Sanmati Library

Pramannayattawalokalandanr

Prabhacharya · 2010/1

PDF Proofread

Front matter

यशोविजयजैनग्रन्थमाला । (१०० पृष्ठात्मकं मासिकम्) इयं ग्रन्थमाला नि स्वार्थरूपेण सं० १९६६ कार्तिकशुलपतिपत्न यादारभ्य प्रकाश्यते; यस्यां ग्रन्थोद्धाररूपपुण्यबुद्धया न्याय- फिर काव्य-कोश-नाटक-चम्पूप्रभृतयः पूर्वाचार्यवर्यमुखाम्भोजनिर्गता प्तकल्पाः पुनराविर्भवन्ति । एतग्रन्थमालाविषये रत पति- पाश्चात्यसुधियश्च सहर्ष ससंमानं च सहानुभूति प्रकटयन्ति । त, . गीवीणभापोद्भवाभिलापिणां स्वशेमुषीमोषदोषापहस्तनाय, यायिनां स्वमतमन्तव्यप्रौढिप्रदर्शनाय च सकललोकानामपूर्वोऽयं पर अष्टरूप्येऽग्रिममूल्ये समायाते प्रेष्यते अन्यमालेयम् ; नान्यथेति शम् अर्हम श्रीयशोविजयजैनग्रन्धमाला २२ श्रीवादिदेवमूरिविरचितः माणनयतत्त्वालोकालङ्कारः श्रीरत्नप्रभाचार्यविनिर्मितया रत्नाकरावतारिका- ख्यया व्याख्यया समलकृतः । (तृतीयपरिच्छेदादारभ्याऽष्टमपरिच्छेदपर्यन्तः) शास्त्रविशारदजैनाचार्यश्रीविजयधर्मसूरिपादा- म्भोजचञ्चरीकायमाणाभ्यां श्रावक-हरगोविन्ददास बेचरदासाभ्यां संशोधितः । एषोन्नतेः पथमगाहत शास्त्रमाला यस्य प्रसादमितमाप्य निमित्तभूयम् । भूयो विचक्षणसमाजसमर्चितांहिः मूरिः स धर्मविजयो विजयं बिभर्तु ॥ १ ॥ सच वाराणस्यां श्रेष्ठिभूराभाईतनुजहर्षचन्द्रेण निजधर्माभ्युदययन्त्रालये मुद्रितः प्रकाशितश्च । वीरसंवत् २४३७ । मूल्यं सार्द्धरूप्यकम् । २२

No text on this page.

IOVIJAYA JINA GRANTILLMALI, 21.
TIE
PRAMANANAYA
TATTVALOKALANKARA
SHREE TADI BEVASURI
OF
WIH THE CONMENTARY
RATNAKARAVATARIKA
OF
SHREE RATNAPRABHACHARYA
(CH
CHAPTERS, 3-8)
EDITED
UNDER THE BENIGN INFLUENCE AND
PATRONAGE
OF
SHASTRAVISHARAD JAINA CHARYA
SHREE VIJAYA DHARMA SURI
BY
IIS HOLINESS MOST DEVOTED SERVANTS,
SHRAVAK PANDIT HARGOVINDDAS
AND
SHRVAK PANDIT BECHARDAS.
PRINTED AND PUBLISHED
BY
HARSHCHAND BHURABHAI
PROPRIETOR OF DHARMABHYUDAYA PRESS,
BENARES.
Veer-Era, 2437.
Price, Rs 1-8-0.

No text on this page.

अहम्
अथ तृतीयः
परिच्छेदः।
प्रत्यक्षानन्तरं परोक्षं लक्षयन्ति-
अस्पष्टं परोक्षम् ॥१॥
प्राक्सूत्रितस्पष्टत्वाभावभ्राजिष्णु यत् प्रमाणं तत् परोक्ष लक्षयित-
व्यम् ॥ १ ॥
अथैतत् प्रकारतः प्रकटयन्ति-
स्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदतस्तत् पश्च-
प्रकारम् ॥२॥
स्पष्टम् ॥२॥
अथैतेषु तावत् स्मरणं कारणगोचरस्वरूपैः प्ररूपयन्ति-
तत्र संस्कारप्रबोधसंभूतमनुभूतार्थविषयं तदित्याकारं वेदनं
स्मरणम् ॥ ३॥
तत्रेति प्राक्तनेभ्य. संस्कारप्रयोधसंभूतत्वादिना गुणेन स्मरणं नि-
रियन्ति । संस्कारस्यात्मशक्तिविशेषस्य प्रयोधात् फलदानाभिमुख्य-
लक्षणात् संभूतमुत्पन्नमिति कारणनिरूपणम् । अनुभूतः प्रमाणमात्रेण
परिच्छिन्नोऽर्थश्चेतनाऽचेतनरूपो विषयो यस्येति विपयव्यावर्णनम् । तदि-
त्याकारं तदित्युल्लेखवत् । तदित्युल्लेखवत्ता चास्य योग्यतापेक्षयाऽऽख्या-
यि । यावता 'स्मरसि चैत्र! कश्मीरेषु वत्स्यामस्तत्र द्राक्षा भोक्ष्यामहे'
इत्यादिस्मरणे तच्छन्दोल्लेखो नोपलक्ष्यत एव, किन्विदं स्मरणं तेपु
कश्मीरेषु इति ता द्राक्षा इति तच्छब्दोहेखमहत्येव । नवं प्रत्य-
भिज्ञानेऽपि तत्प्रसङ्गः। तस्य स एवायमित्युहेखशेर. त्वात् । इति स्वरूप-
प्रतिपादनम् ॥३॥

11 प्रमाणनयतत्त्वालोकालवार:- . ते पत्रोदाहरन्ति- तत्तीर्थकरबिम्बमिति यथा ॥ ४ ॥ तदिति यत् प्राक् प्रत्यक्षीकृतम् , स्मृतम् , प्रत्यभिज्ञातम् , वितर्कि- तम् , अनुमितम् , श्रुतं वा भगवतस्तीर्थकृतो विम्वं प्रतिकृतिः तस्य परामर्श.; इत्येवंप्रकारं तच्छब्दपरामष्टं यद्विज्ञानं तत्सर्व स्मरणमित्यर्थः । ये तु योगा' स्मृतेरप्रामाण्यमध्यगीषत न साधु व्यधिषत । यतो यत्तावत् केचिदनर्थजवादस्याः तदाम्नासिषु.। तत्र हेतु', 'अभूत् वृष्टि- रुदेष्यति शकटम् ' इत्याद्यतीतानागतगोचरानुमानेन सव्यभिचार इत्यनुचित एवोच्चारयितुम् । परे तु मेनिरे-न स्मृतिः प्रमाणम् ; पूर्वा- नुभवविषयोपदर्शनेनार्थ निश्चिन्वत्या अर्थपरिच्छेदे पूर्वानुभवपारत- न्च्यात् । अनुमानज्ञानं तूत्पत्तौ परापेक्षं, स्वविपये तु स्वतन्त्रमेव स्मृते- रिव तस्मात्पूर्वानुभवानुसन्धानेनार्थप्रतीत्यभावात् । तदुक्तम्- "पूर्वविज्ञानविषयं विज्ञान स्मृतिरिष्यते । पूर्वज्ञानाद्विना तस्याः प्रामाण्यं नावगम्यते ॥१॥ तत्र यत्पूर्वविज्ञानं तस्य प्रामाण्यामिष्यते । तदुपस्थानमात्रेण स्मृतेः स्याञ्चरितार्थता ॥ २॥ इति। तदपि न पेशलम् । स्मृतेरप्युत्पत्तिमात्रेऽनुभवसव्यपेक्षत्वात् । तदा- हितसंस्काराचदुत्पत्तेः । स्वविषयपरिच्छेदे त्वस्याः स्वातन्त्र्यमेव । ननु नात्र स्वातन्त्र्यम् , अस्याः पूर्वानुभवभावितभावभासनायामेवाभ्युद्यत- त्वात् । एवं तार्ह व्याप्तिप्रतिपादिप्रमाणप्रतिपन्नपदार्थोपस्थापनमात्रे प्रवृत्ते- रनुमानस्यापि कुतस्त्या स्वातन्त्र्यसङ्गतिः । अथ व्याप्तिग्राहकेणानयत्येन प्रतिपन्नात्तनूनपातो नैयत्यविशेषेणानुमाने परिस्फुरणसंभवात् कुतो न स्वातन्त्र्यमिति चेत्, तर्हि अनुभवे भूयो विशेषशालिन. स्मरणे तु कतिपय- रेव विशेषैर्विशिष्टस्य वस्तुनो भानात् कुतो नास्यापि तत् स्यात्। ननु तेऽपि विशेषास्तावदनुभूती प्रत्यभुरेव । अन्यथा स्मरणमेव तन्न स्यात् इति चेत्, नियतदेशोऽपि पावको व्याप्तिग्राहिणि प्रत्यभादेव । अन्यथाऽनुमानमेव तन्न स्यात् इति किन्न चेतयसे। अथ तत्र सर्वे सार्वदिका. सार्वत्रिकाश्च पावकाः रनाकरावतारिकायुक्तः। पुस्फुरुः, अनुमाने तुस एवैकश्चकास्तीत्युक्तमिति चेत्, ननूत्तरमपितत्रो- क्तमेव मा विस्मार्षीः । ननु नसर्वत्रैव कतिपयविशेषावसायव्याकुलं स्मर- णम् ; कचिद्यावदनुभूतरूपादिविशेषमपि तस्योत्पत्तेस्ततस्तत्र का गतिरिति चेत् । नैवम् । नहि रूपादय एव विशेषावस्तुनः, किन्तु अनुभूयमानता- ऽपि।न चासौ स्मरणे क्वापि चकास्ति । तस्यापि प्राचीनानुभवस्वभावता- पत्तेः । किन्त्वनुभूततैव भावस्य तत्र भाति । इति सिद्धमनुमानस्येव स्मर- णस्यापि प्रामाण्यम् । नच तस्याप्रामाण्येऽनुमानस्यापि प्रामाण्यमुपापादि। संबन्धस्याप्रमाणस्मरणसंदर्शितस्यानुमानानङ्गत्वात् , संशयितालिङ्गवत् । नच प्राक्प्रवृत्तसंबन्धग्राहिप्रमाणव्यापारोपस्थापनमात्रचरितार्थत्वान्नास्य तत्र प्रामाण्येन प्रयोजनमिति वाच्यम् । अप्रमाणस्य तदुपस्थाप- नेऽपि सामर्थ्यासंभवात् । किंच। अर्थोपलब्धिहेतुत्वं प्रमाणलक्षणं लक्षयां- चकृढे । तच्च धारावाहिप्रत्यक्षस्येवास्याप्यक्षूणमीक्ष्यत एवेति किमन्यै- रसत्प्रलापैरिति ॥ ४ ॥ अथ कारणादिभिः प्रत्यभिज्ञानं ज्ञापयन्ति- अनुभवस्मृतिहेतुकं तिर्यगूर्ध्वतासामान्यादिगोचरं संकलनात्मकं ज्ञानं प्रत्यभिज्ञानम् ॥ ५ ॥ अनुभवश्व प्रमाणार्पिता प्रतीतिः, स्मृतिश्चानन्तरोक्तव, ते हेतुर्यस्येति कारणोपदेशः । तिर्यक्सामान्यं च गवादिषु गोत्वादिस्वरूपसदृशपरि- णामात्मकम् । ऊर्ध्वतासामान्यं च परापरविवर्त्तव्यापि मृत्स्नादिद्रव्यम् ; एतदुभयमादिर्यस्य विसदृशपरिणामादेर्धर्मस्तोमस्य स तिर्यगूर्वतासामा- न्यादिर्गोचरो यस्येति विषयाऽऽख्यानम् । संकलनं विवक्षितधर्मयुक्तत्वेन वस्तुनः प्रत्यवमर्शनमात्मा स्वभावो यस्यति स्वरूपनिरूपणम् । ॥ ५ ॥ अत्रोदाहरन्ति- यथा तज्जातीय एवायं गोपिण्डः, गोसदृशो गवयः, स एवायं जिनदत्त इत्यादि ॥ ६ ॥ अत्र तज्जातीय एवायं गोपिण्ड इत्यास्मिन् तिर्यक्सामान्योदाहरणे दर्शितेऽपि गोसदृशो,गवय इति यत्तत्रैवोदाहरणान्तरं तन्नैयायिककदा- - .

४ प्रमाणनयतत्त्वालोकालङ्कार:- प्रहनिग्रहार्थम् । तस्य खलु गोसदृशो गवय इति उपमानमित्यभिमानः । स चायुक्तविधान' । गोविसदृशो महिष इत्यस्य प्रमाणान्तरत्वापत्तेः । अथ गवये गोसहशो गवय इति विज्ञानं प्रत्यक्षफलमपि संज्ञासंज्ञिसंब- न्धप्रतिपत्तिरूपे फले प्रमाणान्तराप्रसाध्ये साधकतमत्वात् उपमानतां प्रतिपद्यते, तार्ह महिषे गोविसहशमहिषोपलक्षणं प्रत्यक्षफलमपि तत्रैव तथाविधे फले साधकतमत्वात् प्रमाणान्तरमस्तु । न चैतदुपमानेऽन्तर्भा- वयितुं शक्यम्। उपमानस्य सादृश्यविषयतया व्यवस्थानात् । प्रस्तुतस्य तु वैसदृश्यव्यवसायकत्वात् । नच वैसदृश्यावसायस्य संज्ञा-सज्ञिसंबन्ध- प्रतिपत्तिसाधकतमत्वमसिद्धम् । यतःसमहिषमाहेयीमण्डले कापि विपि- नप्रदेशेऽनच्छायां छायायां रोमन्थायमाने नालिकेरद्वीपवासी कश्चित् केनचित्प्रेषितस्तद्विपिनप्रतिष्ठगोष्ठात् महिपमानयेति; सच तज्ज्ञं तमेव पृष्टवान् , कीदृग् महिष इति, तेन च गोविसदृशो महिष इत्युक्ते तद्विपिन- गोप्ठं प्राप्त आप्तातिदेशवाक्यस्मरणसहकारी यमेव गोभ्यो विसदृशं पशु पश्यति, तमेव महिषशब्दवाच्यतया प्रतिपद्यत इति कः प्रतिविशेषो द्वयोरपि सङ्केतप्रतिपत्तौ । तदुक्तम्- "उपमानं प्रसिद्धार्थ-साधर्म्यात्साध्यसाधनम् । तद्वैधात्प्रमाणं किं स्यात् संज्ञिप्रतिपादनम् ॥१॥ इति । यदा वा यादृग्गौस्तादृग्गवय इति वाक्याहितसंस्कारः प्रतिपत्ता तुरङ्गं गोविलक्षणमीक्षमाणो गवयसंज्ञासंवन्धप्रतिपेधं विधत्ते, नाय गवयवाग्वाच्य पिण्ड इति, तदा गवयसंज्ञासंवन्धप्रतिषेधफलं किमेत- प्रमाणं स्यात् । तत एवंविधसवेदनानां सङ्कलनात्मकतया प्रत्यभिज्ञानतै- वोपपद्यते; अन्यथा तु प्रमाणेयत्ता प्रलीयेत । यदैव हि याग गौस्तादृग्ग- वय इति तेन शुश्रुवे, तदैव सामान्यतश्चेतसि स्फुरति पिण्डे सवन्धप्रत्ति- पत्तिरभूत्; यथा पृथुवुनोदराकारं वृत्तकण्ठं भावं कुम्भ विभावयेरित्या- कर्णनात् कुम्भे, तत. कान्तारविहारिणोऽस्य गवयसाक्षात्कारे प्राक्तनसा- मान्याकारसंवन्धस्मरणे च स एप गवयशब्दवाच्य इति सङ्कलनाज्ञान- रूपं प्रत्यभिज्ञानमुन्मन्नति, एवं गोविसदृशो महिष इत्याद्यपि तथारूप- रवाकरावतारिकायुक्तः । , त्वात् प्रत्यभिज्ञानमेवेति । मीमांसकोऽप्यनेन सदृश स गौरित्यनधिगतं गवि सादृश्यमवस्यदुपमानं प्रमाणमाचक्षाणोऽनेन महिषेण विसरशः स गौरित्यनधिगतमहिपवैसदृश्यव्यवसायकस्य प्रमाणान्तरताप्रसङ्गेन पराकरणीयः । सादृश्याभावो वैसदृश्यामित्यभावप्रमाणपारच्छेद्य- मेवैतदिति चेत्, वैसदृश्याभावः सादृश्यमितीदमपि तत्परिच्छेद्यमेव कि न स्यात् । यदि वैसदृश्याभाव. सादृश्यं स्यात्, स गौः सदृशो गवयेनेति विधिमुसेन नोल्लिखेदिति चेत्, तदितरत्रापि तुल्यम् । स एवायं जिनदत्त इति तूर्ध्वतासामान्योदाहरणम् । आदिशब्दात् स एवायं वह्निरनु- मीयते मया, स एवानेनाप्यर्थः कथ्यते इत्यादि स्मरणसचिवानुमानागमा- दिजन्यम्; तस्माद्दीर्घ ह्रस्वमणु महन्नेदीयो दवीयो वेदं दूरादयं तिग्मस्तनू- नपात्सुरभीदं चन्दनमित्यादि च सङ्कलनमात्रोदाहरणं मन्तव्यम् । अथ कथं प्रत्यभिज्ञाप्रामाण्यमशक्यन्तः शाक्याः शक्याः शमयितुम् । ते हि प्राहु -दलितकररुहशिरोरुहशिखरादिवत् सर्वत्र भ्रान्तैवेयमिति । अहो ! तर्ककर्कणकार्कश्यममीपाम् , एवं हि विहायस्तलावलम्बमानमृगाङ्कमण्डल- युगलावलोकिप्रत्यक्षवत् सकलमपि प्रत्यक्षं भ्रान्तिमत् किं न भवेत् । अथ लक्षणयुक्ते वाधासम्भवे तल्लक्षणमेव दूषितं भवति, संकलनं हि प्रत्यभि- ज्ञानचिह्न तयुक्तमपि च कररुहादौ प्रत्यभिज्ञानमबाध्यतेति तल्लक्षणमेव वाधितम् । प्रत्यक्षे तुयत्र वाधा, न तत्र तल्लक्षणमक्षूणम् ; क्षणदाप्रियद्वया- वलोकनायामभ्रान्तत्वाभावात् , यत्र तु तदलणं न तत्र बाधा, स्तम्भादि- प्रत्यक्षवदिति चेत् नैवम् । न खलु संकलनमात्रमेव प्रत्यभिज्ञाप्रमाणलक्षण- माचक्ष्महे, किन्तु स्वपरव्यवसायिज्ञानत्वरूपप्रमाणसामान्यलक्षणसद्भावे सति यत्संकलनम् , न च कररुहादिवेदने तदस्ति । विशिष्टस्य विपर्ययशून्य- स्यावसायस्याभावादिति कथं लक्षणयुक्तेऽस्मिन्नपि बाधरोध. स्यात्। क्षण- भगुरत्वाद्भावानामैक्यगृहीतिर्धान्तिरेवेति चेत् । अत्र तावत् क्षणभङ्ग- भङ्ग एवाभङ्गुरमुत्तरम् । अस्तु वा क्षणभङ्गस्तथापि नेयतैव निशेषप्रत्य- भिज्ञानप्रामाण्यमुत्पुंसयितुं शक्यम् । तथाहि-“पदार्थेषु किमैक्यगृहीति- भ्रान्तिनिमित्तमिष्यते ? अपरापरोत्पादुकक्षणानां सादृश्यमिति चेत्, किं सादृश्यमस्ति किञ्चित् ? तथेति चेत् , कचित्तेन सदृशोऽयमिति प्रत्यभिज्ञा ६ , ? .. प्रमाणनयतत्त्वालोकालङ्कार:- भगवती भजतामभीलुका, तर्हि प्रामाण्यम्। नास्त्येव साहश्य, विलक्षण- त्वात् स्वलक्षणानामिति चेदिदानीमपिक पलायसे । एवं तर्हि तस्माद् विल- क्षणोऽयमिति प्रत्यभिज्ञा प्रामाण्यमास्तिघ्नुवीत। वैलक्षण्यमपि नास्ति, परमाणुप्रचयमात्रत्वात् समस्तवस्तूनामिति चेत्, नन्वेवमपि तस्मादयं महान् , अल्पो वा प्रचय इत्यादिप्रत्यभिज्ञा भवतु प्रामाण्यशोभाभारभा- गिनी।प्रचयोऽपि न कश्चित् , नीलपीतादिपरमाणूनामेव तात्त्विकत्वादिति चेत्, अहो उत्तमर्णाकीर्णदुर्गताधमर्ण इवायं स्वयं तत्तदुक्तमपलप्यापलप्य निन भिक्षुः । । यदि हि सादृश्यादिकं न किञ्चिदस्ति, कथं तर्हि त्वयैव उत्तरीचक्रे । विकल्पोत्प्रेक्षा लक्ष्यमस्ति नतु बाह्य ग्राह्यमिति चेत्, नीलपीतादिविशेषोऽपि तथैवास्तु। बहिस्तदभावे कथं नैयत्येन विकल्पो- ल्लेख इति चेत्, सादृश्यादौ कथम् ? । वासनातश्चेत् ; अन्यत्रापि तत एवास्तु । वासनाया अपि नैयत्येन उद्बोधकं किञ्चित् बहिरेष्टव्यमिति चेत्, को नामात्र परिपन्थी । किन्तु सादृश्यादिकमपि स्वीकुरु, ततो नीलपीतादिविशेषो वा बहिस्त्यज्यताम् , सादृश्यादिकमपि वा मन्यताम् । नान्यथा प्रमाणमुद्रा मृष्यते । सिद्धे चैवं सादृश्यादौ यत्र पूर्वाकारेण संकलनम् , तत्र प्रत्यभिज्ञा प्रमाणम् । अन्यत्र तुप्रत्यक्षमेव । मा भूद् वा वहिः सादृश्यादि तथाप्यनुमानवत् प्रमाणमेवेयम् । नानुमानपरिच्छे- द्यमपि अग्नित्वादिसामान्यं बहिरस्ति तथापि यथा प्रणालिकया तद्विक- ल्पस्याग्न्यादिस्वलक्षणे प्रतिबन्धात् तत्प्रमाणम्, एवं सादृश्यादर- सत्त्वेऽपि सहशादिस्खलक्षणे तद्विकल्पस्य प्रतिबन्धात् किं नेयमपि तप- स्विनी तथा स्यात् । अथ अयमनेन सदृश इति प्रत्यभिज्ञा, प्रत्यक्षं वा। कचित् किञ्चिदिति बेम. । अनुभूततया परोक्षमप्येक साक्षादिवाध्य- वस्यतः पश्यतश्चापरं प्रत्यभिज्ञैवेयम् । भवति च परोक्षस्यापि साक्षादि- वाध्यवसाये प्रत्यक्षसर्वनाम्ना परामर्शः । एषोऽग्निरनुमीयते, अयमस्य वाक्यस्यार्थ इति । उभयं तु प्रत्यक्षेण लक्ष्यत. प्रत्यक्षमेवैतदिति ॥६॥ तर्कमपि कारणगोचरस्वरूपैः प्ररूपयन्ति- - उपलम्भानुपलम्भसम्भवं त्रिकालीकलितसाध्यसाधन- संबन्धाद्यालम्बनं इदमस्मिन् सत्येव भवतीत्याद्या- रत्नाकरावतारिकायुक्तः । कारं संवेदनमूहापरनामा तर्कः ॥ ७॥ उपलम्भानुपलम्भाभ्यां प्रमाणमात्रेण महणाग्रहणाभ्यां सम्भव उत्प- त्तिर्यस्येति कारणकीर्तनम् । त्रिकालीकलितयोः कालत्रयीवर्तिनोः साध्य- साधनयोर्गम्यगमकयोः सम्बन्धोऽविनाभावो व्याप्तिरित्यर्थः । स आदि- र्यस्याशेषदेशकालवत्तिवाच्यवाचकसंबन्धस्यालम्बनं गोचरः यस्य तत्त- थेति विषयाविष्करणम्। इदमस्मिन् सत्येव भवतीत्यादिशब्दादिदमस्मि- नसति न भवत्येवेत्याकारम् ; साध्यसाधनसंबन्धालम्बनम् , एवंजातीयः शब्द एवंजातीयस्यार्थस्य वाचकः; सोऽपि तथाभूतस्तथाभूतस्य वाच्य इत्याकारं वाच्यवाचकभावालम्बनं च संवेदनमिहोपादीयतेति स्वरूपप्र- तिपादनम्। एवंरूपं यद्वेदनं सतर्कः कीर्त्यते; ऊह इति च संज्ञान्तरं लभते। ये तु ताथागताः प्रामाण्यमूहस्य नोहाञ्चक्रिरे । तेषामशेषशून्यत्वपातका- पत्तिः। आः ! किमिदमकाण्डकूष्माण्डाडम्बरोडामरमभिधीयते । कथं हि तर्कप्रामाण्यानुपगममात्रेणेदृशमसमञ्जसमाएनीपद्येत ' । शृणु ! श्राव- यामि किल । तर्काप्रामाण्ये तावन्नानुमानस्य प्राणाः; प्रतिबन्धप्रतिपत्त्युपा- यापायात् । तदभावे न प्रत्यक्षस्यापि । प्रत्यक्षेण हि पदार्थान् प्रतिपद्य प्रमाता प्रवर्त्तमानः क्वचन संवादादिदं प्रमाणमिति, अन्यत्र तु विसंवा- दादिदमप्रमाणमिति व्यवस्थाग्रन्थिमावनीयात् । न खलुत्पत्तिमात्रेणैव प्रमाणाप्रमाणविवेकः कत्तुं शक्यः। तद्दशायां उभयोः सौसदृश्यात् । संवा- विसंवादापेक्षायां च तन्निश्चये निश्चित एवानुमानोपनिपातः । नचेदं प्रतिबन्धप्रतिपत्तौ तर्कस्वरूपोपायापाये । अनुमानाध्यक्षप्रमाणाभावे च प्रामाणिकमानिनस्ते कौतस्कुती प्रमेयव्यवस्थापीत्यायाता त्वदीयहृदयस्येव सर्वस्य शून्यता । सापि वा न प्राप्नोति । प्रमाणमन्तरेण तस्या अपि प्रति- पत्तुमशक्यत्वादिति, अहो महति प्रकटकष्टसङ्कटे प्रविष्टोऽयं तपस्वी किं नाम कुर्यात् । अथ- "धूमाधीर्वह्निविज्ञानं धूमज्ञानमधीस्तयोः । प्रत्यक्षानुपलम्भाभ्यामिति पञ्चभिरन्वयःणानिणेप्यते। अनुपलम्भोऽपि प्रत्यक्षविशेष एवेति प्रत्यक्षमेवव्याप्तितात्पर्यपर्यालो- चनचातुर्यवयं, कि तर्कोपक्रमेणेति चेत्, ननु प्रत्यक्षं तावन्नियतधूमानिगो-

८
प्रमाणनयतत्वालोकालङ्कार:-
चरतया प्राक् प्रावृतत् । तद्यदि व्याप्तिरपि तावन्मात्रैव स्यात्तदाऽनुमान-
मपि तत्रैव प्रवर्त्ततेति कुतस्त्यं धूमान्महीधरकन्धराऽधिकरणाशुशुणिल-
क्षणम् । तद्बलाद्वभूवान् विकल्प. सार्वत्रिकी व्याप्तिं पर्याप्नोति निर्णेतुमिति
चेत्, को नामैवं नामस्त तर्कविकल्पस्योपलम्भानुपलम्भसम्भवत्वेन
स्वीकारात्, किन्तु व्याप्तिप्रतिपत्तावयमेव प्रमाणं कक्षीकरणीय.। अथ
तथाप्रवर्त्तमानोऽयं प्राक्प्रवृत्तप्रत्यक्षव्यापारमेवाभिमुखयतीति तदेव तत्र
प्रमाणम् इति चेत्, तर्हि अनुमानमपि लिङ्गग्राहिप्रत्यक्षस्यैव व्यापार-
मामुखयतीति तदेव वैश्वानरवेदने प्रमाणम्, नानुमानम् इति किन्न
स्यात् । अथ कथमेवं वक्तुं शक्यम् । लिङ्गप्रत्यक्षं हि लिङ्गगोचरमेव,
अनुमानं तु साध्यगोचरम् इति कथं तत्तद्व्यापारमामुखयेत् , ताहि प्रत्यक्षं
पुरोवर्तिस्वलक्षणेक्षणक्षुण्णमेव । तर्कविकल्पस्तु साध्यसाधनसामान्या-
वमर्षमनीषीति कथं सोऽपि तद्व्यापारमुद्दीपयेत् । अथ सामान्यममा-
न्यमेव, असत्त्वादिति कथं तत्र प्रवर्तमानस्तर्क प्रमाणं स्यात् इति चेत्;
अनुमानमपि कथं स्यात्। तस्यापि सामान्यगोचरत्वाव्यभिचारात् 'अन्यत्
सामान्यलक्षणं सोऽनुमानस्य विषय' इति धर्मकीर्तिना कीर्तनात्। तत्त्व-
तोऽप्रमाणमेवैतद्, व्यवहारेणैवास्य प्रामाण्यात् , सर्व एवायमनुमानानुमे-
यव्यवहारो वुद्ध्यारूढेन धर्मधर्मिन्यायेनेति वचनादिति चेत्, तर्कोऽपि
तथाऽस्तु । अथ नायं व्यवहारेणापि प्रमाणं, सर्वथा वस्तुसंस्पर्शपराङ्मुख-
त्वात् इति चेत् , अनुमानमपि तथाऽस्तु । अवस्तुनिर्भासमपि परम्परया
पदार्थे प्रतिबन्धात् प्रमाणमनुमानमिति चेत्, किंन तर्कोऽपि । अवस्तुत्वं
च सामान्यस्याद्यापि केसरिकिशोरवक्रक्रोडदंष्ट्राकुराकोयमाणमस्ति ।
सदृशपरिणामरूपस्यास्य प्रत्यक्षादिपरिच्छेद्यत्वात् इति तत्त्वत एवानु-
मानम् ; तर्कश्च प्रमाणं प्रत्यक्षवदिति पाषाणरेखा ॥७॥
अत्रोदाहरन्ति-
यथा यावान् कश्चिद् धूमः स सर्वो वह्नौ सत्येव भव-
तीति तस्मिन्नसत्यसौ न भवत्येव ॥८॥
अत्राद्यमुदाहरणमन्वयव्याप्ती, द्वितीयं तु व्यतिरेकव्याप्तौ ॥ ८॥

रनाकरावतारिकायुक्तः। अथानुमानस्य लक्षणाथै तावत् प्रकारौ प्रकाशयन्ति- अनुमानं द्विप्रकारं स्वार्थ परार्थ च ॥ ९॥ नन्वनुमानस्याध्यक्षस्येव सामान्यलक्षणमनाख्यायैव कथमादित एव प्रकारकीर्तनमिति चेत् । उच्यते । परमार्थतः स्वार्थस्यैवानुमानस्य भावात् , स्वार्थमेव धनुमानं कारणे कार्योपचारात् परार्थ कथ्यते। यद्वक्ष्य- न्ति तत्रभवन्तः "पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात्" इति । नहि गोरुपचरितगोत्वस्य च वाहीकस्यैकं लक्षणमस्ति । यत्पुनः स्वार्थेन तुल्य- कक्षतयाऽस्योपादानम् , तद्वादे शास्त्रे चानेनैव व्यवहाराल्लोकेऽपि चप्राये- णास्योपयोगात् तद्वत् प्राधान्यख्यापनार्थम् । तत्र अनु हेतुग्रहणसंबन्धस्मर- णयोः पश्चान्मीयते परिच्छिद्यतेऽर्थोऽनेनेत्यनुमानम् । स्वस्मै प्रमानुरात्मने इदं, स्वस्य वार्थोऽनेनेति स्वार्थम् । स्वावबोधनिबन्धनमित्यर्थः । एवं परा- र्थमपि । अत्र चार्वाकश्चर्चयति-नानुमानं प्रमाणम् । गौणत्वात् । गौणं झनुमानम् ; उपचरितपक्षादिलक्षणत्वात् । तथाहि- "ज्ञातव्ये पक्षधर्मत्वे पक्षो धर्म्यभिधीयते । व्याप्तिकाले भवेद्धर्मः साध्यसिद्धौ पुनर्द्वयम्"॥१॥ इति । अगाणं हि प्रमाणं प्रसिद्धम् , प्रत्यक्षवदिति। तत्रानं वराकश्चावाकः खा- रूढां शाखां खण्डयन्नियतं भौतमनुकरोति । गौणत्वादिति हि साधनम- भिद्धानो.ध्रुवं स्वीकृतवानेवायमनुमानं प्रमाणमिति कथमेतदेव दल- येत् ?। नच पक्षधर्मत्वं हेतुलक्षणमाचक्ष्महे, येन तत्सिद्धये साध्यधर्मवि- शिष्टे धर्मिणि प्रसिद्धमपि पक्षवं धर्मिण्युपचरेम । अन्यथाऽनुपपत्त्येकलक्ष- णत्वाद्धेतोः । नापि व्याति पक्षेणैव महे, येन तत्सिद्धये धर्मे तदारो- पयेमहि । साध्यधर्मेणैव तदभिधानात् । नन्वानुमानिकप्रतीतौ धर्मविशिष्टो धर्मी, व्याप्तौ तु धर्मः साध्यमित्यभिधास्यत इत्येकत्र गौणमेव साध्यत्व- मिति चेत्। मैवम् । उभयत्र मुख्यतल्लक्षणभावेन साध्यत्वस्य मुख्यत्वात्। तत्किमिह द्वयं साधनीयम्। सत्यम्। नहि व्याप्तिरपिपरस्य प्रतीता, ततस्त- प्रतिपादनेन धर्मविशिष्टं धर्मिणमयं प्रत्यायनीय इत्यसिद्धं गौणत्वम् । अथ नोपादीयत एव तत्सिद्धौ कोऽपि हेतुस्ताह कथं अप्रमाणिका प्रामाणिक- स्येष्टसिद्धिः स्यादिति नानुमानप्रामाण्यप्रतिषेधः साधीयस्तां दधाति । ૨ १० प्रमाणनयतत्त्वालोकालङ्कारः- "नानुमान प्रमेत्यत्र हेतुः स चेत् कानुमामानतावाधनं स्यात् तदा । नानुमानं प्रमेत्यत्र हेतुर्न चेत् कानुमामानतावाधनं स्यात्तदा"।। इति संग्रहश्लोकः । कथं वा प्रत्यक्षस्य प्रामाण्यनिर्णयः ?। यदि पुनरर्थक्रियासंवादात्तत्र तन्निर्णयस्तहि कथं नानुमानप्रामाण्यम् ?। प्रत्यपीपदाम च- प्रत्यक्षेपि परोक्षलक्षणमतेर्येन प्रमारूपता । प्रत्यक्षेऽपि कथं भविष्यति मते तस्य प्रसारूपता ॥९॥ इति । तत्र स्वार्थ व्यवस्थापयन्ति- तत्र हेतुग्रहणसंबन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थम् ॥ १० ॥ हिनोत्यन्त वितणिजर्थत्वाद् गमयति परोक्षमर्थमिति हेतुः,अनन्त रमेव निर्देक्ष्यमाणलक्षणस्तस्य ग्रहणं च प्रमाणेन निर्णयः, संवन्धस्मरणं च यथैव संबन्धो व्याप्तिनामा प्राक् तर्केणाऽतर्कि; तथैव परामर्शस्ते का रणं यस्य तत्तथा । साध्यस्याख्यास्यमानस्य विशिष्टं संशयादिशून्यत्वेन ज्ञानं स्वार्थमनुमानं मन्तव्यम् ॥१०॥ हेतुस्वरूपं निरूपयन्ति- निश्चितान्यथानुपपत्त्येकलक्षणो हेतुः ॥११॥ अन्यथा साध्यं विना, अनुपपत्तिरेव, नमनागप्युपपत्तिः । प्रयत्नान न्तरीयकले साध्ये विपक्षकदेशवृत्तरनित्यत्वस्यापि गमकवापत्तेः । तर निश्चिता निर्णीताऽन्यथानुपपत्तिरेवैका लक्षणं यस्य स तादृशो हेतुज्ञेय अन्यथाऽनुपपत्तिश्चात्र हेतुप्रक्रमात् साध्यधर्मेणैव साथै ग्राह्या । ते तदितरार्थाऽन्यथाऽनुपपन्नैः प्रत्यक्षादिज्ञान तिव्याप्तिः ॥११॥ एतद्वयवच्छेचं दर्शयन्ति- न तु त्रिलक्षणकादिः॥१२॥ त्रीणि पक्षधर्मत्व-सपक्षसत्त्व-विपक्षासत्त्वानि लक्षणानि यस्य सौ- गतसम्मतस्य हेतोः आदिशब्दाद्योगसङ्गीतपञ्चलक्षणकहेत्ववरोधः। ते- 2 रवाकरावतारिकायुक्तः। नाऽवाधितविषयत्वाऽसत्प्रतिपक्षत्वयोरपि तल्लक्षणत्वकथनात्। तथाहि । वह्निमत्त्वे साध्ये धूमवत्त्वं पक्षस्य पर्वतस्य धर्मः,न शब्दे चाक्षुषत्ववदतद्धर्मः। सपक्षे पाकस्थाने सन्, नतु प्राभाकरेण शब्दनित्यत्वे साध्ये श्रावणत्ववत्ततो व्यावृत्तम्। विपक्षे पयस्वति प्रदेशेऽसन् , नतु तत्रैव साध्ये प्रमेयत्ववत् तत्र वर्तमानम् । अवाधितविषयम् ,प्रत्यक्षागमाभ्यां अबाध्यमानसाध्यत्वाद्, न तु अनुष्णस्तेजोऽवयवी द्रव्यत्वाजलवत्, विप्रेण सुरा पेया द्रवत्वात्तद्वदेवेति वत् ताभ्यां बाधितविषयम्। असत्प्रतिपक्षम् ,साध्यविपरीतार्थोपस्थापका- नुमानरहितम्, न पुननित्यः शब्दोऽनित्यधर्मानुपलब्धेरित्यनुमानसमन्वि- तमनित्यः शब्दो नित्यधर्मानुपलब्धेरित्यनुमानमिव सत्प्रतिपक्षम् , इति लक्षणत्रयपञ्चकसद्भावाद् गमकम् । तत एतादृक्षलक्षणलक्षितमेवालणं लिङ्गम्, इति सौगतयोगयोरभिप्रायः । न चायं निरपायः ॥ १२ ॥ एतदुपपादयन्ति- तस्य हेत्वाभासस्यापि संभवात् ॥१३॥ अनेन अतिव्याप्तिं प्रागुक्तलक्षणस्याऽऽचख्युः। स श्यामः तत्पुत्रत्वात् प्रेक्ष्यमाणेतरतत्पुत्रवदित्यत्र समग्रतल्लक्षणवीक्षणेऽपि हेतुत्वाभावात् । अत्र विपक्षे असत्त्वं निश्चितं नास्ति, नहि श्यामवासत्त्वे तत्पुत्रत्वेन अवश्यंनिवर्तनीयमित्यत्र प्रमाणमस्तीति सौगतः। स एवं निश्चितान्य- थानुपपत्तिमेव शब्दान्तरोपदेशेन शठः शरणीकरोतीति सैव भगवती लक्षणत्वेनास्तु । यौगस्तु गर्जति-अनौपाधिकस्सम्बन्धी व्याप्तिः। न चाय तत्पुत्रत्वेऽस्ति । शाकाद्याहारपरिणामाङपाधिनिबन्धनत्वात् । साधनाs- व्यापकः साध्येन समव्याप्तिकः किलोपाधिरभिधीयते । तथाचात्र शाका- द्याहारपरिणाम इति उपाधिसद्भावात् न तत्पुत्रत्वे विपक्षासत्त्वसम्भव इति । सोऽपि न निश्चितान्यथानुपपत्तेरतिरिक्तमुक्तवानिति सैवैकाऽस्तु । नहि अनौपाधिकसम्बन्धे सति किंचिदवशिष्यते, यदपोहाय शेषलक्षण- प्रणयनमखूणं स्यात्। पक्षधर्मत्वाभावे रसवतीधूमोऽपि पर्वते सप्ताचिषं गमयेत् इत्यभिधानो बौद्धो न बुद्धिमान् । यतः पक्षधर्मत्वभावेऽपि किं नैष तत्र तं गमयेत् । ननु कौतुकमेतत् , कथं हि नाम पक्षधर्मतोपगमे रसवतीधर्मःसन् धूमो महीध्रकन्धराधिकरणं धन अयं ज्ञापयतु इति चेत्, १२ प्रमाणनयतत्वालोकालङ्कार:- एवं तर्हि जलचन्द्रोऽपि नभश्चन्द्रं माजिज्ञपत् । जलचन्द्रस्य जलधर्मत्वात् । अथ जलनभश्चन्द्रान्तरालवत्तिनस्तावतो देशस्यैकस्यर्मित्वेन जलचन्द्रस्य तद्धर्मत्वनिश्चयात् कुतो न तद् ज्ञापकत्वमिति चेद्; एवं तर्हि रसवती- पर्वतान्तरालवर्तिवसुन्धराप्रदेशस्य धर्मित्वमस्तु। तथा च महानसधूम- स्यापि पर्वतधर्मतानिर्णयात् जलचन्द्रवत् कथं न तत्र तद्गमकत्वं स्यात् ? । पक्षधर्मता खलूभयत्राऽपि निमित्तम् । ततो यथाऽसौ स्वसमीपदेशे धूमस्य धूमध्वजं गमयतोऽम्लानतनुरास्ते, तथा व्यवहितदेशेऽपि पर्वतादा तदव- स्थैव । अन्यथा जलचन्द्रेऽपि नासौ स्याद् । देशव्यवधानात् । अथ नेयमेवात्र गमकत्वाङ्गम् , किन्तु कार्यकारणभावोऽपि । कार्य च किमपि कीदृशम् । तदिह कृपीटजन्मा स्वसमीपप्रदेशमेव धूमकार्यमर्जयितुमधीशानः; नभ- श्चन्द्रस्तुव्यवहितदेशमपीति न महानसधूमो महीधरकन्धराकोणचारिण- माशुशुक्षणिं गमयतीति चेत्, नन्वेवं धूमस्तद्देशेनैव पावकेनान्यथानुप- पन्नः, नीरचन्द्रमाः पुनरतदेशेनाऽपि नभश्चन्द्रेण, इत्यन्यथाऽनुपपत्तिनि- र्णयमात्रसद्भावादेव साध्यसिद्धे. संभवात् किं नाम जलाकाशमृगाकमण्ड- लान्तरालादेर्धर्मित्वकल्पनाकदर्थनमात्रनिमित्तेन पक्षधर्मतावर्णनेन ? । योगस्याप्येवमेव च पक्षधर्मत्वानुपयोगो दर्शनीयः । सपक्षसत्त्वमप्यनौ- पयिकम्। सत्त्वादेरगमकत्वापत्तेः। यस्तु पक्षाद् बहिष्कृत्य किमपि कुटा- दिकं दृष्टान्तयति । तस्यापूर्वः पाण्डित्यप्रकार। कुटस्यापि पटादिवद् विवा- दास्पदत्वेन पक्षादहिष्करणाऽनुपपत्तेः । तथा च कथमयं निदर्शनतयो- पदर्येत ? । प्रमाणान्तरात्तत्रैव क्षणिकत्वं प्राक् प्रसाध्य निदर्शनतयोपा- दानमिति चेद्, ननु तत्रापि कः सपक्षीकरिष्यते। यदि क्षणिकत्वप्रसाधन- पूर्व पदार्थान्तरमेव, तदा दुर्वारमनवस्थाकदर्थनम् । अन्यथा तु न सपक्षः कश्चित् । यत एव च प्रमाणात् क्षणिकलनिष्टकन कुटे प्रकट्यते। तत एव पटादिपदार्थान्तरेष्वपि प्रकट्यताम् ,किमपरप्रमाणोपन्यासालीकप्रागल्भी- प्रकाशनेन । यस्तु साध्यधर्मवान् सपक्ष इति सपक्षं लक्षयित्वा पक्षमेव सपक्षमाचक्षीत-साध्यधर्मवत्तया हि सपक्षत्वं,साध्यत्वेनेष्टतया तु पक्षत्वम् । नच विरोध., वास्तवस्य सपक्षत्वस्येच्छाव्यवस्थितेन पक्षत्वेन निराकर्तु- मशक्यत्वादिति समहात्मा निश्चितं निर्विणः सत्त्वादेःक्षणिकत्वाद्यनु- -- 4 रत्नाकरावतारिकायुक्तः। १३' माने सपक्षसत्त्वावसायवेलायामेव साध्यधर्मस्यावबोधेनानुमानानर्थक्या- त् । पक्षो हि साध्यधर्मवत्तया सपक्षश्चेत् निश्चिक्ये, हेतोश्व तत्र सत्त्वम् , तदा किं नाम पश्चाद्धेतुना साधनीयम् । किञ्च । एवमनेन पक्षं लक्षयता "साध्यधर्मसामान्येन समानोऽर्थः सपक्षः" इति दिग्नागस्य, "अनुमेयेऽथ तत्तुल्ये सद्भावो नास्तिताऽसती" इति धर्मकीर्तेश्च वचो निश्चितं वञ्चितमेव स्यात् । योगश्च केवलान्वयव्यतिरेकमनुमानमनुमन्यमानः कथं पञ्चलक्षणतां लिङ्गस्य संवाहयेत् ? इति निश्चितान्यथानुपपत्तिरेवैकं लिङ्गलक्षणमक्षूणम् । तत्त्वमेतदेव, प्रपञ्चः पुनरयमिति चेत्, तर्हि सागतेनाबाधितवि- षयत्वमसत्प्रतिपक्षत्वं, ज्ञातत्वं च; योगेन च ज्ञातत्वं लक्षणमाख्या- नीयम् । अथ विपक्षानिश्चितव्यावृत्तिमात्रेणाबाधितविषयत्वमसत्प्रति- पक्षत्वं च, ज्ञापकहेत्वधिकारात् ज्ञातत्वं च लब्धमेवेति चेत् , तर्हि गमक- हेत्वधिकारादशेषमपि लब्धमेवेति किं शेषेणापि प्रपञ्चेनेति ॥१३॥ साध्यविज्ञानमित्युक्तमिति साध्यमभिदधति- अप्रतीतमनिराकृतमभीप्सितं साध्यम् ॥१४॥ अप्रतीतमनिश्चितम् , अनिराकृतं प्रत्यक्षाद्यबाधितम् , अभीप्सितं सा- ध्यत्वेनेष्टम् ॥१४॥ अप्रतीतत्वं समर्थयन्ते- शङ्कितविपरीतानध्यवसितवस्तूनां साध्यताप्रति- पत्त्यर्थमप्रतीतवचनम् ॥१५॥ एवंविधमेव हि साध्यम् । अन्यथा साधनवैफल्यात् ॥१५॥ अनिराकृतत्वं सफलयन्ति- प्रत्यक्षादिविरुद्धस्य साध्यवं मा प्रसज्यता- मित्यनिराकृतग्रहणम् ॥१६॥ प्रत्यक्षादिविरुद्धस्य धनञ्जयादौ शैत्यादेः॥१६॥ - १४ प्रमाणनयतत्त्वालोकालङ्कार:- अभीप्सितत्वं व्यञ्जयन्ति- अनभिमतस्यासाध्यत्वप्रतिपत्तयेऽभीप्सितपदोपादानम्।१७॥ अनभिमतस्य साधयितुमनिष्टस्य ॥१७॥ साध्यत्वं सूत्रत्रयेण विषयविभागेन सङ्गिरन्ते- व्याप्तिग्रहणसमयाऽपेक्षया साध्यं धर्म एवान्यथा तदनुपपत्तेः॥१८॥ धर्मो वह्निमस्वादि., तस्या व्याप्तेरनुपपत्तेः ॥१८॥ एतदेव भावयन्ति- नहि यत्र यत्र धूमस्तत्र तत्र चित्रभानोरिव धरित्री- धरस्याप्यनुवृत्तिरस्ति ॥१९॥ व्यक्तमेतत् ॥१९॥ आनुमानिकप्रतिपत्त्यवसरापेक्षया तु पक्षाऽपरपर्याय- स्तविशिष्टः प्रसिद्धो धर्मी ॥२०॥ आनुमानिकी प्रतिपत्तिरनुमानोद्भवा प्रमितिः, तद्विशिष्टोव्याप्तिका- लापेक्षया साध्यत्वाभिमतेन धर्मेण विशिष्टः ॥२०॥ प्रसिद्धो धर्मीत्युक्तमय यतोऽस्य प्रसिद्धिस्तदभिद्धति- धर्मिणः प्रसिद्धिः क्वचिद्विकल्पतः कुत्रचित्प्रमाणतः क्वापि विकल्पप्रमाणाभ्याम् ॥२१॥ विकल्पोऽध्यवसायमात्रम् ॥२१॥ अथात्र क्रमेणोदाहरन्ति- यथा समस्ति समस्तवस्तुवेदी,क्षितिधरकन्धरेयं धूमध्वजवती, ध्वनिः परिणतिमान् ॥२२॥ अत्राद्योदाहरणे धर्मिणो विकल्पेन सिद्धिः । नहि हेतुप्रयोगात् पूर्व

रत्नाकरावतारिकायुक्तः ।
१५
विकल्पं विहाय विश्ववित् कुतोऽपि प्रासिध्यत् । द्वितीये प्रमाणेन प्रत्यक्षादि-
ना,क्षितिधरकन्धरायास्तदानी संवेदनात् । तृतीये तूभाभ्याम् । नहि श्रूयमा-
णादन्येषां देशकालस्वभावव्यवहितध्वनीनां ग्राहकं किञ्चित् तदानीं प्रमाणं
प्रवर्तत इति विकल्पादेव तेषां सिद्धिः । ननु नास्ति विकल्पसिद्धो धर्मी,
तन्मात्रेण सिद्धेः कस्याप्यसंभवात् । अन्यथाऽहंप्रथामिकया प्रमाणपर्येषण-
प्रयासः परीक्षकाणामकक्षीकरणीय एव भवेत् । प्रमाणमूलतायां पुनरेतस्य
प्रमाणसिद्धप्रकारेणैव गतार्थत्वादिति । सोऽयं स्वयं विकल्पसिद्धं धर्मिण-
माचक्षाणः परोक्तं प्रत्याचक्षाणश्च नियतमुत्स्वप्नायते । यदि हि विकल्प-
सिद्धो धर्मी नास्त्येव, तदा 'नास्ति विकल्पसिद्धो धर्मी, तन्मात्रेण सिद्धेः
कस्याप्यसंभवात्' इत्यत्र कथं तमेवावोचथाः ? । परोपगमादयमस्त्येवेति
चेत् ।
“यदि परोपगमः प्रमितिस्तदा कथमयं प्रतिषेधविधिर्भवेत् ।
अथ तथा न तदापि बतोच्यतां कथमयं प्रतिषेधविधिर्भवेत्॥१॥
तस्मात् प्रमाणात् पृथग्भूतादपि विकल्पादस्ति काचित्तथाविधा
सिद्धिः। यामनाश्रयता तार्किकेण न क्षेमेणासितुं शक्यत इति ॥२२॥
अधुना परार्थानुमानं प्ररूपयन्ति-
पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात् ॥२३॥
पक्षहेतुवचनात्मकत्वं च परार्थानुमानस्य व्युत्पन्नमतिप्रतिपाद्यापेक्षया
ऽत्रोक्तम् । अतिव्युत्पन्नमतिप्रतिपाद्याऽपेक्षया तु धूमोऽत्र दृश्यत इत्यादि
हेतुवचनमात्रात्मकमपि तद्भवति । बाहुल्येन तत्प्रयोगाभावात्तु नैतत्साक्षा-
त्सूत्रसूत्रितम् , उपलक्षितं तु द्रष्टव्यम् । मन्दमतिप्रतिपाद्यापेक्षया तु दृष्टा-
न्तादिवचनात्मकमपि तद्भवति । यद्वक्ष्यन्ति " मन्दमतीस्तु व्युत्पादयितुं
दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानि" इति।पक्षहेतुवचनस्य च जडरू-
पतया मुख्यतः प्रामाण्याऽयोगे सति उपचारादित्युक्तम् । कारणे कार्योप-
चारादित्यर्थः । प्रतिपाद्यगतं हि यज्ज्ञानं तस्य कारणं पक्षादिवचनम् ।
कार्ये कारणोपचाराद्वा । प्रतिपादकगतं हि यत्स्वार्थानुमानं तस्य कार्य
तद्वचनमिति ॥ २३ ॥

. ... १६ प्रमाणनयतत्त्वालोकालङ्कार:- संप्रति व्याप्तिपुरस्सरं पक्षधर्मतोपसंहारं तत्पूर्विकां वा व्याप्तिमा- चक्षाणान् भिक्षून् पक्षप्रयोगमगीकारयितुमाहुः- साध्यस्य प्रतिनियतधर्मिसंबन्धिताप्रसिद्धये हेतोरुप- संहारवचनवत् पक्षप्रयोगोऽप्यवश्यमाश्रयितव्यः ॥२४॥ यथा यत्र धूमस्तत्र धूमध्वज इति हेतोः सामान्येनाधारप्रतिपत्ता- वपि पर्वतादिविशिष्टर्मिधर्मताधिगतये धूमश्चात्रेत्येवंरूपमुपसंहारवच- नमवश्यमाश्रीयते सौगते । तथा साध्यधर्मस्य नियतमिधर्मतासिद्धये पक्षप्रयोगोऽप्यवश्यमाश्रयितव्य इति ॥२४॥ अमुमेवार्थ सोपालम्भं समर्थयन्ते- त्रिविधं साधनमभिधायैव तत्समर्थनं विदधानः कः खलु न पक्षप्रयोगमङ्गीकुरुते ॥२५॥ त्रिविधं कार्यस्वभावानुपलम्भभेदात् । तस्य साधनस्य समर्थनमसि- द्धतादिव्युदासेन खसाध्यसाधनसामोपदर्शनम् । नहि असमार्थतो हेतु. साध्यसिद्धयङ्गम् । अतिप्रसङ्गात् । ततः पक्षप्रयोगमनङ्गीकुर्वता तत्समर्थनरूपं हेतुमनभिधायैव तत्समर्थनं विधेयम् । "हन्त हेतुरिह जलप्यते न चेत्, अस्तु कुत्र स समर्थनाविधिः । तर्हि पक्ष इह जल्प्यते न चेत्, अस्तु कुत्र स समर्थनाविधि.॥१॥ प्राप्यते ननु विवादत. स्फुट पक्ष एष किमतस्तदाख्यया । तर्हि हेतुरपि लभ्यते ततोऽनुक्त एव तदसौ समर्थ्यताम् ॥२॥ मन्दमतिप्रतिपत्तिनिमित्तं सागत ! हेतुमथाभिधीथाः । मन्दमतिप्रतिपत्तिनिमित्तं तहि न किं परिजल्पसि पक्षमाशा२५।। अथ प्रत्यक्षस्यापि पाराय समर्थयन्ते- प्रत्यक्षपरिच्छिन्नार्थाभिधायि वचनं परार्थ प्रत्यक्षं, परप्रत्यक्षहेतुत्वात् ॥ २६॥ यथाऽनुमानप्रतीतोऽर्थः परसौ प्रतिपाद्यमानो वचनरूपापन्नः परार्थ- .

रत्नाकरावतारिकायुक्तः। भनुमानमुच्यते, तथा प्रत्यक्षप्रतीतोऽपि तथैव परार्थ प्रत्यक्षमित्युच्यताम् । परप्रत्यायनस्योभयत्राप्यविशिष्टत्वादिति ॥ २६ ॥ एतदुल्लिखन्ति- यथा पश्य पुरः स्फुरत्किरणमणिखण्डमण्डिताभरणभा- रिणीं जिनपतिप्रतिमाम् ॥ २७ ॥ व्यक्तमदः । एवं स्मरणादेरपि यथासम्भवं पाराय॑ प्रतिपत्तव्यम् । तथा च वदान्त- "सारत्यदो दाशरथिर्भवन् भवान, वनान्ताद्वनिताऽपहारिणम् । पयोधिमाबद्धचलज्जलाविले विलध्य लकां निकषा हनिष्यति" ॥११॥ "परिभावय स एवाऽयं मुनिः पूर्व नमस्कृतः " इत्यादि ॥२७॥ प्रासङ्गिकमभिधाय पक्षहेतुवचनात्मकं परार्थमनुमानमिति प्रागुक्तं समर्थयन्ते- पक्षहेतुवचनलक्षणमवयवद्वयमेव परप्रतिपत्तेरङ्गं न दृष्टान्तादिवचनम् ॥ २८ ॥ आदिशब्देनोपनयनिगमनादिग्रहः। एवं च यद् व्याप्त्युपेतं पक्षधर्मतो- पसंहाररूपं सौगतैः, पक्षहेतुदृष्टान्तस्वरूपं भाट्टप्राभाकरकापिलैः, पक्षहेतु- दृष्टान्तोपनयनिगमनलक्षणं नैयायिकवैशेषिकाभ्यामनुमानमाम्नायि; तदपास्तम् । व्युत्पन्नमतीन् प्रति पक्षहेतुवचसोरेवोपयोगात् ॥२८॥ पक्षप्रयोगं प्रतिष्ठाप्य हेतुप्रयोगप्रकारं दर्शयन्ति- हेतुप्रयोगस्तथोपपत्त्यन्यथानुपपत्तिभ्यां द्विप्रकारः ॥२९॥ तथैव साध्यसंभवप्रकारेणैवोपपत्तिस्तथोपपत्ति. । अन्यथा साध्या- भावप्रकारेणानुपपत्तिरेवान्यथानुपपत्ति. ॥२९॥ अमू एव स्वरूपतो निरूपयन्ति- सत्येवं साध्ये हेतोरुपपत्तिस्तथोपपत्तिः, असति साध्ये हेतोरनुपपत्तिरेवान्यथानुपपत्तिः ॥३०॥ निगव्याख्यानम् ॥३०॥ ३ १८ प्रमाणनयतत्त्वालोकालङ्कारः- प्रयोगतोऽपि प्रकटयन्ति- यथा कृशानुमानयं पाकप्रदेशः सत्येव कृशानुमत्वे धूमवत्त्वस्योपपत्तेः, असत्यनुपपत्तेर्वा ॥३१॥ एतदपि तथैव ॥३॥ अमुयोः प्रयोगो नियमयन्ति- अनयोरन्यतरप्रयोगेणैव साध्यप्रतिपत्तौ द्वितीय- प्रयोगस्यैकत्रानुपयोगः ॥३२॥ अयमर्थः-प्रयोगयुग्मेऽपि वाक्यविन्यास एव विशिष्यते नार्थः । स चान्यतरप्रयोगेणैव प्रकटीबभूवेति किमपरप्रयोगेण ? इति ॥३२॥ अथ यदुक्तं "न दृष्टान्तादिवचनं परप्रतिपत्तेरङ्गम्" इति । तत्र दृष्टा- न्तवचनं तावन्निराचिकीर्षवस्तद्धि किं परप्रतिपत्त्यर्थ परैरङ्गीक्रियते ?, किंवा हेतोरन्यथानुपपचिनिर्णीतये?, यद्वाऽविनाभावस्मृतये । इति विक- ल्पेषु प्रथमं विकल्पं तावहूषयन्ति- न दृष्टान्तवचनं परप्रतिपत्तये प्रभवति, तस्यां पक्षहेतु- वचनयोरेव व्यापारोपलव्धेः ॥३॥ प्रतिपन्नाऽविस्मृतसंवन्धस्य हि प्रमातुरग्निमानयं देशो धूमवत्त्वा- न्यथानुपपत्तेरित्येतावतैव भवत्येव साध्यप्रतीतिरिति ॥३३॥ द्वितीयं विकल्पं परास्यन्ति- नच हेतोरन्यथानुपपत्तिनिर्णीतये, यथोक्ततर्कप्रमा- णादेव तदुपपत्तेः ॥३॥ दृष्टान्तवचनं प्रभवतीति योग. ॥३४॥ अत्रैवोपपत्त्यन्तरमुपवर्णचन्ति- नियतकाविशेषस्वभावे च दृष्टान्ते साकल्येन व्याप्तर- योगतो विप्रतिपत्तौ तदन्तरापेक्षायामनवस्थिते?-

१९
रत्नाकरावतारिकायुक्तः।
निवारः समवतारः ॥ ३५ ॥
प्रतिनियतव्यक्तौ हि व्याप्तिनिश्चयः कर्तुमशक्यः। ततो व्यक्त्यन्तरेषु
च्याप्त्यर्थ पुनईष्टान्तान्तरं मृग्यम् । तस्यापि व्यक्तिरूपत्वेनापरदृष्टा-
न्तापेक्षायामनवस्था स्यात् ॥ ३५ ॥
तृतीयविकल्पं पराकुर्वन्ति-
नाप्यविनाभावस्मृतये, प्रतिपन्नप्रतिबन्धस्य व्युत्पन्न-
मतेः पक्षहेतुप्रदर्शनेनैव तत्प्रसिद्धेः ॥३६॥
दृष्टान्तवचनं प्रभवतीति योगः ॥३६॥
अमुमवाथै समर्थयन्ते-
अन्तर्व्याप्त्या हेतोः साध्यप्रत्यायने शक्तावशक्तौ च
बहियाप्तेरुद्भावनं व्यर्थम् ॥३७॥
अयमर्थ:--
"अन्तर्व्याप्तेः साध्यसंसिद्धिशक्तौ बाह्यव्याप्तेर्वर्णनं वन्ध्यमेव ।
अन्ताप्तेः साध्यसंसिद्ध्यशक्तौ बाह्यव्याप्तवर्णनं वन्ध्यमेव" ॥१॥
मत्पुत्रोऽयं बहिर्वक्ति, एवंरूपस्वरान्यथानुपपत्तेः, इत्यत्र बहिर्व्याप्य-
भावेऽपि गमकत्वस्य; स श्यामः तत्पुत्रत्वात्, इतरतत्पुत्रवत् ; इत्यत्र तु
तद्भावेऽप्यगमकत्वस्योपलब्धेरिति ।। ३७ ।।
अथैतयोः स्वरूपमाहुः-
पक्षीकृत एव विषये साधनस्य साध्येन व्याप्तिरन्ता-
प्तिरन्यत्र तु बहियाप्तिः ॥३८॥
यथाऽनेकान्तात्मकं वस्तु सत्त्वस्य तथैवोपपत्तेरिति,
अग्निमानयं देशो धूमवत्त्वात् य एवं स एवं यथा
पाकस्थानमिति च ॥३९॥
उपनयनिगमन्योरपि परप्रतिपत्तौ सामर्थ्य कदर्थयन्ते-
नोपनयनिगमनयोरपि परप्रतिपत्तौ सामर्थ्य पक्षहे-
तुप्रयोगादेव तस्याः सद्भावात् ॥४०॥

२० प्रमाणनयतत्त्वालोकालङ्कार:- न केवलं दृष्टान्तस्यत्यपेरर्थः ॥ ४०॥ एतदेवाहुः- समर्थनमेव परं परप्रतिपत्त्यङ्गमास्तां तदन्तरेण दृष्टान्तादिप्रयोगेऽपि तदसैभवात् ॥४१॥ प्रयुज्यापि हि दृष्टान्तादिकम् , समर्थन हेतोरवश्यं वक्तव्यम् । इत- स्था साध्यसिद्ध्यसंभवादिति तदेवाभिधीयताम्, किं दृष्टान्तादिवचने- न ? इति ॥४॥ व्युत्पन्नानाश्रित्य परार्थानुमानमभिधाय मन्दमतीनुद्दिश्य तत् प्रपञ्चयन्ति- मन्दमतीस्तु व्युत्पादयितुं दृष्टान्तोपनयनिगम- नान्यपि प्रयोज्यानि ॥ ४२ ॥ अपिशब्दात्पक्षहेतु , पक्षादिशुद्धयश्च पञ्च ग्राह्याः । तत उत्कृष्टं दशा- ऽवयवं परार्थानुमानमित्युक्तं भवति । मध्यमं तु नवावयवादारभ्य यावत् व्यवयवम् । जघन्यं पुनः साधनमानोपन्यासस्वरूपम् । प्रतिपाद्यानां मन्दव्युत्पन्नातिव्युत्पन्नत्वात् । तदुक्तम्- “अन्यथाऽनुपपत्त्येकलक्षणं लिङ्गमिष्यते । प्रयोगपरिपाटी तु प्रतिपाद्यानुसारतः" ॥१॥ इति ॥४२॥ अर्थ दृष्टान्तं प्रकटयन्ति- प्रतिबन्धप्रतिपत्तेरास्पदं दृष्टान्तः॥ ४३ ॥ प्रतिवन्धो व्याप्तिरविनाभावः । तत्स्मरणस्थानं महानसादि दृष्टा- न्तो ज्ञेयः ॥ ४३॥ भेदतोऽमून दर्शयन्ति- स द्वेधा, साधर्म्यतो वैधयंतश्च ॥ ४४ ॥ 'समानो धर्मो यस्याऽसौ सधर्मा । विसदृशो धर्मो यस्याऽसौ विध- मी, तयोर्भावः साधर्म्य वैधय॑ च, ततः ।। ४४ ॥

रवाकरावतारिकायुक्तः।
२९
त
आयं प्रकारमाहुः-
यत्र साधनधर्मसत्तायामवश्यं साध्यधर्मसत्ता
प्रकाश्यते, स साधर्म्यदृष्टान्तः ॥४५॥
यथा यत्र यत्र धूमस्तत्र तत्र वह्निर्यथा महानसः॥४६॥
द्वितीयभेदं दर्शयन्ति-
यत्र तु साध्याभावे साधनस्यावश्यमभावः
प्रदर्यते, स वैधदृष्टान्तः ॥४७॥
यथाऽरन्यभावे न भवत्येव धूमो, यथा जलाशये ॥४८॥
उपनयं वर्णयन्ति-
हेतोः साध्यधर्मिण्युपसंहरणमुपनयः ॥४९॥
यथा धूमश्चात्र प्रदेशे ॥५०॥
निगमनं लक्षयन्ति-
साध्यधर्मस्य पुनर्निगमनम् ॥५१॥
साध्यधर्मिण्युपसंहरणमिति योगः ।।५।।
यथा तस्मादमिरत्र ॥५२॥
पक्षवचनादीनां पूर्वाचार्यप्रवर्तिता संज्ञां कथयन्ति-
एते पक्षप्रयोगादयः पञ्चाप्यवयवसंज्ञया कीर्त्यन्ते ॥५३॥
अपिशब्दात् तच्छुद्धीनामप्यवयवसंज्ञा विज्ञेया ॥५३॥
प्रागुक्तमेव हेतुं प्रकारतो दर्शयन्ति-
उक्तलक्षणो हेतुईिप्रकारः, उपलब्ध्यनुपलब्धिभ्यां
भिद्यमानत्वात् ॥५४॥
अथैतयो साध्यमाहुः-
उपलब्धिर्विधिनिषेधयोः सिद्धिनिबन्धनमनुपलब्धिश्च ॥५५॥
यथा चैतदेवं तथा वक्ष्यते ॥५५॥

२२
प्रमाणनयतत्त्वालोकालङ्कार:-
विधिमभिदधति-
विधिः सदंशः ॥५६॥
सदसदंशात्मनो वस्तुनो योऽयं सदशो भावरूपः, स विधिरित्य-
भिधीयते ॥५६॥
प्रतिषेधं प्रकटयन्ति-
प्रतिषेधोऽसदंशः ॥५७||
ताशस्यैव वस्तुनो योऽयमसदंशोऽभावस्खभावः, स प्रतिषेध
इति गीयते ॥५७||
अस्यैव प्रकारानाहुः
स चतुर्दा प्रागभावः प्रध्वंसाभाव इतरेतराभावो-
ऽत्यन्ताभावश्च ॥५८||
प्राक् पूर्व वस्तूत्पत्तेरभावः, प्रध्वंसश्चासावभावञ्च, इतरस्येतरस्मिन्न-
भावः, अत्यन्तं सर्वदाऽभावः । विधिप्रकारास्तु प्राक्तनैर्नोचिरे । अतः
सूत्रकृद्भिरपि नाभिदधिरे ।। ५८ ।।
तत्र प्रागभावमाविर्भावयन्ति-
यन्निवृत्तावेव कार्यस्य समुत्पत्तिःसोऽस्य प्रागभावः॥५९॥
यस्य पदार्थस्य निवृत्तावेव सत्याम्, न पुनरनिवृत्तावपि; अतिव्या-
प्तिप्रसक्तेः । अन्धकारस्थापि निवृत्तौ कचिज्ञानोत्पत्तिदर्शनादन्धकार-
स्यापिज्ञानप्रागभावत्वप्रसङ्गात् । नचैवमपि रूपज्ञानंतन्निवृत्तावेवोत्पद्यत
इति तत्प्रति तस्य तत्त्वप्रसक्तिरिति वाच्यम् । अतीन्द्रियदर्शिनि नक्तं
चरादौ च तद्भावेऽपि तद्भावात् । स इति पदार्थ., अस्येति कार्यस्य ॥५९॥
अत्रोदाहरन्ति-
यथा मृत्पिण्डनिवृत्तावेव समुत्पद्यमानस्य घटस्य
मृत्पिण्डः ॥ ६० ॥

रत्नाकरावतारिकायुक्तः । २३ प्रध्वंसाभावं प्राहु:- यदुत्पत्ती कार्यस्यावश्यं विपत्तिः सोऽस्य प्रध्वंसाभावः॥६१॥ यस्य पदार्थस्योत्पत्तौ सत्यां प्रागुत्पन्नकार्यस्यावश्यं नियमन, अन्यथा- तिप्रसङ्गाद् विपत्तिविघटनम्, सोऽस्य कार्यस्य प्रध्वंसाभावोऽभिधी- यते ।। ६१ ॥ उदाहरन्ति- यथा कपालकदम्बकोत्पत्तौ नियमतो विपद्यमानस्य कलशस्य कपालकदम्बकम् ॥ ६२ ॥ इतरेतराभावं वर्णयन्ति- स्वरूपान्तरात् स्वरूपव्यावृत्तिरितरेतराभावः ॥ ३ ॥ खभावान्तरान पुनः स्वस्वरूपादेव तस्याभावप्रसक्तः, स्वरूपव्या- वृत्तिः स्वस्वभावव्यवच्छेद इतरेतराभावोऽन्यापोहनामा निगद्यते ॥६॥ उदाहरणमाहुः- यथा स्तम्भस्वभावात् कुम्भवभावव्यावृत्तिः ॥ ६४ ॥ अत्यन्ताभावमुपदिशन्ति- कालत्रयाऽपेक्षिणी हि तादात्म्यपरिणामनिवृत्तिरत्यन्ता- भावः ॥६५॥ अतीताऽनागतवर्तमानरूपकालत्रयेऽपि याऽसौ तादात्म्यपरिणाम- निवृत्तिरेकत्वपरिणतिव्यावृत्तिः, सोऽत्यन्ताभावोऽभिधीयते ।। ६५ ।। निदर्शयन्ति- यथा चेतनाऽचेतनयोः ॥ ६६ ।। न खलु चेतनमात्मतत्त्वमचेतनपुद्गलात्मकतामचकलत् , कलयत्ति, कलयिष्यति वा । तचैतन्यविरोधात् । नाप्यचेतनं पुद्गलतत्त्वं चेतनव- रूपताम् । अचेतनत्वविरोधात् ।। ६६ ।। अथोपलब्धि प्रकारतो दर्शयन्ति- उपलब्धेरपि दैविध्यमविरुद्धोपलब्धिविरुद्धोपलब्धिश्चा॥६॥ - २४ प्रमाणनयतत्त्वालोकालङ्कारः- न केवलमुपलभ्यनुपलब्धिभ्यां भिद्यमानत्वेन हेतोद्वैविध्यमित्य- पेरर्थः । अविरुद्धो विरुद्धश्चात्र साध्येन साई द्रष्टव्यः । ततस्तस्योपल- ब्धिरिति ॥ ६७ ॥ आद्याचा भेदानाहु:- तत्राविरुद्धोपलब्धिर्विधिसिद्धौ पोढा ॥ ६८ ॥ तानेव व्चात्यान्ति- साध्येनाविरुद्धानां व्याप्यकार्यकारणपूर्वचरोत्तरचर- सहचराणामुपलब्धिः ॥ ६९ ॥ ततो व्याप्याऽविरुद्धोपलब्धिः. कार्याऽविरुद्धोपलब्धिः, कारणाऽवि- रोपलब्धिः, पूर्वचराविरुद्धोपलब्धिः, उत्तरचराविरुद्धोपलब्धि., सह- चराविरुद्धोपलव्धिरिति षद् प्रकारा भवन्ति । अत्र हि साध्यं शब्दस्य परिणनिलादि तत्वाऽविरुद्धं व्याप्यादि प्रयत्नानन्तरीचकतादि वल्य- भारतदुपटवरिति । नत्र भिक्षुर्भापते-विधित्तिौ स्वभावकार्ये एव सावने साधीयत्ती, न कारजन् ! तल्यावश्यतया नार्कोलादलाभावात् । प्रतिवद्धावलल रावलव चावूनत्यापि धूमध्वजय दर्शनान्, समतिद्धतानगेन् , उनलानोकं च तद्गमननिति चेत् । एवनेनन्, जिन्दु नदारदानगशाऽवत्तातुं शज्यनिति ॥ ६९ ॥ तकिराफी कर्मियन्ति- तनलियानालाधमानादानादिफलरसाइकसामन्यनु- निसा रूपाचनुमितिमभिमन्यमानैरभिमतमेव किमपि ज्ञारणं हेतुतया यत्र शतप्रतिस्खलनमपरकारणता- कल्यं च ॥ ७० ॥ उन्नलिदाचिति तासन्ताय । जिवलनसामध्ये रूप्रतिवन्धः । सरकारपसावं हेपनि पत्रकारितन्तः । रजन्यरूनानक रसान् जनताद्धनानन्, तनेऽपिरूपा- उननं भवति । प्रायोहि पक्ष सजाहीपल्पान्तरल्ने कार्य

रत्नाकरावतारिकायुक्तः ।
२५
कुर्वन्नेव विजातीयं रसलक्षणं कार्य करोतीति प्राक्तनरूपक्षणात्सजातीयो-
त्पाद्यरूपक्षणान्तरानुमानं मन्यमानैः सौगतैरनुमतमेव किञ्चित्कारणं
हेतुः, यस्मिन् सामर्थ्याप्रतिवन्धः, कारणान्तरसाकल्यं च निश्चेतुं शक्यते।
अथ नैतत् कारणात् कार्यानुमानम् , किन्तुस्वभावानुमानमदः । ईदृशरू-
पान्तरोत्पादसमर्थमिदं रूपमीदृशरसजनकत्वादित्येवं तत्स्वभावभूतस्यैव
तज्जननसामर्थ्यस्यानुमानादिति चेत् । नन्वेतदपि प्रतिबन्धाभावकारणा-
न्तरसाकल्यनिर्णयमन्तरेण नोपपद्यत एव । तन्निश्चयेतु यदि कारणादेव
तस्मात् कार्यमनुमास्यते, तदा किं नाम दुश्चरितं चेतवी विचारयेत् ? ।
एवमस्त्यत्रच्छाया छत्रादित्यादीन्यव्यभिचारनिश्चयादनुमानान्येवेत्युक्तं
भवति ||७०॥
अथ पूर्वचरोत्तरचरयोः स्वभावकार्यकारणहेत्वनन्तर्भावाद्भेदान्तर-
त्वं समर्थयन्ते-
पूर्वचरोत्तरचरयोर्न स्वभावकार्यकारणभावौ तयोः
कालव्यवहितावनुपलम्भात् ॥७॥
साध्यसाधनयोस्तादात्म्ये सतिखभावहेती, तदुत्पत्तौ तु कार्ये कारणे
वाऽन्तर्भावो विभाव्येत । न चैते स्तः। तादात्म्यं हि समसमयस्य प्रयत्ना-
नन्तरीयकलपरिणामित्वादेरुपपन्नम् । तदुत्पत्तिश्चान्योऽन्यमव्यवहितस्यैव
धूमधूमध्वजादेः समधिगतान तु व्यवहितकालस्य । अतिप्रसक्तेः॥७॥
ननु कालव्यवधानेऽपि कार्यकारणभावो भवत्येव, जाप्रबोधप्रबोधयोर्म-
रणारिष्टयोश्च तथा दर्शनादिति प्रतिजानानं प्रज्ञाकरं प्रतिक्षिपन्ति-
नचातिक्रान्तानागतयोर्जाग्रद्दशासंवेदनमरणयोःप्रबोधो-
त्पातौ प्रति कारणलं, व्यवहितत्वेन निर्व्यापारत्वात् ॥७२॥
अयमर्थः । जाग्रदशासंवेदनमतीतम् , सुप्तावस्थोत्तरकालभाविज्ञानं
वर्तमान प्रति; मरणं चानागतं ध्रुवावीक्षणादिकमरिष्टं साम्प्रतिकं प्रति
व्यवहितत्वेन व्यापारपराङ्मुखम् , इति कथं तत्तत्र कारणत्वमवलम्बेत? ।
निर्यापारस्यापि तत्कल्पने सवै सर्वस्य कारणं स्यात् ॥७२॥

२६ प्रमाणनयतत्त्वालोकालकार:- : इदमेव भावयन्ति- स्वव्यापारापेक्षिणी हि कार्य प्रति पदार्थस्य कारणत्वव्य वस्था, कुलालस्येव कलशं प्रति ॥७३॥ अन्वयव्यतिरेकावसेयो हि सर्वत्र कार्यकारणभावः। तौ च कार्यस्य कारणव्यापारसव्यपेक्षावेव युज्यते । कुम्भस्येव कुम्भकारव्यापारसव्य- पेक्षाविति ॥७३॥ ननु चातिक्रान्ताऽनागतयोर्व्यवहितत्वेऽपि व्यापारः कथं न स्या- दित्यारेकामधरयन्ति- न च व्यवहितयोस्तयोापारपरिकल्पनं न्याय्यमति- प्रसक्तेः ॥७॥ तयोरतिक्रान्तानागतयोर्जाग्रहशासंवेदनमरणयोः ॥७४|| अतिप्रसक्तिमेव भावयन्ति- परम्पराव्यवहितानां परेषामपि तत्कल्पनस्य निवारयितु- मशक्यत्वात् ॥ ७५ ॥ परेषामपि रावणशङ्खचक्रवर्त्यादीनाम्। तत्कल्पनस्य व्यापारकल्पनस्य । अथान्वयव्यतिरेकसमधिगम्यः कार्यकारणभावः । ततो व्यवधानाविशेषे- ऽपि यस्यैव कार्यमन्वयव्यतिरेकावनुकरोति, तदेव तत्कारणम्। अन्यथाऽ- व्यवधानाविशेषेऽपि किं न काष्ठकृशानुवत्तत्रस्थित एव शर्कराकणनिकरो- ऽपिधूमकारणं स्यात् ? ततो नातिप्रसङ्ग इति चेत् । नन्वन्वयस्तद्भावे भावः, स चात्रतावन् नास्त्येव । जाग्रहशासंवेदनमरणयोरभाव एव सर्वदा तत्का- र्योत्पादात् । अथ स्वकाले सतोरेवतयोस्तत्कार्योत्पत्तेरन्वयः कथं न स्यादि- तिचेत्, तीहशोऽयं रावणादिभिरप्यस्यास्त्येव । सत्यम्, अस्त्येव व्यति- रेकस्तु रिक्त इति चेत्। ननु कोऽयं व्यतिरेको नाम? तदभावेऽभाव इति चेत्, स तर्हि मापदशासंवेदनादेः कथं स्यात् । तदभाव एव सर्वदा प्रयो- धादेर्भावात् । स्वकाले त्वभावस्तस्य नास्त्येवेति कथं व्यतिरेकः सिद्धिम- धिवसेत् ? इति न व्यवहितयोः कार्यकारणभावः संभवति ॥ ७५ ।।।

,
रनाकरावतारिकायुक्तः।
२७
सहचरहेतोरपि स्वभावकार्यकारणेषु नान्तर्भाव इति दर्शयन्ति-
सहचारिणोः परस्परस्वरूपपरित्यागेन तादात्म्यानुपपत्तेः,
सहोत्पादेन तदुत्पत्तिविपत्तेश्व, सहचरहेतोरपि
प्रोक्तेषु नानुप्रवेशः ॥ ७६ ॥
यदि हि सहसंचरणशीलयोर्वस्तुनोस्तादात्म्यं स्यात् , तदा परस्पर-
परिहारेण स्वरूपोपलम्भो न भवेत् । अथ तदुत्पत्तिः, तदा पौर्वापर्ये-
णोत्पादप्रसङ्गात् सहोत्पादो न स्यात् । न चैवम् । ततो नास्य प्रोक्तेषु
स्वभावकार्यकारणेष्वन्तीवः ॥ ७६ ॥
इदानीं मन्दमतिव्युत्पत्तिनिमित्रं साधर्म्यवैधाभ्यां पश्चावयवां
न्याप्याविरुद्धोपलब्धिमुदाहरन्ति-
ध्वनिः परिणतिमान् प्रयत्नानन्तरीयकत्वात् ,यःप्रयत्ना-
नन्तरीयकः स परिणतिमान् , यथा स्तम्भो, यो वान परि.
णतिमान् स न प्रयत्नानन्तरीयको, यथा वान्ध्येयः, प्रय-
नानन्तरीयकश्च ध्वनिः, तस्मात्परिणतिमानिति व्याप्यस्य
साध्येनाऽविरुद्धस्योपलब्धिः साधम्र्येण वैधय॑णच॥७७॥
अत्र ध्वनिः परिणतिमानिति साध्यधर्मविशिष्टधर्म्यभिधानरूपा
प्रतिज्ञा । प्रयत्नानन्तरीयकत्वादिति हेतुः । यः प्रयत्नानन्तरीयक इत्यादी
तु व्याप्तिप्रदर्शनपूर्वी साधर्म्यवैधाभ्यां स्तम्भवान्ध्येयरूपी दृष्टान्तौ ।
प्रयत्नानन्तरीयकश्च ध्वनिरित्युपनयः। तस्मात्परिणतिमानिति निगमनम् ।
यद्यपि व्याप्यत्वं कार्यादिहेतूनामप्यस्ति, साध्येन व्याप्यत्वात् । तथापि
तन्नेह विवक्षितम् , किन्तु साध्येन तदात्मीभूतस्याकार्यादिरूपस्य प्रयत्ना-
नन्तरीयकत्लादेः स्वरूपमित्यदोषः ।। ७७ ।।
अथ कार्याऽविरुद्धोपलब्ध्यादीनुदाहरन्ति-
अस्त्यत्र गिरिनिकुञ्जे धनञ्जयो धूमसमुपलम्भादिति
कार्यस्य ॥ ७८ ॥

२८ प्रमाणनयतवाकोकाकार:- सांध्येनाऽविरुद्धस्योपलब्धिरिति पूर्वसूत्रादिहोत्तरत्र चानुवर्तनी- यम् ॥ ७८॥ भविष्यति वर्ष तथाविधवारिवाहविलोकनादिति कारणस्य ॥ ७९ ॥ सथाविधेति सातिशयोन्नतत्वादिधर्मोपेतत्वं गृह्यते ॥७९॥ उदेष्यति मुहूर्त्तान्ते तिष्यतारकाः पुनर्वसूदयदर्श- नादिति पूर्वचरस्य ॥ ८०॥ तिष्यतारकेति पुष्य नक्षत्रम् ॥८॥ उदगुर्मुहूर्तात्पूर्व पूर्वफल्गुन्य उत्तरफल्गुनीनामुद्ग- मोपलब्धेरित्युत्तरचरस्य ॥ ८१ ॥ अस्तीह सहकारफले रूपविशेषः समास्त्राद्यमानर- सविशेषादिति सहचरस्य ॥ ८२ ॥ इयं च साक्षात् षोढाऽविरुद्धोपलव्धिरुक्ता । परम्परया पुनःसंभव- न्तीयमत्रैवान्तर्भावनीया। तद्यथा, कार्यकार्याऽविरुद्धोपलब्धिः कार्यावि- रुद्धोपलब्धौ । अभूदत्र कोशः कलशोपलम्भात् इति। कोशस्य हि कार्य कुशूलस्तस्य चाविरुद्ध कार्य कुम्भ इत्येवमन्या अप्यत्रवान्तर्भाव- नीयाः ॥८२॥ अधुना विरुद्धोपलब्धिभेदानाहुः- विरुद्धोपलब्धिस्तु प्रतिषेधप्रतिपत्तौ सप्तप्रकारा ॥३॥ प्रथमप्रकारं प्राक् प्रकाशयन्ति- तत्राद्या स्वभावविरुद्धोपलब्धिः ॥८॥ प्रतिषेध्यस्यार्थस्य यः स्वभावः स्वरूपम् , तेन सह यत् साक्षाद विरुद्धम् , तस्योपलब्धि. स्वभावविरुद्धोपलब्धिः ॥ ८४ ॥ - रखाकरावतारिकायुक्तः । २९ श्तामुदाहरन्ति- यथा नास्त्येव सर्वथैकान्तोऽनेकान्तस्योपलम्भात् ॥८५॥ स्पष्टो हि सर्वथकान्तानेकान्तयोः साक्षाद्विरोधो भावाऽभावयोरिव । नन्वयमनुपलब्धिहेतुरेव युक्तः “यावान् कश्चित् प्रतिषेधः स सर्वोऽनुप- लब्धेः" इति वचनादिति चेत् । तन्मलीमसम् । उपलम्भाभावस्यात्र हेतुले- नानुपन्यासात् । अथ विरुद्धयोः सर्वथैकान्तानेकान्तयोर्वह्निशीतस्पर्श- योरिव प्रथमं विरोधः स्वभावानुपलव्ध्या प्रतिपन्न इत्यनुपलब्धिमूल- त्यात्स्वभावविरुद्धोपलव्धेरनुपलब्धिरूपत्वं युक्तमेवेति चेत्, तर्हि साध्यध- मिणि भूधरादौ, साधने च धूमादावध्यक्षीकृते सतीदमप्यनुमानं प्रव- तत इति प्रत्यक्षमूलत्वादिदमपि प्रत्यक्षं किं न स्यात् ? इति ॥८५।। विरुद्धोपलब्धेराद्यप्रकारं प्रदय शेषानाख्यान्ति- प्रतिषेध्यविरुद्धव्याप्तादीनामुपलब्धयः षट् ॥८६॥ प्रतिषेध्येनार्थेन सह ये साक्षाद्विरुद्धास्तेषां ये व्याप्तादयो व्याप्य- कार्यकारणपूर्वचरोत्तरचरसहचरास्तेषामुपलब्धयः षड् भवन्ति । विरुद्ध- व्याप्तोपलब्धिः, विरुद्धकार्योपलब्धिः, विरुद्धकारणोपलब्धिः, विरु- द्धपूर्वचरोपलब्धिः, विरुद्धोत्तरचरोपलब्धिः, विरुद्धसहचरोपलब्धि- म्वेति ॥८६॥ क्रमेणासामुदाहरणान्याहुः- विरुद्धव्याप्तोपलब्धिर्यथा नास्त्यस्य पुंसस्तत्त्वेषु निश्चयस्तत्र सन्देहात् ॥८७॥ अत्र जीवादितत्त्वगोचरो निश्चयः प्रतिषेध्यः, तद्विरुद्धश्वानिश्चयः, तेन व्याप्तस्य सन्देहस्योपलब्धिः ॥८॥ विरुद्धकार्योपलब्धिर्यथा न विद्यतेऽस्य क्रोधाद्युप- शान्तिर्वदनविकारादेः ॥८८॥ पदनविकारस्ताम्रतादिः, आदिशब्दाधरस्फुरणादिपरिग्रहः । अन्न प्रमाणनयतत्त्वालोकालङ्कार:- च प्रतिषेध्यः क्रोधाद्युपशमः, तद्विरुद्धस्तदनुपशमः, तत्कार्यस्य वदनवि- कारादेरुपलब्धिः ।।८८॥ विरुद्धकारणोपलब्धिर्यथा नास्य महर्षेरसत्यं वचः समस्ति रागद्वेषकालुष्याऽकलङ्कितज्ञानसंपन्नत्वात् ॥८९॥ प्रतिषेध्येन ह्यसत्येन सह विरुद्धं सत्यम् , तस्य कारणं रागद्वेषका- लुष्याकलङ्कितज्ञानम् । तत् कुतश्चित्सूक्ताभिधानादेः सिद्ध्यत् सत्यं साध- यति। तच्च सिद्ध्यदसत्यं प्रतिषेधति ॥८९॥ विरुद्धपूर्वचरोपलब्धिर्यथा नोद्गमिष्यति मुहूर्त्तान्ते पुष्यतारा रोहिण्युद्गमात् ॥१०॥ प्रतिषेध्योऽन्न पुष्यतारोद्गमः, तद्विरुद्धो मृगशीर्षादयः, तदनन्तरं पुनर्वसूदयस्यैव भावात् । तत्पूर्वचरो रोहिण्युदयस्तस्योपलब्धिः ॥९॥ विरुद्धोत्तरचरोपलब्धिर्यथा नोदगान्मुहूर्तात्पूर्व मृगशिरः पूर्वफल्गुन्युदयात् ॥११॥ प्रतिषेध्योऽत्र मृगशीर्षोदयः, तद्विरुद्धो मघोदयः, अनन्तरमाद्रों- दयादेरेव भावात् । तदुत्तरचरः पूर्वफल्गुन्युयस्तस्योपलब्धिः ॥११॥ विरुद्धसहचरोपलब्धिय॑था नास्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनात् ॥१२॥ प्रतिषेध्येन हि मिथ्याज्ञानेन सह विरुद्धं सम्यग्ज्ञानम् , तत्सहचरं सम्यग्दर्शनम् । तच्च प्राण्यनुकम्पादेः कुतश्चित् लिङ्गात्प्रसिद्ध्यत्सहचरं सम्यग्ज्ञानं साधयति । इयं च सप्तप्रकाराऽपि विरुद्धोपलब्धिः प्रतिषे- ध्येनार्थेन साक्षाद्विरोधमाश्रित्योक्ता, परम्परया विरोधाश्रयणेन खनेक- प्रकारा विरुद्धोपलब्धिः संभवन्त्यऽन्नवाभियुक्तरन्तभीवनीया । तद्यथा कार्यविरुद्धोपलब्धिापकविरुद्धोपलब्धिःकारणविरुद्धोपलब्धिरिति त्रयं स्वभावविरुद्धोपलब्धौ । तन्न कार्यविरुद्धोपलब्धियथा नान देहिनि . १ " रनाकरावतारिकायुक्तः। : दुःखकारणमस्ति सुखोपलम्भादिति । साक्षादत्र सुखदुःखयोर्विरोधः । प्रतिषेध्यस्वभावेन तु दुःखकारणेन परम्परया। व्यापकविरुद्धोपलब्धिर्यथा न सन्निकर्षादिः प्रमाणमज्ञानत्वादिति । साक्षादन ज्ञानत्वाज्ञानत्वयो- - विरोधः। प्रतिषेध्यस्वभावेन तु ज्ञानत्वव्याप्येन प्रामाण्येन व्यवहितः । कारणविरुद्धोपलब्धिर्यथा नासौ रोमहर्षादिविशेषवान् समीपवत्ति- पाचकविशेपादिति । अत्र पावकः साक्षाद्विरुद्धः शीतेन । प्रतिषेध्यस्व- भावेन तु रोमहर्षादिना शीतकार्येण पारम्पर्येण । ये तु नास्त्यस्य हिमज- नितरोमहर्षादिविशेषोधूमात् , प्रतिषेध्यस्य हि रोमहर्षादिविशेषस्य कारणं हिमं तद्विरुद्धोऽग्निस्तत्कार्य धूम इत्यादयः कारणविरुद्धकार्योपलब्ध्यादयो विरुद्धोपलव्धेर्भेदाः । ते यथासंभवं विरुद्धकार्योपलब्ध्यादिष्यन्तर्भाव- नीयाः ॥९२॥ सम्प्रत्यनुपलब्धिं प्रकारतः प्राहु:- अनुपलब्धेरपि द्वैरूप्यम्, अविरुद्धानुपलब्धिर्विरुद्धा- नुपलब्धिश्च ॥९॥ अविरुद्धस्य प्रतिपेध्येनार्थेन सह विरोधमप्राप्तस्यानुपलब्धिरविरु- द्धाऽनुपलब्धिः । एवं विरुद्धानुपलब्धिरपि ।।९।। सम्प्रत्यविरुद्धानुपलब्धनिषेधसिद्धौ प्रकारसङ्ख्यामाख्यान्ति- तत्राविरुद्धानुपलब्धिः प्रतिषेधावबोधे सप्तप्रकारा ॥९॥ अमूनेव प्रकारान् प्रकटयन्ति- प्रतिषेध्येनाविरुद्धानां स्वभावव्यापककार्यकारणपूर्वच- रोत्तरचरसहचराणामनुपलब्धिः ॥१५॥ एवं च स्वभावानुपलब्धिः, व्यापकानुपलब्धिः, कार्यानुपलब्धिः, कारणानुपलब्धिः, पूर्वचरानुपलब्धिः, उत्तरघरानुपलब्धिः, सहचरानु- पलब्धिश्चेति ॥९५॥ क्रमेणामूरुदाहरन्ति- स्वभावानुपलब्धिर्यथा नास्त्यत्र भूतले कुम्भ उपलब्धि-

३२
प्रमाणनयतत्वालोकालङ्कार:-
लक्षणप्राप्तस्य तत्स्वभावस्यानुपलम्भात् ॥१६॥
उपलब्धिलक्षणप्राप्तस्येति उपलब्धि नम् , तस्य लक्षणानि कारणांनि
चक्षुरादीनि, तै पलब्धिलक्ष्यते जन्यत इति यावत् तानि प्राप्तः; जनक-
लेनोपलब्धिकारणान्तर्भावात स तथा दृश्य इत्यर्थस्तम्यानुपलम्भात्।।९६
व्यापकानुपलब्धिर्यथा नास्त्यत्र प्रदेशे पनसः पादपानु-
पलव्धेः ॥१७॥
कार्यानुपलब्धिर्यथा नास्त्यत्राप्रतिहतशक्तिकं बीजमङ्कु-
रानवलोकनात् ॥९८॥
अप्रतिहतशक्तिकत्वं हि कार्य प्रत्यप्रतिवद्धसामर्थ्यवं कथ्यते । तेन
वीजमात्रेण न व्यभिचारः ।।९८॥
कारणाऽनुपलब्धियथा न सन्त्यस्य प्रशमप्रभृतयो भावा-
स्तत्त्वार्थश्रद्धानाभावात् ॥९९॥
प्रशमप्रभृतयो भावा इति प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यलक्षण-
जीवपरिणामविशेषा. । तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तस्याऽभाव.कुतोऽपि
देवद्रव्यभक्षणादेः पापकर्मणः सकाशासिद्ध्यस्तत्त्वार्थश्रद्धानकार्यभू-
तानां प्रशमादीनामभावं गमयति ॥९९॥
पूर्वचरानुपलब्धिर्यथा नोद्गमिष्यति मुहूर्तान्ते स्वाति-
नक्षत्रं चित्रोदयादर्शनात् ॥१०॥
उत्तरचरानुपलब्धिर्यथा नोदगमत् पूर्वभद्रपदा मुहू-
"त्पूर्वमुत्तरभद्रपदोद्गमानवगमात् ॥१०१॥
सहचरानुपलब्धिर्यथा नास्त्यस्य सम्यग्ज्ञानं सम्यग्-
दर्शनानुपलब्धेः ॥१०॥

रत्नाकरावतारिकायुक्तः । श्यं च सप्तधाऽप्यनुपलब्धिः साक्षादनुपलम्भद्वारेण, परम्परया पुन- रेषा सम्भवन्त्यत्रैवाऽन्तर्भावनीया। तथाहि । नास्ति एकान्तनिरन्वयं तत्त्वम् , तत्र क्रमाक्रमानुपलब्धेरिति या कार्यव्यापकानुपलब्धिः, निरन्व- यतत्त्वकार्यस्यार्थक्रियारूपस्य यध्यापकं क्रमाक्रमरूपं तस्यानुपलम्भस- द्भावात् , सा व्यापकानुपलब्धावेव प्रवेशनीया । एवमन्या अपि यथा- सम्भवमास्वेव विशन्ति ॥१०२॥ विरुद्धानुपलब्धि विधिसिद्धौ भेदतो भाषन्ते- विरुद्धानुपलब्धिस्तु विधिप्रतीतौ पञ्चधा ॥१०३॥ तानेव भेदानाहुः- विरुद्धकार्यकारणस्वभावव्यापकसहचरानुपलम्भ- भेदात् ॥ १०४॥ विधेयेनार्थेन विरुद्धानां कार्यकारणस्वभावव्यापकसहचराणामनुप- लम्भा अनुपलब्धयस्तैर्भेदो विशेषस्तस्मात् । ततश्च विरुद्धकार्यानु- पलब्धिः, विरुद्धकारणानुपलब्धिः, विरुद्धखभावानुपलब्धिः, विरुद्ध- व्यापकानुपलब्धिः, विरुद्धसहचरानुपलब्धिश्चेति ॥१०४॥ क्रमेणैतासामुदाहरणान्याहु:- विरुद्धकार्यानुपलब्धिर्यथाऽत्र शरीरिणि रोगातिशयः समस्ति, नीरोगव्यापारानुपलब्धेः॥१०५॥ विधेयस्य हि रोगातिशयस्य विरुद्धमारोग्यम् , तस्य कार्य विशिष्टो व्यापारः,तस्यानुपलब्धिरियम् ॥१०५॥ विरुद्धकारणानुपलब्धिर्यथा विद्यतेऽत्र प्राणिनि कष्टमिष्ट- संयोगाभावात् ॥१०६॥ अत्र विधेयं कष्टम् , तद्विरुद्धं सुखम् , तस्य कारणं इष्टसंयोगः, तस्यानुपलब्धिरेषा ।। १०६ ।। ५ -- ३४ प्रमाणनयतत्त्वालोकालङ्कारः- विरुद्धस्वभावानुपलब्धिर्यथा वस्तुजातमनेकान्तात्म- कमेकान्तस्वभावानुपलम्भात् ॥१०७॥ वस्तुजातमन्तरगो वहिरङ्गश्च विश्ववर्ती पदार्थसार्थः। अम्यते गम्यते निश्चीयत इत्यन्तो धर्मः, न एकोऽनेकः, अनेकश्वासावन्तश्चानेकान्तः। स आत्मा स्वभावो यस्य वस्तुजातस्य तदनेकान्तात्मकं सदसदायनेकधर्मा- मकमित्यर्थः । अत्र हेतुः एकान्तस्वभावस्य सदसदाद्यन्यतरधर्मावधारण- स्वरूपस्यानुपलम्भादिति । अत्र विधेयेनानेकान्तात्मकत्वेन सह विरुद्धः सदायेकान्तस्वभावः, तस्यानुपलब्धिरसौ ।।१०७|| विरुद्धव्यापकानुपलब्धिर्यथा अस्त्यत्र च्छाया, औष्ण्या- नुपलब्धेः॥१०८॥ विधेयया छायया विरुद्धस्तापः, तद्व्यापकमौष्ण्यम्, तस्यानुपल- ब्धिरियम् ।।१०८॥ विरुद्धसहचरानुपलब्धिर्यथा अस्त्यस्य मिथ्याज्ञानं, सम्यग्दर्शनानुपलब्धेः ॥१०९॥ विधेयेन मिथ्याज्ञानेन विरुद्धं सम्यग्ज्ञानम्, तत्सहचरं सम्यग- दर्शनम् , तस्यानुपलब्धिरेषा ॥१०९॥ इति प्रमाणनयतत्त्वालोकालङ्कारे श्रीरत्नप्रभाचार्यविरचितायां रत्नाकरावतारिकाख्यलघुटीकायां स्मरणप्रत्यभिज्ञान- तर्कानुमानस्वरूपनिर्णयस्तृतीयः परिच्छेदः॥

अहम् अथ चतुर्थः परिच्छेदः। संप्रति परोक्षस्य पञ्चमप्रकारमागमाख्यं बहु वक्तव्यत्वात् परिच्छेदा- न्तरेणोपदिशान्ति- आप्तवचनादाविर्भूतमर्थसंवेदनमागमः ॥ १॥ आप्तः प्रतिपादयिष्यमाणस्वरूपः, तद्वचनाजातमर्थज्ञानमागमः। आगम्यन्ते मर्यादयाऽवबुध्यन्तेऽर्था अनेनेत्यागमः ॥१॥ ननु यद्यर्थसंवेदनमागमः, तर्हि कथमाप्तवचनात्मकोऽसौ सिद्धा- न्तविदां प्रसिद्ध इत्याशङ्कयाऽऽहुः- उपचारादाप्तवचनं च ॥२॥ प्रतिपाद्यज्ञानस्य ह्याप्तवचनं कारणमिति कारणे कार्योपचारात् तद- प्यागम इत्युच्यते, अनन्योपायताख्यापनार्थम् । अत्रैवं वदन्ति काणादाः- शब्दोऽनुमानम्, व्याप्तिग्रहणबलेनार्थप्रतिपादकत्वाद्, धूमवत्, इति । तत्र हेतोरामुखे कूटाकूटकार्पापणनिरूपणप्रवणप्रत्यक्षेण व्यभिचारः, तथाभूतस्यापि तत्प्रत्यक्षस्यानुमानरूपताऽपायात् । आः!कथं प्रत्यक्षं नाम भूत्वा व्याप्तिग्रहणपुरस्सरं पदार्थ परिच्छिन्द्यात् ? उन्मीलितं हि चेल्लो- चनम् , जातमेव परीक्षकाणां कूटाकूटविवेकेन प्रत्यक्षमिति क व्याप्ति- ग्रहणावसर इति चेत्, एतदेवान्यत्रापि प्रतीहि । तथाहि । समुच्चारितश्चेद् ध्वनिः; जातमेव जनस्य शब्दार्थसंवेदनमिति क व्याप्तिग्रहणावकाश इति। एवं तर्हि नालिकरद्वीपवासिनोऽपि पनसशब्दात् तदर्थसंवित्तिः स्यादिति चेत्, किं नापरीक्षकस्यापि कार्षापणे कूटाकूटविवेकेन प्रत्यक्षोत्पत्तिः ? अथ यावानेतादृशाविशेषसमाकलितकलेवरः कार्षापणः, तावानशेषः कूटो- ऽकूटो वा निष्टकनीयस्त्वया; इत्युपदेशसाहायकापेक्षं चक्षुरादि तद्विवेके कौशलं कलयति; नचापरीक्षकस्यायं प्राक्प्रावत्तिष्टेति चेत्,तर्हि शब्दोऽपि यावान् पनसशब्दस्तावान् पनसार्थवाचक इति संवित्तिसहायः तत्प्रति- प्रमाणनयतत्त्वालोकालङ्कारः- पादने पटीयान् ; नच नालिकेरद्वीपवामिनः प्रागियं प्रादुरासीदिति कथं तस्य तत्प्रतीति. स्यात् ।। अर्थताहामवेदनं व्याप्रिसंवेदनरूपमेव, तदपेक्षायां च शब्दार्थज्ञानमनुमानमेव भवेदिति चेन्, फूटाकूटकापण- विवेकप्रत्यक्षमपि किन्न तथा ?। तत्रापि तथाविधोपदास्य व्याप्युटेख--- स्वरूपत्वात् । अथ व्याप्तेः प्राक् प्रवृत्तावपि तदानीमभ्यासदशापन्नत्वेनान- पेक्षणान् प्रत्यक्षमेवतत्, तदपेक्षाया तु भवत्येवतदनुमानम् कूटोऽयं कार्य- पण., तथाविधविशेषसमन्वितत्वान् ,प्रागैक्षितकापणवत् इति चन्, एतदेव समस्तमन्यत्रापि तुल्यं विदाइरोतु भवान् । नखल्वभ्यासदगाया कोऽपि व्याप्ति शब्देऽप्यपेक्षते, सहसैव तज्ज्ञानोत्पत्ते. अनभ्यासे तु को नाम नानुमानतां मन्यते ? यथा कस्यचिद्विस्मृतसङ्केतस्य कालान्तरे पनसशब्दश्रवणे; यः पनसशब्द. स आमूलफलेपहिविटपिविठोपवा- चकः, यथा यजदत्तोक्तः प्राक्तनः, तथा चायमपि देवदत्तोत इति । एवं च पक्षकदेशे सिद्धसाध्यता, शब्दोऽनुमानमित्यत्र सकलवाचकाना पक्षीकृतानामेकदेशस्वानुमानरूपतया स्वीकृतत्वात् । यत्त्वागमरूपतया स्वीकृतः शब्दः, तत्राभ्यासदशापन्नत्वेन व्याप्तिग्रहणापेक्षव नास्ति । अन्यथा कूटाकूटकार्षापणप्रत्यक्षेण व्यभिचारापत्तेः । तथा च हेतोर- सिद्धिः । एवं च (शब्दत्वस्य व्याप्तिग्रहणानपेक्षत्वे सिद्धे) विवादास्पदः शब्दो नानुमानम्, तद्विभिन्नसामग्रीकत्वात्, कूटाकूटकापणविवेक- प्रत्यक्षवत्, इति सिद्धम् । किंच । वाचामनुमानमानतामातन्वानोऽसौ कथं पक्षघर्मतादिकमादर्शचेत् ? । चैत्रः ककुदादिमदर्थविवक्षावान् , गोश- ब्दोच्चारणकर्तृत्वात् , अहमिव, इतीत्यमिति चेत्, नन्वतो विवक्षामात्रत्वैव प्रतीति स्यात् , तथा च कथमर्थे प्रवृत्तिर्भवेत् ? । विवक्षातोऽर्थसिद्धिरिति चेत् । मैवम् । अस्यास्तब्यभिचारात्, अनाप्तानां अन्यथाऽपि तदुपलब्धेः । अथ यथा प्रोक्ताच्छब्दात् तथाऽऽप्तविवक्षाऽतोऽभूणैवार्थसिद्धिर्भविष्य- तीति चेत् । सत्यम् । किन्त्रप्रतीतिपराहतैवेयं परम्परा, शब्दश्रुतौ सत्यां प्रतीत्यन्तराव्यवहितस्यैव अर्थस्य संवेदनात् , यथा लोचनच्यापारे सति रूपस्य । अपि च । अप्रातीतिकैताहकल्पनामहापातकं क्रियतां नाम, यदि नान्या गति. स्वात् , अस्ति चेयं, शब्दस्य स्वाभाविकवाच्यवाचकभावसं-

रत्नाकरावतारिकायुक्तः ।
पन्धद्वारेण अर्थप्रत्यायकत्वोपपत्तेः । एतच्च स्वाभाविकसामर्थ्यसम-
याभ्यां-" इत्यादि सूत्रे निर्णेष्यते ॥ २ ॥
उदाहरन्ति-
समस्त्यत्र प्रदेशे रत्ननिधानं सन्ति रत्नसानुप्रभृतयः॥३॥
वक्ष्यमाणलौकिकजनकादिलोकोत्तरतीर्थकराद्यपेक्षया क्रमेणोदाहर-
णोभयी ॥३॥
आप्तस्वरूपं प्ररूपयन्ति-
अभिधेयं वस्तु यथावस्थितं यो जानते यथाज्ञानं
चाभिधत्ते स आप्तः ॥ ४ ॥
आप्यते प्रोक्तोऽर्थोऽस्मादित्याप्तः। यद्वा, आप्ती रागादिदोषक्षयः सा
विद्यते यस्येत्यर्शआदित्वादति आप्तः । जानन्नपि हि रागादिमान्
पुमानन्यथाऽपि पदार्थान् कथयेत् , तव्यवच्छित्तये यथाज्ञानमिति ।
तदुक्तम्-
"आगमो ह्याप्तवचनमाप्तिं दोषक्षयं विदुः ।
क्षीणदोषोऽनृतं वाक्यं न ब्रूयाद्धेत्वसम्भवात्" ॥ १ ॥ इति ।
अभिधानं च ध्वनेः परम्परयाऽप्यत्र द्रष्टव्यम् । तेनाक्षरविलेखनद्वारेण,
अङ्कोपदर्शनमुखेन, करपल्लव्यादिचेष्टाविशेषवशेन वा शब्दस्मरणाद्यः :
परोक्षार्थविषयं विज्ञानं परस्योत्पादयति, सोऽप्याप्त इत्युक्तं भवति ।
स च स्मर्यमाणः शब्द आगम इति ॥४॥
कस्मादमूदृशस्यैवाप्तत्वमित्याहुः-
तस्य हि वचनमविसंवादि भवति ॥ ५॥
यो हि यथावस्थिताभिधेयवेदी, परिज्ञानानुसारेण तदुपदेशकुशलश्च
भवति तस्यैव यस्माद्वचनं विसंवादशून्यं संजायते । मूढवञ्चकवचने
विसंवादसंदर्शनात्। ततो यो यस्यावञ्चकः, स तस्याप्त इति ऋष्यार्यम्ले-
च्छसाधारणं वृद्धानामाप्तलक्षणमनूदितं भवति ॥ ५ ॥
आप्तभेदौ दर्शयन्ति-
स च द्वेधा लौकिको, लोकोत्तरश्च ॥ ६ ॥

३८ प्रमाणनयतत्वालोकालङ्कार:- लोके सामान्यजनरूपे भवो लौकिकः।लोकादुत्तरः प्रधान मोक्षमा- गोपदेशकत्वाल्लोकोत्तरः ॥६॥ तावेव वदन्ति- लौकिको जनकादिर्लोकोत्तरस्तु तीर्थकरादिः ॥ ७ ॥ प्रथमादिशब्देन जनन्यादिग्रहः । द्वितीयादिशब्देन तु गणधरादि- ग्रहणम् । ये तु श्रोत्रियाः श्रुतेरपौरुषेयत्वे पौरुष स्फोरयांचक्रुः, ते कीदृशीं श्रुतिममूमास्थाय, किं वर्णरूपाम्, आनुपूर्वीरूपांवा। यदि प्राचि- कीम् , तदस्पष्टम् , उपरिष्टात् "अकारादिः पौद्गलिको वर्ण:" इत्यन्न वित्रास्यमानत्वादस्याः । अथोदीचीनाम् , तर्हि तन तत्प्रतीतौ प्रत्यक्षम्, अनुमानम् , अर्थापत्तिः, आगमो वा प्रमाणं प्रणिगधेत । न प्रत्यक्षम्, अस्य तादात्विकभावस्वभावावभासमात्रचरित्रपवित्रलात् । "सम्वद्धं वर्तमानं च गृह्यते चक्षुरादिना" इति वचनात् । यैव श्रुतिर्मया प्रागध्यगायि, सैवेदानीमपीति प्रत्यभिज्ञाप्रत्य- क्षमझूणं लक्ष्यत एवास्याः सदात्वमवद्योतयदिति चेत् , नन्वसौ "समुदयमात्रमिदं कलेवरम्" इत्यादिलोकायतागमेष्वप्येकरसैवास्तीति तेऽपि तथा स्युः, तथा च तत्पठितानुष्ठाननिष्ठा पटिष्ठता विप्राणामपि प्राप्नोति, अन्यथा प्रत्यवायसंभवात् । अथानेयमभिधानानन्तरानुपल- म्भेन वाध्यते, किं न श्रुतावपि ? । अभिव्यक्त्यभावसंभवी तदानी- मनुपलम्भः श्रुतौ नाभावनिवन्धन इति चेत्, किं न नास्तिकसिद्धान्ते- ऽप्येवम्, इति सकलं समानम् । किंच । अनुभवानुचरणचतुरं प्रत्य- भिज्ञानम् , अनुभवश्च प्रायेण प्रत्यभिज्ञां ताद्भविकीम् , जातिस्मृत्यादि- मतः कस्यापि कतिपयभवविषयां च प्रभावयितु प्रभुः, इति कथमनादी काले केनापि नेयं श्रुति. सूत्रिता, इति प्रकटयितुं पटीयसीयं स्यात् ? । तन्न तत्र प्रत्यक्षं क्षमते । नाप्यनुमानम् , तद्धि कर्नस्मरणम्, वेदाध्ययन- वाच्यत्वम् , कालत्वं वा । तत्रैतेषु सर्वेष्वपि प्रत्यक्षानुमानागमवाधितत्वं तावत्पक्षदोष. । तत्र प्रत्यक्षवाध: तावत् , तथाविधमठपीठिकाप्रतिष्ठ- शठवठराध्वयूद्गातृहोतृप्रायप्रचुरखण्डिकेषु यजुःसामर्च उच्चैस्तरां युग- ।

रत्नाकरावतारिकायुक्तः । ३९ पत् पूत्कुर्वत्सु कोलाहलममी कुर्वन्तीति प्रत्यक्षं प्रादुरस्ति, तेन चापौ- रुषेयत्वपक्षो बाध्यते । अभिव्यक्तिसद्भावादेवेयं प्रतीतिरिति चेत्, तर्हि हंसपक्षादिहस्तकेष्वपि किं नेयं तथा ? इति तेऽपि नित्याः स्युः । वर्णयिष्यमाणवर्णव्यक्तिव्यपाकरणं चेहाप्यनुसन्धानीयम् । श्रुतिः पौरु- पेयी, वर्णाद्यात्मकत्वात् , कुमारसंभवादिवत् , इत्यनुमानबाधः। पुरुषो हिपरिभाव्याभिधेयभावस्वभावं तदनुगुणां ग्रन्थवीर्थी अध्नाति, तदभावे कौतस्कुतीयं संभवेत् ।यदि हि शवसमुद्रमेघादिभ्योऽपूरुषेभ्योऽपि कदा- चित् तदात्मकं वाक्यमुपलभ्येत, तदाऽत्रापि संभाव्येत, नचैवम् । अथ वाद्यात्मकत्वमात्रं हेतूचिकीर्षितं चेत्, तदानीमप्रयोजकम्, वल्मी- कस्य कुलालपूर्वकत्वे साध्ये मृद्विकारत्ववत् । अथ लौकिकश्लोकादिवि- लक्षणं तत् तर्हि विरुद्धम् ; साधनशून्यं चकुमारसंभवादिनिदर्शनम् , तत्रैव साध्ये विशिष्टमृद्विकारत्ववत् , कूटदृष्टान्तवञ्चेति चेत् । नैतच्चतुरस्रम् । यतस्तन्मात्रमेव हेतुः; न चाप्रयोजकम् , विशिष्टवाद्यात्मकत्वस्यैव काप्य- संभवाद् । दुःश्रवदुर्भणत्वादेस्तु श्रुतिविशेषस्य- "नांष्ट्रास्त्वाष्ट्रारिराष्ट्रे न, भ्राष्ट्रे नादष्ट्रिणो जनाः । धार्तराष्ट्राः सुराष्ट्रे न, महाराष्ट्रे तु नोष्ट्रिणः" ॥१॥ इत्यादौ लौकिकश्लोके सविशेषस्य सद्भावात् । अभ्यधिष्महि च- "यत् कौमारकुमारसंभवभवाद् वाक्यान्न किञ्चित् कचित् । वैशिष्ट्यं श्रुतिषु स्थितं तत इमाः स्युः कर्तृशून्याः कथम्" इति । "प्रजापतिर्वेदमेकमासीत् , नाहरासीत् , नरात्रिरासीत् ;स तपोऽतप्यत, तस्मात्तपनः; तपनाच्चत्वारो वेदा अजायन्त" इति स्वकर्तृप्रतिपादकागम- बाधः । ननु नायमागमःप्रमाणम् , भूतार्थाभिधायकत्वात् , कार्य एव ह्यर्थे वाचां प्रामाण्यम् , अन्वयव्यतिरेकाभ्यां लोके कार्यान्वितेषु पदार्थेषु पदानां शक्त्यवगमादिति चेत् । तदश्लीलम् । कुशलोदर्कसम्पर्ककर्कशः साधूपास्या- प्रसङ्ग इत्यादेर्भूतार्थस्यापि शब्दस्य लोके प्रयोगोपलम्भात् । अथात्रापि कार्यार्थतैव, तस्मादन प्रवर्तितव्यमित्यवगमादिति चेत्, स तस्वगम औ- पदेशिक औपदेशिकार्थकृतो वा भवेत् । न तावदाद्यः, तथाविधोपदेशात्र- - प्रमाणमयतत्त्वालोकालङ्कार:- वणात्। द्वितीयस्तु स्यात् । न पुनस्तत्रोपदेशस्य प्रामाण्यम्, अस्य स्वार्थ- प्रथामात्रचरितार्थत्वात् । प्रतिपादकत्वेनैव प्रमाणानां प्रामाण्यात् । अन्यथा प्रवृत्ताविव तत्साध्यार्थेऽपि प्रामाण्यप्रसङ्गात् । प्रत्यक्षस्य च विवक्षितार्थवत् तत्साध्यार्थक्रियाऽपि प्रमेया भवेत् , तस्मात् पुरुपेच्छाप्रतिबद्धवृत्तिः प्रवृ- चिरस्तु।मावाभूत्,प्रमाणेन पदार्थपरिच्छेदश्चेत् चक्राणः, तावतैव प्रेक्षा- वतोऽपेक्षाबुद्धेः पर्यवसानात्, पुण्यं प्रामाण्यमस्यावसेयम् । यद्वा, अस्तु तस्मादन प्रवर्तितव्यामित्यवगमात् कुशलोदत्यादिवाक्यानां प्रामाण्यम् , किंतु तद्वदेव वेदे कर्तृप्रतिपादकागमस्यापि प्रामाण्यं प्रासावीदेवेति सिद्ध आगमवाधोऽपि । यत्तु कर्चस्मरणं साधनम् , तदविशेषणं सविशेषणं वा व]त । प्राक्तनं, तावत् पुराणकूपप्रासादारामविहारादिभिर्व्यभिचारि, तेषां कर्चस्मरणेऽपि पौरुषेयत्वात् । द्वितीयं तु सम्प्रदायाव्यवच्छेदे सति कञस्मरणादिति व्यधिकरणासिद्धम्, कर्वस्मरणस्य श्रुतेः अन्यत्राश्रये पुंसि वर्त्तनात् । अथापौरुषेयी श्रुतिः,संप्रदायाव्यवच्छेदे सत्यस्मर्यमाणक- तैकत्वात् , आकाशवत्, इत्यनुमानरचनायामनवकाशा व्यधिकरणासि- द्धिः। मैवम् । एवमपि विशेषणे सन्दिग्धासिद्धतापत्तेः। तथाहि ।आदिम- तामपि प्रासादादीनां सम्प्रदायो व्यवच्छिद्यमानो विलोक्यते, अनादेस्तु श्रुतेरव्यवच्छेदी सम्प्रदायोऽद्यापि विद्यत इति मृतकमुष्टिवन्धमन्वका- पीत् , तथा च कथं नसन्दिग्धासिद्धं विशेषणम् ?। विशेष्यमप्युभयासि- द्धम् ,वादिप्रतिवादिभ्यां तत्र कर्तुः स्मरणात् । ननु श्रोत्रियाः श्रुतौ कारं स्मरन्तीति मृषोद्यम् , श्रोत्रियापशदाः खल्वमी इति चेत्, ननु यूयमा- नायमानासिष्ट तावत्, ततो “यो वै वेदांश्च प्रहिणोति" इति, प्रजापतिः सोमं राजानमन्वसृजत् ततस्त्रयो वेदा अन्वसृजन्त" इति च स्वयमेव खस्य कर्तारं स्मरयन्ती श्रुति विश्रुतामचुतामिव गणयन्तो यूयमेव श्री- त्रियापशदाः किं न स्यात ? | किंच। कण्वमाध्यंदिनतित्तिरिप्रभृतिमुनि- नामाङ्किताः काश्चन शाखा., तत्कृतत्वादेव, मन्वादिस्मृत्यादिवत् । उत्स- नानां तासां कल्पादौ तैदृष्टत्वात् , प्रकाशितत्वाद्वा तन्नामचिढेऽनादौ काले ऽनन्तमुनिनामाङ्कितत्वं तासां स्यात् । जैनाश्च कालासुरमेतत्कार स्मरन्ति । कर्तृविशेषे विप्रतिपत्तरप्रमाणमेवैतत्स्मरणमिति चेत् । नैवम् -- स्नाकरावतारिकायुक्तः । पतो यत्रैव विप्रतिपत्तिः, तदेवाऽप्रमाणमस्तु, न पुनः कर्तृमात्रस्मरणमपि। "वेदस्याध्ययनं सर्व गुर्वध्ययनपूर्वकम् । वेदाध्ययनवाच्यत्वादधुनाऽध्ययनं यथा ॥ १ ॥ अतीतानागतौ कालौ वेदकारविवर्जितौ। फालत्वात् , तद्यथा कालो वर्त्तमानः समीक्ष्यते" ॥२॥ इतिकारिकोक्ते वेदाध्ययनवाच्यत्वकालत्वेअपि हेतू, 'कुरङ्गशृङ्ग- भङ्गुरं कुरङ्गाक्षीणां चेतः' इति वाक्याध्ययनं गुर्वध्ययनपूर्वकम्, एत- द्वाक्याध्ययनवाच्यत्वात्, अधुनातनाध्ययनवत् ; अतीतानागतौ कालो प्रक्रान्तवाक्यकर्तृवर्जितो, कालत्वात्, वर्तमानकालवत्, इतिवदप्रयो- जकत्वात् , अनाकर्णनीयौ सकर्णानाम् । अथार्थापत्तरपौरुषेयत्वनिर्णयो वेदस्य । तथाहि-संवादविसंवाददर्शनादर्शनाभ्यां तावदेष निःशेषपूरुषैः प्रामाण्येन निरणायि। तन्निर्णयश्चास्य पौरुषेयत्वे दुरापः । यत:- "शब्दे दोषोद्भवस्ताबदु वक्त्रधीन इति स्थितिः । सदभावः क्वचित्तावद् गुणवद्वक्तकत्वतः ॥ तद्गुणैरपकृष्टानां शब्दे संक्रान्त्यसंभवात्। वेदे तु गुणवान वक्ता निर्णेतुं नैव शक्यते ॥ ततश्च दोषाभावोऽपि निर्णेतुं शक्यतां कथम् । धक्तभावे तु सुज्ञानो दोषाभावो विभाव्यते ।। यस्माद्वक्तुरभावेन न स्युर्दोषा निराश्रयाः"। ततः प्रामाण्यनिर्णयान्यथानुपपत्तेरपौरुषेयोऽयमिति । अस्तु ताव- दन कृपणपशुपरम्पराप्राणव्यपरोपणप्रगुणप्रचुरोपदेशापवित्रत्वादप्रमा- णमेवैष इत्यनुत्तरोत्तरप्रकारः। प्रामाण्यनिर्णयेऽप्यस्य न साध्यसिद्धिः, विरुद्धत्वाद्, गुणवद्वक्तृकतायामेव वाक्येषु प्रामाण्यनिर्णयोपपत्तेः । पुरुषो हि यथा रागादिमान् मृषावादी, तथा सत्यशौचादिमानवितथव- चनः समुपलब्धः। श्रुतौ तु तदुभयाभावे नैरर्थक्यमेव भवेत् । कथं वक्तुर्गुणित्वनिश्चयश्छन्दसीति चेत्, कथं पितृपितामहप्रपितामहादेरप्य- ६

४२
प्रमाणनयतत्त्वालोकालद्वार:-
सौ ते स्यात् ' येन तद्धस्तन्यस्ताक्षरश्रेणेः, पारम्पर्योपदेशस्य वाऽनुसा-
रेण ग्राह्यदेयनिधानादौ निःशवं प्रवर्त्तथाः । कचित्संवादाम्चेत् , अत एवा-
न्यत्रापि प्रतीहि । कारीर्यादौ संवाददर्शनात् । कादाचित्कविसंवादस्तु
सामग्रीवैगुण्यात् त्वयाऽपि प्रतीयत एव, प्रतीताप्तत्वोपदिष्टमन्त्रवत् ।
प्रतिपादितश्च प्राक् रागद्वेषाज्ञानशून्यपुरुपविशेपनिर्णयः । किंच । अस्य
व्याख्यानं तावत् पौरुपेयमेव, अपौरुषेयत्वे भावनानियोगादिविरुद्धच्या-
ख्याभेदाभावप्रसगात्, तथाच को नामात्र विश्रम्भो भवेत् ? । कथं
चैतद्ध्वनीनामर्थनिर्णीति ? लौकिकध्वन्यनुसारेणेति चेत्, किं न पौरु-
पेयत्वनिर्णातिरपि ?, तत्रोभयस्यापि विभावनात् । अन्यथा त्वर्द्धजरती-
यम् । नच लौकिकार्थानुसारेण मदीयोऽर्थः स्थापनीय इति श्रुतिरेव
स्वयं वक्ति, नच जैमिन्यादावपि तथा कथयति प्रत्यय इत्यपौरुयेयव-
चसामर्थोऽप्यन्य एव कोऽपि संभाव्येत । पौरुपेयीणामपि म्लेच्छार्य-
वाचामैकाध्य नास्ति, किं पुनरपौरुपेयवाचाम् । ततः परमकृपापीयूप-
प्लावितान्तःकरणः कोऽपि पुमान्निदोपः प्रसिद्धार्थैर्ध्वनिभिः स्वाध्याय
विधाय व्याख्याति, इदानीतनग्रन्थकारवत्, इति युक्तं पश्यामः ।
अवोचामच-
'छन्दः स्वीकुरुपे प्रमाणमथ चैतद्वाच्यनिश्चायकम् ।
कञ्चिद्विश्वविदं न जल्पसि ततो जातोऽस्यमूल्यक्रयी'। इति ।
आगमोऽपि नाऽपौरुषेयत्वमाख्याति । पौरुषेयत्वाविष्कारिण एवा-
स्योक्तवत्सद्भावात् । अपि च । इयमानुपूर्वी पिपीलिकादीनामिव देश-
कृता, अङ्कुरपत्रकन्दलकाण्डादीनामिव कालकृता वा वर्णानां वेदे न संभ-
वति, तेषां नित्यव्यापकत्वात् । क्रमेणाभिव्यक्तः सा संभवतीति चेत्,
तार्ह कथमियमपौरुषेयी भवेत् ? अभिव्यक्तेः पौरुषेयत्वात्। इति सिद्धा
पोरुपेयी श्रुति. ॥ ७ ॥
आप्त प्ररूप्य तद्वचनं प्ररूपयन्ति-
वर्णपदवाक्यात्मकं वचनम्॥ ८ ॥
उपलक्षणं चैतत् प्रकरणपरिच्छेदादीनामपि ॥८॥

रत्नाकरावतारिकायुक्तः । ४३ तत्र वर्ण वर्णयन्ति- अकारादिः पौद्गलिको वर्णः ॥ ९ ॥ पुद्गलैर्भापावर्गणापरमाणुभिरारब्धः पौगलिकः । अत्र याज्ञिकाः प्रज्ञापयन्ति-वर्णस्याऽनित्यत्वमेव तावद्दुरुपपादम् , कुतस्तरांपुद्गलारब्ध- त्वमस्य स्यात् । तथाहि-स एवायंगकार इति प्रत्यभिज्ञा, शब्दो नित्यः श्रावणत्वाच्छन्दत्ववदित्यनुमानम् , शब्दो नित्यः; परार्थ तदुच्चार- णान्यथानुपपत्तेरित्यर्थापत्तिश्चेति प्रमाणानि दिनकरकरनिकरनिरन्तरप्र- सरपरामर्शोपजातज़म्भाऽऽरम्भाम्भोजानीव मनःप्रसादमस्य नित्यत्वमेव द्योतयन्ति । तदवद्यम् । यतः प्रत्यभिज्ञानं तावत् कथञ्चिदनित्यत्वेनै- वाऽविनाभावमाभेजानम्, एकान्तकरूपतायां ध्वनेः स एवायमित्याका- रोभयगोचरत्वविरोधात् । कथमात्मनि तद्रूपेऽपि स एवाहमिति प्रत्य- भिज्ञेति चेत् । तदशस्यम् । तस्यापि कथञ्चिदनित्यस्यैव स्वीकारात् । प्रत्यभिज्ञाभासश्वायम्, प्रत्यक्षातुमानाभ्यां वाध्यमानत्वात्, प्रदीपप्रत्य- भिज्ञावत् । प्रत्यक्षं हि तावदुत्पेदे विपेदे च वागियमिति प्रवर्तते । नच प्रत्यभिज्ञानेनैवेदं प्रत्यक्षं बाधिष्यत इत्यभिधानीयम् , अस्यानन्यथासि- द्धत्वात् । अभिव्यक्तिभावाऽभावाभ्यामवेयं प्रतीविरिति चेत्, कुटकट- कटाहकटाक्षादावपि किं नेय तथा । कुम्भकारमुद्रादिकारणकलाप- व्यापारोपलम्भात् तदुत्पत्तिविपत्तिस्वीकृती, तालुवातादिहेतुव्यापारप्रे- क्षणादक्षरेष्वपि तत्स्वीकारोऽस्तु । तालुवातादरभिव्यक्त्यनभिव्यक्ति- मानहेतुत्वे, कुलालादेरपि तदस्तु । नचाभिव्यक्तिभावाऽभावाभ्यां तथा प्रतीतिरुपापादि । दिनकरमरीचिराजीव्यग्यमाने, घनतरतिमिरनिकरा- कीर्यमाणे च कुम्भादावुदपादि व्यपादि चायमिति प्रतीत्यनुत्पत्तेः । तिमिरावरणवेलायामपि स्पार्शनप्रत्यक्षेणास्योपलम्भान्न तथेयमिति चेत्, यदा तर्हि नोपलम्भः तदा किं वक्ष्यसि ? । अथ कापि तिमिरादेः तत्- सत्त्वाविरोधित्वावधारणात् सर्वत्रानभिव्यक्तिदशायां तत्सत्त्वं निश्चीयत इति चेत्, तत्किमावृतावस्थायां शब्दस्य सत्त्वनिर्णायकं न किञ्चित् प्रमाणमस्ति । ओमिति चेत्, तर्हि साधकप्रमाणाभावादसत्त्वमस्तु । अस्त्येव प्रत्यभिज्ञादिकं तदिति चेत् । न । अस्य प्रत्यक्षबाधितत्वेनोन्मतु- ?

४४ प्रमाणनयतवालोकाळलार:- मशक्ते. । उन्मजनेऽपि व्यक्तिभावाभावयोः कुम्भादाविवात्राप्युदयव्यया- ध्यवसायो न स्यात् । अस्ति चायम् , तस्मादनन्यथासिद्धप्रत्यक्षप्रतिवद्ध ए- वेति निश्चीयते । अनित्यः शब्दस्तीत्रमन्दतादिधर्मोपेतत्वात्, सुखदुखादि- वदित्यनुमानवाधः । व्य जकाश्रितास्तीव्रतादयः तत्राभान्तीति चेत्, कि तत्र व्यकम् । कोटवायुविशेषाध्वनय इति चेत्, कथं तर्हि तद्धर्माणां तेषां श्रावणप्रत्यक्षेप्रतिभास. स्यात् ? ध्वनीनामश्रावणत्वेन तद्धर्माणामप्यश्राव- णत्वात् । न खलु मृदुसमीरलहरीतरङ्गयमाणनिष्पङ्कपयोभाजनादौ प्रतिविम्बितमुखादिगतत्वेन तरलत्वमिव माधुर्यमप्यचाक्षुषं चक्षुःप्रत्य- क्षेण प्रेक्ष्यते । श्रोत्रग्राह्य एव कश्चिदर्थः शब्दस्य व्यजकः, तीव्रत्वा- दिधर्मवान्, अनित्यश्वेष्यत इति चेत् । न । तस्यैव शब्दत्वात् । श्रोत्रप्राह्यत्वं हि शब्दलक्षणम् ; तल्लक्षणयुक्तस्य च तस्य ततोऽर्थान्तर- खमयुक्तम् । किं च । कस्य किं कुर्वन्तोऽमी व्यक्षका ध्वनयो भवेयुः १ । शब्दस्य, श्रोत्रस्योभयस्य वा संस्कारमिति चेत्, कोऽयं संस्कारोऽत्र ? रूपान्तरोत्पत्तिः, आवरणविपत्तिर्वा । आद्यश्चेत्, कथं न शब्दोत्रयोरनित्यत्वं स्यात् ? स्वभावान्यत्वरूपत्वात्तस्य । अथ रूपं धर्मः, धर्मधर्मिणोच भेदात्, तदुत्पत्तावपिन भावस्वभावान्यत्वमिति चेत्, ननु धर्मान्तरोत्पादेऽपि भावस्वभावोऽजनयद्पखरूपस्ताहगेव चेत् ; तदा पटादिनेव श्रोत्रेण घटादेरिव ध्वनेर्नोपलम्भःसंभवेत् । तत्संबन्धिनस्तस्य फरणाददोष इति चेत्, स तावत् संबन्धो न संयोगः, तस्याऽद्रव्यत्वात् । समवायस्तु कश्चिदविष्वरभावान्नान्यो भवितुमर्हतीति तदात्मकधर्मो- पसी धर्मिणोऽपि कश्चिदुत्पत्तिरनिवार्या । आवरणापगमः संस्कारः क्षेमकार इति चेत्, स ताई शब्दस्यैव संभाव्यते, ततश्चैकत्रावरणविगमे समग्रवर्णाऽऽकर्णनं स्यात् । प्रतिवर्ण पृथगावरणमिति यस्यैवावरणविर- मणम् , तस्यैवोपलव्धिरिति चेत् । तन्नावितथम्। अपृथग्देशवर्तमानैकेन्द्रि- यग्राह्याणां प्रतिनियताऽऽवरणाऽऽवार्यत्वविरोधात् । यत् खलु प्रतिनिय- तावरणावार्यम्। तत् पृथग्देशे वर्तमानम् , अनेकेन्द्रियग्राह्यं च दृष्ट, यथा घटपटौ, यथा वा रूपरसाविति । अपृथग्देशवर्तमानैकेन्द्रियग्राह्यत्वादेव प नास्य प्रतिनियतव्यजकन्यङ्गयत्वमपि। अस्तु वैवचथाऽप्यऽयमाभ:

रनाकरावतारिकायुक्तः। । व्यज्यमानः सामस्त्येन, प्रदेशतो वा व्यज्येत । नाद्यः पक्षः क्षेमंकरः । सकलशरीरिणां युगपत्तदुपलम्भापत्तेः । द्वितीयविकल्पे तु कथं सकर्ण- स्यापि संपूर्णवर्णाकर्णनं भवेत् ? न खलु निखिलावृतागराजाङ्गनानाम- पटुपवनापनीयमानवसनाचलत्वेन चलनाङ्गुलिकोटिप्रकटतायां विकख- रशिरीपकुसुमसुकुमारसमप्रविग्रहयष्टिनिष्टकनं विशिष्टेक्षणानामपीक्ष्यते । प्रदेशाभिव्यक्तौ चास्य सप्रदेशत्वं प्रसज्यते । ततो व्यलकस्य कस्यचि- च्छब्दे संभवाभावात् , तद्गता एव तीव्रतादय इति नासिद्धो हेतुः। यदपि श्रावणत्वादित्यनुमानम् , तदपि- "कान्तकीर्तिप्रथाकामः कामयेत खमातरम् । ब्रह्महत्यां च कुर्वीत वर्गकामः सुरां पिबेत्" ॥१॥ इत्याद्यानुपूर्ध्या सव्यभिचारम् । नित्यैवेयमिति चेत् , तर्हि प्रेरणावत् प्रामाण्यप्रसङ्गः, तदर्थानुष्ठानाश्रद्धाने च प्रत्यवायापत्तिः । उदात्तस्वरित- तीव्रमन्दसुस्वरविस्वरत्वादिधमैश्च व्यभिचारः, तेषां नित्यत्वे सदाप्ये- काकारप्रत्ययप्रसक्तेः । नित्यत्वेऽप्यमीषामभिव्यक्तिः कादाचित्कीति चेत् । तदचारु । परस्परविरुद्धानामेकत्र समावेशासंभवात् । प्रभाकरेण शब्दत्वास्वीकारादुभयविकलश्च ते प्रत्यत्र दृष्टान्तः। अथ भट्ट एवेत्थ- मनुमानयति । प्रभाकरस्तु देशकालभिन्ना गोशब्दव्यक्तिबुद्धय एकगो- शब्दगोचराः, गोरित्युत्पद्यमानत्वात् , अद्योच्चारितगोशब्दव्यक्तिबुद्धि- वदिति वदतीति चेत्। तदप्यनवदातम् । अत्र प्रतिबन्धाऽभावात् , तडित्त- न्तुनित्यत्वसिद्धावप्येवंविधानुमानस्य कर्तुं शक्यत्वात् । याऽप्यपत्तिः प्रत्यपादि, तत्रायमर्थः-अनित्यत्वे सति यो गृहीतसंबन्धः शब्दः, स तदैव दध्वंसे इति व्यवहारकालेऽन्य एवागृहीतसंबन्धः कथमुच्चार्येत ? उच्चायते च, तस्मान्नित्य एवायमिति । तद्युक्तम् । अनेन न्यायेनार्थस्यापि नित्य- तैकतापत्तेः, अन्यथा बाहुलेये गृहीतसंबन्धोऽपि गोशब्दः शाबलेयादि- ध्वगृहीतसंबन्धः कथं प्रतिपत्तिं कुर्यात् ? । सामान्यस्यैव शब्दार्थत्वाद- दोष इति चेत् । न । लम्बकम्बलः ककुद्मान् , वृत्तशृङ्गश्चायं गौरिति सामानाधिकरण्याभावप्रसक्तेः । ततःसामान्यविशेषात्मैव शब्दार्थः, स प नैकान्तेनाऽन्वतीति न नित्यैकरूपोऽभ्युपेयः स्यात् । कयं च धूमव्य- . तथा ४६ प्रमाणनयतत्त्वालोकालकार:- क्तिः पर्वते पावकं गमयेत् ? धूमत्वसामान्यमेव गमकमिति चेत, वाचकमपि सामान्यमेवास्तु। अथ शब्दत्वम् , गोशब्दत्वम् , क्रमाभिव्य- ज्यमानगत्वौत्वादिकं वा तद्भवेत् । आद्यपक्षे प्रतिनियतार्थप्रतिपत्तिन स्यात्, सर्वत्र शब्दत्वस्याविशेषात् । गोशब्दत्वं तु नास्त्येव, गोशब्दव्य- क्रेकस्याः कस्याश्चित्तदाधारभृताया असंभवान्, क्रमेण व्यज्यमानं हि वर्णद्वयमेवैतत् । क्रमाभिन्यज्यमानेत्यादिपक्षोऽप्यसंभवी, गत्वादि- सामान्यस्याविद्यमानत्वात्, सर्वत्र गकारादेरेकत्वात् । अत्रोच्यते । अस्तु तार्तीयीकः कल्पः; नच गकारादेरक्यम्, गर्गमर्गवर्गवादी भूयांसोऽमी गकारा इति तद्भेदोपलम्भात् । व्यञकभेदादयमिति चेत, अकाराद्योपशेपवर्णेप्वप्येपोऽस्त्वित्येक एव वर्णः स्यात् । अब यथा अयमपि गकारः, अयमपि गकार., इत्येकाकारा प्रतीति., नाकाराद्यशेपवर्णेप्वपीति चेत् । नैवम् । अयमपि वर्ण., अयमपि वर्णः, इत्येकप्रत्यवमर्शोत्पत्तेः । सामान्यनिमित्तक एवायमिति चेत्, तर्हि गका- रादावपि तथास्तु । अथाकारेकारादी विशेयोऽनुभूयते, न तुगर्गादिगका- रेपु, तेषां तुल्यस्थानास्यप्रयत्नादित्वादिति चेत्, एवं तर्हि- "सहर्ष हेपन्त हरिहरिति हम्मीरहरयः" इत्यादिहकारात् कण्ठ्याद्वहिजिह्मादिहकारस्य "ह उरस्यो वह्निजिझादी वर्गपश्चमसंयुतः" इति वचनादुरस्यत्वेन स्थानभेदप्रतीतेः, ततो भिन्नोऽयं वर्णो भवेत्। नच गकारे नास्ति विशेषावभासः, तीनोऽयं मन्दोऽयं गकार इति तीव्रता- दिविशेषस्फुरणात् । व्यजकगतास्तीव्रतादयः तत्र स्फुरन्तीति चेत् , कृतो- त्तरमेतत् । अकारेकारादावप्यनुभूयमानः स स विशेपः तद्गत एवाऽ- स्तु, तथाचैक एव वर्ण. किं न भवेत् ? । मा भूद्वा विशेपावभासो गकारेषु भेदावभासस्तु विद्यत एव, वहवोऽमी गकारा इति प्रतीतेः । भवति च विशेषावभासं विनापि भेदस्फूर्तिः, सर्षपराशौ गुरुलाघवादि- विशेषावभासं विनापि तद्भेदप्रतिभासवत् । इति सिद्धो गकारभेदः । तथा च तदादिवर्णवत्तिसामान्यानामेव वाचकत्वमस्तु । तत्त्वतस्तु गो- शव्दत्वमेव सहशपरिणामात्मकं वाचकम् । क्रमाभिव्यज्यमानं वर्णद्व- रवाकरावतारिकायुक्तः । यमेवैतत् , नैका गोशब्दव्यक्तिरिति च न वाच्यम् । नित्यत्वाऽप्रसिद्धा- वद्याप्यस्योत्तरस्य कूर्परकोटिसंटङ्कितगुडायमानत्वात् । तस्मात् क्रमो- त्पदिप्णुतत्तद्गकारादिपर्यायोपहितभाषाद्रव्यात्मको गोशब्द एव सदृश- परिणामात्मा वाचकोऽस्तु । तथा च क्षीणाऽर्थापत्तिः । अस्त्वनित्यो- ध्वनिः, किन्तु नायं पौद्गलिकः संगच्छत इति यौगाः सङ्गिरमाणाः सन- णयप्रणयिनीनामेव गौरवार्हाः । यतः कोऽत्र हेतुः; स्पर्शशून्याश्रयत्वम् , अतिनिविडप्रदेशे प्रवेशनिर्गमयोरप्रतिघातः, पूर्व पश्चाच्चाऽवयवानुपल- ब्धिः, सूक्ष्ममूर्त्तद्रव्यान्तराऽप्रेरकत्वं, गगनगुणत्वं वा । नाद्यः पक्षः। यतः शब्दपर्यायस्याश्रये भाषावर्गणारूपे स्पर्शाऽभावो न तावदनुपल- धिमात्रात् प्रसिद्ध्यति, तस्य सव्यभिचारत्वात् । योग्यानुपलब्धिस्त्व- सिद्धा, तत्र स्पर्शस्यानुभूतत्वेनोपलब्धिलक्षणप्राप्तत्वाऽभावात् , उपल- भ्यमानगन्धाधारद्रव्यवत् । अथ धनसारगन्धसारादौ गन्धस्य स्पर्शा- व्यभिचारनिश्चयादत्रापि तन्निर्णयेऽप्यनुपलम्भादनुभूतत्वं युक्तम् , नेतरत्र, तन्निर्णायकाभावात् , इति चेत्, मा भूत्तावत्तन्निर्णायकं कि- श्चित् । किन्तु पुद्गलानामुद्भूतानुभूतस्पर्शानामुपलब्धेः शब्देऽपि पौद्गलिकत्वेन परैःप्रणिगद्यमाने, वाधकाभावे च सति सन्देह एव स्यात् , नत्वभावनिश्चयः, तथा च सन्दिग्धासिद्धो हेतुः । नच नास्ति तन्निर्णा- यकम् । तथाहि-शब्दाश्रयः स्पर्शवान् , अनुवातप्रतिवातयोर्विप्रकृष्टनि- कटशरीरिणोपलभ्यमानाऽनुपलभ्यमानेन्द्रियार्थत्वात् , तथाविधगन्धा- धारद्रव्यवत्, इति । द्वितीयकल्पेऽपि गन्धद्रव्येण व्यभिचारः वर्तमान- जात्यकस्तूरिकार्कपूरकश्मीरजादिगन्धद्रव्यं हि पिहितकपाटसंपुटाऽपव- रकस्यान्तर्विशति, वहिश्च निस्सरति, नचाऽपौद्गलिकम् । अथ तत्र सूक्ष्म- रन्ध्रसंभवेनातिनिविडत्वाभावात् तत्प्रवेशनिष्काशी, अत एव तदल्पीय- स्ता, नत्वपावृतद्वारदशायामिव तदेकार्णवत्वम् , सर्वथा नीरन्ध्रेतु प्रदेशे नैतौ सम्भवत इति चेत् , एवं तार्ह शब्देऽपि सर्वस्य तुल्ययोगक्षेमत्वाद- सिद्धता हेतोरस्तु । पूर्व पश्चाचावयवानुपलब्धिः, सौदामिनीदामोल्कादि- भिरनैकान्तिकी। सूक्ष्ममूर्त्तद्रव्यान्तराप्रेरकत्वमपिगन्धद्रव्यविशेपसूक्ष्म- रजोधूमादिभिर्व्यभिचारी । नहि गन्धद्रव्यादिकमपि नसि निविशमानं , , प्रमाणनयतत्त्वालोकालकार: तद्विवरद्वारदेशोभिन्नश्मश्रुप्रेरकं प्रेक्ष्यते । गगनगुणत्वं त्वसिद्धम् । तथाहि । न गगनगुणः शब्दः अस्मदादिप्रत्यक्षत्वात् , रूपादिवदिति । पौगलिकत्वसिद्धिः पुनरस्य, शब्दः पौद्गलिकः, इन्द्रियार्थत्वात् , रूपा- दिवदेवेति ॥९॥ पवाक्ये व्याकुर्वन्ति- वर्णानामन्योन्यापेक्षाणां निरपेक्षा संहतिः पदम् , पदानां तु वाक्यम् ॥ १० ॥ वौँ च वर्णाश्चेत्येकशेषात् ब्रह्मसंवोधने क इत्यादी द्वयोः, गौरि त्यादौ बहूनां च वर्णानाम् । अन्योन्यापेक्षाणाम् , पदार्थे प्रतिपत्तौ कर्त्त- व्यायां परस्परं सहकारितया स्थितानाम् । निरपेक्षा, पदान्तरवत्तिवर्ण- निर्वतितोपकारपराङ्मुखी, संहतिौलकः। पदमभिधीयते, पद्यते गम्यते खयोग्योऽर्थोऽनेनेति व्युत्पत्तेः । प्रायिकत्वाच्च वर्णद्वयादेरेव पदत्वं लक्षितम् । यावता विष्णुवाचकैकाक्षराकारादिकमपि पदान्तरवर्तिवर्ण- निर्वतितोपकारपराङ्मुखत्वरूपेण निरपेक्षत्वलक्षणेन पदत्वेन लक्षितं द्रष्टव्यम् । पदानां पुनः स्वोचितवाक्यार्थप्रत्यायने विधेयेऽन्योन्यनिर्मि- तोपकारमनुसरतां वाक्यान्तरस्थपदापेक्षारहिता संहतिर्वाक्यमभिधीयते, उच्यते स्वसमुचितोऽर्थोऽनेनेति व्युत्पत्तेः॥१०॥ अथ संकेतमात्रेणैव शब्दोऽथै प्रतिपादयति, नतु स्वाभाविकसंवन्ध- वशादिति गद्तो नैयायिकान् , समयादपि नाऽयं वस्तु वदतीति वदतः सौगतांश्च पराकुर्वन्ति- स्वाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं शब्दः॥११॥ स्वाभाविकम् , सहजम् । सामर्थ्यम् , शब्दस्याऽर्थप्रतिपादनशक्तिः योग्यतानाम्नी।समयश्च संकेतः। ताभ्यामर्थप्रतिपत्तिकारणं शव्द इति । तत्र नैयायिकान् प्रत्येवं विधेयानुवाद्यभावः, योऽयमर्थवोधनिवन्धनं शब्दोऽ- भ्युपगतोऽस्ति, स स्वाभाविकसामर्थ्यसमयाभ्यां द्वाभ्यामपि, न पुनः समयादेव केवलात् । समयो हि पुरुषायत्तवृत्तिः, नच पुरुषेच्छया वस्तु-

रवाकरावतारिकायुक्तः ।
४९
नियमो युज्यते । अन्यथा तदिच्छाया अव्याहतप्रसरत्वादर्थोऽपि
वाचकः, शब्दोऽपिवाच्यः स्यात् । अथ गत्वौत्वादिसामान्यसंबन्धो यस्य
भवति, स वाचकत्वे योग्यः, इतरस्तु वाच्यत्वे, यथा द्रव्यत्वाविशेषेऽ-
- प्यमित्वादिसामान्यविशेपवत एव दाहजनकत्वम् , न जलत्वादिसामान्य-
विशेपवत इति चेत् । तद्युतम् । अतीन्द्रियांशक्तिं विनाऽग्नित्वादेरपिकार्य-
कारणभावनियामकत्वानुपपत्तेः । अग्नित्वं हि दावद्विजातीयकारणज-
न्यकार्यप्वपि तुल्यरूपम्। न हि दाहं प्रत्येवाग्नेरग्नित्वम् , यथा पुत्रापेक्षं पितुः
पितृत्वम् । ततश्चानिर्दाहवत्पिपासापनोदमपि विदध्यादिति नातीन्द्रियां
शक्तिमन्तरेणामित्वादीनां कार्यकारणभावव्यवस्थाहेतुत्वम्, तद्वदेव च
गत्वौत्वादिसामान्यानामपि न वाच्यवाचकभावनियमहेतुत्वमिति निया-
मिका शक्तिः स्वीकर्तव्यैव । अथ किमनेनातीन्द्रियशक्तिकल्पनालेशेन?।
करतलानलसंयोगादिसहकारिकारणनिकरपरिकरितं कृपीष्टयोनिस्वरूपं
हि स्फोटघटनपाटवं प्रकटयिष्यति, किमवशिष्टं यदुनया करिष्यते। तथा
च जयन्तः-
'स्वरूपादुद्भवत्कार्य सहकार्युपबृंहिताम् ।
नहि कल्पयितुं शक्तं शक्तिमन्यामतीन्द्रियाम्" ॥१॥
यत्तूक्तम्- अग्निर्दाहवत्पिपासापनोदमपि विदध्यादिति । तत्र सत् ।
न हि वयमद्य कञ्चिदभिनवं भावानां कार्यकारणभावमुत्थापयितुं शक्नुमः
किंतु यथाप्रवृत्तमनुसरन्तो व्यवहरामः । नह्यस्मदिच्छया आपः शीतं
शमयन्ति, कृशानुर्वा पिपासाम्, किन्तु तत्र दाहादावन्वयव्यतिरेकाभ्यां
वा, वृद्धव्यवहाराद्वा ज्वलनादेरेव कारणत्वमवगच्छाम इति तदेव तदर्थन
उपाद्महे, न जलादि । तदेतदतथ्यम् । यतो यथाभूतादेव विभावसो हो-
त्पत्तिः प्रतीयते, तथाभूतादेवमणिमन्त्रयन्त्रतन्त्रौषधादिसान्निधाने सति न
प्रतीयते। यदि हि दृष्टमेव रूपं स्फुटं स्फोटं घटयेत्, तदा तदानीं तस्य सम-
स्तस्य सद्भावात्तदनुत्पादो न स्यात्। अस्ति चासौ, ततो दृष्टरूपस्य व्याभि-
चारं प्रपश्चयन्नतीन्द्रियायाः शक्तः सत्त्वं समर्पयति । तथा च-
स्वरूपात्काप्यनुद्यत्तत् सहकार्युपबृंहितात् ।
किन्न कल्पयितुं शक्तं शक्तिमन्यामतीन्द्रियाम् ?" ॥१॥

५० प्रमाणनयतत्त्वालोकालकार:- यत्तूक्तम्-दाहादावन्वयव्यतिरेकाभ्यां वा, वृद्धव्यवहाराद्वा ज्वलना- देरेव कारणवमवगच्छाम इति । तदुक्तिमात्रमेव । यत एव हि दाहदह- नयोः कार्यकारणभावनियमःप्रसिद्धिपद्धतिप्रतिवद्ध एव,तत एव प्रसङ्गः प्रवर्त्यते । यदि कृशानुः स्वरूपमात्रादेव दाहमुत्पादयेत् , ताई तदविशे- पादुद्न्याऽपनोदमपि विध्यादिति ।अथ न मणिमन्त्रादिप्रतिबन्धकनै- कट्ये स्फोटानुत्पत्तिरदृष्टं रुपमाक्षिपति । यथा ह्यन्वयन्यतिरेकाभ्यामव- धृतसामो दहनो दाहहेतुः, तथा प्रतिवन्धकाभावोऽपि । स च प्रति- बन्धकयोगे विनिवृत्त इति सामग्रीवैगुण्यादेव दाहस्यानुत्पत्तिः, न तु शक्तिवैकल्यादिति चेत् । तद्युक्तम् । यतः प्रतिवन्धकाभावो भावादेका- न्तव्यतिरिक्तः कथं किञ्चित्कार्य कुर्यात् ? कूर्मरोमराजीवत् । ननु नित्यानां कर्मणामकरणापागभावस्वभावात् प्रत्यवाय उत्पद्यते, अन्यथा नित्याकरणे प्रायश्चित्तानुष्ठानं न स्याद्, वैयर्थ्यात् । तन्न तथ्यम् । नित्याकरणस्वभावात् क्रियान्तरकरणादेव प्रत्यवायोत्पत्तेरभ्युपगमात् , त्वन्मतस्य तस्य तद्धेतुत्वासिद्धेः । यदप्युच्यते- "सुखदुःखसमुत्पत्तिरभावे शत्रुमित्रयोः । कण्टकाभावमालक्ष्य पादः पथि निधीयतेगा। तत्राप्यमित्रमित्रकण्टकाभावज्ञानानामेव सुखदुःखाधिनिधानका- र्यकारित्वम् ,नत्वभावानाम् । तज्ज्ञानमप्यमित्रमित्रकण्टकविविक्तप्रतियो- गिवस्त्वन्तरसम्पादितमेव, नतु त्वदभिमताभावकृतम्। अथ भाववदभा- वोऽपिभावजननसमर्थोऽस्तु; को दोषः? न हि निःशेषसामर्थ्यरहितत्वम- भावलक्षणम् अपितुनास्तीतिज्ञानगम्यत्वम् । सत्प्रत्ययगम्यो हि भाव उच्यते, असत्प्रत्ययगम्यस्त्वभाव इति चेत् । तदयुक्तम् । वदभ्युपगताभा- वस्य भावात्सर्वथा पार्थक्येन स्थितस्य भावोत्पादकत्वविरोधात् । तथाहि- विवादास्पदीभूतोऽभावो भावोत्पादको न भवति, भावादेकान्तव्यतिरिक्त- त्वात् , यदेवंतदेवं यथा तुरङ्गशृङ्गम्, तथा चायं तस्मात्तथा।प्रागभावप्र- ध्वंसाभावपरस्पराभावस्वभावो ह्यभावो वस्तुनो व्यतिरिक्तमूर्तिर्भावोत्पा- दुकः परैरिष्टः,सोऽत्र विवादपदशब्दितः । अन्यथा जैनस्य भावाविष्व- , रत्नाकरावतांरिकायुक्तः । ५१ ग्भूताभावीवोत्पादकत्वेनाङ्गीकृतैर्बाधा स्यात् । योगस्य चात्यन्ताभावेन भावानुत्पादकेन सिद्धसाध्यता भवेत् । नन्वयं धर्मित्वेनोपात्तोऽभावो भवद्भिः प्रतिपन्नो नवा । यदि प्रतिपन्नः; किं प्रत्यक्षाद्, अनुमाना, विकल्पाद्वा; उपमानादेरत्रानुचितत्वात् । यदि प्रत्यक्षात् तदा कथममा- वस्य भावोत्पादनापवादः सूपपादः स्यात् ? प्रत्यक्षस्यैवोत्पादितत्वात् । अनुमानात्तु तत्प्रतिपत्तौ; तत्राप्यभावधर्मिणः प्रतीतिरनुमानान्तरादे- व, इत्यत्रानवस्थादौस्थ्यस्थेमा । विकल्पादपि तत्प्रतीतिः, प्रमाणमूलात्, तन्मात्रादेव वा । न प्रथमात प्रमाणप्रवृत्तेस्तत्र तिरस्कृतत्वात् । विक- ल्पमात्रात्तु तत्प्रतीतिरसत्कल्पा, ततः कस्यापि प्रतिपत्तेरनुपपत्तेः । अन्यथा प्रामाणिकानां प्रमाणपर्येषणमरमणीयं स्यात् । तथाचाश्रया- सिद्धो हेतुः । अथाप्रतिपन्नः, तर्हि कथं धर्मितयोपादायि? | उपात्तेचा- स्मिन् हेतुराश्रयासिद्ध एव । अत्रोच्यते । विकल्पमात्रादेव तत्प्रति- पत्तिं ब्रूमहे । नचाश्रयासिद्धिः, अवस्तुनि विकल्पात्प्रसिद्धेरवश्याश्र- यणीयत्वात् । अन्यथा वन्ध्यास्तनन्धयादिशब्दानुच्चारणप्रसङ्गात् । नच नोच्चार्यत एवायं मयेति वाच्यम् । वान्ध्येयोऽस्ति, नास्ति वेति पर्यनुयोगे पृथ्वीपतिपरिषद्यवश्य विधिनिषेधान्यतराभिधायिवचनस्यावकाशात् । तूष्णीं पुष्णतोऽस्याप्रतिपित्सितम् , किञ्चिदुचारयतो वा पिशाचकित्वप्रस- ङ्गात् । तथाविधवचनोचारणे च कथमेतदिति प्रमाणगवेषणेऽनुमा- नमुच्चार्यमाणमाश्रयासिद्धिप्रस्तम् । समस्तं निष्प्रमाणकं वचनमात्रं प्रे- क्षावता प्रश्नकृताऽनपेक्षितमेव । नचोभयाभावोऽभिधातुं शक्यः । विधिनिषेधयोर्भावाभावस्वभावत्वात्, एकनिषेधेनापरविधानात् । विधि- प्रतिषेधो हि निषेधः, निषेधप्रतिषेधश्च विधिः । अस्तु वोभयप्रतिषे- धप्रतिज्ञा, हतोस्तु तत्रोपादीयमानस्य नाश्रयासिद्धिपरिहारः । तदुक्तम्- "धर्मस्य कस्यचिदवस्तुनि मानसिद्धा बाधाविधिव्यवहृतिः किमिहास्ति नो वा । अस्त्येव चेत्, कथमियन्ति न दूषणानि ? नास्त्येव चेत्, स्ववचनप्रतिरोधसिद्धिः" ॥१॥ , ५२ प्रमाणनयतत्वालोकालद्वार:-- अवस्तुनि बाधाविधिव्यवहारो नास्तीत्येतदनेनैव चवचनेन प्रति- रुध्यते; नास्तीतिप्रतिषेधस्य स्वयंस्तवात, इत्यन्त्यपादस्यार्थः । नुरङ्गशृङ्गदृष्टान्तोऽपि विकल्पादेव प्रमित. स्वीफर्तव्यः । तत्र प यम्से- । कान्तव्यतिरेके सति भावानुत्पादकत्वमपि प्रतीतम, पति नाम्य माध्यमा- धनोभयवैकल्यम्। ननु जनैर्भावादभिन्नन्यामावस्याभ्युपगमाद,वायमिझो हेतुरिति चेत् । तदसत् । पराभ्युपगतामावत्य धर्मीकतत्यान, तन्य च भावादेकान्तेन पृथग्भूततया जनरपि स्वीकारान । न चल्ववन्तु यन्तु- भूतादावादभिन्नमिति मन्यन्ते जैनाः । ततो नामावो भावोत्पादकम्त- वास्तीति सिद्धम् । किंच । यदा प्रतिबन्धकाभावो विभावमुम्यम्पादका- न्तभिन्नोऽभ्युपागामि, तदा विभावसुः प्रतिबन्धकस्वभाव. मोकन: स्यात्, प्रतिवन्धकाभावाड्यावर्तमानत्वात् , मणिमन्त्रादिप्रतिवन्धकम्वरूप- वत्। तथा च कथं कदाचिद्दाहादिकार्योत्पादोभवेद् ? विभावसोरेव प्रति- वन्धकत्वात् । अथ कथं विभावसुः प्रतिबन्धकः स्यात् ? तन प्रतिवन्धक- प्रागभावस्य विद्यमानत्वात् । तदनवदातम् । एतावता हिवत्र वर्तमान: प्रतिवन्धकप्रागमाव एव प्रतिबन्धकस्वभावो मा भूत, विभावसुस्वरूपं तु तभावाड्यावर्तमान प्रतिवन्धकतां कथं न कलयेत् । यथा हि प्रति- वन्धकः स्वभावाट्यावर्त्तमानः प्रतिवन्धकतां दधाति, तथा तनूनपादपि प्रतिवन्धकाभावाड्यावर्त्तमानमूर्तिः कथं न प्रतिवन्धकरूपतां प्रतिपोती। स्याद्वादिनां तु भावाभावोभयात्मकं वस्तिति प्रतिवन्धकाभावात्मनः कृष्णवर्त्मनो न प्रतिवन्धकरूपता । किंच । प्रतिबन्धकाभावस्य कार- णले, प्रतिवन्धकस्य कस्यचिन्नकटयेऽपि प्रतिवन्धकाभावान्तराणामनेकपा भावात्कथं न कार्योत्पादः। न हि कुम्भकारकारण' कुम्भः कुम्भकारस्यै- कस्याभावेऽपि कुम्भकारान्तरव्यापारान्न भवति। नचक एव कश्चित्प्रतिव- न्धकाभाव' कारणम्, यदभावात् तदानीं न कार्य जायते, तद्वदेव त्वन्म- तेन सर्वेषामवधृतसामर्थ्यत्वात् । अथ सर्व प्रतिवन्धकाभावाः समु- दिता एव कारणम् ; न पुनरेकैकशः कुम्भकारवत्,तार्ह कदाचिदपि दाहा- दिकार्योत्पत्तिर्न स्यात् , तेषां सर्वेषां कदाचिदभावाद्, भुवने मणिमन्त्रत- न्त्रादिप्रतिबन्धकानां भूयसां संभवात् । अथ ये प्रतिबन्धकास्त तनूनपातं रखाकरायतारिकायुक्तः । ५३ 1 प्रतिबद्धं प्रसिद्धसामर्थ्याः, तेषामेवाभावाः सर्वे कारणम्, न तु सर्वेषाम् ; सर्वशब्दस्य प्रकारकास्न्यें वर्तमानस्य स्वीकारात्, इति चेत् । ननु प्रसिद्धसामा इति सामर्थ्यशब्दस्यातीन्द्रिया शक्तिः, स्वरूपं वा प्रति- बन्धकानां वाच्यं स्यात् ।प्राच्यपक्षकक्षीकारे; क्षीणः क्षणेनावयोः कण्ठ- शोषः, अतीन्द्रियशक्तिस्वीकारात् । द्वितीयपक्षे तु त एव तं प्रति प्रति- बन्धकाः; नापरे, इति कौतस्कुती नीतिः । खरूपस्योभयेषामपि भावात्। न खलु मणिमन्त्रादेः कश्चिदेव जातवेदसमाश्रित्य तत्स्वरूपम्, न पु- नर्जातवेदोऽन्तरमिति । तथा न प्रतिबन्धकस्यात्यन्ताभावस्तावत् कार- णतया वक्तुं युक्तः, तस्यासत्त्वात्, अन्यथा जगति प्रतिबन्धककथांप्रत्यस्त- मयप्रसङ्गात् । अपरेपुनःप्रतिबन्धकाभावा एकैकशःसहकारितां दधीरन्, द्वित्रा वा। प्रथमपक्षे प्रागभावः,प्रध्वंसाभावः, परस्पराभावः, यः कश्चि- द्वा सहकारी स्यात् । न प्रथमः, प्रतिबन्धकप्रध्वंसेऽपि पावकस्य प्लोष- कार्योपलम्भात् । न द्वितीयः, प्रतिबन्धकप्रागभावेऽपि दहनस्य दाहो- त्पादकत्वात् । न तृतीयः, प्रतिबन्धकसंबन्धबन्धोरपि धनञ्जयस्य स्फो- टघटनप्रसङ्गात्, तस्य तदानीमपि भावात् । न चतुर्थः, प्ररूपयिष्य- माणानियतहेतुकत्वदोषानुषङ्गात् । द्वित्रप्रतिबन्धकाभावभेदे तु किं प्रागभावप्रध्वंसाभावी, प्रागभावपरस्पराभावी, प्रध्वंसाभावपरस्पराभावी, त्रयोऽपि वा हेतवो भवेयुः । नाद्यः पक्षः, उन्तम्भकनैकट्ये तावन्तरेणापि पावकस्य प्लोषकार्यार्जनदर्शनात् । न द्वितीयतृतीयतुरीयाः, प्रति- बन्धकपरस्परामावस्य प्राक् तदकारणत्वेन वर्णितत्वात्, वार्णितत्वात्, भेदन- यस्यापि चास्य परस्परामावसंवलितत्वात् । अथ प्रागभावप्रध्वंसा- भावोत्तम्भकमणिमन्त्रतन्त्रादयो यथायोगं कारणमिति चेत् । तदस्फुटम्। स्फोटादिकार्यस्यैवमनियतहेतुकत्वप्रसङ्गात् । आनियतहेतुकं चाहेतुक- मेव। तथाहि-अन्वयव्यतिरेकावधार्यः कार्यकारणभावो भावानाम् , धूम- धूमध्वजयोरिव । प्रस्तुते तु प्लोषादि यदेकदैकस्मादुत्पद्यमानमीक्षामासे, तदन्यदा यद्यन्यतोऽपि स्यात् , तर्हि तत्कारणकमेव तन्न भवेदिति कथं नाहेतुकं स्यात् । अथ गोमयाद्, वृश्चिकाच वृश्चिकोत्पादः प्रेक्ष्यते । नच तन्नानियतहेतुकत्वं स्वीकृतं त्वयाऽपीति चेत् । तदपि त्रपापात्रम् ।

५४ प्रमाणनयतत्वालोकाळकार:- सर्वत्र हि शालूकगोमयादी वृश्चिकढिम्भाऽऽरम्भशक्तिरेकास्ति, इति यानि तच्छक्तियुक्तानि, तानि तत्कार्योत्पादकानि इति नायं नः कलल्ल. संक्रामत्ति। भवतां पुनरत्राप्ययं प्रादुर्भवन् दुष्प्रतिपेधः, येषां वृश्चिकगोमयसाधारण- मेकं किञ्चिन्नास्ति । न च प्रागभावप्रध्वंसाभावोत्तम्भकादीनामप्येकं किं- चित्तुल्यं रूपं वर्तते। इति नानियतहेतुकत्वेन दुर्विधवेनेवामी मुच्यन्ते । एतेन 'भावस्वभावोऽप्यभाव एवास्तु हेतुर्नत्यतीन्द्रियशक्तिस्वीकारः मुन्द- रः' इत्यप्युच्यमानमपास्तम् । उक्ताभावविकल्पानामत्राप्यविशेषात् । अय शक्तिपक्षप्रतिक्षेपदीक्षिता आक्षपादा एवं साक्षेपमाचक्षते-ननु भवत्पक्ष प्रतिबन्धकोऽकिचित्करः, किश्चित्करो वा भवेत् । अफिश्चित्करप्रकारे, अतिप्रसङ्गः, शृङ्गभृगभृगारादेरप्यकिश्चित्करस्य प्रतिवन्धकत्वप्रसद्गात् । किञ्चित्करस्तु किञ्चिदुपचिन्वन् , अपचिन्वन् वा स्यात् । प्राचि पक्षे, किं दाहशक्तिप्रतिकूला शक्ति जनयेत्, तस्या एव धर्मान्तरं वा । न प्रथमः, प्रमाणाभावात् । दाहाभावस्तु, प्रतिबन्धकसन्निधिमात्रेणव चरितार्थ इति न तामुपपादयितुमीश्वरः । धर्मान्तरजनने तदभाव सत्ये- व दाहोत्पाद इत्यभावस्य कारणत्वस्वीकारः, त्वदुक्ताशेपप्रागभावादिविक- ल्पावकाशश्च । अपचयपक्षे तु प्रतिवन्धकस्तां शक्ति विकुट्टयेत्, तद्धर्म- वा । प्रथमप्रकारे, कुतत्यं कृपीटयोनेः पुनः स्फोटघटनपाटवम् । तदा- नीमन्यैव शक्तिः संजातेति चेत् । ननु सा संजायमाना किमुत्तम्भका- त्, प्रतिवन्धकाभावाद्, देशकालादिकारकचक्राद्, अतीन्द्रियार्थान्तराद्वा जायते । आद्यभिदायाम् , उत्तम्भकाभावेऽपि प्रतिबन्धकाभावमात्रात्को- तस्कुतं कार्यार्जनं जातवेदसः । द्वितीये भेदे, तत एव स्फोटोत्पत्तिसिद्धेः शक्तिकल्पनावैयय॑म् । तृतीये, देशकालादिकारकचक्रस्य प्रतिवन्धकका- लेऽपि सद्भावेन शक्त्यन्तरप्रादुर्भावप्रसङ्ग.। चतुर्थे, अतीन्द्रियार्थान्तरनि- मित्तकल्पने तत एव स्फोटःस्फुटं भविष्यति, किमनया कार्यम् । तन्न शक्ति नाशः प्रायसः, तद्वदेव तद्धर्मनाशपक्षोऽपि प्रतिक्षेपणीयः । अत्राभिद- ध्महे । एतेषु शक्तिनाशपक्ष एव कक्षीक्रियत इत्यपरविकल्पशिल्पकल्पना- जल्पाकताकण्ठशोषायैववःसंवभूव । यत्तूक्तम्-कुतः पुनरसावुत्पद्येतेति । तत्र शक्त्यन्तरसहकृतात्कृपीटयोनेरेवेति ब्रूमः । ननु प्रतिबन्धकदशायां रनाकरावतारिकायुक्तः । सा शक्तिरस्ति नवा । नास्ति चेत्, कुतः पुनरुत्पद्येत शक्त्यन्तरसहक- तादग्नरेवेति चेत्, तर्हि साऽपि शक्त्यन्तरसधीचस्तस्मादेवोन्मज्जदित्यन- वस्था । अथास्ति, तदा तदानीमपि स्फोटोत्पादिकां शक्ति संपादयेत्, ततोऽपि स्फोटः स्फुटं स्यादेवेति। अत्रोच्यते । प्रतिबन्धकावस्थायामप्य- स्त्येव शक्त्यन्तरम् , घटयति च स्फोटघटनलम्पटां शक्तिं तदाऽपि । यस्तु तदा स्फोटानुत्पादः, स प्रतिबन्धकेनोत्पन्नोत्पन्नायास्तस्याः प्रध्वंसात्। प्रतिवन्धकापगमे तुस्फोटःस्फुटीभवत्येवेत्यतीन्द्रियशक्तिसिद्धिः। अनाss- शङ्कान्तरपरीहारप्रकारमौक्तिककणप्रचयावचायः स्याद्वादरत्नाकरात्तार्कि- कैः कर्तव्यः। एवं च स्वाभाविकशक्तिमान् शब्दोऽर्थ बोधयतीति सिद्धम् । अथ तदङ्गीकारे तत एवार्थसिद्धेः सङ्केतकल्पनाऽनर्थिकैव स्यादिति चेत् । नैवम् । अस्य सहकारितया स्वीकारात् ; अङ्कुरोत्पत्ती पयःपृथिव्या- दिवत् । अथ स्वाभाविकसंबन्धाभ्युपगमे देशभेदेन शब्दानामर्थभेदो न भवेद्, भवति चायम्, चौरशब्दस्य दाक्षिणात्यैरोदने प्रयोगादिति चेत् । तदशस्यम् । सर्वशब्दानां सर्वार्थप्रत्यायनशक्तियुक्तत्वात् । यत्र च देशे यदर्थप्रतिपादनशक्तिसहकारी संकेतः, स तमर्थ तत्र प्रतिपाद- यतीति सर्वमवदातम् । सौगतांस्तु प्रत्येवं विधेयानुवाद्यभावः-योऽयं शब्दो वर्णात्माऽऽवयोः प्रसिद्धः, स स्वाभाविकसामर्थ्यसमयाभ्यां कृत्वा ऽर्थबोधनिवन्धनमेवेति । अथ स्वाभाविकसामर्थ्यसमयाभ्यां शब्दस्यार्थे सामान्यरूपे, विशेषलक्षणे, तदुभयस्वभावे वा वाचकवं व्याक्रियेत । न प्रथमे, सामान्यस्यार्थक्रियाकारित्वाभावेन नभोऽम्भोजसन्निभत्वात् । न द्वैतीयीके, विशेषस्य स्खलक्षणलक्षणस्य वैकल्पिकविज्ञानागोचरत्वेन सं- केतास्पदत्वासंभवात् । तत्सम्भवेऽपि विशेषस्य व्यवहारकालाननुयायित्वेन संकेतनैरर्थक्यात् । तार्तीयीके तु स्वतन्त्रयोः, तादात्म्यापनयोर्वा सामान्य- विशेषयोस्तद्गोचरता संगीर्येत । नाद्यः पक्षः, प्राचिकविकल्पोपदर्शितदो- षानुषगात् । न द्वितीयः, सामान्यविशेषयोर्विरुद्धधर्माध्यासितत्वेन तादात्म्यायोगादिति नार्थो वाच्यो वाचाम् , अपि तु परमार्थतः सर्वतो व्यावृत्तस्वरूपेषुवलक्षणेष्वेकार्थकारित्वेन,एककारणत्वेन चोपजायमानै- कप्रत्यवमर्शरूपविकल्पस्याकारो बाह्यत्वेनाभिमन्यमानो बुद्धिप्रतिबिम्ब- ५६ प्रमाणनयतत्वालोकालद्वार:- व्यपदेशभागपोहः; शब्दश्रुतौ सत्यां वाशोहेखशेखरस्यैव वेदनस्योत्पा- दात् । अपोहत्वं चास्य वाकारविपरीताकारोन्मूलकत्वेनावसेयम् । अपो- हाते स्वाकाराद्विपरीत आकारोऽनेनेत्यपोह इतिव्युत्पत्ते.। तत्त्वतस्तु न किञ्चिद्वाच्यं वाचकं वा विद्यते, शब्दार्थतया कथिते बुद्धिप्रतिविम्या./ स्मन्यपोहे कार्यकारणभावस्यैव वाच्यवाचकतया व्यवस्थापितत्वात् । "अथ श्रीमदनेकान्तसमुद्धोपपिपासितः । अपोहमापिबामि द्रान् वीक्षन्तां भिक्षवः क्षणम् ॥१॥ इह तावद्विकल्पानां तथाप्रतीतिपरिहृतविरुद्धधर्माध्यासकश्चित्ता- दात्म्यापन्नसामान्यविशेषस्वरूपवस्तुलक्षणाभूणदीक्षादीक्षितत्वं प्राक प्राकट्यत । ततस्तत्त्वतः शब्दानामपि तत्प्रसिद्धमेव । यतोऽजल्पि युष्मदीये. “स एव शब्दानां विषयो यो विकल्पानाम्" इति कथमपोहः शब्दार्थः स्यात् । अस्तु वा तथाऽप्यनुमानवत् किं न शब्दः प्रमाणमु- च्यते। अपोहगोचरत्वेऽपि परम्परया पदार्थे प्रतिवन्धात् प्रमाणमनु- मानमिति चेत्, तत एव शब्दोऽपि प्रमाणमस्तु । अतीतानागताम्बरसरो- जादिष्वसत्वपि शब्दोपलम्भान्नानार्थप्रतिवन्ध इति चेत्, तह्यभूद् वृष्टिः गिरिनदीवेगोपलम्भाद्, भावी भरण्युदय रेवत्युदयात् , नास्ति रासभ- शृङ्गम् ; समग्रप्रमाणैरनुपलम्भात्, इत्यादेरर्थाभावेऽपि प्रवृत्तेऽनुमानेऽपि नार्थप्रतिवन्धः स्यात् । यदि वचोवाच्यापोहोऽपि पारम्पर्येण पदार्थप्रतिष्टः स्यात् , तदानीमलावूनि मज्जन्तीत्यादिविप्रतारकवाक्यापोहोऽपि तथा भ- वेदिति चेत्, अनुमेयापोहेऽपि तुल्यमेतत्, प्रमेयत्वादिहत्वनुमेयापोहेऽपि पदार्थप्रतिष्ठताप्रसक्तेः । प्रमेयत्वं हेतुरेव न भवति, विपक्षासत्त्वतल्लक्ष- णाभावादिति कुतस्त्या तदपोह्स्य तन्निष्ठतेति चेत्, ताई विप्रतारकवाक्य- मप्यागम एव नभवति,आप्तोतलतल्लक्षणाभावादित्यादि समस्तं समानम्। यस्तु नातोक्तत्वं वचसि विवेचयितुं शक्यमिति शाक्यो वक्ति, स पर्यनु- योज्य. किमाप्तस्यैव कस्याप्यभावादेवमभिधीयत,भावेऽप्यस्व निश्चयाभा- वात् ,निश्चयेऽपि मौनव्रतिकत्वाद्, वक्तृत्वेऽप्यनाप्तवचनात् , बदचसो विवे- कावधारणाभावाद्वा । सर्वमप्येतश्चार्वाकादिवाचां प्रपश्चात् , मातापितृपुत्र- भ्रागुरुसुगतादिवचनां विशेषमातिष्ठमानैरप्रकटनीयमेव । नच नास्ति , रवाकरावतारिकायुक्तः। विशेषस्वीकारः,तत्पठितानुष्ठानघटनायामेव प्रवृत्तेनिर्निबन्धनत्वापत्तेः । अथानुमानिक्येवाप्तशब्दादर्थप्रतीतिः ; (कथम्?)- पादपार्थविवक्षावान् पुरुषोऽयं प्रतीयते । वृक्षशब्दप्रयोक्तृत्वात्, पूर्वावस्थास्वहं यथा ॥१॥ इति विवक्षामनुमाय, सत्या विवक्षेयम्; आप्तविवक्षात्वात् , मद्विवक्षा- वदिति वस्तुनो निर्णयादिति चेत्। तदचतुरस्रम् । अमूहशव्यवस्थाया अन- न्तरोक्तवैशेषिकपक्षप्रतिक्षेपेण कृतनिर्वचनत्वात् । किंच । शाखादिमति पदार्थे वृक्षशब्दसङ्केते सत्येतद्विवक्षाऽनुमानमातन्येत, अन्यथा वा। नता- वदन्यथा। केनचित्कक्षे वृक्षशब्दं संकेत्य तदुच्चारणात् , उन्मत्तसुप्तशुकसा- रिकादिना गोत्रस्खलनवता चान्यथाऽपि तत्प्रातिपादनाच्च हेतोय॑भिचारा- पत्तेः। संकेतपक्षेतु यद्यष तपस्वी शब्दस्तद्वशाद्वस्त्वेव वदेत् , तदा किं नाम भ्रूणं स्यात् । न खल्वेषोऽर्थाद्विभेति । विशेषलाभश्चैवं सति यदेवंविधान- नुभूयमानपारंपर्यपरित्याग इति । यदकथि-परमार्थतः सर्वतोऽव्यावृत्त- स्वरूपेषु स्खलक्षणेष्वेकार्थकारित्वेनेत्यादि । तदवद्यम् । यतोऽर्थस्य वाहदो- हादेरकत्वम् , अद्विरूपत्वं, समानत्वं वा विवक्षितम् । न तावदाद्यः पक्षः, पण्डमुण्डादौ कुण्डकाण्डभाण्डादिवाहादेरर्थस्य भिन्नभिन्नस्यैव संदर्श- नात् । द्वितीयपक्षेऽपि सदृशपरिणामास्पदत्वम् , अन्यव्यावृत्त्यधिष्ठितत्वं वा समानत्वं स्यात् । न प्राच्यः प्रकारः, सदृशपरिणामस्य सौगतैरवी- कृतत्वात् । न द्वितीयः, अन्यव्यावृत्तेरतात्त्विकलेन वान्ध्येयस्येव स्खलक्षणे- ऽधिष्ठानासंभवात् । किं । अन्यतः सामान्येन, विजातीयाद्वा व्यावृत्ति- रन्यव्यावृत्तिर्भवेत् । प्रथमपक्षे, न किञ्चिदसमान स्यात् , सर्वस्यापि सर्वतो व्यावृत्तत्वात् । द्वितीये तु विजातीयत्वं वाजिकुजरादिकार्याणां वाहादिसजातीयत्वे सिद्धे सति स्यात्, तच्चान्यव्यावृत्तिरूपमन्येषां विजातीयत्वे सिद्धे सति, इति स्पष्टं परस्पराश्रयत्वमिति । एवं च कार- क्य, प्रत्यवमर्शक्यं च विकल्प्य दूपणीयम् । अपिच । यदि बुद्धिप्र- तिबिम्बात्मा शब्दार्थः स्यात् , तदा कथमतो बहिरर्थे प्रवृत्ति. स्यात् । स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायाच्चेत् । ननु कोऽयमर्थाध्यवसायो नाम । अर्थसमारोप इति चेत्, तर्हि सोऽयमर्थानर्थयोरग्निमाणवकयोरिव तद्धि- , ५८ प्रमाणनयवरवालोकाकङ्कार:- कल्पविषयभावे सत्येव समुत्पत्तुमर्हति । नच समारोपविकल्पस्य स्खल- क्षणं कदाचन गोचरतामञ्चति । यदि चानर्थेऽर्थसमारोपः स्यात्, तदा वाहदोहाद्यर्थक्रियार्थिनः सुतरां प्रवृत्तिर्न स्यात् । नहि दाहपाकाद्यर्थी समारोपितपावकत्वे माणवके कदाचित्प्रवर्त्तते । रजतरूपताऽवभासमा- नयुक्तिकायामिव रजतार्थिनो अर्थक्रियार्थिनो विकल्पात्तत्र प्रवृत्तिरिति चेत् । भ्रान्तिरूपस्तर्षयं समारोपः, तथाच कथं ततः प्रवृत्तोऽर्थक्रियार्थी कृतार्थः स्यात् । यथा शुक्तिकायां प्रवृत्तो रजतार्थक्रियार्थीति । यदपि प्रोक्तम्--कार्यकारणभावस्यैव वाच्यवाचकतया व्यवस्थापितत्वादिति । तद्प्ययुक्तम् । यतो यदि कार्यकारणभाव एव वाच्यवाचकभावः स्यात् , तदा श्रोत्रज्ञाने प्रतिभासमानः शब्दः स्वप्रतिभासस्य भवत्येव कारणमिति तस्याप्यसौ वाचकः स्यात् । यथा च विकल्पस्य शब्दः कारणम् , एवं परंपरया खलक्षणमपि, अतस्तदपि वाचकं भवेदिति प्रतिनियतवाच्यवाचकभावव्यवस्थानं प्रलयपद्धतिमनुघावेत्। ततःशब्दः सामान्यविशेषात्मकार्थावबोधनिबन्धनमेवेति स्थितम् ॥ ११ ॥ खाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिवन्धनं शब्द इत्युक्तम् । अथ किमस्य शब्दस्य स्वाभाविक रूपं, किंच परापेक्षमिति विवेचयन्ति- अर्थप्रकाशकत्वमस्य स्वाभाविकं प्रदीपवद्यथार्थायथार्थ- ले पुनः पुरुषगुणदोषावनुसरतः ॥१२॥ अर्थप्रकाशकत्वम् , अर्थावबोधसामर्थ्यम् । अस्य शब्दस्य। स्वाभाविक परानपेक्षम्।प्रदीपवत् । यथा हि प्रदीपः प्रकाशमानः शुभमशुभं वा यथा; सन्निहितं भावमवभासयति, तथा शब्दोऽपि वक्त्रा प्रयुज्यमानः श्रुतिव- तिनीमवतीर्णः सत्येऽनृते वा,समन्वितेऽसमन्विते वा, सफले निष्फलेवा, सिद्धे साध्ये वा वस्तुनि प्रतिपत्तिमुत्पादयतीति तावदेवास्य स्वाभाविक रूपम् । अयं पुनः प्रदीपाच्छब्दस्य विशेष -यदसौ संकेतव्युत्पत्तिम- पेक्षमाण पदार्थप्रतीतिमुपजनयति, प्रदीपस्तु तन्निरपेक्षः । यथार्थत्वा- यथार्थत्वे सत्यार्थत्वासत्यार्थत्वे पुनः प्रतिपादकनराधिकरणशुद्धत्वाशु- द्वत्वे अनुसरतः । पुरुषगुणदोषापेक्षे इत्यर्थः । तथाहि-सम्यग्दर्शिनि रवाकरावतारिकायुक्तः । शुचौ पुरुषे वक्तरि यथार्था शाब्दी प्रतीतिरन्यथा तु मिथ्यार्थेति । स्वाभाविके तु याथायें मिथ्यार्थत्वे चास्याः स्वीक्रियमाणे विप्रतार- केतरपुरुषप्रयुक्तवाक्येषु व्यभिचाराव्यभिचारनियमो न भवेत् । पुरु- षस्य च करुणादयो गुणा द्वेषादयो दोषाः प्रतीता एव । तत्र यदि पुरुषगुणानां प्रामाण्यहेतुत्वं नाभिमन्यते जैमिनीयैः, तार्ह दोषाणामप्य- प्रामाण्यनिमित्तता मा भूत् । दोषप्रशमनचरितार्था एव पुरुषगुणाः, प्रामाण्यहेतवस्तु न भवन्तीत्यत्र च कोशपानमेव शरणं श्रोत्रियाणा- मिति ॥ १२ ॥ इह यथैवान्तर्बहिर्वा भावराशिः स्वरूपमाबिन्ति, तथैव तं शब्देन प्रकाशयतां प्रयोक्तृणां प्रावीण्यमुपजायते । तं च तथाभूतं सप्तभङ्गी- समनुगत एव शब्दः प्रतिपादयितुं पटीयानित्याहुः- सर्वत्रायं ध्वनिर्विधिप्रतिषेधाभ्यां स्वार्थमभिधानः सप्त- भङ्गीमनुगच्छति ॥१३॥ सदसन्नित्यानित्यादिसकलैकान्तपक्षविलक्षणानेकान्तात्मके वस्तुनि विधिनिषेधविकल्पाभ्यां प्रवर्त्तमानः शब्दः सप्तभङ्गीमङ्गीकुर्वाण एव प्रवर्तत इति भावः ॥ १३ ॥ अथ सप्तभडीमेव स्वरूपतो निरूपयन्ति- एकत्र वस्तुन्येकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्त- योः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्कारा- ङ्कितः सप्तधा वाक्प्रयोगः सप्तभङ्गी ॥१४॥ एकत्र जीवादी वस्तुन्येकैकसत्त्वादिधर्मविषयप्रश्नवशादविरोधेन प्रत्यक्षादिबाधापरिहारेण पृथग्भूतयोः समुदितयोश्च विधिनिषेधयोः पर्यालोचनया कृत्वा स्याच्छन्दलाञ्छितो वक्ष्यमाणैः सप्तभिः प्रकारैर्व- चनविन्यासः सप्तभङ्गी विज्ञेया । भज्यन्ते भिद्यन्तेऽर्था यैस्ते भगा वचनप्रकारास्ततः सप्तभङ्गाः समाहृताः सप्तभगीति कथ्यते। नानाव- - . प्रमाणनयतवालोकालङ्कार:- स्त्वाश्रयविधिनिषेधकल्पनया शतमगीप्रसङ्गनिवर्तनाचमेकत्र वस्तुनीत्यु- पन्यस्तम् । एकत्रापि जीवादिवस्तुनि विधीयमाननिपिध्यमानानन्तधर्म- पर्यालोचनयाऽनन्तभनीप्रसक्तिच्यावर्चनार्थमेकैकधर्मपर्यनुयोगवशादि- त्युपात्तम् । अनन्तेष्वपि हि धर्मेषु प्रतिधर्म पर्यनुयोगस्य सप्तधव प्रवर्त- मानत्वात् । तत्प्रतिवचनस्यापि सप्तविधत्वमेवोपपन्नमित्यकैकस्मिन् धर्मे एकैकव सप्तभङ्गी साधीयसी । एवं चानन्तधर्मापेक्षया सप्तभङ्गी- नामानन्त्यं यदायाति, तदभिमतमेव । एतच्चाने सूत्रत एव निर्णेष्यते । प्रत्यक्षादिविरुद्धसदायेकान्तविधिप्रतिषेधकल्पनयाऽपि प्रवृत्तस्य वचन- प्रयोगस्य सप्तभङ्गीत्वानुषङ्गभङ्गार्थमविरोधेनेत्यभिहितम् । अवोचाम च- या प्रमाद्विधिपर्युदासभिदया वाघच्युता सप्तधा धर्म धर्ममपक्ष्य वाक्यरचनाऽनेकात्मके वस्तुनि । निर्दोषा निरदेशि देव! भवता सा सप्तभङ्गी यया जल्पन् जल्परणागणे विजयते वादी विपक्षं क्षणात् ॥१॥ इदं च सप्तभङ्गीलक्षणं प्रमाणनयसप्तभन्योः साधारणमवधार- णीयम् । विशेषलक्षणं पुनरनयोरने वक्ष्यते ॥१४॥ अथास्यां प्रथमभगोलेखं तावदर्शयन्ति- तद्यथा-स्यादस्त्येव सर्वमिति विधिविकल्पनया प्रथमो स्यादित्यन्ययमनेकान्तावद्योतकं स्यात्कथञ्चित्वद्रव्यक्षेत्रकालमा- वरूपेणास्त्येव सर्व कुम्भादि, न पुनः परद्रव्यक्षेत्रकालभावरूपेण । तथाहि- कुम्भो द्रव्यतः पार्थिवत्वेनास्ति, न जलादिरूपत्वेन; क्षेत्रतः पाटलिपुत्र- कत्वेन, न कान्यकुब्जादित्वेन, कालतः शशिरत्वेन, नवासन्तिकादित्वेन; भावत. श्यामत्वेन, न रक्तवादिना । अन्यथेतररूपापत्त्या स्वरूपहा- निप्रसङ्ग इति । अवधारणं चात्र भङ्गेऽनभिमतार्थन्यावृत्त्यर्थमुपात्तम् । इतरथाऽनभिहिततुल्यतैवास्य वाक्यस्य प्रसज्येत, प्रतिनियतस्वार्थानभि- धानात् ।

रवाकरावतारिकायुक्तः। तदुक्तम्- "वाक्येऽवधारणं तावदनिष्टार्थनिवृत्तये । फर्तव्यमन्यथाऽनुक्तसमत्वात् तस्य कुत्रचित्॥१॥ तथाऽप्यस्त्येव कुम्भ इत्येतावन्मात्रीपादाने कुम्भस्य स्तम्भाद्यस्तित्वे. नापि सर्वप्रकारेणास्तित्वप्राप्तेः प्रतिनियतस्वरूपानुपपत्तिः स्यात् , तत्प्र- तिपत्तये स्यादिति प्रयुज्यते,स्यात्कथञ्चित्वद्रव्यादिभिरवायमस्ति, न पर- द्रव्यादिभिरपीत्यर्थः। यत्रापि चासौन प्रयुज्यते तत्रापि व्यवच्छेदफलैव- कारवद् बुद्धिमद्भिः प्रतीयत एव । यदुक्तम्- “ सोऽप्रयुक्तोऽपि वा तज्ज्ञैः सर्वत्रार्थात्प्रतीयते । यथैवकारो योगादिव्यवच्छेदप्रयोजनः॥१॥ १५॥ अथ द्वितीयभङ्गोल्लेखं ख्यापयन्ति- स्यान्नास्त्येव सर्वमिति निषेधकल्पनया द्वितीयः ॥१६॥ स्वद्रव्यादिभिरिव परद्रव्यादिभिरपि वस्तुनोऽसत्त्वानिष्टौ हि प्रति- नियतस्वरूपाभावाद्वस्तुप्रतिनियमविरोधः । नचास्तित्वैकान्तवादिभिरत्र नास्तित्वमसिद्धमित्यभिधानीयम् । कथञ्चित्तस्य वस्तुनि युक्तिसिद्धत्वा- साधनवत् । नहि क्वचिदनित्यत्वादौ साध्ये सत्त्वादिसाधनस्यास्तित्वं वि- पक्षे नास्तित्वमन्तरेणोपपन्नम्। तस्य साधनाभासत्वप्रसङ्गात् । अथ यदेव नियतं साध्यसद्भावेऽस्तित्वं तदेव साध्याभावे साधनस्य नास्तित्वमभि- धीयते; तत्कथं प्रतिषेध्यम् ? स्वरूपस्य प्रतिषेधत्वानुपपत्तेः, साध्यसद्भावे नास्तित्वं तु यत्तत्प्रतिषेध्यम् , तेनाविनाभावित्वे साध्यसद्भावास्तित्वस्य व्याघातात्तेनैव स्वरूपेणास्ति नास्ति चेति प्रतीत्यभावादिति चेत् । तदसत्। एवं हेतोखिरूपत्वविरोधात् । विपक्षासत्त्वस्य तात्त्विकस्याभावात् । यदि चायं भावाभावयोरेकत्वमाचक्षीत; तदा सर्वथा न कचित्प्रवर्तेत । नापि कुतश्चिन्निवत । प्रवृत्तिनिवृत्तिविषयस्य भावस्याभावपरिहारेणासंभवात्, अमावस्य च भावपरिहारेणेति वस्तुनोऽस्तित्वनास्तित्वयो रूपान्तरत्व- ६२ प्रमाणनयतत्वालोकालङ्कार:- मेष्टव्यम् । सथाचास्तित्वं नास्तित्वेन प्रतिषेध्येनाविनाभावि सिद्धम् । यथा च प्रतिषेध्यमस्तित्वस्य नास्तित्वं तथा प्रधानमावतः क्रमार्पितो- भयत्वादिधर्मपञ्चकमपि वक्ष्यमाणं लक्षणीयम् ॥ १६ ॥ अथ तृतीयं भगमुल्लेखतो व्यक्तीकुर्वन्ति- स्थादस्त्येव स्यान्नास्त्येवेति क्रमतो विधिनिषेधकल्पनया तृतीयः ॥ १७ ॥ सर्वमिति पूर्वसूत्रादिहोत्तरत्र चानुवर्तनीयम् । ततोऽयमर्थः। क्रमा- र्पितवपरद्रव्यादिचतुष्टयापेक्षया क्रमार्पिताभ्यामस्तित्वनास्तित्वाभ्यां वि- शेषितं सर्व कुम्भादि वस्तु स्यादस्त्येव स्यान्नास्त्येवेत्युल्लेखेन वक्तव्य- मिति ॥ १७ ॥ इदानी चतुर्थभगोल्लेखमाविर्भावयन्ति- स्यादवक्तव्यमेवेति युगपद्विधिनिषेधकल्पनया चतुर्थः ॥ १८ ॥ द्वाभ्यामस्तित्वनास्तित्वाख्यधर्माभ्यां युगपत्प्रधानतयाऽर्पिताभ्यामे- कस्य वस्तुनोऽभिधित्सायां तादृशस्य शब्दस्यासंभवादवक्तव्यं जीवादि वस्त्विति । तथाहि सदसत्त्वगुणद्वयं युगपदेकत्र सदित्यभिधानेन वक्तुमशक्यम् । तस्यासत्त्वप्रतिपादनासमर्थत्वात्। तथैवासदित्यभिधानेन न तद्वक्तुं शक्यम् । तस्य सत्त्वप्रत्यायने सामर्थ्याभावात् । साङ्केतिक- मेकं पदं तदभिधातुं समर्थमित्यपि न सत्यम् । तस्यापि क्रमेणार्थद्वयप्र- सायने सामोपपत्तेः। शतृशानचौ सदिति शतृशानचोः सङ्केतितसच्छ- च्दवत् । द्वन्द्ववृत्तिपदं तयोः सकृदभिधायकमित्यप्यनेनापास्तम्। सदसत्त्वे इत्यादि पदस्य क्रमेण धर्मद्वयप्रत्यायने समर्थत्वात् । कर्मधारयादिवृत्ति- पदमपि न तयोरभिधायकं तत एव वाक्यं तयोरभिधायकमनेनैवापा- स्तमिति सकलवाचकरहितत्वादवक्तव्यं वस्तु युगपत् सदसत्त्वाभ्यां प्रधा- नभावार्पिताभ्यामाक्रान्तं व्यवतिष्ठते । अयं च भङ्गः कैश्चित्तृतीयभग-

-
रत्नाकरावतारिकायुक्तः ।
स्थाने पठ्यते, तृतीयश्चैतस्य स्थाने । नचैवमपि कश्चिदोषः; अर्थविशे-
षस्याभावात् ।। १८॥
अथ पञ्चमभङ्गोल्लेखमुपदर्शयन्ति-
स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगप-
द्विधिनिषेधकल्पनया च पञ्चमः ॥ १९ ॥
स्वद्रव्यादिचतुष्टयापेक्षयाऽस्तित्वे सत्यस्तित्वनास्तित्वाभ्यां सह वक्तु-
मशक्यं सर्व वस्तु । ततः स्यादस्त्येव स्यादवक्तव्यमेवेत्येवं पञ्चमभङ्गे-
तोपदर्यत इति ।। १९ ।।
अथ षष्ठभङ्गोल्लेख प्रकटयन्ति-
स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युग-
पद्विधिनिषेधकल्पनया च षष्ठः ॥ २० ॥
परद्रव्यादिचतुष्टयापेक्षया नास्तित्वे सत्यस्तित्वनास्तित्वाभ्यां योग-
येन प्रतिपादयितुमशक्यं समस्तं वस्तु । ततः स्यान्नास्त्येव स्यादवक्त-
ग्यमेवेत्येवं षष्ठभड्रेन प्रकाश्यते ॥२०॥
संप्रति सप्तमभङ्गमुल्लिखन्ति-
स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति क्रमतो वि.
धिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च
सप्तम इति ॥२१॥
इतिशब्दः सप्तभङ्गीसमाप्त्यर्थः । स्वपरद्रव्यादिचतुष्टयापेक्षयाऽस्ति-
वनास्तित्वयोः सतोरस्तित्वनास्तित्वाभ्यां समसमयमभिधातुमशक्यम-
चलं वस्तु तत एवमनन भङ्गेनोपदयते ॥२१॥
अथास्यामेव सप्तभङ्ग्यामेकान्तविकल्पानिराचिकीर्षवः सूत्राण्याहुः-
विधिप्रधान एव ध्वनिरिति न साधु ॥२२॥
प्राधान्येन विधिमेव शब्दोऽभिधत्ते इति न युक्तम् ॥२२॥

प्रमाणनयतत्त्वानोकालकार:- अत्र हेतुमाहुः- निषेधस्य तस्मादप्रतिपत्तिप्रसक्तेः ॥२३॥ तस्मादितिशब्दात् ॥२३॥ आशङ्कान्तरं निरस्यन्ति- अप्राधान्येनैव ध्वनिस्तमभिधत्ते इत्यप्यसारम् ॥२०॥ तमिति निषेधम् ॥२४॥ अत्र हेतुमाचक्षते- कचित्कदाचित्कथञ्चित्प्राधान्येनाप्रतिपन्नस्य तस्याप्रा. धान्यानुपपत्तेः ॥२५॥ न खलु मुख्यत: स्वरूपेणाप्रतिपन्नं वस्तु कचिप्रधानभावमनु- भवतीति ॥२५॥ इत्थं प्रथमभङ्गैकान्तं निरस्येदानी द्वितीयभरैकान्तनिरासमति- दिशन्ति- निषेधप्रधान एव शब्द इत्यपि प्रागुक्तन्यायादपास्तम्॥२६॥ व्यक्तम् ।।२६॥ अथ तृतीयमङ्गैकान्तं पराकुर्वन्ति- क्रमादुभयप्रधान एवायमित्यपि न साधीयः ॥२७॥ अयमितिशब्दः ॥२७॥ एतदुपपादयन्ति- अस्य विधिनिषेधान्यतरप्रधानत्वानुभवस्याप्यबाध्यमा- नत्वात् ॥२८॥ प्रथमद्वितीयभङ्गगतैकैकप्रधानत्वप्रतीतेरप्यवाधितत्वान्न तृतीयभन्है- कान्ताभ्युपगम. श्रेयान् ॥२८॥ अथ चतुर्थभरैकान्तपराभवाय प्राहुः- युगपद्विधिनिषेधात्मनोऽर्थस्यावाचक एवासाविति -

बाफरावतारिकायुक्तः ।
६५
च न चतुरस्त्रम् ॥२९॥
स्यादवक्तव्यमेवेति चतुर्थभङकान्तो न श्रेयानित्यर्थः ॥२९॥
कुत इत्याहुः--
तस्यावक्तव्यशब्देनाप्यवाच्यत्वप्रसङ्गात् ॥३०॥
अथ पञ्चमभरैकान्तमपास्यन्ति-
विध्यात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगपदवाचक
एव स इत्येकान्तोऽपि न कान्तः ॥३१॥
अत्र'निमित्तमाहुः-
निषेधात्मनः सह द्वयात्मनश्वार्थस्य वाचकत्वावाचकला-
भ्यामपि शब्दस्य प्रतीयमानत्वात् ॥३२॥
निषेधात्मनोऽर्थस्य वाचकत्वेन सह, विधिनिषेधात्मनोऽर्थस्यावाच-
कत्वेन च शब्दः षष्ठभङ्गे प्रतीयते यतः, ततः पञ्चमभ.कान्वोऽपि
त श्रेयान् ॥३२॥
षष्ठभङ्गैकान्तमपाकुर्वन्ति-
निषेधात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगपदवा-
चक एवायमित्यप्यवधारणं न रमणीयम् ॥३३ ।।
अत्र हेत्तुमुपदर्शयन्ति-
इतरथाऽपि संवेदनात् ॥ ३४॥
आद्यभङ्गादिषु विध्यादिप्रधानतयाऽपि शब्दस्य प्रतीयमानत्यादि-
त्यर्थः ॥ ३४ ॥
अथ सप्तमभरैकान्तमपाकुर्वन्ति-
क्रमाक्रमाभ्याभुभयस्वभावस्य भावस्य वाचकश्वावाचकश्व
ध्वनि न्यथेत्यपि मिथ्या ॥ ३५॥

प्रमाणनयतत्त्वालोकालकार:-
अन्न वीजमाख्यान्ति-
विधिमात्रादिप्रधानतयाऽपि तस्य प्रसिद्धेः ॥ ३६॥
नन्चेकस्मिन् जीवादी वस्तुन्यनन्तानां विधीयमाननिषिध्यमानानां
धर्माणामङ्गीकरणादनन्ता एव वचनमार्गाः स्याद्वादिनां भवेयुः, वाच्ये-
यचाऽऽयत्तत्वाद् वाचकेयत्तायाः, ततो विरुद्धव सप्तभङ्गीति ब्रुवाणं
निरस्थन्ति-
एकत्र वस्तुनि विधीयमाननिषिध्यमानानन्तधर्माभ्युपग-
मेनानन्तंभङ्गीप्रसङ्गादसङ्गतैव सप्तभङ्गीति न चेतसि
निधेयम् ॥ ३७॥
अन हेतुमाहुः-
विधिनिषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुन्यनन्तानामपि
सप्तभङ्गीनामेव संभवात् ॥३८॥
एकैकं पर्यायमाश्रित्य वस्तुनि विधिनिषेधविकल्पाभ्यां व्यस्तसम-
ताभ्यां सप्नव भङ्गाः संभवन्ति, न पुनरनन्ताः । तत्कथमनन्तभङ्गी-
प्रसङ्गादसगतलं सप्तमङ्गयाः समुद्भाव्यते ? ॥ ३८ ॥
कुतः सप्तैव भगाः संभवन्तीसाहुः-
प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव संभवात् ।।
एतदपि कुत इत्याहुः-
तेषामपि सप्तत्त्रं सप्तविधतजिज्ञासानियमात् ॥४॥
अथ सप्तविधतन्निज्ञासानियमे निमित्तमाहुः-
तस्या अपि सप्तविधत्वं सप्तधैव तत्सन्देहसमुत्पादात ॥४१
वत्या अपीति प्रतिपाद्यजिज्ञासायाः। तत्संदेहसमुत्पादादिति प्रति
पाद्यसंगयसमुत्पत्तेः ॥४१॥

स्वाकरावतारिकायुक्तः। ६७. . सन्देहस्यापि सप्तधात्वे कारणमाहुः- तस्यापि सप्तप्रकारत्वनियमः खगोचरवस्तुधर्माणां सप्तविधत्वस्यैवोपपत्तेः॥ ४२ ॥ तस्य प्रतिपाद्यगतसन्देहस्य । स्वगोचरवस्तुधर्माणां सन्देहविषयी- छत्तानामस्तित्वादिवस्तुपर्यायाणाम् ।।४२।। इय सप्तभङ्गी किं सकलादेशस्वरूपा, विकलादेशस्वरूपा चेत्यारेका पराकुर्वन्ति- इयं सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा विकला- देशस्वभावा च ॥४३॥ एकैको भङ्गोऽस्या. संबन्धी सकलादेशस्वभावः, विकलादेशस्वमा- वश्चेत्यर्थः ॥४३॥ अथ सकलादेश लक्षयन्ति- प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेद- वृत्तिप्राधान्यादभेदोपचाराद्वा योगपद्येन प्रतिपादक वचः सकलादेशः॥४॥ कालादिभिरष्टाभिः कृत्वा यदभेदवृत्तधर्मधर्मिणोरपृथग्भावस्य प्रा- धान्यं तस्मात्, कालादिभिभिन्नात्मनामपि धर्मधर्मिणामभेदाध्यारोपाद्वा समकालमभिधायकं वाक्यं सकलादेशः प्रमाणवाक्यमित्यर्थः। अयमर्थ:- योगपद्येनाशेषधर्मात्मकं वस्तु कालादिभिरभेदवृत्त्या, अभेदोपचारेण वा प्रतिपादयति सकलादेशः, तस्य प्रमाणाधीनत्वात्। विकलादेशस्तु क्रमेण भेदोपचाराद्,भेदप्राधान्याद्वा तदभिधत्ते, तस्य नयायत्तत्वात् । कः पुनः क्रमः? किं वायोगपद्यम् । यदाऽस्तित्वादिधर्माणां कालादिभिर्मेदविवक्षा, तदैकस्य शब्दस्यानेकार्थप्रत्यायने शक्त्यमावात् क्रमः; यदा तु तेषामेव धर्माणां कालादिभिरभेदेन वृत्तमात्मरूपमुच्यते, तदैकेनापि शब्देनक- धर्मप्रत्यायनमुखेन तदात्मकतामापन्नस्यानेकाशेषरूपस्य वस्तुनः प्रति- प्रमाणनयतवालोकालकार:- पादनसंभवाद्योगपद्यम् । के पुनः कालादयः ? कालः, आत्मरूपं, अर्थः, संबन्धः, 'उपकारः, गुणिदेशः, संसर्गः, शब्दः, इत्यष्टौ । तत्र स्याज्जीवादि वस्त्वस्येवत्यत्र यत्कालमस्तित्वं तत्कालाः शेपानन्तधर्मा वस्तुन्येकडेति तेषां कालेनाभेदवृत्तिः १ । यदेव चास्तित्वस्य तद्गुणत्व-, मात्मरूपम् , तदेव चान्यानन्तगुणानामपीत्यात्मरूपेणाभेदवृत्तिः। य एव चाधारोऽर्थो द्रव्याख्योऽस्तित्वस्य, स एवान्यपर्यायाणामित्यर्थेनाभेद- वृत्तिः३। य एव चाविष्वग्भावः कथञ्चित्तादात्म्यलक्षणः संवन्धोऽस्ति- त्वस्य, स एवाशेषविशेषाणामिति संवन्धेनाभेदवृत्तिः४। य एव चोपका- रोऽस्तित्वेन स्वानुरक्तत्वकरणम्, स एव शेषैरपि गुणरित्युपकारेणाभेद- वृत्तिः५। य एव गुणिनः संवन्धी देशः क्षेत्रलक्षणोऽस्तित्वस्य, स एवा- न्यगुणानामिति गुणिदेशेनाभेदवृत्तिः ६ । य एव चैकवस्त्वात्मनाऽस्त्वि- त्वस्य संसर्गः, स एवाशेषधर्माणामिति संसर्गेणामेदवृत्तिः । ननु प्रागु- क्तसंबन्धादस्य का प्रतिविशेषः? उच्यते। अभेदप्राधान्येन भेदगुणभावेन चप्रागुक्त. संबन्धः, भेदप्राधान्येनाभेदगुणभावेन चैप संसर्ग इति ७ ! य एवास्तीति शब्दोऽस्तित्वधर्मात्मकस्य वस्तुनो वाचकः, स एव शेषा- नन्तधर्मात्मकस्यापीति शब्देनाभेदवृत्तिः ८ ॥ पर्यायार्थिकनयगुणभावे द्रव्याथिकनयप्राधान्यादुपपद्यते । द्रव्यार्थिकगुणभावन पर्यायार्थिकप्रा- धान्ये तु नगुणानामभेदवृत्तिः संभवति, समकालमेकत्र नानागुणानाम- संभवात् ,संभवे वा तदाश्रयस्य तावद्वा भेद्प्रसङ्गात् १।नानागुणानां संव- धिन आत्मरूपस्य च भिन्नत्वात्, आत्मरूपाभेदेतेषां भेदस्य विरोधात् २१ स्वाश्रयस्यार्थस्यापिनानात्वात् , अन्यथा नानागुणाश्रयत्वविरोधात्३ । संव- न्धस्य चसंवन्धिभेदेन भेददर्शनात्, नानासंवन्धिभिरेक–कसंवन्धाघट- नात्४।तैः क्रियमाणस्योपकारस्य च प्रतिनियतरूपस्यानेकत्वात् , अनेकैरु- पकारिभः क्रियमाणस्योपकारस्यैकस्य विरोधात् ५ गुणिदेशस्य च प्रति- गुणं भेदात्, तदुभेदे भिन्नार्थगुणानामपि गुणिदेशाभेप्रसङ्गात् ६|संसर्ग- स्य च प्रतिसंसार्ग भेदात्, तदभेदे संसर्गिभेदविरोधात् ७ । शब्दस्य च प्रतिविषयं नानात्वात, सर्वगुणानामेकशब्दवाच्यतायां सर्वार्थानामेकश- ब्दवाच्यताऽऽपत्तेःशब्दान्तरवैफल्यापत्ते.८॥ तत्त्वतोऽस्तित्वादीनामेकत्र रत्नाकरावारिकायुक्तः। वस्तुन्येवमभेदवृत्तेरसंभवे कालादिभिभिन्नात्मनामभेदोपचारः क्रियते । तदेताभ्यामभेदवृत्त्यभेदोपचाराभ्यां कृत्वा प्रमाणप्रतिपन्नानन्तधर्मात्म- कस्य वस्तुनः समसमयं यदभिधायकं वाक्यं स सकलादेशः प्रमा- वाक्यापरपर्याय इति स्थितम् । "कालात्मरूपसंबन्धाः संसर्गोपक्रिये तथा । गुणिदेशार्थशब्दाश्चेत्यष्टौ कालादयः स्मृताः" ॥१॥४४॥ अधुना नयवाक्यस्वभावत्वेन नयविचारावसरलक्षणीयस्वरूपमपि विकलादेश सकलादेशस्वरूपनिरूपणप्रसङ्गेनात्रैव लक्षयन्ति- तद्विपरीतस्तु विकलादेशः॥४५॥ नयविषयीकृतस्य वस्तुधर्मस्य भेदवृत्तिप्राधान्याद्, भेदोपचाराद्वा क्रमेण यदभिधायक वाक्यम् , स विकलादेशः। एतदुल्लेखस्तु नयस्वरूपा- नभिज्ञश्रोतृणां दुरवगाह इति नयविचारावसर एव प्रदर्शयिष्यते॥४५॥ प्रमाणं निर्णीयाथ यतः कारणात् प्रतिनियतमर्थमेतब्यवस्थापयति, तत्कथयन्ति- तद् द्विभेदमपि प्रमाणमात्मीयप्रतिबन्धकापगमविशेषस्व- रूपसामर्थ्यतः प्रतिनियतमर्थमवद्योतयति ॥ ४६॥ प्रत्यक्षपरोक्षरूपतया द्विप्रकारमपि प्रागुपवर्णितस्वरूपं प्रमाणं स्वकी- यज्ञानावरणाद्यदृष्टविशेषक्षयक्षयोपशमलक्षणं योग्यतावशात्प्रतिनियतं नीलादिकमर्थ व्यवस्थापयति ।। ४६ ।। एतब्यवच्छेद्यमाचक्षते- न तदुत्पत्तितदाकारताभ्याम् , तयोः पार्थक्येन सामस्त्ये- न च व्यभिचारोपलम्भात् ॥४७॥ तथाहि- ज्ञानस्य तदुत्पत्तितदाकारताभ्यां व्यस्ताभ्यां, समस्ताभ्यां वा प्रतिनियतार्थव्यवस्थापकत्वं स्यात् । यदि प्राच्यः पक्षः, तदा कपा- लक्षणः कलशान्त्यक्षणस्य व्यवस्थापकः स्यात्, तदुत्पत्तेः केवलायाः सद्भावात् । स्तम्भः स्तम्भान्तरस्य च व्यवस्थापकः स्यात्, तदाकारता- - , प्रमाणनयतत्वालोकालङ्कार:- यास्तदुत्पत्तिरहितायाः संभवात् । अथ द्वितीयः, तदा कलशस्योत्तरक्षणः पूर्वक्षणस्य व्यवस्थापको भवेत् , समुदितयोस्तदुत्पत्तितदाकारतयोविद्य- मानत्वात्। अथ विद्यमानयोरप्यनयोर्ज्ञानमेवार्थस्य व्यवस्थापकम् ; नार्थः, तस्य जडत्वादिति मतम्। तदपि न न्यायानुगतम् , समानार्थसमनन्तर- प्रत्ययोत्पन्नज्ञानैर्व्यभिचारात् । तानि हि यथोक्तार्थव्यवस्थापकत्वलक्षणस्य समग्रस्य सद्भावेऽपि प्राच्य जनकज्ञानक्षणं न गृहन्ति । अपि च । किमिदम- कारत्वं वेदनानां? यद्वशात्प्रतिनियतार्थपरिच्छेद स्यात् । किमर्थाकारो- ल्लेखित्वम् , अर्थाकारधारित्वं वा । प्रथमप्रकारे, अर्थाकारोल्लेखोऽर्थाका- रपरिच्छेद एव, ततश्च ज्ञान प्रतिनियतार्थपरिच्छेदात्प्रतिनियतमर्थमवद्यो- तयतीति साध्या विशिष्टत्वं स्पष्टमुपढौकते। द्वितीयप्रकारे पुनराकारधा- रित्वं ज्ञानस्य सर्वात्मना, देशेन वा । प्रथमपक्ष, जडत्वादर्थस्य ज्ञानमपि जडं भवेत् , उत्तरार्थक्षणवत् । प्रमाणरूपत्वाभावश्चोत्तरार्थक्षणवदेवास्य प्रस- ज्येत, सर्वात्मना प्रमेयरूपताऽनुकरणात् । अथ देशेन नीलत्वादिनाऽर्थाका- रधारिलमिष्यते ज्ञानस्य, तर्हि तेनाजडाकारेण जडताप्रतिपत्तेरसंभवात् कथं तद्विशिष्टत्वमर्थस्य प्रतीयेत? न हि रूपज्ञानेनाप्रतिपन्नरसेन तद्विशि- टता सहकारफलादौ प्रतीयते । किंच। देशेनाकारधारित्वान्नीलार्थवन्नि:- शेषार्थानामपि ज्ञानेन ग्रहणापत्तिः, सत्त्वादिमात्रेण तस्य सर्वत्रार्थाका- रधारित्वाविशेषात् । अथ तदविशेषेऽपि नीलाद्याकारवलक्षण्यान्निखिला- र्थानामग्रहणम् , तर्हि समानाकाराणां समस्तानां ग्रहणप्राप्तिः । अथ यत एंव ज्ञानमुत्पद्यते, तस्यैवाकारानुकरणद्वारेण ग्राहकम् , हन्त ! एवमपि समानार्थसमनन्तरप्रत्ययस्य ताहकं स्यादित्युक्तम् । ततो न तदुत्पत्ति- तदाकारताभ्यां ज्ञानस्य प्रतिनियतार्थावभासः, किंतु प्रतिवन्धकापगम- विशेषादिति सिद्धम् ॥४७॥ इति प्रमाणनयतत्त्वालोकालङ्कारे श्रीरत्नपभाचार्यविरचितायां रत्नाकरावतारिकाख्यलघुटीकायामागमस्वरूपनिर्णयो नाम चतुर्थः परिच्छेदः ।

अहम अथ पञ्चमः परिच्छेदः। इत्थं प्रमाणस्य स्वरूपसंख्ये समाख्याय विषयमाचक्षते- तस्य विषयः सामान्यविशेषाद्यनेकान्तात्मकं वस्तु ॥१॥ सस्य प्रमाणस्य । विसीयन्ते निबध्यन्ते विषयिणोऽस्मिन्निति विषयो गो- चरः परिच्छेद्यमिति यावत् । सामान्यविशेषौ वक्ष्यमाणलक्षणावादिर्यस्य सदसदाधनेकान्तस्य तत्तदात्मकं तत्वरूप वस्त्विति । एवं च केवलस्य सा- मान्यस्य, विशेषस्य, तदुभयस्य वा स्वतन्त्रस्य प्रमाणविषयत्वं प्रतिक्षिप्तं भव- ति । अथतदाकर्ण्य कर्णाम्रडपीडिता इव यौगाः संगिरन्ते । नन्वहो जैनाः! केनेदं सुहृदा कर्णपुटविटङ्कितमकारि युष्माकम् , स्वतन्त्र सामान्यविशेषौ नप्रमाणभूमिरिति । सर्वगतं हि सामान्य गोत्वादि, तद्विपरीतास्तु शव- लशाबलेयबाहुलेयादयो विशेषाः, ततः कथमेषामैक्यमाकर्णयितुमपि स- कर्णैः शक्यम् ? । तथा च सामान्यविशेषावत्यन्तभिन्नौ, विरुद्धधर्माध्य- स्तत्वात् ,यावेवं तावेवम् , यथा पाथःपावकौ, तथा चैती, तस्मात्तथा, ततो न सामान्यविशेषात्मकत्व घटादेर्घटते । तदेतत्परमप्रणयपरायणप्रणयि- नीप्रियालापप्रायं वासवेश्मान्तरेव राजते। तथाहि-यदिदं सर्वगतत्वं सामा- न्यस्य न्यरूपि, तत् किं व्यक्तिसर्वगतत्वम् , सर्वसर्वगतत्वं वा स्वीकृत्य । यदि प्राक्तनम् , तदा तर्णकोत्पाददेशे तदविद्यमान वर्णनीयम्, अन्यथा व्यक्तिसर्वगतत्वव्याघातात्। तत्रोत्पन्नायां च व्यक्ती कुतस्तत् तत्रभवेत् ? किं व्यक्त्या सहैवोत्पद्येत, व्यक्त्यन्तराद्वा समागच्छेत् ?! नाद्य. पक्षः, नित्यत्वेनास्य स्वीकृतत्वात् । द्वितीयपक्षे तु ततस्तदागच्छत् पूर्वव्यक्ति परित्यज्यागच्छेत् , अपरित्यज्य वा। प्राचिकविकल्पे, प्राक्तनव्यक्तनि सा- मान्यताऽऽपत्तिः । द्वितीयपक्षेतु किं व्यक्त्या सहवागच्छेत्, केनचिदंडोन वा । आये शावलेयेऽपि वाहुलेयोऽयमिति प्रतीतिः स्वात् । द्वितीयपक्षे तु सामान्यस्य सांशताऽऽपत्तिः,सांशवे चास्य व्यक्तिवदनियत्वप्राप्तिः।अय ७२ प्रमाणनयतत्वालोकालङ्कार:- , विचित्रावस्तूनाशक्तिःयथा मन्त्रादिसंस्कृतमस्त्रमुदरस्थ व्याधिविशेषछि- नत्ति, नोदरम्; तद्वदिहापि सामान्यस्येशी शक्तिः, यथा स्वहेतुभ्यःसमु. स्पद्यमानेऽर्थे पूर्वस्थानादचलदेव तत्र वर्त्तत इति चेत् । स्यादेतदेवम् , यद्ये- कान्तेनैक्यं सामान्यस्य॑ प्रमाणेन प्रसिद्धं स्यात् नचैवम् , तस्यैव तत्त्वतो विचारयितुमुपक्रान्तत्वात् । तथाहि-यद्यस्यैकान्तैक्य कीर्त्यते, तदा भिन्न- देशकालासु व्यक्तिपु वृत्तिर्न स्यादिति । यदि तु स्वभाववादालम्वनमात्रे- वेयमुपपाद्यते, तदा किममुना सामान्येन ?, किंतरां वाऽन्येनापि सूयसा वस्तुना परिकल्पितेन ?। एकैव काचित् पद्मनिधीयमाना व्यक्ति रभ्युपगम्यताम् । सा हि तथास्वभावत्वात् तथा तथा प्रथिष्यत इति लाभाभिलापुकस्य मूलोच्छेदः । तन्न व्यक्तिसर्वगतत्वमेतस्य सङ्गतिगो- चरीभावमभजत् । नापि सर्वसर्वगतत्वम् , खण्डमुण्डादिव्यक्त्यन्तराले- ऽपि तदुपलम्भप्रसङ्गात् । अव्यक्तत्वात्तत्र तस्यानुपलम्भ इति चेत्, व्यक्ति- खात्मनोऽप्यनुपलम्भोऽत एव तत्रास्तु । अन्तराले व्यक्त्यात्मनः सद्भा- वावेदकप्रमाणाभावादसत्त्वादेवानुपलम्भे, सामान्यस्यापि सोऽसत्त्वादेव तत्रास्तु, विशेषाभावात् । किंच। प्रथमव्यक्तिसमाकलनवेलायां तदभि- व्यक्तस्य सामान्यस्य सर्वात्मनाऽभिव्यक्तिर्जातैव, अन्यथा व्यक्ताव्यक्तस्व- भावभेदेनानेकत्वानुषगादसामान्यस्वरूपताऽऽपत्तिः । तस्मादुपलब्धिल- क्षणप्राप्तस्य खव्यक्त्यन्तराले सामान्यस्यानुपलम्भादसत्त्वम् , व्यक्तिस्वा- त्मवत् । अपि च । अव्यक्तत्वात् तत्र तस्यानुपलम्भस्तदा सिध्येद्, यदि व्यक्त्यभिव्यङ्ग्यवासामान्यस्य सिद्धा स्यात्, नचैवम् , नित्यैकरूपस्या- स्याभिव्यक्तरेवानुपपत्तेः। तथाहि व्यक्तिरुपकारं कश्चित्कुर्वती सामान्य- मभिव्यञ्जयेत् , इतरथा वा । कुर्वती चेत्, कोऽनया तस्योपकारः क्रियते। तज्ज्ञानोत्पादनयोग्यताचेत्, साततो भिन्ना, अभिन्ना वा विधीयेत । भिन्ना चेत्, तत्करणे सामान्यस्य न किञ्चित्कृतमिति तदवस्थाऽस्यानभिव्याक्तिः। अभिन्ना चेत, तत्करणे सामान्यमेव कृतं स्यात् , तथा चानित्यत्वप्राप्तिः । तज्ज्ञानं चेदुपकारः, तार्ह कथं सामान्यस्य सिद्धिः?, अनुगतज्ञानस्य व्य- क्तिभ्य एव प्रादुर्भावात् । तत्सहायस्यास्यैवान व्यापार इत्यपि श्रद्धामात्रम्। यतो यदि घटोत्पत्तौ दण्डाद्युपेतकुम्भकारवद् व्यक्त्युपेतं सामान्यमनु- रवाकरावतारिकायुक्तः । ৩২ गतज्ञानोत्पत्ती व्याप्रियमाणं प्रतीयेत, तदा स्यादेतत् , तय नास्त्येव । न किश्चित् कुर्वत्याश्च व्यजकत्वे, विजातीयव्यक्तेरपि व्यञ्जकत्वप्रसङ्गः । तन्नान्यक्तत्वात् तत्र तस्यानुपलम्भ., किन्त्वसत्त्वादेव; इति न सर्व- सर्वगतमप्येतद्भवितुमर्हति, किन्तु प्रतिव्यक्ति कथञ्चिद्विभिन्नम्, कथ- श्चित्तदात्मकत्वाद्, विसदृशपरिणामवत् । यथैव हि काचिद्व्यक्तिरुप- लभ्यमानाढ्यक्त्यन्तराद्विशिष्टा विसदृशपरिणामदर्शनादवतिष्ठते, तथा सदृशपरिणामात्मकसामान्यदर्शनात् समानेति, तेनायं समानो गौः, सोऽनेन समान इति प्रतीतेः । नच व्यक्तिस्वरूपादभिन्नत्वात् सामा- न्यरूपताव्याघातोऽस्य, रूपादेरप्यत एव गुणरूपताव्याघातप्रसङ्गात् । कथञ्चिद्व्यतिरेकस्तु रूपादेरिव सदृशपरिणामस्याप्यस्त्येव । ननु प्रथम- व्यक्तिदर्शनवेलायां कथं न समानप्रत्ययोत्पत्तिः, तत्र सदृशपरिणामस्य भावादिति चेत्, तवापि विशिष्टप्रत्ययोत्पत्तिस्तदानी कस्मान्न स्याद् ?, वैसदृश्यस्यापि भावात् । परापेक्षलात् तस्याप्रसङ्गोऽन्यत्रापि तुल्यः । समानप्रत्ययोऽपि हि परापेक्षः, परापेक्षामन्तरेण कचित् कदाचि- दप्यभावात्, अणुमहत्त्वादिप्रत्ययवत् । विशेषा अपि नैकान्तेन सामा- न्याद्विपरीतधर्माणो भवितुमर्हन्ति । यतो यदि सामान्यं सर्वगतं सिद्धं भवेत्, तदा तेषामव्यापकत्वेन ततो विरुद्धधर्माध्यासः स्यात्, नचैवम्, सामान्यस्य विशेषाणां च कश्चित्परस्पराव्यतिरेकेणैकानेकरूपतया- वस्थितत्वात् । विशेषेभ्योऽव्यतिरिक्तत्वाद्धि सामान्यमप्यनेकमिष्यते, सामान्यात्तु विशेषाणामव्यतिरेकात्तेऽप्येकरूपा इति । एकत्वं च सामा- न्यस्य संग्रहनयार्पणात् सर्वत्र विज्ञेयम् । प्रमाणार्पणात्तस्य सहशप- रिणामरूपस्य विसदृशपरिणामवत् प्रतिव्यक्ति भेदात् । एवं चासिद्धं सर्वथा विरुद्धधर्माध्यस्तत्वं सामान्यविशेषयोः । यदि पुन. कथञ्चिदेव विरुद्धधर्माध्यस्तत्वं हेतुश्चिकीर्षितम् , तदा विरुद्धमेव, कथांचद्विरुद्ध- धर्माध्यासस्य कथंचिदेनैवाविनाभूतत्वात् । पाथःपावकस्वरूपो दृष्टा- न्तोऽप्युभयविकलः, तयोरपि कथंचिदेव विरुद्धधर्माध्यस्तत्वेन भिन्नत्वेन च स्वीकरणात् । पयस्त्वपावकत्वादिना हि तयोविरुद्धधर्माध्यासो भेदश्च, द्रव्यत्वादिना पुनस्तद्वैपरीत्यमिति । तथा च कथं न सामान्यविशेषात्म- १० प्रमाणनयतत्त्वालोकालङ्कारः - मत्वं घटादेर्घटत इति ॥ १ ॥ अधुना सामान्यविशेषस्वरूपानेकान्तात्मकवस्तुसमर्थनार्थ साक्षा- तुद्वयमभिधानाः सदसदाद्यनेकान्तात्मकवस्तुप्रसाधकहेतून सूच- यन्ति- अनुगतविशिष्टाकारप्रतीतिविषयत्वात्, प्राचीनोत्तराका- रपरित्यागोपादानावस्थानखरूपपरिणत्याऽर्थक्रिया- सामर्थ्यघटनाञ्च ॥ २॥ अनुगताकाराऽनुवृत्तखभावा गौगारित्यादिप्रतीतिः, विशिष्टाकारा व्यावृत्तरूपा शवल: श्यामल इत्यादिप्रतीतिस्तद्गोचरत्वात् इति तिर्यक्- सामान्यगुणाख्यविशेषलक्षणानेकान्तात्मकवस्तुसिद्धी हेतुः । प्राचीनो- त्तराकारयोः यथासङ्ख्येन ये परित्यागोपादाने, ताभ्यां यदवस्थानम् , तत्स्वरूपपरिणामेनार्थक्रियासामर्थ्यघटनात् कार्यकरणोपपत्तेः, इत्यूर्ध्व- तासामान्यपर्यायाख्यविशेषस्वरूपानेकान्तात्मकवस्तुसिद्धौ हेतुः । चका- रात् सदसदाद्यनेकान्तसमर्थकहेतवः सदसदाकारप्रतीतिविपयत्वादयो द्रष्टव्याः॥२॥ इदानीं सामान्य प्रकारतः प्ररूपयन्ति- सामान्यं द्विप्रकारं तिर्यक्सामान्यमूर्खतासामान्यं च ॥३॥ तिर्यगुल्लेखिनाऽनुवृत्ताकारप्रत्ययेन गृह्यमाणं तिर्यक्सामान्यम्, ऊर्ध्व- मुल्लेखिनाऽनुगताकारप्रत्ययेन परिच्छिद्यमानमूर्खतासामान्यं चेति ॥३॥ तत्राद्यमेदस्य स्वरूपं सोदाहरणमुपदर्शयन्ति- प्रतिव्यक्ति तुल्या परिणतिस्तिर्यक्सामान्यम्, शबलशाब- लेयादिपिण्डेषु गोत्वं यथा ॥४॥ व्यक्ति व्यक्तिमधिश्रित्य समाना परिणतिस्तिर्यक्सामान्य विज्ञेयम्। अन सौगता. सगिरन्ते- गौगौरित्याद्यनुगताकारप्रतिपत्तेरन्यव्यावृत्ति- रखाकरावतारिकायुक्तः। मात्रेणैव व्यक्तिपु प्रसिद्धरनवसर एव सदृशपरिणामस्वरूपसामान्य- स्वीकारः । सर्वतो व्यावृत्तानि हि खलक्षणानि न मनागप्यात्मानमन्येन मिश्रयन्तीति । तदेतन्मरुमरीचिकाचक्रोदकाऽऽचान्तये ऽअलिपुटप्रसा- रणम् । यत इयमन्यव्यावृत्तिर्वहिः, अन्तर्वा भवेत् । तत्र खण्डमुण्डादिवि- शेषप्रतिप्ठैकान्यव्यावृत्तेर्वहिः सद्भावे सामान्यरूपता दुर्निवारा । आन्त- रत्वे तु तस्याः कथं बहिराभिमुख्येनोल्लेखः स्यात् ? । नान्तः, बहिर्वा सेत्यपि स्वाभिप्रायप्रकटनमात्रम् । तथाभूतं ह्यन्यव्यावृत्तिखरूपं किञ्चित् , न किञ्चिद्वा । किञ्चिच्चेत्, नूनमन्तर्बहिर्वा तेन भाव्यम्, तत्र चप्रतिपादितदोषानतिक्रमः । न किञ्चिच्चेत् , कथं तथाभूतप्रत्ययहेतुः? वासनामात्रनिर्मित एवायमिति चेत्, तर्हि बहिरापेक्षा न भवेत् । न हन्यकारणको भावोऽन्यदपेक्षते, धूमादेः सलिलाद्यपेक्षाप्रसङ्गात् । किश्च । वासनाऽप्यनुभूतार्थविषयैवोपजायते।नचात्यन्तासत्त्वेन त्वन्मते सामान्यानुभवसम्भवः । अपि च । वासना तथाभूतं प्रत्ययं विषयतयोत्पा- दयेत्, कारणमात्रतया वा । प्राचि पक्षे सकलविशेषानुयायिनी पारमा- र्थिकी परिच्छेद्यस्वभावा वासनेति पर्यायान्तरेण सामान्यमेवाभिहितं भवेत् । कारणमात्रतया तु वासनायाः सदृशप्रत्ययजनने विषयोऽस्य वक्तव्यः, निर्विषयस्य प्रत्ययस्यैवासंभवात् । नच सदृशपरिणाम विमुच्यापरस्तद्विषयः सङ्गच्छते, प्रागुदीरितदोषानुषङ्गात् । किञ्च । इयमन्यन्यावृत्तिः स्वयमसमानाकारस्य, समानाकारस्य वा वस्तुनः स्यात् । प्राक्तनविकल्पकल्पनायामतिप्रसङ्गः, कुरङ्गतुरङ्गतरङ्गादिष्वपि तत्संभवापत्तेः, तथा च तेष्वनुगताकारैकप्रत्ययानुषङ्गः । स्वयं समा- नाकारस्य तु वस्तुनोऽभ्युपगमे समुपस्थित एवायमतिथिः सदृशपरि- णामः कथं पराणुद्यताम् ? । ननु यया प्रत्यासत्त्या केचन भावाः स्वयं सदृशपरिणामं बिभ्रति, तयैव स्वयमतदात्मका अपि सन्तस्तथा किन्नाव- भासेरन् ? इति चेत् । तदनुचितम् । चेतनेतरभेदाभावप्रसङ्गात् । ययै- व हि प्रत्यासत्त्या चेतनेतरस्वभावान् भावाः स्वीकुर्वन्ति, तयैव स्वयम- तदात्मका अपि सन्तस्तथा किं नावभासेरन् ? इत्यपि ब्रुवाणस्य ब्रह्माद्वैतवा- दिनो न वक्त्रं वक्रीभवेत् । चेतनेतरव्यातरिक्तस्य ब्रह्मणोऽसत्त्वात ७६ प्रमाणनयतत्त्वालोकालझर:- - कथमस्य तथाऽवभासनम् ? इत्यन्यत्रापि तुल्यम् । न खलु सदृश- परिणामशून्यं स्वलक्षणमप्यस्ति, यत् तथाऽवभासेत । ननु स्वलक्षणस्य विसदृशाकारात्मनः सहशपरिणामात्मकत्वं विरुध्यते । नवम् । ज्ञानस्य चित्राकारतावत्, विकल्पेतराकारतावञ्चकस्योभयात्मकत्वाविरोधात् । ततो व्यावृत्तप्रत्ययहेतुविसदृशाकारतावद् वस्तुनःसशपरिणामात्मकत्वमप्य- नुयायिप्रत्ययहेतुः स्वीकार्यम् ॥ ४॥ अथ सामान्यद्वितीयभेदं सनिदर्शनमुपदर्शयन्ति- पूर्वापरपरिणामसाधारणं द्रव्यमूर्ध्वतासामान्यं कटक- कङ्कणाद्यनुगामिकाञ्चनवत् ॥ ५॥ पूर्वापरपर्याययोरनुगतमेकं द्रव्यम् , द्रवति तांस्तान् पर्यायान् गच्छ- तीति व्युत्पत्त्या त्रिकालानुयायी यो वस्त्वंश', तदूर्ध्वतासामान्यमित्यभि- धीयते। निदर्शनमुत्तानमेव । अत्रैकस्य कालत्रयानुयायितायां जनुपाऽन्धः शौद्धोदनिशिष्यः समाचष्टे अहो । कप्ट. शिष्टैरुपक्रान्तोऽयमेकस्यानेक- कालावस्थितिवादः। प्रतिक्षणभङ्गुरभावावभासनायामेव हि प्रमाणमुद्रा साक्षिणी । तथाहि यत् सत् , तत्क्षणिकम् , संश्च विवादाध्यासितःशब्दा- दिः। सत्त्वं तावद् यत् किश्चिदन्यत्रास्तु, प्रस्तुते तावदर्थक्रियाकारित्वमेव मे संमतम् , तच्च शव्दादौधर्मिणि प्रत्यक्षप्रमाणप्रतीतमेव । विपक्षाच व्याप- कानुपलब्ध्या व्यावृत्तम् । सत्त्वस्य हि क्षणिकत्ववत् क्रमाक्रमावपि व्याप- कावेव । न हि क्रमाक्रमाभ्यामन्यः प्रकारः शवितुमपि शक्यते, व्याघात- स्योटत्वात् , न क्रम इति निषेधादेवाक्रमोपगमात् , नाक्रम इति निषेधा- देव च क्रमोपगमात् । तौ च क्रमाक्रमौ स्थिराज्यावर्तमानावर्थक्रियामपि ततोव्यावर्त्तयतः। वर्तमानार्थक्रियाकरणकाले ह्यतीतानागतयोरप्यक्रि- ययोः समर्थत्वे तयोरपि करणप्रसङ्ग । असमर्थत्वे पूर्वापरकालयोरप्यकर- णापत्ति.। समर्थोऽप्यपेक्षणीयासन्निधेर्न करोति, तत्सन्निधेस्तु करोतीति चेत् । ननु किमर्थसहकारिणामपेक्षा? किं स्वरूपलाभार्थम्, उतोपकारा- र्थम् , अथ कार्यार्थम् । नप्रथमः, स्वरूपस्य कारणाधीनस्य नित्यस्य वा पूर्व- सिद्धत्वात् । न द्वितीयः, स्वयं सामध्येऽसामर्थ्य वा तस्यानुपयोगात्। , .

. रत्नाकरावतारिकायुक्तः । ৩ত तथाच- "भाव. स्वतः समर्थश्चेद् , उपकारः किमर्थकः ।। भावः खतोऽसमर्थश्चेद् , उपकारः किमर्थक" ? ॥१॥ अत एव न तृतीयः । उपकारवत् सहकारिणामप्यनुपयोगात् । तथाच- "भाव. स्वतः समर्थश्चेत्, पर्याप्तं सहकारिभिः । भावः स्वतोऽसमर्थश्चेत्, पर्याप्तं सहकारिभिः॥१॥ अनेकाधीनस्वभावतया कार्यमेव तानपेक्षत इति चेत् । न । तस्या- स्वतन्त्रत्वात् , स्वातन्त्र्ये वा कार्यत्वव्याघातात्, तद्धि तत्साकल्येऽपि स्वातन्त्र्यादेव न भवेदिति । एवं च यत् क्रमाक्रमाभ्यामर्थक्रियाकारि न भवति, तदसत् , यथा गगनेन्दीवरम् , तथा चाक्षणिकाभिमतो भाव इति व्यापकानुपलब्धिरुत्तिष्ठते । तथा च क्रमयोगपद्ययोर्व्यापकयोः व्याय- तेरक्षणिकाव्यावर्त्तमानार्थक्रिया क्षणिके विश्राम्यतीति प्रतिबन्धसिद्धिः।। अत्राचक्ष्महे । ननु क्षणभिदेलिमभावाभिधायिभिक्षुणा कारणमाहिणः, कार्यग्राहिणः, तहयग्राहिणो वा प्रत्यक्षादर्थक्रियाकारित्वप्रतीतिः प्रोच्येत, यतस्तच शब्दादौ धर्मिणि प्रत्यक्षप्रमाणप्रतीतमेवेत्युक्त युक्तं स्यात् । न तावत्पौरस्त्यात् , तस्य कारणमात्रमन्त्रणपरायणत्वेन कार्यकिंवदन्तीकुण्ठ- त्वात् । नापि द्वितीयात् , तस्य कार्यमानपरिच्छेदविदग्धत्वेन कारणाव- धारणवन्ध्यत्वात् । तदुभयावभासे चेदमस्य कारणम् , कार्य चेत्यर्थ- क्रियाकारित्वावसायोत्पादात् । वस्तुखरूपमेव कारणत्वम् , कार्यत्वं चेति तदन्यतरपरिच्छेदेऽपि तद्बुद्धिसिद्धिरिति चेत्, एवं तार्ह नालिकेरद्वी- पवासिनोऽपि वह्रिदर्शनादेव तत्र धूमजनकत्वनिश्चयस्य, घूमदर्शना- देव वह्निजन्यत्वनिश्चयस्य च प्रसङ्गः। नापि तृतीयात् , कार्यकारणोमयी- ग्राहिणः प्रत्यक्षस्यासंभवात् , तस्य क्षणमात्रजीवित्वात् , अन्यथाऽनेनैव हेतोर्व्यभिचारात् । तदुभयसामर्थ्यसमुद्भूतविकल्पप्रसादात्तदवसाय इति चेत्, ताई कथं प्रत्यक्षेण तत्प्रतीतिः । प्रत्यक्षव्यापारपरामर्शित्वात् विक- ल्पस्य तहारेण प्रत्यक्षमेव तल्लक्षकमिति चेत् । ननु न कार्यकारणग्रा- हिणोरन्यतरेणापि प्रत्यक्षेण प्राकार्यकारणभावो भासयामासे, तत् कथं ७८ प्रमाणनयतत्त्वालोकालङ्कारस- विकल्पेन तद्व्यापारः परामृश्येत ? इति न क्षणिकवादिनः काप्यर्थक्रिया- प्रतीतिरस्तीति वाद्यसिद्धं सत्त्वम् । संदिग्धानकान्तिकं च, क्षणिकाक्षणिके क्षणिकैकान्तविपक्षे क्रमाक्रमव्यापकानुपलम्भस्यासिद्धत्वेन तद्व्याप्तार्थ- क्रियायास्ततो व्यावृत्त्यनिर्णयात् । किंचित् कृत्वाऽन्यस्य करणं हि क्रमः। अयं च कलशस्य कथंचिदेकरूपस्यैव क्रमवत्सहकारिकारणकलापोप- ढौकनवशन क्रमेण घटचेटिकामस्तकोपरिपर्यटनात्तासां क्लमं कुर्वतः सुप्रतीत एव । अत्र हि भवानत्यन्ततार्किकंमन्योऽप्येतदेव वक्तुं शक्नोति, यस्मादक्षेपक्रियाधर्मणः समर्थस्वभावादेकं कार्यमुदपादि, स एव चेत् पूर्व- मप्यस्ति, तदा तत्कालवत्तदैव तद्विदधानः कथं वार्यताम् ? । "कार्याणि हि विलम्वन्ते कारणाऽसन्निधानतः । समर्थहेतुसद्भावे क्षेपस्तेषां नु किंकृतः ? ॥१॥इति । नचैतवदातम् । एकान्तेनाक्षेपक्रियाधर्मवानभ्युपगमात् । द्रव्य- रूपशक्त्यपेक्षया हि तत् समर्थमभिधीयते, पर्यायशक्त्यपेक्षया त्वसमर्थ- मिति । यदेव हि कुशूलमूलावलम्बि बीजद्रव्यम् , तदेवावनिवनपवनात- पसमर्पितातिशयविशेषस्वरूपपर्यायशक्तिसमन्वितमङ्कुरं करोति । नन्व- सौ पर्यायशक्तिः कुशूलमूलावस्थानाऽवस्थायामविद्यमाना, क्षेत्रक्षितिक्षे- पक्षणे तु संपद्यमाना बीजद्रव्याद्भिन्ना वा स्यात्, अभिन्ना वा, भिन्ना- भिन्ना वा । यदा भिन्ना, तदा किमनया काणनेत्राजनरेखाप्रख्यया ?, विभिन्नाः सन्निधिभाजः संवेदनकोटीमुपागताः सहकारिण एवासताम् । अथ सहकारिणः कमपि वीजस्यातिशेषविशेषमपोषयन्तः कथं सहका- रितामपि प्राप्नुयुः? इति चेत् , तहतिशयोऽप्यतिशयान्तरमनारचयन् कथं तत्तां प्राप्नुयात् ? । अथायमारचयति तदन्तरम् , तार्ह समुपस्थित- मनवस्थादौस्थ्यम् । अथाभिन्ना भावात् पर्यायशक्तिः, तर्हि तत्करणे स एव कृत इति कथं न क्षणिकत्वम् ? | भिन्नाभिन्नपर्यायशक्तिपक्षोऽप्यशे क्षणिकलमनर्पयन्न कुशलीति ॥ अत्र ब्रूमः-एषु चरम एव पक्षः कक्षीक्रियते । नचान कलङ्कः कश्चित् , द्रव्यांशद्वारेणाऽक्षणिके वस्तुनि पर्यायांशद्वारेण क्षणिकत्वोपगमात्, क्षणिकैकान्तस्यैव कुट्टयितुमुप-. क्रान्तत्वात् । क्षणिकपर्यायेभ्योऽव्यतिरेकात् क्षणिकमेव द्रव्य प्राप्नो- । , 1 रवाकरावतारिकायुक्तः । तीति चेत् । न । व्यतिरेकस्यापि संभवात् । नच व्यतिरेकाव्यति- रेकावेकस्य विरुध्येते । न हि नमः प्रयोगाप्रयोगमात्रेण विरोधगतिः, अतिप्रसङ्गात् । "दलति हृदयं गाढोद्वेगं द्विधा न तु भिद्यते वहति विकल: कायो मोहं न मुश्चति चेतनाम् । ज्वलयति तनूमन्तर्दाहः करोति न भस्मसात् प्रहरति विधिमर्मच्छेदी न कृन्तवि जीवितम् ॥ १ ॥ इत्यादिष्वपि तत्प्राप्तेः । नच स्थिरभावस्यापि येनैव रूपेण व्यतिरे- कम् , तेनैवाव्यतिरेक व्याकुर्महे; द्रव्यमेतत्, एते च पर्याया इतिरूपेण हि व्यतिरेकः, वस्त्वेतदितिरूपेण त्वव्यतिरेकः । एकमेव च विज्ञानक्षणं सविकल्पाविकल्पकम् , भ्रान्ताभ्रान्तम् , कार्य कारणं चाय स्वयमेव स्वीकरोति, भेदाभेदे तु विरोधप्रतिरोधमाभिधातीति महासाहसिकः, इति क्षणिकाक्षणिकेऽपि क्रमाक्रमाभ्यामर्थक्रियायाः संभवातू सिद्धं संदि- ग्धानकान्तिकं सत्त्वम् । क्षणिकैकान्ते ताभ्यामर्थक्रियाया अनुपपत्ते- विरुद्ध वा। तथाहि-क्रमस्तावद् द्वेधा; देशक्रमः, कालक्रमश्च । तत्र देश- क्रमो यथा तरलतरतरङ्गपरम्परोत्तरणरमणीयश्रेणीभूतश्वेतच्छदमिथु- नानाम् । कालक्रमस्वकस्मिन् कलशे क्रमेण मधुमधूकबन्धूकशम्बू- कादीनां धारणक्रियां कुर्वाणे । क्षणिकैकान्ते तु द्वयोरप्येतयोरभाव एव । येन हि वस्तुना कचिद्देशे, काले वा किंचित्कार्यमर्जयामासे, तत्तत्रैव, तदानीमेव च निरन्वयमनश्यत्, ततो देशान्तरकालान्तरानुसरणव्यस- नशालिनः कस्याप्येकस्यासंभवात् क नाम क्षणिकैकान्ते क्रमोऽस्तु । नाप्यत्र यौगपद्यमनवद्यम् । यतः क्षणिकानंशस्वरूपं रूपं युगपदेव स्व- कार्याणि कार्याणि कुर्वाणं येनैव स्वभावेन खोपादेयं रूपमुत्पादयति तेनैव ज्ञानक्षणमपि, यद्वा येनैव ज्ञानक्षणं तेनैव रूपक्षणमपि, स्वभावान्तरण वां । प्राचि पक्षे, ज्ञानस्य रूपस्वरूपत्वापत्तिः, रूपोत्पादकैकस्वभावा- भिनिर्वर्त्यत्वात् , रूपवरूपवत् । द्वितीये, रूपस्य ज्ञानरूपताऽऽपत्तिः, ज्ञानोत्पादनकस्वभावसंपाद्यत्वात् , ज्ञानस्वरूपवत् । तृतीये, रूपक्षणस्य क्षणिकानंशस्वरूपस्यापत्तिः, स्वभावभेदस्य भेदकस्य सद्भावात् । अथान- - प्रमाणनयतत्त्वालोकालङ्कार:- शैकखरूपमपि रूप सामग्रीभेदाद्भिन्नकार्यकारि भविष्यति को दोष इति चेत् , तार्ह नित्यैकरूपोऽपि पदार्थस्तत्ततसामग्रीभेदात् तत्तत्कार्यकर्ता भविष्यतीति कथं क्षणिकैकान्तसिद्धिः स्यात् ? । ततो न क्षणिकैकान्ते कमयोगपद्याभ्यामर्थक्रिया संभवतीति सिद्धं विरुद्ध सत्त्वमिति 11 यदप्याचक्षते भिक्षवः क्षणक्षयिकान्तप्रसाधनाय प्रमाणम्-ये यद्भावं प्रत्यनपेक्षाः, ते तद्भावनियताः, यथाऽन्त्या कारणसामग्री स्वकार्य- जनने, विनाशं प्रत्यनपेक्षाश्च भावा इति । तत्र विनाशं प्रत्यनपेक्षत्वम- सिद्धतावष्टब्धमेव नोच्छ्रसितुमपि शक्नोतीति कथं वस्तूनां विनाशन- यत्यसिद्धौ सावधानतां दध्यात् ? । तथाहि-तरस्विपुरुषप्रेरितप्रचण्ड- मुद्गरसंपर्कात् कुम्भादयो ध्वसमानाः समीक्ष्यन्ते । नन्वतत्साधनसि- द्धिबद्धकक्षेष्वस्मासु सत्सुकथमसिद्धताऽभिधातुं शक्या? । तथाहि-वेग- वन्मुद्रादि शहेतुर्नश्वरं वा भावं नाशयति, अनश्वरं वा । तत्रानश्वरस्य नाशहेतुशतोपनिपातेऽपि नाशानुपपात्तिः, स्वभावस्य गीर्वाणप्रभुणाऽ- प्यन्यथाकर्तुमशक्यत्वात् । नश्वरस्य च नाशे तद्धेतूनां वैयर्थ्यम् । नहि स्वहेतुभ्य एवाप्तस्वभावे भावे भावान्तरव्यापारः फलवान् , तद्नुपरति- प्रसक्तः । उक्तं च- "भावो हि नश्वरात्मा चेत् , कृतं प्रलयहेतुभिः । अथाप्यनश्वरात्माऽसौ, कृतं प्रलयहेतुभिः ॥शा अपि च । भावात्पृथग्भूतो नाशो नाशहेतुभ्य. स्यात्, अपृथग्भू- तो वा । यद्यपृथग्भूतः, तदा भाव एव तद्धेतुभिः कृतः स्यात् , तस्य च खहेतोरेवोत्पत्ते. कृतस्य करणायोगात्तदेव तद्धेतुवैयर्थ्यम् । अथ पृथ- ग्भूतोऽसौ, तदा भावसमकालभावी, तदुत्तरकालभावी वा स्यात् । तत्र समकालभावित्वे निर्भरप्रतिवन्धवन्धुरवान्धवयोरिव भावाभावयोः सम- कालमेवोपलम्भो भवेत् , अविरोधात् । तदुत्तरकालभावित्वे तु घटादेः किमायातम् , ? येनासौ स्वोपलम्भं स्वार्थक्रियां च न कुर्यात् । न हि तन्त्वादे. समुत्पन्ने पटे घटः स्वोपलम्भं स्वार्थक्रियां च कुर्वन् केनचि- प्रतियेद्धं शक्यः । ननु पटस्याविरोधित्वान्न तदुत्पत्तौ तदभाव', अभावस्य तु तद्विपर्ययादसौ स्यात् । ननु किमिदमस्य विरोधित्वं , रत्नाकरावतारिकायुक्तः । नाम । नाशकत्वम्, नाशस्वरूपत्वं वा । नाशकत्वं चेत् , तर्हि मुद्रादि- वन्नाशोत्पादद्वारेणानेन घटादिरुन्मूलनीयः; तथाच तत्रापि नाशेऽय- मेव पर्यनुयोग इत्यनवस्था । नाशस्वरूपत्वं चेत् । नन्वेवमर्थान्तरत्वा- विशेपात् कथं कुटस्यैवासौ स्यात् ?, अन्यस्यापि कस्मान्नोच्यते । तरा- वन्धित्वेन करणादिति चेत् , कःसंबन्धः ?; कार्यकारणभावः, संयोगः, विशेपणीभावः, अविष्वग्भावो वा । न प्राच्यः पक्षः, मुद्रादिकार्यत्वेन तभ्युपगमात्। न द्वितीयः, तस्याद्रव्यत्वात् , कुटादिसमकालतापत्तेश्च । न तृतीयः, भूतलादिविशेषणतया तत्कक्षीकारात् । तुरीये त्वविष्वग्भावः सर्वथाऽभेदः, कथञ्चिदभेदो वा भवेत् । नाद्यः पक्षः, पृथग्भूतत्वेनास्य कक्षीकारात्। नाद्वितीयः, विरोधावरोधात् । इति नाशहेतोरयोगतः सिद्धं वस्तूनां तं प्रत्यनपेक्षत्वमिति । तदेतदेतस्य समस्तमुत्पादेऽपिसमानं पश्यतः प्रध्वंस एव पर्यनुयुजानस्य लुप्तकलोचनतामाविष्करोति । तथाहि-उत्पा- दहेतुरपि सत्स्वभावस्य, असत्स्वभावस्य वा भाषस्योत्पादकः स्यात् । न सत्स्वभावस्य, तस्य कृतोपस्थायिताप्रसङ्गात् । नाप्यसत्स्वभावस्य, स्वभा- वस्यान्यथाकर्तुमशक्तेः, अभ्युपगमविरोधाच्च । न ह्यसत्स्वभावजन्योत्पा- दकत्वमिष्यते त्वया । अथानुत्पन्नस्यासत्त्वादुत्पन्नस्य सत्स्वभावत्वाव्यर्थो विकल्पयुगलोपन्यासपरिश्रम इति चेत् । नैवम् । नष्टेतरविकल्पापेक्ष- याऽस्य नाशेऽपि तुल्यत्वात् । तथाच- "भावो भवत्स्वभावश्चेत् कृतमुत्पादहेतुभिः । अथाभवत्स्वभावोऽसौ कृतमुत्पादहेतुभिः"॥१॥ तथाऽयमुत्पद्यमानाव्यतिरिक्तः, अव्यातरिको वा । तत्र जन्याव्य- तिरिक्तोत्पादजनकत्वे न जन्यस्योत्पादः, जन्याव्यतिरिक्तत्वेनोत्पादस्य कस्यचिदयोगात् । न हि कथञ्चिद्भिन्नमुत्पादमन्तरेण तदेवोत्पद्यत इत्यपि वक्तुं शक्यते, किन्तु वस्त्विदमित्येव वक्तुं शक्यम्; नच तथा तदुत्पादः कथितः स्यात्। उत्पद्यमानाव्यतिरिक्तोत्पादजनकतायां न तस्योत्पादः, तद्व- दन्यस्यापि वा कथमसौन भवेत्। तस्यैव संबन्धिनस्तस्य करणादिति चेत्। तदप्यवद्यम् । उत्पादेनापि साकं कार्यकारणभावादेस्त्वन्मतेन संवन्धस्या- ८२ प्रमाणनयतत्वालोकालद्वार:- ? - संभवात् । तस्मान्नेयमीदग्विकल्पपरिकल्पजल्पाकता परिशीलनीया । इर्द. पुनरिहदंपर्यम्-यथा दण्डचक्रचीवरादिकारणकलापसहकृतात् मृत्लालक्ष- णोपादानकारणात् कुम्भ उत्पद्यते, तथा वेगवन्मुद्गरसहकृतात् तस्मादेव विनश्यत्यपि । नचैकान्तेन विनाशः कलशाद्भिन्न एव, मृल्लक्षणैकद्रव्य- तादात्म्यात् । विरोधित्वं चास्य विनाशरूपत्वमेव । नचैवं घटवत्पटस्थापि तदापत्तिः, मृबन्यतादात्म्येनैवावस्थानादुत्पादवत् । नच सर्वथा तादा- म्यम् , तदन्यतरस्यासत्त्वापत्तेः। नचैवमत्र विरोधावरोधः,चित्रकजानव- दन्यथोत्पादेऽपि तदापत्ते. । इत्यसिद्धं विनाशं प्रत्यनपेक्षत्वमर्थानाम् । अतः कथं क्षणभिदेलिमभावस्वभावसिद्धिः स्यात् ।। एवं च सिद्धं पूर्वा- परपरिणामव्यापकमेकमूर्ध्वतासामान्यस्वभावं समसं वस्त्विति ।।५।। अथ विशेषस्य प्रकारौ प्रकाशयन्ति- विशेषोऽपि द्विरूपो गुणः पर्यायश्च ॥ ६ ॥ सर्वेषां विशेषाणां वाचकोऽपि पर्यायशब्दो गुणशब्दस्य सवर्ति- विशेषवाचिनः सन्निधानेन क्रमवत्तिविशेषवाची गोवलीवर्दन्यायात् अत्र गृह्यते ॥६॥ तत्र गुणं लक्षयन्ति- गुणःसहभावी धर्मो यथाऽऽत्मनि विज्ञानव्यक्तिशक्त्यादिः।। सहभावित्वमत्र लक्षणम्। यथेत्यादिकमुदाहरणम् । विज्ञानव्यक्ति- यत्किञ्चित् ज्ञानं तदानीं विद्यमानम् । विज्ञानशक्तिरुत्तरज्ञानपरिणाम- योग्यता । आदिशब्दात् सुखपरिस्पन्दयौवनायो गृह्यन्ते ॥ ७॥ पर्यायं प्ररूपयन्ति- पर्यायस्तु क्रमभावी यथा तत्रैव सुखदुःखादिः ॥८॥ धर्म इत्यनुवर्चनीयम् । क्रमभावित्वमिह लक्षणम् । परिशिष्टं तु निद- र्शनम् । तत्रेत्यात्मनि । आदिशब्देन हर्षविषादादीनामुपादानम् । अय- मर्थः- ये सहभाविनः सुखज्ञानवीर्यपरिस्पन्दयौवनादयः, ते गुणाः; ये तु क्रमवृत्तयः सुखदुःखहर्षविषादादयः, ते पर्यायाः। नन्ववं त एव गुणास्त एव पर्याया इति कथं तेषांभेद. ? इति चेत् । मैवम्। कालाभेदविभेदवि- रत्नाकरावतारिकायुक्तः । वक्ष्या तद्भेदस्यानुभूयमानत्वात्। नचैवमेषां सर्वथा भेद इत्यपि मन्तव्यम् ; कथञ्चिदभेदस्याप्यविरोधात् । न खल्वेषां स्तम्भकुम्भवद्भेदः, नापि स्व- रूपवदभेदः, किन्तु धर्म्यपेक्षयाऽभेदः, स्वरूपापेक्षया तु भेद इति । अथै- तदाकर्ण्य यौगाः शालूककण्टकाक्रान्तमर्माण इवोत्प्लवन्ते- यदि धर्म्यपे- क्षया धर्मिणोधर्मा अभिन्ना भवेयुः, तदा तद्वत् तस्यापि भेदापत्तेः प्रत्यभि- ज्ञाप्रतिपन्नैकत्वव्याहतिरिति । तन्नावितथम् । कथञ्चित्तद्भेदस्याभीष्टत्वात्, प्रत्यभिज्ञायाश्च कथञ्चिदेकत्वगोचरत्वेनावस्थानात् , नित्यैकान्तस्य प्रमा- णाभूमित्वात् । तथाहि-यद्यसौ नित्यैकस्वरूपः पदार्थो वर्तमानार्थक्रिया- करणकालवपूर्वापरकालयोरपि समर्थः स्यात्, तदा तदानीमपि तक्रिया- करणप्रसङ्गः । अथासमर्थ. पूर्व पश्चाद्वाऽयं स्यात् , तदा तदानमिव वर्त्त- मानकालेऽपि तत्करण कथं स्यात् ?| अथ समर्थोऽप्ययमपेक्षणीयासन्निधेर्न करोति, तत्सन्निधौ तु करोतीति चेत् । ननु केयमपेक्षा नाम ?, किं तैरुपकृतः करोतीत्युपकारभेदः १, किंवा तैः सह करोतीत्यन्वयपर्यवसायी स्वभाव- भेदः, अथ तैर्विना न करोतीति व्यतिरेकनिष्ठं स्वरूपम् , यद्वा सहकारिषु सत्सुकरोति, तद्विरहे तु न करोतीति तहयावलम्बि वस्तुरूपम् । तत्र प्राच्यः प्रकारस्तावदसारः, अनवस्थाराक्षसीकटाक्षितत्वात् । तथाहि-उपका- रेऽपि कर्तव्ये सहकार्यन्तरमपेक्षणीयम् , उपकरणीयं च तेनापीत्युपकार- परम्परा समापततीत्यनवस्था । तथाऽमी उपकारमारभमाणा भावस्व- भावभूतम् , अतत्स्वभावं वाऽऽरभेरन् । स्वभावभूतोपकारारम्भभेदे भाव- स्याप्युत्पत्तिरापतति । नानुत्पद्यमानस्योत्पद्यमानः स्वभावो भवति; विरु- द्धधर्माध्यासात् । द्वितीयपक्षे तु धर्मिणः किमायातम् ? । नान्यस्मिन् जाते नष्टे वाऽन्यस्य किञ्चिद्भवति, अतिप्रसङ्गात् , अथ तेनापि तस्य किञ्चिदुपकारान्तरमारचनीयमित्येषा पराऽनवस्था । तैः सह करोती- त्यादिपक्षोऽपि नाथूणः, स्वभावस्य तावस्थ्यात् । न ह्यस्य सहकारिव्या- वृत्तौ स्वभावव्यावृत्तिरिति तैर्विनाऽपि कुर्यात् । ननु यत एव सहका- रिव्यावृत्तावस्य स्वभावो न व्यावर्त्तते, अत एव तैर्विनाऽपि न करोति। कुर्वाणो हि तैः सहैव करोतीति स्वभावं जह्यात् । स तार्ह स्वभावभेदः सहकारिसाहित्ये सति कार्यकरणनियतः सहकारिणो न जह्यात् ;

प्रमाणनयतत्त्वालोकालङ्कारः- ८४ - प्रत्युत पलायमानानपि गलेपादिकयोपस्थापयेत्, अन्यथा स्वभावहा- निप्रसङ्गात् । अत एव न तृतीयोऽपि । कर्तृवभावापरावृत्तेः। अथ तद्विरहाकर्तृस्वभावः, तर्हि कालान्तरेऽपि स्वहेतुवशादुपसर्पतोऽपि सहकारिणः पराणुध न कुर्यात् , तद्विरहाकर्तृशीलः खल्वयमिति । तुरी-. यभेदे विरुद्धधर्माध्यास', यः खलु सहकारिसहितः, स कथं तद्विरहितः स्यात् ?, तथाच भावभेदो भवेत् । अथायं कालभेदेन सुपरिहर एव, अन्यदा हि सहकारिसाकल्यम् , अन्यदा च तद्वैकल्यमिति । तदसत् ।धर्मिणोऽन- तिरेकात् । कालभेदेऽपि ह्येक एव धर्मी स्वीचक्रे । तथाचास्य कथं तत्साकल्यवैकल्ये स्याताम् ?; सत्त्वे वा सिद्धो धार्मभेदः। अथ सहका- रिसाकल्यम् , तद्वैकल्यं च धर्मः। नच धर्मभेदेऽपि धर्मिणः किश्चित् , ततो भिन्नत्वात् तेषां इति चेत् । अस्तु तावदेकान्तभिन्नधर्मधर्मिवादापवाद एव प्रष्ठः परीहारः । तत्त्वेऽपि न साकल्यमेव कार्यमर्जयति, किंतु सो- ऽपि पदार्थः। तथाच तस्य भावस्य याशश्वरमक्षणेऽक्षेपक्रियाधर्मस्वभा- वः, ताश एव चेत्प्रथमक्षणेऽपि, तदा तदैवासौ प्रसह्य कुर्वाणो गीर्वाणशा- पेनापिनापहस्तयितुं शक्यः। यथा हि विरुद्धधर्माध्यासेन भेदप्रसङ्गपरि- हाराय साकल्यवैकल्यलक्षणी धौं भिन्नस्वभावौ परिकल्पितौ तौ, तथा न सोऽप्यक्षेपक्रियाधर्मस्वभावो भावाद्भिन्न एवामिधातुं शक्यः, भावस्या- कर्तृत्वप्रसङ्गात् । ततः सिद्धो विरुद्धधर्माध्यासः । एवं च यद्विरुद्ध- धर्माध्यस्तं, तदिन्नं, यथा शीतोष्णे, विरुद्धधर्माध्यस्तश्च विवादास्प- दीभूतो भाव इति न नित्यैकान्तसिद्धिः । एवं चोपस्थितमिदं नित्या- नित्यात्मकं वस्तु, उत्पादव्ययधौव्यात्मकत्वान्यथानुपपत्तेरिति । तथाहि- सर्व वस्तु द्रव्यात्मना नोत्पद्यते, विपद्यते वा; परिस्फुटमन्वयदर्शनात् । लूनपुनर्जातनखादिष्वन्वयदर्शनेन व्यभिचार इति न वाच्यम् । प्रमा- णेन वाध्यमानस्यान्वयस्यापरिस्फुटत्वात् । नच प्रस्तुतोऽन्वयः प्रमा- णविरुद्धः; सत्यप्रत्यभिज्ञानसिद्धत्वात् । ततो द्रव्यात्मना स्थितिरेव सर्वस्य वस्तुन । पर्यायात्मना तु सर्व वस्तूत्पद्यते, विपद्यते च । अस्खलि- तपर्यायानुभवसद्भावात् । नवं शुक्के गढे पीतादिपयार्यानुभवेन व्य- भिचार, तस्य स्खलद्रूपत्वात् । न खलु सोऽस्खलद्रूपो येन पूर्वा- रवाकरापतारिकायुक्तः । ८५ कारविनाशाजहद्वत्तोत्तराकारोत्पादाविनाभावी भवेत् । नच जीवादी वस्तुनि हर्षामदासीन्यादिपर्यायपरम्पराऽनुभवः स्खलद्रूपः, कस्य- चिद्धाधकस्याभावात् । ननूत्पादादयः परस्परं भिद्यन्ते, नवा । यदि भिद्यन्ते. कधमेकं वस्तु ध्यात्मकम् ? न भिद्यन्ते चेत् , तथापि कथ- मेकं ध्यात्मकम् ? तधाच- यगुत्पत्त्यादयो भिन्नाः कथमेकं त्रयात्मकम् ? । अथोत्पत्त्यादयोऽभिन्नाः कथमेकं प्रयात्मकम् ? ॥१॥ इति चेत् । तदयुक्तम् । कथञ्चिद्भिन्नलक्षणत्वेन तेषां कथञ्चिद्भेदाभ्यु- पगमात् । तथाहि-उत्पादविनाशध्रौव्याणि स्याद्भिन्नानि, भिन्नलक्षणत्वात, रूपादिवत् । नच भिन्नलक्षणत्वमासिद्धम् । असतः आत्मलाभः, सतः सत्तावियोगः, द्रव्यरूपतयाऽनुवर्त्तनं च खलूत्पादादीनां परस्परमसंकी- र्णानि लक्षणानि सकललोकसाक्षिकाण्येव । नचामी भिन्नलक्षणा अपि परस्परानपेक्षाः, खपुष्पवदसत्त्वापत्तेः । तथाहि-उत्पादः केवलो नास्ति, स्थितिविगमरहितत्वात् , कूर्मरोमवत्; तथा विनाशः केवलो नास्ति, स्थित्युत्पत्तिरहितत्वात्, तद्वत् ; एवं स्थितिः केवला नास्ति, विनाशो- त्पादशून्यत्वात् , तद्वदेव; इत्यन्योन्यापेक्षाणामुत्पादादीनां वस्तुनि सत्त्वं प्रतिपत्तव्यम् । तथाच कथं नैकं च्यात्मकम् ? । किंच । अपरमभ्यधि- महि पञ्चाशति- प्रध्वस्ते कलशे शुशोच तनया मौलौ समुत्पादिते पुत्रः प्रीतमुवाह कामपि नृपः शिश्राय मध्यस्थताम् । पूर्वाकारपरिक्षयस्तदपराकारोदयस्तद्वया- धारश्चैक इति स्थितं त्रयमयं तत्त्वं तथाप्रत्ययात् ॥१॥ तथाच स्थितं नित्यानित्यानेकान्तः कान्त एवेति । एवं सदसद- नेकान्तोऽपि । नन्वत्र विरोधः। कथमेकमेव कुम्भादि वस्तु सच्च, असञ्च भवति?। सत्त्वं ह्यसत्त्वपरिहारेण व्यवस्थितम् , असत्त्वमपि सत्त्वपरि- हारेण, अन्यथा तयोरविशेषः स्यात् । ततश्च तद्यदि सत् , कथमसत् ?, अथासत् , कथं सदिति। तदनवदातम् । यतो यदि येनैव प्रकारेण सत्त्वम्, १८६ प्रमाणनयतवालोकालङ्कार:- तेनैवाऽसत्त्वम् ; येनैव चासत्त्वम् , तेनैव सत्त्वमभ्युपेयेत, तदा स्याद्वि- ‘रोधः। यदा तु स्वरूपेण घटादित्वेन, स्वद्रव्येण हिरण्मयादित्वेन, स्वक्षेत्रेण नागरादित्वेन, स्वकालत्वेन वासन्तिकादित्वेन सत्त्वम् , पररूपादिना । पटत्वतन्तुत्वग्राम्यत्वग्रैष्मिकत्वादिनाऽसत्त्वम् , तदा व विरोधगन्धोऽपि ये तु सौगताः परासत्त्वं नाभ्युपयन्ति, तेषां घटादेः सर्वात्मकत्वप्रस- गः। तथाहि- यथा घटस्य स्वरूपादिना सत्त्वम् , तथा यदि पररूपादि नाऽपि स्यात् , तथा सति स्वरूपादित्ववत् पररूपादित्वप्रसक्तेः कथं न सर्वात्मकत्वं भवेत् । परासत्त्वेन तु प्रतिनियतोऽसौ सिध्यति । अथ न नाम नास्ति परासत्त्वम् , किंतु स्वसत्त्वमेव तदिति चेत् । अहो! नूतनः को- ऽपि तर्कवितर्ककर्कशः समुल्लापः । न खलु यदेव सत्त्वम्, तदेवासत्त्वं भवितुमर्हति, विधिप्रतिषेधरूपतया विरुद्धधर्माध्यासेनानयोरैक्यायोगात् अथ पृथक् तन्नाभ्युपगम्यते; नच नाभ्युपगम्यत एवेति किमिदमिन्द्रजा लम् ?। ततश्चास्यानक्षरमसत्त्वमेवोक्तं भवति । एवं च यथा स्वासत्त्वास त्त्वात्स्वसत्त्वं तस्य , तथा परासत्त्वासत्त्वात्परसत्त्वप्रसक्तिरनिवारितन सरा, विशेषाभावात् । अथ नाभावनिवृत्त्या पदार्थो भावरूपः, प्रतिनियते चा भवति, अपि तु स्वसामग्रीतः स्वस्वभावनियत एवोपजायत इति किं परासत्त्वेनेति चेत् ? । न किञ्चित् । केवलं स्वसामग्रीतः वं खभावनियतोत्पत्तिरेवं परासत्त्वात्मकंवव्यतिरेकेण नोपपद्यते, पारं मार्थिकस्वासत्त्वासत्त्वात्मकस्वसत्त्वेनेव परासत्त्वासत्त्वात्मकपरसत्त्वे नाप्युत्पत्तिप्रसगात् । योगास्तु प्रगल्भन्ते- सर्वथा पृथग्भूतपरस्परा भावाभ्युपगममात्रेण पदार्थप्रतिनियमप्रसिद्धेः पर्याप्तं तेषामसत्त्वा स्मकत्वकल्पनाकदर्थनेनेति । तदसुन्दरम् । यतो यदा पटाद्यभाव- रूपी घटो न भवति, तदा घट. पटादिरेव स्यात् । यथाच घटस्य घटाभावाद्भिन्नत्वाद्धटरूपता, तथा पटादेरपि स्वात् , घटाभावाद्भिन्नत्वा- देव । किञ्च । अमीपां भावानां स्वतो भिन्नानाम्, अभिन्नानां वा भिन्ना- भावेन भेद. क्रियते । नाद्य. पक्षः, स्वहेतुभ्य एव भिन्नानामेपामुत्पत्तेः । नापि द्वितीयः, स्वयमभिन्नानामन्योन्याभावासंभवात् । भावाभावयोश्च भेद. स्वत एव वा स्यान्, अभावान्तरेण वा । प्राचि पक्षे, भावानामपि

रत्नाकरावतारिकायुक्तः ।
८७
स्वरूपेणैवायमस्तु, किमपरेणाभावेन परिकल्पितन ? । द्वितीये, पुनरनव-
स्थानापत्तिः, अभावान्तरेष्वप्यभावान्तराणां भेदकानामवश्यस्वीकरणीय-
त्वात् । कथञ्चिदभिन्ने तु भावादभावे न कश्चिदमूदृशकलकावकाशः ।
वस्त्वेव हि तत्तथा; सदसदंशयोस्तथापरिणतिरेव हि घटः पटो वाऽभि-
धीयते, न केवलः सदंशः, ततः कथं घटादिः परेणात्मानं मिश्रयेत् ? ।
इति सूक्तः सदसदनेकान्तः । एवमपरेऽपि भेदाभेदानेकान्तादयः स्वयं
चतुर्विवेचनीयाः ॥८॥
इति प्रमाणनयतत्त्वालाकालङ्कारे श्रीरत्नप्रभाचार्यविरचि-
तायां रत्नाकरावतारिकाख्यलघुटीकायां प्रमेयस्वरूप-
निर्णयो नाम पञ्चमः परिच्छेदः॥५॥

No text on this page.

अईम् अथ षष्ठः परिच्छेदः। एवं प्रमाणस्य लक्षणसंख्याविषयानाख्याय फलं स्फुटयन्ति- यत्प्रमाणेन प्रसाध्यते तदस्य फलम् ॥१॥ यद्वक्ष्यमाणमज्ञाननिवृत्त्यादिकं प्रत्यक्षादिना प्रमाणेन साधकतमे- न साध्यते, तदस्य प्रमाणस्य फलमवगन्तव्यम् ॥१॥ अथैतत्प्रकारतो दर्शयन्ति- तद्विविधमानन्तर्येण पारम्पर्येण च ॥२॥ तत्राद्यभेदमादर्शयन्ति- तत्रानन्तर्येण सर्वप्रमाणानामज्ञाननिवृत्तिः फलम् ॥३॥ अज्ञानस्य विपर्ययादेनिवृत्तिः प्रध्वंसः स्वपरव्यवसितिरूपा फलं चोद्धव्यम् ॥३॥ अथापरप्रकारं प्रकाशयन्ति- पारम्पर्येण केवलज्ञानस्य तावत्फलमौदासीन्यम् ॥ ४॥ औदासीन्यं साक्षात्समस्तार्थानुभवेऽपि हानोपादानेच्छाविरहा- माध्यस्थ्यमुपेक्षेत्यर्थः । कुत इति चेत् । उच्यते । सिद्धप्रयोजनत्वात् केवलिनां सर्वत्रौदासीन्यमेव भवति, हेयस्य संसारतत्कारणस्य हाना- दुपादेयस्य मोक्षतत्कारणस्योपादानात् सिद्धप्रयोजनत्वं नासिद्धं भग- वताम् ॥४॥ अथ केवलव्यतिरिक्तप्रमाणानां परम्पराफलं प्रकटयन्ति- शेषप्रमाणानां पुनरुपादानहानोपेक्षाबुद्धयः ॥५॥ पारम्पर्येण फलमिति संबन्धनीयम् । तत उपादेये कुड्कुमकामिनीक- पूरादावर्थे ग्रहणवुद्धिः, हेये हिममकराङ्गारादौ परित्यागबुद्धिः, उपेक्षणी- १२ -

९०
प्रमाणनयतत्वालोकालङ्कार:-
--
येऽर्थानाप्रसाधकत्वेनोपादानहानानहें जरत्तृणादौ वस्तुन्युपेक्षाबुद्धिः
पारम्पर्येण फलमिति ॥५॥
प्रमाणात् फलस्य भेदाभेदैकान्तवादिनो यौगसौगतान्निराकर्त
स्वमतं च व्यवस्थापयितुं प्रमाणयन्ति-
तत्प्रमाणतः स्याद्भिन्नमभिन्नं च प्रमाणफलत्वान्यथा-
नुपपत्तेः ॥६॥
तदिति प्रकृतं फलं परामृश्यते ॥६॥
अथात्राशङ्कथ व्याभिचारमपसारयन्ति-
उपादानबुयादिना प्रमाणाद्भिन्नेन व्यवहितफलेन हे-
तोर्व्यभिचार इति न विभावनीयम् ।।७॥
प्रमाणफलं च भविष्यति, प्रमाणात् सर्वथा भिन्नं च भविष्यति,
यथोपादानवुझ्यादिकमिति न परामर्शनीय यौगैरित्यर्थः ॥७॥
अत्र हेतु-
तस्यैकप्रमातृतादात्म्येन प्रमाणादभेदव्यवस्थितेः ॥८॥
एकप्रमातृतादात्म्यमपि कुतः सिद्धमित्याशङ्कथाहु:-
प्रमाणतया परिणतस्यैवात्मनः फलतया परिणति-
प्रतीतेः ॥९॥
यस्यैवात्मन' प्रमाणाकारेण परिणतिस्तस्यैव फलरूपतया परि-
णाम इत्येकप्रमात्रपेक्षया प्रमाणफलयोरभेदः ॥९॥
एतदेव भावयन्ति-
यः प्रमिमीते स एवोपादत्ते परित्यजत्युपेक्षते चेति सर्वसं-
व्यवहारिभिरस्खलितमनुभवात् ॥१०॥
न खल्वन्यः प्रमाता प्रमाणपर्यायतया परिणमतेऽन्यञ्चोपादान-
हानोपेक्षावुद्धिपर्यायखभावतयेति कस्यापि सचेतसोऽनुभवः सम-
स्तीत्यर्थः ॥ १० ॥

रवाकरावतारिकायुक्तः । ९१ यथोक्तार्थानभ्युपगमे दूषणमाहुः- इतरथा स्वपरयोः प्रमाणफलव्यवस्थाविप्लवः प्रस- ज्ज्येत ॥११॥ इतरथेत्येकस्यैव प्रमातुःप्रमाणफलतादात्म्यानगीकारे इमे प्रमाणफले स्वकीये, इमे च परकीये इति नैयत्यं न स्यादिति भावः। तदित्थमुपादा- नादौ व्यवहिते फले प्रमाणादभेदस्यापि प्रसिद्धेन तेन प्रकृतहेतो- य॑भिचार इति सिद्धम् ।।११।। अथ व्यभिचारान्तरं पराकुर्वन्ति- अज्ञाननिवृत्तिस्वरूपेण प्रमाणादभिन्नेन साक्षात्फ- लेन साधनस्यानेकान्त इति नाशङ्कनीयम् ॥१२॥ प्रमाणफलं च स्यात् , प्रमाणात् सर्वथाऽप्यभिन्नं च स्यात् , यथा- ऽज्ञाननिवृत्तिरियनयो कान्तिकत्वं प्रमाणफलत्वान्यथानुपपत्तेईतोरिति न शकुनीयं शाक्यैः ॥१२॥ कुत इत्याह- कथञ्चित्तस्यापि प्रमाणाझेदेन व्यवस्थानात् ॥१३॥ कथञ्चिदिति वक्ष्यमाणेन प्रकारेण ॥१३।। तमेव प्रकारं प्रकाशयन्ति- साध्यसाधनभावेन प्रमाणफलयोः प्रतीयमानत्वात् ॥१४॥ ये हि साध्यसाधनभावेन प्रतीयेते, ते परस्परं भिद्यते, यथा कुठार- च्छिदे, साध्यसाधनभावेन प्रतीयेते चप्रमाणाज्ञाननिवृत्त्याख्यफले ॥१४॥ अस्यैव हेतोरसिद्धतां परिजिहीर्षवः प्रमाणस्य साधनतां तावत्सम- र्थयन्ते. प्रमाणं हि करणाख्यं साधनम्, स्वपरव्यवसितौ साधक- तमत्वात् ।। १५ ॥ ।

९२ प्रमाणनयतत्त्वालोकालङ्कारः- यत् खलु क्रियायांसाधकतमम् , तत् करणाख्यं साधनं, यथा परश्वधः, साधकतमं च स्वपरव्यवसितौ प्रमाणमिति ॥१५॥ अथ फलस्य साध्यत्वं समर्थयन्ते- स्वपरव्यवसितिक्रियारूपाज्ञाननिवृत्त्याख्यं फलं तु साध्यम्, प्रमाणनिष्पाद्यत्वात् ॥१६॥ यत्प्रमाणनिष्पाद्यम्, तत्साध्य,यथोपादानबुद्ध्यादिकं,प्रमाणनिष्पाद्यं च प्रकृतं फलमिति। तन्न प्रमाणादेकान्तेन फलस्याभदः साधीयान् । सर्वथा तादात्म्ये हि प्रमाणफलयोन व्यवस्था, तद्भावविरोधात्। न हि सारूप्य- मस्य प्रमाणम् , अधिगतिः फलमिति सर्वथा तादात्म्ये सिध्यति; अतिप्रस- के । ननु प्रमाणस्यासारूप्यव्यावृत्तिः सारूप्यम् , अनधिगतिव्यावृत्तिर- धिगतिरिति व्यावृत्तिभेदादेकस्यापि प्रमाणफलव्यवस्थेति चेत् । नैवम्। स्वभावभेदमन्तरेणान्यव्यावृत्तिभेदस्याप्यनुपपत्तेः । कथं च प्रमाणस्या- प्रमाणाफलव्यावृत्त्या प्रमाणफलव्यवस्थावत्प्रमाणान्तरफलान्तरव्यावृत्त्या अप्रमाणत्वस्याफलत्वस्य च व्यवस्था न स्यात् ? इति ॥ १६ ॥ अथ प्रसङ्गतः कर्तुरपि सकाशात्प्रस्तुतफलस्य भेदं समर्थयन्ते- प्रमातुरपि वपरव्यवसितिक्रियायाः कथञ्चिद्भेदः॥१७॥ कर्तुरात्मनः किं पुनः प्रमाणादित्यपिशब्दार्थः ॥ १७ ॥ अत्र हेतुमाहुः- कर्तृक्रिययोः साध्यसाधकभावेनोपलम्भात् ॥१८॥ ये साध्यसाधकभावेनोपलभ्येते, ते भिन्ने, यथा देवदत्तदारुच्छिदि- क्रिये, साध्यसाधकभावेनोपलभ्येते च प्रमातृस्वपरव्यवसितिलक्षणाक्रिये ॥ एतद्धत्वसिद्धतां प्रतिषेधन्ति- कर्त्ता हि साधकः, स्वतन्त्रत्वात् ; क्रिया तु साध्या, कर्तृ- निवर्त्यत्वात् ॥१९॥ स्वमात्मा तन्त्रं प्रधानमस्येति स्वतन्त्रस्तद्भावस्तत्त्वं तस्मात् । यः क्रियायां स्वतन्त्रःस साधको, यथा दारुच्छिदायांत्रश्चनः, स्वतन्त्रश्च खप- रवाकरावतारिकायुक्तः। ९३ ५ रव्यवसितिक्रियायां प्रमातेति। खतन्त्रत्वं कर्तुः कुतः सिद्धम् ? इति चेत् । क्रियासिद्धावपरायत्ततया प्राधान्येन विवक्षितत्वात् ।। खपरव्यवसि- तिलक्षणा क्रिया पुनः साध्या, कर्टनिर्वय॑त्वात् , या कर्तृनिर्वा क्रिया, सा साध्यतिव्यवहारयोग्या; यथा संप्रतिपन्ना, तथा च स्वपरव्यवसिति- कियेति । तदेवं कर्तृक्रिययोः साध्यसाधकभावेन प्रतीयमानत्वादुपपन्नः फथञ्चिद्भेदः ॥ १९ ॥ एनमेवार्थ द्रढयन्ति- न च क्रिया क्रियावतः सकाशादभिन्नैव, भिन्नैव वा; प्रतिनियतक्रियाक्रियावहावभङ्गप्रसङ्गात् ॥२०॥ अभिन्नैवेत्यनेन सौगतस्वीकृतमभेदैकान्तं, भिन्नैवेत्यनेन तु वैशेषिका- धभिमतं भैदैकान्तं प्रतिक्षिपन्ति-क्रियायाः क्रियावत एकान्तेनाभेदे हि क्रियावन्मात्रमेव तात्त्विकं स्यात् । न तु द्वयम् , अभेदप्रतिज्ञाविरोधात् । एकान्तभेदे तु क्रियाक्रियावतोर्विवक्षितपदार्थस्यैवेयं क्रियेति संबन्धावधा- रणं न स्याद्, भेदाविशेषादशेषवस्तूनामप्यसौ किन्न भवेत् । नच सम- वायोऽत्र नियामकतया वक्तुं युक्तः, तस्यापि व्यापकत्वेन तन्नियामक- सायामपर्याप्तत्वात् । तस्माद्भेदाभेदैकान्तपक्षयोः प्रतिनियतक्रियाक्रियाव- द्भावभड्गप्रसङ्गः सुव्यक्त इति कथञ्चिदविष्वग्भूतव क्रिया क्रियावतः सकाशादगीकर्तुमुचिता ॥ २० ॥ कश्चिदाह-कल्पनाशिल्पिनिर्मिता सर्वाऽपि प्रमाणफलव्यवहृतिरि- ति विफल एवायं प्रमाणफलालम्बनः स्याद्वादिनां भेदाभेदप्रतिष्ठोप- क्रम इति तन्मतमिदानीमपाकुर्वन्ति- संवृत्त्या प्रमाणफलव्यवहार इत्यप्रामाणिकप्रलापः, परमार्थतः स्वाभिमतसिद्धिविरोधात् ॥२१॥ अयमर्थ:-सांवृतप्रमाणफलव्यवहारवादिनाऽपि सांवृतत्वं प्रमाण- फलयोः परमार्थवृत्त्या तावदेष्टव्यम् । तञ्चासौ प्रमाणादभिमन्यते, अप्रमा- णाद्वा । न तावदप्रमाणात् , तस्याकिञ्चित्करत्वात् । अथ प्रमाणात्। तन्न। यतःसांवृतत्वग्राहकं प्रमाणं सांवृतम् , असांवृतं वा स्यात् । यदि सांवृतम् ।

९४
प्रमाणनयतत्त्वालोकालकार:-
कथं तस्मादपारमार्थिकात् पारमार्थिकस्य सकलप्रमाणफलव्यवहारसांय-
तत्वस्य सिद्धिः? तथाच पारमार्थिक एव समस्तोऽपि प्रमाणफलव्यवहारः
प्राप्तः । अथ प्रमाणफलसांवृतत्वग्राहकं प्रमाण स्वयमसांवृतमिष्यते, तर्हि
क्षीणा सकलप्रमाणफलव्यवहारसांवृतत्वप्रतिज्ञा, अनेनैव व्यभिचारात्।
तदेवं सांवृतसकलप्रमाणफलन्यवहारवादिनो व्यक्त एव परमार्थवः स्वा-
भिमतसिद्धिविरोध इति ॥२१॥
प्रस्तुतमेवार्थ निगमयन्ति-
ततः पारमार्थिक एव प्रमाणफलव्यवहारः सकलपुरुषा-
र्थसिद्धिहेतुः स्वीकर्तव्यः ॥२२॥
एवं प्रमाण स्वरूपादिभिः प्ररूप्येदानी हेयज्ञाने सति तद्धानादुपा-
देयं सम्यगुपादातुं पार्यते, अतस्तत्स्वरूपाद्याभासमप्याहु:-
प्रमाणस्य स्वरूपादिचतुष्टयाद्विपरीतं तदाभासम् ॥२२॥
पूर्वपरिच्छेदप्रतिपादितात्प्रमाणसंबन्धिनः स्वरूपादिचतुष्टयात् स्व-
रूपसङ्ख्याविषयफललक्षणाद्विपरीतमपरं स्वरूपादिचतुष्टयाभासं स्वरू-
पाभासं, सङ्ख्याभासं, विषयाभासं, फलाभासं चेत्यर्थस्तद्वदाभासत
इति कृत्वा ।। २३ ।।
तत्र स्वरूपाभासं तावदाहुः-
अज्ञानात्मकानात्मप्रकाशकस्वमात्रावभासकनिर्विकल्प.
कसमारोपाः प्रमाणस्य स्वरूपाभासाः ॥२४॥
अज्ञानात्मकं च, अनात्मप्रकाशकं च, स्वमात्रावभासकं च, निर्वि-
कल्पकंच, समारोपश्चेति प्रमाणसंवन्धिनः स्वरूपाभासाःप्रमाणाभासाः
प्रत्येयाः ॥२४॥
अथ क्रमेण दृष्टान्तमाचक्षते-
यथा सन्निकर्षाद्यस्वसंविदितपरानवभासकज्ञानदर्श-
नविपर्ययसंशयानध्यवसायाः ॥२५॥

रतारावतारिकायुक्तः । ९५ मन्त्र सन्निकर्षादिकमज्ञानात्मकस्य दृष्टान्तः, अस्वसंविदितज्ञानम- नात्मप्रकाशकस्य, परानवभासकज्ञानं बाह्यार्थापलापिज्ञानस्य, दर्शन निर्विकल्पकस्य, विपर्ययादयस्तु समारोपस्येति ॥२५॥ कथमेषां तत्स्वरूपाभासता ? इत्यत्र हेतुमाहुः- तेभ्यः स्वपरव्यवसायस्यानुपपत्तेः ॥ २६ ॥ यथा चैतेभ्यः खपरव्यवसायो नोपपद्यते तथा प्रागुपदर्शितमेव ॥२६॥ सामान्यतः प्रमाणवरूपाभासमभिधाय विशेषतस्तदभिधित्सवः सांव्यवहारिकप्रत्यक्षाभासं तावदाहुः- सांव्यवहारिकप्रत्यक्षमिव यदाभासते तत्तदाभासम्॥२७॥ सांव्यवहारिकप्रत्यक्षमिन्द्रियानिन्द्रियनिबन्धनतया द्विप्रकारं प्रागु- पवर्णितस्वरूपम् ॥२७॥ उदाहरन्ति- यथाऽम्बुधरेषु गन्धर्वनगरज्ञानं, दुःखे सुखज्ञानं च ॥२८॥ अत्राचं निदर्शनमिन्द्रियनिवन्धनाभासस्य,द्वितीयं पुनरनिन्द्रियनिब- न्धनाभासस्य। अवग्रहामासादयस्तु तद्भेदाः स्वयमेव प्राविज्ञेयाः॥२८॥ पारमार्थिकप्रत्यक्षाभासं प्रादुष्कुर्वन्ति- पारमार्थिकप्रत्यक्षमिव यदाभासते तत्तदाभासम् ॥२९॥ पारमार्थिकप्रत्यक्षं विकलसकलस्वरूपतया द्विभेदं प्रागुक्तम् ॥२९॥ उदाहरन्ति- यथा शिवाख्यस्य राजर्षेरसंख्यातद्वीपसमुद्रेषु सप्तही- पसमुद्रज्ञानम् ॥३०॥ शिवाख्योराजार्षः स्वसमयप्रसिद्धः, तस्य किल विभङ्गापरपर्यायमव- ध्याभासं तादृशं वेदनमाविर्बभूवेत्याहुः सैद्धान्तिकाः । मनःपर्यायकेवल- ज्ञानयोस्तु विपर्ययः कदाचिन्न संभवत्ति, एकस्य संयमविशुद्धिप्रादुर्भूत- त्वात् , अन्यस्य समस्तावरणक्षयसमुत्थत्वात्। ततश्च नात्र तदाभासचि- न्तावकाशः ॥३०॥ .

९६
प्रमाणनयतत्त्वालोकालझार:-
अथ परोक्षाभासं विवक्षवः स्मरणाभासं तावदाहुः-
अननुभूते वस्तुनि तदितिज्ञानं स्मरणाभासम् ॥३१॥
अननुभूते प्रमाणमात्रेणानुपलब्धे ।।३१।।
उदाहरन्ति-
अननुभूते मुनिमण्डले तन्मुनिमण्डलमिति यथा ॥३२॥
प्रत्यभिज्ञाभासं प्ररूपयन्ति-
तुल्ये पदार्थ स एवायमिति, एकस्मिंश्च तेन तुल्य इत्यादि-
ज्ञानं प्रत्यभिज्ञानाभासम् ।। ३३॥
प्रत्यभिज्ञानं हि तिर्यगूदुर्ध्वतासामान्यादिगोचरमुपवर्णितं, तत्र तिर्य-
क्सामान्यालिङ्गिते भावे स एवायमिति ऊर्ध्वतासामान्यस्वभावे चैक-
स्मिन् द्रव्ये तेन तुल्य इति ज्ञानम्। आदिशब्दादेवंजातीयकमन्यदपि ज्ञानं
प्रत्यभिज्ञानाभासमिति ।।३३।।
उदाहरन्ति-
यमलकजातवत् ॥३४॥
यमलकजातयोरेकस्याः स्त्रिया एकदिनोत्पन्नयोः पुत्रयोर्मध्यादेकत्र
द्वितीयेन तुल्योऽयमिति जिज्ञासिते स एवायमिति, अपरत्रस एवायमिति
बुभुत्सिते तेन तुल्योऽयमिति च ज्ञानं प्रत्यभिज्ञानाभासम् ॥३४॥
तर्काभासमादर्शयन्ति-
असत्यामपि व्याप्तौ तदवभासस्तर्काभासः॥३५॥
व्याप्तिरविनाभावः ॥३५॥
उदाहरन्ति-
स श्यामो मैत्रतनयत्वादित्यत्र यावान्मैत्रतनयःस श्याम
इति यथा ॥३६॥
नहि मैत्रतनयत्वहेतोः श्यामत्वेन व्याप्तिरस्ति, शाकाद्याहारपरिण-
तिपूर्वकत्वाच्छयामतायाः । यो हि जनन्युपभुक्तशाकाद्याहारपरिणामपूर्व-
कस्तनय., स एव श्याम इति सर्वाक्षेपेण यः प्रत्ययः, स तर्क इति ॥३६॥

श्ताकरावतारिकायुक्तः। ९७ अनुमानाभासमाख्यान्ति- पक्षाभासादिसमुत्थं ज्ञानमनुमानाभासमवसेयम् ॥ ३७॥ पक्षाभासो वक्ष्यमाण आदिर्येषां हेत्वाभासादीनां भणिष्यमाणखरू- पाणां तेभ्यः समुत्था समुत्पत्तिरस्येति पक्षाभासादिसमुत्थं ज्ञान- मनुमानाभासमभिधीयते । एतञ्च यदा स्वप्रतिपत्त्यर्थ तदा खार्थानुमा- राभासं, यदा तु परप्रतिपत्त्यर्थ पक्षादिवचनरूपापन्नं तदा परार्थानुमाना- भासमवसेयमिति ॥ ३७ ॥ पक्षाभासांस्तावदाहुः- तत्र प्रतीतनिराकृतानभीप्सितसाध्यधर्मविशेषणास्त्रयः पक्षाभासाः ॥ ३८॥ प्रतीतसाध्यधर्मविशेषणः, निराकृतसाध्यधर्मविशेषणः, अनभीप्सि- ससाध्यधर्मविशेषणश्चेति त्रयः पक्षाभासा भवन्ति; अप्रतीतानिराकृताभी- प्सितसाध्यधर्मविशिष्टधर्मिणां सम्यक्पक्षत्वेन प्रागुपवर्णितत्वादेतेषां च तद्विपरीतत्वात् ।। ३८ ॥ तत्राचं पक्षाभासमुदाहरन्ति- प्रतीतसाध्यधर्मविशेषणो यथाऽऽर्हतान्प्रत्यवधारणवर्ज परेण प्रयुज्यमानः समस्ति जीव इत्यादिः ॥३९॥ अवधारणं वर्जयित्वा परोपन्यस्तः समस्तोऽपि वाक्प्रयोग आर्हतानां प्रतीतमेवार्थ प्रकाशयति । ते हि सर्व जीवादिवस्त्वनेकान्तात्मकं प्रतिपन्नाः, ततस्तेषामवधारणरहितं प्रमाणवाक्यं,सुनयवाक्यं वा प्रयुज्यमानं प्रसिद्ध- मेवार्थमुद्भावयतीति व्यर्थस्तत्प्रयोगः । सिद्धसाधनः,प्रसिद्धसंबन्ध इत्यपि संज्ञाद्वयमस्थाविरुद्धम् ॥ ३९ ॥ द्वितीयपक्षाभासं भेदतो नियमयन्ति- निराकृतसाध्यधर्मविशेषणः प्रत्यक्षानुमानागमलोक- खवचनादिभिः साध्यधर्मस्य निराकरणादनेक- प्रकारः ॥ ४०॥ है OM

९८
प्रमाणनयतस्थानोफालझार:-
प्रत्यक्षनिराकृतसाध्यधर्मविशेषणः, अनुमाननिराकृतसाध्यधर्मविशे-
षणः, आगमनिराकृतसाध्यधर्मविशेषणः, लोकनिराकृतसाध्यधर्मवि-
शेषणः, स्ववचननिराकृतसाध्यधर्मविशेषणः; आदिशब्दात्स्मरणनिराक-
तसाध्यधर्मविशेषणः, प्रत्याभिज्ञाननिराकृतसाध्यधर्मविशेषणः, तर्कनिरा
कृतसाध्यधर्मविशेपणश्चेति ॥ ४०॥
एषु प्रथमं प्रकारं प्रकाशयन्ति-
प्रत्यक्षनिराकृतसाध्यधर्मविशेषणो यथा नास्ति भूतवि-
लक्षण आत्मा ॥४१॥
स्वसंवेदनप्रत्यक्षेण हि पृथिव्यप्तेजोवायुभ्यः शरीरत्वेन परिण-
तेभ्यो भूतेभ्यो विलक्षणोऽन्य आत्मा परिच्छिद्यते, इति तद्विलक्षणात्म-
निराकरणप्रतिज्ञाऽनेन वाध्यते; यथाऽनुष्णोऽग्निः, इति प्रतिज्ञा वाह्ये-
न्द्रियप्रत्यक्षेण ।। ४१ ॥
द्वितीयप्रकारं प्रकाशयन्ति-
अनुमाननिराकृतसाध्यधर्मविशेषणो यथा नास्ति सर्व-
ज्ञो वीतरागो वा ॥ ४२ ॥
अत्र हि यःकश्चिन्निहींसातिशयवान् , स क्वचित्स्वकारणजनितनिर्मू-
लक्ष्य. यथा कनकादिमलो, निहासातिशयवती च दोषावरणे इत्यनेनानु-
मानेन सुव्यक्तैव वाधा । एतस्मात्खल्वनुमानाद्यत्र कचन पुरुषधौरेये
दोषावरणयोः सर्वथा प्रक्षयप्रसिद्धि., स एव सर्वज्ञो वीतरागश्चेति । एव-
मपरिणामी शब्द इत्यादिरपि प्रतिज्ञा परिणामी शब्दःकृतकत्वान्यथाऽनु-
पपत्तेरित्याद्यनुमानेन वाध्यमानाऽत्रोदाहरणीया ॥ ४२ ॥
अथ तृतीय भेदमाहुः-
आगमनिराकृतसाध्यधर्मविशेषणो यथा जैनेन रजनि-
भोजनं भजनीयम् ॥४३॥
"अत्थं गयंमि आइचे पुरत्था य अणुग्गए।
आहारमाइयं सव्वं मणसावि न पत्थए" ॥१॥

रत्नाकरावतारिकायुक्तः । ९९ , इत्यादिना हि प्रसिद्धप्रामाण्येन परमागमवाक्येन क्षपाभक्षणपक्षः प्रतिक्षिप्यमाणत्वान्न साधुत्वमास्कन्दति । एवं जैनेन परकलत्रमभिलष- णीयमित्याादाहरणीयम् ॥४३॥ चतुर्थ प्रकारं प्रथयन्ति- लोकनिराकृतसाध्यधर्मविशेषणो यथा न पारमार्थिकः प्रमाणप्रमेयव्यवहारः ॥ ४४ ॥ लोकशब्देनात्र लोकप्रतीतिरुच्यते । ततो लोकप्रतीतिनिराकृत- साध्यधर्मविशेषण इत्यर्थः । सर्वाऽपि हि लोकस्य प्रतीतिरीदृशी यत्पार- मार्थिकं प्रमाण, तेन च तत्त्वातत्त्वविवेकः पारमार्थिक एव क्रियते । ननु लोकप्रतीतिरप्रमाणं,प्रमाणं वा ? । अप्रमाणं चेत् , कथं तया बाध कस्यापि कर्तुं शक्यः ? प्रमाणं चेत्, प्रत्यक्षाद्यतिरिक्तं, तदन्यतरद्वा । न तावदाद्यः पक्षः,प्रत्यक्षाद्यतिरिक्तप्रमाणस्यासंभवात् । अन्यथा “प्रत्यक्षं च परोक्षं च" इत्यादिविभागस्यासमजस्यापत्तेः । द्वितीयपक्षे तु प्रत्यक्षनिराकृतसाध्यध- मविशेषणादिपक्षाभासेष्वेवास्यान्तर्भूतत्वात् न वाच्यः प्रकृतः पक्षाभास इति चेत् । सत्यमेतत्, किन्तु लोकप्रतीतिरत्रोत्कलितत्वेन प्रतिभातीति विनेयमनीषोन्मीलनार्थमस्य पार्थक्येन निर्देशः। एवं शुचि नरशिरःकपा- लप्रमुख, प्राण्यगत्वात् , शङ्खशुक्तिवदित्याद्यपि दृश्यम् ॥४४॥ पञ्चमप्रकारं कीर्तयन्ति- खवचननिराकृतसाध्यधर्मविशेषणो यथा नास्ति प्रमेयपरिच्छेदकं प्रमाणम् ॥ ४५ ॥ सर्वप्रमाणाभावमभ्युपगच्छतः स्वमपि वचनं खाभिप्रायप्रतिपाद- नपरं नास्तीति वाचंयमत्वमेव तस्य श्रेयः; ब्रुवाणस्तु नास्ति प्रमाण प्रमेयपरिच्छेदकमिति खवचनं प्रमाणीकुर्वन् ब्रूत इति खवचनेनैवासौ व्याहन्यते; एवं निरन्तरमहं मौनीत्याद्यपि दृश्यम् । ननु स्ववचनस्य शब्द- रूपत्वात्तन्निराकृतसाध्यधर्मविशेषणः पक्षाभासः प्राग्गदितागमनिराक- तसाध्यधर्मविशेषण एव पक्षाभासेऽन्तर्भवतीति किमर्थमस्य भेदेन कथ- नमिति चेत् । एवमेततू, तथापि शिष्यशेमुषीविकाशार्थमस्यापि पार्थक्येन

१००
प्रमाणनयतवालोकालङ्कार:-
कथनमिति न दोषः । आदिशब्दसूचितास्तु पक्षाभासालयः स्मरण-
प्रत्यभिज्ञानतर्कनिराकृतसाध्यधर्मविशेषणाः । तत्र स्मरणनिराकृतसा-
ध्यधर्मविशेषणो यथा, स सहकारतरु. फलशून्य इति, अयं पक्षः कस्य-
चित्सहकारतरुं फलभरभ्राजिष्णुं सम्यक् स्मर्तुः स्मरणेन वाध्यते। प्रत्य-
भिज्ञाननिराकृतसाध्यधर्मविशेपणो यथा, सहशेऽपि कचन वस्तुनि
कश्चन कञ्चनाधिकृत्योर्द्धतासामान्यभ्रान्या पक्षीकुरुते, तदेवेदमिति ।
तस्यायं पक्षस्तिर्यक्सामान्यावलम्बिना तेन सदृशमिदमिति प्रत्यभि-
ज्ञानेन निराक्रियते। तर्कनिराकृतसाध्यधर्मविशेषणो यथा, यो यस्त-
पुत्रः, स श्याम इति व्याप्तिः समीचीनेति । अस्यायं पक्षो यो जनन्यु-
पभुक्तशाकाद्याहारपरिणामपूर्वकस्तत्पुत्रः, स श्याम इति व्याप्तिप्राहिणा
सम्यक्तर्केण निराक्रियते ॥४५॥
द्वितीय पक्षाभासं सभेदमुपदर्य तृतीयमुपदर्शयन्ति-
अनभीप्सितसाध्यधर्मविशेषणो यथा स्यावादिनः
शाश्वतिक एव कलशादिरशाश्वतिक एव वेति
वदतः ॥४६॥
स्थाद्वादिनो हि सर्वत्रापि वस्तुनि नित्यत्वैकान्तः, अनित्यत्वकान्तो वा
नाभीप्सितः, तथापि कदाचिदसौ सभाक्षोभादिनवमपि वदेत्। एवं नित्यः
शब्द इति ताथागतस्य वदतः प्रकृतः पक्षाभास.। ये त्वप्रसिद्धाविशेषणा-
प्रसिद्धविशेष्याप्रसिद्धोभयाः पक्षभासाः परैःप्रोचिरे, नामी समीचीनाः।
अप्रसिद्धस्यैव विशेषणस्य साध्यमानत्वात्, अन्यथा सिद्धसाध्यताऽवता-
रात् । अथात्र सार्वत्रिकः प्रसिद्ध्यभावो विवक्षितो नतु तत्रैव धर्मिणि, यथा
साङ्ख्यस्य विनाशिवं कापि धर्मिणि न प्रसिद्धम् ; तिरोभावमात्रस्यैव
सर्वत्रतेनाभिधानात् । तदयुक्तम्। एवं सति क्षणिकतां साधयतो भवतः
कथं नाप्रसिद्धविशेषणत्वं दोषो भवेत् ?, क्षणिकतायाः सपक्षे काप्यप्र-
सिद्धेः । विशेष्यस्य तु धर्मिणः सिद्धिर्विकल्पादपि प्रतिपादितेति कथ-
भप्रसिद्धताऽस्य ? । एतेनाप्रसिद्धोभयोऽपि परास्त. ॥ ४६॥

रत्नाकरावतारिकायुक्तः । - पक्षाभासान्निरूप्य हेत्वाभासानाहुः- असिद्धविरुद्धानकान्तिकास्त्रयो हेवाभासाः॥४७॥ निश्चितान्यथाऽनुपपत्त्याख्यैकहेतुलक्षणविकलत्वेनाहेतवोऽपिहेतुस्थाने निवेशाद्धेतुवदाभासमाना हेत्वाभासाः ॥४७॥ तन्नासिद्धमभिदधति- यस्यान्यथानुपपत्तिः प्रमाणेन न प्रतीयते सोऽसिद्धः॥ अन्यथाऽनुपपत्तेविपरीताया अनिश्चितायाश्च विरुद्धानकान्तिकत्वेन कीर्तयिष्यमाणत्वादिह हेतुस्वरूपाप्रतीतिद्वारैकैवान्यथाऽनुपपत्त्यप्रतीति- रवशिष्टा द्रष्टव्या; हेतुस्वरूपाप्रतीतिश्चयमज्ञानात्, सन्देहाद्, विपर्य- याद् वा विज्ञेया ॥४८॥ अथामुं भेदतो दर्शयन्ति- स विविध उभयासिद्धोऽन्यतरासिद्धश्च ॥ ४९ ॥ उभयस्य वादिप्रतिवादिसमुदायस्यासिद्धः; अन्यतरस्य वादिनः, प्रतिवादिनो वाऽसिद्धः ॥४९॥ तत्राद्यभेद वदन्ति- उभयासिद्धो यथा परिणामी शब्दश्चाक्षुषत्वात् ॥५०॥ चक्षुषा गृह्यत इति चाक्षुषस्तस्य भावश्चाक्षुषत्वं तस्मात् । अयं च वादिप्रतिवादिनोरुभयोरप्यसिद्धः, श्रावणत्वाच्छन्दस्य ॥ ५० ॥ द्वितीयं भेदं वदन्ति- अन्यतरासिद्धो यथा अचेतनास्तरवो विज्ञानेन्द्रियायु- निरोधलक्षणमरणरहितत्वात् ॥५१॥ ताधागतो हि तरूणामचैतन्यं साधयन् विज्ञानेन्द्रियायुनिरोध- लक्षणमरणरहितत्वादिति हेतूपन्यास कृतवान् । स च जैनानां तरुचेतन्य- वादिनामासद्धः। तदागमे द्रुमेष्वपि विज्ञानेन्द्रियायुषां प्रमाणतः प्रतिष्ठि- तत्वात् । इदं च प्रतिवाद्यसिद्धयपेक्षयोदाहरणम् । वाद्यसिद्ध्यपेक्षया तु ।

१०२ प्रमाणनयतत्त्वालोकालङ्कार:- . अचेतनाः सुखादयः, उत्पत्तिमत्त्वादिति । अत्र हि वादिनः सांख्यस्योत्प- त्तिमत्त्वमप्रसिद्धम् । तेनाविर्भावमात्रस्यैव सर्वत्र स्वीकृतत्वात् नन्वित्थमसिद्धप्रकारप्रकाशनं परैश्चक्र-स्वरूपेणासिद्धः, स्वरूपं वाऽसिद्धं यस्य सोऽयं वरूपासिद्धः, यथा अनित्यः शब्दः, चाक्षु- षत्वादिति । ननु चाक्षुषत्वं रूपादावस्ति, तेनास्य व्यधिकरणासि- द्धत्वं युक्तम्, न; रूपाद्यधिकरणत्वेनाप्रतिपादितत्वात् । शब्दधर्मिणि चोपदिष्टं चाक्षुषत्वं न स्वरूपतोऽस्तीति स्वरूपासिद्धम् । विरुद्धम- धिकरणं यस्य स चासावसिद्धश्चेति व्यधिकरणासिद्धो यथा, अनित्यः शव्द:, पटस्य कृतकत्वादिति । ननु शब्देऽपि कृतकत्वमस्ति; सत्यं, न तु तथा प्रतिपादितम् । नचान्यत्र प्रतिपादितमन्यत्र सिद्धं भवति। मीमांसकस्य वा कुर्वतो व्यधिकरणासिद्धम् । २ । विशेष्यमसिद्धं यस्यासौ विशेष्यासिद्धोयथा, अनित्यः शब्दः, सामान्यवत्त्वे सति चाक्षु- षत्वात्।३। विशेषणासिद्धो यथा, अनित्यः शब्दः, चाक्षुषत्वे सति सामा- न्यवत्त्वात्। ४ ।पक्षैकदेशासिद्धपर्यायः पक्षभागेऽसिद्धत्वात् भागासिद्धो यथा, अनित्यः शब्दः, प्रयत्नानन्तरीयकत्वात् । ननु च वाद्यादिसमुत्थश- व्दानामपीश्वरप्रयत्नपूर्वकत्वात् कथं भागासिद्धत्वम् ? । नैतत् । प्रयत्नस्य तीव्रमन्दादिभावानन्तरं शब्दस्य तथाभावो हि प्रयत्नानन्तरीयकत्वं विव- क्षितम् । नचेश्वरप्रयत्नस्य तीब्रादिभावोऽस्ति, नित्यत्वात्। अनभ्युपगतेश्वरं प्रति वाभागासिद्धत्वम्। ५ । आश्रयासिद्धो यथा, अस्ति प्रधान, विश्वस्य परिणामिकारणत्वात् । ६ । आश्रयैकदेशासिद्धो यथा, नित्याः प्रधानपु- रुषेश्वराः, अकृतकत्वात् । अत्र जैनस्य पुरुष. सिद्धो न प्रधानेश्वरौ ।। सन्दिग्धाश्रयासिद्धो यथा, गोत्वेन सन्दिह्यमाने गवये आरण्यकोऽयं गौः, जनदर्शनोत्पन्नत्रासत्वात् । ८।सन्दिग्धाश्रयैकदेशासिद्धो यथा, गो- त्वेन सन्दिह्यमाने गवये गवि च आरण्यकावेतौ गावौ, जनदर्शनोत्पन्नत्रा- सत्वात् । ९ । आश्रयसन्दिग्धवृत्त्यसिद्धो यथा, आश्रयहेत्वोः स्वरूप- निश्चये आश्रये हेतुवृत्तिसंशये मयूरवानयं प्रदेशः, केकायितोपेतत्वात् । १० । आश्रयैकदेशसन्दिग्धवृत्त्यसिद्धो यथा, आश्रयहेत्वोः स्वरूपनिश्चये सत्येवाश्रयैकदेशे हेतुवृत्तिसंशये मयूरवन्तावेतौ सहकारकर्णिकारौ, तत- , रत्नाकरावतारिकायुक्तः। १०३ , एव । ११ । व्यर्थविशेषणासिद्धो यथा, अनित्यः शब्दः, सामान्यवत्त्वे सति कृतकत्वात् । १२ । व्यर्थविशेष्यासिद्धो यथा, अनित्यः शब्दः, कृतकले सति सामान्यवत्त्वात् । १३ । सन्दिग्धासिद्धो यथा, धूमबा- पादिविवेकानिश्चये कश्चिदाह -वह्निमानयं प्रदेशः, धूमवत्त्वात् । १४ । संदिग्धविशेष्यासिद्धो यथा, अद्यापि रागादियुक्तः कपिलः, पुरुषले सत्यद्याप्यनुत्पन्नतत्त्वज्ञानत्वात् । १५ । संदिग्धविशेषणासिद्धो यथा, अद्यापि रागादियुक्तः कपिलः, सर्वदा तत्त्वज्ञानरहितत्वे सति पुरुष- त्वात् । १६ । एकदेशासिद्धो यथा, प्रागभावो वस्तु, विनाशोत्पादधर्म- कत्वात् । १७ । विशेषणैकदेशासिद्धो यथा, तिमिरमभावस्वभावं, द्रव्य- गुणकर्मातिरिक्तत्वे सति कार्यत्वात् । अत्र जैनान् प्रति तिमिरे द्रव्याति- रेको न सिद्धः । १८ । विशेष्यैकदेशासिद्धो यथा, तिमिरमभावस्वभावं, कार्यत्वे सति द्रव्यगुणकर्मातिरिक्तत्वात् ।१९ । संदिग्धैकदेशासिद्धो यथा, नायं पुरुषः सर्वज्ञः, रागवक्तृत्वोपेतत्वात् । अत्र लिङ्गादनिश्चिते रागित्वे सन्देहः।२०।संदिग्धविशेषणैकदेशासिद्धो यथा, नायं पुरुषः सर्वज्ञः, राग- वक्तृत्वोपेतत्वे सति पुरुषत्वात् ।२१। सन्दिग्धविशेष्यैकदेशासिद्धो यथा, नायं पुरुषः सर्वज्ञः, पुरुषत्वे सति रागवक्तृत्वोपेतत्वात् ।२२।व्यर्थैकदेशा- सिद्धो यथा, आग्निमानयं पर्वतप्रदेशः, प्रकाशधूमोपेतत्वात् । २३। व्यर्थ- विशेषणैकदेशासिद्धो यथा,गुणः शब्दः, प्रमेयत्वसामान्यवत्त्वे सति बाझै- केन्द्रियग्राह्यत्वात् । अत्र बाखैकेन्द्रियग्राह्यस्यापि रूपत्वादिसामान्यस्य गुण- वाभावाध्यभिचारपरिहाराय सामान्यवत्त्वे सतीति सार्थकम् ; प्रमेयत्वं तु व्यर्थम् । २४ । व्यर्थविशेष्यैकदेशासिद्धो यथा, गुणः शब्दो बायै- केन्द्रियग्राह्यत्वे सति प्रमेयत्वसामान्यवत्त्वात् । २५ । एवमन्येऽप्येक- देशासिद्ध्यादिद्वारेण भूयांसोऽसिद्धभेदाः स्वयमभ्यूह्य वाच्याः । उदाह- रणेषु चैतेषु दूषणान्तरस्य सम्भवतोऽप्यप्रकृतत्वादनुपदर्शनम् । त एते भेदा भवद्भि. कथं नाभिहिताः ? | उच्यते । एतेषु ये हेत्वाभासतां भजन्ते, ते यदोभयवाद्यसिद्धत्वेन । विवक्ष्यन्ते, तदोभयासिद्धेऽन्तर्भवन्ति । यदात्वन्यतरासिद्धत्वेन तदा- ऽन्यतरासिद्ध इति । व्यधिकरणासिद्धस्तु हेत्वाभासो न भवत्येव । " - १०४ प्रमाणनयतत्त्वालोकालझार:- व्यधिकरणादपि पिनो ह्मण्यात्पुत्रे नालण्यानुमानदर्शनान्, नटभटा. दीनामपि ब्राह्मण्यं कस्मान्नायं साधयतीति चेत् । पक्षधोऽपि पर्य- तद्रव्यता; तत्र चित्रभानुं किमिति नानुमापयति ? इति समानम; व्यभिचाराचेत् , तदपि तुल्यम्। तत्पित्रो क्षण्यं हितगमकम् । एवं तदि प्रयोजकसंवन्धेन संबद्धो हेतुः कथं व्यधिकरणः ? इति चेत् । ननु यदि साध्याधिगमप्रयोजकसंवन्धाभावाद्वयधिफरण्यमुच्यते । तदानी संमत मेवैतदस्माकं दोपः, किन्तु प्रमेयत्वादयोऽपि व्यधिकरणा एव वाच्या स्युर्न व्यभिचार्यादयः । तस्मात्पक्षान्यधर्मवाभिधानादेव व्यधिकरणो हेत्वाभासस्ते सम्मतः, सचागमक इति नियमं प्रत्याचल्महे । अथ प्रति भोहशक्त्याऽन्यथाभिधानेऽपि ब्राह्मणजन्यत्वादित्येवं हेत्वर्य प्रतिपद्य साध्यं प्रतिपद्यते इति चेदेवं तर्हि प्रतिभोहशक्त्यैव पटस्य कृतकत्वादित्य भिधानेऽपि पटस्य कृतकत्वादनित्यत्वं दृष्टम् , एवं शब्दस्यापि तत एव तद् स्त्विति प्रतिपत्तौ नायमपि व्याधिकरणः स्यात् । तस्माद्यथोपात्तो हेतुस्तथै तद्गमकत्वं चिन्तनीयम् । नच यस्मात्पटस्य कृतकत्वं तस्मात्तदन्येनाप्य नित्येन भवितव्यमित्यस्ति व्याप्ति । अतोऽसौ व्यभिचारादेवागमकः एवं काककाादिरपि । कथं वा व्यधिकरणोऽपिजलचन्द्रो नभश्चन्द्रस्य कृत्तिकोदयो वा शकटोदयस्य गमकः स्यात् ? इति नास्ति व्यधिकरण हेत्वाभासः ।आश्रयासिद्धताऽपि न युक्ता । अस्ति सर्वज्ञः, चन्द्रोपरागादि ज्ञानान्यथाऽनुपपत्तेरित्यादेरपि गमकत्वनिर्णयात्। कथमत्र सर्वज्ञधर्मिण सिद्धि.? इति चेत्, असिद्धिरपि कथमिति कथ्यताम् ?। प्रमाणागोचर त्वादस्येति चेत्, एवं तर्हि तवापि तत्सिद्धिः कथं स्यात् ? । ननु को नार सर्वज्ञधर्मिणमभ्यधात्, येनैष पर्यनुयोगः सोपयोगः स्यादिति चेत् नैवम् । प्रमाणागोचरत्वादित्यतः सर्वज्ञो धर्मी न भवतीति सिपाधयि षितत्वात् । अन्यथेदमम्वरं प्रति निशिततरतरवारिव्यापारप्रायं भवेत् एवं च- आश्रयासिद्धता तेऽनुमाने न चेत्, साऽनुमाने मदीये तदा किं भवेत् ? आश्रयासिद्धता तेऽनुमानेऽस्ति चेत्,साऽनुमाने मदीये तदा किं भवेत् यदि त्वदीयानुमानेनाश्रयासिद्धिरस्ति तदा प्रकृतेऽप्यसौ मा भूर रत्नाकरावतारिकायुक्तः। १०५ धर्मिण उभयत्राप्यक्यात् ; अन्यस्यास्य प्रकृतानुपयोगित्वात् । अथास्ति तत्राश्रयासिद्धि. तदा बाधकामावात् एषा कथ मदीयेऽनुमाने स्यादि- ति भावः । तथा च- "विकल्पाद्धर्मिणः सिद्धिः क्रियतेऽथ निषिध्यते । द्विधाऽपि धर्मिण सिद्धिर्विकल्पात्ते समागता" ।। १ ।। द्वयमपि नास्मि करोमीत्यप्यनभिधेयम् , विधिप्रतिषेधयोयुगपद्वि- धानस्य प्रतिषेधस्य चासभवात् । यदि च द्वयमपि न करोषि, तदा व्यक्तममूल्यक्रयी कथ नोपहासाय जायसे ?, तथातायामाश्रयासिद्ध्यु- द्भावनाऽघटनात्। ननु यदि विकल्पसिद्धेऽपि धर्मिणि प्रमाणमन्वेषणी- यम् , तदा प्रमाणसिद्धेऽपि प्रमाणान्तरमन्विष्यताम् ; अन्यथा तु विक- ल्पसिद्धेऽपि पर्याप्त प्रमाणान्वेषणेन, अहमहमिकया प्रमाणलक्षणपरी- क्षण परीक्षकाणामकक्षीकरणीयं च स्यात् , तावन्मात्रेणैव सर्वस्यापि सिद्धे । तथा च चाक्षुषत्वादिरपि शब्दानित्यत्वे साध्ये सम्यग्घेतुरेव भवेदिति चेत् । तदत्यल्पम्। विकल्पाद्धि सत्त्वासत्त्वसाधारणं धर्मिमात्रं प्रतीयते, न तु तावन्मात्रेणैव तदस्तित्वस्यापि प्रतीतिरस्ति, यतोऽनुमा- नाऽनर्थक्य भवेत् , अन्यथा पृथिवीधरसाक्षात्कारे कृशानुमत्त्वसाधनम- प्यपार्थकं भवेत्। तस्याग्निमतोऽनग्निमतो वा प्रत्यक्षेणैव प्रेक्षणात्। अग्नि- मत्त्वाऽनग्निमत्त्वविशेषशून्यस्य शैलमात्रस्य प्रत्यक्षेण परिच्छेदाद् नानु- मानानर्थक्यमिति चेत् । तस्तित्वनास्तित्वविशेषशून्यस्य सर्वज्ञमात्रस्य विकल्पेनाऽऽकलनात् कथमत्राप्यनुमानानर्थक्यं स्यात् । अस्तित्वना- स्तित्वव्यतिरेकेण कीदृशी सर्वज्ञमात्रसिद्धिरिति चेत् ?, अग्निमत्त्वानग्नि- मत्त्वव्यतिरेकेण क्षोणीधरमात्रसिद्धिरपि कीदृशी' इति वाच्यम् । क्षोणी- धरोऽयमित्येतावन्मात्रज्ञप्तिरेवेति चेत्, इतरत्रापि सर्वज्ञ इत्येतावन्मात्र- ज्ञप्तिरेव साऽस्तु, केवलमेका प्रमाणलक्षणोपपन्नत्वात् प्रामाणिकी, तदन्या तु तद्विपर्ययाद्वैकल्पिकीति। ननु किमनेन दुर्भगाऽऽभरणभाराय- माणेन विकल्पेन प्रामाणिकः कुर्यादिति चेत् । तद्युक्तम्। यत. प्रामा- १४ १०६ प्रमाणनयतत्वालोकालद्वार:- णिकोऽपि पदतर्कीपरितर्ककर्कगोमुपीविठोपसङ्ख्यावद्विराजिराजस- भायां खरविषाणमस्ति नास्ति वेति केनापि प्रसर्पदोद्भुरकन्धरण साक्षेपं प्रत्याहतोऽवश्यं पुरुषाभिमानी किञ्चिद् याद् न तूष्णीमेव पुष्णीयात् ; अप्रकृतं च किमपि प्रलपन् सनिकार नित्सार्येत, प्रकृ- तभाषणे तु विकल्पसिद्धं धर्मिणं विहाय काऽन्या गतिरास्ते ?। अप्रामा- णिके वस्तुनि मूकवावदूकयोः कतर, श्रेचानिति स्वयमेव विवेचयन्तु तार्किका.? इति चेत्, ननु भवान् स्वोक्तमेव तावद्विवेचयतु, मूकतैव श्रेयसीति च पूत्करोति निष्प्रमाणके वस्तुनीति विकल्पसिद्धू धर्मिणं विधाय मूकताधर्म च विदधातीत्यनात्मज्ञशेखरः । तस्मात्प्रामाणि- केनापि स्वीकर्त्तव्यैव कापि विकल्पसिद्धि.! न च सैव सर्वत्रास्तु, कृतं प्रमाणेनेति वाच्यम् । तदन्तरेण नियतव्यवस्थाऽयोगात्। एको विकल्प- यति, अस्ति सर्वज्ञोऽन्यस्तु नास्तीति किमत्र प्रतिपद्यताम्?। प्रमाणमुद्रा- व्यवस्थापिते त्वन्यतरस्मिन्धर्मे दुर्द्धरोऽपि कः किं कुर्चान् ?! प्रमाणसि- द्वयनहें तु धर्मिणि सर्वज्ञखपुष्पादौ विकल्पसिद्धिरपि साधीयसी; तार्कि- कचक्रचक्रवर्तिनामपि तथा व्यवहारदर्शनात्। एवं शब्दे चाक्षुषत्वमपि सिद्धयेदिति चेत् । सत्यम् । तद्विकल्पसिद्धं विधाय यदि तत्रास्तित्वं प्रमा- णेन प्रसाधयितुं शक्यते,तदानीमस्तु नाम तत्सिद्धिः न चैवम् ; तत्र प्रव- तमानस्य सर्वस्य हेतोः प्रत्यक्षप्रतिक्षिप्तपक्षत्वेनाकक्षीकारार्हत्वात् : ततः कथमस्तित्वाप्रसिद्धौ शब्दे चाक्षुषत्वसिद्धिरस्तु ?! एवं च नाश्रयासिद्धो हेत्वाभासः समस्तीति स्थितम्।। न चैवं विश्वस्य परिणामिकारणत्वा- दित्यस्यापि गमकता प्राप्नोति; अस्य स्वरूपासिद्धत्वात् प्रधानासिद्धौ वि- श्वस्य तत्परिणामित्वासिद्धेः। एवमाश्रयैकदेशासिद्धोऽपि न हेत्वाभासः। तर्हि प्रघानात्मानौ नित्यावकृतकत्वादित्ययमप्यात्मनीव प्रधानेऽपि नित्यत्वं गमयेत्। तदसत्यम्। नित्यत्वं खल्वाद्यन्तशून्यसद्रूपत्वम् , न्तविरहमानं वा विवक्षितम् । आद्येऽत्यन्ताभावेन व्यभिचारः, तस्या- कृतकस्याप्यतद्रूपत्वात् । द्वितीये सिद्धसाध्यता; अत्यन्ताभावल्पतया प्रधानस्यायन्तरहितत्वेन तदभाववादिभिरपि स्वीकारात् । ताई देव- आद्य- . ? रत्नाकरावतारिकायुक्तः। १०७ पत्तवान्ध्येयौ वक्त्रवन्तौ वक्तृत्वादित्ययं हेतुरस्तु । नैवम्। न वान्ध्येयो वक्त्रवान् , असत्त्वादित्यनेन तद्वाधनात् । तदसत्त्वं च साधकप्रमाणा- भावात् सुप्रसिद्धम् ।। सन्दिग्धाश्रयासिद्धिरपिन हेतुदोषः; हेतोःसाध्ये- नाविनाभावसंभवात् । धर्म्यसिद्धिस्तु पक्षदोषः स्यात् । साध्यधर्मवि- शिष्टतया प्रसिद्धो हि धर्मी पक्षः प्रोच्यते, न च सन्देहास्पदीभूतस्यास्य प्रसिद्धिरस्तीति पक्षदोषेणैवास्य गतत्वान्न हेतोर्दोषो वाच्य.। सन्दिग्धा- श्रयैकदेशासिद्धोऽपि तथैव । आश्रयसन्दिग्धवृत्त्यसिद्धोऽपि न साधुः; यतो यदि पक्षधर्मत्वं गमकत्वाङ्गमगीकृतं स्यात् तदा स्यादयं दोषः; न चैवम् । तत्किमाश्रयवृत्त्यनिश्चयेऽपि केकायितानियतदेशाधिकरण- मयूरसिद्धिर्भवतु' । नैवम् । केकायितमात्रं हि मयूरमात्रेणैवाविनाभूतं निश्चितमिति तदेव गमयति । देशविशेषविशिष्टमयूरसिद्धौ तु देशवि- शेषविशिष्टस्यैव केकायितस्याविनाभावावसाय इति केकायितमात्रस्य तब्यभिचारसंभवादेवागमकत्वम्। एवमाश्रयैकदेशसंदिग्धवृत्तिरप्यसिद्धो न भवतीति । व्यर्थविशेषणविशेष्यासिद्धावपि नासिद्धभेदौ, वक्तर- कौशलमात्रत्वाद्वचनवैयर्थ्यदोषस्य । एवं व्यर्थैकदेशासिद्धादयोऽपि वाच्याः। ततः स्थितमेतद्, एतेष्वसिद्धभेदेषु संभवन्त उभयासिद्धान्यत- रासिद्धयोरन्तर्भवन्ति । नन्वन्यतरासिद्धो हेत्वाभास एव नास्ति । तथाहि-परेणासिद्ध इत्युद्भाविते यदि वादी न तत्साधकं प्रमाणमाच- क्षीत तदा प्रमाणाभावादुभयोरप्यसिद्धः, अथाचक्षीत, तदा प्रमाण- स्यापक्षपातित्त्वादुभयोरप्यसौ सिद्धः । अथवा यावन्न परं प्रति प्रमा- णेन प्रसाध्यते, तावत्तं प्रत्यसिद्ध इति चेत् ; गौणं तद्यसिद्धत्वम् ; नहि रत्नादिपदार्थस्तत्त्वतोऽप्रतीयमानस्तावन्तमपि कालं मुख्यतस्त- दाभासः । किं च । अन्यतरासिद्धो यदा हेत्वाभासस्तदा वादी निगृहीतः स्यात्, न च निगृहीतस्य पश्चादनिमह इति युक्तम् ; नापि हेतुसमर्थनं पश्चाद्युक्तम् , निग्रहान्तत्वाद्वादस्येति । अत्रोच्यते- यदा वादी सम्यग्घेतुत्वं प्रतिपद्यमानेोऽपि तत्समर्थनन्यायविस्मरणा- दिनिमित्तेन प्रतिवादिनं प्राश्निकान् वा प्रतिबोधयितुं न शक्नोत्यसिद्ध- १०८ प्रमाणनयतत्त्वालोकालङ्कार:- , - तामपि नानुमन्यते, तदाऽन्यतरासिद्धत्वेनैव निगृह्यते । तथा स्वय- मनभ्युपगतोऽपि परस्य सिद्ध इत्येतावतैवोपन्यस्तो हेतुरन्यतरा- सिद्धो निग्रहाधिकरणम्, यथा-सांख्यस्य जैनं प्रत्यचेतना. सुखादय., उत्पत्तिमत्त्वाइटवदिति। ननु कथं तर्हि प्रसङ्गमावनं सूपपाद स्यात् ; तथा च प्रमाणप्रसिद्धव्याप्तिकेन वाक्येन परस्यानिष्टत्वापादनाय प्रसञ्जन प्रसङ्ग , यथा-यत्सर्वथैकं तन्नानेकत्र वर्त्तते, यथैक. पर- माणुस्तथाच सामान्यमिति कथमनेकव्यक्तिवत्तिं स्यात् ?, अने- कव्यक्तिवत्तित्वाभावं व्यापकमन्तरेण सर्वथैक्यस्य व्याप्यस्यानुप- पत्ते । अत्र हि वादिन स्याद्वादिन. सर्वथैक्यमसिद्धमिति कथं धर्मान्तरस्यानेकव्यक्तिवत्तित्वाभावस्य गमकं स्यादिति चेत् । तद- युक्तम् । एकधर्मोपगमे धर्मान्तरोपगमसदर्शनमात्रतत्परत्वेनास्य वस्तु- निश्चायकत्वाभावात् , प्रसङ्गविपर्ययरूपस्यैव मौलहेतोस्तन्निश्चायक- त्वात् । प्रसङ्ग. खल्वत्र व्यापकविरुद्धोपलब्धिरूपः । अनेकव्यक्ति- वर्तित्वस्य हि व्यापकमनेकत्वम् , एकान्तैकरूपस्थानकव्यक्तिवतित्ववि- रोधात् । एकान्तैकरूपस्य सामान्यस्य प्रतिनियतपदार्थाधेयत्व- स्वभावादपरस्य स्वभावस्याभावेनान्यपदार्थाधेयत्वासंभवात् तद्भावस्य सदभावस्य चान्योऽन्यपरिहारस्थितलक्षणत्वेन विरोधादिति सिद्ध- मनेकत्र वृत्तरनेकत्व व्यापकम् ; तद्विरुद्ध च सर्वथैक्य सामान्ये संमतं तवेति नानेकवृत्तित्वं स्याद्विरोध्यक्यसद्भावेन व्यापकस्या- नेकत्वस्य निवृत्त्या व्याप्यस्यानकवृत्तित्वस्याऽवश्यं निवृत्ते । न च तन्निवृत्तिरभ्युपगतेति लब्धावसर' प्रसङ्गविपर्ययाख्यो विरुद्धव्याप्तो- पलब्धिरूपोऽत्र मौलो हेतु', यथा-यदनेकवृत्ति तदनेकम्। यथा-अनेक- भाजनगत तालफल, अनेकवृत्ति च सामान्यमिति एकत्वस्य विरुद्धम- नेकत्वम् । तेन व्याप्तमनेकवृत्तित्वम् , तस्योपलब्धिरिह मौलत्वं चास्यै- तदपेक्षयैव प्रसङ्गस्योपन्यासात् । न चायमुभयोरपि न सिद्ध , सामान्ये जैनयोगाभ्यां तदभ्युपगमात् । ततोऽयमेव मौलो हेतुरयमेव च वस्तु- निधायक । ननु यद्ययमेव वस्तुनिश्चायक कक्षीक्रियते, तर्हि किं प्रस- रत्नाकरावतारिकायुक्तः । १०९ झोपन्यासेन? प्रागवायमेवोपन्यस्यताम् । निश्चयागमेव हिब्रुवाणो वादी वादिनामवधेयवचनो भवतीति चेत् । मैवम् । मौलहेतुपरिकरत्वादस्य । अवश्यमेव हि प्रसङ्गं कुर्वतोऽर्थ कश्चिन्निश्चाययितुमिष्टो, निश्चयश्च सिद्धहेतुनिमित्त इति यस्तत्र सिद्धो हेतुरिष्टस्तस्य व्याप्यव्यापक- भावसाधने प्रकारान्तरमेवैतत् । यत्सर्वथैकं तन्नानेकत्र वर्तत इति व्याप्तिदर्शनमात्रमपि हि बाधकं विरुद्धधर्माध्यासमाक्षिपतीत्यन्योऽयं साधनप्रकारः । एवं च नान्यतरासिद्धस्य कस्यापि गमकत्वमिति॥५१॥ अधुना विरुद्धलक्षणमाचक्षते- साध्यविपर्ययेणैव यस्यान्यथानुपपत्तिरध्यवसीयते स विरुडः ॥ ५२ ॥ यदा केनचित् साध्यविपर्ययेणाविनाभूतो हेतुः साध्याविना- भावभ्रान्त्या प्रयुज्यते तदाऽसौ विरुद्धो हेत्वाभासः ।। ५२ ।। अत्रोदाहरणम्- यथा नित्य एव पुरुषोऽनित्य एव वा, प्रत्यभिज्ञाना- दिमत्त्वात् ।। ५३ ॥ आदिशब्दात् स्मरणप्रमाणतदाभासादिग्रहः । अयं च हेतुः प्राचि साध्ये साङ्ख्यादिभिराख्यातः। स्थिरैकखरूपपुरुषसाध्यविपरीतपरिणा- मिपुरुषेणैव व्याप्तत्वाद्विरुद्धः । तथाहि-यद्येष पुरुष स्थिरैकस्वरूप एव, तदा सुषुप्ताद्यवस्थायामिव बाह्यार्थग्रहणादिरूपेण प्रवृत्त्यभावात् प्रत्यभिज्ञानादयः कदाचिन्न स्युः, तद्भावे वा स्थिरैकरूपत्वहानिः। अव- स्थाभेदादयं व्यवहारः । इत्यप्ययुक्तम् । तासामवस्थातुर्व्यतिरेकाव्यति- रेकविकल्पानुपपत्ते. । व्यतिरेके तास्तस्यति संबन्धाभाव., अव्यति- रेके पुनरवस्थातैवेति तदवस्थस्तदभावः । कथं च तदेकान्तैक्ये अव- स्थाभेदोऽपि भवेत्। तथैकान्तानित्यत्वेऽपिसाध्ये सौगतेन क्रियमाणेऽयं हेतुविरुद्ध., परिणामिपुरुषेणैव व्याप्तत्वात् । तथाहि-अत्यन्तोच्छेदध- प्रमाणनयतत्त्वालोकालकार:- मिणि पुरुषे पुरुषान्तरचित्तवदेकसन्तानेऽपि स्मृतिप्रत्यभिज्ञाने न स्या- ताम् , नित्यानित्ये पुंसि पुनः सर्वमेतदवदातमुपपद्यते । विरोधादेः सा- मान्यविशेषवच्चित्रज्ञानवञ्चासंभवात् । तथा तुरङ्गोऽय शृङ्गसङ्गित्वादि- त्याचप्यत्रोदाहर्त्तव्यम् । ये च सति सपक्षे पक्षविपक्षव्यापक इत्यादयो विरुद्धभेदास्तेऽस्यैव प्रपञ्चभूता. । तथाहि-सति सपक्ष चत्वारो वि- रुद्धाः । पक्षविपक्षव्यापको यथा-नित्यः शब्दः कार्यत्वात् । सपक्ष- श्वात्र चतुर्वपि व्योमादिनित्य , स्वकारणसमवायः कार्यत्वं; उभयान्तो- पलक्षिता सत्ताऽनित्यत्वमित्येके, तदभिप्रायेण प्रागभावस्यापि नित्य- त्वाद्युक्तमेव विरुद्धोदाहरणम् । अन्यथा न विपक्षव्यापि कार्यत्वं स्यात् । यदा त्वादिमत्त्वमेव कार्यत्वं तदा प्रध्वंसस्य नित्यत्वेऽपि कार्यत्व- मस्तीत्यनैकान्तिकं स्यात् न विरुद्धमिति । अयं च पक्षे शब्दे विपक्षे घटादौ व्याप्य वर्तते । १ । विपक्षकदेशवृत्ति. पक्षव्यापको यथा- नित्य. शब्द. सामान्यवत्त्वे सत्यस्मदादिवाह्येन्द्रियग्राह्यत्वात् । अई- त्यर्थे कृत्याभिधानात् ग्रहणयोग्यतामात्रं ग्राह्यत्वमुक्तम् , तेनास्य पक्ष- व्यापकत्वं, विपक्षे तु घटादावस्ति न सुखादौ । २ । पक्षविपक्षैकदेश- वृत्तिर्यथा-नित्य. शब्द प्रयत्नानन्तरीयकत्वात् । अयं हि पुरुषादि- शब्द पक्षेऽस्ति न वाय्वादिशब्दे, घटादौ च विपक्षे,न विद्युदादौ। ३ । पक्षैकदेशवृत्तिविपक्षव्यापको यथा-नित्या पृथिवी कृतकत्वात् । कृत- कत्वं ब्यणुकादावस्ति पृथिव्यां न परमाणौ, विपक्षे तु घटादौ सर्वत्रा- स्ति । ४ । असति सपक्षे चत्वारो विरुद्धाः । पक्षविपक्षव्यापको यथा- आकाशविशेषगुणः शब्दः प्रमेयत्वात् । एषु चतुर्वप्याकाशे विशेषगु- णान्तरस्याभावात् सपक्षाभावः । अयं च पक्षे शव्दे विपक्षे च रूपादौ व्याप्य वर्तते । ५। पक्षविपक्षैकदेशवृत्तिर्यथा-तत्रैव पक्षे प्रयत्ना- नन्तरीयकत्वात् । अयं पक्षे पुरुषादिशब्दे एव, विपक्षे च रूपा- दावेवास्ति, न वाय्वादिशब्दे विद्युदादौ च । ६ । पक्षव्यापको विपक्षै- केदशवृत्तिर्यथा-तत्रैव पक्षे वाह्येन्द्रियग्राह्यत्वात् । अयं शब्द पक्षं व्याप्नोति, विपक्षे तु रूपादावस्ति न सुखादौ । ७ । विपक्षव्यापकः रत्नाकरावतारिकायुक्तः। १११ पक्षैकदेशवृत्तिर्यथा-तत्रैव पक्षे अपदात्मकत्वात् । अयं पक्षैकदेशे वर्णात्मकेऽस्ति नान्यत्र, विपक्षे तु रूपादौ सर्वत्रास्ति । ८ । ननु चत्वार एव विरुद्धभेदा ये पक्षव्यापका नान्ये, ये पक्षैकदेशवृत्तयस्तेषामसिद्ध- लक्षणोपपन्नत्वात् । तदसत् । उभयलक्षणोपपन्नत्वेनोभयव्यवहार- विषयत्वात् , तुलायां प्रमाणप्रमेयव्यवहारवत् । धर्मिस्वरूपविपरीतसा- धनधर्मिविशेषविपरीतसाधनौ तु सौगतसंमतौ हेत्वाभासावेव न भव- तः, साध्यस्वरूपविपर्ययसाधकस्यैव विरुद्धत्वेनाभिधानाद् । अन्यथा समस्तानुमानोच्छेदापत्ति' । तथाहि-अनित्य. शब्द कृतकत्वादिति हेतुरनित्यतां साधयन्नपि यो यः कृतकः स शब्दो न भवति, यथा- घट: । यो य. कृतकः स श्रावणो न भवति । यथा-स एवेति धर्मिणः स्वरूप विशेषं च साधयत्येवेत्यहेतुः स्यात् , नचैवं युक्तमिति ॥५३॥ अनैकान्तिकस्वरूपं प्ररूपयन्ति- यस्यान्यथानुपपत्तिः संदिह्यते सोऽनैकान्तिकः ॥५४॥ साध्यसद्भावे कचिद्धेतोर्विभावनात् कचित्तु तदभावेऽपि विभाव- नादन्यथानुपपत्तिः सन्दिग्धा भवति ॥ ५४॥ एतद्भेदसङ्ख्यामाख्यान्ति- स द्वेधा-निर्णीतविपक्षवृत्तिकः सन्दिग्धविपक्षवृत्तिकश्च॥ निर्णीता विपक्षे वृत्तिर्यस्य स तथा; सन्दिग्धा विपक्षे वृत्तिर्यस्य स तथोक्तः । अयं सन्दिग्धविपक्षव्यावृत्तिक., सन्दिग्धान्यथानुपप- त्तिकः, सन्दिग्धव्यतिरेक इति नामान्तराणि प्राप्नोति ।। ५५ ।। तत्राद्यभेदमुदाहरन्ति- निर्णीतविपक्षवृत्तिको यथा-नित्यः शब्दः प्रमेयत्वात्॥५६॥ प्रमेयत्वं हि सपक्षीभूते नित्ये व्योमादौ यथा प्रतीयत तथा विप- झभूतेऽप्यनित्ये घटादौ प्रतीयत एव; ततश्चोभयत्रापि प्रतीयमानत्वा- विशेषात् किमिदं नित्यत्वेनाविनाभूतम् , उताहो! अनित्यत्वेन? इत्येव- ११२ प्रमाणनयतत्त्वालोकालङ्कारः- मंन्यथानुपपत्ते संदिह्यमानत्वादनकान्तिकतां स्वीकुरुते । एवं वह्निमा- नय पर्वतनितम्ब पाण्डुद्रव्योपेतत्वादित्याद्य प्युदाहार्यम् ।। ५६ ।। अथ द्वितीयभेदमुदाहरन्ति- सन्दिग्धविपक्षवृत्तिको यथा-विवादपदापन्नः पुरुषः सर्वज्ञो न भवति वक्तृवात् ।। ५७ ॥ वक्तृत्व हि विपक्षे सर्वज्ञे मन्दिग्धवृत्तिकम् ; सर्वज्ञः किं वक्ता आ- होस्विन्न वक्ता' इति सदेहात् । एवं स श्यामो मैत्रपुत्रत्वादित्याद्यप्युदा- हरणीयम्। सोपाधिरयमिति नैयायिकाः। उपाधिः खल्वत्र शाकाद्याहा- रपरिणाम ,साधनाव्यापकत्वे सति साध्येन समव्याप्तिकत्वात् । साधन- व्यापक.खल्पाधिन भवति । अन्यथा वह्निसंवन्धोऽपि धूमस्य सोपाधिः स्यात् , आईन्धनसंबन्धस्य तथाभूतस्य संभवात् । ननु शाकाद्याहारपरि- णामोऽपि मैत्रपुत्रत्वाख्यसाधनस्य व्यापक एव, तमन्तरेणाऽस्य हेतोः कचिददर्शनात्। परिदृश्यमानकतिपयतत्पुत्रेषु तद्भाव एव तद्भावादिति चेत्। नैवम्। कचित्तद्भावभावित्वावलोकनेऽपि सर्वत्र मैत्रपुत्रता शाका- द्याहारपरिणामसमन्वितैवेति निर्णेतुमशक्ते । तत्संबन्धस्यापि सोपाधि- कत्वात् । श्यामत्वरूपस्योपाधेविद्यमानत्वात् । मैत्रपुत्रोऽपि हि स एव शाकाद्याहारपरिणतिमान्य श्याम इति, साधनाव्यापकोऽपि यः सा- ध्यस्याप्यव्यापको नासावुपाधि । यथा-धूमानुमाने खादिरत्वम् । तद्धि यथा-धूमस्य, एवं वह्वेरप्यव्यापकमेवेति नोपाधि । अप्रयोजकोऽयं हे- त्वाभास इत्यपरे । परप्रयुक्तव्याप्त्युपजीवी हि हेतुरप्रयोजक', परश्चो- पाधि स चात्रास्तीति । न चैवमपि नामभेदे कश्चिद्दोषः, सन्दिग्ध- विपक्षवृत्तिकत्वानतिक्रमात् । ये तु पक्षसपक्षविपक्षव्यापकादयोऽ- नैकान्तिकभेदास्तेऽस्यैव प्रपञ्चभूता. । तथाहि- पक्षसपक्षविपक्ष- च्यापको यथा-अनित्यः शब्द प्रमेयत्वात् । अयं पक्षे शब्दे सपक्षे घटादी विपक्षे व्योमादौ चास्ति । १। पक्षव्यापक. सपक्षविपक्ष- देशवृत्तिर्यथा-अनित्य. शब्द प्रत्यक्षत्त्वात् । अस्मदादीन्द्रियग्रह- , रत्नाकरावतारिकायुक्तः । णयोग्यतामात्र प्रत्यक्षत्वमत्राभिप्रेतं, ततो नास्य पक्षत्रयव्यापकत्वं पश्चैकदेशवृत्तित्वं वा प्रसज्यते । पक्षे हि शब्देऽयं सर्वत्रास्ति, न सपक्षविपक्षयो., घटादौ सामान्यादौ च भावाद् , ब्यणुकादौ व्योमादौ चाभावात् ।२ । पक्षसपक्षव्यापको विपक्षैकदेशवृत्तिर्यथा-गौरयं, विषा- णित्वात् । अयं हि पक्षं गां सपक्ष च गवान्तरं व्याप्नोति, विपक्षे तु महिप्यादावस्ति, न तु तुरङ्गादौ । ३। पक्षविपक्षव्यापकः सपढेकदेशवृत्ति- यथा-नाय गौर्विपाणित्वात् । अयं पक्षं गवयं विपक्षं च गां व्याप्नोति, सपने तु महिन्यादावस्ति, न तु तुरङ्गादौ । ४ । पक्षसपक्षविपक्षैकदेश- वृत्तिर्यथा-नित्या पृथिवी, प्रत्यक्षत्वात् । अय पक्षे घटादावस्ति, न पर- मावादी, सपक्षेसामान्यादावस्ति, नाकाशादौ, विपक्षे बुबुदादावस्ति, नाप्ययणुकादौ, अयोग्यक्षविपयत्वमेवात्र प्रत्यक्षत्वं द्रष्टव्यम् ।५। पक्षसपक्षकदेशवृत्तिर्विपक्षव्यापको यथा-द्रव्याणि दिक्कालमनांसि, अमू- तत्वात्। अयं पक्षे दिकालयोर्वर्त्तते, न मनसि, सपक्षे व्योमन्यस्ति, न घटादी, विपक्षं तु गुणादिकं व्याप्नोति । ६। पक्षविपक्षैकदेशवृत्तिः सपक्षव्यापको यथा-न द्रव्याणि दिकालमनांसि, अमूर्तत्वात् । प्राक्त- नवैपरीत्येन सुगममेतत् । ७ । सपक्षविपक्षव्यापकः पक्षकदेशवृत्ति- र्यथा-न द्रव्याणि आकाशकालदिगात्ममनांसि, क्षणिकविशेषगुणरहि- तत्वात् । अयं पक्षे कालदिग्मनःसु वर्तते, नाकाशात्मसु, सपक्षं गुणा- दिकं विपक्षं च पृथिव्यप्तेजोवायुरूपं व्याप्नोति । ८। यश्च नित्यः शव्दः श्रावणत्वादित्यादि सपक्षविपक्षव्यावृत्तत्वेन संशयजनक- त्वादसाधारणानैकान्तिकः सौगतैः समाख्यायते, नैष सूक्ष्मतामञ्चति; श्रावणत्वाद्धि शब्दस्य । सर्वथैव नित्यत्वं यदि साध्यते तदाऽयं विरुद्ध एव हेतुः, कथञ्चिदनित्यत्वसाधनात्। प्राच्याश्रावणत्वस्वभावत्यागेनो- त्तरश्रावणत्वस्वभावोत्पत्तेः कथञ्चिदनित्यत्वमन्तरेण शब्देऽनुपपत्तेः। अथ कथचिन्नित्यत्वमस्माच्छब्दे साध्यते तदाऽसौ सम्यग्घेतुरेव, कथ- किचन्नित्यत्वेन सार्द्धमन्यथाऽनुपपत्तिसद्भावादिति नायमनैकान्तिकः । यं च विरुद्धाव्यभिचारिनामानमनैकान्तिकविशेषमेते व्यतानिषुः, यथा- १५ ११४ प्रमाणनयतत्त्वालोकालवार:- पुरुपत्वादि- अनित्यः शब्दः, कृतकत्वात् घटवत् । नित्यः शब्दः, श्रावणत्वान्, दाद- त्ववदिति; सोऽपि नित्यानित्यस्वरूपानेकान्तसिद्धौ सम्यग्वेतुरेव; तद्- परपरिणामित्वादिहेतुबत् । सर्वथैकान्तसिद्धये पुनरुपन्यस्तोऽसौ भवत्येव हेत्वाभासः, स तु विरुद्धो वा संदिग्धविपक्षवृत्तिरनैकान्तिको वेति न कश्चिद्विरुद्धाव्यभिचारी नाम। एवं च असिद्धविरुद्धानकान्तिकालय एव हेत्वाभासा इति स्थितम्। नन्वन्योऽप्यकिञ्चित्कराल्यो हेत्वाभासः परैरुक्तः, यथा-प्रतीते प्रत्यक्षादिनिराकृते च साध्ये हेतुरकिञ्चित्करः। प्रतीते, यथा-शब्दः श्रावणः, शब्दत्वात् । प्रत्यक्षादिनिराकृते, यथा- अनुष्णः कृष्णवर्मा,द्रव्यत्वाद् यतिना वनिता सेवनीया, त्यादि ; स कथं नानाभिहित इति चेत् । उच्यते। नन्वेप हेतुनिश्चिताs- न्यथानुपपत्त्या सहितः स्याद्रहितो वा । प्रथमपक्षे, हेतोः सम्यक्त्वेऽपि प्रतीतसाध्यधर्मविशेषणप्रत्यक्षनिराकृतसाध्यधर्मविशेषणाऽऽगमनिराकृ- तसाध्यधर्मविशेषणादिपक्षाभासानां निवारयितुमशक्यत्वात् तैरेव दुष्ट- मनुमानम् । न च यत्र पक्षदोषस्तत्रावश्च हेतुदोपोऽपि वाच्यः, दृष्टा- न्तादिदोपस्याप्यवश्यं वाच्यत्वप्रसक्ते । द्वितीयपक्षे तु यथोक्तहेत्वा- भासानामन्यतमेनैवानुमानस्य दुष्टत्वम् । तथा हि-अन्यथानुपपत्तर- भावोऽनध्यवसायाद्विपर्ययात् संशयाद्वा स्यात्, प्रकारान्तरासंभवात्: तत्र च क्रमेण यथोक्तहेत्वाभासावतार इति नोक्तहत्वाभासेभ्योऽभ्य- धिकः कश्चिदकिञ्चित्करो नाम । एवमेव न कालात्ययापदिष्टोऽपि । तथाहि-अस्य स्वरूपं कालात्ययापदिष्टः कालातीत इति; हेतोः प्रयो- गकालः प्रत्यक्षागमानुपहत्तपक्षपरिग्रहसमयस्तमतीत्य प्रयुज्यमानः प्रत्य- झागमवाधिते विषये वर्चमानः कालात्ययापदिष्टो भवतीति । अयं चाकिञ्चित्करदूषणेनैव दूषितोऽबसेयः । प्रकरणसमोऽप्यप्रकटनीय एव । अस्य हि लक्षणं; यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसम इति; यस्मात्प्रकरणस्य पक्षप्रतिपक्षयोश्चिन्ता विमर्शात्मिका प्रवर्त्तते, कस्माच्चासौ प्रवर्त्तते ?, विशेषानुपलम्भात्; स एव विशे- पानुपलम्भो यदा निर्णयार्थमपदिश्यते तदा प्रकरणमनतिवर्तमा-

,
रत्नाकरावतारिकायुक्तः।
११५
नत्वात् प्रकरणसमो भवति; प्रकरणे पक्षे प्रतिपक्षे च समस्तुल्य
इति । यथा-अनित्य. शब्दो नित्यधर्मानुपलब्धेरित्येकेनोके, द्वितीयः
प्राह- यद्यनेन प्रकारेणानित्यत्वं साध्यते तर्हि नित्यतासिद्धिरप्यस्तु,
अन्यतरानुपलब्धेस्तत्रापि सद्भावात् । तथाहि- नित्यः शब्दोऽनि-
त्यधर्मानुपलब्धेरिति । अयं चानुपपन्नः, यतो यदि नित्यधर्मानुपलब्धिनि-
श्चिता, तदा कथमतो नानित्यत्वसिद्धिः?; अथानिश्चिता, तर्हि संदिग्धा-
सिद्धतैव दोषः । अथ योग्यायोग्यविशेषणमपास्य नित्यधर्माणामनुप-
लब्धिमानं निश्चितमेव, तत्तर्हि व्यभिचार्येव । प्रतिवादिनचासौ नित्य-
धर्मानुपलब्धिः स्वरूपासिद्धव नित्यधर्मोपलव्धेस्तत्रास्य सिद्धेः। एवम-
नित्यधर्मानुपलब्धिरपि परीक्षणीया; इति सिद्धं त्रय एव हेत्वाभासाः॥५७॥
अथ दृष्टान्ताभासान् भासयन्ति-
साधम्र्येण दृष्टान्ताभासो नवप्रकारः ॥ ५८ ॥
दृष्टान्तो हि प्राग द्विप्रकारः प्रोक्तः, साधर्येण वैधम्र्येण च ।
ततस्तदाभासोऽपि तथैव वाच्य इति साधर्म्यदृष्टान्ताभासस्तावत्प्रका-
रतो दर्शित ॥५८ ॥
प्रकारानेव कीर्तयन्ति-
साध्यधर्मविकलः, साधनधर्मविकलः, उभयधर्मविकलः,
सन्दिग्धसाध्यधर्मा, सन्दिग्धसाधनधर्मा, सन्दिग्धो-
भयधर्मा, अनन्वयोऽप्रदर्शितान्वयो विपरीतान्व-
यश्चति ।। ५९ ॥
इतिशब्दः प्रकारपरिसमाप्तौ, एतावन्त एव साधर्म्यदृष्टान्ताभास-
प्रकारा इत्यर्थः ।। ५९ ।।
क्रमेणामून उदाहरन्ति-
तत्रापौरुषेयः शब्दोऽमूर्त्तत्वाद् दुःखवदिति साध्यधर्म-
विकलः ॥ १॥ ६० ॥

प्रमाणनयतत्त्वालोकालङ्कार:- पुरुषव्यापाराभावे दुःखानुत्पादेन दुःखस्य पौरुषेयत्वात् । तत्रापौरुषेयत्वसाध्यस्यावृत्तरयं साध्यधर्मविकल इति ॥१॥६॥ तस्यामेव प्रतिज्ञायां तस्मिन्नेव हेतौ परमाणुवदिति साधनधर्मविकलः ॥ २ ॥ ६१ ॥ परमाणौ हि साध्यधर्मोऽपौरुषेयत्वमस्ति, साधनधर्मस्त्वमूर्त्तत्वं ना- स्ति, मूर्त्तत्वात् परमाणोः ।। २ ।। ६१ ।। कलशवदित्युभयधर्मविकलः॥ ३ ॥ ६२ ॥ तस्यामेव प्रतिज्ञायां तस्मिन्नेव च हेतौ कलशदृष्टान्तस्य पौरुषेय- त्वान्मूर्त्तत्वाञ्च साध्यसाधनोभयधर्मविकलता ॥ ३ ॥ ६२ ।। रागादिमानयं वक्तृत्वाद्देवदत्तवदिति सन्दिग्धसाध्य- धर्मा ॥ ४॥६३ ॥ देवदत्ते हि रागादय. सदसत्त्वाभ्यां संदिग्धाः, परचेतोविकाराणां परोक्षत्वाद्रागाचव्यभिचारिलिङ्गादर्शनाञ्च ।। ४ ।। ६३ मरणधर्माऽयं रागादिमत्त्वात् मैत्रवदिति संदिग्धसाधन- धर्मा ॥ ५॥ ६४ ॥ मैत्रे हि साधनधर्मो रागादिमत्त्वाख्यः संदिग्धः ॥ ५ ॥ ६४ ।। नायं सर्वदर्शी रागादिमत्त्वात् मुनिविशेषवदिति सन्दि- ग्धोभयधर्मा ॥ ६ ॥ ६५ ॥ मुनिविशेपे सर्वदर्शित्वरागादिमत्त्वाख्यौ साध्यसाधनधौ संदि- होते, तदव्यभिचारिलिङ्गादर्शनात् ।। ६ ।। ६५ ।। रागादिमान् विवक्षितः पुरुषो वक्तृत्वादिष्टपुरुषवदित्य- नन्वयः ॥ ७ ॥ ६६ ॥ यद्यपीटपुरुपे रागादिमत्त्वं च वक्तृत्वं च साध्यसाधनधौ दृष्टी, तथापि यो यो वक्ता स स रागादिमानिति व्याप्त्यसिद्धेरनन्वयत्वम्।।७॥६६ रत्नाकरावतारिकायुक्तः । ११७ अनित्यः शब्दः कृतकत्वात् घटवदित्यप्रदर्शि- तान्वयः ॥ ८॥ ६७ ॥ अत्र यद्यपि वास्तवोऽन्वयोऽस्ति तथापि वादिना वचनेन न प्रका- शित इत्यप्रदर्शितान्वयत्वम् । यद्यप्यत्र वस्तुनिष्ठो न कश्चिद्दोषस्तथापि परार्थानुमाने वचनगुणदोषानुसारेण वक्तृगुणदोषौ परीक्षणीयाविति भवत्यस्य वाचनिकं दुष्टत्वम् । एवं विपरीतान्वयाप्रदर्शितव्यतिरेकवि- परीतव्यतिरेकेष्वपि द्रष्टव्यम् ।। ८ ॥ ६७ ।। अनित्यः शब्दः कृतकलात् , यदनित्यं तत् कृतकं घट- वदिति विपरीतान्वयः ॥ ९॥ ६८ ॥ प्रसिद्धानुवादेन ह्यप्रसिद्ध विधेयम् , प्रसिद्धं चात्र कृतकत्वं हेतुत्वे- नोपादानाद्, अप्रसिद्धं त्वनित्यत्वं साध्यत्वेन निर्देशाद्, इति प्रसिद्धस्य कृतकत्वस्यैवानुवादसर्वनाम्ना यच्छब्देन निर्देशो युक्तः, न पुनरप्रसिद्ध- स्यानित्यत्वस्य; आनित्यत्वस्यैव विधिसर्वनाम्ना यच्छब्देन परामर्श- उपपन्नो न तु कृतकत्वस्य ॥ ९॥ ६८॥ अथ वैधHदृष्टान्ताभासमाहु'- वैधयेणापि दृष्टान्ताभासो नवधा ॥ ६९ ॥ तानेव प्रकारानुद्दिशन्ति- असिद्धसाध्यव्यतिरेकोऽसिद्धसाधनव्यतिरेकोऽसिद्धोभ- यव्यतिरेकः, सन्दिग्धसाध्यव्यतिरेकः, सन्दिग्धसाधन- व्यतिरेकः, सन्दिग्धोभयव्यतिरेकोऽव्यतिरेकोऽप्रदर्शि- तव्यतिरेको विपरीतव्यतिरेकश्च ॥ ७० ॥ अथैतान् क्रमेणोदाहरन्ति- तेषु भ्रान्तमनुमानं प्रमाणत्वात् यत्पुनीन्तं न भवति च ११८ प्रमाणनयतत्वालोकालङ्कार:- न तत् प्रमाणं यथा स्वप्नज्ञानमिति असिद्धसाध्यव्य- तिरेकः; स्वप्नज्ञानात् भ्रान्तत्वस्यानिवृत्तेः॥१॥७१। निर्विकल्पकं प्रत्यक्षं प्रमाणत्वाद् यत्तु सावकल्पकं न तत्प्रमाणं यथा लैङ्गिकमित्यसिद्धसाधनव्यतिरेको लैङ्गि- कात्प्रमाणत्वस्यानिवृत्तेः ॥ २ ॥ ७२ ॥ नित्यानित्यः शब्दः सत्त्वात् यस्तु न नित्यानित्यः स न संस्तद्यथा स्तम्भ इत्यसिद्धोभयव्यतिरेकः स्तम्भान्नि- त्यानित्यत्वस्य सत्त्वस्य चाव्यावृत्तेः ॥ ३ ॥ ७३ ॥ व्यक्तमेतत्सूत्रत्रयमपि ।। ३ ।। ७३ ।। असर्वज्ञोऽनाप्तो वा कपिलोऽक्षणिकैकान्तवादित्वाद् यः सर्वज्ञ आप्तोवा स क्षणिकैकान्तवादी यथा सुगत इति सन्दिग्धसाध्यव्यतिरेकः सुगतेऽसर्वज्ञतानाप्तत्वयोः सा- ध्यधर्मयोावृत्तेः सन्देहात् ॥ ४ ॥ ७४ ॥ अयं च परमार्थतोऽसिद्धसाध्यव्यतिरेक एव क्षणिकैकान्तस्य प्रमाणबाधितत्वेन तदभिधातुरसर्वज्ञतानाप्तत्वप्राप्तेः केवलं तत्प्रतिक्षे पकप्रमाणमाहात्म्यपरामर्शनशून्यानां प्रमातृणां सन्दिग्धसाध्यव्यतिरे कत्वेनाभास इति तथैव कथित. ॥ ४ ॥७४ ॥ अनादेयवचनः कश्चिद्विवक्षितः पुरुषो रागादिमत्त्वाद् यः पुनरादेयवचनःस वीतरागस्तद्यथा शौद्धोदनिरिति सन्दिग्धसाधनव्यतिरेकः शौद्धोदनौ रागादिमत्त्वस्य निवृत्तेः संशयात् ॥५॥ ७५ ॥ यद्यपि तद्दर्शनानुरागिणां शौद्धोदनेरादेयवचनत्वं प्रसिद्धं तथापि रागादिमत्त्वाभावस्तन्निश्चायकप्रमाणवैकल्यत. सन्दिग्ध एव ||५||७५।। :

रत्नाकरावतारिकायुक्तः ।
११९
न वीतरागः कपिलः करुणाऽऽस्पदेष्वपि परमकृपयाऽन-
पितनिजपिशितशकलत्वात् यस्तु वीतरागः स करुणा-
स्पदेषु परमकृपया समर्पितनिजपिशितशकलस्तद्यथा-
तपनबन्धुरिति सन्दिग्धोभयव्यतिरेक इति तपनबन्धी
वीतरागत्वाभावस्य करुणाऽऽस्पदेष्वपि परमकृपया-
ऽनर्पितनिजपिशितशकलत्वस्य च व्यावृत्तेः सन्दे-
हात् ॥ ६॥ ७६॥
तपनबन्धुर्बुद्धो वैधर्म्यदृष्टान्ततया यः समुपन्यस्तः स न ज्ञायते कि
रागादिमानुत वीतरागः, तथा करुणाऽऽस्पदेषु परमकृपया निजपिशित-
शकलानि समर्पितवान्नवा, तनिश्चायकप्रमाणापरिस्फुरणात् ॥६॥७६॥
नवीतरागः कश्चिद्विवक्षितः पुरुषो वक्तृत्वात् यः पुनर्वी-
तरागो न स वक्ता यथोपलखण्ड इत्यव्यतिरेकः॥७॥७७॥
यद्यपि किलोपलखण्डादुभयं व्यावृत्तं तथापि व्याप्त्या व्यतिरे-
कासिद्धेरव्यतिरेकत्वम् ।। ७ ॥ ७७ ।।
अनित्यः : शब्दः कृतकत्वादाकाशवादित्यप्रदर्शित-
व्यतिरेकः ॥ ८ ॥ ७८ ।।
अत्र यदनित्यं न भवति तत्कृतकमपि न भवतीति विद्यमानो-
ऽपि व्यतिरेको वादिना स्ववचनेन नोद्भावित इत्यप्रदर्शितव्यतिरेक-
त्वम् ॥ ८॥ ७८ ।।
अनित्यः शब्दः कृतकलाद् यदकृतकं तन्नित्यं यथाऽऽ-
काशमिति विपरीतव्यतिरेकः ॥ ९॥ ७९ ॥
वैधर्म्यप्रयोगे हि साध्याभावः साधनाभावाकान्तो दर्शनीयो न
चैवमत्रेति विपरीतव्यतिरेकत्वम् ॥ ९॥ ७९ ॥

१२० प्रमाणनयतत्त्वालोकालङ्कारः- अथोपनयननिगमनाभासौ प्रभापन्ते- उक्तलक्षणोल्लङ्घनेनोपनयनिगमनयोर्वचने तदाभासौ॥८॥ 'हेतोः साध्यधर्मिण्युपसंहरणमुपनय.' इत्युपनयस्य लक्षणम् । 'साध्यधर्मस्य पुनर्निगमनम्' इति निगमनस्येति ।। ८० ॥ उपनयाभासमुदाहरन्ति- यथा परिणामी शब्दः कृतकलाद् यः कृतकः स परिणामी यथा कुम्भ इत्यत्र परिणामी च शब्द इति कृतकश्व कुम्भ इति च ॥ ८१ ॥ इह साध्यधर्म साध्यधर्मिणि साधनधर्म वा दृष्टान्तधामणि उप- संहरत उपनयाभास. ॥ ८१ ।। निगमनाभासमुदाहरन्ति- तस्मिन्नेव प्रयोगे तस्मात् कृतकः शब्द इति तस्मा- त्परिणामी कुम्भ इति च ॥ ८२ ॥ अत्रापि साधनधर्म साध्यधार्मणि साध्यधर्म वा दृष्टान्तामणि उपसंहरतो निगमनाभासः । एवं पक्षशुद्धयाद्यवयवपञ्चकस्य भ्रान्त्या वैपरीत्यप्रयोगे तदाभासपञ्चकमपि तर्कर्णीयम् ।। ८२ ।। इत्थमनुमानाभासमभिधायागमाभासमाहुः- अनाप्तवचनप्रभवं ज्ञानमागमाभासम् ॥ ८३ ।। अभिधेयं वस्तु यथावस्थितं यो जानीते यथाज्ञानं चाभिधत्ते स आप्त उक्तस्तद्विपरीतोऽनाप्तस्तद्वचनसमुत्थं ज्ञानमागमाभासं ज्ञेयम् ।। अत्रोदाहरन्ति- यथा मेकलकन्यकायाः कूले तालहिन्तालयोर्मूले सुलभाः पिण्डखजूराः सन्ति त्वरितं गच्छत २ शावका! ॥८४॥ ग्गाक्रान्नो मनाप्त, पुरुषः क्रीडापरवगः सन्नात्मनो विनोदार्थ +4 - - . रत्नाकरावतारिकायुक्तः । १२१ किन्चन वस्त्वन्तरमलभमानः शावकैरपि समं क्रीडाऽभिलाषेणेदं वा-- क्यमुञ्चारयति ।। ८४ ।। एवमुक्तः प्रमाणस्य स्वरूपाभासः; संप्रति संख्याऽऽभासमाख्यान्ति- प्रत्यक्षमेवैकं प्रमाणमित्यादिसंख्यानं तस्य संख्याऽऽभासम् ॥८५॥ प्रत्यक्षपरोक्षभेदाद्धि प्रमाणस्य द्वैविध्यमुक्तम् । तद्वैपरीत्येन प्रत्यक्ष- मेव, प्रत्यक्षानुमाने एव, प्रत्यक्षानुमानागमा एव प्रमाणमित्यादिकं चार्वा- कवैशेषिकसौगतसांख्यादितीर्थान्तरीयाणां संख्यानं, तस्य प्रमाणस्य संख्याऽऽभासम् । प्रमाणसंख्याभ्युपगमश्च परेषामितोऽवसेयः- चार्वाकोऽध्यक्षमेकं सुगतकणभुजौ सानुमानं सशान्द तद् द्वैतं पारमर्षः सहितमुपमया तत् त्रयं चाक्षपादः । अर्थापत्त्या प्रभाकृद्वदति च निखिलं मन्यते भट्ट एतत् साभावं, द्वे प्रमाणे जिनपतिसमये स्पष्टतोऽस्पष्टतश्च ॥१॥८५।। अथ विषयाभासं प्रकाशयन्ति- सामान्यमेव, विशेष एव, तद्वयं वा स्वतन्त्रमित्यादि- स्तस्य विषयाभासः ॥ ८६ ॥ सामान्यमानं सत्ताद्वैतवादिनो, विशेषमात्रं सौगतस्य, तदुभयं च स्वतन्त्रं नैयायिकादरित्यादिरेकान्तस्तस्य प्रमाणस्य विषयाभासः । आदि- शब्दान्नित्यमेवानित्यमेव तवयं वा परस्परनिरपेक्षमित्यायेकान्तपरि- प्रहः ॥ ८६ ॥ अथ फलाभासमाहुः- अभिन्नमेव भिन्नमेव वा प्रमाणात्फलं. तस्य तदाभा- सम् ॥ ८७ ॥ अभिन्नमेव प्रमाणात्फलं चौद्धानां, भिन्नमेव नैयायिकादीनां तस्य १६

१२२ प्रमाणनयतत्त्वालोकालङ्कारः-
प्रमाणस्य तदाभासं फलाभास; यथा फलस्य भेदाभेदैकान्तावकान्तावेव
तथा सूत्रत एव प्रागुपपादितमिति ।। ८७ ॥
इति प्रमाणनयतत्त्वालोकालकारे श्रीरत्नप्रभाचार्यविरचितायां
रत्नाकरावतारिकाख्यलघुटीकायर्या फलप्रमाणवरूपाधाभा-
सनिर्णयो नाम षष्ठः परिच्छेदः ।

अर्हम् अथ सप्तमः परिच्छेदः। 'एतावता प्रमाणतत्त्वं व्यवस्थाप्यदानी नयतत्त्वं व्यवस्थापयन्ति- नीयते येन श्रुताख्यप्रमाणविषयीकृतस्यार्थस्यांशस्तदि- तरांशौदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः॥१॥ अत्रैकवचनमतन्त्रं तेनांशावंशा वा, येन परामर्शविशेषेण श्रुत- प्रमाणप्रतिपन्नवस्तुनो विषयीक्रियन्ते तदितरांशौदासीन्यापेक्षया स नयोऽभिधीयते । तदितरांशप्रतिक्षेपे तु तदाभासता भणिष्यते । प्रत्य- पादयाम च स्तुतिद्वात्रिंशति- - अहो ! चित्रं चित्रं तव चरितमेतन्मुनिपते ! स्वकीयानामेषां विविधविषयव्याप्तिवशिनाम् । विपक्षापेक्षाणां कथयसि नयानां सुनयतां विपक्षक्षेप्तणां पुनरिह विभो ! दुष्टनयताम् ।। १ ।। पञ्चाशति च- निःशेषांशजुषां प्रमाणविषयाभूयं समासेदुषां वस्तूनां नियतांशकल्पनपराः सप्त श्रुतासङ्गिनः । औदासीन्यपरायणास्तदपरे चांशे भवेयुर्नया- श्वेदेकान्तकलङ्कपङ्ककलुषास्ते स्युस्तदा दुर्नयाः ॥१॥ ननु नयस्य प्रमाणाद्भेदेन लक्षणप्रणयनमयुक्तम् । स्वार्थव्यवसाया- त्मकत्वेन तस्य प्रमाणवरूपत्वात् । तथाहि-नयःप्रमाणमेव, स्वार्थव्यव- सायकत्वादिष्टप्रमाणवत स्वार्थव्यवसायकस्याप्यस्य प्रमाणत्वानभ्युपगमे प्रमाणस्यापि तथाविधस्य प्रमाणत्वं न स्यादिति कश्चित् । तदसत् । नयस्य स्वार्थैकदेशनिर्णीतिलक्षणत्वेन स्वार्थव्यवसायकत्वासिद्धेः । ननु नयविषयतया संमतोऽथैकदेशोऽपि यदि वस्तु तदा तत्परिच्छेदी १२४ प्रमाणनयतत्त्वालोकालङ्कारः- नयः प्रमाणमेव, वस्तुपरिच्छेदलक्षणत्वात्प्रमाणस्य । सन चेद्वस्तु तर्हि तद्विषयो नयो मिथ्याज्ञानमेव स्यात्, तस्यावस्तुविषयत्वलक्षणत्वा- दिति चेत् । तदवद्यम् । अर्थैकदेशस्य वस्तुत्वावस्तुत्वपरिहारेण वस्त्वं- शतया प्रतिज्ञानात् । तथा चावाचि- नायं वस्तु न चावन्तु वस्त्वंश. कथ्यते बुधैः । नासमुद्रः समुद्रो वा समुद्रांशो यथैव हि ॥१॥ तन्मात्रस्य समुद्रत्वे शेषांशस्यासमुद्रता । समुद्रवहुता वा स्यात् तत्त्वे वास्तु समुद्रवित् ?॥२॥ यथैव हि समुद्रांशस्य समुद्रत्वे शेपसमुद्रांशानामसमुद्रत्वप्रस- झात् समुद्रबहुत्वापत्तेर्वा; तेषामपि प्रत्येकं समुद्रत्वात् । तस्यासमुद्र- ले वा शेषसमुद्रांशानामप्यसमुद्रत्वात् कचिदपि समुद्रव्यवहारायो- गात् । समुद्रांश. समुद्रांश एवोच्यते, तथा स्वार्थैकदेशो नयस्य न वस्तु, स्वार्थंकदेशान्तराणामवस्तुत्वप्रसङ्गाद् वस्तुवहुत्वानुषतर्वा; नाप्य- वस्तु, शेषांशानामप्यवस्तुत्वेन कचिदपि वस्तुव्यवस्थाऽनुपपत्ते. । कि तर्हि वस्त्वंश एवासौ ताइक्प्रतीतर्वाधकाभावात् ? ततो वस्त्वंशे प्रवर्त्त- मानो नय. स्वार्थैकदेशव्यवसायलक्षणो न प्रमाणं, नापि मिथ्याज्ञान- मिति ॥ १ ॥ नयसामान्यलक्षणमुक्त्वा नयाभासस्य तदर्शयितुमाहुः- स्वाभिप्रेतादशादितरांशापलापी पुनर्नयाभासः ॥२॥ 'पुनः शब्दो नयात् व्यतिरेक द्योतयति । नयाभासो नयप्रतिवि- म्बात्मा दुर्नय इत्यर्थ. । यथा तीथिकानां नित्यानित्यायेकान्तप्रदर्शकं सकलं वाक्यमिति ॥ २॥ नयप्रकारसूचनायाहु:- स व्याससमासाभ्यां हिप्रकारः॥३॥ स प्रकृतो नय. व्यासो विस्तरः समास. संक्षेपस्ताभ्यां द्विमेदः, यासनयः समासनयन्वेति ॥ ३॥ J रत्नाकरावतारिकायुक्तः। १२५ व्यासनयप्रकारान् प्रकाशयन्ति- व्यासतोऽनेकविकल्पः॥४॥ एकांशगोचरस्य हि प्रतिपत्त्रभिप्रायविशेषस्य नयखरूपत्वमुक्तं, ततश्चानन्तांशात्मके वस्तुन्यकैकांशपर्यवसायिनो यावन्तः प्रतिप- तृणामभिप्रायास्तावन्तो नयाः, ते चनियतसंख्यया संख्यातुं न शक्यन्त इति व्यासतो नयस्याऽनेकप्रकारत्वमुक्तम् ।। ४ ।। समासनयं भेदतो दर्शयन्ति- समासतस्तु द्विभेदो द्रव्यार्थिकः पर्यायार्थिकश्च ॥ ५॥ नय इत्यनुवर्तते, द्रवति द्रोष्यति अदुद्रुवत् तांस्तान् पर्याया- निति द्रव्यं तदेवार्थः, सोऽस्ति यस्य विषयत्वेन स द्रव्यार्थिकः। पर्ये- त्युत्पादविनाशौ प्राप्नोतीति पर्यायः स एवार्थः, सोऽस्ति यस्याऽसौ पर्यायार्थिकः । एतावेव च द्रव्यास्तिकपर्यायास्तिकाविति, द्रव्यस्थित- पर्यायस्थिताविति, द्रव्यार्थपर्यायार्थाविति च प्रोच्यते । ननु गुण- विषयस्तृतीयो गुणार्थिकोऽपि किमिति नोक्त इति चेत् , गुणस्य पर्याय- एवान्तर्भूतत्वेन पर्यायार्थिकेनैव तत्संग्रहात् । पर्यायो हि द्विविध.-क्र- मभावी सहभावी च । तत्र सहभावी गुण इत्यभिधीयते । पर्यायशब्दे- न तु पर्यायसामान्यस्य स्वव्यक्तिव्यापिनोऽभिधानान्न दोषः । ननु द्रव्यपर्यायव्यतिरिक्तौ सामान्यविशेषौ विद्यते ततस्तद्गोचरमपरमपि नयद्वयं प्राप्नोतीति चेत् । नैतद्नुपद्रवम् । द्रव्यपर्यायाभ्यां व्यतिरिक्तयोः सामान्यविशेषयोरप्रसिद्धेः । तथाहि-द्विप्रकारं सामान्यमुक्तम्-ऊर्द्धता- सामान्यं तिर्यक्सामान्यं च । तत्रोद्धृतासामान्यं द्रव्यमेव, तिर्यक्सा- मान्यं तु प्रतिव्यक्तिसदृशपरिणामलक्षणं व्यसनपर्याय एव । स्थूलाः कालान्तरस्थायिनः शब्दानां सङ्केतविषया व्यसनपर्याया इति प्रावचनिकप्रसिद्धे. । विशेषोऽपि वैसदृश्यविवर्तलक्षणः पर्याय एवान्तर्भवतीति नैताभ्यामधिकनयावकाशः ॥ ५ ।। द्रव्यार्थिकभेदानाहु:- आद्यो नैगमसंग्रहव्यवहारभेदात् त्रेधा ॥ ६ ॥ , १२६ प्रमाणनयतत्त्वालोकालङ्कार:- आयो द्रव्यार्थिक. ॥६॥ तत्र नैगम प्ररूपयन्ति- धर्मयोर्धर्मिणोधर्मधर्मिणोश्च प्रधानोपसर्जनभावन यद्विवक्षणं स नैकगमो नैगमः ॥ ७ ॥ पर्याययोर्द्रव्ययोर्द्रव्यपर्याययोश्च मुख्यामुख्यरूपतया यद्विवक्षणं स एवंरूपो नेके गमा बोधमार्गा यस्याऽसौ नैगमो नाम नयो ज्ञेयः॥णा अथास्योदाहरणाय सूत्रत्रयीमाहुः- सञ्चैतन्यमात्मनीति धर्मयोः ॥ ८ ॥ प्रधानोपसर्जनभावेन विवक्षणमितीहोत्तरत्र च सूत्रद्वये योजनी- यम् । अत्र चैतन्याख्यरय व्यवनपर्यायस्य प्राधान्येन विवक्षणम् ; विशे- ध्यत्वात् । सत्त्वाख्यस्य तु व्यञ्जनपर्यायस्योपसर्जनभावेन; तस्य चैतन्यविशेषणत्वादिति धर्मद्वयगोचरो नैगमस्य प्रथमो भेदः ॥ ८॥ वस्तु द्रव्यमिति धर्मिणोः॥९॥ अत्र हि पर्यायवद् द्रव्यं वस्तु वर्तत इति विवक्षायां पर्यायवद् द्रव्याख्यस्य धर्मिणो विशेष्यत्वेन प्राधान्यम् , वस्त्वाख्यस्य तु विशेषण- त्वेन गौणत्वम् । यद्वा । किं वस्तु पर्यायवद् द्रव्यमिति विवक्षायां व- स्तुनो विशेष्यत्वात् प्राधान्यम् , पर्यायवद् द्रव्यस्य तु विशेषणत्वात् गौणत्वमिति धर्मियुग्मगोचरोऽयं नैगमस्य द्वितीयो भेदः ॥९॥ क्षणमेकं सुखी विषयासक्तजीव इति धर्मधर्मिणोः॥१०॥ अत्र हि विषयासक्तजीवाख्यस्य धर्मिणो मुख्यता, विशेष्यत्वात् , सुखलक्षणस्य तु धर्मस्याप्रधानता, तद्विशेषणत्वेनोपात्तत्वादिति धर्म- धालम्बनोऽयं नैगमस्य तृतीयो भेदः । नचास्यैवं प्रमाणात्मकत्वा- नुपगो धर्मधर्मिणोः प्राधान्येनात्र ज्ञप्तेरसंभवात् तयोरन्यतर एव हि नैगमनयेन प्रधानतयाऽनुभूयते । प्राधान्येन द्रव्यपर्यायद्वयात्मकं चा- र्थमनुभव द्विज्ञानं प्रमाणं प्रतिपत्तव्यं नान्यत् ।। १० ।। पर्यायवद् रत्नाकरावतारिकायुक्तः। १२७ अथ नैगमाभासमाहुः- धर्मद्वयादीनामैकान्तिकपार्थक्याभिसन्धि ग- माभासः ॥ ११ ॥ आदिशब्दाद् धर्मिद्वयधर्मधर्मद्वययोः परिग्रहः । ऐकान्तिक- पार्थक्याभिसन्धिरैकान्तिकभेदाभिप्रायो नैगमाभासो नैगमदुर्नय इ- त्यर्थः ॥ ११ ॥ अत्रोदाहरन्ति- यथाऽऽत्मनि सत्त्वचैतन्ये परस्परमत्यन्तं पृथग्भूते इत्यादिः ॥१२॥ आदिशब्दाद्वस्त्वाख्यपर्यायवद्रव्याख्ययोर्धर्मिणोः सुखजीवलक्ष- णयोर्धर्मधर्मिणोश्च सर्वथा पार्थक्येन कथनं तदाभासत्वेन द्रष्टव्यम् । नैयायिकवैशेषिकदर्शनं चैतदाभासतया ज्ञेयम् ॥ १२ ॥ अथ संग्रहस्वरूपमुपवर्णयन्ति- सामान्यमात्रग्राही परामर्शः संग्रहः ॥ १३ ॥ सामान्यमात्रमशेषविशेषरहितं सत्त्वद्रव्यत्वादिकं गृहातीत्येवं- शीलः, समेकीभावेन पिण्डीभूततया विशेषराशि गृहातीति संग्रहः। अयमर्थः। स्वजातेदृष्टष्टाभ्यामविरोधेन विशेषाणामकरूपतया यद् अहणं स संग्रह इति ॥१३॥ अमुं भेदतो दर्शयन्ति- अयमुभयविकल्पः परोऽपरश्च ॥ १४ ॥ तत्र परसंग्रहमाहुः- अशेषविशेषेष्वौदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परसंग्रहः ॥ १५ ॥ परामर्श इत्यप्रेतनेऽपि योजनीयम् ॥ १५ ॥ . भ १२८ प्रमाणनयतत्त्वालोकालङ्कारः- -- उदाहरन्ति- विश्वमेकं सदविशेषादिति यथा ॥ १६ ॥ अस्मिन् उक्ते हि सदितिज्ञानाभिधानानुवृत्तिलिङ्गानुमितसत्ताक- त्वेनैकत्वमशेषार्थानां संगृह्यते ॥१६॥ एतदाभासमाहुः- सत्ताऽद्वैतं स्वीकुर्वाणः सकलविशेषान्निराचक्षाण- स्तदाभासः ॥ १७ ॥ अशेषविशेषेष्वौदासीन्यं भजमानो हि परामर्शविशेषः संग्रहा- ख्यां लभते, न चायं तथेति तदाभासः ॥ १७॥ उदाहरन्ति- यथा सत्तैव तत्त्वं ततः पृथग्भूतानां विशेषाणाम- . दर्शनात् ॥ १८॥ अद्वैतवादिदर्शनान्यखिलानि सांख्यदर्शनं चैतदाभासत्वेन प्रत्ये- यम्। अद्वैतवादस्य सर्वस्यापि दृष्टेष्टाभ्यां विरुद्धयमानत्वात् ॥ १८॥ अथापरसंग्रहमाहुः- द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्भेदेषु गज- निमीलिकामवलम्बमानः पुनरपरसंग्रहः ॥ १९ ॥ द्रव्यत्वमादिर्येषां पर्यायत्वप्रभृतीनां तानि तथा, अवान्तर- सामान्यानि सत्ताख्यमहासामान्यापेक्षया कतिपयव्यक्तिनिष्ठानि तद्भे- देषु द्रव्यत्वाद्याश्रयभूतविशेपेषु द्रव्यपर्यायादिषु गजनिमीलिकामुपे- क्षाम् ॥ १९॥ उदाहरन्ति- धर्माधर्माकाशकालपुद्गलजीवद्रव्याणामैक्यं द्रव्य- त्वाभेदादित्यादिर्यथा ॥ २० ॥.

रत्नाकरावतारिकायुक्तः ।
१२९
अत्र द्रव्यं द्रव्यमित्यभिन्नज्ञानाभिधानलक्षणलिङ्गानुमितद्रव्यत्वा-
स्मकत्वेनैक्यं पण्णामपि धर्मादिद्रव्याणां संगृह्यते । आदिशब्दाचेतना-
चेतनपर्यायाणां सर्वेपामेकत्वम् , पर्यायत्वाविशेषादित्यादि दृश्यम् ॥२०॥
एतदाभासमाहु-
द्रव्यत्वादिकं प्रतिजानानस्तद्विशेषान्निह्रवानस्त-
दाभासः ॥ २१ ॥
तदाभासोऽपरसंग्रहाभासः ॥ २१ ॥
उदाहरन्ति-
यथा द्रव्यत्वमेव तत्त्वं, ततोऽर्थान्तरभूतानां द्रव्या-
णामनुपलब्धेरित्यादिः ॥ २२ ॥
अयं हि द्रव्यत्वस्यैव तात्त्विकतां प्रख्यापयति, तद्विशेषभूतानि
तु धर्मादिद्रव्याण्यपद्भुत इत्यपरसंग्रहाभासनिदर्शनम् । सर्वत्र संग्रहा-
भासत्वे कारणं प्रमाणविरोध एव, सामान्यविशेषात्मनो वस्तुनस्तेन
अतीतेरभिहितत्वात् ।। २२ ।।
अथ व्यवहारनयं व्याहरन्ति-
संग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं
येनाभिसन्धिना क्रियते स व्यवहारः ॥ २३ ॥
संग्रहगृहीतान् सत्त्वाद्यर्थान विधाय न तु निषिध्य यः परामर्शवि-
शेषस्तानेव विभजते, स व्यवहारनयस्तज्ज्ञैः कीर्त्यते ॥ २३ ॥
उदाहरन्ति-
यथा यत्सत्तद् द्रव्यं पर्यायो वेत्यादिः ॥ २४ ॥
आदिशब्दादपरसंग्रहगृहीतार्थगोचरव्यवहारोदाहरणं दृश्यम् ।
थद् द्रव्यं तज्जीवादिषड्विधं, य. पर्यायःस द्विविधः-क्रमभावी सहभावी
चेति । एवं यो जीवः स मुक्तः संसारी च, यः क्रमभावी पर्यायः स
क्रियारूपोऽक्रियारूपश्चेत्यादि ॥ २४ ॥

१३० प्रमाणनयतचालोकालकार:- एतदाभासं वर्णयन्ति- यः पुनरपारमार्थिकद्रव्यपर्यायविभागमभिप्रैति स व्यवहाराभासः॥ २५ ॥ यः पुनः परामर्शविशेष. कल्पनाऽऽरोपितद्रव्यपर्यायप्रविवेकं म. न्यते सोऽत्र व्यवहारदुर्नयः प्रत्येय. ॥ २५ ।। उदाहरन्ति- यथा चार्वाकदर्शनम् ॥ २६ ॥ चार्वाको हि प्रमाणप्रतिपन्नं जीवद्रव्यपर्यायादिप्रविभागं कल्प- नाऽऽरोपितत्वेनापछुते, अविचारितरमणीयं भूतचतुष्टयप्रविभागमात्रं तु स्थूललोकव्यवहारानुयायितया समर्थयत इत्वस्व दर्शनं व्यवहा- रनयाभासतयोपदर्शितम् ।। २६ ।। द्रव्यार्थिकं त्रेधाऽभिधाय पर्यायाथिकं प्रपञ्चचन्ति- पर्यायार्थिकश्चतुर्दा ऋजुसूत्रः शब्दः समभिरूढ एवंभूतश्च ॥ २७ ॥ एपु जुसूत्रं तावद्वितन्वन्ति- ऋजु वर्तमानक्षणस्थायि पर्यायमानं प्राधान्यतः सूत्र- यन्नभिप्राय ऋजुसूत्रः ॥ २८ ॥ ऋजु अतीतानागतकालक्षणलक्षणकौटिल्यवैकल्यात् प्राजलम् । अयं हि द्रव्यं सदपि गुणीभावान्तार्पयति, पर्यायांस्तु क्षणध्वंसिनः प्रधानतया दर्शयतीति ॥ २८ ॥ उदाहरन्ति- यथा सुखविवर्त्तः सम्प्रत्यस्तीत्यादिः ॥ २९ ॥ अनेन हि वाक्येन क्षणस्थायिसुखाल्यं पर्याचमात्रं प्राधान्येन प्रदयते, तदधिकरणभूतं पुनरात्मद्रव्यं गौणतया नाते। आर ।

१३१ रत्नाकरावतारिकायुक्तः। दिशब्दाद् दुःखपर्यायोऽधुनाऽस्तीत्यादिकं प्रकृतनयनिदर्शनमभ्यूह- नीयम् ॥ २९ ॥ ऋजुसूत्राभासं ब्रुवते- सर्वथा द्रव्यापलापी तदाभासः ॥ ३० ॥ सर्वथा गुणप्रधानभावाभावप्रकारेण तदाभास ऋजुसूत्राभासः॥३०॥ उदाहरन्ति- यथा तथागतमतम् ॥ ३१ ॥ तथागतो हि प्रतिक्षणविनश्वरान् पर्यायानेव पारमार्थिकतया समर्थयते, तदाधारभूतं तु प्रत्यभिज्ञादिप्रमाणप्रसिद्धं त्रिकालस्था- ये द्रव्यं तिरस्कुरुत इत्येतन्मतं तदाभासतयोदाहृतम् ॥ ३१ ॥ शब्दनयं शब्दयन्ति- कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः॥ ३२ ॥ कालादिभेदेन कालकारकलिङ्गसंख्यापुरुषोपसर्गभेदेन ॥ ३२ ॥ उदाहरन्ति- यथा बभूव भवति भविष्यति सुमेरुरित्यादिः ॥ ३३ ॥ अत्रातीतवर्तमानभविष्यलक्षणकालत्रयभेदात्कनकाचलस्य भेदं शब्दनयः प्रतिपद्यते । द्रव्यरूपतया पुनरभेदममुष्योपेक्षते । एतच कालभेदे उदाहरणम् । करोति क्रियते कुम्भ इति कारकभेदे, तटस्तटी तटमिति लिङ्गभेदे, दाराः कलत्रमित्यादि संख्याभेदे, एहि मन्ये रथेन यास्यसि नहि यास्यसि यातस्ते पितेति पुरुषमेदे, सन्तिष्ठते अवतिष्ठत इत्युपसर्गभेदे ॥ ३३ ॥ एतदाभासं ब्रुवते- तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः॥३४॥ तद्भेदेन कालादिभेदेन तस्य ध्वनेस्तमेवार्थभेदमेव; तदाभासः शब्दाभासः ।। ३४ ॥

. १३२ प्रमाणनयतत्त्वालोकालङ्कारः- उदाहरन्ति- यथा बभूव भवति भविष्यति सुमेरुरित्यादयो भि- न्नकालाः शब्दा भिन्नमेवार्थमभिदधति भिन्नकाल- शब्दत्वात् ताक्सिद्धान्यशब्दवदित्यादिः ॥३५॥ अनेन हि तथाविधपरामर्शोत्थेन वचनेन कालादिभेदाद्भिन्नस्यै- वार्थस्याभिधायकत्वं शब्दानां व्यजितम् । एतच्च प्रमाणविरुद्धमिति तद्वचनस्य शव्दनयाभासत्वम् । आदिशब्देन करोति क्रियते कट इ- त्यादिशब्दनयाभासोदाहरणं सूचितम् ।। ३५ ।। समभिरूढनयं वर्णयन्ति- पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थ समभिरोह- न् समभिरूढः ॥ ३६ ॥ शब्दनयो हि पर्यायभेदेऽप्यर्थाभेदमभिप्रैति, समभिरूढस्तु प- यभेदे भिन्नाननभिमन्यते, अभेदं त्वर्थगतं पर्यायशब्दानामु- पेक्षत इति ।। ३६ ॥ उदाहरन्ति- इन्दनादिन्द्रः शकनाच्छकः पूर्दारणात् पुरन्दर इत्यादिषु यथा ॥ ३७ ॥ इत्यादिपु पर्यायशब्देषु यथा निरुक्तिभेदेन भिन्नमर्थ समभि- रोहनभिप्रायविशेषः समभिरूढस्तथाऽन्येष्वपि घटकुटकुम्भादिषु द्रष्टव्यः ॥ ३७ ।। एतदाभासमाभाषन्ते- पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्त- दाभासः॥ ३८ ॥ सदाभासः समाभिरूढाभासः ।। ३८ ।। -

रत्नाकरावतारिकायुक्तः।
१३३
१
उदाहरन्ति-
यथेन्द्रः शक्रः पुरन्दर इत्यादयःशब्दा भिन्नाभिधेया एवं
भिन्नशब्दत्वात् करिकुरङ्गतुरङ्गशब्दवदित्यादिः॥३९॥
एवंभूतनयं प्रकाशयन्ति-
शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविष्टमर्थ
वाच्यत्वेनाभ्युपगच्छन्नेवंभूतः ॥४०॥
समभिरूढनयो हीन्दनादिक्रियायां सत्यामसत्यां च वासवादे-
रथस्येन्द्रादिव्यपदेशमभिप्रेति, पशुविशेषस्य गमनक्रियायां सत्यामसत्यां
च गोव्यपदेशवत् तथा रूढेः सद्भावात् । एवंभूतः पुनरिन्दनादिक्रिया-
परिणतमर्थ तकियाकाले इन्द्रादिव्यपदेशभाजमभिमन्यते, न हि
कश्चिदक्रियाशब्दोऽस्यास्ति, गौरश्व इत्यादिजातिशब्दाभिमतानामपि
क्रियाशब्दत्वात्-च्छतीति गौः, आशुगामित्वादश्व इति । शुक्को नील
इति गुणशब्दाभिमता अपि क्रियाशब्दा एव-शुचिभवनात् शुक्लो
नीलनान्नील इति । देवदत्तो यज्ञदत्त इति यहच्छाशब्दाभिमता अपि
क्रियाशब्दा एव-देव एनं देयात् , यज्ञ एन देयादिति । संयोगिद्र-
व्यशब्दाः समवायिद्रव्यशब्दाश्चाभिमताः क्रियाशब्दा एव-दण्डोs-
स्यास्तीति दण्डी, विषाणमस्यास्तीति विषाणीत्यस्तिक्रियाप्रधानत्वात् ।
पञ्चतयी तु शब्दानां व्यवहारमात्राद् न निश्चयादित्ययं नयः स्वी-
कुरुते ॥ ४० ॥
उदाहरन्ति-
यथेन्दनमनुभवन्निन्द्रः शकनक्रियापरिणतः शक्रः
पूरणप्रवृत्तः पुरन्दर इत्युच्यते ॥ ४१ ॥
एवंभूताभासमाचक्षते-
क्रियाऽनाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपस्तु त-
दाभासः॥ ४२ ॥

१३४ प्रमाणनयतत्वालोकालङ्कारः क्रियाऽऽविष्टं वस्तु ध्वनीनामभिधेयतया प्रतिजानानोऽपि यःपरा- मर्शस्तदनाविष्टं तत्तेषां तथा प्रतिक्षिपति नतूपेक्षते स एवंभूतनया- भासः, प्रतीतिविघातात् ।। ४२ ।। उदाहरन्ति- यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्द- वाच्यं घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशू- न्यत्वात् पटवदित्यादिः ॥ ४३ ।। अनेन हि वचसा क्रियाऽनाविष्टस्य घटादेवस्तुनो घटादिशब्दवा- च्यतानिषेधः क्रियते स च प्रमाणवाधित इति तद्वचनमेवंभूतनया- भासोदाहरणतयोक्तम् ॥ ४३ ।। के पुनरेषु नयेष्वर्थप्रधानां. के च शब्दनया इति दर्शचन्ति- एतेषु चत्वारः प्रथमेऽर्थनिरूपणप्रवणत्वादर्थनयाः॥५॥ शेषास्तु त्रयः शब्दवाच्यार्थगोचरतया शब्दनयाः॥४५॥ कः पुनरत्न बहुविषयः को वाऽल्पविषयो नय इति विवेचचन्ति- पूर्वः पूर्वो नयः प्रचुरगोचरः, परः परस्तु परिमित- विषयः ॥ ४६॥ तत्र नैगमसंप्रहयोस्तावन्न संग्रहो वहुविषयो नेगमात्परः किं तर्हि नेगम एव संग्रहात्पूर्व इत्याहु.- सन्मात्रगोचरात्संग्रहान्नैगमो भावाभावभूमिकत्वाद् भूमविषयः ॥ ४७ ॥ भावाभावभूमिकत्वाद्भावाभावविषयत्वात्, भूमविषयो बहुवि- पयः ॥ ४७ ॥ संग्रहाद् व्यवहारो बहुविषय इति विपर्ययमपास्यन्ति- सद्विशेषप्रकाशकाद्यवहारतः संग्रहः समस्तसत्समूहोप- रत्नाकरावतारिकायुक्तः । १३५ दर्शकत्वात् बहुविषयः ॥ ४८ ॥ व्यवहारो हि कतिपयान् सत्प्रकारान् प्रकाशयतीत्यल्पविषयः, संग्रहस्तु सकलसत्प्रकाराणां समूहं ख्यापयतीति बहुविषयः ॥४८॥ व्यवहारात् ऋजुसूत्रो बहुविषय इति विपर्यासं निरस्यन्ति- वर्तमानविषयाजुसूत्राध्यवहारस्त्रिकालविषयावल- म्बित्वादनल्पार्थः॥४९॥ वर्तमानक्षणमात्रस्थायिनमर्थमृजुसूत्रः सूत्रयतीत्यसावल्पविषयः, व्यवहारस्तु कालत्रितयवर्त्यर्थजातमवलम्बत इत्ययमनल्पार्थ इति॥४९॥ ऋजुसूत्राच्छब्दो बहुविषय इत्याशङ्कामपसारयन्ति- कालादिभेदेन भिन्नार्थोपदर्शिनः शब्दाजुसूत्रस्तद्वि- परीतवेदकत्वान्महार्थः ॥ ५० ॥ शब्दनयो हि कालादिभेदाद्भिन्नमर्थमुपदर्शयतीति स्तोकविषयः, ऋजुसूत्रस्तु कालादिभेदतोऽप्यभिन्नमर्थ सूचयतीति बहुविषय इति॥५०॥ शब्दात्समभिरूढो महार्थ इत्यारेका पराकुर्वन्ति- प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढाच्छब्दस्त- द्विपर्ययानुयायित्वात् प्रभूतविषयः ॥ ५१ ॥ समभिरूढनयो हि पर्यायशब्दानां व्युत्पत्तिभेदेन भिन्नार्थतामर्थ- यत इति तनुगोचरोऽसौ, शब्दनयस्तु तेषां तभेदेनाप्येकार्थतां समर्थ- यत इति समधिकविषयः ।। ५१ ।। समभिरूढादेवंभूतो भूमविषय इत्यप्याकूतं प्रतिक्षिपन्ति- प्रतिक्रियं विभिन्नमर्थ प्रतिजानानादेवंभूतात्समभिरूढ- स्तदन्यथार्थस्थापकत्वान्महागोचरः॥ ५२ ॥ एवंभूतनयो हि क्रियाभेदेन भिन्नमर्थ प्रतिजानीत इति तुच्छ- विषयोऽसौ, समभिरूढस्तु तद्भेदेनाप्यभिन्नं भावमभिप्रेतीति प्रभूत- विषयः ।। ५२॥

-
प्रमाण
१३६ प्रमाणनयतवालीकालद्वार:-
अथ यथा नयवाक्यं प्रवर्तते तथा प्रकाशयन्ति-
नयवाक्यमपि स्खविपये प्रवर्तमानं विधिप्रनिषेधाभ्यां
सप्तभङ्गीमनुव्रजति ॥ ५३ ॥
नयवाक्यं प्राग्लक्षितविफलादेशस्वरूपं, न पचलं सफलादेशम्ब.
भावं प्रमाणवाक्यमित्यपि शब्दार्थ. । स्वविपये वाभिधेये प्रवगाने
विधिप्रतिपेधाभ्यां परस्परविभिन्नार्थनययुग्मसमुत्यविधाननिषेधा
भ्यां कृत्वा सप्तभद्गीमनुगच्छति, प्रमाणसप्तभनीयदेतहिचारः पर्त
व्यः । नयसप्तभगीप्वपि प्रतिभन्न स्यात्कारन्यैवकारस्य च प्रयोग
सद्भावात् । तासां विकलादेशत्वादेव सकलादेशात्मिकाया.
सप्तभङ्मया विशेपव्यवस्थापनात् । विकलादेशस्वभावा हि नयनमभई
वस्त्वशमानप्ररूपकत्वात् , सकलादेशस्वभावा तु प्रमाणसप्तभनी संपूर्ण
वस्तुस्वरूपप्ररूपकत्वादिति ।। ५३ ॥
एवं नयस्य लक्षणसख्याविषयान् व्यवस्थाप्येवानी फल स्फुटयन्ति-
प्रमाणवदस्य फलं व्यवस्थापनीयम् ॥ ५४ ॥
प्रमाणस्येव प्रमाणवत्, अस्येति नयस्य, यथा खल्वानन्तयेंण
प्रमाणस्य संपूर्णवस्त्वज्ञाननिवृत्तिः फलमुक्तम्, तथा नयत्यापि
वस्त्वेकदेशाज्ञाननिवृत्तिः फलमानन्तर्येणावधार्यम् । यथा च पारंप-
येण प्रमाणस्योपादानहानोपेक्षायुद्धयः संपूर्णवस्तुविपयाः फलत्वेना-
भिहितास्तथा नयस्यापि वस्त्वंशविपयास्ताः परम्पराफलत्वेनावधा-
रणीयाः। तदेतद् द्विप्रकारमपि नयस्य फलं ततः कथञ्चिदिन्नमाभिन्न
वाऽवगन्तव्यम् । नयफलत्वान्यथानुपपत्तेः कथञ्चिद्भेदाभेदप्रतिष्ठा
च नयफलयोः प्रागुक्तप्रमाणफलयोरिव कुशलैः कर्तव्याः ॥ ५४॥
तदित्थं प्रमाणनयतत्त्वं व्यवस्थाप्य संप्रति तेपां तत्र कथञ्चिद-
विष्वग्भावनावस्थितेरखिलप्रमाणनयानां व्यापकं प्रमातारं स्वरूपतो
व्यवस्थापयन्ति-
प्रमाता प्रत्यक्षादिप्रसिद्ध आत्मा ॥ ५५ ॥

रत्नाकरावतारिकायुक्तः । प्रमिणोतीति प्रमाता, किभूतः क इत्याह-प्रत्यक्षादिप्रसिद्धः प्रत्यक्षपरोक्षप्रमाणप्रतीतः, अतति अपरापरपर्यायान् सतत गच्छतीत्या- त्मा जीवः । इहात्मानं प्रति विप्रतिपेदिरे परे । चार्वाकास्तावचर्चयां- चक्र:-कायाकारपरिणामदशायामभिव्यक्तचैतन्यधर्मकाणि पृथिव्य- प्तेजोवायुसंज्ञकानि चत्वार्येव भूतानि तत्त्वम्, न तु तब्यतिरिक्तः कश्चिद् भवान्तरानुसरणव्यसनवानात्मा; यदुवाच वृहस्पतिः--"- धिव्यापस्तेजो वायुरिति तत्त्वानि, तत्समुदाये शरीरविपयन्द्रिगसंज्ञाः; तेभ्यश्चतन्यम" इति प्रत्यकमहश्यमानचेतन्यान्यपि च भूतानि समु- दितावस्थानि चैतन्यं व्यविष्यन्ति, मदशक्तिवत् ; यथा हि काप्ट- पिष्टादय.प्रागहश्यमानामपि मदशक्तिमासादितसुराकारपरिणामा व्य- सयन्ति, तदेतान्यपि चेतन्यमिति ! तदैतन् तरलतरमतिविलसितम्, कायाकारपरिणतभूतैश्चैतन्याभिव्यक्तरसिद्ध., .,सत. खल्वभिव्यक्तियुक्ता। न च देहदशायाः प्राग् भूतेपुचैतन्यसत्तासाधक प्रत्यक्षमस्ति, तस्यैन्द्रि- यकस्यातीन्द्रिये तस्मिन्नप्रवर्तनात् , अनन्द्रियकस्य तस्य त्वयाऽनगी- काराध । नाप्यनुमानम , तस्याप्यनझोकारादेव । अथ स्वीक्रियत एव लोकयात्रानिवाहणप्रवण धूमाद्यनुमानम् , स स्वर्गापूर्वादिप्रसाधकस्यालो- किकस्यैव तस्य तिरस्कारादिति चेन; ताह कायाकारहेतुबकायाकारभू- तेपु भूतेषु चेतन्यानुमानमप्यलोकिक स्वाद, लौकिकस्तत्र तत्याननुमी- यमानत्वात् , स्वीपूर्वादिप्रसाधकमपि वा तद् लौकिकं भवेत् । अथोक्तं प्राकाष्ठपिष्टप्रभृतिपु प्रत्येकमप्रतीयमानाऽपि मशक्ति समुदाय दशाया यथाभिव्यज्यत , तथा कायाकारे चैतन्यमपीति चेत् । तदसत्यम् । यतः केय मदशक्तिनाम वस्तुस्वरूपमेव, अतीन्द्रिया वा काचित् । न प्राच्यः पक्षः, काष्टपिष्टादिवस्तुम्वरूपस्यासमुदायदशायामपि सत्त्वेन तदानीम- पिमदगत्तरभिव्यक्तिप्रसक्ते ।अतीन्द्रियायान्तु तस्यास्तदानीमन्यदा वा न ते स्वीकारः सुन्दर , प्रत्यक्षातिरिक्तप्रमाणस्य तत्साधकस्य भवतोऽ- भावात्। जैनैस्तदानी स्वीकृतैव नावदियम, समुदायदशायामभिव्यक्ति- स्वीकारादिति चेत् । तदनन्, तस्यास्तदाना तैरुत्पाद्यत्वेन स्वीकारान्, - . १८ १३८ प्रमाणनयतत्त्वालोकालङ्कारः- मृत्पिण्डदण्डकुलालादिसामग्यां घटवत् । मति वस्तुनि नानजनन· योग्य ह्यभिव्यञ्जकमुच्यते, प्रदीपादिवत् । न च काप्टपिष्टादीनि मद- शक्ती तथा, तस्याः साधकप्रमाणाभावाद् इति कथं तद्दष्टान्तेन चत- न्यव्यक्ति' सिध्येत् ? । अथ भृतेभ्यश्चैतन्यमुत्पद्यमानमिप्यते । नतदपि प्रशस्यम्, पृथगवस्थेभ्योऽपि तेभ्यस्तदुत्पत्तिप्रसक्तं. भूतसमुदयस्वभा- वात् कायात्तदुत्पाद इति चेद्, ननु समस्ताद् व्यस्तावा तस्मान् तदु- त्पद्येत । न तावत् समस्तात् , अमुल्यादिच्छेदेऽपि पञ्चताप्रसङ्गात् , अन्यथा शिरश्छेदेऽप्यपञ्चत्वप्राप्तेः । नापि व्यस्ताद् एकस्मिन्नेव कायेऽनेकचैतन्योत्पत्तिप्रसङ्गात् । अथैकः शरीरावयवी तत एकमेव चैतन्यमुत्पद्यते । तदप्यसूक्ष्मम् , अक्षपादमत एव तादृशावयविस्वी- कारात्, त्वन्मते तु “ समुदयमात्रमिदं कलेवरम्" इत्यभिधानात् । किञ्च, शरीरस्यावैकल्याद् मृतगरीरेऽपि चैतन्योत्पत्तिः स्यात् । अथ वातादिदोपवैगुण्याद् न मृतशरीरस्य चैतन्योत्पादकत्वम् । नैत युक्तम् । यतो मृतस्य समीभवन्ति दोषास्ततो देहस्याऽऽरोग्यलाभ, तथाचोक्तम्-"तेपां समत्वमारोग्यं क्षयवृद्धी विपर्यये" इति; ततश्च पुनरुज्जीवनं स्यात् । अथ समीकरणं दोपाणां कुतो ज्ञायते ?, ज्वरादि- विकारादर्शनात् । अथ वैगुण्यकारिणि निवृत्तेऽपि नावश्यं तत्कृतस्य वैगुण्यस्य निवृत्ति , यथा वह्निनिवृत्तावपि न काप्ठे श्यामिकाकोटि- ल्यादिविकारस्य । तदप्यसूपपादम् । यतः किञ्चित् कचिदनिवत्यं- विकारारम्मक दृष्टम् ,यथा काष्ठे वह्निः श्यामिकादेः; कचिच्च निवयं- विकारारम्भकम् , यथा सुवर्णे द्रवतायाः, तत्र यदि दोपविकारोऽनि- वर्त्य. स्यात् चिकित्साशास्त्रं वृथैव स्यात् , ततो दौर्वल्यादिविकारस्येव महतोऽपि मरणविकारस्य निवृत्ति. प्रसज्येत । अथ चिकित्साप्रयोगाद् दौर्बल्यादिनिवृत्त्युपलब्धेरपनेयविकारत्वम्, असाध्यव्याधेरुपलब्धेर- नपनेयविकारत्वं चेत्युभयथादर्शनाद् मरणानिवृत्ति. । तदसत् । यत- औषधादेरलाभाद् आयु क्षयाद् वा कश्चिदसाध्यो विकारो भवति, दोपेतु केवले विकारकारिणि नास्त्यसाथ्यता । तथा हि-तेनैव व्याधि- रत्नाकरावतारिकायुक्तः। १३९ ना कश्चिद् म्रियते कश्चिद् न, इति नेदं दोषे केवले विकारकारािण घटते; तस्मात् कर्माधिपत्यमेवाऽत्र सुसूत्रम्। न चैतत् परलोकादागतमात्मानं विनेति, तथाहि-एतस्योत्पादे देहः सहकारिकारणम् , उपादानकारणं वा भवेत्। प्राचि विकल्पे कलेवरस्य सहकारिभावे किमुपादानं चैतन्यस्य स्या- त्? तव्यतिरेकेण तत्त्वान्तराभावात्। न चानुपादाना कस्यचित्कार्यस्योत्प- चिरुपलब्धचरी, शब्दविद्युदादीनामप्यनुपादानत्वे तत्त्वचतुष्टयानन्त- वो भवेत् , देहाधिकोपादानाभ्युपगमे तु चैतन्यस्य निष्प्रत्यूहाऽऽ- स्मसिद्धि', कायसहकृतादात्मोपादानात् तथाविधचैतन्यपर्यायोत्पा- दप्रसिद्धेः। नाप्युपादानकारण कायश्चैतन्योपादेयस्य, परस्परानुयायि- विकारवत्त्वं खलुपादानोपादेययोर्लक्षणम् , यथा पटानुयायिनीलि- मवत्त्वं तन्तूनाम् , तन्त्वनुयायिनीलिमवत्त्वं च पटस्य, तथाहि- नीलतन्तुपटलपरिघटितमूर्तिः पटो नील एव भवति, शुक्लश्च पटो नीली- द्रवादिना रज्यमानो नीलतन्तुसन्तान एव भवतीति । तत्र न ता- वत् तनोरुपादानत्वोपपत्तिः, उपादानभावाभिमततनुभाजः शस्त्रसंपाता- दिजनितस्य विकारस्य वासीचन्दनकल्पानामन्यत्र गतचित्तानां वा चैतन्येऽनुपलम्भात् । यस्तु शस्त्रसंपाताद्यनन्तरं कस्यापि मूर्छादि- चैतन्यविकारः, स रुधिरसंदर्शनपीडाभयादिसम्भव एव, न तु काय- विकारकारणक', पररुधिरसंदर्शनव्याघ्रादिभयोत्पन्नमूर्छादिवत् । अ- स्तु वा कायविकारकारणकोऽसौ, तथापि नोपादानकारण कायः, तस्मिन्नवस्थामात्रकारणतया तस्य सहकारिकारणत्वस्यैवोपपत्तेः, सुव- र्णद्रवतायां दहनवत् । नापि चैतन्यस्योपादेयत्वोपपत्तिः, उपादेयभावा- भिमतचेतन्यजुषो हर्षविषादमूर्छानिद्राभीतिशोकानेकशास्त्रप्रबोधादे- विकारस्य कायेऽनुपलम्भादिति नोक्तमुपादानलक्षणं देहस्योपपद्यते । यवृद्धी; यदात्मनः कार्यस्य वृद्धिस्तत्तस्योपादानम् , यथा तन्तवः पटस्य; इत्यप्युपादानलक्षणं न तनोश्चैतन्यं प्रति युज्यते, योजन- शतादिशरीरप्रमाणानामपि मत्स्यादीनामल्पतमबुद्धित्वात् , कृशतरश- रीराणामपि केषांचिद् नृणां सातिशयप्रज्ञाबलशालित्वात् , या पुन- १४० प्रमाणनयतत्त्वालोकालङ्कारः- रेपा बालकादविग्रहवृद्धी चैतन्यवृद्धि , सा गरीरस्य चैतन्यं प्रति सहकारिभावाद, उदकवृद्वावङ्घरवृद्विवत् , उपादानभावे हि नियमेन चैतन्यस्य तवृद्धयनुविधायित्व स्याट् न चैवम , तथानुभवाभावान् । पूर्वाकारपरित्यागाजहवृत्तोत्तराकारोपादानमायुपादानलक्षण तनोचै- तन्यं प्रति नास्त्येव, उपादानभावाभिमतदारीरप्राक्तनाकारपरित्यागाभा- वेऽपि प्रादुर्भवन्नानाप्रकारप्रकर्परूपचतन्यधिकारोपलम्भादिति न च- तन्य प्रत्युपादानभावोऽपि वपुप सूपपाद. । किञ्च, यथा काष्टा- धन्त प्रतिष्टग्दव्यक्ताचलनाज्ज्वलन , चन्द्रकान्तान्तर्गताट् वा तोयात् तोय व्यक्तीभवदभ्युगतं भवता, तथाऽव्यतांञ्चतन्यान् कुतोऽपिपाश्चात्या- व्यक्तचैतन्यमभ्युपगम्यताम् , तथा चामसिद्धिः। अथ दृश्यमानकाप्ठे- न्दुकान्तादेरेव पार्थिवाज्ज्वलनोदकाचुत्पादोऽन्युपगम्यते, नादृश्यमानात् कुतोऽपि, तर्हि क्षीणस्ते तत्त्वचतुन्यवाद , सर्वेपां भूम्यादानामुपादानापा- देयभावप्रसङ्गन जैनाभिनेतपुदलकतत्त्ववादप्रमादिति न भृतेभ्यश्चत- न्योत्पादःसद्वाद । ननुज्ञान भूतान्वयव्यतिरेकानुविधाथि दृश्यते, तथा- हि-भूतेष्वन्नपानोपयोगतुष्टेप पटी चेतना भवति, तद्विपर्यये विपर्ययः, ब्राह्मीघृताशुपयोगसम्कृते च कुमारकारीरे पटुनजता प्रजायते, वासु च स्वेदादिना नातिइवीयसैव कालेन घ्यवयवा एव चलन्त पूतरादिकृमि- रूपा उपल म्यन्ते, इति भृवचैतन्यपक्ष एव युक्तियुक्तो लभ्यत इति चेत् । नेतच्चारू। यतश्चेष्टन्द्रियार्थाश्रयः शरीरं प्रसिद्धम् , तदनुग्रहात् तत्सह- कारीन्चिानुग्रहे सति पटुकरणत्वाविषयग्रहणमपि पटुतरमेव भवति। न च विपयत्रणादन्यच्चैतन्यं नाम, एतेन ब्राह्मीघृतोपयोगोऽपिव्या- ख्यात । आत्मनो भोगायतनत्वेन शरीरस्य कदाचिन् केपाश्चिद् भूताव- चवानामुपादानम,अन शुक्रशोणितवद्ध्यवयवान् विकृतानुपादास्य- ते। तथा च खेदजादिभेदेन बहुभेदो भूतसर्ग. प्रवर्तते विचित्रकर्मविपा- कापेक्षयेति यत्किंचिदेतत् । आत्नप्रतीतौ किं प्रमाणमिति चेत्, प्रत्य- क्षमेव नावन्, तथाहि-मुखीदुखी बाऽहमित्याद्यहंप्रत्ययश्चेतनातत्त्वमा- लाख्यमर्पयत्येव । न चाचं भ्रान्तिभ्राता, विसंवादापवाइवन्ध्यत्वान् ।

. , रत्नाकरावतारिकायुक्तः। १४१ नापि लैङ्गिकादिः, लिङ्गादितत्तत्कारणकलापोपनिपातमन्तरेणैवोत्पादात्। ततः स्पष्टप्रतिभासस्वरूपत्वेन प्रत्यक्षलक्षणोऽयमन्तर्मुखाकारतया परिस्फुरन्नात्मानमुद्योतयति। ननु मूत्तिमात्रमन्त्रणप्रवण एवैष प्रत्ययः, स्थूलोऽहं कृशोऽहमित्यादिप्रत्ययवत् ; न खल्वेपोऽप्यात्मालम्वन , तस्य स्थूलतादिधर्माधारत्वाभावादिति चेत् , तकिमिदानीमुन्दुरवृन्द विद्यत- इति मन्दिरमादीपनीयम् । न हि नीलः स्फटिक इत्यादि वेदनं सत्यं न संभवतीत्येतावता शुक्ल. स्फटिक इत्यपि मा भूत् । स्थूलोऽहमित्याद्यपि हि ज्ञानं स्थूलशरीरवानहमित्येव शरीरोपाधिकमुत्पद्यमानमात्मालम्बनतया सत्यमेव, यदि तु भेद तिरस्कुर्वदुत्पद्यते तदा भ्रान्तमेव, नील. स्फटिक- इत्यादिज्ञानवत् ; अस्ति च भेदेनापि प्रतिपत्ति स्थूल कृशं वा मम शरीरमिति । नतु मदीय आत्मेत्येपाऽपि प्रतिपत्तिरस्ति, न च मच्छब्द- वाच्यमात्मान्तरमत्राऽभ्युपगतं त्वया। यद्येवम् , प्रतिपन्न आत्मा तहि त्वयाऽप्येतदात्मशब्दाभिधेय , मच्छब्दवाच्ये तत्र विवादात् । प्रतिपन्ने च विवाद. सापवाद , स्ववचनविरोधवाधितत्वात् । अथ मम शरीरमि- त्यादिपु शरीरव्यतिरिक्तमालम्बनं ममेति ज्ञानस्याभ्युपगच्छतो ममा- त्मेत्यत्राप्यात्मव्यतिरिक्तमालम्बन प्रसज्यत इत्यनिष्टापादनार्थत्वाददो- पोऽयमिति चेत् । तदचतुरस्रम् , अप्रीतभासनाद्, न हि ममायमात्मेति प्रत्यये शरीरादिवद् मत्प्रत्ययविषयादन्य आत्मा प्रतिभाति, किन्त्वह- मित्यात्मानं प्रत्यक्षतः प्रतिपद्यात्मान्तरव्यवच्छेदेन परप्रतीत्यर्थ ममा- त्मेति निर्दिशाते, ममात्मा अहमेवत्यर्थ. । यदा पुन शरीरमात्मशब्देन निर्देष्टुमिच्छति, तदा ममात्मेति भेदाभिधानमेवेदम् , शरीरस्यात्मोप- कारकत्वेनात्मत्वेनोपचारात्, अत्यन्तोपकारके भृत्येऽहमेवाथमिति- 'वत् । किञ्च, ममात्मेति मत्प्रत्ययविपयाद् भेदेनात्मज्ञानं वाध्यमान- स्वाद् भ्रान्तं भवतु, शरीरभेदज्ञान तु कस्माद् भ्रान्तम ?; न होकत्र केशादिज्ञानस्य भ्रान्तत्वे सर्वत्र भ्रान्तत्वं युक्तम, भ्रान्ताऽभ्रान्तविटो- षाभावप्रसङ्गात् । ततः प्रत्यक्षादात्मा सिद्धिसौवमध्यमध्यासामान । नन्वात्मनः कि रूपं यत् प्रत्यक्षेण साक्षानियते ? । योवम् , सुसा.

१४२ प्रमाणनयतत्त्वालोकालङ्कारः- देरपि किं रूपं यद् मानसप्रत्यक्षसमविगम्यमिप्यते ?! नन्वानन्दादि- स्वभावं प्रसिद्धमेव रूपं सुखादेः, ताहि तदाधारत्वमात्मनोऽपि रूप- भवगच्छतु भवान् । "सुखादि चेत्यमानं हि स्वतन्त्रं नाऽनुभूयते । मतुवर्थानुवेधात् तु सिद्ध ग्रहणमात्मन. ॥ १ ॥ इदं सुखमिति ज्ञानं दृश्यते न घटादिवत् । अहं सुखीति तु ज्ञप्तिरात्मनोऽपि प्रकाशिका" ॥२॥ अनुमानतोऽप्यात्मा प्रसिध्यत्येव, तथाहि-चैतन्यं तन्वादिविल- क्षणाश्रयाश्रितम् , तत्र चाधकोपपत्तौ सत्यां कार्यत्वान्यथानुपपत्तेः । न तावदयं हेतुविशेष्यासिद्धः, कटकुटपटज्ञानादिविचित्रपरिणामपरम्परा- याः कादाचित्कत्वेन पटादिबत् तत्र कार्यत्वप्रसिद्ध.। नापि विशेपणा- सिद्धः,न शरीरेन्द्रियविषयाश्चैतन्यधर्माणः,रूपादिमत्त्वाद्, भौतिकवाद् वा घटवत् ; इत्यनेन तत्र तस्य वाधनात् । नाप्ययं व्यभिचारी विरुद्धो वा, तन्वादिलक्षणाश्रयाश्रिताद् विपक्षान् तन्वादिवर्तिनो रूपादेः गरी- रत्वसामान्याद् वा सविशेषणकार्यत्वहेतोरत्यन्त व्यावृत्तवान् । इत्यनु- मानतोऽप्यात्मा प्रासिध्यन् । “उपयोगलक्षणो जीव." इत्यागमप्रदीपो- ऽप्यात्मानमुद्योतयति । अनुमानागमयोश्च प्रामाण्यं प्रागेव प्रसा- धितमित्यात्मप्रसिद्धि.॥ वौद्धास्तु बुद्धिक्षणपरम्परामात्रमेवात्मानमा- म्नासिपु., न पुनमौक्तिककणनिकरनिरन्तरानुस्यूतकसूत्रवत् तदन्व- यिनमेकम् । ते लोकायतलुण्टाकेभ्योऽपि पापीयांसः, तद्भावेऽपि तेयां स्मरणप्रत्यभिज्ञानाद्यघटनात् , तथाहि-पूर्वबुद्धयाऽनुभूतेऽथे नोत्तरबुद्धी- नांस्मृतिः संभवति, ततोऽन्यत्वात् , सन्तानान्तरवुद्धिवत् । न ह्यन्यष्टो- ऽधोऽन्येन स्मर्यते, अन्यथैकेन दृष्टोऽर्थः सर्वैः स्मयत । स्मरणाभावे च कौतस्कुती प्रत्यभिज्ञाप्रसूति. ?, तस्याः स्मरणानुभवोभयसंभवत्वात्; पदार्थप्रेक्षणप्रबुद्धप्राक्तनसंस्कारस्य हि प्रमातुः स एवायमित्याकारणय- मुत्पद्यते । अथ स्यादयं दोषो यद्यविशेषेणाऽन्यदृष्टमन्यः स्मरतीत्युच्यते, १ वितत्वाद् इति पाठान्तरम् तदपि विपक्षत्वस्यैवावस्थापने हेतुत्वेन सुयोजम् । , रत्नाकरावतारिकायुक्तः । १४३ किन्त्वन्यत्वेऽपि कार्यकारणभावादेव स्मृतिः, भिन्नसंतानबुद्धीनां तु कार्यकारणभावो नास्ति, तेन सन्तानान्तराणां स्मृतिर्न भवति; न चैक- सान्तानिकीनामपि बुद्धीनां कार्यकारणभावो नास्ति, येन पूर्वबुद्धयनुभू- तेऽर्थे तदुत्तरबुद्धीनां स्मृतिर्न स्यात् । तदप्यनवदातम् , एवमपि नाना- त्वस्य तदवस्थत्वात् । अन्यत्वं हि स्मृत्यसंभवे साधनमुक्तम् , तच कार्यकारणभावाभिधानेऽपि नापगतम् , न हि कार्यकारणभावाभिधाने तस्यासिद्धत्वादीनामन्यतमो दोष प्रतिपद्यते । नापि स्वपक्षसिद्धिरनेन क्रियते, न हि कार्यकारणभावात् स्मृतिरित्यत्रोभयप्रसिद्धोऽस्ति दृष्टान्तः । अथ- " यस्मिन्नेव हि संतान आहिता कर्मवासना । फलं तत्रेव संधत्ते कसे रक्तता यथा " ॥१॥ इति कसिरक्ततादृष्टान्तोऽस्तीति चेत् । तदसाधीयः, साधनदूप- णासंभवात् । अन्वयाद्यसम्भवान्न साधनम्-न हि कार्यकारणभावो यत्र तत्र स्मृतिः कासे रक्ततावदित्यन्वय. संभवति, नापि यत्र न स्मृति- स्तत्र न कार्यकारणभाव इति व्यतिरेकोऽस्ति । असिद्धत्वाद्यनुद्भावनाच न दूषणम्, न हि ततोऽन्यत्वादित्यस्य हेतोः कर्पासे रक्ततावदित्यनेन कश्चिदोषः प्रतिपाद्यते । किञ्च, यद्यन्यत्वेऽपि कार्यकारणभावेन स्मृते- रुत्पत्तिरिष्यते, तदा शिष्याचार्यादिबुद्धीनामपि कार्यकारणभावसद्भा- वेन स्मृत्यादि स्यात् । अथ नायं प्रसङ्गः, एकसतानत्वे सतीति विशेपणा- दिति चेत् । तदयुक्तम् , भेदाभेदपक्षाभ्यां तस्योपक्षीणत्वात् । क्षणपर- म्परातस्तस्याऽभेदे हि क्षणपरम्परैव सा, तथा च सन्तान इति न कि- श्चिदतिरिक्तमुक्तम् । भेदे तु पारमार्थिकोऽपारमार्थिको वाऽसौ स्यात् । अपारमार्थिकत्वे त्वस्य तदेव दूपणम् । पारमार्थिकत्वे स्थिरो वा स्यात् , क्षणिको वा। क्षणिकत्वे सन्तानिनिर्विशेष एवायमिति किमनेन स्तनभीतस्य स्तेनान्तरशरणस्वीकरणकारिणा ? | "स्थिरमथ सन्तानमभ्युपेयाः प्रथयन्तं परमार्थसत्स्वरूपम् । अमृतं पिब पूतयाऽनयोक्त्या स्थिरवपुषः परलोकिनःमसिद्धे.गाथा , प्रमाणनयतत्वालोकालवार- उपादानोपादेयभावप्रवन्धेन प्रवर्तमान कार्यकारणभाव एव मन्ता- न इति चेन् । तदवद्यम् , अविवाभावादिसवन्धविशेपाभावे कारणव- मात्राविशेपादुपादानेतरविभागानुपपत्ते. । सन्तानजनक बत् तदपा- दानमिति चेत् । न, इत्तरतराधयत्वप्रसङ्गान-सन्तानजनकत्वेनोपादा- नकारणत्वम् , उपादानकारणजन्यत्वेन च सन्तानत्वमिति । लोके तु समानजातीयानां कार्यकारणभावे संतानव्यवहार, तद्यथा- ब्राह्मणसन्तान इति, तत्प्रसिद्ध्या चास्माभिरपि शब्दप्रदीपादियु सन्तानव्यवहारः क्रियते, तवापि यद्येवमभिप्रेतः सन्तानन्तटा कथं न शिष्याचार्यबुद्वीनामेकसन्तानत्वम् ? ।न ह्यासां समानजा- तीयत्व कार्यकारणभावो वा नास्ति, तत शिप्यस्य चिरव्यवहिना- अपि वुद्धय पारम्पर्येण कारणमिति तदनुभतेऽप्यर्थे यथा स्मृति- भवति तथोपाध्यायबुद्धयोऽपि जन्मप्रभृत्युत्पन्ना. पारम्पर्यण कारण- मिति तदनुभूतेऽप्यर्थे स्मृतिर्भवेत् । किञ्च, धूमशब्दादीनामुपादान. कारणं विनैवोत्पत्तिस्तव स्याद् , न हि तेपामप्यनादिप्रबन्धेन समानता तीय कारणमस्तीति शक्यते वकुम् , तथा च ज्ञानत्यापि गर्भादावनुपा दानवोत्पत्ति स्यादिति परलोकाभाव. । अथ धूमशब्दादीना विजाती- यमप्युपादाननिष्यते, एव तहि ज्ञानस्याप्युपादानं गर्भशरीरमेवास्तु न जन्मान्तरज्ञान कल्पनीयम् , यथादर्शन ह्युपादानमिप्टम् , अन्यथा धूमश- व्दादीनामप्यनादिः सन्तान. कल्पनीय. स्यादिति सतानाघटनाद् न प- रेपा स्मृत्यादिव्यवस्था, नापि परलोक कोऽपि प्रसिद्धिपद्धतिं दधाति, परलोकिन कस्यचिदसभवात् । सत्यपि वा परलोके कथमकृताभ्याग- मकृतप्रणाशी पराक्रियेते ? येन हि ज्ञानेन चैत्यवन्दनादिकर्म कृतम् , विनाशाद् न तत्फलोपभोग., यस्य च फलोपभोग , तेन न तत्कर्म कृत- मिति । अथ नायं दोपः, कार्यकारणभावस्य नियामकत्वात्; अनादि- प्रवन्धप्रवृत्तो हि ज्ञानानां हेतुफलभावप्रवाह. । स च सन्तान इत्यु- च्यते,तद्वशात् सर्वो व्यवहार संगच्छते,नित्यस्त्वात्माऽभ्युपगम्यमानो यदि सुखादिजन्मना विकृतिमनुभवति तद्यमनित्य एव चर्मादिव- तस्य " - - रत्नाकरावतारिकायुक्तः। १४५ दुक्तः स्यात्, निर्विकारकत्वे तु सताऽसता वासुखदुःखादिना कर्मफलेन कस्तस्य विशेषः ?, इति कर्मवैफल्यमेव । तदुक्तम्- "वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् ? । चर्मोपमश्चेत् सोऽनित्यः खतुल्यश्चेदसत्समः" ॥१॥ इति तस्मात् त्यज्यतामेष मूर्धाभिषिक्तः प्रथमो मोह आत्मग्रहो नाम, तन्निवृत्तावात्मीयग्रहोऽपि विरस्यति-अहमेव न, किं मम' इति । तदिमहंकारममकारप्रन्थिप्रहाणेन नैरात्म्यदर्शनमेव निर्वाणद्वारम् , अन्यथा कौतस्कुती निर्वाणवार्ताऽपि ? । तदपि वार्तम् , हेतुफलभाव- प्रवाहखभावस्य सन्तानस्यानन्तरमेव नियामकत्वेन निरस्तत्वात् । यत् पुनः सुखादिविकाराभ्युपगमे चर्मादिवदात्मनोऽनित्यत्वं प्रसजितम् , तदिष्टमेव, कथञ्चिदनित्यत्वेनाऽऽत्मनः स्याद्वादिभिः स्वीकाराद् नित्य- त्वस्य कथञ्चिदेवाभ्युपगमात् । यत्तु नित्यत्वेऽस्याऽऽत्मीयग्रहसद्भावेन मुक्त्यनवाप्तिदूषणमभाणि, तदप्यनवदातम्, विदितपर्यन्तविरस- संसारस्वरूपाणां परिगतपारमार्थिकैकान्तिकाऽऽत्यन्तिकानन्दसन्दोहस्व- भावापवर्गोपनिषदां च महात्मनां शरीरेऽपि किंपाकपाकोपलिप्तपायस- इव निर्ममत्वदर्शनात् । नैरात्म्यदर्शने पुनरात्मैव तावन्नास्ति, कः प्रेत्य- सुखीभवनार्थ यतिष्यते ?; ज्ञानक्षणोऽपि संसारी कथमपरज्ञानक्षणसु- खीभवनाय घटिष्यते ,न हि दुःखी देवदत्तो यज्ञदत्तसुखाय चेष्टमानो दृष्टः; एकक्षणस्य तु दुःखं स्वरसनाशित्वात् तेनैव साध दध्वंसे । स- न्तानस्तु न वास्तवः कश्चिदिति प्ररूपितमेव, वास्तवत्वे तस्य निष्प्र- त्यूहाऽऽत्मसिद्धिरिति ॥ ५५ ॥ अथात्मनः परपरिकल्पितस्वरूपप्रतिषेधाय स्वाभिमतधर्मान् वर्णयन्ति- चैतन्यस्वरूपः परिणामी कर्त्ता साक्षाडोक्ता स्व- देहपरिमाणः प्रतिक्षेत्रं भिन्नः पौगालिका- दृष्टवांश्वायम् ॥ ५६ ॥ .

प्रमाणनयतत्त्वालोकालङ्कारः- चैतन्यं साकारनिराकारोपयोगास्यं स्वरूपं यस्याऽसौ चैतन्यस्वरूपः, परिणमनं प्रतिसमयमपरापरपर्याचेपु गमनं परिणामः स नित्यमस्या- स्तीति परिणामी, करोत्यदृष्टादिकमिति कर्ता, साक्षादनुपचरि- तवृत्त्या भुते सुखादिकमिति साक्षाभोक्ता, स्वदेहपरिमाणः स्त्रोपा- चवपुर्व्यापक', प्रतिक्षेनं प्रतिशरीरं भिन्नः पृथक्, पौद्गलिकादृष्टवान् पुद्गलघटितकर्मपरतन्त्रः, अयमित्यनन्तरं प्रमातृत्वेन निरूपित- आत्मेति । अन्न चैतन्यस्वरूपत्वपरिणामित्वविशेषणाभ्यां जडस्वरूप: कूटस्थनियो नैयायिकादिसंमतः प्रमाता व्यवच्छिद्यत । यतो येषा- मात्माऽनुपयोगस्वभावस्तावत् , तेषां नासौ पदार्थपरिच्छेदं विदध्याद्, अचेतनत्वात् ; आकाशवत्। अथ नोपयोगस्वभावत्वं चेतनत्वम्, किन्तु चैतन्यसमवायः; स चात्मनोऽस्तीत्यसिद्धमचेतनत्वमिति चेत् । तदनुचि- तम् , इत्थमाकाशादेरपि चेतनत्वापत्तेः, चैतन्यसमवायो हि विहायःप्रमु- खेऽपि समान ; समवायस्य स्वयमविशिष्टस्यैकस्य प्रतिनियमहेत्वभा- वादाऽऽत्मन्येव ज्ञानं समवेतं नाकाशादिष्विति विशेषाव्यवस्थितेः । न- नु यथेह कुण्डे दधीति प्रत्ययाद्न तत्कुण्डादन्यत्र तद्दधिसंयोगःशक्यसं- पादनः, तथेह मयि ज्ञानमितीहेदंप्रत्ययाद्नात्मनोऽन्यत्र गगनादिषु ज्ञा- नसमवाय इति चेत्। तदयौक्तिकम् । यत. खादयोऽपि ज्ञानमस्मास्विति प्रतिवन्तु, स्वयमचेतनत्वाद्, आत्मवत् आत्मानो वा मैवं प्रतिगुः, तत- एव, खादिवत्, इति जडात्मवादिमते सन्नपि ज्ञानमिहेतिप्रत्ययः प्रत्यात्म- वेद्यो न ज्ञानस्वाऽऽत्मनि समवायं नियमयति, विशेषाभावात्। नन्वेव- मिह पृथिव्यादिपु रूपादय इति प्रत्ययोऽपि न रूपादीनां पृथिव्यादिषु समवायं साधयेत् , यथा खादिषु, तत्र वा स तं साधयेत् , पृथिव्यादि- वित्र, इति न कचित् प्रत्ययविशेषात् कस्यचिद् व्यवस्थेति चेत् । सत्यम्, अयमपरोऽस्य दोषोऽस्तु, पृथिव्यादीनां रूपाद्यनात्मकत्वे खादिभ्यो वि. शिष्टतथा व्यवस्थापयितुमशक्केः। स्यान्मतम् ,मात्मानोज्ञानमस्मास्विति प्रतियन्ति,आत्मत्वात् ,येतु न तथा ते नाऽऽमानः,यथा खादयः, मानश्चैतेऽहंप्रत्ययग्राह्याः, तस्मात्तथा, इत्यात्सत्वमेव खादिभ्यो विशेष- आ- रत्नाकरावतारिकायुक्तः। १४७ मात्मनां साधयति, पृथिवीत्वादिवत्,पृथिव्यादीनां पृथिवीत्वादियोगाद्धि' पृथिव्यादयः, तद्वदात्मत्वयोगादात्मान इति । तद्युक्तम् , आत्मत्वादिजा-. तीनामपि जातिमदनात्मकत्वे तत्समवायनियमासिद्धेः । प्रत्ययवि- . शेषात् तत्सिद्धिरिति चेत्, स एव विचारयितुमारब्धः; परस्परमत्यन्त- भेदाविशेषेऽपि जातितद्वताम् , आत्मत्वजातिरात्मनि प्रत्ययविशेषमुपज- नयति, न पृथिव्यादिषु; पृथिवीत्वादिजातयश्च तत्रैव प्रत्ययमुत्पादयन्ति, नात्मनि; इति कोऽत्रनियमहेतुः?। समवाय इति चेत्, सोऽयमन्योन्यसं-. श्रयः-सति प्रत्ययविशेषे जातिविशेषस्य जातिमति समवायः, सति च समवाये प्रत्ययविशेष इति । प्रत्यासत्तिविशेषादन्यत एव तत्प्रत्ययवि- शेष इति चेत् । स कोऽन्योऽन्यत्र कथश्चित्तादात्म्यपरिणामात् ?, इति स एव प्रत्ययविशेषहेतुरेषितव्यस्तदभावे तदघटनात् , जातिविशेषस्य कचिदेव समवायासिद्धरात्मादिविभागानुपपत्तरात्मन्येव ज्ञानं सम- वेतमिहेदमिति प्रत्ययं कुरुते, न पुनराकाशादिषुः इति प्रतिपत्तुमशक्ते- ने चैतन्ययोगादात्मनश्चेतनत्वं सिद्धयेत् ; अथ किमपरेण ?, प्रतीयते तावच्चेतनासमवायादात्मा चेतन इति चेत् । तदयुक्तम् । यतः प्रतीतिश्चेत् प्रमाणीक्रियते, तहि निष्प्रतिद्वन्द्वमुपयोगात्मक एवात्मा प्रसिद्धयति । न हि जातुचित् स्वयमचेतनोऽहं चेतनायोगाचेतनः, अचेतने वा मयि. चेतनायाः समवाय इति प्रतीतिरस्ति; ज्ञाताऽहमिति समानाधिकर--- णतया प्रतीतेः। भेदे तथाप्रतीतिरिति चेत् । न, कथञ्चित्तादात्म्याभावे तददर्शनात् । यष्टिः पुरुष इत्यादिप्रतीतिस्तु भेदे सत्युपचाराद् दृष्टा, न पुनस्तात्त्विकी । तथा चात्मनि ज्ञाताऽहमिति प्रतीतिः कथञ्चिञ्चेत- नात्मतां गमयति, तामन्तरेणाऽनुपपद्यमानत्वात् , कलशादिवत् ; न हि कलशादिरचेतनात्मको ज्ञाताऽहमिति प्रत्येति । चैतन्ययोगाभावादसौ न तथा प्रत्येतीति चेत् । न, अचेतनस्यापि चैतन्ययोगाचेतनोऽहमिति प्रतिपत्तेरनन्तरमेव निरस्तत्वात् , इत्यचेतनत्वं सिद्धमात्मनो जडस्यार्थ- परिच्छेदं पराकरोति; तं पुनरिच्छता चैतन्यस्वरूपताऽस्य स्वीकरणीया। ननु ज्ञानवानहमिति प्रत्ययादात्मज्ञानयोर्भेदः, अन्यथा धनवानिति प्र; .

, ? - १४८ प्रमाणनयतत्त्वालोकालद्वार:- त्ययादपि धनतद्वतोमैदाभावानुपगादिति कश्चित् । तदप्यसत् । यतो ज्ञानवानहमिति नात्मा प्रत्येति, जडत्वैकान्तरूपत्वाद् , घटवत् । सर्वथा जडच स्यादात्मा, ज्ञानवानहमिति प्रत्ययश्वास्य स्याद् , विरोधाभावात् , इति मा निर्णैपी ; वस्य तथोत्पत्त्यसम्भवात् ; ज्ञानवानमिति हि प्रत्ययो नाऽगृहीते ज्ञानास्ये विशेषणे विशेष्ये चात्मनि लातूत्पद्यते,स्वमतविरो- धान् "नागृहीतविशेपणा विशेष्ये बुद्धि," इति वचनात् । गृहीतयो- स्तयोरुत्पद्यत इति चेत् , कुतस्तहीतिः? न तावत् स्वतः, स्वसंवे दनानभ्युपगमात् , स्वसंविदिते ह्यात्मनि ज्ञाने च स्वतः सा युज्यते नान्यथा, सन्तानान्तरवत् । परतश्चेत् , तदपि ज्ञानान्तरं विशेष्यं नागृ होते ज्ञानत्वविशेषणे ग्रहीतुं शक्यमित्ति ज्ञानान्तरात् तद्हणेन भाव्य मित्यनवस्थानात् कुतः प्रकृतप्रत्ययः ? । तदेवं तात्मनो जडस्वरूपत्त संगच्छते । नापि कूटस्थनित्यता, चतो यथाविधः पूर्वदशायामात्मा, तथाविध एव चेज्ञानोत्पत्तिसमयेऽपि भवेत् , तदाप्रागिव कथमेष पदार्थ- परिच्छेदक स्यात् १ प्रतिनियतस्वरूपाप्रच्युतिरूपत्वात् कौटस्थ्यस्य पदा- र्थपरिच्छेदे तु प्रागप्रमातुःप्रमातृरुपतया परिणामात् कुतः कौटस्थ्यमि- ति ॥ कर्त्ता साक्षाद्रोक्ततिविशेषणयुगलकेन कापिलमतं तिरस्क्रियते, तथाहि-कापिल. कर्तृत्वं प्रकृतेः प्रतिजानीते न पुरुषस्य, “अकर्ता नि- गुणो भोक्ता" इति वचनात् । तद्युक्तम् । यतो यद्ययमकर्ता स्यात् , तदानीमनुभविताऽपि न भवेत् । द्रष्टुः कर्तृत्वे मुक्तस्यापि कर्तृत्वप्रस- तिरिति चेत् । मुक्त किमकर्तेष्ट. ? । विषयसुखादेरकतेंवेति चेत्, कुत स तथा । तत्कारणकर्मकर्तृत्वाभावादिति चेत्, तर्हि संसारी विषयसुखादिकारणकर्मविशेषस्य कर्तृत्वाद् विषयसुखादेः कर्ता, स एव चाऽनुभविता किं न भवेत् ? । संसार्यवस्थायामात्मा विषयसुखादि- तत्कारणकर्मणां न कर्ता, चेतनत्वाद्, मुक्तावस्थावत्, इत्येतदपि न सुन्दरम् , स्त्रेष्टविघातकारित्वात् । संसार्यवस्थायामात्मा न सुखा- देभोंका, चेतनवाद, मुक्तावस्थावत्, इति स्वेष्टस्यात्मनो भोत्तृत्त्वस्य विघातात् । प्रतीतिविरुद्धमिष्टविघातसाधनमिमिति चेत्, कर्तृत्वाभा- भ्रान्त- . रत्नाकरावतारिकायुक्तः। १४९ वसाधनमपि किं न तथा ? पुंसः श्रोताऽऽघाताऽहमिति स्वकर्तृत्वप्र- तीते. अथ श्रोताऽहमित्यादिप्रतीतिरहङ्कारास्पदम् , अहङ्कारस्य च प्रधा- नमेव कर्तृतया प्रतीयत इति चेत् , तत एवानुभवित प्रधानमस्तु। न हि तस्याहङ्कारास्पदत्वं न प्रतिभाति, शब्दादेरनुभविताऽहमिति प्रतीते: सकलजनसाक्षिकत्वात् । भ्रान्तमनुभवितुरहङ्कारास्पदत्वमिति चेत्, कर्तुः कथं न भ्रान्तम् ? । तस्याहङ्कारास्पदत्वादिति चेत्, तत एवा- ऽनुभवितुस्तदभ्रान्तमस्तु । तस्यौपाधिकत्वादहकारास्पदत्वं मेवेति चेत्, कुतस्तदौपाधिकत्वसिद्धिः । अथ पुरुषस्वभावत्वा- भावादहकारस्य तदास्पदत्वं पुरुषस्वभावस्यानुभवितृत्वस्यौपाधिक- मिति चेत् । स्यादेवम् , यदि पुरुषस्वभावोऽहकारो न स्यात् । मुक्तस्या- हङ्काराभावादपुरुषस्वभाव एवाहङ्कारः; स्वभावो हि न जातुचित् त- द्वन्तं त्यजति; तस्य निःस्वभावत्वप्रसङ्गादिति चेत् । न, “स्वभाव- स्य द्विविधत्वात् सामान्यविशेषपर्यायभेदात्, तत्र सामान्यपर्यायः शाश्वतिकस्वभावः, कादाचित्को विशेषपर्याय इति न कादाचि- कत्वात् पुंस्यहङ्कारादेरतत्स्वभावता, ततो न तदास्पदत्यमनुभवितृत्व- स्यौपाधिकम् , येनाभ्रान्तं न भवेत्। ततः सिद्धमात्माऽनुभवितेव कर्ता; अकर्तुर्भोक्तृत्वानुपपत्तेश्च । ननु भोक्तृत्वमप्युपचरितमेवास्य, प्रकृति- विकारभूतायां हि दर्पणाकारायां बुद्धौ संक्रान्तानां सुखदुःखादीनां पुरुषः स्वात्मनि प्रतिविम्बोदयमात्रेण भोक्ता व्यपदिश्यते । तदशस्यम् , तस्य तथापरिणाममन्तरेण प्रतिबिम्बोदयस्याऽघटनात्, स्फटिका- दावपि परिणामेनैव प्रतिबिम्बोदयसमर्थनात् ; तथापरिणामाभ्यु- पगमे च कुतः कर्तृत्वमस्य न स्यात् ?; इति सिद्धमस्य कर्तृत्वं साक्षा- ड्रोक्तृत्वं चेति ॥स्वदेहपरिमाण इत्यनेनाऽपि नैयायिकादिपरिकल्पितं सर्वगतत्वमात्मनो निषिध्यते, तथात्वे जीवतत्त्वप्रभेदानां व्यव- स्थानाप्रसिद्धिप्रसङ्गात् । सर्वगतात्मन्येकत्रैव नानात्मकार्यपरि- समाप्तेः, सकृन्नानामनःसमायोगो हि नानात्मकार्यम् , तञ्चैकत्रापि युज्यते, नभसि नानाघटादिसंयोगवत् । एतेन युगपन्नानाशरीरे- , - १५० प्रमाणनयतत्त्वालोकालद्वार:- न्द्रियसंयोग' प्रतिपादित. । युगपन्नानाशरीरेवात्मसमवाचिनां सुख- दुखादीनामनुपपत्ति', विरोधादिति चेत् । न, युगपन्नानाभादिष्वा- काशसमवाचिनां विततादिशब्दानामनुपपत्तिप्रसद्गात् , तद्विरांधल्या- विशेषात्। तथाविधशब्दकारणभेदाद न तदनुपपत्तिरिति चेत्, मुखा- दिकारणभेदात् तदनुपपत्तिरप्येकत्राऽऽत्मनि मा भूद, विशेषाभावान् । विरुद्धधर्माध्यासादात्मनो नानात्वमिति चेत् , तत एवाकाशनानात्व- मस्तु । प्रदेशभेदोपचारादोप इति चेत्, तत एवात्मन्यप्यदोपः । जननमरणकरणादिप्रतिनियमोऽपि सर्वगतात्मवादिनां नाऽऽत्मवहुत्वं साधयेत्, एकत्राऽपि तदुपपत्ते', घटाकाशादिजननविनागादिवत् ; न हि घटाकाशस्योत्पत्तौ घटाकागस्योत्पत्तिरव, तदा विनाशस्यापि दर्श- नात्; नापि विनाशे विनाश एव, जननस्यापि तदोपलन्भान्; स्थिती वा न स्थितिरेव विनाशोत्पादयोरपि तदा समीक्षणात् । सति बन्धे न मोक्ष.,सति वा मोक्षेन वन्ध.स्वात् , एकत्रात्मनि विरोधादिति चेत्। न, माकागेऽपि सति घटवन्धे घटान्तरमोक्षाभावप्रसङ्गात् ; सति वा घट- विश्लेपे घटान्तरविश्लेषप्रसङ्गात् । प्रदेशभेदोपचाराद् न तत्प्रसङ्ग इति चेत्, तत एवात्मनि न तत्प्रसङ्गः । नमसः प्रदेशभेदोपगमे जीवत्या. ऽध्येकस्य प्रदेशभेदोऽस्त्विति कुतो जीवतत्त्वप्रभेदव्यवस्था? यतो व्याप- कलं स्यात् । नन्वात्मनो व्यापकत्वाभावे दिग्देशान्तरवर्तिपरमाणु- मियुगपसंयोगाभावादाद्यकाभावः, तदभावादन्त्यसंयोगस्य तन्निमि- सगरीरस्य, तेन तत्संवन्धस्य चाभावादनुपायसिद्धः सर्वदा सर्वेपां मोक्षः स्यात्। अस्तु वा यथा कथञ्चिच्छरीरोत्पत्तिः, तथापि सावयवंश- रीरं प्रत्यवयवमनुप्रविशन्नात्मा सावयव.स्यात् , तथा चास्य पटादिवत् कार्यत्वप्रसङ्ग. । कार्यत्वे चासौ विजातीयैः सजातीयैवी कारणैरा- रभ्चेत । न प्राच्यः प्रकारः, विजातीयानामनारम्भकत्वात् । न द्वि- तीव., यतः सजातीयत्वं तेषामात्मत्वाभिसंवन्धादेव स्यात्, तथा चा- त्मभिरारभ्यते इत्यायातम् एतच्चायुक्तम् , एकत्र शरीरेऽनेकात्मनामा- मारम्भकाणामसम्भवान् , सम्भवे वा प्रतिसन्धानानुपपत्तिः; न हन्येन रत्नाकरावतारिकायुक्तः। १५१ दृष्टमन्यः प्रतिसन्धातुमर्हति अतिप्रसङ्गात् , तदारभ्यत्वे चास्य घटवदव- यवक्रियातो विभागात् संयोगविनाशाद् विनाशः स्यात् ।शरीरपरिणामत्वे चात्मनो मूर्त्तत्वानुषङ्गाच्छरीरेऽनुप्रवेशो न स्यात्, मूर्ते मूर्तस्यानुप्रवे- शविरोधात् ; ततो निरात्मकमेवाखिलं शरीरमनुषज्यते । कथंवा तत्प- रिमाणत्वे तस्य वालशरीरपरिमाणस्य सतो युवशरीरपरिमाणस्वी- कारः स्यात् ? तत्परिमाणपरित्यागात्, तदपरित्यागाद्वा। परित्यागाचेत्, तदाशरीरवत् तस्यानित्यत्वप्रसङ्गात् परलोकाद्यभावानुषङ्गः । अथापरि- त्यागात् , तन्न, पूर्वपरिमाणापरित्यागे शरीरवत् तस्योत्तरपरिमाणो- त्पत्त्यनुपपत्तेः । तथा- "यदि वपुष्परिमाणपवित्रितं वदसि जैनमतानुग ! पूरुषम् । वद् तदा कथमत्य विखण्डने भवति तस्य न खण्डनडम्बरम् ?गा। अत्राभिध्महे- यदभ्यधायि-नन्वात्मनो व्यापकत्वाभाव इत्यादि, तदसत्यम् , यद् येन संयुक्तं तदेव तं प्रत्युपसर्पतीति नियमासंभवात्; अयस्कान्तं प्रत्ययसस्तेनाऽसंयुक्तस्याऽप्याकर्षणोपलब्धेः।अथासंयुक्तस्या- ऽप्याकर्षणे तच्छरीरारम्भं प्रत्येकमुखीभूतानां त्रिभुवनोदरविवरवर्तिपर- माणूनामुपसर्पणप्रसङ्गाद् न जाने कियत्परिमाणं तच्छरीरं स्यादिति चेत् । संयुक्तस्याऽप्याकर्षणे कथं स एव दोषोन भवेत् ? आत्मनो व्यापक- त्वेन सकलपरमाणूनां तेन संयोगात् । अथ तद्भावाविशेषेऽप्यदृष्टवशाद् विवक्षितशरीरोत्पादनानुगुणा नियता एव परमाणव उपसर्पन्ति; तदि- तरत्रापि तुल्यम् । यच्चान्यदुक्तम्-सावयवं शरीरं प्रत्यवयवमनुप्रविश- न्नात्मेत्यादि, तदप्युक्तिमात्रम् , सावयवयत्वकार्यत्वयोः कथञ्चिदा-- त्मन्यभ्युपगमात् । न चैवं घटादिवत् प्राक्प्रसिद्धसमानजातीयावयवार- भ्यत्वप्रसक्तिः, न खलु घटादावपि कार्ये प्राक्प्रसिद्धसमानजातीय- कपालसंयोगारभ्यत्वं दृष्टम् , कुम्भकारादिव्यापारान्विताद् मृत्पिण्डात् प्रथममेव पृथुबुध्नोदराद्याकारस्याऽस्योत्पत्तिप्रतीतेः । द्रव्यस्य हि पूर्वाकारपरित्यागनोत्तराकारपरिणामः कार्यत्वम् , तच्च वहिरिवा- न्तरप्यनुभूयत एव । न च पटादौ स्वावयवसंयोगपूर्वककार्यत्वो- , , प्रमाणनयतत्वालोकालङ्कारः- पलम्भात् सर्वत्र तथाभावो युक्त', काठे लोहलेग्यत्यापलम्माद् वनेऽपि तथाभावप्रसङ्गान् ; प्रमाणवाधनमुभयत्र तुल्यम् । न चोर- लक्षणकार्यत्वाभ्युपगमेऽप्यात्मनोऽनित्यवानुपद्गात् प्रनिनन्यानाभा- वोऽनुपच्यते, कथञ्चिदनित्यत्वे सत्येवाऽस्योपपद्यमानत्वात् । यमाऽचा- चि-शरीरपरिमाणत्वे चात्मनो मृतवानुपद्ग इत्यादि,तत्र किमिदं मूत्र नाम ? असर्वगतद्रव्यपरिमाणत्वं, रूपादिमत्त्वं वा । तत्र नागः पक्षो दोपपोपाय, संमतत्वात् । द्वितीयपक्षत्वयुक्त , व्याप्त्यभावान् : नहि बदसर्वगतं तन्नियमेन रूपादिमदित्यविनाभावोऽस्ति, मनसोऽनर्व- गतत्वेऽपि तदसम्भवात् । अतो नात्मनः शरीरेऽनुप्रवेगानुपपत्तियतो निरात्मकं तत् त्यात् ; असर्वगतद्रव्यपरिमाणलक्षणमृतत्वस्य मनो- वत् प्रवेशाप्रतिबन्धकत्वात् , रूपादिमत्तलक्षणमूर्तचोपेवस्यापि हि जलादेर्भस्मादावनुप्रवेशो न निपिध्यते, आत्मनस्तु तद्रहितस्थापि तत्रासौ प्रतिवध्यत इति महचित्रम् । यदप्यवादि-तत्परिमाणवे तत्य वालशरीरपरिमाणस्येत्यादि, तदप्ययुक्तम् , युवशरीरपरिमाणा- वस्थायामात्मनो बालगरीरपरिमाणपरित्यागे सर्वथा विनाशासम्भ- वात् , विफणावस्थोत्पादे सर्पबत् , इति कथं परलोकाभावोऽनुपज्यते?; पर्यायतस्तस्याऽनित्यत्वेऽपि द्रव्यतो नित्यत्वात्। यच्चाजल्पि-चदि वपु- प्परिमाणपवित्रितमित्यादि, तदप्यपेशलम्, शरीरखण्डने कथञ्चि- वत्खण्डनस्येष्ठत्वात्, शरीरसंबद्धात्मप्रदेशेभ्यो हि कतिपयात्मप्रदे- शानां खण्डितशरीरप्रदेशेऽवस्थानमात्मनः खण्डनम् , तच्चान विद्यत- एव; अन्यथा शरीरात् पृथग्भूतावयवस्य कम्पोपलब्धिर्न स्यात् ।न च खण्डितावयवानुप्रविष्टस्यात्मप्रदेशस्य पृथगात्मत्वप्रसङ्गः, तत्रैवानु- प्रवेशात् । न चैकत्र सन्तानेऽनेक आत्मा, अनेकार्थप्रतिभासिज्ञाना- नामेकप्रमात्राधारतचा प्रतिभासामावप्रसगात् , शरीरान्तरव्यव- स्थित्तानेकन्नानावसेयार्थसंवित्तिवत् । कथं स्वपिडतासण्डिताव- यवयो. संघट्टनं पञ्चादिति चेत् ?, एकान्तेन च्छेदानभ्युपगमात्, पद्मनालतन्तुबदच्छेदस्यापि स्वीकारात् ; तथाभूतारवशाच्च तत्सं- रत्नाकरावतारिकायुक्तः। १५३ घट्टनमविरुद्धमेवेति तनुपरिमाण एवाऽऽत्माऽङ्गीकर्तव्यो न व्यापकः। तथा चाऽऽत्मा व्यापकोनभवति, चेतनत्वात् , यत्तु नैवं न तच्चतनं यथा व्योम, चेतनश्चात्मा, तस्मादव्यापकः । अव्यापकत्वे चाऽस्य तत्रै- वोपलभ्यमानगुणत्वेन सिद्धा शरीरपरिमाणता ॥ प्रतिक्षेत्रं वि- भिन्न इत्यनेन तु विशेषणेनाऽऽत्माऽद्वैतमपास्तम् । एतदपासनप्रका- रश्च प्रागेव प्रोक्त इति न पुनरुच्यते ॥ पौगलिकादृष्टवानिति नास्ति- कादिमतमत्यसितुम् । तथाहि-नास्तिकस्तावद् नाऽदृष्टमिष्टवान् । स प्रष्टव्य:-किमाश्रयस्य परलोकिनोऽभावात् , अप्रत्यक्षत्वाद्, विचाराक्षम- त्वात्, साधकाभावाद् वाऽदृष्टाभावो भवेत्। न तावत् प्रथमात्, परलो- किनःप्राक्प्रसाधितत्वात्। नाऽप्यप्रत्यक्षत्वात् , यतस्तवाऽप्रत्यक्षं तत् ,सर्व- प्रमातॄणां वा । प्रथमपक्षे त्वत्पितामहादेरप्यभावो भवेत् , चिरातीतत्वे- न तस्य तवाऽप्रत्यक्षत्वात् ; तदभावे भवतोऽप्यभावो भवेदित्यहो! नवीना वादवैदग्धी । द्वितीयकल्पोऽप्यल्पीयान् , सर्वप्रमातृप्रत्यक्षमदृष्ट- निष्टङ्कनिष्णातं न भवतीति वादिना प्रत्येतुमशक्ते., प्रतिवादिना तु तदाऽऽकलनकुशलः केवली कक्षीकृत एव । विचाराक्षमत्वमप्य- क्षमम् , कर्कशतकस्तय॑माणस्य तस्य घटनात् । ननु कथं घटते ? तथाहि-तदनिमित्तं सनिमित्तं वा भवेत् । न तावदनिमित्तम् , सदा सत्त्वासत्त्वयोः प्रसङ्गात् " नित्यं सत्त्वमसत्त्वं, वा, हेतोरन्या- नपेक्षणात्" । यदि पुनः सनिमित्तम् , तदाऽपि तन्निमित्तमदृष्टान्तरमेव, रागद्वेषादिकषायकालुष्यम् , हिंसादिक्रिया वा। प्रथमे पक्षेऽनवस्था- व्यवस्था । द्वितीये तु न कदापि कस्यापि कर्माभावो भवेत् , तद्धेतो- रागद्वषादिकषायकालुष्यस्य सर्वसंसारिणां भावात् । तृतीयपक्षोऽप्य- सूपपादः, पापपुण्यहेतुत्वसंमतयोहिंसाऽर्हत्पूजादिक्रिययोर्व्यभिचार- दर्शनात्-कृपणपशुपरम्पराप्राणप्रहाणकारिणां कपटघटनापटीयसां पि- तृमातृमित्रपुत्रादिद्रोहिणामपि केषांचिच्चपलचारुचामरश्वेतातपत्रपात्र- पार्थिव श्रीदर्शनात्, जिनपतिपदपङ्कजपूजापरायणानां निखिलप्रोणि- परम्पराऽपारकरुणाकूपाराणामपि केषांचिदनेकोपद्रवदारिद्यमुद्राका- . २० पुण्यस्य " " १५४ प्रमाणनयतत्वालोकालकार:- न्तत्वाऽऽलोकनादिति ॥ अत्र त्रूमः-पक्षनयमप्येतत् कभीक्रियत एव । प्राच्याऽष्टान्तरवागो हि प्राणी रागद्वेपादिना प्राणव्यपरोपणादि कु- र्वाण. कर्मणा वध्यते । न च प्रथमपक्षेऽनवस्था दौरथ्याय, मूला- यकरत्वाभावाद् , वीजाङ्कुरादिसन्तानवत् तत्सन्तानत्वाऽनादित्वे- नेष्टत्वात् । द्वितीयेऽपि यदि कस्यापि कर्माभावो न भवेद् मा भून्, सिद्धं तावदष्टम् । मुक्तिवादे तदभावोऽपि प्रसाधयिष्यते । तृतीये तु या हिंसावतोऽपि समृद्धि., अर्हत्पूजावतोऽपि दारिद्याऽऽप्ति , सा क्रमेण प्रागुपात्तस्य पापानुबन्धिनः पुण्यस्य, पुण्यानुवन्धिनः पापत्य च फल- म् । तक्रियोपात्तं तु कर्म जन्मान्तरे फलिप्यतीति नाऽत्र नियतकार्य- कारणभावव्यभिचारः । साधकाभावादपि नाऽदृष्टाभाव., प्राक्प्रसा- धितप्रामाण्ययोरागमाऽनुमानयोस्तत्प्रसाधकयोर्भावात् । तथा च "शुभ' अशुभ.पापस्य" इत्यागमः ।अनुमानं तु-तुल्यसाधनानां कार्ये विशेषः सहेतुक., कार्यत्वात् , कुम्भवत् । " दृष्टश्च साध्वीसुतयोर्यमयोस्तुल्यजन्मनो। विशेपो वीर्यविज्ञानवैराग्यारोग्यसपदाम् " ॥१॥ न चायं विशेपो विशिष्टमष्टकारणमन्तरेण । यदूचुर्जिनभद्रगणिक्षमाश्रमणमिश्रा.- जो तुलसाहणाणं फले विसेसो ण सो विणा हे। कन्जत्तणओ गोयम ! घडोव्न हेऊ य से कम्मं " ॥ १ ॥ अथ यथैकप्रदेशसंभवानामपि बदरीकण्टकानां कौटिल्यार्ज- वादिविशेषः, यथा वैकसरसीसंभूतानामपि पङ्कजानां नीलधवलपा- टलपीतशतपत्रसहनपत्रादिभेद., तथा शरीरिणामपि खभावादेवाऽयं विशेषो भविष्यति । तदशस्यम् , कण्टकपङ्कजादीनामपि प्राणि- त्वेन परेषां प्रसिद्धेस्तदृष्टान्तावष्टम्भस्य दुष्टत्वात् ; आहारक्षत- रोहदोहदादिना वनस्पतीनामपि प्राणित्वेन तैः प्रसाधनात् १ यस्तुल्यसाधनाना फले विशेपो न स विना हेतुम् । कार्यत्वत, गौतम ! घट इव हेतुश्च स कर्म ॥ १॥ " रत्नाकरावतारिकायुक्तः । १५५ अथ गगनपरिसरे मकरकरितुरङ्गकुरगभृङ्गारागाराद्याकाराननेक- प्रकारान् विभ्रत्यभ्राणि, न च तान्यपि चेतनानि वः संमतानि , तद्वत् तनुभाजोऽपि राजरङ्कादयः सन्त्विति चेत्। तदसत् , तेषामपि जगददृष्टवशादेव देवपदवीपरिसरे विचरतां विचित्राकारस्वीकारात् । कश्चायं स्वभावो यद्वशाजगद्वैचित्र्यमुच्यते ?। किं निर्हेतुकत्वम्, स्वात्महे- तुकत्वम् , वस्तुधर्मः, वस्तुविशेषो वा । आद्ये पक्षे सदा सत्त्वस्य, असत्त्व- स्य वा प्रसङ्गः। द्वितीये आत्माश्रयत्वं दोषः, अविद्यमानो हि भावात्मा कथं हेतुः स्यात् ?, विद्यमानोऽपि विद्यमानत्वादेव कथं स्वोत्पाद्यः स्यात् ? । वस्तुधर्मोऽपि दृश्यः कश्चित् ,अदृश्योवा। दृश्यस्तावदनुपल- म्भवाधितः । अदृश्यस्तु कथ सत्त्वेन वक्तुं शक्यः ? । अनुमानात् तु तन्निर्णयेऽदृष्टानुमानमेव श्रेय । वस्तुविशेषश्चेत् स्वभावो भूतातिरिक्तो भूतस्वरूपो वा । प्रथमे मूर्तोऽमूर्तो वा । मूर्तोऽपि दृश्योऽदृश्यो वा । दृश्यस्तावद् दृश्यानुपलम्भबाधितः । अदृश्यस्त्वदृष्टमेव स्वभावभा- षया वभाषे । अमूर्तः पुनः परः परलोकिनः को नामाऽस्तु ? । न चा- दृष्टविघटितस्य तस्य परलोकस्वीकार', इत्यतोऽप्यदृष्टं स्पष्टं निष्ट- डक्यते । भूतस्वरूपस्तु स्वभावो नरेन्द्रदरिद्रतादिवसदृश्यभाजोर्य- मलजातयोरुत्पादकस्तुल्य एव विलोक्यते, इति कौतस्कुतस्तयोर्विशेषः स्यात् ।। तद्दर्शनात् तत्राऽदृष्टभूतविशेषानुमानेन नामान्तरति- रोहितमदृष्टमेवानुमितिसिद्धं दृष्टम् ; इतोऽपि-बालशरीरं शरीरा- न्तरपूर्वकम् , इन्द्रियादिमत्त्वात् , तरुणशरीरवत् । न च प्राचीनभ- वातीततनुपूर्वकमेवेदम् , तस्य तद्भवावसान एव पटुपवनप्रेरिता- तितीव्रचिताज्वलनज्वालाकलापप्लुष्टतया भस्मसादावादपान्तराल- गतावभावेन तत्पूर्वकत्वानुपपत्तेः । न चाऽशरीरिणो नियतगर्भ- देशस्थानप्राप्तिपूर्वकशरीरग्रहो युज्यते, नियामककारणामावात् । स्वभावस्य तु नियामकत्वं प्रागेव व्यपास्तम् । ततो यच्छरिपू- र्वकं बालशरीरं तत्कर्ममयमिति । पौद्गलिकं चेदमदृष्टमेष्टव्यम् , आत्मनः पारतन्त्र्यनिमित्तत्वाद् , निगडादिवत् । क्रोधादिना , १५६ प्रमाणनयतत्त्वालोकालङ्कारः- व्याभिचार इति चेत् । न, तस्याऽऽत्मपरिणामरूपस्य पारतन्त्र्य स्वभावत्वात् ; तन्निमित्तभूतस्य तु कर्मण. पौगलिकत्वात् । एवं सीधु खादनोद्भवचित्तवैकल्यमपि पारतन्त्र्यमेव, तद्धेतुस्तु सीधु पौडलिकमे वेति नैतेनाऽपि व्यभिचार । ततो यद् यौगैरात्मविशेपगुणलक्षणम् , कापिलैः प्रकृतिविकारस्वरूपम् , सौगतैर्वासनास्वभावम् , ब्रह्मवादि- भिरविद्यास्वरूपं चाऽदृष्टमवादि, तदपास्तम् । विशेषत. पुनरमीपां नि- षेधो विस्तराय स्यादिति न कृत ॥ ५६ ॥ अथात्मन एव विशेपणान्तरमाहु तस्योपात्तपुंस्त्रीशरीरस्य सम्यग्ज्ञानक्रियाभ्यां कृत्स्नकर्मक्षयवरूपा सिद्धिः ॥ ५७ ॥ तस्याऽनन्तरनिरूपितरूपस्याऽऽत्मन', उपात्तपुखीशरीरस्य स्वी- कृतपुरुषयोषिद्वपुष , एतेन स्त्रीनिर्वाणद्वेपिणः काष्ठाम्बरान् शिक्ष- यन्ति । सम्यग्ज्ञानं च यथावस्थितवस्तुतत्त्वाववोध., क्रिया च तपश्चरणादिका, ताभ्याम् । ननु सम्यग्दर्शनमपि कृत्स्नकर्मक्ष- यकारणमेव । यदाहु -" सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः " इति, तत् कथमिह नोपदिष्टम् ? । उच्यते । सम्यग्ज्ञानोपादानेनैव तस्याक्षिप्तत्वात्, द्वयोरप्यनयोः सहचरत्वात् । सम्यग्ज्ञानस्य क्रि- यातः पृथगुपादानाद् या क्रिया सम्यग्ज्ञानपूर्विका सैव तत्कारणम् , पुनर्मिथ्यात्वमलपटलावलुप्तविवेकविकलानां मिथ्याज्ञानपूर्विका क- न्दफलमूलशैवालकवलनादिका । कृत्स्नस्याऽष्टप्रकारस्यापि, न तु क- तिपयस्य, जीवनमुक्तेरनभिधित्सितत्वात् । कर्मणो ज्ञानावरणादेरह- टस्य, न तु बुद्धयादिगुणानामपि, नापि ज्ञानमात्रसंतानस्य । क्षयः सामस्त्येन प्रलय. स्वरूपं यस्या. सा तथा । एतेन नैयायिक- सौगतोपकल्पितमुक्तिप्रतिक्षेप. । एवंविधा सिद्धिर्मोक्षो भवति । इह केचिज्ज्ञानादेव मोक्षमास्थिषत, तथा ते ब्रुवते-सम्यग्ज्ञान- मेव फलसंपादनप्रत्यलम् , न क्रिया, अन्यथा . मिथ्याज्ञानादपि , रत्नाकरावतारिकायुक्तः । १५७ क्रियायां फलोत्पादप्रसङ्गात् । यदुक्तम्- "विज्ञप्तिः फलदा पुंसां न क्रिया फलदा मता। मिथ्याज्ञानात् प्रवृत्तस्य फलाऽसंवाददर्शनात् " ॥१॥ तथा- "श्रिय. प्रसूते विपदो रुणद्धि यशांसि दुग्धे मलिनं प्रमाष्टिं । संस्कारशौचन परं पुनीते शुद्धा हि बुद्धिः कुलकामधेनु." ॥१॥ क्रियावादिनस्तु वदन्ति-क्रियैव फलहेतुर्न ज्ञानम्, भक्ष्यादिविज्ञा- नेऽपि क्रियामन्तरेण सौहित्यादिफलानुत्पादात् । यदवाचि- "क्रियैव फलदा पुंसां न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात् सुखितो भवेत् " ॥ १ ॥ तथा- , "शास्त्राण्यधीत्याऽपि भवन्ति मूर्खा यस्तु क्रियावान् पुरुषः स विद्वान् । संचिन्त्यतामौषधमातुर हि न ज्ञानमात्रेण करोत्यरोगम् " ॥१॥ अन चूमहे- यदुक्तम्-सम्यग्ज्ञानमेव फलसंपादनप्रत्यलमित्यादि, तत् 'स्त्रीभक्ष्यभोगज्ञो न ज्ञानात् सुखितोभवेत्' इत्यनेन क्रियावादिनैव व्यपास्तम् , इत्युपेक्षणीयमेव । ततः सम्यग्ज्ञानं सम्यक्क्रियासध्रीची- नमेव फलसिद्धिनिबन्धनमित्यभ्युपगन्तव्यम् , न तुज्ञानैकान्तः कान्त.। क्रियैकान्तोऽपि भ्रान्त एव । यत.स्त्रीभक्ष्यभोगज्ञो न ज्ञानात् सुखितो भवे- त्' इति तुन युक्तम् । यत सम्यग्ज्ञानकारणैकान्तवादिनामयमुपालम्भो न पुनरस्माकम् , सम्यग्ज्ञानक्रिययोरुभयोरपि परस्परापेक्षयोः कार- णत्वस्वीकारात् । न च नितम्बिनीमोदकादिगोचरायां प्रवृत्तौ तद्वि- ज्ञानं सर्वथा नास्त्येव, यतः क्रियाया एव तत्कारणता कल्प्येत । तद्गोचरविज्ञानसनाथैव तत्र प्रवृत्तिः प्रीतिपरम्परोत्पादनप्रत्यला, अन्यथोन्मत्तमूच्छितादेरपि प्रौढप्रेमपरायणप्रणयिनीनिविडाश्लेषक्रि- याऽपि तदुत्पादाय कि न स्यात् ? । अथासौ क्रियैव तत्त्वतो न भवति, सैव हि क्रिया तात्त्विकी या स्वकीयकार्याऽव्यभिचारिणी, हन्त तर्हि तदेव तात्त्विकं ज्ञानं यत् स्वकीयकार्याव्यभिचारीति कथं स्त्रीभक्ष्य-

स्मृगत:"
१५८
प्रमाणनयतत्त्वालोकालद्वार:-
भोगज इत्युपालम्भ शोभेत ? 1 तत. कार्यमर्जयन्ती यथा निश्चयनयेन
क्रिया क्रियोच्यते, तथा ज्ञानमपि, इति कचिद् व्यभिचाराभावाद् द्वय-
मेवैतत् फलोत्पत्तिकारणमनुगुणमिति । अब भवत्वेतत्कारणिका मुक्ति ,
तथापि वुद्धयादीनां नवानामात्मविशेपगुणानां योऽत्यन्तमुच्छेदः, तद्रू-
पैव स्त्रीकर्तव्या; न पुननि शेपकर्मक्षयलक्षणा । तथा चानुमानम्-न
वानामात्मविशेषगुणानां सन्तानोऽत्यन्तमुच्छिद्यते, सन्तानत्वात् ,
योय. सन्तान स सोऽत्यन्तमुच्छिद्यते यथा प्रदीपसन्तानः, तथा चायम,
तस्मादत्वन्तमुच्छिद्यत इति । न ह वै सारीरस्य सत. प्रियाप्रिय-
योरपहतिरस्ति", "अगरीरं वा वसन्तं प्रियाप्रिये न
इत्यादयो वेदान्ता अपि तादृशीमेव मुक्तिमादिशान्ति । अपि च-
"यावदात्मगुणा सर्वे नोच्छिन्ना वासनादयः ।
तावदात्यन्तिकी दु खव्यावृत्तिन विकल्यते ॥ १ ॥
धर्माधर्मनिमित्तो हि संभवः सुखदुःखयो. ।
मूलभूतौ च तावेव स्तम्भौ संसारसद्मन. ॥२॥
तदुच्छेदे च तत्कार्यशरीराद्यनुपप्लवात् ।
नात्मनः सुखदुखे स्त इत्यसो मुक्त उच्यते ॥३॥
इच्छाद्वेषप्रयत्नादि भोगायतनवन्धनम् ।
उच्छिन्नभोगायतनो नात्मा तैरपि युज्यते ॥४॥
तदेवं धिपणादीनां नवानामपि मूलतः ।
गुणानामात्मनो ध्वंस सोऽपवर्ग. प्रतिष्टित. ॥ ५॥
ननु तस्यामवस्थायां कीदृगात्माऽवशिष्यते ? ।
स्वरूपैकप्रतिष्ठानः परित्यक्तोऽखिलैगुणैः ।।६।।
ऊर्मिपटकातिगं रूपं तदस्याहुर्मनीषिण. ।
संसारवन्धनाधीनदु.खक्लेशाद्यदूपितम् ” ॥७॥
उर्मयः कामक्रोधमदगर्वलोभदम्भाः ।
"प्राणस्य क्षुत्पिपासे द्वै मनसः शोकमूढते ।
जरामृत्यू शरीरस्य पडूमिरहित. शिवः ॥॥१॥

रत्नाकरावतारिकायुक्तः । १५९ ? - , इति तु पुराणे ।। अत्र ब्रूमः –यवादि- सन्तानत्वादिति, तत्र किमिद सन्तानत्वं नाम किमुपादानोपादेयभावप्रवन्धेन प्रवर्तमान- त्वम् , कार्यकारणभावप्रबन्धेन प्रवृत्तिः, अपरापरदार्थोत्पत्तिमात्रता वा । आद्यः पक्ष सावद्य' आश्रयासिद्धिस्वरूपासिद्धतयोरापत्तेः, बुद्धयादिनवक्षणानामुपादानोपादेयभावरूपतया सन्तानस्य सौगताना- मेव संमतत्वात् ; आत्मनःसमवायिनः, आत्ममन.सयोगादसमवायिनः, अदृष्टादेनिमित्ताच्च तैरात्मगुणोत्पादप्रतिपादनात् । एतेन द्वितीयपक्षोऽपि व्यपास्तः, बुद्धयादिक्षणानां कार्यकारणभावमात्रस्याऽपि तैरस्वी- कारात्; प्रलयप्रलीनबुद्धथादेरप्यात्मनः पुनर्बुद्धयागुत्पादाङ्गीका- रात् । तृतीयपक्षेऽपि व्यभिचारः, अपरापरेषामुत्पादुकानां पट- कटकपाटादीनां सन्तानत्वेऽप्यत्यन्तमनुच्छिद्यमानत्वात्। अथैकाश्रया- ऽपरापरोत्पत्तिः सन्तानः, ततो नैष दोषः, तर्हि तादृशं सन्तानत्वं प्रदीपे नास्तीति साधनवैकल्यं दृष्टान्तस्य; परमाणुपाकजरूपादिभिश्च व्यभि- चारी हेतुः, तथाविधसन्तानत्वस्य तत्र सद्भावेऽप्यत्यन्तोच्छेदाभावात्। अपि च, संतानत्वमपि भविष्यत्यत्यन्तानुच्छेदश्च, विपर्यये बाधकप्रमाणा- भावात् , इति सन्दिग्धविपक्षव्यावृत्तिकत्वादप्यनैकान्तिकोऽयम्। विरुद्ध- श्च, शब्दबुद्धिविगुत्प्रदीपादिष्वत्यन्तानुच्छेद्वत्स्वेव सन्तानत्वस्य व्यव- स्थानात् ,शब्दबुद्धिविद्युत्प्रदीपादयो हि पर्याया द्रव्यरूपतया स्थास्नव एव, तद्व्याविष्वग्भूतं पर्यायान्तरमुत्पादयन्त एव प्रध्वंसन्ते । न पुनरमी- पामत्यन्तमुच्छेदः सूपपादः, उत्पादव्ययध्रौव्याणां परस्परनिरपेक्षाणां खरविषाणप्रख्यत्वात् । तथाहि- नास्ति कचिदत्यन्तमुच्छेदः, स्थि- त्युत्पादरहितत्वात् , खरविषाणवत् ; इति न प्रस्तुतानुमानाद् बुद्ध्या- दिगुणोच्छेदरूपा सिद्धिः सिध्यति । नापि न ह वै सशरीरस्येत्यादि- गदितागमात् , शुभाशुभादृष्टपरिपाकप्रभवेन भवसम्भविनी हि प्रियाप्रिये परस्परानुषक्ते अपेक्ष्याऽयं व्यवस्थित ; सकलादृष्टक्षयका- रणकं पुनरैकान्तिकात्यन्तिकरूपं केवलमेव प्रियं नि.श्लेयसदगा- यामिष्यते, तत् कुतः प्रतिपिध्यते ? । आगमार्थश्चायमित्यमेव सम- , १६० प्रमाणनयनचालोकाटदार:- चनीय . यत गनर्धानुपानिन्येन स्मृतिपि पिलांस्यते- "मुखमात्यन्तिकं यत्र बुद्धिप्रायमनीन्दियन । त वै मोक्षं विजानीयाद् टुप्पापमानामभिः || चाय सुसान्दो दुपाभावमात्र बननीय., मुग्यमय- वाच्यतायां बाधकाभावान् ! न च भरदुदीरिता मोर घुमा मुपादेयनया संमत . को हि नान मिल्लरलल्लमपगनमरल सुखसवडेनत्पर्गमात्माननुपपादयितुं यतेत ? | नांपाधिस्मार कपरिनितानन्दनियन्दान् स्वर्गादधिरमननधिमनिरनिहासनम निकाऽऽनन्दसुन्दरमपरिम्लानतत्सदनमानार्थ चतुर्थ पुरुषाधे माचक्षते विचक्षणा. । चदि तु पापाननिर्षियोष - तत्यानवस्थायामात्मा भवेत . तत् पृतमपवर्गण, संमार एव वर- मन्नु, यत्र तावदन्तराऽन्तराऽपि दु ग्यम्लुपितमपि मुबगुपनुन्यते । चिन्त्यतां तावदिदम्-विमल्पमुग्यानुभवो मन्य , उन सबंसुम्योच्छेद स. व ? अथान्ति तथाभूते मोक्षे लाभातिरेक प्रेक्षाणाम् । ते वि. वेचन्ति-दुःखसंन्पर्गशून्यगाथविक्मुखमभोगामभवाद् चाऽवश्यहातब्यत्वाद् विवेकहानत्य चाक्यत्वाद् पिपमधुनी इचकत्रा- ऽमत्रे पत्तिते उमे अपि मुखदुःखे त्यज्येयातामिति, अतञ्च संसाराद् मोक्ष. श्रेयान् यत्राऽयमियानतिदु सहो दुःखप्रबन्धोऽवलुप्यते. वरमि- यती कदाचित्कसुखकणिका लक्ता, न तु तस्याः कृते दु.खभार- इचान् व्यूढ इति । तत्र दु खसंत्पाशून्यशाविकमुखनम्भोगा- सम्भवानियत्र शाश्वतिकमनादिनिधनम्, यद्वाऽऽदिनदपि प्रध्वं- सबदपर्यवसानं सुख विवक्षितम् । तत्रादिपर्यवसानशून्यं मुसं तावन् प्रेक्षाणामुपादित्लागोचर एवं न भवति सदैव प्रामत्वान् . इति कुत्त- स्तदभावः तत्राऽप्रवृत्ती प्रेक्षाकारिणां कारणमभिधीयते ? । द्वितीयं तु सुखं भवत्येव तत्प्रवृत्तिनिमित्तम् । न च तत्वाऽसंभव , बाधकप्रना- णाभावात् । अनन्तं च तन्, तदानीं विनाशकारणाभावात् । तद्वि- नाशकारणं हि कर्म, न च तदानीं तदन्ति, तत्य समूलमुन्मूलित- १ रत्नाकरावतारिकायुक्तः। १६१ स्वात्। मिथ्यात्वाविरतिकषाययोगलक्षणस्य तत्कारणस्याभा- चाच न पुनरपि कर्मनिर्माणम् । कारणाभावात् तादृशसुखोत्पाद- एव नास्तीति चेत् । न, सकलकर्मोपरमस्यैव तत्कारणस्य सद्भा- वात् । यच्चोक्तम्-विवेकहानस्य चाशक्यत्वादिति, तदेवमेव, सांसारि- कसुखस्यैतादृशत्वात् ; तद्धि मधुदिग्धधाराकरालमण्डलाप्रपासवद् दुःखाकरोतीति युक्ता मुमुक्षूणां तज्जिहासा, किन्त्वात्यन्तिकसुख- विशेषलिप्सूनामेव । ये अपि विषमधुनी एकत्राऽमत्रे संपृक्त परित्य- ज्येते, ते अपि सुखविशेषलिप्सयैव । किञ्च, यथा प्राणिनां संसारा- वस्थायां सुखमिष्टम् , दु.खं चानिष्टम् ; तथा मोक्षावस्थायां दुःखनिवृत्ति- रिष्टा, सुखनिवृत्तिस्त्वनिष्दैव । ततो यदि त्वदभिमतो मोक्षः स्यात्, तदान प्रेक्षावतामत्र प्रवृत्तिः स्याद्, भवति चेयम् । ततः सिद्धं मोक्षः सुखसंवेदनस्वभाव., प्रेक्षावत्प्रवृत्तिविषयत्वाऽन्यथानुपपत्तेरिति अथ सुखसंवेदनैकस्वभावो यदि मोक्षः स्यात्, तदा तद्रागेण प्रयतमानो मुमुक्षुर्न मोक्षमधिगच्छेत् , न हि रागिणां मोक्षोऽस्तीति मोक्षविदः, तस्य बन्धनात्मकत्वात् । तदयुक्तम् । यो हि सुखसाध- नेषु शब्दादिष्वभिष्वङ्गः स रागो बन्धनात्मक., तस्य विषयार्जनरक्ष- णादिप्रवृत्चिद्वारेण संसारहेतुत्वात् । अनन्ते तु सुखे यद्यपि रागस्त- थाऽप्यसौ सर्वविषयार्जनादिनिवृत्तिमोक्षोपायप्रवृत्त्योरेव हेतुः; अन्यथा तस्य सुखस्य प्राप्तुमशक्यत्वात् । न हि तद् विषयसाध्यम् , नापि तत्क्षीयते, येन विषयसुखार्थमिव पुनः पुनस्तदर्थ हिंसादि- स्वऽपि प्रवर्तेत । तन्न बन्धहेतुर्मुमुक्षोरस्ति रागः, स्पृहामात्ररूपो ऽपि चासौ परां कोटिमारूढस्यास्य निवर्तते, "मोक्षे भवे च सर्वत्र निस्पृ- हो मुनिसत्तमः" इति वचनात् , अन्यथा दुःखनिवृत्त्यात्मकेऽपि मोक्षे प्रयतमानस्य दुःखद्वेषकषायकालुष्य किं न स्यात् ? । अथ नास्त्येव मुमुक्षोझैष ।रागद्वेषौ हि संसारकारणमिति तौ मुमुक्षुर्मुञ्चति, द्वेष्टि च दु खम्, इति कथमिदं सङ्गच्छेत? इति चेत् । तदितरनाऽपि तुल्यम्। इति सिद्धं कृत्स्नकर्मक्षयात् परमसुखसंवेदनात्मा मोक्षः,न बुद्ध्यादिविशेष- २१ १६२ प्रमाणनयतत्त्वालोकालङ्कारः- - गुणोच्छेदरूप इति ।। अथ दिक्पटा' प्रकटयन्ति-भवत्वेतादृशस्वरूपो मोक्ष', स तूपात्तस्त्रीशरीरस्यात्मन इति न मृष्यामहे । न खलु स्त्रि- यो मुक्तिभाजो भवन्ति । तथा च प्रभाचन्द्र.-स्त्रीणां न मोक्ष', पुरुषेभ्यो हीनत्वाद्, नपुंसकादिवदिति । अत्र ब्रूमः-सामान्येनाऽत्र धर्मित्वेनोपात्ताः निय., विवादास्पदीभूता वा । प्राचि पक्षे पक्षकदे- शे सिद्धसाध्यता, असंख्यातवर्षायुष्कदुष्पमादिकालोत्पन्नतिरश्चीदेव्य- भव्यादिस्त्रीणां भूयसीनामस्माभिरपि मोक्षाभावस्याभिधानात् द्वितीये तु न्यूनता पक्षस्य, विवादास्पदीभूतेति विशेषणं विना नियत- स्त्रीलाभाभावात् , प्रकरणादेव तल्लाभे पक्षोपादानमपि तत एव का- ये न स्यात् , तथाऽप्युपादाने नियतस्यैव तस्योपादानमवदातम् , यथा धानुष्कस्य नियतस्यैव लक्ष्यस्योपदर्शनमिति । हेतूकृत' पुरुषाप- कर्पोऽपि योषितां कुत्तस्त्यः ? किं सम्यग्दर्शनादिरत्नत्रयाभावेन, विशि- टसामर्थ्यासत्त्वेन, पुरुपानभिवन्द्यत्वेन, स्मारणाद्यकर्तृत्वेन, अमहद्धि- कत्वेन, मायादिप्रकर्षवत्त्वेन वा । प्राचि प्रकारे कुत' स्त्रीणां रत्नत्र- याभावः ? । स चीवरपरिग्रहत्वेन चारित्राभावादिति चेत् । तदचतुर- स्रम् । यतः परिग्रहरूपता चीवरस्य शरीरसंपर्कमात्रेण, परिभुज्य- मानत्वेन, मू हेतुत्वेन वा भवेत् । प्रथमपक्षे क्षियादिना शरीरसं- पर्किणाऽप्यपरिग्रहेण व्यभिचारः । द्वितीयप्रकारे चीवरपरिभोग- स्तासामशक्यत्यागतया, गुरूपदेशाद् वा । नाद्य पक्षः, यतः संप्रत्यपि प्राणानपि त्यजन्यो या. संदृश्यन्ते, तासामैकान्तिकात्यन्तिकानन्द- संपदर्थिनीनां वाह्यचीवरं प्रति का नामाशक्यत्यागता?, नग्नयोगिन्यश्च- काश्चिदिदानीमपि प्रेक्ष्यन्त एव । द्वितीयपक्षोऽपि न सूक्ष्म , यतो विश्वजनीनेन विश्वदर्शिना परमगुरुणा भगवता मुमुक्षुपक्ष्मलाक्षीणां यदेव संयमोपकारि, तदेव चीवरोपकरण "नो कप्पदि निग्गंथीए अचेलाए होंत्तए" इत्यादिनोपदिष्टम् , प्रतिलेखनकमण्डलुप्रमुखवत् , इति कथ तस्य परिभोगात् परिग्रहरूपता ?, प्रतिलेखनादिधर्मोपकरणस्यापि तत्प्रसङ्गात् । तथा च- रत्नाकरावतारिकायुक्तः । १६३ "यत संयमोपकाराय वर्त्तते प्रोक्तमेतदुपकरणम् । धर्मस्य हि तत् साधनमतोऽन्यदधिकरणमाहाऽहन्" || उपकारकं हि फरणमुपकरणम् , अधिक्रियन्ते घाताय प्राणिनोऽस्मि- निति त्वधिकरणम् । अथ प्रतिलेखनं तावत् संयमप्रतिपालनार्थ भगवतो- पदिष्टम, वखं तु किमर्थमिति ?; तदपि सयमप्रतिपालनार्थमेवेति त्रूमः, अभिभूयन्त हि प्रायेणाऽल्पसत्त्वतया विवृताङ्गोपाङ्गसंदर्शनजनितचि- तभेदैः पुरुषैरगना अकृतप्रावरणा घोटिका इव घोटकैः । ननु यासा- मतितुच्छ सत्त्वाना प्राणिमात्रेणाऽप्यभिभवः, ताः कथं सकलत्रैलोक्या- भिभावककर्मराशिप्रक्षयलक्षणं मोक्ष महासत्त्वप्रसाध्य प्रसाधयन्तीति चेन् ? । तयुक्तम् । यतो नात्र शरीरसामर्थ्यमतिरिक्तं यस्य भवति तत्व निर्वाणोपार्जनगोचरेण सत्त्वेन भवितव्यमिति नियमः समस्ति; अन्यथा पछुवामनात्यन्तरोगिणः पुमांसोऽपि स्त्रीभिरभिभूयमाना दृश्यन्ते इति तेऽपि तुच्छगरीरसत्वाः कथ तथाविधसिद्धिनिव- न्धनसत्त्वभाजो भवेयु ?। यथा तु तेपां शरीरसामथ्यासत्त्वेऽपि मोक्षसाधनसामर्थ्यमविरुद्धम् , स्त्रीणामपि सत्यपि वस्त्रे मोक्षाभ्युपगमे । गृहिणः कुतो न मोक्ष इति चेद्,ममत्वसद्भावाद्। नहि गृही वखे ममत्वरहितः, ममत्वमेव च परिग्रहः, सत्ति हि ममत्वे नग्नोऽपि परिग्रहवान् भवति, शरीरेऽपि तद्भावात् । आर्यिकायाश्च ममत्वाभावा- दुपसर्गाद्यासक्तमिवाम्बरमपरिग्रहः, न हि यतेरपि ग्राम गृहं वनं वा प्रतिवसतोऽममत्वादन्यच्छरणमस्ति । न च निगृहीतात्मना महा- त्मनां कासाञ्चित् कचिदपि मूर्छाऽस्ति ? । तथाहि- "निर्वाणश्रीप्रभवपरमप्रीतितीव्रस्पृहाणां मूर्छा तासां कथमिव भवेत् कापि ससारभागे'। भोगे रोगे रहसि सजने सज्जने दुर्जने वा यासा स्वान्त किमपि भजते नैव वैषम्यमुद्राम्" ॥१॥ उक्तं च-"अवि अप्पणो वि देहमि नारयन्ति ममाइय ति"।एतेन मू हेतुत्वेनेत्यपि पक्षः प्रतिक्षिप्तः, शरीरवञ्चीवरस्यापि काश्चित् प्रति तथा

१६४ प्रमाणनयतत्वालोकालङ्कारः-
मूर्छाहेतुत्वाभावेन परिग्रहरूपत्वाभावात् । तन्न सम्यग्दर्शनादिरत्नत्रया-
भावेन स्त्रीणां पुरुपेभ्योऽपकर्ष. 1 नापि विशिष्टसामर्थ्यासत्त्वेन, यत-
स्तदपि तासां किं सप्तमपृथ्वीगमनाभावेन, वादादिलब्धिरहितत्वेन, अ-
स्पश्रुतत्वेन, अनुपस्थाप्यत्तापाराश्चितकशून्यत्वेन वा भवेत्। न तावदा-
धः पक्षः, यतोऽत्र सप्तमपृथ्वीगमनाभावो यत्रव जन्मनि तासां मु-
क्तिगामित्वं तत्रैवोच्यते, सामान्येन वा । प्राचि पक्षे चरमशरीरिभिर-
नेकान्तः । द्वितीये त्वयमाशयः- यथैव हि स्त्रीणां सप्तमपृथ्वीगम-
नसमर्थतीव्रतराशुभपरिणामे सामर्थ्याभावादपकर्ष , तथा मुक्तिगमन-
योग्योत्कृष्टशुभपरिणामेऽपि; चरमशरीरिणा तु प्रसन्नचन्द्रराजर्षिप्रमु-
खाणामुभयत्रापि सामर्थ्याद् नैकत्राऽप्यपकर्पः । तद्युक्तम् । यतो
नायमविनाभावः प्रामाणिकः, यदुत्कृष्टाऽशुभगत्युपार्जनसामर्थ्याभावे
सत्युत्कृष्टशुभगत्युपार्जनसामर्थेनाऽपि न भवितव्यम् ; अन्यथा प्रकृष्ट-
शुभगत्युपार्जनसामर्थ्याभावे प्रकृष्टाऽशुभगत्युपार्जनसामर्थ्य नास्तीत्यपि
किं न स्यात् ?, तथा चाऽभव्यानां सप्तमपृथ्वीगमनं न भवेत् । अथ
वादादिलब्धिरहितत्वेन स्त्रीणां विशिष्टसामाऽसत्त्वम् , यत्र खल्वै-
हिकवादविक्रियाचारणादिलब्धीनामपि हेतुः संयमविशेषरूपं सामर्थ्य
नास्ति, तत्र मोक्षहेतुस्तद्भविष्यतीति क. सुधी: श्रद्दधीत ? । तदचारु,
व्यभिचारात् , माषतुषादीनां तदभावेऽपि विशिष्टसामोपलव्धे. ।
न च लब्धीनां सयमावशेषहेतुकत्वमागामिकम् , कर्मोदयक्षयक्षयो-
पशमोपशमहेतुकतया तासा तन्नोदितत्वात् । तथा चाऽवाचि-
“ उदयखयखओवसमोवसमसमुत्था बहुप्पगाराओ।
एवं परिणामवसा लद्धीउ हवन्ति जीवाणं " ॥ १ ॥
चक्रवर्विवलदेववासुदेवत्वादिप्राप्तयोऽपि हि लब्धयः, न च संयम-
सद्भावनिवन्धना तत्प्राप्ति । सन्तुवा तन्निबन्धना लब्धयः,तथापि स्त्रीषु
तासां सर्वासामभावोऽभिधीयते, नियतानामेव वा। नाद्यः पक्ष ,चक्र-
१ उदयक्षयक्षयोपशमोपशमसमुत्था बहुप्रकारा. ।
एवं परिणामशाद् लब्धयो भवन्ति जीवानाम् ॥ १ ॥

रत्नाकरावतारिकायुक्तः। १६५ वादिलब्धीनां कासाश्चिदेव तासु प्रतिषेधात् , आमोषध्यादीनां तु भू- यसीनां भावात् । द्वितीयपक्षे तु व्यभिचारः, पुरुषाणां सर्ववादादिल- ध्यभावेऽपि विशिष्टसामर्थ्य स्वीकारात् , अकेशवानामेव, अतीर्थकरच- क्रवादीनामपि च मोक्षसभवात् । अल्पश्रुतत्वमपि मुक्त्यवाप्त्याऽनुमि- तविशिष्टसामथ्र्यैषितुषादिभिरेवाऽनैकान्तिकमित्यनुद्धोष्यमेव । अनु- पस्थाप्यतापाराञ्चितकशून्यत्वेनेत्यप्ययुक्तम् , यतो न तन्निषेधाद् वि- शिष्टसामर्थ्याभावः प्रतीयते । योग्यतापेक्षो हि चित्र. शास्त्रे विशुद्ध्यु- पदेशः । उक्तं च- "संवरनिर्जररूपो बहुप्रकारस्तपोविधिः शास्त्रे । रोगचिकित्साविधिरिव कस्यापि कथञ्चिदुपकारी "॥ १॥ पुरुषानभिवन्द्यत्वमपि योषितां नापकर्षाय, यतस्तदपि सा- मान्येन, गुणाधिकपुरुषापेक्षं वा । आद्येऽसिद्धतादोषः, तीर्थ- करजनन्यायो हि पुरन्दरादिभिरपि प्रणताः, किमङ्ग ! शेषपु- रुषैः । द्वितीये तु शिष्या अप्याचार्यैर्नाभिवन्द्यन्त एवेति ते- ऽपि ततोऽपकृष्यमाणत्वेन निवृतिभाजो न भवेयु., न चैवम् , चण्ड- रुद्रादिशिष्याणां शास्त्रे तच्छ्रवणादिति मूलहेतोर्व्यभिचारः । एतेन स्मारणाद्यकर्तृत्वमपि प्रतिक्षिप्तम् । अथ पुरुषविषयं स्मारणाद्यक- र्तृत्वमत्र विवक्षितं, न तु स्मारणाद्यकर्तृत्वमात्रम् , न च स्त्रियः कदा- चन पुंसां स्मारणादीन् कुर्वन्तीति न व्यभिचार इति चेत् , तर्हि पुरुषेति- विशेषणं करणीयम् । करणेऽप्यसिद्धतादोषः, स्त्रीणामपि कासाश्चित् पारगतागमरहस्यवासितसप्तधातूनां वापि तथाविधावसरे समुच्छृङ्ख- लप्रवृत्तिपराधीनसाधुस्मारणादेरविरोधात् । अथामहद्धिकत्वेन स्त्रीणां पुरुषेभ्योऽपकर्षः। सोऽपि किमाध्यात्मिकी समृद्धिमाश्रित्य,बाह्यां वा । ना- ऽऽध्यात्मिकम् , सम्यग्दर्शनादिरत्नत्रयादेस्तासामपि सद्भावात् । नापि वाह्याम् , एवं हि महत्यास्तीर्थकरादिलक्ष्म्या गणधरादय , चक्रधरादिल- क्ष्म्याश्चतरक्षत्रियादयो नभाजनम् । इति तेषामप्यमहद्धिकत्वेनापकृष्य- माणत्वादु मुक्त्यभावो भवेत्। अथ याऽसौ पुरुषवर्गस्य महती समृद्धिस्ती- , १६८ प्रमाणनयतत्त्वालोकालङ्कारः- क नाम वादकथाप्रारम्भात् प्रागनवसायस्यावकाशः ?। ततोऽयं सूत्रार्थ -यावेकाधिकरणावेककालौ च धौं विरुध्येते, तयोर्म- ध्यादेकस्य सर्वथा नित्यत्वस्य कथचिन्नित्यत्वस्य वा, व्यवच्छेदेन निरासेन, स्वीकृततदन्यधर्मस्य कथंचिन्नित्यत्वस्य सर्वथा नित्यत्वस्य वा , व्यवस्थापनार्थ वादिनः प्रतिवादिनश्च साधनदूषणवचनं वाद- इत्यभिधीयते । सामर्थ्याच्च स्वपक्षविषयं साधनम् , परपक्षविषयं तु दूषणम् , साधनदूषणवचने च प्रमाणरूपे एव संभवतः, तदितरयो- स्तयोस्तदाऽऽभासत्वात् , न च ताभ्यां वस्तु साधयितुं दूषयितुं वा शक्यमिति । ननु यस्मिन्नेव (मण्येकतरधर्मनिरासेन तदितरधर्म- व्यवस्थापनार्थ वादिनः साधनवचनम् , कथं तस्मिन्नेव प्रतिवादि- नस्तद्विपरीतं दूषणवचनमुचितं स्यात् ?, व्याघातात् ; इति चेत् । तदसत् , स्वाभिप्रायानुसारेण वादिप्रतिवादिभ्यां तथासाधनदूष- णवचने विरोधाभावात् । पूर्व हि तावद् वादी स्वाभिप्रायेण साधनम- भिधत्ते, पश्चात् प्रतिवाद्यपि स्वाभिप्रायेण दूषणमुद्भावयति। न खल्वत्र साधनं दूषणं चैकत्रैव धर्मिणि तात्त्विकमस्तीति विवक्षितम् ; किन्तु स्वस्वाभिप्रायानुसरणेन वादिप्रतिवादिनौ ते तथा प्रयुजाते, इवि तथैवोक्ते ॥ १ ॥ अङ्गनियमभेदप्रदर्शनार्थ वादे प्रारम्भकभेदी वदन्ति- प्रारम्भकश्चात्र जिगीषुः, तत्त्वनिर्णिनीषुश्च ॥ २ ॥ तत्र जिगीषु प्रसह्य प्रथमं च वादमारभते, प्रथममेव च तत्त्व- निर्णिनीपुः, इति द्वावप्चेतौ प्रारम्भको भवतः । तत्र जिगीपो.- "सारङ्गमातङ्गतुरगपूगा ! पलाय्यतामाशु वनामुष्मात् । साटोपकोपस्फुटकेशरश्रीमंगाधिराजोऽयमुपेयिवान् यत् " ||१|| इत्यादिविचित्रपत्रोत्तम्भनम् । अयि । कपटनाटकपटो ! सित- पट ! किमेतान् मन्दमेधसस्तपस्विन. शिष्यानलीकतुण्डताण्डवाडम्ब- रप्रचण्डपाण्डित्याविष्कारेण विप्रतारयसि ?, क जीवः ?, न प्रमाण- , . " रत्नाकरावतारिकायुक्तः । १६९ दृष्टमदृष्टम् , दवीयसी परलोकवार्तेति साक्षादाक्षेपो वा, न विद्यते निरवद्यविद्यावदातस्तव सदसि कश्चिदपि विपश्चिदित्यादिना भूपतेः समुत्तेजनं च; इत्यादिादारम्भः । तत्त्वनिर्णिनीपोस्तु सब्रह्मचारिन् ! शब्दः किं कथञ्चिद् नित्यः स्याद् नित्य एव वेति संशयोपक्रमो वा, कथञ्चिद् नित्य एव शब्द इति निर्णयोपक्रमो वा इत्यादिरूपः।वचनव्यक्ती सूत्रेप्वतन्त्रे,क्वचिदेकस्मिन्नपि प्रौढे प्रतिवादिनि बहवोऽपि संभूय विव- देरन् जिगीपवः, पर्यनुयुजीरंश्च तत्त्वनिर्णिनीपवः, स च प्रौढत- यव तांस्तावतोऽप्यभ्युपैति, प्रत्याख्याति च, तत्त्वं चाचष्टे । क- चिदेकमपि तत्त्वनिर्णिनीपुं वहवोऽपि तथाविधाः प्रतिवोधयेयुः। इत्यने- फवादिकृतः, स्वीकृतश्च वादारम्भः संगृह्यते ॥ २ ॥ तत्र जिगीपोः स्वरूपमाहुः- स्वीकृतधर्मव्यवस्थापनार्थ साधनदूषणाभ्यां परं पराजेतुमिच्छुर्जिगीपुः ॥ ३ ॥ स्वीकृतो धर्मः शब्दादे. कथञ्चिद् नित्यत्वादियः, तस्य व्यवस्थाप- नार्धम् , यत्सामात् तस्यैव साधनं परपक्षस्य च दूपणम् , ताभ्यां कृत्वा परं पराजेतुमिन्छुर्जिगीपुरित्यर्थः । एतेन यौगिकोऽप्ययं जिगीपु- शब्दो वादाधिकारिनिरूपणप्रकरणे योगरूढ इति प्रदर्शितम् ॥ ३॥ अथ तत्त्वनिर्णिनीपोः स्वरूपं निरूपयन्ति- तथैव तत्त्वं प्रतितिष्ठापयिपुस्तत्त्वनिर्णिनीषुः ॥ ४ ॥ तव स्वीकृतधर्मव्यवस्थापनार्थ साधनदूपणाभ्याम् , शब्दादेः फयभिद् नित्यत्वादिरूपं तत्त्वम् , प्रतिष्टापयितुमिच्छुस्तत्वनिर्णिनीपु- रित्यर्थः ॥४॥ असीवानेयत्तावपित्र्यदेतवे भेदावुपदर्शचन्ति- अयं च द्वेधा खात्मनि परत्र च ॥ ५॥ अपमिति उत्त्वनिर्णिनीपु., कश्चिद् सलु सन्देहायुपहतचेतो- १७० प्रमाणनयतत्त्वालोकालङ्कार:- वृत्तिः स्वात्मनि तत्त्वं निर्णेतुमिच्छति, अपरस्तु परानुग्रहैकरसिकतया परत्र तथा; इति द्वेधाऽसौ तत्त्वनिर्णिनीपुः। सर्वोऽपि च धात्वर्थः करोत्य- थेन व्याप्त इति स्वात्मनि परत्र च तत्त्वनिर्णयं चिकीर्षुरित्यर्थ.। अथ परं प्रति तत्त्वनिर्णिनीपोरप्यस्य तन्निर्णयोपजनने जयघोषणामुद्धोषय- न्येव सभ्या इति चेत् , ततः किम् ? | जिगीपुता स्यादिति चेत् , कथं यो यदनिच्छुः स तदिच्छु. परोक्तिमात्राद् भवेत् ? । तत् किं नासौ जय- मश्नुते १, वाढमश्नुते । न च तमिच्छति च, अश्नुते चेति किमपि कैतवं तवेति चेत्, स्यादेवम् ,यद्यनिष्टमपिन प्राप्येत । अवलोक्यन्ते चानिष्टान्य- प्यनुकूलप्रतिकूलदैवोपकल्पितानि जनैरुपभुज्यमानानि शतशः फलानि । तदिदमिह रहस्यम्-परोपकारकपरायणस्य कस्यचिद् वादिवृन्दारकस्यप- रत्र तत्त्वनिर्णिनीषोरानुषङ्गिकं फलं जयः,मुख्यं तु परतत्त्वाववोधनम्। जिगीषोस्तु विपर्यय इति ।। ५ ॥ स्वात्मनि तत्त्वनिर्णिनीषुमुदाहरन्ति- आद्यः शिष्यादिः ॥६॥ आद्य इति स्वात्मनि तत्त्वनिर्णिनीषुरित्यर्थः। आदिग्रहणादिहोत्त- रत्र च सब्रह्मचारिसुहृदादिरादीयते ॥६॥ परत्र तत्त्वनिर्णिनीपुमुदाहरन्ति- द्वितीयो गुर्वादिः ॥ ७॥ द्वितीय इति परत्र तत्त्वनिर्णिनीषुः ॥ ७ ॥ द्वितीयस्य भेदावभिदधति- अयं द्विविधः क्षायोपशमिकज्ञानशाली केवली च ॥ ८ ॥ अयमिति परत्र तत्त्वनिणिनीपुर्णादिः, ज्ञानावरणीयस्य कर्मणः श्योपशमेन निर्वृत्तं ज्ञानं मतिश्रुतावधिमनःपर्यायरूपं व्यसं समस्तं वा यस्यास्ति स तावदेकः, द्वितीयस्तु चस्यैव क्ष्येण यजनितं केवलज्ञानं . ३ .

रत्नाकरावतारिकायुक्तः। १७१ सद्वाम् । तदेवं चत्वारःप्रारम्भका:-जिगीपुः, स्वात्मनि तत्त्वनिर्णिनीपुः, परन तत्त्वनिणिनीपू च क्षायोपशमिकज्ञानशालिकेवलिनाविति । तत्त्व- निर्णिनीपोहि ये भेदप्रभेदाः प्रदर्शिताः,नते जिगीषोः सर्वेऽपि संभवन्ति । तथाहि-न फश्चिद् विपश्चिदात्मानं जेतुमिच्छति । न च केवली पर पराजेतुमिच्छति, वीतरागत्वात् । गौडद्रविडादिभेदस्तु नाङ्गनिय- मभेदोपयोगी, प्रसञ्जयति चानन्त्यम् ; इति पारिशेष्यात् क्षायोपशमिक- ज्ञानशाली परत्र जिगीपुर्भवतीत्येकरूप एचासौ न भेदप्रदर्शनमर्हति । यौ च परत्र तत्त्वनिणिनीपोर्भेदावुक्तौ, न तौ द्वावपि स्वात्मनि तत्त्वनि- णिनीपोः संभवतः, निर्णीतसमस्ततत्त्वज्ञानशालिनः केवलिनः स्वा- स्मनि तत्त्वनिर्णयेच्छानुपपत्ते', इति पारिशेष्यात् क्षायोपशमिकज्ञान- वानेव स्वात्मनि तत्त्वनिर्णिनीपुर्भवतीत्यसावप्येकरूप एवेति ॥ ८ ॥ वादिप्रतिवादिनोहस्तिप्रतिहस्तिन्यायेन प्रसिद्धर्यावद् वादिमः, सावद् वैव प्रतिवादिभिरपि भवितव्यम् ? इत्याहुः- एतेन प्रत्यारम्भकोऽपि व्याख्यातः ॥ ९ ॥ आरम्भकं प्रति प्रतीपं चाऽऽरभमाणः प्रत्यारम्भकः, सोऽयमेतेन प्रारम्भकभेदप्रभेदप्ररूपणेन व्याख्यातः । प्रदर्शितभेदप्रभेदः सहृदयैः स्वयमवगन्तव्यः । एवं च प्रत्यारम्भकस्यापि जिगीपुप्रभृतयश्चत्वारः नकारा भवन्ति । तत्र यद्यप्येकैकशः प्रारम्भकस्य प्रत्यारम्भकेण सार्ध पाये पोडश भेदाः प्रादुर्भवन्ति, तथापि जिगीपोः स्वात्मनि तत्त्वनि- णिनीपुगा, स्वात्मनि तत्त्वनिर्णिनीपोजिंगीपुणा, स्वात्मनि तत्त्वनि- मिनीपाः स्वात्मनि तत्त्वनिर्णिनीपुणा च, केवलिनश्च केवलिना सह पादो न संभवत्येवः इति चतुरो भेदान् पातयित्वा द्वादशैव तेऽत्र ग- ज्यन्ते । ताथा-वादी जिगीपु , प्रतिवादी तु जिगीषु स्वात्मनि तत्त्व- निणिनीपुर्न, परत्र तत्वनिर्णिनीपु क्षायोपशमिकज्ञानशाली, केवली घ। सथा वादी स्वात्मनि तत्वनिर्णिनीपुः, प्रतिवादी तु जिगीपुर्न स्वा- पनि तत्त्वनिर्णिनीपुर्न, परत्र तत्त्वनिर्णिनीपु.क्षायोपामिकतानशाली, संपली च । तथा वादी परत्र तत्त्वनिर्णिनीपुः क्षायोपशमिकज्ञानशाली १७२ प्रमाणनयतत्त्वालोकालङ्कार:- - 1 प्रतिवादी तु जिगीषुः, स्वात्मनि तत्त्वनिर्णिनीषुः, परत्र तस्वनिणि- नीषुः क्षायोपशमिकज्ञानशाली, केवली च । तथा वादी परत्र तत्त्व- निर्णिनीषुः केवली च प्रतिवादी तु जिगीषुः, स्वात्मनि तत्त्वनिर्णि- नीषुः, परत्र तत्त्वनिर्णिनीषुः क्षायोपशमिकज्ञानशाली, केवली च न । एवमेते चत्वारश्चतुष्काः षोडश । नबुपलक्षितेपु चतुर्पु पातितेषु द्वादश भवन्ति- "अगनयत्यनिश्चित्यै वादे वादफलार्थिभिः । द्वादशैवाऽवसातव्या एते भेदा मनस्विभि " ॥ १ ॥ ९॥ अङ्गनियममेव निवेदयन्ति- तत्र प्रथमे प्रथमतृतीयतुरीयाणां चतुरङ्ग एव, अन्यतमस्याऽप्यङ्गस्यापाये जयपराजयव्यव- स्थादिदौःस्थ्यापत्तेः ॥ १० ॥ उक्तेभ्यश्चतुर्व्यः प्रारम्भकेभ्यः प्रथमे जिगीपौ प्रारम्भके सति प्रथमस्य जिगीपोरेव, तृतीयस्य परत्र तत्त्वनिर्णिनीपुभेदस्य क्षायोपश- मिकज्ञानशालिन. तद्भेदस्यैव, तुरीयस्य केवलिनश्च प्रत्यारम्भकस्य प्रतिवा- दिनश्चतुरङ्ग एव प्रकरणाद् वादो भवति । वादिप्रतिवादिरूपयोरङ्गयोर- भावे वादस्यानुत्थानोपहततैव, इति तयोरयत्नसिद्धत्वेऽप्यपराङ्गद्वयस्या- वश्यम्भावप्रदर्शनार्थ चतुरङ्गत्वं विधीयते । प्रसिद्धं च सिद्धाशमिश्रि- तस्याऽप्यसिद्धस्यांशस्य विधानम् । यथा शव्दे हि समुच्चारिते यावा- नर्थ प्रतीयते तावति शब्दस्याभिधैव व्यापार इति "नि शेपच्युत- चन्दनम्” इत्यादौ वाच्य एवैकोऽर्थ इति प्रत्यवस्थित प्रति द्वावतावों वाच्य. प्रतीयमानश्चेत्येवंरूपतया वाच्यस्य सिद्धत्वेऽपि प्रतीयमान- पार्थक्यसिद्धयर्थ द्वित्वविधानम् । तत्र वादिप्रतिवादिनोरभावे वाद एव न सभवति, दूरे जयपराजयव्यवस्था, इति स्वत.सिद्वावेव तौ । तत्र च वादिवत् प्रतिवाद्यपि चेजिगापु , तदानीमुभाभ्यामपि, परस्परस्य शाठ्यकलहादेर्जयपराजयव्यवस्थाविलोपकारिणो निवारणार्थ लाभा- , रत्नाकरावतारिकायुक्तः । १७३ धर्थ वाऽपरागद्वयमप्यवश्यमपेक्षणीयम् । अथ तृतीयस्तुरीयो घाऽसौ स्यात्, तथाऽप्यनेन जिगोषोर्वादिनः शाठ्यकलहाद्यपोहाय, जिगीपुणा च प्रारम्भकेण लाभपूजाख्यात्यादिहेतवे तदपेक्ष्यत एवेत्ति सिद्धैव चतुरङ्गता । स्वात्मनि तत्त्वनिणिनीपुस्तु जिगीपुं प्रति वादितां प्रतिवादिता च न प्रतिपद्यते, स्वयं तत्त्वनिर्णयानभिमाने परावबो- • धार्थ प्रवृत्तेरभावात् , तस्मात् तत्त्वनिर्णयासम्भवाच; इति नायमिहोत्त- रत्र च निर्दिश्यते ॥ १०॥ अनयैव नीत्या जिगीपुमिव स्वात्मनि तत्त्वनिणिनीपुमपि प्रत्यस्य वादिता प्रतिवादिता वा न सङ्गच्छत इति पारिशेष्यात् तृतीयतुरी- ययोरेवास्मिन् वादः सम्भवतीति तृतीयस्य तावदङ्गनियममभिदधते- द्वितीये तृतीयस्य कदाचिद् व्यङ्गः, कदाचित् त्र्यङ्गः॥११॥ स्वात्मनि तत्त्वनिर्णिनीषौ वादिनि समुपस्थिते सति तृतीयस्य पर- प्र तत्त्वनिर्णिनीपोः क्षायोपशमिकज्ञानशालिनः प्रतिवादिनः, कदा- चिद् व्यङ्गो वादो भवति, यदा जयपराजयादिनिरपेक्षतयाऽपेक्षितस्त- त्त्वावधोधो वादिनि प्रतिवादिना कत्तुं पार्यते, तदानीमितरस्य सभ्य- सभापतिरूपस्याऽङ्गद्वयस्यानुपयोगात् । न ह्यनयोः स्वपरोपकारायैव प्रवृत्तयोः शाठ्यकलहादिलाभादिकामभावाः सम्भवन्ति । यदा पुनरुत्ताम्यताऽपि क्षायोपशमिकज्ञानशालिना प्रतिवादिना न कथं- चित्तत्त्वनिर्णय. कर्तुं शक्यते, तदा तन्निर्णयार्थमुभाभ्यामपि सभ्या- नामपेक्ष्यमाणत्वात् कलहलाभाद्यभिप्रायाभावेन सभापतेरनपेक्ष- णीयत्वात व्यगः ॥ ११ ।। द्वितीय एव वादिनि चतुर्थस्थाननियममाहुः- तत्रैव द्यङ्गस्तुरीयस्य ॥ १२ ॥ तत्रव द्वितीय स्वात्मनि तत्त्वनिर्णिनीपौ वादिनि, तुरीयस्य परत्र तरपनिर्णिनीपोः केवलिन प्रतिवादिनः, ब्यङ्ग एव वादः, तत्त्वनिर्णाय- कत्त्वाभावासंभवन सभ्यानामभिहितदिशा सभापत्तेश्वाऽनपेक्षणात्।।१२।।

१७४ प्रमाणनयतत्वालोकालङ्कार:- 1 . तृतीयेऽङ्गनियममाहुः- तृतीये प्रथमादीनां यथायोगं पूर्ववत् ॥ १३ ॥ परत्र तत्त्वनिर्णिनीषी क्षायोपशामिकज्ञानशालिनि वादिनि, निवे- दितरूपाणां प्रथमद्वितीयतृतीयतुरीयाणां प्रतिवादिनाम् , उक्तयुक्त्यैव प्रथमस्य चतुरङ्गः, द्वितीयतृतीययोः कदाचिद् व्यङ्गः, कदाचित् व्यङ्गः, तुरीयस्य तु द्वथा एव वादो भवति । निःसीमा हि मोहहतकस्य महि- मा, इति कश्चिदात्मानं निर्णीततत्त्वमिव मन्यमानः समयपदार्थपरमार्थ- दर्शिनि केवलिन्यपि तन्निर्णयोपजननार्थ प्रवर्तत इति न कदाचिद- सम्भावना, भगवास्तु केवली प्रवलकृपापीयूषपूरपूरितान्त.करण- तया तमप्यवबोधयतीति को नाम नानुमन्यते ? ॥ १३ ॥ परोपकारैकपरायणस्य भगवत' केवलिन. संभवन्त्यपि परत्र तत्त्वनिर्णिनीषा न केवलकलावलोकितसकलवस्तुतया कृतकृत्ये केवलिनि विलसितुमुत्सहत इति प्रथमादीनां त्रयाणामेवाङ्गनिय- ममाहुः- तुरीये प्रथमादीनामवम् ॥ १४ ॥ परत्र तत्त्वनिणिनीषौ केवलिनि वादिनि, प्रथमद्वितीयतृतीया- नामेवमिति पूर्ववत् प्रथमस्य चतुरङ्ग , द्वितीयतृतीययोस्तु व्यङ्ग- एव वादो भवतीत्यर्थः । "प्रारम्भकापेक्षतया यदेवमङ्गव्यवस्था लभते प्रतिष्ठाम् । संचिन्त्य तस्मादमुमादरेण प्रत्यारभेत प्रतिभाप्रगल्भ " ||१||१४॥ चतुरङ्गो वाद इत्युक्तम् , कानि पुनश्चत्वार्यङ्गानि ? इत्याहु - वादिप्रतिवादिसभ्यसभापतयश्चत्वार्यङ्गानि ॥ १५ ॥ स्पष्टम् ।। १५ ।। थैतेपा लक्षणं कर्म च कीर्तयन्ति- प्रारम्भकप्रत्यारम्भकावेव मल्लप्रतिमल्लन्यायेन

रत्नाकरावतारिकायुक्तः।
१७५
प
1
वादिप्रतिवादिनौ ॥ १६ ॥
यौ तौ प्रारम्भकप्रत्यारम्भको पूर्वमुक्ती, तावेव परस्परं वादि-
प्रतिवादिनौ व्यपदिश्येते, यथा द्वौ नियुध्यमानौ मल्लप्रतिमल्ला-
विति ।। १६ ॥
प्रमाणतः स्वपक्षस्थापनप्रतिपक्षप्रतिक्षेपावनयोः
कर्म ॥ १७ ॥
वादिना प्रतिवादिना च स्वपक्षस्थापनं परपक्षप्रतिक्षेपश्च द्वित-
यमपि कर्तव्यम्, एकतरस्यापि विरहे तत्त्वनिर्णयानुत्पत्तेः । अत एव
स्वपक्षेत्यादिदिवचनेनोपक्रम्यापि कर्मेत्येकवचनम् , यथेन्धनध्मानाधि-
श्रयणादीनामन्यतमस्याप्यपाये विवित्तरनिष्पत्तेः सर्वेषामपि पाक-
इत्येकतया व्यपदेश इति । स्वपक्षस्थापनपरपक्षप्रतिक्षेपयोः समा-
सेन निर्देशः कचिदेकप्रयत्ननिष्पन्नताप्रत्यायनार्थम् । यदा हि नि-
वृत्तायां प्रथमकक्षायां प्राप्तावसरायां च द्वितीयकक्षायां प्रतिवादी न
किश्चिद् वदति, तदानीं प्रथमकक्षायां स्वदर्शनानुसारेण सत्प्र-
माणोपक्रमत्वे स्वपक्षस्थापनमेव परपक्षप्रतिक्षेपः, यदा वा विरुद्ध-
त्वादिकमुद्भावयेत् , तदा परपक्षप्रतिक्षप एव स्वपक्षसिद्धि' इति समा-
सेऽपि तुल्यकक्षताप्रदर्शनार्थमितरेतरयोगद्वन्द्वः । यथा स्वपक्षः स्थाप्यते
तथा परपक्षः प्रतिक्षेप्यः, यथा चायं प्रतिक्षिप्यते तथा स्वपक्षः स्थाप्यः,
न तु सर्वत्र पारिशेष्यात् परितोषिणा भवितव्यम् ।
"मानेन पक्षप्रतिपक्षयोः क्रमात् प्रसाधनक्षेपणकेलिकर्मठौ ।
वादेऽत्र मल्लप्रतिमल्लनीतितो बदन्ति वादिप्रतिवादिनौ बुधाः॥१॥१७॥
वादिप्रतिवादिसिद्धान्ततत्त्वनदीष्णत्वधारणा-
बाहुश्रुत्यप्रतिभाक्षान्तिमाध्यस्थ्यैरुभयाभि-
मताः सभ्याः॥ १८ ॥

प्रमाणनयतत्त्वालोकालङ्कारः- नदीष्ण इति कुशल', प्राधान्यख्यापनार्थ वादिप्रतिवादिसिद्धा- न्ततत्त्वनदीष्णत्वस्य प्रथमं निर्देश.। न चैतद् बहुश्रुतत्वे सत्यवश्यं भावि, तत्यान्यथापि भावात् , अवश्यापेक्षणीयं चैतत् , इतरथा वादिप्रतिवादि- प्रतिपादितसाधनदूषणेपु सिद्धान्तसिद्धत्वादिगुणानां तद्वाधितत्वादिदो- पाणां चावधारयितुमशक्यत्वात् । सत्यप्येतस्मिन् धारणामन्तरेण न स्वावसरे गुणदोपाचवोधकत्वमिति धारणाया अभिधानम् । कदाचिद् वादिप्रतिवादिभ्यां स्वात्मन प्रौढताप्रसिद्धये स्वस्वसिद्धान्ताप्रतिपादि- तयोरपि व्याकरणादिप्रसिद्धयोः प्रसङ्गत. प्रयुक्तोद्भावितयोविशेषलक्षण- च्युतसंस्कारादिगुणदोपयोः परिज्ञानार्थ वाहुश्रुत्योपादानम् । ताभ्यामेव स्वस्वप्रतिभयोत्प्रेक्षितयोस्तत्तद्गुणदोषयोनिणयार्थ प्रतिभायाः प्रतिपा- दनम् । वादिप्रतिवादिनोर्मध्ये यस्य दोषोऽनुमन्यते स यदि कश्चिद् कदा- चित् परुषमप्यभिधीत, तथापि नैते सभासद कोपपिशाचस्य प्रवेशं स- हन्ते, तत्त्वावगमव्याघातप्रसङ्गादिति क्षान्तेरुक्तिः । तत्त्वं विदन्तोऽपि पक्षपातेन गुणदोषौ विपरीतावपि प्रतिपादयेयुरिति माध्यस्थ्यवचनम् । एभि षड्भिर्गुणैरुभयोः प्रकरणात् वादिप्रतिवादिनोरभिप्रेताः सभ्या भवन्ति । सभ्या इति बहुवचनं त्रिचतुरादयोऽमी प्रायेण कर्तव्या इति ज्ञापनार्थम् , तदभावेऽपि द्वावेको वाऽसौ विधेयः ॥ १८ ॥ वादिप्रतिवादिनोर्यथायोगं वादस्थानककथाविशे- षाङ्गीकारणाऽग्रवादोत्तरवादनिर्देशः, साधकबा- धकोक्तिगुणदोषावधारणम् , यथावसरं तत्त्व- प्रकाशनेन कथाविरमणम् , यथासंभवं स- भायां कथाफलकथनं चैषां कर्माणि ॥ १९॥ यत्र स्वयमस्वीकृतप्रतिनियतवादस्थानको वादिप्रतिवादिनौ समु- पतिप्ठेते, तत्र सभ्यास्तौ प्रतिनियतं वादस्थानकं सर्वानुवादेन दूघ्या- नुवादेन वा, वर्गपरिहारेण वा वक्तव्यमित्यादिर्योऽसौ कथाविशेषस्तं , - रनाकरावारिकायुक्तः। ৩৩ चाङ्गीकारयन्ति, अस्याप्रवादोऽस्य चोत्तरवाद इति च निर्दिशन्ति, चादिप्रतिवादिभ्यामभिहितयोः साधकबाधकयोर्गुणं दोषं चावधार- यन्ति । यदेकतरेण प्रतिपादितमपि तत्त्वं मोहादभिनिवेशाद् 'वाऽन्य- तरोऽनङ्गीकुर्वाणः कथायां न विरमति, यदा वा द्वावपि तत्त्वपरा- मुखमुदीरयन्तौ न विरमतः, तदा तत्त्वप्रकाशनेन तौ विरमयन्ति । यथायोगं च कथायाः फलं जयपराजयादिकमुद्घोषयन्ति, तैः खलुद्धों- षितं तन्निविवादतामवगाहते । "सिद्धान्तद्वयवेदिनः प्रतिभया प्रेम्णा समालिङ्गिता- तत्सच्छास्त्रसमृद्धिबन्धुरधियो निष्पक्षपातोदयाः। क्षान्त्या धारणया च रखितहृदो बाढं योः संमताः सभ्याः शम्भुशिरोनदीशुचिशुभैलभ्यास्त एते बुधैः॥१||१९|| प्रज्ञाज्ञैश्वर्यक्षमामाध्यस्थ्यसंपन्नः सभापतिः ॥२०॥ यद्यप्युक्तलक्षणानां सभ्यानां शाठ्यं न संभवति, तथापि वादिनः प्रतिवादिनो वा जिगीषोस्तत् संभवत्येवेति सभ्यानपि प्रति विप्रतिपत्ती विधीयमानायां नाऽप्राज्ञः सभापतिस्तत्र तत्समयोचितं तथा तथा विवे- क्तुमलम्, न चासौ सभ्यैरपि बोधयितुं शक्यते । स्वाधिष्ठितवसुन्धरा- यामस्फुरिताऽऽजैश्वर्यो न से कलहं व्यपोहितुमुत्सहते, उत्पन्नकोपा हि पार्थिवा यदि न तत्फलमुपदर्शयेयुः, तदा निदर्शनमकिंचित्कराणां स्युः, इति सफले तेषां कोपे वादोपमर्द एव भवेदिति । कृतपक्षपाते च सभा पतौसभ्या अपि भीतभीता इवैकतः किल कलङ्कः, अन्यतश्चालम्बितपक्ष- पातः प्रतापप्रज्ञाधिपतिः सभापतिरिति 'इतस्तटमितो व्याघ्रः' इति नयेन कामपि कष्टां दशामाविशेयुः, न पुनः परमार्थप्रथयितुं प्रभवेयुः, इत्युक्तं प्रज्ञाऽऽज्ञैश्वर्यक्षमामाध्यस्थ्यसंपन्न इति ॥२०॥ वादिसभ्याभिहितावधारणकलहव्यपोहादिकं चास्य कर्म ॥ २१ ॥ चादिभ्यां सभ्यश्चाभिहितस्याऽर्धस्याऽवधारणम्, वादिनोः कलह- २३ १७८ प्रमाणनयतस्वालोकालङ्कारः- व्यपोहो यो येन जीयते स तस्य शिष्य इत्यादेर्वादिप्रतिवादिभ्यां प्रति- ज्ञातस्यार्थस्य कारणा, पारितोषिकवितरणादिकं च समापवेः कर्म । “विवेकवाचस्पतिरुच्छूिताज्ञः क्षमान्वितः संहृतपक्षपात. । सभापतिः प्रस्तुतवादिसभ्यैरभ्यर्थ्यते वादसमर्थनार्थम्भाशा२१॥ अथ जिगीषुवादे कियत्कक्षं वादिप्रतिवादिभ्यां वक्तव्यमिति निर्णेतुमाहुः- सजिगीषुकेऽस्मिन् यावत्सभ्यापेक्षं स्फूर्ती वक्तव्यम् ॥ सह जिगीषुणा जिगीषुभ्यां जिगीषुभिर्वा वर्तते योऽसौ तथा तस्मिन् वादे, वादिप्रतिवादिगतायाः स्वपक्षसिद्धिपरपक्षप्रतिक्षेपविष- यायाः शक्रशक्तञ्च परीक्षणार्थ यावत् तत्रभवन्तः सभ्या:किलाऽपेक्ष- न्ते, तावत् कक्षाद्वयत्रयादि स्फूत्तौ सत्यां वादिप्रतिवादिभ्यां वक्तव्यम्। ते च वाच्यौचित्यपरतन्त्रतया कदाचित् कचित् कियदप्यपेक्षन्ते इति नास्ति कश्चित् कक्षानियमः । इह हि जिगीषुतरतया यः कश्चिद् विप- श्चित् प्रागेव पराक्षेपपुरःसरं वादसझामसीन्नि प्रवर्तते, तस्य स्वयमेव वादविशेषपरिग्रहे, तदपरिग्रहे सभ्यैस्तत्समर्पणे वाऽपवादेऽधिकारः। तेन सभ्यसभापतिसमक्षमक्षोभेण प्रतिवादिनमुदिश्याऽवश्यं स्खसिद्धान्त- बुद्धिवैभवानुसारितया साधु साघनं खपक्षसिद्धयेऽभिधानीयम् । अथ शोभादेः कुतोऽपि प्रागेवाऽसौ वक्तुमशक्को भवेत्, तदानीं दूरीकृतस- मस्तमत्सरविकारैः सभासारैरुभयोरपि वस्तुव्यवस्थापनदूषणशक्तिप- रीक्षणार्थ तदितरस्याओवादेऽभिषेकः कार्यः। अथ वादिनस्तूष्णीम्भावा- देव पराजितत्वेन कथापरिसमाप्तेः किमितरस्याप्रवादाभिषेकण?, इति चेत्। स्यादेतत्, यदि प्रतिवादिनोऽपि पक्षो न भवेत् , सति तु तस्मिन् वादीव तमसमर्थयमानोऽसौ न जयति, नापि जीयते,प्रौढिप्रदर्शनार्थ तु तद्गृहीतमुक्तमप्रवादमगीकुर्वाणः श्लाघ्यो भवेत्। उभावप्यनगीकुर्वाणी तु भगवन्तरेण वादमेव निराकुरुत इति तयोः सभ्यः सभावहिर्भाव- एवाऽऽदेष्टव्यः । तत्र वादी स्त्रपक्षविधिमुखेन वा, परपक्षप्रतिषेधमुखन . रवाकरावतारिकायुक्तः । ९७९ बासाधनमभिदधीत, यथा-जीवच्छरीरं सात्मकं प्राणादिमत्त्वान्यथानु- पपत्तेरिति, नेदं निरात्मकं तत एवेति । अत्र च यद्यप्यर्थान्तराधभि- धानेऽपि वस्तुनःसाधनदूषणयोरसंभवाद् न कथोपरमः, तथापि परा- र्थानुमाने वक्तुर्गुणदोषा अपि परीक्ष्यन्त इति न्याथात् स्वात्मनोऽश्ला- ध्यत्वविघाताय यावदेवावदातं तावदेवाभिधातव्यम् । अन्यथा शब्दा- नित्यत्वं साधयितुकामस्य 'प्रागेव नाभिप्रदेशात् प्रयत्नप्रेरितो वायुः प्राणो नामोर्ध्वमाक्रामन्नुरःप्रभृतीनां स्थानानामन्यतमस्मिन् स्थाने प्रयत्नेन विधार्यते, स विधायमाणः स्थानमभिन्ति, तस्मात् स्थानाद् ध्वनिरुत्पद्यते' इत्यादिशिक्षासूत्रोपदिष्टशब्दोत्पत्तिस्थानादिनिरूपणां क- कोटरप्रवेशप्रक्रियां च प्रकाश्य य एवंविधः शब्दः सोऽनित्यः कृतकत्वादिति हेतुमुपन्यस्य पुनः पटकुटादिदृष्टान्तमुत्पत्त्यादिमुखेन वर्णयतः प्रथमकक्षैव न समाप्येत, कुतः प्रतिवादिनोऽवकाशः? किया, परप्रतिपत्तये वचनमुपायत इति यावदेव परेणाऽऽकातितम् , तावदेव. युक्तं वक्तुम् । लोकेऽपि वादिनोः करणावतीर्णयोरेकः स्वकीयकुलादि- वर्णनां कुर्वाणः पराक्रियते, प्रकृतानुगतमेवोच्यतामिति चानुशिष्यते । किं पुनस्तदवदातम् ? इति चेत्, यस्मिन्नभिहिते न भवति मनागपि स- घेतसां चेतसि केशलेशः, एते हि महात्मानो निष्प्रतिमप्रतिभाप्रेयसी- परिशीलनसुकुमारहृदयाः स्वल्पेनाप्यर्थान्तरादिसंकीर्तनेन प्रकृतार्थ- प्रतिपची विघ्नायमानेन न नाम न लिश्यन्ति । तेनं स्वस्वदर्शनानु- सारेण साधनं दूषणं चार्थान्तरन्यूनलिष्टतादिदोषाऽकलुषितं वक्तव्यम्। तत्रार्थान्तरं प्रागेवाऽभ्यधायि ।न्यूनं तु नैयायिकस्य चतुरवयवाद्यनुमान- मुपन्यस्यतः । छिष्टं यथा-यत् कृतकं, कृतकवायं, येथा घटः, तस्माद- नित्यस्तत्तदनित्यम् , कृतकत्वाच्छब्दोऽनित्य इत्यादि व्यवहितसंबन्धम् । नेयार्थ यथा-शब्दोऽनित्यो द्विकत्वादिति, द्वौ ककारौ यत्रेति द्विकशब्दे- न कृतकशब्दो लक्ष्यते, तेन कृतकत्वोदित्यर्थः। व्याकरणसंस्कारहीनं यथा-शब्दोऽनित्यः कृतकत्वस्मादिति । असमर्थ यथा-अयं हेतुर्ने स्वसा- भ्यगमक इत्यर्थेनाऽसौ स्वसाध्यघातक इति । अश्लीलं यया-नोर्दनार्थे 1 १८० प्रमाणनयतत्त्वालोकालङ्कारः- चंकारादिपदम् । निरर्थकं यथा-शब्दो वै अनित्यः खल्विति । अपरामृष्टविधेयांशं यथा-अनित्यशब्दः कृतकत्वादिति, अत्र हि शब्दस्याऽनित्यत्वं साध्यं प्राधान्यात् पृथग निर्देश्यम्, न तु समासे गुणीभावकालुष्यकलकितमिति । पृथनिर्देशेऽपि पूर्वमनुवाद्यस्य शब्द- स्य निर्देशः शस्यतरः, समानाधिकरणतायां तदनुविधेयस्यानित्यत्वस्या- ऽलब्धास्पदस्य तस्य विधातुमशक्यत्वादित्यादि । तदेवमादि वदन् वादी समाश्लिष्यते नियतमलाध्यतया। प्रतिवादिना तु स्वस्थानुपनिक- माध्यत्वसिद्धये तत्प्रकाश्य साधनदूपणे यत्नवता भाज्यम्, नतु तावतैव स्वात्मनि विजयश्रीपरिरम्भः संभावनीयः । प्रकदिततीर्थान्तरीयकल- कोऽकलकोऽपि प्राह-वादन्याये दोपमात्रेण यदि पराजयमाप्तिः पुनरु- तवच्छ्रुतिदुष्टार्थदुष्टकल्पनादृष्टादयोऽलकारदोपाः पराजयाय कल्पेर- निति। ननु वादी साधनमभिधाय कण्टकोद्धारं कुर्वीत वा, नवा?, का- मचार इत्याचक्ष्महे । तत्राऽकरणे तावद् न गुणो न दोपः। तथाहि- स्वोढेरप्रदर्शनाद्न गुण.,परानुद्भावितस्यैव दूपणस्यानुद्धाराच नदोपः उद्भावितं हि दूषणमनुद्धरन् दुष्येत । अथ कथं न दोषः?, यतः सत्य- पि हेतोः सामर्थ्य तदप्रतिपादनात् संदेहे प्रारब्धासिद्धिः, इत्यवश्यकर- णीयं दूषणोद्धरणमिति चेत् । कस्यायं सन्देहः? वादिनः, प्रतिवादिनः, सभ्यानां वा । न तावद् वादिनः, तस्यासत्यपि सामर्थ्य तन्निर्णयाभि- मानेनैव प्रवृत्ते, किं पुनः सति प्रतिवादिसभ्यसंदेहापोहायतु सामर्थ्य प्रमाणेनैव प्रदर्शनीयम् । तत्रापि प्रमाणान्तरेण सामर्थ्याप्नदर्शने संदेहः, प्रदर्शने तु तत्रापि प्रमाणान्तरेण तत्प्रदर्शनेनाऽनवस्था । अथ यथा स्वार्थानुमाने हेतोः साध्यमध्यवसीयते, हेतोश्च ,प्रत्यक्षादिभिः प्रतिपत्तिः, न चाऽनवस्था, तथा परार्थानुमानेऽपीति चेत् , तर्हि यथा प्रत्य- क्षादेः कस्यचिदभ्यासदशायां स्वतःसिद्धप्रमाणतयाऽनपेक्षितसामर्थ्यप्र- दर्शनस्यापि गमकत्वम्, एवमन्ततो गत्वा कस्यचित् परार्थानुमानस्या- पि तथैव तदवश्यमभ्युपेयम् । इति गतं सामर्थ्यप्रदर्शननियमेन । अथ १ चोदनमित्यर्थः । , 7 - रत्नाकरावतारिकायुक्तः।। १८१ यत्रानभ्यासदशायां परतः प्रामाण्यसिद्धिः तत्र तत्प्रदर्शनीयमेवेति चेत्, यदि न प्रदर्श्यते किं स्यात् ? , ननूक्तमेव-संदेहात् प्रारब्धासिद्धिः, इति चेत् । तहि यथा सदपि सामर्थ्यमप्रदर्शितं न प्रतिवादिना प्रती- यते, तद्वत् संदेहोऽपि प्रतिवादिगतोऽप्रदर्शितः कथं वादिना प्रती- येत ? । स्वबुद्धयोत्प्रेक्ष्यत इति चेत्, इतरेणापि यदि तत्सामर्थ्य स्वबुद्धयैवोत्प्रेक्ष्येत, तदा किं झूणं स्यात् ? । अथ वादिनः साधनसम- र्थनशक्तिं , परीक्षितुं न तदुत्प्रेक्ष्यते, तर्हि प्रतिवादिनो दूषणशक्तिं परीक्षितुमितरेणापि न संदेहः स्वयमुत्प्रेक्ष्यते ।। अथ द्वितीयकक्षायां दूषणान्तरवत् संदेहमपि प्रदर्शयन् स्फोरयत्येव दूषणशक्ति प्रतिवादी, इति चेत् । तार्ह वाद्यपि तृतीयकक्षायां दूषणान्तरवत् संदेहमपि व्यपो- हमानः किं न समर्थनशक्ति व्यक्तीकरोति ? । किञ्च, केनचित् प्रका- रेण सामर्थ्यप्रदर्शनात् कस्यचित् संदेहस्यापोहेऽपि तस्य प्रकारान्तरेण संभवतोऽनपोहे कथं प्रारब्धसिद्धिः ?; विप्रतिपत्तेरिव संदेहस्यापि हफ- रिमिताः प्रकाराः, इति कियन्तस्ते स्वयमेवाशङ्क्याऽऽशक्य शक्याः पराकर्तुम् ? । न च प्रदर्शितेऽपि सामर्थ्य स्वपक्षकपक्षपातिनोऽस्य विश्रम्भः संभवति, येन प्रारब्धमवबुध्येत । दृश्यन्ते हि साधन- मिव तत्समर्थनमपि कदर्थयन्तः प्रतिवादिनः, इति साधनमभिधाय सामर्थ्याऽप्रदर्शनेऽपि दोषाभावात् स्थितमेतदकरणे न गुणो न दोष- इति । करणे तु यदेव संदेहस्य विवादस्य वा भवेदास्पदम् , तस्यैवोद्धारं कुर्वाणः समलंक्रियते प्रौढतागुणेन, यदुद्धरेत् तत्संदिग्धमेव विवा- दापन्नमेव चौद्धरेदित्यवमवधार्यते, न तु यावत् संदिग्धं विवादा- पनं वा तावत् सर्वमुद्धरेदेव; असंख्याता हि सन्देहविवादयोर्भेदाः, कस्तान कात्स्न्येन ज्ञातुं निराकर्तु वा शक्नुयात् । इति यावत्तेभ्यःप्र- सिद्धिः प्रतिभा वा भगवती प्रदर्शयति, तावदुद्धरणीयम् , तदधिकोद्धार- करणे तु कदय॑ते सिद्धसाधनाभिधानादिदोषेण । सिद्धमपि साध- यंश्च कदा नामायं वावदूको विरमेदिति सत्यं व्याकुलाः स्मः, एकेन प्रमाणेन समर्थितस्यापि हेतोः पुनः समर्थनाय प्रमाणान्तरोपन्यास- , , VM १८२ प्रमाणनयतत्त्वालोकालङ्कारः- प्रसङ्गात् , साध्यादेरप्येवम् , इति न काश्चिदमुष्य सीमानमालोकयामः। तेन सिद्धस्य समर्थनमनर्थकत्वाद् न कर्तव्यम् । 'सिद्धसाध्यसमुच्चारणे सिद्धं साध्यायोपदिश्यते' इति न्यायात् साध्यसिद्धये त्वभिधानमस्या- वश्यमुपेयम् , अपरथा ह्यसिद्धमसिद्धेन साधयतः किं नाम न सिद्धये- त् ? । यत्र तु सिद्धत्वेनोपन्यस्तस्यापि सिद्धत्वं संदिग्धं विवादाधि- रूढं वा भवेत्, तत्र तत्समर्थनं सार्थकमेव । ततः स्थितमेतद् यो यत् सिद्धमभ्युपैति, तं प्रति न तत्साधनीयमिति । बौद्धो हि मीमांस- कं प्रत्यनित्य. शब्दः सत्त्वात्, इत्यभिधायोभयसिद्धस्यार्थक्रिया- कारित्वरूपस्य सत्त्वस्यासिद्धत्वमुद्धरन् न कमप्यर्थ पुष्णाति, केवलं सिद्धमेवार्थ समर्थयमानो न सचेतसामादरास्पदम् । अनैकान्ति- कत्वं पुनराशयोद्धरन्नधिरोपयति सरसे सभ्यचेतसि स्वप्रौढिवल्ल- रीम् । तदिह यथा-कश्चित् चिकित्सकः कुतश्चित् पूर्वरूपादेः संभाव्य- मानोत्पत्ति दोपं चिकित्सति, अन्यः कश्चिदुत्पन्नमेव, कश्चित्त्वसंभाव्य- मानोत्पत्तितयाऽनुत्पन्नतया च निश्चिताभावम् , इत्येते त्रयोऽपि यथो- त्तरमुत्तममध्यमाधमाः, तद्वद्वाद्यप्येकः कथञ्चिदाशक्यमानोद्भावन दोषं समुद्धरति, अपरः परोद्भावितम् , अन्यस्त्वनाशक्यमानाद्भावन- मनुद्भावितं चेति, एतेऽपि त्रयो यथोत्तरमुत्तममध्यमाधमा इति परमार्थः। "स्वपक्षसिद्धये वादी साधनं प्रागुदीरयेत् । यदि प्रौदिः प्रिया तत्र; दोषानपि तदुद्धरेत् ॥शा इति संग्रहलोकः । द्वितीयकक्षायां तु प्रतिवादिना स्वात्मनो निर्दोषत्वसिद्धये वादि- पदवदातमेव वक्तव्यम् । द्वयं च विधेयम्-परपक्षप्रतिक्षेपः, स्वपक्षसि- द्धिश्च । तत्र कदाचिद् द्वयमप्येतदेकेनैव प्रयत्नेन निर्वय॑ते, यथा- नित्यः शब्द. कृतकत्वात् , इत्यादौ विरुद्धोद्भावने, परप्रहरणेनैव परप्रा- णन्यपरोपणात्मरक्षणप्राय चैतत् प्रौढतारूपप्रियसखीसमन्वितामेव विजयश्रियमनुपञ्जयति । असिद्धतायुद्भावने तु स्वपक्षसिद्धये सा- रत्नाकराचतारिकायुक्तः। १८३ धनान्तरमनित्यः शब्दः सत्त्वादित्युपाददानः केवलामेव तामव- लम्बते । तदप्यनुपाददानस्त्वसिद्धतायुद्भावनभूतं श्लाघ्यतामात्रमेव प्राप्नोति, न तु प्रियतमा विजयश्रियम् । यदुदयनोऽप्युपादिशत्-वादि- बचनार्थमवगम्याऽनूद्य दूपयित्वा प्रतिवादी स्वपक्षे स्थापनां प्रयु- जीत, अप्रयुक्षानस्तु दूषितपरपक्षोऽपि न विजयी, श्लाघ्यस्तु स्थान्, आत्मानमरझन् परघातीव वीर इति । तद्यदीच्छेत् प्रौढता- न्वितां विजयप्रियम् , तत्राऽप्रयत्नोपनतां तयोः प्राणभूतां हेतो- विरुद्धतामवधीरयेत् , निपुणतरमन्विप्य सति संभवे तामेव प्रसा- घयेत् । न च विरुद्धत्वमुद्भाव्य स्वपक्षसिद्धये साधनान्तरमभिद- धीत, व्यर्थत्वस्य प्रसक्तेः । एवं तृतीयकक्षास्थितेन वादिना विरुद्ध- त्वे परिहते चतुर्थकमायामपि प्रतिवादी तत्परिहारोद्धारमेव विद्- धीत, न तु दूपणान्तरमुद्भाव्य स्वपक्षं साधयेत् , कथाविरामाभावप्र- सङ्गान् । नित्यः शब्द. कृतकत्वात्, इत्यादी हि कृतकत्वस्य विरुद्धत्व- मुद्भावयता प्रतिवादिना नियतं तस्यैवाऽनित्यत्वसिद्धौ साधनत्व- मध्यवसितम् , अत एव न तदाऽसौ साधनान्तरमारचयति । स चे. दयं चतुर्थकक्षायां तत्परिहारोद्धारमनवधारयन् प्रकारान्तरेण पर- पक्षं प्रतिक्षिपेत् ; स्वपक्षं च साधयेत् , तदानी वादिना तदूषणे कृते स पुनरन्यथा समर्थयेत् ; इत्येवमनवस्था । किच, एवं चेत् प्रतिवादी विरुद्धत्वोद्भावनमुखेनाऽनित्यत्वसिद्धौ स्वीकृतमपि कृतकत्वं हेतुं परि- हृत्य सत्त्वादिरूपं हेत्वन्तरमुररीकुर्यात् , तदा वाद्यपि नित्यत्वसिद्धौ तमुपात्तं परित्यज्य प्रत्यभिज्ञायमानत्वादि साधनान्तरमभिदधानः कथं वार्येत ?, अनिवारणे तु सेवानवस्था सुस्थायते । तदिदमिह रह- स्यम्-उपक्रान्तं साधनं दूषणं वा परित्यज्य नापरं तदुदीरयेदिति । विरुद्धत्वोभावनवत् प्रत्यक्षेण पक्षवाधोद्भावनेऽप्येकप्रयत्ननिर्वत्यै एव परपक्षप्रतिक्षेपस्वपक्षसिद्धी । कदाचिद् भिन्नप्रयत्ननिर्व] एते संभवतः, तत्र चायमेव क्रमः-प्रथमं परपक्षप्रतिक्षेपः, तदनु स्वप- क्षसिद्धिरिति । यथा-नित्यः शब्दश्चाक्षुषत्वात्, प्रमेयत्वाद् वा; इत्युक्तेऽ- .

१८४ प्रमाणनयतत्त्वालोकालङ्कार:- सिद्धत्वानकान्तिकत्वाभ्यां परपक्षं प्रतिक्षिपेत् , अनित्यः शब्दः कृतः कत्वात्, इत्यादिना च प्रमाणेन स्वपक्षं साधयेत् । ननु न परं निगृह्य स्वपक्षसिद्धये साधनमभिधानाईम्, पराजितेन साधै विवादाभावात् ;न खलु लोकेऽपि कृतान्तवकान्तरसंचारिणा सह रणो दृष्टः श्रुतो वेति । तत् किमिदानी द्वयोजिगीषतोः क्वचिशे राज्याभिषेकाय स्वीकृत- विभिन्नराजवीजयोरेकश्चदन्यतरं निहन्यात्, सदा स्वीकृतं राजबीज न तत्राभिपिश्चेत् ?, तदर्थमेव ह्यसौ परं निहतवान् । अकलकोऽप्य- भ्यधात्- " विरुद्धं हेतुमुद्भाव्य वादिनं जयतीतरः । आभासान्तरमुद्भाव्य पक्षसिद्धिमपेक्षते" ॥ १ ॥ इति । परपक्षं च दूषयन् यावता दोषविषयः प्रतीयते, तावदनु- वदेत्, निराश्रयस्य दोषस्य प्रत्येतुमशक्यत्वात् । न च सर्व दोषविषय- मेकदैवाऽनुवदेत् ; एवं हि युगपद् दोपामिधानस्य कर्तुमशक्यत्वात्, क्रमेण दोषवचने कार्ये । ततो निर्धार्य पुनः प्रकृतदोषविषयः प्रदर्शनीयः, अप्रदर्शिते तस्मिन् दोषस्य वक्तुमशक्यत्वात् , तथा च द्विरनुवादः स्यात् , तत्र च प्राक्तनं सर्वानुभाषणं व्यर्थमेव भवेदिति । अनुवादश्चा- ऽनित्यः शब्दः कृतकत्वादित्युक्ते कृतकत्वादित्यसिद्धो हेतुः, कृतकत्व- मसिद्धम् , असिद्धोऽयं हेतुरित्येवमादिभि.प्रकारैरनेकधा संभवति । अथे दूषणमेकमनेक वा कीर्तयेत् , किमत्र तत्त्वम् ?। पर्षदजिज्ञासायामेकमेव, तस्मादेव परपक्षप्रतिक्षेपस्य सिद्धेर्द्वितीयादिदोषाभिधानस्य वैय- र्थ्यात् , तजिज्ञासायां च संभवे यावत्स्फूर्त्यनेकमपि प्रौढिप्रसिद्धेः, इति ब्रूमः। दूषणं परपक्षस्य स्वपक्षस्य च साधनम् । प्रतिवादी द्वयं कुर्याद् भिन्नाभिन्नप्रयत्नतः" ॥१॥ इति संग्रहश्लोकः । तृतीयकक्षायां तु वादी द्वितीयकक्षास्थितप्रतिवादिप्रदार्शतदूष- प्पमदूपणं यात्, अप्रमाणयेच प्रमाणम् , अनयोरन्यतरस्यैव करणे रत्नाकरावतारिकायुक्तः । १८५. वादाभासप्रसङ्गात् । उदयनोऽप्याह-नापि प्रतिपक्षसाधनमनिर्वर्त्य प्रथमस्य साधनत्वावस्थितिः, शङ्कितप्रतिपक्षत्वादिति; अदूषयंस्तु क्षितस्वपक्षोऽपि न विजयी, श्लाघ्यस्तु स्याद्, वञ्चितपरप्रहार इव तमप्रहरमाण इति चेति । न च प्रथमं प्रमाणं दूषितत्वात् परित्यज्य परोदीरितं च प्रमाणं दूषयित्वा स्वपक्षसिद्धये प्रमाणान्तरमाद्रियेत, कथाविरामाभावप्रसङ्गादित्युक्तमेव । अत एव स्वसाधनस्य दूषणानु- द्वारे परसाधने विरुद्धत्वोद्भावनेऽपि न जयव्यवस्था, तदुद्धारे तु तदुद्भावनं सुतरां विजयायेति को नाम नानुमन्यते । सोऽयं सर्व- विजयेभ्यः श्लाघ्यते विजयो यत्परोऽङ्गीकृतपक्षं परित्याज्य स्वपक्षा- राधनं कार्यत इति । वादी तृतीयकक्षायां प्रतिवादिप्रदर्शितं दूषणं दूषयेत् , पूर्व प्रमाणं चाप्रमाणयेदिति । एवं चतुर्थपञ्चमकक्षादावपि स्वयमेव विचारणीयम् ।। २२ ।। अथ तत्त्वनिर्णिनीषुवादे कियत्कक्षं वादिप्रतिवादिभ्यां वक्तव्यमिति निर्णेतुमाहुः- उभयोस्तत्वनिर्णिनीषुत्वे यावत् तत्त्वनिर्णय यावत्स्फूर्ति च वाच्यम् ॥ २३ ॥ एकः स्वात्मनि तत्त्वनिर्णिनीषुः; परश्च परत्र, द्वौ वा परस्परम् , इत्येवं द्वावपि यदा तत्त्वनिर्णिनीषू भवतस्तदा यावता तत्त्वस्य निर्णयो भवति, तावत् ताभ्यां स्फूर्ती सत्यां वक्तव्यम् ; अनिर्णये वा यावत् स्फुरति तावद् वक्तव्यम् । एवं च स्थितमेतत्- "स्वं स्वं दर्शनमाश्रित्य सम्यक् साधनदूषणैः । जिगीपोनिर्णिनीषोर्वा वाद एकः कथा भवेत् ॥ १॥ भङ्गः कथात्रयस्याऽन निग्रहस्थाननिर्णयः । श्रीमद्रत्नाकरप्रन्थाद् धीधनैरवधार्यताम् ॥ २॥ -- 4 यत:- प्रमेयरत्तकोटीभि. पूर्णो रत्नाकरो महान् । .

१८६ प्रमाणनयतत्त्वालोकालङ्कारः- - .. तत्रावतारमात्रेण वृत्तेरस्याः कृतार्थता” ॥ ३ ॥ 'प्रमाणे च प्रमेये च बालानां बुद्धिसिद्धये । किश्चिद् वचनचातुर्यचापलायेयमादधे ।। १॥ न्यायमार्गादतिक्रान्तं किश्चिदत्र मतिभ्रमात् । यदुक्तं, तार्किकैः शोध्यं तत् कुर्वाणैः कृपां मयि ॥२॥ आशावास समयसमिधा संचयश्चीयमाने स्त्रीनिर्वाणोचितशुचिवचश्चातुरीचित्रभानौ । प्राजापत्यं प्रथयति तथा सिद्धराजे जयश्री- यस्योदाहं व्यधित स सदा नन्दताद् देवसूरि. ॥३॥ प्रन्नात. पदवेदिभिः स्फुटहशा संभावितस्तार्किकैः कुर्वाणः प्रमदाद् महाकविकयां सिद्धान्तमार्गाध्वगः । दुर्वाद्यकुशदेवसूरिचरणाम्भोजद्वयोषट्पद. श्रीरत्नप्रभसूरिरल्पतरधीरेतां व्यधाद् वृत्तिकाम् ।। ५ ।। वृत्ति. पञ्च सहस्राणि येनेयं परिपठ्यते । भारती भारती चाऽस्य प्रसर्पन्ति प्रजल्पतः ॥ ६ ॥ इति प्रमाणनयतत्वालोकालङ्कारे श्रीरत्नमभाचार्यविरचितायां रत्नाकरावतारिकाख्यलघुटीकायां वादस्वरूपनिर्णयो नामाष्टमः परिच्छेदः। ॥ तत्समाप्तौ च समाप्तेयं रत्नाकरावतारिकाऽऽख्यलघुटीका ।। १ द्विवचनम् ।

Pramannayattawalokalandanr

Author
Prabhacharya
Title
Pramannayattawalokalandanr
File name
Pramannayattawalokalandanr
Text
OCR done
Citation
1911
Published
2010/1
Publisher
Varanasi, Swadharma Abhyudaya Yantralay
Language
Sanskrit
Pages
189
Library
Sanmati Library
Classification
Jain sahitya
DLI number
344507
Barcode
99999990234368.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
Rights
Copyright permitted
VMLT id
VJZBEKDq1hr
Download PDF

Pramannayattawalokalandanr