Sringeri Sharada Peetham
Smrtimuktaphalam -part 3
Front matter
COLLECTION OF HINDU LAW TEXTS
No. 25 (3)
Srî VAIDYANATHA DIKSHITA'S
SMRTIMUKTĀPHALAM
PART III
ÂśAUCHA KÂNDAM
EDITED BY
J. R. GHARPURE, B. A., LL. B.( Honours-in-Law ),
incipal Law College, Poonai Fellow of the University of Bombay,
Senior Advocate, Federal Court of India.
BOMBAY.
First Edition
( All Rights Reserved.)
1939
Printed at the Aryabhushan Press, 915/1 Bhamburda Peth,
Poona City, by Mr. V. H. Barve and
Published by Mr. V. J. Gharpure, B. A., LL. B. at the Office
of the Collection of Hindu Law Texts,
Angrewadi, Girgaum, Back Road, Bombay 4.
धर्म शास्त्र ग्रन्थमा ला.
[ग्रन्थाङ्कः २५ (३)]
श्री
वैद्यनाथदीक्षितीय
:तिमुक्ताफलम्
(तृतीयः खण्डः)
आशौचकाण्डम्
WW
जगन्नाथ रघुनाथ घारपुरे,
बी. ए., एलएल, बी.,
पण्यपत्तनस्थव्यवहारशालाया आचार्यः, मुम्बईविश्वविद्यालयसदस्यः
भारतसङ्घन्यायसभासदस्यः
इत्यनेन संशोधितं, मुद्रापितं, प्रकाशितं च ।
प्रथमावृत्तिः
शाकाब्दाः १८६० ]
[क्रिस्ताब्दाः १९३९,
( सर्वेऽधिकाराः स्वायत्तीकृताः)
0 पुण्यपत्तने 'आर्यभूषण' मुद्रणालये 'विठ्ठल हरी बर्वे' इत्यनेन मुद्रितः, मोहमय्यां 'विश्वनाथ जगन्नाथ घारपुरे,' इत्यनेन प्रकाशितश्च ।
श्री श्री वैद्यनाथदीक्षितीयस्मृतिमुक्ताफलस्थ- आशौचकाण्ड विषयानुक्रमणिका ... ... " ... पृष्ठम् ४९५ ४९६ ४९७. ४९८ ४९९ ... ... " ... " ... " ... ... ... ५०० " " ... ५०१ ५०२ ५०३ " ... " ... ५०४ " " ५०७ " ... विषयः आशौचशब्दार्थः स्मृतिचंद्रिकोक्तः भट्टाचार्योक्तः विज्ञानेश्वरोक्तः आशौचद्वैविध्यं आशौचे सन्ध्योपासनम् त्याज्यकर्माणि पंचयज्ञादि अभक्ष्याणि पुत्रजन्मनि दानादि अनेकविधाशौचम् श्राद्धादिमध्ये अघसंभवे देवताप्रतिष्ठादिमध्ये विवाहमध्ये सद्यःशौचानि भृगुपातादिना मृतौ आशौचिनां ग्रहणस्नानविधिः जामातृदौहित्रभागिनेयादिमृतों राष्ट्रक्षोभादिना मृतौ युद्धमरणादौ बुद्धिपूर्वमरणे पापकर्मणां मृतौ आहिताग्निदुर्मरणे दुम॒तौ प्रायश्चित्तं संस्कारक्रमश्च गर्भस्रावादिनिमित्ताशौचम् गर्भनाशत्रैविध्ये आशौचनियमः सूतिकाशौचम् प्रसवाशौचम् वर्णविशेषाशौचम् पृष्ठम् | विषयः ४७७ अनुलोमप्रतिलोमाशौचम् समानोदकाशौचम् सपिण्डाशौचम् स्त्रीषु सापिण्ड्यम् जननाशौचम् मातापित्रोः ४७८ सूतिकायाः ४७९ आशौचिनामन्योन्यस्पर्शनिषेधः ४८० दशाहान्तर्गतशिशुमरणाशौचम् सूतकायाशौचेषु तारतम्यम् ४८१ मृतजाते नाभिच्छेदोत्तरमृतौ ४८२ दशाहोपरितनशिशुमरणे ४८३ खननादिसंस्कारभेदेनाशौचभेदः ४८४ ऊनद्विवर्षे ४८५ खननप्रभृत्याशौचम् सोदरासोदराणाम् अनुपनीतमरणाशौचे ४८६ नामकरणादिनिबन्धनशौचक्रमः ४८७ खननादिसंस्कारव्यवस्था लौकिकेष्वनादेयाग्नयः ४८८ त्रिवत्सरादूर्ध्वम् ४८९ बालमरणे नारायणबलिः ४९० कन्यामरणाशौचम् ४९१ ऊनद्विवर्षाया ऊढायाः ४९२ स्वगृहे पुत्रीप्रसवादिनिमित्ताशौचम् ४९३ पितृगृहे कन्यामृतौ ४९४ | उपनीताशौचम् कृतसमावर्तनस्याशौचम् १ " " ५१० ५११ " ... ... ५१२ ... .. ... ... ... " ५१३ ५१४ ५१५ ५१६ ... ... ... ... ... ५१७ ५१८ ५१९ " ३ विषयानुक्रमणिका पृष्ठम् विषयः ... ... ... ... R ... " ... " ५४० " ... ... विषयः पृष्ठम् अनौरसपुत्रजननाद्याशौचम् ५२० मातापित्रोः ५३६ भिन्नपितृकसोदराणाम् ५२१ गौणमातृमरणे दत्तविषये ५२२ प्रोषितभ्रातृमरणे देशांतरविषये ५२३ पुनःसंस्कारे विशेषः देशान्तरम् अस्थ्यभावे ५३७ महानयः आहिताग्नेः ५३८ मातापित्रोः ५२४ ! अनग्निमतः ५३९ विवाहितस्त्रीविषये पित्राद्याशौचम् रात्रौ जन्ममृतिसंभवे दिननिर्णयः दौहित्रमातामहाचार्यमातृष्वस्रादिविषये संपर्काशौचम् मातामहादीनाम् ५२५ अन्तःशवे ग्रामे ५४१ पक्षिण्याशौचम् ५२६ अनुगमनाशौचम् पक्षिणीजुषः ५२७ पुनःस्नानम् भिन्नमातृस्वस्रादिविषये ५२८ रोदने स्नानम् ५४३ उपाध्यायाचार्यादीनाम् ५२९ असपिंडस्वजातीयप्रेतनिर्हरणे ५४४ अनेकाशौचसन्निपाते ५३० समानोदकप्रेतवहनादौ ५४४,५४५ स्रावाशौचमृताशौचसंपाते ५३१ अर्थलोभेन सवर्णशववहनादौ ५४५ मातापित्रोर्मरणे जननाशौचे ५३२ अनाथब्राह्मणवहनादौ ५४६ अज्ञातिदाहाशौचम् ... ५३३ बंधुमित्ररहितब्राह्मणवहनस्पर्शनदहनादौ ५४७ असन्निहित देशभवसपिण्डमरणाशौचम् ५३४ अबुद्धिपूर्वविषये अतिक्रान्ताशौचम् अभिवादनस्य निषेधः भर्तृमरणे ५३५ शावाशौचिनां नियमविशेषः F " ... ... ... ... ... ... ... ... " ... .
स्मृतिमुक्ताफलम् । आशौचकाण्डम् ३ W KWAL - । १० +0000 श्रीगणेशाय नमः। अथाशौचप्रकरणम् । तत्र शंखः- "दानं प्रतिग्रहो होमः स्वाध्यायः पितृकर्म च । प्रेतकर्मक्रिया यज्ञमाशौचे विनिवर्तयेत् ॥इति । आशौचशब्दार्थः स्मृतिचंद्रिकायामभिहितः--" सपिंडादिजनने मरणे वा सति यदप्रायत्यं दानादिकर्म स्वयोग्यतापादकं पापविशेषात्मकं वा तदाशौचशब्देन बोध्यते” इति । तथा भट्टाचार्यैः-“पापक्षयो हि शुद्धिः कर्मयोग्यत्वमेव वा” इति । शुद्धिपदार्थ ब्रुवद्भिस्तदि- ५ परीतस्य जननमरणनिमित्तपापविशेषस्य दानादिधर्मानुष्ठानायोग्यत्वस्य वा मतभेदेनाशौचशब्दाभि- धेयत्वं ज्ञापितम् । विज्ञानेश्वरोऽपि (प्रा. पृ. १६१ पं. ५--७)-"आशौचशब्देन कालः स्नानाप- नोधः पिंडोदकदानविधेरध्ययनादिपर्युदासस्य निमित्तभूतः पुरुषगतः कश्चनातिशयः प्रतिपाद्यते" इति । कालापनोयमंतःशवनिमित्तग्रामाधाशौचं स्नानापनोयं ज्ञायमानसंबंधबंधुमरणायचं काल- स्नानाभ्यामपनोयं सपिंडादिजननमरणाशौचम् इत्यर्थः । संग्रहेऽपि- " निमित्तं पिण्डदानादेः पुरुषस्थमशुद्धिकृत् । कालस्नानापनोथं यत् तदाशौचमितीर्यते” ॥ इति । आशौचं द्विविधं कौनधिकारलक्षणं अस्पृशत्वलक्षणं च । "अशोचे वर्जयेत्कर्म नित्यनैमित्तिकादिकम् । आशौचिभिस्तथा स्पर्श स्पृष्ट्वा स्नानेन शुध्यति" ॥ इति स्कृतेः। आशौचे सन्ध्योपासनम् । तथा च कर्माधिकारपरिपन्थित्वादाशौचस्य संध्याद्युपासनस्यापि निवृत्तिप्राप्तावपवादमाह १५ पराशरः (२३)-" उपासने च विप्राणामंगशुद्धिस्तु जायते । ब्रह्मचारी गृहे येषां हूयते च हुताशनः। संपर्क चेन्न कुर्वति न तेषां सूतकं भवेत्” ॥ (३२२५) इति । उपासनं संध्यावंदनं तस्मिन्प्रसक्ते तात्कालिकशुद्धिर्भवति। विप्रग्रहणं क्षत्रियादीनामुपलक्षणम् । ब्रह्मचारी उपकुर्वाणो नैष्ठिकश्च । येषां गृहे अग्निहोत्रमनुष्ठीयते तेषामग्निहोत्रानुष्ठानकाले नास्त्याशौचं यदि ते आशौचिभिः संसर्ग न कुर्युरित्यर्थः । अत्र मरीचिः-“ सूतके कर्मणां त्यागः संध्यादीनां विधीयते कात्यायनश्च-“सूतके प्रेतके च संध्योपासनादिनित्यकर्माणि स्वाध्यायदानप्रतिग्रहांश्च वर्जयेत्” इति। स्मृत्यंतरेऽपि- “ राष्ट्रक्षोभे नृपाक्षिप्ते रोगार्ने शावसूतके । संध्यावंदनविच्छित्तिर्न दोषाय कदाचन "॥ इति । विष्णुपुराणेऽपि- " सर्वकालमुपस्थानं संध्ययोः पार्थिवेष्यते । अन्यत्र सूतकाशौचविभ्रमातुरभीतितः” ॥ इति । जाबालिः संध्या पंचमहायज्ञान नैत्यिकं स्मृतिकर्म च । तन्मध्ये हापयेदेतमाशौचांते पुनः क्रिया "॥ इति । १ क्षगक-मशुद्धिः पुनरेवस । ६१ २० " ॥
आशौचे सन्ध्योपासनम् । [आशौच- -- -- ५ " । “ । नैत्यिकं नित्यश्राद्धम् । स्मृतिकर्म स्मृत्युक्तकर्म देवतार्चनादिकम् । तन्मध्ये आशौचमध्ये । हापयेत् त्यजेदित्यर्थः । आशौचे संध्याकर्मनिषेधप्रतिपादकानि मरीच्यादिवचनानि वाचनिकमंत्रप्रयोग- निषेधाभिप्रायाणि । यदाह पुलस्त्यः-- “ संध्यामिष्टिं चरु होमं यावज्जीवं समाचरेत् । न त्यजेत्सूतके वाऽपि त्यजन्गच्छेदधो द्विजः ॥ " सूतके मृतके चैव संध्याकर्म समाचरेत् । मनसोच्चारयेन्मंत्रान्प्राणायाममृते द्विजः" ॥ इति । प्राणायामव्यतिरिक्तमंत्रान्मनसोच्चारयेत् । प्राणायाममंत्रांस्तु मनसाऽपि नोच्चारयेत् । अमंत्रकमेव प्राणायामं कुर्यादिति यावत् । सूतके मृतके कुर्यात्प्राणायामममंत्रकम् । मनसोच्चारयेन्मंत्रान्मार्जनादिषु कर्मसु" ॥ इति स्मरणात् । मनसोच्चारयेन्मंत्रानित्येतदंजलिप्रक्षेपव्यतिरिक्तविषयम् । यथाह पैठीनसिः- “सूतके १० सावित्र्यांजलिं प्रक्षिप्य प्रदक्षिणीकृत्य सूर्य ध्यायन्नमस्कुर्यात् ” इति । संध्याविधायुक्तसावित्री- मंत्रस्येह पुनर्वचनं मनसोच्चारणनिवृत्त्यर्थम् । तेन सावित्रीमंत्रस्योच्चारणं वाचा कर्तव्यमिति चंद्रिकायाम् (पृ. १४० पं. १-१२) । व्यासोऽपि- प्रक्षिपेत्सूतके त्वर्घ्य गायत्रीं तु समुच्चरन् । दत्वा प्रदक्षिणं कुर्यात्सूर्य ध्यायेत् द्विजोत्तमः ॥ दशकृत्वस्तु गायत्री मनसैवाशुचिः स्मरेत् " ॥ इति । १५ आश्वलायन: -“आपन्नश्चाशुचिः काले तिष्ठन्नपि जपेद् दश" इति। आशौचे त्याज्यकर्माणि । त्याज्यानि कर्माण्याह विष्णुरपि (५२।५-८)-“ आशौचे होमदानप्रतिग्रहस्वाध्याया निवर्तते । नाशौचे कस्यचिदशनमश्नीयात् । ब्राह्मणादीनामाशीचे यस्त- दोदनमश्नाति तस्य तावदाशौचं यावत्तेषामाशौचव्यपगमः। आशौचव्यपगमे प्रायश्चित्तं कुर्यात्” इति । प्रायश्चित्तं चांद्रायणम् । तच्च भोजनप्रकरणेऽभिहितम् । २. होमश्चात्र वैश्वदेवोऽभिप्रेतः । “विप्रो दशाहमासीत वैश्वदेवविवर्जितः" इति संवर्तेन विशेषतोऽ- भिधानात् । वैश्वदेवाभिप्रायेण मार्कडयोऽपि-“दशाहं ब्राह्मणस्तिष्ठेद्दानहोमादिवर्जितः” इति। मनुरपि- उभयत्र दशाहानि बलस्यान्नं न भुज्यते। दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते” ॥ स्मृत्यंतरे च- २५ " अशौचे तु दशाहान्तं न कुर्याद्देवतार्चनम् । न कुर्यात्पितृकार्याणि दानं होमं जपं तथा" ॥ इति । जपमिति सामान्योक्तेः सर्वमंत्रजपनिषेधः । आपस्तंबोऽपि ( १।११।३१।४)-“देवताभिधानं चाप्रयतः” इति । ध्याने तु न दोषः । न ह्यस्ति मनस उपघातः । 'अंतरेण मलवद्वासिनीं सूतिका शवस्पृष्टिं च' इति श्रुतेः । न च होम इति सामान्योक्तिबलादग्निहोत्रौपासनादिकमपि निवर्तनीयमिति वाच्यम् । यत आह याज्ञवल्क्यः (प्रा. १७) “वैतानौपासनाः कार्याः क्रियाश्च श्रुति- ३० चोदिताः ” इति । वैताना गार्हपत्याद्यग्निसाध्या “ यावज्जीवमग्निहोत्रं जुहोति । यावज्जीवं दर्शपूर्णमासाभ्यां यजेत ” इत्यादिश्रुतिचोदिताः । तथा एकाग्निसाध्या औपासनाः कार्याः । अग्निहोत्रादिकं स्वयं कुर्यात् । औपासनहोममसगोत्रेण कारयेदित्यर्थः । तथा च गोभिल:- "अग्निहोत्रे तु होमार्थ शुद्धिस्तात्कालिकी स्मृता । पंचयज्ञान्न कुर्वीत अशुद्धः पुनरेव सः काण्डम् ] आशौचे त्याज्यकर्माणि । ४७९ ५ - “ वैय्याघ्रपादः- "स्मार्त्तकर्मपरित्यागो राहोरन्यत्रसूतके।ौतकर्मणि तत्कालस्नातः शुद्धिमवाप्नुयात् "॥इति । शंखः—“अग्निहोत्रार्थं स्नानोपस्पर्शनान्तं तत्कालं शौचम्" । इति । कण्वः- “अग्निहोत्रहवं कुर्यादन्याभावे स्वयं द्विजः। कुर्यात्स्नात्वाऽवासास्तु तस्मात्कालादृतेऽशुचिः॥ इति। मनु:- “दर्श च पौर्णमासं च कर्म वैतानिकं च यत् । सूतकेऽपि त्यजन्मोहात्प्रायश्चित्तीयते हि सः ॥ इति । अत्र चंद्रिकायाम्-"श्रौतानामप्यग्निहोत्रादीनां प्रथमारंभात्प्रागाशोचे त्याग एव । प्रतिप्रसव- विधीनां प्रथमारंभोत्तरकालानुष्ठेयाग्निहोत्रादिविषयत्वात् ” इति । दर्शपूर्णमासयोरनुष्ठानप्रतिपादन- मघागमात्प्रागारब्धविषयं तथैव शिष्टाचारादिति केचित् । जातूकर्णि:- सूतके तु समुत्पन्ने स्मार्त्त कर्म कथं भवेत् । पिंडयज्ञं च होममसगोत्रेण कारयेत् " ॥ इति । १० पिंडयज्ञः पिंडपितृयज्ञः। चरुः पार्वणस्थालीपाकः।होमः औपासनहोमः। एतान् अघागमात्प्राग्योमार्थ संकल्पितैर्द्रव्यैः तदभावे अघरहितश्रोत्रियगृहादाहृतैराशौचरहितेन कारयेदित्यर्थः । बृहस्पतिरपि- सूतके मृतके चैव अशक्तौ श्राद्धभोजने। प्रवासादिनिमित्ते तु हावयेन्न तु हापयेत् ” ॥ इति । न हापयेत् न त्यजेदित्यर्थः । जाबालिः- "वैतानाग्नौ स्वयं कुर्यात्कर्मत्यागो न विद्यते । शालाग्नौ केवलो होमः कार्य एवान्यगोत्रजैः” ॥ इति। १५ स्मृतिरत्ने- “ सूतके होमवत्कर्म तदन्येनैव कारयेत् । अग्निहोत्रं स्वयं कुर्यात्स्नात्वैव नियमोदितम् "॥ इति । अनेनैवाभिप्रायेण पैठीनसिरपि-" नित्यानि तु निवर्तेरन्वैतानवर्ज शालाग्नौ चैके " इति । संवतः- "पंचयज्ञविधानं तु न कुर्यान्मृतिजन्मनोः । हावयेदन्यगोत्रेण नित्यहोममतंद्रितः " ॥ इति । स्मृतिरत्ने- नित्यं नैमित्तिकं कुर्यात्काम्यकर्म न किंचन । आधानं पुनराधानं पशुः सौत्रामणी तथा॥ चातुर्मास्यानि सोमश्च तथैवाग्रयणक्रिया । अकाम्यत्वेऽप्यनैतेषां सूतकादावनुष्ठितिः " ॥ संग्रहे- शावे च सूतकेऽघाख्ये कर्मणां त्याग इष्यते । द्रव्याण्यपि प्रदुष्यन्ति स्वाध्यायश्च निवर्तते ॥ अस्पृष्टानां च भाण्डानां दशाहे शुद्धिरिष्यते । द्रव्याणां चापि संस्पर्शे विना मांसं समुत्सृजेत् ॥ साध्यं कर्माग्निहोत्रं च प्रेतकार्याणि चाप्लुतः । कुर्यादन्येन होमं तु कारयेन्नान्यदाचरेत्" ॥ इति । स्मृत्यर्थसारे-“जाताशौचे मृताशौचे त्रेताग्निसाध्याग्निहोत्रदर्शपूर्णमासाद्या नित्या नैमित्तिकाः क्रियाः काय.। औपासनाग्निसाध्यास्तु सायंप्रातर्होमपार्वणस्थालीपाकाद्या नित्यनैमित्तिका हावनीयाः सर्वथा न त्यक्तव्याः । यजमानः स्नात्वाऽऽचम्य उद्देशत्यागं कुर्यात्सर्व काम्यं वयं दानप्रतिग्रह- ३. पंचमहायज्ञनित्यश्राद्धस्वाध्यायादीनां स्मार्त्तानां त्याग एव नित्यस्नानशौचाचमनभोजननियमा- स्पृश्यस्पर्शस्नानं च कुर्यादेव" । तथा च कण्वः- शौचमाचमनं स्नानं नियमं भोजनादिषु । अस्पृश्यस्पर्शनस्नानं कुर्यादाशौचवान् द्विजः " ॥ सूतकान्नभोजने स्वकुल्यानां न दोषः । अन्येषां दातृभोक्त्रोरन्यतरेण ज्ञाते दोष उभाभ्यामपरिज्ञाने न दोषः । तथा च षत्रिंशन्मते- क-नीहात्; खग-त्यजेन्मोहात् । २० “ २५ - ४८० आशौचे अभक्ष्याणि । [आशौच- “ उभाभ्यामपरिज्ञातमाशाचं नैव दोषकृत् । एकेनापि परिज्ञाते भोक्तुर्दोषमुपावहेत् " ॥ इति । "द्रव्याणि स्वामिसंबद्धात्तदघे त्वशुचीनि वै । स्वाभिशुध्यैव शुध्यंति वारिणा प्रोक्षितान्यपि"।। इति स्मृत्या स्वामिसंबंधद्वारा दुष्टत्वेन सर्वद्रव्याणां प्रतिग्रहनिषेधे प्राप्ते केषुचिद्रव्येष्वनुग्रहमाह मराचिः- ५“ लवणे मधुमांसे च पुष्पमूलफलेषु च । शाककाष्ठतृणेष्वप्सु दधिसर्पिःपयःसु च ॥ " तिलौषधाजिने चैव पक्कापक्के स्वयं गृहः । पण्येषु चैव सर्वेषु नाशौचं मृतसूतके " ॥ इति । पक्कं भक्ष्यजातमपूपादि। अपक्कं तंडुलादि । पक्कान्ने दोषस्मरणात् । तथा चांगिराः- अन्नसत्रप्रवृत्तानामाममन्नमगर्हितम् । भुक्त्वा पक्वान्नभेतेषां त्रिरात्रे तु पयः पिबेत् ॥ नाद्याच्छूद्रस्य पक्वान्नं विद्वानाशौचिनोऽपि च । आददीताममेवास्मादवृत्तावकरात्रिकम् " ॥ इति । १. अन्नसत्ररतादेवामं ग्राह्यम् । आपदि तु अन्यस्मादम्याशौचिनः दिनमात्रपर्याप्ततंडुलादि ग्राह्यम् । पक्वान्नं तु सर्वथा न ग्राह्यमित्यर्थः । अपक्वतंडुलादिवत् पक्कापूपायपि अन्नसत्ररतादेव ग्राह्यमित्युक्तं संग्रह- “भक्ष्यजातं तथा पक्कमपक्वं तंडुलादिकम् । अन्नसत्ररतस्यैव ग्राह्यमित्यंगिरा मुनिः " ॥ इति । तत्रैव- १५ “ दधि क्षीरं घृतं शाकं पंटु पुष्पं तिलौषधम् । काष्ठं मूलं फलं मांसं मधु कृपाम्बु चाजिनम् । पण्यान्यघेऽपि गृह्णीयात्स्वयं तु स्वाम्यनुज्ञया" ॥ पटु लवणम् । अंगिराः यत्तु क्षेत्रगतं धान्यं कूपवापीषु यज्जलम् । अभोज्यादपि तद्भोज्यं यच्च गोष्ठगतं पयः ॥ आम मांसं मधु घृतं दधि क्षीरमथोषधम् । गुंडं तळं तथोदश्चिद्भोज्यान्येतानि नित्यशः॥ तदहात्रवृत्त्यर्थमामं ग्राह्यं सदापदि । आमं पूयति संस्कारैः सम्यक् तेभ्यः प्रतीप्सितम् ॥ तस्मादामं ग्रहीतव्यमन्नं सूतभृतांतरे"। इति । दक्षः (६।१९)- स्वस्थकाले त्विदं सर्व सूतकं समुदाहृतम् । आपद्गतस्य सर्वस्य सूतकेऽपि न सूतकम्" याज्ञवल्क्यः (प्र. ४१)- आपद्गतः प्रगृह्णन्यो भुंजानो वा यतस्ततः । न लिप्यतेनसा विप्रो ज्वलनार्कसमो हि सः " ॥ विज्ञानेश्वरीये- २५ “ सूतके मृतके चापि दुर्भिक्षे 'भिक्षितं द्विजैः। उपप्लवे च देशस्य तेषामल्पेन निष्कृतिः” ॥ इति । चंद्रिकायाम्- "दाने विशिष्ट आर्त्तस्य व्याधिना शुचितोच्यते।अनिच्छतोऽपि यो वस्तु दातुं हेमादि वाञ्छति"॥ इति। ब्राह्मे–“अकालमृत्योः शांत्यर्थ महादाने च रोगिणाम्" ॥ इति । अशौचं न विद्यत इत्यनुवर्त्तते । संग्रहे-“न देयं न प्रतिग्राह्यमघे देयं सदापदि " इति । ३० पुत्रजन्मनि दानम् । पुत्रजन्मनि दानमाह पराशरः ( १२।२२)- खलयज्ञे विवाहे च संक्रांतौ ग्रहणे मृतौ । पुत्रजाते व्यतीपाते दत्तं भवति चाक्षयम् । “ शर्वर्या दानमस्तीति नान्यत्र तु विधीयते” ॥ वृद्धमनुरपि- “जाते कुमारे तदहः कामं कुर्यात्प्रतिग्रहम्। हिरण्यधान्यगोवासतिलान्नगुडसर्पिषाम्"॥ इति। गोतमोऽपि-"प्राङ्नाभिवर्धनात्पुण्यं तदहरित्येके " इति। १क्ष-पुट । २ क्ष-शुक्रं । ३ क्ष-भूतकं; अशौच । १ ख-मिक्षितं । ५ क्ष-होमादि । “ । - काण्ड पुत्रजन्मनि । अनेकविधाशौचम् । ४८१ आशौचदीपिकायाम्- दाने सुतोदये शुद्धिर्दिनाड्यौ पितृसंनिधौ । अहोरात्रं तु दूरस्थे पितर्यल्पं गते त्वहः "॥ इति । एतच्च जातकर्मप्रकरणे सविस्तरं प्रतिपादितम् (पृ. ७९-८०)। अनेकविधाशौचम् । अनेकविधमाशौचमाह दक्षः (६।२)-- " सद्यःशौचं तथैकाहस्यहश्च चतुरस्तथा । षड्दशद्वादशाहाश्च पक्षो मासस्तथैव च ॥ " मरणांतं तथा चान्यपक्षाश्च दश सूतके " ॥ इति । दशपक्षा इत्युपलक्षणम् । "गर्भस्रावे मासतुल्या निशाः शुद्धस्तु कारणम्” इत्यादिना पंचाहादिपक्षाणामपि स्मरणात् । सद्यःशौचम् । तत्र सद्यःशौचमाह याज्ञवल्क्यः ( प्रा. २८-२९)- ऋत्विजां दीक्षितानां च याज्ञिकं कर्म कुर्वताम् । सत्रिवतिब्रह्मचारिदातृब्रह्मविदां तथा ॥ दाने विवाहे यज्ञे च संग्रामे देशविप्लवे । आपद्मपि च कष्टायां सबःशौचं विधीयते"॥ इति । १० सद्यःशौचं नाम स्नानांतमघम् । "सद्यःशौचे तु तावत्स्यादाशौचं संस्थितस्य तु। यावत्स्नानं न कुर्वति सचैल बांधवा बहिः" ॥ इत्यंगिरःस्मरणात् । अत्र ऋत्विक्शब्दो मनुना विवृतः (२।१४३)- "अग्न्याधेयं पाकयज्ञमग्निष्टोमादिकान्मखान् । यः करोति वृतो यस्य स तस्यविगिहोच्यते"॥ वृतो वरणेन संस्कृत इत्यर्थः । स च वरणजन्यसंस्कारोऽग्न्याधेयादौ प्रवरणप्रभृतिप्रयोगपरिसमाप्ति- १५ पर्यंतमनुवर्तत इति तदनुवृत्तिपर्यंतमृत्विजां दीर्घकालाशौचमध्येऽपि “ सद्यःशौचं विधीयते " इति संबंधः । दीक्षणीयादिना संस्कृता दीक्षिताः। तेषां याज्ञिकं यज्ञे भवं कर्म कुर्वतां सद्यःशौचम् । अत्र विज्ञानेश्वरः (पृ. १८५ पं. १९)-“दीक्षितस्य ' वैतानौपासनाः कार्या' इत्यनेन सिद्धेऽपि पुनर्वचनं सद्यःस्नानविशुध्यर्थम्” इति । सत्रिवतिदातृशब्दानामर्थाः संग्रहकारेण दर्शिताः- सत्री गृहीतनियमो यज्ञे दाने च दीक्षितः । चांद्रायणायनुष्ठाता व्रती तु ब्रह्मचार्यपि ॥ "श्राद्धे गृहीतसंकल्पो व्रती भोक्ता च कीर्तितः। दाता नित्यान्नदाता च वानप्रस्थश्च कीर्तितः" इति। दाने सततान्नदाने गृहीतनियमः कृतसंकल्पः । यज्ञे दीक्षितः सत्रीत्यनेनोक्तः । ब्रह्मविद्यतिः । दाने पूर्वसंकल्पितद्रव्यदाने विवाहे कृतकौतुकबंधने सद्य:शौचमित्यर्थः । अंगिराः- "जनने मरणे चैव त्रिष्वाशौचं न विद्यते । यज्ञे विवाहकाले च देवयागे तथैव च ॥ " ऋत्विजां यजमानानां परिकर्मादि कुर्वताम्" । यज्ञः सोमयागादिर्वैदिकः। देवयागो मातृकादि- २५ देवत्यो लौकिको यागः । बृहस्पतिः- " नैष्ठिकानां वनस्थानां यतीनां ब्रह्मचारिणाम् । नाशौचं सूतके प्रोक्तं शावे वाऽपि तथैव च ॥इति। चंद्रिकायाम् “ यद्यपि नाशौचमिति सामान्यशब्दात्सथःशौचस्याप्यपवादः प्रतिभाति तथापि स्मृत्यंतरातिधार्थं तब्यतिरिक्तस्याशौचस्यापवाद इत्यवगंतव्यम्" ॥ इति । पैठीनसिः- “ विवाहकाले यज्ञेषु यात्रायां तीर्थकर्मणि । न तत्र सूतकं तद्वत्कर्म यज्ञादि कारयेत् " ॥ श्राद्धादिमध्ये अघसंभवे । चंद्रिकायाम्--- अथ देवप्रतिष्ठायां गणयागादिकर्मणि । श्राद्धादौ पितृयज्ञे च कन्यादाने च नो भवेत् ॥ " विवाहे कन्यकायाश्च लाजहोमादिकमणि" ॥ इति । विज्ञानेश्वरीये- "नित्यमनप्रदस्यापि कृच्छ्रचांद्रायणादिषु । निर्वृत्ते कृच्छ्रहोमादौ ब्राह्मणादिषु भोजने ॥ ३५ १ खग-दुर्ग “ २० । - श्राद्धादिमध्ये आशौचसंपन्ने । [आशोच- ॥ ॥ १० “ गृहीतनियमस्यापि न स्यादन्यस्य कस्यचित् " ॥ इति । षडशीतौ सूतकात्प्राक्समारब्धमनेकाहं तु यद्वतम् । यिकं कर्म कुर्वीत न तु दानार्चनं व्रतम् ॥ " सूतकानंतरे त्वह्नि तत्कर्तव्यमतंद्रितैः” ॥ इति । विष्णुः ( २२।५२ )-" न देवप्रतिष्ठोत्सव- विवाहेषु न देशविभ्रमे नापद्यपि च कटायामाशौचं न वतिनां व्रते न सत्रिणां सत्रे” इति । ५ दक्षः (६।५)- "राजविंग्दीक्षितानां च बाले देशांतरे तथा । यतीनां सत्रिणां चैव सद्यःशीचं विधीयते" ॥ इति । चंद्रिकायाम्- " नरेंद्रसत्रिवतिनां विवाहोपप्लवादिषु । सद्यःशौचं समाख्यातं कांतारापदि संपति" ॥ संग्रहेऽपि- “कृच्छ्रदेवोत्सवश्राद्धदानहोमतपोध्वरे । प्रारब्धे तत्प्रवृत्तानां संघःशौचमघागमे" ॥ इति । अत्र स्नानं शावविषयम् । न तु प्रसवविषयम् । तत्र पितृव्यतिरिक्तानां स्नानस्याविधानात् । अत्र प्रारंभशब्दार्थः स्मृत्यर्थसारे दर्शितः-- आरंभो वरणं यज्ञे संकल्पो व्रतसत्रयोः । नांदीमुखं विवाहादौ श्राद्धे पाकपरिक्रिया ॥ “निमंत्रितेषु विप्रेषु प्रारब्धे श्राद्धकर्मणि । पाकारंभात्परं कचॅन् दातृन्भोक्तुंश्च न स्पृशेत्" ॥ इति । १५ श्राद्धे पाकपरिक्रिया' इति एतत्कुतपकालसंकल्पात्परमारब्धपाकक्रियाविषयम् । तत्पूर्व सिद्धपाकविषयेऽपि यमः- “पाकोपकल्पनादूर्ध्वं सूतके मृतकेऽपि वा। कारयेच्छ्राद्धमन्येन पक्वान्नं परिवेषयेत् ॥ इति। कारयेत्कुर्यादित्यर्थः । अत्र केचिदाहुः–“संकल्पात्पूर्वमघागमे प्राक्कुप्ताथैः संकल्पविधिना श्राद्ध- मन्यैः कारयेत्” इति एतत्स्मृतिचंद्रिकादिविरोधादुपेक्ष्यम् । यत्तु- २. “ऋत्विगादिर्यदा कुर्याद्धोमं श्राद्धक्रियां क्वचित् । उपवीत्येव कुर्वीत कर्तुः स्यादपसव्यकम् " ॥ इति तत्पिंडपितृयज्ञहोमाविषयं स्त्रीबालादिकर्तृकश्राद्धक्रियाविषयं च । “अध्वर्युरुपवीती दक्षिणं जान्वाच्य मेक्षण उपस्तीर्य ” इत्यापस्तंबादिस्मरणात् । अत आशौचेऽन्येन श्राद्धं न कारयितव्यम् । ब्राह्मे- “ तावद्गृहीतदीक्षस्य चैविद्यस्य महामखे । स्नानं त्ववभृथो यावत्तावत्तस्य न विद्यते ॥ २५ “ गृहीतमधुपर्कस्य यजमानस्य चर्विजाम् । पश्चात्पतितमाशौचं न भवेदिति निश्चयः ॥ कुर्वतां यज्ञियं कर्म याजकानां तथैव च । निमंत्रितेषु विप्रेषु प्रारब्धे श्राद्धकर्मणि ॥ " निमंत्रितस्य विप्रस्य स्वाध्यायनिरतस्य च । देहे पितृषु तिष्ठत्सु नाशौचं विद्यते क्वचित् " ॥इति । अत्र चंद्रिकायाम्-“ दीक्षितस्य यज्ञसंकल्पानंतरं ऋत्विजां मधुपर्कग्रहणानंतरमा तिमाशौचं न विद्यते । संभृतसंभारस्य तु पूर्वक्षणेऽपि नाशौचम् । — यज्ञार्थ बहुसंभारसंभृतस्यापि नो भवेत् ' ३० इति स्मृतः। अयमर्थः । यज्ञार्थं संभृतसंभारस्य कल्पितसमस्तयज्ञसाधनपदार्थस्य अकृतयाग- संकल्पस्यापि आशौचापगमादृर्व वसंतांतर्गतकर्मकालासंभवे तस्मिन्वत्सरे करिष्यमाणयज्ञाति- क्रमविषये यज्ञसंकल्पात्पूर्वक्षणे शुद्धिर्भवति" ॥ इति । यज्ञग्रहणं प्रतिष्ठादेरुपलक्षणार्थम् । अत एव विष्णुः (२२।५२ )-" देवताप्रतिष्ठाविवाहयोः पुनः संभृतयोः ” इति । एतदुक्तं भवति । यावति काले संभृतबहुसंभारधारणं कर्तुं शक्यते तावत्कालमध्ये प्रतिष्ठाविवाहांगभूतकालांतरं यत्र ३५ न लभ्यते तद्विषये तत्संकल्पात्प्रागपि कर्तुंराशौचं न भवति" इति ।
काण्डम् ] विवाहमध्ये। - “ स्मृत्यंतरे-“यज्ञे संभृतसंभारे विवाहे श्राद्धकर्मणि" ॥ इति । अत्र चंद्रिकायाम्- संभृतसंभार इति सर्वत्र संबध्यते । इदमपि विष्णुवचनसमानविषयम्। 'श्राद्धे संभृतसंभार' इत्येतत्तु पक्कद्रव्याभिप्रायम् । पक्वद्रव्योपकल्पनसंकल्पनसंकल्पयोर्मध्ये सूतके मृतके वा समुत्पन्ने अनंतरोक्त- सबःशौचविधिबलात्तस्मिन्नेव काले श्राद्धं कर्तव्यम् । आमद्रव्योपकल्पनसंकल्पयोर्मध्ये सूतके मृतके वा जाते अमावास्यायामाशौचापगमादनन्तरं वा कर्तव्यम् । श्राद्धविघ्ने समुत्पन्ने त्वन्तरा मृतसूतके । अमायां तु प्रकुर्वीत शुद्धावेके मनीषिणः ।। देये पितॄणां श्राद्धे तु अंतरा मृतसूतके । आशौचानंतरं कार्य तन्मासीन्दुक्षयेऽपि वा ॥ " कार्ये प्रत्याब्दिके श्राद्धे अंतरा मृतसूतके । आशौचानंतरं कार्यमिति वासिष्ठभाषितम् "॥ इति गोभिलवसिष्ठादिस्मरणात् । यत्तु स्मृत्यंतरे- “ वर्षश्राद्धे तु संप्राप्ते पित्रोराशौचसंभवे । तदानीमशुचिर्न स्यात्कुर्याच्छ्राद्धं मृतेऽहनि ” ॥ इति । १० यदपि- "मासिकान्याब्दिकं पित्रोरशुद्धोऽप्यौरसः सुतः। कुर्यादेव तिथिप्राप्तमिति शातातपोऽब्रवीत्" ॥ इति तत्संकल्पितश्राद्धविषयम् । श्राद्धदिने पाके निवृत्ते कुतपकाले ‘अद्य पार्वणविधानेन श्राद्धं करिष्ये' इत्यारंभात्परमागते आशौचे कर्ता कुर्यादेवेत्यर्थः। तथा चंद्रिकायाम्- अद्य श्राद्धं करिष्य इति संकल्पात् परं तत्पूर्वक्षणे चारब्धे पाके कर्तुः शुद्धिः। अद्य श्राद्धं तत्र १५ भवता भोक्तव्यम् इति निमंत्रिते ओं तथेति प्रतिश्रुते निमंत्रितस्य निमंत्रणादूर्वमाशौचे प्राप्ते तस्य शुद्धिः। निमंत्रणात्प्राग्विप्रस्याशीचे प्राप्ते पूर्वदिने निश्चितमपि परित्यज्य विप्रांतरमामंत्र्य श्राद्ध कर्तव्यमिति सद्यःशौचविधानाद्भोजनात् पूर्व स्नात्वैव भुंजीत कर्तापि स्नात्वैव कर्म कुर्यात् "। तथा विज्ञानेश्वरीये- यज्ञे संभृतसंभारे विवाहे श्राद्धकर्मणि । तथा चौलादिसंस्कारे सद्यःशौचं विधीयते ॥ इति । २० स्मृत्यंतरे च- " आशौचं कर्ममध्ये तु शावं सूतकमेव वा । आपतेद्यदि सर्वेषां सद्यःशौचं विधीयते ॥ मातापित्रोश्च मरणे पुत्रस्य मरणे तथा" ॥ इति । एवं च श्राद्धे पाकसंकल्पाभ्यां पूर्वमघागमे आशौचानंतरदिने तदसंभवे अमायां वा कुर्यात् । पाकानंतरं संकल्पात् पूर्वपरं वा अघागमे तस्मिन्नेव काले कुर्यात् । द्वितीयवरणानंतरं भोक्तुराशौचं २५ नास्ति । कुतपकालवरणात्पूर्वमघागमे अन्यं वरयेत् । ततः परमघागमे तमेव भोजयेत् । यत्तु- भोजनार्थे तु संभुक्ते विप्रैर्दातुरघागमः । यदा क्वचित्तदोच्छिष्टशेषं त्यक्त्वा समाहितः ॥ आचम्य परकीयेन जलेन शुचयो द्विजाः ” ॥ इति । एतत् श्राद्धव्यतिरिक्तविषयम् । यागमध्ये अघागमे अवभृथांतरमनुष्ठेयम् । विवाहमध्ये आशौचसंभवे । विवाहे नांदीमुखात्परमघागमे शेषहोमान्तस्य कर्मणा विवाहशब्द- ३० वाच्यत्वेन कर्मक्याच्छेषहोमांतं साङ्गं कर्मानुष्ठेयम् । तथा च दक्षः ( ६-१८)- “ यज्ञकाले विवाहेषु देवयागे च निष्कृतौ । हूयमाने तथैवाग्नौ नाशौचं न च सूतकम् " ॥ इति । विवाहेष्विति बहुवचनं शेषहोमांतकाभिप्रायम् । ब्राह्मे- विवाहकाले कन्याया लाजहोमादिकर्मणि । प्रायश्चित्तपरस्यापि स्वाध्यायनिरतस्य च" ॥ " “ सद्याशौचानि। [आशौच- १० -- । सबःशौचमिति प्रकृतम् । लाजहोमादीत्यादिशब्देन शेषहोमांतं कर्मजातमुच्यते । स्वाध्यायोऽत्र वेदपारायणम् । तथा च वेदपारायणं प्रकृत्य बोधायनः-“प्रणवव्याहृतिपूर्वकं वेदादिमारभ्य सततमधीयीत नांतरा विरमेत् । व्याहरेदा नास्यांतरा जननमरणाशौचम् " ॥इति । विवाहमध्ये पित्रोदम्पत्योर्मरणे स्मृत्यंतरे- " उदाहांकुर आरब्धे मातापित्रोम॒तिर्यदि । तत्काले सकलं कृत्वा शेषहोम समाचरेत् ॥ " विवाहशेषमध्ये तु दंपत्योर्मरणं यदि । कर्मशेषं ततः कृत्वा पश्चाद्दहनमाचरेत् " ॥ इति। शेषहोमांतं कर्म तदानीमेव परिसमाप्य दहनं कुर्यादित्यर्थः । दीक्षितस्य दीक्षामध्ये मातापितृमृतौ । दीक्षितस्य दीक्षामध्ये मातापितृमृतिविषये संस्कारमात्रं कृत्वा यज्ञं समापयेदित्याह वृद्धगार्ग्य:- " ज्येष्ठस्य तु क्रतोर्मध्ये मातापित्रोम॒तिर्यदि। संस्कृत्य शालामागत्य यज्ञशेषं समापयेत् ॥ शांडिल्यः- दीक्षितोऽप्येकपुत्रस्तु मातापुत्रोर्मुतिर्यदि । दीक्षारूपं निधायात्र संस्कुर्यान्नोदकाप्लवः ॥ संस्कृत्य शालामागत्य यज्ञशेष समापयेत् । पावयेदर्भपुंजीलैदीक्षारूपं यथाविधि"॥ इति । पावयेत् । दीक्षाविध्युक्तमंत्रैरिति शेषः। एकपुत्र इति विशेषस्मरणात् पुत्रांतरसद्भावे तेनैव कारयेत् । १५“ ज्येष्ठस्य तु क्रतोर्मध्ये " इति स्मरणात् । ज्येष्ठेनैव कार्यमित्यपि प्रतीयते । अत्र यथाशिष्ठाचार व्यवस्था । विवाहमध्ये अघागमे भोक्तादिनियमः पत्रिंशन्सते विशेष उक्त:- " विवाहोत्सवयज्ञेषु अंतरा मृतसूतके । परैरन्नं प्रदातव्यं भोक्तव्यं च द्विजोत्तमैः" ॥ परैः आशौचरहितैर्दातव्यं न त्वाशौचिजनैः । भोजनार्थ वृत्तैाह्मणैर्भोक्तव्यं चेत्यर्थः । तत्रैव- “भुंजानेषु तु विप्रेषु अंतरा मृतसूतके । अन्यगेहोदकाचान्ताः सर्वे ते शुचयः स्मृताः ॥ इति । २० संग्रहेऽपि- "श्राद्धोत्सवादी भुक्त्यंते पाकादो चाघसंभवे । परैर्देयं च भोक्तव्यं न दोष इति निश्चयः ॥ इति । क्रतुरपि- "विवाहोत्सवयज्ञादिष्वंतरा मृतसूतके । शेषमन्नं परैर्देयं दातृन भोक्तश्च न स्पृशेत् "॥ इति । आशौचिजनेतृभोक्तृभांडादिस्पर्शी न कर्तव्य इत्यर्थः। तथा च विष्णु:- २५ “अस्पृष्टानां च भांडानां दशाहे शुद्धिरिष्यते। द्रव्याणां चाघिसंस्पर्शे विना मांसं समुत्सृजेत् ॥ भुक्त्वा स्पृश्यैस्तथाशोचिकेशकीटैश्च दृषितम् । कुशोदुंबरबिल्वायः पनसांम्बुजपत्रकैः ॥ शंखपुष्पीसुवर्चादिक्काथं पीत्वा विशुध्यति" ॥ इति । आशौचिदर्शनं वय॑मित्युक्तं विष्णुपुराणे ( ३१६-१३)- उदक्यासूतिकाशौचिमृताहारैश्च वीक्षिते। श्राद्धे सुरा न पितरो भुंजते पुरुषर्षभ"॥ इति । ३० अघागमात्प्रासंकल्पितद्रव्याणां दोषाभावः । विशेषमाह बृहस्पतिः- " विवाहोत्सवयज्ञादिष्वंतरामृतसूतके । पूर्वसंकल्पितार्थेषु न दोषः परिकीर्तितः” इदं देवार्थ इदं पित्रर्थ इदं ब्राह्मणार्थमित्यघागमात् प्रागेवोद्दिष्टपदार्थेष्वघं नास्तीत्यर्थः । कतुरपि-“पूर्वसंकल्पितद्रव्यं दीयमानं न दुष्यति" इति । दक्षोऽपि “यज्ञोत्सवे व्रते श्राद्धे सूतके समुपागते । पूर्वसंकल्पितार्थेषु न दोषः परिकीर्तितः” ॥ इति । ३५ एतेन श्राद्धादौआरंभात्परमघसंभवे पूर्वसंकल्पितामद्रव्यदाने न दोषः। तदर्थमेव पक्कस्य दाने च न दोषः। ॥ “ . ॥
काण्डम् ] भृगुपातादिना मृतौ। “ । ॥ " यज्ञादौ प्रागुद्दिष्टभामद्रव्यं परैः पाचयित्वा दातव्यम् । ‘परैरन्नं दातव्यम्' इति वचनात् । प्रारब्धे भोजने अघागमे दातुः सयःशुद्धिविधानेऽपि शेषमन्नं परैर्देयमिति वचनात् अन्नं परैर्देयमिति सिद्धम् । भृगुपातादिना मृतौ पराशरः ( ३११२ )- "भृग्वाग्निपरणे चैव देशांतरमृते तथा । बाले प्रेते च संन्यस्ते सबःशौचं विधीयते " ॥ इति । भृगुः प्रपातः । अग्निः प्रसिद्धः । भृग्वग्निमरणं प्रमादादिना दुर्मरणमात्रोपलक्षणम् । तन्निमित्तमरणे ५ सति तत्संबंधिनां सयःशौचम् । असपिंडे च देशांतरमृते सयःशौचम् । बालोऽत्राकृतनामा । तस्मिन्मृते सति तत्संबन्धिनां मरणनिमित्तं सद्यःशौचमित्यर्थः । जनननिमित्तमस्त्येव । सूतिमध्ये मृते बाले न शावं सूतकं भवेत् " इति स्मृतेः॥ मनुरपि ( ५७७ )-- "बाले देशांतरस्थे च पृथपिंडे तु संस्थिते । सवासा जलमाप्लुत्य सघ एव विशुध्यति” ॥ इति । देशांतरस्थ इत्यसपिंडविशेषणम् । संन्यस्तादिमृतौ । संन्यस्ते मृते सति तत्सपिंडानां सद्यःशौचम् । अत्र व्यासः- नैष्ठिकानां वनस्थानां यतीनां ब्रह्मचारिणाम् । नाशौचं कीर्तितं सद्भिः पतिते च तथा मृते" ॥ याज्ञवल्क्यः-- “ देशांतरमृतिं श्रुत्वा क्लीबे वैखानसे यतौ। मृते स्नानेन शुध्यति गर्भस्रावे च गोत्रिणः " वैखानसाः वानप्रस्थाः । संग्रहेऽपि-- आधोराश्रमिणोनीशे वर्गोतं त्वन्ययोर्मुतौ । सयःशौचं ग्रहिण्येव सद्योऽन्येधु सदा मिथः॥ इति । आयोब्रह्मचारिगृहस्थयोर्मृतौ स्वत्वजात्युक्तमधं भवति । अन्ययोनिप्रस्थसंन्यासिनोम॒तौ सयःशौचम्। इत्येवं प्रकारेणाशौचं गृहिणि गृहस्थविषये । अन्येषु ब्रह्मवारिवानप्रस्थयतिषु परस्परं सर्वदा सद्यः- शौचम् । गृहस्थती ब्रह्मचारिवानप्रस्थयतीनां, ब्रह्मचारिमृतौ ब्रह्मचारिवानप्रस्थयतीनां, वान- प्रस्थमृतौ वानप्रस्थब्रह्मचारियतीनां, यतिकृतौ यतिब्रह्मचारिवानप्रस्थानां सपिंडानां परस्परं सद्यः- २० शौचं भवतीत्यर्थः यत्तु स्मृत्यंतरम्- सर्वसंगनिवृत्तस्य ध्यानयोगरतस्य च । न तस्य दहनं कार्य नाशौचं नोदकक्रिया" ॥ इति तत्र नाशौचमिति दशाहायभिप्रायम्। स्नानमात्रमस्त्येव। सयःशौचस्य विहितत्वादिति चंद्रिकायाम् । विष्णु:- २५ दानादौ ग्रहणे सद्यः पुत्रजन्मनि चापदि । निष्कृतौ तीर्थयात्रायां वेदपारायणे व्रते ॥ "नामकर्मादिसंस्कारे प्रारब्धे सब इष्यते” ॥ नामकर्मादित्यादीशब्देन स्मशानांताः संस्कारा गृह्यते । आशौचिना ग्रहणस्नानविधिः । वृद्धवसिष्ठः “ मृते च सूतके चैव न दोषो राहुदर्शने । तावदेव भवेच्छुद्धिर्यावन्मुक्तिर्न दृश्यते” ॥ अंगिराः- “ सर्वे वर्णाः सूतके च मृतके राहुदर्शने । स्नात्वा श्राद्धं प्रकुरिन् दानं शाठ्यविवर्जिताः" ॥ इति । जामातृदौहित्रभागिनेयादिमृतौ संग्रहे- श्वश्रूश्वशुरतत्पुत्रयाज्याचार्यसुतर्विजाम्। उपाध्यायस्य सघःस्यान्मृतौ तत्प्रतियोगिनाम्" ॥ इति। श्वश्वादिप्रतियोगिनां मृतौ श्वश्वादिनां सद्यःशौचमित्यर्थः । वृद्धयाज्ञवल्क्यः- मित्रे जामातरि प्रेते दौहित्रे भगिनीसुते । स्याले च तत्सुते वाऽपि संघःस्नानेन शुध्यति" ॥ " ३. - -- “ । -- “ राष्ट्रक्षोभादिना मृतौ। [आशौच- मित्रविषये सबःशौचमसन्निधौ । सन्निधौ तु दिनं वक्ष्यते । दौहित्रभागिनेयमृतौ सयःशौचं विदेश- स्थानुपनीतविषयम् । प्रत्यक्षे व्रतात्प्रागपि पक्षिणीविधानात् । स्याले च स्नानं पराक्षे । राष्ट्रक्षोभादिना मृतौ पराशरः- दुर्भिक्षे राष्ट्रसंभ्रांतावापदां च समुद्भवे । उपसर्गमृतौ चैव सद्यःशौचं विधीयते " ॥ ५ उपसर्गमृतौ क्षामक्षोभायुपप्लवमृती सपिंडानां सद्यःशौचमित्यर्थः । ब्रह्मपुराणे- दुर्भिक्षे प्राणरक्षार्थ कृतयत्नस्य देहिनः । राष्ट्रघंशस्थितस्यापि पुत्रदारांश्च रक्षितुम् ॥ विभ्रष्टस्य स्वदेशाच्च अन्यदेशपरिग्रहे । ग्रहोपतापे घोरे च दारुणायामथापदि । " ग्रहोपतापशांत्यर्थ क्रियमाणे च कर्मणि । शीतवातातपैर्यत्र ह्यथैव मरणं भवेत् ॥ तत्रोपसर्गात्स्वं देहं रक्षमाणस्य किं भवेत् ” ॥ अघमिति प्रकृतम् । १. शिल्पिदासवैद्यराजादीनां सद्यःशौचम् । बृहस्पतिः- शिल्पिनः कारवो वैया दासीदासाश्च नापिताः । राजानः श्रोत्रियाश्चैव सयःशौचाः प्रकीर्तिताः ॥ सवतः सत्रपूतश्च आहिताग्निश्च यो द्विजः। राज्ञश्च सूतकं नास्ति यस्य चेच्छति पार्थिवः ॥ उद्यतो निधने दाने आर्तो विप्रो निमंत्रितः । तथैव ऋविभिदृष्टं यथाकालेन शुध्यति”॥ इति । शिल्पिनश्चित्रकाराद्याः । कारवः सूपकारप्रभृतयः। वैधाश्चिकित्सकाः । यस्य च पुरोहितादेरनन्य- १५ साध्यमंत्राभिचारादिकर्मार्थमाशौचाभावमिच्छति तस्य तत्कर्मण्याशौचाभावः । निधने संग्रामे । दाने अन्नादिदाने । चोयतः कृतोपक्रमः । आर्तः आपदं प्राप्तः। निमंत्रितः श्राद्धादौ । यथाकालेन दशरात्रादिना । तथा स्नानेनैव शुध्यतीत्यर्थः । अत्र व्यासः- शिल्पिनश्चित्रकारायाः कर्म यत्साधयंत्यलम् । तत्कर्म नान्यो जानाति तस्माच्छुद्धा स्वकर्मणि सूपकारेण यत्कर्म करणीयं नरेष्वपि । तदन्यो नैव जानाति तस्माच्छुद्धः स सूपकृत् ॥ चिकित्सको यत्कुरुते तदन्येन न शक्यते । तस्माच्चिकित्सकः स्पर्शे शुद्धो भवति नित्यशः॥ दास्यो दासाश्च यत्किंचित् कर्म कुर्वति लीलया । तदन्ये न क्षमाः कर्तुं तस्मात्ते शुचयः सदा ॥ राजा करोति यत्कर्म स्वप्नेऽप्यन्यस्य तत्कथम् । एवं सति नृपः शुद्धः संस्पर्शे मृतसूतके ॥ यत्कर्म राजभृत्यानां हस्त्यश्वगमनादिकम् । तन्नास्ति यस्मादन्यस्य तस्मात्ते शुचयः स्मृताः॥ इति। दास्यादीनां स्वामिकर्मण्येव सद्यःशौचं स्वकर्माधिकारस्तु मासावधिक एव.। स्वामिशौचेन स्पृशत्वम् । २५ “दासी दासश्व सर्वे वै यस्य वर्णस्य यो भवेत् । तद्वर्णस्य भवेच्छौचं दास्या मासस्तु सूतकम्" ॥ इत्यंगिरःस्मरणात् । शातातपः- “ मूल्यकर्मकराः शूद्रा दासीदासास्तथैव च । स्नाने शरीरसंस्कारे गृहकर्मण्यदूषिताः ॥ इति । स्मृत्यंतरे तु-“सद्यःस्पृश्यो गर्भदासो भक्तस्तु स्यात् व्यहाच्छुचिः" इति। मनुः (५।९२-९३)- न राज्ञामवदोषोऽस्ति बतिनां न च सत्रिणाम् । ऐंद्रस्थानमुपासीना ब्रह्मभूता हि ते सदा॥ ३० “ राज्ञो माहात्मिके स्थाने सद्यःशौचं विधीयते । प्रजानां परिरक्षार्थमासनं चात्र कारणम् "॥ इति। सत्रिणां प्रारब्धयज्ञानाम् । तेऽपि खल्वेंद्रस्थानमुपासीनाः देवतायजनपरत्वात् । तथा च श्रुतिः- एष वा एतहींद्रो यो यजते” इति । ब्रह्मभूताः धर्मस्वरूपिणः। माहात्मिके महात्मा इंद्रः। तस्येदं महात्मिकम् । तस्मिन् स्थाने आसीनस्येति शेषः । राज्ञ आशौचाभावमुपपादयति स एव ( ५।९५-९६)- ॥ " “ ।
काण्डम् ] युद्धमरणाद। B८७ " ८ - -- । १५ सोमाग्न्यानिलेंद्राणां वित्ताप्पत्यर्यमस्य च । अष्टानां लोकपालानां वपुर्धारयते नृपः॥ "लोकेशाधिष्ठितो राजा नास्याशौचं विधीयते। शौचाशौचं हि मानां लोकेशप्रभवेऽप्ययम्"॥इति। युद्धमरणादौ स एव ( ५।९७, ९४ )- “ उद्यतैराहवे शस्त्रैः क्षत्रधर्महतस्य च । सद्यः संतिष्ठते धर्मस्तथाशौचमपि स्मृतम् ॥ ९७ ॥ डिभाहवहतानां च विद्युता पार्थिवेन च। गोब्राह्मणस्य चैवार्थे यस्य चेच्छति पार्थिवः”॥९४॥ ब्राह्मणगवाद्यर्थे मृतो इति । डिम्भो बालः । बृहस्पतिः- " शस्त्रेणाभिमुखो यस्तु वध्यते क्षत्रकर्मणा । यज्ञः संतिष्ठते तस्य सद्यःशौचं विधीयते" ॥ इति । ब्रह्मपुराणे- " ब्राह्मणार्थे गवार्थे वा भूम्यर्थे वा वियुज्यते । राज्ञो वा राजभृत्यस्य सत्वोद्रिक्तस्य संगरे ॥ " संमुखस्य हतस्यापि सद्य:श्राद्धक्रिया भवेत् ” । यत्तु स्मर्यते- १०. " ब्राह्माणार्थे विपन्ना ये योषिता गोग्रहेऽपि वा। आहवेऽभिहतानां च एकरात्रमशौचकम् " ॥ इति तत्कालांतरमृतिविषयम् । तथा च संग्रहे- गोविप्रस्त्रीकृते प्रेते राज्यार्थ वा हते युधि । शौचं चोर्ध्वक्रियाः सद्यो यद्यनिछास्त्यचं मृतौ ॥ एकरात्रं भवेयुद्धे क्षतैः कालांतरे मृते” ॥ इति “ यद्यनिच्छास्त्यघं मृतात् ” इति मृतौ यदीच्छाभावः तदापि दुर्मतत्वात्सद्यःशौचमित्यर्थः । याज्ञवल्क्यः ( प्रा. २७)-- महीपतीनां नाशौचं हतानां विद्युता तथा । गोब्राह्मणार्थे संग्रामे यस्य चेच्छति भूमिपः॥ इति । गौतमः (१४।८-११)-"गोब्राह्मणहतानामन्वक्षम् । राजक्रोधाच्च। युद्धे । प्रायानाशकशस्त्राग्निविषो- दकोद्वंधनप्रपतनैश्चच्छताम्" इति । गवार्थे ब्राह्मणार्थे वा हतानां ये सपिंडाः तेषामाशौचमन्वक्षं यावदन्वीक्ष्यते शवस्तावदेव । संस्कारानंतरं स्नात्वा शुध्येयुः । एवं गोब्राह्मणयोरन्यतरेण यो हतः तत् ज्ञातीनामन्वक्षमाशौचम् “गवार्थे ब्राह्मणार्थे वा हतानां गोभिर्हतानां ब्राह्मणैर्वा सद्यःशौचम् ” २० इति स्मरणात् । आयुद्धमायोधनम् । प्रायो महाप्रस्थानं अशनमाशः स एवाशकः । सत्येव भोज्ये क्रोधादिना भोजननिवृत्तिरनाशकः इत्यर्थः। इच्छतामित्युक्तत्वात् प्रमादमृतानामाशौचोदकसद्भवः । तथा चांगिरा:- यदि कश्चित्प्रमादेन म्रियेताम्युदकादिभिः । तस्याशौचं विधातव्यं कर्त्तव्या चोदकक्रिया"॥इति बुद्धिपूर्वमरणे वैधे प्रायादिमरणे च । बुद्धिपूर्वमरणे पराशरः- २५ “ बाले देशांतरस्थे च पतिते च यतौ मृतौ । सद्यःशौचं तथेच्छातो जलाग्न्युबंधनादिषु" ॥ ब्रह्मपुराणे-- शंगिदंष्ट्रिनखिव्यालविषवान्हमहाजलैः । सुदूरात्परिहर्तव्यैः कुर्वन् क्रीडां मृतस्तु यः ॥ नागानां विप्रियं कुर्वन् दग्धश्चाप्यथ विद्युता । गृहीता ये च राज्ञा वै चौर्यदोषेण कुत्रचित् ॥ परदारान्हरंतश्च रोषात्तत्पतिभिर्हताः । असमानश्च संकीर्णैश्चंडालाद्यैश्च विग्रहम् । कृत्वा तैर्निहतास्तद्वच्चंडालादीन्समाश्रिताः । " क्रोधात् प्रायं विषं वान्हें शस्त्रमुद्वंधनं जलम् । गिरिवृक्षप्रपातं वा ये कुर्वति नराधमाः ॥ ब्रह्मदंडहता ये च ये चैव ब्राह्मणैर्हताः । महापातकिनो ये च पतितास्ते प्रकीर्तिताः ।। "पतितानां न दाहः स्यान्नाशौचं नास्थिसंचयः। न चाश्रुपातःवर्तव्यो युदकस्य क्रिया न च ॥ इति । ३० " ४८८ पापकर्मणां मृतौ। [ आशौच- “ ॥ -- हारीत:-" पाषंडानाश्रितात्मग्त्यागिनां नास्त्याशौचम्" इति । पाषंडाः वेदबाह्याः । अनाश्रिताः अनामिणः । स्मृत्यंतरे- चंडालादुदकात्सर्पाद्राह्मणाद्वैद्युतानलात् । दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मणाम् ॥ ये वेश्यापतयो विप्रा ये वै शूद्रान्नभोजनाः। ये चान्ये पापकर्माणस्तेषां भस्मांतसूतकम्"॥ ५ दक्षः ( ६।९)- व्याधितस्य कदर्यस्य ऋणग्रस्तस्य सर्वदा । क्रियाहीनस्य मूर्खस्य नास्तिकस्य विशेषतः ॥ व्यसनासक्तचित्तस्य पराधीनस्य सर्वदा । नित्यस्नानविहीनस्य भस्मांतं सूतकं भवेत्” ॥ इति । दाहपर्यंतं सूतकमित्यर्थः । संवतः- "क्रियाहीनस्य मूर्खस्य कदर्यस्य तथैव च । ऋणग्रस्तस्य दंभस्य भस्मांतं सूतकं भवेत्" १० अत्र विज्ञानेश्वरः-"दर्पादिना चंडालादीन्हंतुं गतो यस्तैर्मारितस्तस्य 'सर्वत एवात्मानं गोपायेत्' इति, विध्यतिक्रमनिमित्तपिंडोदकाशौचादिनिषेधः । न तु प्रमादामृतस्य” इति । ब्राह्मे-" प्रमादादेव निःशङ्कमकस्मादपि यो नरः । शृंगिदंष्ट्रिनखिव्यालविषविद्युज्जलाग्निभिः ॥ चंडालैर्वाऽथ चौरैर्वा निहतो यत्रकुत्रचित् । तस्य दाहादिकं कुर्याद्यस्मान्न पतितस्तु सः”॥ इति। संग्रहे- १५“ अन्वक्षं शृंगिचोरांत्यविद्युच्छस्त्रविषानिभिः । प्रायानशनतोयाथैभृते कामात्प्रवृत्तितः ॥ प्रमादादुर्मृतौ सद्यः क्रियाशौचे समाचरेत् । वैधे प्रायादिमरणे व्यहं सद्यश्च तक्रियाम् " ॥ इति । शृंगिचोरादिभिः कामात्प्रवृत्तितः बुद्धिपूर्वप्रवृत्त्या मृते सति तत्सपिंडानामन्वक्षं भस्मांतमाशौचम् । प्रमादादुर्मृतौ अबुद्धिपूर्वमरणे सबः अविलंबेन क्रियाशौचे कुर्यात् । दाहादिसपिंड्यंताः प्रेतक्रियाश्च आशाचं चानुतिष्ठेदिति यावत् । वैधे शास्त्रचोदिते मायादिति मरणे व्यहमाशौचं तक्रियाः प्रेतक्रियाश्च २० सद्यस्तदैव कुर्यात् । एतदुक्तं भवति-“ अत्यंतानुष्ठानाशक्तजीर्णागाचिकित्स्यरोगाणां वृथाजीविनां अग्निजलप्रवेशभृगुपतनानि महापथगमनं वा गच्छेत् । न वृथाजीवितुमिच्छेत् ” इति वृद्धगा-दिवचनविहिते बुद्धिपूर्वाग्निप्रवेशादिमरणे व्यहम् । तदानीमेव प्रेतकृत्यं च कुर्यादिति । गायः- " दुश्चिकित्सैर्महारोगैः पीडितस्तु पुमान्यदि । प्रविशेज्ज्वलनं दप्तिं कुर्यादनशनं तथा ॥ २५ “ अगाधतोयराशिं वा भृगोः पतनमेव वा । गच्छेन्महापथं वाऽपि तुषारगिरिमादरात् ॥ उत्तमानाप्नुयाल्लोकानात्मघाती भवेत्कचित् ॥ वृद्धः शौचक्रियालुप्तः प्रत्याख्यातभिषविक्रयः । आत्मानं धातयेद्यस्तु भृग्वग्न्यनशनांबुभिः ।। तस्य त्रिरात्रमाशौचं तृतीये त्वस्थिसंचयः । तृतीये सूतकं दत्वा चतुर्थे श्राद्धमाचरेत्” ॥ इति । वसिष्ठः- ३० “ वाराणस्यां मृतो यस्तु प्रत्याख्यातभिषक्रियः । काष्ठपाषाणमध्यस्थो जान्हवीजलमध्यगः ॥ अविमुक्तस्थितस्तस्य कर्णमूलगतो हरः । प्रणवं तारकं ब्रूते नान्यथा कस्यचित्वचित् ॥ प्रयागवटशाखायां देहत्यागं करोति वा” ॥ मनुः- यः कामतो महापापं नरः कुर्यात्कथंचन । न तरय निष्कृतिर्दृष्टा भृग्वग्निपतनाहते " ॥
काण्डम् ] आहिताग्निदुर्मरणे। ૬૮૬ “ " । इत्याद्यात्महननं यत्र शास्त्रतोऽनुज्ञायते तत्र व्यहमाशौचम् । एतच्चात्महननाभ्यनुज्ञानं युगांतरविषयम्। प्रायश्चित्तविधानं च विप्राणां मरणांतिकम् । भृग्वग्निपतनं चैव वृद्धादिमरणं तथा ॥ " कलौ युगे विमान धर्मान्वया॑नाहुर्मनीषिणः " ॥ इति कलौ निषेधस्मरणात् । संग्रहे- घंडपाषंडपतितप्रव्रज्यावासिमोघजाः। स्वैरिण्यनाश्रमिस्तेना गर्भभत्मिघातिनः ॥ नाशौचाऱ्यास्तदा तूष्णीं दाह्याः पश्चात्तु मंत्रितः । दुर्मृतौ वत्सरांते वा षण्मासांते व्यहाः क्रियाः । ५ त्र्यहं चाघमिहावश्यं नारायणबलिर्भवेत् " ॥ इति । प्रव्रज्यावासी सन्यस्य तद्धर्महीनः । मोघजः वृथाजातः क्रियागुणाद्यैः कस्यचिदर्थस्यासंपादकः । स्वैरिणी कुलटा । एतच्च कुलटायाः सद्यःशौचं स्वैराचारे । अनाश्रमिणः अधिकारे सत्यकृताश्रमविशेषपरिग्रहाः। गर्भघातिनः भर्तृघातिनः आत्म- घातिनः । अत्र लिंगमविवक्षितम् । एतेषां मरणे सपिंडैराशौचं नानुष्ठेयम् । तदानीं तूष्णीं दाह्याः। पश्चा- द्वत्सरेऽतीते षण्मासानंतरं वा नारायणबलिं कृत्वा मंत्रवद्दाहादिक्रियाः कार्याः । अत्राचं व्यहमित्यर्थः। १० अत्र बृहस्पतिः- “विषोद्वंधनशस्त्रेण यः स्वात्मानं प्रमापयेत् । मृतोऽमेध्येन लेप्तव्यो नाग्निसंस्कारमर्हति" अंगिराश्च- “कामतो मरणं प्राप्ते आस्ये मत्स्यं निवेशयेत् । ब्रह्मघ्नसममित्याहुः काष्ठवदहनं भवेत् " जाबालिः- “ पतितेऽनशने प्रेते विदेशस्थो शिशौ च न । पाषंडानाश्रितास्तेनभर्तृघ्न्यः कामगादिकाः। सुरापा आत्मत्यागिन्यो नाशौचोदकभाजिनः " ॥ मनुरपि ( ५।८९)- पाषंडमाश्रितानां च चरंतीनां च कामतः । गर्भभर्तृगुहां चैव सुरापीनां च योषिताम्" ॥ आपस्तंबः- व्यापादयेद्य आत्मानं स्वयमग्न्युदकादिभिः । विहितं तस्य नाशौचं नापि कार्योदकक्रिया" ॥ २० १५ “ " यमः- । " नाशौचं नोदकं नाश्रु न कुर्यात्प्रेतकर्म च । ब्रह्मदंडहतानां च न कुर्यात्कटधारणम्" ॥ ब्रह्मदंडः ब्रह्मशापः । कटधारणं प्रेतधारणम् । आहिताग्निदुर्मरणे । आहिताग्नेर्दुमैरणे पराशरः- “वैतानं प्रक्षिपेदप्सु आवसथ्यं चतुष्पथे । पात्राणि तु दहेदग्नौ यजमाने वृथा हते ॥ आत्मनस्त्यागिनां नास्ति पतितानां तथा क्रिया । तेषामपि तथा गंगा तोयेऽवस्थापनं हितम् ॥ कृत्वाग्निमुदकं स्थानं दर्शनं वाहनं कथाम् । रज्जुच्छेदाश्रुपातं च तप्तकृच्छ्रेण शुध्यति " ॥ स्नाननिषेध प्रेतस्यैव । ज्ञातीनां सद्यःशौचविधानात् । अयं च संस्कारनिषेधो यावद्वत्सरम् । तथा च षट्रिशन्मते- “गोब्राह्मणहतानां च पतितानां तथैव च । ऊर्ध्व संवत्सरात्कुर्यात्सर्वमेवौर्ध्वदेहिकम् " ॥ इति । ३० संवत्सरादूर्ध्वमपि नारायणबलिं कृत्वा कुर्यादित्याह व्यासः- मृताः पापमार्गेण तेषां संवत्सरात्परम् । नारायणबलिं कृत्वा कुर्यादूर्ध्वक्रियां द्विजः॥ तत्र त्रिरात्रमाशौचं द्वितीये त्वस्थिसंचयः । तृतीये तूदकं दत्वा चतुर्थे श्राद्धमाचरेत् "॥ अखंडादशैं- "अब्दांते वाऽथ षण्मासे पुनः कृत्वा तु संस्कृतिम् । त्रिरात्रमशुचिर्भूत्वा पिंडं कुर्याक्रियादिकम्"॥३५ “ये दुम॒तौ प्रायश्चित्तं संस्कारक्रमश्च । [आशौच- “ " ५ . “ - १५ अंगिरा:- नारायणबलिः कार्यो दुम॒तौ दुर्मृतस्य तु । संवत्सरे व्यतीते वा तदर्धे पाद एव वा”॥इति । बादरायणः- “ चंडालोदकसाथैर्ये मृताः पापकर्मभिः । तेषामब्दात्परं कुर्यान्नारायणबलिं बुधः ॥ षण्मासात्परतस्तत्र मुनयः केचिदूचिरे । अन्ये मासत्रयात्पश्चान्नारायणबलिं जगुः ॥ " सार्धान्मासाच्च परतः केचिदाहुमहर्षयः । चतुर्विंशदिनात्पश्चादिति रोमशभाषितम् ” ॥ रोमश:- निर्घातो,धनाग्न्याधैर्ये मृताः पापकर्मणः । नारायणबलिस्तेषां चतुर्विंशदिनात्परम् ॥ कुलोचितानां धर्माणामानन्त्यपरिकल्पनात् । कर्तुः शरीरानित्यत्वाच्चतुर्विंशतिवासरात् ॥ १० “पश्चान्नारायणबलिः कर्त्तव्यः स्यान्मनीषिभिः। तदंतःशुभकर्माणि न कर्त्तव्यानि सूरिभिः"॥ इति । दुर्मृतस्य क्रियाहीनकाले पुंसवनं चरेत् । पित्रोराब्दिककालस्तु यदि तत्र तदा यदा ॥ तयोस्तदैव कुर्वीत नान्येषां परतो भवेत् " ॥ इति । दुम॒तौ प्रायश्चित्तं संस्कारक्रमश्च । अत्र स्मृत्यंतरे विशेषः- यावत्षण्मासमित्यन्ये यावन्मासत्रयं परे । नास्ति प्रेतक्रियेत्येके प्रायश्चित्तं विदुः परे ॥ प्राजापत्यातिकृच्छ्रे च तप्तकृच्छ्वयं तथा । चांद्रायणं ततः कुर्यान्नारायणबलिं तथा ॥ कृत्वैतद्वत्सरस्यांते विदधीतोर्वदेहिकम् । षण्मासात् द्विगुणं कार्य त्रिमासात् त्रिगुणं भवेत् ॥ चतुर्गुणं त्रिपक्षे स्यात्सद्यः पंचगुणं भवेत् " ॥ षत्रिंशन्मते- "पापमार्गमृतौ नृणां संस्कारः परतोऽब्दतः । सामान्योऽयं विधिस्तत्र विशेषविधिरुच्यते ॥ मासत्रयाद्राह्मणानां नृपाणां मासषट्कतः ।वैश्यानां वत्सरात्पश्चाच्छूद्राणां वत्सरद्वयात् ॥ प्रायश्चित्तं परं कार्यमिति सूक्ष्मविदां मतम्” ॥ इति । सुमतिः-" सार्धमासात् दिजानां तु क्षत्रियाणां त्रिमासतः” इति । अत्र विषयभेदेन कालव्यवस्थामाह सुमंतुः-- अग्रिविद्युत्पयःपातचंडालब्राह्मणैर्हताः । एकद्वित्रिचतुःपंचषडब्दैः शुद्धिमाप्नुयात् " ॥ इति । एतत्पूर्वोक्तप्रायश्चित्ताकरणविषयम् । तत्कृतौ तु सद्य एव । तथा चापरार्के- २५ “दुर्मुतौ सद्य एव स्यात् संस्कारो हि द्विजन्मनाम् । लब्ध्वा कृच्छ्राणि विप्रेभ्य इति वेदविदां मतम्"।इति। सद्यःसंस्कारप्रकारमाह हारीतः- " ब्राह्मणेन वधे प्राप्ते चंडालस्य करेण वा । आत्मना शस्त्रनिर्घाते शूद्रवद्दाहयेत् द्विजम् ॥ भस्मास्थीनि गृहीत्वा तु विप्राणामनुशासनात् । क्षीरप्रक्षालनं कृत्वा तदस्थि प्रेतवद्दहेत् ॥ पुनर्विधानमंत्रेण यथाविधि समाचरेत् । एवमेव विधिं कुर्यान्मरणे गर्हिते तथा "॥ इति । ३० चेतोवद्भिर्हतानां सद्यःसंस्कारं प्रतिषिध्य अचेतोभिर्हतानां नियमेन सद्यःसंस्कारमाह कात्यायन:- "चेतोवद्भिर्हते सद्यःसंस्कारो नोपपद्यते । अन्यत्र सद्य एव स्यात् संस्कारो द्विजशासनात् "॥ कवषोऽपि- मनुष्यवयं विप्राणां गर्हिते मरणे सति । सद्य एव क्रिया कार्या विप्राणामनुशासनात् "॥ इति । देशांतरगतस्य सपिंडस्य स्वाशौचकालादूर्ध्व मरणश्रवणे तत्सपिंडानां सद्यःशौचं विदधाति ३५ पराशरः ( ३१४)- देशांतरसृतः कश्चित्समोत्रः श्रूयते यदि। न त्रिरात्रमहोरात्रं सद्यः स्नात्वा शुचिर्भवेत् ॥ २० काण्डम् ] गर्भस्रावादिनिमित्ताशौचम् । ४९१ १ - “ सगोत्रः सपिंडः । असंनिहितदेशस्थसपिंडमरणेऽपि वत्सरादूर्ध्वं सद्यःशौचमुक्तं दीपिकायाम्- "पुरुषाणां सपिंडानां वर्षात् प्राक्तु मृते सति। वर्षानुपर्यवगते स्नानमाचमनं भवेत्" ॥इति। बालमरणे विशेषः स्मर्यते- "अपर्याप्ते तु बालस्य मरणे समुपस्थिते। न स्नानमाचरेच्छ्रुत्वा पर्याप्त तत्समाचरेत् ॥ इति । गर्भस्रावादिनिमित्ताशौचम् । मातुर्गर्भस्रावादिनिमित्तमाशौचमाह पराशरः- यदि गर्भो विपद्येत स्रवते चापि योषितः। यावन्मासस्थितो गर्भो दिनं तावत्तु सूतकम् ॥ इति । यदि गर्भस्रावपातौ स्यातां तदा यावत्सु मासेषु गर्भः स्थितस्तावन्माससंख्यासमदिनं मातुः सूत्या- शौचमित्यर्थः । इदं चतुर्थमासप्रभृत्या सप्तमात् । अक्तुि त्रिरात्रं स्रावपातौ विविनक्ति स एव- "आ चतुर्थाद् भवेत्स्रावः पातः पंचमषष्ठयोः । अत ऊर्ध्व प्रसूतिः स्याद्दशाहं सूतकं भवेत्” ॥इति । सप्तममासप्रभृति मातुः प्रसवनिमित्तमाशौचं दशाहं भवतीत्यर्थः । याज्ञवल्क्यः (प्रा. २०)- १० "गर्भस्रावे मासतुल्या निशाः शुद्धेस्तु कारणम् ॥ इति । मासतुल्या निशा इति चतुर्थमासमारभ्या सप्तमाद्वेदितव्यम् । मनुरपि ( ५।६५ )-“ रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशुध्यति" इति। स्रवतिर्यद्यपि द्रवद्रव्यकर्तृके परिस्पंदने प्रयुज्यते तथाप्यत्र द्रवाद्रवसाधारण- रूपेऽधःपतने वर्त्तते। चतुर्थमासादाक्तु यथावर्णाशौचमाह मरीचिः- "गर्भस्रुत्यां यथामासमूचिरे तूत्तमे व्यहः। राजन्ये तु चतू रात्रं वैश्ये पंचाहमेव तु ॥ “अष्टाहेन तु शूद्रस्य शुद्धिरेषां प्रकीर्त्तिता" ॥ इति । अयमर्थः-अचिरे चतुर्थमासा- दर्वाचीने काले गर्भ त्यां यथामासं नाशौचं किंतूत्तमे ब्राह्मणवर्णे त्रयो दिवसा मातुः शुद्धिहेतवः क्षत्रियवर्णे चतूरात्रं मातुः शुद्धिकारणं वैश्यवर्णे पंचाहो मातुःशुद्धिहेतुःशूद्रवर्णस्याष्टाहेन शुद्धिरिति। स्मृतिरत्ने--" यावन्मासत्रयं तावत्व्यहाशौचं विधीयते ॥ " षण्मासाभ्यंतरं यावद्गर्भस्रावो भवेद्यदि । तदा माससमैस्तासां दिवसैः शुद्धिरिष्यते ॥ अत ऊर्ध्व स्वजात्युक्तमाशौचं तासु विद्यते" ॥ इति षण्मासाभ्यन्तरं यावच्चतुर्थमासमारभ्येत्यर्थः । दीपिकायाम्- " स्रावपातावप्रसवो गर्भनाशास्त्रिधा स्मृताः। मातुर्मासत्रये स्रावे त्रिरात्रमशुचिर्भवेत् ॥ चतुर्थादिषु मासेषु मासतुल्यमघं भवेत् । सप्तमादित्रिमासेषु सूतिकातुल्यता भवेत् " ॥ इति । २५ दशकेनि- मातुर्गर्भविपत्स्वधं त्रिदिवसं मासत्रयेऽतो यथामासाहं त्रिषुसूतिकाविधिरतः स्नानं पितुः सर्वदा । "ज्ञातीनां पतनादिजातमरणे पित्रोदशाहं सदा" इति ।मासत्रये प्रथमे द्वितीये तृतीये वा मासि गर्भस्रावे मातुः त्रिरात्रमचं स्यात् । अतःपरं मासत्रये चतुर्थपञ्चमषष्ठेषु मासेषु यथामासाहं माससमसंख्या- कान्यहोरात्राणि अघं भवति । अतः परं मासषट्कादूर्ध्व मातुः सूतिकाविधिः। ब्राह्मण्या दशरात्रमघं 30 भवति । सर्वदा स्रावपातयोः पितुः स्नानान्तमघम् । ज्ञातीनां पतने स्नानान्तमघमित्यर्थः" ॥ दीपिकायाम्-“गर्भनाशादिसर्वेषु स्नानमेव पितुर्भवेत् ॥ 'चतुर्थादित्रिमासेषु ज्ञातीनामाप्लवो भवेत् । पित्रोश्च भ्रातृबन्धूनां दशाहं स्यात्सुतोदये" ॥ इति । २० “ “ ४९२ गर्भनाशन्यैविध्ये आशौचनियमः । [आशौच- " । । संग्रहेऽपि- व्यहं मासत्रये मातुर्गर्भस्रावे ततः परम् । मासतुल्यान्यहान्यूर्वं षण्मासात्सूतिकाविधिः ॥ " स्रावायेव पितुः स्नानमन्येषां पतनादि तत् । गर्भनाशश्चतुर्मासे स्रावः पातस्ततो द्वयोः” ॥ स्रावादि पितुरेव स्नानं नान्यस्य । अन्येषां पितृव्यतिरिक्तानां तत्स्नानं पतनादीत्यर्थः ॥ ५ वरदराजीये संग्रहेऽपि- “संपातापितुराप्लवस्त्रिदिवसं तस्मिन्कठोरस्य चेत।ज्ञातेरप्यथ सप्तमादिषु पितृज्ञात्योर्दशाहं भवेत्॥इति। अत्र चन्द्रिकायां विशेषः-अचिरगर्भस्रावे मातुरेवाशौचं न पित्रादिसपिण्डानाम् । तथा च मरीचिः- "सावे मातुस्त्रिरात्रं स्यात्सपिण्डाशौचवर्णनम्" ॥ इति । यत्तु सुमन्तुनोक्तम्--- गर्भमासतुल्या दिवसा गर्भस्रंसने सबःशौचं च” इति अस्यार्थः-गर्भस्रंसने चतुर्थे मासि १० गर्भस्रावे मातुश्चतूरात्रमाशौचं सपिण्डपुरुषस्य सबःशौचमिति । याज्ञवल्क्यश्च-“ मृते स्नानेन शुध्यन्ति गर्भस्रावे च गोत्रिणः” । इति । वृद्धवसिष्ठोऽपि “गर्भस्रावे मासतुल्या दिवसा स्त्रीणाम् । स्नानमात्रमेव पुरुषस्य ईषत्कठिनगर्भस्रावेतु त्रिरात्रम्” इति । एतत्तु चतुर्थमासजातगर्भस्रावविषयमिति व्यक्तम् । मासान्तरे ईषत्कठिनस्यैवा- संभवात् । अस्य वचनस्य तात्पर्यार्थः- चतुर्थे मृदुतया ईषत्कठिनतया वा गर्भस्रावे मातुश्चतूरात्र- १५ माशौचम् । सपिण्डपुरुषस्य मृदुतया समवे सब शौचम् । ईषत्कठिनतया स्रावे त्रिरात्रमाशौचमिति । पुरुषग्रहदत्तसपिण्डस्त्रीणां नाशौचम् । यत्तु मरीचिना सपिण्डस्त्रीपुंससाधारण्येन त्रिरात्रमुक्तम् । “पाते मातुर्यथामासं पित्रादीनां दिनत्रयम्” इति तत्पञ्चमषष्ठमासविषयं मासान्तरे गर्भपातासंभवात् । यत्तूक्तम् “ सयःशौचं सपिण्डानां गर्भस्य पतने सति” इति तच्चतुर्थमासान्तर्गतमृदुरूपगर्भस्राव- विषयम् । तत्तैव वृद्धवलिन सपिण्डपुरुषस्य सद्यःशौचविधानात् । स्रावे पातशब्दो मातुर्जठरा- २० द्वहिनिगमनगुणेन स्रावेण साम्यावर्तते । मुख्यार्थपरत्वे पूर्वोक्तवचनविरोधापत्तरिति । एवं चतुर्थे मृदुतया स्रावे सपिण्डानां सद्यःशौचं ईयत्कठिनतया स्रावे त्रिरात्रमाशौचं सपिण्डपुरुषाणाम् । स्त्रीणां तु नास्ति । पञ्चभे षष्ठे च मासे स्त्रीपुंससाधारण्येन सपिण्डानां त्रिरात्रमाशौचमिति चन्द्रि- कायां निर्णीतम् । विज्ञानेश्वरीये तु--“ सबःशौचं सपिण्डानां गर्भस्य पतने सति इति सपिंडानां सद्यःशौचविधानं मृदुगर्भपतनविषयम् । यत्पुनर्वसिष्ठवचनम् (४।३४ )-“ऊन- २५ द्विवर्षके प्रेते गर्भपतने संपिंडानां त्रिरात्रम्” इति तत्पंचमषष्ठयोः कठिनगर्भपतनविषयमिति । एतदेवाभिप्रेत्योक्तं शतके-“पाते सद्यस्तु कठिने व्यहं पित्रादिषु स्मृतम्" इति । पाते द्रवात्मके ज्ञातीनां सद्यःस्नानं कठिनपाते व्यहमित्यर्थः । स्मृतिरत्ने- "स्रावे मातुस्त्रिरात्रं स्यात्सापेंडाशौचवर्जनम् । पाते मातुर्यथामासं पित्रादीनां दिनत्रयम् ॥ इति । स्मृत्यर्थसारे-"चतुर्मासाभ्यंतरे गर्भनाशः स्राव उच्यते । तत्र स्रावे आयमासत्रये मातुस्त्रिरात्रमा- • शौचं । चतुर्थे चतूरात्रम् । सगोत्रसपिंडानां सबःस्नानेन सद्यःशुद्धिः । पञ्चमषष्ठयोर्गर्भनाशः पाते उच्यते। पाते मातुर्गर्भमाससंख्यासमदिनमाशौचम् । सपिण्डानां त्रिरात्रं सप्तममासप्रभृतिप्रसव उच्यते। प्रसवे जनननिमित्तमाशौचं पूर्ण दशाहादिकं सर्वेषां यथावणं भवति। समानोदकानां त्रिरात्रम्” इति॥ षडशीतौ तु-- त्रिदिनं त्रिषु मासेषु चतुर्थेषु चतुर्दिनम् । स्रावे तु मातुरेव स्यान्न ज्ञातीनां न वै पितुः ॥ " पंचमे पंचषष्ठे षड् दिवसाः पातसूतकम् । मातुरित्थमथान्येषां पितुश्च त्रिदिनं समम् ” ॥ इति । " . । “ काण्डम् ] सूतिकाशौचम् । ४९३ - । १५ “ स्मृत्यंतरे-- स्रावे चैव पितुः स्नानं सपिंडानां न विद्यते । चतुर्थं तु सपिंडानां शुद्धिः सद्यो जलाप्लवात् ॥ पाते तेषां त्रिरात्रं स्यात्पितुश्च भ्रातुरेव हि । प्रसवे जननाशौचं सपिंडानां तु विद्यते ॥ “ सोदकानां तृतीयांशं बांधवानां न चैव हि " इति । यत्तु यमेनोक्तम्- “ अदंतजाते तनये शिशौ गर्भच्युते तथा। सपिंडानां तु सर्वेषामहोरात्रमशौचकम् ” ॥ इति ५ तत्परोक्षविषयम् । सूतिकाशौचम् । सप्तममासप्रभृति सर्ववर्णस्त्रीणां स्वजात्युक्तमाशौचम्- अत ऊर्ध्वं प्रसूतौ तु दशाहं सूतकं भवेत् । क्षत्रियो द्वादशाहेन वैश्यः पंचदशेन तु । शुध्येत् शूद्रस्तु मासेन वर्णाशौचमिदं स्मृतम् " ॥ इति स्मरणात् । एतच्च मातापित्रादिसाधारणाशौचाभिप्रायम् । यत्तु प्रचेतसोक्तम्- सूतिका सर्ववर्णानां दशाहेन विशुध्यति । ऋतौ तु न पृथक्स्त्रीणां सर्ववर्णेष्वयं विधिः" ॥ इति १० स्त्रीणां रजोदर्शने यस्त्रिरात्राशौचविधिः स सर्ववर्णेष्वविशिष्ट इत्यर्थः। अत्र सर्ववर्णानां ॥ सूतिका दशाहेन शुध्यति" इत्येतत्प्रसवमयासृनिःसरणप्रायत्यप्रयुक्तयुगत्रयपरिहरणनिमित्तभूताशौचाभि- प्रायम् । ऋतुमत्याशौचसाहचर्यात् । अत्र सर्वशब्दः शूद्रेतरवर्णेषु संकोचनीयः। यदाह पारस्कर:- "द्विजातिः सूतिका या स्यात्सा दशाहेन शुध्यति । त्रयोदशेऽन्हि संप्राप्ते शूद्रा शुध्यत्यसंशयः"॥ संवर्त्तश्च- अजा गावो महिष्यश्च ब्राह्मण्यश्च प्रसूतिकाः । दशरात्रेण शुध्यंति भूमिष्टं च नवोदकम् "॥ इति दशाहात्परं सत्यपि सूतके दशाहे शुध्द्यभिधानं वाक्यश्रवणदर्शनादिनिषेधविषयम् । “दशाहदर्शनं वाक्यं सूतिकायास्त्यजेत्ततः ” इति स्मरणात् । दशाहात्परं सूतिकायाः कर्मानर्हत्वलक्षण- मात्रमेव सूतकं न तु दशाहवदनिरीक्ष्यत्वादिलक्षणम् । तथा पैठीनसिः-“ सूतिका पुत्रजननी विंशतिरात्रेण कर्माणि कारयेन्मासेन स्त्रीजननीम् ” इति । अत्र चंद्रिकायाम्-“कर्माण्यत्रादष्टार्थानि दानादीनि विवक्षितानि । विंशतिरात्रण गतेनेत्यर्थः । प्रसवदिनमारभ्य विंशतिदिनेष्वतीतेषु दानादिधर्मा भवन्तीत्यर्थः । एवं च सूतिकायां असृनिःसरणनिबन्धनमप्रायत्यं युगत्रयपरिहरणादिहेतुभूतं द्विजातिषु दशरात्रपर्यंत अस्पृश्यत्वादि- हेतुभूतं स्वजात्युक्तदशद्वादशपंचदशाहपर्यंतदानादिधर्मानधिकारलक्षणं तु द्विजातिषु पुत्रजनन्यां विंशतिदिनपर्यंत स्त्रीजनन्यां मासपर्यंतमित्यवगंतव्यम्” इति । विज्ञानेश्वरोऽपि-"माता शुध्ये- २५ दशाहेन" इत्येतत्संव्यवहारयोग्यतामात्रम् । अदृष्टार्थेषु पुनः कर्मसु पैठीनसिना विशेष उक्तः- सूतिकां पुत्रजननीं विंशतिरात्रेण कर्माणि कारयेन्मासेन स्त्रीजननीम्” इति । वसिष्ठः- सूतकांते भवेन्नारी व्यवहारार्हतां गता । श्रौतस्मादिकार्येषु स्त्रीप्रसूर्मासतः शुचिः॥ तथा विंशतिरात्रेण योग्या पुंप्रसवा तु वै” ॥ इति । स्मृत्यर्थसारेऽपि-- “ सूतिकास्ववर्णाशौचे गते व्यवहारयोग्यैव । अदृष्टार्थेषु कर्मसु तु पुत्र- प्रसूर्विंशतिरात्रेण स्त्रीप्रसूर्मासेन शुध्यति । मासोऽत्र सावनो ज्ञेयः" इति । एवं च विज्ञानेश्वरादिषु प्रसवदिनमारभ्य विंशतिरात्रादिकं मातुराशौचं प्रतीयते । स्मृतिचन्द्रिकायां तु प्रसवदिनमारभ्येति कण्ठरवेणोक्तम् । आशौचशतककारेण सूतिकाया - C ४९४ प्रसवाशौचम्। [आशौच- “ दशमदिनविहितस्नानानन्तरदिनमारभ्य विंशतिदिनानि संभूय मासमिति एवं स्त्रीजनने चत्वारिंश- दिनानीत्युक्तं शिष्टाचारानुसारेण । " चत्वारिंशद्दिनानि स्युर्जनन्याः स्त्रीप्रसूतके । त्रिंशत्प्रसवे ज्ञातेर्दशाहमुभयोरपि" ॥ इति । अयमेवार्थो दशकेऽपि प्रतिपादितः । ५ प्रसवाशौचम् । यत्तु चतुर्विशतिमते उक्तम्- अधस्तानवमान्मासाच्छुद्धिः स्यात्प्रसवे सदा। मृते जीवे पिता तस्मिन्नहोभिर्माससंख्यया"॥ इति एतञ्चंद्रिकायां व्याकृतम्-अधः नवममासात्सप्तममासादारभ्येति शेषः । तदेतत्सूतिकाव्यतिरिक्त- सपिंडविषयम् । सूतिकादिसर्वसपिंडविषयत्वे अत उर्ध्वं स्वजात्युक्तमाशौचं तासु विद्यत इति पूर्वोक्तवचनविरोधापत्तेः । एवं च यदुक्तं विष्णुना-" ब्राह्मणस्य सपिंडानां जननमरणयोर्दशाह- १० माशौचं द्वादशाहं राजन्यस्य पंचदशाहं वैश्यस्य मासं शूद्रस्य ” इति तदेतद्विष्णुवचनं "नवमे दशमे वाऽपि प्रबलैः सूतिमारुतैः। निःसार्यते बाण इव यंत्रछिद्रेण सज्वरे" (प्रा.८३) इति याज्ञवल्क्योक्तनवमदशममासप्रसवविषयं वेदितव्यमिति स्मृतिरत्नेऽपि । यत्तु चतुर्विंशन्मते अधस्तानवमान्मासात् ' इति अस्यार्थः सप्तममासादारभ्य नवममासादाक् प्रसवे सति पित्रादीनां माससंख्यया तैरहोभिःशुद्धिः। सूतिकाया दशरात्रं नवममासादारभ्य सपिंडांनां दशाहेन शुद्धिरिति । १५ एवं च सप्तमे अष्टमे वा मासि प्रसवरूपे गर्भनाशे सति पितृभ्रातृज्ञातीनां यथाक्रमं सप्ताहमष्टाह- माशौचं भवति । नवमे दशम वा प्रसव सति दशाहमाशौचमिति चंद्रिकास्मृतिरत्नमाधवीयादौ स्थापितम् । अन्ये तु अधस्तानबमान्मासात्" इत्येतत् मातृपितृभ्रातृव्यतिरिक्तज्ञातिविषयम् । “सप्तमे वाऽष्टमे वाऽपि नारीणां गर्भपातने । मातापित्रोदशाहं स्यात्सोदराणां तथैव च ॥ इति स्मरणादित्याहुः ।अपरे तु “ जातमृते मृतजाते वा सपिंडानां दशाहम्” इति हारीतस्मरणात् २० सप्तममासप्रभृति मृतजाते जातमृते वा सपिंडानां जनननिमित्तं पूर्णमाशौचमिति विज्ञानेश्वरेणा- भिधानात् “ सप्तमादिषु पितृज्ञात्योर्दशाहं भवेत् ” इति वरदराजीयेऽभिधानात् “ मृतजातेऽपि वा जातमृते वा पतनात्परं ज्ञातीनां सूतकं पूर्णम्” इति हारीतशासन- मिति शतकेऽभिहितत्वाच्च सप्तमाष्टमयोरपि ज्ञातीनां पूर्णमाशौचमित्याहुः । अत्र व्यवस्थामाहुः-संनिहितानां पितृभ्रातृरूपसपिंडानां सप्तमाष्टमयोः पूर्णमाशौचम् । २५ “ मातापित्रोर्दशाहं स्यात्सोदराणां तथैव च ” इति मनुना विशिष्य स्मरणात् पितृभ्रातृव्यतिरिक्तं व्यवहितसपिंडविषयम् । अधस्तान्नवमान्मासादिति नवममासमारभ्य प्रसवनिमित्तदशाहादिसूतकं सर्वसपिंडानामविशेषेण भवति । तत्र हि प्रसवो मुख्यः । तथा च श्रूयते “दशमे मासि सूतवे इति । उपनिषदि च दश वा नव वा मासानन्तःशायित्वा यावद्वाऽथ जायते” इति। वर्णविशेषाशौचम् । तत्र यथावर्णमाशौचमाह दक्षः- "शुध्येविप्रो दशाहेन द्वादशाहेन भूपतिः । वैश्यः पंचदशाहेन शूद्रो मासेन शुध्यति" ॥ याज्ञवल्क्यश्च (प्रा. २२)- क्षत्रस्य द्वादशाहानि विशः पंचदशैव तु । त्रिंशद्दिनानि शूद्रस्य तदर्ध न्यायवर्तिनः” ॥ इति । न्यायवर्तिनः द्विजशूद्रशुश्रूषादिनिरतस्य । मनुरपि (५।५८)- “ अशुद्धा बांधवाः सर्वे सूतकेऽपि तथैव च” इति । बांधवाः सपिंडाः। तथैव दशाहमित्यर्थः। बोधायनोऽपि (१।५।९०) “सपिंहेष्वा दशाहमाशौचम्" इति। " " . ३५ काण्डम् ] वर्णविशेषाशौचम्। ४१५ १० " १५ संवतॊऽपि जातस्यापि विधिदृष्ट एष एव मनीषिभिः । दशरात्रेण शुध्येत वैश्वदेवविवर्जितः ॥ इति । ब्यासोऽपि- दशाहं शावमाशौचं सपिंडेषु विधीयते। जननेऽप्येवमेव स्यान्निपुणां शुद्धिमिच्छताम् "॥ इति । स्मृत्यंतरेऽपि-“शावमाशौचं दशरात्रं जननेऽप्येवम्" इति । एतद्दशरात्राशौचं ब्राह्मणविषयम् । ५ संग्रहेऽपि- दशाहं द्वादशाहं च पक्षं मासमिति क्रमात् । ब्रह्मक्षत्रियविट्शूद्रवर्णानां पूर्णसूतकम् " ॥ इति । मुख्यकर्तुरचं तावदितिवचनं शुभकर्मानहत्वपरम् । “एकोद्दिष्टान्त एव स्यात् संस्कर्तुःशुद्धता त्वघात्" इति वचनात् । स्मृत्यंतरे तु क्षत्रियादीनां दशाहादयोऽप्याशौचकल्पा दर्शिताः । यथाह पराशर:- क्षत्रियस्तु दशाहेन स्वकर्मनिरतः शुचिः । तथैव द्वादशाहेन वैश्यः शुद्धिमवाप्नुयात् " ॥ तथा च शातातपः- एकादशाहाद्राजन्यो वैश्यो द्वादशभिस्तथा । शूद्रो विंशतिरात्रेण शुध्यते मृतसूतके " ॥ इति । वसिष्ठस्तु (४।२८-२९)- “ पंचदशरात्रेण राजन्यो विशतिरात्रेण वैश्यः " ॥ इति । अंगिरास्त्वाह- " सर्वेषामेव वर्णानां सूतके मृतके तथा । दशाहाच्छुद्धिरथ चा इति शातातपोऽब्रवीत् ” ॥ इति । अत्र विज्ञानेश्वरः (पृ. १८० पं. ६-७)--"एवमनेकोच्चावचाशौचकल्पाः स्मृतिषु दर्शिताः । लेषां लोकसमाचाराभावानातीव व्यवस्थादर्शनमुपयोगीति नात्र व्यवस्था प्रदृश्यते” इति । अनुलोमप्रतिलोमाशौचम्। यदा पुनर्बाह्मणादीनां क्षत्रियादयः सपिंडा भवंति तत्राह हारीतः- दशाहाच्छुध्यते विप्रो जन्महानिषु योनिषु । घभिस्विभिरथैकेन क्षत्रविशूद्रयोनिषु ॥ “ शूद्रविट्क्षत्रियाणां तु ब्राह्मणे संस्थिते सति ।दशरात्रेण शुद्धिः स्यादित्याह कमलोद्भवः ॥ इति। एतदविभक्तविषयम् । “ क्षत्रविट्शूद्रजातीनां यदि स्तो मृतसूतके । तेषां तु पैतृकाशौचं विभक्तानां तु मातृकम् इत्यापस्तंबस्मरणात् । विष्णुरप्याह ( २२।२२-२६)-“ क्षत्रियस्य विशूद्रेषु सपिंडेषु २५ षड्रात्रत्रिरात्राभ्यां वैश्यस्य शूद्रे सपिंडे षड्रात्रेण शुद्धिः । हीनवर्णानां तूत्कृष्टेषु सपिडेषु जातेषु मृतेषु वा तदाशौचव्यपगमे शुद्धिः” इति । पराशरः- एकपिंडास्तु दायादाः पृथग्दारनिकेतनाः। जन्मन्यपि विपत्तौ च तेषां तत्सूतकं भवेत् " ॥इति । एकपिंडाः उत्तमवर्ण उत्पादको येषां ते तथा पृथग्दारनिकेतनाः हीनवर्णाः स्त्रियः निकेतनान्युत्पत्ति- स्थानानि येषां ते दायादाः पुत्राः तत्सूतकमुत्तमवर्णसंबंध्याशौचमित्यर्थः । बोधायनेनाविशेषेण दशाह इत्युक्तम्- क्षत्रविट्शूद्रजातीया ये स्युर्विप्रस्य बांधवाः। तेषामाशौचे विप्रस्य दशाहाच्छुद्धिरिष्यते" ॥इति। पाराशरे तु विशेषेणोक्तम्-" षड्रानं स्यात् त्रिरात्रं स्यादेकरात्रं क्रमेण तु" इति। अनयोश्च पक्षयोरापदनापाद्वषयत्वेन व्यवस्था । संकरजातीनां शूद्रेष्वंतर्भावात्तेषां शूद्रवदा- शौचम् । तथा मनुः (१०४१)-“शूद्राणां तु सधर्माणः सर्वे तदंशजाः स्मृताः" इति । - " ॥ । .. ३५ " " ॥ - १९६ समानोदकाशौचम्। [आशौच ब्राह्मेऽपि “शौचाशौचं प्रकुर्वति शूद्रवद्वर्णसंकराः” इति । अनुलोमप्रतिलोमानामाशौचविशेष- माहापस्तंबः- “ सर्वेषामनुलोमानामाशौचं मातृवर्गवत् । पैतृकं प्रतिलोमानामाशौचं सद्भिरिष्यते " ॥ इति। शूद्रप्रतिलोमानां त्वाशौचाभाव एव । यदाह हारीतः-“ न शूद्रप्रतिलोमानामाशौचं वाऽस्ति ५ किंचन"। जाबालि:- मासं शूद्रस्य शेषाणां सदाशौचमिति स्थितिः । तथापि मरणे तेषां स्नानमात्रं विधीयते" ॥ विज्ञानेश्वरे च “ प्रतिलोमा धर्महीनाः” (गौतम सू. ४।२०) इति । समानोदकाशौचम् । समानोदकाशौचमाह मनुः ( ५।७०)- “ जन्मन्येकोदकानां तु त्रिरात्राच्छुद्धिरिष्यते” । पराशरः -"दिनत्रयेण शुध्यंति ब्राह्मणाः प्रेतसूतके" । ब्राह्मणाः १० समानोदका इति शेषः। तथा च जाबालि:- "दशाहेन सपिंडानां शुद्धिः स्यात्तु त्रिरात्रतः। समानोदकानामपि गोत्रजानामहः स्मृतम् देवल:-" समानोदकानां व्यहं गोत्रजानामहः स्मृतम्” इति । बृहस्पतिरपि- “दशाहेन सपिंडास्तु शुध्यति प्रेतसूतके । त्रिरात्रण सकुल्यास्तु स्नात्वा शुध्यंति गोत्रजाः” ॥ इति । सकुल्याः समानोदकाः । स्नानं तु मरणविषयम् । जन्मनि सगोत्रस्य स्नानाभावात् । संग्रहे- १५ “ जाते च सूतके प्रेते व्यहं सद्योव्रटादयः” इति । उपनयनात्पूर्व मरणे सद्यःशुद्धिरित्यर्थः । सजातीयसापिण्ड्यम् । सजातीयेषु सापिंड्यावधिमाहतुः शंखलिखितौ- “सपिंडता तु सर्वेषां गोत्रतः साप्तपौरुषी” इति । यतः प्रभृति संतानविश्लेषः स कूटस्थः। तत्संतानेषु तमादिं कृत्वा गणिताः पुत्रपौत्रादयः सप्तपुरुषपर्यंताः सपिंडाः । तेषां सर्वेषां कूटस्थसंततिजातानां गोत्राः । एकगोत्रलक्षणोपाधिसद्भावे सति सपिंडता भवतीत्यर्थः । एवं च कूटस्थादूर्ध्वस्थस्वस्त्री- २० पुंससंततिजातानां दौहित्रपौत्राणां गोत्रभेदादन्योन्यमसपिंडता मंतव्या । माधवीये- लेपभाजश्चतुर्थाद्याः पित्राद्याः पिंडभागिनः । पिंडदः सप्तमस्तेषां सापिंड्यं सप्तपौरुषम् " ॥ इति । स्मृत्यंतरेऽपि-- ऊर्ध्व पंचसु पित्रादिप्वधः पुत्रादिपंचसु । स्मृतं सजातिसापिंड्यमेतत्संततिजेष्वपि” ॥ अत्र दातृकूटस्थव्यतिरेकेण पंचसु सापिण्ड्यरमरणं वेदितव्यम् । ततश्च ताभ्यां सह सप्तपुरुषमित्यर्थः। २५ बोधायनः ( १।५।९१) “ सपिण्डता त्वा सप्तमात् ” इति । स्मृत्यन्तरे- " सर्वेषामेव वर्णानां विज्ञया साप्तपूरुषी । सपिण्डता ततः पश्चात्समानोदकधर्मता " ॥ मनुरपि ( ५।६० )-- " सपिंडता तु पुरुष सप्तमे विनिवर्तत । समानोदकभावस्तु जन्मनाम्नोरवेदने" ॥ सप्तमे पुरुषे अतिक्रांते तदूर्ध्व सपिंडता निवर्तते इत्यर्थः । स्मृत्यंतरेऽपि-“समानोदकभावस्य १. निवृत्तिः स्यादवेदने” इति । व्याघ्रः-- "समानोदकभावस्त्वनुवर्तेता चतुदर्शात् । जन्मनाम्नोः स्मृतेरेके तत्परं गोत्रमुच्यते "॥ इति । जन्म च नाम च जन्मनामनी । तयोः स्मरणं यावत्तावत्समानोदकभाव इत्यन्ये मन्यते । ततः परं निवर्तत इत्यर्थादुक्तम् । पारस्करः (३।१०।१६)--" आ सप्तमात्सापिंड्यमा दशमात्समानो- द्रकत्वम्” इति ।
काण्डम् ] सपिण्डाशौचम्। “ दीपिकायाम्- "अष्टमात्याक्सपिंडाः स्युर्द्विविधा अष्टमादयः। त्रयः समानोदकाः स्युस्ततोऽन्ये गोत्रजाः स्मृताः। इति। इदं दशमपर्यंतं समानोदकत्वस्मरणं विदेशस्थविषयम् । आ चतुर्दशात्समानोदकत्वस्मरणं संनि- हितदेशवर्तिषु चतुर्दशपुरुषादूर्ध्वमपि स्नेहोपलालनादिद्वारा जन्मनामवेदनेऽपि समानोदकत्वे निवृत्तिपरम् । “ जन्मनाम्नोरवेदने ” इति मनुवचनं संनिहितदेशवर्तिधु बंधुत्वपरिपालनाद्यभावेन ५ जन्मनामवेदनाभावे चतुर्दशपुरुषादगिपि समानोदकत्वनिवृत्तिपरम् । आ सप्तमादशमाहा समानग्रामवासे यावत् संबंधमनुस्मरेयुः” इति वसिष्ठस्मरणात् । सगोत्रेषु व्यवस्था चंद्रिकायां दर्शिता-“ जन्मनाम्नोरस्मरणेन समानोदकभावो येषां निवृत्तस्ते गोत्रजाः स्नात्वा शुध्यति । येषां जन्मनाम्नोः स्मरणे सत्यपि चतुर्दशपुरुषातिकमात् सगोत्रत्वं तेषां न स्नानमात्राच्छुद्धिः ' समानो- दकानां व्यहं गोत्रजानामहं स्मृतम्' इति जाबालिवचनस्यैवंविधगोत्रजविषयत्वात्" इति । १ सप्तपौरुषसपिंडता ब्राह्मणादिसवर्णेषु समाना। विजातीयसापिण्ड्यं कन्यायाः सापिण्ड्यम्। विजातीयेषु त्रिपुरुषमेव सापिंड्यम् । यदाह पाराशरः- " सपिण्डता तु पुरुषे सप्तमे विनिवर्तते । सजातीयेषु वर्णेषु चतुर्थे भिन्नजातिषु"॥ कूटस्थ- सजातीयेषु सपिण्डता सप्तमादूर्ध्व विनिवर्तते। विजातीयेषु त्रिपुरुषादूर्ध्व विनिवर्तते इत्यर्थः । तथा च शातातपः- पुत्राणामसपिंडानामप्रत्तानां च योषिताम् । सपिंडता तु निर्दिष्टा पितृपक्षे त्रिपूरुषी” ॥ इति । असपिंडानां विजातीयानां अप्रत्तानां अदत्तानामनूढानामित्यर्थः । स एव- “ययेकजाता बहवः पृथक्क्षेत्राः पृथग्जनाः। एकपिंडाः पृथक्शौचाः पिंडस्त्वावर्तते त्रिषु" ॥ एकस्माद्ब्राह्मणादेर्जाताः एकजाताः । पृथक्क्षेत्राः भिन्नजातीयासु स्त्रीषु जाताः । अत एव पृथक्- जनाः । एकपिंडाः सपिंडाः । पिंडस्त्वावर्तते त्रिषु । तेषां त्रिपुरुषमेव सापिंड्यमित्यर्थः । २० ब्यासोऽपि- “ये त्वेकजाता बहवो भिन्नयोनय एव च । भिन्नवर्णाश्च सापिण्ड्यं भवेत् तेषां त्रिपूरुषम् ॥ इति । वृद्धपराशरोऽपि-“ तावत्तत्सूतकं गोत्रे चतुर्थपुरुषेण तु" । तत्सूतकं भिन्नजातीयसंततिविषयोक्तं सूतकं तावद्यावत्रिपुरुषं चतुर्थपुरुषेण तु निवर्तत इत्यर्थः । यत्तु पराशरेण ( ३।१०-११)- सजातीयेषु पंचमादिषु सापिंड्यनिवृत्तिपूर्वकं आशौचतारतम्यमुक्तं “दायाद्विच्छेदमामोति पंचमो वाऽत्मवंशजः। चतुर्थे दशरात्रं स्यात्षड्दिनाः पुंसि पंचमे ॥ षष्ठे चतुरहाच्छुद्धिः सप्तमे तु दिनत्रयात् " ॥ इति । आत्मवंशजः पंचमः। वाशब्दात्षष्ठः सप्तमो वा दायात्पिंडाद्विच्छेदमवाप्नोति । पितृपक्षे कूटस्थमारभ्य गणनायां चतुर्थे दशरात्रमाशौचं पंचमे षड्रात्रमित्यादि । यदपि मनुनोक्तं ( ९।१८६ )- त्रयाणामुदकं कार्यं त्रिषु पिंडः प्रवर्तते। चतुर्थः पिंडदातैषां पंचमो नोपपद्यते" ॥ इति । यदपि गौतमेनोक्तम् (१४।१२)-"पिंडनिवृत्तिः पंचमे त्रयाणामेकमुदकं कार्य सप्तमे वा इति “सापिंडयं सप्तपुरुषम्' इत्यादि स्मृत्यंतरे-वचनस्यास्य च पराशरद्विवचनस्य विकल्पो द्रष्टव्यः इति । माधवीये-एतच्छिष्टाचारविरुद्धत्वायुगांतरविषयत्वेन योजनीयमिति । स्मृतिरत्न- विज्ञानेश्वरीयादावभिहितम् । यत्तु याज्ञवल्क्येनोक्तम् ( आ. ५३)- “पंचमात्सप्तमादूर्ध्व मातृतः पितृतस्तथा" इति । एतच्च कन्याविषये पंचमपर्यंत सापिंड्यप्रतिपादनं विवाहनिषेधार्थम् । आशौचविषये तु त्रिपुरुषमेव कन्यासापिंड्यम् । । २५ 3. " ३५ स्त्रीषु सापिंड्यम् । [आशौच- 4 तथा च वसिष्ठः (४।१८)-"अप्रत्तानां तु स्त्रीणां सापिंडयं त्रिपुरुषं विज्ञायते" शंखश्च- "पुत्राणामसवर्णानामप्रत्तानां च योषिताम् । सपिण्डता विनिर्दिष्टा पितृपक्षे त्रिपूरुषी” ॥ इति । अग्निस्मृतौ-“ स्त्रीषु त्रिपुरुषं ज्ञेयं सपिंडत्वं द्विजोत्तमाः" इति । ब्रह्मपुराणे च- “ सपिंडता तु कन्यानां सवर्णानां त्रिपूरुषी । एकोदकास्ततश्चोर्ध्व निर्दिष्टास्तु त्रिपुरुषाः"॥ इति । ५ स्मृत्यर्थसारे-“ स्त्रीषु सापिंडयं त्रिपुरुषमेवाप्रत्तासु” इति । प्रत्तानां तु स्त्रीणां सप्तपुरुषमेव सापिंड्यम् । यदाह व्यास:-- “प्रत्तानां तु तथा स्त्रीणां सापिंडयं सप्तपूरुषम् । नारीणां भर्तृसापिंड्यं प्राह देवः प्रजापतिः॥इति । स्मृत्यंतरेऽपि- “ स्वगोत्राद्भश्यते नारी विवाहात्सप्तमे पदे। एकत्वं सा गता भर्तुः पिण्डे गोत्रेऽथ सूतके "॥ इति । १० अप्रत्तस्त्रिया जन्मनि मरणे चाशौचव्यवस्था कृता शतके- "आ त्रिपूरुषमेवाचं कन्याया मृतिजन्मनोः। आ सप्तपुरुषं पुंसः सापिंड्यं च तथा द्वयोः"। कन्याया मृतिजन्मनोः सतोर्यावत्त्रयः पुरुषा अनुक्रांता भवंति तावदधं भवति । पुंसः पुरुषस्य मृति- जन्मनोरा सप्तपूरुषमघं भवति । उभयत्राङ् अभिविधौ । ततश्चावधिभूतानां पुरुषाणां तत्तत्पुत्राणां चावधिमतां सर्वेषामघं भवति । तथा द्वयोः स्त्रीपुंसयोः कन्याविषये त्रिपुरुषं सापिंड्यम् । पुरुषविषये १५ सप्तपुरुषमित्यर्थः । अत्र कूटस्थानीयत्वात् कूटस्थभ्रातुरप्याशौचं भवति । तथा स्मृत्यंतरे- आत्मपुत्रपितृश्रातृभ्रातृव्यस्त्रीप्रसूतके । दशरात्रेण शुध्यति नान्येषां सूतकं भवेत् " ॥ आत्मशब्देन जनक उच्यते । तेन पुत्रादयः प्रत्येकमभिसंबध्यते। दीपिकायाम्- “पुत्री पौत्री तथा भ्रात्री तथा सहजपुञ्यपि । पितुः सहजपुत्री च पंचानां सूतिकाविधिः" । संग्रहे च- "कन्यकाजनने भ्रातृपितृतद्धातृतत्सुताः । पितामहश्च तद्भाता शुध्यंति दशरात्रतः ॥ इति। संग्रहान्तरे च-- "पुंसि जाते सपिंडानां स्त्रियां पित्रोः पितुः पितुः। सोदराणां पितृव्याणां तत्सुतानामधं भवेत्॥इति । सोदराणां भ्रातृणामित्यर्थः । सोदरशब्दो भिन्नोदरस्याप्युपलक्षकः । त्रिपुरुषान्तर्वर्तिभिन्नोदराणां सर्वेषामिदं सूतकं समानम् । तत्र विशेषः स्मर्यते---. "भिन्नोदरस्य भार्या तु स्त्रीप्रसूता भवद्यादि। भ्रातुर्दशाहमाशौचं तत्पुत्रस्य न विद्यते"।।इति। भिन्नोदरभ्रातृपत्न्याः पुत्र्यां जातायां भिन्नोदरभ्रातुरेवाघं न तत्पुत्रस्येत्यर्थः । यत्तूक्तमत्मृितौ " पुंजन्मनि सपिंडानां दशाहाच्छुद्धिरिष्यते । स्त्रीजन्मनि सपिंडानां व्यहाच्छुद्धिरिष्यते" ॥ इति। अत्र व्यहादित्यापद्विषयं त्रिपुरुषव्यतिरिक्तसमानोदकविषयं वा । यतस्तत्रैवोक्तम्- " त्र्याहादेकोदकानां च एकाहं सोदके कचित्” इति । एकाहमिति सगोत्रविषयम् । अत्र कन्यासपिण्डानां भ्रातृपितृपितामहानां तत्सुतानां पितामहभ्रातुश्च दशाहं सूतकम् । कन्या- सोदकानां चतुर्थपंचमषष्ठानां व्यहं सूतकम् । सप्तमस्य एकाहमिति केचित् । अन्ये तु कन्या- सापिंडानां त्रिपुरुषांतर्वर्तिनामेव दशाहं सूतकं सोदकानां नास्ति त्र्यहादेकोदकानामित्येतत्पुंप्रसव- विषयमित्याहुः । अत्र यथास्वदेशाचारं व्यवस्था । - २० " " २५ - 30 काण्डम् ] जननाशौचद्वैविध्यम् । ४९९ १५ अपरे स्त्रीपुंससाधारण्येन मूलस्मृतिषु प्रसवाशौचविधानाच्चंद्रिकास्मृतिरत्नमाधवीय- विज्ञानेश्वरादिषु प्रौढनिबंधनेषु चाविशेषेण स्रावादिप्रसवांताशौचविधानादाधुनिकसंग्रहकारोक्त- त्रिपुरुषाशौचे प्रमाणाभावादा त्रिपुरुषं कन्यासापिंड्यनिरूपणस्य कन्यामरणाशौच उपयोगात् स्त्रीप्रसवेऽपि आ सप्तपुरुषसपिंडानां दशाहं सूतकमस्तीत्याहुः । अत्र यथास्वदेशाचारं व्यवस्था । जननाशौचं द्विविधम् । अस्पृश्यत्वलक्षणं धर्मानधिकारलक्षणं चेति । तत्रास्पृश्यत्वलक्षणं ५ मातुरेव पूर्णमाशौचं पितुरपि स्नानात्पूर्व नान्येषां सपिंडानाम् ।स्नानादूर्ध्वं पितुरस्पृश्यत्वलक्षणं नास्ति। किंतु धर्मानधिकारलक्षणमेव । तथा पैठीनसिः- "जनौ सपिंडाः शुचयो मातापित्रोस्तु सूतकम् । सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः" ॥ इति । अस्यार्थश्चंद्रिकायामुक्तः—“सपिंडस्य जनने पितृमातृव्यतिरिक्ताः सपिंडाः शुचयः। सपिंड- जनननिबंधनाशौचे धर्मानधिकारलक्षणे विद्यमानेऽप्यघरूपाभावात् स्पर्शयोग्याः । तत्सद्भावा-१० न्मातापित्रोरस्पृश्यत्वलक्षणं सूतकं भवति । तत्सद्भावश्च मातापित्रोर्जायमानप्राणिपिण्डहेतुत्वात् तद्धेतुत्वं तजनकतया पितुः कथंचित्परंपरया मातुर्ग निर्गमनानुकूलप्रेरणया साक्षात् । ततश्च गुरुतया स्नानमात्रानपनोयं सूतकं मातुरेव स्यात् । न पितुः । स्नानमात्रेण पिता शुचिः। अघनाशात् स्पर्शयोग्यो भवति" इति । तथा च स्मृत्यंतरम्-जननेऽप्येतन्मातापित्रोर्मातुरेवास्पर्शनात्मकं नान्येषां ज्ञातीनामिति । मरणे सपिण्डानामस्पृश्यत्वं यथा जननेऽप्येतदस्पृश्यत्वं तथा मातापित्रोरेव भवति । नान्येषां सपिंडानां जायमानप्राणिपिण्डकर्तृत्वरहितानां मातापित्रोर्मध्येऽपि स्नानमात्रानप- नोद्यमस्पर्श न हेतुभूतमाशौचं मातुरेवेत्यर्थः । अंगिराः-“प्राक् स्नानाजनने अस्पृश्यः कर्महानि- राशौचवत्" इति । स्नानात्प्राक् पिता अस्पृश्यः । ऊर्ध्वं तु स्पृश्य एव। किं तु कर्महानिः तस्य शाववद्भवतीत्यर्थः। संवतः- “ सचैलं तु पितुः स्नानं जाते पुत्रे विधीयते । माता शुध्येत् दशाहेन स्नातस्य स्पर्शनं पितुः" ॥२० न दोषावहमित्यर्थः । आदिपुराणेऽपि- सूतके तु मुखं दृष्ट्वा जातस्य जनकस्ततः। कृत्वा सचैलस्नानं तु स्पृश्यो भवति तत्क्षणात्"॥ इति। अंगिरा:- सूतके सूतिकावर्ज संस्पर्शो न निषिध्यते । संस्पर्शे सूतिकायास्तु स्नानमेव विधीयते”॥ इति । एतद्दशाहांतसूतिकास्पर्शे स्नानमात्रविधानमकामकृतविषयम् । बुद्धिपूर्वस्पर्शे तु स्नानं अग्मिस्पर्शी घृतप्राशनं च कर्तव्यम् । पतितं सूर्तिकामंत्यं शवं स्पृष्ट्वा च कामतः। स्नात्वा सचैल स्पृष्ट्वाऽग्निं घृतं प्राश्य विशुध्यति" ॥ इति स्मरणात् । यत्तु बोधायनेनोक्तं (१।५।१०५-१०६)—“जनने तावन्मातापित्रोदशाह- माशौचं मातुरित्येके” इति एतच्चंद्रिकायां व्याख्यातम्---अस्पृश्यत्वलक्षणं मातापित्रोदशाह- माशौचमित्येतत्पूर्वपक्षत्वेनोक्तमिति तावद् ग्रहणादवगम्यते । तेन मातुरित्येक इत्ययमेव सम्यक्पक्ष इति न पूर्वोक्तविरोध इति अखंडादशैं तु विवृतम्। युगपत्स्त्रीपुंसप्रसवे अस्पृश्यत्वलक्षणमाशौचं मातापित्रोः। अन्यतरप्रसवे मातुरेवास्पृश्यत्वलक्षणमाशौचम् । अथवा मातापित्रोरिति पितुः संसर्ग- विषयम् । पितुरिति पितुरसंसर्गविषयमिति। तथा च वसिष्ठः (१६।२३)- " नाशौचं विद्यते पुंसः संसर्ग चेन्न गच्छति । रजस्तत्राशुचि ज्ञेयं तच्च पुंसि न विद्यते" ॥ " २५ . -- ३० ५०० मातापित्रो। [आशौच- -- ५ बृहस्पतिः- “शावाशौचं तु सर्वेषां सूतकं मातुरेव च । स्नानं प्रकुर्यात्तु पिता स्पृश्यो भवति तत्क्षणात् ॥ यस्तया सह संसर्ग प्रकुर्याच्छयनासनम् । बांधवो वा परो वापि स दशाहेन शुध्यति" ॥ इति । सुमंतुः-"मातुरेव सूतकं तां स्पृशतां च नेतरेषाम्" इति । मातुः सूतिकां स्पृशतां च जनाना- मस्पृश्यत्वलक्षणं भवति नेतरेषाम् । अस्पृशतां जनानां न भवतीत्यर्थः । अत्रिः- संपर्काज्जायते दोषः पारक्ये चैव जन्मनि । तद्वर्जनापितुरपि सद्यःशौचं विधीयते”॥ इति । पारक्ये परसंबंधिजनने । पराशरः-" ब्राह्मणानां प्रसूतौ तु देहस्पर्शो विधीयते । " सर्वेषां शावमाशौचं मातापित्रोस्तु सूतकम् । सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः"॥ इति । १० अस्पृश्यत्वलक्षणं सूतकं मातापित्रोः । तत्रापि दशाहभस्पृश्यत्वं मातुरेव पितुः स्नानपर्यन्तमेवेत्यर्थः। सूतक्या सह संसर्गकरणे तन्निमित्तमस्पृश्यत्वं दशाहमस्तीत्याह त एव- "यदि पत्न्यां प्रसूतायां संपर्क कुरुते द्विजः । सूतकं तु भवेत्तस्य यदि विप्रः षडंगवित् ॥ संपर्काज्जायते दोषो नान्यो दोषोऽस्ति वैद्विजे। तस्मात्सर्वप्रयत्नेन संपर्क वर्जयेद् बुधः ॥ “ प्रसवे गृहमेधी तु न कुर्यात्संकरं यदि । दशाहाच्छुध्यते माता त्ववगाह्य पिता शुचिः"॥ इति । १५ भर्तुः स्नानानंतरसंसर्गनिमित्त एक. एव दोषोऽस्पृश्यत्वापादको जायते न तु जनननिमित्तको दोषोऽस्तिं तस्मात्संपर्क वर्जयेत् । गृहस्थः सूतिकया सह यदि सहशयनासनभोजनादिकं न कुर्यात् तदा स्नानेनैव स्पृश्यो भवति । माता तु दशाहेन शुद्धा भवतीत्यर्थः । मनुरपि (५।६१-६२)- "सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः । निरस्य तु पुमांच्छुक्लमुपस्पृश्यैव शुध्यति" ॥ इति । 'उपस्पृश्य पिता शुचिः' इत्येतदुत्तरार्धेनोपपादयति । शुक्कं निरस्व गर्भाधानं कृत्वेति यावदुपस्पृश्य २० स्नात्वा पिता शुचिः गर्माधानं कृत्वा तदानीं स्नातस्य पितुरस्पृश्यत्वापादकं जननाशौचमिदानीं तत्स्नानादूर्ध्व न भवतीत्यर्थः । याज्ञवल्क्योऽपि ( प्रा. १९) “पित्रोस्तु सूतकं मातुस्तदमृग्दर्शनात् ध्रुवम् । तदहर्न प्रदुष्येत पूर्वेषां जन्मकारणात् ॥ इति । अत्र विज्ञानेश्वरः (पृ.१७३ पं.२८)---"सूतकं जनननिमित्नमस्पृश्यत्वलक्षणं पित्रोः मातापित्रोरेव । न सर्वेषां सापेंडानां तच्चास्पृश्यत्वं मातुध्रुवं दशाहपर्यंत स्थिरमित्यर्थः । कुतः तदसृग्दर्शनात्तस्याः २५ संबंधित्वेनासृजो दर्शनात्पितुर्भुवं न भवति स्नानमात्रेणास्पृश्यत्वं न विद्यते । यस्मिन्दिने कुमारजननं तदहर्न दुष्येत तन्निमित्तदानाद्याधिकारापहं न भवतीत्यर्थः । यस्मात्तस्मिन्नहनि पूर्वेषां पित्रादीनां पुत्ररूपेण जन्म उत्पत्तिः तस्मात्तदहर्न प्रदुष्येत” इति। स्नत्यर्थसारे-जनननिमित्तमस्पृश्यत्वं मातु- रेव । पितुः स्नानानंतरमस्पृश्यत्वं नास्ति। जनने सपिंडानामस्पृश्यत्वं सर्वदा नास्त्येवेति। बडशीतौ- यावत्सूतकमस्पृश्या माता प्राक् स्नानतः पिता । अन्येषां तु सपिंडानामस्पृशत्वं न सूतके" इति। ३० यत्तु संग्रहे- “आन्तंशावेऽङ्गसंस्पर्श त्यजेत्सूतौ चतुर्दिनम् ।स्पर्शनाघस्य तु स्नानं कृच्छ्रोऽन्याशौचिनः स्मृतः।इति प्रसवे चतुर्दिनमंगस्पर्शवर्जनमुक्तम् । तत्स्नानान्तरक्षणमारभ्य पितुः सर्वदा च सर्वसपिंडाना- मस्पृश्यत्वलक्षणाशौचाभावं प्रतिपादयन्तीभिः पूर्वोक्तसर्वस्मृतिभिर्विरुद्धत्वादुपेक्ष्यम् । यच्चात्र स्मृत्यंतरमुक्तम्- स्पृष्टस्पृष्टिं भाषणं च सहवासं च वर्जयेत् । अन्याशौचवतां पुंसां न स्पृशेच्च कदाचन ॥ " ३५ “ “ काण्डम् ] सूतिकायाः। ५०१ न स्पृशेयुरनासन्नाः प्रेतस्यासन्नबान्धवान् । जन्मन्यपि विपत्तौ च यावच्चतुरहं भवेत् "॥ इति तच्चाशौचिनामेवान्योन्यस्पर्शविषयं शब्दतः प्रतीयते। यथा विपत्तौ चतुरहादूर्ध्वमंगस्पर्शस्य कलौ निषिद्धत्वेन चतुरहमित्येतद्युगांतरविषयत्वेन व्यवतिष्ठते तथा जन्मन्यंगस्पर्शस्य विहितत्वेन जन्मनि चतुरहमित्येतदर्थातरपरमस्तु। कर्तृस्मरणरहितमेतादृशं वचनं प्रसिद्धसकलस्मृतिविरोधादप्रमाणं वा भवतु । यच्च संवर्तेनोक्तम्- " सूतके तु यदा विप्रो ब्रह्मचारी विशेषतः । पिबेत्पानीयमज्ञानार्मुक्ते वाऽथ स्पृशेत वा ॥ पानीयपाने कुर्वीत पंचगव्यस्य प्राशनम् । त्रिरात्रोपोषणं भुक्तौ स्पृष्टौ स्नानेन शुध्द्यति" ॥ इति तत् सूतिकास्पर्शविषयं अस्नातपितृस्पर्शविषयं च । “सूतके सूतिकावर्ज संस्पर्शो न निषिध्यते । संस्पर्श सूतिकायास्तु स्नानमेव विधीयते"॥ इत्यादिना तत्रैव स्नानविधानात् । न च ‘संस्पर्शो न निषिध्यते' इत्येतच्चतुरहादूर्ध्वं सपिंडानां स्पर्शनिषेधाभाव- १० परमिति वाच्यम् । सूतिकाव्यतिरिक्तस्पर्श निषेधाभावमात्रस्य प्रतीतेश्चतुरहादूर्ध्वमित्यत्र विनिगमना- भावात् 'स्पृश्यो भवति तत्क्षणात्' इत्यादिस्मृतिविरोधापत्तेश्च । संस्पर्श सूतिकायास्तु' इति स्नानवचनं दशाहानंतरमपि सूतिकास्पर्शे स्नानविधिपरमित्यभिप्रेत्य संग्रहकारेणोक्तम्- “दशाहं दर्शनं वाक्यं सूतिकायास्त्यजेत्ततः । अघान्तं स्पर्शमेवेत्थं पितुस्तं यमलोद्भवे" ॥ इति । दशाहं सूतिकाया दर्शनं वाक्यश्रवणं च वर्जयेत्ततःदशाहानंतरं यावत् सूतकं तावत्स्पर्शमेव त्यजेत् । १५ न तु दर्शनादि । इत्थमघांतं स्वाशौचपर्यंतं दशाहपर्यंतमिति यावद्यमलोद्भवे अपत्यद्वयजनने पितुर्जनकस्य तं स्पर्श त्यजेत् । पितुः पुत्रजननोत्तरकालस्नानानंतरमस्पृश्यत्वलक्षणाशौचाभावेऽपि यमलोद्भवे दशाहपर्यंतं तदस्तीत्यर्थः। 'सूतकं मातुरेव स्यान्मातापित्रोस्तु सूतकम्' इति बोधायनवचनमेवं व्याकृतमखंडादशैं। युगपत्स्त्रीपुंसप्रसवे मातापित्रोरस्पृश्यत्वलक्षणं दशाहमा- शौचमिति। एवं शिष्टाचारानुसारेण मातुर्दशाहानंतरमपि यावदाशौचमस्पृशत्वमुक्तं संग्रहे- 'अघांतं स्पर्शमेब' इति । स्मृतिरत्ने तु-'जनौ सपिंडाः शुचयः' इति पैठीनसिवचनं व्याख्यातम् । जन्मनि सर्वे सपिंडाः स्पृश्याः पिता स्नानेन स्पृश्यः। माता तु दशाहांते स्पृश्या भवतीति । 'माता शुध्येद्दशाहेन स्नातस्य स्पर्शनं पितुः' इति संवर्त्तवचनम् । चंद्रिकायां माता दशाहेन स्पर्शनादियोग्या भवतीत्यर्थ इति । तत्रैव-" द्विजाते सूतिकाया स्यात् स दशाहेन शुध्यति" इति पारस्करवचनं व्याख्यातम् । २५ अस्पृश्यत्वादिहेतुभूतं दशाहपर्यंतं दानादिधर्मानधिकारलक्षणं तु पुत्रजनन्यां विंशतिरात्रपर्यंत स्त्रीजनन्यां मासपर्यंतमिति । सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः । माता शुध्येद्दशाहेन ” इति पराशरवचं माधवीये व्याख्यातम् । दशाहमस्पृश्यत्वं मातुः पितुः स्नानपर्यंतमेवेति । "पित्रोस्तु सूतकं मातुस्तदमृक्दर्शनात् ध्रुवम्” इति (प्रा. १८) याज्ञवल्क्यवचनं व्याख्यातं विज्ञानेश्वरेण-“सूतकं जन्मनिमित्तमस्पृशत्वलक्षणं मातापित्रोरेव न सर्वेषां सपिंडानां तच्चास्पृश्यत्वं मातुर्दशाहपर्यंत स्थिरमिति” । स्पष्टमेवाह व्यासः- सूतके तु सपिंडानां संस्पर्शो नैव दुष्यति। स्पृश्याः स्युः सर्व एवैते स्नानान्मातुर्दशाहतः" ॥इति ब्राह्मेऽपि- ब्राह्मणी क्षत्रिया वैश्या प्रसूता दशभिर्दिनैः। दिनैः शूद्रा च संस्पृश्या त्रयोदशभिरेव च "॥इति। ३० १क्ष-अत्र। ६४ आशौचिनामन्योन्यस्पर्शनिषेधः। [आशौच- । “ यत्तु कैश्चिदुक्तम् “ सूतके सूतिकावय॑ संस्पर्शो न निषिध्यते” इति स्मरणात् दशाहात्परमपि सूतिकायाः स्पर्शो न कर्तव्य इति तन्न । उक्तानेकस्मृत्यनुसारेणास्य वचनस्य दशाहाभ्यंतरे सूतिका- स्पर्शनिषेधविषयत्वे नोपपत्तेः । 'अघांतं स्पर्शमेव' इति शतककृवचनं देशाचारमूलमिति सिद्धम् । आशौचिनामन्योन्यस्पर्शनिषेधः । आशौचिनामन्योन्यस्पर्श निषेधति भृगुः- ५“शावाशौचे समुत्पन्ने सूतके च द्विजातिभिः। अन्याशौचवतां स्पर्शो न कर्तव्यो द्विजन्मनाम् ॥ आशौचेऽप्यन्यदाशौचं स्पृशेयदि च कामतः । चरेत्सांतपनं कृच्छ्रे प्राजापत्यमकामतः॥ सूतके शावसंस्पर्श मत्या कृच्छ्रदयं चरेत् । अमत्या कृच्छ्रमेकं स्यादित्युवाच बृहस्पतिः" ॥ स्मृत्यंतरे तु- परस्याशौचिनः स्पर्शे शावाशौचं कथं भवेत् । मत्या सांतपनं कुर्यादमत्या तु तदर्धकम् ॥ “अस्थिसंचयनादर्वागेवं शुद्धिर्विधीयते । ऊर्ध्व त्रिरात्रं विज्ञेयममत्या तु दिनं भवेत्" ॥ इति । शावाशौचे तु आशौचरहितेन यावदाशौचं आशौचिस्पर्शो न कर्तव्यः “ मरणे यावदाशौचं तत्संस्पर्शो निषिध्यते” इति स्मरणात् । एकाशौचवतामपि चतुर्दिनपर्यन्तं परस्परस्पर्श निषेधत्याश्वलायनः- “ अस्थ्नां संचयनादक तत्सपिण्डाः परस्परम् । न संस्पृशेयुरङ्गानि पुत्राश्च प्राग्दशाहतः ॥ १५ “अक्षतेऽपि चतुर्थेऽह्नि सति संचयने यदि। परस्परं सपिण्डानामङ्गस्पर्शो विधीयते ॥ " सपिण्डाः पञ्चमाहादि स्पृशेयुस्तु परस्परम्। स्वाशौचकालाद्विज्ञेयं स्पर्शनं तु त्रिभागतः ॥ दशाहादित्रिभागेन कृते संचयने क्रमात् । अंगस्पर्शनमिच्छंति वर्णानां तत्त्ववेदिनः ॥ चतुर्थे पंचमे वाऽन्हि संस्पर्शः कथितो बुधैः "॥ इत्यादीनि व्यासदेवलादिवचनानि युगांतर- विषयाणि । “ अस्थिसंचयानदूर्ध्वमंगस्पर्शनमेव च” इति कलियुगनिषिद्धधर्मेषु स्मरणात् । २० यत्त्वंगिरसोक्तम्- “ नाशौचं सूतके प्रोक्तं सपिंडानां क्रियावताम्" इति अस्यार्थः-क्रियावतां जन्मदाख्यदेवताप्रीत्यर्थ पूजादिक्रियावतां पित्रादिसपिंडानां जन्मदाख्यदेवतायागानुष्ठानसमये कर्मानधिकारलक्षणमाशौचं नास्तीति । तथा च व्यासः- सूतिकावासनिलया जन्मदा नाम देवताः। तासां यागनिमित्तं तु शुद्धिर्जन्मनि कीर्तिताः ॥ “प्रथमे दिवसे षष्ठे दशमे चैव सर्वदा । रात्रिष्वेतेषु कुर्वीत पुत्रजन्मनि सूतके ॥ २५ “षष्ठेऽह्नि यागं दानं च जन्मदानां तु कारयेत् " ॥ पूजादानार्थं तेषु दिनेषु तत्समये शुद्धिरित्यर्थः । मार्कडेयः- रक्षणीया तथा षष्ठयां निशायां तु विशेषतः । रात्रौ जागरणं कार्य जन्मदानां तथा बलिः ॥ पुरुषाः शस्त्रहस्ताश्च तत्र गीतैश्च योषितः । रात्रौ जागरणं कुर्युर्दशम्यां चैव सूत" ॥ इति । बृहस्पतिः- ३. “ जन्मतः पंचमं तारं याते चंद्रे शिशुं पिता । भूषयेद्भूषणैः सर्वैः पंचायुधसमन्वितैः॥ विशेषात्कन्यकायाश्च कर्तव्यं मंगलं तथा । तत्र सायुधमा कल्पमायुः श्रीकांतिदं शिशोः॥ इति। नारदश्च- जननात्सप्तमे चाह्नि मृत्युरायाति घातुकः। तद्दिने चैव रक्षेयं कर्तव्यायुर्विवृद्धये ॥ “ सायान्हे पूज्यविघ्नेशमपूपैश्च पृथग्विधैः " ॥ मार्कण्डेयः- " अग्न्यंबुहीने च तथा निर्धूमे सूतिकागृहे । अदीपशस्त्रमुसले भूतिसर्षपवर्जिते॥ “ -- ३५ काण्डम् ] दशाहान्तर्गतशिशुमरणाशौचम् । ५०३ १. “क्षणप्रध्वंसिनी बालमपहंत्यात्मसंभवम् । सा जातहारिणी नाम तद्रक्षेत्सूतिकागृहम् " ॥ इति । प्रथमदिने जातकर्मादिनिमित्ता शुद्धिर्भवति । तथा च वृद्धयाज्ञवल्क्यः- कुमारजन्मदिवसे विप्रैः कार्यः प्रतिग्रहः । हिरण्यभूगवाश्वाजवासोधान्यधनादिषु ॥ "तत्र सर्व प्रतिग्राह्यं कृतान्नं तु न भक्षयेत् । भक्षयित्वा तु तन्मोहात् द्विजश्चांद्रायणं चरेत्" ॥ इति प्रसवाशौचम् । दशाहान्तर्गतशिशुमरणाशौचम् । अंतर्दशाहं जातमृतौ मृतजनने च सपिंडानां सद्यःशौचमाह बृहद्विष्णुः—“ जाते मृते मृते जाते कुलस्य सद्यःशौचम्” इति ॥ शंखोऽपि-" प्राङ्नामकरणात्सद्यःशौचम् ” इति । पारस्करः जीवन जातो यदि प्रेया- त्सद्य एव विशुध्यति" इति । कात्यायनोऽपि “ अनिवृत्ते दशाहे तु पंचत्वं यदि गच्छति । सद्य एव विशुद्धिः स्यान्न प्रेतं नोदकक्रिया"॥ इति । 'न प्रेतं नैव सूतकम्' इति पाठांतरम् । तदने वक्ष्यते । मातापित्रोस्तु दशाहमुक्तं वरदरांजीये- मृतजाते जातमरणे वा सर्वास्ववस्थासु मातापित्रोदशाहमाशौचम्" । तथा च बृहस्पतिः- “ जातमात्रे मृते वाऽपि दशाहात्पितरौ शुची । कृते नाम्नि सनाभीनां दशरात्रमधं भवेत् ॥ भिन्नोदराणां भ्रातृणां जातदंते मृते त्वघम् । दशाहं कृतचौले तु दत्तादीनां विधीयते "॥ इति । १५ पिंगलोऽपि-"जात उभयोः कृते नाम्नि सोदराणां भ्रातृमाम्” इति । पितृव्यतिरिक्तज्ञातीनां सद्यःशौचविधानं शिशुमरणनिमित्तस्याशौचस्य स्नानाच्छुद्धिप्रतिपादनपरम् । न प्रसवनिमित्तस्य । तत्तु दशाहमस्ति । तथा च बृहन्मनुः- “दशाहाभ्यंतरे बाले प्रमीते तस्य बांधवैः । शावाशौचं न कर्तव्यं सूत्याशौचं विधीयते" ॥इति । बांधवैः सपिंडैः शावाशौचं न कर्तव्यं पितृवदीर्घकालं न कर्तव्यं किं तु सद्य एव । सूत्याशौचं २. तु दशाहं विधीयते इत्यर्थः। विज्ञानेश्वरोऽपि-मृतजनने जातमृतौ च सपिंडानां जनन- निमित्तमाशौचं परिपूर्णम् । जातमृते मृतजाते वा सपिंडानां दशाहमिति हारीतस्मरणादिति। पार- स्करोऽपि ( )-" अंतःसूतके चेदोत्थानादाशौचं सूतकवत् ” इति । आ उत्थानात् आ सूतिकाया उत्थानाद्दशाहमिति यावत्सूतकवदिति । शिशूपरतिनिमित्तोदकदानवय॑मित्यर्थः । आपस्तंबोऽपि (१।५।१६।१९-२०)—“अंतःसूतिके चोत्थानाशौचं सूतकवन्मृते तस्मिन्नेव बाले तु सद्यःशौचं नात्रोदकम्" इति । अस्यार्थः । यस्मिन् जाते सूतकं प्रवृत्तं तत्सूतकमध्ये तस्मिन्नेव बाले मृते मातापित्रोः सूतकवत् ओत्थानादाशौचं सपिंडानां जनननिमित्तमोत्थानान्मरणनिमित्तं पित्रादीनां न प्रेतायोदकदानमित्यर्थः । व्याघोऽपि- अंतर्दशाहे जातस्य मरणं यदि संभवेत् । सद्यःशौचं सपिंडानां सूतकं तु प्रवर्तते ।। गर्भे यदि विपत्तिः स्याद्दशाहं सूतकं भवेत् ।मृतके स्नानतःशुद्धिः सपिंडानां च सर्वशः” ॥ इति। अत्र विज्ञानेश्वरः (पृ. १७६ पं. ९)--“एवमादिवचनपर्यालोचनया जननिमित्ताशौचसंकोचो नास्तीत्यवगम्यते” इति । नन्वेवं दशाहं जनननिमित्ताशौचस्य सत्त्वे मरणनिमित्ताशौचस्य निषेधे कोऽतिशयः । उच्यते “ सद्य शौचे तु तावत्स्यादाशौचं संस्थितस्य तु । यावत्स्नानं न कुर्वन्ति" इति शिशूपरमनिमित्तं तत्कालस्नानं एकोतिशयः । दशाहपर्यंतमस्पृश्यत्वाभावोऽपरः । तारतम्यं च स्मर्यते- खग-पैङ्गलोपि। । २५ ३५ ५०४ सूतकाधशौचेषु तारतम्यम् । [आशौच- "सूतकात् द्विगुणं शावंशावात् द्विगुणमार्तवम् ।आर्तवात् द्विगुणं सूतिस्ततोऽपि शवदाहकम्"॥इति । किं च सपिंडानां जनननिमित्ताशौचवन्मरणनिमित्तस्यापि शाहमभ्युपगमे दशमदिनमृतौ तदूर्ध्वमपि शावाशौचप्रसंगः । तथाहि- अनिर्दशाहे जनने पश्चात्स्यान्मरणं यदि । प्रेतमुद्दिश्य कर्तव्यं तत्राशौचं स्वबंधुभिः " ॥ इति ५ अंगिरःस्मरणेन जन्मदिनादूर्ध्व द्वितीयादिदिने शिशुमरणे दशाहादूर्ध्वमपि प्राप्तस्य मरणाशौचस्य “अंतर्दशाहे जातस्य शिशोर्निष्क्रमणं यदि । सूतकेनैव शुद्धिः स्यात्पित्रोः शातातपोऽब्रवीत् ॥ "दशाहाभ्यंतरे बालः कदाचिन्म्रियते यदि । शावाशौचं न कर्तव्यं सूत्याशौचन शुध्यति॥ दशाहांतर्गते बाले शुद्धिः स्याजन्मना सह"। “अंतर्दशाहोपरतस्य सूतिकाहोभिरेवाशौचम् " इति व्याघ्रयमशंखस्मृतिवचनैर्यद्यपि बाधः सिध्यति तथापि “ तच्चेदंतःपुनरापतेत्तच्छेषेण शुध्ये- १. रन् । रात्रिशेषे द्वाभ्याम् । प्रभाते तिसृभिः" इति गौतमस्मरणात् (१४.५-७) सूतकांतिमदिने शिशुमृतौ तत्परं व्यहमाशौचम् । प्रभातमरणे व्यहं च पित्रोरिव पूर्णाषित्वे सपिंडानामपि प्रसज्येत । तस्माज्जनननिमित्तपूर्णाशौचस्य मरणनिमित्तस्य सद्यःशौचस्य च महान्फलभेदः । अत एव संग्रहे- सूतकांतस्तु जातस्य मृतौ शिष्टाहमिष्यते । पितुस्तु व्यहमंत्याहे तत्प्रभाते ब्यहं भवेत् ” ॥ इति । १५ अयमर्थः । सूतकमध्ये जातस्य मृतौ सपिंडानां जनननिमित्तमचं शिष्टाहं भवति । मरणनिमित्तं तु सद्यः । “जात उभयोः” इति स्मरणात् । जातशिशुमृतौ तु पित्रोः सदा पूर्णाधित्वेऽपि सूतकेनैव शुद्धिः स्यत्पित्रोः शातातपोऽब्रवीत् ” इति वचनबलात्सूतकशेषेणैव मरणाशौचस्यापि निवृत्तिः । सूतकांतिमदिने तन्मृतौ तत्परं पितुर्थहमाशौचं प्रभाते अरुणोदयकाले व्यहम् । यद्यपि मातुरप्येवं तथापि तस्याः दशाहात्परमपि सूतकस्य सत्त्वात्पितृमात्रव्यहव्यहविधानम् । अत्र तुशब्दो २० ज्ञातीनां व्यहव्यहविधिनिवर्तकः । पितृग्रहणाद्भातृव्युदासः । कृते नाम्नि सोदराणाम् ' इति दशाहात्परमेव भ्रातुः मरणाशौचविधानादिति । यत्तु सोदगणामपि दशाहाशौचमुक्तं व्याघेण बाले मृते सपिंडानां सद्यःशौचं विधीयते । दशाहेनैव दंपत्योः सोदराणां तथैव च ॥ इति तदशाहानंतरबालमरणविषयम् । चंद्रिकायां तु दशाहेनेति जन्मदिनमृतबालभरणविषयम् । जन्मदिनादूर्ध्व मृतबालविषयेऽपि व्याघ्रः- २५ “अंतर्दशाहे जातस्य शिशोर्निष्क्रमणं यदि। सूतकेनैव शुद्धिः स्यात् पित्रोः शातातपोऽब्रवीत् ॥इति । पित्रोरिति सोदरभ्रातृणामुपलक्षणार्थम् । यत्तु पैंगवऋषिवचनम् -- “ जात उभयोः कृते नाम्नि सोदरभ्रातॄणां च” इति तत्र कृते नाम्नीति नामकरणदिनस्य दशमस्योपलक्षणार्थम् । एवं चायमर्थः- जाते शिशौ जन्मदिने प्रेते मातापित्रोः सोदरभ्रातृणां च दशाहमाशौचम् । कृते नाम्नि मामकरण- दिने दशमे वा मृते सति पूर्वोक्तानामेवाहोरात्रमाशौचमिति । ३० तथा च शंखः-“दशमान्तर्गते बाले शुद्धिः स्याज्जन्मना सह"। अयमर्थः--दशमांतर्दशाह- मध्ये बाले गते प्रेते जन्माशौचशुध्या सह मातापित्रोः सोदरभ्रातृणां च शुद्धिः स्यादिति ओत्थानादाशौचमिति वदन् आपस्तंबोऽपि अंतःसूतके दशमदिनेऽपि शिशुमरणे तद्दिन एवाशौचं न पुनरहःशेषे द्वाभ्यां प्रभाते व्यहमित्यादिको विशेषोऽत्रेति दर्शयतीति । एवं च जन्मदिने शिशुमरणे पित्रोः सोदरभ्रातॄणां च मरणनिमित्तमाशौचं दशाहं द्वितीयादिदिनेषु ५ दशमदिनेऽपि मरणे शिष्टाहमेवाशौचम् । प्रसवाशौचेनैव सर्वदा शुद्धिरिति चंद्रिकोक्तनिष्कर्षः। - - काण्डम् ] मृतजाते। ५०५ ५ " " स्मृतिरत्नमाधवीयादौ भ्रातॄणां व्याघ्रवचनानुसारेणाशौचमुक्तम् । यथादेशाचारमत्र व्यवस्था । तदेवं मरणाशौचं सपिण्डानां सद्यः पित्रोदशाहं जननाशौचं सर्वेषां दशाहमिति स्थितम् । अत्र विज्ञानेश्वरः। (पृ. १७६ पं. १९-२५) यत्तु बृहन्मनुवचनम्- " जीवन जातो यदि ततो मृतः सूतक एव तु। सूतकं सकलं मातुः पित्रादीनां दिनत्रयम्"॥ इति यच्च बृहत्प्रचेतोवचनम्- "मुहूर्त जीवितो बालः पंचत्वं यदि गच्छति । मातुः शुद्धिर्दशाहेन सद्यःशौचास्तु गोत्रिणः"॥ इति तत्रैवं व्यवस्था। जननानन्तरं नाभिकर्तनात्प्राङ्मृतौ पित्रादीनां जनननिमित्तमाशौचं दिनत्रयम्। सद्यः- शौचं अग्निहोत्रार्थ स्नानोपस्पर्शनात्तत्कालं शौचमिति शंखवचनात् । नाभिवर्धनोत्तरकालं तु शिशुप्रायणे जनननिमित्तमाशौचं संपूर्ण सपिंडानाम् । “यावन्न च्छिद्यते नालं तावन्नामोति किल्बिषम् । छिन्ने नाले ततः पश्चात्सूतकं तु विधीयते "॥ इति १० जैमिनिस्मरणात् । चंद्रिकायामपि जन्मनि पित्रादिसपिंडानामपि त्रिरात्रमाह वृद्धमनुः-“जीवन् जातो यदिततः” इति। अयमर्थः--जीवन् जातः शिशुर्यदि नाभिच्छेदात्पूर्व मृतस्तदा स्वजात्युक्तं सूतकं मातुः पूर्णमेव पित्रादिसपिंडानां त्रिरात्रमिति । यबृहत्प्रचेतसो वचनम्--"मुहूर्त जीवितो बालः पंचत्वं यदि इति तत्सद्यः शौचमग्निहोत्रानुष्ठातृविषयम् । “ अग्निहोत्रार्थ स्नानोपस्पर्शनात्तत्कालं शौचम् ” १५ इति शंखस्मरणात् । यत्तु हारीतेनोक्तम्-“ जातमृते मृतजाते वा सपिंडानां दशाहम् इति । सूतकमिति शेषः । अत्र जातमृते यद्दशाहमुक्तं तज्जातस्य शिशोर्नाभिच्छेदादूर्ध्व मरणे वेदितव्यम् । बृहन्मनुवचनसमानविषयत्वेऽन्योन्यविरोधापत्तेः । मृतजातविषये तु दशाहमेव सूतकं पारस्करेणाप्युक्तम्- “ गर्भे यदि विपत्तिः स्यात् दशाहं सूतकं भवेत् ” इति । सपिंडानामिति शेषः । यत्तु "पुत्रो जातो यत्र मृतो मृतो वा सूयते यदि। सूतकं मातुरेव स्यात् पित्रादीनां दिनत्रयम्" ।। इति तदेतन्मृतजातस्य त्रिरात्रसूतकं वृत्तस्वाध्यायोपेतपित्रादिविषयम्। एतच्च वृत्तस्वाध्यायोपेतपित्रादेरपि कलौ न कार्यम् “ वृत्तस्वाध्यायसापेक्षमघसंकोचनं तथा” इति कलौ निषेधस्मरणादिति । एवं च नाभिच्छेदात्पूर्व जातमरणे त्रिरात्रंनाभिच्छेदादूर्ध्व जातभरणे मृतजाते च दशरात्रमिति निर्णयः। तथा चस्मृत्यर्थसारे-"नाभिच्छेदादूर्ध्व शिशुमरणे निष्प्राणशिशुनिर्गमे च जनननिमित्ताशौचं २५ कृत्स्नं यथावर्णं सर्वेषां सपिंडानामस्त्येव । मरणनिमित्ते सबःशुद्धिः। “ नाभिच्छेदात्पूर्व शिशुमरणे तु जनननिमित्ताशौचं सपिंडानां त्रिरात्रम् । मरणनिमित्ते सद्यःशुद्धिः” इति स्मृतिरत्नेऽपि । बृहन्मनु:- दशाहाभ्यंतरे बाले प्रमीते तस्य बांधवैः। शावाशौचं न कर्तव्यं सूत्याशौचं विधीयते " ॥ एतत् नाभिच्छेदादूर्ध्व वेदितव्यम् । तथा च जैमिनिः- "यावन्न छिद्यते नालं तावन्नामोति किल्बिषम्। छिन्ने नाले ततः पश्चात् सूतकं तु विधीयते"।। इति। नाभिच्छेदात्प्राक्तु बृहन्मनुराह-"जीवन जातो यदि ततः त्रिरात्रकम्" इति। यत्तु बृहत्प्रचेताः- " मुहूर्त जीविते बालः ० गोत्रिणः" इति। अत्र सद्यःशौचविधानमग्निहोत्राद्यनुष्ठानार्थ तात्कालिक शुद्धिप्रतिपादनपरम् । “अग्निहोत्रार्थमिति' शंखस्मरणात् । यद्वा 'मुहूर्त जीवित' इति - ३० ५०६ नाभिच्छेदोत्तरमृतौ। [आशौच- “ “ सद्यःशौचविधानं पित्रादीनां सपिंडानां नाभिच्छेदात्पूर्वं शिशुमरणे मरणनिमित्तकं जनननिमित्तं तु दिनत्रयमस्त्येवेति । तथा च पारस्करः- नाभिकृन्तनतः पूर्व शिशोर्निष्क्रमणं यदि । जाताशौचं सपिंडानां त्रिरात्रमिति निश्चयः ॥ पित्रोस्तु मरणाशौचं सद्य एव सपिंडवत् । नाभिवंतनतः पश्चाद्दशाहं सूतकं भवेत् " ॥ इति । ५ षडशीतौ- नाभिकंतनतः पूर्व शिशौ प्रेते तु सूतकम् । मातुः पूर्णमतोऽन्येषां पितुश्च त्रिदिनं समम् ॥ “ छिन्ननाभः शिशोर्मृत्यौ मृतस्य प्रसवेऽपि च । मातुश्च गोत्रिणां चैव सर्वेषां पूर्णसूतकम्" ॥इति। माधवीयेऽप्ययमेवार्थः प्रपंचितः। यत्तु कैश्चिदुक्तम् । व्यहविधेर्नाभिच्छेदात्पूर्वविषयत्वाप्रतीतेर्वचनांतराभावादनुदाहृतत्वाच्च बहुस्मृति- १. विरोधाच्च नेयं व्यवस्थोपपद्यते । अतो नेदं व्यहविधिवचनमादरणीयमिति । तन्न । “यावन्न छिद्यते नालं तावन्नाप्नोति सूतकम् । छिन्ने नाले ततः पश्चात्सूतकं तु विधीयते" ॥ इति “ छिन्नायामाशौचम् ” इति जैमिनिहारीतादिवचनैर्नाभिच्छेदादूर्ध्वं सूतकाप्तिविधानाज्जातमृते दशाहाशौचविधायकवचनस्य च नाभिच्छेदोत्तरकालमरणविषयत्वोपपत्तेः । व्यहविधायकवृद्धमनु- वचनस्य चाबाधेन नाभिच्छेदात्पूर्वकालमरणविषयत्वेनोपपत्तेः । न च नाभिच्छेदात्प्राक् सूतकप्राय- १५ संभवे न व्यहविध्यनुपपत्तिः । वचनप्राप्तस्य बाधायोगात् । अतः परस्पराविरोधेन विषयव्यवस्थैव प्रदर्शनीया। सा च प्रदर्शिता विज्ञानेश्वरादिभिः । वचनांतराभावोऽप्यसिद्धः। नाभिकंतनतः पूर्व शिशोर्निष्क्रमणं यदि” इत्यादिवचनजातस्य सुगमत्वात् । 'यच्चोक्तं पित्रादीनां दिनत्रयम्' इत्यनेन वृद्धमनुवचनेन जातमरणे व्यहमस्पृशत्वं विधीयते इति तदपि न। “पित्रोस्तु मरणाशौचं सद्य एव सपिंडवत्” इति नाभिच्छेदात्पूर्वमरणे तन्निमित्तस्य सद्यः- शौचस्य विधानात् तदुत्तरमरणे च सपिंडानां सद्यःशौचविधानाज्जनननिमित्तास्पृश्यत्वलक्षणाशौचस्य च निरस्तत्वान्नाभितनतः पूर्वमित्यादिवचनानुग्रहाच्च व्यहविधानस्यास्पृश्यतामात्रविषयत्वानुपपत्तेः। अतो नाभिच्छेदात्पूर्व शिशुमरणे जनननिमित्ताशौचं पित्रादीनां सपिंडानां त्रिरात्रमरणनिमित्तं सद्यःशौचम्। नाभिच्छेदादूर्ध्व शिशुमरणे निष्प्राणशिशुनिर्गमने च जनननिमित्ताशौचं पूर्ण मरण- निमित्तं पितृव्यतिरिक्तानां सद्यःशौचम् । पित्रोस्तु दशाहमिति युक्तम् । यत्तु कात्यायनोक्तम्- “ अनिवृत्ते दशाहे तु पंचत्वं यदि गच्छति। सद्य एव विशुद्धिः स्यान्न प्रेतं नैव सूतकम् ॥ इति एतत् विज्ञानेश्वरेण व्याख्यातम् (पृ. १७६ पं. १६)-" सूतकमस्पृश्यत्वं नैव पित्रादीनां भवतीत्यर्थः । अथवा अयमर्थः-अंतर्दशाहे यदि शिशूपरमस्तदा न प्रेताशौचम् । यदि तत्र सपिंडजननं तदा सूतकमपि नैव कार्य किंतु पूर्वाशौचेनैव शुद्धिरिति " ॥ चंद्रिकायां तु-" यत्तु शाकटायनेनोक्तः- ३. “बालस्त्वन्तर्दशाहे तु प्रेतत्वं यदि गच्छति । सद्य एव विशुद्धिः स्यान्नाशौचं नैव सूतकम्" ॥ इति तन्मातुलादिविषयम् । ततश्चायमर्थः । न मातुलादिबंधूनामिह कालापनोद्यशावाशौचं सूतकं वा किंतु तन्निमित्तमप्रायत्यं स्नानमात्रेण नश्यति" इति । एवं च यदुक्तमखण्डादशैं-'निमित्ताभावा- नैमित्तिकस्याप्यभावः' इति न्यायेन निमित्तभूतस्यायुषि सति सपिंडानामाशौचं स्यात्तस्मिन्नष्टायुषि सति कस्य केन निमित्तेनाशौचं भवति तस्मात्तस्मिन्नष्टे सत्याशौचमपि नष्टं स्यात् । अतो नास्त्याशौचं २. " ॥१० काण्डम् ] दशाहोपरितनशिशुमरणे। सपिंडानामिति । तद्दशाहाभ्यंतरे बाल इत्यादिपूर्वोक्तवचननिचयबलादुपेक्षणीयमेव इति । इति देशाध्तर्गतशिरमरणाशौचम् । अथ दशाहोपरितनशिशुमरणाशौचम् । तत्र मनुः (५।७७, ६६)- बाले देशांतरस्थे च पृथक् पिंडे च संस्थिते । सवासा जलमाप्लुत्य सय एव विशुध्यति ॥ नृणामकृतचौलानामशुद्धिनैंशिकी स्मृता । निवृत्तचौलकानां तु त्रिरात्राच्छुद्धिरिष्यते ॥ (६६) ५ अनयोरयमर्थः-बाले अजातदंते पाण्मासिक इति यावत्संस्थिते मृते सपिंडः सद्य एव विशुध्यति । देशांतरस्थे च पृथपिडे समानोदके संस्थिते स्वाशौचकालादूर्ध्वं श्रुत्वा सद्यः शुध्यति। अकृतचौला- नामप्राप्ततृतीयवर्षाणां षष्ठमासादूर्ध्व मरणे ज्ञातीनामशुद्धि शिकी।आशौचमेकरात्रम् । निर्वृत्तचौलानां प्राप्ततृतीयवर्षाणां सप्तमवर्षात्प्राङ्मरणे त्रिरात्रमाशौचमिति। तथा च याज्ञवल्क्यः (प्रा. २३)- आ दंतजन्मनः सद्यः आ चौलान्नैशिकी स्मृता । त्रिरात्रमा व्रतादेशाद्दशरात्रमतः परम् खननेऽहस्यहं दाहे त्यागे च चौलं चूडाकर्मव्रतादेश उपनयनम् । शंखोऽपि-“अजातदंते तनये सद्यःशौचं विधीयते । अहोरात्रात्तथा शुद्धिर्बाले त्वकृतचूडके ॥ तथैवानुपनीते तु व्यहाच्छुध्यन्ति बांधवाः” ॥ इति । व्यासोऽपि- आ दंतजन्मनः सद्यः आ चौलादेकरात्रकम् । त्रिरात्रमोपनयनाद्दशरात्रं ततः परम् ” ॥ इति । खननादिसंस्कारभेदेनाशौचभेदः । अत्र खननादिसंस्कारभेदेनाशौचव्यवस्था दर्शिता संग्रहे- १५ चौलात्परं भवेद्दाहो नाम्नः प्राक् खननं परम् । दाहो वा खननं दन्तात्परं त्यागः स वा स तत् ॥ 'दाहेऽहः खनने सद्यो दंतोत्पत्तेरधःपरम् । खननेहस्त्र्यहं दाहे त्यागे च व्यहमिष्यते" ॥ इति । चौलात् व्यब्दाद्वा परं मृतस्य दाह एव संस्कारः। नाम्न एकादशाहाद्वा प्राङ्मृतस्य खननमेव संस्कारः। एकादशाहात्पश्चाइंतजननात्पूर्व खननं वा दाहो वा विकल्पेन स्यात् । दंतजननात्यष्ठमासाद्दा परं मृतस्य खननं दाहः त्यागो वा संस्कारः। तत्र दंतोत्पत्तेरामृतस्य दाहे सपिंडानामाहः अहो- २० रात्रमाशौचम् । अत्र खनने सद्यःशौचम् । दंतोत्पत्तेः परं तु खननपक्षे अहोरात्रम् । दाहपक्षे त्यागपक्षे च व्यहमघं भवतीत्यर्थः । अत्र विष्णुः (२२।२६-२८)-“ अदन्तजाते बाले प्रेते सद्य एव । नास्याग्निसंस्कारो नोदकक्रिया च । दंतजाते त्वकृतचौले त्वहोत्रेण" इति। चंद्रिकायाम्- “ स्त्रीणां तु पतितो गर्भः सद्यो जातो मृतोऽथ वा । अजातदंतो मासैर्वा मृतः षड्भिर्गतैस्तथा ॥ वस्त्रादिभूषितं कृत्वा न्युप्तव्यः स तु काष्ठवत् । खनित्वा तु शनैर्भूमौ सद्यःशौचं विधीयते ॥ जातदंतं मृतं खात्वा चरेदेकाहमेव तु" ॥ अंगिराः- अनुजातस्य तावत्स्यादाशौचं संस्थितस्य तु । यावत्स्नानं न कुर्वन्ति सचेलं बांधवा बहिः॥ इति । अनुजातो जातदंताद्वालतरः । अनुत्पन्नदंत इत्यर्थः । जमदग्निः- यो नामकरणात्पूर्व पंचत्वमुपगच्छति । गर्त एवोपगुयैनं स्नानाच्छुध्यन्ति गोत्रिणः॥ नामक्रियाया ऊर्ध्वं तु बालो यदि भवेन्मृतः । सद्यःशौचं सपिंडानां भूमौ निखनने कृते॥ “ दहेदा काष्ठवद्वालं क्षिपेदेकाहमेव तु । चूडीकृतेऽकृते वाऽपि जातदंतो मृतो यदि । आ त्रिवर्षातु दहने त्रिरात्रेणैव शुध्यति ॥ २५ ।
खननादिसंस्कारभेदेनाशौचभेदाः। [आशौच- - “ " " “खनने नैशिकी शुद्धिः सपिंडानां विधीयते” ॥ इति । यत्तु यमवचनम्- अदंतजाते तनये शिशौ गर्भच्युते तथा । सपिंडानां तु सर्वेषामहोरात्रमशौचकम् " ॥ इति । यदप्याश्वलायनवचनम्-“अदंतजाते पर्याते चैकरात्रम्” इति। पर्याते मृते। यदपि देवरातवचनम्- ५“ नाम्नो दंतोद्माच्चौलादुपनीतेरधः क्रमात् । सद्यःशौचमहस्यहो नियताग्न्युदकः परः ॥ इति यदपि संग्रहवचनम्-“प्राङ्नामकरणात्सद्य एकाहो दंतजन्मनः ” इति । दंतोत्पत्तेः पूर्वमेकाहाशौचविधायकमेतादृशं वचनं दाहनविषयमिति स्मृतिरत्नेऽभिहितम् । नन्वत्राग्निसंस्कारं निषेधति पराशरः ( ३१६) अजातदंता ये बाला ये च गर्भाद्विनिसृताः। न तेषामामिसंस्कारो नाशौचं नोदकक्रिया" ॥ इति । १० मनुरपि (५।६७-६९)---- " ऊनद्विवार्षिक प्रेतं निदध्युर्बाधवा बहिः । अलंकृत्य शुचौ भूमौ अस्थिसंचयनादृते॥ नास्य कार्योऽग्निसंस्करो नापि कार्योदकक्रिया । अरण्ये काष्ठवत् त्यक्त्वा क्षपये यहमेव तु ॥ “ नात्रिवर्षस्य कर्तव्या बांधवरुदकक्रिया” इति । ऊनद्विवार्षिकं अप्राप्ततृतीयवयसं निदध्यः निखनेयुः। अलंकृत्य शवं प्रक्षाल्य वस्त्रादिभिरलंकृत्य बहिर्यामादस्थिसंचयनादृते अस्थिसमूह- १५ वर्जितायां भूमौ । न केवलमूनद्विवाषिर्कस्य निखननमेव संस्कारः किंतु त्यागोऽपीत्याह-'अरण्ये काष्ठवत्' इति । त्यागपक्षे व्यहं क्षपयेत् ।व्यहमाशौचवान्भवेदिति यावत् । त्यागे उदकक्रियाऽपि न कर्तव्येत्यर्थः । याज्ञवल्क्योऽपि (प्रा. १-२)- ऊनद्विवार्षिकं प्रेतं निखनेन्नोदकं ततः । आ श्मशानादनुवज्य इतरो ज्ञातिभिर्वृतः ॥ यमसूक्तं तथा गाथां जपद्भिौकिकाग्निना । स दग्धव्य उपेतश्चेदाहिताग्न्यावृतार्थवत् "॥इति । २० ऊने अपरिपूर्ण द्वे वर्ष यस्यासावूनदिवार्षिकः। प्रेतं निखनेद्भूमाववटं खात्वा दक्षिणाशिरसं निक्षिप्य पांसुलोष्टादिभिः प्रच्छादयेत् । नोदकं ततः। न दहेदित्यर्थः । अग्निसंस्कारोदकक्रिययोः समनियत- त्वेन उदकनिषधे दाहस्यापि निषेधः । स च प्रेतो घृतेनाभ्यज्य यमगाथां गायद्भिर्निधातव्यः । ऊनदिवाषिर्क प्रेतं घृताक्तं निखनेद्भुवि । यमगाथां गायमानो यमसूक्तमनुस्मरन् ” ॥ इति यमस्मरणात् । ऊनद्विवार्षिकादितरः पूर्णद्विवर्षे यो मृतः असौ स्मशानपर्यंतं ज्ञातिभिः सपिंडैः २५ समनोदकैश्चानुव्रज्यः अनुगंतव्यः । अस्मादेव वचनादूनद्विवार्षिकस्यानुगमनमनियतमिति गम्यते । अनुगम्य च ‘परेयुवांसम्' इत्यादि षट्टचं यमसूक्तं यमगाथां योऽस्य कौष्ठ्य जगत' इति तिस्रः ऋचस्य जपद्भिलौकिकाग्निना संस्कृताग्निना दग्धव्यः। उपेतश्चेत्तस्याहिताग्नेरावृता दाहप्रक्रियया पात्र- योजनादिरहितया स्वगृह्यादिप्रसिद्धया लौकिकाग्निनैव दग्धव्य इत्यर्थः । कर्मप्रदीपिकाहाम्- कन्याबालकयोरूद्ध त्रयोविंशतिमासतः। उपोषणं तु कर्तव्यं तत्पूर्व खननं तयोः" ॥ ३० उपोषणं दहनमित्यर्थः । एवं चाग्निसंस्कारस्योनद्विवर्षमरणे निषिद्धत्वात् कथं दहननिबन्धन- मेकाहाद्याशौचमिति चेन्न । उक्तपराशरादिवचनानां नियताग्निसंस्कारनिषेधपरत्वात्। अतः अग्नि- संस्कारोदकदाननिषेधो नामकरणात्प्रागेव नित्यः । नोर्ध्वम् । यतो निषेधानंतरमेव नामकरणा- इंतजननादा ऊर्ध्वमग्निसंस्कारमुदकदानं चानुजानाति मनुः (५-६९)-"जातदंतस्य वा कुर्यान्नाग्नि वाऽपि कृते सति" इति। १ ख-नापिकार्योदकक्रिया। - काण्डम् ] ऊनद्विवर्षे प्रेते। ५०९ “ - लोकाक्षिरपीति- तूष्णीमेवोदकं कुर्यात्तूष्णीं संस्कारमेव च। सर्वेषां कृतौलानामन्यत्रापीच्छया द्वयम्" ॥ इति। "चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः। प्रथमाब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात् ॥ (२।३५) इति मन्वादिविहितकाले कृतचौलस्य सर्वस्य मरणे नियमेनाग्न्युदकदानं तूष्णीं कार्यम् । अन्यत्रापि नामकरणादूर्ध्वमकृतचोलेपीच्छया प्रेताभ्युदयकामनया द्वयमग्न्युदकात्मकं तूष्णीं कार्य न नियमे- ५ नेति चंद्रिकादौ व्याख्यातम् । अन्ये तु प्रथमेऽब्दे कृतचूडस्योनद्विवार्षिकस्य मृतस्याग्नि- दानमुदकदानं च तूष्णीममंत्रकं कुर्यात् । अन्यत्रापि तृतीयादिवर्षेऽप्यकृतचूडेच्छया द्वयं तूष्णीं कुर्यादित्याचक्षते । एवं च त्रिवर्षादिकृतचौलस्य एकर्चविधिना संस्कारः। स च वक्ष्यते । अजात- दंतस्यापि चूडाकरणे त्रिरात्राशौचमाह पराशरः- “जातदंतेऽनुजाते वा कृतचूडे च संस्थिते । अग्निसंस्करणे तेषां त्रिरात्रमशुचिर्भवेत्"॥ इति १० जाता दंता यस्यासौ दंतजातः । अनुजातः अनुत्पन्नदंत इत्यर्थः । षत्रिंशन्मते- यद्यप्यजातदंतः स्यात्कृतचूडस्तु संस्थितः । तथापि दाहयेदेनं व्यहं चाशौचमिष्यते " ॥ प्रथमसंवत्सरचूडाभिप्रायेण काश्यपोऽपि-“ बालानामदंतजातानां त्रिरात्रम्” इति । अंगिरा:- “विप्रे न्यूने त्रिभिर्वषैर्मृते शुद्धिस्तु नैशिकी । निर्वृत्तचूडके तस्मिन् त्रिरात्राच्छुद्धिरिष्यते ॥ इति । १५ वसिष्ठः (४।३४) “ऊनद्विवर्षे प्रेते गर्भपतने वा सपिंडामां त्रिरात्रम् ” इति । षडशीतो- द्वितीये प्रथमे वाऽब्दे चौलं यदि कृतं तदा । चौलप्रभृति सर्वेषां गोत्रिणां त्रिदिनं मतम् ॥ इति। माधवीये- अनतीतद्विवर्षस्तु प्रेतो यत्रापि दह्यते । आशौचं ब्राह्मणानां तु त्रिरात्रं तत्र विद्यते” ॥ चंद्रिकायाम्-“अनतीतद्विवर्षस्तु प्रेतो यत्रापि दह्यते। अतिमोहाभिभूतैस्तु देशसाधनमाचरन्॥ २० “ आशौचं ब्राह्मणानां तु त्रिरात्रं तत्र विद्यते” ॥ देशसाधनमाचरन् स्वदेशाचारमाचरद्भिरित्यर्थः। विभक्तिव्यत्ययः । मोहः स्नेहः । जातदंतस्याकृतचूडस्य दाहपक्षे अंगिरसाऽपि विशेषो दर्शितः- “ यद्यप्यकृतचूडो वै जातदंतस्तु संस्थितः । दाहयित्वा तथाप्येनमाशौचं व्यहमाचरेत् ॥ वसिष्ठोऽपि (४।३४ )-" ऊनद्विवर्षगर्भपतने सपिंडानां त्रिरात्रमाशौचं सद्यःशौचमिति गौतमः" इति । अग्निसंस्कारे सद्यःशौचमग्निहोत्रानुष्ठातृविषयम् ॥ २५ खननप्रभृत्याशौचम् । मृतस्य शिशोः यदा दिनान्तरे खननं दाहः त्यागो वा क्रियते तदा मृताहायेव सद्योहस्त्र्यहकल्पना खननादिसंस्कारोत्तरकालं वेति संदेहे निर्णय उक्तः संग्रहे- मृतस्य तु यदा दाहस्त्यागो वा खननं शिशोः । तदा तद्दिवसायेव सद्योहस्यहकल्पना"॥ इति। एतच्च खनित्वा शनकै मौ अरण्ये काष्ठवत्त्यक्त्वा दाहयित्वा तथाप्येनमिति लोकाक्षिमन्वंगिरसां वचनैः त्वाप्रत्ययेन खननाद्यनंतरमेव सद्यःशौचादिविधानादवगम्यते । इदं खननदिवसाद्याशौचं उपनयनपर्यंत बालमरणे वेदितव्यमित्येके । अन्ये तु-चौलात्पूर्व कालसंस्कारविषयं तत्रैव त्वाप्रत्ययश्रवणादित्याहुः । ननु दिनांतरे बालसंस्कारे पूर्वेयुराशौचाभावे कर्मानुष्ठानप्रसंगः इति चेन्मैवम् । “ सूतकं तु प्रवक्ष्यामि मृतिजन्मनिमित्तकम्” इति आशौचस्य मरणोत्पत्तिशिष्टत्वादेवं च मरणाद्याशौचस्य सत्त्वेऽपि खननाद्युत्तरकालमेव सद्यःशौचाद्यनुष्ठानमिति न विरोधः । 'खात्वा सद्यः शुचिर्भवेत्' इति ३५ ॥ 30 " ॥ ५१० सोदरासोदराणाम् । [ आशौच- समानकर्तृत्वस्मरणात् । खननसंस्कारकर्तुः पितृभ्रातृव्यतिरिक्तज्ञातेर्मातुलादेरपि सद्यःशौचमेव । अग्निसंस्कारे त्यागेऽपि कर्तुः पितृभ्रातृज्ञात्यादेस्तत्तदाशौचमेव । प्रेतक्रियाकरणे असपिंडस्य सयः- शुद्धिः । अत्र सर्वत्र सूतके दशाहात्परं बालमृतौ पित्रोतॄणां च सदा दशाहमचं भवति । बाले मृते सपिंडानां सब शौचं विधीयते । दशाहेनैव दंपत्योः सोदराणां तथैव च ॥ इति ५ व्याघ्रपादस्मरणात् । अत्र सोदरशब्दोऽसोदरस्याप्युपलक्षकः । तथा पैंगगृह्ये-"गर्भस्थे प्रेते मातुरेव स्यादाशौचं जात उभयोः । कृते नाम्नि सोदराणां भिन्नोदराणामप्येवम्” इति । अखंडादर्श च-“ज्ञातीनां स्नानमेव बालमरणे मातापितृसोदरभिन्नोदराणामपि दशाहमधं भवति" इति। दशकेऽपि-“जातमरणे पित्रोदशाहं सदा भ्रातुर्दशाहं परम्" । इति तयाख्याने विशेषः । भ्राताऽत्र सोदरः। स एव मुख्यः। तस्य नामकरणात्परं बालमृतौ दशाहमघं १० भवतीति । बृहस्पतिस्तु- " जातमात्रे मृते चापि दशाहात्पितरौ शुची । कृते नाम्नि सनाभीनां दशरात्रमधं भवेत् ॥ " भिन्नोदराणां भ्रातणां जातदंते मृते त्वघम् । दशाहं कृतचौले तु दत्तादीनां विधीयते" ॥ इति । याज्ञवल्क्यः ( प्रा. ३८)- " त्रिरात्रं दशरात्रं वा शावमाशौचमुच्यते । ऊनदिवर्ष उभयोः सूतकं मातुरेव हि " ॥ इति । १५ ऊनदिवर्षे संस्थिते उभयोरेव मातापित्रोदशाहमाशौचं न सर्वेषां सपिंडानाम् । तेषां तु "आ दंतजन्मनः सद्यः” इत्युक्ताशै चमित्यर्थः । स्मृत्यंतरे- "कृतचौडस्य विप्रस्य आ त्रिवर्षोपनायनात् । आशौचं तु त्रिरात्रं स्यात्पित्रोश्चैव तु सर्वदा" ॥ सर्वदेति यावद्दशाहमित्यर्थः । केचित्तु- "बाले मृते सपिंडानां सबःशौचं विधीयते । दशाहेनैव दंपत्योः सोदराणां तथैव च ॥ इति २. व्याघ्रवचनं नाभिच्छेदनादूर्व मृतबालविषयम् । सूतकानंतरमृतस्य बालस्य मातृपितृसोदराणां विरात्रमाशोचमिति वदन्ति । यथा विज्ञानेश्वरः-" यत्तु काश्यपवचनम्- दंतजातानां त्रिरात्रेण शुद्धिः” इति तन्मातापितृविषयम् । “बैजिकादपि संबंधादनुरुंध्यादधं व्यहम्” इति जनकोपाधिकतया त्रिरात्रस्मरणात्” इति।आश्वलायनोऽपि-“ओं दंतजाते च" इति । त्रिरात्रभित्यनुवर्तते चंद्रिकायाम् ॥ यत्तु पैठिनसिनोक्तम् “अकृतचूडानां त्रिरात्रम्” इति तन्मातापितृविषयम् । “ऊनदिवर्षे प्रेते मातापित्रोरेव नेतरेषाम्” इति स्मरणात् । अस्यायमर्थः ऊनद्विवर्षे प्रेते निखनने च कृते मातापित्रोरेव त्रिरात्रमाशौचम् । नेतरेषां सपिंडानां तेषामेकरात्रा- भिधानादिति । स्मृतिरत्नेऽपि--“बालानामदंतजातानां त्रिरात्रेण शुद्धिः” इति कात्यायनवचनं मातापितृविषयम् । अत एव मनुः ( ५/६२)- बैजिकादभिसंबंधादनुसन्ध्यादघं त्र्यहम्" इति ॥ षडशीतौ- " यत्रोपनयनात्पूर्वं पुत्रं प्रेतत्वमृच्छति । आशौचं त्रिदिनं तत्र मातापित्रोः समं तदा" ॥ स्मृत्यर्थसारेऽपि- " अनुपनीतमरणे मातापित्रोदशाहमाशौचपक्षो न दृश्यते” इति । अत्र यथास्वदेशाचारं व्यवस्था। अनुपनीतमरणाशौचम् । अनुपनीतमरणाशौचे त्रिभागादूर्ध्व स्पर्शमाह देवलः- "स्वाशौचकालाद्विज्ञेयं स्पर्शनं तु त्रिभागशः। शूद्रविट्क्षत्रविप्राणां यथाशास्त्रं प्रचोदितम् ॥ इति । । “ बालानाम- " “ - १ खग-माता । २ क्ष-अ। ३ क्ष-नादत ।
" ५ । १५ - काण्डम् ] अनुपनीतमरणाशौचे। एतच्चानुपनीतप्रयाणनिमित्तक्रांताशौचे वेदितव्यमिति विज्ञानेश्वरेणोक्तम् (पृ. १७३ पं. २०)। स्मृत्यर्थसारेऽपि—“अनुपनीतमरणाशौचे वर्णाः स्वाशौचकाले त्रिभागादूर्ध्वं स्पृश्याः । अनुप- नीतमरणश्रुतावतीताशौचं नास्ति । स्नानमेव । अनुपनीतमरणे समानोदकानामाशौचं नास्ति । इदं वयःप्रयुक्ताशौचं सर्ववर्णसमम्" इति । तथा चांगिराः- अविशेषेण वर्णानामर्वाक् संसारकर्मणः। त्रिरात्रं तु भवेच्छुद्धिः कन्यास्वह्नो विधीयते” । व्याघ्रोऽपि-“तुल्यं वयसि सर्वेषाम्” इति । वयसि षण्मासादिरूपे यत् सद्यःशौचादिविहितं तत्सर्वेषां ब्राह्मणादिवर्णानां तुल्यमविशिष्टमित्यर्थः । अत्र विज्ञानेश्वरः (पृ. १८२ पं. १२)- यथा पिंडोदकदानविधिः सर्ववर्णसाधारणः यथा बालसमानोदकशौचविधिः अंतरा- जन्ममरण' इति सन्निपाताशौचविधिश्च यदच्च “ गर्भस्रावे मासतुल्या" इति स्रावाशौचविधिः " प्रोषिते कालशेषः स्यादशेषे व्यहमेव तु” इति विदेशस्थाशौचविधिश्च सर्ववर्णसाधारणः १० तथा वयोवस्थानिमित्तमप्याशौचं साधारणमेव भवितुमर्हति । अत एव “क्षत्रे षद्भिः कृते चौले वैश्ये नवभिरुच्यते । ऊर्च त्रिवर्षाच्छूद्रे तु बादशाहो विधीयते "॥ तथा यत्र त्रिरात्रं विप्राणामाशौचं संप्रदृश्यते । तत्र शूद्रे द्वादशाहं षण्णव क्षत्रवैश्ययोः” ॥ इति ऋष्यशृंगादिवचनानि विगीतबुध्या अनाद्रियमाणैधीरेश्वरविश्वरूपमेधातिथिप्रभृतिराचार्य- रयमेव साधारणपक्षोंऽगीकृतः" । इति । नामकरणादिनिबन्धनाशौचक्रमः। एतच्च बालमरणाशौचं नामकरणादिसंस्कारनिबंधनं कालनिबंधनं च संस्कारावलंबेन कालावलंबेन च सद्यःशौचादिस्मरणात् । उक्तं च संग्रहे- कृते नामादिसंस्कारे प्राप्तकालेऽपि चाकृते। स्वकाले संस्कृते प्रेते यथा तद्वदिहाप्यघम्" ॥इति । “दशम्यामुत्थितायां स्नातायां पुत्रस्य नाम दधाति । जन्मनोऽधि षष्ठे मासि जन्मनोऽधि तृतीये वर्षे चौलं गर्भाष्टमेषु ब्राह्मणमुपनयीत” इत्यादि स्वस्वगृह्योक्तकालेषु नामकरणान्नप्राशनचौलोपनयनेषु २० कृतेषु दशम्यां नामकरणं षष्ठेऽन्नप्राशनं जातेषु दंतेषु वा ॥ चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः। प्रथमेऽब्दे तृतीये वा कर्त्तव्यं श्रुतिचोदनात् ॥ पंचमे वा व्रतक्षमे इत्यादिवैकल्पिकवचनानुरोधेन स्वगृह्योक्तकालात्पूर्वमेव नामादिषु कृतेषु च स्वगृह्यप्राप्तकाले दैवान्नामादिसंस्कारे अकृते च सति स्वकाले स्वगृह्यविहितकाले एकादशाहादौ नामादिभिः संस्कृते बाले प्रेते यथा ज्ञातीनामघं भवति तथैव स्वकालात्पूर्वकालकृतसंस्कार प्राप्तकाला-२५ कृतसंस्कारे च बाले मृतेऽपि ज्ञातीनामघमित्यर्थः। खननादिसंस्कारव्यवस्था । अत्रेयं व्यवस्था-नामकरणात्पूर्व शिशुमरणे निखननमेव नानुगमनाग्न्युदकदानादि । ज्ञातीनां सचैलस्नानाच्छाद्धः । तत उर्ध्वं दंतजननात्पूर्व मरणे निखननं तूष्णीं दहनं वा खननपक्षे सद्यःशुद्धिः । दहनपक्षे उदकदानादितूष्णीं पित्रा दर्भवर्ज कार्यम् । “अग्निना संस्कृतस्योक्ता पिंडदानोदकक्रिया" इति वचनात् । 'अकृतचौलस्य दर्भमंत्रवर्जम्' इत्यखंडादर्श-30 वचनाच्च । अनुगमनं कृताकृतं सपिंडानामेकाहः दहनं च शवं संस्नाप्यालंकृत्य ज्येष्ठपूर्व स्मशानं नीत्वा लौकिकाग्निना तूष्णीं कुर्यात् । लौकिकेष्वनादेयाग्नयः। स च चंडालायग्निव्यतिरिक्तो ग्राह्यः " चंडालाग्निरमेध्याग्निः सूतिकाग्निश्च कर्हिचित् । पतिताग्निश्चिताग्निश्च न शिष्टग्रहणोचितः”॥इति देवलस्मरणात् । अजातदंतस्य चूडाकरणे दहनं त्रिरात्राशौचं च तूष्णीमुदकदानादि । ३५ १ ख-हः।
खननादिव्यवस्था। [आशौच- . . दंतजननात्षष्ठमासाद्दा परं मृतस्य खननं दाहस्त्यागो वा संस्कारः। खननं तु शवं प्रक्षाल्य गोघृते- नाभ्यज्यालंकृत्य ग्रामादहिः श्मशानादन्यत्र नीत्वा अस्थिरहितशुद्धभूम्यामवटं कृत्वा यमगाथां यमसूक्तं च जपद्भिः प्रणवेन कार्यम् शुचौ देशेऽवटं खात्वा दभैः प्रच्छाद्य सर्वशः। घृताभ्यक्तं मृतं तत्र प्रणवेन विनिक्षिपेत् ॥ ५“मृतमाते तु निखनेद्भूमौ प्रणववर्जितम्” इति स्मरणात् । अत्रानुगमनं कृताकृतं नोदकदानादि । अत्रैकरात्रमाशौचम् । दाहश्च लौकिकाग्निना तूष्णीं कार्यः । उदकं पिंडदानं च दिनत्रयं दर्भवयं तूष्णीं कार्यम् । त्यागपक्षे पूर्ववदलंकृत्य ग्रामावहिः शुद्धदेशे अरण्यादौ त्यक्त्वा स्नातव्यं नात्रो- दकदानादि। “ नात्रिवर्षस्य कर्तव्या बान्धवैरुदकक्रिया " इति त्यागे खनने च तनिषेधात् । अत्र दाहे त्यागे च दिनत्रयमाशौचम् । जातदंतस्याकृतचूडस्य मरणे तूष्णीं दाह एव संस्कारः। १० तूष्णीमेव त्रिरात्रमुदकं पिंडदानम् । “पितुस्त्रिरात्रमाशौचं सपिंडाना आचौलात्खननसंस्कार एव शिष्टाचारानुगुणः । चौलात् त्रिवर्षाद्वा परं पंचमवर्षपर्यंतं कृतचौलस्याकृतचौलस्य वा मरणे यमगाथां यमसूक्तं च जपद्भिस्तूष्णीमग्निसंस्कारः कार्यः । लौकिक एव तुषाग्निरत्र ग्राह्यः । ब्रह्मचारी कपालाग्निस्तुषाग्निर्बालकन्ययोः” इति स्मरणात् । ज्ञातिभिरनुगमनं कार्यम् । नात्र घृतप्राशनाग्नि- स्पर्शादीतरेषामपि । १५“ अनूचानं क्रतुश्रेष्ठमनुपेतमनायकम् । अनुगम्य विनाज्याग्नी द्विजः स्नानेन शुध्यति”॥ इति स्मरणात्--कृतचूडस्याकृतचूडस्य वा तृतीयवर्षे ज्ञातिभिरप्युदकं दातव्यम् । “उदकदानं सपिण्डैः कृतजटस्य” इति (१४।३१ ) गौतमस्मरणात्-चतुर्थवर्षमारभ्य कृतचौलस्याकृतचौलस्य वा ज्ञातिभिर्मत्रवर्ण्य व्यहमुदकं दातव्यं दर्भमंत्रवर्जनं पिंडं च दद्यात् । “ उदकं पिंडदानं च व्यहं स्यात्तु त्रिवर्षतः । दशाहं पिंडदानं स्यादष्टमाब्दात्परं स्मृतम् ॥ “प्रेतपिंडं बहिर्दद्यादर्भमंत्रं विवर्जितम् ” ॥ इति स्मरणात् " पंचमवर्षमारभ्यास्थिसंचयनं अमन्त्रक कार्यम् । “ दाहायेवोदकं पिण्डं पञ्चमादस्थिसंचयः” इति स्मृतेः । मृतं दग्ध्वा त्रिरात्रेण त्रिवर्षादुदकं बलिम् । पञ्चमाद्यस्थिचयनं श्राद्धं कुर्याच्चतुर्दिनम् ” ॥ इति कात्यायनस्मृतेश्च । गौतमस्य विशेषमाह- पंचमाद्दत्सरादाक् मृतयोर्बालकन्ययोः । अस्थिसंचयनं तूष्णीं कुर्यादित्याह गौतमः " । इति । पंचमवर्षपर्यंतममंत्रक एवाग्निसंस्कारः। " तूष्णीमथोदकं कुर्यात्तूष्णीं संस्कारमेव च। सर्वेषां कृतचूडानामन्यत्रापीच्छया द्वयम् " ॥ इति लोकाक्षिस्मरणात् । षष्ठवर्षमारभ्य उपनयनपर्यंतमेकर्चविधिना संस्कृत्य तिलोदकपिंडदाननव- श्राद्धषोडशश्राद्धानि मंत्रवयं तंत्रत एव कुर्यात् । उपनयनात्पितृमधविधिना संस्कृत्य मंत्र- वत्कुर्यात् । अष्टमात्परं शांतिकर्म च कुर्यात् । ३० “ अष्टमात्परमेवास्य दृषत्स्थापनपूर्वकम् । उदकं पिंडदानं च कुर्यात्प्रेतस्य शान्तये ॥ "दर्भस्तंबे ततः पूर्व सर्व कर्म समाचरेत् । त्रिवर्षादुकं पिंडं श्राद्धं तं पंचमात्परम् ॥ अष्टमात्सकलं ग्राह्यं सपिंडीकरणं विना ॥ सप्तमात् द्वादशादूर्ध्व गृहस्थब्रह्मचारिणोः । सपिंडीकरणं कुर्यान्न प्रागिति यमोदितम् ॥ “ त्रिवत्सरात्परं नग्नच्छादनश्राद्धमाचरेत् । अष्टमावत्सरादूर्ध्वं नवश्राद्धानि षोडश ॥ ३५“ मृतं दग्ध्वा त्रिरात्रेण त्रिवर्षादुदकं बलिम् । अब्दादेवाष्टमादूर्ध्वमेकोद्दिष्टानि षोडश ॥ ० । २५ “ “ . - ॥ १५ काण्डम् ] त्रिवत्सरादूर्ध्वम् । ५१३ “ सप्तमाद्वत्सरादर्वाग्मृतयोर्बालकन्ययोः । पिंडोदकं त्रिरात्रेण ह्येकरात्रेण संकटे ॥ त्रीन् पिंडान्प्रथमे दद्यात् द्वितीये चतुरस्तथा । त्रीस्तु दद्यात्तृतीयेऽन्हि बालानां पिंडकल्पना ॥ शिशोस्त्रिवत्सरादूर्ध्वमुदकं पंचसप्ततिः । त्रिवर्षादुदकं पिंडं सर्वेषां तर्पणं भवेत् ॥ “ त्रिरात्रं पिंडदशकं त्रिंशद्दद्यात्तिलोदकम् । आदितस्त्रिदिने कार्य बालानां क्षुद्गरीयसी ॥ “ द्वादशावत्सरादाक्पौगंडमरणे सति । सपिंडीकरणं न स्यादेकोद्दिष्टादि कारयेत् " ॥ इत्यादीनि वचनानि द्रष्टव्यानि। पौगंडः पंचमवर्षाधिको बालः । अत्र विशेषमाहापस्तंबः “ अनुपेतान्कन्याश्च पुनर्दहनमंत्रेणैव दहेयुः” इति । पूर्णद्विवर्षमारभ्य उपनयनपर्यतं बालमरणे एकचविधिना संस्कुर्युरित्यर्थः । संचयनेऽपि विशेषमाह स एव- तृतीयेऽन्हि नवं कुंभमादाय दहनं व्रजेत् । जलेन पयसा चैव संप्रोक्ष्यास्थीन्यमंत्रतः ॥ तानि कुंभे समोऽप्याथ पयसा पूरयेद्घटम् । 'इदं त' इति मंत्रेण घटं कुर्यात्सुरक्षितम्" ॥ इति । १० 'इदं त एकम्' इत्येकर्चा । मंजर्यामपि- “त्रिवर्षादि दहेदेनमेकर्चाव्रतबंधनात् । 'अस्मात्त्वम्' इति मंत्रेण स्नात्वा दद्याजलाञ्जलिम्" || शौनकोऽपि- एकर्चविधिना कुर्याद्भगवांच्छौनकोऽब्रवीत् । अस्मात्त्वमिति मंत्रेण सर्वमंत्रो न विद्यते "॥ स्मृत्यंतरेऽपि- " त्रयोविंशतिमासात्तु मृतयोर्बालकन्ययोः । एकर्चा दहनं त्वस्थिपंचमात्परमव्रतात् ॥ तुषाग्निना दहेत्प्रेतमस्मात्त्वमितिमंत्रतः । कुर्यात्संचयनं त्वस्थि चैकर्चावतबन्धनात् ” ॥ अन्यत्रापि- पुंसां व्रतविधेः पूर्व दानात्पूर्व स्त्रिया अपि। अज्ञातगोत्रनाम्नां च पौगंडानां व्रतात्परम् ॥ राष्ट्रक्षोभे च सर्वेषां पुनीहनिवृत्तये । एकर्चविधिसंस्कारं भगवांच्छौनकोऽब्रवीत् ” ॥ इति । २० बोधायनोऽपि-“बालान् मृतान्वित्रिवर्षाद्यतीतान्यज्ञोपवीतस्य विधेः पुरस्तात् ॥ “ अमंत्रक चौलविधि विधाय मंत्रेण संस्कारविधि प्रदद्यात् " ॥ इति । चौलप्रभृत्युपनयनपर्यंतं सपिंडानामाशाचं त्रिरात्रम् । "द्विजन्मनामयं कालस्त्रयाणां तु षडाब्दिकः। आशौचं त्र्यहमेव स्यात्स्वजात्युक्तमतः परम् ॥ इति स्मरणात् । नामकरणप्रभृत्युपनयनपर्यंतं बालमरणे मातापित्रोमा॑तॄणां च दशाहमाशौचम् । २५ त्रिरात्रं वा देशाचारानुसारेण द्रष्टव्यम् । दशाहाशौचपक्षे अष्टमादिदिनत्रये पिंडोदकसमापनम् । कन्याशलकुमारेभ्यस्त्र्यहं पिंडोदकक्रियाः । कुर्याद्दशाहमाशौचं वर्तते नात्र संशयः॥ कन्याबालकुमाराणामष्टमादिदिनत्रये । पिंडोदके च निर्वर्त्य द्वादशे बलिमाचरेत् " ॥ इति स्मरणात् । बलिं नारायणं बलिम् । तथा बालस्य कन्यायाःषंढस्य पतितस्य च। नारायणबलिः कार्यो ह्यन्येषां मोक्षकांक्षिणाम्" ॥ इति ३० व्यासस्मृतेः । अयं च नारायणबलिश्चतुर्थवर्षमारभ्य कर्तव्यः । यदाह बोधायनः-“त्रिवर्षायुदकं पिंडं चतुर्थांद्युदकं बलिम्" इति । यत्तु गौतमवचनं-“ मृतं दग्ध्वा त्रिरात्रेण त्रिवर्षायुदकं बलिम्” इति अत्र बलिशब्देन पिंड- बलिरुच्यते। अन्ये तु बालमरणे सर्वत्र नारायणबलिमाचरंति । 'मृतं दग्ध्वा त्रिरात्रेण' इति “ " बालमरणे नारायणबालः। [आशौच- . दाहसमनंतरं यत् त्रिरात्रेण समापनमुक्तं तत्पितृभ्रातृव्यतिरिक्तसंस्कर्तृज्ञातिविषयम् । पितृभ्रातॄणां दशाहमाशौचिनामष्टमादिदिनत्रयेण समापनस्योक्तवात् । "दाहयित्वा तथाप्येनमाशौचं व्यहमाचरेत् । विरात्रमावतादेशाद्दाहादिव्यहमाशौचम्" इत्या- द्यगिरोयाज्ञवल्क्यादिवचनैर्शातीनां त्रिरात्राशौचविधानात्। यावदाशौचं प्रेतस्योदकं पिंडं च दद्युः। ५ “पूर्वाह्ने वाऽपराह्ने वा तोयमाशौचगामिभिः। संस्कāव बलियः स हि प्रेतस्य बांधवः” ॥ इति विष्णुसंवादिभिः यावदाशौचं पिंडोदकविधानात् । दाहकर्तुतेिस्त्रिरात्रेण समापनं दाहादि- त्रिरात्रमेवाशौचम् । यत्तु कैश्चिदुक्तम् दशाहं सोदकज्ञात्योः त्रिरात्रं योनिबंधुषु । विजातिषु शवोक्तं स्यात्प्रेतनिहरणे कृते"॥ इत्यत्र प्रेतनिर्हरणाभावेऽपि पिंडदानां दशाहसिद्धेः पुनरपि ज्ञातिग्रहणमनुपनीतनिहरणे दशाह- १० सिध्यर्थमिति न तत्र संग्रहकारवचने प्रमाणमस्ति । यदपि तेन प्रमाणमुपन्यस्तं मनुवचनम् (५।६३)- “ रजन्याऽन्हैव चैकेन त्रिरात्रैरेव च त्रिभिः । शवस्पर्शे विशुध्यंति व्यहात्तूदकदायिनः" ॥ इति नात्रानुपनीताशौचं प्रकृतम् । किंतर्हि ( ५।५९)- दशाहं शावमाशौचं सपिंडेषु विधीयते । अर्वाक् संचयनादस्थ्नां याहमेकाहमेव वा” ॥ इति १५ गुणाशौचमेव प्रकृतम् । मानवे च विवरणे श्लोकव्यं च व्याख्यातम्-“दशाहं निर्गुणेऽप्यसपिंडेषु अस्नामा संचयनाच्च इति चतुरहोपलक्षणम् । 'चतुर्थेऽन्हि संचयनम्' इति वचनात् । चतुरहं गुणवत्सु इत्यर्थः । व्यहं गुणवत्तरेषु एकाहं गुणवत्तमेषु 'रजन्याऽन्हैव चैकेन' इत्यहोरात्रस्य निर्देशः। 'त्रिरात्रैरेव च त्रिभिः' इति नवरात्रस्य दशभिरहोरात्रैरिति यावत् । शवस्य स्पर्शश्चेत् गुणवत्तमा अपि सपिंडा दशाहेन शुध्यति । उदकदायिनः समानोदकास्त्रिरात्रेण शुध्यंति इत्यर्थ” इति। २. एवं चानुपनीतदाहे कर्तुतिस्त्रिरात्रमाशौचम् । असपिंडस्य तु उदकपिंडादिप्रेतक्रियाया अकरणे सद्यःशुद्धिः। “असपिंडजिं प्रेतं विप्रो निर्हत्य बंधुवत् । अनदन्नन्नमन्हैव न च तस्मिन्गृहे वसेत्”॥इति प्रेतगृहवासतदन्नभोजनाभावे उपनीतासपिंडनिहींरेऽपि भनुना दिनमात्रविधानात् (५।१०१-२)। इत्यनुपनीतमरणाशौचम् ॥ अथ कन्यामरणाशौचम् । तत्रापस्तंबः- २५ “अचूडायां तु कन्यायां सद्यःशौचं विधीयते । एकाहं चूडितायां तु दत्तायां व्यहमिष्यते"॥ इति । मरीचिः-" चूडायाः करणे सद्यःशौचं प्राक् दानादेकाहं दत्तानां प्राक्परिणयात् व्यहम्" ॥ इति । व्यासोऽपि- आजन्मनस्तु चौलांतं कन्या यदि विपद्यते । सद्यःशौचं भवेत्तत्र सर्ववर्णेषु नित्यशः ॥ ततो वाग्दानपर्यंतं यावदेकाहमेव हि । ततःपरं प्रवृत्तीयां त्रिरात्रमिति निश्चयः॥ वाक्प्रदाने कृते त्वत्र ज्ञेयं चोभयतस्यहम् । पितुर्वरस्य च ततो दत्तानां भर्तुरेव हि ॥ स्यात्स्वजात्युक्तमाशौचं सूतके मृतके तथा "॥ इति । ततो वाग्दानपर्यंतमित्यादेरर्थ- चंद्रिकायामुक्तः-“ततः तस्माच्चौलाद्वाग्दानपर्यंतं कन्याविपत्तौ यावदेकाहं अहोरात्रं यावत्तावदा- शौचम् । ततः परं वाग्दानादूर्ध्वं विवाहोत्कर्षविषये वाग्दत्तावस्थयैव प्रवृद्धायां अधिकवयस्यपि “ . १ खग-स्पृशो । २ क्ष-त्रिगुणा । ३ क-त्रय ।
काण्डम् ] कन्यामरणाशौचम्। ५१५ त्रिरात्रमेवेति निश्चयः । वाग्दाने कृते विवाहे चाकृते यत्र कन्या विपद्यते तत्र उभयतः पक्षत्रयस्य दिनत्रयं ततो विवाहादूर्ध्वं दत्तानां सम्यक्प्रतिपादितानां मरणे अपत्यजनने वा केवलं भर्तृपक्षस्य स्वजात्युक्तं दशाहमाशौचं स्यात् । विवाहोत्कर्षवच्चूडाकरणवाग्दानयोरुत्कर्षे आ चौलात्सद्यः आ वाग्दानादेकाहमेवेति निश्चयः न्यायसाम्यादिति । अन्ये तु-चौलस्य कालोपलक्षणत्वादप्राप्ततृतीयवर्षायाः कन्याया मरणे सबःशौचम्। ५ तृतीयवर्षमारभ्य कृतचूडाया अकृतचूडाया वा मरणे आ वाग्दानादेकाहम् । अकृतेऽपि वाग्दाने गर्भाष्टमाब्दात्प्रागेकाहम् । ततोऽप्यकृते दाने अष्टमवर्षप्रभृति कन्यासपिंडानां त्रिरात्रमाशौचं भवति। दानशब्दस्य कालोपलक्षणत्वात् । 'अष्टवर्षा भवेद्वगौरी'। “गौरी वा वरयेत्कन्यां यष्टवर्षोष्टवर्षा वा । विवाहस्त्वष्टवर्षायाः कन्यायास्तु प्रशस्यते”॥ इत्यादिवचनैः प्रदानं प्रत्यष्टमवर्षस्यैव मुख्यकालत्वावगमात् । यधप्यत्र दानमुपलक्षणं तथापि साक्षात् १० दानक्रियायां निर्वृत्तायामेव वरपक्षस्यैतदधं भवति । अन्यथा वरपक्षस्यासंभवात् । अतोऽष्टमवर्ष- प्रभृत्यकृते दाने पितृपक्षस्य कन्यासपिंडस्य त्रिरात्राशौचमित्याहुः । त्रिरात्रमित्यस्य दृष्टे रजस्यपवादमाह शंखः "पितृवेश्मनि या नारी रजः पश्यत्यसंस्कृता । तस्यां मृतायां नाशौचं कदाचिदपि शाम्यति ॥ इति स्वजात्युक्तदशाहादिकालादाक् कदाचिदपि न शाम्यतीत्यर्थः । वाग्दत्ताया रजोदर्शने पितृवेश्मनि १५ या नारी रजः पश्यतीत्यादिवचनोक्तं द्रष्टव्यमिति चंद्रिकाधामुक्तम् । संग्रहे- आ चौलात्सद्य आ दानान्निशोचं त्वा विवाहतः । व्यहं कन्यामृती जातिष्वघं पूर्णमृतूद्भवेत् ॥ "त्रिरात्रं वरतद्ज्ञात्योर्दत्तानूढामृतावधम् । पूर्णं भ्रातुश्च पित्रोश्च कन्याबालमृतौ सदा" ॥ इति । स्मृत्यर्थसारे-“कन्यामरणे त्रिपुरुषविषयज्ञातीनामाचौलकरणादा चौलकालाद्दा स्नानेन शुद्धिः । स्त्रीषु सापिंड्यं त्रिपुरुषमेव । अप्रत्तासु ततो वाग्दानादागेकाहमाशौचं ततो विवाहादर्वाक्प्रति- २० पक्षेऽपि त्रिपुरुषपर्यंत त्रिरात्रं वाग्दानाभावे विवाहनिश्चयावधिरित्येके ” इति । स्मृत्यंतरे च-- "दत्ताऽनूढा च कन्या या संस्कार्या भर्तृगोत्रतः । उभयोर्वेशयोश्चैव त्रिरात्रमघमिष्यते " वारिपूर्व वाचा दत्ता अनूढा च या कन्या तस्या मृतौ वंशद्वयस्य त्रिरात्राशौचमित्यर्थः । “ वारिपूर्व प्रदत्ता या या नैव प्रतिपादिता । असंस्कृता सा विज्ञेया त्रिरात्रमुभयोः समम् "॥ इति । २५ मनुः-(५७१) स्त्रीणामसंस्कृतानां तु व्यहाच्छुध्यति बांधवाः । यथोक्तेनैव कल्पेन शुध्यंति च सनाभयः"॥इति । बांधवा वरसपिंडाःपितृपक्षीयास्त्रिपुरुषपर्यंताः कन्यासपिंडाश्च त्रिरात्रेण शुध्यति । सनाभयः सोदराः। ते मातापित्रोरप्युपलक्षणार्थाः । अतो मातापितृसोदरास्तु यथोक्तेन कालेन शुध्यतीत्यर्थः । "कन्याबालकुमारेभ्यस्त्रयहं पिंडोदकक्रियाः। कुर्याद्दशाहमाशौचं वर्तते नात्र संशयः" ॥ इति स्मृतेः। ३० पितृभ्रातॄणां कन्यामृतौ दशाहमाशौचमित्याहुः । अपरे तु- " प्रत्तांपत्तासु योषित्सु संस्कृतासंस्कृतासु च । मातापित्रोस्त्रिरात्रं स्यादितरेषां यथाविधि" ॥ इति । कार्णाजिनिस्मरणात् ॥ "अप्रत्तायां मृतायां तु कन्यायां च त्रिरात्रकम् । आशौचं बांधवानां तु पित्रादीनां प्रकीर्तितम् "॥इति मार्कडेयस्मरणाच्च त्रिरात्रमित्याहुः । यथादेशाचारमत्र व्यवस्था । ३५ ॥ - तथा मरीचिः- ॥ १क्ष-पृक्तापूक्तासु। 4 ऊनद्विवर्षाया ऊढायाः। [आशौच- - - कन्यायाः खननादिसंस्कारो बालवदेव द्रष्टव्यः । उदकादिकमपि तद्वदेव । अत्र गौतमः (१४।३१-३३)-"उदकदानं सपिंडैः कृतचूडस्य । तत्स्त्रीणां चैके प्रत्तानाम्" इति । अस्यार्थः तदुदकदानं स्त्रीणां कृतचौलानां च कर्तव्यम् । एके मन्यन्ते प्रत्तानामेव स्त्रीणामुदकदानं भर्तृपक्षे अप्रत्तानां तु नैवोदकदानमिति । ५ बोधायनोऽपि- अप्रत्तासु च कन्यासु प्रत्तास्वेकेह कुर्वते । लोकसंग्रहणार्थ हि तदमंत्राः स्त्रियो मताः" ॥ इति । ऊनद्विवर्षाया ऊढायाः संस्कारक्रमः । खननादिविकल्पोऽनूढाविषय एव । ऊढासु तृतीयवर्षा- त्प्रागपि दाह एवं "त्रिवर्षात्याग्विवाहेऽपि मरणं याति कन्यका । निखनेद्वा क्षिपेद्वाऽपि पुनःसंस्कारमर्हति" ॥ इति १० स्मरणात् । खननत्यागयोः संस्कारत्वेऽपि पुनर्विधानाद्दाह एव संस्कार इति केचियाचक्षते । अपरे तु खनित्वा पुनरुत्थाप्य दहेदिति । तथा च रूपर्यते- " ऊनद्विवर्षादक्तु ऊढायाः खननं भवेत् । उत्थाप्य संदहेत्पश्चात्सापिंड्यं तं समाचरेत् ॥ “ऊनद्विवर्षकन्यायाः पाणिग्रहणकर्मणि । खनित्वा निक्षिपेद्यामं पुनः संस्कर्तुमर्हति"॥ इति च । सपिंडीकरणांतं च कर्म कर्तव्यम् । तदुक्तं गृह्यपरिशिष्टे १५ “ अष्टमाद्वत्सरादूर्ध्व गृहस्थब्रह्मचारिणोः। सपिंडीकरणं कुर्यान्न प्रागिति यमोदितम् ॥ "द्वादशाब्दादथाप्याक् गृहस्थस्य सपिंडनम् । तथोढायाश्च कर्तव्यं द्वादशात्परमन्यथा" ॥ अन्यथा अनूढाया इति द्वादशाब्दात्परं सपिंडनमित्यर्थः। मार्कडेयः- स्त्रीणामुपनयनस्थाने विवाहः परिकीर्तितः । सर्वा एव क्रियाः कार्यास्तत ऊर्ध्व समंत्रकाः॥ उद्दाहितानां नाशौचं पितृपक्षे विधीयते”। पितृगोत्रतः पिंडाशौचनिवृत्तौ हेतुमाह पैठिनसिः-- दत्ता कन्या परैव भवति" इति । ऊढा कन्या भर्तृगोत्रैव भवतीत्यर्थः । " एकत्वं सा गता भर्तुः पिंडे गोत्रे च सूतके” इति स्मरणात् । स्वगृहे पुत्रीप्रसवादिनिमित्ताशौचम् । अत्र विशेषमाह विष्णुः (२२।३१-३३)-"स्त्रीणां विवाहः संस्कारः संस्कृतासु स्त्रीषु नाशौचं पितृपक्षे । तत्प्रसवमरणे चेत्पितृपक्षगेहे भवेतां तदैक- रात्रं त्रिरात्रं वा” इति । स्वगृहे प्रसवे मरणे वा पितृव्यादिबांधवानामेकरात्रं पित्रोस्त्रिरात्रमित्यर्थः। २५ तथा च व्यास:- दत्ता नारी पितुर्गेहे सूयेताथ म्रियेत वा । तद्वंधुवर्गस्त्वेकेन शुचिस्तज्जनकस्त्रिभिः" ॥ इति । अत्र जनकग्रहणं जनन्याः सोदरभ्रातॄणां च प्रदर्शनार्थं तेन पितृगृहे प्रसवे मातापितृम्नेदरभ्रातृणां त्रिरात्रं तत्रैव प्रसवे पितृव्यमातुलादिबंधूनामेकरात्रमिति च चंद्रिकायां व्याख्यातम् ॥ भारद्वाजोऽपि- बंधूनां मातुलादीनां प्रसूतिर्मरणं गृहे । तेषामेकाहमाशौचं पितुस्तु व्यहमेव च”॥ इति । दीपिकायाम्- “ पितृगेहे मृतायां तु प्रत्तायां दुहितर्यपि । सूतिकायां च व्यहं पित्रोस्तत्सुतानां दिनं भवेत् ॥ पितृगेहे भवेदेवं दिनमन्यत्र नेष्यते । स्ववेश्मनि मृतायां तु तत्पित्रोस्तु व्यहं भवेत् ॥ " तदभावे तत्सुतानामेकस्मिन्भवने यदि " । इति । " --- २०० ३० C " ॥ इति। ५ “ “ १५ काण्डम् ] पितृगृहे कन्यामृतौ। ५१७ षडशीतौ-“यत्र तूद्वाहिता कन्या पितृगेहे प्रमीयते । पित्रोस्त्रिदिनमन्येषां चाहरित्येक ऊचिरे ॥ “ पितुर्गेहादतोऽन्यत्र यदि पुत्री प्रमीयते । पक्षिणी तत्र पित्रोस्तु नान्येषामिति निश्चयः॥ “एवं भ्रातृगृहे यत्र भगिनी वा विपद्यते । भ्रातुस्त्रिदिनमाशौचं भ्रातृव्याणां तु नैव हिं"॥ इति । संग्रहे- बंधुष्वहस्यहं पित्रोरूढा तत्तद्गृहे यदि । प्रसूताऽन्यगृहे सूता मृता वा तस्य नास्त्यघम् अन्यगृह इति अन्यस्य गृहे अन्या यदि सूता मृता वा तस्यान्यस्याचं नास्तीत्यर्थः । शंखः-“गृहे मृतासु दत्तासु प्रसूतासु व्यहं तथा" इति । स्मृत्यंतरे विशेषः- यदि कन्या पितुर्गेहे पुमांसं जनयेत्तदा । त्रिरात्रं सूतकं पित्रोः कन्यासूतौ तु पक्षिणी" ॥ इति । अत्र चंद्रिकायाम्-“ मातापित्रोः स्वगृहे जनने मरणे वा त्रिरात्रं गृहांतरेऽपि मरणे त्रिरात्रं प्रसवे तु पित्रोरपि नास्त्याशौचं कारणाभावात्स्वगृहप्रसूतिनिबंधनत्वात् त्रिरात्राशौचस्य" ॥ इति । १० अत्र केचित्प्रसवार्थमर्थदाने सति अन्यगृहे पुत्रीप्रसवेऽपि पितुस्व्यहमनुष्ठेयमिति लोकाचारानुसारेण वदंति। बंधुव्यतिरिक्तस्यान्यस्य गृहे कस्याश्चित्प्रसवे मरणे वा तस्यान्यस्य तद्गृहस्यपि नाशौचम् । श्रोत्रिये तूपसंपन्ने त्रिरात्रमशुचिर्भवेत् । अश्रोत्रिये त्वहः कृत्स्नमनूचाने तथा गुरौ" ॥ इति मनुना (५।८०) श्रोत्रियाश्रोत्रियपुरुषोल्लेखेनैव गृहवासिजननमरणाशौचस्मरणात् । न स्त्री- मृताविदं किंचिदिति च स्त्रीमरणे उपसंपन्नाशौचस्य निषेधात् । " द्रव्याणि स्वामिसंबंधात्तदघे त्वशुचीनि वै । स्वामिशुध्धैव शुध्यंति वारिणा प्रोक्षितान्यपि "॥ इति स्मृत्या पुरुषस्याशौचसंभवे स्वामिसंबंधद्वारा तद्गृहद्र्व्यकर्मणां दुष्टत्वात् । अतः स्वामिन आशौचाभावे तद्गृहस्यापि नाशौचम् । यत्तु स्मर्यते- न तावच्छुध्यते भूमिः यावत्तत्स्यादनिर्दिशम् । न तत्र कर्म कुर्वीत पितृदेवादिकं कचित्”॥ इति २० तत्प्रेतक्रियाकरणे वेदितव्यम् । दहनांतं गृहाशौचं यत्र पिंडोदकक्रिया । दशरात्रमिति ज्ञेयं प्रेतस्तत्रैव तिष्ठति”॥ इति स्मरणात् । अस्त्वेवं मृतिविषये । प्रसवे अन्यस्य गृहस्य वा कथं सूतकाभाव इति चेन्मैवम् । गरीयसोऽपि शाबाशौचस्याभावोक्त्या सूतकाभावस्य कैमुत्यसिद्धेः । तत्सद्भावे प्रमाणाभावाच्च । न हि क्वचिदपि बंधुव्यतिरिक्तान्यस्य गृहस्य वा शौचप्रतिपादकं प्रमाणं दृश्यते। अतः स्वामिन २५ आशौचे सति तगृहे दैवपित्र्यादिकं कर्म न कार्यम् । गृहस्वामिन आशौचाभावेऽपि तत्र प्रेत- क्रियाकरणे दैवपित्र्यादि कर्म न कर्तव्यम् । गृहस्वामिन आशौचाभावे तत्र प्रेतकार्यस्याकरणेन प्रसवमरणनिमित्तमाशौचं गृहस्येति निर्णयः । अथोपनीताशौचम् । तत्र याज्ञवल्क्यः (प्रा. २३)- “ त्रिरात्रमा व्रतादेशाद्दशरात्रमतः परम्" ॥ इति । व्रतादेश उपनयनम् । ततः गर्भसप्तमा-३० दब्दादा परं बाल्ये यौवने वार्धके वा मरणे दशरात्रमाशौचं भवतीत्यर्थः । तथा दीपिकायाम्- " अनुपेत उपेते वा मृते गर्भाष्टमे समे। ब्राह्मणानां सपिंडानां दशरात्रमधं भवेत् " ॥ अस्मिन्विषये मनुरपि (५।५९)—“दशाहं शावमाशौचं सपिंडेषु विधीयते” इति । एतच्च ब्राह्मणविषयम् । १ क्ष-त्रपवने । २ क्ष-नस्मृताविदे।
५१८ उपनीताशौचम् । [ आशौच- “ " “ “शुध्येद्विप्रो दशाहेन द्वादशाहेन भूपतिः। वैश्यः पंचदशाहेन शूद्रो मासेन शुध्यति" ॥(१८२) इति तेनैवोक्तत्वात् । पारस्करश्च-" उपनीतस्य पूर्णाघम् " ॥ इति । यत्तु याज्ञवल्क्येनोक्तम् (प्रा. १८)-“त्रिरात्रं दशरात्रं वा शावमाशौचमिष्यते” इति तत्र त्रिरात्रमित्येतत्समानोदक- विषयम् । ५ एवमेव बृहस्पतिः- “दशाहेन सपिंडास्तु शुध्यंति प्रेतसूतके । त्रिरात्रेण सकुल्याश्च स्नात्वा शुध्यंति गोत्रजाः” ॥ इति सकुल्याः समानोदकाः। सपिंडादीनां भेदः पूर्वमेवोक्तः। जाबालिरपि “व्यहं समानोदकानां गोत्र- जानामहः स्मृतम्” इति । अतः सपिंडानां सप्तमपुरुषावधिकानामविशेषेण दशरात्रं समानोदकानां तु त्रिरात्रम् । यत्पुनः शंखवचनम्- १० “ चतुर्थे दशरात्रं स्यात्षण्णिशाः पुंसि पंचमे । षष्ठे चतुरहाच्छुद्धिः सप्तमे त्वहरेव तु” ॥ इति तद्विगीतत्वादनादरणीयम् । यद्यप्यविगीतं तथापि मधुपर्कागपश्वालंभवल्लोकविद्विष्टत्वान्नानुष्ठेयम् ॥ अस्वयं लोकविद्विष्टं धर्म्यमप्याचरेन्न तु” इति मनुस्मरणात् । न च सप्तमे प्रत्यासन्ने सपिंडे एकाहो विप्रकृष्टाष्टमादिषु समानोदकेषु व्यह इति युक्तम्" इति विज्ञानेश्वरेणोक्तम् (पृ. १७३ पं. ५-१०)—यदपि मनुनोक्तम् ( ५।५९)- १५ “ दशाहं शावमाशौचं सपिंडेषु विधीयते । अर्वाक् संचयनादस्थ्नां व्यहमेकाहमेव वा ॥ इति । तत् “कुसूलधान्यको वा स्यात्कुंभीधारयक एव वा। व्यहैहिको वापि भवेदश्वस्तनिक एव वा ॥ इति । तत्प्रतिपादितचतुर्विधगृहस्थाभिप्रायमिति विज्ञानेश्वरेणोक्तम्-पराशरोऽपि ( ३५-६ )- एकाहाच्छुध्यते विप्रो योऽग्निवेदसमन्वितः । व्यहात्केवलवेदस्तु निर्गुणो दशभिर्दिनैः ॥ " जन्मकर्मपरिभ्रष्टः संध्योपासनवर्जितः । नामधारकविप्रस्तु दशाहं सूतकी भवेत् ” ॥ इति । अग्निशब्देनाहवनीयादयो गृह्यते । अयमाशौचसंकोचो बहुतरसपिण्डस्य संकुचितवृत्तेः प्रतिग्रहादौ द्रष्टव्यः । एवं च सत्येकाहविधानमश्वस्तनिकविषयं व्यहविधानं व्याहिकविषयम् । असंकुचित- वृत्तेस्तु दशाहमिति व्यवस्था । अग्निवेदसमन्वितत्वमश्वस्तनिकस्यैकाहाशौचविधिः स्तुत्यर्थः । जन्मकर्मपरिभ्रष्टः गर्भाधानादिसंस्काररहितः संध्योपासनादिनित्यनैमित्तिकान्यकुर्वाणः। अत एवासौ नामधारकविप्रो भवति । तस्यापि दशाहमेवाशौचमिति माधवीये व्याख्यातम् । २५ उक्तार्थाभिप्रायेणैव बृहस्पतिरपि- त्रिरात्रेण विशुध्येत विप्रो वेदाग्निसंयुतः । पंचाहेनाग्निहीनास्तु दशाहात् ब्राह्मणब्रुवः” ॥ पितामहोऽपि- एतत् ज्ञात्वा तु मेधावी जपं होमं करोति यः । न भवेत्सूतकं तस्य मृतकं च न विद्यते "॥ एतद्गायत्रीयाथार्थ्यम् । दक्षोऽपि- ३० “ ग्रंथार्थतो विजानाति वेदमंगैः समन्वितम् । सकल्पं सरहस्यं च क्रियावांश्चेन्न सूतकम् देवलोऽपि- चत्वार्यधीतवेदानामहान्याशौचमिष्यते । वेदाग्नियुक्तविप्रस्य व्यहमाशौचमिष्यते ॥ " एताभ्यां श्रुतयुक्तस्य दिनमेकं विधीयते । एतैः साकं कर्मयुक्तः सद्यः शुचिरसंशयः ॥ १ याज्ञवल्कीय आचारे १५६ “ - - “ १५ काण्डम् ] कृतसमावर्तनस्याशौचम् । ५१९ “अस्नात्वा चाप्यहुत्वा च अदत्वा च तथा द्विजः। एवंविधस्य विप्रस्य सर्वदा सूतकं भवेत्” ॥ इति । स्मृत्यर्थसारे-“दशाहस्थाने त्रिरात्रपक्षिण्येकाहसघःशौचपराणि वाक्यान्यापद्विषयाणि योज्यानि। समानोदकविषयाश्च सकुंचिताशौचकल्पाः पक्षिण्येकाहसबःशौचरूपा आपद्विषयाः ” इति । एवमादिकोऽघसंकोचो युगांतरविषय इति स्मृतिरत्ने । तथा च हारीतः- दशाह एव विप्रस्य सपिंडमरणे सति । कल्पांतराणि कुर्वाणः कलौ व्यामोहकिल्बिषी” ॥ इति। ५ चंद्रिकायामपि- वानप्रस्थाश्रमस्यापि प्रवेशो विधिचोदितः । वृत्तः स्वाध्यायसापेक्षमघसंकोचनं तथा ॥ एतानि लोकगुप्त्यर्थ कलेरादौ महात्मभिः । निवर्तितानि सर्वाणि व्यवस्थापूर्वकं बुधैः” ॥ इति । अतो गुणवतो निर्गुणस्यापि सपिंडस्य दशाहमेवाशौचं समानोदकस्य व्यहमिति विवेकः । ब्रह्मचारिणः सद्यःशौचम् । ब्रह्मचर्योत्तरकालं कृतसमावर्तनस्याशौचमाह मनुः (५।८७)- १० "आदिष्टी नोदकं कुर्यादा व्रतस्य समापनात् । समाप्ते तूदकं कृत्वा त्रिरात्रमशुचिर्भवेत्” ॥ इति । आदिष्टं व्रतं समावर्तनं तद्वानादिष्टी ब्रह्मचारी व्रतस्थब्रह्मचर्यस्य आ समापनात् पित्रादिव्यति- रिक्तस्य नोदकं कुर्यात्पित्रादिनिर्हारे कुर्यादेव । “ आचार्य स्वमुपाध्यायं पितरं मातरं गुरुम् । निर्हत्य तु व्रती प्रेतं न प्रेतेन वियुज्यते ॥ " मातामहं मातुलं च तत्पल्यौ चानपत्यके । प्रतिसंस्कुरुते यस्तु व्रतलोपो न तस्य हि ॥ " ब्रह्मचारी यदा कुर्यात्पिडनिर्वापणं पितुः । तावत्कालं तदाशौचं ततः स्नात्वा विशुध्यति ॥ आचार्यपित्रुपाध्यायान् निर्हत्यापि व्रती व्रती । संकटान्नं च नाश्रीयान्न च तैः सह संवसेत् ॥ दहनादिसपिंड्यंतं ब्रह्मचारी करोति चेत् । अन्यत्र मातापित्रोः स्यादुपनीय पुनर्वती ॥ आचार्य स्वमुपाध्यायं गुरुं वा पितरं च वा । मातरं वा स्वयं दग्ध्वा व्रतस्थस्तत्र भोजनम् ॥ कृत्वा पतति यत्तस्मात्प्रेतान्नं नात्र भक्षयेत् । अन्यत्र भोजनं कुर्यान्न च तैः सह संविशेत् ॥ “ एकाहमशुचिर्भूत्वा द्वितीयेऽहनि शुध्यति" ॥ इति मनुभृगुयाज्ञवल्क्यादिस्मरणात् । — समाप्ते तूदकं कृत्वा' इति समाप्ते ब्रह्मचर्ये कृतसमावर्तनस्य सपिंडमरणे सति त्रिरात्रमाशौचं भवेदित्यर्थः । तथा मानवे व्याख्याने स्मृतिरत्ने च समाप्ते ब्रह्मचर्ये कृतसमावर्तनस्याकृतविवाहस्यायं त्रिरात्रविधिरिति । एवं च “ अनाश्रमी न तिष्ठेत्तु दिनमेकमपि द्विजः ” इति वचने सत्यपि “ त्रिरात्राशौचविधायकविशेषवचनेन त्रिरात्राशौचोदकदानानंतरमेवोदाह ” इति युक्तम् ।२५ विज्ञानेश्वरीये विशेषः । ब्रह्मचर्योत्तरकालं पूर्वमृतानां सपिंडानामुकदानमाशौचं कुर्यादेव । यथा मनुः ( ५।८७ )- आदिष्टी नोदकं कुर्यादा व्रतस्य समापनात् । समाप्ते तूदकं दत्वा त्रिरात्रमशुचिर्भवेत्" ॥ आदिष्टीति ब्रह्मचर्यस्य “ अपोशानकर्म कुरु मा दिवा स्वाप्सी:” इत्यादि वतादेशयोग्यो ब्रह्म- चार्युच्यते । आचार्यः पुनरेव मन्यते आदिष्टीति प्रक्रांतप्रायश्चित्तः कथ्यते तस्यैवायमुदकदानादि-३० निषेधः प्रायश्चित्तरूपव्रतसमाप्त्युत्तरकालमुदकदानाद्याशौचविधिरिति । दशकटीकायां तु कृच्छ्रचांद्रायणवेदपारायणब्रह्मचार्यविवाहयज्ञादिपरिसमाप्तिर्यदा आशौचकालमध्ये स्यात्तदा शेषा- शौचमनुष्ठेयम् । यस्याशौचकालादूर्ध्व परिसमाप्तिः स्यात्तदा मरणविषये अतिक्रान्ताशौचमनुष्ठेयम् । अत्र मनुः ‘आदिष्टी नोदकं कुर्यात्' इत्यादि व्रतस्यादिष्टमित्यादिष्टी वती ब्रह्मचारी । स. . . ૨ ૦ .
५२० अनौरसपुत्रजननाद्याशौचम् । [आशौच- ऋत्विदीक्षितानामप्युपलक्षणार्थः । अत्र ‘समाप्ते तूदकं कृत्वा ' इत्येतत् अतिक्रांते दशाहे च त्रिरात्रमशुचिर्भवेत्” इत्यस्यानुवादकम् । अतो वतिनां जातिमरणे सति संवत्सरादूर्ध्व व्रत- समाप्तिश्चेत्सद्यः शौचमेवेति । शतकेऽपि- "कृच्छ्रादीनां समाप्तिश्चेदघे शिष्टाहमिष्यते । तद्वहिश्वेत्र्यहादि स्यादित्याह भगवान्मनुः” ॥ इति । ५ तद्व्याख्याने आदिशब्देन वेदपारायणप्रायश्चित्तव्रतादीनामुपसंग्रहः । एतेषां समाप्तिर्यद्यघमध्ये स्यात्तदा शिष्टाहविधिर्भवति । तत्परं चेत्समाप्तिः तदा “त्रिरात्रं त्रिषु मासेषु” इत्युक्तविधिः स्यात् तथाह मनुः (५/८७ )- “आदिष्टी नोदकं कुर्यादा व्रतस्य समापनात् । समाप्ते तूदकं कृत्वा त्रिरात्रमशुचिर्भवेत् "॥ इति । त्रिरात्रामति पाक्षिण्यादेरप्युपलक्षणम् । कृच्छ्रव्रतादिकमस्यादिष्टमित्यादिष्टी व्रती ब्रह्मचारी च । ब्रह्मचर्यव्रतस्याप्यादिष्टत्वात् । अतः व्रतसमाप्तिपर्यंतमादिष्टी उदकमाशौचं च न कुर्याद्वत्सरमध्ये तत्समाप्तौ व्यहाद्याशौचमुदकदानं च कुर्यात्तत्परं उदकमात्रमेव । “ सर्वेषां वत्सरे पूर्णे प्रेते दत्वोदकं शुचिः” इति याज्ञवल्क्यस्मरणादिति । एवं च अघमध्ये ब्रह्मचर्यसमाप्तौ शिष्टाहविधिः । अघात्परं वत्सरमध्ये ब्रह्मचर्यसमाप्तौ व्यहपक्षिण्यहो- रात्रविधिरुदकं च वत्सरात्परं तत्समाप्तौ उदकमात्रमेवेति विज्ञानेश्वरादिभिरुक्तम् । एतच्च १५ शिष्टाचारविरुद्धम् । न हि विवाहात्पूर्व व्यहमाशौचमुदकं चानुतिष्ठन्ति । अतः “समाप्ते तूदकं कृत्वा त्रिरात्रमशुचिर्भवेत् ” इति कृतसमानर्तनस्याकृतविवाहस्यायमपूर्वस्त्रिरात्रविधिरिति यदुक्तं तदेव युक्तमित्याहुः। अनौरसपुत्रजननाद्याशौचम् । अनौरसपुत्रजननाद्याशौचमाह विष्णुः-(२२।४२) " अनौरसेषु पुत्रेषु जातेषु च मृतेषु च । त्रिरात्रेण भवेच्छुद्धिरेकाहं तु सपिंडतः ॥ परपूर्वासु भार्यासु प्रसूतासु मृतासु च” ॥ इति । अनौरसाः क्षेत्रजादयः । तानाह मनुः ( ९।१५९-१६०)-- " औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च । गूढोत्पन्नोऽपविद्धश्च दायादा बांधवास्तु षट् ॥ “कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा। स्वयंजातश्च शूद्रश्च षडदायादबांधवाः" ॥ इति । एतेषु क्षेत्रजादिषु जातेषु मृतेषु च दत्तादिषु मृतेषु द्विविधयोरपि पित्रोस्त्रिरात्रेण शुद्धिः । उभयविध- ज्ञात्योरेकाहाच्छुद्धिः । परो वर्तमानभर्तुरन्यः पूर्वो भर्ता यस्याः सा परपूर्वी पुनर्भूरिति यावत् । परपूर्वभार्यामरणे पूर्वपरयोर्भस्त्रिरात्रं उभयविधसपिंडानामहोरात्रमाशौचमित्यर्थः। तथा च हारीतः- परपूर्वासु भार्यासु पुत्रेषु कृतकेषु च । मातामहे त्रिरात्रं स्यादेकाहस्तु सपिंडतः ” इति। कृतकः पुत्रो जन्मव्यतिरिक्तैः कारणैर्जातो दत्तादिः। वाक्यार्थस्तु मातामहे मृते दौहित्रस्य त्रिरा परपूर्वी- भरणे भोंस्त्रिरात्रं कृतकपुत्रमरणे प्रतिग्रहीत्रादिरूपपितुस्त्रिरात्रं तत्सपिंडानामहोरात्राशौचमिति । ३० स्वैरिणीभर्तृणामपि त्रिरात्रमाह व्यासः- “ परपूर्वासु भार्यासु पुत्रेषु कृतकेषु च । त्रिरात्रं स्यात्तथाचार्ये स्वभार्यास्वन्यगासु च" ॥ इति । शंखोऽपि- अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च । परपूर्वासु च स्वासु त्रिरात्राच्छुद्धिरिष्यते " ॥ इति । मरीचि:-“सूतके मृतके चैव त्रिरात्रं परपूर्वयोः। एकाहस्तु सपिडानां त्रिरात्रं यत्र वै पितुः ॥ इति ५ जनकपितुरपि त्रिरात्रमाह मनुः ( ५।६२)-- २० “ C काण्डम् ] भिन्नपितृकोदराणाम् । ५२१ " । बैजिकादपि संबंधादनुरुंध्यादधं व्यहम् । इति । अनुपनीतक्षेत्रजादिविषये प्रजापतिः- “ अत्याहृतेषु दारेषु परनारीसु तेषु च । गोत्रिणः स्नानशुद्धाः स्युः त्रिरात्रेणैव तत्पिता" ॥ इति । भिन्नपितृकसोदरविषये मरीचिः- मात्रैकया द्विपितृको भ्रातरावन्यगोचरौ । एकाहं सूतके प्रोक्तं त्रिरात्रं मृतके तयोः "॥ संग्रहे. “जनने क्षेत्रजादीनां तत्पित्रोस्न्यहमिष्यते । तत् ज्ञात्योदिनमेवेत्थमुपेतानां मृतौ न चेत् ॥ "पित्रोरूयहं तयोः सद्यस्यहं तेषां पितृक्षये” इति । क्षेत्रजादीनामुपेतानां मृतावित्थमेव पित्रोस्यहं तत् ज्ञात्योर्दिनमित्युक्तमेव चेदनुपनीतानां मृतौ पित्रोत्यहं तयोः तत् ज्ञात्याः सबःशौचं । पित्रोः क्षये क्षेत्रजदत्तादीनामपि व्यहमित्यर्थः । तत्रैव- “पराश्रिताया भार्याया मृतौ पत्योस्त्रिरात्रकम् । तत्पक्षयोर्दिनं तस्यास्यहं भोश्च संस्थितौ” ॥ इति । १० याज्ञवल्क्यस्तु (प्रा. २५)—“ अनौरसेषु पुत्रेषु भार्यास्वन्यागतासु च” इति । अत्र विज्ञानेश्वरः (पृ. १८३ पं.२४)—“अहरित्यनुवर्तते। अनौरसाः क्षेत्रजदत्तादयः । तेषु जातेषु उपरतेषु वा पित्रोरहोरात्रमाशौचम् । भार्यास्वन्यगतासु अन्यं प्रतिलोमव्यतिरिक्तमाश्रितासु अतीतासु चाहोरात्रमेव । न पुनः सत्यपि सापिंडये दशरात्रम् । प्रतिलोमाश्रितासु त्वाशौचाभाव एव। “पाखण्ड्यनाश्रितस्तेन भर्तृघ्न्यः कामगाश्च याः" इत्यनेन प्रतिषेधात्" । विष्ण्वायुक्तत्रिरात्रस्य याज्ञवल्क्योक्तैकरात्रस्य च संनिधिविदेशस्थापेक्षया व्यवस्था। यदा पितुस्त्रिरात्रं तदा सपिंडानामेकरात्रम् । अन्यथा सबःशौचम् । “एकाहस्तु सपिंडानां त्रिरात्रं यत्र वै पितुः” इति मरीचिस्मरणात्" इति । दत्तविषये । एवं च दत्तस्य मरणे जनयितृप्रतिग्रहीतृरूपापत्रोस्त्रिरात्रमाशीचं द्वयोरपि ज्ञात्योरेकरात्रम् । पित्रोईिविधयोर्मरणे दत्तस्य त्रिरात्रम् । उभयविधज्ञातिमरणे चैकरात्रमिति २० स्थितम् । एतत् द्विगोत्रकदत्तविषयमित्येके । उपनयनानंतरं दत्तो दिगोत्रकः । तथा च स्मर्यते- जनकस्य तु गोत्रेण उपनीतो दिगोत्रकः” । स्मृत्यंतरेऽपि- 'उपनेतुर्भजेत् गोत्रमसंप्रज्ञातगोत्रवान् । संप्रतिज्ञातगोत्रश्चेदुभयं दत्तपुत्रवत्” ॥ इति । पैठीनसिरपि-“दत्तक्रीतकृत्रिमपुत्रिकापुत्राः परिग्रहणार्षेण जातास्ते संहतगोत्रा यामुष्यायणा भवंति ” इति । उपनयनात्पूर्व दत्तस्य जनयितृगोत्राशौचसंबंधो नास्ति । तथा च मनुः (९।१४२)- गोत्ररिदथे जनयितुर्न हरेत् दत्रिमः सुतः । गोत्ररिक्थानुगः पिंडो व्यपैति ददतः स्वधा मरीचिरपि- “ गोत्रांतरप्रविष्टानां दाय आशौचमेव च । ज्ञातित्वं च निवर्तेत तत्कूले सर्वमिष्यते " ॥ इति । स्मृत्यंतरे- ३० “ गोत्रांतरप्रविष्टास्तु संस्कार्यास्तत्कुलेन तु । जननेनैव पितरो दानेनैव निवर्तिताः ॥ दत्तस्य परिवेत्तृत्वमाशौचं दाय एव च । गृहीतृगोत्रात् संग्राह्यं श्रौतं स्मार्त तथैव च ॥ इति । एवं च उपनयनात्पूर्व दत्तस्य पितृभ्रातृज्ञातिमरणे दशाहमाशौचम् । दत्तमरणेऽपि तेषां दशाह. मस्ति । अत एव प्रतिग्रहीतुमरणे दशाहमध्ये दर्शागमे दशाहनैव दत्तकर्तृकपिंडोदकसमापन “ ८ " ॥
५२२ दत्तविषये। [आशौच- " । 4 " स्मर्यते- दशाहमध्ये यदि दर्श आपतेत् दद्युर्दशाहं तिलवारिपिंडम् । 'पुत्रीसुतो दत्तक औरसश्च शेषाः सुतास्तत्र समापयेयुः" ॥ गालवोऽपि- दौहित्रः पुत्रिकापुत्रो दत्तको ह्यौरसस्तथा। उदकं पिंडदानं च यथाकालं समाचरेत् "॥इति । ५ स्मृत्यंतरेऽपि- “ यद्यमान्तर्दशाहे स्यादौरसो दत्तकृत्रिमौ । पिंडोदकं दशाहेऽन्हि दद्युरन्ये त्वमातिथौ” ॥ इति । अन्यथा दशाहाशौचाभावे ' यावदाशौचमुदकम् ' ( १९।१३) इति विष्णुस्मरणेन त्रिरात्रेणैव सर्वदा समापनप्रसंगः । तथा कृतचौलभिन्नोदरभ्रातृमरणे दत्तस्य दशाहशौचमुक्तं बृहस्पतिना- “ भिन्नोदराणां भ्रातॄणां जातदंते मृते त्वघम् । दशाहं कृतचौले तु दत्तादीनां विधीयते " १० इत्याहुः । अपरे तु “दशाहमध्ये दर्शागमे दशाहेन समापनं । कृतचौलभ्रातृमरणे दत्तकस्य दहाशौचं च संस्कर्तृविषयं अन्यथा व्यहम् । मातापित्रोः क्रियाः कुर्यादौरसो यदि पुत्रकः । कुलान्तरप्रविष्टानामाशौचं व्यहमेव तु" ॥ इति स्मरणात्-अत्र सपिंडानामेकरात्रं एकाहस्तु सपिंडानां त्रिरात्रं यत्र वै पितुः ॥ इति स्मरणादिति-जनयितुः पुत्रपौत्रप्रपौत्राभावे दत्त एव मातापित्रोर्मरणे दशाहमाशौचं दाहादि १५ सर्व प्रेतपितृकृत्यं प्रत्यब्दं तन्मृताहे प्रावणं च कुर्यात् । पुत्रादिरहितसोदरभ्रातृमरणेऽपि स एव सर्व कुर्यात् । “पूर्वभ्रातुश्च पित्रोश्चार्तो कृत्यं स्वल्पं च दत्तके” इति स्मरणात्- "दत्तस्य जनकापत्ये मृतेऽथ जनकेऽपि वा । संस्काराबखिलं कृत्वा दत्तो रिक्थमवाप्नुयात्” ॥ इति स्मरणात् । जनयितुः पुत्रांतरसद्भावे तन्मरणे दत्तस्य व्यहमाशौचं दत्तमरणेऽपि त्रिरात्रमाशौचं “बैजिकादपि संबंधादनुरुंध्यादचं व्यहम्” इति स्मरणात् ॥ “न ज्येष्ठं पुत्रं दद्यात्प्रतिगृह्णीयाद्वा” इति निषेधोल्लंघनेन मोहवशाज्येष्ठपुत्रस्य दाने पुत्रांतरसद्भावेऽपि ज्येष्ठ एव दत्तो जनयितुर्दशाहादि सर्व कुर्यादिति त्रिकांड्यामुक्तम् । तथा च पारस्करः- दत्तोऽपि न त्यजेत्पित्रं धनं गोत्रं च सर्वदा । दत्तस्य तूभयत्रापि संबंध मनुरब्रवीत् ॥ इति अयमेवोभयधनग्राही व्यामुष्यायण इति केचिदाहुः । पूर्वोक्तरीत्या उपनयनान्तरं दत्त इत्यन्ये इति । तदन्येषां पितृव्यतिरिक्तानां सपिंडानां च तत्स्नानमपि नास्तीत्यर्थः । स्मृत्यर्थसारे तु- २५ “देशांतरादर्वाग्देशमृतौ स्वाशौचकालादूर्ध्व श्रुतायां तद्देशं विंशतियोजनादिकं त्रेधा विभज्याये च स्वामिसमीपे भागे त्रिरात्रम् । ततो दूरभागे पक्षिणी ततो दूरभागे त्वेकाहम् । एवं देशं पर्यालोच्य यत्राल्पाशौचं तदेव ग्राह्यम् । अत्राघाहानि न वर्धयेत् न वर्धयेदघाहानि प्रत्यूहेन्नाग्निषु क्रियाः” इति (५।८३) मनुस्मरणात् । लघुकल्पसंभवे गुरुकल्पाश्रयेणाघवानघानि न वर्द्धयेत् । लघुकल्पमाश्रितोऽपि वैतानाग्निषु क्रियाः प्रत्यूहन्न ३० विहन्यादिति मनुवचनार्थः । देशांतरलक्षणमुक्तम् । “ देशांतरस्थे मृते स्वाशौचकालादूर्ध्व श्रुते सपिंडानां सचैलस्नानं न त्रिरात्रात् ” इति । तथा च पराशरः ( ३१४ )- 'देशांतरे मृतः कश्चित्सगोत्रः श्रूयते यदि। न त्रिरात्रमहोरात्रं सद्यः स्नात्वा शुचिर्भवेत् "॥ इति । याज्ञवल्क्योऽपि- देशांतरमृतिं श्रुत्वा क्लीबे वैखानसे यतौ । मृतौ स्नानेन शुध्यति गर्भस्रावे च गोत्रिणः ॥ इति । ॥ १ काण्डम् ] देशांतरमृते । देशांतरम् । महानद्यः । ५२३ १० १५ अत्र विज्ञानेश्वरः-“यस्तु नद्यादिव्यवहिते देशांतरे मृतः तत्सपिंडानां दशाहादूर्ध्व मासत्रया- दर्वागपि सद्यःशौचम्" इति । षडशीतो- " ज्ञातेम॒तौ यदाशौचं दशाहात्तु बहिः श्रुतौ । एकदेश इदं प्रोक्तं स्नात्वा देशांतरे शुचिः ॥ इति । देशांतरलक्षणमाह बृहस्पतिः- महानद्यंतरं यत्र गिरिर्वा व्यवधायकः । वाचो यत्र विभिद्यते तद्देशांतरमुच्यते ॥ “देशांतरं वदंत्यन्ये धष्ठियोजनमायतम् । चत्वारिंशददंत्यन्ये त्रिंशदन्ये तथैव च "॥ इति । योजनलक्षणं माधवीयेऽभिहितम्- तिर्यग्यवोदरा त्यष्टावूर्वा वा बीहयस्त्रयः । प्रमाणमंगुलस्योक्तं वितस्तिदशांगुला ॥ "वितस्तेर्द्विगुणोऽरत्निस्तस्मात्किष्कुस्ततो धनुः। धनुःसहस्रे द्वे क्रोशश्चतुःक्रोशं तु योजनम्॥ इति । स्मृत्यंतरे- " भाषाभेदो महानद्या व्यवधानमथाद्रिणा । त्रिंशद्योजनभेदो वा प्रत्ये देशभेदनम्" ॥ इति । महानद्य उक्ता नृसिंहपुराणे-“गंगा यमुना गोदावरी तुंगभद्रा कावेरी चैता महानद्यः” इति। वामनपुराणेऽपि- " गोदावरी भीमरथी कृष्णवेणी सरस्वती । तुंगभद्रा सुप्रयोगा सिंहा कावेरी रेविका ॥ "दुग्धोदा नलिनी रेवा वारिसीता बलस्वना। महा अपि महानद्यः सह्यमूलाद्विनिर्गताः" महा अपीति परिगणिताभ्योऽन्या याः काश्चिद्विस्तारवत्यः ता अपि महानद्य इत्यर्थः एवं च महानद्या दक्षिणकूलमुत्तरकूलं च परस्परापेक्षया देशांतरं भवति । यथोक्तं बृहन्मनुना- "देशनामनदीभेदो निकटे यत्र वै भवेत् । तेन देशांतरं प्रोक्तं स्वयमेव स्वयंभुवा ” ॥ इति । देशनामानि अंगवंगकलिंगादीनि । नदीविशेषः महानदीति यावन् । एवमुक्तमतिक्रांताशौचं मातापितृव्यतिरिक्तसपिंडविषयम् । मातापितृविषये तु सन्निहितदेशे देशांतरे च दशरात्रमेव । २० तत्र पैठिनसिः- " पितरौ चेन्मृतौ स्यातां दूरस्थोऽपि हि पुत्रकः । श्रुत्वा तदिनमारभ्य दशाहं सूतकं भवेत् ॥ इति । चंद्रिकायामिदं व्याख्यातम् -- “ श्रुत्वेत्यत्र तु उर्ध्वमिति शेषो द्रष्टव्यः । ततश्च दशरात्रमध्ये तु वार्ताश्रवणे पुत्रस्यापि तच्छेषेणैव न सपिंडांतरवच्छुद्धिः” इति । षडशीतौ- “ देशकालादिभेदेऽपि मातापित्रोप॑तिश्रुतौ । श्रवणादिदशाहं स्यान्निर्दशत्वमिति स्थितिः स्मृत्यर्थसारे-“ मातापितृमरणे दशाहादूर्ध्व वत्सरादूर्ध्वमपि पुत्रः श्रुतदिवसमारभ्य दशाह- माशौचं कर्यादुदकपिंडादि च । पत्न्या अपि दशाहम् । “दशाहं पुत्रभार्ययोः” इति पैठीनसि- वचनात् । महागुरुमरणे 'दूरदेशेऽप्यतीतेऽब्देऽप्यावस्त्रोपवासिना' तथैवाशौचादि कार्यम्। वत्सरेऽ- तीते मातुः सपत्न्या मरणे पुत्रस्य त्रिरात्रम् । “सपत्न्योः परस्परं चैवम्" इति। स्मृत्यंतरे च- “ यत्रकुत्रस्थितः पुत्रः श्रुत्वा पितृविपर्ययम् । श्रुत्वा तद्दिनमारभ्य दशाहं सूतकं भवेत् " ॥३० अन्यत्रापि- मुख्यकर्ता विदेशस्थो मातापित्रोम॒तौ यदि । संवत्सरे व्यतीतेऽपि कुर्यात् प्रेतक्रियां पुनः" ॥इति। - " ॥ २५ “ महागुरुनिपाते तु आर्द्रवस्त्रोपवासिना । अतीतेऽब्देऽपि कर्त्तव्यं प्रेतकार्य यथाविधि" ॥ इति । ॥
५२४ मातापित्रोः। [ आशौच- " ॥ । १० संवत्सरादूर्ध्वमपि प्रेतकार्यमाशोचोदकदानादि कार्यमित्यर्थः। चंद्रिकायाम्-महागुरुनिपातः इत्यत्र महागुरुशब्देन माता चोच्यते । न पुनः पितैव । “द्वौ गुरू पुरुषस्येह पिता माता च धर्मतः । तयोर्गुरुः पिता तावन्माता गुरुतरा स्मृता ॥ इति मातुरपि गौरवातिशयस्मरणादिति। विज्ञानेश्वरः (पृ.१८२ पं.२७-२८)-“यस्तु पिता पुत्रानुत्पाद्य ५ वेदार्थ ग्राहयित्वा वृत्तिं च विदधाति तस्य महागुरुत्वादुपरमे द्वादशाहम्” इति। यत्तु स्मृत्यंतरम्- "पिता पितामहश्चैव ज्येष्ठश्च प्रपितामहः । यश्चोपनीय सकलं वेदमध्यापयेत् स च ॥ "महागुरव इत्येते पञ्च प्रोक्ता मनीषिभिः” ॥ इति तत् पुत्रादीनां पञ्चानां अब्दादूर्ध्वमपि यथाविधि प्रेतकार्य कर्त्तव्यमित्येवंपरं न पुनस्तेषामुपरमे दाहशाहाशौचप्राप्त्यर्थम् । “दशमं पिंडमुत्सृज्य रात्रिशेषे शुचिर्भवेत्” इति स्मरणात् । पितरि प्रोषिते प्रेते पुत्रो देशांतरे गतः। कृतक्रिये त्रिरात्रं स्याद्दशाहमकृतक्रिये" ॥ इति । यत्कृतक्रिये त्रिरात्रविधानं तत्कनिष्ठपुत्रविषयम् । ज्येष्ठम्य तु 'कृतक्रियेऽपि पितरि दशाहं सूतकं भवेत् । दद्यात्तिलोदकं पिंडं सपिंडीकरणं पितुः” ॥ इति दशाहविधानात् कृतस्यापि सपिंडीकरणस्य पुनःकरणविधानात् ज्येष्ठविषयत्वमस्यावगम्यते । मातृव्यतिरिक्तपितृपत्नीविषये विशेषमाह- १५ “ पितृपत्न्यामतीतायां मातृवर्ज द्विजोत्तमः । संवत्सरे व्यतीतेऽपि त्रिरात्रमशुचिर्भवेत् " ॥ इति । वरदराजीये-“प्रागब्दाज्जननीसमं दिशतु तत्प्रेतोदकादिक्रियाम"। उक्तमात्रस्य ब्यामुष्यायणत्वा- भिधानं “गोत्रांतरप्रविष्टानां दाय आशौचमेव च। ज्ञातित्वं च निवर्तन्ते” इत्यादिपूर्वोक्तमन्वादि- वचनविरोधादुपेक्ष्यम् । स्मृत्यंतरे- दत्तस्य पुत्रजनने मरणे पूर्वगोत्रिणाम् । स्नानमात्रं सचेलं स्यान्नाशौचं विद्यते क्वचित् " ॥इति। २० पुत्रपरिग्रहानंतरमौरसपुत्रजनने कनिष्ठोऽप्यौरस एव पित्रादेर्दाहादिकं कुर्यात् । "औरसे तु समुत्पन्ने दत्तो ज्येष्ठो न चेष्यते। न्यूनोऽपि वयसा पित्रोः कुर्यादेवौरसः सुतः"॥ इति स्मरणात् । विवाहितस्त्रीविषये पित्राद्याशौचम् । पित्रोर्मरणे संस्कृतानां स्त्रीणामाशौचमाह मनुः- २५ “पित्रोरुपरमे स्त्रीणामूढानां तु कथं भवेत् । त्रिरात्रेणैव शुद्धिः स्यादित्याह भगवान्यमः"॥ इति । पित्रोम॒तौ पुत्रीणामूढानां त्रिरात्रेण शुद्धिः । तासां च मृतौ पित्रोस्त्रिरात्रेणैव शुद्धिरित्येवकारार्थः । "त्रिरात्रेणैव तत्पिता” इति प्रजापतिस्मरणात् । “पुन्यास्त्रिरात्रमाशौचं तत्र भोजने च कृते दशाह भवति" इति भरद्वाजस्मरणाच्च व्यहविधानं संनिधावेव । “पित्रोः स्वसरि तद्वच्च पक्षिणी क्षपयेत् निशाम्" । परोक्षे पक्षिणीविधानात् । संग्रहे-- “परोक्षे पक्षिणी नो चेव्यहं प्रेतान्नभोजने । दशरात्रं मृतौ पु-याः पित्रोश्चान्योन्यमित्यघम्" ॥ इति । दौहित्रमातामहाचार्यमातृष्वस्त्रादिविषयाशौचम् । दौहित्रादिमरणे वृद्धमनुः- “संस्थिते पक्षिणी रात्रिं दौहित्रे भागिने सुते। संस्कृते तु त्रिरात्रं स्यादिति धर्मो व्यवस्थितः ॥ इति। दौहित्रेभगिनीसुते वा उपनयनसंस्कृते मृतेमातामहमातामह्योर्मातृष्वसमातुलयोश्च त्रिरात्रमाशौचं भवति १ क्ष-नानंतरं दत्तजत्यन्ये ।
५२५ " १५ ? ॥ काण्डम् ] मातामहादीनां मरणे। उपनयनासंस्कृते कृतचौले पक्षिणी । चौलात्पूर्व तु भागिनेयादिमरणे मातुलादेः सद्यःशौचस्य चंद्रिकायामुक्तत्वात् । पक्षिणी रात्रि आगामिवर्तमानाहर्युक्तां रात्रि मातामहादिः क्षपयेदित्यर्थः । एवं स्वस्रीयस्य मृतावपि व्रतात्प्राक् मातृष्वसमातुलयोः पक्षिणीविधानात् अनुपनीतयोस्तयोम॒तौ तस्य सय शौचमेवेति ज्ञेयम् । मातामहादीनां.मरणे दौहित्रादीनां त्रिरात्रम् । तथा च बृहस्पतिः-" व्यहं मातामहाचार्यश्रोत्रियेष्वशुचिर्भवेत् ”। आचार्योऽत्रासपिंडः ५ सन्नुपनयादिकर्ता। उपनीय तु यः शिष्यं वेदमध्यापयेत् द्विजः । सकल्पं सरहस्यं च तमाचार्य प्रचक्षते" ॥ इत्युक्तलक्षणः। श्रोत्रियस्त्वेकशाखाध्यायी मैत्रीप्रतिवेश्यत्वादिनोपसंपन्नः । श्रोत्रियेतूपसंपन्ने त्रिरात्रमशुचिर्भवेत् ” इति ( ५।८०) मनुस्मरणात् । “ गृहे यस्य मृतः कश्चिदसपिंडः कथंचन। तस्याप्याशौचं विज्ञेयं त्रिरात्रं नात्र संशयः इत्यंगिरःस्मरणात् । विष्णुः (२२।४१)-" आचार्यमातामहयोर्व्यतीतौ त्रिरात्रम् " ॥ इति । आश्वलायनोऽपि ( ४४।१९)--"गुरौ चासपिंडे त्रिरात्रम्” ॥ इति । गुरुरत्राचार्यः । सपिंडो गुरुः पिता। तदुपरमे दशाह एव । यस्तु पिता पुत्रानुत्पाद्य संस्कृत्य वेदार्थ ग्राहयित्वा वृत्तिं च विदधाति तस्य महागुरुत्वात्तदुपरमे द्वादशरात्रं “महागुरौ दानाध्ययने वर्जयेरन्” इत्याश्व- लायनोक्तं द्रष्टव्यम् । मनुः ( ५७९)- त्रिरात्रमाहुराशौचमाचार्य संस्थिते सति । तस्य पुत्रे च पल्यां च दिवारात्रमिति स्थितिः एतच्च त्रिरात्राशौचं परकर्तृकदाहादौ द्रष्टव्यम् । स्वकर्तृके तु मनुरेवाह (५।६४ )- गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरन् । प्रेताहारैः समं तत्र दशरात्रेण शुध्यति ” ॥ प्रेताहारैः प्रेतान्नभोजिभिः सपिंडैरिति यावत् । अत्र चंद्रिकायाम्--" शिष्ये दशरात्राशौचस्य पितृमेधकर्तृत्वप्रयुक्तत्वात् दौहित्रादावपि पितृमेधकर्तृत्वे दशरात्रं वेदितव्यम् इति । मातृष्वस्त्रादौ त्रिरात्रमाह प्रचेताः- “ मातृष्वसामातुलयोः श्वश्रूश्वशुरयोर्गुरौ । मृते चविजि याज्ये च त्रिरात्रेण विशुध्यति" ॥ अत्र चंद्रिकायाम्-“मातृष्वस्रादिषु वक्ष्यमाणपक्षिण्याशौचविरोधपरिहाराय कश्चिद्विशेषणं कल्प्यम् । तत्र मातृष्वसामातुलयोर्भगिनीसुतसन्निधात्रोः श्वश्रूश्वशुरयोजीमातृपोषकयोर्गुरौ उपनयनादिकर्तरि ऋत्विजि यजमानकुलकमायाते याज्ये च ऋत्विक्कुलक्रमायाते मृते भागिनेयादिस्त्रिरात्रेण शुध्यति” २५ इति । गौतमः ( १४।२५ )—“ आचार्यतत्पुत्रस्त्रियाज्येषु चैवम् ” इति । एवमिति त्रिरा- त्रातिदेश अत्राचार्यपुत्रस्त्रियोमरणे त्रिरात्रं तयोरुपकर्तृत्वे सति द्रष्टव्यम् । बोधायनोऽपि- ( १।५।११६ )-" शिष्यसतीर्थ्यसब्रह्मचारिषु त्रिरात्रमहोरात्रमेकाहमिति कुर्वीत " ॥ इति । उपनीयाध्यापितः शिष्यः। तस्य मरणे त्रिरात्रमाचार्यः कुर्वीत। एकस्मादुपाध्यायात्सहाधीतकृत्स्न- वेदः सतीर्थ्यः । तस्य मरणे तदितरः सतीर्थ्यः अहोरात्रं कुर्यात् । सहैकदेशाध्यायी सुहृत्सब्रह्म- ३० चारी तस्मिन्मृते तदितरः अहोरात्रमेव कुर्यादित्यर्थः । स्मृत्यंतरे- मातृष्वसामातुलयोः श्वश्रूश्वशुरयोर्गुरौ । तत्पुत्रस्त्रीषु याज्ये च मृते मातामहं व्यहम् ” ॥ इति। व्यासो विशेषमाह- "भाशौचं तु त्रिरात्रं स्याच्श्वभुरयोर्मुतौ । जीवत्यामेव भार्यायां मृतायां दिवसाच्छूचिः" इति। ७ २० - ५२६ राजपुराहितयोः। पक्षिण्याशौचम् । [आशौच- ५ . -- गौतमस्तु- श्वश्रूश्वशुरनाशात्तु पूर्व भार्या मृता यदि। तत्संततेः स्यादपनं व्यहमित्याह गौतमः "॥ इति । संग्रहे- श्वश्रूश्वशुरस्वाचार्यतत्पत्नीतत्सुतर्विजाम् । याज्यांतेवासिनोन शे व्यहमित्याह गौतमः ॥ " मातृष्वसृपितृभ्रातृमृतौ तत्प्रतियोगिनः। पुंसख्यहं मातुलानीमातामह्योर्मृतौ तथा ” ॥ इति । अंगिराः-"मातामहमातुलमातामहीमातुलान्यादीनां त्रिरात्रेण श्वशुरस्य च” इति ॥ दशकेऽपि- उत्पन्ने त्रिदिनं मृतेऽप्युपनयनादूर्ध्व समानोदके पुत्रे चैवमनौरसेऽन्यपितृके प्रेते तथा सोदके ॥ “मातृभ्रातृपितृष्वसृश्वशुरतत्पन्यविंगाचार्यतद्भार्यातत्सुतयाज्यशिष्यगृहसंप्राप्तेषु च ज्ञातिषु॥इति । यत्तु वृद्धमनुवचनम्- "श्वशुरयोश्च भगिन्यां च मातुलान्यां च मातुले। पित्रोः स्वसरि तद्दच्च पक्षिणी क्षपयेन्निशाम्" ॥इति एतत् मातुलान्यादिमृतौ पक्षिणीविधानं स्त्रीविषयम् । मातामहीमातुलानीमातुलानां मृतौ स्त्रियाः। पक्षिणी पुरुषाणां तु त्रिरात्रमघमिष्यते "॥ इति स्मृतेः। यत्तु चंद्रिकायामुक्तम्- मातुले श्वशुरे मित्रे गुरौ गुर्वगनासु च।आशौचं पक्षिणी रात्रि मृता मातामही यदि"॥ इति । १५ यदपि वृद्धवसिष्ठवचनम्- " भगिन्यां संस्थितायां तु भ्रातर्यपि च संस्थिते । मित्रे जामातरि प्रेते दौहित्रे भगिनीसुते ॥ "स्यालके तत्सुते चैव सद्यःस्नानेन शुध्यति" इति। अत्र विज्ञानेश्वरः (पृ. १८३ पं. २०-२१)- तेषु एकविषयगुरुलाघवाशौचप्रतिपादकतया परस्परविरुद्धेषु वचनेषु संनिधिविदेशस्थापेक्षया व्यवस्थानुसंधातव्या ” इति । उपकारतारतम्यानुरोधेन व्यवस्था चंद्रिकायां प्रदर्शिता । २० राजपुरोहितयोः परस्परं त्रिरात्रमाह गालवः- पुरोहिते मृते राज्ञस्त्रिदिनाच्छुद्धिरिष्यते । पुरोहितो मृते राज्ञि त्रिदिनादेव शुध्यति" ॥ इति । पक्षिण्याशौचम् । पक्षिण्याशौचमाह मनुः (५।८० )- मातुले पक्षिणी रात्रीं शिष्यतिग्बांधवेषु च” इति । उभयतोहःपक्षवती रात्रिः पक्षिणी । तथा चामरः (१४।५ )-" आगाभिवर्तनानाइयुक्तायां निशि पक्षिणी" इति । सा च कालत्रयोप- लक्षणार्थी । तेन अहईयमध्यगता रात्रिर्वा रात्रिदयमध्यगतमहर्वा पक्षिणी। तथा दीपिकायाम्- “पक्षिण्यामुभयाहोभ्यां युक्ता सा पक्षिणी निशा। उपलक्षणमेतत्तु तथा कालत्रयस्य च" ॥ इति । बांधवा इत्यात्मबंधवो मातृबंधवः पितृबंधवश्वोच्यते । ते चंद्रिकायां दर्शिताः- आत्मपितृष्वसुः पुत्रा आत्ममातृष्वसुः सुताः । आत्ममातुलपुत्राश्च विधेया आत्मबान्धवाः । पितुः पितृष्वसुः पुत्राः पितुर्मातृष्वसुः सुताः। पितुर्मातुलपुत्राश्च विज्ञेयाः पितृबांधवाः ॥ ३० “ मातुः पितृष्वसुः पुत्रा मातुर्मातृष्वसुः सुताः । मातुर्मातुलपुत्राश्च विज्ञेया मातृबांधवाः षडशीतावपि- " एवं पित्रोर्भगिन्यौ ये ये पितामहयोस्तथा । ये मातामहयोश्चैव भगिन्यौ तत्प्रजाश्च याः"॥ एवं चंद्रिकायां विज्ञानेश्वरादिषु आत्मबंधुषु पितृबंधुषु मातृबंधुषु च पक्षिण्याशौचमुक्तम् । पितृमातृबंधुषु शिष्टाः पक्षिणी नाचरति । २५ -- “ " ॥ इति ।
" पक्षिणी - “ काण्डम् ] पक्षिणीजुषः। ५२७ व्यासः-" पक्षिणी योनिसंबंधबांधवेषु त्रिपूरुषम् ” इति । गौतमोऽपि (१४।१७-१८)- 'पक्षिणीमसपिंडयोनिसंबंधे सहाध्यायिनि च " इति । योनिसंबंधोऽत्र त्रिपुरुषविषय एव विवक्षितः । एकयोनिसंबद्धाः कूटस्थैकमिथुनोत्पन्नास्तदुत्पन्नाश्च मातुलमातृष्वसमातुलेयमातृष्वस्रीय- पितृष्वसृपैतृष्वस्रीयभगिनीभागिनेयादयः कूटस्थसहिताः कूटस्थस्थानीयत्वात्तद्भातृसहिताश्च । तेष्वेकस्मिन्नसपिंडे मृते अन्येषां सर्वेषां पक्षिणी भवतीत्यर्थः । अत्र मातुलमातृष्वसृमातामहीषु ५ पक्षिणीविधानं स्त्रीणामेव । पुरुषाणां तु पूर्वोक्तं त्रिरात्रमेव । पैठीनसिः-“ मातृष्वसृतत्सुतदुहित्रोः पक्षिणी परस्परम् ” इति । हारीतश्च-"पित्रोस्तत्सहजयोस्तु पक्षिणी" इति । पित्रोश्च तत्सहजो मातापितृसहजो मातुलमातृष्वमृपितृव्यपितृष्वसृसंज्ञो यो जनस्तस्य य तत्प्रतियोगिनां च मिथः पक्षिणीत्यर्थः । विज्ञानेश्वरीये- "भगिन्यां संस्थितायां तुभ्रातर्यपि च संस्थिते। स्वस्त्रीये भ्रातृपुत्रे च पक्षिणी क्षपयेन्निशाम्" ॥ इति । १० स्मृत्यंतरे च--" सोदर्याश्च सुतायाश्च व्यूढायाः पक्षिणी भवेत् ” । अन्यत्रापि- योनिसंबंधेनातिकालेन सूतके " । मांडव्यः- “ योनिसंबंधजातानां शृणुध्वमृषिसत्तमाः । मातापित्रोः सोदराणां गुरूणां तत्सुताश्च ये॥ पक्षिण्याशौचमेषां तु परस्परमृतिर्यदि । श्वश्रूश्वशुरयोश्चैतत्सूरयः परिचक्षते" ॥ संग्रहे- मातुष्वसृसुतापुत्रौ पितृष्वसृसुतस्त्रियौ । स्वसा पितृव्यपुत्री, च स्वसृपुत्री पितृष्वसा ॥ "भ्रातृपुत्री च दौहित्री पौत्री तत्प्रतियोगिनौ । स्त्रीपुंसौ च क्वचित्प्रेते पक्षिण्याशौचिनौ मिथः"।। इति। संग्रहांतरे- “मातामह्यौ पिता माता पितृव्यो मातुलस्तथा । मातृष्वसा मातुलानी पितृव्यस्त्री पितृष्वसा ॥ मातृष्वसुर्मातुलस्य पितृव्यस्य पितृष्वसुः । पुत्री पुत्रस्नुषा स्वस्य स्वसा भ्राता तदंगना ॥ स्वसुर्धातुः स्नुषा पुत्रीपुत्रा स्वदुहितापि च । स्वपौत्री च स्वदौहित्री स्वदौहित्रस्तदंगनाः ॥ " अष्टात्रिंशज्जना एते स्त्रीमृतौ पक्षिणीजुषः । सपिंडान द्वादशैतेषु मुक्तान्ये पुंमृतौ तथा" ॥ इति । अन्यत्र- मातृष्वसा मातुलश्च स्वसा भ्राता पितृष्वसा । पंच तत्तत्सुतापुत्रा दश पौत्रिपितामहाः ॥ मातामहश्च दौहित्री पितृव्यस्तत्सुतात्मजौ । द्वाविंशतिजनाश्चैते परोक्षे दुहितापिता ॥ दौहित्रश्च त्रयश्चैते तत्तत्पत्न्यस्त्रयोदश । स्त्रीमृतौ पाक्षिणीभाजे ह्यष्टत्रिंशदिति स्थितिः ॥ मातृष्वसृपितृष्वस्रोः पुत्रीपुत्राश्च तत्स्त्रियौ। पितृष्वसा स्वसा पुत्री भ्रातृपुत्री स्वसुः सुता ॥ पितृव्यपुत्री दौहित्री मातुलस्य सुतासुतौ । तत्स्त्री चासंन्निधौ पुत्री स्वस्रोः पुत्रौ च तत्त्रियौ ॥ "क्वचिच्च मातुः पितरौ स्वसा च भ्रातृतत्स्त्रियौ । पक्षिण्याशौचिनस्त्वेते पुंमृतौ पंचविंशतिः ॥ इति । तत्तत्पत्न्यः मातृष्वसृपुत्रमातुलतत्पुत्रस्वतीयभ्रातृतत्पुत्रपैतृष्वसेयपितामहमातामहपितृव्यतत्पुत्रपितृ-३० दौहित्रपत्न्य इत्यर्थः । मातृष्वसपुत्रादीनां पत्नीग्रहणं स्वस्वभर्तरि मृतेऽपि भर्तृप्रतियोगिमरणे तासां पक्षिणीप्राप्त्यर्थम् 'पक्षिणीमसपिंडे योनिसंबंधे' (१४।१७-१८) इति आ त्रिपुरुषं योनिसंबंध एव गौतमादिभिः पक्षिण्याशौचस्योक्तत्वान्मातृष्वस्रादिभर्तृमरणे पाक्षणी नास्त्येव । बंधुत्वात्स्नानमास्ति। एवं मातृष्वस्रयादिपत्नीमरणेऽपि नास्ति पक्षिणी । अत एव मातामहीमातुलान्योः पृथग्रहणम् । १क्ष-स्वं । - २० “ २५ “ ५२८ भिन्नमातृस्वस्त्रादिविषये। [आशौच- तथा चोक्तम्- "मातृतः पितृतो येषु विहिता पुंसु पक्षिणी। न तत्पत्नीमृतौ सा स्यात् स्नानमात्रं विघीयते"॥इतिः। भर्तृसमानयोगक्षेमत्वात् योनिबन्धुपत्नीनां तु पक्षिणी भवति । "एकत्वं सा गता भर्तुः पिण्डे गोत्रेऽथ सूतके” इति स्मरणात् । तथा च संग्रहे-“भर्तुर्यद्यदधं ५ तत्तत्पत्न्याः स्यान्नास्य पत्न्यघम् ” इति । श्वशुरस्यालविषये जामातुर्विशेषस्याभिधानात् तब्यतिरिक्तपत्नीबंधुमरणाशौचं भर्तुर्न स्यादित्यर्थः । सांपर्किकं तु भर्तुराशौचं स्त्रीणां नास्ति । “आशौचं यस्य संपर्कादापतेद् गृहमेधिनः । क्रियास्तस्य प्रलुप्यति गृह्याणां च न तद्भवेत्" ॥इति स्मरणात् । गृहे भवा गृह्याः। द्रव्याणि स्त्रीपुत्रादयश्चेति” विज्ञानेश्वरण व्याख्यातम् । भिन्नमातृष्वस्रादिविषयाशौचम् । १० भिन्नमातृष्वस्रादिविषये अहोरात्रमाशौचमाह अत्रिः- “ भिन्नमातृष्वसुभिन्नपितृष्वसुरहः स्मृतम् । सत्सुतानामथाहश्च मरणे भृगुरब्रवीत् " ॥ इति । अत्र भिन्नमातापित्रोरप्यहरिति ग्राह्यम् । तेन भिन्नमातृष्वसृभिन्नपितृष्वसृतत्तत्सुतदुहितृभिन्नमातापितृ- तत्तदुहितॄणामहोरात्रं भवतीत्यर्थः । तथा च संग्रहे- “भिन्नपित्रोः पितृभ्रातृस्वस्रपत्यानि तत्प्रजाः। शुध्यत्यन्हा मिथः शावे जनास्तत्प्रतियोगिनः॥ इति । १५ भिन्नपित्रोः जारपितृतत्पत्न्योर्माता पितृभ्रातृस्वसृपुत्रीपुत्राः तत्प्रजाः। तच्छब्देन पित्राद्यपत्यपर्यंता जनाः परामृश्यते । प्रजाशब्दः सुतदुहितवाची। एतेष्वन्यतरस्य मरणे अन्यः दिनेन शुध्यतीत्यर्थः । अन्योऽप्यर्थः । भिन्नपितृशब्देन सपत्नीमातृभिन्नोदरपितृव्यावुच्यते । पितृव्येऽपि पितृत्वप्रसिद्धेः । तेन तत्पितृभ्रातृष्वसृपुत्रीपुत्राः तत्प्रजाश्च दिनेन शुध्यन्तीति। तथा पारस्करः- या सपत्नीसुता मातृसपत्नी या च ते मिथः । अहोरात्रेण शुध्येतामाह पारस्करो मुनिः " ॥ २० अत्रात्रेयमपि योजनीयं “ भिन्नमातृष्वसुः" इति । अत्र मातृष्वसुः सपत्नी पितृष्वसुः सपत्नी च भिन्नमातृष्वसा भिन्नभिन्नपितृष्वसा च भवतीति तयोस्तत्सुतानां चाहरित्यत्रिवचनार्थमन्ये मन्यते। तथा च संग्रहे- पुत्र्याः सापत्नकौ चैव स्वसुः सापत्नको तथा । मातृष्वसुश्च सापत्नौ सापत्नौ च पितृष्वसुः ॥ भिन्नमातुश्च पितरौ स्वसा भ्राता तयोर्भवौ । भिन्नमह्योः स्वसापुत्रौ भिन्नमातुः सुतासुतौ ॥ २५ “तयोर्भवौ च स्त्रीमृत्यां षड्विंशतिदिनाघिनः । सपिंडांस्त्रीन् विमुच्यैषु पुंमृतौ च तथा भवेत्॥इति । एवं च सपत्न्याः सपत्नीमातृवर्गाशौचं नास्त्येव । बंधुत्वात्स्नानं भवति। भिन्नपित्रोरिति वचनस्या- र्थान्तरमपि वर्णयन्ति । दत्तस्य प्रतिग्रहीता भिन्नपिता । तत्पत्नी भिन्नमाता । तस्याः पिता भ्राता स्वसा पुत्री तत्प्रजाश्च प्रतिग्रहीतुः स्वसा तत्प्रजाश्च मिथः दिनेन शुध्यंतीति । दत्तस्य जननीजनक- रूपपित्रोः पितृभ्रातृस्वसृपत्न्यानां तत्प्रजानां च पक्षिण्याशौचमेव । “ पक्षिणीमसपिंडयोनिसंबंधे" इति योनिसंबंधनिबंधनेन पक्षिणीविधानात् । तथा च स्मृत्यन्तरे-" दत्तस्वसरि स्वस्त्रीये दत्तभ्रातृसुतास्वपि ॥ "पितृष्वस्रोश्च तत्पुत्रदुहित्रोः पक्षिणीमृतौ । पितृव्ये तदुहितरि तत्पुत्रेषु च पक्षिणी"॥ इति । याज्ञवल्क्यः (प्रा. २४)- “अहस्त्वदत्तकन्यासु बालेषु च विशोधनम् । गुवंतेवास्यनूचानमातुलश्रोत्रियेषु च ॥ इति। ३५ गुरुरुपाध्यायः । ३० । - १० काण्डम् ] आचार्यादिमरणे। "अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः।तमपीह गुरुं विद्यात् श्रुतोपक्रियया तथा"॥इत्युक्तलक्षणः। अंतेवासी शिष्यः ।अनूचानो योऽङ्गानां प्रवक्ता । मातुलोऽसंनिहितः। भिन्नोदरमातुलो वा । श्रोत्रिय इह समानग्रामवासी विवक्षितः। “एकाहं सब्रह्मचारिणि समानग्रामीये च" (४।४।२६-२७) इत्याश्वलायनस्मरणात् । एकगृहवासिनि तु "श्रोत्रिये तूपसंपन्ने” इति पूर्वोक्तं त्रिरात्रं द्रष्टव्यम् । अश्रोत्रिये स्ववेश्मनि मृते सत्येकरात्रमाह विष्णुः ( २२।४५) “असपिंडे स्ववेश्मनि मृते ५ एकरात्रम्” इति । स एव ( २२।४३) “आचार्यपत्नीपुत्रोपाध्यायमातुलश्वशुरश्वश्रूसहाध्याय- शिष्येष्वेकरात्रेण शुद्धिः" इति । उपाध्यायशब्दार्थः चंद्रिकायां दर्शितः- "एकदेशं तु वेदस्य वेदांगान्यथ वा पुनः । योऽध्यापयति वृत्त्यर्थं स उपाध्याय उच्यते "॥ इति । वैष्णवेऽप्युपाध्यायग्रहणं शास्त्रोपदेष्टणां जप्यमंत्रोपदेष्ट्रणामाचार्याणामुपलक्षणार्थम् । अत एव आश्वलायनेन 'गुरौ चासपिंडे त्रिरात्रम्" इत्यत्रोक्तम् । इतरेष्वाचार्येष्वेकाहमिति ॥ " उपनीय तु यः शिष्यं वेदमध्यापयेत् द्विजः। सकल्पं सरहस्यं च तमाचार्य प्रचक्षते"॥ इति निरूपिताचार्यादितेरेष्वाचार्येष्वित्यर्थः। स्मृत्यंतरे- सब्रह्मचारिण प्रेत उपाध्याये तथैव च।श्वशुरस्य सुते चैव अहोरात्रेण शुध्यति "॥ इति । आश्वलायनः (४।४।२६)-" एकाहं सब्रह्मचारिण” इति । मनुरपि ( ५।७०) “सब्रह्मचारिण्येकाहमतीते क्षपणं स्मृतम् । मातृबंधौ गुरौ मित्र मंडलाधिपतौ तथा" ॥ इति । १५ एतदेकरात्राशौचं महामंडलाधिपतिविषयम् । स्वल्पदेशाधिपतिविषये तु याज्ञवल्क्यः (प्रा.२५)- निवासराजनि प्रेते तदहः शुद्धिकारणम्” इति । निवासः स्वदेशः । तस्य यो राजा स्वामी स यस्मिन्नहन्यतीतः तदहर्मात्रं शुद्धिकारणम् । रात्रौ चेदतीतः तदा रात्रिमात्रम् । अत एव मनुः (५।८२)-" प्रेते राजनि सज्योतिर्यस्य स्याद्विषये स्थितः” इति । ज्योतिषा सह वर्तत इति सज्योतिः। अत्र आशौचम् । अन्हि चेत् यावत् सूर्यदर्शनं रात्रौ २० चेद्यावन्नक्षत्रदर्शनमित्यर्थः । वृद्धमनुरपि- ग्रामेश्वरे कुलपतौ श्रोत्रिये च तपस्विनि । शिष्ये पंचत्वमापन्ने शुद्धिर्नक्षत्रदर्शनात् " ॥ इति । कुलपतिः समूहपतिः । श्रोत्रियादावेककालविधानं असंनिधिविषयम् । संग्रहे- सब्रह्मचारिण्येकाहं सहाध्यायिनि पक्षिणी । उपाध्यायसुहृत्स्यालभूभृत्सु च मृतेष्वहः ॥ बंधौ स्नानं सगोत्रेऽहर्तेयं संबंधके मृते”। इति । एकाचार्योपनीतः सब्रह्मचारी । स्यालः २५ पत्नीभ्राता । मातृपक्षे पितृपक्षे च ज्ञायमानसंबंधके बंधुजने मृते स्नानं भवति। सगोत्रे तु तादृग्विधे मृते अहोरात्रमित्यर्थः । आपस्तंबः (२।६।१५।२) “मातुश्च योनिसंबंधेभ्यः पितुश्चा सप्तमा- त्पुरुषात् । यावता वा संबंधो ज्ञायते तेषां प्रेतेषूदकोपस्पर्शनं गर्भान्परिहाप्या परिसंवत्सरान् ” इति। अपरिपूर्ण वत्सरानसपिंडबालान्परिहाप्य वर्जयित्वा ज्ञायमानसंबंधे बंधौ मृते स्नानमित्यर्थः । सिंग्रहे "श्वश्रूश्वशुरतत्पुत्रयाज्याचार्यसुतर्विजाम् । उपाध्यायस्य सद्यः स्यात् मृतौ तत्प्रतियोगिनाम् ॥इति। श्वश्र्वादिप्रतियोगिनां मृतौ श्वश्र्वादीनां सद्यःशौचं स्नानाच्छुद्धिरित्यर्थः । उक्तमसपिंडे त्रिरात्रा- याशौचं सर्ववर्णेषु समानम् । तथा चंद्रिकायाम्- आशौचमसपिंडेषु प्रोषिते श्रोत्रिये गुरौ । अतीते नृपतौ तहतुकाले च योषिताम् ॥ अप्रजासु तथा स्त्रीषु मातुले बांधवेषु च । एवमादावाशौचस्य चतुर्णामपि तुल्यता" ॥ इति । ३५ अप्रजासु-गर्भास्रावादिना नष्टप्रजासु ।
५३० अनेकाशौचसंनिपाते। [आशौच- “ अनेकाशौचसंनिपाते आशौचम् । अनेकाशौचसंनिपाते प्रतिनिमित्तं नैमित्तिकावृत्तौ तां निवारयति पराशरः ( ३३५)- “ अंतरा तु दशाहस्य पुनर्मरणजन्मनी । तावत्स्यादशुचिर्विप्रो यावत्तत्स्यादनिर्दशम् " ॥ इति । यदा दशाहाशौचकालमध्ये तत्तुल्यस्य ततोऽल्पस्य वा निमित्ते जननमरणे स्यातां तदा पूर्वप्रवृत्त- ५ माशौचं यावदनिर्दशं अनिर्गतदशाहं स्यादिप्रस्तावदेवाशुचिर्भवति न पुनर्मध्योत्पन्नमरणादि- निमित्तदशाहाद्याशौचवानित्यर्थः। शंखलिखितावपि-“अथ चेदंतरा प्रमीयेत जायेत वा शिष्टैरेव दिवसैः शुध्येदहशेषे द्वाभ्यां प्रभाते तिसृभिः " ॥ इति । याज्ञवल्क्यः (प्रा. २०)- “ अंतरा जन्ममरणे शेषाहोभिर्विशुध्यति" ॥ इति । विष्णुरपि ( २२॥३४ )-"जननाशौच- मध्ये यद्यपरं जननं स्यात्तत्र पूर्वाशौचव्यपगमे शुद्धिः। मरणाशौचमध्ये ज्ञातिमरणेऽप्येवम्" ।। इति । १० गौतमेऽपि ( १४।५।६ )—“तच्चेदंतःपुनरापतेत् । शेषेण शुध्येरन् । रात्रिशेषे द्वाभ्यां प्रभाते तिसृभिः" । इति । चंद्रिकायामिदं व्याख्यातम्- संपूर्णीशौचस्यान्त्याहोरात्रमध्ये संपूर्णाशौचा-- न्तरस्य यदा संनिपातः तदा द्वितीयाशौचस्य प्रथमाशौचकालशेषेण न शुद्धिः । किंतु तच्छेषा- दूर्व द्वाभ्यां रात्रिभ्याम् शुद्धिः। यदा तु पुनरष्टमे यामे संपूर्णाशौचांतरसन्निपातस्तदाष्टमयामा- दूर्व तिसृभी रात्रिभिः" इति । स्मृत्यंतरेऽपि—"निशावशेषे द्विदिनात्तदूर्ध्व यामावशेषे त्रिदिना- १५त्प्रयाति" ॥ इति । शातातपोऽप्याह-“रात्रिशेषे ब्यहाच्छुद्धिर्यामशेष व्यहादिति” । अयं च विशेषः संपूर्णाशौचसंनिपातविषयो द्रष्टव्यः । यदाह बोधायनः (१।५।१०४)- अथ यदि दश रात्राः संनिपतेयुराचं दशरात्रमाशीचमा नवमादिवसात् " इति । आङनाभि- विधौ । यावन्नवमदिवससमाप्तिस्तावत्पूर्वाशौचकालेन उत्तराशौचां समाप्तिरित्यर्थः । एवं च पूर्वाशौचांत्यदिनेऽपि संनिपतितस्यासंपूर्णस्य द्वितीयाशौचस्य पूर्वाशौचशेषेणैव शुद्धिर्बोद्धव्या। २० तथा च धर्मदीपे-“ब्राह्मणस्य पूर्वाशौचदशमेऽन्हि यदा संपूर्णद्वितीयाशौचप्रक्रमः तदा 'रात्रिशेषे द्वाभ्याम् ' इत्ययं विशेष ” इति । देवलोऽपि-- "पुनः प्राप्तं दशाहात्प्राक् पूर्वेण सह गच्छति। दशमेऽनयापतेद्यस्य ब्याहात्स तु विशुध्यति"॥ इति। प्रभाते तु त्रिरात्रेण दशरात्रेष्वयं विधिः" इति । यदि जननाशौचमध्ये मरणमापतति तदा मरणदिनमारभ्य दशाहाशौचमाहांगिराः " सूतके मृतकं चेत्स्यान्मृतके त्वथ सूतकम् । तत्राधिकृत्य मृतकं शौचं कुर्यान्न सूतकम्"॥ चतुर्विंशतिमतेऽपि- मृतजातकयोर्योगे या शुद्धिः सा तु कथ्यते । मृतेन शुध्यते जातं न मृतं जातकन तु"॥ षत्रिंशन्मते-- “शावाशौचे समुत्पन्ने सूतकं तु यदा भवेत् । शावेन शुध्यते सूतिर्न सूतिः शावशोधनी"॥ इति । ३० देवल:- मरणोत्पत्तियोगे तु गरीयो मरणं भवेत् । अघानां सन्निपाते हि शुद्धिज्ञेया गरीयसी" ॥ इति । गरीयस्त्वाच्छावेन समकालस्यापि सूत्याशौचस्य स्वरूपतो लघीयसः शुद्धिरित्यर्थः। कालतो गुरुणा आशौचन लघ्वाशौचशुद्धिमाह- "शावांते शाव आयाते पूर्वाशौचेन शुध्यति । गुरुणा लघु शुध्येत्तु लघुना नैव तद्गुरु " ॥ ३५ अल्पकालाशौचमध्ये दीर्घकालाशौचप्राप्तौ दीर्घकालाशौचेन, शुद्धिमाह उशना अपि--- २५ ... “ - काण्डम् ] स्रावाशौचमृताशौचसंपाते। - “ - “ " स्वल्पाशौचस्य मध्ये तु दीर्घाशौचं भवेदि । न पूर्वेण विशुद्धिः स्यात्स्वकालेनैव शुध्यति" ॥ शंख:- “ समानाशौचसंपाते प्रथमेन समापयेत् । असमानं द्वितीयेन धर्मराजवचो यथा"॥ द्वितीयमाशौचं प्रथमाशांचकालापेक्षया दीर्घकालत्वेनासमानकालं द्वितीयेन द्वितीयाशौचकालेनैव समापयेदित्यर्थः ॥ यमोऽपि-" अघवृद्धिमदाशौचं पश्चिमेन समापयेत् । यदा त्रिरात्रे प्रक्रांते दशाहं प्रविशेद्यदि । आशौचं पुनरागच्छेत्तत्समाप्य विशुध्यति " ॥ इति । अत्र विशेषो देवलेनोक्तः- परतः परतोऽशुद्धिरघवृद्धौ विधीयते । स्याच्चेत् पंचमतादन्हः पूर्वेणैव विशिष्यते" ॥ अस्यार्थः-“परभूतस्य पूर्वसजातीयस्य विजातीयस्य वा दिनाधिक्येन वृद्धौ परतः शुद्धिः। परा- शौचस्य यावान् कालः तस्य सर्वस्यापगमपर्यंतमशुद्धिः। पूर्वाशौचं पराशौचापेक्षया स्वल्पकालमपि १० यदि पंचमादन्हः पंचमदिनात्परतोऽपि कतिपयदिनोपेतं स्यात्तदा पूर्वेण पूर्वाशौचकालशेषेण पराशौचस्यापि शुद्धिर्विशिष्यते विधीयत" इति । चंद्रिकायामप्यस्यार्थोऽभिहितः-उत्तराशौचस्य दीर्घकालत्वेऽपि यदि पूर्वाशौचमुत्तराशौचकालादर्धाधिककालं स्यात्तदा पूर्वेणैवोत्तरस्यापि शुद्धि- र्भवति । अत्रोदाहरणम्-- "अधस्तान्नवमान्मासाच्छुद्धिः स्यात्प्रसवे सदा । मृते जीवेऽपि वा तस्मिन्नहोभिर्माससंख्यया" ॥ १५ इति वचनेन सप्तममासप्रसवे सप्तरात्रं अष्टममासप्रसवे अष्टरात्रमुक्तम् । तत्र यदा सप्तरात्राद्याशौच- मध्ये दशरात्राशौचं तदार्धाधिकत्वात्पूर्वाशौचशेषेणोत्तराशौचस्य शुद्धिर्भवति । एवमन्यत्रा- प्युत्तराशौचकालार्धाधिककाले पूर्वाशौचे द्वितीयाशौचस्य तच्छेषेणैव शुद्धिरिति । अयमेवार्थः स्मृतिरत्नमाधवीयादावभिहितः । तत्र चेदमुदाहृतम् । यदा गर्भपातनिमित्ते षडहाशौचे यदि दशाहाशौचमापतेत् तदा षडहाशौचशेषेणैव दशाहाशौचस्यापि निवृत्तिरिति । २० एतदेवाभिप्रेत्य दशकेऽप्युक्तम्-“अल्पात्पंचदिनाधिकाद्दशदिनं गच्छेत् ” इति । यत्तु कैश्चिदुक्तं कलौ निषिद्धस्य क्रमाशौचस्य प्रतिपादनाद्दरुक्तिरिति तदविचारितरमणीयम् । क्रमाशौचव्यति- रिक्तस्य पंचदिनाधिकाशौचस्य चंद्रिकादावुक्तत्वात् । हारीतः- “स्वल्पकाले मृताशौचे दीर्घ चेज्जातकं भवेत् । स्वल्पकालेन शुद्धिः स्यान्न दीर्पण विशुध्यति"॥ इति। व्यासोऽपि- "त्रिरात्रमृतमध्ये तु दशाहं जातकं भवेत् । मृताशौचेन शुद्धिः स्यादित्याह भगवान्यमः" ॥ इति । मत्स्यपुरणे- “जाताशौचस्य मध्ये तु ततो न्यूना मृतिः पतेत् । न तत्र जननाशौचं मृतकेनैव शुध्यति" ॥ इति। षडशीतौ विशेष उक्तः- शावादल्पा समा वाऽपि सूतिः शावेन शुध्यति । स्वभावबहुसूतिस्तु न्यूनशावविशोधनी ॥ बहुसंख्यदिनं यत्तु तत्स्वभावबहूच्यते” इति । यथास्वदेशाचारं अत्र व्यवस्था। संग्रहे- “ सूतके तत्पुनः स्याञ्चेच्छावे यद्वाऽथ सूतकम् । पूर्वेणैवोत्तरं गच्छेन्न शावं सूतकात्क्वचित्॥ " पूर्वस्यांत्यदिने तच्चेद्व्यहं पूर्वाघतः परम् । व्यहं पूर्वोत्ययामे च तत्प्रभातेऽथ वा यदि ॥ दीर्घादल्पं व्रजेन्नाल्पाद्दीर्घमित्यवसंगतौ । प्रभातेंऽत्यदिने वाप्तमपैत्यल्पं हि दीर्घतः " ॥ इति । २५ ३० - मातापित्रोमरणे जननाशौचे। [आशौच- अत्र केचिदाहुः- पूर्वेणैवोत्तरं गच्छेत् " इति वचनेन पूर्वमृतिनिमित्ताशौचमध्ये उत्तरमृति- निमित्ताशौचस्य संनिपाते देशांतरीयस्य वा तस्य श्रवणे पूर्वशेषेण शुद्धिः। न तूत्तरमृतिनिमित्ता- शौचमध्ये पूर्वाशौचश्रवणे उत्तराशौचशेषेण शुद्धिः । किंतु अवशिष्टमतिकांताशौचमनुष्ठेयमेव । उत्तराघशेषेण पूर्वाघस्य शुध्धभावात्। उत्तरमृतिनिमित्ताशौचमध्ये पूर्वाशौचस्यानतिक्रान्तस्य श्रवणे ५ पूर्वशेषेणोत्तरस्यापि शुद्धिः। पूर्वस्यातिक्रान्तस्य तु दीर्घादल्पमिति वचनेनोत्तराशौचशेषेण शुद्धिः । आशौचमध्ये आपतितस्याशौचस्य निर्गमानन्तरं श्रवणेन पुनराशौचमनुष्ठेयम् । संनिपाताशौच- वचनेषु पुनराशौचपाते शिष्टाहात् शुद्धिविधानात् । यथा स्नानानन्तरस्पृश्यस्पर्शावगमेऽपि तेनैव स्नानेन पूर्वस्यापि शुद्धिरिति । मातापितृमरणाशौचयोरंतिमदिनात्पूर्वमेव मिथः संनिपातेऽपि न प्रथमाशौचशेषेणैव शुद्धिः । यदाह शंखः- १० “मातर्यग्रे प्रमीतायामशुद्धौ म्रियते पिता! पितुःशेषेण शुद्धिः स्यान्मातुः कुर्यात्तु पक्षिणीम्" ॥इति । मात्राशौचमध्ये पित्राशौचसांनपाते पितृशावेनैव शुद्धिः । पित्राशौचस्य मध्ये मातृशाबसंनिपाते तु पूर्वाशौचानन्तरमातृशावाशौचं पक्षिणीमात्रमनुवर्तत इत्यर्थः । षडशीतौ- पूर्वेण चापरेणापि पित्रोः शावेन हीतरत् । आशौचं शुद्धिमायाति न पित्रोः शावमन्यतः ॥ मातुराशौचमध्ये तु पिता च म्रियते यदि । पितुर्मरणमारभ्य पुत्राणां दशरात्रकम् ॥ १५ " पितुराशौचमध्ये तु यदि माता प्रमीयते। दशाहात्पैतृकादूर्ध्व मातृकं पक्षिणी भवेत् " ॥ देवलो विशेषमाह-- मृतं पतिमनुबज्य पत्नी चेज्ज्वलनं गता । न तत्र पाक्षिणी कार्या पैतृकादेव शुध्यति ॥ पुत्रोऽन्यो वाऽग्निदस्तस्यास्तावदेवाशुचिस्तयोः। नवश्राद्धं सपिंडं च युगपच्च समाप्नुयात् ॥ “भर्तुः पित्रादिभिः कुर्यात् भर्ना पत्न्यास्तु नैव हि। सापत्न्या वाऽनपत्न्या वा न भेद इति गोभिलः॥इति। २० तथा च गोभिल:- एकचित्यां समारूढौ दंपती निधनं गतौ । एकोद्दिष्टं षोडशं च भर्तुरेकादशेऽहनि ॥ " द्वादशेऽहनि संप्राप्ते पिंडमेकं द्वयोः क्षिपेत् । पितामहादिपिंडेषु तं पितुर्विनियोजयेत्” ॥ इति । . । यमः- " पत्न्या चैकेन कर्तव्यं सपिंडीकरणं स्त्रियाः । सा मृतापि हि तेनैक्यं गता मंत्राहुतिव्रतैः" ॥ २५ संग्रह-“ पत्युम॒ताहान्यदिनेऽनुगच्छेद्या स्त्री पतिं चित्यधिरोहणेन । " दशाहतो भर्तुरघस्य शुद्धिः श्राद्धद्वयं स्यात्पृथगेव काले " ॥ अन्यत्रापि- पूर्वेयुर्वाऽपरेधुर्वा भर्तारमनुगच्छति । भर्ना सहैव शुद्धिः स्याच्छ्राद्धं चैकदिने भवेत् ॥ इति । वसिष्ठो विशेषमाह- अनुयाने तु पतिना सपिंडीकरणं सह । अंतर्धाय तृणं मध्ये भर्तृश्वशुरयोरपि” । इति । ३० अस्यार्थः-पूर्व भर्तुः पिंडे पित्रादिभिः संयोजिते प्रथमपिंडो भर्तृपिंडो भवति । द्वितीयः श्वशुरपिंडो भवति । तत्र भर्तृश्वशुरपिंडयोर्मध्ये तृणमन्तर्धाय भर्तृपिंडेन स्त्रीपिण्डं योजयेदिति । स्मृत्यंतरे- "मातापित्रोम॒तौ चैव जनने त्वौरसस्य च । स्वाशौचापगमे नैव शुद्धिः स्यान्नान्यकालतः” । इति सपिंडाघमध्ये पित्रोदृतावौरसपुत्रजनने च न सपिंडाघशेषेण शुद्धिः किंतु मातापिढमरणनिमित्तं पुषजनननिमित्तं च दशाइमाशौचमनुष्ठेयमित्यर्थः ।
काण्डम् ] अज्ञातिदाहाशौचम् । ३ ។ अंगिराः-“दाहकस्तु दशाहांतः शवदाहं चरेद्यदि । पूर्वेणैव विशुद्धिः स्यात्पित्रोस्तद्दिवसाद्भवेत् ॥ नारदः- "अंतर्दशाहे चेत्कर्तुः पुनः प्रेतस्य संस्कृतिः। तस्माच्छुद्धिः पूर्वशेषादेकोद्दिष्टं यथोदितम् ॥ "पितरौ चेत् दहेत्तत्र दशाहाच्छुद्धिरग्निदे" इति “एकादशेन्हि मध्यान्हे एकोद्दिष्टं विधीयते " ॥ इतिवचनात् तत्तदेकादशाह एवैकोद्दिष्टं भवतीत्यर्थः । हारीतश्च- दाहकार्यद्वयं स्यान्चेत्कतुरैक्ये विशेषतः । पूर्वेणैव समाप्येत तोयपिंडद्वितीयकम् ” । तोयपिंडमिति स्वाविनाभूताशौचोपलक्षणम् । दक्षः- “ मृताशौचनिमित्ते द्वे दहनं मरणं तथा । ज्ञातीनां मरणादेव दहनाद्दाहकस्य तु ॥ " अन्नं दग्ध्वा दशाहान्तः शुद्धिः पूर्वाधशेषतः” इति ॥ संग्रहे पित्रन्यानन्तरानेकान दग्ध्वा पूर्वाधतः शुचि। पितरौ चेइहेत्तत्र दशाहाच्छुद्धिरग्निदे” ॥ इति । १० अखंडादशैं-“जननमणयोरन्यतरस्मिन्वर्तमाने यदि कश्चिज्जायेत ततस्तु मातापित्रोदशाहमेवा- शौचं न सपिंडांतरवत्पूर्वकालेनैव शुद्धिः नापि गुरुणा” इति । तथा बोधार्यनः-“जननमरणयोः संनिपाते जनने मातापित्रोदशाहमाशौचम्" इति। संग्रहे—“स्वाशौचकालतस्त्वेव सूतिकाजनकोऽमिदः। शुध्येरन्नघयोगेऽपि न पूर्वाशौचशेषतः" ।। षडशीतावपि- “पूर्वाशौचेन या शुद्धिः सूतीनां मृतिनां च सा । सूतिकामग्मिदं हित्वा प्रेतस्य च सुतानपि"॥ इति । एतदुक्तं भवति।ज्ञात्यचे वर्तमाने यदि प्रसवः स्यात्तदा मातुः सूर्तिकावधित एव शुद्धिः। पितुर्दशाहेनैव। तत्र ज्ञात्यधमध्ये ज्ञातिदाहे कृते सति दाहकस्य दाहादिदशाहेनैव शुद्धिः । न पूर्वाशौचशेषेण पुनर्जात्यंत हे पूर्वदाहादिदशाहशेषेण । पित्रोस्तु दाहे दाहकस्यान्येषामपि पुत्राणां पितृ- मरणादिदशाहेनैव शुद्धिः । न पूर्वदाहदशाहशेषेणेति । अज्ञातिदाहाशौचम्-पक्षिण्याशौचिनां अज्ञातिदाहे विशेषः स्मर्यते- अज्ञातं तु नरं दग्ध्वा त्रिरात्रमशुचिर्भवेत् । ज्ञातीनां दर्शनाच्छुद्धिः संचिते दशरात्रकम् ॥ इति । अज्ञातिदाहे मुख्यकर्तृदर्शनाभावे उदकदाने सति व्यहमाशौचमस्ति । व्यहात्परं संचयनात्पूर्व कर्तृदर्शनानंतरं दाहकर्तुराशौचमुदकमपि नास्ति। संचयनात्परं कर्तृदर्शने तु प्रेतान्नभोजने दशाह- पर्यंतमाशौचम् । दशमदिने उदकमप्यस्तीत्यर्थः । दीपिकायां तु- जनकस्य जनन्याश्च भार्याया भतुरेव च । पुत्रस्य दुहितुश्चैव जनने मरणेऽपि च ॥ " स्वकालेनैव शुद्धिः स्याच्छेषन्यायो न विद्यते "॥ ज्ञात्यघमध्ये पुत्रजनने पित्रोदशाहत एव शुद्धिः। भार्यादिमरणे तत्प्रतियोगिनामपि स्वकालत एव शुद्धिः । न पूर्वशेषेणेत्यर्थः । आशौच. मध्ये पुत्रजनने जातकर्मादिकमपि कार्यमेव । यदाह प्रजापतिः- “आशौचे तु समुत्पन्ने पुत्रजन्म यदा भवेत् । कर्तुस्तात्कालिकी शुद्धिः पूर्वाशौचन शुध्यति"।इति । ३० पित्रघमध्ये पुत्रजनने पितृमरणाशौचशेषेण पुत्रजन्मनिमित्ताशौचमपि शुध्यतीत्यर्थः । तथा च रत्नावल्याम्- "पित्रोप॑तान्तराले तु स्वभार्या चेत्प्रसूयते। पित्रोः शेषेण शुद्धिः स्यात्पत्न्याः शुद्धिः स्वकालतः" इति। मातापितृमरणाशौचमध्ये भार्यायाः प्रसवे सति जनकस्य पितृमरणाघशेषेण शुद्धिः । पत्न्यास्तु स्वकालेनैवेत्यर्थः। १ क्ष-दशाहक । २ ध. मू. १।५।९०. । २ क्ष-न्यायेन । - “ १५ ६८ असन्निहितदेशभवसपिण्डमरणाशौचम् । [आशौच 10 असंनिहितदेशभवसपिण्डमरणाशौचम् । असंनिहितदेशभवसपिंडमरणाशौचमाह मनुः ( ५।७४ )- “विगतं तु विदेशस्थं शृणुयायो ह्यनिर्दशम् । यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् " ॥ विगतं मृतं विदेशस्थं असंनिहितदेशस्थं अनिर्दशं अनिर्गतदशाहं दशरात्रस्यांतः स्वजात्युक्तकाला- ५ शौचमध्ये इति यावत् । एतज्जन्माशौचस्यापि प्रदर्शनार्थम् । तथा च बृहस्पतिः- "अन्यदेशे मृतं ज्ञातिं श्रुत्वा पुत्रस्य जन्म वा । अनिर्गतदशाहं तु शेषाहोभिर्विशुध्यति"। अन्यदेशे असंनिहितदेशे । पुत्रस्य जन्म ज्ञातेः स्वस्य वाऽपत्यस्य जन्म । शंखोऽपि- "देशांतरगतं श्रुत्वा कल्याणं मरणं तथा। यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत्” ॥ देशांतरगतं असंनिहितदेशभवं कल्याणं अपत्यजन्मेति यावत् । दशरात्रस्येत्येतत्कालांतरस्याप्युपलक्षणार्थम् । यस्य वर्णस्य यः कालो विहितो गुणवत्तया । श्रुत्वा तदंतरेवासौ तच्छेषेणैव शुध्यति" ॥ इति स्मरणात् ! याज्ञवल्क्योऽपि ( प्रा. २१)- "प्रोषिते कालशेषः स्यात्" ॥ इति । संग्रहे- " शिष्टाहमेव सर्वेषामपि ज्ञातेंऽतरा त्वधे । प्राक्संचयात्सुतस्येत्थं तदूर्ध्व दशरात्रकम् ” ॥ इति। शावे च सूतके चांतरा मध्ये अवगते सति पुत्रव्यरितिक्तानां सर्वेषामपि सपिंडानां शिष्टाहमेवाचं भवति । पुत्रस्य तु मुख्यकर्तुरपि अस्थिसंचयनात्प्राक् पित्रोप॑तिश्रुतौ शिष्टाहमेवाशौचं तदूर्व १५ श्रवणदिनादिदशाहमेवेत्यर्थः । तथा च स्मृत्यंतरे- "पित्रोम॒तौ चेदरस्थः श्रुत्वा तदिवसात्परम् । पुत्रः शुध्येत् दशाहेन संचयात्प्राक्तु शेषतः" ॥इति । चतुर्थेऽहनि विप्राणामस्थिसंचयनं स्मृतम्” इत्यस्थिसंचयनस्य चतुर्थदिने कर्तव्यत्वविधानात् । 'संचयनात्प्राक्तु शेषत' इति संचयेन चतुर्थदिवसस्यैवोपलक्षितत्वाच्च चतुर्थदिनात्पूर्व पितृमरणस्मृती शिष्टाहं चतुर्थदिवसादि तच्छ्रुतौ दशाहमिति केचित् । २० अतिक्रान्ताशौचम् । उक्तस्य दशरात्रादिशावाशौचस्यापगमादूर्वं असंनिहितदेशे मृतसपिंडस्य मरणवार्ताश्रवणे त्वाह मनुः ( ५।७५ )- “ अतिक्रांते दशाहे तु त्रिरात्रमशुचिर्भवेत् । संवत्सरे व्यतीते तु स्पृष्दैवापो विशुध्यति." ॥ शंखोऽपि- “ अतीते दशरात्रे तु त्रिरात्रमशुचिर्भवेत् । तथा संवत्सरेऽतीते स्नात एव विशुध्यति" ॥ २५ देवल:- ॥ 3.6 “ आशौचाहःस्वतीतेषु बंधुश्चेच्छ्रयते मृतः। तत्र त्रिरात्रमाशौचं भवेत्संवत्सरांतरे " संवत्सरांतरे प्रथमसंवत्सरमध्ये । चंद्रिकायाम्- " अतीते सूतके स्वे स्वे त्रिरात्रं स्यादशौचकम् । संवत्सरे व्यतीते तु सबःशौचं विधीयते "॥ अत्र सूतकशब्दः शावाशौचपरः । याज्ञवल्क्योऽपि " प्रोषिते कालशेषः स्यादशेषे व्यहमेव तु । सर्वेषां वत्सरे पूर्णे प्रेते दत्वोदकं शुचिः” ॥ अशेषे अतिक्रांते दशाहादावित्यर्थः। अत्र विज्ञानेश्वरः (पृ.१७९ पं.६-७)--अयं च व्यहो दशाहा- दूर्ध्व मासत्रयादाक् द्रष्टव्यः। पूर्वोक्तं तु सद्यःशौचं नवममासादूर्ध्वमक्सिंवत्सराइष्टव्यम् । यत्पुनः ऊर्ध्व दशाहाच्छ्रुत्वा एकरात्रम्” इति वसिष्ठस्मरणं तदूर्ध्व षण्मासेभ्यः यावन्नवमम् । यच्च श्रुत्वा चोर्ध्व दशम्याः पाक्षिणीमिति तन्मासत्रयादूर्ध्वमर्वाक् षष्ठात् । तथा च वृद्धवसिष्ठः- १ याज्ञवल्कीये न दृश्यते । २१ श्लो. टीकायां मिताक्षरोद्धृतं कस्यचिद्वचनम् (पृ.१७९ पं.१-२) .
काण्डम् ] अतिक्रान्ताशौचम् । ५३५ ५ " "मासत्रये त्रिरात्रं स्यात् षण्मासे पक्षिणी तथा। अहस्तु नवमादागूज़ स्नानेन शुध्यति" ॥ इति । स्मृत्यर्थसारे-- “ अतीताशौचं तु स्वाशौचकालादूर्ध्व ब्राह्मणादीनां सर्वेषां वर्णानामुपनयना- दूर्ध्व स्त्रीणां विवाहादूर्व भवति । तच्च मासत्रये त्रिरात्रं षण्मासे पक्षिणी नवममासे त्वेकाहं ततः परं सचैल स्नात्वोदकदानाच्छुद्धिः। अतीताशौचे स्वाशौचकालविभागादूर्ध्व स्पृश्याः। जन्मन्यति- क्रांताशौचं सपिंडानां नास्त्येव । पुत्रजन्मनि तु पितुः स्नानमस्त्येव " इति । स्मृतिरत्नमाधवीयादिषु तु दशाहादूर्ध्वमर्वाक् त्रिपक्षात्रिरात्रं षण्मासादाक्पक्षिणी । अक्सिंवत्सरादेकाहम् । यदाह विष्णुः- “अर्वाक् त्रिपक्षात् त्रिदिनं षण्मासाच्च दिवानिशम् । अहः संवत्सरादर्वाक् देशांतरमृतेष्वपि " ॥ अत्र दिवाशब्देन अहर्दयमुच्यते । दिवानिशं पक्षिणीति यावत् । तथा च देवलः “आ त्रिपक्षात् त्रिरात्रं स्यात्षण्मासात्पक्षिणी ततः । परमेकाहमा वर्षादृर्श्व स्नानेन शुध्यति"॥ इति । १४ नीते त्वाशौचे वत्सरांतस्त्वेकरात्रेण” इति विष्णुवचनमपि देवलसमानविषयम् । षण्मासादृर्व संवत्सरमध्ये एकरात्रेण शुद्धिरिति यावत् । एवं च “ मासत्रये त्रिरात्रं स्यात् ” इति वृद्धवसिष्ठ- वचनस्य “ अर्वाक् त्रिपक्षात् त्रिदिनं आत्रिपक्षात् त्रिरात्रं स्यात् ” इति विष्णुदेवलवचनयोश्च निकटदेशतारतम्यापेक्षो विकल्पो द्रष्टव्यः । यत्तु संग्रहकारवचनम्- “त्रिरात्रं त्रिषु मासेषु पक्षिण्येव ततस्विषु । ततोहःषट्स्वथ स्नानं दशरात्रात्यचं श्रुतौ " ॥ इति । १५ तत्र प्रमाणं मृग्यम् । न तत्र देवलवचनं प्रमाणम् । “आत्रिपक्षात्रिरात्रं स्यात्” इति पठित्वा स्मृति- रत्नमाधवीयादिषु व्याख्यातत्वात् । न च मासत्रये त्रिरात्रं स्यात् ” इति वृद्धवसिष्ठवचनं प्रमाणम् । 'अहस्तु नवमादाक्' इत्यस्यांशस्याप्याश्रयणप्रसंगात् । न च ततस्तत एकदेशाश्रयण- मुचितम् । अतो विकल्प एव चंद्रिकायामुक्तः।भर्तृमरणे पत्न्या दशाहात्परमपि दशाहम्। “दशाह पुत्रभार्ययोः” इति वचनात् । दशाहादूर्ध्व सोदकमरणश्रवणे त्वाह मनुः ( ५।७७ -- "बाले देशांतरस्थे च पृथकपिण्डे च संस्थिते । सवासा जलमाप्लुत्य सद्य एव विशुध्यति" ॥ इति । देशांतरस्थे असंनिहितदेशस्थे बाले षापमासिके पृथक्पिडे सोदके इति यावत् । गौतमोऽपि (१४।४१) 'बालदेशांतरितप्रवजितासपिंडानां सयः शौचम् ” इति । संग्रहे-- “ अत्याशौचं दिनं सबस्यहैकाहरशौचिनोः । पक्षिण्यधिष्वघं तच्छ्रुत्वैककालोन्यथाप्लवः" ॥ इति । स्वस्वाशौचकालेऽतिक्रांते अवगते सति व्यहैकाहाशौचिनोः क्रमेण दिनं सद्यःस्नानं पक्षिण्याशौचिनः २५ एककालः रात्रौ श्रवणे रात्रिर्दिवा श्रवणे दिवा अन्यथा दशाहाबहिः श्रवणे स्नानमेवेत्यर्थः । अत्र व्यहैकाहाशौचिनोरत्याशौचं दिनं सद्य इत्यत्र मूलभूतं प्रमाणं मृग्यम्। यत्तु “ऊर्ध्वं दशाहाच्छ्रुत्वैक- रात्रम्” इति शंखवचनं प्रमाणमुपन्यस्तं न तत्र त्रिरात्रात्ययाशौचं प्रकृतम् । विज्ञानेश्वरादिभि- श्चान्यथा व्याख्यातम्-“इदमेकरात्राशौचं सपिंडानामूर्ध्वं षण्मासेभ्यो यावन्नवमं पूर्वोक्तं तु सद्यः- शौचं नवममासादूर्ध्व द्रष्टव्यम्” इति। चंद्रिकादावपि “त्रिरात्राद्याशौचिनां कालशेषेण शुद्धिः ३० कालशेषाभावे सद्यःशौचम्” इति । यत्तु पक्षिणीविषये "अतीते पक्षिणीकाले दशाहाभ्यंतरश्रुतौ। दिवा वा यदि वाराबावेककालेन शुध्यति" इति स्मृत्यंतर- वचनं संग्रहकारेण प्रमाणमुक्तं तदपि चंद्रिकास्मृतिरत्नमाधवीयविज्ञानेश्वरीयादिनिबंधनेषु मन्वादिषु चादर्शनाद्विचारणीयम् ।
भ्रातृविषये । पुनःसंस्कारे विशेषः । [आशोच- ॥ तथा दीपिकायाम्- " मातापित्रोरघेऽतीते श्रुत्वाऽचं दशवासरम् । त्रिरात्रपक्षिण्येकाहेष्वतीतेष्वाप्लवो भवेत् " ॥ इति । मनुः ( ५।७६ )- निर्देशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च । सवासा जलमाप्लुत्य शुद्धो भवति मानवः”॥इति ५ ज्ञातिशब्देनात्रानुपतीत एवोच्यते । उपनीतमरणे “ उपेते विषमं वृत्ते तस्मिन्नेवातिकालजम् " इति व्याघ्रणातिक्रांताशौचविधानादशाहादूर्ध्वं पुत्रजन्मश्रवणे पितुरेव स्नानं जन्मनि सपिंडाना- मत्याशौचं नास्ति। “ नाशौचं प्रसवस्यास्ति व्यतीतेषु दिनेष्वपि ” इति देवलस्मरणात् । तथा संग्रहे- "पित्रो_तुर्भवेन्नान्येष्वनुपेतात्यये त्वघम् । पितुः स्नानं तदन्येषां न च तत्सूतकात्यये॥ तस्माञ्चोपरि १० “ गौणमातृमरणं श्रुत्वा सदाचं व्यहम् ” इति । गौणमाता सपत्नीमाता । भ्रातृविषये स्मत्यंतरम्-- भ्रातुर्देशांतरमृतौ षण्मासाद्वत्सरादयः । दशरात्रं त्रिरात्रं स्याद्दशाहं दाहकस्य तु" ॥ इति । दाहकस्य भ्रातुः। तथा- “देशांतरमृतियत्र त्वनुजाग्रजयोर्यदि । षण्मासाद्वत्सरादर्वाक् दशाहं व्यहमाचरेत् "॥ इति। १५ एतदकृतक्रियभ्रातृविषयम् । यदाह पैठीनसिः- “प्रोषितभ्रातृमरणे दत्तपिंडोदकक्रिये । त्रिरात्रं सूतकं तत्र दशाहं पुत्रभार्ययोः” ॥ इति । एतच्च त्रिरात्रविधानं षण्मासात्पूर्व वेदितव्यम् । तथा च गालवः- “कृतोदके तु षण्मासात्पक्षिणी त्वघमिष्यते । अधश्चेत् त्रिदिनं ग्राह्यमकृते तु दशान्हिकम्"॥ इति । षण्मासादूर्ध्व भ्रातुरचं पक्षिणीत्यर्थः । संग्रहे- २. “ दशरात्रं सदा पित्रोः परोक्षमरणे श्रुतौ । व्यहं मातृसपन्यास्तु दशाहं वत्सरादधः ॥ कृतौदैहिकेऽत्यब्दे दिनं तस्यास्यहं तयोः " ॥ इति । वत्सरमध्ये तत्परं वा मातापितृमरण- श्रवणे सर्वेषामपि पुत्राणां दशाहमेव । सपत्नीमातुरसमक्षमृतिश्रवणे वर्षात्परं व्यहमेव । तत्पूर्व तु दशाहम् । अत्र विशेषः । ज्येष्ठेन कृते और्ध्वदेहिके अब्दे. चातिक्रांते तस्याः सपत्नीमातुः परोक्ष- मरणश्रवणे दिनं तयोर्मातापित्रोस्तच्छ्रतो कनिष्ठस्य व्यहमित्यर्थः । पुनःसंस्कारे विशेषः स्मृत्यर्थसारे दर्शितः । आहिताग्नौ विदेशस्थे मृत यावद्विधिना न संस्कारस्तावत्तत्पुत्रादीनां मुख्यकर्तृणां संध्यादिकर्मलोपो नास्ति । शुभकर्म न कर्तव्यम् । अना- हिताग्नेविधिवदहनाभावे तदानीमाशौचग्रहणं कृताकृतम् । दशाहानंतरं मरणश्रवणे दाहापूर्व यहाद्याशौचं नास्ति । मुख्यकर्तृसंभवे तदितरज्ञातीनां शुभकर्म च कर्तव्यम् । आहिताग्नेविधि- वदहनाभावे आशौचग्रहणं नास्त्येव । पुनःसंस्कारे दाहाद्याशौचमपि संपूर्णम् । अनाहिताग्नेः ३० पुनःसंस्कारः सूतकमध्ये चेत् शेषदिनात् शुद्धिः । अतीते सूतके पुनः संस्कारश्चेत्पूर्वमगृहीता- शौचस्य पुत्रस्य पन्याश्च दशाहमाशौचम् । गृहीताशौचयोः पुत्रपन्योस्त्रिरात्रम् । पत्न्याः पुनःसंस्कारे पत्युश्चैवं सपत्न्योर्मिथश्चैवम् । गृहीताशौचानां कृतोदकानां पुनराशौचं नास्ति । अकृतोदकानां पुनरेकाहमिति । बृहस्पतिः- “ आशौचे वर्तमाने तु पुनर्दाहक्रिया यदि । तच्छेषेणैव शुद्धिः स्यादतीते सूतकं भवेत् ॥ “दशाहादि यथावर्ण पित्रोराशौचमाचरेत् । पत्नीनामपि विज्ञेयं दंपत्योश्च परस्परम् ॥ सापिंडानां त्रिरात्रं स्यादित्युवाच प्रजापतिः " ॥ इति । १क्ष-अनिर्दर्श। । । ३५ काण्डम् ] पित्रोः। “ “ " स्मृत्यंतरेऽपि- आशौचांतः कीकसादेः प्रदाहे शेषाच्छुद्धिस्तद्वाहिश्चेत् त्रिरात्रम् । पुत्रस्यापि प्रागघस्य ग्रहश्चेन्नो चेत्तस्याप्यत्र संपूर्णमाहुः" ॥ इति । कीकसं आस्थ । पारस्करः-“आशौचे वर्तमाने तु तच्छेषेण विशुध्यति । गते त्वाशौचसमये पुनर्दाहो यदा भवेत् । मरणादि गृहीतस्य त्रिरात्राच्छुद्धिरिष्यते । अगृहीतस्य पुत्रस्य संपूर्णाशौचमेव हि " ॥ इति । ५ अगृहीताशौचविषये देवलः-- "दग्ध्वास्थि पित्रोः पुत्रस्तु दशाहमशुचिर्भवेत् । तयोः प्रतिकृतिं दग्ध्वा शाववच्छौचमिष्यते" ॥इति । शाववद्दशाहमित्यर्थः । स्मृत्यंतरेऽपि- अस्थ्ना पलाशतैर्वा दग्ध्वा तु प्रतिरूपकम् । पित्रोदशाहमाशौचमन्येषां तु त्रिरात्रक्रम्" ॥इति । तथा- -- “ संस्कृताग्नौ दहेत्पश्चाद्दशरात्रं तु सूतकम् । इतरेषां विरात्रं स्याद् ज्ञातीनामपि सूतकम्” ॥ इति। यत्तु स्मृत्यंतरवचनम्- "दग्ध्वास्थि पित्रोः पुत्रस्तु दशाहं सूतकी भवेत्। तयोः प्रतिकृति कृत्वा त्रिरात्रमशुचिर्भवेत् ॥ इति । अत्रास्थिदाहे पुत्रस्य दशाहविधानं अगृहीताशौचविषयम् । प्रतिकृतिदाहे त्रिरात्रविधानं गृहीता- शौचविषयम् । अन्ये तु पुत्रस्य गृहीताशौचस्यास्थिदाहे. दशाहं प्रतिकृतिदाहे त्रिरात्रमिति १५ व्याचक्षते । अगृहीताशौचविषये चोदाहरंति स्मृत्यंतरम्- " नरं पर्णमयं दग्ध्वा त्रिरात्रमशुचिर्भवेत् । मातापित्रोदशाहं स्यादस्थिदाहे तथैव च " ॥ प्रागधग्रहणाभावे पर्णनरदाहे सपिंडानां व्यहं मातापित्रोस्तादृग्विधदाहे अस्थिदाहे सपिंडानां च दशाहमिति च ते व्याकुर्वत । तथा च संग्रहकारः-- यज्वायज्वपुनहि शिष्टाहं यद्यपाहिः । दशाहं व्यहमाशौचं पूर्ण प्राक् चेदघाग्रहः ।। अस्थिदाहे प्रतिकृतेर्दाहे तु व्यहमित्यघम् । सपिंडानां सुतानां तु दशरात्रमिहेष्यते " ॥ इति । दशाहमध्ये आहिताग्न्यनाहिताग्न्योः पुनःसंस्कारे कृते सति संस्कारदिनादूर्ध्वं दशरात्रावशिष्टमे- वाघं भवति । न पुनर्दाहादिदशाहं । यदि दशाहाबहिर्यज्वायज्वपुनदार्हः स्यात्तत्र दशाहं व्यह- मिति क्रमेणाचं स्यात्प्रागघग्रहणाभावे अस्थिदाहे पूर्णम् । प्रतिकृतिदाहे तु सपिण्डानां व्यहमेव । पुत्रानां तु प्रतिकृतिदाहेऽपि प्रागाशौचग्रहणाभावे दशाहमेव । तद्ग्रहणेऽपि पितृविषयेऽस्थिदाहे २५ सदा दशाहमिति संग्रहकारवचनं तैर्व्याख्यातम् । अपरे तु ज्ञातीनामगृहीताशौचानां पर्णदाह- वदस्थिदाहेपि त्रिरात्रमेव । गृहीताशौचस्य पुत्रस्य पर्णदाहेऽस्थिदाहेऽपि त्रिरात्रमेव । “आशौचांतः कीकसादेः प्रदाहे” इत्यादीनां पूर्वोक्तानां वचनानां पुनर्दाहमात्रविषयत्वेन प्रवृत्तत्वात् । “मातापित्रो- ईशाहं स्यादस्थिदाहे तथैव च " इत्यस्य च मातापितृविषये अगृहीताशौचस्य पुत्रस्य पर्णदाह- वदस्थिदाहेऽपि दशाहाशौचप्रतिपादकत्वात्तत्र सपिंडविषयत्वात्प्रतीतेरित्याहुः । तथा च संग्रहे. अंतर्दशाहदाहे तु शेषतः शुचयोऽखिलाः । बहिर्दशाहदाहे तु दाहादित्रिदिनं मतम् ॥ " प्रागाशौचग्रहाभावे ज्ञातीनां त्रिदिनं समम् । प्राग्ग्रहे तु व्यहं कर्तुरन्येषां तु न विद्यते । कर्ता च तनयः पूर्वाग्रहे पूर्ण तथा दिनम्" ॥ इति । पुराणमपि- " अस्थ्यभावे पलाशोत्थैः पर्णैः कार्य शरीरकम् । तथा पर्णमयं दग्ध्वा त्रिरात्रमशुचिर्भवेत् " । इत्येतत् गृहीताशौचपुत्रविषयम् । गृहीताशौचज्ञातीनां तु नाशौचम् । तथा च स्मत्यंतरे- ३५ -- - ५६८ आहिताग्नेः । [आशौच- " “ " " पुत्रः पित्रोस्तु संस्कारं प्रमादान्न करोति चेत् । ज्ञातीनां दशरात्रं स्यात्तदूर्व सूतकं न हि ॥ " नित्यकर्माणि कुर्वीत स्मृत्युक्तानि तथैव च " ॥ इति । अन्यत्रापि- " वंशजानामसंस्कारे सूतकं तु कथं भवेत् । दशाहात्परतः शुद्धिर्ज्ञातीनां च विशेषतः”॥ इति । एतेन दहनमन्तरेणाप्याशौचमुदकदानं चानुष्ठेयमित्युक्तं भवति । पुत्रस्यापि पुनर्दहनात्पूर्वमाशौचानुष्ठानमाह वसिष्ठः- प्रमीतपितृकः पित्रोरोदैहिकमाचरेत् । यदि कर्तुमशक्तः स्यादाशौचं नियमान्वितः॥ आ दशाहादयोर्ध्वं तु यदा कार्यक्षमस्तदा । त्रिरात्रं समतिक्रम्य श्राद्धं कुर्याद्यथाविधि ॥ दाहकस्य तदा शौचमितरेषां न विद्यते " ॥ इति । इतरेषां दत्तोदकसपिंडानामित्यर्थः । गृहीताशौचानामदत्तोदकानां तु सपिंडानामुदकनिमित्तमाशौचमुक्तं स्मृत्यंतरे- १. “ पूर्व गृहीताशौचानां न पुनर्दहने त्वघम् । तस्मिन्नुदकदातॄणामाशौचं मनुरब्रवीत् ” ॥ इति । “मरणादिगृहीतस्य त्रिरात्राच्छुद्धिरिष्यते इति पुत्रस्य त्रिरात्राशौचविधानात् ज्ञार्तानामेकरात्रं न्यायसिद्धमिति व्याख्यातारः । आहिताग्नेर्भत्रवदहनाभावे पुत्रादीनामाशौचं नास्ति। किंतु पुनर्दाहसमय एवाशौचमित्युक्तं चंद्रिकायाम्- "आहिताग्नेस्तु विधिवद्दाहांतं नास्ति चेत्तदा। आशौचग्रहणं नास्ति दाहाद्याशौचमिष्यते" ॥ इति । १५ दाहाद्याशौचम् पुनहायाशौचम् । तच्च दशाहम् । तथा पारस्करः- आहिताग्नेस्तु दहनात् दशाहाशौचमिष्यते” इति । आहिताग्नेरपि- विदेशस्थो गृही यावद्विधिना नैव संस्कृतः। पुत्रादीनां तु सन्ध्यादि कर्मलोपो न विद्यते" ॥ पैठीनसिरपि- “ आहिताग्निश्चेत्प्रवसन्म्रियेत पुनःसंस्कारं कृत्वा शावमाशौचमिष्यते" इति । स्मृत्यंतरेऽपि- २. “दशाहांतं सपिंडानां मृतौ प्रेतक्रिया भवेत् । पुनः संस्कारे त्रिरात्रं स्याद्यष्टुः पित्रोदशाहतः” ॥ इति । अनाहिताग्नेः पुनःसंस्कारे सपिंडानां त्रिरात्रम् । यष्टुः आहिताग्नेः पुनःसंस्कारे सपिंडानां दशाहं । पित्रोश्च पुनःसंस्कारे पुत्राणां दशाहमित्यर्थः । अनेक सपिंडपुनर्दाहे संग्रहकारः- मृतानां तु सपिंडानां काले बहुतिथे गते । तान्सर्वान्सह संस्कुर्यात् त्रिरात्रेण यथाविधि । "एकोद्दिष्टं चतुर्थेऽन्हि तेषां पिंडं पृथक् पृथक् । सपिंडीकरणं तेषां सहैव पृथंगेव वा”॥इति । २५ अब्दात्परं दुर्मृतसपिंडादिपुनर्दाहविषये गर्गः "अतीतेऽब्द तु संस्कारे एकाहास्पिंडमर्पयेत् । श्राद्धं दद्यात् द्वितीयेऽन्हि तृतीयेऽह्नि सपिंडनम्" ॥ इति। मातापितृविषये तु त्रिरात्रम् । “अब्दांते वाऽथ षण्मासे पुनः कृत्वा तु संस्कृतिम् । त्रिरात्रमशुचिर्भूत्वा श्राद्धं कुर्याच्चतुर्दिने" ॥ इति स्मरणात्-अयमत्र निष्कर्षः । आहिताग्नेः पुनर्दाहाधेव पुत्रादीनामाशौचं न ततः पूर्वम्। अना- ३० हिताग्नेस्तु पुनर्वाहात्पूर्वमाशौचग्रहणं विकल्पितम्। आहिताग्न्यनाहिताग्न्योर्दशाहमध्ये पुनर्दाहेऽपि शिष्टाहमेवाघम् । दशाहात्परमाहिताग्नेः पुनर्दाहे पुत्रस्य सपिंडानां च दशाहम् । अनाहिताग्ने पुनरस्थिदाहे प्रतिकृतिदाहे च पूर्वमगृहीताशौचस्य पुत्रस्य दशाहम् । गृहीताशौचस्य तु त्रिरात्रम् । अस्थिदाहे प्रतिकृतिदाहे चागृहीताशौचानां ज्ञातीनां त्रिरात्रं गृहीताशौचानामदत्तोदकानामुदकदान- निमित्तमेकरात्रम् । दत्तोदकानां तु न किंचित् । १ खग-वि ।
काण्डम् ] रात्रौ जन्मर्तुमृतिसम्भवे । - १५ “ -- अन्ये तु अस्थिदाहे पुत्राणां गृहीताशौचानामपि दशाहम् । प्रतिकृतिदशाहे त्रिरात्रम् । सपिंडानामप्यगृहीताशौचानामस्थिदाहे दशाहम् । गृहीताशौचानां तु त्रिरात्रमित्याहुः । अनेक- सपिंडपुनर्दाहे त्रिरात्रमब्दानंतरमेकस्यानेकस्य वा पुनर्दाहे एकरात्रम् । मातापितृविषये तु त्रिरात्र- मिति। सपिंडसमानोदकादीनामुक्तमिदं दशरात्रं त्रिरात्राबाशौचमाहिताग्नेस्तत्पत्न्याश्चोपरमे संस्कार- दिवसप्रभृति अनाहिताग्नेर्मरणदिवसप्रभृति । उभयोरपि संचयनं दाहादिद्वितीयादिदिवसे कार्यम् । ५ यथाहांगिराः- "अनग्निमत उत्क्रांते साग्नेः संस्कारकर्मणः । शुद्धिः संचयनं दाहान्मृताहस्तु यथातिथिम्" ॥ इति । अत्र विज्ञानेश्वरः (पृ. १७८ पं. ४-५) “साग्नेः संस्कारकर्मण" इति श्रवणादाहिताग्नौ पितरि देशांतरमृते तत्पुत्राणामा संस्कारात्संध्यादिकमलोपो नास्तीत्यनुसंध्येयम् । यथाह पैठीनसिः अनग्निमत उत्क्रांतेराशौचं हि द्विजातिषु । दशाहादग्निमतो विद्याद्विदेशस्थे मृते सति "॥ इति। १० स एव-“आहिताग्निश्चेत्प्रवसन्नियेत पुनःसंस्कारं कृत्वा शाववच्छौचम्" इति । संनिहित- देशमरणे तु दाहादिदशाहसत्त्वेऽपि मरणायाशौचमस्ति । “सूतकं तु प्रवक्ष्यामि मृतजन्मनिमित्तकम्" इति दक्षस्मरणात् । स्मृत्यंतरे-- " अनग्नेर्मरणात्साग्नेराशौचं दाहतः परम् । तयोः संचयनं दाहान्मृताहस्तु तिथिः स्मृता” ॥ इति । अनाहिताग्नेर्मरणाद्यपि संचयनमुक्तं ब्रह्मपुराणे-- अनाहिताग्नेर्भरणादाहिताग्नेस्तु दाहतः। अस्थिसंचलनं कुर्यात् स्वशाखोक्तविधानतः" ॥ इत्यत्राचारतो व्यवस्था। तत्रैव- 'दाहायशौचं विज्ञेयं सर्वेषामग्निहोत्रिणाम। मरणाधेव कार्य स्यात्संयोगो यस्य नाग्निभिः" ॥ इति। व्याघ्रोऽपि--" दहनाघेव कार्य स्याद्यस्य वैतानिको विधिः” इति । अत्र केचिदाहुः–'यस्य वैतानिको विधिः' इति स्मरणात् आहिताग्नेस्तत्पत्न्याश्च २० वैताग्निना संस्कारे सति दाहायाशौचम् । तदभावे “संयोगो यस्य नाग्निभिः” इति वचनात् मरणाधेवानाहिताग्निमरणवदाशौचमिति । अन्ये तु उक्तयोर्वचनयोराहिताग्न्यनाहिताग्न्युपलक्षणत्वेन वैतानिकाग्निसंस्काराभावेऽप्या- हिताग्नेस्तत्पत्न्याश्च मरणे दहनायेवानाहिताग्निमरणवदाशौचमित्याहुः । शिष्टाचारादिह व्यवस्था। रात्रौ जन्मर्तुभृतिसंभवे दिननिर्णयः । रात्रौ जन्मादिसंभवे अर्धरात्रात्परं जन्मादौ सति २५ परदिनं पूर्वे तदुत्पत्तौ पूर्वदिनमित्येकः कल्पः। रात्रि त्रेधा विभज्याचे भागद्दये जननादौ जाते पूर्वदिनं ग्राह्यम् । उत्तरभागे परदिनमिति द्वितीयः । प्रागुदयादित्यपरः कल्प: ॥ तथा विज्ञानेश्वरीये (पृ. १४४ पं. ३१-३३ )- “ अर्धरात्रावधिः कालः सूतकादौ विधीयते ॥ रात्रिं कुर्यात् त्रिभागं तु द्वौ भागौ पूर्व एव तु । उत्तरांशः प्रभातेन युज्यते मृतसूतके ॥ ३० ऋतौ च सूतके शावे तृतीयांशः परान्वितः । आद्यौ द्वावंशकौ युक्तौ पूर्वेणाओंति निश्चयः॥ उदिते तु यदा सूर्ये नारीणां दृश्यते रजः । जननं वा विपत्तिर्वा यस्याहस्तस्य शर्वरी ॥ रात्रावेव समुत्पन्ने मृते रजसि सूतके । पूर्वमेव दिनं ग्राह्यं यावन्नाभ्युदितो रविः" एतेषां च कल्पानां देशाचारेण व्यवस्था इति । “ ॥
संपर्काशौचम् । [ आशौच- -- ॥ । अत एव स्वदेशाचारानुसारिणा तुण्डीरमंडलीयेन संगृहीतम्- त्रियामायास्तृतीयांशे यदि जन्मर्तुमृत्यवः । प्रभातादि यदि व्यंशे पूर्वाहायघमिष्यते" ॥ इति । पादोनचतुर्नाडिकारूपसंध्याकालरहिता रात्रिस्त्रियामा। अत्राहुः- तृतीयभागे संप्राप्ते मलं स्यान्निशि चेत्त्रियाः। प्रभातादित्रिरात्रेण शुद्धिं तस्या विनिर्दिशेत् ॥ ५ “ प्रत्यूषे जन्ममरणे स्यातां यदि परं दिनम्” ॥ इति वृद्धपराशरस्मरणात् । “रात्रिं कुर्यात् त्रिभागं तु” इत्यादिवचनानि रजोमात्रविषयतया संकोचनीयानि। जन्ममरणयोस्तु अरुणोदयायेव दिनं ग्राह्यमिति । केचित्तु- " सूतके मृतके चैव यदर्घ परिकीर्तितम् । ते चेत् सूर्योदयादर्वाग् दिनमकं तु तद्भवेत् " ॥ इति। वचनात्-जन्ममरणयोरुदयाघेव दिनं ग्राह्यमित्याहुः । संपर्काशौचमुक्तं स्मृतिरत्ने- संपर्कमशनं पानं दशरात्रं विवर्जयेत् । तत्संपर्काद्भवेदेनःशुद्धस्यापि न संशयः” ॥ इति । एनः आशौचम् । संपर्कशब्दार्थ उक्तः स्मृत्यंतरे- प्रेतकर्मोपदेशित्वं तत्कृतिश्चाधिभिः सह । सहवासः सपत्न्यादिसंपर्कार्थ प्रचक्षते”॥ इति । अत्र बृहस्पतिः- १५ “ यस्तैः सह सपिंडोऽपि प्रकुर्याच्छयनादिकम् ।बांधवोऽबांधवो वाऽपि स दशाहेन शुध्यति" ॥ इति । दशाहोपन्यासो दशाहसंपर्कविषयः । यस्मिन् यस्मिन्दिने संपर्कस्तद्दिनमात्रमघं भवति ॥ कादाचित्कस्पर्शे स्नानमात्रेण शुद्धिः । स्मृत्यंतरे- "प्रेतकर्मणि वक्तृणामाशौचं कर्तृवद्भवेत् । अन्यकर्मणि वक्तृणां स्वाहाकारं विनोच्यते " ॥इति । संपर्कनिमित्ताशौचे विशेष उक्तः संग्रहे- "अघिसंपर्कतोऽशौचं भवेत्तद्दिनसंख्यकम् । न तत् द्रव्यक्रिया स्त्रीणां सांपर्किकमघं भवेत्" ॥इति । अतीताशौचविषयेऽपि क्रियाद्रव्येष्वाशौचाभावोऽतिदिष्टस्तत्रैव- तथा नैव क्रिया द्रव्येष्वतीतं त्रिदिनाद्यघम्” इति । अत्रांगिराः- "अतिक्रांते दशाहे तु पश्चाजानाति चेद् गृही। त्रिरात्रं सूतकं तस्य न तत् द्रव्यस्य कहिर्चित्" । अत्र द्रव्यमात्राशौचाभावोक्त्या स्त्रीणां क्रियायाश्चातीताशौचमस्तीत्यवगम्यते। यत्तु क्रियासाधना- भूतद्रव्यस्याशौचाभाबोक्त्या तत्साध्यक्रियाणामप्याशौचाभावः सिध्यतीति तन्न। कर्तुराशौचित्वेन कर्मानविकारत्वात्स्वद्रव्यसाध्यान्यकर्तृकक्रियाया आशौचाभावप्रतिपादनं आशौचिद्रव्यस्याशौचा- भावोक्त्यैव गतार्थत्वात् अन्यदीयक्रियाया आशौचभाववचनं मुधैव स्यात् । अत एव विज्ञानेश्वरादिभिर्गृहे भवानां भार्यादीनां द्रव्याणां च संपर्काशौचाभावः द्रवस्य त्रिरात्राद्यतिक्रांताशौचाभावश्चोक्तः । अंगिराश्च- . . “ आशौचं यस्य संसर्गादापतेद्गृहमेधिनः। क्रियास्तस्य विलुप्यते श्राद्धाणां च न तद्भवेत् ॥ इति । गृहमेधिनः क्रियालोपस्तद्गृहे भवानां भार्यादीनां द्रव्याणामप्याशौचाभावश्च कण्ठरवेणोक्तः । एवं च संपर्काशौचविषये अतीताशौचविषये च क्रियायामाशौचाभावप्रतिपादकसंग्रहकारवचने प्रमाणं चिन्त्यम् । अन्तःशवग्रामविषये मनु:- "नाद्यादंतःशवे ग्रामे नाधीयान्न जुहोति च । तानि विध्यंतरे कुर्याद्धनुरेकादशांतरे"॥ इति । १ ग-सपीत्यादि। २.
काण्डम् ] अन्तःशवे मामे । अनुगमनाशोचम् । ५४१ वितस्तिर्द्विगुणारत्नस्तस्मात्किष्कुस्ततो धनुः इति उक्तलक्षणैरेकादशभिर्धनुर्भिर्व्यवहिते विध्यंतरे कुर्यादित्यर्थः । आपस्तंबः (१।३।९।१४-१५)-- “अंतःशवमंतश्चांडालम्" इति । स्मृत्यंतरे " ग्रामस्थे शवचंडाले शूद्रायशुचिसन्निधौ। नाध्येतव्यं न भोक्तव्यं न होतव्यं कदाचन" ॥इति । आत्रेयोऽपि- " अंतःशवो यदा ग्रामस्तस्मिन् ग्रामे तदालये । नित्यं नैमित्तिक काम्यं न कुर्यादिति शासनम् ॥ श्रुतिस्मृत्योर्विरोधे तु श्रुतिरेव बलीयसी । तस्मादतःशवे ग्रामे जुहुयाच्छ्रौतपावकम् " ॥ इति । स्मृत्यंतरे विशेषो दर्शिताः- "चतुःशताधिकैविप्रैः संपूर्णे ग्राममध्यके । विशेष संप्रवक्ष्यामि जपहोमार्चनं प्रति ॥ अंतःशवस्य दोषस्तु नास्ति तत्र समाचरेत् । ग्रामे नाराचविच्छिन्ने कुर्याद्भिन्नोऽथवा पथा ॥ " वीथ्यंतरे वा मृतके हरेर! समाचरेत् । अनाथानुपनीतानां प्रेतायाश्च तथा स्त्रियाः । अंतःशवस्य दोषस्तु ग्रामादौ तु न लिप्यते ॥ मुनीनां च यतीनां च परकायप्रवेशिनाम् । मरणं यत्र संभूतं तत्र दोषो न लिप्यते ॥ शूद्रादीनां च मरणं संभवेद्यत्रकुत्रचित् । आशौचं गृहमात्रस्य ग्रामाशौचं न विद्यते ॥ कुटिके पतने चैव खवटे राजधानिषु । क्रमेणैवार्चनं कुर्यादुक्तदोषो न विद्यते” ॥ इति । १५ संग्रहे-- " अंतःशवोऽशुचिमिस्तत्र होमादि नाचरेत् । वीथ्यंतरे सदा कुर्यादेकादशधनुष्परे ॥ " ग्रामे चतुःशतब्रह्मयुक्तेऽप्यंतःशवे क्रियाः । कुर्यास्त्रीवृषलानाथबाला? चेत्यथापरे " ॥ इति । चतुःशतब्राह्मणयुक्ते ग्रामे एकादशधनुर्व्यवहितत्वाभावेऽपि कुर्यादेव । सहस्रविप्रसंपूर्णे ग्रामे तदधिकेऽपि वा । आलयस्य समीपे तु त्रिंशदंडांतरे मृतौ ॥ अर्चनस्थापनादीनि न कुर्यादेव तत्र तु ॥ " एकवीथ्यां समारूढे एकविंशद्गृहे स्थिते। त्रिंशद्धनुषि चाधस्त्ये दैवं पित्र्यं च वर्जयेत् ॥ पंचाशच्चापि सीमांते वैकवीथ्यां शवे सति । अर्चनं च हरेर्दानं जपहोमादि वर्जयेत् " ॥ इति स्मरणात् । स्मृत्यंतरे- प्रतिष्ठादिषु कालेषु यस्मिन्ग्रामे मृतिर्भवेत् । शीघं बहिः शवं नीत्वा कर्मशेष समापयेत् ।। “ अग्रहारे हरेः पूजा वर्तते यत्र कुत्रचित् । अंतःशवं यदि भवेत्तदा नीत्वा ततो बहिः । तच्छवं भस्मसाद्यावत्तावत्तंत्रेण पूजयेत् " ॥ इति संवर्तः-" पाकयज्ञं तथा भुक्तिं जलाहरणमेव च । न कुर्यात्तावता विप्रो यावत्तिष्ठेच्छवोत्तरा ॥ “ अज्ञानायदि भुंजीत प्रायश्चित्तं समाचरेत् " ॥ इति । अनुगमनाशौचम् । अनुगमनाशौचमाह पराशरः ( श४८)- अनुगम्येच्छया प्रेतमज्ञाति बंधुमेव वा।स्नात्वा सबै स्पृष्ट्वाऽग्निं घृतं प्राश्य विशुध्यति ॥ इति। ज्ञातयो मातृसपिंडाः । इतरेषां तु विहितत्वांन्न दोषः । 30 १क्ष-नाचारन् ।
पुनःस्नानम् । [आशौच- - । ॥ याज्ञवल्क्योऽपि (प्रा. २६)- "ब्राह्मणेनानुगंतव्यो न शूद्रो न द्विजःक्कचित्।अनुगम्यांभसि स्नात्वा स्पृष्ट्वाऽग्निं घृतभुक् शुचिः" इति । द्विजः विप्रादिः ।। शूद्रो वा नानुगंतव्यः । यदि स्नेहादिना ब्राह्मणः समानोत्कृष्टजाति प्रेतमनु- गच्छति तदा स्नानाग्निस्पर्शघृतप्राशनानि कुर्यादित्यर्थः । कवषो विशेषमाह- ५“अनुगम्य शव बुध्या स्नात्वा स्पृष्ट्वा हुताशनम् । सर्पिः प्राश्य पुनः स्नात्वा प्राणायामैर्विशुध्यति."॥ इति । प्राणायामाश्च त्रयः। पुनःस्नानम् । पुनःस्नानस्वरूपमाह हारीतः- आर्द्रवस्त्रं परित्यज्य शुष्कवस्त्रेण मज्जनम् । शवानुगमने क्षौरे पुनःस्नानं विधीयते "॥ इति । अनुगमने एवेदं प्रायश्चित्तं नाग्रे पार्श्वयोर्वा गमने । १० " प्रेतस्य पार्श्वयोरगे न गंतव्यं कदाचन । तस्मादये तु गंतृणामायुः क्षीणं पदेपदे ॥ "मृतस्य पश्चाद्गमने प्रायश्चित्तं विधीयते । किल्बिषादग्रगमने निष्कृतिर्नोपपद्यते"॥ इति स्मरणात् । घृताधसंभवे विशेषः स्मृत्यंतरे दर्शितः- अग्न्यभावे घृताभावे सचैल स्नानमाचरेत् । सव्याहृत्या च गायत्र्या दश कृत्वोऽभिमंत्रिताः ॥ अर्धांजलिमपः पीत्वा शुद्धिमाप्नोति वै द्विजः " ॥ इति । बालादिविषये जाबालिः- १५ "मृतं बालं च वृद्धं चानाथं विप्रमनुव्रजेत् । द्विजः स्नानेन शुध्येत घृतप्राशाग्निना विना ॥” इति । स्मृत्यंतरे- "अनाथमनुपेतं च प्रेतं कन्यामनुव्रजन् । सर्ववेदं क्रतुश्रेष्ठमाचामेन्न घृतं पिबेत्" ॥ इति । क्षत्रियादिशवानुगमने ब्राह्मणस्य विशेषमाह पराशरः ( २४९-५२)- “ क्षत्रियं मृतमज्ञानाद्ब्राह्मणो योऽनुगच्छति । एकाहमशुचिर्भूत्वा पंचगव्येन शुध्यति ॥ शवं च वैश्यमज्ञानाद्राह्मणो योऽनुगच्छति । कृत्वाशौचं द्विरात्रं च प्राणायामान्षडाचरेत् ॥ प्रेतीभूतं तु यः शूदं ब्राह्मणो ज्ञानदुर्बलः । अनुगच्छेन्नीयमानं त्रिरात्रमशुचिर्भवेत् ॥ “ त्रिरात्रे तु ततः पूर्णे नदीं गत्वा समुद्रगाम् । प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति"॥ इति । अज्ञानान्मोठ्याद्यादृच्छिकानुगमने त्वङ्गिराः-“शूद्रस्य प्रेतस्य यदृच्छयानुगमने ब्राह्मणः स्रवन्ती- मासाद्य गायत्र्या अष्टसहस्रं जपित्वा शुध्यति । क्षत्रियानुगमने तु अर्धसहस्रम् । वैश्यानुगमने २५पादोनम्" इति । स्मृतिरत्ने एकाहात् क्षत्रिये शुद्धिर्वैश्ये शुद्धि_हेन तु । शूद्रे दिनत्रयं प्रोक्तं प्राणायामशलं पुनः "॥ एवं च सति क्षत्रियस्य वैश्यशवानुगमने एकाहं शूद्रशवानुगमने व्यहं वैश्यस्य शूद्रशवानुगमने एकाह- मिति । विज्ञानेश्वरीये तु अनंतरानुगमने एकाहमेकांतरानुगमने पक्षिणीति। स्मृत्यर्थसारे च स्नेहादिना जातिषूत्कृष्टजातिषु चानुगमने सचैल स्नात्वाऽग्निं स्पृष्ट्वा घृतं प्राश्य पुनः स्नात्वा ३० शुध्येत्” । घृतप्राशनं शुध्द्यर्थमेव न भोजनस्थाने सपिंडेष्वनुगमनं विहितमेव हीनजातिषु ब्राह्मणस्य क्षत्रियानुगमने एकाहमाशौचं वैश्यानुगमने पक्षिणी शूद्रानुगमने त्रिरात्रं समुद्रगामिन्यां महानद्यां स्नात्वा प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्येत् । क्षत्रियस्य वैश्यानुगमने त्वेकाहं शूद्रानुगमने पक्षिणी वैशस्य शूद्रानुगमने त्वेकाहमिति।
काण्डम् ] रोदने स्नानम् । " द्विजाना शूद्रशवानुगमननिषेधे कदा तैः शूद्रानुसतव्या इत्याकांक्षायामाह पाराशरः- " विनिवर्त्य यदा शूद्रा उदकांतमुपस्थिताः। द्विजैस्तदानुगंतव्या एष धर्मः सनातनः ॥ इति। उदकशब्देन उदकक्रिया उच्यते। तस्या अंतः समाप्तिः। तां निर्वाशौचं परिसमाप्य यदा स्थिताः तदा द्विजैरनुगंतव्याः अनुसर्तव्याः इत्यर्थः । स्मृत्यंतरे- "तृतीयमासादारभ्य न कुर्याद्गर्भिणीपतिः । क्षौरं शवानुगमनं दूरयात्रां प्रतिग्रहम् ॥ इति । ५ अन्यत्र- "अस्नात्वा चेद्विशेग्रामं श्मशानाद्बुद्धिपूर्वकम् । त्रिरात्रेण विशुद्धिः स्यादमस्त्याह्नास्तथैव च ॥इति। तथा- - सह ॥ "संस्कारोपक्रमात्पूर्व कामं स्नात्वा विशुध्यति। आरब्धे तु हि संस्कारे समाप्ते स्नानमाचरेत् ॥ इति । एतदसपिंडविषयम् । "आरंभात्प्राक् परः स्नायात्तस्य शुद्धिर्भविष्यति" इति। “सर्वेषां च सपिंडानां दहनाच्चैव योषिताम्"।। इति स्मरणात् । विप्रस्य सर्ववर्णविषये संचितेऽस्थिन स्नानं संचिते त्वाचमनम् । अत्र पारस्करः- “अस्थिसंचयनादर्वानुदित्वा स्नानमाचरेत् । अंतर्दशाहे विप्रस्य तूर्ध्वमाचमनं स्मृतम् " ॥ इति । स्मृतिरत्ने- "मृतस्य यावदस्थीनि ब्राह्मणस्याहृतानि तु। तावद्यो बान्धवस्तत्र रौति तत् बांधवैः तस्य स्नानात् भवेच्छुद्धिस्ततस्त्वाचमनं स्मृतम्" ॥ इति । “ सचैलं स्नानमन्येषामकृते त्वस्थिसंचये । कृते तु केवलं स्नानं क्षत्रविशदजन्मनाम् ॥ इति । ब्राह्मणस्य क्षत्रियवैश्यमरणरोदने अस्थिसंचयनादीगेकाहाशौचं सचैलं स्नानं च तदृर्य सचैल- स्नानमात्रम् । तथा च माधवीये- “ अनस्थिसंचये विप्रो रौति चेत्क्षत्रवैश्ययोः। तदा स्नात्वा सचैल तु द्वितीयेऽहनि शुध्यति"॥ इति । कृते तु संचये विप्रः स्नानेनैव शुचिर्भवेत् । मृतमुद्दिश्य यो गच्छेत्स घृतप्राशनं चरेत् । वर्जयेत् तदहोरात्रं जपहोमार्चनादिकम् ” ॥ इति । विज्ञानेश्वरोऽपि- मृतस्य बांधवैः सार्धं कृत्वा तु परिदेवनम् । वर्जयेत्तदहोरात्रं दानं श्राद्धादिकर्म च" ॥ इति । २५ शूद्रमरणे विप्रादीनामस्थिसंचयनात्प्राक् तदूर्ध्व चाशौचतारतम्यमाह पारस्करः- “ अस्थिसंचयनादर्वाग्यदि विप्रोऽश्रुवान् भवेत् । मृते शूद्रे गृहं गत्वा त्रिरात्रेण विशुध्यति । “ अस्थिसंचयनादूर्ध्वमश्रुपाते द्विजातयः। अहोरात्रेण शुध्यंति सवासाक्षालनेन च ॥ " सजातेर्दिवसादेव व्यहात्क्षत्रियवैश्ययोः । स्पर्श विनानुगमने शूद्रे नक्तेन शुध्यति " ॥ इति । क्षत्रियवैश्ययोः शूद्रमरणे रोदने व्यहं शूद्रस्य स्वजातिशवस्पर्शे आतुरव्यंजने अनुगमने च दिन- मन्यथासंचयात् प्रागेककालः । ऊर्ध्व स्नानमेवेत्यर्थः । । १क्ष-त्यांह।
..... असपिण्डस्सजातीयप्रेतनिहरणाशौचम् । [ आशौच- असपिंडस्सजातीयप्रेतनिहरणाशौचमाह मनुः (५।१००-१०१)- असपिंडविजं प्रेतं विप्रो निर्दृत्य बंधुवत् । विशुध्यति त्रिरात्रेण मातुराप्तांश्च बांधवान् ॥ यद्यन्नमत्ति तेषां तु दशाहादेव शुध्यति । अनदन्नन्नमन्हैव न चेत्तस्मिन् गृहे वसेत् " ॥ इति । यः स्नेहादिना शवनिर्हरणं कृत्वा तस्यैवान्नमश्नाति तद्गृहे च वसति तस्य दशाहेनैव शुद्धिः। यस्तु ५ केवलं तगृहे वसतिन पुनस्तदन्नमश्नाति तस्य त्रिरात्रं यः पुनर्निर्हरणमात्रं न तद्गृहे वसति न चाश्नाति तस्यैकाह इत्यर्थः । निर्हारशब्दार्थः स्मृत्यंतरे दर्शित:- " प्रेतस्य वासः स्रग्गन्धभूषणाबैरलंक्रिया। वहनं दहनं चेति निर्हारार्थों निरुच्यते " ॥ इति । संग्रहेऽपि- यः प्रमीतमलंकुर्याद्वहेदाथ दहेत् द्विजम् । स शुद्धस्त्वेककालेन कालशेषं बहिर्वसेत् ॥ १. “ग्रामे वसन् दिनाच्छुध्येत्यहात्प्रेतगृहे वसेत् । निर्हत्य यो मृतान्नं च भुंक्त स तु दशाहतः॥ इति । कालशेषं बहिर्वसन दिवा निर्हरणे आनक्षत्रोदयं रात्रावार्कोदयं ग्रामावहिर्वसन्नेककालेन तत्काल- शेषेण दिवामात्रेण रात्रिमात्रेण वा शुध्यति । ग्राम एव वसन् दिनेन प्रेतगृहे वसन् त्रिरात्रेण यस्तु निर्हत्य प्रेतान्नं भुक्ते स प्रेतगृहे अन्यत्र वा वसन् दशाहतः शुध्यतीत्यर्थः । हारीतः- प्रेतनिहरणं कृत्वा ग्रामं न विशेदा नक्षत्रदर्शनाद्रात्रौ चेदा रविदर्शनात्ततः शुद्धः” इति । १५ अखंडादशैं-- दाहं विनालंकरणं वाहं कृत्वा दिनस्य तु । शेषेण शुद्धिरुक्तैव रात्रावप्युषसि प्लवः "॥ इति । विज्ञानेश्वरीये- कृच्छ्रपादोऽसपिंडस्य प्रेतालंकरणे कृते । अज्ञानादुपवासः स्यादशक्तौ नक्तमिष्यते” ॥ इति । स्मृत्यंतरे विशेषः- ३० “सज्योतिस्तु बहिर्वासों रात्रौ नक्षत्रदर्शनात् । प्राशयेत्पंचगव्यं च ब्राह्मणेः स्वस्ति वाचयेत्"॥ इति । भरद्वाजश्च---. "असपिंडशवस्य स्नानालंकरणे कृते दिवसं वहन कृत स्नात्वा दश प्राणायामान कृत्वा नक्षत्रदर्शनात्पूर्व ग्रामादहिरासीत तावदेवाशौचं रात्री सूर्योदयात्पूर्व ग्रामादहिरासीत । अन्यथा तद्ग्रामं प्रविष्टे शवहर्तुरेकाहं तद्गृहं प्रविष्टे व्यहं तत्र भोजने कृते दशाहं भवति ॥ इति । पर्युषितशवादिनिहींरे समानोदकशवनिहींरे चाशौचम् । पर्युषितशवरजस्वलासूतिकागर्भिणीवहने २५ प्रायश्चित्तमुक्तं बोधायनेन कृत्वा तु पञ्चगव्यस्य प्राशनं च तथा गराम् । ग्रासं दत्वा यथाशक्ति गायत्रीजपमाचरेत् ।। ब्राह्मणानां च वाक्येन घृताग्निस्पर्शनेन च। पुण्याहेन विशुध्येत सूत्रमन्यत्तु धारयेत् " ॥ इति । सपिंडानां प्रेतनिर्हरणस्य विहितत्वादाशौचाधिक्यमग्निस्पर्शादिकं च नास्तीत्याह देवल:- “विहितं तु सपिंडानां प्रेतनिहरणादिकम् । तेषां करोति यःकश्चित् तस्याधिक्यं न विद्यते"॥ इति । .. समानोदकप्रेतवहनादौ दशाहाशौचमाह मांडव्यः- "शावे च सूतके चैव व्यहात्तूदकदायिनः। शववाहं तु कुर्याच्चेद्दशाहांतं भवेत्क्रिया" ॥ इति । आशौचमुदकदानं च क्रिया। अखंडावरों च- - ।
काण्डम् । समानोदकप्रेतवहनादौ। " समानोदकाः प्रकुर्वीरन्संस्कारं वहनं यदि ।दशाहांतेन शुद्धिः स्यादित्याह भगवान्भृगुः"॥ इति । भारद्वाजः- " यः समानोदकं प्रेतं वहेद्वाथ दहेत वा। तस्याशौचं दशाहं स्यादन्येषां तु व्यहं विदुः” ॥ इति । अन्येषां योनिबंधूनाम्। तथा च शंख:-"व्यहं च योनिबंधूनामाशौचं वहनादिषु" । स्मृत्यंतरेऽपि- " शाखाशौचे दहेत्प्रेतं पक्षिण्याशौचवान्यदि। व्यहं मत्या व्यहं तु स्यादमत्या शुद्धिसाधनम् ॥ इति । ५ अन्यत्रापि- “पक्षिण्याशौचसंमिश्रे दहने मतिपूर्वके । आशौचिनां त्रिरात्रं स्यादिति स्मृतिविदो विदुः" ॥ इति । असवर्णशवनिहींरे गौतमेन विशेषो दर्शितः ( १४।२६)-" अवरश्चेद्वर्णः पूर्व वर्णमुपस्पृशेत् । पूर्वो वा अवरं तत्र शावोक्तमाशौचम्” इति । उपस्पर्शनं निर्हरणम् । वृद्धपराशरः- योऽसवर्ण तु मूल्येन नीत्वा प्रेतं दहेन्नरः। आशौचं तु भवेत्तस्य प्रेतजातिसमं सदा ॥ इति । १० एतदापदि द्रष्टव्यम् । अनापदि तु व्याघ्रः- “ अवरश्चेत्परं वर्ण परो वाप्यवरं यदि। वहेच्च शावमाशौचं दृष्टार्थे द्विगुणं भवेत् " ॥ इति । स्नेहादिना विजातीयशवनिहींरे शवजात्युक्तमाशौचम् । भृतिग्रहणे द्विगुणमित्यर्थः। हारीतश्च-" दृष्टार्थे द्विगुणं भवेत् " ॥ इति । अर्थलोभेन सवर्णशववाहनादावापि तद्वर्णाशौचमाह व्यासः- यदि निर्हरति प्रेतं प्रलोभाक्रांतमानसः । दशाहेन द्विजः शुध्येत् द्वादशाहेन भूमिपः ॥ " अर्धमासेन वैश्यस्तु शूद्रो मासेन शुध्यति" ॥ इति । शूद्रेण विप्रशवनिर्हरणं न कारयेदित्याह मनुः ( ५।१०४ )- "न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण हारयेत् । अस्वा ह्याहुतिः सा स्याच्छूद्रसंस्पर्शदृषिता," ॥ इति । आहूतिः शवाहुतिः । अत्र स्वेषु तिष्ठत्स्वित्यविवक्षितम् । अस्वर्गत्वदोषश्रवणात् । यमोऽपि-- न शूद्रो यजमानं वै प्रेतीभूतं समुद्हेत् । यस्यानयति शूद्रोऽग्निं तृणं काष्ठं हवींषि च ॥ “प्रेतत्वं हि सदा तस्य स चाधर्मेण लिप्यते” ॥ इति । गर्भवतः ब्रह्मचारिणश्च पित्राद्यन्यशवनिर्हरणनिषेधः । मनुः-- "दहनं वहनं वापि प्रेतस्यान्यस्य गर्भवान् । न कुर्यादुभयं तत्र कुर्यादेव पितुः सदा ॥ ज्येष्ठस्य चानपत्यस्य मातुलस्यासुतस्य च" ॥ इति । देवल:- "ब्रह्मचारी न कुर्वीत शवदाहादिकाः क्रियाः। यदि कुर्यात्ततः कृच्छ्रे पुनःसंस्कारमेव च" ॥इति । तस्यैव पित्रादिवहनादौ व्रतलोपो नास्तीत्याहतुः मनुदेवलौ- आचार्य स्वमुपाध्यायं पितरं मातरं गुरुम् । निर्हत्य तु व्रती प्रेतं न व्रतेन वियुज्यते" ॥ भृगुः-"मातामहं मातुलं च तत्पत्न्यौ चानपत्यके। बती संस्कुरुते यत्र व्रतलोपो न विद्यते"॥ इति। ३. माधवीये- “ आचार्य स्वमुपाध्यायं गुरुं वा पितरं च वा । मातरं वा स्वयं दग्ध्वा व्रतस्थस्तत्र भोजनम् ॥ “ २५ अनाथब्राह्मणवहनादौ। [आशौच- C कृत्वा पतति यत्तस्मात्प्रेतान्नं तु न भक्षयेत् । "अन्यत्र भोजनं कुर्यान्न च तैः सह संवसेत् । एकाहमशुचिर्भूत्वा द्वितीयेऽहनि शुध्यति" ॥ निर्हारदिनमात्रमेवाशुचिर्द्वितीयादिदिवसेषु प्रेतकृत्योत्तरकालं स्नानाच्छुध्यतीत्यर्थः ॥ वसिष्ठः ( २३७-८)-" ब्रह्मचारिणः शवकर्मिणो व्रतानिवृत्तिरन्यत्र मातापित्रोः” ॥ इति । ५ अनाथब्राह्मणवहनादौ सधःशौचं विदधाति पराशरः ( ३१४५-४७)- “ अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजातयः । पदे पदे यज्ञफलमानुपूर्व्याल्लभंति ते ॥ न तेषामशुभं किंचित्पापं वा शुभकर्मणाम् । जलावगाहनं तेषां सद्यःशौचं विधियते "॥ इति । असगोत्रमबंधुं च प्रेतीभूतं द्विजोत्तमम् । वहित्वा च दहित्वा च प्राणायामेन शुध्यति" ॥ इति । बंधुमित्रादिरहितब्राह्मणवहनस्पर्शनदहनादौ स्नानप्राणायामाभ्यां शुद्धिरित्यर्थः । अग्नि- १० स्पर्शोऽपि कर्तव्यः । तदुक्तमंगिरसा- यः कश्चिन्निर्हरेत् प्रेतमसपिंडः कथंचन। स्नात्वा सचै स्पृष्ट्वा ऽग्नि तस्मिन्नेव क्षणे शुचिः"॥ इति। याज्ञवल्क्यः ( प्रा. १४)- प्रवेशनादिकं कर्म प्रेतसंस्पर्शिनामपि । इच्छतां तत्क्षणाच्छुद्धिः परेषां स्नानसंयमात " ॥ इति । निंबपत्रदंशनादिवेश्मप्रवेशनांतं कर्म न केवलं ज्ञातीनामपि तु स्नेहादिना प्रेतनिर्हरणं कुर्वतामपि १५ भवति । आशौचं च यथोक्तं भवति । धर्मार्थ प्रेतनिर्हरणं कुर्वतां परेषां तु तत्क्षणात् स्नान- प्राणायामाभ्यामेव शुद्धिरित्यर्थः । वृद्धपराशरः- "प्रेतस्पर्शनसंस्कारैाह्मणो नैव दुष्यति । वोढा चैवाग्निदाता च सद्यः स्नात्वा विशुध्यति"॥ इति । बाह्ये- अनाथं ब्राह्मणं दग्ध्वा क्षत्रियं वैश्यमेव वा। पितृमधान्महायज्ञफलमामोति मानवः ॥ २८ " संन्यासिनां तु संस्कर्तु शौचं नोदकक्रिया । अश्वमेधफलं तत्र भवन्नास्त्यत्र संशयः” ॥ इति । बोधायनश्च- " सर्वसंगनिवृत्तस्य ध्यानयोगरतस्य च । न तस्य दहनं कुर्यानाशौचं नोदकक्रिया ॥ “ ये वहति महात्मानं दृष्ट्वा स्पृष्ट्वा द्विजातयः । यमेधफलं तेषामस्तीत्येवं विदुर्बुधाः" ॥ संग्रह--"यतीन्द्रानानिहर्हारे सद्यःशुद्धिर्महाफलम् इति । स्मृत्यर्थसारे तु धर्मार्थवावनिहरणे २५ स्नानालंकारवहनदहनादिके कृते द्विजानां सचैलस्नानात् सद्यःशुद्धिः। महापुण्यं शुभं चायुश्च भवति । तत्राप्यनाथप्रेतनिर्हरणे अनंतं पुण्यं शुभं चायुश्च वर्धते । धर्मार्थमुत्कृष्टजातिप्रेतनिर्हरणे सर्वेषां सचैलस्नानाच्छुद्धिः । धर्मार्थ स्वजातिप्रेतनिर्हरणे सचेलस्नानप्राणायामैः शुद्धिः । धर्मार्थ हीनजातिप्रेतनिहरणे सर्वेषां सचैलं स्नात्वा निम्बपत्रभक्षणादिगृहप्रवेशनांते कृते शुद्धिः" इति । स्मृत्यंतरे- ऊह्यमानं शवं दृष्ट्वा सवासा जलमाविशेत् । अलंकृतं शवं दृष्ट्वा सचैलः स्नानमाचरेत् ।। आचम्य केवलं प्रेतं दृष्ट्वा काष्ठवदाचरेत्" । इति । काष्ठवदाचरणं जलावगाहनम् । " काण्डम् ] अबुद्धिपूर्वविषये। वसिष्ठः (२३२२५-२६ )-- “ मानुषास्थि स्निग्धं स्पृष्ट्वा त्रिरात्रमाशौचं अस्निग्धे त्वहोरात्रभित्येतद्बुद्धिपूर्वविषयम्" । अबुद्धिपूर्वविषये मनुः-" नारं स्पृष्ट्वास्थिसस्नेहं स्नात्वा विप्रो विशुध्यति" इति । " आचम्यैव तु निःस्नेहं गां स्पृष्ट्वा वीक्ष्यं वा रविम्” इति । चंद्रिकायाम् - जनने मरणे चैव वपनं दशमेऽहनि । आतस्मान्नाधिकारी स्यादाशौचं सर्वदा भवेत् ॥ "तैलाभ्यंगे तथा बांते श्मश्रुकर्मणि मैथुनं । अनाचम्योच्चरन्विप्रस्त्रिरात्रमशुचिर्भवेत्" ॥ उच्चरन्पुरीपोत्सर्ग कुर्वन्नित्यर्थः । एवमादीन्यन्यान्यपि आशौचनिमित्तानि द्रष्टव्यानि ॥ आशौचिनो वर्जनीयमुक्तं । संग्रहे- न विशेदेवतागारं न कुर्याद्वंदनायपि । मंदिरं न प्रवेष्टव्यं प्रविष्टस्य फलं शृणु ॥ -- "चंडालयोनिमासाद्य जन्मानि नव पंच च । भविष्यति वरारोहे व्याधिक्रूरोऽतिनिष्ठुरः" ॥ इति । १० आशौचिस्पर्शे बिंबस्य संप्रोक्षणमाह शौनकः-- चंडालसूतिकोदक्याशावसूतकदूषिते । निमित्ते समनुप्राप्य सद्यः कृत्वा समर्चयेत् ” । अभिवादनस्य निषेधमाह आपस्तंबः (१।४।१४।१८-२०)-"अप्रयतेन नाभिवाद्यम् । तथा प्रयताय । अप्रयतश्च न प्रत्यभिवदेत् ” ॥ इति । एकादश्युपवासस्यावर्जनीयत्वमुक्तं पुराणे- सूतके तु नरः स्नात्वा प्रणम्य शिरसा हरिम् । एकादश्यां न भुंजीत व्रतमेतन्न लुप्यते ॥ मृतकेऽपि न भुञ्जीत एकादश्यां सदा नरः" ॥ इति । विष्णुरहस्ये च---- "सूतके मृतके वाऽपि न त्याज्यं द्वादशीव्रतम् । एकादशीव्रतं कुर्यान्नित्यं काम्यं तु वर्जयेत्” ॥ इति । शावाशौचिनां नियमविशेषमाह मनुः ( ५।७२ )-- अक्षारवणान्नाः स्युः निमज्जेयुश्च तेऽन्वहम् । मांसाशनं च नाश्नीयुः शयीरंश्च पृथविक्षतौ”॥ याज्ञवल्क्योऽपि ( प्रा. १६)- “क्रीतलब्धाशना भूमौ स्वपेयुस्ते पृथक्षितौ । पिंडयज्ञावृता देयं प्रेतायान्नं दिनत्रयम्" ॥ इति । क्रीतमयाचितलब्धं वा अशनं येषां ते क्रीतलब्धाशना भवेयुरिति वाक्यशेषः । क्रीतलब्धाशननि- यमात्तदलाभे अशनमात्सिद्धम् । अत एव वसिष्ठः (४।१४-१५)-“अघप्रस्तरे व्यहमनश्नन्त आसीरन् । क्रीतोत्पन्नेन वा वर्तेरन् ” इति । अघप्रस्तरः आशौचिनां शयनार्थ तृणप्रस्तरः ॥ गौतमोऽपि ( १४।३४ )—“ अधःशय्यासनिनो ब्रह्मचारिणः सर्वे ” इति । २५ अघांतकृत्यम् । [आशौच-. अघांतकृत्यमाह मनुः ( ५।९८)---- "विप्रः शुध्यत्यपः स्पृष्ट्वा क्षत्रियो वाहनायुधम् । वैश्यः प्रतोदंरभि वा यष्टिं शूद्रः कृतक्रियः ॥ इति। अस्यार्थोऽभिहितो विज्ञानेश्वरेण (पृ. १८७ पं. ८-१०)-“विप्रोऽनुभूताशौचकालः कृतक्रियः कृत- स्नानः हस्तेनापः स्पृष्ट्वैव शुध्यति । स्पृष्ट्वेति स्पर्शनक्रियेवोच्यते। न स्नानमाचमनं वा। वाहनादिषु ५ तस्यैवानुषंगात् ” । श्रुतिरपि-“ अघांते अघभाजः संभवे स्नात्वा ग्रामं प्रविशेयुः" ॥ इति । जननमरणाशौचांते आशौचिनः संगवे स्नात्वा गृहं प्रविशेयुरित्यर्थः । तथा च स्मृत्यंतरे- मृते च सूतके चांते संगवे स्नानमाचरेत् । संगवात्परतः स्नानमार्तवेषु विशिष्यते " ॥ इति । संवर्तः- " आशौचे निर्गते कुर्याद्गृहसंमार्गलेपने । सवासा जलमाप्लुत्य शुद्धिः पुण्याहवाचनैः” । १० संग्रहे च "आशौचांते कृतस्नानः स्वस्तिवचनपूर्वकम् । ब्राह्मणान् भोजयेत्तत्र शुद्धये विष्णुतुष्टये" ॥ इति । इति वैद्यनाथदीक्षितविरचिते स्मृतिमुक्ताफले "आशौचनिरूपणं" नाम तृतीयः परिच्छेदः।। हरिः ओम् ॥ शके १७६५ शोभकृन्नामसंवत्सरे ज्येष्ठकृष्णपंचम्यां भृगुवासरे तदिने इदं पुस्तकं समाप्तम् ॥ १५ श्रीयवतेश्वरार्पणमस्तु ॥ -