Central Library, Bits- Pilani

दशावतारचरितम

Jaavajii Paandurang · 2005/06/17

PDF Proofread

Front matter

No text on this page.

KAVYAMÂLÂ. 26.
THE
DASAVATÂRACHARITA
OF
KSHEMENDRA.
EDITED
BY
PANDIT DURGÂPRASAD
AVD
KASÎNATH PANDURANG PARAB.
Second Edition.
PUBLISHED
BY
PÂNDURANG JAWAJİ,
I'ROPRIETOR OF THE NIRNAYA SAGAR' PRESS,
BOMBAY
1930..
Price 1 Rupee.

[ All rights reserved by the publisher. ] PUBLISHED:-Pandurang Jawaji, at the 'Nirnaya Sagar' Press, PRINTER :-Ramchandra Yesu Shedge, 26-28, Kolbbat Lane, Bombay.

काव्यमाला. २६. श्रीक्षेमेन्द्रप्रणीतं दशावतारचरितम् । जयपुरमहाराजाश्रितेन पण्डितव्रजलालसूनुना पण्डित- दुर्गाप्रसादेन, मुम्बापुरवासिना परबोपाल- पाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधितम् । (द्वितीयावृत्तिः) मुम्बय्यां पाण्डुरङ्ग जावजी इत्येतैः खीये निर्णयसागराख्यमुद्रणयन्त्रालये मुद्रयित्वा प्रकाशितम् । शाकः १८५२, विस्ताब्दः १९३०. मूल्यमेको १ रूप्यकः।

No text on this page.

काव्यमाला। महाकविश्रीक्षेमेन्द्रप्रणीतं दशावतारचरितम् । मत्स्यावतारः प्रथमः। अशेषविश्ववैचित्र्यरचनारुचये नमः । मायागहनगूढाय नानारूपाय विष्णवे ॥ १ ॥ देवः पायादपायात्रिभुवनभवनस्तम्भभूतः स युष्मा- नायुष्मान्यस्य भक्त्या प्रभवति पुरुषः खर्गमार्गेऽपवगें । मत्स्यः कूर्मों वराहः पुरुषहरिवपुर्वामनो जामदम्यः काकुत्स्थः कंसहन्ता स च संगतमुनिः कर्किनामा च विष्णुः ॥ २॥ आदिमत्स्यः स जयतायेः श्वासोच्छ्रासितै लैः । गगने विदधेऽम्भोधि गगनं च महोदधौ ॥ ३ ॥ तं नमस्कुर्महे कूर्म यः कवाटमसंकटम् । अतीतसर्वब्रह्माण्डमवशेषमिवावहत् ॥ ४ ॥ वराहं नौमि सानन्ता येनोत्क्षिप्ता क्षितिः परम् । अधोधृतार्धच्छत्रेव तलस्था/तपासहा ॥५॥ १. काव्यस्यास्य पुस्तकचतुष्टयमस्माभिरासादितम्. तत्र पुस्तकद्वयं डॉक्टर बूल- रेण कश्मीरदेशादानीतं सांप्रतं पुण्यपत्तनस्थराजकीयपुस्तकालये स्थितं भाण्डारक- रोपाहरामकृष्णशर्मपण्डितेन्द्रः कृपया प्रहितम् , तत्र प्रथमं शारदाक्षरैलिखितं १०९ पत्रात्मकं क-संज्ञम्. द्वितीयं नागराक्षरलिखितं नवीनं ६७ पत्रात्मकं ख-संज्ञम्. पुख- कद्वयं चास्मत्परमसुहृद्भिः कश्मीरमहाराजाश्रितैः श्रीविश्वेश्वरदैवज्ञवरैः प्रहितम्. तत्र प्रथमं ५३ पत्रात्मकं नवीनं ग-संज्ञितम्. द्वितीयं ८८ पत्रात्मकं समाप्तौ किंचित्रटितं नवीनं नातिशुद्धं च घ-संज्ञम्. एतत्पुस्तकचतुष्टयमस्मन्मुद्राणधारतां गतमस्ति. २. 'शंभवे' ग. ३. 'अस्य की|' ख. ४. 'सुकृतमतिः' ग. ५. 'यच्छ्वासोल्लसितै- जलैः । गगने विधेऽम्भोधिः' ग. ६. 'नमस्यामहे' ग. ७. 'अतीतम' का 'अती- तमर्धब्रह्माण्डमर्धशेष इबावहन्' ख, 'अतीव' घ. ८. 'अतो' ग.

२ काव्यमाला। जयाय नृहरिवोऽस्तु दैत्योरःशोणितार्णवे । हास्मौक्तिकगर्भास्तांधेलमख°क्तयः ॥ ६ ॥ त्रिविक्रमोऽस्तु भूत्यै वः प्राग्लम्बी मध्यमा ततः। यस्य पश्चादनन्ताभूत्सत्संगतिरिवाकृतिः ॥७॥ अभमं जामदग्यो वः प्रयच्छतु जयोदयम् । यत्कुठारकठोरामौ भूपालैः शलभायितम् ॥ ८॥ नौमि रामं रिपोश्चके यः काञ्चननिभैः शरैः । होमानलशिखारूढमिव वक्रवनं पुनः ॥९॥ शौरिर्जयति कंसस्य जीवितप्रथमातिथिः । यश्चक्रे चक्रदानेन बाणबाहुप्रतिग्रहम् ॥ १० ॥ यस्य सधूप्रमाकम्पा माररामाः ससैनिकाः । चक्रुर्न रागं न द्वेषं स शान्त्यै सुगतोस्तु वः ॥ ११ ॥ खच्छन्दप्रोच्छलन्म्लेच्छतिमिरोद्भेदसच्छविः । कर्किविष्णुः प्रकाशाय प्रभातार्क इवास्तु वः ॥ १२ ॥ अवतारकथायुक्त्या भक्त्या भगवतो हरेः । श्रीव्यासदासः क्षेमेन्द्रः कुरुते सरसां स्तुतिम् ॥ १३ ॥ खजनस्थितिखिन्नस्य पुण्यारण्यविहारिणः । हरिभक्तिरसासिक्ताः श्रूयन्तां मम सूक्तयः ॥ १४ ॥ संतोषो यदि किं धनैः सुखशतैः किं यद्यनायत्तता वैराग्यं यदि किं व्रतैः किमखिलैस्त्यागैर्विवेको यदि । सत्सको यदि किं दिगन्तगमनप्रस्थानतीर्थश्रमैः श्रीकान्ते यदि भक्तिरप्रतिहता तत्कि समाधिक्रमैः ॥ १५ ॥ लसति हसति हर्षात्तीवदुःखे परेषां स्खलति गलति मोहादात्मनः केशलेशे। १. 'का' ग. २. 'पङ्कमः' क. ३. 'हेमानल' घ. ४. 'बाणेन' कघ. ५. 'प्रोक्लमम्' ... 'कुरुते क्षेमेन्द्र'कन्न-घ... 'सजन' कन्स, 'सुजन' ग. 'विधया यत्तता' का विद्यया यनतास.

१ मत्स्यावतारः] दशावतारचरितम् । नदति वदति निन्छ मानिनां किन नील: परुषवचनमल्पं श्रावितो हन्तुमेति ॥ १६ ॥ पुण्यान्यहीनहरिणानि तपोवनानि सत्संगतानि शमधर्मविवेचनानि । एतानि तानि भवबन्धविमोचनानि च)चितानि चरितानि च चक्रपाणिः ॥ १७ ॥ मान्यः किल मनु म जगज्ज्येष्ठः प्रजापतिः । चचार पूर्वमुा यः सर्वतीर्थपथातिथिः ॥ १८ ॥ स बदर्याश्रमं प्राप्य नरनारायणाश्रयम् । हरिसंदर्शनधिया चकार सुचिरं तपः ॥ १९ ॥ तं कदाचिदतिखल्पतनुस्तनुतरेऽम्भसि । उवाच तलसंलीनस्वाँसान्मत्स्यशिशुः शनैः ॥ २० ॥ भीतोऽहं स्थूलमत्स्येभ्यो रक्ष मां करुणानिधे । भक्षयन्ति क्षुधा नित्यं दुर्बलं बलवत्तराः ॥२१॥ आश्वासनं विषमशोकविमोहितस्य मीतस्य भीतिशमनं कृशपक्षपातः । धृत्यै विपन्निपतितस्य करावलम्बः संपूर्णपुण्यनिचेयस्य समुच्चयोऽयम् ॥ २२ ॥ मुनिः श्रुत्वैतदाश्चर्यकारि मत्स्यशिशोर्वचः । दयास्तं समादाय जलकुम्भान्तरेऽक्षिपत् ॥ २३ ॥ अवर्तमानं कालेन तत्र वृद्धिमुपागतम् । समीपवाप्यां चिक्षेप गङ्गायामथ सागरे ॥ २४ ॥ कालेन सकलाम्भोधिव्यापी विपुलविग्रहः । कौतुकालोकनायातं मनुं मत्स्यः समभ्यधात् ॥ २५ ॥ १. 'उर्वयो' ग-घ. २. 'महत्तीर्थ' क-ख. ३. 'सत्' ग. ४. 'क्षिप्रं ग-घ. ५. 'निचयोचसमुच्चयः' घ. ६. 'कुण्डान्तरे' ग-ध... 'आवर्तमान' इति सर्वेषु पुरखके .

काव्यमाला अधुना विषमः कालः कलुषः प्रत्युपस्थितः । विपरीतनिमितानि प्रवृत्तानि प्रजापते ॥ २६ ॥ पस्दारपरमाणपरविचापहारिणः । विचरन्ति नराः कामक्रोधलोभपरायणाः ।। २७ ।। धनं नास्त्यस्ति वा स्तोकं तदधयं न तिष्ठति । मुष्णाति दक्षिणं पाणिं वामो वामं च दक्षिणः ॥ २८ ॥ दास्यं द्विजः श्रयति शूद्रतपखिशिष्यः शूद्रान्वयः कृषिवणिक्रियया कृतार्थः । वैश्यः खजात्यरुचिविप्रविवाहकारी होता गुरुर्वदति मन्त्रपदानि शूद्रः ॥ २९ ॥ शौचं नास्ति कुतः परोपकृतयः सत्यस्य वार्ते का रौद्रः क्षुद्रतया परं परधनद्रोही दरिद्रों जनः । लेशेनापि सुखं खपुष्पसदृशं खैरापचाराः स्त्रियः संपूर्ण युगसंक्षयस्य पुरतः संलक्ष्यते लक्षणम् ॥ ३० ॥ कल्पान्तघनसंघातनिर्घातसँलिलाहतम् । जगदेकार्णवीभूतमचिरेण भविष्यति ॥ ३१ ॥ सर्वबीजभृतां तस्मिन्काले सप्तर्षिभिः सह । मैत्सृष्टां नावमारुह्य स्थातव्यं स्थितये त्वया ॥ ३२ ॥ मनः प्रकम्पनं श्रुत्वा मत्स्यस्य वचनं मनुः । तत्तथेति प्रतिश्रुत्य जगाम निजमाश्रमम् ॥ ३३ ॥ अथोद्ययौ दिशां देहपरित्यागामिमण्डली । कालजिह्वासमूहाभा द्वादशार्कोदयद्युतिः ॥ ३४ ॥ अनेकोचण्डमार्तण्डप्लुष्टे भुवनमण्डले । चराचरजगत्सर्गः सहसा भस्मसादभूत् ॥ ३५ ॥ १. 'प्रचरन्ति' ग-धः २ 'क्षुद्रान्वयः' क-ख-घ.. ३. 'क्रिययाहितार्थः' ख-ग. 'मलिलावहम्' ग-घ. ५. 'संदृष्टां'.घ. ६. 'विनिचित्य ग-घ..

१ मत्स्यावतारः] दशावतारचरितम् । अथादृश्यत कार्तान्तमहिषस्येव संततिः। निर्दग्धजगदङ्गारमलिना मेघसंहतिः ॥ ३६ ॥ ततः पपात नीरन्ध्रधारासारभरः क्षितौ । विश्वसंक्षयशोकाश्रुप्रवाहः ककुभामिव ॥ ३७ ॥ संवर्तकानलप्लुष्टे सप्तपातालमण्डले । कल्पान्तपवनापातममे ब्रह्माण्डमण्डपे ॥ ३८ ॥ पुष्करावर्तकाम्भोमृत्सष्टवृष्टिसमुत्लवैः जगदेकार्णवीभूतं क्षणेन समपद्यत ॥ ३९ ॥ (युग्मम्) विपुले विप्लवे तस्मिन्मत्स्यस्य वचनं स्मरन् । भुजविक्षिप्तसलिलस्तं द्रष्टुमगमन्मनुः ॥ ४० ॥ स ददर्श महामत्स्यं चण्डांशुशशिलोचनम् । कृतैक्यमिव संहारे दिनरात्रिप्रकाशयोः ॥ ११ ॥ बिनाणं मेरुसंकाशं शृङ्गं शिरसि काञ्चनम् । अम्भोभिरावृतस्थानं निर्यान्तमिव वाडवम् ॥ ४२ ॥ पुच्छाच्छोटोच्छलितसँलिलालोलकल्लोलजालैः श्वासाभ्यासप्रसरदमलोत्तुङ्गरगत्तरङ्गैः । खं कुर्वाणं श्रितमिव धनोल्लासकैलासले:- दृष्ट्वा मत्स्यं हरिरिति मनुस्तत्प्रणामानतोऽभूत् ॥ ४३ ॥ तदुच्चशृङ्गसंलमां नावं धृतिमिवायताम् । आरुरोह गिरा तस्य सह सप्तर्षिभिर्मनुः ॥ ४४ ॥ तस्मिन्काले निरालम्बे मार्कण्डेयो निराश्रयः । देवर्षिः सलिलप्रस्तं दृष्ट्वा जगदचिन्तयत् ॥ ४५ ॥ अहो बत महानेष कालः संकलिताखिलः । जगरासरसाभ्यासादनिशं न निवर्तते ॥ ४६॥ १. 'संततिः' क-ख-घ. २. 'मण्डले' क-ख-घ. ३. 'सृष्टि' क-ख-घ. ४. 'युग्मम्' ग-घ-पुस्तकयो स्ति. ५. 'मुनिः' ग-घ. ६. 'सलिलालोक' क-ख-घ. 'मला क; 'तुझतुः ख... 'नृतं' का 'धृतं' ग-घ. ९. 'लक्ष्यैः' क-खग-ध.

काव्यमाला। क स सनगरपामग्रामः समग्रगिरीश्वरः प्रथितभुवनामोगः सेन्दुग्रहार्कगतिर्गतः। अहह कुटिलखमोत्पन्नैरिवाश्रितविनमै- श्रमयति भवे भावैः कालः कृतैरय संहृतैः ।। १७ ।। मान्यास्ते मुनयस्तपोवनभुवस्तास्तीर्थसाथिताः शौर्योत्साहमहोदयाः क बत ते भूभूषणं भूमिपाः। अन्ते सज्जनमन्युनीचविनयस्त्रीचित्तधूर्तप्रम- खमाकारमधर्मलब्धधनवत्कष्टं न किंचित्स्थितम् ॥ १८ ॥ इति संचिन्तयन्दोया विक्षिप्तसलिलस्तरन् । तामासाद्य मुनि वमाललम्बेऽम्बरोन्मुखीम् ॥ ४९ ॥ आकृष्यमाणः स तया मत्स्यशृङ्गाग्रकृष्टया । मनोन्मनः प्रपेदेऽन्तं संसारस्येव नाम्भसः ॥ ५० ॥ वैनत्तुगतरङ्गभङ्गविहितव्योमाननालिङ्गने वाताघातविभक्तयोजनशतावर्ते च निम्नेऽन्यतः । अक्षोभस्थितिनिश्चले स्फटिकभूतुल्ये प्रेसन्ने कचि- नासालमजलः श्वसन्मुनिवरस्तोये श्रमार्तोऽभवत् ।। ५१ ॥ अनर्कचन्द्रनक्षत्रे दिनरात्रिविवर्जिते । अप्रमाणे गते काले मध्यं प्रापाम्भसो मुनिः ॥ ५२ ।। तत्र सप्तर्षिभिर्जुष्टां मनुना च प्रजासृजा । नावं मत्स्यं च नापश्यन्मुद्यमानर्मंना मुनिः ॥ ५३ ॥ अथ विद्रुमवैदूर्यहेमशाखासहस्रिणः । उद्तस्याम्भसो मध्यान्यग्रोधस्य महातरोः ॥ ५४॥ अझे पर्यबन्धेन स्थितं कमललोचनम् । ददर्श श्यामलं बालं दीप्ताभरणभूषितम् ॥ ५५ ॥ (युग्मम्) 'आहत' खा १.कुतः'ख. २. 'आत' क; 'स्मित' गा 'भारत' घ. ३. 'स्थिरम्' ग-घ. ४. 'मोर' ख. ५. 'प्रसके' ख. ६. 'तनुर्मुनिः' क-घ.

२ कूर्मावतारः] दशावतारचरितम् । तत्समीपमवाप्तोऽथ स मुनिर्जलविह्वलः । निपीतः शिशुना तेन पयश्चलकलीलया ॥ ५६ ।। तस्योदरे सगिरिगहरसागराणि द्वीपापगानगरतीर्थतपोवनानि । पश्यन्नशेषभुवनान्यनिशं महर्षि- नैवान्तमन्तरचरः कचिदाससाद ॥ ५७ ।। प्रयाते विपुले काले निष्कान्तस्तन्मुखान्मुनिः । अपश्यन्नाभिजाम्भोजे तस्य जातं प्रजासृजम् ॥ ५८॥ ब्रह्मणो मानसाज्जातैः प्रजापतिमिरेद्भुतः । मनुमुख्यैः कृतः प्राग्वत्सर्गः पुनरदृश्यत ॥ ५९॥ अथ बहुविधवर्णाकारचेष्टानुभावं समविषमविभॊगं कर्मरेखाविभौगैः । नवविधिविहितं तद्विश्वनिर्माणचित्रं भुवनभवनभित्तिव्यक्तसंसक्तमासीत् ॥ ६० ॥ इति श्रीव्यासदासापराख्यधीक्षेमेन्द्रविरचिते दशावतारचरिते मत्स्यावतारः प्रथमः । कूर्मावतारो द्वितीयः। दक्षस्ततः सर्गविधानदक्षः प्रजापतिः कान्तिविभूषिताशः । एकाधिकाः सर्वगुणोन्नतेभ्यः शतार्घसंख्याः प्रददौ खकन्याः ॥१॥ ज्येष्ठामुमाख्यां भगवान्पिनाकी त्रयोदशान्याः किल कश्यपश्च । सप्ताधिकां विंशतिमत्रिपुत्रश्चन्द्रः प्रपेदे दशकं च धर्मः ॥ २ ॥ असूत देवानदितिः समस्तान्दैत्यान्दितिः कश्यपतः क्रमेण । कद्रूश्च नागान्गरुडारुणौ च खगाधिनाथौ विनताभिधाना ॥ ३ ॥ दनुस्तथा दानवसंघमुग्रं शुनां जनित्री सरमा बभूव । अन्यासु चामदथ कश्यपस्य हंसादिभेदेन विहंगसर्गः ॥४॥ १. 'गिरिसागरगहराणि' क-ख. २. निर्गतः' ग-ब. ३. 'भते ख. ४. 'विराग' ग.५. 'विभावैः' क.

काव्यमाला। ततः सुराणां बलवत्तराणां दितेः सुतानां च मुजोर्जितानाम् । दुग्धोदधौ मन्दरभूधरेण सुधाप्तये मन्थमनोरथोऽभूत् ॥ ५ ॥ अथार्थितोऽभ्येत्य हिताय विष्णुः सुरासुरैः प्रीतिधृतककार्थः । मन्थक्षम मन्दरमादरेण देलहरीकंदरमुज्जहार ॥ ६ ॥ तटे निविष्टेषु सुरासुरेषु ता_ध्वजं क्षीरनिर्षिनिरीक्ष्य । प्रक्षेप्तुमभ्युद्यतमदिराजं कृताञ्जलिविग्रहवानुवाच ॥ ७ ॥ चतुर्मुखः सृष्टिमिमां तनोषि विष्णुः स्थितिं पासि जगनिवास । अन्ते हरः संहरसि त्रिलोकीमेकत्रिधा कारणभेदतस्त्वम् ॥ ८ ॥ भवद्भुजोत्क्षेपरयेण मुक्तः खातड्यनिर्यप्रगतिः प्रमाथी । न सप्तपातालतलावभेदी काप्येष विश्राम्यति शैलराजः ॥९॥ मन्थप्रयत्नो यदि सर्वथैव तचिन्त्यतामस्य धृतिर्महादेः । वोढुं दृढोपक्रमकार्यभारं धृत्या विहीनः किल कः समर्थः ॥ १० ॥ यथार्थमाकर्ण्य सुधार्णवोक्तं युक्तं विनिश्चित्य तथेति विष्णुः । मन्थोद्यमे मन्दरधारणाय द्वितीयरूपेण बभूव कूर्मः ॥ ११ ॥ घनप्रमोदप्रतिमेन तेन विस्तारिणान्तः परिपूर्यमाणः । तरङ्गदोभिर्गगनाग्रगङ्गां क्षीरोदधिः क्षीब इवालिलिङ्ग ॥ १२ ॥ क्षिप्तस्य सावेगमथाच्युतेन सेहे भरं भूमिभृतः स कूर्मः । नवेश्वरस्येव विशृङ्खलस्य खकार्यसिद्ध्यै मतिमान्विकारम् ॥ १३ ॥ गिरा गरीयान्गरुडध्वजस्य वक्रक्रियां वासुकिरादधानः । आकर्षयोग्यं हृदयग्रहेण चक्रे गिरिं मुग्धमिवातिधूर्तः॥ १४ ॥ अथाद्रिनाथे त्रिगुणानुबद्धं मन्थोत्थिता मन्थनकार्यसिद्ध्यै । भुजंगराजं जगृहुर्महेच्छाः पुच्छेन देवा वदनेन दैत्याः ॥ १५ ॥ अथ मथन विधाने क्षोभणेऽब्धेः प्रवृत्चे भुवनभवनभमभान्तिहेतुर्बम्व । . बिलोनितानाम्' ग. ..२. 'दरत्' क-च.. ३. 'गतिः'क. करावा. ४. 'क्षोभने २ कूर्मावतारः] दशावतारचरितम् । कठिनकमठपीठप्रष्ठपृष्ठप्रतिष्ठ- प्रेविलुठदचलेन्द्रोद्धातनिर्धातघोषः ॥ १६ ॥ ततः श्रियः स्फाटिकमण्डपामं दन्तायतस्तम्भचतुष्टयाङ्कम् । मन्थोत्थमैरावणमिन्दुशुभ्रं द्विपेन्द्रमिन्द्राय ददावुपेन्द्रः ॥ १७ ।। ससत्त्वमुच्चैःश्रवसं च सप्ति निर्दोषमुत्साहगुणोपपन्नम् । प्रभाभिरामं सकलक्रियाहं शूरप्रतापोदयसुप्रकाशम् ॥ १८ ॥ श्रमश्वसद्वासुकिसृग्वि(कि)निर्यद्विषानलोल्काविकरालवक्रान् । विलोक्य दैत्यान्पुरतः पयोधेरथोद्ययौ हास इवामृतांशुः ॥ १९ ॥ खयं समादाय हरिहिमांशुं हरस्य चूडाभरणीचकार । गुणोचितस्थानसमर्पणेन पुष्णन्ति मानं महतां महान्तः ॥ २० ॥ अथोदितं कौस्तुभमजनाभः स्वभावहृद्यं हृदये बबन्ध । संपूरिताशं विशदप्रकाशैः कृतज्ञधीः साधुरिवोपकारम् ॥२१॥ समुन्मिषद्विद्रुमहेमशाखासहस्रनिर्यन्नवरत्नपत्रः । जातः सुधाब्धेरथ पारिजातः खयं महेन्द्रोपवनं जगाम ॥ २२ ॥ अथोद्ययावुत्कटकालकूटः समीरसंमोहितदेवदैत्यः । दानोद्यतस्य खरसेन सिन्धोरत्यर्थमर्थार्थनयेव कोपः ॥ २३ ॥ विष्णोगिरा विश्वहितप्रवृत्तः शिवस्तदत्युग्रतरं निगीर्य । गौरीपरिष्वङ्गरसादिवाभूत्कपोलकालागुरुनीलकण्ठः ॥ २४ ॥ सुधाब्धिमध्यान्नवनीतमृद्वीमभ्युद्गतां कान्तितरङ्गिताङ्गीम् । ततः श्रियं श्रीरमणः प्रपेदे खयंवरक्षिप्तकटाक्षमालाम् ॥ २५ ॥ अथौषधीनां घनसौरभेण श्रमापहारी त्रिदशासुराणाम् । हर्षाय धन्वन्तरिराविरासीत्पीयूषपूर्णः कलशश्च पश्चात् ॥ २६ ॥ सुरापनीतद्विरदाश्वरत्नशशाकलक्ष्म्यक्षमिणोऽतिजिमाः । दिवौकसां मूलवधे प्रवृत्ता दैत्याः सुधां जहुरलक्ष्यवेगाः ॥ २७ ॥ १. 'प्रविष्ट' ग. २. 'प्रविचलत्' ग. ३. 'निर्घोष' घ. ४. 'सुप्रतापम्' ग. ५. 'सुधांशुं' ख-ग. ६. 'भव्यं' क-घ. ७. 'उद्धत' घ. ८. 'लक्ष्मीक्षामिणः' ख-ग. दशा.२ १० काव्यमाला। पीयूषपूर्ण कलशं जवेन हृत्वा प्रयातेष्वसुरेषु विष्णुः । मन्थाचलेन्द्रं वपदे निधाय क्षणं प्रदध्यौ विबुधार्थसिद्धिम् ॥ २८ ॥ सुनिर्मलागी सुरवैरिवामां वामाकृति कामकृपाणवल्लीम् । तनीयसी विश्वतनुस्तनुं खां लावण्यलीलालहरीं चकार ॥ २९ ॥ तरलवलनलीलामित्रनेत्रत्रिभागैः श्रवणकुवलयस्य क्लैब्यौपादयन्ती । अमृतहरणहेलादृप्तदैत्येश्वराणां हृदयहरणसज्जा सा समीपं जगाम ॥ ३० ॥ शृङ्गारिणी भगवतस्तनुमच्युतस्य दृष्ट्वाद्भुतां त्रिभुवनाभिमतां बभूव । भव्यप्रभावविभवाय मनोभवस्य तद्विभ्रमप्रभवभावभवोऽभिमानः ॥ ३१ ॥ मनसिजविजयोद्यद्वैजयन्तीविलासां तुहिनकिरणहासां तां विलोक्यैव दैत्याः । झटिति गतविवेकाः शेकुरौश्चर्यमोहा- दमृतमनृतलब्धं नैव पातुं न हातुम् ॥ ३२ ॥ संत्यज्य लब्धामृतपानतृष्णां ते प्रेमलब्धाधरपानलुब्धाः । गाढाभिलाषोष्णविषानुबन्धादूचुर्मिथः प्रस्खलितप्रतापाः ॥ ३३ ॥ पूर्णेन्दुर्वदने गतौ गजपतिर्लावण्यसारे सुधा श्रीपुत्रे मधुराधरेऽरुणमणिः संभाव्यते सुभ्रवः । नीतं यत्रिदशैरहो सुमतिना भीतेन दुग्धाब्धिना तत्सर्वं परितोषणाय वनिताव्याजेन नः प्रेषितम् ॥ ३४ ॥ तीव्रश्रमाप्तममृतं यदि बुद्धिमोहा- देतत्कराम्बुरुहदत्तमिदं न पीतम् । १. 'निवेश्य' ग. २. 'उत्पादयन्ती' ख-ग. ३. 'ऐश्वर्य' ग. ४. 'सुमनसा' -- ३ वराहावतारः] दशावतारचरितम् । ११ तत्किं वृथा दलितकंदरमन्दराद्रि- मन्थैरुपद्रवशतैः परिखेदितोऽब्धिः ॥ ३५ ॥ इत्युक्त्वामृतपूर्णरत्नकलशं तस्यै ददुर्दानवाः साप्यादाय तमम्बरेण सहसा धामामराणां ययौ । अन्यायेन यदर्जितं कथमिह खास्थ्येन तद्भुज्यते यत्नात्तोऽपि पलायते विहगवन्मूढस्य हस्तानिधिः ॥ ३६ ॥ प्रत्याहृतं तत्कमलाधवेन पातुं प्रवृत्तेष्वमृतं सुरेषु । विवेश राहुः सुररूपगूढस्तन्मध्यमाखादविशेषलुब्धः ॥ ३७ ॥ जिह्वाग्रलमं रससारमाद्यमाखादयन्विस्मयलोलवक्रः । राहुर्मुहुः कातरतामवाप्तः संसूचितः सोमदिवाकराभ्याम् ॥ ३८ ॥ अर्धग्रोत्कार(?)रावप्रविलुठदमृते कण्ठपीठेऽथ राहो- र्वक्रस्य क्रूरकोपाक्रमरहिततया चक्रिचक्रेण कृत्ते । निर्यान्ती व्यक्तरक्तस्रतिभरशबला शेषपीयूषधारा पालीनपीनारुणमणिकिरणश्रेणिशङ्कां चकार ॥ ३९ ।। इति स भगवान्विष्णुः कूर्माकृतिकृतभूधरः सुरहितविधौ बद्धश्रद्धः सुधां विदधेऽम्बुधेः । अविचलतया संसक्तानां परोपकृतिव्रते भवति महतां स्फीतोत्साहे मनागपि न श्रमः ॥ ४० ॥ इति श्रीव्यासदासापराख्यश्रीक्षेमेन्द्रविरचिते दशावतारचरिते कूर्मावतारो द्वितीयः । वराहावतारस्तृतीयः । अथामृते विष्णुहृते दितेः सुतः कृती हिरण्याक्ष इति प्रभावभूः । तपःश्रिया सर्वजगज्जयोर्जितामवाप भूतिं परिभूतवासवः ॥ १ ॥ कदाचिदास्थानसभाभुवं श्रितः स विप्रचित्तिद्रुमभौमतारकान् । निसुम्मसुम्भान्यकजम्भशम्बरान्महासुरान्वृत्रमुखानभाषत ॥ २ ॥ १. 'यमाप्तः' ग. २. 'अर्धामोत्कार' ग. ३. 'शंभरान्' ग-घ.

१२ काव्यमाला। अपि श्रुतं दृष्टमदृष्टमीदृशं सुरैः कृतं वक्रतया कुकर्म यत् । न मर्मसंलमविषोक्षितेषुवत्करोत्यहो दुःसहदाहलाघवम् ॥ ३ ॥ न लज्जते सज्जनवर्जनीयया भुजंगवक्रक्रिययापि दुर्जनः । घियं कुमायासमयाभिचारिणीं विदग्धतामेव हि मन्यते खलः ॥ ४ ॥ रणाअभित्तिलिखितेव चक्रिणा दिगन्तपट्टेष्वयशोमषीभरैः । मुजाभिमानाभरणः करोति किं सुधापहारं वनिताकृतिच्छलात् ॥ ५॥ निपीय पीयूषमुपायमायया जराक्षयादक्षयकायतां गताः । ध्रुवं समुत्सारितसंपदः सुराः सदैव निन्दन्त्यतिदीर्घजीवितम् ॥ ६ ॥ अदानभोगेन धनोदयेन किं मदस्पृशा द्वेषजुषा श्रुतेन किम् । सदम्भसंभारवता व्रतेन किं विपद्विमानेन कुजीवितेन किम् ॥ ७॥ यस्मिन्नूर्जिततेजसा निजभुजोत्साहार्जिताः संपदो भुज्यन्तेऽल्पतरोऽप्यनल्पसुकृतैः पूज्यः स जीवक्षणः । याच्ञाक्लिष्टनिकृष्टचेष्टमनिशं कैप्टेऽप्यपुष्टाशनं काकानामिव पुण्यपिण्डकभुजां कस्येष्टमायुश्विरम् ॥ ८ ॥ विवासिताः खर्गपदान्मयाधुना सुधानिबद्धायतजीवितद्विषः । व्रतानि देवाः कुगतिक्षताः क्षितौ चरन्ति तीर्थेषु तपोवनेषु च ॥९॥ घनावमानाशनिशातितौजसा वियोगिनां दैवनिपीतसंपदाम् । प्रतिक्रियाहीनरिपुषणामिनां प्रजायतेऽतीव तपोवनादरः ॥ १० ॥ रिपोर्गतस्यापि शरीरशेषतां न नाम युक्तं क्षणमप्युपेक्षणम् । अतः सुराणां व्यसनप्रवासिनां समूलनिर्मूलनकर्म कुर्महे ॥ ११ ॥ इति स्थिरान्तर्गतगूढमन्युना यथार्थमुक्तं सुरवैरिभूभृता । निशम्य दैत्याः प्रमदात्तमूचिरे सुधापहारोग्रनिकारदारिताः ॥ १२ ॥ वयं त्वदाज्ञापरतन्त्रवृत्तयः पराभवं शत्रुकृतं सहामहे । रिपुक्षमापककलङ्कितं यशो न नाकिकान्ताश्रुजलैः पुनीमहे ॥ १३ ॥ १. 'क्रियं ख-ग. २. 'कुमारक्रियया' क-ख-ग. ३. 'भीतिः' काख. ४.'क- टेष्ट' क-ख-ग. ५. 'चान्य' ग.

३ वराहावतारः] दशावतारचरितम् । स कुञ्जरेन्द्रः स हयः स कौस्तुभः प्रसह्य सा श्रीः स शशी स पादपः । हृताः सुरैरेव विलोकिताः पुरः प्रणष्टचेष्टैलिखितैरिवासुरैः ॥ १४ ॥ अमर्षिभिर्मर्षित ऐष दुःसहः सुधाशया दैत्यवरैर्व्यतिक्रमः । न सापि पीता बत निष्फलोदयः कृतोऽतिलोभादभिमानविक्रयः ॥१५॥ पुनः पुनः किं विपुलं विचार्यते समीहितं हन्त हिते विधीयताम् । भवत्यभावप्रभवे दिवौकसां न नाम नामापि यथा जगत्रये ॥ १६ ॥ इति प्रवृद्धोद्धतमन्युमूच्छितैः सुरारिभिः क्रूरतरैरुदाहृतम् । प्रियं समाकर्ण्य हिरण्यलोचनः प्रमोददिग्धः सचिवानभाषत ॥ १७ ॥ अतीव युक्तं मतमायतिक्षमं भवद्भिरुक्तं हितयुक्तमुत्तमम् । विनाशसज्जः प्रथमं दिवौकसां क्षितिं स्थिति देहधृति हराम्यहम् ॥१८॥ ममाज्ञया संप्रति सैन्यनायकाः प्रविश्य पातालतलं बलाधिकाः । क्षितिं समाक्षिप्य नयन्त्वदृश्यतामेसंशयं संक्षय एव विद्विषाम् ॥१९॥ इति प्रभोद्भूभ्रमभीमशासनं निशम्य दैत्याः पृथिवीप्रवासनम् । समुच्चलन्तश्चरणैः प्रचक्रिरे क्षितिं क्षयत्रासविसंस्थुलामिव ॥ २० ॥ अथ दितिसुतसेना मज्यमानाननानां स्थितिविदलनलजां दिग्गजानां दिशन्ती । धरणिहरणसज्जा मज्जयन्ती दिगन्ता- नविशदतिविशालोत्तालपातालमूलम् ॥ २१ ॥ क्षितौ हृतायां दितिजैः सदानवैर्जगत्सु जाते स्थितिलोपविप्लवे । भुवं समुद्धर्तुमथाच्युतः खयं वराहवक्रः प्रविवेश भूतलम् ॥ २२ ॥ स राजवर्ताचलतुल्यविग्रहः सशङ्खचक्रः शशिसूर्यबानिव । अकालसंध्यामिव पिङ्गलोचनः प्रभां बभार क्षयलक्षणां द्विषाम् ॥२३॥ से सप्तपातालतलान्तकोटरे निसूदितामुन्मददानवैर्महीम् । समुज्जहाराम्बुविहारलीलया तनीयसी शेवलवल्लरीमिव ॥ २४ ॥ १. 'अमर्षितैः' ख. २. 'एव' ग-घ. ३. 'लोकात्' ख. ४. 'प्रबुद्ध' ग-घ. ५. 'असंशयः' ग. ६. 'प्रशासनम्' ग. ७. नीलवर्णो रत्नविशेषो राजवर्तः. ८. 'समख' ग. ९. 'दुर्मद' ख.

काव्यमाला। पोत्रप्रान्तसमुद्धृता भगवतः क्रोडाकृतेः श्यामला दंष्ट्राने शशिनीव लक्ष्मलहरीशोभा दिशन्ती क्षणम् । वक्रालोकनकम्पभीतितरला खेदाम्बुतिम्यत्तनु- लीलापल्वलमुस्तपत्रलतिकालीलामुवाह क्षितिः ॥ २५ ॥ अथाययौ भूमिसमुद्धृतिक्रुधा सुधापहारस्मृतिवर्धमानया । भैरेण दैत्याधिपतिश्चलच्चमूरजःपटग्रस्तसमस्तवासरः ॥ २६ ॥ ततस्तदुत्सृष्टशराश्ममुद्गरत्रिशूलपाशाङ्कुशशक्तितोमरैः । बभूव देवः परिपूरिताकृतिर्महाप्रवरिव निश्चलोऽचलः ॥ २७ ॥ आशाकाशप्रसृतवपुषा व्याप्तसप्ताब्धिलोकः स्तोकारम्भक्षुभितभुवनभ्रंशशङ्कानिलीनः । खस्थां धृत्वा स्थिरनिजपदे मां हिरण्याक्षमुग्रं क्रोडीकृत्य प्रसभमवधीत्क्रीडया क्रोडराजः ॥ २८ ॥ इति स भगवान्विष्णुर्जिष्णुर्जगत्कुशलक्रिया- प्रणिहितमतिः कृत्वा विश्वं समुद्धृतकण्टकम् । निजनिजपदे धृत्वा देवाञ्जगत्रितयस्थिति विभुरभिनवोत्साहां चक्रे पुनः प्रथमामिव ॥ २९ ।। इति श्रीव्यासदासापराख्यश्रीक्षेमेन्द्रविरचिते दशावतारचरिते वराहावतारस्तृतीयः । नरसिंहावतारश्चतुर्थः। हते महावराहेण हिरण्याक्षे क्षितिद्रुहि । हिरण्यकशिपुः श्रीमाभवत्तत्सुतोऽधिकः ॥ १ ॥ नो ननाम रणे यस्य क्षणाद्विश्वक्षयं विना । दोर्दण्डपीडनक्रीडाब्रीडाकुण्डलितं धनुः ॥२॥ प्रतापकेसरी यस्य निःशेषीकृतविद्विषः । अलब्धयुद्धः सुष्वाप जगद्दिरिगुहागृहे ॥ ३ ॥ १. 'वक' ग. २. 'ताम्यत्' ख. ३. 'बलेन' घ. ४. 'सुस्था' ग. ५. 'कृला' घ. ६. 'अधिकतत्सुतोऽभवत्' ग.

१५ ४ नरसिंहावतारः] दशावतारचरितम् । स जम्भवृत्रनमुचिप्रमुखैर्दैत्यदानवैः । हेमसिंहासनासीनः सह भेजे सभाभुवम् ॥ ४ ॥ प्रणमदैत्यसामन्तप्रतिबिम्बभरक्षमे । विपुले रत्नपर्यङ्के विन्यस्तचरणाम्बुजः ॥ ५॥ (युग्मम् ) पार्थे हठहृतामय॑तरुणीचामरानिलैः । प्राणेशविरहोच्छ्रासैरिव लोलांशुकाञ्चलः ॥ ६ ॥ तस्याग्रे विग्रहग्रस्तसमस्तसुरसंपदः। तेजेसा मुद्रितः कश्चिन्न वक्तुमभवद्विभुः ॥ ७ ॥ तस्मिन्निःशब्दसंचारे दैत्यवृद्धः सभातले । प्राह राहुः शिरःशेषः सुरवैरं वहन्मुखे ॥ ८ ॥ दैत्याधिनाथ धन्योऽसि युधि येनासिधारया । क्षमापङ्ककलङ्काइँ कुलस्य क्षालितं यशः ॥ ९ ॥ सुरापकारशल्यानि भ्रूभेदेन तवाधुना । कामं कङ्कमुखेनेव हृदयादुद्धृतानि नः ॥ १० ॥ पूज्यं जन्म प्रथितयशसस्तस्य माहात्म्यपूतं मानस्तस्यामरगिरिगुरुर्वर्धते निष्प्रमाणः । बद्धस्तेन स्थिरगुणकथाहेतुरौचित्यसेतु- यस्योन्नत्या कुलमविकलं याति सर्वोन्नतत्वम् ॥ ११ ।। अल्पागसां वृथास्माभिः कृता हिंसा दिवौकसाम् । विष्णुर्मूलं विकाराणामवलेपादुपेक्षितः ॥ १२ ॥ तन्वी मूर्तिः कुसुमकलिकाकोमला सा च वाणी वकं सौम्यं हृदयमदयं दूषितं चेष्टितं च । वैदग्ध्यं तद्वत मधुरिपोर्मायया मौग्ध्यदिग्धं वामामूर्तेरमृतहरणे हन्त किं विस्मृतं वः ॥ १३ ॥ १. 'विमले' ख. २. 'ओजसा' ख. ३. 'प्रभुः' ग-घ. ४. 'सेतुरौचित्यहेतुः' क-ग. ५. 'वक्रक्रूर हृदयं' ग. ६. 'रामामूर्तेः' ग.

काव्यमाला। यश्चमत्कारविरहान्न स्मर्ता स्नेहवैरयोः । तेन तुष्टेन रुष्टेन मित्रारिविफलेन किम् ॥ १४ ॥ दैत्येश्वरे हिरण्याक्षे क्षपिते तार्थ्यलक्ष्मणा । शृङ्गभङ्गः समुत्तुङ्गो दैत्यक्षितिभृतां कृतः ॥ १५ ॥ साधारोदधिमन्थोत्यां लक्ष्मी वक्षसि कुर्वता । तेनाबलानामस्माकं स्त्रीत्वमेवोपपादितम् ॥ १६ ॥ लक्ष्मीकौस्तुभपरिजातहरणं स्त्रीमायया वञ्चनं मत्कण्ठे कठिनेऽमृतस्य लुठतो विघ्नाय चक्रक्रिया । दैत्येन्द्रैरवलेपविद्रुतमदैर्दैवेन वा मुद्रितै- वैकुण्ठस्य शठस्य कुण्ठमतिभिश्चिन्त्यं न तैच्चिन्तितम् ॥१७॥ अधुना दानवपते खड्गपातपैवित्रितः । पितुर्विष्णुवधश्रद्धाश्राद्धकालो विधीयताम् ॥ १८ ॥ इत्युक्ते राहुणा स्पष्टं दैत्याः क्लिष्टमुखत्विषः । बभूवुर्लक्ष्यवैलक्ष्याः प्रेक्षमाणाः क्षणं क्षितिम् ॥ १९ ॥ अमानमौनमूकेषु दानवेष्वभिमानिषु । उवाच तारकः कृत्वा राहोरभिमुखं मुखम् ॥ २० ॥ साभिमानमसंभाव्यमौचित्यच्युतमप्रियम् । दुःखावमानदीनं वा न वदन्ति गुणोन्नताः ॥ २१ ॥ सर्वकषेण कालेन दैत्येन्द्रे कवलीकृते । किं मिथ्याकारणत्वेन नीयते विष्णुरुन्नतिम् ॥ २२ ॥ कल्पान्ते क्षिप्यते येन सुमेरुः पांसुलीलया । विलम्ब कुरुते तस्य कः कालस्य बलीयसः ॥ २३ ॥ यस्य त्रैलोक्यभर्तुः सुरपतियशसां हर्तुराश्चर्यकर्तुः कोटीनां षण्णवत्या सुगणितवयसो वर्षसंख्या बभूव । . १. 'मुद्रितपदैः' ख-ग. २. 'संचिन्तितम्' ख-ग. ३. 'पवित्रितम्' ख-ग. ४. 'श्राद्धकालाय दीयताम्' ख-ग. ५. 'मूढेषु' घ.

४ नरसिंहावतारः] दशावतारचरितम् । निःशङ्काश्वासलीलालससरलमतेरसुप्तस्य मैत्र्या- श्चित्रं तस्यापि कालः कवलनकलनातीतविघ्नः कृतघ्नः ॥ २४ ॥ दैवमेव वधे तस्य कारणं दैत्यभूभृतः । हरिहन्ति हिरण्याक्षमिति किं केन 'संगतम् ॥ २५ ॥ नियन्त्रणं स्वतन्त्रस्य विचित्रचरितं विधेः । किं पात्यते न कीटेन शतशाखो वनस्पतिः ॥ २६ ॥ बलवान्दुर्बलं हन्तीत्येष नास्त्येव निश्चयः । दीपं हन्ति पतंगोऽपि पन्नगं च पिपीलकः ॥ २७ ॥ मीरुर्जयति सभामे याँति वीरः क्षयं क्षणात् । एवंविधा एव भवे भवन्ति भवितव्यताः ।। २८ ॥ दैत्येन्द्रस्यारिसंहारे प्रेरणा कोपयुज्यते । प्रेर्यते दन्तिदलने कानने केन केसरी ॥ २९ ॥ राहो निन्दापदेशेन कृता शत्रोः स्तुतिस्त्वया । न वेत्सि हृदयाभावादनौचित्योक्तिलाघवम् ॥ ३० ॥ इत्युक्ते तारकेणाप्तजीविनामिव मानिनाम् । साधुसाध्विति दैत्यानां निश्चेरुर्युगपद्गिरः ॥ ३१ ॥ अथ धर्ममतिः प्राह हिरण्यकशिपोः सुतः । प्रहादः पितुरासन्ने यौवराज्यासने स्थितः ॥ ३२ ॥ तात तिष्ठत्सु वृद्धेषु षाडण्यज्ञानमानिषु । मद्विधानामिदं वक्तुं युक्तमल्पधियां कथम् ॥ ३३ ॥ प्रस्थितानाममार्गेण निपातभयशङ्कया। दूराद्वारणनादेन येनकेनचिदुच्यते ॥ ३४ ॥ अयुक्तं यद्भगवतो विष्णोनिन्दाभिनन्द्यते । अशक्तं वाङ्मयं पापमभ्यस्तं खस्तिनाशनम् ॥ ३५ ॥ यस्य सद्गुणनिन्दायां श्रद्धया वाक्प्रवर्तते । सत्क्षेत्रोप्तमपर्याप्तमयशस्तस्य जायते ॥ ३६ ॥ १. 'तेन' ग. २. 'संश्रुतम्' ख. ३. 'यान्ति वीराः' ख.

काव्यमाला। विष्णोर्जगन्निवासस्य नैव द्वेष्योऽस्ति न प्रियः। दोषे वैरं गुणे प्रीतिनिसर्गेण जगद्गुरोः ॥ ३७ ॥ गुणहीना वयं नूनं त्रिदशा गुणशालिनः । हरिः कुतोऽन्यथास्मासु विमुखस्तेषु संमुखः ॥ ३८ ॥ प्रयत्नः खगुणाधाने येन बुद्धिमता कृतः । भूतये प्रणतास्तस्य मित्रतां यान्ति शत्रवः ॥ ३९ ॥ मित्रसृष्टिर्न भिन्नास्ति शत्रुजातिर्न भिद्यते । गुणेन जायते मित्रं दोषेणोत्पद्यते रिपुः ॥ ४० ॥ हिंसाविरहिता चेष्टा वाणी विनयकोमला । यस्यावैरं मनस्तस्य शत्रुशून्या दिशो दश ॥ ४१ ॥ न तु विश्वाकृतर्विष्णोः कर्तुं शक्या प्रतिक्रिया । यस्योदरदरीकोणे लीना शेते जगत्रयी ॥ ४२ ॥ आशाकाशावकाशप्रविसृतवपुषा व्याप्तनिःशेषविश्वः श्वासोल्लासावहेलातुलतरलतरोत्तालकल्लोलभाग्भिः । शुण्डोच्चण्डाभिघातस्फुटितमपि पुनः स्फाटिकस्फारवामि- श्चक्रे मत्स्यावतारस्त्रिभुवनमिव यः कस्य देवः स जेयः ॥ ४३ ॥ यस्याकरोद्विकचनाभिभवाजकोषे सामखरेण विदधन्द्धमरा भिशङ्काम् । यज्ञोपवीतमुरसा धवलं दधानः सलमनालतनुतन्तुरिवाजयोनिः ॥ १४ ॥ दृष्ट्वैवावर्तमानं घनभुवनगणं जातलोकानुकम्पः संपन्ने सर्वबन्धे स्थितिधृतिदलनातङ्कमाशङ्कमानः । पृष्ठे ब्रह्माण्डमन्यत्पृथुतरमकरोत्कर्मरूपः कवाट यस्तस्याचिन्त्यशक्तेर्वदति मितमतिः कः स्तुति कश्च निन्दाम् ॥४५॥ १. 'विद्यते' क-ख-ग-घ. २. 'जायते' ख-ग. ३. 'सप्ताब्धिलोकः' क. ४. 'स्फा- टिक' क-ग. ५. 'वाग्भिः' ग...'तलतन्तु' क-म.

४ नरसिंहावतारः] दशावतारचरितम् । परोक्षेऽधोक्षजाक्षेपमधिक्षेपविवक्षया । राहोाहरतो देहविरहात्तस्य शोभते ॥ ४६॥ न वैरे वाच्यता राहोर्यस्याद्यापि न शाम्यति । कण्ठे कठिनवैकुण्ठचक्रधारोद्धतव्यथा ॥ ४७ ।। आक्रान्तिभरवक्रेण क्रूरचक्रेऽस्य चक्रिणः । किं दृष्टं नष्टचेष्टेन विश्वरूपं न राहुणा ॥ ४८ ॥ उचितं दैत्यवीरेण तारकेण महात्मना । कथितं यत्स कालेन दलितो मत्पितामहः ॥ १९ ॥ कालश्च भगवान्विष्णुर्विश्वव्यापी सनातनः । अनाद्यन्तस्य यस्यान्तर्यान्ति कल्पान्तकोटयः ॥ ५० ॥ पूज्यतां विनेयाद्विष्णुस्त्यज्यतां मोहदुर्ग्रहः । रक्ष्यतां यक्षिणी (2) लक्ष्मीः खहिते धीनिधीयताम् ॥ ५१ ।। मूर्खमन्त्रः खलप्रीतिः पथ्यद्वेषः प्रमादिता । प्रभविष्णुविरोधश्च विधिवैर्मुख्यलक्षणम् ॥ ५२ ॥ प्रह्लादगदितं श्रुत्वा निःशश्वासासुरेश्वरः । अङ्कुशाकर्षकषणक्लेशी वन्य इव द्विपः ॥ ५३ ॥ सोऽवदहत दैत्यानां दुनिमित्तमुपस्थितम् । यदादिशति वृद्धानामुपदेशमयं शिशुः ॥ ५४ ॥ कुलस्यान्तनिमित्तेन स्त्रीणां दुश्चरितेन वा । पापशापेन वा नूनं जायन्ते कुलपांसनाः ॥ ५५ ॥ खकुलत्यागनिःस्नेहाश्चपला मलिनाः खलाः । कोकिला इव कुर्वन्ति परपक्षसमाश्रयम् ॥ ५६ ॥ कुलक्रमागतेयं श्रीः प्रह्लादाय न रोचते । त्यस्य वन्दिपदे शत्रोः स्तोत्राङ्के रमते मतिः ॥ ५७ ॥ १. 'परोक्षाधोक्षजा' क-घ. २. 'राहोरतितरां' क-ख. ३. 'धारापथ' ख, 'धारा- पृथु' ग. ४. 'आक्रान्ततरवक्रेण क्रूरचक्रेण चक्रिणा' ग-घ. ५. "विनयी' क-ख-ग. ६. 'वैधुर्य' ग. ७. 'अङ्कुशाकर्षणक्लेशी वने' ग. ८. 'नव इव' ग-घ.

२० काव्यमाला। तेजोजीवदरिद्राणां दैन्यम्लानयशस्त्विषाम् । जायते शत्रुषु त्रासालीबानामिव 'संनतिः ॥ ५८ ॥ वंशक्षयक्षमः कृष्णवां भवति दारुणः । दाहाय जनकस्यादौ टीकारमुखरः खलः ॥ ५९ ॥ सेक्तारं जनकं त्यक्त्वा परेषां वेश्मसंश्रयाः । वक्रवृक्षाः कुजन्मानः फलन्ति च नमन्ति च ॥ ६० ॥ कुठारिकेण येनैव च्छिन्नमूलः कृतस्तरुः । तस्यैव निर्मानतया मूढः पतति पादयोः ॥ ६१ ॥ कस्य प्रह्लाद मत्स्यादिमहाकारविकारिणः । विष्णोः स्तुत्या करोषि त्वमेताः शिशुविभीषिकाः ॥ ६२ ॥ भवन्त्येव भवे स्थूलाः सूक्ष्माश्चान्ये किमद्भुतम् । ब्रह्माण्डपरमाणुभ्यां दर्शिता स्थूलसूक्ष्मता ॥ ६३ ॥ अब्धौ धूमसमूहतुच्छतनवस्तोयं पिबन्त्यम्बुदा पीत्वालम्बनशून्यमम्बरतलं व्याप्यातताः शेरते । तद्गर्भाम्भसि विस्फुरन्ति दहनोद्गारोद्गता विद्युतः संसारे किमभित्तिचित्ररुचिरे नालोक्यते कौतुकम् ॥ ६४ ॥ वृत्रे शत्रुहरे मधौ जयनिधौ सुम्भासुरे भासुरे मायाधान्नि मये रणार्णवयशःसंतारके तारके । जम्भे स्तम्भितलोकनाथपृतने रुद्धाम्बरे शम्बरे वातापिन्यपि तापने प्रतपति खस्तिच्युतः काच्युतः ।। ६५ ॥ उपदेशस्त्वया प्राप्तः कस्य मूर्खगुरोर्मुखात् । जलशायी जलपतिर्दैवतं यस्य सोऽच्युतः ॥ ६६ ॥ विचार्यमाणस्तस्यास्ति गुणलेशो न कश्चन । एतावदेव जानेऽहं दम्भसिद्धोऽयमच्युतः ॥ ६७ ।। १. 'शत्रुसंत्रासात्' ग. २. 'संततिः' ख-ग. ३. 'झांकार' ग. ४. 'निर्माणया' क- ख-धः ५. 'व्याप्य ततः' ख-घ. ६. 'संतानके' घ. ७. 'कोऽच्युतः' ग-घ. ८. 'खया- वाप्तः'घ.

४ नरसिंहावतारः] दशावतारचरितम् । २१ ध्यानं नेत्रनिमीलनं विहसनं भ्रूकुञ्चनं घूर्णनं शूत्कारश्वसनं विमूढगणनं शिष्यस्पृहोल्लासनम् । मूर्खत्रासनमुन्नतासनमतिप्रहस्य पादार्पणं धूर्तानां स्तुतिभूतिसूतिसदनं दम्भप्रभावादिदम् ॥ ६८॥ विश्वव्यापी स चेहेवः सर्वस्यात्मा हृदि स्थितः । न तद्विरहितं किंचिदचरेषु चरेषु च ॥ ६९ ॥ योऽयं मरकतस्तम्भः सभायां मे पुरःस्थितः । अस्यान्तःस्थं न पश्यामि दुष्पुत्र तव दैवतम् ॥ ७० ॥ इत्युक्ते दितिजेन्द्रेण सहसा महसां निषिः । दीर्णान्मरकतस्तम्भान्निर्ययौ नरकेसरी ।। ७१ ॥ सुवर्णशुक्तिद्वन्द्वामं बिभ्राणः श्रवणद्वैयम् । अन्तःस्फुरत्कोपामिनिर्यज्ज्वालायुगोपमम् ॥ ७२ ॥ सितः केसरभारोऽस्य बभौ स्कन्धद्वयाश्रयः । मेरुशृङ्गयुगासशिशुभ्राभ्रवलयप्रमः ।। ७३ ॥ जृम्भमाणस्य तस्यास्ये ललास रसना मुहुः । कल्पान्तानललेखेव हेमाचलगुहागृहे ॥ ७४ ॥ नखास्तस्य बभुर्रतिभमैणाककलोज्ज्वलाः । दैत्यासृक्पानसंनद्धमृत्युस्फटिकशुक्तयः ॥ ५ ॥ तस्य रौद्रतयोनिद्ररोमाञ्चोत्कटकण्टकाः । असूचयन्बहिोरक्रौर्यकर्कशतामिब ॥ ७६ ॥ दैत्यकल्पान्तकालेन द्वादशार्कोदयविषा । तचेजसा व्यदीर्यन्त तेजांसि च तमांसि च ।। ७७ ।। करालकेसरिमुखं दृष्ट्वा दितिजकुञ्जराः । 'ते भमवदनोत्साहा ययुर्मददरिद्रताम् ॥ ७८ ॥ १. गहन ब. ९. 'दनुजेन्द्रेण ख, 'दैत्यराजेन' ग. ३. 'दमी कप... प्रताप' क.ग. ५. 'विलसत् ग. ६. 'त' क.घ. दचा.३ : काव्यमाला। तदर्शनाद्भुताक्रान्तः किमप्यातकशहितः । आसनादुचलन्नूचे हिरण्यकशिपुः श्वसन् ॥ ७९ ॥ नायं सिंहो न चायं पुरुषवपुरहो कोऽप्यपूर्वप्रकारः क्षिप्रोपेक्षाक्षमास्मिन्नहि नहि तरसा गृह्यतां गृह्यतां भोः । आस्तां सजोऽहमस्य स्खयमिह दमनायेत्युदीर्यासुरेन्द्र- स्तं चक्रे शस्त्रवृष्टया निचितमुपचितोदञ्चिरोमाञ्चपूर्णम् ॥ ८० ॥ व्याप्तः शस्त्रास्त्रवर्षेण हेलोन्मीलितलोचनः । हरिदैत्येन्द्रमादाय विस्फुरन्तमपीडयत् ॥ ८१ ॥ उत्तानमधे विन्यस्य पिङ्गभ्रूभङ्गया दृशा । अकालसंध्यामसृजन्नृहरिस्तं विलोकयन् ॥ ८२ ॥ दैत्येन्द्रहाररैनाङ्के खवकं प्रतिबिम्बितम् । करालङ्करमालोक्य सोऽभूदुद्भूतविस्मयः ॥ ८३ ॥ अयं मां योद्धमायात इतीव हसितच्छलात् । दैत्यवक्षसि चिक्षेप हरिनखपरम्पराम् ॥ ८४ ॥ तस्योपसिंहनखशुक्तिशिखावखात- वक्षःस्थलवणगुहाप्रतिशब्दधीरः । भोस्तिष्ठ तिष्ठ चपल क गमिष्यसीति कण्ठे खनः सह ययावसुभिः समाप्तिम् ॥ ८५ ॥ विदीर्णे दैत्येन्द्रे खरनखरदानैर्नरहरे- श्वकाशे रक्ताक्तत्रुटितततहाराप्रगलितः । शुकीतुण्डाघातव्यतिकरदलद्दाडिमरुचि. बजद्भिर्जीवांशैश्चित इव लुठन्मौक्तिकभरः ॥ ८६ ॥ वृत्रश्चित्राप्तिाभस्तिमिततमनमत्तारकस्तारकोऽपि ध्वस्तः स्वम्भेन जम्भः प्रणिहितनयनः शम्बरोऽप्यम्बराने । 'क्षुदोपेक्षा ग-घ. २. 'इति' ख..३. 'व्यलोकयत्' क-ग-च. ४. 'रबास-ग. 'तिमिरमित खस, 'स्तिमितमितमित' घ..

५ वामनवतारः] दशावतारचरितम् । २३ वातापिः सानुतापः क्षतधृतिरभवन्निर्ममः कालनेमि- दैत्येन्द्रे रौद्रवृत्त्या नरहरिदलिते विप्रचित्तिर्विचित्तः ।। ८७ ॥ हत्वा हिरण्यकशिपुं हरिहरिणलीलया । हर्षेण दर्शनायातान्ददर्श त्रिदशान्पुरः ॥ ८८॥ मीभेमैरावणाग्रात्सुरपतिरचलद्विद्रुताश्वश्च भानु- स्त्रस्तं तत्याज वाहं महिषमपि यमश्चन्द्रमा निर्मूगोऽभूत् । पार्थे वर्क विविमं गणपतिरकरोदित्यमोत्तमाना- मने तस्योप्रमूर्तेः स्थगितगतिरभूत्संभ्रमः सपहर्षः ॥ ८९ ।। इति स भगवान्कृत्वा विष्णुर्जगजनितोदयं कुशलमचलं प्रहादाय प्रदाय सहायुषा । निजनिजपदे देवान्धृत्वा स्थिरस्थितिपालने दयितमगमत्सौम्यां मूर्ति विधाय सुधाम्बुधिम् ॥ ९० ॥ इति श्रीव्यासदासापराख्यश्रीक्षेमेन्द्रविरचिते दशावतारचरिते नरसिंहावतारश्चतुर्थः । वामनावतारः पञ्चमः। भक्त्याभिषिक्तः प्रहादः स्वयं देवेन विष्णुना । विदधे धर्ममर्यादां दितिजानां विभूतये ॥ १ ॥ विकासहेतुर्गुणिनां मित्राभ्युदयकारिणः । प्रभातस्येव तस्य श्रीनिर्दोषाभिमताभवत् ॥ २ ॥ कालेन दैत्यमातङ्गाः संजातनिजदुर्मदाः। तच्छासनाकुशाकर्षक्लेशलेशं न सेहिरे ॥ ३ ॥ राज्येऽभिषिच्य प्रहादः पात्रं पुत्रं विरोचनम् । भेजे संतोषसाम्राज्ये निःसंख्यसुखसंपदम् ॥ ४ ॥ कालेनासुरराज्येऽथ दैत्यदोषासहिष्णुना । त्यक्ते विरोचनेनापि तत्सुतोऽभूद्विभुर्बलिः ॥ ५॥ २. 'भीभमैरावणामः' ग-घ. ३. 'धृखा देवान्' ख-घ. १. 'हारिण' ख. ४. 'निःसाग.

काव्यमाला विक्रमप्रभवा संपत्संपन्नामिनवोदया। सहसगुणतामेति धर्मेणाप्यायिता यदि ॥ ६॥ मार्गणापूरणासक्तिविस्तीर्णगुणसंततिः । खचापतुल्यत्रैलोक्यमजयल्लीलया बलिः ॥ ७ ॥ ससत्त्वतातिगाम्भीर्य तेजः स्फूर्जितमूर्जितम् । तत्तस्य भूषणमभूषणं यन्महोदधेः ॥ ८॥ न बाणदानपूर्णेन शत्रुणा याचकेन च । प्रधने मार्गणे तस्य पुनः पाणिः प्रसारितः ॥९॥ क्षीणदोषस्य तस्याथै विभिर्वा दिनैरिव । न ग्रीष्मान्तदिनाभस्य महत्त्वेऽनुकृतं परैः ॥ १० ॥ शासनोल्लासितस्तस्य भूविलासाविभ्रमः । चकार सुरहंसानां सहसैव विवासनम् ॥ ११ ॥ विपन्नविभवोत्पन्नदैन्याः शून्यवनाश्रयाः । गुणाप्तजनरागेण तेन विस्मारिताः सुराः ॥ १२ ॥ अतपत्तपनो भूत्वा सोमो भूत्वासृजत्सुधाम् । ' उवाह हव्यं भूत्वामिर्वायुर्भूत्वा ववौ खयम् ॥ १३ ॥ स दधार धरां धीरः शेषात्मा सेंचराचराम् । विधिभूत्वासृजद्विश्वं कुर्वन्समिरक्रियाः ॥ १४ ॥ मौलौ कमलजन्यस्तां हेममालामुवाह सः। संध्यामिव जगद्वन्द्यां प्रतापार्योदयाप्रजाम् ॥ १५ ॥ तस्यातपत्रैर्यात्रासु गन्धर्वगणगीतिभिः । नन्तुः षट्सहस्राणि सुरवारमृगीदृशाम् ॥ १६ ॥ तं सभाम्भोजिनीराजहंस सिंहासनस्थितम् । सेवाप्ताः सप्तलोकेशमसुरेन्द्राः सिषेविरे ॥ १७ ॥ वाग, ३. शासनोलासनः' ख...३. "विपत्तिक-घ, ४. 'सधराधराम्' गच. ५. 'मष्टिक-घ. ६. 'सर्व' ख.

५ वामनावतारः] दशावतारचरितम् । २५ तारकस्त्रिशिरा वृत्रः शम्बरस्तुरगाननः । विप्रचित्तिर्दुमः सुन्दः सुबन्धुर्बन्धुरन्धकः ॥ १८ ॥ वातापिनमुचिर्जम्भः सुम्भः शंभुर्जलोद्भवः । मायावी महिषः क्रौञ्चः कैटभो मधुरिल्वलः ॥ १९ ॥ राहुर्गजासुराद्याश्च तत्सभासभ्यतां ययुः ॥ २० ॥ स बभौ जाहवीधूतव्यजनेनोपवीजितः । सेवाप्तेनेव लोलांशुकलापेन हिमत्विषा ॥ २१ ॥ बिम्बितानन्तसामन्तलोकमौक्तिकशोभिना । स हारेण हरेश्चक्रे विश्वरूपप्रतिक्रियाम् ॥ २२ ॥ मणिकङ्कणकेयूरकिरणैः सोऽदिशदिशाम् । दारिद्यद्रावणोन्निद्रां सृष्टिं रत्नमयीमिव ॥ २३ ॥ मौलौ तस्य सितोष्णीषपल्लवश्वपलाञ्चलः । शुशुभे भुवनाक्रान्तिहर्षहास इव श्रियः ॥ २४ ॥ वज्रदन्तः प्रतीहारस्तस्याने विदधे दिशः हेमवेत्रांशुभिः पिङ्गभ्रूभङ्गैरिव निश्चलाः ॥ २५ ॥ सभां निःस्पन्दनिःशब्दां स कृत्वाङ्गुलिसंज्ञया । प्रसादप्रणयोत्साही दैत्यराजं व्यजिज्ञपत् ॥ २६ ॥ पतति विनयपूते यस्य यस्य त्वदीयः शिरसि नखमयूखोत्केसरः पादपद्मः । उपविशति सहर्षा तत्र तत्रातपत्र- व्यजनतिलकहासा हारझांकारिणी श्रीः ॥ २७ ॥ एते बहिः प्रतीक्षन्ते देव सेवार्थिनस्तव । शैक्र_शनिरालम्बाः सिद्धगन्धर्वकिंनराः ॥२८॥ दृशं देहि प्रसादाा प्रणमत्येष मातलिः । प्रवेशप्रतिषेधोऽस्य नारदेन निवारितः ॥ २९ ॥ १. 'स्कन्दा सा-घ. २. अत्रार्थश्लोकबुटितः सर्वेषु पुखकधु. ३. 'शरण' ख. ४. 'शत्रु'ख.

काव्यमाला। एष विज्ञापयत्यग्रे हयग्रीवो हयाधिपः । उच्चैःश्रवाः श्रीसहजः कस्यां धुरि निधीयताम् ॥ ३० ॥ आज्ञामर्थयते देव गजाध्यक्षो गजासुरः । कास्तामैरावणो गन्धं सहते नान्यदन्तिनाम् ॥ ३१ ॥ भार्गवस्य गिरा लब्धतत्तुल्याभ्यर्चनासनः । मान्यतामवधानेन प्रस्तुताशीवृहस्पतिः ॥ ३२ ॥ विज्ञप्त्यवसराकाडी राहुर्बहुमतस्तव । कमलाकेलिसदनं वदनानं निरीक्षते ॥ ३३ ॥ प्रभोरभिमुखः कृत्वा क्षणं विज्ञापनामिति । परिवृत्ताननोऽप्रस्थान्प्रतीहारोऽब्रवीत्पुनः ॥ ३४ ॥ रम्भ स्तम्भय विभ्रमभ्रमकरी निर्दादिनी मेखलां गीतं संवृणु चित्रसेन चतुरं खैरं पुनर्गास्यसि । आशीर्न प्रतिषिध्यते कुरुत तां संक्षिप्य सप्तर्षयो राहुदैत्यमहत्तमः प्रकुरुते विज्ञप्तिमग्रे प्रभोः ॥ ३५ ॥ द्रष्टा खर्गपुरे धृतः क्षितितले दत्तोऽधिकारी क्षमः पाताले विहितश्च तत्समुचितास्तत्रैव विज्ञप्तयः । देवः संप्रति निर्वृतिप्रणयिनी निश्चिन्ततां सेवते पर्याप्तां सुखसुप्तसप्तभवनव्यापारपारंगमः ॥ ३६ ॥ इत्युक्ते वज्रदत्तेन तद्भनिर्दिष्टवेत्रिभिः । कृते सभाने निःशब्दे भूलेखाङ्गुलिसंज्ञया ॥ ३७ ।। बलिः स्तोकनमन्मौलिरभिनन्द्य बृहस्पतिम् । तन्मानालोकनोत्साहादुरुच्चारिताशिषम् ॥ ३८ ॥ कृत्वा हक्संविभागेन प्रणतानां कृतार्थताम् । विभज्याभिमताज्ञाभिः प्रणयं शासनार्थिनाम् ॥ ३९ ॥ स प्रसादादरनिग्धस्मितदिग्धाधरघुतिः । चक्रे श्रवणसंनद्धं राहोरभिमुखं मुखम् ॥ ४० ॥ १. 'द्वारि' क-ग-घ. २. 'विभ्रमभ्रमरकं निहादिनी मेखला' ख. ३. 'निचिन्त्यता सेव्यतेख. ४. 'प्रसादादरोदारस्मित' ख.

५ वामनावतारः] दशावतारचरितम्। १७ क्षणं कुण्डलयोस्तस्य चण्डरश्मिशशित्विषोः । राहुसंदर्शनत्रासादिवाभूत्कम्पविप्लवः ॥ ११ ॥ उच्यतामिति तेनोक्तः प्राह राहुरदेहताम् । दंष्ट्रांशुपटलस्पर्शपटेनाच्छादयन्निव ॥ ४२ ॥ जीर्णत्वादतिवृद्धानां क्लेशाय चिरजीवितम् । सर्वभाववियोगेन सदा येषामनिवृतिः ॥ ४३ ॥ रम्यं किं त्वेकमेवास्ति विस्तीर्णस्यायुषः फलम् । दृश्यते यत्कचित्किंचित्सोत्कर्षचरिताद्भुतम् ॥ ४४ ॥ सर्गारम्भदिने जातै स्माभिर्दृष्टमीदृशम् । तदैश्वर्य त्वदैश्वर्यप्रभावस्योपमाक्षमम् ॥ ४५ ॥ इयं श्रीरपरिश्रान्ता प्रभावोऽयं भुजोद्भवः । इयं शक्तिर्यशःसिक्ता कस्यान्यस्य यथा तव ॥ ४६॥ सर्गारम्भान्निसर्गेण नैव दृष्टो न च श्रुतः । अदर्पसंपत्प्रणयी निर्लोभविभवो जनः ॥ ४७ ॥ नतिर्मूर्ध्नि श्रुतं श्रोत्रे हृदये सत्त्वमुज्ज्वलम् । मौलिकुण्डलहारास्ते पुनरुक्तं विभूषणम् ॥ ४८ ।। यशः सप्तसु लोकेषु श्रीराश्रितगृहेषु च । प्रोषितारातिचित्तेषु प्रतापामिस्त्वयार्पितः ॥ १९ ॥ श्रुतमाश्रितवात्सल्यं कस्य वा सदृशं तव । प्रभोः प्रोपयतो भृत्यान् वैव भुवनेशताम् ॥ ५० ॥ त्वत्पादाजप्रणामे नखकिरणमिलन्मौलिपट्टेन बद्धे जम्भेनोत्तम्भिता भूः सुरभवनवती शातकौम्भाद्रिभर्तुः । पातालं तालकेतोः सकलमुपनतं तारकेणाहृता भूः कौबेरः कोष एव प्रविशति नमुचेर्वेश्म युष्मद्विलब्धः ।।५१॥ प्रसादभूमयः सर्वे दैत्यास्ते भुजशालिनः । महोत्साहास्त्वयं राहुरबाहुः कोपयुज्यते ॥ ५२ ॥ .... १. 'प्रभवस्य ख. २..'प्रथयतः'ख.

काव्यमाला। अहं हि हितमात्रैकचिन्तालब्धप्रजागरः । त्वपितामहमुख्यामां भोगमागी निरर्गलः ॥ ५३ ॥ अत्यन्तस्थविरः कायापायसंकुचितोद्यमः । चित्तग्रहं न जानेऽहं तारुण्यतरलस्य ते ॥५४॥ तुहिनातपतुल्योऽयं वीणापटहसंनिभः । न सङ्गः श्लिष्टतामेति वृद्धस्य तरुणस्य च ॥ ५५ ।। केशोचालनमङ्गभङ्गवलनं भूविभ्रमोल्लासनं यत्तत्कथनमप्रसङ्गहसनं दन्तप्रमादर्शनम् । उसिक्तैः प्रकटीकृतं विटनटैः कौटिल्यनाट्यायितं यूनां वृद्धमतिद्विषामभिमतं प्रायः प्रभूणामिदम् ॥ ५६ ॥ भवानभिमुखायातै त्यैरभिमुखीकृतः । उत्सङ्गवर्धितमपि त्वां न जानामि सेवितुम् ॥ ५७ ।। कोषप्रवेशकुशलाः सकलां कमलश्रियम् । मधुपा मधुरालापनिपुणा एव भुञ्जते ॥ ५८ ॥ अङ्के वृद्धिमुपागतं शिशुतया सर्वाङ्गमालिङ्गितं मत्स्यः श्रीपरिरम्भनिर्भरतरं व्याकोशकोषोन्मुखैः । आशाप्तैः परिपीयमानमनिशं निःस्पन्दमिन्दिन्दिरै- दूरादेष निमेषशून्यनयनः पद्मं समुद्रीक्षते ॥ ५९ ॥ देवेन पक्षपातोऽयं कृतः कायव्ययाय मे । त्वत्कृतः पक्षपातस्तु न मयाप्तः शरीरदः । ६० ।। ऐन्द्रं वारुणमामेयं याम्यं सौम्यं च पावनम् । प्राजापत्यं च कुर्वाणः कर्म सर्व त्वमास्थितः ॥ ११ ॥ आस्तां शरीरविरहक्लेशप्रशमनं मम । त्वद्विभूतिप्रभावेऽस्मिन्प्रकृतं हारितं मया ।। ६२ ।। पीयूषपानपैशुन्यमन्युशल्यानुबन्धिनः । विधिना मम निर्दिष्टौ चन्द्रार्को जातु भोजनम् ॥ १३ ॥ १. 'देहमात्रैक' ख. २. 'आयातैः' क-ग-घ. ३. 'सपावनम् ख.

५ वामनावतारः] दशावतारचरितम् । भवद्भूभङ्गसिंहेन त्रासितो हेरिणाश्रयः । न वेनि विद्यते केन्दुर्विद्रुताश्वः क भास्करः ॥ ६ ॥ चिरसेवापरिश्रान्तः क्षीणवृत्तिनिरुधमः । विशेषलाभत्यक्ताशः खेनैवार्थेन तुष्यति ॥ ६५ ॥ तस्मान्ममानुरोधेन क्रियतामर्कचन्द्रयोः । त्वदादेशविमुक्तैव निर्विनौ गगने गतिः ॥ ६६ ॥ इत्युक्ते राहुणा नासान्यस्ताङ्गुलितलः क्षणम् । आलुलोके बलिः क्षोणी वैलक्ष्यक्षामलोचनः ॥ ६७ ॥ सोऽवदन्मुखमुद्यम्य शनैर्मुकुलितस्मितम् । दिशन्दिक्षु प्रसादाी दृष्टिं चन्द्रमयीमिव ॥ ६८ ॥ मदाज्ञाप्रतिषिद्धोऽपि खाधिकारोऽर्कचन्द्रयोः । अधुना निर्विबन्धेन वज्रदन्त विमुच्यताम् ।। ६९ ।। इति शासनमम्लानप्रसादप्रभवं विभोः । प्रतीहारः समादाय वेत्रिमण्डलमादिशत् ।। ७० ।। अत्रान्तरे समासन्नखानावसरसूचकः । उदभूद्भुवनव्याप्तिमुखरः शङ्खनिःखनः ॥ ७१ ॥ राहोराश्रितवत्सलः फलवतीं कृत्वार्थनां मानदः सर्वाशापरिपूरकः प्रणयिनामुन्निद्रकल्पद्रुमः । वेत्रिवातनिवेद्यमानविनमत्सामन्तचूडामणि. व्याकीणांशुविचित्रितादुदचलसिंहासनामावलिः ॥ ७२ ॥ अथ कीर्तिसुधाधौतसुकृतः स्नपनं विधिम् । विधाय प्रययौ श्रीमान्दानस्थानभुवं बलिः ॥ ७३ ।। तत्र त्रिवेदीविद्वयः काञ्चनप्रचयान्बहून् । मेरुप्रमोपविष्टाधानदभ्रान्प्रत्यपादयत् ॥ ७४ ॥ १. 'हरिणो यथा' क-ग. २. 'त्यक्तविशेषलाभाशः' क-ख. ३. निर्मुखा' ग-घ. 'क्षणात्' क.स. ५, 'व्यापी' ख. ६. 'मानसंविधिमू' ख.

₹4 काव्यमाला। मुहुर्विप्रार्घ्यमाणानां हयानां हेममालिनाम् । स्खलखलीनफेनौधैर्यशःसिक्तेव भूरभूत् ॥ ७५ ॥ दन्तिदानक्षणे तत्र घटासंघट्टपट्टिताः । संश्लिष्टघण्टाटंकारैर्ययुर्मुखरतां दिशः ॥ ७६ ।। रत्नभारानताश्चर्यस्यां यस्यां दिशि द्विजाः । सन्तः संतोषिताश्चक्रुस्तस्यै तस्यै नमो नमः ॥ ७७ ॥ तस्याने रोहणाद्रिः शिरसि धृतमहारत्नसंपूर्णपात्रः कैलासः शक्रशैलः सह बहलतरैः कल्पवृक्षैः सदेहैः । भूमिश्चिन्तामणिः श्रीर्विविधनिधिगणः कामधेनुः सुधाब्धि- भृक्षेपाज्ञाविलासे प्रचरणचतुरा दानकाले बभूवुः ॥ ७८ ॥ संपूर्णेष्वर्थिसार्थेषु याचकाभावदुःखिनः । विश्रान्तपाणेश्चिन्तान्तर्मुहूर्तमभवलेः ॥ ७९ ॥ दानोद्यमेऽर्थिविरहाद्विपलां विभूति स क्षिप्रमूषरमहीमिव मन्यमानः । दृष्टिं मुहुर्दिशि दिशि प्रदिदेश दीर्घा- मस्तोकलोककरुणामृतवृष्टिमिष्टाम् ॥ ८० ॥ सर्वार्थानथिसार्थेभ्यः परिकल्प्याविकल्पधीः । निजजीवितदानेन बलिश्चके मनोरथम् ॥ ८१ ।। अथ त्यक्तजलासङ्गः प्रसन्नगगनद्युतिः । प्रतिबुद्धः शरत्कालः श्रीकान्तः समुपाययौ ॥ ८२ ॥ मयूरा मौनिनोऽरण्ये ययुदैन्यनिलीनताम् । शरत्कालेन बलिना सुरा इव हृतश्रियः ॥ ८३ ॥ ववुर्देवकदम्बेषु यातेषु विशरारुताम् । धुलोकशोकनिःश्वासा इव सप्तच्छदानिलाः ॥ ८४ ॥ १. बिलासप्रवरण ब. २. 'अफलो' ख. ३. 'प्रतिबुद्धशरत्कालः' ख.

५ वामनावतारः] दशावतारचरितम् । तीव्रशूरप्रतापेन नष्टमाना समाययौ । विलुप्तावरणोत्साहा हीनतां सुरवाहिनी ॥ ८५ ॥ सदानवप्रभोल्लासं बभौ प्राजिष्णुतारकम् । शरन्निशासु विपुलं दैत्यैश्वर्यमिवाम्बरम् ॥ ८६ ॥ लोकपालवियोगिन्यः ककुभः काशपाण्डुराः। फुल्लैः कमलकहारैः कृतशय्या इवाबभुः ॥ ८७ ॥ शुशुभे शैलशीर्षेषु नक्तं दीप्तौषधिवजः । नश्यतामिव मेघानां विद्युल्लेखाचयश्च्युतः ।। ८८ ॥ भने प्रभौ सहस्राक्षे पयोदास्त्यक्तकार्मुकाः । ययुस्तीव्रतेनेव तनुतां भस्मपाण्डुराः ॥ ८९ ॥ बलिराज्योपमे तीव्रप्रतापे शरदुद्भवे । नाक्रान्तिः शक्रचापस्य भ्रष्टस्यादृश्यत कचित् ॥ ९०॥ ययुः शुकमृगापाते कलमक्षेत्रपतयः । विधवा इव तारुण्ये कृच्छ्रसंरक्षणीयताम् ॥ ९१ ॥ काशेन्दुहंसकुमुदैर्महीव्योमसरिद्दिशः । दोनोदितैरिव बलेयंशोभिः शुभ्रतां ययुः ॥ ९२ ॥ अथास्मिन्समये जग्मुः सुराः शरणमच्युतम् । निवारिता बलिना बलिना बलिना जिताः ॥ ९३ ॥ घनावमानसंतप्ता मानलोपाप्तलाघवाः । प्रकाशाशाप्रणयिनः शारदा इव वासराः ॥ ९४ ॥ ते क्षीरोदधिमासाद्य ददृशुः शेषशायिनम् । : सप्रसादं सकमलं शरदारम्भसंनिभम् ॥९५॥ समुच्छ्सत्फणामस्य फुल्लफेनाम्बुधेरिव । शेषस्योपरि पर्यबन्धेन सुखमास्थितम् ॥ ९६ ॥ प्रभाभिरामं श्रीकान्तं पीताम्बरमनोहरम् । 'प्रभातमिव लोकानां कल्याणोदयकारणम् ॥ ९७ ॥ १. 'विलुप्तरवणों का विलासरचनो' घ. २. "विग्रहाः' ग. ३. 'दानोगतैः ख-ग-घ. ......

काव्यमाल प्रणम्य सहस्राक्षप्रमुखास्त्रिदिवौकसः । कृतिसंजीवनं प्रापुस्तत्प्रसादावलोकनम् ॥ ९८॥ प्रवासव्यसनोद्विमान्मगवान्भूतभावनः । तान्विमाव्याभवक्षिप्रं वैलक्ष्यविनताननः ॥ ९९ ।। शनैचिन्ताविषावेशप्रशमासगिनी गिरम् । उज्जगारामृतोद्वारगुर्वी गरुडलाञ्छनः ॥ १०० ॥ चिरप्रवासनिःश्रीकशोकशल्यशलाकया । चिन्तया व्यथिता यूयं सततं प्रथमानया ॥ १०१।। दैत्यदौरात्म्यसंजाता सह्या सर्वात्मना विपत् । ते कथं भाजनं भूतेथे सहन्ते न दुर्दशाम् ॥ १०२ ॥ सुखलवदशाहर्षफ्लैब्ये खलः खलु खेलते स्खलति भजते लेशक्लेशे विषादविषूचिकाम् । भवति न सतां दर्पोद्दामा न दैन्यमयी मैति- दुरभिभवता गम्भीराणां सुखेष्वसुखेषु च ॥ १०३ ॥ त्यक्त्वा श्रीर्दुर्जनान्दैत्यान्साधून्युष्मानुपैष्यति । स्थिरा सतां न विपदः खलानामिव संपदः ॥ १०४ ॥ वित्ते त्यागः क्षमा शक्तौ दुःखे दैन्यविहीनता । निर्दम्भता सदाचारे खभावोऽयं महात्मनाम् ॥ १०५॥ खाम्ये पेशलता गुणे विनतता हर्षे निरुत्सेकता मन्त्रे संवृतता श्रुते सुमतिता विसोदये त्यागिता साधौ सादरता खले विमुखता पापे परं मीरुता दुःखे क्वेशसहिष्णुता च महतां कल्याणमाकाहति ॥ १०६ ॥ उक्ते हिते भगवता पद्मनाभेन भूतये । सुरास्तमूचिरे बाला इव वात्सल्यलालिताः ॥ १०७ ।। देव त्वय्यपि संनद्धे हितचिन्तासु नः परम् । इयती कर्मवैचित्र्याहु रा दुःखसंततिः ॥ १०८॥ २. 'गतिः' क. ३. 'मुखषु दुःखेषु व ५ वामनावतारः]] दशावतारचरितम् । जीवामः क्लिष्टसंक्लिष्टा निश्चेष्टा नष्टवृत्तयः । वनान्तविवरालीनाः शिशिरे मधुपा इव ॥ १०९ ॥ बलिना वयमाकान्ताः प्राक्तनेनेव कर्मणा । त्वत्प्रभावोद्भवां भोक्तुं विभूतिं न लभामहे ॥ ११० ।। बलिप्रभावादस्तोकैस्त्रिलोकी लोककण्टकैः । इयं त्वद्भुजगुप्तापि लुण्ठ्यते दैत्यदस्युभिः ॥ १११ ॥ सां नन्दनोद्यानवती हृता तेनामरावती। वने विनोदयत्यस्मान्मनोरथपथागता ॥ ११२ ॥ वने स्वर्गपुरीमेव चिन्तयन्त्यः सुराङ्गनाः । काङ्क्षन्त्युत्कण्ठया निद्रां खप्नसंदर्शनाशयाः ॥ ११३ ॥ अग्रे समग्रसैन्यानां बलिसंश्रयनिर्भयः । अहो बाहुविहीनोऽपि राहुराहवमीहते ॥ ११४ ॥ दैवेनेवार्पिताक्रान्तिर्बलिनाश्चर्यकारिणा । सहस्राक्षस्य निर्बन्धादन्धकः श्रीविबन्धकः ॥ ११५ ॥ जृम्भते तारकः कामं त्रिदशश्रीप्रतारकः । दुःशीलः स बलेः शक्त्या लीलातरलतारकः ॥ ११६ ॥ गजासुरः कथायाते स्पर्धाबन्धे मदान्धधीः । बलेरने गणपतेरेकदन्तस्य लज्जते ॥ ११७ ।। शोचन्सिंहनखोत्खातं हिरण्यकशिपुं रुरुः । असंनिधानानुशयी हरिणा योद्धुमिच्छति ॥ ११८ ॥ सहस्रदोष्णा बाणेन बालेन बलिसूनुना । गुहवाहमयूरोऽपि नीतः क्रीडाशिखण्डिताम् ॥ ११९ ॥ वहिवाहशुकस्तेन न्यस्तः काञ्चनपञ्जरे । गृहोपवनवापीषु राजहंसाश्च वारुणाः ॥ १२० ॥ १. 'स्थितां पुरी ख. २. निबन्धकः' घ.. ३. ख-पुस्तके पूर्वोत्तरार्धयोयत्ययः. "कनक खः दशा.४ काव्यमाला। सोऽपि प्रतापशिखिना युगपत्संयुगोन्मुखः । अचिरात्रिपुरप्लोषं रौद्रो बाणः करिष्यति ॥ १२१ ।। शम्बरोऽम्बरचित्रामं दर्शयत्यद्भुतं रणे । यदस्य शत्रुहृदये शक्तिर्वजति शूलताम् ॥ १२२ ।। यान्ति निष्फलतामेव तेषूपायाः प्रकल्पिताः । उपकाराः कृतनेषु सजनेष्विव मन्यवः ॥ १२३ ॥ समतां सामविमुखः सामखनविधायिनः । स तवाप्यश्वशीर्षस्य हयग्रीवः समीहते॥ १२४ ॥ सुरसर्ववहारिभ्यस्तेभ्यः किं वा प्रदीयते । मेरुरत्नाकरवती कोषो येषां जगत्रयी ॥ १२५ ॥ बलिशासनवश्यानां भेदो नास्ति सुरद्विषाम् । आलिङ्गति हयग्रीवं निर्वैरो महिषासुरः ॥ १२६ ॥ भवद्भूभङ्ग एवैकस्तेषां दण्डः क्षयक्षमः । सोऽप्यस्मद्भाग्यलेशेन मन्ये विस्मारितस्तव ॥ १२७ ।। बलिः करोति भगवल्लोकपालक्रियाः खयम् । लोके द्रष्टासि निःशेषे शेषे शेषे नु केवलम् ॥ १२८ ॥ इत्युक्ते त्रिदशैरूचे विचार्य चिरमच्युतः । सुराणां विभवभ्रंशं बलेश्च गुणगौरवम् ॥ १२९ ॥ बैलिः पुण्यप्रवृत्तत्वानोच्छेद्यः सत्त्वसागरः । चिरं क्लेशार्दिता यूयमिति दोलायते मनः ॥ १३० ।। विचार्यमाणस्तु बले त्मदोषः प्रदृश्यते । दैत्यदुर्जनसङ्गेन स गतश्चिन्तनीयताम् ॥ १३१ ॥ शमयति यशः क्लेशं सूते दिशत्यशिवां दशां जनयति जनोद्वेगायासं नयत्युपहास्यताम् । प्रमयति मति मानं हन्ति क्षिणोति ब जीवितं गिलति सकलं कल्याणानां कुलं खलसंगमः ।। १३२ ॥ 1. 'वेन मायाः' ख. २. 'समत्वं' ख. ३. 'बले' ख-ग-घ. ४. लागवे ख.

५ वामनावतारः] दशावतारचरितम् । सर्वात्मना गुणनिधिर्न वध्यः सुकृती बलिः। किं त्वस्य विभवभ्रंशं करोमि भवतां हितम् ॥ १३३ ॥ हितक्रियासु युष्माकं न कार्य गणयाम्यहम् । गम्यतां त्यज्यतां चिन्ता यतिष्ये कुशलायः वः ॥ १३४ ॥ इत्युक्ते विश्वगुरुणा तं प्रणम्य ययुः सुराः । अचिन्तयञ्च तत्कार्य भगवान्गरुडध्वजः ॥ १३५ ॥ अत्रान्तरे भूगुसुतः पाडण्यज्ञानलोचनः । शुक्रः प्रोवाच वात्सल्यानिर्जनावसरे बलिम् ॥ १३६ ॥ औचित्याभरणं चितं सत्याभरणमाननम् । गुणाभरणमैश्वर्य भुवनाभरणस्य ते ॥ १३७ ॥ लोके त्वत्सहशी लक्ष्मीन श्रुता न विलोकिता । शक्यानुकतु लेशेन या न पूर्वैर्न चापरैः ॥ १३८ ।। गुणक्षये पलायन्ते धीवराणामिव क्षणात् । एताश्चपलचारिण्यश्चमर्य इव संपदः ॥ १३९ ॥ क्षीयते श्रीः प्रमादेन शरत्कालेन निम्नगा। ग्रीष्मागमेन रजनी कृष्णपक्षेण चन्द्रिका ॥ १४०॥ नीतेश्रवणं हिते विहसनं धूर्तबजावर्जनं दोषे व्याकरणं गुणेऽप्यगणनं छिद्रच्छलालोकनम् । लोकानां विनिपातलक्षणमिदं श्रीभोगनिर्वासनं साधूनां दलनं खलेषु ललनं मित्रादिसंदूषणम् ॥ १४१ ॥ दोषा अपि न बाधन्ते विचारविमलीकृताः । गुणा अप्यगुणायन्ते गाढग्रहधनीकृताः ॥ १२ ॥ न शरीरविकाराय खल्पमात्राहृतं विषम् । देहं चन्दनलेपोऽपि निबिडः पीडयत्यलम् ॥ १४३ ॥ १. 'नीरश्रवणं हते विहसनं सत्यच्युताकर्णनं विद्वद्वर्जनमार्जनोपहननं धूर्तबजावर्ज- नम् । दोषे व्याकरणं गुणेऽप्यगणनं छिद्रच्छलालोकनं लोलानां विनिपातलक्षणमिदं श्रीभो- गनिर्वासनम् ॥ ख. २. 'विरलीकृताः' ख.

काव्यमाला। गुणरत्नावलीमध्ये सारभूतं गुणद्वयम् । तवैतदोषतां यातमतिनिर्बन्धसेवया ॥ १४४ ॥ लाघ्यमाश्रितवात्सल्यं दानं च श्रीविभूषणम् । विभवायासतां नीतं भवतात्यन्तवर्धितम् ॥ १४५ ॥ कुर्यादाश्रितवात्सल्यात्पक्षपातं न दुर्जने । कृष्णपक्षाश्रयेणैव पक्षे पक्षे क्षयी विधुः ॥ १४६ ।। चित्रं चारित्रचित्रं ते दिग्भित्तिलिखितं महत् । दैत्यदुर्जनवात्सल्यधूमेन मलिनीकृतम् ॥ १४७ ।। भूतेदुर्व्यसनं धृतेरसहनं मानोन्नतेर्याचनं प्रीतेर्विस्मरणं तनोर्निकषणं नीतेरसन्मन्त्रणम् । कीर्तेोभधनं स्थितेः प्रवसनं वृत्तेरसंचिन्तनं शक्तेर्दुर्जनपक्षपातकरणं निःशेषनिर्मूलनम् ॥ १४८ ॥ अतिप्रदाननिर्बन्धः सर्ववक्षपणक्षमः । छिनत्त्यन्यार्थिवैफल्याद्धर्मवृक्षं क्रियोफलम् ॥ १४९ ॥ सर्वोपजीव्यं सर्वखं सकृयेन व्ययीकृतम् । पुनः सर्वार्थिदानस्य तेन मूलक्षयः कृतः ॥ १५० ॥ वित्तायत्तः सदा धर्मः कामो वित्तनिबन्धनः । वित्तायत्तानि चित्तानि वित्तं जीवितवैर्धनम् ॥ १५१ ॥ धनं रूपमवैक्लव्यं धनं कुलमसंकुलम् । धनं यौवनमम्लानं धनमायुर्निरामयम् ॥ १५२ ।। रूपं वेषैर्बलं भृत्यैरुत्तमैर्मानमर्थिभिः । महाकुलविवाहैश्च कुलं क्रीणाति वित्तवान् ॥ १५३ ॥ भिषग्भैषज्याभ्यां तरति धनवानरोगविपदं धनेनान्धश्चक्षुर्युत इव चरत्यर्पितकरः । १. 'प्रधान' ख.. २. 'क्रियालताम्'ख. ३. 'वर्तनम्' ख, 'बन्धनम्' ग. ४. 'अ- ५ वामनावतारः] दशावतारचरितम् । धनैः सत्काराचा जगति गतजीवोऽपि लभते धनेन प्रामोति प्रगुणगुरुमाराध्य सुगतिम् ॥ १५ ॥ श्राद्धोत्सवलसद्वन्धुर्जीवतीव शवः श्रिया । भोज्योपचारविरहाद्वन्धूनां निर्धनो मृतः ॥ १५५ ।। क्लेशलभ्यं धनं येन क्षपितं नातिमात्रया । कुलमानगुणाचारनिधनं तेन रक्षितम् ॥ १५६ ।। गुणा धनेन लभ्यन्ते न गुणैर्लभ्यते धनम् । धनी गुणवतां सेव्यो गुणी न धनिनां कचित् ॥ १५७ ॥ सेव्यन्तेऽार्थिभिर्भूपा जयजीवेति वादिभिः । स्याञ्चेन्न धनसंबन्धः कः सेव्यः कश्च सेवकः ॥ १५८ ॥ सदृशे पुरुषत्वेऽपि तुल्यपादकरोदरे । एकः प्रभुः परो दास इति वित्तविजृम्भितम् ॥ १५९ ।। सर्वे धनमदान्धस्य प्रातःप्रातर्धनाशया । सेवां विधातुं धावन्ति विविधाराधनोद्यमैः ॥ १६० ।। सिद्धौ वेतालवद्यस्य भोग्यस्तस्यैव भूपतिः । शेषाः शीतातपश्रान्ता दिनान्ते यान्ति निष्फलाः ॥ १६१॥ दिशति कथमप्यन्तस्तारां दृशं मदमन्थरां वदति विरलं देवोऽसीति प्रेमूढमदो नृपः । प्रणमति च तं भीत्या मृत्यस्तदुत्तरकातर- स्खदिदमखिलं दानादानं धनोपनिबन्धनम् ॥ १६२ ॥ क्षीणे धने गुणे ग्लाने म्लाने माने गते जने। कलत्रमपि वैमुख्यमचिराद्याति निश्चितम् ॥ १६३ ।। धनवैक्लव्यवैराग्यादपक्काः प्रव्रजन्ति ये । धनोपायव्रतं. तेषां धने ध्यानं घने जपः ॥ १६४ ।। १. 'भूपतेः' क-ग-घ. २. 'प्रमूढपदं' ग. ३. 'मानामानं' ख. *. 'कलत्रमत्रपैर्या- वत्परोपकरणीकृतम्' क.

१ काव्यमाला। पुंसां निवचविचानां प्रकृत विषयावने । उत्तानपाणिदीनानां मन्ये मरणमुत्तमम् ॥ १६५ ॥ जीवत्यर्थक्षये नीचो याच्यापचयवञ्चनैः । कुलाभिमानमूकानां साधूनां नास्ति जीवितम् ॥ १६६ ॥ अप्रस्तावस्तुतिमिरनिशं कर्णशूलं करोति खं दारिद्यं वदति वसनं दर्शयत्येव जीर्णम् । छायाभूतश्चलति न पुनः पार्श्वयोर्नापि पश्चा- निःखः खेदं दिशति धनिनां व्याधिवहुश्चिकित्स्यः ॥ १६७ ॥ तस्मात्सर्वप्रयत्नेन रक्ष्यं मानार्थिभिर्धनम् । महाव्ययपरिष्कारैर्विशेषेण नरेश्वरैः ॥ १६८ ॥ अश्वमेधस्त्वयारब्धः क्रतुः सर्वखदक्षिणः । एवमेव त्वमुद्दामवर्षी यज्ञे विशेषतः ॥ १६९ ॥ दृश्यन्ते दुनिमित्तानि प्रवृत्तानि समन्ततः । दैत्यानां यैः कुवृत्तानां निवृत्तिः सूच्यते श्रियः ॥ १७० ।। इत्युक्तं कविना श्रुत्वा बभाषे तं शनैर्बलिः । सत्त्वोदधिः सृजन्दन्तकान्त्या चन्द्रकलामिव ॥ १७१ ॥ युक्तं कल्याणसंयुक्तमुक्तमुन्मुक्तसंशयम् । भगवन्भवता सर्वमखर्वप्रतिमोद्भवम् ॥ १७२ ।। न जातु मे भुजच्छायाविश्रान्तिसुखशायिषु । अपत्येष्विव दैत्येषु पक्षपातो निवर्तते ॥ १७३ ॥ निराश्रिवपरित्यागे मतिर्यस्य प्रवर्तते । भूमिमा॑रं वहन्ती तं मन्ये मज्जति लजिता ॥ १७१ ।। खजनद्रोहरौद्रस्य चितामेरिव मीषणा। मंतिः सर्वजनोद्वेगकारिणी कोपयुज्यते ॥ १७५ ।। दिया. २. 'जीवन्स्यपक्षये नीचा यारमोपलवस. ३. 'इत्युके' का. 'पिराश्रय' क-ग-ब. ५. 'भीतिः'काग.

५ वामनावतारः] दशावतारचरितम् । आशाप्ताश्रितपक्षपातविकला या शक्तिरुज्जृम्मते दीर्घा वेतसवल्लरीव विफला कस्योपकाराय सा । वन्धश्चन्दनपादपः पृथुभुजच्छायाश्रया यस्य ते संतापं प्रविहाय शीतलतया सर्पाः सुखं शेरते ॥ १७६ ॥ प्रदानफलशून्यामिः किमेताभिर्विभूतिभिः । दृश्यते यासु भमाशाविमुखं मुखमर्थिनाम् ॥ १७७ ।। आयाति धातुरादेशात्तदादिष्टं पलायते । न त्यागेन न भोगेन क्षीयते रक्ष्यते धनम् ॥ १७८ ॥ निर्बन्धादपि लुब्धेन निरुद्धं बद्धमुष्टिना । निर्यात्यलक्षितं क्षिप्रं मत्स्यपुच्छोपमं धनम् ॥ १७९ ॥ कुर्वन्ति सुधियो यत्नादेतदर्थं धनार्जनम् । आतापकारसंतोषः कदाचिल्लभ्यते धनात् ॥ १८० ॥ क्षणेन वृद्धिं व्रजतां क्षणात्क्षयमुपेयुषाम् । धनानां च धनानां च केन विज्ञायते गतिः ।। १८१ ॥ गुप्तं विनष्टं प्रकटं विनष्टं कीर्ण विनष्टं मिलितं विनष्टम् । खयं विनष्टं परतो विनष्टं दीनार्तदैत्तं द्रविणं न नष्टम् ॥ १८२ ॥ मृत्पाषाणगुणैः सुवर्णमणिभिः भुंक्त्यस्थिभिर्मोक्तिकै लोके मूढतमे धनं धनमिति व्यक्त्या प्रसिद्धिं गतः । यः कोषः क्रियते न तस्य रुचिरं पश्यामि किंचिललं निःशेषाश्रितमृत्यबान्धवसुहृद्दीनार्थिदानं विना ॥ १८३ ॥ त्यक्ता मर्त्यभुवं स्थितस्य विजने मेरोः सुवर्णश्रियं विश्रान्तां खशरीर एव वहतः किं निष्फलेनायुषा । एकस्योनतिरेव सत्त्ववसतेविन्ध्यस्य वन्ध्या न सा दत्त्वा यः किल तामनन्यमहिमा शेते सुखं भूसमः ॥ १८ ॥ इत्युक्तं बलिना श्रुत्वा चिन्तयन्भवितव्यताम् । किंचिदालक्ष्य वैलक्ष्यः शुक्रश्चके नतं शिरः ॥ १.८५ ॥ १. 'अति' ख... 'भर्षे ग, ३. 'मुकं. ४. 'शक्त्यस्थिकै: च.

काव्यमाला। अथाश्वमेघसंभारः प्रावर्तत महान्बलेः । पुनः प्रदानदक्षस्य दक्षस्येवापरिक्षयः ॥ १८६ ॥ ततः प्रजापतिगणे प्राप्ते सप्तर्षिभिः सह । अभूत्सुरर्षिभिर्जुष्टं ब्रह्मलोकनिभं सदः ॥ १८७ ।। तस्मिन्क्रतौ महादानपरिपूर्णेऽर्थिमण्डले । बभूव याचकाभावाहलेश्चिन्तैव केवलम् ॥ १८८ ।। अत्रान्तरे दैत्यजयासहिष्णुर्विष्णुस्त्रिलोकीकुशलप्रवृत्तः । देवस्त, खां बलिवञ्चनाय विश्वाकृतिमिनतां निनाय ॥ १८९ ।। धृतैव चित्ते लघुतां करोति या धैर्यमानाहरणैकभूमिः । सा दुर्दशेवातिशयेन याच्या न कस्य मानक्षतिमातनोति ॥ १९० ॥ श्यामः शिशुः कुञ्चितकृष्णकेशस्त्रिदण्डिकालंकृतपाणिपद्मः । सकङ्कणः कुण्डलवान्किरीटी स ब्रह्मराज्य(?)प्रतिमश्चकाशे ॥ १९१ ॥ स मञ्जुसामखरसारणोद्यद्दन्तांशुसूत्रत्रयसंनिवेशम् । यज्ञोपवीतं धवलं दधानः शनैर्बलेर्यज्ञमहीमवाप ॥ १९२ ।। स वेत्रिभिस्तत्र सुदुर्लभार्थिसंदर्शनात्यादरविस्मयेन । असंनिरुद्धः प्रसभं प्रविश्य वृतं मुनीन्द्रर्बलिमालुलोके ॥ १९३.॥ बलिश्च तं पद्मदलायताक्षं विलोक्य लक्ष्मीनिलयं प्रहृष्टः । अदापयत्तस्य सुवर्णपीठं समुन्नतं मानमिवादरेण ॥ १९४ ।। सामखरेणाशिषमभ्युदीर्य क्षणं स विश्रम्य जगाद धीरः । संदर्शयन्दन्तरुचान्तरस्थजगत्रयश्चान्द्रमिव प्रकाशम् ॥ १९५ ॥ इन्द्रस्य चन्द्रस्य चतुर्मुखस्य रुद्रस्य दक्षस्य मनोश्च यज्ञाः । पुरा बभूवुर्न बभूव कश्चिदाश्चर्यकृत्त्वत्सदृशस्तु यज्ञः ॥ १९६ ।। अहो महात्मा सुकृती जगत्सु जातस्त्वमेवाद्भुतसत्त्वसिन्धुः । यश्चारुरत्नाश्वगजेन्द्रचन्द्रलक्ष्मीप्रदानेष्वपि निष्पकम्पः ॥ १९७ ।। धवविलोक्यास्तिलकः कुलस्य सर्वखदानेष्वतिमुक्तहस्तः । दत्त्वाप्यशोकः सरलः प्रकृत्या त्वं श्रीफलोऽप्यर्थिषु कल्पवृक्षः ॥१९८॥ १. 'पादलायवेक्षणं' ख. , २. 'सुवर्ण' इति क-पुस्खके टिप्पणम्. P ५ वामनावतारः] दशावतारचरितम् । इत्युक्तमत्यर्थसुधाखभावं तेनान्तरस्थामृतसिन्धुनेव । श्रुत्वां बलिः प्रीतिविकोसिताक्षस्तमस्यधादागतपक्षपातः ।। १९९ ।। अल्पं वयः खल्पशरीरतेयमनल्पकल्पः प्रतिभाविकल्पः । कर्णानुकूलं च वचस्तवैतत्कस्याद्भुतार्थ न मनः करोति ॥ २०० ।। हर्ष वर्षति दर्शनं नयनयोः सूते श्रुतौ वाक्सुधां चित्तं चन्दनपेशलश्च सहसा स्नेहः परं लिम्पति । बनन्त्यन्यमनस्कतामपि गुणा भाग्यैर्भवत्संगमः संजातः सुकृताय मे सुमहते कीर्तिप्ररोहाय च ॥ २०१॥ निरर्गलं संप्रति कथ्यतां तद्यदीप्सितं प्रीतिपदोपयुक्तम् । सर्वखमेतन्मम जीवितं वा न नाम किंचिद्भवतेऽस्त्यदेयम् ॥ २०२ ।। इति प्रयत्नात्प्रथमादरेण सोऽभ्यर्थितः सर्वपरिग्रहाय । दैत्याधिपेन प्रथमानमानमहोदयाय प्रणयातमूचे ॥ २०३ ॥ त्वदर्शनात्प्रीतिसुधानिधानात्परं किमस्मादुपयुज्यते मे । न नाम वन्ध्यं क्रियते वचस्ते पदत्रयीं देहि वसुंधरायाः ॥ २०४ ॥ श्रुत्वैवमाश्चर्यतरं वचस्तद्वालिः सवैलक्ष्यमिवाबभाषे । अहो भवान्संकुचितार्थवादी विडम्बनायैव मम प्रवृत्तः ॥ २०५ ॥ अहं प्रदाता त्वमुदारशीलः प्रतिग्रहीतात्र पैदत्रयी किम् । प्रदीयते यद्यवमानलीला विनिर्मिता नर्ममयी सिताय ॥ २०६ ॥ गृहाण सर्व मम विद्यते यत्त्वदर्शनानन्दसमुद्भवस्य । मनःप्रसादस्य हि सत्यमस्य न तुल्य सत्यमस्य न तुल्यमूल्या सकला त्रिलोकी ॥२०७॥ इत्यर्थितः पूर्णपरिग्रहाय पुनः प्रयत्नालिनापि देवः । यदाग्रहीन्नाभ्यधिकं तदास्सै पदत्रयीमेव बलिर्दिदेश ॥ २०८॥ प्रतिग्रहापावसरेऽथ विष्णोरुतानहस्ताम्बुरुहेऽम्बुधाराम् । सुवर्णभृङ्गारमुखात्पतन्तीमस्तम्भयदैत्यहिताय शुक्रः ॥ २०९ ॥ १. 'अत्यन्तसुधाखभावः' ग-घ. २. 'विकासिचक्षुः' घ. ३. 'वपुषि' क-पुस्तके पाठान्तरत्वेन धूतः. ४. 'प्रीतिपदप्रयुक्तम्' ख. ५. 'सवैलक्ष्यः ख.. ६. 'प्रतिग्रही. तत्र पदत्रयी' ख. ७. 'प्रतिग्रह.

काव्यमाला। तं शुक्रवक्रक्रममाकलय्य चक्री त्रिलोक्याक्रमणामिकामः । खोकस्मिताकः कुशतूलिकाप्रभेदेन चक्रे कविमेकनेत्रम् ॥ २१० ॥ विश्वाकृतिर्दानजलं गृहीत्वा लोकत्रयाक्रान्तिविवर्धमानः । बभौ जगन्मण्डपमानदण्डशोभाभिरामोदितदण्डपादः ॥ २११ ॥ त्रैलोक्याक्रान्तिलीलाप्रविसृतवपुषः श्रीपतेर्दण्डपादः प्रौढोत्क्षेपोप्रवेगोल्लसदतुलबलोद्भान्तकल्पान्तवातः। निःशेषाशाप्रबन्धप्रचलनभुवनाखण्डनाकाण्डकम्प- अश्यब्रह्माण्डरक्षानिहितमरकतस्तम्भशोमां बभार ॥ २१२ ॥ प्रवर्धमानस्य विलम्बिहारपर्यन्तसक्तस्तरणिर्मुहूर्तम् । विष्णोर्बभौ नाभिभवानचुम्बी कुर्वन्मुहुर्लोहितरत्नशक्काम् ॥ २१३ ॥ प्राप्तेऽथ विष्णोश्चरणारविन्दे विरञ्चिलोकं त्रिदशाभिनन्छ । पादार्घ्यदानावसरेऽनजन्मा कमण्डलुं निर्जलमालुलोके ॥ २१४॥ धर्मे द्रुते तत्क्षणमम्बुभावं यातेऽथ पाये कमलासनेन । भक्त्या प्रदत्ते बलिकीर्तिशुभा तरङ्गभङ्रुदियाय गमा ॥ २१५॥ किं विष्णोः पादपद्मस्फुटनखकिरणश्रेणिरच्छोच्छलन्ती विश्वव्याप्तिप्रजातोर्जितविजयलसद्वैजयन्ती सिता किम् । किं खर्गश्रीप्रहर्षोचितहसितरुचिः प्रोन्मिषत्संशयाना- मित्युच्चैः खेचराणां चिरममरसरित्संभ्रमेऽभूत्रवादः ॥ २१६ ॥ एकक्रमावृतसमस्तजगत्रयस्य शेषक्रमद्वितयदोनविशुद्धिधीरः । निर्व्याजधर्मधवलः स्थिरसत्त्वसत्य- स्तत्याज दैत्यतिलकः सकलां त्रिलोकीम् ॥ २१७ ॥ तस्याथ सैत्यसमयप्रतिपन्नसर्व- त्यागस्य दीर्घगुणपाशनियत्रितस्य । धीरस्य सप्तमतलान्तसुतालनानि पातालधानि भगवास्थितिमादिदेशः ॥ २१८॥ १. 'वेलोल्लसत्' क-ग-घ. २. 'चारविशुद्धः' क-ग-प. ३. 'सरव', ६ परशुरामावतारः] दशावतारचरितम् । जातो. जगत्युचितवहालिरेक एव तस्यैव सप्तभुवनाभरणं यशांसि । येनातिदानविततद्रविणावशेष- शुद्धिः कृता खतनुबन्धसमर्पणेन ॥ २१९ ॥ अश्रद्धया कुहकदम्भभरेण यद्य- पित्र्यक्रतुव्रतजपादि करोति लोकः । तत्तबलेनियमसंकलितात्मवृत्ते- वृत्त्यै विचार्य परिकल्पितमच्युतेन ॥ २२० ॥ साश्चर्य युधि शौर्यमप्रतिहतं तत्खण्डिताखण्डलं याच्लोचानकरः कृतः स भगवान्दानेन लक्ष्मीपतिः । ऐश्वर्य वकराप्तसप्तभुवनं लब्धाब्धिपारं यशः सर्व दुर्जनसंगमेन सहसा स्पष्टं विनष्टं बलेः ॥ २२१॥ सशरशबरनासत्वनन्मृगीतरलाः श्रियः सुखमपि कपिप्रेङ्खवल्लीदलाञ्चलचञ्चलम् । प्रतिदिनमियं भुते जन्तोरभावविधायिनी प्रसभपतिता भाव भावं भवे भवितव्यता ॥ २२२ ॥ इति स भगवान्विष्णुः कर्तुं सुराश्रयिणीं श्रियं बलिभुजतरुच्छायाहीनान्विधाय महासुरान् । अपि खलजनासङ्गाद्भूमेर्गतस्य तलं बले: प्रणयरैचितां पुण्यैः कीर्ति निनाय समुन्नतिम् ॥ २२३ ।। इति श्रीव्यासदासापराख्यश्रीक्षेमेन्द्रविरचिते दशावतारचरिते वामनावतारः पञ्चमः। परशुरामावतारः षष्ठः। बद्धे बलौ निश्चलधर्मसेतौ भमेषु दैत्येषु निराश्रयेषु । बभूव निर्विघ्नमहोत्सवश्रीनिःशल्यकल्याणवती त्रिलोकी ॥१॥ १. 'उत्' स. २. 'प्राव क-ग-घ. ३. 'भावे भावे घ. ४. 'रचना ख. ५. 'घनोत्सव' ख..

काव्यमाला। शक्रेण वृत्रे निहते सजम्भे सुम्भे निसुम्भे प्रसभं भवान्या । जीर्णेऽप्यगस्त्येन समस्तलोकशोकेऽथ वातापिनि सेल्वले च ॥ २॥ चामुण्डया चण्डपराक्रमे च अस्तेऽथ पातालतताननेन । रुरौ रणप्रच्युतरक्तबिन्दुवृन्दोदरोद्यगुरुकोटिलक्ष्ये ॥ ३ ॥ गुहेन भिन्ने युधि तारके च गजासुरे धूर्जटिनान्धके च । दैत्येषु चान्येषु हतेषु देवैनिःशङ्कमासीत्सुरराजराज्यम् ॥ ४ ॥ यातेऽथ काले शनकैर्विशाले दैत्येश्वराः क्ष्मामवतीर्य सर्वे । क्रमेण ते दुर्मददस्युरूपाः सपापशापाः क्षितिपा बभूवुः ॥ ५ ॥ शशास तस्मिन्समये महीयान्महीपतिहैहयवंशजन्मा । प्राज्योर्जितश्रीगदर्जुनाख्यः सहस्रबाहुः कृतवीर्यसूनुः ॥ ६ ॥ स्पर्धानुबन्धोद्धतदर्पयुद्धसंनद्धधीरं दशकंधरं यः । गदाग्रहेलाहतिनष्टचेष्टं शय्याङ्कपर्यकतले बबन्ध ॥ ७ ॥ अत्रान्तरे शौर्यनिधि गूणां कुले विशाले जमदमिपुत्रः । हरिस्तमःकुञ्जरपुञ्जभेदी प्रतापदीप्तोऽवततार रामः ॥ ८ ॥ तस्योपदेष्टा भगवान्बभूव शाङ्गे धनुर्वेदविधौ पिनाकी । आदानसंधानदृढातिदूरलक्ष्येषु दत्ताद्भुतलक्षशिक्षः ॥ ९ ॥ शस्त्रास्त्रविद्याविदितप्रकर्षसंघर्षयुद्धे जिततारकारिः । पुत्राधिका वल्लभतां गुणेन जगाम रामस्त्रिपुरान्तकस्य ॥ १० ॥ मदग्रहोदनगजासुरास्थिविसंस्थुलाखण्डनखण्डधारम् । ददौ त्रिशूली परशुं खमस्मै क्रूरं कुमारावजयेन तुष्टः ॥ ११ ॥ ततः कदाचिन्मृगयारसेन स कार्तवीर्यः प्रविसारिसैन्यः । वनं विगाह्य क्षयमक्षयेषुश्चक्रे मृगद्वीपिमृगेश्वराणाम् ॥ १२ ॥ मन्त्रद्विषां.दुःसहमोहहेतुर्दयादरिद्रं हृदयं सदैव । कर्षत्यलं शोणितमांसलुब्धा धराधराणां मृगयापिशाची ॥ १३ ॥ तुरङ्गसेनामृदितस्थलानि शराहताशेषमृगद्विपानि । विश्द्रुतोपद्रुततापसानि प्रविश्य चक्रे स तपोवनानि ॥ १४ ॥ १. 'हेहय' क-ग-घ. २. 'संघ' ख. ३. "विश्ववोपडत' ख..

६ परशुरामावतारः] दशावतारचरितम् । अथाश्रमानं जमदमिजुष्टं भमद्रुमं रुग्णविविमसत्त्वम् । कृत्वा शनैः श्रान्तहयः स तस्थौ विश्रामकामः कुसुमस्थलीषु ॥ १५ ॥ होमावशेषैः सकुशैः पयोभिः संवर्धितानां स कुरङ्गकाणाम् । मुनीन्द्रशिष्यैरपि वार्यमाणः सैन्यैः क्षयं निष्करुणश्चकार ॥ १६ ॥ स कामधेनुं मुनिहोमहव्ययोग्यां सवत्सां गुणगौरवेण । कण्ठे गृहीत्वा जमदग्निनापि रुद्धां मदान्धस्तरसा जहार ॥ १७ ॥ क्रौर्येण कीर्तिर्व्यसनेन लक्ष्मीद्वेषण विद्या विनतिर्मदेन । क्षमातिकोपेन धृतिर्भयेन प्रयाति लोभेन च सर्वमेव ॥ १८ ॥ यातः स हृत्वा मुनिहोमधेनुं लोभेन विक्रीतविवेकसत्त्वः । यशांसि लोकत्रयविश्रुतानि चकार धिक्कारकलङ्कितानि ।। १९ ।। निरुद्धाशाः सर्वे दधति भृशमुद्वेगकलनां विवेकालोकस्य प्रभवति न लेशः क्वचिदपि । न मित्रस्यालोको भवति परिहारेण वदने (?) घने लोभे जन्तोः स्थितिमुपगते कस्य सुगतिः ॥ २० ॥ गतेऽथ तस्मिन्नृपतौ खदेशं महामुनीनां विहितापकारे । रामः समभ्येत्य गजाश्वभग्नं तपोवनं निर्मंगमालुलेके ॥ २१ ॥ निवृत्तवेदस्मृतियज्ञविद्यापुराणवादं विरताग्निकार्यम् । भमाननोद्विग्नजनं विलोक्य तपोवनं प्राप चे शोकशङ्कुम् ।। २२ ॥ विज्ञाय राज्ञा तदशर्म कर्म स कार्तवीर्येण कृतं सकोपः । शुश्राव तेनैव पितुः सवत्सां बलेन नीतामपि होमधेनुम् ॥ २३ ॥ स निःश्वसन्दुःसहकोपकम्पलुठज्जटाभारभृतांसकूँटः । क्षत्रक्षयोत्कण्ठमकुण्ठधारं कुठारमादाय जवाजगाम ॥ २४ ॥ स हैहयीं हेममयीमवाप्य प्रतापदीप्तामिव राजधानीम् ।। युद्धाय संनद्धभुजासहस्रमस्रस्तधैर्योऽर्जुनमाजुहाव ॥ २५ ॥ तयोः प्रवृत्ते भुवनप्रकम्पदीक्षाक्षमे संक्षयधाग्नि युद्धे। क्षोभः प्रभूताद्भुतसंभ्रमोऽभूदभूतभूताभिभव|गल्भः ॥ २६ ॥ १. 'अथावसान्तं' ग-घ. २. 'स' ख. ३. 'पीठ' ख. ४. 'प्रकम्प:' क-ग-घ. दशा०५ काव्यमाला तस्याषण्ढप्रतापः कठिनमदभराकुण्ठकण्ठस्य वेगा- निक्षिप्य स्कन्धपीठे गिरिदलनसहं घोरंधारं कुठारम् । भूभर्तुर्धेनुचौर्याचरणघनरुषा कार्तवीर्यस्य रामः जैस्तांसं दोःसहस्रं युधि नवनलिनीनाललावं लुलाव ॥ २७ ॥ प्रतापमित्रे निहते सहस्रकरेऽथ तस्मिन्भुवनैकशूरे । रामस्य निर्यननिपातितारेमर्मप्रसारी न शशाम मन्युः ॥ २८ ॥ द्विबाहुना बाहुसहस्रदीप्ते हते नृशके मुनिना प्रसह्य । स शृङ्गभङ्गः क्षितिभृत्कुलस्य तीव्रः परं मानविनाशनोऽभूत् ॥२९॥ कालेन तन्मन्युर्घनानुतापाः पापाय सर्वे मिलिताः क्षितीशाः । वैरप्रतीकारविधानसज्जा जग्मुर्वनं भार्गवकुञ्जरस्य ॥ ३० ॥ रामे फलेमाहरणाय याते शून्यं प्रविश्याथ तपोवनं ते । निष्कृत्तकण्ठस्रतशोणितौघममं निजघ्नुर्जमदमिमेव ॥ ३१ ॥ रामस्ततः पितृवधोद्धतशोकवहेः शान्ति न बाष्पजलबिन्दुभिरप्यवेत्य । आसीत्क्षणं क्षितिपजीवितजातलज- स्तद्रक्तसागरनिमजनसज्ज एव ॥ ३२ ॥ गत्वा जवेन रणयज्ञविधानदीक्षा- क्षेत्रं क्षणात्क्षितिपवंशवनोग्रवह्निः । कृत्वा समस्तनृपसंहृतिमेकवारं वैरक्षयेण न मनाग्विरराम रामः ॥ ३३ ॥ स स्नात्वा रक्तपूर्णे रणसरसि लेसत्कीर्तिधौतोत्तरीयः क्रोधानृण्यं विधातुं कृतसकलजगत्क्षत्रवंशामिकार्यः । श्राद्धश्रद्धाविधानं व्यधित शरकुशाकीर्णभूपालमौलि- श्रेणीहेमांशुनिर्यत्तिललवकलितन्यस्ततन्मुडपिण्डः ॥ ३४ ॥ १. 'तस्याकुण्ठ' ख. २. 'कर्मभारं' ख, २. 'कर्मभार' ख, 'कर्मधार' घ. ३. 'संत्रस्तं' ख. ४. 'घनाभितापाः' ख. ५. 'निकृत्त' ख. ६. 'जीवन' ख. ७. 'वैरि' ख. ८. 'स' ग. ९. 'लुठतू' क. १०. 'तिम्यत्' ख.

७ श्रीरामावतारः] दशावतारचरितम् । निक्षत्रां क्षत्रियारिजलनिधिपरिखामेखलान्तामखिन्नः कृत्वा त्रिःसप्तकृत्वः पितृवरनिधनक्रोधनः मां क्षणेन । यः प्रादादेकविप्रार्पितजलचुलुकस्तोकदानातिलज्जा- मजन्मानाननाजः स्मितसितयशसस्तस्य किं वर्ण्यतेऽन्यत् ॥३५॥ इति श्रीव्यासदासापराख्यश्रीक्षेमेन्द्रविरचिते दशावतारचरिते परशुरामावतारः षष्ठः । रामावतारः सप्तमः । कालप्रवाहे महति प्रयाते तन्मध्यवेगाभिरते गते च । तरगलोलाद्भुतभाववर्गे रक्षःकुलैर्भारयुताभवद्भूः ॥ १ ॥ अत्रान्तरे सालकैटङ्कटानां वंशे विशाले क्षणदाचराणाम् । पुष्पोत्कटा नाम बभूव कन्या तारुण्यदपेऽपि विवाहहीना ॥ २ ॥ सा मेरुपार्श्वे मणिहेमवल्लीविलासरम्योपवने चरन्ती । सुतं पुलस्त्यस्य तपोनिधानं संध्याक्षणे विश्रवसं ददर्श ॥ ३ ॥ ध्यानावसाने मुनिना सकम्पा प्रीत्याथ सा तेन विलोकितैव । नवाभिलाषोद्भवविह्वलेव भावान्विता गर्भवती बभूव ॥ ४ ॥ क्रमेण तेनैव मुनेः सपर्या विधायिनी तस्य तपोवने सा । असूत पुत्रत्रितयं विचित्रकर्मप्रकारेण विभिन्नरूपम् ॥ ५ ॥ दशाननाद्याः परिवर्धमानाश्चश्चिरं घोरतरं तपस्ते । पितामहप्रीतिवरादवापुर्येन त्रिलोकीक्षपणक्षमत्वम् ॥ ६ ॥ महेश्वराराधनहोमवह्नौ छित्त्वा दशास्यः स्खशिरांसि हुत्वा । जम्भारिसाम्राज्यजयी जगाम जगत्रयीलुण्ठनकण्टकत्वम् ॥ ७ ॥ त्रैलोक्यपुण्यैरथ कुम्भकर्णस्तपोवराप्तौ विपरीतवाचा । अक्षीणनिद्रः सततं बभूव प्रबोधनादेकदिनाप्तभोज्यः ॥ ८ ॥ वरप्रदानेऽथ विधिं ययाचे बिभीषणो धर्ममति मनीषी । तद्वाक्यतुष्टेन पितामहेन नीतः स धीमानमरत्वमेव ॥ ९ ॥ २. 'भार्गवावतार' क-ग-घ. ३. 'कटो- १. 'निःक्षत्रां' क-ग, 'निष्क्षत्रां' घ. स्कटानां' ख..

काव्यमाला। मातुर्बलाद्वैश्रवणस्य लकां हत्वा पुरी रत्नहिरण्यहाम् । दशाननः पुष्पकमुज्ज्वलं च विमानराजं विजयोद्यतोऽभूत् ॥ १० ॥ जित्वा स विश्वं विगतारिचिन्तः संजातसङ्ग्रामवियोगखेदः । लोकत्रये चित्तविनोदनाय विमानमारुह्य चिरं चचार ॥ ११ ॥ स निर्झरोद्गारतुषारशैलसुवर्णरत्नोज्ज्वलतुङ्गशृङ्गे । क्षणं न्यषीददिवसावसाने तद्भीतिलीनाखिव पद्मिनीषु ॥ १२ ॥ तापं मुहुर्दिक्पतिवल्लभानां करावमषैः ककुभां विधाय । कुमुद्वतीबन्धनपापशापाजगाम दुःशील इवास्तमर्कः ॥ १३ ॥ सांध्यं प्रकाशं परिपीय रक्तं निजौजसा लोकनिमीलनानि । निशागमोत्साहपदं क्रमेण तमांसि रक्षांसि च तुल्यमापुः ॥ १४ ॥ अथोद्ययावग्रसरप्रकाशभ्रश्यत्तमःस्तोकयुतान्तरिक्षे । सुधातरङ्गाकुलकालकूटकरम्बिते क्षीरनिधाविवेन्दुः ॥ १५ ॥ तमःसमूहस्तरुकुञ्जपुञ्जतलस्थितश्चान्द्रमसं प्रकाशम् । बभौ दशग्रीव इव प्रयत्नात्कैलासमुल्लासयितुं प्रवृत्तः ॥ १६ ॥ जहार लक्ष्मी कमलाकराणां चकार भङ्गं सुरचक्रनाम्नाम् । बभार दोषाश्रयवान्कलङ्क लङ्कापतिर्दिग्विजयीव चन्द्रः ॥ १७ ॥ हृन्मर्मसंलमशिलीमुखेषु दीर्णेषु सद्यः कुमुव्रजेषु । सरःसु चन्द्रप्रतिबिम्बमूर्तिर्दशास्यभीत्येव मुहुश्चकम्पे ॥ १८ ॥ समीराः सोत्कण्ठा इव ललितवल्लीकुलवधू- समाकर्षेः क्रीडानिबिडदशकण्ठानुकृतयः । विचेरापीनां कुमुदमधुमाद्यन्मधुकरा- कुलश्रेणीवेणीहठहरणहेलातरलिताः ॥ १९ ॥ उन्निद्रचन्द्राभरणे निशीथे तस्मिन्महानन्दघनप्रकाशे । प्रीतिः सुखस्पर्शमैयी बभूव वैराग्यभाजामनुरागिणां च ॥ २० ॥ लकेश्वरस्तत्र शशाङ्करत्नशिलातले रश्मिविलासहासे । सुखं शयानः पुरतः प्रयान्ती जितेन्द्रलक्ष्मी ललनां ददर्श ॥ २१ ॥ १. 'हित्वा' ख. २. 'निमीलितानि' ख. ३. 'मुखी' क-ख. ४. 'वनिता' ख.

७ श्रीरामावतारः] दशावतारचरितम् । दशाननोत्सादितनाकलोकलक्ष्मीमिवैकां विजने भ्रमन्तीम् । मैत्रीमिव प्रेमभराभिरामां तारुण्यलावण्यमनोभवानाम् ॥ २२ ॥ विलोक्य लङ्कापतिरङ्कमुक्तशशाङ्कशङ्काजननाननां ताम् । खप्नेऽप्यदृष्टां मनसाप्यचिन्त्यां हर्षामृत:ब्यमिवाससाद ॥ २३ ॥ अचिन्तितापातकिरातभीतां मृगीमिवालम्ब्य बलेन पाणौ । स तां बभाषे विभवाभिमानं तद्भोगशून्यं विफलं विचिन्त्य ॥ २४ ॥ कस्यान्तिकं कुञ्जरगामिनि त्वं प्रयासि धन्यस्य रणोज्झितासोः । आराधितः केन तपोविशेषैः सौभाग्यभूमिभगवान्मनोभूः ॥ २५ ॥ न त्यज्यसे सुश्रु कुरु प्रसादं लब्धां सुधां मुञ्चति मन्दपुण्यः । त्यक्तान्ययत्नोपेनतानि मोहात्पुनर्न लभ्यानि समीहितानि ॥ २६ ॥ इति ब्रुवाणेन दशाननेन तन्वी घनालिङ्गनपीडिताङ्गी । काञ्चीविमुक्तिप्रतिषेधदिग्धं वैलक्ष्यमुग्धाक्षरमाचचक्षे ॥ २७ ॥ बलेन नीवी ननु न प्रमोच्या विमुञ्च मां दुर्व्यसनस्पृहां च । अशीललीलाशकलीकृतां त्वं हियं श्रियं रक्ष यशः कुलं च ॥ २८ ॥ रम्भाभिधानां सुरलोककान्तां त्वद्भातृसूनोर्नडकूबरस्य । प्राणोपमानां धनदात्मजस्य न वेत्सि किं मां सुमते खुषां त्वम् ॥२९॥ इति ब्रुवाणामबलां बलेन संदूष्य मातङ्ग इवाजिनीं ताम् । म्लानाननाजामवमानलीनां लज्जानिमजद्वदनां मुमोच ॥ ३० ॥ उच्छिष्टाधरपल्लवां नखमुखोल्लेखावखातस्तनी विस्रस्तांशुककेशपाशकुसुमामुत्कम्पिनी मन्युना । श्वासायासवतीं सबाष्पनयनां तन्वीं वहन्ती तनुं सा गत्वा नडकूबरस्य विदितं पौलस्त्यवृत्तं व्यधात् ॥ ३१ ॥ दृष्ट्वाभिभूतां नडकूबरस्तां श्रुत्वा कुवृत्तं च निशाचरस्य । अकामकान्तारतिसंगमान्तं तस्यास्तु दुर्जीवितमित्युवाच ॥ ३२ ॥ १. 'त्याज्यसे' क-ग-घ. २. 'उपगतानि' क, 'उपहितानि' ख. ३. 'धनदात्म- जस्य' ख. ४. 'नडकूबरस्य ख. ५. 'त्वं सुमते खुषां माम्' ख.

काव्यमाला। नक्तंचरैस्तत्क्षणवर्ण्यमानं तच्छापमाकर्ण्य भृशं दशास्यः । अन्तर्वहन्दुश्चरितानुतापं विमानमारुह्य शनैर्जगाम ॥ ३३ ॥ सुख:ब्यक्षामाः प्रकटमवटापातगतयः क्षिपन्तः शीलाख्यं व्यसनमविलक्ष्याः क्षतधियः । स्खलन्तः कुर्वन्ति प्रसभमवलेपेन किल त- द्यदुद्भूतस्तापः प्रचलति न जीवान्तनियतः ॥ ३४ ॥ व्योम्ना वजन्तं पुरतस्तमेत्य माहेश्वरः प्राह गणः सकोपः । हंहो निवर्तख भजस्व नीतिं व्योम्ना गतिर्नेह नभश्वराणाम् ॥ ३५ ॥ सतीसहायः स्फटिकाद्रिशृङ्गे देवो मृडः क्रीडति चन्द्रचूडः । पार्श्वेन यात्यत्र मरीचिमाली भयेन नोच्चैर्मरुतोऽपि वान्ति ॥ ३६ ॥ श्रुत्वा मदोद्गारगिरं गणस्य दुष्टद्विपः कृष्ट इवाङ्कुशेन । दष्टाधरः कोपकषायचक्षुर्नोवाच किंचित्स हरानुरोधात् ॥ ३७॥ श्वसन्विमानादवरुह्य सजः स मज्जयन्भूमिमिवाभ्युपेत्य । स्कन्धेन पातालतलान्तमूलात्कैलासमुल्लासितमुज्जहार ॥ ३८ ॥ विपूर्णमानाद्रिगुहागृहेभ्यः समन्ततः संभ्रमविद्रुतानाम् । संत्रस्तविद्याधरसुन्दरीणां काञ्चीरवैः खं मुखरीबभूव ॥ ३९ ।। क्ष्मान्तोत्क्षेपातिवेगप्रसरदनलसोल्लासकैलासकम्प- क्षोभे बिभ्यद्भवानीनिभृतभुजलतालिङ्गितश्चन्द्रचूडः । दाशास्यैहर्षहासं व्यभजत चरणाकुञ्चिताङ्गुष्ठपीडा- व्रीडानिर्भुनमीलन्नयनगलगलद्र्गरोद्गाररावैः ॥ ४० ॥ अत्युग्ररावेण दशाननस्य प्रसादवान्रावण इत्यभिख्याम् । चक्रे पिनाकी प्रियतां प्रयान्ति प्रायः प्रभूणां विपरीतचेष्टाः ॥ ४१ ॥ तुष्टात्पुनः प्राप्य वरं त्रिनेत्रात्रैलोक्यलक्ष्मीपरिभोगभव्यम् । व्रजन्विमानेन दशाननः खे सकौतुकः पुष्पकमित्युवाच ॥ ४२ ॥ " १. 'तदा' ख. २. जगामेत्यनन्तरं 'इति नडकूबरशापः' इति ख-पुस्तकेऽधिकम- स्ति. ३. 'सहसानुरोधात्' क-ग-घ.. ४. 'स्कन्देन' सर्वेषु पुस्तकेषु.

. ७ श्रीरामावतारः] दशावतारचरितम् । ५१ य एष दूरांकनकाचलस्य संलक्ष्यते दक्षिणपार्थदेशे। शृङ्गाग्रलग्नोज्ज्वलरत्नशैलस्तदङ्कविश्रान्तिसुखे ममेच्छा ॥ ४३ ॥ इति ब्रुवाणः क्षणदाचरेन्द्रः क्षणाद्विमानेन जवेन नीतः । तस्याद्भुतादेविचचार पन्यां रत्नस्थले कल्पलतावृतान्ते ॥ ४४ ॥ वैदूर्यगारुत्मतपद्मरागवजेन्द्रनीलामलशैलशृङ्गम् । पश्यन्नवालोकनहर्षमानी न रावणः कौतुकतृप्तिमाप ॥ ४५॥ क्वचित्स्खलन्निर्झरराजवन्तं गुहागृहोद्गीर्णमहाट्टहासम् । भीत्येव नीहारपटावृतानि निमीलयन्तं ककुभां मुखानि ॥ १६ ॥ समुल्लसन्नीलमणिस्थलोरुस्थूलांशुपुञ्जोन्नतदण्डपादम् । पुनः प्रवृत्तं बलिवञ्चनाय व्याप्ताम्बरं विष्णुमिवाप्रमेयम् ॥ ४७ ।। बलान्वितोद्यद्धनकालनेमि प्रहादसंरब्धजलोद्भवोग्रम् । सतारकाग्रं कटकं वहन्तं यातं हिरण्याक्षमिवाचलत्वम् ॥ ४८ ।। सविस्मयानन्ददृशा समन्तान्निवर्णयन्नेव मुहुर्महाद्रिम् । तदुच्चशृङ्गाश्रमधानि दिव्यां कन्यामपश्यत्स तपःप्रसक्ताम् ॥ ४९ ॥ तन्वीं स्तनाभोगभरावाप्तसंसक्तकृष्णाजिनगाढबन्धाम् । लतामिवोद्यत्स्तबकाभिलाषनिःस्पन्दलीनालिकुलाभिरामाम् ॥ ५० ॥ पौलस्त्यविध्वस्तसमस्तलोकघनावमानानलतीव्रचिन्ताम् । शक्रश्रियं स्वर्गवियोगखिन्नां रक्षःक्षयायेव तपःप्रवृत्ताम् ॥ ५१ ॥ तां वीक्ष्य रक्षःपतिरक्षयेन्दुमुखीं सखीनेत्रसुधां निपीय । मेने तदुच्छिष्टरुचापि शिष्टां स्पृष्टां न संक्लिष्टनिकृष्ट सृष्टिम् ॥ ५२ ॥ पुनः सदाचारपरम्परार्हपाद्यासनादिप्रणयप्रवृत्ताम् । तामब्रवीदद्भुतरूपसंपत्संपन्नपूजः क्षणदाचरेन्द्रः ॥ ५३ ॥ का त्वं मनोजन्मविवर्जितेव रतिर्विरागवतदुर्ग्रहेण । मदेन विद्या कपटेन मैत्री लोभेन लक्ष्मीरिव लुप्तशोभा ॥ ५४ ॥ ध्यानावधानं परमोऽवमानस्त्रपाकरं पात्रमथाक्षसूत्रम् । वने निवासस्तव यौवनेऽस्मिञ्जपश्च शापः कुसुमायुधस्य ॥ ५५ ॥ १. 'सुखी' ग, 'सखी' घ.

काव्यमाला। त्यक्त्वाग्रहं ब्रूहि विचिन्त्य तन्वि त्वमेव सत्यं यदि युक्तमेतत् । बिम्बाधरे चुम्बनकेलियोग्ये जपेन पापार्जनमेव मुग्धे ॥ ५६ ॥ निरञ्जनत्वं कुसुमप्रसक्तिश्चित्रं जटाबन्धनकारणं ते । अनङ्गरागं कुरु मा शरीरमनङ्गरागं वह चेतसि त्वम् ॥ ५७ ॥ भोगोत्सवं मानय मा नय त्वं क्लेशैरदोषं कृशतां शरीरम् । अहं हि ते तन्वि समीहिते च हिते च संपादनबद्धकक्षः ॥ ५८ ॥ शृङ्गारस्य गतैव भाग्यगुरुतानङ्गस्य नाङ्गस्पृहा लावण्यं धनमन्युदैन्यमलिनं का यौवनस्योन्नतिः । नोद्यानं दयितं मधुर्विधिहतः कस्येन्दुरानन्दनः कान्ते ते तपसि स्थिता यदि मतिस्तत्सर्वमस्तं गतम् ॥ ५९ ।। श्रुत्वैतदुक्तं दशकंधरेण सा किंचिदाकुञ्चितचेतनेव । जगाद खेदेन विनिःश्वसन्ती हियावमानेन च मन्युना च ॥ ६० ॥ व्रते विवादं विमति विवेके सत्येऽतिशङ्कां विनये विकारम् । गुणेऽवमानं कुशले निषेधं धर्मे विरोधं न करोति साधुः ॥ ६१ ।। कचस्य वाचस्पतिसंभवस्य खाध्यायजा वेदवती सुताहम् । देया मयेयं वयमच्युताय मनोरथोऽभूपितुरित्ययं मे ॥ ६२ ॥ कालेन दैत्यैः स हतः पिता मे मातानलं शोकमिव प्रविष्टा । वरार्थिनी देवमनन्यचित्ता तपःप्रवृत्ता हरिमर्थयेऽहम् ॥ ६३ ।। इति ब्रुवाणां दशकंधरस्तां गाढानुबन्धेन घनाभिलाषः । पुनःपुनः क्षीब इव प्रलापी कोपामिसंतापवतीं चकार ॥ ६४ ॥ स्मृत्वा स शापं नडकूबरोक्तं संत्यक्तकान्ताहठसङ्गवाञ्छः । नखक्षतोच्छिष्टकुशस्थली तां कृत्वा जगाम खपुरीं सकामः ॥ ६५ ॥ सा मानिनी दुर्विषहार्वमानं रक्षःकरस्पर्शममृष्यमाणा । कुलाभिमानेन्धनमात्मशुद्ध्यै पूर्व प्रकोपामिमिवाविवेश ॥ ६६ ॥ चिरं विचिन्त्याच्युतमच्युताशा जन्मास्तु मे राक्षससंक्षयाय । उक्त्वेति दृष्ट्वा रविमद्रिशृङ्गात्तापेन तन्वी तनुमुत्ससर्ज ॥ ६७ ॥ १. 'भिमान' ख.

७ श्रीरामावतारः] दशावतारचरितम् । अम्लानं कुशलं कुलं च विमलं सत्सङ्गगण्या गुणा मान्या मानधनोन्नतिर्विनिधनं धर्मावधानं धनम् । कीर्तिमूर्तिरसंक्षयाद्भुतवती शक्तिश्च संरक्ष्यते जन्तोरिन्द्रियसंयमेन सकलं नष्टं न यस्यास्ति सः ॥ ६८ ॥ प्रविश्य लङ्कामलकां विजित्य हृत्वा पुनर्वैश्रवणस्य कोशम् । काले विशालेऽनिलवत्प्रयाते लापतिः पुष्पकमित्युवाच ॥ ६९ ॥ दृष्टः पुराश्चर्यगिरिमया यः पुनस्तदालोकनकौतुकं मे । रम्यं निपीतं बत नेत्रपात्रैर्न विस्मरत्येव मनः कदाचित् ॥ ७० ॥ इत्यादराभ्यर्थनयन्त्रितेन नीतः क्षणेनैव स पुष्पकेण । तं देशमेत्यायतकालजिह्वालीढं न तं प्रौढगिरिं ददर्श ॥ ७१ ॥ उत्पत्तिवृद्धिक्षयपाकयुक्त्या क्षणे क्षणे दृष्टविनष्टसर्वः । प्रायः प्रपञ्चप्रणयी भवोऽयमभावसद्भावसमस्तभावः ॥ ७२ ॥ तत्राभ्यपश्यन्नगराण्यगण्यरत्नप्रयत्नक्रयविक्रयाणि । परस्परारब्धविरोधंयुद्धसंधानसंनद्धधराधिपानि ।। ७३ ॥ दृष्ट्वा तवाश्चर्यमचिन्त्यरूपं चक्रभ्रमारूढ इवापरूढः । प्रौढोऽपि मूढत्वमिवानुभूय शनैः स संप्राप्तधृतिः प्रदध्यौ ॥ ७४ ॥ अहो नु नानाद्भुतविभ्रमाणां हर्ता च कर्ता च सदैव कालः । येनानिशं दर्शयता विचित्रं निपीतमन्यद्बत वान्तमन्यत् ॥ ७५ ॥ क्षणं विचिन्त्येति ययौ पुरीं स्वामनित्यतानष्टधृतिर्दशास्यः । गिरेवियोगादचलं द्वितीयमिवोद्वहन्विस्मयभारमन्तः ॥ ७६ ।। गते निगीर्णाद्भुतचक्रवाले काले विशाले बहुमोहजाले । स्मृत्वा समारुह्य विमानराजं तमेव देशं स पुनर्जगाम ॥ ७७ ॥ स तत्र चित्राणि पुराणि तानि न हेमहाणि न मन्दिराणि । खप्तान्तराणी कृतभ्रमाणि जन्मान्तराणीवे गतान्यपश्यत् ।। ७८ ॥ १. 'हन्ध' ग. २. 'नियोग' ख. ३. 'इव प्ररूढः' ग-घ. ४. 'एव' क-ग-घ. ५. 'एव' क-ग-घ.

५४ काव्यमाला।... तत्रालुलोके स तमालतालतालीसहिन्तालनिरन्तरालम् । वनं विशालं विवलपियालमालावलीसंततनक्तमालम् ॥ ७९ ॥ घोरैर्दुरव्याघ्रघनप्रघोषैरिवोच्चरोमाञ्चचयाञ्चितानाम् । विशङ्कटैरुत्कटकण्टकानां व्याप्तं समूहैः खदिरद्रुमाणाम् ॥ ८० ॥ अन्तःश्वसन्निश्चलदुष्टसत्त्वैः कम्पप्रदं पिप्पलपल्लवानाम् । तमःपिशाचाचितमर्कभासा भीत्येव दूरात्परिवर्ण्यमानम् ॥ ८१ ॥ गतेप्वभावं नगरेषु तेषु दृष्ट्वा तदुग्रं गहनं गभीरम् । रक्षःपतिम्रस्तसमस्तलोककुलाय कालाय नमश्चकार ॥ ८२ ।। सोऽचिन्तयत्कालविहंगमोऽयमलक्ष्यदाक्ष्यक्रमपक्षवेगः । दिवानिशं याति विचित्रशक्तिरहो कदाचिन्न चलत्यखिन्नः ॥ ८३ ॥ अत्युच्चापातनिम्नोन्नतिकरणपटुः श्लिष्टदूरस्थिताना- मिष्टानिष्टव्रजानां सततमिव घनाश्लेषकेलिप्रसक्तः । पर्यन्ताभावभूमिप्रपतनचतुरानन्यथा सर्वभावा- न्प्रातः प्रातर्विधत्ते नवनवरचनाश्चर्यकृत्कालपाकः ॥ ८४ ॥ इत्यद्भुतामाकलयन्नचिन्त्यां कालस्य शक्तिं स विसंस्थुलोऽभूत् । अनित्यताचिन्तनभङ्गभाजां नाङ्गानि केषां शिथिलीभवन्ति ॥ ८५ ॥ प्राप्तः स लङ्कां विभवोपभोगहर्षोत्सवैर्विस्मृतकाललीलः । मेने सुखक्षीबतयाक्षयाणि संभोगलीलाधनजीवितानि ॥ ८६ ॥ शनैः प्रयातं क्षणसंख्ययापि प्रवर्धमाने युगदीर्घकाले । पुनर्विमानेन तमेव देशं कुतूहलात्तः प्रययौ दशास्यः ॥ ८७ ॥ स तत्र निर्घातघनप्रवाहदीर्णोर्वरानिष्क्रमणक्रमेण । ददर्श पातालमिवान्तहीनं खातं प्रजातं भुवनव्रणाभम् ॥ ८८ ॥ क्षणं तदालोकनभुनकण्ठः स्थित्वा प्रयातः स पदं खमेव । काले प्रयाते पुनरागतोऽथ सरः समुद्रोपममभ्यपश्यत् ॥ ८९ ।। अनन्तपद्मान्वितमप्रमेयमुदअनागेन्द्रसहस्रसेव्यम् । परागपुञ्जेन भुजंगलोकमिवान्तराले कपिलेन जुष्टम् ॥ ९० ॥ १. 'निष्क्रुथण' क-ख, 'निष्कृषण' ग.

७ श्रीरामावतारः] दशावतारचरितम् । हंसांसकण्डूयनलोलनालफुल्लारविन्दोत्थितषट्पदानाम् । मुहुः समूहैर्विहितान्धकार क्रोशन्निशाशङ्कितचक्रवाकम् ॥ ९१ ॥ खादूदकं कोमलवीचिवातं पद्मोज्ज्वलं भृङ्गगणोपगीतम् । ससौरभं पुण्यवतामिवैकं सर्वेन्द्रियाणामुपभोगपात्रम् ॥ ९२ ॥ सविभ्रमं श्रीरमणं परागपीताम्बरं नाभिभवाद्भुताजम् । नीलोत्पलश्यामलमाकलय्य सरः स निःस्पन्दतनुः प्रदध्यौ ॥ ९३ ।। अहो नु नेत्राप्तिकौतुकानि वैचित्र्यमेत्रीकृतविस्मयानि । पिबत्ययत्नेन कियन्ति कालः सृजत्यजस्रं च महागुतानि ॥ ९४ ॥ क्षणं विचिन्त्येति लसद्विवेकः स शंकरार्चारससादरोऽभूत् । अनित्यताचिन्तनखेदजन्मा न सद्विचारः कुशलाय कस्य ॥ ९५ ॥ अयःपिण्डक्रूरं श्रयति न मनः क्वापि मृदुतां न यावत्संस्पृष्टं सकलभवभावक्षयधिया । मनाक्तस्मिन्याते प्रशमलवपाकप्रणयितां नमत्येतत्कस्य द्विजगुरुहरार्चासु न शिरः ॥ ९६ ॥ सरस्तटे टङ्कितरत्नपीठे लिङ्गं विधाय स्फटिकाद्रिशृङ्गम् । सपुष्पकोपाहृतदिव्यपरा चकारामृतरश्मिमौलेः ॥ ९७ ।। स त्र्यम्बकस्याम्बरचुम्ब्यमानां विधाय पूजां कमलोपचारैः । हृदस्य विष्णोरिव मध्यजातं समादधे(दे) मूर्ध्नि विधातुमबम् ॥ ९८ ॥ तस्यान्तरे काञ्चनकर्णिकस्य विचित्ररत्नोज्वलपल्लवस्य । स दिव्यपद्मस्य ददर्श कन्यां तद्भीतिलमामिव जात(तु) लक्ष्मीम् ॥९९॥ आदाय कन्यां कमलं विधाय तच्चन्द्रचूडस्य किरीटकोटौ । प्रीतिं वहन्विस्मयगर्भगुर्वी लकेश्वरः खां नगरीं जगाम ॥ १०० ॥ मन्दोदरी तद्दयिताथ तत्र तेनार्पितां कल्पितपुत्रिकां ताम् । अनन्यलावण्यवतीं विलोक्य कन्यामभूद्विस्मयनिश्चलेव ॥ १०१ ॥ कदाचिदुत्सङ्गगृहीतकन्यां तां नारदोऽभ्येत्य मुनिर्जगाद । पत्युस्तवेयं चपलेन्द्रियस्य कन्या भविष्यत्यभिलाषभूमिः ॥ १०२ ॥ १. 'विन्दोदित' क-ग. २'भव' क.

५६ काव्यमाला। श्रुत्वैतदाच्छाद्य महार्हपट्टैः सुवर्णमञ्जषधृता कुमारीम् । मन्दोदरी भूमितलावखाते तत्याज रत्नाकरपारतीरे ॥ १०३ ।। काले प्रयाते जनकेन राज्ञा यज्ञाङ्गने हैमहलेन कृष्टे । लब्धा समृद्धेन्दुमुखी सुता सा सीतेति नाम्ना भुवने प्रसिद्धा ॥१०४ ।। ततः कदाचिन्मणिमन्दिरस्थं दशाननं शूर्पणखाभ्युपेत्य । सद्यःप्रकृत्ताखिलकर्णनासा खसा श्वसन्ती विजने जगाद ॥ १०५ ॥ अहो प्रमादस्तव दुर्जयस्य जनत्रयीराज्यजयोर्जितस्य । यत्त्वं प्रजातारिनवाङ्कुरोऽपि धत्से सुखी क्षीब इवातिनिद्राम् ॥ १०६ ॥ मन्त्रद्विषः शक्तिमदेन यस्य निश्चेतनस्येव दिनानि यान्ति । दुर्वृत्तगोष्ठीपतितेव पत्नी न तत्र तिष्ठत्यपरोन्मुखी श्रीः ॥ १०७ ।। रामः पितुर्निश्चलशासनेन भ्रात्रा जटाभृत्सह लक्ष्मणेन । सीताख्यया चारुदृशा च पल्या धन्वी वने दाशरथिः स्थितोऽस्ति १०८ यस्याङ्गना सा सुरसिद्धसाध्यगन्धर्वविद्याधरसुन्दरीणाम् । साश्चर्यसौन्दर्यमदं वहन्ती दृष्टा मया त्वद्भवनोचितैव ॥ १०९ ॥ तां त्वत्कृते हर्तुमहं प्रवृत्ता यावन्मनोजन्मजयप्रशान्ति (शस्ति)म् । रामानुजात्तावदयं मयाप्तः पराभवः कर्तितकर्णनासः ॥ ११० ॥ मन्मन्युशल्यव्यथयाभिभूताः सुरासुरश्रीहरणप्रगल्भाः । त्वद्भातरस्ते खरदूषणाद्या रामेण सर्वे निहताः ससैन्याः ॥ १११ ॥ सुखोन्मुखः कृष्णभुजङ्गमोऽपि विषोष्मशान्त्यै बिलवेश्मशायी । पिपीलकेनोदररन्ध्रयुक्त्या विदार्यते निश्चलकल्प एव ॥ ११२ ॥ आगुप्तचारः खपरप्रदेशे जगत्रयीराज्यगृहीतभारः । अहो प्रसिद्धां भुवनत्रयेऽपि त्वं दण्डकारण्यकथां न वेत्सि ॥ ११३ ॥ इति स्वसुर्मर्मविदारणोग्रां श्रुत्वा गिरं दुर्विषहां दशास्यः । जवेन पारं जलधेर्जगाम कालेन कामेन च कृष्यमाणः ॥ ११४ ॥ . १. 'भूमितले सुखाते' ख. २. 'भूमितले निकृष्टे ख. ३. सुखक्षीब' ख-घ. ४, 'प्रच्युत' ख. ५. 'अनुप्त' काग-घ.

७ श्रीरामावतारः] दशावतारचरितम् । ५७ स प्राप्य मारीचममात्यमुख्यमरण्यपर्यन्ततपःप्रसक्तम् । न्यवेदयन्मर्त्यविकारमस्मै सीतापहारव्यसनोद्यमं च ॥ ११५ ।। लक्ष्मीशरीरक्षपणाभियोगे गाढानुबन्धेन मदप्रमूढम् । साचिव्यमन्त्रावधि याच्यमानो विचार्य मारीचमुनिस्तमूचे ॥ ११६ ॥ अहो बतायं तव मोहमन्त्रः खतन्त्रवाचा च्युतनीतितन्त्रः । किं शत्रुणा पुत्रकलत्रमित्रदेहापहारी व्यसनाय दत्तः ॥ ११७ ॥ धूतैर्यदुक्तं हृदयग्रहाय निन्धं मदोत्तुङ्गमसङ्गतं च । तदीश्वराणां परिणामकष्टं निर्दिष्टदुर्वेदमनिष्टमिष्टम् ॥ ११८ ॥ सर्वापकारः सुकृतप्रहारः क्लेशावतारः कुशलापसारः । शीलापचारः कुपदाभिसारः पापप्रकारः परदारहारः ॥ ११९ ।। पथ्यं न जिघ्रन्त्यथ चर्वयन्ति स्पृशन्ति शृण्वन्ति विलोकयन्ति । विनाशकाले चपलेन्द्रियाणां सर्वेन्द्रियाणीव पुरः प्रयान्ति ॥ १२० ।। रामस्य हतु कथमिच्छसि त्वं पत्नीमयत्नक्षतराक्षसस्य । यद्वीतिनीत्येवं तपस्ततं मे क रक्षसामस्ति विवेकपाकः ॥ १२१ ॥ जातः कृती तततपश्चयऋष्यशृङ्ग- मन्त्राहुतिप्रसृतांगविधिप्रभावात् । पृथ्वीपतेर्दशरथस्य पितुर्नियोगा- द्यः कौशिकस्य मखरक्षणदीक्षितोऽभूत् ॥ १२२ ।। शूरः शिशुः कौशिकशासनेन मन्मातरं वर्त्मनि ताटकां यः । हत्वा प्रपेदे मुनिना वितीर्णा सजृम्भकामस्वरहस्यविद्याम् ॥ १२३ ॥ अस्त्रोद्यत्पक्षपातैः कुशिकसुतमखत्राणसज्जस्य यस्य प्रक्षिप्तो योजनानां शतमुदधितटे मूञ्छितः प्रैच्युतोऽ। वृक्षेष्वद्यापि बाणासनचकितभिया रामनामादिवर्णे राकारामादिशब्देष्वपि भयसमयान कचिनिर्वृतिमें ॥ १२४ ॥ १. 'स दिव्यमन्त्रावधियाचमानं' ख. २. 'सूतैः खः 'दूतैः' घ. ३. 'सर्वापहारः मुकतापकारः' ख. ४. 'नेत्येव' क, 'निन्येव' ग, 'नीज्येव' घ. ५. 'तपःस्थित' काग ६. 'योग' क-ग... 'प्रत्युताने स. दशा.

काव्यमाला। यः प्राप यज्ञे जनकस्य पुत्री चण्डीशचापाक्रमणेन सीताम् । नीतां त्रिलोकीविजयाशयेव शक्तित्वमेतां कुसुमायुधेन ॥ १२५ ॥ आकर्णाकृष्टभङ्गोद्भवरवमुखरोच्चण्डचण्डीशचाप- क्रोधाध्मातस्य सर्वक्षितिपवधविधेर्द्वन्द्वयुद्धातिथिर्यः । चापश्रीकुञ्जनेन व्यधित भृगुपतेः सर्वधर्मस्य गोप्ता पुण्यब्राह्मण्यजन्मापचयपरिचयक्षत्रवृत्तनिरोधम् ॥ १२६ ॥ यः सत्यपाशग्रथितस्य मुक्त्यै पितुर्गिरा निर्जनसंश्रयाय । ययावरण्यं सह लक्ष्मणेन भ्रात्रा समानव्रतया च पत्न्या ॥ १२७ ॥ वियोगशोकात्पितरि प्रतप्ते वर्ग प्रयाते भरतेन यत्नात् । अभ्यर्थ्यमानोऽपि निजं न राज्यं जग्राह रामः स्थिरसत्यकामः॥१२८॥ तत्पादुके मूर्ध्नि निधाय धीमान्करोति शत्रुघ्ननिषेव्यमाणः । राज्यं जटाभृद्भरतस्तदीयं वनान्तवासावधि तत्प्रदिष्टम् ॥ १२९ ॥ सहायतां ते कुपदे करोमि कथं शरीरप्रतिकूलकार्ये । अकुर्वतस्त्वद्विशिखैर्विनाशस्ततस्तु रामान्निधनं वरं मे ॥ १३० ॥ श्रुत्वेति मारीचवचः प्रहृष्टस्तं राक्षसेन्द्रः प्रथमं विसृज्य । मायानिधानं खविनाशसजः पश्चाद्ययौ कल्पितभिक्षुवेषः ॥ १३१ ॥ अर्थानर्थक्षयभयजयान्सर्वथा वेत्ति सर्वः श्रेयः प्राप्तुं किमपि यतते वर्जयत्येव दोषान् । तज्ज्ञोऽप्यन्ते पतति विवशः क्लेशशोकार्तिगर्ते दैवादिष्टे पतनसमये लङ्घने कस्य शक्तिः ॥ १३२ ॥ अथ कनककुरङ्गं विद्रुमोत्तुङ्गशृङ्गं रुचिरमणिविचित्रं लोचनानन्दमित्रम् । द्युतिमिव विकिरन्तं संनिकर्षे चरन्तं जनकनृपतिपुत्री कौतुकातं ददर्श ॥ १३३ ॥ तच्चर्मलोभात्प्रणयप्रयत्नैरभ्यर्थितो मैथिलराजपुत्र्या । धृत्वाश्रमे लक्ष्मणमात्तचापः ससार सारङ्गवधाय रामः ॥ १३४ ॥ १. 'शापात्' ख. २. विरोधम्' क-ग, 'निषेधम्' ख. ३. विधाय' क-ख-ग.

७ श्रीरामावतारः] दशावतारचरितम् । मायामृगस्तीक्ष्णतराननेन स पत्रिणा रामधनुश्चयुतेन । विद्धः पतन्राक्षसरूप एव हा लक्ष्मणेत्यार्तरवं रुराव ॥ १३५ ॥ श्रुत्वा प्रलापं सहसैव सीता भर्तुविरुद्धं परिशङ्कमाना । उत्कम्पिताङ्गी विससर्ज यत्नात्ससंभ्रमं लक्ष्मणमीक्षितं तैम् ॥ १३६ ॥ अभ्येत्य सीतामथ कूटभिक्षुर्दशाननश्चन्द्रमुखीं ददर्श । सुरासुराणां कलहोपशान्त्यै सुधां सदेहामिव निर्जनस्थाम् ॥ १३७ ॥ प्रणामिनी खागतवादिनीं तां पाद्यासनातिथ्यविशेषसज्जाम् । उवाच कौटिल्यनिलीनमायः प्रच्छन्नकायः क्षणदाचरेन्द्रः ॥ १३८ ।। लावण्यं सकलाङ्गसङ्गसुभगं माधुर्यधुर्यं वच- स्तीक्ष्णान्ता नयनद्वयी च सुतरां प्रान्ते कषायच्छविः । मूर्तिः कान्तिसुधाचिता रसमयी चित्रं चमत्कारिणी यत्नेनाप्यभिलक्ष्यमम्लकटुकं किंचिन्न ते चेष्टितम् ॥ १३९ ॥ एकाकिनी निर्जनकाननेऽस्मिन्करोषि किं रत्नविमानयोग्या । घोरं घुरव्याघ्रगुहाग्रमेतत्कस्मात्तवेष्टं विषमाश्मकाष्ठम् ॥ १४० ॥ एता निर्भरदर्भसूचिनिचयैर्दुःसंचरा भूमयः क्षुत्क्षुण्णाजगरोग्रकोपविषमश्वासोष्मशुष्यगुमाः । ग्रीष्मग्लानिनिमग्नमत्तमहिषश्लिष्यत्करीषोन्मिष- त्सकव्याकुलविक्लैवत्तॄणकुलक्लेदातितिक्तं पयः ॥ १४१ ॥ दिव्या रत्नहिरण्यहर्म्यरुचिरा रम्या तव श्रीसखी लङ्का स्फाटिकमन्दिरांशुनिवहैः खर्ग हसन्ती मुहुः । तस्याः सुश्रु विभात्यशोकवनिकालंकारभूता मरु- त्वङ्गत्कल्पलतापरागपटलीसंसँगैरङ्गा रतिः ॥ १४२ ॥ जगज्जयोद्योगरणाङ्कितश्रीलङ्काधिनाथः प्रणयी तवाहम् । यं त्रासलोलांशुकपल्लवाङ्गा भ्रूभङ्गभग्नास्त्रिदशा नमन्ति ॥ १४३ ॥ १. 'विद्धोऽपतत्' ख. २. 'आर्तरवैः' ख-ग. ३. 'तत्' क-ग-घ. ४. 'क्लिश्यत्' क-ग.. ५. 'विह्ववत्तृण' क-ग-घ. ६. 'श्रीमुखी' ग. ७. 'संसा' क-ग-घ.

६० काव्यमाला। श्रुत्वैतदुक्तं दशकंधरेण भयेन कोपेन च कम्पमाना। जगाद जिलं जनकात्मजा तं समुद्भववाहुशिरःसहस्रम् ॥ १४४ ।। अहो प्रशान्तव्रतकष्टकूटस्त्वं शष्पसंच्छन्न इवान्धकूपः । पापाप्लुतं जैल्पन जल्पतस्ते किं नाम भूमौ पतिता न जिह्वा ॥१४५॥ इति ब्रुवाणां कपटाकृतिस्तां करेण मातङ्गनिभः प्रमाथी । आकृष्य रम्भामिव वेपमानां जहार मत्तः पिशिताशनेन्द्रः ॥ १४६ ॥ तारप्रलापां शरणैषिणी तां दयाभिमानी न ररक्ष कश्चित् । प्रायः खरक्षाप्रणयी जनोऽयं परार्तिकाले विरलप्रयत्नः ॥ १४७ ॥ सीतां हरन्तं रजनीचरेन्द्रं लतामिवोग्रानिलमम्बरेण । धीरः कृपावानरुणस्य सूनुरभ्याद्रवध्रपतिर्जटायुः ।। १४८ ॥ निकृत्तवर्मायुधमौलिवाहं कृत्वा दशास्यं नखचञ्चुपक्षैः । दैवप्रमाणे विजये जटायुर्जुहाव जीवं निजमाजिवतौ ॥ १४९ ॥ जायन्ते निधनं प्रयान्ति सततं जन्मभ्रमे जन्तवः कोऽप्येकः किल जायते स सुकृती यः पीतपुण्यामृतः । आर्तत्राणपवित्रितेन तृणवन्नीतेन जातु व्ययं व्याप्ताशेषयशोमयेन वपुषा कल्पस्थितिर्जीवति ॥ १५० ॥ लकाधिनाथः समुपेत्य लङ्कामशोकनाम्नी वनिकां प्रविश्य । न्यवेशयन्मैथिलजां क्षयाय कुलस्य मानस्य च जीवितस्य ॥ १५१ ॥ दिनेषु यातेष्वथ रामवृत्तं ज्ञातुं विसृष्टः प्रणिधिनिगूढः । सुकेतुनामा दशकंधरेण विज्ञाय सर्व स समाजगाम ॥ १५२ ॥ स तापसव्यञ्जनरञ्जितेन वेषेण लङ्कापतिमभ्युपेत्य । खैरं बभाषे भुवनत्रयेऽपि समस्तकार्येषु कथान्तरङ्गः ॥ १५३ ॥ न युज्यते वक्तुमसंमतं यन्न चाहितं न प्रकटं न गुप्तम् । प्रायः प्रभूणामतिसंनिकर्षः क्षुरामधारे नवपादचारः ॥ १५४ ॥ श्रुतं च दृष्टं च निवेद्यमानं सत्यं वचः प्रीतिकरं नै राज्ञाम् । तुष्यन्ति भूपाः स्तवकस्तवेन शून्येन वेश्याप्रणयोपमेन ॥ १५५ ॥ १. 'जाल्मन' क. २. 'कृत्येषु' स. ३. 'वन' ग-घ. ४. 'नराणाम् ख.

७ श्रीरामावतारः] दशावतारचरितम् । ६१ कर्णानुकूलं हृदयग्रहाय यदुच्यते तत्क्षणदृश्यदोषम् । वाल्लभ्यभावप्रभवाय भृत्योहप्रकारः परमं प्रभूणाम् ॥ १५६ ॥ सहायहीनस्य पदच्युतस्य क्षामस्य कान्ताविरहान्वितस्य । रामस्य वृत्तं शृणु देव सर्वं श्रुत्वा विचार्य क्रियतां हितं यत् ॥१५७ ।। हत्वा स मारीचममेयमायं त्यक्त्वाश्रमं लक्ष्मणमाप्तमग्रे । विलोक्य सीताहरणाभिशङ्की ध्यात्वापतत्तन्मुखदत्तदृष्टिः ॥ १५८ ॥ दृष्ट्वाश्रमं शून्यमचिन्तितोगशोकाभिघाताप्तमुहूर्तमोहः । आसाद्य संज्ञां शनकैः प्रपेदे चक्रघमारूढ इवाकुलत्वम् ॥ १५९ ॥ जटायुषस्तत्क्षणमुक्तजीवशेषस्य कृत्वान्त्यविधिं विधिज्ञः । तदुःखतापं दयितावियोगे रामः क्षते क्षारमिवाससाद ॥ १६० ॥ शैले शैले स्थलजलबिलप्रायपुञ्ज निकुञ्ज कृत्वा कृत्वा हृदयमसकृज्जीविताशाविहीनम् । शोकेनान्तर्विहितवसतिः प्रस्खलद्वाष्पवर्षी रामः सीतां धृतिमिव वने हारितां नाससाद ॥ १६१ ॥ सरः फुल्लैाप्तं विकचकुमुदेन्दीवरवनै रजःपुष्पालेख्यं स खलु निखिलेन्दुद्युतिमुखः । वहन्नन्तद्वेषादिव कमलखण्डेषु विमुखः क्षपामन्तश्चक्राहयसदृशवृत्तिः समनयत् ॥ १६२ ।। दृष्ट्वा श्रियः पुत्रमवाप्तघोरकबन्धरूपं स विमोच्य शापात् । राकावियोगग्लपितः शशीव ययौ तदुक्तेन पथा हितेनॆ ॥ १६३ ।। शनैरवाप्याचलमृष्यमूकं सुग्रीवनाम्ना प्लवगेश्वरेण । परस्पराबद्धहितप्रतिष्ठं स प्राप विख्यातबलेन सख्यम् ॥ १६४ ॥ तस्याग्रजेनातिबलेन राज्यं हृतं समाकर्ण्य स वालिनाना । चकार मित्रोपकृतिप्रयत्नसंनद्धधीस्तन्निधने प्रतिज्ञाम् ॥ १६५॥ किष्किन्धामेत्य रामः प्रथितभुजबलं वालिनं शौर्यशाली सुग्रीवाहूतमुग्राननविशिखहतं कीर्तिशेषं चकार । १. 'परमः' ख. २. 'मुजे ख. ३. 'सखल' ग-घ. ३. 'सखल' ग-घ. ४.'च तेन' ख. ५. 'किष्किन्दा क-ख-ग-घ.

काव्यमाला। संनद्धः सप्तसिन्धूद्धतसलिलचयाशान्तिसंतोषवृद्ध्या संध्याध्यानाय धीरः क्षणगमनपटुर्यः सदैवात्र दृष्टः ॥ १६६ ॥ सुग्रीवं हनुमन्मुखैः परिवृतं राज्येऽभिषिच्य स्वयं कृत्वा वालिजमङ्गदं तदनुगं तद्यौवराज्योर्जितम् । रामः प्रस्रवणे गिरौ समनयद्विद्युत्प्रभापिङ्गल- श्मश्रुव्याकुलमेघसंघकलिले कालं वियोगाकुलः ॥ १६७ ॥ संरम्भोर्जितगर्जितं जलंधरं क्षिप्रोद्यतां विद्युतं खद्योतस्फुटनं कदम्बपवनं तां सस्मितां केतकीम् । सेहे सर्वममोघमेघचरितं रामः सुहृन्निर्मितां सीतान्वेषणसंविदं धृतिमयीमाशां निवेश्याशये ॥ १६८ ॥ ततः प्रयाते घनमेघकाले प्रशान्तबाष्पेषु दिशां मुखेषु । मित्रोदयश्रीरिव हर्षहेतुः पद्माकराणां शरदाजगाम ॥ १६९ ।। उद्योगकालेऽपि निरर्गलस्य वक्तुं सुरौघैः सुहृदश्युतस्य । क्रुद्धेन सौमित्रिरथाग्रजेन ययौ विसृष्टः कपिराजधानीम् ॥ १७० ।। श्रीभोगसक्तं दयितानुरक्तं हरीश्वरं विस्मृतमित्रकार्यम् । अभ्येत्य लज्जावनतं जगाद रामानुजः कोपकषायनेत्रः ॥ १७१ ॥ आश्चर्य निजकार्यकालविनतः पर्याप्ततात्पर्यवा- क्रौर्यौदार्यमनार्य वेत्सि न घनक्लेशाश्मशय्याश्रयम् । उच्छिष्टं पिबसि प्रियाधरदलस्यालमरागं मधु प्रायेणोपकृतिः कृतघ्नहृदये पाषाणपट्टे कृषिः ॥ १७२ ॥ सोल्लासाः कृकलासकूर्मशफरोत्फालाहिजिह्वालता- संध्यावर्णपलाशपर्णकरिणीकर्णानुकारक्षमाः । विद्युन्नृत्तनरेन्द्रवृत्तवनिताचित्तासवोन्मत्तधी- दुर्नीतोन्नतिचारणस्तुतिकलालोलाः खलप्रीतयः ॥ १७३ ।। स लक्ष्मणेनेति विडम्ब्यमानः खदोषवैलक्ष्यविषण्णचितः । प्रसाद्य तं संवरणप्रणामैश्चके खसैन्यं विजयाय सज्जम् ॥ १७४ ॥ १. 'सोल्लासंकृकलास' क-ग-घ.

७ श्रीरामावतारः] दशावतारचरितम् । ६३ नम्रः समभ्येत्य ततः कपीन्द्रः प्लवंगसङ्घः परिपूरिताशः । राम प्रसादाभिमुखं विधाय दिशो विजेतुं बलमादिदेश ॥ १७५ ॥ सीतान्वेषणशासनप्रणयिनां दर्पण संसर्पतां संपूर्णे भुवने कपिक्षितिभृतां सैन्येन दिग्व्यापिना । मेघग्रस्तमिवाम्बरं घनतमःसंघातपीतं दिनं दिक्चक्रं च बभूव विन्ध्यशिखरप्राकारसंपूरितम् ॥ १७६ ॥ वेगेनाङ्गदमैन्दनीलहनुमन्मुख्याः प्लवङ्गास्ततः प्राप्ता दक्षिणसिन्धुमुद्धततरत्वङ्गत्तरङ्गोत्तरम् । आलिङ्गन्तमिवाम्बरप्रणयिनीं गङ्गां दिगन्तादिभि(?)- दृष्ट्वा वन्ध्यपरिश्रमाः प्रमुमुचुश्चिन्तानिममा धृतिम् ॥ १७७ ॥ ततोऽब्रवीद्वालिसुतः समुद्रसंदर्शनत्यक्तजवाभिमानः । सीता न लब्धाब्धिरयं न लङ्घयः कपिप्रभोः कः सहते प्रकोपम् १७८ इहैव नस्त्यक्तपरिग्रहाणां युक्तं तपः संगलितग्रहाणाम् । भमेऽभिमाने विततेऽवमाने वनं विना भेषजमस्ति नान्यत् ॥ १७९ ।। मिथ्यापुत्रकलत्रमित्रभरणारम्भाभियोगग्रहै- राशापाशजुषां प्रभुप्रणयिनां सेवाव्रतैः शुष्यताम् । अन्ते हन्त दिशन्ति संततमहामोहप्ररोहावहा वेश्याविभ्रमचञ्चला भ्रममदोन्मत्तक्रमं संपदः ॥ १८०॥ धन्यो जटायुर्जगति प्रवीरो जीवत्यलोभोज्झितजीवितोऽपि । छिन्नस्य यस्योचितराजकार्ये लोके प्ररूढा किल कीर्तिलक्ष्मीः ॥१८॥ इत्यङ्गदेनाभिहिते समीपं संपातिनामा शनकैरवाप्तः । प्लवंगमान्गृध्रपतिर्जगाद नवोद्भवत्तत्क्षणलक्ष्यपक्षः ॥ १८२ ॥ भ्राता जटायुर्मम पूर्वमर्कपथे व्रजन्मत्सहितो जवेन । स्पर्धानुबन्धी स मया खपक्षैः संरक्षितः प्रज्वलिताखिलाङ्गः ॥ १८३ ॥ १. 'सेन्द्र' क-ख. २. 'तरङ्गोद्धतम्' क-ग-घ. ३. 'वेश्याविभ्रममाशु शोकनिवह विद्युद्विलोलाः श्रियः' ख. ४. 'जटायुः सफलाततायुः' ख. ५. 'व्रजन्सत्त्वहितो मदेन' क.

६१ काव्यमाला। निर्दग्धपक्षं पतितं क्षितौ मां दिवाकराख्यो मुनिरित्युवाच । भविष्यसि प्रौढगतिः सपक्षस्त्वं रामवृत्तामृतपूर्णकर्णः ॥ १८४ ॥ इहाद्य मे रामकथामृतेन पक्षैः प्रजातैर्विगतः स शापः । पश्यामि लकोपवने निरुद्धां सीतां निगंद्येति जगाम गृध्रः ॥ १८५॥ महामतेर्जाम्बवतो मतेन प्लवंगमैः सादरमङ्गदायैः । अभ्यर्थितोऽब्धेस्तरणेऽभिमानी समीरसूनुर्ववृधे हनूमान् ॥ १८६ ॥ महेन्द्रमारुह्य गिरिं स पादभरेण गुर्वीकृतमुत्पपात । आदातुमिच्छन्निव नाकचुम्बि दिनेशबिम्ब पुनरम्बरापात् ॥ १८७ ॥ खच्छाम्बुप्रतिबिम्बितेऽस्य वपुषि क्रूरपकोपाकुलै- दंष्ट्राकोटिविपाटनेन मकर्मिथ्याभियोगे कृते । दूरोद्गारितदूरुवातविधुतस्फीतैस्तंटाम्बुस्फुट- च्छुक्तिव्यक्तसृतैर्जहास जलधिर्मुक्तासमूहैर्मुहुः ॥ १८८ ।। व्रजन्स धीरः शतयोजनान्तं क्रमेण तद्रासविवर्धितास्याम् । जघान घोरामथ सिंहिकाख्यां क्षपामिवार्कस्तमसो जनित्रीम् ॥ १८९ ॥ मानाय मैनाकमथार्णवेन विश्रान्तये रत्नगिरि विसृष्टम् । करेण संस्पृश्य स लचिताब्धिर्लङ्काकशैलस्य तटे पपात ॥ १९० ॥ अथ निशि शशिहासोल्लासशुभ्रासु दिक्षु स्फुटमणिकिरणेषु(प्वे?)तत्प्रियान्तःपुरेषु । प्रतिपदमतियत्नाचेन सर्व विचित्य द्रुततरमभिपत्य खैरमाभाष्य सीताम् ॥ १९१ ॥ सुरतरुवैनिकाया मूलभङ्गं विधाय प्रविधुतकुलशैलानिककरान्मत्रिपुत्रान् । सुरपुरभयदीक्षादक्षमक्षं च हत्वा खयमभिसरता तामिन्द्रजियुद्धभूमिम् ॥ १९२ ।। तृणमिव वहता तच्छद्मना ब्राह्ममस्त्रं हुतवहहुतलकातकनिःशकशक्त्या । १. 'तटान्त' ख. २. 'वनिकायो' क-ख-ग.

७ श्रीरामावतारः] दशावतारचरितम् । कृतमिह कपिना यत्तञ्च देवेन दृष्टं तदपि कुमतिसृष्टं दैवदिष्टं न नष्टम् ॥ १९३ ॥ (तिलकम्) यद्भक्तियुक्तं विनयप्रमुक्तं विज्ञाप्यसे शक्तिलवेन देव । आकुञ्चितधूम्रमकारि वकं न तत्र कार्य खहितं विचार्यम् ॥ १९४ ।। श्रुत्वैतदुक्तं प्रणधिव्रतेन रक्षःपतिः मां क्षणमीक्षमाणः । न किंचिदूचे चरणाञ्चलेन समुल्लिखन्स्फाटिकपादपीठम् ॥ १९५ ।। अथ प्रभाते किल मन्त्रिमुख्यनिषेव्यमाणं क्षणदाचरेन्द्रम् । आता सभाग्रस्थितमभ्युपेत्य विभीषणः संप्रति तं बभाषे ॥ १९६ ॥ अत्यल्पकेऽपि व्यसनांशलेशे न संवृतिः क्रियते प्रयत्नात् । तेषां प्रमादादवमानपूर्णाः सक्तापवादा विपदो भवन्ति ॥ १९७ ।। न धीमतां धावति धीः कुकार्ये क्षणादकार्याद्विरमन्ति भव्याः । कुर्वन्त्यकार्य विरमन्ति नैव हितं न शृण्वन्ति च दैवर्दैग्धाः ॥ १९८ ॥ पराभवं यत्स कपिस्तवापि चकार सोऽयं कुनयप्रभावः । सीतापहारप्रभवावमाने तत्त्याग एव प्रशमाभ्युपायः ॥ १९९ ॥ अहो नु चारैर्न निवेदितं भो रामः समुद्रस्य तटीमवाप्तः । यद्धृत्यसुग्रीवविधौ विधेयः स मारुतिस्तत्पृतनापदातिः ॥ २०० ॥ प्रसाद्यतामात्महिताय रामः सीतार्पणेनैव स शान्तिमेति । अयं प्रमादस्य शरावपातः(?) सीतापरित्यागकरावलम्बः ॥ २०१ ।। हितं तवैते न वदन्त्यमात्यास्त्वद्भूलताधीनविभूतिभोगाः । चित्तग्रहाय प्रियतामवाप्तुं कर्णानुकूलं कथयन्त्यतथ्यम् ॥ २०२ ॥ सत्ये शङ्काचकितमतयो वश्चकग्रामलीनाः शैलस्थूलोपकृतिविफलाः खल्पदोषेऽतिकोपाः । मनोद्विमाः पिशुनवचना धर्मनर्मोक्तिहृष्टाः साधुद्विष्टाः प्रखलसुहृदः सर्वदा भूमिपालाः ॥ २०३ ॥ १. 'विनति' ख. २. 'मुख्यैः' ख. ३. 'संप्रहितं' ख-ग. ४. 'दुष्टाः' ख. ५. 'योगाः' ख. ६. 'दुष्टाः' ख.

tor काव्यमाला। इति ब्रुवाणं कुशलानुबन्धाद्विभीषणं भ्रूभ्रमणप्रकोपः । आकृष्य खङ्गं चरणाञ्चलेन न्यपातयन्निर्विकृति दशास्यः ॥ २०४ ॥ स वेत्रिभिस्त्रासितसर्वलोकैर्निष्कासितः सज्जनसंश्रयार्थी । गुणाभिसारी गगनं विगाह्य जगाम रामस्य समीपमेव ॥ २०५ ॥ अन्येद्युरन्तःपुरसौधशृङ्गस्थितं समेत्य प्रणिधिर्दशास्यम् । सुग्रीवसैन्यार्णवमध्यचारी जगाद विज्ञातसमस्ततत्त्वः ॥ २०६ ॥ इतः प्रयातस्य विभीषणस्य प्रणामिनः पादनखांशुपट्टम् । रामेण मौलौ प्रविसार्य दत्तो लङ्काधिपत्ये प्रथमाभिषेकः ।। २०७ ॥ मन्त्रान्तरङ्गत्वमतीव यातः स तस्य निर्व्याजहितोपदेष्टा । न बान्धवत्वं सहजं जनस्य स एव बन्धुः किल योऽनुरक्तः ॥२०८॥ विभीषणस्यानुमते त्रिरात्रं रामेऽब्धितीरेऽथ कृतव्रतेऽपि । गाम्भीर्यनिःस्पन्दतयाम्बुराशिन किंचिदूचे तैरणाभ्युपायम् ॥ २०९ ॥ रामस्य चापाक्रमणेन सिन्धुर्भयादथामन्यत सेतुबन्धम् । मृदोरवज्ञामुखभङ्गकारी लोकः किलायं भयभोज्य एव ॥ २१० ॥ अथाम्बुधौ मन्दरतुल्यशैलैः सेतुर्निबद्धोऽद्भुतकृत्प्लवंगैः । प्रभावशक्त्या दृढनिश्चयानां शिलाः प्लवन्ते सलिले किमन्यत् ॥२११॥ रक्षःकुले सेतुरभावहेतुर्दैवेन सृष्टः सलिलप्रचारः । नूनं स निर्विघ्नगतागताय लङ्कापदां राघवसंपदां च ॥ २१२ ॥ तीर्णवं सेतुपथेन रामस्ततस्त्रिकूटस्य तटे निविष्टः । प्लवंगसैन्येन घनेन यस्य त्रस्ता इव वापि दिशः प्रयाताः ॥ २१३ ॥ इत्युक्त्वा प्रणिधौ मनागपसृते लङ्कापतितरं ध्यायन्मानुषसेवकं क्षतकुलं प्रम्लानमानाननः । संकल्पैरपि दुष्करेऽद्भुतनिधौ सेतौ निबद्धेऽम्बुधौ लज्जाद्वेषविमर्शकोपकलनाव्याकीर्णचित्तोऽभवत् ॥ २१४ ॥ अथोच्चचारोद्धतयुद्धशंसी भैरीनिनादः क्षणदाचराणाम् । शिलाहताहालपरम्पराणां झांकाररावश्च धनः कपीनाम् ॥ २१५ ॥ १. 'तोयाय' ख. २. 'तरणे' ख. ३. 'भीरी' क-ख-ग-घ.

७ श्रीरामावतारः] दशावतारचरितम् । ६७ युद्धे प्रवृत्ते कपिराक्षसानां द्रुमाद्रिशस्त्रास्त्रसमाहता भूः । पुनः प्रजाताखिलदाहशङ्का लङ्का चकम्पे भयविह्वलेव ॥ २१६ ॥ ततः प्रतीहारपतिः प्रविश्य विद्युन्मुखाख्यः क्षणदाचरेन्द्रम् । व्यजिज्ञपत्संगररङ्गभङ्गं प्रत्यक्षमालोक्य निशाचराणाम् ॥ २१७ ।। देवद्वन्द्वरणे प्रसक्तसुभटे तुल्यत्वमासीत्क्षणं रक्षोवानरसैन्ययोरथ मनाग्लाने बले रक्षसाम् । वीरेणेन्द्रजिताभ्युपेत्य निहतौ भूमौ च्युतौ राघवौ नागास्त्रेण समावृतौ त्रिशिरसा भग्नं कपीनां बलम् ॥ २१८ ॥ दिव्यप्रभावौ गरुडेन साक्षात्स्पृष्टौ विनष्टाखिलपाशबन्धौ । अथोत्थितौ दाशरथी वृथैव किं पौरुषैर्दैवमलङ्घय मेव ॥ २१९ ॥ लब्धाधिकोत्साहबलैः प्लवंगैर्निपीड्यमानेषु निशाचरेषु । प्रहस्तधूम्राक्षमहोदाराद्याः प्राप्ता रणे मन्दबलत्वमेव ॥ २२० ॥ भमेऽथ सैन्ये क्षणदाचराणां मानानुबन्धादविलुप्तधैर्याः । हस्ताः प्रहस्तप्रमुखाः क्रमेण ते संगरोर्वीकुलभूधरेन्द्राः ॥ २२१ ॥ त्वदाज्ञया देव विबोधनाय प्रमृद्यमानोऽपि गजाश्वसैन्यैः । अत्यन्तनिद्रातरुणीकरालो न कुम्भकर्णो विजहाति निद्राम् ॥ २२२ ।। श्रुत्वा प्रतीहारगिरं दशास्यः संख्ये तनुत्यागसमुद्यतोऽभूत् । चित्तानुवृत्तान्तसहायहीनं कस्येष्टमैश्वर्यमरण्यतुल्यम् ॥ २२३ ॥ स्नानार्चनादि प्रविधाय तूर्ण कार्यानुरोधादथ कुम्भकर्णः । श्रुत्वाखिलं रामविरोधवृत्तं पौलस्त्यमेत्य प्रणतोऽभ्युवाच ॥ २२४ ॥ अहो महान्दुःसहदुर्ग्रहोऽयं सन्मन्त्रिमन्त्रैर्न निवारितस्ते । क्रोधेन्धने किं भवता स्मरामौ हुता विभूतिर्गणिता न नीतिः ॥२२५॥ लीलानिबद्धाम्बुधिमध्यसेतोः शक्तिर्मनुष्यस्य न चिन्तिता किम् । भ्रूभङ्गभीतिस्तिमिताम्बुराशौ यस्याज्ञया भूमिधराः प्लवन्ते ॥ २२६ ॥ १. 'म्लाने' क-घ. २. 'च सहसा' ख. ३. 'तथैव' ख. ४. 'मदोद्धतास्त्रे विविशु रणोर्वीम्' ख-ग-प. + काव्यमाला। स दीर्घदर्शी हितकृन्मनीषी विभीषणः किं भवता निरस्तः । मन्त्रागमज्ञं प्रथमं निहत्य पश्चाद्विषं भक्षितमप्रमेयम् ॥ २२७ ॥ व्यसनपतनसक्तिस्तद्विरामेऽप्यसक्ति- हितसचिवविरक्तिर्दुर्जनेष्वेव भक्तिः । उचितमतिवियुक्तिप्रहाणाममुक्तिः क्षितिपरिवृढलक्ष्मीसंक्षये लक्षणानि ॥ २२८ ॥ श्रुत्वानुजोक्तं हितयुक्तमेतन्नक्तंचरेन्द्रो न विवेद युक्तम् । निपातकाले किल नैव बुद्धिर्भवेद्यया मोहरजोविशुद्धिः ॥ २२९ ॥ स तं जगाद प्रतिबोधितोऽद्य शिक्षाप्रदानाय न पण्डितस्त्वम् । मिथ्या भुजौ भूरिभुजस्तवेमौ भजख गत्वा धनमोहनिद्राम् ॥ २३० ॥ इत्यग्रजेनाभिहितो विचिन्त्य प्रभावशक्तिं भवितव्यतायाः । संनद्धबुद्धिर्निधने रिपूणां न कुम्भकर्णस्तमुवाच किंचित् ॥ २३१ ।। संप्राप्ते कुम्भकर्णे रणभुवमभवायाससंमन्त्रितानां भमे सैन्ये कपीनां दिशि दिशि रजसा भूयसा 'संवृतायाम् । तत्कायच्छाययाधो जगति गुरुतरैः संनिरुद्धेऽन्धकारै- रर्के साकारराहुग्रहणसमयधीः खेचराणां बभूव ॥ २३२ ॥ ततः प्रविश्याविरलप्रहारो विदीर्णकायः सुतशोणितौघः । नक्तंचरः कुञ्जरकर्णनामा व्यजिज्ञपत्संसदि राक्षसेन्द्रम् ॥ २३३ ॥ देव त्वदाज्ञापरुषाक्षराणि ध्यायन्कपीनां युधि कुम्भकर्णः । चक्रे महन्मन्युमनन्तमन्तः प्रारब्धकल्पान्तकृतान्तलीलः ॥ २३४ ॥ भमाशकं दधाने जैगति स गगनासङ्गितुङ्गोत्तमानः पद्भ्यां भूकम्पकारी भयनिबिडमिलद्वारणायूंषि पिंषन् । सुग्रीवं विग्रहोगं लघुविहगमिवादाय मुष्टिग्रहेण ग्रीवाकर्बभञ्ज द्रुमवदवगतिव्याहताननदाद्यान् ॥ २३५ ॥ क्षिप्रं विभीषणमतेन निकृष्टचाप- खं राघवः खकटकोपरि भूधराभम् । १. 'संवृतानाम्' स. २. 'प्रारम्भ ३. "त्रिजगति' ग-य.

७ श्रीरामावतारः] दशावतारचरितम् । बाणैर्निपात्य घनकायभरावपिष्ट- रक्षःकुलं भुवनविस्मयमाततान ।। २३६ ।। हते विकीर्णे युधि कुम्भकर्णे निकुम्भकुम्भादिषु च च्युतेषु । मानानुबन्धादपराङ्मुखानां क्षणं क्षयोऽभूत्क्षणदाचराणाम् ॥ २३७ ॥ शोकप्रकोपानललिह्यमानः कुलक्षयादिन्द्रजिदभ्युपेत्य । सैन्यं कपीनां निखिलं क्षणेन स रामसुग्रीवमुखं जघान ॥ २३८ ।। हतेषु सर्वेषु हरीश्वरेषु कण्ठावकीर्णक्षणजीवितेन । अभ्यर्थितो जाम्बवता हनूमानेको विसृष्टः कपिजीविताप्त्यै ॥ २३९ ॥ स योजनशतत्रयीं दिवि विलङ्घय भावत्प्रभः सपुष्करमपाहरत्सकलमौषधिक्ष्माधरम् । यदग्रसरसौरभैरभवदाप्तजीवं क्षणा- त्सराघवकपीश्वरं हैरिसुसैन्यमत्यद्भुतम् ॥ २४० ॥ मानं नेच्छति यच्छति व्यसनितां मुग्धां विधत्ते धियं कीर्ति हन्ति कलङ्कयत्यपि कुलं सोत्कर्षविद्वेषवान् । यद्यत्कर्म विधीयते सुमतिना कार्यानुबन्धोद्यमै- स्तत्तत्सर्वमलक्षितः क्षयपति क्षिप्रं विरुद्धो विधिः ॥ २४१ ॥ अथेन्द्रजित्सर्वजगज्जयोग्रब्रह्मास्त्रसिद्ध्यै विहितापचारः । वनं समागत्य निकुम्भिलाख्यं यागोग्रवह्नौ रुधिरं जुहाव ॥ २४२ ॥ यागार्धविघ्ने युधि वध्य एष नैवान्यथेत्याशु विभीषणेन । उक्ते हिते राघवशासनेन तं लक्ष्मणो योद्धुमथाजगाम ॥ २४३ ॥ अथेन्द्रजिल्लक्ष्मणयोर्मदेन युद्धे प्रवृत्ते कपिराक्षसानाम् । परस्परं दीर्घमहास्त्रदीप्तं सैन्यद्वयं प्रेक्षकतामवाप ॥ २४४ ॥ क्रोधाकुलेनेन्द्रजिता प्रसह्य शक्त्याथ हृन्मर्मणि दारितोऽपि । तं पत्रिणा कण्ठनिकृत्तवकं सौमित्रिराश्चर्यनिधिश्वकार ॥ २४५ ॥ श्रुत्वैतदुग्राशनिपाततुल्यं शोकेन निर्भिन्नधृतिर्दशास्यः । व्याप्तः स्फुटद्भिः कटकाप्ररत्नैः पपात कल्पान्त इवाचलेन्द्रः ॥ २४६ ।। १. 'मुखान्' क-ख. २. 'वतीर्ण' ख. ३. 'प्रवरसैन्य' ख. ४. 'सुमतिभिः' ख. दशा. ७ : काव्यमाला। स लब्धसंज्ञः प्रियपुत्रशोके भ्रातृक्षयस्योपरि मर्मलग्ने । सीताभिलाषं सहसा विहाय बबन्ध चित्ते मरणाभिलाषम् ॥ २४७ ॥ श्रात्रा भुजेन सकलोद्यमदक्षिणेन पुत्रेण सर्वगुणसंगमवल्लभेन । मानेन मौलिमणिना रहितस्य जन्तोः किं जीवितेन शितशल्यताचि(यि)तेन ॥ २४८ ॥ प्राप्तस्ततः समरभूमिमभनमानो भृत्यानुजात्मजनिकृत्तशरीरपूर्णाम् । लकेश्वरः पृथुविषादभरश्रमेण विश्रान्तये निजवपुःक्षयमाचकाङ्क्ष ॥ २४९ ॥ संनद्धे दशकंधरे युधि भयव्याघूर्णदिङमण्डले पैशाचाश्वरथस्थिते हरिरथारूढे च रामे पुनः । बाणेषु प्रसरत्सु देहदलनव्यापारपाराप्तये टेकस्य खतनुक्षये रिपुवधे चान्यस्य लोभोऽभवत् ॥ २५० ॥ अग्रे शरीरनिरपेक्षमरक्षिताङ्गं रक्षःपतिं धनरणक्षयमीक्षमाणः । रामः क्षणं स्थगितनिश्चलचापपाणिः साश्चर्यशौर्यभरविस्मयवान्प्रदध्यौ ॥ २५१ ॥ कायः कैलासमूलोद्धृतिविपुलशिलोल्लेखविख्यातसार- स्तेजः शक्रेभकुम्भस्थिरशरशकलक्लेशनिःश्वासदीप्तम् । मानश्वाशेषलोकेश्वरमुकुटतटीलालिताज्ञाविलासः सर्व साश्चर्यमस्य त्रिभुवनजयिनः पापशापेन नष्टम् ॥ २५२ ।। ध्यात्वेति निर्विवरमार्गणवर्षिणोऽस्य दष्टौष्ठमाकुलितकुण्डलदीप्तगण्डम् । रामः शरेण दहनाचितदुर्निमित्त- क्रूरार्धचन्द्रवदनेन शिरश्चकर्त ॥ २५३ ॥ १. 'तेन रण' ख. २. 'शताश्रितेन' ख. ३. 'लोकस्य काग.

७ श्रीरामावतारः] दशावतारचरितम् । रोमाञ्चसंचरणपीनकपोलभित्ति यद्यत्पपात वदनं दशकंधरस्य । आजन्मनोऽन्यमुखतत्क्षणदर्शनेन प्रीत्येव विस्मयमयद्युति तत्तदासीत् ॥ २५४ ॥ दृष्ट्वा च्युतानि वदनानि नव क्रमेण कण्ठस्खलत्कनकपुङ्खशराचितानि । व्याप्तानि दीप्तहरहोमहुताशलेशैः संस्मारितानि दशमं दशकण्ठवक्रम् ॥ २५५ ।। कृते च मूर्ध्नि दशमे दशशेखरस्य प्रत्यक्षदृष्टवदनच्युतमन्युवह्निः । शान्तोऽपि कण्ठविगलद्धनशोणितौघै- रासीत्सशेष इव कुण्डलरत्नभाभिः ॥ २५६ ।। हत्वाथ रामः समरे दशास्यं विभीषणं तद्विभवेऽभिषिच्य । लङ्काकलङ्कन परस्थलस्थां सीतामवाप्तामपि नाभ्यनन्दत् ॥ २५७ ।। तीव्र वियोगदहने तनुतां गतापि भार्पिता विषमधाम्नयनपायवहौ । कोपानले निपतिता विपुलेऽथ सीता शुद्ध्यै विवेश हिमसंहतिशीतमग्निम् ॥ २५८ ॥ पतिव्रतां तां खयमेव दोामादाय रामाय ददौ हुताशः । स लोकपालस्तुतशीलसत्त्वां तां प्राप्य लक्ष्मी प्रययावयोध्याम् ॥२५९॥ तत्र प्रणामैर्भरतेन हर्षबाष्पोभिषेकार्चितपादपद्मः । सुग्रीवलङ्कापतिसेव्यमानः स प्राप राज्यं त्रिदशाभिषिक्तः ॥ २६० ॥ काले प्रयाते प्रणिधिः प्रजानां वृत्तान्तवेदी विजने समेत्य । व्यजिज्ञपडूरतरप्रवासे लोकापवादं जनकात्मजायाः ॥ २६१ ॥ जायां स जानन्नपि शुद्धशीलां लोकापवादप्रसरासहिष्णुः । सौमित्रिमादिश्य सगर्भभारां तत्याज वाल्मीकितपोवने ताम् ॥ २६२ ॥ १. 'संतति' ख. २. 'भिषेकाश्चित' क-ग.

काव्यमाला। नित्यादुःखे जनजीवितेऽस्मिन्सुखान्यनित्यानि सयौवनानि । धनानि विद्युद्द्युतिचञ्चलानि क्षणक्षयाणि प्रियसंगमानि ॥ २६३ ॥ बाल्ये भूमितलेऽर्पिता तदनु च क्लिष्टा वने भीषणे पौलस्त्येन हृता भयक्षतधृतिर्ब(ती रु)द्धाथ लङ्कावने । लब्धाशुद्ध्यनले च्युता पुनरपि त्यक्ता सती जानकी संसारे सतताभुपातिनि नृणां धिङ्गित्यदुःखस्थितिम् ॥ २६४ ॥ आश्वास्यमाना जनकोपमेन वाल्मीकिना दीनदयान्वितेन । कालं तनुत्यागमनोरथैः सा नित्याश्रुपाताकुचा निनाय ॥ २६५ ॥ सासूत भर्तृप्रतिबिम्बरूपौ पुत्रौ तनुत्यागविशेषविघ्नौ । वाल्मीकिना क्षत्रियसंस्क्रियाभिः कुशो लवश्चेति कृताभिधानौ ॥२६६॥ प्रवर्धमानौ मुनिना खकाव्यमध्यापितौ गीतिविभक्तवर्णम् । पूर्व भविष्यच्चरितं निबद्धं रामायणं कर्णरसायनं तौ ॥ २६७ ।। निरास सीताविरहे द्वितीये शशीव रामस्तनुतामवाप्तः । प्रदीप्तदुःखामिचितां विवेद श्मशानभूमिप्रतिमां विभूतिम् ॥ २६८ ॥ किं भोगरोगैः किमयत्नरत्नैः किं नन्दनैश्चन्दनचन्द्रसौधैः । वियोगशल्यैहृदयेऽवसन्ने किं नित्यशोकेन कुजीवितेन ॥ २६९ ॥ कदाचिदास्थानसभासनस्थं रामं प्रहारक्षतमस्तकः श्वा । व्यजिज्ञपद्देव यतिव्रतेन हतोऽस्मि विप्रेण विनापराधम् ॥ २७० ।। भिक्षुर्विलक्षः क्षतकारणं तत्पृष्ठोऽपि किंचिन्न यदाचचक्षे । तद्दण्डमूकेषु सभास्थितेषु तदा पुनः प्राह स निश्चितं श्वा ॥ २७१ ।। देव द्विजन्मा खमठेऽधिकारी पुराहमासं विगतस्पृहोऽपि । केनाक्रमेणोपग(न)ता न जाने तथापि मे निन्द्यतमा श्वजातिः ॥२७२॥ कालञ्जरे देवमठाधिकारी विधीयतामेष विवेकहीनः । न यस्य कोपप्रशमेऽपि शक्तिर्लोभप्रहाणेऽपि स किं समर्थः ॥ २७३ ।। एकोदरा मोहमहीप्रजाता मदस्मरक्रोधविषादलोभाः । एकानुमानेन भवन्ति जन्तोः सर्वे सदा स्थूललघुक्रमेण ॥ २७४ ॥ १. 'काव्य' ख.

७ श्रीरामावतारः] दशावतारचरितम् । श्रुत्वैतदुद्दामगजाधिरूढं भिक्षु नृपः स्फीतमठाधिनाथम् । चक्रे चलच्चामरचारुचञ्चद्विकुञ्चितोष्णीषविलासहासम् ॥ २७५ ॥ धर्मस्य गोप्ता च्यवनेन रामः प्रीत्यार्थितः क्रूरतरासुरस्य । त्रैलोक्यशत्रोलवणाभिधस्य वधाय शत्रुघ्नमथादिदेश ॥ २७६ ।। शूलायुधे तेन हतेऽथ दैत्ये तत्कानने काञ्चनतोरणाङ्का । दिव्येव शत्रुघ्ननिवेशिताभूत्पुरी प्रथार्हा मधुराभिधाना ॥ २७७ ।। काले प्रयाते सुतमष्टवर्ष स्कन्धे समादाय मृतं द्विजन्मा । उच्चैः प्रचुक्रोश सभाङ्गनागद्वारान्तिके वेत्रिभयानभिज्ञः ॥ २७८ ।। अयं शिशुमें स्थविरस्य सूनुर्व्यसुत्वमाप्तस्तिलतोयदाता । नृपापचारेण भवत्यवश्यमकालमृत्युव्यसनं प्रजानाम् ॥ २७९ ॥ धर्मद्रोहिणि विद्रुताकरुणे क्षुद्रैः प्रजोपद्रवै- धूर्तेर्मुक्तधने प्रधानविमुखे विज्ञप्तिनिद्राजुषि । कायस्थैरजितैर्जिते क्षितिपतौ लब्धोदयैरिन्द्रियै- दुर्भिक्षानलचौरवारिमकरैर्दीनो जनः पीड्यते ॥ २८० ।। नाथे दिक्षु भगीरथे शुभकथे पुण्याप्ततीर्थप्रथे क्रान्तस्वर्गपथे पृथौ दशरथे याते यशःशेषताम् । कष्टं नष्टधृतिः प्रकृष्टविपदामाधारभूताधुना देवी मज्जति राजदुष्कृतिभरै राभिभूतेव भूः ॥ २८१ ॥ विप्रार्तनादेन विचार्यमाणकारुण्यदैन्यव्यसनेऽपि रामे । सभ्येषु मूकेषु मुनीश्वरेषु समभ्यधान्नारद एव वाग्मी ॥ २८२ ।। शूद्रस्तपस्तीव्रतरं करोति शम्बूकनामा दिशि दक्षिणस्याम् । स एव वर्णाश्रमधर्मलोपः पुत्रक्षये कारणमग्र्यजातेः ॥ २८३ ।। श्रुत्वोदितं नारदवाक्यमेतत्स्मृताप्तमारुह्य विमानराजम् । अदक्षिणं धर्मपथस्य राजा गत्वावधीद्दक्षिणदिक्स्थितं तम् ॥ २८४ ॥ रामासिपट्टेन निकृत्तकण्ठे शूद्रे विमानेन दिवं प्रयाते । निजात्मजे तत्क्षणलब्धजीवे ममार्ज निन्दां स्तुतिभिर्द्विजातिः ॥ २८५॥ १. 'करणे' क-ग. २. 'धनैः' क-ग-घ. ३. 'दुष्कृत' ख. ४. 'श्रुत्वोचितं' ख.

७४ काव्यमाला। हैमी कृता तस्य सुवर्णकारैरभिन्नरूपा रघुराजपत्नी । अभूत्परित्यागघनावमानमन्युव्रता मौनवतीव सीता ॥ २८६ ॥ वाल्मीकिशिष्यानुगतौ कुमारौ रामात्मजौ तत्र लवः कुशश्च । अगायतां श्रोत्रसुखं नृपाने खरेण रामायणमादिकाव्यम् ॥ २८७ ॥ पुत्रौ परिज्ञाय मुनीन्द्रवाक्यात्तौ तुल्यरूपानुभवेन रामः । करोतु सीता पुनरेव शुद्धिमित्यर्थनां तत्र मुनेश्चकार ।। २८८ ॥ वाल्मीकिशिष्यैरथ रामपत्नी तां प्रापिता यज्ञभुवं क्षणेन । लज्जावती राजसहस्रमध्ये मन्युप्रगल्भां गिरमुज्जहार ।। २८९ ॥ यद्यार्यपुत्रान्न परः प्रेमृष्टश्चित्तेन वाचा मम कर्मणा वा । तत्सत्यसंकल्पगुणेन तेन ददातु माता वसुधावकाशम् ॥ २९० ॥ अथोत्थिता मूर्तिमती क्षितिस्तामङ्के समादाय तलं विवेश । काकुत्स्थहृद्भङ्गभियेव काञ्चया सुताररावेण निवार्यमाणा ॥ २९१ ॥ रामस्ततः प्राप्तवधूनिराशः पातालसंहारविलाससज्जः । निवारितः पद्मभवेन साक्षात्स्नेहार्द्रतां पुत्रयुगे बबन्ध ॥ २९२ ।। अथाश्वमेधे विधिभाजि पूर्णे कालेन साक्षाद्विजने समेत्य । संस्मारितो वैष्णवधाम रामः सहानुजैर्दिव्यपदं प्रपेदे ॥ २९३ ।। अथ स भगवान्विष्णुः कृत्वा जगन्निरुपप्लवं दशमुखभयं हृत्वा हर्षप्रदस्त्रिदशश्रियः । पवनतनयं धृत्वा धीरोन्नतं सविभीषणं भुवनभवने कीर्तिस्तम्भं जगाम सुधाम्बुधिम् ॥ २९४ ।। इति श्रीव्यासदासापराख्यक्षेमेन्द्रविरचिते दशावतारचरिते श्रीरामावतारः सप्तमः । श्रीकृष्णावतारोऽष्टमः । अहो कालसमुद्रस्य न लक्ष्यन्तेऽतिसंतताः । मज्जन्तोऽन्तरनन्तस्य युगान्ताः पर्वता इव ॥ १ ॥ १. 'प्रसृष्टः क-ग-घ.

८ श्रीकृष्णावतारः] दशावतारचरितम् । युगदीर्घ प्रयातेऽथ काले दिनक्ष(ग)णक्रमैः । कैटभारिं पुनर्भूमि रार्ता शरणं ययौ ॥ २ ॥ सा ददर्श सुधाम्भोधौ प्रबुद्धं शेषशायिनम् । विश्वरूपं फणारत्नसहस्रप्रतिबिम्बितम् ॥ ३ ॥ सुखप्रबोधपृच्छान्ते चतुर्मुखमुखैः सुरैः । मुनिभिर्नारदाद्यैश्च प्रेणतैः परिवारितम् ॥ ४ ॥ पादसंवाहनव्यग्रां श्रियं प्रेमामृतहदे । वहन्तं हृदये व्यक्तं कौस्तुभप्रतिबिम्बिताम् ॥ ५ ॥ मही मरकतश्यामा व्यक्तमौक्तिकभूषणा । खलक्ष्मीर्लक्ष्यनक्षत्रमालेव प्रणनाम तम् ॥ ६ ॥ सा प्रणामचलत्कर्णोत्पलालिखनसंनिभाम् । विज्ञप्ति ज्ञातवृत्तस्य चक्रे विश्वान्तरात्मनः ॥ ७ ॥ भगवन्भवतः सर्वलोकचिन्तातिहारिणः । वात्सल्यपेशलस्याग्रे पुनरुक्तं निवेद्यते ॥ ८॥ हिरण्याक्षबलात्क्षिप्ता निक्षिप्तक्षितिभृत्कुला । समुत्क्षिप्ताक्षयैवाहं वराहवपुषा खयम् ॥ ९॥ कालनेमिप्रभृतयः पुरा मद्भारशान्तये । हता भवता दैत्यास्तेऽवतीर्णाः पुनर्नृपाः ॥ १० ॥ उग्रसेनस्य तनयः क्रूरः क्रूरतरानुगः । वृष्णिवंशे समुत्पन्नः कालनेमिर्महासुरः ॥ ११ ॥ अनन्तदैत्यभूपालबलभारभरार्दिता । अधर्मबहुलं कालं न सहे वोढुमक्षमा ॥ १२ ॥ श्रुत्वैतदुक्तमुर्वर्या भगवान्सस्मिताननः । करिष्याम्युचितं सर्वमित्युक्त्वा विससर्ज ताम् ॥ १३ ॥ पृथिव्यामथ यातायां विधा(ज्ञा)य हृदयस्थितम् । विष्णोः समीहितं सर्व सुरान्प्राह पितामहः ॥ १४ ॥ ये .१. अथोद्गता' ख. २. 'समन्तात्' स्व.

काव्यमाला। भूमिभारावताराय देवोऽवतरति क्षितिन् । यदुवृष्णिकुले याति वसुदेवस्य पुत्रताम् ॥ १५ ॥ यूयमंशावतरणं कुले कुरुत भारते । इत्युक्ते पद्मगर्भेण तथेत्युक्त्वा ययुः सुराः ॥ १६ ॥ ततः कदाचित्प्रययौ नारदो मथुरां पुरीम् । खच्छन्दवादनिरतः कलिकेलिकुतूहली ॥ १७ ॥ स रहः कंसमभ्येत्य प्राप्तपूजासनोऽवदत् । धर्ममार्गेण वर्तख रक्षेमां विद्रुतां श्रियम् ॥ १८ ॥ पितृष्वसुस्ते देवक्या यः समुत्पद्यते सुतः । स सुरैनिश्चितोऽन्ताय विभूतेर्जीवितस्य ते ॥ १९ ॥ उक्त्वेति याते देवर्षों कंसः पापी पितृष्वसुः । देवक्याः किंकरान्गर्भनिधनाय समादिशत् ॥ २० ॥ हतेषु षट्सु बालेषु वसुदेवसुतेष्वथ । सपल्यै सप्तमं गूढं रोहिण्यै देवकी ददौ ॥ २१ ॥ स विष्णोः शयनाभ्यासाद्भूभारभरणक्षमः । अवतीर्णः शिशुः शेषः प्रीतिमन्तर्वहन्निव ॥ २२ ॥ अथाष्टमं सुतं जातं वसुदेवः वयं निशि । गोकुले नन्दगोपस्य निदधे वधशङ्कितः ॥ २३ ॥ नन्दपन्या यशोदायाः कन्यां विनिमयेन सः । आदाय गूढसंचारी निजजायान्तिकेऽक्षिपत् ॥ २४ ॥ सा कन्या करुणाहीनैः प्रबुद्धस्थ किंकरैः । शिलायामाहता दीप्ता विद्युल्लेखेव खं ययौ ॥ २५ ॥ साष्टादशभुजा कान्ता प्रदीप्तविविधायुधा । कंसस्यायुः पिबन्तीव भेजे विन्ध्यवसुंधराम् ॥ २६ ॥ रोहिणीभवनाज्ज्येष्ठमपि गूढमतिः सुतम् । वसुदेवः क्षयभयानन्दगोपगृहेऽत्यजत् ॥ २७ ॥ १. 'कुर्वन्तु' क. २. 'मथुरां नारदः' ख. ३. 'विदितः' स. ४. 'वि' क.

८ श्रीकृष्णावतारः] दशावतारचरितम् । तौ संकर्षणकृष्णाख्यौ यशोदा दधती ययौ । विश्रुता दानसंभोगौ श्रीरिव स्पृहणीयताम् ।। २८ ॥ संकर्षणः शशिसितः कृष्णो मरकतद्युतिः बभतुः प्रथमोद्भेदौ गङ्गायमुनयोरिव ॥ २९ ॥ खदेहरक्षायत्नेन बालोद्दलनशालिना । कंसेनान्यत्कृतं मोहादन्यदेवेने निर्मितम् ॥ ३० ॥ कलयति धिया स्वार्थ सर्वः सदाभ्युदयेच्छया किमपि यतते तावद्यावत्फलं परिदृश्यते । तदनु च विधिः क्रीडोन्मत्तः करोति तदश्मना जलभृतधटं भक्त्वा दूरादिवाशु जैलस्थितिम् ॥ ३१ ॥ राज्याझै गोकुले बालौ कंसः श्रुत्वा तयोः क्षये । चक्रे गूढोद्यमोपायान्गर्भव्यत्ययशङ्कितः ॥ ३२ ॥ स्तन्यतृप्तः शिशुः कृष्णः कदाचिन्निद्रयान्वितः । पादप्रहारेणाविद्धं बभञ्ज शकटं महत् ॥ ३३ ॥ विसृष्टामथ कंसेन पूतनां निशि राक्षसीम् । विषास्तनदां कृष्णश्चक्रे निष्पीतजीविताम् ॥ ३४ ॥ किंचित्संचरणाभ्यासे पाणिमालम्ब्य यत्नवान् । दत्तद्वित्रिक्रमश्चक्रे हर्ष मातुस्त्रिविक्रमः ॥ ३५ ॥ ततः कुमारयोः पातभीत्या हरिणवेगयोः । अविश्रान्तानुसरणे यशोदा श्रममाययौ ।। ३६ ॥ उद्विग्ना गतिविघ्नाय कृष्णस्य जननी व्यधात् । बलिबन्धनधीरस्य दाना बन्धमुलूखले ॥ ३० ॥ दामोदरस्ततो नाम्ना समाकर्षनुलूखलम् । मध्येन निर्ययौ वेगाद्यमलार्जुनवृक्षयोः ॥ ३८ ॥ संलग्नोलूखलाकर्षात्पेततुस्तौ महागुमौ । यमुनाक्षोभसंभूतभयकम्पितगोकुलौ ॥ ३९ ॥ १. 'विनतादान' ख-ग. २. 'दैवविनिर्मितं' ख-ग. १. 'जन' क-ग..

काव्यमाला।।
ततः कृष्णाश्रयेण श्रीर्गोकुले जितनन्दना ।
खभावरमणीयेऽपि रमणीयतराभवत् ॥ ४० ॥
स्निग्धश्यामास्तरुतृणभुवः संपतन्निर्झरौघा
मेघप्रेमोन्मुखशिखिमुखस्थायिनो मन्थघोषाः ।
गायद्गोपीस्तिमितहरिणीहारिणः काननान्ताः
कान्ताश्चक्रुः प्रमदसमय(मसमं) यामुनाः कूलकच्छाः ॥ ४१ ।।
ततः स्तोकपरिम्लाने शैशवे शिशिरोपमे ।
माधवस्याभवत्किंचिदुन्मुखी यौवनद्युतिः ॥ ४२ ॥
ततः कृष्णस्य गोपालडिम्भमण्डलवर्तिनः ।
बभूव कन्दुकोद्दामक्रीडासु निबिडो रसः ॥ १३ ॥
पतिते यमुनाकूलसलिले केलिकन्दुके ।
ददर्श कालियस्योगं नागस्य भवनं हरिः ॥ ४४ ॥
व्याप्तं कल्पान्तरजनीकवलीकारविभ्रमैः ।
कृतान्तमहिषश्यामैर्निस्त्रिंशविमलै लैः ॥ ४५ ॥
कालः कथं वसतीह(त्येष) भयस्यापि भयंकरः ।
स तैराकृष्यमाणोऽपि कृष्णस्तदर्शनोद्यतः ॥ ४६॥
कदम्बशाखामालम्ब्य भवनोपान्तवर्तिनीम् ।
पपात दुरितोत्पातः सावेगः क्षुभितेऽम्भसि ॥ १७ ॥
भ्रमद्यमभुजाभेन शौरिभोगेन भोगिनः ।
आलिङ्गितस्तमाधूय वेगेनाचक्रमे शिरः ॥ ४८ ॥
पादाक्रान्तफणस्य फूत्कृतिविषावेगोष्णनिःश्वासिनः
कोपक्केशविशेषदन्तकषणप्रोद्भूतधूमैर्हरेः ।
कालभूभ्रमभङ्गुरैर्वृतमभूत्पातालमूलोद्गतैः
कालैः कलियबान्धवैरिव जलं साहायकाभ्यागतैः ॥ ४९ ॥
पीडितः शरणं शौरिं स यातस्तद्विरा ययौ ।
रौद्रः समुद्रं तत्पादमुद्रया ता_निर्भयः ॥ ५० ॥

८ श्रीकृष्णावतारः] दशावतारचरितम् ।
ततस्तालवने दैत्यं धेनुकं खररूपिणम् ।
जघान गोकुले विघ्नं हेलयैव हलायुधः ॥ ५१ ॥
अथ गोपालरूपेण प्रलम्बो नाम दानवः ।
कन्दुकक्रीडया प्रीतिं विदधे रामकृष्णयोः ॥ ५२ ॥
कदाचित्स्कन्धमारूढस्तेन वेगवता हृतः ।
रामस्तस्याकरोन्मुष्टिपातेन शतधा शिरः ॥ ५३ ॥
अथ गोवर्धनगिरौ शक्रयागमहोत्सवे ।
भक्ष्यभोज्यमहारम्भसंभारो गोकुलेऽभवत् ॥ ५४ ॥
पूज्यः पर्वत एवायमित्युक्त्वा शक्रपूजनम् ।
निवार्य कृष्णस्तद्भोज्यं बुभुजे दिव्यरूपभृत् ॥ ५५ ।।
ततः प्रम्लानमानेन मन्युना शतमन्युना ।
प्रेरिता घननिर्घोषघोरमेघाः समाययुः ॥ ५६ ॥
तैर्ग्रस्तवासरालोकैनिंगीर्णभुवनैर्धनैः ।
आहूतेव महारावैः कालरात्रिरदृश्यत ॥ ५७ ।।
विरावकृतहृद्धट्टमेघसंघट्टविप्लवे ।
खं क्षितौ जलरूपेण भयभग्नमिवापतत् ॥ ५८ ॥
ते शक्रक्रोधसंनद्धाः शक्रचापचिता घनाः ।
सद्यः पीतमिवाम्भोधि वमन्तः क्ष्मामपूरयन् ॥ ५९॥
संरम्भेण घनाघनैर्घनतरैः संपीड्यमानैमिथः
प्रोद्भूतेऽथ पृथुव्यथारवनिभे संस्फूर्जिते गर्जिते ।
मीत्या कापि ययुः क्षितिच्युतनभःसंभावनाकम्पिताः
कल्पान्तागमशङ्किता इव महानीहाररुद्धा दिशः ॥ ६०॥
धारासाराशनिनिपतनक्लेशसंपीडितानां
सीदद्वत्सप्रणिहितदृशां शीतवातार्दितानाम् ।
वेगक्षोभागतगिरिनदीनाददीनाननानां
प्राणत्राणं कचिदपि गवां नाभवद्विह्वलानाम् ॥ ६१ ॥

काव्यमाला। अङ्गभङ्गं गवां दृष्ट्वा गोविन्दः करुणाकुलः । त्राणाय गिरिमुद्धृत्य गोवर्धनमधारयत् ।। ६२ ।। छत्रीकृते गिरौ तस्मिन्दोर्दण्डधृतिनिश्चले । गोगणानां सगोपानां पुनर्जीवागमोऽभवत् ॥ ६३ ।। उत्क्षिप्तेऽसुरवैरिणा क्षितिधरे क्षीरोदधिः क्षोभवा- न्भेजे भीतिमकाण्डदण्डमथनक्षोभाभिशङ्की पुनः । विन्ध्यस्यासमयोद्गमं विगणयन्मन्ये श्वसन्कम्पवा- न्हस्तन्यस्तसमस्तशापसलिलः क्षोभादगस्त्योऽभवत् ॥ ६४ ।। अवहदहतधैर्ये दोष्णि कृष्णस्य भार- श्रमशमनधियेव क्ष्माधरः सोपरोधः । अविरतनिपतद्भिर्निर्झराणां सहस्रैः स्फटिकविकटर्जम्भस्तंभसंभारशोभाम् ॥ ६५ ॥ गोवर्धनस्य धरणे व्रजसुन्दरीणां साहायकोच्चचरणोचितदोलतानाम् । अप्राप्तिलोलकरविभ्रममाकलय्य कृष्णः स्मितांशुधवलाधरपल्लवोऽभूत् ॥ ६६ ॥ कृष्णेनाश्चर्यनिधिना गोगणे परिरक्षिते । लजयेव न्यवर्तन्त पवनोच्छासिनो घनाः ॥ ६७ ॥ ततः शक्रः समभ्येत्य प्रसाद्य विजने हरिम् । कामधेनुगिरा तस्मै गोपालाधिपतां ददौ ॥ ६८ ॥ अथ प्रपेदे गोविन्दः प्रौढं मदमिव द्विपः । सहकारतरुः कान्तं वसन्तमिव यौवनम् ॥ ६९ ॥ तस्य सानन्दशृङ्गारे वयसि व्यक्ततां गते । बभूवाभिनवोत्साहः प्रतापाभरणेन सः ॥ ७० ॥ तस्य निर्भरतारुण्यलावण्यं नयनामृतम् । पिबन्तीनामभूगोपकान्तानां मदविभ्रमः ॥ ७१ ।। १. 'करुणालयः' क-ग. २. 'जम्ब' ग; 'जृम्भ' घ.

८ श्रीकृष्णावतारः] दशावतारचरितम् । व्यामूढस्खलितार्धविक्लवपदा वाणी गतिश्चास्फुटा चित्तं भ्रूयुगलं च वीचिरचनासंवादि दोलायितम् । निद्रा किं च दरिद्रतामुपगता लज्जा च सज्जा मरे क्षैब्यं माधवयौवनद्युतिपदे गोपाङ्गनानामभूत् ।। ७२ ।। खैराचारस्मरपरिचये तत्र शौरेः प्रवृत्ते वेषालापोद्धतगतितयान्योन्यसंभाव्यमाने । आसोल्लज्जाविनयनिभृता व्यक्तसंसक्तमन्यु- स्तासामन्तः कलुषकलनानल्पसंकल्पजल्पः ॥ ७३ ॥ कर्णाभ्यर्णविकीर्णलोचनरुचः सन्त्येव चन्द्रानना- स्त्वत्तोऽन्या नवयौवनोन्नतिलसल्लावण्यगण्याः परम् । यासामेष हरिर्मनोरथशतैरर्थी क्षणालोकने किं कृष्णेन विलोकिताहमिति ते रूढः प्रमूढे मदः ।। ७४ ॥ अन्तर्लोचनयोविंशत्यविरतं लमश्च पाणौ गति निर्बन्धेन रुणद्धि धावति मुहुर्दशा भिकामोऽधरे । सख्यः किं करवाणि वारणशतै वापयाति क्षणं कृष्णः षट्चरणः प्रयाति चपलः पुष्पोच्चये विघ्नताम् ॥ ७५ ॥ कर्पत्यंशुकपल्लवं परिहृतः प्रत्याहृतिं नोज्झति प्रक्षिप्तश्चरणे लैंगत्यविरतं तिष्ठत्यदृश्यः पथि । अङ्गान्युल्लिखति प्रसह्य यदि वा लब्धावकाशः कचि- किं शौरिर्घनकुञ्जवञ्जुललताजालान्तरे कण्टकः ॥ ७६ ॥ खच्छाम्बुप्रतिबिम्बवऋतिलकोल्लेखादरालोकनं यत्नेनोच्चितचूतपल्लवलवे कर्णावतंसस्पृहा । एतस्याः कुसुमेषु बन्धनधिया केशावकाशक्रिया केनायं नवरागयोगगुरुणा वेषोपदेशः कृतः ।। ७७ ।। १. 'मूढप्रस्खलि' ख-ग. २. 'लीलायितम्' ख-ग. ३. 'गलति' क-स. ४. 'वन' ग; 'नग' ख. दशा.

८२.
काव्यमाला।
कोऽयं याति लघुकमैरहमहं कस्त्वं सखि श्यामला
श्वासायासवतीक यासि तिमिरे तं नष्टमिष्टं मृगम् ।
अन्वेष्टुं यमुमातटीमुपगता भीतास्मि भूतभ्रमा-
न्मूढे कृष्णभुजंग एष विटपे कौटिल्यलीनः खितः ॥ ७८॥
संतप्तैव हता करोमि किमहं तां प्रेषयन्त्या मया
लब्धं मौग्ध्यफलं भुजंगनिकटं वक्रां द्विजिहां सखीम् ।
घिग्दूती तरुणीं करोति किल या खीकृत्य दूरे प्रियं
हस्तोत्सृष्टखगः प्रयत्ननिचयैर्नायाति तृप्तोऽन्यतः ।। ७९ ।।
जानेऽन्यासहितं विलोक्य कुटिलं तं कूटकोषं त्वया
प्रत्यक्षागसि निवासहनया कोपेन दष्टोऽपरः ।
श्वासायासविसंस्थुला न च कुचोत्कम्पं विमुच्चस्यहो
मोहाहुःसह विप्लवे चपलया किं प्रेषिता त्वं मया ।। ८० ॥
न स सखि यमुनायास्तीरवानीरकुले
गहनभुवि भवत्या मत्प्रियः कापि दृष्टः ।
सुमुखि फलमियत्तु नेहमोहात्त्वयाप्तं
कुचमुखलिखितेयं कण्टकोल्लेखरेखा ॥ ८१ ॥
इत्यभून्मदनोद्दामयौवने कालियद्विषः ।
गोपाङ्गनानां संरम्भगर्भोपालम्भविनमः ॥ ८२॥
प्रीत्यै बभूव कृष्णस्य श्यामानिचयचुम्बिनः ।
जाती मधुकरस्येव राधैवाधिकवल्लमा ॥ ८३ ॥
लावण्यं नवनीतसारममृतस्येवोद्वहन्त्यो नवं
तन्वाना द्युतिदिग्धदुग्धधवलां मुग्धसितांशुच्छटार ।
मायद्यौवनकुम्भिकुम्भसुभगाभोगस्तनोचम्मिता
बैर्य कस्य न दीर्षनेत्रबलनैर्ममन्ति गोपालनाः ॥७॥
कदाचिदय यातेऽस्तं गमस्तिमति शर्वरी ।
भाययौ गोपकान्तेन शनैः कृष्णाभिसारिणी ॥ ८५॥

८ श्रीकृष्णावतारः] दशावतारचरितम् । शशाहाकृतसंकेतसमागमविलोकिनी । क्षपा प्रतीक्षमाणेव तमःश्यामाम्बरा बभौ ॥ ८६ ॥ अयोद्ययौ सुधास्यन्दखेदापसरत्करः । तुल्वालिङ्गनजामीष्यां दिशनिव दिशां शशी ॥ ८७ ॥ ततस्तारुण्यवानिन्दुर्मीलत्तरलतारकम् । मुखं चुचुम्ब श्यामायाः कराकृष्टतमःपटः ॥ ८८ ॥ त्यक्त्वा पूर्वा स्पृशन्किचिदक्षिणां च तथोत्तराम् । शिश्रिये पश्चिमामाशां सुधांशुबहुवल्लभः ॥ ८९ ॥ अत्रान्तरे समभ्यायादरिष्टो दुष्टचेष्टितैः । नामः शृगवानगिरिव दैत्यो वृषाकृतिः ॥ ९ ॥ किंचित्कुञ्चितकण्ठकायकषणक्लेशत्रुटत्पादप- प्रोद्भूतोत्कटटांकृतैर्गललुठद्गम्भीरघोरखनैः । सीत्कारश्वसितैः खुराप्रविषमोत्खातावकीर्णक्षिते- खस्योद्गारभरेण भममभवत्कम्पाकुलं गोकुलम् ॥ ९१ ॥ तद्भीतिच्युतगर्भासु गोषु गोपगणे गते । कृष्णं गोपाङ्गनाः कण्ठे जगृहुर्भयविह्वलाः ॥ ९२ ॥ शृङ्गप्रहाराभिमुखं दोष्णा कृष्णस्तमुद्धतम् । निपीब्य कण्ठे कुण्ठेच्छं चकार गतजीवितम् ॥ ९३ ॥ निष्पिष्टे शौरिणारिष्टे कंसामात्ये महौजसि । सत्कथा पप्रथे लोके पृथुविस्मयकारिणी ॥ ९४ ॥ ततः प्रभाते कंसस्य सुहृत्केशी महासुरः । माययौ हयरूपेण खुरापातक्षतक्षितिः ॥ ९५॥ करालो मांसलः शृश्री कृष्णतालविकर्णवान् । बक्षितः ककुदावर्ती जगत्संक्षयलक्षणैः ॥ ९६ ॥ १. 'यामिन्यास. २. 'चेतनः' घ. ३. 'सीत्कारोच्छुसित।' च.

काव्यमाला। तस्य हेषितनिर्घोषैरैः खुररवेण च । त्रस्तगोगणमुद्विग्नगोपं वनमकम्पत ॥ ९७ ॥ शूत्कारश्वसितेन तर्जितमरुत्कोपात्तमृत्युस्थिति- स्तेजोनिर्जितपावकः श्रमजलैर्विक्षिप्तपाथःपतिः । निश्चेष्टां वसुधां विधातुमुदितः कल्पान्तकालोपमः सोऽभूदाकुललोकपालविभवावष्टम्भकृदुःसहः ॥ ९८ ॥ दन्ताभिघातसज्जस्य तस्यास्ये द्विगुणीकृतम् । उत्क्षिप्तानखुरस्याशु न्यदधद्भुजमच्युतः ॥ ९९ ॥ तद्दन्तकषणेनापि निर्विघ्नघनविभ्रमः । कृष्णप्रसारितो बाहुः केशिवकं द्विधा व्यधात् ॥ १०॥ भने निपतिते तस्मिन्कंसस्येव मनोरथे । अभूजम्भारिभवने ताह्मध्वजजयखनः ॥ १०१॥ अत्रान्तरं वृष्णिवृद्धैः सह खसचिवक्षयम् । चिन्तयन्मन्त्रभवने कंसः प्रोवाच निःश्वसन् ॥ १०२ ॥ इयं जनितलज्जेव मानम्लानिर्महीयसी । यन्मेरुतुल्यैर्युष्माभिः क्रियते तृणचिन्तनम् ॥ १०३ ॥ उद्धवः शनिरक्रूरः शतधन्वा विदूरथः । मोजाद्याश्च ममापूर्व शृण्वन्त्वसमविग्रहम् ॥ १०४ ॥ पितुः खसुः पतिर्वृद्धः स्नेहसंमानवृत्तिभिः । वसुदेवः स चास्माभिः पूजितः परिपूरितः ॥ १०५ ॥ खसुतौ तेन निन्यस्तौ गोकुले गूढचारिणौ । शोकातकाङ्कुरौ यौ मे विषपादपतां गतौ ॥ १०६ ॥ ज्ञातिभ्यो भयमस्तीति सत्यमाह महामतिः । विमीषणमतोपायैर्हन्यमानो दशाननः ॥ १०७ ॥ १. 'मन्त्रि' क-घ. २. 'न कृत' ब. ३. 'शहातहाकुलौ' ख.

८ श्रीकृष्णावतारः] दशावतारचरितम् । ८५. मर्मज्ञः खजनः पुंसां क्षये जागर्ति नापरः । शिक्षापक्षिभिराकृष्टाः क्षयं यान्त्येव पक्षिणः ॥ १०८ ॥ सदा दारूणि दह्यन्ते दारुजेन चे वह्निना । क्रिमिणा स्वागजातेन पात्यन्ते प्रौढपादपाः ॥ १०९ ।। मृज्जातलोहकुद्दालैः खन्यते मृण्मयी मही। खजातैर्निझरैनीताः कषद्भिर्भूधराः क्षयम् ॥ ११० ।। ज्ञातिप्रहारो निःशर्ममर्मपाती पराधिकः । लोहाधिका व्यथामस्नः करोत्यस्थिसुखः शरः ॥ १११ ॥ सहभोग्यामपि ज्ञातेनेच्छन्ति ज्ञातयः श्रियम् । काङ्कन्ति भूतिमन्येषां दूरालोकननिष्फलाम् ॥ ११२ ॥ किं कृतं सुकृतं तावद्वसुदेवेन धीमता । बन्धुद्रोहविदग्धेन गोपालौ कुर्वता सुतौ ॥ ११३ ।। उपेक्षितौ बन्धुधिया तत्सुतौ दयया मया । भुजच्छेदप्रवृत्तौ मे प्रयातौ चिन्तनीयताम् ॥ ११४ ॥ कृष्णेन निहतोऽरिष्टः स च केशी सुहृन्मम । तद्भात्रा मुष्टिना पिष्टः प्रलम्बः स च घेनुकः ॥ ११५॥ अधुना कोपविवलझूलतां नीतिमेतयोः । करोम्यहं यथा बालौ पुनर्नवं करिष्यतः ॥ ११६ ॥ इति कंसेन सावज्ञमन्तर्गम्भीरमन्युना । उक्ते तमुद्धवः प्राह षामुण्यविनयेद्धधीः ॥ ११७ ॥ राजन्न खजने कोपं कुपितः कर्तुमर्हसि । खीकार्याः सर्वथा कुद्धलुब्धभीतावमानिताः ॥ ११८ ।। कुद्धान्प्रसादनै धान्धनीतांश्च सान्त्वनैः । माननैरवमानार्तान्नयेद्भिन्नानभिन्नताम् ॥ ११९ ।। विभिन्नखीकारः शमयति नृपाणां रिपुभयं निजैर्जीवोच्छित्तिर्भवति कुपितैर्धातुभिरिव । १. 'समन्युः' ख. २. 'एव' ख. ३. 'चर्म' घ.

काव्यमाला। न वैरं वैरेण प्रशममुपयाति कचिदपि प्रदीप्तोऽमिः शान्ति व्रजति जलपुजैन शिखिना ॥ १२० ॥ बान्धवौ पुत्रसदृशौ रामकृष्णौ न ते परौ । लक्ष्मीरक्षा क्षितीशानां राजपुत्राभिरक्षणम् ॥ १२१ ।। समीपे सोमः परमुपसरन्मेषहननः खलनामे मूर्खः (मुख्यः) परपुरगतः शत्रुबलकृत् । हते तस्मिन्पापं किमपि कुलबीजाङ्कुरहति- ने दूरे नादूरे भवति सुखरक्ष्यः क्षितिपजः ॥ १२२ ॥ निरस्तः क्ष्माभुजा वन्धुः क्षीणवृत्तिर्विपद्गतः । तन्नामविक्रयोत्क्षेपैलेक्षितो दिक्षु भिक्षते ॥ १२३ ॥ परमं श्रीमतामेतन्माननामविनाशनम् । यद्यात्यपूरितो वन्धुः परस्योचानपाणिताम् ॥ १२१ ॥ त्वद्वन्धुसुतयो३व युक्ता गोपकुले स्थितिः । न यावद्विप्रकिर्णौ तौ तावत्खीकरणक्षमौ ॥ १२५ ॥ इत्युद्धवेनाभिहिते हिते सुविहिते श्रियः । अच्छिन्नदानव्रतवानक्रूरः कंसमभ्यधात् ॥ १२६ ॥ एकपात्रोचितां यस्य श्रियं नाश्नन्ति बान्धवाः । तस्यात्मपोषतोषस्थकोषक्लेशाय संपदः ॥ १२७ ॥ त्यागभोगभरोद्धृष्टा मानोन्मृष्टा महात्मनाम् । भान्ति भृत्यगृहोत्सृष्टा बन्धूच्छिष्टा विभूतयः ॥ १२८ ॥ भूतिमालोक्य विमुखा यस्य निःश्वस्य बान्धवाः । गच्छन्ति न विशेषोऽस्ति श्मशानस्य च तस्य च ॥ १२९ ।। रत्नाकरसमृद्धश्रीबन्धुर्यस्य त्वमीदृशः । स कृष्णः कानने शष्पशय्यापरिचिताकृतिः ॥ १३०॥ १. 'वन्धु'कम-ग.

८ श्रीकृष्णावतारः] दशावतारचरितम्। खकर्मभागिनः सर्वे निष्फलः खजनोऽर्थवान् । नातरकस्य शङ्खस्य हृता सुषिरताब्धिना ॥ १३१ ।। ज्ञातिर्नदीनः कृष्णस्तु दयया संविभज्यते । हेलोमिनिर्मितं मन्ये तेनैश्वर्य दिवौकसाम् ॥ १३२ ।। घेनुत्राणे शिखरिपतिना कृष्णदोष्णि स्थितेन श्रान्ते शके विफलजलदे लजिते शैलशत्रौ । लब्धाकाशप्रसभगतिना निर्झरोद्धातघोषै- हर्षस्पर्शः प्रकटित इव स्फीतफेनाट्टहासः ॥ १३३ ॥ मददलनविधाने कालियस्याहिभर्तु- दमनशमितशक्तेदेहसंदेहभाजः । शरणगमनदैन्यम्लानमानस्य कृष्णः शिरसि चरणमुद्रां ता_रक्षां चकार ॥ १३४ ॥ नामा मानमहोन्नतिं प्रतनुते बध्नाति शोभा गुणैः पुष्णात्याजिषु जिष्णुना शशिसितं भ्राजिष्णु दोष्णा यशः । हर्ष वर्षति निश्चलेन सहजप्रेम्णा च चित्तस्य यः स श्लाघ्यः सुकृतेन बान्धवमणिर्भाग्योद्भवैर्लभ्यते ॥ १३५ ।। अबन्ध्यसंगतिबन्धुः कृष्णतुल्योऽस्ति कस्तव । येन शक्रोऽपि गोपानां गौरवावनतः कृतः ॥ १३६ ॥ उक्तं निःशल्यकल्याणमस्माभिर्यदि मन्यसे । तत्त्वनिराहं गच्छामि कृष्णाहानकृतार्थताम् ॥ १३ ॥ विपुलः प्रस्थितश्चायं धनुर्यागमहोत्सवः । करोम्यहं तमुद्दिश्य केशवस्य निमन्त्रणम् ॥ १३८ ।। इत्यङ्करवचः श्रुत्वा कंसः कुटिलचेष्टितः । बजेति निःश्वसन्तुष्णमभ्यधात्तमधोमुखः ॥ १३९ ।। १. 'तद्विरा तब स.

काव्यमाला। अथ सज्जरथे हन्तुमरे व्रजमुद्यते । अमूञ्चन्द्रोदयोद्धृत इव वृष्णिकुलाम्बुधिः ॥ १४० ॥ अतिक्रम्याथ मथुरामक्रूरः प्रथितो रथी । अवापाग्रसरत्सैन्यः पर्यन्तग्राममेखलाम् ॥ १५१ ॥ प्रत्यग्रपाकविनमत्कलमक्षेत्रपतिभिः । हरितालरजःपुञ्जरञ्जिताभिरिवाचिताम् ॥ १४२ ॥ कदलीश्यामलारामवटवाटलतावृताम् । लम्बमानघनालाबुतुम्बकूष्माण्डमण्डलाम् ॥ १४३ ॥ वलत्कुटिलकल्लोलकुल्याकलकलाकुलाम् । द्राक्षासुशीतलतलस्थलीशय्याश्रयाध्वगाम् ॥ १४४ ॥ अध्वन्यजग्धपूर्वेक्षुशल्कशुक्लीकृतस्सलाम् । पाकपिङ्गलनारङ्गीवनैः संध्यान्वितामिव ॥ १४५ ॥ ययौ स पश्यन्निःशङ्कशुकाशननिवारणे । उदञ्चद्भुजलक्ष्योच्चकुचाग्राः शालिपालिकाः ।। १४६ ॥ स व्रजन्गोकुलोपान्तवनमालां व्यलोकयत् । उत्सरन्निर्झरासारस्निग्धश्यामलशाद्वलाम् ॥ १७ ॥ गोरक्षादक्षशबरैः कृतक्षुद्रक्षेसंक्षयाम् । घोरव्याघ्रपथावद्धयन्त्रकूटर्घटावटाम् ॥ १४८ ॥ वालीतालतमालसालकदलीपथ्यामलीश्यामलं खजूरार्जुनसर्जबिल्ववकुलप्लक्षाक्षलक्षाकुलम् । पर्यन्ते स ददर्श हर्षजननं स्फीतोपदेशं गवां निःश्वभ्रस्थलपुष्पशष्पशबलं निःसडलं गोकुलम् ।। ११९ ॥ मच्छिन्नोदितमन्थमन्थररवं निर्धोषमेघश्रम- आम्यन्मत्तमयूरनृत्तरुचिरं गोपागनागीतिभिः । २. 'द्रोणी' क. ३. 'सर्वेक्षु'क. ४. 'घटापटाम्' ग. १. 'पथि तां' ख. ५. 'निःसलो' ब-ग.

८ श्रीकृष्णावतारः] दशावतारचरितम् । निःस्यन्दस्थितमुक्तशष्पकवललीबागसारङ्गकं प्रीतिं प्राप स वीक्ष्य यामुनवलद्वीचिव्रजं गोकुलम् ।। १५० ॥ ततस्तत्सैनिकैः कृष्णः प्रथमाप्तैर्निवेदितम् । पितः पितृव्यमक्रूरं शुश्रावाभ्यर्च्यमागतम् ॥ १५१ ॥ घृतकुम्भदधिस्थालिसहस्रोपायनैः पुरः । प्रणम्यमानं गोपाग्र्यैर्ददर्शाङ्करमच्युतः ॥ १५२ ।। रथाप्रादवरुह्याथ लोलकुण्डलकङ्कणः(णम्) । दृष्ट्वा दामोदरं दूरादक्रूरः समचिन्तयत् ॥ १५३ ।। अयं स भगवान्विष्णुरवतीर्णः सनातनः । भुवो भारावताराय मां जगादेति नारदः ॥ १५४ ।। एष पद्मपलाशाक्षः श्रीमान्मरकतद्युतिः । निग्धलावण्यपीयूषैर्लिम्पतीव मनो मम ॥ १५५ ॥ वृष्णियादववंशस्य कियती स्पृहणीयता । अवतीर्णः वयं यस्मिन्भगवानेषु केशवः ॥ १५६ ॥ इति ध्यायन्प्रहर्षाश्रुसंरुद्धनयनः स्खलन् । अकुण्ठोत्कण्ठया शौरेरक्रूरोऽन्तिकमाययौ ॥ १५७ ।। पपात पादयोस्तस्य साग्रजः प्रणतोऽच्युतः। गाढालिङ्गनसंगत्या हृदयं प्रविशन्निव ॥ १५८ ॥ प्राप्तपूजासनः कृष्णं सोऽवदत्तन्मुखे दिशन् । प्रमोदविस्मयस्नेहबहुमानमयीं दृशम् ॥ १५९ ॥ कृष्ण त्वदर्शनानन्दसुधासंपूरिते हृदि । त्वत्संभाषणहर्षस्य कावकाशो विधीयताम् ॥ १६० ॥ वसुदेवस्य पुण्यानां पूर्णता किं दरिद्रता । यस्त्वां तनयमासाद्य स्वदृशाद्यापि नेक्षते ॥ १६१ ।। १. 'क्लेवाज' क-ख-ग.

काव्यमाना। मवतखिजगजन्मखितिसंहतिकारिणः । गूढजन्मकथा केन कथ्यते सर्ववेदिनः ॥ १२ ॥ सततं सहते तीनां त्वत्कृते कंसवाच्यताम् । बसुदेवश्चलत्येषा नूनं न भवितव्यता ॥ १३ ॥ जगद्धरणधीरेयं धन्या देवी वसुंधरा । भारावतारसंनद्धश्चित्ते वहसि यां सदा ॥ १६४ ॥ विस्मृता देवकी किं ते त्वन्नाम्नापि सुतस्तनी । त्वां विना या सुतं रामं कौसल्येवावसीदति ॥ १६५ ॥ धनुर्यागे विसृष्टोऽहं कंसेन त्वनिमन्त्रणे । त्वदागमनमानेन धन्या नन्दन्तु यादवाः ॥ १६६ ॥ तत्सर्व करमादाय प्रातः कंसस्य शासनात् । आयान्तु नन्दगोपाद्याः सर्वे समयवर्तिनः ॥ १६७ ॥ इत्यक्रूरवचः श्रुत्वा तमाभाषत केशवः । प्रातरेवाहमागन्ता त्वदाज्ञा केन लङ्घयते ॥ १६८ ॥ ततः प्रभाते संनद्धं रथमारुता सानुगाः । मथुरां ययुरक्रूरसंकर्षणजनार्दनाः ॥ १६९ ॥ कथं राधामनामन्यागतोऽहमिति माधवः । अरतिं म्लानतां चिन्तां ब्रजन्मेजे विनिःश्वसन् ॥ १७० ॥ यच्छन्गोकुलगूढकुञ्जगहनान्यालोकयन्केशवः सोत्कण्ठं वलिताननो वनभुवा सख्येव रुद्धाञ्चलः । राषाया न न नेति नीविहरणे वैश्वव्यलक्ष्याक्षराः समार सरसाध्वसाद्भुततनो रावोक्ति(?)रिक्ता गिरः ॥ ११ ॥ गोविन्दस्य गतस्य कंसनगरी व्याप्ता वियोगामिना सिम्पश्यामलकूललीनहेरिणे गोदावरीगहरे (1)। ...... १. 'संहार' ख. २. 'मन्ये' क-ख. ३. 'कुजगूढ' ख. ४. 'हरिणी' ग-घ.

८ श्रीकृष्णावतारः] दशावतारचरितम् ।
रोमन्थस्थितगोगणैः परिचयादुत्कर्णमाकर्णितं
गुप्तं गोकुलपल्लवे गुणगणं गोप्यः सरागा जगुः ॥ १७२ ।।
ललितविलासकलासुखखेलनवलनालोमनशोभनयौवनमानितनवमदने
अलिकुलकोकिलकुवलयकज्जलकालकलिन्दसुताविवलजलकालियकुलदमने।
केशिकिशोरमहासुरमारणदारुणगोकुलदुरितविदारणगोवर्धनधरणे
कस्य न नयनयुगं रतिसज्जे मजति मनसिजतरलतरने वररमणीरमणे १७३
उद्गीयमाने गुणसागरस्य गुणे गुणे रागरसेन शौरेः ।
गोपाङ्गना गूढरसानुरागा मुहुर्मुहुर्मोहहता बभूवुः ॥ १७४ ।।
गोविन्दे गुरुसंनिधौ परवशावेशादनुक्त्वा गते
सुप्तानां बकुलस्य शीतलतले खैरं कुरजीदृशाम् ।
खमालिङ्गनसंगतेऽङ्गलतिकाविक्षेपलक्ष्या मुहु-
मुग्धा वञ्चक मुश्च मुञ्च कितवेत्युच्चेरुरुच्चैर्गिरः ॥ १७५ ।।
राधा माधवविप्रयोगविगलज्जीवोपमानैर्मुहु-
र्बाष्पैः पीनपयोधराप्रगलितैः फुल्लत्कदम्बाकुला ।
अच्छिन्नश्वसनेन वेगगतिना व्याकीर्यमाणैः पुरः
सर्वाशाप्रतिबद्धमोहमलिना प्रावृण्नवेवाभवत् ॥ १७६ ॥
ज्ञात्वा कंसः समायान्तौ कुमारौ रामकेशवौ ।
चाणूरमुष्टिको मल्लौ विदधे तद्वधोद्यतौ ॥ १७७ ॥
अथ राजपथं प्राप्तौ बलात्संकर्षणाच्युतौ ।
राजाई चक्रतुश्चारुमाल्याम्बरविलेपनम् ॥ १७८ ॥
तौ विचित्राम्बरधरौ सग्विणौ चन्दनाचितौ ।
जनतानन्दजननौ राजद्वारमवापतुः ॥ १७९ ॥
हर्म्यस्था देवकी दृष्ट्या कृष्णं कमललोचनम् ।
बाष्पसंख्दनयना मुमोह प्रसुतस्तनी ॥ १८०॥
अथ राजाज्ञयोत्सृष्टं महामात्राडशेरितम् ।
गजं.कवल्यापीयं ददर्शयाम्तमच्युतः ॥ ११॥

काव्यमाला। क्रोधान्धं ममदोषदुःसहतरं भूभारभूताकृति कुर्वाणं करदण्डकृष्टजनताजीवापहारं मुहुः । मातङ्गं कुनृपोपमं मुररिपुर्दृष्ट्वा प्रहारोद्यतं हस्तोत्पाटितया जघान निजया निर्दारितं दंष्ट्रया ॥ १८२ ॥ अथ राजाज्ञया मल्लनागौ चाणूरमुष्टिकौ । कुमारयोरभिमुखौ चक्रतुर्जनसंक्षयम् ॥ १८३ ॥ जानुबन्धभुजाकर्षतलाघातघने रणे । कृष्णश्चाणूरमवधीन्मुष्टिकं च हलायुधः ।। १८४ ॥ भुजयोरिव कंसस्य मल्लयोश्चयुतयोस्तयोः । भ्रूभङ्गभीषणस्योचैरुच्चचारोत्कटं वचः ॥ १८५ ।। वध्यतां वसुदेवोऽयं क्रियतां तत्सुतक्षयः । विधीयतां च गोपानामुचितं राजशासनम् ॥ १८६ ।। कंसस्येति ब्रुवाणस्य मदोदामस्य गर्जतः । दुष्टद्विपस्येव हरिर्वेगेनान्तिकमाद्रवत् ॥ १८७ ।। संत्रस्ते वेत्रिसंघे नवभयसमयोद्धान्तसामन्तचक्रे हस्तसस्ते तरुण्याः शशिकरधवले चामरे विहलायाः । कृष्णः कंसं चकर्ष प्रविलुलितसितोष्णीषविश्लेषकेशैः क्रोधामधूममालामिव कुसुमचलद्धृनमालां दधानम् ॥ १८८ ।। आकृष्टस्य सुरारिणारुणमणिव्याकीर्णदीर्घद्युति- मौलिर्वक्षसि मौक्तिकांशुशबलः कंसासुरस्य च्युतः । व्यक्तोऽभून्नरसिंहशुभ्रनखरव्यापारविश्रः क्षणं दीर्णस्येव पुनर्हिरण्यकशिपोः स्फीतः सुतासृग्भरः ॥ १८२ ॥ हत्वा दूरतराकृष्टं मदान्धं कंसकुञ्जरम् । उग्रसेनं विदघे राज्ये तजनकं हरिः ॥ १९० ॥ १. 'मौष्टिक', कच. २. 'पुरो' कस.. ३..'च विधे' कम ८ श्रीकृष्णावतारः] दशावतारचरितम्। पादयोर्वसुदेवस्य देवक्याश्चाच्युतः पतन् । बभूवानन्दनिस्पन्दनिबिडालिङ्गनातिथिः ॥ १९१ ।। आविर्भूताः वयं विद्या कलाश्च सकलास्ततः । निनाय स्पृहणीयत्वमवधानेन माधवः ॥ १९२ ।। दक्षिणापथनाथस्य भीष्मकस्यात्मजां हरिः । जहार रुक्मिणी कन्यां लक्ष्मी जन्मान्तरागताम् ॥ १९३ ॥ रुक्मिण्यामथ कृष्णस्य प्रद्युम्नः प्रथमः सुतः । जाम्बवत्यामभूत्साम्बः प्रतिबिम्बनिभौ पितुः ॥ १९४ ।। सुन्दरीणां सहस्राणि षोडशान्तःपुरे हरेः । बभूवुस्तासु पुत्राणां लक्षसंख्योऽभवद्गणः ॥ १९५ ॥ नाडायनीं चन्द्रसेनां प्रद्युम्नः प्राप वल्लभाम् । यस्यामजीजनत्पुत्रमनिरुद्धं मनोभवम् ॥ १९६ ॥ ततः शक्रगिरारुह्य गरुडं गरुडध्वजः । गगने दैत्यचक्राणां चक्रे चक्रायुधः क्षयम् ॥ १९७ ।। मुरसुन्दहयग्रीवनरकाद्या महासुराः । प्रययुश्चक्रिचक्रानौ क्षिप्रासङ्गपतङ्गताम् ॥ १९८ ॥ जरासंधेन संरुद्धां मागधेन प्रमाथिना। मथुरामथ संतज्य सानुगः प्रययौ हरिः ॥ १९९ ॥ द्वारकामथ कंसारिः पश्चिमाब्धितटे व्यधात् । जितलङ्कालकानाकनागेन्द्रनगरी पुरीम् ॥ २० ॥ बलात्क्षीरोदजन्मानं पारिजातं जनार्दनः । हृत्वा शक्रपुरोद्यानाद्वारकायां न्यवेशयत् ॥ २०१ ।। अत्रान्तरे कंससुहृत्करालः कालविग्रहः । प्रतिज्ञां कालयवनश्चक्रे वृष्णिकुलक्षये ॥ २०२॥ कृष्णस्तं दुर्जयं मत्वा निःसहायो भुजायुधः । बुद्धियुद्धे धियं धृत्वा ययौ यवनमण्डलम् ॥ २०३ ॥ दशा. ९ काव्यमाला। हेमरत्नमयं तस्य प्रविश्य भवनं हरिः । भयप्रदं यमस्यापि ददर्श यवनेश्वरम् ।। २०४॥ सोऽपि कृष्णं विलोक्यैव पतितं भुजगोचरे । मनोरथशतावाप्तं जिघृक्षुस्तं समाद्रवत् ॥ २०५॥ तस्मिन्नभिद्रुते रौद्रे जवेन प्रययौ हरिः । न च पश्चाच्चचालास्य यवनः पूर्वकर्मवत् ॥ २०६ ॥ चतुःसमुद्ररशनां विगाह्यापि महीं हरिः । दृष्ट्वा तमचलं पश्चाद्विवेश हिमवद्गुहाम् ॥ २०७ ।। तत्रेन्द्रार्थे हताशेषदैत्यस्य युगविस्तरः । यातः कालः प्रसुप्तस्य मुचकुन्दस्य भूपतेः ॥ २०८।। अर्धनिद्रादरिद्रं मां शयानं यः करिष्यति । स भस्मसाद्यास्यतीति राजर्षिः समयं व्यधात् ॥ २०९ ।। तस्य शय्याङ्कपर्यवक्रपादतलान्तरे । तस्थावलक्षितः शौरिः शङ्कासंकोचिताकृतिः ॥ २१० ॥ प्रविश्य कालयवनः शयानं वीक्ष्य भूपतिम् । कृष्णोऽयमिति निश्चित्य निर्निद्रमकरोत्पदा ॥ २११ ॥ प्रबुद्धः कालयवनं पादस्पृष्टवपुर्नृपः । दृशा ददाह निःशेषं निद्राशेषकषायया ॥ २१२ ॥ निर्दग्धे कालयवने पर्यकचरणाञ्चले । कायसंकलनालीनं दृष्ट्वा कृष्णमभाषत ॥ २१३ ॥ कस्त्वं परिमिताकारः कान्ताकर्णोत्पलद्युतिः । बिभर्षि गुणगम्भीरमहो माहात्म्यमुन्नतम् ॥ २१४ ॥ इयती हसतां याता सृष्टिः कालनिमीलिता । मद्गुल्फपरिमाणं यद्वपुः खल्पतरं तव ॥ २१५ ॥ इत्युक्तो मुचकुन्देन प्रश्रयप्रणयी हरिः । खवृत्तं लोकवृत्तं च सर्व तस्मै न्यवेदयत् ॥ २१६ ॥ १. 'उत्तमम्' क.

८ श्रीकृष्णावतारः] दशावतारचरितम् । कालं विशालं विज्ञाय मापालः क्षणवद्गतम् । दीर्घशय्यामिवोत्सृज्य भोगाशां समचिन्तयत् ॥ २१७ ॥ अहो कालगलत्सर्वभावभोगाभिमानभूः । खमप्रकारः संसारः पर्यन्तासत्यविभ्रमः ॥ २१८ ॥ भूमिः संकुचिता ग्रीष्मातपन्यस्तार्द्रचर्मवत् । वैराग्यं जनयत्येव जराजीर्णेव कामिनी ॥ २१९ ॥ तानि मित्राण्यतीतानि ते भृत्यास्ते च बान्धवाः । परेषु रमते नात्मा यूथभ्रष्ट इव द्विपः ॥ २२० ॥ यस्मिन्नित्यमधूपमं तदखिलं कालेन लीढं सुखं यातं हन्त पुरातनं विरसतां क्षुण्णेक्षुशल्कोपमम् । आमाम्रप्रतिमस्य नास्त्यभिनवस्यास्वादने स्वादता नेदानीं मम कृत्यमस्ति महता राज्येन भोगेन वा ॥ २२१ ॥ मेलिनाक्षमतां(?) भूतिः सा भूतिः शोभतेऽधुना। मुक्तिकान्ताधवलतां करोत्युभूलनेन या ॥ २२२ ।। इति संचिन्त्य राजर्षिः कैलासं तपसे ययौ । गत्वा कृष्णश्च वृष्णिभ्यः खवृत्तान्तं न्यवेदयत् ॥ २२३ ॥ बलेर्बाणासुरः सूनुरासीद्वाहुसहस्रवान् । यस्यास्थानसभासभ्यो भगवानभवद्भवः ॥ २२४ ॥ दीप्तरत्नगृहालोकैः सृजन्संध्यामिवानिशम् । बभूवाकाशगं यस्य नगरं शोणिताभिधम् ॥ २२५ ॥ उषा नामाभवत्तस्य कन्या लावण्यवाहिनी । आललम्बे स्तनतटीं यस्यां मजन्निव स्मरः ॥ २२६॥ युद्धं विना मे मिथ्यैव भाराय भुजकाननम् । इति तेनार्थितः शर्वः प्राप्स्यसीति तमभ्यधात् ॥ २२७ ॥ १. 'मनूपम खग, २. 'मलिनं क्षमता' घ..

९६ काव्यमाला। हरं कदाचिदुद्याने देव्या सह विहारिणम् । दृष्ट्ोषा खविवाहाय स्पृहां चक्रे घनस्तनी ॥ २२८ ॥ यः करिष्यति ते स्वप्ने कन्याभावव्यतिक्रमम् । भविष्यति स ते भर्ता तामुवाचेति पार्वती ॥ २२९ ॥ अथाययौ यौवनकृद्वल्लीनां कुसुमाकरः । कुर्वाणः सरसां प्रीतिलतां जनमनोवने ॥ २३० ॥ चञ्चचूतरजःपुञ्जपीताम्बरमनोहरः । अतसीकुसुमश्यामः शुशुभे नवमाधवः ॥ २३१ ॥ नम्रानना नवोद्भूतरजसा स्तबकस्तनी । मालती यौवनवती कन्येवोच्छासिनी बभौ ॥ २३२ ॥ ववुमलयनिःश्वासा इव चन्दनचुम्बिनः । पवनाः पन्नगीदंशशङ्कयेव शनैः शनैः ॥ २३३ ॥ कूजत्कोकिलकण्ठवंशविरुतैः स्फायिन्यवाप्ते परं चूतामोदमदाकुलालिपटलीवीणाखनखादुताम् । शिक्षाचक्षणदक्षदक्षिणमरुदत्तोपदेशकमै- मञ्जयों ननृतुर्मधूत्सवलसत्पुष्पायुधाराधने ॥ २३४ ॥ हेमहर्म्यप्रसुप्ताथ नीता खप्ने मनोमुषा । उषा केनापि कान्तेन शीलांशुकदरिद्रताम् ॥ २३५ ॥ तस्या धीधृतिचौरेण विज्ञाय हृदयं हृतम् । हेलाहरणभीत्येव हारस्तरलतां ययौ ॥ २३६ ॥ लज्जामजनविह्वला ननननेत्यल्पप्रलापोद्गति- नींवीमुक्तिनिरोधनिधुतिविधौ पाणिः कणकङ्कणः । शीतेनेव विकूजिता जवजुषः श्वासस्य शीत्कारिता तस्या अंशभयोच्चलत्कलकला काञ्ची सकम्पाभवत् ॥ २३७ ॥ १ 'घटस्वनी' ख. २. 'दक्षिण' ख-ग. ३. 'धीवृत्ति' क. ४. 'शरकारिता' ग.

८ श्रीकृष्णावतारः] दशावतारचरितम् । प्रबुद्धा वृत्तंकर्तव्या सा मुग्धा वनसत्यताम् । मन्यमाना मुहुर्मोहं कुललज्जाकुला ययौ ॥ २३८ ॥ शयनं विप्लवस्थानं भयेनेव विहाय सा। हर्म्यस्था प्रददौ प्रातर्दिक्षु चक्षुर्विलंजिता ॥ २३९ ।। सा सोत्कम्पकुचन्यस्तहस्तानभ्यस्तमन्मथा । मुमूर्छाच्छादयन्तीव प्रविष्टं हृदये प्रियम् ॥ २४० ।। सा निशश्वास वाष्पाम्बुबिन्दुभिर्मोक्तिकैरिव । छिन्नस्य शीलहारस्य कुर्वाणा ग्रथनं पुनः ॥ २४१ ॥ प्रदध्यौ नवविध्वंससाध्वसायासिता चिरम् । क्षितौ सा चिन्तयानेव च्युतं चित्तमधोमुखी ॥ २४२ ।। किं कस्य कथयाम्येतत्कं पृच्छामि करोमि किम् । का गतिः केन दृष्टाहं कुतस्तत्संगमः पुनः ॥ २४३ ॥ इति संदेहनिःस्पन्दां चिन्ताविक्रीतचेतनाम् । विलोक्य चित्रलेखाख्या सखी प्राणसमावदत् ॥ २४४ ॥ तन्वि कः खेदभारोऽयं भीरु किं भयकारणम् । पुत्री त्रैलोक्यभर्तुस्त्वं वध्यः कस्तेऽपराध्यति ।। २४५ ॥ किं शय्यावलनाविमर्दगलितैः कर्णोत्पलस्य च्छदै- लीनः कामकृपाणलेशसदृशैाप्ता तवेयं तनुः । अश्यन्मौक्तिकयोर्बिभर्षि कुचयोर्भिन्नेभकुम्भभ्रमं स्पष्टोऽयं रतिसंगमव्यतिकरः कस्येति मे संशयः ॥ २४६ ॥ इत्युक्ते सस्मितं सख्या सनिःश्वासाश्रुवर्षिणी । उषा शनैरवोचत्तां लिखन्ती क्ष्मामधोमुखी ॥ २४७ ॥ दृष्टः स्वप्ने मया कोऽपि रमणस्तनुकम्पनः । पीयूषवर्षी संस्पर्शे स्मरणे मरणोपमः ॥ २४८ ॥ जाने कम्पतरङ्गिताङ्गलतिका खनेऽहमालिङ्गिता संस्पर्शे कुचयोर्निरर्गलतया हारोऽपि पार्श्वे कृतः । १. 'न लजिता' क-ख-घ. २. 'कन्येति' ख.

काव्यमाला। एतावत्तु सखि स्मरामि यदतो वृत्तं परं तत्परं धैर्यस्योद्दलनं शरीरशमनं ध्यात्वापि नो वेद्मि किम् ॥ २४९ ॥ मूर्छाच्छादितमीक्षते न नयनं तापे तनुः पच्यते कम्पः सूचयतीव जीवगमनं मोहे मनो मज्जति । प्राग्जन्मार्जितकर्मणा बलवता कामेन कालेन वा नो जानामि स केन मे धृतिहरः कण्ठे भुजंगोऽर्पितः ॥२५०॥ त्यज्यते सहजा लज्जा सह्यते गुरुवाच्यता । गण्यते न घना कीर्तिर्यत्कृते सोऽपि दुर्लभः ॥ २५१ ॥ इयं शीलविलुप्तिम मानम्लानिर्महीयसी । दुर्लभे वल्लभे प्रीतिस्तनुत्यागेन शाम्यति ॥ २५२ ॥ इति ब्रुवाणां तामश्रुकणाकीर्णकुचस्थलीम् । संतापपिशुनोच्छ्रासां चित्रलेखावदत्सखीम् ॥ २५३ ।। किं न स्मरसि मुग्धे त्वमहो विरहकातरा । देव्यादिष्टः स ते खप्नदृष्ट एव वरो वरः ।। २५४ ॥ समाश्वसिहि हे तन्वि तनुस्तापक्षमा न ते । करोमि योगशक्त्याहमुपायं त्वत्समीहिते ॥ २५५ ॥ उल्लिख्य निखिलं चित्रपटे त्रिभुवनं तव । सदृशं दर्शयाम्येव तत्रालोकय वल्लभम् ॥ २५६ ॥ इत्युक्त्वा चित्रलेखायां गतायां व्योमवर्मना । उषा जीवमिवापेदे प्रियसंदर्शनाशया ॥ २५७ ॥ साभ्येत्य तस्यास्त्रैलोक्यचित्रं पटमदर्शयत् । किं दुष्करमदृश्यं वा योगिनां ज्ञानचक्षुषाम् ॥ २५८ ।। उषा चित्रपटे दृष्ट्वा सुरासुरनरोरगान् । ददर्श दयितं स्वप्नदृष्टं जितशशिस्मरम् ॥ २५९ ॥ अयं स सखि मे धैर्यहारी हृदयतस्करः । इत्युषावचनं श्रुत्वा चित्रलेखा जगाद ताम् ॥ २६० ॥ १. 'अश्रान्तविपुलोच्छ्वासां' ख.

८ श्रीकृष्णावतारः] दशावतारचरितम् । दिष्टया धन्यासि सुभगे यस्यास्ते नवमन्मथः । लक्ष्मीवल्लभपौत्रोऽयमनिरुद्धाभिधः प्रियः ॥ २६१ ।। प्रद्युम्नतनयस्यास्य लावण्यामृतदीधितेः । कान्त्या क्षैब्यमिवायान्ति सुरविद्याधराङ्गनाः ॥ २६२ ।। रूपेणाप्रतिमेन नेत्रसुखदः कंदर्पदर्पच्छिदा शौर्ये वज्रधरोपमां न सहते धीरः सुमेरोरयम् । अस्यामर्त्य मृगेक्षणाभिरनिशं सोत्कण्ठमाकर्णितं चन्द्रोत्सङ्गमृगापहं गुणगणं गायन्ति खे खेचराः ॥ २६३ ॥ पश्चिमाब्धौ हरिपुरी द्वारका वृष्णियादवैः । सिंहैरिव महोत्साहैर्गुप्ता हैमवती गुहा ॥ २६४ ॥ तस्यामन्तःपुरे श्रीमान्वसत्येष प्रियासखः । आनीयते कथं तावदिति दोलायते मनः ॥ २६५ ॥ त्वद्भाग्यानि पुरस्कृत्य गच्छामि गगनेन ताम् । हेलार्पिताद्भुतनिधिर्विधिः सिद्धिं विधास्यति ॥ २६६ ।। इत्युक्त्वाकाशमाविश्य सा ययौ द्वारका क्षणात् । कुर्वाणा रशनारत्नैः शक्रचापचिता दिशः ॥ २६७ ॥ सा गूढमायया हृत्वा रत्नपर्यङ्कशायिनम् । आनिनाय मुहूर्तेन व्योम्ना प्रद्युम्ननन्दनम् ॥ २६८ ।। खप्नवृत्तान्तमावेद्य स कन्यान्तःपुरान्तरम् । प्रवेशितस्तयापश्यदुषां रतिमिव स्मरः ॥ २६९ ।। स तां दृष्ट्वा नवोन्मेषनिर्माणातिशयं विधेः । अचिन्तयत्सुधापूरैरिव पूरितलोचनः ॥ २७० ।। इन्दोः संक्षयरक्षणाक्षतसुधा किं वेधसा निर्मिता किं धैर्यापहरा हरस्य विहिता कामेन कान्ता तनुः । किं तारुण्यवसन्तकान्तिललिता शृङ्गारसिक्ता लता किं लावण्यतरङ्गिणी पुनरियं जन्मान्तराप्ता रतिः ॥ २७१ ॥ १. 'प्रधास्यति' क.

१. काव्यमाला। कटाक्षः संधत्ते कुवलयकुलक्लैव्यकलनां मुखे दृश्यश्चन्द्रद्युतिहरणहेलापरिचयः । असंरुद्धा बाधाधरदलरुचिर्विद्रुमतरो- रहो सारङ्गाक्ष्याः प्रसभविजयी रूपविभवः ॥ २७२ ।। इति सर्वाङ्गनिर्ममलोचनस्तां विलोकयन् । अनिरुद्धोऽधरे तस्या बभूवाशापथातिथिः ॥ २७३ ॥ सापि साङ्गमिवानङ्गं तमभ्यस्तं मनोरथैः । विलोक्य प्रत्ययासत्ये पुनः स्वप्नमशङ्कत ॥ २७४ ॥ सोत्कम्पा कररोन राविणीं मणिमेखलाम् । मुहुर्मोनवतीं चक्रे पैशुन्यचकितेव सा ॥ २७५ ॥ नवे मौनवति प्रेम्णि तयोः प्राह सखी पुरः । दन्तांशुसूत्रैः कुर्वाणा प्रथनं चित्तयोरिव ॥ २७६ ॥ यस्त्वया प्रेमकुसुमैर्देवैश्चित्रपटेऽर्चितः । अहो भक्त्या स ते तुष्टः सखि प्रत्यक्षतां गतः ॥ २७७ ॥ खमसंपादितप्रीतिर्योऽर्थितस्तैर्मनोरथैः । प्राक्पूजा कीदृशी तस्य ब्रूहि त्वमुपपद्यते ॥ २७८ ॥ मौनमालम्बसे पृष्टा दृष्टा क्षोणी निरीक्षसे । लतेव कम्पसे कम्पात्कोऽयं ते चित्तविभ्रमः ।। २७९ ॥ मानस्तत्क्षणशासनागतजने सुभ्र क संभाव्यते खमाभ्यस्तसमागमेऽपि नववक्कि लज्जया लीयसे। का तस्मिन्परता सदा वसति यश्चित्ते निबद्धो गुणैः प्रारब्धा सखि कस्य तावदियती प्रेम्णि त्वयापह्नुतिः ॥२८० ॥ इति सख्यां ब्रुवाणायामनिरुद्धः प्रगल्भताम् । निनाय दयितां प्रौढः प्रणयैः प्रेमपेशलैः ॥ २८१ ॥ तदा प्रीतेर्यदायत्तं चिन्तितं यन्मनोरथैः । मन्मथेन यदादिष्टं खैरं तत्तदभूत्तयोः ।। २८२ ॥ १. 'धवः' ख-ग.

८ श्रीकृष्णावतारः] दशावतारचरितम् । १०१ दिनेष्वथ प्रयातेषु प्रच्छन्नधृतवल्लभा । उषाभूदभिमानाकव्यक्तसंभोगलक्षणा ॥ २८३ ॥ व्याकीर्णा कबरी मुखं वितिलकं ताम्बूललितेऽक्षिणी कण्ठे कङ्कणलक्ष्म हारविरतिर्दशोऽधरे निव्रणः । प्रातः प्रच्युतचन्दना स्तनतटी सायं खवेषक्रिया संभोगाभरणा तनुर्वरतनोः शङ्कास्पदत्वं ययौ ॥ २८४ ।। किंचिन्मुकुलिते लोके कन्यायाः कामलक्षणे । फुल्ले शनैः कर्णपथं बाणस्यापि कथा ययौ ॥ २८५ ॥ ततस्तामादिष्टाः किंकराः क्रूरकारिणः । आययुयुद्धसंनद्धाः कन्यकान्तःपुराङ्गणम् ॥ २८६ ॥ निरुद्धः प्रियया यत्नादनिरुद्धोऽथ सस्मितः । घोरकिंकरसंघाताञ्जघान परिघायुधः ॥ २८७ ॥ हतेऽयुते किंकराणां वयं बाणः समाययौ । रथी बाहुसहस्रात्तसमस्तायुधमण्डलः ॥ २८८ ॥ शस्त्रवृष्टिं तदुत्सृष्टां प्राधुम्निः खगचर्मभृत् । छित्त्वा धैर्यनिधिश्चक्रे रणे बाणस्य विस्मयम् ॥ २८९ ।। उषा संत्रासतरला पितुः पत्युश्च संगरे । प्राणेशपक्षपातेन भेजे संदेहसाध्वसम् ॥ २९० ॥ बाणेन प्रहितां शक्तिं मृत्युदंष्ट्रामिवोत्कटाम् । आदाय तस्मै प्राथुम्निस्तामेव प्राहिणोद्बली ॥ २९१ ॥ परहस्तगता शक्तिः प्रविष्टान्तः कृतव्यथा । निजा सुतेव बाणस्य हृदये शल्यतां ययौ ॥ २९२ ॥ वीरं विज्ञाय तं बाणः स्पष्टयुद्धेन दुर्जयम् । आदाय तामसी मायामदृष्टः प्रविवेश खम् ॥ २९३ ॥ २. अत्र संघिरनुचितः. ३. 'अपि' ख. १. 'मानात्तु' ख; 'मानार्थ' घ. 1. 'चर्मखग' ख.

१०२ काव्यमाला। निरन्तैरमदुत्सृष्टैर्वेष्टिताङ्गं भुजंगमैः । दृष्ट्वानिरुद्धं संरुद्धमुषाभून्मोहमीलिता ॥ २९४ ॥ बद्धेऽनिरुद्धे तनयां बाणः खैरापचारिणीम् । आकृष्टः स्नेहकोपाभ्यां न तत्याज न चाग्रहीत् ॥ २९५ ॥ असंस्पृष्टं याच्यावचनघनदैन्येन वदनं न कृच्छेऽप्यारूढा गुणमणिततिर्विक्रयतुलाम् । असेवासंतापं वपुरननुभूतप्रभुभयं कुलं कन्याहीनं नहि नयति मानं मलिनताम् ॥ २९६ ॥ अत्रान्तरे द्वारकायामनिरुद्धापहारजः । वृष्णीनामभवत्क्षोभः शोकचिन्तानुबन्धवान् ॥ २९७ ॥ बाणस्य नगरे रुद्धमनिरुद्धं सहोषया । विज्ञाय नारदगिरा सस्मार गरुडं हरिः ॥ २९८ ॥ हलायुधेन सहितः प्रद्युम्नेन च सूनुना । प्रययौ शोणितपुरं तार्यमारुह्य माधवः ॥ २९९ ।। खे योजनसहस्राणि विलङ्घय गरुडध्वजः । दीप्तं बाणपुरं दूराद्ददर्शार्कशतोपमम् ॥ ३०० ॥ अमिमाहवनीयाख्यं तार्थ्यः प्राकाररक्षिणम् । पीतोद्वान्तखगङ्गाम्बुनिर्झरेण न्यवारयत् ॥ ३०१ ॥ पुरद्वारमथोन्मथ्य प्रविष्टं शाङ्गिणं बलात् । निःसंख्याः संख्यसंनद्धा दितिजाः पर्यवारयन् ॥ ३०२ ॥ चक्रिचक्रनिकृत्तानां शरीराणि सुरद्विषाम् । चक्रुः पक्षक्षयक्षिप्तनिपतत्क्षितिभृद्भमम् ॥ ३०३ ॥ अत्रान्तरे नागपाशपञ्जरे सिंहविक्रमः। बद्धोऽनिरुद्धः सस्मार दुर्गा स्तुतिपदार्चिताम् ॥ ३०४ ॥ निष्पिष्टमत्तमहिषासुरमस्तकाग्र- प्रत्यग्रनिर्गतघनस्रुतिशोणिताम् ।

८ श्रीकृष्णावतारः] दशावतारचरितम् । १०३ पादाम्बुजं पुनरलक्तकभक्तिचित्रं वन्दे भवप्रभवतापहरं भवान्याः ॥ ३०५ ॥ शूलपहारसृतरक्तभरैकबिन्दु- संजातघोररुरुलक्षगुरुप्रमाथे । पातालमूलगगनान्तविकासितास्य- प्रस्तोगदानवतनुं प्रणमामि कालीम् ॥ ३०६ ॥ भीमोद्भवद्विभवशुम्भनिशुम्भकाय- निष्पेषदुःसहतराशनिघातघोराम् । कात्यायनी खकरकृत्तशिरःशरीर- वीरोपंहारपरितोषवतीं नमामि ॥ ३०७ ।। क्षुभ्यत्सप्तार्णवघनरवः पद्मगर्भाण्डखण्डा- काण्डभ्रंशभसरभसः सप्तपातालभेदी । धैर्योन्माथी जयति चकिताशेषलोकेश्वराणां चण्डश्चण्ड्याः प्रलयसमयोत्साहलीलाट्टहासः ॥ ३०८॥ इति स्तुता भगवती दुर्गा दुर्गापहारिणी । खकरस्फोटितोग्राहिपञ्जरं तममोचयत् ॥ ३०९ ॥ भुजंगपाशनिर्मुक्तः प्राधुम्निः समराङ्गणम् । प्रययौ युध्यमानस्य समीपं कालियद्विषः ॥ ३१० ॥ अथ कल्पान्तपर्जन्यगर्जितोर्जितविभ्रमः । बाणासुररणारम्भदुन्दुभिध्वनिरुद्ययौ ॥ ३११ ॥ दैत्येन्द्रायुधवृष्टिनष्टगगने सेनारजःस्फूर्जित- ग्रस्ताग्रेर्के) प्रसरपिनाकिविशिखवातावकीर्णे रणे । कल्पान्तागमशङ्किते त्रिभुवने चेरुः शरीरच्छिदः शूराणामनिरुद्धराममुरजित्प्रद्युम्नमुक्ताः शराः ॥ ३१२ ॥ २. 'वीरोपहारनमितां प्रणमामि कालीम' ख. १. 'खवर' खः 'खशर' ग. ३. 'प्रसर' ख. ४. 'हेला' ख.

१०१. काव्यमाला। गरुडादवरुह्याथ बलेन बलिना रणे । हलेन हलिना कृष्टा दैत्यदेहा द्विधा ययुः ॥ ३१३ ।। ततस्त्रिनेत्रानुचरः प्रदीप्तस्त्रिंशिखज्वरः । क्षिप्तेन भस्मना रामं भ्रममूर्छाकुलं व्यधात् ॥ ३१४ ॥ संतापमूञ्छितं कृष्णस्तं परिष्वज्य विद्रुतम् । कृत्वा जटाभिराकृष्य जग्राह ज्वरमञ्जसा ॥ ३१५ ॥ कृष्णोऽप्यथ ज्वराविष्टः श्वसन्रोमाञ्चकर्कशः । भसृजद्वैष्णवं घोरं ज्वरं रौद्रंज्वरापहम् ॥ ३१६ ॥ ज्वरयोः संप्रवृत्तेऽथ भुवनाकम्पने रणे । वैष्णवः प्रलयार्काभः शार्वं ज्वरमपातयत् ॥ ३१७ ॥ कण्ठे निपीड्य निष्पिष्टस्तेन रुद्रज्वरः क्षितौ । प्रयातः शरणं कृष्णमवदद्वाष्पगद्गदः ॥ ३१८ ।। देवेन त्रिपुरारिणा त्रिजगतीजीवापहारक्षमः सृष्टः स्पष्टविनष्टधैर्यसरणिर्देव त्वयाहं कृतः । त्वां यातः शरणं शरीरधृतये त्वन्नाममन्त्राक्षर- क्षिप्ताप्तस्मृतिजापिनां न भविता मत्स्पर्शतापः क्वचित् ॥३१९॥ इति भीत्या ब्रुवाणं तं ररक्ष गरुडध्वजः । शरणाप्ते विरुद्धेऽपि वैरक्रूरा न साधवः ॥ ३२० ॥ ततः श्रीकण्ठवैकुण्ठौ व्याप्तदेही बभूवतुः । पिनाकशानिर्गच्छदाणजालैर्निरन्तरैः ॥ ३२१ ॥ क्षणं तुल्ये तयोर्युद्धे जगत्संक्षयकारिणि । घनैः शौरिशरासारैर्ययौ विमुखतां हरः ॥ ३२२ ॥ प्रस्तशक्तेः कुमारस्य जितस्य हरिणा रणे रक्षायै शंभुना सृष्टा तस्थौ नमाजना पुरः ॥ ३२३ ॥ अथ बाणः वयं योद्धं मधुसूदनमाययौ । क्षिपन्बाहुसहस्रेण दीप्तायुधपरम्पराम् ॥ ३२४ ॥ १. 'बलिना' ख-ग. २. 'त्रिशिराः' ख. ३. 'कक्षुकः' क-प. ४. 'रुद्र' ख.

८ श्रीकृष्णावतारः] दशावतारचरितम् । सहस्राश्वं रथं तस्य मनोरथमिवायतम् । ससूतं शरवर्षेण प्रममाथ मुरान्तकः ।। ३२५ ॥ उपनीतं गणैस्तूर्ण शासनात्रिपुरद्विषः । मयूरमारुरोहाथ बाणः षण्मुखवाहनम् ॥ ३२६ ॥ यत्नेन युध्यमानस्य च्छिन्नास्त्रस्य मुरारिणा । मुक्तकेशी विवस्त्रा स्त्री बाणस्याने व्यदृश्यत ॥ ३२७ ।। रक्षायै कोटवीं सृष्टां तस्य देवेन शूलिना । वञ्चयित्वाच्युतश्चक्रं पार्धाञ्चितमथासृजत् ॥ ३२८ ॥ चक्र क्रमेण पतितं स्कन्धयोः कीर्णपावकम् । चकर्त क्रकचक्रूरं बाणस्य भुजकाननम् ॥ ३२९ ॥ चक्रोत्कृत्तभुजद्रुमव्रणमुखोद्भूतैर्घनासृग्भरैः प्रोद्यद्विद्रुमपादपानुकृतिभिस्तुल्यप्रमाणैः क्षणम् । अप्राप्तोद्धतयुद्धतृप्तिरधिकश्रद्धः स वीरोऽभव- व्याप्तः संततरक्तचन्दनचितैर्जातैरिवान्यैर्भुजैः ।। ३३० ॥ बाणश्छिन्नभुजोऽभ्येत्य शंभोर्भगवतश्चिरम् । ननर्त प्रियनृत्तस्य तोषाय प्रणयी पुरः ॥ ३३१ ।। भक्त्याभवद्भगवतः स भवस्यातिवल्लभः । वरान्नन्दिसमः श्रीमान्महाकालश्चतुर्भुजः ॥ ३३२ ॥ कल्याणं तनुते यशःपरिचितां लक्ष्मी ददात्यक्षया- माक्रान्ति विदधाति सप्तभुवनन्यस्तेप्सिताज्ञाक्षराम् । संसारं कुरुते विकारिनिकर निःशेषमेव क्षणा- द्भक्तिः कल्पलता चराचरागुरोः किं किं न सूते फलम् ॥३३३॥ उषासहितमादाय प्रद्युम्नतनयं ततः । द्वारकां विजितारातिर्जगाम गरुडध्वजः ॥ ३३४ ॥ कदाचिदथ देवर्षिभरकामेत्य नारदः । अवाप्य पूजामुचितां कथान्ते कृष्णमेभ्यधात् ॥ ३३५ ॥ १. 'निकरां' ख-ग; "निरतं' घ. २. 'अब्रवीत्क-घ. दशा. १०

१०६
काव्यमाला।
गङ्गाभिलाषी नृपतिर्ब्रह्मशापान्महाभिषः ।
भरतस्य कुले जातः शंतनुः प्रतिपात्मजः ॥ ३३६ ॥
गङ्गापि धातुः शापेन पतन्ती वसुभिः पथि ।
वसिष्ठशापपतितै)मधेनुनिकारतः ॥ ३३७ ॥
खजन्मनेऽर्थिता जाता वधाय च महीं गता ।
खतीरोपवनोपान्ते विचचार सुलोचना ॥ ३३८ ।।
तत्र शंतनुना गङ्गा संगमं गजगामिनी ।
भेजे यथेष्टकरणप्रत्याख्यानधृतावधिम् ॥ ३३९ ।।
सा जातानवधीत्सप्त वसूखेच्छाविधायिनी ।
जातेऽष्टमे सुते राज्ञा निरुद्धा प्रययौ दिवम् ॥ ३४० ॥
देवव्रताख्यः स शिशुर्दिवि देवैः कृतव्रतः ।
सर्वविद्यापगाम्भोधिर्ववृधे वसुरष्टमः ।। ३४१ ॥
दृष्ट्वा कदाचित्कालिन्दीकूले कुवलयेक्षणाम् ।
शंतनुर्दाशतनयां तत्पितुर्याचकोऽभवत् ॥ ३४२ ॥
गाङ्गेयस्त्वत्सुतः क्ष्माभृद्दौहित्रो मे न राज्यभाक् ।
इत्युक्त्वा न ददौ दाशस्तस्मै सत्यवतीं सुताम् ॥ ३४३ ॥
देवव्रतः पितुर्ज्ञात्वा तीव्रस्मरशरव्यथाम् ।
गत्वा ययाचे दाशेशं तनयां विनयोन्नतः ॥ ३४४ ॥
दौहित्रवंशराज्यार्थी स सुतां न ददौ यदा ।
तदा राज्ये विवाहे च गाङ्गेयः समयं व्यधात् ॥ ३४५ ॥
भीषणीयप्रतिज्ञात्वाद्भीष्मोऽयमिति खे चिरम् ।
विचचारोदिताश्चर्य खेचरोच्चारितं वचः ॥ ३४६ ॥
आनीतामथ भीष्मेण कन्यामासाद्य शंतनुः ।
परितोषाद्ददौ तस्मै खच्छन्दनिधनं वरम् ॥ ३४७ ॥
कालेन जनयित्वाथ पुत्रं चित्राङ्गदाभिधम् ।
तस्यां विचित्रवीर्यं च शंतनुस्तनुमत्यजत् ॥ ३४८ ॥

८ श्रीकृष्णावतारः] दशावतारचरितम् । १०७ ततश्चित्राङ्गदो राजा गन्धर्वेण प्रमाथिना। चित्राङ्गदेन समरे नामद्वेषान्निपातितः ॥ ३४९ ॥ शिशोर्विचित्रवीर्यस्य प्राप्तराज्यश्रियः कृते । जहार काशिराजस्य भीष्मः कन्याः खयंवरे ॥ ३५० ।। भ्रात्रे विचित्रवीर्याय हस्तिनापुरमेत्य सः । त्यक्त्वा साल्वोत्सुकामम्बामम्बिकाम्बालिके ददौ ॥ ३५१ ॥ राजचूततरौ तस्मिन्नवयौवनमाधवे । कान्तालतावलयिते पातिते कालदेन्तिना ॥ ३५२ ॥ विच्छिन्ने शंतनोवंशे तत्पुत्रक्षेत्रजार्थिना । भीष्मेण प्रेरिता साध्वी प्राह सत्यवती शनैः ॥ ३५३ ।। कानीनस्तनयो मेऽस्ति तत्तु कामात्पराशरात् । संजातो यमुनाद्वीपे कृष्णद्वैपायनो मुनिः ॥ ३५४ ।। तं स्मरामि सुतक्षेत्रपुत्रोत्पत्त्यै तपोनिधिम् । उक्त्वेति सा भीष्ममते तं सस्मार स चाययौ ॥ ३५५ ॥ अम्बाश्वश्वा विसृष्टाथ तेजोराशिं विलोक्य तम् । निमीलिताक्षी तद्दृष्टिस्पृष्टा गर्भ समाददे ॥ ३५६ ।। अन्धोऽक्षिमीलनात्सूनुर्भावीयुक्ते महर्षिणा । द्वितीयं जनयापत्यमिति माता जगाद तम् ॥ ३५७ ।। भयपाण्डुरवान्या लेभे गर्भ मुनेईशा । अप्रसूतिः सुतः पाण्डुर्भवितेत्यभ्यधान्मुनिः ॥ ३५८ ॥ तस्यां भयाद्विसृष्टायां शूद्रायां गर्भसंभवे । धर्मावतारमुक्त्वास्याः पुत्रं प्रायान्महामुनिः ॥ ३५९ ।। जोतेऽन्धे धृतराष्ट्रेऽथ पाण्डौ च भुजशालिनि । माण्डव्यशापभूधर्मः शूद्रायां विदुरोऽभवत् ॥ ३६० ॥ २. 'हस्तिना' ख-ग. ३. 'माता' क-घ. ४. 'उत्ता' ख. १. 'कान्त'ख. ५. 'जात्यन्धे ख-ग.

" काव्यमाला। धृतराष्ट्राय गान्धारी सुबलस्तनयां ददौ । कुन्तिभोजसुतां कुन्तीं पाण्डुर्माद्रीमवाप च ॥ ३६१ ॥ युवा दिग्विजयी पाण्डुम॑गयाव्यसनी वने । मृगरूपरतासक्तमवधीकिन्दमं मुनिम् ॥ ३६२ ॥ भविष्यसि त्वं दयितारतिपर्यन्तजीवितः । तेनेति शप्तस्त्यक्तश्रीर्ययौ पाण्डुस्तपोवनम् ॥ ३६३ ॥ ततः पुत्रशतं लेभे गान्धारी तुल्यगर्भजम् । ज्येष्ठो दुर्योधनस्तेषां तस्य दुःशासनोऽनुजः ॥ ३६४ ॥ कुन्ती मुनिवरावाप्तमन्त्रा भर्तुरनुज्ञया । धर्मानिलेन्द्रानाहूय वने पुत्रानजीजनत् ॥ ३६५ ॥ . युधिष्ठिरं भीमसेनमर्जुनं च सुरोचितान् । सपल्या दत्तमन्त्रा च माद्री प्रापाश्विनौ यमौ ॥ ३६६ ॥ स्नातां पुष्पोच्चये माद्रीं विलोक्य कुसुमागमे । आलिङ्गयानङ्गसङ्गेऽभूत्पाण्डुः शापादजीवितः ॥ ३६७ ॥ प्रयाते त्रिदिवं पाण्डौ पाण्डुपुत्राः पितृव्यजैः । वृद्धिं गता धार्तराष्ट्रैः सह दुर्योधनादिभिः ॥ ३६८ ॥ भीष्मः पितामहस्तेषां चापाचार्य कृपं व्यधात् । द्रोणं च सर्वशिष्यस्य शिष्यं रामस्य धन्विनः ॥ ३६९ ॥ अश्वत्थामा प्रियः सूनुयॊणस्य तनयोऽभवत् । यथार्जुनः समस्तास्त्रविद्याविमलदर्पणः ॥ ३७० ॥ कन्यायां गूढजन्मा यः कर्णः कुन्त्यां विवस्वतः । प्रयातः सूतपुत्रत्वमस्त्राणि प्राप भार्गवात् ॥ ३७१ ॥ संस्पर्धयार्जुनरणाबानधीरोऽस्त्रदर्शने । नीतस्तत्प्रतिमल्लत्वात्कौरवेणाङ्गराजताम् ॥ ३७२ ॥ ततः कर्णेन संमड्य भात्रा दुःशासनेन च । दुर्योधनः पाण्डवानां धियं गूढवधे व्यधात् ॥ ३७३ ॥ १. 'सुभद्र' क-ख-ग. २. 'राज' ख-ग. ३. "किन्दिरे' क-ख-ग. ४. 'तत्र' ख-ग.

८ श्रीकृष्णावतारः] दशावतारचरितम् । ते तेन विहिते दीप्ते जतुवेश्मनि निर्गताः । विदुरेण रहः स्नेहान्निर्दिष्टबिलनिर्गमाः ॥ ३७४ ।। युधिष्ठिरार्जुनौ कुन्तीं वहन्भीमो महाबलः । नकुलं सहदेवं च विवेश निशि काननम् ॥ ३७५ ।। तत्रोप्रविग्रहं हत्वा हिडिम्बं राक्षसेश्वरम् । भीमस्तदनुजां भेजे हिडिम्बां दिव्यरूपिणीम् ॥ ३७६ ॥ जाते घटोत्कचे तस्याः पुत्रे भीमपराक्रमे । एकचक्रां पुरी जग्मुः प्रच्छन्नाः पाण्डुनन्दनाः ।। ३७७ ॥ प्रजाक्षयक्षमस्तत्र राक्षसोऽभूहकाभिधः । यस्सै राजान्नशकटं प्राहिणोत्सनरं सदा ॥ ३७८ ॥ स्थिता विप्रगृहे कुन्ती सह भिक्षाशनैः सुतैः । बकवारे द्विजस्याप्ते भीमं तद्दययादिशत् ॥ ३७९ ॥ व्रजन्भीमोऽन्नशकटं भुञ्जानः क्रोधसंमुखम् । बकं हत्वा द्विजगृहं विवेशालक्षितो निशि ॥ ३८० ॥ अथ दूरपथायातैः कथितं पथिकद्विजैः । नानाकथाप्रसङ्गेन शुश्रुवुः पाण्डुनन्दनाः ॥ ३८१ ॥ पाञ्चाल्यो द्रुपदः पूर्वं द्रोणस्य सुहृदः शिशुः । व्यधादास्यामि ते प्राप्तराज्यामिति संविदम् ॥ ३८२ ।। द्रोणेन प्राप्तराज्योऽथ सोऽर्थितः प्रददौ न तत् । भिक्षाभुब्राह्मणो राज्ञः कथं मित्रमिति ब्रुवन् ।। ३८३ ॥ इति द्रोणः कृतस्तेन राज्ञा भममनोरथः । अर्जुनेन रणे बद्धं तं राज्यार्धमदापयत् ॥ ३८४ ॥ ततस्तेनावमानेन पुत्रं द्रोणवधक्षमम् । अभिचारोग्रयागेन द्रुपदः समवाप्तवान् ॥ ३८५ ॥ यागामिमध्याज्जातोऽस्य धृष्टद्युम्नाभिधः सुतः । कृष्णा च कन्यका यस्याः प्रत्यासन्नः स्वयंवरः ॥ ३८६ ।।

काव्यमाला। वयं तत्रैव गच्छामः सर्वराजसमागमे । प्राप्तुं प्रतिग्रहाभ्यर्चामित्युक्त्वा प्रययुर्द्विजाः ॥ ३८७ ।। ततः पाञ्चालनगरं व्रजन्तः पाण्डवा निशि । गन्धर्वराजं ददृशुर्गङ्गाम्भसि विहारिणम् ॥ ३८८ ॥ विवस्त्रान्तःपुरवधूदर्शनकुद्धमर्जुनः । व्यधादग्धरथं युद्धे तमामेयास्त्रतेजसा ॥ ३८९ ।। युधिष्ठिरेण कृपया रणे रक्षितजीवितः । सख्यं करीटिना कृत्वा जितश्चित्ररथो ययौ ।। ३९० ॥ ततः प्रभाते प्रच्छन्नाः पाण्डवा विप्ररूपिणः । प्रविश्य पाञ्चालपुरं कुम्भकारगृहे स्थिताः ॥ ३९१ ॥ इत्युक्त्वा नारदे याते संकर्षणजनार्दनौ । जग्मतुर्लक्ष्यभेदाकं द्रष्टुं कृष्णास्वयंवरम् ।। ३९२ ।। तौ पाञ्चालपुरं प्राप्य सर्वराजसमागमे । पूज्यमानौ विविशतुः वयंवरसभागृहम् ॥ ३९३ ॥ हेमासनोपविष्टेषु द्रौपदी सर्वराजसु । जगज्जयपताकेव कंदर्पस्य समाययौ ॥ ३९४ ॥ राधावेधपणे तस्मिन्भुजलभ्ये खयंवरे । अशक्ताः पार्थिवाः सर्वे ययुर्लज्जानिलीनताम् ॥ ३९५ ॥ विलक्षेषु क्षितीशेषु द्विजमध्यादथोत्थितः । विद्या धनंजयो लक्ष्यं क्षितौ क्षिप्रमपातयत् ॥ ३९६ ॥ हारं कण्ठे विनिक्षिप्य द्रौपद्या फाल्गुने वृते । युद्धोद्धताः समुत्तस्थुः क्रुद्धाः सर्वे क्षितीश्वराः ॥ ३९७ ।। जित्वाथ शल्यकर्णादीन्वीरान्भीमधनंजयौ । पुरः कृष्णां समादाय ययतुर्भ्रातृभिः सह ।। ३९८ ॥ भिक्षेवोपनता कृष्णा सहेयं भुज्यतामिति । चक्रुस्ते शासनान्मातुः सह भोगाय संविदम् ॥ ३९९ ।। १. "विलीनताम्' ख-ग.

८ श्रीकृष्णावतारः] दशावतारचरितम् । १११ रामकृष्णौ निशि खैरं कुम्भकारगृहे स्थितान् । पाण्डवानेत्य सानन्दौ प्रेम्णा संभाष्य जग्मतुः ।। ४०० ।। अन्विष्य द्रुपदस्तेषां विज्ञायाधर्मनिश्चयम् । कृष्णाया बहुपत्नीत्वं विरुद्धं नाभ्यमन्यत ॥ ४०१ ॥ ततस्तं भगवान्व्यासः समभ्येत्यावदन्मुनिः । पञ्चेन्द्राः समदाः पूर्वं क्रुद्धा बद्धाः पिनाकिना ॥ ४०२ ॥ ते एव पाण्डवा जाताः खर्गश्रीस्तव चात्मजा। तेषामेकैव सा पत्नी नैवायं धर्मसंकरः ॥ ४०३ ।। इत्युक्त्वा मुनिना दत्तदिव्यदृष्टिनरेश्वरः । सत्यं विज्ञाय तत्सर्वं तद्विवाहममन्यत ॥ ४०४ ॥ ज्ञात्वा जतुगृहान्मुक्तान्पाण्डवान्प्राप्तसंश्रयान् । हस्तिनापुरमानाय्य धृतराष्ट्रोऽभ्यपूजयत् ॥ ४०५ ॥ इन्द्रप्रस्थेऽभिषिक्तोऽथ तेन राजा युधिष्ठिरः । गुणैः श्रियं श्रिया धर्म धर्मेण प्राप्तवान्यशः ॥ ४०६ ॥ निर्दिष्टां नारदेनाथ मुनिमा भेदभीरुणा । भूतये पाण्डवाश्चक्रुर्मर्यादां दृढनिश्चयाः ॥ ४०७ ॥ अन्तःपुरे भ्रातरं यः पश्येत्कृष्णासखं रहः । अविश्रान्तः स तीर्थानि व्रजेद्वादशवत्सरीम् ॥ ४०८ ॥ चौरात्तं गोगणं विप्राक्रन्दाकृष्टस्ततोऽर्जुनः । आजहार समादाय धर्मजान्तःपुराद्धनुः ।। ४०२॥ स्मृत्वाथ संविदं पार्थस्तीर्थार्थी जाह्नवीजले । मजन्नुलूपीं पाताले नागकन्यामवाप्तवान् ॥ ४१० ॥ जनयित्वा सुतं तस्यामिरावन्तं जगाम सः । नगरं मणिपूराख्यं चित्रवाहनभूपतेः ॥ ४११ ॥ प्राप्य तस्य सुतां कन्यां पार्थः पृथुललोचैनाम् । चित्राङ्गदां सुतं तस्यां बभ्रुवाहनमाप्तवान् ॥ ४१२ ।। १. 'त एव पाण्डवा नाथ' क; 'उवाच पाण्डवा नाथ' घ. २. 'लोचनः' क-ख-ग.

काव्यमाला सर्वतीर्थाप्लुतः प्राप्य प्रभास श्वेतवाहनः । रैवताचलयात्रायां प्राप वृष्णिसमागमम् ॥ ४१३ ॥ अर्जुनोऽथ धृतोत्कण्ठः शैलारोहसमुत्सवे । उत्साहोच्छलितं चेतः सानुगस्य हरेर्व्यधात् ॥ ४१४ ॥ तत्र कृष्णानुजां दृष्ट्वा सुभद्रां कामकौमुदीम् । कन्यामनुमते शौरजहार श्वेतवाहनः ॥ ४१५ ॥ युद्धोद्धतान्वृष्णिवीरान्पेरिसान्त्व्य जनार्दनः । निःसंख्यं द्रविणं दातुमर्जुनाय ययौ खयम् ॥ ४१६ ॥ इन्द्रप्रस्थमथासाद्य सुभद्रासहितोऽर्जुनः । प्रणम्य धर्मजं भेजे कृष्णेन सहितः सुखम् ॥ ४१७ ॥ अभिमन्युं सुभद्रायां पार्थः पुत्रमजीजनत् । द्रौपदी प्रतिविन्ध्याद्यान्पतिभ्यः पञ्च चात्मजान् ॥ ४१८ ॥ ततः कदाचिद्यमुनाजलकेलिविहारिणम् । सकृष्णमर्जुनं विप्ररूपः प्राह हुताशनः ॥ ४१९ ॥ उचितं दीयतां मह्यं भवभ्यां भोजनं हितम् । अर्थिनामर्थनावन्ध्या न भवन्ति भवद्विधाः ॥ ४२० ।। श्वेतकेर्नृपतेः पूर्वं यज्ञे द्वादशवार्षिके । अच्छिन्नाज्यभरेणाहमनलो जडतां गतः ॥ ४२१ ।। वनं स्वास्थ्याय सत्त्वाढ्यं दग्धुमिच्छामि खाण्डवम् । रक्षतीन्द्रः सुहृन्मेषैस्तक्षकस्यास्पदं हि तत् ॥ ४२२ ॥ व्यस्तमेघौघविघ्नोऽहं भवत्सायकसंचयैः । अखण्डः खाण्डववनं ज्वलाम्येतन्ममाशनम् ॥ ४२३ ।। इति वह्निर्वदन्नर्थी ताभ्यामङ्गीकृतेप्सितः। धनुः पार्थाय गाण्डीवं ददौ चक्रं च चक्रिणे ॥ ४२४ ॥ तद्दत्तं रथमारुह्य तदीयाक्षयसायकः । हरिणा सह संनद्धः किरीटी खाण्डवं ययौ ।। ४२५॥ १. 'दयानन्दः' क-घ. २. 'परिमध्य' क. ३. 'महत्' ख.

८ श्रीकृष्णावतारः] दशावतारचरितम् । अमौ प्रज्वलिते वराहमहिषव्याघ्रद्विपद्वीपिनां निष्पीतायुषि गाढलीढगगने दैत्याहिदेहद्रुहि । रुद्धे मेघजलेऽर्जुनास्त्रपटलैयुद्धोद्धतं वज्रिणं वि(जि)ष्णुः सायकवर्षिणं विमुखतां बाणैर्निनायाक्षयैः ॥४२६॥ सुतमथ भयलोलं तक्षकस्याश्वसेनं जठरमपि जनन्याः संप्रविश्य द्रवन्तम् । अकृत दिवि किरीटी पत्रिणा खण्डपुच्छं मयमपि शरणाप्तं चक्रिभीतं ररक्ष ॥ ४२७ ।। ततः कृष्णाज्ञया दिव्यां सभां मणिमयीं मयः । विदधे धर्मपुत्रस्य प्राणरक्षाप्रतिक्रियाम् ॥ ४२८ ॥ तस्यां सभायामाश्चर्यनलिनी निर्ममे मयः । नीलरत्नोत्पलवती हेमाजां स्फटिकोदकाम् ॥ ४२९ ॥ सभासीनमथाभ्येत्य धर्मजं नारदोऽवदत् । राजन्न लोकपालानां त्वत्सभासदृशी सभा ॥ ४३० ॥ यजख राजसूयेन कुरुष्व सफलां श्रियम् । इति त्वामवदत्पाण्डुः पिता शक्रसमास्थितः ॥ ४३१ ।। इत्युक्त्वा नारदे याते राजसूयमनोरथम् । अकुण्ठोत्कण्ठया राजा वैकुण्ठाय न्यवेदयत् ॥ ४३२ ॥ कृष्णस्तमूचे श्लाघ्यैषा धर्मधीः किं तु मागधे । न जीवति जरासंधे क्रतुः कर्तुं स शक्यते ॥ ४३३ ।। रुद्रयागोपहाराय तेन रुद्धा गिरिव्रजे । षडशीतिर्नृपतयस्तस्य शेषाश्चतुर्दश ॥ ४३४ ॥ शरीरार्धद्वयं जातं जरा निशि निशाचरी । संधाय विदधे बालं जरासंघ तमुत्कटम् ॥ ४३५॥ तत्संनिरोधविश्वस्ताः संत्यज्य मथुरां वयम् । विधाय द्वारकां दुर्गा पश्चिमाब्धितटे स्थिताः ॥ ४३६ ॥ १. 'चक्र' ख-ग.

११४ काव्यमाला। इति खैरं ब्रुवाणेन नृपः संमछ्य शौरिणा। व्यादिशन्मागधवधे भीमपार्थों भुजाविव ॥ ४३७ ॥ ततः स्नातकवेषेण प्रच्छन्नक्षत्रवृत्तयः । जरासंधपुरी जग्मुः कृष्णभीमधनंजयाः ॥ ४३८ ॥ तत्र त्रयोदशाहानि युयुधाते भुजायुधौ । वीरौ भीमजरासंधौ श्रान्तोऽभून्मगधस्ततः ॥ ४३९ ॥ ततः संधिं द्विधा कृत्वा हते भीमेन मागधे । मुमोच कृष्णः क्षितिपान्यज्ञागमनसंविदा ॥ ४४० ॥ भीमः किरीटी नकुलः सहदेवश्च दिग्जये। आजहुर्विपुलं वित्तं राज्ञे यज्ञभरक्षमम् ॥ ४४१ ॥ कृतेषु शैलतुल्येषु रत्नकाञ्चनराशिषु । राजसूयसमारम्भः प्रावर्तत महीपतेः ॥ ४४२ ।। प्राप्ता निमन्त्रितास्तस्मिन्भीष्मद्रोणादयः क्रतौ । धृतराष्ट्रः सविदुरः सामात्यश्च सुयोधनः ॥ ४४३ ।। अशेषदेवर्षि ते सर्वराजमये मखे । अार्चितं हरिं सेहे शिशुपालो न भूपतिः ॥ ४४४ ॥ तस्याधिक्षेपदक्षस्य क्ष्मापतेः क्षयलक्ष्मणा । न्यपातयत्क्षितौ क्षिप्रं चक्रेणाधोक्षजः शिरः ।। ४४५ ॥ ऋतौ समाप्ते यातेषु महर्षिषु नृपेषु च । तस्थौ दुर्योधनस्तत्र शकुनिश्वास्य मातुलः ॥ ४४६ ॥ पद्मिन्यां विहरन्वारिशङ्कया स्फाटिके जले। चरन्नुत्क्षिप्तवसनः सत्याम्भसि ममज्ज सः ॥ ४४७ ।। तस्य स्खलितमालोक्य हर्म्यस्था राजवल्लभाः। जहसुर्भीमसेनश्च बभूवाङ्कुरितस्मितः ॥ ४४८ ॥ लज्जावमानमलिनः कौरवः खपुरं व्रजन् । पृष्टः शकुनिना प्राह ग्लानिवैवर्ण्यकारणम् ॥ ४४९ ॥ १. 'शान्तो' ख-ग. २. 'वृते ख-ग.

८ श्रीकृष्णावतारः] दशावतारचरितम् । ११५ धर्मसूनोर्मखे सा श्रीस्ते भूपालाः करप्रदाः । संख्यातीतं च तद्दानं मर्मशल्यायते मम ॥ ४५० ॥ पद्मिन्यामुपहासो मे पद्मस्येव हिमाशनिः । पतितः क्षीयते जाने न शरीरक्षयं विना ।। ४५१ ॥ इति प्रलापी शोकोष्णं द्वेषावेशात्सुयोधनः । वार्यमाणः शकुनिना न्यवर्तत न दुर्मतिः ॥ ४५२ ॥ परोत्कर्षद्वेषः खरखदिरचूर्णानलनिभ- युतश्चित्ते दाहं दिशति निशितक्लेशमसताम् । परोत्साहे चन्द्रप्रचयसचिवः किं च महता- मनन्तः संतोषश्चरति हृदये चन्दनरसः ॥ ४५३ ॥ ततः स धृतराष्ट्राय विवर्णः पाण्डुरः कृशः । निवेदितः शकुनिना तं द्यूताज्ञामयाचत ॥ ४५४ ॥ कृच्छ्रात्कृताभ्युपगमः स पित्रा द्यूतकैतवे । अकारयन्मणिमयैः कुशलैः शिल्पिभिः सभाम् ॥ ४५५ ॥ स धर्मजं राजसूयसमयादनिवर्तिनम् । आहूय विदधे छद्मद्यूतं शकुनिमायया ॥ ४५६ ॥ कूटाक्षक्षपिताशेषकोषसैन्यपरिच्छदः । पणं भ्रातृनथात्मानं कृष्णां च विदधे नृपः ॥ ४५७ ।। दुःशासनकराकृष्टकेशीमथ रजस्खलाम् । कृष्णां द्यूतजितां दासीमानिनाय सुयोधनः ॥ ४५८ ॥ तत्कोपादकरोद्भीमः प्रतिज्ञामूरुभञ्जने । युधि दुर्योधनस्यासृक्पाने दुःशासनस्य च ॥ ४५९ ॥ वने द्वादशवर्षाणि निवासाय पणे कृते । त्रयोदशे तथाऽज्ञाते विजिताः पाण्डवा ययुः ॥ ४६० ॥ हाराहे तनुचीनपट्टपवनत्वङ्गत्तरङ्गोद्भवे धृत्वाङ्गे हरिचन्दनेन्दुमृगजाभ्यङ्गे कुरङ्गत्वचम् । १. 'कूट' क-ख. २. 'अतिवर्तनम्' ग-घ. ३. 'तुरङ्गोद्भवे' ख-ग.

काव्यमाला। कृत्वा रत्नकिरीटघानि च जटा जग्मुर्वनं पाण्डवा निःसत्या भ्रमयन्ति पण्यवनिताप्रेमोपमाः संपदः ।। ४६१ ॥ स्खलद्विद्युल्लेखाङ्करमुखमयूखोपमसुखाः श्रियश्चापाकर्षोच्चलितहरिणीवेगगमनाः । विवाहोत्साहाप्ताः क्षणमिव सुहृद्वान्धवजना न संसारे स्वप्नभ्रमपरिचये किंचिदचलम् ।। ४६२ ॥ ततः स्तुतिप्रसन्नार्कनिर्दिष्टाक्षयभोजनैः । द्विजपूजाजुषस्तस्थुः काम्यके पाण्डवा वने ॥ ४६३ ॥ धृतराष्ट्रं परित्यज्य भ्रातृजच्छद्मखेदवान् । विदुरः काम्यकं यातः प्रार्थितः पुनराययौ ॥ ४६४ ॥ सोऽवदद्भातरं राजन्पुत्रस्नेहवता त्वया । कुललक्ष्मीलतामूले कुठारः कठिनोऽर्पितः ॥ ४६५ ।। यत्प्राह भगवान्व्यासः पथ्यं तन्न कृतं हितम् । श्वभ्रसुप्ता प्रबुध्यन्ते न निपातव्यथां विना ॥ ४६६ ॥ बन्धुसंध्यर्थनाभङ्गकोपशापः क्षयक्षमः । मैत्रेयमुनिना दत्तः कष्टं न गणितस्त्वया ॥ ४६७ ।। भीमादीमं भयं शके येन रावणसंनिभः । स क्रूरकर्मा किर्मीरः कानने राक्षसो हतः ॥ ४६८ ॥ विदुरेणेत्यभिहितं नामन्यत महीपतिः । दैवादिष्टनिपातानां मिथ्यैवालम्बनक्रिया ॥ ४६९ ॥ वने पाण्डुसुतान्दृष्ट्वा क्रुद्धः कौरवदुर्नयात् । अभिमन्युं सुभद्रां च समादाय हरिर्ययौ ॥ ४७० ॥ भीष्मद्रोणास्त्रमाहात्म्यचिन्ताकुलनृपाज्ञया । अथास्त्रार्थी ययौ पार्थस्तपसे तुहिनाचलम् ॥ ४७१ ।। १. 'धामनि जटा' ख. २. 'भोजनाः' ख... 'पाण्डवाः काम्यके' ख. ४. 'ययौ हरिः ख ८ श्रीकृष्णावतारः] दशावतारचरितम् । १९७ तीनं तपस्यतस्तस्य सत्त्वसारपरीक्षकः । देवः किरातरूपेण त्रिपुरारिः समाययौ ॥ ४७२ ॥ एकसूकरनिर्भेदस्पर्धाबन्धविरुद्धयोः । युद्धमत्युद्धतं कूटकिरातार्जुनयोरभूत् ॥ ४७३ ।। स्मरारिशबरेणाथ प्रस्तशस्त्रः प्रमाथिना। युयुधे बाहुयुद्धेन धैर्यराशिर्धनंजयः ॥ ४७४ ॥ निपीड्य चण्डीपतिना निश्चेष्टः पातितः क्षितौ । गाण्डीवधन्वा प्रत्यक्षं निरीक्ष्य ब्यक्षमब्रवीत् ॥ ४७५ ॥ दर्पोद्धतत्रिपुरकाननपावकाय भक्तार्तितापतुहिनद्युतिमण्डलाय । संसारघोरतिमिरोत्कटभास्कराय तुभ्यं त्रिधामशबलाय नमः शिवाय ॥ ४७६ ॥ इति स्तुतिकृतानन्दसुधासंपूर्णमानसात् । अस्त्रं पाशुपतं तुष्टाकिरीटी प्राप धूर्जटेः ॥ ४७७ ।। संप्राप्तलोकपालास्त्रः सहस्रतुरगं रथम् । शक्रप्रेषितमारुह्य विजयस्त्रिदिवं ययौ ॥ ४७८ ॥ प्रणम्य तत्र वृत्रारिं तद्गाढालिङ्गनातिथिः । तदासनाध तत्प्रीतिनिर्दिष्टं प्राप पाण्डवः ॥ ४७९ ।। पार्थमिन्द्रासनार्धस्थं दृष्ट्वा शक्रगिरा मुनिः । तद्वृत्तान्तं ययौ वक्तुं लोमशः पाण्डवान्वनम् ।। ४८० ।। प्राप्तपूजासनस्तेभ्यः स निवेद्यार्जुनोदयम् । तीर्थयात्राधृतोत्साहं विदधे धर्मनन्दनम् ॥ ४८१ ॥ नैमिषाद्येष्वथ स्नाताः सर्वतीर्थेषु पाण्डवाः । गन्धमादनशैलाकं बदर्याश्रममाययुः ॥ ४८२ ॥ पवनप्रेरितं तत्र दिव्यपद्मं पुरश्च्युतम् । आदाय द्रौपदी भीमं कटाक्षेण निरक्षत ॥ १८३ ॥ १. 'अत्यद्भुतं' ख-ग. २. 'मानसः' क-घ. दशा० ११ काव्यमाला। अन्यपद्मार्थितां तस्य धीमान्विज्ञाय मारुतिः । ययौ सौरभमार्गेण धनदाध्युषितां दिशम् ।। ४८४ ॥ स व्रजन्काञ्चनलतानिचयाचितवर्मना । दिदेश मददारियं सिंहनादेन दन्तिनाम् ।। ४८५ ॥ पादन्यासाद्भुतगिरेस्तस्य शब्देन विस्मितः । हनुमान्मार्गमर्माश्रित्य तस्थौ खल्पवपुः पुरः ॥ ४८६ ॥ सोऽल्परूपं कपिं दृष्ट्वा जानुसंधिकृताननम् । चकारोत्सारणरवं घनं घट्टितदिक्तटः ॥ ४८७ ।। शनैरुन्मील्य नयने तं जगाद प्लवंगमः । किमयं मदसंरम्भस्तव मिथ्यैव निर्जने ॥ ४८८ ॥ नादेन मां खेदयता विश्रान्तं रोगदुर्बलम् । दर्शितं कृशशूरेण भवता बत पौरुषम् ॥ ४८९ ॥. इतःपरं न गन्तव्यं देशोऽयं सिद्धसेवितः । सर्वथा यदि गन्तासि पुच्छमुत्सार्य गम्यताम् ॥ ४९० ॥ इत्युक्ते कपिना भीमस्तत्पुच्छोत्सारणाक्षमः । श्रान्तः पतन्मुखेनाधस्तमभाषत विस्मितः ॥ ४९१ ।। को भवान्किमनन्तात्मा कि मेरुः किं हिमाचलः । मार्ग देहि न लङ्घयो हि देही देहितनुस्थितः ॥ ४९२ ।। यदि न स्यात्तवान्तःस्थः परमात्मा सनातनः । साचलं लङ्घयेय त्वां हनुमानिव सागरम् ।। ४९३ ।। श्रुत्वैतत्कपिना पृष्टः क एष हनुमानिति । भीमोऽस्मै हनुमद्वृत्तं श्रौतृत्वं च न्यवेदयत् ॥ ४९१ ।। अहं स हनुमान्भीम तेनेत्युक्ते तदर्थितः । कपिः सूर्यपथावाप्तं दीप्तं वपुरदर्शयत् ॥ ४९५ ।। संनिधानं करिष्यामि धनंजयरथध्वजे । इत्युक्त्वालिङ्गितस्तेन भीमः प्रायात्स विस्मयः ।। ४९६ ॥ १. 'आवृत्य' ख-ग. २. 'जनार्दनः' ख-ग. ३. 'भ्रातृव्यं' क-घ.

आयातः पञ्चभिर्वर्षेः ८ श्रीकृष्णावतारः] दशावतारचरितम् । कुबेरनलिनीं प्राप्य मीमः कनकपङ्कजम् । जहार हेमपद्मानि हत्वा गुह्यककिंकरान् ॥ ४९७ ।। सानुगं खयमायातं जित्वा वैश्रवणं रणे मणिमन्तं च तन्मित्रं हत्वा नक्तंचरेश्वरम् ॥ ४९८ ॥ द्रौपद्यै कनकाजानि दत्त्वा पवननन्दनः । मायाप्रच्छन्नमवधीद्यातुधानं जटासुरम् ॥ ४९९ ॥ अथ शक्ररथारूढः पार्थः पूर्णमनोरथः । : प्रणनाम युधिष्ठिरम् ॥ ५०० ।। हतान्यवेदयत्सोऽमै हिरण्यपुरवासिनः । निवातकवचान्दैत्यान्खशौर्याख्यानलज्जितः ॥ ५०१ ॥ वने महानजगरः कदाचिदचलोपमः । बवा भुजयुगे भीमं चक्रे निश्चेष्टविग्रहम् ॥ ५०२ ॥ संरुद्धभुजनिःस्पन्दभ्रातृदर्शनदुःखितम् । उवाचाजगरः प्रश्नं दारयेति युधिष्ठिरम् ॥ ५०३ ।। को विप्रः किं च वेद्यं स्याब्रूहि भीमस्य मुक्तये । भुजगेनेत्यभिहिते तं जगाद युधिष्ठिरः ॥ ५०४ ॥ क्षमा सत्यं शान्तिस्तरुणकरुणं यस्य च मनः स शूद्रो विप्रत्वं प्रगुणगुणसङ्गेन भजते । द्विजोऽपि व्यर्थात्मा गुणविरहितः शूद्रसदृशः कृतैः कण्ठे विप्रस्त्रिगुणगुणसूत्रैर्न भवति ॥ ५०५ ।। सुखेन दुःखेन च वर्जितं यत्तदेव वेद्यं विदितात्मधाम । शीतोष्णहीनप्रतिमैव यत्र संतोषविश्राममयी प्रशान्तिः॥५०६॥ धर्मजेनेत्यभिहिते मुक्त्वा भीमं भुजंगमः । अगस्त्यादिष्टशापान्तो नहुषस्त्रिदिवं ययौ ॥ ५०७ ।। अथ पाण्डुसुतान्द्रष्टुं सहितः सत्यभामया । मार्कण्डेयादिभिः सार्ध मुनिभिः शौरिराययौ ॥ ५०८ ॥ १. 'द्विजोऽपि व्यक्तात्मा' ख-ग; 'द्विजोऽध्यव्यक्तात्मा' घ. २. 'त्यक्ला' क-ग.

१२० काव्यमाला। नानाकथामृताख्यानैः स्थिते तत्राच्युते चिरम् । सत्यभामावदत्कृष्णामेकान्ते कृष्णवल्लभा ॥ ५०९ ॥ वश्यास्ते पतयः कृष्णे केनाराधनकर्मणा । कैर्द्रव्यमन्त्रसूत्राज्ञातिलकाञ्जनलेपनैः ॥ ५१० ॥ ममोपदिश जानासि यत्किंचित्प्रीतिकारणम् । इत्युक्ते कृष्णकामिन्या श्रुत्वा कृष्णा जगाद ताम् ॥ ५११ ॥ अयुक्तमुक्तं सुभगे भवत्या धर्मवर्जितम् । वश्यदोषक्रिया स्त्रीणां भर्तृद्रोहार्हपातकम् ॥ ५१२ ॥ वश्यप्रयोगैर्योषिद्भिः कुष्ठापस्माररोगिणः । भमभाग्याश्च पतयो मूकान्धबधिराः कृताः ॥ ५१३ ॥ भक्तिश्चित्तग्रहः शीलं सतीनां भर्तृभेषजम् । इत्युक्ते लज्जया भेजे सत्यभामा निलीनताम् ॥ ५१४ ॥ यातेऽथ द्वारकां कृष्णे घोषयात्रापदेशवान् । पाण्डवानाययौ द्रष्टुं श्रीभ्रष्टान्धृतराष्ट्रजः ॥ ५१५ ॥ वने विहारिणस्तस्य तुल्यावरणकारणे । रणे बभूव संमर्दो गन्धर्वैः सैन्यदारणः ॥ ५१६ ॥ भमेषु कर्णमुख्येषु सानुजं कौरवेश्वरम् । बबन्ध गन्धर्वपतिश्चित्रसेनः शरार्दितम् ॥ ५१७ ॥ बद्धं सुयोधनं बन्धुधिया राजा युधिष्ठिरः । भीमपार्थो विसृज्याजौ म्लानमानममोचयत् ॥ ५१८ ॥ अपि विस्मृतवैरेषु प्राणदानोपकारिषु । द्वेषदोषं न तत्याज पाण्डवेषु सुयोधनः ॥ ५१९ ॥ दृष्ट्वा चन्द्र सकलजनतालोचनानन्दहेतु सद्यो वऋद्युतिरलसतामेति पद्माकरस्य । नान्तःस्यूता चलति रिपुता किं च संकोचभाजः प्रायेणैते खजनविमुखाः श्रीमदान्धा भवन्ति ॥ ५२० ॥ 'पन्धुः क-ग. २..स्फीता' क-घ.. ३. 'वरति' क-ग..

८ श्रीकृष्णावतारः] दशाक्तारचरितम् । १२१ तेन तीवावमानेन राज्यत्यागनिबद्धधीः । से समाश्वासितोऽभ्येत्य दैत्यैः पातालवासिभिः ।। ५२१ ॥ अत्रान्तरे पाण्डवेषु यातेषु मृगयारसात् । आययौ वनयात्रायां सिन्धुराजो जयद्रथः ॥ ५२२ ॥ स कृष्णामाश्रमे दृष्ट्वा सीतामिव दशाननः । जहार हारितमतिः करुणाक्रन्दिनी बलात् ॥ ५२३ ॥ ततः प्रत्यागता दृष्ट्वा पाण्डवाः शून्यमाश्रमम् । ध्वजिनीं च रजोग्रस्तगगनां समुपाद्रवन् ॥ ५२४ ॥ शराशनिविनिष्पिष्टसैन्यानालोक्य पाण्डवान् । रथाज्जयद्रथः कृष्णां तत्याज ज्वलितामिव ॥ ५२५ ॥ अभिसृत्याथ भीमेन गृहीतं वधकम्पितम् । ररक्ष सिन्धुनृपतिं शरणाप्तं युधिष्ठिरः ॥ ५२६ ॥ पादेनालोडितं प्र(स्र)स्तमुकुटं तस्य मारुतिः । क्षुरप्रेण प्रलपतश्चक्रे पञ्चसटं शिरः ॥ ५२७ ॥ रुद्रमाराध्य तपसा सैन्धवः फाल्गुनं विना । वरमेकदिनं प्राप पाण्डवावरणं रणे ॥ ५२८ ॥ अत्रान्तरेऽर्जुनस्नेहाकर्णमेत्य शतक्रतुः । ययाचे कवचं दिव्यं कुण्डले च शशिप्रभे ।। ५२९ ॥ पित्रापि वारितोऽर्केण तस्मै वर्म सकुण्डलम् । एकवीवधायास्मै शक्तिं वैकर्तनो ददौ ॥ ५३० ॥ शूरा भवन्ति विदुषामपि नास्ति संख्या पूर्ण वनं व्रतरतैर्विरलस्तु दाता । म्लानिं प्रयाति सितसत्त्वमयस्य यस्य देहप्रधानसमयेऽपि न चित्तवृत्तिः ॥ ५३१ ॥ अरणी हरिणेनाथ ब्राह्मणस्य हृतां वने । जवेन जग्मुराहतु धन्विनः पाण्डुनन्दनाः ॥ ५३२ ॥ १.'अपमानामितो' क-घ. २.'वर' ख-ग. ३. फाल्गुणं' ख-ग. ४.'वधायात्त'क-घ.

काव्यमाला। निर्जलारण्यतापातैरन्वेष्टुमथ तैः पयः । माद्रीसुतः प्रेषितोऽग्रे ददर्श विपुलं सरः ५३३ ॥ प्रश्नमुक्तिकृता पेयमन्यथा नेति खाद्वचः । श्रुत्वापि पाण्डवः पीत्वा तोयं तत्याज जीवितम् ॥ ५३४ ॥ क्रमान्माद्रीसुते पार्थे भीमे च प्रच्युते तटे। युधिष्ठिरः प्रश्नगिरं बभञ्ज गगनेरिताम् ॥ ५३५ ॥ निर्जीवः कः सजीवोऽपि योऽनात्येकोऽर्थिवर्जितः । खक्ष्माधिकौ को पितरौ किं लोलमनिलान्मनः ॥ ५३६ ॥ किमनन्तं नृणां चिन्ता धनं किमधिकं श्रुतम् । लाभाकिमुत्तमं स्वास्थ्यं किं सुखं चित्तनिर्वृतिः ।। ५३७ ।। संधि स्थिरः कैः सुजनैः किं शोककृदहंकृतिः । किमैश्वर्यमलुब्धत्वं किं निःशल्यमकोपता ॥ ५३८ ॥ किं विषं याचनं श्राद्धकालः कः श्रोत्रियागमः । उच्यते पुरुषः कश्च भुवनव्यापि यद्यशः ॥ ५३९ ॥ इति प्रश्नोत्तरैस्तुष्टः पिता धर्मः क्षमापतेः । जीवयित्वानुजान्गुप्तिमज्ञातसमयेऽप्यदात् ॥ ५४० ॥ अथ वनसमयान्ते गूढवासप्रवृत्ताः प्रययुरजिनखिन्नाः पाण्डवा मत्स्यदेशम् । प्रगुणगुणगणानामापदो दैवदिष्टाः सुरपतिसदृशानामप्यहो दुर्निवाराः ॥ ५४१॥ अथाभून्मत्स्यराजस्य राजराजशिरोमणेः । विराटस्य सभास्तारः कङ्कनामा युधिष्ठिरः ॥ ५४२ ॥ सूदस्तस्याभवद्भीमः क्षमापतेर्वल्लभाभिधः । गायत्यलिकुलैः कीर्ति लोला यस्यालकाजिनी ॥ ५४३ ॥ श्रीकण्ठशबराकुण्ठकण्ठक्रमणकर्मठः । शण्ठाकृतिरभूजिष्णुर्तृत्तवृत्तिवृहन्नडः ॥ ५४४ ॥ १. 'सलिलात्' ख-ग. २. षण्डाकृति' ख-ग.

८ श्रीकृष्णावतारः] दशावतारचरितम् । १२३ मत्स्यपन्याः सुदोष्णायाः कृष्णा सैरिन्ध्रिकाभवत् । अभूतामश्विपुत्रौ च यमौ गोतुरगाधिपौ ॥ ५४५ ॥ इति ते तुरगाधीशसेव्याः सेवकतां ययुः । विश्वासः श्रीविलासेषु कस्यान्यस्य भविष्यति ॥ ५४६ ॥ अथायातं हतानेकमलं भूमिपतेः पुरः । मल्लं जीमूतनामानं मारुतिः क्रीडयावधीत् ॥ ५४७ ॥ सुदोष्णायाः प्रियो भ्राता कदाचिदथ कीचकः । विलोक्यान्तःपुरे कृष्णामभवत्काममोहितः ॥ ५४८॥ व्याजेन प्रेषितां खस्रा भयसंभ्रम विद्रुताम् । कीचकस्तामभिद्रुत्य चकर्ष चरणाहताम् ॥ ५४९ ॥ सा सभामेत्य भूभर्तुरग्रे प्राह पराभवम् । राजापि कीचकस्नेहाच्चके गजनिमीलितम् ।। ५५० ।। आर्ताक्रन्दश्रवणबधिराः सेवकालोकनान्धाः प्रत्यालापप्रणयिनि जने निश्चलोत्सेकमूकाः । भूपाः प्रायः पिशुनदचनाकर्णने हस्तिकर्णा नीचप्रीतिप्रसृतनयनाश्चञ्चलानेकवाचः ॥ ५५१ ॥ भीमं महानसे सुप्तं सा प्रबोध्य तमभ्यधात् । बाष्पैः करतलस्पृष्ट क्षालयन्तीव वाससी ।। ५५२ ।। क्रुद्धेन तेन निर्दिष्टां सा समादाय संविदम् । कीचकस्याकरोत्प्रातः संकेतं नाट्यवेश्मनि ॥ ५५३ ।। रात्रौ पूर्वप्रविष्टोऽथ भीमः कीचकमागतम् । केसरीव द्विपं मतमवधीन्मूढकामुकम् ॥ ५५४ ॥ पतयो मम गन्धर्वाः कृष्णयेत्युदितं पुरा । तैरेव निहतं मेने प्रभाते कीचकं जनः ॥ ५५५ ॥ १. भारते सुदेष्णेति नामास्ति. २. अस्मदीयं घ-पुस्तक 'की' इति पर्यन्तं वर्तते. ३. 'निमीलनम्' ख-ग.

१२४ काव्यमाला। तस्य प्रातृशतं देहसंस्काराय समुद्यतम् । कृष्णां चितानले क्षेप्तुमनयदुःखदायिनीम् ॥ ५५६ ॥ भीमस्तत्करुणाक्रन्दमाकर्ण्य क्रूरकोपवान् । शतं वृक्षप्रहारेण कीचकानामपातयत् ॥ ५५७ ॥ प्रेरितः कौरवेन्द्रोऽथ त्रैगर्तेन सुशर्मणा । हतु कीचकहीनस्य विराटस्याययौ धनम् ॥ ५५८ ॥ संरुद्ध नगरे मत्स्यः पूर्वमेव सुशर्मणा । कवल्लभगोवाजिपत्तिभिः सह निर्ययौ ॥ ५५९ ॥ ततः प्रवृत्ते समरे मिथः सुभटसंक्षये । जवाद्विराटमहरत्सुशर्मा शरवर्षिणम् ॥ ५६० ।। भीमोऽभिसृत्य निष्पिष्टरथस्यास्य सुशर्मणः । पादेन मौलिमुन्मथ्य मत्स्यराजममोचयत् ॥ ५६१ ।। त्रिगर्तकटके भने सामात्यः कौरवेश्वरः । विराटगोधनं सर्व जहारान्येन वर्मना ॥ ५६२ ।। शूरशून्येऽथ नगरे विराटसुतमुत्तरम् । अभ्येत्य जगदुर्गोपाः कौरवैर्गोधनं हृतम् ॥ ५६३ ।। सोऽब्रवीचौरचरितं कौरवं हन्म्यहं रणे । गुप्तं भीष्मकृपद्रोणकर्णमुख्यैर्महारथैः ॥ ५६४ ॥ किं तु मे सारथिर्नास्ति रणभारभरक्षमः । इत्युक्ते राजपुत्रेण द्रौपदी तमभाषत ॥ ५६५ ॥ उत्तरायाः स्वसुर्यस्ते नृत्ताचार्यों बृहन्नडः । स सारथिरभूत्पूर्व खाण्डवे सव्यसाचिनः ॥ ५६६ ॥ अथोत्तरार्थितः पार्थः प्रतिपन्नरथग्रहः । चकार कवचाबन्धवैपरीत्यैर्जनस्मितम् ॥ ५६७ ॥ अथोत्तरे रथारूढे जवेनाश्वानचोदयत् । क्रीडायै कुरु वस्त्राणि जिष्णुरुत्तरयार्थितः ॥ ५६८ ।।

८ श्रीकृष्णावतारः]
दशावतारचरितम् ।
१२५
दृष्ट्वोत्तरः कौरवेन्द्रसैन्यं शस्त्रजलार्णवम् ।
निवर्तखेति भीभग्नस्त्राणार्थी पार्थमभ्यधात् ॥ ५६९ ॥
तमर्जुनोऽवदन्निन्द्यं क्षत्रियस्य पलायनम् ।
एकवारक्षये काये मरणं न पुनः पुनः ॥ ५७० ॥
श्रुत्वैतत्कातरतया रथमुत्सृज्य विद्रुतम् ।
आनिनायोत्तरं केशैः पश्चादाकृष्य फाल्गुनः ॥ ५७१ ॥
योत्स्येऽहं कुरुभिधैर्य भजख भव सारथिः ।
अर्जुनोऽहं भवद्गहे कङ्काद्याः पाण्डवाः स्थिताः ॥ ५७२ ॥
श्मशानान्तःशमीवृक्षस्कन्धे सन्त्यायुधानि नः ।
प्रयच्छ मम गाण्डीवमित्युवाच तमर्जुनः ॥ ५७३ ॥
उत्तराहृतमादाय धनुरास्फाल्य पाण्डवः ।
तत्प्रेरितरथस्तूर्णं विवेश कुरुवाहिनीम् ॥ ५७४ ॥
एकैकशः समस्तांश्च शराशनिघनागमः ।
भीष्मकर्णकृपद्रोणमुख्यानजयदर्जुनः ॥ ५७५ ॥
प्रखापनास्त्रसुप्तानां कुरूणामुत्तराकृते ।
जहार जिष्णुर्वासांसि यशांसीवाभिमानिनाम् ॥ ५७६ ॥
प्रत्याहृते गोधनेऽथ विजयेन जितारिणा ।
चक्रे विराटः पुत्रस्य सभायां विक्रमस्तुतिम् ॥ ५७७ ॥
बृहन्नडप्रभावेण पुत्रस्ते विजयोर्जितः ।
वदन्निति विराटेन प्रहतोऽक्षयुधिष्ठिरः ॥ ५७८ ॥
हेमपात्रे धृते रक्ते द्रौपद्या चक्रवर्तिनः ।
प्रविवेशार्चितः पौरैरवाप्तोन्नतिरुत्तरः ॥ ५७९ ।।
अक्षाभिघातरक्ताक्तललाटं वीक्ष्य धर्मजम् ।
स प्रसाद्य प्रयत्नेन निनिन्द कुकृतं पितुः ॥ ५८० ॥
अज्ञातवाससमये पूर्णे पाण्डुसुतानथ ।
हृष्टः प्रकटतां यातान्विराटः समपूजयत् ॥ ५८१ ॥

काव्यमाला। तेषामभ्युदयं ज्ञात्वा प्राप्तेष्वखिलबन्धुषु । विराटस्तनयां प्रादादुत्तरामभिमन्यवे ॥ ५८२ ॥ कृष्णसात्यकिहलायुधकुन्तिभोज- पाञ्चालशैब्यमगधेशशिखण्डिमुख्यैः । साध सभाभवमुपेत्य विराटजुष्टां प्रापुः श्रियं कनकविष्टरसंनिविष्टाः ॥ ५८३ ।। अखण्डितान्पाण्डुसुतान्विज्ञाय कुरुभूपतिः । अलङ्घयशासनं दैवं मेने दलितपौरुषम् ॥ ५८४ ॥ तेषामक्षौहिणीः सप्त ज्ञात्वाथ समुपागताः । दुर्योधनः प्रविदधे भूपालबलसंग्रहम् ॥ ५८५ ॥ पाण्डवार्थे समायातं पथि 'संमानभोजनैः । आराध्य तुष्टमहरत्स शल्यं मद्रभूपतिम् ॥ ५८६ ॥ द्वारकायां ततः कृष्णं सुयोधनधनंजयौ । तुल्यमभ्येत्य साहाय्यं ययाचाते रणोद्यमे ॥ ५८७ ।। अक्षौहिण्या परिवृतं कृतवर्माणमच्युतः । दत्त्वा कुरुपतेभीगमयोद्धा पाण्डवान्ययौ ॥ ५८८ ॥ वृतः सौबलहार्दिक्यभगदत्तजयद्रथैः । एकादशाक्षौहिणीभिः कौरवः प्रमदं ययौ ॥ ५८९ ।। अत्रान्तरे रणारम्भसंशयाकुलिताशयम् । धृतराष्ट्र समभ्येत्य प्रणम्योवाच संजयः ॥ ५९० ।। अराज्यदानसंधानदूतोऽहं तव शासनात् । गतः पाण्डुसुतान्द्रष्टुं लोभाभ्यासेन लज्जितः ॥ ५९१ ॥ मयोक्तं भवतोक्तं यत्प्रत्युक्तं यत्तु पाण्डवैः । देव वक्तास्मि तत्प्रातः सभायां भूभुजां पुरः ॥ ५९२ ।। इत्युक्त्वा संजये याते धृतराष्ट्रः खदुर्नयात् । तद्वाक्यशङ्काकुलितः प्राप निद्रादरिद्रताम् ॥ ५९३ ॥ १. 'संमान्य क.

८ श्रीकृष्णावतारः] दशावतारचरितम् । १२७ ४ प्रजागरगंदावस्थं द्वाःस्थाहूतः सुखोज्झितम् । तमेत्य विदुरः प्राह संजयोक्ताप्तसंशयम् ॥ ५९४ ।। अयं ते सुमते कस्मान्निद्राद्रोही महाज्वरः । तापं नायान्ति निष्कामा निर्लोभा निर्भया अपि ॥ ५९५ ॥ त्यक्ताभिमानः संतोषी निद्वेषः शीलवान्क्षमी । दुःखैकसारे संसारे पञ्चैते सुखनिर्वृताः ॥ ५९६ ।। लोभाभ्यासव्यसनमसमं चिन्तया हन्ति निद्रां खस्थः शेते प्रसृतचरणः किं तु निलोंभ एव । लोभः पुंसामसमविषमः कृष्णवा विधत्ते तीव्र तापं जनधनघनस्नेहसंपूर्यमाणः ॥ ५९७ ॥ असेवाप्ता वृत्तिः खलपरिभवायासरहिता वचः सत्यस्नातं परगुणगणोदीरणपरम् । अनुत्तानः पाणिः परधनकणस्पर्श विमुखः प्रकृत्या निर्वैरं हृदयममलं यस्य स सुखी ॥ ५९८ ॥ राज्याध भ्रातृपुत्रेभ्यः प्रयच्छ त्यज लुब्धताम् । बन्धुवैररजोदिग्धं प्रक्षालय धिया मनः ॥ ५९९ ॥ त्यजैकं कुमतिं पुत्रं संरक्ष सकलं कुलम् । गोनासदष्टमेकाङ्गं त्यज्यते जीविताप्तये ॥ ६०० ॥ विदुरेणेत्यभिहिते धृतराष्ट्रस्तमब्रवीत् । युक्तमुक्तं त्वया किं तु त्यक्तुं शक्नोमि नात्मजम् ॥ ६०१ ॥ हेलास्थलीकृताम्भोधिस्तृणीकृतहिमाचलः । स्वातन्त्र्यचित्रचरितः केन वा लङ्घयते विधिः ॥ ६०२ ॥ श्रुतं न मृत्युरस्तीति मया किल वचः पुरा । तहीति क्षितीशेन पृष्टस्तं विदुरोऽवदत् ॥ ६०३ ।। स्वयं वक्तुं न युक्तं मे राजन्नुपनिषत्पदम् । सनत्सुजातो योगीन्द्रः सर्व ते कथयिष्यति ॥ ६०४ ॥ १. 'गरावस्थंक. २. 'निदोषः' क. ३. 'च' क. ४. 'तीव्रः'क.५. 'गोनसा' क-ख.

१२८ काव्यमाला। अभिधायेति विदुरस्तं सस्मार स चाययौ । प्राप्तपूजासनः पृष्टः क्ष्माभुजेति तमभ्यधात् ॥ ६०५ ॥ राजन्देहभृतां मृत्युः क्रोधः खवंदनोदितः । येनाहतश्च हन्ता च मर्मदाहेन शोचितः ॥ ६०६ ॥ रागद्वेषादयो दोषा जनानां जन्मकारणम् । जन्मैव मृत्युः संसारे नास्ति मृत्युरजन्मनाम् ॥ ६०७ ॥ न मुक्तिर्वेदवादेन देहान्ते स पलायते । वीणावंशेषु भमेषु न कचित्तिष्ठते ध्वनिः ।। ६०८ ।। आत्मप्रत्यवमर्शेन पुनर्जन्म न विद्यते । आत्मप्रकाशं पश्यन्ति योगिनस्तं सनातनम् ॥ ६०९॥ इत्युक्त्वान्तर्हिते तस्मिन्योगीन्द्रे तेजसां निधौ । राजा राजसभां प्रातर्भेजे भीष्मादिभिः सह ॥ ६१० ॥ आहूतः संजयस्तत्र पाण्डवोक्तिं न्यवेदयत् । श्रूयतामविरुद्धैर्वा क्रुद्धैर्वा तैरुदाहृतम् ॥ ६११ ॥ खं राज्यं प्रददाति यद्यवनिपस्तत्किं हतैर्बान्धवै- डूंते किं तु कृतां न विस्मरति तां भीमः प्रतिज्ञां निजाम् । पाणिः किं च पितृव्यपादविनतौ चापे च धावत्ययं तुल्यं चित्तममन्युमन्युशबलं संधौ च युद्धे च नः ॥ ६१२ ।। श्रुत्वैतद्धृतराष्ट्रेण तनयक्षयभीरुणा । भीष्माद्यैश्वार्थितः संधि बुबुधे न सुयोधनः ।। ६१३ ।। अत्रान्तरे लोकगुरुर्लोकप्रत्यायनोद्यतः । संध्यर्थी कौरवान्कृष्णः खयमेव समाययौ ॥ ६१४ ॥ भक्त्या पुरः समायातैर्भीष्मद्रोणकृपादिभिः । सहितः स विवेशाथ धृतराष्ट्रस्य मन्दिरम् ॥ ६१५ ॥ हृष्टेन पूजितस्तेन प्रणयेन निमन्त्रितः । खेहे विपदि वा भोक्तुं युक्तमित्याह केशवः ॥ ६१६ ॥ १. 'माभुजा च' ख-ग. २. 'वचनो' क, ३. 'अलं' ख-ग. ४. 'पुरा' ख.

८ श्रीकृष्णावतारः] दशावतारचरितम् । १२९ विदुरस्य गृहे भुक्त्वा नीत्वा तत्कथया क्षपाम् । प्रभाते राजभिर्जुष्टां प्रविवेश सभां हरिः ॥ ६१७ ॥ हेमासनोपविष्टेऽथ सामात्ये कौरवेश्वरे । भेजे रत्नासनं शौरिः सहायातैर्महर्षिभिः ।। ६१८ ॥ अथ प्रथमजीमूतश्यामः सामसुधामयीम् । उज्जगार गिरं स्निग्धगम्भीरां गरुडध्वजः ॥ ६१९ ॥ कौरवेन्द्र स्वपुत्रास्ते प्रोतृपुत्रास्तु पाण्डवाः । सदृशाः किं त्वया तेषां भेदात्कलिरुपेक्षितः ॥ ६२० ॥ भवान्विद्यासिन्धुस्तव सुमतिदाता च विदुरः प्रणेता भीष्मोऽयं गुरुरपि भरद्वाजतनयः । अहो तत्राप्येषा प्रभवति मतिर्दुनयमयी न विद्मः कस्यायं कुकृतपरिपाकस्य विभवः ॥ ६२१ ॥ कलङ्क या दत्ते प्रसरदपवादास्पदतया सुहृद्भिर्नैराश्यात्कृतमुखविकारैः परिहृता । अभोग्या बन्धूनां कृशविवशभृत्यार्थिविफला सशापा सा संपद्विपदिव जनोद्वेगजननी ।। ६२२ ॥ यद्वृत्तं खलकेलिकैतवकलिक्लेशेन कालुष्यकृ- चित्ते तकिल संकलय्य सकलं लोकक्षयाशङ्किभिः । संधिर्वैररजोविरामविमलैरभ्यर्थ्यते पाण्डवै- ग्रामैः किं च कुशस्थलप्रभृतिभिः प्रीत्यार्पितैः पञ्चभिः ॥६२३॥ कौस्तुभाभरणेनेति भरतान्वयभूतये । सभ्यानां भीष्ममुख्यानां भाषितेऽभिमते सताम् ॥ ६२४ प्रबोधितोऽपि मुनिभिः कण्वभार्गवनारदैः । मदनिद्रालसः प्राह संधिद्वेषी सुयोधनः ॥ ६२५ ॥ मया सूच्यग्रमात्रापि न त्याज्या पाण्डवेषु भूः । किं मिथ्यानीतिचिन्ताभिर्दैवाधीना विभूतयः ॥ ६२६ ॥ १. 'श्यामः' क. २. 'भ्रातुः पुत्राश्च' क. ३. 'नारदभार्गवः' क. दशा० १२ काव्यमाला। भवति भिषगुपायैः पथ्यभुङ्गित्यरोगी धनधरणविनिद्रश्छिद्रगोप्ता दरिद्रः । अनयचयविधायी निश्चलैश्वर्यधैर्यः खवशनियंतशक्तेः शासनेनैव धातुः ॥ ६२७ ॥ इत्युक्त्वोत्थाय दर्पान्धः कर्णेन सह कौरवः । सभान्तराद्विनिर्गत्य बन्धं शौरेरचिन्तयत् ॥ ६२८ ॥ सह स्थितेन कथितं कर्णे सात्यकिना हरिः । ज्ञात्वा तन्मतमापेदे विश्वात्मा विश्वरूपताम् ॥ ६२९ ॥ विश्वाकारव्यतिकरलसद्ब्रह्मरुद्रेन्द्रचन्द्र- ाप्तः सर्वैः सुरमुनिगणैः सिद्धगन्धर्वसाध्यैः । निष्पर्यन्ताकृतिकृतजगद्गौरवः कौरवाणां निद्रामुद्रामदिशदशिवामच्युतः प्रच्युतानाम् ॥ ६३० ॥ विना भीष्मं सविदुरं मोहलीनेषु राजसु । सभामुत्सृज्य भगवान्प्रतस्थे गरुडध्वजः ॥ ६३१ ॥ पश्चात्कर्णमथायातमारोप्य स्वरथे हरिः । प्रेम्णा प्राहाकेतनयं कौन्तेयस्त्वं न सूतजः ॥ ६३२ ।। सहोदरान्पाण्डुसुतान्भजख त्यज कौरवान् । राज्यं तव क्रमायातं कुरु मद्वचनं हितम् ॥ ६३३ ॥ इत्युक्तं शौरिणा श्रुत्वा कर्णस्तं प्रत्यभाषत । सर्व वेद्मि न निन्द्यं तु मित्रद्रोहमहं सहे ॥ ६३४ ॥ देव त्वमेव वद कौरवभूमिभर्तु- रुत्सङ्गसक्तशिरसः कथमर्कजोऽहम् । व्यापारयामि सुहृदः परिपीय लक्ष्मी कण्ठे शठः कठिनधारमकुण्ठशस्त्रम् ॥ ६३५॥ साम्राज्यं निहतारातिरवाप्स्यति युधिष्ठिरः । स दृष्टः श्वेतवाहस्थः स्वप्ने पायसभुङ्मया ॥ ६३६ ॥ १. 'निषित' क. २. 'शैलस्थः' ख-ग.

८ श्रीकृष्णावतारः] दशावतारचरितम् । १३१ दृष्टाश्च कौरवाः सर्वे तैलाक्ताः खरवाहनाः । रक्तमाल्याम्बरोष्णीषा व्रजन्तो दक्षिणां दिशम् ॥ ६३७ ॥ इति वैकर्तनेनोक्तं विचिन्त्योचितमच्युतः । तं विसृज्य समामय प्रययौ पाण्डवान्तिकम् ॥ ६३८ ॥ प्रातः कुन्ती समभ्येत्य कर्ण सूर्यार्चनोन्मुखम् । मुक्तमौनं तदेवाह नामन्यत स चाचलः ॥ ६३९ ॥ उवाच च विना जिष्णुं ने हन्म्यन्यं तवात्मजम् । मयि तेन मया तस्मिन्हते त्वं पैञ्चपुत्रिका ॥ ६४० ।। श्रुत्वैतत्प्रययौ कुन्ती भग्नार्थितमनोरथा । ससैन्याश्च कुरुक्षेत्रमाजग्मुः कुरुपाण्डवाः ॥ ६४१ ॥ बलद्वये कुरुक्षेत्रे संनिविष्टे सुयोधनः । भीष्मं सेनापतिं चक्रे धृष्टद्युम्नं युधिष्ठिरः ॥ ६४२ ।। रथसंख्याक्षणे कर्ण भीष्मोऽधरथमभ्यधात् । तद्युद्धावधि युद्धं च कोपात्तत्याज सूतजः ॥ ६४३ ।। ततः सुयोधनं भीष्मः प्राहोत्साहाहवोन्मुखः । योद्धाहं त्वद्विपक्षाणामेकं मुक्त्वा शिखण्डिनम् ॥ ६४४ ॥ काशिराजसुतां पूर्व बलात्कन्याः खयंवरे । अम्बाम्बिकाम्बालिका च भ्रातुरर्थे समाहृताः ॥ ६४५ ॥ साल्वाभिलाषिणी नीता त्वयासीत्यार्तवादिनी । संत्यक्ताम्बा ययौ साल्वं सोऽपि तां नाग्रहीद्भिया ॥ ६४६ ॥ पुनः प्राप्ता मया त्यक्ता भममानमनोरथा । सा जगामोभयभ्रंशखिन्ना मुनितपोवनम् ॥ ६४७ ॥ ततस्तद्दुःखकारुण्याद्गुरुर्मामेत्य भार्गवः । अम्बां गृहाणेत्यवदत्प्रत्याख्यातः पुनः पुनः ॥ ६४८ ॥ आज्ञाभङ्गेन कुपितः स मया समरे जितः । ययौ क्षत्रोपदेशात्तनियमः खं तपोवनम् ॥ ६४९ ॥ १. 'उत्को'ख-ग. २. 'नाहं हन्मि' ख-ग. ३. 'पुत्रपञ्चका क. ४. 'अब्रवीत्'ख-ग.

काव्यमाला। मन्मन्युत्यक्तदेहाम्बा जाता मत्क्षयकाङ्किणी । कन्या पाञ्चालराजस्य द्रुपदस्य शिखण्डिनी ॥ ६५० ।। प्रख्यापिता पुत्रतया सा पित्रा पुत्रकाङ्किणा । लेमे दशार्णराजस्य विवाहविधिना सुताम् ॥ ६५१ ।। शय्यारूढा दशार्णेशकन्या कन्यां विलोक्य ताम् । दूत्या न्यवेदयत्पित्रे स च क्रुद्धः समाययौ ॥ ६५२ ॥ दशार्णरुद्ध नगरे द्रुपदे विद्रवोद्यते । खिन्ना शिखण्डिनी रात्रौ प्रययौ शून्यकाननम् ॥ ६५३ ॥ तत्र स्थूणाख्ययक्षेण कृपयैकदिनार्पितम् । विधातृशक्तिवैचित्र्यात्सा लेभे लक्ष्म पौरुषम् ॥ ६५४ ॥ दर्शितं द्रुपदेनाथ पुरुषव्यञ्जनं सुतम् । दृष्ट्वा विमन्युर्दाशार्णः खां ययौ लज्जितः पुरीम् ॥.६५५ ॥ वनं वैश्रवणः प्राप्तस्तं समीपमनागतम् । स्थिरस्त्रीलक्षणं यक्षं शापेन विदधे क्रुधा ॥ ६५६ ॥ अगृहीतेऽथ यक्षेण खलक्ष्मणि शिखण्डिनी। पुरुषत्वं गता वlः स्त्रीपूर्वः स मया युधि ॥ ६५७ ॥ न संत्रस्ते न निःशस्त्रे नान्यविद्धे न विद्रुते । न स्त्रीपूर्वे न साक्रन्दे निपतन्ति ममेषवः ॥ ६५८ ॥ उक्त्वेति दिव्यतटिनीतनयस्तरखी वृद्धोऽपि शौर्यतरुणस्तरणिप्रतापः । प्रम्लानतां परबले निजकार्मुके ज्यां चित्ते च कौरवपतेधृतिमाबबन्ध ॥ ६५९ ॥ दिव्यं युद्धेक्षणं चक्षुः कृष्णद्वैपायनार्पितम् । अगृहीतमैथ प्राप धृतराष्ट्रेण संजयः ॥ ६६० ॥ कुरुपाण्डवसङ्कामं कुरुक्षेत्र विलोक्य सः । धृतराष्ट्राय निखिलं दिव्यचक्षुर्यवेदयत् ॥ ६६१ ॥ १. 'देहा सा' ख-ग. २. 'विच्युते' क. ३. 'अपि क.

८ श्रीकृष्णावतारः] दशावतारचरितम् । अथ युद्धाय संनद्धे भूमिपालबलद्वये । गुरून्भीष्मकृपद्रोणमुखान्संबन्धिबान्धवान् ॥ ६६२ ॥ दृष्ट्वा युद्धोद्यतानग्रे श्वेताश्वः कृष्णसारथिः । मुमोह करुणाक्रान्तः प्रशान्तसमरोद्यमः ॥ ६६३ ॥ तं समाश्वास्य शोकात जगाद गरुडध्वजः । त्रिजगत्सर्गसंहारक्रीडापरिचितोऽच्युतः ॥ ६६४ ॥ मनुष्यजन्मजनिता केयं ते मोहवासना । क्षयं यदक्षयस्यापि शङ्कसे परमात्मनः ॥ ६६५ ॥ स्फटिकस्येव कुरुते रागयोगाच्चिदात्मनः । मिथ्याकलङ्ककलनां कायाहंकारसंकरः ॥ ६६६ ॥ मेघव्योमसमागमप्रतिनिधिधूमाग्निसङ्गोपमः श्लेषः कायचिदात्मनोः प्रकुरुते भिन्नोऽप्यभिन्नक्रमम् । छिन्नेच्छाघनमूलनिष्फलतया नित्यप्रवृत्तक्रियैः संमोहः खपरावभेदरहितैर्युक्तैः स संत्यज्यते ॥ ६६७ ।। इत्युक्त्वा प्रत्ययोत्पत्त्यै विश्वव्याप्तिनिदर्शनम् । अर्जुनस्योर्जितं विष्णुर्विश्वरूपमदर्शयत् ॥ ६६८ ॥ तत्सर्वदेवमयमद्भुतमच्युतस्य रूपं सहस्रकरकोटिनिभं बभासे । निःशेषभूपतितरङ्गितसैन्यसिन्धु- प्रासाभिलाषवडवानलतुल्यवक्रम् ॥ ६६९ ।। वचः श्रुत्वा वपुर्दृष्ट्वा दिव्यं मोहहरं हरेः । निर्विकल्पमतिर्जिष्णुः सङ्ग्रामाभिमुखोऽभवत् ॥ ६७० ॥ रथाग्रादवरुह्याथ रणारम्भे युधिष्ठिरः । प्रणनाम प्रसादाान्भीष्मद्रोणमुखान्गुरून् ॥ ६७१ ॥ ते तमूचुर्गुणोदारं विधाय विजयाशिषम् । परं लज्जामहे राजन्प्रयातास्त्वद्विपक्षताम् ॥ ६७२ ।। १. 'युद्धोद्धतान्' २. 'प्रवृत्ता क्रिया' ख; 'प्रवृत्ता...' ग.

काव्यमाला। किं कुर्महे परायत्ता वेतनोत्तानपाणयः । कौरवस्य परं याताः सेवाकार्पण्यपण्यताम् ॥ ६७३ ॥ अग्रे संकुचिताकृतिर्लघुतया यात्युन्मुखत्वं विभो- राशापाशनिवेशयन्त्रिततनुः संख्याक्षणे लम्बते । अल्पेनापि समर्पितेन सुतरां वित्तेन धत्ते रतिं साकम्पः किल कायविक्रयतुलारूढः सदा सेवकः ॥ ६७४ ॥ इत्युक्त्वा तैर्विसृष्टेऽथ रथारूढे युधिष्ठिरे । चेरुवीरा यशःपुष्पलुब्धा इव शिलीमुखाः ॥ ६७५ ॥ प्रवृत्ते धनसंमर्दे नृत्यत्खड्गशिखण्डिनि । पेतुर्भूभृत्कुले भीष्मशरधारापरम्पराः ।। ६७६ ॥ द्वन्द्वसक्तेषु शूरेषु विराटसुतमुत्तरम् । निनाय समरे शल्यः क्षयारम्भोपहारताम् ॥ ६७७ ॥ नवमे युद्धदिवसे नागीतनयमा निम् । इरावन्तं जघानाजौ रक्षःपतिरलम्बुसः ॥ ६७८ ॥ प्रत्यहं युधि भीष्मेण भूभृतामयुते हते । दशमेऽह्नि क्षयाशङ्का पाण्डवानामजायत ॥ ६७९ ॥ भीष्माभिमुखमाप्तस्य रणे गाण्डीवधन्वनः । शिखण्डी पुरतस्तस्थौ मेघस्येव प्रवर्षिणः ॥ ६८० ॥ स्त्रीपूर्वदेर्शनोद्वेगशिथिलीकृतकार्मुकः । प्राह दुःशासनं मीष्मः किरीटिशरपूरितः ॥ ६८१ ॥ एते ते त्रिपुरारातिकिरातपतनोन्नताः । शराः खाण्डवशौण्डस्य चण्डा गाण्डीवधन्वनः ॥ ६८२ ॥ एते दुःसहदस्यवः कुरुपतेर्वस्त्रग्रहे गोग्रहे कोपव्याकुलकालखञ्जजयिनः पौलोमनिर्मूलनाः । जिष्णोर्लक्ष्यभिदः स्वयंवरमणे:(हे) क्षमापालवैलक्ष्यदा न स्त्रीपूर्वशिखण्डिनस्तनुतृणक्लीबाननाः सायकाः ॥ ६८३ ।। १. 'मेघस्येवेषु वर्षिणः' ख-ग. २. 'दर्शनोद्योग' ख-ग. ३. 'धन्विनः' ख-ग.

८ श्रीकृष्णावतारः] दशावतारचरितम् । १३५ इति ब्रुवन्कौरवेशं शरनिर्विवराकृतिः । स पपात रथादस्तशैलादिव दिवाकरः ॥ ६८४ ।। पितुर्वरेण खच्छन्दमृत्युर्योगपरायणः । उत्तरायणमाकान्स जीवितमधारयत् ।। ६८५ ॥ दिव्यास्त्रभिन्नभूजाततोयाप्यायकृदर्जुनः । शिरस्तस्य निराधारमुच्चिक्षेप शरैस्त्रिभिः ॥ ६८६ ॥ कर्णेन प्रणिपातकीर्णचरणः पूरेण बाष्पाम्भसा- माशापाशविमुक्तिनिश्चलसुखः संसारविस्तारिणम् । सस्मार स्मरणीयमन्तसमये संतोषविश्रान्तधीः शान्तानन्तविकल्पतैल्पविमले चित्तेऽच्युतं सोऽच्युतम् ॥६८७॥ अथ भीष्मविहीनस्य धृतिहीनस्य पश्यतः । सैन्यस्याधिपतिं चक्रे द्रोणाचार्य सुयोधनः ॥ ६८८ ॥ प्राप्ताभिषेकः प्रददौ वरं दुर्योधनाय सः । युधिष्ठिरं गृहीत्वा ते दास्यामि समरादिति ॥ ६८९ ॥ ततः प्रवृत्ते सङ्ग्रामे प्रथमेऽहि नृपक्षयः । इतोऽभूद्रोणविशिखैधृष्टद्युम्नशरैरितः ॥ ६९० ॥ द्वितीये युद्धदिवसे स्मारितः कुरुभूभृता । गतेऽर्जुने धर्मसुतं ग्रहीष्यामीति सोऽभ्यधात् ॥ ६९१ ॥ ततः संशप्तकाः शूराः शपथादनिवर्तिनः । त्रिगर्ताः समरारं निन्युराहूय फाल्गुनम् ॥ ६९२ ।। कौरवैः पाण्डवानीके कुरुसैन्ये च पाण्डवैः । त्रिगर्ताब्धौ च पार्थेन दारितेऽभून्नृपक्षयः ॥ ६९३ ॥ सुप्रतीकगजारूढस्ततः प्राग्ज्योतिषेश्वरः । मृद्गन्गजरथानीकं पाण्डुसेनां व्यलोकयत् ॥ ६९४ ।। १. 'निराधारं स चिक्षेप ख-ग. २. 'विस्तारणम्' ख. ३. 'विश्रान्तये' ख. ४. 'जल्प' स्व. ५. 'इति' क. ६. 'भूभुजा' क.

काव्यमाला। श्रुत्वास्य सैन्यसंमदं त्वरितः श्वेतवाहनः । मुरारिप्रेरितरथः कुञ्जरस्याभवत्पुरः ॥ ६९५ ।। घोरे प्रवृत्ते समरे किरीटिभगदत्तयोः । ऊर्ध्वाधःपातिनामासीत्संघर्षः पत्रिणामपि ॥ ६९६ ॥ विश्वक्षयक्षमं क्षिप्तं भगदत्तेन वैष्णवम् । जग्राहार्जुनरक्षायै वक्षसास्त्रमधोक्षजः ॥ ६९७ ।। पार्थास्त्रकृत्ते पतिते भगदत्तेऽथ भूभृति । भमभूभृत्कुला पृथ्वी चकम्पे कुरुवाहिनी ॥ ६९८ ॥ तृतीये युद्धदिवसे प्रतिज्ञाभङ्गलज्जितः । चक्रव्यूहं व्यधाक्रुद्धः संसारगहनं गुरुः ॥ ६९९ ।। पार्थे संशप्तकान्याते व्यूहं धर्मसुताज्ञया । सौभद्रः केसरिशिशुर्गजयूथमिवाविशत् ।। ७०० ॥ प्रवेष्टुमुद्यतान्व्यूहमभिमन्युविदारितम् । अवारयद्भर्गवरात्पाण्डुपुत्राञ्जयद्रथः ॥ ७०१ ॥ अभिमन्युशरोत्कृत्तशिरसां कङ्कटक्षये । भूभृतां वज्रभिन्नानां शृङ्गभङ्ग इवाभवत् ॥ ७०२ ॥ . नृपान्कर्णकृपद्रौणिशल्यहार्दिक्यसौबलान् । एकैकशः समस्तांश्च स शरैर्विमुखान्व्यधात् ॥ ७०३ ।। कृत्तचापः स कर्णेन हताश्वः कृतवर्मणा । कृपेण हतसूतश्च हतः सर्वैर्महारथैः ॥ ७०४ ॥ हत्वा त्रिगर्तानायातः सव्यसाची दिनक्षये । मुमोह तनयं श्रुत्वा हतमेकं महत्तरैः ।। ७०५ ॥ व्यूहद्वारनिरोद्धारं ज्ञात्वा हेतुं जयद्रथम् । अनस्तगे रवौ जिष्णुः प्रतिज्ञां तद्वधे व्यधात् ।। ७०६ ॥ तत्प्रतिज्ञाभयागन्तुं रात्रौ सैन्धवमुद्यतम् । गोप्ता तवाहमित्युक्त्वा दर्पाद्गुरुरवारयत् ॥ ७०७ ॥ १. 'लुब्ध' का 'नृपकर्ण' ख-ग.

८ श्रीकृष्णावतारः] दशावतारचरितम् । १३७ खने स कृष्णः श्वेताश्वः स्तुत्वा देवं पिनाकिनम् । विधि पाशुपतास्त्रस्य तदादिष्टमवाप्तवान् ॥ ७०८ ॥ प्रभाते शकटव्यूहे सूचीपाशे जयद्रथम् । निवेश्य यत्नादाचार्यश्चक्रे दैवजयोद्यमम् ॥ ७०९ ॥ व्यूहद्वारस्थितं द्रोणं प्रणम्याथ धनंजयः । कम्पलोलं विवेशाशु सैन्यं वनमिवानलः ॥ ७१० ॥ मनोजवस्य विशतः शरैर्गाण्डीवधन्वनः । शिरःसमूह आच्छिन्नः पपात भुवि भूभृताम् ॥ ७११ ॥ दूरं प्रविष्टे श्वेताश्वे शङ्खशब्दमशृण्वता । विवेश सात्यकि!हं विसृष्टो धर्मसूनुना ॥ ७१२ ॥ तस्य निर्दारितारातेर्विशिखाशनिवर्षिणः । भूरिश्रवा धैर्यनिधिगं गिरिरिवाग्रहीत् ॥ ७१३ ॥ तौ कृत्तकार्मुकरथौ खड्गचर्मधरौ मिथः । युध्यमानौ ददृशतुर्नान्तरं चित्रचारिणौ ॥ ७१४ ॥ सात्यकेः पातितस्याथ शिरश्छेत्तुं समुद्यतम् । जिष्णोरदर्शयद्राद्भरिश्रवसमच्युतः ॥ ७१५ ॥ पार्थस्तस्यार्धचन्द्रेण सखड्गं भुजमुद्यतम् । कङ्कणारावसाक्रोशमिव च्छित्त्वा न्यपातयत् ॥ ७१६ ॥ स कृत्तबाहुर्घिकृत्य निन्दकृष्णकिरीटिनौ । तालुरन्धोद्गतज्योतियोंगेनात्मानमत्यजत् ॥ ७१७ ॥ अवाप्य संज्ञामज्ञातवृत्तः सात्यकिराकुलः । धिकृतः सर्वभूपालैश्चकर्तास्यासिना शिरः ॥ ७१८ ॥ युधिष्ठिराज्ञया व्यूहं प्रविशन्नथ मारुतिः । द्रोणं सरथमुक्षिप्य चिक्षेपाद्भुतविक्रमः ॥ ७१९ ॥ स निष्पिष्टगजानीकः प्रविष्टः कर्णमग्रतः । कृतायुधाश्वं पेट्कृत्वश्चकाराहतकौरवः ॥ ७२० ॥ १. 'प्रकर' क; 'समूह' ख. २. 'षट्कृला' ख-ग.

१३८ काव्यमाला। ततः कर्णः समुत्कृत्तकवचायुधवाहनम् । तुदन्भीमं धनुष्कोट्या नावधीज्जननी सरन् ॥ ७२१ ।। दिनस्य शिरसीवार्के लम्बमाने क्षणक्षये । दृष्ट्वा जयद्रथं दूरात्संदधेऽस्त्रं धनंजयः ॥ ७२२ ॥ क्षितौ तस्य शिरः क्षेप्नुः शिरः पूर्व पतेदिति । पित्रा दत्तं वरं कृष्णः फाल्गुनाय न्यवेदयत् ॥ ७२३ ॥ कुरुक्षेत्राबहिर्जिष्णुः संध्यासीनस्य तत्पितुः । चिक्षेपाङ्के शरोत्कृतं शिरस्तस्मारिक्षतिं ययौ ॥ ७२४ ॥ अक्षौहिणीः सप्त हेत्वा जिष्णुना सैन्धवे हते देवमेव जनो मेने सर्वथा निष्प्रतिक्रियम् ॥ ७२५ ॥ उक्त्वापि गुरुणा रक्षां रक्षिते न जयद्रथे । लजितेन समादिष्टं रात्रियुद्धमवर्तत ॥ ७२६ ॥ समुद्धततमः केशी रणे तरलतारका । ननर्तासिभुजा वीररक्तक्षीबेव सा क्षपा ॥ ७२७ ॥ अर्धरात्रेऽथ निष्पिष्टकौरवानीकनायकः । शस्त्रानलशिखावर्षी खं विवेश घटोत्कचः ॥ ७२८ ।। तस्याट्टहासविस्पष्टदंष्ट्रांशुपटलैर्मुहुः । पाट्यमानमिवाकृष्टं रुरावाघट्टितं तमः ॥ ७२९ ॥ कुरुसैन्ये रणे भन्ने हैडिम्बस्य प्रमाथिनः । कर्ण एव पुरस्तस्थौ पौलस्त्यस्येव राघवः ॥ ७३० ॥ एकवीरवधव्यक्त्या शक्त्या वैकर्तनोऽथ तम् । जघान घनसंमर्द कुमार इव तारकम् ॥ ७३१ ।। पञ्चमे युद्धदिवसे प्रातर्दिव्यास्त्रदुःसहः । पंजागरगरक्षीबान्क्षितीशानवधीद्गुरुः ॥ ७३२ ।। १. 'दत्तवरं' क. २. 'जिला क. ३. 'अनाननशरावर्षी ख; 'अनानलशिलावर्षी' ग. ४. 'रावाघटितं' ख-ग. ५. 'क्षपाप्रजागरक्षीबान्' क.

८ श्रीकृष्णावतारः] दशावतारचरितम् । १३९ हत्वा विराटं द्रुपदं पाञ्चालं च ससृञ्जयम् । ब्रह्मास्त्रेणाकरोद्रोणः कल्पन्ताविर्भवभ्रमम् ॥ ७३३ ॥ अश्वत्थामा हतः संख्ये स्पष्टमुक्त्वेति धर्मजः । हस्तीत्यसत्यचकितः पश्चात्खैरमभाषत ।। ७३४ ॥ श्रुतपुत्रवधस्याथ त्यक्तशस्त्रधृतेर्गुरोः । उत्क्रान्तधाम्नः खङ्गेन धृष्टद्युम्नः शिरोऽहरत् ॥ ७३५ ।। हते द्रोणे प्रकुपितः कृतान्त इव तत्सुतः । नारायणास्त्रमसृजज्वालालीढजगत्रयम् ॥ ७३६ ॥ अस्त्रानले प्रज्वलिते वीराः सर्वे हरोगिरा। रथेभ्योऽवातरन्न्यस्तशस्त्राः पवनजं विना ॥ ७३७ ।। एकीभूतास्त्रदहनव्याप्तं भीममथाच्युतः । हृतायुधं समाकृष्य रथापादनयद्भुवम् ॥ ७३८ ॥ शान्तेऽस्त्रे द्रौणिनाग्नेयं घोरमस्त्रमुदीरितम् । ब्रह्मास्त्रेणार्जुनः शान्ति निनाय प्रलयोद्यतम् ॥ ७३९ ॥ अथ मोहविषावेशसमनीलमणिप्रभम् । प्राप्तं दृष्ट्वा मुनि द्रौणिः प्रणम्य व्यासमभ्यधात् ॥ ७४० ॥ कस्मान्मे भगवन्नस्त्रवैकल्यम्लानमानता । मदनदहनान्मुक्तो कस्मात्कृष्णधनंजयौ ।। ७४१ ।। तमब्रवीन्मुनियॊणे त्वमंशस्त्रिपुरद्विषः । नरनारायणौ देवौ जातौ कृष्णधनंजयौ ॥ ७४२ ।। मूर्ती त्वयार्चितः शंभुराभ्यां लिङ्गे सुपूजितः । एतौ तेनाधिकौ त्वत्तस्त्यजैतां कोपविक्रियाम् ॥ ७४३ ॥ मुनिमाश्वासितद्रौणिं व्रजन्तं फाल्गुनः पुरः । दृष्ट्वा रथादवप्लुत्य प्रणम्य तमभाषत ॥ ७४४॥ १. 'कल्पान्तविभव' ख-ग. २. 'वैक्लव्य' क. ३. 'दहनोन्मुक्ती' क. ४. 'द्रौणि' ख. 'स पूजितः' ख. .

२१० काव्यमाला। भगवन्कौरवव्यूहं प्रविष्टेन मया पुरः । अस्पृष्टभूमिः पुरुषो दृष्टः शूलकरः स कः ॥ ७४५॥ मुनिः प्राहार्जुनं देवः स खयं शशिशेखरः । व्यम्बकस्त्रिपुरारातिरुयक्षस्त्रिपथगाधरः ॥ ७४६ ॥ स्मर स्मरारिं तमुमासहायं शिवं जगद्रासविलाससक्तम् । भयापहं भीममनेकरूपमुक्त्वेति पार्थ प्रययौ मुनीन्द्रः ॥ ७४७ ।। हते द्रोणे प्रिय मित्रं कौरवश्चिरचिन्तितम् । कर्ण सेनापतिं कृत्वा जगजितममन्यत ।। ७४८ ॥ अभ्यर्थ्य सारथिं शल्यं चक्रे तस्य सुयोधनः । रुद्रस्य त्रिपुरारातेः संनद्धस्येव वेधेसम् ॥ ७४९ ॥ कीर्णास्त्रकिरणः कर्णस्ततः पाण्डववाहिनीम् । शरत्तीव्र इवोष्णांशुर्निनायाल्पावशेषताम् ॥ ७५० ॥ मीमः कुरुचमूमध्ये क्षपयन्धृतराष्ट्रजान् । कृष्णाकेशाम्बराकर्षकुशलं प्राप कौरवम् ॥ ७५१ ।। असिकृत्तोरसस्तस्य भीमः शोणितमापपौ । प्रकोपराक्षसावेशविवशः कुरुते न किम् ।। ७५२ ॥ कर्णास्त्रपीडनक्रुद्धयुधिष्ठिरगिरादितः । राधेयनिधनाधानसंनद्धोऽभूद्धनंजयः ।। ७५३ ।। प्रवृत्ते संभृतामर्षे रणे कर्णकिरीटिनोः । मृगस्त्वं जिष्णुसिंहाने कर्णमित्याह मद्रपः ॥ ७५४ ॥ खण्डपुच्छाभिधं नागमथ संधाय संचितम् । प्राहिणोत्पाण्डुपुत्राय कर्णः खाण्डवखण्डितम् ॥ ७५५ ॥ हरिगौरवनम्रश्च(स्य) विनतस्य स पन्नगः । जहाराप्राप्तकण्ठाग्रः किरीटांशं किरीटिनः ॥ ७५६ ॥ भूग्रस्तचक्रमुद्धर्तुमथ खरथमुद्यतः । क्षणक्षेमार्थे राधेयः पार्थस्यातिथितां ययौ ॥ ७५७ ।। १. 'परः' ख-ग. २. 'वेधसा' ख-ग. ३. 'गिरार्पितः' ख-ग. ४. 'कण्ठांशः' ख-ग. ५. 'क्षमार्थी' क. :

८ श्रीकृष्णावतारः] दशावतारचरितम् । कृष्णस्तमब्रवीद्रीडाकरशल्योक्तिपीडितम् । धर्मः स्मृतोऽद्य राधेय नाभिमन्युवधे त्वया ॥ ७५८॥ यथा तप्तस्यान्ते भवति मृदुता संनतिमयी तथा सा स्यात्पूर्व यदि जनमता वृत्तिरथ सः (१) । घनाघातोत्कर्षापरपुरुषहुंकारविहिता न तस्यासीत्पीडा निबिडजडतावाप्तविकृतेः ॥ ७५९ ।। इत्युक्ते शौरिणा कर्णः समारुह्य रथं पुनः । संदधे भार्गवादिष्टं महास्त्रं शिथिलस्मृतिः ॥ ७६० ॥ बाणेन कृत्तगलमञ्जलिकाभिधेन तस्यार्जुनस्तरलकुण्डलदीप्तगण्डम् । वकं जहार पृथुहारविलम्बिशोण- रत्नप्रभानिभनभःप्रसृतप्रकाशम् ॥ ७६१ ॥ हते कर्णे वहन्नन्तःशोकशल्यं सुयोधनः । शल्यं सेनापतिं कृत्वा युयुधे निधनोत्सुकः ॥ ७६२ ॥ शल्येन पीडितं दृष्ट्वा निजसैन्यं युधिष्ठिरः । भ्रूभङ्कककवक्राङ्कस्तं समुद्धर्तुमाद्रवत् ॥ ७६३ ॥ तस्येषुवर्षिणश्छित्त्वा रथसारथिकाकान् । पाहार्षीत्पाण्डवः शक्तिं कालदंष्ट्रामिवोत्कटाम् ।। ७६४ ।। प्रविश्य शल्यहृदयं शक्तिर्बिलमिवोरगी। वेगशूत्कारनिःश्वासा साविशद्वसुधातलम् ॥ ७६५ ॥ खयं राज्ञा हते शल्ये सहदेवेन सौबले । सैन्ये शेषे च भीमेन निःसैन्योऽभूत्सुयोधनः ॥ ७६६ ॥ कृतवर्मकृपद्रौणिशेषः कुरुपतिस्ततः । विरथस्तान्समामड्य विवेशालक्षितो हदम् ॥ ७६७ ।। हृदस्यान्तर्नृपे तस्मिन्प्रविष्टे शत्रुशतिते । मीमं भीमभयेनेव पयश्विरमकम्पत ॥ ७६८ ॥ १. 'पाहैषीत्' क. २. 'तले' ख-ग. दशा. १३ १४२ काव्यमाला। यस्याशेषनरेशरत्नमुकुटैः पीडाभवत्पादयो- स्तस्यारातिनिपातशङ्कितमतेरेकाकिनोऽन्तर्जले । क्रोधव्याधुतनकचक्रमकरक्रूरान्तदन्ताहति- क्लेशक्लान्तिरभूद्धिगस्थिरपदाः शोकप्रदाः संपदः ॥ ७६९ ॥ ऋणशेषमिव ध्यायन्धार्तराष्ट्र युधिष्ठिरः । लुब्धकानां गिरा ज्ञात्वा ससैन्यस्तूर्णमाययौ ॥ ७७० ॥ स्तिमितं सलिलस्थं तं जगाद च तटस्थितः । राजनुत्तिष्ठ लज्जेयं युक्तं नान्ते पलायनम् ॥ ७७१ ॥ कृत्वा क्षत्रक्षयं शेषां रक्षसि क्षत्रियस्तनुम् । एकेन सह युध्यख जिते तस्मिञ्जिता वयम् ।। ७७२ ।। श्रुत्वैतत्सहसोत्थाय तमभाषत कौरवः । एष क्षपाक्षपणधीः प्रविष्टोऽहं जलान्तरम् ॥ ७७३ ।। न मे राज्ये शरीरे वा तृणे वापि स्पृहा कचित् । इत्युक्त्वा सहितः सर्वैः स कुरुक्षेत्रमाययौ ॥ ७७४ ॥ अत्रान्तरे हलधरः श्रुत्वा कुरुकुलक्षयम् । सारखतेषु तीर्थेषु स्नात्वा तं देशमाययौ ॥ ७७५ ॥ प्रधानक्षेत्रके तस्मिन्नुपविष्टे सहामरैः । भीमकौरवयोश्चित्रं गदायुद्धमवर्तत ॥ ७७६ ॥ वर्ण्यमानेऽथ भीमेन प्रहारे कौरवेण च । तदाघातच्युते भीमे भीमाघातेन चापरे ॥ ७७७ ।। सुचिरं संशयतुलारूढे खभटमण्डले । न तयोरन्तरं कश्चिद्ददर्शाश्चर्ययोधिनोः ॥ ७७८ ।। अथ भीमगदाघातभिन्नोरुः कौरवेश्वरः । पपात कीर्णहाराश्रुधारां कुर्वन्निव क्षितिम् ॥ ७७९ ॥ पदा भीमेन तन्मौलौ स्पृष्टे क्रुद्धं हलायुधम् । शमयामास कंसारिर्वदन्कौरवदुर्नयम् ॥ ७८० ॥ १. 'क्लेशाकान्ति' ख-ग. २. 'जलान्तरे' ख-ग.

८ श्रीकृष्णावतारः] दशावतारचरितम् । १४३ प्रयातेष्वथ सर्वेषु द्रौणिहार्दिक्यगौतमाः । निशि देशं तमभ्येत्य ददृशुः पतितं नृपम् ॥ ७८१ ॥ भिन्नोरुमध्यव्यथया दन्तदष्टमहीतलम् । वारयन्तं गदाग्रेण गृध्रगोमायुवायसान् ॥ ७८२ ॥ तं दृष्ट्वा द्रौणिरवदत्तीव्रहृन्मर्मवेदैनः । किं त्वया निःसहायेन शत्रुवह्नौ हुता तनुः ॥ ७८३ ॥ अकृष्णपाण्डवं लोकं करोमि तव शासनात् । इत्युक्त्वा तद्राि गत्वा प्रविवेश महद्वनम् ॥ ७८४ ॥ कृपभोजसखस्तत्र रात्रौ काकान्निपातितान् । उलूकैर्वृक्षमूलस्थः स दृष्ट्वाचिन्तयच्चिरम् ॥ ७८५ ॥ काकान्कालबलेनैते घ्नन्त्येषारिवधे स्थितिः । हन्तुं पाण्डुसुतान्रात्रौ सुप्तानेव व्रजाम्यहम् ॥ ७८६ ॥ ध्यायन्निवार्यमाणोऽपि कृपेण कृतवर्मणा । क्रोधादगणयन्पापं स ताभ्यां प्रययौ सह ॥ ७८७ ।। पाण्डवेषु गिरा शौरेः सुप्तेष्वन्यत्र शङ्कया । पाञ्चालसेनाशिबिरद्वारं द्रौणिरवाप्तवान् ॥ ७८८ ॥ तत्र दृष्ट्वा महद्भूतं सर्पकेयूरकङ्कणम् । प्रादुर्भूतं शिरश्छित्त्वा वह्नौ क्षेप्तुं समुद्यतः ।। ७८९ ॥ प्रीत्या भगवता तेन रुद्रेण खयमर्पितम् । द्रौणिनिस्त्रिंशमादाय विवेशारिक्षयोत्सुकः ॥ ७९० ॥ पञ्यामशस्त्रनिधनं धृष्टद्युम्नं विधाय सः । शिखण्डिनं द्विधा कृत्वा जघानाक्षौहिणी क्षणात् ॥ ७९१ ॥ स सुप्तवधपापेन प्रलिप्तः शोणितेन च । कृतान्तक्रूरचरितः प्रययौ कौरवान्तिकम् ॥ ७९२ ॥ निःशेषशत्रुनिर्धेनं श्रुत्वा द्रौणिनिवेदितम् । खर्गेऽस्तु सङ्ग इत्युक्त्वा नृपस्तत्याज जीवितम् ॥ ७९३ ॥ १. "छिनोरु' क. २. 'व्याघ्र' ख-ग. ३. 'वेदनम्' स-ग. ४. 'मथनं' क. - ११४ काव्यमाला। प्रातबन्धुवियोगा? कृष्णाशोकामितापितौ । भीमार्जुनौ प्रययतुः क्रुद्धौ द्रौणिजिघांसया ॥ ७९४ ॥ द्रौणिः सरखतीतीरे चरन्त्रणघृताप्लुतः । दृष्ट्वा भीमार्जुनावस्त्रं ब्रह्मशीर्षमवासृजत् ॥ ७९५ ॥ अर्जुनो ब्राह्ममस्त्रं च संघर्षेणास्त्रयोस्तयोः । अकालप्रलयारम्भसंरम्भोऽभूद्दिवौकसाम् ॥ ७९६ ॥ तद्रौणिमुक्तमपतन्महास्त्रं व्यासशासनात् । अभिमन्युवधूगर्भे द्रौणिचूडामणौ परम् ॥ ७९७ ॥ पाण्डवाः पुत्रशोकात धृतराष्ट्रं प्रलापिनम् । गान्धारीसहितं गत्वा प्रणेमुर्लज्जिताः शनैः ॥ ७९८ ।। क्रमादोलिङ्गने भीमः शौरिखुध्यायसः कृतः । चूर्णतामैगमद्गाढं धृतराष्ट्रेण पीडितः ॥ ७९९ ॥ युधिष्ठिरस्य गान्धारी सतीं प्रणमतः पुरः । तदृष्टिः सानलज्वाला पादाङ्गुष्ठयुगेऽपतत् ॥ ८०० ॥ सुषाभिः सह गान्धारी खयं गत्वा रणावनिम् । दृष्ट्वा हतान्सुतान्कृष्णं शशाप क्षयकारिणम् ॥ ८०१॥ षट्त्रिंशवत्सरे कृष्ण तवाप्येवं कुलक्षयः । भविष्यतीति तद्वाक्यं श्रुत्वा तामच्युतोऽवदत् ॥ ८०२ ॥ पुनरुक्तस्त्वयायं मे दत्तः शापः पतिव्रते । अवश्यमेव भविता तस्मिन्वर्षे यदुक्षयः ॥ ८०३ ॥ ततः कृतोदकविधिर्बान्धवक्षयदुःखितः । राज्यं न लेभे मुनिभिर्बोधितोऽपि युधिष्ठिरः ॥ ८०४ ॥ कर्ण कुन्तीगिरा ज्ञात्वा भ्रातरं निहतं रणे । स शुशोच शुचाक्रान्तस्ततस्तं नारदोऽवदत् ॥ ८०५ ।। क्षत्रियाचार्यके भीष्मनिकारात्कृतसंयमम् । अस्त्रार्थी भार्गवं कर्णः प्रययौ विप्रवेषवान् ॥ ८०६ ॥ १. द्रोणेः' क. २. 'बालिगनात्' क. ३. 'प्रयो' ख-ग.

८ श्रीकृष्णावतारः] दशावतारचरितम् । ११५ रामस्तदङ्कसुप्तोऽर्धनिद्रासंक्षयभीरुणा । क्रूरक्रिमिक्षतेनापि कर्णेन न विबोधितः ॥ ८०७ ॥ तद्रक्ताक्तः प्रबुद्धोऽथ दृष्ट्वा क्लेशेऽपि निश्चलम् । रामः कर्णं न विप्रोऽसीत्युक्त्वास्त्रं विफलं व्यधात् ।। ८०८ ॥ गुरुशप्तः स शक्रेण हृतसंनाहकुण्डलः । घटोत्कचे नष्टशक्तिः शल्याधिक्षेपशल्यवान् ॥ ८०९ ॥ द्विजवत्सापराधेन भूग्रस्तरथनिष्फलः । हतः कर्णः कुरुपतेः कुमन्त्रकृतसंक्षयः ॥ ८१० ॥ नारदेनेत्यभिहिते व्यासमुख्यैर्महर्षिभिः । कृष्णेन भ्रातृभिः सर्वैः प्रयत्नेन विबोधितः ॥ ८११ ।। राज्यं कथंचिजग्राह शल्यतुल्यं युधिष्ठिरः । कस्य बन्धुवियोगार्तिनिःश्वासोष्णाः श्रियः प्रियाः ॥ ८१२ ॥ अभिषेकामुकुटं समेत्याथ युधिष्ठिरम् । उवाच ब्राह्मणाकारश्चार्वाको नाम राक्षसः ॥ ८१३ ॥ छत्रं त्रपाकरमहो व्यजनं जनाये दुःखप्रदं प्रविसृताश्रुकणानुकारः । हारः परं खजनमित्रवियोगशोक- पीडावतां बत विडम्बनमेव लक्ष्मीः ॥ ८१४ ॥ चार्वाकस्येति वचसा राज्यत्यागोद्यते नृपे । राक्षसः कौरवसुहृद्विप्रकोपात्क्षयं ययौ ॥ ८१५ ॥ ज्ञात्वोत्तरायणं प्राप्तं शरशय्याश्रयस्ततः । मुनिमध्येऽस्मरद्विष्णुं भीष्मः पर्यन्तबान्धवम् ॥ ८१६ ॥ दोषाश्रयाखिलतमःशमसूर्यधाम- संसारसर्पविषवारणसिद्धमन्त्रः। शुद्धात्मनां भवति पुण्यपणोपपन्नं पाथेयमन्तसमये स्मरणं मुरारेः ॥ ८१७ ॥ १. 'स्मरन्'क.

काव्यमाला। स्तुतिप्रवृत्तं विज्ञाय भगवान्भीष्ममच्युतः । सहितः पाण्डवैर्द्रष्टुं ययौ प्रीत्या ससात्यकिः ॥ ८१८ ॥ प्रणतं भीष्ममभ्यर्च्य हरिः सुरमुनिस्तुतः । शरशल्यव्यथाहीनं स्निग्धक्सुधया व्यधात् ॥ ८१९ ॥ देहसंन्याससंनद्धं राजा लज्जानतः शनैः । शासनेन हरेष्मिं श्रेयः पप्रच्छ धर्मजः ॥ ८२० ॥ सोऽब्रवीद्भूभुजां राजन्भूषणं जनरञ्जनम् । धर्मः प्रजापरित्राणं कोषः समृत्यसंग्रहः ॥ ८२१ ॥ प्रजाकार्ये सक्तिः श्रवणमभिभूतार्तवचसां स्पृहा कामक्रोधप्रमदमदमानव्युपरमे । क्षितेः कायस्थेभ्यः कृपणपरिरक्षा प्रतिपदं गुणासङ्गः श्रेयानयमुदयलक्ष्म्या क्षितिभृताम् ॥ ८२२ ।। विरक्तखीकारः कृतकविरतिः कोषभरणं बलाधिक्ये शत्रोः शरणर्गमनं पादपतनम् । प्रहारश्छिद्राप्तौ निहतरिऍमिथ्याशुपतनं धिया दैवादिष्टं शरणमिदमापन्निपतने ॥ ८२३ ॥ आशापाशविमुक्तनिश्चलसुखा खायत्तचित्तस्थितिः स्नेहद्वेषविषादलोभविरतिः संतोषतृप्तं मनः । चिन्ता नित्यमनित्यतापरिचये सङ्गेऽपि निःसङ्गता संवित्सेकविवेकपूतमनसामित्येष मोक्षक्रमः ॥ ८२४ ॥ कारुण्यागलितं प्रदानसमये चित्तं प्रसन्नं सदा क्षीणः पुत्रकलत्रदुःखकृपणः पात्रं पवित्रं परम् । सश्रद्धं परवित्तशल्यरहितं वित्तं स्वधर्मार्जितं तदानं दयितं फलप्रियतया वाणिज्यसज्जं न यत् ॥ ८२५ ॥ इत्युक्त्वा विविधं भीष्मः सर्वधर्मार्थसंग्रहम् । विष्णोर्नामसहस्राख्यं मन्त्रराजमुंदीर्य तम् ॥ ८२६ ॥ १. 'क्षितिः' ख-ग. २. 'गमने' ख-ग.३. 'नृप'ख-ग.४. उदीर्यत'का 'उदीर्यते'ख.

८ श्रीकृष्णावतारः] दशावतारचरितम् । १४७ कर्मोदितबलोरिक्षप्तबिन्दुभेदपथोदितम् । तालुरन्ध्रोच्चलज्योतियोगेनात्मानमत्यजत् ॥ ८२७ ॥ अथ भीष्मवियोगातः पापशान्त्यै युधिष्ठिरः । अश्वमेधाभिधे चक्रे यज्ञे व्यासाज्ञया मतिम् ॥ ८२८ ॥ अथैकान्तस्थितः कृष्णः पुनः पृष्टः किरीटिना । यत्प्राह समरारम्भे ज्ञानयोगं तदुक्तवान् ॥ ८२९ ।। कदाचिदथ कंसारिं दृष्ट्वा पथि रथस्थितम् । ऊचे मुनिरुतङ्काख्यः कुरुसंक्षयदुःखितः ॥ ८३० ॥ शक्तेनोपेक्षितः कस्माद्भवता भरतक्षयः । न युक्तं कृतमित्युक्त्वा कोपाच्छापोद्यतोऽभवत् ॥ ८३१ ।। ततस्तस्मै स्मितमुखः शौरिहतमोहरम् । भासुरार्कसहस्राभं विश्वरूपमदर्शयत् ॥ ८३२ ।। अथाभिमन्युदयिता दिव्यास्त्रहतमुत्तरा । मत्स्यराजसुतासूत भस्मीभूताकृति शिशुम् ॥ ८३३ ॥ सुभद्रयार्थितः खस्रा भगवान्भूतभावनः । द्रोणपुत्रास्त्रनिर्दग्धं शौरिः शिशुमजीवयत् ॥ ८३४ ॥ कुरुवंशे परिक्षीणे संजातस्याङ्कुराकृतेः । परीक्षिदिति बालस्य नाम चक्रे त्रिविक्रमः ॥ ८३५ ।। अथ यज्ञाश्वरक्षायै व्रजञ्जिष्णुर्जगज्जयी । मणिपूरपुरे प्राप बभ्रुवाहनमात्मजम् ।। ८३६ ॥ तेनाविज्ञाय समरे सायकैः पातितोऽर्जुनः । उलूप्या नागसुतया रत्नेनार्पितजीवितः ॥ ८३७ ।। प्रययौ हयमादाय खपुरं भ्रातुरन्तिकम् । प्रावर्तत च भूभर्तुयज्ञः काञ्चनवर्षिणः ॥ ८३८ ॥ १. 'छन्दोदित' क. २. पथोत्थितम्' ख-ग. ३. योगज्ञानं' ख. ४. 'कोपशापो' क. ५. 'ससुरार्क' ख-ग. ६. 'पुत्रं' क. ७. 'परिक्षिदिति' क. ८. 'यज्ञ' ख-ग.

११८ काव्यमाला। अथैकपाचे कनकधुतिभृन्नकुलोऽद्भुतः । विप्रकोटिशतोच्छिष्टभुवं भेजे लुठत्तनुः ।। ८३९ ।। सोऽब्रवीद्भूभुजा पृष्टः शिलोच्छखच्छवृत्तिना । सुचिरावाप्तमशनं प्राप्तायातिथयेऽर्पितम् ॥ ८४० ॥ तदुच्छिष्टजलस्पृष्टं पार्च मे हेमतां गतम् । द्वितीयपार्श्ववर्णाप्त्यै प्राप्तोऽहं त्वत्क्रतुक्षितिम् ॥ ८४१ ॥ निःसंख्यब्राह्मणोच्छिष्टस्पृष्टस्यापि न मे द्युतिः । जाता सत्त्वोज्ज्वलं याति दानमल्पमनल्पताम् ॥ ८४२ ॥ इत्युक्त्वा नकुले याते दानमानमहोन्नतिः । सर्वखदक्षिणे यज्ञे राजा(ज्ञः) शिथिलतां ययौ ।। ८४३ ॥ अथ दैवतवन्नित्यं पूज्यमानोऽपि भूभुजा । मीमोग्रवचनोद्वेगी धृतराष्ट्रः शनैरभूत् ॥ ८४४ ॥ स सदा पुत्रशोकेन भूमिशायी फलाशनः । मिथ्याराज्योपभोगाप्तिं धर्मजाय न्यवेदयत् ॥ ८४५ ॥ स जातगाढवैराग्यः पन्या सह वनं ययौ । व्यासाज्ञया संजयेन कुन्त्या च विदुरेण च ।। ८४६ ॥ दयितजनवियोगोद्वेगरोगातुराणां विभवविरहदैन्यम्लानमानाननानाम् । शमयति शितशल्यं हन्त नैराश्यनश्य- द्भवपरिभवंतान्तिः शान्तिरन्ते वनान्ते ॥ ८४७ ।। यातस्तपःस्थितं द्रष्टुं धृतराष्ट्रं युधिष्ठिरः । ददर्श विदुरं ज्ञानयुक्तित्यक्तकलेवरम् ॥ ८४८ ॥ प्राप्तः खनगरं राजा शुश्राव कुरुपुंगवम् । सानुगं दावदहने प्रविष्टं संजयं विना ॥ ८४९ ॥ पेट्त्रिंशेऽब्दे सुखक्षीबा वृष्णयः कृष्णनन्दनम् । साम्बं स्त्रीवेषमादाय पप्रच्छुः सस्मिता मुनीन् ।। ८५० ॥ १. 'वैराग्य' ख-ग. २. षट्त्रिंशाब्दे' क.

८ श्रीकृष्णावतारः] दशावतारचरितम् । १४९ . भावी सुतः सुता वा स्यात्किमिति श्रीविशृङ्खलाः । क्रुद्धास्तान्मुनयः प्राहुर्भविष्यति कुलान्तकः ॥ ८५१ ॥ कालेन लोहमुसलं जातं साम्बस्य वृष्णयः । घृष्ट्वा घृष्ट्वाम्बुधेस्तीरे तत्यजुः क्षयशङ्किताः ॥ ८५२ ।। तचूर्णजातवल्लीभिः क्षीबाः स्पर्धाकथाक्रुधा । निर्बन्धाधुध्यमानास्ते क्षणेन क्षयमाययुः ॥ ८५३ ॥ कृष्णः कुलक्षयोद्विमस्तेजः खं घाम्नि वैष्णवे । हेम हेनीव निक्षिप्य प्रययौ कायशेषताम् ॥ ८५४ ॥ याते प्रविश्य पातालमनन्तत्वं हलायुधे । लुब्धकेन हरिः सुप्तः कृष्णसारधिया हतः ॥ ८५५ ।। अनल्यं कल्पान्तस्थिरमिव जनः कल्पयति य- न यस्मिन्नाशङ्का सुरगिरिगरिम्णि प्रचलने । तदेवाक्ष्णः पक्ष्माञ्चलतरलविक्षेपतुलया क्षयक्षीबः कालः किल गिलति नैवाभवदिति ॥ ८५६ ॥ अथ वृष्णिक्षयं ज्ञात्वा द्वारकामेत्य फाल्गुनः । शोकार्तस्तद्वधूवृन्दं खपुरं नेतुमुद्ययौ ।। ८५७ ॥ व्रजतस्तस्य गोपाला बृहल्लगुडपाणयः । जहुराकृष्टजापस्य स्त्रैणमाकीर्णपत्रिणः ॥ ८५८ ॥ ते द्विषत्खण्डनां प्रापुः शरा गाण्डीवधन्वनः । निष्फलत्वं विलक्षस्य याचकस्य गुणा इव ॥ ८५९ ॥ नहि हीनमनाक्रान्त्या फाल्गुनस्य गलद्गुणम् । कलत्रं निर्धनस्येव विधेयं नाभवद्धनुः ।। ८६० ॥ रुद्राभिद्रवमुद्रितादिशिखराः शक्रोन्मुखाः खाण्डवे खेलोत्ताललतायुधोद्यतकृताटोपेषु गोपेप्वहो । १. 'तेजस' ख-ग. २. 'अनन्त' ख-ग. ३. 'प्रदलने व. ४. 'लडलगुड' क. ५. 'खण्डनाः' ख-ग. ६. 'निर्गुणस्येव' ख-ग.

१५० काव्यमाला। जग्मुर्जिष्णुशरा मुरारितरुणीत्राणे तृणक्लीवां यस्यायन्त्रविचित्रपाककलया कालाय तस्मै नमः ॥ ८६१ ॥ युधिष्ठिरोऽथ विभवं ज्ञात्वा पर्यन्ततादृशम् । भ्रातृभिः सह पन्या च महाप्रस्थानमाविशत् ॥ ८६२ ॥ कृष्णायाः पतने प्राह राजा विजयरक्तताम् । प्रियस्य दोषाकलनं वियोगे दुःखभेषजम् ॥ ८६३ ॥ सोऽवदत्प्रच्युतस्याथ सहदेवस्य धीमदम् । नकुलस्यादरं रूपे जिष्णोर्विजयदृप्तताम् ॥ ८६४ ॥ भीमस्य बह्वशनतां व्रजन्नेव शुना सह । पर्यन्तेऽचिन्तयन्नन्तः संसारविशरारुताम् ॥ ८६५ ॥ अथ व्योमपथायातं विमानं सुकृतोज्ज्वलम् । देवदूतार्पितं राजा नारुरोह शुना विना ॥ ८६६ ॥ तत्तस्याश्रितवात्सल्यं धर्मस्त्यक्तश्वविग्रहः । तुष्टः खं रूपोस्थाय प्रशशंस पुनः पुनः ॥ ८६७ ॥ अथ राजा समारुह्य विमानं त्रिदिवं व्रजन् । ददर्श नरकं घोरं देवदूतप्रदर्शितम् ॥ ८६८ ।। ततस्तद्दर्शनोद्विग्नं देवदूतस्तमब्रवीत् । राजन्द्रोणवधामत्यान्मिथ्यैतत्तव दर्शितम् ॥ ८६९ ॥ प्रजापीडाक्रीडार्जितधनभरैर्भोगसुखिना- मकर्णानां क्लाम्यत्कृपणकरुणाक्रन्दसमये । अवश्यं भूपानां भवति विभवोन्मादकुधियां दुरन्ता पर्यन्ते नरककलुषक्लेशकुगतिः ॥ ८७० ॥ इत्युक्ते देवदूतेन शकलोकं युधिष्ठिरः। धर्मधाम निजं भेजे खं खं चान्ये सुरांशजाः ॥ ८७१ ॥ लक्ष्मीश्चामरतारहारहसिता मत्तेभकुम्भस्तनी त्रैलोक्याक्रमणः पराक्रमभरः संभोगयोग्यं वयः । १. "विहेयं च ख-ग. २. 'आदाय' ख-ग.

९ बुद्धावतारः] दशावतारचरितम् । १५१ पूर्व सर्वमखर्वगर्वसुखदं संचय॑माणं पुनः पर्यन्ते परिणाममीलदखिलाखादं विषादास्पदम् ।। ८७२ ॥ इति स भुवनभूत्यै भूतभर्ता विधाय प्रसभविभवशक्त्या भूमिभारावतारम् । अगमदमरसंधैः कीर्त्यमानप्रभावः सह नरमुनिना खं धाम नारायणांशः ॥ ८७३ ॥ इति श्रीव्यासदासापराख्यक्षेमेन्द्रविरचिते दशावतारचरिते श्रीकृष्णावतारोऽष्टमः । बुद्धावतारो नवमः। काले प्रयाते कलिविप्लवेन रोगग्रहोगे भगवान्भवाब्धौ । मजत्सु संमोहजले जनेषु जगन्निवासः करुणान्वितोऽभूत् ॥ १॥ स सर्वसत्त्वोपकृतिप्रयत्नः कृपाकुलः शाक्यकुले विशाले । शुद्धोदनाख्यस्य नराधिपेन्दोधन्यस्य गर्भेऽवततार पत्याः ॥ २॥ मायाभिधाना नरनाथपत्नी गर्भे हरिं विश्वगुरुं वहन्ती । आसन्नचन्द्रेव सुधाब्धिवेला निधानधन्येव वसुंधराभूत् ॥ ३ ॥ कुक्षिं ततस्तत्क्षणमक्षताया विभिद्य मातुर्भगवान्प्रजातः । गर्भोदकास्पृष्टविशुद्धमूर्तिर्जाम्बूनदेनेव विनिर्मिताङ्गः ॥ ४ ॥ स जातमात्रस्त्रिदशप्रमुक्तनभोनदीवारिभराभिषिक्तः । पदत्रयीं कम्पितसर्वलोकां दत्त्वा दिशन्दिक्षु भृशं जगाम ॥ ५ ॥ पूर्वा स्थितेयं मम निर्वृति, धीः सर्वसत्त्वोद्धृतिदक्षिणेयम् । जन्मस्थितिः संप्रति पश्चिमेयं संसारबन्धादियमुत्तरा च ॥ ६ ॥ इति ब्रुवाणं नृपतिस्तमेत्य दृष्ट्वा त्रिलोकीपतिलक्षणाङ्कम् । स जातदिव्यानुभवाभिमानः कुलस्य भूत्यै धृतिमाबबन्ध ॥ ७ ॥ तं लक्षणज्ञा जगदुः सहर्षमयं शिशुर्लक्षणलक्ष्यमाणः । प्रभुभविष्यत्यवनीश्वराणामनुत्तरज्ञाननिधिर्मनिर्वा ।। ८ ॥ १. 'सङ्गैः' 'संख्यैः' ख-ग. २. 'रागोरगोग्रे' क. ३. 'लक्ष्मणाङ्कम्' ख-ग. ४. 'भिमानं' क. ५. 'स्म' ख-ग. का १५२ काव्यमाला। स सर्व विद्याविदितार्थसत्त्वः संप्राप्तशस्त्रास्त्रगजाश्वशिक्षः । सर्वार्थसिद्ध्या पितुराप्तकीर्तिः सर्वार्थसिद्धाभिधतां जगाम ॥ ९ ॥ सर्वखदानाभिमुखोऽर्थिसाथै स देहदाने तृणवत्कृतेच्छः। लीलाविहारी विचरनथेन ददर्श वृद्धं पथि जीर्णकायम् ॥ १० ॥ तं वीक्ष्य विच्छायमशक्तिलुप्तमवाप्तपर्याप्तविरक्तभावः । सोऽचिन्तयनिश्चितमन्तसक्ता कायस्य निर्वेदमयी दशेयम् ॥ ११ ॥ अहो बतायं जरयाभिभूतः कुरूपतां क्लेशमयी प्रयातः । तारुण्यमाकुञ्चितकृष्णकेशं शोचन्निवान्तः श्वसिति प्रेकामम् ॥ १२ ॥ महीनिविष्टाकृतिरल्पदृष्टिः किं कष्टचारी नगरे करोति । संतोषशीतं श्रयति प्रशान्त्यै किमाश्रमं श्रान्ततनुर्न वृद्धः ॥ १३ ।। प्रमः कासश्वासः कफभररवः कण्ठकुहरे श्रुतौ नेत्रे घ्राणे त्वचि सरसनायां विफलता । अहो वृद्धोस्मिन्सकलविरहक्लेशसमये प्रमोहस्तृष्णां यत्त्यजति दयितां नैव तरुणीम् ॥ १४ ॥ क्षणं विचिन्त्येति नरेन्द्रसूनुर्वजन्पुरप्रान्तविलोकनाय । शोकाश्रयं हर्षविषादधाम श्मशानमाकीर्णशवं ददर्श ॥ १५ ॥ स सारथिं प्राह विलोक्य लीनं शरीरिणां कायमपायभूमौ । अनित्यताचिन्तनजातवेदः संसारवरस्यविचारसक्तः ॥ १६ ॥ क्लेदामोदविविमवायसशुनः कुत्सापदस्याशुचे- रन्ते यस्य दशेडशी क्षयमयी कायस्य भूशायिनः । मूढास्तस्य कृते परार्थहरणोद्योगं परस्त्रीरति- व्यासक्ति परदेहदारणघनद्रोहं नराः कुर्वते ॥ १७ ॥ नासत्यं न परापवादपिशुनं नो मर्मभिद्भापते नैराश्येन विशेषशीतलतनुः सेवावासोज्झितः । १. 'निश्वयं' ख-ग. २. 'प्रकाशम्' ख-ग. ३. 'आश्रयं' ख-ग. ४. 'अस्य' ख-ग. ५. 'प्रवासोतिःक.

९ बुद्धावतारः]] दशावतारचरितम् । १५३ पापोपार्जनवर्जितः परगृहे द्वाःस्थैरसंतर्जितः कामद्वेषविषादमोहरहितः पश्यैष शेते शवः ॥ १८ ॥ क्षितिप्रतिष्ठस्य कलेवरस्य पर्यन्तभूमावियमेव निष्ठा । यत्काष्ठपाषाणसमानचेष्टं प्रयाति मृद्भस्मशकृत्क्रिमित्वम् ॥ १९ ॥ उक्त्वेति वैराग्यमयीं प्रशान्ति श्रयन्विचिन्त्यान्तविनाशि सर्वम् । अन्तःपुराभ्यन्तरमेत्य सोऽभूद्विभूतिभोगे शिथिलाभिलाषः ॥ २० ॥ अन्तःपुरे तस्य नृपात्मजानां सहस्रषष्ट्या हरिणेक्षणानाम् । चित्रार्पितानामिव संगमोऽभून्न शान्तिसक्तस्य सुखानुभावः ॥ २१ ॥ ततः क्षितीशं समुपेत्य सर्वे मौहूर्तिकाः संसदि तत्त्वमूचुः । राजन्सुतस्ते भविता त्रिलोकीपतिः प्रभावे भगवाञ्जिनो वा ॥ २२ ॥ श्रुत्वेति राजा भुवनाधिपत्यं पुत्रस्य यत्नेन समीहमानः । वनाभिकामस्य तपो निरोद्धं चक्रे पुरद्वारविशेषगुप्तिम् ॥ २३ ॥ अत्रान्तरे शान्तिपथं प्रवेष्टुमाशापरित्यागधृतावधानः । अस्ताद्रिशृङ्गाश्रमधाम्नि सूर्यः संध्याकषायाम्बरमाललम्बे ॥ २४ ॥ रखौ प्रयाते ककुभां बभूव घनोऽनुरागः क्षणमात्रलक्ष्यः । प्रेमाणि चित्तानि च जीवलोके विद्युद्विलोलानि न कस्य नाम ॥ २५ ॥ रवेर्वियोगे गुणिवल्लभस्य शोकानुकारेण तमोभरेण । स्नेहेन साधोरिव बन्धुवर्गः पद्माकरः क्लेशनिमीलितोऽभूत् ॥ २६ ॥ दिक्केशपाशप्रतिमं तमस्तद्दीपावलीचम्पकमालिकाङ्कम् । लेभे वियोगाच(त)वधूस्मरामिस्थानस्फुलिङ्गाकुलधूमलीलाम् ॥ २७ ॥ अथोद्ययौ सत्त्वसितप्रकाशः सुधां दधानः करुणामिवान्तः । निवारयन्मोहघनान्धकारं विश्वोपकाराय शशीप्रवृत्तः ।। २८ ।। चन्द्रोदयेऽन्तःपुरसुन्दरीणां प्रसाधनव्यग्रपरिग्रहाणाम् । शृङ्गारलीलासमयं विलोक्य क्षणं प्रदध्यौ नरनाथसूनुः ॥ २९ ॥ १. 'दोष' क. २. 'विग्नं ख-ग. इतः प्रभृति एकोनचलारिंशश्लोकस्य प्रथमपादप- र्यन्तं ख-ग-पुस्तकयोस्त्रुटितमस्ति. दशा०१४ काव्यमाला। इमाः संमोहाम्रप्रसरतडितश्चारुनयना यदक्षिक्षेपोऽन्तर्विशति हृदयं सूचिसचिवः । सुखादिग्धं मुग्धं विषमिव समुत्सृज्य विषयं श्रयेऽहं पर्यन्तस्थितिपरिचितां शान्तितरुणीम् ॥ ३० ॥ संचिन्तयन्नित्यवनीशसूनुर्दारेषु रुद्धेषु निशान्तपालैः । दिव्यप्रभावाप्तगतिर्विचार्य विनिर्ययौ हर्म्यपथेन तूर्णम् ॥ ३१ ॥ खच्छन्दकाख्यं प्रविबोध्य सूतं हयं समारुह्य च कन्थकाख्यम् । व्योम्ना जवावादशयोजनानि गत्वा वनं निर्जनमाससाद ॥ ३२ ॥ तत्रावरुह्याश्ववरात्प्रभाते केयूरहाराङ्गदकुण्डलानि । मुक्त्वा किरीटं च वितीर्य सर्व सूताय सत्त्वाभरणस्तमूचे ॥ ३३ ॥ हंहो निवर्तख हयं गृहीत्वा गृहाण सर्वाणि विभूषणानि । एतैर्न किंचिन्मम कृत्यमस्ति भूभृत्कुले श्लिष्टविनष्टशिष्टैः ॥ ३४ ॥ एको वनेऽस्मिन्निति नैव कार्यस्त्वया मयि नेहमयोऽनुतापः । संजायते जन्मनि जन्तुरेकः प्रयाति चान्ते परलोकमेकः ॥ ३५ ॥ द्रुमश्छन्नं मित्रं सरलहृदयोऽयं मम मृगः स्थली लीलाशय्या तनुतरतरुत्वनिवसनम् । खकोषः संतोषः कृपणकरुणैव प्रियतमा न संसारः कश्चिद्भवति विभवेऽस्मिन्परिभवः ॥ ३६ ॥ उक्त्वेति सूतं क्षितिपालसूनुः स्वयं कृपाणेन निकृत्तजूटः । तमश्रुधारार्द्रपटं विसृज्य शृङ्गं गिरेरुन्नतमारुरोह ॥ ३७ ॥ पर्यतबन्धेन सुखोपविष्टे समाधिसंनद्धविरुद्धचित्ते । तस्मिन्क्षणे विश्वगुरौ गिरीन्द्रः स भमशृङ्गः शकलीबभूव ॥ ३८ ॥ गिरीन्द्रभङ्गेन विविमवत्रं दृष्ट्वामरा व्योमचरास्तमूचुः । जगद्गुरुं त्वं गिरिरेष धर्तुं प्रभो प्रसीदात्र शुभं न शक्तः ॥ ३९ ॥ ततः स निष्कम्पमवाप्य देशं वज्रासनाख्यं विकसद्विवेकः । अनुत्तरज्ञाननिधानमाप्तुं धीरः स्थिरध्यानधुरंधरोऽभूत् ॥ ४० ॥ १. 'प्रसीद कुशलं' क.

९ बुद्धावतारः] दशावतारचरितम् । १५५ जात्यैव मारः शमनिश्चलानां वैराग्यवैरेण विकारकारी । तस्येन्दुकान्त्येव कृताः समाधिभङ्गाय कान्ताः स समादिदेश ॥ ४१ ।। कटाक्षैः कुर्वाणाः कुवलयकुलं कान्तिविकलं सृजन्त्यः पादाजैः स्थलकमलमालामलिनताम् । दिशन्त्यः शीतांशोर्मुखरुचिभिरायासमसमं ययुस्तास्तस्याने धृतदृढसमाधेविफलताम् ॥ ४२ ॥ अथागतैर्दुःसहमारसैन्यैः शस्त्राश्मवद्विद्रुमपांसुवर्षेः । क्षिप्तैरनल्पप्रकरैः कुमारः पुष्पैरिवाकीर्णतनुर्बभूव ।। ४३ ।। खयं समुत्सृष्टशरे स्मरेऽपि याते विलक्षे घनदैन्यसैन्ये । वज्रासनध्यानधृतिः स सम्यक्संबुद्धतां सर्वविदाससाद ॥ ४४ ॥ ब्रह्मप्रधानैस्त्रिदशैः प्रदत्तं पात्रं समादाय स चीवरं च । संसारमुक्त्यै सुरमर्त्यनागसंघस्य सद्धर्ममथादिदेश ॥ ४५ ॥ हयं समादाय चिरेण सूते शून्यासनं शाक्यपुरं प्रविष्टे । जनस्य सान्तःपुरमण्डलस्य समुद्ययौ तीव्रविषादनादः ॥ ४६ ।। महीपतिः पुत्रवियोगतप्तः प्रसुप्तजीवः क्षणमोहनिद्राम् । निद्रामिवासाद्य घनानुबन्धां निःस्पन्दवृत्तिर्न विवेद किंचित् ॥ ४७ ।। अवाप्तसंज्ञं सुचिरात्तमूचुर्नभश्चरा मुञ्च विचार्य मोहम् । राजन्सुतस्ते सुगतत्वमाप्तः सुरासुरैर्वन्दितपादपद्मः ॥ ४८ ॥ ततः क्षितीशस्त्रिजगत्प्रसिद्ध ज्ञात्वापि तं जैनवने जिनेन्द्रम् । द्रष्टुं ययौ हर्षसुधानिधानं सामात्यमित्रखजनः ससैन्यः ॥ ४९ ॥ तदाश्रमोपान्तमहीमवाप्य वनं विलोक्य प्रशमाभिरामम् । शुद्धोदनः स्यन्दनपार्श्वसंस्थमुदायिनं बान्धवमित्युवाच ॥ ५० ॥ क्रव्यादोऽपि न भुञ्जते परतनुद्रोहेण हिंसाशनं क्रूराणामपि वैरवहिविरहान्न क्रोधदिग्धं मनः । व्यालुम्पन्ति न तु स्वयं निपतितादन्यत्फलं वानरा निर्दोषावरणं वनं भगवतः शंभोः प्रसादादिदम् ॥ ५१.॥ १. 'विकास' क. २. 'शस्त्रान' ख. ३. 'पुरी' क.

१५६ काव्यमाला। अक्षोभनिर्भरजलाः सरितो वहन्ति निर्विप्लवा विरजसः सुखयन्ति वाताः । सध्यानमौनमुनितां दधतीव वृक्षा निश्चेतनेष्वपि बत प्रसृता प्रशान्तिः ॥ ५२ ।। उक्त्वेति भूपरिवृढः शमसंनिधानं प्राप्याश्रमान(ग्य)मवरुह्य रथात्प्रहृष्टः । दूराद्ददर्श सुरसिद्धनरोरगाणां रागादिदोषशमने सुगतं प्रवृत्तम् ॥ ५३ ॥ भूनिर्गतप्रततकाञ्चनपद्मपृष्ठ- पद्मासनस्थमविसंस्थुलधामधीरम् । मेरुं सदेह मिव चन्द्रसहस्रकान्ति- पूरैर्नवामृतचितैः कृतरूपकायम् ।। ५४ ॥ सद्धर्मकायमुपदेशदिशा दिशन्तं ज्ञानार्करश्मिहृतमोहमहान्धकारम् । सिंहोन्नतासयुगमुन्नतबाहुनेत्रं बालप्रवालतरुपल्लवलोहितौष्ठम् ॥ ५५ ॥ . लावण्यराशिवदनं सरलोरुनासं निर्भूषणश्रवणपाशविशेषशोभम् । तं निर्जितस्मरमुदारगुणं प्रणम्य लेभे प्रतिप्रणतिमानधनप्रमोदम् ॥ ५६ ॥ शक्रादिभिः सुरवरैरपि बिम्बसार- मुख्यैश्च भूमिपतिभिर्गुरुंगौरवेण । नांगैश्च नम्रवदनैरभिनन्धमानः शुद्धोदनः कनकविष्टरमाससाद ॥ ५७ ॥ १. 'निर्झर' ख-ग. २. 'महोरगाणा' क. ३. "दिगन्त' ख. ४. 'लोहिताङ्गम्' ख. ५. 'गिरि ख. ६. 'नम्रश्च' ख-ग..

९ बुद्धावतारः] दशावतारचरितम् । १५७ आनन्दबन्धुमवलोक्य तथागतेन्दं चित्तप्रसादमसमं समवाप्य भूपः । तं प्राप्य हर्षसहजाश्रुनिरुद्धदृष्टि- स्तद्दर्शनामृतरसे सुतरामतृप्तः ॥ ५८ ॥ देव प्रकामकरुणादृशा सहर्ष- निःशेषदोषरहिता विहिता त्रिलोकी । कस्मादहो निजजनस्य कृतस्त्वयायं संमोहकृद्विरहशोकदशोपदेशः ॥ ५९ ॥ नीत्वा क्षपां स्फटिकहर्म्यतले सुखेन शय्यासु चीनवसनद्युतिसस्मितासु । शेषे कथं हरिणसंहतिदन्तदष्ट- शिष्टार्धशष्पपरुषासु वनस्थलीषु ॥ ६० ॥ तच्चन्द्रकान्ति मणिशुक्तिषु सैक्तशैत्यं पीत्वा पयः कथमहो पिबसि त्वमद्य । ग्रीष्मोप्ममूढमहिषद्विरदावगाह- क्लिद्यत्करीषकलुषोदरतिक्तमम्भः ॥ ६१ ॥ कस्मादेष विहारतामुपगतः कण्ठः कठोरेण किं संवीतं मृगचर्मणानिलचलच्चीनींशुकाहं वपुः । किं ते रत्नकिरीटधानि च जटाजूटो निबद्धादरः क्रूरक्लेशसखी सुखेषु विमुखी केनोपदिष्टा स्थितिः ॥ ६२ ॥ इत्यार्जवाजनपतौ जनकाभिमाना- पुत्रोचितं सदसि रागमयं ब्रुवाणे । स्नेहोपलिप्तरजसा मलिनखभावं तं तापसंभवभिषग्भगवान्बभाषे ॥ ६३ ।। १. 'देवः' ख-ग. २. 'सकला' क. ३. 'स्वच्छ शीतं' ख-ग, ४. "चीनांशुकं ते वपुः ख-ग. ५. 'जटाजूटेन बद्धो भरः' क. ६. 'जनकाभिधानात्' ख-ग. ७. 'तद्दो- षसंभव' ख-ग.

१५८ काव्यमाला। किं जीवावधिबन्धनैर्गुणगणेनाराधितैर्बन्धुभि- ये यान्त्यन्त्यदिने क्षणाश्रुपतनप्रत्यायनापात्रताम् । सद्धर्माधिगमः क्रियाव्युपरमः सत्संगमः संयमः पर्यन्तेऽप्यचला विरक्तमनसामेते सतां बान्धवाः ॥ ६४ ॥ आकृष्याटविकैः परैरपहृता सामन्तसीमान्तभू- रीार्ता मरणोद्यता प्रियतमा मुख्यस्तुरङ्गो मृतः । मन्त्री द्रोहसमुद्यतोऽतिबलवानित्यातचिन्ताशतै- भूपालः किल कोमलेऽपि शयने निद्रादरिद्रः सदा ॥ ६५ ॥ आशापाशनिवेशबन्धनपृथुप्रन्थिव्यथावर्जित- स्तृष्णातापनिवृत्तिशीतलतनुर्मानावमानोज्झितः । रागद्वेषविषप्रशान्तिसुखितश्चिन्ताविहीने वने पाषाणे घनदर्भसूचिनिचिते शेते सुखं निर्वृतः ॥ ६६ ॥ भोगी नित्यमजीर्णभोजनरुजा जिहां सदा दर्शय- वैद्यं पृच्छति तद्भयादभिमतं नानाति तृष्णातुरः । भुक्त्वा खल्पकमैप्रयत्नपतितं मूलं फलं वा जलं पीत्वा जातु रुजं जनेश भजते कांचिन्न निष्किञ्चनः ।। ६७ ॥ शय्यास्तास्तनुतूलपेशलतलाः सा हेमहर्म्यस्थिति- स्ताः केयूरकिरीटहाररचनास्ते कुञ्जरास्ते हयाः । भोगास्तेऽभिमता न कस्य सुखदाः किं त्वक्षिपक्ष्माञ्चल- च्छेदे सर्वमनन्त्य(गण्य)मन्यवशगं दृश्यं न किंचित्त्वचित् ॥६॥ ग्रीष्मे हारतुषारचन्दनचयश्चीनांशुकं चन्द्रिका *शीते राकवकुङमाङ्कतरुणीपीनस्तनालिङ्गनम् । रात्रौ वेणुर्रवोग्रवाररमणीगीतं दिने सत्सभा यस्यैतक्रियते स कस्य नृपते कायः कृतघ्नः स्थिरः ॥ ६९॥ १. 'गणेः' ख-ग. २. 'आकृष्याटविकैः परैपहृता सा सान' क. ३. 'अल्पयनप. तितं' क. ४. 'जातु रु जनो न भजते किंचिन' ख-ग. ५. 'भार' ख-ग. ६. 'सर्व- गमन्यगण्यवशगं' ग. ७. 'वेऽमी' ख-ग. ८. 'रवापरावरमणी' क.

१० कळवतारः] दशावतारचरितम् । नैराश्ये शमशीतचित्तसुखिनां नानन्दनं चन्दनं कारुण्याभरणाभिरामहृदये हारेण भारेण किम् । रत्नालंकरणादिकं गुरुगिरामाकर्णनं कर्णयो- र्नेष्टं शीलदुकूलशीलनवतां चित्राम्बराडम्बरम् ॥ ७० ॥ राजन्संत्यज मोहदुर्ग्रहमिमं स्नेहव्यथां मा कृथाः संसारस्य विचारय प्रचलतां मा मज जन्माम्बुधौ । नित्यापूर्वजेनोद्भवे भवपथे प्रस्थानपान्थभ्रम- क्षिप्रालापसमागमप्रणयिनां को बान्धवः कः परः ।। ७१ ।। इत्युक्त्वा भगवान्नृपस्य विदधे प्रबोधिनी बोधनां दीप्तज्ञाननिशातवज्रशिखया कायाभिमानाभिधम् । भित्त्वा विंशतितुङ्गशृङ्गगहनं स्थूलाचलं याकरो- संसारावरणप्रहाणकलनावैमल्यलीनं मनः ॥ ७२ ।। शाक्यानामथ तत्र मैत्रमनसां सप्ताधिकाः कोटयः सप्त प्राप्तविवेकपूर्वकुशलाश्चित्तप्रसादात्परम् । स्रोतःप्राप्तसकृत्समागमफलान्योगामिकाहत्पदा- न्यापुः सर्वजनाशयक्षयधिया सर्वज्ञसंदर्शनात् ।। ७३ ।। अथ स भगवान्कृत्वा सर्व जगजिनभास्कर- स्तिमिररहितं ज्ञानालोकैः क्रमाद्गुणिबान्धवः । जनकरुणया सद्धर्माख्यं निधाय परं वपु- स्तरणशरणं संसाराब्धावभूत्पुनरच्युतः ॥ ७४ ।। इति श्रीव्यासदासापराख्यक्षेमेन्द्रविरचिते दशावतारचरिते बुद्धावतारो नवमः । : कय॑वतारो दशमः। अथ खं वैष्णवं धाम गते सुगतभाखति । कलौ प्रबलतां याते तमसीव सुदुःसहे ॥१॥ १. 'नीलदुगूल' ख-ग. २. 'जनूद्भवे' क. ३. 'प्रावेविकी' ख-ग. ४. 'काया- मिधाना' ख-ग. ५. 'न्यागामिका तत्पदा' ख-ग. ६. 'जनाश्रम' क.७. 'विधाय' ख-ग.

काव्यमाला। मर्त्यभूमि परित्यज्य सदाचारविवर्जिताम् । जग्मुः कलापियामाख्यं दिव्यदेशं महर्षयः ॥२॥ अवदन्मुनयस्तत्र मार्कण्डेयं चिरायुषम् । भगवन्कलिकालोऽयं कलुषः प्रत्युपस्थितः ॥ ३ ॥ अतोऽपि कीहक्पर्यन्ते मलिनत्वं प्रयास्यति । जानीमहि (हे) नहि मही भारार्ता किं करिष्यति ॥ ४ ॥ विप्रा मद्यघृतक्षीरलाक्षालवणविक्रयैः । जीवन्ति प्रेष्यनिरता निराचारा निरग्नयः ॥ ५॥ अश्रोत्रियाः क्रियाहीनाः श्रुतिस्मृतिविवर्जिताः । विप्राः सुखेन मोक्षाप्त्यै याताः पाषण्डिशिष्यताम् ॥ ६ ॥ वृषलीपतयः प्राप्ताः क्रीडाहासकतां द्विजाः । नृत्तगीतकलाजालशिल्पिचारणवृत्तयः ॥ ७ ॥ क्रोधलोभपराः क्रूरास्तमोमूढा द्विजातयः । त्यजन्ति जीवितं रज्जुविषशस्त्रानलाश्मभिः ॥ ८ ॥ अक्षत्रिया क्षितिः सर्वा क्षत्रसंज्ञाः क्षितीश्वराः । ये रक्षितारः पौराणां ते प्राणधनहारिणः ॥९॥ प्रजोपतापशापोष्णैः पापाप्तैर्भूभुजां धनैः । जलैः सलवणैः पीतैरिव तृष्णा प्रवर्धते ॥ १० ॥ कृपणाक्रन्दबधिरा मदान्धा न्यायमौनिनः । भूपालाः कुजहृदया लोकपीडारताः सदा ॥ ११ अलक्ष्यं भक्षयन्त्येव क्षितीशानां दिवानिशम् । समुद्रं कोषमखिलं कायस्था वडवामयः ॥ १२ ॥ गायनक्षपिता लक्ष्मीर्दस्युनिर्दलिता दिशः। कायस्थदुःस्था पृथिवी राज्ञामज्ञावृताः समाः ॥ १३ ॥ १. 'वसुख-ग. २. प्रवर्तते' क. ३. 'मानिनः' ख-ग. ४. 'कुब्जवृतयः शत्रुस- श्रामपुजवाः' क; 'कुब्जहृदयाः......' ग. ५. एतत्पूर्वार्ध ख-ग-पुस्तकयोबुटितम्.

१० कळवतारः] दशावतारचरितम् । मन्त्रिसेनापतिद्वाःस्थसभापतिपुरोहितैः । उत्कोचद्रविणोत्तानपाणिभिः क्षपिताः प्रजाः ॥ १४ ॥ वैश्यस्य क्रौर्यवक्रत्वकार्कश्यैः क्रकचोपमाः । सरलच्छेदिनो वैश्या वैरस्मरणतत्पराः ॥१५॥ निर्माल्यमलिनां जाति वर्जयन्ति शनैः शनैः । वैश्या विप्रविवाहेन ब्राह्मण्याभिनिवेशिनः ॥ १६ ॥ दृश्यते सरलः शङ्खः फणी च विषवर्जितः । कृतान्तः करुणा” वा न तु वैश्यः कदाचन ॥ १७ ॥ जीव्य॑ते कालकूटेन जीव्यते खदिरामिना । जीव्यते संनिपातेन न तु वैश्येन वैरिणा ॥ १८ ॥ निशिताः सविषा वैश्या रोषनिर्घर्षधूमिनः । दृश्यन्ते कलिकालस्य कठिना दशना इव ॥ १९ ।। शूद्राः क्षत्रियतां याता वैश्यतामपरे श्रिताः । विप्रोही गुरुतामन्ये होतारो ब्रह्मवादिनः ॥ २० ॥ श्राद्धेषु शूद्राः शूद्राणां भुञ्जते गुरुतापसाः । ब्रह्मवदारहरणे प्रवृत्ताश्च महीभुजः ॥ २१ ॥ शूद्रस्य ब्राह्मणो दासः शिष्यश्च चरणच्युतः । भूमिश्च ब्रह्मदेयाख्या प्रवृत्तमधरोत्तरम् ॥ २२ ।। इत्येष चातुर्वर्ण्यस्य जातः कलिविपर्ययः । प्रतिलोमेन दृश्यन्ते प्रजानां वर्णसंकराः ॥ २३ ॥ ब्रह्मचर्यमतिक्रान्तं गृहिणो वेश्ययोषितः । वानप्रस्थस्थितिर्नास्ति यतीनां संयतिः कुतः ॥ २४ ॥ उक्तं स्वयं भगवता गिरिशेन शास्त्रं यद्वेदविद्भिरधिगम्यमशेषविद्यैः । . १. 'तत्कोश' ख-ग. २ 'वैश्यस्य' ख-ग. ३. एतदुत्तरार्ध ख-ग-पुस्तकयोस्त्रुटितम्. ४. ख-ग. पुस्तकयोः सर्वत्र 'जीवते' इति पाठः. ५. विप्राईगुरुता' ख-ग. ६. 'गृहिणां शेषयोषितः ख-ग. ७. 'वानप्रस्थातिथिः' ख-ग. ८. 'अधीतवेदैः' ख.

१६२ काव्यमाला। तन्मे(?)प्रमूर्खगुरवः प्रविहाय कष्टं कुर्वन्ति कल्यकुरवै(?)रुपदेशचर्चाम् ॥ २५ ॥ चक्रस्थितौ रजकवायकचर्मकार- कापालिकप्रमुखशिल्पिभिरेकपात्रे । पानेन मुक्तिमविकल्परतोत्सवेन वृत्तेन चोत्सववता गुरवो वदन्ति ॥ २६ ॥ लब्धं निर्मलमोक्षधाम मुनिभि ग्वगिरःकश्यपा- गस्त्यात्रेयमुखैयुगैरपि न यत्तत्प्राप्तमेवाबुधाः । मन्यन्ते खलु कौलगोलगुरुभिर्घस्तार्थधाराः क्षणा- दुच्छिष्टार्पणवेदधूननकथामात्रेण नियंत्रणाः ॥ २७ ॥ दम्भः सर्वस्य लोभान्निरवधिरधिकक्रोधकामस्तपस्वी द्रष्टा मूढः सभायां वणिगतिधनतामल्पकालेन यातः । वैद्यः कायोपजीवी गृहपतिरदयः क्रूरकर्माधिकारी बन्धुर्दारापहारी नवकलिकलिकाकोमलश्रेणिरेषा ॥ २८ ॥ श्माशानवततापसार्पितचिताभस्मास्थिचूर्णादिभिः सूनाबद्धपशूपमं निजपतिं निःशङ्कशून्याशयम् । कृत्वा गर्वगृहीतगेहविभवाः प्रागल्भ्यलब्धोदयाः खातव्येण चरन्ति शीलविरहव्यापारधीराः स्त्रियः ॥२९॥ इत्येष विपुलः कालः कलेः प्रबलतां गतः । भगवन्कीदृशः प्रान्ते भविता भविता जनः ॥ ३०॥ श्रुत्वैतदुक्तं मुनिभिर्देवर्षिस्तानभाषत । यास्यत्यतोऽपि मालिन्यं सहसगुणतां कलेः ॥ ३१ ॥ कलिविषतरोः प्रातः प्रातर्धनप्रसरः परं नवनवभरः पाके पाके प्रमोहकदुत्कटः । १. 'कुदुरैः' ख; 'कुररैः' ग. २. 'मुक्तिः' ख. २. 'मुक्तिः' ख. ३. 'नृतेन चोत्पलवता' ख-ग. ४. 'गुरुभिः' ख. ५. 'मानापहारी' ख-ग. ६. 'नाना' ख-ग. ७. 'शुदाशयं ख-ग. ८. 'कालःख-ग.

१० कर्त्यवतारः] दशावतारचरितम् । १६३ अतिबहलतां पापामोदः प्रयोति सुदुःसहः पतति जनता येनाधोधः कृतेव पदेपदे ॥ ३२ ॥ सप्तवर्षासु नारीषु पुरुषा दशवत्सराः । तनयाञ्जनयिष्यन्ति हवाः खल्पबलायुषः ॥ ३३ ॥ दरत्तुरुष्कयवनाव(फ)गानशकनन्दनैः । संकोचमेष्यति मही कुष्ठैरिव विसर्पिभिः ॥ ३४ ॥ म्लेच्छाच्छादितसर्वाशा कृपणाक्रन्दनादिनी । मेदःकर्दमिनी क्लेदं रक्तैर्यास्यति मेदिनी ॥ ३५ ॥ तस्मिन्काले निरालोके लोके पापतमोदये । उत्पत्स्यतेऽर्कसंकाशः शिशुः कर्किकुले द्विजः ॥ ३६ ॥ विष्णुभूभारशान्त्यर्थी सोऽथ विष्णुयशाः क्षितौ । चरिष्यत्यश्वमारुह्य म्लेच्छसंक्षयदीक्षितः ॥ ३७ ।। तत्खड्गाघातकृत्तच्युतभुजशिरसां म्लेच्छयूथाधिपानां रक्तैः प्रक्षाल्य लीनं कलिकलुषजनासङ्गसंक्रान्तपापम् । कङ्कालाका कपालव्यतिकरशबला व्यावलत्केशकन्या त्यक्ष्यत्यन्तेऽनुतापं व्रतमिव दधती भूतभृद्भूतधात्री ॥ ३८॥ निम्लेंच्छां वसुधां विधाय सकलां देवः स्वयं माधवः फुल्लाशोकदलोज्ज्वलां कृतयुगाविर्भावभव्यां विभुः । लोकानां कुशलोदयाय दशभिः खेच्छावतारक्रमै- धर्माधानधिया करिष्यति पुनर्भारावतारं भुवः ॥ ३९ ॥ श्रुत्वेति देवर्षिगिरं यथार्थी तथेति निश्चित्य महर्षयस्ते । विष्णोः क्षितौ कर्किकुलावतारनिवेशिताशाः सुखिनो बभूवुः ॥ ४० ॥ इत्येष विष्णोरवतारमूर्तेः कथामृताखादविशेषभक्त्या । श्रीव्यासदासान्यतमाभिधेनं क्षेमेन्द्रनाम्ना विहितः स्तवाग्यः ॥ ४१ ॥ इति श्रीव्यासदासापराख्यक्षेमेन्द्रविरचिते दशावतारचरिते कळवतारो दशमः । १. 'बालकान्' क. २. 'हख' क. ३. 'वन्दनैः' क. ४. 'शापपापतमोमये' ख-ग. ५. 'कर्किकुले द्विजः शिशुः' क. ६. 'उत्खगाघात' ख-ग. ७. 'प्रत्यक्षन्ती न ताप' -ख-ग. ८. 'धर्मादान' ख-ग. ९. 'भिधानक्षेमेन्द्र' ख-ग.

१६४ काव्यमाला। यो मत्स्यकूर्मादिविचित्ररूपैराश्चर्यकारी हृदयस्थरत्नः । श्रीमाननन्तः स्फुटशेङ्खचक्रः श्रियेऽस्तु विष्णुर्विभवोदधिर्वः ॥ १ ॥ कश्मीरेषु बभूव सिन्दुरधिकः सिन्धोश्च निम्नाशयः प्राप्तस्तस्य गुणप्रकर्षयशसा पुत्रः प्रकाशेन्द्रताम् । विप्रेन्द्रप्रतिपादितान्नधनभूगोसंघकृष्णाजिनैः प्रख्यातातिशयस्य तस्य तनयः क्षेमेन्द्रनामाभवत् ॥ २ ॥ तेन श्रीत्रिपुरेशशैलशिखरे विश्रान्तिसंतोषिणा विष्णोः खल्पविलोकिताकृतिसुधासंवर्धितोत्कण्ठया । वाक्पुष्पैरमलैर्गुणप्रणिहितैरम्लानशोभैः स्थिरै- भक्तिव्यक्तदशावतारसरसः पूजाप्रबन्धः कृतः ॥ ३ ॥ स्तुतिसंकीर्तनाद्विष्णोर्विपुलं यन्मयार्जितम् । तेनास्तु सर्वलोकानां कल्याणकुशलोदयः ॥ ४ ॥ ऎकाधिकेऽब्दे विहितश्चत्वारिंशे सकार्तिके । राज्ये कैलशभूभर्तुः कश्मीरेष्वच्युतस्तवः ॥ ५ ॥ समाप्तोऽयं ग्रन्थः। १. "रनेः' ख-ग. २. 'शक्ति' ख-ग. ३. 'कृत' ख-ग. ४. एकचत्वारिंशन्मिते लौकिकान्दे १०६६ मिते खिस्तान्द इत्यर्थः. ५, अनन्तदेवसूनोहर्षदेवपितुः.

No text on this page.

DATE OF ISSUE
This book must be returned within 3/7/14
days of its issue. A fine of ONE ANNA per day
will be charged if the book is overdue.

No text on this page.

दशावतारचरितम

Author
Jaavajii Paandurang
Title
Dashaavataaracharitam
File name
दशावतारचरितम
Text
OCR done
Citation
1930
Published
2005/06/17
Publisher
Nirnd-ayasaagar Yantraalay
Language
Sanskrit
Pages
172
Library
Central Library, Bits- Pilani
Classification
GENERALITIES
DLI number
477514
Barcode
99999990177895.00
Scanning centre
C-DAC, Noida
Digital publisher
Digital Library of India
Rights
Copyright Permitted
VMLT id
WCaPM3AVnHR
Download PDF

दशावतारचरितम