Svi-ksri-chennai
Matangaliilaa
Front matter
No text on this page.
TRIVANDRUM SANSKRIT SERIES.
NO. X.
3942
THE
MÂTANGALÎLA
OF
NILAKANTAA.
Edited with Notes
T. GANAPATI SÂSTRÎ
Curutor of the Departono ul.fine the pooblication of Suriskirit italouscripte,
TRIVANDRIN
her
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF
HIS HIGHNESS THE MAHARAJAH OF TRAVANCORE.
TRIVANDRUM:
PRINTED AT TIIT TRATATORT VERVJFNI MIEJ.
1910).
(All Rights Herred.
No text on this page.
॥ श्रीः॥
अनन्तशयनसंस्कृतग्रन्थावलिः ।
ग्रन्थाङ्क: १०
मातङ्गलीला।
श्रीनीलकण्ठकृता
संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण
त. गणपतिशास्त्रिणा
संशोधिता।
सा च
अनन्तशयने
महामहिमश्रीमूलकरामवर्मकुलशेखरमहाराजशासनेन
राजकीयमुद्रणयन्त्रालये
मुद्रयित्वा प्रकाशिता।
कोळम्बाब्दाः १०८५,
स्तवान्दाः १९१०.
No text on this page.
PREFACE 2. ख Matangalila (912) is an elementary treatise on the science of elephants. The original palm leaf manuscripts of this work are these: 1. ( In Malayalain characters.) (In Tamil Grantha characters.) 3.77 (In Malayalain characters.) Of these, the first two were obtained from the Palace Library and tho third was lent by Brahniasri Kusavar Sapkaranårảyanar, Kalpakaunangalamathain, Manalikkara. These manuscripts are about two centuries old and are not frea from errors. It is not known when and where the author Nilakantha lived, but it is probable that he may be a native of Malabar as this work is widely known in Kerala, T. Ganapati Sastri.
No text on this page.
निवेदना। . मातङ्गलीला नाम कश्चिदयं गजलक्षणसंक्षेपरूपो ग्रन्थः । अस्य संशोधना- धारभता आदर्शास्त्रयः क्रमेण क-ख-ग. चिह्निताः । तत्राद्यौ राजकीयग्रन्थशालास्थौ, तृतीयस्तु मणलिक्करकल्पकमङ्गलमठस्वामिनः श्रीशङ्करनारायणपोत्तिमहाशयस्य सम्बन्धी । सर्वेऽप्यमा द्विशतवर्षसम्भाव्यास्तालपत्रामका अनतिशुद्धाश्च । एषु ख.चि- तितो द्रमिलग्रन्थलिपिः, अन्यौ केरलीयलिपी । ग्रन्थस्यास्य कता नलिकण्ठः कदा कुत्राभिजात इति न निश्चयः । परं त्वसौ ग्रन्थस्य केरलेप प्रचारात् केरलीयः सम्भाव्यते ॥ त. गणपतिशास्त्री.
No text on this page.
श्रीः॥ श्रीनीलकण्ठकृता मातङ्गलीला। प्रथमः पटलः । नृसिंहयादवी दैत्यसमहोपाटबीदवी । राजमानौ भजे राजराजमङ्गलवासिनौ ॥ १ ॥ मातङ्गवत्रं प्रणिपत्य दृष्ट्वा मातङ्गशास्त्रं मुनिपुङ्गवोक्तम् । मातङ्गलीलाचलितान्तरात्मा मातङ्गलीला रचयामि तावत् ॥ २ ॥ उत्पत्तिः शुभलक्षणान्यशुभलमायुयोलक्षणं मानं मूल्यविशेषसत्त्वमदभेदाश्च क्रमाद् दन्तिनाम् । वन्यानां ग्रहणं च रक्षणदिनाचारभदादिकं नागाध्यक्षगुणादिकं च सकलं मझेपतो वक्ष्यते ॥ ३ ॥ आसीदङ्गाधिराजः सुरपतिसदृशो विश्रुतो रोमपादो गङ्गातीरे कदाचित् परिजनसहितः सोऽथ चम्पानगर्याम् । आसीनो रत्नपीठे विपिनगजकृतं सर्वसस्यादिनाशं कैश्चिद्विज्ञापितोऽचिन्तयवनिपतिः किं नु कार्य मयेति ॥ ४ ॥ कालेऽस्मिन् गौतमो नारदभृगुमृगचर्माग्निवेश्यारिमेदाः काप्यो मातङ्गचार्यादय ऋषिवृषभा दैवतानां नियोगात् । १. 'चरिता' ख.पाठः.
मातङ्गलीलाया चम्पां प्राप्ता नृपेणासनकुसुमजलायैः समाराधितास्ते वन्यान् नागान् ग्रहीतुं प्रादुरथ वरं चाइराइङपाय ॥ ५ ॥ राज्ञा तेन गजग्रहाय सचिवा नुन्नाश्चरन्तो बने तेऽपश्यन् पथि सामगायनषि तिष्ठन्तमप्याश्रमे । आराहारणयूथमत्र विहरन्तं पालकाप्यं मुनि श्रीमन्तं गजयूथगं विरहितं तेनापि सन्ध्यासु तत् ॥६॥ अङ्गेशाय निवेदितं तदखिलं भृत्यैः स गत्वा गजा- नस्मिन्नाश्रमगे मुनावथ गृहीत्वागत्य चम्पां क्षणात् । एतान् गौतमनारदादिमुनिवर्येभ्यो ददौ ते पुनः स्तम्भे तान् सुदृढं नियम्य मुखमत्रोपुस्तथान्ये जनाः ॥ ७ ॥ शुश्रूषाद्यं च कृत्वा मुनिरथ जनकस्याश्रमात् पालकाप्य- स्तं देशं प्राप्य यत्र स्थितमथ गजयूथं तदस्मिन्नदृष्ट्वा । सर्वत्रान्विष्य चम्पा मुनिग्थ गतवान् स्नेहतो व्याकुलात्मा नागानां दुःखितानां व्रणशमनचिकित्सादिरक्षां चकार ॥ ८ ॥ गौतमाद्या ददृशुरथ मनि मौनसम्पन्नमेनं श्रीमन्तं हस्तियूथस्थितमपि मुनयस्ता पप्रच्छुरेनम् । कस्मात् तेषां व्रणाल्टिम्पसि गजनिवहे ते दया केन जाते- त्यतैः संपृच्छ्यमानो मुनिभिरपि स किञ्चिन्न च प्रत्युवाच ॥ ९॥ तवृत्तान्तं मुनीन्द्रैर्गदितमथ निशम्याङ्गराजोऽत्र गत्वा • पाद्यााद्यैः समाराध्य च मुनिमनु तज्जन्मनामादि सर्वम् । पप्रच्छ श्रोतुकामः क्षितिपतिरमुना तापसेनाथ किञ्चि- न्नोक्तो भूयोऽप्यपृच्छन्मुनिम्मुलनधं भक्तिनम्रो नरेन्द्रः॥१०॥ अङ्गेशं पालकाप्यो मुनिस्थ परितुष्टोऽब्रवीत् कामचारा मातङ्गाः कामरूपा दिवि भुवि च यथेष्टं पुरा सञ्चरन्तः । तत्रस्था प्रथमः पटलः । प्रालेया।रुदीच्यां दिशि वटविटपी द्वे शते योजनानां विस्तारायामयुक्तो भवति गजवास्ते तु तस्मिन् निपेतुः ॥ ११ ॥ शाखा तैः परिपाटिताश्रमपदे तत्र स्थितस्तापसो नाम्ना दीर्घतपास्ततः कुपितवान् नागान् शशापाञ्जसा । तस्मात् ते खलु कामचाररहिता नागा बभूवुर्गता मानामपि वाहनत्वमथ नो शतास्तु दिक्कुञ्जराः ॥ १२ ॥ दिङ्नागाः सह सर्वकुबरकुलंगवात्रवन पदार्ज देवास्मत्कुलजन्मनां विधिवशाद भूमि गतानामथ । रोगाः स्युविषमातिभोजनविरुद्धाजीर्णभुक्तादिभिः प्रोक्तस्तैरतिदुःखितरिति पुनम्तान् प्रोक्तवान् पद्मभूः ॥ १३ ॥ कश्चिन्नातिचिराद् भविष्यति पर मातङ्गबन्धुर्मुनि- स्त्वायुर्वेदपरायणाऽतिनिपुणा व्याधीन हरिप्यल्पसौ । इत्युक्ता दिगनेकपाच विधिना याता यथास्वं दिशं दिङ्मातङ्गकुलोद्भवाश्च पृथिवीं याताः परे शापतः ॥ १४ ॥ धात्रा यक्षनरामुरामग्रुचः संगृह्य वाणीव या सृष्टा सा रुचिरा कदापि विधिना शप्ताथ दुर्गर्वतः । तस्मात् सो वसुकन्यका गुणवती नाम्नाभवद भार्गवात् सैषाथाश्रममागता वत मतङ्गस्थातिकौतूहलात् ॥ १५ ॥ शक्रेण प्रहिता त्वियं मम तपोविनाय नेनेति सा शप्ता प्राप करेणुतां मुनिरथ ज्ञात्वानवां तां क्षणात् । भद्रे! हस्तिनि! सामगायनमुनेः शुक्पानाद् यदा पुत्रस्ते भविता तदा तव भवेच्छापान्त इत्यब्रवीत् ॥१६॥ यक्षी काचन सामगायनमुनि स्वप्ने समापैकदा गत्वाथाश्रमतो बहिर्मुनिवरो मूत्रं चकाराञ्जसा । १. 'वामुकिक' ग. पाट:
मातङ्गलीलायां मूत्रेणेन्द्रियमस्रवत् तदपिबद् गेहं प्रविष्टे मुनौ शीघ्रं गर्भमधत्त सा च करिणी सूते स्म पुत्रं मुखात् ॥ १७ ॥ दत्वा तं मुनये मुदा निजसुतं सन्त्यज्य सा हस्तिनी- भावं चाथ दिवं जगाम सहसा शापाद् विमुक्ता सुखम् । प्रीतोऽसावथ सामगायनमुनिस्तज्जातकर्मादिकं कृत्वाख्यामपि पालकाप्य इति दिव्योक्त्या चकारास्य च ॥१८॥ सोऽक्रीडच्च गजैः करेणुकलभैः साकं नदीनिर्झर- प्रस्थेष्वप्सु च रम्यभूमिषु चरन् पर्णाम्बुभोजी मुनिः। अब्दानत्र तु षट्सहस्रयुगलीसङ्ख्यानमीषामसौ भक्ष्याभक्ष्यसुखासुखेङ्गितहितानिष्टादि सर्व विदन् ॥ १९॥ मामङ्गाधिप ! सामगायनसुतं तं पालकाप्यं मुनि विद्धीत्यङनृपोऽमुना मुनिवरेणोक्तः परं विस्मितः । सम्पृष्टोऽथ मुनिर्गजार्थममुना राज्ञा पुनस्तं नृपं नागोत्पत्तिशुभादिलक्षणचिकित्साद्यं क्रमादब्रवीत् ॥ २० ॥ धर्मात्मिका सृष्टिरनेकपानां हिताय यज्ञस्य च दैवतानाम् । विशेषतो राजहिताय तस्माद् यत्नेन नागाः खलु रक्षणीयाः॥२१॥ मार्ताण्डस्य यतोऽण्डतो जनिरभूद् ब्रह्मर्षिभिर्दर्शितं सन्दीप्तं किल तत्कपालयुगलं पाणिद्वयेनादरात् । सप्तागायदजः प्रगृह्य युगपत सामान्यथैरावतो नागोऽभूदथ सप्त वारणवरा जाताः पृथग् गानतः ॥ २२ ॥ जाता दक्षिणहस्तसंस्थितकपालादेवमष्टौ गजा वामस्थाच्च वशाः क्रमेण जनिता जायाश्च तेषामथ । १. सामंगानजन्यत्वादेव गजानां सामजत्वम् .
प्रथमः पटलः । पुत्राः सत्त्वबलान्विताश्च बहवः पौत्रादयोऽपि क्रमात् स्वैरं चेरुरशेषलोकवनधुन्यद्रिष्वमी वारणाः ॥ २३ ॥ इन्द्राग्न्यादिदिगीशवाहनतया देवासुरायोधने याता नागवराश्च दुद्रुवुरथो भीता विरिञ्चान्तिके । तद् ज्ञात्वा मदपूरुषोऽथ विधिना सृष्टस्तदावेशिता मत्ता दैत्यचमू निहत्य ययुरिन्द्राद्यैर्यथास्वं दिशम् ॥२४॥ दुर्वासाः प्रददावमर्त्यपतये दिव्यस्रजं सादरं तामैरावतमर्दितामपदयं दृष्ट्वा मुनिः शप्तवान् । तच्छापेन विनष्टमाप्तुमखिलं चैश्वर्यमुन्मथ्यमा- नेऽन्धावभ्रमुवल्लभोऽजनि ततः क्षीराब्धिजोऽसौ श्रुतः ॥२५॥ जाता भद्रद्विपेन्द्राः कृतयुगसमये लक्षणेनाभियुक्ता- स्त्रेतायां मन्दजात्याः खलु गजपतयो द्वापराख्ये युगे च । नागाश्चैते मृगाख्यास्तदनु कलियुगेऽत्रैव सङ्कीर्णजात्या नागानां जातिभेदाजनिरिह कथिता कालयोगानुरूपा॥२६॥ नातिस्थूलाखिलाङः प्रथमयुगवसन्तोद्भवः पाटलाभो नाहायामी सहिष्णुधरणिधरचरः सार्थिकोऽन्वर्थवेदी। धीरस्तेजव्युदयो जलधरनिनदः काश्तिो धेनुकाभिः शूरः पिङ्गाक्षिदन्तो भवति च समदोषः शुभो भद्रनामा ॥२७॥ त्रेतायां शीतकालोद्भव उभयचरो दुर्मना ह्रस्वकों नायामी मन्दगामी हरिरुचिनयनस्तामसः कृष्णशोभः । नागः श्लेष्मप्रधानो नतविपुलरदः स्थूलवृत्ताङ्गशोभी कामी गम्भीरवेदी कथित इति बुधैर्मन्दनामा गजेन्द्रः॥२८॥ नाहायामप्रहीणः कृशनिखिलतनु—सरच्छायकायो बहाश्युत्तानवेदी चपलमतिरतिक्रोधनः सिन्धुचारी- मातालीलानां स्थूलाक्षो ह्रस्ववालश्वरमयुगपयोवाहकालप्रजात- श्चण्डः पित्तप्रधानो मृग इति कथितो वारणोऽसौ कनीयान् ॥ प्रत्येकं मन्दजात्यादिप्रोक्तलक्षणसङ्करात् । सङ्कीर्णजात्या मातङ्गाः कलौ ते बहुला युगे ॥३०॥ नागाः सर्वत्र गत्या गज इति विजयाद् गर्जनाच्चैव हस्ती वेधोहस्तप्रसूत्या परनृपतिचमूवारणाद् वारणोऽपि । मातङ्गो वर्त्ममृत्त्वादतिजरयति कुं कुञ्जरः पादतोदात् पद्मी पद्मप्रसक्या द्विप इति मुखतो हस्ततोऽपि प्रपानात् ॥३१॥ शुण्डावालधिदन्तैश्च चतुर्भिश्च पदैरपि । प्रहरन्ति यतस्तस्मादष्टप्रहरणा द्विपाः ॥ ३२ ॥ इमे बिभ्यति सर्वेभ्यः सर्वेभ्योऽभ्यधिकं वपुः । कान्तत्वाच्च तथा प्राहुरिभानेतान् महर्षयः ॥ ३३ ॥ प्रशस्तकरसंयोगात् करिणो दन्तिनस्तथा । सिन्धुराः सिन्धुरमणादेवं निर्वचनक्रमः ॥ ३४ ॥ जिह्वायाः परिवृत्तिरन्तरधिकं दाहोऽनलाद् ब्रह्मणो मुष्काभावरजोम्बुपङ्कविहृती स्वस्थेमसम्मोहनम् । मानां वहनं च दीर्घतपसो देवत्वहानि गो- विषमूत्रेऽभिरतिः स्वके वरुणतोऽन्तस्स्वेदता शापतः ॥ ३५ ॥ स्वांशो दत्तो न देवैर्ह विष इति हुताशः कदाचित् तिरोभूत्र क्रुद्धोऽन्वेष्टुं प्रणुन्ना दिगधिपकरिणो ब्रह्मणा वहिमेनम् । गत्वा ते त्वाश्रयाशाश्रममथ महिषीं धर्षयामासुरग्नेः सोऽयं तत्क्रन्दनात् तानशपदलमिमांस्तत्प्रभावान्न दग्धुम् ॥ पूर्व यूयं विधातुर्वचननिशमनात् सर्वमेवं प्रकुर्मः कर्मेत्यस्याग्रतो दागवदत यदतीवोद्धता हन्त तस्मात् ।
द्वितीयः पटलः । जिह्वाया वोऽस्तु नित्यं परिगतिरपि दाहोऽन्तरित्यग्निशापं प्राप्तानां पद्मजन्मा सदयमथ ददौ पांसुपङ्काम्बुसौख्यम् ॥३७॥ गत्वा नागा भृगोराश्रममवनिरुहोत्पाटनं चाग्निहोत्रे विण्मूत्राण्यत्र चक्रुस्तदनु मुनिवरेणात्तरोषेण तूर्णम् । आघ्रायात्मीयमूत्रं शकृदपि च निजं तालुसङ्घर्षणं चा- प्यातन्वन्तो भवन्त्वित्युरुतरतपसा तेन शप्ताः कदाचित्॥३८॥ युद्धे दैवासुरे प्राग् रणशिरसि गजस्वेदपीडासहिष्णु देवौघं प्रेक्ष्य पाशी द्रुतमथ करिणां स्वेदमन्तय॑तानीत् । तस्मादन्तः प्रवृत्तान् विजहति करतः स्वेदबिन्दून् करीन्द्रा मुष्काभावस्त्वजोत्त्या द्रुततरगतये स्वैरमायोधनादौ ॥ ३९॥ सर्वेषां मदकृद् वसन्तसमयः प्रोक्तो विशेषादसौ नागानां तु ततो वसन्तजनिता ये ते तु गन्धद्विपाः । तेषां स्वेदपुरीषमूत्रमदतोयाघ्राणनादञ्जसा माद्यन्त्यन्यगजाश्च ते जयकरा गन्धद्विपा भूभुजाम् ॥४०॥ इति मातङ्गलीलायां नागोत्पत्त्यधिकारः प्रथमः पटलः । अथ द्वितीयः पटलः। मस्तकद्वितयं दन्तावासनं वंश एव च । षडेते प्रोन्नता यस्य स गजो राजवाहनः॥ १ ॥ पुष्करद्वितयं कोशो जिह्वोष्ठगुदतालु च। सप्तैते रक्ततनवो यस्य स हिरदोत्तमः ॥२॥.
८ मातङ्गलीलायां विंशत्या नखसङ्ख्ययाञ्चितपदः कारोन्नतिः कुम्भयो- रच्छिद्राश्चलरक्तकर्णयुगलः सुश्लक्ष्णकक्षः करी । सव्याभ्युन्नतमाक्षिकातिरदः सम्पूर्णकुक्षिः क्रम- स्थूलायतचारुवालधिकरः पूगीफलश्यामलः ॥ ३ ॥ स्निग्धश्यामतनुश्च खड्गसदृशच्छायोऽथवा स्वस्तिक- श्रीवत्सारिदराब्जलाञ्छनलसहिन्दुप्रकाशारुणः । कोडोद्यज्जघनस्थलोऽथ दृढकुक्षिस्रस्तसत्पिण्डिको विस्तीर्णाधिकमांसलोन्नतकलाभागो नृपा) गजः ॥ ४ ॥ बृहदायतवृत्तकन्धराः सजलाम्भोनिनादचंहिताः। कलविङ्कमधुप्रभेक्षणास्त्रिवलिस्कन्धकरा गजाः शुभाः॥५॥ सुस्निग्धतारनयनारुणपुष्कराश्च चूतप्रवालरुचिकोमलकोशदण्डाः। रक्तारविन्दरुचिराः कलकण्ठनादा- स्त्वेते गजाः शुभकराः खलु पार्थिवानाम् ॥ ६ ॥ तुङ्गदक्षिणविषाणकोटयो विन्दुचित्रितमहाकराननाः । गूढसन्धिदृढगात्रपश्चिमाः पार्थिवेन्द्र ! तव वाहनोचिताः॥७॥ चापोन्नतायतनिगूढसुवंशपृष्ठाः कान्ताघनस्तनसमानसरोमकुम्भाः। विस्तीर्णकर्णहनुनाभिललाटगुह्या- स्ताम्रोष्ठतालुरदनाः करिणो नृपार्हाः ॥ ८ ॥ १. "स्नायुभिश्च प्रतिच्छन्नान् सन्ततांश्च जरायुणा । श्लेष्मणा वेष्टितांश्चापि कला- भागांस्तु तान् विदुः ॥ धात्वाशयान्तरे धातोर्यः क्लेदस्त्वधितिष्ठति । देहोष्मणाभिप- कश्च सा कलेत्यभिधीयते" ॥ इति भावप्रकाशः .
द्वितीयः पटलः।
सिन्दूरसान्द्रसमबिन्दुविचित्रिताङ्गः
कूर्मोन्नतै िनवविंशतिभिर्नखैर्वा ।
चन्द्रप्रभैश्च सहितो बलसत्त्वधैर्य-
रुद्गारसौरभयुतोऽपि करी नृपार्हः ॥ ९॥
भग्नव्यालजलातुरांश्च कलभान हित्वा प्रतापान्वितः
कर्मण्योऽष्टविधप्रहारकुशलः शूरो दृढो वेगवान् ।
सर्वप्राणिवधे समुद्यतमनाः सद्भिर्युतो लक्षणै-
यौँ दन्तावलपुङ्गवः स नृपतेः संग्रामयोग्यो भवेत् ॥ १० ॥
युध्यन्ति केवलं योधा वहन्त्येव हया रथान् ।
वारणास्तु नरेन्द्रार्हा युध्यन्ति च वहन्ति च ॥ ११ ॥
सारसिंहशुकवानरमल्लहंस-
कादम्बकैरपि गतिः सदृशी शुभा स्यात् ।
गन्धर्वकिन्नरसुपर्णकसूकरैश्च
शार्दूलराजशरभोरगचक्रवाकैः ॥ १२ ॥
जिह्वामूलसमुहबं निगदित फेनायितं स्याद् रुतं
तत् पोतायितमोष्ठतालुजनितं तत् कण्ठजं गर्जितम् ।
तत् प्रोक्तं हसितं कपोलकरजं सर्व तदेतच्छुभं
क्षुत्तृट्छोकभयोद्भवं निगदितं निन्धं भृशं दन्तिनाम् ॥ १३ ॥
गम्भीरसौम्यहृष्टाः स्वस्थाः शृङ्गारिणस्तथा स्निग्धाः।
नादाः शुभा नराधिप! षडेव कथिता गजेन्द्राणाम् ॥ १४ ॥
हस्तेन मृदङ्गरवं कर्णाभ्यां दुन्दुभिस्वनं चैव ।
दर्दुरवं मुखेन च करोति यः पूजितः स गजराजः ॥१५॥
हंससारसमयूरकोकिलव्याघ्रसिंहवृषसन्निभस्वराः ।
पूजिताः करमकाकजम्बुककोडवानरसमा न शोभनाः ॥ १६ ॥
१० मातङ्गलीलायां गुणग्रामसमग्राश्चेडीनाधिकनखा गजाः । दोषानेव प्रकुर्वन्ति विपरीताश्च शोभनम् ॥ १७ ॥ इति मातङ्गलीलायां शुभलक्षणाधिकारो द्वितीयः पटलः । अध तृतीयः पटलः। हीनाधिक्यनखाङ्गदृश्यवृषणो ह्रस्वालिमिनो मण्डूकोदरकुब्जनीलशबलश्यावाभतालुस्तथा । स्थूलश्वातितनुर्जलूकसदृशश्चातुल्यपार्श्वद्वयो रूक्षो निर्मदनीचपुष्करकरः पूज्यो न चायं गजः ॥ १ ॥ राजिग्रन्थियुतातिरूक्षशवलरशूले विषाणे किला- स्यस्निग्धासमशुभ्रबिन्दुमदतिहस्वः सिराभिस्ततः । मेट्रो यस्य कृशोऽतिवक्रविपुलव्याविद्धसग्रन्थिक- इस्वो वालधिरल्पपेचककलापृष्ठः स निन्द्यो गजः ॥ २ ॥ लक्ष्यमुष्कस्तु मातङ्गो यत्र तिष्ठति पार्थिव! । हन्यते तत्र नृपतिः सुतेन सुहृदाथै वा ॥ ३ ॥ कर्णहीनो दक्षिणतश्चातुर्वर्ण्यविनाशनः । वामतः शिल्पिनो हन्याद् रोगार्तोऽपि भवेन्नृपः ॥ ४ ॥ त्वग्दन्ततालुनखरादिषु पुप्पितो य- स्त्याज्योऽत्र तदहनलेखनकर्म यहा । तच्छान्तिकर्म सकलं प्रतिसारणं च तच्छेदनं च मतिमान् विधिवत् प्रकुर्यात् ॥ ५ ॥ १. 'नाः' ग-पाठः, २. 'सह' ग-पाठः,
११
चतुर्थः पटलः ।
हृष्टोऽत्यर्थ रजन्यां भ्रमति खलु दिवा प्राक् प्रहृष्टः शकुन्तैः
कूजन वाञ्छन् वियत्युत्पतितुमपि सदा वालदण्डेन वीजन् ।
गात्रोत्कर्षी च बाढं मुहुरपि न वशे वर्तते यश्च यन्तु-
स्तं विद्याव्यालहस्तीत्यखिलगुणगणाढ्योऽपि न ग्राह्य एषः॥६॥
पोतान्विता वा करिणी सगर्भा
लब्धा भवेद् वाहनकोशनाशः ।
तपोवने वा स्ववनेऽथ वापि
नीत्वार्पयेद् दिग्गजदेवपूजाम् ॥ ७ ॥
इति मातङ्गलीलायाम्
अशुभलक्षणाधिकारस्तृतीयः पटलः ।
अथ चतुर्थः पटलः।
स्निग्धदन्तनखरोमचक्षुषो दीर्घकर्णकरवालवंशिनः ।
प्राक्प्रदेशपरिपूर्णलक्षणास्तुल्यमस्तकतलाश्चिरायुषः ॥ १॥
सप्तरक्ततनवः षडुन्नताः सुप्रभावमनसः सुगन्धयः।
नीलनीरदनिभा विराविणो द्वित्ररोमनिलयाश्चिरायुषः ॥ २ ॥
गात्रोत्तमाङ्गनयनाननकर्णकण्ठ-
वक्षोविषाणकरसत्त्वरुचोऽपराणि ।
अङ्गानि चेति सदृशानि वयोदशाभिः
क्षेत्राण्यमूनि करिणां दश च द्वयं च ॥ ३ ॥
क्षेत्राणां यावतां पूर्ण लक्षणं यस्य दृश्यते ।
दशास्तावत्य एवायुस्तस्येत्याह बृहस्पतिः ॥ ४ ॥
मातङ्गलालाया १२ त्रीणि पश्च च सप्ताष्टौ लिङ्गान्येतानि यस्य वै। आयुः स लभते तावदीर्घमित्यस्य मे मतिः॥५॥ चतुर्थी मृगजात्यस्य मन्दजात्यस्य चाष्टमी । द्वादशी भद्रजात्यस्य परमायुरिहोच्यते ॥६॥ इति मातङ्गलीलायाम् आयुर्लक्षणाधिकारश्चतुर्थः पटलः । अथ पञ्चमः पटलः । आ हादशाब्दाद् वयसा जघन्यो मध्यश्चतुर्विशतिवत्सरात् प्राक् । आ षष्टिसंवत्सरतः पुरायं मातङ्गबर्यो वयसोत्तमाख्यः ॥१॥ श्लक्ष्णः सुताम्रो मृदुगात्ररोमा निद्रालुरङ्कुरितहस्तलक्ष्यः । अव्यक्तरूपाङ्गयुतः स्तनार्थी बालाह्वयोऽयं प्रथमे तु वर्षे ॥२॥ किञ्चित्सान्द्रनखोऽतिरागरसनोष्ठादिः पयोऽल्पं पिबन् किञ्चिद्वल्लितृणादि खादितुमना गात्रान्तरे लोहितः। दाग धावत्यनिमित्तमेव मुदितः प्रायः सितामालितो नम्राक्षो नयनप्रमोदकृदयं वर्षद्वये पुच्चुकः ॥ ३ ॥ . १. 'णानि खा' ख. पाठः. .
पश्चमः पटलः । १३ स्फुटनखविदुसन्धिश्रोत्रदन्तप्रवेष्ट- च्छविरुरसि सबिन्दुः कर्ण पिञ्छूषयोश्च । श्रवसि शिरसि केश्युन्नम्रशीर्षस्तृणादी दृढतररदपङ्क्तिश्योपसर्पस्तृतीये ॥४॥ 'विलागनिष्कोशविलोहितः पयो- द्विट् प्रोहसन्दानधनस्तृणप्रियः । कृष्णान्ततालुः पृथुलश्चतुष्टये मनाक्प्ररोहद्दशनो हि बर्बरः ॥ ५ ॥ काष्ठत्वक्तनुसेवनस्तनुकचः पङ्काम्बुपांसुप्रियः स्वल्पं हृष्यति कोपमेति च सुखं दुःखं यतं बुध्यते । शब्दादीनपि वेत्ति यन्तृवशगो ह्युत्तानवित् प्रोल्लस- डाटावग्रहदन्त एष कलभः प्राप्तः समां पञ्चमीम् ॥६॥ पिञ्छूषकर्णकटसृक्वविलागनेत्र- कूटाग्रकर्णयुगलप्रतिमानदेशे। यः सान्द्रबिन्दुसुभगो वलिहीनवर्मा नैकारिकं तमिह षट्सममामनन्ति ॥ ७ ॥ घननखतलसन्धिपोहसन्दानचिक्का- पलिकरनखशीर्षो दन्तखादी सकण्डूः । स्फुटचरणजवावस्कारवान् सप्तवर्षः शिशुरिति कथितोऽसौ स्निग्धदोःपुष्करानः ॥ ८ ॥ 'पिञ्छूषा कर्णपाली स्याद्' इति षष्ठे पटले वक्ष्यते. * विलागादिपदानामर्थः षष्ठे पटले स्पष्टः । मध्येमुखं तु वाहित्थं पिलाटौ तस्य पार्श्वयोः' इति विलागशब्दार्थ पिलाटशब्द एव वैजयन्त्यां पठ्यते.
१४ मातङ्गलीलाया घननखतलसन्धिः क्षिप्ररोहित्रणौधो मृदुमृदुयवसाशी सञ्चलद्दन्तपङ्क्तिः । चपलगतिरजस्रं वर्षघर्षी प्रहषीं प्रहरणमृदुकोऽसावष्टमे मज्जनाख्यः ॥ ९ ॥ शुक्लेक्षणः प्लवति धेनुममुक्तशुक्लः स्निग्धच्छविः प्रततदन्तचयः पृथूराः। यो रन्ध्रसन्धिषु धनः सुदृढप्रहारी दन्तारुणं नवसमाप्रभवं वदन्ति ॥ १०॥ सञ्जातशुक्लः प्लवने स्थिराङ्गः प्रहृष्टमेदः स्थिरजातदन्तः । तेजोबलाढ्यो दशमे सुखादी यूथप्रहर्षी च स एव विकः॥११॥ उत्साही स्फुटगात्रसन्धिसुभगो गर्भप्रदो दुःखभाक् सपोहादिवलिर्घनप्रहरणः पीताभदन्तच्छविः । दुर्गस्थानरतः सुवृत्तजघनावस्कारकर्णाञ्चलः पोताख्यः स्मरवेगविक्रमबली यातो द्वितीयां दशाम् ॥ १२ ॥ तत्तन्मानविभक्तकर्णरसनोत्सङ्गादिरुद्यन्मद- घाणः सर्वगुणान्वितो दृढरणः सुस्निग्धरोमच्छविः । क्षीवाक्षः प्रियदर्शनोऽक्षविलसदृडिः सुधीः कोपनो हन्ता धातुसमः स एव जवनो यातस्तृतीयां दशाम्॥१३॥ सन्दानादिषु जातसुस्थिरवलिर्गहाति युक्तं मदं निद्राविट् प्रतिदन्तिवैरिमनसा भीतोऽनले धूपनात् । गर्जन्नुद्धतगात्ररोमनिचयो युद्धप्रयोगप्रियः कल्याणो ह्ययमेव वारणयुवा प्राप्तश्चतुर्थी दशाम् ॥ १४ ॥ १. 'लिवि' ख.पाठः. .
पञ्चमः पटलः । सन्दानप्रभृतिप्रदेशविलसद्दानाविलोद्यहली- सान्द्रः कर्णकट क्षयेषु सहजामायाति च श्रेष्ठताम् । द्राङ् माद्यत्यनिमित्तमेव मुदितः शूरोऽतिसर्वसहो यौधो नाम सदा मदाविलकटः प्राप्तो दशां पञ्चमीम्॥१५॥ ऊर्ध्व विनिर्भिण्णवलिप्रदेशः किञ्चिहिहीनेन्द्रियधातुतेजाः। वेष्टोष्ठकर्णादिपु जातरोमा षष्ठीं गतो निस्सृतदन्तमूलः॥ १६ ॥ अल्पाग्निपित्तो बहुमातरिश्वा स्तब्धाङ्गयुक्तः परुषच्छविश्व । अल्पाङ्गचेष्टोऽतिकफो विवर्णः प्राप्तो दशां सोऽप्यथ सप्तमी वै ॥ १७ ॥ नित्याश्रुः सततं कटस्रुतकफो दुर्वर्णरूक्षच्छवि- भीत्या यूथबहिश्चरः स्मरधिया दन्ताभिवृयोज्झितः। निवीर्यः सततं पिनद्धनयनो न क्षिप्ररोहिव्रणो ह्यष्टम्यां छविरप्यपोहति भृशं सम्भिन्नरोमावलिः ॥ १८ ॥ . स्रस्तग्रीवः प्रचलदशनो मन्दसर्वाङ्गचेष्टो दन्तस्रावी मृदुयवसभुग निर्मदो निस्सपत्नः । रूक्षच्छायो वलितततनुप॒थपृष्ठानुगामी विश्लिष्टाङ्गः स्वपिति (च तरां?)यो नवम्यां पुराणः॥१९॥ विस्रस्तश्रवणांसवालधिकरः शीर्णाङ्गरोमा चल- इन्तो मांसबलक्षयी चलतलः प्रस्रस्तपादोऽल्पभुक् । रूक्षाङ्गः पटली सिराचिततनुः कृच्छ्राच्छकृन्मूत्रमुक् तृष्णालुः कृमिजालभक्षितनखो वृद्धो दशम्याश्रितः॥२०॥ + क्षयो गजजानुभागविशेषः. * “नितराम्' इति स्यात् .
मातङ्गलीलायां १६ शेते द्रुमे नाप्सु कफाक्त लण्डः संकोचमेही मृदुखादनश्च । अवाग्विषाणः स्थिरगात्ररोगी दशान्विते वर्षशतेऽपि नागः॥२१॥ नीचैश्च मन्दं प्रमृशेच यायाञ्चलत्करोऽधश्चलकर्णवालः । प्रस्तब्धगात्रापरवानजस्रं स द्वादशीं प्राप्य दशां स्वपेच्च ॥२२॥ एवं वर्षशतं विंशमवस्थाय महीपते।। कृत्वा बहुविधं कर्म स्वर्ग गच्छति वारणः ॥ २३ ॥ इति मातङ्गलीलायां वयोलक्षणाधिकारः पञ्चमः पटलः । अथ षष्ठः पटलः । नेत्रादापेचकं दैर्घ्य नखादास्कन्धमुच्छ्रयः । परीणाहः प्रमातव्यः कक्ष्यास्थानेषु दन्तिनाम् ॥१॥ सञ्जातमात्रमृगजात्यगजस्य दैर्घ्य साधैंकहस्तमिह चैककरोच्छ्रयः स्यात् । नाहो द्विहस्त इति च प्रतिवर्षमेषां पञ्चाङ्गुलर्धिरुदिता दशवत्सरान्तम् ॥ २ ॥ पञ्चोन्नतिः सप्त मृगस्य दैर्ध्य नाहप्रमाणं तु वितस्तयोऽष्टौ। एतद्विवृद्धावथ मन्दभद्रौ प्राप्ते तु वर्षे दशमे त्रियुक्ते ॥३॥ षट्पञ्चचतुरुच्छाया अष्टसप्तषडायताः। नवाष्टसप्तनाहाश्व मुख्यमध्याधमा वशाः॥४॥ 2 लण्डो विष्ठा.
षष्ठः पटलः । अतिस्थूलाः कृशाश्चैव हीनाङ्गाश्चैव ये गजाः । तेषामङ्गान्यमेयानि प्रत्यङ्गानि च पार्थिव! ॥ ५॥ समसर्वाङ्गदेहस्य वारणस्य महीपते! । प्रमाणमिष्टं सर्वत्र कल्याणस्य विशेषतः ॥ ६ ॥ शिरसः पिण्डौ कुम्भौ भवतो विद्धसंज्ञ एतयोर्मध्यः । तस्याधोऽवग्रह इति वाहित्थं कुम्भयोरधोभागः ॥ ७ ॥ तस्याधः प्रतिमानं तन्मध्यो वायुकुम्भसंज्ञः स्यात् । वाहित्थपार्श्वयुगलं विलागसंज्ञं भवेद् गजानां तु ॥ ८॥ पुष्करोपरि गण्डष ईषिका त्वक्षिकूटकम् । अपाङ्गदेशो निर्याणं कर्णमूलं तु चूलिका ॥ ९ ॥ पिञ्छूषा कर्णपाली स्यात् प्रोहाख्योऽन्तरमंसयोः । हस्तोपरि त्ववस्कारस्तदृवं पलिसंज्ञकम् ॥ १० ॥ देहमध्यं तु निगलस्थानं चिका तदूर्ध्वतः । सन्दानं जघनादूर्ध्व कालभागस्त्वधोऽस्य च ॥ ११ ॥ पक्षाधोऽप्यपरौ ज्ञेयौ निष्कोशः पक्षपृष्ठयोः । कुक्षिः पश्चात् तयोस्ताभ्याम् (:)उत्कृष्टाबिति संज्ञितौ॥ पुच्छमूलसमीपं स्यात् पेचकं तु गलादधः । उरस्यन्तर्मणि विद्याद् ग्रीवासन्धिसमाश्रितम् ॥ १३ ॥ इति मातङ्गलीलायां माननिर्णयाधिकारः षष्टः पटलः ।
१८ मातङ्गलीलायां अथ सप्तमः पटलः । एतावन्मूल्यमेषामलमिति गदितुं नो समर्था मनुष्याः केतुर्विक्रेतुरेकं यदिह बहुमतं तद्विदुर्मुख्यमूल्यम् । एकस्यासम्मतं मध्यममनभिमतं चोभयोनिन्द्यमस्मात् तद्ज्ञैः सर्व विदित्वा बहुभिरवहितैर्मूल्यमूह्य गजानाम् ॥१॥ गृह्णीयात् पूर्णमूल्येन तु निखिलगुणैरवितं वारणेन्द्र भनेकाक्ष्यद्भिदन्तं बधिरमपि रुजावन्तमप्यर्धमूल्यात् । छिन्नाधश्रोत्रबालादिकमपि मतिमारतत्र मूल्यत्रिभागाद् दन्तद्वन्द्वाहीणादिकमिभवरमप्यघिमूल्येन गृह्यात् ॥ २ ॥ वामदन्तोन्नतं विद्यादेपाकीलं तु मूल्यतः। अष्टांशहीनतो विद्याहशा मूल्यत्रिभागतः ॥३॥ इति मातङ्गलीलायां मूल्यविशेषाधिकारः सप्तमः पटलः । अथाएमः पटलः। देवदानवगन्धर्वयक्षराक्षसमानुषान् । पिशाचोरगसत्त्वांश्च लक्षयेत् स्वरवलक्षणैः ॥१॥ यः कान्तिमान् कुमुदचन्दनसप्तपर्ण- नारङ्गपद्म'चतुरङ्गलतुल्यगन्धः। पुल्लाननः कळभकौतुकवानजस्रं मान्योऽन्यपुष्टनिनदः स तु देवसत्त्वः ॥ २॥ १. 'द् द्विपं हीन' ग-पाटः. चतुरगुलः शम्याकः, अष्टमः पटलः। १९ निन्द्योधतो युद्धरतोऽतिमात्रं क्षुद्रस्वभावो न मनाग दयालुः । स सिन्दुवारागुरुमत्स्यगन्धी हन्ता करी दानवसत्त्व एषः ॥ ३ ॥ गन्धर्वमाहुरतिमुक्तकयूथिकाब्जा पुन्नागनागहरिचन्दनतुल्यगन्धम् । गानप्रियं शुभगतिं शुभदन्तनेत्र- कुम्भोत्तमाङ्गकरपुष्करमल्पबिन्दुम् ॥ ४ ॥ शुचिरक्षान्तशीलश्च सुभगः प्रियदर्शनः । तेजस्वी हृष्टकर्णश्च यक्षसत्त्वो मतङ्गजः ॥ ५ ॥ यः काकवानरखरोष्ट्रबिलाळमूत्र- विट्पूतिगन्धिरिभहा निशि दारुणश्च । इष्टाम्लमांसरुधिरोऽविनयी कृतन्नः सत्त्वेन राक्षस इति प्रतिकूलकारी ॥ ६ ॥ शून्यप्रियः कुणपलोहसमानगन्धो भ्रान्तो निशासु विचरन् घननिस्वनश्च । पर्वस्वतीव परिकुप्यति यश्च मूढ- स्तं सूरयो गजमुशन्ति पिशाचसत्त्वम् ॥ ७ ॥ यो मत्स्यशैवल फणिर्जककर्दमानां गन्धैः सुरापिशितयोरपि तुल्यगन्धः । त्रस्तो भवेजलदशब्दनपि प्रशृण्वन् क्रुडो निशासु जलपांसुरतो भुजङ्गः ॥ ८ ॥ १. 'नागप्रि' क. पाठः. फणिर्जकस्तुलसीभेदः.
मातङ्गलीलायो विप्रः शुचिर्मधुपयःपरमानसाप- भूतप्रसूनसमगन्धसुगन्धिताङ्गः। सामप्रियः सकलनागहितश्च शान्तः स्नानप्रियः शुभमतिर्गदितो मुनीन्द्रैः ॥ ९॥ यश्चन्दनाज्यहरितालमनःशिलानां गन्धेन तुल्य इह गुग्गुलुकस्य चापि । सन्नाह्यकर्मकुशलो युधि निर्भयश्व स क्षत्रियो विविधशस्त्रनिपातशूरः॥ १० ॥ बन्धूकशालितिलकैतकमालतीनां गन्धेन यश्च समलङ्कृततालुजिह्वः । क्लेशक्षमः पिशितभुक् प्रियसान्त्वनश्च क्रुद्धोऽपि तूर्णमुपशाम्यति वैश्यजातिः ॥ ११ ॥ उच्छिष्टहृष्टः सहसैव भीरुः शुक्ताम्लबस्तास्थिकुळीरगन्धः । क्रोधीच भेद्यः कृपणः कृतघ्नः सत्त्वेन शूद्रः स गजाधमश्च ॥ १२ ॥ विश्वासघातकः क्रूरो गमने कुटिलक्रमः। न भुङ्क्ते समदोऽत्यर्थ सर्पसत्त्वः करी मतः॥ १३ ॥ देवक्षत्रियगन्धर्वविप्रसत्त्वास्तु सात्त्विकाः। राजसौ वैश्यशूद्रौ तु तामसाश्च तथापरे ॥ १४ ॥ नागानां हरिपीतकालधवला वर्णाश्चतुर्धा क्रमाद् रक्तात् पित्तयुताद् *बलाससहिताद्रक्ताच्च पित्तात् कफात् । सञ्जाताः खलु बर्हहेमजलदज्योत्स्नासमास्तेष्वसौ कालस्त्वेक इहावनौ भवति ते शेषास्त्रयः स्वःस्थले ॥१५॥ * बलांसः कफधातुः- अष्टमः पटलः । २१ छाया पञ्चविधा यथा दिनमणिं कादम्बिनी छादयेद् देहस्थं द्विरदस्य लक्ष्म च तथा सा भूतभेदाद् भवेत् । आद्या नीरधराकृतिर्धरणिजा नैका सुवर्णाग्मिजा तिस्रः पूज्यतमा इमारतदितरे रूक्षे परं निन्दिते ॥ १६ ॥ गन्धर्वोरगयक्षसत्त्वकरिणः सान्नाहिकाः क्षत्रियः सान्नाद्ये तु विशेषतो द्विजसुरा यागादिकर्मादिषु । योज्याः कर्मसु वैश्यजातिरखिलेष्वन्ये च युद्धे वधे भाण्डादेवहने च चौरहनने व्याघ्रादिविध्वंसने ॥ १७ ॥ अत्योत्तानगम्भीरान्वर्थप्रत्यर्थकर्कशेः । सिद्धेनापि च नागानां वेदनं सप्तधा विदुः ॥ १८ ॥ प्राजनाङ्कुशदण्डेभ्यो दृगदुहिजते हि यः । स्पृष्टो वा व्यथतेऽत्यर्थ स गजोऽत्यर्थवेदनः ॥ १९ ॥ त्वचः संसर्गमात्रेण रोम्णां स्पर्शेन वा पुनः। तीक्ष्णतोत्राङ्कुशन्यासं वेत्ति सोत्तानवेदनः ॥ २० ॥ त्वम्भेदाच्छोणितस्रावादामांसव्यथनादपि । यो न वेत्त्यङ्कुशावातं स वै गम्भीरवेदनः ॥ २१ ॥ यतयाते वेदयते न बिभेति न मुह्यति । यो गजस्तं विजानीयात् प्राज्ञस्त्वन्वर्थवेदनम् ॥२२॥ प्रत्येति यश्चोद्यमानो गृहीतश्च न गच्छति । प्रतिलोमयते संज्ञां यः स प्रत्यर्थवेदनः ॥ २३ ॥ असङ्कल्पमसंवेदं प्रतिलोमयते च यः । १. 'सन्नाहिनां' ग-पाठः.
२२ मातङ्गलीलायो यो दोषं भजतेऽत्यर्थ स स्यात् कर्कशवेदनः ॥ २४ ॥ यः श्लक्ष्णः सर्वभावेषु विशुद्धश्वोत्तमोत्तमः । तं सिद्धवेदनं प्राहुर्मातङ्गं मुनिपुङ्गवाः ॥ २५ ॥ इति मातङ्गलीलायां सत्त्वलक्षणाधिकारोऽष्टमः पटलः ।। अथ नवमः पटलः। अतिमधुररसानां सेवया पत्रभरे कबळकुबळशप्परन्नपानैर्यथोक्तः । श्रुतिसुभगवचोभिः पांसुपङ्काम्बुदान- भवति मुदितचेताः कामचारेण नागः ॥ १ ॥ यथा यथा हर्षमुपैति. नागस्तथा तथा धातुरुपैति वृद्धिम् । अतः करिण्या सहचार इष्टो ह्यनर्गळं चाम्भसि संविहारः॥२॥ गण्डूषाद्भिः परिमलभरोद्गारिणा वारिणा यत् फुल्लाम्भोजे सरसि रमते सेवमानो बिसानि । यद्रोचिष्णुः श्रयति यवसं स्वेच्छया संप्रचारो हर्षादस्मात् स्फुरति करिणो धातुसाम्यं नरेन्द्र ! ॥ ३ ॥ हर्षाधिकत्वान्नागानां मदो भवति पार्थिव ! । वियुक्तस्य तु हर्षेण मदो नागस्य हीयते ॥ ४ ॥ अक्षितालुकटश्रोत्रनाभिकोशकरस्तनैः। स्रवेत् तनूरुहैरेवं बहुधैव मदो नृप! ॥ ५ ॥ प्रहर्षः शीघ्रता गन्धो गतिर्दैहस्य गन्धता ।
नवमः पटलः । क्रोधो वीर्यमभीरुत्वमष्टौ मदगुणाः स्मृताः ॥ ६॥ सृष्ट्वा पुरा मदमजोऽथ तदर्धभागं क्षिप्त्वा चराचरजगत्सु गजेषु चार्धम् । निक्षिप्तवानपरमप्यथ तेन मत्ता युध्यन्ति कोपमुपयान्ति च तेऽभिभूताः॥ ७ ॥ प्राप्नुवन्त्यार्त्तवीं वृद्धिं मददृष्ट्या महीरुहाः । स्मर्यमाणमदेनान्ये प्राणिनोऽपि मुदान्विताः॥ ८ ॥ राष्ट्रे वा नगरे प्रमाद्यति यदि क्षोणी सुभिक्षा भवेत् पूर्व दक्षिणतः कटे यदि जयो राज्ञो नियन्तुर्भवेत् । वामे चेत् पृथिवी सुवृष्टिरुचिरा कोशे यदि स्फूर्जते कोशेनापि कटद्वयेन च समं मुञ्चेद्यशस्वी नृपः॥९॥ वल्मीकस्थाणुगुल्मक्षुपतरुमथनः स्वेच्छया हृष्टदृष्टि- र्यायाद् यत्रानुलोमस्त्वरितपदगतिर्वक्रमुन्नाम्य चोच्चैः। कक्ष्यासन्नाहकाले जनयति च मुहुः शीकरं बृंहितं वा तत्कालं वा मदाप्तिर्जयकृदथ रदं वेष्टयन् दक्षिणं च॥१०॥ स्खलितगतिरकस्मात् सस्तकण्ठोऽतिदीनः श्वसिति मृदु सुदीर्घ न्यस्तहस्तः पृथिव्याम् । द्रुतमुकुलितदृष्टिः स्वप्नशीलोऽलसाङ्गो भयकृदमितभक्षी नैकशो मूत्रकृच्च ॥ ११ ॥ मधुरुचिनखदन्तप्रेक्षणो नीलमेघच्छवि- ररुणदृगन्तः पद्मकिञ्जल्कबिन्दुः । अपरगजविरोधी पांसुपाथोविहारै- भवति च कटपूर्णः सुन्दरो वारणेन्द्रः ॥ १२ ॥ १. 'त्वरित' ग-पाठः मातङ्गलालायां धाराळदानजलधौतकपोलभागः संवर्तमेघसदृशस्तनिताभिपूर्णः । दूरस्थितानपि निहन्तुमनाः प्रधाव- नुक्तो गजाधिपतिराईकपोलितो यः ॥ १३ ॥ तिर्यक्तिर्यङ् नयनमसकृत् पक्षयोर्वीक्षमाणो बिन्दु बिन्दु विसृजति मदं कोशदण्डेन नागः। पश्चाद् गन्तुं व्यवसितमना बृहते भूरिदानः स्तम्भद्वेषी चतुरगमनो लक्ष्यते योऽनिबन्धात् ॥१४॥ सप्तच्छदाम्भोजसमानगन्धः क्रुद्धः सदा कुङ्कुमबर्णदानः । आचोदितो हस्तिरथाश्वसङ्घान्नासादितो गन्धचरामवस्थाम् ॥१५॥ अभिलपति नगर्यामन्नपानं च चाटून् निशि च तमास तिष्ठेदप्रगृह्यो नियन्तुः । करितुरगपदातीन् प्राप्य किञ्चिन्न मुञ्चेद् गुणितरुषमुपेतः क्रोधधीः कुञ्जरेन्द्रः ॥ १६ ॥ अतिक्रान्तावस्थो गजपतिरिदं स्थावरचरं जगत् सर्व हन्तुं समभिलपति क्रोधकलुषः। न चैकत्र स्थायी परकरटिघण्टां न सहते निजच्छायाद्वेषी भवति सततं धावनपरः ॥ १७॥ निवृत्तमदसञ्चयो विगतवेगकोपोद्धृतिः प्रवृत्तमृदुगात्रसञ्चरणकेळिभावहपुः । विमुक्तगजमत्सरो मदनिवर्त्तने हासने पयोद इव राजते परिविमुक्ततोयागमः॥ १८ ॥ १. 'धनी' क-ख-पाठः.
दशमः पटलः। क्षीयन्ते मदवारणस्य नितरां दानस्रुतेर्धातवो जायन्ते प्रबलानि रोगनिकराण्याश्वेव धातुक्षयात् । अन्याब्देषु मदोद्गमं न भेजते तेषां क्षयात् पूर्वतः शान्तिं तस्य मदस्य धातुपरतो मासत्रयात् कारयेत् ॥१९॥ सहामृताशिबलाद्विमूर्वाकापित्थसप्तच्छदचन्दनानाम् । कदम्बगुञ्जामधुकाश्वगन्धाजीवन्तिकाशाल्मलिसूरणानाम्॥ २० ॥ वृश्वीरसेव्यक्षुरकुक्कुटाण्ड- गुञ्जाश्वगन्धागुरुगोक्षुराणाम् । केरीपयःक्षौद्रयुता गजानां पिण्डः प्रदेयो मदसम्भवेऽयम् ॥ २१ ॥ कोरण्डमल्लिकानिम्बतिल्वमूलैः ससैन्धवैः । सेङ्गुदैर्मधुना पिण्डो देयो गेषांवेवर्धनः ॥ २२ ॥ मातुलुङ्गसुबहासहाकणासतपर्णविजयेदीमधु । दुग्धपिष्टमिदमङ्गलेपितं मन्तवारणवरं वशं नयेत् ॥ २३ ॥ इति मातङ्गलीलायां मदभेदाधिकारी नवमः पटलः । अथ दशमः पटलः। तथे. वारीकर्मवशाविलोभनविधिभ्यां चानुगत्या वापातेन ततोऽवपातत इतीहेभग्रहः पञ्चधा । निन्द्यास्ते तु यथोत्तरं किल गजा नश्यन्ति यस्मात्ततो वर्ध्यावन्त्यभवावुभावपि विशेषादेतयोश्चान्तिमः ॥ १॥ १. 'सहते' ग-पाठः.
२६
मातङ्गलीलायां
क्रोशप्रायवितानदीर्घमहिता वारी निखातैलै-
वृक्षायैः परितो वृतिं च परिखां कृत्वा बहिर्दुस्तराम् ।
द्वारस्योभयतः प्रकल्पितवृतिद्वन्द्वान्तरस्थां क्रमाद्
विस्तीर्णा च बहिर्मुखां वितनुयाहीथीं च वेण्वादिभिः॥२॥
उद्धृत्योपरि सन्निबध्य च कवाट द्वारि वार्यन्तरे
दारुस्तम्भमितस्ततश्च सुदृढं कृत्वा सधारं बहुम् ।
इक्ष्वाद्यत्र विनिक्षिपेदथ गजान् संवार्य भेर्यादित-
स्त्रस्तानत्र निवेश्य चार्गलशिखापाशांश्च भिन्द्याद् द्रुतम् ॥३॥
कक्ष्याबन्धककुन्तवेणुसृणिपाशाद्यैर्युता हस्तिपा-
स्तस्मिन् द्वितदिनं प्रतीक्ष्य पुनरभ्येत्याशु वार्यन्तरम् ।
स्तम्भोपान्तगता गजानपि गृहीत्वोपायवन्तो दृढं
सम्बध्यात्र गुणान्वितानथ बहियूथं च विद्रावयेत् ॥ ४ ॥
कक्ष्याभागे च कण्ठे मृदुतरदृढपाशैर्गजं चारु तूर्ण
वधीयाचापराले निगळनमपि तत्पादयोरप्यमीषु ।
बध्वा पाशानथात्यायतसुदृढतरानग्रतो हस्तिपेन्द्र-
राकृष्याकृष्य मन्दं गमयतु शिथिलीकृत्य पाश्चात्यपाशम् ॥५॥
स्तम्भात् स्तम्भान्तरं त्वेवं यापयित्वा शनैर्गजान् ।
शालां प्रवेशयेदन्यैराप्तैर्दन्तिवरैः सह ॥ ६ ॥
आप्ताश्चर्मपटैर्निबद्धजठराः कृत्वा वशाः पञ्चषा-
स्तच्चान्तरशायिनो गजभटाः पाशादिभिः संयुताः ।
आरायूथमथालिप्रहरणैः प्रापय्य ताः पञ्चपान
बनीयुश्च गजान जवादिति वशालोभो वशालोभनात् ॥ ७॥
दामः पटलः । वरागुरुक्षीरमहीरुहत्वङ्- मालेयकालेयकसेव्यलोधैः। स्नाता सुशीतैः कलशस्थिताद्भि- वंशा गजानां तु विलोभनी सा ॥ ८ ॥ क्षौद्रोशीरनतैश्च मद्यसाहितहस्तीन्द्रमत्रेण वा लेपोऽयं तु वशावराङ्गनिहितो वश्यो गजानां वरः । तहद् बिल्बककुझुटाण्डककरोडूतबीजैस्तथा लेपोऽयं च वशं नयेद्गजवरान् सम्मिश्रितैर्धन्वनैः ॥९॥ पथ्यावायसचाषपेत्रनखमञ्जिष्ठासहाशारिबा- गोशृङ्गाल सितेषुपुङ्खसुवहाक्षोणीकदम्बाम्बुजैः। पुत्रश्चारिनताजरोमखुरमुत्राद्यैर्मयुरीशिखा- मालेयाञ्जननागपुष्पमधुभिर्वश्याञ्जनं योजयेत् ॥ १० ॥ भेरीतूर्यककाहलादिनिनदैविद्राव्य नागान् भृशं भीतानाशु सदा ससैन्यमनुधावन्तो भटा निर्भयाः । यावत् पादपरिश्रमेण कळभाः स्तब्धाः स्युरेतांस्तदा बनीयुश्चतुरा जवादनुगताख्योऽयं गजानां ग्रहः ॥ ११ ॥ बह्वग्रास्त्वथ वर्तुळीकृतनिबद्धानाः पृथग् रज्जवः केरीवल्कशलाकिकादिरचिताः पूगगुनाहोन्मिताः। प्रायः षष्टिकरायताः सुनिहिताश्चेतस्ततः पांसुभिः संच्छन्नाः करमात्रनिम्नधरणीगर्तेऽतिविस्तारिते ॥ १२ ॥ निक्षिप्यात्र मृणाळवेणुकदलीपुण्डेक्षुकाण्डादिक तान् पाशानपि सन्निबध्य सुदृढे वृक्षेत्र दक्षा भटाः। १. 'तिल्व' ग-पाठः. २. 'मूत्र' ग-पाटः. * लसकेति स्यात् .
२८ मातङ्गलीलायां संछन्नाः प्रतिपाल्य भक्षणपरान् बन्नीयुराशु द्विपान् पाशाकर्षणतो निपात्य दृढमित्यापातसंज्ञो ग्रहः॥१३॥ गर्त हस्तचतुष्कनिम्नकरयुग्मव्यासदोःपञ्चका- यामं वेणुदलैः कटैश्च पिहितं कृत्वा मृदाच्छाद्य तम् । तस्मिन् भक्ष्यपरिस्तुते तु कलभाना पातयित्वा भटा बनीयुः सुदृढं गजग्रह इति प्रोक्तोऽवपातायः ॥ १४ ॥ इति मातङ्गलीलायां गजग्रहाधिकारो दशमः पटलः । अथ एकादशः पटलः । : वन्यास्तत्र सुखोषिता विधिवशाद् ग्रामावतीर्णा गजा बद्धास्तीक्ष्णकटग्रवाग्भिरतिशुग्भीमोहबन्धादिभिः । उद्विग्नाश्च मनःशरीरजनितैर्दुःखैरतीवाक्षमाः प्राणान् धारयितुं चिरं नरवशं प्राप्ताः स्वयूथादथ ॥ १॥ शैलानां कटकेषु निर्झरजले पद्माकरे सिन्धुषु स्वच्छन्देन करेणुकाभिरटवीमध्येषु विक्रीडितम् । स्मारस्मारमनेकधोग्रनिहितं पुण्ड्रेक्षुकाण्डादिकं नो काङ्क्षत्यतिदुर्मना बहुविधैर्दुःखैरुपेतः करी ॥ २ ॥ पूर्वानुभूतमटवीपु सुखं विचिन्त्य ध्यायन् मुहुः स्तिमितवालधिकर्णताळः । ग्रामव्यथाभिरधिकं कृशतामुपेत्य कैश्चिदिनैर्मृतिमुपैति करी नवीनः ॥ ३ ॥ १. 'रिष्कृते' ग-पाठः. २. "वास्यनि' ग-पाठः.
एकादशः पटलः । २९ निष्ठ्यूतनेत्रयुगलश्व गुदे च नाभौ गात्रीपरे श्वयथुमान् भवति दिपोऽयम् । नानाति नैव रमते न च वेत्ति संज्ञा राज्यच्युतो नृप इवाधिमुपैति कामम् ॥ ४॥ अण्डं तैजसमण्डजाश्च करिणो जन्मप्रभृत्यौष्ण्यतः सन्तप्ताः शिशिराम्बुसेचनरजःपङ्कादिभिर्हर्षिताः । तस्मादङ्गप! तोयमेव करिणां प्राणास्ततः कामत- स्तोयेनोपचरेद् गजान् भवति तद्धातुप्रसादो ह्यतः ॥ ५॥ आनीतान् वनतो गजान् हिमजलैः सिञ्चेत् तथा पायये- दाकर्ण त्ववगाहयेदुषसि तद्ग्लान्यादिशान्त्यै जले । एवं चाथ दिनावसानसमये स्वैरं तथाळानयेत् पश्चात् सेचनलेपनादि शतधौताज्येन कुर्यादपि ॥६॥ कृतावगाहस्य मतङ्गजस्य शाल्योदनं मुद्गरसाज्यमिश्रम् । पानं च दद्यात् सहशर्करं च पुण्ड्रेक्षुकाण्डानि मनोहराणि ॥ ७ ॥ शय्या तोयावलोकश्चलनमनुगुणं भेषजं धूलिमृष्टिः शालास्तम्भप्रवेशो घृतगुळसहितं भोजनं पूलदानम् । निर्वाणं तोयपानं तिलजपदयुतं भोजनं चापराहे भैषज्यं चाथ संवेशनमिति दिनचर्या गजानां क्रमेण ॥ ८ ॥ पद्माद्युत्पलनालकन्दकदलीशालूकशृङ्गाटकान् दूर्वादुम्बरसल्लकीानळदन्यग्रोधवेण्वादिकान् । १. 'त्रान्तरे' ग-पाठः. २. 'क्षालन' ग-पाठः.
३१ मातङ्गलीलायां २ प्लक्षाश्वत्थकपित्थपल्लवफलान्यातिप्रशान्त्यै सदा देयान्यङ्गप! दन्तिनां तु मधुराण्यन्यान्यभीष्टानि च ॥९॥ ये पर्यश्रुदृशः कृशाश्च शिशवो भारादिताः पित्तळा- स्तन्वङ्गाः सतताध्वकर्मविहता वृद्धा वशानिरस्पृहाः । सासृङ्मांसमदक्षयाश्च विवशा ये स्तब्धगात्राः परे तेषां साध्यतमं हितं घृतमिति ब्रूते कलिङ्गेश्वरः ॥ १० ॥ नागानामिह तण्डुलस्य कुडुबं देयं तृणान्तर्गतं चैकैकं परिवर्धयेच्च कुडुबं यावद्भवेदाढकम् । एवञ्चौदनपिण्डमप्यनुदिनं संवर्धयेत् तहदे- वान्यदक्षणसाधनं च विहितं सन्दापयेद् युक्तितः ॥११॥ गोधूमं च यवं गुळाज्यसहितं स्विन्नं सदा दापयेत् तहतू केबलतण्डुलेन सहितं गोमूत्रसृष्टं तु वा । प्राग्वत् तत् प्रतिवासरं कुडुबसंवृद्ध्याढकान्तं क्रमे- गैलाञ्यूषणहिमुजीरकयुगाजाजीबिलङ्गान्वितम् ॥ १२॥ उपसि यवसतैलं मात्रयार्धाढकं स्यात् प्रवरवयसि मध्ये तचतुर्भागहीनम् । अधमवयसि तद्वत् तत्रिभागोनमुक्तं बलमदजवकारि व्याधिविध्वंसनं च ॥ १३ ॥ मानं तु मध्यवयसः पलविंशतिः स्याद् व्याध्यौषधं प्रतिदिनं परिकल्प्य मेयम् । प्रस्थद्वयं प्रतिदिनं तु घृतस्य मात्रा तद्वृद्धिहानिकरणं च यथाबलं स्यात् ॥ १४ ॥ १. 'निस्सृताः' क-ख-पाठः. २. 'परं वृतमिदं' ग-पाठः, एकादशः पटलः । ३१ कृसरो दधिपिण्याकयुक्तो गुळसमन्वितः । प्रदेयो बृंहणायाथ प्रतिपानं च दन्तिने ॥ १५ ॥ प्रत्यरात्नि यवसस्य च भारं तण्डुलस्य चतुराढकमुक्तम् । स्नेहमष्टकुडुबं लवणस्य स्युः पलानि दश चापि गुळस्य ॥१६॥ 'विळङ्गाक्षीबकुल्माषमाषगोधूमसंस्कृ(ताः? तम्)। मोदकार्थं महीपाल! पिष्टमाढकमिष्यते ॥ १७ ॥ न भेदमायान्ति नखास्तलं च न क्षीयते नाध्वनि पाददाहः । भवन्ति केशाश्च न चापि दृष्टि- निहन्यते सन्ततपादसेकात् ॥ १८ ॥ त्वग्दोषबन्धवभिदणशोषगात्र- स्तम्भादिजित् क्षपितशीतसमीरकोपः । सक्थ्यङमार्दबकरो लघुबहणश्च स्निग्धत्वसत्त्ववलसौख्यकृदङसेकः ॥ १९ ॥ अभीक्ष्णं साधु पैश्यन्ति घृताभ्यड्रेन नित्यशः । अक्षिरोगा न जायन्ते स्थिरा दृष्टिश्च दन्तिनाम् ॥ २० ॥ स्थिरवेष्टौ दृढौ दन्तौ स्निग्धौ व्यधविवर्जितौ । दन्तघातसमर्थौ च दन्ताभ्यङ्गेन नित्यशः ॥ २१ ॥ जयति च बहु भुक्तं शोधनं मूत्रवस्तेः कृमिहृदनिलहारि व्याधिविध्वंसनं च । अरुचिशमनमाशु क्लेदनं वारणानां लवणममृततुल्यं पक्तिधर्मावतारे ॥ २२ ॥ १. 'धव्रण' ग-पाठः. २. 'भक्ष्यन्ति' (?) क-ख-पाठः, * विडङ्गमेव डलयोरभेदादेवम् .
३२ मातङ्गलीलाया पूर्वाह्नभक्ते लवणं वर्जयेद्दोषवर्धनम् । अपराह्ने तु लवणं दीपनं दोषनाशनम् ॥ २३ ॥ हितमिह ससितं घृतं पयोभि- निहितमनुष्णतरेषु भोजनेषु । कथयति परिपूजितं च दुग्धं करटिषु पानविधौ मुनिः सुशीतम् ॥ २४ ॥ बालातपः शशिकला रुचिरश्च शालि- गोधूमधान्यमपि यत् क्रिमिभिर्न दुष्टम् । स्विन्रमीभिरुपकप्तमनल्पमांसं भोज्यं गजस्य विनियोज्यमिभागमज्ञैः ॥२५॥ कल्याणानां तु दद्यात् त्रिकटुकरजनीद्वन्द्वकुष्ठाजमोद- प्रत्यक्पुष्पाकरञ्जद्वयलशुनवचास्थापनीरामठानाम् । सिद्धार्थारिष्टबीजज्वलनपटुवरालोहरेणुक्रिमिन्न- न्यग्रोधीनां च चूर्ण तिलरससहितं शस्तमेतत्प्रबोधे ॥२६॥ एलावचालशुनसैन्धवनागरैश्च सिद्धार्थहिंगुमरिचक्रिमिशत्रुभिश्च । कृप्तं तु तैललुळितं कबलं गजाय सुप्तोत्थिताय वितरेत् कफवातशान्त्यै ॥ २७ ॥ प्रातः साज्यगुळं शरत्सु विहितं ग्रीष्मे च शाल्योदनं सायं तल्लवणेन तैलसहितं त्वन्येषु तद्व्यत्ययात् । कुल्माष गुळयुक्तमोदनेयुतं चादापयेद् दन्तिनां तत्तेजोबलवह्निकृद्गुलयुतानन्यान् परागानपि ॥ २८ ॥ १. 'नमिदं संदा' ग-पाठः.
एकादशः पटलः । ३३ सञ्जातवीर्यरसगुल्मलताप्रतान- भोजी तुषारशिशिराळकरे हिमतौं । जम्बालपांसुजलकेलिकुतूहलेन प्रायः कफोपचयमेव गजो बिभर्ति ॥ २९॥ या जाङ्गलस्थलभुवो विलसन्ति देशे तत्सम्भवेन यवसेन शरीरवृत्तिः । पादेषु मूर्धनि गजस्य हितश्च सेक- स्तैलान्वितेन च मषीपटलेन लेपः ॥ ३० ॥ चुचुन्दरीचित्रकवाजिगन्धाकार्पासदन्तीरजनीवराणाम् । मषिप्रलेपस्तिलतैलयुक्तः स्तम्बेरमाणां शिरसि प्रशस्तः ॥३१॥ शाला छन्ना सवह्निस्त्रिकटुपटुयुता वारुणी वा प्रसन्ना मन्दोषणा सायमन्नं दधिरससहितं कम्बलैरावृतिश्च । इक्षोः सेवा समात्रा कबलेकुवलयोः शीलनं नित्यचारः पाथःक्रीडाविमुक्तिर्यवसपरिहृतिः शैशिरोऽयं विधिः स्यात् ॥ उद्यानेषु सुगन्धिषु प्रतिदिनं वासः सगोधूमकं शाल्यन्नं दधितैलयुक्तमशनं भाराध्वकर्माल्पता । नागानामवगाहनं हिततरं नद्यादिषु स्वेच्छया खाद्यास्तत्र बलाकलायचणका वासन्तिकोऽयं विधिः ॥ ३३ ॥ अध्वाशीलनमम्बुपूरितदृतिस्यन्दक्रिया मस्तके लेपो मूर्धनि सर्पिषा च शतधौताख्येन कालत्रये । शीतांशोः करसङ्गतिश्च सगुळाज्यं सक्तुसंसेवनं स्थानं शीतलमम्बुपङ्कविहृतिः सोऽयं विधिष्मिकः ॥३४॥ १. 'न्ति तेषां' ग-पाठः, २. 'लक' ग-पाठः.
३४ मातङ्गलीला कूपोत्थं सलिलं तृणं स्थलभवं पङ्कोज्झितं चास्पदं शालायामपि मक्षिकामशकयो शाय धूमोद्गमः। वस्त्यास्थापनकर्म जाङ्गलरसस्नेहान्वितं चौदनं यूषो जाठरवह्निवर्द्धनकरश्चायं विधिर्वार्षिकः ॥ ३५॥ आंकण्ठं भृशमञ्जरीस्फुटरसः शालिः सुशीतास्पदं देयाः सप्रसवाश्च माषसहिता मुद्गा मकुष्टादयः । गोधूमः सलिलाप्लतिः प्रतिदिनं सायं स एवाशनं स्विन्नक्षीरयुतं तथा घृतरसाढ्यं शारदोऽयं विधिः ॥ ३६ ॥ सेवा बालातपस्य प्रसभजलचरानूपजो वेशवार- स्तद्ज्ञैः पाथस्यगाधे सकृदपि करिणां शस्यते चावगाहः। स्नेहस्तैलेन कार्यः शिरसि च सततं हैमनोऽयं विधिः स्या- देवं सर्वर्तुचर्या क्रमश इति बुधैर्दर्शिता वारणानाम् ॥३७॥ भीरुमिन्ननखोऽनवस्थितमनाः प्रत्यर्थवेदी चलत- स्थूलाधिः परुषच्छविर्न सहनः स्तब्धाल्परोमोत्सुकः । लक्ष्यस्त्रायुसिराविरूक्षरदनः शीघ्रो विरूपेक्षणो दुर्मेधा विषमश्च कर्मसु गजो यः स स्मृतो वातिकः ॥ ३८ ॥ चण्डो नि ण्डिताक्षस्तनुकररदनत्वङ्नखश्रोत्ररोम- ग्रीवागावापराधिर्बहुभुगरुणदृग् दुर्बलो बह्वलीकः । छायेच्छुर्दृष्टि धर्म विसृजति न चिराद् दानमुत्तानवेदी हीयेतोच्चैः प्रहीणं श्रयति पुनरिभः पैत्तिको नातिशोभः॥३९॥ हर्यक्षः सुमहामुलीकरशिरःकुम्भादिरीषप्रियो नातिक्रुद्धयति मन्दवह्निरभयो गम्भीरवेदी स्थिरः। १. 'आकुष्टम् भृत' ग-पाठः. २. मिग-पाठः, ३. 'नागः कुप्यति' प-पाठः, एकादशः पटलः । अक्षोभ्यः सुहरो विलीनतरलो वीणादिगीतप्रियः पीनस्निग्धरदोऽतिमन्दगमनः कामी गजः श्लैष्मिकः॥४०॥ मध्वक्षिदन्तः समसुस्थिताङ्गः शूरोऽकृशो भूरिमदः समाग्निः। अन्वर्थवेदी च सुचापवंशः समः प्रकृत्या भवति द्विपोऽयम् ॥ ४१ ॥ विकृति दोषदृष्याणां लक्षणानां फलाफलम् । तत्त्वतो नैव जानन्ति मुनयः किन्नु मानवाः ॥४२॥ नागानां वनवास एव विहितस्तस्याप्यलाभादसा- म्याकामाशनपानतश्च विषमाजीर्णादिभिर्भोजनैः । दुःस्थानेष्वटनादिभिश्च शयनाद् दोषाः समीरादिकाः कुप्यन्त्याशु शरीरमानसभवान् रोगांश्च कुर्वन्ति च ॥ ४३ ॥ मूत्रक्षरणतो नित्यं कोशो मत्तम्य पच्यते । गैरिकस्य पलेनास्य सदा साज्येन सेचनम् ॥ ४४ ॥ आचूषणं चाक्षिनिमीलनं च घ्राणं तथा भूद्रुमखानिलानाम् । आलस्यमास्यान्तरशोषणं च कर्णाग्रयोः स्पन्दनमप्यरागः ॥ ४५ ॥ मुहुर्मुहुश्चैव विजृम्भणं च ध्यानं च पांसोः परिमर्षणं च । मूत्रारुणत्वं नयनारुणत्वं तृष्णाभिभूतस्य गजस्य चिह्नम् ॥ ४६ ॥ १. 'मल: ग-पाठः. २. 'राङ्गः' ग-पाठः, ३. 'प्यरोगम्' ग-पाठः.
मातङ्गलीलायां व्रणाः सर्वे जलेनैव प्रायो रोहन्ति दन्तिनाम् । नश्यन्ति क्षुत्पिपासाद्याः पद्मयोनेरनुग्रहात् ॥ ४७ ॥ प्रायशः कृमिजा रोगा भवन्त्यङ्गप! दन्तिनाम् । तस्मात् कृमिहराण्येव नित्यं देयानि दन्तिनाम् ॥ ४८॥ हिङ्गष्टकं चूर्णराजं सप्तविंशतिगुग्गुलुम् । इत्यादीनि च चूर्णाणि दद्यात् तैलघृतानि च ॥ ४९ ॥ पाकलाख्यज्वरं मर्त्यज्वरोक्तैरेव लक्षणैः । लक्षयेन्मतिमांस्तस्मात् तदेव चं चिकित्सितम् ॥ ५० ॥ ये ये भेदा मानुषेभ्यो गजानां ते ते प्रोक्ता दोषदूप्यादिकेषु । तस्मात् तज्ज्ञैर्व्याधिभेदं विदित्वा मल्नामेवात्र कार्या चिकित्सा ॥ ५१ ॥ इति मातङ्गलीलायां गजरक्षणदिनर्तुचर्याधिकार एकादशः पटलः । .. अथ द्वादशः पटलः । नागाध्यक्षोऽस्तु धीमान् नरपतिसदृशो धार्मिकः स्वामिभक्तः शुद्धः सत्यप्रतिज्ञो व्यसनविरहितः संयताक्षो विनीतः। उत्साही दृष्टकर्मा प्रियवचनरतः सद्गुरोरात्तशास्त्रो दक्षो धीरः शरण्यो गदहरणचणो निर्भयः सर्ववेत्ता ॥१॥ शिक्षाप्रक्रमदक्षमङ्कुशगदासञ्चारणप्रक्रिया- भेदज्ञं बलदेशकालनिपुणं दानक्रियादक्षिणम् ।
द्वादशः पटलः । आरोहेष्ववरोहणेषु कुशलं शान्तं वयोमर्मणां ज्ञातारं मुनयो वदन्ति नृपतेराधोरणं दन्तिनाम् ॥ २ ॥ रेखावानपि युक्तिमांश्च बलवान् यन्ता विधेत्यग्रिमो नागस्यैव तु वर्ततेऽनुगुणमत्रात्मेभयोर्मध्यमः । पाश्चात्यो निजबुद्धिशक्तिविभवेनैवेति ते हस्तिपाः कल्प्याश्चोत्तममध्यमाधमतया वयोऽत्र तेष्वन्तिमः ॥ ३ ॥ आरोहेष्ववरोहणेषु करिणां स्कन्धासनेष्वासनैः पाश्चात्येऽपि च चोदनासु वचसा पादाङ्कुशाभ्यामपि । वीथीमण्डलयानधावनविधौ व्यावर्तने धारणे प्रत्यर्थिद्विपयोधनेऽपि कुशलो यन्ता द्विषां दुर्जयः ॥ ४ ॥ वशे कुर्वन् व्यालानकलितमदानाशु मदयन् वितन्वन् मातङ्गान् जवनरहितानात्तरभसान् । निरीहानाहन्तुं विदधदाधिकं घातनिपुणान् गजारोहे दक्षः क्षितिपतिजनानामभिमतः ॥५॥ मातङ्गास्त्रिविधास्त्रयः प्रणिधयस्तिस्रो गतिप्रक्रिया- स्त्रीणि प्रस्फुटमासनानि पुरतः पञ्चैव पश्चादपि । षड्भेदाङ्कुशचारणा गतिगता भेदाः पुनः पञ्चधा स्यादारोहणमष्टधा दशविधः प्रोक्तोऽवतारक्रमः ॥ ६ ॥ भद्रमन्दमगभेदतस्त्रिधा जातिरत्र करिणां पुरोदिता । वक्ष्यते प्रणिधिपूर्वकं गतिप्रक्रियादिरधुना यथाक्रमम् ॥ ७ ॥ वाक्पादाङ्कुशचोदना प्रणिधिरित्युक्ता यतश्चाह तं त्रेधा तत्र तु वाक्प्रचोदनविधिस्तेषां तु यश्वा न्तिमः। + 'आदिमः' इति स्यात् .
मातङ्गलीलायां तं विद्यादुपलालनं हि भयकोपादेरसिधै तथा स्यात् प्रज्ञापनमन्यदत्र तु तृतीयं विद्धि सन्तर्जनम् ॥ ८॥ कर्मोपक्रमिकैश्च संस्कृतपदैः संशिक्षयेत् प्राकृतै- स्तत्तद्देशजभाषया च कलभं ज्ञातुं च कर्माणि तु। हुकारद्वयमासितुं ग्रहणकर्मण्याशु तं गृह्ण गृ- लेत्येवं प्रवदेदुपर्युपरि चैवं तत्करोत्क्षेपणे ॥ ९ ॥ तिष्ठ तिष्ठेति च स्थातुमेह्येह्यागमने तथा । गच्छ गच्छेति गमने बोधयेदेवमादिभिः ॥ १० ॥ पादौ अवेयके प्रोत्य च दृढनिहिताङ्गुष्ठपाणिप्रहारै- रूरुभ्यां गाढमाबध्य च सुदृढमतिः स्थाणुवत् संस्थितः सन्। हस्तेनादाय यन्ता सृणिमथ सुदृढं दक्षिणेनान्यहस्ते- नैवं तोत्रं च वेत्रादिकमवहितधीः प्रेरयेच्चारु नागम् ॥ ११ ॥ अगुष्ठाभ्यां पुरः प्रेरितुमथ सुदृढं पीडयेदुन्नतास्य कर्तु तावुन्नतौ तावपि वदनमधो नेतुमप्यानतौ च । वामागुष्ठेन विध्येत् करिणमथ नयन् दक्षिणं पार्श्वमन्ये- नान्यं चाकर्षणार्थ गजमथ मतिमान् पाणियुग्मेन गाढम्॥ गतयस्तु त्रिधा मन्दशीघ्रधावनभेदतः । प्राक्पश्वावृत्ततिर्यग्व्यावर्त्तनैः पञ्चधा तथा ॥ १३ ॥ वंशकन्धरयोर्मध्यं ककुदं स्यात् तदग्रतः । क्रमात् त्रीण्यासनानि स्युर्मुख्यमध्याधमानि हि ॥१४॥ एकः प्रसारितः पादस्तदन्यो नतजानुकः । पाश्चात्यमासनं ज्ञेयमेकं जानुगतं बुधैः ॥ १५ ॥ अस्य पञ्चविधत्वस्योद्देशक्रममुपेक्ष्यासनात् प्राङ् निरूपणं धर्मिप्रसङ्गानुरोधा- दिति भाति.
द्वादशः पटलः। ३९ वंशस्योभयतः प्रसारितपदं जानुहयाकुञ्चितं विद्यादानतजानुकासनमिदं तत्तूत्कटेनोत्कटम् । एकं तूत्कटजानुकं तदपरं नम्र हि कूर्मासनं विद्यात् संहतनम्रजानुयुगलं मण्डूकसज्ञं हि तत् ॥ १६ ॥ नागैरुद्धतकायसत्त्वविभवस्तीक्ष्णप्रतापैर्जगद् व्याफ्नं नितरां समीक्ष्य कृपया स्कन्दार्थनाद्ब्रह्मणा। सृष्टः कश्चन पूरुषः स तु रुषा रक्तान्तहग् दंष्ट्रया भात्युद्यन्मुकुटः कुशाङ्कितकरस्तेनाङ्कुशाख्योऽह्ययम् ॥१७॥ वज्रार्धचन्द्रनखकैतककण्टकाभा- श्चत्वार एव सृणयो विहिता मुनीन्द्रैः । आविश्य तासु पुरुषः स्थितवानयं हि मत्तातिदुष्टगजसंयमनाय नित्यम् ॥ १८ ॥ विताने च विदुीवानिर्याणे मस्तकेऽपि च । अवग्रहे च जानीयात् षड्डिधाङ्कुशचारणा ॥ १९ ॥ अत्र प्राग्गमने पुरो मुखमृजस्तोदो विधेयोऽनया पश्चान्नेतुमिहावकर्षणमथोर्ध्व नेतुमुत्कर्षणम् । नेतुं चेभमधोऽवपीडनममुं सव्यं तु सव्येतरे भागे तोद इतीतरापि च यथायोगं सृणेश्वारणा ॥ २०॥ ईषत्स्पर्शनपीडनातिहननान्युत्क्षिप्य संपीडनं चोत्क्षिप्य प्रतिकर्षणं च पुनरुत्क्षिप्याधिकं भ्रामणम् । तत्रार्धागुलमात्रमग्नमुदितं पूर्व क्रमात् पीडना- धर्धार्धागुलवर्धितं त्विति सृणेस्तोदक्रमो दर्शितः ॥२१॥ १. 'ट्वान्' क-पाठः. २. 'रितोऽपि' ग-पाठः. १. 'मानम' ख-पाठः, 'त्रमानमु' ग-पाठः.
मातङ्गलीलायां माधूकपुष्पमधुकालवचाश्वगन्धा- बिल्वं पलाण्डुमरिचं च समं सुपिष्ट्वा । गोमूत्रकेण परिलेपितमङ्कुशाग्रे यस्तेन चोदित इभः स वशं प्रयाति ॥ २२ ॥ कोशातकीक्षारकटुत्रयोलसिद्धार्थकारुष्करचूर्णमेतत् । तिक्ताहसिन्धूत्थविलङ्गयुक्तं सृणिप्रलिप्तं गजवश्यमाहुः ॥२३॥ शतपदीकुकलासशिरःशिलातुरगपित्तमृगाङ्गरुहैः कृतम् । भुजगकञ्चुकवृश्चिकसंयुतैः सृणिषु लेपमनेकपदर्पहृत् ॥ २४ ॥ पार्श्वयोरुभयोश्चैव निष्कोशद्वितयेऽपि च । पुच्छमूले गदाघातमिति पञ्चविधं विदुः ॥ २५ ॥ कर्णयधिचतुष्कास्यैः संप्लुत्या चैवमष्टधा । गजारोहोऽनुधावद्भिः पृष्ठतः सा तु संप्लुतिः ॥ २६ ॥ पुच्छपादचतुष्कास्यपार्श्वकर्णद्वयर्गजात् । अवरोहणमित्येवं दशधा कीर्तितं बुधैः ॥ २७ ॥ इत्येवं पालकाप्यो मुनिरिभचरितं व्याकरोद्रोमपादा- यानन्दान्दोलितात्मा नृपतिरथ मुनिं पूजयन्नऱ्यापाद्यैः । अध्यासामास पृथ्वी चिरतरमभिरक्षोद्यतोऽलं दयावा- नस्तप्रत्यार्थपृथ्वीपतिरखिलजगद्रक्षणे जागरूकः ॥ २८॥ रोमेति नाम पद्मस्य विख्यातं पूर्वसूरिभिः । तेनैवाङ्कितपादत्वाद् रोमपाद इति स्मृतः ॥ २९ ॥ ३. 'कारस्क' ग-पाठः. १. 'क्षीर' ग-पाठः. २. 'याश्व' ग-पाट:. मुपिष्य' इति स्यात.
द्वादशः पटलः । ४१ पालनाद् गजयूथस्य काप्यो गोत्रेण चेत्यतः। पालकाप्यस्त्वसावेवं दिव्योक्त्याभूत् तदाह्वयः ॥ ३० ॥ मुनीन्द्रोदितमातङ्गशास्त्रागाधार्णवान्मया । अल्पा मातङ्गलीलेति लैब्धयं शोध्यतां बुधैः ॥ इति नीलकण्ठकृतायां मानङ्गलीलायाम् आधोरणगुणाद्याधिकागे द्वादशः पटलः । मातङ्गलीला समाना। 3942
No text on this page.
शुद्धिपत्रम् ।
पृष्ठम्
पङ्क्तिः
अशुद्धम्
शुद्धम्
२४
नगर्या
न शय्या
४०
१२
११
१८
गदा
मभि
गजा
मिभ
No text on this page.
No text on this page.
No text on this page.
No text on this page.