व तथा नासत्सूक्तमा ते पितस्तथा । अनन्तसूक्तं स्वादिष्ठं तथान्यानि शुभानि च ॥ ३२ ॥ यौधाजयं रौरवं च बृहत्साम रथन्तरम् । कयाशुभा ज्येष्ठसाम बैराजं यच्च शोभनम् ॥ ३३ ॥ यजुष्पवित्रं सकलं वरिष्ठं विष्णुदैवतम् । पौरुषं पावमानं च पञ्चोपनिषदस्तथा ॥ ३४ ॥ १. 'दुचितं' क. ख. पाठः.
विष्णुसहितायां चक्रशासिविद्याश्च रूपविद्याश्च मूर्तयः । गुणत्रयमहंकारो भूतादीन्यपराणि च ॥ ३५ ॥ आवर्तयहित्विम्भिराचार्यः सहितः स्वयम् । विसृज्य पीठिकाबन्धं सौवर्णैर्लाङ्गलैः शुभैः ॥ ३६ ॥ अष्टाक्षरेण निर्माल्यं विष्वक्सेनोऽहमुद्धरे । इति कृत्वा स्थिरां बुद्धि भूर्भुवः सुवरोमिति ॥ ३७ ॥ गर्तादुत्थापयेद् बिम्ब यन्त्रयोगेन साधकः । वेदस्तोत्रजपैस्तूर्यैर्जयशब्दैश्च पुष्कलैः ॥ ३८ ॥ नृत्तगीताट्टहासैश्च ततो बिम्ब नयेद् बहिः । अहतैर्वसनैः श्लक्ष्णैः समन्तात् परिवेष्टय तु ॥ ३९ ॥ कृत्वोपचारं गायत्या प्रणवाद्यन्तरुद्धया। दक्षिणे स्थण्डिलं कृत्वा सैकतं चतुरश्रकम् ॥ ४० ॥ तिलान् विकीर्य दीश्व प्रतिमा तत्र शाययेत् । क्षालयेत् तत्र ता तोयैर्गन्धपुष्पैश्व पूजयेत् ॥४१॥ . त्रिरप्रदक्षिणं कृत्वा सतिलैस्तण्डुलैः किरेत् । ततोऽन्यैर्वसनैः श्लक्ष्णैराच्छाद्यारोप्य वाहनम् ॥ ४२ ॥ छत्रध्वजपताकाभिश्चामरैश्योपशोभितम् । महाजनरवैर्युक्तं नदी सागरगों नयेत् ॥ १३ ॥ तत्रागाधे ततो ध्यात्वा विष्वक्सेनं चतुर्भुजम् । तन्मन्त्रेण नमोन्तेन बिम्बमप्सु विनिक्षिपेत् ॥ १० ॥ पीठं ब्रह्मशिलां चौपि निर्माल्यमिति चिन्तयेत् । तत्र सात्वा ततो गत्वा प्रासादं सर्व एव ते ॥ ४५ ॥ १. 'स्वैस्तू' क. पाठः, २. 'मा' ख, ग, घ. पाठः, ३. 'वा' स.ग, पाठः.
चतुर्विशः पटलः। शोधयित्वा बहून् विप्रान् भोजयित्वा यथाबलम् । गो निवास्य चतूरात्रं त्रिरात्रं वापि यत्नतः ॥ ४६ ॥ प्रभूतैयवसं तोयं ताभ्यो दद्याच रात्रिषु । त्रिदिनं कारयित्वैवमन्नाचं स्वस्तिवाचनम् ॥ ४७ ।।. राक्षोन्नं वास्तुहोमं च वेदस्तोत्रादिकीर्तनम् । आदौ कृत्वात्र पुण्याहं ततो मन्त्रैः पृथग्विधैः ॥ ४८ ॥ प्रोक्षयेद् बहिरन्तश्च तोयैर्गव्यैस्तथाक्षतैः । होमयेत् पञ्चदुर्गाभिर्मूलोपनिषदादिभिः ॥ १९ ॥ मन्त्रैरपि च राक्षोमैदस्तूर्येच नादयेत् । जलेऽधिवासितं बिम्बमाहृत्य सह मूर्तिपैः ॥ ५० ॥ कृत्वा शुद्धिं यथान्यायं मण्डपे शाययेद् गुरुः । 'मूर्तिपा जुहुयुर्दिक्षु जपेयुधैव मन्त्रिणः ॥ ११ ॥ वैदिकांस्तान्त्रिकान् मन्त्रान् नामानि च सहस्रशः । ओंकारमग्रतः कृत्वा पठेद् वैष्णवमन्त्रकान् ॥ ५२ ॥ प्रणवेन च संस्पृश्य हृदि सञ्चिन्त्य माधवम् । हृदयं देवदेवस्य विष्णोर्विक्रमणेन च ॥ ५३॥ इति मन्त्रेण संस्पृश्य मुखं चक्षुश्च नासिकाम् । हिरण्यगर्भमन्त्रेण सर्वाङ्गं संस्पृशेत् पुनः ॥ ५४ ॥ पौरुषेण च सूक्तेन तमादायाधिवासितम् - रत्नन्यासादिसंयुक्तं पूर्ववत् त्रिः प्रदक्षिणम् ॥ ५५ ॥. १. 'गां', २. 'तं', ३. 'र' च. पाठः. ४. 'तं स्पृष्ट्वा ह' क. च. पाठः. ५. 'नः ॥ एवं पुरुषसू', ६. 'दि कर्तव्यं पू' च. ६ पाठः.
२ विष्णुसंहितायो गत्वा वेदजयस्तोत्रनृत्तगीतपुरस्सरम् । ध्रुवा यौरिति संस्थाप्य वषट् त इति कीर्तयेत् ॥ ५ ॥ प्रणवेन तु संयुक्तं परमेष्ठयादिविद्यया । एकैकं विन्यसेद् ध्यात्वा पञ्चोपनिषदात्मकम् ॥ ५ ॥ क्रमान्मूर्धास्यहन्नाभिपादेष्वोमिति सर्वतः । नारायणेन सूक्तेन पौरुषेण च सर्वतः ॥ ५८ ॥ विश्वतश्चक्षुरित्येनं सकलं भावयेत् ततः। कलशस्थं नवे बिम्बे सङ्काम्यैवं समाचरेत् ॥ ५५ ॥ प्रतिष्ठाविधिना सर्वमुत्सवान्तं प्रयोजयेत् । सावित्र्या पञ्चभिश्चात्र शान्तिहोमं प्रकल्पयेत् ॥ ६ ॥ बाहुच्छेदे परित्यागः प्रतिमायाः करे तथा । यस्मिन्नवयवे भने वैरूप्यं तत्र तां त्यजेत् ॥ ६१ ।। योककरशाखा तु भन्मा हे वात्र न त्यजेत् । अतःपरं परित्यागैस्त्रिच्छेद कैश्विदिष्यते ॥ ६२ ॥ पादशाखापरिच्छेदेऽप्येवमन्यत्र कल्पयेत् । स्फुटिते च परित्यागो भिन्ने च परिकीर्तितः ॥६३ ॥ सौवर्णी साङ्गुलिः कार्या या भग्ना द्वे च ते तथा । लोहादौ चेच्छिलाबिम्बे ताम्रण रजतेन वा ॥ ६४ ॥ हेतिच्छेदे तु सर्वत्र सौवर्ण तत् प्रकल्पयेत् । मकुटे कुण्डले चैव वस्त्रादिषु च शस्यते ॥६५॥ १. 'क' ङ, च. पाठः. २. 'वं', ३. 'सकलस्थं च. पाठः. ४. ज्य' च, 'ज्यं त्रिच्छे', ५. 'त्यागेऽप्ये ख. ग. पाठः, ६. 'ये' चः पाठः, २ चतुर्विशः पटलः । प्रतिमायाः परित्यागे चोराहतिवदिष्यते । स्थापनं पूजनं चात्र न ग्राह्य पीठमक्षतम् ॥१६॥ अनुयागे नवान्येव द्रव्याणि शुभदानि तु । पिण्डिकापच्छिलादीनि द्वयोः पीठं तु गीते गहने निखनेछैलं दारवं वहिना दहेत् । दद्याद रत्नं व लोहं च कुर्याद् विद्राव्य वा पुनः॥६॥ पार्थिवं निक्षिपेदप्सु सर्व पार्थिवमेव वा। भने बिम्बेऽपि देवस्य प्रासादो यत्र लक्ष्यते ॥ ६९ ॥ तत्रापि कारयेद् बिम्ब सौवर्णमपरं पुनः । लोहजं रत्नजं वाग्रे स्थापितं विधिनायेत् ॥ ७ ॥ तदप्यमन्त्रक पूज्यमिति चाहुर्मनीषिणः। पौराणिकेषु बिम्बेषु देवादिस्थापितेष्वपि ॥ ७१ ॥ न्यायोऽयमेवे विज्ञेयः स्वयं वा यत्र जायते। संशये बहुभिः सार्ध वैष्णवैर्वेदपारगैः ॥ ७२ ॥ देवस्य महतीं पूजां कृत्वा भक्तिपुरस्सरम् । वेदतर्यादिनिर्घोषैर्वादश्यां श्रवणेऽपि वा ।। ७३ ॥ उपोष्य दर्भशय्यायां स्वपेयुर्देवसन्निधौ। आचक्ष्व देव ! देवेश! प्रपन्नोऽस्मि तवान्तिकम् ॥७४ ॥ स्वप्ने सर्वाणि कार्याणि हृदयस्थानि यानि नः। इति विज्ञाप्य सुप्तानां स्वप्नोऽत्रानुगुणो भवेत् ॥ ७५ ॥ द्विस्त्रिापि तथा कृत्वा कृत्यं निश्चिनुयाद् बुधः ।.. प्रासादं तु नवं कुर्याद् वृत्तं वा चतुरश्रकम् ॥ ७६ ॥ १. क्षिपेच्छै': क. ख. ग, पाठः. २. 'व', ३. 'न च. पाठः, ५. 'ब' क. पाठः, पूर्ववञ्चतुरश्रे वा वृत्तं वृत्ते तु नान्यया। भूमिहानिर्न कर्तव्या नाङ्गहानिश्च तत्र वै॥ ७ ॥ देवतारहितं स्थानमाश्रयन्त्येव नारकाः । तस्मात् तत्परिहारार्थ रक्षां कुर्याद विशेषतः ।। ७८ ॥ गोवासं पुरधूपं च दीपमनिं च संस्कृतम् । पञ्चगव्यं द्विजान दर्भान् सर्षपांश्च न हापयेत् ॥ ७९ ॥ राक्षोप्नं च जपेत् सूक्तं नारसिंहं सुदर्शनम् । स्तोत्राणि च प्रदोषेषु कुर्याञ्च स्वस्तिवाचनम् ॥ ८० ॥. स्वस्तयेऽस्तु सदा विष्णुः स्वस्तयेऽस्तु चतुर्मुखः । स्वस्तयेऽस्तु सदा रुद्रः स्वस्तयेऽस्तु शतक्रतुः ॥ ८१ ॥ स्वस्तयेऽस्तु सदा वह्निः स्वस्तयेऽस्तु यमः सदा। स्वस्तये नितिः ख्यातः स्वस्तये वरुणः सदा ॥ ८२॥ खस्तयेऽस्तु सदा वायुः स्वस्तयेऽस्तु धनेश्वरः । स्वस्तयेऽस्तु सदेशानः स्वस्तयेऽस्तु मरुद्गणः ॥ ८३ ।। स्वस्तये सन्तु स्वस्तये सदा। आदित्याः स्वस्तये सन्तु मुनयः स्वस्तये सदा ॥ ८४ ॥ गन्धर्वाः खस्तये सन्तु स्वस्तये स्वस्तये सन्तु नागाश्व स्वस्तये सन्तु पन्नगाः ॥ ८५ ॥ स्वस्तये सन्तु विधेशाः स्वस्तयेऽप्सरसः सदा। नद्यश्चं स्वस्तये सन्तु सरितः स्वस्तये सदा ॥ ४६॥ वसवो रुद्राश्व सन्तु किन्नराः। १. स्वस्तये सन्तु नद्यश्च स' चः पाठः, ' 10 सागराः स्वस्तये सन्तु शैलाश्च स्वस्तये सदा । स्वस्तये मातरः सन्तु पितरः स्वस्तये सदा ॥ ८७ ॥ देवपारिषदाः सर्वे स्वस्तये सन्तु नः सदा । स्वस्ति भागवतानां तु स्वस्तिं चास्त्वग्रजन्मनाम् ॥ ८८ ॥ वस्त्यस्तु पूजकानां तु स्वस्ति चास्तु गवामपि। स्वस्त्यस्तु स्थावराणां तु जङ्गमानां तथैव च ॥ ८९ ॥ स्वस्ति चास्तु च मन्त्राणां स्वस्ति वै कर्मणामपि । बलिदानं हि देवस्य विष्णोरस्मै नमो नमः ॥ ९॥ यवहा क्रियते कर्म तत्तदुक्त्वा विशेषतः । स्वस्तिवाचनमाचार्यः कुर्यादेवं शुभं भवेत् ॥ ९१ ॥ बलिं चाष्टविधेभ्योऽथै भूतेभ्यो दिक्षु दापयेत् । स्थापयित्वा नवं बिम्बं स्वपनं चोत्सवं तथा ॥ ९२ ॥ पूजयेत् पूर्ववन्नित्यमेवं सिद्धिर्भविष्यति ॥ ९२१ ॥ इति विष्णुसंहितायां चतुर्विशः पटलः ॥ ॥ : अथ पञ्चविंशः पटलः । अथ वक्ष्यामि संक्षेपादुत्पातेषु च निष्कृतिम् । संशोधनक्रमं चैव स्थानप्रतिमयोः क्रमात् ॥ १ ॥ उत्पतन्ति पुरस्तादित्युत्पाता भयशंसिनः । दिव्यान्तरिक्षभौमास्ते ज्ञेयास्तन्त्रेषु कीर्तिताः ॥ २॥ प्रासादगर्भपीठार्चाः शरीरत्वेन शाङ्गिणः । कल्पिताः सर्वदा रक्ष्या विप्रैरुत्पातशङ्कया ॥ ३ ॥ १, २. 'च', ३. 'पि, ४. 'यां जीर्णोद्धारपटलश्चतुर्विशः ।।' च. पाठः. ५. 'थि' डं. च. पाठः.
विष्णुसहिताया '' उत्पातेषूपजातेषु न कार्या पूजना हरेः । अस्पृश्याः प्रतिमापीठप्रासादाः साङ्गदेवताः ॥नों अकृतायां तु निष्कृत्यां स्पृष्टाः कुप्यन्ति देवताः । पूजिता वा ततो यत्नानिष्कृतिं कारयेद् दुतम् ॥ ५॥ वितानामिनिभं विष्णोबिम्बमुत्पातदूषितम् ।। अकृतायां तु निष्कृत्यामपूज्यं सर्वथा बुधैः ॥ ६॥ विलम्बने तु निष्कृत्या विनश्येद् देवसनिधिः । .. ४... तत्स्थाः प्रेता भयं कुर्युर्व्याधिशोकादिभिर्नृणाम् ॥ ७ पतनं चलनं स्वेदो हासनं चैव रोदनम् । उत्पाटनं हृतिश्चोरैर्दाहः प्रध्वंसनं बलात् ॥ ८ ॥ पीठप्रासादकत्वस्त्रतोरणानां च पार्षदाम् । भङ्गश्छत्राकवल्मीककृमिकीटादिसम्भवः॥९॥ श्वचोरखात्यपाषण्डिदेवलादिप्रवेशनम् । अर्चनं चाप्यमन्त्रज्ञैरन्यभक्तैरदीक्षितैः ॥१०॥ क्षुद्रान्यमन्त्रसंयोगः कालजीर्तिदिगाश्रयः । उषितैनीरसैर्दुष्टैः प्रतिषिद्धैश्च पूजनम् ॥ ११ ॥ अनाराधश्च निर्दोषः कालोपेक्षा प्रमादतः । कलहो मरणं जन्म रक्तश्लेष्माश्रुपातनम् ॥ १२ ॥ एते चान्ये च विज्ञेया उत्पाता बहुदोषदाः । तस्मात् सर्वप्रयत्नेन कर्तव्यमविलम्बितम् ॥ १३ ॥ प्रायश्चित्तं यथोत्साहमन्यथा सर्वनाशनम् । महद् बहुषु चोग्रेषु निमित्तेषु विशेषतः ॥ १४ ॥ १. 'नं भङ्गं स्वे', २. 'सश्च रो' च. पाठः. ३. 'तं चौरै ख . ग. पाठः, ९९ पञ्चविंशः पटलः। निमितेष्वलपमल्पेषु सद्यो वा यत्र निष्कृतिः। बिस्बपीठगृहालिन्दप्राङ्कणेषु यथातथम् ॥ १५ ॥ खननादिविधि कुर्याद् यथादोषबलाबलम् । खननं हरणं दाहः पूरणं गोनिवासनम् ॥ १६ ॥ विप्रोग्छिष्टं च गव्यं च सप्तैताः स्थानशुद्धयः। खादिरस्पयेन चास्त्रेण खात्वा हस्तादिमानतः ॥ १७ ॥ सदोषानखिलान् पात्रैर्हत्वा पासून बहिः क्षिपेत् । कुशदर्भादिभिर्दग्ध्वा तहस्मादि पुनहरेत् ॥ १८ ॥ सुमृद्धिः खातमापूर्य हस्तिपादस्तु याज्ञिकैः । गोमूत्रसिक्तमाकोट्य विप्रपादोदकैस्तथा ॥ १९ ॥ गां निवास्याशयेद विप्रान् पायसं वैष्णवान् बहुन् । तंदुच्छिष्टे हृते सिञ्चद् गव्यैश्च विकिरैः किरेत् ॥ २० ॥ स्थानशुद्धिरियं प्रोक्ता बिम्बशोधनमुच्यते। क्षालनप्लावनस्नानमार्जनानि यथाक्रमम् ॥ २१ ॥ धारावगाहनं पधादभिषेकोऽत्र सप्तमः । क्षालनं दर्भमृत्त्वग्भिस्तूष्णीं तोयैश्च शोधनम् ॥ २२ ॥ गन्धपुष्पाक्षतोपेतैरमन्त्रैः प्लावनं जलैः। सकू.व्ययुक्तैस्तैर्मन्त्रवत् स्नानमम्बुभिः॥ २३ ॥ पात्रे यथोक्तमापूर्य तोयं मन्त्रैः प्रपूज्य च । कूर्चाप्रैः प्रोक्षयेद् बिम्ब मन्त्रैस्तदिह मार्जनम् ॥ २४ ॥ १. 'य', २. 'श्व' च. पाठः, ३. 'व्यसंयुक्तैर्म' ख. ग. पाठः ४. च. पाठः. * कुशागैरिति व्याख्यानुसारी पाठः. .
वरुणं तत्र २०० विष्णुसंहिताया संस्थाप्य धान्यकूर्चस्थमैशान्यां लोहसम्भवम् । वारुण पात्रमापूर्य सकूर्च सलिलैः शुभैः ।। २५ ॥ मत्स्यौ कूर्मी च सौवर्णौ राजतौ चात्र निक्षिपेत् । समृणालां सपुष्पां च पद्मिनी क्षालितां तथा ॥ २६ ॥ सम्पूज्य तीर्थ चावाह्य वैष्णवम्। पालाशादित्रिपाद्वस्थं धारापात्रं तु लोहजम् ॥ २७ ॥ सहेमच्छिद्रमापूर्य सकूर्च प्रतिमोपरि । धाराच्छिद्रा च कर्तव्या याममात्र दिने दिने ॥ २८ ॥ समन्त्रं वारुणात पात्रात् तोयं हृत्वात्र पूरयेत् । पञ्चोपनिषदो जप्या वाग्यतैर्दर्भपाणिभिः ॥ २९ ॥ स्पृशहिः पात्रमव्यायहिर्विष्णुमव्ययम् । पौरुषं पावमानं च सूक्तमन्यच्च वैष्णवम् ॥ ३० ॥ संहिता वाखिलान्येषां कार्योऽत्राद्यन्तयोर्जपः । धारान्ते पूजयेद् देवमुद्दास्य वरुणं पुनः ॥ ३१ ॥ न चाल्यं वारुणं पात्रं त्रिरात्रं यत्र जप्यते । हृत्वाम्भः पुनरापूर्य पूर्ववत् सर्वमाचरेत् ॥ ३२ ॥ गन्धतोयैः पयोभिर्वा धाराज्येनापि चोत्तमा । कार्यात्रापि च कर्तव्यं तथा वरुणपूजनम् ॥ ३३ ॥ सञ्च्छाद्याची सुवासोभिर्दभैरथ समन्ततः । संस्थाप्य याज्ञिकैः काष्ठैः कृतं पात्रं प्रमाणतः ॥ ३४ ॥ गव्यैर्व्यस्तैः समस्तैश्च गन्धोदान्तैर्यथाक्रमम् । दिनेदिने यथान्यायं कर्तव्यमवगाहनम् ॥ ३५ ॥ पञ्च कुम्भांस्तु संस्थाप्य सकूर्चान सूत्रवेष्टितान् । गन्धपुष्पाक्षताम्भोभिः पूर्णानुपनिषत्क्रमात् ॥ ३ ॥ १. 'म्भान् समास्था' च. पाठः.
पञ्चविंशः पटलः । २.१ सपल्लवमुखान् न्यस्य चक्रिकाश्च सतण्डुलाः । सम्पूज्य वाससावेष्टय तैरेव त्वभिमन्त्रयेत् ॥ ३७॥ पञ्चभिः स्नापयेदेवमभिषेकविधिः स्मृतः। षोडश द्वादशाष्टौ वा दीक्षिता वैष्णवा हिजाः ॥ ३८ ॥ वेदैस्त्रिभिश्चतुभिर्वा नादयेयुर्दिवानिशम् । नववस्त्रपरीधानाः स्वाचान्ता गुरुमूर्तिपाः ।। ३९॥ पुण्याहं वाचयित्वात्र यथाविधि समाहिताः प्रोक्षयेयुश्च राक्षोप्नैर्मन्त्रैः शान्तिकपौष्टिकैः ॥ ४ ॥ वैदिकैस्तान्त्रिकैश्चैव सर्वे दर्भाग्रपाणयः। तच्छिष्टाहिर्गृहं प्रोक्ष्य बहिरन्तश्च सर्वतः ॥ ११ ॥ विकिरेत् पञ्चभिर्मन्त्रैः सगव्यैः सर्षपाक्षतैः । मण्डपे शोधिते वह्नि संस्कृत्य विधिवत् ततः ॥ ४२ ॥ जुहुयुर्मूर्तिपाः सर्वे कुण्डेवाचार्यसंयुताः । कृत्वा प्रधानहोमान्तं सर्वत्राग्निमुखं क्रमात् ॥ ४३ ॥ ध्यायन्तो विष्णुमव्यग्रा वह्निस्थं साङ्गमव्ययम् । पञ्चभिस्त्रिसहस्राज्यं जुहुयुः सर्ववह्निषु ॥ ४४ ॥ ततः समिद्धृतव्रीहितिललाजसहस्रकम् । क्रमादष्टाक्षरेणैव जुहुयुः सर्व एव ते ।। ४५ ॥ पालाशीनां घृताक्तानां समिधा द्वादशोत्तरम् । शतं व्याहृतिभिः पश्चात सर्व ते जुहुयुस्ततः ॥ ४६ ॥ क्षीरेणाष्टशतं दन्ना मधुनाज्यन च क्रमात् । सावित्र्यैव तु ते सर्वे जुहुयुः सर्वशान्तय ॥ ४७ ॥ १. पंचय' ख. ग. पाठः, २. 'तुर्वाधनाद' च. पाठः, BB २०२ विष्णुसंहिताया होमावसान एतभ्या यजमानः स्वशक्तितः । हिरण्यं दक्षिणां दद्यात ततम्तैः स्वस्ति वाचयेत् ॥ ४८ ॥ स्लपनं च यथात्साहं कुर्यादधमजितम् । पादौ प्रक्षाल्य सम्पूज्य दद्यादाचार्यदक्षिणाम् ॥ १९ ॥ शक्या हिरण्यं क्षेत्रं च गां च विष्णुं विचिन्तयन् । शतमष्टोत्तरं विप्रान् वैष्णवान् सम्यगचितान् ॥ ५० ॥ प्रणम्योनातिरिक्तादिशान्त्यर्थ वाचयच्छिवम् । चत्वारो मूर्तिपा हीने मध्येऽष्टौ द्वादशोत्तमे ॥ ५१ ॥ सवस्त्राभरणा योज्या यथादापबलाबलम् ! होमाध्ययनकर्तृश्च सदस्यान् वैष्णवान् द्विजान् ॥ ५२ ।। स्वशक्त्या पूजयते सर्वानन्नपानादिभिः शुभैः । अद्भुतेप्वीशकोणेऽग्निं संस्कृत्य विधिवद् गुरुः ॥ ५३ ॥ कृत्वा प्रधानहामान्तं कुर्यादाच्याहुतीः पुनः । पञ्चभिदिशाप्टार्णगायत्रीजितपीरूपः ॥ ५४ ॥ चतुर्विंशतिशो हुत्वा अपामागसामाच्छन्ना सहन्द्रा मानकाजालः ॥ ५५ ॥ दर्वा सिद्धार्थकतीहियवास्निलहविधतम् । इति हुत्वा ससम्पात सगल्य पञ्चमन्त्रितम् ॥ ५६ ॥ तोयशेष हृदा सिञ्चद् सत्र मध्वादिसम्भवः । स्नपनं च ततः कर्यादष्टोत्तरशतादिकम् ।। ५७ ।। श्वस्पृष्टां शोधयित्वाची बहुशो गव्यशोधिताम् । शुद्धाहिस्त्वग्रसैर्गन्धैस्तीर्थतोयश्च शोधयेत् ॥ ५८ ॥ १. 'द् विद्वान' ख. ग, पाठः. ॥ शतशो वा सहस्रशः।
२०३ पञ्चविंशः पटलः । पञ्चरात्रं त्रिरात्रं वा गवां वास च कल्पयेत् । ब्राह्मणान् भोजयेत पश्चात पुण्याहं चात्र वाचयेत् ॥ ५९॥ वेदैश्च नादयेदिष्ट्वा निवेद्यान्नं बलिं हरेत् । नादयत तूर्यघोपैश्च तता हामाद कारयत ॥ ६० ॥ अश्वत्थैः खदिरैः प्लक्षः पलादीः पाटलैटः। नारायणेन सूक्तेन श्रीसूक्तेन तथैव च ॥ ६१ ॥ अतो देवेति सूक्तेन नासदहोमुचा तथा । संसमिद्भद्रपादेन तथारायित्यनेन च ॥ ६२ ॥ गायच्या पञ्चभिश्चात्र होतव्यं विधिनैव तु । समाप्ते स्नपने दद्यात् पूर्ववच्चैव दक्षिणाम् ॥ ६३ ॥ अनिमित्तेन निष्क्रान्तं पुनरोशु प्रवेश्य तु । शान्तिहोमं च कुर्वीत म्मपनं स्वस्तिवाचनम ॥ ६४ ॥ उत्सवं तीर्थयात्रां च ब्राह्मणानां च भोजनम् । प्रसूते श्वसृगालाद्यैः शून्यं कृत्वा त्रिरात्रकम् ॥ ६५ ॥ पूर्वोक्तां कारयच्छान्ति स्थानशुद्धिं च भूयमीम् । दाहे पयस्विनी धेनुं शान्तिनाम्ना ममाह्वयेत ॥ ६६ ॥ दृर्वादिकं निवेद्यास्यै पद्मपत्रे पयो दुहेत । आतप्यं दधि निर्मथ्य तत मंस्कृत्याज्यमाहरत ॥ ६७ ॥ अपरेधुस्तथा दुग्ध्वा दधि चवं प्रकल्पयत । तृतीयेऽह्नि शकुन्मूत्रं क्षीरं चैव तथाहरेत ॥ ६८ ॥ पद्मपत्रेधुं सम्पूज्य क्रमान्मृत्रादिपञ्चकम् । पञ्चमन्त्रैस्तु संयोज्य मथित्वा प्रणवेन च ॥ ६९ ॥ १. 'टया'. २. 'श्चा' च. पाटः. ३ 'उच्य', १. 'तु' ख. ग. पाट:. ------- २०५ विष्णुसंहितायां सम्पूज्याप्टसहस्रं तु पञ्चोपनिषदो जपेत् । तेन सम्प्रोक्ष्य सर्वत्र स्नापयेत प्रतिमां ततः ॥ ७० ॥ हृत्वा भस्मादिकं तोयैः प्लावयित्वा समन्ततः । गोनिवासादि कर्तव्यं प्रायश्चित्तं यथाक्रमम् ॥ ७१ ॥ चलं वा निश्चलं कुर्यादावाद्य कलशे बुधः । अधिवास्य यथान्यायं कुर्याहाथ नवीक्रियाम् ॥ ७२ ॥ भग्नमुद्धृत्य वा बिम्ब तथान्यत् स्थापयेद् बुधः । सङ्क्रान्तमुड़ते बिम्बे नवे संयोजयेत पुनः ।। ७३ ॥ उहास्य सुस्थितं कुर्याद् बिम्बं पच्छिलया सहै। दुर्जनस्पर्शनादौ तु शुद्धिं कृत्वास्य भूयसीम् ।। ७४ ॥ होमादि सकलं कुर्यादुत्सवान्तं विशेषतः । चोराहृतिस्तु दोषाणामग्रणीः परिकीर्त्यते ॥ ७५ ॥ . तत्र यत्नेन कर्तव्यं विधानमतिविस्तरम् । चौरैरपहृतं बिम्बं यदि यत्नेन. लभ्यते ॥ ७६ ॥ शोधयित्वा विधानेन स्थाप्यं तत्र तदेव तु । अलब्धेऽपहते भग्ने जीर्ण वाभिनवं पुनः॥ ७७ ॥ योनिरूपविशेष प्रासादे सति तं ध्यात्वा सकलं बिम्बसंयुतम् ॥ ७८ ॥ संहृत्यावाहयेद् विद्वान् कलशे मन्त्रपूर्वकम् । गर्भगेहेऽस्य पीठे वा सत्यावाह्य तथैव तु ॥ ७९ ॥ पीठं गर्भगृहं वापि यदा तस्य न लभ्यते । बिम्बस्थानात् तदावाह्य यथोक्तं विधिमाचरेत् ॥ ८० ॥ तु न्यूनमप्यत्र नेष्यते । १. 'पुनः ।', २. 'मम् ।' ३. 'ता' च. पाठः.
षड्विंशः पटलः । २०५ संक्रान्तस्य विनाशेऽपि कर्तव्यं मूलनाशवत् । तदङ्गदेवतानाशे तहदेव प्रकीर्त्यते ॥ ८१ ॥ यतस्तु देवताः सर्वा मन्त्रात्मानः प्रकीर्तिताः । एवमेव विसर्गः स्यान्नाशे तासामिति स्थितिः ॥ ८२ ॥ कर्तव्या पञ्चभिः शान्तिरपूजायां तु भूयसी । शतहोमोऽष्टकेनाथ वैष्णवानां तु भोजनम् ॥ ८३ ॥ दशानां पायसेनात्र देया शक्त्या च दक्षिणा । द्वादशान्तमहःसंख्यागुणितः स्यादयं विधिः ॥ ८४ ॥ स्नपनं चाँचतुर्मासोन्महास्नानमतः परम् । वत्सरे शान्तिहोमेन युक्तं विप्रार्चनेन च ॥ ८५ ॥ अभिमन्त्र्य हविः स्कन्नं दक्षिणेन तु पाणिना । अष्टाक्षरेण होतव्यं शतमाज्येन पञ्चभिः ॥ ८६ ॥ दुःशृताचप्सु निक्षिप्य तथा हुत्वा पेरं पचेत् । उषितेऽम्बुपयोमिश्रगव्यगन्धादिशोधनम् ॥ ८७ ॥ पुण्याहं शान्तिहोमं च बलिमन्नाद्यमाचरेत् ॥ ८७३ ॥ इति विष्णुसंहितायां पञ्चविंशः पटलः ॥ अथ षडविंशः पटलः । अथ वक्ष्यामि संक्षेपात् स्नपनस्य विधिं परम । उत्तमादिविभागेन कर्तव्यं तु विचक्षणः ॥ १ ॥ स्थापितस्य चतुर्थेऽह्नि यात्रान्ते ग्रहणादिषु । उपसर्गेऽन्त्यसंसर्गे प्रधानपुरुषक्षये ॥ २ ॥ १. 'च', २. सं महा'. ३. 'नं ननः'. ४. 'मैस्तु यु' ख. ग. पाठः. ५. 'चहें पच. पाट:. ६. 'श्रवणा' व. ग. पाठः.
२०६ विष्णुसंहितायां दीक्षाभिषेकयागान्ते मङ्गल्ये मन्त्रसाधने । क्षुद्रान्यमन्त्रविन्यन्ते चिरलुप्ते च पूजने ॥ ३ ॥ असान्निध्येऽभिषेके च राज्ञां वृद्यर्थमेव च । अज्ञातदोषशान्त्यर्थ प्रत्यब्दं च यथाविधि ॥ ४ ॥ कर्तव्यं स्नपनं मस्त्या निमित्तानुसारतः । द्वादश्यां श्रवण पुण्ये व्यतापानेऽयनादिपु ॥ ५ ॥ जन्मङ्क्ष यजमानस्थ पौर्णमास्यां च कारयेत् । मण्डपं पूर्ववत कृत्वा तोरणध्वजशोभितम् ॥ ६ ॥ मुक्तादामादिसङ्कीर्ण कुसुमोत्करमण्डितम् । कर्तव्या वेदिका मध्ये द्वात्रिंशद्यवमुच्छ्रिता ॥ ७ ॥ यावन्तः कलशा ग्राह्यास्तावान् वै वेदिविस्तरः। कुण्डानि काग्येद् दिक्षु मङ्गलानि च विन्यसेत् ॥ ८' ऐशान्यां स्थापित पात्रे धान्यस्थे नववाससा । नदीतीर्थादिजं तोयं दीक्षितोत्पूतमाहरेत् ॥ ९ ॥ सम्पूज्य विष्णुगायच्या सपवित्रेण पाणिना । शतमष्टोत्तरं विद्वान् सकूर्चमभिमन्त्रयेत् ॥ १० ॥ इमा आपः शिवाः सन्तु शुभाः शुद्धाश्च निर्मलाः । पावनाः शीतलाश्चैव पूताः सूर्यस्य रश्मिभिः ॥ ११ ॥ इत्युक्त्वा शोधितां वेदिमापोोहेष्ठादिभिस्तिभिः । प्रोक्ष्य गन्धाक्षतर्गव्यैर्विकिरेच्च समन्ततः ॥ १२ ॥ द्विषट्कनैन्द्रसौम्याग्राण्यथ सूत्राणि पातयेत् । कोष्ठानि चतुरश्राणि तालमात्राणि कल्पयेत् ॥ १३ ॥ . रिश्च स' क. घ. इ. पाठः.
२.. पडिशः पटलः । पूरयेदङ्गुलोत्सेधा रेखाः सर्वाः मिताः समाः । विकिरेन्मध्यतः किञ्चित् तेनैव रजसा समम् ॥ १४ ॥ व्यत्ययात् पञ्चवर्णर्वा कर्तव्यं पदपूरणम् । चतस्रो वीथयः कार्याः पूर्वाग्रा इतरास्तथा ॥ ११ ॥ शुद्धोदकान्विते पक्षे द्रव्यस्नान न बीथयः । मध्यमं तु पदं ब्राह्मं देविकं तदनन्तरम् ।। १६ ।। परितो मानुषं वाराः षोडशात्राष्ट दैविके । ब्राह्मे चाष्टदलं पद्मं कल्पयेत् कर्णिकोज्ज्वलम् ॥ १७ । सर्वत्र पीठिकाः कार्याश्चतुरङ्गुलमुच्छ्रिताः । शालिभिः कूर्चसंयुक्तमध्ये सतिलतण्डुलैः ॥ १८ ॥ गायच्याप्टशत हुत्वा पूर्ववत् सस्कृतानले । ततोऽधिवासयेच्छुडान् कलशानुक्तलक्षणान् ॥ १९ ॥ सूत्रेण वेष्टितान् सर्वानङ्गुलाङ्गुलमानतः । तारेणाधोमुखान न्यस्य पश्चिमे दर्भसंस्तरे ॥ २० ॥ अग्नयादीशानपर्यन्तं पङ्कीकृत्य वचक्षणः । दर्भानुपरि विन्यस्य दर्भमुद्रां च दर्शयत् ॥ २१ ॥ प्रोक्ष्य गन्धोदकः सर्वान् विकिर नुक्षनः शुभैः । उत्तानीकृत्य चाद्धृत्य पञ्चांभः क्रमयोगतः ।। २२ ।। ब्राह्ममानुपदेवेषु पदपु विनिवेशयत । अष्टाक्षरेण कुम्भपु ततः कृर्चानि विन्यसेत् ॥ २३ ॥ शान्तिकऽधामुग्वान्येव पौष्टिक तृन्मुखानि च । मूलेन तान् पुनः प्रोक्ष्य सपवित्रण पाणिना ॥ २४ ॥ १. 'द्राश्च द' ख, ग, पाठः.
२.८ विष्णुसंहितायां प्रयतः प्राङ्मुखः पूर्व ब्राह्मे स्नानोदकं न्यसेत् । मूलेन सर्वमूर्त्यङ्गपरिवारं हरि स्मरन् ॥ २५ ॥ गन्धपुष्पैस्तमाराध्य वस्त्राभ्यां वेष्टयेत् पुनः । पाचोदीनि क्रमाद् द्रव्याण्यावाह्याबाह्य दीक्षितैः ॥ २६ ॥ पूरेयेद् बहिरन्तश्च दिग्विदिक्षु समाहितः । पाद्यमैन्द्रे यमे वीर्यमाचामं वारुणे न्यसेत् ॥ २७ ॥ पञ्चगव्यं तथा सौम्ये घृतमामेयगोचरे । नैऋते दधि विन्यस्य वायव्ये क्षीरमेव च ॥ २८ ॥ क्षौद्रमीशानदिग्भागे हादशाक्षरविद्यया । उष्णोदकं भृशे चाथ कषायं वितथे तथा ।। २९ ।। मार्जनं भृङ्गाजे तुं पुष्पदन्ते फलोदकम् । शोषे यवोदकं रत्नं मुख्ये लोहं तथादितौ ॥ ३० ॥ कुशोदकं तु पर्जन्ये यथावद् विनिवेशयेत् । गायच्या शेषकुम्भांस्तु पूरयेच्छुद्धवारिभिः ॥ ३१ ॥ गन्धाभाऽर्यमदेशेऽथ पुष्पतोयं विवस्वति । तापमानिकं मित्र सुगन्धामलक धरे ॥ ३२ ॥ सावित्रेऽक्षततायं तु नालिकेरकमिन्द्रके। ऐक्षवं रुद्रदास तु तथाप तण्डुलोदकम् ॥ ३३ ॥ अष्टाक्षरेण सर्वास्तान् देविकान् पूरयेत् क्रमात् । पूरितान् पूरितान् सद्यः पल्लवैरुपशोभितान् ॥ ३४ ॥ 10 १. 'त्रा'. २. 'ज'. ३. 'चा. ४. 'व'. '५. 'त्र', ६. 'च पार्ज च. पाठः. ७. 'श्च' ख. ग. पाठः. ८. 'भाग तु', ९. १०. 'भयेत् ।।' च. पाठः. 'वै', षड्विंशः पटलः । २०९ चक्रमन्त्रेण विन्यस्य चक्रिकाश्च सतण्डुलाः। वासोभिर्वेष्टयेत् सर्वान् नवैः केशादिवर्जितैः ॥ ३५ ॥ दर्भान् न्यस्याक्षतांश्चैव मूलेन विकिरत् कमात् । अष्टाक्षरेण सम्प्रोक्ष्य स्वमन्त्रैः पूजयेद् गुरुः ॥ ३९ ॥ प्रणवेन पुनः प्रोक्ष्य गन्धतोयेन चैव हि । दीक्षितैर्दिक्षु होमांश्च कारयित्वाधिवासयेत् ॥ २७ ॥ शान्ति च पञ्चभिर्तुत्वा कारयेत् स्वस्तिवाचनम् । देवसन्निधये चात्र मङ्गलायाधशान्तये ॥ ३८ ॥ आशिषो वाचयेद विहान् कर्माविकलमस्त्विति । शान्तितोयमथानीय सम्पाताज्यसमायुतम् ॥ ३९ ॥ प्रोक्षयेत् कलशान् सर्वान् कूर्चाग्रेण पुनर्गुरुः । 'शुद्धा भवन्त्विमे कुम्भाः सकुशाः सापिधानकाः॥४०॥ वातातपपरीताश्व शुभलक्षणसंयुताः । पश्चविंशतिधा विष्णोस्तत्त्वभेदेन तिष्ठतः ॥ ४१ ॥ द्रव्येयत्ताश्रयाः सर्वाः सङ्गच्छन्तां विभूतयः । शास्त्रोदितमिदं चास्तु स्लपनं देवनिर्मितम् ॥ ४२ ॥ अनेन स्नपनेनास्तु प्रसन्नो भगवान् हरिः। इत्युक्त्वान्यैः कृतानुज्ञो मूर्तिपैः सहितो गुरुः ॥ ४३ ॥ सोष्णीषः सोत्तरीयश्च कृतन्यासः स्वलकृतः । नीराजनादिसंयुक्तो गच्छेद् गर्भगृहं ततः ॥ ४४ ॥ १. 'श्चाथ मू'. २. 'प्रैः क'. ३. 'यं समानी' च. पाठः. १. दीक्षितैः स'. ५. 'पुनः' ख. ग. पाठः. ( २१० विष्णुसंहितायां अष्टोत्तरशतं जप्त्वा मूलमन्त्रं पुरःस्थितः । द्वारं च वायुनोढाट्य दत्त्वाय वाग्यतः शुचिः ॥ ४५ ॥ विश्वेनाच्छादनं हत्वा प्रक्षाल्य प्रणवेन च । सृष्टिक्रमेण तत्त्वैस्तु युक्तं ध्यात्वा सुरेश्वरम् ॥ ४६ ॥ सकलीकृत्य पाद्याध्ये पुनर्दत्त्वा जितादिना । गायत्र्या कौतुकं छित्त्वा दद्यादाचमनं पुनः ॥ ४७ ॥ मूर्त्यक्षतान् सदूर्वाग्रान् पादयोचोमिति क्षिपेत् । नीराजयेत् त्रिरस्त्रेण मङ्गलानि हृदोदिशेत ॥ ४८ ॥ शुभे तु नैजसे पात्रे शालितण्डुलपूरिते। अस्पैरश्वत्थपत्रस्थैर्नवगोमयकल्पितैः ॥ ४९ ॥ वर्णोज्ज्वलैयथाशोभं वर्धमानाज्यवर्तिभिः । उज्ज्वालाभिर्युतं मध्ये कुर्यान्नीराजनं त्विदम् ॥ ५० ॥ पूजाद्रव्याणि कल्प्यानि शोभनान्यत्र दीक्षितैः । शालिपिष्टं निशाचूर्ण हेमरत्नाक्षतानि च ॥ ५१ ॥ स्नानोदकस्य चाङ्गानि संयोज्यानि समासतः । दुर्वाश्यामाकपद्मानि विष्णुपर्णीति पाद्यकम् ॥ ५२ ॥ सिद्धार्थ गन्धपुष्पं च फलं यवतिलाक्षतम् । कुशाग्रं चाय॑मष्टाङ्गं कल्पयेच्च समासतः ॥ ५३ ॥ तक्कोलजातिकर्पूरलवङ्ककुसुमान्वितम् । चतुरङ्गं तथाचामं कल्पयेत् तत्र साधकः ॥ ५४ ।। अश्वत्थोदुम्बरब्रह्मवटबिल्वविकङ्कतैः। शमीभिः खदिरैः कुर्यात् कषायं त्वग्भिरेव च ॥ ५५ ॥ १. 'जि' क. ग. घ. ङ. पाठः. २. 'पू'. ३. 'यि' च. १. 'शमीवटब्रह्मवि', '५. 'सबिल्वख' ष. ङ, पाठः. ६. 'द्रि' च. पाटः. ३ पाठः. .
२११ षड्विंशः पटलः । सहा निशा सदाभद्रा शिरीषं सूर्यवर्तिनी । कुशाग्रं च षडङ्गानि मार्जने कथितानि तु ॥ ५६ ॥ कदलीनालिकेराम्रधात्रीपनसडाडिमैः । सभेव्यबिल्वैरष्टाई फलतोयं चे कल्पयेत् ॥ ५७ ॥ वज्रमौक्तिकवैडूर्यपद्मरागप्रवालकैः । पञ्चाङ्गं रत्नतोयं स्यालोहं हेमादिपञ्चकम् ॥ ५८ ॥ सव्याम्बुजटास्रायोमुरशीतैस्तु गन्धकम् । जातिस्त्रीमल्लिकाकुन्दनन्द्यावर्ताब्जचम्पकैः ॥ ५९ ॥ यूथिकाबकुलाभ्यां तुं कर्तव्यं कुसुमादकम् । शङ्खारितार्श्वकूमैच लोहजैरोपमानिकम् ॥ ५ ॥ आद्याङ्गमितरालाभे पाद्यादीनां प्रशस्यते । पितरः श्रीसरस्वत्यौ दक्षविष्णूशनेन्दवः ॥ ६१ ॥ इन्द्रार्कयमविश्वाख्याः कुबेरी वायुरप्यजः । वसवश्चैव सावित्री पाद्यादिद्रव्यदेवताः ॥ १२ ॥ गन्धों वरुणस्ताक्ष्यों भूमिनि,तिरेव च । श्रीधरश्च नृसिंहोऽश्वमुखी मध्ये परः पुमान् ॥ ६३ ॥ इदं विष्णुहिरण्यवर्णा आपोहिष्ठा प्रजापते । तेजोऽसि च दधिकाठण आप्यायस्व तथा मधु ॥ ६४ ॥ अथाकृष्णेन चाश्वत्थे भद्रं कर्णेभिरेव च । गणानां वायवायाहि ब्रह्मजज्ञानमेव च ॥ ६५ ।। १. 'ह'. २. 'प्र'. ३. 'त्य'. १. 'या'. ५. 'च', ६. 'स्तु', ७. ' वारु' च. पाठः. ८. 'त्थं' ग्व. ग. पाठः, २१२ विष्णुसंहितायां उपत्वाने देवस्यत्वा बहिर्मन्त्राः प्रकीर्तिताः । विष्णोरराटं तत्त्वों च सुवर्ण स्योनापृथिव्यपि ॥ १६ ॥ शन्नो यादियों यासां च परोमात्रेति दैविके । मध्येऽतोदेवसूक्तं च सर्वत्रान्ते स्वपूरणम् ॥ १७ ॥ पाचादिमध्यपर्यन्तं स्नानमंत्र प्रकीर्तितम् । प्रतिद्रव्यं समभ्यर्च्य धूंपयित्वा निवेदयेत् ॥ ६८ ॥ सकलीकृत्य मूलाङ्गैर्मुद्राः सम्यक् प्रदर्श्य च । नीराज्याादिभिः साङ्गं यथान्यायं प्रपूजयेत् ॥ १९ ॥ एभिरवाखिलँद्रव्यैः स्नापयेदङ्गदेवताः । चतुर्विधं निवेद्यान्नं सोपदंशं घृताप्लुतम् ॥ ७० ॥ बलिं च सर्वतो दद्याद् भूतेभ्यः सार्वकामिकम् । सार्ववर्णिकमन्नायं कुर्याच्चैवानिवारितम् ॥ ७१ ॥ आचार्य पूजयेत् कर्ता दक्षिणाभिः समूर्तिपम् । हामाध्ययनकर्तृश्च सदस्यान वैष्णवांस्तथा ॥ ७२ ॥ ब्राह्मणान् वैष्णवाञ् शान्तान् सम्पूज्य द्वादशावरान् । शक्त्या च दक्षिणां देद्यात् कुर्यात् तैः स्वस्तिवाचनम्॥ व्यत्यस्तोनातिरिक्तादिदोषशान्तिस्ततो भवेत् । द्रव्यैरूनशताधेन सेकाशीत्या शैताष्टभिः ॥ ७४ ॥ पडध्यर्धशतैः सप्तदशायद्विशतेन च । सद्विपञ्चाशता तेन त्रिभिर्वा पञ्चभिः शतैः ॥ ७५ ॥ १. 'मे च दे', २. 'म्य ब' ङ. च. पाठः. ३. 'त्वं' क. पाठः. ४. 'व्य'. ५. 'मेवं प्र'. 'मेवं प्र'. ६. 'पूजयि'. ७. 'लैन्यै ८. 'ताम्', ९. 'दत्त्वा कु', १०. "तथाट' च. पाठः. -- सप्तविंशः पटलः । २१३ कुम्भोत्तरसहस्रान्तं स्नानमेवं प्रकल्पयेत् । इति सम्यक् समाख्यातं विष्णोः स्नपनमुत्तमम् ॥ ७६ ॥ ऐहिकामुत्रिकान् कामान् सम्यक् कृत्वा यदाप्नुयात् ॥ इति विष्णुसंहितायां षविंशः पटलः ।। अथ सप्तविंशः पटलः । अथ वक्ष्यामि संक्षेपात् प्रोक्षणौदिविधिक्रमम् । नवीकरणमुद्दिश्य कार्य सर्वं यथाक्रमम् ॥ १ ॥ मम्मृज्य सर्वतो गेहं कपिलागोमयेन च । तन्मूत्रेण च तेनात्र प्रोक्षयच्छमिति ब्रुवन् ॥ २ ॥ चतुर्दिक्षु तथा कृत्वा सगर्भगृहमादितः । तूष्णीं मन्त्रैश्च सम्प्रोक्ष्य शुद्धोदैर्मन्त्रवारिभिः ॥ ३ ॥ इमा आपः शिवा गव्यैः पञ्चोपनिषदन च । सर्वतश्चक्रसञ्जप्तैर्विकिरेत सर्षपाक्षतैः ॥ ४ ॥ संशोध्य मण्डपं चाग्रे तारणध्वजमण्डितम् । शयनं कल्पयेत सम्यक् कुसुमात्कग्मंयुतम् ॥ ५ ॥ ततः सुरक्षितं कृत्वा पुण्याहं तत्र वाचयेत । कर्मार्चा स्थापयित्वाद्भिः सरत्नाभिश्च पञ्चभिः ॥ ६ ॥ तीथोदेश्च त्रयीसारमूक्तः स्त्रपनमाचरत । नवाभ्यां शुक्लवस्त्राभ्यां वेष्टयित्वाक्षरण तु ॥ ७ ॥ १. 'सैम्तु म्ना' क. ख. पाठः. २. 'णम्य वि'. ३. 'तु'. ४. 'य'. ५. 'रशोभित' च. पाठः. ६. 'वामयि क. घ. ङ, पाठः, २ विष्णुसंहितायां उपवीतमथायेन मकुटं मध्यमेन तु । उत्तरीयं तृतीयेन पुंबीजेन च भूषणम् ॥ ८ ॥ सर्वेण गन्धपुष्पाद्यौरिष्ट्वा पुण्याहमाचरेत् । ओङ्कारं भगवन् सर्वव्यापिन् सर्वपदं पुनः ॥ ९ ॥ भूताधिपत इत्येवं सर्ववेदपदं पुनः । सारमैयेत्यतः सर्वदेवाधिपत इत्यपि ॥ १० ॥ पुरुषत्यतन्महापुरुषशब्दवत् । अन्तादिमध्यभूतेति परात्परतरेति च ॥ ११ ॥ व्यक्ताव्यक्तपदं पश्चात् स्थूलसूक्ष्ममहापदम् । योगिन् नम इति स्वाहाशब्दान्तेन तैमाह्वयेत् ।। १२ ।। सकलीकृत्य मूलेन हृदयादिभिरोमिति । दद्यात् पाद्यं तथाचाममिमेगन्धानुलेपनम् ॥ १३ ॥ इमाः सुमनसः पुष्पं धूपं चैव वनस्पतः । शुभं ज्योतिः प्रदीपं च दद्यादयं दशाङ्गवत् ॥ १४ ॥ आपः सिद्धार्थका दूर्वा अक्षतास्तिलतण्डुलाः । क्षीरं यवाश्च माषाश्च कुशाग्राणीति तद् विदुः ॥ १५ ॥ ओन्नमःपदमादौ तु ततः पुरुषोत्तमाय च । ततः समस्तलोकाधिपतयेऽय॑मनन्तरम् ॥ १६ ॥ निवेदयामिसंयुक्तो नमःस्वाहेत्ययं मनुः । भूयश्वाचमनं दद्यात् पञ्चभिः स्नापयेत् पुनः ॥ १७ ॥ १. 'मे' च. पाठः, २. 'तः घ. ङ. पाठः, ३. 'स' ख.ग. ५. 'ति'. ५. 'मे' ख. ग. पाठः. ६. 'बृहस्प' घ. रु. ७. 'ति' च.. 'त:' ख. पाठः. 3. पाठः. पाठः, सप्तविंशः पटलः । २१५ पूर्ववद् वस्त्रभूषादि पायाचमनमर्चनम् । बड्डाथ कौतुकं धेनुप्रदानं स्वस्तिवाचनम् ॥ १८ ॥ कृत्वाधिवासयेद्धोमान् पूर्ववद् दिक्षु कारयेत् । ऋग्यजुस्सामाथर्वज्ञा जुहुयुर्दिक्षु दीक्षिताः ॥ १९ ॥ क्रमाच्छाब्दिकनैरुक्तच्छन्दश्शिक्षाविदोऽन्यतः। ज्योतिःकल्पेतिहासज्ञाः पुराणज्ञाः सदस्यकाः ॥ २० ॥ मीमांसान्यायसाढयज्ञा वेदान्तज्ञाश्च साक्षिणः । गायच्या तु मथित्वाग्निमक्षरैः प्रोक्ष्य चाष्टभिः ॥ २१ ॥ तयुक्तैस्तैर्निषेकादि कृत्वा पूर्णां प्रदाय च । विहत्याग्निमुखं कृत्वा जुहुयुः सर्व एव ते ॥ २२ ॥ समिधः क्षीरिजा ब्राह्मरिथ पालाश्य एव वा । पृथगष्टसहस्राणि घृताक्ता मन्त्रसम्मिताः ॥ २३ ॥ ततः प्रोक्ष्य जलैर्बिम्बं सदस्येभ्यो निवेदयेत । सुहुताः समिधः पूर्वमम्माभिः शास्त्रदृष्टिभिः ॥ २४ ॥ शं भवन्तो वदन्त्वत्र प्रीयतां च जनार्दनः । तत ओं स्वस्ति भवन्तो ब्रुवन्विति विधानतः ॥ २५॥ ओं स्वस्ति शान्तिरित्यष्टौ सदस्या ब्रूयुरादगत् । ओं स्वस्ति शान्तिः सुहृतं भवत्विति गुरुर्वदेत ॥ २६ ॥ सदस्यानुमताः पश्चादाज्येन जुहुयुस्तथा आज्यभागा हुतास्तावदित्युक्त्वा शं ब्रुवन्त्विति ॥ २७ ॥ निवेदयेयुरष्टौ ते वदेयुश्च शमस्त्विति । आचार्य ओं शं सुहृतं भवविति तदा वदेत् ॥ २८ ॥ १. 'द्यमाच', २. 'नार्च', ३. सं यद्धो'. ४. २', ५. 'तान्', ६. 'ताश्चादावाज्ये', ७. "न्त्वि' च. पाठः, २१६ %3D विष्णुसंहितायां चरुं हुत्वा निवेद्यं तु चरुहोमः कृतस्त्विति । ओं मङ्गलं ब्रुवन्त्वन्ते तेऽपि मङ्गलमस्त्विति ॥ २९ ॥ ओं मङ्गलं च सुहुतं भवत्विति गुरुर्वदेत् । पुनराज्यं तथा हुत्वा निवेद्यं प्राग्वदेव तु ॥ ३० ॥ शमित्यत्र सदस्यैश्च वक्तव्यं गुरुणा तथा । सर्वव्याहृतिभिहोंमाः कर्तव्यास्तैविधानतः ॥ ३१ ॥ आद्यन्तयोः परीषेकः कार्यः पूर्णा तथान्ततः । एवं हुत्वा तथा सर्वे जुहुयुश्वावसानिकम् ॥ ३२ ॥ इन्द्रविष्णुमरुद्भयोऽमिधर्मनेतृभ्य एव च । साध्येभ्यश्च दिशापालैः सर्वदेवगणैः सह ॥ ३३ ॥ व्याहृत्याग्निवायुशक्रवरुणब्रह्मविष्णुभिः। अश्विभ्यां गोपतियमाग्निविष्णुवसुभास्करैः ॥ ३४ ॥ . विश्वभूतदिशापालनिर्ऋतीरौद्ररूपकैः । विष्णवे च पुनः शूलपाणये च यमाय च ॥ ३५ ॥ सकालधर्मों दण्डी च त्र्यम्बको वरुणः पुनः । विष्णुर्मित्रोऽथ परमेष्ठयादित्यभूतसमुद्रवान् ॥ ३६ ॥ आपगावायुविष्णुभ्यो मरुद्भयो जातवेदसे । इन्द्राय सर्वलोकेभ्यो ब्रह्मणे विश्वकर्मणे ॥ ३७ ॥ सोमाय सोमपार्षद्भयो ग्रहनक्षत्रसंयुतैः । तारागणैर्भूतभौमदिव्यनागैश्च होमयेत् ॥ ३८ ॥ सर्वाश्च देवता रुद्रविश्वरूपाख्यविष्णवः । ब्रह्मा रुद्राः सर्वदेवाः सहविनैर्गणाधिपैः ॥ ३९ ॥ - १. 'दा' ख. ग. पाठः. २. वें व्या' क. ख. पाठः. ३. 'स्ते विधा' क. पाठः, ४. 'रूपस' च. पाठः. ५. नगणा' क. पाठः.
सप्तविंशः पटलः । २१७ आदावन्ते च योक्तव्यास्तथा व्याहृतयः पृथक् । ससम्पातैस्ततः कुम्भं पूरयेच्छान्तिवारिभिः ॥ ४० ॥ देवस्योत्तरतो विद्वान् संस्थाप्य सकमण्डलुम् । सर्वतीर्थाहतैः सर्वसमुद्रादाहृतैरपि ॥ ४१ ॥ प्रास्रोतसीभ्यो वापीभ्यः प्रत्याहृतैरथाम्बुभिः । सरत्नकैः सपवित्रैः कलशं पूरयामि च ॥ ४२ ॥ सर्वद्वयं ततो व्यापिन् सर्वलोकाधिसंयुतम् । पतये नमः स्वाहेति तागदिः पूरणे मनुः ॥ ४३ ॥ अनेन मन्त्ररूपेण पूरयित्वा कमण्डलुम् । वेष्टयेत् क्षौमपट्टेन सापिधानमलङ्कृतम् ॥ ४४ ॥ शेषैः शान्त्युदकैः पूर्ण पूरयित्वान्यमादितः। सापिधानमलङ्कृत्य क्षौमाभ्यां परिवेष्टय च ॥ ४५ ॥ गन्धादिभिरथाभ्यर्च्य कलशं च कमण्डलुम् । कलशं सर्वकल्याणं गृहीत्वा प्रोक्षकः शुचिः॥ ४६ ॥ सर्वमङ्गलसंयुक्तो नवाम्बरधरो हरिः। स्वयं भृत्वा जपैन्मन्त्रं शनैर्गच्छेत् प्रदक्षिणम् ॥ ४७ ॥ आधाय सकुशे हस्ते सव्ये तूपरि दक्षिणम् । तथा कमण्डलु चान्यो गृहीत्वा च तदग्रतः॥४८॥ सकुशां पातयेद् धारामविच्छिन्नामनुत्कटाम् । शन्नोदेव्यणोरणीयान्मन्त्रद्वयमुदाहरेत् ॥ ४५ ॥ प्रासादान्तश्च संशोध्य तथा कृत्वा विचक्षणः। कारयेद् बिम्बशुद्धिं च युक्तितो मूर्तिपैर्गुरुः ॥ ५० ॥ १. 'से' च. पाठः. २. 'कृ', ३. पे', ४. 'तु' ख. ग. पाठः. DI २१८ विष्णुसंहितायां शान्ति कृत्वा तदने तु कौतुकस्नानमाचरेत् । पीठे निवेश्य तच्छय्यामनुगैरपनाययेत् ॥ ५१ ॥ क्षालितं शुद्धतोयेन स्नापयेन्मन्त्रवारिभिः । शिष्टैः शान्त्युदकैश्चैव स्नापयेत् प्रणवेन तु ॥ ५२ ॥ पाद्याचामाम्बरं भूषामुपवीतं च वेष्टनम् । पूर्ववत् सम्प्रदातव्यं दीपान्तं पुनरव च ॥ ५३ ।। ब्रह्माणमीश्वरं विप्राननुमान्य यथाविधि । अनुज्ञादक्षिणां दत्त्वा कुर्याच स्वस्तिवाचनम् ॥ ५४ ॥ शयने रुद्रसूक्तेन पीठाचोत्थापनं भवेत् । स्थाने पुरुषसूक्तेन ब्राह्मणासनकर्मणि ॥ ५५ ॥ पुरुषेऽक्षरराजं वा मध्यमं शाङ्कर तथा । अन्त्यं ब्राह्मे यथायोगं युक्त्या चोत्थापनं चरेत् ॥ ५६ ॥ शान्तिकुम्भं पुरस्कृत्य धागं चैव कमण्डलाः । कर्मार्चामानयेद् विद्वान् वाग्यतोऽन्तः स्मरन् हरिम् ॥५७॥ तत्त्वज्ञेन धृतं कुम्भं सम्यगुवाहयत पुरः । शाकुनस्वस्तिसूक्ताभ्या जयशब्दादिसयुतम् ॥ ५८ ॥ साग्निं प्रदक्षिणीकृत्य प्रासादं प्रविशंत पुनः । दत्त्वार्य कौतुकं पीठ स्थापयेद् ब्राह्ममुच्चरन् ॥ ५९ ॥ शिखाशिरामुखग्रीवाद्विबाहुहृदयं तथा । नाभावुपस्थ ऊर्वोश्च करयोः पादयोन्यसेत् ॥ ६ ॥ ३ १. 'नुगम्य'. २. 'भव'. ३. 'लोः । दत्त्वा' च. पाठः. ४. ५. 'प्रा' ख. ग. पाठः, २ सप्तविंशः पटलः । २१० ऐन्द्र तु पृष्ठतः कार्यमेवं न्यासविधिः स्मृतः । ततस्तु प्रोक्षयेद् विहानं तं सम्यग् द्विषडक्षरैः॥ ६१ ॥ कर्मार्चागतमावाह्य गन्धपुष्पोदकेन तु । स्नापयेन्मूलबिम्बं तु ततः शान्त्युदकेन च ॥ ६२ ॥ सर्वान्तः काम्यहद्गुह्यपादस्थैः कल्पयेत् तनुम् । हृदयादीनि चाङ्गानि यथास्थानं निवेशयेत् ॥ ६३ ॥ पाद्यादि पूर्ववत् कार्य पुण्याहं वाचयेत् ततः । गन्धपुष्पादिभिः सम्यक् पूजयित्वा च भक्तितः ॥ ६४ ॥ पायसं यावकं चौन्नं गौळं वात्र निवेदयेत् । तद् भक्ष्यक्षीरसंयुक्त माज्यं स्वादूपदंशकम् ॥ ६५ ।। अनुक्तमन्त्रकार्येऽत्र गायत्री वैष्णवीं वदेत । तच्छेषेण ततो दद्यात् पार्षदभ्यो बलि क्रमात् ॥ ६६ ॥ आचम्याचमनीयं च दत्त्वा चान्नं विमृज्य तत। दक्षिणां च ततो दद्यादन्नाद्यं चानिवारितम् ॥ ६७ ॥ चक्रादीनां तु मन्त्राः म्युः म्वनामपदलक्षिताः। यदुक्तं म्थापने कर्म नत मर्वं कारयेत् ततः ॥ ६८ ॥ स्थापनोतविधानन नपनं काग्यंत तेतः। उत्सवं च तथा यात्रां मप्ताहं भक्तिपूर्वकम् ॥ ६९ ॥ दिनत्रयं तु वा कुर्यादेकाहमथवापदि । तथावश्यं तु कर्तव्या शान्त्यर्थ चोत्सवक्रिया ॥ ७० ॥ १. 'न् स'. २. द्विद्विप'. ३. 'वा' च. पाठः. ४. 'त्त्वान्नं तु विसर्जयेत्' ख. ग., 'त्त्वान्नं तु वि' क. घ. पाटः. ५. 'पुनः' च. पादः. ६. 'संयुतः ॥' ख. ग. पाठः. .
२ २२० विष्णुसंहितायां प्रोक्षणं सद्य एवेष्टं प्रायश्चित्ते विशेषतः। स्पर्शश्व विष्णुसूक्तेन सहस्राष्टाक्षरान्वितः ॥ ७१ ॥ शुद्धौ कृतायामिष्टोऽयं विधिः पञ्चाज्यहोमवान् । न तिथिनं च नक्षत्रं न कालस्य परीक्षणम् ॥ ७२ ॥ प्रायश्चित्तेषु कर्तव्या सद्य एव च निष्कृतिः। चतुस्त्रिद्वयेकवेदाः स्युस्तन्त्रज्ञाश्चाधिकारिणः ॥ ७३ ॥ सद्यश्चेदेकवेदोऽपि बहुवेदो विलम्बने । आचार्यः सर्वतन्त्रज्ञस्तदा स्याञ्चोत्तमो विधिः ॥ ७४ ॥ अधमोऽपि विधिः कार्यः सद्योऽशक्तैरिति स्थितिः। पदवाक्यप्रमाणहर्वेदयज्ञव्रतस्थितैः ॥ ७५ ॥ दक्षैजितेन्द्रियैः शान्तैमूर्तिपैः सहितो गुरुः । एवं कुर्याद् विधानेन जलसम्प्रोक्षणं हरेः ॥ ७६ ॥ आढकत्रयसम्पूर्णमच्छिद्रं कलशं शुभम् । सकूर्च वस्त्रयुग्मेन वेष्टितं रत्नमंयुतम् ॥ ७७ ॥ शालिकूर्चस्थितं पूर्ण पुरुषसूक्तेन पूजयेत् । मूलेनाङ्गचतुर्मूर्तिविधिनाादिभिः क्रमात् ॥ ७८ ॥ तत्र विष्णुं महाविष्णुं सदाविष्णुं च विन्यसेत् । उल्लेखनादिकं कृत्वा संस्कृत्याग्निं च होमयेत् ॥ ७९ ॥ पौरुषं विष्णुसूक्तं च चित्तिस्रुक्सप्तहोतो॒कम् । चतुर्होता च षड्ढोता पञ्चोपनिषदो जितम् ॥ ८० ॥ सावित्री व्याहृतिश्चैव हंसःशुचिषदित्यपि । मूलत्रयं च गायत्रीं जुहुयात् सुसमाहितः ॥ ८१॥ १. 'प्रतीक्ष' ख. ग. पाठः. २. 'मे' ग. घ. पाठः. ३. “धा' क.ख. पाठः. १. 'म' च. पाठः.
१ २ सप्तविंशः पटलः । २२१ हुत्वा हुत्वा स्पृशेद् बिम्बं कलशं भवनं तथा । मूलत्रयेण होमान्ते स्पृशेत् प्रसृतिमुद्रया ॥८२॥ सम्पातहुततोयेन कलशस्थेन सर्वतः । परिभ्रम्याग्रतो धारां कृत्वा सम्प्रोक्षयेत् कुशैः ॥ ८३ ॥ वास्तुहोमे कृतेऽन्तश्च वास्तोष्पदशपञ्चकैः । हुनेदष्टसहस्रं तु पालाशं खादिरं तु वा ॥ ८४ ॥ तथा पञ्चशतं वापि कुर्यादष्टदातं तु वा। तावदाज्यं चरुं लाजास्तिलाज झाली होमयत ॥८५॥ प्रत्येकमेवमेवं तु मन्त्र मन्त्रे च होकायन यथालाभं तु होतव्यं शास्त्रदृष्टेन वर्मना ।। ८६ ॥ वैदिकानां हुनेदाज्यं शेषं वै मूलविप्रया। एवं कृत्वा विधानेन कौतुकं बन्धये नतः ॥ ८७ ॥ द्वादशाक्षरमन्त्रेण पद्मसूत्रेण चैव हि । रात्रौ महोत्सवं कुर्याच्छसतूर्यरवैः शुभैः ।। ८८ ॥ रात्रौ होमस्तु कर्तव्यो जलसम्प्रोक्षणं दिवा । प्रभाते सुमुहूर्ते च प्रोक्षणं कर्तुमाग्भेत ॥ ८९ ॥ आवाह्य पूजयेद् देवं शङ्खचक्रादिलक्षणम् । साङ्गं द्वादशभिश्चैव दशभिर्मूर्तिभिः सह ॥ ९ ॥ आदित्यरुद्रवस्वाद्यैः किन्नगद्यैश्च संवृतम वाङ्मयादि सबिन्दुं च नमस्कारान्तमुत्तमम ॥ ५१ ॥ ३. 'न कर्मणा ॥'. १. 'त' क. पाठः. २. 'भेन' ख. ग. पाठः. ४. 'ण वै बहु ॥', ५. 'के' च. पाटः, २२२ विष्णुसंहितायां. प्रणबादिकमन्त्रेण म्नापयेत सुसमाहितः। शेषोदकेन मन्त्रज्ञः म्नापयेद् भुवनेश्वरम् ॥९२ ॥ सूक्ताभ्यां पूर्वमुक्ताभ्यां मकलध्यानमंयुतम । पीठं गर्भमलिन्दं च कपाटं भित्तिमेव च ॥ ९३ ॥ मण्डपं प्राङ्गणं चैव सर्वत्रं प्रोक्षयेत ततः । सूक्ताभ्यां मूलमन्वैध परिवागन वमन्त्रकैः॥५४॥ अर्चयेच्च क्रमात मम्यग गन्धपुष्पादिभिः शुभैः । दिशाबलिं ततो दद्याच्छङ्खदुन्दुभिनिस्वनैः ॥ ९५ ॥ प्रदक्षिणं ततः कृत्वा प्रणिपत्य क्षमापयेत् । ब्राह्मणान् भोजयेत् पश्चात तेभ्यो दद्याच्च दक्षिणाम् ॥१६॥ स्नपनं चोत्सवं कुर्यादन्नाद्यं च स्वशक्तितः । आचार्यदक्षिणां दद्यान्मूर्तिपेभ्यश्च पूर्ववत् ॥९७ ॥ कपिलां च गुगर्दद्यात् प्रणिपत्य क्षमापयेत् । वैष्णवान पूजयेत सर्वानाशिषो वाचयेच्च तैः ॥९८ ॥ एवं कृत विधानेन सर्वसम्पद् भविष्यति ॥९८३ ॥ इति विष्णुसंहितायां सप्तविंशः पटलः ।। अथ अष्टाविंशः पटलः । अथ वक्ष्यामि संक्षेपात कर्मशेषानहं तव । यद्योगाज्जायते सर्व कर्माविकलमुत्तमम् ॥१॥ लेपादिदूषिते बिम्ब शुद्धिं कृत्वा यथोदिताम् । अभिषेकात् पुरा कार्याः शुद्धयोऽन्याश्च युक्तितः॥२॥ १. 'व प्रोक्षयेत् सुसमाहितः' क. पाठः. २. 'तः' ङ. पाठः. ३. 'यां प्रोक्षणपटल: सप्तविंशः'. ४. 'ननन्तरम् ।' च. पाठः.
२२३ ३ अष्टाविंशः पटलः । वैष्णवानलनिर्दग्धब्रह्मत्वम्भस्ममिश्रितम् । तीर्थतोयं समालोड्य पञ्चपत्ररसं तथा ॥ ३ ॥ गोशृङ्गेणाभिषिच्या! तत्पिष्टैलेंपयेत् पुनः । सहादूर्वासदोभद्रासिद्धार्थरजनीयुतम् ॥ ४ ॥ दोषघ्नं क्षीरिणां त्वग्भिर्घर्षणं लेपनं तथा । दृसिद्धार्थकल्केन सगव्येन च लेपनम् ॥ ५ ॥ चन्दनागरुकर्पूरक्षोदै पैः पुरेण च । परितो दीपमाला च कपिलाज्याब्जसूत्रजा ।। ६ ।। पिप्पलत्वक्सहालक्ष्मीगन्धनागाब्जकेसरैः । क्षीरित्वग्रससँम्पिटैलेपनं पञ्चभिस्तथा ॥ ७ ॥ स्नानप्रकारमालेपं धूपनं च विशेषतः । सर्वदोषहरं कुर्यात् स्थानवृद्धिकरं परम ॥ ८ ॥ पूरणं त्रिविधं प्राक्तमन्नपुष्पजलैः शुभैः । पुष्टिदं जयदं पुण्यमपमृत्युहरं तथा ॥ ९ ॥ सर्वदोषहरं श्रेष्ठं पायमान्नन पूरणम् । कन्दाज्यशर्कगपूपकदलीफलमयुतम ॥ १० ॥ शुव्यर्थ पुष्टिदं प्रोक्तं प्रायश्चित्तार्थमत्र च । उत्सवष्वपि कर्तव्यमात्माभ्युदयकाइक्षिभिः ॥ ११ ॥ धान्यतण्डुलवस्त्रस्थान घटान पञ्चाम्बुपरितान् । हेमरत्नादिसंयुक्तान मकृर्चान पछवाञ्चितान् ॥ १२ ॥ १. 'न'. २. 'हा' च. पाट:. ३. 'ग्वृक्षाणां त्वग्भिर्घर्षणलंपनम्' ग. पाठः. ४. ‘णाल च. पाठः. '.. 'साधू' क. ध. पाठः. ६. 'पः', ७. संयुक्तर्ले' ग. पाठः. १. 'माभ्यु' ९. न्वि' क. प. पाठः.
२२४ विष्णुसंहिताया कमलादिभिगच्छाद्य कुशपुष्पाचलङ्कृतान् । वासोभिरहतैश्छन्नान गन्धपुष्पैश्च पूजितान् ॥ १३ ॥ सकलन समालभ्य पञ्चभिः स्नापयेत् क्रमात् । तथाच गन्धैर्गव्यैश्च पयोदध्याज्यकादिभिः ॥ १४ ॥ सम्पूज्य विधिवद् गन्धैरालिप्याच्छाद्य वाससा । सुगन्धिनाहतेनैव सपीठं कवचेन तु ॥ १५ ॥ शुद्धपायसहारिट्रैस्तिलैः शुद्धविनिर्मितैः । पेयलेबैश्च चोष्यैश्च कन्दमूलफलादिभिः ॥ १६ ॥ सुरसैर्बहुभिर्दिव्यैः सोपदंशैः समन्ततः । दधिक्षीरगुलाग्येश कालपक्कैश्च पूरयेत् ॥ १७ ॥ शीतेनान्नेन पूरः म्यादन्नसूक्तादिभिः शुभैः । स्थापयेद घटिकाः सप्त नादयेत् तूर्यनिस्वनैः ॥ १८ ॥ निवेदयञ्चतुर्दिक्ष पायसादि यथाक्रमम् । पञ्चभिब्रह्मसूतं न समिदाज्यचरून क्रमात् ॥ १९ ॥ अष्टोत्तरशतं हुत्वा दिक्षु भूतबलिं हरेत् । ततोऽनुज्ञाप्य तत सर्व विसृज्याप्सु विनिक्षिपेत् ॥२०॥ ततश्चाराधयेत् सम्यगन्नाचं चोत्सवं पुनः । स्नपनं कारयेदवं सर्वसम्पद् भविष्यति ॥ २१ ॥ वर्णसङ्करविप्रैस्तु स्पृष्टेऽष्टशतमादिशेत् । सवर्णगामिभिश्चैवं ब्रह्मनेऽष्टसहस्रकम् ॥ २२ ॥ जलसंप्रोक्षणं चात्र गुरुतल्पगते तथा । सुवर्णस्तेयसंसर्गे जलसंप्रोक्षणं तथा ॥ २३ ॥ १. 'थैव ग, २. "दैव्यै, ३. 'द्रैः शुद्धैः शु' ख. ग. पाठः. 'न्दापूपफ' प. उ. पाठः.
अष्टाविंशः पटलः । २२५ द्विजानां भोजनं चात्र सपनं चैत्र कारयेत । सुगपैरपि संम्पृष्टे जलसंप्रोक्षणादिकम ॥ २४ ॥ गोदानं बहुविप्राणामन्नाद्यं स्नपनं तथा । ब्रह्महत्यादिसंसृष्टैर्यदि स्पृष्टो जनार्दनः ॥ २५ ॥ जलमंप्रोक्षणस्नानहोमाध्ययनभोजनः । भृहेमकपिलादानपागयणशनं तथा ॥ २६ ॥ एकसंपर्कविप्रेण प्रमादाद् यदि गम्यते । गहं वा देवबिम्बं वा जलमंप्रोक्षणं तथा ॥ २७ ॥ बहुमंपर्कविप्रैस्तु स्पष्ट बहुगुणं तथा । चण्डालश्वपचैः स्पृष्टं प्रामाद बिम्ब एव वा ॥ २८ ॥ अर्चाद्रव्ये च संम्पृष्ट जलमंत्रोक्षणादिकम् । पञ्च पट मप्त वाहानि महाम्नानं द्विजार्चनम् ॥ २९॥ मप्तकारुजनैः स्पृष्टे बिम्ब प्रामाद एव वा । जलसंप्रोक्षणस्नानगोदानान्नाद्यविम्तरः ॥ ३० ॥ चोरमपेण शुट्टैस्तु संस्पृष्टा प्रतिमा यदा । जलमंप्रोक्षणान्नाद्यम्मपनैः शुडिरिष्यते ॥ ३१ ॥ चोररूपेण वैश्यैस्तु जलमंप्रोक्षणं क्रमात । स्नपनं भोजनं चत्र काग्यंत मुममाहितः ॥ ३२ ॥ मोहादथार्थकामाद वा चाम्पेण चन्नृपः । जलमंप्रोक्षणनेत्र शुद्धिः स्यान्नात्र संशयः ॥ ३३ ॥ . है १. संमंगज' क.. संयांग जच. पाटः. २. प्य'. ३. णं दानं गा' ख. ग. पाठः. १. द्रण मं क. ग्व. ग. च. पाठः. '.. 'झ्यश्च- ज्जल' क., 'इयश्च जल' ङ, च. पाट.. ६. व नॅप:' ग्व. ग. पाटः, .
२२६ णुसंहितायाम वर्णोनमेन चेत् स्पृष्टश्चोररूपेण केशवः । स्नपनं कारयेत् तत्र षोडशैव घटाः स्मृताः ॥ ३४ ॥ अस्नात्वा यदि भक्त्या तु मन्त्रसंस्कारवर्जितम् । द्विजोत्तमेन म्पृश्येत पञ्चगव्येन शोधयेत् ॥ ३५ ॥ नृपेण यदि भक्त्या तु म्पृष्टो देवो जनार्दनः । यथोक्तैनवभिः कुम्भैः स्नपनेनैव शुध्यति ॥ ३६ ॥ वैश्येन यदि सम्पृष्टो भक्त्या मन्त्रविवर्जितम् । पञ्चाशत्कलशैरेव स्नपनेन विशुध्यति ॥ ३७ ॥ म्पृष्टेः शूद्रेण भक्त्या तु मन्त्रसम्कारवर्जितम् । अष्टोत्तरशतेनैव कर्तव्यं स्नपनं पुनः ॥ ३८ ॥ सप्तकारुजनैश्चापि भक्त्या म्पृष्टे जनार्दने । जलसंप्रोक्षणेनात्र नपनेन चे शुध्यति ॥ ३९ ॥ एतेषां चेत् स्त्रिया स्पृष्टो माहाद वा यदि कामतः । पूर्वोक्ता निष्कृतिः कार्या शेपं ब्राह्मणपूजनम ॥४॥ गोदानं च पुनः कुर्याद् गव्यस्नानं च युक्तितः । ब्राह्मण्या चोरमार्गेण स्पृष्टे तु मधुसूदने ॥४१ ॥ स्नपनं कारयच्छतिया ब्राह्मणानां च भोजनम् । राजन्यवैश्ययोः स्पर्शे मोहाद् वा चौर्यकेण वा ॥ ४२ ॥ जलसंप्रोक्षणं स्नानं विप्रभोजनसंयुतम् । शूद्रा यदि स्पृशेच्चौर्याद गर्भगेहं तु वा विशेत् ॥ ४३ ॥ ४. 'द' १. 'टे'. २. 'तु' च. पाठः. ३. भो' ङ. पाठः. ख. ग. पाठः. ५. 'दा' च. पाठः.
अष्टाविंशः पटलः । २२७. जलसंप्रोक्षणं कुर्यान्महास्नपनसंयुतम् । अन्त्यजानां शुनां वापि गर्भे कारुस्त्रियापि वा ॥ ४४ ॥ प्रसूते प्रोक्षणं कुर्याद् द्वादशाहं दशैव वा । महास्नानं च कर्तव्यमुत्सवान्नाद्यसंयुतम् ॥ ४५ ॥ वर्णजा यदि सूयेत प्रमादाद् देवमन्दिरे । जलसंप्रोक्षणं कृत्वा महास्नानेन शुध्यति ॥ ४६ ॥ क्षत्रिया वाथ वैश्या वा यद्यज्ञानात् प्रसूयते । जलसंप्रोक्षणं कुर्यात् त्रिदिनं वा चतुर्दिनम् ॥ ४७ ॥ द्विगुणं सूतशावर्तुमतिकादाहकैः क्रमात् । एवंमार्गेण वै कुर्याज्जलसंप्रोक्षणं बुधः ॥ ४८ ॥ पारायणं चाध्ययनं गोदानं भोजनं तथा । बलिभ्रमणवेलायां तत्पात्रं यानमत्र वा ॥ ४९ ।। पतद् यस्मिन् दिशाभाग तन्मन्त्रेणात्र हामयत् । घृतेन हविषा चैव पालाशाष्टशतेन च ॥ ५० ॥ तथा नित्यबलिस्पर्श कृत श्वानहिकादिभिः । मूलमन्त्रहयनैव पञ्चापनिपदा तथा ॥ ५१ ॥ विष्णुमुक्तन चैवात्र हामं कुर्यात समाहितः । प्रायश्चिनेषु सर्वेपु जपहामा शस्थत ॥ ५२ ।। अष्टाक्षरं स्वसंख्यानं हादशाक्षग्मेव वा । पात्रं प्रक्षाल्य तु स्नात्वा कृत्वा न्यासं यथाविधि ॥ ५३॥ सम्यगावत्य तां भूमि गोमयनोपलिप्य च । पायसं श्रपयन्मन्त्री घृतमिश्रं सुशोभनम् ॥ ५४ ।। १. 'थ' ख. ग. पाठ:... 'नां'. ३. 'दु' च. पाठः. 'द्विकः म्यात काकांकयाः' इति मंदिनी ।
२२८ विष्णुसंहितायाम वीहिभिः स्थण्डिलं कृत्वा तस्मिन् वासोऽथ तण्डुलान् । कुशपुष्पाणि विन्यस्य प्रोक्ष्यास्त्रेण समाहितः ॥ ५५ ॥ मूलेन विन्यसेत् पात्रं प्रणवेन स्पृशेत् पुनः । ततश्चास्त्रंण संप्रोक्ष्य दक्षिणे शान्तिमर्चयेत् ॥ ५६ ॥ हुत्वान्नं मूलमन्त्रेण प्रणवेनाज्यमेव च । अष्टोत्तरशतं वापि सहस्रं वा यथाक्रमम् ।। ५७ ॥ हविःशपं ततः पश्चाद बलिपात्र विनिक्षिपेत् । तत् कृत्वा लिङ्गवत प्रोक्ष्य मूलेनावाह्य पूर्ववत् ।। ५८ ॥ कर्माचर्चा शोधयित्वा वा तस्यामावाह्य पूजयत । पाद्यार्थ्याचमनं दत्त्वा गन्धपुष्पैरथार्चयेत् ॥ ५९ ॥ नमस्कृत्य ततः स्तुत्वा सोत्तरीयः समाहितः । उद्धृत्य व्याहतीर्जप्त्वा मूर्ध्नि तारण विन्यसेत् ॥ ६ ॥ शङ्खतूर्यादिसंयुक्तं शनैर्गत्वा प्रदक्षिणम् । अन्तः प्रविश्य तत पात्रमैशान्यां स्थापयद् बुधः॥६१ ॥ उद्वास्य क्षालितं त्यनवा पात्रमन्यत् समाहरत । अनुयाग नवं बिम्बं शोधयित्वाधिवासयत ।। ६२ । वैष्णवाग्नौ तु जुहुयात प्रायश्चित्तं विशेषतः । पन्नोपनिषदैमन्त्रैराचार्यः सुसमाहितः ॥ ६३ ।। पूर्णाहुति ततो दद्याद द्वादशाक्षरविद्यया । अष्टाक्षरण जुहुयात् ममिदाज्यचरून क्रमात ॥ ६४ ॥ सहस्रं वा शतं वापि पञ्चविंशतिमेव वा । लोहकुम्भं तु संगृह्य सुदृढं सूत्रवेष्टितम् ॥ ६५ ।। १. 'ततः ।। पुनश्चा' ग्व. ग. पाठः, २. तिं ज' घ. ङ. च. पाठः. ३. 'तत: प्र.ख. ग. पाठः. ४. 'च' घ. ङ, च. पाठः. ', 'नच. पाठः.
२२९ १ अष्टाविंशः पटलः । पूरयित्वा तु विधिना सरत्नं हेमसंयुतम् । बीजैः सर्वैः समायुक्तं स्थापयेत् तत्र सुस्थितम् ।। ६६ ॥ तत्रावाह्य हरिं पश्चात् पूजयेच्च विधानतः । पूर्वोक्तेनैव मार्गेण शेषं कर्म समाचरेत् ॥ ६७ ॥ स्नपनं चोत्सवं कुर्याद् विधिदृष्टेन कर्मणा । संवत्सरं नरो भक्त्या समभ्यर्च्य जनार्दनम् ॥ ६८ ॥ यत् फलं समवाप्नोति पवित्रारोहणेन तत् । न करोति विधानेन पवित्रारोहणं तु यः॥ ६५ ॥ तस्य सांवत्सरी पूजा निष्फला कथिता बुधैः । तस्मात् कर्तव्यमब्देऽब्दे पवित्रारोहणं हरेः ॥ ७० ॥ श्रावणस्य सिते पक्ष द्वादश्यां तु यथाविधि । सिंहस्थ वा रवा कार्य कन्यायां तु स्थितेऽथवा ॥ ७१ ।। कन्यया कर्तितं सूत्रं कार्पासं पैद्मजं तु वा । क्षौमसूत्रं तु वा कुर्यादलाभ दर्भसम्भवम ॥ ७२ ॥ नापयुक्तं क्रियायां स्यादन्यभक्तादिदृषितम् । त्रिगुणन तु कर्तव्यं हीनमध्यात्तमं विधा ॥ ७३ ॥ नत सप्तविंशकं कुर्याच्चतुप्पञ्चाशकं तथा । अष्टोत्तरशतं वा स्याद वनमाला सहस्रिका ॥ ७४ ॥ फलं च मानुपं दिव्यं सालोक्यं मुक्तिरेव च । नाभ्यूरुजानुमात्रं स्यात् परं बिम्बप्रमाणतः ॥ ७५ ॥ ग्रन्थयो द्वादश प्राक्ता द्विगुणास्त्रिगुणास्तथा । कर्तव्यं वनमालायां शतमष्टोत्तरं मंदा ॥ ७६ ॥ १.. 'न च मा. २. क्तः' च. पाटः, 3. 'पाङ्कन' क. ब. ग. पाठः. १. 'ज्या' च. पाटः. ''.. 'तु वा ।।' क. पाट:.
२३० विष्णुसंहितायाम् अधिवासनसूत्रे तु ग्रन्थयो द्वादशैव तु | मन्त्री द्विजेष्विदंविष्णुरन्येषु द्वादशाक्षरम् ।। ७७ ॥ तावदावर्तयेन्मन्त्रं यावन्तो ग्रन्थयः कृताः । एकधा च द्विधा चैव त्रिधा चापि पवित्रके ॥ ७८ ॥ कुङ्कुमोशीरकर्पूरचन्दनादिविलेपनैः । ग्रन्थिमध्ये विलिप्याथ तत्त्वन्यासं तु योजयेत् ॥ ७९ ॥ अधिवास्य पवित्राणि चैकादश्यामुपोषितः । गन्धपुष्पैः समभ्यर्च्य न्यसेद् देवाग्रतो निशि ॥ ८० ॥ तत्त्वज्ञानपरैः कार्य पवित्रारोहणं हरः । एकादश्यां तदभ्यर्च्य मूलमन्त्रेण भक्तिमान् ॥ ८१ ॥ भूषादामनिवेद्यैश्च संपूज्य गरुडध्वजम् । नृत्तगीतादिसंयुक्तं जागरं तत्र कारयेत् ॥ ८२ ॥ सोपवासः शुचिर्भूत्वा कृतजयां जितेन्द्रियः । दद्याद् दानं द्विजायभ्या भक्त्याभ्यर्च्य हरि स्मरन्॥८३॥ तत्राधिवासितं प्रातस्तदादाय पवित्रकम् । अतोदेवेति सूक्तेन विष्णोमूनि निवेशयेत् ॥ ८४ ॥ शूद्रस्तु मूलमन्त्रेण येन वा पूजयेद्धरिम् । वेदघोषैर्जयस्तोत्रगीतमङ्गलनिस्वनैः ॥ ८५ ॥ पवित्रारोहणं कुर्याद् देवं विज्ञापयेत् ततः । मणिविद्रुममालाभिर्मन्दारकुसुमादिभिः ॥ ८६ ।।. इयं सांवत्सरी पूजा तवास्तु गरुडध्वज!। मन्त्रहीन क्रियाहीनं भक्तिहीनं जनार्दन! ॥ ८७ ॥ 'चाथ त्रि'. २. मं'. ३. रं' च. पाठः. ३ १ एकोनत्रिंशः पटलः। २३१ यत् पूजितं मया देव! परिपूर्ण तदस्तु ते । वनमालां यथा देव ! कौस्तुभं सततं हृदि ॥ ८८ ॥ तद्वत् पवित्रतन्तूंश्च पूजां चेमा हृदा वह । इति विज्ञाप्य देवेशं भक्त्यानम्य क्षमापयेत् ॥ ८९॥ ततश्च दद्याद् विप्रेभ्यो हरिमुद्दिश्य दक्षिणाम् । ततोऽनुपूजयेद् भक्त्या गुरुमन्यांश्र भक्तितः ॥ ९० ॥ मूलमन्त्रेण जुहुयाद् वह्नौ सघृतांवकम् । ततश्च पूजयेद् भक्त्या विप्रान् दद्याच्च दक्षिणाम् ॥ सर्वांश्चैवार्थिनः शक्त्या पूजयेदोदनादिभिः । यावत्तत्वयुता पूजा तावत्योऽङ्गुलयोऽत्र वा ॥ ९२ ॥ यावन्तो ग्रन्थयथोक्तास्तत्त्वैम्तैरनुमन्वयेत् । सांवत्सरी शुभां पूजां संपाद्य विधिवन्मम ॥ ९३ ॥ त्वं पवित्र ! बजेदानीं विष्णुलोकं विसर्जितः । इत्युहास्य द्विजे दद्यात् तोये वा तद् विसर्जयेत् ॥ ९४॥ इति विष्णुसंहितायांम् अष्टाविंशः पटलः ॥ . अथैकोनत्रिंशः पटलः । अथ वक्ष्यामि संक्षेपात् समयाचारलक्षणम् । दीक्षितानां तु सर्वेषां यद्योगात सर्वसिद्धयः ॥१॥ ब्राह्मणाद्याश्चतुर्वर्णास्त्रयस्त्वषां च दीक्षिताः। भक्ता जितेन्द्रियाः शान्ताः सर्वे समयिनः स्मृताः ॥२॥ समयी दीक्षितः पश्चाच्चक्रवर्त्यभिषेकवान् । गुरुश्चैव तथाचार्यो भगवान् सप्तमः स्मृतः ॥ ३ ॥ १. 'पायसम्' ख. ग. पाठः. २. 'यां कमशेपपवित्रारोहणपटलो- ऽष्टाविंशोऽध्यायः ॥' च. पाटः. ३. 'ते' ख. ग. च, पाठः.
१ विष्णुसाहताबाम् यागः स्तोमो महायागश्चाध्वरोऽथ सवः क्रतुः । हरिस्तोम इति ज्ञेयाः सप्त. यागाः समासतः ॥ ४ ॥ वसन्ते च तथा ग्रीष्मे शरद्वर्षासु च क्रमात्. । वर्णिनां विहिता दीक्षा सर्वेषां वोत्तरायणे ॥ ५॥ सकृद द्विस्त्रिश्चतुर्दीक्षा सप्तकृत्वश्च वर्णिनाम् । तथा द्वादशकृत्वच कार्या वा प्रतिवत्संरम् ॥ ६ ॥ पुष्पपातवशान्नाम पूर्वमेव तु गृह्यते । तच्छमवर्मगुप्तान्तं दासान्तं वेह वर्णिनाम ॥ ७ ॥ केवलं समयीत्यादि द्रष्टव्यं केशवादिवत् । स्त्रीणां तु केशवाद्याख्या देव्यन्तास्त्रिषु कीर्तिताः ॥ ८ ॥ शूद्राणां दासदास्यन्ताः सर्वेषां यागभेदतः । सर्वेऽपि दीक्षिताः सम्यक् सदा गुरुपरायणाः ॥ ९ ॥ वर्णाश्रमगतान् धर्मान् रक्षेयुः समयांस्तथा। गुरुदेवद्विजाग्नीनां सर्वदा परिचर्यया ॥१०॥ व्रतोपवासनियमैर्भक्त्या चेच्छेयुरुन्नतिम् । नानिष्ट्वा देवमश्नीयान्नचादीक्षितवेश्मनि ॥ ११ ॥ निर्माल्यं न स्पृशेद दद्याल्लङ्घयेद् वाशनं कुतः । सर्वेषामेव देवानां निर्माल्यमशुचि स्मृतम् ॥ १२ ॥ विष्णुर्भुक्तं तु पुष्पादि शुचीत्याददते परे । कांस्यपात्रे न भोक्तव्यं न वन्द्यो चान्यदेवता ॥ १३ ॥ १. 'कथिता', २. 'चापि व' ख. ग. पाठः. ३. 'च ४. 'वं च. पाठः. ५. 'ती'.ख. ग. पाठः. . ६. 'वरिव- 'मपि दे' क. पाठः. ८. 'भ' च, पाठः. ९. 'न्याश्चान्यदेवताः ॥' ङ. पाठः. घ. ङ. च. पाठः. स्यया' ख. ग. ङ. च. पाठः.
एकोनत्रिंशः पटलः । २३३ अदीक्षिताद्ययोग्येषु सिद्धान्तं न प्रकाशयेत् । नोदक्ययाभिभाषेत न चण्डालैनचान्त्यजैः ॥ १४ ॥ न कुदेशे वसेन्नित्यं न च पाषण्डिभिः सह । तिर्यक् पुण्डूं न कुर्वीत नो विट्कारं न सङ्करम् ॥१५॥ शाष्ठिं लशुनं शिग्रु धान्याम्नं चाविकं पयः। पिण्याकं कोरदूषं च छत्राकं वर्जयेत् सदा ॥ १६ ॥ आसनं शयनं यानं नातिष्ठेच्चक्ररूपकम्। प्रतिमासन्निधौ नान्यप्रतिमास्तुतिमाचरेत् ॥ १७ ॥ शृणुयान्न परीवादं नच कालं वृथा नयेत् । चक्राको विष्णुनामाङ्कपुत्रभृत्यपशुर्भवेत.॥ १८ ॥ तत्रैव तु शिरः कृत्वा स्वपेद् यत्र रविर्गतः। जामिगोगुरुविप्रार्चाधान्येष्वधी प्रसारयेत् ॥ १९ ॥ मत्स्यकूर्मवराहाणां नच मांसानि भक्षयेत् । विप्राग्निवैष्णवाश्वत्थान् गाश्च कुर्यात् प्रदक्षिणम् ॥ २० ॥ विष्णोदृहाणि सर्वाणि दृष्ट्वा भक्त्याभिवादयेत् । न बाहुभ्यां तरेत् सिन्धुं न गवा नान्यवाससा ॥ २१ ॥ न. नमो वा विशेत् तोयं न धावेद वर्षसंभवे ऊर्ध्वपुण्ड्रास्तु ये मास्तान् सर्वाञ्छक्तितोऽर्चयेत् ॥२२॥ अग्रभिक्षां सदा दद्याद् प्रासमुष्टिं गवां तथा । नाद्यात् पर्युषितं चान्नं नागतं परगेहतः ॥ २३ ॥ शिरस्स्पृष्टेन तैलेन नाङ्गं किञ्चिदुपस्पृशेत् । नानन्तर्घाय चासीत नान्यभक्तं प्रपूजयेत् ॥ २४ ॥ १. 'प्णुरूपाणि' घ, ङ, च. पाठः.
विष्णुसंहिताया प्रत्यक्षलवणं नाबानियासामध्यजानि वा। वैष्णवैदीक्षितैविप्रैर्विवादं न समाचरेत् ॥ २५ ॥ अन्त्यजं वा श्वपार्क वा नावमन्येत वैष्णवम् । विष्ण्वर्थान्येव कर्माणि सर्वाणि मनसा स्मरेत् ॥ २६ ॥ अपि प्राणपरित्यागं कुर्याद् विष्णुनिमित्ततः। कृतेन कर्मणा येन भगवान् भुवनेश्वरः ॥ २७ ॥ 'प्रसीदति हि तत् कार्य कर्मेदं वैष्णवैः सदा । सत्पथे मनसि न्यस्ते वाणी तिष्ठति सत्पथे ॥ २८ ॥ इन्द्रियाणि च सर्वाणि तस्मात् तच्छिक्ष्यमादितः। उपकारः परो धर्मः सर्वेषामिति निश्चयः ॥ २९॥ तस्मात् सर्वप्रयत्नेन सर्वेषां हितमाचरेत् । दानानि कीर्तिभूयांसि मध्यमानि फलेष्वतः ॥ ३० ॥ रहस्यदानं कर्तव्यं पात्रकालादियोगतः। पात्रे सर्वाणि देयानि दातव्यानि मनस्विना ॥ ३१ ॥ देवमेव समुद्दिश्य यशस्तत्रानुषङ्गिकम् । जितेन्द्रियस्य भक्तस्य मानसो धर्म उत्तमः ॥ ३२ ॥ कायिकः प्राकृतस्योक्तो मध्यमस्य तु वाचिकः। . क्रियारूपः स्मृतो धर्मो ज्ञानरूपं तु तत्परम् ॥ ३३ ॥ ज्ञानेन मोक्षमाप्नोति ज्ञानार्थी चेष्यते क्रिया । केवलं विह विज्ञानं धर्मस्यानुग्रहाहते ॥ ३४ ॥ नालं चेतो भवाविष्टं प्रसादयितुमञ्जसा । तविष्ट्वानन्तरायार्थ प्राप्य ज्ञानमनुग्रहात् ॥ ३५ ॥ १. 'च' ख. ग. पाठः. २. पस्तु तत्परः रु., 'पं ततः परम् । ख. ग. पाठः, • एकोनत्रिंशः पटलः) ततः साध्यो भवेन्मोक्षस्तद्भक्तैरेव नापरैः । प्रासादे स्थापितं देवं सर्वदा न प्रकाशयेत् ॥ ३६॥ अन्यत्रार्चनवेलायां पूजनान्ते प्रकाशयेत् । अशुचिद्रव्यसंसर्ग जनसम्मर्दमेव च ॥ ३७॥ प्रासादे वर्जयेन्नित्यं लोकोपकरणानि च । वैदिका वैष्णवा मन्त्राः शान्तिकाः पौष्टिकास्तथा ॥३८॥ यथायोगं प्रयोक्तव्यास्तन्त्रमन्त्रास्तदन्तरे । ऋक्षु ये पावना मन्त्रा यजुष्ष्वपि च सामसु ॥ ३९ ॥ अथर्वणेषु चादेया देवपूजादिकर्मसु । ये मन्त्राः परमं देवं साक्षाल्लक्षेण वाश्रिताः ॥ ४० ॥ साङ्गाः पृथगुपादेयास्तान् विचार्यात्र योजयेत् । नहि तेभ्यः परं किञ्चिद् वाङ्मयं भुवि विद्यते ॥ ११ ॥ कामदं च पवित्रं च ये मन्त्रा वैदिकाः स्मृताः। तैरेव कृतसंस्कारे वंशे जातः स्वयं पुनः ॥ ४२ ॥ तानुपेक्ष्यापरान मन्त्रान् नानुवर्तितुमर्हति । कर्मकाण्डप्रधानास्तु वैदिका विधयः स्थिताः ॥ १३ ॥ कामकामैनियोक्तव्यास्तां तामाश्रित्य देवताम् । मन्त्रास्ते वैदिकाः सिद्धाः संभूय पृथगेव वा ॥ ४५ ॥ कर्मसिद्धौ प्रवर्तन्ते प्रायो नानाफलाश्रयाः । तेऽन्वीक्ष्यान्वीक्ष्य संग्राह्या वैष्णवैदवादिभिः ॥ ४५ ॥ तत्पूजायामिदं तन्त्रं भवत्येव निबन्धनम् । तज्ज्ञात्वा वैदिकान् मन्त्रानन्यानुद्धृत्य च स्वयम् ॥४६॥ १. 'ई' च. पाठः. २. 'चा' ख. ग. पाठः, विष्णुसहित इदं च तन्त्रमालम्ब्य पूजयेत् पुरुषोत्तमम् । यो जपस्तुत्युपस्थानं तैः कृत्वानुस्मरन् हरिम् ॥ १७ ॥ पठेन्मन्त्रान् यथान्यायं स मुख्यो विष्णुयाजकः । जपयज्ञं विशेषेण ये तु कुर्वन्ति वैदिकैः ॥ १८ ॥ काले पूजां च कुर्वन्ति तेषु संप्रीयते हरिः । ध्यात्वार्कमण्डले विष्णुं वेदमन्त्रैरभिष्टुतम् ॥ ४९ ॥ धार्यमाणे तथैवाग्नौ जुहुयात् कार्यसिद्धये । तत्र यत् केवलं ध्यानं वेदान्तोक्तमनाश्रयम् ॥ ५० ॥ न तत्रेन्द्रियदौर्बल्यात् कर्मस्थस्याधिकारिता । यथा गिरितटाग्रस्थवनस्पतिफलेच्छया ॥ ५१ ॥ उपाये वर्ततेऽश्रान्तस्तथासौ यत्नमाचरेत् । सर्वत्र क्रमवान् यत्नः कार्यों नेच्छेव केवला ॥ ५२ ॥ तत् कायवाङ्मनोयोगैः क्रमादिच्छेत् पैरां गतिम् । निराकारे तु या भक्त्या पूजेष्टा ध्यानमेव वा ॥ ५३ ॥ रमणीयमिवाभाति तदनर्थस्य कारणम् । स्थूलभावप्रसङ्गीनि जन्मनास्येन्द्रियाणि हि ॥ ५४ ॥ सूक्ष्मार्थं न प्रपद्यन्ते चिराञ्च किमुताचिरात् । नच रूपं विना देवो ध्यातुं केनापि शक्यते ॥ ५५ ॥ सर्वरूपनिवृत्ता हि बुद्धिः कुत्रास्य तिष्ठति । निवृत्ता ग्लायते बुद्धिन्द्रिया वा परीयते ॥ ५६ ॥ तस्माद् विद्वानुपासीत बुद्ध्या साकारमेव तम् । अस्ति तस्य परोक्षं तदिति किश्चिदनुस्मरेत् ॥ ५७ ।। १. 'योगं स' ख. ग. पाठः. २. २. 'गतिं पराम् ।' ४. 'तु', ५. 'व' ख. ग. पाठः, क. पाठः.
एकोनविस पर सर्वथाकारमुद्दिष्टं न परित्यज्य पण्डितः परं देवमुपासीत मुक्तये वा फलाय वा ॥ ५८ ॥ मन्त्रैरावय॑मानस्तु विष्णुपादसमाश्रयैः। स्वरूपं लक्ष्यते बुद्धौ तत्प्रसादेन नान्यथा ॥ ५९ ॥ भक्त्यर्थाः सर्वमन्त्राः स्युः स्तोत्राणि ध्यानमर्चनम् । सा यस्य हृदये तीव्रा स भक्तो नान्य इष्यते ॥ ६ ॥ प्रियाणि देवदत्तानि कर्मजान्यप्रियाणि च । यः पश्येत् सततं बुद्ध्या स भक्तो नेतरो जनः ॥ ६१ ॥ तस्य योगमयं विद्यादाकारं सार्ववस्तुकम् । नित्यं भक्तानुकम्पार्थ ध्येयो मन्त्रमयस्तु सः ॥ १२ ॥ यदा निवृत्तकर्मासौ निर्वाणे रमते बुधः । तदा सूक्ष्मशरीरं तं पूजयेत् पुरुषोत्तमम् ॥ ६३ ॥ शक्तयोऽस्यायुधाकारा विज्ञेया बाहवो दिशः। द्यौर्घा पृथिवी पादौ दृष्टिरकों मनः शशी ॥ ६४ ॥ अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । नित्यः सर्वगतः स्थाणुः पूज्यो नित्यं मनीषिभिः ॥६५॥ यदा यदा प्रसन्ना धायेत् सूक्ष्मं तदा तदा । सीदन्ति संशयेनैव यतयोऽप्यत्र विक्लबाः ॥ ६६ ॥ आगमार्थ दृढं कुर्यात् सर्वविद्याभिरात्मवान् । विवेकेन च शुद्धेन नागमस्यैव संप्लवम् ॥ ६७.॥ स्वगृह्य धर्मशास्त्रे च यदुक्तं तत् सदाचरेत् । तन्त्रोक्तमविरुई चै कुलवर्णाश्रमानुगम् ॥ ८ ॥ १. पश्येत स' च. पाठः. २. 'मा' ख. ग. च. पाठः. ३. 'यत् 'ख.ग. पाठः, विष्णुसंहितायाम्। स्त्रीशूद्राणां तु सर्वेषां नौपनायनिकक्रिया । दीक्षोपनयनं वेषां तान्त्रिकश्च मनाविधिः ॥ ६९ ॥ तान्त्रिकास्तन्त्रमन्त्राः स्युविधयश्च तदाश्रयाः । मूलमन्त्रैश्व गायत्र्या वैदिकैश्च त्रिधा क्रिया ॥ ७७.॥ विट्छूद्रयोर्नृपे विप्रे सर्व वा विप्र इष्यते । होमादिषु स्वमन्त्राः स्युरनुलोमास्तु वा सदा ॥ ७१ ॥ चतुर्वर्णोद्भवाः सर्वे प्रतिलोमानुलोमजाः। तत्रानुलोमजाः श्रेष्ठा वास्तु प्रतिलोमजाः ॥ ७२ ॥ प्रतिलोमेषु सर्वेषु सूत एकस्तु गृह्यते । नाहन्त्येवेतरे दीक्षां वर्णाश्रमबहिष्कृताः ॥ ७३ ॥ ब्रह्मचारी गृहस्थश्व वानप्रस्थो यतिस्तथा । चतुर्धाश्रमिणो भिन्नाः पुनश्चाचारभेदतः ॥ ७४ ॥ तत्राद्यो ब्रह्मचारी च लिङ्गी शिष्य उपासकः । अक्षारलवणाशी यो भैक्षाहारो मिताशनः ॥ ७५ ॥ स्थण्डिलाजिनशायी च ब्रह्मचारी स उच्यते । एवं कर्माणि यः कुर्याच्चकादिकृतलक्षणः ॥ ७६ ॥ देवताराधने सक्तः स लिङ्गीति प्रकीर्तितः । भैक्षमात्रेण जीवन् यः पठेच्छुश्रूषुरर्चकः ।। ७७ ॥ नान्यकार्यपरी नित्यं स शिष्यः परिकीर्तितः । त्रिसन्ध्यं पूजयेन् देवं नान्यकार्यपरश्च यः॥ ७८ ॥ त्रिः सात्वानुचरेन्नित्यं गुरुं स स्यादुपासकः । व्रती गृहस्थ एवाढ्य आचार्यों गृहिणस्त्विमे ॥ ७९ ॥ १. 'यन्' क. ख. च. पाठः.. २. 'येद्दे' क. पाठे. " एकोनत्रिंशः पटलः । चत्वार इह सम्प्रोक्तास्तथैवाचारभेदतः । व्रतोपवासी नक्ताशी नियता) जितेन्द्रियः ॥८० ॥ ऋतुगामी मिताहारो व्रती मूलपरः सदा । यज्ञाध्ययनदेवा_शिष्यादिभरणोद्यतः ॥ ८१ ॥ गृहस्थ इति विज्ञेयः स्वदारव्रतिको नरः। सर्वातिथ्यपरो नित्यं कामभोजी सुखान्वितः ॥ ८२ ॥ देवोत्सवपरो भक्तः पर्वयाज्याढ्य उच्यते । याजनाध्यापने युक्तो यागे वैदिकतान्त्रिके ॥ ८३ ॥ नित्ययाजी जितक्रोध आचार्योऽनुग्रहोन्मुखः। तथा वैखानसस्तन्त्री गुरुनिष्कल एव च ॥ ८४ ॥ वानप्रस्थश्वतुधैव तन्त्रेऽस्मिन् परिकीर्तितः । अक्षारलवणाशी यो व्याख्याता पुत्रदारवान् ॥ ४५ ॥ स्थण्डिलाजिनशायी च ध्यायन वैखानसः सदा । वन्यवृत्तिस्त्रिसन्ध्याची जपहोमपरायणः ॥ ८६ ॥ वल्कलाजिनवांस्तन्त्री दर्भशायी जपन् सदा । त्रिःस्नायी नियतावासश्चीरी मूलफलाशनः ॥ ८७ ॥ तीर्थस्नातोऽर्चयन ध्यायन् द्विषट्कजपवान् गुरुः । यदृच्छालाभसन्तुष्टो नक्तभोजी दृढव्रतः ॥ ८८.. चीरी विमत्सरो मौनी निष्कलोऽस्त्रिरर्चयन् । हंसः परमहंसश्च भगवान् प्रभुरित्यपि ॥ ८९ ॥ चतुर्विधः समाख्यातस्तन्त्रेऽस्मिन् दीक्षितो यतिः। शङ्खचक्रघरो नित्यमेकदण्ड्येकभैक्षभुक् ॥ ९ ॥ १.. 'यो'. च. पाठः.. २. 'हि त्रिर' क. पाठः. ३.. 'येत् च.पाठः, - विष्णुसंहिताया सदाची कर्मविद् ध्योनी हंसो जपपरः सदा । अद्वैतनिरतो दण्डी ज्ञानध्यानपरायणः ॥ ९१ ॥ शान्तोऽशिखोपवीतश्च भैक्षाहारो व्रतैस्थितः । यतिः परमहंसः स्यात् तन्त्रकर्माण निष्ठितः ॥ ९२ ॥ शङ्खचक्रवृसीशिक्यकमण्डलुपवित्रवान्। त्रिदण्डी पात्रवान् भिक्षुर्भगवान् योगपट्टभृत् ॥ ९३ ॥ एतान्येव वहन् नित्यं छत्रं प्रतिकृति तथा । चक्रयागेन देवेशमर्चयन् नियतात्मवान् ॥ ९४ ॥ त्रिसन्ध्याराधने युक्तः सत्त्वस्थो जपवान् प्रभुः। विषुवायनयोर्जन्महादशीश्रवणेषु च ॥ १५ ॥ अष्टम्यां च नवम्यां च पञ्चम्यां न स्त्रियं व्रजेत् । मूलेन परिषिच्यान्नं स्पृष्ट्वा पीत्वा जलं तथा ॥ १६ ॥ ध्यात्वान्तः पुरुषं मौनी दीप्तवैश्वानरं तथा । प्रणवेनाहुतीः पञ्च कुर्यात् पञ्चात्मने ततः ॥ ९७ ॥ वक्रमानं असेत् पिण्डं न हसेन्नोद्विजेत वा । त्यजेत् सर्वत्र चापल्यं भोक्तव्यं शब्दवर्जितम् ॥ ९८ ॥ श्वोदक्यान्त्यजपाषण्डिकाकदेवलकुक्कुटान् । कारुकान वा तदा पश्यन् सायात् त्यक्त्वान्नमञ्जसा ॥ पञ्चोपनिषदो जप्त्वा प्रोक्षयेत् प्रणवेन च । विष्णुश्वाथ महाविष्णुः सदाविष्णुरिमे त्रयः ॥१०॥ सवनेषु क्रमात् पूज्या जपध्यानादिभिः सदा । प्रातस्तु विष्णुगायत्री मध्याहे द्वादशाक्षरम् ॥ १.१॥ १. 'याजी ह', २... 'ते' ख.. ग. पाठः... "संच. पाठः, ४. 'न्त' रु. पाठः. ५. 'जन् स' ख. क. पाठः. ६. 'श्येत् स्मा' पाठा त्रिंशः पटलः । सायमष्टाक्षरं नित्यं मूलं वा सर्वदा जपेत् । उत्थायानु गुरुं स्नात्वा ध्यात्वा देवं प्रपूजयेत् ।। ११२ ।। निर्गच्छेत् सव्यपादेन प्रविशेञ्चालयं पुनः । गुरोरनुज्ञया भैक्षं चरेत् पात्रेण शं वदेन् ॥ १०३ ॥ गुरवे दर्शयित्वा तु विन्यसेत् तदनुज्ञया । आचम्य मूलमन्त्रेण हुत्वामौ समिधः शुचिः ॥ १०४ ॥ भासने सुखमासीनः पादौ विन्यस्य भूतले । पात्रं च वामहस्तेन स्पृशन् प्राणाहुतीश्चरेत् ॥ १.५ ॥ यद्युतिष्ठेदनाचान्तो मुक्तवानासनाद् द्विजः। स्नानं सद्यस्तु कर्तव्यं तस्मात् तत्रैव चाचमेत् ॥१०॥ सन्ध्यामुपास्य भूयोऽपि हुत्वा च समिधस्तथा। अर्चयित्वा हरि भिक्षां चरेत् पूर्ववदेव च ॥ १०७ ॥ एवं प्रातश्च सायं च गुरोर्वचनमास्थितः । गुरोरनुज्ञया पश्चाद् गृहस्थाश्रममाश्रितः ॥ १० ॥ सात्वा तमर्चयेन्नित्यं ततः कर्माणि चाचरेत् ॥ १० ॥ इति विष्णुसंहितायामेकोनत्रिंशः पटलः ॥ अथ त्रिंशः पटलः । अथ वक्ष्यामि संक्षेपाद् योगं भागवतं परम् । यदन्यैरश्रुतं पूर्व हितानां परमं हितम् ॥ १॥ युक्ताहारविहारस्तु युक्तचेष्टः समाहितः । योग भागवतं नित्यमम्यसेन्नियतात्मवान् ॥ २ ॥ 'र' क. पाठः. २. 'देत् ॥' ख. ग. घ. ङ. पाठः. ३. 'उ' स. ग. पाठः, ४. 'यां समयाचारलक्षणपटल एकोनत्रिंशः च, पाठ २१२. विष्णुसंहिता पञ्चकालविभागज्ञो मितभाषी मिताशनः । कामक्रोधादिजिद् भक्तः समलोष्टाश्मकाञ्चनः ॥ ३ ॥ समयाचारसंयुक्तो जपध्यानपरायणः । एकान्ते विजने स्थाने निवाते शब्दवर्जिते ॥ ४ ॥ बद्ध्वा योगासनं मौनी योगं युञ्जीत योगवित् । पूजयित्वा हरि पूजां तत्रैव प्रतिपादयेत् ॥ ५ ॥ किङ्करत्वेन चात्मानं कृताञ्जलिरधोमुखः । न याचेत फलं किञ्चित् प्रसन्नो दास्यति स्वयम् ॥ जानात्येव हि कालं स भक्तिपूजागुणागुणान् । प्रसन्नस्त्वनुगृह्णीयात् त्वरया न कदाचन ॥ ७॥ नत्वेव नानुगृह्णीयाज्जन्मान्तरशतेष्वपि । कर्मणां पैच्यमानानामपरेषां परिक्षये ॥८॥ प्रकाशयति भक्तानां हरिः कुर्वन्ननुग्रहम् । ततस्तु संपदेवास्य पुरस्तादुपलक्ष्यते ॥ ९ ॥ क्षीयन्तेऽस्यारयो नित्यं वर्धन्ते संपदः स्वयम् । फैलं त्वयत्नाद् भूयः स्यान्नश्यन्ति व्याधयः स्वयम्॥ न कचिच्चास्य संक्लेशो वर्धन्ते पशवः प्रजाः। दीर्घ चास्य भवेदायुर्जायन्ते सुभगाः प्रजाः ॥ ११ ॥ प्रशंसन्ति जनाश्चैनं चोरयेयुर्न दस्यवः । अनुपद्रवमैश्वर्य चिरं तिष्ठत्ययन्त्रितम् ॥ १२ ॥ धर्माचभिमुखी धीः स्यादधर्मादिपराङ्मुखी । मुखेनैवापरान्तश्च पुण्यकाले भविष्यति ॥ १३ ॥ १. 'चिन्त्यमा', २. 'फलन्ति यता भूयोऽस्य नश्य' क. ख. ग. च., 'फलन्ति यत्ला भूयस्यो नश्य' उ. पाठः, मिश: पटर जन्मोत्कृष्टकुले भूयो भक्तिश्च पुनरच्युते । उत्कृष्टतम एव स्यात् तथा जन्मनि जन्मनि ॥ अक्लिष्टमष्टधैश्वर्य तत्प्रसादाद् भविष्यति । विहरेदिच्छया दीर्घ निर्वाणं वा तथाप्नुयात् ॥ १५ ॥ भक्तेष्वस्य प्रसादेन भवितव्यं तु सर्वथा । भ्रष्टोऽपि विविधान् कामानाप्नुयान्न विमुच्यते ॥१६॥ किन्तु कर्मानुबन्धेन संसारे क्लेशसम्भवः । तस्मात् तद्भक्तिरेवास्य संपदा कारणं भवेत् ॥ १७ ॥ तज्ज्ञानेन नृणां भक्तिर्वर्धनीया प्रयत्नतः । वर्धिता तु विशेषेण सैनं नयति सत्पथम् ॥ १८ ॥ तस्मात् कार्यों विवेकोऽत्र गुणदोषा यथा स्थिताः। चिन्तयेदखिलान् दोषानेकान्ते शुद्धमानसः ॥ १९ ॥ कामकोपादिभिर्मुक्तं मनः शुई भविष्यति । अभ्यासेन भवेच्छुद्धिर्मनसो योगवर्त्मनि ॥ २० ॥ शुद्ध मनसि तद्भक्तिर्जायते तस्य निश्चला । तस्यां समुपजातायां तत्त्वे चेतोऽवतिष्ठते ॥ २१ ॥ रागद्वेषपरीतस्य विफ़लं तत्त्वदर्शनम् । तस्मात् तौ पूर्वमुत्सा? तत्त्वं सम्यग् दिदृक्षुणा ॥२२॥ पुण्यदेशेषु दृष्टेषु भयेषु मरणेषु च । तथा रोगाबमानेषु वैराग्यमुपजायते ॥ २३ ॥ मरणादिषु दृष्टेषु स्वयमेव समाहितः । बुबा विवेकमातिष्ठेन्नित्यं वैराग्यकारणम् ॥ २४ ॥ १. "क्रोनादिर. च. पाठः. २. सत्त्वं च..पाठः.
२५४ विष्णुसहितायां विवेकाज्जायते भक्तिर्वैराग्यं चास्य सर्वदा । ततस्तत्त्वगता बुद्धिर्भविष्यत्यनपायिनी ॥ २५ ॥ न भोगेषु प्रसक्तः स्यान्न कुर्याद् दुर्लभे मतिम् । अल्पेन परितुष्टः स्यान्नित्यं भागवतों बुधः ॥ २६ ॥ विपाकं कर्मणामेव पश्येत् पश्यन् प्रियाप्रिये । इदं युक्तमिदं नेति नानुशोचेत् कदाचन ॥ २७ ॥ प्रभुत्वं नात्मनः किञ्चिदिति पश्येद् विवेकवान् । घोषयेन्नैव कृत्यानि न कुर्यात् संभ्रमं क्वचित् ॥ २८ ॥ न चाकाङ्क्षद् यशः किञ्चिद् देवदेवस्य पूजनात् । यथा मनः प्रियेष्वेवं सक्तं देवं च भावयेत् ॥२९॥ नित्यं भक्तौ तु जातायां जायते तत्त्वदर्शनम् । तत्त्वविद् यत्र तत्रस्था मुक्तसङ्गः परिव्रजेत् ।। ३. । एक एव पुनस्तीर्थं क्षेत्रं चानुव्रजेत् सदा । भक्त्या देवमनुध्यायेत तन्निष्ठस्तत्परायणः ॥ ३१ ॥ अन्तकाले च तं स्मृत्वा तत्सायुज्यमवाप्नुयात् । विरक्तोऽखिलतत्त्वानि विलाप्य परमात्मनि ॥ ३२ ॥ कृत्वा निर्विषयं चित्तमुदासीनो विमुच्यते । ऐश्वर्येऽपि स्थितो योगी न देवं जातु विस्मरेत् ॥ ३३ ॥ यतः कालक्रमेण स्यादुपघातोऽन्यथा ध्रुवम् । सायुज्यं प्रतिपन्नास्तु ये भक्ताः शुद्धचेतसः ॥ ३४ ॥ ते विष्णोः किङ्करा नित्यं भवन्ति निरुपद्रवाः । तेषां भक्त्यपराधेन संसारः संभवेत् पुनः ॥ ३५ ॥ १ . 'पा' क. पाठः.
२४५ ३ त्रिंशः पटलः। अन्यथा स्थितिरेव स्याद् वैराग्यान्मुक्तिरेव वा। निवृत्तास्तु विशिष्यन्ते सर्वेभ्यस्तत्त्वदर्शिनः ॥ ३६ ॥ नैव तेषां भवो भूयः प्रमादो वेह कश्चन । मुक्तिरेव तु विज्ञेया गतीनामुत्तमा गतिः ॥ ३७ ॥ अन्यास्तु गतयः सर्वाः सप्रमादाः स्युरध्रुवाः। तथापि मतिवैचित्र्यादुभयं संमतं नृणाम् ॥ ३८ ॥ एश्वर्यमपवगा वा कस्यां चत् काञ्चदव तु । तद्गता भक्तिरेवैषामुभयस्थापि साधना ॥ ३९ ॥ समाधैर्धमानस्य विभागाद भदकारिणः । सत्त्वस्थे यत्नतश्चित्ते योगाङ्गानि निषेवते ॥ ४० ॥ तेपु स्थित्वा स्मरेद् विष्णु ने काग्रेण तु चेतसा । तमः क्षरति तेनास्य रजश्च वर्शिनः क्रमात् ॥४१॥ ततो जन्मभिरुत्कृष्टैः सिद्धिमवाधिगच्छति । यदा तु सत्त्वमातिष्ठेदस्पृष्टी रजला क्वचित् ॥ ४२ ॥ ततोऽस्य मुक्तिरेव स्थात् सायुज्यं वा महात्मनः । तस्माद् भक्तिं सदान्विच्छेद् यास्य सर्वस्य कारणम् ॥ भक्तावच्यवमानायां भवेच्छ्रेयोऽस्य नान्यथा । अन्तरायास्तु ये नित्यं योगाभ्यासस्य दूषकाः ॥ ४४ ॥ तेषु प्रसध्यमानेषु तत्त्वदर्शनमाश्रयेत् । नातिवेलं सदाभ्यस्येन्न शरीरं च पीडयेत् ॥४५॥ विषयेभ्योऽपि यत्नेन निवर्तत शनैः शनैः । अपूर्वदर्शने चैव लोकवादाश्रये तथा ॥ ४६ ॥ १. 'व स्यादुर्भ' ख. ग. पाट:: २. धि' च. पाठः. बतमा' ख. ग. पाठः. ३. 'धौ ४. 'ट' ङ, पाठः. GG2 विष्णुसंहित्त्या मोघचिन्ताप्रसझे च योगमिच्छेन्नसे बुधः । निहता सर्वेपु. भक्तिः पुंसो विवर्धते ॥ ४ ॥ विषया दुत्त्यजाः सेव्या धर्मशास्त्राविरोधिनः । बह्वायत्वांगन यत्नादच्छां निवर्तयेत् ॥ १८ ॥ येन्यो निवर्तमानस्य मनः शुद्धं भवेत् सदा। निवृतर पायन शव पशंत्मनः ॥ ४९ ॥ शुडावाद्रियमाणायां बीमाविषयेष्वयम् । जायते नाशुचिष्वेव सस्य भविष्यति ॥ ५॥ अशुचीनामसांगितमय प्रतीदति । प्रसाद निरहस्यास्य भक्तिमुक्तिस्ततो ध्रुवा ॥ ५१ ॥ शब्दादिपियान जिला रुला द्वाराणि सर्वशः। प्रशिलाप्यानमामिला परमं पदम् ॥ ५२ ॥ संयम्य मारतान् पच वयासन योगवित् । स्थिरताना निल र परमं पदम् ॥ ५३ ॥ सालाना विचिन्तयेत् । मध्ये मध्ये तु पूर्वपमा ध्येयाः परे परे ॥ ५४ ॥ काशवो गात पाणी रोजानोऽस्य मध्यगः । विद्युत्फुरितमा व्यान उदानः कुन्दसन्निभः ॥ ५५॥ समानतु ततः व्येयः शुटिकसन्निभः । चार नियान्ता क्रमशः पञ्च मारुतान् ॥ ५६ ॥ पानि विज्ञान भवुजीत यथाविधि । प्राणायामोत्र पू तु मायामारोऽथ धारणा ॥ ५७ ॥ वर्णाश्च पवनायू ततस्तकः समाधिश्च ध्यानं चाङ्गानि षट् क्रमात् । ये प्रोक्ता योगिभिः पूर्व पूररेचककुम्मकाः ॥ १८ ॥ प्राणायामास्तु विज्ञेया मात्राभिस्ते पृथक् कमात् । जानुं प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् ॥ ५९॥ क्रियते योऽङ्गलिस्फोटः सा मात्रेह प्रकीर्तिता। बदा हादशमात्राभिः पूरकः क्रियते तदा ॥६॥ रेचको हिगुणाभिः स्यात् त्रिगुणाभिश्च कुम्भकः । प्राणानां यस्त्विहायामः क्रमादेवं प्रकीर्तितः ॥ ११ ॥ "सर्वशास्त्रेषु शास्त्रज्ञैः प्राणायामः स उच्यते । धोरणा तु भवेद् या सा प्राणायामैत्रिभिः स्मृता॥३२॥ श्यामा पीतारुणा शुक्ला क्रमाज्ञया च धारणा । नाभिमध्यगतेनादौ बीजेन पुरुषात्मना ॥ ६३ ॥ वायव्या धारणा कार्या सा श्यामा पूरकात्मिका । ततो विश्वात्मबीजेन रक्तेन हृदि या कृता ॥ ६४ ॥ आमेयी सा समुद्दिष्टा द्वितीया रेचको मता। कण्ठे निवृत्तिबीजेन पीतेन क्रियते तु या ॥१५॥ माहेन्द्री सा समुद्दिष्टा धारणा कुम्भकात्मिका । मर्मि सर्वात्मबीजेन शुक्लेनैतैत्रिमिस्त्रिमिः ॥ १६ ॥ क्रियते धारणा याया वारुणी सा प्रकीर्तिता। स्थितेषु तेषु बीजेषु चैतन्यं धार्यते यदा ॥ १७ ॥ तद्गुणान्वितमित्येवं जगत् सर्व तदा स्मरेत् । नाम्यादिषु यथोदिष्टं बीजं भूतगुणात्मकम् ॥ ६८ ॥ १. 'भिस्तु त्रि' च. पाठः. २. 'प्रधारणा भ', ३. 'णा', ४. 'त', ५. 'की स्मृता', ६. 'सा', ७. 'व' ख. ग. पाठः, २४८ विष्णुसहिताया क्रियाभिर्धार्यते याभिस्तक्रिया धारणा मता। अन्वयव्यतिरेकाभ्यां यस्माद् यदुपलभ्यते ॥ १९ ॥ धारणादिषु कालेषु सतर्कः सम्प्रकीर्तितः । आवयासरूपेण यथाकर्म गुणात्मकम् ॥ ७० ॥ समाधिश्वेह विज्ञेयो धारणाभिस्त्रिभिस्त्रिभिः । ध्यातृध्येयस्वरूपं यत् तत्र रुन्ध्यात् प्रदर्शनम् ॥ ७१ ॥ समाधित्रिगुणं यावदेवं ध्यानस्य लक्षणम् । एवं सर्वात्मना यस्य ज्ञेयैस्तुल्यः कथञ्चन ॥ ७२ ॥ योगोऽसौ योगिभिः प्रोक्तो विज्ञानक्रमयोगतः । गुणानां यः समाहारः सहायस्य च चेतसः ॥ ७३ ॥ सद्भावभावतो बुद्ध्या स योगचेह कीर्तितः । स च ज्ञानक्रियाभेदाद् ज्ञेयो योगो द्विधा बुधैः ॥७४ ॥ अन्तःकरणवृत्त्या या तेषामात्मैकता मता। ज्ञानयोगः स उद्दिष्टः कर्मयोगः क्रियात्मकः ॥ ७५ ॥ इष्ट्वादौ कर्मयोगेन ज्ञानयोगेन तं यजेत् । कायिकैर्वाचिकैश्चैव मानसैश्च पुनः क्रमात् ॥ ७६ ॥ स्थूले निवेशितं चित्तं पुनः सूक्ष्मे निवेशयेत् । पररूपे यदा युक्तस्तदासौ मुक्त उच्यते ॥ ७७ ॥ परात्परतरं ज्योतिश्चिद्रूपमचलं ध्रुवम् । यः प्रपश्यति बुद्ध्यासौ न पुनर्भुवि जायते ॥७८ ॥ तस्मात् सर्वप्रयत्नेन भक्तो योगी भवेत् सद। युक्तो देवमुपासीत सिद्धिरेवं भविष्यति ॥ ७९ ॥ १. 'स्त्रि' क. पाठः. २. 'च', ३. 'मु', ४. 'वैतमु' ख. ग. पाठः, त्रिंशः पटलः । २१९ एवं ते सकलाख्याता मयाल्पा विष्णुसंहिता । साक्षाद्विष्णुमुखादेषा मया प्राप्ता युगान्तरे ॥ ८ ॥ ज्ञानानां परमं ज्ञानं गुह्यानां गुह्यमुत्तमम् । हितानां च हितं नान्यदतो रक्ष्यमिदं त्वया ॥ ८१ ।। यथाहं श्रुतवान् पूर्वं साक्षाद् भगवतो मुखात् । तथेदमखिलं तन्त्रं मया तुभ्यं निवेदितम् ॥ ८२ ॥ नादीक्षिताय दातव्यं नासंवत्सरवासिने । नाभक्तायाविनीताय नान्यभक्ताय वा क्वचित् ॥ ८३ ॥ कृतज्ञाय विनीताय शुचये ब्रह्मचारिणे । वक्तव्यं सर्वथाचारित्येवं विष्णुशासनम् ॥ ८४ ॥ गुप्तं हि स्थापयेत् सर्वमगुप्तं नाशयेन्नरः । तस्मात् सर्वप्रयत्नेन गोप्यमेतत् सदा बुधैः ॥ ८५॥ यः पठेच्छृणुयान्नित्यं श्रावयेद् वा समाहितः । सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ ८६ ॥ तस्माद् भक्तैरिदं नित्यमध्येयं श्राव्यमेव च । पुस्तके लिखितं नित्य पूजनीयं प्रयत्नतः ॥ ८७ ॥ यत्रेदं प्रयतैनित्यं पूज्यते पुस्तकस्थितम् । न तत्र व्याधिचोरादिभयं किश्चित् प्रजायते ।। ८८ ।। तस्मात् सर्वप्रयत्नेन गृहे सततमर्चयेत् । स्थापयेद् गोपयेच्चात्र वर्धते श्रीरचञ्चला ॥ ८९ । इति विष्णुसंहितायां त्रिंशः पटलः ।। -- शुभं भूयात् । १. 'कर्मज्ञा' च. पाठः. २. 'त्यमर्चनीयं प्रयत्नतः', ३. 'के' ख.ग. पाठः, ४. 'यां योगपटलत्रिंशः' च. पाठः. -
No text on this page.
READY FOR SALE. RS. AS. P. HH3 (Stuti) by H. H. Svâti Sri Râmna Varma Maliârân jah. 1 0 0 Fulareye dayana: (Kavya) Syanandhrapuravarnanaprabanıtha by H. II. Svati Sri Râmit Varma Mahârâ jah, irith the commentary Sundarī of Râ járája Varnu Koil Tampuran. 2 0 0. Trivandrum Sanskrit Series. No. 11 (l'yákaranu) by Deva with Purnshakâra of Krishnalilâsukamuni. 1 0 0 No. 2-अभिनवकौस्तुभमाला-दक्षिणामूर्तिस्तवी by krisimalilásukamuni, (0) 0 No. 33-fondet: (Kavya) by Vâmana Bhatta Bână (Second Elition). 0 | 0 No. 1-fargetemua (Kavya) by Nilakantha Dikshita. ? 00 No. 1-fa: (Alankara) by Malina Biliita with commentary: 2 12 0 No. 1,-ÅTfa: (Vyâkarana) by Saranueva. 2 0 0 No. 7--ब्रह्मतत्त्वप्रकाशिका (Vecânta) by Sada. sivendra Sarasvati. 2 + c No. 8-sport (Nataka) by Ravi Varma Bhîpil. 1 0 0 No. 9-aregtaifatet (V'ecânta) by l'irûpakslanatha with the commentary of Vidyâchakravartin. () () No. 10—After (Gajalakshana) by Nilakantha. ( 8 0 No. 11-atura (Nataka) by Kulasekhara Varma with the commentary of Sivaråma. 24 0 No. 12 THTHANH (Vcılânta) by Bhagavad Adisesha with the commentary of Raghav. ânandi. 0) 0) No. 13-aara (Nataka) by Kulasekhara Varina with the commentary of Sivarama. 20 9 2 RS, AS. P. 8 No. 14-after: (Niti) by Kamandaka, with the commentary of Sankarârya. 3 .8 0 No. 15-Fahalacry (Nataka) by Bhâsa. (Second Edition). 1 8 0 No. 16a fermentum acrourt (Nâtaka) hy Blânsa. 1 () No. 17- Do. Do. 1 0 0 No. 18-arerauften (Stuti) by Nûrîyana Bhatta with the commentary of Desumangala Vârya. to u No. 19--HAHA: (Mimâmsân) by Narayana Bliatta and Nârâyana Panditit. 1.40 No. 20—afanikest (Nataka) by Bhâsa. 1 8 0 No. 21-after Du. Do. 10). O No. 22-ATHERITT -दूतवाक्य-दूतघटोत्कच-कर्णभारोरुभनानि (Nâtika) by Blása. 80 No. 23-arrugdana: (kcsa) by Kesavaswâmin (Part 1. Ist & 2nd Kandas). 1 12 0 No. 24-tarra: (Kavya) ly Chakra kavi. 1 0 0 No. 25-meherreferent (Nyâya) by Gangadhamsari. O 12 0 No. 26-7189 (Nâtaka) by Bhâsa. U 12 0 No. 27--Hreemia: (Kavy) by Kálida;a with the two commentaries, Prakásika of Arunagirinâtla and Vivarana of Nârâyana l'amitit (Part I. 1st & 2nd Suryas). 1 12 0 No. 28--CHATHN: (Dharmasútra) by V'ikbamas. O 8 C. No. 2917reiorating: (husa) by Kesilvaswamin (Part II. 3rd Kanda). % 0 No. 30-greglaut (Silpai). 0 12 0 No 31-avada harita: (Rosa) by Kesilvaswamin (Part III. 1th, 5th & 6th Kandas). 1 0 0 100 3 RS. AS. P. No. 32--ARH**a: (Kavya) by Kalidasa with the two cominentaries, Prakasika of Arunagirinâtha and Vivarana of Narayana Pandita (Part II, 3rd, 4th & 5th Sargus) 2 8 0 No. 33–1944: (Vyakarana) with the commentary Dipaprabha of Nârânyana. 0 8 0 No. 34-foreta: (Toureda:) (Nyâya) by Rajathấtusuitakín. 1 4 0 No. 35—APHR: (5417805:) (Nyâya) by Gopinatha. i 80 No. 36-Hertta: (Kavya) by Káliclânsa with the two commentaries, Prakâsikâ of Aru. nagirinâtha and Vivarana of Nitrayana Panditu (Part 111. 6th, 7th & 8th Sargus). 3 0) 0 No. 37—TEX** (Smriti) by Vararuchi with commentary. 040 No. 38—THSFIGNATA (Rosa) by Amarasimha with the commentary Tikâsarvasva of Vandyaghatiya Sarvånanda (Part I. 1st Kânda). 200 No. 39—10 (Nâtaka) by Bhâsil. 0 120 No. 40-RHETH (Alankâra) by kâjânaka Sri Ruyyaka with the Alankarasarvaswu of Sri Mankhuka and its commentary by Sainudrabandha. 2 8 0 No. 41-57HYESH (Kaipa) by Apastamla with Vivarana of Sri Sankara Bhagavat Parli. 0 4 0 No. 42-fachrarea (Nâtaka) by Bhâsa. No. 43—THPORT (Kosa) by Amarasimha with the two commentaries, Amarakoso). dghatuna of Kshiraswâmin and Tikaarvaswa of landyaghatiya Sarvananda Part II. 2nd Kâuda 1-6 Vargas). 2 8 0 4 ks. AS. P. No. 44-7944 (Tantra) by Bhattâraka Sri Vedottama. U 4 0 No. 45–47 (Prapanchahridaya). 10) 0 No. 46_CARTERT: (Vyakarana) by Nilakanthu Dikshita. O 80 No. 47-fargata 1974 (Velânta) by Srî Krishnananda Sarasvati. (Part I.) 1 12 0 No. 48– Do. Do. (Part II.) 2 0 0 No. 49— Tactfort (Jyotisha) by Parameswara. 0 4 0 No. 50-Tavagant: (Alankâra ) by Singa Bhâpâla. 300 No. 51Arfestgah (Kosa) by Amarasimha with the two commentaries, Amarakosodyhâtana of Kshíraswâmin and Tìkâsarvaswa of l'andyaghatîya Sarvânanda (Part III. 2nd Kända 7---10 Vargas) 2 0 0 No. 52-Area (Kosa) by Amarasimha with the counmentary Tikásarvaswa of Vandyaghatîya Sarvânanda (Part IV. 3rd Kânda) 1 8 0 No. 53- eqiada: (Velântaj by Prakâsâtmayatîndra 0 12 0 No. 54-literaria art: (V'yâkarana) 0 4 0 No. 33-FALTETAYETH (Nâtaka) by Srí Mahendravikramavarman. U 8 0 No. 56_Agency for (Silpa). 0 8 0 No. 57-gelcaftan (Kavya). 1 4 0 No. 58-faciala (V'edânia) by Sri Krishnananda Saraswati (Part III.) 2 0 0 No. 59-4179-cu (Nâtaka) by Sriharshadeva with the commentary Nâgânandavimarsini of Sivarama. 3 4 ☺ ( No. 60-agafa: (Stuti) by Sri Laghubhattaraka with the commentary of Srî Râyha. vânanda 0 8 0 5 . 3 RS. As. P. No. 61-fertaifa (Vedanta) by Sri Krishnananda Sarasvati (Part IV). 1 8 0 No. 62—AANLINE: (Sarvamatisangrahn). 08 (1) No. 63-Rabreviatura (Kavya) by Bharavi with the commentary Sabilârthadipika of Chitribhâm (1, 2 and 3 Sargas). 2 8 No. 61-qat: (Kavya) by kâlidasit with the commentary Praulîpa of Dakshinavartanatha. 100 No. 65—#Y4TH (Silpa) by Mayamuni. 8 0 No. 66- HERTHI (Darsana) with the commentary Parimala of Maheswarânanda. 2 8 0 No 67-anyoat: (Tantra) by Narayana with the commentary l'imarsini of Sankara (Part I. 1–6 lata las). 30 No. 68--7791a: (Agama) by Sri Bhojuceva with the commentary Tâlparyadipikâ of Sri Kontrol. 2 0 0 No. 69-traflayarafa: (Trutru) by Isanasivagurulevamisra (Part I. Simányapida). 1 8 0 No. 71)--Asysten: (Part 1). 280 No. 71- Tour#7: (Tantra) by Narayana with the commentary Vimarsini of Sukira (Part II. 7-12 Pitalas).. No. 72 - Sarrerayaarafa: (Tintru) by Insivagurudevamisra (l'art II, Nutrapada). 1 0 0 No. 73 - fucefef4977: (Vedantit) by Sri Modliusucanu sarils vati.
6 RS. AS. P. No. 74 steaeriala: (Dharinas&stra) with the commentary Balakride of Visvarî pâchârya. (Part I-Åchâra and Vyavahâra Adhyâyas). 4 0 0 No. 75–PICTATE (Silpa) by Srikumâra (Part I). 3 4 0 No. 76—74: (Part II). 3 of 0 No. 77-erfragedaygia: (Tantra) by Isanasiyagurudemisrava (Part III. Kriyapada 1---30 latalas). 30 No. 78—34186PUUELE with the commentary Anavila of Haradattacharya. 5 0 0 No. 79-ETH of Kautalya with commentary by Mahamahopadhyaya T. Ganapati Sastri (Part I-1&2 Adhikaranas). 8 0 0 No. 80-igner of Kautalya with commentary by Mahamahopadhyaya T. Ganapati Sastri (Part 1143 to 7 Allhikaranas). 8 0 No. 81—fristarela: (Dharmasastra) with the commentary Balakrida of Visvarûpå - chârya (Part II. Prayaschittâdhyâya) 3 120 No. 82-le of Kautalya with commentary by Mahamahopadhyaya T. Ganapati Sastri (Part III-8 to 15 Adhikaranas). 8 0 0 No. 9-aayegarafa: (Tantra) by Isanasivngurudevamisra (Part IV, kriyapada 31-64 Patalas and Yogapada). 4 0 0 Xo. S-ryutique: (Part III). No. 85---awafisat (Tantra). 4 8 0 2 12 0 Apply to:- The Curator, for the publication of Sanskrit Manuscripts, Trivandrum.
No text on this page.
IN THE PRESS. 1. Kavyaprakásı (Alaukâra) with the commentary Sampra. dâyaprakasini of Sri Vidyachakravartin and the Sálityachûdâmași of Bhattagopåla. 2. Slokavârtika (Mīnāmsa) with the Kasikátſkå of Sucharitamisra. 3. Bharatacharita (kávya) of Krishnâcharya." 4. Sangitasamayasan (Sangita) of Saugitâkuru Pârsvadeya. i Horasustria (Jyotisha) of Varaliamihira with the Vi. Vilana of Rudra. Undertaken for Publication, 1. Asvalayanngrilya utu with Devasvâmin's Bhashya. 2. Pramâralakshana (Mimämså) ; Sarvajnâtnapadu. 3. Sarasvatikanthàbharaṇa (Vyakarana ) of Bhoja with the Vritti of Nårāyaṇa Dandanaths, 1. Nyáyasåra padapanchika of Vasudeva. Vedâutuparibhasha with the comentary of Pedialikshita. 6. Bhậmatitilaka of Allalasuri. 7. Amarakosa with the cor, or entury Subodhini of Jätuveda rekshitit 8. Prakriyásarvasva by Nārāyana Bhattil.
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.