Scl
Vaiyakarana Siddhanta Laghu Manjusha No 191
Front matter
टीकादयोपेतार्या लघुमञ्जूषायां
( कुञ्जिकाटीका)
ननु कथं द्वारमित्यादितो बोध इत्यत आह तेनेति । तत्रापि वा-
क्यस्मरणद्वारैव बोधादिति भावः। अर्थसमाप्तिः अर्थपर्यवसानम् । य.
द्यपि स्वमत द्वारमित्येकपदमपि वाक्यं तदेव चार्थवोधकामिति वश्य-
ते तथापि परमतरीत्येदम् । तदेव परमतमुपक्रमते-पदसमूह इति ।
यद्यपि एको निरवयवः स्फोटो वाक्यं प्रतिभाव(?)वाक्यार्थ इति सि-
द्धान्तः तथापि पदकल्पनयैव वाक्यव्युत्पादनादिदम् । तदुक्तम्
हरिणा-
यथा पदें विभज्यन्ते प्रकृतिप्रत्ययादयः ।
अपोद्धारस्तथा वाक्ये पदानामुपवर्ण्यते ॥ इति ॥
एकति वाक्यमित्यादीनि तु अनुदाचादिविधावेव परिभाषिता.
नीति पदसमूह इत्युक्तम् । तदुक्तम्-
निघातादिव्यवस्थार्थ शास्त्रे यत्परिभाषितम् । इति ।
एतेन पश्य मृगो धावतीत्यादावव्याप्तिवारणाय एकतिङन्तार्थ.
मुख्यविशेष्यकं वाक्यमिति व्याचक्षाणाः परास्ताः।पशब्देन तद्यो.
ग्यताया ग्रहणादनुकरणे नाव्याप्तिः।
ननु शक्तम् पदमिति मते प्रकृत्यादिसमुदायस्यापि समासार्थ-
कन्चापत्तिरत आह-अति । तथा च गौतमसूत्रम् 'ते विभक्त्यन्ताः
पद' मिति । सुवन्तसमुदायः त्वया भोक्तव्यमिति । तिङन्तसमुदा-
यः पचति भवतीति । सुप्तिङन्तसमुदायो प्रामं गच्छतीति । अथ
यत्र द्वारमित्येवोक्तं तत्र पिधेहीति पदाध्याहारादपि बोधो
न सम्भवति 'उच्चारित एव प्रत्यायकः' इति भाष्यादिति चेत्।
तत्रैकस्यापि पदस्य वाक्यार्थे शक्तिरिति वक्ष्यते । 'एकदेशसा.
दृश्यात्तु वाक्येषु वाक्यैकदेशा अपि प्रयुज्यन्त' इति भाष्यम् ।
यत्र तु वह्नयभिप्रायेण धूमवानिति प्रयुज्यते' तत्र धूमसाहचर्या-
द्वन्ही लक्षणैव । सत्यान्तु व्याप्त्यादिस्मृतावनुमितिरेव । यत्तु
पदशब्द उपस्थितिपरः मौनि श्लोकादितो ऽपि बोधादिति तार्कि-
कमाञ्चः तदसत् । प्रयोगहेतुभूतार्थतत्त्वज्ञानजन्यः शब्दः प्रमाण-
मिति चिन्तामाणलक्षणस्य प्रयोगहेतुभूतं यद्वाक्यार्थतत्वज्ञानं तज.
ग्यतावच्छेदकावच्छिन्नस्य ग्रहणेन मौनिश्लोके व्याप्त्यभावात् ॥१॥
( कलाटीका)
रामं वामघनश्यामं निकामं हृदयङ्गमम् ॥
कामं वन्दे जगद्धाम विश्रामं वचसां शमम॥१॥
स्फोटनिरूपणम् कलाटीका) अमन्दगुणमन्दिरं विमलरत्नविद्याधर कलाधरकृतादरं कलितचित्तलक्ष्मविरम् ॥ शिरोधृतनदीवरं शिवकर रमोमावरं नमामि दुरिताहरं गुरुवरं सनागेश्वरम् ॥ २॥ मञ्जूषास्थस्य मुक्तादेन लामः कलया विना ॥ चैयाकरणसिद्धान्तज्ञानस्यापि यथा तथा ॥ ३ ॥ अतस्तदाख्यां विवृति मञ्जूषायाः प्रयत्नतः॥ पायगुण्डो वैद्यनाथभट्टः कुर्वे स्ववुद्धये ॥४ कर्तुं न जाने रचनां समर्थी न चाप्यलं सा वुधवोधनाय ॥ अहं प्रवृतोऽस्मि तथापि तस्यां विश्वप्रणोदः शरणं हृदिस्थः॥५॥ चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थ स्वेटदेवतानम- काररूपं मङ्गलमाचरन् शिप्यशिक्षायै व्याख्यातृश्रोतृणामनुषङ्गतो मङ्गलाय च निवध्नाति । नागेश इति । स्वकीर्त्यनुवृत्त्यर्थ स्वनामो. लेखोऽयम् । तत्रापितिडन्तकृदन्तवाच्यक्रियाकर्तृत्वेन प्राधान्यादादौ. तदुत्कीर्तनन् । भट्टः चतुःशास्त्राभिक्षः। स्पष्टश्चदं वेणीसंवरणव्या- ख्यायाम् । न केवलं बथाश्रुतशास्रचतुष्टयज्ञानमात्रं किन्तु वेदवेदा- गज्ञानअव्युत्पत्तिजशास्त्रतात्पर्यशामजग्रन्थसन्दर्भरचनप्रयोजकोऽन्यो ऽपि गुणो ऽस्तीत्याह । विदुषेति प्रेक्षावता कल्पनेत्यर्थः। सद- सद्विवेककरणकधुरीणेनेति यावत् एतेनान्यतरवैयर्थ्यमित्यपास्तम् । अत एवैतद्रवने विस्ववतुःशास्त्राभिज्ञत्वयोरेव मुख्यहेतुत्वेन नागेश इति स्वसंज्ञाया अहेतुत्वेन विशेष्यवायकस्यापि तत्पदस्य पूर्वनिपातः। वस्तुतो विद्वत्वभट्टत्वयोरतिप्रसक्तत्वातनिधारकस्वेन तस्य पूर्वनिपातः । यद्यपि तदप्यसिप्रसक्तं, तथापि त्रिसवस्य ना. तिप्रसङ्गः। यद्यपि गुणक्रिययोः समभिध्याहारे जातिसंक्षयोर्विशे. प्यतैव, तथापि पूर्वयोः संज्ञाशब्दयोः समासं कृत्वा पुनः कर्मधारयः। तत्र च योर्योगिकत्वमिति भदोष इति बोध्यम। निर्गुणमूर्तेनतिप्रयोजकाकारत्वाभावेन नत्यसम्भवादाह म्बं शिवमिति । तादृशं परमेश्वरं पितरं चेत्यर्थः। वोतो गुणवत्र. नादित्यनेन खियां विकल्पेन डीषो विधानेन पक्षे लघुरित्यपि तत्र सा- टीकायोपेतायां लघुमजूषायां (कलाटीका) धुः । एवञ्च दिलान्तस्य स्त्रीलिङ्गवत्वे ऽपि बाधकामावः। अनेन गुर्यप्येका मजास्तीति सूचिलम् । वैयाकरणानां पाणिन्यादीनां ये सिद्धान्तास्तेषां मनुषेव मञ्जू. षा यथा सम्पुटका सकलमणिमुक्तादीनां साहकस्तथायमपि तदा ख्यो ग्रन्थः सकलवैयाकरणसिद्धान्तसङ्ग्राहक इत्यर्थः । एतेन भूप णादि ग्रन्थादेव वैयाकरणसिद्धान्तज्ञानऽयं ग्रन्थो व्यर्थ इत्यपास्त तत्र सकलसिद्धान्ताभावात् । मञ्जूषात्वेनोल्लेखनेदमपि सूचितं सकलसिद्धान्तानामत्र सत्त्वे ऽपि न प्रकाशतया लत्ता किन्त्वावृतरूपेण, किश्च सिद्धान्तानां मुक्ता- वितुल्यत्वध्वननेनावश्योपादेयताचेति तथा च यथाश्रुतग्राहिणो न यस्य कस्य चिदत्राधिकारकिन्तु विलक्षणप्रेक्षावत इति बोध्यम् । एषा बुद्धिस्था। एतेन स्वस्यैतत्करणे क्लेशाभावः, ज्ञानपूर्वकमेवात्र लेखो नाज्ञानपूर्वक इति च सूचितम् । विरच्यत इति।वर्तमानसामीप्ये बर्तमानवद्वति लट् । यद्वा वर्तमाने एव लट् । प्रारब्धापरिसमातत्वं घर्तमानत्वमित्यस्य वक्ष्यमाणत्वादित्यन्यत्र विस्तरः। असिद्धान्तत्वेनात्र प्रक्रियांशमात्रत्यागे ऽपि स्फोटान्यसिद्धान्ता. नामप्यवास्तवत्वात् स्फोटस्यैव वास्तवत्वावश्यमाणविचारस्या- प्रयवास्तवतां ध्वनयितुं व्याकरणशास्त्रतात्पर्यविषयभूतसकलत. त्सिवान्तेषु प्रधानसिद्धान्तं तावदाह-तत्रेति-सकलसिद्धान्तानां मध्ये इत्यर्थः । वाक्यरफोट इति । स्फुटति प्रकाशते ऽर्थोऽस्मादिति स्फोटः वाचक इति, तथा चवाक्यस्फोटोनाम वाक्यं वाचकमित्यर्थः। यद्यपि वर्णस्फोटः पदस्फोटो वाक्यस्फोटः अखण्डपदवाक्य- फोटो, वर्णपदवाक्यभेदेन त्रयो जातिस्फोटा इत्यष्टी पक्षाः सिद्धा. न्तसिद्धा इति वाक्यग्रहणमनर्थकं, तथापि वाक्यफोटातिरिक्ताना- मन्येषामध्यवास्तवत्वं ध्वनयितुं तदुपादानम् । अत एवाह-मुख्य इति । अत एव तस्यादावुत्कीर्तनम् । तत्त्वमेव प्रतिपादयति लोके इत्यादिना । तस्यैव वाक्यस्फोटस्यैव । शक्तिग्राहकशिरोमणिना वृद्धव्यवहारेण प्रथमं तत्रैव शक्तिग्रहादिति भावः । ननु घट इत्यादि पदस्याप्यर्थबोधकत्त्वं लोके दृष्टमत आह-तेनैवेति । वाक्येनैवेत्यर्थः । अर्थसमाप्तेरिति । निराकाङ्क्षस्य वाक्यार्थस्य तत एव शानेन वाक्येनैव वाक्यार्थस्य पूर्णत्वादिस्यर्थः। तथा च तत्र घटइत्यादि पदानामर्थ वोधकत्वेऽपि न तस्य समाप्तिः। कचित् प्रविश स्फोटनिरूपणम् यवत्र ( कलाटीका) पिण्डीमित्यादौ केवलपदस्यापि वाक्यत्वं वक्ष्यमाणमिति र सिद्धा. न्त विरोधोऽपीति भावः । एवं मुख्यवाक्यस्फोटस्य पाणिन्यादिऋषिसम्मतत्वे ऽपि स्फोटविघटकाधुनिकनैयायिकाज्ञानं प्रकटयितुं मन्त्यहेतौ तन्त्रा. न्तरसम्मतिमाह-तदुक्तमिति । भाष्यकृता वात्स्यायनेन ! शक्तमर्थवत्पदशब्देन गृह्यते इति तन्न । तत्समूहे वाक्यव्यवहारस्य लोकतन्त्रान्तरयोरसिद्धत्वात् । तादृशपदसमूहस्य केवलसुवन्तादौ तदेकदेशभूतप्रातिपदिकादौ चातिप्रसतत्वाश्च । अर्थसमाप्ताविति वाक्यशेषोपादानस्यानर्थक्यापत्तश्च । तदेतत् ध्वनयन्त्राह-अति पदसमूह इत्यत्रत्यर्थः । तेन पद- शब्देन सुबन्ततिङन्तयोग्रहणेन । तत्समूह इति । सुवन्तसमूहः ति. इन्तसमूहः सुबन्ततिङन्तसमूहश्चेत्यर्थः । तथा च सुप्तिङन्तचयो वाक्यमित्यमरैकवाक्यता सिद्धति भावः । नन्वेवमपि सप्तम्यन्तमन. न्वितमुक्तार्थासिद्धिश्चेत्यत आह । समाप्तावित्यस्येति । तथा च नेदं पाक्यलक्षणं किन्तु तादृशवाक्यमुद्दिश्य परिपूर्णार्थत्वं विधीयत इति नोक्तदोषद्वयम् । तदुक्तिफलं तु वाक्यस्फोटस्य मुख्यत्वबोधनमे- व । यद्वा वाक्यभेदेनोभयमप्यत्रात एव क्लीबशेषपूरणं । वस्तुतः का. चित्कपदरूपवाक्यसंग्रहायार्थेति लक्षणान्तरमिति भावः ॥१॥ तन्त्र प्रतिवाक्ये सङ्केत्तग्रहासम्भवात्तदन्वाख्या- नस्य लघूपायेनाशक्यत्वाच कल्पनया पदानि प्रवि- भज्य पदे प्रकृतिप्रत्ययभागकल्पनेन कल्पिताभ्याम- न्वयव्यतिरेकाभ्यां तत्तदर्थविभागं शास्त्रमात्रविषयं परिकल्पयन्ति स्म आचार्याः । एतदेवाभिप्रेत्य "वि. भाषा सुपः" इति सूत्रे कैयट:-'अन्वयव्यतिरेका भ्यां प्रकृतिप्रत्ययानामिह शास्त्रेऽर्थवत्तापरिकल्पना. त्' इत्याह । तत्तदवयवतत्तदर्थयोधनेन समुदायस्य समुदायार्थ- स्य च बोधने तात्पर्यमृषीणाम् । स्पष्टश्चेदमर्थवत्सूत्रे भा. ध्यकैयटयोः । श्रुतिवाक्यादीनां वलाषलविचारकल्प. नार्थ च तत्कल्पनेति बोध्यम् ।
टीकाद्वयोपेतायां लघुमजूषार्या (कुञ्जिकाटीका) ननु वाक्यस्य निरवयवत्वात्पदप्रत्ययो भ्रम इति किं तद्व्युत्पा- दनेनेत्याशङ्याह-तत्रेति । शक्तिग्रह इव शब्दज्ञानमपि फलमि. त्याह । तदन्वाख्यानस्येति वाक्यान्वाख्यानस्येत्यर्थः । कल्पनयेति । वाक्ये पदानि प्रकल्प्य पदे च प्रकृतिप्रत्ययभागं प्रकल्प्य कल्पिता- भ्यामन्वयव्यतिरेकाभ्यां प्रकृतिप्रत्ययार्थाः कल्पिता इत्यर्थः । यद्यपि अण्प्रत्ययाभावे ऽपि फिनादिनापि अपत्यवोधान्न व्यतिरेकसम्म- घस्तथापि वहिं प्रति तृणारणिमणीनां कारणत्वे इवान व्यतिरेकः । प्रकृत्यादिविभागस्य कल्पितत्वादन्वयव्यतिरेकयोः कल्पितत्वम् । एवं घट मानय, पट मानयेति वाक्ययोरखण्डत्वान्न तार्किकोक्ता- घापोद्वापसम्भवः शास्त्रमाप्रेति। एषा कल्पना प्रक्रियायामेवोपयुक्ता लोक वाक्यस्यैव बोधकस्यादित्यर्थः। एतदेवति शास्त्रविषयकत्वमेवे. त्यर्थः । कैयट इति 'सुत् प्रहणं प्रातिपदिकान्मा भूदिति भाष्यमुपा- दाय सुषन्तस्यैव ईषदसमाप्तवृत्तित्वेन प्रातिपदिकस्य तद्वृत्तित्वा. भावात्कथं प्राप्तिरित्याशय'ति भावः । अन्वयेति । शास्त्रद्वारा क. ल्पिताभ्यामन्वयध्यतिरेकाभ्यां कल्पितार्थवत्व शास्त्रप्रक्रियोपयोगि. नीति भावः। ननु असत्यस्यावयवस्य तदर्थस्य च कल्पने ऋषीणामप्रामाण्यं स्यादत आह । तत्तद्वयवेति । तत्तदवयबोधनेन तत्समुदायो बोध्यते अवयवार्थबोधनेन च समुदायार्थो वाध्यत इत्यम्बयः ।भाष्यकैयटयो- रिति । तत्र हि पदार्थसंसर्गरूपे घाफ्याथै वाक्यस्यैव शक्तिरस्तिं सादृश्यास्वन्वयव्यतिरेको कल्पिती एवञ्च वाक्यस्य प्रातिपदिकत्वं प्राप्त समासग्रहणकृतनियमेन नियंत इति स्पष्टम् । श्रुतिवाक्यति । 'ऐन्ध्या गार्हपत्यमुपतिष्ठत' इत्यत्र श्रुत्या गाईपत्योपस्थानं लभ्यमानं प्रबलम, इन्द्रोपस्थानं तु इन्द्रो देवता अस्या इति तद्धितानुसन्धान मूलकत्वाद्दुर्बलमित्यादि । बलाबलेति । क्रियाकारकभावसम्बन्ध. लक्षणो हि वाक्यार्थः प्रथमोपस्थितत्वात्प्रबलः । यदि तु वाक्यम- खण्डमेवाखण्डार्थस्यबोधकं स्यात्तदा लिङ्गादिलभ्यस्यार्थस्या- सम्भवादुच्छेद एव स्यादिति भावः ॥२॥ (कलाटीका) ननु वाक्यस्फोटस्य मुख्यत्वे व्याकरणशास्त्रानर्थक्यमत्र प्रकृ. प्रित्ययादितदर्थानां प्रतिपादनेम तस्यान्वाख्यानाभावादत आह- तत्रेत्यादिना । तत्र वाक्ये । अस्य च.कल्पनया पदानि प्रविभज्येत्यत्रा.
स्फोटनिरूपणम् ( कलाटीका) स्वयः। तत्र हेतुमाह प्रतिवाक्यमिति । देशकालकर्तृभेदेन वाक्या. नामानन्त्यादिति भावः । नन्वेवमपि तस्यैव लघूपायेनान्वाख्यानं शास्त्रेणकर्तव्यमिति प्रकृत्याद्यन्वाख्यानं वृथत्यत आह । तदन्वेति । यद्वा व्यवहाराद्यदा यस्य वाक्यस्य शक्तिग्रहस्तदा तच्छक्तताव. च्छेदकसामान्यप्रत्यासत्त्या सर्वतद्वाक्योपस्थितौ तदवच्छिन्ने तत्र शक्तिमहसम्भवान्नानन्त्ययुक्तदोषो व्यक्तिपक्षवदत आह । तदन्वेति। निखिलवाक्यान्वाख्यानस्येत्यर्थः । अशक्यत्वेप्युक्त एव हेतुः। तत्र च वक्ष्यमाणान्यलघुत्वविशिष्टोपायाभाव एव हेतुः । तावताप्य. निर्वाहादाह । पदे इति । वक्ष्यमाणफलसियर्थमाह । कल्पेति । तत्तदर्थविभागमिति तस्य तस्येति कृतद्विर्वचनेन षष्ठीसमासे स सोऽर्थ विभाग इति कर्मधारये वा विभक्तिलुकि इदं साधु । स्प. एश्चेदमर्थवत्सूत्रे शब्दरते । एवमग्रे ऽपि बोध्यम् । नन्वेवं लोके ऽप्यवयवादवयवार्थप्रतीतिः कुतो नेत्यत आह । शास्त्रमात्रेति । शास्त्रकल्पितावन्वयव्यतिरेको तत्कल्पितार्थवत्ता च शास्त्रमात्रव्यवहारोपयोगिन्येवेति भावः । कल्पयन्तीति । अन्य- थानुपपत्त्येति भावः । आचार्याः पादिन्यादयः । एवमग्रे ऽपि । एतदेवेति । यतः पदादिकल्पनमावश्यकमित्यादिपूर्वोक्तमेवेत्यर्थः । कैयट इति । अथ सुग्रहणं किमर्थ सुबन्तादुत्पत्तिर्यथा स्यात्प्राति- पदिकान्मा भूदित्यत्रत्यः । ननु सुबन्तस्यैवप्रियकुत्सनादिषु वृत्तिर्नप्रा- तिपदिकस्येत्यस्य कुत्सितइतिसूत्रेभाज्येस्पष्टत्वेन सुग्रहणभावेऽपि सुबन्तस्यार्थलभ्यत्वेन प्रातिपदिकान्नैव भविष्यतीति प्रातिपदि- कान्मा भूदित्यसङ्गनमत आह अन्वयेति । शास्त्रकल्पितेत्यादिः एवं प्रकृतीत्यस्यापि । इह शास्त्रे अर्थवत्तेति । ताहशतत्कल्पिता- र्थवत्ता च शास्त्रमात्रव्यवहारोपयोगिनीति इह शास्त्रे इत्यनेन सूचि- तम् । नन्वेवमपि व्याकरणशास्त्रानर्थक्यस्यापरिहतत्वादर्थान्तरत्वं दुष्परिहरमत आह । तत्तदवयवेति । इदमपि पूर्ववत्साधु । तत्तत्म- कृतिप्रत्ययाद्यवेत्यर्थः । तत्तदर्थबोधनेनेति । तत्तत्प्रकृतिप्रत्ययाद्यर्थ- बोधनेनेत्यर्थः । तद्विभागव्युत्पादनेनेति यावत् । तात्पर्यमिति । मुख्यतात्पमित्यर्थः। तथा चनोक्तदोष इति भावः। तत्र तात्पर्य मानमाह । स्पष्टमिति । तत्राहि वाक्यस्यार्थवत्वात्संज्ञा- मापाद्य पदार्थान्यवाक्यार्थाभावान्नेत्युक्त्वा तदन्यस्य तत्संसर्गरूपस्य वाक्यार्थस्य सत्तेह देवदत्तत्यादिना प्रतिपादिता । कैयटेन चेति ए.
टीकाव्योपेतार्या लघुमञ्जूषायां (कलाटीका) व वाक्यमेव मुख्यः शब्द इत्यादिना तत्समर्थितम् । ननूक्तफलार्थमा घयवकल्पनमस्तु तत्तदर्थकल्पनं तु निष्फलमनुपयोगात्सतग्रहसि. द्धिस्तूक्तवात आह । श्रुतीति । श्रुतिलिङ्गवाक्यप्रकरणस्थानसमा. ख्यानां पारदौर्बल्यमर्थविप्रकर्षादिति जैमिन्युक्तः। अत्र श्रुतिलिङ्गा- दीति श्रुत्यादीति वा वाच्ये एकमुक्तिर्धाक्यस्फोटप्रस्तावात् । सथा चादिपदस्य प्रत्येकं सम्बन्धाल्लिङ्गस्यापि सङ्ग्रहः । तत्कल्प. नेति अवयवतदर्थकल्पनेत्यर्थः । इदश्चावयवमात्रकल्पनातो न सिब्बतीति भावः ॥२॥ तत्र शास्त्रप्रकियानिर्वाहको वर्णस्फोटः । प्रकृति- प्रत्ययास्तत्तदर्थवाचका इति तदर्थः। उपसर्गनिपात. धात्वादिविभागोऽप्येवमेव काल्पनिकः । तस्यैवान्वा. ख्यानस्य लाघवेन निर्वाहाय स्थानिनो लादय आदे- शास्तिबादयश्च कल्पिता एव । तेषामर्था अपि कल्पि. ता एव । तत्र स्थानिनामी ऋषिभिः कण्ठत उक्ताः। आदेशानां च स्थान्यर्थाभिधानसमर्थस्यैवादेशतेति- न्यायेन ते । मुख्य पाचकत्वं तु तथा कल्पनया बो- धिते तत्समुदायरूपे पदे वाक्ये घा, लौकिकानां तत एवं बोधात् । एतदेवाभिप्रेत्य भूवादिमूने भाष्ये 'भाववचनो धातुः' इति लक्षणे, सति प्रत्यये भाववचनत्वं, भावव- चनाच प्रत्यया, इत्यन्योन्याश्रयमाशङ्कयानाश्रित्य भा. ववचनत्वं प्रत्ययः नित्यत्वाच्छब्दानामित्युक्तम् । पा. रमार्थिकं नाश्रीयते, कल्पितं त्वाश्रयित एव इति कैयटः। एवञ्च स्थानिनां वाचकत्वमादेशानां वा इत्यादि- विचारों निष्फल एच, कल्पितवाचकत्वस्योभयत्रापि सत्वात् । व्याकरणभेदेन स्थानिनां भेदेऽपि न क्षतिः लिपीनां भेदे इवेति दिक् ।
स्फोटनिरूपणम् (दुञ्जिकाटीका) ननु वाक्यस्फोटस्य मुख्यत्वे स्फोटान्तरस्योच्छेद इत्यत आह- तष शास्त्रेति । प्रक्रियते प्रत्ययात् पूर्व क्रियते इति प्रकृतिरिति केचित् तन्न। बहुपटुरित्यत्राव्याप्तः। प्रत्ययोद्देश्यतपेति तु युक्तो ऽर्थः । एवमेव शास्त्रप्रक्रियार्थमेव कल्पितः । लघोचो लाघवमना. यासेन प्रवृत्तिः । तत्साधने तूपचाराद्वृत्तिः । कण्ठत उक्ता इति । लः कर्मणि चेत्यादिना ।न्यायेन ते इति । उक्तन्यायेनाऽऽदेशानामा उक्ता इत्यर्थः । तथा कल्पनयति । अन्वयव्यतिरेकाभ्यां प्रकृतिप्रत्ययो प्रकल्प्य तत्समुदायरूपे पद इत्यर्थः । लक्षणे इति । क्रियमाणे इति शेषः । सति प्रत्यये इति । उत्पन्ने हि प्रत्यये भाववचनत्वं गम्यते, भाववचनाञ्च प्रत्ययो भवतीत्यर्थः । शास्त्रव्यवहारात् प्राक् समुदाय एव नास्तीत्यन्वयव्यतिरेकलभ्यार्थ- वत्त्वविभागाभावात् भाववचनत्वरूपं धातुत्वं दुईयमिति भावः । ननु धातुसंज्ञायां भाववचनत्वस्याश्रितत्वादनाश्रित्यत्ययुक्तमत आशयं यो. जयति-पारमार्थिकमिति । व्यवहारगम्यं मुख्यं वाचकत्वं पदनिष्ठं वाक्यनिष्ठं वा, तदत्र नाश्रीयत इति तदर्थः । कल्पितमिति । भाष्य- कृतान्वयव्यतिरेकाभ्यां धातुरेव क्रियावाचीत्युक्तत्वात् प्रकृत्यादि. निष्टमेव वाचकत्वमाश्रीयत इति भावः । ननु प्रत्ययादिविभागस्थ कल्पितत्वे 'को धातुः' इत्यादिश्रुतिविरोध इति चेत्, सत्यम् । कल्पि. ताभिप्रायेणैव तथोक्तेः। कल्पनाया अपि व्यवहारनित्यतया नित्यत्वात् । एवञ्चति । मुख्यवाचकत्वस्य पदे एव सत्वात् , व्याकरणभेदेन स्थानिनामनियतत्वान्न वाचकत्वमिति मतं निगकरोति-व्याकर. णेति । लिपीनामिति । भिन्नानामपि लिपीनां बोधकत्ववदित्यर्थः ॥३॥ (कलाटीका) एवं मुख्यं पक्षं चरममुक्त्वा शास्त्रोपयोगित्वेन सर्वतोऽपकृष्टमा- धमाह । तत्रेति । कल्पितपदतदेकदेशयोर्मध्ये इत्यर्थः । ननु वर्ण. स्फोट इत्यस्य वर्णा वाचका इत्यर्थः स्यात् स चायुक्तः, तेषामानर्थ- क्यस्य भाष्ये एव बहुशः स्पष्टत्वात् । किञ्चात्र पक्षे ऽर्थबोधानुकूला शक्तिवर्णसमूहे एव पर्याता वाच्या, न प्रत्येक, तथा सति प्रत्येकम- धवत्त्वात्प्रातिपदिकत्वाद्यापत्तौ धनं वनमित्यादौ नलोपाद्यापत्तेः । किश्च प्रत्येक शक्तिमत्त्वे प्रत्येक वर्णादर्थबोधापत्तिः। किञ्च द्वितीया- २ १० टीकाद्वयोपेतायां लघुमञ्जूषायां ( कलाटीका) दिवर्णोच्चारणस्य वैयापतिः । न च प्रत्येक वर्णैरर्थस्मरणमात्र जन्यते चरमेण पुनः स्पष्टं जन्यते, प्रत्यक्ष इव स्मरणे ऽपि वैजात्याङ्गो. कारादिति वाच्यम्। प्रतिवर्णमर्थस्मरणस्यानुभवविरुद्धत्वाद् गुरुत्वा च्च । न च प्रत्येकावृत्तेः कथं समुदायवृत्तित्वं, द्वित्वादिवदुपपत्तेः, अत आह-प्रकृतीति । तथा च वर्णपदं पदैकदेशपरमिति भावः । अवास्तवप्रसङ्गेनान्यदपि तथा आह । उपेलि । एतेषां मिथो विभा. गइत्यर्थः अन्यथा निपातपदानर्थक्यापत्तिः। आदिनानामाख्यातपरि- ग्रहः । एवमेव प्रकृतिप्रत्ययादिवद ! ननु प्रकृतिप्रत्ययादिकल्पनेऽपि न लाघवेन तदन्वाख्यानं तदानन्त्येन तेषामध्यानन्त्यादत आह-तस्यै- वेति प्रतिवाक्यान्वाख्यानस्येवेत्यर्थः। उक्तफलार्थमेवाह । तेषामिति । स्थानिनामादेशानां चेत्यर्थः । तत्र । स्थान्यादेशयोर्मध्ये । अयं न्यायः स्थानेऽन्तरतेमेतिसूत्रसिद्धः। ते अर्थाः । उपसंहरलि-मुख्यामिति । यद्वः तत्र गमकान्तरं वक्तुमुत्तमेव पुनराह-- सुख्यामिति । तथेति । प्रकृ. तिप्रत्ययादीत्यर्थः । तत्समुदेति । प्रकृत्यादिसमुदायेत्यर्थः। पदस्थापि तत्त्वादाह । वाक्ये इति । लोकिकानामिति। प्रियतद्धिता इति न्यायन निर्देशः। यद्वा लोको व्यवहारस्तत्र स्थितानामित्यर्थः। तत एव । वाक्यादेव । बोधात्परिपूणार्थबोधात् । गमकमत्राह-एतदेवेति । मुख्यवाचकत्यस्य तंत्रव सत्त्वमित्यर्थः। सतीति । प्रत्यये सतीत्य. न्वयः । केवलधातोरप्रयोगादिति भावः । नित्यत्वादिति । साधुत्वा. न्वाख्यानमात्रे शास्त्रव्यापारात्प्रागुक्तप्रणाडी सर्वापि सिद्धति नान्योन्याश्रय इति भावः । ननु धातुसंज्ञार्थ भाववचनन्यस्याश्रितत्वादनाश्रित्येत्ययुक्तमता उक्तमेवाशयमाह । पारेति । तस्य व्यवहारेण समुदायवृत्तित्वादिति भावः । कल्पितन्विति । भाष्यकृता तत्रैव पूर्वमन्वयव्यतिरेकाभ्यां धातुरेव क्रियावाचीत्युक्तरिति भावः। अन्येषामज्ञानं प्रकटयम्फलि. तमाहश्वश्चेति । मुख्यवाचकत्वस्य तत्रैव सत्त्वे चत्यर्थः । आदिना प्रकृतेरेवार्थो ऽथवा प्रत्ययस्य, विकरणा अर्थवन्तो ऽथवा निरर्थका इत्यादिग्रहः । उभयत्र-स्थान्यादेशयोः। ननु व्याकरणभेदेन स्था. निभेदात्कथं तनिर्वाहोऽत आह-व्याकरणति । स्थानिनाम् लडा. दीनाम् । कचित्क्यङ्चङादीनामुक्तरिति भावः । न क्षतिरिति । यथा ৪াদমান १ (कलाटीका ) कल्पितवाचकत्वभ्रमात् लिपिषु इति तद्भदेव दोषस्तथा कल्पितवा. चकत्वात्तेषां भेदे ऽपीति भावः । दिगिति ! दिगर्थस्तु वृत्तिपु एकार्थीभावः, नामार्थयोः, प्रकृति प्रत्यययोरित्यादिकमपि कल्पितमिति ॥ ३ ॥ लगातोपदेशरूपः शब्दः प्रमाणन् । “आप्तो नामानुभवन बस्तुगतवष्य कात्स्यन निश्चयवान्, रागादिवशादपि नान्यथावादी यः सः" इति चरके पतञ्जलिः। (कुझिकाटीका) प्रमाणमिति । अर्थान्तरवाचकस्य शब्दस्यार्थान्तरे प्रयोगे कृते श्रोतुः सत्यप्यर्थबोधे प्रमाजनकत्वरूपं प्रमागत्वं नेति भावः। यत्तु भौनिश्लोकादितो ऽपि बोधात्पदज्ञानं करणं न तु पदमिति नन्न । आन्तरस्फोटस्य वाचकत्वस्वीकारेण तन लिपीनामेव स्फोटव्य. अकत्वात यन्नु पदार्थस्मृत्या अन्यथासिद्धत्वात्पदं न करणमिति तन्त्र । तत्र व्यापारानावन करणत्वासम्भवात् । पदे तु पदार्थस्मरणमेव व्यापारः, अपौरुषेयस्य वेदस्य तु आप्ताक्तत्वाभावे ऽपि स्वत एवास. त्वम्, पौरुषयत्वे तु आप्तप्रणीतत्वादेवाप्तन्वम् । लोके तु यथार्थप्र. वृत्तिजनकवाक्यप्रयोक्तृत्वादाप्तत्त्वानुमानम् । वेदे तु प्रतिनियतलो- कान्तरफलस्य ज्योनिष्टोमादेः संवादाभावात् स्वत एव प्रामाण्यम- भ्युपेयम् । वस्तुतस्वेति । तत्वशब्दो ऽनारोपिते रूढः । रागादीति । रागश्चेष्टप्लाधनताज्ञानरूपसङ्कल्पनिमित्तः । आदिना द्वेषः । नान्यथा. वादीति । यो नान्यथावादी स आप्त इत्यन्वयः । अर्थतत्वज्ञानमातिः तया प्रतीत इत्यातः॥४॥ (लाटीका) एवं वापस्य शब्दस्य वाचकत्वमुत्ता तस्यैव प्रामाण्यमाह- तति । वाक्यस्वित्यर्थः । उपदेशपदे कर्माण घञ् । यद्वा आप्तो. पदेशेन वृद्धव्यवहारेणाप्तकर्तृककथनमात्रेण रुप्यने गृह्यत इत्यर्थः । तत्राप्तलक्षणमाह । आप्त इति । अनुभवेन अपरोक्षसाक्षात्कारेण ।
१२ टीकाद्वगोपेनायां लघुमजपायां (कलाटीका ) अनेनानुमित्यादिनिरासः । वस्तुतत्वस्य वस्तुतत्वावच्छिन्नस्य यथार्थस्वरूपम्य कात्स्न्यन साकल्येन । अनेनांशिकनिश्चयव्यावृत्तिः संशयव्यावृत्तय निश्चयेति । सरागादिनिरासायाह-रागादीति । आ. दिना मोहादि । वशादित्यनेन स्वस्मिन् तदधीनत्यनिरासः । तेन बुद्धिपूर्व तथाभूत्वा स्वेन नास्तिकादिमतप्रवर्तनमपि न दोषः । अ. पिनाऽज्ञानसमुच्चयः। असत्ख्यातिनिरासायाऽऽह-अन्यथेति। णिनि- ना ताच्छील्यं तथा च रागादिपराधीनतयान्यथाभाषणस्वभावरहित- त्वे सति सर्ववस्तुयाथार्थ्यविषयकापराक्षसाक्षात्कारजन्यसाशि- कनिश्चयवत्वं तत्त्वम् । तद्वांश्च क्लेशकर्मविपाकाशयैरपरामृष्टः पुरु. षविशेष ईश्वरः, इति पातअलसूत्रोक्तः । तदीयशब्दसाजात्याल्लो किकानां तत्वमिति भावः ॥ ४॥ मन्त्रागृहीतवृत्तिकस्य शाद्वयोधादर्शनात् "न हि गुड इत्युक्त मधुरत्वं प्रकारतया गम्यते” इति सम- र्थसूत्रभाष्याच्च तद्धर्मावच्छिन्नविषयकशाब्दत्वाव- च्छिन्नं प्रति तद्धर्मावच्छिन्ननिरूपितवृतिविशिष्टज्ञानं हेतुः । यद्यपि गुड इत्युक्तेऽर्थप्रतीतिस्तद्गते मधुरत्वे गम्यते, तथापि न तत् शब्दजप्रतीतिविषयः, कि- न्तु मानान्तरजन्यप्रतीतिदिषयः । यत्र तु 'गुडो मधुरः' इति बाक्याथै गुड इत्येक- देशः प्रयुज्यते, तत्रापि मधुराभिन्नो गुड इत्येव वो- धो न तु मधुरत्वप्रकारको गुडविशेष्यकः । ध्वनितं चेदम् "अन्नेन व्यञ्जनम्" इति सूत्रे भाष्ये ।। (कुनिक टीका) अगृहीतति । अगृहीतवृत्तिकपुरुषस्यागृहीतवृत्तिकपदादर्थबोधा. दर्शनादित्यर्थः । धर्माशे ऽपि शक्तिरस्तीत्याह-न हीति । मधुरत्व. मिति । मधुरत्वप्रकारकबोधादर्शनादित्यर्थः । तद्धर्मावच्छिन्नेति घटत्वावच्छिन्नविषयकवृत्तीत्यर्थः । ज्ञाने वृत्तिवैशिष्ट्यं सामानाधि- ।
शब्दप्रमाणनिरूपणम्
१३
-
( कुञ्जिकाटाका )
करण्येन । ज्ञानाधिकरणताच विषयतया । तार्किका वृत्तिज्ञानपदज्ञान-
योः पृथक् हेतुत्वामिच्छन्ति । अत्र तु लाघवाद्विशिष्टस्य व हेतुत्वमुक्तम्।
तत्रापि वृत्तिविषयकोवुद्धसंस्कारसमानाधिकरणवृत्त्याश्रयपदविषः
यकज्ञानस्य हेतुत्वे गौरव, मतः सामानाधिकरण्यादीनां सम्बन्धकोटौ
निवेशः । यस्य हि घटादिपदस्य वृत्तिर्शाता तत्र पदे वृत्तिविषयकसं.
स्कारो ज्ञानं चेत्युभयमपि विषयतयास्ति वृत्त्याश्रयपदविषयक
च तज्ज्ञानम्।
यत्तु वृत्या पदजन्यपदार्थोपस्थितिः शाब्दबोध कारणमिति त.
नाताहशापस्थितित्वस्य गुरुतरस्य कारणतावच्छेदकत्वापेक्षया स्व.
जन्यपदार्थोपस्थिीतसम्बन्धेन पदज्ञानस्य हेतुत्वे लाधवात्। माना.
न्तरोति । मधुरत्वस्यानुमानादिनोपस्थितिरित्यर्थः । तार्किकास्तु ज्ञा-
नंलक्षणाजन्यं वदन्ति । आलङ्कारिकास्त्वत्र व्यञ्जनां वदन्ति ।
ननु मधुरत्वप्रकारकशक्तिग्रहाभावाद् गुड इत्येकदेशप्रयोगे कथं
ताशवोध इत्यत आह । यत्र त्विति । न त्विति । मधुरत्यवान् गुड
इत्यन्वयो नेत्यर्थः । ध्वनिमिति । तत्र हि 'दध्योदन' इत्यत्र दधिश-
ब्दनैव दध्युपसिक्तप्रतीतिः 'गुड' इत्यत्र मधुरत्वस्य प्रकारान्तरेण
प्रतीतावपि न तस्य शब्दवाच्यतेति स्पष्टम् ।
अथ गुड भुङ्क्ते' इत्यत्र गुडत्वस्येव मधुरत्वस्यापि प्रकारतया
तत्प्रकारकशाब्दवाधवारणाय गुडत्वप्रकारकगुडावशष्यकशाब्दबोधं
प्रति ताशशक्तिज्ञानत्वेन कारणतया आकाशःशब्दाश्रय इतिवाक्या.
च्छाब्दबोधानापत्तिः, तत्राकाशत्वस्य शब्दाश्रयरूपतयावच्छेदक-
नाया निग्वच्छिन्नत्वादिति चेन्न । आकाशपदानिर्विकल्पकापस्थितरेव
स्वीकारेण तत्रेदशहेतुत्वाकल्पनात। आकाशत्वस्यापि जातित्वाच्च
एतेन निर्विकल्पकस्वीकारे आकाश द्रव्यमित्यत्र भिन्नप्रकारकोप.
स्थित्यमावादभेदबोधानापत्तिरिति परास्तम् । यदपि आकाशस्यैक-
व्यक्तित्वेनानुगमकधर्मानपेक्षणे ऽपि नियतोपस्थितये शब्दाश्रयत्वमा-
काशपदशक्यमिति तन्न । शाब्दिकमते आकाशत्वादेरपि जानित्वाता
ननु घटघटत्वे इत्यादिनिर्विकल्पकस्य घटत्वादिप्रकारकत्वा.
भावात्कथं घटादिपदार्थज्ञानजन्यत्वमिति चन्न । निर्विकल्पकस्याः
तीन्द्रयतया तस्य कार्यतावच्छेदकत्वानभ्युपगमात् ॥ ५ ॥
२४ टीकाद्यांपनायाँ लघुपाया (कैलाटीका) ननु प्रमाणत्वं प्रभाकरणत्वं नञ्च तादृशशब्दस्य चन्तर्वस्य श्रो. तुस्तर्हि ततो वोधापत्सिरत आह-तत्रेति । तादृशतच्छब्दश्रोतृणां मध्य इत्यधेः । नन्वदर्शने सानाभावोऽत आह-नहीति । गम्यते वु. ध्यते । इतीति इत्यादीत्यर्थः । ननु वाक्यस्य वाक्याथै शक्तिस्वी- कार समभिव्याहागानन्त्यन गौरवमिति तन्मान्तरोत्तप्रकार एव स. स्यगिनि च । अप्रामाणिकत्वात् । तथापि तावत्कार्यकारणभावा. वश्यकत्वाच्च । न च प्रकारकशाब्दयाघमात्रे घटार्थकपदोत्तरसा. र्थकप्रत्ययनिपातायातरजन्योपस्थितिहतुः एवं कर्मत्वविशेष्यकशा. व्दवोधमात्र कर्मत्वार्थक 'अम् प्रत्ययप्रकृतिजन्यांपस्थितिहेतुरिति सा मान्यत एव कार्यकारणभावः । न च घटः कर्मस्वामित्यतो विपरीत. व्युत्पन्नस्य तथाधोधाद् व्यभिचारः । घटबाधकपदोत्तरपदजन्यज्ञान- त्वन कर्मत्वबोधकपदप्रावर्तिपदजन्यज्ञानत्वेन च हेतुत्वाददोषात् । नचैवमपि पटादिलाक्षणिकघटपदघटितपटमानयेति वाक्यात्तथा बोधवारणाय घटवोधकत्वं घटबोधफलोपहितत्वनिवेश्यम् । एवञ्चान्यो न्याश्रयात्ताशकार्यकारणभावग्रहासंभव इति वाच्यम् । तत्र घटस्य वृत्तिजन्योपस्थित्यभावादेव तथा बोधवारणेन स्वरूपयोग्यत्वनिवेशे ऽपि क्षत्यभावादिति वाच्यम् । कर्मत्वं घटः अम घट इत्येतादृशसम. भिव्याहारव्युत्पन्नानां ततस्तथा बोधयभिचारात् । सव्युत्पन्नास व्युत्पन्नविभागोच्छेदापत्तश्च । न च यादृशवोधे यत्समभिव्याहारः कारणं ताशबांधे तत्कारणत्वज्ञानस्यापि कारणत्वान्न दोष इति वा. व्यम् । सामान्यविधतडज्ञानस्यापि सरवात् । न च तद्व्युत्पत्तिविशिष्टशाब्दबोधे तदुतव्युत्पत्तिहेतुः । तद्धी- जनकत्वज्ञानं च व्युत्पत्तिः । व्युत्पत्तिवैशिष्ट्यं च स्वाव्यवहितो. त्तरोत्पत्तिकत्वस्वसामानाधिकरण्योभयसम्बन्धेनेति न दोष इति. वाच्यम् । अनन्तकार्यकारणभावतादवस्थ्यात् । प्रत्ययत्त्वनिपातत्वा- द्यजानतस्तथा कार्यकारणभावग्रहासम्भवाच्च । किञ्च सिद्धान्ते पदतदर्थादेः कलिपनत्वेन वस्तुतो ऽसत्वेन भवदुक्तप्रकारस्य सर्व. स्यापि दुर्वचत्वात् । न चास्तु वाक्ये तद्वोधकतयेच्छाविषयत्वादि परन्तु तस्य वृ. तित्वे ऽपि कि मानमिति वाच्यम् । विनिगमनाविरहस्य कार्यकारण. .
शब्दप्रमाणनिरूपणम् १५ (कलाटांका) भावलाघवस्य च तत्त्वसम्भवात । वृत्तित्वं च सङ्केतविशेषसम्बन्धे. में वृत्तिपदवत्त्वमिति बोध्यम् । विस्तरस्त्वन्यत्र द्रष्टव्यः । तदेतहदि निधायैव लघुभूतं कार्यकारणभावमाह--तद्धमेति । मन्मने ऽयमेक एव कार्यकारणभावः, तव तु सांसर्गिकविषयताशालितद्विषयकशा- ब्दवुद्धी आकाशाज्ञानकार्यकारणभावोऽधिकः । वृत्तिज्ञानकार्यका. णभाव च प्रकारताविशष्यतयोर्विशिष्य निवेश इत्यपरं च गौरवम् । एतेन घटमित्यानुपूर्वीज्ञानजन्यघटाधुपस्थितिविशिष्टायां कर्म. ताविशेष्यकघटाद्यन्वयवुद्धौ स्वप्रयोज्यघटाद्युपस्थितिसम्बन्धेन घट- मित्यानुपूर्वीज्ञानत्वेन कारणत्वम् । एवं कलशमित्यानुपूर्वीज्ञानजन्य- घटाधुपस्थितिविशिष्टायां कर्मताविशेष्यकघटाद्यन्वयबुद्धावपि ता- दृशोपस्थितिसम्बन्धेन कलशहिल्यानुपूर्वीज्ञानत्वेनेति रत्यिा प्रत्ये. कमेवानुपूर्वीज्ञानस्य कारणत्वं, वैशिष्ट्यं चैकक्षणावच्छेदेनैकात्मवृ. त्तित्वमिति नव्यनैयायिकोक्तमपास्तमिति भावः। उक्तभाष्योक्तावासको-यद्यपीति । तत्र प्रत्यक्षेणोपदेशादिना वा माधुर्यग्रहवतः सर्वस्येति भावः । तत् माधुर्यम् । तच्छब्देति । गुडशब्देनेत्यर्थः । मानान्तरेति । अनुमानेन व्यअनया मनसा क्षेत्य- र्थः । वाक्यैकदेशन्यायेनापि न तथेत्याह-यत्र त्विति । मधुराभिन्ने. ति । प्राचां मतेनेदं सिद्धान्ते तु मधुरविशिष्टो गुड इन्येव बोध इति बोध्यम् । न विति। यदर्थे यत्प्रयोगस्तधार्थप्रतीतरेव तौचित्यमिति भावः । तत्र मानमाह-ध्वनितमिति । मानान्तरजन्यधीविषयत्वं ( त. था ज्ञानं ) चेत्यर्थः । तत्र हि दध्योदनादौ कथं सामर्थ्यमिति शङ्का- यां 'युक्तार्थसम्प्रत्यया सामर्थ्य' दना युक्तार्थतासम्प्रतिपत्तः । अ. न्यथा दधीत्युक्त वहयोऽर्था गम्यन्ते इति लोपपक्षे ऽनवस्था स्यादि. त्युक्तम् । दनेति पदवाच्येन युक्तो यो ऽर्थ उपलकक्रियादिरूपस्तद- र्थता तस्य प्रतीयते इत्यर्थः । वाक्यकदेशन्यायन दनत्यस्यैव सो ऽर्थ इति तात्पर्यमिति भावः ॥ ५ ॥ विशेषणविशष्यभावव्यत्यासन गृहीतशक्तिकस्य पुंसो घटपदाटत्वविशिष्टघटबांधवारणाय तद्धर्माव- च्छिन्नति । ज्ञाने वृत्तिवैशिष्ट्यं च स्वविषयकांदबुद्ध- टीकाद्वयोपेतायां लघुमजूषायाँ (कलाटीका) संस्कारसामानाधिकरण्य, स्वाश्रयपदविषयकत्वोभय. सम्बन्धेन बोध्यम् । अतो नागृहीतवृत्तिकस्य बोधः, नापि बिस्मृत. वृत्तिकस्य, नापि तद्वाचकपदाज्ञानवतः, नापि घटप- दादाश्रयत्वेनोपस्थिताकाशस्थ, जनकतयोपस्थितचै- त्रादेश्च बोधः । संस्काराजनकशक्तिग्रहसत्त्वे तेन शा. ब्दबोधजनने च न मानम् । संस्कारकल्पिका च वृत्ति. स्मृतिरेव शाब्दबुद्धिरेव वेत्यन्यदेतत् । (कुञ्जिकाटीका) व्यत्त्यासेनेति । घटत्वविशेष्यकशक्तिग्रहानन्तरं घटत्वप्रकारक- शाब्दबोधवारणायेत्यर्थः। तद्धर्मावच्छिन्नेतीति । नन्वेवं तदादीनां बुद्धिस्थत्वावच्छिन्ने शक्तिग्रहात तमानयेत्युक्ते बुद्धिस्थमानयेत्येव वो. धः स्यान्न तु घटत्वादिविशेषरूपेण । अत एव वन्हिव्याप्यधूमवत्प. वर्त तच्छब्देन परामृश्य स वह्निमानिति वाक्यजन्यशाब्दबोधे परा. मर्शजन्यत्वेनानुमितिलक्षणातिव्याप्तिरुक्ता दीधिताविति चेत् । अत्राहुः। सामान्यरूपेण शक्तावपि त्यदादितो विशेषरूपेणैवोप. स्थितिः। उपस्थितिशक्तिग्रहयोः समानाकारकत्ववादस्तु त्यदाद्य तिरिक्तविषय इति घटत्वादिविशेष एव शक्यतावच्छेदकः। तदा. दीनां नानार्थत्वमिष्टमेवेत्यन्ये । स्वविषयकेति । वृत्तिविषयको य उ. बुद्धसंस्कारः तत्सामानाधिकरण्यं वृत्त्याश्रयपदविषयकत्वं चेत्य- र्थः। अस्ति च घटपदार्थनिरूपितवृत्तिविषयक उद्बुद्धसंस्कारः विषयतया घटपदशानं च। अयम्भावः । घटादिपदस्य घटत्वादिविशिष्ट शक्तिरित्यादिवृ. त्तिविशेष्यकज्ञानानन्तरं तत्समानाकार एव संस्कार उत्पद्यते ताह- शसंस्कारविशिष्टं पदशानं शाब्दबोधे हेतुः। नागृहीतवृत्तिकस्येति । वृत्तिविषयक संस्काराभावात् पदान्तरविषयकवृत्तिसत्त्वे ऽपि पदा. न्तराच्छाब्दबोधवारणाय सामानाधिकरण्यनिवेशः । सामानाधि. करण्यं च विषयतयेव समवायेनापि बोध्यम् । नातश्चैत्रीयशक्तिग्रहा.
वृत्तिनिरूपणम्
(कुञ्जिकाटीका)
नन्तरं मैत्रस्य शाव्दवोधः । विम्मृतवृत्तिकस्यति । बोध इत्यने
नान्वयः । उबुद्धसंस्काराभावादिति भावः। पदाज्ञानवत इति। तत्र
विषयतया ज्ञानस्याभावात् । हस्तचेष्ठादिनाप्यर्थवत्त्वात्तत्रातिव्याप्ति-
वारणाय पदशब्दप्रयोगः । तन्निरूपितवृत्त्याश्रयत्वनिवेशस्य फलमा-
ह-आश्रयत्वेनेति । तथाच शब्दस्याकाशगुणत्वाद्धटादिशब्दादा-
काशस्योपस्थितावपि आकाशत्वावच्छिन्ननिरूपितवृत्तंर्घटादिशब्दे.
ऽभावान्न तद्वोध इत्यर्थः ।
यद्यपि वृत्तिज्ञानस्य पदज्ञानस्य वा ऽभावे कारणसमुदायरूप-
सामग्रीविरहादेव न कार्योत्पत्तिः सम्भवति, तथापि समुदायघटक-
सम्बन्धमानार्थ सामानाधिरण्यनिवेशः । स्यादेतत् । स्मृति प्रत्यनु-
भव एव कारणम् उपेक्षात्मकज्ञानात्तु संस्कारानुत्पत्त्यैवास्मरणस.
म्भवे किं संस्कारहेतुतया । अन्यथा भ्रमणाभावादेव घटादीनामनु-
त्पत्तौ दण्डादीनामपि हेतुतानापत्तेरिति चेन्न । उद्बोधकानां तत्त.
यक्तित्वेन हेतुत्वे गौरवाल्लाघवेन संस्कारस्यैव हेतुत्वकल्पनात् ।
व्यापारण व्यापारिणो नान्यथासिद्धिरिति प्रवादस्तु निर्मूल एव ।
संस्कारशब्देनात्र वासनाविशेष उच्यते, न तु स्मृतिजनकतया ता.
किंकप्रसिद्धः। शाब्दबोधस्य स्मृतिरूपताया निराकरिष्यमाणत्वात् ।
चैत्रादेश्चेति । अस्ति हि पदव्यञ्जकतया चैत्रादेरुपस्थितिः।
ननु घटादिपदवृत्त्यनुभवाव्यवहितोत्तरं शाव्दवोधानापत्तिः त-
त्पूर्व संस्काराभावादत आह-संस्काराजनकेति । अनुभवस्य क्ष-
णिकतया तत्रापि स्मरणादेव बोधादिति भावः । ननु उपेक्षात्मक-
शक्त्यनुभवानन्तरं संस्कारानुत्पत्याशाब्दबोधानापत्तिरत आह-ते.
नेति । ननु संस्कारस्यातीन्द्रियतया तत्सत्त्वे मानाभाव इत्यत आ-
ह-संस्कारकल्पिका चेति । स्मृतिरूपकार्येणैव कारणस्य संस्कार.
स्यानुमानात् । यद्यपि स्वरूपसदेव कारणं कार्यजनक, न शातं, तथा-
पि कल्पिकत्यस्य हेतुत्वकल्पिकेत्यर्थः । ननु संस्कारस्य फलनाश्य.
त्वात् वृत्तिस्मृती संस्कारस्य नष्टत्वात् शाब्दबोधानापत्तिरत आह-
शाब्दबुद्धिरेव वेति । चरमफलस्यैव संस्कारनाशकत्वमिति भावः ।
नचैवं स्मरणानन्तरं पुनः स्मरणानापत्तिरिति वाच्यम् । तत्र स्मरण-
स्यैव संस्कारजनकत्वात् । तदुक्तं दीधितौ "जायते च पुनः पुनः स्मर-
णाद् दृढतरः संस्कार" इति ॥८॥
२८ टीकाद्वयापेतायां लघुपपायर्या (कलाटीका ) तद्धर्मायच्छिन्नति निवेशस्य फलमाह-विशेषणेति । एतत्ययो. गोपपत्तिर्भावप्रकाशे स्पष्टा। घटावच्छिन्नघटत्वे घटपदं शक्तमित्यादि- रूपेणेत्यर्थः । तन्निवेशे तु समानप्रकारकत्वलाभान्न दोष इति भावः ननु विषयितासम्बन्धन वृत्तिविशिष्टज्ञानस्य हेतुत्वे विस्मृतवृत्तिक- स्य तत्तद्वाचकपदाद्यज्ञानवतश्च शाब्दबोधापत्तिरत आह-शाने इ. ति । उभयत्र स्वपदेन वृत्तिः । तथा च तदुभयसम्बन्धेन तादृशः त्तिविशिष्टं ज्ञानं हेतुरिति सिद्धम् । पदेति । पदादीत्यर्थः । आदिना वाक्यम् । यद्वा पदशब्दो यौगिको वाक्यपर एव । तथैव वाच्ये एव. मुक्तेरस्य पदशास्त्रत्वसूचनाय मतान्तरसङ्गहाय चेति बोध्यम् । तत्समुदितस्य फलमाह-अत इति । उक्तसमुदितस्य कारण. वादित्यर्थः। तत्र वृत्तिज्ञानकारणत्वफलमाह-नागृहीतेति । स्ववि. षयकोदबुद्धत्यस्य फलमाह-नापि विस्मृतति । केवलोबुद्धत्यस्या. पीदमेवफलम् । अन्यविषयकोवुद्धसंस्कारसामानाधिकरण्येनाति. प्रसङ्गनिरासाय-स्वविषयेति । स्वाश्रयपदेत्यस्य फलमाह । तद्वाचेति यत्किञ्चित्पदविषयत्वमादायानतिप्रसङ्गाय स्वाश्रयेति । निरूपकत्वेन स्वाश्रयार्धमादायानतिप्रसङ्गाय-पदेति । विशिष्टस्य कृत्यं तु तदेव । वृत्तीत्यंशस्य फलद्वयमाह-नापि घटपदादाश्रयेति । सिद्धान्ते श. ब्दस्य द्रव्यत्वेन समवायासम्भवादिति भावः । एतेन घटपदादुपस्थिताकाशादेः शाब्दवोधविषयत्ववारणाय शाब्दबोधे वृत्तिग्रहजम्योपस्थिति हेतुः, वृत्तित्वं शाब्दयोधहेतुपदा- र्थोपस्थित्यनुकूलशब्दतदर्थसम्वन्धत्वमित्यपास्तम् , उक्तयुक्तः। किञ्च तत्प्रकारकतद्विशेष्यकतत्संसर्गकवोधे तत्तत्समभिव्याहारज्ञानरूपा- कालायास्तत्कारणत्वज्ञानस्य च कारणतायास्तार्किकादिसम्मतत. या तयैवाकाशादिवारणसम्भवेन पदार्थोंपस्थितिकारणताशरीरे वृत्तिग्रहजन्यत्वनिवेशस्य विफलत्वात् । किञ्च शक्तिग्रहांशे उद्बुद्ध- संस्कारस्य तदुपस्थिति विनापि बोधानुभवेन पदार्थोपस्थितेः का- रणत्वे मानाभावात् । किञ्च पदार्थोपस्थितित्वापेक्षया पदार्थविषय- कत्वेनैव लाघवाकारणत्वौचित्यात् तादृशश्च शक्तिसंस्कार एवेति भावः । शब्दस्य जन्यत्वम् तेनाह-जनकेति । नन्वेचं यच्छतिग्रहात्संस्कारो नोत्पन्नस्तत्र स्वविषयकोबुद्धसं- कृत्तिनिरूपणम् १९ कलाका) स्कारसामानाधिकरण्यसम्बन्धन वृत्तिवैशिष्ट्यामाबाच्छाब्दयोधा. नापत्तिरत आह । संस्कारोति । ननु यत्र शक्तिग्रहः संशयात्मकस्तत्र संस्कारो नेति तत्सत्त्वमत आह-तेनेति । तादृशशक्तिग्रहेणेत्यर्थः । निश्चयस्यैव शाब्दबुद्धिजनकत्वात् शक्तिग्रहाव्यवहितोत्तरक्षणे तु शा. उदबोधो न शब्दज्ञानाभावादितिभावः। 'ननु यजेत स्वर्गकाम' इति श्रुत्या यागस्य कारणत्वे बोधिते कालान्तरभाविस्वर्ग प्रत्याशुतर- विनाशिनो यागस्य कारणत्वानुपपत्तिरिति संस्कारस्तत्र कल्प्यते तद्वत्प्रकृते कि कल्पकमत आह-संस्कारकल्पीति । ननु तत्र वृत्ति स्मृतावेव किं मानमत आह । शाब्देति । अन्यथानुपपद्यमानकार्यण कारणकल्पनादिति भावः ॥८॥ सा च वृत्तिस्त्रिधा । शक्तिलक्षणा व्यञ्जना च । तत्र शक्ति का पदार्थ इति चेत् ? "अस्माच्छब्दादयमों योद्धव्य"इत्याकारा,“इदं प. दमिममर्थ बोधयतु" इत्याकारा वेश्वरेच्छा । तस्याश्च यः द्यपि विषयत्वलक्षणः सम्बन्धः पदे, अर्थे, जन्यजन- कभावे, बोधे च; तथापि तस्यां बोधनिष्टजन्यतानि. रूपकजनकतावत्वेन विषयो वाचका, तस्यां बोध- विषयत्वेन विषयो वाच्य इति नातिप्रसङ्गः । यद्यपि प्रथमशक्तिग्रहो वाक्ये एव तथापि आवापोद्वापा. भ्यां शास्त्रकृत्कल्पिताभ्यां तत्तत्पदे शक्तिग्रह इति बोध्यम् । यहा, तादृशबोधविषयको बोध एव सेति नैयायिकाः । (कुचिकाटीका) वृत्तिस्त्रिधेति । विधेति धाप्रत्ययः प्रकारे । स च सामान्यस्य भे. दको विशेषः । इह च वृत्तित्वं सामान्य शक्तित्वादिर्विशेषः । तथा च विशेषत्रयवती वृत्तिरित्यर्थः। एतच्च स्वरूपकथनमात्रम् । शक्ति. शानलक्षणाज्ञानयोः कार्यकारणभावस्त्वेक एव । तथा हि शक्तित्वा.
२० टीकाद्वयोपेतायां लघुमञ्जूपायां (कुञ्जिकाटीका) वच्छिन्नसांसर्गिकविषयतानिरूपितपदनिष्टप्रकारतानिरूपितार्थनिष्ठ. विशेष्यताकशानत्वेन शाब्दबाधं प्रति कारणता, शक्तिसम्बन्धेन श- क्यसम्बन्धेन वा पदप्रकारकशाने शक्तेः संसर्गत्वात । यत्तु शक्तिल. क्षणान्यतरत्वं वृत्तित्वमिति तन्न, द्योतकानामसङ्ग्रहापत्तेः । तार्किक- मतमनुवदति-अस्माच्छब्दादिति । ननु बोध्यत्वप्रकारकेश्वरेच्छा- याः शक्तित्वेऽर्थधर्मत्वापत्तिरित्यरुचेराह-इदमिति । तस्याश्चेति । ईश्वरेच्छा पदे ऽथ जन्यजनकभावे चेति सर्वत्र श- क्ति प्राप्त्यर्थः । यद्यपि मुख्यविशष्यतार्थनिष्ठैव तथापि लोमवान् प. शुपदाद् बोध्य इति शक्तिग्रहे मुख्यविशेष्यतारहितस्य लोमादेरपि बोधान्न तथोक्तम् । तस्यामिति । बोधजनकत्वेनेच्छाविषयो वाचक इत्यादिरथैः । नातिप्रसङ्ग इति-न सम्बन्धादौ वाचकत्वापत्तिः प्रथम शक्तिग्रह इति । बालानां वाक्यादेवार्थबोधात् । आवापः पदान्तर प्रक्षेपः । उद्वापः निष्काशनम् । घटमानय, घट नय इत्यादि । शास्त्र. कृदिति । पदविभागस्य काल्पनिकत्वात् । वस्तुतो घटमानय घटं नयेत्यादिवाक्यमखण्डमेवेति भावः । यद्यपि तार्किकमते नाखण्डं वा- क्यं तथापि पदविभागेन कल्पित एवार्थविभाग 'वाक्येनैवार्थसमा. ति' रिति प्रागेवोक्तत्वात् । ननु ईश्वरेच्छैव शक्तिरित्ययुक्तमीश्वरज्ञानकृत्योरपि विनिगमना. विरहेण शक्तिरूपत्वसम्भवादतस्तत्रष्टापत्तिमाह । यद्वेति । सा श. क्तिः। तन्नेति । घटमानयेत्यादिवाक्यं श्रुतवता प्रयोज्येनानीतं घटं पश्यन् बालो ऽनुमिमीते अयं घटानयनकार्यताज्ञानवान् घटविषयक- चेष्टावत्वादिति । ततः कारणं विना कार्यानुत्पत्त्या अखण्उवाक्यस्य सत्कार्यकारणत्वमवधारयति । ततो वाक्यार्थयोः सम्बन्धाभावे बोध. कत्वासम्भवात् कल्पनाया बोधजनकत्वज्ञानोत्तरकालभावित्वात् बो. धजनकत्वस्य सम्बन्धत्वं कथमित्यर्थः। प्रथमतो हि बोधजनकत्व- ग्रहो भवति पश्चात सम्बन्धः कल्प्यत इति भावः॥९॥ (कलाटीका) मतान्तरासामञ्जस्यसूचनाय तां विभजते सा चेति । अनेन स. ङ्गतिः सूचिता। तत्र-तासु वृत्तिषु । दूषयितुं तावदाह अस्मादिति श. ब्दात्-पदात् । बोद्धव्ये ण्यर्थान्तर्भावः । अर्थविशेष्यकेच्छामुक्त्वा न्यायमतेन वृत्तिनिरूपणम् २१ ( कलाटीका) विनिगमनाविरहात्पदनिष्ठत्वाश्च शक्तः पदविशेध्यिकामाह । इदं पद- मिति । ईश्वरेच्छति । शक्तिरित्यस्यानुषङ्गः । अयमेव तदीयसङ्केत इ. ति व्यवहियते नैयायिकैः । नन्ववं वाच्यवाचकव्यवस्थानुपपत्तिस्त- स्याः सर्वत्राविशेषादित्याशयेन शङ्कते । तस्याश्चेति । इच्छाया इत्यर्थः एवमग्रेऽपि । जनकतेति । प्राधान्येन बोधविषयत्वानवच्छिन्नेत्यपि जनकताविशेषणं बोध्यम् । यथाश्रुते ऽतिप्रसङ्गस्तदधस्थ एव । ना- तीति । पदं वाच्यमों वाचक इत्यादीत्यर्थः । एतेनेश्वरेच्छाया अ. तिप्रसक्तत्वान्न तस्याः शक्तित्वमित्यपास्तम् । ननु पदे शक्तिग्रहस्यै- वाभावेन कथं पद्घटिता सत्याशयेन शङ्कते । यद्यपीति । आवापः- पदान्तरप्रक्षेपः। उद्वापो-विद्यमानपदत्यागः । तयोरवास्तववादा. ह-शास्त्रकदिति । विनिगमनाविरहादेवाह-यद्वति । एतच्छन्दजन्या- र्थबोधविषयकेश्वरज्ञानमेव शक्तिरित्यर्थः ॥ ९ ॥ तन्न, प्रयोज्यप्रयोजकवृद्धव्यवहारं पश्यता बा. लेन प्रयोज्यस्य प्रवृत्त्या तस्य ज्ञानमनुमाय ज्ञानस्य चोपस्थितत्वाच्छब्दमेव कारणत्वेन गृहीत्वा असम्ब. इस्य कारणत्वानुपपत्तिज्ञानपूर्वकं कल्प्यमानस्य स- म्बन्धस्य स्वयमनुपपद्यमानत्वेन गृहीतजनकत्वघटि- तस्य ग्रहीतुमशक्यत्वात् । एतेन बोधजनकत्वमेव प. दपदार्थयोः सम्बन्ध इत्यपास्तम् । विनिगमनाचिरहे- णेच्छाबोधयोरुभयो शक्तित्वकल्पने गौरवाच्च । किश्चैवमिदमस्माद्भववितीच्छाविषयत्वमेव जनकत्वं स्यादिति बहूपप्लवः । किञ्च प्रमाणानां जनकत्वतद्धटि- तसमूहातिरिक्तसम्बन्धेनैव प्रमेयसम्बद्वानां ज्ञानज. नकत्वदर्शनेनेह तयोः सम्बन्धत्वानौचित्यम् । अ- न्यथा 'धूमावन्हिज्ञानं जायताम्' इति, इच्छाविष- यत्वमेव वा हेतुसाध्ययोः सम्बन्धः स्यादिति व्या. पत्युच्छेदः।
२२ टीकायोपेतायां लघुमञ्जूपायां (कलाटीका ) किञ्च इच्छाया जनकत्वस्य वोभयवृत्तित्वाभावः। इच्छाविषयबोधीयविषयतायाभिच्छाश्रयतानियामक- स्वाभावात् । 'सम्बन्धी हि सम्बन्धिभ्यां भिन्न उभ. याश्रितः' इति, 'द्विष्ठः सम्बन्धः' इति च, 'विशिष्ट.. बुद्धिनियामकः' इति चाभियुक्तव्यवहारात् । न हि तत्र 'विषय इच्छावान्' इत्यादिव्यवहारोऽस्ति । जन- कता शक्तिरिति पक्षे बोधजनकताया: पदेऽर्थे च स. स्वेऽपि तयोः परस्परं सम्बन्धस्य दुरुपपादत्वात् । ज्ञाने विषयस्य कर्तुश्च कारणत्वेऽपि तयोः परस्परं विशिष्टवुद्धयदर्शनात् । अर्थपदयोः सम्बन्धस्य दुरु- पपादत्वात् । (कुञ्जिकाटीका) प्रयोज्यस्य प्रवृत्या । घटाद्यानयनेन । तस्य ज्ञानमिति । एतद्वा- क्यार्थज्ञान प्रयोज्यस्य जातमित्यनुमायेत्यर्थः । ज्ञानस्येति । प्रयो- ज्यनिष्ठज्ञानस्य तु तद्वाक्यमेव कारणं वाक्यवाक्यार्थयोश्चासम्बन्धे बोधकता न स्यादिति तयोः सम्बन्धः कल्प्यत इत्यर्थः । स्वयमनुप. पधमानत्वेनेति । प्रथमतो ऽसम्भवादित्यर्थः । गृहीतेति । ज्ञातेत्यर्थः । बोधजनकत्वरूपसम्बन्धस्य ज्ञातुमशक्यत्वादिति यावत् । अपास्त. मिति । बोधजनकत्वज्ञानानन्तरमेव सम्वन्धत्वकल्पनात् । किञ्च वोधकत्वस्यैव वाचकत्व माधुर्यादिव्यजके स्पर्शादिवर्णेऽतिव्याप्तिः। विनिगमनाविरहेणेति । ईश्वरेच्छाया ईश्वरज्ञानस्य वा शक्तित्व. मित्यत्र विनिगमनाविरह इत्यर्थः। किञ्चैवमिति । दण्डाद्धटो जाय. तामितीच्छाविषयत्वमेव दण्डादौ कारणत्वं स्यादित्यर्थः। तस्मा. हण्डादिनिष्ठा शक्तिः स्वरूपसती कार्योत्पादिका, शब्दनिष्ठा तु शा. तैव शाब्दबोधोपयोगिनीति लक्षण्यमावश्यकमिति भावः । किञ्च स्वर्गादिजनकत्वमेव यागादौ कारणत्वं वाच्यं, तथा च स्वर्गजनक. त्वेन पूर्व प्रहाभावात् स्वर्गकामोयजेतेतिवाक्याच्छाब्दवोधानापत्तिः। बहूपप्लव इति । अन्यत्रापि कारणत्वस्यातिरिक्तस्य सिद्ध्यनापत्ति.
वृत्तिनिरूपणम् ३ (कुञ्जिकाटीका) रित्यर्थः । तस्मादीश्वरेच्छा कारणत्वस्यैव नियामिकेति भावः । प्रमा- णानामिति । संयोगादिसम्वन्धेन घटादिसम्बद्धानामंव चक्षुरादीनां घटादिवोधकत्वदर्शनादिहापि प्रमाणप्रमेययोः सम्वन्धान्तरमेवोचि. तम् , जनकत्वस्य जनकत्वघटितस्य वा सम्बन्धत्वं नोचितमित्यर्थः । अन्यथा । जनकत्वादेः सम्वन्धत्वे सति । ज्ञायमाने धूमे। धूम एव हेतुर्न तु धूमज्ञानमित्यभिप्रेत्य धूमादित्युक्तम् । व्याप्त्युच्छेद इ- ति । व्याप्ति म साहचर्यनियमः तस्या हेतुन्वमुच्छिद्येतेत्यर्थः । त- स्माज्जनकत्वघटितः सम्बन्धो नोचित इति भावः। हच्छाया जन- कत्वस्य वेति । यो हि घटभूतलयोः संयोगवत्तबुभयस्मिन्नपि सम्ब. धिनि वर्तते स एव सम्बन्धो भवति । जनकत्वादितु पदमात्रवृत्ती. त्युभयवृत्तित्वाभावान्न सम्वन्धत्वमित्यर्थः । इच्छाया उसयवृत्तित्वा- भावमुपपादयति इच्छेति । इच्छाविषयो यो बोधस्तदीयविषयता- या इच्छाश्रयतानियामकत्वाभावादित्यर्थः । तत्र हि न पदं नापि प. दार्थ इच्छाविषयः किन्तु वोध एव, बोधविपश्तथैव च इच्छाश्रयता वाच्या सा च न सम्भवति, अयं शब्दः अयमों वा इच्छावानिति प्रतीत्यभावादिति भावः । सम्बन्धत्वाभावं वक्तुं प्रथमतः सम्बन्धस्वरूपं दर्शयति-स- म्बन्धो हीति । यद्यपि विशिष्टबुद्धिनियामकत्वं विशेष्यविशेषणयो. रपि, तथापि तयोरविशिष्टबुद्धावपि विषयत्वात्तव्युदासः । घटवद्. भूतलमित्यादिविशिष्टवुद्धिवत्प्रकृते विशिष्टवुद्धिर्नास्तीत्याह-न ही. ति। तत्रेति । इच्छाविषयो यो वोधस्तदीयविषय इत्यर्थः । ननु श- ब्दवदर्थस्यापि शाब्दवोधे निमित्तत्वादस्त्युभयत्र बोधजनकत्वाख्यः सम्बन्ध इत्यत आह-सत्त्वे ऽपीति । दुरुपपादत्वादिति । नहि द. ण्डचक्रयोरुभयोघटजनकत्वे ऽपि परस्परं सम्बन्धोऽस्तीत्यर्थः । स. म्वन्धाभावादिति पाठे ऽव्ययमेवार्थः । एतदेवाह-शाने इति । अ. न्यथा विषयपुरुषयोरपि बोधहेतुत्वात पुरुषविषययोः सम्बन्धे त. योर्विशिष्टवुद्ध्यापत्तिरित्यर्थः । ननु बोधजनकत्वस्याश्रयतया पदे, नि- रूपकतया चार्थे ऽपि सत्त्वादस्तु सम्वन्धत्वमिति चेन्न। निरूपकता. सम्बन्धस्य वृत्यनियामकत्वात ॥१०॥ - २४ टीकाद्वयोपेतायां लघुमजृपायां (कलाटीका ) प्रयोज्यस्येति प्रयोजकवृद्धोच्चारितशब्दश्रवणानन्तरमित्यादिः। तस्य-प्रयोज्यस्य । शब्दमेव-प्रयोजकवृद्धोक्तमेव । असम्बद्धस्य श. ब्दस्येति शेषः । कल्प्यति । पदपदार्थयोरिति भावः । सम्वन्धस्य-भव- दुक्तस्येति शेषः । स्वयमात्मनेत्यर्थकं गृहीतत्यत्रान्वेति । घटितस्य- ताशेच्छाज्ञानान्यतररूपस्य । आद्यं पञ्चम्या जनकत्वमुक्तम् द्वितीये बोधयत्विति ण्यन्तस्य तद्विषयकवोधं जनयत्वित्यर्थेन तदुक्तम् । तथा च स्वसामानाधिकरण्येन तस्य तत्प्रतिबन्धकत्वेन तद्रूपका. रणाभावेन दुष्करस्तद्रइ इति भावः । दीक्षितभूषणोक्तं मतं निराचष्टे । एतेनेति । उक्तदोषेणेत्यर्थः । सम्बन्धः शक्तिपदवाच्यः । एतेन वैयाकरणमतत्वेन तदनूद्य नव्यनै- यायिककृतं तत्खण्डनमपास्तम् । वैयाकरणभाष्यकारादीनां तन्म- ताभावात् । आये दोषान्तरमाह । विनीति । ननु ज्ञानेच्छाकृतीनाम- न्यत्र क्रमदर्शनेन प्राथम्यमेव ज्ञानस्य तत्त्व विनिगमकम् । अत एवोत्तरपक्षत्वेन तदुक्तम् । यद्वा इच्छात्वस्याविवक्षणेन तस्यापि शक्तित्वमिष्टम् । किञ्चाधुनिकसङ्केतस्येच्छात्वदर्शनेन तस्या एव तत्त्वमत एव मुख्यपक्षत्वेन प्राक् तदुक्तिरत एवाह-किश्चैवमिति । इच्छायाः शक्तित्वाङ्गीकारे इत्यर्थः । यद्यपि प्राग्वदत्रापि विषयत्वं जनके जन्ये जन्यजनकभावे भावने च, तथापि भवनाश्रयत्वेन य. स्तद्विषयः स जन्यः तदुपादानत्वेन यस्तद्विषयः स जनकः इति नाति. प्रसंग इतिभावः । इच्छेति । तादृशविषयत्वावच्छिन्नेत्यर्थः । एतेन त. दन्यत्वव्यावृत्तिः। तेन सत्र सङ्केतस्तद्विषयत्वरूपो न तपः । एतदाशयेनैव श- क्तिः पदार्थान्तरमित्युक्तिर्नव्यानां, विषयत्वस्य पदन्तिरत्वादिति न व्यनैयायिकोक्तमपास्तम् । बहूपेति । सकलशास्त्रव्यवहारोच्छेद इत्य- र्थः । एवं तयोः पदपदार्थसम्बन्धत्वमुरीकृत्य तद्ग्रहासम्भवादिरू. पदोषजातमुक्त्वा तयास्तत्सम्बन्धत्वमेवायुक्तमित्याह-किञ्च प्रमा. णानामिति । प्रत्यक्षादीनामित्यर्थः । जनेति । जनकत्वं तद्घटित. श्वेच्छारूपो ज्ञानरूपो वा यः सम्बन्धस्तदुभयान्येत्यर्थः। सम्बन्धे. नैव । संयोगादिनैव । घटादीत्यर्थः । इह-शब्दप्रमाणस्थले । तयोः- जनकत्वतद्घटितयोः । सम्बन्धत्वति-तत्सम्बन्धत्वेत्यर्थः । विपक्ष वृत्तिनिरूपणम् । . (कलाटीका) दोषान्तरमाह-अन्यथेति । अत्र तथाङ्गीकारे इत्यर्थः । इच्छाविषयेति। सांसर्गिकविषयतयेच्छा इत्यर्थः । एवं प्रागपि। द्वितीये आह । त. धोधेति । आदिना परामर्शः । उच्छेद इति । इष्टापत्तिस्तु तेन कर्तुम- शक्योति भावः । इत्थं तयोः सम्बन्धत्वमभ्युपेत्योक्तम् । वस्तुतस्तल्लक्षणानाक्रान्त. स्वात्तत्त्वमेव तयोर्न सम्भवतीत्याह । किञ्चेच्छाया इति । तयोरुभय- वृत्तित्वाभावे हेतुमाह | विषयतायामिति । तत्सामान्ये इत्यर्थः । एवमग्रे ऽपि । ननु तयोराश्रयतानियामकत्वाभावे ऽपि सम्वन्धत्व किं बाधकमत आह । सम्बन्धो हीति।हि यता सम्बन्धस्तादशस्ताहशस्ता दृश इत्यभियुक्तव्यवहारस्तस्मात्तस्य तत्त्वेनेत्यर्थः। तत्र मध्यमव्यवहारो हरेः अन्यौ तु तान्त्रिकाणाम् । तथा च सम्बन्धिभिन्नत्वे सति उभ. याश्रितत्वे सति विशिष्टवुद्धिनियामकत्वं सम्बन्धत्वम् । अस्ति च समवायादौ । रूपवानित्यादिप्रतीतेः । तत्रायेनाभेदस्य सम्वन्धत्वनि- रासः। द्वितीयेन फेवलजन्यत्वादेः । तृतीयेन वृत्यनियामकविषयत्वा देः। एवञ्च तयोरपि सम्बन्धत्वासम्भव इति भावः । ननु तयोस्तदनियामकत्वे एक किं मानमत आधं आह । न होति । तत्र तयोर्मध्ये । प्रकृताशयेनाह । इच्छेति । इच्छाया विषयो यो बोधस्तदीया या विषयता अर्थनिष्ठा तस्यामित्यर्थः । सत्त्यामिति शेषः । यद्वा तत्रत्यस्यैव व्याख्या-इच्छति । अनेनैव हि सम्बन्धेने- च्छाविषयस्य वाच्यत्वमुक्तमिति भावः। आदिना विषयो ज्ञानवानि- त्यस्य परिग्रहः । ननु सामान्यतो जनकत्ताया जन्याश्रयतानियामक- स्वाभावेन तदसम्बन्धत्वे ऽपि पद-अर्थोभयवृत्तित्वेन तद्भिन्नत्वेन च पद-अर्थयोः सम्बन्धत्वं कुतो न अतो द्वितीयेऽपि तदेव वक्तुमाह । बोधेति । सम्बन्धस्यदुरुपेति । घटादिजनकत्वस्य दण्डादिसर्वनि- प्ठत्वे ऽपि तस्य तेषां मिथो ऽसम्बन्धत्ववत् । नन्वत्र तस्याः पदवृत्ति. स्वेऽपि अर्थ वृत्तित्वे मानाभावः, किञ्च तथा सति तत्सम्बन्धत्वमपि स्यादत आह । झाने इति । विषयस्यार्थस्य । कर्तुः शब्दस्य । तयोः कर्तृविषययोः। सम्बन्धस्य बोधजनकतारूपस्य । तस्मात् जनक- स्वस्यापि न सम्बन्धत्वमिति तयोस्तत्त्वं दुरापास्तमेवेति भावः ।।
। टीकायापेतायां लघुपज्जूपायां तस्मात् पदपदार्थयोः सम्बन्धान्तरमेव शक्तिः वाच्यवाचकभावापरपर्याया । तद्ग्राहकश्वेतरेतरा. ध्यासमूलकं तादात्म्यम् । तच्च सङ्केतः । तस्यापि च पदनिष्ठशक्त्युपकारकत्वाच्छतिरिति व्यबहारः तस्य सम्बन्धत्वाभायात, भेदाभेदरूपस्य तस्य तत्वा- सम्भवात, तद्धटकभेदस्याभेदस्य वा तत्वादर्शनात् । अभेदस्थापि तत्त्वं खण्डशिष्यते । (कुञ्जिकाटीका) वाच्यवाचकेति । कारणतारूपा शक्तिः शब्दे प्रसिद्धव, अर्थ श- क्तिवाच्यतारूपैव । अध्यासेति । अन्यस्मिनन्यधर्मावभासोऽध्यासः तन्मूलक तादात्म्यं, न तु वास्तवमित्यर्थः । ननु सङ्केत एव तादात्म्य. मिति व्याख्यास्तु सङ्केतग्रहामन्तरमेव तादात्म्याध्यासादिति चेन्न । देवदत्तो ऽयमिति तादात्म्यमेव सङ्केत इत्यर्थः । तस्यापीति । तादा. त्म्यस्यापीत्यर्थः। पदपदार्थयोरारोपिततादात्म्यस्य शक्तिमाहकत्वात् शक्तित्वमपीति भावः। ननु तादात्म्यमेव शक्तिरस्तु किं भेदस्वीकारेणेत्यत आह- त. स्येति । तादात्म्यस्येत्यर्थः । सम्बन्धत्वाभावमुपपादयति । भेदाभे. देति । वास्तविकभेदे सति आरोपिताभेद एव हि तादात्म्यं, तस्य च सम्बन्धत्वं न सम्भवतीति भावः । अत्रैव हेतुमाह-तद्धटकस्येति । तादात्म्यघटकस्य भेदस्य अभेदस्य वा सम्बन्धत्वमन्यत्र न दृष्टमिः त्यर्थः । ननु भेदस्य सम्बन्धत्वाभावे ऽपि नीलो घट इत्यादावभेद- स्य सम्बन्धत्वं दृष्टमत आह-खण्डयिष्यत इति ! सम्बन्धिभेदनि- यतत्वात् सम्बन्धस्येति भावः ॥ ११ ॥ (कलाटीका) सदाहः। तस्मादिति । सम्बन्धान्तरम्। उक्तेच्छादिभिन्नम्। अस्योभ यनिष्ठत्वायाह-वाच्यति।प्राचीनादिमतासंगत्यायाह । तद्राहकमिति। वृद्धव्यवहारादिवदिदमपि तद्राहकमित्यर्थः । इतरेतरेति बहुव्रीहिः तादात्म्यपदार्थमाह । तथेति। तादात्म्यं चेत्यर्थः। सङ्केत इति । भेदाभे- दरूपो द्विविधः सङ्केतः संवन्ध। नन्वेवं तार्किकाणां कथं शक्तिव्यवहा- इत्तिनिरूपणेपदपदार्थसंवन्धानरूपणम् कलाटीका। रो ऽत आह-तस्यापिचेति । सङ्केतरूपतादात्म्यस्यापि चेत्यर्थः । पदनिष्ठोक्तरूपशक्तिग्राहकत्वात भाक्तव्यवहार इति भावः । ननु मुख्य एव कुतो नेत्यत आह । तस्येति-सङ्केतस्येत्यर्थः । सम्बन्ध त्वाभावादिति तयोः सम्वन्धत्वाभावादित्यर्थः । तस्वमेव च शक्तिप. दस्य मुख्यप्रवृत्तौ निमित्तमिति भावः। ननु तदेव कुतो न?इत्यत आह! भेदेति । तस्य--तादात्म्यस्य । ननु तदपि कुतो नात आह-तद्- घटकेति। तादात्म्यघटकेत्यर्थः । यद्यपि उभयोरसम्बन्धत्वेन चेत्यु- चितं तथाप्यन्यतरस्या सम्बन्धत्वेजपे विशिप्रस्य सम्बन्धविशङ्का. निरासायाह-वेति । अदर्शनादिति । अन्यत्रेति शेषः । तथा च यद्यन्यत्र तथास्यातर्हि अवयवान्यावयव्यभावेन तद्रूपतादात्म्यस्य तत्त्वेन तद्रू- पस्य सङ्केतस्यापि तत्त्वान्मुख्य एक व्यवहारः स्यान्न च तथेति भावः । ननु तद्घटकभेदस्य तत्त्वेन तत्त्वस्यान्यनादृष्टत्वे ऽप्यभेदस्यतत्वेन सम्बन्धत्वं नीलोत्पलादौ दृष्टमत आह । अभेदेति । अपिरुतेच्छादेः संयोगस्य च समुञ्चायकः । तत्त्वम्-सम्बन्धत्वम् । सुबर्थनिर्णय इति भावः॥ ११॥ तदुक्तं पातञ्चलभाष्ये-"सङ्केत्तस्तु पदपदार्थयो- रितरेतराध्यासरूपः स्मृत्यात्मको यो ऽयं शब्दः सो- sों, योऽर्थः स शब्दः" इति । (इतरेतराध्यासो रूप्य. तेऽनेनेति करणे घड्) । स्मृत्यात्मक इत्यनेन ज्ञातस्यैव सङ्केतस्य शक्तिबोधकत्वं दर्शितम् । किञ्च पाणिन्या. दिस्मार्तसङ्केतस्यैव वाचकतानियामकत्वं न त्वाधुनि- कस्येत्यपि दर्शितम् । एवञ्चाधुनिकसङ्केतस्थले द्वादशे- ऽहि क्रियमाणनामस्थले लक्षणा। तत्र घटगोविन्दा. दिगुणाद्यारोपेण तन्मूलकतत्प्रवृत्तिनिमित्तारोपेण च बोधः । सम्बन्धश्च स्वशक्तसङ्केतविषयत्वम् । एतदर्थमे. व सङ्केतोपयोगः। अत एव "तस्य भावः" (पा० मू०५।१। ११९) इति सूत्रे भाष्ये 'डित्यादिषु प्रकृत्यर्थव्यतिरि- २८ टीकाद्वयोपतायां लघुमञ्जूषायां । कप्रत्यधार्थाभावाद्भावप्रत्ययान्तवृत्तिर्न प्राप्नोति, डित्थत्वम्' इत्याशङ्ग्य “प्राथमकल्पिकडित्थेन कृतां क्रियां गुणान् वा यः कश्चित् करोति स उच्यते 'डि- स्थत्वं ते एतद् एवं डिस्थाः कुर्वन्ति । (कुञ्जिकाटीका) नन्यस्यार्थस्यायं शब्दो वाचक इत्याकारकसङ्कने शब्दार्थयोस्ता. दात्म्यभङ्ग इत्यत आह । सङ्केतस्त्विति । इतरेतराध्यासः-परस्परा. त्मकतारोपः । इतरेतराध्यासो रुप्यते ऽनेनेति करणे घञ्। इतरेत- राध्यासग्राह्य इत्यर्थः । स्मृत्यात्मक इति । स्मृतौ आत्मा यस्येत्य- र्थात् स्मृतिविषय इत्यर्थः । अत एव वक्ष्यति ज्ञानस्यैवेत्यादि । श. क्तिबोधकत्वम्-शक्तिग्राहकत्वम् । स्मृतिपदस्यार्थान्तरमाह । कि. ञ्चेति । त्रयी शब्दानां प्रवृनिरिति पक्षे संज्ञामात्रस्य व्युत्पन्नतया यो. गलभ्यक्रियायास्तत्रारोप एव । न हि तत्र शक्तिरस्ति पाणिन्यादिस्मृ- तिप्रकाशितेश्वरसङ्केताभावात् इत्याह-एवञ्चेति । गोविन्देति। प्र. सिद्धगोविन्दगुणारोपेणाधुनिकगोविन्दप्रयोग इत्यर्थः । आरोपहेतुं सम्बन्धं दर्शयति- स्वशक्तेति । गोविन्दे शक्तो यो गोविन्दशब्दःतत्स- केतस्य विषय आधुनिकगोविन्दः । ननु गोविन्दादिपदानां लक्षणा. श्रयणे सङ्केतानुपयोग इत्यत आह । एतदर्थमेवेति । उक्तसम्बन्धशा. मार्थमेवेत्यर्थः। आरोपे भाष्यसंमति दर्शयति । अत एवेति । प्रत्ययार्थाभावा- दिति । यदृच्छाशब्दे पुरुषेच्छाया एव निमित्ततयाऽर्थगतस्य कस्य. चित् प्रवृत्तिनिमित्तस्यानपेक्षणात त्वप्रत्ययो न प्राप्नोतीति भावः । भावप्रत्ययान्तेति । भावार्थकप्रत्ययान्ता वृत्तिरित्यर्थः । कृत्तद्धितेत्या- दिवृत्तिगणनायां तद्धितशब्दस्य तद्धितान्तपरत्वात् । कलाटीका। तस्य तन्मूलत्वे मानमाह- तदुक्तमिति । व्यासेनेति शेषः। इतरेत रेति । सङ्केतक राहार्यतरेतराभेदारोपरूपो य इतरेतराध्यासस्तद्रूप इत्यर्थः । अभेदारोपे बीजं त्वविभाग एव त्रयाणामपि बुद्धिधर्मत्वेन परस्परमविभागात् । अध्यासस्वरूपमाह । यो ऽयमिति । 'ओमित्ये- काक्षरं ब्रह्म'इत्यादिश्रुतिषु, वृद्धिरादजित्यादिव्याकरणे, कम्बुग्रीवादि- वृत्तिनिरूपणेपदपदार्थसबन्धनिरूपणम् कलाटीका मान्घट, इत्यादी लोके, अमरा निर्जरा देवा इत्यादी कोशे, व यो ऽयं शब्दः सो ऽर्थों योऽर्थः स शब्द इत्येवमितरेतराध्यालरूपस्यैव सङ्कत. स्य दर्शनात् । शब्दवाच्यत्वलक्षणायांप्रमाणाभावात् गौरवाञ्चति भा- वः। एवं भूते एव सङ्केते मुख्ये सति कथं चिद्भेदं परिकल्प्यार्थस्यायं वा. चक इति कदाचित्सङ्केतो यथा उत्रःप्रगृह्य मिति पाणिनेरिति बोध्यम्। स्फुटीभविष्यति चेदं सर्वमनुपदमेव । अत्रेतरेत्यादि घअित्यन्तो ऽपपाठः तद्भाष्यादिविरोधात् । ज्ञात. स्यैवेति । ज्ञानविषयस्यैवेत्यर्थः । तत्र स्मृत्यात्मकत्वं तूक्तरीत्यैव विष- यविषयिणोरभेदात् । एवमग्रे ऽपि । कर्मणि तिन् वा । एवेन स्वरूप- तो व्यावृत्तिः। बुध्यात्मक इति वाच्ये तथोक्त्या । शक्तीति ।गौणमुख्य. शक्तीत्यर्थः अविशेषेण विनिगमनाविरहात्तस्यान्यदपि फलमाह । कि श्वेतिपाणिन्यादिप्रणीतस्मृत्यनूदितेश्वरसङ्केनेत्यर्थः।वाचकतेति।तस्य पदस्य । एतावतां वर्णानामेवमानुपूर्वी कंमिलनमस्यार्थस्य वाचकाति प्रविभागरूपविषयव्यवस्थेत्यर्थः । एवव्यावर्त्यमाह-न विति। अनिय- तत्वादिति भावः। अपिरुक्तदर्शितसमुदायकः। आधुनिकेन्यनेनो. भयसङ्गहे ऽपि स्पष्टार्थ भेदेन पाणिन्यादिस्मातत्युभयव्यावय॑माह । एवञ्चति । तस्यैव तत्त्वनियामकत्वे चेत्यर्थः । तत्र स्मार्तेत्यनेनाद्यव्या. वृत्तिः । पाणिन्यादीत्यनेनान्त्यस्य । अन्त्यभिन्नो यस्सोऽत्राद्यः । ल. क्षणा च न शुद्धा किन्तु गौणीत्याह-। तत्रेति । उभयत्रेत्यर्थः । घटोति। मुख्यघटगोविन्दादिनिठगुणादीत्यर्थः । आदिना क्रियापरिग्रहः ।ताच. न्मात्रेणानिर्वाहादाह । तन्मूलकेति। तदारोपमूलकघटत्वादिप्रवृत्तिनि मित्तेत्यर्थः सोपि लक्षणातो नातिरिक्तइति सूचयितुमाह सम्बन्धश्चेति। स्वेति । घटाद्यर्थशक्तघटादिपदाधुनिकादिसङ्केतविषयत्वमित्यर्थः। न. न्वेवमत्रोक्तसङ्केतानुपयोगः शक्त्यभावेन तद्रहरूपफलाभावादत आ. ह- एतदर्थमेवेति । उक्तरूपसम्बन्धार्थमेवेत्यर्थः । अत्रार्थे मानमाह । अत एवेति। उक्तरीत्या तत्र लक्षणाङ्गीकारादेवेत्यर्थः । डित्यादी ति । संज्ञाशब्दविषये इत्यर्थः । उक्तमित्यत्रास्यान्वयः॥ प्राथमेति । एतत्कल्पप्राक्तनकल्पभवेनेत्यर्थः। करोति । अस्मिन्कल्पे । "प्राथमकल्पिकेतहि कथम् ? यथा तस्य काथंचित्कः प्रयोगस्तथावृत्तिरपि" इत्युक्तम् । तत्र "शब्दरूपस्थार्थे ३० टीकाद्वयोपेतायां लघुमञ्जूपायां " आरोपात् तत्प्रकारमाश्रित्य यथा शब्दप्रयोगस्तथा वृत्तिरपीत्यर्थः" इति कैयटः । तत्पक्षे कथञ्चित्पदस्य न तथा स्वारस्थम् , अन्यत्राप्यारोपस्यानुपयोगश्च इति। अन्ये व्याचक्षते-"यक्तावेव शक्तिः, तस्या एव च विषयताइयेन भानमिति शक्तिग्रहप्रयोगयोरुपपत्ति- स्तथा त्वप्रत्ययस्थापि" इति । एवं रीतेरन्यत्र काप्य- दर्शनेनात्र पक्षे कथश्चिदित्युक्तिरत्यन्तं समञ्जसेति बोध्यम् । अनादित्वात् संसारस्य ततोऽपि पूर्वतनडित्था- दिगुणाद्याश्रित्य प्रयोगादीति कश्चित् । तत्र तत्सङ्केत. ज्ञानादेव बोधः। शत्याद्यभावेऽपीति तुन युक्तम् वृत्त्य न्तरत्वापत्तेः । वृत्तिजन्योपस्थिति विना शाब्दबोधवि- षयत्वासम्भवाच्च । “द्वादशेत पिता नाम कुर्यात्" इति श्रुत्या स्मृत्या वा नामत्वेन नामबोधेऽपि तत्त- दूपेणेश्वरेण सङ्केताकरणेन तत्रापि शक्तेर्दुरुपपाद. स्वात् । अत्र नामपदेन चाह्वानकरणीभूतो बोधकः श- ब्द उच्यते। (कुञ्जिकाटीका) प्राथमकल्पिकेति । प्राथमकल्पिको मुख्यो यो डिस्थस्तदीयां कि. यां गुणान् वा यः करोति स डिस्थ इत्युच्यते । डित्था ईदृशी क्रियां कुर्वन्ति सा च त्वयीति तव डिस्थत्वमेतादशक्रियारूपमित्त्यर्थः । एव चडित्थसहचरितक्रियादर्शनात्ताहशक्रियागुणादिकमेव प्रवृत्तिनि- मित्तमिति भावः । अत्रेदं तत्त्वम् । यस्य गुणस्य भावात् द्रव्ये शब्दा- भिनिवेश इति भाष्यमते गुणो नाम भेदकः भेद्यश्च द्रव्यमित्येतदेव लक्षणमनुसरणीयम् । एवञ्च विशेष्यमात्रवाचकाविशेषणमात्रे गुणे भावप्रत्ययः । गोशब्दस्य जात्यवच्छिन्नद्रव्यवाचित्वे जातौ गोत्वमि. ति भावप्रत्ययः । जातिमात्रवाचित्वे तु तत्समनियते शब्दस्वरूपे आधुनिकनाम्नां सङ्केतानां च शक्तिखण्डनम् कुचिकाटीका। भावप्रत्ययः । यद्धि स्वरूपेण परमुपरञ्जयति तद्विशेषणम् । एवञ्च स्वरूपेणार्थ प्रत्याययतः शब्दस्योपरञ्जकत्वात् स्वरूपमेव प्रवृत्तिनि. मित्तं तद्रूपाध्यासेन चार्थप्रतीतिः । एवञ्च डित्यादिशब्दानामपि स्वरूप एव भावप्रत्ययः । स्वरूपाध्यासेन संशायाः संक्षिप्रत्यायनात्त- देव प्रवृत्तिनिमित्तम् । तदेत्तत्ते डित्थत्वमित्यत्र तु क्रियागुणाध्यासा. दन्यत्र वृत्तौ डित्थत्वसहचरितयोः क्रियागुणयोर्भावप्रत्ययः । एवञ्च क्रियागुणयोरभेदाध्यासाभिप्रायं डिस्थत्वमिति । कथमिति । प्राथमिकडित्थे आरोपासम्भवाद् वृत्तिः कथमित्य- र्थः । समाधत्ते । यथेति । काथंचिक इति । विनयादित्वात्स्वाथै उक् । अवस्थाभेदात्तत्रापि जाति कल्पयित्वा यथा तत्प्रकारको बाँधस्त. था त्वप्रत्यये ऽपीत्यर्थः । आनन्त्यव्याभिचारयोरभावेन तत्र जातिक. ल्पने मानाभावनिष्प्रकारक एव बोध उचित इत्यभिप्रायेणोक्तं- कथ- चिदिति । तनि । अयं शब्द अस्मिन्नर्थे शक्तः, अस्मिन्नर्थे वृद्धः प्रयुज्यमानत्वादित्यनुमानेन शक्तिग्रहे जायमाने धर्मितावच्छेदक- स्यावश्यकत्वात् शब्दस्वार्थे आरोपाच्छब्दप्रकारको यथा बोधस्तथा शब्दस्वरूपे प्रवृत्तिनिमित्ते स्वप्रत्यये इत्यर्थः। तत्-शब्दस्वरूपम् प्रकारम्-प्रवृत्तिनिमित्तम् । तत्पक्षे इति । कैयव्याख्याने इत्यर्थः । न स्वारस्यमिति । घटा. दिपदादपि शब्दप्रकारकबोधस्य दर्शनेनास्थ प्रकारस्य सार्वत्रिकत्वा. कथञ्चिपदस्य भाष्यस्थस्य स्वारस्यं न भवतीत्यर्थः । अन्यत्रेति । आधुनिकडित्थे ऽपि संशास्वरूपे वाच्ये त्वप्रत्ययसम्भवात्प्राथमिक डित्थगतक्रियारोपेण प्रवृत्तिरिति भाष्यस्य निष्फलत्वापत्तिश्चेत्यर्थः। संक्षाशब्दे शब्दस्वरूपस्यैव प्रवृत्तिनिमित्तत्वात्तत्रैव प्रत्यय इति व्या. स्थाने तु भाष्ये कथञ्चिच्छन्दप्रयोगोऽसमञ्जस एव स्यात् । इत्यन्ये इति । इति पूर्वोक्तदोषाद्धेतोरन्ये भाष्यमन्यथा व्याच. क्षते इत्यर्थः। विषयताद्वयेनेति । व्यक्तिरेवात्र डित्थशब्दार्थः। तस्या एव प्रकारतया विशेष्यतया च भानम् । तथा च प्रकारताविशिष्टा व्यक्तिस्त्वप्रत्ययार्थ इत्यर्थः। अस्या रीतेरन्यत्र दृष्यत्वाभावात् कथ. चिदिति भाष्योक्तिः सङ्गतेति भावः।
३२ टीकाद्वयांपेतायां लघुमञ्जूषायां प्रयोगादीत्यादिना शक्तिग्रहभावप्रत्ययौ । अस्मदादीनां दुग्रहत्व. मत्रास्वरसः। तत्रेति । शक्त्याद्यभावे ऽपि वोध इत्यन्वयः । पदानि. विकल्पकशक्तिग्रहशाब्दबोधयोरभावातत्र शक्तिर्नास्तीति मतं नि- राकरोति- तत्तदिति । वृत्तित्वानम्युपगमे तु दोषमाह । वृत्तिजन्ये. ति । कथं तर्हि अनुकार्याणां बोध इति चेत्तस्य स्मरणात्मकत्वेन शा. ब्दबोधत्वाभावात् । तथोपस्थितस्यापि पदार्थान्तरेऽन्वयित्वं तुभूस- तायामित्यादिनिर्देशादेव । ननु आधुनिकसंज्ञास्थले शक्त्यभावे ऽपि ना. मस्थले शक्तिरस्त्येव द्वादशे ऽहनीति वचनात्तथा च तत्र लक्षणति प्रागुक्तमयुक्तमित्याशङ्कामपाकरोति । द्वादशे ऽहनीति । तत्तद्रूपेणे. ति । चैत्रत्वादिनेत्यर्थः । अन्यथा । 'नापभाषितवै' इत्येवमपभ्रंशत्वनो. चारणादपभ्रंशे ऽतिव्याप्तेः । तस्मात्तत्तद्रूपेणेश्वरोच्चरितत्वमेव शक्ति. मत्त्वनियामक तश्च नामस्थले नास्तीति भावः । तत्रापीति । आधुनि- कसंज्ञावन्नामस्थले ऽपीत्यर्थः(१) ईश्वरस्य सर्वज्ञत्वान्नामस्थले विशि- च्याप्युच्चारणं कल्प्यते इत्यन्ये । ननु तत्र शक्तिसत्वे किं मानमस्य सुबन्तादौ प्रसिद्धत्वाद्वाचकशब्दमात्रग्रहणाद्वा अस्ति प्रकृत्यादिक- ल्पनया शक्तिरित्याह । अत्रेति । बोधकः शब्द इति । तथा च श- त्यभावे बोधो न स्यादिति भावः॥ कलाटीका । प्राथमकल्पिके तीत्यादिग्रन्थस्य प्रकृतानुपयुक्तत्वे ऽपि वि- शेषं वक्तुमुक्त इति सूचयितुमाह । तत्रेति । काथंचिक इति प्रतीके इत्यर्थः । आरोपात् । तादात्म्याध्यासातू । यथाशब्देति । अन्यथा शब्दानिर्विकल्पकाभावेन निर्धर्मितावच्छेदकशक्तिग्रहाभावेन च प्र. योग एव न स्यादित्यर्थः । जात्यतिरिक्तपदार्थे विशेष्यताप्रकारतयोः सावच्छिन्नत्वनियमादिति भावः । तं खण्डयति । तत्पक्षे इति। के- यटोक्तव्याख्यानपक्षे इत्यर्थः । तथा । अत्यन्तम् । नन्वध्याससापेक्ष- त्वादेव क्लिष्टत्वमत आह । अन्यत्रापीति । एतत्कल्पस्थडित्थादाव. पीत्यर्थः । इति तौ। अन्ये इति । उक्तभाष्यमन्यथेत्यर्थः। तस्या एव (१) ईश्वरस्य सर्वज्ञत्वादित्यारभ्य तथा च शक्त्यभावे वोधो न स्या दित्यन्तोऽन्यमतप्रतिपाद- को ग्रन्थः । अनेनग्रन्थेन “अत्रनामपदेनचाहान करणांभूतो वोधकः शब्दउच्यते" इति मूलस्य द्वा- द निक्रियमाणनाम्नां शक्तिमत्व वोधकत्वाशयोवर्धते । परन्त्वेवंव्याख्यया नागेशस्यपूर्वापर अन्यविरोधमङ्गगा दुपेक्ष्येयं व्याख्या ।
शक्तसिवन्धत्व खण्डन कलाटीका। व्यक्तरेव । विषयतेति ! प्रकारताविशेष्यताख्यविषयताद्वयेनेत्य. र्थः ! भाज्यस्थप्रयोगपदमुपलक्षणमित्याह । शक्तीति । इति व्याख्या- न समाप्तौ। एकदेशीयव्याख्यानमाह-अनादीति । गुणादीत्यादिना क्रि. या । प्रयोगादित्यादिना स्वप्रत्ययादिः, कश्चिदित्यनन कथं चित्पद- वटितोक्तभाप्यविरोधरूपा, संसारस्य नानादित्वमित्याशयकप्राथ मेत्यादिशङ्कासमाधानरूपसर्वभाध्यविरोधरूपा, अन्यत्र प्रतिपादितप्रल. यसत्वेनानादित्वं न तस्येत्येवरूपा, चारुचिः सूचिता ! सङ्के. तस्य ज्ञातस्यैवत्युक्तस्य विशेषकथनायात्रानुवादमाह-तत्रेति । भाधुनिकसङ्केतस्थले इत्यर्थः । तत्तदर्थनिरूपितो यः सङ्केतस्त- ज्ज्ञानादित्यर्थः । प्रयोगसाधुता प्राग्वत् । नन्वेवं मध्ये सम्ब. न्धरूपाशक्तिः किमर्थमत आह । शक्त्यादीति । आदिना लक्षणादि- प्रहः । वृत्त्यन्तरेति । तुर्यवृत्तित्वेत्यर्थः। संकेतस्येति भावः । ननु कार्यस्य तेनैव सिद्धः किमिति तस्य वृत्त्यन्तरत्वमत आह-वृत्तीति । पदार्थस्येति शेषः। घटादिपदादाश्रयत्वादिनोपस्थिताकाशादेः शाब्द- विषयत्ववारणाय वृत्या पदजन्यपदार्थोपस्थितस्तत्र कारणत्वाङ्गी. कारादिवि भावः। ननु सङ्केतशानजन्यबोधे शक्तिजन्योपस्थितेरेव हेतुत्वमास्ता- कृतं वृत्तिजन्यत्वनिवेशेन । किञ्च द्वादशे ऽह्नि क्रियमाणनामस्थले- स्मार्तसङ्केतस्य सत्त्वेनेश्वरसङ्केतसम्भवेन तद्वत्तस्यापि वाचकता. नियामकत्वमेवेति किमर्थ तत्रापि लक्षणा, Sत आह । द्वादशे इति । श्रुतित्वे मानाभावादाह-स्मृत्येति । तत्तद्रूपेण विशेषरूपेणेश्वरकृतः सङ्केत इत्यस्याबोधनेन । तत्रापि । द्वादशे ऽह्नि क्रियमाणनामस्थल. ऽपि । अपिस्तदन्याधुनिकसङ्केतस्य, लक्ष्यस्य गङ्गायां घोष इत्यादेश्च समुच्चायकः । तथा चात्र सर्वत्र बोधार्थ तत्त्वेन निवेश आवश्यक इति भावः । ननु 'नामाख्यात'(निर०)इत्यादी नामपदेन सुबन्तग्रहण- बदनापि तथात्वे सर्ववर्णसाधारणसाध्वसाधुसाधारणशब्दग्रहणस्ये स्य न लाभोऽत आह-अति। उक्तस्मृतिवाक्ये एवेत्यर्थः चस्त्वर्थे। आह्वानेति । यत उक्तसङ्केतज्ञानाल्लक्षणया बोधकः, अत आह्नानकरणी. भूत इत्यर्थः । तस्मादतिरिकोक्तरूपशक्तिरावश्यिकेति सिद्धम् ॥
३४ ३ टीकाद्वयोपताय लघुमदाय অহ্ অহল্কা শ্রীনামালিন্য দু- क्तिरेव सम्बन्ध इलि, तन्न, शक्करपि कार्यजनकत्वे संज- न्धस्यौव नियामकत्वात् । दीपगतप्रकाशकत्व शक्तावणि सम्बन्धे सत्येव वस्तुप्रकाशकत्वं नान्यधेति दृष्टत्वात् । तदुक्तम् हरिणा-- उपकारः स यत्रास्ति धर्मस्तत्रानुगम्यते । शक्तीनामप्यसौ शक्तिर्गुणानामप्यसौ गुणः॥ इति "उपकार इति । उपकार्योपकारकयोरुपकारस्व- भावः सम्बन्धो यत्रास्ति, तत्र धर्मः शक्तिरूपः कार्य दृष्ट्वाऽनुमीयते । असौ सम्बन्धः शक्तीनामपि कार्यज. नने उपकारकः, गुणानामपि द्रव्याश्रितत्वनियामक: सम्बन्ध इति तदर्थः" इति हेलाराजः । सम्बन्धः पदे. वाक्ये च । तदाह न्यायभाष्यकार:-"समयज्ञानार्थ चंदं पदलक्षणाया वाचो ऽन्वाख्यानं व्याकरण, वा- क्यलक्षणाया वाचो ऽर्थलक्षणम्" इति । अनेन हि पदे. ष्विव वाक्वेष्वपि ऐश्वरः सङ्केत इति स्पष्टमेवोक्तम् । वाक्यविषये समयग्राहकनाकाङ्क्षाद्यपि । समयग्रहा. र्थमित्यस्य साधूनामित्यादिः । कुालेकाटीका। शक्तेः संबंधो बोध्यवोधकभावनियामको भवति न तु शक्ति- रित्याह-शक्तेरपीति । घटजननशक्तेः सम्बन्धोस्तीऽत्यत एव हि दण्डनिष्ठशक्तेर्घटजनकत्वमित्यर्थः । शक्तेस्तु पुनः शक्त्यन्तरं नास्ति, अनवस्थापत्तेः । उपकार इति । यत्रोपकारस्वभावः सम्बन्धोऽस्ति तत्र शक्त्याख्यो धर्मो ऽनुमीयते । असम्बद्धानामुपकाराभावात् । न च शक्तिरेवसम्बन्धः शक्तीनामप्याधारपारतन्ध्ये कार्यजनने च स- म्वन्धस्यैव नियामकत्वात् । यतः गुणानामपि च द्रव्याश्रितत्वनिया. मकः सम्बन्ध एवेति परतन्त्राणामप्युपकारकरवादित्यर्थः ।
शक्त बन्यत्वखण्डन ३५ कृञ्जिकाटीया उपकार्यो ऽर्थः । उपकारकः शब्दः । उपकारकता परस्परंह पोरपि । कार्यम्-उपकारम् । असो सम्बन्ध उपकारकताख्यः। शक्ती- जामतीति । सम्बन्धसत्वे एव शक्तेरपि कार्यजनकवादित्यर्थः । अ- लक्षणम्-अर्थप्रतिपादक शास्त्रम्। अलेनेति वाक्यलक्षणायाः समयग्रहार्थम्" इत्यनेन वाक्येऽपि शक्तिसूचनानर्थकत्वोक्तिरयुक्त. तिभावः कलाठीका यत्वत्र कौस्तुभादावुक्तं "नेदंयुक्तं गौरवात् किन्तु लाघवात् । बटबोधजननसामर्थ्यमेव घटादिपदानां शक्ति"रिति तत्खण्डयति-य- स्विति । उक्तक्रमेणाह--बोधति । शक्तिरेव-सामर्थ्यविशेष एव । एवम- ग्रेऽपि । तदभावे तदभावात् तस्यास्तन्नियामकत्वम्। एवंच धर्मःक्लप्त- स्तत्सवन्धत्वमात्रं कल्पयामितिलाघवम् । एतेन वाच्यवाचकभावापर. पर्यायशक्तिरूपसम्बन्धनिरासशक्तरपिकलमाया उतरूपायाः अपिः उक्तसमुक्चायकः सम्वन्धस्यैव । तदन्यसम्बन्धस्यैवेत्यर्थः। तत्र मान. माह। दीपेति । सम्बन्धे दीपवस्तुनोरित्यादिः । प्रकाशकत्वं दीपस्येत्या- दिः। उपकारस्येति । कार्योत्पादनं स्वभावो यस्येत्यर्थः । शक्तिरूपः। सा. मर्थ्य रूपः। एवमग्रे ऽपि । कार्यम्-बोधम् । शक्तिरित्यस्थार्थमाह । उ- पकारक इति। गुणानाम्-रूपादीनाम् । गुण इत्यस्यार्थमाह। द्रव्येति । असावित्यर्थः । सम्बन्ध इति । एवमतिरिक्ततत्सिद्धौ तदाधाराजिज्ञा. सायांतन्त्रान्तरमतासांगत्यायाऽऽह-स इति। वाच्य वाच्यक भाव रूपः कल्पितत्वेन तन्त्रान्तरमतेनाह-पदे इति। वस्तुतः स्वमतेनाह-वाक्ये इति ।उभयत्र संमतिमाह-तदाहेति । इदम्-व्याकरणम् । पदलक्षणाया वाचःसङ्केतज्ञानार्थमन्वाख्यानं करणे ल्युट्, व्याकरणस्य मध्यमणिन्या. येनान्वयः । वाक्यरूपवाचः अर्थलक्षणम् । करणे ल्युट् । अर्थबोधजन- कताबोधकमित्यर्थः । अनेन हीति । उक्तभाष्यग्रन्थेनेत्यर्थः । अस्य सूचि. तामित्यत्राप्यन्वयः। उक्तमिति । ऐश्वरः सर्गादौ ईश्वरकृतःसमयेत्य- स्योभयत्रान्वयादिति भावः । तदभिप्रेत्य वाक्यविषये न्यूनतां पूरय- ति-वाक्येपि अपिः व्याकरणसमुच्चायकः । वक्ष्यमाणरीत्या सङ्केत. स्यापभ्रंशेष्वपि सत्वात्तज्ज्ञानस्य ताभ्यामसम्भवादाह-समयति ॥
काद्वयोपता लघुमपाया एतेन पदार्थ सम्बन्धग्रहवन्त्यषि पदानि वाश्या- थे सङ्गतिग्रहानपेक्षाण्येवेत्ति वाक्यस्फोटो नैयायिका- सम्मत इति परास्तम् । एतचोपरिष्टाहक्ष्यामः । पदस्यैवार्थबोधकमवयवार्थद्वारा व्याकरणामिति सूचितम् । कः शब्दः ? कोऽर्थः । इति प्रश्ने 'घट' इत्ययं श. ब्दो, 'घट' इत्ययमर्थ, इत्येकाकारांत्तरदर्शनात्तयोरध्या ससिद्धिः। घट इत्याकारं ज्ञानमिति व्यवहाराच्छन्द्- ज्ञानयोरपि सः। इतिशब्दस्य शब्दस्वरूपपरता तात्प- र्यग्राहकत्वात् । अन एव पदं श्रुतं, अथार्थ शृणु, अर्थ वदतीत्यादिव्यवहारः। शब्दार्थयोरितरेतराध्यासादेव "वृद्धिरादेच्” (अ- ष्टा० सू०१-१-१) 'ओमित्येकाक्षरं ब्रह्म" इति श. क्तिग्राहकश्रुतिस्मृत्योः सामानाधिकरण्येन प्रयोगः । (कुञ्चिकाटीका ।) एतेनेति । पदार्थसम्बन्धग्रहणसापेक्षाण्यपि पदानि; न वाक्या- नि वाक्यार्थसम्बन्धग्रहसापेक्षाणि आकाङ्गादिवशादशक्यस्यैव. वाक्यार्थस्य प्रतीतेरित्यर्थः। परास्तमिति । पदद्वयघटिताकासादिभि- क्यार्थबोध वाक्यस्फोटस्य दुर्वारत्वात् । अवयवार्थद्वारा-प्रकृत्या. द्यर्थद्वारा । सूचितमिति । पदलक्षणायाः समयग्राहकमित्यनेन पद- स्य वाचकत्वं सूचितम्, अन्वाख्यानत्वोक्त्या च प्रकृत्यादिकल्पना सुचिता। सः अध्यासः। एतदेवोपपादयति । इति शब्दस्येति । इतिश. ब्देन घटशब्दस्य परामर्शाच्छब्दज्ञानयोरभेद इत्यर्थः । साकारवा. दिनस्तु पदार्थमात्रस्य ज्ञानरूपतां वदन्ति । तन्मते आकारभेदादेव- भेदः । अर्थ शृणु इति । शब्दस्यैव श्रावणत्वादर्थे आरोप एवे. ति भावः।
तादात्म्यस्य शक्तिनियामक संवन्धत्व -- . .खेकाटीका) ओमित्येकाक्षरचिलित ! "लनु यश्छन्दसामृषभो विश्वरूप न्दोभ्योऽध्यमृतात्मस्वभूवेति श्रुनो यच्छन्दलापम ओङ्कारश्छन्द भ्यः सम्बभूवेति उत्पत्तिश्रवणात् कथं ब्रह्मरूपत्वम् । सत्यम् । सम्ब. भूवैत्यस्य प्रत्यभात इत्यर्थः ॥ (कलाटीका।) यदर्थमिदभुक्तं तदाह-एतेनेति । उक्तभाष्येणेत्यर्थः । पदार्थे । पदार्थेषु । यद्वा । तत्तत्पदार्थे । सङ्गतिः-- सम्बन्धः-वाक्यवा- क्यार्थयोः सम्बन्धरूपशक्तिग्रह विनैव मिथः समभिव्याहारात्ततो वाक्यार्थवोध इति भावः । परास्तमिति ! नैयायिकशिरोमणेस्तद्भा- ज्यकारस्येष्टत्वादिति भावः। ननु तं विनव निर्वाहस्थानापतझन्थे कृ. तत्वाकिमर्थ सो ऽत आह-एतच्चेति । तत्संमतमावश्यकत्वं च । उपरिष्टात् शब्दनिरूपणे । ननु व्याकरणे साक्षात्पदतदर्थयोरनुक्त. स्वात्कथं तत् ? अत आह- पदेति । साक्षात्तदन्वाख्यानस्य लघूपा. पायेन दुष्करत्वात्। एतेन प्रकृतिप्रत्ययाद्यर्थवोधनतात्पर्यकत्वमात्र- व्यवच्छेदः । अफलत्वात् । अत एवास्य पदशास्त्रत्वव्यवहारः। वाक्य वाक्यार्थवोधनं तु परमतात्पर्यार्थः। अत एव तत्रान्वाख्यान'मिति,'तत्रा. र्थलक्षण मिति, चोक्तमिति भावः। अवयवेति । प्रकृतिप्रत्ययाद्यवयवार्थ- बोधनेत्यर्थः। ननु भवतु सन्वन्धस्तत्र तथापि अध्यासे एव मानाभावेन कथं तद्ग्राहकत्वं तस्योक्तमत आह-क इति । तयोः शब्दतदर्थयोः । किं ज्ञानमिति प्रश्ने "घटः" इति तथोत्तरदर्शनेन सिद्धस्त्रयाणामध्यास इति सूचयन्नाह-घट इति। अपिः शब्दार्थयो? समुच्चायकः। ननु शब्दार्थयोरिवार्थज्ञानयोरेवाऽयं कुतोनात आह-इतीति । अर्थपरस- मभिव्याहृतस्येति भावः। घट इत्ययमर्थ इत्यत्र न शब्दपरसम- भिव्याहृत इति बोध्यम् । नन्वेवं त्रयाणामध्यासोभाष्योक्तो न सिद्धः इति चेन्न, तदभिन्नति न्यायेन सिद्धेः । अध्यासं पोषयति--अन एवेति । तयोरध्यासादेवेत्यर्थः । 'अर्थ शृणु' इत्यस्य शब्दपरत्ववार- णायाह-पदं श्रुतमिति । अथ । तच्छ्रवणानन्तरम् । आदिना 'अर्थ कथयति' अयमर्थ एतन्मुखाच्छुन इत्यादिपरिग्रहः । एवं लोक- तस्तत्पुष्टिं कृत्वा तत्राप्रामाणिकत्वशंकाया अपि सम्भवात् श्रुत्या.
३८ टीकाद्वयोपेताया लधुमनाम कलाटीका। . दितस्तत्पुष्टिं करोति-शब्दाति । प्रत्यासत्यापस्थितेः लबलयुक्तरग्ने वक्तव्यत्वाचाह-वृद्धिरिति । अभ्यर्हितत्वेन श्रुतेः पूर्वनिपातेन तदनुरोधेन कल्प्यमानवोधजनक वाक्ये ओमित्यस्य प्राथम्यमिति यथासंख्योपपत्तिः। व्युत्कर्म- णाम्बयो वा पदवाच्यत्वलक्षणायां गौरवमिति भावः ।। तादात्म्यं च तद्भिन्नत्वे सति तदभेदेन प्रतीयमा- नत्वम् । अभेदस्वाध्यस्तत्वाञ्च न तयोर्विरोधः। तत्र भेदस्योद्भुतत्वविवक्षया 'अस्वार्थस्यायं वाचकः' 'उत्रः प्रगृह्यम् , 'तस्य वाचकः प्रणवः' इत्यादौ षष्ठी । अभेद. स्य तत्त्वविवक्षया तु प्रथमा, यथा उक्तेषु । अत एवा- थै शब्दधर्मत्वब्यवहारः, अत्यन्तभेदेऽश्वपुरुषयोरिव तद्यवहाराभावात् । नाप्यत्यन्ताभेदे सः। घटे स्वध- मत्वव्यवहाराभावात् । अयमध्यास आदिव्यवहार कृदीश्वरकृत एव । एतच स्थितोऽस्थ वाच्येन सह स- म्बन्धः । संकेतस्तूक्तरूप ईश्वरस्थ स्थितमेवार्थमभि- नयति । यथावस्थितः पितापुत्रयोः सम्बन्धः संकेते. नावद्योत्यते । अयमस्य पिताऽयमस्य पुत्र इत्यादिना पातञ्जलभाष्ये एव स्पष्टम् । हरिरप्याह- इन्द्रियाणां स्वविषयेष्वनादियोग्यता यथा ।। अनादिरथैः शब्दानां सन्बन्धो योग्यता तथा ॥१॥ सम्बन्धशब्दे संम्बन्धी योग्यता प्रति योग्यता। समयाद्योग्यता संविन्मातापुत्रादियोगवत् ॥ २॥ सति प्रत्ययहेतुत्वं सम्बन्धे उपपद्यते । शब्दस्यार्थे यतस्तस्मात्सम्बन्धोऽस्तीति गम्यते॥३॥इति।
বাস্থ্য হাতি শুরু २ স্বার্থঃ- শুক্লা দ্বালি- भने अनादिः पुरूषयमानपेक्षा चोग्यता तज्जनकताव- च्छेदकधर्मस्यरूपा, तथा शब्दानाम) अनादिः स- 'म्बन्ध एक योग्यता, नदोषजनकतावादको धर्मः ! सम्बन्धशब्दे योग्यतां प्रति बोधजनकनारच्छेदक- धर्मरूपयोग्यतानिरूपितो यस्तादात्म्यलक्षणः सम्ब. न्धः स एव योग्यता; साच स्वाभाविक्येव । अनादि- वृद्धव्यवहारपरम्परापरपर्यायाऽस्मदादि समयगृहीतोक्ते- श्वरसमयान्निश्चीयते । यथा मातापुत्रयो जन्यजनकभा. वसम्बन्धस्य व्यवहारो निश्चायकस्तहत् । न तु जन- कत्वमेव योग्यता एतजनने अयं योग्यः' इति व्यवहा. रात् । तदाह-सतीति । यतः शब्दस्यार्थ सम्बन्धे सति तत्प्रत्ययहेतुत्वमुपपद्यते तस्मादित्यन्वयः । अतएवैतदुपक्रमे-- ज्ञानं प्रयोक्तुरर्थस्य स्वरूपं च प्रतीयते । शब्दैरुचरितैस्तेषां सम्बन्धः समवस्थितः ॥१॥ इत्यादिना शब्दार्थज्ञानानामध्यासस्थोपपादनं कृ. तम् । अत्र 'तेषाम्' इत्यस्य 'अतः' इत्यादिः। अयं सा. स्नादिमानों गौरित्यर्थको ऽयं गौः' इत्येवं लोकानांव्य- वहारादुक्तं तादात्म्यं सन्धन्ध इत्यक्षरार्थः । एतेन त. योरभेदे घटादिशब्दैमधुधारणाद्यापत्तिः, अग्न्यादि- शब्दोच्चारणे मुग्वदाहाद्यापत्तिः, अर्थे वर्णमालाधनु- भवापत्तिश्चेति निरस्तम् । भेदाभेदोपपादनात् শ্রদ্ধাস্বত্বনাথ? তমসৃণাল (कुञ्जिकाटीका ननु शब्दार्थयोस्तादात्म्ये अग्निशब्दोच्चारणे सुखदाहापत्तिा, अस्यायं वाचक इति व्यवहारानापत्तिश्चेत्यत आह-तादात्स्यं चेति । तयोः । भेदाभेदयोः । तस्य वाचकः प्रणव इति । एतच्च पातञ्जल- सूत्रम् (पा-१सू-२७ तस्येश्वरस्य प्रणव ओङ्कारो वाचक इत्यर्थः। उक्तेषु । ओमित्येकाक्षरमित्यादिषु । अत एव भेदाभेदोभयसत्त्वादेव । शद्वधर्मत्वेति । शब्दे सम्बद्धस्यार्थस्य धर्मत्वव्यवहार इत्यर्थः। पुरुषा- दौ संवद्धस्यापि राजादेर्धर्मत्वं न व्यवहियते । भेदाभेदोभयास- त्वात् तदेव दर्शयति अत्यन्तेति । ननु अध्यासस्य पौरुषेयत्वात शद्वार्थसम्बधस्यानित्यत्वापत्ति रत आह-अयमध्यास इति । शद्वार्थव्यवहारस्यानादितयाऽऽधुनि. क पुरुषैः कर्तुमशक्यत्वादिति भावः । ननु यदि शब्दार्थयोः सम्बन्धः स्वाभाविकएव संकेतेन प्रकाश्यते इत्युच्यते तदा यस्मिन्नर्थे यस्य शद्वस्य सम्बन्धो नास्ति तस्य संकेतशतेनापि बोधो न स्यात् । ना- विद्यमानो घटो दीपशतेनापि प्रकाश्यत इत्याशक्याऽऽह-स्थितोऽ स्येति । एतदारभ्यपातअलभाष्यम् । अस्यवाचकस्य वाच्येन सह सम्बन्धः स्थितो विद्यमान एव । एतद्रूप ईश्वरस्य सङ्कतस्तु विद्य- मानमेव प्रकाशयतीत्यर्थः । अयंभावः । सर्वेषां शद्वानां सर्वैरथैः सम्वन्धोऽनादिरेव । ईश्वर सङ्केतस्तु प्रकाशको नियामकश्चेति । उक्तरूपः इतरेतराध्यासरूप ईश्वरसङ्केतस्तु स्थितमेव वस्तु अभिनयतीत्यर्थः । इन्द्रियाणामिति । इन्द्रियाणां-चक्षुरादीनां । स्वविषयेषुचाक्षुषादिषु घटादिषु यथा पुरुषप्रयत्नानपेक्षा अनादियों- ग्यता, एवं समवायादि निमित्तानपेक्षयैव उच्चारितमात्राच्छता. दर्थप्रत्ययोत्पत्तेः अकृत्रिमाशक्तिरवसीयते । स्वाभाविकीमेवच- योग्यतां संकेतोद्योतयति । संज्ञाशद्वानांतु सर्व संक्षिप्रत्यायनशक्ति. प्रयुक्तत्वेऽपि विशिष्टे संज्ञिनि शक्त्यवच्छेदः सामयिकः। सम्बन्धशब्दे इति । अत्र वाच्यत्वं सप्तम्यर्थः। योग्यतां प्रती. त्यत्र लक्षणत्वसम्बन्धे कर्मप्रवचनीयता । तथा च सम्वन्धशब्द- वाच्यः सम्बन्धो योग्यतैव । एतच्च योग्यतावशादेव निश्चीयते, 'अयं शब्द एतदर्थयोग्य' इति व्यवहारात् । योग्यतैव शब्दार्थयोः सम्बन्ध इत्यर्थः ।अत एव च सम्वन्धशब्दो योग्यतालक्षणसम्बन्धं योग्यतयैव तादात्म्यस्य शक्तिनियामकसंबन्धत्वम् (कुञ्जिकाटीका) प्रतिपादयतीति हेलाराजो व्याख्यत् । नन्वेवं सङ्केतस्य नोपयोग इत्यत आह-समयादिति । वृद्धव्यवहारपरस्परापर्यायात्समयात्स्वा. भाविक्येव योग्यता निश्चीयते । न हीयमस्य पुत्रस्य मातेति सा- मयिको जन्यजनकभावः, वस्तुसिद्धस्यैव प्रतिपादनात् । सतीति । अर्थे नियते नियतप्रतीतिहेतुत्वं सम्बन्धे सत्येव युज्यते, नान्यथेति यतः । तस्मादर्थप्रत्यायनात्कार्यादस्ति सम्बन्धः शब्दार्थयोरित्ययसी. यते इत्यर्थः । सम्बन्धबोधके शब्दे अस्य शब्दस्यास्मिन्नर्थे सम्बन्ध इति व्यवहारात्। अयमर्थ एतद्योग्यतावानिति व्यवहाराद्योग्यतानि- श्चय इत्यर्थ इति भूषणकृतः । अस्यार्थ इति । एतन्मते 'योग्यता प्रति' 'सम्बन्ध' इत्यस्य योग्य- तायाः सम्वन्ध इत्यर्थः । तथा च तादात्म्यसम्बन्धे योग्यतायाः यः सम्बन्धः स एव योग्यतेत्यर्थः। योग्यतानिरूपितस्तादात्म्यलक्षण: सम्बन्ध इति त्वपपाठः । तादात्म्यं हि योग्यताया आश्रयो न तु निरूपितम् । अस्मदादीति । वृद्धव्यवहारपरम्परापर्यायो यो ऽस्म- दादिसमयस्तेन गृहीतो य ईश्वरसमयस्तेनानुमीयत इत्यर्थः। अत एव शब्दार्थयोस्तादात्म्यादेव। ज्ञानमिति । प्रयोगेणाभिव्यक्तैः शब्दस्त्रितयमवगम्यते-शब्दस्वरूपम्, अर्थः, प्रयोक्तुरभिप्रायश्च,न चै. तदसति सम्बन्धनियमे घटत इति वास्तवः सम्बन्धो, न सामयि. कः । समयस्थित इत्यस्य स्वभावत एव निरूढो न शास्त्रेण निवे. शित इत्यर्थः । तत्रार्थशब्दयोः सम्बन्धो वाच्यवाचकभावः, प्रयो- त्रभिप्रायेण तु सह कार्यकारणभावः । तदाहु:- वक्तृव्यापारविशेषे बुद्धौ यो ऽर्थः प्रकाशते ॥ प्रमाणं तत्र शब्दानां नानार्थत्वनिबन्धन मिति । उक्तं तादात्म्यम्=अध्यस्तं तादात्म्यम् । भेदाभेदेति । वस्तुतो भेद एव, आरोपितस्त्वभेद इत्यर्थः । (१) (कलाटीका ) ननु सङ्केतस्याध्यासरूपत्वेन ज्ञानरूपत्वात् कथं तादात्म्यस्य तत्व-"तस्याऽऽत्मेवाऽऽत्मा यस्य, तस्य भावः तादात्म्य"मिति व्यु. (१) तादात्म्यं च द्वयोः सम्बन्धिनोरेकमतिरिकं स्वरूपसम्बंधविशेषश्च । नातस्तस्यापि सम्ब- धान्तरापेक्षायामनवस्था'इत्यधिकः पाठ: पुस्तकान्तरे । ६ ४२ टीकाद्वयोपेतायां लघुमञ्जूषायां तथा च तारशस्य (कलाटीका) त्पत्त्या सस्य भेदविशिष्टाभेदरूपत्वं विशेष वक्तुमुक्ताध्यासमुलक- तादात्म्यत्वरूपं . स्वरूपतस्तस्यातत्त्वमत आह-तादात्म्यं चेति। भेदाभेदयों विरोधेन भेदे सत्यभेदस्य बाधितत्वेन विनाऽध्यासं विशिष्टतत्स्वरूपस्यैवासिद्धिरितिज्ञानगर्भवमावश्यकमिति विकल्प रूपमिदमिति भावः । भेदविशिष्टा दस्य तत्वं सिद्धम् । नन्वेवं तेजस्तिमिरयोरिव मिथः तयो विरोधो ऽत . आह-अभेदेति। चस्त्वर्थे । नन्वेवं कथं भेदेन व्यवहारो ऽत आह-तत्रेति । तयोर्मध्ये इत्यर्थः । उद्भूतत्वेति । तदभिभवपूर्वकैतद्विवक्षयेत्यर्थः । तत्र लोकप्रयोगमाह-अस्याति। एतच्छास्त्रीयमाह = उनः प्रगृह्यमिति । योगसूत्रमाह = तस्येति अनेन भेदरूपोऽपि सङ्केतः सूचितः । तत्वविवक्षया तु-उद्भूतत्ववि. वक्षया तुः। यथोक्तेषु "ओमित्येकाक्षरं ब्रह्म" "वृद्धिरादैच्" इत्या. दिषु मम चक्षुः काणं' 'अहं काणः' इतिवत् । तत्रान्यदपि मानमाह - अत एवेति । उभयसत्त्वे ऽपि कदाचित् कस्यचित्तत्त्वविवक्षणादेवे त्यर्थः । शब्दधर्मत्वेति बहुव्रीहिः । धर्मादित्यनिजन्तात् त्वः, ततस्त त्पुरुषः । अर्थः शब्दस्य धर्म इति व्यवहार इत्यर्थः । चतुष्टयीपक्ष संज्ञा शब्दस्थले इति भावः । यद्वा तत्पुरुषगर्भस्तत्पुरुषः । शब्दस्याओं धर्म इति व्यवहार इत्यर्थः। एवमग्रेऽपि । अत एवेत्यस्यार्थ सूचयन्विपक्षे वाधकमाह = अत्यन्तेति। व्य. वहाराभावादिति दृष्टान्ते मिथः तत्तद्धमत्वव्यवहाराभाववदत्रापि तद्यवहाराभावापत्तरित्यर्थः। नन्वध्यासः कर्तुरस्मरणानिमूलो अस्म दादेस्तु न कर्तृत्वं भ्रमादिसम्भवात् अव्यापकत्वात् सर्गादावभा. वाचा ऽत आह= अयमिति । आदीति । सर्गाद्यकालिकव्यवहारेत्यः र्थः । एवं चेश्वर एव मुख्य आध आप्तश्चेति भावः । तत्र मानमाह % एतच्चेति । तस्येश्वरकृतत्वं चेत्यर्थः। स्थित इति । "तस्य वाचकः प्रणव" इति सूत्रे तस्येश्वरस्य प्रणवो वाचकः। एवमेवेश्वरेण सङ्के. तकरणात् तस्य चेश्वरः प्रणवस्य वाच्य, इति फलितमित्युक्त्वा किमस्य संङ्कतेन कृतं वाच्यवाचकत्वमथ दीपप्रकाशवदवस्थितमिति प्रश्नोत्तरमिदमुक्तम् । तत्रायं प्रश्नाशयः= ईदृशः सङ्केतोऽयुक्तः वाचकत्वस्य सङ्के- तादात्म्यस्य शक्तिनियामकसंबन्धत्वम् -U भाव: कलाटीका ) तत्वात् । न च स्वाभाविकं वाचकत्वं सङ्केतेन वोध्यते, यत्र तन्नास्ति तत्र सङ्केनेनाव्यङ्गयत्वापत्तेः। अविद्यमानघटस्य दीपेनाव्यञ्जनात्। कृतसक्तस्तु वारणे करभशब्दस्तत्प्रतिपादको दृष्टः। तस्मात्सङ्केतकृत एव वाच्यवाचकभावः शक्तिविशेषरूपः इति । उत्तरस्य त्वयमर्थः- दीपस्य प्रकाशवस्थित एवास्य वाच्यस्य वाचकेन सहाविभागरूपः सम्बन्धस्तदेववाचकत्वम् । अन्योन्याध्यासरूपः ईश्वरस्य सन्तस्तु अनादिवासनासिद्धं स्थितमेव तं प्रकाशयति । यथा विद्यमान एव पितापुत्रयोः सम्बन्धो “ऽयमस्य पिता" "अयमस्य पुत्र' इति सङ्केत्तेनावद्योत्यते इति । यद्यपि पूर्व शब्दार्थविषये ऽन्योन्याध्यास. रूपः सङ्केत उक्तो भाष्यीयत्वेन तथापि "राहोः शिर" इति वत् "अयमस्य वाचको, ऽयमस्य वाच्य” इत्यपि सङ्केत इत्येतद्भाध्या- प्रतीयते । अनेन शब्दार्थयोर्भेदाभेदौ दर्शिताविति आदिनास्य सङ्ग्रहः । प्रलये ऽपि प्रकृतौ लीनसंस्कारवशात्सर्गान्तरे पूर्ववत्तच्छक्तियुक्तानामाविर्भावात् वाच्यवाचकशक्त्यपेक्षः सङ्केत इश्वरेणापि पूर्ववत्तथैव क्रियते इति न कदाचिदीश्वरसङ्केतभेदेनार्थ. भेदः। प्रणवस्य व्यवहाररूपसंप्रतिपत्तिनित्यतया“नित्यः शब्दार्थ- सम्बन्ध" इति तान्त्रिकप्रतिज्ञेत्यस्य च सङ्ग्रहः । युक्तं चैतत् एकस्यस्फोटस्य शब्दब्रह्मरूपस्य सर्व शव्दतदर्थोभ. योपादानस्य सर्वार्थसर्वशब्दाकारतया सर्वशक्तिमत्वौचित्यात् । स्पष्टं सम्बन्धस्य स्वाभाविकत्वं "सिद्ध शब्दार्थसम्बन्धे" इति. वार्तिकभाष्ययोः। "शब्दार्थप्रत्ययानामितरेतराध्यासात्संकरस्तत्प्र- विभागसंयमात्तु सर्वभूनरुतज्ञानम्" ( यो सू० पा-३ सू० १७) इतिसूत्रे "तादात्म्याध्यासरूपसंकेतापादितकाकारत्वानां शब्दार्थ प्रत्ययानां योगाभ्यासवलेन यो व्यावहारिक भेदं प्रत्यक्षीकरोति, स सर्वरुतज्ञानवान् भवति" इति व्यासोक्तस्य च संग्रहेण पूर्वत्रापि सम्मतिः सचिता। उक्त ऽथै सम्मत्यन्तरमप्याह-हरिरपीति । अत्राद्यकारिका त. जनकतैव शक्तिरित्यर्थे साधकत्वेन लिखिता दीक्षितैवैयाकरणमतो. न्मजने। भूषणकृतापि तथैव व्याख्याता। तन्निरासायाह - अस्यार्थ इति । स्वविषयेग्वित्यत्र स्वं रूपादि विषयो येषु ज्ञानेषु इति बहु- ४४ टीकाद्वयोपेतायां लधुमञ्जूषायां ( कलाटीका) व्रीहिः । जन्यजनकभावः सम्बन्धः जन्यस्याधिकरणत्वेन विवक्षायां सप्तमी। तदभिप्रेत्याह-रूपादीति । वस्तुतोऽनादित्वाभावादाह-पुरुषे- ति। एवमग्रेऽपि। धर्मवत्त्वेति । चक्षुष्वादिधर्मरूपा। अर्थैः सहेति शेषः। सम्बन्धः प्रागुक्तशक्त्याख्य एव । तद्वोधेति । अर्थबोधेत्यर्थः । धर्मः। शब्दनिष्ठः । एतेन घोत्तरटत्वादेस्तत्त्वनिरासः। सम्बन्धशब्देऽर्श आ. द्यच् । योग्यतारूपोक्तसम्बन्धविशिष्टे तस्मिन् शब्दे । 'योग्यताप्रति इति अभितः परित' इति द्वितीया षष्टयर्थे। स च निरूप्यनिरूपकभा. वः। तदभिप्रेत्याह-बोधेति। तथा च पूर्वो ग्राह्यसम्बन्धः । अयं तद्राह. कसम्बन्धः। एतद्भाहकः समय इत्यर्थकानिमार्धस्य समयादित्यस्यार्थ- माह-सा चेति । योग्यताचेत्यर्थः । अनादित्वं वृद्धव्यवहारपरंपरायां प्राग्वत् । तत्पर्यायवचनो योऽस्मदादिसमयस्तेन गृहीतो य उक्तः कथितोऽध्यासादिरूप ईश्वरसमयस्तस्मादित्यर्थः । योग्यता संवि. दित्यस्यार्थमाह =निश्चीयत इति । अनेन प्रकृतार्थलाभः । एतेन "सङ्केतातिरिक्तबोधजनकत्वरूपशक्तिमहोपायमाह-सम्बन्धे. ति।सम्बन्धी विषयः।योग्यता प्रतियोग्यताशद्वं प्रति। योग्यताविषय. इति । समयाद्यवहारादयोग्यतासंवित् शक्तिग्रहः घटपदमत्र योग्यमे तत्सम्बधीति व्यवहारात सा ग्राह्येत्यर्थ" इति भूषणोक्तमपास्तम् । त. ध्वनयन्नुभयत्रैवव्यवच्छेद्यमाह =न विति। योग्यता-धर्मरूपा।व्य. वहारादिति । तयोरभेदेऽत्रव्यवहारे तयोर्भेदेनोल्लेखासंगतिः स्यादिति भावः । एतेन संकेतो न स्वरूपेण हेतुरगृहीतशक्तिकादर्थबोधप्रसङ्गा. त्,नापि सामान्यतो ज्ञातःप्रमेयत्वादिनातज्ज्ञानेऽपि वोधापत्तेः, नापि सङ्कतत्वेन तज्ज्ञानं हेतुः, गवादिपदेष्वीश्वरादेः सङ्केतत्वेन तज्ज्ञानशूः न्याना लौकिकमीमांसकादीनां तत्तदर्थबोधजनकत्वग्रहवतामेव बोधे. नच्याभिचारात् । न चार्थधीजनकतावच्छेदकत्वेन तज्ज्ञानं हेतुः । ततो ऽपि लाघवेनार्थधीजनकत्वेनैव हेतुतायामस्मत्पक्षसिद्धेरिति भूषणो. कमपास्तम् । पदानामनासन्नवादाह-यत इति । प्रत्यासत्तिलभ्यमाह % तत्प्रत्ययेति । अर्थक्षानेत्यर्थः । शब्दस्येत्यादिः । ननु भूषणोक्त एवैतदर्थः कुतो नेत्यत आह । अत एवेति । ताशशक्तिरूपस. प्रबन्धस्य प्राहस्य तद्वाहकस्य च तादात्म्यलक्षणस्य स्वामाविक- ।
नादात्म्यस्य शक्तिनियामकसंबन्धत्वम् (कलाटीका) स्येश्वरसङ्केतग्राह्यत्वादेवेत्यर्थः। एतदुपक्रमे-एतत्कारिकाभ्यः प्रा. क् । प्रयोक्तुरिति शेषे षष्टी। श्रोतुरिति शेषः। वट इत्ययं शब्दो घट इत्ययमों घट इतिज्ञानमित्येवं प्रयोगकर्तृसम्बन्ध्युच्चारण विषयघटादिशब्दैः कृत्वा श्रोतुस्त्रितयमभिन्नं प्रतीयत इत्यर्थः । स्व. रूपं शब्दस्वरूपं । कृतमिति । तस्य तदग्राहकत्वे तु तत्र तदुक्ति. रसङ्गता स्याद्, अनुपयोगादिति भावः । यथाश्रुते ऽनन्वयादाह-अत्रे- ति । हरिपद्ये इत्यर्थः । तथाच 'यत' इति प्राक् शेषा बोध्यः । अत एव द्वितीयकारिकाफलितार्थमाह-अयमिति । तदर्थमाह-लास्ना. दीति । अयं सास्नादिमानों गौरित्यर्थो यस्य तादृशो यो ऽयं गौ. रिति व्यवहारस्तस्मादित्यर्थः । समस्तपाठः । उक्तम् । सङ्केतरूपम् । सम्बन्धः तद्ग्राहकत्वात्तत्त्वम् । तयोः- शब्दतदर्थयोः। एतेनेत्य- स्यार्थमाह =भेदाभदोपेति ॥ वस्तुतो बौद्ध एवार्थः शक्यः, पदमपि बौद्धं, तयोर भेदः न च बौद्ध दाहादिशक्तिमत्त्वमित्यग्रे निरूपयिष्या. मः। अत एव पुरोवर्तिडित्थं पश्यतो नामजिज्ञासया'को ऽयमिति प्रश्ने' 'डित्थोऽध'मित्युत्तरे सन्निहितदेशपिण्ड. मुद्दिश्य डित्थशब्दविधेयता प्रतीतिः सङ्गच्छते। अस्या यमों स्यार्थस्येदं पदमित्यादौ षष्ठयनुपपत्त्या तयोः स्वाभाविकयोगाङ्गीकाराच्च । असम्बद्धानां घटपटा. दीनामेवं व्यवहाराभावात । अस्यायं वाचक इत्या. दिव्यवहारोऽप्येवमेव, अयं वाचक एतत्सम्बन्धीत्या. दि तदर्थात् । स्पष्टश्चेदम् ॥ "अस्थायं वाचको वाच्यः इति षष्ठया प्रतीयते योगः शब्दार्थयो"। इति हरिकारिकाव्याख्यावसरे हेलाराजीये। समयः सङ्केत इति चाप्तोपदेशवृद्धव्यवहारपर्यायौ। अत एव न्या. .
४६ टीकाद्वयोपेतार्या लघुमञ्जूषाया य भाष्यकृदादयः “सामयिका शब्दादर्थप्रत्ययः" इति सूत्रे "कः पुनरयं समयः ? अस्य शब्दस्येदमर्थजातमभिः धेयमिति, अस्येदं नामधेयमित्यादिनियोगरूपम् । “अ. स्माच्छब्दादयमों बोद्धव्य" इत्यादिनियोगश्वेत्याहुः । नियोगश्चाप्तोपदेश एव । “सामयिकः शब्दा. दर्थप्रत्ययः" इति कणादसूत्रव्याख्यातृभिश्च 'नकुल. दंष्ट्रास्पृष्टा वा काचिदौषधिः सा सर्पविषहन्त्री'इत्या- प्लोदेशस्यैव समयत्वमुक्तम् । “अयमयमिति नियोगो. ऽपि समयः" इति पातञ्जलाः। उक्त ईश्वरसङ्केत एव शक्तिरिति तु न युक्तम् । अयमेतच्छक्योऽत्रास्य श- क्तिरित्यस्य सङ्केतस्थानापत्तेः। ईदृशसङ्केतस्य लोके दर्शनेन तादशेश्वरसङ्केतस्याप्यनुमानात् ।। (कुञ्जिकाटीका) बौद्ध एवेति । वुद्धिविषयावेवार्थ शब्दो वाच्यवाचको न तु वा- स्तवावित्यर्थः । अत एव-शब्दार्थयोरभेदादेव । भेदस्य वास्तवि. कत्वमुपपादयति = स्वाभाविकेति । योगः-सम्बन्धः। व्यतिरेकमाह । असम्बद्धानामिति । योगः शब्दार्थयोरिति । एतदने 'तत्वमप्यतो व्यपदिश्यत' इति ग्रन्थः । अस्यार्थस्यायं वाचकः, अस्यशब्दस्यायं वाच्य इति षष्ठघ. न्यथानुपपत्त्या अस्त्येव शब्दार्थयोः स्वाभाविकः सम्बन्धः । अत एव शब्दार्थयोस्तत्त्वं गौरयमित्यभेदेन व्यवहियत इत्यर्थः । वृद्धव्य. वहारादिभिः सङ्केतग्रह इति परमतं निराकर्तुमुपक्रमते पर्याया. विति । चतुर्णा पर्यायत्वे ऽपि तादृशव्यवहाराच्छक्तिग्रह " इत्यर्थः । अर्थजातम्-अर्थसामान्यं । तेन व्यक्तिनिरासः । अज्ञातनामके प्रा. तसङ्केतग्रहासम्भवादाह = अस्येदमिति । 'अयं चन्द्र' इत्युपदेशे व्यवहारेण शक्तिमहासम्भवादयमपि नियोग इत्यर्थः । नियोगश. ब्दस्य विशेषावस्थापने प्रसिद्धत्वादाह-नियोगश्चेति । ननु घटः शब्दवान् घटो ऽर्थ इति प्रत्ययाभावेन शब्दार्थयोः एत एव तादात्म्यस्य शक्तिनियामकसंबन्धत्वम् (कुञ्जिकाटीका) सम्बन्धाभावादनियमेनार्थप्रत्ययापत्तिरत आह-सामयिक इति । सङ्केताधीन इत्यर्थः । तेन शवदेभ्योऽनियमेनार्थप्रतीतिन भवतीति भावः। अयमयमितीति । सानादिमान् गौरित्याकारक इत्यर्थः। सङ्केतस्यानापत्तेरिति । अस्य पदस्यास्मिन्नर्थे शक्तिरित्याकारका सङ्केतो न स्यादित्यर्थः । यत्तुक्तं कुसुमाञ्जलो- गोमयावृश्चिकोत्पत्तिायावत्समयादय इति । यथा वृश्चिकाद्गोमयाञ्च वृश्चिकोत्पत्तिः, एवं सर्गादो केवला. ष्टात् । इदानीं तु ब्राह्मणादब्राह्मणस्योत्पत्तिः । यथा मायावी मायामयं प्रयोज्यं कृत्वा घटमानयेत्यादिप्रयुज्य शक्तिं ग्राहयति तथेश्वरो ऽपि शरीरद्वयं कृत्वा शक्ति ग्राहयतीति तदूषयति = लोके दर्शने. नेति । भवति चेश्वरस्य तादृशः सङ्केतः । लोके तादृशस्यैव सङ्केतस्य दर्शनात् । तस्मात्सङ्केतः शक्तिप्रकाशक एवेति भावः ।। (कलाटीका) एवमभ्युपेत्य समाहितं । वस्तुतो दोषशङ्कव नेत्याशयेन सिद्धा. न्तमाह वस्तुत इति । पदं मध्यमावस्थापनम् । बौद्धमित्यस्य शक्तमिति शेषः । न चेति । न हीत्यर्थः । तस्य मुखसंबन्धाभावोऽपि बोध्यः । कुतो नेति शङ्कायामाह = अग्रे इति । शब्दनिरूपणप्रकरणे इत्यर्थः । एतन्मतोपपत्तिरपि तत्रैव स्फुटीभविष्यति । तत्राभेदं द्रढ- यति = अत एवेति । तयोर्भेदाभेदादेवेत्यर्थः। प्रतीतिरिति । तथैवप्रती- त्याऽभेदविषयिण्या तयोरभेदस्यैवलाभ इति भावः।(१) (नन्वेवमभेदो- पपादनेऽपि भेदानुपपादनात कथं गौतभोक्तदोष निरासः ) तत्राभेदेन प्रश्नोत्तरयोः सङ्गतिः।भेदेनोद्देश्यविधेयभावसङ्गतिः। प्रागुक्तस्वाभा. विकत्वं प्रतिपादयन् तत्सत्त्वे मानान्तरं कथयन्प्रतीतिसङ्गतौ हेत्वन्त. रमाह-अस्येति । इत्यादौ । व्यवहारे । अत एव तत्र हेतुमाह-अस. मिति । ननु एतद्यवहाराद्वाच्यवाचकभावापरपर्यायशक्तिरूपसम्बन्ध. सिद्धिरेवास्ति इति न तादात्म्यलक्षणस्वाभाविकयोगसिद्धिरतस्त. त्रैव गमकान्तरमाह-अस्येति एतेन स्वरूपभेदादुपायभेदादर्थकियाभेदाच शब्दार्थयोरभेदो न युक्तः । तथाहि-शब्दत्वसामान्यात्मकानि श्रोत्रग्राह्याणि, अभिधेय. (१) अयं पाटो नास्ति पुस्तकान्तरे ।
टीकाद्वयोपेतायाँ लघुमञ्जूषायां (कलाटीका) प्रत्ययार्थक्रियाणि नामान्यनुभूयन्ते । अर्थस्तु घटत्वादिसामान्यात्म कश्चक्षुरादीन्द्रियग्राह्यो मधुधारणप्रावरणाद्यर्थकारी चेति कुतो. ऽभेदः ? 'डिन्थोऽय'मिति सामानाधिकरण्य व्यवहारोऽपि यो नाना. देशकालसंप्लुतः सोऽयम्सन्निहितदेशकाल इत्यर्थक इति नाभेदसा. धक इति "अक्षरमम्वरान्तधृतेः" (अ०१ पा० ३ सू०१०)इत्यधिकर- णस्थ वाचस्पतिमिश्रोक्तमपास्तम् । अत्यन्ताभेदे एतद्दोषेऽपि भेदा. भदवादिनामभेदस्याऽऽध्यासिकत्वं वदतामदोषात् । तव गुणगु. ण्यादिवत् "मनोब्रह्मेत्युपासीत" इत्यादौ "इत्याकारां वृत्ति कुर्वीत" इत्यर्थ इति न दोषः । एवंहि मनसि ब्रह्माभ्यासो भवति विपरीतं तु नोचितं । ब्रह्मण उत्कृष्टत्वात् । तथाच व्याससुत्रं "ब्रह्मदृष्टिरुत्क. र्षा"दिति (अ० ४ पा० १ सु२५)। यत्सम्बन्धेत्यर्थः । ननु तद. भावे तस्मिन्हि ज्ञाते शब्दादर्थप्रत्ययः सम्बन्धवादिनोऽपि तदाह- कतयाऽयमवर्जनीयः। 'समयज्ञानार्थ मित्यादि लक्षणं इत्येतदने पदसमूहोवाक्यमर्थसमाप्ताविति ( न्या०भा० ) अनेनाग्रिमत- दुक्तेनोपदेशस्यैव सङ्केतत्वं स्पष्टमुक्तमतआह । एवमिति स्वाभा. विकयोगसाधकः । अस्य पूर्वेणाभिन्नत्वमाशङ्कयाह =अयमिति । हरौ-अस्यायमिति-व्यवहारद्वयं, योग इति तादात्म्यलक्षणः स्वा. भाविकयोग स्तयोरस्तीति प्रतीयत इत्यर्थः। ननु इतरशास्त्रे समयसङ्केतयोः पीयवचनत्वे ऽपि, कथं हरिग्रन्थे समयपदेन व्यवहारग्रहणम् अत आह=समेति । प्रत्येकं एतावुभा. बुभयपर्यायवाचकावित्यर्थः । तत्र तदीयमेव मानमाह-अत एवेति । पर्यायवाचकत्वादेवेत्यर्थः । न सामयिकत्वाच्छदार्थसंप्रत्ययस्योति- पाठः । शब्दस्यानुमाने नान्तर्भावः, असम्बद्धत्वात्तयोरिति व्युत्पाद. नावसरे हीदमुक्तं । न सम्बन्धाच्छब्देनार्थ बोधनं किं तर्हि समयका- रित'मित्यर्थः। सूत्रे-गौतमसूत्रे । नियोगरूप इति पाठः। रूपमितिपाठे. तद्रूपम् नियोगरूपमित्यादि यत, स समय इत्यनुषङ्गादिनान्वयः। एवं वृद्धव्यवहारस्य तत्वमुक्त्वा, ईश्वरव्यवहारस्य तत्त्वमाह- अस्मादिति, अत्रवृद्धव्यवहारे वाच्यवाचकभावापेक्षया षष्ठयर्थसम्ब धस्य स्पष्टम्भेदेन प्रतीतिरितिभावः । नन्वेवमप्युपदेशस्य तत्त्वाला. भोग्त आह-नियोग इति । अत एव तत्र संवादार्थ वैशेषिकस. - ४ टीकाद्वयोपेतायां लघुमञ्जुषायां (कलाटीका) प्रत्ययार्थक्रियाणि नामान्यनुभूयन्ते । अर्थस्तु घटत्वादिसामान्यात्म कश्चक्षुरादीन्द्रियग्राह्यो मधुधारणप्रावरणाद्यर्थकारी चेति कुतो. ऽभेदः ? 'डिन्थोऽयमिति सामानाधिकरण्य व्यवहारोऽपि यो नाना- देशकालसंप्लुतः सोऽयम्सन्निहितदेशकाल इत्यर्थक इति नाभेदसा. धक इति “अक्षरमम्बरान्तधृतेः" (अ०१ पा० ३ सू०१०)इत्यधिकर- णस्थ वाचस्पतिमिश्रोक्तमपास्तम् । अत्यन्ताभेदे एतद्दोषेऽपि भेदा. भदवादिनामभेदस्याऽऽध्यासिकत्वं वदतामदोषात् । तव गुणगु: ण्यादिवत् "मनोब्रह्मेत्युपासीत" इत्यादौ "इत्याकारां वृत्तिं कुर्वीत" इत्यर्थ इति न दोषः । एवंहि मनसि ब्रह्माभ्यासो भवति विपरीत तु नोचितं । ब्रह्मण उत्कृष्टत्वात् । तथाच व्याससुत्रं "ब्रह्मदृष्टिरुत्क- "दिति (अ० ४ पा० १ सू०५)। यत्सम्बन्धेत्यर्थः । ननु तद. भावे तस्मिन्हि ज्ञाते शब्दादर्थप्रत्ययः सम्बन्धवादिनोऽपि तदाह- कतयाऽयमवर्जनीयः। 'समयज्ञानार्थ मित्यादि लक्षणं इत्येतदग्ने पदसमूहोवाक्यमर्थसमाप्ताविति ( न्या०भा० ) अनेनाग्रिमत- दुक्तेनोपदेशस्यैव सङ्केतत्वं स्पष्टमुक्तमतआह । एवमिति स्वाभा. विकयोगसाधकः । पूर्वेणाभिन्नत्वमाशङ्ख्याह अयमिति । हरी-अस्यायमिति-व्यवहारद्वयं, योग इति तादात्म्यलक्षणः स्वा. भाविकयोग स्तयोरस्तीति प्रतीयत इत्यर्थः। ननु इतरशास्त्र समयसङ्केतयोः पयायवचनत्वे ऽपि, कथं हरिग्रन्थे समयपदेन व्यवहारग्रहणम् अत आह-समेति । प्रत्येकं एतावुभा. वुभयपर्यायवाचकावित्यर्थः । तत्र तदीयमेव मानमाह अत एवेति । पर्यायवाचकत्वादेवेत्यर्थः । न सामयिकत्वाच्छदार्थसंप्रत्ययस्येति. पाठः । शब्दस्यानुमाने नान्तर्भावः, असम्बद्धत्वात्तयोरिति व्युत्पाद. नावसरे हीदमुक्तं । न सम्बन्धाच्छब्देनार्थ बोधनं किं तर्हि समयका. रित'मित्यर्थः। सूत्रे-गौतमसूत्रे। नियोगरूप इति पाठः। रूपमितिपाठे. तद्रूपम् नियोगरूपमित्यादि यत, स समय इत्यनुषङ्गादिनान्वयः। एवं वृद्धव्यवहारस्य तत्त्वमुक्त्वा, ईश्वरव्यवहारस्य तत्त्वमाह- अस्मादिति, अत्रवृद्धव्यवहारे वाच्यवाचकभावापेक्षया षष्ठयर्थसम्ब धस्य स्पष्टम्भेदेन प्रतीतिरितिभावः । नन्वेवमप्युपदेशस्य तत्त्वाला. भोग्त आह-नियोग इति । अत एव तत्र संवादार्थ वैशेषिकस. अस्य
टीकाद्वयोपेतायां लघुमञ्जूषायां
मूक्ष्मामधेनाप्रविभक्ततत्वा-
मेकां वाचमभिष्यन्दमानाम् ।
तामन्ये विदुरन्यामिव च
नानारूपामात्मनि सन्निविष्टाम् ॥ इति ।
अभिष्यन्दमानां तत्तद्रूपेणाभिव्यक्ताम् । अन्या.
मिव भेदवतीमिव । आत्मनि चित्ते ।
प्राणापानान्तरे देवी वाग्वै नित्यं स्म तिष्ठति ।
स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा ॥
वैखरी वाक् प्रयोक्तृणां प्राणवृत्तिनिवन्धनी।
केवलं वुध्धुपादानक्रमरूपानुपातिनी ॥
प्राणवृत्तिमनुक्रम्य मध्यमा वाक्
प्रवर्तते
अविभागातु पश्यन्ती सर्वतः संहृतकमा ॥
स्वरूपज्योतिरेवान्तः परा वागनपायिनी ॥
इति भारतं च । एते च अतिभारते हरिग्रन्धे स्पष्टे ।
हरिवंशेऽपि-
अक्षराणामकारस्त्वं स्फोटस्त्वं वर्णसंश्रय । इति ।
'योग्यतालक्षणः सन्बन्धः' इत्यादेः कैयटस्य का.
रणतावच्छेदकधर्मरूपः सम्बन्ध इत्यर्थः । तत्त्वमस्या-
दिवाक्यस्याखण्डार्थेन शुद्धेनापि ब्रह्मणाध्यासिकंता-
दात्म्यम् ॥
(कुञ्जिकाटीका)
अत एव ! सङ्केतस्य शक्तिग्राहकत्वादेव । महर्षीति । महा.
दिभ्य ईश्वरेण साक्षात् सङ्केतः प्रकाशित इत्यर्थः । तत्सङ्केनः-ई.
श्वरसङ्केतः। ननु विद्यमानस्यैव शब्दार्थसम्बन्धस्य सङ्केतेन प्रकाशे
यस्य शब्दस्य यस्मिन्नर्थे सम्बन्धो नास्ति तस्य सङ्केतो न स्यादत
आह-सर्वे च शन्दा इति । सर्वैरथैरिति । इति हेतोः सर्वैरथैः
तादात्म्यस्य शक्तिनियामकसंबन्धत्वम् सम्बन्ध इत्यर्थः । नित्य इति । ईश्वरकृतत्वे तु जन्यत्वेनानित्यत्वा. पत्तिरिति भावः । तन्ध्यन्ते व्युत्पाद्यन्ते ऽनेनेति तन्त्रम् । उभयरूप. परेति । शब्दमात्रस्यार्थमात्रस्य च ब्रह्मोपादानकत्वेन ततो भेदाभा- वात् । उभयोः । शब्दशब्दार्थयोः । क्रियाशक्तिप्रधानायाः-परिणति- क्रियोन्मुखायाः प्रकृतेः सकाशादित्यर्थः । तदुक्तं काशीखण्डे- "क्रियाशक्तिरिदं विश्वमस्य त्वं कारण तत" इति । बिन्दुरूपिण्या इति । चिदचिन्मिश्राया इत्यर्थः। अयम्भावः । मायानुपहितं ब्रह्म निर्गुणं, मायोपहितं सगुणं तञ्च ब्रह्म जगदुपादा- नमिति मते तदेव बिन्दुशब्दवाच्यम् , प्रकृतेरुपादानत्वे तु सैव बिन्दुः। स च बिन्दुः कारणरूपः सूक्ष्मः कार्यरूपस्तु त्रिविधः बिन्दु, बीजं, नादश्च, । बिन्दुः ब्रह्मरूपः, शक्ति /ज, तयोः क्षोभ्यक्षोभकभावाख्यः सम्बन्धो नाद इति । शब्दब्रह्मेति । शब्दार्थयोरभेदात् सकलार्थ- स्वरूपिणो ब्रह्मणः शब्दरूपत्वमित्यर्थः। ब्रह्मात्मकशब्देन जगतो व्या. तत्वाश्च शब्दब्रह्म जगदुपादानम् । बिन्दुश्च स्पष्टव्यञ्जनात् । नन्वेवं स्फोटस्य जन्यत्वेनानित्यत्वापत्तिरत आह ! नित्यत्वं त्विति । अथैनेति । अर्थेन सह न प्रविभक्तमत्यन्तं भिन्नं तत्त्वं शब्दरूपत्वं यस्या इत्यर्थः। एकामिति । स्फोटरूपायास्तस्या एकत्वात् । प्राणापानेति । सर्वेषां प्राणापानान्तरे वायूपा देवी तिष्ठति । तस्या एव वैखर्यादयो ऽवस्थाभेदाः । स्थानेषु, ताल्वादिषु । विवृते विवर्तरूपतां प्राप्ते । प्राणवृत्तीति । प्राणवायुव्यापारेण वर्णाभिन्य. के। तदुक्तं स्मृत्यन्तरे। प्राणेनाप्यायिता सेयं व्यवहारनिबन्धनी इति । तथा च श्रोत्रविषयत्वेन प्रतिनियतं परैः संज्ञेयं श्रुतिरूपं यस्याः सा वैखरी । मध्यमा तु बुद्धिमात्रोपादाना परिगृहीतकमेव प्राणवृत्त्यनु. गता। पश्यन्ती तु प्रतिलीनाकारा समाविष्टक्रमशक्तिः । वुद्ध्युपा. दानेति । शब्दः खलु प्राणाधिष्टानो वुधिष्ठानश्च, प्राणवुद्धिशक्तिभ्यां हि स प्रतिलभ्यते। प्राण एव हि वुद्धितत्वेनान्तराविष्टः स्थानाभिघा- तादि द्वारा शद्वत्वेन विवर्तते । अविभागेति । वर्णादिविशेषरहिता। स्वरूपज्योतिरेवेति । स्वं ब्रह्म तद्रूपं ज्योतिरित्यर्थः । ननु नित्यः शब्दार्थसम्बन्ध' इति पार्तिकव्याख्यावसरे अर्थ. स्यानित्यत्वात्तत्सम्बन्धस्य नित्यत्वासम्भव इत्याशङ्कय योग्यताल.
५२ टीकाद्वयोपेतायां लघुमञ्जूषायां . क्षणः सम्बन्ध इति कैयटासङ्गतिः,अर्थस्यानित्यत्वे तादात्म्यलक्षणयो. ग्यताया अपि नित्यत्वासम्भवादत आह-कैयटस्येति । शब्दस्य नित्यतया तनिष्ठकारणतावच्छेदकस्यापि नित्यत्वमितिभावः । ननु "सदेव सोम्येदमय आसोत्" इत्युपक्रम्य विशुद्ध ब्रह्मणि वेदान्तानां तात्पर्यावगमात पदार्थसंसर्गरूपवाक्यार्थविषयत्वं तत्र कथम् ? अत आह-तत्त्वमस्यादीति । अखण्डाथैनेति । तत्पदत्वं पदवाच्ययोः परोक्षत्वापरोक्षत्वविशिष्टयोः सामानाधिकरण्यासम्भवाद्विशेषणां- शपरित्यागेन विशेष्यमात्रबोधादितिभावः । अत्र वेदान्तिनः । क्रियाकारकभावं पुरस्कृत्य शब्दानां प्रवृत्ति र्जायमाना धर्मधर्मिभावं पुरस्कृत्यैव वाच्या, स च धर्मधर्मिभावो न ब्रह्मगोचरो, ब्रह्मणो धर्मशून्यत्वात् । अतः पदपदार्थविभागमन्तरे' णैव तत्वमसीत्यादिवाक्यमखण्डमेवाखण्डब्रह्मवाचकमिति वदन्ति । वाक्यतात्पर्यविषयीभूतत्वं वाक्यार्थत्वम् । तथाच अखण्डब्रह्मणः प्रतीयमानस्य वाक्यशक्यत्वाद्वाक्यवाक्यार्थयोरभेद इति भावः । अत्रेदं बोध्यम् । प्रत्यक्षं द्विविधं सविकल्पकं निर्विकल्पकं च । वैशिष्ट्याद्यवगाहि 'घटं जानामि'इत्यादि सविकल्पकम् । संसर्गानव गाहि तत्त्वमस्यादिवाक्यजन्यं निर्विकल्पकम् । सो ऽयं देवदत्त इत्यादिवद्विषयावच्छिन्नचैतन्यस्य विषयस्य चाभेदात्प्रत्यक्षत्वम् । शुद्धनापीति । यथा तत्ताविषयकज्ञानाजनकस्यापीन्द्रियस्य वाक्य सहकारेण तत्ताविषयकज्ञानजनकत्वम् , एवं सखण्डप्रतिपादकस्यापि वाक्यस्याखण्डार्थप्रतिपादकत्वमपीति भावः ।। (कलाटीका) तदनुमाने मानमाह-अत एवेति । तेन तदनुमानाङ्गीकारादेवे. त्यर्थः वाचस्पत्ये-उक्तगौतमसूत्रस्थे । सर्गादीति-अस्यायं वाचकः इत्यस्मादयं वोद्धव्य इति भगवतः सर्गादौ संकेतरूपो नियोगस्त- ब्रहोपायश्चास्माकं वृद्धव्यवहारादीत्यादि । तद्यवेति-महादिव्यवः हारपारम्पर्यात्वित्यर्थः । तत्सङ्केत इति-ईश्वरसङ्केत इत्यर्थः। ईश्व: रसङ्केत्रप्रकाश्यस्वाभाविकसम्बन्धसत्त्वे मानान्तरमपि सूचयनत्र मा नान्तरमप्याह-तथेति न्यायवाचस्पत्यादावित्यर्थः । उक्तपातञ्जलभा. ध्यव्याख्यावसरे एव । ननु स्वाभाविकः संबंधोयदि अस्माच्छद्वादयम- र्थःप्रत्येतव्य'इत्यात्मास्ति, तत्र दीपसहस्त्रेणाऽपि न शक्योमिव्यक्तु नादात्म्यस्य शक्तिनियामकसवन्धत्वम् ३ - मित्याधुनिकसंकेतितादवोधापत्तिः । तत्रापि तत्सत्वे ईश्वर संकेति- तादविशेष इत्याशंकायामिदमुक्तं-सम्बध इति । अस्मादयं बोद्धव्य इति भगवतः सर्गादौ संकेतरूपो नियोगस्तब्रहोपायश्चास्माकंवृद्ध. व्यवहारादीत्यादिः । समूहरूपस्य सम्बधः स्वाभाविकः उक्तरूपः। प्रकाशक इति । तत्संकेतस्यैव वाचकतानियामकत्वं अन्यकृतस्यतु न, तत्र लोकानां वाचकताव्यवहाराभावादिति विशेषः, किंतु 'संके. तित' इत्येव तत्र व्यवहार इतिभावः । अत एव । तस्य प्रकाशकत्वादेव । तान्त्रिकाः वैयाकरणाः । नन्विदमस्मदादीनां दुर्शयं विशिष्य सकलार्थशद्वज्ञानाभावात् । अत आह-सवैरिति । ज्ञानगम्य एव- ज्ञानविषय एव । तेषाम्-योगिनाम् । उभयेति । शब्दतदर्थोभयेत्यर्थः परा शब्दब्रह्म । ननु परा वाक् सा च शब्दरूपा नोभयरूपेति कथं तत्प्रत्यक्षेण तत्सम्बन्धज्ञानमतस्तत्समर्थयते । युक्तं चैतदिति । कुत- स्तत्राह-एकेति । तया-सर्वशक्तिमत्त्वौचित्येन । तत्कार्ययोः। शब्दव झकार्ययोः शद्वतदर्थयोः । उभयेति । प्रत्येकमुभयरूपत्वादित्यर्थः । ननु तदुपादानत्वे एव किं मानमतस्तन्त्रोक्तिमाह-क्रियेति । सगात्पादनरूपक्रियासामर्थ्य प्रधानं यस्या इत्यर्थः। तदर्थमेव हि सा। अन्यथा तदान र्थक्यमेव । ईडशी या प्रकृतिः परमेश्वरसिस्. क्षात्मकमायावृत्तितो जाता बिन्दुरूपिणी अव्यक्तरूपा त्रिगुणा, अस्या बीजनादबिन्दुरूपांशत्रयवत्वे ऽपिचिदंशाख्यविन्दुस्वरूपा ततः शब्द. शब्दार्थकारणं सर्वसृष्ट्युपयोग्यवस्थाविशेषरूपं चेतनभिन्नं (चेत. नामिश्रं ) शब्दब्रह्मापरपर्यायपरानामधेयं वर्णादिविशेषरहितं ज्ञान प्रधानं नादमात्रमुत्पन्नमित्यर्थः । नन्वेवं कथं नित्यत्वमत आह-नित्यत्वमिति । अथैनेति । अथैन सहाप्रविभक्तं तत्त्वं स्वरूपं यस्याः सा । एतेन परारू. पत्वमुक्तम् । तामेकां अन्ये नानारूपां विदुरित्यर्थः । तत्तद्रूपेण । विशिष्य शब्दार्थोभयरूपेण । सा वाक् चतुर्विधा । परा, प. श्यन्ती, मध्यमा, वैखरी, । तत्रादौ वैखरीभिन्नावस्थात्रयं सर्वप्रा. णिषु सार्वदिकमित्याह-प्राणेति लार्द्धन । यतो देवी द्योतनरूपात तःसा वाक् । प्राणश्चापानश्च तयोरान्तरः समानश्च तेषु सदा नियमेन । स्थितवतीत्यर्थः । अथ वैखरीमाह-स्थानेविति । स्थानेषु कण्ठादिषु वायौ विवृते प्रव्यक्ते सति स्वीकृतवर्णपरिग्रहा प्रयो.
टीकाद्वयोपेतार्या लघुमञ्जूषाया क्तृणां या प्राणवृत्तिः तत्तत्स्थाने सहायभूततदाख्यवायवभिहतिः, सा निबन्धनं कारणं यस्याः सा वैखरी वाक् इत्यर्थः। मध्यमामाह- केवलमिति । अनेन वर्णपरिग्रहव्यावृत्तिः । तत्तदर्थतत्तच्छब्दविशेषो. ल्लेखिनी बुद्धिः उपादानं शब्दब्रह्म तयोर्थः क्रमस्तद्रूपमनु पश्चात पत- तिस्वीकरोति साप्राणस्य वृत्ति वर्तनमनुक्रम्य मध्यमावाक् हृदयदेशे तिष्ठतीत्यर्थः। पश्यन्तीमाह-अविभेति । यतः सर्वस्या एव क्रम उक्तरू. पस्संहतो यया। अत एवाविभागात् कार्यकारणयोविभागरहिता ना. भिदेशस्था पश्यन्तीत्युच्यते । परामाह-स्वरूपेति । अन्तः-मूला. धारे। ज्योतिः स्वरूपा अनपायिनी उक्तरीत्या सा परा वागित्यर्थः। नन्वनयोः श्रुतिभारतयोस्तत्र तत्र नोपलम्भो ऽत आह-पते चेति। वर्णसंशय इत्यनेन पराख्यः शब्दब्रह्मरूपः स्फोट उक्तः । उक्तहरिग्रन्थार्थे कैयदविरोधं परिहरति योग्यतेति-अर्थांनुवादोऽ. यम् । ननु शब्दार्थयोस्तादात्म्यस्य तादृशस्याङ्गीकारे तत्वमसी. त्यादावर्थज्ञानाभावात्तग्रहे कथमस्मदादीनां बोधोऽत आदौ वेदान्तिनयेनाह-तत्त्वमिति । अस्योभयत्रान्वयः । तद्ग्रहश्च "नेह नानास्ति' इत्यादिनिषेधवाक्य. मनने सति शमदमादिसम्पन्नस्थातिशुद्धचित्तस्यैवेति न दोषः । यद्वा, शद्वाद्विशिष्टबोध एव, अखण्डार्थस्तु मानसबोधविषय एव । यदा, निषेधवाक्यसहकारेण धर्मोपलक्षिते शक्तिग्रहात् तदुपलक्षिताखण्डार्थस्यैव बोध इत्यादि द्रष्टव्यम् । तादात्म्यमूलकस्य सम्बन्धत्वे अर्थभेदात्तत्तादा. त्म्यापनशब्देषु भेदौचित्येनार्थभेदाच्छन्दभेद इत्युपप- यते । समानाकारत्वमात्रेण तु 'एकोऽयं शब्दो नाना- थैः' इति व्यवहारः । तस्य निरूपकाश्रयभेदाभ्यां मे. द इत्येके ॥ कुाझेकाटीका । ननु तस्वमसीत्यादिवाक्यश्रवणे ऽस्मदादीनामप्यखण्डब्रह्मबोधा. पतिरत आह-तद्ग्रहश्चति । वाक्यमननं, वाक्यार्थमननम । तच तादात्म्यस्य शक्तिनियामकसंबन्धत्वम् २५ साधकबाधकप्रमाणोपन्यासरूपयुक्तिभिरनुचिन्तनम् । शमो ऽन्तरि. न्द्रियनिग्रहः । दमो बहिरिन्द्रियनिग्रहः । सम्पन्नस्येति । उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणो गतिः। तथैव ज्ञानकर्मभ्यां प्राप्यते शाश्वती गतिः ॥ इति वचनेन कर्मसहितस्यैव तत्त्वज्ञानस्य मोक्षहेतुत्वात् । ननु वाक्यजन्यज्ञानस्य कथं संसर्गानवगाहित्वमिति चेत् । सत्यम् । ता. त्पविषयत्वमेव वाक्यजन्यज्ञाले तन्त्रम् । अस्ति चात्रापि विशुद्ध ब्रह्माणि वेदान्तानां तात्पर्यमिदमेवाखण्डार्थत्वम् । ननु ब्रह्मणो महा. वाक्यार्थज्ञानविषयत्वे "अदृष्टो द्रष्टा अश्रुतः श्रोता" इतिश्रुतिविरोध इति चेन्न । अविद्यया आवृतस्यैव स्वरूपस्य आवरणनिरासाय म. हावाक्यजन्यज्ञानविषयत्वात् । निरूपाधिकस्य तु आवरणाभावाना- स्ति श्रुतिजन्यज्ञानेन सम्बन्धः । ननु व्यवहारमार्ग वेदान्तिभिरपि पदार्थकल्पनाऽवश्यमङ्गीकार्या । अन्यथा वाक्यार्थस्यापूर्वत्वेन वा. क्याथै वाक्यलङ्कन ग्रहाभाचा बोध एव न स्यात् । तस्मादखण्डयो च्यवाचकभावो न सम्भवतीत्यस्हरसादाइ । यद्धति अखण्डार्थ- स्व-संसर्गानवगाहि यथार्थज्ञानजनकत्वम् । तत्त्वमसीत्यादिवाक्य. मेव ब्रह्मप्रत्यक्षं जनयतीत्यद्वैतसिद्धान्तविरोधमाशङ्ख्याह-यद्वति । उपलक्षणीभूतधर्माणां चासत्वान्नाद्वैतसिद्धान्तहानिः । अर्थभेदाच्छब्दभेद इति । नन्वेवं वेद पठितस्य शब्दस्य विनि. योगकाले ऽर्थान्तरे प्रयोगाच्छब्दभेदापत्तिरिति चेदत्रोक्तं हरिणा- मन्त्रास्त्वविनियोगेन लभन्ते भेदमूहवत् । तान्याम्नायान्तराण्येव, पठ्यते कश्चिदेव तु ॥१॥ इति मन्त्राणां सर्वेषां वेदत्वमेव । वेदे तु कश्चिदेव मन्त्रः पठ्यत इति तदर्थः । नन्वस्मिन्पले “एकः शब्दो नानार्थः अक्षाः पादा माषा इति भाष्यं कथमुपपद्यतामत आह-समानाकारत्वेति । वस्तुतो ऽर्थभेदाच्छब्दभेद इत्ययुक्तम् । 'कुटीभार्य' इत्यत्र समानायामाकृती भाषितपुंस्कत्वाभावान्न पुंवदिति भाण्यासङ्गतेः, सामर्थ्यादिना ऐ. क्योपपादने बीजाभावात् इति चेत्सत्यम् । 'विषयेण तु नानालिङ्ग. करणात्' इत्यादिना भाष्यकृतैव शब्दैक्यं दर्शितम् । 'आन्यभाव्यं तु कालशब्दव्यवायात, इत्यादिना च शब्दभेदो दर्शितः । तस्य-तादा- त्स्यस्य । ततश्च शब्दभेदः तादात्म्यभेदश्चेति प्रथमः पक्षः । शक्ति- - टीकाद्वयोपेतायां लघुमञ्जूषायां निरूपकः अर्थः, शेक्त्याश्रयः शब्दः तदुभयभेदानेद इत्यर्थः । यतूक्तं कुसुमाञ्जलौ। 'शक्तिभेदो न चाभिन्नः स्वभावो दुरतिक्रम" इति । अस्यार्थः-शक्तिभेदो न, चो हेतौ अभिन्नो यतः शक्तिशक्तिमतो. रभेदात् । ननु स्वभावादेवैकस्य नानाकार्यकारित्वं तत्रोक्तं-स्वभावो दुरतिक्रम इति । कार्यजननस्वभावस्थानुवर्तमानत्वादेककारणेन कार्यान्तरस्याप्यापत्तिरिति तन्मते एकस्य दण्डस्य घटहिंसाधने- ककार्यजनकत्वं न स्यात् । किञ्च सो ऽयमित्यत्र प्रत्यभिज्ञायां यदि सादृश्यमेव बीजं स्यात् तदा सो ऽयं ककार इत्यत्रापि तथात्वापत्तौ ककारादीनामप्यैक्योपपत्तिरिति ॥ ( कलाठीका ) तबहश्चेति । तादात्म्य ग्रहश्चेत्यर्थः । तथा च तस्यैव बोधो ना. स्माकमिति न शङ्ककोक्तदोषस्तदाह-न दोष इति । उक्तापिसूचितं सर्वसाधारण पक्षान्तरमाह-यति । विशिष्ट शक्त्यग्रहेण ततो ऽपि लाघवादाह--यवति । अनयोरपि पक्षयोर्बोधस्तस्यैवेति भावः । एतेन तस्य भावस्तत्त्वमित्यपास्तम् । तदाह-इत्यादीति । वोधकत्वस्य शक्तित्वेऽर्थभेदाच्छब्दभेद इति पक्षोक्तिसम्भवाभावः । एकस्यैव श. क्तिलक्षणाभ्यां भिन्नार्थबोधकत्वस्य दृष्टत्वनैकत्रभिन्नार्थबोधजनक त्वे विरोधाभावात् । इच्छायाः शक्तित्वेऽपि एकस्मिन्नेकविषयलाभे- च्छानां दर्शनेनाविरोधस्यैव सत्वात् तदेतद्धवनयन् आह-तादात्म्य मूलकस्येति वाच्यवाचकभावस्य । न तु परोक्तस्येतिभावः । नन्वेवमे. कस्य नानार्थत्वधीः कथमत आह । समेति । तस्य । तादात्म्यस्य । क्वचित्तथैव पाठः॥ अन्ये त्वेकत्रैवाम्रफले रूपरसगन्धादीनां भिन्नानां तादात्म्यवद् एकत्रैव शद्वेऽनेकार्थनिरूपितानि भिन्ना- नि तादात्म्यानीत्याहुः । परेतु निरूपकभेदेऽपि तादा. स्म्यमेकमेवेति शक्त्यैक्यमेवेत्याहुः । “हलोनन्तराः" (अष्टा० सू० १-१-७) इति सूत्रे सरूपसूत्रे च भाष्ये सूचितमिदं पक्षत्रयम् । सर्वजातीयैः सङ्केतरस्य सम्ब.
शब्दभमाणस्यानुमानेऽन्तर्भावखण्डनम् - न्धत्वेनैव ज्ञानं, तदेव च बोधसाधनमिति बोध्यम् । न च तयोस्तादात्म्यस्वीकारे समव्यासतया शब्दा- दनुमानमेव स्थादर्थस्येति प्रमाणान्तरत्वभङ्गः । पक्ष. धर्मताज्ञानाद्यनपेक्षतया तस्य प्रमाणान्तरत्वात् । सि. द्धिसत्वे इच्छां विनापि बोधदर्शनाच । कुञ्जिकाटीका। भिन्नानि तादात्म्यानीति । अर्थभेदे ऽपि न शब्दभेदः । अनन्त. व्यक्तिकल्पनापत्तेस्तस्मादेकवृन्तगतानेकफलवदेकस्मिन् शब्दे ना. नार्थसम्बन्ध इति भावः । अस्मिन्पक्षे "तत् यः सारण्यके ससीमके ग्रामशब्दो वर्तते तमभिप्रेत्योच्यते अनन्तराविमौ प्रामौ" इति भाष्य व्यक्तिभेदमारोप्य । अत्र शब्दैक्यमते पक्षद्वयं, शक्यतावच्छेदकभेदे ऽपि शक्तिरेकैव, शक्यतावच्छेदकभेदाच्छक्तिरपि भिन्नैवेति । शक्य तावच्छेदकं च शक्यतावच्छेदकतापर्याप्त्यधिकरणं नातः सूर्याच. न्द्रमसोर्भेदात्पुष्पवन्तपदे नानार्थता । आद्यपक्षे यथा वायौ रूपसमा वायसत्वेऽपि रूपनिरूपितत्वविशिष्टसमवायो नास्तीति रूपवत्ता वुद्धिर्न भवति। एवं तदर्थनिरूपितत्वविशिष्टशक्तिस्मरणाभावान्नैकार्थ. बोधकाले ऽपरार्थबोधः । शक्तिभेदाच नानार्थत्वव्यवहारः सर्वार्थनि. रूपितवृत्तीनां वर्तत इत्येकशब्दोपात्तत्वादेकत्वं न्याय्यमित्याहुः । किञ्च शक्तिभेदे गौरवमित्यपि बोध्यम् । ननु संकेतस्याननुगतत्वात् सम्बन्धत्वासम्भवइत्यत आह-सर्वजातीयैरिति । ईश्वरकृतानाम- स्मदादिकृतानां च सङ्केतानां व्याख्यातृभेदेन नानाविधसङ्केतानां च सङ्केतत्वेनैव सम्बन्धतेत्यर्थः । समव्याप्ततयेति । सहचरिततयेत्यर्थः। आनयपदं घटसम्बद्धा. नयनपदार्थबोधकं घटपदसम्बद्धत्वादित्येवं व्याप्येन शब्देन व्याप. कस्यार्थस्थानुमानादिति भावः । अत एवोक्तं गौतमेन “पूरणप्रदा. हपाटनानुपपत्तेश्च सम्बन्धभाव" (गौ०सु०५३।१०।पा०१) इति । अग्निशब्दोच्चारणे मुखदाहापत्तेन शब्दार्थयोाप्यव्यापकभाव इति तदर्थः। तार्किकमते तु शब्दस्याकाशनिष्ठतया व्यधिकरणत्वान तेनानुमानमितिभावः। पक्षेति। पक्षः सन्दिग्धसाध्यवान् । पक्षधर्म- टीकाद्वयोपेताया लघुमञ्जूषायां ताज्ञानं, हेतोः पक्षवृत्तित्वज्ञानम् । अर्थव्याप्यशब्दवब्दिमिति परा. मर्श विनापि शाब्दबोधान्न तस्यानुमितित्वमिति भावः । नन्धियमनुमितिाप्तिज्ञानाद्यनपेक्षा विलक्षणैव । अन्यथा भि. नविषयकप्रत्यक्षं प्रति शाब्दसामग्न्या अनुमितिसामग्न्याश्च प्रति- बन्धकताद्वयकल्पने गौरवमत आह-सिद्धिसत्वे इति । पर्वते वह्नि नि श्चयोत्तरं पर्वते वह्नयनुमितिर्जायतामितीच्छयैवानुमित्तिर्भवति । शाब्द बोधस्तु निश्चयसत्वे ऽपीच्छां विनैव भवतीति वैषम्यमिति भावः । यद्यपि शब्दार्थयोस्तादात्म्याभावे ऽपि घटमानयेत्यादिपदान्यर्थवि- षयस्मारितपदार्थसंसर्गज्ञानपूर्वकाणि आकाङ्क्षादिमत्पदकदम्बत्वात्, इत्यनुमाने वैयधिकरण्याभावादनुमितिः सम्भवति, तथापि श. ब्दार्थयोस्तादात्म्ये व्याप्य व्यापकभाधस्य झटित्युपस्थितिरित्यतः तत्पक्षे निराकरणमिदम् ॥ (कलाटीका) आश्रयाभेदेऽपि निरूपकभेदादेव तादात्म्यभेद इत्यर्थभेदे ऽपि शब्दैक्यमिति पक्षमाह। अन्ये विति । आदिना स्पर्शसंख्यादयः । तादात्म्यवत् । तादात्म्यानीवेत्यर्थः । अन्यथैकतादात्म्यमादाय सर्ववत्तावुद्धिप्रसङ्गः, तथाच शक्तिनानात्वमवेति भावः। पक्षद्वयादपि लाधवादाह-परेविति । अपिः आश्रयभेदसमुच्चायकः । एकमेवेति । स्वतो भेदस्तु न, गौरवात् । तत्तनिरूपितत्वविशिष्टतादात्म्यस. म्बन्धेन तद्वत्ताविरहानोक्कापत्तिरितिभावः । अत्र मानमाह-हलो ऽनन्तेति । तत्राहि "सर्वत्रातजातीयकं व्यवधायकं भवति कथमन. तराविमौ ग्रामाविति ग्रामशब्दोऽयं वव्हर्थ, अस्त्येव शालासमुदा. ये वर्तते" इत्याधुक्का 'तत् यः सारण्यक' इत्याद्युक्तम् । केचिदर्थ- भेदेन शब्दभेदमिच्छन्ति । प्रत्यभिज्ञानं तु सामान्यनिवन्धनम् । अन्ये त्वेकशब्दत्वम् , तत्र चानेकशक्तियोगः, एकशक्तित्वं, वेति मतविकल्पः । तत्र यदा एकशब्दत्वपक्षस्तदा तद्यः सारण्यक' इति भाष्यं शक्तिभेदादुपचरितभेदाश्रयम् । भेदपक्षे तु 'ग्राम- शब्दो ऽयं बह्वर्थ' इति भाष्यमभिन्नसामान्यनिमित्तैकत्वाध्यवसा याश्रयम्' इति कैयटेनोक्तम् । ग्रामशब्दोऽयमित्यस्य, तद्यःसारण्यका इत्यस्य चाविरोधायाह-केचिदिति। 'अन्यायश्चानेकार्थत्वम्' इति त. झावः । सामान्यं च ग्रामशब्दत्वादि ।
शब्दप्रमाणस्थानुमानेऽन्तभावखण्डनम् अन्ये विति । व्यक्तिभेदकल्पनार्या गौरवमिति तद्भावः। तत्र चेति । निरूपकभेदाच्छक्तिभेव इति भावः । एकेति । समवायैकत्व नये रसो रूपवानित्यादिप्रयोगवदन्यार्थबोधकाले ऽन्यार्थबोधो वा. रणीयः । तदर्थसम्बन्धेन शक्त्य ग्रहाद् त्तत्तदर्थविशिष्टशक्तिभेदेन च मानार्थत्वव्यवहार इति भावः । तत्र पदेति । एकशक्तित्वपक्षे त्वर्थ भेदादुपचरितभेदाश्रयमिति बोध्यम् । ग्रामशब्दोऽयं वह्वर्थ इति तु मुख्यार्थमेव। अत्र लर्वार्थनिरूपितवृत्तीनां वर्तत इत्येक शब्दबोध्यत्वेना. भेदयोधनादेकशक्तित्वपक्षी भाष्यबोधितः । तत्र वर्तनक्रियाऽस्तिक्रि. यायाः कर्वी'इन्युयोते उक्तम् । एवं सरूपसूत्रेऽपि वोध्यम् । प्रत्यर्थः मित्यस्थार्थमर्थप्रतीति वदता भवनाऽन्त्यं मतद्वयं सूचितम् । तदाह सरूपति ननु तादात्म्यमूलकशक्तिज्ञाने त्वेतज्ज्ञानं न बोधजनकमत आह-सर्वेति । भेदघटित सङ्कतैरध्याससङ्केतैश्चेत्यर्थः । अस्य । तादाम्य. मूलकसम्बन्धस्य । एतेनोक्तव्यावृत्तिः। एवमग्रे ऽपि । तदेवेति । तत्वेन ज्ञानमेवेत्यर्थः। अनुपपत्तिग्रहस्य तदभावे एत्र सत्त्वमिति भावः। वैशेषिकरीत्या शङ्कते । न चेति । तयोः-शब्दतदर्थयोः । अनुमा- नमेवेति अनुमितिरेवेत्यर्थः । इत्थं च तत्प्रयांगो 'घटमानयेत्या- दिपदानि तात्पर्यविषयस्मारिनपदार्थसंसर्गज्ञानपूर्वकाणि आका. सादिमत्पदकदम्बकत्वात् 'पटमानय' इत्यादिपदकदम्बव'दिति । तथाचानेन संसर्गज्ञानसिद्धौ ज्ञानावच्छेदकतया पदार्थसंसर्ग: सिद्धिः सम्भवतीति शब्दो न पृथक्प्रमाणमितिभावः । तदाह- प्रमाणान्तेति शब्दस्येति भावः । तत्रतावत् नैयायिकरीत्योत्तरयति । पक्षेति । आदिना व्याप्त्यादिप्रतिसन्धानपरिग्रहः । तथा च तदभा. घदशायामपि शाब्दबोधस्यानुभविकतया तदानीमनुमितिसामग्न्यः भावेन तदसम्भवाच्छब्दस्य प्रमाणान्तरत्वमावश्यकम् । तदाह ।, सस्येति । शब्दस्येत्यर्थः । ननु शब्दस्य प्रमाणान्तरत्वे सर्वत्र शान्द. बोधजनकसामग्भ्यन्तरकल्पने गौरवमिति सर्वत्र शाब्दबोधस्थले व्याप्त्यादिप्रतिसन्धानकल्पनमेव सम्यक् । तथा सति क्लप्तसाम- ग्यैवोपपत्तौ सामन्यन्तराकल्पनेन लाघवमत आह । सिद्धीति ॥ किञ्च पदमात्रात्पदार्थप्रत्ययस्य जायमानस्थातु.
६० टीकाद्वयोपेतायां लघुमञ्जूषार्या मितित्वासम्भवः । पदेभ्यः स्मृतिरेवेति तु न युक्तं, तत्तानुल्लेखात्, वाक्यादपि तदापत्तेश्च । किश्च 'शाब्दयामि' इत्यनुव्यवसायान्न स्मृतित्वमा नुमितित्वं वा तजन्यप्रत्ययस्य । किश्च तथानुव्यवसायप्रयोजिकायाः शाब्दत्व. जातेस्तदवच्छिन्ने आकाङ्क्षादिज्ञानहेतुत्वस्य च कल्प. नावश्यकत्वे तद्वत्यनुमितित्वस्य व्याप्तिस्मृत्यादेश्च कल्पने गौरवम् । किञ्च सिद्धिसत्वेऽपि शाब्दयोधोदयेनानुमितेश्चा. नुदयेन सिद्धिप्रतिबध्यतावच्छेदककोटौ शान्दातिरि. क्तत्वविशेषणदाने गौरवम् । न च तत्प्रत्यक्षादिज्ञान- नाशादेव तत्रानुमितिः अनुभवविरोधात् । सर्वत्र. तथापत्तेश्चेति दिक् । (कुञ्जिकाटीका) ननु सिद्धिसत्त्वे ऽनुमितिरिव शाब्दबोधो ऽपि न भवति समाने विषये प्रत्यक्षसामग्या बलवत्त्वेन तदनन्तरं शाब्बोधस्यानुपयोगा दत आह-किश्चेति। ननु पदश्रवणानन्तरं पदार्थस्मरणे 'एते पदा. र्थाः, परस्परं संसर्गवन्तः, आकाङ्क्षादिमत्पदस्मारितत्वात्'इत्यनुमान- मस्त्वित्यस्वरसादाह-पदमात्रादिति । व्याप्तिस्मरणादिकं विनापीति भावः । शाब्दबोधे पदार्थस्मरणं व्यापारः तथा च पदार्थानां स्मृ. तिरेव नातिरिक्तप्रमितित्वमिति तार्किकमतं निराकरोति । स्मृतिरे- वेति । एकसम्बन्धिज्ञानस्यापरसम्वन्धिस्मारकत्वात् । ननु पदेभ्यो ऽर्थे स्मृते ततोऽनुमितिः कल्प्यते इत्यत आह-न युक्तमिति । किं- चैतन्मते पदार्थस्मरणमेव शाब्दबोधे हेतुः। तथा चावान्तरवाक्यार्थ- बोधकाले तस्य नष्टत्वात् ततो महावाक्यार्थबोधो न स्यात्। तस्मात्प. दप्रयोज्या उपस्थितिरेव हेतुः। साचावान्तरवाक्यार्थबोधरूपैवेत्य- दोषः। तत्तानुल्लेखादिति । तत्ता पूर्वानुभूतता तां वुध्या विषयीकृत्यैव स्मरणोदयादिति भावः। वाक्यादपीति । तथा च वाक्यादपि स्म- शब्दप्रमाणस्यानुमानऽन्तभावखण्डनम् रणस्यैवापत्तौ अनुमितिशाब्दबोधयारुच्छेद इत्यर्थः । न चापूर्व. वाक्यार्थस्थले पूर्वमनुभवाभावात्स्मरणासम्भवः इति वाच्यम् । खण्डशः प्रसिद्धानां पदार्थानां संसर्गाणां च स्मरणसम्भवात् । तथानुव्यवसायेति । तादृशानुव्यवसायात् शाव्दत्वजातिः क- ल्पनीयैव तदवच्छिन्नं प्रति आकाङ्क्षादिज्ञानस्य च हेतुत्वमवश्यं क. ल्पनीयमेवेति किमनुमितित्वादिकल्पनयेत्यर्थः। सिद्धिसत्त्वे ऽपीति । पर्वते वह्निज्ञानानन्तरमनुमितिनं भवति, शाब्दबोधस्तु शब्दप्रयोगानु: पाती दुर्निवार इति भावः। ननु सिद्धिसत्त्वे ऽपि परार्थानुमितिवत् शाब्दबोधो ऽपि सम्भवतीति चेन्न । अनुमित्सायां सत्यामेवानुमि- तेरुदयात् । परार्थानुमितौ पर्वतो वह्निमान् , धूमात्, यो यो धूमवान् सो ऽग्निमानित्यादिकं पञ्चवयवात्मकं वाक्यं प्रयुज्यते, शाब्दबोधस्तु परप्रयुक्तात् वाक्यात्स्वस्य भवतीति भेदात् । प्रतिवध्यत्वेति । शान्दातिरिक्तज्ञानं प्रति सिद्धिः प्रतिवन्धिकति वक्तव्यं स्यादित्यर्थः। नाशादेवेति । ज्ञानस्य क्षणिकत्वात् प्रत्यक्षनाशोत्तर क्षणेऽनुमि. तिरित्यर्थः । ननु एकक्षणविलम्वेऽनुभवविरोधी नास्तीत्यत आह- सर्वत्रेति । सिद्धिनाशानन्तरक्षणे एवानुमितेरापत्तेस्सिषाधयिषा- काले ऽप्यनुमितिर्न स्यादित्यर्थः। अत एव यत्र वहिव्याप्य धूमवान्प तो वह्निमानिति प्रत्यक्षं ततः सिषाधयिषा तत्रानुमित्युत्पत्तये सि. षाधयिषाविरहविशिष्टसिद्ध्यभावकल्पनेति तार्किकाः। ऋष्यादिव्य- वहारात् शक्तिग्रह इति पूर्वमुपपादितम् । ऋष्यादिव्यवहारश्च सा. धुष्वेवेति साधूनामेव वाचकत्वम् ॥ (कलाटीका ) ननु सिद्धिप्रतिबध्यतावच्छेदककोटौ शब्दान्यत्वं निवेश्यते इति नायं दोषो ऽत आह-किश्चेति । यत इतिशेषः । एवमग्रेऽपि । मात्रश. ब्दोऽवधारणे । ( पक्षसाध्ययोरभावादिति भावः) हेतोरुक्तस्या. सम्भवादिति भावः । ननु पदात्पदार्थोपस्थिति नुमितिः, किन्तु स्मृतिः, इति नायं दोषो ऽत आह-पदेभ्य इति । एवो ऽनुमितिशाब्द. वुद्धिनिरासाय । तत्तेति । पूर्वानुभूततारूपतत्तेत्यर्थः सोऽयमित्यादा- विष स इत्येवमित्यर्थः । मनु तदभावे ऽपि फलानुरोधेन तदङ्गीकारो ऽत आह“वाफ्यादपीति । अपिः पदसमुच्चायकः । तदापत्तेश्च स्म- रणापत्तेश्च । सम्बन्धिज्ञानतयैव पदज्ञानवत्तदुपयोग इति भावः ।
टीकाद्वयोपेतायी लधुमञ्जूषाया ननु फलवलात्पशीपस्थितेः पूर्व नियमतो वाक्यार्थीशोद्वोधकास- मवधानकल्पनमत एव वस्नलादो"हरे ऽव'इत्यादौ च विशिष्टशक्त्यैव संसर्गाशे उद्वोधकासमवधानान्माक् पदार्थोपस्थितिमात्रं ततस्तदंशे. ऽप्युद्धोधकसमवधाने तद्विषयको वाक्यार्थबोधः । अत एवापूर्वो वाक्यार्थ इति प्रवादः सङ्गच्छते । अपूर्वत्वं च शाब्दबोधप्राक्क्षण- वर्तितज्जनकशब्दजन्यस्मृत्याविषयत्वम् इति न ततः स्मृतिरत आह- किञ्च शाव्देति । शाब्दयामीत्याकारकशब्दत्वावच्छिन्नावगाहिस. सिद्धानुव्यवलायेन शाब्दत्वजातिसिद्धिरत एव तदवच्छिन्नकरणत. या शब्दस्य प्रमाणत्वसिद्धिरिति भावः । तज्जेति । शब्दजेत्यर्थः । अत एव नानुमितं न साक्षात्कृतं किन्तु शब्दादेवावगतमित्यनुभव: सङ्गच्छते। ननु यथा पदार्थोपस्थितेः स्मृतित्वमते शब्दजन्यत्वमात्रण परं त. स्यामपीतरस्मृतिविलक्षणः शाव्दयामीति व्यवहारः न तु वाक्यज्ञान- पदार्थोपस्थितिकार्यतावच्छेदकीभूतजातिविशेषाक्रान्तता तस्याः । तथा वाक्यात्स्मृतावपि तद्यवहारो ऽत आह । किञ्चेति । तथेति । शाब्दयामीत्याकारकेत्यर्थः। तदधच्छिन्ने शाद्वत्वावच्छिन्ने तवृत्ती. ति । शाब्दवृत्तीत्यर्थः । आदिना ( परामर्शः ) पक्षधर्मताज्ञानादि. ननु नेदं गौरवमुक्तयुक्तिभ्यामत आह । किञ्चति । इदं गौरवं वि. घटयितुं शङ्कते। न चेति । तत्प्रत्यक्षेति । अनुमितिविपयार्थ प्रत्यः क्षेत्यर्थः। आदिनानुमित्यादीनां सङ्ग्रहः । नाशादेवेत्यवेन सिद्धिस स्वनिरासः । तदानीं तस्याः प्रतिबंधकत्वेन तदनुदयात् । ( नाशरूप. कारणाभावादेव तदापत्तरभावात )। तत्र ( शाद्ववोधस्थले ) सिद्धि- स्थले। एवंच तत्सत्वे तदुदयो नैवेति न तत्र विशेषणदानमिति न गौरवमिति भावः ( अनुभवेति । सिद्धिसत्वे शाद्ववोधोदयस्यानुः भूयमानत्वेन तत्र तत एव सा इति अस्याऽनुभवविरुद्धत्वात् (१)अनु. भवति ) सिद्धिसत्त्वे इच्छासत्वेऽपि अनुमितेरनुभूयमानत्वेन तस्यैव तद्धेतुत्वमित्यस्यानुभवविरुद्धत्वात् । ननु विसंवाद्यनुभवो नेटसाधकोऽत आह-सर्वत्रेति । प्रसिद्ध. शाद्वबुद्धिभिन्नवह्नयाद्यनुमिति विषयेऽपि तथा सुवचत्वेन सर्वत्रा. (१) पाठान्तरम् क्वचित पुस्तके ( )चिहान्तर्गतम् । सङ्ग्रहः ।
शब्दप्रमाणस्यानुमानेऽन्तर्भावखण्डनम् नुमितिसामान्ये तन्नाशोत्तरमेव जायमानत्वापत्तेश्चेत्यर्थः । तथा. चेच्छोत्तेजकत्वोच्छेदापत्तिः । अथ सिद्धिसत्वेऽपि इच्छायामनुमि त्युदयानुभवात् तत्र तथा दुर्वचमिति बूपे, तर्हि, अत्रापि सिद्धिसत्वे शाद्ववोधोदयानुभवेन तथादुर्वचमिति तुल्यमिति तत्प्रयुक्तगौरवं दु. रुद्धरमेवेति भावः। (यावत्प्रतिबन्धकभावस्थले इत्यर्थः। तथापत्तेश्चेति। तत्तदभावस्यैव हेतुत्वापत्तेश्वेत्यर्थः । तथा च प्रतिवध्यप्रतिवन्धकमा. वमात्रोच्छेदापत्तिरिति भावः(१)) किञ्चानुमितरसम्भवात्। न च गौर. स्तितावान्स्वधर्मिकान्वयबोधानुकूलाकाङ्क्षाद्याश्रयपदोपस्थापितत्वा. त् घटवदित्यनुमानं सुलभम् इति वाच्यम् , गवादेः पदोपस्थापित. वाद्यभावग्रहदशायां गौरस्तीत्यादितो ऽन्वयबोधानापत्तेः । पदज. न्या हि पदार्थोपस्थितिः स्वरूपसत्येवान्वयवुद्धावुपयुज्यते न तु ज्ञाता प्रमाणाभावात् । पदैरनुपस्थितस्यापि तदुपस्थितत्वग्रहादावा यधीप्रसङ्गाच्च । न च 'गौः' पदमस्तित्ववद्गोज्ञानपूर्वकोच्चारणवि. षयः अस्तिपदसाकाङ्क्षपदत्वातू यन्नैवं तन्नैवं यथा आकाशमित्यनु. मानमिति वाच्यम् । गवादिपदानां ज्ञानपूर्वकोच्चारितत्वाद्यभाव. निश्चयदशायां जायमानसर्वजनीनानुभवसिद्धबोधस्थासङ्गत्यापत्तेः । गवादिनिष्ठमुख्यविशेष्यनाशालिबोधस्यैवमप्यनुपपादनाच्च । अपि च शाब्दबोधोत्तरं नानुमिनोमीत्यनुव्यवसायान शाब्दत्वमनुमिति. स्वव्याप्यम् । न च तस्य व्याप्त्यादिशानघटितसामग्रीजन्यानुमिति- स्वावच्छिन्नाभावविषयकत्वान्न दोष इति वाच्यम् । व्याप्त्यादिप्रतिस. न्धानविरहदशायामपि तस्योत्पत्त्या तद्विषयकत्वासम्भवादिति दिक् । तदाह-दिगिति ॥ सा च शक्तिः साधुष्विवापभ्रंशेष्वपि, शक्तिग्रा. हकशिरोमणेर्व्यवहारस्य तुल्यत्वात् । व्यवहारदर्श. नेन च पूर्वजन्मानुभूतशक्तिस्मरणम् । अत एव बा. लानां तिरश्चां च बोधः । न हि तेषां तदैव तत्सम्भ- व इत्यन्ये । न च साधुस्मरणात्ततो बोधः । ते साधुष्वनुमानेन प्रत्ययोत्पत्तिहेतवः । (१) इदं च पाठान्तरं पुस्तकान्तरे। ( )चिहान्तर्गतम् ।
६४ टीकाद्वयोपेतायां ल घुमजृपायां अम्बाम्बेति यदा बाल: शिक्ष्यमाणः प्रभाषते ॥ अव्यक्तं तद्विदां तेन व्यक्त भवति निश्चयः । हति हर्युक्तेः । अनुमानमत्रज्ञानं, साधुविषयस्म. रणेनेत्यर्थः । तद्विदां साधुविदाम् । असाधोः साधुप्र. कृतिकत्वात्सादृश्येन तज्ज्ञानमिति वाच्यं, साधुस्मर. णं विनापि बोधानुभवात् । तदाचकसाधुशद्वमजान तां बोधानापत्तेश्च । तदर्थज्ञापकत्वेन स्मरणं तु नार्थोप. स्थापक शक्ततावच्छेदकानुपूर्व्यग्रहात्, तद्वाचकसर्व. नामस्मरणाननुभवाच्च, उच्चारितस्यैव बोधकत्वेन स्मृ. तसाधुतो बोधासम्भवाच । न च शक्तिभ्रमाद्बोधः, पूर्वपूर्वभ्रमाच्चोत्तरोत्तरभ्रम इति पामराणां शत्त्यग्रहेऽपि तद्भमोपपत्तिरिति वा. घटत्वादिविशिष्टघटादिरूपार्थनिरूपिताया घटादिपदवृत्तित्वेन गृहीताया भिन्नानुपूर्वीकत्वरूप. विशेषदर्शनसत्त्वेन साधारणधर्मदर्शनाभावेन च गग- रीपदादौ भ्रमानुपपत्तेः । यदि तु अशक्त्या केनचिद् 'गगरी' इति प्रयुक्ते ऽम्बाम्बेत्यादाविव घट इति सा. धुशब्दस्मरणात्प्रयोज्यस्य बोधे तटस्थस्य गगरीशब्दा. देवास्य बोध इति भ्रमेणाद्यस्य शक्तिभ्रमस्तन्मूलकश्चा. न्येषामपि । तदुक्तं हरिणा- तादात्म्यमुपगम्यैव शहार्थस्य प्रकाशकाः। इति । इवशब्देन तदुपगमस्य भ्रमत्वं सूचितम् । तादा. त्म्पस्य शक्तित्वं च स्पष्टमेवोक्तम् ॥ (कुञ्जिकाटीका) इदानी मतान्तरमाह । सा चेति । ननु व्यवहारदर्शनस्य कथं शक्तिग्राहकत्वं तद्बोधकशब्दाभावात् शक्तिमहाभावे इष्टसाधनत्व- च्यम् अपभ्रंशेषुशक्तिसदसत्वविचार: ग्रहाभावात्स्तनपाने प्रवृत्यनापत्तेरत आह-व्यवहारदर्शनेनेति । व्यवहारदर्शनमुद्बोधकविधया स्मारकमेवेति लाघवं । जीवनाष्टमि. वोद्बोधकमित्यर्थः । अत एव-पूर्वजन्मानुभूतस्मरणस्वीकारादेव । अन्यथा इष्टसाधनताशानाभावात् स्तनपानादौ प्रवृत्तिन स्यात् । प.. श्वादीनां च जडप्रायाणां प्रतिनियतजात्यनुसारेणैव नियतैव का. चित्प्रतिभा वोध्यते, अतस्तेषामप्यनादिवासनैव बीजमिति भावः। तदेव-आयबोधकाले एव । तत्सम्भवः-शक्तिग्रहसम्भवः । न चेति । वाच्यमित्यत्रान्वयः। तदुक्तं हरिणा-- असाधुरनुमानेन वाचकः कैश्चिदिष्यते इति । वाचक इत्यस्य बोधक इत्यर्थः । अयम्भावः। न हि विद्वांसो उपभ्रंशादेव साक्षादर्थ पश्यन्ति इति नापशब्दानामर्थन सम्बन्धः । अपशब्दास्तु सादृश्यात्साधुशब्दमनुमापयन्ति । साधुस्मरणादिति यदुक्तं तत्रैव मानमाह-ते साधुग्विति । ते असाधवः । साधुषु साधुस्मरणेन । बालः अव्यक्तं भाषते, साधुविदा व्यक्त निश्चयो भव. तीत्यर्थः । तज्ज्ञानम्-साधुस्मरणम् । विनापीति । अयम्भावः, 'अर्थगत्यर्थः शब्दप्रयोगः' ।अर्थावगते. श्चापशब्देभ्यो ऽप्यविशिष्टत्वात्तेषामप्यर्थेन सम्बन्ध इति । एतदर्थ- बोधकं किश्चित्साधुपदं भविष्यतीत्यनुमानादोध इति मतं निराक- रोति-नार्थेति । शक्ततावच्छेदिकाया आनुपर्ध्या ज्ञाने एव वाच्य स्योपस्थितेरित्यर्थः। तद्वाचकतदादिपदस्मरणाद्वोध इत्यपि निरा. करोति । अननुभवाश्चेति । ननु पामराणां घटादिपदे शक्तिग्रहाभा. वात्कथं तत्सादृश्यमुलको गगरीशब्दे भ्रम इत्याशङ्याह--पूर्वपूर्वे. ति । यस्य शक्तिग्रहपूर्वको भ्रमस्तद्वदित्यर्थः । घटत्वविशिष्टेति । घटनिरूपिताया घटपदनिष्ठायाः शक्तेः गगरीपदे भ्रमो न सम्भ- वति वर्णभेदरूपविशेषदर्शनसत्त्वात् न हि अकरचरणादिमत्त्वनि श्चयानन्तरं स्थाणौ पुरुषत्वभ्रमो भवति । यदि चेति । अशक्त्या गगरीशब्दोऽनेनोच्चारित इत्याद्यपुरुषेण ज्ञाते ततो द्वितीयपुरुषस्य गगरीशब्द एव बोधक इति भ्रम इत्यर्थः । तादात्म्यमुपगम्येवेति । अपभ्रंशाः साधुशब्दैरभेदमिवापना अर्थस्य प्रकाशका इत्यर्थः। तादात्म्यस्येति ।अयम्भाव:-अयमर्थ इत्यभेदेन व्य- वहारादध्यासलक्षणं शब्दार्थयोस्तादात्म्यं, स एव मुख्यःसंबन्धः सम्ब- .
टीकाद्वयोपेतायां लघुमञ्जूपायां धान्तरकल्पने तु तस्यापि सम्बन्धान्तरं करप्यमित्यनवस्थानात् ,म. तातावर्थस्यापि विषयभावेनापेक्षणात,परतन्त्रत्वसामान्यासम्वन्धत्व. व्यवहार इवशब्देनेति । साध्वसाध्वोस्तादात्म्यस्य तात्विकत्वे चा. साधूनामपि बोधकत्वमागतमिति ग्रन्थकार एव आहार्धेन-तादा. त्म्यमुपगम्येव शब्दार्थस्य प्रकाशका, इत्यर्थाभिप्रायेणाह-इवशब्देने ति । इवशब्देन शक्तेभ्रमः सूचित इत्यर्थः ॥ (कलाटीका ) एवं शक्ति निरूप्य प्रागुक्ततदाश्रयविषये परमतखण्डनाय विशे. षमाह-सा चेति । वाच्यवाचकभावाख्येत्यर्थः । शक्तीति । तद्राहक तादात्म्येत्यर्थः । मतान्तरमाह-व्यवेति । चस्त्वर्थे । इदं दृढयति । अत एवेति । शक्तिस्मरणाङ्गीकारादेवेत्यर्थः । ननु स्मरणवद्रहो ऽपि तेषां संभवतीति किमिति तत्पक्षत्यागो ऽत आह-न हीति । तेषाम् । बालादीनाम् । तदैव बोधप्राक्काले एव । तत्सम्भव इति । अयोग्य स्वादिति भावः । अत्रान्ये इत्यरुचिबीजन्तु प्राथमिकसर्गादौ नैतत्संभ व इति । अत्र नैयायिकाः "व्युत्पन्नानां साधुस्मरणात बोधो, ऽन्यु त्पन्नानां शक्तिभ्रमाद्बोध, इति न तेषु शक्तिकल्पना" इति । तत्राद्यपक्षं खण्डयति-न चेति । ततः। अपभ्रंशात् । वैयाकरणस्यापदिमाव: श्यकमिति सूचयितुमाह-ते साधुग्विति । यद्यपि 'हेत' इत्यने तादात्म्यमुपगम्यैव शब्दार्थस्य प्रकाशकाः । न शिष्टैरनुगम्यन्ते पर्याया इव साधवः ॥ १ ॥ न यतः स्मृतिशास्त्रेण तस्मात्साक्षादवाचकाः ॥२॥ इति । अग्रे ऽम्बाम्बेति हरिग्रन्थे दृश्यते तथाप्यनुपयुक्तत्वादत्रा. नुल्लेखः। एवं साधौ प्रयोक्तव्ये यो ऽपभ्रंशः प्रयुज्यते । तेन साधुव्यवहितः कश्चिदर्थो ऽभिधीयते ॥३॥ इत्यस्य निश्चय इत्यस्मादग्रिमस्येव विवक्षितार्थस्य तावतैव ला. भादिति भावः। ननु स्मरणाद् बोधे ऽनुमितिघटित हर्युक्तेः कथं हेतुत्वमत आह । अनुमेति । तदसम्भवात् व्याप्तिग्रहादिविलम्बेन तस्यानियतपूर्ववृत्ति "त्वाच्च । अत्र, न तु सर्वत्रेति भावः । तावताप्यनुभवाद्यसम्भवादाह "साविति । साधुष्विति विषयसप्तमीत्याह-विषयेति । यदा तारशो अपभ्रंशेषु शक्तिसदसत्वविचारस वालः अव्यक्तं तत्मभाषते तदा तद्विदा । तेनापभ्रंशेन । व्यक्ते साधुशः ब्दन्नाने निश्चयो भवतीत्यर्थः । तदेतद्धदि निधायाह-तद्विदामिति । एतेन तद्रहितानां तदभावे ऽपि न क्षतिरिति सूचितम् । अत पवै. तस्यात्रोल्लेखः । अन्यथाश्लिोकेनैव निर्वाहे ऽस्याधिक्यं स्पष्टमेव । ननु एकसम्बन्धीति रीत्या स्मरणं सति सम्बन्धे ऽत्र तु न सो ऽत आह-असाधोरिति । तथाच तद्घटकयत्किञ्चिद्वर्णादिरेव साधा- रणधर्म इति भावः । तज्ञानम्-साधुस्मरणम् । तत्रादौ विशेष. व्युत्पन्नस्थले दोषमाह-साध्विति । ननु तादृशानुभवे एव विप्र. तिपत्तिः, कारणं विना कार्यानुभवस्य काप्यभावेन मानाभावश्च, फलबलेन तस्य नियमेन कल्पनं चात स्तत्र न दोषो ऽतः सा. मान्यव्युत्पन्नस्थले दोषमाह-जद्वाचति । अपभ्रंशबोध्यार्थवाच- केत्यर्थः। ननु व्युत्पन्ना द्विविधाः तत्तद्वाचकसंस्कृतविशेषज्ञानवन्तः, त- द्विकलाश्च । तत्राद्यानां तथाबोधे ऽपि द्वितीयाऽनुपपत्तिर्दता सान युक्ता तेषां सामान्यज्ञानसत्त्वेन तदर्थज्ञापकत्वेन रूपेण तत्साधुस्मर. णावोधसंभवादत आह-तदर्थेति । अपभ्रंशबोध्यार्थज्ञापकत्वे. न । वस्तुतः तवाचक साधुस्मरणाद् वोधसम्भवादत आह-त. दर्थेति । अपभ्रंशयोध्यार्थज्ञापकत्वेन । वस्तुतस्तु तद्वाचक- साधुस्मरणमित्यर्थः । स्थापकमिति । तथाच बोधः सुतरां नेति भावः। आनुपूर्वाग्रहस्य यथा कारणत्वमावश्यकं तथाने स्फुटीभ- विष्यति। मन्वेवमपि सर्वनामस्मृतेस्तेषां बोध इति नोक्तदोषो ऽत आह- तद्वाचकेति । बुद्धिस्थत्वेन तद्वाचकेत्यर्थः । नन्वननुभवे विप्रतिप. यादि दोषः प्रागुक्त एवातः सर्वसाधारणप्रबलदोषमाह-उच्चारि. तेति । इदं चाग्रे स्फुटीभविष्यति । एतेन फलबलेनानुमितिसामग्या. नियमेन कल्पनमिति तन्नध्योक्तमपास्तम् । संस्कृतैरयमर्थो न बुद्धःकि- न्त्वेतदुक्तभाषयेति व्युत्पन्नव्यहाराच्चेत्यपि बोध्यम् ।तस्मात्सामान्यः व्युत्पन्नस्थले दोषस्तदवस्थ एव, उक्तहरिस्तु परमतानुवादक इति न तद्विरोधदोषः । एतद्विरुद्धस्यापि हरेर्वक्ष्यमाणत्वादिति भावः । अथ तदुक्कद्वितीयपक्षं खण्डयति । न च शक्तीति । पामराणा- मिति शेषः । ननु तेषां शक्त्यग्रहे कथं तभ्रमो ऽत आह-पूर्वपूर्वेति ।
६८ टीकाद्वयोपेतायां लघुमञ्जूषायां चस्त्वर्थे । तदिति । शक्तिभ्रमेत्यर्थः । सिद्धान्तमतेनाह । घटत्वेति । परमते तु तत्पदार्थघटितेश्वरेच्छाया इत्यादी बोध्यम् । अत एव त. तत्पदार्थ घटितव्याप्तेन भ्रमः इति तत्र नैयायिकाः । घटे वयो ऽस्य गृहीतायाः शक्तरिति शेषः । नव्यनैयायिकोक्तयुक्तिं खण्डयितु. माह-यदित्विति । अशक्तत्यस्य घटशद्वे प्रयोक्तव्य इत्यादिः। दृष्टान्तेन प्रागुक्तहर्युक्तरीतिः सूचिता । आद्यस्य-तटस्थस्य । इदं वैयाकरण: स्याप्यवश्यकमितिसूचयितुमाह-तदुक्तमिति । ते साध्विति पूर्वा- र्धात्ते इत्यनुवर्तते । अपभ्रंशाः तादात्म्यशक्तिमुपगम्येव नतु वस्तुतः । स्वीकृतशद्वार्थस्य प्रकाशकां इत्यर्थः । तदाह-चेति । एतेनोपगम्यैवेति नैयायिकपाठो भूषणकदादीनां साधुस्मरणोपयोगित्वेनैतत्पाठश्चापा- स्तः । नन्वनेन तादात्म्योपगमसादृश्याङ्गीकारोक्तावपि तस्य शक्त्यु- पकारकत्वेन तद्भिन्नत्वात्कथं शक्तिभ्रमो हर्युक्तो ऽत आह-तादा स्येति । चः प्राग्वत् । तथोक्त्येति भावः । अत एव तस्यापि पदनि. ष्ठश क्त्युपकारकत्वाच्छक्तिरिति व्यवहार इति प्रागुक्तम् ॥ तदुक्तं जैमिनिना-"तदशक्तिश्चानुरूपत्वात् ॥३॥ २८इति । तद्भाष्यकृताच तत्रोक्तरीत्या शक्तिभ्रम उप. पादित इत्युच्यते तदा प्रत्येकं तत्तत्संस्कृतस्य तत्त. दपभ्रंशेन विनिगमनांविरहात्तेषु शक्तिः । न च सक- लदेशशिष्टपरिगृहीतत्वं विनिगमकं, "शवतिर्गति- कर्मा कम्पोजेषु, विकारे एवैनमार्या भाषन्ते" इत्या- दिभाष्यरीत्या तत्तद्देशनियतसंस्कृतेषु शक्तिसिन- नापत्तेः, वाचकस्य व्यञ्जकत्वे आलङ्कारिकाणां प्राकृ- तभाषोदाहरणस्यासङ्गत्यापत्तेश्च, तत्तद्देशीयशिष्टानां तत्तद्भाषासु जायमानस्य निर्विचिकित्सशक्तत्वप्र. त्ययस्य बाधकं विना भ्रमत्वायोगाच । अत एव स्त्री. शद्रबालानां प्रयुक्ते साधौ अर्थसंशये तदपभ्रंशेन निर्णयः॥
अपभ्रंशेषु शक्तिसदसत्वविचार: (कुञ्जिकाटीका ) तदशक्तिरिति । तस्य साधुशब्दस्य अशक्तिः। अशक्त्या करणापा. टवेनान्यथा उच्चारणमनुरूपत्वालमानवर्णववादित्यर्थः । शवति- रिति । गत्यर्थकः शवधातुः कम्बोजदेशे, आर्येषु तु जनपदेपु वि. कारे ऽर्थे प्रयुज्यते शवो मृतक इतीत्यर्थः । वाचकस्य व्यञ्जकत्वे इति । यथा- पन्थिअ ण एत्थ सत्थरमस्थि मणं पत्थरस्थलग्गामे उष्णअ पओहरं पेक्खिअ उण जइ वससि ता वससु । इति । पथिक न अत्र संस्तरमस्ति मनाक् प्रस्तरस्थले ग्रामे । उन्नतपयोधरं प्रेक्ष्य पुनर्यदि वससि तदा वस । इति तस्यार्थः । अत्र पाषाणमयग्रामे आस्तरणं नास्ति । प. योधरो मेघः स्तनश्चेति श्लेषः । अत्र पयोधरशब्देनोपभोगक्षमत्वं व्य. ज्यते तदपभ्रंशस्य पओहरशब्दस्य तत्र वाचकताव्यवहारः। शक्तिभ्र. मस्यात्यन्तमसम्भवं दर्शयति-अत एवेति । प्रयुक्त साधौ स्त्रीशूदवा- लानामर्थसंशय इत्यन्वयः। ननु यवशब्देन दीर्घशूकविशेष एव ग्राह्यो न कङ्गुरित्येतत्प्रतिपादकतदाधिकरणासङ्गतिः शब्दशक्तेरुभयत्र तुल्य. त्वादत आह-इदं तात्पर्यमिति । यत्तु 'वसन्ते सर्वसस्याना जायते पत्रशातन मिति वाक्यशेषानिर्णय इति तन्न। पैलवादुम्बरौ वैश्यस्य दण्डावित्यत्र वाक्यशेषाभावात्पीलुशब्देन हस्तिनो ऽपि ग्रहणापत्ती हस्तिभवास्थिदण्डस्यापि ग्रहणापत्तेः ॥ (कलाटीका) अन्यसम्मतिमप्याह-जैमिनिना चेति । उक्तमित्यस्यानुषङ्गः । तदशक्तिरिति । तेषामपभ्रंशानां न शक्तिः किन्तु शक्तिभ्रमः अनुरू- पत्वात्तत्सदृशत्वादित्यर्थः । ननु सूत्रस्याग्रे वक्ष्यमाणसिद्धान्तभूता- र्थान्तरपरतयापि सुयोजत्वमत आह-तद्भाष्यति । शबरस्वामि- नेत्यर्थः । तथा चोक्तो एवैतदनुरोधेनेति भावः । तत्र-गगर्यादौ । भाषाणां नानात्वेन गौरवनिरासायाह-प्रत्येकमिति । संस्कृतवन्महा. राष्ट्रभाषायाः अपि सर्वत्रैकत्वात्। एतेन तासां नानात्वेन भाषान्तरैर्वि. निगमनाविरहान्नैकत्र शक्तिरित्यप्यपास्तम् । संस्कृतेषु प्रत्येकं भाषा- भिर्विनिगमनाविरहात् । तेषु-अपभ्रंशेषु । अदृष्टोत्पत्त्यर्थ स्वीकार श्वपरिग्रहः। अतस्तादृशकिञ्चिदपभ्रंशसत्वेऽपिन क्षतिः विनिगमक टीकाद्वयोपेतायां लघुमञ्जूषाया संस्कृतेष्वेव शक्ती, अपभ्रंशे तदभावात् , इत्यादीत्यादिना "हमतिः सुराष्ट्रेषु रहतिः प्राच्यमगधेषु गमिमेव त्वार्याः प्रयुञ्जने" इत्यादिपः स्पशास्थपरिग्रहः। अनापत्तेरिति । लकलदेशशिष्टापरिगृहीतत्वात् । एवश्च दुश्च्यवनशब्दस्यद्रे, एडमूकादिशब्दानां मूकबधिरादौ शक्तिः रपि न स्यात् , शिष्टैस्तदप्रयोगात । अत एवाप्रयुक्तत्वदोषकथनावसरे दुश्च्यवनादिशब्दानुदाजहार प्रकाशकृत् । न च कोशप्रामाण्येन तत्र तत्कल्पनम् । शक्तिभ्रमेण कोशकृतां तत्पाठ इत्यस्यापि कल्प- यितुं शक्यत्वादिति भावः । ननु मास्तु तत्रापि शक्तिरिति वादिनं भ्रान्तं प्रत्याह-वाच. कस्येति । माए घरोब अरणं अजहु णस्थिति साहिअं तुमए । ता भण किं करणिजं एवं जेब ण वासरो थाई॥ मातर्गृहोपकरणं अद्य खलु नास्तीति साधितं त्वया । तत्कथय किं करणीयमेवमेव न वासरः स्थायी ॥ अत्र स्वैरविहारार्थिनीति व्यज्यते । अयम्भाव:-न संस्कृतत्वं न वा भाषात्वं शक्त्यवच्छेदकं किन्धानुपूर्वी साच भिन्नभिन्नैव सर्वत्रेति घटकलशादिपर्यायवाचकेष्विव नैकेनापरान्यथासिद्धिरिति भाषासु शक्तिरेवेति । यद्यपि वाच्यस्य व्यञ्जकत्वे इदमुदाहृतं तत्र, तथापि तेषा. मशक्ताववाच्यत्वेन तदसङ्गतिरेवेत्याशयेन वाचकस्थेत्युक्तम् । ननु तदपि तथास्त्विति वादिनं भ्रान्तं प्रत्याह । तत्तदिति । निर्विचिकि. सेति । निःसन्दिग्धेत्यर्थः। विनेति । बोधकत्वस्याबाधितत्वादिति भावः । युक्त्यन्तरमप्याह-अत एवेति । अपभ्रंशेषु शक्तरङ्गीकारादेवे. त्यर्थः । बालानामित्यस्य व्यवहितान्वयः। प्रयुक्त इत्यस्यान्येत्यादिः । आर्यम्लेच्छाधिकरणस्य तु इदं तात्पर्यम् । तत्र हि यधपि आर्या यवशब्दं दीर्घशूके प्रयुञ्जते, तमेव च वुध्यन्ते, म्लेच्छास्तु प्रियङ्गौ प्रयुनते, तमेव च बुध्यन्ते। म्लेच्छपदेनानार्याः । तथापि आर्यप्रसिद्धबलवत्त्वादे- दीर्घशुकपरतैवेति सिद्धान्तितम् । तत्र हि शवतिर्ग- तिकर्मत्याद्युक्तभाष्याद् द्वयोरपि शक्तिग्रहाद्बोधेनो-
अपभ्रंशेषु शक्तिसदसत्वाविचारः
भयत्रापि साधुत्वेन शक्तत्वेन च तृतीयस्य सन्देहे
विकल्पबोधे वा आर्यप्रसिद्धबलवत्त्वावदे तबोध
एवोचित इति । एवञ्चानायैरपि यज्ञे यवा एवोपादे-
याः, पूर्व पक्षे तु अनायः प्रियङ्गव एवोपादेया इति
विशेषः । तदुक्तं हरिणा--
शब्दतत्त्वविदः शिष्टाः शब्दार्थेषु व्यवस्थिताः। इति ।
आर्याणां शिष्टत्वात्तत्प्रसिद्धर्बलवत्त्वमिति बोध्यं
न तु अनार्यप्रसिद्ध ऽर्थे ऽशक्तत्वे ऽसाधुत्वे वा तात्प
यम् । जैमिनिरप्याह-"तेष्वदर्शनाद्विरोधस्य समा
विप्रतिपत्तिः स्थात्" इति(१अपा. ३१०८) यवशब्दे
उभयथा शब्दार्थावगमाद्विकल्पः स्थादित्यर्थः ।
एवं पूर्वपक्षे सिद्धान्तस्त्रं "शास्त्रस्था वा तन्निमि.
त्तत्वात्"१।३।९ इति। यः शास्त्रस्थानां शिष्टानां स श.
दार्थः वंदे इति शेषः। तेषामविच्छिन्ना स्मृतिः शब्देषु
वेदेषु च । ते शिष्टा हि श्रुतिस्मृतिधारणे निमित्तमि
त्यर्थः । यत्तु दीर्घशकेषु शक्तः सादृश्यात् प्रियङ्गुषु
प्रयुज्यते पूर्वसस्ये क्षीणे योरप्युत्पत्तः, तच तयोः
सादृश्यमिति शबरस्वामी।
अत्र वदन्ति तदा एकस्य गौणत्वमिति विकल्प.
पूर्व पक्षासङ्गतिः। किञ्च “यत्रान्या ओषधयो म्ला-
यन्ते अथैते मोदमाना इवोत्तिष्ठन्ति" इति दीर्घशूकान
यवान् दर्शयति वेदे, इति भवदुत्त्य संगतिः प्रियगू
णामपि तथैवोत्पत्तेः । अन्यथा भवदुक्तसादृश्यासङ्ग
तिः वाक्यशेषो ऽप्युक्तयुक्तिमूलक इति दिए ।
-
टीकाद्वयोपेतायां लघुमञ्जूषायां । कुञ्जिकाटीका : उक्तभाष्यादिति । तेन तत्र शक्तिभ्रमो न शङ्कनीय इति भावः। वयोरपि । आर्यम्लेच्छयोरपि । उभयत्रापि । कङ्गो दीर्घशूके च । साधुत्वेनेति । म्लेछदेशे कङ्गावेव यवशब्दः साधुरित्यर्थः । विकल्प तिं । प्रसिद्धिद्वयेन विकल्पः स्यादित्यर्थः । अत्र यवशब्देन दीर्घशूका विशेष एव ग्राह्यः “यत्रान्या ओषधयो म्लायन्त" इति वाक्यशेषादि: ति सिद्धान्तितं भाष्यकृता शबरस्वामिना । एतच्च वार्तिककारो नाभ्युपैति आर्यप्रसिद्धबलवत्त्वादेव निर्णये वाक्यशेषोपन्यासवैया- पत्तेः । तस्माद्यत्रार्याणामेव शब्दार्थाभिधानसंशयस्तत्रैव वाक्यशे. षेण निर्णय इति । वस्तुतस्तु वारुणप्रघासिककरम्भपात्रेषु एव यव- शब्दस्य दीर्घशूकपरता स्यात्तत्रैव वाक्यशेषसत्त्वात् न तु दार्शपौ. णमासिकद्रव्यविधायकयववाक्ये तत्र वाक्यशेषाभावात् । तस्माद्वा. क्यशेषो ऽभ्युच्चयत्वेनोक्त इत्यभिप्रेत्याह-आर्यप्रसिद्धेरिति । यचे यवा एवेति । तेषामेवापूर्वजनकत्वात् । शब्दतत्वम् । शब्द विशेषार्थविशेषतादात्म्यम् । शिष्टाः अतीन्द्रियार्थदर्शिनः । ते हि इन्द्रियव्यापारमन्तरेणापि शब्दार्थयोः सम्बन्धं पश्यन्ति तदुपदेश- पारम्पर्याच्चास्मदादीनामपि सास्नादिव्यञ्जनसहकारेणार्थाभिव्य तिः । व्यवस्थिता इति । प्रमाणत्वेनेति शेषः । न तु अनार्येति । य. वशब्दस्य कङ्गो नाशक्तत्वं नाप्यसाधुत्वमित्यर्थः । तेवदर्शनादिति । तथाच वार्तिकम् । स्मृत्याचारविरोधे वा साम्यवैषम्यसंशये । समा विप्रतिपत्तिः स्यान्मूलसाम्यावयोरपीति ॥ शब्दार्थस्य लोकप्रमाणकत्वेन विरोधाभावात्समा विप्रतिपत्तिः स्पादित्यर्थः। तेषाम् । शिष्टानाम् । अविच्छिन्नेति । पारम्पर्यायातेत्यर्थः। शब्दे धु वेदेषु चेति । यवशदो दीर्घशूकविशेषस्यैव वाचकः स एव वेदे गृह्यत इत्याकारेत्यर्थः । एकस्य गौणत्वमिति । सादृश्यात्तु कङ्गो प्र. योगे गौणत्वेन समत्वाभावाद्विकल्पाशङ्का असङ्गनेत्यर्थः । य. त्रान्या आषधय इति । वसन्तकाले तथा सम्भवः । तथैव-पूर्वस स्यक्षये एव । अन्यथेति । प्रियगुणामन्यथोत्पत्तिस्वीकारे भव.
अपभ्रंशेषुशक्तिसदसत्वविचार: 9 दुक्तसादृश्यासङ्गतिरित्यर्थः । ननु आर्यप्रसिधा दीर्घशूकग्रहणे उक्तवाक्यशेषवैयर्थ्यमत आह-उक्तयुक्तीति । आर्यप्रसिद्धिबलवत्त्व रूपत्यर्थः॥ ( कलाटीका ) ननु तत्तद्देशनियतसंस्कृतस्यापि सर्वत्र शक्तिस्वीकार आर्यम्ले. च्छाधिकरणासङ्गतिः तेनानार्यप्रसिद्ध ऽथै ऽशक्तत्वप्रतिपादनादत आह-आर्येति । इदं वक्ष्यमाणम् । तत्रादौ तद्विषयमाह-तत्र ही. त्यादिना सिद्धान्तितमित्यन्तेन । तत्र होत्यस्य सिद्धान्तितमित्यः त्रान्वयः । आर्यम्लेच्छाधिकरणे हीति तदर्थः। ननु म्लेच्छशब्देन प्रसिद्धार्थग्रहणे तेषां तत्र प्रयोगेऽपि वेदे तत्प्रसत्यभावाच्छके वायुक्ता, न तेषां तत्र प्रसिद्धिस्ते तद्विरोधिविशेषाः। किञ्च तेषां भाषया व्यवहारेण संस्कृतमयशब्दप्रयोग एव दुर्वचोऽत आह-म्लेच्छे. ति । म्लेच्छअव्यक्ते शब्दे इतिधात्वनुसारात् प्राचुर्येणापशब्दभा- षणतृत्वेन ते उच्यन्त इति भावः । आर्याणां दीर्घशूकबोधोऽनार्याणां प्रियंगुवोधः, तत्तात्पर्यमाह-तत्र हीति । यवादिशब्दस्थले हीत्यर्थः । द्वयोरपि । प्रियङ्गुदीर्घशूकयोरपि । शक्तत्वमेव साधुत्वमिति जीर्ण- नैयायिकमतस्य लक्षणया तत्त्वस्य च तद्भाष्योक्तम्य निरासायाह- शक्तत्वेन चति । तृतीयस्य-आर्यानार्यभिन्नस्य । सन्देहे प्राप्ते सति तथा तयोर्मध्ये कस्याप्यबोधः। ननु बोधसामग्रीसत्वात्कथं स. न्देहो ऽत आह-विकल्पेति । पृथक्शक्तिग्रहेण योगपद्यासम्भवा- दिति भावः । तद्बोध एवेति । एवेन तद्यावृत्तिः। अत एव तैरपि सिद्धान्ते 'वेदे' इत्युक्तम् , अन्यथा तदाधिक्यं स्पष्टमेव । एवञ्च सं. योगादिवद् आर्यप्रसिद्धरपि शक्तिसङ्कोचकत्वम् , इति अधिकर. णगूढाभिमतमिति भावः। ननु तेषां वेदे तथा बोधस्यैवौचित्येन तस्यैवानुष्ठानेऽप्य. नार्याणां स्वप्रसिद्ध्या तस्यैव पक्षद्वये बोधादनुष्ठानाच को विशे- षः पूर्वपक्षसिद्धान्तयोः अन्यथा शङ्काधसङ्गत्यापत्तिः, अन्यविशेषस्तु नात्र सम्मतो ऽत आह-एवञ्चेति । वेदे तद्बोधस्यैवौचित्येचेत्यर्थः। अपिः तृतीयसमुच्चायकः। एवेन प्रियङ्गुव्यावृत्तिः । अग्रे एवेन दीर्घशूकव्यावृत्तिः । तृतीयस्य तत्र विकल्पानुष्टानादाह-अनारि. ति । यज्ञे इत्यस्यानुषङ्गः । अर्थादायवा एव तत्रति बोध्यम् । स्वप्रा ७४ टीकाद्वयोपेतायां लघुमजृपायां सिचा तत्रोपादीयन्ते पक्षद्वयेऽपि इति चेत्, तृतीयविषयकमप्यधिक रणं। उक्ताधिरणस्य तथातात्पर्याथै हर्येकवाक्यतामाह-तदुक्तमिति। नाविषयकमिति । न विशेषान्तरसम्भावनापीति । शब्दतत्वं स्फो. टरूपम् । ते शब्दार्थविषय नियताः यतस्तद् विद इत्यर्थः । उभयत्र शक्तोऽयं शब्दः । साधुरपि क्वचिदन्यतरार्थबोधक एवेत्येवं निश्च- ये नियतप्रमाणभूता इति यावत् । ननु हधिकरणयोमिथोविरोधः तत्रार्यप्रसिद्ध बलवस्वमुक्तम् , अत्र तु शिष्टानां, तत्वं च आर्या नार्यसाधारणमिति कथं तत्रेदं मानमत आह-आर्याणामिति । एषञ्च तेषां पृषोदरादिसूत्रभाष्यप्रतिपादितं शिष्टत्वमेव नेति भावः । स्पष्टार्थमुक्तहेनोरेव पूर्वपक्ष्युक्तमीमांसकस. म्मततात्पर्य निराचष्टे |न विति । येन मम विरोधः स्यादिति भावः।न स्वशक्तत्वे तात्पर्य ऽन्यत्र बोधो न स्यादत आह-असाधुत्वेवेति । एव मधिकरणाशये हरिसम्मतिमुक्त्वा मीमांसकाशानं प्रकटयितुं तन्मूल. सम्मतिमाह-जैमिनिरपीति । तेषु-यवादिशब्दषु । अदर्शनात्-दे- शकर्तृभेदात् । समेति-तटस्थस्येति भावः । एवमग्रेऽपि तदाह- यवेति । यवादीत्यर्थः। अवगमात् । आर्यम्लेच्छयोर्विकल्प इति । एतेनापि पूर्वसन्देहपक्षो नाहतः । शास्त्रस्थानामिति सूत्रे पाठः, तमेव शेषपूरणेन व्याचप्टे-य इति । प्रतिपत्तिविषय इत्यर्थः । शिष्टपदप्रवृत्तिनिमित्तशिष्टेः शासन- स्य शास्त्रज्ञानपूर्वकत्वमित्यर्थक शास्त्रपूर्विका हि शिष्टिरिति पृषोद- रादिसूत्र भाष्यो क्तत्वात्तदर्थमाह-शिष्टानामिति । ननु नायं नियमो लोके, अत्रैव व्यभिचारात , प्रियंगोरपि शब्दार्थत्वादत उक्ताधिक रणसिद्ध तात्पर्यमेवाह-वेदे इति । शेष इति । तत्र हेतुं व्याख्यातुमाह- तेषामिति । शब्देषु । वैदिकभिनेषु । हेतुमाह-ते शिष्टा हीति । धारणं च शब्दार्थनिर्णयद्वारा तदर्थानुष्ठातृत्वेन तत्स्वीकरणम् । तथाच तन्नि मित्तत्वादिति बहुव्रीहिर्बोध्यः । एतत्सत्रव्याख्यानमन्यदीयं खण्डय- ति । यत्रिवति । ( अयम्भावः-शास्त्रस्थानां नैयायिकादीनां यः सः श ब्दशक्यः । प्रियङ्गो प्रयोगस्तु तन्निमित्तत्वात् तन्निष्टसाधारणधर्मनि- मित्तकसारभ्यादिति सुत्रार्थ इति । ) शक्तः-यवशब्दः । द्वयोरपि । प्रियङ्गुदीर्घशूकयोरपि । तच्चेति । तदेव चेत्यर्थः । नन्वयमर्थः पूर्वप. क्षाभिमत, उतसिद्धान्त्यभिमत, उताभयसाधारणो मूलभूतवस्तुस्थि- , अपभ्रंशेषु शक्तिसदसत्वविचार: निरूपः, नाद्यः उदक्षरत्वेन तत्सूत्रतोऽलाभात् तदाह-तदेति ।एकत्र शक्तिरेकत्र सादृश्यात्प्रयोग इत्यर्थः । एकस्य प्रियङ्गोः । सारश्य स. म्बन्धमूलकलक्षणाया एव गौणीत्वादिति भावः। इतिरसङ्गतौ हेतु त्वबोधकः 'तुल्यार्थास्तु विकल्पेरन्' इति न्यायविरोधादिति भावः । विकल्पेति । प्रियङ्गृणां ग्रहणं दीर्घशूकानां वेत्येवं रूपेत्यर्थः । नन्वेवमस्तु द्वितीयपक्षस्तस्य तत्सूत्रार्थत्वसम्भवात् । तथाहि-शास्त्र. स्थानां नैयायिकादीनां यः स शब्दशक्यः। प्रियंगो प्रयोगस्तु तनिष्ठ- साधारणधर्मनिमित्तकसाहश्यादित्यत आह-किंचाते। (ननु गौणत्यमु. ख्यत्वकृतभेदे तुल्यप्रयोजनकत्वाद्विकल्पसङ्गतिरेवात आह । किश्चेति) यत्र देशे यदेत्यपि बोध्यम् । अथ तत्क्षणानन्तरं तत्रेति शेषः । एते । दीर्घशूकाः । इतीत्यस्य वेद इन्यत्रान्वयः अन्यथा तथोत्पा त्यनङ्गीकारे । अर्थादुभयासङ्गत्या तृतीयपक्षोऽपि निरस्तो वेदितव्य । नन्वस्तु तथासङ्गतिस्तथापि 'यत्रान्या' इति वाक्यशेषास. गतिः, तेनोभयलाभेन तस्येष्टार्थासाधकत्वात् , अधिकरणेन तु एकस्यैव लाभ इति विरोधश्चात आह । वाक्येति । यत्रान्या इत्या- दीत्यर्थः । उक्तयुक्तीति । शिष्टार्यप्रसिद्धिबलवस्वरूपयुक्तिमूलक इत्यर्थः । तां युक्ति हृदि निधाय तानव तत्र दर्शयतीति भावः । अन्य. था तद्विरोधादधिकरणासङ्गतिरेव स्यात् । कि लोकप्रयोगपरत. या सो ऽपि साधारण एवास्तु । एतेनोक्तवाक्यशेषादीर्घशूके श. क्तिरिति निर्णयः, कङ्गो तु शक्तिभ्रमात्प्रयोगः , नानाशक्तिकल्पने गौरवात्,हर्यादौ त्वविनिगमकान्नानाशक्तिकल्पनमिति नैयायिकोक्तः मपास्तम्, उक्तयुक्तेः। किञ्चार्यम्लेच्छाधिकरणमाये सर्वेषां शक्त्यङ्गी- कारे एव सङ्गतम् । अन्यथा म्लेच्छवोधस्य भ्रममूलकत्वेन भ्रान्ति विषयरजतज्ञानस्येव वस्त्वसाधकत्वेन कस्या वलवत्वमिति वि. चाराप्रवृत्तः। तदाह-दिगिति ॥ न्यायभाष्यकारोऽपि "आप्तोपदेशः शब्दः" (अ० १ आ० १ सू० ७) इति सूत्रे "अर्थसाक्षात्कारवा. नाप्तः, स यथादृष्टार्थवुबोधयिषया यं प्रयुते स प्रमा णशब्द इति ऋष्यार्यम्लेच्छानां समानमाप्तलक्ष- टीकाद्वयोपेतायां लघुमञ्जूषायां पाम"(१) इत्याह । तत्र ऋषिर्वेदः, म्लेच्छोऽपशब्दवक्ता। ततः सूत्रकृता "सामयिकः शब्दार्थप्रत्ययः" इति प्रमा- णत्वेन लक्षितशब्दमात्रजप्रत्ययस्य तुल्यमेव सामयि. कत्वमुक्तम् । सामयिकत्वं संकेत(समय)गृहीतसम्बन्ध. जन्यत्वमिति न ऋषीणां विरोधः । काव्ये च्युतसंस्कृ- तिदोषस्य दूषकताबीजं तु साधुपदसमुदायमध्येऽसाधुप. ददर्शनेन विप्रसभायां चाण्डालदर्शनेनेव सहृदयोद्वेग एवेति बोध्यम् । साधुत्वं तुनापभ्रंशानां शिष्टैर्धर्मवुद्ध्या तदप्रयोगा. त् । नचैवं ततो बोधानापत्तिरसाधुत्वनिश्चयस्य तत्प्र. तिबन्धकत्वादिति वाच्यं, तत्सत्त्वेऽपि ततो बोधदर्श- नेन तस्य तदप्रतिबन्धकत्वात् । साधुत्वं च व्याकरणव्य. योऽर्थविशिष्टशद्वनिष्ठः पुण्यजनकतावच्छेदको जा- तिविशेषः तदुक्तम्-“एकः पूर्वपरयोः" (अष्टा०सू०६- १-९४) इति सूत्रे भाष्ये-"एकः शब्दः सम्यक्ज्ञातः शा- स्नान्वितः सुप्रयुक्तः स्वर्ग लोके कामधुरभवति" इति । सम्यक् ज्ञातः सम्यक्त्वेन साधुत्वेन ज्ञातः , शास्त्रा. न्वितः शास्त्रव्युत्पादनमार्गेणानुसंहितः , सुप्रयुक्तः शिक्षोक्तरीत्या प्रयुक्तः । तस्य च शिष्टप्रयोगको शव्याकरणाद्यनुमापकम् ॥ (कुञ्जिकाटोका ) आप्तोपदेश इति । आप्तस्य भ्रमादिशून्यस्य य उपदेशः स शब्द इति तदर्थः । स इति । आप्तो यस्मिन्नर्थे यं शब्दं प्रयुङ्क्ते स तत्र प्रमा. (१)"आतः खलु साक्षात्कृतधर्मा, यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा । साक्षात्करणमर्थस्याऽऽप्तिः । तया वर्तत इनि । आतः" इनि सांप्रतमुपलभ्यमानन्यायभाष्यपुस्तके पाठः । उपरिनिर्दिष्टं तु सस्य तात्पर्यम् ।
साधुत्वशक्तत्वभेदविचारः ७७ णमित्यर्थः । यथेति । यथा येन प्रकारेण दृएं दर्शनं यस्य तादृशो यो ऽर्थ इत्यर्थः । समानमिति । तत्तदर्थवोधकतत्तच्छदायो. क्तृत्वादिति भावः । आर्यपदेन गतार्थतां निराकरोति । ऋषिर्वेद इति । प्रमाणत्वेनेति । प्रमाणत्वेन लक्षितो यः शब्दस्तस्माजातस्य प्रत्ययस्येत्यर्थः । एवं चापभ्रंशजस्यापि सामयिकत्वं तुल्यमिति भावः । ननु वेदार्थस्य समयप्रकाशितत्वं न सम्भवति वृद्धव्यवहारैः शक्तिग्रहे ऽपि वेदवाक्यस्य समुदायान्तरत्वादर्थेनाज्ञातसम्बन्धत्वा. तत्कल्पने सङ्केतापातासापेक्षत्वेनाप्रामाण्यापत्तिरत आह-समय. गृहीतेति । लोकवेदयोरर्थभेदाभावाद्वेदवाक्यस्यापि लौकिकन्यु. त्पत्तिमूलकत्वेन सङ्केतानपेक्षत्वादनपेक्षमेव प्रामाण्यम् ॥ ऋषीणा. मिति । वेदवाक्यानां सामयिकार्थबोधकत्वविरोधेनेत्वर्थः । ननु दीनं त्वामनुनाथते स्तनयुगं यन्नावृतं मा कृथा' इत्यत्रात्मनेपदासाधुत्वे ऽप्यदोषः । नोर्वहिरदोषादित्यत आ. ह-काव्ये इति । ननु दन्त्यमध्यास्वशब्दाद्वाजिबोधादर्शनेनासाधुत्वज्ञान प्रतिव. न्धकमत आह-तत्सत्वे ऽपीति । असाधुत्वनिश्वये सत्यपि भाषा शब्दादर्थबोधान्न प्रतिबन्धकत्वमिति भावः । अस्वशब्दस्य वाजिनि साधुत्वाभावादाह-अर्थविशिष्टेति । शिक्षोक्तरीत्येति । अम्बूक- तादिदोषराहित्यनेत्यर्थः । अस्य चेति । साधुत्वस्य चेत्यर्थः ॥ ( कलाटीका ) नव्यनैयायिकभ्रमं प्रकटायतुमपभ्रंशेषु शक्तौ साधकान्तरमप्या- ह-न्यायेति । वात्स्यायनोऽपीत्यर्थः । अत्रादौ पदार्थमाह-अर्थ. साक्षादिति । अर्थविषयकयर्थाथानुभववानिवर्थः । अथ सूत्रार्थमाह- स इति । यथादृष्टेति । यत्प्रकारकयथार्थानुभूतार्थकर्मकपरसम्ब. धिबोधानुकूलेच्छयेत्यर्थः । अनेनातादृशस्य तत्प्रयुक्तस्याप्यतत्त्वं सू. चितम्। उपदेश इति कर्मणि घनित्याह-यामिति । 'प्रत्यक्षानुमानोपमा. नशब्दा:प्रमाणानि'(अ.१सू.१) इति सूत्रस्योपकान्तत्वादाह-प्रमाणेति । तस्यैवात्र लक्ष्यत्वात् । अतएवोपक्रमोक्तैकवाक्यतेति भावः । इतीति। इतिसामान्या नेत्यर्थः। अन्यथा कस्य चिद्विशेषस्योपादानं कुर्यादिति भावः । ननु ऋषेरार्यत्वात्कथं भेदोक्तिरत आह-तत्रेति । त्रयाणां मध्ये इत्यर्थः । तदुक्तमृषिणेत्यादौ तथा दर्शनादिति भावः । ननु मु.
१८ टीकाद्वयोपेतायां लघुमञ्जूषाया । ख्यम्लेच्छग्रहणे न्यूनता, एवं प्रागुक्तानार्यग्रहणेऽप्यत आह-म्लेच्छ इति । अनेन रूपेण ऋष्याभिन्नः सर्वोऽत्र म्लेच्छः । अतएवोक्तानार्य: संग्रहोपीति नाधिकरणविरोधोऽपि । एवञ्च यदि भवदुक्तवैषम्यं साध्य साध्वोस्तादिष्टं स्यात्तर्हि तुल्याप्तत्वेन तुल्यप्रमाणशद्वत्वं कथमुक्तं त. स्मात्तत्र तस्य शक्तिरेवाभिमतेति भावः ! एवं भाष्यसम्मतिमुक्त्वा सूत्रसम्मतिमप्याह-तत इति । एवमपभ्रंशसाधारण्येन प्रमाणशब्द. लक्षणकथनादग्रे इत्यर्थः । इति । अनेन सूत्रेण । प्राग्वत् शब्देत्य. स्यार्थमाह-प्रमाणेति । मात्रशब्दः कान्ये । उक्तसूत्रण प्रमाणत्वेन लक्षिता यावन्तः शब्दास्तजन्यज्ञानस्येत्यर्थः । उक्तमिति । तेन हि ऋष्यार्यम्लेच्छशद्वानां समानमेव वाचकत्वमुक्तम् । अन्यथोक्तरीत्या तुल्यत्वोक्तिरसङ्गतैव स्यात् । नन्वेवमपि वैयाकरणनैयायिकऋषीणां मिथोविरोधापत्तिः,आयेन समयगृहीतसम्बन्धजन्यत्वमर्थाने उक्तम् , अन्त्येन तु साक्षात्स. मयजन्यत्वमुक्तमत आह-लामयाति । कत्वं चेति पाठः। मिथ इत्य- ग्रे शेषः । नन्वपभ्रंशे शक्त्यङ्गीकारे च्युतसंस्कृतित्वादेः काव्यदूषकत्वं न स्यात् , तद्वीजस्य शाब्दबोधासम्भवस्याभावादत आह-काव्य इति । दोषेति । तत्वरूपदोषे इत्यर्थः । (१)न तथा बाधते स्कन्धो यथा बाधति बाधते । इत्यादाविवेति भावः । पददर्शनेन-तच्छ्रवणेन । नन्वेवं तेषां साधुत्वस्याप्यापत्तिस्तुल्यत्वादत आह--साधुत्वं विति । शिष्यैरिति । इदं च तस्यानुमापकमित्यनुपदमेव स्फुटीभविष्य ति । साधुत्वज्ञानं तु शाब्दबोधे न कारणं तदभावेऽपि वोधा. त्तदभिप्रेत्याह-न चेति । एवम् । तेष्वसाधुत्वनिश्चये। ततः। अप. भ्रंशतः । कत्वादिति । अत एव साधुतो ऽप्यसाधुत्वनिश्चये बोधी न । तदिति । असाधुत्वनिश्चयसत्त्वे ऽपि संस्कृतमविदुषां प्राकृता. दितो बोधेन तनिश्चयस्य बोधाप्रतिबन्धकवादित्यर्थः । न च तत्र मानसो बोधः, अन्यत्रापि तथात्वापत्या शब्दप्रामाण्योच्छेदप्रसङ्गा. दिति भावः। ननु किमिदं साधुत्वं यदपभ्रंशेषु नास्ति । न च व्याकरणनिधा. द्यत्वं, वा नव्यनयायिकोक्तं तत् । अनुकरणे शब्दमात्रस्य व्याकरणनि- (२) 'न तथाऽऽन्दोलिकादण्डो' इति पाठः साधुः ।
साधुत्वशक्तत्वभेदविचारः पाद्यादित्वेन सर्वत्र साधुत्वापत्तौ साध्वसाधुविभागोच्छेदापत्तेः । न च यः शब्दो यत्रार्थे व्याकरणव्युत्पन्नः स तत्र साधुः, तद्व्युत्पन्नत्व ग्रहश्च क्वीचस्पष्टोपलभ्यमानध्याकरणात क्वचिच्छिष्टप्रयोगकोशा. दिभिरनुमानात तस्य च बाहुलकादिना सङ्ग्रहः । यथा पुष्पवन्तपदं साहित्यावच्छिन्नोभयविषयकार्थबोधे एव साधु, नैकतरार्थमात्रबोधे। यथा वा दारशब्दो बहुवचनान्त एव साधुर्नान्यवचनान्तो, यथा वा वचधातुः तिप्तस्परः साधु ान्तिपर इति वाच्यम् । लाक्षणिकानां तत्तदर्थे व्युत्पादनविरहेण तेषां तत्र साधुत्वानापत्तेः। एतेन शक्तत्व मेव साधुत्वमित्यप्यपास्तम् । तत्त्वाशानेऽपि साधुत्वव्यवहाराच्चाप: भ्रंशेवतिव्याप्तेश्चापरमतेसमासादौ प्रकृतिप्रत्ययसमुदाये च शक्त्यभावे. न तस्यासाधुतापत्तेश्च। प्रत्येकशक्तिमादाय साधुत्वे च 'बाधते'इत्या- दिव'बाधति' इत्यादेरपि साधुतापत्तश्च, द्योतकेन्वव्याप्तेश्च। न न्यौप- सन्दानिकीशक्तिरेव द्योतनेति चेन्न । उपसन्दीयत इत्युपसन्दानं स. मभिव्याहतपदं तद्वृत्तिशक्त्युद्वोधकत्वमिति तदर्थसत्त्वेन तेषु श- त्यभावात् । एतेन वृत्तिमत्वं तदित्यपि परास्तम् । न च जातिविशेषः तत् । कत्वादिनां साङ्कर्यापत्तेरत आह-सा. धुत्वं चेति । चस्त्वर्थे । तत्रादौ तज्ज्ञापकमाह-व्याकेति । एतस्य नि. त्यत्वादाह-व्यङ्गय इति । अन्येषामज्ञानाय अस्वाश्वशब्दादेः क्रमेण वाजिदरिद्रादौ साधुत्ववारणायाश्रयमाह-अर्थविशिष्टेति । तत्सिद्धो मानमाह-पुण्येति । अनेन तस्य पुण्यजनने एवोप. योग इति सूचितम् । एतेन तज्ज्ञाने शाब्दबोधहेतुतायास्त- दभावनिश्चये तत्प्रतिबन्धकताया वा प्रानिरासादीहशसा. धुत्वस्य कोपयोग इत्यपास्तम् । ननु तेन पुण्यजनने एव किं मानमत आह तदुक्तमिति । तस्य पुण्यजनकत्वं प्रागुक्तसत्वमित्यर्थः । भाष्ये इत्यस्य पठितया श्रुत्येति शेषः । तामेवाह-एक इति । तादृश एकोऽपि तत्र कामधुग् भवति किमु सर्वे इत्यर्थः । पौनरुक्त्यभ्रमनि रासायाऽऽह-सम्यगिति । अनेन मध्यमलाभः । शास्त्रत्यनेनाऽऽद्यला. भः । अन्विति । ज्ञात इत्यर्थः सुप्रेत्यनेन पुण्यापकर्षकाद्वैगुण्यनि- रासः सर्वत्यनेनान्त्यलाभः ।व्याकेति प्राचामनुरोधेनोक्तम् । वस्तु स्तदुपलक्षणं तत्रेत्याह-तस्यचेति । साधुत्वस्येत्यर्थः । तत्र मुख्य. वादादावाह-शिष्टेति । आदिना निरुक्तादिः । एतेनाभ्युदययोग्यावं टीकाद्वयोपेतायां लघुमञ्जूषायां व्याक्रियाजननीयत्वमिति लक्षणद्वयमिति प्राचीनोक्तमपास्तं । न्यून- तापत्तेश्च । लाक्षणिकेष्वपि शक्यार्थमादायैव पदस्य साधु. त्वं, पदान्तरसम्बन्धेऽन्वयाद्यनुपपत्या शक्यतावच्छे. दकारोपेणैव लक्ष्यार्थबोधात् । 'गोपी' इत्यादौ प्रक्रि. यादशायां 'गोप'इति प्रातिपदिकस्य गोपत्वारोपेण तत्स्त्रीबोधकत्वानुमानं "पुंयोगादाख्यायाम्" अष्टा० सू०४-१-४९) इति शास्त्रतः । लिङ्ग लिङ्गपरिज्ञाने सूत्रं प्रत्ययशासकम् । सोऽयमित्यभिसम्बन्धात्पुंशब्दे स्यभिधायिता ॥ इति हर्युक्तेः । अत एव 'यदिह परिनिष्ठितं तत् साधु' इत्यर्थापत्तिलभ्यवाक्यात्साधुत्वबोधकं व्याक- रणमिति भाष्यं सङ्गच्छत । तद्बोधकं च व्याकरणमद्य स्वे पाणिनीयमेवेत्यपि भाष्ये स्पष्टम् । एवञ्च पाणिनीय व्याकरणव्युत्पत्तिज्ञानपूर्वकं साधुत्वेन ज्ञातसाधु- शब्दप्रयोगाद्धर्म इति बोध्यम् । अत एव "समाना. यामर्थावगतौ शब्दैश्चापशब्दैश्च शास्त्रेण धर्मनियमः" इति भाष्ये उक्तम् । वाचकत्वाविशेषेऽपि नियमः पुण्यपापयोः । इति हरिणाप्युक्तम् ॥ (कुञ्जिकाटीका ।) ननु अश्वशब्दो वाजिनि साधुरित्येव साधुताया अर्थविशेष. नियन्त्रितत्वात्तीरादौ गंगादिपदस्य साधुत्वानापत्तिरत आह-ला- क्षणिकेवपीति । ननु कथं तीरबोध इत्यत आह-पदान्तर इति । तत्र तीरे प्रवाहत्वमेवारोप्यते, अन्यथा शब्दार्थसम्बन्धस्यानित्यत्वा- पत्तिरिति भावः। एव प्रवाहत्वप्रकारकप्रतीतिविशेष्यप्रसिद्धार्थ. त्वं मुख्यत्वं तादृशाप्रसिद्धार्थत्वं च गौणत्वं बोध्यम् । ननु गोपी.
अपभ्रंशे शक्तिग्रहस्य प्रमात्वम् । लननिमित्तस्य गोपशब्दस्य स्त्रियां वृत्त्यभावादारोपितगोपत्वषत्याश्च ङीषः प्रागुपस्थापकाभावात्कथं तदनुशासनमत आह-गोपीत्यादा. विति । या हि स्वयं गाः पालयति तत्र 'गोपा' इत्येव भवति । पाल- नक्रियारहितायां गोपभार्यायां तद्धर्मलाभात गोपशब्दः प्रयुज्यते । एतेन पुयोगे अजीति वदन्तः परास्ताः । तत्र जातेरेव निमित्तत्वेन तद्धर्मलाभस्य निमित्तत्वं नास्तीति पुयोगासम्भवात् । ननु पूर्व स्त्रीबोधाभावात्कथं ङोषः प्राप्तिरत आह-प्रक्रियति । तस्त्रियां गोपत्वारोपेण डीपो निमित्तं स्त्रीबोधकत्वं प्रक्रियादशायामानुमानि- कमित्यर्थः । ननु तीरादिपदवदन तात्पर्य ग्राहकाभावादाक्षेपेकि बीजमत आह-इति शास्त्रत इति । पुंयोगादिति शास्त्रास्त्रीत्वबोध इति यदुक्तं तत्र मानमाह-लि- मिति । प्रत्ययशासकं पुंयोगादिति सूत्रं स्त्रीलिङ्गशाने लिङ्गमनुमा- पकमित्यर्थः। अत्रेदं तत्व-गोपालनराहतायां गोप्यां गोपशब्दस्य वृत्तौ दम्पतिभावसम्बन्ध एव निमित्तम् । यथा हि 'गङ्गायां घोषः' इत्यत्र सामीप्यसम्बन्धात्तीरे वृत्तिः, 'मश्चाः क्रोशन्ति'इत्यत्र संयोग एव सम्बन्धः, 'आयुर्घतम्' इत्यत्र जनकत्वं, तथा 'देवकी' इत्यादी जन्यजनकभावसम्बन्धेनैव दुहितरि वृत्तिः । निरूढश्चार्य व्यवहार इति न सम्बन्धान्तरमादायातिप्रसङ्ग आपाद्यः । इत्थमेव जगदी. शीत्यादयः प्रयोगाः। एवञ्च देवदत्तादिशब्दानां स्वत एव स्त्रियां वृत्तिसम्भवेन पुंयोगाभावाट्टाबेव । जात्यन्तरीयायां शूद्रभार्यायां शू. द्रशब्दस्य प्रवृत्ता तु शूद्रसम्बन्ध एव निमित्तमिति । पुशन्दे पुवा. चके गोपशब्द प्रक्रियादशायां बोधकत्वमानुमानिकमेवेत्यत्र मान. माह-अत एवेति । अयम्भावः । यदि तिबादिविधावेव व्याकरणस्य तात्पर्य तदा साध्वनुशासनत्वभङ्गः, अतः साधुत्वविशिष्टास्तबाद यो विधीयन्ते । ननु लडादीनां प्रयोगाभावात्कथं साधुत्वविशिष्टस्य विधानमिति चेत? एवं तर्हि “वर्तमाने लट्भवति, तेन च यत् परिनि. ष्ठितं तत्साधु" इत्यर्थ इति । अथापत्तीति । अर्थस्य उपपादकस्य आपत्तिः कल्पना यथा 'पीनो देवदत्त' इत्यत्र पीनत्वान्यथानुपप. या रात्रिभोजनं कल्प्यते ॥
टीकाद्वयोपेतायां लघुमञ्जूषायां ( कलाटीका) नन्वेवं यः शब्दो यत्रार्थ शास्त्रेण व्युत्पादित इति प्रागुक्तमेव स. मायातमिति लाक्षणिकाव्याप्तिरवात आह-लाक्षणीति । शक्यसम्ब. न्धित्वेन गृहीतार्थबोधस्यैव लक्षणाजन्यत्वेन शक्यार्थवाधवानस्य लक्षणाजन्यबोधे कारणत्वेन च लक्षणास्थले प्रथमं शक्यार्थबोध स्याऽऽवश्यकतया तमर्थमादायैव साधुत्वोपपत्तिः । अत एव गङ्गया. व्यवहितसमीपोषविषये प्रयोगे 'गङ्गायां घोष' इत्यादौ गङ्गापदस्य तीरपरत्वे ऽपि स्त्रीप्रत्ययादिसङ्गतिः। पदस्य पदान्तरसम्बन्धे एव श्रोतृवोधो लाक्षणिकार्थप्रतिसन्धानेन प्रागुपस्थिततीरगाम्भीर्यरूपा. न्तरङ्गार्थमादायैव शास्त्रप्रवृत्त्या अन्तरंगत्वात् स्त्रीत्वादिप्रयुक्तका. र्यप्रवृत्ते गैगयाऽत्यन्तसमीपघोषविषये तु प्रयोगे 'गङ्गायां घोष' इत्या. दो सप्तम्या औपचारिकाधारे ऽपि साधुत्ववोधनं साधकतममिति तमणग्रहणेनेति भावः । तदाह-पदस्येति । पदान्तरेति च । आदिना तात्पर्यानुपपत्तिपरिग्रहः । मुख्यसिद्धान्तमतेनाह-शक्येति । इयमेव लक्षेणत्यग्रे स्फुटीभविष्यति । एतेन शिष्टप्रयोगादिभिस्तत्तदर्थेऽपि तेषां व्याकरणव्युत्पाद्यत्वानुमानेनादोष इति प्राचोक्तमपास्तम् । नन्वेवं कथं गोपीत्यादौ लक्षणा, तत्रोक्तबीजाभावात, कथञ्च तत्र लक्ष्यार्थे साधुत्वं चोक्तनियमत्याग इत्यत आह-गोपीत्यादाविति । शास्त्रबलात् सर्वत्र सर्वमिति भावः । लोके पदस्य लक्षणायां लि. जात्यागे ऽपि तस्य प्रायिकत्वं ध्वनयन्प्रातिपदिकलक्षणादौ यत्र शास्त्रं तात्पर्यग्राहकंतत्र स्वलिङ्गत्याग एवेत्याह-प्रक्रियेति । शास्त्रस्य तदनुमापकत्वे मानं तात्पर्यान्तरनिरासायाह-लिङ्ग- मिति । लिङ्गत्यत्राऽर्शआद्यच् । स्त्रीत्ववदर्थबोधने स्त्रीप्रत्ययविधायक पुंयोगादितिसूत्रमनुमापकमित्यर्थः । प्रत्ययेनि । स्त्रीप्रत्ययेत्यर्थः । लक्षणाबीजानां बहूनां तत्रोक्तत्वादाह-सो ऽयमिति। अनेन दांप- त्यरूप एव तत्र योग इति सूचितं। भाष्यस्वरसोऽप्यवेमेवेत्यन्यत्र स्पष्टम् । नेन्ववमपि पुण्यजनकतावच्छेदकं तत्तदर्थे तत्तच्छब्दस्य व्याकरणव्युत्पाद्यत्वरूपमेव साधुत्वमास्तां कृतं जातिविशेषाङ्गीकारण, इदमेवाभ्युदययोग्यतापदेनोच्यते अत आह-अत एवेति । तादृश- जातिविशेषाङ्गीकारादेवत्यर्थः । न हि व्याकरणव्युत्पाद्यत्वस्य सा. धुत्वे इदं सङ्गच्छेत । तस्य शास्त्रबोध्यत्वासम्भवादिति भावः ।
अपभ्रंशे शक्तिग्रहस्य प्रमात्वम् । वाक्यादित्यनेन सूत्रे तु कथमपि न तद्बोधकतावच्छेदकमित्यन्यत्र स्पष्टमिति सूचितम् । प्रसङ्गादाह-तद्वोधकं चेति । अधत्व इति निपात इदानीमित्यर्थे । फलितमाह-एवञ्चेति । तस्य पुण्यजनकत्वमत एव साध्वः नुशासनत्वान्यथानुपपत्या तथा वाक्यकल्पनत्व चेत्यर्थः । पूर्वकमिति ज्ञानक्रियाविशेषणम् । यद्यप्युक्तश्रुतौ ज्ञानप्रयोगयोरुपादानं भाग्ये ऽपि मतद्वयमुक्तं तथापि ज्ञानाद्धर्म इति मतं न युक्तमित्यन्यत्र स्प- ष्टम् । अत एव प्रयोगस्य तदव्यवहितपाठस्तस्य व्यवहितपाठस्त. दाह-शातसाधुशब्दप्रयोगादिति । अन्यथा शास्त्रेण साधुत्वबोधनस्य वैयर्थं स्पष्टमेवेति भावः । उक्तार्थे भाष्यसंमतिमप्याह-अत एवेति । अपभ्रंशेषु शक्तिमत्वादेवेत्यर्थः (उक्तमभिप्रेत्यैवेत्यर्थः) । अस्याग्रेऽप्य- न्वयः। शब्दैश्चेत्यादि पूर्वान्वयि । अन्यथासमानत्वोत्यसंगतिः स्प- ष्टैव । तद्भाष्यस्थहरिमायाह-वाचकत्वेति । शब्दापशब्दैरिति शेषः । एतेन विशेषेचेति भूषणादिधृतपाठः प्रत्युक्तः । भाष्यविरोधात् । अत एव 'साधूनेव प्रयुञ्जीतेति विधिर्नासाधू निति निषेधश्च सफल इति भावः॥ किञ्च अपभ्रंशे शक्त्यंशे कदाऽपि कस्यापि व्यव. हतुर्वाधादर्शनेन न तत्र शक्तिग्रहस्य भ्रमत्वम् । असति बाधके प्रमावस्यैव न्याय्यत्वात् । किञ्चैवमृषीणामा. षज्ञानेन ()तदभावनिश्चयात् तेषां भ्रमासम्भवेन ततो बोधानापत्तिः । किञ्च प्रमाणानां सम्बद्यार्थबोध. कत्वेन तेषामपि अर्थेन सम्बन्ध आवश्यकः । अत एव 'गौः' इत्यस्य शब्दस्यार्थे बहवो गावी, गोणी, गोता, गोपोतलिका, इत्यादयोऽपभ्रंशा वर्तन्ते' इत्यर्थक "गौरि- स्यस्य शब्दस्य गाव्यादयोऽपभ्रंशाः" इति भाष्पं सामः ञ्जस्येन सङ्गच्छते । अत एव धर्मार्थत्वं साधूनामुक्तं भाष्ये । एतेन "अर्थाय ह्येते उच्चन्त शब्दा, न धर्मा- (१) शक्त्यभावनिश्चयादित्यर्थः ।
टीकाद्वयोपेतायां लघुमञ्जूषार्या य" इति शबरस्वाम्युक्तमपास्तम् । जौमिनिसूत्रस्याप्ययमर्थः, अपभ्रंशा अपि साध- वः, तेऽपि हि साधयन्त्यर्थमिति पूर्वपले, अन्यायो(१). ऽनेकसाधुशब्दत्वमिति। केचिदेव साधवो न सर्वे इति मनसि निधाय तर्हि साधौ प्रयोक्तव्ये असाधूञ्चारणं कथमित्याशंक्य "शब्दे प्रयत्ननिष्पत्तेरपराधस्य भा- गित्वम्" (जै० सू०१-३--२५) इति सूत्रेण प्रयत्न. साध्ये कार्ये प्रमादस्य दर्शनान, यथा “शुष्के पति- ज्यामीति कर्दमे पतति, 'तथा साधौ प्रयोक्तव्ये ऽसाधोः प्रयोग" इत्युक्तम् (२) (कुञ्जिकाटीका) किञ्चेति । शुक्तौ रजतमिदं नेति वाधनिश्चयानन्तरं पूर्वज्ञानस्य भ्रमत्वं कल्प्यते । अपभ्रंशनिष्ठशक्त्यंशे तु कस्यापि बाधादर्शनान्न भ्र. मत्वसम्भव इत्यर्थः । तदभावनिश्चयादिति । ऋषीणां भ्रमाभावेन शक्त्यभावनिश्चयादित्यर्थः। प्रमाणानाम्-शायमानशब्दानाम् । ते. षामपि-अपभ्रंशानामपि । अत एव । अपभ्रंशानामप्यर्थलबन्धस- वादेव । धर्मार्थत्वमिति । न तु बोधकत्वमुक्तमित्यर्थः । अर्थाय ह्येते इति । एते शब्दा अर्थबोधाय उच्यन्ते इत्यर्थः । जैमिनिसूत्रस्यापी- ति । तत्र हि "प्रयोगोत्पत्त्यशास्त्रत्वाच्छव्देषु न व्यवस्था स्याद्" इति पूर्वपक्षसूत्रं । प्रयोगनियमस्य अशास्त्रत्वात् मूलभूतश्रुतिरहितत्वा. साधुषु प्रयोगनियमो न स्यादित्यर्थः । सिद्धान्तसूत्रमाह-अन्या. यो ऽनेकेति । शब्द इति । प्रयोक्तव्ये इति शेषः । प्रयत्ननिष्पत्तेर पराधः, प्रयत्नान्तरस्योत्पत्तिः प्रयोगे इत्युक्तम् ॥ . (१) 'अन्यायश्चानेक शब्दत्वम्' १।३।९ इति जैमिनिसूत्रानुपूर्वी बोळ्या । (२) "महता प्रयत्नेन शमुच्चारयन्ति-वायु भेरुत्थितः, कण्ठे विवर्तितः, मूर्धानमाह- त्य परावृत्तः, वक्त्रे विचरन् विविधान् शब्दानभिव्यनक्ति । तत्रापराध्यताऽप्युचारयिता । यथा शुष्के पतिष्यामीति कर्दमे पतति, सकृद् उपस्तक्ष्यामि इति द्विरुपस्पृशति । ततोऽपराधात प्रवृत्ता गान्यादयो भवेयुः, न नियोगत." । इति तत्र भाष्यम् ।
अपभ्रंशानां शक्तत्वसिद्धान्तः . ( कलाटीका ) समानायामित्यादिभाष्यादिप्रसङ्गासिंहावलोकनन्यायेन पुनरप्य. पभ्रंशेषु शक्तिमन्यथा साधयति । किञ्चेत्यादिना । कदापीत्यनन त्रै. कालिकबाधाभाव उक्तः । कस्यापात्यनेन सर्वदेशीयतदभाव उक्तः। दोषान्तरमाह-किश्चेति । एवं भ्रमात बोधोपपत्या तत्र शक्त्यनङ्गी कारे । ऑर्षति । दिव्यत्यर्थः । निश्चये हेतुरयम्। तदभावे शक्त्यभा. वे इत्यर्थः । तस्य तत्र प्रतिबन्धकत्वादाह-तेषामिति । ऋषीणामिः त्यर्थः । ततो ऽपभ्रंशेभ्यस्तेषामेवेति भावः दोषान्तरमाहा-किञ्च प्रमेति । पूर्वमाप्तत्वस्य शद्वप्रमाणत्वस्य च तुल्यत्वस्योक्तत्वादितिभा- वः । अत एवास्यात्रैव लेखो न प्राक् । बोधकत्वेन । अन्यत्र तथा. दृष्टत्वात् । तेषामपि-अपभ्रंशानामपि। अर्थनेत्यादि जातावकवच. नम् । पुनरपि तत्र तां द्रढयति-अत एवेति । अत्र शक्तिसम्बन्धसत्त्वा. देवेत्यर्थः । अन्यथा तयोमिथो ऽसम्बन्धात् तस्यार्थस्य शक्तिभ्रमा. द्धोधका इत्येव सम्बन्धकल्पने वाचकतया च सम्बन्धार्थषष्ठीघटिता. दिमद्भाध्यासङ्गतिरेवेति भावः । नन्वसाधोः साधुप्रकृतिकत्वेन त. संबन्धेनैव तत्सङ्गतिरत आह-अत पवेति । तेषां वाचकत्वादेवे. त्यर्थः। अन्यथाऽर्थबोधरूपदृष्टप्रयुक्तवैषम्यस्य संभवेनाऽदृष्टपर्यंतग- मनालङ्गतिः स्पष्टैव । यदर्थमिदं पुनरुक्तं तदाह-एतेनेति । उक्तभा- ध्यविरोधेनेत्यर्थः। एते साधवः । सन्वेवमपि तदशक्तिरिति प्रागुक्तजैमिनिसूत्रविरोध एवात आह- जैमिनीति । अयम् । वक्ष्यमाणः । नतु तद्भाष्यकृत्संमतः प्रागुक्तः। त. दर्थमेव तत्रादावुपक्रम(?)मर्थेऽत आह-अपीति । साधेति । बोधय. न्तीत्यर्थः । अर्थबोधकत्वमेव साधुत्वमिति तद्भावः । अत्र सिद्धान्त. सूत्रमाह-अन्येति । इति अनेन सूत्रेणोक्तमिति शेषः । तात्पर्यार्थमाह- केचिदिति । अनेके च ते साधुशब्दाश्च तेषां भावस्तत्वमिति सूत्रा. र्थ इति भावः । अस्यानुक्तत्वादाह-मनसीति । अन्यथा पूर्वोत्तरग्र. न्थासङ्गतिरेवेति भावः । तर्हि केषांचिदेव साधुत्वे तेषां मते श. ब्दस्य जन्यत्वमित्याह-शब्दे इति तद्विषये इत्यर्थः। हेतुलब्धमाह- प्रयत्नेति । भागित्वमित्यस्य दृश्यत्वमित्यर्थस्तदाह-दर्शनादिति । तथा च प्रमादादसाधूच्चारणमिति भावः ॥ ।
८६ टीकाद्वयोपेतायां लघुमञ्जूषायां किश्च एकस्यार्थस्थानेकसाधुशहूत्वमन्याययं त. स्मादेकोऽनादिरन्येऽपभ्रंशाः, हस्तः करः पाणिरित्या. दयोऽभियुक्तोपदेशात्सर्वे साधव इत्युक्त्वा तत्राभि- युक्तोपदिष्टः साधुरित्युक्तम् । तत्रेदमाशङ्कयेत गौरि. ति प्रयोक्तव्ये गाव्यादीनामिव गगर्यादीनामपि प्रमादात्मयोगः कुतो नेति चेत् ? तत्रेदं सूत्रं "तदशक्ति- श्वानुरूपत्वात्" (जै०सू०१-३-२८) इति । तेषा. मेवाशक्त्योचारणमनुरूपत्वात, अर्थतोऽवयवतश्चा- नुरूपत्वादिति तदर्थः । तत्रार्थतश्चानुरूप्याग्रहणे गो. पादिशब्दानामप्युच्चारणं प्रसज्येत । एकदेशानुरूप्या. च विभक्तिव्यत्ययेऽपि 'अश्मकैरागच्छामि' इति प्रयो- गाद् 'अश्मकेभ्य' इत्यर्थावगतिर्भवति। तत्र यद्ययं तदर्थे लौकिकः प्रयोगस्तदा न साधुः, वेदे तु साधुरित्यन्यत् । एवञ्च पतञ्जलिनैकवाक्यता भवति । (कुञ्जिकाटीका ) गगर्यादीनामपीति । गोशद्वापभ्रंशतयेत्यर्थः । गोपादिशब्दाना- मिति । गोशब्दापभ्रंशतयेत्यर्थः । वेदे तु साधुरिति । विभक्तिव्यत्य- यादिति भावः । पतञ्जलिनेति । “समानायामवगतौ शब्दैश्चापश- ब्देश्च' इति वार्तिकं व्याचक्षाणेनेत्यर्थः ।। ( कलाटीका ) पूर्वसूत्रस्य नोक्ताओं यः शंककेन मनसि निहितः, किन्त्वन्य एवे. त्याह-किश्चेति । अनेकेति बहुव्रीहिः । एकोर्थोऽन्यपदार्थ इति भावः । मनपभ्रष्टत्वमनादित्वं वा साधुत्वमित्याशयेनाह-अनादिरन्येऽपभ्रंशा इति । नन्वेवं पर्यायवाचकानामप्यसाधुत्वं स्यादत आह-हस्त इति । अभियुक्ताः । कोशकृतः । पर्यवसितमाह-तत्रेति । अर्थे इत्यर्थः । तेषां मध्ये इति वा । एवञ्चापभ्रंशानां वाचकत्वेन तदर्थबोधाय प्रयोगेऽपि प्रथमसिद्धान्ते इत्यर्थः। अस्याः शंकायास्तत्रासत्वादाह-आशयेतेति। ।
अपभ्रंशानां शक्तत्वसिद्धान्तः केनचिदितिशेषः । इदमर्थमाह-गौरिति । किञ्चिदवयवसादृश्यस्य तत्रापि सत्वादिति भावः । चेदित्यपपाठः। तत्रेदमिति । तच्छंकानि- वारणनिमित्तमित्यर्थः । न साधुत्वमिति भावः । एवमुपक्रममुक्त्वा सर्व वा प्रकृतमाह-तत्रेदमिति । तदमिति. तदनुक्ततत्सूत्र संगतिपूर्व तत्र शङ्कायामुत्तरभूतमिति भावः। अत एव तन्न्यायादिनाह तेषामेवेति ।गाव्यादीनामेवेत्यर्थः। लक्षणयाह-उखा. रणमिति । यद्यप्यर्थत इत्येव प्रकृतेष्टसिद्धिस्तथापि विनिगमनाविरहा. पहानियादाविवाह-अर्थत इति । पदजन्यप्रतीतिविशेष्यतेत्यर्थः । एवेति । शब्दविशिष्टार्थयोरेकदेशत इत्यर्थः । तदर्थः। सूत्रस्य शा. ब्दोऽर्थः । पूर्वमयमर्थ इत्यस्य तात्पर्यार्थ इत्यर्थः इत्यपौनरुत्यं बोध्यम् । तत्राद्यस्य फलमाह-तत्रेति । तयोर्मध्ये इत्यर्थः । अवय. वतस्तत्त्वस्य तत्र सत्त्वादिति भावः । आदिना गगर्यादिग्रहणम् । अपिना गाव्यादिसमुच्चयः । नन्वेवं तावदेवास्तु किमर्थ द्वितीयनिवे. शोऽत आह-एकेति । द्वितीयसाम्यं न सर्वावयवतः। तथाहि सति तत्त्वमेव, न सादृश्यामतिभावः । चस्त्वर्थे । अत्र विभक्त्यंशे एवाशक्त्याऽन्यथोच्चारणं तत्र यदि इदं नोच्यते तदा पदजन्यप्रतीतिविशेष्यस्यार्थपदेन ग्रहणात्तस्य चात्र भेदात् तदभावात् तथोच्चारणाभावात् तदपभ्रशाभावेन ततस्तदर्थावगतिर्न स्यात् । एतदुक्तौ पतद्भेदे ऽपि अवयवतः स्तत्सत्वात् मल्लनामादिवद् भूयसा व्यवहाराद्विशिष्टायैकदेशला. म्यसत्त्वाचास्यैव प्राबल्यमिति ततस्तत्सिद्धिः । अवयवैकदेशश. द्वाभ्यां चोभयोरप्येकदेशयोहणम अत एव सामान्येन तथोक्तम. न्यथा शब्दतश्चेत्येव यात्, एवंचातिव्याप्तिधारकं तत्, अव्याप्ति वा. रकमिदं । तथाचानयोः प्रत्येकं तद्धेतुत्वमसम्भवे तु समुदितयोर. तएव 'च' उक्त इति भावः । प्रयोगात्-अशक्तिजात् । अवगतीति पाठः स चार्थसमाप्तौ । विशेषमाह-तत्रेति । द्वितीयनिवेशे सतीत्यर्थः । न साधुरिति । समाने ऽर्थे शास्त्रान्वितो ऽशास्त्रान्वितस्य निवर्तक इति ऋलसूत्रभाष्योक्तेः । वेदे स्विति । तत्र सर्वेषां व्यत्ययसत्त्वात् । तत्सूत्रार्थवर्णनफलमाह-एवं चेति । तेनापि वाचकत्वस्य तत्र तस्या. साधुत्वस्य चाङ्गीकारे चेत्यर्थः । सम्भवत्येकवाक्यत्व इति न्यावात् ॥
टीकाद्वयोपेतायां लघुमञ्जूषायां नन्वपभ्रंशानां शक्तत्वेऽर्थवत्त्वादर्थवत्सूत्रेण प्राति. पदिकसंज्ञापत्तिरिति चेद्, इष्टापत्तेः । अत एव पस्प. शाया"मेवं हि श्रूयते-याणस्तर्वाणो नाम ऋषयो बभूवुः ते तत्रभवन्तो यद्वानस्तद्वान इति प्रयोक्तव्ये य- वर्गणस्तर्वाण इति प्रयुञ्जते, याज्ञे कर्मणि पुनर्नापभा. षन्ते" इति भाष्ये उक्तम् । यर्वाणस्तवाण इति णान्ता- जसि यषुणस्तर्वाणोनामेति प्रयुक्तम् । अत एव रुत्वो स्वादि, बभूवुरित्यनेन सामानाधिकरण्यञ्च । प्रकृति प्रत्यययोरुभयोरपि शास्त्रविषयत्वे एव साधुत्वं, न त्वन्यतरस्य । 'गगरी' इत्यादि च घट इति स्वन्तस्यै- वापभ्रंश इति न ततः सुः । गगरीमित्यादि प्रयुञ्जते चेति केचित् । परे तु "साध्वनुशासनेऽत्र शास्त्रे" इति भाष्यो. केः अर्थवत्वेन साधूनामेव संज्ञाविधाबुद्देश्यत्वमि ति नासाधुषु प्रातिपदिकसंज्ञा । यर्वाणस्तर्वाण इत्या- दौ सुबप्यसाधुरेव । अत एव "परश्च" ( अष्टा०सू० ३-१-२-) इति सूत्रे भाष्ये "किमस्य यसमित्या साधुर्वृत्तिजसादृश्येऽप्यवृत्तिजत्वात्" इत्युक्तम् । प्र. कृत्युद्देशेनैव प्रत्ययानां विधानात्केवलानामेषामसा- धुत्वं बोध्यते । तत्र वृत्तिजसदृशत्वात्कश्चित्साधुरि- ति भ्राम्येत इति प्रत्ययः परश्चेति नियमेनास्याप्य. साधुत्वमुक्तं भाष्ये । अर्थतः शब्दतश्च प्रत्ययजातीयः स पर एवेत्यर्थनास्थासाधुत्वं बोध्यते । एवञ्च शा. स्त्रविहितत्वाभावादमीष्वसाधुत्वमित्युक्तप्रायम् अस्वे अश्वशब्दस्यासाधुत्वमुक्तमन्यत्र । अत एव ।.
अपभ्रंशानां शक्तत्वेऽवान्तरविचारः । "प्रकृतिपर एव प्रत्ययः, प्रत्ययपरैव च प्रकृतिः" इ. ति नियमाकारो दर्शितो भाष्ये । साधूनामेव प्रत्य- यविधाबुद्देश्यत्वेन प्रकृतित्वम् । खण्डसाधुत्ववोधन- द्वारा समुदायसाधुत्वबोधकं व्याकरणमर्थवत्वबोध. नवत् । एवञ्च भाषानुसारेण क्रियमाणनामोत्तरं वि. भक्तिरप्यसाधुरित्याहुः। (कुञ्जिकाटीका) यर्वाण इति । तन्नामान इत्यर्थः । ननु गगरीशब्दादिभ्योऽपि सो. रुत्पत्त्यापत्तिरत आह-प्रकृतिप्रत्यययोरिति । शास्त्रविषयत्वे इति । शास्त्रीयोद्देश्यतावच्छेदकवत्त्वे इत्यर्थः। घट इतिपदस्यैवेति। तथा चार्थबोधकत्वसत्त्वेऽपि एकत्वविशिष्टार्थस्य प्रकृत्यैव क्रोडीकारान ततः सुरिति भावः । असाधुरेवेति । श्रुतौ तु असाध्वनुकरणस्यापि साधुत्वान्न दोष इति भावः । अर्थवत्वेनेति । साधव एवार्थवन्तः प्रातिपदिकसंज्ञाविषया इत्यर्थः। अत एवेति । यतोऽनुशिष्टप्रकृतेः प्रयुज्यमान एव प्रत्ययः साधुरत एवेत्यर्थः । वृत्तिजसादृश्येऽपीति । एवञ्च यद्यपि केवलानामेषां साधुत्वं न प्राप्तं तथापि न केवल: प्रत्यय इत्यस्य प्रत्ययजातीय इत्यर्थ इति भावः । नियमेनेति । याप्रातिपदिकादिति पञ्चमीनिर्देशादेव प्रत्ययानां परत्वे सिद्ध ऽयीत्यादिः । अस्व-दरिद्रे । तद्वोधकम् । साधुत्वबोधकम् । धर्म. नियमः । धर्मार्थो नियमः । 'असाधुरनुमानेन वाचकः कैश्चिदिष्यते' इति पूर्वार्धनापभ्रंशानामवाचकत्वमभिधाय हरिर्मतान्तरमाह-वा. चकत्वाविशेषे ऽपीति । अस्तु वा अपभ्रंशादप्यर्थावगमः, शास्त्रेण तु पुण्यपापनियमः क्रियते साधुभिरेवार्थों वक्तव्यो नासाधुभिरेवं हि क्रियमाणमभ्युदयकारि भवतीति ॥ ( कलाटीका) पतञ्जलिना । ऋलक्सूत्रस्थेन । वृत्यार्थबोधजनकत्वमर्थवत्वंत. सूत्रे निविष्टमित्याह-नन्वति । एकदेशिमतमाह--इष्टापत्तेरि- त्यादि कोचिदित्यन्तेन । अत एव-प्रतिपदिकत्वसत्वादेव । पस्प.
टीकाद्वयापेतायां लघुमञ्जूषायां शायामित्यस्य भाष्ये उक्तमित्यत्रान्वयः (१)। तदन्थमाह-एवं हीति। बभूवुरित्यग्रे प्रत्यक्षधर्माणः परावरज्ञाः । विदितवेदितव्या अधि- गतयाथातथ्या इति मध्येभाष्ये ऽस्ति, तथापि प्रकृतानुपयोगात्तस्य त्यागः । ते-ये उक्तलक्षणास्ते । अत एव तत्रभवन्तः पूज्याः प्रयुञ्जते प्रयुक्तवन्तो यतस्ते एतादृशास्ततो लौकिकेष्वर्थेष्वतिवैराग्येणाग्रहा. भावात्। यद्वाऽस्तु,नः किं प्रयोजन ? तद्वास्तु वः किं प्रयोजनम् ? इत्यर्थे तथा प्रयोक्तव्ये यथा तथा प्रयुक्तवन्तः इत्यर्थः । याशे कर्मणि तु साधूनेव प्रयुक्तवन्तस्तदाह-यज्ञे इति । पुनस्त्वर्थे । उभयत्र वर्तमा. नसामीप्ये इति भूते लट् । अत एवेत्यस्याथै सूचयन् तदाशयमाह- तत्रेति। प्रातिपदिकस्थले इत्यर्थः। योग्यतयाऽऽह-णान्तादिति। णका- रान्तादित्यर्थः । यतस्ते एवं प्रयुक्तवन्तोऽतस्ते यर्वाणस्तर्वाण इति तदपशब्दरूपवालककृतोपहासपरनामानः संपन्ना इति तदर्थः । इदं ढयति-अत एवेति । जसः सत्त्वांदवेत्यर्थः। नन्वेवं शास्त्रविषय- तया साधुत्वापत्तिरिति भाष्यासङ्गतिरेवात आह-प्रकृतीति । नन्वेवं रीत्या गगरीत्यादावपि सुवुत्पत्त्यापत्तिरत आह-गगरी- ति । असाधूनां साधुपदप्रकृतिकवादित्यर्थः । तथाच तेनैव तदर्थ- स्योक्तत्वात् न पुनः सुबिति भावः । नन्ववमपि तस्य प्रथमोपस्थित. त्वेनोक्तहेतोश्च तन्मात्रप्रकृतिकत्वेन कर्मत्वादेरनुक्तत्वादमादिः स्या. देवेति चेत् ? इष्टापत्तिरित्याह-गगरीति । आदिना तृतीयादिपरिग्रहः कोचिदिति सूचितामरुचिं प्रकटयन्सिद्धान्तमाह-परे वित्यादिना । संशति । प्रातिपदिकेत्यादिः । असाधुध्विति । सम्बन्धिनो ऽधिकरणत्वविवक्षया सप्तमी । नन्वेवं कथं तत्र न सात आह-याण इति । इदं दृढयति-अत एवेति । तस्याप्यसा- धुत्वादेवेत्यर्थः । किमस्येति । अस्य किंप्रमाणमित्यर्थे ऽयं प्रयोगः । शास्त्रस्य सत्वे किमित्यवृत्तित्वमत आह प्रकृतीति । तत्र प्रकृतेरभावादिति भावः । तत्र-उक्तप्रयोगे । अपिस्तस्यैव (१) भाष्ये पस्पशासंज्ञकाह्निके उक्तमित्यर्थः। स्पश्यते स्पृश्यते उपोद्धाततया तावदुप- गम्यते इति स्पशेः कर्मण्यङि बाहुलकाद्वित्वे रूपम् । इत्यधिकः पाठः पुस्तकान्तरे दृश्यते । वस्तुतस्तु व्याकरणारब्धव्यतादिप्रतिपक्षान् पशते वाधनोतीति कर्तर्यचि वाहुलकाद्वित्वे टापि- तपसिद्धिः अपभ्रंशानां शक्तत्वेऽवान्तरविचारः । ९१ समुच्चायकः । अनतिप्रसङ्गाय नियमस्वरूपमाह-अर्थत इति । एत. दनुक्तावस्धातोरपि पूर्वप्रयोगो न स्यादत इदमुक्तम् । द्वितीया. नुक्की कर्मशब्दस्यापि पूर्वप्रयोगो नस्यादतस्तदुक्तम् अत एव प्रत्य- यजातीय इत्युक्तं, न तु प्रत्यय इत्येव । ननु तद्भाध्यतो द्वयसचोऽसा. धुत्वलाभेऽपि नसुप इति कथं तत्तत्र साधकमतआह-एवञ्चेति । प्रकृत्यभावरूपयुक्तिसाम्यमाह-शास्त्रेति । गगरीमित्यादावप्येवं. बोध्यम् । एवं प्रत्ययांशेतत्वमुक्त्वा तस्यासाधुत्वे चेति अर्थविशेषान्तर्भावेणैव साधुत्वमवश्यं वाच्यमिति ध्वनयनर्थत इत्यावश्यकमिति सूचयन्नाह-अस्वे इति । अन्यथा तस्य तत्रासाधुत्वं न स्यात् शब्दतस्तत्लारूप्यस्य सत्त्वात्सदृशयोरभेदादिति भावः अन्यत्र कौस्तुभादौ । अत एवार्थविशिष्टशद्वनिष्ठ इति प्रागुक्तम्।उभयोः शास्त्रविषयत्व एव साधुत्वं नान्यतरस्येत्यत्र मानमाह-अत एवेति तस्य तत्रासाधुत्वादेवेत्यर्थः । आद्य षष्ठीतत्पुरुषः । अग्रे पूर्व निपातप्रक- रणानित्यत्वात् स आकारः न केवलेति न्यायभूतभूतः । ननु प्रक. तित्वं तत्रापीत्युक्तमयुक्तमत आह-साधूनामेवेति । उक्तभाष्यादिति भावः ननु वाक्यस्य पदस्य वा साधुत्वं व्याकरणबोध्यं, न तुप्रकृत्या. दीनामिति कथं साधूनामेवेत्यत आह-खण्डोते । प्रकृत्यादत्यिर्थः । निर्विवादत्वेन सर्वाभिमतदृष्टान्तमाह-अर्थेति । यथा तत्तदर्थवो. धनद्वारा समुदायार्थबोधनं तथेति भावः । पूर्वमतासाङ्गत्यमेवेत्याह- पवञ्चेति । तेषामेव प्रकृतित्वे चेत्यर्थः॥ ननु साधुत्वस्य जातित्वे कत्वादिना सङ्कर इति चेत् ? न, ययोजात्योः परस्परासामानाधिकरण्येनैव सिद्धिः परस्परमाश्रयभेदकता च लोकसिद्धा तयोः साङ्कर्यस्यैव दोषत्वात् । आश्रययोर्भेदभङ्ग एव हि साङ्कर्यदूषकताबीजम् । तादृशजात्योर्यत्र सार्यप्रसङ्गा- स्तत्रोभयलक्षण्यं स्वीकार्य, यथा नृसिंहे, अश्वतरे वा । ययोस्तु सामानाधिकरण्येनैव सिद्धिः तयोः सा- मानाधिकरण्यस्य व्याप्यव्यापकभावापन्नजात्योः साङ्क: - ९२ टीकाद्वयोपेतायां लघुमञ्जूषायां यस्येवादोषत्वात्। एवञ्च "साङ्कर्थमुपाध्योरपि दोषाय यदि तत्रापि आश्रयभेदभङ्गप्रसङ्ग' इति स्पष्टं श्रीहर्षकृतखण्डने, न तु साङ्कर्यस्य सर्वथा जात्यभावकल्पकत्वं मानाभा. वात् । एवञ्च भूतत्वमूर्तत्वे पृथिवीत्वशरीरत्वे च जा. तिरूपे एव । क्रियासमवायिकारणताद्यवच्छेदकतया मू. तत्वादेरिव भूतादिपदशक्यतावच्छेदकतया भूतत्वा- देरपि जातित्वात् । न हि कारणतावच्छेदकतयैव जा. तिसिद्धिर्न शक्यतावच्छेदकतयेति राजाज्ञास्तीति दिक्। (कुञ्जिकाटीका) सङ्कर इति । केवलसाधुत्वं साधुगकारे केवलकत्वमसाधुककारे साधुककारे उभयमित्यर्थः । ययोर्जात्योरिति । यथानरसिंहत्वाश्रयः नरत्वसिंहत्वयोरेकत्र समावेशान्नरसिंहत्वं भिन्नमित्यर्थः। भेदभङ्ग एवेति । नरत्वाश्रयो ऽन्यःसिंहत्वाश्रयश्चान्य इत्येवं भेदस्यासिद्धि. रेवेत्यर्थः ।अत एव गुणगतजातो साडूर्य न दोषायेति न समाहितम्। अश्वतरे इति । तत्राश्वत्वगर्दभत्वयोः सङ्करः । ययोस्त्विति । पृथि वीवद्रव्यत्वयोः समावेशस्यादृषणत्वादिति भावः । स्पन्दसमवायिकारणतावच्छेदकतया मूर्तत्वं जातिः, तत्लाङ्का भूनत्वं न जातिः, भूतत्वस्योपाधित्वात्तत्साङ्कर्य तु मूर्तत्वस्य जा- तित्वे न बाधकमिति तार्किकमतं निराकरोति-उपाध्योरपीति । इदं च प्राचीनखण्डनम् । दीधितिमते तु जन्यद्रव्यसमवायिकार: णतावच्छेदकतया पृथिव्यादिचतुष्टयवृत्तिरेव भूतत्वं जातिः । आ. काशे भूतपदव्यवहारस्तु बहिरिन्द्रियग्राह्यविशेषणगुणवत्त्वप्रयुको भाक्तः। मानाभावादिति । स्वसामानाधिकरण्य स्वाभावसमानाधि करण्योभयसम्बन्धेन जातिविशिष्टजातित्वावच्छेदेन स्वसमानाधिक रणाभावप्रतियोगितावच्छेदकत्वाभावनियमस्य भङ्गप्रसङ्ग इति तदुक्तिस्तु नियुक्तिकेति भावः । शरीरत्वे चेति । केवलपृथिवत्विं घटादौ, केवलशरीरत्वं वैजसादिशरीरे, अस्मदादिशरीरे चोभयमि.
टीकाद्वयोपेतायां लघुमपायां यस्येवादोषत्वात् । एवञ्च "सार्थमुपाध्योरपि दोषाय यदि तत्रापि आश्रयभेदभङ्गप्रसङ्ग' इति स्पष्टं श्रीहर्षकृतखण्डने, न तु सार्यस्य सर्वथा जात्यभावकल्पकत्वं मानाभा- वात् । एवञ्च भूतत्वमूर्तत्वे पृथिवीत्वशरीरत्वे च जा. तिरूपे एव । क्रियासमवायिकारणताद्यवच्छेदकतया मू. तत्वादेरिव भूतादिपदशक्यतावच्छेदकतया भूतत्वा- देरपि जातित्वात् । न हि कारणतावच्छेदकतयैव जा. तिसिद्धिर्न शक्यतावच्छेदकतयति राजाज्ञास्तीति दिक्। (कुञ्जिकाटीका) सङ्कर इति । केवलसाधुत्वं साधुगकारे केवलकत्वमसाधुककारे साधुककारे उभयमित्यर्थः । ययोर्जात्योरिति । यथानरसिंहत्वाश्रयः नरत्वसिंहत्वयोरेका समावेशान्नरसिंहत्वं भिन्नमित्यर्थः। भेदभङ्ग एवेति । नरत्वाश्रयो ऽन्यःसिंहत्वाश्रयश्चान्य इत्येवं भेदस्यासिद्धि. रेवेत्यर्थः ।अत एव गुणगतजातौ सार्य न दोषायेति न समाहितम्। अश्वतरे इति । तत्राश्वत्वगर्दभत्वयोः सङ्करः । ययोस्त्विति । पृथि. वीवद्रव्यत्वयोः समावेशस्यादृषणत्वादिति भावः । स्पन्दसमवायिकारणतावच्छेदकतया मूर्तत्वं जातिः, तत्साकर्या भूनत्वं न जातिः, भूतन्वस्योपाधित्वात्तत्साङ्कर्य तु मूर्तत्वस्य जा. तित्वे न बाधकमिति तार्किकमतं निराकरोति-उपाध्योरपीति । इदं च प्राचीनखण्डनम् । दीधितिमते तु जन्यद्रव्यसमवायिकार- णतावच्छेदकतया पृथिव्यादिचतुष्टयवृत्तिरेव भूतत्वं जातिः । आ. काशे भूतपदव्यवहारस्तु बहिरिन्द्रियग्राह्यविशेषणगुणवत्त्वप्रयुको भाक्तः। मानाभावादिति । स्वसामानाधिकरण्य स्वाभावसमानाधि करण्योभयसम्बन्धन जातिविशिष्टजातित्वावच्छेदेन स्वसमानाधिक रणाभावप्रतियोगितावच्छेदकत्वाभावनियमस्य भङ्गप्रसङ्ग इति तदुक्तिस्तु नियुक्तिकेति भावः । शरीरत्वे चेति । केवलपृथिवत्विं घटादौ, केवलशरीरत्वं वैजसादिशरीरे, अस्मदादिशरीरे चोभयमि.
टीकाद्वयोपेतायां लघुमञ्जूषायाँ न्यायमतखण्डने । तथा च सार्यस्य जातिबाधकत्वमप्येतदेव यत्तद्वैधर्म्यकृतभेदभङ्गप्रसञ्जकत्वरूपमिति फलितम् । तदाह-न विति। मानेति । उक्त एवाशयः । एवञ्चेति मानाभावेन तस्य स. र्वथा तदभावाकल्पकत्वे चेत्यर्थः। तस्यैव तीजत्वेन तत्सांकर्य- स्यैव दूषकत्वेन प्रागुक्तदृष्टान्तदाष्टान्तिकस्थले दोषाभाववत् परस्पर सामानाधिकरण्येनापि सिद्धिस्थले दोषाभावेन कत्वसाधुत्वादेरिव भूतत्वादेरपि जातित्वसंभवादिति भावः। आदिना कार्यतावच्छेद. कपरिग्रहः परस्वीकृतवैषम्यं परिहरति-न हीति । मीमांसकमते अ. प्यसति बाधक समनियतधर्मान्तराभावेच लाघवाच्छक्यतावच्छेद. कतयैव जातिसिद्धिस्सुवचा । किञ्च भौतिकसृष्टिकारणतावच्छेदक तया भूतत्वजातिसिद्धिः । एवं गन्धसमवायिकारणतावच्छेदकतया पृथिवीत्वजातिवद्भोगकारणतावच्छेदकतया शरीरत्वजातिसिद्धिस्त. दाह--दिगिति॥ देशभाषानुसारेण कृतानां 'कुश्ची' 'मची' 'अप्पि'- कोण्डा' इत्यादिनाम्नामसाधुत्वमेव । 'टि"घु' 'भ'आदि संज्ञानां तु शिष्टप्रयुक्तत्वात्साधुत्वमेव । सर्वशब्दा. नां सर्वार्थवाचकत्वेऽपि "वृद्धिरादैच्" ( अष्टा० स० १-१-१) इत्यादीनामज्ञातशक्तिज्ञापकसङ्केतरूपतया विधित्वमेव । यत्तु- व्यवहाराय नियमः संज्ञायाः संज्ञिनि कचित् । नित्य एव तु सम्बन्धो डिस्थादिषु, गवादि वृयादीनां च शास्त्रे ऽस्मिन् शत्त्यवच्छेदलक्षणः । अकृत्रिमो ऽभिसम्बन्धो विशेषणविशेष्यवत् ॥ इति । तत् तत्र सङ्केते कृते तत्तत्सङ्केतज्ञानरूपप्रकरणव- शात्तस्यैवोपस्थिति न्यस्थति फलितनियमपरम् । तदेतद्विशेषणविशेष्यवदित्यनेन सूचितम् । यथा 'नीलो घटः' इत्यनेन विद्यमाने एव घटे नीलसम्बन्धः ॥
अपभ्रंशानां शक्तत्वेऽवान्तरविचारः। ९५ पुरुषेण बोध्यते, न तु तेन नीलादियोगः क्रियते, नील एव न पीत इति नियमश्च फलति तदादित्यर्थात् । पाणि. न्युपदेशादिरूपसङ्केत ग्राह्यत्वात्तत्संज्ञात्वस्य संज्ञाना. मनित्यत्वव्यवहारोऽपि । वाचकताबोधकत्वे ऽपि तद. नुत्पादकत्वान्न शब्दार्थसम्बन्धनित्यताहानिः । तेष्वेव वृद्धिपदवाच्यत्वोपदेशे वक्त्रिच्छाया एव नियामक- त्वात् यदृच्छाशब्दत्वव्यवहारः, स्वेच्छया संज्ञाः क्रि. यन्त, इति च व्यवहारः । वेदमात्रप्रसिद्धशब्दभिन्न- त्वरूपलौकिकत्वादुक्तरीत्या साधुत्वाच्च तेषां शा. स्त्रविषयता । स्पष्टश्चेदं सर्व ऋलसूत्रे भाष्ये । किश्च सर्वेषां सर्वार्थवाचकत्वमस्माभिर्दुज्ञेयं विशिष्य सकला- र्थशब्दज्ञानाभावात् । सामान्यज्ञानं तुन बाधोपयोगि। योगिदृष्ट्या तु तथा व्यवहारः शास्त्रे । इत्यन्यत्र विस्तरः । देशभाषानुसारेण क्रियमाणनाम्नः सूक्तवा- कादौ सङ्कल्पादौ चोल्लेखस्तु बर्वराणां भ्रान्त्यैव । तस्माद् "घोषवदाद्यन्तरन्तस्थं यक्षरं चतुरक्षरं वा नाम कर्तव्यं कृतं कुर्यान्न तद्धितम्" इति गृह्यसूत्रोक्तना. नैव साधुना तदुचितम् । (कुञ्जिकाटीका) असाधुत्वमेवेति । शास्त्रव्यवहारमार्गेणैव नामकरणात् । ननु "सर्वे सर्वार्थवाचका" इति मते वृद्धिरादैजित्यादीनां नियामकतया विधित्वाभावादाधुनिकसंज्ञात्वासङ्गतिरत आह--सर्वार्थवाचकत्वे ऽपीति । अयम्भावः शब्दार्थसम्बन्धो योग्यतालक्षणो ऽभिप्रेतः। सर्वो हि शब्दः संज्ञात्वेन विनियुज्यमानो योग्यत्वात्सर्वत्रार्थे स. म्बद्धः। शक्त्यवच्छेदमात्रे तु संशाकर्तुर्व्यापारः शब्दार्थसम्बन्धस्य नित्यत्वात । एवञ्च शक्त्यवच्छेदानियमत्वमशातशक्तिप्रकाशक- त्वाच्च विधित्वमपीति । व्यवहारायेति । कचित्संशिनि संज्ञाया टीकाद्वयोपेतायां लघुमञ्जूषायां नियमो व्यवहारायेत्यर्थः । डित्थाद्यर्थे डित्थादिपदसम्बन्धो नित्य एव, गवादी गोशब्दादीनामिवेत्यर्थः । तदिति। नियमपरमित्यत्रान्वयः। वक्त्रिच्छाया इति । नन्वेवं शब्दार्थसम्बन्धस्यानित्यत्वापत्ति- रिति चेन्न । ववित्रच्छया शक्तिप्रकाशनमित्यर्थात् । ऐजादिपदे कुत्वाद्यापादनं सङ्गमयति वृद्धिगदैजित्यादिना। लोकप्रयुक्तत्वरूपलो. किकत्वाभावादाह-वेदमात्रेति । लौकिकत्वादिति । लौकिकप्रयोगे शास्त्रप्रवृत्तेरावश्यकत्वादिति भावः । सूक्तवाति । "अमुकशर्मा" "आयुराशास्ते" इत्यादिसूक्तवाकप्रयोगो यागेषु । सङ्कल्पश्च यद्यपि मानसो व्यापारस्तथापि शब्दप्रयोग एव तथैव विधानात् । अन्तर. तस्थमिति । अन्तः मध्ये अन्तस्था यरलवा यस्य ॥ (कलाटीका) यतु स्वेच्छयेति पक्षे टिघुभाद्याधुनिकसंज्ञावत अप्पिकोण्ड. त्यादीनामपि साध्वसाधुवहिर्भावः न चासाधुबहिर्भावः कथं ? तदर्थे ऽनादिप्रयुक्तत्वे सति शक्तिवैकल्यादिनान्यथोच्चारणविषयत्व स्यैवासाधुपदार्थत्वात् । किञ्च तदर्थे यस्य कस्थापि साधुत्वेन शास्त्रे ऽन्याख्याने हि सामान्यस्यासाधुत्वं बोधयेत्, न च तथा प्रकृते ऽस्ति । एवं यो यत्रार्थे ऽनादिप्रयुक्तः सन् व्याकरणबोध्यः स तत्रार्थे साधुरिति तत्वं बोध्यम् । अत एव सकलदेशशिष्टा यज्ञादिषु तत्तदा. धुनिकसाङ्केतिकनामग्रहणे प्रत्यवायं न मन्यन्ते । अन्यथा साधूनेव प्रयुञ्जीत नासाधूनित्यादिनिषेधसद्भावात्तदापत्तिर्दुर्वारेति प्राञ्चस्त- नेत्याह--देशेत्यादि। ननुक्तजातिविशेषस्याश्रयस्याडव्याकरणसंस्कृतत्वेनाप्यादाविव टिघुभादावाभाव इति तेषामप्यसाधुतापत्तिरत आह-टिघुभेति । धर्मवुयेति भावः । तथाच मुख्यमिदमेव तदनुमापकमिति तत्र व्याकरणपदमुपलक्षणम् । तेन व्याकरणसंस्कारकल्पनाद्यथाश्रुतमेव वेति तत्र तत्त्वमेवेति ततो वैलक्षण्येनात्र न प्रत्यवायो यज्ञादौ तत्र वस्त्येवेति भावः । यत्तु उक्तसाधुत्वमाधुनिकसंज्ञासु नाव्याप्तं सर्वे सर्वेति पक्षे व्यवहारायति नियमबोधनेन तासामध्यनादित्वेनादो- षादिति प्राञ्चस्तन्नेत्याह--सर्वेति । वाचकत्वस्य गृहीतस्यैव बोध- जनकतया तगहस्य व्यवहारतः सङ्केतेन वा जायमानत्वाद्विधित्व सम्भवे नियमासंभव इति भावः।
अपभ्रंशानां शक्तत्वेऽवान्तरविचारः। ९७ - नन्वेवं हरिविरोधो ऽत आह-यविति । अत्र केचित क्वचि. संज्ञिनि संज्ञानां नियमो व्यवहारयेत्यन्वयः । नियतव्यवहारा- येति तदर्थः । ननु विधिरेव किं न स्यादत आह-नित्यएवे. ति । डित्थादिष्वर्थेषु डित्थादिपदानां नित्य एव सम्बन्धो गवा. दिपदानां गवाद्यर्थेष्विवेत्यर्थः । सर्वेतिपक्षणेदम् । सामान्येनोक्त. मेवार्थ विशिष्याह-वृद्ध्यादीति । अस्मिन् व्याकरणे। वृद्ध्यादीनां श. ब्दानां शक्तिसङ्कोचलक्षणो नियमो व्यवहारयेत्यन्वयः। अवच्छेदः । सङ्कोचः । इष्टान्यार्थनिरासाय च नियमः । तत्र हेतुरकृत्रिम इति । यत इत्यादिः । कृत्रिमत्वमाधुनिकत्वम् । यथा गुणद्रव्ययोर्गुणे विशे. षणत्वं द्रव्ये विशेष्यत्वम् , अकृत्रिममनादिसिद्धमेव; न त्वाधुनिक, तद्वत्संज्ञासंझिसम्बन्धो कृत्रिम एवेत्यर्थ इत्याहुः । यत्सु इदं गोत्रसंशाविषयमिति तन्न । सङ्कोचे मानाभावात् । वृद्धादीनामिति विरोधाच्च । यद्यपि नियमः सङ्कतग्रह इत्यर्थ इति तदपि न, उक्तोत्तरत्वात् । तदेतत ध्वनयनन्यथा आह-तत्तत्रेति । तत् हर्युक्तं। तत्र सर्वत्र। तत्र तत्रेति यावत् । क्वचित्तथा पाठ एव। अत एवाह- तत्तदिति । ज्ञानेति ! उभयाकालासह कृतेत्यर्थः । तस्यैव । तस्य तस्यैव परमिति । नतु मच्छास्त्रे वृद्धिशब्देनादैच एव ग्राह्या इति शब्दनि- यमपरम् । तथा सति विनिगमनाविरहादादैचो वृद्धिशब्देनैव प्रा. ह्या इति नियमस्याप्यापत्तावाकारादीनां स्वशब्दादिभिर्व्यवहारा. नापत्तेश्च । तदस्मिन् वृद्धायेत्यादावनिष्टोत्पत्तेश्च ।अत्र पक्षे इत्यमर्थः । नियमः शक्तिबोधनं । शक्तिस्तु नित्येत्याह--नित्य इति । एवञ्च वृ- द्धिशब्दस्याप्यनेकेश्वर्थेषु शक्तिरस्त्येव तद्वोधनफलकं शास्त्रं अ. ज्ञातशक्तिवोधकत्वात् । अपत्यं पौत्रेति सूत्रस्थकैयटोक्तनियमानु: पपत्तेस्तदाह-वृद्ध्यादीनां चेति । अवच्छेदो निश्चयः । शब्दार्थ- स्यानवच्छेदे इत्यादौ तस्य तदर्थकत्वस्य दर्शनादिति, तदेत. दुधृदिनिधायाह-तदेतदिति । विद्यमानत्वं संबन्धविशेषणम् । अत एवाह--नस्विति । तेन-उक्तवाक्येन। वाक्वान्तराश. येनाह--नीलादीति । सामर्थ्यादाह--नील पवेति । एवश्वेदमेव ह- रिसंमतं, न तत् । परिसंख्यायां चात्र शास्त्रे प्रायेण नियमव्यवहारः । अत्र मते तदस्मिन्नित्यादौ न दोषः । तादृशज्ञानसत्त्वे ऽप्युभयाका. साया अभावात् । तत्र साहचर्येण लौकिकार्थावगतेरिति बोध्यम् ।
९८ टीकाद्वयापेतायां लघुमञ्जूषायां - नन्वेवं न हि संज्ञा नित्येति तद्धितार्थोत्तरेति सूत्रभाष्यविरोधा. पत्तिरत आह-पाणिन्युपेति । आदिना वार्तिककारीयादिपरिग्रहः । संज्ञाभूतत्तत्पदवाच्यत्वज्ञानस्यैतच्छास्त्रज्ञानात्मागभावेनानित्यत्वमि- ति तद्भावः । अन्यथा वैयाकरणानां शब्दस्य नित्यतया संज्ञायाश्च शब्दस्वरूपतया यथाश्रुतभाष्यासङ्गतिः स्पष्टैव । घटादौ घटादि- पदवाच्यत्वज्ञानं तु प्रवाहनित्यम् , इदं तु नेति विशेषः । नन्वेवं 'सिद्ध शब्दार्थसम्बन्धे' इति वार्तिकादिविरोधो ऽत आह-वाचकतेति । नन्वेवं ऋलक्सूत्रभाष्यादौ यदृच्छाशब्दत्वव्यवहारासङ्गतिरत आह- तेष्वेवेति । आदेश्वेवेत्यर्थः । एवेनान्यव्यवच्छेदः । इदमुपलक्षणं वृद्धिपदेनाऽऽदैच्वाचकत्वस्यापि । हरिव्यवहारो ऽप्येतावतैवेत्याह- स्वेच्छयेति । नन्वेवमप्यलौकिकत्वात्कथं शास्त्रविषयताउत आह- वेदेति । कर्णेभिर्देवास इत्यादावित्यर्थः । इदं चान्यत्रावश्यकम् । एतेन तत्सम्बन्धस्यानादित्वेन तासामपि लौकिकत्वमित्यपास्तम् । नन्वेवमप्यसाधुत्वात्कथं सा अन्यथा 'साध्वनुशासने' इति भाष्यविरोधापत्तेरत आह-उक्तेति । शिष्टाप्रयुक्तत्वेनेत्यर्थः । उक्ते ऽर्थे भाष्यसंमतिमप्याह । स्पष्टश्चेदमिति । सर्व टिध्वादीनां तत्त्वेन तत्त्वा. त्तत्व। कूच्यादीनामसाधुत्वमशास्त्रविषयत्वं च । तेषां यदृच्छाशब्द. स्वेन व्यवहरणं च। तद्भाध्यम नुपदमेव स्फुटीभविष्यति । इदश्चा- भ्युपेत्योक्तम् । वस्तुतस्तदेव नेत्याह-किचाते। ननु तथाज्ञानाभावे ऽपि सामान्यज्ञानमस्त्येवात आह-सामान्यति । अतिप्रसक्तत्वादि. ति भावः । ननु तर्हि किं स व्यवहार एव न, अत आह-योगीति । शास्त्रे ऽत्र पातञ्जले च। एतदुपपत्तियोतादावित्याह-इत्यन्यत्रेति । प्रसङ्गादाह-देशेति । एवञ्चेत्यादिः । वाचकत्वस्य सत्त्वेन साधुत्व- भ्रान्त्यैवेत्यर्थः। तर्हि कथं कार्यमत उपसंहरन्नाह-तस्मादिति । तेषामसाधुत्वादित्यर्थः। घोषवदादिर्यस्य तत् । घोषशब्दो धर्मपरः । अन्तः-मध्ये ऽन्तःस्थाःयण यस्य । अन्तःस्थाशब्द आकारान्तः। कृतं, तदन्तमेव । अत एवाह-नेति । तद्धितम् । तदन्तम् ॥ किश्च अग्न्यादिनक्षत्रदेवता उक्का नक्षत्रदेवता एता एताभिर्यज्ञकर्मणि । यजमानस्य शास्त्रज्ञैर्नाम नक्षत्रजं स्मृतम् ॥ इति वेदाङ्गज्यौतिषोक्तं नक्षत्रनाम च तदुपयोगि - अपभ्रंशानां शक्तत्वेऽवान्तरविचारः । ९९ 'नामकरणे नाक्षत्रनाम नक्षत्रपादाक्षरादि कार्यम्' इति वृद्धाः । गृह्यपरिशिष्टे च कचित्तथैवोक्तम् । एत- देव जातकर्मप्रकरणे "नक्षत्रनाम च निर्दिशति, तद्र- हस्यं भवति" इत्यापस्तम्बेनोक्तम् । “तदेव चाभि. वादनीयं च समीक्षेत, तन्मातापितरौ विद्यातामो- पनयनात्" इत्याश्वलायननोक्तम् । एवमेव नामक- रणे वृद्धशिष्टानामाचारश्च । अत एव ज्योतिषे यज्ञक- मणीत्युक्तम् । तत्तन्नक्षत्रवाचकेभ्यो जातार्थप्रत्यये निष्पन्नं न. क्षत्रनामेति केचित् । तत्र "पुत्रस्य नाम गृह्णाति गहिणाय तिष्याय" इति बौधायनासूत्रं मूलम् । यत्तु "असावसावित्यादिश्ये नामनी" इत्याश्वलायनेनो. क्तं, तत्तु सन्दिग्धम् । यद्यपि देवत्रातेन 'आनुराधो देवदत्तः' इति प्रयोक्तव्यमित्युक्तं, तत्र सूत्राक्षरानुग्र. हश्चिन्त्यः । शाङ्खायनादयश्च ज्योतिषोक्तमेवाद्रियन्ते । इदानीमाश्वलायना देवत्रातोत्तत्या- निर्दिशेयजमानस्य नाम मांव्यवहारिकम् । नाक्षत्रं च यथा कृष्णशर्मा रौहिण इत्यपि ॥ इत्याश्वलायनीतकारिकोत्तया च तथैवाचरन्ति इति नामकरणेऽपि तदेव नाक्षत्रं नामेति च वदन्ति । परेतु बौधायनादिवाक्ये रौहिणादिपदं तत्तन्नक्ष. प्रजातत्वेन तत्तद्देवतानामोपलक्षणम् । एवं हि ज्यो. तिषेण तेषामेकमूलकल्पनाल्लाघवं भवति, विकल्पस्या. नौचित्याच्च, सज्ञापर्यायनामशब्देन पाचकादि- शब्दवत् केवलयौगिकश्रावणादिशब्दानां ग्रहीतुम नौचित्याच्च । अभिवादनं प्रयोजनमस्येत्यर्थकाभि. चादनीयशब्देन तस्य वक्तुमशक्यत्वाच्च, तस्य सा.
टीकाद्वयोपेतायां लघुमञ्जूषायां धारणत्वादित्याहुः। (कुञ्जिकाटोका) अग्न्यादीति । अग्न्यादयो नक्षत्राणां देवताः। एताभिरिति । अग्निदत्तेत्यादिवत् । ज्योतिषाक्तामति । आश्विन्यादिचरणाक्षरेण कृ. तं चूडामणिरित्यादिकं च नाम यज्ञकर्मोपयोगीत्यर्थः । तथवोक्त- मिति । नाक्षत्रं नाम इदमेवोक्तामत्यर्थः । प्रकरणे इति । उक्तमित्य त्रान्वयः । नाम चेति । चकारेण नामान्तरसमुच्चयः । निर्दिशति । लिखति । रहस्यमिति । अप्रकाश्यत्वात् । तदेव चेति । आश्वला. यनेनाभिवादनीयं चेत्यादिना तदेवोक्तमित्यन्वयः । व्यावहारकं नाम कृत्वा अभिवादनीयमभिवादनप्रयोजनं नाम उपांशु कर्त्तव्यं तच्च मौञ्जीवन्धनान्तं मातापितरावेव जानीयातामुपनयनकाले चानेन नानाऽभिवादयति कुमारं प्रति वाच्यम् । नाम गृह्णातीति श्रोते कर्मणि अयं यजमानो ऽमुकशर्मणे पुत्रायाऽऽयुराशास्ते इत्यादिप्रयोगात्। स च दर्शपूर्णमासयोर्वेदिमध्ये यजमान उपविश्य पुत्राणां नाम गृह्णाति अमुकशर्मा सन्तनोतु इत्यादि प्रयुज्यते । यत्त्वसाविति । अयं यजमा. न इत्यस्यानन्तरं नामद्वयमुच्चार्य आयुराशास्ते इति होता बयादि. त्यर्थः । असावसाविति । इदं नामद्वयप्रदर्शनम् । संदिग्धमिति । कीदृशं नामद्वयमित्यनिश्चयात् । देवत्रातेनेति । असौ देवदत्तः, असौ आनुराध इत्येवं नामद्वयं प्रयोक्तव्यमित्याश्वलायनवाक्यार्थ इति भावः। सूत्राक्षरेति । तत्सूत्रबलात्तादृशनामद्वयस्थालाभात् । आश्वलायना इति । देवत्रातोक्तकारिकोक्त्या चाचरन्तीत्यत्रान्वयः। सांव्यवहारि- कम् । व्यवहारार्थसङ्केतितम् । अत्रायमाचारः स्वकुलदेवतानुसारे- णामुकभक्त इति कांस्यपात्रे नाम लिखित्वा मासनाम कुर्यात् । तच्च । (१)कृष्णो ऽनन्तोऽच्युतश्चैव वैकुण्ठोऽथ जनार्दनः । उपेन्द्रो यज्ञपुरुषो वासुदेवस्तथा हरिरिति ॥ अत्र चैत्रादिर्मार्गशीर्षादिर्वा क्रमः । ततो नक्षत्रनाम ततो यक्षरं चतुरक्षरं चत्यादिशर्माद्यन्तं व्यावहारिकं नाम लेख्यमिति ॥ कलाटीका ) पक्षान्तरं सूचयन्नाह-किश्चेति । कृत्तिकादिक्रमेणेति भावः । अत्र एता वै इति एतासामिति वा वाच्ये एताभिरित्युक्त्या नाम्न. (१) अत्राच्युतानन्तरं वैकुण्ठात्माक्चक्रधरः। अन्ते च योगीशः, पुण्डरीकाक्षः, इति मार्गा- दिक्रमेण द्वादश नामानि ।
अपभ्रंशानां शक्तत्वेऽवान्तरविचारः । १०१ स्तदघटितत्वं सूचितम् । तत्वञ्च तत्प्रतिपादकशब्दघाटितत्वम् । अत एव "कुलदेवतानक्षत्रसम्बद्धं पिता नाम कुर्या" दिति शङ्खो- क्तिः । अन्यथा “मासनाम गुरोनाम दद्याद्वालस्य वैपिता" इति गार्य वत् ब्रूयात् । तथाच तद् 'अग्निभक्त शर्मेत्यादि' 'अग्निदत्तशमी' इत्या. दि वा बोध्यम् । या एता नक्षत्रदेवता उक्तास्ताभिरताभियनाम त. धजमानस्य यज्ञकर्माण नक्षत्र नक्षत्रात् नत्र तदुत्पत्तेजतिं शास्त्रज्ञैः स्मृ. तमित्यर्थः । यज्ञत्युक्त्या ऋत्विकर्तृकयजमाननामोल्लेखविषयताऽस्य सुचिता । यज्ञेत्यनेनान्यनिरासः । नक्षत्रमित्यननान्यस्य तत्त्वनिरा. सः । नक्षत्रसम्बन्धीदमेव नामेति भावः । तान्यत्र कथमत एत. प्रसङ्गादाह-नामकरणे इति । नाक्षत्रं नक्षत्रसम्बन्धि । अत्र मान सूचयन्नाह-गृह्येति । आश्वलायनेत्यादि । एवं प्रागपि शिष्टेति । एकवाक्यतार्थमाह-एतदेवेति । नक्षत्रपादाक्षरादावित्यर्थः । जातेति । "जातं वात्सप्रेणाभिमृश्योत्तरेण यजुषोपस्थ आधायो- त्तराभ्यामभिमन्त्रणं मूद्धन्यवघ्राणं दक्षिण कणे जाप" इत्यग्रे इत्य. थः । वात्समो दिवस्परीत्यनुवाकः। उत्तरेण तस्मिन्नहामति यजुः षा । "उत्तराभ्यामङ्गादङ्गादश्मा भवेति द्वाभ्याम्" । अनयोरेवाने उभयत्र सम्बन्धः । जापो जपः। उक्तमन्त्रान्तोक्ताऽसावित्यव्यवहितं नक्षत्रनाम्ना जपः। सम्बुध्यति सूचयितुम् । अव्यवहितोक्तत्वसाधा- जातकर्माव्यवहितकालिकनामकीह-नक्षत्रेति । चेनाग्रिमव्या- वहारिकसमुच्चयः । निर्दिशतीति । वर्तमानसामीप्ये इति लट् । निर्देशो व्यवहितोच्चारणम् । नन्वतस्यैवात्र निर्देशः कुतो ऽत आह-तदिति । नक्षत्रनामे. त्यर्थः । रहस्यम् । सर्वाज्ञेयम् । तथाच भाविसंज्ञयात्र निर्देशः । एतेन तस्याकृतत्वात्कथमत्र निर्देश इत्यपास्तम् । अनेन वक्ष्यमा. णकालवदयमपि नाम कर्मकाल इत्युक्तं भवति । अत एवाश्वलाय. नेन कालान्तरं नोक्तम् । जातकर्मप्रकरणे एव तत्प्रयोगसमात्त्यु. त्तरं 'नाम चास्मै दद्यु' रित्यायुक्तं च । तच्च 'जातकर्मानन्तरमेव वा नाम चास्मै दा' रिति गृह्यस्थचकारस्वरसेन जातकर्मस- मानकालिकतालाभादिति भट्ठोजिदीक्षितैाख्यातं च । वृत्ति कारो नारायणो ऽप्यवम् । प्राग्वदाह-तदेव चेति । तदेकवाक्य. तापनमुक्तमेव चेत्यर्थः । अभीति । “आहूतादिः सन् येन नाम्ना १.०२ टीकाद्वयोपेतायां लघुमञ्जूषायां ऽभिवादयते तत्तदभिवादनीयमसांव्यवहारिकं । तच्च समीक्षेत कु. र्यात् । चेन पूर्वोक्तसांव्यवहारिकसमुच्चयः । तदभिवादनीयं माता- पितरावेव विद्यातां आ उपनयनात् । तदारभ्य उपनातस्य त्वाच. क्षाते अनेन नाम्नाभिवादयस्व"इति भाष्यकृवृत्तिकारौ । आचारसं. वादमप्यत्राह-एवमेवेति । आचारः। आचारो ऽपि । लेखश्चेति पाठे स लेखो ऽपि । तण्डलोपरि लेखो ऽपीत्यर्थः। अत एव ना मकरणे सर्वसम्मततया तस्यैव सत्त्वेनान्यस्याप्राप्तेरेव । मन्तातर. माह-तत्तदिति । प्रत्यये सति लुप्ते वा । दर्शपूर्णमासेष्टिप्रकरणस्थं तमाह-यत्वसाविति ! अयं यजमानो सावित्यत्रासावसाविति यजमाननामनी सांव्यवहारिकनाक्षत्रे च प्रथमान्तनादिश्यायुराशा- स्ते इत्यादि होता ब्रूयादित्यर्थः । देवेति । तद्भाष्यकृतेत्यर्थः । तत्रा. न्याचारविरोधो ऽपि दोष इत्याह-शावेति । अत एव चः तत्रैवेति भावः । एवेनोभयव्यवच्छेदः । तत्रैवाचारभेदमाह-इदानीमिति । चरन्ति तत्रैवेति भावः । एवञ्च मतभेदस्तत्र सिद्धः । अतो नामकरणे ऽपि मतभेदमाह-नामकरणे ऽपीति । चो व्युत्क्रमे । वदन्तिच नत्वा. चरन्ति । एवञ्च न पूर्वविरोधः। इमं विरोधं परिहरन्सिद्धान्तमाह-परेविति।आदिनोक्तकारिका देवत्रातपरिग्रहः। देवनानामेति । तद्घटितनामेत्यर्थः । तेषाम् । बौधायनादीनाम् । ननु बाह्यादिवद्विकल्प एवास्त्वत आह-विक ल्पेति । अष्टदोषदुष्टत्वादिति भावः । ननु तथापि अन्यत्रवात्रापि स एवास्त्वत आह-संक्षेति । तेषु वाक्येष्वित्यर्थः । ननु नेदं सर्व ना. मकर्मप्रकरणस्थमिति असति बाधके नामशब्दो वाचकसुबन्तपर एवास्तु, किञ्च वृवादः संज्ञात्वस्य पाणिनेतकादेस्संशात्वस्य भग- धत इष्टत्वेन 'कृतं कुर्यात्' इत्यादि तत्सूत्रे उक्तत्वेन च तेन तहणे बाधकामावादन आह-अभीति । गहादित्वाच्छः 'प्रागुक्ताश्वलायनीये इत्यर्थः । अत्र हेतुमाह-तस्यति । श्रावणादरित्यर्थः । अभिवादनकार्ये एव तस्य श्रावणत्वं नान्यकार्य इत्यस्याभावादित्यर्थः। एवञ्च तत्र तथा सुवचत्वे ऽपि नामकरणे तथा दुर्वचमिति तेषां तथाचारस्त. त्रायुक्त एवेति भावः॥ अत्र तत्त्वं महान्तो विदांकुर्वन्तु । यत्तु कूचीत्यादीनां साध्वसाधुबर्हिर्भूतत्वं शास्त्रविष.
.. -- काशीसंस्कृतसीरीज-पुस्तकमाला । इयं काशी-संस्कृतग्रन्थमाला विभागशः प्रकाशिता भवति । एतस्यां प्राचीनाः नवीनाभ दुर्लभाः मुलभाश्च अत्युपयुक्ताः संस्कृतग्रन्थाः काशिकराजकीयसंस्कृतपाठशालीगः पण्डितैरन्यैरपि विद्वद्भिः संशोधिताः क्रमेण संभुद्रिता भवन्ति । अस्यां प्रका- श्यमाणानां ग्रन्थानां मूल्यं सूचीपत्रे प्रकाशितं वर्तते । परंतु एतस्या नियमनाऽविच्छिन्नतया निश्चितग्राहकमहाशयानां प्रतिमुद्रा- शतकं पञ्चविंशतिमुद्राः ( कमिशन ) परावर्तिता भवेयुः मार्गव्ययश्च न पृथक दातव्यो भवेत् । नत्र मुद्रित ग्रन्थनामानि मूल्यम् । १ नलपाकः नलविरचितः। संपूर्णः ( पाकशास्त्रम् १) २ संक्षेपशारीरकम् । गमतीर्थस्वामिकृतान्वयार्थबोधिनीटीका- सहितम्। (वेदान्तं १) रु०८-० ३ वैशेषिकदर्शनम् । पं० श्रीदुण्डिराजशास्त्रिकृतविवरणोपेताभ्यां प्रशस्तपादभाष्योपस्काराभ्यांसमन्वितम् (वैशेषिक१)रु०२-८ ४ श्रीसूक्तम् । विद्यारण्यपृथ्वीधरश्रीकण्ठाचार्यकृतभाष्यत्रयेण टिप्पण्या च समलङ्कृतम् । ( वैदिक १) रु००-६ ५ लघुशब्देन्दुशेखरः ( भैरवी) चन्द्रकलाटीकासहितः तत्पुरुषादि- समाप्तिपर्यन्तः। (व्याकरणं १) रु०८-० ६ कारिकावली मुक्ता दिन राम शब्दखण्डसहिता तथा "गुण निरूपणदिनकरीय" महामहोपाध्याय पं० श्रीलक्ष्मणशास्त्रि- कृतव्याख्यासहिता। (न्यायं १) रु०६-० ७ पञ्चाकरणम् । वार्तिकाभरणालङ्कृतवार्तिकटीकया-तत्त्वचन्द्रि कासमक्तविवरणनच समन्वितम् । (वेदान्तं २)रु००--८ ८ अलङ्कारप्रदीपः । पण्डितवरविश्वेश्वरपाण्डेयनिर्मितः। ९ अनङ्गरङ्गःमहाकविकल्याणमल्लविरचितः । (कामशास्त्रं१) रु००-१२ १० जातकपारिजातः। श्रीवैद्यनाथशर्मणा विरचितः। (ज्यां० १) रु. २--० ११ पारस्करगृह्यसूत्रम् । कात्यायनसूत्रीयश्राद्ध-शौच-स्नान-भोजन- कल्पसहितम। ( कर्मकाण्डम् १) रु० ---८ १२ पुरुषसूक्तम् । सायणभाष्य-महीधरभाष्य-मंगलभाष्य-नि- म्बाकमतभाध्यचतुष्टयसहितम् । (वैदिकं २) रु० १--४ १३ श्रीमत्सनत्सुजातीयम्-श्रीमच्छङ्करभगवत्पादविरचितभाष्येण नीलकण्ठीव्याख्ययाच सवलितम्। ( वेदान्तं ३) रु०१-४ १४ कुमारसंभवं महाकाव्यम् । महाकवि-श्रीकालिदासवि० । सजी. वनी-शिशुहितैषिणी-टीकाद्धयोपेतम् सम्पूर्णम् । (काव्यं२) .
. प्पणणा। २ काशीसंस्कृतसीरीज़। १५ श्रुतवोधश्छन्दोग्रन्थः । आनन्दवर्द्धिनीतात्पर्यप्रकाशाख्यसंस्कृत- भाषाटीकासहितः। (छंदः १) रु००-६ १६ कारिकावली। मुक्तावली न्यायचन्द्रिकाटीकाद्वयसहिता सटि (न्याय २) रु०१-० १७ पारस्करगृह्यसूत्रम्। काण्डद्वये हरिहर गदाधर० तृतीयकाण्ड ह रिहर-जयराम-प्रणीतभाष्येण लमलङ्कनम् । हरिहरभाष्यस हितस्नानत्रिकाण्डकासूत्र-गदाधरभाष्यसहिनश्राद्धनवक ण्डिकासूत्रैः यमलजननशान्ति-पृष्टोदिदि-शौच-भोजन- कामदेवकृतभाष्यसहितोत्सर्गपरिशिष्टसूत्रः परिष्कृतं-टिप्प- ण्यादिभिः सहितं च। ( कर्मकाण्ड २)रु०३-० १८ संक्षेपशारीरकम्-मधुसूदनीटीकासहितम् संपूर्ण (वेदान्त४)रु०८-० १९ लघुजूटिका-अर्थात् अभिनवा परिभाषेन्दुशेखरपरिष्कृतिनि- मितिः। (व्याकरण २) रु. ०-. २० कातीष्टिदीपकः । ( दर्शपौर्णमासपद्धतिः) महामहोपाध्याय- पं० श्रीनित्यानन्द पन्तपर्वतीयविरचितः । (कर्मकाण्ड) ९०१-.. २१ सप्तपाठि-श्रीशिवमहिम्नस्तोत्रम् श्रीगन्धर्वराज पुष्पदन्ताचार्य: विरचितम् । हरिहरपक्षीय-मधुसूदनीटीकया ( संस्कृतटी- का-संस्कृतपद्यानुवाद-भाषाटीका-भाषापद्यानुवाद-भाषा- बिम्ब ) पञ्चमुखीनाम्न्या टीकया-शक्तिमहिम्नस्तोत्रण च समन्वितम् । (स्तोत्रवि०१) रु. १ २२ बौद्धाऽऽचार्यश्रीधर्मकीर्तिप्रणीतः सटीकन्यायबिन्दुः-भाषा- टीकासहितः ( बौद्धन्याय वि०१) रु०१-८ २३ सपरिष्कृत-दर्पणसहितवैयाकरणभूषणसारः (व्याकरणं ३) २०४-० २४ न्यायवार्तिकतात्पर्यटीका-श्रीवाचस्पतिमिश्रविचिता । सम्पूर्ण ( न्यायविभाग ३) रु०६ २५ मीमांसान्यायप्रकाशः (आपदेवीयः) श्रीचिन्नस्वामिशास्त्रिकृतया सारविवचिन्या व्याख्यया सहितः ( मीमांसा १) रु०२० २६ पौरोहित्यकर्मसारः (टिप्पणीसमलंकृतः) प्रथमो भागः श्रीरमा- कान्तशर्मणा संगृहीतः। ( कर्मकाण्डवि०३) २००-४ २७ लघुशब्देन्दुशेखरः म० म० श्रीनागेशभट्टविरचितः। अव्ययी. भावान्तो भागः, म०म० पण्डित श्रीनित्यानन्दपन्त-पर्वतीय. कृतशेखरदीपकाख्येन टिप्पणेन समुज्ज्वलितः। (व्या०४)रु०४-... २८ रघुवंशमहाकाव्यम्। महाकविश्रीकालिदासविरचितम् पञ्चसर्गा. त्मकम् । म० म० श्रीमल्लिनाथसूरिकृतसञ्जीविनीटीकया पं० श्रीकनकलालठबकुरकृताऽर्थप्रकाशिकाटीकया च सम- लङ्कृतम् ( काव्यवि०३) रु००-१२ -2 ( काशीसंस्कृतीरीज़ । ३०. कामसूत्रम् । श्रीवात्स्यायनमुनिप्रणीतं बहुयत्नरासाादतया पूणया जयमङ्गलरचितया टीकया समेतम् । बहुखण्डितपाठान् परिपू. र्य,सूत्राङ्कांश्च संयोज्य, परिष्कृत्य संशोधितम् । (काम०२)रु०८-. ३० न्यायकुसुमाञ्जलीः । न्यायाचार्यपदाङ्कितश्रीमदुदयनाचायविरचि- तः। महामहोपाध्यायरुचिदत्तकृतमकरन्दोद्भासितमहामहो. पाध्याय वर्द्धमानोपाध्यायप्रणीतप्रकाशसहितः (न्याय४) रु०६-० ३१ परिभाषेन्दुशेखरः । म०म० श्रीनागेशभट्टरचितः। म०म० भैरव- मिश्रविरचितया भैरवीत्यपराख्यया परिभाषाविवृत्या-तत्त्व- प्रकाशिकया टीकया च सहितः । (व्याकरणं ४) रु०३-० ३२ अर्थसंग्रहः । पूर्वमीमांसासारसंग्रहरूपः। श्रीलौगाक्षिभास्करविरचि. तः। श्रीमत्परमहंसपारव्राजकाचार्यश्रीरामेश्वरशिवयोगिभिक्षु. विरचितमीमांसार्थकौमुद्याख्यव्याख्यासहितः।(मीमां०२) रु०१-० ३३ न्यायवार्तिकम् न्यायदर्शनवात्स्यायनभाप्योपवृहणम् । परमर्षि भारद्वाज्ञोहयोतकरविरचितम् । महर्षि-गोतमादिचरितसम्व लितवृहत्भूमिकासहितम् । (न्यायं वि०५) रु०६-० ३४ शुक्लयजुर्वेदसंहिता । वाजसनेयिमाध्यन्दिनशाखीया। श्रीमदुब्व- टाचार्यविरचितमन्त्रमाप्येण श्रीमन्महीधराचार्यविरचितवेद- दीपेन च सहिता। ( भाग १-२-३-४ )(वैदिकं ३) रु०८-० ३५ शुक्लयजुर्वेदकाण्वसंहिता । श्रीसायणाचार्यविरचितभाष्यसहिता। १ अध्यायादारभ्य २० अध्यायपर्यन्ता । (वैदिकं ४) रु०६-० ३६ सिद्धान्तलेशसंग्रहः । श्रीमदम्पयदीक्षितविरचितः। श्रीमत्परमहंस- परिव्राजकाचार्यकृष्णानन्दतीर्थविरचितया कृष्णालङ्काराख्य- या व्याख्यया समलंकृतः। (वेदान्तं ४) रु०६-० 319 -शका । श्रीपाणिनिमुनिविरचितव्याकरणसूत्राणां वृत्तिः वि- दहर-वामन-जयादित्यविनिर्मिता। (व्याकरणं ५) रु०६-१ ३८ प्राकृत प्रकाशः । भामहकृतः। श्रीमद्वररुचिप्रणीतप्राकृतसूत्रसहि- तः। टिप्पण्या च संयोजितः । (व्याकरणं ६) रु०१-४ ३९ जीवन्मुक्तिविवेकः श्रीमविद्यारण्यस्वामिविरचितः। भाषानुवा- दसमेतः: (वेदान्तं ५) रु०२-० ४० श्रीनारदीयसंहिता । ब्रह्मणोपदियो नारदमहामुनिप्रोक्तो ज्यौतिष- (ज्योतिषं २) रु००-- ४१ मेदिनीकोशः-मेदिनीकारविरचितः । (कोशं १) रु०१-८ ४२ मीमांसादर्शनम् । श्रीशवरस्वामिविरचितभाप्यसहितम् ( भाग-२) (मीमांसा ३) रु०१०-० ४३ न्यायदर्शनम् । श्रीगोतममुनीप्रणीतम् । श्रीवात्स्यायनमुनीप्रणीत. भाग्यसहितम् । श्रीविश्वनाथन्यायपश्चाननभट्टाचार्यविरचि- न्यायसूत्रवृत्त्यनुगतम् । टिप्पण्यादिसहितम् (न्यायं ६) रु०३-० ग्रन्थः । ।
- काशीसंस्कृतसीरीज़ । ४४ दाननयूखः। विद्वरश्रीनीलकण्ठभट्टविरचितः। (धर्मशास्त्र, रु०१-८ ४५ कालमाधवः । विद्वद्वरश्रीमाधवाचार्यविरचितः। (धर्मशास्त्र) - ४६ भास्वती । श्रीमच्छतानन्दविरचिता । श्रीमातृप्रसाद ( दैवज्ञभू- पग) पाण्डेयेन कृताभ्यां छात्रबोधिनीनाम संस्कृतसोदाहरण भापाटोकाभ्यां सहिता। ज्योतिष ३ रु०२~० ४७ फत्रिकाप्रकाशः। उपाध्यायोपाहवयाकरणाकेसरीविरुदाङ्कितमैथि- लेन्द्रदत्तशर्मविरचितः पं० सीतारामशर्मऋतटिपण्या विभूषितः। (व्याकरणं ७) रु०१-४ ४८ मिताक्षरा । श्रीगौडपादाचार्यकृतमाण्डूक्यकारिकाव्याच्या-श्रीम- स्परमहंसपरिव्राजकाचार्यस्वयम्प्रकाशानन्दसरस्वतीस्वामि- कता।शंकरानन्दकृतमाण्डूक्योपनिषद्दीपिका च। (चंदा०६) रु.१ ४२ काव्यप्रकाशः । श्रीमम्मटाचार्यविरचिनः । पं० श्रीहरिशङ्करशर्मणा मेथिलेन संगृहीतया नागेश्वरीटीकयाऽलङ्कतः । काव्य०४) रु०४ ५० अधिकरणकौमुदी । श्रीदेवनाथठक्कुरकृता। मीमां०४) रु० १:- ५? रघुवंशमहाकाव्यम् । महाकविश्रीकालिदासविरचितम् महामही पाध्याय श्रीमल्लिनाथकृतसञ्जीविनीटीकयोपेतम् पं० श्रीकन- कलालकुरेण विरचिनया भाववाधिनी टिप्पण्या सम. लङ्कनम् संपूर्णम् । रु०१-६ ५२ काथवोधः साजनीकृत टीकोपतः।दत्तात्रेय सम्प्रदायाऽनुगतः। रु०--- ५३ रसचन्द्रिका । पर्वतीय-पण्डितप्रवर-श्रीविश्वेश्वरपाण्डेय निर्मिता (काव्य०६रु०१-6 ५४ अलङ्कारमुक्तावली । पर्वतीय-विद्वद्वर-श्रीविश्वेश्वर पाण्डेय. निर्मिता- (काव्य वि०७ ) म० १२. ५५ वृत्तरत्नाकरः-भट्टकेदारप्रणीतः । नारायणभट्टीयव्याख्यासहितः। सम्पादकनिर्मिविषमस्थलटिप्पणोपेतः । श्रुतबोधच्छन्दो. मञ्जरीसुवृत्ततिलकैश्च समेतः । (छंद वि० ) १-८-० ५६ अलङ्कारशेखरः । केशवमिश्रकृतः । साहित्योपाध्याय बंतालापाह श्री अनन्तरामशास्त्रिणा भूमिकादिभिः संभूप्य संशोधितः । ( अल. वि०१) १- ५७ शक्तिवादः-टीकात्रयोपेतः। श्रीगदाधरभट्टाचार्यप्रणीतः । कृष्ण- भट्टकृतया मञ्जूषया-माधवभट्टाचार्यनिर्मितया विवृत्या श्रीमन्माध्वसंप्रदायाचार्यदार्शनिकसार्वभौमसाहित्यदर्शना- द्याचार्यतकरत्नन्यायरत्न गोस्वामिदामोदरशाास्त्ररचितया विनादिन्या च समेतः। ( न्या० वि०७)२-०-० जयकृष्णदास-हरिदासगुप्तः, पत्रादिप्रेषणस्थानम् चौखम्बा संस्कृत सीरीज श्राफीस, विद्याविलास प्रेस, गोपालमंदिर के उत्तर फाटक वनारस सिटी। -
No text on this page.