Asr,melkote

Tattvachintaamand-i

Gad'gageshopadhyaaya · 2004/12/2

PDF Proofread

Front matter

No text on this page.

No text on this page.

No text on this page.

तत्त्वचिन्तामण अनुमानखण्ड । प्रत्यक्षोपजीवकत्वात् प्रत्यक्षानन्तरं बहुवादिसम्मत- त्यादुपमानात् प्रागनुमानं निरूप्यते । तत्र व्याप्तिविशिष्टपक्षधर्माताज्ञानजन्यं ज्ञानमनुमिति- स्तत्करणमनुमानं तच्च लिङ्गपरामर्शो न तु परास्ष्यमाणं लिङ्गामिति वक्ष्यते। अथानुमानं न प्रमाणं योग्योपावीनां योग्यातुपलब्ध्या- भावनिश्चयेऽथ्ययोग्योपाधिशङ्कया व्यभिचारसंशयात् शत- श: सहचरितयोरपि व्यभिचारोपलब्धेश्च लोके धमादि- दर्शनानन्तरं वयादिव्यवहारश्च सम्भावनामात्रात् संवा- देन च प्रामाण्याभिमानादिति नाप्रत्यक्षं प्रमाणमिति न अप्रमाणसाधयेणाप्रामाण्यसाधने दृष्टसाधर्म्यस्यानुमा- नत्वात् एतहाक्यस्य सन्दिग्धविपर्यास्तान्यतरं प्रत्यर्थवत्त्वात् तयोश्च परकीययोरप्रत्यक्षत्वात् अनुमानमप्रमाणमिति वाक्यस्य प्रामाण्याप्रामाण्ययोाघाताच्च। अपिचानुमा- नाप्रामाण्ये प्रत्यक्षस्याप्यप्रमाणत्वापत्तेः प्रामाण्यस्यानुमे १ तत्त्वचिन्तामणी यत्वात् स्वतश्च प्रामाण्यग्रहे तत्संशयानुपपत्तेः। व्याप्ति- ग्रहोपायश्च वक्ष्यते । नन्वनुमितिहेतुव्याप्तिज्ञाने का व्याप्ति: न तावदव्य- भिचरित त्वं तड्वि न साध्याभाववदत्तित्वम् साध्यवभिन्न- साध्याभाववदत्तित्वं साध्यवत्प्रतियोगिकान्योऽन्याभावासा- मानाधिकरण्यं सकलसाध्याभाववन्निष्ठाभावप्रतियोगित्वं साध्यवदन्यात्तित्वं वा केवलान्वयिन्यभावात् । नापि सा- ध्यासामानाधिकरण्यानधिकरणत्वं साध्यवैयधिकरण्यान- धिकरणत्वं वा तदुभयमपि साध्यानधिकरणानधिकरणत्वं तच्च तत्र यत्किञ्चित्याध्यानधिकरणाधिकरणे धमे चासि- अथेदं वायं ज्ञेयत्वादित्यत्र समवायितया वाच्यत्वा- भावोघटएव प्रसिद्धः व्यधिकरणधर्मावच्छिन्न प्रतियोगिता- काभावस्य केवलान्वयित्वात् । नचैवं घटएव व्यभिचार: साध्यतावच्छेदकावच्छिन्न प्रतियोगिताकाभाववत्तित्वं हि व्यभिचारः न च वाच्यत्वाभावस्तादृशोघटइति चेत्तहि तादृशसाध्याभावसामानाधिकरण्याभावोव्याप्तिः। तथाचा- प्रसिद्धिः प्रतियोग्यरत्तिश्च धर्मो न प्रतियोगितावच्छेदकः तविशिष्टज्ञानस्वाभावधीहेतुत्वात् अन्यथा निर्विकल्पादपि घटोनास्तीति प्रतीत्यापत्तेः गवि शशशृङ्ग नास्तीतिप्रती- तेरप्रसिद्धेः शशशृङ्गं नास्तीति च शशे शृङ्गाभावइत्यर्थः । अथ साध्यासामानाधिकरण्यानधिकरणत्वे सति साधि- अनुमानखण्डः। ३ करणत्वं व्याप्तिः केवलान्वयिनि साध्यासामानाधिकरण्यं निरधिकरणे आकाशादौ प्रसिद्धमिति चेन साध्यासामा- नाधिकरण्यं हि न साध्यानधिकरणाधिकरणत्वं साध्या- धिकरणानधिकरणत्वं वा केवलान्वयिनि यत्किञ्चित्मा- ध्याधिकरणानधिकरणे धूमे चाव्याप्तेः। नापि खसमाना- धिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं प- बतीयवङ्गेमहानसीयधमसमानाधिकरणात्यन्ताभावप्रति- योगित्वात् द्रव्यत्वादेरव्याप्यत्त्यव्याप्यतापत्तेश्च । न च प्रतियोगिविरोधित्वं व्याप्यत्तित्वं वा अभावविशेषणं देयं संयोगादौ साध्ये सत्त्वादेरनैकान्तिकत्वाभावप्रसङ्गात् । न हि प्रतियोगिविरोधी संयोगादेरपरोऽत्यन्ताभावोऽस्ति अधिकरणभेदेनाभावभेदाभावात् । नापि साधनवनिष्ठा- न्योऽन्याभावाप्रतियोगिसाध्यवत्कत्वं व्याप्तिः मूले वृक्षः कपि- संयोगवान्नेत्यबाधितप्रतीते: तदन्योऽन्याभावस्थापि तत्र स त्वात् । नवं भेदाभेदः अवच्छेदकभेदेन तत् सत्त्वाभ्युप- गमात् साधनवन्निष्ठान्योऽन्याभावाप्रतियोगिसाध्यवद्यस्येति पश्चर्थः व्याप्यव्यापकभावानिरूपणात् साध्यसाधनयोा- प्तिनिरूप्यत्वात् वनिमत्पर्बतस्य ऽन्याभावप्रतियोगित्वाच्च विशेषाभावकूटादेवाभावव्यवहा- रोपपत्तौ सामान्याभावे मानाभावात् । नापि साधनसमा- नाधिकरण यावद्धर्मनिरूपितवैयधिकरण्यानधिकरणसा- मानाधिकरण्यं साधनसमानाधिकरणस्य प्रमेयत्वादेर्वैय- धूमवन्महानसनिष्ठान्यो- तत्त्वचिन्तामणी धिकरण्याप्रसिद्धेः महानसादौ समवायितया वद्भिवति मतोरत्यन्तान्योऽन्याभावयोः सत्त्वात् धूमादावप्युक्तलक्षणा- भावाच्च । अथानौपाधिकः सम्बन्धोव्याप्तिः उपाधिश्च साध्यव्यापकत्वे सति साधनाव्यापकः व्यापकत्वन्तु तह- निष्ठात्यन्ताभावाप्रतियोगित्वं व्यभिचारे चावश्यमुपाधि: प्रतियोगित्वं न विरोधिलं सहानवस्थाननियमलक्षणं गोत्वाखत्वयोरतथात्वात् अन्योऽन्याभावप्रतियोगिन्यसत्त्वाच्च किन्तु यथाधिकरणाभावयोः स्वरूपविशेष: सम्बन्धः तथा प्रतियोगित्वमनुयोगित्वमपि अभावविरहात्मत्वं वेति चेत् यत्किञ्चित्साध्यव्यापकसाधनाव्यापकधर्मनिषेधो न धूमादौ प्रकृतसाध्यव्यापकसाधनाव्यापकधर्मश्च सिद्ध्यसिट्विभ्यां न निषड्बु शक्यः यावत्माध्यव्यापके प्रमेयत्वादौ साधनाव्या- पकत्व यावत्माधनाव्यापके च घटत्वादौ साध्यव्यापकत्व निषिध्यतइति चेन्न व्यधिकरणत्वात् यावत्साधनाव्यापक- मव्यापकं यत्साध्यस्य यावत्माध्यव्यापकं व्यापकं वा यस्थ तत्त्वं तदिति चेन्न सोपाधेरपि तथात्वात् तथाहि साध- नस्य वङ्गरव्यापकं यावदाईन्धनन्तत् प्रत्येकमव्यापकं सा- ध्यधमस्य द्वितीये साध्यधूमस्य व्यापकमा न्धनं तद्यापक महानसीयवः। नापि साध्यं यावद्यभिचारि तदव्यमि- चारित्वमनौपाधिकत्वं साध्याव्यभिचारित्वस्यैव गसकत्व- सम्भवात् तच्च दूषितम् । नापि कात्नान सम्बन्धोव्याप्तिः एकव्यक्तिके तदभावात् नानाव्यक्तिकेपि सकलवससम्ब- अनुमानखण्डः। न्धस्य प्रत्येकवद्भावभावात् अतएव न कात्स्नपन साध्येन सम्बन्धोव्याप्तिः विषमव्याप्ते तदभावाच्च । नच यावत् साधनाश्रयाश्रितसाध्यसम्बन्धः साधनाश्रये महानसादौ सकले प्रत्येकं व राश्रितत्वाभावात् । नापि साधनस- मानाधिकरणयाववर्मासमानाधिकरणसाध्यसामानाधिक- रण्यं यावद्धर्मसामानाधिकरण्यं हि यावत्तवर्भाधिकरणा- धिकरणत्वं तज्ञाप्रसिद्ध साधनसमानाधिकरणसकलमहा- नसत्वाद्यधिकरणाप्रतीतेः। नापि स्वाभाविकः सम्बन्धो व्याप्तिः स्वभावजन्यत्वे तदाश्रितत्वादौ वा व्यायतिव्याप्तेः। नाप्यविनाभावः केवलान्वयिन्यभावात् । अथ सम्बन्धमानं व्याप्तिः व्यभिचारिसम्बन्धस्यापि केनचित् सहव्याप्तित्वात् धमादिव्याप्तिस्तु विशिष्यैव निवक्तव्येति तन्न लिङ्गपराम- शविषयव्याप्तिखरूपनिरूपणप्रस्तावे लक्षणाभिधानस्यार्था- न्तरत्वात् । नच सम्बन्धमात्र तथा तबोधादमित्यनु- त्पत्तेः। नापि व्याप्तिपदप्रतिनिमित्तमिदं सम्बन्धनाने ऽपि व्याप्तिपदाप्रयोगात्। केवलान्वयिनि केवलान्वयि- धर्मसम्बन्धो व्यतिरेकिणि साध्यवदन्यात्तित्वं व्याप्तिः एत- योरनुमितिविशेषजनकत्वं अनुमितिमावे पक्षधर्मतैव प्रयोजिका। नचातिप्रसङ्गः विशेषसामग्रीसहिताया एव सामान्यसामग्याः कार्यजनकत्वनियमादिति केचित् तदपि न साध्यवदन्यात्तित्वस्य धूमे सत्त्वात् वह्निमत्मवतान्य- स्मिन् धमसत्त्वात् । नच सकलसाध्यवदन्यात्तित्वं वनि- तत्त्वचिन्तामणौ EART मता प्रत्येकं तथात्वात् सर्वत्र लक्षणे साध्यत्वसाधनत्व- तदभिमतत्वानां व्याप्तिनिरूप्यत्वेनात्माश्रयः साध्यत्वं हि न सिद्धिकर्मत्वं सिषाधयिषाविषयत्वं वा महानसीयवनौ तदभावात्। नच सामान्यतो व्याप्त्यवगमोऽस्त्येव परस्य कथमन्यथा दूषणे नासाधकतां साधयेदिति वाच्यं स्वार्था- तुमानोपयोगिव्याप्तिखरूपनिरूपणं विना कथायामप्रवे- शादिति । अत्रोच्यते। प्रतियोग्यसमानाधिकरणयत्समानाधि- करणात्यन्ताभावप्रतियोगितावच्छेदकावच्छिन्नं यन्न भवति तेन समं तस्य सामानाधिकरण्यं व्याप्तिः अन्य निष्ठवङ्गे- धूमवत्पर्वतरत्त्यत्यन्ताभावप्रतियोगित्वेऽपि तत्प्रतियोगिता न वङ्गित्वेनावच्छिद्यते धूमवति वजिर्नास्तीत्यप्रतीते: सामान्यावच्छिन्नप्रतियोगिताकाभावः पृथगेक अन्यथा स- कलप्रसिद्धरूपाभावे प्रसिद्धरूपवदन्यत्रे चावगते वायौ रूपं न वा वायूरूपवान्नवेति संशयो न स्यात् विश्वेषाभावकूटस्य निश्चितत्वात् । यहा प्रतियोगियधिकरणखसंमानाधिकरणात्यन्ताभा- वाप्रतियोगिना सामानाधिकरण्यं यत्समानाधिकरणान्यो- इन्याभावप्रतियोगि यहन्न भवति तेन समं तस्य सामानाधि- करण्यं वा खसमानाधिकरणान्योऽन्याभावाप्रतियोगियह- स्कत्वं वा। अन्यत्तिवङ्गितहतोरन्यत्तिधमवनिष्ठात्यन्ता- भावान्योऽन्याभावप्रतियोगित्वात् व्यधिकरणवनिधूमयोन- अनुमानखराड । व्याप्तिः किन्तु तत्तडमस्य समानाधिकरणतत्तद्दङ्गिना। नवं धूममात्रे न व्याप्तिरिति वाच्यं सर्वधूमव्यक्तस्तथात्वेन धममानस्य व्याप्यत्वात् धूमसम्बन्धिवगिस्तद्याप्यएव युग- पदुत्पन्नविनष्टयोश्च व्याप्तिरेव कर्मणि च संयोगाभाव: प्रतियोग्यसमानाधिकरणः । यद्दा प्रतियोगिवैयधिकरण्या- वच्छेदकावच्छिन्नत्वमत्यन्ताभावविशेषणं कर्माणि च संयो- गाभावस्य प्रतियोगिवैयधिकरण्यावच्छेदकावच्छिन्नत्वमेव । नचान्योऽन्याभावस्याच्याप्यत्तित्वम् अभेदस्याबाधितप्रत्य- भिज्ञानात् । व्याप्यव्यापकभावानानपि वस्तुसतस्तथात्वे नाज्ञायमानस्य सम्बन्धत्वेनैव भातस्य पश्चर्थत्वं नचैवमननु- गमो दोषाय कस्य का व्याप्तिरित्यननुगतस्यैव लक्ष्यत्वात् । अथ धूमवति वद्भिदौ नस्त: धूमवान् वङ्गिमट्टदौ न भवतीति प्रतीतेासज्यत्तिप्रतियोगिको वद्भिवनिमतो- रत्यन्तान्योऽन्याभावौ धूमवति विद्यते इति कथमेते लक्षणे इतिचेन्न तादृशाभावानभ्युपगमात् अभ्युपगमे वा तत्र तदुभयं प्रतियोगि न वनिवनिमन्तौ। अथवानोपाधिकलं व्याप्तिः तच्च यावत्खसमानाधिकरणात्यन्ताभावप्रतियो- गितावच्छेदकावच्छिन्नं यत् तत्प्रतियोगिकात्वन्ताभावसमा- नाधिकरणं यत् तेन समं सामानाधिकरण्यम् । नावं सोपाधिः तत्र साधनसमानाधिकरणात्यन्ताभावप्रतियो- गिन आईन्चनवत्त्वादेरुपार्योऽत्यन्ताभावस्तेन समं सा- ध्यस्य धूमादेः सामानाधिकरण्याभावात् उपाधे साध्यव्या- तत्त्वचिन्तामयी पकत्वात् एतदेव यावत्स्वव्यभिचारिव्यभिचारिसाध्यसामा नाधिकरण्यमनौपाधिकत्वं गीयते । यहा यावद्यत्समानाधि- करणात्यन्ताभावाप्रतियोगिप्रतियोगिकात्यन्ताभावासामा- नाधिकरण्यं यस्य तस्य तदेवानौपाधिकत्वं सोपाधौ तु सा- ध्यवनिष्ठात्यन्ताभावाप्रतियोगिनउपाधेर्यो ऽत्यन्ताभावस्तेन समं हेतोः सामानाधिकरण्यम् उपाधेः साधनाव्यापक- त्वात् । यहा यत्सम्बन्धितावच्छेदकरूपवत्त्वं यस्य तस्य सा व्याप्तिः। तथाहि धूमस्य वह्निसम्बन्धित्वे धूमत्वमवच्छेदक धममात्रस्य वङ्गिसम्बन्धित्वात् वङ्गेस्तु धूमसम्बन्धेन वङ्गित्व- मनच्छेदकं धमासम्बन्धिनि गतत्वात् नातिप्रसक्तमवच्छेदक संयोगादौ तथात्वादर्शनात् किन्तु वह्नावाईन्धनप्रभवव- द्वित्वं धूमसम्बन्धितावच्छेदकं तादृशञ्च व्याप्यमेव । अथवा यत्मामानाधिकरण्यावच्छेदकावच्छिन्नं यस्य खरूपं तत्तस्य व्याप्यं वह्निसामानाधिकरण्यं हि धूमे धूमत्वेनावच्छिद्यते सोपाधौ बूपाधिना। अतएव साधनतावच्छेदकभिन्न येन साधनताभिमते साध्यसम्बन्धोऽवच्छिद्यते स एव तत्र साधने विशेषणमुपाधिरिति वदन्ति । अतएव च साधना- व्यापकत्वे सति साधनावच्छिन्नसाध्यव्यापकत्व लक्षणं ध्रुवं व्यभिचारिणि साधने एकत्र साध्यतदभावयोर्विरोधेनाव- च्छेदकभेदं विना तदुभयसम्बन्धाभावादवश्य साध्यसम्बन्धि तावच्छेदकमस्ति तदेव च साधनावच्छिन्नसाध्यव्यापक साधनाव्यापकं तत्रोपाधिः अतएव व्यभिचारे चावश्यमुपा- अनुमानखण्डे & धिरिति सङ्गच्छते अन्यथा व्यभिचारादेव तत्रागमकत्वेन व्यभिचारित्वेन न तदनुमानमप्रयोजकत्वात् अतएव च तस्य साध्यसम्बन्धितावच्छेदकरूपलक्षणा व्याप्तिः साधनताभि- मते च कास्तीति स्फटिके जवाकुसुमबदुपाधिरसावुच्यते लक्षणन्तु साध्यसाधनसम्बन्धव्यापकत्व सति साधना व्यापकत्वं विषमव्याप्तस्तु नोपाधिपदवाच्यः प्रतिनिमित्ता- भावात् दूषकता च तस्य व्यभिचारोन्नायकतया नच व्यभि- चारोन्नायकत्वमेवोपाधित्वं अप्रयोजकसाध्यव्यापकव्यभि- चारिणोरप्युपाधित्वापत्तेरिति । सेयं व्याप्तिनं भूयोदर्शनगम्या दर्शनानां प्रत्येकमहे- तुत्वात् आशुविनाशिनां ऋमिकाणां मेलकाभावात् नच तावद्दर्शनजन्यसंस्कारा इन्द्रियसहकृता व्याप्तिधीहेतवः प्रत्यभिज्ञायामिन्द्रियस्य तथात्वकल्पनादितिवाच्यं समान- विषये स्मरणे प्रत्यभिज्ञाने च संस्कारोहेतुरतः कथं संस्का रेण व्याप्तिज्ञानं जन्येत अन्यथातिप्रसङ्गः। किञ्च सम्बन्ध भूयो दर्शनं भूयःसु स्थानेषु दर्शनं भयसां वा दर्शनं भूयांसि वा दर्शनानि न तथा एकल रूपरसथोद्रव्यत्वघटत्वयोञ्च व्याप्तिग्रहात् एकत्रैव धारावाहिके तडीप्रसङ्गात् भूयस्तस्य त्रिचतुरादित्वेनाननुगमाञ्च। अपि च पार्थिवत्वलौहले- ख्यत्वादौ शतशो दर्शनेऽपि व्याप्त्यग्रहात् तर्कसहकृतं तथेति चेत्तहि सहचारदर्शनव्यभिचारादर्शनसहकृतः स एव व्याप्तिग्राहकोऽस्तु आवश्यकत्वात् किं भूयोदर्शनेन नच तेन तत्त्वचिन्तामणौ जातमात्रस्य विना तर्कएव नावतरति प्रथमदर्शने व्युत्पन्नस्य तर्कसम्म वात् नचैवमेवास्तु तर्कस्य व्याप्तिग्रहमूलकत्वेनानवस्थानात् प्रतिनित्तिहत्वनुमितिजनकव्याप्तिज्ञानं तके विनैवातोनानवस्थेति चेत्तहि व्यभिचारात् सोऽपि नव्याप्तिग्रहे हेतुः नचैतबुड्वाववान्तरजातिरस्ति सामान्य- प्रत्यासत्त्या सोपसंहारादविनाभावग्रहः सामान्यरूपता च सकद्दर्शनगम्यतिभूयोदर्शनापेक्षेति चेन्त्र सामान्यस्थ हि प्रत्यासत्तित्व लाघवात् नतु सामान्यतया ज्ञातस्य तदन- भ्युपगमाञ्च । नच काकतालीयत्वादिशङ्काव्युदासा) द्विती- यादिदर्शनापेक्षेति वाच्यं द्वितीयादिदर्शनेऽपि शङ्कातादव- स्यात् । नत्वनौपाधिकत्वज्ञानं व्याप्तिज्ञाने हेतुः तद्दे- शकालतवावस्थितघटादीनामुपाधित्वशङ्कानिरासः कस्य- चित् साधनव्यापकत्वज्ञानेन कस्यचित् साध्याव्यापकत्व- ज्ञानेन स्यात् तच्च भूयोदर्शनं विना नावतरतीति चेन्न अयोग्योपाधिध्यतिरेकस्यानुमानाधीनज्ञानत्वेनानवस्थापा- अथ साध्यसाधनसहचरितधर्मान्तराणामुपा- धित्वसंशये न व्याप्तिग्रहः अतस्तेषामनुपाधित्वज्ञानं भूयो दर्शनाधीनसाध्याव्यापकत्वज्ञाने सतीत्येतदर्थं भूयोदर्शना- पेक्षा अतएव यावता दर्शनेन तनिश्चयस्तावङ्गयोदर्शनं हेतुरिति न वारसंख्यानियमो न वाऽननुगमः यद्यपि चान्यस्य साध्यव्यापकत्वसाधनाव्यापकत्वसंशयो नान्यव्या- प्तिग्रहप्रतिबन्धकस्तथापि तदाहितव्यभिचारसंशयः प्रति- तात् ।

अनुमानखण्ड.। बन्धकइति तद्दिधननमावश्यकमिति चेन्न अयोग्योपाधि संशयाधीनव्यभिचारसंशयस्य तथाप्यनुच्छेदात् स च न भूयोदर्शनानाप्यनुमानादित्युक्तम् । अपि च भूयोदर्शना- हितसंस्कारो न वहिरिन्द्रियसहकारी तद्यापार विनापि च सहचारादिज्ञानवतो व्याप्तिग्रहात् नापि मनस इन्द्रि- यादिवट्योदर्शनजन्यसंस्कारस्य तज्जन्यस्मरणस्य वा प्रमा- णान्तरत्वापत्तेः तस्मात् परिशेषेण सकृद्दर्शनगग्या सा तथा युपाध्यभावो व्याप्तिः अभावश्च केवलाधिकरणं तत्काल- सम्बन्धो वा स्वप्रकाशरूपं तज्ज्ञानं वा तच्च प्रथमदर्शनेनाव- गतमेव चक्षुरादिना न चाधिकस्तदभावोऽस्ति न च प्रति- योगिज्ञानमधिकरणादिज्ञानजनकं येनोपाधिज्ञानं विना तन्नस्यात् एवमुपाध्यभावे ज्ञाते किञ्चिन्न ज्ञातुमवशिष्यते उपाध्यभावव्यवहारस्तु तड्वि यमपेक्षते दीर्घत्वादिव्यवहार- दूवावधिज्ञानं नचैवं रासभसम्बन्धतुल्यवगिधूमसम्बन्धज्ञा- नादेवानुमितिः स्यादिति वाचम् उपाधिस्मरणे सत्युपाधि- तद्याप्येतरसकलतदुपलम्भकसमवधाने चोपाध्यनुपलम्भस- हितस्य केवलाधिकरणज्ञानस्यानुमितिहेतुत्वात् व्यवहा- रहेतुत्वाच्च । नन्वेवं प्रथमदर्शनेन व्याप्तिनिश्चयाविशेषद- शंने सति रासभादिसंशयवत् तत्संशयो न स्यादिति चेत् व्याप्तिज्ञानानन्तरं किं विद्यमान एवोपाधिर्मायोपाधित्वेन न ज्ञात इतिशङ्कया ग्टहीतव्याशावपि संशयः अतस्तत्र भूयोदर्शनेनोपाधिनिरासहारा व्यात्वभावशङ्कापनीयते ।

सत्त्वचिन्तामणौ यहा ज्ञानप्रामाण्यसंशयाद्याप्तिसंशयः यथा घटज्ञानसा- मम्यां सत्यां घटज्ञाने सति तत् प्रामाण्यसंशयाहितस्तत् सं- शयो न त्वग्रिमसंशयानुरोधेन तत्र घटज्ञानमेव न वृत्त- मिति कल्प्यते तथेहाप्युपाध्यभावस्य व्याप्तित्वात् तस्य च केवलाधिकरणरूपस्य प्रथमदर्शनेऽपि निश्चितत्वात् व्याप्ति- ग्राहकान्तरस्याभावाच्च परिशेषेण सकृद्दर्शनस्य व्याप्तिग्रा- हकत्वात् तन्निश्चये प्रामाण्यसंशयादेव तत् संशयः । नचैवं रासभेऽपि प्रथमं व्याप्तिपरिच्छेदः स्यादिति वाच्यं तत्र व्याप्तेरभावात् प्रत्यक्षज्ञाने विषयस्य हेतुत्वात् कचिदसंस- र्गाग्रहात् तथाव्यवहारो दोषमाहात्म्यात् नचावापि तथा- रोपे सति निमित्तानुसरणं नतु निमित्समस्तीत्यारोप इत्य- भ्युपगमात् । केचित्तु साधनवनिष्ठात्यन्ताभावाप्रतियोगि- साध्यसामानाधिकरण्यं साधनवनिष्ठान्योऽन्याभावाप्रतियो- मिसाध्यवकत्वं वा व्याप्तिस्तदुभयमपि योग्यं प्रत्यक्षेण वह्नि- धमसम्बन्धानुभवेन प्रथममवगतमेव । महानसे योऽत्य- न्ताभावोऽन्योऽन्याभावोवावगतस्तस्य प्रतियोगी न वति- वा वह्निमानित्यनुभवात् रासभे तथावगमेऽप्यग्रे स बाध्यतइति तन्त्र एवं हि तइङ्गितमयोरेव व्याप्तिः स्यात् नतु धमत्ववङ्गित्वावच्छेदेन नच तदनुमानोपयोगिङ्गित्वं वनिमत्त्वं वा न प्रतियोगितावच्छेदकमिति प्रथमतो ज्ञासुमशक्यमेवेतिमैवं प्रकृतसाध्वव्यापकसाधनाव्यापकोवा साधनत्वाभिमतेन समं प्रकृतसाध्यसम्बन्धितावच्छेदक अनुमानखण्डः। विशेषणं वोपाधि: उभयथापि तदभावो न व्याप्तिः सिद्ध्य- सिविभ्यां तन्निषेधानुपपत्तेः किन्तु यावत्खव्यभिचारिव्य- भिचारि साध्यसामानाधिकरण्यमनौपाधिकत्व तस्य च प्रथमं ज्ञातुमशक्यत्वात् । किञ्च न वस्तुगत्या व्याप्तेज्ञानं हेतुः किन्तु व्याप्तित्वेन तच्च उपाध्यभावत्वं नच उपाधेरज्ञाने तद- भावत्वेन ज्ञानं सम्भवति विशेषणज्ञानसाध्यत्वाविशिष्टज्ञानस्य नच नियमत: प्रथममुपाधिधीरस्ति। यच्चोतं प्रतियोगिज्ञानं व्यवहारहेतुः नाभावज्ञानइत्यस्तु तावदेवं तथापि तदभावो मा व्यवहारि उपाध्यभावज्ञानाधीनानुमितिः स्थादेव उपाधिज्ञानं विनापि नचैवं । वस्तुतस्तु विशेषादर्शने सह- चारादिसाधारणधर्मदर्शनाद्यभिचारसंशयात् प्रथमदर्श- नेन न व्याप्तिनिश्चयः । अथ व्यभिचारसंशयो नाव्यभिचा- रनिश्चयप्रतिबन्धकः ग्राह्यसंशयस्य निश्चयाप्रतिबन्धकत्वात् अन्यथा संशयोत्तरं कापि निश्चयो न स्यादिति चेन्न व्यभि- चारसंशयः प्रतिबन्धक इति ब्रूमः किन्तु विशेषादर्शने सति सहचारादिसाधारणधर्मदर्शनात् संशय: स्यात् नतु संश- यसामग्रीतोनिश्चय इति । किञ्च यवीसामग्री यत्र प्रतिब- न्धिका विशेषादर्शने तत्र तवीरपीति व्यभिचारसंशयोऽपि प्रतिबन्धकः एवं भूयोदर्शनमपि संशायकं तर्कवनवस्थाग्रस्त- एवेति कथं व्याप्तिग्रहः । अत्रोच्यते व्यभिचारज्ञानविरहसहकृतं सहचारदर्शनं व्याप्तिग्राहकं ज्ञानं निश्चयः शङ्का च सा च कचिदुपाधि- तत्त्वचिन्तामणी सन्देहात् कचिद्विशेषादर्शनसहितसाधारणधर्मदर्शनात् तहिरहश्च कचिद्विपक्षबाधकतर्कात् कचित् खत: सिद्धएव तर्कस्य व्याप्तिग्रहमलकत्वेनानवस्थेति चेत् न यावदाशङ्ख तर्कानुसरणात् यत्र च व्याघातेन शङ्खव नावतरति तत्र तक विनैव व्याप्तिग्रहः तथाहि धमो यदि वङ्गासमव- हितानन्यत्वे सति वजिसमवहिताजन्यः स्यान्नोत्पन्न: स्थादित्यत्र किं धूमोऽवङ्गेरेव भविष्यति कचिदगि वि- नापि भविष्यति अहेतुकएव वोत्पत्स्यत इति शङ्का स्यात् सव्वत्र खक्रियाव्याघात: स्यात् यदि हि ग्टहीतान्वय- व्यतिरेकं हेतुं विना कार्यात्पत्तिं शङ्केत तदा खयमेव धूमाथे बङ्गेः तृप्त्यर्थं भोजनस्य परप्रतिपत्त्यर्थं शब्दस्य चोपादानं नियमतः कथं कुयात् तेन विनापि तत्सम्भवात् तस्मात्तत्तदुपादानमेव तादृशशङ्का प्रतिबन्धकं शङ्कायां न नियतोपादानं नियतोपादाने च न शङ्का तदिदमुक्त तदेव ह्याशक्यते यस्मिन्नाशयमाने खक्रियाव्याघातो न भवतीति नहि सम्भवति खयं वङ्गादिकं धूमादिकार्थ्यार्थं नियमन उपादत्ते तत् कारणं तन्नेत्याशक्यते चेति एतेन व्याघातो विरोधः सच सहानवस्थाननियमति तत्राप्य- नवस्थेति निरस्त स्वक्रियायाएवशङ्काप्रतिबन्धकत्वात् अत- एव व्यापातो यदि शङ्कास्ति न चेच्छङ्का ततस्तराम् । व्या- घातावधिराशङ्का तर्कः शङ्कावधिः कुतइतिखण्डनकारम- तमप्यपातम् । नहि व्याघातः शङ्काश्रितः किन्तु खक्रियेव अनुमानखण्डः। ARO शङ्काप्रतिबन्धिकेति न वा विशेषदर्शनात् कचित् शङ्का- निवृत्तिरेवं स्थात् न चैतादृशतर्कावतारो भयोदर्शनं विनेति भूयोदर्शनादरः नतु स खतएव प्रयोजक, अतएव न तदा हित संस्कारी न मानान्तरं तकस्याप्रमात्वात् तच्च प्रत्य- क्षयाप्तिज्ञाने हेतुः तदभावेपि शब्दानुमानास्यां तद्- ग्रहात्। ननु सहचारदर्शनव्यभिचारादर्शनवद्यभिचार- शङ्काविरहानुकूलतर्कयो नं व्यभिचारिसाधारणमिति न ततोऽपि व्याप्तिनिश्चय इति चेन्न स्वरूपसतोरेव तया- ाप्तिग्राहकत्वात् सत्तांद्याप्तिप्रमा तदाभासात्तदप्रमा विशेषदर्शनसत्यत्वासत्यत्वाभ्यां पुरुषज्ञानमिव । अपरे तु यत्न तर्के व्याप्त्यनुभवोमूलं तत्र तर्कान्तरापेक्षा यत्र तु व्याप्तिस्मरणं हेतुः तत्र न तन्तिरापेक्षेति नानवस्था अस्ति च जातमात्राणामिष्टानिष्टसाधनतानुमितिहेतु- व्याप्तिस्मरणं तदानों व्याप्यनुभावकाभावात् तन्मूलानु- भवमूलाचाग्रेऽपि व्याप्तिस्मरणपरम्परेति। यत्त्वनादि- सिद्धकार्यकारणभावविरोधादिमूलाः केचित्तर्का इति तत्व तत्र प्रमाणानुयोगेऽनुमानएव पर्यवसानात् । नच व्याप्ति- ग्रहान्यथानुपपत्त्येव तर्कस्थानादिसिव्याप्तिकत्वज्ञानमिति वाच्यम् अनुपपत्तेरप्यनुमानत्वात्। अन्ये तु विपक्षबाधक तर्कादनौपाधिकत्वग्रहएव तदधीनो व्याप्तिग्रह इति तदमि न तर्कस्याप्रमाणत्वात्। व्यभिचारादिशानिरासद्वारा प्रत्यक्षादिसहकारी स इति चेन्न अनवस्थाभयेन तर्क तत्त्वचिन्तामणी विना व्याघातात् यत्र शङ्काविरहस्तत्र व्याप्तिग्रहे तकस्य व्यभिचारात् । यत्तु योग्यानामुपाधीनां योग्यानुपलब्ध्या भावग्रहः अयोग्यानान्तु साध्याव्यापकत्वसाधनव्यापकत्व- साधनादभावग्रह इत्यनौपाधिकत्वं सुग्रहमिति तत्तुच्छम् अनुमानेन तत्साधने नवस्थानात् प्रमाणान्तरस्थाभावात् । ये चानुकूलतकं विनैव सहचारादिदर्शनमात्रेण व्याप्ति- ग्रहं वदन्ति तेषां पतरत्वस्य साध्यव्यापकत्वग्रहेऽनुमान- मात्रमुच्छिद्यत अनुमानमात्रोच्छेदकत्वादेव पक्षतरोना- पाधिरिति चेत् भ्रान्तोऽसि नहि वयमुपाधित्वेन तस्य दोषत्वमाचक्ष्महे साध्यव्यापकत्वेन तद्यतिरेकात् पक्ष साध्यव्यावर्तकतया व्यापकव्यतिरेके व्याप्यव्यतिरेकस्य वज्जलेपाच अपि च करवसिंयोगः शक्त्यतिरिक्तातीन्द्रिय- धर्मसमवायी जनकत्वादित्यत्राप्रयोजकत्वान्न साधकं तत्र व्याप्तस्य पक्षधर्मत्वे किमप्रयोजकं नाम तस्माद्विपक्षबाधक- तर्काभावान्न तत्र व्याप्तिग्रहदूत्यप्रयोजकत्वमिति । उक्तव्याप्तिप्रकारेष्वन्योऽन्याभावगभैव व्याप्तिरनुमिति- हेतुत्ववात् अतोनाननुगमः। अनौपाधिकत्वं तल्लक्षणं नन्देवमुपाधिरसिद्ध्युपजीव्यत्वेन व्यभिचारवत् हेत्वाभासा- न्तरं स्यात् नतु व्यायभावत्वेनासिद्धिरिति चेत् तज्ज्ञान- मुपजीव्यमपि न खतोदूषकं नान्यस्य साध्यव्यापकत्वसाध- नाव्यापकत्वज्ञानमन्यस्य साध्यव्याप्यत्वज्ञाने प्रतिबन्धकम- तिप्रसक्त व्यभिचाराज्ञानस्य तहेतुत्वात् तद्धीस्तथा नचा- अनुमानखण्डः। १ नौपाधिकत्वज्ञानं व्याप्तिज्ञानेहेतुरित्यक्तम् । तथाच व्यभि- चारज्ञानद्वारा सदूषकः एवञ्च परमुखनिरीक्षकतयासिङ्घ- साधनवन्न पृथक् नचैवमव्यभिचारस्य व्याप्तित्वे व्यभिचार- स्तदभावत्वेनासिद्धिः स्यादिति वाच्यम्। साध्याभाववद्- दृत्तित्वं हि व्यभिचारः तदभावश्च नाव्यभिचारः केवला- न्वयिन्यभावात्। किन्तु खसमानाधिकरणात्यन्ताभावा- प्रतियोगिसामानाधिकरण्यं न चानयोः परस्परविरहत्व- मिति । व्या हश्च सामान्यलक्षणाप्रत्यासत्त्या सकलधमादि- विषयकः कथमन्यथा पर्वतीयधूमे व्याप्त्यग्रहे तस्मादनुमिति: सा चेन्द्रियसम्बदविशेषणतातिरिक्तव वा तहिशेष्यकप्रत्यक्ष तदिन्द्रियसन्निकर्षस्य हेतुत्वेनानागतादौ संयोगादेरभा- वादिति वदन्ति तदपरे न मन्यन्ते तथाहि धूमत्वावच्छिन्ना व्याप्तिः सन्निकृष्टधमविषये धमत्वेन प्रत्यक्षेण ज्ञायते ततः स्मृता सा टतीयलिङ्गपरामर्श पक्षनिष्ठधूमत्तितया ज्ञा- यते ततोऽनुमितिः तदनभ्युपगमेऽपि सन्निकृष्टधमविषये धूमत्व न धूमावङ्गिव्याप्यइत्यनुभवस्तथैव व्याप्तिस्मरणं ततो धूमवानयमिति व्याप्तिस्मृतिप्रकारेण धूमत्वेन पक्षत्ति- धूमज्ञानादनुमितिः व्याप्त्यनुभवतत्स्मरणपक्षधर्मताज्ञाना- नामेकप्रकारकत्वेनानुमितिहेतुत्वात् । गवादिपदेष्वपि शक्त्यनुभवतत्स्मरणवाक्यानुभवानामेकप्रकारकत्वन हे- तुहेतुमद्भाव इत्यपूर्वं वक्ष्यते तत्र योग्यतादिबलादपूर्व- - तत्वचिन्तामया ५ ८ व्यक्तिलाभोऽनुमाने तु पक्षधर्मताबलात् धूमावङ्गियाप्य- इत्यनुभवो नतु सर्बोधमो वह्निव्याप्यइति येन सर्वभानार्थ तत्वीकारः। अथ वह्निमानयमित्यनुमितिर्विशेषणज्ञानसाध्यावि- शिष्टज्ञानत्वादिति पर्वतीयवङ्गिभानार्थं तत्कल्पने धमेऽपि तथा कचिधूमस्यापि व्यापकत्वादिति चेन्न विशिष्टवैशिष्ट- जाने विशेषणतावच्छेदकप्रकारकज्ञानस्यावश्यकत्व न हेतु- वात् तच्च उत्तमेव नतु विशेषणज्ञानमपि तथा गौरवात् गौरयमिति विशिष्टज्ञाने युगपविशेष्ये विशेषणे सन्निकर्ष एव कारणं नतु निर्विकल्पकं मानाभावात् विशिष्टज्ञान- त्वमेव मानमिति चेन्न दृष्टान्ताभावात् दण्डी पुरुष इत्यत्र विशेषणधीजन्यत्वानभ्युपगमात् विशिष्टपैशिष्टज्ञानत्वात् अपि च प्रमेयत्वेन व्याप्तिं परिच्छिन्दन् सर्वज्ञः स्यात् तथा च परकीयज्ञानविषये घटत्वं नवेति संशया न स्यात प्रमेयत्वेन तदन्यतरनिश्चयात् । प्रमेयत्वेन घटं जाना- त्येव घटत्व तस्य न जानाति इति चेन्न तत् किं घटत्व न प्रमेयं येन तन्त्र जानीयात् सकलघटत्तिधर्मस्य प्रमेयत्वेन तदज्ञानासम्भवात् । उच्यते यदि सामान्यलक्षणा नास्ति तदानुकूलतर्का- दिकं विना धूमादौ व्यभिचारसंशया न स्यात् प्रसिद्धघूमे वह्निसम्बन्चावगमात् कालान्तरीयदेशान्तरीयधमस्य मा- नाभावेनाजानात् सामान्येन तु सकलधूमोपस्थितौ धमा- अनुमानखण्ड न्तरे विशेषादर्शनेन संशया युज्यते। यत्तु पाकादौ चि- कोर्षा सुखादौ इच्छा न स्यात् सिवे इच्छाविरहात् असिस्थाज्ञानात् तस्मात् सुखत्वादिना ज्ञातेषु सर्वेषु सिद्धं विहायासिद्धे इच्छा भवतीत्यभ्युपेयं तन्न असिद्ध- स्थाज्ञानेऽपि सिड्वगोचरज्ञानादेव इच्छाप्रत्तिखाभाव्याद- सिड्डे तयोरुत्पत्तेः न चातिप्रसङ्गः समानप्रकारकत्वेन ज्ञानेच्छाकृतीनां कार्यकारणभावात् नतु समानविषयत्वे- नापि कचिदप्यकल्पनात् समानविषयकत्वे सत्यपि समान प्रकारकज्ञानाभावेनेच्छाकृत्योरभावात् तस्यावश्यकत्वेन गौरवाच्चेति परसिड्वान्तात् । नच सर्वज्ञत्वे संशयो न स्यादिति दोषः घटः स इति घटत्वप्रकारकं हि ज्ञानं संश- यविरोधि तच्च न वृत्तं स्वसामग्रीविरहात् अतो घटत्वादि सकलविशेषज्ञानेऽपि स घटो न वेति मंशयति । उपाधिज्ञानाद्यभिचारज्ञाने सति न व्याप्तिनिश्चय- इत्यपाधिर्निरूप्यते। तत्रोपाधिः साध्यत्वाभिमतव्यापकत्वे सति साधनत्वा- भिमताव्यापक: अनौपाधिकत्वज्ञानञ्च न व्याप्तिज्ञाने हेतु- रतो व्यापकत्वादिज्ञानेनान्योऽन्याश्रयः । यहा व्यापकत्वं तहन्निष्ठात्यन्ताभावाप्रतियोगित्वं तत्प्रतियोगित्वञ्चाव्याप- कत्वं प्रतियोगित्वञ्च तदधिकरणानधिकरणत्वमिति वदन्ति तन्त्र साधनपक्षधविच्छिन्नसाध्यव्यापकोपाध्यव्याप्तः नच तयोरनुपाधित्वं दूषकतावीजसाम्यात् मित्रातनयत्वेन तत्त्वचिन्तामणी श्यामत्वसाधने शाकपाकजत्वस्य प्रत्यक्षस्पर्शाश्रयत्वेन वायोः प्रत्यक्षत्वे साध्ये उगतरूपवत्त्वस्य च शास्त्र प्रयोजकत्वेनो- पाधित्वखीकाराच्चेति पचेतरेऽतिव्याप्तिश्च नच व्यतिरेके पर्वतेतरान्यत्वादित्यत्र इतरान्यत्वस्यासिविवारणार्थ पर्वत- पदं विशेषणमिति व्यतिरेके व्यर्थविशेशणत्वान्न स उपाधिः बाधोनीतस्याप्यनुपाधितापत्तेः न चेष्टापत्तिः इतरान्यत्व- स्थाप्रसिद्ध्या विशेषणं विना व्यायग्रहेण तत्सार्थकत्वात् । वस्तुगत्या साध्यव्यापकः पक्ष्तर उपाधिरिति चेत् अस्तु तथा तथापि पक्षातिरिक्ते साध्यव्यापकताग्रहादुपाधेर्दूष- कत्वं तच्च तत्राप्यस्ति अन्यथा पक्षे साध्यसन्देहादनुपाधित्वे उपाधिमात्रमुच्छिद्येत विपक्षाव्यावर्तकविशेषणपून्यत्वं वि- शेषणं तेन बाधोनीतपक्षेतरस्य परिग्रहः तत्र पक्षस्यैव विपक्षत्वात् नतु पर्वतेतरत्वादेरिति चेन्न नहि वस्तु- विपक्षव्यावर्तकविशेषणशून्यं सर्वत्र प्रमेयत्वादेः सत्त्वा- तत्रोपातेति विशेषणे सिद्ध्यसिड्विव्याघातः तथापि च साध्यव्यापकत्वसाधनाव्यापकत्वे तत्र स्त इति तद्याहत्त्या पक्षे साध्यव्यात्तिरतो हेतोयभिचार एव व्यभिचारे चावश्यमुपाधिरिति पक्षेतरएव तत्रोपाधिः स्यात् ताव- मावस्यैव व दूषकत्वाच्च व्यर्थ विशेषणम् । अतएवानुमान- मानोच्छेदकतया जातित्वान्न पक्षेतरउपाधिरित्यपास्तं दूषणसमर्थत्वेन जातित्वाभावात् एतेन पक्षतरव्यात्त्यर्थ प्रकारान्तरमपि निरस्तम् उपाधित्वाभावेऽपि दूषणसमर्थ- अनुमानखवाड । १ त्वात् । अथोपाधिः खयतिरेकेण सत्प्रतिपक्षोत्यापकतवा दूषणं पक्षतरत्वव्यतिरेकश्च न साध्याभावसाधकोऽसाधारण- त्वात् नतु व्यभिचारोन्नायकतया दूषणं यथाहि साध्यव्याप- कोपाध्यव्याप्यतया हेतोः साध्याव्याप्यत्वं तथा साध्यव्याप्य- हेत्वव्यापकतयोपाधेन साध्यव्यापकत्वमपि सिध्येत् व्याप्ति- ग्राहकस्योभयत्रापि साम्येन विनिगमकविरहात् तस्माद्यथा साध्यव्याप्य न हेतुना साध्यं साधनीयं तथा साध्ययापको- पाधियारत्त्या साध्याभावोऽपि साधनीयो व्याप्तिग्रहतौल्या- दिति दूषकतावीज सोऽयं सत्प्रतिपक्ष एवेति मैवं एवं हि सत्प्रतिपक्षउपाध्युद्भावनं न स्यात् सत्प्रतिपक्षान्तरवत् किञ्चैवं बाधोनीतोऽपि पक्षेतरो नोपाधिः स्यात् व्यति- रेके साधारण्यात् । ननु बाधे नोपाधिनियमः धूमेन हदे वङ्गिसाधने तदभावात् नतु हेतुमति पक्षे बाधे पक्षतरो- पाधिनियमः प्रत्यक्ष वनौ कृतकत्वेनानुष्णत्वे साध्ये तेज- स्वादेरुपाधित्वसम्भवादिति चेत् न तेजोमात्र पक्षवे- ऽतेजस्वं विनान्यस्य उपाधेरभावात् किञ्च पर्वतावयवदृत्त्य- न्यत्वं पर्वतेतरद्रव्यत्वं इदपर्वतसंयोगानाधारत्वं इदपर्वता- न्यत्वादिकमुपाधिः स्यादेवव्यतिरेकेऽसाधारण्याभावात् व्य- तिरेकिणा सत्प्रतिपक्षसम्भवाच्च न चासाधारण्यं तस्यापि सत्यतिपक्षोत्थापकतया दोषत्वात् तस्मादुभयोरपि व्याप्ति- ग्राहकसाम्ये विरोधान्न व्याप्तिनिश्चयः किन्तूभयत्र व्यभि- चारसंशयः तथाच व्यभिचारसंशयाधायकत्वेनोपाधेर्दूषकत्वं २२ तत्त्वचिन्तामणौ तच्च पक्षतरेप्यस्ति तदुक्तमुपाधेरेव व्यभिचारशङ्केति । भवतु वोक्तन्यायेन सकलानुमानभङ्गभिया पक्षतरोऽनुपाधिः तथापि लक्षणमतिव्यापकम् । नापि साध्यसमव्याप्तत्वे सति साधनाव्यापकत्वमुपाधित्वं दूषकतावौजस्य व्यभि- चारोन्नयनस्य सत्प्रतिपक्षस्य वा साम्येन विषमव्याप्तस्या- प्युपाधित्वात् तथा दूषकतायां साध्यव्याप्यत्वस्याप्रयोजक- त्वाच्च । अथ साध्यप्रयोजकोधर्म उपाधिः प्रयोजकत्वञ्च न न्यूनाधिकदेशपत्तेः तस्मिन् सत्यभवतस्तेन विनापि भवत स्तदप्रयोजकत्वात् अन्यथा पक्षतरस्याप्युपाधित्वप्रसङ्ग इति चेत् न दूषणोपयिकं हि प्रयोजकत्वमिह विवक्षितं तच्च साध्यव्यापकत्वे सति साधनाव्यापकत्वमेवेति तदेव प्रयोजकं नत्वधिकं व्यर्थत्वात्। अथोपाधिः स उच्यते यहर्मोऽन्यत्र प्रतिविम्बते यथा जवाकुसुमं स्फटिकलौहित्य उपाधिः तथा चोपाधित्तिव्याप्यत्वं हेतुत्वाभिमते चकास्ति तेनासावुपाधिः नच व्याप्यत्वमात्रेण दूषकत्वमिति साध्य- व्यापकतापीष्यते तथाच समव्याप्त एवोपाधिरिति चेत् तत् किं विषमव्याप्तस्य दूषकतावीजाभावान्नोपाधिशब्दवाच्यत्वं तथात्वेऽप्युपाधिपदप्रतिनिमित्ताभावाद्दा नाद्यः तस्यापि व्यभिचाराद्युन्नायकत्वात् नापरः नहि लोके समव्याप्तएवा- न्यत्र स्खधर्मप्रतिविम्बजनकएवोपाधिपदप्रयोगः लाभाद्युपा- धिना कृतमित्यादौ लाभादावुपाधिपदप्रयोगात् । किञ्च न शास्त्रे लौकिकव्यवहारार्थमुपाधिव्युत्पादनं किन्त्वनुमान- अनुमानखण्ड । २३ दूषणार्थं तच्च साध्यव्यापकत्व सति साधनाव्यापकत्वमात्र मिति शास्त्रे तवैवोपाधिपदप्रयोगः । अन्ये तु यदभावोव्य- भिचारविरोधी स उपाधिः नच विषमव्याप्तस्थाभावोव्यभि- चारं विरुणवि तस्याभावेऽपि व्यभिचारात् अस्ति ह्यनि- त्यत्वव्यापकं प्रमेयत्वं तद्याप्यञ्च गुणत्वं न चानित्यत्वगुणत्व- योाप्तिरस्ति समव्याप्तिकस्य च व्यतिरेक स्तथा नहि सा- ध्यव्यापकव्याप्योभूतस्य व्याप्यं यत्तत् साध्यं व्यभिचरतिव्यभि चारे चान्ततःसाध्यमेवोपाधिः अभेदेऽपि व्याप्यव्यापकत्वात् साधनाव्यापकत्वादिति खोचकुस्तन्न तवापि ह्यव्यभिचारे साध्यव्याप्यव्याप्यत्वं तन्त्रमावश्यकत्वाल्लाघवाच्च न साध्य- व्यापकव्याप्यत्वमपि भवतैव व्यभिचारस्य दर्शितत्वात् नच साध्यव्याप्यव्याप्यत्वमेवानौपाधिकत्वं साध्यव्याप्यमित्यत्रापि छनौपाधिकत्वं तदेव वाच्य तथा चानवस्थेति अनौपाधि- कत्वे च व्याप्तिलक्षणे यावदिति पदं साध्यव्यापके विशेषणं दृत्तमेव किञ्च यस्मिन् सत्यनुमितिनं भवति तदेव तत्र दूषणं नतु यद्यतिरेके भवत्येवेत्येतद्गर्म विरुदत्वादेरप्य- दोषत्वापत्त: नापि पक्षधविच्छिन्नसाध्यव्यापकत्व सति साधनाव्यापकत्वमुपाधित्वं साधनावच्छिन्नसाध्यव्यापकोपा- ध्यव्यापनात् । शब्दोऽभिधेयः प्रमेयत्वादित्यवात्रावणत्वस्यो- पाधित्वापत्तेच शब्दधर्मगुणत्वावच्छिन्नाभिधेयत्वं रूपादौ तत्रात्रावणत्वं व्यापकं पक्षे प्रमेयत्वस्य साधनस्या- व्यापकं हि तत्। आर्दैन्धनवत्त्वादावुपाधौ पक्षनियत यत्र तत्त्वचिन्तामणौ तादृशधर्माभावाच्च। अथ साधनावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापक उपाधिः तेन ध्वंसस्य जन्यत्वेन धंस- प्रतियोगित्वे साध्ये साधनावच्छिन्नसाध्यव्यापकं भावत्वमु- पाधिः श्यामत्वे शाकपाकजत्वमुपाधिरिति तन्न पक्षधा- वच्छिन्नसाध्यव्यापकोपाध्यव्यापनात् जलं प्रमेयं रसवत्त्वा- दित्यत्र रसवत्त्वावच्छिन्नसाध्यव्यापकष्टथिवीत्वस्योपाधित्व- प्रसङ्गात् सौपाधित्वादसाधकमित्यत्र साधनावच्छिन्नसाध्य- व्यापकव्यभिचारित्वे साधनावच्छिन्नेत्यस्य व्यर्थत्वप्रसङ्गाच्च । किञ्च पक्षद्द येऽपि विशिष्टसाध्यव्यभिचारं विशिष्टसाध्यव्यति- रेकं वा प्रसाध्य पश्चात् केवलसाध्धव्यभिचारः केवलसाध्य- व्यतिरेको वा साधनीयस्तथा चार्थान्तरं केवलसाध्ये हि विवादो नतु विशिष्टे। अथ प्रकृतसाध्यव्यभिचारसिद्ध्यर्थ विशिष्टसाध्यव्यभिचारः साध्य इति चेन्न अप्राप्तकालत्वात् प्रथम साध्यव्यभिचारएवोद्भाव्यस्तत्रासिद्धावुपाधिरिति चेत् तहि प्रकृतानुमाने नोपाधि षणं स्यात् किञ्च साध्यव्यभिचारहेतुत्वेन पक्षधर्मावच्छिन्नसाध्यव्यापकव्यभि- चारएवोपन्यसनीयोनोपाधिः। स्यादेतत्पर्यवसितसाध्य- व्यापकत्वे सति साधनाव्यापकउपाधिः पर्यवसितं साध्य पक्षधर्मताबललभ्यं यथा शब्दोऽनित्यत्वातिरिक्तशब्दधर्मा- तिरिक्तधर्मवान् मेयत्वादित्यत्र पर्यवसितं यत्माध्यम् अनित्यत्वं तस्य व्यापकं कृतकत्वमुपाधिः यदि च तथैव कृतकत्वमपि शब्दे साध्यते तदा अनित्यत्वमुपाधि;

अनुमानखण्डः । तदुक्तं वाद्युक्तसाध्यनियमच्युतोऽपि कथकैरुपाधिरुद्भाव्यः पयवसितं नियमयन् दूषकतावीजसाम्राज्यादिति । अनेन पक्षधर्मसाधनावच्छिन्नसाध्यव्यापकोपाधिः संग्टह्यते तादृश साध्यस्य पर्यावसितत्वादिति तन्न एवं हि घणुकस्य साव- यवत्वे सिद्दे घणुकमनित्यद्रव्यासमवेतं जन्यमहत्त्वानधिक- रणद्रव्यत्वादित्यत्र निस्पर्शद्रव्यसमवेतत्वमुपाधिः स्यात् भवति हि नित्यद्र्व्यसमवेतत्वं पर्यवसितं साध्यं तस्य व्या- पकं साधनाव्यापकञ्च किञ्च पक्षधर्माताबललभ्यसाध्यसिद्धौ निष्फल उपाधिः तदसिद्धौ च कस्य व्यापकः नहि सोपाधौ पक्षधर्माताबलात् साध्यं सिध्यति यस्य यापकउपाधिः स्यादिति। अत्रोच्यते यद्यभिचारित्वेन साधनस्य साध्य- व्यभिचारित्वं स उपाधिः लक्षणन्तु पर्यवसितसाध्यव्याय- कबे सति साधनाव्यापकत्वं यद्दविच्छेदेन साध्यं प्रसिद्ध तदवच्छिन्नं पर्यसितं साध्य स च धर्मः कचित् साधनमेव कचिद्रव्यत्वादि कचिन्महानसत्वादि तथाहि समव्याप्तस्य विषमव्याप्तस्य वा साध्यव्यापकस्य व्यभिचारेण साधनस्य साध्यव्यभिचारः सुटएव व्यापकव्यभिचारिणस्तद्याप्यव्य- भिचारनियमात् साधनावच्छिन्नपक्षधर्मावच्छिन्नसाध्य- व्यापकयोयभिचारित्वेन साधनस्य साध्यव्यभिचारित्वमेव यथा धंसस्थानित्यत्वे साध्य भावत्वस्य वायोः प्रत्यक्षत्वे साध्ये उद्भूतरूपवत्त्वस्य च विशेषणाव्यभिचारिणि साधने विशिष्ट व्यभिचारस्य विशेष्यव्यभिचारित्वनियमात् अतएव ३ २६ तत्वचिन्तामणी नार्थान्तरं विशेषणाव्यभिचारित्वेन ज्ञाते साधने विशिष्ट- व्यभिचारः सिध्यन् विशेष्यसाध्यव्यभिचारमादायेव सिध्य- ति पक्षधर्माताबलात् अन्यथा प्रतीतेरपर्यवसानात् न च पक्षधर्मताबलात् प्रकृतसिहावर्थान्तरम् । यद्दा प्रत्यक्ष- स्पर्शाश्रयत्वं प्रत्यक्षत्वव्यभिचारि द्रव्यत्वाव्यभिचारित्वे सति द्रव्यप्रत्यक्षत्वव्यापकव्यभिचारित्वान्महत्त्ववत् तथा मित्रा- तनयत्वं श्यामत्वव्यभिचारि मित्रातनयत्वाव्यभिचारित्वे सति श्याममित्नातनयत्वव्यापकव्यभिचारित्वात् अघटत्ववत् अव्यभिचारश्च तत्मामानाधिकरणात्यन्ताभावाप्रतियोगित्वं तच्चाभेदेऽपि । यहा यः साधनव्यभिचारी साध्यव्यभि- चारोन्नायकः स उपाधिः तत्त्वञ्च साक्षात् परम्परया वेति नार्थान्तरम् । किञ्च अर्थान्तरस्य पुरुषदोषत्वादाभासा- न्तरस्य तत्राभावादुपाधिरेव भावत्वादिकं दोषः नचैवं शब्दोऽभिधेयः प्रमेयत्वादित्यताप्रावण त्वं जलं प्रमेयं रस- वत्त्वाहित्यत्र पृथिवीत्वमुपाधिः स्यात् केवलान्वयित्वसाधक- प्रमाणेन तत्र साध्यसि रुपाधेविशिष्टाव्यापकत्वात् न च पक्षतरे खव्याघातकत्वेनानुपाधावतिव्याप्तिः तत्रानुकूल- तर्काभावेन साध्यव्यापकत्वानिश्चयात् सहचारदर्शनादेस्तेन विना संशायकत्वादित्युक्तं बाधोनीते चानुकूलतर्कोऽस्त्ये- वेति एवं पर्वतावयवरत्त्यन्यत्वादेरपि नोपाधित्वपक्षमात्र यावर्त्तकविशेषणवत्त्वात् अतएव धूमे आन्धनप्रभववनि- मत्त्वं द्रव्यवहिरिन्द्रियप्रत्यक्षत्वे उद्भूतरूपवत्त्वं मित्नातन- अनुमानखण्ड । यश्यामत्व शाकपाकजत्वं जन्यानित्यत्व भावत्वमुपाधि: तदुत्कर्षेण साध्योत्कर्षात् अनन्यथासिद्धान्वयव्यतिरेकतो वैद्यकात् कारणतावगमेन घटोन्मजनप्रसङ्गेन साध्यव्या- पकतानिश्चयात् तत् किं कार्यकारणयोरेव व्याप्तिः तथा च बहुधा व्याकुलौस्यादिति चेन्न तदुपजीव्यान्येषामप्यनुकूल- तर्केण व्याप्तिग्रहात् यत्र साध्योपाध्योर्हेतुसाध्ययोर्वा व्याप्ति- ग्राहकसाम्यान्नैकत्र व्याप्तिनिश्चयस्तत्र सन्दिग्धोपाधित्व व्यभिचारसशयोपधायकत्वात् यदा च तादृश्येकवानुकूल- तर्कावतारस्तदा हेतुत्वमुपाधित्वं वा निश्चितं पक्षेतरस्य खव्याघातकत्वेन न हेतुव्यभिचारसंशायकत्वमतो न सन्दि- ग्धोपाधिरपि सः। यत्तु पक्षेतरस्य यथा साध्यव्यापकत्व तथा साध्याभावव्यापकत्वमपि ग्राहकसास्यात् तथा चोभ- यव्यापकनिहत्त्वा साध्यतदभावाभ्यां पक्षे निवर्तितव्यम् न चैवं । तथा च पक्षेतरः साध्यव्यापकतासंशयेन सन्दिग्धः कथं परं दूषयेदिति तन्त्र तथापि हि साध्यव्यापकता पक्ष- मालम्ब्य हेतुव्यभिचारसंशयाधायकत्वेन दूषणं स्थादेव । ननु यत्रोपाधिस्तत्वानुकूलतर्कोयदि नास्ति तदा तदभावे- नैव व्याप्तेरग्रहः अथास्ति तदा साध्यव्याप्याव्यापकत्वेनो- पाधिः साध्याव्यापकवनिश्चयानोपाधिरित्युभयथापि नो- पाधिर्दूषणं न च व्यायभावव्याप्यमुभयमतउपाधिरपि तद- भावोन्नयनेन दोषइति वाच्यं उपाधेरात्मलाभार्थमनुकूल- तर्काभावोपजीवकत्वेन तस्यैव दोषत्वादिति चेन सोपा- तत्त्वचिन्तामणी धावेकन साध्यतदभावसम्बन्धस्य विरुवत्वादवच्छेदभेदेव तदुभयसम्बन्धो वाच्यः तथाच साधने साध्यसम्बन्धिताव- च्छेदकरूपमनुकूलतर्कभावोपजीवनमन्तरेणोपाधिरावश्यक स्तथानुकलतर्काभावोऽप्यावश्यकडूति उभयोरपि विनिगम- काभावाद्दूषकत्वम्। अन्ये तु यद्यारत्त्या यस्य साधनस्य साध्य निवर्तते न धर्मास्तत्र हेतावुपाधिः सच धर्मोयस्था- भावात् पक्षे साध्यसाधनसम्बन्धाभावः यथा आन्क्षनवत्त्वं व्यावर्त्तते हि तद्यारत्त्या धूमवत्त्वमयोगोलके अतएव तत्र साध्यसाधनसम्बन्धाभाव: पक्षे एवं भावत्वयारत्त्या ध्वंसे जन्यत्वानित्यत्वयोः सम्बन्धोनिवर्तमानः पक्षधर्मताबला- दनित्यत्वाभावमादाय सिध्यति तथा वायावद्भूतरूपवत्त्वं निवर्तमानं वहिव्यत्व सति प्रत्यक्षत्वं निवर्तयत् प्रत्य- क्षत्वाभावमादाय सिध्यति तथा चोभयवापि पक्षे साधा- भावसिद्या साध्यसाधनसम्बन्धाभावोऽस्तीति अतएव बाधा- नुनौतपक्षतरस्थानुपाधित्व स्वव्याघातकत्वेन तद्यतिरेकस्य साध्याव्यावर्तकत्वादिति। यत्तूपाधिमात्रस्य लक्षणं व्यति- रेकिधर्मत्वं पतरोऽपि कचिदुपाधिः तत्तदुपाधेस्तु तत्तत्- साध्यव्यापकत्वे सति तत्तत्साधनाव्यापकत्वं नच धूमवङ्गि- सम्बन्धोपाधिः पक्षतरत्वं स्थादिति वाच्यम् आपाद्या- प्रसिद्देरिति तन्न अनुमितिप्रतिबन्धकज्ञानविषयतावच्छे- दकमुपाधित्वमिह निरूप्यं तच्च न व्यतिरेकित्वमतिप्रसङ्गात् विशेषलक्षणे वद्भिवूमसम्बन्ने पक्षतरत्वस्योपाधित्वप्रस- अनुमानखुराड:1 २६ शाच्च। केचित्तु साधनव्यापकोऽप्युपाधिः कचिाव पक्षा- वृत्तिहेतुः यथा करका दृथिवी कठिनसंयोगात् इत्यत्रानु ष्णाशीतस्पर्शवत्वं नच तत्र स्वरूपासिविरेव दोषः सर्व- नोपाधेर्दूषणान्तरसङ्घरादित्याडः । साध्यञ्च नोपाधिः व्यभिचारसाधने साध्या विशिष्टत्वात् अनुमितिमानोच्छेद- प्रसङ्गाच्च। स चायं द्विविधः निश्चितः सन्दिग्धश्च साध- व्यापकत्वेन साधनाव्यापकत्वेन च निश्चितोयभिचारनि- अयाधायकत्वेन निश्चितोपाधिः यथा वह्निमत्त्वेन धूमवत्तले साध्ये आर्दैन्धनप्रभववनिमत्त्वं यत्र साधनाव्यापकत्वस- न्देहः साध्ययापकत्वसंशयोवा तदुभयसन्देहोवा तत्व हेतु- व्यभिचारसंशावकत्वेन सन्दिग्धोपाधिः यथा मित्वातनय- त्वेन श्यामत्व साध्ये शाकाद्याहारपरिणतिजत्वं न च तेनैव हेतुना शाकपाकजत्वमपि साध्यं तत्र श्यामत्वस्यो- याधित्वादुभयस्यापि साधने अर्थान्तरं श्यामत्वमाले विवा- दो नभयत्र नचैवं धूमावानुमानेऽपि वह्निसामग्रुग्या धिः स्यात् तत्र वङ्गिनेव तत्सामन्यापि समं धूमस्थानौषा- धिकत्वनिश्चयात् अब तु मित्रातनयत्वव्याप्यश्यामसा- मन्या स्थातव्यमित्यत्र कार्यकारणभावादीनां व्याप्तिप्राइ- काणामभावात् अतएव साध्यसामग्या सह हेतोरपि यल व्याप्तिग्राहकमस्ति तत्र सामग्री नोपाधिः यत्र व तन्नाति तत्र साप्युपाधिरित्यभिसन्धाय सामग्री च कचि- बोपाधिनतु सर्वत्र इत्युक्तं यथा तुल्ययोगक्षेमवोरुपाक्षे- तत्त्वचिन्तामणी ३. ापकतासन्देहे ईश्वरानुमाने शरीरजन्यत्वाणुत्वादिः यथा च शाकपाकजत्वस्य साध्यव्यापकतासन्देहे मित्रातन- यत्वे । यत्तु उपाधिसन्देहो नोपाधिन वा हेत्वाभासान्त- रमिति तदुभावने निरनुयोज्यानुयोगति तन्न सन्दिग्धा नकान्तिकवद्यभिचारसंशयाधायकत्वेन दूषणत्वादुपारिव व्यभिचारनिश्चयाधायकतया । इदानीमुपाघेर्दूषकतावीजं निरूप्यते। नाप्यस्य व्यतिरेकद्वारा सत्प्रतिपक्षत्वेन दूषकत्वं तदा हि सत्प्रतिपक्षे सत्प्रतिपक्षान्तरवदुपाघेरुद्भावनं न स्यात् न च प्रतिपक्षबाडल्ये नाधिकबलार्थमुद्भावनं शतमप्यन्धानां न पश्यतीति न्यायात् एकेनापि बहूनां प्रतिबन्धाच व्याप्ति- पक्षधर्मातेति बलं तच्च तुल्यमेव नतु भूयस्त्वमपि एकस्मादनु- मितिदर्शनात् सन्दिग्धोपाधेरदूषकतापाताच्च तद्यतिरेकस्य यक्षे सन्दिग्धत्वात् । अपि चैवं बाधोनीतपक्षतरस्योपा- धित्वं न स्यात् व्यतिरेकेासाधारख्यात् पक्षधर्मश्चोपाधिन स्थात् यधा घटोऽनित्यो द्रव्यत्वादित्यत्र कार्यत्वं अन्धकारो द्रव्यं स्वातन्त्र्येण प्रतीयमानत्वादित्यनाश्रावणत्वं तद्यति- रेकस्य पक्षात्तित्वात् न च नायमुपाधिः तल्लक्षणसत्त्वात् अन्यथा दूषकत्वसम्भवाच्च । किञ्च साध्यव्यापकव्याप्यत्वेनो- पाथेः साध्याव्यापकत्वे तद्यतिरेकेण कथं सत्प्रतिपक्ष नह्य- व्यापकव्यतिरेकादव्याप्यव्यतिरेकः नापि व्याप्तिविरहरूप- तया असिवत्वेनानौपाधिकत्वस्य व्याप्तित्वनिरासात् ।

अनुमानखाइ । नाप्यनौपाधित्वज्ञानस्य व्याप्तिधीहेतुत्वस्य तत्त्वेन व्याप्ति- ज्ञानकारणविघटकतया व्याप्यत्वासिहावन्तर्भावः। नह्य- न्यस्य साध्यव्यापकत्वसाधनाव्यापकत्वज्ञानमन्यव्याप्तिज्ञानं प्रति प्रतिबन्धकमित्युक्तम् । न च साध्यव्यापकत्वसाध्यव्याप्य- त्वज्ञाने विद्यमाने साधनस्य साध्यव्यापकज्ञानं नोत्पत्तुमई- तौति वाच्यं नहि साध्यव्यापकव्याप्यत्वज्ञानं व्याप्तिज्ञान- कारण येन तत्प्रतिबन्धकं स्यात् किन्तु साध्यव्यापकव्यभि- चारित्वेन साध्यव्यभिचारित्वज्ञानहारा नापि व्यभिचारो- नायकत्वेन यथाहि साध्यव्यापकव्यभिचारितया साधनस्य साध्यव्यभिचारित्वमनुमेयं तथा साध्यव्याप्यव्यभिचारित्वेन साध्यव्यभिचारित्वमुपाधेरप्यनुमेयं व्याप्तिग्राहकसाम्यात् नापि साध्यव्यापकाव्याप्यत्वेन व्याप्तिविरहोन्नायकतया साध्यव्याप्याव्यापकत्वेनोपाधेरेव साध्याव्यापकत्वसाधनात् तस्मादुपाधिहेत्वाभासान्तरमिति । उच्यते आन्धनवत्वादेस्तर्कादिना साध्यव्यापकत्व- साधने व्यापकत्वे निश्चिते दूषकतावीजचिन्तनं यदि हि साध्यसाधनसहचारदर्शनेनोपाधौ साध्यव्यापकतानिश्चयएव नास्ति तदोपाधित्वनिश्चयाभावात् दूषकतैव नास्तीति क बहिर्भावान्तर्भावचिन्ता। किञ्च सत्प्रतिपक्षतया व्याप्य- त्वासिहतया खातन्त्रेण वा यदि दोषत्वं सर्वथा साध्यव्याप- कतानिश्चयोवाच्यः तेन विना तेषामभावात् । तस्मादुपा- धिनिश्चयाद्यभिचारनिश्चयः तत्संशयात्तत्संशयइति व्यभि- ३५ तत्त्वचिन्तामणौ चारज्ञानद्वारा साध्यव्यापकाव्याप्यत्वेन व्याप्तिविरहोना- यकतया वोपाधेर्दूषकत्वम् । यहा साध्यव्यापकाभाववद् त्तितया साध्यव्यभिचारित्वमुन्नेयं न च साधनाभाववद्- त्तित्वमुपाधिरिति वाच्यम् उपाधिमानोच्छेदप्रसङ्गात् सत्प्रतिपक्षे पूर्वसाधनव्यतिरेकवत् अत्तिगगनादौ साध्या- व्यापकत्वात् संयोगादौ हेतौ साधनव्यापकत्वाच्च । अथोपाध्याभासाः। असाधारणविपर्ययो यथान्वय- व्यतिरेकिणि साध्ये बाधोन्नीतान्यपक्षतरत्वम् । अप्रसिङ्घ- साध्यविपर्ययो यथा केवलान्वयिनि साध्ये पक्षेतरत्वादिः। बाधितसाध्यकविपर्ययो यथा वङ्गिरुष्णस्वेजखादित्यत्राकृत- कत्वम् । पक्षाविपर्यवो यथा क्षित्यादिकं सकार्टकं कार्यत्वा- दित्यनाणुव्यतिरिक्तत्वम् अवाणुव्यतिरेकव्यतिरेकस्य क्षि- त्यादेरेक देशकृत्त्या भागासिकः। पूर्बसाधनव्यतिरेकोयथा शर्करारसोऽनित्योऽनित्यत्तिगुणत्वात् रसोनित्यो रमने- न्द्रियजन्यनिर्विकल्पकविषयत्वात् रसत्ववदित्यादौ पूर्वसाध- मतायाः प्रयोगानुरोधित्वेनाव्यवस्थितत्वात् कदाचिन्चित्य- त्वसाधनव्यरिरेकस्योपाधित्वं कदाचिदनित्यत्वसाधनव्यति- रेकित्वस्येति वस्तुव्यवस्था न स्यात् उपाधेनित्यदोषत्वाच्च । नहि यद्येन सोपाधिसम्बडं तत्तेनानुपाधित्वसम्बई सम्मति नतु सत्प्रतिपक्षोच्छेदः पूर्वसाधनव्यतिरेकस्यानुपाधिले बीजं स्थापनाया यत्राभासत्वं तत्र पूर्वसाधनव्यतिरेकस्य साध्याव्यापकत्वेनानुपाधित्वात् न च पूर्वहेतोसतएवासाध- अनुमानखराड:1 कत्वात् सत्प्रतिपक्षवैवयं तत्रेति वाच्यम् अग्टह्यमाणविशेष दशाया सत्प्रतिपक्षसम्भवात् । पूर्वसाधनव्याप्यव्यतिरेको यथा अकर्टकत्वानुमाने नित्यत्वादिः। पक्षविपक्षान्यतरान्यो यथा प्रसिद्वानुमाने पर्वतजलदान्यतरान्यत्वम् । पक्षेतर- साध्याभावो यथाव पर्वतेतराग्निमत्त्व नचान व्यर्थविशे- षणत्वं दूषणं सत्त्वेप्युपाधेराभासत्वात् । तत्तुल्यश्च यथा- वैव पर्वतेतरेन्धनवत्त्वम् । एवं वह्निसामग्यादिकमूह्यम् । व्यायनन्तरं पक्षधर्माता निरूप्यते । तत्र न तावत् सन्दिग्धसाध्यधर्मत्वं पक्षत्वम् सन्देहो हि न विशेषणं परामर्शपूर्व लिङ्गदर्शनव्याप्तिस्मरणादिना तस्य नाशात् नोपलक्षणम् अन्यावर्तकतापत्तेः नामि साधकबाधकप्रमाणाभावः उभयाभावस्य प्रत्येकसत्त्वेऽपि सत्त्वात् नाप्यभावहयं तथा बाधकप्रमाणाभावस्य व्यर्थत्वात् इदादेः पक्षत्वेऽपि बाधहेत्वसियादेरावश्यकत्वेनानुमि- त्यनुत्पादात् नापि साधकप्रमाणाभावः श्रोतव्योमन्तव्य इति श्रुत्या समानविषयकश्रवणान्तरं मननबोधनात् प्रत्य- क्षदृष्टेऽप्यनुमानदर्शनात् एकलिङ्गावगतेऽपि लिङ्गान्तरेण तदनुमानाच्च मन्तव्यचोपपत्तिभिरिति स्मरणात् । सिषाधयिषितसाध्यधर्मा धर्मों पक्षः तथाहि मुमुक्षोः शब्दादात्मावगमेऽपि मननस्य मोक्षोपायत्वेन सिट्विविशे- षानुमितीच्छयात्मानुमानम् अतएव प्रत्यक्षपरिकलितम- प्यर्थमनुमानेन बुभत्सन्ते तकरसिकाः नहि करिणि दृष्टे अथ तत्त्वचिन्तामणी चौत्कारेण तमनुमिमतेऽनुमातार इति वाचस्पतिवचने योरविरोधः अनुमित्मातहिरहाभ्यां तदुपपत्तेरिति चेन्न सन्देहवत्परामर्शपूर्व सिषाधयिषाया अप्यभावात् योग्यता- याश्चानिरूपणात् सिषाधयिषाविरपि धनगजितेन मेघानुमानात् स्वकारणाधीनटतीयलिङ्गपरामर्शबलेनान- पेक्षितानुमानदर्शनाच्चेति । उच्यते सिषाधयिषाविरहसह- कृतसाधकप्रमाणाभावो यत्रास्ति स पक्षः तेन सिषाधयि- पाविरइंसहकृतं साधकप्रमाणं यवास्ति स न पक्षः यत्र साधकप्रमाणे सत्यसति वा सिषाधयिषा यत्र वोभयाभाव- स्तत्र विशिष्टाभावात् पक्षत्वं यद्यपि पक्षत्वस्य केवलान्वयि- त्वात् नास्य भेदकत्वं तथापि पक्षपदप्रतिनिमित्तमुक्तम् । पक्षधर्मस्य व्याप्तिविशिष्टज्ञानमनुमितिहेतुः । व्याप्यत्वावच्छेदकप्रकारेण व्याप्तिस्मरणं पक्षधर्माताज्ञानं तथा लाघवात् परामर्शहेतुत्वेनावश्यकत्वाच्च एवञ्च धमो वङ्गिव्याप्यो धूमवांश्चायमिति ज्ञानहयादेवानुमितिरस्तु । न चानुमितिं प्रति व्याप्यत्वज्ञानमेव हेतुर्लाघवात् उप जीव्यत्वाञ्चेति वाच्यं तस्यानुमितेः पूर्वमसिद्धौ युगपदुप- स्थित्यभावात् । अथ यथा तत्ताविशिष्टस्मरणे सतीन्द्रिय- सन्निकृष्टे स एवायमित्यभेदप्रत्ययो भवति तथेन्द्रियसन्त्रि- कृष्टे धूमे वकिव्याप्यधूमस्मरणे धमत्वासाधारणधर्मदर्शना- द्याप्योऽयमित्यभेदप्रत्ययः स्यात् सामग्यारत्तत्वादिति स एवानुमितिहेतुरिति चेत् न प्रत्यक्षसामग्रीतोऽनुमिति- अनुमानखण्ड:1 ३५ सामग्या बलवत्त्वात् अनुमितिरेवोत्पद्यते न तु व्याया- भेदप्रत्ययः अन्यथा तवापि परामर्शानन्तरं परामर्शान्तरम् तदनुव्यवसायो वा भवेन्नन्वनुमितिः । अथ धमोवङ्गि- व्याप्यइति स्मरतः पर्वतीयधूमेन्द्रियसन्निकर्षे प्रथमत एव व्याप्तिधूमत्वयोर्वैशिष्ट्य यत्र भासते विशेषणज्ञानस्य पूर्व वृत्तत्वात् तत्र यत्र चाप्तवाक्याइङ्गिव्याप्यवानमिति ज्ञानं तत्रोभयत्रापि लाघवात् पक्षधर्मव्याप्यत्वज्ञानस्य हेतुत्व- कल्पनादन्यत्रापि तथेति चेत् न इन्द्रियासन्निकृष्टेऽतीन्द्रिये च लिङ्गे प्रत्यक्षविशिष्टज्ञानसामग्रौविरहात्त न विनानुमि- त्यनुत्मादापत्तः। अस्मदुक्तसामग्याश्च तत्रापि सत्त्वात् न चानुमानात् तत्र परामर्शोऽनवस्थानात् अथ धथा स देवदत्तो गौरो न वा परमाणूरूपाधिकरणं न वेति संशयो वहिरखतन्त्रेणापि मनसा कोटिस्मरणविशेषादर्शनादि- सहकारिवशाजन्यते यथा वा निद्रासहकारेण वाह्यखाना- नुभवः तथेहापि ज्ञानान्तरोपनीतविशेष्ये व्याप्तिस्मरणसहन कृतेन मनसा परामर्शो जन्यते तदनन्तरमनुमितिदर्शना- दिति चेत् न व्याप्तिस्मरणादेः प्रमाणान्तरतापत्त : तदेव हि प्रमाणान्तरं यदसाधारणं सहकारि समासाद्य मनो- वहिर्गोचरां प्रमां जनयति यथेन्द्रियादि संशयखप्नौ तु न प्रमे इति न निद्रादेः प्रमाणान्तरत्वम् । नच तवापि कर्थ स धूमो वह्निव्याप्य इति व्यवहारः तदानों तद्याप्यत्वा- नुभावकाभावादिति वाचं तत्र स्मृतधूमे धमत्वेन बङ्गि- तत्त्वचिन्तामणो व्याप्यवानुमानात् न च तन्मते धूमत्वेन व्यत्यनुभव: सम्भवति अतएव योवहिव्याप्यवान् सोऽवश्य वह्निमान् इति व्याप्तिज्ञानवतोऽनुमिति न्यथा। अथ पर्वतीय- धूमे धूमत्वेन ज्ञाते वङ्गिव्याप्योऽयं न वेति संशयेऽप्य- नुमितिः स्यादिति चेन्न धूमो वगियाप्यति स्मरणे विद्यमाने धमत्वज्ञानस्य विशेषदर्शनत्वेन संशयाभावात् अन्यथा परामर्शोऽपि कुतो न स्यात् संशयेन प्रति बन्धादिति चेत्तुल्यं न च सामान्यनिश्चयस्य सामान्य- संशयनिवर्तकत्वाचूमसामान्ये एव संशयो माभूत् विशे- घसंशयश्च विशेषनिश्चयनिवर्तनीय इति धूमविशेषे संश- यनिरासार्थ पृथग्व्याप्तिनिश्चयो वाच्य इति वाच्यं यत्र हि यद्यावर्तकधर्मदर्शनं तत्र न तत्संशयः तच्च सामान्य विशेषे वेति । वस्तुतस्तु धूमत्वपुरस्कारेण व्याप्ति स्मरणे बक्षधर्मताज्ञाने चानुमितिभवत्येव । ननु भावोऽभावो- वा उभयथापि प्रमेयमित्यत्र भावत्वाभावत्वयोाप्यत्वाव- छेदकयोरग्रहादनुमानं न स्यात् तदन्यान्यत्वरूपस्यान्य- तरत्वस्थ लिङ्गत्वाभावादिति चेत् न भावत्वाभावत्वान्यान्य- धर्मवत्त्वस्य तत्र लिङ्गत्वात् एवं धूमालोकान्यतरत्वमपि लिङ्गम् । अथ वतिरेकज्ञानं यदुत्पत्तिप्रतिबन्धकं तत्त- निश्चयसाध्य यथा च पक्षधर्मस्य व्याप्यभेदज्ञानमनुमिति- प्रतिबन्धकम् अतो व्याप्याभेदज्ञानं तवेतुः सिध्यतीति चेन्न धमत्वपुरस्कारेण व्याप्तिस्मरणे पक्षधर्मताज्ञाने च सति अनुमानखण्ड । विशेषदर्शनान धमे व्याप्यभेदनानं किन्तु अनुमितेरेवो- त्यत्तिः तत्मामग्रीसत्त्वात् अतो व्याप्यभेदनानं नानुमिति- प्रतिबन्धकं येन व्याप्याभेदज्ञानं तब्बेतुः स्यात् न च धमत्व- प्रकारेण व्याप्तिस्मरणपक्षधर्मताग्रहे इयं धूमव्यक्तिवति- याप्या नेति चास्यतोऽनुमित्यापत्तिरतोविशिष्टनानं हेतुरिति वाच्य धूमत्वस्य विशेषस्य दर्शनेन तादृशचमा- नुत्पत्तः तत्रानुमितिसद्भावादेव अन्यथा निश्चयसामन्यां सत्यां भ्रमानन्तरं परामर्शएव कुतो न भवति अस्तु वा व्याप्यतया पक्षधर्मतया चावगतस्य भेदाग्रहएवानुमिति- हेतुः परामर्शहेतुतया तस्यावश्यकत्वात् अतएवासन्नि- कृष्टधमज्ञानादप्यनुमितिः। न चैवं गौरवं तदा विशिष्ट- ज्ञानानुपस्थितेः। न च जनकज्ञानाविरोधिनोज्ञानस्या- प्रतिबन्धकत्वात् भेदग्रहो न प्रतिबन्धक इति वाच्यम् अभेद- ज्ञानस्याजनकत्वात् त्वयामि लिङ्गपरामर्श तादृशस्य प्रति- बन्धकत्वस्वीकाराच्च । अथ गोत्वं मधुरत्वावान्तरजाति- र्वा लिङ्गन स्थात् तद्गतधान्तरस्थाभावात् अतएव तस्य विलक्षणत्वात् इति चेन्न व्यत्तरेव तत्र प्रकारत्वात् नहि गौर्गोत्वमिति ज्ञानयोरविशेषः अन्यथा गोत्वमिति- ज्ञानस्य निर्विकल्पकत्वापत्त्या व्याप्यत्वग्रहे परामर्श चातु- पयोगात् गवेतरारत्तित्वे सति सकलगोटत्तित्वं गोत्वत्व- मित्यनुभवाच्च न चैवमनवस्था तदितरावृत्तित्वे सति तद्- वृत्तित्वस्थानुभवेनापलापासम्भवात् ।

तत्त्वचिन्तामणौ मेव । अनोच्यते अयमालोको धूमो वा उभयथापि वनि- व्याप्यइति ज्ञानं ततोऽनुमितिः न च धूमत्वेनालोकत्वेन वा तत्र निश्चयः । अथ तदन्यान्यत्वमेव तत्र लिङ्ग न च तद- ज्ञानदशायामनुमितिदर्शनात् न तथेति वाच्यं धमालोका- न्यान्यत्वज्ञानं विना तवापि तत्र व्याप्यत्वानिश्चयेन तदर्थं तबोधावश्यकत्वादिति चेन्न नहि धमालोकान्यान्यत्वं धूमा- न्यान्यत्वं वा व्याप्यतावच्छेदकं गौरवात् व्यभिचारावारक- विशेषणवत्वाच्च किन्तु धमत्वादिकं तच्च तत्र सन्दिग्ध- ननु तदन्यान्यहङ्गिव्याप्यमेव व्यभिचाराभावेन व्याप्तिविरहसाधनस्य बाधितत्वात् पुरुषस्तु तत्र नौलधूम- वत्त्वादित्यनवाधिकेन निग्टह्यते न तु व्याप्यत्वासिहोति चेन्न तदन्यान्य मालोकखरूपमेव तच्च व्याप्यमिति सत्य न च वस्तुगत्या व्याप्यज्ञानादनुमितिः अतिप्रसङ्गात् किन्तु व्याप्यतावच्छेदकप्रकारकज्ञानात् न च तदन्यान्यत्वं वह्नि- व्याप्यतावच्छेदकमित्युक्तम् । न चैवं तदन्यान्यत्वाइङ्गि- व्याप्यत्वमपि तत्र नानुमेयं व्यर्थविशेषणत्वादिति वाच्यं प्रत्यक्षं हि तदन्यान्यत्वविशेषदर्शनाद्याप्यत्वज्ञानं जनयति विशेषणज्ञानविशेषणविशेष्यसम्बन्धविशेषणविशेष्येन्द्रियस- विकर्षतदसंसर्गाग्रहविशेषदर्शनानां सत्त्वेन वनिव्याप्य- त्वप्रत्यक्षसत्त्वात् न चैवं न प्रत्यक्षेऽपि तदन्यान्यत्वज्ञानं सहकारीति वाच्यम् अन्वयव्यतिरेकाभ्यां गुरोरपि तस्य विशेषदर्शनत्वेन प्रत्यक्षसहकारित्वात् तयात्तदन्यान्यत्व- अनुमानखण्डः। ज्ञानं तत्र व्याप्यताज्ञानोपक्षीणं नतु साक्षादनुमितिहेतु- रिति किञ्च वङ्गियाप्यवानमितिशाब्दज्ञाने व्याप्यत्वज्ञान कारणमित्यन्यत्रापि तथा। अथ वकिव्याप्यत्वमपि वत्रि- याप्यतावच्छेदकं तथाहि वह्निनिरूपिता धमादिप्रत्येक- वृत्तिरेव व्याप्तिाप्तित्वेन सकलधूमादित्तिव्यात्यवच्छे- दिका आश्रयभेदेनावच्छेदकभेदेन च व्याप्तिभेदादिति चेन्न सकलभूमादित्तिव्याप्तौ मानाभावात् यत्र वङ्गिव्याप्यस्तत्र वङ्गिरिति व्याप्तिबुवौ शाब्दव्याप्यत्वबुवौ च प्रत्येकत्ति- घ्यावाश्रयत्वस्यैव विषयत्वात् प्रत्येकत्तिव्याप्तिज्ञानं विना तबोधाभावात् । अपि च यत्न धूमत्वव्याप्योर्वेशिधं प्रथम- मेव प्रत्यक्षण युगपत्मक्षधर्मे भासते तत्र लाघवात् व्याय- त्वज्ञानत्वमेव कारणतावच्छेदकं न चैवमतिरिक्तविशिष्टज्ञा- नकारणत्वे गौरवं दोषाय सप्रमाणकत्वात् कारणताग्रह- दशायां फलमुखगौरवस्य सिद्ध्यसिट्विभ्यामदोषत्वात् न चा- सन्निकृष्टे धमे तदभावः भवन्मतानुमितिहेतुव्याप्तिस्मरण- धूमत्वज्ञानसहितेन मनसा तदुत्यादात् यथा परमाणुर्निर- वयवद्र्यं नित्यपरिमाणवत्त्वात् आकाशवदित्यादौ प्रत्येका- नुमानोपनीतातीन्द्रियसाध्यसाधनयोराकाशत्तितया स्म- रणे व्यभिचाराजाने मनसा व्याप्यनुभवः। अनुमानयोः प्रत्येकतदुभयसहचाराविषयत्वेन व्यायग्राहकत्वात् न चातो- न्द्रियव्याप्यत्वमतीन्द्रियेऽनुमेयं तत्रापि व्याप्तिग्राहकाभावात् नच तदुपनयसहितस्य मनसोवहिरर्थप्रमाहेतुत्वे उपनयस নননিষী 20 प्रमाणान्तरत्वम् इन्द्रियादेः सन्निकर्षवदुपनयस्य नियत- व्यापाराभावेन प्रमायामकरणत्वात् सहकारिता च तद- भावेऽपि भवति वहिरिन्द्रियलिङ्गसादृश्यादिव्यापार विना- पि चिन्तोपनीतपदार्थानां बाधकानक्तारे मनसा संस- गर्गानुभवस्य सकलजनसिद्धात् कथमन्यथा कविकाव्यादिक- मिति । स्यादेतत् पक्षधर्मस्य व्याप्यताज्ञानं नेन्द्रियेण वङ्गेरसन्निकर्षे तन्नियतसामानाधिकरण्यस्य व्याप्यत्वस्या- योग्यत्वात्। न च घूमत्वेन सकलधूमव्याप्यतावगमात् धूम- विशेषे संस्कारात् स्मरणाहोपनीतव्याप्याभेदग्रहः प्रत्यभि- ज्ञाने तत्ताविशिष्टस्येवेति वाच्यम् एवं हि धूमवत्त्वेन वङ्गि- मत्त्वज्ञानात् धूमवद्विशेषे पर्वते संस्कारवशात् प्रत्यक्षेण या विज्ञानापेक्षण वहिम ग्रहोवङ्गिमत्त्वसंसर्गग्रहो बास्तु किमनुमानेन पृथक् वहिमत्त्वस्मरणं तत् नास्ति किन्तु व्यायवच्छेदकतयति चेन्न वह्निमान्न वेति संशया- नुरोधेन स्वतन्त्रवह्निमत्त्वस्मरणात्। न च विशिष्टज्ञाने स्वतन्त्रविशेषणज्ञानत्वेन हेतुत्वं गौरवात् । अथ योयत्र विशिष्य पूर्वमवगंतः स तत्र मंस्कारवशायथार्थप्रत्यक्ष भासते यथा तत्ताप्रत्यभिज्ञाने न च पर्वते विशिष्य पुरा वगिरवगतः यत्र चन्दने सौरभमुपलब्धं तत्र संस्कारवशा- चक्षुषा सुरभि चन्दनभिति ज्ञानमन्यथानुमितिरिति चेत् तर्हि पक्षधर्मधमेऽपि न पुरा विशिष्य व्याप्तिरवगतेति कथं संस्कारवशात्तद्गतव्याप्तिबोधः प्रत्यक्षेण । न च सहचार- 82 अनुमानखाडः। दर्शनजन्यसंस्कारसहितेनेन्द्रियेण व्यभिचारज्ञानाभावे सति महानसीयधूमवत्पर्वतीयधूमे व्याप्त्यवगमो बङ्गेस्तु न प्रत्यक्षसामग्री सत्रिकर्षाभावादिति वाचं हेतुमाध्य- साक्षात्कारं विना प्रत्यक्षेण व्यायग्रहात्। न च पर्वते वह्निसाक्षात्कारः न च पक्षधर्मस्य साध्यसामानाधिकरण्य- विशेषोव्याप्तिः पक्षे साध्यग्रहं विनेत्यक्तम् । उच्यते विशे- पणज्ञानं तस्य विशेष्ये सम्बन्ध स्तयोरसंसर्गाग्रहोविशेष- दशनं विशेषणविशेष्येन्द्रियसन्निकर्षों गौरयमित्यादियथा- थविशिष्ट प्रत्यक्षकारणम् अस्ति चालापि व्याप्तिस्परणं स्मृत- व्याप्नेः पक्षतिधूमे सत्त्वम् एकैव हि सा व्याप्तिः तयोर- संसर्गाग्रहोषमत्व विषदर्शनं व्याप्तिविशिष्टधूमेन्द्रिय सवि- कर्षश्च व्याप्तिविशिष्टज्ञानकारणं न च वह्निविशिष्टज्ञान- सामग्री वङ्गेरसन्निकर्षात्। कश्चित्त धमत्वे परम्परा- सम्बन्धेन वङ्गिव्याप्यत्वं पूर्व ग्टहीतं तथा च संस्कारोपनीतं वङ्गिव्याप्यत्वं परम्परासम्बन्धेन पक्षत्तिधमत्वे प्रत्यभिज्ञा- यते तदृत्तित्वेन पूर्वमनुभवात् एवञ्च धूमत्वव्याप्यत्वपरा- मर्शादेवानुमितिरिति प्राह । भवतु तावदेवं तथापि जातिरेव लिङ्ग स्यात् न तु व्यक्ति तथा च सर्वोपसंहा- रेण व्यक्तौ व्याप्तिग्रहार्थं सामान्यलक्षणप्रत्यासत्त्यपादान- मफलं स्यात् दृश्यते च परम्परासम्बन्धज्ञानं विना जाति- व्याप्तिमविदुषोऽपि धूमाहङ्गानुमानं नहि बाध्यतावच्छेद- कतया भासमानस्थावस व्यापताग्रहः गानाभावात् .

तत्त्वचिन्तामणी तस्मात् पक्षधर्मे व्याप्तिविशिष्टज्ञानं तदनन्तरविशिष्टवैशिष्य ज्ञान प्रक्षे वा टतीयलिङ्गपरामर्शः। अन्ये तु खसमाना- धिकरणात्यन्ताभावाप्रतियोगित्वं व्यापकत्वं तत्मामानाधि- करण्यञ्च व्याप्यत्वं तथा च लाघवात् व्यापकतानानमनुमि- तिहेतुः साध्यस्य पक्षधर्मव्यापकताज्ञानञ्च परामर्शः नतु साध्यव्याप्तख पक्षधर्मताज्ञानं साध्यव्याप्यवत्पक्षधर्मताज्ञान वा गौरवात् अतएव योयोधूमवान् सोऽग्निमानित्युदा- हरणवाक्ये साध्यायोगव्यवच्छेदेन धूमव्यापकता वङ्गरुप- दयते अन्यथा वह्निमानेव धूमवानित्यन्ययोगव्यवच्छेदेनो- दाहरणशरीरं स्थात् दोषोऽपि व्यभिचारादिर्न पक्षधर्म- व्यापकं साध्यमित्येवोद्भाव्यः । अथ पर्वतत्तिधूमव्यापको वतिरितिपरामर्शो यदि तदा पर्वतीयधर्म प्रति व्यापक तायाः पर्वतधूमसामानाधिकरण्यनैयत्यात् पर्वतवङ्गिः परा मर्शविषयएवेति किमनुमेयमिति चेत् तर्हि पवतीयधूमे नियतसाध्यसामानाधिकरण्यस्य व्याप्यत्वस्य भानं साध्य- सामानाधिकरण्यभाननियतमिति व्याप्यत्वभानेऽपि तुल्यम्। यदि च स्मृता व्याप्तिधूमेऽवगम्यते तदा व्यापकत्वेऽपि समान वस्तुतस्तु व्यापकत्वं तदन्निष्ठात्यन्ताभावाप्रतियोगित्वं नतु धूमसामानाधिकरण्यं व्याप्यत्वन्तु सामानाधिकरण्यविशेष- इति तवैवानुमितिरफला स्यात् । न चैवं परामर्शस्य चाक्षषत्वं न स्वाद्यापकस्य विशेष्यस्यन्द्रियासन्निकर्षादिति वाच्यम् इष्टत्वात् असनिकृष्टधूमादाविव मानसएव हि अनुमानखण्डः। ४३ सर्वत्र परामर्श: चक्षरन्वयव्यतिरेकानुविधानञ्च पक्षवृत्ति- धूमोपनयोपक्षीणम् । अथ जनकज्ञाने उपसर्जनतया भातस्य पक्षस्य पर्वतादेरनुमितौ प्राधान्येन भानं न स्यात् नहि जनकनाने उपसजनतयावगतं जन्यज्ञाने प्राधान्येन भासते तथादर्शनात् न चानुमितेस्तथात्वमसिद्ध पर्वतोऽयं वह्निमानित्यनुमितेर्लोकसिड्वत्वादिति चेन्न पुरुषस्य दण्ड- इति ज्ञानानन्तरं दण्डी पुरुषतिज्ञानजन्यज्ञानदर्शनात् अन्यथा तवापि कथं पक्षविशेष्यकत्वनियमः नहि कारणी- भूतज्ञाने यद्विशेष्यतया भासते तत्कार्थीभूतेऽपि तथा इह- भूतले घटो नास्तीति ज्ञानजन्ये घटाभाववद्भूतलमितिज्ञाने तत्र च व्यभिचारात् तस्मात् पक्षत्तिलिङ्गपरामर्शस्थायं स्वभावो यत्तात्रयविशेष्यिकामनुमितिं जनयति नातथा भूतामेवं ममापि तुल्यमिति । एवं लिङ्गपरामर्शः कारणं नतु परासश्यमाणं लिङ्गम् । अथ परामर्शमा न हेतुरपि तु लिङ्गपरामर्श: तथाच लिङ्गमपि हेतुः विशिष्टकारणताग्राहकमानेन बाधक विना विशेषणस्यापि हेतुत्वग्रहात् न च लिङ्गं परामर्श- परिचायकत्वे नान्यथासिद्धं परिचये विशेषणान्तराभावेन लिङ्गमव विशेषकं तथाचानन्यथासिद्धत्वात् तदपि हेतुः अन्यथा परिचायकतया संयोगेनान्यथासिवमिन्द्रियमपि कारणं न स्यात् अपि च धूमवान् वह्निमानिति धूम- समानकालवद्भिविषया धमविशेषणिकानुमितिः ज्ञाय- तत्वचिन्तामणी मानविशेषणजन्या विशेषणसमानकालतया विशेष्यवि- चयेऽशाब्दविशिष्टज्ञानत्वात् दण्डी पुरुष इति प्रत्ययवत् अतएव ज्ञायमानविशेषणजन्यत्वेन विशेषणकालतितया विशेष्यभाननैयत्यं यथा दण्डौ पुरुषतिप्रत्यक्षे तेन धूम- समानकालीनवनिसिद्धिः अन्यथा तत्तद्धमकालति- वङ्गानुमानं न स्यात् समयविशेषमन्तभाव्य व्याप्त्य- ग्रहात्। किञ्च लिङ्गकरणत्वपक्षे परामर्शएव तद्यापारः परामर्शस्य तु न व्यापारान्तरमस्ति चरमकारणत्वादिति न तत् कारणम् । अनोच्यते। अतीतानागतधमाविज्ञान प्यभुमितिदर्शनाच लिई तहेतुः व्यापारपूर्ववर्तितयोरभावात् न च विद्यमानं लिङ्गान्तरमेव तहेतुः तदा तस्यापरामर्शत् परामशा- विषयस्य कारणताग्राहकाभावात् भाविनि पक्षे व्यक्त्यै क्यः मेव वा यत्र लिङ्ग तत्र लिङ्गान्तराभावाच्च यदि च वर्त- मानमेव तत्र लिङ्ग तदा वर्तमानवानुमानोपपत्तिः अथ भाविभूतं वा धूमादि न लिङ्गं किन्तु तत्मागभाव- स्तद्धंसश्च वर्तमानएव तयोरपि वनिसमानदेशत्वनियमा- दिति चेन्न अतीतभाविदिनत्तितया निश्चितात् वर्तमान- तया सन्दिग्धात् धमादनुमितौ हि न प्रागभावध्वंसौ लिङ्गे तयोः सन्दिग्धत्वात् नापि धूमस्तस्यावर्त्तमानत्वात् किञ्च भूतभाविवर्तमानवाविषयात् पर्वते धूमइति ज्ञाना- अनुमानखण्ड । द्यवानुमानं तत्र का गतिः सर्वत्र प्रागभावाद्यन्यतमत्व धूमाद्यत्यन्ताभावाभावत्वं वा लिङ्गमिति चेत् न व्यर्थ- विशेषणत्वेन तेषामलिङ्गत्वात् अन्यतमत्वाद्यज्ञानेपि.धूम- ज्ञानादनुमितिसत्त्वाच्च। अपि च न धूमप्रागभावादि- लिङ्ग न वा तवीरनुमितिकारणं प्रागभावादीनां व्यर्थ- त्वात् आवश्यकधमज्ञानादेवानुमितिसम्भवाच्च । किञ्च लिङ्गनानुमितिमात्रे हेतुः लिङ्गं विनापि धूलीपटलात् लिङ्गवमेणानुमित्युत्पत्तेः नापि लिङ्ग प्रमानुमितौ परा- मर्थोऽनुमितिमाने हेतुः तविशेषप्रमात्वाप्रमात्वाभ्यामेवा- नुमितितथात्वात् यत्मामान्ये यत्सामान्य प्रयोजक तहि- शेषे तविशेषस्य प्रयोजकत्वात्। अथ परामर्शस्य प्रमात्वं विद्यमानलिङ्गविषयत्वं तथाचायातं लिङ्गस्य प्रमानुमिति- हेतुत्वमिति चेन्न भाविनाभतेन वा यदाकदाचिद्दिद्य- मानेनापि लिङ्गेन परामर्शप्रमात्वसम्भवान्नानुमितिपूर्व- समये तत्पमात्वानुरोधेन लिङ्गस्य सत्त्व कारणत्वं वा धूमकालीनवगानुमानञ्च यदा यत्र धूमस्तदा तत्र वनि- रितिव्याप्तिज्ञानादेव। अथवा धूमकाल: पक्षतावच्छे- दकः पक्षतावच्छेदकधर्मसमानाधिकरणञ्च पक्षधर्मावलात् साध्यं सिध्यतीति धूमकालीनवङ्गिसिद्धिः। यत्तु व्यापा- रभावान परामर्शः कारणमिति तथैव किन्तु व्याप्ति- जानं कारणं परामर्शोव्यापारः । न च परामर्शस्य संस्कारोव्यापारः परामर्शस्य च चरमकारणत्वेन संस्कारो- OG तत्त्वचिन्तामणी त्पादनसमयेऽनुमित्युत्पादनात् नापि तर्कः व्याप्तिग्राहक विषयपरिशोधकस्य वा तस्य तदजन्यत्वादिति । तच्चानुमानं विविध केवलान्वयिकेवलव्यतिरेक्यन्वय- व्यतिरेकिभेदात् । तत्रासद्विपक्षं केवलान्वयि तथाहि केवलान्वयिनोऽभिधेयत्वस्य न विपक्षः अभिधानेऽनभि धाने च विपक्षत्वव्याघातात् । अथ यथा आकाशशब्दाच्छ- ब्दाश्रयत्वमनभिधेयमप्युपतिष्ठते तथाभिधेयत्वविपक्षस्थान- भिधेयत्वेऽपि पदादुपस्थितिः स्यात् एवञ्चाभिधेयत्वं कुतोऽपि यारत्तं धर्मत्वात् गोत्वदिति चेन्न व्यात्तत्वस्याव्यात्तत्वे व्यारत्तत्वमेव केवलान्वयिव्यारत्तत्वे यतएव व्यारत्तं व्यार- तत्वं तदेव केवलान्वयौति धर्मत्वस्थानकान्तिकत्वात् एव- मत्यन्ताभावप्रतियोगित्वस्यात्यन्ताभावाप्रतियोगित्वे अत्य- न्ताभावप्रतियोगित्वमेव केवलान्वयि अत्यन्ताभावप्रति- योगित्वे यन्निष्ठात्यन्ताभावप्रतियोग्यत्यन्ताभावप्रतियोगित्वं तदेव केवलान्वयि नचात्यन्ताभावप्रतियोगित्वं व्यारत्त- त्वञ्च नानेति वाच्यम् अनुगतप्रतीतिबलेन गोत्ववत्तयोः सिद्धेः तत्र न तावदव्याप्यत्त्यत्यन्ताभाव केवलान्वयी तस्य प्रतियोग्यवच्छिन्नेप्यत्यन्ताभावात् अत्यन्ताभावप्रति- योगिनश्च केवलान्वयित्वात् नाप्याश्रयनाशजन्य गुणना- शात्यन्ताभावः तस्य नाशस्य सर्वत्रात्यन्ताभावादिति वाच्य यत्र हि प्रतियोगिप्रागभावो वर्त्तते तत्र न तदत्यन्ता- भावो वर्तते तथाच नाशस्य प्रागभावो यत्र नाशप्रति- अनुमानखण्डः । योगिसमानदेशे वर्तते तत्र कथं नाशात्यन्ताभावो वर्ततां तर्हि नाशस्य तत्र वृत्तिः स्यादिति चेन्न पूर्व तत्र नाश- प्रागभावस्यैव सत्त्वादुत्तरकाले आश्रयस्यैवाभावात् । नाण्याकाशात्यन्ताभावः केवलान्वयी तस्यापि प्रतियोगि- रूपात्यन्ताभावप्रतियोगित्वात् अभावात्यन्ताभावस्य भाव- त्वात् । अथाभावात्यन्ताभावो न प्रतियोगिरूपस्तथासत्य- न्योऽन्याभावात्यन्ताभावः प्रतियोगिरूप इति प्रतियोगि- समानदेशोऽन्योऽन्याभावो न स्यादिति चेन्न अत्यन्ताभा- वात्यन्ताभावः प्रतियोग्येव अन्योऽन्याभावात्यन्ताभावस्तु प्रतियोगित्तिरसाधारणो धर्मति। उच्यते रत्तिमदत्य- न्ताभावाप्रतियोगित्वं केवलान्वयित्वं आकाशात्यन्ताभावो यद्यपि प्रतियोगिरूपात्यन्ताभावप्रतियोगी तथापि स न वृत्तिमानित्याकाशात्यन्ताभावएव केवलान्वयी तथाप्रमेय वाभिधेयत्वादि केवलान्वयि दृत्तिमतोऽत्यन्ताभावस्थाप्रति- योगित्वात् । ननु प्रमेयत्वं प्रमाविषयत्वं तच्च न केवला. न्वयि प्रमायाविषयत्वम्य चाननुगमादिति वाच्यं प्रमात्व- मेव हि परम्परासम्बन्धात् वटादौ प्रमेयत्वमनुगतं प्रमा- जातीयविषयत्वं वा तथापि केवलान्वयिनि संशयाभावात् कथमनुमितिः प्रमेयत्वमत्र वर्त्तते न वेति संशयश्च न प्रमे- यपक्षकः किन्तु प्रमेयत्वपक्षको भिन्नविषयकः प्रमेयत्वपक्षके चास्तित्वसाध्यस्यान्वयव्यतिरेकित्वं तथाच घटः प्रमेयो न बेति संशयो सग्यते स च नास्त्येव । अथ पनःसाध्यवान्ज तत्त्वचिन्तामणी वा पक्षे माध्यमस्ति न वेति संशयो समान विषयकावेव तदस्यास्यस्मिन्निति मतुपोविधानादिति चेन्न विशेषणवि- शेष्यभावभेदेनार्थभेदात् मैवं य एव हि संशयः पक्षे साध्य- सिद्दिविरोधी स एवानुमानाङ्गमावश्यकत्वात् लाघवाच्च न तु समानविषयकत्वमपि तत्र तन्वं गौरवात् प्रमेयत्वं घट- निष्ठात्यन्ताभावप्रतियोगि न बेति संशयश्च घटः प्रमेय इति साध्यसिद्धिविरोधी भवत्येव यहा संशययोग्यतैवानु- मानाङ्ग संशयस्य तदानौं विनाशात् न च सापि साधक- बाधकप्रमाणाभाव: प्रमेयत्वाभावासिङ्घौ तत्पमाणासिद्धे- स्तदभावासिविरिति वाच्यं पक्षनिष्ठात्यन्ताभावाप्रतियोगि- त्वज्ञानस्यैव साध्यसाधकत्वेन तदभावस्यैव योग्यतात्वात् प्रमेयत्वमत्यन्ताभावप्रतियोगीति' चास्यतः संशय इत्यन्ये । नन्वेकरूपविकलमिदं कथं गमकं तत्त्वे वा व्यतिरेकविक- लवत् रूपान्तरविकलमपि गमकं स्यादिति चेन्न अन्वय- व्यतिरेकव्याप्योरन्यतरनिश्चयेनानुमित्यनुभवात् युमपदुभ- यव्याप्त्युपस्थितौ विनिगमकाभावेन उभयोरपि प्रयोजकत्वे व्यतिरेकोपासना व्यतिरेकच विपक्षत्तित्वशङ्कानित्ति- द्वारा व्यतिरेकव्याप्तावुपयुज्यते अन तु विपक्षाभावेन शङ्खव नोदेति। केवलव्यतिरेकी त्वसत्मपक्षो यत्न व्यतिरकसहचारण व्याप्तिग्रहः। ननु व्यतिरेकी नानुमानं व्याप्तिपक्षधर्म- ताज्ञानस्य तत्कारणत्वात् अत्र व्यतिरेकसहचारात् तत्र बनुमानखगड । व्याप्तिरन्वयस्य पक्षधर्मता न च व्याप्तपक्षधर्मत्वं साध्या- आवव्यापकाभावप्रतियोगित्वसत्त्वमुभयमप्यनुमितिप्रयोजक- मिति वाच्यम् अननुगमात् नचान्यतरत्व तथा एकप्रमाण- परिशेषापत्तेः न च टणारणिमणिन्यायेनानुमितिविशेषे तड्वेतुत्वमिति वाच्यं व्यतिरेकिसाध्येऽनुमितित्वासिद्धेः उभ- यसिद्दकृप्ततत्कारणस्थाभावात् न च साध्याभावव्यापका- भावप्रतियोगित्वमेवानुमितिप्रयोजकमिति वाच्यं गौरवात् केवलान्वयिन्यभावाच्च । अथ साध्याभावव्यापकाभावप्रति- योगित्वेन साध्यव्याप्यत्वमनुमेयम् एवं व्यतिरेकव्याप्या- न्वयव्याप्तिमनुमाय यलानुमिति: सएव व्यतिरेकीत्युच्यते तन्न अन्वयव्याप्तेर्गमकत्वे व्यतिरेकव्यात्यु पन्यासस्वार्थान्त- रतापत्तेः अन्वयव्यात्यनुकूलतया च तदुपन्यासे अन्वय- व्याप्तिमनुपन्यस्य तदुपन्यासस्याप्राप्तकालत्वमिति। उच्यते निरुपाधिव्यतिरेकसहचारेणान्वयव्याप्तिरेव ग्टह्यते प्रति- योग्यनुयोगिभावस्य नियामकत्वात् अन्वयव्यतिरेकवत् । नन्वेवं व्याप्तिग्रहएव एथिवीतरभिन्वेति भाषितं नियतसा- मानाधिकरण्यरूपत्वाद्यारिति सत्यं गन्धवत्त्वावच्छेदेने- तरभदस्य साध्यत्वात् अतएवाचार्य: पक्षतावच्छेदकस्य न हेतुत्वमनुमेने पृथिवीत्वमितरभेदव्याप्यमितिप्रतीतावपि सर्वा पृथिवीतरभिन्चेति पृथिवीविशेष्यकबुद्धेय तिरेकि- साध्यत्वाच्च। यहा व्यतिरेकव्याप्तेरेवान्वयेन गव्यगमक- भावः साध्याभावव्यापकसाधनाभावाभावेन साधनेन सा- ५ तत्त्वचिन्तामणी ध्याभावाभावस्य साध्यस्य साधनात् व्यापकाभावेन व्याप्या- भावस्थावश्यम्भावात् । अथैवं न सानुमिति: क्लप्तहेतु- लिङ्गपरामर्शाभावादन्यथाननुगम इति चेन्न अनुमिति- मात्रे व्याप्तिज्ञानस्य प्रयोजकत्वात् नचैवमतिप्रसङ्गः अनु- मितिसामान्यसामन्यां सत्यामप्यनुमितिविशेषसामग्रीविर- हादतुमित्यनुत्पत्तेः विशेषसामग्रीसापेक्षायाएव सामान्य- सामग्या जनकत्वात् अन्वयिव्यतिरेकिविशेषद्दयसामग्री च नास्त्येव । ननु टथिवी इतरेभ्यो भिद्यते पृथिवीत्वादिति- व्यतिरेकिणि साध्यमसिङ्घ तथा च न व्यतिरेकिनिरूपणं न वा पक्षत्वं न वा लिङ्गजन्यसाध्यविशिष्टतज्ज्ञानं तेषां साध्यज्ञानजन्यत्वात् । अथ साध्यं प्रसिद्ध तदा यत्र प्रसिद्ध तत्र हेतोरवगमेऽन्वयित्वं अनवगमे असाधारण्यम् । किञ्च इतरभेदो न खरूपं अधिकरणप्रतियोगिनोः पृथिवीजला- द्योरनुमानात् प्रागेव सिद्धेः नापि वैधयं जलादिनिष्ठा- त्यन्ताभावप्रतियोगिमत्त्वं तविष्टथिवीत्वादिकं तच्च सिद्ध- मेव न च जलादिनिष्ठात्यन्ताभावप्रतियोगित्वेन पृथिवीत्वं न सिद्धमिति वाच्य जलादौ पृथिवीत्वात्यन्ताभावग्रहद- शायां पृथिवीत्वेऽपि तत्प्रतियोगित्वग्रहात् अन्योऽन्याभावस्तु भेदो यद्यपि साध्यं सम्भवति वैधय॑ज्ञानसाध्यत्वादन्योऽन्या- भावग्रहस्य तथापि जलादिप्रतियोगिकान्योऽन्याभावस्था- प्रसिद्धिः न च जलादिप्रत्येकान्योऽन्याभावः साध्योऽसा- धारण्यप्रसङ्गात् । अथ टथिवी तेजोभिन्ना न वेतिसंश MCN A 1662 अनुमानखण्डः । येन तेजोभिन्नत्वेऽवगते पृथिवी तेजोभिन्ना सती जलादि- हादशभिन्ना न वेति संशये तेजोभिन्नत्वे सति जलादि- हादशभिन्नत्वं प्रसिद्धं तदेव साध्यम् एकविशेषणविशिष्टे विशषणान्तरबुट्वेरेव विशिष्टवैशिष्वज्ञानात् एवञ्च शय- प्रसिई साध्यमादाय व्यतिरेकादिनिरूपणम् । यहा एधिवी दूतरंभिन्ना नवेति प्रत्येक त्रयोदशसंशविषयाणां त्रयो- दशान्योऽन्य भावानां समुदायः पृथिव्यामवगतो व्यतिरेका- दिनिरूपकः नचैवं पृथिव्यामेव साध्यप्रसिद्देतिरेकि- या साध्यनिश्चयार्थ व्यतिरोकिप्रहत्तेः न चासाधारण्य समुदितान्योऽन्याभावानां साध्यत्वे सपक्षाभावादिति चेन्न साध्यनिश्चये हि साध्यव्यतिरेकनिश्चयोभवत्येव साध्यसन्देहे तद्यतिरेकसंशयस्य ववलेयत्वात् तथा च संशयरूपासाध्य- सिविरिति शिष्यबन्धनम् एतेन पृथिवी जलादिभ्योभिन्नेति विप्रतिपत्तिरूपवादिवाक्यादाकासादिमतोऽपूर्वाथप्रतिपा - दकत्वात् साध्यप्रसिड्विरिति परास्तम् वाक्यादेव टथिव्यां साध्यसिद्देर्व्यतिरेकिवैयर्थ्यात् । न च तद्वौ वादिवाक्य- जन्यत्वेनाप्रामाण्यसंशयात् निश्चयेऽपि संशयति तन्निश्- यार्थ व्यतिरेकीति वाच्चं तहि संशयप्रसिद्ध साध्यं तस्य च न व्यतिरेकनिश्चायकत्वमित्युक्तत्वात् खार्थानुमाने तद- भावाच्च । उच्यते घटादावेवेतरसकलभेदस्य प्रत्यक्षः प्रसिद्धिः षटो न जलादिरितिप्रतीतेः। नन्वयमन्योऽन्याभावो न तत्त्वचिन्तामणी प्रत्यक्षः अतीन्द्रियप्रतियोगिकाभावत्वात् परमाणुसंसर्गा- भाववत् योग्यानुपलब्धेरभावग्राहकत्वात् नयनोन्मीलना- नन्तरं स्तम्भः पिशाचो न भवतीति प्रतीतेर्बाधकबलेन वायुतीतिवल्लिङ्गग्रहोपक्षीणत्वादिति चेन्न योह्यनुपल- म्भोऽधिकरणे प्रतियोगिमत्त्वविरोधी सोऽभावं ग्राहयति न तु योग्यानुपलब्धिमानम् अन्यथा वायौ रूपाभावप्रती- तिवत् जलपरमाणौ पृथिवीत्वाभावग्रहप्रसङ्गात् अंधिक- रणे प्रतियोगिसत्त्वञ्च तर्कितं यदि हि स्तम्भः पिशाचः स्यात् स्तम्भवदुपलभ्यतेति पिशाचानुपलम्भः स्यात् न च पृथिवी- जलाभिद्यते जलात्तिधर्मवत्त्वात् तेजोवत् एवमन्येभ्योऽपि भेदसिद्धौ हादशभिन्नेतिविशेषणदत्वासमवायभेदसाधनाद- न्वयिन · एव पृथिव्यां त्रयोदशभेदसिड्डिरिति किं व्यति- रेकिणेति वाच्च जलादिभिन्ना सती समवायभिन्नेति बुद्धावपि त्रयोदशभिन्नेतिबुहेर्व्यतिरेकिसाध्यत्वात् न च घटस्थापि पक्षवादंशतः सिद्धसाधनं सर्वा दृथिवीतरभि- नेयुद्देश्यप्रतीतेरभावात् पक्षतावच्छेदकनानात्वे हि तत् अतएवानित्ये वाङ्मनसे इत्यत्रानित्या वागितिबुद्देरुद्दे- स्थायाः सिद्धत्वादंशत: सिद्धसाधनम् अन्यथानुमानमात्रो- च्छेदात् पक्षस्य सिवस्यैव साध्यत्वात् न च घटः कथं पक्षः साध्यनिश्चयेन संशयसिषाधयिषयोरभावादिति बाच्य सर्वा दृथिवी इतरभिन्ना न वेति संशयस्य तत्प्रकारक- सिधा यषयोश्च सामान्यतो घटविषयत्वात् घटत्वेन विशष- अनुमानखुराडा। दर्शनं सिड्विा अतस्तेन संशयसिपाधयिषे न स्तः 'पृथिवी- वेन ते भवतः एवं धूमवान् वह्निमानिति धूमत्वेन बजि निश्चयपि पर्वते वनिसंशयवत् यहा सर्वत्वेन रूपेण त पक्षता सर्वनाविप्रतिपत्तेः घटाखेकदेशे इतरभेदस्य प्रत्य- क्षसिद्धत्वात् तथाचैकदेशे विप्रतिपत्तौ सामान्ये इतर- भेदसाधने अर्थान्तरं किन्तु सामान्येन पृथिवीत्वेन याव- देव विप्रतिपत्तिविषयस्तावतामेव पक्षता विशेष्याननुग- मात् । तहि पृथिवी इतरभिन्दा थिवीत्वाइटवदित्यन्च- यिनैवेतरभेदस्य सिदत्वात् किं व्यतिरेकिणा घटसाधारण- पक्षत्वेऽप्यभेदानुमानवत् पक्षस्यापि दृष्टान्तत्वाविरोधात् पक्षान्यत्वं हि तनातन्वं किन्तु साध्यवत्तया निश्चितत्व प्रयोजकं न च ष्टथिवीत्वाग्रहे पूर्व ग्टहीतं यत्र साध्यं पश्चात् मर्थते तत्र हेतुसाध्यसामानाधिकरण्याग्रहाद्यतिरेक्यक- तार इति वाच्य हेतोरेव पक्षतावच्छेदकत्वेन घटे पृथिवी- त्वग्रहदशायामितरभेदसामानाधिकरण्यग्रहावश्यम्भावादि- ति चेत् सत्यं अन्वयितुल्यतया व्यतिरेकिणोऽपि सामर्थ्या- दन्वयाप्रतिसन्धानदशायां व्यतिरेक्युपन्यासस्यापि पर्यनु- योज्यत्वात् तदुक्तमारतां तावदयं सहृदुपदेशः केवलव्यति- रेकिलक्षणं तावनियूंढम् । अथ वा जलादीनां त्रयोद- शान्योऽन्याभावाः त्रयोदशसु प्रसिद्धाः पृथिव्यां साध्यन्ते अतएवाकाशे व्यतिरेकिणा जलादिमिलितप्रतियोगिका- न्योऽन्याभावाप्रतीतावपि त्रयोदशान्योऽन्याभावाः साध्या- तत्त्वचिन्तामणी इति नान्वयित्वासाधारण्ये । यहाजलं तेज:प्रति हाद- शभिन्नप्रतियोगिकान्योऽन्याभाववत् द्रव्यत्वात्तेजोवदित्य नुमानात्त्रयोदशभिन्नस्य सामान्यत: सिद्धौ एथिव्यां त्वयो- दशभिन्नत्व साध्यं न चान्वयित्वसाधारण्यं वा पक्षादन्यत्र साध्याप्रसिद्धेः वस्तुगत्या दृथिव्यामेव साध्यसिद्धिः कि व्यतिरेकिणति चेन्न पृथिवी त्रयोदशभिन्नेति व्यतिरेकिणं विना अप्रतीतेः। नन्वेवं पृथिवी जलादित्रयोदशभिन्न- प्रतियोगिकान्योऽन्याभाववती द्रव्यत्वादिति पृथिवौभिन्न- तद्भिन्नादिसिद्धिः स्यादिति चेन्न अप्रयोजकत्वात् प्रकृते चानुभूयमान जलादिवैधय॑स्य पृथिवीत्वाअयशब्दाश्रयत्वा- देरतिरिक्तं विनानुपपत्तेः। नन्वितरभेदो यद्यन्योऽन्या- भावस्तदा भावा दो न सियेत अभावस्याभावान्तराभा- वात् यदि च तेन समं स्वरूपभेदएव साध्यः तदाननुगमा- दनुमानाप्रवृत्तिः भावोऽभावो न भवतीत्यबाधितप्रतीति- बलादभावस्थापि अन्योऽन्याभावोऽस्तीति केचित् तन्न अप- सिवान्तात् नन्वतिप्रसक्ताधिकरणस्वरूपमात्रेणैवाभावप्र- तीत्युपपत्तौ चाधिकाभावमानाभावाच्च इति चेन्न इतर- भावान्योऽन्याभावस्य साध्यत्वात् न चैवममावादविवेकता- दवस्यं तेन समं खरूपभेदस्यान्वयिना व्यतिरेकिणा वा साध्यत्वात् । अन्ये तु पृथिवीत्वभिन्नधर्मात्यन्ताभावएव साध्यः जलवादिप्रतियोगिकास्तावन्तोऽत्यन्ताभावा तत्तदसाधारणतत्तवर्मात्यन्ताभावयोगो वा एते चाभावा वा अनुमानखुराड:1 जलत्वं न घटादौ घटादिजलात्यन्ताभाववदिति प्रत्यक्षादेः कचित्तत्तद्वैधादेव प्रसिद्धा इति नाप्रसिद्धिः तावता- मभावानां वैशिष्टं न प्रसिद्धमिति चेत् किमेतावता नहि ताववैशिधमत्र साध्यते किन्तु जलत्वादीनां यावन्तो- भावा इह साध्यास्ते च तत्र तत्र प्रसिद्वाएव तावहशिष्य- धौस्तु फलम् अन्यथा सिद्दसाधनात् मिलितानामपि साध्यत्वेनाप्रसिद्धिः किञ्चिदेकधविच्छेदो हि बलादिवन्मे- लकार्थः सच नासिद्धः न च हेतोरसाधारण्यं तावदभाव- योगीत्यत्र सपक्षो भवति न तु तदेकदेशकतिपयाभाववान् साध्यतायास्तावत्यपप्तिः । यहा जलत्वात्यन्ताभावस्तेज- स्वात्यन्ताभावाधिकरणत्तिः अत्यन्ताभावत्वात् घटा- त्यन्ताभाववत् एवमत्यन्ताभावान्तरसामानाधिकरण्यमपि साध्यमिति काप्रसिद्धिः। किञ्चेतरे तावत् प्रसिद्धाएव ते च भेदप्रतियोगिनो मेयत्वादितीतरभेदोऽपि ग्रह एव । ननु थिवी नेतरभेदवती गुरुत्वादिभ्यो जलवदिति चेन्न इतरभेदनिषेधो हीतराभेदः न च तेजःप्रभृत्यभेदोजल इति दृष्टान्तस्य साध्यवैकल्यात् चतुर्दशाभेदाना चैकत्र विरो- धेनासम्भवात् चतुर्दशभेदानां चैकत्र वृत्तौ न विरोधः । पत्तु साध्यप्रसिद्दौ टथिवीतरभिन्ना तत्साध्याधिकरणष्टथि- व्यन्यतरत्वात्तदधिकरणवत् टथिव्यां तत् साध्यमन्वयिनएव सेत्यतीति तन्न अन्यतरत्वस्यालिङ्गत्वादित्युक्तत्वात् लिङ्गत्वे वा जलादावपि तत्मिविप्रसङ्गात् एवं तर्हि पृथिवी जलं ५६ तत्त्वचिन्तामणी पृथिवीत्वात् यन्त्र जलं तन्न दृथिवी यथा तेज इति सत्पात पक्षोऽस्विति चेत् न अजलस्ख घटादेः प्रत्यक्षतएव पृथिवी- त्वनिश्चये व्यतिरेकव्यभिचारादस्य न्यूनत्वात् तदनवधारणे तु सत्प्रतिपक्ष त्वमिष्टमेव । ननु जीवच्छरीरं सात्मकं प्राणा दिमत्त्वात् इच्छादिकार्यवत्त्वाहेति व्यतिरेकिणि साध्या- प्रसिद्धौ कथं व्यतिरेकादिनिरूपणं नैरात्म्यञ्च घटस्य न प्रत्यक्षवेद्यं तस्य तत्रासामर्थ्यात् नानुमानगम्यं नैराव्या- प्रतीतावन्वयिनोऽभावात् सात्मकत्वप्रतीति विना व्यति- रेकिणोऽनुपपत्तिः । अथेच्छा समवाथिकारणजन्या कार्य- त्वात् तच्च समवायिकारणं पृथिव्याद्यष्टद्रव्यभिन्न टथिव्या- दित्वे बाधकसत्त्वादिति पृथिव्यादिभिन्नात्मसिद्धौ तहत्त्वं जीवच्छरौरे साध्यत इति चेत् यदि सात्मकत्वमात्मसंयोगव- त्वन्तदा घटादौ तदस्तीति ततो हेतुव्यारत्तावसाधारण्यं ज्ञानसमानाधिकरणज्ञानकारणीभूतसंयोगात्रयकार्यत्वं सा त्मकत्वं शरीरात्मसंयोगस्य जानकारणत्वात् आत्ममनसो- स्तथात्वेऽप्यकार्यत्वादिति चेत् न शरीरादन्यत्रासिद्धे तत्र प्रसिद्धौ सिद्धसाधनात् इच्छाया असमवायिकारणसंयोगा- वच्छेदकत्वस्थाभावो घटादौं दृष्टः तद्यतिरेकः शरीरमाध्यत इति चेन्न इच्छाया असमवायिकारणसंयोगावच्छेदकत्वस्य शरीरएव प्रसिद्धः सिद्धसाधनात् अन्यथा असिडिव्यति- रेकाद्यनिरूपणात् अप्रसिद्धसाध्यसंसर्गमिव साध्यमप्रसिद्ध साधयति व्यतिरेकीति चेत् न व्यतिरेकाद्यनिरूपणात् अनुमानखाड:1 .. 8 असाधारणधर्मेणाप्रतीतपदार्थानुमाने घटत्वादिनापि खे- च्छाकल्पितडित्याद्यनुमानप्रसङ्गति। उच्यते इच्छाया असमवायिकारणसिद्धाविच्छात्वं संयोगासमवायिकारणक- वृत्ति नित्येन्द्रियग्राह्यविशेषगुणत्तिगुणत्वसाक्षाद्याप्यजा- तित्वात् शब्दत्ववत् सन्चासमवायिकारणं संयोगः किञ्चिदव- च्छिन्नः संयोगत्वात् आत्मसंयोगमावस्येच्छाजनकन्वेऽति- प्रसङ्गादितीच्छाऽसमवाथिकारणसंयोगावच्छेदकत्वं सात्म- कत्वं शरीरे साध्यते। यहा आत्मनीच्छाधारता आत्मसं- योगावच्छेद्या जन्यविभुविशेषगुणाधारतात्वात् वाय्वादिसं- योगाद्यवच्छेद्यशब्दाधारत्ववदिति सामान्यतः सिद्धमिच्छा धारताघटकेच्छासमवायिकारणद्रव्यसंयोगवत्त्वं सात्मकत्वम् अतएव ज्ञानसमानाधिकरणज्ञानकारणीभतसंयोगाश्रय- कार्यत्वं वा सात्मकत्वं स्वशरीरे प्राणादिमत्त्वस्य इच्छादि- मत्त्वस्य च चेष्टावयवोपचयादिव्याप्यत्वग्रहात् घटादौ चेष्टा- दिविरहेण प्राणादिमत्त्वेच्छादिमत्त्वविरहानुमानमिच्छा- दिविरहात् इच्छादिप्रयोजकेच्छाद्याधारताघटकेच्छाद्यसम- वायिकारणसंयोगविरहानुमान कार्याभाववति कारणा- भावनियमात् । न च सात्मकत्वं शरीरत्ति शरीरे बाध- काभावात् शरीरत्ववदित्यन्वयिनैव साध्यसिद्धेः किंव्यति- रेकिणेति वाच्य शरीरं सात्मकमिति शरीरविशेष्यकबुद्दे - व्यतिरेकिणं विनानुपपत्तेः उपायान्तरस्योपायान्तरा- दूषकत्वाच्च यहा चेष्टा संयोगासमवाविकारणिका संस्का- तत्त्वचिन्तामणी राजन्यक्रियात्वादिति चेष्टाया असमवायिकारणसंयोग- सिद्धौ प्रयत्नवदात्मसंयोगएव पर्यवस्थति प्रयत्नान्वयव्यति- रेकानुविधायित्वात् एवं चेष्टाया असमवायिकारणसंयो- गायत्वे सति शरीरत्वं सात्मकत्व जीवच्छरौरे साध्य चेष्टावत्वादितिहेतुः चेष्टाविरहश्च घटादौ प्रत्यक्षसिद्धः चेष्टा विरहात्तदसमवायिकारणसंयोगविरहोऽपि सुग्रहः । यहा जीवच्छरीरं तदवयवो वा आत्मभिन्नत्वे सत्यात्मविशे- पगुणकारणभोगानधिकरणात्तिमंयोगवत् प्राणान्यत्वे सति ज्ञानकारणीभतप्राणमंयोगवत्त्वात् यन्नैवं तन्नैवं यथा घटः आत्मप्राणसंयोगः प्राणमन:संयोगो वा शरीरमाण- संयोगेनैवान्यथासिद्धौ न कारणं भोगाधारवत्त्वं भोगसम- वायिकारणातिरिक्तत्तिसकलभोगाधिकरणत्तित्वात् प्र- मेयत्वादिदिति तार्किकनौतिः। अथेच्छाष्टद्रव्यातिरिक्त- द्रव्याश्रिता अष्टद्रव्यानाश्रितत्वे सति गुणत्वात् यन्नैवं तन्नै यथा नाश्रितमष्टद्रव्याश्रितं वेति कथं व्यतिरेकी अष्टद्रव्याति- रिक्तद्रव्यस्य तहत्तित्वस्य चाप्रतीतेयंतिरेकाद्यनिरूपणात् । स्यादेतत् इच्छाया द्रव्यात्रितत्वेऽनुमिते टथिव्यादौ बाधान- वतारदशायां विप्रतिपत्तिवाक्यादाश्रितत्वादिसाधारणधर्म- दर्शनादातव्यमष्टद्रव्यातिरिक्तं न वेति सन्देहेनाष्टद्रव्या- तिरिक्तद्रव्योपस्थितिः। यहा इच्शया अष्टद्रव्यातिरिक्ता- अयोपस्थितौ पश्चादिच्छायोऽष्टद्रव्यातिरिक्तद्रव्यं न वेति संशयादष्टद्रव्यातिरिक्तद्रव्योपस्थितिः। अथ वा द्रव्या- अनुमानखराड 1 विता इच्छा अष्टद्रव्यातिरिक्तद्रव्यत्तिर्नवेति पूर्ववत् संश- यादष्टद्रव्यातिरिक्तद्रव्यत्तित्वं प्रसिद्धमिच्छायाः साध्यते संशयप्रसिद्धमपि साध्यं व्यतिरेकादिनिरूपकं साध्यज्ञान- मात्रस्य कारणत्वात् नचैवं संशसादेव पक्षे साध्यसिद्धव्यं- तिरेकिवैयर्थ निश्चयार्थ तत्प्रत्तेरिति मैवं संशयेन साध्य- प्रसिद्धावपि तद्यतिरेकनिश्चयासम्भवात् साध्यव्यतिरेक- तद्याप्तिनिश्चयस्य साध्यनिश्चयसाध्यत्वात् साध्यसन्देहे तब- तिरेकादिसंशयावश्यम्भावात् । किञ्च संशयोपस्थितसाध्यस्थ व्यतिरेकिनिरूपणं न योग्यानुपलम्भात् साध्यनिच्चयं विना योग्यानुपलम्भासम्भवात् नापि व्यापकाभावात् साध्यनिश्चयं विना तद्यापकत्वनिश्चयाभावात् न च यदीच्छा अष्टद्रव्याति रिक्तद्रव्याश्रिता न स्यादष्टानाश्रिता सती द्रव्याश्रिता न स्थात् रूपवदिति साध्यविपर्ययकोटौ प्रतिकलतर्कसहकृतः साध्यसंशयएव निश्चयकायं करोति अतएवैताशसंशयोप- स्थितकल्पितडित्यादिसाधनमप्यपास्तं तद्विपर्यये प्रतिकूल- ताभावादिति वाच्यं साध्यनिश्चयं विना साध्यतिरेक- निश्चयतन्मूलतर्कानवतारात् अन्यथा अष्टद्रव्यातिरिक्तद्रव्य- वृत्तित्वनिरूपणे तर्कोदये च तत् सहकृतसाध्यसंशयस्य साध्यव्यतिरेकनिश्चायकत्वमिति। उच्यते। इच्छाश्रयद्रव्य- सिद्धौ पृथिव्यादाविच्छाधारता भवेत् द्रव्यं पृथिव्याद्यष्टद्र- अभिन्नम् अष्टद्रव्यात्तिधर्भवत्त्वात् पृथिव्यादित्वे बाधक- सत्त्वाहेत्यष्टद्रव्यातिरिक्तद्रव्यसिद्धाविच्छायामष्टद्रव्यातिरि- १० तत्वचिन्तामणौ तद्रव्यवत्वमष्टद्रव्यातिरिक्तद्रव्यत्तित्वं वा साध्यते साध्य- प्रसिद्धिद्रव्यत्वे इच्छाविशेष्यकाष्टद्रव्यातिरिक्तद्रव्यत्तित्वप्र- तोतेर्व्यतिरेकिसाध्यत्वात् तथापीच्चाष्टद्रव्यातिरिक्तद्रव्या- श्रिता अष्टद्रव्यानाश्रितत्वे सति द्रव्यात्रितत्वात् अष्टद्रव्या- तिरिक्तद्रव्यत्ववदिति साध्यप्रसिद्धयेव दृष्टान्तप्रसिडे रन्वयी- हेतुः स्यादिति चेन्न अन्वयव्याप्त्यप्रतिसन्धाने व्यतिरेकव्या- निप्रतिसन्धानदशायां व्यतिरेकिसम्भवात् न च द्रव्यत्वादेः सपक्षात् व्यात्तावसाधारण्यं तड्वि साध्यतदभावोभवसा धकत्वेन सत्प्रतिपक्षोत्यापकतया दोषावहं प्रकृते न च हेतोः साध्याभावसाधकवं विपक्ष बाधकाभावात् साध्य- साधकत्वे तत्मत्वाच्च अतएव यावदेकनानुकूलतर्को नाव- तरति तदैव दशाविशेषेऽसाधारण्यं दोष इत्युक्तं सुवर्ण- तैजसत्वसाधकव्यतिरेकिणि शब्दोऽनित्यः शब्दत्वादित्यादा- वपि तथा। अथाष्टद्रव्याधारत्वबाथानन्तरमिच्छादौ गुण वादेवाष्टद्रव्यातिरिक्तद्रव्यत्तित्वं सिद्ध्यति पक्षधर्माताब- लात् प्रसिद्धविशेषबाधे सामान्यज्ञानस्य तदितरविशेष- विषयत्वनियमात् अतएवासर्व विषयानित्यज्ञानबाधानन्तरं क्षित्यादौ कार्यत्वेन ज्ञानजन्यत्वं नियन् नित्यसर्व विषयत्वं ज्ञानस्यादायैव सिद्ध्यतीति चेन्न बाधानन्तरमष्टद्रव्यातिरि- कद्रव्यविषयाप्यनुमितिद्रव्याश्रितत्वप्रकारिका स्यात् अनु- मितेापकतावच्छेदकमावप्रकारकत्वनियमात् नत्वष्टद्रव्या- तिरिक्तद्रव्यत्तित्वप्रकारिका तस्य पूर्वमप्रतीतत्वेन प्रकार- अनुमानखण्ड । । त्वसम्भवादिति तत्कारिकानुमितियतिरेकिणैव अनाव- नन्तद्यणुकादियावत्यक्षीकरणेऽनाद्यनन्ततावदुपादानागो- चरापरोक्षज्ञानत्वमेव नित्यसर्वविषयकत्वमेतदन्यनित्यसर्व- विषयत्वं व्यतिरेकिणएव सिद्ध्यति पक्षधर्मताबलेनापि व्यापकतावच्छेदकप्रकारेण साध्यसिद्धिर्भवति नतु साध्यगत विशेषप्रकारिका अतिप्रसङ्गात् । नन्वष्टद्रव्यानात्रितेच्छा द्रव्यात्रितेति यदि साध्यते तदाष्टद्रव्यातिरिक्तद्रव्याश्रितत्व- मन्तरेण प्रतिज्ञार्थएव नोपपद्यते सत्यम् एवमप्यष्टद्रव्याना- त्रितेच्छायां द्रव्याश्रितवं सियतु तस्याष्टद्रव्यातिरेक्यं कुतः सिद्ध्येत् अथ सामान्यव्यभिचारमादाय मानान्तरोप- नीतं तत्तदन्यत्वमुपजीव्याष्टद्रव्यान्वद्र्व्यत्तितेवेच्छादेः परि- च्छिद्यते ज्ञानान्तरोपस्थितविशेषणविशिष्टज्ञानस्य सुरभि चन्दनमित्यादौ दर्शनादिति चेत् न मानान्तराबियमे- नानुपस्थितेः ये चेच्छाश्रये टथिव्यादिभिन्नत्वं न जानन्ति इच्छायाश्च पृथिव्याद्यनाश्रितत्वं न जानन्ति तेषामप्यनु- मानादित्यप्याडः। अथ व्यतिरेकी नानुमानं सर्वत्र प्रमे- यत्वादिना सत्प्रतिपक्षग्रस्तत्वादिति चेन विपक्षबाधकेन व्यतिरेकिणो बलवत्त्वात् । अन्ये तु व्यतिरेकिण्यभाव एव साध्यः सचाप्रसिद्धएव सिद्ध्यति यस्थाभावस्य व्यापको हेत्वभावो ग्टहीतस्तस्याभावः पक्षे व्यापकाभावाभावरूपेण हेतुना सियति व्यापकाभाववत्तया ज्ञाते व्याप्याभावज्ञा- नावश्यम्भावात् तथा हि पृथिवी इतरेभ्यो भिद्यते पृथिवी- ६ বৰিন্দাব্দী W वादित्यत्र इतरस जलाापकः पृथिवीत्वाभावो ग्टही. तइति टथिवीवाभावाभावरूपेण पृथिवीत्वेन पृथिव्या- मितरान्योऽन्याभावोऽप्रसिद्धएव सिद्ध्यति प्रतियोगिज्ञानस्य वृत्तित्वात् प्रत्यक्षेण भूतले घटाभाववत् एवमन्यनाव्याप्य- वृत्तीच्छायाः खाश्रयत्वे सिद्ध खात्रये योऽत्यन्ताभावस्तद- वच्छेदकं घटादि सर्वं तदवच्छेदेनेच्छानुपलम्भात् जीवच्छ- रोरन्तु न तथा तदवच्छेदेन तदात्रये इच्छोपलम्भात् तथा चेच्छात्यन्ताभावाश्रयतावच्छेदकत्वरूपस्य नैरात्वस्य घटादौ प्राणादिमत्त्वाभावो व्यापको ग्टहीतइति जीवच्छरौरे प्राणादिमत्त्वेन इच्छात्यन्ताभावाश्रयत्वावच्छेदकत्वस्याभावः सात्मकत्वं साध्यते एवं प्रामाण्यसाधकव्यतिरेकिण्यपि व्यधि- करणप्रकारावच्छिन्नत्वस्य व्यापकः समर्थप्रत्तिजनकत्वा- भावोऽप्रमायां ग्टहीतोऽतो विवादाध्यासितानुभवे समर्थ- प्रत्तिजनकत्वेन व्यधिकरणप्रकारावच्छिन्नत्वस्थाभावः सि- डाति व्यधिकरणप्रकारानवच्छिन्नत्वमेव प्रमात्वम् । ननु साध्याप्रसिद्धौ कथं साध्यविशिष्टज्ञानं विशेषणज्ञानजन्यत्वा- विशिष्टज्ञानस्येति चेन्न पक्षे साध्यामितिसामग्रीसत्त्वा- त्यक्षविशेषणकः साध्यविशेष्यकएव प्रत्ययो जायते भूतले घटोनास्तीत्यभावविशेष्यकप्रत्ययवत् तथापि साध्याभाव- व्यापकाभावाभावरूपहेतुमत्तया पक्षज्ञानं व्यतिरेकिणि नमकतौपयिकं न च साध्यप्रसिद्धि विनतादृशप्रतिसन्धान सम्भवति नच वस्तुगत्या यः साध्याभावस्तधापकाभावप्रति- अनुमानखण्ड । ६३ योगिमत्तया ज्ञानं सग्यतति वायं व्यतिरेक्याभासानुप- पत्तेरिति चेत् न योऽभावो यस्य भावस्थ व्यापकत्वेन स्टहीतः तदभावाभावेन तस्य व्याप्यस्थाभावः पक्षे साध्यतन इत्यनुगतानतिप्रसक्तस्य गमकतौपायकत्वात् अयञ्च व्यति- रेकिप्रकारः स्वार्थएव परं प्रति साध्याप्रसिद्या प्रतिज्ञाद्य- सम्भवादिति सर्व समञ्जसम् । व्यतिरेक्यनुमानसिहावापत्तिर्न मानान्तरं तेनैव तदर्थसिद्धेः स्यादेतत् ज्योतिःशास्त्रात्तत्कथितलिङ्गाहा देवदत्तस्य शतवर्षजीवित्वमवगतं चरमं शतवर्षजीवी ग्टह एवेति नियमे प्रत्यक्षेणावगते पञ्चायोग्यानुपलब्धया निश्चि- तो ग्टहाभावो जीवननियमग्राहकप्रमाणयोबलाबलानिरू- पणाबहिःसत्त्वकल्पनं विना नियमहयविषयमंशयं जन- चित्वा जीवति न वेति संशयमापाद्य जीवनसंशयापनुत्तये जीवनोपपादक वहिःसत्त्वं कल्पयतीति यथोक्तसामग्य- नन्तरं वहिरस्तौति प्रतीते तत्रान्वयव्यतिरेकाभ्यां संशय- द्वारा ग्टहाभावः तदुत्मादितनियमहयविषयकसंशयो वा करणं जीवनसंशयएववाकरणे सव्यापारकत्वानियमात् प्रमाणयोर्बिरोधज्ञानं तदाहितसंशयद्वारा करणमिति कश्चित् । तदा जीवित्वस्य लिङ्गविशेषणस्य सन्दिग्धत्वेना- नुमानासम्भवादापत्तिानान्तरम् । कल्पकत्वे स्थाणुपुरुषसंशयादपि तदेककोटिनिर्बाहकल्प- नापत्ति न च प्रमितसंशयः कल्पनाङ्ग जीवनस्य तदानों ननु संशयस्य तत्त्वचिन्तामणौ प्रमितत्वे संशयाभावप्रसङ्गात् जीवित्वनिश्चयेऽनुमानादेव बहिःसत्त्वनिश्चयाच्च कदाचित् प्रमितत्वे च प्राक्रमितपुर- पत्वस्यान्तरा तत्संशये कल्पना स्यात् किञ्च जीवनसंशयस्य सतेऽपि दृष्टत्वान्न व्यभिचारेण वहिःसत्त्वगमकमिति चेत् न यथोक्तसामग्रीप्रभवसंशयस्य कल्पनाङ्गत्वात् अतएव स्त- जनिष्यमाणयार्टहाभावनिश्चयो न यथोक्तसंशयमापादय- तौति न वहिःसत्त्वकल्पकग्टहाभावो योग्यानुपलब्धिनि- श्चितो न संशय इति । अथ जीवननियमग्राहकप्रमाण- योर्यदि च तुल्यबलत्वमवगतं कतहि वहिःसत्त्वकल्पना विशेषदर्शनविरहात् कल्पने वा प्रमितजीवननिर्वाहक- बहिः सत्त्ववद्ग्टहनियमनिर्वाहकमरणस्याप्युचितत्वेन तत् कल्पनापि स्यात् जीवनमरणयोः संशया विशेषात् अथ तयोरेकं बलीयोऽपरमबलं तदैकेनापरस्य बाधएवेति न संशयः तस्माद्यत्र शतवर्षजीवित्वमवधारितं ग्टहाभावश्च निश्चितः तत्र वहिःसत्त्वकल्पनं न तु जीवनसंशये एवञ्च देवदत्तो वहिः सन् जीवित्वे सति ग्टहनिष्ठात्यन्ताभाव- प्रतियोगित्वादिति व्यतिरेकिणा वहिःसत्त्वज्ञानेनार्थापत्त्या लिङ्गविशेषण जीवित्वसंशये वहिःसत्त्वकल्पना च नास्त्येव किञ्च ग्टहाभावनिश्चयः प्रमाणहयविषयसंशयं जनयित्वा जीवनसंशयमापाद्य वहिःसत्त्वं कल्पयतीति न युक्तं न हि यतएव यत् संशयः सएव तन्निश्चयाय प्रभवति अतिप्रम- ङ्गात्। मैवम् । यथोक्तसामग्रीजनितसंशयवानेवं तर्क- अनुमानखण्डः। ६५ यति योग्यानुपलब्धिग्टहीतो ग्टहाभावति तनिश्चयः सदृढ़ इति जीवननियमग्राहकयोरेक बाध्यं विरुवयोरप्रमाण- त्वात् तदिह मरणं कल्पयित्वा जीवनग्राहक बाध्यता नोवा वहिःसत्वं कल्पयित्वा स्टहनियमग्राहकं तत्र वहि:- सत्त्वकल्पने स्टहनियमग्राहकमात्रबाधा मरणकल्पने तु शतवर्षजीवी देवदत्तः शतवर्षजीवी स्टहएवेति नियमइय- स्थापि बाधा स्यात् तदाह जीवनबावे तनियमबाधस्थाव- श्यकत्वादिति । किञ्च अद्य जीवति खो जीविष्यतीत्यादि- बडतरक्षण लवमुह दिसमयोपाधिनियतं जीवनमुपल- अमितितहाधे बडतरव्याप्तिबाध: देवदत्ततदवयवस्टह- सत्त्वव्याभिचाल्या तथाभावरूपमरणापेक्षया वहिःसत्त्वस्य भावस्य लघुत्वं यदि च ग्टहान्योऽन्याभावाश्रयवहिपदार्थ- वृत्तिसंयोगात्रयत्वं वहिःसत्त्वमिति तदमेक्षया मरणमेव लघु तथापि मरणापेक्षया जीवनमान लध्विति तदेव- कल्पयितुमईम्। ततोऽर्थापत्तिकल्पितं जीवित्वमुपजीव्यानु- मानादपि वहिःसत्त्वज्ञानं भविष्यतीत्यतोव्यावर्तकसहकृतो यथोक्तसामग्रीप्रभवः संशयो वहिःसत्त्वं कल्पयति । वाच्यं तर्काणां विपर्यायापर्यवसायित्वं आभासत्वं तत्मयंव- साने तदेवानुमानमेतत्तसहायं वहिःसत्त्वमनुमापयिष्य- तौति यतोलाघवगौरवतर्काणां विपर्ययापर्यवसायिनामेव प्रमाणसहकारित्वमतएव प्रत्यक्षशब्दादावपि सहकारी सः न च तस्यां दशायामेव प्रमाणान्तरमस्ति ततोऽर्थापत्ति- तत्त्वचिन्तामणौ सहकारित्वं तर्कस्य। ननु स्वकारणाधीनस्वभावविशेषात्त- कानुग्टहीतयथोक्तसंशयस्य यदि वहिःसत्त्वप्रमापकत्वं तदा हते ग्रहस्थिते वा तादृशसंशयाद्यत्र वहिःसत्त्वकल्पना सापि प्रमा स्यादिति चेन्न यथाहि प्रमापकस्यन्द्रियस्य दोषेण प्रमाशक्तितिरोधानादेन्द्रियकन्चमः तथा यथोक्तसंशयस्यापि दोषेण प्रमाशक्तितिरोधानादग्रहरूपचमसम्भवात् परोक्ष- ज्ञानानां जनकज्ञानाविनमत्वे यथार्थत्वनियमति चेत् सत्यं प्रकृतेऽपि जीवनग्टहाभावनियमग्राहकप्रमाणयोरन्य- तराभासत्वेनाभासत्वसम्भवात् यहा दोषाभावसहकृतस्य यथोक्तसंशयस्य वहिःसत्त्वप्रमापकत्वमिति । उच्यते । अनयो- रेक बाध्यं विरुड्वार्थग्राहकत्वादिति सामान्यतो दृष्टादेव तर्कसहकताम्टहनियमग्राहकबाधे लिङ्गविशेषेण जीवित्व- निश्चयेऽनुमानाहिःसत्त्वसिद्धिः तथाहि जीवनप्रमाणबाधे ग्टहनियमप्रमाणोत्यापितलिङ्गेन मरणानुमानात् प्रमाण- वाभिमतयोईयोरपि बाधा स्यात् ग्टहनियमग्राहकबाधे च निष्परिपन्थिजीवनप्रमाणालिङ्गविशेषणजीवित्वनिश्चये वहिःसत्त्वानुमानादेकप्रमाणबाधा वेत्यादि तर्कसहकृतात् सामान्यतो दृष्टादेवानयोरेकं बाध्यमिति जायमानानु- मितिः परम्परामरणञापकं विषयीकरोति नतु वहिःसत्त्व- परम्परासाधकं जीवनप्रमाण तथा च सामान्यतोदृष्टा- देव ग्टहनियमग्राहकबाधे जीवनप्रमाणालिङ्गविशेषणजी- वित्वनिश्चयेऽनुमानादेव बहिःसत्त्वज्ञानमिति किमर्था- अनुमानखण्ड: । मत्त्या। ननु वहिःसत्त्वज्ञानं विना जीवीग्टहएवेत्यस्य ब्रह्मणापि बाधितुमशक्य त्वात् प्रथमं वहिःसत्त्वज्ञानं न तु ग्टहनियमग्राहकबाधानन्तरं तत् येन निष्परिप- न्थिजीवनग्राहकाज्जीवित्वनिश्चयेऽनुमानं स्यात् न प्राथ- मिकवहिःसत्त्वज्ञानमापत्तिं विना न च टहनियमग्रा- हिणि तुल्यबले जागरूके कथमर्थापत्त्यापि वहिःस्वत्त्व- ज्ञानमिति वाच्यं तर्कसहकारणापत्तेर्बलवत्त्वाइहिस- त्त्वज्ञानमुत्पाद्य ग्टहनियमग्राहकमानबाधादिति चेन्न तर्क- सहकारेण सामान्यतोदृष्टस्य बलवत्त्वेन ग्टहनियमग्राहक- बाधसम्भवात् तस्माद्यथोक्तसंशयदशायां जीवनबा तन्त्रि- यमबाधस्यावश्यकत्वादिति तानन्तरमेव वहिःसत्त्वज्ञान- मित्यविवादं तत्र कल्पनीयप्रमाणभावे यथोक्तमंशये तर्कस्टा न सहकारित्वं गौरवात् किन्तु नियमग्राहकबाधद्वारा वहिःसत्त्वपरम्परासाधके सामान्यतदृष्टे लापवात् न च सामान्यतो दृष्टावतारएवात्र नास्तीति वाच्यम् अनिा- रितैकबाधप्राप्ती होकबाधानुकूलकल्पनायां विनिगमकस्तर्को न चैकबाधप्राप्तिः सामान्यतोदृष्टं विना। किञ्च विरोध- ज्ञानानन्तरमेकमप्रमाणमिति यदि धौर्नास्ति तदा प्रामा- ण्यसंशयो न स्यात् न स्थाच्च जीवनसंशयः योरपि जीव- नमरणनिश्चायकत्वात् । अथैकमनयोरप्रमाणमिति ज्ञान जनयित्वा सामान्यतोदृष्टस्य पर्यावसितत्वात्तजनितनियम- इयसंशयाहितजीवनसंशयानन्तरं तर्कावतारे बहिरस्तीति तत्त्वचिन्तामणी ज्ञानं जायमानं संशयस्य करणत्वं व्यवस्थापयतीति चेन्न यदेव हि विरुधवाग्राहकत्वं तर्कविनाकृतमनिटरितैका- प्रामाण्यानुमितिमजीजनत्तदेव तर्कसकृतं पुनरनुसन्धी- यमानं ग्टहनियमग्राहकप्रमाणमित्यनुमितिं वहिःसत्त्व- ज्ञानानुकूलां जनयति सहकारिवैचित्येणैकस्यापि विचित्र- फलजनकत्वात् न च जीवनसंशयानन्तरं तदनुसन्धान- मसिद्धं ग्टहनियमग्राहकस्य जीवनग्राहकविरुड्वार्थग्राहक- त्वानुसन्धानं विना वहिःसत्वकल्पनेऽप्यबाधप्रसङ्गात् । अथ यदि पर्यवसन्नमपि प्रमाणं पुनरनुसन्धीयमानं सहकारि- विशेषात् फलान्तरजनकं तदेच्छा द्रयाश्रिता कार्यत्वा- दिति सामान्यतोदृष्टद्रव्याश्रितत्वानुमितौ पश्चादष्टद्रव्यरत्ति- त्वबाधे व्यतिरेकिणात्मसिड्विरिति भज्येत अष्टद्रव्यत्तित्व- बावसकृतात् सामान्यतोदृष्टादेव पुनरनुसन्धीयमानात् तत्सिद्देरिति चेन्न अनुमितेर्व्यापकतावच्छेदकप्रकारकत्व- नियमेन तत्प्रकारकबुद्देय॑तिरेकिसाध्यत्वात् व्यतिरेकिणो- ऽप्यन्यत्र सामर्थ्यावधारणेनोपायान्तरस्थादोषाच्च । अपि च देवदत्तो जीवनमरणान्यतरप्रतियोगी प्राणित्वान्मह- दिति सामान्यतोदृष्टं लाघवस हकारेण जीवनप्रतियोगित्वं विषयीकरोति तथा च लिङ्गविशेषणनिश्चयादनुमानादेव वहिःसत्त्वसिद्धिः। अथ लापवसाचिव्यात् सामान्यतो दृष्टस्यापि विशेषविषयत्वात् नियमग्राहकप्रमाणोत्यापित- लिङ्गकमरणानुमानेन जीवनग्राहकस्येवास्यापि सत्प्रति- अनुमानखाड: 1 पक्षत्वम् एकेनामि भूयसामपि प्रतिबन्धकसम्भवात् न च तात्मामान्यतोदृष्टस्य बलवत्त्वं व्याप्तिपक्षधर्माते हि बलं तच्च तुल्यमेव ज्ञातं लाघवाख्यतर्कस्य विशेषमात्रपर्यवसाय- कत्वेन व्याप्तिग्राहकत्वस्य तुल्यत्वादिति चेत् तर्हि पक्षता- बलाविशेषसिद्धिः कापि न स्यात् सर्वत्र सामान्यमुखप्र- वृत्तप्रमाणस्य विशेषपर्यवसानेऽन्यसाधम्र्येण सत्प्रतिपक्ष- सम्मवात् अप्रयोजकत्वान्न विपरीतसाधनमिति तुल्यं नियमग्राहकस्याप्रयोजकत्वात् जीवनग्राहकस्य तु सामा- न्यतोदृष्टस्य ज्योतिःशास्त्राद्यथार्थत्वमेव विपक्षबाधकं व्याप्ति- ग्राहकमस्ति तस्मात् सामान्यमुखपत्तस्य सहकारिविशे- पाहिशेषपरस्यानुमानस्य तविशेषविलक्षणग्राहकप्रमाणेन सत्प्रतिपक्षत्वम्। न च प्रमाणविरोधेनास्य तर्को न सह- कारोति वाच्यं तर्कानवतारे विशेषपरवाभावेनाविरोधात् तदवतारे तदधिकरणत्वादेव अन्यथा तर्कानवतारे सत्य- तिपक्षस्य तदवतारेऽपि तत्त्वं न निवर्तते किञ्चैवमर्थाप- त्तावपि तद्विरोधेन न सहकारी स्यात् । यदुक्तं मरण- कल्पने शतवर्षावच्छिन्नजीवी ग्टहएवेत्यखापि बाधति तत्र विशिष्टबाधो न विशेष्यबाधात् मरणेऽपि जीवी ग्टह- एवेत्यस्य विशेष्यस्याबाधात् किन्तु विशेषणबाधात् स च शतवर्षजीवित्वबाधएव विशेषणाभावायत्तो विशिष्टाभावो- ऽप्यस्तीति चेन्न विशेष्यवति विशिष्टाभावस्य केवलविशेष- णाभावात्मकत्वात् विशिष्टस्यातिरिक्तस्थानभ्युपगमात् । अन्ये तत्त्वचिन्तामो तु शतवर्षजीवी देवदत्तो जीवी स्टहएव नास्तीतिप्रमा- रणेषु इयोरविरोधेऽपि टतीयमादाय विरोधज्ञानमस्ति तत्र जीवी ग्टहएवेत्यत्र प्रमाणघटितप्रमाणवयविरोधज्ञानज- निताप्रामाण्यसंशयाहितजीवनसंशयात् प्रमाणयोरविरो- धापादमप्रमाणविरोधि वहिःसत्त्वं कल्पाते यथोक्तसंशय- स्थायमेव खभावो यहस्तुगत्या अप्रमाणं तद्विरोधि कल्प- यति विरोधघटकस्य वस्तुगत्या अप्रमाणत्वनेव विनिगम- कत्वमिति तत्तुच्छम् अप्रमाणस्यापि प्रमाणत्वेन ज्ञानात् तर्कादिभिर्विशेषदर्शनं विना यथोक्तसंशयानन्तरं वहिर- स्तौति ज्ञानमसिद्धमतोन फलबलेन तथार्थापत्तिकल्पनम् । किञ्च सते ग्टहस्थिते वहिःस्थितैतादृशसंशयादेव वहिःसत्त्वं ग्टहसत्त्वं मरणञ्च कल्प्येत कस्यचित् कचिवस्तुगत्या अप्र- माणत्वात् अर्थापत्त्याभासश्चैवं न स्यात् । स्यादेतत् मा- भत् संशयः करणमर्थापत्तावनुपपत्तिस्तु स्यात् तथाहि जीवी देवदत्तो ग्टहे नास्तीति ज्ञाने सति वहिःसत्त्वं विना जीवतोग्टहासत्त्वमनुपपन्न मिति ज्ञानानन्तरं वहि- रस्तीति धौरस्ति तवान्वयव्यतिरेकाभ्यामनुपपत्तिज्ञानं करणम्। न च देवदत्तो वहिरस्ति विद्यमानत्वे सति ग्टहासत्त्वात् घटवदित्यनुमानाविद्यमानत्वे सति यत्र यन्ना- स्ति तदन्यदेशे तदस्ति यथा ग्टहएव कोणऽसन्नहं मध्ये तिष्ठामौतिव्याप्तिप्रभवानुमानाहा वहिःसत्त्वसिद्धेः किम- पत्त्येति वाच्य हेतुसाध्ययोः सहचाराज्ञानदशायामनु- . अनुमानखण्ड 98 , अपत्तिज्ञानेऽपि वहिःसत्त्वज्ञानात् सामान्यतो व्याप्तिश्चानु- माने उपसंह मशक्येति तदन्यदेशसिद्दिरपत्त्यैव । ननु जीविनो ग्टहासत्त्वमनुपपन्नं किं देवदत्त वहिःसत्त्वं विना उत वहिःसत्त्वमा विना नाद्यः प्रथमं देवदत्तवहिःसत्त्वा- प्रतीतौ तेन विनेदमनुपपन्नमिति ज्ञानाभावात् प्रतीतौ वा किमर्थापत्त्या अर्थापत्तितएव तत्प्रतीतावन्योऽन्याश्रयः तदुक्तं तत्त्त्वं तत्सिद्देरग्रे तदसिद्धेरिति। नान्यः अन्य- दीयवहिःसत्त्वज्ञानं विनानुपपत्त्यभावात् वहिःसत्त्वमात्र- सिवावपि देवदत्तवहिःसत्त्वासिहेरिति चेन सामान्येन हि विनानुपपत्तिज्ञानं कारणं सामान्याकारणाशेषज्ञानं फलं तथाहि जीवतो वहिःसत्वं विना स्टहासत्त्वमनुपपन्न- मिति ज्ञानं यस्य ग्टहासत्त्वमनुषपन्नं तत्र वहिःसत्त्वं कल्प- यति नान्यत्र देवदत्तञ्च तथेति सिद्धे देवदत्ते बहिःसत्त्वं कल्प्यतइति देवदत्तवहिःसत्वं पर्यवस्खति न तु तेन रूपेण कल्पना न वा तेन विनानुपपत्तिज्ञानं कारणं यथा वनि- मावव्याप्ताधमात् पर्वते वनिसिविरेव पब्बेतीयवङ्गिसि- विन तु पर्वतीयत्वेनैव धूमात्तत्सिट्विः तेन रूपेण व्यापक- त्वाग्रहात् । अथोपपादकाभाववत्युपपाद्याभावनियमोऽनुप- पत्तिनत्वभावमानमतिप्रसङ्गात् एवञ्च व्यतिरेकव्याप्तिमत उपपाद्याद्यतिरेक्यनुमानमुद्रयैव साध्यसिद्धेः किमर्थापत्या तथाहि देवदत्तो वहिः सन् जीवित्व सति स्टहासत्त्वात् यन्त्र तन्वं यथा तो म्टइस्थितो वा न चान्यव्यास्यान्यस्य ७५ नवचिन्तामगो गमकत्वेऽतिप्रसङ्गः साध्याभावव्यापकाभावप्रतियोगित्वस्य नियामकत्वात् न चार्थापत्तौ स्वरूपसती व्याप्तिर्लिङ्ग नानुमानइति वाच्यम् अनुपपत्तेनिं विना कल्पनानुद- यात् अर्थापत्त्याभासानवकाशाच्च । मैवम् अत्र हि व्यतिरे- कव्याप्तिरन्वयस्य पक्षधर्मत्वमिति व्याप्तिधीजन्यमपि वहि:- सत्वज्ञानं नानुमितिः तस्या व्याप्तपक्षधर्माताज्ञानजन्यता- नियमात् । न च साध्याभावव्यापकाभावप्रतियोगित्वेन पक्षधर्मस्य ज्ञानममितिप्रयोजकमिहाप्यस्तीति वाच्य केवलान्वयिनि तदसम्भवात् तदपेक्षया साध्यव्याप्यत्वज्ञानस्य लघुत्वाच्च। अथ व्यतिरेकसहचारावेतोरेव व्याप्तिदृश्यते एवञ्चान्वयस्य व्यतिरेकस्य उभयस्य वा सहचाराद्याप्तिग्रह- वैविध्येऽनुमानवैविध्यम् अतएव धूमो दशाविशेषेऽन्वयौ व्यतिरेकी अन्वयव्यतिरेकी चेति अस्तु तावदेवं तथाषि जीविदेवदत्ताभावो टहे वर्तमानो न वहिःसत्वे अङ्गं देव- दत्तात्तित्वात् वहिःसत्वग्टहनिष्ठाभावयोlधिकरणत्वेन नियतसामानाधिकरण्यरूपव्यायभावाच्च। उपरि सविता भूमेरालोकवत्त्वादित्यत्र भमेरुपरिं सन्निहितसविटकत्वेना- नुमानात् नापि ग्टहनिष्ठाभावप्रतियोगित्वं तत्प्रतियोगि- त्वस्य देवदत्तधर्मातया तदसन्निकर्षे प्रत्यक्षेण ज्ञातुमश- क्यत्वात् अतएव विशेष्यासन्निकर्षात्तृतीयलिङ्गपरामर्शो- ऽपि न प्रत्यक्षेण । न च व्यतिरेकव्याप्तिग्रहनिष्ठाभावयो- नि सहकार्यासाद्य मनसैव सजन्यत इति वाच्यं सह- .

अनुमानखड:। कारिणएव मानान्तरत्वप्रसङ्गात्। अथ व्याप्तिज्ञानान- न्तरं स्मर्यमाणधूमात् कथमनुमिति: उक्तन्यायेन तत्रापि लिङ्गपरामर्शाभावादिति चेत् न कथञ्चित् ‘कथं तहि वह्नित ज्ञानं’ पक्षधर्मघूमस्मृतिसहितात् धूमो वनिं विना नास्ती- त्यनुपपत्तिज्ञानादिति ग्टहाण अतएव दृश्यमानोधूमो वहिं विनानुपपन्नति यदा ज्ञायते तदार्थापत्तिरेव यदा त्वनुपपत्तिज्ञानं विना व्याप्यत्वेन प्रतिसन्धीयते तदादुः मानं त्वयापि त्रिविधानुमानखौकारात् तस्माद्यतिरेक- व्याप्तिमुपजीव्य जीविदेवदत्तग्टहाभावो वहिःसत्वं कल्प- यति । उच्यते। देवदत्तासनिकर्षेऽपि तस्य ग्टहनिष्ठा- भावप्रतियोगित्वं प्रत्यक्षण ग्टह्यते तथाहि ग्टहे देवदत्त- स्थाभावइति प्रत्यक्षं देवदत्तं पद्यर्थचाभावसम्बनं प्रति- योगित्वलक्षणं गोचरयति सम्बन्धनानस्य सम्बन्विद्दयविष- यत्वात् प्रतियोगिना सममभावस्य सम्बन्मान्तराभावात् स्टहनिष्ठाभावप्रतियोगित्वे च प्रत्यक्षोपस्थिते स्मृतव्याप्ति- वैशिष्टयमपि प्रत्यक्षेण सुग्रहम् । न च देवदत्तविशेष्यक वहिःसत्वव्याप्यग्टहनिष्ठाभावप्रतियोगित्वज्ञानं नाखौति वाच्य पक्षत्तिलिङ्गपरामर्शमात्रस्यानुमितिजनकत्वात् अ. धिकस्य गौरवपराहतत्वात्। अथ वा अनतिप्रमक्तसहर आरिवशान्मनसैव सातदेवदत्तविशेष्वकस्तृतीयलिङ्गपरामर्श यथा च न सहकारि मानान्तरं तथोपपादितमधस्तात् । ननु मयूरः पर्वतेतरे न वृत्यति नृत्यति चेतिज्ञानानन्तरं तत्त्वचिन्तामणी पर्वते नृत्यतीति ज्ञानमस्ति न च व्यतिरेकिणस्तत्सम्भवति पर्बतवृष्यस्य साध्यस्याप्रतीतौ व्यतिरेकव्याप्त्यनिरूपणात् न च पर्वतत्त्याप्रसिटौ तेन विनानुपपत्ति प्रतिसन्धान- मपि नेति कथमपत्तिरपौति वाच्यम् अधिकरणं विना- नुपपद्यमानं नृत्यं प्रसिद्घाधिकरणबाधसहकृतं प्रसिद्दे तर- मधिकरणं कल्पयतीति चेन्न मयरनृत्यं साधिकरणं नृत्य- वादिति सामान्यतोदृष्ट प्रसिद्घाधिकरणबाधसहकृतं प्रसि- इतरं पर्वतमधिकरणमादायानृत्यज्ञानं जनयति। यद्दा पतेतरे न नृत्यतीतिशब्देन नृत्याभावबोधानन्तरं मयूरो- मृत्यतीतिशब्दाज्जायमानं ज्ञानं पर्वतनृत्यं गोचरयति प्रसिद्धविशेषबाधसहकृतसामान्यज्ञान जनकप्रमाणस्य प्रसि- इतरं पर्वतमधिकरणविशेषमादाय ज्ञानजनकत्वनिय- मात् । अतएवानित्यज्ञानबाधानन्तरंक्षित्यादौ ज्ञानजन्यत्वं सिद्धनित्यत्वमादाय सिड्यतीत्याचार्य्याः । यद्दा मयूरनृत्यं पर्वताधिकरणकं पर्वतेतरानधिकरणत्वे सति साधिकर- णत्वात् पर्वतत्ववदित्यन्वयव्यतिरेकी अथवा यः सम्भावित- तत्तदितरात्तिः सन् तदतिरिक्तत्तिर्न भवति न तहत्ति- भवतीति सामान्येन यत्तदर्थान्तर्भावेन व्याप्या नृत्यस्य पर्व- त्तित्वं सिद्यति। एवं पीनो देवदत्तो दिवा न भुते इत्यत्रापि अप्रसिद्धरात्रिभोजनसाध्यपीनत्वज्ञानं रात्रिभो- जनमादाय सियति । अथ यथा अभोजी पौनइत्यनायो- ग्यताज्ञान तथा पौनो दिवा न भुतडूत्यत्रापि दिवाभोज- अनुमानखराड:। नस्य बाधाद्योग्यताघटकरात्रिभोजनस्याप्रतीतेः अतो यो- ग्यताघटकोपस्थितिं विना अन्वयमलभमानमिदं वाक्यं योग्यताघटकरात्रिभोजनोपपादकं रात्रौ भुत इति वाक्य कल्पयित्वा तेन सहान्वयबोधं जनयति । न चैवं लाघवादा- त्रिभोजनमेव कल्पयितुं युक्त शाब्दी ह्याकाका शब्देनैव प्रपूर्यतइतिन्यायेन शब्दोपस्थापितमादाय शब्दस्यान्वयबो- धजनकत्वात् एवञ्च यूयमाणशब्दस्यान्वयबोधकत्वं योग्य- ताघटकोपस्थापकेन शब्देन विनानुपपद्यमानं तं कल्पयित्वा यत्रान्वयबोधं जनयति तत् श्रुतापत्तिः। हारमित्यादौ पिधेहीतिशब्दकल्पनं श्रुतापत्तिरेव शब्दश्च यद्यपि श्रूय- माणोबाधितस्तथाप्यभिप्रायस्थः कल्प्यते यथा गुरुमते खर्ग- कामो यजेतेत्यत्र साक्षात्माधनताबाधे परम्पराषटकस्या- नुपस्थित्या परम्परासाधनताज्ञानविरहोयोग्यताज्ञानभा- वात् प्रसिद्धपदसामानाधिकरण्यानुफ्पत्तिरिति योग्यता- ज्ञानाय परम्परासाधनताघटकभपूर्व लिङादिवाच्यं कल्प- यति ततः स्वर्गसाधनं यागइति ज्ञानं जायते अन्यथा अप- बपि वाच्यं न स्यादिति । उच्यते । बाधकप्रमाणाभा- वोऽन्वयविरोधिरूपविरहो वा योग्यता अतो दिवा अभो- जने रात्रिभोजनाप्रतीतावपि भोजनसाध्यपौनत्वाद्दिवा न भुङ्कइति शब्दाडीरुत्पद्यते न प्रतीत्यनुपपत्तिः किन्तु प्रती- तानुपपत्त्या रात्रिभोजनं कल्पाते अतएवापूर्वमपि न वाच्च- मिति वक्ष्यते तस्मानार्थापत्तिरनुमानादतिरिच्यतइति ।

तत्त्वचिन्तामणौ तञ्चानुमानं परार्थं न्यायसाध्यमिति न्यायस्तदवयवाश्च प्रतिज्ञाबदाहरणोपनयनिगमनानि निरूप्यन्ते। तत्र न समस्तरूपोपपन्नलिङ्गप्रतिपादकवाक्यं न्यायः अत्रैव वा- क्येऽतिव्याप्तेः किन्त्वनुमितिचरमकारणलिङ्गपरामर्शप्रयो- जकशब्दज्ञानजनकवाक्य न्यायः प्रतिज्ञादिपञ्चवाक्यैरेक- वाक्यतया खार्थविशिष्टज्ञानं जन्यते तेन च विशिष्टवै- शिष्यावगाहिमानान्तरमुत्याप्यते तेन च चरमपरामर्श उत्पाद्यत इति न्यायजन्यशाब्दज्ञानस्य परामर्शप्रयोज- कता अनुमितिचरमकारणलिङ्गपरामर्शप्रयोजक शाब्दज्ञा- नजनकवाक्यत्वमवयवत्वम् अतएव वहिव्याप्यधमवानय- मितिवाक्ये तदवयवे च न न्यायतदवयवलक्षणातिव्याप्तिः तेन परामर्शस्य, तदवयवेन परामर्शजनकस्य जननात् । यत्त संक्षेपत: परामर्शप्रयोजकवाक्यत्वेन विशेषाभावात् सोऽपि न्यायएवेति नन्न कथायामाकाङ्क्षाक्रमेणामिधान- मिति प्रथमं विशिष्टवैशिष्वाकाङ्क्षा नास्तीति तदभिधाने निग्रहादिति वच्यते अन्यथा चक्षुरादेरपि परामर्शजनक- तया न्यायत्वापत्तिः आकाङ्क्षाविरहस्तुल्यएव। अन्ये तु पञ्चावयववाक्यादिजातीयमेव शाब्दज्ञानमुत्पद्यतइति तवी- जनकवाक्यत्वं न्यायत्वम् एवं प्रतिज्ञाद्यवयवादपि प्रत्यक विजातीयं शाब्दज्ञानमिति तत्तवौजनकशब्दत्वमेव तत्तल्ल- क्षणमिति तन्त्र ज्ञानविशेषजनकत्वं तत्तज्जानजनकत्वं वा न्याये प्रतिज्ञादौ चानतिप्रसक्तमनुगतरूपमन्तरेण दुनिरू- अनुमानखण्ड: पमिति तस्वीकारे तस्यैव लक्षणत्वात् अन्वथा जातिस- ङ्करप्रसङ्गः। तत्र प्रतिज्ञा न साध्यनिर्देशः साध्यपदेति- व्याप्तेः किन्तूद्देश्यानुमितिहेतुलिङ्गपरामर्शप्रयोजकवाक्या- थज्ञानजनकत्वे सत्युहेश्यामित्यन्यूनानतिरिक्तविषयकशा- ब्दज्ञानजनकं वाक्यम् अन्यूनानतिरिक्तपदं विहाय लिङ्गा- विषयकत्वं वा ज्ञानविशेषणं तेनोदाहरणादिव्युदासः निममनञ्च न परामर्शहेतुः अबाधितासत्प्रतिपक्षत्वज्ञान- जनकत्वात् हेत्वभिधानप्रयोजकजिज्ञासाजनकवाक्यत्वं वा लिङ्गाविषयकलिङ्गिविषयकज्ञानजनकन्यायावयववाक्यत्वं वा इतरावयवानां लिङ्गविषयकवानजनकत्वात् ज्ञात्व जाति: अनुगतानतिप्रसततान्त्रिकव्यवहारादिति केचित् तन्न देवदत्तप्रभवत्वादिना जातिसङ्करप्रसङ्गात् प्रतिज्ञाजन्यं विजातीयं ज्ञान व्यवहारादिति तज्जनकं वाक्यं प्रतिज्ञत्यपि न, तज्जनकत्वं जनकत्वज्ञानं वा नानुगतरूप- मन्तरेण सम्भवतीत्युक्तस्थानुसरणीयत्वात् एतेन शब्दोऽनि- त्यति लिङ्गिन्धीपरवाक्यजन्यज्ञानत्तिकृतकत्वादित्यादि- वाक्यजन्यज्ञानारत्तिजातियोगिज्ञानजनकवाक्यं प्रतिज्ञेति निरस्तम् । ननु प्रतिज्ञा न साधनाङ्ग विप्रतिपत्तेः पक्षप- रिग्रहे तत्व प्रमाणाकाङ्क्षायां हेत्वभिधानस्य प्राथस्यादिति चेन्न विप्रतिपत्त्यग्रे समयबन्धानन्तरं शब्दानित्यवं साध- येति मध्यस्थस्य वादिनोवाकाक्षायां शब्दानित्यत्वं साध्य नच साध्यनिर्देशं विना हेतुवाक्यं निष्प्रतियोगिकमन्वयं सत्त्वचिन्तामणी बोधयितुमीष्ट । नच वादिवाक्येऽनुपस्थितमपि योग्यतया अन्वेति अतिप्रसङ्गात् । नच विप्रतिपत्तितः साध्योप- स्थितिः तस्याः प्रतिवादिविप्रतिपत्त्या प्रमाणादिव्यवस्थया चान्तरितत्वात् परविप्रतिपत्तिं समयबन्धञ्च विना स्थाप- नाया अभावान् विप्रतिपत्तिवाक्यस्य पक्षग्रहेण पर्यवसित- तया निराकात्विाञ्च आत्तौ तु सैव प्रतिज्ञा। न चा- वयवान्तराऽत्वन्वययोग्या साध्योपस्थितिः। नाप्यवयवा न्तरेणाक्षेपात् साध्यान्वये तदभिधानं तदभिधाने च साध्यान्वय इत्यन्योन्याश्रयात् । तस्मात् प्रतीत्यनुपपत्त्या प्रतीतानुपपत्त्या वा नेहाक्षेपः। अन्ये तु शब्दानित्यत्वे प्रमाणं वदेति यदि मध्यस्थस्यानुयोगः तथापि प्रमाणमात्रे. লাক্কা দি বিষ্টি মিষ্টি মিনা কালপি- धाय न शक्याभिधानं न च वस्तुतो यत्याध्यं तत्र प्रमाणं वदेति मध्यस्थनियोगः वादिइयमध्ये तदसम्भवात् तस्मा- साध्याभिधानं विना न हेतोराकासा नवान्वयबोधकत्व- मिनि प्रतिज्ञा साधनाङ्गमिति । साध्यनिर्देशानन्तरं कुतडू- त्याकाङ्क्षायां साधनताब्यञ्जकविमतिमल्लिङ्गवचनमेवोचित अन्यथा नाकाङ्क्षाभिधाने निग्रहापत्ते. लोके तथैवाका- वानिवृत्तिरिति व्युत्पत्तरिति प्रतिनानन्तरं हेबपन्या स: हेतुत्वञ्चानुमितिकारणीभूतलिङ्गपरामर्शप्रयोजकशाब्द- जानजनकसाध्याविषयकशाब्दधीजनकहेतुविभक्तिमच्छब्दत्वं हेतुम्वप्रतिपादकविभक्तिमन्न्यायावयवत्वं वा उदाहरणप्रयो- अनुमानखण्ड: 1 8 जकाकाद्धाजनकशाब्दज्ञानजनकन्यायावयवत्वं वा साध्या- विषयकज्ञानजनकहेतुपञ्चम्यन्तातुमितिपरशब्दत्वंवा प्रति- ज्ञावाक्यधीजन्यकारणाकाङ्गानिवर्तकज्ञानजनकहेतुविभ- तिमहाक्य त्वं वा पञ्चम्यन्तलाक्षणिकपदवदनुमितिपर- वाक्यत्वं वा हेतुपदेन चानलक्षणात् अन्यथा लिङ्गस्या- हेतुत्वेन हेतुविभक्त्यर्थानन्वयात् तथैवाकाङ्क्षानिहत्ते: अनु- मितिहेतुजानकारणधूमवत्त्वादितिशब्दजन्यज्ञानत्तिप्रति- ज्ञादिजन्यज्ञानातिनातियोगिज्ञानजनकवाक्यत्वं हेतुत्व- मित्यन्ये जाति विना केन रूपेण ज्ञानस्यानुमितिजनकत्वं वाक्यविशेषजन्य त्वस्यापि जन्यतावच्छेदकरूपापरिचये दुर्ग- हादित्यपरे। अन्वयव्यात्यभिधायकावयवाभिधानप्रयोज- कज्ञानजनकहेतुत्वप्रतिपादकविभक्तिमन्यायावयवत्वमन्वयि हेतुत्वं एतदेव व्यतिरेकव्यात्यभिधायकपदप्रक्षेपाद्यव्यति- रेकि हेतुत्वम् अन्वयव्यतिरेकोदाहरणाकाङ्क्षाप्रयोजक तथाभूतावयवत्वमन्वयव्यतिरेकि हेतुत्वं यहा पक्षसपक्षसतो विपक्षासतो हेतुवचनमन्वयव्यतिरेकि अत्यन्ताभावाप्रति योगिसाध्यसमानाधिकरणपक्षसपक्षशबेतुवचनं केवला- न्वयि यहा अनुमितिकारणीभूतपरामर्शप्रयोजकशाब्द- ज्ञानकारणसाध्याविषयकशाब्दधौजनकप्रतीतान्वयसाध्यसा- धनवाचकहेतुविभक्तिमच्छब्दत्वमन्वयिहेतुत्वम् एतदेवा- प्रतीतान्वयसाध्यसाधनेतिविशेषणाद्यतिरेकिहेतुलक्षणं क- थायां धूमादित्येव प्रयोक्तव्यं नतु धूमवत्त्वादिति मतुपोव्यर्थ तत्त्वचिन्तामणी त्वात् । केचित्तु सामान्यवत्त्वे सति वाह्यकरणप्रत्यक्षत्वा- दित्यपार्थकं विभक्त्युपस्थापितहेतुत्वेन सामान्यवत्त्वस्य विभ- त्यन्तरावरुड्वस्थानन्वयादिति केचित् तन्न सतिसप्तमीबलात् सामान्यवत्त्वस्य वाह्यकरणप्रत्यक्षत्वस्य च सामानाधिकर- ण्योपस्थितौ विशिष्ट हेतुत्वान्वयात् तथैव व्युत्पत्तेः नाय- मर्थोऽस्मान्नावगम्यते। हेतायुक्त कथमस्य गमकत्वमित्याकाङ्क्षाया व्याप्तिपक्ष- धर्मतयोः प्रदर्शनप्राप्तौ व्याप्तेः प्राथम्यात् तत्प्रदर्शनायो- दाहरणं तत्रानुमितिहेतुलिङ्गपरामर्शपरवाक्यजन्यज्ञान- जनकव्याप्यत्वाभिमतवनिष्ठ नियतव्यापकत्वाभिमतसम्बन्ध- बोधजनकशब्दत्वमुदाहरणत्वं सामान्यलक्षणे साध्यसाधन- सम्बन्धबोधकत्व साध्यसाधनाभावसम्बन्धबोधकत्वञ्च विशेष- लक्षणहयम् । न्यायावयवदृष्टान्तवचनमुदाहरणमिति तु न दृष्टान्तप्रयोगस्य सामयिकत्वेनासार्वत्रिकत्वात् योयो- घूमवान् सोऽग्निमानित्येव व्याप्तिप्रतीतेः नापि प्रकृतानु- मितिहेतुलिङ्गपरामर्शपरवाक्यजन्यज्ञानविषयव्याप्त्युपना. यकं वचनं तत्, उपनयातिव्याप्तेः अत उपनयाभिधान- प्रयोजकजिज्ञासाजनकवाक्यमुदाहरणम् एतदेवान्वयव्यति- रेकिव्याप्तिविषयत्वविशेषितं विशेषलक्षणहयमित्यन्ये अब च व्यभिचारवारणाय वौशामाङः यत्र च सामानाधि- करण्यादेव व्याप्तिस्तत्र न वीमा केवलान्वयिन्यभेदानुमाने च वौसायामपि व्यभिचारतादवस्थमिति तु वयं, वीमा च अनुमानखण्ड: । ३ अत्यदे, न तत्पदेऽपि विरुद्धरूपोपस्थितयोरपि तत्पदेन परामर्शाबुट्विस्थवाचकत्वादिति न व्युत्पत्तिविरोधः यथा यद्यत् पापं प्रतिजहीत्यत्र, दूदञ्च साध्यसाधनोभयाश्रयावि- कलानुपदर्शितान्वयं विपरीतोपदर्शितान्वयानुपदर्शितव्य- तिरेकविपरीतोपदर्शितव्यतिरेकभेदादाभासरूपमिति । उदाहरणानन्तरम्भवतु व्याप्तिस्तथापि व्याप्तं किं पक्ष वत्तंते न वेत्याकाङ्क्षायां व्याप्तस्य पक्षधर्मत्वप्रदर्शनायोप- नयः, तत्रानुमितिकारण टतीयलिङ्गपरामर्शजनकावयवत्व- मुपन य त्वमिति सामान्य लक्षणं साध्यव्याप्यविशिष्टपक्षबो- धकावयवत्वं साथाभावव्यापकाभावप्रतियोगिमत्पक्षबोध- कावयवत्वञ्च विशेषलक्षणहयम् उदाहरणान्तएव प्रयोग इति न वाच्चं टतीयलिङ्गपरामर्शस्य व्याप्तपक्षधर्मतावगा- हिनोऽवयवान्तरादलाभात् तदनभ्युपगमेऽपि पक्षधर्मताया अलाभात्, न च हेतु वचनादेव तदवगमः तस्य को हेतु- रित्याकाङ्क्षायां प्रत्तत्वेन हेतुखरूपोपस्थापकस्यातत्यर- त्वात् वादिवाक्यादेवाक्षेपइति चेन्न तदर्थस्यासिद्दत्वेनाना- क्षेपकत्वात् अन्यथा प्रतिज्ञामानादेव साक्षेपेऽवयवान्त- रविलयात् । प्रतिपाद्यानां खतएव तदवगमइति चेन्न तेषां व्युत्पन्नाव्युत्पन्नतया सर्वत्र तदसम्भवात् प्रतिपादकेन स्वव्यापारस्य निर्वाहयितुमुचितत्वाच्च अन्यथावयवान्तरे- ऽप्येवं प्रसङ्गात् । उपनयानन्तरं निगमनं तच्चानुमितिहेतुलिङ्गपराम- तत्त्वचिन्तामणौ शंप्रयोजकशाब्दज्ञानकारणव्याप्तिपक्षताधौप्रयुक्तसाध्यधीज- नकं वाक्यम् । न च व्याप्तिपक्षधर्मतायाश्चतुर्भिरेवावयवैः पाप्नेः किं तेनेति वाच्यम् अबाधितासत्पतिपक्षत्वयोर- लाभे चतुर्णामप्यपर्यवसानात् । अथाभिधानाभिधेययो- याप्तिपक्षधर्मतावल्लिङ्गप्रतिपादनादेव पर्यवसानेनावयवा- न्तराणां निराकाङ्क्षत्वं विपरीतशङ्कानिटत्तेरपि ततएव लाभात्, अन्यथा निगमनेनापि तदवारणात् न हि तद्दि- शेषदर्शनमनाहत्वैव तन्निवर्तकम् । सिद्धनिर्देशतया वार- यतीति चेन्न स्वरूपमात्राभिधानात् साध्यत्वानुपस्थितौ तस्मादिति हेतुविभक्त्यनन्वयप्रसङ्गाच्चेति चेन्न व्याप्तिपक्ष धर्मताज्ञानेऽपि बाधसत्प्रतिपक्षबुद्धेः साध्यज्ञानानुत्पत्तिद शनात् तदभावाबोधने समौहितानिर्वाहात् । बाधादिविरहस्य प्रयोजकत्वं न तु तबोधस्य, मानाभावाद- सिद्धेश्च इति किमर्थं बाधादिविरहो बोधनीय इति चेन्न यदवगमे सति यन्न भवति तत्तदभावज्ञानसाध्यमिति व्याप्तेः न चानन्वयः, तस्मादित्यन्वयबलादेव हेत्वनाकानि- तत्वलक्षणसिद्धत्वज्ञानात् न त्वन्वयात् पूर्वम् । इह केचित् यथा तस्मादिति सर्वनाम्ना हेतोः परामर्श: पूर्वोक्ताशेष- रूपलाभाय तथा साध्यांशस्यापि तथा इति सर्वनान्ना सिद्धस्थ लव विरोधादिवारणाय युक्तइत्याहुः तन्न तथेति स्वरूपे, प्रकारे, साहश्य, वा आद्ये तथाचायमिति प्रका- न्तात् तथेति हेतुमानित्यर्थ: स्यात् तथाचानन्वयः न हि अथ अनुमानखण्ड 1 हेतुमत्त्वादेव हेतुमत्त्वमित्यन्वितं न द्वितीयः सामान्येन पक्षस्यापि अन्वयव्याप्तौ प्रवेशात् तत्पकारान्वयस्तत्ववेत्य- नन्वयात् अतएव न टतीयोऽपि अभेदानुमाने चान्वयिनि तस्मात्तथेति सादृश्याभावात् बहूनाञ्च प्रक्रमे विशेष्यान- न्वयात् वादिवाक्ये च योग्यतान्वयेतिप्रसङ्गात् तस्मादि- त्यत्र विभक्त्यर्थानन्वयादेव नियमः तस्मादनित्य इत्यभि- धाने विशिष्यसिद्धतावगम्यते पूर्व साध्यतयोक्तस्य समर्थ- हेतुसम्बन्धन पुनरुत्कीर्तनात्, अन्यथा तहेयर्थ्यात् । संश- यप्रयोजनादयस्ववयवलक्षणाभावादेव नावयवाः किन्तु न्यायाङ्गतयोपयुज्यन्तइति नाधिक्यं कण्टकोद्वारस्य च न सार्वत्रिकत्वं समयविशेषोपयोगित्वादिति । अथ हेत्वाभासास्तत्त्वनिर्णयविजयप्रयोजकत्वान्निरू- प्यन्ते। तत्वानुमितिकारणीभूताभावप्रतियोगियथार्थज्ञानवि- घयत्वं यद्विषयत्वेन लिङ्गज्ञानस्यानुमितिप्रतिबन्धकत्वं ज्ञाय- मानं सदनुमितिप्रतिबन्धकं यत् तत्त्वं वा हेत्वाभासत्वं दशाविशेषे हेत्वोरेवासाधारणसत्य तिपक्षयोराभासत्वात् तबुद्देरप्यनुमितिप्रतिबन्धकत्वम् । यद्यपि बाधसत्पति- पक्षयोः प्रत्यक्षशाब्दज्ञानप्रतिबन्धकत्वान्न लिङ्गाभासत्वं तथापि ज्ञायमानस्याभासस्थान लक्षणं यहा प्रत्यक्षादौ बाधेन न ज्ञानं प्रतिबध्यते किन्तूत्पन्नज्ञानेऽप्रामाण्यं ज्ञा- प्यते अनुमितौ बत्पत्तिरेव प्रतिबध्यते।

तत्व चिन्तामणो तेच सव्यभिचरविरुद्धसत्प्रतिपक्षासिद्दबाधिताः पञ्च स- व्यभिचारोऽपि विविध: साधारणासाधारणानुपसंहारिभे- दात् तत्र सव्यभिचारः साध्यतदभावप्रसञ्जकइति न वितय- साधारण लक्षणम् एकस्योभयं प्रत्यसाधकत्वात् अनापादक त्वाच्च नाप्युभयपक्षत्तित्वं उभयव्यावृत्तं वा तत्त्वम् अननु- गमात् । अथ साध्यसंशयजनककोटिहयोपस्थापकपक्षधर्मता- ज्ञानविषयत्वे सति हेत्वभिमतः सः, विप्रतिपत्तिस्तु प्रत्येक न तथा न वा पक्षटत्तिः, साधारणमन्वयेन असाधारण यतिरेकेण अनुपसंहारी पक्षएवोभयसाहचर्यण कोटिव- वोपस्थापकः। केवलान्वयिसाध्यकानुपसंहारी अयं घट एतत्त्वादित्यसाधारणश्च सद्देतुरेव तदनानं दोषः पुरुषस्य। अतएवासाधारणप्रकरणसमयोरनित्यदोषत्वम् अन्यथा स- वेतौ बाधादिज्ञाने हेत्वाभासाधिक्यापत्तिः न च प्रमेय- वेनाभेदानुमाने शब्दोऽनित्यः शब्दाकाशान्यतरत्वादित्यत्व च साधारणेऽव्याप्तिः तयोः साध्यवदत्तित्वेन विरुद्धत्वा- दिति चेन्न एतदज्ञानेऽपि साधारण्यादिप्रत्येकस्य ज्ञानादु- झावनाच्च स्वपरानुमितिप्रतिबन्धात् उद्भावितैतन्निर्वाहार्थ साधारणादेरवश्योद्भाव्यत्वेन तस्यैव दोषत्वाच्च । एतेन पक्षत्तित्व सत्यनुमितिविरोधिसम्बन्बाव्यात्तिरनैका- न्तिकः सपक्षविपक्षतित्वमुभयव्यारत्तत्वमनुपसंहारित्व- जानुमितिविरोधि, तत्सम्बन्धः प्रत्येकमस्ति विरुवोऽप्यनेन रूपेण सव्यभिचारएव उमाश्च न सङ्करति वक्ष्यतति . अनुमानखराड । निरस्तम् एतदज्ञाने ज्ञानेऽपि वावश्यकप्रत्येकज्ञानस्य दोष- वात् असाधकताजुमितौ व्यर्थविशेषणत्वाच्च अतएव साध्याव्याप्यत्वे सति साध्याभावाव्याथहेत्वाभासत्वं साध्य- बन्मानबत्त्यन्यत्वे सति साध्याभाववन्मावरत्त्यन्यत्वं वेति परास्तं व्यर्थविशेषणत्वात् प्रथमं हेत्वाभासत्वाज्ञानाच गगनमनित्यं शब्दाश्रयत्वादित्यादिबाधविरुद्धसङ्कीर्णासा- धारणाव्याप्तिरिति कश्चित् नापि सपक्षविपक्षगतसर्व- मपक्षविपक्षयात्तान्यतरत्वं व्यर्थविशेषणत्वात् अनुप- संहार्यव्यानेश्च । किञ्च पक्षातिरिक्तसाध्यवतः सपक्षत्वे प्रमेयत्वेनाभेदसाधनेऽनुपसंहाय व्याप्तिः पक्षातिरिक्तसा- ध्यवतोऽप्रसिद्धेः साध्यवतः सपक्षत्वे विवक्षितेऽप्रसिद्धिः वृत्तिमतोधर्मस्य साध्यवहिपक्षान्यतरत्तित्वनियमात् । नापि पक्षातिरिक्तसाध्यवन्माबत्त्यन्यत्वे सति पक्षाति- रिक्तसाध्याभाववन्मानतिभिन्नत्वम् अनुपसंहाव्यव्याप्ते: धूमादावतिव्याप्तेश्च तस्य पक्षे साध्यवति वृत्तः नापि पक्षत्तिवे विरुवान्यत्वे च सत्यनुमित्यौपयिकसम्बन्धशून्यत्वं व्यर्थविशेषणत्वात् एतेनानुगतं सर्वमेव लक्षण प्रत्युक्तं प्रत्येकमेव दूषणत्वात् उद्भावने वादिनित्तेश्च । उच्यते । उभयकोचपस्थापकतावच्छेदकरूपवत्त्वं तत्त्वं तच्च साधार- सात्वादिविरवान्यपक्षत्तित्वे सत्यनुमितिविरोधिसम्बन्धा- यात्तिा तेनैव रूपेण ज्ञातस्य प्रतिबन्धकत्वात् परस्य तथैवोद्भावनाञ्च लक्षणानुरोधेन प्रत्येकमेव हेत्वाभास- तत्त्वचिन्तामणौ त्वम् । यद्दा साध्यवन्मावत्यन्यत्वे सति साध्याभाववन्माव- वृत्त्यन्यत्वं तेनासाधारणस्य साध्यतदभावोपस्थापकतया दूधकत्वपक्षे नाव्याप्तिः नचैवमाधिक्ये विभागव्याघातः खरूपसतानुगतरूपेण त्रयाणामेकीकृत्य महर्षिणा विभा- गकरणात् नचैवं साध्याभावज्ञापकत्वेन बाधप्रकरणसमयो- स्तदनापकतयान्येषामुपसंग्रहः कुतोन कृत इति वाच्यं स्वतन्वेच्छस्य नियोगपीनुयोगानहत्वात् । तत्र साधार- णत्वं न साध्याभाववद्गामित्व सर्वमनित्यं मेयत्वादित्यनु- पसंहार्थे भनित्या गन्धवत्त्वादित्यसाधारणे संयोगादिसा- ध्यकद्रव्यत्वे चातिव्याप्तेः अतएव न साध्यवत्तदन्यत्तित्व नापि निश्चितसाध्यवत्तदन्यत्तित्वं साध्यवदन्यत्तित्वस्य दूषकत्वेन शेषवैयर्थात् अतएवामुकेनायमनैकान्तिक इत्ये. वोद्भाव्यते ततएव वादिनितेश्च न तु सपक्षगतत्वमपि । अनुपसंहार्योव्यावत्यो ऽन्यथा तस्यैतविशेषत्वापत्तिरिति चेत् त्यज तर्हि तमधिकं क्लप्तेऽन्तर्भावात् । नापि सप- क्षविपक्षगतत्व व्यर्थविशेषणत्वात् । विरुद्धोव्यावत्वं इति चेन्न विपक्षगामित्वस्यैव दूषकत्वे तस्याप्येतदन्तर्भावात् । अथ पक्षान्यसाध्यवत्तदन्यत्तित्व साधारणत्वं तेन सर्व- मनित्यं मेयत्वादित्यनुपसंहार्ये नातिप्रसङ्गः न च व्यर्थ- विशेषणता घटोनित्यो घटाकाशोभयत्तिद्वित्वाश्रयत्वा- दित्यनुपसंहार्यस्य विरुवस्यानैकान्तिकभिन्नस्य व्यवच्छे- धत्वादिति चेन्न दूषकताप्रयोजकरूपभेदमन्तरेण भेदस्दै- अनुमानखण्ड । । धानुपपत्तेः। साध्यवत्तित्वे सति सर्वसाध्यवदन्यत्तित्व- मित्यपि न व्यर्थविशेषणत्वात् एकव्यक्तिकसाध्ये तदभावाच्च एतेन हेत्वाभासान्तरव्यवच्छेदक लक्षणान्तरेऽपि विशेषणं व्यर्थमिति। उच्यते विपक्षत्तित्व साधारणत्वं तन्मात्रस्य दूधकत्वात् विरुड्वस्यापि तत्त्वाज्ञाने विपक्षत्तिताज्ञानद- शायां साधारणत्वम् अन्यथा तस्य हेत्वाभासान्तरतापत्तेः उपाधेरसङ्करएव। सर्वमनित्यं नेयत्वादित्यनुपसंहारी शब्दो नित्यः शब्दत्वात् भनित्या गन्धवत्त्वादित्यसाधारणश्च वस्तुगत्या साध्याभाववत्तित्वेन साधारणोऽपि पक्षताद- शायाम् उद्भावयितुं न शक्यतइत्युभयोर्भेदेनोपन्यासः । सर्वसपक्षविपक्षव्याहत्तोऽसाधारणः ननु सपक्षत्वं न साध्यवन्मावत्वं विपक्षारत्तेत्तिमतः साध्यवद्दत्तित्वनियमात् नापि पक्षातिरिक्तसाध्यवत्त्वं शब्दोऽनित्यः शब्दत्वादित्यादे- ाप्तिधीदशायामप्यसाधारणतापत्तेः न चेष्टापत्ति: बाध- प्रतिबोधौ विना व्याप्तिपक्षधर्मतया ज्ञातादनुमितिनि- यमादिति चेन्न सर्वनिश्चितसाध्यवद्विपक्षव्यात्तत्वस्य तत्त्वात् शब्दत्वानित्यत्वव्याप्तिग्रहे सति शब्दे साध्यनिश्चया नातिव्याप्तिः नच घटोऽयमेतत्त्वादिति सचेतावतिव्याप्ति. साध्यसन्देहदशायां तस्य हेत्वाभासत्वात् । यद्यपि भनित्या गन्धवत्त्वादित्यादिवस्तुतः साधारण: शब्दो नित्यः शब्द- त्वादितिविरुदः शब्दोऽनित्यः शब्दत्वादिसइतुरेव व्याप्त्य- ज्ञानस्य पुरुषदोषत्वादित्यु दाहरणाभावादसाधारणो न तत्त्वचिन्तामणौ पृथक् तथापि पक्षतादशायां साध्यतदभावानिश्चयेन तस्य दोषत्वम् अन्यथा पक्षत्वभङ्गप्रसङ्गात् । अथ सर्व सपक्ष- व्याटत्तिरेव दोषो न विपक्षव्यारत्तिरपि तस्यानुगुण- त्वात् प्रत्युत विपक्षव्यायत्तत्वेन व्यतिरेकितया परसाध्य- साधकमेवोपन्यस्तं स्यात् न च संशायकतया दोषत्वं तच्चो- भयव्यात्तत्वज्ञानादिति वाच्यं व्याप्तिग्राहक सहचारज्ञानं तदभावबारेण सपक्षव्यात्तिमात्रस्य दोषत्वात् किञ्च शब्दोऽनित्यः शब्दत्वादित्युक्त्वा निहत्ते तावन्नेदमुद्भाव्यं न्यूनत्वेनैव वादिनिग्रहात् तदुभावने वादिनिवृत्तेश्च न च न्यूनत्वे तदुपजीव्यम् असाधारण्यव्यतिरेकेणापि तदु- द्भावनात् नच व्यतिरोकिप्रयोगे तदुपन्यास: व्याप्तिपक्षत- योरप्रतिक्षेपेऽकिञ्चित्करत्वात् स्वार्थानुमाने च सर्वसषक्ष- व्यात्तिरेव दोषइत्युक्तमिति । उच्यते । शब्दत्व साथ- वतस्तदभाववतश्च नित्तत्वेन ज्ञातमर्थाद्यतिरीकितया वा पक्षे साध्यं तदभावञ्च साधयेत् अविशेषात् अन्यथा पक्ष- वृत्तित्वानुपपत्तिरिति साध्यतदभावोत्थापकतया स्वार्था- नुमानेऽसाधारणोदोषः सत्प्रतिपक्षे हौ हेब तथा अन त्वे करवेति तयोर्भेदः असाधारणेन व्यतिरेकिप्रयोगे परस्य सर्वसपक्षव्यारत्तत्वमात्रमुद्भाव्यं साध्याभावोत्यापकत्गत् न विपक्षव्यारत्तत्वमपि प्रतिकूलत्वात् व्यर्थत्वाच्च यहा विपक्ष- व्यारत्ततया साध्यमिव सपक्षव्यारत्ततया साध्याभावमपि साधयेदिति दृष्टान्ततया प्रतिबन्धितया च तदुझावनमपि अनुमानखगड । लक्षणन्तु सर्वसपक्षव्यारत्तत्वं न तु विपक्षव्यारत्तत्वमपि व्यर्थविशेषणत्वात् विरुवमप्यनेनोपाधिनाऽसाधारणमेव अन्यथैतदवगमे विरुद्धत्वाज्ञाने हेत्वाभासान्तरतापत्तेः । अनुपसंहार्यो नासत्मपक्ष विपक्षः सिद्यसिड्विविरोधात् नापि केवलान्वयिधर्मावच्छिन्नपक्षक; केवलान्वयिसाध्य- कस्य सहेतुत्वात् व्यतिरेकिसाध्यकस्य तु साध्यतदभाववद्- गामित्वेन साधारणत्वात् अन्यथा संशयाहेतुत्वेनानैका- न्तिकता न स्यात् सर्व क्षणिक सत्त्वादिति साध्याप्रसिड्या व्याप्यत्वासिवमपार्थकं वा साध्यप्रसिद्धौ तु साधारणमेव न च पक्षान्यसाध्यवत्तदन्यत्तित्व पक्षातिरिक्तसाध्याभाव- वत्तित्व वा साधारणत्वं व्यर्थविशेषणत्वात् न च विरुद्ध विशेषणस्य व्यावृत्तमित्युक्तं नाप्यत्यन्ताभावप्रतियोगिसा- ध्यकत्व सति केवलान्वयिधविच्छिन्नपक्षकत्वं सर्वमभि- धेयं मेयत्वादित्यत्र विप्रतिपत्त्या पक्षतादशायां पक्षे सा- ध्यानिश्चयेनानुपसंहारिण्यव्यापकत्वात् । अथ पक्षातिरिक्त व्याप्तिग्रहानुकूलाप्रतीतसहचारोऽनुपसंहार्य यदि च पक्ष व्याप्तिग्रहः कथञ्चित्तदा शब्दोपदर्शितव्याप्तिकानुमानवद- भेदानुमानवच्च सङ्केतुरेवेति चेन्न तवैव सद्धेतावतियाप्तः सर्वस्य पक्षत्व पक्षातिरिक्ताप्रसिद्धेः असाधारणविरुदयो रतिव्याप्तञ्च दूषणतायां व्यर्थविशेषणत्वाञ्च न च दूधकता- नैकान्तिकत्वेन न प्रत्येकमिति वाच्यम् अर्थगत्या व्यर्थवि- शेषणत्वात् नापि विप्रतिपत्तिविषयमावत्तित्व केवला.

१० तत्त्वचिन्तामणौ न्वयिसाध्यके अव्याप्तः सर्वस्य पक्षत्व मानार्थाभावा- दिति । उच्यते व्याप्तिग्रहानुकूलैकवयंपसंहाराभावो यत्र स हेत्वभिमतोऽनुपसंहारी सचान्वयेन व्यतिरेकेण वा सर्वस्य पक्षत्व दृष्टान्ताभावात् घटोऽनित्यो घटाकाशोभ- यत्तिद्वित्वाश्रयत्वादित्यादौ साध्यसाधनसाहचर्य्याज्ञाना- त्तस्य विरुदत्वाज्ञानदशायामनुपसंहारित्वेनेष्टत्वात् केव- लान्वयिधविच्छिन्नपक्षको वा समभिधेयं प्रमेयत्वादि- तिसद्धेतौ न केवलान्वयी पक्षतावच्छेदको वा निश्चितसा- ध्यवहृत्तित्वात् विप्रतिपत्त्या साध्यानिश्चयदशायां पक्षत्वे तदनुपसंहायव व्यतिरेकिसाध्य के साध्याभाववत्तित्वाज्ञा- नदशायामिदं दूषणं तदवगमेऽपि साधारणसङ्करएव एवं व्याप्यत्वासिबे ने तदुभावने चायं व्यभिचारबदुपजीव्य- वाददोषः घटाकाशोभयतिहित्वाश्रयत्वञ्च विरुद्धमेव एते- नानुपसंहारित्वप्रतिसन्धाने यदि व्याप्तिनहस्तदानुमिति- रेव तदभावे व्याप्यवासिविरेवेति निरस्तमुपजीव्यत्वा- दिति । विरुवो न साध्याभावव्याप्यः संयोगसाध्यके सबेताब- तिव्याप्तेः नापि साध्यवन्निष्ठात्यन्ताभावप्रतियोगिव्याप्यत्वं तत्त्वम् इदं द्रव्यं गुणवत्त्वादित्यादौ संयोगादिव्याप्येऽति- व्याप्तः किन्तु साध्यासमानाधिकरणसाध्याभावव्याप्यः सा- ध्यवदन्योऽन्याभावव्याप्योवा साध्याभावत्व साध्यविरोधित्व- मानं भावाभावसाधारणं तेनाभावे साध्येऽभावाभावस्य भा- अनुमानखण्ड.1 वत्वेऽपि नाव्याप्तिः अभावाभावोऽभावप्रतियोगिनिरूप्यत्वेन भावभिन्नएव वा नच भावत्वेनोपपत्तौ किमधिकेनेति वाच्यं बाधकं विना भावप्रतीतेः प्रमात्वात् अन्यथा अत्यन्ताभावा- न्योऽन्याभावयोरप्रसिद्धिः। अथ साध्यहेत्वोर्बिरोधे पक्ष साध्यसत्त्वे हेत्वसिद्धिः हेतुमत्त्वे साध्याभावसिद्धौ बाधः । नच प्रमाणान्तरेण साध्याभावसिद्दौबाधो न हेतुत्वेनैवेति वाचं विशेषणवैयर्थ्यादिति चेन्न हेतोः पक्षे साध्याभाव- बाधानुपस्थापनेऽपि प्रथमोपस्थितविरोधस्यैव उपजीव्यत्वेन दोषत्वात् ननु साध्याभावसम्बन्धो व्यभिचारएव दोषो नतु तन्नियतत्वमपि गौरवात् असाधकत्वे व्यर्थत्वाच्च नच साध्या- सहचरितस्य साध्याभावसहचरितस्य वा गमकत्वनम- रूपायामशक्तौ विशेषोऽस्ति येनाशक्तिविशेषोन्नायकतया न व्यर्थविशेषणता न चानैकान्तिकसामान्यलक्षणे विपक्षगा- मित्वं न विशेषणम् असाधारणाद्यव्याप्तेः साधारणन्तु सपक्षत्तित्वसहितमिति वाच्यं विपक्षगामित्वस्यैव साधा- रणत्वात् अधिकस्य व्यर्थत्वात् न च विरुद्धं व्यावत्वं विपक्ष- गामित्वेनावैव तदन्तर्भावात् । अथानकान्तिके विपक्ष- सम्बन्धेनैव दूषकतावीजम् आसाधारणाद्यव्याप्तेः न च तनान्यदेव वीजं हेत्वाभासाधिक्यापत्तेरिति चेदस्तु ताव- देवं तथापि साधारणे विरुद्दप्रवेशो वचलेपएव । अन्ये तु विरुवलक्षणेन व्यर्थत्वं साधारणस्य व्यवच्छेद्यत्वात् नाप्य- साधकतानुमितौ एतस्यापि व्याप्यत्वात् नौलधूमादौ च 22 तत्त्वचिन्तामणौ व्याप्तिरस्त्येवेति न खार्थानुमाने दोषः परस्य तु व्यर्थत्व- मधिकं न च विरुवत्वादित्यत्र शब्दाधिक्यमिति तन्न अर्थो हि लिङ्ग न च व्यभिचाराबारकविशेषणावच्छेदेनापि व्याप्तिर्गौरवादिति वच्यते नचार्थानुगत्या व्यर्थत्वेऽपि विरु- वत्वादित्यव उद्भावनाशक्यत्वम् आवश्यकतद्विवेचने तदु- भावनस्य शक्यत्वादिति हेतुहयोपन्यासे चाधिकं प्रथमेन द्वितीयस्य कृतकर्त्तव्यताया दुष्टिवीजत्वात् न च नीलधूमा- दित्यादौ विशिष्टकर्त्तव्यमन्येन कृतं धूमवत्त्वादित्यनेन कृत- मिति चेन्न तथानुपन्यासात् अन्यथा नौलानन्वयापत्तिः । अपरे तु साध्यानवतसहचारः साध्याभावसहचारी विरुद्धः अन्यथा दृथिव्यां मेयत्वेनेतरभेदानुमानं न विरुद्ध स्यात् साध्याभावाव्याप्यत्वात् न च तत्साधारणं सपक्षास- त्वात् न च साध्यसहचाराज्ञानदशायां साधारणातिव्या- प्तिः तदा तस्यापि विरुवत्वादिति तन्न विपक्षगामित्वमा दूषकमित्युक्तत्वात् अतएवाव्यभिचरितो व्यतिरेक्यनैकान्ति कएव नापि साध्याभावसाधकत्वं तत्पमापकत्वं वा साध्या- भावसम्बन्धबुद्धिं विना तदनानात् नापि साध्यवदन्यत्व- व्याप्यत्वं व्याप्यत्वविवेचने व्यर्थविषेणत्वात् नापि खव्याप- काभावप्रतियोगिसाध्यकत्वं साध्याभावस्य हेतुव्यापकत्व- प्रतीतौ हेतुसाध्याभावसम्बन्धमानस्यावश्यकत्वात् । उच्यते। साध्यव्यापकाभावप्रतियोगित्वं विरुवत्वं न च प्रतियोगिनो- रनन्वये भासमान एव तदभावयोर्व्याप्तिग्रहः भिन्नग्राहक- अनुमानखण्ड । सामग्रीकत्वात् अन्यथा व्यतिरेकिविलयापत्तेः यहा वृत्ति- मतः साध्यवत्तित्वं साध्यवहृत्तित्वानधिकरणत्वं साध्या- समानाधिकरणधर्मत्वं साध्यवहृत्तित्वानधिकरणधर्मत्व वा तत्त्वं न च व्यतिरेक्य तिव्याप्तिः तत्र साध्याप्रसिद्ध्या तथाज्ञानविरहात् असाधारणे च सङ्करएव अनेनापि रूपेण तस्य दोषत्वात् न च साध्यवहृत्तित्वे सति वृत्ति- मत्त्वज्ञानात् साध्याभाववद्गामित्वज्ञानमावश्यकं तेन विना साध्यवत्तित्वाज्ञानादिति वाच्यम् उपजीव्यत्वेन भिन्नत्वात् उपजीव्यत्वेऽपि साध्यवति न वर्तत इति ज्ञानं न खतोदूषकमिति चेन्न असहचारज्ञानस्य विरो- धितया व्याप्तिग्रहप्रतिबन्धकत्वात् व्यभिचाराज्ञानविरो- धित्वेन व्यभिचारज्ञानवत् । ननु विरुदस्य खार्थानु- मानदोषत्वेऽपि परार्थानुमानेऽपार्थकत्वं अयोग्यताज्ञानेन निश्चितानन्वयादिति चेन अयोग्यताज्ञानस्थ विरुद्दत्व- ज्ञानोपजीवकत्वेन तस्यैव दोषत्वात् बाधेऽप्येवं । सचार्य विधिना साधने विविधः साक्षात्माध्याभावव्याप्यत्वात् साध्यव्यापकाभावव्याप्यत्वात् साध्यव्यापकविरुवोपलम्मात् तथा अधूमवानयं योग्यधूमवत्तया अनुपलबमानत्वात् नि- रग्निकत्वात् जलाशयत्वात् नच सर्वत्र साध्यव्यापकविरु- डोपलम्भ इति न वैविध्यम् एतदज्ञानेऽपि साध्याभावव- द्यापकाभावव्यापकाभावव्याप्यत्वेनापि ज्ञातस्य दोषत्वात् न च धमवानयं तदभाववत्त्वादित्यधिक स्वसमानाधिकरणा- १४ तत्त्वचिन्तामणौ त्यन्ताभावाप्रतियोगित्वं हि व्यापकत्वं तच्चाभेदेऽपि धूमवा- नयं धूमाभाववत्तयोपलभ्यमानत्वात् तदत्तयानुपलभ्यमान- वादित्यनैकान्तिकमेव । निषेधसाधनेऽपि विविधः प्रति- योग्युपलम्भात् साध्यव्यापकामावोपलम्भात् साध्यव्यापक- विरुवोपलम्भात् यथा निरग्निकोऽयमग्नित्वात् धूमाभाव- शून्यत्वात् धूमवत्त्वात् सर्वश्चायं विशेषणद्वारापि यथा कृ- ष्णागुरुप्रभववनिमानयं कटुकासुरभिपाण्डरधूमवत्त्वात् । अयञ्च बाधाअयासिद्धखरूपासिवासाधारणसंकीर्णः क- चित् । सत्प्रतिपक्षत्वं न समानबलबोधितसाध्यविपर्यायलि- ङ्गत्वं परस्परप्रतिबन्धेनोभयोरबोधकत्वात् बलञ्च न सपक्ष- सत्त्वादिव्यतिरेकिण्यभावात् नापि समानव्याप्तिपक्षधर्म- तावत्त्वं विरोधेनैकत्र तद्भङ्गनियमात् नापि व्याप्तिपक्षधर्म- तया ज्ञातत्वं विरोधि व्याप्तिपक्षधर्माताविशिष्टज्ञानयोरन्य- तरभ्रमत्वनियमेन नित्यत्वव्याप्तश्रावणत्वादिवैशिधाप्रसि- ड्यारोपयितुमशक्यत्वात् । नच साध्यव्याप्यस्य पक्षधर्माता पक्षधर्मस्य वा साध्यव्याप्यतारोप्येति वाच्यम् एकत्र तदु- भयाभावाविशिष्टस्याप्रसिद्ध्या तबैशिष्टयम्यारोपासम्भवात् नाप्यनिर्धारितविशेषेण बोधितसाध्यविपर्ययत्वम् उभयो- रबोधकत्वात् विशेषश्च न व्याप्तिभङ्गाभङ्गरूपः एकत्र तङ्ग- ङ्गनियमात् । उच्यते। साध्यविरोध्युपस्थापनसमर्थसमान- बलोपस्थित्या प्रतिरूपकार्यलिङ्गत्वं तत्त्वं बलञ्च व्याप्तिपक्ष- धर्माते विरोधिबोधकान्यगमकतापयिकरूपसम्पत्तिमत्तया অনুদানভ । अथ जायमानेन प्रतिरुद्दकार्थत्वं वा तत्त्वं स्थापनाया याप्ति- पक्षधभत्वमुभयवादिसिद्धं वादिना तदभावानुपन्यासात् द्वितीयस्य तत्त्वमन्यतरासिवमिति प्रथमेन द्वितीयं बाधित- मिति स्वार्थानुमानएवायं दोष इत्येके तन्न एकदा निर- न्तरयोर्वोभयोाप्तपक्षधर्मतया ज्ञातयोः प्रतिपक्षत्वात् युगपदुपस्थिते: कारणवशेन वपरसाधारणत्वात् । वस्तुनोऽड्यात्मकत्वेन व्याप्तिपक्षधर्मताभङ्ग एकतावश्यक इति सएव दोषः। न च तयोर्विरोधभङ्गेऽप्युपपत्तेन व्या- स्यादिभङ्गनियमइति वाच्यम् अविरोधेऽप्यनुमित्यविरोध: विरोधे तु व्याप्तिभङ्गनियमादिति चेन्न प्रतिरुद्दत्वज्ञाना- नन्तरं व्यास्यादिभङ्गज्ञानमित्युपजीव्यत्वेन व्यभिचारवद- स्यापि दोषत्वात् । ननु साध्यतदभावयोरिव तद्याप्यत्वे- नावधारितयोर्विरोधादेकन न निश्चयः किन्तु संशयः निश्चये वान्यतरव्याप्तिसंशय इति व्याप्यत्वासिविरिति चेन्न उभयोरेका निश्चयानन्तरमन्यतरव्याप्तिसंशय इत्युप- जीव्यत्वेनास्य भिन्नत्वात् दूषकतावीजं समबलविरोधि- सामग्रीप्रतिबन्धेन निर्णयाजनकत्वं न तु व्याप्तिपक्षधर्माता- विरहएव सचेतावपि सत्प्रतिपक्षत्वात् एकत्र व्याप्तिभङ्ग ज्ञानहारा वास्य दूषकत्वं चक्षुरादेश्च नानुमानेन प्रति- रोधः तदुपस्थितावपि फलदर्शनेन तस्याधिकबलत्वात् । नन्वेवं वादिवाक्यमानस्य प्रतिरोधकत्वेनानुमानमालो- छेद: नच विरोधिवाक्यस्य न्यनबलत्वे लक्षणायोगः समा- तत्त्वचिन्तामणौ का नबलत्वे प्रतिरोधएव अधिकबलत्वे नरशिरः शौचानुमान वत्तेन बाधएवेति वाच्यम् अग्टह्यमाणविशेषदशायां प्रति- वादिवाक्येन सर्वानुमानप्रतिरोधापत्तेः अनुमानात् पूर्वे पश्चादा अनुमानान्तरेण तस्य न्यूनाधिकबलत्वानिरूष- णात् निरूपणे वानुमानवैवर्थ्यापत्तेः। मैवम् । विरोधि- वाक्यमावस्य समबलत्वाभावात् उक्त हि व्याप्तिपक्षधर्माते बलमिति प्रत्यक्षादेलिङ्गभावेनैवानुमानप्रतिरोधः कथायां तदुपन्यासानहत्वात् । यत्तु विरोधिव्याप्यद्वयस्थासाधा- रणत्वात् संशयजनकत्वं दूषकतावीजमिति तन्न एकैकं हि सत्प्रतिपक्षं न तु विशिष्ट एकैकञ्च न संशायकमनुमिति- प्रामाण्यग्राहकाप्रवृत्तिर्दूषकतावीजमित्यन्ये तन्न परस्पर- प्रतिबन्धेनानुमितेरेवानुत्पत्तेः। रत्नकोषकारस्तु सत्पति- पक्षाभ्यां प्रत्येक वसाध्यामितिः संशयरूपा जन्यते विरु- ड्वोभवज्ञानसामग्या मंशयजनकत्वात् संशयद्वारा अस्य दूधकत्वं नच संशयरूपा नानुमितिः बाधस्येव विरोध्यप- स्थितेरनुमितिसामग्रीविघटकत्वेनाधारणत्वात् अन्यथा बाधेऽप्यनुमित्यापत्तेरिति वाच्यम् अधिकबलतया बाधेन प्रतिबन्धात् तुल्यबलादनुमितिः स्यादेव सामग्रीसत्त्वात् साध्याभावबोधस्य च तत्र प्रतिबन्धकत्वं नतु तबोधकस्य चक्षरादेः प्रत्येकं निर्णायकत्वेनावधारितात् कथं संशय इति चेन्न प्रत्येकावि ज्ञानमुत्पद्यमानमर्थात् संशयो नतु प्रत्येक मंशयजनकत्वमिति मेने तन्न साध्यतदभावयोर्विरो- थेन यथैक्रज्ञानस्यापरवीप्रतिवन्ध कत्व तथा साध्याभाव- व्याप्यवत्त्वस्यापि साध्यविरोधित्वात्तबुद्देरपि साध्यधी- प्रतिबन्क्षकत्वात् विरोविज्ञानत्वस्य प्रतिबन्धकत्व तन्त्रत्वात् निबन्धे तु हेत्वाभासानां फलहारकं लक्षणमनैकान्तिका- नामन्वयाद्यतिरेकाहा कोट्युपस्थापकतया संशयः फलं विरुवस्य साध्यविपरीतज्ञानमपक्षधर्मोऽपि विरुद्धोऽन्यत्र विपरीतज्ञानसमर्थएव बाधेऽन्यतोविपरीतज्ञानं न तु हेत्व- भिमतादेः नित्योघटः कार्थत्वादिति विरुवे बावसकरे प्य- दोषः असिद्धे अनेकान्तिकादिचतुष्टयज्ञानान्यलिङ्गत्वज्ञानं बाधे पक्षधर्महेतौ व्याप्तिबाधः प्रकरणसमे तु न व्याप्तिय- क्षधर्मतागव: फलं नाप्यलिङ्गत्वज्ञानं व्याप्तवादिबुद्धिसत्त्वात् नापि विपरीतबुद्धिः स्वसाध्यविपरीतेनानियमात् नापि मंशयः प्रत्येक कोटिहयानुपनयात् किन्तु कथमत्र तत्त्व- निर्णयति जिज्ञासाफलं तथाच प्रकृतसाध्यहेत्वोः कि तत्त्वमिति जिज्ञासानिका व्याप्तिपक्षधर्मतोपस्थितिः प्रक- रणसमः नानुपस्थिते प्रतिपक्षे एकमाज्जिज्ञासा किन्तु निर्णयएव। अथ ज्ञातुमिच्छा जिज्ञासा सा च ज्ञानेष्टसा- धननाज्ञानात् संशयाहेति कथं तेन विना विरोधिसाधन- ज्ञानमात्रादिति चेन्न असति प्रतिपक्षे न जिज्ञासा सति क्षेत्यन्वयव्यतिरेकाभ्यां प्रकरणसमस्थापि जिज्ञासाकारण- त्वात् न चानैकान्तिकातिव्याप्तिः तत्र हि संशयहारा साध्ये जिज्ञासा अत्र तु हेतुसमीचीनत्वति। ननु परामर्शयो.

तत्त्वचिन्तामणी रेकदानुत्पादात् कथं प्रतिरोधः क्रमोत्यनयोरेकदासत्वा- दिति चेन्न एकानन्तरमपरहेतुयाप्ति पक्षधर्मताज्ञाना- भ्यामग्रिमव्याप्तिविशिष्टज्ञानोत्पत्तिकाले पूर्वपरामर्शनाशा- त् न चोभयहेतुव्याप्तिपक्षधर्मताज्ञानानां परस्पराप्रतिब- धात् परामर्शोत्याद इति वाच्यं व्याप्त्यादिज्ञानचतुष्टय- योगपद्याभावात् । यत्तु व्याप्तिद्वयसंस्कारोबोधकहेतुद्दय- ज्ञानयोः परस्परप्रतिबन्धात् नोभयव्याप्तिस्मृतिरिति दूष- कताबीजं तन्न व्याप्तिस्मृतिं विना सत्प्रतिपक्षाभावात् वादिस्यां व्याप्युद्भावनाच्नेति। मैवम् । हेतुइयसमूहा- लम्बनायुगपदुभयव्याप्तिस्मृतावुभयपरामर्शरूपं ज्ञानमुत्य- द्यते अतएकदा विरुद्दकार्यहयकारणान्नैकमपि कार्यमु- त्पद्यते तादृशपरामर्शश्च स्वार्थानुमाने प्रत्यक्षादित: परस्य तु वाद्यपन्यस्तन्यायोत्यापित प्रमाणात् । अस्य केबलान्व- यिन्यपि सम्भवः बटोऽभिधेयः प्रमेयत्वादित्यत्राभिधेयत्वं घटनिष्ठात्यन्ताभावप्रतियोगिजात्यन्यत्वे सति घटमान- वृत्त्यन्यधर्मत्वात् घटान्योऽन्याभाववत् पटरूपवच्च घटनिष्ठा- त्यन्ताभावोऽभिधेयत्वप्रतियोगिक: घटत्तिनित्याभावत्वात् घटनिष्ठान्योऽन्याभाववदिति विशेषादर्शनदशायां नच पचै- क्यमपि तन्त्र विरोधस्यैव दूषकत्वेऽधिकस्य व्यर्थत्वात् । असिविस्तु न व्याप्तिपक्षधर्मताविरहः प्रत्येकमननुग- मात् । अथ प्रत्येकाभावानुगतो व्याप्तिपक्षधर्मताविशिष्टा- भावोऽसिदिः यद्यपि विशिष्टस्यान्यत्वे प्रत्येकाभावाव्याप्ति- अनुमानखण्डः। रमसिद्धान्तश्च अनन्यत्वे प्रत्येकाभावएव स इत्यननुगम- स्तथापि विशेषणावच्छिन्नप्रतियोगिको विशेष्याभावो विशे- पण विशेष्यसम्बन्धाभावो वा विशिष्टाभावोऽनुगत इति चेन्न विशिष्टाभावाज्ञानेऽपि व्याप्त्यादिप्रत्येकाभावज्ञाने उद्भा- वने चानुमितिप्रतिबन्धो वादिनित्तिश्चेति तत्प्रत्येकाभा- वाव्याप्तिः अन्यथा तेषां हेत्वाभासान्तरतापत्तेः न च विशि- टाभावधीद्वारा प्रत्येकाभावोदोषो लभ्यतइति वाच्य प्रत्ये- काभावस्य स्वतएव दोषत्वसम्भवात् । वस्तुतो विशिष्टाभावो दोषएव न प्रत्येकस्य समर्थत्वे तेनैवान्यथासिद्धेयर्थविशेष- णत्वाच्च प्रत्येकाभावमन्नात्वा न विशिष्टाभावज्ञानमित्युप- जीव्यत्वादिशिष्टाभावानुभावनेऽपि प्रत्येकोद्भावने वादिनि- वृत्तेः अतएव व्याप्तिपक्षधर्मताविशिष्टज्ञानविषयाभावत्वं प्रत्येकाभावानुगतमसिद्धत्वं व्यभिचारादावसिद्धत्वेऽप्युपजी- व्यत्वेन प्राथम्यात्तदुभावने वादिनिरत्तेश्च स खतएव दूषकः तत्र व्याप्त्यसिद्ध्यर्थमुपाधौ बद्भाविते विप्रतिपद्यतेऽपि तस्य दुर्ग्रहत्वात् व्यभिचारेणैव तदन्वयाच्च यदि च व्यभिचारा- दिकमज्ञात्वाप्यसिड्बुिद्धिः तथाप्युपधेयसङ्करेऽप्युपाधेरसङ्क- रएवेति निरस्तं व्यर्थविशेषणत्वादेव एतेन व्याप्तिपक्षधर्म- तान्यतराभावोऽसिद्दिरिति प्रत्युक्तम् अन्यतरत्वाज्ञानेऽपि प्रत्येकाभावस्य दोषत्वात् व्यर्थविशेषणत्वाच्च । यत्तु व्याप्ति- पक्षधर्मताप्रमितिविरह आश्रयासिद्याद्यनुगतोऽसिद्धिः तत्र मितिसत्त्वे तत्रानुमित्यापत्तरिति तदपि व्यर्थविशेषण- ६०० वत्वचिन्तामणी त्वात् तदज्ञानेऽपि प्रत्येकज्ञानस्य दोषत्वाञ्च निरस्तं वस्तु- तस्तु प्रकृतहेतुयाप्तिपक्षधर्मतावैशियस्य तत्प्रमितेचान- सिद्ध्या तदभावो ज्ञातुमुद्भावयितुञ्चाशक्यएव । यत्किञ्चिद्या- प्तिपक्षधर्मताविशिष्टप्रमितिविरहः सद्धेतुसाधारणः स्वप सितिविरहो यत्किञ्चित् प्रमितिविरहो वा सद्धेतावपि सफलतत्यमिविरहो दुर्निरूपः व्याप्त्याद्यभावादेव तद्ग्रहे सएव दोष उपजीव्यत्वात् यदि च प्रमितिविरहः स्वरूप- सन्नेव दोषः कारणाभावत्वात् तदा व्याप्त्यादिभमादनुमि- तिनं स्यात् न स्यान्च हेत्वाभासता ज्ञानगर्भतल्लक्षणा- भावात् एतेन व्याप्तिप्रमितिपक्षधर्मताप्रमितिविरहान्य- तरत्वमसिद्धिः अन्यतरत्वञ्च तदन्यान्यत्वं तेनोभयविर- हेऽपि नाव्याप्तिरिति निरस्तं व्यर्थविशेषणत्वादेव । स्यादे- तत् व्याप्तिपक्षधर्मताभ्या निश्चयोऽसिद्धिः अतएवाव्याप्तेऽप- क्षधम्म च तदारसेपरूपासिद्धिरित्यनुमितिः नतु व्याप्त- पक्षधर्मादपि तदनिश्चये न चैवं हेतोरप्याभासत्वं तदाभा- सस्यापि हेतुत्वं स्यात् दशाविशेषइष्टत्वात् सेयं खरूपसती दूषिका कारणाभावत्वात् न च व्यायादिप्रत्येकनिश्चयामा वएव दूधक आवश्यकत्वादिति वाच्य विशिष्टनिश्चयस्य हेतुत्वे तदभावस्य कार्थ्यानुत्पादकत्वादिति। मैवम् । एवं सव्यभिचारादेरप्यत्रैवान्तर्भावप्रसङ्गात् असिवः स्वरूप- सतएव दोषत्वे स्वज्ञानार्थ व्यभिचाराद्यनसावनात् यदि च तस्मात् सिद्धिनोपपद्यतइति तस्योपजीव्यत्वं तदाश्रयासि- अनुमानखण्ड। ड्यादिज्ञानात् सिबिर्नेति सएव पृथग्दोष: स्यात् असिट्वि- चौतापरस्योद्भाव्येति स्वज्ञानार्थसुद्धावितासिविनिर्वाहार्थ- माश्रयासियादिज्ञानमावश्यकं कथञ्च हेतुतदाभासविवेकः सिवौ इयोरपि हेतुत्वात् असिद्धौ तदा भासत्वात् व्यभि- चारादेः सद्देतौ सिद्दिमखण्डयतश्च हेत्वाभासत्वाभावात् । अथ सुषुप्तौ जागरेऽपि व्याप्तिपक्षधर्मतासत्त्वे तदनिश्चये- ऽनुमित्यनुत्पादो हेत्वाभासप्रयोज्यः सव्यभिचारादौ तथा- वधारणादित्यसिदित्वज्ञानादपि हेत्वाभासः न चैवं हेत्वा- भासाधिक्यं क्लतान्तर्भावो वा तेन रूपेण व्यास्यसियादेरेव संग्रहादिति चेन्न एवं सव्यभिचारोदिरप्यसिट्विः स्थादित्यु- तत्वात् उपजीवनाङ्गेदे आश्रयासियादिरपि पृथक् स्यात् सुषुप्त्वादावनुमित्यभावः कारणाभावात् कार्यानुत्पादो हि न प्रतिबन्धकमात्रात् किन्तु कारणाभावादपि असत्यपि प्रतिबन्धके वङ्गाभावेन दाहानुत्पत्तेः अथानुमित्यनुत्पादो हेत्वाभासप्रयुक्तएवेति चेत् तानुमितौ मनोयोगादिरपि न हेतुः हेत्वाभासादेरनुमित्यनुत्मादे तद्यतिरेकेणातुमि- त्यनुत्मादाभावात् सिद्धेरेव तहेतुत्वे चरमकारणमेव हेतुः स्यात् अन्ये तु गमकतापयिकप्रतिबन्दिव्याप्तिपक्षध- मताविरहतबियतयोरन्यतरत्वं हेत्वाभासत्वं तत्राधिकस- मानबलौ बाधप्रतिबोधौ प्रतिहन्दिनौ व्याप्तिपक्षधर्मता- विरहञ्चासिद्धिः तन्नियतौ च सव्यभिचारविरुवौ नचान- योरप्यसिद्वान्तर्भावः व्याप्तिविरहनियतत्वेन जातयोः बत्त्वचिन्तामणौ स्वातन्त्र्येणैव दूषकत्वात् नमे विशेषदर्शनस्यैवेति तन्न अनापि व्याप्तिपक्षधभताविरह एवासिद्धिः पर्यवस्थति तल चोतामेवान्यतरत्वञ्च न লৰয ঘনিগ্নবা- त्वात् हेत्वाभासान्तरवहिष्कृतस्य व्याप्तिपक्षधर्मातानिश्चय- विरोधिनो रूपस्य विवक्षितत्वात् तात्रयासियादिक- मेवेति। उच्यते पाश्रयासिद्धिः स्वरूपासिट्विः व्याप्यत्वा- सिद्धिः प्रत्येकमेव दोषः प्रत्येकस्य जानादुद्भावनाच्चानुमिति- प्रतिबन्धात् नतु विशिष्टाभाव: परामर्शविषयाभावो वा व्यथविशेषणत्वात् तस्य ज्ञानमुद्भावनं विनाप्यनुमितिप्रति- बन्धात् अनुभवसिद्धे हि लक्षणं नतु लक्षणानुरोधेनानु- भवकल्पना परामर्श विषयाभावत्वेनानुगतेन त्रयाणाम- सिद्वत्वेन संग्रहो महर्षिणा कृत इति न विभागविरोधो हेत्वाभासाधिक्यं वा अतएव ये व्याप्तिविरहपक्षधर्मता- विरहरूपास्तेऽसिविभेदमध्यमध्यासते तदन्ये च यथायथं व्यभिचारादय इति सिद्धान्तप्रवादोऽपि न चैवं साक्षात्पति- बन्धकत्वेन बाधप्रतिबोधयोाप्तिविरहलिङ्गत्वेन सव्यभि- चारविरुद्धयोरपि संग्रहे विभागल्यावातः स्वतन्त्राभिप्रायस्य निघेडुमशक्यत्वात् अन्यथा शास्त्रे परिलायोच्छेदापत्तेः स- व्यभिचारादेरप्येवं रूपसत्त्वेऽप्युपजीव्यत्वेन पृथक्त्वम् उप- धेयसङ्करेऽप्युपारसकरात् । नन्वाश्रयाप्रसिद्ध्या कथमा. श्रयासिद्धिरुसाव्या न च शशीयतया गवि घटङ्ग निषेधवत् व्योमकमलमिति वाच्यं शशटङ्गनिधो न गतीयुक्तत्वा- अनुमानखण्डः । १०३ दिति चेत् व्योमकमलमिति निश्चितानन्वयत्वेनापार्थकम् आश्रयविशेषणासिया चाश्रयामिद्विरसङ्गीणों। व्यानि- विरहश्च व्यर्थविशेषणादौ तदुक्तमेकामसिद्धिं दुष्परिहरतो द्वितीयापत्तिरिति उपाधिस्तु न व्याप्तिविरह: वनिव्याय- कधूमाव्यापकवर्मास्याप्रसिद्ध्या धूमे तहिरहासिद्धे. किन्तु यावत्खव्यभिचारिव्यभिचारि साध्यसामानाधिकरण्यमनौ- पाधिकत्वं व्याप्तिः साध्यव्यापकसाधनाव्यापकधान्तरं न तद्विरहः अपि तु तन्नियमत: न चैवमुपजीव्यत्वेन उपाधि- हेत्वाभासान्तरम् उपजीव्यत्वेऽपि खतोदूषकत्वेन तदर्थं पर- मुखवीक्षकत्वात् नहि साध्याध्यापकत्वमनुमितिविरोधि किन्तु व्यभिचारोबयनेन खव्यतिरेकेण सत्प्रतिपक्षतया वा तदाह उपाधाववश्यं व्यभिचार उपाधेरेव व्यभिचार- शङ्केति अप्रयोजकान्यथासिद्धौ सोपाधी नासिद्धौ प्रति- कूलतर्कानुकूलतर्काभावावुपजीव्यत्वे सति खतोदूषकावपि न हेत्वाभासौ खरूपसतोरेव प्रतिबन्धकात्वादित्युक्तम् । बाधो न साध्याभाववत्पक्षकत्वं पक्षरत्यभावप्रतियोगि- साध्यकत्वं वा पक्षे साध्याभावज्ञानमावस्य प्रमात्वज्ञानं विना अधिकाबलत्वाज्ञानेन बाधानावादिति वक्ष्यते अतएव साध्याभाववत्मक्षन्तित्वमपि न असिविसङ्कीर्णबाधाव्यानेच কিন্তু শ্রাবনসলাহিল মলিকালাৰ- वत्मक्षकत्वं पक्षनिष्ठप्रमाविषयत्वाकाराभावप्रतियोगिसाध्य- कत्वं वेति विवक्षितविवेकेन साध्याभावप्रसव दोषः साच १०४ तत्त्वचिन्तामणो प्रमात्वेन जाता न स्वरूपसती हेत्वाभासत्वात् प्रमात्वज्ञानं विना अधिकबलत्वाभावेनादोषत्वात् अप्रमायामपि प्रमा- त्वज्ञानेऽनुमितिप्रतिबन्धाच्च। अथ साध्याभाववति पक्षे हेतोः सत्त्वज्ञाने व्यभिचारः तदज्ञानेऽसिद्धिः संशययोग्य- त्वाभावेन पक्ष त्वाभावादात्रयासिविच न च पक्षभिन्ने व्यभि चारो दोषः व्यर्थविशेषणत्वात् सर्बोपसंहारप्रवृत्तव्याप्तेः साध्याभाववति साधनमित्यवगमादेव भङ्गात् न चैवं सन्दि- ग्वसाध्यदृष्टान्ते सन्दिग्धानकान्तिकवत्पक्षे व्यभिचार- संशयादनुमानमात्रोच्छेद इति पक्षे साध्यसंशयोऽनुमानाङ्ग मिति व्याप्तस्य पक्षधर्मताज्ञानादतुमित्युत्मादेन संशय- निरत्ते: अन्यथा विशेषदर्शनस्य संशयविरोधिता भज्येत न च पक्षे साध्याभावं प्रतीत्य व्यभिचारज्ञानमित्युपजीव्य- त्वाहाधः पृथक् पक्षे साध्याभावप्रतीतिरेव हि साध्याभाव- हेत्वोः सम्बन्धोल्लेखनीत्येकवित्तिवेद्यत्वेन नोपजीव्यत्वम् अन्यथा बाधदशायां पक्षे हेतोरज्ञानादसिद्धिरेव न चोड़ा- वितव्यभिचारनिर्वाहाय बाधोद्भावनभावश्यकमित्यपजीव्यत्वं व्यभिचारोद्भावने परं कथन्ता नावश्यकत्वात् तत्त्वे वा तनिर्वाह्यमेव दूषणं क्लप्तत्वात् वहिष्णः कृतक इत्युद्भा- वनाइङ्गिरुष्ण इत्युद्भावने लाघवमितिबाधः पृथगिति कश्चित् तन्न पक्ष साध्याभावप्रमा खार्थानुमाने यदि न दोषः तदा परं प्रत्यपि न स्यादविशेषादिति तदुद्भावनस्य दूरनिरस्तत्वात् । अथोपनीतकाञ्चनमयत्वविशिष्टवङ्गानु- अनुमानखण्डः। 'मतेः मलिङ्गजन्यायाः आभासत्वं हेत्वाभासाधीनं न चा- तुमितेः पर्व नल व्यभिचारज्ञानं विशिष्ट स्याप्रसिद्ध्या तह- मावस्याज्ञानात् अतएव पक्ष नैसद्धिरपि न अतः काञ्चन- मयवाभावरूपाहावादनुमानाभासत्वं व्यधिकरणप्रका- रावच्छिन्नप्रतियोगिकञ्चाभाव इति चेन्न वस्तुतो व्यभि- चारस्थापि तत्र सत्वात् ज्ञानञ्च तस्य बावस्यैवानुमित्यन- न्तरमेव किञ्च वहौ काशनमयत्वस्यानुमितावेव भाने काञ्चनमयवङ्गिमानित्यनुमितिर्न स्थात् विशिष्टस्य पूर्वम- ज्ञानाईजौ काञ्चनमयत्वाशेऽनुमितेराभासत्व वङ्गौ लिङ्ग- स्यासिद्धेः व्यभिचाराच न चानुमितेविषयाभावाधीनमप्र- मात्वं किन्तु हेत्वाभासाधीनं यस्य हि ज्ञानमतुमितिप्रति- बन्धकं स हेत्वाभासः न च साध्याभावो ज्ञातः प्रतिबन्धक इति न स हेत्वाभासः। वस्तुतस्तु उपनौतस्यानुमितौ भाने भानाभाव प्रत्यभिज्ञादौ च प्रतीतिबलेनैव तत्कल्प- नम् अन्यथा पर्बोपस्थितसकलपदार्थभाने यथार्थानुमि- त्युच्छेदः। अपि चैवं परार्थानुमानेप्युपनीतभाने बाधि- तोऽर्थ उपनीतोऽय मम भात इत्य भावनादेव विजयेत वादी उद्देश्यानुमितेरप्रतिबन्धान तत्र बाधो दोष इति चेत् तुल्यं स्वार्थानुमानेपि अतएव यत्र सामान्यतो दृष्टा- नुमानमेवेतरबाधसहायं विशेषानुमापॐ तत्र बाधकाना- माभासत्वे तत्प्रयुक्त सामान्यतो दृष्टस्याप्याभासत्वमिति बाध- स्वासार्थ्यात् । न च यदि विशेषविप्रतिपत्तौ सामान्यस्य तत्त्वचिन्तामणौ प्रतिज्ञा तदा अर्थान्तरं सामान्यविप्रतिपत्तौ तु नेतरत्र बाधकापेक्षेति वाच्यं स्वार्थानुमानएवैवं बाधासङ्करस्योक्त- वादित्यपास्तम् अनुमित्यप्रतिबन्धेन तत्र बाधस्यादोषत्वात् ननु पक्षे साध्यामाक्ग्रहवत्साध्याभावव्याप्यग्रहोऽपि दूषको- विरोधित्वाविशेषात् तथाच साध्याभावसम्बन्धो व्यभिचार: साध्याभावयाप्यसामानाधिकरण्यं बाधः साध्याभावव्या- प्यञ्च वह्नित्वादिकमेवेति चेत् न पक्षे हि साध्याभावे ज्ञाय- माने जाते वा यदि साध्याभावव्याप्यसामानाधिकरण्य- बुद्धिस्तदा व्यभिचारएव । अथ पक्षे साध्याभावबुद्धिं विनैव सातहि हेतुमाध्याभावव्याप्ययोरग्टह्यमाणविशेषयोः सत्य- तिपक्षत्वम् । अथ तुल्यवलेन सत्प्रतिपक्षोऽधिककलेन बाध इति चेन्न गमकतौपयिकरूपसाकल्यं हि बलं तच्च योति- मिति कथं न सत्प्रतिपक्षत्वं गमकतावहिर्भूतञ्च न बलम् । अथ साध्याभावव्याप्यबुवेरनन्यथासिद्धत्वं बलं तदा ततः साधनवति पक्षे साध्याभावानुमितावनैकान्तिकत्वमेव पक्ष साध्याभावग्रहवदिति यदुक्तं तदप्यसिद्धं तस्य दोषत्वानभ्युप- गमात् अन्यथा हेत्वाभासान्तरतापत्तिः । अथ हेतुतः साध्यसिदिसम्भावनायां व्यभिचारासिद्धिः बाधेन हेतो रसाधकत्वे सिड्वे व्यभिचारसिद्धिरित्युपजीव्यत्वाबाधः पृथक् अन्यथा हेतोरसाधकरवे सिद्धेः साध्यसिड्विसम्भावना- विरहाद्यभिचारबुद्धिः तस्याञ्च सत्यां हेतोरसाधक- त्वधीरित्यन्योऽन्याय इति चेन्न साध्यसिधुन्मुखहेतु- अनुमानखण्ड । मानस्य प्रमितसाध्याभावसहचरितहेतुविषयत्वेन व्यभि- चारज्ञानतया दूषकत्वात् तथापि व्यभिचारे साध्याभाव- प्रमा तन्वं तां विना तदभावादिति सैव दोष इति चेत् सत्यं किन्तु साध्याभावप्रमाव्यभिचारज्ञानत्वेन दूषिका क्लप्तत्वात् न खतन्वा अतएव पक्षे साध्याभावज्ञानत्वन प्रतिबन्धत्व नतु साध्याभावसमानाधिकरणसाधनज्ञानत्व- नेति प्रत्युक्तं तस्य लघुत्व ऽप्यक्लप्तत्वात्। अप्रत्यक्षादौ प्रमामात्र प्रति सातन्त्र्येण बाधो दोषत्वेन क्लप्त इत्यनु- मितावपि स एव दोष इति चेन्न अन्यत्र तथा दूषकत्वा- कल्पनात् । उच्यते । पक्षे साध्याभावनिश्चयः साध्याभाव- ज्ञानप्रमात्वनिश्चयात् ज्ञानमात्रार्थनिश्चये प्रामाण्यग्रह- वैयर्थं चमतवेन ज्ञातादर्थनिश्चयप्रसङ्गश्च तथा चोपजीव्य- त्वेनाधिकबलत्वेनवा पक्षे साध्याभावज्ञानस्य प्रमावनिश्चये सव्यभिचारो नान्यथा उभयथापि साध्याभावनिश्चयाधीनव्य भिचारज्ञानात् पूर्व ज्ञातं साध्याभावज्ञानप्रमात्वमेव दोष उपजीव्यत्वात् । यदि च पक्षे साध्याभावज्ञानस्य प्रमात्व- निश्चयो नानुमितिविरोधी तदा व्याप्तिपक्षधर्मतया हेतु- ज्ञानं विशेषदर्शनत्वेन पक्षे साध्याभावज्ञानं परिभूय सावं साधयेदेव पर्वते धूमडूव वह्नि न च साध्याभाव बुड्विरेवा- ग्टह्यमाणविशेषा सत्प्रतिपक्षवत् प्रतिबन्धकेति वाच्यं रजते न इदं रजतमिति ज्ञानेऽपि विशेषदर्शनेन रजतत्वस्य शङ्ख मौतत्वज्ञाने शुक्लत्वस्य चानुमानात् वादिवाक्येन पक्षे साध्या तत्त्वचिन्तामणी भावज्ञानादनुमानोच्छेदप्रसङ्गाच्च। अथ पक्षे साध्याभाव. प्रमेव साध्याभावहेतुविधया व्यभिचारज्ञानत्वेन दोषो तु तस्याः प्रमानत्वज्ञानमपीति चेत् तहि प्रमायाः अ- प्रमात्वज्ञाने वान्तानुमितिनं स्यात् न स्याच पक्षे साध्या- भावज्ञानप्रमात्वभ्रमादनुमितिप्रतिबन्धः। ननूपजीव्यत्वे- ऽप्यत्र साध्याभावप्रसेति ज्ञानं न खतोदूषकं क्लप्तत्वात् पक्षे साध्याभावनिश्चयं कुर्बत् व्यभिचारज्ञानहारेति चेन्न अत्र साध्याभावप्रमेति ज्ञानान्नियमतः साध्यज्ञानानुदयात् तस्यैव प्रतिबन्धकत्वात् शब्दादौ तथा दर्शनात् साध्याभाव प्रमा- विषयत्तित्वस्य हेतुरत्तित्वादसाधकत्वेन साध्याभावप्रमाया हेत्वाभासत्वं साधारण्येऽपि ज्ञायमानं सत् यदनुमिति प्रति- बध्नाति तस्यैव हेत्वाभासत्वं न च साध्याभावप्रमा नेति नि- स्वयदशायां पक्षे साध्याभावहेतुज्ञानाद्यभिचारति वाच्यं प्रमात्वज्ञानस्य सायाभावनिश्चयहेतुत्वेन तद्दशायां तद- भावात् । पक्षधर्माताबलेन प्रसिद्ध बाधान्द्र सिध्यतीति बाध: ध्यक्। प्रसिद्धाभाववति पक्षे व्यभिचारान्न तत्सिविरिति चेत् तसित्प्रसिद्धाभाववति सपक्षे व्यभिचारात् तमपि न साधयेत् तदज्ञानात्तत्साधनेऽनुमितिरप्रमा स्यात् । अथ पक्षटत्तेरन्यएव धूमादिः सपक्षे तर्हि गोत्वष्टथिवीत्व द्रव्य- त्वादेरप्रसिहसास्नानुमानं न स्यात् सानादिप्रत्येकव्यभि- चारात् यदि च साध्यत्वावच्छेदकसानात्वादिसामान्याव- च्छिन्न प्रतियोगिका भाववति न गोत्वादिकमिति न व्यभि- अनुमानखगडः। १०४ चारः तहि धूमेऽप्येवं व्यभिचाराभावात् साध्यतावच्छेदकेन प्रकारेणाप्रसिद्धमिव प्रसिद्ध मपि साध्यं धूमगोत्वादिकं साध- येत् यदि बाधोदोषति वयम् । साध्याभाववन्मानसह- चारोन व्यभिचारः साध्यप्रागभावध्वंसवहत्तित्वेन व्यभिचा- रितया पृथिवीत्वादिना गन्धादेः द्रव्यत्वादिना गुणस्थानु- मानभङ्गप्रसङ्गात् किन्तु साध्यात्यन्ताभाववदगामित्वम् एवञ्च स प्रागभावप्रध्वंसावच्छिन्नतदाश्रये तत्प्रतियोगिसा- धने पक्षे व्यभिचारोनेति बाधोदूषणम् अथावच्छेद्ये सिव- साधनम् अवच्छेदके हेत्वसिद्धिः विशिष्टञ्च नान्यदिति चेत् तहि प्रागभावप्रध्वंसप्रतियोगिनोरेकत्तित्वेनैकसमयतापि स्थात् | अथ यत्समयावच्छेदेन तत्र प्रागभावः प्रध्वंसोवा न तत्समयावच्छेदेन प्रतियोगीति चेत् तर्हि तदवच्छेदेन प्रतियोगिसाधने न सिद्धसाधनं किन्तु बाधएव अन्यथा- भावात्यन्ताभावयोरप्यव्याप्यत्तित्वभङ्गः एकत्तित्वात् अव- च्छेदकभेदेन वृत्तिरिहापि तत्र देशभेदोऽवच्छेदकोऽत्र तु समयभेदति । असिद्धेरपि बाध एवोपजीव्यः न चैवमुपजी- व्यत्वाबाधवत् सिद्धसाधनमपि पृथक् उपजीव्यत्वेऽपि खतोऽ- दूषकत्वात् नहि साध्यज्ञानं तद्बुद्दिविरोधि धारावाहिक- यात् नाप्यनुमितिविरोधि अनुमित्यया प्रत्यक्ष- सिद्धेऽप्यनुमानदर्शनात् तदुक्तं प्रत्यक्षदृष्टमप्यनुमानेन बुभु- सन्ते तकरसिका इति श्रवणानन्तरं मननदर्शनाच्च तस्मात् सिद्धिमानार्थिनः सिद्धौ न तदिच्छा सिद्धिविशेषार्थिन:

तत्त्वचिन्तामणौ सास्तीति तस्यानुमितिरेव एवञ्च सिषाधयिषितपक्षविघट- नहारा सिद्धसाधनं दूषणं न स्वतः नन्वभावधीरपि न भावधीप्रतिबन्धिका नेदं रजतमिति वमानन्तरं रजतनि- श्चयात् न चाभावप्रमा तथा अपीत: शङ्कति प्रमापयतएव पौतोऽयमिति भ्रमदर्शनादिति चेन्न विरोधिज्ञानं हि प्रतिबन्धक प्रत्यक्षत्रमस्य च प्रत्यक्षमा विरोधिनी सा भलादौ नास्त्येव अनुमितौ त्वभावप्रमामात्रमेव विरोधीति कथमभावप्रमायां भावानुमितिरिति । स चायं दशविधः धभिग्राहकमानबाधितं घटोव्यापकः सत्त्वादिति प्रत्यक्षण परमाणवः सावयवा मूर्तत्वादित्यनुमानेन मेरुः पाषाण- मयः पर्वतत्वादिति सुवर्णमयत्वबोधकागमेन साध्यप्रति- योगिग्राहकबाधितं वरिनुष्णः कृतकत्वादिति प्रत्यक्षण शब्दोऽश्रावणो गुणत्वादित्यनुमानेन गवयत्वं गवयपदाप्र- वृत्तिनिमित्तं जातिवादित्युपमानेन साध्यग्राहकबाधितं नरशिरः कपालं शुचि प्राण्यङ्गत्वादित्यवागमेन हेतुग्राह- कबाधितं जलानिलावुष्णौ पृथिवीतो विपरीतस्पर्शत्वात् तेजोवदिति प्रत्यक्षेण मनोविभुज्ञानसमवायाधारत्वादित्य- नुमानेन राजसूयं ब्राह्मणकर्तयं वर्गसाधनत्वादग्निष्टोम- वदिति राजसूयकर्त्तव्यताबोधकागमेनेति । अश्व हेत्वाभा- सानाम् साधकतासाधकत्वेन सङ्केतुमत्त्वं जात्यादीनां स्खासाधकतासाधारण्येन परासाधकतासाधकतया खव्या- घातकवादसवेतमत्त्वम् अथ विरुइत्वादिजानादेव खानु- अनुमानखण्ड। मितेरिव परानुमितेः प्रतिबन्धे किमसाधकतानुमानेन यहचसि वाद्युक्तदूषणावगमः स निग्टहीत इति समयबन्धेन कथाप्रवृत्तौ दूषणमात्रमुद्भाव्यमन्यथार्थान्तरत्वादिति चेन्न इयं ह्युद्देश्यं परानुमितिप्रतिबन्धः स्थापनाया असाधकता- साधनत्वञ्च तत्राद्य दूषणमात्रज्ञानादेव द्वितीयन्तु अलि- ङ्गत्वज्ञापनात् प्रतिबन्धकत्ववदनेनापि रूपेण दूधकत्वस- म्भव इत्यभिप्रायेण वा साधकतासाधनं नन्वेवं पञ्चावयवा- पेक्षा स्यात् अन्यथा न्यूनतापत्तिरिति चेन्न दूषणस्यासाध- कताव्याप्यत्वमङ्गीकृत्य कथेति पक्षधर्मताया एवोद्भाव्यत्वात् अन्यथा अधिकतापत्तेः नन्दवं कृतकत्वेनानित्यत्वानुमाने व्याप्ति भिधेया उभयसिद्धत्वादिति चेन कथादशास- मयविषयतया दूषणेष्वसाधकताव्याप्त्युपस्थितेरावश्यकत्वात् अन्यथा कथकत्वविरोधात् नन्वेवं कृतकत्वे तद्याप्तिमनङ्गी- कृत्यापि कथासम्भवात् यस्तु कथारम्भे साधकत्वव्याप्तिं ना- गौ करोति तं प्रति तभूषणत्वं प्रसाध्य पञ्चावयवप्रयोगः क- तव्य एव यत्तु दूषणे पक्षधर्मातामात्रमुद्भाव्यं तत्र यत्र वादि- नोस्तथा समयोऽन्यत्र तु पञ्चावयवप्रयोग एवेति तन्न कथा- सम्प्रदाविरोधात् । अथासाधकत्वं न पक्षे साध्यप्रत्ययाज- नकत्वं तेनापि तत्त्वेनाज्ञानदशायां पक्षे साध्यवमजननात् कदाचिदजनकत्वं सद्दतावपि नन्वेतत्काले साध्यविशिष्टप- क्षधर्मिज्ञानाजनकत्वं तत् न हि दूषणत्वज्ञानदशायां पक्षे भ्रमरूपाप्यनुमितिः साध्यविशिष्टपक्षञानञ्च हेतुत्वेन तत्वचिन्तामणौ ज्ञानदशायां प्रसिद्धमिति चेन्न सहेतावसत्प्रतिपक्षदशाया- मपि पूर्वकाले साध्यविशिष्टपक्षज्ञानाजनकत्वमस्तीत्यसाध- कताप्रसङ्गात् । अथ पक्षे साध्यन्नमजनकत्वं तत् बाध- विरुवयोरपि तत्त्वाज्ञानदशायां चमजनकत्वादिति चेन्न सद्धेतौ सत्प्रतिपक्षेऽसाधारणे च तत्त्वेन ज्ञानदशायां साध्यनमजनकत्वात् अज्ञाने साध्यप्रमाजनकत्वात् नापि व्याप्तिपक्षधर्मतान्यतरराहित्यं सत्प्रतिपक्षासाधारणसद्धे- तोरभावात् दशाविशेषे तस्य तदोषत्वात् साध्यप्रसिवौ प्रकृतसाध्यव्यायप्रसिद्देश्च नाप्यनैकान्तिकाद्यन्यतमत्व यत्कि- चिदनैकान्तिकत्वस्थातिव्याप्तेः प्रकृतसाध्यानैकान्तिकत्वस्था- प्रसिद्धत्वेन केवलान्वयिसाधने प्रसिद्धेः सङ्गतः सिद्धसा- धनात् साध्याविशेषश्च । यत्तु एतत्कालीनएतत्यक्षीयत्वा- वच्छिन्नप्रतियोगिकैतत्माध्यप्रमाकरणत्वाभावः तत्तत्काले तत्तत्पक्षविषयसाध्यवाभिमतानित्यत्वादिनमजनकत्वाभावो वाऽसाधकत्वं न च प्रतियोग्यप्रसिद्धिः एतत्कालौनेतत्पक्षी यत्वतत्तत्कालतत्तत्यक्षविषयत्वयोर्काधिकरणयोरेव प्रतियो- गितावच्छेदकत्वादिति तन्त्र तड्वेतोः सत्प्रतिपक्षाज्ञानद- शायामपि तादृशप्रमायामकरणभावेनासाध्यतापत्तेः। नामि टतीयलिङ्गपरामर्शस्य प्रमात्वं तत् विरुवादौ परा- मर्शाभावात् सद्धेतौ सत्प्रतिपक्षेसाधारणे च तत्पमात्वाञ्च नाप्यनुमितिहेतुभताभावप्रतियोगिज्ञानविषयत्वं सद्देता- वमि कदाचित् व्यभिचारित्वसत्प्रतिपक्षत्वज्ञानस्थानुमिति अनुमानखण्ड: । १ प्रतिबन्धकत्वात् । अथानुमितिप्रतिबन्धकप्रमाविषयत्वमा साधकत्वं सबेतौ व्यभिचारादिनमः प्रतिबन्धकः अनुमिति प्रतिबन्धकत्वञ्च व्यभिचारादिप्रमायास्तृतीयलिङ्गपरामर्श- विघटनहारा तुल्यबलतया विषयतया चेति चेन्न सत्पति- पक्षयोविरुवयोास्तवतुल्यबलत्वाभावेन तवमस्य प्रति- बन्धकत्वात् न च तुल्यबलतया ज्ञायमानेन बोधितसाध्य- विपर्ययकत्वज्ञान प्रतिबन्धक तच्च प्रमैवेति वाच्यं तुल्य- बलतानानमेव प्रतिबन्धक न तु ज्ञायमानत्वज्ञानं गौरवा- दसिद्धेः। न च सत्प्रतिपक्षेऽन्यतराङ्गवैकल्यप्रमैव प्रति- बन्धिकेति वाच्यं अन्यतरत्वं तदतहत्ति न च तदतहत्तिसा- मानाधिकरण्येन ज्ञायमानस्य दोषत्वं धर्ममानस्य व्यभि- चारज्ञानादनुमित्युच्छेदापत्तेः अन्यतराङ्गवैकल्यज्ञानोप- जीव्यस्य तुल्यबलत्वज्ञानस्यैव प्रतिबन्धकत्वाच्च अन्यथा व्याप्यत्वासिड्यन्तर्भावापत्तेः। अथानैकान्तिकादिज्ञानस्य तत्तदनुमितिप्रतिबन्धकत्वमसाधकत्वं तथाहीदमनैकान्ति- कादिज्ञानमेतत्कालीनैतत्साध्यवत्तयैव तत्पुरुषस्यैव तत्यक्ष- कानुमितिप्रतिबन्धकम् एतदनैकान्तिकज्ञानत्वात् एतदन्य- तज्ज्ञानवदिति चेन्न एतत्साध्यवत्तयैतत्पक्षकत्वानुमितेः कदाचिल्लिङ्गभ्रमात् प्रसिद्धावप्येतत्कालीन एतत्पुरुषस्य तादृशानुमित्यप्रसिद्धेः नापि समीचीनसाध्यविशिष्टपक्ष- प्रत्ययाजनकत्वं बाधविरुवासिद्धेषु साध्यानधिकरणपक्षे सत्यसाध्यप्रतीत्यप्रसिद्देः वगिमति बाध्ये धूमनमात् वगा- तत्त्वचिन्तामणी स्त्येव । तुमितेः सत्यत्वाच्च न चान्यएव वङ्गिस्तत्र भासते मानाभा- वात् तहतेः प्रत्यभिज्ञानात् एकव्यक्तिके तदसम्भवाच्च न च सानुमितिलिङ्गविषयत्वेन नमः अनुमितो लिङ्गभाने मा- नाभावात् किञ्च भावाभावोभयमपि प्रमेयमिति सत्यनु- मितौ भावत्वाभावत्ववति प्रमेयत्वभाने एकत्र तयोरभावा- दसत्यानुमिति: स्यात् न चान्यतरत्वं सिद्धं तद्याप्तिमविदु- पोऽप्यनुमितेर्यर्थविशेषणत्वाच्च । अथ साध्याव्याप्यत्वमेव तत्र तन्त्र तत्र च बाधो नास्तीति चेत् तहि कूटलिङ्गादनु- मितौ वहिव्याप्यवत्त्वमेव तन्वं वनिव्याप्यञ्च किञ्चित्तत्रा- अथ कूटलिङ्गे वहिव्याप्याभेदः प्रतीयते तथा वह्नौ कटलिङ्गव्यापकाभेदोऽपि अन्यथा कूटस्यैव वगियाप्य- वाप्रतीते: एवञ्च कूटलिङ्गव्यापको वङ्गित्वेन भासत इति वनानुमितिरसत्येति चेन्न वनिव्याप्यालोके धूमारोपात् यत्रानु मितिस्तत्रासिविभेदेऽसत्यत्वाभावापत्तेः आलोक- व्यापके धूमव्यापकाभेदात् । अथ लिङ्गमनुमितिविषयो नियमतः पक्षधर्माताज्ञानविषयत्वात् व्याप्तिज्ञानविषयत्वात् नियमेनानुमितिहेतुविशेषणधीविषयत्वाच्च पर्वतवत्साध्य- वच्च किञ्चकविशेषणवत्त्वेन ज्ञाते विशेषणान्तरधीसामग्री तत्रैव विशिष्टवैशिष्वज्ञानमितिधूमविशिष्टएव वह्निवैशिष्या- नुमितिरिति । नन्वनुमितौ व्यापकत्वभानेऽनुमित्यविच्छेदः न च फलीभतज्ञानन्यूनविषयस्यैव परामर्शस्थानुमिति- हेतुत्वं गौरवात् विषयान्तरसञ्चारात् नानुमितिरित्यपि A अनुमानखण्ड ११५ न परामर्शस्य चरमकारणत्वात् प्रत्यक्षादिसामग्रीतो बल- वत्त्वाच्चेति चेन सिद्धसाधनेन विच्छेदात् यद्यप्येवं लिङ्ग- ज्ञाने प्रमात्वेऽपि साध्यप्रमात्वात् कथं तदसाधकं तथाप्यु- तमसाधकत्वमस्त्येवेति चेत् अस्तु तावदेवं तथापि दैवा- तत्र धूमसत्त्वे कथं तदंशेऽप्य सत्यता अतएव आद्रेन्धन- प्रभवो वधूिमव्यापको नान्यः नच वङ्गित्वेन व्यापक- त्वादन्योऽपि तथा तेन विनापि धूमसत्त्वात् एवं वाध्ये धूम- भ्रमात् धूमव्यापको वगिर्भासते सच तत्र नास्त्येवेति न सानुमितिः सत्येति निरस्त दैवाडूमसत्त्वे सत्यत्वात् । उच्यते । खज्ञानदशायां पक्षे साध्यप्रत्ययाजनकत्वमसा- धकत्वं तथाहि विरुद्धत्वादिज्ञानदशावर्तीदं पक्षे साध्यात्म याजनकं विरुवादित्वात् पक्षविशेषणमहिम्ना तत्तद्दशा पक्षे साध्यप्रत्ययाजनकत्वं सिद्ध्यति बाधितेऽपि लिङ्गत्वन मात् पक्षे साध्यप्रत्ययजनकत्वमिति र प्रतियोग्यप्रमिता साध्याप्रसिद्धिः यहा अनुमितिप्रतिबन्धकतावदकरूप- वत्त्वमसाधकत्व तथाहीदानीमिदमनुमितिप्रतिबन्धकत्व। वच्छेदकरूपवदनैकान्तिकादित्वात् ज्ञानवत् अनुमितिप्रति- बन्धकतावच्छेदकञ्च रूपं ज्ञाने विषयतयानकान्तिकादित्वमेव न च साध्यविशेषः उपाधिविशेषस्यानुमेयत्वात् तोयत्वेन पिपासोपशमनसमर्थतावच्छेदकरूपपरत्वानुमानवत् । अन्ये त्वनैकान्तिकबाधितविरुडेष्वव्याप्यत्व व्याप्यत्वासिद्धेऽनै का- न्तिकत्वं स्वरूपासिद्धसत्प्रतिपक्षांसाधारणषु दशाविशेषेऽनु- तत्वचिन्तामो मितिप्रतिबन्धकज्ञानविषयत्वमसाधकत्वं न चैवमनैकान्ति- को साधक इति सह प्रयोगानुपपत्तिः तनाव्याप्यत्वस्यासा- धकशब्दार्थत्वात् असाधकताननुगमेऽपि च हेत्वाभासत्वम- ननुगतमेव यस्य ज्ञानमनुमितिप्रतिबन्धकं तस्य हेत्वाभ- सत्वादिति । श्रीमद्गङ्गशोपाध्यायविरचिते वस्त्वचिन्तामणौ अनुमानखण्डो बाधान्तः । 1११- Accn. No. THRECEDETY OF TAM SE'' IKARNAT.abortos

No text on this page.

No text on this page.

No text on this page.

Tattvachintaamand-i

Author
Gad'gageshopadhyaaya
Title
Tattvachintaamand-i
File name
Tattvachinthamani
Text
OCR done
Published
2004/12/2
Publisher
Not Avaialable
Language
Sanskrit
Pages
122
Library
Asr,melkote
Classification
Logic. Epistemology
Keywords
Tattvachinthamani
DLI number
383281
Barcode
1990020047563.00
Scanning centre
ASR, Melkote
Digital publisher
Digital Library Of India
Rights
Not Available
VMLT id
VKBWXOclzET
Download PDF

Tattvachintaamand-i