Canegie Mellon Univeristy
Rutu Samhara
Front matter
No text on this page.
श्रीः। ऋतुसंहारम्। चन्द्रिकया समेतम् । प्रथमः सर्गः। यः समस्तविदुषां शिरोमणियेन राजति सभा विपश्चिताम् । तं महीश्वरकृताभिवन्दनं नीलकण्ठपितरं नमाम्यहम् ॥ शृङ्गारैकप्रधानं यदृतुसंहारनामकम् । काव्यं तत्कालिदासीयं व्याख्यास्येऽहं यथामति ।। अप्रचारतमोमन्ना कालिदासकृतिर्यतः । क्रियतेऽतश्चन्द्रिकेयं विबुधानन्ददायिनी ॥ अथ तत्रभवान्कालिदासनामा कविश्चिकीर्षितस्य ग्र- न्थस्य निर्विघ्नपरिसमाप्त्यर्थम् “ आशीर्नमस्क्रिया वस्तु- निर्देशो वापि तन्मुखम् ' इत्याशीराद्यन्यतमस्य मङ्गलत्वेन तदन्यतरद्वस्तुनिर्देशरूपं मङ्गलमाचरन्नादौ ग्रीष्मकालवर्ण- नरूपां कथां प्रियायै कश्चिन्नायकः प्रस्तौति- प्रचण्डसूर्यः स्पृहणीयचन्द्रमाः सदावगाहक्षेतवारिसंचयः दिनान्तरम्योऽभ्युपशान्तमन्मथो निदाघकालोऽयमुपागतः प्रिये ॥ १॥ प्रचण्डेति ॥ प्रचण्ड उग्रः सूर्यों दिवाकरो यस्मिन्स - १क्षम. २ समुपागतः.
२ ऋतुसंहारे तथोक्तः । स्टहणीयो वाञ्छनीयश्चन्द्रमाश्चन्द्रो यस्मिन्स त- थोक्तः ॥ “हिमांशुश्चन्द्रमाश्चन्द्रः" इत्यमरः॥ सदा नि- रन्तरमवगाहेन निमज्जनपूर्वकस्नानैः क्षतः क्षीणो वारिसं- चयो जलसमूहो यस्मिन्स तथोक्तः। दिनान्तः संध्याकालो रम्यो रमणीयो यस्मिन्स तथोक्तः । दिवसे सूर्यसत्वा- दौष्णजनितमाकुलत्वं चन्द्रोदयादिना च शीतलत्वात्तस्य रम्यत्वम् । अभि समन्तादुपशान्तो मन्मथः कंदो यन्मिन्स तथोक्तः। “ वसन्ते द्विगुणः कामः" इति वसन्तापगमे का- मोपशान्तिः । अयं निदाघकालो ग्रीष्मकाल उपागतः संप्राप्तः। हे प्रिये ॥ वंशस्थवृत्तमेतत्-" जतौ तु वंशस्थ- मुदीरितं जरौ" इति लक्षणात् ॥ निशाः शशाङ्कक्षतनीलराजयः कचिद्विचित्रं जलयन्त्रमन्दिरम् । मणिप्रकाराः सरसं च चन्दनं शुचौ प्रिये यान्ति जनस्य सेव्यताम् ॥ २ ॥ निशा इति ॥ हे प्रिये । क्वचिच्छशाङ्केन चन्द्रमसा ॥ का ॥ क्षता दूरीकता नीलराजयस्तमःपतयो यासां ता- स्तथोक्ता निशा रात्रयः ॥ "निशा निशीथिनी रात्रिः" इत्यमरः ।। क्वचिद्विचित्रं जलयन्त्रेण युक्तं मन्दिरं गृहम् । कचिन्माणिप्रकारा मणिविशेषाश्चन्द्रकान्तादयः । क्वचित्स- रसं सान्द्रं चन्दनं च शुचौ ग्रीष्मकाले जनस्य लोकस्य से- व्यतामुपभोगविषयतां यान्तीति वचनविपरिणामेनान्वयः ॥ सुवासितं हर्म्यतलं मनोहरं प्रियामुखोच्छ्वासविकम्पितं मधु । १ विकल्पितम्.
.
కలా కోనలరాజయః , ఫంక్,
నారాచం, లయం లయం , మలంలో కళ,
నరగం , , Yoga, 47, వీండి, Cel,
128,78, నాల్యం.
ఈ క్రింద కూర, ఆకాంతల - 40
హణ - రవి,
తలరాజుల : - -
అహ goial లుళం , చికా
కల్గులు ప్రతి స్త్రీ9-60 - aveni తం ,
30; 2 :
జోకంధ్ర - of este state
జము. కిరణ -సౌండ్రహన, 995kp.
24, Hom
శ్రీ బాల రోజు , ననో
#
వ్యసాల - evaraina ee
09 . ee.
sa
రో
a
మనకం, హమ్య కాలం, Sexరు
ప్రజహాని కలలో 99 | - పాచలం
మంత్రి తోలు , ముజన వ్య, నీ సోం , *
నిశిథి, 'అజభవని, మనం
ఆమిన -8లోని
శివాల్,
- అన్యాయం
మం
జధాని లీల - గంధముళ్ళలో కల్పము Sude - 9 హారపోడు కరుకు -ల -సాదళలftw=aalee Emaicow' Sarasures 9వరి 3 తో - నాంకా yeregos అని నీ కంది, 9 సంవితం ఆశలు Sure మాస్యో - 10KSong జీవసోల -- కోహదం కు కుళం - 4 శ్రీనా తల వంక అంభ హాని -7 అప్రజలు లాం కాం 4.V. - నికరాళం : , నీ సళూలకు విత్వం "ఆ జ్యోతి, కారంత్యం , నీ కల కన్యం, శిరం, స్నాన లీ లు 3: . స్త్రీలు, నిరామం, శీమంతం , కామినాం, లాలి పిచ్యః - a romanti a coquetish woman. general, సుకూరిమితు ల్యం - Bూ ల- ఓలమిలా! ఆ zeya పు- * సంబందా ని కామ 90 జ్యో: - గర్యాసానందల, నకారాయ త్యం *: -రాంగం K, ఆమరణాని - ఆభరణress 10 అందం ఇపుకుంటూ CA roshaswa. నమం xpers to కొన్ని Pari प्रथमः सर्गः। ३ सुतन्त्रिगीतं मदनस्य दीपनं शुचौ निशीथेऽनुभवन्ति कामिनः ॥ ३ ॥ सुवासितमिति ॥ कामिनो विलासिनः शुचौ ग्रीष्मकाले निशीथेऽर्धरात्रे ॥ " अर्धरात्रनिशीथौ द्वौ” इत्यमरः ।। सुवासितं सुगन्धजलसेकादिना सुगन्धीकृतं मनोहरं सुन्दरं हर्म्यतलं प्रासादतलम् । प्रियामुखस्य कान्तावदनस्यो- च्छासेन विकम्पितं मधु । मदनस्य कंदर्पस्य दीपनमुद्दी- पकं सुतन्त्रिणा गीतं गानं च ॥ "गीतं गानमिमे समे" इत्यमरः ॥ अनुभवन्त्यास्वादयन्तीत्यर्थः ॥ एतेनापि ग्री- प्मकालस्य कामिनां मनोहरत्वमुक्तम् ॥ नितम्बविम्वैः सदुकूलमेखलैः स्तनैः सहाराभरणैः सचन्दनैः । शिरोरुहैः स्नानकषायवासितैः स्त्रियो निदाघं शमयन्ति कामिनाम् ॥ ४॥ नितम्बेति ॥ स्त्रियो विलासिन्यो,दुकूलानि वस्त्राणि मे- खला रसनाश्च ताभिः सहितानि तैस्तथोक्तैनितम्बबिम्बैः क- टिपश्चाद्भागैः॥"पश्चान्नितम्बः स्त्रीकट्याः" इत्यमरः ॥हा- रा आभरणानि च तैः सहितास्तैस्तथोक्तैः सचन्दनैश्चन्दन- लिप्तः स्तनैः । स्लाने स्नानकाले यः कषायो लापितसुगन्धि- द्रव्यस्तेन वासिताः संजातवासास्तैस्तथोक्तैः शिरोरुहैः केशैः कामिनां निदाघमुष्माणं शमयन्ति दूरीकुर्वन्तीत्यर्थः ॥ नितान्तलाक्षारसरागरञ्जितै- नितम्बिनीनां चरणैः सनूपुरैः । १ सुदुकूल. २ लोहितः.
ऋतुसंहारे पदे पदे हंसरुतानुकारिभि- जनस्य चित्तं क्रियते समन्मथम् ॥५॥ नितान्तेति ॥ नितान्तमत्यन्तं लाक्षारसस्य रागेण र. जितास्तैस्तथोक्तैः सनूपुरैर्मीरसहितैः ॥ “मञ्जीरो नू- पुरोऽस्त्रियाम्" इत्यमरः ॥ पदे पदे प्रतिपदं हंसरुतं मरालशब्दमनुकुर्वन्ति तैस्तथोक्तैनितम्बिनीनां चरणैर्जन- स्य लोकस्य चित्तमन्तःकरणं समन्मथं मदनसहितम् ॥ " मदनो मन्मथो मारः इत्यमरः ॥ क्रियत इत्यर्थः ॥ पयोधराश्चन्दनपङ्कचिता- स्तुषारगौराप्तिहारशेखराः। नितम्बदेशाश्च सहममेखलाः प्रकुर्वते कस्य मनो न सोत्सुकम् ॥ ६ ॥ पयोधरा इति ॥ चन्दनस्य पङ्केन द्रवेण चर्चिता लिप्ताः। तुषारवद्गौराः शुभ्रवर्णा अर्पिता हारशेखराः श्रेष्ठहारा येषु ते तथोक्ताः पयोधराः स्तनाः । सहेममेखलाः सुवर्णरस- नासहिताः ॥ " स्त्रीकव्यां मेखला काञ्ची सप्तकी रसना इत्यमरः ॥ नितम्बदेशाः श्रोणीबन्धाश्च कस्य मनः सोत्सुकं सोत्कण्ठं न प्रकुर्वते प्रकर्षेण न कुर्वन्ति । अपि तु सर्वस्यापीत्यर्थः ॥ सैमुद्गतखेदशिताङ्गसंधयो विमुच्य वासांसि गुरूणि सांप्रतम् । स्तनेषु तन्वंशुकमुन्नतस्तना निवेशयन्ति प्रमदाः सयौवनाः॥ ७ ॥ तथा १ शीतलाः. २ बिम्बाश्चलहेम. ३ समुद्यत.
, -- Y. S. నిశాంశలా చారణ రారంభం , ని 309 నా", des, నాక్యూ: , ఆ కట్టి, పొంద4 రాజ : , 28 28, 2, క్రియక, కుటను త్రం . నిజాం . రోజు - నిశాం - ఆశ్యం , చారణ - ఆరు, రాంగer- సెన్మా 98-5, లంగా జాకల్పప్పుదా కుండ - గళంపోయారు. (aa kiet). కదాకటి. కణాళ్ళి Shopra-బి: హందరు కం - రాజాకు అజయంతి - trailers , శ్యం - అరుగులు ఈ చినా- (ని కేబిన్ 7 Gamana intiuling and handsome hipo)-20546 Sausio శికరణం రాకరణగళం నోరు తం - కంతో పరువు నాలు సపోహనహికున్నా? Garderen v. 6, fహిధరాః, ఉందనవోలు 28: , కుషారంగా:, కారం, ని బయణాః, *, సహాయం , Wife కళ్ళు, ఈ , 25-01న ... 5 : - జాంగనస్వం కంగనం , వంశీ-గ్రవరించి, జ: - రిపోరోజు పంజా . కోరం - ఈ లోక హి ముదం రా: బాలల అని రాశారుగా ఆపి . అ ల్వతండా, Boote:- ద కాలంగాణా. వీరిదళాని నగరం, సమంబు సువరస సౌభటా కూడ నిజంగా -: శ్రీలంకొందరూ సత్యమును . ఈ శాచ గ్యవస్న కూళలంజా అన్నాది న శ్రీజుకి- ve eveity రోజు. కళలో సాదంగా. .
స
7.V.) ఎలుళ్ల కొద్దీ కణాంగాధలు , వివస్త్ర, వారి సాంపి,
కరూం, చాంధ్రకోరి , నీలము , కీస్టోశలు, అక్షతో
శనాః, రోజు, కసౌః , సంచారము.
సముతో . ... సంచలః
సందజ: - పంచకం - జానా
జలకు ఎంతో స్త్రీలలో నింగో, -
శా-ష్వాకపోగా, ఆయనోభజం
రాళం.
సంయోగా మా ప్యంలో అంచంభాల
NA - Evergressru .
శ్రీ శ్రీ
సాంప్రీం - ర
ఊరూరు సాంసి ము- సరదాగిన
కల్పప్పు స్త్రీలు - అజాగళాల్లో
కలు సూక్ష్మపోనీ , అంకుశం - నా నో
ని విరోజులు 9 - సకలలు
8V.
प्रथमः सर्गः। ५ समुद्गतेति ॥ समुद्गतो निर्गतो यः स्वेदो धर्मस्तेन चिता व्याप्ता अगसंधयो बाहुमूलादयो यासां तास्तथोक्ताः। स- यौवनास्तारुण्यसहिता, उन्नतस्तना उच्चकुचाः, प्रमदाः स्त्रियः, सांप्रतमिदानी, गुरूणि जडानि , वासांसि वस्त्राणि, विमुच्य दूरीकृत्य, स्तनेषु कुचेषु तनु सूक्ष्ममंशुकं वासः क- झुक्यादि निवेशयन्ति स्थापयन्तीत्यर्थः ।। सचन्दनाम्बुव्यजनोद्भवानिलैः सहारयष्टिस्तनमण्डलार्पणैः। सवल्लकीकाकलिगीतनिस्वनै- विवोध्यते सुप्त इवाद्य मन्मथः ॥ ८॥ सेति ॥ चन्दनाम्बुना चन्दनजलेन । चन्दनद्रवेणेति यावत् । सहितं युक्तं यद्वयजनं तदुद्भवास्तदुत्पन्ना येऽनिला वायवस्तैः । हारयष्टया कुसुममालया सहितानि युक्तानि यानि स्तनमण्डलानि कुचमण्डलानि तेषामर्पणैः । वल्लक्या वीणया सहिताश्च ते काकलिनः सूक्ष्मकलाश्च ते गीतनि- स्वना गाननिनादाश्च तैः ॥ "वीणा तु वल्लकी" इत्यमरः । "काकली तु कले सूक्ष्मे" इत्यमरः । गीतं गानमिमे समे" इत्यमरः ॥ अद्य मन्मथः कामः सुप्त इव निद्रित इव | राजेवेत्यर्थः । विबोध्यत उद्बुध्यते ॥ सितेषु हर्येषु निशासु योषितां सुखप्रसुप्तानि मुखानि चन्द्रमाः । विलोक्य नूनं भृशमुत्सुकश्चिरं निशाक्षये याति ह्रिये पाण्डुताम् ॥ ९॥ सितेष्विति ॥ चन्द्रमा निशासु रात्रिषु सितेषु धवलेषु १ अर्पितैः. २ प्रबुध्यते; प्रबोध्यते. ३ नियन्त्रणम्. ४ एव.
aor ऋतुसंहारे हम्येषु प्रासादेषु योषितां स्त्रीणां सुखेन प्रसुप्तानि निद्रितानि मुखानि वदनानि चिरं चिरकालं विलोक्यावलोक्य भृशम- त्यन्तमुत्सुक उत्कण्ठितः सन्निशाक्षये रात्रिक्षये ह्रियेव लज्जयेव पाण्डुतां पाण्डुरतां याति गच्छति । नूनमिति वितकै ॥ असह्यातोद्धतरेणुमण्डला प्रचण्डसूर्यातपतापिता मही । न शक्यते द्रष्टुमपि प्रवासिभिः प्रियावियोगानलदग्धमानसैः ॥ १० ॥ असह्येति ॥ प्रियावियोगः कान्तावियोगः स एवानलो- ऽनिस्तेन दग्धं भस्मीभूतं मानसमन्तःकरणं येषां तैस्त- थोक्तैः प्रवासिभिर्विदेशवासिभिरसह्यः सोढुमशक्यो यो वातो वायुस्तेनोद्धतमूर्द्धक्षिप्तं रेणुमण्डलं यस्याः सा तथो- का । प्रचण्ड उग्रो यः सूर्यस्य तरणेरातप उष्णं तेन तापिता संतापिता मही पृथ्वी द्रष्टुमपि न शक्यते । गन्तुं न.शक्यत इत्यत्र किं न वक्तव्यमित्यर्थः ॥ मृगाः प्रचण्डातपतापिता भृशं तृषा महसा परिशुष्कतालवः । वनान्तरे तोयमिति प्रधाविता निरीक्ष्य भिन्नाञ्जनसंनिभं नमः ॥ ११ ॥ मृगा इति ॥ भृशमत्यन्तं प्रचण्डस्तीक्ष्णतरो य आतप उष्णं तेन तापिताः संतापिताः । महत्या तृषा पिपासया परिशुष्काः संशुष्कास्तालवो येषां ते तथोक्ता मृगा हरिणा १ वातोद्गत.
No text on this page.
ऋतुसंहारे यूरस्य बर्हिणः ॥ " मयूरो बर्हिणो बर्हिः” इत्यमरः ॥ तलेऽधोभागे निषीदत्यवतिष्ठत इत्यर्थः ॥ तृषा महत्या हतविक्रमोद्यमः श्वसन्मुहुर्दूरविदारिताननः । न हन्त्यदूरेऽपि गैजान्मंगेश्वरो विलोलजितचलिताग्रकेसरः ॥ १४ ॥ तृषति ॥ महत्या तृषा पिसासया हतो विक्रमस्य परा- क्रमस्योद्यम उद्योगो यस्य स तथोक्तः । मुहुर्वारंवारं दूरा- द्विदारितं विस्तारितमानने मुखं येन स तथोक्तः । विलोल- जिह्वश्चलिताश्चञ्चला अग्रकेसरा अग्रसटा यस्य स तथो- तो मृगेश्वरः सिंहः ॥ “सिंहो मृगेन्द्रः पञ्चास्यः इत्य- मरः ॥ अदूरेऽपि । समीपे वर्तमानानिति शेषः । गजान्मा- तङ्गान्न हन्ति न मारयतीत्यर्थः । न हि जायते स्वस्मिन्क्के- शिते परहनने प्रवृत्तिरिति भावः ॥ विशुष्ककॅण्ठाहतसीकराम्भसो गभस्तिभिर्भानुमतोऽनुतापिताः । प्रवृद्धवृष्णोपहता जलार्थिनो न दन्तिनः केसरिणोऽपि बिभ्यति ॥ १५ ॥ विशुष्केति ॥ विशुष्कण कण्ठेनाहृतं गृहीतं सीकरा- म्भस्तुषारजलं यैस्ते तथोक्ताः । भानुमतः किरणमालिनः सूर्यस्य गभस्तिभी रश्मिभिरनुतापिताः संतापिताः। प्रद्धत- ष्णयात्यधिकपिपासयोपहताः पीडिता अतएव जलार्थिनो ४ चलितस्वकेसरः १ भूरि. २ मृगम्. ३ मृगाधिपः. ५ कण्ठाहत; कण्ठोद्गत. ६ अभितापिता:.
No text on this page.
No text on this page.
प्रथमः सर्गः । जलकाविणो दन्तिनो गजाः केसरिणोऽपि सिंहादपि न बिभ्यति भयं न प्राप्नुवन्तीत्यर्थः ॥ हुताग्निकल्पैः सवितुर्गभस्तिभिः कलापिनः क्लान्तशरीरचेतसः । न भोगिनं नन्ति समीपवर्तिनं कलापचक्रेषु निवेशिताननम् ॥ १६ ॥ हुताग्निकल्पैरिति ॥ सवितुः सूर्यस्य हुताग्रिकल्पहुंत- श्वासावग्निश्च तत्कल्पैस्तत्सदृशैः । तद्वदत्यन्तप्रचण्डरिति यावत् । गभस्तिभिरंशुभिः क्लान्तं म्लानं शरीरं वपुश्चेतश्च येषां ते तथोक्ताः कलापिनो मयूराः कलापचक्रेषु बर्हमण्ड- लेषु निवेशितं प्रवेशितमाननं मुखं येन तत्तथोक्तं समीपव- तिनं भोगिनं सर्प न घ्नन्ति न मारयन्तीत्यर्थः ॥ सभद्रमुस्तं परिशुष्ककर्दम सरः खननायतपोमण्डलैः । रैवेर्मयूखैरभितापितो भृशं वराहयूथो विशतीव भूतलम् ॥ १७ ॥ सभद्रेति ॥ भद्रमुस्तेन " भद्रमोथा" इति प्रसिद्धेन सहितं परिशुष्कः कर्दमः पङ्को यस्मिस्तत्तथोक्तं सरः सरो- वरमायतानि दीर्घाणि यानि पोतृमण्डलानि तैः कृत्वा ख- नन् । रवेः सूर्यस्य मयूखैः किरणै शमत्यन्तमभितापितः संतापितो वराहयूयः सूकरसमूहः ॥ वराहः सूकरो घृष्टिः" इत्यमरः ॥ भूतलं भूगर्भ विशतीव प्रविशतीवेत्युत्प्रेक्षा ॥ १ मरीचिभिः. २ चेतनाः. ४ सुभद्रमुस्तम्. ४ परिपाण्डु. ५ पोत्र. ६ प्रदीप्तभासा रविणाभितापितः.
१० ऋतुसंहारे विवस्वता तीक्ष्णतरांशुमालिना सपङ्कतोयात्सरसोऽभितापितः। उत्लुत्य भेकस्तृषितस्य भोगिनः फणातपत्रस्य तले निषीदति ॥ १८ ॥ विवस्वतेति ॥ तीक्ष्णतरैः प्रचण्डतरैरंशुभिः किरणैर्मा- लते शोभते तथोक्तेन विवस्वता सूर्येणाभितापितो भेको म- ण्डूकः ॥ “ भेके मण्डूकवर्षाभू-” इत्यमरः ॥ पङ्कतोयेन कर्दमजलेन सहितं युक्तं तस्मात्तथोक्तात्सरसः सरोवरादु- त्प्लुत्य तृषितस्य भोगिनः पन्नगस्य ॥ उरगः पन्नगो भोगी" इत्यमरः ॥ फणैवातपत्रं छत्रं तस्य तलेऽधोभागे निषीदति तिष्ठतीत्यर्थः ॥ समुद्धृताशेषमृणालजालक विपन्नमीनं द्रुतभीतसारसम् । परस्परोत्पीडनसंहतैर्गजैः कृतं सरः सान्द्रविमर्दकर्दमम् ॥ १९ ॥ समुद्धृतेति ॥ समुद्धृतं निष्काशितमशेषं संपूर्ण मृणाल- जालकं बिससमूहो यस्मात्तत्तथोक्तं विपन्नमीनं समापन्नमीनं द्रुताः पलायिता भीताश्च ते सारसाश्च ते यस्मात्तथोक्तं सरः सरोवरं परस्परोत्पीडने संहतैः संलग्नैर्गजैः सान्द्रो निबिडो विमर्दः सङ्ग्रामः कर्दमः पङ्गश्च यस्मिंस्तत्तथा । यद्वा । सान्द्रो निबिडो विमर्दैन सङ्ग्रामेण कर्दमः पङ्को य- स्मिस्तत्तथा भूतमित्यर्थः ॥ रविप्रमोद्भिनशिरोमणिप्रभो विलोलजिहाद्वयलीढमारुतः । १ तीव्रतर.
No text on this page.
No text on this page.
प्रथमः सर्गः । ११ विषाग्निसूर्यातपतापितः फणी न हन्ति मण्डूककुलं तृषाकुलः ॥ २० ॥ रवीति ॥ रविप्रभया सूर्यकान्त्योद्भिन्ना निर्गताः शि- रोमणेमूर्धन्यमणेः प्रभा कान्तिर्यस्य स तथोक्तः । वि- लोलेन चञ्चलेन जिह्वाद्वयेन लीढ आलीढो मारुतः प- वनो येन स तथोक्तः । विषाग्निसूर्यातपतापितो विषं गरलमग्निर्दावानलः सूर्यातप उष्णं तस्तापितोऽतएव तृ- षाकुलः फणी सौ मण्डूककुलं भेकसमूहं न हन्ति न मारयतीत्यर्थः सफेनलोलायतवक्त्रसंपुटं विनिःसृतालोहितजिहमन्मुखम् । तृषाकुलं निःसृतमद्रिगैहरा- देवेक्ष्यमाणं महिषीकुलं जलम् ॥ २१ ॥ सफेनेति ॥ सफेनं लोलं चञ्चलमायतं दीर्घ वक्रसंपुटं मुखसंपुटं यस्य तत्तथोक्तम् । विनिःसृता निर्गता आस- मन्तालोहिता रक्ता जिह्वा यस्य तत्तथोक्तमुन्मुखमूर्ध्व- मुखम् । तृषा पिपासयाकुलं व्याकुलमतएव जलं सलि- लमवेक्ष्यमाणं निरीक्ष्यमाणं महिषीकुलमद्विगह्वरागिरिग- ह्वरान्निःसृतं निर्गतमित्यर्थः ॥ " अद्रिगोत्रगिरिग्रावा-" इत्यमरः ॥ पटुतरदेवदाहोच्छुष्कसँस्यमरोहाः परुषपवनवेगोक्षिप्तसंशुष्कपर्णाः । १ लालावृत. २ विनिर्गता. ५ गवेषमाणम्. ६ वनदाहामुष्ट. ३ उत्सुकम्. ४ कन्दरात. ७ शष्प. ८ वेगात्.
१२ ऋतुसंहारे दिनकरपरितापक्षीणतोयाः समन्ता- द्विदधति भयमुच्चैर्वीक्ष्यमाणा वनान्ताः॥२२॥ पटुतरेति ॥ पटुतरोऽतिसमर्थों यो दवो दावस्तस्य दाहोच्छुष्का दहनोच्छुष्काः सस्यप्ररोहाः सस्याङ्कुरां येषु ते तथोक्ताः । परुषो निष्ठुरो यः पवनो वायुस्तस्य वेगेनोत्क्षिप्तान्यूज़क्षिप्तानि संशुष्कानि पर्णानि पत्राणि येषु ते तथोक्ताः। समन्तादितस्ततो दिनकरस्य परितापेनातपेन क्षीणानि तोयानि येषु ते तथोक्ताः । उच्चैरुच्चप्रदेशतो वीक्ष्यमाणा अवलोक्यमाना वनान्ता अरण्यप्रान्ता भयं विदधतीत्यर्थः ॥ मालिनीवृत्तमेतत् । तल्लक्षणं तु-"नन- मयययुतेयं मालिनी भोगिलोकैः" इति ॥ श्वसिति विहगवर्गः शीर्णपर्णद्रुमस्थः कपिकुलमुपयाति क्लान्तमद्रनिकुञ्जम् । भ्रमति गवययूथः सर्वतस्तोयमिच्छ- ञ्छरभकुलमजिद्मं प्रोद्धरसम्बु कूपात्॥ २३ ॥ श्वसितीति ॥ शीर्णानि गलितानि पर्णानि पत्राणि यस्य स तादृशो यो द्रुमो वृक्षस्तत्र तिष्ठतीति स तथो- क्तो विहगवर्गः पक्षिसमुदायः श्वसिति श्वासोच्छ्वासं करो- ति । क्लान्तं म्लानं कपिकुलं वानरसमूहोऽद्रेः पर्वतस्य निकुञ्ज लतागृहम् ॥ " निकुञ्जकुऔ वा क्लोबे" इत्य- मरः ॥ उपयाति गच्छतीत्यर्थः । गवया गोसदशमृ- गविशेषास्तेषां यूथः समुदायस्तोयं जलमिच्छन्सर्वत इत- स्ततो भ्रमति । अजिझमकुटिलं शरमानां कुलं शरभा अ- १ परितापात्. २ निकुञ्जे.
No text on this page.
No text on this page.
प्रथमः सर्गः। ष्टापदपक्षिविशेषास्तेषां कुलं समुदायः कूपादम्बु जलं प्रो- द्धरति गृह्णातीत्यर्थः ।। विकचनवकुसुम्भस्वच्छसिन्दूरभासा प्रबलपवनवेगोद्भूतवेगेन तूर्णम् । तटविटपलताग्रालिङ्गनव्याकुलेन दिशि दिशि परिदग्धा भूमयः पावकेन ॥२४॥ विकचेति ॥ विकचः प्रफुल्लो नवो नूतनः कुसुम्भस्त- द्वत्स्वच्छो निर्मलो यः सिन्दूरस्तस्य भा इव भाः कान्ति- र्यस्य तेन तथोक्तेन । प्रबलस्य पवनस्य वेगेनोद्भूतः संभूतो वेगो यस्य तेन तथोक्तेन । तटविटपानां तीरस्थवृक्षशा- खानां लताग्राणां चालिङ्गनेन परिरम्भणेन व्याकुल आ- कुलस्तेन तथोक्तेन पावकेन वह्निना दिशि दिशि प्रतिदिशं तूर्ण सत्वरं भूमयः परिदग्धाः संदग्धा इत्यर्थः ॥ ज्वलति पवनद्धः पर्वतानां दरीषु स्फुटति पँटुनिनादैः शुष्कवंशस्थलीषु । प्रसरति तृणमध्ये लब्धवृद्धिः क्षणेन लपयति मुंगवर्ग प्रान्तलग्नो दवाग्निः ॥२५॥ ज्वलतीति ॥ पवनेन वायुना वृद्धो वृद्धि प्राप्तो दवा- निर्दावानलः ॥ " दवदावौ वनानिलौ" इत्यमरः ॥ पर्व- तानां दरीषु कन्दरेषु ज्वलति । तथा शुष्का वंशा वेणवो यासु ताः स्थल्यः कृत्रिमभूमयस्तासु पटुनिनादैः स्फुटत- रध्वनिभिः स्फुटति विकाशभावमाप्नोति । तथा क्षणेन क्ष- १ परुष. २ वेगोद्भूत. ३ ध्वनति. ४ विद्धः, ५ पर्व. तान्तदरीषु. पटुनिनादः. ८ क्षपयति. ९ मृगयूथम्. तणमध्यम्.
१४ ऋतुसंहारे णादेव लब्धा प्राप्ता सद्धियेन तथोक्तः संस्तृणमध्ये प्र- सरति । तथा प्रान्तलग्नः सन्मृगवगै हरिणसमूहं ग्लपयति व्याकुलं करोतीत्यर्थः ॥ बहुतर इव जातः शाल्मलीनां वनेषु स्फुरति कनकगौरः कोटरेषु द्रुमाणाम् । परिणतदलशाखानुत्पतन्प्राशुवृक्षा न्भ्रमति पवनधूतः सर्वतोऽग्निर्वनान्ते ॥२६॥ बहुतर इति ॥ अग्निः शाल्मलीनां वनेषु बहुतरः प्र- चुररूपो जात इव स्फुरति । द्रुमाणां कोटरेषु शाखागहरेषु कनकगौरः काञ्चनगौरः स्फुरति । पवनेन वायुना धूतः कम्पितः सन्नत एव परिणताः परिपक्वा दलानि पर्णानि शाखाश्च येषां तांस्तथोक्तान्प्रांशुरक्षानुन्नतद्रुमानुत्पतन्सन् । सर्वतः समन्ततो वनान्ते भ्रमति भ्रमणं करोतीत्यर्थः ॥ गजगवयमृगेन्द्रा वह्निसंतप्तदेहाः मुहृद इव सेमेता द्वन्द्वभावं विहाय । हुतवहपरिखेदादाशु निर्गस कक्षा- द्विपुलपुलिनदेशानिन्नगां संविशन्ति ॥ २७॥ गजेति ॥ वह्निना दावाग्निना संतप्तो देहः शरीरं ये- षां ते तथोक्ता अत एव द्वन्द्वभावं वैरभावं विहाय त्यक्त्वा सुहृदो मित्राणीव समेताः संगता गजगवयमृगेन्द्रा गजो हस्ती गवयो गोसदृशो मृगविशेषो मृगेन्द्रः सिंहश्च ते हु- तवहस्य वः परिखेदात्संतापात् । यद्वा हुतवहस्य परि- खेदो यत्र तस्मात्तथोक्तात् । कक्षागिरिगह्वरादाशु झटिति १ परिणवदलशाखादुत्पतत्याशु वृक्षात्. २ समन्तात्. ३ आ- श्रयन्ते.
No text on this page.
No text on this page.
प्रथमः सर्गः। १५ निर्गत्य विपुलो महान्पुलिनदेशस्तीरप्रान्तो यस्यास्तां त- थोक्तां निम्नगां नदी संविशन्त्याश्रयन्त इत्यर्थः ॥ कमलवनचिताम्बुः पाटलामोदरम्यः मुखसलिलनिषेकः सेव्यचन्द्रांशुहाराः। बजतु तव निदाघः कामिनीभिः समेतो निशि सुललितगीते हर्म्यपृष्ठे सुखेन ॥२८॥ कमलेति ॥ सुललितमतिरमणीयं गीतं गानं यस्या- स्तस्याः संबोधनं हे सुललितगीते । कमलानां पङ्कजानां वनेन समुदायेन चितं व्याप्तमम्बु जलं यस्मिन्स तथोक्तः । पाटलानां पाटलकुसुमानामामोदो गन्धो रम्यो रमणीयो य- स्मिन्स तथोक्तः । यहा पाटलामोदेन रम्यो रमणीय इति । मुखः सुखकरः सलिलस्य निषेकः स्नानं यस्मिन्स तथोक्तः। सेव्याः सेवितुं योग्याश्चन्द्रस्यांशवः किरणा हाराः कुसु- ममालाश्च यस्मिन्स तथोक्तः कामिनीभिः समेतो युक्तो नि- दाघो निदाघकालो निशि रात्रौ हर्म्यष्टष्ठे प्रासादतले सुखेन तव व्रजतु गच्छत्वित्यर्थः ।। इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया समेत: कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये ग्रीष्मवर्णनं नाम प्रथमः सर्गः ॥ १ जाल:. २ सुललितगीतैः.
१६ ऋतुसंहारे द्वितीयः सर्गः। अथ क्रमप्राप्तं वर्षाकालं वर्णयति ससीकराम्भोधरमत्तकुञ्जर- स्तडित्पताकोऽशनिशब्दमर्दलः । समागतो राजबद्धताति- घनागमः कामिजनप्रियः प्रिये ॥१॥ ससीकरेति ॥ हे प्रिये । ससीकरः साम्बुकणो यो- ऽम्भोधरो जलधरः स एव मत्तः प्रमत्तः कुञ्जरो जगो यस्य स तथोक्तः । पक्षे ससीकराम्भोधर इव मत्तः कुञ्जरो यस्येति ॥ “सीकरोऽम्बुकणाः स्मृताः” इत्यमरः । तडि- द्विद्युदेव पताका यस्य स तथोक्तः । पक्षे तडिदिव पताका यस्येति। "तडित्सौदामिनी विद्युत्" इत्यमरः॥ अशनिशब्द एव मर्दलः । पक्षे अशनिवज इव यः शब्दो निनादः स एव मर्दलो वाद्यविशेषो यस्य स तथोक्तः । उद्धतद्युतिरुत्कट- कान्तिः कामिजनप्रियो घनागमो वर्षाकालो राजवत्समा- गत आगत इत्यर्थः ॥ वंशस्थं वृत्तम् । लक्षणं तूक्तम् ॥ नितान्तनीलोत्पलपत्रकान्तिभिः कचित्मभिन्नाजनराशिसंनिभैः । कचित्सगर्भप्रमदास्तनमभैः समाचितं व्योम धनैः समन्ततः ॥ २॥ नितान्तेति ॥ क्वचिन्नितान्तमत्यन्तं नीलानि कृष्णानि यान्युत्पलानि कुवलयानि तेषां पत्राणां दलानां कान्ति- १ वारण:. २ उन्नतध्वनिः.
No text on this page.
No text on this page.
द्वितीयः सर्गः । १७ रिव कान्तियेषां तैस्तथोक्तैः । क्वचित्कुत्रचिद्भागे प्रभिन्नो योऽञ्जनराशिः कजलसमूहस्तेन संनिभैः सदृशैः । क्व- चित्सगर्भाणां गर्भवतीनां प्रमदानां स्त्रीणां ये स्तनाः कु- चास्तेषां प्रभेव प्रभा कान्तियेषां तैस्तथोक्तैर्वनैमधैव्योमा- काशं समन्तत इतस्ततः समाचितं व्याप्तमित्यर्थः ।। तृषाकुलैश्चातकपक्षिणां कुलैः प्रयाचितास्तोयभरावलम्बिनः । प्रयान्ति मन्दं बहुधारवर्षिणो बलाहकाः श्रोत्रमनोहरस्वनाः ॥ ३ ॥ तृषेति ॥ तृषा पिपासा तयाकुलैाकुलैश्चातकपक्षिणां कुलैः समुदायैः प्रयाचिताः प्रार्थितास्तोयभरेण जलभरे- णावलम्बन्त इति तथोक्ताः । बढ्यो धारा यस्यां कि- यायां यथा भवति तथा वर्षन्ति ते तथोक्ताः । श्रोत्रस्य श्रवणस्य मनोहर आह्लादकरः स्वनः शब्दो येषांते तथोक्ता बलाहका मेघाः॥ अभ्रं मेघो वारिवाहः स्तनयित्नुर्ब- लाहकः” इत्यमरः॥ मन्दं प्रयान्ति गगने संचरन्तीत्यर्थः ॥ बलाहकाथाशनिशब्दमर्दलाः सुरेन्द्रचापं दधतस्तडिद्गुणम् । सुतीक्ष्णधारापतनोग्रायकै- स्तुदन्ति चेतः प्रेसभं प्रवासिनाम् ॥ ४ ॥ बलाहका इति ॥ अशनिशब्दमर्दला अशनिवजस्तस्य शब्द एव मर्दलो रणवाद्यविशेषो येषां ते तथोक्ताः । तडिद्विद्युदेव गुणो ज्या यस्य तत्तथोक्तम् । “मौर्वी ज्या २ वारि. ३ भीषणाः; भूषणाः. ५ ध्वनिभिः. १ नव. ४ सायकाः.
१८ ऋतुसंहारे शिञ्जिनी गुणः” इत्यमरः ॥ सुरेन्द्र चापमिन्द्रधनुः ॥ "धनुश्चापौ धन्वशरासनकोदण्डकामुकम्" इत्यमरः ॥ दधतो धारयन्तो बलाहका मेघाश्च सुतीक्ष्णानां धाराणां जलधराणां पतनान्येवोनसायकास्तीक्ष्णबाणास्तैः कृत्वा प्र- वासिनां प्रोषितानां चेतोऽन्तःकरणं प्रसभमत्यन्तं तु- दन्ति व्यथयन्तीत्यर्थः ॥ मभिन्नवैदूर्यनिभैस्तृणाङ्करैः समाचिता प्रोत्थितकन्दलीदलैः । विभाति शुक्लेतररत्नभूषिता वराङ्गनेव क्षितिरिन्द्रगोपकैः ॥ ५॥ प्रभिन्नेति ॥ प्रभिन्नेन वैदूर्येण नीलमणिना निभाः स- दृशास्तैस्तथोक्तैस्तृणाङ्कुरैः प्रोत्थितकन्दलीदलैः प्रोत्थि- तानि निर्गतानि यानि कन्दलीनां दलानि पत्राणि तैः ।। " द्रोणपर्णी स्निग्धकन्दा कन्दली” इति शब्दार्णवः ।। इन्द्रगोपकैः कृमिविशेषैश्च समाचिता व्याप्ता क्षितिर्ध- रित्री ॥ धरा धरित्री धरणिः क्षोणी ज्या काश्यपी क्षितिः" इत्यमरः ॥ शुक्लेतरैः कृष्णादिवणे रत्नैर्मणिभि- भूषिता शोभिता वराङ्गनेवोत्तमनायिकेव विभाति शो- भत इत्यर्थः ।। सदा मनोझं स्वनदुत्सबोत्सुकं विकीर्णविस्तीर्णकलापशोभितम् । सैसंभ्रमालिङ्गनचुम्बनाकुलं प्रत्तनृत्यं कुलमद्य बर्हिणाम् ॥ ६॥ १ मनोज्ञस्तनितोत्सुखोत्सुकम् ; मनोज्ञाम्बुदनादसोत्सुकम्. २ वि. भाति. ३ सविभ्रमा.
No text on this page.
No text on this page.
द्वितीयः सर्गः । १९ सदेति ॥ सदा सर्वदा मनोज्ञं सुन्दरं स्वनच्छब्दायमा- नमुत्सवोत्सुकं हर्षेणोत्कण्ठितम् । यहोत्सवे हर्ष उत्सुक- मुत्कण्ठितम् । विकीर्णः प्रसारितो विस्तीर्णो लम्बमानो यः कलापो बर्हस्तेन शोभितम् । ससंभ्रमं ससंवेगं यदा- लिङ्गनं परिरम्भणं चुम्बनं च तत्राकुलं व्याकुलं बर्हिणां कलापिनां कुलं प्रवृत्तमारब्धं नृत्यं नर्तनं येन तत्तादृश- मद्यास्तीत्यर्थः ॥ निपातयन्यः परितस्तटदुमा- न्यवृद्धवेगैः सलिलैरनिर्मलैः । स्त्रियः सुदुष्टा इव जातविभ्रमाः प्रयान्ति नद्यस्त्वरितं पयोनिधिम् ॥ ७ ॥ निपातयन्त्य इति ॥ प्रद्धो वेगः प्रवाह उत्साहो वा येषां तैस्तथोक्तैः । अनिर्मलैः कलुषैर्मलिनैर्वा सलिसैजलै- लावण्यजलैर्वा ॥ " सलिलं कमलं जलम्" इत्यमरः॥ प- रितः समन्ततस्तद्रुमांस्तटप्ररूढवृक्षान्पितृमातृकुलजनाभि- भावकान्वा निपातयन्त्यः समूलमुन्मूलयन्त्यो नाशयन्त्यो वा सुदुष्टाः स्त्रिय इव जात उत्पन्नो विभ्रमः शृङ्गारादिचे- टाभेदो यासां तास्तथोक्ताः । जातविभ्रमाः समुत्पन्नभ्रम- विशिष्टा नद्यस्त्वरितं शीघ्रं पयोनिधिं समुद्र प्रयान्ति ग- च्छन्तीत्यर्थः ॥ तृणोत्करैरुद्गतकोमलाङ्कुरै- विचित्रेनीलहरिणीमुखक्षतैः । १ विपाटयन्त्यः. २ प्रहृष्टाः; प्रकामाः. ३ तृणोद्गमैः. ४ चि. तानि. ५ लेखैः.
२० ऋतुसंहारे वनानि वैन्ध्यानि हरन्ति मानसं विभूषितान्युद्गतपल्लवैर्दुमैः ॥ ८ ॥ तृणोत्करैरिति ॥ उद्गता निर्गताः कोमला अङ्कुरा येषां तैस्तथोक्तैः । विचित्रनीलैहरिणीमुखैः क्षताः खण्डि- तास्तैस्तथोक्तैस्तृणोत्करैरुद्गता निर्गताः पल्लवाः किसलया- नि येषां तैस्तथोक्तैः ॥ " पल्लवोऽस्त्री किसलयम्" इ- त्यमरः ॥ द्रुमैर्वृक्षैः कृत्वा विभूषितानि शोभितानि वै- न्ध्यानि विन्ध्यसंबन्धीनि वनानि काननानि ॥ “ गहनं काननं वनम्" इत्यमरः ॥ मानसमन्तःकरणं हरन्तीत्यर्थः ॥ विलोलनेत्रोत्पलशोभिताननै- मृगैः समन्तादुपजातसाध्वसैः । समाचिता सैकतिनी वनस्थली समुत्सुकत्वं प्रकरोति चेतसः ॥९॥ विलोलेति ॥ विलोलानि चञ्चलानि यानि नेत्रोत्पला. न्युत्पलसदृशानि नेत्राणि तैः शोभितानि भूषितान्यान- नानि वदनानि येषां तैस्तथोक्तैः ॥ " वक्त्रास्ये वदनं तु- ण्डमाननं लपनं मुखम् इत्यमरः ॥ उपजातसाध्वसैः सं- जातभयैर्मृगैर्हरिणैः ॥ " मृगे कुरङ्गवातायुहरिणाजिन- योनयः " इत्यमरः ॥ समन्तादितस्ततः समाचिता व्याप्ता सैकतिनी सिकतासंबन्धिनी वनस्थल्यकृत्रिमारण्यभूमिश्चे- तसोऽन्तःकरणस्य समुत्सुकत्वमौत्सुक्यं प्रकरोति प्रकर्षण जनयतीत्यर्थः ॥ १ रम्याणि. २ पल्लवद्रुमैः. ३ शैवलिनी.
No text on this page.
No text on this page.
द्वितीयः सर्गः। २१ अभीक्ष्णमुच्चै नेता पयोमुचा घनान्धकारीकृतशर्वरीष्वपि । तडित्मभादर्शितमार्गभूमयः प्रयान्ति रागादभिसारिकाः स्त्रियः॥ १० ॥ अभीक्ष्णमिति ॥ अभीक्ष्णं मुहुर्मुहुः ॥ "मुहुर्मुहुः पुनः शश्वदभीक्ष्णमसकृत्समाः इत्यमरः ॥ उच्चैरुच्चस्वरेण ध्वनता शब्दं कुर्वता पयोमुचा मेघेन घनान्धकारीकृतश- र्वरीष्वप्यघनान्धकारा घनान्धकारा यथा संपद्यन्ते तथा कृताश्च ताः शर्वयों रात्रयो यथा तथाभूतासु तडित्प्र- भया विद्युत्कान्त्या दर्शिता मार्गभूमयो यासां तास्तथोक्ता अभिसारिकाः स्त्रियो रागात्कान्तानुरागेण । संकेतमिति शेषः । प्रयान्ति गच्छन्तीत्यर्थः ॥ अभिसारिकालक्षणमु- क्तममरसिंहेन-"कान्तार्थिनी तु या याति संकेतं सा- भिसारिका" इति ॥ पयोधरैर्भीमगभीरनिस्वनै- स्तडिद्भिरुद्वेजितचेतसो भृशम् । कृतापराधानपि योषितः प्रिया- परिष्वजन्ते शयने निरन्तरम् ॥ ११ ॥ पयोधरैरिति ॥ भीमो भयानको गभीरो गम्भीरो नि- खनो निर्घोषो येषां तैस्तथोक्तैः ॥ " स्वाननिर्घोषनिर्हाद- नादनिखाननिखनाः" इत्यमरः ॥ पयोधरैर्मेधैस्तडिद्भिर्वि- द्युद्भिश्च भृशमत्यन्तमुद्वेजितमुद्विग्नं चेतोऽन्तःकरणं यासां तास्तथोक्ता योषितो नार्यः ।। " स्त्री योषिदबला योषा १ सुतीक्ष्णम्. २ ध्वनताम्. ३ पयोमुचाम्. कारावृत. ५ ध्वनद्भिः, ४ घनान्ध- २२ ऋतुसंहारे नारी सीमन्तिनी वधूः इत्यमरः ॥ कृतोऽपराधोऽन्यायः परवनितानिरीक्षणादिर्यैस्तांस्तथोक्तानपि प्रियाशयने नि- रन्तरं निरवकाशं यथा भवति तथा परिष्वजन्त आलिङ्गन्त इत्यर्थः ॥ विलोचनेन्दीवरवारिबिन्दुभि- निषिक्तबिम्बाधरचारुपल्लवाः । निरस्तमाल्याभरणानुलेपनाः स्थिता निराशाः प्रमदाः प्रवासिनाम् ॥१२॥ विलोचनेति ॥ विलोचनानि नेत्राणीन्दीवराणीव नी- लोत्पलानीवेति विलोचनेन्दीवराणि तेषां ये वारिबिन्दवो जलबिन्दवस्तैः कृत्वा निषिक्ताः संसिक्ताः बिम्बाधरा बि- म्बसदृशाधराश्चारुपल्लवा इवेति ते यासां तास्तथोक्ताः । बिम्बपदेनारक्तत्वं पल्लवपदेन च कोमलत्वं व्यज्यते । नि- रस्तानि त्यक्तानि माल्यान्याभरणानि भूषणान्यनुलेपनानि चन्दनादीनि याभिस्तास्तथोक्ताः प्रवासिनां प्रोषितानां प्र- मदाः स्त्रियो निजरमणसमागमसङ्गजनितसुखे निराशा आ- शारहिताः स्थिता आसन्नित्यर्थः ॥ विपाण्डुरं कीटरजस्तृणान्वितं भुजंगवद्वक्रगतिप्रसर्पितम् । ससाध्वसर्भेककुलैनिरीक्षितं प्रयाति निम्नाभिमुखं नवोदकम् ॥ १३ ॥ विपाण्डुरमिति ॥ विपाण्डुरं पाण्डुरवणे कीटाश्च र- जांसि च तृणानि च तैरन्वितं युक्तं भुजंगवत्सर्पवद्वक्रग- २ विपाण्डवम्. ३ विलोकितम्. १ कृताः.
No text on this page.
No text on this page.
द्वितीयः सर्गः । २३ तिस्तिर्यग्गमनं प्रसर्पितमितस्ततः संचरणशीलं ससाध्वसैः समयककुलमण्डूकसमुदायैः ॥ “ भेके मण्डूकवर्षाभूशा- लूरप्ठवदर्दुराः" इत्यमरः ॥ निरीक्षितं विलोकितं नवो- दकं नूतनजलं निम्नस्य गम्भीरस्य देशस्थाभिमुखम् ॥ “निम्नं गभीरं गम्भीरम्” इत्यमरः ॥ प्रयाति गच्छतीत्यर्थः ॥ विपंत्रपुष्पां नलिनी समुत्सुका विहाय भृङ्गाः श्रुतिहारिनिस्वनाः। पतन्ति मूढाः शिखिनां #नृत्यता कलापचक्रेषु नवोत्पलाशया ॥ १४ ॥ विपत्रेति ॥ समुत्सुका उत्कण्ठिताः श्रुतेः श्रवणस्य हारी । मनआह्लादकर इति यावत् । निस्वनः शब्दो ये- षां ते तथोक्ता मूढा इदं न विदं तन्नलिनमिति विचारर- हिता भृङ्गा भ्रमराः ॥ " द्विरेफपुष्पलिड्डङ्गषटुदभ्रमरा- इत्यमरः ॥ विगतानि पत्राणि दलानि यस्य ता- दृशं पुष्पं यस्याः सा तां तथोक्तां नलिनी विहाय त्यक्त्वा प्रनृत्यतां नृत्यं कुर्वतां शिखिनां मयूराणां कलापचक्रेषु बर्हमण्डलेषु नवोत्पलस्य नूतनकुवलयस्याशया । भ्रमेणेति भावः । पतन्ति निपतन्तीत्यर्थः ।। वनद्विपानां नववारिदस्वनै- मैदान्वितानां ध्वनतां मुहुर्मुहुः । कपोलदेशा विमलोत्पलममाः सभृङ्गयूथैर्मदवारिभिश्चिताः ॥ १५ ॥ १ प्रफुल्लपत्राम् ; विपन्नपुष्पाम्. २ समुत्सुकाम्. ३ निवृत्ताः, ४ तोयद. ५ स्वनताम्. ६ श्रिताः. लयः ऋतुसंहारे वनद्विपानामिति ॥ नवाः सद्यःसंभृतसलिला ये वा- रिदा जलदास्तेषां स्वनैनिनादैः ॥ " शब्दे निनादनिनद- ध्वनिध्वानरवस्वनाः इत्यमरः ॥ कृत्वा । मदान्विताना- म् । अपवारणगर्जनशङ्कयेति भावः । अतएव मुहुर्मुहुर्वारंवारं ध्वनतां गर्जतां वनद्विपानामारण्यगजानाम् ॥ "द्विपः । मतं- गजो गजो नागः” इत्यमरः ॥ विमलानि निर्मलानि या- न्युत्पलानि कुवलयानि तेषां प्रभेव प्रभा येषां ते तथोक्ताः।। "स्यादुत्पलं कुवलयम्" इत्यमरः ॥ कपोलदेशा गण्डप्र- देशाः सभृङ्गयूथैमरसमुदायसहितैर्मदवारिभिर्दानोद्रेक श्चिताः । व्याप्ता इत्यर्थः । सौगन्ध्यातिशयाड्रमरैरप्यागत्य तत्र स्थितमिति भावः ॥ सितोत्पलाभाम्बुदचुम्बितोपलाः समाचिताः प्रस्रवणैः समन्ततः । प्रवृत्तनृत्यैः शिखिभिः समाकुलाः समुत्सुकत्वं जनयन्ति भूधराः॥ १६ ॥ सितेति ॥ सितानि शुभ्राणि यान्युत्पलानि कुवलयानि तेषामाभेवाभा कान्तिः सलिलवर्षणे येषां तादृशा येऽम्बु- दा जलदास्तैश्चुम्बिता उपलाः पाषाणा येषां ते तथोक्ताः॥ पाषाणप्रस्तरग्रावोपलाश्मानः इत्यमरः । समन्तत इतस्ततः प्रस्रवणैर्निर्झरैः ॥ उत्सः प्रस्त्रवणं वारिप्रवाहो इत्यमरः ॥ समाचिता व्याप्ताः। प्रसत्तमा- रब्धं नृत्यं नर्तनं यैस्तथोक्तैः ॥ " लास्यं नृत्यं च नर्तने" इत्यमरः ॥ शिखिभिर्मयूरैः समाकुला व्याकुला भूधराः स- मुत्सुकत्वम् । चित्तस्येति शेषः । जनयन्त्युत्पादयन्तीत्यर्थः।। १ सतोयनम्राम्बुद; नीलोत्पलाभाम्बुद. २ सुभूषिताः. ३ अ- निर्झरो झरः " पङ्किलैः.
No text on this page.
No text on this page.
द्वितीयः सर्गः । २५ कदम्बसर्जार्जुनकेतकीवनं विकैम्पयंस्तत्कुसुमाधिवासितः । ससीकराम्भोधरसङ्गशीतलः समीरणः कं न करोति सोत्सुकम् ॥ १७ ॥ कदम्बेति ॥ कदम्बो नीपः, सोऽश्वकर्णः, अर्जुनः क- कुभः, केतक्यश्च तासां वनं समुदायम् ॥ "नीपप्रियकद- म्बास्तु हरिप्रियः” इत्यमरः । “साले इत्यमरः । “साले तु सर्जकार्याश्व- कर्णकाः सस्यसम्बरः इत्यमरः । इन्द्रद्रुः ककुभो- ऽर्जुनः" इत्यमरः ॥ विकम्पयंस्तेषां पूर्वोक्तद्रुमाणां कुसुमैः पुष्पैरधिवासितः संजाताधिवासः ससीकरो जलकणसहितो योऽम्भोधरो मेघस्तस्य सङ्गेन संसर्गेण शीतलः शीतः स- मीरणो मारुतः॥ " समीरमारुतमरुज्जगत्प्राणसमीरणाः" इत्यमरः ॥ कं पुरुषं सोत्सुकं सोत्कण्ठं न करोति । अपि तु सर्वमेवेत्यर्थः ॥ शिरोरुहैः श्रोणितटावलम्बिभिः कृतावतंसैः कुसुमैः सुगन्धिभिः स्तनैः संहारैर्वदनैः ससीधुभिः स्त्रियो रतिं संजनयन्ति कामिनाम् ।। २८ ।। शिरोरुहैरिति ॥ स्त्रियस्तरुण्यः श्रोणितटे कटिपश्चा- द्भागेऽवलम्बन्ते तैस्तथोक्तैः शिरोरुहैश्चिकुरैः ॥ “चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः" इत्यमरः ॥ क- तावतंसैः सुगन्धिभिः कुसुमैः पुष्पैः ॥ " पुष्पं प्रसूनं कुसु- १ नीपकेतकी:. २ प्रकम्पयन. ३ अधिवासनः. पीनैः. ३ ऋतुसंहारे मम्' इत्यमरः ॥ सहारैः कुसुममालासाहतैः स्तनैः कुचैः। ससीधुभिर्मधुसहितैर्वदनैराननैः कामिनां विलासिनां रति प्रीतिं संजनयन्ति सम्यक्प्रकारेणोत्पादयन्तीत्यर्थः ।। तडिल्लताशक्रधनुर्विभूषिताः पयोधरास्तोयभरावलम्बिनः । स्त्रियश्च काञ्चीमणिकुण्डलोज्ज्वला हरन्ति चेतो युगपत्प्रवासिनाम् ॥ १९ ॥ तडिल्लतेति ॥ तडिल्लता लताकारा तडिच्छक्रधनुरिन्द्रा- युधं च ताभ्यां विभूषिताः शोभिताः ॥ “ इन्द्रायुधं श- क्रधनुः इत्यमरः ॥ तोयभरेण जलभारेणावलम्बिनो नम्राः पयोधरा मेघाः । काञ्ची मेखला च मणिकुण्डलानि नानाविधरत्नखचितताटङ्कानि च तैरुज्ज्वलाः सुन्दराः स्त्रि- यश्च प्रवासिनां प्रोषितानां चेतोऽन्तःकरणं युगपत्सममेव हरन्त्यपहरन्तीत्यर्थः॥ स्त्रियश्चात्र परकीयाः। प्रवासिनां खकीयासांनिध्याभावात् ॥ मालाः कदम्बनवकेसरकेतकीभि- रायोजिताः शिरसि बिभ्रति योषितोऽद्य । कर्णान्तरेषु ककुभद्रुममञ्जरीभि- रिच्छानुकूलरचितानक्तंसकांश्च ॥ २० ॥ माला इति ॥ योषितः स्त्रियोऽद्य कदम्बानि कदम्ब- कुसुमानि, नवकेसराणि नूतनबकुलकुसुमानि, केतक्यश्च ताभिरायोजिता ग्रथिताः ॥ अथ केसरे । बकुलम् १ तडिल्लताः. २ मेखलोज्ज्वलाः. ३ मञ्जरीणाम्. ४ श्री. त्रानुकूल.
No text on this page.
No text on this page.
द्वितीयः सर्गः। २७ - गः इत्यमरः ॥ मालाः स्त्रजः शिरसि मूर्धनि ककुभद्रुमोऽर्जुन- वृक्षस्तस्य मञ्जरीभिः कलिकाभिरिच्छयानुकूलं यथा भ- वति तथा रचितान्कृतानवतंसा एवावतंसकास्तान्कर्णा- न्तरेषु कर्णोपरिभागेषु बिभ्रति दधतीत्यर्थः ॥ वसन्ततिलका वृत्तमेतत् । तदुक्तम् उक्ता वसन्ततिलका तमजा जगौ इति ॥ कालागुरुप्रचुरचन्दनचर्चितायः पुष्पावतंससुरभीकृतकेशपाशाः । श्रुत्वा ध्वनि जलमुचां त्वरितं प्रदोषे य्यागृहं गुरुगृहात्मविशन्ति नार्यः॥ २१ ॥ कालागुर्विति ॥ कालागुरुः कृष्णागुरुः स प्रचुरो ब- हुलो यस्मिस्तादृशं यच्चन्दनं तेन चर्चितं लिप्तमङ्गं शरीरं यासां तास्तथोक्ताः। पुष्पावतंसेन कुसुमकर्णपूरेण सुरभीक- तः सुगन्धीलतः केशपाशः कुन्तलसमूहो यासां तास्तथोक्ता नार्यः स्त्रियो जलमुचां घनानां ध्वनि गर्जनं श्रुत्वाकर्ण्य त्वरितं शीघ्र प्रदोषे रजनीमुखे गुरुगृहाच्छशुरगृहं परि- त्यज्य शय्यागृहं प्रविशन्तीत्यर्थः ॥ कुवलयदलनीलैरुन्नतैस्तोयन- {दुपवनविधृतैर्मन्दमन्दं चलद्भिः । अपहृतमिव चेतस्तोयदैः सेन्द्रचापैः पथिकजनवधूनां तद्वियोगाकुलानाम् ॥ २२ ॥ कुवलयेति ॥ कुवलयस्य नीलोत्पलस्य दलं पत्रमिव १ चर्चिताङ्गाः, २ स्तोकनः. ३ तोयननैः. ४ तद्वियो- गक्षतानाम्.
२८ ऋतुसंहारे नीलैः श्यामवर्णरुन्नतैरुच्चस्थैस्तोयननैर्जलननैर्मृदुना लघुना पवनेन वातेन विधूताः कम्पितास्तैरत एव मन्दमन्दमति- मन्थरं चलद्भिर्गच्छद्भिः सेन्द्रचापैरिन्द्रधनुषा सहितैस्तोय- दैमधेस्तेषां पान्थजनानां वियोगेन विरहेणाकुला व्याकु- लास्तासां पथिकजनवधूनां विरहिणीनां चेतोऽन्तःकरणम- पहृतमिव हृत्वानीतमिवेत्युत्प्रेक्षा ॥ मालिनी वृत्तमेतत् । लक्षणं तूक्तम् ॥ मुदित इव कदम्बैर्जातपुष्पैः समन्ता- त्पवनचलितशाखैः शाखिभिर्नृत्यतीव । हसितमिव विधत्ते सूचिभिः केतकीनां नवसलिलनिषेकच्छिन्नतापो बनान्तः ॥२३॥ मुदित इति ॥ नवस्य नूतनस्य सलिलस्य निषेकेण से- वनेन छिन्न उछिन्नस्तापो यस्य स तथोक्तो वनान्तो- ऽरण्यप्रान्तो जातपुष्पैः प्रादुर्भूतकुसुमैः कदम्बैर्नीपवृक्षमुदित इव समन्तादितस्ततः पवनेन वायुना चलिताः कम्पिताः शाखा यैस्तथोक्तैः शाखिभिः ॥ " वृक्षो महीरुहः शाखी विटपी पादपस्तरुः इत्यमरः ॥ नृत्यतीव नृत्यं करोतीवेत्युत्प्रेक्षा । एवमन्यत्रापि । केतकीनां सूचिभिः कण्टकैर्हसितमिव हास्यमिव विधत्ते दधतीत्यर्थः ।। शिरसि बकुलमालां मालतीभिः समेतां विकसितनवपुष्पैर्युथिकाकुड्भलैश्च । विकचनवकदम्बैः कर्णपूरं वधूनां रचयति जलदौघः कान्तवत्काल एषः॥२४॥ शिरसीति ॥ जलदानां मेघानामोघः संघातो यस्मिन्स १ निषेकात. २ शान्ततापः. ३ कुसुमितवनपुष्पैः. :
No text on this page.
No text on this page.
द्वितीयः सर्गः । २९ तथोक्तः ॥ " स्तोमौघनिकरवातवारसंघातसंचयाः" इ- त्यमरः ॥ एप कालो वर्षाकालः कान्तवत्प्रियवद्वधूनां स्त्रीणां शिरसि मूर्धनि मालतीभिर्मालतीकुसुमैः समेतां युक्तां बकुलमालां केसरत्र रचयति करोति । तथा वि- कसितनवपुष्पैः संफुल्लनूतनकुसुमैयूथिकाया मागधीलतायाः कुड्डलानि मुकुलानि तैः ॥ अथ मागधी । गणिका यू- थिकाम्बष्ठा इत्यमरः। " कुडलो मुकुलोऽस्त्रियाम् इत्यमरः ॥ विकचानि विकसितानि नवानि नूतनानि यानि कदम्बानि कदम्बकुसुमानि तैश्च कर्णपूरं कर्णोत्तंसं रच- यति करोतीत्यर्थः ॥ दधति बरकुचारुनरियष्टि प्रतनुसितदुकूलान्यायतैः श्रोणिबिम्बैः । नवजलकणसेकादुगतां रोपरांजी ललितवलिविभङ्गैर्मध्यदेशैश्च नार्यः ॥ २५ ॥ दधतीति ॥ नार्यः स्त्रिय उन्नतैरूर्ध्वमुखैर्वरा उत्तमाः । पीना वर्तुलाश्चेति यावत् । ये कुचाः स्तनास्तेषामग्रैरग्र- भागैर्हारयष्टिं मुक्ताहारमायतैर्दीधैः श्रोणिबिम्बैः कटिप- चाद्भागैः प्रतनूनि सूक्ष्माणि सितानि श्वेतवर्णानि यानि दुकूलानि वस्त्राणि तानि ललितानां सुन्दराणां वलीनां त्रिव- लीनां विभङ्गा येषु तैस्तथोक्तैर्मध्यदेशैर्नवानां जलकणानां सेकादुद्गतामुत्पन्नां रोमराजी रोमाञ्चपतिं दधतीत्यर्थः ॥ नवजलकणसङ्गाच्छीततामादधानः कुसुमभरनतानां लासकः पादपानाम् । १ कुचयुगाप्रैः; पृथुकुचाग्रैः. २ राजिम्. ३ त्रिवलिवलि- विभङ्गैः; ललितवलिविभागैः. ४ मध्यदेशे. ५ तु. ६ सेकात्. ७ लालसः; नाशकः.
रागैः ॥ ३० ऋतुसंहारे जनितरुचिरगन्धः केतकीनां रजोभिः परिहरति नभखान्प्रोषितानां मनांसि ॥२६॥ नवेति ॥ नवानां नूतनानां जलकणानां सङ्गात्संबन्धा- च्छीततां शैत्यमादधानो गृह्णन्कुसुमानां पुष्पानां भरेण नता नम्रास्तेषां तथोक्तानां पादपानां वृक्षाणां लासकः संसर्गवान् । एतेन मान्द्यमुक्तम् । केतकीनां रजोभिः प- परागः सुमनोरजः इत्यमरः ॥ जनित उ- त्पादितो रुचिरः सुन्दरो गन्धो यस्मिंस्तथोक्तो नभस्वा- न्वायुः प्रोषितानां पान्थजनानां मनांस्यन्तःकरणानि परि- हरतीत्यर्थः ।। जलधरविनतानामाश्रयोऽस्माकमुच्चै- रयमिति जलसेकैस्तोयदास्तोयनम्राः । अतिशयपरुषाभिीष्मवह्नः शिखाभिः समुपजनिततापं हादयन्तीव विन्ध्यम् ॥२७॥ जलधरेति ॥ तोयनम्रा जलभारनतास्तोयदा मेघा ज- लधरेण विनतानां नम्राणामस्माकमुच्चैरुन्नतोऽयं विन्ध्या- चल आश्रय आधारः । भवतीति शेषः । इतीति हेतोर- तिशयमत्यन्तं परुषाः कठिनास्ताभिस्तथोक्ताभिीष्मवहे: शिखाभिः सम्यगुपजनित उत्पादितस्तापः संतापो यस्य तं तथोक्तं विन्ध्यं विन्ध्यादि जलसेकैलवर्षणैर्हादयन्ति हर्ष प्रापयन्तीवेत्युत्प्रेक्षा । उपकतो हि विपन्नं परमुपक- रोतीति भावः ॥ १ सुरभि. २ व्यवहरति; अपहरति. ३ योषितानाम्. ४ ज. लभरनमितानाम्.
No text on this page.
No text on this page.
तृतीयः सर्गः। ३१ बहुगुणरमणीयः कामिनीचित्तहारी तरूविटपलतानां बान्धवो निर्विकारः। जलदसमय ऐष प्राणिनां प्राणभूतो दिशतु तव हितानि प्रायशो वाञ्छितानि ॥२८ बहुगुणेति ॥ बहुगुणै रमणीयः सुन्दरः कामिनीनाम- ङ्गनानां चित्तहारी । मनोऽनुरञ्जक इति यावत् । तरुवि- टपा वृक्षशाखा लता वल्यश्च तासाम् ॥ क्वचित्पुस्तके "न- तविटपिलतानाम्” इति पाठः । तदर्थस्तु-नता नम्रा विटपिनः शाखिनो लताश्च तासामिति ॥ “वल्ली तु व्र- ततिलता" इत्यमरः ॥ बान्धवो बन्धुः । निर्विका- रो विकारशून्यः प्राणिनां जन्तूनाम् ॥ चेतनो जन्मी जन्तुजन्युशरीरिणः” इत्यमरः ॥ प्राण- भूतो जीवभूत एष जलदसमयो वर्षाकालस्तव प्रायशो बहुशो वाञ्छितान्यभिलषितानि हितानीष्टानि दिशतु ददात्वित्यर्थः ॥ इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्या व्याख्यया समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये प्रावृर्णनं नाम द्वितीयः सर्गः । " प्राणी तु तृतीयः सर्गः। - अथ क्रमप्राप्तं शरत्कालं वर्णयति- काशांशुका विकचपद्ममनोज्ञवक्रा सोन्मादहंसरवन् पुरनादरम्या । १ योषिताम्. २ एषाम्. ३ प्राणिनः. ४ प्राणहेतु:. ५ रुत.
इ- ३२ ऋतुसंहारे आपकशालिरुचिरा तेनुगात्रयष्टिः प्राप्ता शरनववधूरिव रूपरम्या ॥ १ ॥ काशांकेति ॥काशमेव काशकुसुममेवांशुकं वस्त्रं यस्याः सा तथोक्ता । पक्षे काशमिवांशुकं वस्त्रं यस्याः सेति । विकचं विकसितं यत्पमं तदेव मनोज्ञं सुन्दरं वकं मुखं यस्याः सा तथोक्ता । पक्षे विकचं विकसितं यत्पमं तदिव मनोज्ञं सुन्दरं वक्रं मुखं यस्याः सेति ॥ “प्रफुल्लोत्फुल्ल- संफुल्लव्याकोशविकचस्फुटाः । फुल्लश्चैते विकसिते त्यमरः । " वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम् इत्यमरः ॥ सोन्मादानामुन्मादसहितानां हंसानां रवः शब्द एव नूपुरनादो मञ्जीरध्वनिस्तेन रम्या रमणीया । पक्षे सोन्मादहंसरव इव नूपुरनादस्तेन रम्या ॥ “शब्दे निनादनिनदध्वनिध्वानरवस्वनाः" इत्यमरः । नूपुरोऽस्त्रियाम् " ॥ इत्यमरः ॥ आ समन्तात्पक्का परिणता शालिरेव रुचिरा सुन्दरा तन्वी गात्रयष्टिः शरीरलता यस्याः । पक्ष आपक्वशालिरिव रुचिरा तनुर्गात्रयष्टि- र्वपुःसंहननं यस्याः ॥ " शरीरं वर्ण विग्रहः" इत्यमरः ॥ रूपरम्या शरन्नववधूरिव प्राप्तागतेत्यर्थः ॥ वसन्ततिल- का वृत्तम् ॥ काशैर्मही शिशिरदीधितिना रजन्यो हंसैलानि सरितां कुमुदैः सरांसि । सप्तच्छदैः कुसुमभारनतैर्वनान्ताः शुक्लीकृतान्युपवनानि च मालतीभिः ॥२॥ काशैरिति ॥ काशैः काशपुष्पैर्मही पृथ्वी । शिशिर- १ ललिता. २ नत. ३ हारिरूपा; रम्यरूपा. " मञ्जीरो
No text on this page.
No text on this page.
" " इ. तृतीयः सर्गः। दीधितिना चन्द्रेण रजन्यो रात्रयः। हंसैः सरितां न- दीनां जलानि । कुमुदैः कैरवैः ॥ " सिते कुमुदकैरवे इत्यमरः॥ सरांसि कासाराः॥ कासारः सरसी सरः त्यमरः ॥ कुसुमभारेण पुष्पभारेण नता नम्रास्तैस्तथोक्तैः सप्तच्छदैः सप्तपर्णेवृक्षविशेषैर्वनान्ता अरण्यप्रान्ताः । मा- लतीमिर्जातीभिश्च ॥ "सुमना मालती जाती” इत्यमरः ॥ उपवनान्यारामाः ॥ आरामः स्यादुपवनं कृत्रिमं वन- मेव यत्" इत्यमरः ॥ शुक्लीकतानीति लिङ्गवचनविप- रिणामेनान्वयः॥ चञ्चन्मनोज्ञशफरीरसनाकलापाः पर्यन्तसंस्थितसिताण्डजपंङ्गिहाराः। नद्यो विशालपुंलिनान्तनितम्बबिम्बा मन्दं प्रयान्ति समदाः प्रमदा इवाय ॥ ३॥ चञ्चदिति ॥ चञ्चती चञ्चला मनोज्ञा सुन्दरा शफर्येव प्रोष्ठयेव रसनाकलापः काञ्चीगुणो यासां तास्तथोक्ताः । पक्षे चञ्चन्मनोज्ञशफरीव रसनाकलापो यासां ताः॥"प्रोष्ठी तु शफरी द्वयोः" इत्यमरः ॥ पर्यन्ते प्रान्तभागे संस्थितो- पविष्टा या सिताण्डजानां धवलमरालादीनां पङ्क्तिः श्रेणी सैव हारो यासां तास्तथोक्ताः ॥ " पतिः श्रेणी लेखास्तु राजयः इत्यमरः ॥ पक्षे पर्यन्तसंस्थितसिताण्डजपङ्किरिव हारो यासां ताः ॥ विशालो विस्तीर्णों यः पुलिनान्तस्ती- रप्रान्तः स एव वितम्बबिम्बं कटिपश्चाद्भागो यासां तास्त- थोक्ता नद्यः सरितः ॥ " अथ नदी सरित्" इत्यमरः ॥ १ भक्ति. २ पुलिनोरु. . " ३४ ऋतुसंहारे समदा यौवनमदगर्विताः प्रमदाः स्त्रिय इव मन्दं मन्थरं यथा भवति तथाद्य प्रयान्ति गच्छन्तीत्यर्थः ॥ व्योम कचिद्रतशमृणालगौरै- स्यक्ताम्बुभिलघुतया शतशः प्रयातैः । संलक्ष्यते पवनवेगचलैः पयोदै राजेव चामरवरैरुंपवीज्यमानः ॥ ४ ॥ व्योमेति ॥ त्यक्तं निवृत्तमम्बु यैस्तथोक्तैरतएव रजतं च शङ्खश्च मृणालं च रजतशङ्खमृणालानि तानीव गौरा गौरवर्णास्तैस्तथोक्तैः । लघुतया शतशः प्रयातैः पवनस्य वायोगेन चलाश्चञ्चलास्तैस्तथोक्तैः पयोदैव्योमाकाशं क्व- चित्कुत्रचिद्भागे चामरवरैश्चामरश्रेष्ठैरुपवीज्यमानो राजेव संलक्ष्यते दृश्यत इत्यर्थः ॥ भिन्नाञ्जनप्रचयकान्ति नभो मनोज्ञ बन्धूकपुष्परेचितारुणता च भूमिः । वाश्च चारुकमलावृतभूमिभागाः प्रोत्कण्ठयन्ति न मनो भुवि कस्य यूनः॥५॥ भिन्नति ॥ भिन्नो विभिन्नो योऽञ्जनप्रचयः कज्जलसमू- हस्तद्वत्कान्तिर्यस्य तत्तथोक्तं मनोज्ञंसुन्दरं नभ आकाशम् । बन्धुकानां जीवबन्धुकानां पुष्पैः कुसुमै रचिता कृतारुणता यस्याः सा तथोक्ता ॥ " बन्धूको बन्धुजीवकः” इत्य- मरः ॥ भूमिश्च । चारूणि सुन्दराणि यानि कमलानि तैरा- १ वीताम्बुभिः. २ उत्प्रेक्षते. ३ चामरशतै ४ अपि वी- अभिवीज्यमान:. ५ रजसारुणिता. ७ उत्कण्ठयन्ति. ज्यमानः; ६ पककलमा.
No text on this page.
No text on this page.
तृतीयः सर्गः। वृता आच्छादिता भूभिभागा येषां ते तथोक्ता वप्राः प्रा. काराश्च ॥ " स्याञ्चयो वप्रमस्त्रियाम् । प्राकारो वरणः शालः " इत्यमरः ॥ भुवि कस्य यूनो मनो न प्रोत्कण्ठ- यन्ति प्रोत्कर्षणेन नोत्कण्ठयन्ति । अपि तु सर्वस्यापीति विभक्तिविपरिणामेनान्वयः॥ मन्दानिलाकुलितचारुतरामशाखः पुष्पोद्गमपचयकोमलपल्लवानः । मत्तद्विरेफपरिपीतमधुमसेक- श्चितं विदारयति कस्य न कोविदारः ॥६॥ मन्दति ॥ मन्देन मन्थरेणानिलेन पवनेनाकुलिताश्चा. रुतरा अतिसुन्दरा अग्रशाखा यस्य तथोक्तः । पुष्पोद्गमस्य कुसुमप्रादुर्भावस्य प्रचयेनाधिक्येन कोमलानि मृदुनि प- लवाग्राणि यस्य स तथोक्तः । मत्तद्विरेफैरुन्मत्तभ्रमरैः प- रिपीतो मधुप्रसेको मकरन्दप्रस्त्रवो यस्य स तथोक्तः को- विदारश्चमारिकक्षः ॥ " कोविदारे चमरिकः कुद्दालो युगपत्रकः इत्यमरः ॥ कस्य चित्तं न विदारयति । अपि तु सर्वस्यापि विदीर्ण करोतीत्यर्थः ।। तारागणप्रवरभूषणमुद्वहन्ती मेघावरोधपरिमुक्तशशाङ्कवक्त्रा । ज्योत्स्नादुकूलममलं रजनी दधाना वृद्धि प्रयासनुदिनं प्रमदेव बाला ॥ ७ ॥ तारागणेति ॥ ताराणां नक्षत्राणां गणः समुदाय एव प्रवरमुत्तमं भूषणम् । पक्षे तारागण इव प्रवरं भूषणम् ॥ १ चारुमनोज्ञ; चारुविशाल. २ मेघोपरोध.
३६ ऋतुसंहारे " नक्षत्रमृक्ष भंतारा" इत्यमरः ॥ उद्वहन्ती दधती । मेधैः कृत्वा योऽवरोधो व्यवधानं तस्मात्परिमुक्तो यः शशाङ्क- चन्द्रः स एव वक्रं वदनं यस्याः सा । पक्षे मेघ इव यो- ऽवरोधो वधूटिवयोऽवलम्बनीयो मुखवसनाच्छादनं व्यव- हारस्ततः परिमुक्तं तन्नियमानधीनं शशाङ्कमिव चन्द्रमिव वक्त्रं मुखं यस्याः सा । अमलं निर्मलं ज्योत्स्नैव दुकूलं वसनं दधाना परिधानं कृतवती सा । पक्षे ज्योत्स्नेवामलं दुकूलं दधाना सेति ॥ " चन्द्रिका कौमुदी ज्योत्स्ना" इ- त्यमरः ॥ रजनी यामिनी ॥ "रजनी यामिनी तमिः" इ- त्यमरः ॥ प्रमदा बाला चानुदिनं प्रतिदिनं वृद्धिं प्रयाति गच्छतीत्यर्थः ॥ कारण्डवाननविघट्टितवीचिमाला: कादम्बसारसर्चयाकुलतीरदेशाः । कुर्वन्ति हंसविरुतैः परितो जनस्य प्रीतिं सरोरुहरजोरुणितास्तटिन्यः॥८॥ कारण्डवेति ॥ कारण्डवानां पक्षिविशेषाणामाननैर्वदनै- विघहिता वीचिमालास्तरङ्गपङ्क्तयो यासु तास्तथोक्ताः॥ भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिः" इत्यमरः ॥ काद- म्बानां कलहंसानां सारसानां पुष्कराद्वानां चयेन समुदा- येनाकुलो व्याकुलस्तीरदेशो यासां तास्तथोक्ताः ॥ “का- दम्बः कलहंसः स्यात् " इत्यमरः । “पुष्कराह्वस्तु सा- रसः इत्यमरः ॥ सरोरुहाणां कमलानां रजोभी रेणु- भिररुणिता आरक्ताः ॥ "परागः सुमनोरजः" इत्य- १ कुलाकुल. २ सरोरुहरजोरुणिताश्च नद्यः; परां कमलरेणु- वृतास्तटिन्यः. "
No text on this page.
तृतीयः सर्गः। ३७ मरः ॥ तटिन्यस्तरङ्गिण्यः ॥ " तरङ्गिणी शैवलिनी तटिनी हादिनी धुनी " इत्यमरः ॥ परितः समन्ततो हंसानां म. रालानां विरुतैः शब्दैः ॥ " तिरश्चां वाशितं रुतम्" इ- त्यमरः ॥ जनस्य लोकस्य प्रीतिं कुर्वन्ति जनयन्तीत्यर्थः ॥ नेत्रोत्सवो हृदयहारिमरीचिमाल: प्रह्लादकः शिशिरसीकरवारिवर्षी । पत्युर्वियोगविषदिग्धशरक्षतानां चन्द्रो दहसतितरां तनुमङ्गनानाम् ॥ ९ ॥ नेत्रोत्सव इति ॥ नेत्राणां लोचनानामुत्सवोहर्षजनकः ।। " लोचनं नयनं नेत्रम्" इत्यमरः ॥ हृदयहारिणी मरी- चिमाला किरणपतिर्यस्य स तथोक्तः। प्रकर्षेण हादको हर्षजनकः। शिशिरं शीतलं सीकराणां वारिवारिकणं वर्षति स तथोक्तश्चन्द्रः सुधाकरः पत्युः प्रियस्य वियोगो विरह एव विषदिग्धशरो बाणस्तेन क्षता व्रणितास्तासां तथो- क्तानामङ्गनानां विरहिणीनां तनुं शरीरमतितरामत्यन्तं द- हति संतापयतीत्यर्थः ॥ आकम्पयन्फलभरानतशालिजाला- नानर्तयस्तरुवरान्कुसुमावनम्रान् । उत्फुल्लपङ्कजवनां नलिनी विधुन्व- न्यूनां मनचलयति प्रसभं नभस्वान् ॥ १० ॥ आकम्पयन्निति ॥ फलानां भरेण भारेणानता नम्रा ये शालिजालाः शालिसमूहास्तानाकम्पयन् । कुसुमावनम्रांस्त- रुवरान्वृक्षश्रेष्ठानानर्तयन् । एतेन पवने मान्द्यमावेदितम् । १ अनुदिनम्. २ तरुवनान; कुरुबकान्. ३ प्रोत्फुल्ल. ४ स्खल- यति; मदयति.
३८ ऋतुसंहारे उत्फुल्लानि विकसितानि पङ्कजानि कमलानि यस्मिंस्ता- दृशं वनं जलं यस्यां तां तथोक्ताम् ॥ जलम् । पयः कीलालममृतं जीवनं भुवनं वनम्" इत्यमरः ॥ नलिनी कमलिनी विधुन्वन्विकम्पयन् । एतेन तस्मिन्सौगन्ध्यं शैत्यं चावेदितम् । नभस्वान्वायुयूनां तरुणानां मनः प्रस- भमत्यन्तं चलयति चञ्चलयतीत्यर्थः ॥ सोन्मादहंसमिथुनैरुपशोभितानि खच्छप्रफुल्लकमलोत्पलभूषितानि । मन्दप्रभातपंवनोद्गतवीचिमाला- न्युत्कण्ठयन्ति सहसा हृदयं सरांसि ॥११॥ सोन्मादेति ॥ सोन्मादानामुन्मादसहितानां हंसानां मरालानां मिथुनैर्द्वन्द्वैरुपशोभितानि भूषितानि । अपि च स्वच्छानि निर्मलानि प्रफुल्लानि च यानि कमलानि पद्मा- न्युत्पलानि नीलेन्दीवराणि च तैर्भूषितानि शोभितानि । म- देन मन्थरेण प्रभातपवनेनोषःकालीनेन वायुनोद्गता उत्प- ना वीचिमालास्तरङ्गपतयो येषु तानि तथोक्तानि सरांसि सरोवराणि । जनानामिति शेषः। हृदयं सहसोत्कण्ठय- न्त्युत्कण्ठायुक्तं कुर्वन्तीत्यर्थः ॥ नष्टं धनुर्बलभिदो जलदोदरेषु सौदामिनी स्फुरति नाद्य वियत्पताका । धुन्वन्ति पक्षपवनैर्न नभो बलाकाः पश्यन्ति नोन्नतमुखा गगनं मयूराः ॥ १२ ॥ नष्टमिति ॥ अद्येदानीं जलदानां मेघानामुदरेषु गर्भेषु । १ स्वच्छानि फुल्ल. २ मन्दं प्रभात; मन्दप्रचार. ३ पवनोद्धत. ४ हृदयं प्रसभम्. ५ नापि.
“ तृतीयः सर्गः । ३९ दृश्यमानमिति शेषः । बलनामकं दैत्यं भिनत्ति विदार- यति । हन्तीति यावत् । तस्य बलभिदो बलारातेरिन्द्रस्य धनुः कार्मुकं नष्टं गतम् । न दृश्यत इत्यर्थः । वियत आ- काशस्य पताका सौदामिनी तडिन्न स्फुरति न दीव्यति । बलाका बिसकण्ठिकाः ॥ बलाका बिसकण्ठिका" इ- त्यमरः ॥ पक्षाणां पत्राणां पवनैर्वातैः । गरुत्पक्षच्छदाः पत्रं पतत्रं च तनूरुहम्" इत्यमरः ॥ नभो न धुन्वन्ति न कम्पयन्ति । उन्नतमूर्व मुखं वदनं मेघदिदृक्षया येषां ते तथोक्ता मयूरा बर्हिणो गगनमाकाशं न पश्यन्ति नावलो- कयन्तीत्यर्थः ॥ नृसप्रयोगरहिताञ्छिखिनो विहाय हंसानुपैति मदनो मधुरप्रगीतान् । मुक्त्वा कदम्बकुटजार्जुनसर्जनीपा- सप्तच्छदानुपगता कुसुमोद्मश्रीः ॥ १३ ॥ नृत्येति ॥ मदनः कंदो नृत्यप्रयोगेन नर्तनप्रयोगेन रहिताशिखिनो बर्हिणो विहाय त्यक्त्वा मधुरं प्रगीतं गानं येषां तांस्तथोक्तान्हंसानुपैति प्राप्नोति । कुसुमानां पुष्पाणामुद्गम उत्पत्तिस्तस्य श्रीः शोभा कदम्बो धूलिक- दम्बः, कुटजः शक्रनामको वृक्षविशेषः, अर्जुनः ककुभवक्षः, सर्जः शालवृक्षः, नीपः पूर्वोक्तकदम्बभिन्नकदम्बस्तान् ॥ अथ कुटजः शक्रः इत्यमरः । “ इन्द्रद्रुः ककुभो- ऽर्जुनः" इत्यमरः ॥ मुक्त्वा त्यक्त्वा सप्तच्छदान्सप्तपर्ण- वृक्षानुपगता प्राप्तेत्यर्थः ॥ १त्यक्त्वा.
ऋतुसंहारे शेफालिकाकुसुमगन्धमनोहराणि स्वस्थस्थिताण्डजकुलपतिनादितानि । पर्यन्तसंस्थितमृगीनयनोत्पलानि प्रोत्कण्ठयन्त्युपवनानि मनांसि पुंसाम् ।। १४ ॥ शेफालिकेति ॥ शेफालिका सुवहा तस्याः कुसुमानां पुष्पाणां गन्धेन मनोहराणि सुन्दराणि ॥ “शेफालिका तु सुवहा निर्गुण्डी नीलिका च सा" इत्यमरः ॥ स्वस्थ- मनुढेगं तीव्रतराणि तापदावानलादिदुःखाभावाद्यथा भवति तथा स्थितानामुपविष्टानामण्डजानां पक्षिणां कोकिलादीनां कुलैः समुदायैः प्रतिनादितानि प्रतिध्वनितानि । पर्यन्ते संस्थितानां प्रान्तस्थितानां मृगीणां हरिणीनां नयनानि लोचनान्येवोत्पलानि कुवलयानि येषु तानि तथोक्तान्यु- पवनान्युद्यानानि पुंसां मनांसि प्रोत्कण्ठयन्ति समुत्कण्ठि- तानि कुर्वन्तीत्यर्थः ॥ कडारपाकुमुदानि मुहुर्विधुन्व- स्तत्संगमादधिकशीतलतामुपेतः । उत्कण्ठयत्यतितरां पवनः प्रभाते पत्रान्तलग्नहँहिनाम्बुविधूयमानः ॥ १५ ॥ कलारेति ॥ कहारपद्मकुमुदानि कलारं सौगन्धिकम्, पद्मं नलिनम्, कुमुदं कैरवंतानि ॥ " सौगन्धिकं तु कहारम्" इत्यमरः। वा पुंसि पद्मं नलिनम्" इत्यमरः । “सिते कुमुदकैरवे" इत्यमरः ॥ मुहुर्वारंवारं विधुन्वन् । तेषां संग- २ गण. ३ कुसुमानि. ४ मुदा. ५ उपेत्य. ६ सोकां करोति वनिताम्. ७ तुहिनानि हरेस्तरूणाम्. १ राग.
तृतीयः सर्गः। मात्स्पर्शादधिकमत्यन्तं शीतलतामुपेतः प्राप्तः । पत्रान्ते द- लप्रान्ते लग्नं यत्तुहिनाम्बु हिमजलं तद्विधूयते स तथोक्तो विधूयमानः पवनो वायुः प्रभाते प्रातःकालेऽतितरामत्यन्त- मुत्कण्ठयत्युत्सुकयतीत्यर्थः ॥ संपन्नशालिनिचयावृतभूतलानि खस्थस्थितप्रचुरगोकुलशोभितानि । हंसैः संसारसकुलैः प्रतिनादितानि सीमान्तराणि जनयन्ति नृणां प्रमोदम् ॥ १६॥ संपन्नति ॥ संपन्नानां जलसिक्तानां शालीनां निचयेन समूहेनासतानि छादितानि भूतलानि येषां तानि तथोक्तानि । वस्थमनुद्वेगं स्थितानां प्रचुराणां बह्वीनां गवां कुलैः समु- दायैः शोभितानि भूषितानि । सारसानां पक्षिविशेषाणां कुलैः सहितास्तैस्तथोक्तैर्हसः प्रतिनादितानि सीमान्तराणि तृणां जनानां प्रमोदं हर्ष जनयन्त्युत्पादयन्तीत्यर्थः ।। हंसैर्जिता सुललिता गतिरङ्गनाना- मम्भोरुहैविकसितैर्मुखचन्द्रकान्तिः । नीलोत्पलैर्मदकलानि विलोकितानि भूविभ्रमाश्च रुचिरास्तनुभिस्तरंगैः ॥ १७ ॥ हंसैरिति ॥ अङ्गनानां पुरंध्रीणां सुललितात्यन्तं रमणीया गतिहसैजिता । मुखचन्द्रस्य वदनचन्द्रस्य कान्तिः शोभा विकसितैर्विकचैरम्भोरुहैर्जिता । मदेन कलानि मधुराणि विलोकितान्यवलोकितानि नीलोत्पलैर्जितानि । रुचिराः सु. २ ३ जनप्रमोदम्. ४ चलानि. १ सुस्थ. च सारस. ५ विलोचनानि. ६ सरिताम्.
४ इ. ४२ ऋतुसंहारे न्दरा भ्रूविभ्रमाश्च तनुभिः सूक्ष्मैस्तरंगै:चिभिर्जिता इति लिङ्गवचनविपरिणामेनान्वयः ॥ श्यामा लताः कुसुमभारनतप्रवाला: खीणां हरन्ति धृतभूषणबाहुकान्तिम् । दन्तावभासविशदस्मितचन्द्रकान्ति कॅकेलिपुष्परुचिरा नवमालती च ॥ १८ ॥ श्यामा इति ॥ कुसुमानां पुष्पाणां भारेण नता नम्राः प्रवालाः पल्लवा यासां तास्तथोक्ताः श्यामा हरिद्वर्णास्तत्र मध्ये याश्च लता व्रतत्यः ॥ " वल्ली तु व्रततिलता" त्यमरः ॥ स्त्रीणां नारीणां धृतानि भूषणानि यैस्तेषां बा- हूनां कान्ति शोभां हरन्त्यपनयन्ति । कङ्केलिपुष्परुचिरा नवमालती नूतनमालिका च दन्तानां रदनानामवभासेन प्रभया विशदं निर्मलं स्मितमेव चन्द्रकान्तिम् ॥ “रदना दशना दन्ताः इत्यमरः ॥ हरतीति विभक्तिविपरिणा- मेनान्वयः॥ केशानितान्तघननीलविकुञ्चिताया- नापूरयन्ति वनिता नवमालतीभिः । कर्णेषु च पँवरकाञ्चनर्कुलेषु नीलोत्पलानि विविधानि निवेशयन्ति॥ १९॥ केशानिति ॥ वनिता अबला नितान्तमत्यन्तं घनाः संकीर्णा नीलाः कृष्णवर्णा विकुञ्चिताः कुटिला अत ए- १ भृत. २ दन्ते विभास. ३ वस्त्रकान्तिम्. ४ बन्धूक. ५ रचिता. ६ नवमालिका च; नवमालतीव; नवमालिकेव. ७ प्रचुर; प्रबल; प्रचल. कुण्डलेषु विकचानि. १० निवेशयन्ते.
तृतीयः सर्गः। श्रवः वाग्राः श्रेष्ठास्तांस्तथोक्तान्केशान्कुन्तलान् ॥ चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः" इत्यमरः ॥ न- वमालतीभिर्नवमालतीकुसुमैरापूरयन्ति । प्रवराणि श्रेष्ठानि काश्चनकुङ्मलानि स्वर्णताटङ्कादीनि येषु तेषु तथोक्तेषु क- णेषु श्रवणेषु ॥ “कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं इत्यमरः ॥ विविधानि विचित्राणि नीलोत्पलानी- न्दीवराणि निवेशयन्ति स्थापयन्ति । अवलम्बयन्तीत्यर्थः ।। हारैः सचन्दनरसैः स्तनमण्डलानि श्रोणीतटं सुविपुलं रसनाकलापैः । पादाम्बुजानि कलनूपुरशेखरैश्च नार्यः प्रहृष्टमनसोऽद्य विभूषयन्ति ॥२०॥ हारिति ॥ प्रहृष्टमनसः प्रहर्षितचेतसो नार्यः स्त्रियो- ऽद्य सचन्दनरसैश्चन्दनद्रवसहितैहीरैः स्तनमण्डलानि कुच- मण्डलानि । रसनाकलापैः काञ्चीगुणैः सुविपुलं महच्छ्रो- णीतटं कटिपश्चाद्भागम् । कलनूपुरशेखरैरुत्तममञ्जीरैः पा- दाम्बुजानि चरणकमलानि च विभूषयन्तीत्यर्थः ।। स्फुटकुमुदचितानां राजहंसस्थितानां मरकतमणिभासा वारिणा भूषितानाम् । श्रियमतिशयरूपां व्योम तोयाशयानां वहति विगतमेधं चन्द्रतारावकीर्णम् ॥ २१ ॥ स्फुटेति ॥ विगता मेघा यस्मात्तं तथोक्तं चन्द्रश्च तारा नक्षत्राणि च ताभिवरकीर्ण व्याप्तं व्योमाकाशं स्फुटैविक- सितैः कुमुदैः कैरवैश्चिता व्याप्तास्तेषां तथोक्तानाम् । रा- २ आश्रितानाम्. ३ आपूरितानाम्. १ वर.
ऋतुसंहारे जहंसा हंसविशेषाः स्थिता येषु तेषां तथोक्तानाम् ॥ " राजहंसास्तु ते चञ्चुचरणैलोहितैः सिताः" इत्यमरः ॥ मरकतमणेभी इव भाः कान्तिर्यस्य तेन तथोक्तेन वारिणा जलेन भूषितानां शोभितानां तोयाशयानां जलाशयानाम- तिशयरूपामत्यन्तसुन्दरां श्रियं शोभां वहति धत्त इ- त्यर्थः ॥ मालिनीवृत्तम् । तल्लक्षणं तु पूर्वोक्तम् ॥ शरदि कुमुदसङ्गाद्वायवो वान्ति शीता विगतजलदवृन्दा दिग्विभागा मनोज्ञाः । विगतकलुषमम्भः श्यानपङ्का धरित्री विमलकिरणचन्द्रं व्योम ताराविचित्रम् ॥२२॥ शरदीति ॥ शरदि शरत्काले कुमुदस्य कैरवस्य सङ्गा- संसर्गाच्छीताः शीतला वायवः पवना वान्ति वह. न्ति । दिग्विभागा आशाप्रान्ताः ॥ काष्ठा आशाश्च इत्यमरः ॥ विगतानि जलदानां मेघानां वृन्दानि समूहा येभ्यस्ते तथोक्ता अत एव मनोज्ञाः सु- न्दराः । अम्भो जलं विगतं विनष्टं कलुषं कालुष्यं यस्य १ कुसुम. २ तोयात्. ३ यान्ति. ४ विशद. ५ शालिपक्का. २२-२३ श्लोकयोमध्येऽयमंशो दृश्यते- करकमलमनोज्ञाः कान्तसंसक्तहस्ता वदनविजितचन्द्राः काश्चिदन्यास्तरुण्यः । रचितकुसुमगन्धि प्रायशो यान्ति वेश्म प्रबलमदनहेतौ सूक्तसङ्गोक्तरम्याः ।। सुरतरुचिविलासाः सत्सखीभिः समेता असमशरविनोदं सूचयन्ति प्रकामम् । अनुगतमुखराभिः श्रोणिमध्ये विनोदं शरदि तरुणकान्ताः सूचयन्ति प्रमोदान् ॥ " दिशस्तु ककुभः - तृतीयः सर्गः । तत्तथोक्तम् । निर्मलमित्यर्थः । धरित्री क्षितिः ॥ “धरा ध- रित्री धरणिः क्षोणी ज्या काश्यपी क्षितिः" इत्यमरः ॥ श्यानपङ्का शुष्कपङ्का । व्योमाकाशं विमला निर्मलाः कि- रणा मयूखा यस्य तादृशश्चन्द्रो यत्र तत्तथोक्तम् ॥ " कि- रणोत्रमयूखांशु-" इत्यमरः ॥ ताराभिर्नक्षत्रैर्विचित्रं सुन्द- रमित्यर्थः ॥ " नक्षत्रमृक्षं भं तारा तारकाप्युडु वा स्त्रि- याम्" इत्यमरः ॥ दिवसकरमयूखैोध्यमानं प्रभाते वरयुवतिमुखामं पङ्कजं जृम्भतेऽद्य । कुमुदमपि गतेऽस्तं लीयते चन्द्रबिम्बे हसितमिव वधूनां प्रोषितेषु प्रियेषु ॥ २३ ॥ दिवसेति ॥ प्रभाते प्रातःकाले दिवसकरस्य सूर्यस्य मयूखैः किरणैबोध्यमानं विकाश्यमानमित्यर्थः ॥ स्युः प्रभारुचिस्त्विड्भामाश्छविद्युतिदीप्तयः इत्यमरः पङ्कजं कमलमयेदानी जृम्भते शोभते । कुमुदं कैरवमपि चन्द्रबिम्बेऽस्तमस्ताचलं गते प्राप्ते सति प्रोषितेषु विदेश- गतेषु प्रियेषु कान्तेषु वधूनां रमणीनां हसितमिव लीयते । क्षीणं भवतीत्यर्थः॥ असितनयनलक्ष्मी लक्षयित्वोत्पलेषु कणितकनककाची मत्तहंसस्वनेषु । अधररुचिरशोभा बन्धुजीवे प्रियाणां पथिकजन इदानी रोदिति भ्रान्तचित्तः॥२४॥ असितेति ॥ पथिकजनः पान्थजन इदानीं शरत्काले प्रि- ॥ ४ हंसो. १ म्लायते. २ चन्द्रबिम्बम्. ३ कान्तिम्. ५ प्रियायाः. ६ भ्रान्तचेतः, ऋतुसंहारे याणां प्रेयसीनामसितानां कृष्णानां नयनानां नेत्राणां लक्ष्मी शोभाम् “ कृष्णे नीलासितश्यामकालश्यामलमेचकाः " इत्यमरः । " लोचनं नयनं नेत्रम्" इत्यमरः ॥ उत्पलेषु कमलेषु क्वणिता क्वणन्ती या कनककाञ्ची सुवर्णरसना तां मत्तहंसवनेषून्मत्तमरालशब्देष्वधरस्योष्ठस्य रुचिरा सु- न्दरा या शोभा तां बन्धुजीवे बन्धूककुसुमे लक्षयित्वा दृष्ट्वा भ्रान्तचित्तः सन्रोदिति । रोदनं करोतीत्यर्थः ॥ स्त्रीणां विहाय वदनेषु शशाङ्कलक्ष्मी कामं च हंसवचनं मणिनूपुरेषु । वन्धूककॉन्तिमधरेषु मनोहरेषु कापि प्रयाति सुभगा शरदागमश्रीः ॥२५॥ स्त्रीणामिति ॥ सुभगा सुन्दरा या शरदागमस्य श्रीः शोभा। शशाङ्कस्य चन्द्रस्य लक्ष्मी शोभा स्त्रीणां सुन्दरीणां वदनेषु मुखेषु । कामं रमणीयं हंसवचनं मरालविरुतं च मणिनूपुरेषु मणिखचितमञ्जीरेषु । बन्धूकस्य बन्धूककुसुमस्य कान्ति च मनोहरेषु सुन्दरेष्वधरेषु विहाय त्यक्त्वा क्वापि कुत्रचिदपि प्रयाति गच्छतीत्यर्थः ॥ एतेन हेमन्तागमः सूचितः ॥ वसन्ततिलकारत्तम् ॥ विकचकमलवक्त्रा फुल्लनीलोत्पलाक्षी विकसितनवकाशश्वेतवासो वसाना । कुमुदरुचिरकान्तिः कामिनीवोन्मदेयं प्रतिदिशतु शरद्वश्वेतसः प्रीतिमय्याम् ॥ २६ ॥ २ लक्ष्मीः. ३ हास्ये विशुद्धवदने कुमुदाकरश्रीम्; हास्ये विशुद्धवदने कुमुदाकरश्रीः. ४ कान्तिः. ५ विकसितनव. काशासंकुलालम्बिवस्त्रा; कुसुमितवनकाशाव्याकुलालम्बिवासा. ६ हा- ७ परिदिशतु; उपदिशतु. १ निधाय. , सा.
चतुर्थः सर्गः। विकचेति ॥ विकचं विकसितं कमलमेव वक्त्रं मुखं यस्याः सा तथोक्ता । पक्षे विकचं कमलमिव वक्त्रं यस्याः सेति । फुल्लानि प्रफुल्लानि नीलोत्पलानीन्दीवराण्येवाक्षिणी यस्याः सा तथोक्ता । पक्षे फुल्लानि नीलोत्पलानीवाक्षिणी यस्याः सेति । विकसितं विकाशं प्राप्तं नवकाशं नूतनं काशकुसुममेव श्वेतवासः श्वेतवस्त्रम् । पक्षे विकसितनव- काशमिव श्वेतवासो वसाना । कुमुदेन कैरवेण सदृशी रु- चिरा कान्तिर्यस्याः सा तथोक्ता । पक्षे कुमुदमिव रुचिरा कान्तिर्यस्याः सेयं शरदुन्मदोत्कटमदा कामिनीव प्रेय- सीव वो युष्माकं चेतसाश्चत्तस्याश्यामुत्तमां प्रीति प्रतिदि- शतु ददात्वित्यर्थः ॥ मालिनीवृत्तमेतत् ॥ इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया समेतः कविश्रीकालिदासकविवराग्रणीकृताऋतुसंहारे महाकाव्ये शरद्वर्णनं नाम तृतीयः सर्गः । चतुर्थः सर्गः। अथ क्रमप्राप्तं हेमन्तकालं वर्णयति- नवप्रवालोद्गमसस्यरम्यः प्रफुल्ललोध्रः परिपक्कशालिः। विलीनपद्मः प्रपतत्तुषारो हेमन्तकालः समुपागतोऽयम् ॥ १॥ नवेति ॥ नवानां नूतनानां प्रवालानां पल्लवानामुद्गम १ पुष्प. २ प्रिये.
१८ ऋतुसंहारे उत्पत्तिः सस्यानि च ते रम्यो रमणीयः । प्रफुल्लाः सं- फुल्ला लोध्रा लोध्ररक्षा यस्मिन्स तथोक्तः । परिपक्वाः प- रिणताः शालयो धान्यानि यस्मिन्स तथोक्तः । विली- नानि म्लानानि पद्मानि कमलानि यस्मिन्स तथोक्तः । प्र- पतत्तुषारो हिमं यस्मिन्स तथोक्तः ॥ " तुषारस्तुहिनं हि- मम्' इत्यमरः ॥ अयं हेमन्तकालः समुपागत आगतः । प्राप्त इत्यर्थः॥ उपेन्द्रवजावृत्तम् । तल्लक्षणं तु-" उपेन्द्र- वजा जतजास्ततो गौ" इति ॥ मनोहरैः कुङ्कुमरागरक्तैः स्तुषारकुन्देन्दुनिभैश्च हारैः। विलासिनीनां स्तनशालिनीना- मैलंक्रियन्ते स्तनमण्डलानि ॥२॥ मनोहरैरिति ॥ स्तनैः कुचैः शालन्ते शोभन्त इति स्त- नशालिन्यस्तासां तथोक्तानां विलासिनीनां विलासवतीनां स्तनमण्डलानि कुचमण्डलानि मनोहरैः कुङ्कुमस्य कश्मी- रजन्मनो रागेण रक्ताः पिञ्जरास्तैस्तथोक्तैः ॥ " अथ कुङ्कु- मम् । कश्मीरजन्माग्निशिखं वरं बाह्रीकपीतने " इत्य- मरः ॥ तुषारो हिमम् , कुन्दः कुन्दकुसुमम्, इन्दुश्चन्द्रस्तै- निभाः सदृशास्तैस्तथोक्तैहीरैर्मुक्ताहारैरलंक्रियन्त इत्यर्थः ॥ न बाहुयुग्मेषु विलासिनीनां प्रयान्ति सङ्गं वलयाङ्गदानि । नितम्बनिम्बेषु नवं दुकूलं तन्वंशुकं पीनपयोधरेषु ॥ ३ ॥ १ चन्दनरागगौरैः; कुङ्कुमरागपिञ्जरैः. २ नालंक्रियन्ते.
४९ चतुर्थः सर्गः । नेति ॥ विलासिनीनां बाहुयुग्मेषु करयुगेषु वलयानि कटकान्यङ्गदानि केयूराणि तानि ॥ “कटको वलयोऽस्त्रि- याम्" इत्यमरः । “केयूरमगदं तुल्ये" इत्यपि ॥ सङ्गं संबन्धं न प्रयान्ति न प्राप्नुवन्ति । नवं नूतनं दुकूलं वस्त्रं नितम्बबिम्बेषु कटिपश्चाद्भागेषु सङ्गं न प्रयाति । तनु सू- ममंशुकं वस्त्रं कञ्चुक्यादि पीनाः परिपुष्टा ये पयोधराः कुचास्तेषु सङ्गं न प्रयातीति वचनविपरिणामेनान्वयः ॥ काञ्चीगुणैः काञ्चनरत्रचित्र- नों भूषयन्ति प्रमदा नितम्बम् । न नूपुरैर्हसरुतं भजद्भिः पादाम्बुजान्यम्बुजकान्तिभाजि ॥ ४ ॥ काञ्चीति ॥ प्रमदाः स्त्रियो नितम्बं काञ्चनं स्वर्ण रत्नानि च तैश्चित्रैश्चमत्कृतैः काञ्चीगुणै रसनाकलापैनों भूषयन्ति नालंकुर्वन्ति । तथाम्बुजस्य कमलस्य कान्ति भजन्ति तानि तथोक्तानि पादाम्बुजानि चरणकमलानि हंसरुतं मराल- विरुतं भजद्भिपुरैर्मञ्जीरैर्न भूषयन्ति ॥ उपजातिवृत्तमे- तत् । तल्लक्षणं तु-"स्यादिन्द्रवजा यदि तौ जगौ गः। उपेन्द्रवजा जतजास्ततो गौ । अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः" इति ॥ गात्राणि कालीयकचर्चितानि सपत्रलेखानि मुँखाम्बुजानि । १ रक्त. २ नितम्बान. ३ भान्ति. ४ नखाम्बुजानि.
ऋतुसंहारे शिरांसि कालागुरुधूपितानि कुर्वन्ति नार्यः मुरतोत्सवाय ॥५॥ गात्राणीति ॥ नार्यः स्त्रियः सुरतोत्सवाय गात्राणि शरीराणि कालीयकेन जायकेन चर्चितानि लिप्तानि ॥ अथ जायकम् । कालीयकं च कालानुसार्यम्" इत्य- मरः ॥ मुखाम्बुजानि वदनकमलानि पत्रलेखा पत्राङ्गुलिः कपाले कस्तूरिकापत्रावली तया सहितानि युक्तानि ।। "पत्रलेखा पत्राङ्गुलिरिमे समे" इत्यमरः ॥ शिरांसि का- लागुरुणा धूपितानि संजातधूपानि सुगन्धान्वितानि कुर्व- न्तीत्यर्थः ।। रतिश्रमक्षामविपाण्डवक्राः संप्राप्तहर्षाभ्युदयास्तरुण्यः। हसन्ति नोचैर्दशनामभिन्ना- प्रपीड्यमानानधरानवेक्ष्य ॥६ रतीति ॥ रतिश्रमेण सुरतश्रमेण क्षामं कशं विपाण्डु विपाण्डुवर्ण वक्रं यासां तास्तथोक्ताः। संप्राप्तो हर्षस्यानन्द- स्याभ्युदयो याभिस्तास्तथोक्तास्तरुण्यः कामिन्यो दशनानां रदनानामौरग्रभागैभिन्नाः क्षतास्तथोक्तानत एव प्रपी- व्यमानानधरानोष्ठानवेक्ष्य दृष्ट्वोच्चैरुच्चैःस्वरेण न हसन्ति हास्यं न कुर्वन्तीत्यर्थः । उच्चैर्हसन्ति तेऽधिकं पीड्यन्त इति भावः ॥ १ भवन्ति. २ प्राप्तेऽपि हर्षाभ्युदये. ३ प्रभिन्नरागान्, चतुर्थः सर्गः । निस्तनो स्थलभागशोभा- मासाद्य तत्पीडनजातखेदः। तृणाग्रलग्नस्तुहिनैः पतद्भि- राक्रन्दतीवोषसि शीतकालः ॥७॥ पीनेति ॥ पीनौ पुष्टौ स्तनौ यत्र तादृशो य उर- स्थलभागस्तस्य शोभामासाद्य प्राप्य तत्पीडनेन जातः सं- जातः खेदो दुःखं यस्य स तथोक्तः शीतकालः पतद्भिः प्रपतद्भिरत एव तृणाग्रे तृणप्रान्ते लग्नानि संलग्नानि तै- स्तथोक्तैस्तुहिनैस्तुषारैरुषसि प्रभात आक्रन्दतीवेत्युत्प्रेक्षा। प्रभूतशालिप्रसवैश्चितानि मृगाङ्गनायूथविभूषितानि । मनोहरक्रौञ्चनिनादितानि सीमान्तराण्युत्सुकयन्ति चेतः ॥ ८॥ प्रभूतेति ॥ प्रभूताः संभूता ये शालिप्रसवा धान्यानि तैश्चितानि व्याप्तानि । मृगाङ्गनानां हरिणरमणीनां यूथैः समुदायैर्विभूषितानि शोभितानि । मनोहराः सुन्दरा ये क्रौञ्चाः पक्षिविशेषास्तैर्निनादितानि प्रतिनादितानि सीमा- न्तराणि सीम्नां प्रान्तभागाश्चेतः । अन्तस्येति शेषः । उ- त्सुकयन्त्युत्कण्ठयन्तीत्यर्थः ॥ प्रफुल्लनीलोत्पलशोभितानि सोन्मादकादम्बविभूषितानि । १ उरुस्थल. २ लम्बैः. ३ प्रसूति. ४ शरादिकादम्बविघट्टितानि.
५२ ऋतुसंहारे प्रसन्नतोयानि सुशीतलानि सरांसि चेतांसि हरन्ति पुंसाम् ॥ ९॥ प्रफुल्लेति ॥ प्रफुल्लैरुत्फुल्लैर्नीलोत्पलैरिन्दीवरैः शोभि- तानि भूषितानि । सोन्मादैरुन्मादसहितैः कादम्बैः कल- हंसैविभूषितानि । प्रसन्नं निर्मलं तोयं जलं येषु तानि त- थोक्तानि । सुशीतलानि सरांसि सरोवराणि पुंसां पुरु- षाणां चेतांस्यन्तःकरणानि हरन्तीत्यर्थः ॥ पाकं वजन्ती हिमजाँतशीतै- राधूयमाना सततं मरुद्भिः। प्रिये मियङ्गुः प्रियविमयुक्ता विपाण्डुतां याति विलासिनीव ॥ १० ॥ पाकमिति ॥ हे प्रिये । हिमेन तुषारेण जातैः संजातैः शीतैः पाकं परिपाकं व्रजन्ती गच्छन्ती मरुद्भिर्वायुभिः सततं निरन्तरमाधूयमाना कम्पायमाना प्रियङ्गुर्गोवन्दिनी श्यामा तु महिलाह्वया । लता गोवन्दिनी गुन्द्रा प्रियङ्गुः फलिनी फली" इत्यमरः ॥ प्रियेण कान्तेन वि- प्रयुक्ता विलासिनीव स्त्रीव । विपाण्डुतां विशेषेण पाण्डुतां याति । गच्छतीत्यर्थः ॥ पुष्पासर्वोमोदिसुगन्धिवको निःश्वासवातैः सुरभीकृताङ्गः। १ सशैवलानि. २ यूनाम्. ३ सङ्गशीतैः ४ आमोद. ९-१० श्लोकयोर्मध्येऽयमंशो दृश्यते- मार्ग समीक्ष्यातिनिरस्तनोरं प्रवासखिन्नं पतिमुद्वहन्त्यः । प्रवेक्ष्यमाणा हरिणक्षणाक्ष्यः प्रबोधयन्तीव मनोरथानि ॥ लता ॥"
चतुर्थः सर्गः । परस्पराङ्गव्यतिरिक्तशायी शेते जनः कामरसानुविद्धः॥ ११ ॥ पुष्पति ॥ पुष्पासवस्य पुष्पनिर्गतासवस्य पुष्पयुक्तास- वस्य वामोदेन सौगन्धेन सुगन्धि सुरभि वकं वदनं यस्य स तथोक्तः । निःश्वासवातैः श्वासोच्छ्वासपवनैः सुरभीक- तमङ्गं शरीरं यस्य स तथोक्तः । कामरसेन कंदर्परसेना- नुविद्धो व्याप्तोऽत एव परस्परस्यान्योन्यस्याङ्गेन व्यतिरिक्तं संलग्नमिति तथा शेते स तथोक्तो जनो लोकः शेते नि- द्रातीत्यर्थः ॥ दन्तच्छदैः सव्रणदन्तचितैः स्तनैश्च पाण्यग्रकृताभिलेखैः । संसूच्यते निर्दयमङ्गनानां तोपयोगो नवयौवनानाम् ॥ १२ ॥ दन्तच्छदैरिति ॥ नवं नूतनं यौवनं तारुण्यं यासां ता- सां तथोक्तानामङ्गनानां वनितानां सव्रणानि सक्षतानि द- न्तानां रदनानां चिह्नानि लक्ष्माणि येषु तैस्तथोक्तैः ॥ " चिहं लक्ष्म च लक्षणम्" इत्यमरः ॥ दन्तच्छदैरधरैः पाण्य…नखैः कृतोऽभिलेखो लेखनं येषु तैस्तथोक्तैः । स्तनैः कुचैश्च निर्दयं दयारहितं यथा भवति तथा रतोपयोगः संभोगावाप्तिः संसूच्यते सम्यग्ज्ञाप्यत इत्यर्थः ॥ काचिद्विभूषयति दर्पणसक्तहस्ता बालातपेषु वनिता वदनारविन्दम् । १ व्यतिषिक्त; व्यतिसक्त; व्यतिसङ्ग. २ शरानुविद्धः. ३ दन्त- विघातचिहैः. ४ रतोपभोगो. ५ बाला विलोलचिकुरं वदनार- विन्दम्.
ऋतुसंहारे दन्तच्छदं प्रियतमेन निपीतसारं दन्ताग्रभिन्नमवकृष्य निरीक्षते च ॥ १३ ॥ काचिदिति ॥ दर्पण आदशै सक्तः संसक्तो हस्तः करो यस्याः सा तथोक्ता ॥"दर्पणे मुकुरादर्शी" इत्यमरः ॥ का- चिद्वनिता स्त्री बालातपेषु कोमलोप्णेषु । स्थित्वेति शेषः।। वदनारविन्दं मुखकमलं विभूषयत्यलंकरोतीत्यर्थः । किंच । प्रियतमेन कान्तेन निपीतः सारो रसो यस्य तं तथोक्तं दन्तायै रदनाभिन्नः खण्डितस्तथोक्तो दन्तच्छदमोष्ठमव- कृष्याकृष्य निरीक्षतेऽवलोकयतीत्यर्थः ॥ वसन्ततिल- कात्तमेतत् । लक्षणं तु पूर्वमुक्तम् ।। अन्या प्रकामसुरतश्रमखिन्नदेहा रात्रिप्रजागरविपाटलनेत्रपा । स्रस्तांसदेशललिताकुलकेशपाशा निद्रां प्रयाति मृदुसूर्यकराभितप्ता ॥ १४ ॥ अन्यति ॥ प्रकाममत्यन्तं सुरतश्रमेण संभोगलेशेन खिन्नः खेदान्वितो देहः शरीरं यस्याः सा तथोक्ता । रात्रौ निशायां यः प्रजागरो जागरणं तेन विपाटले विशेषेण पा- टलवणे नेत्रपझे नयनारविन्दे यस्याः सा तथोक्ता । सस्तो विसकलितोंऽसदेशो स्कन्धप्रदेशो लुलितोऽत्यन्तमाकुलो व्याकुलः केशपाशो कबरीबन्धो यस्याः सा तथोक्ता । मृदुभिः कोमलैः सूर्यकरैस्तरणिकिरणैरभितप्तान्या का- चित्स्त्री निद्रां प्रयाति प्राप्नोति ॥ ३ नक्त; नक्तम्. ४ पद्माः . १ अपकृष्य. २ अन्याः. ५ शय्यान्त. ६ अभितप्ताः.
का चतुर्थः संगः । निमील्यदाम परिमुक्तमनोज्ञगन्धं मूर्धोऽपनीय घननीलशिरोरुहान्ताः । पीनोन्नतस्तनभरानतगात्रयष्टयः कुर्वन्ति केशरचनामपरास्तरुण्यः॥ १५ ॥ निर्माल्येति ॥ घनवन्मेघवद्धनाः संकीर्णा वा नीलाः कृष्णवर्णाः शिरोरुहान्ताः केशप्रान्ता यासां तास्तथोक्ताः। पीनाः पुष्टा उन्नताश्च ये स्तनाः कुचास्तेषां भरेण भा- रेण नता नम्रा गात्रयष्टयः शरीरलता यासां तास्तथोक्ता अपरा अन्यास्तरुण्यो युवत्यः परिमुक्तस्त्यक्तो मनोज्ञः सुन्दरो गन्धो येन तत्तथोक्तम् । निर्माल्यदाम निर्माल्य- भूतां स्त्र मूर्ध्नः शिरसोऽपनीय दूरीकृत्य केशानां कुन्त- लानां रचनां कुर्वन्ति ॥ अन्या प्रियेण परिभुक्तमवेक्ष्य गात्रं हर्षान्विता विरचिताधरचारुशोभा। कूर्पासकं परिदधाति नखक्षताङ्गी व्यालम्बिनीलललितालककुञ्चिताक्षी ॥१६॥ अन्येति ॥ प्रियेण कान्तेन परिभुक्तं संभुक्तं गात्रं श- रीरमवेक्ष्य दृष्ट्वा हर्षेणानन्देनान्विता युक्ता । विरचिता कृताधर ओष्ठे चारुशोभा नखकृतरेखया दन्तक्षतैर्वा यस्याः सा तथोक्ता । नखैनखरैः क्षतं कारितमङ्गं शरीरं यस्याः सा तथोक्ता । व्यालम्बिनीभिर्ललगिनीलवर्णैर्ल- लितैः सुन्दरैरलकैः कुन्तलैः कुञ्चिते आकुञ्चिते अक्षिणी १ अबलाः. २ रागशोभा; गण्डशोभा. ३ रक्तांशुकम्. ४ नवं नताङ्गी. ५ व्यालम्बिताङ्गुलिलता.
ऋतुसंहारे "चोल: यस्याः सा तथोक्तान्या स्त्रीकूर्पासकं चोलम् ॥ कूर्पासकोऽस्त्रियाम्" इत्यमरः ॥ परिदधाति धत्त इत्यर्थः।। अन्याश्चिरं सुरतकेलिपरिश्रमेण खेदं गताः प्रशिथिलीकृतगात्रयष्टयः। संहेष्यमाणपुलकोरुपयोधरान्ता अभ्यञ्जनं विदधति प्रमदाः मुंशोभाः॥१७॥ अन्या इति ॥ चिरं चिरकालं या सुरतकेलिः संभोग- क्रिया तया यः परिश्रमः क्लेशस्तेन खेदं गताः प्राप्ता अत एव प्रकर्षेण शिथिलीकृता गात्रयष्टयो यासां तास्त- थोक्ताः । संहृष्यमाणः पुलको रोमाञ्चो यस्मिंस्तादृश उरुः पीनश्च पयोधरान्तः पयोधरप्रान्तो यासां तास्त- थोक्ताः । सुष्टु समीचीना शोभा यासां तास्तथोक्ताः । अन्याः प्रमदाः स्त्रियोऽभ्यञ्जनमभ्यङ्गं सुगन्धतैलादिना विद्धति कुर्वन्तीत्यर्थः ॥ बहुगुणरमणीयो योषितां चित्तहारी परिणतबहुशालिव्याकुलग्रामसीमा । संततमतिमनोज्ञः क्रौञ्चमालापरीतः प्रदिशतु हिमयुक्तः काल एषः सुखं वः॥१८ बहुगुणेति ॥ बहुगुणै रमणीयः सुन्दरो योषितां स्त्रीणां चित्तहारी मनोहारी परिणतैः परिपक्कैर्बहुभिः शालिभि- १ स्वेदम्. २ संपीड्यमान. ३ विपुलोरु. ४ पयोधरार्ताः. ५ प्रत्यञ्जनम्; नेत्राञ्जनम्. सुशोभम्. ७ सीमः. ८ विनिप- तिततुषारः क्रौञ्चनादोपगीतः. त्वेष कालम्. प्रियम्.
पञ्चमः सर्गः । ५७ ाकुला ग्रामसीमा नामान्ताः प्रान्ता यस्मिन्स तथोक्तः। सततं निरन्तरमतिमनोज्ञोऽतिसुन्दरः क्रौञ्चमालाभिः क्रौञ्चपतिभिः परीतो युक्तो हिमयुक्त एष कालो हेमन्त- कालो वः सुखं प्रदिशतु ददात्वित्यर्थः ।। इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये हेमन्तवर्णनं नाम चतुर्थः सर्गः । पञ्चमः सर्गः। - अथ क्रमप्राप्त शिशिरं वर्णयति- प्ररूढशाल्यंशुचयैर्मनोहर कैचित्स्थितक्रौञ्चनिनादराँजितम् । प्रकामकामं प्रमदाजनप्रियं वरोरु कालं शिशिराह्वयं शृणु ॥ १ ॥ प्ररूढेति ॥ वरावुत्कृष्टावुरू जो यस्यास्तस्याः संबो- धने हे वरोरु । प्ररूढानां प्रसद्धानां शालीनामंशुचयैर्मनो- हरम् ॥ क्वचित्पुस्तके "प्ररूढशालीक्षुचयातक्षितिम् इति पाठः । स तु रूढ एव । तत्र प्ररूढानां प्रवृद्धानां शालीनां धान्यानामीक्षूणां च चयैः समूहैरावृताच्छादिता क्षितिः पृथ्वी यस्मिन्निति समासः ॥ क्वचित्कुत्रचिदृक्ष- १ प्ररूढशालीशुचयैर्मनोहरम्. २ क्वचित्स्थितम् ; सुस्थस्थि. ३ शोभितम्. ४ काम.
ऋतुसंहारे शाखायां स्थितानामुपविष्टानां क्रौञ्चानां पक्षिविशेषाणां निनादैविरुतै राजितं शोभितं तं तथोक्तम् । प्रकाममत्यन्तं कामो यस्मिस्तं तथोक्तम् । प्रमदाजनस्य स्त्रीजनस्य प्रियमिष्टं शिशिर इत्याह्वाख्या यस्य तं तथोक्तं कालं समयं शृण्वा. कर्णयेत्यर्थः ॥ वंशस्थवृत्तमेतत् । तल्लक्षणं तु पूर्वमुक्तम् ॥ निरुद्धवातायनमन्दिरोदरं हुताशनो भानुमतो गभस्तयः । गुरूणि वासांस्यबलाः सयौवनाः प्रयान्ति कालेऽत्र जनस्य सेव्यताम् ॥ २ ॥ निरुद्धेति । अत्र काले शिशिरकाले निरुद्धान्यवरु- द्धानि वातायनानि गवाक्षा यस्य तादृशस्य मन्दिरस्यो- दरं गर्भदेशः "वातायनं गवाक्षः स्यात् इत्यमरः ॥ हुताशनोऽग्निर्भानुमतः सूर्यस्य गभस्तयः किरणाः । गुरूणि वासांसि च वस्त्राणि । सयौवनास्तारुण्यसहिता अबलाः स्त्रियो जनस्य लोकस्य सेव्यतां प्रयान्ति प्राप्नु- वन्तीति वचनविपरिणामेनान्वयः॥ न चन्दनं चन्द्रमरीचिशीतलं न हर्म्यपृष्ठं शरदिन्दुनिर्मलम् । न वायवः सान्द्रतुषारशीतला जनस्य चित्तं रमयन्ति सांप्रतम् ॥ ३ ॥ नेति ॥ सांप्रतमिदानी चन्द्रमरीचय इव चन्द्ररश्मय इव शीतलं शिशिरं चन्दनं जनस्य चित्तं न रमयति । तथा ॥ १ अद्य.
पञ्चमः सर्गः । " शरदिन्दुवन्निर्मलं स्वच्छं हर्म्यष्टष्ठं प्रासादतलं जनस्य चित्तं न रमयति । तथा सान्द्रेण घनेन तुषारेण हिमेन शीतलाः शिशिरा वायवः पवना अपि जनस्य चित्तं न रमयन्तीत्यर्थः॥ तुषारसंघातनिपातशीतलाः शशाङ्कभाभिः शिशिरीकृताः पुनः। विपाण्डुतारागणजिमभूषिता जनस्य सेव्या न भवन्ति रात्रयः ॥४॥ तुषारेति ॥ तुषारसंघातस्य हिमसमूहस्य निपातेन शी- तलाः । पुनः शशाङ्कस्य चन्द्रस्य भाः कान्तयस्ताभिः शिशिरीकृताः । एतेन शैत्याधिक्यं नाचतम् । विपाण्डुना पाण्डुरवणेन तारागणेन नक्षत्रसमूहेन जिद्मं वक्रं यथा भ- वति तथा भूषिताः शोभिता रात्रयः शर्वर्यो जनस्य लो- कस्य सेव्याः सेवितुमुपभोक्तुं योग्या न भवन्तीत्यर्थः ॥ गृहीतताम्बूलविलेपनस्रजः सुखासवामोदितवक्रपङ्कजाः। प्रकामकालागुरुधूपौसितं विशन्ति शय्यागृहमुत्सुकाः स्त्रियः ॥ ५॥ गृहीतेति ॥ गृहीतास्ताम्बूलं च विलेपनं च कस्तूर्या- दि खजः कुसुममालाश्च याभिस्तास्तथोक्ताः । सुखयतीति सुखः सुखकरो य आसवो मधु तेनामोदितं सगन्धितं व- १ शीतला:. २ शिशिरीकृताः. ३. चारुभूषणा:. ४ सुरासवाः पुष्पासवा. ५ वासिताम्. ६ शय्याम्. ७ उत्सुकस्त्रियः.
६० ऋतुसंहारे क्रपङ्कजं मुखकमलं यासां तास्तथोक्ताः । उत्सुका उ- त्कण्ठिताः स्त्रियः प्रकाममत्यन्तं कालागुरोः कृष्णागुरो- धूपेन वासितं शय्यागृहं शय्यामन्दिरं विशन्ति प्रविश- न्तीत्यर्थः ॥ कृतापराधान्बहुशोऽपि तर्जिता- न्सवेपथून्साध्वसलेप्तचेतसः। निरीक्ष्य भर्तृन्मुरताभिलाषिणः स्त्रियोऽपराधान्समदा विसस्मरुः ॥६॥ कृतापराधानिति ॥ समदा मदसहिताः स्त्रियः का- मिन्यः कृतोऽपराधो यैस्तथोक्तानत एव बहुशो बहुवारमपि तर्जितान्वेपथुभिः कम्पैः सहिता युक्तास्तांस्तथोक्तान् । सा- ध्वसं भयम् ॥ “साध्वसं भयम्" इत्यमरः ॥ पूर्वकृताप- राधमूलकं तेन लुप्तं विनष्टं चेतश्चित्तं येषां ते तथोक्ता- न्भर्तृन्प्रियान्सुरताभिलाषिणः संभोगाभिलाषिणो निरीक्ष्य वीक्ष्य कतापराधानपराधकृतान्विसस्मरुरित्यर्थः ॥ वंश- स्थवृत्तमेतत् । तल्लक्षणं तूक्तम् ॥ प्रकामकामैयुर्वेभिः सनिर्दयं निशासु दीर्घाखभिरामिताश्चिरम् । भ्रमन्ति मन्दं श्रमखेदितोरसः क्षपावसाने नवयौवनाः स्त्रियः ॥ ७ ॥ १ अभितर्जितान्. ४ सुरतेऽति- निर्दयम्; युवभिः सुनिर्दयम्. ५ दीर्घास्वभिभाविता भृशम्; गाढं दयितैश्चिरं दृढम्. ६ भवन्ति; धमन्ति. ८ स्वेदितो रवः; मोदितोरसः; खेदितोरवः. २ मन्द. ३ न सस्मरुः. ७ मन्द.
पञ्चमः सर्गः। ६१ प्रकामकामैरिति ॥ प्रकाममत्यन्तं कामोऽभिलाषो येषां तैस्तथोक्तैः । कामातुरैरित्यर्थः । युवभिस्तरुणैर्दीर्घासु नि- शासु रात्रिषु चिरं चिरकालं निर्दयं निर्दयया दयाभावेन सहितं यथा भवति तथाभिरामिताः क्रीडिताः । अत एव श्रमेण परिश्रमेण खेदितं खिन्नमुरो हृदयं यासां तास्तथो- क्ता नवयौवनास्तरुण्यः स्त्रियः क्षपायाः क्षणदाया अव- सानं समाप्तिस्तस्मिन् । प्रभात इत्यर्थः । मन्दं मन्थरं भ्रमन्ति भ्रमणं कुर्वन्तीत्यर्थः ॥ मनोज्ञकूर्पासकपीडितस्तनाः सरागकौशेयकभूषितोरसः। निवेशितान्तःकुसुमैः शिरोरुहै- विभूषयन्तीव हिमागमं स्त्रियः ॥ ८ ॥ मनोज्ञेति ॥ मनोज्ञेन सुन्दरेण कूर्पासकेन चोलेन पी- डिताः स्तना यासां तास्तथोक्ताः । सरागं रागसहितं य- कौशेयमेव कौशेयकं कृमिकोशोत्थं वस्त्रं तेन भूषितं शोभि- तमुरो हृदयं यासां तास्तथोक्ताः स्त्रियो निवेशितानि निवि- प्टान्यन्तरन्तर्भागे कुसुमानि येषां ते तैस्तथोक्तैः शिरो- रुहैः केशैहिमागमं शीतकालं विभूषयन्तीवेत्युत्प्रेक्षा ॥ पयोधरैः कुङ्कुमरागपिञ्जरैः मुखोपसेव्यैर्नवयौवनोष्मभिः । विलासिनीभिः परिपीडितोरेसः सपन्ति शीतं परिभूय कामिनः॥९॥ १ कूर्पासनिपीडित. २ कौशेयविभूषितोरसः. ३ यौवनोत्सवाः; यौवनोत्सवः. ४ विलासिनीनाम्. ५ भृशम्.
ऋतुसंहारे पयोधरैरिति ॥ विलासिनीभिः कुङ्कुमस्य केसरस्य रा- गेण पिञ्जरैः पीतवर्णैः । सुखेनोपसेव्या उपभोग्यास्तैस्त- थोक्तैः । नवो नूतनो यौवनस्य तारुण्यस्योष्मौष्म्यं येषु तैस्तथोक्तैः पयोधरैः कुचैः परिपीडितमुरो हृदयं येषां ते तथोक्ताः कामिनो विलासिनः शीतं हिमं परिभूयाभिभूय स्वपन्ति निद्रां कुर्वन्तीत्यर्थः ।। सुगन्धिनिश्वासविकम्पितोत्पलं मनोहरं कामरतिप्रबोधकम् । निशासु हृष्टाः सह कामिभिः स्त्रियः पिबन्ति मद्यं मदनीयमुत्तमम् ॥ १० ॥ सुगन्धीति ॥ हृष्टा हर्षिताः स्त्रियो युवत्यः सुगन्धिना सुरभिणा निश्वासेन विकम्पितमुत्कम्पितमुत्पलं कुवलयं य- स्मिस्तत्तथोक्तं मनोहरं सुन्दरं काममत्यन्तं रतेः सुरतस्य प्रबोधकं प्रबोधजनकं मदनीयमुन्मादकरमुत्तममुत्तमजातीयं मद्यं मधु निशासु रात्रिषु कामिभिः प्रियैः सह पिबन्तीत्यर्थः॥ अपगतमदरागा योषिदेका प्रभाते कृतनिबिडकुचाग्रा पत्युरालिङ्गनेन । प्रियतमपरिभुक्तं वीक्षमाणा खदेहं व्रजति शयनवासाद्वासमैन्यद्धसन्ती ।। ११ ॥ अपगतेति ॥ अपगतो मदरागो यस्याः सा तथोक्ता । पत्युः प्रियस्यालिङ्गनेन परिरम्भणेन कृतं निबिडं सान्द्र कुचाग्रं स्तनाग्रं यस्याः सा तथोक्ता । प्रियतमेन कान्तेन प- १ प्रबोधनमू. २ एव. ३ कृतविनतकुचाग्रा; कुचनिबिडकुचा ४ अन्यं हसन्ती; अन्यद्रजन्ती. या.
पञ्चमः सर्गः । ६३ रिभुक्तं खं देहं निजं शरीरं वीक्षमाणा पश्यन्ती हसन्ती स्मे- राननैका योषित्स्त्री प्रभाते प्रातःकाले शयनवासादन्यद्वासं मन्दिरं व्रजतीत्यर्थः ॥ मालिनीटत्तमेतत् । लक्षणं तूक्तम् ॥ अगुरुसुरभिधूपामोदितं केशपाशं गलितकुसुममाले तन्वती कुञ्चिताग्रम् । सजति गुरुनितम्बा निम्नमध्यावसाना उपसि शयनमन्या कामिनी चारुशोभा॥१२॥ अगुर्विति ॥ अगुरोः सुरभिणा मुगन्धिना धूपेनामोदि- तः संजातसौरभस्तं तथोक्तम् । गलिता सस्ता कुसुममाला यस्य तं तथोक्तम् । कुञ्चिताग्रं कुञ्चिता वक्रभावापन्ना अग्रा अग्रभागा यस्य तादृशं केशपाशं केशसमूहं तन्वती। गुरुनितम्बा गुरू नितम्बौ यस्याः सा तथोक्ता । निम्नं कृशं मध्यावसानं मध्यप्रान्तो यस्याः सा तथोक्ता । चारुशोभा सुन्दरशोभान्या कामिनी रुयुषसि प्रातःकाले शयनं पर्य- कम् ॥ "शयनं मञ्चपर्यङ्कपल्यङ्काः" इत्यमरः ॥ त्यति मुद्धतीत्यर्थः ॥ क्वचित्पुस्तके "निम्नमध्यावसन्ना" इति पाठः। तदर्थस्तु निम्नेन मध्येनावसन्ना खिन्नति निम्नमध्यावसन्ना ॥ "उपसि" इत्यत्र विवक्षाप्राप्तोत्पन्नसंहिता । तदुक्तम्- "संहितैकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते" इति ॥ कनककमलकान्तैः सद्य एवाम्बुधौतैः श्रवणतटनिषक्तैः पाटलोपान्तनेत्रैः । १ आमोदितान. २ केशपाशान्. ३ मालान्. ४ कुञ्चिता वहन्ती; धुन्वती कुञ्चिताग्रान्. ५ निम्ननाभिः सुमध्या. ६ शय- नवासम्; शयनमध्या. ७ कामशोभा; कामशोभाम्. ८ चारुबिम्बा- धरोष्ठैः ९ श्रवणतटनिषिक्तैः; स्मरदमृतनिषक्तैः.
६४ ऋतुसंहारे उपसि वदनबिम्बैरंससंसक्तकेशैः श्रिय इव गृहमध्ये संस्थिता योषितोऽद्य ॥१३॥ कनकेति ॥ सद्य एव तत्कालमेवाम्बुधौतैरम्बुना जलेन धौतानि प्रक्षालितानि तैरत एव कनककमलकान्तैः कन- कस्य सुवर्णस्य कमलमम्बुजमिव कान्तः सुन्दरैर्वदन- बिम्बैः ॥ " चारुताम्राधरोष्ठैः” इति पाठे तु चारवः सुन्दराश्च ते ताम्रा आरक्ताश्च तेऽधरोष्ठाश्च तैः ॥ श्रव- णतटे कर्णप्रान्ते निषक्तैर्निषण्णैः । पाटलः पाटलवर्ण उ. पान्तः प्रान्तो येषां तादृशानि च तानि नेत्राणि लोच- नानि तैः ॥ "लोचनं नयनं नेत्रम्" इत्यमरः ॥ अंसे स्कन्धे संसक्ताः संलग्ना ये केशाः कुन्तलास्तैश्चोपलक्षिता योषितः स्त्रियोऽद्येदानीमुषसि प्रातःकाले गृहमध्ये श्रिय इव लक्ष्म्य इव संस्थिता इत्यर्थः ॥ पृथुजघनभरार्ताः किंचिदानम्रमध्याः स्तनभरपरिखेदान्मन्दमन्दं ब्रेजन्त्यः। सुरतसमयवेषो नैशमांशु प्रहाय दधति दिवसयोग्य वेषमन्यास्तरुण्यः ॥१४॥ प्राविति ॥ पृथोः स्थूलस्य जघनस्य कट्यग्रभागस्य भरेणार्ताः पीडिताः॥ "क्लीबे तु जघनं पुरः इत्य- मरः ॥ किंचिदीपदाननं नतं मध्यं यासां तास्तथोक्ताः । स्तनानां कुचानां भरेण भारेण यः परिखेदः श्रमस्तस्मा- न्मन्दमन्दं मन्थरं व्रजन्त्यो गच्छन्त्योऽन्यास्तरुण्यः का- " १ संयुक्त. २ संस्मिता. ३ मध्या. ४ स्तनयुग. ५ व्रजन्त्याः. ६ सुरतसमयखेदम्; सुरतशयनवेषम्. ७ अङ्गे; अन्यत. ८ एषा:.
पञ्चमः सर्गः । मिन्यो निशि भवं नैशं सुरतसमये संभोगकाले यो वेष आकारस्तमाशु झटिति प्रहाय त्यक्त्वा दिवसयोग्यं वेषं द- धतीत्यर्थः ॥ नखपदचितभागान्वीक्षमाणाः स्तनाग्रा- नधरकिसलयाग्रं दन्तभिन्नं स्पृशन्त्यः । अभिमतरसमेतं नन्दयन्त्यस्तरुण्यः सवितुरुदयकाले भूषयन्त्याननानि ॥ १५॥ नखपदेति ॥ नखपदैनखसतैश्चिता व्याप्ता भागा येषां तांस्तथोक्तान्स्तनाग्रान्कुचाग्रान्वीक्षमाणा आलोकयन्त्यः । दन्तभिन्नं रदनखण्डितमधरः किसलयमिव पल्लवमिवेति तस्याग्रं स्टशन्त्यः स्पर्श कुर्वन्त्य एतमभितो मनोऽभिल- षितो यो रसस्तं नन्दयन्त्योऽभिनन्दयन्त्यस्तरुण्यो विला- सवत्यः सवितुः सूर्यस्योदयकाले प्रभात आननानि मुखानि भूषयन्त्यलंकुर्वन्तीत्यर्थः ।। प्रचुरगुडविकारः खादुशालीपुरम्यः 4वलमुरतकेलिर्जातकंदर्पदपः। प्रियजनरहितानां चित्तसंतापहेतुः शिशिरसमय एष श्रेयसे वोऽस्तु नित्यम् १६ प्रचुरेति ॥ प्रचुरो बहुलो गुडविकारः खण्डशर्करादि- यस्मिस्तथोक्तो जातः । स्वादवो ये शालयो धान्यानी- क्षव इक्षुदण्डाश्च ते रम्यो रमणीयः । प्रबला अत्यधिकाः सुरतकेलयो यत्र तथाविधः । जातः संजातः कंदर्पदों १ नखपदकृतभङ्गान्. २ स्तनान्तान्. ३ रतवेशम्. ४ प्रसृत. ६ तेऽस्तु. ५शान्त.
ऋतुसंहारे मन्मथाधिक्यं यस्मिन्स तथोक्तः । प्रियजनेन कान्तजनेन रहितानाम् । विरहिणीनामित्यर्थः । चित्तसंतापस्य हेतुः कारणमेष शिशिरसमयः शीतकालो वो युष्माकं श्रेयसे क- ल्याणाय नित्यं सदास्त्वित्यर्थः ॥ इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये शिशिरवर्णनं नाम पञ्चमः सर्गः। षष्ठः सर्गः। अथ क्रमप्राप्तं वसन्तकालं वर्णयति- प्रफुल्लचूताङ्कुरतीक्ष्णसायको द्विरेफमालाविलसद्धनुर्गुणः। मनांसि वेढुं सुरतप्रसङ्गिनां वसन्तयोद्धा समुपागतः प्रिये ॥ १॥ प्रफुल्लेति ॥ हे प्रिये प्रफुल्लस्य चूतस्याम्रवृक्षस्याङ्कुरा एव तीक्ष्णा निशिताःसायका बाणा यस्य स तथोक्तः । द्विरे- फाणां भ्रमराणां माला पतिरेव विलसन्धनुर्गुणो यस्य स तथोक्तो वसन्तयोद्धा सुरतप्रसङ्गिनां मनांसि वेढुं वि- दारयितुं समुपागत आगत इत्यर्थः ॥ वंशस्थत्तमेतत् । लक्षणं तूक्तम् ॥ द्रुमाः सपुष्पाः सलिलं संपनं स्त्रियः सकामाः पवनः सुगन्धिः। १ भेत्तुम्. २ सुरतोत्सुकानाम्. ३ योधः. ४ सुपद्मम्. ५ पवना:. ६ सुगन्धयः, षष्ठः सर्गः। ६७ सुखाः प्रदोषा दिवसाश्च रम्या: सर्व प्रिये चारुतरं वसन्ते ॥ २॥ द्रुमा इति ॥ हे प्रिये । वसन्ते वसन्तकाले सर्व चारु- तरमतिरमणीयमस्ति । सर्व किं तदाह-द्रुमा इति ॥ द्रुमा रक्षाः सपुष्पाः कुसुमसहिताः । सलिलं जलं सप- कमलसहितम् । स्त्रियो वनिताः सकामाः समन्मथाः । प- वनो वायुः सुगन्धिः कुसुमसंसर्गात्सुरभिः । प्रदोषाः संध्या- समयाः सुखाः सुखकराः। दिवसाश्च रम्या रमणीया इति ॥ उपजातिवृत्तमेतत् । लक्षणं तूक्तम् ॥ वापीजलानां मणिमेखलानां शशाङ्कभासां प्रमदाजनानाम् । चूतद्रुमाणां कुसुमान्वितानां ददाति सौभाग्यमयं वसन्तः ॥ ३॥ वापीति ॥ अयं वसन्तो वसन्तकालो वापीजलानां दीर्घि- काजलानाम् । तत्र जलक्रीडावशात् । मणिमेखलानां मणिख- चितमेखलानाम् । स्त्रीभिः कटिप्रदेशे धारणात्। शशाङ्कभासा चन्द्रकान्तीनाम् । रात्रौ संसेव्यत्वात् । प्रमदाजनानां वनि- ताजनानाम् । सुप्तभोगात् । कुसुमैः पुष्पैरन्विता युक्तास्तेषां तथोक्तानां चूतद्रुमाणामाम्रवृक्षाणाम् । स्त्रीकर्णावतंसविष- यपल्लवत्वात् । सौभाग्यं सुभगतां ददातीत्यर्थः ॥ कुसुम्भरागारुणितैर्दुकूलै- नितम्बबिम्बानि विलासिनीनाम् । १ कुसुमानतानाम्. ३ नितम्बिनीनाम्. २-३ श्लोकयोर्मध्येऽयं श्लोको दृश्यते- ईषत्तुषारैः कृतशीतहर्म्यः सुवासितं चारुशिरः सचम्पकैः । कुर्वन्ति नार्योऽपि वसन्तकाले स्तनं सहारं कुसुमैमनोहरैः ॥ २ सौरभ्यम्.
ऋतुसंहारे रक्तांशुकैः कुकमरागगौरै- रलंक्रियन्ते स्तनमण्डलानि ॥४॥ कुसुम्भेति ॥ कुसुम्भस्य रागेणारुणितानि रक्तानि तै- स्तथोक्तैर्दुकूलैर्वस्त्रविलासिनीनां विलासवतीनां नितम्बबि- म्बानि । कुङ्कुमस्य केसरस्य रागेण गौराः पिञ्जरास्तैस्त- थोक्तै रक्तांशुकै रक्तवस्त्रैः स्तनमण्डलानि कुचमण्डलान्यलं- क्रियन्त इत्यर्थः ॥ कर्णेषु योग्यं नवकर्णिकारं चलेषु नीलेष्वलकेष्वंशोकम् । पुष्पं च फुल्लं नवमल्लिकायाः पँयाति कान्ति प्रमदाजनानाम् ॥ ५ ॥ कर्णेष्विति ॥ प्रमदाजनानां वनिताजनानां कर्णेषु श्र- वणेषु योग्यमवतंसयोग्यं नवं नूतनं कर्णिकारं कर्णिकार- अथ द्रुमोत्पलः । कर्णिकारः परिव्याधः" इत्यमरः ॥ चलेषु चञ्चलेषु नीलेषु कृष्णवर्णेष्वलकेष्वशोकं वजुलकुसुमम् ॥ " वञ्जलोऽशोके” इत्यमरः ॥ फुल्लं संफुलं नवमल्लिकायाः पुष्पं च ॥ जात्यभिप्रायेणैकवचनम् ॥ कान्ति शोभां प्रयाति प्राप्नोतीत्यर्थः ।। स्तनेषु हाराः सितचन्दना भुजेषु संङ्गं वलयाङ्गदानि । १ तन्वंशुकैः. २ पिञ्जरैः. ३ स्तनेषु हाराः. ४ अशोकः. ५ शिखासु फुल्लाः; शिखासु मालाः. ६ नवमालिकाश्च. ७ प्रयान्ति शोभाम. ९ कम्बूवलयाङ्गदानि. कुसुमम् ॥ ८ प्रमदाजनस्य.
षष्ठः सर्गः। ६९ प्रयान्यनङ्गातुरमानसानां नितम्बिनीनां जघनेषु काध्यः॥६॥ स्तनेष्विति ॥ अनङ्गेन मन्मथेनातुरं पीडितं मानसं यासां तासां तथोक्तानां नितम्बिनीनां नितम्बवतीनां स्त- नेषु कुचेषु सितचन्दनेन धवलचन्दनद्रवेणाऱ्या हारा मु- क्ताहाराः भुजेषु बाहुषु वलयाङ्गदानि कटककेयूराणि । जघनेषु काभ्यः सङ्ग संबन्धं प्रयान्ति प्राप्नुवन्तीत्यर्थः ॥ सपत्रलेखेषु विलासिनीनां वक्रेषु हेमाम्बुरुहोपमेषु । रत्नान्तरे मौक्तिकसङ्गरम्यः खेदागमो विस्तरतामुपैति ॥ ७॥ सपत्रेति ॥ रत्नान्तरे रत्नानां मध्ये मौक्तिकानां मु- ताफलानां सङ्गेनैव रम्यो रमणीयः स्वेदागमो धर्मनिर्गमो विलासिनीनां विलासवतीनां स्त्रीणां सपत्रलेखेषु पत्रलेखा कपोलादौ कस्तूर्यादिरचितावली तया सहितेषु हेमाम्बुरु- हेण काञ्चनपझेनोपमेषु वक्रेषु मुखेषु विस्तरतां विस्तार- भावमुपैति प्राप्नोतीत्यर्थः ॥ उच्छ्वासयन्त्यः श्लथवन्धनानि गात्राणि कंदर्पसमाकुलानि । समीपवतिष्वधुना प्रियेषु समुत्सुका एव भवन्ति नार्यः ॥ ८॥ उच्छ्वासयन्त्य इति ॥ श्लथानि शिथिलानि बन्धनानि १ निःशङ्कमनङ्गसौख्यम्; निःसङ्गमनङ्गसौख्यम्. २ स्तनान्तरे. ४ स्वेदोद्गमः. ५ अपि कार्मुकेषु. ३ सङ्गजातः.
७० " ऋतुसंहारे कञ्चुक्यादीनां येषु तानि तथोक्तानि कंदर्पणानङ्गेन समा- कुलानि व्याकुलानि ॥ " कंदो दर्पकोऽनङ्गः इत्य. मरः ॥ गात्राणि शरीराण्युच्छासयन्त्यो नार्यः स्त्रि- योऽधुना वसन्तकाले समीपवतिषु निकटस्थितेषु प्रियेषु कान्तेषु समुत्सुका उत्कण्ठिता एव भवन्ति जायन्त इत्यर्थः ॥ तनूनि पाण्डूनि समन्थराणि मुहुर्मुहुजृम्भणतत्पराणि। अङ्गान्यनङ्गः प्रमदाजनस्य करोति लावण्यसैसंभ्रमाणि ॥९॥ तनूनीति ॥ अनङ्गः कामः प्रमदाजनस्य स्त्रीजनस्या- ङ्गानि गात्राणि तनूनि कृशानि पाण्डूनि पाण्डुवर्णानि समन्थराणि जडीभूतानि मुहुर्मुहुर्वारंवारं जृम्भणतत्पराणि जृम्भणे प्रसितानि ॥ "तत्परे प्रसितासक्तौ” इत्यमरः ॥ लावण्येन सौन्दर्येण ससंभ्रमाणि संवेगसहितानि ॥ “समौ संवेगसंभ्रमौ” इत्यमरः ॥ करोतीत्यर्थः ॥ नेत्रेषु लोलो मदिरालसेषु गण्डेषु पाण्डुः कठिनः स्तनेषु । मध्येषु निम्नो जघनेषु पीन: स्त्रीणामनङ्गो बहुधा स्थितोऽद्य ॥ १० ॥ नेत्रेष्विति ॥ स्त्रीणां युवतीनां मदिरयालसान्यालस्ययु- क्तानि तेषु तथोक्तेषु नेत्रेषु लोचनेषु ॥ “लोचनं नयनम्" इत्यमरः॥ लोलश्चञ्चलः । गण्डेषु कपोलेषु पाण्डुः पाण्डुवर्णः । १ मदालसानि. २ रसोत्सुकानि. ३ लोलम्; अलोल:. ४ मदि- रारसेपु. ५ कठिनस्तनेषु. ६ नम्रः.
षष्ठः सर्गः। स्तनेषु कुचेषु कठिनः । मध्येषु मध्यभागेषु निम्नो गभीरः। जघनेषु पीनः पुष्ट इत्यनेन प्रकारेणानङ्गः कामोऽद्य ब- हुधा बहुप्रकारेण स्थित उपस्थित इत्यर्थः ॥ अङ्गानि निद्रालसविभ्रमाणि वाक्यानि किंचिन्मदलालसानि । भ्रूक्षेपजिह्मानि च वीक्षितानि चकार कामः प्रैमदाजनानाम् ॥ ११ ॥ अङ्गानीति ॥ कामः प्रमदाजनानां कामिनीनामङ्गानि शरीराणि निद्रयालसा विभ्रमा शृङ्गारवेषा येषु तानि तथोक्तानि । वाक्यानि किंचिदीषन्मदेन लालसानि चा- नि । वीक्षितानि प्रेक्षणानि भ्रूक्षेपेण जिह्मानि कुटिलानि च चकार कृतवानित्यर्थः ॥ भियङ्गुकालीयककुंडमाक्त स्तनेषु गौरेषु विलासिनीभिः । आलिप्यते चन्दनमङ्गनाभि- मदालसाभिर्मगनाभियुक्तम् ॥ १२ ॥ प्रियङ्गिति ॥ विलासिनीभिर्विलासवतीभिर्मदेनालसा आलस्ययुक्तास्ताभिस्तथोक्ताभिरङ्गनाभिः स्त्रीभिर्गोंरेषु गौ- रवर्णेषु स्तनेषु कुचेषु प्रियङ्गुः श्यामा लता, कालीयक जायकम्, कुङ्कुमं केसरं च तैराक्तं युक्तं मृगनाभियुक्तं क- स्तूरीयुक्तं चन्दनमालिप्यते लाप्यत इत्यर्थः ॥ १ विह्वलानि. २ मदिरालसानि; मदसालसानि. ३ प्रमदोत्तमा- नाम्. ४ कुङ्कुमानि. ५ स्तनाङ्गरागेषु विसर्जितानि; स्तनाङ्गरागेषु वि- चर्चितानि.
७२ ऋतुसंहारे गुरूणि वासांसि विहाय तूर्णं तनूनि लाक्षारसरञ्जितानि । सुगन्धिकालागुरुधूपितानि धत्ते जनः काममदालसाङ्गः ॥ १३ ॥ गुरूणीति ॥ काममदेनालसमङ्गं यस्य स तथोक्तो जनो गुरूणि वासांसि वस्त्राणि तूर्ण सत्वरं विहाय त्यक्त्वा तनूनि सूक्ष्माणि लाक्षारसेन रञ्जितान्यारक्तानि सुगन्धिना सुरभिणा कालागुरुणा कृष्णागुरुणा धूपितानि संजातधूपानि वासांसि धत्ते दधातीत्यर्थः ॥ पुंस्कोकिलभृतरसासवेन मत्तः प्रियां चुम्बति रागहृष्टः । कूँजहिरेफोऽप्ययमम्बुजस्थः प्रियं प्रियायाः प्रकरोति चाटु ॥ १४ ॥ पुस्कोकिलेति ॥ रागेण हृष्टो हर्षितश्शूतस्याम्रवृक्षस्य रस एवासवस्तेन मत्तः प्रमत्तः पुंस्कोकिलः प्रियां चुम्ब- ति । अम्बुजे कमले तिष्ठति स तथोक्तः कूजन्गुञ्जन्नयं द्विरेफो भ्रमरोऽपि प्रियाया भ्रमर्याः प्रियमिष्टं चाटु प्र- करोतीत्यर्थः॥ ताम्रप्रवालस्तबकावनम्रा- श्रूतद्रुमाः पुष्पितचारुशाखाः । १ शिरांसि. २ कामशरानुविद्धः. ३ चूतरसेन मत्तः प्रियामुखं चुम्बति सादरोऽयम्. ४ गुञ्जन्. ५ अधिकः प्रमत्तः. ६ क्षिप्रम्. ७ चाटुम् ; क्षिप्रम्. ८ प्रवालनम्रास्तबकावतंसाः.
षष्ठः सर्गः। ७३ कुर्वन्ति कामं पैवनावधूताः पर्युत्सुकं मानसमङ्गनानाम् ॥ १५ ॥ तामेति ॥ ताम्राणामारक्तानां प्रवालानां पल्लवानां स्तबकैर्गुच्छैरवनम्रा नताः । पुष्पिताः संजातपुष्पा अत एव चारवः सुन्दराः शाखा येषां ते तथोक्ताः । पवनेन वायुनावधूताः कम्पिताश्चुतद्रुमा आम्रवृक्षा अङ्गनानां व- नितानां मानसमन्तःकरणं काममत्यन्तं पर्युत्सुकमुत्कण्ठि- तं कुर्वन्तीत्यर्थः ॥ आ मूलतो विद्रुमरागानं सेपल्लवाः पुष्पचयं दधानाः। कुर्वन्यशोका हृदयं सशोक निरीक्ष्यमाणा नवयौवनानाम् ॥ १६ ॥ आ मूलेति ॥ आ मूलतो मूलादारभ्य विद्रुमस्य प्रवा- लस्य रागवत्तानमारक्तं पुप्पचयं कुसुमसमूहं दधाना धा- रयन्तः सपल्लवाः पत्रसहिता अशोका वजुलद्रुमा नि- रीक्ष्यमाणा अवलोक्यमानाः सन्तो नवयौवनानां विप्रयु- क्तानां तरुणीनां च हृदयं सशोकं कुर्वन्तीत्यर्थः ।। मत्तद्विरेफपरिचुम्बितचारुपुष्पा मन्दानिलाकुलितनम्रमृदुभवालाः। कुर्वन्ति कामिमनसां सहसोत्सुकत्वं चूताभिरामकलिकाः समवेक्ष्यमाणाः ॥१७॥ १ कान्ते. २ पवनाभिभूताः. ३ समुत्सुकम्. ५ सपल्लवम्. ६ चारु. ७ चूता विमुक्तकलिकाः; बालातिमुक्तल- ४ ताम्रा:. तिकाः.
ऋतुसंहारे मत्तेति ॥ मत्तैरुन्मत्तैदिरेफैज्रमरैः परिचुम्बितानि चा- रूणि सुन्दराणि पुष्पाणि यासां तास्तथोक्ताः । मन्दैरनति- प्रबलैरनिलैः पवनैराकुलिता आन्दोलिता नम्रा न- म्रीभूता मृदवः कोमलाश्च प्रवाला नवकिसलया यासां तास्तथोक्ताः । चूतस्यानस्याभिरामाः सुन्दराः कलिकाः समवेक्ष्यमाणा अवलोक्यमानाः सत्यः कामिमनसा सह- साकस्मादुत्सुकत्वमौत्सुक्यं कुर्वन्तीत्यर्थः ॥ वसन्ततिलका- वृत्तमेतत् । लक्षणं तूक्तम् ॥ कान्तामुखातिजुषामपि चोद्गतानां शोभा परां कुरबकद्रुममञ्जरीणाम् । दृष्ट्वा प्रिये सहृदयस्य भवेन कस्य कंदर्पबाणपैतनव्यथितं हि चेतः ॥ १८ ॥ कान्तेति ।। हे प्रिये । कान्तामुखस्य रमणीवदनस्य द्युतिं कान्ति जुषन्ते सेवन्त इति तेषां तथोक्तानाम् । अपि च किंचोद्गतानां निर्गतानाम् । कुरबकद्रुमा अम्लानरक्षास्ते- षां मञ्जरीणाम् ॥ “अम्लानस्तु महासहा ।तत्र शोणे कुरब- कः” इत्यमरः ॥ परामुत्कृष्टां शोभां दृष्ट्वावलोक्य कस्य सहृदयस्य चेतोऽन्तःकरणं कंदर्पस्य कामस्य बाणानां शराणां पतनेन निपातेन व्यथितं पीडितं न भवेत् । अपि तु सर्वस्यापीत्यर्थः । हि पादपूरणार्थः ॥ आदीप्तवद्विसदृशेर्मरुतावधूतः सर्वत्र किंशुकवनैः कुसुमावननैः। १ कान्तामुखं द्युतिमनोहरमुद्धतानाम् ; कान्ताननातिमुषामचिरो. गतानाम् ; नानामुखद्युतिजुषामपि चोद्गतानाम्. २ हि पथिकस्य, ३ निकरैर्व्यथितम्; पतनव्यथनम्.
षष्ठः सर्गः। ७५ सद्यो वसन्तसमये हि समाचितेयं रक्तांशुका नववधूरिव भाति भूमिः॥ १९॥ आदीप्तेति ॥ वसन्तसमये वसन्तकाले सर्वत्रेतस्ततः सद्यः सत्वरमादीप्तेनाभिमुख्येन प्रज्वलितेन वह्निना सह- शास्तैस्तथोक्तैः । आरक्तैरित्यर्थः । मरुता पवनेनावधूताः कम्पितास्तैस्तथोक्तैः । कुसुमैः पुष्पैरवनम्रा नतास्तैस्तथोक्तैः किंशुकवनैः पलाशवृक्षसमुदायैः ॥ " पलाशे किंशुकः पर्णो वातपोथः " इत्यमरः ॥ समाचितेयं भूमिः पृथिवी रक्तांशुका रक्तवसना नववधूरिव नूतनस्त्रीव भाति शोभत इत्यर्थः । हि निश्चयत् ॥ किं किंशुकैः शुकमुखच्छविभिन भिन्न किं कर्णिकारकुसुमैर्न कृतं नु दग्धम् । यत्कोकिल पुनरयं मधुरैर्वचोभि- [नां मनः सुवदनानिहितं निहन्ति ॥ २० ॥ किं किंशुकैरिति ॥ सुवदनायां रमणीयमुखायां नि- हितं स्थापितं यूनां तरुणानां मनोऽन्तःकरणं शुकस्य कीरस्य मुखस्य वदनस्य छविरिव छविः कान्तियेषां तै. स्तथोक्तैः किंशुकैः पलाशकुसुमैः किं न भिन्नं न विदा- रितम् । कर्णिकारस्य द्रुमोत्पलस्य कुसुमैः पुष्पैश्च । नु निश्चय- म् । किं दग्धं न कृतम् । यत्पुनरयं कोकिलो मधुरैर्वचोभि- र्वचनैनिहन्तीत्यर्थः ॥ १ न समागतेयम्; समुपागते हि. २ दग्धम्. ३ कृतं मनोज्ञम्; हतं मनोज्ञैः. ४ कोकिला:. ५ पुरुरवैः; पुनरमी. ६ सुवदने नियतं हरन्ति.
ऋतुसंहारे पुंस्कोकिलैः कैलवचोभिरुपात्तहर्षेः कूजद्भिन्मदकलानि वंचांसि भृङ्गैः। लज्जान्वितं सविनयं हृदयं क्षणेन पर्याकुलं कुलगृहेऽपि कृतं वधूनाम् ॥ २१ ॥ पुस्कोकिलैरिति ॥ कलमव्यक्तमधुरं वचो वचनं येषां तैस्तथोक्तैः । उपात्तः संप्राप्तो हर्षों येषां तैस्तथोक्तैः पुंस्को- किलैः। उन्मदेनोत्कटमदेन कलान्यव्यक्तमधुराणि वचांसि वचनानि कूजद्भिर्भुङ्गभ्रमरैः । लज्जया त्रपयान्वितं युक्तं स- विनयं विनयसहितं वधूनां स्त्रीणां हृदयं कुलग्रहेऽपि क्षणेन क्षणमात्रेण पर्याकुलं व्याकुलं कृतमित्यर्थः ।। आकम्पयन्कुसुमिताः सहकारशाखा विस्तारयन्परभृतस्य वचांसि दिक्षु । वायुर्विवाति हृदयानि हरन्नराणां नीहारपातविगमात्सुभगो वसन्ते ॥ २२ ॥ आकम्पयन्निति ॥ वसन्ते वसन्तकाले नीहारस्य हि- मस्य यः पातः पतनं तस्य विगमान्नाशात्सुभगः सुन्दरो वायुः पवनः कुसुमिताः संजातकुसुमाः सहकारस्यातिसौ- रभस्याम्ररक्षस्य शाखाः ॥ " आम्रश्शूतो रसालोऽसौ स- हकारोऽतिसौरभः" इत्यमरः ॥ आकम्पयन्सन् । दिक्षु पर- भृतस्य कोकिलस्य ॥ “वनप्रियः परभृतः कोकिलः पिकः" इत्यमरः ॥ वचांसि वचनानि विस्तारयन् । नराणां पुंसां हृदयानि हरन्नपहरन्विवाति विशेषेण वहतीत्यर्थः ।। १ फलरसैः समुपात्तहर्षेः. २ विलोचनानि; वचांसि धीरम्. ३ व धूनाम्. ४ विमल:.
षष्ठः सर्गः। ७७ कुन्दैः सविभ्रमवधूहसितावदातै- रुद्दयोतितान्युपवनानि मनोहराणि । चित्तं मुनेरपि हरन्ति निवृत्तरागं प्रागेव रागमलिनानि मनांसि यूनाम् ॥ २३ ॥ कुन्दैरिति ॥ सविभ्रमाणि विभ्रमसहितानि यानि व- धूहसितानि रमणीहास्यानि तानीवावदातानि धवलानि तै- स्तथोक्तैः ॥ “अवदातः सितो गौरोऽवलक्षो धवलोऽर्जुनः इत्यमरः ॥ कुन्दैः कुन्दकुसुमैरुद्दयोतितानि दीप्तानि । शो- भितानीति यावत् । मनोहराण्युपवनान्यारामाः । निवृत्तो- ऽनुरागो यस्मात्तत्तथोक्तं मुनेरपि चित्तं हरन्त्यपहरन्ति । प्रागेव मुनिचित्तापहरणात्प्रागेव रागेण मलिनानि यूनां मनांसि हरन्तीत्यर्थः ॥ आलम्बिहेमरसनाः स्तनसक्तहाराः कंदर्पदपशिथिलीकृतगात्रयष्टयः । मासे मधौ मधुरकोकिलभृङ्गनोंदै- नार्यो हरन्ति हृदयं प्रसभं नराणाम् ॥ २४ ॥ आलम्बीति ॥ आलम्बिन्यो लम्बमाना हेमरसनाः सु- वर्णमेखला यासां तास्तथोक्ताः । स्तनेषु कुचेषु सक्ताः सक्ता हारा यासां तास्तथोक्ताः । कंदर्पस्य मन्मथस्य द- पैनाधिक्येन शिथिलीकता गात्रयष्टयः शरीरलता यासां तास्तथोक्ता नार्यः स्त्रियो मधौ मासे वसन्ते नराणां हृदयं मधुरैः कोकिलाश्च भृङ्गाश्च तेषां नादैविरुतैः सह प्रसभम- त्यन्तं हरन्तीत्यर्थः ॥ १ प्रायेण रागचलितानि; प्रागेव रागमखिलानि. २ पुंसाम्. ४ रावैः. ५ रामाः. ३प्रालम्बि.
ऋतुसंहारे नानामनोज्ञकुसुमद्रुमभूषितान्ता- न्हृष्टान्यपुष्टनिनदाकुलसानुदेशान् । शैलेयजालपरिणद्धशिलातलौघा- न्दृष्ट्वा जनः क्षितिभृतो मुंदमेति सर्वः ॥ २५ ॥ नानेति ॥ सी जनो लोको नाना नानाजातीया म- नोज्ञाः सुन्दरा ये कुसुमद्रुमाः पुष्पवृक्षास्तैर्भूषिताः शोभिता अन्ताः प्रान्तभागा येषां तांस्तथोक्तान् । हृष्टा हर्षिता ये- ऽन्यपुष्टाः कोकिलास्तेषां निनदैः शब्दैराकुला व्याकुलाः सानुदेशाः प्रस्थप्रदेशा येषां तांस्तथोक्तान् ॥ " स्नुः प्रस्थः सानुरस्त्रियाम्" इत्यमरः ॥ शैलेयजालेन परिणद्धा व्याप्ताः शिलातलानामोघाः समुदाया येषां तांस्तथोक्ता- क्षितिभृतः पर्वतान्दृष्ट्वा मुदं हर्षमेति प्राप्नोतीत्यर्थः ।। नेत्रे निमीलयति रोदिति याति शोकं घ्राणं करेण विरुणद्धि विरौति चोच्चैः । कान्तावियोगपरिखेदितचित्तवृत्ति- दृष्ट्वाध्वगः कुसुमितान्सहकारवृक्षान् ॥ २६ ॥ नेत्रे इति ॥ कान्ताया वियोगेन विरहेण परिखेदिता खिन्ना चित्तवृत्तिर्यस्य स तथोक्तोऽध्वगः पथिकः कुसुमि- तान्मञ्जरीयुतान्सहकाररक्षानाम्रवृक्षान् ॥ " आम्रचूतो र- सालोऽसो सहकारोऽतिसौरभः" इत्यमरः ॥ दृष्ट्वावलोक्य नेत्रे लोचने निमीलयति पिधत्ते । तद्दर्शनस्य संतापाधि- १भूषितामान्; भूषिताङ्गान्. २ संधिदेशान्. ३ तलान्तान् गुहान्तान्. ४ समुपैति सर्वान्. ५ निमीलति विरोदिति. ६ याति मोहम्; जातमोहान्. ७ प्राणान. ८ नरः.
षष्ठः सर्गः । क्यजनकत्वात् । रोदिति क्रन्दति शोकं याति । तत्स- मये प्रेयसीप्राप्त्यभावात् । घ्राणं करेण हस्तेन विरुणद्धि । तदीयसौगन्ध्यस्यापि संतापाधिक्यजनकत्वात् । उच्चैरुच्च- स्वरेण विरौति । हा कान्तेति शब्दं करोतीत्यर्थः ॥ समदमधुकराणां कोकिलानां च नादैः कुसुमितसहकारैः कर्णिकारैश्च रम्यः । इषुभिरिव सुतीक्ष्णैर्मानसं मानिनीनां तुदति कुसुममासो मन्मथोद्वेजनाय ॥ २७ ॥ १ रम्यैः. २ कुसुमबाणो मन्मथोद्दीपनाय. २७ श्लोकस्यान्ते इमे श्लोका दृश्यन्ते- रुचिरकनककान्तीन्मुञ्चतः पुष्पराशी- न्मृदुपवनविधूतान्पुष्पितांश्चूतवृक्षान् । अभिमुखमभिवीश्य क्षामदेहोऽपि मार्ग मदनशरनिघातैर्मोहमेति प्रवासी ॥ परभृतकलगीतेहीदिभिः सद्वचांसि स्मितदशनमयूखान्कुन्दपुष्पप्रभाभिः । करकिसलयकान्ति पल्लवैविद्रुमाभै रुपहसति वसन्तः कामिनीनामिदानीम् ॥ कनककमलकान्तैराननैः पाण्डुगण्डै- रुपरिनिहितहारैश्चन्दनाः स्तनान्तः । मदजनितविलासैदृष्टिपातैर्मुनीन्द्रा- न्स्तनभरनतनार्यः कामयन्ति प्रशान्तान ।। मधुमुरभिमुखाब्ज लोचने लोध्रताने नवकुरुबकपूर्णः केशपाशो मनोज्ञः । गुरुतरकुचयुग्मं श्रोणिबिम्ब तथैव न भवति किमिदानी योषितां मन्मथाय ।।
ऋतुसंहारे समदेति ॥ रम्यः सुन्दरः कुसुममासो वसन्तसमयः स- मदा मदसहिता ये मधुकरा भ्रमरास्तेषां कोकिलानां च नादैः । कुसुमिताः संजातकुमुमाः सहकारा आम्रवृक्षास्तैः कर्णिकारैर्दुमोत्पलैः । सुतीक्ष्णैरतिनिशितैरिषुभिर्बाणैरिव । मन्मथोडेजनायोद्वेजयन्मानिनीनां मानवतीनां मानसं तुदति व्यथयतीत्यर्थः ॥ मालिनीरत्तमेतत् । लक्षणं तूक्तम् ॥ आम्रीमञ्जुलमञ्जरीवरशरः सत्किशुकं यद्धनु- या॑यस्यालिकुलं कलङ्करहितं छत्रं सितांशुः सितम् । मत्तेभो मलयानिलः परभृतो यद्धन्दिनो लोकजि- सोऽयं वो वितरीतरीतु वितनुर्भद्रं वसन्तान्वितः२८ आकम्पितानि हृदयानि मनस्विनीनां वातैः प्रफुल्लसहकारकृताधिवासैः । संबाधितं परभृतस्य मदाकुलस्य श्रोत्रप्रियैर्मधुकरस्य च गीतनादैः ।। रम्यः प्रदोषसमयः स्फुटचन्द्रभासः पुस्कोकिलस्य विरुतं पवनः सुगन्धिः । मत्तालियूथविरुतं निशि शीधुपानं सर्व रसायनमिदं कुसुमायुधस्य ।। छायां जनः समभिवाञ्छति पादपानां नक्तं तथेच्छति पुनः किरणं सुधांशोः । हवें प्रयाति शयितुं सुखशीतलं च कान्तां च गाढमुपगृहति शीतलत्वात् ॥ मलयपवनविद्धः कोकिलेनाभिरम्यः सुरभिमधुनिषेकालब्धगन्धप्रबन्धः। विविधमधुपयूथैर्वेष्टयमानः समन्ता- द्भवतु तव वसन्तः श्रेष्ठकालः सुखाय ।।
षष्ठः सर्गः । ८१ आम्रीति ॥ यस्याम्याम्रसंबन्धिनी मञ्जुला सुन्दरा म- अरी वरशरा उत्कृष्टा बाणाः सदुत्तमं किंशुकं पलाशकुसुमं धनुः । यस्यालिकुलं भ्रमरसमूहो ज्या गुणः । यस्य कल- ङ्करहितं सितं श्वेतं छत्रं सितांशुश्चन्द्रः । यस्य मत्तेभो मत्तगजो मलयानिलो मलयसंबन्धी पवनः । यस्य ब- न्दिनो वैतालिकाः परभृतः कोकिलाः । लोकजिद्वसन्ते. नान्वितो युक्तः सोऽयं वितनुरनङ्गो वो युष्मभ्यं भद्रं क- ल्याणं वितरीतरीतु ददात्वित्यर्थः ॥ शार्दूलविक्रीडितं - त्तम् । तल्लक्षणं तु वृत्तरत्नाकरे- “ सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्" इति ॥ पूजितो न जगदीश्वरो मया नापि विश्वजननी सुसेविता । किंतु यत्प्रलपितं निजेच्छया तत्र सद्गुरुकृपैव कारणम् ॥ वेदचन्द्रवसुभूमि-( १८१४ )-वत्सरे माघसूर्यसितपञ्चमीतिथौ । व्योमपुष्करनगै-(७०० )-मिताकतिः पूरिता हि मणिरामशर्मणा ॥ इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये वसन्तवर्णनं नाम षष्ठः सर्गः -
No text on this page.