Svclrc

Nrisinha Prasada Tritha Sara

Gopinath Kaviraj · 25/08/2003

PDF Proofread

Front matter

No text on this page.

Kendriya Sanskrit Vidyapeetha
LIBRARY
TIRUPATI
Author
C/ No
Title
Acc No
If the book is not returned on or before the date last
mentioned an over - due charge of 5 Paise per book
per day will be collected
Due date of
return
Due date of
return
Due dato of
return
Due date of
return
MA

No text on this page.

No text on this page.

TAK
C
PRINCESS OF WALES
SARASTATI BHAVANA TEXTS
No 55
PANAMA
EDITED BY
Mahāmahopādhyāya
GOPI NATHA KAVIRAJA, M A
THF
NRISIMHA PRASADA
S'RĀDDHA SĀRA
Printed by Jar Krishna Das Gupta
Vidya Vilas Press, Benares City
1934
Qalexblo at half of the printed price:

Q2:428
N34
"
11
YA SAM
96054
T'RUPATI.
SEE THE
MOU
mu
A, and
}

श्रीदलपतिराजविरचितः
नृसिंहप्रसादः
श्राद्धसारः।
श्रीकाशीहिन्दुविश्वविद्यालय प्रधानवेदाध्यापकेन पण्डितप्रवरेण
श्रीविद्याधरशर्मणा टिप्पण्यादिभिः सयोज्य संशोधितः ।
THE
NRISIMHA PRASADA
S'RĀDDHA SĀRA
of
SʻRĪ DALAPATIRĀJA
Edited with Introduction etc,
By
VEDACHARIA
PANDIT SRI VIDYADHARA SHARMA
First Professor of Veda, Benares Hindu University
Benares
1934

No text on this page.

श्राद्धसारभूमिका। इदमिदानीमनेकप्रकरणपरिहितस्य नृसिहप्रसादाख्यस्य महतो धर्मशास्त्रग्रन्थस्यैकतम प्रकरणं श्राद्धासाराख्य मुद्राप्य प्रकाश प्राप्यते। सत्स्वपि बहुषु श्राद्धमञ्जरी-श्रादकौपुदीप्रभृतिषु श्राद्धप्रक्रियाप्र तिपादकेषु ग्रन्थेषु मुद्रितेषु अस्यापि मुद्रणे व द्वादरा वयमित्यत्र निदानमिदमेव यदितरग्रन्थापेक्षया ग्रन्येऽस्मिन् लेखनवेशद्य पक्ति- सारल्य विषयसौष्ठव प्रमाणबाटुल्य सर्वसामान्योपकारिता चेत्येवमा दिभिगुणैरुपशोभितत्वम् । प्रायशो हि अद्यत्वे विद्वांसोऽपि सारल्यपक्षपातिनोऽतिकर्कशरी तिरखिते कठिनविषयविलासलपिते परिश्रमपरिपाप्ये विषये नोत्स- हन्त एव पथि पदमर्पयितुम् । कि पुना रीति निष्ठुरामपरिचितवन्तः । अतस्तादृशां मतिमनायास्यैवाऽपेक्षितमंशमर्पयनय प्रन्यराजः सर्वथा सग्राह्य इति बुध्येवाऽस्माभिया॑पृतमत्र । एतन्मुद्रणार्थ यतमानैरस्माभिरासादितमेकमेवादर्शपुस्तक, यत् महामहोपाध्याय पण्डितप्रवर श्रीगोपीनाथकविराज महोदयौ. कृपया सरस्वतीभवनादापितम् । ग्रन्थकृताऽनेन ग्रन्थेऽस्मिन् द्वादश प्रकरणानि निवद्धानि येषां नामो- नि ग्रन्थकृतव सस्कारसारे उल्लिखितानि-१ रास्कारसारः, २ श्रा हिकसार, ३ श्राद्धसारः, ४. कालनिर्णयसार, ५ व्यवहारसार , ६.

२
भूमिका ।
प्रायश्चित्तसारः, ७ कर्मविपाकसारः, - व्रतसारः, ९ दानसारः,
शान्तिसारः, ११. तीर्थसारः, १२ प्रतिष्ठासारः, इति ।
,
एवं समयोपयोगिनस्सर्वानपि विषयान् अपरिहरता एकैका
विषय यावदुपलम्भ प्रमाणैः परिपुष्णता सारल्येन वैशधेन च प्र
स्यास्य निखिलोपयोगितामापादयता च सुबहूपकृतो धार्मिको लोर
ऽनेनेति नेयमतिशयितोक्तिः।
किञ्चाय निबन्धकारः स्वीयमिमं निवन्धं क्वचिद्विशेषदृष्टिविरह
सर्वानुकूलमेव कर्तुमनाः प्रावर्तत इति न केवल तत्प्रतिज्ञया
"आश्वलायनाऽऽपस्तम्बयाज्ञवल्क्यमतानुगाः।
श्रीनृसिहप्रसादेन क्रियां कुर्वन्तु नित्यशः ।
तत्र गृह्यानुसारेण कारिकादर्शनेन च ।
ज्योतिश्शास्त्रादिगृष्टया च यथामति विविच्यते” ।
इति सस्कारसारारम्भे कृतया,
"अनेकान् सुनिबन्धांस्तु पर्यालोच्य प्रयत्नतः
कारिका-गृह्यवृत्यादिग्रन्थानालोड्य सर्वशः ।
पद्धत्यादि यथाबुद्धि चन्द्रशेखरनिर्मितम् ।
चतुश्शाखासु विहित श्राद्धकर्मसु विस्तृतम् ।
वेदाभिहितमार्गस्य रक्षणायाऽभिधीयते ॥"
इत्येतत्प्रकरणारम्भकृतया च प्रतीयते,आमूलचूल ग्रन्थपरिशीलन
याऽपि चाऽयमर्थस्साधु अवगम्यते ।
किञ्चाऽय तत्तत्प्रकरणाऽऽरम्भ एव तत्तत्प्रकरणप्रतिपाद्यान् विष
यान् साधु सङ्कलयन् आदावेव श्रोतृमनस्समादधाति इत्ययमपरो वि
शेषो ग्रन्थस्याऽस्य ।

भूमिका। ३ . ग्रन्थकर्तुः समयो देशश्च । एव सुन्दरतम सारवत्तम च ग्रन्थमिमं रचयन् इन्थकर्ता क देश क च कालमलचकार इति विचारपथमानीतोऽयं विषय उपरितने प्रमाणैरुपलब्धैर्विचार्य निर्णीयते- एतत्प्रकरणावसाने-श्रीमत्प्रौढ प्रतापमहाराजाधिराजसर्वपुरीसु न्दी देवगिरिपुरवराधीश्वर-सकलविद्याविशारदयाज्ञवल्क्यीयलु तशाखाप्रवर्तकद्विजकुलाऽलङ्कार होर श्रीवैष्णवमार्गप्रवर्तक श्रीवल्लभा त्मजश्रीवल्लभपण्डित प्रसादासादित सूर्यपण्डिताभिधगुरु-मन्वादिन जीतनीतिशास्त्राभिज्ञ महाप्रभु स्वकार्यवीक्षण प्रतिनिधीकृत" इत्यादि- लिखति। अनेनेदमवगम्यते-ग्रन्थकुदय श्रीनिजामसाह महीभृत. करणा- धीश्वरपद्मध्यतिष्ठत् । पितुरस्य नाम श्रीवल्लभपण्डितः, गुरुस्सूर्य- पण्डितनामा, राशा च स्वकार्यवीक्षणाय प्रतिनिधीकृतः , अखण्डपा. ण्डित्यवान् , शुक्लयजुर्वेदीयश्चेत्यादि महाराजस्य सकलयवनसार्वभौमस्य निजामसाहस्य समयः ऐ. तिहासिकैः १४९० तः १५०० ई० पर्यन्त. इत्युरीकृतम् । अयम् अहमदनगरसाम्राज्यसस्थापक आसीत् । पुत्रोऽस्य बुरहाण निजामसाहः १५०८, तः १५३३, पर्यन्त राज्यमकरोत् । अनयोरन्यत- रोऽनेन ग्रन्थकृता उल्लिखित इति वक्त शक्यते । किञ्चाऽनेनाल्लिखितस्सूर्यापण्डितः श्रीमदेकनाथाभिधस्य महा- राष्ट्रसाधो पिताऽऽसीदिति श्रोकाने महाशयेन स्वकीये धर्मशास्त्रेति- हासाख्ये ग्रन्थे उल्लिखितम् । सोऽयमेकनाथ. पण्डितवर्यः, मीमासा- न्यायप्रकाशकर्तुरापदेवस्य द्वितीयस्य प्रपितामह आसीत् , इति अनन्२ तदेवकृत स्मृतिकौस्तुभस्थश्लोकैरवगम्यते । ते यथा- "आसीद्गोदावरीतीरे वेदवेदिसमन्वितः । श्रीकृष्णभक्तिमानक एकनाथाऽभिधो द्विज ॥

४ भूमिका। तत्सुतस्तद्गुणैर्युक्तस्सर्वशास्त्रार्थतत्ववित् । आपदेवोऽभवद्देवात् प्रोपयत्सकलान्मनून् ॥ मीमांसानयकोविदो मधुरिपोस्सेवासु नित्योद्यतो विद्यादानविभावितोत्तमयशा आसीत् तदीयात्मज । यस्याऽनन्तगुणैरनन्त इति सन्नामार्थवत्तां गतं येनाऽवादि च वादिनांश्रुतिशिरस्सिद्धान्ततत्व मुदे । न्यायप्रकाशकर्ता निरवधिविद्यामृतप्रदस्सरतम् । मीमांसाद्वयनयवित् तनयस्तस्याऽऽपदेवोऽभूत्" ॥ इति । आपदेवस्य समयः ईसवीय सप्तदशशताब्द्याः पूर्वो भाग इति- निर्णीत मीमांसाकेसरिभिर्वेदविशारदैरस्मनिबसुहृद्भिः पण्डिप्रवर श्रीचिन्नस्वामिशास्त्रिमहोदयैर्मामांसान्यायप्रकाशभूमिकायाम् । तत्प्र- पितामहस्यैकनाथस्य तत. पूर्व एकशताब्दीति वक्तव्यम् । तत्समय श्वाऽयं दलपतिमहाराज इति ईसवीयषोडशशताब्द्याः पूर्वी भाग इत्ये- व निश्चेतव्य भवति। किञ्च निर्णयसिन्धुकारस्य कमलाकरभट्टस्य समयः वै० स १६६८ ई १६११ इति तद्ग्रन्थादेवाऽवगम्यते । तत्पितृव्यस्य शङ्क- रभट्टस्य समय. ततः पञ्चाशतो वर्षेभ्यः पूर्वम् । अर्थात् १५६१ ई० समयः। भट्टशङ्करेण च स्वग्रन्थे द्वैतनिर्णये एतन्नामोल्लिखितम् । आर्य- पुस्तकेषु केचित् उल्लेखनसमयोऽपि वर्णितः। यथा-व्यवहारसार "११६९ वैशाखवदी ७ शुक्ले” इत्येकस्मिन्नादर्श, सवत् १५६९ समये काशीपुरीविश्वेश्वरचरणसन्निधाने इति कर्मविपासारोदौ, सवत् १५६८ वैशाखसुदी द्वितीयाया रवौ” इति तीर्थसारादर्श च लिखितम- स्ति । एतत्पर्यालोचनया च १८० ततः पूर्वभाव्यस्य छन्थस्य समय, ग्रन्थकर्तुश्च समय इस्यभ्यूहितुमस्त्यवकाशः। अतश्च पञ्चदशशताब्द्या अन्तिम भागः षोडशशताब्द्या आद्यश्च भाग एतद्ग्रन्थकृत्समय इत्यभ्यूहितु शक्यते ।

भूमिका। - अस्य जन्मदेशः। अस्य चोभिजन. दक्षिणदेशे गोदावरीतीरस्थ कश्चन ग्राम. । अय चान्ध्रव्राह्मणः काण्वशाखीयश्चेति प्रतीयते । अनेन हि- "प्रौढश्री द्विजराजवशतिलकालङ्कार हीरप्रभु. भारद्वाजकुलानुग प्रथमया य. शाखयाऽलकृत." इति स्वस्य भारद्वाजगोत्रोत्पन्नत्व, प्रथमशाखीयत्व च कराठत एवोद्घोप्यते। सर्वत्र देशे प्रथमशाखेति कण्वशाखामेव व्यवहरन्ति । कारवशा- खैव च दक्षिणदेशे विशेषत. प्रचलति । अतः काण्वशाखीयोऽयम् । दक्षिणदेशे गोदावरीतटनिकटवर्तिनि प्रान्तेऽस्ति कश्चन नृसिहा- चल इति प्रथितो गिरिवर यत्र च भगवानादिपुरुषो नृसिहरूपमा- स्थाय भक्ताननुगृह्णान आस्ते । तन्निकटवर्तिनो जनास्तमेव स्वकुल- देवतत्वेनाराधयन्ति, निबध्नन्ति च ग्रन्थेषु तत्स्तुतिमेव । अनेनापि "श्रीनृसिंह नमस्कृता दलाधीश महीपतिः । श्राद्धप्रसादं कुरुते सर्ववैदिकतुष्टये" इति तत्तत्प्रकरणारम्भे नसिहनमस्कारकरणोत् न केवल सा री- तिरनुसृता । नृसिहप्रसाद इति ग्रन्यस्यास्य नामकरणादपि स एव भगवान् नृसिहोऽभिष्टुत इत्यवगम्यते । अतस्तद्देशवास्ययमित्यनुमीयते । तद्देशस्थितेनैवाऽनेनाऽय ग्रन्थो व्यरचि परन्तु नातिचिरादेव ग्रन्थाऽय वाराणी प्रापितोऽत्रत्येस्तूर्ण सादरं प्रतिलिपीकृतश्चेति प्रतिभाति । तदिदमादर्शपुस्तकस्योपरि “काशीपुरीविश्वेश्वरसन्निधाने” इति लेखनादवगम्यते । सर्वथा "सार” इत्यन्वर्थनामा ग्रन्थोऽय सुधीजनो- पादेयतामवश्यमहतीत्येव मत्वा तदुपकाराय प्रकाशितोऽस्माभि । बहो कालात्पूर्वमारब्धमुद्रणोऽप्यय कार्यबाहुल्यवशात् मध्ये मध्ये

भूमिका।
स्थगित इदानीमेवेषदिव प्राप्तपरमेश्वरानुकम्यो बहिरात्मान प्रक
यति । मन्येऽस्याऽन्येऽपि भागाः अचिरादेव प्रकाशमेष्यन्ति इति
कार्येऽस्मिन् आदर्शपुस्तकदानेन शोधनादिकार्ये साहाय्य
रणेन च मह्यमत्यन्तमुपकारमाचरितवतां पण्डितप्रवराणां महाम
पाभ्यायश्रीगोपीनाथशर्म महोदयानामाधमात् न कदासि
च्येय न कदाचित् विस्मरयम् ।
एतादृशानां ग्रन्थानां मुद्रणेन, प्रकाशनेन, विना हानिमात्मर
कश्चिदप्यपश्यतामपि प्राचीन ग्रन्थोजीवनेनैव
मन्वतां तेषामेव श्री गोपीनाथ कविराज महोदयाना परिश्रम
नल्प बहुधाऽभिनन्दन् अचिरादेव चेतरेषामदसीयभागाना प्रका
प्रतीक्षमाण एतावतैव विरमामि-
परमात्मान
सुधीजनवशवद
श्रीविद्याधरश

श्राद्धसारविषयानुक्रमणिका। पृ० पं० १ ३ ३ १३ ९ ५ १ २१ ov २४ १२ २७ १ मालाचरणम् श्राद्धसारानुक्रमः भ्राद्धनामनियनम् श्राद्धस्यावश्यकता श्राद्धकरणे फलम् श्राद्धप्रशंसा श्राद्ध पितरः श्राद्धाधिकारिनिर्णय जीवत्पितृकश्राद्धनिर्णयः मातामहश्राद्धम् अपराह्नकालनिर्णयः मध्याह्ननिर्णय रौहिणकालनिर्णयः श्राद्ध पात्रनिर्णय श्राडे ब्राह्मणनिर्णय. श्राद्ध वयंब्राह्मणनिरूपणम् श्राद्ध निमन्त्रणप्रकारः श्राद्ध पाकार्थपात्रनिर्णयः श्राद्धीयहविद्रव्यनिर्णयः श्राद्ध निषिद्धद्रव्याणि भूमिशुद्धि गृहशुद्धि. उदकशुद्धिः २६ " १ ४६ १ ७ १४ १ ५४ १५ ६५ ७ ६७ ६९ २ विषयानुक्रमणिका । पं० पृ० १ ९० ९३ १ १४ १०१ १०४ ११८ १ १२ सुवर्णादिशुद्धिः अन्नशुद्धिः द्रवद्रव्यशुद्धिः धान्यादिशुद्धिः वस्त्रादिशुद्धिः देहशुद्धिः शुद्ध्यपवादः श्राद्धभेदाः श्राद्धदेशाः श्राद्ध निषिद्धदेशाः श्राद्धकालाः श्राद्ध गन्धादिनिर्णयः श्राद्ध ब्राह्मणसंख्या श्राद्ध वैश्वदेवनिर्णयः श्राद्ध विभक्तिनिर्णयः गन्धादिदानम् अग्नौकरणनिर्णयः अनुपनीतकर्तृकश्राद्धनिर्णयः परिवेषणनिर्णयः परिवेषणे पात्राणि भोक्तुर्नियमाः विकिरनिर्णय. पिण्डदानम् पिण्डप्रतिपत्तिः ग्रन्थकर्तुः प्रशस्तिः १२६ १३५ १३ १३६ १४० १ १४६ ૨૫૨ १५३ २ १ १५४ १ १६० १६२ १६७ १० १

श्री.।
श्रीलक्ष्मीसिंहाय नम ।
नृसिंहप्रसादः।
श्राद्धसारः ।
a
श्रीनृसिंहं नमस्कृत्य दलाधीशमहीपतिः ।
श्राद्धमसादं कुरुते सर्ववैदिकतुष्टये ।।
लिख्यते परिभाषात्र प्रक्रियाऽनुक्रमेण तु ।
श्राद्धप्रशंसा प्रथम देवतानां निरूपणम् ॥
ततः स्यादधिकारी हि श्राद्धेषु विविधेष्वपि ।
ततोऽपराह्णनिर्णीतिः क्रियते सर्वसम्मता।
प्रसङ्गादागतं किञ्चिद् बुद्धिस्थत्वानिरूप्यते ।
पात्र निरूप्यते पश्चानिषिद्धाना निराकृतिः ॥
ततः परं तु क्रियते श्राद्धपाकविनिर्णयः ।
पाकयोग्यं ततो द्रव्यं ततो निर्णीयते ततः ।।
तच (त्र) भक्ष्यमभक्ष्यं किमेवं (सर्व) भवति निर्णयः।
शाकाना निर्णयः सम्यक् भक्ष्याभक्ष्यतया ततः ।।
द्रव्यशुद्धिरतः शुद्धि मेरादौ निरूप्यते ।
उदकस्य ततः शुद्धिरभिधेया सुविस्तृता ॥
सुवर्णरजतादीनामुच्यते शुद्धिरुत्तमा ।
द्रव्यरूपस्य शाकस्य शुद्धिः सम्यगिहोच्यते ।।

२
नृसिहप्रसादे
पश्चादनस्य शुद्धिश्च विस्तरेणाभिधीयते ।
ततः परं द्रव्यशुद्धिः शुद्धिः सम्यगिहोच्यते ।।
धनधान्यविशुद्धिश्च ततः परमिहोच्यते ।
ततो वस्त्रादिशुद्धिश्च सविशेषा निरूप्यते ।।
देहशुद्धिरतः पश्चात्सविशेषा निरूप्यते ।
पार्वणादिविभेदेन श्राद्धभेदनिरूपणम् ।।
नित्यकाम्यादिभेदेन सविशेषं ततः परम् ।
निरूपणञ्च क्रियते बहुसम्मतसम्मतम् ॥
श्राद्धदेशा अपि तथा प्रोच्यन्ते हि विशेषतः ।
तथा निषिद्धदेशानां निराकरणमिष्यते ॥
श्राद्धकालास्ततो वक्ष्ये त्वष्टकाप्रभृतींस्तथा ।
काम्यान् रव्यादिकालांश्च व्यतीपातास्तथा परान् ।।
निर्णीयते ततः श्राद्धं सम्यगापरपाक्षिकम् ।
त्रयोदशीचतुर्दश्योः श्राद्धनिर्णय उच्यते ।।
वाः कालास्ततः सर्वेऽभिधीयन्ते विशेषतः ।
आशौचोत्तरकाल तु श्राद्धकर्तव्यतोच्यते ।।
गन्धद्रव्याणि सर्वाणि निर्णीयन्ते ततः परम् ।
धूपादिनिर्णयः पश्चात्सम्यगेवाभिधीयते ।।
ब्राह्मणानामियत्ता तु ततः परमिहोच्यते ।
अनेकश्राद्धसम्पाते वैश्वदेविकतन्त्रता ।।
निरूप्यते सुविशदाऽनेकग्रन्थविलोकनात् ।
पादप्रक्षालने रीतिः सविशेषा निरूप्यते ।।

श्राद्धसारः ।
३
शाखाभेदेन वै चार्घ्यपात्रादेस्तत्वनिर्णयः ।
सङ्कल्पे च तथा भेदो महानत्र निरूप्यते ।।
अग्नौकरणकृत्ये तु विशेषः सभ्यगुच्यते ।
अनेकस्मृतिकाराणा सम्मतः शिष्टसम्मतः ।।
पृथिवीत्यादिसङ्कल्पविशेपश्चाभिधीयते ।
पिण्डनिर्वपण पश्चात्सम्यगत्र निरूप्यते ।।
अनेकान् सुनिबन्धास्तु पर्यालोच्य प्रयत्नतः ।
कारिकागृह्यवृत्यादिग्रन्थानालोडय सर्वशः ।।
पद्धत्यादि यथाबुद्धि चन्द्रशेखरनिर्मितम् ।
चतुःशाखासु विस्ति श्राद्धकर्म सुविस्तृतम् ।।
वेदाभिहितमार्गस्य रक्षणायाभिधीयते ।
नित्यश्राद्धप्रसङ्गेन दलाधिपमहीभुजा' इति ।।
तत्र श्राद्धं नाम प्रेतोद्देशेन श्रद्धया द्रव्यत्यागः ।
तदुक्त ब्रह्मपुराणे--
"देशे काले च पात्रे च श्रद्धया विधिना च यत् ।
पितॄनुद्दिश्य विप्रेभ्यो दत्त श्राद्धमुदाहतम्" इति ।
तथा-
-
"होमश्च पिण्डदानश्च तथा ब्राह्मणतर्पणम् ।
श्राद्धशब्दाभिधेयं स्यादेकस्मिन्नौपचारिक
श्राद्धशब्द इति शेषः । तच श्राद्धयवश्यमनुष्टेयम् ।

नृसिहपसादे m- तदाह मनुः- "श्राद्धात्परतर नान्यच्छ्रेयस्करमुदाहृतम् । तस्मात्सर्वप्रयत्नेन श्राद्धं कुर्याद्विचक्षणः" इति । विषयप्ररोचनामपेक्षमाणः कुर्यादित्ययं विधिः स्वविषय- प्ररोचकानि वाक्यान्यपेक्षते, तानि च याज्ञवल्क्यादिप्रणीतानि कानि चित् क्रियाप्ररोचकानि, कानिचित्कर्तव्यतायाः, तत्राद्यानि ताव- त्प्रदर्श्यन्ते। तत्र ब्रह्मपुराणे- "तस्माच्छ्राद्धं नरो भक्त्या शाकैरपि यथाविधि । कुर्वीत कुर्वतः श्राद्धं कुले कश्चिन्न सीदति" ॥ कूर्मपुराणे- "यो येन विधिना श्राद्ध कुर्यादेकाग्रमानसः । व्यपेतकल्मषो नित्यं याति नावर्तते पुनः" ॥ नागरखण्डे-- "कालान्तरेषु ते तोयं लभन्ते नान्नमेव च । न दत्तं वंशजैर्यैषां ते व्यथा यान्ति दारुणाम् ।। क्षुत्पिपासासमुद्भूता, तस्मात्सन्तर्पयेत् पितॄन् । नित्य शक्त्या यथा राजस्तोयैर्भोज्यः पृथग्विधैः ।। तथान्यैर्वस्त्रनैवेद्यैः पुष्पगन्धानुलेपनैः । तर्पितास्ते प्रयच्छन्ति कामानिष्टान् हृदि स्थितान् ।। त्रिवर्गश्च महाराज ? पितरः श्राद्धतर्पिताः । -- ?

श्राद्धसारः।
तथा विष्णुपुराणे--
पितृगीतास्तथैवात्र श्लोकास्तान् शृणु पार्थिव ? ।
तथैव भवता भाव्यं तेन तत्र धृतात्मना ।
अपि धन्यः कुले जातो योऽस्माकमतिमात्रतः ।
अकुर्वन् वित्तशाठ्यं यः पिण्डान्नो निर्वपिष्यति ॥
यमस्मृती-
"इम मन्त्र विधिश्रेष्ठ कामार्थ कथि(ल्पितं द्विजैः ।
ये विप्रा ह्यनुवर्तन्ते तेषां लोकाः सनातनाः ॥
आयुः पुत्रान्यशः स्वर्ग कीर्ति पुष्टि बलं श्रियम् ।
पशून्सौख्य धनं धान्यं प्राप्नुयात्पितृपूजनात्" ॥
ब्रह्मपुराणे-
"एवं सम्यग्गृहस्थेन देवताः पितरस्तथा ।
सम्पूज्या हव्यकव्येन अनेनापि स्वबान्धवाः ॥
परत्र च परां पुष्टि लोकाश्च विपुलान् शुभान् ।
श्राद्धकृत्समवामोति यशश्च विपुलं नरः" ।
विष्णुधर्मोत्तरे-
"अद्यप्रभृति लोकेषु प्रेतानुद्दिश्य वै पितॄन् ।
ये तु श्राद्ध करिष्यन्ति तेषा पुष्टिर्भविष्यति ।
पिता पितामहश्चैव तथैव प्रपितामहः ।
तेषा त्रयः पूजिताश्च भविष्यन्ति तथाऽनथः ।।
त्रयो वेदाश्च लोकाश्च त्रयो, देवास्तथैव च ।
पूजिताश्च त्रयो देवा ब्रह्मविष्णुमहेश्वराः ॥

नृसिहप्रसादे
श्राद्धकाले तथाऽनेन पिण्डनिर्वपणं तथा ।
पितॄणा ये करिन्ति तेषां पुष्टिर्भविष्यति ॥
पूजितस्तैर्भविष्यामि
चतुरात्मा तथाऽप्यहम् ।
पितृपैतामहः पिण्डो वासुदेवः प्रकीर्तितः ॥
पैतामहश्च निर्दिष्टस्तथा सङ्कर्षणः प्रभुः ।
पितृपिण्डश्च विध्यः प्रद्युम्नश्चापराजितः ॥
आत्माऽनिरुद्धो विज्ञेयः पिण्डनिर्वपणं बुधैः" ।
पितृपितामहस्यायं पितृपैतामहः । प्रपितामहपिण्ड इति यावत् ।
"एव सम्पूजितास्तेन चतुरात्मा बहिस्थिताः ।
चत्वारः पूजिता वेदाश्चत्वारश्च तथाश्रमाः ॥
पुरुषार्थाश्च चत्वारश्चतस्रश्च तथा दिशः ।
चत्वारश्च तथा वर्णाश्चत्वारश्च तथा युगाः ॥
तथा देवल
"आरोगः प्रकृतिस्थश्च चिरायुः पितृपुत्रवान् ।
अर्थवानर्थयोगी च श्राद्धकामो भवेदिह ॥
परत्र च परां तुष्टि लोकॉश्च विविधान् शुभान ।
श्राद्धकृत्समवामोति श्रियं च विपुलां नरः" ।।
च शब्दात्कीर्तिमपि । स्वज्ञातिषु ख्यातिर्यशः, इतरत्र रव्यातिः
कीर्तिः । यद्वा --दानपुण्यफला कीर्तिः, प्रतापस्य फलं यशः,
इति तयोः पुराणाभिहित एव भेदः । एतदुद्देशेन श्राद्धं नैवाऽनुष्ठेयं
आवर्जनीयतयोभयप्राप्तेरावश्यकत्वात !

श्राद्धसारः । - याज्ञवल्क्य "आयुः प्रजां धनं विद्या स्वर्ग मोक्ष सुखानि च । प्रयच्छन्ति तथा राज्य प्रीता नृणां पितामहाः ॥ यम - "ये यजन्ति पितॄन् देवान्ब्राह्मणाश्च हुताशनान् । सर्वभूतान्तरात्मानं विष्णुमेव यजन्ति ते ॥ ब्राह्मणाश्वेत्यत्र पूजयन्तीत्यध्याहारः । यजेर्यजदेवपूजासङ्ग- तिकरणदानेष्विति पूजायामपि कथञ्चित्प्रयोगदर्शनात् । तथाऽम्यत्र- "आयुः पुत्रान्यशः स्वर्ग कीर्ति पुष्टि बल श्रियम् । पशून् सुख धन धान्य प्राप्नुयात्पितपूजनात्" ॥ ब्रह्मपुराणे- "एवं विधानतः श्राद्धं कृत्वा स्वविभवोचितम् । आब्रह्मस्तम्बपर्यन्त जगत्पीणाति मानवः ॥ ब्रह्मेन्द्ररुद्रनासत्यमर्यानिलसुमारुतान् । विश्वेदेवान् पितृगणान्पर्यग्निमनुजान्पशून् । सरीसृपानिपतृगणान्यच्चान्यद्भूतसज्ञितान् । श्राद्धं श्रद्धान्वितः कुर्वन्प्रीणयत्यखिलं जगत् ॥ तदुक्तं मार्कण्डेयपुराणे- "अन्नप्रकिरणं यत्तु मनुष्यैः क्रियते भुवि । तेन तृप्तिमुपायान्ति ये पिशाचत्वमागताः ॥

नृसिहप्रसादे
यचाम्बु स्नानवस्त्रोत्थ भूमौ पतति पुत्रक ।
तेन ये तरुतां प्राप्तास्तेषां तृप्तिः प्रजायते ॥
याः सुगन्धाम्बुकणिकाः पतन्ति धरणीतले ।
ताभिराप्यानं तेषां ये देवत्वमुपागताः" ॥
ब्रह्मपुराणे-
"उद्धृतेष्वपि पिण्डेषु याश्चाम्बुकणिका भुवि ।
ताभिराप्यायनं तेषां ये तिर्यत्वं कुले गताः ।
ये चादन्ताः कुले बालाः क्रियायोगा ह्यसंस्कृताः ।
विपन्नास्ते तु विकिरसम्मार्जनजलाशिनः ॥
भुक्त्वाचाचमनं यच्च जलायचाघ्रिशोधनम् ।
एवमाप्यायन वत्स ? बहूनामपि बान्धवैः ॥
श्राद्ध कुर्वद्भिरनाप्सु(त्राशु)शाकैरपि हि जायते
तथा स्कान्दे-
"अन्यायोपार्जितैरथैः यच्छ्राद्धं क्रियते नरैः ।
तृप्यन्ति तेन चाण्डालपुल्कसाधासु योनिषु ॥
गतपापा विशुद्धयन्ति ब्राह्मण्यमुपयान्ति ते ।
ब्राह्मणानां तथैवान्ये न तृप्ति प्रापयान्ति वै (तैः) ।
पिशाचत्वमनुप्राप्य कृमिकीटत्वमेव च ।
एवं ये यजमानस्य यच्च तेषा द्विजन्मनाम् ।।
कश्चिज्जलादिविक्षेपः शुचिरुच्छिष्टमेव वा ।
तेनान्येन प्रकारेण तत्तद्योन्यन्तरं गताः॥
प्रयान्त्याप्यायन वत्स? सम्यक्त्राद्धक्रियावताम्" । इति ।
-

श्राद्धसारे श्राद्धमहिमा । तथा नागरखण्डे- "श्राद्धे तु क्रियमाणे वै न किञ्चिद्वयर्थतां व्रजेत् । उच्छिष्टमपि, राजेन्द्र तस्माच्छ्राद्धं समाचरेत् ॥ एवं श्राद्धक्रियाद्वारा श्राद्धप्रशंसाऽभिहिता । इदानीं पितरूप- देवताप्रसङ्गेन श्राद्धप्रशंसाऽभिधीयते- वायुपुराणे- "इत्येते पितरस्तात देवानामपि देवताः । प्रजापतिमुखा ह्येते सर्वेषा तु महात्मनाम् ॥ अाद्यो गणस्तु योगानां स नित्यं योगवर्धनः । द्वितीयो देवताना च तृतीयो देववैरिणाम् ॥ शेषास्तु बर्हिणा ज्ञेया इति सर्वे प्रकीर्तिताः । देवास्त्वेतान्यजन्ते वै सर्वेष्वेव व्यवस्थितान् ॥ आश्रमास्तु यजन्ते तान् चत्वारस्तु यथाक्रमम् । वर्णाश्चैव यजन्ते तान् चत्वारश्च यथाविधि ॥ यथा सङ्करजाताश्च म्लेच्छाश्चैव यजन्ति वै सदा वै पितरः पूज्याः स्रष्टारो देशकालयोः ॥ पितृभक्त्या ततो नित्य योग प्राप्नोत्यनुत्तमम् । N34 योगेन मोक्षं लभते हित्वा कर्म शुभाशुभम् ।। यज्ञहेतोर्यदुद्धृत्य मोहयित्वा जगत्तदा । गुहाया निहितो योगः काश्यपेन महात्मना ।। तं च योगं समासेन पितृभक्तस्तु कृत्स्नशः 82.428 YastDRAMA our mogar L- ASHANT २ श्रा० 960, ARIYA RPETHA TIRUPATI

नृसिहप्रसादे
अयत्नात् प्राप्नुयाज्जन्तुः सर्वथैव न संशयः ।।
यानि रत्नानि मेदिन्या वाहनानि स्त्रियस्तथा ।
क्षिप्रं प्राप्नोति तत्सर्व पुरुषः श्राद्धकृत्तथा ॥
विद्यार्थी प्राप्नुयाद्विद्यां पुत्रार्थी पुत्रमाप्नुयात् ।
राजा तु लभते राज्यमधनश्चोत्तमं धनम् ॥
क्षीणायुर्लभते चायुः पितृभक्त्या सदा नरः"
ब्रह्मवैवर्तपुराणे-
"नहि योगगतिः मूक्ष्मा न पितॄणां परागतिः ।
तपसापि न दृश्याऽसौ कि पुनर्मोसचक्षुषा ।।
चत्वारः पितरो मूर्ता मूर्तिहीनास्त्रयस्तथा ।
तेषां श्राद्धानि सत्कृत्य देवाः कुर्वन्ति यत्नतः ।।
भक्ताः प्राञ्जलयः सर्वे सेन्द्रास्तद्गतमानसः ।
विश्वे च वसवश्चैव पृष्ठिनः शृङ्गिणस्तथा ॥
कृष्णाः श्वेतास्त्वजाश्चैव विधिवत्पूजयन्त्युत
प्रजाता वातरसना दिवाकृत्यास्तथैव च ॥
मेघाश्च मरुतश्चैव ब्रह्माद्याश्च दिवौकसः ।
अत्रिभृग्वगिराद्याश्च ऋषयः सर्व एव च ॥
यक्षा नागाः सुपर्णाश्व किन्नरा राक्षसः सह ।
पितृस्तेऽपूजयन् सर्वे नित्यमेव फलार्थिनः ॥
एवमेते महात्मानः श्राद्धे सत्कृत्य पूजिताः ।
सर्वान् कामान्प्रयच्छन्ति शतशोऽथ सहस्रशः ।।
हित्वा प्रैलोक्यसंसारं जरामृत्युभयं तथा ।

श्राद्धसारे श्राद्धहिमा ।
मोक्षं योगमथैश्वर्य सूक्ष्मदेहमदेहताम् ॥
कृत्स्नं वैराग्यमानन्त्य प्रयच्छन्ति पितामहाः ।
वरिष्ठः सर्वधर्माणा मोक्षधर्मः सनातनः ॥
पितॄणां हि प्रसादेन प्राप्यते सुमहात्मना ।
आयुः पुत्रान् धनं विद्या स्वर्ग मोक्षं सुखानि च ।।
राज्यं चापि प्रयच्छन्ति प्रीताः पितृगणा नृप ? ।
रतिशक्तिः स्त्रियः कान्ता भोज्ये भोजनशक्तिता ॥
दानशक्तिः स्वविभवा रूपमारोग्यमेव च ।
श्राद्ध पुष्पमिदं प्रोक्तं फल ब्राह्मणसङ्गमः ॥
श्रूयते हि पुरा मोक्ष प्राप्ताः कौशिकमूनवः ।
पञ्चभिर्जन्मसम्बन्धैः प्राप्ता ब्रह्मपदं परम् ॥
कौशिको नाम धर्मात्मा कुरुक्षेत्रे महानृषिः ।
नामतः कर्मतश्चास्य सुतान् सप्त निबोधत ॥
स्वसृमः क्रोधनो हिस्रः पिशुनः कविरेव च ।
वाग्दुष्टः पितृवती च गर्गशिष्यास्तदाऽभवन् ।
पितर्युपरते तेषामभूद् दुर्भिक्षमुल्बणम् ।
अनावृष्टिश्च महती सर्वलोकभयङ्करी ॥
गर्गादेशाद्वने दोग्ध्री रक्षन्तस्ते तदा द्विजाः ।
हनामः कपिलामेका वयं क्षुत्पीडिता भृशम् ।।
इति चिन्तयतां तेषा लघु प्राह तदाऽनुजः ।
अथाऽवश्यमियं वध्या श्राद्धरूपेण योज्यताम् ॥
श्राद्धे नियोज्यमानेयं पापात् त्रास्यति नो ध्रुवम् !

१३ नृसिंहप्रसादे एवं कुर्वित्यनुज्ञातः पितृवर्ती तदाऽयजैः॥ चक्रे समाहितः श्राद्धमालभ्य कपिलां स ताम् । द्वौ देवे भ्रातरौ कृत्वा पित्र्ये त्रीवापरान् क्रमात् ॥ तथैकमतिथि कृत्वा श्राद्धदः स्वयमेव तु । चकार मन्त्रवच्छ्राद्ध स्मरन् पितृपरायणः। तया गवा विशङ्कास्ते गुरवे वै न्यवेदयन् ॥ व्याघ्रण निहिता धेनुर्वत्सोऽयं प्रतिगृह्यताम् । एवं सा भक्षिता धेनुः सप्तभिस्तैस्तपोधनः ।। वैदिकं बलमाश्रित्य क्रूरे कर्मणि निर्भयैः । ततः कालापकृष्टास्ते व्याधा दाशपुरेऽभवन् । जाता व्याधा दशार्णेषु सप्त धर्मविचक्षणाः । जातिस्मराः सप्त मृगा जाताः कालञ्जरे गिरौ । इति । M इति श्रीमल्लक्ष्मीनृसिंहचरणसरोरुहभ्रमरसमस्तभूमण्डलमण्डनसम- स्तयवनाधीश्वर श्रीनिजामसाहसमस्तसाम्राज्यधुरन्धरश्रीमन्महारा- जाधिराज श्रीदलपतिराजविरचिते श्रीनृसिहप्रसादे श्राद्धसारे श्राद्धमहिमा ।

श्राद्धसारे पितरः ।
१३
-
अथ पितरोऽभिधीन्ते।
तत्र ते त्रिविधा मूर्ता अमूर्ता एकोद्दिष्टाशिनश्च । तदुक्तं
ब्रह्माण्डपुराणे-
"अमूर्ता मूर्तिमन्तश्च पितरो द्विविधाः स्मृताः ।
नान्दीमुखास्त्वमूर्ताः स्युर्मूर्तिमन्तोऽथ पार्वणाः ॥
एकोद्दिष्टाशिनः प्रेताः पितॄणा निर्णयविधा" । इति ।
वापुराणेपि पितृमृष्टिमुक्त्वोक्तम्
"तान् दृष्ट्वा प्राह स ब्रह्मा तिर्यक्संस्थानधोमुखान् ।
भवन्तः पितरः सन्तु सर्वेषां गृहमेधिनाम् ॥
ऊर्ध्ववक्रास्तु ये तत्र ते नान्दीमुखसज्ञिताः" इति ॥
तथा ब्रह्माण्डे-
"क एते पितरो नाम वर्तन्ते क च ते विभो ? ।
पुत्रास्तु ते स्मृतास्त्वेषा कथं च पितरः स्मृताः ।।
कथ वा ते समुद्भूताः कस्य पुत्राः किमात्मकाः ।
स्वर्गे ते पितरोऽन्ये वै देवानामपि देवताः ॥
स्वर्गे च के तु वर्तन्ते पितरो नरके तु के ।
किमर्थ ते न दृश्यन्ते तत्र कि कारणं स्मृतम् ॥
इत्यादि प्रश्ने द्विधोत्पत्तिरभिहिता । केचित्साक्षाद् ब्रह्मशरीरो-
त्पन्नाः केचिद् व्यवधानेन । तत्र तावत्साक्षादभिधीयन्ते-विष्णुपुराणे-
"सत्यमावात्मिकामेव ततोऽन्या जगृहे तनुम् ।
पितृवन्मन्यमानस्य पितरस्तस्य जज्ञिरे ॥
-

नृसिहप्रसादे
उत्ससर्ज पितॄन्दृष्ट्वा ततस्तामपि स प्रभुः ।"
वायुपुराणे-
"ऋतमग्निस्तु यः प्रोक्तः स तु संवत्सरो मतः
जज्ञिरे अतवस्तस्माहतुभ्यश्वार्त्तवास्तथा ॥
आर्तवा हनुमासाख्याः पितरो ह्यनुसूनवः ।
ऋतुः पितामहा मासा आर्तवाश्चास्य मूनवः ।।
पपितामहास्तु वै देवाः पश्चाद्वा ब्रह्मणः सुताः" ।। इति ।
अत्र संवत्सराभिमानिन्यो देवताः पितरः, न कालमात्रम् ।
स्थानाभिमानिन इत्यन्ये ।
कालिकापुराणे-
अव्यक्तजन्मतः पुत्रा ये मरीच्यादयः स्मृताः ।
तेषां पितृगणा मुख्या जातास्तेभ्यश्च देवताः ॥
देवेभ्यश्च जगत्सर्व त्रैलोक्यं सचराचरम् ।
विधितत्वं परं वत्स ऋषीणां पितरः सुताः" ।।
तत्र या ब्रह्मशरीरात् पितॄणां साक्षादुत्पत्तिः पुराणेषु दृश्यते
सा मरीच्यादीना पितृत्वमपेक्ष्य, या तु ब्रह्मशरीराव्यवधानेन सा
मरीच्यादिपुत्राणा पितृत्वमपेक्ष्येति विवेक्तव्यम् । अतो न विरोधः ।
ब्रह्मवैवर्तब्रह्माण्डपुराणयोः-
"तेषां सप्त समाख्याता गणास्त्रैलोक्यपूजिताः ।
अमूर्तयस्त्रयस्त्वेषां चत्वारश्व समूर्तयः॥
उपरिष्टाच ये तेषां वर्तन्ते ते अमूर्तयः ।
तेषामधस्ताद्वर्तन्ते चत्वारः सूक्ष्ममूर्तयः॥"
-

श्राद्धसारे पितरः। ततश्च मरीच्यादिपुत्राः पितरो मरीच्यादयः पितामहाः ब्रह्मा प्रपितामह इति । तथा नागरखण्डे- "अग्निष्वात्ता बर्हिषद आज्यपाः सोमपाः स्मृताः । रश्मिपा उपहूताश्च तथैवायन्तुनः परे ॥ तथा स्वादुषदश्चान्ये स्मृता नान्दीमुखा नृप ?" । इति ॥ वायुसंहितायाम्- महेश्वर उवाच । "अथापराश्च पितरो गुह्याः शृणु नरोत्तम १ । विष्णुः पिता ऽस्य जगतो दिव्यो यज्ञः स एव च ॥ ब्रह्मा पितामहो ज्ञेयो ह्यहं च प्रपितामहः ॥ इति । एते ब्रह्मविष्णुमहेश्वराः पितरो विश्वसृष्टिहेतुत्वात् । पितृपि- तामहाद्यधिष्ठानभूताग्निष्वात्ताद्यधिष्ठातृत्वेन श्राद्धे पितरो देवतारूपा- स्तद्रूपेणानानुसन्धीयमानाः श्राद्धस्य कामपूर्विकामैहिकामुष्मिक- फलोत्पादिकां शक्ति जनयन्तीति । तथा पिण्डा अपि स्मृतिषु वरुणादिरूपतया उक्ताः । तथा हि-- "प्रथमो वरुणो देवः प्राजापत्यस्तथा परः । तृतीयोऽग्निः स्मृतः पिण्ड एष पिण्डविधिः स्मृतः" इति । इति श्रीमल्लक्ष्मीनृसिहचरणयुगलसरोरुहभ्रमरसकलभूमण्डलमण्डन- समस्तयवनाधीश्वर श्रीनिजामशाहसमस्तसाम्राज्यधुरन्धर- श्रीमन्महाराजाधिराज श्रीदलपतिराजविरचिते श्रीनृसिहप्रा- सादे श्राद्धसारे पितृदेवतानिरूपणम् । - १६ नृसिहप्रसादे अथ श्राद्धाधिकारिनिर्णयोऽभिधीयते । तत्र कार्णाजिनिः- - "पुत्रः शिष्योऽथवा पत्नी पिता भ्राता स्नुषा गुरुः । स्त्रीहारी धनहारी च कुर्युः पिण्डोदकक्रियाम् ।। तथा गुरु:- . "प्रमीतस्य पितुः पुत्रैः श्राद्धं कार्य प्रयत्नतः । ज्ञातिबन्धुसुहृत्पुत्रै ऋत्विकृत्यपुरोहितैः" । इति । अत्र पितुरित्यनेन मातुरपि ग्रहणम् । “मातुः पितुः प्रकुर्वीत संस्थितस्यौरसः सुतः” इति सुमन्तुस्मरणात् । पुत्र इति औरस- स्यैव ग्रहणम् , मुख्यतमत्वात् , तदभावे दत्तक कृत्रिमादयो याज्ञवल्क्यप्रसिद्धा अवगन्तव्याः । तथा हि-(या.स्मृ.१२८११३२) "औरसो धर्मपत्नीज तत्समः पुत्रिकासुतः । क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा ॥ गृहे प्रच्छन्न उत्पन्नो गूढजस्तु सुतः स्मृतः । कानीनः कन्यकाजातो मातामहसुतो मतः ॥ अक्षतायां क्षतायां वा जातः पौनर्भवः सुतः । दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत् ।' क्रीतश्च ताभ्या विक्रीतः कृत्रिमः स्यात्स्वयंकृतः । दत्तात्मा तु स्वय दत्तो गर्भे विनः सहोढजः ।। उत्सृष्टो गृह्यते यस्तु सोपविद्धो भवेत्सुतः" । इति ।

श्राद्धसारे श्राद्धाधिकारिनिर्णयः । उरसो जातो औरसः पुत्रः, स च धर्मपत्नीजः, सावर्ण्यधर्मवि- वाहोढा धर्मपत्नी, तस्यां जात औरसः पुत्रो मुख्यः । तदभावे दत्तको वाऽधिकारी, इतरेषा कलौ निषेधात् । तदाह- "माता पिता वा दद्यातां यमद्भिः पुत्रमापदि । सदृशं प्रीतिसंयुक्त स इयो दत्तकः सुतः" इति । अद्भिरिति वक्ष्यमाणोपदेशकपूर्वकमिति । आपद्ग्रहणमना- पदि निषेधति । प्रतिषेधश्च दातुरेव "न चैकं पुत्रं दद्यात् प्रतिगृह्णी- याद्वा"इति वशिष्ठस्मरणात्।तथाऽनेकपुत्रवताऽपि ज्येष्टः पुत्रो न देयः- "ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः" इति पुत्रकार्यकरणे मुख्यत्वात् । स्मृत्यन्तरादपि अयमेवार्थ उप- लभ्यते. "दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत्" इति । अयमाशय-अपत्यानि तावन्मातृपितृकारणद्वयम्भवाणीति न तेषामेकः क्रयं प्रतिपादनमुत्सर्ग वा कर्तु प्रभवति "शुक्रशोणित प्रभवः पुरुषो मातापितृनिमित्तकः, तस्य विक्रयप्रदानपरित्यागेषु मातापितरौ प्रभवत" इति वशिष्ठस्मरणात् । अतः प्रदानादावु- भावपि हेतू इति स्थितं, तत्प्रतिग्रहप्रकारो वशिष्ठेनैवाभिहितः- "पुत्रं प्रतिग्रहीष्यन्वन्धूनाहूय राज्ञे निवेद्य निवेशनमध्ये महा- व्याहृतिभिर्हत्वा अदूरबान्धव बन्धुसनिकृष्टमेन प्रतिगृह्णीयात्" इति । अदूरबान्धवमिति अत्यन्तदेशभाषाविप्रकृष्टस्य प्रतिषेधः । ततश्च सनिकृष्टग्रहणात् असन्निकृष्टबन्धुर्न पुत्रार्थ कर्तव्यः । अयं च प्रतिगृहीतुः पुत्रो न दातुः, स्वस्वत्वनिवृत्तिपूर्वकपरस्वत्वापादनं - ३श्रा०

१८
नृसिहप्रसादे
-
दानमिति तल्लक्षणात् । तदुक्त मनुना-
"गोत्ररिक्थे जनयितुर्न हरेदत्तकः क्वचित्" इति ।
प्रास्तां तावदप्रकृतं, प्रकृतं तु पत्नीस्नुषाशिष्यादीनां ,
धिकारिणां वित्तलाभादिनापि श्राद्धादिकरणमवश्यं द्रष्टव
ततश्च दम्पत्योः परस्परं शरीरार्धधर्तृत्वात् स्नुषादीनामेकश
न्वयवत्वेन, शिष्याचार्ययोश्च पितापुत्रवदुपचारात् श्राद्धाधिका
सर्व मनोरमम् । तथा च स्मृत्यन्तरम्-
"औरसे सति नान्यस्य श्राद्धादिविधिकारिता ।
तदभावे तु पत्ल्यादेः शास्त्राणामेष निश्चय" इति
तथा च व्याघ्रपाद:
"पितुः पुत्रेण कर्तव्याः पिण्डदानोदकक्रियाः ।
पुत्राभावे तु पत्नी स्यात्पत्न्यभावे तु सोदरः" इति
पुत्राभावे तु पत्नी स्यादित्यादिवचनबलादेव शिष्य
पुत्राभाव एवाधिकारो नान्यथेति वेदितव्यम् । यदि पुत्रर
ऽप्येषामधिकारो भवेत्तर्हि पत्न्याः को वाऽ पराधः स्यात् येन
कुर्यात्तस्मात्पुत्राभाव एव पत्नीशिष्यादीनामधिकारो नान
सिद्धम् । तथा च गौतमः-"पुत्राभावे सपिण्डाः शिष्याश्च त
ऋत्विगाचार्याविति ।
मातृसपिण्डा मातुलादयः सपिण्डालाभे समानोदकाः ।
दद्युरिति । तदुक्तं मार्कण्डेयपुराणे
"पुत्राभावे सपिण्डास्तु तदभावे सहोदकाः ।
मातुः सपिण्डा एव स्युर्ये वा मातुः सहोदकाः ॥

-
श्राद्धसारे श्राद्धाधिकारिनिर्णयः ।
१६
कुर्युरेवं विधि सम्यगपुत्रस्य सुताः स्मृताः ।
कुर्यान्मातामहायैव पुत्रिकातनयस्तथा ॥
सर्वाभावे स्त्रियः कुर्युः स्वमर्तृणाममन्त्रकम् ।
तदभावेऽपि नृपतिः कारयेदकुटुम्बिनाम् ॥
राजा कुर्यादभावे तु दाहाद्याः सकलाः क्रियाः ।
सर्वेषामेव वर्णाना बान्धवो नृपतिर्यतः" इति ।
तथा विष्णुपुराणे-
"पुत्रः पौत्रः प्रपौत्रो वा भ्राता वा भ्रातृसन्ततिः ।
सपिण्डसन्ततिर्वाऽपि क्रियाहाँ नृप जायते ॥
तेषामभावे सर्वेषां समानोदकसन्ततिः" इति ।
ततः पुत्रेण पितुः श्राद्ध कर्तव्यं तदभावेऽन्यैरिति ।
एतदनुपनीतेनापि कर्तव्यम्--
"श्राद्ध कुर्यादवश्य तु प्रमीतपितृको द्विजः ।
व्रतस्थो वाव्रतस्थो वा एक भव भवेद्यदि"
इति सुमन्तुस्मरणात् । अवतस्थोऽनुपनीतः । तदुक्तं
द्धमनुना-
"कुर्यादनुपनीतोऽपि श्राद्धमेको हि यः सुतः ।
पितृयज्ञाहुति पाणौ जुहुयाद् ब्राह्मणस्य सः" इति ।
अत्र व्याघ्र
"कृतचूडः स कुर्वीत उदकं पिण्डमेव च ।
स्वधाकारं प्रयुञ्जीत वेदोच्चारं न कारयेत्" इति ।
मातापित्रोरिति शेषः।
-

२० नृसिहासादे - - तथा स्मृत्यन्तरे- "कृतचूडोऽनुपेतस्तु पित्रोः श्राद्धं समाचरेत् । उदाहरेत्स्वधाकार नतु वेदाक्षरण्यसौ इति । सुमन्तुना वेदाक्षराण्यपि प्रयोज्यानीत्यभिहितम्-- "नाभिव्याहारयेद् ब्रह्म यावन्मौञ्जी निबध्यते । मन्त्राननुपनीतोऽपि पठेदेवैक औरसः" इति । ततः पुत्रोऽधिकारी, सोऽपि मुख्यो गौणश्च, तदभावे पल्यादि, तदपि पौत्राद्यभावे। "पौत्रश्च पुत्रिकापुत्रः स्वर्गप्राप्तिकरावुभौ । रिक्थे च पिण्डदाने च समौ तौ परिकीर्तितौ” इति । गुरु पौत्रं गौणपुत्रसमानमुक्तावनिति सर्वमुक्तम् । इति श्रीमल्लक्ष्मीनृसिहचरणयुगलसरोरुहभ्रमरसकलभूमण्डलमण्ड- नसमस्तयवनाधीश्वरश्रीनिजामशाहसाम्राज्यधुरन्धरश्रीमन्म- हाराजाधिराजश्रीदलपतिराजविरचिते श्रीनृसिह- प्रसादे श्राद्धसारे श्राद्धाधिकारिनिरूपणम् ।

श्राद्धसारे जीवत्पितृकश्राद्धम् । अथ जीवत्पितृकश्राद्धाधिकारोऽभिधीयते । तत्र मैत्रायणीयगृह्यपरिशिष्टनिष्ठं विशिष्टं विधिवाक्यम्- "उद्वाहे पुत्रजनने पित्र्येष्टया सौमिके मखे । तीर्थे ब्राह्मण आयाते षडेते जीवतः पितुः" इति । षट्सङ्ख्या हि सङ्ख्येयपरिच्छेदं कुर्वती सङ्ख्येयाव- ता बोधयन्ती ततोऽन्यत्रानावश्यकतां सूचयति । उद्वाहोत्र द्वि- ऽभिमतः । तत्र पुत्रस्यैवाधिकारात् । तदुक्तमभियुक्तः- "नान्दीश्राद्धं पिता कुर्यादाये पाणिग्रहे बुधः । अत उर्ध्व प्रकुर्वीत स्वयमेव तु नान्दिकम्" इति । प्रथमे च पितुरेवाधिकारः । तदुक्त कर्मप्रदीपे- "स्वपितृभ्यः पितादद्यात्सुतसंस्कारकर्मसु । पिण्डानोद्वहनात्तेषां तस्याभावे तु तत्क्रमात् इति"। पिण्डशब्देन लक्षणया श्राद्धमुच्यते । पिण्डदोंऽशहर,चैषामि- त् । पिता मुतसंस्कारकर्मसु गर्भाधानादिविवाहान्तेषु पिण्डा- न्दीश्राद्धानि स्वपितृभ्यो दद्यात् । तेषां सुतानामोद्वहनात् आ हनम् विवाहमभिव्याप्येत्यर्थः । तया च स्मरति पाणिनि -आड् दिाऽभिविध्योः" इति । शास्त्रान्तरपर्यालोचनयाऽप्यत्राभि- पावाड् । स्वसुतविवाहे स्वपितृभ्यो दद्यादित्युक्तं भवति । तीयविवाहे प्रथमोद्वाहेन संस्कृतस्य संस्कार्यत्वाभात्वात् । आश्र- मो युज्यते न चेत्पत्नीसहितः, पुत्रार्थ एवेति स्वपितृभ्यः पितेति त्रयस्यार्थ । ततः प्रकृते वचने उद्वाहे द्वितीये विवाह इत्येव रम- २२ नृसिहप्रसादे णीयम् । पित्र्येष्ट्यां साकमेधमहापितृयज्ञे, सौमिके मखे तातीर्यस- वनिकैः पुरोडाशखण्डैः स्वयजमानपितृभ्यो यत् क्रियते तत्रेति । - स्पष्टमन्यत् । जीवतः पितुः इतीदं वचनं तेषामेव शाखिनां साग्निकानामेतदुक्तम्- "न जीवत्पितकः कुर्याच्छाद्धमग्निमृते द्विजः । येभ्य एव पिता दद्यात्तेभ्यः कुर्वीत साग्निकः" इति । ततो वराहसूत्रोपजीविना जीवत्पितृकाणां सानिकानामेव षट्स्वेतेषु श्राद्धेषु नान्येषामिति । यतस्तत्र गृह्यपरिशिष्ट श्रवणात् , अतस्तेषामेवेति सिद्धम् । तथा अन्येषामपि जीवत्पितफाणा नान्दीश्राद्धे नाधिकार इत्यभिधीयते, तथा च कात्यायन:- "सपितुः पितृकृत्येषु त्वधिकारो न विद्यते । न जीमन्तमतिक्रम्य किञ्चिद्दद्यादिति श्रुतेः" इति । अयमर्थ. -पितृकृत्येपु श्राद्धेषु पितामहादिसम्बद्धष्विति । सह पित्रा यो वर्तते तस्य सपितुः । अन्या च स्मृति:-"पित्र्यं जीवत्पितु!क्तम्" इति । होमोऽपि पाक्षिकः-"न जीवन्तमतिक्रम्य किञ्चिद्दद्यादिति श्रुते" । अत एव सुमन्तु. "न जीवत्पितृकः कुर्याच्छ्राद्धमग्निमृते द्विजः । येभ्य एव पिता दद्यात्तेभ्यः कुर्वीत साग्निकः ।। पिता पितामहेऽप्येव कुर्याज्जीवति सानिकः । साग्निकोऽपि न कुर्वीत जीवति प्रपितामहे" इति । - तथा- "कन्यापुत्रविवाहेषु प्रवेशे नववेश्मनाम् ।

- श्राद्धसारे जीवपितृकश्राद्धम् । २३ नामकर्मणि बालानां चूडाकर्मादिके तथा ।। सीमन्तोन्नयने चैव पुत्रादिमुखदर्शने । नान्दीमुखं पितृगणं पूजयेत्प्रयतो गृही" ।। इत्यादि वचनजातस्य कथमस्मिन्पोऽर्थवत्वम् ? सत्यं, वृद्धि- श्राद्धं तावदित्थं मातृमातामहसम्बन्धिश्राद्धद्वय कुर्यात् , पितृना- न्दीमुखे नाधिकारो न जीवमन्तमतिक्रम्येत्याधुक्तेः । तथा- "नानिष्ट्वा तु पितॄन् श्राद्धे वैदिकन्तु समाचरेत्" इति । पितरि जीवति मातरि च जीवन्त्यामेके मातामहश्राद्धेषु देवपितृमा- तृमातामहेषु त्रिष्वपि जीवत्सु केवलं मातृमातर एव पूज्यन्ते । ततः का- त्यायन-मतोक्तं पतिजीविना जीवत्पितृकाणां सानीना निरनीनामपि मैत्रायणीसूत्रातिक्रमो नास्तीति वृत्तम् । अथाश्वलायनाना जीवपितृकाणा नान्दीमुखनिर्णयः संक्षेप- तोऽभिधीयते । तत्र तत्सूत्रेऽनेके पक्षाः । तत्र गणिगारि-सम्मतः पक्षः । येषां पितृपितामहानां ये प्रेताः तत्तदुद्देशेन पिण्डान्निपृणु- यात् । जीवतान्तु प्रत्यक्षमर्चनम्, अस्य कर्मणः पित्रर्थत्वात् । अथ तौल्वलिसम्मतोऽयं पक्ष-यद्यपि जीवान्तर्हिताः, तथाऽपि पितृभ्यः प्रेतेभ्य एव दद्यादिति न जीवतामर्चा, निषिद्धत्वात् । तथोक्तं भविष्यति- "प्रत्यक्षमर्चनं श्राद्धे निषिद्ध मनुरब्रवीत् । पिण्डनिर्वपणं वापि महापातकसम्मितम्" इति । अथ गौतममतम् । पित्रादीनां त्रयाणां मध्ये जीवतोऽपि पिण्ड- दानमिति । एवं परस्यरविरुद्ध पक्षत्रयम् । अत्राय तात्विकः २४ नृसिहप्रसादे सिद्धान्तः यदवादि परेभ्यो दद्यादिति तदसम्बद्धं न कर्तव्यम् । यदवादि गणगारिणा पित्रर्थत्वात्कार्यमिति तदपि न, अनधिका- रित्वात् । यदवादि तौल्बलिना जीवादन्तहितेभ्यो न निपृणुयादिति तन्न । उक्तहेतोः । यदवादि जीवद्भयो न निपृणुयादिति, तदपि न, उक्तहेतोः । ततश्च प्रत्यक्षार्चनमपि ततो न कार्यम् । अनधिकारिणा यदवादि जीवेभ्योऽपि निपृणुयादिति तदप्यसत् , प्रागुक्तादेव हेतोः। यदप्युक्तं जीवान्तर्हितेभ्यो निपृणुयादिति तदपि न, उक्तादेव हेतोः। अत्रायमनुष्ठानक्रमः-ये हि पितृत्रये भवन्ति तेभ्यः पिण्डान्दद्याज्जुहु- यात् । एतेभ्य एव बर्हिषि निपृणुयादिति । यस्य तु सर्वे जीवन्तो भवन्ति तस्य सर्वहुतं हविर्भवेत् । अथ छन्दोगाना निर्णयः । तत्र कात्यायन - "सपितुः पितृकल्पेषु अधिकारो न विद्यते" इति । अथ मातामहश्राद्धमभिधीयते, तदपि जीवत्पितकककमेव । इदं चाश्विनशुक्लप्रतिपदि शिष्टाचारादनुष्ठेयम् । शिप्राचर्य- माणानां सतां गोदोहनादिवत्फलसम्बन्धमप्राप्त बोधयच्छ्रास्त्रमर्थ- वदिति तस्यापि प्रमाणमभिधानात् । अत एवावश्यकम्- "मातुः पितरमातरभ्य त्रयो मातामहाः स्मृताः । तेषां तु पितृवच्छ्राद्धं कुर्युर्दुहितृसूनवः" इति पुलस्त्यस्मरणात् । पितृवदित्यनेन पार्वणविध्यन्तवत्ता मुचिता। अत्र विशेषवचनानि पुराणेषूपलभ्यन्ते-- "कृत्वा तु पैतृकं श्राद्ध पितृप्रभृतिषु त्रिषु । कुर्यान्मातामहाना च तथैवाढण्यकारणात्" इति ।

श्राद्धसारे मातामह श्राद्धाधिकारिनिर्णयः ।
२५
व्यासः
-
"पितॄन् पितामहांश्चैव द्विजः श्राद्धेन तर्पयेत् ।
आनृण्य स्यापितॄणां च ब्रह्मलोकं च गच्छति इति ।
आनृण्यग्रहणं नित्यता ख्यापयति ।
तथा-
"पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम् ।
अविशेषेण कर्तव्यं विशेषानरकं ब्रजेत्" इति ।
इदं च वचनजातममावास्यादिविहितपितृश्राद्धविहितमाता-
महश्राद्धविषयं वेदितव्यम् , ततश्चामावास्यादौ संक्रान्त्यादौ गया-
दितीर्थादौ वा यत्र कचित्पैतृकं श्राद्धं तत्र माताहामहश्राद्धं कार्य
मित्यर्थः । इदं कचिदपवदति कातीय वच
"कसमन्वितं मुक्त्वा तथाद्यं श्राद्धषोडशम् ।
प्रत्याब्दिकं च शेषेषु पिण्डाः स्युः षडिति स्थितिः" इति ।
कपूंसमन्वित सपिण्डीकरणम् । श्राद्धषोडशग्रणमेकोद्दिष्टो-
पलक्षणार्थम् । एवं च यन्मातामहश्राद्धं पितृश्राद्धे विहितं तत्रैव
दोषानृण्ययोरभिधानात् तदेव सर्व दौहित्रसाधारणम् । यच्च
पुनर्धनहारिदौहित्रा ऽऽश्विने क्रियमाण तत् जीवत्पितकविषयमिति
तत्वम् । स नवश्राद्धाद्यपि कुर्यात् । एवं यो हि यत आददीत स
तस्मै दद्यादिति स्मरणात् । तथा च स्कन्द
"श्राद्धं मातामहाना तु अवश्यं धनहारिणा ।
दौहित्रेणार्थनिष्कृत्यै कर्तव्यं विधिवत्सदा" इति ।
४श्रा०

-- . २६ नृसिहप्रसादे अथैवं मन्यसे- "कुर्यान्मातामहश्राद्ध नियमात्पुत्रिकासुतः । उभयोरर्थसम्बन्धात्कुर्यात्स उभयोरपि" ॥ इति वाक्यादौहित्रस्योभयसम्बन्धात् उभयोरप्यसौश्राद्धं कुर्यात् , इदमसत् , अनवगगेः। तथा हि नायमस्य वाक्यस्यार्थः। कस्तर्हि, अय- मेवम् , द्विविधो हि पुत्रिकापुत्रः।एको हि मातामहेन सम्बद्धः, अपरः पुनः पितृमातामहाभ्यामिति, तत्र प्रथमो मातामहश्राद्धं नियमेन कुर्यात् , पितृश्राद्धमिच्छया । इतरस्तूभयोरपीति । अतो नाबानियमः । "दौहित्रो ह्यखिलं रिक्थमपुत्रस्य पितुर्हरेत् । स एव दद्याद् द्वौ पिण्डौ पित्रे मातामहाय च"इति (६।१३२) मानवीयवचनं धनहारिदौहित्रस्यैव नवश्राद्धौदैहिककर्त- व्यता नेतरस्येति प्रतिपादयति । तथा- "मातामह्यं तु मात्रादि पैतृकं पितृपूर्वकम् । मातृतः पितृतो यस्मादधिकारोऽस्ति धर्मतः ॥ सगोत्रोवाऽसगोत्रो वा यो भवेद्विधवासुतः । पिण्डश्राद्धविधानं च क्षेत्रिणे प्राग्विनिर्वपेत् ॥ बीजिने तु ततः पश्चात्क्षेत्री जीवति चेत्पृथक् । बीजिने दारादौ तु मृते पश्चात्प्रदीयते" इति । इति श्रीमल्लक्ष्मीनृसिहचरणसरोरुहभ्रमरसकलभूमण्डलमण्डन सम- स्तयवनाधीश्वरश्रीनिजामसाहसमस्तसाम्राज्यधुरन्धरश्रीमन्महा- राजाधिराजश्रीदलपतिराजविरचिते श्रीनृसिंहप्रसादे श्राद्ध- सारे मातामहश्राद्धाधिकारनिर्णयः ।

- श्राद्धसारे ऽपराह्णनिर्णयः । अथापरालनिर्णयोऽभिधीयते । यद्यप्यमावास्यादौ श्राद्धं विहित तथापि तदमावास्याया- मपराह्ने कर्तव्यमिति । "अमावास्यायामपराह्ने पिण्डपितृयज्ञेन यजेतेगति श्रुते । स्मृतेश्च । तथा हि स्मरति शातातप. "दर्शश्राद्धं तु यत्प्रोक्त पार्वणं तत्प्रकीर्तितम् । अपराले पितॄणा तु तत्र दानं प्रशस्यते” इति । अपराणश्च पञ्चधाविभक्तस्याश्चतुर्थों भाग उच्यते- "मुहूर्तत्रितयं प्रातस्तावानेव तु सङ्गवः । मध्याह्नस्त्रिमुहूर्तः स्यादपराह्नोऽपि तादृशः ।। सायाह्नस्त्रिमुहूर्त. स्यात्सर्वधर्मबहिष्कृतः" इति व्यासस्मरणात् । न तु कदाचिद् द्वेधा विभक्तस्याह्नो द्वितीय- भागेपराहशब्दः प्रयुज्यते । "यथा चैव परः पक्ष पूर्वपक्षाद्विशिष्यते । तथा श्राद्धस्य पूर्वाह्लादपराहो विशिष्यते इति ॥ तथा- - आवर्तनात्तु पूर्वाह्नो ह्यपरालस्ततः परम्" इति । अर्थस्तु आवर्तनादधः पूर्वाह्न इति । तथा कचित्रिधा विभक्त- स्याहस्तृतीयो भागोऽपरा इति। तथा-"पूर्वाल्लो वै देवानामपराह: पितॄणा मध्यन्दिनो मनुष्याणा''मिति । वाजसनेयिकेऽपि-"प्रा- दित्यस्त्वेव सर्वऋतवः स यदैवोदेत्यथ वसन्तः यदा सङ्गवोऽथ २८ नृसिंहमसादे ग्रीष्मो यदा मध्यन्दिनोऽथ वर्षा यदाऽपरास्तदा शरद् यदाऽ- स्तमेत्थथ हेमन्त इति (श. ब्रा. २।२।२।८)। ततश्चाऽनेकधापराल- शब्दप्रयोगे कथं निर्णय इति चेत्-सत्यं, भवत्येव सन्देहस्तथापि सर्वसम्मतपरमर्षिवेदप्रवक्तसाक्षाद्धर्मोपदेष्टमनुप्रणीता द्वित्राः पक्षाः स्वीकार्याः । "शुक्लपक्षस्य पूर्वाले श्राद्धं कुर्याद्विचक्षणः । कृष्णपक्षापराह्ने तु रौहिणं न तु लङ्घयेत्" इति मार्कण्डयेन द्वेधा विभक्तस्यान्हो द्वितीये भागे श्राद्धस्यविधेः। तथा "रौहिण न तु लड्चयेत्” इति चतुर्थादिभागादर्वागेव समाप्ति- विधानाच्च रौहिणो हि नवमो मुहूर्तः । अपि च- "भूतविद्धाऽप्यमावास्या प्रतिपन्मिश्रिताऽपि वा पित्र्ये कर्मणि विद्वद्भिाडा कुतुपकालिकी" इति । यदपि हारीतः श्राद्धाङ्गत्वेन कुतुपकालं विधते, तदपि अनुपपन्न न स्यात् । मनुना तेन कुतुपकालस्य श्राद्धाङ्गत्वमम्यते । तत्र कुतुपकालग्रहणविधानात् इष्टार्थत्वोपयोगस्यैवोचित्यात् । दुक्तं स्कन्दपुराणे- "कुर्यत्र गोपतिर्गोभिः कात्स्न्येन तपति क्षणे । स कालः कुतपो नाम श्राद्धं तत्र प्रदीयते” इति । कुः पृथिवी । गोपतिः सूर्यः। अत्र केचिद्वदन्ति-ननु "एको- दिष्ट तु मध्यान्हे" इति बचनात् एकोद्दिष्टविषय एव हि कुतुपकाल- विधिः तच्च दर्शऽपि कुतुपविधेरपास्तम् । अपरे-कुतुपकालविधा- त- श्राद्धसारे अपराह्न । स्य एकोद्दिष्टविषयतां मन्यन्ते। "एकोद्दिष्टन्तु मध्यान्ह" इति वच- त् । केचिन्नवश्राद्धविषयतां मन्यन्ते-"मध्यान्हो वै मनुष्याणा- "ति श्रुतेः। सपिण्डीकरणात्पूर्वमपितृरूपत्वाच । इदं चास्माभिः कालनिर्णयसारे विस्तरेण प्रपञ्चयिष्यते नेह न्यैरपि विस्तरेण प्रपञ्चितं तदपि मृग्यम् । न चैवं सर्वकुतुपा- रान्हविध्योर्विकल्प इति मन्तव्यम् । कुतुपोत्तरार्धस्य अर्धापराला वर्भावात् । कुतुपो हि पञ्चदशमुहूर्तात्मकस्याष्टमो मुहूर्तः । "अन्हो मुहूर्ता विज्ञेया दश पञ्च च सर्वदा । तत्राष्टमो मुहूर्तो यः स कालः कुतपः स्मृतः" इति । ततश्च यदपगले विहितं तदपराणान्तर्गतकुतुपे कर्तव्यमिति वधीयते निर्णय इति । तस्मान्न कश्चिद्विरोधः । अन्यथा किश्चि- कुतपे कर्तव्यमिति कश्चिद्विधत्ते, परः पुनः “रौहिणं न तु लङ्घये" दति रौहिणे । ततः परस्तु अपराले कर्तव्यति स्पष्ट एव विरोधो वेदिति । मत्स्य "मध्यान्हे सर्वदा यस्मान्मदी भवति भास्करः । तस्मादन्तफलदस्तत्रारम्भो विशिष्यते" इति । - तथा ह गौतम - "प्रारभ्य कुतुपं श्राद्धं कुर्यादा रौहिण बुध । विधिज्ञो विधिमास्थाय रौहिणं न तु लघयेत्"इति ॥ इदं हि कुतुपे श्राद्धविधानमनग्निकविषयम् , साग्नेरनुष्ठित - नृसिहप्रसादे पिण्डपितृयज्ञस्यैवैतदिति । तदाह कात्यायन "पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान । पिण्डान्वाहार्यकं श्राद्धं कुर्यात्पश्चात्तु मासिकम्" इति । इति श्रीमल्लक्ष्मीनृसिंहचरणयुगलसरोरुहभ्रमरसकलभूमण्डन मण्ड- नसमस्तयवनाधीश्वर श्री निजामसाह समस्तराज्य धुरन्धर श्री- मन्महाराजाधिराज श्रीदलपतिराजविरचिचे श्रीनृसिं- हप्रसादे श्राद्धसारेकालनिरूपणम् । - अथ पात्रनिरूपणम् । देशे काले च पात्रे चेत्याद्यभिहितम् । तत्र देशः दक्षिण- प्रवणादिः, कालोऽपराह्लादिः । अथ पात्रम्-तथा च सत्यत्रत "पितृप्रीतिनिमित्तानि द्रव्यं पात्रं सुतो विधिः । प्रधान पात्रमेतेषा पात्रासिद्धौ पतेदधः" इति पात्रस्याहवनीयस्थानीयत्वात्तत्सिद्धौ महान् यत्नः कर्तव्य इत्यवसीयते । तत्र पात्रशब्दव्युत्पत्तिः सत्यव्रतोक्ता- "परे यत् हव्यकव्यानि स तारयति दैवतम् । तेनापात्रे प्रदानं यद् गच्छेत्तन्नैव दैवतम्" इति । तत्र पात्रप्रशंसा योगिनोक्ता- "तपस्तप्त्वाऽमृजद् ब्रह्मा ब्राह्मणान्वेदगुप्तये । तप्त्यर्थ पितृदेवानां धर्मसंरक्षणाय च" इति ।

-- श्राद्धसारे पात्रनिर्णयः। ३१ ब्रह्मा हिरण्यगर्भः ब्राह्मणानसृजतत् कल्पादौ तपस्वप्त्वा, किमर्थ वेदरक्षार्थ पितॄणां देवतानां तृप्त्यर्थ, तद्वारा धर्मसंरक्षणार्थ च । अतस्तेभ्यो दत्तमक्षयफलमिति भावः । तथा- "सर्वस्य प्रभवो विभाः श्रुताध्ययनशालिनः । तेभ्यः क्रियापराः श्रेष्ठास्तेभ्यो ह्यध्यात्मवित्तमाः" इति । सर्वक्षत्रियाद्यपेक्षया उत्कृष्टत्व जातिकर्माभ्या श्रेष्ठ्यं, तत्र ब्राह्मणाः श्रेष्ठाः श्रुताध्ययनसम्पन्नाः, तेभ्योऽपि क्रियापराः विहिता- नुष्ठानशालिनः । तेभ्योऽप्यध्यात्मवित्तमाः। शमदमादितत्वेनात्म- ज्ञाननिरताः श्रेष्ठाः, ततश्च जातिविद्याधनुष्ठानतपसां समुच्चयः पात्रता- सम्पत्तिहेतुः। प्रत्येकमपि हेतुतेति केचिन्मन्यन्ते । अपरे तु-वृत्त- विद्यातपांसि पात्रतासम्पादकानीत्याह । तदाह- "न विद्यया केवलया तपसा वापि पात्रता । यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रकीर्तितम्" इति । वृत्तमनुष्ठानम् । तत उक्तलक्षणे पात्र एव देयता, पात्रे गो- भूतिलहिरण्यादि दातव्यमिति । "ना पात्रे विदुषा किंचिदात्मनः श्रेय इच्छता"। इति स्मरणात् । छागलेयोऽपि-- "सर्वलक्षणसंयुक्त विद्याशीलगुणान्वितैः । पुरुषत्रयविख्यातैः सर्व श्राद्धं प्रकल्पयेत्।। इति । - ३२ नृसिहप्रसादे तथा पुराणे- "जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शुचिः । वेदाध्ययनसम्पन्नः षट्सु कर्मस्ववस्थितः ॥ शौचाचारस्थितः सम्यग्विघसाशी गुरुप्रियः । नित्यं व्रती सत्यपरः स वै ब्राह्मण उच्यते"। मनु -"न ब्राह्मणं परीक्षेत दैवे कर्मणि धर्मवित् । तपः श्रुतं च योनिश्च ह्येतद् ब्राह्मण्यकारणम् ॥ सत्यं दानं दमो द्रोहमानृशंस्यं क्षमा घृणा । तपश्च दृश्यते यत्र स ब्राह्मण इति स्मृतः" इति (३११४६)। आनृशंस्यमक्रूरत्वम् । हारीत--"कुलीनाः श्रुतशीलवन्तो वृत्तस्थाः सत्यवादिनोऽ- व्यङ्गा ब्राह्मणाः कर्तव्या" इति । मनुस्तु देवे श्राद्धब्राह्मणस्या- परीक्षणीयत्वमुक्तवान् । तथा हि-- "न ब्राह्मणं परीक्षेत दैवे कर्मणि धर्मवित् । पित्र्ये कर्मणि सम्प्राप्ते परीक्षेत प्रयत्नतः" इति । श्राद्धे भोजयेदित्युपक्रम्य गौतमः- "हविष्षूचितान् ब्राह्मणान् भोजयेदिति श्राद्ध विवेके । हविःषु हव्येषु दैवेष्विति यावत् । -- मनु:- "श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः । अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम्" इति (३११२८)।

श्राद्धसारे ब्राह्मणनिर्णयः ।
तथा-
"अश्रोत्रियाय दत्तं हि पितृभिनॆति देवताः" इति ।
मत्स्यपुराणे-
"अर्थज्ञो वेदविन्मन्त्री ज्ञानवशकुलान्वितः ।
पुराणवेत्ता सर्वज्ञः स्वाध्यायजपतत्परः॥
शिवभक्तः पितृभक्तः सूर्यभक्तोऽथ वैष्णवः ।
ब्रह्मण्यो योगविच्छान्तो विजितात्माऽथ शीलवान्" इति ।
श्राद्धे नियोज्य इति शेषः ।
मनु:--
"गायत्रीमात्रसारोऽपि वरं विप्रः सुयन्त्रितः ।
नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी" इति ।
व्यास
-
"चीर्णव्रता गुणैर्युक्ता भवेयुर्येच धार्मिकाः ।
सावित्रीज्ञाः क्रियावन्तस्ते राजन् केतनक्षमाः॥
सावित्री तु जपेद्यस्तु द्विकालं भरतर्षभ ।
भैक्षत्तिः क्रियावांश्च स राजन् केतनतमः" इति ।
केतनमत्र निमन्त्रणमभिप्रेतम् । क्षमो योग्यः ।
मत्स्य:-
"गायत्रीजप्यनिरतं हव्यकव्ये नियोजयेत् ।
पापं तिष्ठति नो तस्मिन् अबिन्दुरिव पुष्करे" इति ।
पुष्करं पद्मपत्रम् ।
५ श्रा०

नासहप्रसादे
इति ।
तथा ब्रह्मण्डपुराणे-
"शिखिभ्यो धातुरक्तेभ्यस्त्रिदण्डिभ्यश्च दापयेत्'
ब्रह्मचारिणः शिखिनः, धातुरक्ताः धातुरक्तवस्त्रधारिणो
वनस्थाः । तत्र पूर्व यतिः श्रेष्ठः, ततो वानप्रस्थः, ततो ब्रह्मचारी,
ततो गृहस्थ इति ।
--
-
तदाह नारद
"यो वै यतीननादृत्य भोजयेदितरान् द्विजान् ।
विदुषो वसतो ग्रामे कथं तद्याति राक्षसान्" इति ।
ग्रामे स्वग्रामे वसतो यतीन् तेषामनादरेण य इतरान् द्विजान्
भोजयेत् तदीयं कव्य पित्रर्थ सङ्कल्पितमपि राक्षसानेव याती-
ति भावः।
तथा च ब्रह्माण्डपुराणे-
"अलाभेऽद्यातितिषणा भोजयेद् ब्रह्मचारिणम् ।
तदभावे ह्युदासीनं गृहस्थमपि भोजयेत्" इति ।
तथा पितृगाथा श्रूयते--
"अपि स्यात्स कुले जन्तुर्भोजयेद्यस्तु योगिनम् ।
विप्रश्राद्ध प्रयत्नेन तेन तृप्यामहे वयम्" इति ।
यः प्रयत्नेन भोजयेदित्यादरार्थम् । तथा च पुराणम्-
"गृहस्थानां सहसेण वानप्रस्थशतेन च ।
ब्रह्मचारिसहस्रेण यो योगी स विशिष्यते' इति ।
तथा च पद्मपुराणे-
"साङ्गांस्तु चतुरो वेदान् अधीते सम्यगर्थवित् ।
-
.

श्राद्धसारे ब्राह्मणनिर्णयः । ३५ जन्मवान् कर्मसंशुद्धः स श्राद्धे प्रथमो मतः" इति । शातातप. "योगिनं भोजयेन्नित्य दृष्टतत्व मनीषिणम् । तेषा तु दत्तमक्षय्य भवतीति न संशयः" इति । ये तु योगिनो वृत्ते स्थितास्त एव भोज्या न स्वरूपेण । तदुक्तम्- "ये तु वृत्तस्थिता नित्यं ज्ञानिनो ध्यानिनश्च ये' इति । अनेन योगशास्त्रपाठमात्ररतस्य पञ्चमहापातकयुक्तस्याभोज्यत्व- मुक्तम् । वस्तुज्ञाननिष्ठस्य ध्याननिष्ठस्य मद्यपानादौ प्रवृत्यभावा- दिति ततो ज्ञानध्यानयुक्तो भोज्यः । आत्मादिस्वरूपपरिस्थिति- शानं विजातीयबुद्धिहान्यात्मसाक्षात्कारे-छागलेय "सर्वारम्भनिवृत्ताना यतीना दत्तमक्षयम् । सततं योगयुक्ताना वीतरागतपस्विनाम्" इति । - यम. "यतये वीतरागाय दत्तमन्न सुपूजितम् । न क्षीयते श्रद्धया ऽपि कल्पकोटिशतैरपि ॥ योगिन समतिक्रम्य गृहस्थ यदि भोजयेत् । न तत्फलमवाप्नोति स्वर्गस्थानपि पातयेत् ।। योगिनं तु परित्यज्य पूजयन्ति परस्पम् । दाता भोक्ता च नरक गच्छन्ति सह बान्धवैः। इति । अत्र सततयोगयुक्तादि यतिविशेषणान्येकदण्डिविषय एव समीचीनानि ।

३
सिहासादे
तथा-
-
"नास्तिको वा विकर्मा वा सङ्कीर्णस्तस्करोऽपि वा
नान्यत्तु कारणं दाने योगिष्वाह प्रजापतिः ॥
पितरस्तस्य तुष्यन्ति सुवृष्टेनेव कर्षकाः ।
पुत्रो वाऽप्यथवा पौत्रो ध्यानिनं यस्तु भोजयेत् ।।
यतिस्तु सर्वविप्राणां सर्वेषामग्रभुग्भवेत्" इति ।
केचिद् गुणत्तवरा ब्रह्मपुराणे दर्शिता:-
"चतुर्दशाना विद्यानामेकस्या अपि पारगः ।
यथावद्वर्तमानश्च सर्वे ते पङ्क्तिपावनाः ।।
ये तु भाष्यविदः केचित् ये च व्याकरणे रताः ।
अधीयानाः पुराण च धर्मशास्त्रमथापि वा ॥
अक्रोधनाः क्षान्तिपरास्तान् श्राद्धेषु निमन्त्रयेत्” इति ।
तथा-
-
बार्हस्पत्य नीतिशास्त्र शब्दविद्या च वेत्ति यः ।
इतिहासपुराणैश्च यः पवित्रीकृतः सदा ॥
अकृत्यमपि कुर्वाणः स पवित्रशताद्वरः ।
बहुनान किमुक्तेन इतिहासपुराणवित् ।।
अथर्वशिरसोऽध्येता तावुभौ पितृभिः पुरा ।
तपः कृत्वा तु योगात्तु प्रार्थितौ पितृकर्मणि" इति ॥
वृद्धशातातप.
"ज्ञानी यस्य गृहेऽश्नाति उदक वा पिबेद्यदि ।
कुत तेन महत् कृत्यं तारितं च कुलत्रयम् ।।

३७ श्राद्धसारे ब्राह्मणनिर्णयः। योगिनं समतिक्रम्य गृहस्थ यदि भोजयेत् । तत्तत्कुलमवाप्नोति स्वर्गस्थमपि पातयेत् ॥ योगिनं तु व्यतिक्रम्य पूजयन्ति व्यतिक्रमम् । भोक्तारस्तु सदाचारा नरके स्युः सबान्धवाः" इति । आपम्तम्ब:- "अपात्योपहता पङ्किः पाव्यते यैर्द्विजोत्तमैः । तान् निबोधत कार्येन द्विजाय्यान् पड्पिावनान् ॥ अय्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च । श्रोत्रियान्वयजाश्चैव विज्ञेयाः पड्पिावनाः॥ त्रिणाचिकेतः पञ्चाग्निः त्रिसुपर्णः षडङ्गवित् । ब्रह्मदेयानुसन्तानो ज्जेष्ठसामग एव च ॥ वेदार्थवित्प्रवक्ता च ब्रह्मचारी सहस्रदः । शतायुश्चैव विज्ञेयाः ब्राह्मणाः पड्पिावनाः” इति । ब्रह्मदेयानुसन्तानः ब्राह्मविवाहोढा पुत्रः । सहसद इति गवा सुवर्णस्य चेति ज्ञेयम् । अत्र पैठीनसि:- "अथातः पङ्गिपावना भवन्ति त्रिणाचिकेतस्त्रिमधुत्रिसुपर्णश्चीर्ण- व्रतः छन्दोगो ज्येष्ठसामगः ब्रह्मदेयाऽनुसन्तानः सहस्रदो वेदाध्यायी चतुर्वेदः षडङ्गवित् अथर्वशिरसोऽध्यायी पञ्चाग्निर्वेदजापो चेति, तेषामेकैकः पुनाति पशिनियुक्तो मूर्द्धनि सहस्रैरप्युपहतामिति । यमः "ये सोमपा विरजसो धर्मज्ञाः शान्तबुद्धयः ।

३८
नृसिहप्रसादे
व्रतिनो नियमस्थाश्च ऋतुकालाभिगामिनः ॥
पञ्चागिरप्यधीयानो यजुर्वेदविदेव च ।
बढचश्च त्रिसौपर्णः त्रिमधुर्वा ऽथ यो भरेत् ॥
त्रिणाचिकेतो विरजाः छन्दोगो ज्येष्ठसामगः ।
अथर्वशिरसोऽध्येता सर्वे ते पङ्गिपावनाः॥
शल:-
"ब्रह्मदेयानुन्तानो ब्रह्मदेयापदायकः ।
ब्रह्मदेयापतिश्चैव ब्राह्मणाः पड्पिावनाः ॥
यजुषां पारगो यश्च साम्नां यश्चापि पारगः ।
अथर्वशिरसोऽध्येता ब्राह्मणाः पङ्गिपावनाः ॥
चान्द्रायणव्रतस्थो यः सत्यवादा पुराणवित् ।
निवासः सर्वविद्यासु शान्तो विगलकल्मषः ॥
गुरुवेदामिपूजासु शान्तो विगतकल्मषः ।
नित्यं योगपरः सिद्धः समलोष्टाश्मकाञ्चनः ।।
ध्यानशीलो यतिर्विद्वान् ब्राह्मणाः पड्पिावनाः" इति ।
यस्य स्थितिरविच्छिन्नवेदा, अविदितायोनिसङ्करत्व पारमार्थ्य
चेति हारीत ।
मनुना कल्पान्तरक्तम्-
काम श्राद्धेयेन्मित्र नाभिरूपमपि त्वरिम् ।
द्विषता हि हविर्भुक्त भवति प्रेत्य निष्फलम्" (३।१४४) इति।
अभिरूपमपि द्विद्वांसमपीति यावत् । काममित्युक्तरनुकल्पता प्रती-
यते । अयमनुकल्पः पूर्वोक्तकल्पालामे द्रष्टव्यः ।

श्राद्धसारे पात्रनिर्णयः। "न श्राद्ध भोजयेन्मित्रं धनैः कार्योऽस्य संग्रहः । नारि न मित्रं यं विद्यात्तं श्राद्धे भोजयेद् द्विजम् ।। यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च । तस्य प्रेत्य फल नास्ति श्राद्धेषु च हविष्षु च" इति निन्दार्थवादादपि नायं पक्षः साधीयानिति । एतादृश- विप्रेषु सदाचारवैकल्पदर्शनेऽपि निन्दा न कार्या । तदुक्तम्- "युगे युगेषु हि धर्मास्तेषु तेषु च येद्विजाः । तेषां निन्दा न कर्तव्या युगरूपा हि ते द्विजाः" इति । तथा भविष्येऽमि- "वैश्वदेवेन ये हीना आतिथ्येन च वर्जिताः । ते सर्वे वृषला ज्ञेयाः प्राप्तवेदा अपि द्विजाः" इति ॥ तस्मादमन्त्रं परित्यजेत् , मन्त्रज्ञं भोजयेदिति युक्तम् । "एकैकमपि विद्वांस दैवे पित्र्ये च भोजयेत् । पुष्कलं फलमानोति नामन्त्रज्ञान् बहूनपि" ॥ इति स्मरणात् ( मनु० ३.१२६ )। "सहस्रं हि सहस्राणामतृचां यत्र भुञ्जते । एकस्तान्मत्रवत्पीतः सर्वानहति धर्मतः” इति । अनृचामग्विदामवेदार्थविदामुपलक्षणमृचः, यतो हि ते प्रा- ता एव न सन्ति 'श्रोत्रियाय" एवेति नियमात् (मनु० १२८)। छान्दसत्वादेकवचनम् ।

- - नृसिहप्रसादे देवल "त्रिशुक्लः कशत्तिश्च घृणालुः सकलेन्द्रियः । विमुक्तो योनिदोषेभ्यो ब्राह्मणः पात्रमुच्यते" इति । त्रिशुक्लपदश्च तेनैव व्याख्यातम्- "एवमन्वयशीलाभ्यां वृत्तेन च समुच्छ्रिताः । त्रिशुक्ला नाम विप्रेन्द्राः पूज्यन्ते दैवतैरपि" इति । सतो जन्मावाप्तिरन्वय इत्यभिधीयते, विनयादिसम्पच्छीलं, सतां वृत्तं शौचाचाराद्यात्मकम् । एतैत्रिभिः सुगोपितैरन्विताः त्रिशु- क्ला अभिधीयन्ते। ते च दुर्लभाः, अत उक्तं दैवतैरपि पूज्यन्ते इति। मनुः- "अग्न्याः सर्वेषु वेदेष्विति । अयमर्थ---सर्वेषु वेदेषु अग्यजुःसामसु संशयानुपत्तिं विधातुं क्षमा इति अग्रयाः । न केवल वेदेषु अपि तु प्रवचनेषु अपि पोच्यन्ते व्याख्ययन्ते यैर्वदास्तानि प्रवचनान्यमङ्गानि निरुक्त- व्याकरणादीनि, तेष्वग्रया इति । न केवलमग्रयाः, अपि तु श्रो- त्रियान्वयजाश्चेद् भवन्ति ते पतिपावना इति । तथा योगियाज्ञवल्य "अग्र्याः सर्वेषु देवेषु श्रोत्रियो ब्रह्मविद्युवा । वेदार्थविज्ज्येष्ठसामा त्रिमधुस्त्रिसुपर्णिकः" इति (११११६) । अयमर्थ -सर्वेषु वेदेषु ऋग्वेदादिषु अनन्यमनस्कतयाऽस्ख लिताध्ययनक्षमाः अग्रयाः, श्रुताध्ययनसम्पन्नः श्रोत्रियः, ब्रह्म परमात्मरूपं वेत्तीति ब्रह्मवित् , युवा मध्यमवयस्का, मन्त्रब्राह्म- - - ४१ श्राद्धसारे पात्रनिर्णयः । पजुषोरेकदेशं तद्भुतं च वेत्तोति वेदार्थवित् , ज्ये- पः तदूतं तद्वताचरणेन यस्तदधीते स ज्येष्ठसामा, देशः, त्रिसुपर्णमृग्यजुषोरेकदेशं तद्वतं च, तदा- स त्रिसुपर्णकः, ते ब्राह्मणाः श्राद्धसम्पद इति । ब्राह्मणा:- निष्ठास्तपोनिष्ठाः पञ्चाग्निब्रह्मचारिणः । राश्चैव ब्राह्मणाः श्राद्धसम्पदः" इति । कर्मनिष्ठा विहितानुष्ठानपराः, तपोनिष्ठाः तप:शी- पथ्यौ त्रेतामयश्च यस्य सन्ति स पञ्चाग्निः । निष्ठा द्विजाः केचिद्रूपनिष्ठास्तथा परे । वाध्यायनिष्ठाश्च कर्मनिष्ठास्तथैव च ॥ कष्टेषु कव्यानि प्रदेयानि प्रयत्नतः । द्धे भोजयेन्मित्रं धनैः कार्योऽस्य सङ्ग्रहः ॥ न मित्रं यं विद्या श्राद्धे भोजयेद् द्विजम्" इति । एमित्रव्यतिरिक्तं पूर्वोक्तलक्षणलक्षितं ब्राह्मणं श्राद्ध । आपस्तम्ब.-ब्राह्मणान् भोजयेत् ब्रह्मविदो यो- त्रा-ऽन्तेवास्यसम्बद्धानिति । अयमर्थ:-'योनिसम्ब- यः, गोत्रसम्बद्धाः सपिण्डादयः, मन्त्रसम्बद्धा वेदा- अन्तेवासिसम्बद्धाः शिल्पशास्त्रोपाध्यायाः । एवं यतिरिक्तान् गृहस्थप्रमुखान् ब्राह्मणान् भोजयेत् । नाङ्गास्तु चतुरो वेदान् अधीते संस्कृतोऽर्थवित् ।

नृसिंहप्रसादे जम्मवाकर्मसंयुक्त स श्राद्धे प्रथमो मतः ।। तादृशादयुताच्छे यान् एको योगसमाश्रयः" इति । मनुः -- "एषामन्यतमो यस्तु भुञ्जीत श्राद्धमर्चितः । पितॄणां तस्य तृप्तिः स्याच्छाश्वती साप्तपौरुषी ॥ एष चै प्रथमः कल्पः प्रदाने हव्यकव्ययोः । अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः । मातामहं मातुलं च स्वस्रीयं श्वशुरं गुरुम् । दौहित्रं विट्पति बन्धून् ऋत्विज चापि भोजयेत्” इति । अत्र हि एव व्यवस्था-एको हि प्रथमो मुख्यः कल्पः, रस्त्वनुकल्प, तत्र पूर्वाभिहितवेदपारगादिविप्रवर्गः प्रथमः श्रे कल्पः, द्वितीयस्तु प्रथमादधमः कल्पः स एवानुकल्प इत्युच्यते तदुक्तममरकोशे जिनेन्द्रण- "मुख्यः स्यात्प्रथमः कल्पस्त्वनु कल्पस्तु मध्यमः" इति । मातामहं मातुलं चेत्यादि वक्ष्यमाणः प्रथमकल्पाभ सर्वकालं महद्भिरनुष्ठीयते । गुरुरत्र विद्योपदेष्टा न पिता विट्पतिर्जामाता अतिथिर्वा, तदाह देवस्वामी-अतिथिरित्य वदन्तीति । यत्र प्रथमकल्पस्य सम्भवस्तत्राननुष्ठानं द्वितीयस्येति तदाह- प्रभुः प्रथमकल्पस्य योऽनुकल्पे तु वर्तते । न साम्परायिक तस्य दुर्मतेर्विद्यते फलम्" इति । प्रभुः सम्पादने शक्तः, सम्पराय उत्तरः कालः, तथा च के ४३ : - श्राद्धसारे पात्रनिर्णयः "युद्धायत्योः संपराय" इति । ततश्च पूर्वोक्तकल्पाभावे भागि- यादयो ग्राह्याः । तदुक्तं मिताक्षरायाम् - एते स्वस्त्रीयादयः पूर्वो- कश्रोत्रियायभावे वेदितव्या इति । विष्णुपुराणेऽप्यनुकल्प उक्त:- "पितृव्यगुरुदौहित्रान् ऋत्विकस्वस्रियमातुलान् । पूजयेद्धव्यकव्येन" इति । वायुपुराणे- "वृद्धानतिथिबान्धवान्", इति । "स्वत्रियो भागिनेयः स्या- दिति । पितृष्वसृजं च हव्येन पूजयेत् , इतरांच गुरुदौहित्रादीन् कन्येनेति । - "न स गोत्रे हविर्दद्याद्यथा कन्या तथा हविः" इत्यादिभिः सगोत्रे श्राद्धनिषेधात् कथ पितृव्योपादानम् । सत्यमेवैतद ज्ञानम् , न त्वभिज्ञानाम् । तथा हि-षड्भ्यः पुरुषेभ्योगियं निषेधो न सार्वत्रिकः। "पड्भ्यस्तु पुरुषेभ्योगिश्राद्धेयास्तु गोत्रिणः । षड्भ्यस्तु परतो भोज्याः श्राद्धे स्युर्गोत्रजा अपि" इति स्मरणात् । अनेनैवाभिप्रायेण तरप्प्रत्ययरहितत्वेन गुणवन्मात्र- त्वमादाय भोज्या गुणवन्त इति गौतमोऽपि स्मृतवान् । ततश्च षट् पुरुषोत्पन्नसपिण्डानां पित्राथुद्देशेन भोजनीयत्वमसम्मतम् , नतु वैश्वदेवोद्देशेनापि । तथा- "पिता पितामहो भ्राता पुत्रो वाऽथ सपिण्डकः ।

४४ नृसिंहप्रसादे न परस्मरमाः स्युर्न श्राद्धे ऋत्विजस्तथा ॥ ऋत्विक् पुत्रादयोऽप्येते सकुल्या ब्राह्मणा द्विजाः । वैश्वदेवे नियोक्तव्या यद्यते गुणवत्तराः" इति हव्येन पूजनं तेनैव विहितम् । गुणवांश्चेद् ब्राह्मणो न लभ्यते तदा सोदोऽपि भोजयितव्यः । तथा चापस्तम्ब -"एवं च गुणवदवलाभे सोदर्योऽपि भोजयितव्य" इति । तस्याप्ययमेवाभि- पायो लक्ष्यते, वैश्वदैविकब्राह्मणस्थान एवेति, अन्यथा वाक्या- नर्थक्यापत्तेः विष्णुपुराणे- "पुत्रः पौत्रः प्रपौत्रो वा भ्राता वा भ्रातृसन्ततिः । मातृपक्षस्य पिण्डेन सम्बन्धो यो जलेन वा ॥ कुलद्वयेऽपि चोत्सन्ने स्त्रीभिः कार्या क्रिया नृप । सपिण्डान्तर्गते वापि कार्याः प्रेतस्य याः क्रिया:" इति । किश्च गुणवत्तरत्वात् उक्तहेतुना षट् पुरुषाधिकसगो- त्राणामश्राद्धाहत्वाङ्गीक्रियमाणे पड्भ्यस्तु परतो भोज्या इति षट्पुरुषोर्ध्वपुरुषोत्पन्नसगोत्राणां गुणवत्तरत्वाभावेऽपि श्राद्ध- यतार्था प्राप्नोति, सत्य, सगोत्रा ये श्राद्धयास्ते गुणवत्तरत्वेन वा समन्विताः श्राद्धे ग्राह्याः, ये तु सगोत्रा अश्राद्धेयाः, ते गुणवत्वेन विहीना अपि इत्यतितरां विरुद्ध स्यात् । अतः षट्पुरुषेभ्योर्वाक् सगोत्राः पैतृकश्राद्धे नार्हाः, वैश्वदेविके त्वाः, ततः परे तु पैतृके- ऽप्या इत्यत्र वाक्यार्थः । इदं च सर्वमपि गोत्रापेक्षयाधिकगुणानां समगुणाना वा स श्राद्धसारे पात्रनियः गोत्राणामभावे द्रष्टव्यम् । तथा चापस्तम्ब-"भोजयेद् ब्राह्मणान् योनिगोत्रादेवासम्बद्धान् गुणहान्या तु परेषां समुदेतः सोद- योऽपि भोजयितव्य" इति । अत्र योनिर्गोत्रमिति भावप्रत्ययोऽन्तर्भूतः प्रत्येतव्यः यथा- "येकयोविच नैकवचने' इति पाणिनीयस्मरणे द्वित्वैकत्वयोरिति, - तस्मात्सगोत्रा अप्यामन्त्रणीयाः । "व्रतस्थमपि दौहित्रं श्राद्धे यत्ने न भोजयेत्" इति । व्रतमात्रस्थमध्ययनरहितमिति । "तस्मानातिक्रमेलाज्ञो ब्राह्मणान् प्रातिवेशिकान् । सम्बन्धिनस्तथा सर्वान् दौहित्रं विट्पति तथा ॥ भागिनेयं विशेषेण तथा बन्धुं खगाधिप । नातिक्रमेन्नरस्त्वेतान् अमूर्खानपि गोपते ॥ अतिक्रम्य महारौद्रं रौवं नरकं व्रजेत् । अमूर्खानपीत्यपि शब्दः पादपूरणार्थः । "सनिकृष्टमधीयानं ब्राह्मणं यो व्यतिक्रमेत् । भोजने चैव दाने च हन्यात् त्रिपुरुषं कुलम्" इति । यस्तु सनिकृष्टोऽनधीयानस्तदतिक्रमेपि न दोषः। तदुक्त तत्रैव - "यस्य त्वेकगृहे मूों दूरस्थश्च गुणान्वितः । गुणान्विताय दातव्य नास्ति मूर्ख व्यतिक्रमः" इति । व्यतिक्रमो नास्ति व्यतिक्रमदोषो नास्तीत्यर्थः । मूर्खग्रहणं निर्गुणस्याप्युपलक्षणार्थम् । -

नृसिंहप्रसादे
अथ वा निरूप्यन्ते।
६
"ये स्तेनाः पतिताः क्लीबा ये च नास्तिकवृत्तयः ।
तान् हव्यकव्ययोर्विप्रान् अनर्हान्मनुरब्रवीत् ।।
जटिलं वाऽनधीयानं दुर्बलं कितवं तथा ।
याजयन्ति च ये पूगान् तॉश्च श्राद्धे न भोजयेत् ॥
चिकित्सकान्देवलकान्मांसविक्रयिणस्तथा ।
विपणेन च जीवन्तो वाः स्युर्हव्यकव्ययोः ॥
भृतकाध्यापको यश्च भृतकाध्यापितस्तथा ।
शूद्रशिष्यो गुरुश्चैव वाग्दुष्टः कुण्डगोलको ।।
अकारणात् परित्यक्ता मातापित्रोणुरोस्तथा ।
ब्राह्मैयोनैश्च सम्बन्धैः संयोग पतितैर्गतः ॥
अगारदाही गरदः कुण्डाशी सोमविक्रयी ।
समुद्रयायी वन्दी च तैलिकः कूटकारकः॥
पित्रा विक्दमानश्च कितवो मद्यपस्तथा ।
पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी ।
उन्मत्तोऽन्धश्च वाः स्युर्वेदनिन्दक एव च ॥
हस्ति-गोश्वोष्ट्रदमको नक्षत्रैर्यश्च जीवति ।
पक्षिणा पोषको यश्च युद्धाचार्यस्तथैव च ॥
प्रेष्यो ग्रामस्य राज्ञश्व कुनखी श्यावदन्तकः ।
स्रोतसां भेदको यश्च तेषां चावरणे रतः ।।

४७ श्राद्धसारे वय॑ब्राह्मणाः हिस्रो वृषलवृत्तिश्च गणानां चैव याजकः । महारोगयुतश्चैव कृषिजीवी तथैव च" इति । महारोगा देवलेनोक्ताः- "उन्मादस्त्वग्दोषो राजयक्ष्मा श्वासो मधुमेहो भगन्दरो महो- दरोऽश्मरी चेत्यष्टौ पापरोगा" इति । विष्णुः--तस्कर-कितवाजपाल-गण-गणिका शूद्रप्रेष्या - म्यागामि-परिवेत्तृ-परिवित्ति-पर्याहित-पर्याधातृ-पौनर्भवान्ध-बधि- र-चारण-क्लीबावकीर्णि-वाधुषिक-कूटसाक्षि-नास्तिक-वृषली- पति-त्यक्तात्मोत्सृष्टाग्निसोमविक्रय्यविक्रयविक्रेत-पौस्निक-कथक-- कुण्डाशि-कुण्डगोलक-यन्त्रकार-काण्डपृष्ठ-दुश्चर्म-चण्ड-विद्धशिश्न देवलक-पण्ढाऽऽरूढपतित-प्रायोत्थित-कुनखि-किलाशि-श्यावदन्त- वणिक्-शिल्पवादिन नृत्यगीततालोपजीवि-मूल्य सांवत्सरिक- माहिषिक-विविधरागवशाद् वृथाकषायधारि-वृथाजटिल-द्वयङ्गुला- तीतकर्ण-विद्धकर्ण-हन्त-आश्रमबाह्य हीनातिरिक्ताङ्ग-वृथालिङ्ग- धारि-कन्यादृष्यभिशस्त-मित्रचक्-पिशुनः सोमविक्रयी-परिविन्द- क-मातापितगुरुत्यागी-कुण्डाशी वृषलकर्मा-दुष्टो वृपलकर्मा-दुष्टो निन्दितः कुनखी-नास्तिकवृत्तिहोपपतिकोऽगारदाही गरदः पितृविवद- मानो मित्रद्रोही-यूतवृत्तिर्दिधिपतिमिरी-गण्डमाली पिशुनो- न्मत्त गृहसविशक-दूत-वृक्षारोपक-श्वक्रीडन् श्येनजीविन्-गण- याजक-कृषिजीवि-शिल्पजीवि-खल्वाटकः कपिलकेशः कपिलात इत्यादयः श्राद्धादौ वा इति । ननु गुणवता विधानेन परिशेषादितरेषां प्रत्याख्यानस्य कतु ४८ - - नृसिंहप्रसादे शक्यत्वात् किमर्थ वानां परिगणना, सत्यं, उक्तलक्षणलक्षिता- भावे यस्य कस्यापि प्राप्तौ प्रतिषिद्धवर्ज ग्राह्या इत्येतदर्थ पार्थक्येन वानामुपसङ्ग्रहणमिति न दोषः । तथा च ब्रह्माण्डे- "श्राद्धाहब्राह्मणायोगे निषिद्धा न कथश्चन । निमन्त्रिणीयाः श्राद्धेषु सम्यक्फलमभीप्सतेगति । एते ब्राह्मणाः प्रागेव सम्यक्परीक्ष्य पूर्वेधुनिमन्त्रणीयाः। "श्राद्ध माचरिष्ये इति पूर्वेधुनिमन्त्रयेदिति हारीतस्मरणात्। असम्भवे परेधुव निमन्त्रयीत । तथोक्तं कूर्मेण- "श्वो भविष्यति मे श्राद्धं श्राद्धकर्मण्युपस्थिते । निमन्त्रयीत व्यवरान् सम्यग्विमान्यथोदितान्। इति । निमन्त्रणरीतिः प्रचेतसोक्ता- "कृतापसव्यः पूर्वेद्युः पितॄन् पूर्व निमन्त्रयेत् । भवद्भिः पितृकार्य नः सम्पाद्यं च प्रसीदत ॥ सव्येन वैश्वदेवार्थ प्रणिपत्य निमन्त्रयेत्" इति । इति श्रीमल्लक्ष्मीनृसिहचरणयुगलसरोरुहभ्रमरसकलभूमण्डलमण्डन समस्तयवनाधीश्वर श्रीनिजामशाह समस्तसाम्राज्यधुरन्धर- श्रीमन्महाराजाधिराज श्रीदलपतिराजविरचिते श्रीनृसिह- प्रसादे श्राद्धसारे पात्रनिरूपणम् । अथ श्राद्धपाकनिर्णयः। तदर्थ द्रव्यनिर्णयः प्रसूयते । तत्र देवलः- "तथैव यन्त्रितो दाता प्रातः स्नात्वा सहाम्बरः।

श्राद्धसारे द्रव्यनिर्णयः आरभेत नवैः पात्रैरनारम्भं च बान्धवैः" इति । तदाहोशनाः-"गोमयोदकैर्भूमिभाजनभाण्डशौच कुर्यादिति । गोमयलेपेन महानसभूमिशुद्धि कुर्यात् । उदरभ्युक्षणाहरणप्रकर- णोक्ताकारणाहतैः भाजनानां गोधूमपिष्टादिप्रक्षेपणार्थानां तगड़- लादिपाकार्थानां भाण्डानां च शुद्धि कुर्यादिति । महानसभूश्च संस्कार्या । "तिलाश्च विकिरेत् तत्र सर्वतो बन्धयेदजान् । असुरोपहतं सर्व तिलैः शुद्धयत्यजेन च" इति । "ततोऽनं बहुसंस्कारं नैकव्यञ्जनभक्ष्यवत् । चोष्यपेयसमृद्धं च यथाशक्त्युपकल्पयेत्” इति । अनेकव्यञ्जनभक्ष्योपेतं, व्यज्यतेऽनेनानस्य रस इति व्यञ्जनम- त्र सूपशाकादिकं, यस्य सारांश एव सेव्यो न द्रव्यांशः, यथा इक्षुकाण्डान् , तच्चोष्यम् । पानोपयोगिचिन्ताफलरसादौ गुडादिम- धुररसद्रव्यसम्मेलनेन क्रियमाणं पेयम् । च शब्दात्सुसमृद्ध विकृतभू- तमन्नादिकं प्रकृतिभूतविद्याधापेक्षम् । अत्र यदपेक्षते तदवोचत् प्रचेता. "कृष्णमाषास्तिलाश्चैव श्रेष्ठाः स्युर्नवशालयः । महायवा ब्रीहियवास्तथैव च मधूलिकाः ॥ कृष्णाः श्वेताश्च लोहाच ग्राह्याः स्युः श्राद्धकर्गणि" इति । तथाच मनु "तिलैीहियवैर्मारद्भिर्मूलैः फलेन वा । दत्तेन मास तृप्यन्ति विधिवत्पितरो नृणाम्"(३२६८)इति ।

वै ५० नृसिहप्रसादे ब्रीहियवाश्च यवविशेषाः । मधूलिका धान्यविशेषः । कृष्ण- स्थलजा व्रीहयः। "द्वौ मासौ मत्स्यमांसेन त्रीन्मासान् हारिणेन तु । औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै ॥ षण्मासांश्छागमांसेन पार्षतेनेह सप्त अष्टावणस्य मांसेन रौरवेण नवैव तु ॥ दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः । शशकूर्मयोस्तु मांसेन मासानेकादशैव तु ॥ संवत्सरन्तु गव्येन पयसा पायसेन च । वाीणसस्य मांसेन तृप्तिादशवार्षिकी । कालशाकं महाशल्काः खड्गो लोहामिषं मधु । अानन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्वशः" इति । हारिणं गौरमृगमांसम् । और, मेषमांसम् । शाकुनं भोजर पक्षिमांसम्,पृषतश्चित्रमृगस्तस्य मांस पार्षतम्। एण: कृष्णमृगः, तर मांसमैणम् । रुरोमांसं रौरवम् । बहुविशेषाण्डो मृगविशेषो रुरुः गण्डकः खड्गः । वाणसस्य विष्णुधर्मोत्तरे लक्षणमुक्तम् तथा हि- "त्रिपिबन्त्विद्रियक्षीणं श्वेतं वृद्धमजापतिम् । वाणसन्तु तं प्राहुर्याज्ञिकाः पितृकर्मसु" इति । केचिदन्यथा वदन्ति- "कृष्णग्रीवो रक्तशिराः श्वेतपुच्छो विहङ्गमः । स वै वाीणसः प्रोक्त इत्येषा नैगमी श्रुतिः" इति ।

-
श्राद्धसारे हविर्द्रव्य निर्णयः
अथवैवम्-
"त्रि:पिबन्त्विद्रियक्षीणं यूथस्याग्रचरं तथा ।
रक्त वर्णेन राजेन्द्र छागं वाीणसं विदुः" इति ।
तथा मार्कण्डेय
"यवव्रीहिसगोधूमास्तिलमुद्गाः ससर्पपाः ।
प्रियङ्गवः कोविदारा निष्पावाश्चात्र शोभना" इति ।
अत्र गोधूमास्त्वावश्यकाः
"अगोधूमन्तु यच्छाद्धं कृतमप्यकृतं भवेत्"
इत्यत्रिस्मरणात् ।
वापुपुराणे--
"बिल्लामलकमृद्वीकं पनसाम्रातदाडिमम् ।
पीयुः कालेयकाक्षोटखजूराणां फलानि च ॥
कसेरुः कोविदारश्च नालकन्दस्तथा विसम् ।
कालेयं कालशाकञ्च सुनिषण्णं सुवर्चला ॥
कट्फलं कौङ्कणी द्राक्षा लकुचं मोचमेव च ।
कर्कन्धुश्च कचोरश्व तिन्दुकं मधुसाह्वयम् ॥
वैकङ्कतं नारिकेलं शृङ्गाटकपरूसकम् ।
पिप्पली मरिचं चैव पटोलं बृहतीफलम् ॥
सुगन्धि शतकन्दं च कलायाः सर्व एव च ।
एवमादीनि चान्यानि स्वादूनि मधुराणि च ॥
नागरं चात्र वै देयं दीर्घमूलकमेव चेति ।
मृद्वीका द्राक्षा “मृद्वीका गोस्तनीद्राक्षे त्यमरकोश[ २.५] ।

५२ नृसिहप्रसादे आम्रातकमाम्रवृक्षसदृशः पीतनाख्यो वृक्षः । “पीतन-कपीतनौ । अाम्रातक" इति तत्रैव ( अ. २-४-२७ ) । अक्षोटः गिरिसम्भवः, पीयुः करारुजलकन्दो भद्रमुस्ता- ख्याकालेयको दारुहहिद्रा,सुनिषण्णं वितुन्नाख्य शाकम् । “वितुन्नं सुनिषण्णकमिति शाकप्रक्रमेऽमरकोश उक्तवान् । कट्फलो लघु श्रोपर्णाख्यो वृक्षः। श्रीपर्णिका कुमुदिकेति । कौङ्किणी कोकणदेश प्रभवा द्राक्षा, लकुचो जंबीरफलतुल्यः सर्वफलवान् गुल्मविशेषः । मोच कदलीफल,कर्कन्धुर्वदरी,तिन्दुकः शितिसारकाख्यो वृक्षः । "तिन्दुकः स्फूर्जकः कालस्कन्धश्च शितिसारके" इत्यमर- कोशः । [ २.५] शृङ्गाटकं जलज त्रिकण्टक, बृहती कण्टकारिका । "निदिग्धिका स्पृशी व्याघ्रा बृहती कण्टकारिके"त्यमरः । [२।५] तस्या. फल बृहतीफलम् । बिल्वामलकादीनि प्रसिद्धानि । तथा ब्रह्माण्डपुराणे- प्रसाधिका प्रियङ्गुश्च ग्राह्याः स्युः श्राद्धकर्मणि । एतान्यपि समानानि श्यामाकानां गुणैः स्तुतैः ।। कृष्णमाषास्तिलाश्चैव श्रेष्ठाः स्युर्नवशालयः । महायवा व्रीहियवास्तथैव च मधूलिकाः ।। कृष्णाः श्वेताश्च लोहाच ग्राह्याः स्युः श्राद्धकर्मणि । राजमाषास्तथैवान्ये विवाः स्युः प्रयत्नतः ।। मसूराः शतपुष्पाश्च कुसुम्भ श्रीनिकेतनम् । वाचातियवा नित्य तथा दुर्लभका यवाः ।।

श्राद्धसारे ग्राह्य हविर्द्रव्यनिर्णयः
तथा ब्रह्माण्डे-
-
"सैन्धवं लवणं चैव तथा मानससम्भवम् ।
पवित्रे परमे येते प्रत्यक्षमपि नित्यशः" इति ।
तथा आदित्यपुराणे-
"मधुर्फ रामठं चैव कर्पूरं मरिच गुडम् ।
श्राद्धकर्मणि शस्तानि सैन्धव पुस तथेति ॥
अत्र मार्कण्डेयः-
“गोधूमैरिक्षुभिर्मुद्गः सतीनैः कनकैरपि ।
श्राद्धेषु दत्तैः प्रीयन्ते मासमेकं पितामहाः ॥
विदार्यैस्तु परूषैस्तु विसैः शृङ्गाटकैस्तथा।
कम्बुकैश्च तथा कन्दैः कर्कन्धूवदरैरपि ।।
पालेवतैरारुकैश्च अक्षोट पनसैस्तथा ।
काकोल्या क्षीरकाकोल्या तथा पिण्डालुकैः शुभैः ।।
लाजाभिश्च सधानाभित्रपुसैश्चारु-चिर्भटः।
सर्वपाराजशाकाभ्यामिङ्गुदै राजजम्बुभिः ।।
मियालामलकैर्मुख्यैः फल्गुभिश्च विलम्बकैः।
वशाङ्करैस्तालकन्दैश्चुक्रिकाक्षीरिकाधवैः ।।
वोचैः समोचैलकुचैः तथा वै बीजपूरकैः ।
मुञ्जातकैः पद्मफलैः भक्ष्यभोज्यैः सुसंस्कृतैः ।।
राजखाण्डवचोष्यैश्च त्रिजातकसमन्विन्वितैः ।
दत्तैस्तु मासं प्रीयन्ते श्राधेषु पितरो नृणामिति ।
विदारी कृष्णवर्ण भूकुष्माण्डफलम् । कम्बुकः कर्शराख्यशाकं

५४ नृसिहप्रसादे कन्दः । सूरणः कन्दः, कर्कन्धः तिक्तकर्कटी, दीर्घछान्दसः। राजशाकं कृष्णसर्षपः, इङ्गुदस्तापसतरुः, फल्गुनि तुद्रामलकानि, क्षीरिका फलाध्यक्ष, राजखाण्डवः पानविशेषः, त्रिजातक लवङ्गलातेजपत्राणि । कात्यायन - "अथ तृप्तिाम्याभिरोषधीभि सन्तृप्तिरारण्याभिर्वा तदलामे मूलफलैरद्भिर्वा सहान्नेनोत्तरास्तर्पयन्ति गोऽउस्त्रमेषा आलब्धव्याः शेषानि क्रीत्वा लब्ध्वा वा स्वय मृताना वाऽऽहत्य" इति । देवल -"तृप्यन्ति मत्स्यैौमासौ त्रीन्मासान् रुरुर्भिमृगैः । शाकुनैश्चतुरो मासान् पञ्च तृप्यन्ति पार्षतैः॥ शशैः पाण्मासिकी तृप्तिः कूमैः स्यात्सप्तमासिकी । अष्टौ मासान् वराहेण नव तृप्यन्त्यजेन च । दश माहिषमांसेन तृप्त्यन्त्येकादशाविकः" तथा-"चतुरः शाकुनैः, पञ्च रौरवेण, पडणेन, सप्त कार्योन, अष्टौ वाराहेण; नव मेषमासेन, दश माहिषेण, एकादश पार्पतेतेन" इति । तथा-अथाक्षया तृप्तिः बालच्छागो मधु महाशल्को. वर्षासु मघासु च गजच्छायायाश्च तामूक्तफलाः, उस अनवान , प्रालब्धाः कृतालम्भा ग्राह्याः । बौधायन -“अथ सतिलगोधूमशालिमुद्गकृष्णमाषश्यामाक- प्रियङ्गवीहिविकारांश्च दद्यात्" इति । "मुन्यन्नानि पय सोमो मास यच्चानुपस्कृतम् । अक्षारलवणं चैव प्रकृत्या हविरुच्यते" इति ।

तथा च श्राद्धसारे ग्राह्य इविद्रव्यनिर्णयः ५५ अनुपस्कृतमविकृत पूतिगन्धादिरहितं मासम् । अक्षारलवणस्तु उच्यते- "तिलमुद्गाहने शैव्य सस्ये गोधूमकोद्रवौ । धान्यकं देवधान्यं च शमीधान्यं तथैक्षवम् ॥ स्विन्नधान्यं तथा पण्यं मूलं क्षारगणः स्मृतः" इति । केचित्तु अत्र तारशब्देन सज्जीक्षारादिक पठन्ति । तदत्राग्राह्यम् , गोधूमप्रभृतीना महता प्रयासेन श्राद्धद्रव्य- त्वेनोपपादितत्वात् , तस्मादन्यत्र सज्जीक्षारादिक लवण मत्र सामुद्र सैन्धवं वा ग्राह्यं न कृत्रिमं ग्राह्यम् । ब्रह्माण्डपुराणे- "सामुद्रं सैन्धव चैव प्रकृत्या हविरुच्यते । पवित्रे परमे होते प्रत्यक्ष अपि सर्वदा" इति । प्रत्यक्षवचनं पवित्रत्वप्रतिपादनार्थ न पुनर्दानाय, दानं चौ- दनादिना समिश्रस्यैवेति । आदित्यपुराणे- "मधुकं रामठ चैव कर्पूरं मरिचङ्गुडम् । श्राद्धकर्मणि शस्तानि सैन्धव त्रिपुस तथा" इति । त्रिपुसशब्देन कश्चित्सस्कारको द्रव्यविशेषः । रामठं हिङ्गु । "यत्किञ्चिन्मधुना मिश्र गोक्षीरं घृतपायसम् । दत्तमक्षयमित्याहुः पितरः पूर्वदेवताः" इति । अत्र दध्यादिकं महता प्रयासेनापि गव्यमेवोपादेयम् , तदसम्भवे माहिषम् । .

-
५६
नृसिंहप्रसादे
त्रिकाण्डमण्डन
"घृतार्थे गोघृतं ग्राह्य तदभावे तु माहिषम् ।
आज वा तदलामे स्यात् इति शास्रविनिश्चयः" इति ।
अजाक्षीरसम्भूतमाजम् । क्षीरादिविषयेऽपि तेनैवोक्तम्-
'यत्र मुख्यं दधि क्षीरं तत्रापि तदलाभतः ।
अजादेः क्षीरदध्यादि ग्राह्यमेव न संशयः ॥
मासौ मत्स्यमांसेन त्रीन्मासान् हारिणेन तु ।
औरभ्रणाथ चतुरः शाकुनेनेह पञ्च तु ॥
षण्मासान् मृगमांसेन पार्षतेनेह सप्त
अष्टावणेन मांसेन गैरवेण नवैन तु ॥
दश मासांस्तु तृप्यन्ति वराहमहिषामिषैः ।
शशकच्छपयोर्मोस मासानेकादशैव तु ॥
सवत्सरं तु गव्येन पयसा पायसेन वा ।
वाझुणसस्य मांसेन तृप्तिदश वार्षिकी ।
कालशाकं महाशल्काः खड्गं लोहामिषं मधु ।
अान्त्यायैव कल्पन्ते मुन्यन्नानि च सर्वशः" इति ।
वार्षीणसो रक्तवर्णवृद्धछागः ।
वै
तदुक्त विष्णुधर्मोत्तरे-
"त्रिःपिबं त्विन्द्रियक्षीण यूथस्याग्रसरं तथा ।
रक्तवर्ण तु राजेन्द्र छाग वाधीणसं विदु"रिति । महाशा
मत्स्यविशेषः । खङ्गः खङ्गमृगलोहो लोहितवर्णछागः ।

श्रादसारे द्रष्यनिर्णयः याज्ञवरस्य - "सद्गामिषं महाशल्क मधु मुन्यममेव च । खाहामिर्ष यहाशाक मांस वार्धाणसस्य च ॥ यद्ददाति गयास्थल सर्वमानन्त्यमश्नुते । तथा वर्षात्रयोदश्या पयासु च विशेषतः" इति । मधु माक्षिकम् । अन्यन समारण्य नीवारादि । लोहस्तु छागः, तदामिषं लोहामिषम् । महाशार्फ कालशाकम् । स्पष्टम न्यत् । अत्र यद्यपि मासमध्वादीनि सर्ववर्णाना सामान्येन श्राद्ध योग्यानि दर्शितानि तथाऽपि पुलस्त्योक्ता व्यवस्था द्रष्टव्या- "मुन्यन्न ब्रापास्यक्तिं मास क्षत्रियवैश्ययोः । मधुप्रधान शूद्रस्य सर्वेषामविराधि यत्" इति स्मरणात् । अयं हि म्मृत्यर्थ -नीवारादि मुन्यन यच्छ्राद्धयोग्यमभिहितं तद् वामगास्य प्रधान समग्रफलदम् , यच मासं तत् क्षत्रि- यत् क्षाद्रमुक्तं तद् शूद्रस्य, एतत् त्रितयव्यतिरिक्तं यदविरोधि चाप्रतिषिद्ध वस्तु शाकादि, यच्च वि- हितं हविष्यं कालशाकादि, तत्सर्वेषां सर्वफलदं नतु ब्राह्मणस्य नी- वारादि द्रव्यमेव प्रधान, क्षत्रियवैश्ययोस्तु मासं प्रधानमित्युक्तं, तत्कथं, यतो विशेषेण मास श्राद्धादो विहित तद् ब्राह्मणव्यतिरि- कानामेवेदमिति कश्चिनियमहेतुरस्ति येनेदृशी व्यवस्था भवेत् , अत्रा- भिधीयते सत्यमस्ति बहुषु ग्रन्थेषु श्राद्धादौ मासोपादान तद्यत्र भक्ष्य- वया मचिस्तद्विषयमेवेत्यक्गन्तव्य, न सर्वविषयं, लोकगर्हित्वात् । यवैश्ययोः प्रधान,

५८
नृसिंहप्रसादे
तदाह याज्ञवल्क्यः
"कर्मणा मनसा वाचा यत्नाद् धर्म समाचरेत् ।
अस्वयं लोकविद्विष्टं धर्ममप्याचरेन तु" इति ॥
ततः श्राद्धे मांसविधानं क्षत्रियादिविषयं ज्ञेयम् ।
"विना मांसेन यच्छ्राद्धं कृतमप्यकृत भवेत् ।
तृप्यन्ति पितरो यस्मादलामे पायसादय"
इति वचनं क्षत्रियादिविषयं ज्ञेयम् ।
तथान पितृगीता गाथा भवति-
"कालशाकं महाशल्कं मांसं वाणसस्य च ।
विषाणवा ये खङ्गा आसूर्य तान् लभेमहि इति
यमः
-
"भक्ष्य भोज्यं तथा पेयं यत्किचित् पच्यते गृहे ।
न भोक्तव्यं पितॄणां तदनिवेद्य कथंचन ।।
यद्यद्ददाति विधिवत्सम्यक् श्रद्धासमन्वितः ।
तत्तत्पितॄणां भवति परमं प्रियमेव हि ॥
यवत्रीहिसगोधूमतिला मुद्गाः ससर्षपाः ।
प्रियङ्गवः कोविदारा निष्पावाश्चात्र शोभनाः ॥
अन्नमिष्ट हविष्यं च दद्यादक्रोधनोऽत्वरः" इति ।
अन्नं भक्ष्य-भोज्य-लेह्य-चोष्य-पेयात्मकं पञ्चविध दृष्टम्
यद् ब्राह्मणाय करॆ पितृभ्यो रुचित तत्तुल्यमानं हविष्यमनिषिद्धं
श्रादहविर्योग्यम् । ब्रीहि-शालि-यव-गोधूम-मुद्ग-माष-मुन्यन्न
कालशाक-महाशल्क-एला-शुण्ठी-परिच-हिङ्गु-गुड-शर्करा

श्राद्धसारे हविद्रव्यनिर्णयः कपूर-मैन्धव-साम्भर-पनस-नारिकेल-कदली-वदर-गव्य- पयो-दधि-घृत-पायस-मधु-मांस प्रभृति स्मृत्यन्तरमसिद्धं वेदित- व्यम् । पनसमिति कौङ्कणदेशप्रसिद्धः फलविशेषः । मुन्यन्नमिति यदफालकृष्टश्यामाफनीवारादि तदभिधीयते । तच्च वानप्रस्थप्रसिद्धम् । हविष्यमित्यनेनैवायोग्यस्य स्मृत्यन्तरप्रसिद्धकोद्रवमसूरचणक कुलित्थ पुलक निष्पाव राजमाष वार्ताक बृहतीद्वयोदकी वंशाङ्कुर पिप्पली वचा शतपुष्पोमा विहल कृत्रिमलवण माहिषचमरीक्षीर दधि घृत कवकादीनि निषिद्धानि । यान्यत्रापसिद्धानि द्रव्याणि तानि वैद्यकशास्त्रे द्रष्टव्यानि । क्रोधहेतुसम्भवेऽप्यक्रोधनः, अत्वरो- ऽव्ययः । देयमातृप्तेः शब्दात् यत् किचिदुच्छिष्यते तद्दद्यात् । उच्छेषणस्य दासवर्गभागित्वात् । उच्छेषणं ब्राह्मणेषु विस- जितेषु निक्षेप्यं भूमौ । "उच्छेषणं भूमिगतमजिह्मस्याशठस्य च । दासवर्गस्य तत् पित्र्ये भागधेयं प्रचक्षते" इति मनुः (३२४६) अथ श्राद्धे वय॑द्रव्याणि । तत्र व्यास'- "अश्राद्धेपानि धान्यानि कोद्रबाः पुलकास्तथा । हिगुर्द्रव्येषु शाकेषु कालानलशुभास्तथेति ॥ कोदवाः कोरदूषकाः । पुलकाः, छान्दसोऽत्र मध्याक्षरदीर्घा- भावः । संस्कारद्रव्येषु हिङगुद्रव्यमश्राद्धेयम् । कालः कृष्णाजन, अनलचित्रकः, शुभाः शुम्भाख्यः शाकविशेषः । एतानि शाका- दीनि न श्रादेयानि । -

६०
नृसिंहप्रसादे
-
ननु-
"मधुकं रामठं चैव कर्पूरं मरीचं गुडम् ।
इत्यादित्यपुराणे हिगु द्रव्यस्य श्राद्धेयता अत्राश्राद्धेयर
विरोधः परस्परम् । अत्राभिधीयते--अतिरात्रे षोडशिनं
नातिरात्रे षोडशिन गृह्णातीति वाक्यविहितयोः षोडशि
अहणयोरिब विकल्प इष्यते ।
तथा विष्णुपुराणे-
"श्राद्धे न देया पालक्या तथा निष्पावकोद्रवौ
मसूर क्षार वार्ताक कुलत्थ शप शिग्रवः" इति ।।
तारो यव क्षारादिः। भरद्वाजः-
"मुद्गाढकीमाषवर्ज विदलानि दद्यात्" इति ।
मुद्गः कृष्णेतरो माषः कुलत्थानुपलक्षयति ।
तदुक्तं चतुर्विशतिमते--
"कोद्रवा राजमाषाश्च कुलत्था वरकास्तथा ।
निष्पावाश्व विशेषेण पञ्चैतांस्तु विवर्जयेत् ॥
यावनालानपि तथा वर्जयन्ति विपश्चितः ।
तैलमप्यापदि प्राज्ञाः सप्रयच्छन्ति याज्ञिकाः" इति
आपदि अन्यवस्वभावे यावनाल कञ्जिका तैलैरपि का
वरका वनमुद्गाः । प्रसिद्धमन्यत् । अत्र निष्पावनिषेधः
निष्पावविषयः ।
तथा च स्मृतिः-
"कृष्णधान्यानि सर्वाणि वर्जयेच्छाद्धकर्मणी"ति ।

६१ - श्राद्धसारे हविःव्यनिर्णयः निष्पावाश्चात्र शोभना" इति मार्कण्डेयपुराणवचनं तु कृष्णेतर- विविषयतया व्यवस्थापितं स्यात् । चिरपि- "कुलत्थाश्चणकाः श्राद्धे न देयाश्चैव कोद्रवाः । कटुकानि च सर्वाणि विरसानि तथैव च" इति । तथा मदालसावाक्यम्- "यच्चोत्कोचादिना प्राप्त पतिताद्यदुपार्जितम् । अन्यायकन्याशुल्कोत्थं द्रव्यं चात्र विवर्जितम् ॥ पित्रर्थ मे प्रयच्छ त्वमित्युक्त्वा यदुपाहृतम् । वर्जनीयं सदा सद्भिस्तत्तद्वै श्राद्धकर्मणि" इति ।। उत्कोचादिनेत्यत्रादिना स्तेयादिग्रहणम् । गोमिथुनादधिक गशुल्कोमन्यायकन्याशुक्लोत्थमत्र श्राद्धकर्मणि विगर्हितं विवर्जितम् । - (था- "वेदविक्रयज नेष्टं स्त्रिया यचार्जितं धनम् । न देयं पितृदेवेभ्यो यच क्लीबादुपार्जितम्।" इति । वेष्णुपुराणेऽपि । "भूस्तृणं सुरसा शिः पालङ्कथा सृसुकं तथा । कूष्माण्डालावुवार्ताककोविदाराश्च वर्जयेत्" इति । भूस्तृणो भूतृणः छान्दसत्वात् सुडागमः । उशना अपि-- "नालिका शणछत्राककुसुम्भालाबुविड्भवान् । कुम्भीकम्बुकवृन्ताककोविदारांश्च वर्जयेत्" इति ।

६२
नृसिहप्रसादे
वर्जयेद् गृञ्जनं श्राद्धे कान्जिक पिण्डमूलकम् ।
करजं येऽपि चान्ये वै रसगन्धोत्कटास्तथा" इति ।
दीर्घानाला नालिका अग्रभागेऽपल्लवा । शणछत्राकं
शिलीन्ध्रः, कुम्भी श्रीपर्णिका । कम्बुकं वृन्तालाबुकम् । गृञ्जनं
विषलिप्तशस्त्रहत मृगमांसम् ।
तदुक्तम्
"विषलिप्तेन शस्त्रैण मृगो यः परिहन्यते ।
अभक्ष्यं तस्य तन्मासं तद्धि चै गृञ्जनं स्मृतम्" इति ।
अथवा रक्तनालं गृञ्जनम् ।
तदुक्त सुश्रुते--
-
"रक्तनालं गृञ्जनकमिति । रक्तकन्दविशेषो गृञ्जनम् ।
स च पलाण्डुविशेषः । इदं गृञ्जनं सर्वथाऽभक्ष्यमेव ।
तथा पुराणे-
"लशुनं गृञ्जनं चैव पलाण्डुपिण्डमलकम् ।
कलम्बान्यपि चान्यानि हीनानि रसगन्धतः" इति ।
केचित्तु शब्दार्थानभिज्ञा गृञ्जनभ्रान्त्या गाजरमभक्ष्यं मन्यन्ते
तद्विचारासहम् , भक्ष्यमूलेपु गाजरस्य पाठात् ।
तदुक्त ब्रह्माण्डपुराणे-
"बैककृतं नारिकेलं शृङ्गाटकपरूषको ।
पिप्पली मरीच चैव कल्पलं बृहतीफलम् ॥
नारङ्ग चात्र वै देयं दीर्घमूलकमेव चैति ।
सच्च मूलकं चतुर्विधम् । यदवोचद्धन्वन्तरि.

६३ श्राद्धसारे हविर्द्रव्यनिर्णयः स्वप्रणीते श्रायुर्वेद निघण्टौ- "मूलक हरिपर्ण च मूलिकाक्षारसेवितम् । नीलकन्दं महाकन्दं रुचिष्यं हस्तिदन्तकम् ॥ चाणक्य मूलकं चान्यच्छालेय मरुसंभवम् । शाखामर्कटक मिश्रं विष्णुगुप्तमनं तथा ॥ चतुर्थमूलिकं चान्यनिर्दिष्ट तद्धि गाजरम् । पीतक मधुरं स्वादु तच्च नारङ्गवर्णकमिति ॥ नन्वेतदेव गृञ्जनमिति चैन्मैवम् । सुश्रुतकारादिभिर्गाजरात् गृञ्जनस्य भेदेनाभिहितत्वात् । गृञ्जन प्रकृत्य- "कन्दो महौषध, महाकन्दोऽन्यो, गृजनो दीर्घपत्रकः" इति । "पलाण्डुर्यवनेष्टश्च लाक्षाको द्रुद्रुमः स्मृतः । लशुनं दीर्घपत्रश्च पिच्छगन्धो महौषधम् ॥ करण्यश्च पलाण्डुश्च लतार्कश्च परारिका । गृञ्जनो यवनेष्टश्च पलाण्डोर्दश जातयः" इति ॥ तथाऽन्यत्र- . "तीक्ष्णो गृञ्जनको ग्राही पितृणां हितकृन्न सः" इति । तथा- "वर्णगन्धरसैस्तुल्यो गार्जारस्तु पलाण्डुना । पर्णायमूलसूक्ष्मत्वात् भिद्यतेऽसौ पलाण्डुत" इति ॥ ततः प्रद्वेषमात्रेण गाजरगृञ्जनयोरभेदं मन्यन्ते । राजनि- घण्टुसुश्रुतादिषु तु महान् भेदः । तथोक्त वाक्यमामांसायाम्-'रक्तनालं गृञ्जनकमिति सुश्रुतो- -- 8 ६४ नृसिंहप्रसादे क्तनालविषये वाचकस्य गृञ्जनशद्वस्यान्धपरम्परया मन्वादिना गाज- रमभक्ष्यं मन्यन्ते । उक्तं चैतद् बहु प्रायश्चित्ते । शंख:- -- "वर्जयेद् गृजनं श्राद्धे कालिका पिण्डमूलकम् । कलम्वां यानि चान्यानि हीनानि रसगन्धतः ।। श्राद्धकर्मणि वया॑नि कारणं चात्र वक्ष्यते । पुरा देवासुरे युद्धे निर्जितस्य बलेः सुरैः ॥ ब्राह्मणेभ्यो विस्फुरन्तः पतितास्तोयबिन्दवः । तत एतानि जातानि वानि श्राद्धकर्मणि ॥ पिप्पली मरिचं चैव पटोलं बृहतीफम् । वंशं करीरं सुरसं गर्जकं भूतृणानि च ॥ अवेदोक्ताश्च निर्यासा लवणान्यूषराणि च । श्राद्धकर्मणि वाणि याश्च नार्यो रजस्वला" इति । वंशः कुरीरः वंशाङ्कुरः। सर्जकं श्वेतकुठेरपत्रम् । अवे- दोक्ता वेदप्रतिषिद्धा निर्यासा व्रश्चनप्रभवाः । ऊपराणि कृतलव- णानि । रजस्वला दिनत्रयार्ध्वमनित्तरजस्का । तथा योगीश्वर "नालिका शणछत्राकं कुसुम्भालाबुविड्भवान् । कुम्भी कंचुक-वृन्ताक कोविदारांश्च वर्जयेत् । तथा कालपरूढानि पुष्पाणि च फलानि च । विकारवच्च यत् किश्चित् प्रयत्नेन विवर्जयेत्" इति ।।

श्राद्धसारे हविनिर्णयः ।
६५
तथाच स्मृत्यन्तरम्-
"भक्षांश्च दधिनीपमातुलिगकानि वर्जयेदिति ।
तथा भरद्वाजः-
"नक्तोद्धृतं तु यत्तोय पल्वलाम्बु तथैव च ।
स्वल्पाम्बु कूष्माण्डफलं वज्रकन्दश्च पिप्पली ॥
तन्दुलीयकशाकं च माहिषं च पयो दधि ।
शैम्बिकानि करीराणि कोविदारं गवेधुकम् ॥
कुलत्थ शणजीराणि करम्भाणि तथैव च ।
अब्जादन्यद्रक्तपुष्प शिग्रुः क्षारस्तथैव च ॥
नीरसान्यपि सर्वाणि भक्ष्यभोज्यानि यानि च ।
एतानि नैव देयानि सर्वस्मिन् श्राद्धकर्मणि ॥
आविर्क मार्गमौष्ट्रच सर्वमैकशर्फ च यत् ।
माहिषं चामरं चैव पयो वयं विजानतेति ॥
शल:-
"कृष्णाजाजी विटं चैव शीतपाकी तथैव च ।
वर्जयेल्लवणं सर्व तथा जम्बुफलानि च ॥
अवक्षुतावरुदितं तथा श्राद्धेषु वर्जयेत् ।
कृष्णाजाजी कृष्णजीरका, विट विडाख्यं लवणम् ।
ब्रह्माण्डे-
"आसनारूढमन्नाचं पादोपहतमेव च ।
अमेध्यान्तर्गतैः सृष्टं शुष्कं पर्युषितं च यत् ।।
द्विः स्विन्न परिदग्धं च तथैवाग्रावलेहितम् ।
&

नृसिंहप्रसादे क्तनालविषये वाचकस्य गृञ्जनशद्वस्यान्धपरम्परया मन्यादिना गाज- रमभक्ष्यं मन्यन्ते । उक्त चैतद् बहु प्रायश्चित्ते । शंख:-- "वर्जयेद् गृञ्जनं श्राद्ध काञ्जिका पिण्डमूलकम् । कलम्वां यानि चान्यानि हीनानि रसगन्धतः ।। श्राद्धकर्मणि वानि कारण चात्र वक्ष्यते । पुरा देवासुरे युद्धे निर्जितस्य बलेः सुरैः ॥ ब्राह्मणेभ्यो विस्फुरन्तः पतितास्तोयबिन्दवः । तत एतानि जातानि वया॑नि श्राद्धकर्मणि ॥ पिप्पली मरिचं चैव पटोलं बृहतीफम् । वंशं करीरं सुरसं गर्जकं भूतृणानि च ॥ अवेदोक्ताश्च निर्यासा लवणान्यूषराणि च । श्राद्धकर्मणि वाणि याश्च नार्यों रजस्वला" इति । वंशः कुरीरः वंशाङ्कुरः। सर्जकं श्वेतकुठेरपत्रम् । अवे- दोक्ता वेदप्रतिषिद्धा निर्यासा व्रश्चनप्रभवाः । ऊषराणि कृतलव- णानि । रजस्वला दिनत्रयार्ध्वमनित्तरजस्का । तथा योगीश्वर'- "नालिका शणछत्राकं कुसुम्भालाबुविड्भवान् । कुम्भी कंचुक-वृन्ताक कोबिदारांश्च वर्जयेत् तथा कालारूढानि पुष्पाणि च फलानि च । विकारवच्च यत् किञ्चित् प्रयत्नेन विवर्जयेत्" इति ।।

श्राद्धसारे हविनिर्णयः ।
६५
-
-
.
तथाच स्मृत्यन्तरम्-
"भक्षांश्च दधिनीपमातुलिङ्गकानि वर्जयेदिति ।
तथा भरद्वाजः-
"नक्तोद्धृतं तु यत्तोय पल्वलाम्बु तथैव च ।
स्वल्पाम्बु कूष्माण्डफलं वज्रकन्दश्च पिप्पली ॥
तन्दुलीयकशाकं च माहिषं च पयो दधि ।
शैम्बिकानि करीराणि कोविदारं गवेधुकम् ॥
कुलत्थ शणजीराणि करम्भाणि तथैव च ।
अब्जादन्यद्रक्तपुष्पं शिग्रुः क्षारस्तथैव च ॥
नीरसान्यपि सर्वाणि भक्ष्यभोज्यानि यानि च ।
एतानि नैव देयानि सर्वस्मिन् श्राद्धकर्मणि ॥
आविर्क मार्गमौष्ट्र च सर्वमैकशफं च यत् ।
माहिषं चामरं चैव पयो वयं विजानतेति ॥
शङ्क:-
"कृष्णाजाजी विटं चैव शीतपाकी तथैव च ।
वर्जयेल्लवणं सर्व तथा जम्बुफलानि च ॥
अवक्षुतावरुदितं तथा श्राद्धेषु वर्जयेत् ।
कृष्णाजाजी कृष्णजीरका, विटं विडाख्यं लवणम् ।
ब्रह्माण्डे-
"अासनारूढमन्नाचं पादोपहतमेव च ।
अमेध्यान्तर्गतैः सृष्टं शुष्क पर्युषितं च यत् ॥
द्विः स्विन्नं परिदग्धं च तथैवाग्रावलेहितम् ।
&

६ ६ नृसिहप्रसादे शर्कराकीटपाषाणैः कचैर्यच्चाप्युपद्रतम् । पिण्याकगर्भितं चैव तथाऽतिलवणं च यत् ॥ सिद्धाः कृताश्च ये भक्ष्याः प्रत्यक्ष लवणीकृताः । वाग्भावदुष्टाश्च तथा दुष्टैश्वोपहता अपि ॥ वाससा चावधूतानि वानि श्राद्धकर्मणि" इति । द्विःस्विन्न द्विःपक्च, परिदग्धमतिदग्धं, अग्रावलेहितं पूर्वमेवा- न्येनास्वादितं, मथितं विलोडित निर्जलं दधि । सिद्धा भक्ष्या आमलकादयः । प्रत्यक्षलवणीकृताः भोक्तरि पश्यति लवोन मिश्रिताः। याज्ञवल्क्य:- "सन्धिन्यनिर्दशावत्सागोपयः परिवर्जयेत् । औष्ट्रमैकशकं स्त्रैणमारण्यकमथाविकमू" इति । या वृषेण सन्धीयते सा सन्धिनीत्युच्यते । अनिर्दशरात्राः, वत्सरहिताः । तासां गवा पयः परिवर्जयेत् । आरण्यकपयोनिषेध- स्तु आरण्यमहिषीपयोव्यतिरिक्तविषयः । "अनिर्दशाया गोः क्षीरमौष्ट्रमैकशकं तथा । श्राविकं सन्धिनीक्षीरं विवत्सायाश्च गोः पयः ॥ भारण्यानां च सर्वेषां मृगाणांमाहिषं विना" इति मनुस्मरणात् । सन्धिनीतीरप्रभृति कामतो भक्षयित्वा त्रिरात्रमुपवासः । अ- कामतश्चेदहोरात्रमुपवासः । तदाह मनुः- "शेषेधूपवसेदहरि"ति । -- ७ -- श्राद्धसारे हविनिर्णयः दे७ तथा ब्राह्मपुराणे- "घृतात् फेनं घृतान्मण्डं पीथूषमथ चार्द्रगोः । सगुडं मरिचाक्तं तु तथा पर्युषितं दधि ॥ तथा तक्रमपेयं च नष्टस्वादं च फेनवत्" इति । घृतात् फेनं घृतादुद्धृत्य फेनमपेयं, घृतादुद्धृत्य मण्डं यत्तदपेयम् । आगोः प्रसवप्रभृत्यनिवृत्तरजस्काया गोः क्षीरमपे- यम् । गुडमरिचोपेतं पर्युषित दधि चापेयम् , यच बहुदिनस्थित्या दीर्ण स्फुटित, दीर्घकालस्थित्या यच्च नष्टास्वादं सफेनं तच न पेयम् । तथा मनु:- "लोहितान् वृक्षविर्यासान् व्रश्चनप्रभवांस्तस्था । शेलुं गव्यं च पीयूषं प्रयत्नेन विवर्जयेदिति (१०५) । लाक्षाप्रभृतयो लोहिता वृक्षनिर्यासा इत्यभिधीयन्ते लोहित- व्यवहरणात् । निर्वासतयाऽन्येपि पाटलश्वेतपर्णहिङ्गुकर्पूरमभृतयो- अतिषिद्धा इत्यवगम्यते । शेलुः श्लेष्मान्तकः । अभिनवं पयः पी- यूषः । “पीयूषोऽभिनवं पयः" इत्युक्तेः । तच्च नवप्रसूतायाः । तथाच हारीत "न वटप्लक्षौदुम्बरदधित्थनीपमातुलिङ्गानि भक्षयेदिति । तथा भविष्ये-- "लशुनं गृञ्जनं चैव पलाण्डं कवकानि च । वार्ताकं नालिकालावु जानीयाज्जातिदूषितमिति । श्वेतकन्दः पलाण्डुविशेषः । नित्यभोजने तु वय॑तया उक्ताः शाकाः।

६ नृसिंहप्रसादे -- पैठीनसिः-- "वृन्ताकनालिकापौतीककुसुम्भाश्मन्तकाश्चेति । शाका न भक्ष्याः । वृन्ताकनिषेधस्तु प्रवेतवृन्ताकविषयः। "कण्डूरं श्वेतद्वन्ताकं कुम्भाण्डं च विवर्जयेदिति देवलस्मरणात् । कण्डूरा प्रादृषेणी तस्याः फलं कुम्भाण्डं कुम्भवद्वर्तुलं वृत्तालाबुसदृशम् । तथा स्मृत्यन्तरम्- "कुम्भाण्डं महिषीक्षीरमाढक्यो राजसर्षपाः । चणका राजमाषाश्च घ्नन्ति श्राद्धमसंशयम् ॥ पिण्डालुकं च तुण्डीर करमर्दश्च कालिका । कूष्माण्डं बहुबीजानि श्राद्धे दत्वा व्रजत्यधः" ॥ करमर्दः सुषेणः, बहुबीजानि बीजपूरादीनि द्रव्याणि नित्य- भोजनेप्रतिषिद्धान्यपि श्राद्धे न देयानि । "क्षीरादि माहिषं वय॑मभक्ष्यं तच कीर्तितमिति षट्त्रिंशन्मतवचनात् । वशिष्ठः "गोमहिष्याजानामनिर्दशाहानां पयो न पेयम्" । तथा गौतमोऽपि- "स्यन्दिनी-यममू-सन्धिनीनां चेति क्षीरं न पेयमिति । स्यन्दिनी स्वयमेव क्षीरं प्रस्यन्दमाना प्रस्यन्दमानयोनिर्वा । यमरः प्रसूतयमला। - - श्राद्धसारे इविनिर्णयः पेयं विवत्साया अन्यवत्सायाश्चेति । द्धमपि कृमिकीटकेशादिसंसर्गमाहार च वर्जयेत् । मपि चाहारं मक्षिकाकृमिजन्तुभिः । नखैर्वापि दृषितं परिवर्जयेत्" इति देवलस्मरणात् । [ता विवक्षिताः। केशादिदूषितमन्नं पानीयं वा सति असम्भवे केशादिकमुद्धृत्य उदकेन सप्रोक्ष्य हिर- । भुञ्जीत । "केशकीटावपनं विगर्हितं श्‍वभि- निं पर्युषितं गृध्रचाण्डालयवेक्षितमभोज्यमन्यत्र स्पृष्टादिति सुमन्तुस्मरणात् । कष्टायामापद्यपि न भुञ्जीत-- नीढंच मार्जारध्वासकुक्कुटमूषकैः । पभुञ्जीत तदमेध्यं हि सर्वतः" इति देवलस्मरणात् । तरे वय॑तयाऽभिहितम्- णीयमन्नमश्नीयात् न द्विःपकं न पर्युषितम् । । यदि वा तैलं विप्रो नाद्यान्नखच्युतम् ।। दिशुचि माह तुल्यं गोमांसभक्षणः । त्ताश्च ये स्नेहा लवणं व्यञ्जनानि च ॥ १ नोपतिष्ठन्ति भोक्ता भुञ्जीत किल्विषम् । पाणिना दत्तं शूद्रदत्त न भक्षयेत्" इति । गस्थानप्रतिषेधो ब्राह्मणादिव्यतिरिक्तविषयः ।

नृसिंहप्रसादे तदुक्तं शोन- "अपूपाः सक्तवो धानास्तकं दधि घृतं मधु । एतत्पण्येषु भोक्तव्यं सान्द्रलेपो न चेद् भवेत्" इति ॥ तथा-पर्युषितमपि किचिद्भोक्तव्यम् । यथा- "अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसस्थितम् ।। अस्नेहा अपि गोधूमयवगोरसविक्रियाः" इति ॥ - तथा देवल "अभोज्यं प्राहुराहारं शुक्तं पर्युषितं च यत् । अपूपा यवगोधूमविकारा मण्डकादयः" ॥ वटका माषादिपिष्टमयाः प्रसिद्धाः ।पुनरपूपग्रहणं व्रीह्याद्यपूप विकारोपादानार्थम् । कृसरं तिलोदनम् । स्नेहसंयुक्त घृतेन दध्ना वा ऽभिधारितम् । एतत् सर्वं पर्युषितं शुक्तव्यतिरिक्त भोज्यम् । शुक्तमत्यम्लम् । "अत्यम्लं शुक्तमाख्यात निन्दितं ब्रह्मवादिभिरिगति बृहस्पतिस्मरणात् । ततश्च शुक्तं स्वभावतो यदनम्ल केवलकालपरिवासेन द्रव्या- न्तरसंसर्ग कालपरिवासाभ्यां वा यदम्लीभवति पायसादि न द- ध्यादि तदभिधीयते । रात्र्यन्तरितं पर्युषितं, ततः शुक्तप्रतिषेधो दध्यादिव्यतिरिक्तविषयः । "दधि भक्ष्यं च शुक्तेषु सर्व च दधिसम्भवम् । रुच्यं सपकं भक्ष्यं स्यात् सर्व युक्तमितिस्थितिरि"ति शसस्मरणात् ।

श्राद्धसारे हविनिर्णयः ७१ देवल "अभोज्यं प्राहुराहारं शुक्तं पर्युषितं सदा । अन्यत्र मधुसक्तुभ्यां भक्तेभ्यः सर्पिषो गुडात्" । शङ्ख- "नाद्याच्छास्त्रनिषिद्ध तु भक्ष्यभोज्यादिकं द्विजः" इति । अभोज्यमित्यनुवृत्तौ बसिष्ठः-- "अन्नं पर्युषितं कामं दध्ना घृतेन वाभिधारितमुपभुञ्जीत । अयमर्थः-दध्ना घृतेन वाभिधारितं सत्पपर्युषितमन्नं काममश्नीयात् इति । उपभोजयेदित्यनुवृत्तौ- आपस्तम्व "उदकेऽवधाय परकृतान्नं पर्युषितमिति। यदा परानमुदकेव- धाय स्थापितं तदा तदन्नं पर्युषितमपि उपभुञ्जीत । एवं च काञ्जिकं सम्पादयितुं तण्डुलप्रक्षालनोदके निहितस्यान्ननिस्रावस्य रात्र्यन्तरि- तस्य पर्युषितत्वमभोज्यत्वं नास्तीति । तज्जातस्य काञ्जिकस्यापि अभोज्यत्वं नास्तीति मन्तव्यमिति । एवमेवाभिहितं स्मृतिचन्द्रिका- कारैरपि मनु:- "चिरस्थितमपि त्वाद्यमस्नेहाक्तं द्विजातिभिः । यवगोधूमजं चैव सर्वा च रसविक्रियेति (४-२५)॥ यवगोधूमाक्ताः स्नेहसयोगरहिता अपि अनेकरात्र्यन्तरिता द्विजातिभिर्भोज्याः पयोविकारा दध्यादयः । ततो मण्डका

नृसिंहप्रसादे
सक्तवस्तथा अन्य अोदनः । तत्र कदर्याध्वीरा षण्ढ रङ्गावतार
स्वैरि वाधुपिक मणिकारादीक्षित चिकित्सक विद्वेषि क्रूरोगपतित
व्रात्य दाम्भिकोच्छिष्टभोजि स्वर्णकार-स्त्रीजित-ग्रामयाजि-शस्त्र
विक्रयि श्ववृत्ति तृशंस-राजरजक-कृतघ्न-वधजीवि-सुराजीवि-
कुटिल-पिशुन सोमविक्रयि-लुब्ध वीणावादनजीवि दीक्षा-
सस्कारायुक्त गान्धर्व-कितव-तस्कर-ध्वजि-दारोपजीवि-शूद्राध्या-
पक-शूद्रयाजक-तुलातोलक-चित्रकर्म-चर्मविक्रयि, वघोपजीवि-
शकटोपजीविनः एते अभोज्यान्नाः। ब्रह्मचारिणो गृहिणवान्नं भोज्यम्।
मुनेरन्न च भोक्तव्यम् ।
अङ्गिरा अपि-
"पण्मासान् यो द्विजो भुङ्क्ते शूद्रस्यान्नं विगर्हितम् ।
स तु जीवन् भवेच्छूद्रो मृतः श्वा चैव जायते" इति ।
तथा-
“पञ्चनखांश्च न भक्षयेत् ।
-
तथाच मनु:-
"सर्वान् पञ्चनखांस्तथा न भक्षयेदिति ।
अत्र पञ्चनखानाममक्ष्यत्वनिषेधो गोधादिपञ्चकव्यव्यतिरि-
क्तविययः ।
"पञ्च पञ्चनखा भक्ष्या धर्मतः परिकीर्तिताः ।
गोधः कूर्मः शशः श्वाविट् शल्लकश्चेति ते स्मृताः"
इति देवलस्मरणात् ।

६५ श्राद्धसारे द्रव्यशुद्धिनिर्णयः धर्मत इति-हिंसामकृत्वा क्रयादिप्राप्ता भक्ष्याः । इति श्रीमल्लक्ष्मीनृसिहचरणयुगलसरोरुहभ्रमरसकलभूमण्डलमण्डन- समस्तयवनाधीश्वरश्रीनिजामशाहसमस्तसाम्राज्यधुरन्धरश्रीमन्म- हाराजाधिराजश्रीदलपतिराजविरचिते श्रीनृसिहप्रसादे श्राद्धसारे वावय॑निर्णयः ॥ अनुपहतद्रव्याणि श्राद्धादिषूपयोगीन्यभिहितानि, अथ द्रव्यशुद्धिरभिधीयते- तत्रेतरापेक्षया भूमेः सर्वसाधारणाधिकरणतया प्रथमं तत्रो- पहताया भूमेः सप्तधा शुद्धिः। खननं, पूरणम् , दहनम् , उदकव- र्षणं, लेपनं, गोभिराक्रमणं, काल इति । यावान् कालो गन्धले- पादिना भूशोधनं करोति स उच्यते । "खननात् पूरणादाहाल्लेपनादभिवर्षणात् । गोभिराक्रमणात् कालात् भूमिः शुद्धयति सप्तभिरिति यमस्मरणात् । तथा याज्ञवल्क्यः "भूशुद्धिर्मार्जनादाहात् कालाद् गोक्रमणात्तथा । सेकादुल्लेखनाल्लेपात् गृहं मार्जनलेपनात्।। 8 40 नृसिंहप्रसादे अत्र भूग्रहणेनैव सिद्धे पुनहवचनं प्रतिवासरं तस्य मार्जनले- पप्राप्त्यर्थम् । तथा मनुरपि- "सम्मार्जनेनाञ्जनेन सेकेनोल्लेखनेन च । गवां च परिवासेन भूमिः शुद्धयति पञ्चधा" इति । मार्जनादिक तु सर्वदुष्टत्वहेतुभिः पुनः पुनरुपहतभूमि- शुद्धथापादकम् । अन्यथोपहतयनुरूपं मार्जनादि अनेकप्रकारमध्ये द्विवादिकं यथायोग्यं शुद्धः कारणम् । तस्मादेवं सप्तभिः पञ्चभिर्वा प्रकारैः भूमिशुद्धिः कर्तव्येति वृत्तम् । भूमेरशुद्धयापादकानि ताव- दनेकानि सन्ति, तथाहि-जननमरणचाण्डालाधिष्ठानमूत्रपूरीषश्व- शूकरखरोष्ट्रस्पर्शकेशास्थिभस्मप्रभृतीनि । "यत्र प्रसूयते नारी, म्रियते दह्यतेऽथवा । चाण्डालोऽध्युषितो यत्र यत्र मूत्रादिसङ्गतिः ॥ एवं कल्मषभूयिष्ठा भूरमेध्या प्रकीर्तिता । श्वशूकरखरोष्ट्राद्यैः संस्पृष्टा दुष्टतां व्रजेत् ॥ अङ्गारतुषकेशास्थि भस्माद्यैर्मलिना भवेत्" इति । तत्र "पञ्चधा बा चतुर्धा वा भूरमेध्या विशुद्धयती"ति वाक्यो- क्ता अमेध्याया भूमेः शुद्धिः। चाण्डालाध्युषिताया भूमेर्गन्धाता- द्यपनयनदहनकालगोक्रमणसेकोल्लेखनैः शुद्धता । यत्र मनुष्या जायन्ते म्रियन्ते वा साऽत्यन्तदुष्टा दाहातिरिक्तश्चतुर्भिः शुद्धयति । देवल:- "पञ्चधा वा चतुर्धा वा भूरमेध्या विशुद्धयति ।

श्राद्धसारे गृहशुद्धिनिर्णयः ६७ दुष्टा त्रिधा द्विधा वाऽपि शुद्धयते मलिनैकधेति वाक्यात् । गोक्रमणसेकोल्लेखनैः शुद्धा स्यात् , मलिना तु भूमिरुल्लेखनेनै- केन शुद्धा भवति इति । अथवा । "गोचर्ममात्रमबिन्दुः गोः शोधयति पातितः। सगूढमसगूढं वा यत्र लेपो न दृश्यते” इति शुद्धिः ॥ अथ गृहशुद्धिः। तत्र योगी- "गृहशुद्धि प्रवक्ष्यामि अन्तस्थशवदूषणे । प्रोन्मृज्य मृन्मयं भाण्डं सिद्धमन्नं तथैव च ॥ गृहादपास्य तत् सर्वं गोमयेनोपलेपयेत् । गोमयेनोपलिप्याथ गृहं मार्जनलेपनात्" । तथा गुरु:- "गृहस्य मार्जनं लेप" इति । तथा वसिष्ठ "गोमयेनोपलिप्याथ छागेनाधापययेद् बुधः । ब्राह्मणैर्मन्त्रपूतैश्च हिरण्यकुशवारिणा ॥ सर्वमभ्युक्षयेद्वेश्म ततः शुद्धयेदसंशयमि"ति । बौधायन.- "घनाया भूमेरुपघात उपलेपनम् , ऊपरायाः कर्षणम् , छ- माया मेध्याया मृदमाहृत्य प्रच्छादनम् । ऊर्द्धं तु शवोपघाते भित्ति- - HO -- नृसिहप्रसादे तक्षणं, सूर्यरश्मिप्रवेशोऽग्निज्वालाभिमर्शनम् । क्लिन्नां कृमिकीटा- याक्रान्तामन्यतो मृदमाहत्याच्छादयेत्" इति । विष्णुः-- "असपिण्डे स्ववेश्मनि मृते एकरात्रमाशौचमिति । तथा अङ्गिराः- "गृहे यस्य मृतः कश्चिदसपिण्डः कथञ्चन । अशौचं तस्य विज्ञेयं त्रिरात्रं नात्र संशयः, अपरो विशेष:- -- तत्र भरद्वाजः- "गृहे शूदादिमरणे दशाहमशुचिर्भवेत् । शूद्रान्त्यश्वपचादीनामेकद्वित्रिचतुर्थकमिति ॥ पुनः शूद्रग्रहणमसच्छूद्रविषयम् । रजकादयोऽन्त्याः । वृद्धवशिष्ठः "जाताशौचे मृताशौचे यद् गृहे स्थापितं भवेत् । अशौचान्तेऽथ सम्प्रोक्ष्य शमीदर्भकुशान्वितः ॥ पक्वमन्नं तथा मांसं क्षीरदध्यादिकानपि । शाकमूललतागन्धान् दैविकं नोपभोजयेत्" । अशुचिः शुचिरिति विप्रतिषेधात् वाग्दुष्टानि वर्जनीयानि, वाक्प्रशस्तानि गृह्णीयादिति गुरूक्ता व्यवस्था । इति श्रीमल्लक्ष्मीनृसिहचरणयुगलसरोरुहभ्रमरसकलभूमण्डलमण्डन- समस्तयवनाधीश्वरश्रीनिजामशाहसमस्तसाम्राज्यधुरन्धरश्रीमन्म- हाराजाधिराजश्रीदलपतिराजविरचिते श्रीनृसिहप्रसादे श्राद्धसारे भूमिशुद्धिनिर्णयः ।

६४ श्राद्धसारे उदकशुद्धिनिर्णयः अथोदकशुद्धिरभिधीयते। तत्र शत्र "भूमिष्ठमुदकं शुद्धं शुचि तोयं शिलागतम् । गन्धवर्णरसैर्दुष्टैर्जितं यदि तद्भवेत्" इति । मनु "आपः शुद्धा भूमिगता चैतृष्ण्य यासु गोर्भवेत् । अव्याप्ताश्चेदमेध्येन गन्धवर्णरसान्विता" इति । योगी- "शुचि गोप्तिकृत्तोयं प्रकृतिस्थं महीगतम्" इति । देवल.- "उद्धृते वा प्रशस्ताः स्युः शुद्धैः पात्रैर्यथाविधि । एकरात्रोषितास्तास्तु त्यजेदापः समाहित" इति ॥ ततश्च बहूदकात्तडागादापो ग्राह्याः । Hole- - तथा - "अक्षोम्यानि तहागानि नदीवापीसरासि च । चाण्डालाद्यशुचिस्पर्श तीर्थतः परिवर्जयेत् ॥ उदकावतरणमार्गस्तीर्थमुच्यते । तत्र यत्र चाण्डालादिस्पर्श- स्तद्वर्जयित्वा तत उदक ग्राह्यम् । विष्णु.- "मृतपञ्चनखात् कूपादत्यन्तोपहतात्तथा । अपः समुद्धरेत् सर्वाः शेष शास्त्रेण शोधयेत् ।। वहिप्रज्वलनं कृत्वा कृपे पक्वेष्टकाचिते । -

नृसिंहप्रसादे
पञ्चगव्यं न्यसेत् पश्चात् नवतोयसमुद्भवे ॥
जलाशयेषु स्वल्पेषु स्थावरेषु चरेषु च ।
कूपवत् कपिता शुद्धिः महत्सु तु न दूषणम्" इति ।
स्वल्पाचिरकालोपहतौ विशेषमुक्तवान्-
"वापीकूपतडागेषु दूषितेषु कथञ्चन ॥
उद्धृत्य 4 कुम्भशतं पञ्चगव्येन शुद्धयति ।
आपस्तम्ब..
"उपतस्थेयविण्मूत्रस्त्रीरजोमद्यमेव च ।
एभिर्विदूषिते कूपे कुम्भानां षष्टिसुद्धरेत्" इति ।
स्थावरस्वल्पजलाशये कूपवदेव शुद्धिरवधेया-
"जलाशयेषु स्वल्पेषु स्थावरेषु महीतले ।
कूपवत् कथिता शुद्धिर्महत्सु च न दूषणमिति विष्णुस्मरणात् ।
मनु
"प्रापः शुद्धा भूमिगताः शुचिर्नारी पतिव्रता ।
शुचिर्धर्मपरो राजा सन्तुष्टो ब्राह्मणः शुचिरिति ।
शातातपः
"अन्यैरपि कृते कूपे सेतौ वाप्यादिके तथा ।
तत्र स्नात्वा च पीत्वा च प्रायश्चित्तं न विद्यते ॥
-
पराशरः
"स्त्रियश्च पतिसंसर्गे श्वा मृगग्रहणे शुचिरिति ।।
यमः
"चाण्डालभाण्डे संस्पृष्ट पीत्वा कुपगतं जलम् ।

श्राद्धसारे उदकशुद्धिनिर्णयः गोमूत्रयावकाहारस्विरात्रेणैव शुद्धयती"ति ॥ नदीनां चाण्डालभाण्डादिस्पर्शेऽपि दोषाभाव एव । "नदी वेगेन शुद्धयति" इति स्मरणात् । चर्मकोशस्तु काषायद्रव्येण शुद्धं स्यात् । यद्यपि चर्मकोषस्य शुद्धिः कथञ्चिदुच्यते तथापि चर्मकोशगतमुदकमनापदि न ग्राह्यं न पेयम् । "प्रपास्वरण्ये घटगन्धकूपे द्रोण्यां जलं कोशगतास्तथाऽऽपः । अतेऽपि शूद्रात्तदपेयमाहुरापद्गतः कापि तथा पिवेत्तत् ॥ अममत्र वाक्यार्थः-अनापदि ब्राह्मणसम्बन्धि प्रपादिगतं जल न पिबेत् । आपत्काले तु आरण्यगतप्रपासु पेयमित्यर्थः । सर्वसा- धारणी पाषाणादिकृता पात्री द्रोणी कोष इति । नवोदकं दशरात्रेण शुद्धयति । "अजा गावो महिष्यश्च ब्राह्मण्यश्च प्रसूतिकाः । दशरात्रेण शुद्धयन्ति भूमिष्ठं च नवोदकमिति स्मृते. । आत्मशय्येत्यादिवचनात् उदकपात्रं स्वीयमेव शुद्ध तदेव ग्राह्य, आत्मीयशय्याद्यभावे परकीयमपि वस्त्रादिनाऽन्तर्दाय भोक्तव्यम् । पतितादेः शय्यादिस्पर्श सचैलस्नानम् । इति श्रीमल्लक्ष्मीनृसिंहचरणयुगलसरोरुहभ्रपरसकलभूमण्डलमण्डन- समस्तयवनाधीश्वरश्रीनिजामसाहसमस्तसाम्राज्यभुरन्धरश्रीमन्म- हाराजश्रीदलपतिराजविरचिते श्रीनृसिहप्रसादे श्राद्धसार उदकशुद्धिः।

७२
नृसिहप्रसादे
अथ सुवर्णादिशुद्धिः।
-
-
तत्र मनु:-
अग्नेश्वापां च संयोगात् हेम रूप्यं च निर्वभौ ।
तस्मात्तयोः स्वयोन्यैव निर्णेको गुणवत्तर" इति ।
तथाच शातातपः-
"सौवर्ण राजतं वापि शुद्धपात्रं तु न त्यजेत् ।
इतरेषां तु शुद्धिः स्यात्तापलेखन मार्जनैः ॥
हारतिः-
अद्भिः काश्चनराजतशङ्खशुक्तीनां तद्गुणवर्णस्नेहवैवगर्योप
तानां यवगोधूमकलायमाषममूर मुद्गगोमयचूणर्मार्जनम् । ताम
णामम्ललवणाभ्या कास्याना भस्मना, काष्र्णायसानां घर्षण शै
लानां सिकताघर्षणैः, मणिमयानां शिलाघर्षणमार्जनैरिति ।
-
मनुः
"तैजसानां मणीना च सर्वस्याश्ममयस्य च ।
भस्माना ऽद्भिर्मदा चैव शुद्धिरुक्ता मनीषिभिरिति ।
"तथा राजतकांस्यानां वपूणां सीसकस्य च ।
शौचं यथार्ह कर्तव्यं क्षाराम्लोदकवारिभिः ॥
योगी--
"सौवर्णराजताजानामूर्ध्वपात्रग्रहाश्मनाम् ।
शाकरज्जुमूलफलवासोविदलचर्मणाम् ॥

श्राद्धसारे पात्रादिशुद्धिः ८१ पात्राणां चमसानां च वारिणा शुद्धिरिष्यते ॥ स्फ्यशूजिनधान्यानां मुसलोलूखलानसाम् । चरुस्रुक्स्रुवसस्नेहपात्राणयुष्णेन वारिणा" इत्यादि । यज्ञाङ्गभूतं काष्ठं छुरिका शकटादि । स्पष्टमन्यत् । सौवर्ण सुवर्णविकारः, अब्ज शङ्खशुक्तिमुक्ताफलादि । ऊद्- र्ध्वपात्रं यागीयम् , उलूखलादिः । ऐन्द्रादयो ग्रहाः पात्रविशेषाः । 'ऐन्द्र ग्रहं गृह्णाति, माहेन्द्र ग्रहं गृह्णाति' इत्यादिवाक्यप्रसिद्धाः । अश्मा दृषदादि आर्द्रकादिमूलविदलनं वेणुदलादि च । चर्माजादेः। प्रणीतादीनि पात्राणि । होतृचमसादयश्वससाः । इमान्युदकक्षालनेन शुद्धयन्तीति । सुवर्णरजतमया अत्यन्तानुपहता अमावेव शुद्धयन्ति "अग्नेश्चापां च मंयोगादिति स्मरणात् । सवर्तः-- "विण्मूत्रोपहतं कांस्यं श्वपाकोपहतं तथा । भूमौ निक्षिप्य तं पात्रं घर्षणेन विशुद्धयती"ति । मनु -"निर्लेपं काञ्चनं भाण्डमद्भिरेव विशुद्धशती"ति ॥ "शूद्रोच्छिश्वपाकोपहतं कांस्यपात्रं दशवारं भस्मना मार्जितं शुद्धं स्यात्' इत्यापस्तम्ब । अत्यन्तोपहतौ घर्षणमेवाभिहितम् । ए सर्वत्र न्यूनाधिकशौचकल्पा न्यूनबहपहतिविषया इत्यवि- रोधः सर्वत्र । बौधायन "तैजसाना विण्मूत्राद्युपहतौ पुनः करणं गोमूत्रे वा सप्तरात्रं परिवासनमिति । अत्र लेपनिर्हरणाशक्तो ११

८२
नृसिहप्रसादे
पुनः करणमन्यथा गोमूत्र वास इति व्यवस्था । विष्णु -
"मूतिकाशवविरामवरजस्वलोपहतानि अग्निना शुद्धयन्ती"
ति । यावता न नश्यन्ति तावदग्निमयोगः ।
"दशाक्रैविशुद्धयन्ति" इति स्मरणमल्पोपहतिविषयम् ।
क्षारो भस्म, तेन दश वारं मानमभिमतम् । अपरो विशेषः।
"गण्डूषं पादशौचं च न कुर्यात् कांस्थभाजने ।
षण्मासं तु विनिक्षिप्य पुनराकारमादिशेत्" इति ।
मनु:-
"द्रवाणा चैव सर्वेषां शुद्धिरुत्पवनं स्मृतम् ।
अपि शाकं घृत क्षीरं स्नेहव्यं पलाधिकम् ।।
प्रोक्षणं सहताना च दारवाणा च तक्षणम्"।
तथा-
:
लोहानां दहनाच्छुद्धिर्भस्मना गोमयेन च ।
दहनात् श्वसनाद्वापि शैलानामम्भसाऽपि वा !!
काष्ठानां तक्षणान्छुद्धिर्मगोमयजलैरपि" इति ।
"मचैत्रैः पुरीषैश्च ष्ठीवनैः पृयशोणितैः ।
संसृष्टं नैव शुद्धथेत पुनः पाकेन मृन्मयम्"
इति मनुस्मरणात् ।
संहतपात्रे विशेष:-
"संहतानां तु पात्राणा ययेकमुपहन्यते ।
तस्यैव शोधन प्रोक्तं सामान्यं द्रव्यशुद्धिकृत्" इति ।

श्राद्धसारे अन्नादिशुद्धिः १३ मृद्भाण्ड मलोपहत पुनः पाकेन शुद्धत् । “पुनः पाकान् महीमयम्" इति योगिस्मरणात् । इति श्रीमल्लक्ष्मीनृसिंहचरणयुगलसरोरुहभ्रमरसकलभूमण्डलमण्डन- समस्तयवनाधीश्वरश्रीनिजामशाहसमस्तसाम्राज्यधुरन्धरश्रीमन्म. हाराजाधिराजश्रीदलपतिराजविरचिते श्रीनृसिहप्रसादे श्राद्धसारे सुवर्णदिशुद्धिनिर्णयः ।। अथान्नशुद्धिः। मनु देवद्रोख्यां विवाहेपु.यज्ञेषु प्रसवेषु च । काकैः श्वभिश्च यत् स्पृष्ट तदन्न न विवर्जयेत् ।। तन्मात्रमन्नमुद्धृत्य शेषं संस्कारमहतीति । देवद्रोणी देवयात्रा। - मनुः- "पक्षिजग्धं गवाघ्रातमवधूतमवतुतम् । दृषित केशकीटैश्च मृतक्षेपेण विशुद्धयति" इति । मृदूग्रहणमुदकादीनुपलक्षयति । 'सलिलं भस्म मृद्वापि' इति वचनात् ॥ पक्षिजग्धं पक्षिक्षितम् , अवधूवत पक्षिभिरुत्क्षिप्य त्यक्तं वा। अवक्षुतं यस्योपरि कृत पाकोत्तरम् । कृमिकीटनिपाते इयं शुद्धिः। सहपाकश्चेत् परित्याग एव ।

नृसिंहप्रसादे
पराशर:-
"पक्वं द्रोणाधिक त्वन्नं काकश्वायुपघातितम् ।
ग्रासमुद्धृत्य तन्मात्रं यत्तु लालाश्रितं भवेत् ॥
हेमोदकेन वाऽभ्युक्षेत् ज्वलनेनाम्वुनाऽथवा ।
अग्निज्वालोपसस्पर्शात् सुवर्णमधुसर्पिषा ॥
विषाणां ब्रह्मघोषेण पूतं भोज्यं च तद्भवेदिति ।
षट्पञ्चाशदधिकपलशतद्वयं द्रोण उच्यते ।
"अन्नमेकाहिक पक्वं श्वकाकाद्युपधातितम् ।
केशकीटावपन्नं च तदप्येवं विशुद्धयति ॥
क्रीतस्यापि विधिदृष्ट एवमेव मनीषिभिरिति जमदग्निवचः
स्वल्पविषयम् ।
अथ द्रवद्रव्यशुद्धिः।
सत्र मनु
द्रवाणा चैव सर्वेषा शुद्धिरुत्पवनं स्मृतम् ।
प्रोक्षणं संहतानां च दारवाणा च तक्षणम्" इति ॥
तथा-
द्रवाणां प्लावनेनैव धनानां प्रोक्षणेन च ।
छागेन मुखसस्पृष्टमन्न तच्छुचितामियात् ।।
पर्पवटकादयो घना उच्यन्ते । द्रवद्रव्यं गोरसः ।
श्रपणं घृततैलानां प्लावनं गोरसस्य च ।
भाण्डानि प्लावयेदद्भिः शाकमूलफलानि च" इति ।

श्राद्धसारे द्रवद्रव्यशुद्धिः ८५ शङ्ख "उत्पवनं पूर्वभागस्थितस्य कस्य चिदंशस्यापनयनम् । अधिक- परिमाणवता प्लावनं द्रवाणां त्याग' इति । तत्र प्रकार । घृततैला दीनां काकायुपहतानां प्रस्थमात्रपरिमाणाना किंचित् दूरीकृत्य दर्भः पवमानः सुवर्जन इत्यनुवाकेन शुद्धिः स्यात् । स्वल्पानां त्याग एव। संहतानां कठिनानामामिक्षादीनामुपहतप्रदेशत्यागेन प्रो- क्षणाच्छुद्धिः । आधारभाण्डे स्थितं गोपय आदि न दुष्यति । "आधारदोषे तु नयेत् पात्रात् पात्रान्तरं द्रवम् । घृतं तु पायसं तीरं तथैवेचरसो गुडः ॥ शूद्रभाण्डस्थितं तर्क तथा मधु न दुष्यति" इति स्मरणात् ॥ यम - "आममांसं घृतं तौद्रं स्नेहाश्च फलसम्भवाः । म्लेच्छभाण्डस्थिता दृष्या निष्क्रान्ताः शुचयः स्मृताः" इति । इदं च द्रोणाधिकद्रव्यविषयम् । देशकालाद्यपेक्षया अल्पमप्य- त्याज्यमदुष्टत्वात् । शल: "निर्यासानां गुडाना च लवणानां तथैव च । कुसुम्भकुङ्कुमाना च ऊर्णाकासियोस्तथा ॥ विशेषात् कथिता शुद्धिरित्याह भगवान् यमः" 1 निर्यासा हिङ्गमभृतयः। इॐ स्वल्पपरिमाविषयम् , बहूनां तु चाण्डालादिस्पर्शेऽपि प्रोक्षणेनैव शुद्धिः। अत्यल्पानां परित्याग एव, तदपि देशकालाद्यपेक्षया परित्याज्यम् ।

॥ dic नृसिहप्रसादे मृत्पर्णतणकाष्ठानां चाण्डालस्पर्श सोमसूर्यमारुतः शुद्धिः। पुस्तकशुद्धिः प्रोक्षणेन । पर्णानामद्भिः प्रक्षालनं, सकृदुपभुक्तानां तूत्सर्ग एव कर्तव्यः, पुष्पफलानां द्विःकरावधूननं प्रक्षालनमभ्युक्षण- मिति केचित् । असंस्कृतभूमिव्यस्तानां प्रक्षालनमेव, परोक्षाहतानामभ्युक्ष- णम् । द्रव्यहस्तस्योच्छिष्टस्पर्शे मनूक्तो विशेषः- "उच्छिष्टेन तु सस्पृष्टो द्रव्यहस्तः कथञ्चन । अनिधायैव तद्रव्यमाचान्तः शुचितामियात्" इति । व्यास:- "स्थ्याकर्दमतोयानि तावत्पथि तृणानि च । मारुतेनैव शुद्धयन्ति पक्वेष्टकचिताने च" इति । इति श्रीमल्लक्ष्मीनृसिहचरणसरोरुहभ्रमरसफलभूहण्डजमण्डनसम- स्तमवनाधीश्वरश्रीनिजामसाहसमस्तसाम्राज्यधुरन्धरश्रीमन्महा- राजाधिराज श्रीदलपतिराजविरजिते नृसिहप्रसादे श्राद्धसारे द्रवद्रव्यशुद्धिः । अथ धान्यादिशुद्धिरभिधीयते। तत्र विष्णु ---"असिद्धस्यान्नस्य मध्ये यावदुपहत तावदेव परित्यज्यावशिष्टं ग्राह्यम् । सतुषस्य कण्डनप्रक्षालने विधेये । "व्रीहयः प्रोक्षणादद्भिः शाकमूलफलानि च ।

श्राद्धसारे वस्त्रादिशुद्धिः तन्मात्रस्यापहाराद्वा निस्तुषास्तु करेण वेति बौधायनवाक्यात्। इदमल्पद्रव्यविषय, बहुद्रव्यं तु प्रोक्षणादिना शुद्ध्यति । ब्रीहियव- गोधूमाना प्रोक्षणपर्यग्निकरणावगाहनादिभिः शुद्धिरिति कश्यप । अवगाहनं प्रक्षालनमित्यर्थः । अनेकपुरुषोद्धार्याश्च प्रोक्षणादिना शुद्ध्यन्ति । मुद्गादिसप्तधान्यानि तानि यदाऽनेकपुरुषोद्धार्याणि भवन्ति तदा निघर्षणं विमर्दनं निर्मलीकरण, ततोऽल्पानि चेद्वलनं प्रोक्षणं च शुद्धिरिति आदित्यपुराणे विशेषः । अथ वस्त्रादिशुद्धिरभिधीयते । - तत्र मनु "अद्भिस्तु प्रोक्षणं प्रोक्त बहूनां धान्यवाससाम् । प्रक्षालनेन त्वल्पानामद्भिः शौचं विधीयते" इति । व्यास वस्त्रं मृदम्भसा शुद्ध्येद्रज्जुर्वदलमेव च । रज्ज्वादिकं चातिदुष्ट त्याज्यं तन्मात्रमेव च ।। वैदलं शूर्पादि । यम "यदि मत्रपुरीषाभ्यां रेतसा रुधिरेण च । चैल समुपहन्येत अद्भिः प्रक्षालन तु तत् ॥ यदम्भसा न शुद्ध्येत वस्त्र चोपहतं दृढम् । छेदन तस्य दाहो वा यन्मात्रमुपहन्यते" इति ।

नृसिंहप्रसादे दाहछेदौ अत्यन्तोत्तमविषयौ दरिदस्यानुत्तमेष्वपि छेदादिना शुद्धिः। योगी- "प्रोक्षणं संहतानां च बहूनां धान्यवाससाम्" । स्मृत्यन्तरे- "वस्नधान्यादिराशीनामेकदेशस्य दूषणम् । तावन्मात्रं समुद्धृत्य शेष प्रोक्षणमर्हति ॥ शेष प्रोक्षणमहतीत्युक्त उधृतमुपहतं प्रोक्षितं शुद्धं भवतीति प्रतीयते । यदा हि राशीकृतानां सर्वेषामपि स्पर्शो भवेत् तदा प्रो- क्षणादेव शुद्धिः । यदा बहूनां स्पर्शोऽल्पानामस्पर्शः तदा सर्वेषां प्रक्षालनमेव शुद्धः कारणम् । राशेर्वहुत्त्वं च पुरुषग्राह्यभाराधि- कत्वम् । योगी- "शौषैरुदकगोमूत्रःशुद्धयत्याविककौशिकम् । सश्रीफलैरंशुघटं सारिष्टं कुतुपं तथा" ॥ गौरसर्षपैः क्षौममिति शेषः । अक्षारमृदुलै कौशिकं शुद्धय- ति, कुतुपः पर्वतच्छागलोमनिर्मितः कम्बलः। अरिष्टफलं केतक, श्रीफलं विल्वफलम् । इय शुद्धिरधिकोपघाते वेदितव्या । अल्पे प्रोक्षणस्यैव युक्तत्वात् । देवल "ऊर्णाकौशेयकुतुपशणक्षौमदुकूलकाः । अल्पशौचाद् भवन्त्येते शोषणमोक्षणादिभिः ।। - श्राद्धसारे पात्रादिशुद्धिः ८६ तान्येवामध्ययुक्तानि क्षालयेच्छोधनैः स्वकैः । तुलिकामुपधानं च पुष्परक्ताम्बर तथा ॥ शोपयित्वाऽऽसपे किश्चित्करैः सम्मार्जयेन्मुहुः । यचापि वारिणा मोक्ष्य विनियुञ्जीत कर्मणि ।। तान्यप्यतिमलिष्ठानि तथा तत्परिशोधयेत्" । पुष्परक्ताम्बरमिति प्रक्षालनेन सह रागरक्तोपलक्षणम् । ततश्च यत्प्रक्षालनेन विनष्टरागं न स्यात् प्रक्षालनेनाविनष्ट- रागं तदातपशोषणादिना शोष्यं , वस्त्रसहितस्यैव नाभेरुवस्पर्शे- ज्वगाइनम् , अधस्तात्मक्षालनम् , संहताना प्रोक्षणमिति शङ्खः । यन्त्रादुत्तोर्णानामहतनवाना वस्त्राणामभ्युक्षणम् । इति श्रीमल्लक्ष्मीनृसिंहचरणसरोरुहभ्रमरसकलभूमण्डलमण्डननि- जामसाहसमस्तधुरचरश्रीमन्माराजाधिराजश्रीदलपतिराजविरचिते श्रीनृसिंहप्रसादे श्राद्धसारे वस्त्रशुद्धिः। अथ देहशुद्धिरभिधीयते। तब शरीरं ध्यानज्ञानतपोग्न्याहारराहित्यादिना शुध्यति । सदुक्त मनुना ( अ. ५. १०५-१०६)- 'ज्ञानं तपोऽग्निराहारो मृन्मनो वार्युपाञ्जनम् । वायुः कर्मार्फकालौ च शुद्धः कर्तृणि देहिनाम् ॥ १२

६०
नृसिंहप्रसादे
सर्वेषामेव शौचानामर्थशौचं परं स्मृतम् ।
योऽर्थे शुचिहि स शुचिर्न मृद्वारिशुचिः शुचिः ।।
तान्त्या शुद्ध्यन्ति विद्वांसो दानेनाकार्यकारिणः ।
प्रच्छन्नपापा जाप्येन तपसा वेदवित्तमः ॥
मृत्तोयैः शोध्यते शोध्यं नदी वेगेन शुद्ध्यति ।
रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमाः ॥
अद्भिर्गात्राणि शुद्ध्यन्ति मनः सत्येन शुद्धयति ।
विद्यातपोभ्या भूतात्मा बुद्धिर्ज्ञानेन शुद्ध्यति" ॥
अथ शुध्यपवादोऽभिधीयते।
।
तथाह मनु (अ. ५. १२६ )-
नित्यं शुद्धः कारुहस्तः पण्ये यच्च प्रसारितम् ।
ब्रह्मचारिंगतं भैक्ष्य नित्यं मेध्यमिति स्थितिः" इति ।
ब्रह्मचारिपदं भिक्षुकानुपलक्षयति, तथाचायमर्थः सम्पनः-भि
क्षुस्थितं सिद्धान्नं रथ्योपसर्पणोपघातेनाशुद्धं न भवतीति । तथा च
स्मरन्ति-
"अपूपाः सक्तवो धानास्तकं दधि घृतं पयः ।
एतत्पण्यगत भोज्यं भाण्डलेपो न चेद्भवेत्' इति ।
गुरुः
-
"पादौ शुची ब्राह्मणानामजाश्वस्य मुखं शुचि ।
गवां पृष्ठानि मेध्यानि सर्वगात्राणि योषिताम्" ॥

श्राद्धसारे शुद्धयपवादः
११
शहः
"नारीणां चैव वत्सानां शकुनीनां शुनां मुखम् ।
रतौ प्रस्रवणे वृक्षे मृगयायां सदा शुचि ॥
तथा-
"आकराः शुचयः सर्वे शकुनिः फलपातने ।
श्वा मृगग्रहणे मेध्यः स्त्रीमुखेषु च वारुणी"ति ॥
स्त्रीमुखेष्विति पीतमद्याया अपि ब्राह्मणभार्यायाः । शूद्रायां
बुद्धिपूर्वकं गन्धस्वासादनपूर्वकं गधरसास्वादन वर्जितम् । मुखं
रतिसमये संस्पर्शेऽपि शुद्धमिति ।
यम:-
"अपूपाः काञ्चनं गावः स्त्रीमुखं कुतपं जलम् ।
न दूषयन्ति विद्वांसो यज्ञेषु चसमं यथा ॥
मुखतो गौरमेध्या तु मध्येऽजो मुखतस्तथा ।
पृष्ठतो गौर्गजः स्कन्धे सर्वतः स्त्री शुचिस्तथेति ।।
मनुः-
"अदुष्टाश्च तथा धारा वातोधूताश्च रेवणः ।
स्त्रियो वृद्धाश्च बालाश्च न दुष्यन्ति कदाचन" इति ।
मनु:--
"मतिका विषश्छाया गौश्वः सूर्य एव च ।
राजा भूर्वायुरग्निश्च स्पर्शे मेध्यानि निदिशेत्" इति ।
अत्र मक्षिकाग्रहणन अवर्जनीयस्पर्शा दंशादय उपलक्ष्यन्ते ।

नृसिंहप्रसादे अत्रिः-- "मधुपर्के च सोमे च अप्सु प्राणाहुतीषु च । नोच्छिष्टस्य भवेद्दोषस्त्वत्रेश्च वचन तथेति ॥ अप्सु इति भोजनोत्तरममृतोपस्तरणमसीत्यमृतीकरणार्थ या आपो गृह्यन्ते तास्विति यावत् । मधुपर्कादिषु मन्त्रोच्चारण कार्ये उ- च्छिष्टदोषो न हि । तथा- "ताम्बूलेक्षुफले चैव भुक्तस्नेहावशिष्टके । दन्तलमस्य सस्पर्शे नोच्छिष्टो भवति द्विजः ॥ त्वग्भिः पत्रैर्मूलफलैः तृणकाष्ठमयैस्तथा । सुगन्धिभिस्तथा द्रव्योंच्छिष्टो भवति द्विजः” इति । उच्छिष्ट इति आचमनाईप्रायश्चित्तयुक्तः स उच्यते । द्रव्यं च भक्ष्यभोज्यादि। आचमनविधावेवं युक्तम्। बामणिबन्धं पाणी प्रक्षा- ल्याविति। यदि कश्चिद् द्रव्यहस्त उच्छिष्टस्पृष्टस्तदा तदा द्रव्यं निधा- यैवाचनन कर्तव्यम्। तत्रायं भावः-यथा पुरुषाशौचसम्बन्धात् द्रव्य- मशुचि सम्भवति तथैव तच्छौचसम्बन्धाच्छुचि भवतीति । न चात्र द्रव्यं निधायाऽऽचामेदिति गौतमवाक्यविरोधः । गरीयो द्रव्यं निधा- याचामेदित्येवं परत्वात् । ततश्च गरीयो निधायान्यदङ्गस्थं कृत्वाऽऽ- चामेदिति शास्त्रार्थः। तथा- - "दधि सर्पिः पयः क्षौद्रं भाण्डदोषो न विद्यते । मार्जारश्चैव दर्वी च मारुतश्च सदा शुचिः॥

श्राद्धसारे श्राद्धभेदः तथा - "मार्जारनकुलौ स्पृष्टौ शुद्धाश्च मृगपक्षिणः" इति । कर्मणि मार्जारस्पर्शे स्नानम् । ततश्च अदृष्टोपहतौ न दोषः । इति श्रीमल्लक्ष्मीनृसिंहचरणयुगलसरोरुहभ्रमरसकलभूमण्डलमण्डन- समस्तयवनाधीश्वरश्रीनिजामसाहसमस्तसाम्राज्यधुरन्धर श्रीमन्म- हाराजाधिराजश्रीदलपतिराजविरचिते श्रीनृसिहप्रसादे श्राद्धसारे धान्यशुद्धिः॥ तत्र श्राद्धं द्विविधं पार्वणमेकोदिष्टं च । तत्र पार्बणं नाम यत्र पुरुषत्रयमुद्दिश्य क्रिया तत्पार्वणम् , एकपुरुषोद्देशेन क्रियमाण- मेकोद्दिष्टम् । एतद् द्विविधमपि त्रिविधं, नित्यं नैमित्तिकं काम्यं च। तत्र जीवनोपाधितया विहित नित्यं यथा दर्श विहितममावास्याश्रा- दम् इति । अनियतनिमित्तक नैमित्तिक यथा चन्द्रोपरागादौ विहि- कामनानिमित्ततया विहित काम्य यथा तिथिनक्षत्रादिषु । पुनर्दादशधा नित्यनैमित्तिककाम्यवृद्धिश्रादसपिण्डपार्वणगोष्ठीशुद्धध- र्यकर्माङ्गदैविकयात्रापुष्टयर्थानि । तथोक्तं विश्वामित्रेण- "नित्यं नैमित्तिक काम्यं वृद्धिश्राद्धं सपिण्डनम् । पार्वणं चेति विज्ञेयं गोष्ठयां शुद्धयर्थमष्टमम् ।।

४ नृसिंहप्रसादे कर्माङ्ग नवमं प्रोक्तं दैविक दशमं स्मृतम् । यात्रास्वेकादशं प्रोक्तं पुष्टयर्थ द्वादश स्मृतम्" । इत्येते द्वादश भेदास्तेष्वेवान्तर्भूता इति माधवाचार्यः । पृथगेवैते इति स्मृतिरत्नावलीकारा.-तल्लक्षणमाह पारस्कर "अहन्यहनि यच्छ्राद्धं तन्नित्यमिति कीर्तितम् । वैश्वदेवविहीन तु अशक्तावुदकेन तु ॥ एकोद्दिष्टं तु यच्छ्राद्धं तन्नैमित्तिकमुच्यते । तदप्यदैविक इयमयुग्मानाशयेद् द्विजान्" ॥ काम्यमभिलषितार्थसिद्धयर्थमनुष्टीयमानम् । पुत्रजन्मविवा- हादौ क्रियमाण वृद्धिश्राद्धमित्युन्यते । सपिण्डीकरण सपिण्डनम् । प्रतिपर्व क्रियमाण पार्वणम् । गोष्टयामिति गोष्टे क्रियमाणम् । तदाह वृद्धवशिष्ट:- "अभिप्रेतार्थक काम्य श्राद्ध पार्वणकं स्मृतम् । पुत्रजन्मविवाहादौ द्विश्राद्धमुदाहतम् ।। नवानीतापात्र च पिण्टं च परिकीर्तितम् । पिण्डपात्रेषु पिण्डेषु सपिण्डीकरणं तु तत्" । नवानीतापात्रमिति निरन्तरप्रेतार्थ पात्रमिति यावत् । पिण्डशब्दस्तूभयलिङ्गः । गृहात् पिण्ड पतीति प्रयोगदर्शनात् । "प्रतिपर्व भवेद्यस्मात् तेन स द्विजसमेः । प्रोच्यते पाणश्राद्ध मासिक कैश्चिदिष्यते ।। मासि मासि भवं मासिकमिति यावत् । 'गोष्टया यत् क्रियते श्राद्ध गाठीश्राद्धं तदुच्यते । m- श्राद्धसारे वस्त्रादिशुद्धिः बहूनां विदुषां प्राप्तौ सपात्रं पितृप्तये ॥ एतच्च पृथकपाकानुपदेशात् ससृष्टपाकस्यान्याय्यत्वात् यतो बहूनां विदुषां यत् श्राद्धस्य कर्तव्यत्वे उपस्थिते पृथकपाकसाधन- सामग्रीरहितानां तीर्थेऽनुतप्तानां श्राद्धकरणोद्युक्तानां द्रष्टव्यमिति । प्रचेता "यथाशक्त्याऽभिरूपाणां ब्राह्मणाना च भोजनम् । शुद्धर्थमिति तत् प्रोक्तं श्राद्ध पार्वणवत् कृतम्" ॥ शुद्धर्थमिति चीर्णप्रायश्चितस्य ब्राह्मणभोजनानन्तरं वचनादात्मनः शुद्ध्यर्थम् । अभिरूपपद पूर्व व्याकृतम् । कर्माङ्गमिति यागादौ क्रियमाणम् । दैविकमिति देवानुद्दिश्य क्रियमाणम् । यात्राश्राद्ध- मिति विनिर्गमनसयये क्रियमाणम् । तदाह पारस्कर- "निषेककाले सोमे च सीमन्तोन्नयने तथा। ज्ञेयं पुंसवने श्राद्धं कर्माङ्ग वृद्धिवत् कृतम्" ॥ निषेको गर्भाधानम् । सीमन्तोन्नयनपुंसवनग्रहणमुभयसंस्कार- प्रतिपयर्थम् । चशब्देन जातकर्मादिकेवलपुरुषसंस्कारगुणो लभ्यते। सोमग्रहणं दर्शपूर्णमासाद्यर्थम् । वृद्धिवदित्यनेन नवदेवत्यम् । "देवानुद्दिश्य क्रियते यत्तद् दैविकमुच्यते । हविष्येण विशिष्टेन द्वादश्यादिषु यत्नतः ॥ हविष्येणेति ब्रीहियवशालिमुद्गरूपेण । विशिष्टेनेति । एतदेव तस्य विशिष्टत्वं यत् पायसघृतशर्करादध्यादियुक्तत्वम् । द्वादशी दशम्यादितिथीनुपलद यति । आदिशब्दो भानुवारादीन् । "गत्वा देशान्तरं यस्तु श्राद्ध कुर्यात्तु सर्पिषा । - १६ नृसिंहप्रसादे यात्रार्थमिति तत् प्रोक्तं प्रवेशे च न संशयः" ॥ गत्वा देशान्तरमिति यद्यपि अविशेषेणाश्रावि तथापि स्मृत्यन्तरोक्तविशेषदर्शनेन सामान्य विशेषे उपसंहियते। तदुक्तम्- "उद्यतस्तु गयां गन्तुं श्राद्धं कृत्वा विधानतः । विधाय कर्पटीवेषं ग्रामस्यापि प्रदक्षिणम्" इति । गयेत्युपलक्षणं सिहस्थगोदायात्रादेः । ततश्च गयाद्यर्थ गच्छतो नेतरत्रोति परिसख्यया व्याख्यया परितोषः । इदं च श्राद्ध मत्यने विशदतरमुपपादयिष्यते । सपिति केवलेन तेनैव द्विजतृप्तेरु- त्यादयितुमशक्यत्वात् । अतस्तद्युक्त कर्तव्यमित्यर्थः । क्रियमाण- मत्र श्राद्ध नवदेवत्य कर्तव्यम्। निर्गमे च गयायां प्रवेशे च कर्तव्यम्। तथोक्तम्- "शरीरोपचये श्राद्धमर्थोपचय एव वा । पुष्टयर्थमिति यत् प्रोक्तं श्राद्धं पार्वणवत् कृतम्" ॥ शरीरोपचय इति तदुपचयार्थ रसायनायुपक्रमे तदुपचये वा जाते रसायनौषधादेः सिद्धौ जातायां वा । अर्थागमे वा जाते इति अर्थोपचये महालाभे निधिरूप्यादिलाभ इति यावत् । तत्र विष्णुधर्मोत्तरे- "दक्षिणाप्रवणे देशे तीर्थादौ वा गृहेऽपि वा । भूसस्कारादिसयुक्ते श्राद्धं कुर्यात् प्रयत्नतः" इति । देवर्षिसिद्धतापसादिसेवितमुदक तोर्थमित्यभिधीयते । गो- मयादिनोपलेपो भूसंस्कारः । आदिशब्देनाशुचिद्रव्यापसारणम् । तदुक्तं मनुनापि । “शुचिदेशे विविक्ते तु गोमपेनोपलिप्य च ।

- श्राद्धसारे श्राद्धदेशः शरीरोपचये इति तदुपचयार्थरसायनाथुपचये वा जाते रसा- यनौषधादेः सिद्धौ जातायां वा । अर्थागमे वा जात इति । अर्थों- पचये महालाभे निधिरूप्यादिलाभ इति यावत् । तत्र विष्णुधर्मोत्तरे- "दक्षिणाप्रवणे देशे तीर्थादौ वा गृहेऽपि वा । भूसंस्कारादिसयुक्ते श्राद्ध कुर्यात् प्रयत्नतः" इति । देवर्षिसिद्धतापसादिसेवितमुदक तीर्थमित्यभिधीयते । गोमया दिनोपलेपो भूसंस्कारः। श्रादिशब्देनाशुचिद्रव्यापसारणम् । त- दुक्तं मनुनापि- "शुचिदेशे विविक्ते तु गोमयेनोपलिप्य च । दक्षिणाप्रवणे चैव प्रयत्नेनोपपादयेत् ॥ कृमिकीटाधुपहतं देशं श्राद्धे विवर्जयेत् । तथा मार्कण्डेय "वा जन्तुमयी रूक्षा क्षितिर्दुष्टा तथाऽग्निना। अनिष्टदुष्टशब्दोग्रा दुर्गन्धा श्राद्धकर्मणीति । तदाह दक्ष "मृक्षकृमिहतं क्लिचं संकीर्णानिष्टगन्धकम् । देश त्वनिष्टशब्दं च वर्जयेच्छाद्धकर्मणीति ॥ क्लिनं सम्पृक्तं सङ्कीर्णमन्यैः सङ्कीर्णम् । तथा शल "गोगवाश्वादिपृष्टेषु कृत्रिमाया तथा भुवि । न कुर्याच्छ्राद्धमेतेषु परक्यासु च भूमिषु" इति । - १३ ८ नृसिहप्रसादे कृत्रिमाया वेदिकादौ, पारक्यासु परपरिगृहीतासु । ताश्च गृह- गोष्ठारामादयः न पुनस्तीर्थादिस्थानानि । आदिपुराणे च- "अटवी पर्वताः पुण्या नदीतीराणि यानि च । सर्वाण्यस्वामिकान्याहुर्नहि तेषु परिग्रह" इति । "वनानि गिरयो नद्यस्तीर्थान्यायतनानि च । देवाखातं च गर्ताश्च न स्वामी तेषु विद्यते" इति । अथ श्राद्धप्रदेशा। तीर्थक्षेत्र विशेषेषु कृत श्राद्धमतिशयफलदंभ- वतीत्यवसीयते । तथाच व्यास:- "पुष्करेष्वक्षयं श्राद्धं जपहोमतपासि च । महोदधौ प्रयागे च काश्या च कुरुजाङ्गले"॥ तथा देवल.- "श्राद्धस्य पूजितो देशो गया गङ्गा सरस्वती । कुरुक्षेत्रं प्रयाग च नैमिषं पुष्कराणि च ॥ नदीतटेषु तीर्थेषु वनेषु पुलिनेषु चेति । - স্ত্র "गङ्गायमुनयोस्तीरे पयोष्ण्यमरकण्टके । नर्मदाबाहुदातीरे च भृगुतुङ्गे हिमालये ॥ गङ्गाद्वारे प्रयागे च नैमिषे पुष्करे तथा । सन्निहत्यां गयाया च दत्तमक्षयता व्रजेत् ।।

श्राद्धसारे श्राद्धदेशः
तथा गुरु:-
"काङ्गन्ति पितरः पुत्रानरकाघातभीरवः ।
गया यास्यति यः कश्चित् सोऽस्मान् सन्तारयिष्यति ।
करिष्यति वृषोत्सर्गमिष्टापूर्त करिष्यति ।
पालयिष्यति वृद्धत्वे श्राद्धं दास्यति चान्वहम् ॥
गयायां धर्मपृष्ठे च सदसि ब्रह्मणस्तथा ।
गयाशीर्षे वटे चैव पितॄणा दत्तमक्षयमिति ॥
तथा ब्रह्माण्डेऽपि-
"नदीसमुद्रतीरे वा हृदे गोष्ठे च पर्वते ।
समुद्रगानदीतोये सिन्धुसागरसङ्गमे ।।
नद्यो सङ्गमे राजन् शालग्रामशिलान्तिके ।
पुष्करे वा कुरुक्षेत्रे प्रयागे नैमिषेऽपि वा ॥
शालग्रामे च गोकर्णे गयायां च विशेषतः ।
तीर्थेष्वेतेषु यः श्राद्धं पितृभक्तिसमन्वितः ।।
करोति विधिवन्मर्त्यः कृतकृत्यो विधीयत" इति ।
तथा विष्णुरपि-
"गयाशीर्येऽक्षयवटेऽमरकण्टकपर्वते" ।
यत्र क्वचन नर्मदातीरे यमुनातीरे गङ्गायां विशेषतो गङ्गाकु-
शावर्ते विलके नीलपर्वते उज्वले भृगुतुङ्गे केदारे महालये मल्लि-
काया सुगन्धायां फल्गुतीर्थे महागङ्गाया तण्डुलिकाश्रमे कुमारधरा-
यां पमासे यत्र क्वचन सरस्वत्या विशेषतो नैमिषारण्ये वाराणस्या-
मगस्त्याश्रमे कण्वाश्रमे कौशिक्या सरयूतोरे शोणस्य ज्योतिरयोध्या-
-

नृसिंहप्रसादे
-
याश्च सङ्गमे श्रीपर्वते कालोदके उत्तरमानसे वडवायां सप्तौ विष्णु-
पादस्वर्गमार्गप्रदेशे गोदावर्या गोमत्यां वेत्रवत्यां विपाशायां वितस्ता-
यां शतद्रुतीरे चन्द्रभागायामरावत्या सिन्धोस्तीरे दक्षिणे पश्चनदे
मानसे चैवमादिष्वन्येषु तीर्थेषु सरिद्वरासु सङ्गमेपु प्रभवेषु पुलिनेषु
प्रस्रवणेषु पर्वतनिर्झरेषु वनेषु वनोपवनेषु च गोमयेनोपलिप्तेषु गृहेषु
मनोज्ञेषु चेति । अत्र पितृगाथा भवति-
"कुलेऽस्माक स जन्तुः स्यात् योनो दद्याज्जलाञ्जलीन् ।
नदीषु बहुतोयासु शीतलाशु विशेषतः ॥
अपि जायेत सोऽस्माक कुले कश्चिन्नरोत्तमः ।
गयाशीर्षे वटे श्राद्धं यो नः कुर्यात् समाहितः ॥
एष्ट-या बहवः पुत्रा योकोऽपि गयां व्रजेत् ।
यजेत वाऽश्वमेधेन नील वा पमुत्सृजेत्" ।
गयाशीर्षप्रमाणं चादिपुराणेऽभिहितम् ।
"पञ्चकोशं गयाक्षेत्रं क्रोशमेक गयाशिरः ।
महानद्याः पश्चिमेन यावद् गृध्रेश्वरो गिरिः ॥
उत्तरे ब्रह्मकुण्डस्य यावदक्षिणमानसम् ।
एतद् गयाशिरो नाम त्रिषु लोकेषु विश्रुतम्" इति ।
तथा-
"द्रोणीवाटनदाधारा सरः शोणनदं तथा
द्वारिका कृष्णतीर्थ च तथाऽर्बुदसरस्वती ।।
नदी मणिमती नाम तथा च गिरिकर्णिका ।
धूतपाप तथा तीर्थ समुद्रो दक्षिणस्तथा ॥

श्राद्धसारे श्राद्धदेशः
१०१
गोकणं गजकर्ण च तथा च पुरुषोत्तमः ।
एतेषु पितृतीर्थेषु श्रोद्धमानन्त्यमश्नुते ।
अर्जुनं त्रिसुरेशं च सिद्धेश्वरमत परम् ॥
श्रीशैलं शङ्कर तीर्थ नरसिंहमतः परम् ।
महेन्द्र च तथा पुण्यं तथा श्रीरङ्गसज्ञितम् ॥
तुङ्गभद्रा नदी पुण्या तथा भागीरथी सरित् ।
रामेश्वरं कृष्णवेणा कावेरी वजुला नदी ।
सेतुबन्धं तथा तीर्थ यत्र रामेश्वरो हरिः ॥
नदी गोदावरी नाम त्रिसन्ध्या तीर्थमुत्तमम् ।
कायावरोहणं नाम यत्र चर्मण्वती नदी ।
तीर्थ त्रयम्बकं नाम सर्वतीर्थमहत्फलम् ।
गोमती बहुला तद्वत् तीर्थ मानसरोवरम्" इति ।
इति श्राद्धदेशा ।
अथ निषिद्धदेशा अभिधीयन्ते।
तत्र विष्णु -
"चातुर्वर्ण्यव्यवस्थान यस्मिन् देशे न विद्यते ।
स म्लेच्छदेशो विज्ञेय आर्यावर्तस्ततः परम् ।।
ततश्च म्लेच्छदेशो वयं इति सूचितम् ।
"म्लेच्छदेशे तथा रात्रौ सन्ध्यायां च विशेषतः ।।
न श्राद्धमाचरेत् प्राज्ञो म्लेच्छदेश न च व्रजेत्" ।
इति शङ्खस्मरणात् । तथा तत्र वृत्यनुसन्धानेन गमने दोषोऽ
-

१०२
नृसिहप्रसादे
-
पि स्मर्यते । यथा-
"सिन्धुसौवीरसौराष्ट्रान् तथा प्रत्यन्तबासिनः ।
अङ्गवङ्गकलिङ्गाद्यान् गत्वा संस्कारमहतीति ।।
पुनःसस्कार कर्मणि ये ग्राह्या धर्मा ये च त्याज्यास्तेऽभिहिता:-
"मेखलामजिनं दण्डमुपवीतं कमण्डलुम् ।
निवर्तन्ते द्विजातीनां पुनः संस्कारकर्मणीति ॥
देशान्तरगमननिषेधो दृष्टार्थ एव निषिध्यते नादृष्टार्थस्तीर्थया-
त्रानिबन्धनः ।
"दृष्टार्थगमने दोषस्तीर्थाद्यर्थ न दुष्यति ।
न जातु देशदोषोऽस्ति तोर्थे क्षेत्रे च दैवते" इति स्मरणात् ।
अत एवाहुमहर्षय
"कीकटेषु गया पुण्या पुण्यं राजगृहं वनमिति ।
वायुपुराणे-
"त्रिशङ्कु वर्जयेद्देशं सर्व द्वादशयोजनम् ।
उत्तरेण महानद्या दक्षिणेन तु कीटकान् ।।
देशस्त्रैशङ्कवो नाम श्राद्धकर्मणि गर्हितः" इति ।
तथा
-
"कारस्कराः कलिङ्गाश्च सिन्धोरुत्तरतस्तथा ।
प्रणष्टश्राद्धकर्माणो देशा वाश्च यत्नतः" ।।
प्रनष्टं श्राद्धकर्म येषु देशेषु ते प्रनष्टश्राद्धकर्माणः ।
"सङ्कीर्णानिष्टशब्दा च जन्तुव्याप्तां सकढमाम् ।
पूतिगन्धांतथा भूमि वर्जयेच्छ्राद्धकर्मणि" ।।

श्राद्धसारे श्राद्धदेशः १०३ दिताक्रन्दिताश्लीलाद्यनिष्टः शब्दो यस्मिन्देशे सा भूमिरनि- ते कथ्यते । 'गोगजाश्वादिपृष्टेषु कुत्रिमायां तथा भवि । आपद्यपि च कष्टायां न कुर्यापितृतर्पणम् ॥ वाश्वादिपृष्ठेष्विति तद्युक्तरथेषु । अग्नौ तिष्ठतीतिवत्तत्रास । पितृतर्पणं श्राद्धकर्म । कृत्रिमा द्वित्र्यादिभूमिः । तथा पर- अनिषिद्धास्वपि श्राद्धं नानुष्टेयम् । "पारक्यभूमिभागे तु पितृणां निर्वपेत्तु यः । तद्भूमिपितृभिः सर्च तस्य कर्म विहन्यते" ॥ स्य श्राद्धकर्तुः तद्भूमिस्वामिकः पितृभिर्विहन्यते इत्यर्थः । "तस्माच्छाद्धानि कर्माणि पुण्येष्वायतने षु च । नदीषु देवखातेषु स्वभूमौ च प्रयत्नतः" । तश्चायं शास्त्रार्थः । परसत्ताकासु भूमिषु किश्चिद्वित्तादि द- स्वसत्तामापाद्य श्राद्धाद्यनुष्ठेयमिति । क्वचित्परकीयत्वमपि । तदाह सग्रहकार "अटव्यः पर्वताः पुण्याः नद्यस्तीर्थानि यानि च । सर्वाण्यस्वामिकान्याहुर्नहि तेषु परिग्रहः ॥ बीमल्लक्ष्मीनृसिनचरणयुगलशरीरुहभ्रमरसकलभूमण्डलत्रण्डन पस्तयवनाधीश्वरश्रीनिजामसाहसमस्तसाम्राज्यधुरन्धरश्रीन्म. हाराजाधिराजश्रीदलपतिराजविरचिते श्रीनृसिहप्रसादे श्राद्धसारे देशनिरूपणम् ।

१०४ नृसिहप्रसादे अथ श्राद्धकालाः। ते चामावस्याष्टकादयः । तदाह योगी "अमावास्याऽष्टकाद्धिः कुष्णपक्षोऽयनद्वयम् । द्रव्यं ब्राह्मणसम्पत्तिविषुवत्सूर्यसक्रमः ।। व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः । श्राद्धं प्रति रुचिश्चैव श्राद्धकालाः प्रकीर्तिताः" इति । यस्यां तिथौ चन्द्रमा न दृश्यते साऽमावस्या तत्र श्राद्धं नित्य मावश्यकमिति यावत् । "श्राद्धं कुर्यादवश्यं तु प्रमीतपितृको द्विजः । इन्दुक्षये मासि मासि वृद्धौ प्रत्यहमेव चेति" लौगाक्षिस्मरणात् । इन्दुक्षयोऽमावास्या, अष्टकाश्चतस्रः मार्गशीर्षादिमासचतुष्टया- परपक्षाष्टम्यः । - तथाऽऽश्वलायन "हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टका" इति । ननु द्वादश पौर्णमास्यो द्वादशाष्टका द्वादशामावास्य इति वच- नात्कथं चतस्रोऽष्टका इत्यभिहितं, मत्यम् , एकैकम्मिन्मासि तिस्त्र- स्तिस्रः सम्पद्यन्ते इति द्वादशपरिपूर्तिरभ्युपेयते । अष्टमीग्रहणेन सन्निधानात्सप्तीनवम्यो–हणम् । तथा च शौनक "हेपन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टका" इति । अ- त्रापि श्राद्धमावश्यकम् ।

श्राद्धसारे श्राद्धकालः १०५ तथा च स्मृति - "अमावास्याव्यतीपातपौर्णमास्यष्टकासु च । वृद्धौ श्राद्धमकुर्वाणो नरकं प्रतिपद्यते' इति वृद्धिः पुत्रजन्मादि । "वृद्धौ न तर्पिता येन देवता गृहमेधिभिः । सद्धीनमफलं ज्ञेयमासुरो विधिरेव स" इति शातातपस्मरणात् । कृष्णपक्षोऽपरपक्षः । तत्रैकतिथिपक्षेऽपि अमायां पृथगेवेति । इद- मपि नित्यम् । "शाकेनापि नापरपक्षमति क्रामेदिति श्रुते । अयनद्वयं दक्षिणायनमुत्तरायणं च । अत्रापि श्राद्धं नित्यम् । तदुक्तं विष्णुपुराणे पराशरेण- "उपप्लवे चन्द्रमसो श्वेश्च त्रिष्वष्टकास्वप्ययनद्वये च । पानीयमप्यत्र तिलैर्विमिश्रं दद्यापितृभ्यः प्रयतो मनुष्यः । श्राद्धं कृतं तेन समाः सहस्रं रहस्तदेतन्मुनयो वदन्ति ॥ अत्र पानीयमप्यत्रेति वचनैकदेशादयनश्राद्धस्य नित्यताऽवसिता। "ग्रहोपरागे च सुते च जाते पित्र्येऽप्यमायामयनद्वये च । नित्यं च शङ्ख च तथैव पद्मे दत्तं भवेनिष्कसहस्रतुल्यम्" इति जातूकर्ण्यस्मरणात् । तस्मादयनद्वये श्राद्धं नित्यम् । द्रव्यं कृसरमाषादि । ब्राह्मणः श्रुताध्ययनसम्पन्नः स च वक्ष्यमाण- लक्षणः तयोः सम्पत्तिलाभो यस्मिन् काले स तथोक्तः । विषुवत् मेषतुलासङ्क्रान्ती, सूर्यसक्रमः सूर्यस्य राशेः राश्य- न्तरप्राप्तिः। सूर्यसक्रमशब्देन अयनविषुवतोHहणे सिद्धेऽपि ११६ ६ नृसिंहप्रसादे शिष्टाख्यापनाय पुनर्ग्रहणम् । ब्राह्मणा आयाता वसिष्ठोऽप्यस्यान इतिवत् पृथगुपादानं न पौनरुक्त्याय । योगविशेषो व्यतीपात: "श्रवणाश्विधनिष्ठाानागदैवतमस्तक । यद्यमा रविवारेण व्यतीपातः स उच्यते ॥ नागदैवतमाश्लेषा । मस्तकं भृगुशिरः । यद्यमा रविवारेण श्र- वणादिनाज्यतमनक्षत्रेण युक्ता स व्यतीपात इत्यर्थः । इदमस्मा. भिर्दानखण्डे विस्तरेण प्रतिपादितम् । गजच्छाया पारिभाषिकी ग्राह्या न मुख्या, कालप्रक्रमात् । पारिभाषिकत्वं च- "यदेन्दुः पितृदैवत्ये हंसश्चैव करे स्थितः । तिथिर्वैश्रवणीया च गजन्छाया प्रकीर्तिता" । पितृदेवत्यं मघानक्षत्रं, हंसः सूर्यः करे हस्तनक्षत्रे वर्तमा- नः, इन्दुश्चन्द्रमाः पितृदेवत्ये च मघाख्ये नक्षत्रे स्याद्याम्या त्रयोदशी एतत्त्रयसंयोगात् गजच्छायेति । पुराणान्तरेऽप्येतदेव दर्शितम् । "हंसे हस्तस्थिते या तु मघायुक्ता त्रयोदशी। तिथिर्वैश्रवणी नाम सा छाया कुञ्जरस्य तु" इति । ग्रहणं चन्द्रसूर्योपरागः। यदा कर्तुः श्राद्धं प्रति रुचिर्भवति सो- ऽपि श्राद्धकालः। च शब्दाधुगादिमन्वादि वैधृतिप्रभृतीनां ग्रहणम् । अत्रापि कालविशेषः श्राद्धाङ्गतयोपादेयः । तदुक्तं वृद्धवसिष्ठेन- "त्रिदशाः स्पर्शसमये तृप्यन्ति पितरस्तथा । मनुष्या मध्यकाले तु मोक्षकाले तु राक्षसाः" इति । -

श्राद्धसारे श्राद्धकालः
१०७
-
-
तथाऽऽह यम -
"आषाढ्यामथ कार्तिक्यां माध्यां त्रीन् पञ्च वा द्विजान् ।
तर्पयेत्पितपूर्वन्तु तस्य चाक्षयमुच्यते ॥
राहुयस्ते तथा सूर्ये यस्तु श्राद्धं च कारयेत् ।
तेनैव सकला पृथ्वी दत्ता विप्रस्य वै करे।” इति ।
यद्यपि सूर्यग्रहे नाद्यादिति ग्रहणे भोजननिषेधः स्मर्यते तथापि
दातुरभ्युदय एवेति ।
विष्णुधर्मोत्तरे मार्कण्डेयः
"आश्विनस्यापरे पक्षे प्रथमे कार्तिकस्य च ।
यस्तु श्राद्धं सदा कुर्यात् सोऽश्वमेधफलं लभेत्" ।
सदेत्यालस्यरहितः । तथा देवलः-
"तृतीया रोहिणी युक्ता वैशाखस्यासिता तु या ।
मघाभिः सहिता कृष्णे नमस्ये तु त्रयोदशी ।
तथा शतभिषग्युक्ता कार्तिके नवमी तथा ।
इन्दुक्षयो गजच्छाया वैधृतेषु युगादिषु ॥
श्राद्धकालाः समुद्दिष्टाः पितॄणा तृप्तिवर्द्धना” इति ।
मात्स्ये-
"वैशाखस्य तृतीया तु नवमी कार्तिकस्य तु ।
माघे पञ्चदशी चैव नभस्ये च त्रयोदशी ॥
युगादयः स्मृता ह्येता दत्तस्याक्षयकारकाः" इति ।
विष्णुधर्मोत्तरे सुमन्तु:-
"वैशाखशुक्लस्य च या तृतीया नवग्यसौ कार्तिक शुक्लपक्षे ।

११६ नृसिंहप्रसादे शिष्टाख्यापनाय पुनर्ग्रहणम् । ब्राह्मणा आयाता वसिष्ठोऽप्यान्यात इतिवत् पृथगुपादानं न पौनरुक्त्याय । योगविशेपो व्यतीपात: "श्रवणाश्विधनिष्ठा नागदैवतमस्तकै । यद्यमा रविवारेण व्यतीपातः स उच्यते" ।। नागदैवतमाश्लेषा । मस्तकं भृगुशिरः । यद्यमा रविवारेण श्र- वणादिनाज्यतमनक्षत्रेण युक्ता स व्यतीपात इत्यर्थः । इदमस्मा भिर्दानखण्डे विस्तरेण प्रतिपादितम् । गजच्छाया पारिभाषिकी ग्राह्या न मुख्या, कालप्रक्रमात् । पारिभाषिकत्वं च- "यदेन्दुः पितृदैवत्ये हंसश्चैव करे स्थितः । तिथिर्वैश्रवणीया च गजच्छाया प्रकीर्तिता" । पितृदेवत्यं मघानक्षत्रं, हंसः सूर्यः करे हस्तनक्षत्रे वर्तमा- नः, इन्दुश्चन्द्रमाः पितृदेवत्ये च मघाख्ये नक्षत्रे स्याद्याम्या त्रयोदशी एतत्त्रयसंयोगात् गजच्छायेति । पुराणान्तरेऽप्येतदेव दर्शितम् । "हसे हस्तस्थिते या तु मघायुक्ता त्रयोदशी। तिथिर्वैश्रवणी नाम सा छाया कुञ्जरस्य तु" इति । ग्रहणं चन्द्रसूर्योपरागः । यदा कर्तुः श्राद्धं प्रति रुचिर्भवति सो- ऽपि श्राद्धकालः। च शब्दाधुगादिमन्वादि वैधृतिप्रभृतीना ग्रहणम् । अत्रापि कालविशेषः श्राद्धागतयोपादेयः । तदुक्तं वृद्धवसिष्ठेन- "त्रिदशाः स्पर्शसमये तृप्यन्ति पितरस्तथा । मनुष्या मध्यकाले तु मोक्षकाले तु राक्षसाः" इति । -

श्राद्धसारे श्राद्धकालः
१०७
-
तथाऽऽह यम.-
"आषाढ्यामथ कार्तिक्यां माध्यां त्रीन् पञ्च वा द्विजान् ।
तर्पयेपितृपूर्वन्तु तस्य चाक्षयमुच्यते ॥
राहुग्रस्ते तथा मूर्ये यस्तु श्राद्धं च कारयेत् ।
तेनैव सकला पृथ्वी दत्ता विप्रस्य वै करे" इति ।
यद्यपि सूर्यग्रहे नाद्यादिति ग्रहणे भोजननिषेधः स्मर्यते तथापि
दातुरभ्युदय एवेति ।
विष्णुधर्मोत्तरे मार्कण्डेयः-
"आश्विनस्यापरे पक्षे प्रथमे कार्तिकस्य च ।
यस्तु श्राद्धं सदा कुर्यात् सोऽश्वमेधफलं लभेत् ॥
सदेत्यालस्यरहितः । तथा देवलः-
"तृतीया रोहिणी युक्ता वैशाखस्यासिता तु या ।
मघाभिः सहिता कृष्णे नभस्ये तु त्रयोदशी ।।
तथा शतभिषग्युक्ता कार्तिके नवमी तथा ।
इन्दुक्षयो गजच्छाया वैधृतेषु युगादिपु ॥
श्राद्धकालाः समुद्दिष्टाः पितॄणा तृप्तिवर्द्धनाः” इति ।
मात्स्ये-
"वैशाखस्य तृतीया तु नवमी कार्तिकस्य तु ।
माघे पञ्चदशी चैव नभस्ये च त्रयोदशी ॥
युगादयः स्मृता ह्येता दत्तस्याक्षयकारकाः" इति ।
विष्णुधर्मोत्तरे सुमन्तु
"वैशाखशुक्लस्य च या तृतीया नवम्यसौ कार्तिकशुक्लपक्ष।

१०८ नृसिंहप्रसादे नभस्यमासस्य च कृष्णपक्षे त्रयोदशी पश्चदशी च माघे ॥ उत्पद्यते चन्द्रमसो रबेर्वा तिस्रोऽष्टका अप्ययनद्वये च । पानीयमप्यत्र तिलैर्विमिश्रं दद्यापितृभ्यः प्रयतो ममुष्यः॥ श्राद्धं कृतं तेन समाः सहस्रं रहस्यमेतत्पितरो वदन्ति"। नभस्यो भाद्रपदः । उपप्लवे उपरागे, राहुदर्शन इति यावत् । तिस्र इति सप्तम्यादितिथित्रयाभिप्रायेण मार्गशीर्षादिमासत्रयाभिपा- येण च, तथाचे चतुर्णामपरपक्षाणामित्यनेन विरोधः स्यात् । तत- श्थात्र तिस्र इति वीप्सा द्रष्टव्या । पानीयग्रहण श्राद्धस्यावश्यकत्वं द्योतयति । समाः सहस्रं वर्षसहस्रमित्यर्थः । पञ्चदशी माघस्येह यु- गादितयाभिहितपञ्चदशीशब्दसाधारण्येऽपि च सति कृष्णत्रयोद- शीसन्निकर्षात् युगादिर्माघामावास्यैव युक्ता, माध्यपि पुण्यैवोक्ता वाक्यान्तरेण युगादिर्न भवत्येव “माघी चेन्मघायुक्ता स्यात्तस्यां श्राद्धं कृत्वा पूतो भवतीति विष्णुस्मरणात् । पौर्णमासीत्वोपाधिना श्राद्धकालत्वे सिद्धेऽपि मघा-तिलग्रहणं फलातिशयार्थ निकृष्टाया अपि श्राद्धकालत्वात् । तथा- "पौर्णमास्या व्यतीपातष्वष्टकासु विशेपतः। एषु श्राद्धमकुर्वाणो नरकं प्रतिपद्यत" इति । एवमनयैव दिशा गुणान्तरसम्बन्धेऽप्यूहनीयम् । तथा विष्णुपुराणे- "मधौ सिते पञ्चदशी कदाचिदुपैति योग यदि वारुणेन । अक्षण कालः स परः पितॄणा नैवाल्पपुण्यैर्नृप लभ्यतेऽसो॥ काले धनिष्ठा यदि नाम तत्र भवेत्तु भूपाल तदा पितृभ्यः।

श्राद्धसारे श्राद्धकालः १०६ दत्तं जलानं च ददाति तृप्ति वर्षायुतं तत्कुलजैर्मनुष्यैः ॥ तत्रैव चेद्भाद्रपदा च पूर्वा काले तदा यत् क्रियते पितृभ्यः । श्राद्धं परां तृप्तिमुपेत्य ते च युग समयं पितरः स्वपन्ति । वारुणं शतभिषा नक्षत्रम् , अमावास्या इन्दुक्षयात् पुण्या, युगादित्वात्पुण्यतरा नक्षत्रयोगाच्च पुण्यतमेति ॥ तथा- - "अयने षडशीतौ च चन्द्रमूर्यग्रहे तथा । युगादौ वैधृतौ चैव दत्त भवति चाक्षयम्" ॥ अयने षडशीतौ चेति चशब्देन विष्णुपदानां ग्रहणम् । षड- शीति विष्णुपयोर्लक्षणमाह- "कुम्भालिगोहरिषु विष्णुपदं वदन्ति स्त्रीचापमीनमिथुने पडशीतिरेव। अलिः वृश्चिकः, गौषभः, हरिः सिंहः, स्त्री कन्या, चापं धनुः, पष्टमन्यत् । श्लोके युगादिग्रहणं मन्वादीन् लक्षयति मन्वादींश्च । मत्स्यपुराणे- "आश्वयुक्शुक्लनवमी कार्तिके द्वादशी सिता । तृतीया चैत्रमासस्य सिता भाद्रपदस्य च ॥ फाल्गुनस्य त्वमावास्या पुष्यस्यैकादशी सिता । आषाढस्यापि दशमी माघमासस्य सप्तमी ।। श्रावणस्याष्टमी कृष्णा तथाऽऽषाढी च पूर्णिमा । कार्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी सिता ॥ मन्वन्तरादयश्चैते कर्तुश्चाक्षयकारकाः" इति । - ११० नृसिंहप्रसादे श्रावणात्पूर्व सर्वत्र शुक्लपदमनुषज्यते । श्रावणादारभ्य यत्र यथोक्तं तत्तथेति । कर्तुरिति श्राद्धादेरित्यर्थः। युगादिविषये विशेषः- "द्वे शुक्ले द्वे तथा कृष्णे युगाद्याः कवयो विदुः । शुक्ले पूर्वालिके ग्राह्ये कृष्णे चैवापरालिके” इति । कृतिकादिनक्षत्राणि काम्यः श्राद्धकालः । तथा च योगीश्वर.- "स्वर्ग ह्यपत्यं मोक्षं च शौर्य क्षेत्रं बलं तथा । पुत्रं श्रेष्ठ्यं च सौभाग्यं समृद्धिं मुख्यतां शुभम् ॥ प्रवृत्तचक्रतां चैव वाणिज्यप्रभृतीनपि । अरोगित्वं यशो वीतशोकता परमां गतिम् ॥ धर्म विद्यां भिषसिद्धिं कुप्यं गां चाप्यनादिकम् । अश्वानायुश्च विधिवत् यः श्राद्धं सम्प्रयच्छति ॥ कृत्तिकादिभरण्यन्तं स कामानाप्नुयादिमान्" इति । तथा च विष्णु:- ',स्वर्ग कृत्तिकासु, अपत्यं रोहिणीषु, ब्रह्मवर्चसं सौम्ये, रौ- द्राणां सिद्धिं रौद्रे, भुवं पुनर्वसौ, पुष्टि पुष्ये, श्रियं सार्पे, सर्वान् कामान् पित्र्ये, सौभाग्यं भागे, धनमार्यम्णे, ज्ञातिश्रेष्ठयं हस्ते, रूपवतः सुतास्त्वाष्ट्र, वाणिज्यसिद्धिं स्वाती, कनकं विशाखासु, मित्राणि मैत्रे, शाके राज्य, कृषि मूले, समुद्रयानसिद्धिमाप्ये, स- न्किामान्वैश्वदैवे, श्रेष्ठयमभिजिति, सर्वान् कामान् श्रवणे, बलं वासवे, आरोग्य वारुणे, कुप्यद्रव्यमाजे, गृहमहिर्बुध्न्ये, गाः पौष्णे, तुरङ्गमाश्विने, जीवित याम्या' इति । तथा रव्यादया वाराः का- - ,

श्राद्धसारे श्राद्धकालः
न्यश्राद्धकालाः । तदुक्तं विष्णुना-
"सन्ततिमादित्येऽहि श्राद्धं कुर्वन्नाप्नोति सौभाग्यं चन्द्रे
मा विजयं कुजे सर्वान् कामान् बुधे विद्यामभीष्टां जैवे धनं शौक्रे
नीवितं शनैश्चरे।।
तथा विष्णुधर्मोत्तरे-
"अतः काम्यानि वक्ष्यामि श्राद्धानि तव पार्थिव ।।
प्रारोग्यं सर्वसौभाग्यं समरे विजयं तथा ॥
सर्वान् कामान् तथा विद्यां धनं जीवितमेव च ।
आदित्यादिदिनेष्वेव श्राद्धं कुर्वन् सदा नरः ।
क्रमेणौतत्समामोति नात्र कार्या विचारणेति" ॥
तथा कूर्मपुराणे-
"आदित्यवारे त्वारोग्यं चन्द्रे सौभाग्यमेव च ।
कुजे सर्वत्र विजयं सर्वान् कामान् बुधेन तु ॥
विद्यां विशिष्टा च गुरौ धनं वै भार्गवे पुनः ।
शनैश्चरे लभेदायुरारोग्यं च सुदुर्लभम्" इति ।
तथा प्रतिपदादितिथीनामपि काम्यश्राद्धकालत्वम् ।
तदुक्तं मनुना-
"कुर्वन् प्रतिपदि श्राद्ध सुरूपान् विन्दते सुतान् ।
कन्यकां तु द्वितीयायां तृतीयायान्तु बन्दिनः ॥
पशून् क्षुद्राश्चतुर्थ्यान्तु पञ्चम्या शोभनान् सुतान् ।
षष्ठया द्यूतं कृषि चैव सप्तम्यां लभते नरः ॥
अष्टभ्यामपि वाणिज्यं लभते श्राद्धदः सदा ।

११२
नृसिंहप्रसादे
नवम्यामेवैकखुरं दशम्यां द्विशफं बहु ।।
एकादश्यां तथा रौप्य ब्रह्मवर्चस्विनः सुतान् ।
द्वादश्यां जातरूप्य च रजत कुप्यमेव च ॥
ज्ञातिश्रैष्ठ्यं त्रयोदश्या चतुर्दश्यां तु सुप्रजाः ॥
प्रीयन्ते पितरश्चास्य ये शस्त्रेण रणे हताः ।
श्राद्धदः पञ्चदश्यां तु सर्वान्कामान् समश्रुते। कात्यायन.-
"अथ काम्यानि भवन्ति स्त्रियोप्रतिरूपाः प्रतिपदि, द्वितीयाया
स्त्रीजन्म, अश्वास्तृतीयाया, चतुर्थ्यां क्षुद्रपशवः, पुत्राः पञ्चम्या,
द्यूतं षष्ठयाम् , कृषिः सप्तम्या, वाणिज्यमष्टम्यामेकश६ नवम्यां,
दशम्यां गावः, परिचारका एकादश्यां, धनधान्यर्छ० हिरण्यं द्वादश्यां,
ज्ञातिश्रेष्ठ्यं त्रयोदश्यां, युवानस्तत्र म्रियन्ते शस्त्रहताश्चतु-
र्दश्याममावास्यायां सर्वमिति ।
तथा याज्ञवल्क्योऽपि-
कन्यां कन्यावेदिनश्च पशून् वै तत्सुतानपि ।
द्यूत कृषि च वाणिज्यं द्विशफैकशफं तथा ॥
ब्रह्मगर्चस्विनः पुत्रान् स्वर्णरूप्ये सकुप्यके ।
ज्ञातिश्रेष्ठयं सर्वकामान् प्राप्नोति श्राद्धदः सदा ॥
प्रतिपत्मभृतिष्वेकां वर्जयित्वा चतुर्दशीम् ।
शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयते।।
कन्यावेदिनो जामातरः। एतानि फलानि कृष्णपक्षप्रतिपदिप्रभृ-
तिष्वमावास्यापर्यन्तानि । अयं तिथिषु श्राद्धविधिर्न सर्वेष्वपरपक्षेषु
किंतु भाद्रपदापरपक्ष एव ।

श्राद्धसारे श्राद्धकालः ११३ "प्रौष्ठपदाद्यपरपक्षे मासि चैव मि" ति शौनकस्मरणात्। तथा- ऽऽपस्तम्बोऽपि- "सर्वेष्वेवापरपक्षेषु श्राद्ध क्रियमाणे पितॄणां प्रीतिः, कर्तुस्तु का- लनियमात्फलविशेषः । प्रथमेऽहनि क्रियमाणे स्त्रीप्रायमपत्यं जायते, द्वितीये स्त्रैणम् , तृतीये ब्रह्मवर्चसं, चतुर्थे क्षुद्रपशक, पञ्चमे पुमान् , षष्ठेऽध्वशीलोऽक्षशीलश्च, सप्तमे कृषेराप्तिः, अष्टमे पुष्टिः, नवमे एकखुरम् , दशमे व्यवहारसिद्धिः, एकादशे कृष्णायसं पुसीसं, द्वादशे पशुमान् , त्रयोदशे बहुमित्रो दर्शनीयापत्यो भवति, चतुर्दशे प्रायुधसिद्धिः, पञ्चदशे पुष्टिः" । नभस्ये कृष्णपक्षप्रतिपत्प्रभृति पञ्चदश दिनानि कृत्स्नशो- ऽपि पक्षः कन्यागते सवितरि महालय इत्युच्यते । तत्र च श्राद्धं पा- वणविधिनैव कर्तव्यम् । तदुक्त वृद्धमनुना "नभस्यस्यापरः पक्षो यत्र कन्या बजेद्रविः । स महालयसंयुक्तो गजच्छायादयस्तथा" इति । "नभस्यस्यापरे पक्षे तिथिषोडशकं तु यत्" इति शाङ्खायनवचन दिनद्धयभिप्रायेण, अन्यथा तस्य त्याज्यत्वापत्तेः। अथवा प्रदिपदमारभ्य प्रतिपदि समाप्तिः, प्रतिप. दोऽपि नष्टचन्द्रत्वात् । अथवा पौर्णमास्यामारभ्यामायां समाप्तिरि- ति । ततश्च द्वादशकपालेषु अष्टाकपालवत् षोडशदिवसेषु पञ्चदश- दिनवचनमवयुत्यनुवादो भविष्यति । अथवा पञ्चदशषोडशदिन- योर्विकल्पः । कन्यास्थार्कः प्राशस्त्यायैव- "कन्यागते सवितरि श्राद्धं कुर्वीत सर्वथा । op- १५

नृसिंहप्रसादे
आषाढ्याः पञ्चमः पत्तः प्रशस्तः पितृकर्मणि"
इति जाबालिस्मरणात् ।
"पुत्रानायुस्तथाऽरोग्यमैश्वर्यमतुलं तथा ।
प्राप्नोति पञ्चमे दत्वा श्राद्ध कामांश्च पुष्कलान्"
इति षट्त्रिंशन्मतवचनात् । दर्शग्रहणं शुक्लकृष्णौकादश्यो
पलक्षणार्थम् ।
"श्राद्धविघ्ने समुत्पन्ने स्वविज्ञाते मृतेऽहनि ।
एकादश्यान्तु कुर्वीत कृष्णपक्षे विशेषता
इति मरीचिस्मरणात् ।
अत्रैवमन्वयः-या कृष्णपक्षनिष्टैकादशी तस्यां विशेषतः व
र्तव्यमिति, यतः पितृकार्ये कृष्णपक्षस्यैव विशेषेण ग्राणत्वात्
कृष्णकादशीतोऽपि अमावास्यायां फलविशेषः श्रूयते । मार्कण्डेयः
"प्रतिपद्धनलाभाय द्वितीया हि प्रजाप्रदा ।
चरार्थिनी तृतीया च चतुर्थी शत्रुनाशिनी ॥
श्रियं प्रामोति पञ्चम्यां षष्ठया पूज्यो भवेन्नरः ।
गणाधिपत्यं सप्तम्यामष्टम्या बुद्धिमुत्तमाम् ॥
शिवं नवम्यां प्रामोति दशम्यां पूर्णकामताम् ।
वेदांस्तथाऽप्नुयात् सर्वान् एकादश्यां क्रियापरः ।।
द्वादश्यां हेमलाभं तु प्राप्नोति पितृपूजकः ।
प्रज्ञा मेघां पशुं पुष्टि स्वातन्त्र्यं वृद्धिमुत्तमाम् ।।
दीर्घमायुरथैश्वर्य कुर्वाणस्तु त्रयोदशीम् ।
अवामोति न सन्देहः श्राद्धे श्राद्धपरो नरः॥
..

- - श्राद्धसारे श्राद्धकालः युवानः पितरो यस्य मृताः शस्त्रेण वै हताः । तेन कार्य चतुर्दश्यां तेषां तृप्तिमभीप्सताम् ।। श्राद्धं कुर्वन्नमावास्यां यत्नेन पुरुषः शुचिः । सर्वान् कामानवामोति स्वर्गे वासं समश्रुते" ॥ तत्र वानाह- "नन्दायां भार्गवदिने त्रयोदश्या त्रिजन्मनि । एषु श्राद्धं न कुर्वीत गृही पुत्रधनक्षयात्" । वृद्धगार्ग्यः-- "प्राजापत्ये च पौष्णे च पित्रर्ने भार्गवे तथा । यस्तु श्राद्धं प्रकुर्वीत तस्य पुत्रो विनश्यति ॥ प्राजापत्यं रोहिणी, पौष्णं रेवती, पित्रः मघा । तथा- "त्रयोदश्यां कृष्णपक्षे यः श्राद्धं कुरुते नरः । पञ्चत्वं तस्य जानीयाज्जेष्ठपुत्रस्य निश्चितम्" इति । एतत् श्राद्धं सूतिकादिना मुख्यकालातिक्रमे त्वाशौचापंगमाने न्तरं कार्यम् । तदुक्तमृष्यशृङ्गेण- "देये पितॄणा श्राद्धे तु आशौचं जायते यदा । आशौचेतु व्यतिक्रान्ते तेभ्यः श्राद्धं प्रदीयते"। अत्रात्रि:- "तदहश्चेत्सदुष्येत केनचित्सुतकादिना । सूतकानन्तरं कुर्यात्पुनस्तदहरेव चेति । अत्र च पक्षद्वयमभिहितं सूतकानन्तरं कालान्तरं च ।

११६ नृसिंहप्रसादे अन्यस्मिन्यते वा तत्तिथी वेति । तत्र प्रथमपक्षस्त्वविरुद्ध एव । पुनस्तदहरेवेति पक्षविहित सूतकव्यतिरिक्त निमित्तान्तरोत्पन्ने विघ्ने प्रतिमासं क्षयाइविहितैकोदिष्टमासिकश्राद्धविषयमिति पूर्वोक्तवचना- विरुद्ध इति व्यवस्था ज्ञाप्यते । "एकोदिष्टे तु सम्प्राप्ते यदि विघ्नः प्रजायते । अन्यस्मिस्तत्तिथौ तस्मिन् श्राद्धं कुर्याद्यथाविधि" इति देवलस्मरणात् । अन्यस्मिन्नन्तरे मासि तत्तिथौ मृतितिथौ यस्मिन् शुक्ले कृष्णे वा मृतस्तस्मिन्पने, श्राद्धं विघ्नवशादतिक्रान्त कुर्यादित्यर्थः । आशौचनिमित्तेन विघ्ने जाते मासिकं श्राद्धमपि सूतकानन्तरमेव वचनबलादनुष्ठेयम् । देवस्वामो च एवमेव व्यवस्थां कृतवान् । यत्तु व्यासेनोक्तं- - "श्राद्धविघ्ने समुत्पन्ने त्वन्तरा मृतसूतके । अमावास्या प्रकुर्वीत शुद्धावेके मनीषिणः" । अन्तरा मृतसूतके श्राद्धप्रयोगमध्ये पाकोपक्रमात् प्राक्र् मृत- के सूतके वा जाते अमावास्याम् अमावास्यायां शुद्धौ शुद्धयनन्त र वा अनुष्ठेयमिति, इदमपि अनुमासिकसावत्सरिकश्राद्धविषयम् । "मासिकेन्दे तु सम्प्राप्ते त्वन्तरा मृतसूतके । वदन्ति शुद्धौ तत्कार्य दर्शे वाऽपि विचक्षणः" इति षट्तिशम्मतवचनात् । दर्शग्रहणन्तु शुक्लकृष्णकाद- श्योरुपलक्षणार्थम् , श्राद्धसारे श्राद्धकालः "श्राद्धविघ्ने समुत्पन्ने त्वविज्ञाते मृतेऽहनि । एकादश्यान्तु कर्तव्यं कृष्णपक्षे विशेषतः" इति मरीचिस्मरणात् । अत्रैवमन्वयः । कृष्णपक्षनिष्ठा या एकादशी तस्या विशेषतः कर्तव्यमिति । पितृकार्येषु कृष्णपक्षस्यैव विशेषेण ग्राह्यत्वात् । कृष्णकादशीतोऽपि अमावस्याया मुख्यत्वं पितृकार्येषु दण्डापू- पन्यायसिद्धं बोध्यम् । अयमाशय.-सर्वथा ह्याशौचसममन्तरकालो मुख्यः कालः स एव सन्निकृष्टत्वेन ज्यायान् , अमावास्याकालस्तु जघन्यः, मुख्यकालप्रत्यासत्यभावात् । अनेनैवाभिप्रायेणोक्तवा मृष्यशृङ्ग "शूचीभूतेन दातव्यं या तिथिः प्रतिपद्यते । सा तिथिस्तस्त्र कर्तव्या न चान्या वै कथञ्चन" इति । ततश्चायं तात्पर्यार्थः-शुद्धस्य श्राद्धानुयता आवश्यकी । तत्राशौचवशात् मुख्यकाले शुद्धयसभवेऽशुद्धयनन्तर या तिथिः प्र- तिपद्येत सा तिथिस्तस्य कर्मणोऽङ्गतया उपादेया । अन्या मुख्या तिथिः कदाचिदपि नोपादेया । आशौचादूषिता तु मुख्या तिथि: सदाऽनुष्ठेया- "तिथिच्छेदो न कर्त्तव्यो विनाऽऽशौचं यदृच्छया। पिण्डं श्राद्धं च दातव्य विच्छित्ति न च कारयेदिति स्मरणा- । चकारो ह्यग्नौकरणसमुच्चयार्थः । ब्राह्मणतर्पणमात्रमत्र- श्राद्धशब्दाभिधेयम् पिण्डदानस्य पृथगुपादानात् । वस्तुतस्तु ब्राह्मणभोजनपिण्डदानहोमसमुदायस्य श्राद्धशब्दा- RAM

११८
नृसिंहप्रसादे
भिधेयत्वम् , एकैकस्मिन् श्राद्धशब्दस्यौपचारिकत्वात् । विच्छिति
च न कारयेदित्यस्यायमर्थः । ब्राह्मणभोजनस्य कर्तुमसामर्थ्य तत्र
पिण्डदानमात्रमपि कर्तव्यम् । सर्वथापि कर्मविच्छेदो न कर्तव्य
इति । तथा च निगमः-
"श्राहिताग्नेः पित्रर्चनं पिण्डै रेव ब्राह्मणानपि वा भोजयेदिति ।
अत्र व्यवस्थावाचको वाशब्दः । व्यवस्था चैतादृशी-सत्यां शक्तौ
ब्राह्मणतर्पणपिण्डदानेऽनुष्ठेये, अशक्त्या तु पिण्डदानमात्रमिति ।
इति श्रीमल्लक्ष्मीनृसिह चरणयुगलसरोरुहभ्रमरसकल भूमण्ड.
लमण्डन समस्तयवनाधीश्वर श्री निजामसाह समस्तराज्यधुरन्धर
श्रीमन्महाराजाधिराज श्री दलपतिराजविरचिते श्री नृसिंहमा-
सादे श्राद्धसारे श्राद्धभेदादिनिर्णयः ।
अथ गन्धादीनां निर्णयः
विष्णुः-
"चन्दनकर्पूरकुङ्कुमनागरपद्मकान्यनुलेपनाय" इति । दद्या-
दिति शेषः ।
तत्र मरीचिः-
"कर्पूरकुङ्कुमोपेतं सुगन्धं सितचन्दनम् ।
दैविके त्वथवा पित्र्ये गन्धदाने प्रशस्यते"
मार्कण्डेयः--
"चन्दनागुरुकर्पूरकुङ्कुमानि प्रदापयेत् ।
अश्वमेधमवाप्नोति पितॄणामुपलेपनात्" ।
तस्मात्सुरभि चन्दनं देयम् ।

श्राद्धसारे श्राद्धकाल:
११६
तथा च स्मत्यन्नरम्-
"नागन्धं न दुर्गन्धं न कृष्णं नात्यल्पं च दद्यादिति विष्णुः ।
ब्रह्मपुराणे-
"श्वेतचन्दनकर्पूरचन्दनानि शुभानि च ।
विलेपनार्थ दद्यात्तु यचान्यत् पितृवल्लभम्" इति ।
-
भृगुः-
"सपवित्रेण हस्तेन दयानन्धानुलेपनम् ।
एकवासाश्च यो दद्यात् निराशाः पितरो गताः" इति ।
ब्राह्मणानामपि कश्चिनियमः
"ललाटे पुण्डूकं दृष्ट्वा स्कन्धे मालां तथैव च ।
निराशाः पितरो यान्ति दृष्ट्वा च वृषलीपतिम्" इति ।
पुण्डूनिषेधस्तु तिर्यक् पुडूविषयः, नोर्ध्वपुण्ड्रविषय
ता तस्य कल्पयितुं शक्या, तस्य सर्वदा विहितत्वात् । प्रति
पादितमेतन्नित्यप्रकरणे सम्यक्तया ।
तथा श्राद्धदेशे श्वमार्जारकुकुटशूद्रपतितव्यङ्गोन्मत्ताचारहीन
कृष्णाविककृष्णायसरक्तवासांसि द्वरतो निःसारयेदिति ।
-
अथ पुष्पाणि ।
अत्र पद्मोत्पलानि शुक्लेतराण्यपि देयानि । अत्र विष्णु:-
"जलजानि रक्तान्यपि दद्यात् । तदुक्तं ब्रह्माण्डपुराणे-
"शुक्लाः सुमनसः श्रेष्ठास्तथा पद्मोत्पलानि च ।
गन्धवर्णोपपन्नानि यानि चान्यानि कृत्स्नशः" इति ।

१२०
नृसिंहमसादे
मार्कण्डेय
"जातौ च सर्वदा देया मल्लिका श्चेतयुथिका ।
जलोद्भवानि सर्वाणि कुसुमानि च चम्पकम्" ।
एवं तुलसीविषये-
"पितृपिण्डार्चनं श्राद्धे यैः कृतं तुलसीदलैः ।
प्रीणीताः पितरस्तेन यावचन्द्रार्कमेदिनि" ॥
अत्र जातीकुसुमं न देयम् ।
"न जातीकुसुमानि दद्यान्न कदलीपत्रमिति अङ्गिरसा निषेधा
भिधानात् ।
तथा क्रतुरपि निषेधति-
"असुराणां कुले जाता जाती पूर्वपरिग्रहे ।
तस्या दर्शनमात्रेण निराशाः पितरो गता" इति ।
अत्र जातीकुसुमनिषेधो वैकल्पिक इति ज्ञेयम् ,
क्रतुषु
निषेधो मार्कण्डेये विधिः । अतो विहितप्रतिषिद्धत्वाद्विकल्प एव
न्याय्यः । तानि पुष्पानि करवीरव्यतिरिक्तानि, करवीराणा
निषेधात् । तथा च स्मरन्ति शिष्टाः-
"तुलसी भृङ्गराज शमीपत्रं कुशपत्रं पुष्पादीनि च दद्यात्
करवीराणि न दद्यात्" इति ।
तत्र वानोह विष्णुः
"उग्रगन्धीन्यगन्धीनि चैत्यक्षोद्भवानि च ।
पुष्पाणि वर्जनीयानी रक्तवर्णानि यानि च"।
चैत्यक्षोद्भवानि श्मशानदेशक्षोद्भवानि ।
-

श्राद्धसारे श्राद्धद्रव्याणि
१२१
अत्र रक्तवर्णनिषेधो जलजव्यतिरिक्तविषयः ।
"जलोद्भवानि देयानि रक्तान्यपि विशेषतः" इति वचनात् ।
"वर्जयेदुर्गन्धानि कण्टकजातानि रक्तानि पुष्पाणि च सितानि
सुगन्धीनि कण्टकजातान्यपि दद्यादिति विष्णुस्मरणाच ।
तथा मत्स्यपुराणेपि-
"पद्मबिल्वाधतूरपारिभद्राटरूपकाः ।
न देयाः पितृकार्येषु पयश्चाजाविकं तथा" ।
पारिभद्रो मन्दारः । अाटरूष आढरूषः ।
"मयूरकाण्डध्वनिका राजमाषकुसुम्भिका ।
पद्मबिल्वार्कधतूरे"ति । काण्डध्वनिकेति वल्लीविशेषः ।
-
अथ धूप।
विष्णुधर्मोत्तरे-
"धूपो गुग्गुलुजो देयस्तथा चन्दनसारजः ।
अगुरुश्च सक'रस्तुरुष्कश्च तथैव च।
तुरु केति सुगन्धिधूपस्याभिधानम् । तुरुष्कः इमलिक्ष
इति वा।
"चन्दनागुरुणी चोभे तमालोशीरपत्रकम् ।
धूपे च गुग्गुलुः श्रेष्ठः तुरुष्कत्वक् तथैव च ।
तमालो वृक्षविशेषः । उक्तमन्यत् ।
मार्कण्डेय
"सघृतं गुग्गुलुं धूपं पितॄणां यः प्रयच्छति ।
अश्वमेधफलं तस्य दीपदस्य तथैव च ।
१६
-

१२२ नृसिंहप्रसादे गुग्गुलुविधौ घृतग्रहणं मधुन उपलक्षणार्थम् । "घृताद्वा तिलतैलाद्वा नान्यद्दद्यात्तु दीपकम्" इति स्मरणात् विकल्पस्तु सम्भवासम्भवाभिप्रायेण । तथैवाभिहितं विष्णुधर्मोत्तरे- "धूपार्थे गुग्गुलुं दद्याद् घृतयुक्तं मधूत्कटम्" इति । पाण्यङ्गधूपनिषेधस्तु विष्णूक्त । "जीवजं च सर्व न धूपा र्थमिति । जीवजं कस्तूर्यादि । चन्दनकुङ्कुमक'रागुरुपद्मकान्यनुले - पनार्थ इति । दीपविषये शङ्खः- "घृतेन दीपो दातव्यस्तथा चान्यौषधीरसैः। वसामेदोद्भवं दीपं प्रयत्नेन विवर्जयेत्" इति । ओषधीरसरित्यव दीर्घता छान्दसी । अन्योऽपि कश्चिद्विशेषः । तत्र कात्यायनः "तैलमुद्वर्तनं स्नानं दन्तधावनमेव च । कृतं रोमनखेभ्यस्तु दद्यात्तेभ्योऽपरेऽहनीति । तत्र कर्मणः स्नानादेर्दातुमशक्यत्वात्तत्कर्मणा कर्मसाधनद्र- व्यं लक्ष्यते । ततश्च स्नानसाधनं द्रव्यं देयमपि तैलमनिपिद्धति- थावेव देयम् , तत्र तैलप्रतिषेधात् । तैलस्यादेयत्वेऽपि आमलकोट- कं दद्यात् । तदपि द्वादशघटीषु वृत्तासु देयम् । "अन्हः षट्सु मुहूर्तेषु गतेष्वथ च तान् द्विजान् । प्रत्येकं प्रेषयन् प्रेष्यान् प्रदायामलकोदकम्" इति मार्कण्डेय वचनात् ।

श्राद्धसारे श्राद्धद्रव्याणि १२३ ग्रामलकदानमपि अमावास्याव्यतिरिक्तविषयम् । "अमाया धात्रीफलैर्न स्नायात्" इति स्मरणात् । तत्रापि वि- शेषो देवलेनाभिहित:- "तैलमुद्वर्तनं स्नानं स्नानीयं च पृथविधम् । पात्रैरौदुम्बरैर्दद्यात् वैश्वदेविकपूर्वकम्” इति । ताम्रघटितं पात्रमौदुम्बरम् । श्राद्धकृत् नखश्मश्रुछेदनं न कारयेत् इति तत्तद्विषयम् । तथा श्राद्धदेशे च एतावती सामग्री सम्पादनीया-कुश यवतिल- कांस्यमाषपार्णराजताम्रमधुपुष्पधूपदीपचन्दनभृङ्गराजश्रीतुलसीदला- निपिद्धनानाजातीयसुगन्धिपुष्पकर्पूरागुरुकुङ्कुमसुगन्धिचन्दन क्षौद्र क्षोमम्मूत्रमेक्षण नतिल वृषीरूपाऽऽसन नेपालकम्बल रूप्यखड्गपा- दोहित्रप्रभृतयः सम्पादनीयाः । मध्याह्नः अष्टममुहूर्तादपरः कालः । मुख्यतिलाभावे जतिलाः । तल्लक्षणम्- 'जतिलास्तु तिलाः प्रोक्ताः कृष्णवर्णा वनेभवाः अटव्यां ये समुत्पन्नाः अकृष्टफलिनस्तथा ॥ ते वै श्राद्ध पवित्राः स्युः तिलास्ते जतिलास्तिला" इति आपस्तम्बेन प्रशस्ततयाऽभिधानात् । निमन्त्रितब्राह्मणा- नामुपवेशनार्थ सीरूपासनानि । “कुतुपं च स वै दद्यादिति मनुस्मरणात् । नेपालदेशप्रभवमेषादिरोमनिमितः कम्बलः कुतु- पः । तथा च स्मृत्यन्तरम्- "मध्यान्हः खड्गपात्रं च तथा नेपालकम्बलम् ।

१२४ नृसिंहप्रसादे रूप्यं दर्भास्तिला गावो दौहित्रश्चाष्टमः स्मृतः" इति । तथा- "श्राद्धे त्रीणि पवित्राणि दौहित्रः कुतपास्लिाः" इति । कुं तापयतीति कुतपः। "पापं कुत्सितामित्याहुस्तस्य सन्तापकारकम् । अष्टावेते यतस्तस्मात्कुतपा इति विश्रुताः" इति स्मरणात् । तथा भोजनार्थमध्यार्थ च पार्णराजतताम्रकांस्यपात्राणि । पर्णानि पलाशस्यैव । "न मृन्मयानि कुर्वीति भोजने देवपित्र्ययोः । पलाशेभ्यो विना न स्युः पर्णपात्राणि भोजने" इत्यत्रि स्मरणात् । अार्थ वन्यपर्णानि निषिद्धानि खादिरौदुम्बराण्यर्घ- पात्राणि । "अथवा मृन्मयानि स्युरपि पर्णपुटास्तथे"ति स्मरणात् । वस्त्राणि च ब्राह्मणार्थे कौशेयक्षौमकासदुकूलानि । "कौशेयं क्षौमकासं दुकूलमहतं तथा । श्राद्ध एतानि यो दद्यात् कामानामोति पुष्कलान्।। इति स्मृते । तस्मात्पूर्वोक्तदर्भादिमेक्षणान्तं द्रव्यं सम्पाद्य शुक्लवस्त्रपरिधानं कुर्यात् । "स्नातोऽधिकारी भवति दैवे पित्र्ये च कर्मणि" इति, "श्राद्धकृच्छुक्लवासाः स्यादि" ति च स्मरणात् । पाद्यमाचमनीयं च स प्रयच्छेद्यथाविधि । कृताञ्जलिः (पाद्यमाचमनीयं च ) स्वागतमित्युक्त्वाऽऽचपना लात्वा - श्राद्धसारे श्राद्धकालः १२५ र्थमुदकं दद्यात् । तत्र मार्कण्डेयः ततः स्नानानन्तरमेतावत्कर्म कर्तव्यमिति प्राह यमः- "ततः स्नात्वा निवृत्तो यः प्रत्युत्थाय कृताञ्जलिः । "स्नातः स्नातात्समाहूतान् स्वागतानहयेत्पृथक् । स्थितो देशे विविक्ते तु प्रकीर्य तिलबर्हिषीति । अनेन प्रकारेण स्नातान् ब्राह्मणान् स्वयं च स्नातः सन्नाहूय श्राद्धं मारभेत् । अत्र सर्व दैवं पादक्षिण्येन कार्यम् । पित्र्यं च सव्येन विना परिवेषणम् । तथा च गृह्यसूत्रकाराः-"प्रादक्षि- ण्येन सर्व कार्यमानिधनात् श्राद्धं परिसमाप्त रिति” । तथा- मनुरपि "प्राचीनावीतिना सम्यगपसव्यमतन्द्रिणा । पित्र्यमानिधानात्कार्य विधिवदर्भपाणिना"। अयमर्थः-पित्र्ये कर्मणि परिवेषणमन्तरेण यत् पित्र्यं तदपसव्यपितृतीर्थाभ्यामेवेति । अतन्द्रिणा अनलसेन । पित्र्य- ग्रहण दैविकं सर्वमपि प्रादतिण्येन यज्ञोपवीतेन दैवतीर्थेन च कार्यमिति सूचयति । अत्र सर्व श्राद्धमपसव्येनैव समापनीयतया प्राप्त तथापि सूक्तस्तोत्रजपादि ब्राह्मणविसर्जनादि परिवेषणं च सव्येनैवानुतिष्ठेत् । तदाह जमदग्निः- 'अपसव्येन कर्तव्यं सर्व श्राद्धं यथाविधि । सूक्तस्तोत्रं जपं मुक्त्वा विप्राणां च विसर्जनम्" इति । सूक्तं दातारो नोऽभिवर्धन्तामिति , तथा शिवा आपः सन्त्वि- त्यादि चेति स्तुतिः स्तोत्रं, सप्तव्याधा दशार्णेष्वित्यादि गयाप्रशंसा, १२६ नृसिंहप्रसादे विसर्जनं वाजे वाजे वाजिनो न इत्यादिमन्त्रः । तथा श्राद्धारम्भे- श्राद्धभूमौ गयां ध्यात्वेत्यादि, तथा विकल्पतो दक्षिणादानमपि इत्यादि सर्व विहायान्यत्सर्व प्राचीनावीतिना कार्यम् । क्रतुराह-- "दर्भपाणिदिराचम्य लघुवासा जितेन्द्रियः । परिश्रिते शुचौ देशे गोमयेनोपलेपिते ॥ दक्षिणाप्रवणे सम्यगाचान्तान् प्रयतान् शुचीन् । आसनेषु विविक्तेषु विप्रास्तानुपवेशयेत्” इति । ब्राह्मणास्तु षट् द्वौ दैवे, त्रयः पित्र्ये एको विष्णुश्चेति । समर्थोऽपि न श्राद्धे विस्तरं कुर्यात् । अत एव ब्राह्मणसंख्या मनुना दर्शिता.... "द्वौ दैवे पितृकायें त्रीन् एकैकमुभयत्र वा । भोजयेत्सुसमृद्धोऽपि श्राद्धे कुर्यान्न विस्तरम्" इति । यद्यपि न कुर्यादिति नब्योगि प्राख्यातविध्यर्थश्रवणात् विस्तरनिषेधः प्रतीयते, तथापि धर्मभूयस्त्वे फलभूयस्त्वस्य न्या- व्यत्वात् सक्रियादिदेशसम्पादनसमर्थस्य विस्तराङ्गीकरणस्य सुकरत्वात् "नहि निन्दा निन्धं स्तोतुमि"ति न्यायेन जतिलयवाग्वा वा जुहुयादित्यादिवद्विधेयलघुपक्षस्तुत्यर्थोऽथं निन्दार्थवाद इति भावः । तथा पुराणेऽपि दर्शितम्- "पञ्चभिः पञ्चभिर्विप्रैः द्वाभ्या द्वाभ्यामथापि वा । श्राद्धद्वयं त्रिभिर्वा स्यादेकेनैवाथवा पुनः" इति । अयमर्थः-वर्गद्वये अक्षरचतुष्टयाधिकसार्द्धश्लोकेन पूर्वपक्षे पृथक् दैवं विधाय द्वादशभिरक्षः स्तोत्रमेवाभिधीयते ।

१२७ - श्राद्धसारे ब्राह्मणसङ्ख्या "तथा मातामहश्राद्धं वैश्वदेवसमन्वितम् । कुर्वीत शक्तिसम्पन्नस्तन्त्रं वा वैश्वदेविकमिति मरीचिस्म- रणात् । तथेति पितृश्राद्धधर्मातिदेशार्थतावधारणेन विकल्पे ततश्च तन्त्रमेवेत्यर्थः । असमर्थश्चेदेकेनापि ब्राह्मणेन श्राद्धं कुर्यात् तथाह शङ्ख "भोजयेदथवाऽप्येकं ब्राह्मणं पङ्गिपावनम् । देवे कृत्वा तु नैवेद्यं पश्चात्तस्यानुनिर्वपेत्” इति । ततश्च वर्गद्वयोद्देशेनैकमप्याशयेदिति तात्पर्यार्थः । तस्येति ब्राह्मणस्य । यश्चैको भोज्यः स च छन्दोग एव भोज्यः। यतो हि ऋग्यजुःसामानि तत्र वर्तन्ते । तत्र च पितुर्ऋचा तृप्तिः यजुषा पितामहस्य साम्ना प्रपितामहस्य । तदुक्तम्- "ऋचा च तृप्यति पिता यजुषा च पितामहः । प्रपितामहस्तथा साम्ना सामगो ह्यधिकस्ततः" इति । तथा गोभिलोऽपि-छन्दोगस्य वैकैकस्य भोज्यतामाह- "यद्येकं भोजयेच्छ्राद्ध छन्दोगंत त्र भोजयेत् । ऋचो यजूंषि सामानि त्रितयं तत्र विद्यते" ॥ तथाऽपरो विशेषः- "छन्दोगं भोजयेच्छ्राद्धे वैश्वदैवे तु वचम् । पुष्टिकर्मण्यथाध्वर्यु शान्तिकर्मण्यथर्वणम्" इति । ननु एकब्राह्मणपक्षे वैश्वदेवस्थाने कथम् इत्थम् , अग्निरेव तत्र नियोज्यः। "एक एव यदा विप्रो द्वितीयो नोपपद्यते ।

१२८
नृसिंहप्रसादे
पितॄणां ब्राह्मणो योज्यो दैवं त्वग्नौ नियोजयेदिति शङ्खस्मर
णात् । यदा द्वौ ब्राह्मणौ तदाऽग्नौ वैश्वदैवं नियोज्य वर्गद्वयं ब्रा
ह्मणद्वये नियोजयेत् । वैश्वदेवस्याङ्गत्वात्पैतृकस्य प्रधानत्वात् ।
अङ्गगुणविरोधे च तादर्थ्यादिति न्यायात् प्रधानानुरोधेनाङ्गानुष्टेय
त्वेऽपि अङ्गानुरोधेन प्रधानबाधाया अयुक्तत्वात् इति ।
ततश्चार्य शास्त्रार्थ:-साग्निश्चेदग्नि नियोजयेदनग्निश्चेदर्भमुष्टि
नियोजयेदिति ।
"एकस्मिन् ब्राह्मणे दैवे साक्षिरग्निर्भवेत्सदा ।
अनः कुशमुष्टिः स्यात् श्राद्धकर्मणि सर्वतः"
इति प्रचेतसा स्मरणात् । तथा पारस्करोऽपि-
"दर्भवटुर्वेदितव्यो दैवे" इति । दर्भवटुर्दर्भमुष्टिः। वशिष्ठेन
विशेष उक्त:-
"यद्येकं भोजयेच्छ्राद्ध दैवे तत्र कथं भवेत् ।
अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य च ।
देवतायतने कृत्वा ततः श्राद्धं प्रकल्पयेत् ।
प्रास्येदनं तदग्नौ तु दद्याद्वा ब्रह्मचारिणे" ।
प्रास्येत् प्रक्षिपेत् । ब्रह्मचारिपदं विशिष्ट-ब्राह्मणोपलक्षणपरम् ।
वैदिकं कर्म ब्रह्म । अनेकब्राह्मणलाभे तु श्रोत्रियं मुख्यासने नि-
योजयेत् । सा च तादृशी योजना परस्परं ब्राह्मणैरैव कार्या ।
तथोक्तं सुमन्तुना-
"विद्यातपोऽधिकानान्तु प्रथमासनमिष्यते ।
पङ्ख्यां चैव निविष्टायां समं गन्धादिभोजनम् ।

१२६ श्राद्धसारे ब्राह्मणपूजाप्रकारः अर्हेषु तिष्ठमानेषु अनर्हो यो व्रजेद् धुरम् । दुष्कृतं च हरेत्पझ्या आयुषा च वियुज्यते। यम. - "प्रायेण मूर्खः स्मृतिमन्त्रहीनो योऽग्रासने तिष्ठति मूर्ख- भावात् । नान्यद्भयं पश्यति मृढचित्त इह प्रणाशे नरकं सुघोरम्" । तथा वशिष्ठः "चतुर्णा दुष्कृत हन्ति ब्राह्मणो विघ्नकारकः । अन्नस्यान्नपतिः पद्धेस्तथा भोजनकाक्षिणः । भोजनकाक्षिण इति स्वस्येति शेषः । विद्यातपोधिकानां वै प्रथमासनमिष्यते" इत्यादि सुमन्तुवाक्यालोचनेन ब्राह्मणैरैव परस्परं योग्यता पर्यालोच्य यथायथमय्यासनादिकं योज्यमिति स्थिते द्वौ दैवे त्रीन् पित्र्ये इत्यादि योजना कार्या । इदानीं श्राद्धाङ्गभूतचरणप्रक्षालनप्रकारोऽभिधीयते । तत्र मत्स्य:- "भवनस्याग्रता भुवि । गोमयेनानानुलिप्तायां गोमूत्रेण तु म- ण्डले" इति । अयमर्थः-गोमयसहितेन गोमूत्रेण मण्डलद्वयं कर्तव्यमिति । अत्र शम्भूक्तो विशेष:- "सम्भाजिते तु लिहे तु दैवे कुर्वीत मण्डले । उदक्प्लवमुदीच्यं स्यात् दक्षिणं दक्षिणाप्लवम्" ।

नृसिंहप्रसादे उदीच्यं वैश्वदेविकं मण्डलमुदवप्रवणं दक्षिणं पित्र्यं मण्डलं दक्षिणाप्रवणं कर्तव्यम् । मण्डलकरणानन्तरं दर्भस्थापन, तब शम्भुः- "उत्तरेऽक्षतसँयुक्तान् पूर्वाग्रान् विन्यसेत्कुशान् । दक्षिणे दक्षिणायांस्तु सतिलान् विन्यसेद् बुधः" इति । अक्षता यवा इत्यवादि। तत्र मण्डलकरणप्रभृत्याश्राद्धसमाप्तेर्वैश्वदेवसम्बन्धि कर्म प्रदक्षिणं यज्ञोपवीतिना कर्तव्यम् । पितृसम्बन्धि यत्कर्म तत्सर्वमप- सव्यं प्राचीनावीतिना कार्यम् । तदाह बौधायनः- "प्रदक्षिणं तु देवानां पितृणामपदक्षिणम् । देवानामृजवो दर्भाः पितॄणां द्विगुणाः स्मृताः" इति । तथा मनुरपि- "प्राचीनावीतिना सम्यगपसव्यमतन्द्रिणा । पित्र्यमानिधानात्कार्य विधिवदर्भपाणिनेति । तत्र कात्यायनो विशेषमाह- "दक्षिणं पात्तयेज्जानु देवान्परिचरन्सदा । पातयेदितरज्जानु पितॄन्परिचरन् सदा" इति । ततोऽपसव्यवत् पूर्वमुदीच्यमण्डलं गत्वा दक्षिणमण्डलमभ्यर्च्य विप्रपादौ येत् । तदुक्त मत्स्यपुराणे--- "अक्षताभिः सपुष्पाभिस्तदभ्यापसव्यवत् । विप्राणां क्षालयेत्पादावभिवन्ध पुनः पुनः” इति । पादप- क्षालनं च विश्वेदेवपूर्वम् । - m श्राद्धसारे ब्राह्मणपूजाप्रकारः १३१ "पाधं चैव तथा चायं दैव आदौ प्रयोजयेत् । शन्नो देवीति मन्त्रेण पश्चापित्र्ये प्रयोजयेत्" इति ब्रह्मनिरुक्तवचनात् । तत्र पाद्यादिदानंच नाममोत्रोचारण- पूर्वक कार्य तदाह मत्स्य "नामगोत्रं पितॄणान्तु प्रापकं हव्यकव्ययोः" इति । अर्चनं च देवानां पाद:प्रभृति शिरःपर्यन्तं, पितॄणां शिरः प्रभृति पादपर्यन्तमिति विशदयिष्यते अग्रे । पादप्रक्षालनोचरं पूर्ववदुपवेशनम् । तदाह मनुः- "आसनेषु च क्रसेषु बर्हिष्मत्सु पृथक पृथक् । उपस्पृश्योकादकान्सम्यक् विपास्तानुपवेशयेत्" इति । तथा सुमन्तुरपि- "दर्भपाणिबिराचम्य लघुवासा जितेन्द्रियः। परिश्रिते शुचौ देशे गोमयेनोपलेपिते ।। दक्षिणावणे सम्यक् आचान्तान्प्रयतान्शुचीन् । आसनेषु विविक्तेषु सदर्भेषूपवेशयेत्" इति । तत्संख्या प्रागुक्तंच, तदाह योगी- "द्वौ दैवे प्राक् त्रयः पित्र्य उदगेकैकमेव वा । मातामहानामप्येवं तन्त्रं वा वैश्वदेविकम्" इति । एवं मातामहानामपीति अतिदेशो दिनियमसंख्याविषयः । वैश्वदेविकं कर्म श्राद्धार्थमावृत्याऽनुष्ठेयं तन्त्रेण वेत्यभिप्रायेण तन्त्रं वा वैश्वदेविकमित्युक्तम् । "तथा मातामहश्राद्धं वैश्वदेवसमन्वितम् । - १३२ नृसिहप्रसादे कुर्वीत भक्तिसम्पन्नस्तन्त्र वा वैश्वदेविकमिति मरीचि स्मरणात् । तत्रासनं सस्पृशन् सव्येन पाणिना दक्षिणेन ब्राह्म- णमुपसङ्ग्रह्य समाध्यमिति चोक्त उपविशेत् इति । "जान्वालभ्य ततो देवानुपवेश्य ततः पितॄन् । समस्ताभिाहतिभिरासनेधूपवेशयेत् " इति धर्मस्मरणात् । एते नियमैर्युक्तास्तिष्ठेयुः- "पवित्रपाणयस्सर्वे ते च मौनव्रतान्विताः । उच्छिष्टोच्छिष्टसंस्पृष्टं वर्जयन्तः परस्परम्" इति वशिष्ठस्मरणात् । मौनिता च ब्रह्मोद्यकथाव्यतिरिक्त- विषया। "ब्रह्मोद्याश्च कथाः कुर्युः पितॄणामेतदीप्सितम्" इति वचनात्। ब्राह्मणेषूपविष्टेषु यतिब्रह्मचारिणौ यद्यागच्छेता तदा तावप्यु- पवेशनीयौ । "ब्राह्मणं भिक्षुकं चापि भोजनार्थमुपस्थितम् । ब्राह्मणैरभ्यनुज्ञातः शक्तितः प्रतिपूजयेत्" इति मनुस्मरणात् । तथा यमोऽपि- "भिक्षुको ब्रह्मचारी वा भोजनार्थमुपस्थितः । उपविष्टेष्वनुप्राप्तः कामं तमपि भोजयेदिति । तथा छागलेयः- "पूजयेच्छ्राद्धकालेऽपि यति सब्रह्मचारिणम् ।

श्राद्धसारे ब्राह्मणपूजाप्रकारः १३३ विपानुद्धरते पापात् पितृमातृगणानपी'"ति ॥ ब्राह्मणोपवेशनानन्तर त्रिःप्राणानायम्य तिथ्यादि स्मृत्वा पूर्वोक्तगुणविशिष्टतिथौ प्रक्रान्तं श्राद्धकर्म करिष्ये इति सङ्कल्प्य क्रतुस्मृत्याऽनुतिष्ठेत् । अपवित्रः पवित्रो वा इति जपित्वा- "श्राद्धभूमौ गयां ध्यात्वा ध्यात्वा देवं गदाधरम् । वस्वादीश्च पितॄन्ध्यात्वा ततः श्राद्धं प्रवर्तते" इति भूमौ हस्तं निक्षिप्य जपेत् । “ताभ्यां चैव नमस्कृत्य ततः श्राद्धं प्रवर्त्तयेदिति च पठेत् । अत्र द्वितीयार्थे तृतीया । ततस्तिलोदकेन पाकादिप्रोक्षणं कार्यम् । "शुद्धवतीभिः कूष्माण्डीभिः पावमानीभिः पाकादि प्रोक्षये- दि"ति स्मरणात् । अत्रैवं व्यवस्था व्याख्येया । वेदत्रयाशयेन सूक्तत्रयं, तत्र शुद्धवत्यः छन्दोगविषयिण्यः । एतं न्विन्द्र स्तवामेति शुद्धवत्यः । कुष्माण्डयोऽध्वर्युविषयाः। यद्देवा देवहेडनमिति कूष्माण्डयः । पाव- मान्यः सुवर्जन इति पावमान्यः । तत एतैर्मन्त्रैस्तिलोदकं विधायेति । "उभौ हस्तौ समौ कृत्वा जानुभ्यामुपरिस्थितौ ॥ स प्रश्रयं चोपविष्टान् सर्वान्पृष्टद् द्विजोत्तमान् " इति । तत:-"देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । नमः स्वाहायै स्वधायै नित्यमेव नमो नमः॥ इति मन्त्रं त्रिः पठेत् । "आयेऽवसाने श्राद्धस्य त्रिरावृत्तं जपेत्सदेति वचनात् । "पिण्डनिर्वपणे चैव जपेदेतत्समाहितः ।

Nrisinha Prasada Tritha Sara

Author
Gopinath Kaviraj
Title
Nrisinha Prasada Tritha Sara
File name
Nrisinha Prasada Tritha Sara
Text
OCR done
Citation
1936
Published
25/08/2003
Publisher
Sangved Vidyalaya Press ,benaress
Language
Sanskrit
Pages
153
Library
Svclrc
DLI number
368296
Barcode
5010010001306.00
Scanning centre
S.V. Digital Library, Tirupati
Digital publisher
UDL TTD TIRUPATI
VMLT id
V9XtIC0WQuG
Download PDF

Nrisinha Prasada Tritha Sara