Scl

Sri Karbhashyam Vol- I V

Sri_chidirematiyeveerchandrasharma

PDF Proofread

Front matter

No text on this page.

RTERTREATREYEAR ARARIANTERESTERERNAT: RREARRITERATER श्रीजगद्गुरुपञ्चाचार्याः प्रसीदन्तु शिवधर्मग्रन्थमालायाः विंशतितमंपुष्पम् (२०) श्रीपतिपण्डिताचार्यप्रणीतम् ब्रह्ममीमांसा सूत्र- श्रीकरभाष्यम् (चतुःसूत्री) HERIRITERARIEEEEEEEEEEEEEEEEEEEEEEEEERENERRENERARE ENTERPRETRIEFERENTERPREET PRETREATREENETER DREAMEREKAREER EARREARRER वेद-काव्य-स्मृतितीर्थ-धर्माचार्य-विद्यानिधि कै. पं० श्रीचिदिरेमठीयवीरभद्रशर्मणा परिष्कृतम् प्रकाशकः काव्यतीर्थ-मीमांसाशास्त्री-वेदान्ताचार्य वैराग्यमठीय श्रीपञ्चाक्षरशियाचार्यः जंगमवाडीमठस्थशैवभारतीभवनम श्रीक्षेत्रकाशी १९५६ ई०1 [ मूल्यम् ॥ ७० AWARENTRIERRENTERTIMERRITATERMERREDITATERAR मुद्रक-ओम प्रकाश कपूर, ज्ञानमण्डल यन्त्रालय, बनारस, ४८९२-१२ निवेदनम् सुप्रथितमेवैतत्-सनातनवैदिकवीरशैवमतमतिविस्तृतं लब्धसुयशश्चेति। वीरशैवमतस्थापकैः रेणुकादिनामधेयैः पञ्चभिराचार्यवरैः त्रीणि दक्षिणप्रदेशे, द्वे उत्तरप्रदेश इति पञ्चपीठानि स्थापितानि । तत्रैकं विश्वाराध्यसिंहासनाख्यं 'ज्ञानपीठं चिरात् खलु श्रीक्षेत्रवाराणस्यां जंगमवाटिकापरपर्याये हरिकेश- नंदनवने विराजते । ज्ञानपीठार्थ-श्री काशीनरेशजयनन्ददेव-मुगलसम्राट अकबर-हुमायूँ-औरंगजेबप्रभृतिभिः प्रदत्तानि दानशासनानि समवलोक्येदं विश्वाराध्यसिंहासनाख्यज्ञानपीठं प्राचीनतममित्युत्तरप्रदेशीयैः प्रधानन्याया- धीशैरप्यंगीकृतमस्ति । ज्ञानपीठस्थ-'शिवधर्मग्रंथमाला'-द्वाराऽद्यावध्येकोन- विंशतिपुष्पाणि प्रकाशितानि । इदं च श्रीकरभाष्यं वीरशैवसिद्धान्तसारभूतमेवं शिवधर्मसिद्धान्तग्रन्थमणिकौस्तुभरूपमित्यत्र नास्ति विचिकित्सालवोऽपि । साम्प्रतमस्य 'चतुःसूत्री'-प्रकाशनमपि सन्तोषप्रदमेव । अचिरादेव समग्रस्यास्य ग्रन्थरत्नस्यापि प्रकाशनं भविष्यतीति निश्चप्रचम् । परवादिनागकेसरिणा श्रीपतिपण्डितभगवत्पादाचार्येण विरचितं श्रीकरभाष्यमितः प्राग मैसूरनगरे कै० श्री पं० काशीनाथशास्त्रिमहोदयेन संशोध्य कर्नाटकाक्षरे, एवञ्च श्रीमत्पण्डितवर्यैः वीरभद्रशर्मभिः (भूतपूर्व- काशीज्ञान गीठाधीश्वरश्रीजगद्गुरु-वीरभद्र शिवाचार्य महास्वामिभिः) चतु:- सूत्रीपर्यन्तं आन्ध्राक्षरे प्रकाशितमिति बुधजनबुद्धिगतोऽयं विषयः। श्रीहयवदनरायमहोदयेनापि ग्रंथस्यास्य सम्पादनं कृतम् , किन्तु तत्रस्थदोषबाहुल्यं तस्य संस्कृतानभिज्ञतामेव प्रकटयतीति विदुषामाशयः। भगवत्पादाचार्यश्रीमद्भाष्यकारकालनिर्णयविषये सविमर्श पुस्तक- मेकमचिरादेव प्रकाशितव्यमिति पण्डिताग्रेसराणां भूतपूर्वश्रीमन्जगद्गुरु- वीरभद्रमहास्वामिनां संकल्प आसीत् , किन्तु दैवदुर्विपाकात् ते असमय एव कैलासवासिनोऽभवन् । अतस्तैरान्ध्राक्षरे प्रकाशितं वास्तविक' मेवात्र नागराक्षरे स्वीकृतमस्ति ।

विद्यमानकाशीज्ञानपीठाधीश्वरश्रीमज्जगद्गुरुश्रीविश्वेश्वरशिवाचार्यमहा- स्वामिनोऽपि पूर्वाचार्यप्रदर्शितपथेनाऽनवरतप्रयत्नपूर्वकं सविमर्श शिवधर्म- सिद्धान्तग्रन्थप्रकाशने बद्धपरिकरा इति परमानन्दकरोऽयं विषयः। साधवो विद्वांसो निष्पक्षपातमतिमहत्तामापन्नस्यास्य शिवधर्मसिद्धान्त- ग्रन्थरत्नस्य सम्यगवलोकनेनानुगृह्णन्त्विति भृशमभ्यर्थयते । विद्वज्जनविधेयः श्रीनृपशालिवाहन- शकाब्दीय (१८७७) श्रीमन्मथसंवत्सर- फाल्गुन शुक्लत्रयोदश्याम श्रीजगद्गुरुरेणुकाचार्यः जयन्त्युत्सवे। वैराग्यपठीयश्रीपंचाक्षरशिवाचार्यः, वेदान्ताचार्यः वास्तविकम् प्रपञ्चपरमार्थंक-कारणं मारमारणम् । प्रपद्ये परमेशानं भवपाशनिवारणम् ।। श्रीमत्परवादिगजानुशायमानेन आराध्यपादप न अशेषशास्त्रशेमुषीधुर- न्धरेण श्रीपतिपण्डितभगवत्पादाचार्येण प्रणीतं ब्रह्ममीमांसासूत्रव्याख्यातायं श्रीकरभाष्यं, शिवधर्मसिद्धान्तस्थापकेषु ग्रन्थरत्नेषु मूर्धानमधिरोहतीति विपश्चि- दपश्चिमाः प्रमाणम् । चिरादस्य प्रकाशने साकाङझं मच्चेत इत्यत्र न किञ्चिद्वि- चिकित्सितव्यम् । बृदय कञ्चिद्धर्षलवमप्यनुभवति, तत्र अल्पमप्येतत्प्रकाशनं निदानम् । केनापि दैवदुर्विपाकेन साम्प्रदायिकानामौदासीन्येन वा महाघमप्ये- तद्भाष्यमन्धेतमसि निगूढं नवसङ्ख्याकान् शताब्दान् [ ९०० ] व्यनीयतेति नाश्चर्यकरं विज्ञातदशानाम् । विच्छिन्नपठनपाठनादस्य भाष्यस्य लिखितग्रन्था अपि केचिदेव द्वित्राः समुल्लसन्त्यान्ध्रविपये। परिष्करणार्थमवलम्बितानि आदर्शपुस्तकान्यत्रोदाह्रियन्ते । तद्यथा- (१) सिकिन्द्राबादवैद्यनागलिंगप्पमहाशयप्रदत्तं द्विसम्पुटात्मकं सम्पूर्ण कर्गजलिखितं, लेखनदोषजुष्टम् । (२) सिकिन्द्रावादनगरे १८९३ तमे ईशवीयाब्दे आन्ध्राक्षरैर्मुद्रितं द्विश- तपत्रपर्यन्तं असंस्कृतमशुद्धिबहुलं असम्पूर्णम् । (३) लिङ्गपल्लि-शिवकोटिवीरभद्रार्यमहाशयप्रदन्तं तृतीयपादपर्यन्तं लिखितं दोषभूयिष्ठं सुन्दराक्षरम् । एतत्पुस्तकत्रयप्राप्त्यनन्तरं परिष्कृतभाष्यप्रकाशनाय सोत्साहं मनश्चिरात् सप्रयत्नमासीत्। पण्डितवयः श्रीकाशीनाथशास्त्रिभिरेतद्भाष्यचतुःसूत्री, अत्रा- न्तर एव संशोध्य प्रकाशनमानीतेति प्रमोदस्थानम् । तदन्वविलम्बितमेव 'विभूति' मासपत्रिकायामस्मदीयायां चतुःसूत्रीभाष्य- स्यास्य प्रकाशनं प्रत्यकुमारब्धम् । तथाप्यनाश्रयतया चतुःसूत्र्याः समाप्ति- दर्शनं न विभूतिपाठकैराप्तम् । निवेदितैतवृत्तान्ताः श्रीमन्तः शिवस्वरूपिणो २ ) देविडीसंस्थानाधीश्वराः कन्दुकूर्यन्वयाम्बुधिकुमुबान्धवाः श्रीमद्बालसूर्यप्रसा- दरायबहद्दमहाशयाः नूनं मुदितान्तरङ्गा अस्य ( आन्ध्राक्षरे) प्रकाशनसाहा- य्यप्रदानेन जनस्यास्य प्रयत्नमभिननन्दुः । सोऽयं चतुःसूत्रीभागोऽद्य सुधीजन- चक्षुर्गोचरतां सविनयमानीत इति किमु वक्तव्यम् । परिष्करणे-तत्तच्छु ति- निर्देशे च कियान्वा परिश्रम-इति, पूर्वमुद्रितमान्ध्राक्षरग्रन्थमिमं च सविमर्श- मालोकययश्चक्षुष्मद्भयो न निवेदनीयमवशिष्यते । श्रीपतिपण्डिताचार्यवृत्तम भाष्यकारोऽयमात्मनिवासपुण्येन आन्ध्रविषयस्थं विजयवाटिका (बेजवाड) नगरमनुजग्राहेति सुप्रसिद्धोऽयं वृत्तान्तः । श्रीपतिपण्डिताचार्यस्य श्रीपतिपण्डि- ताराध्य इत्यपि सामान्यो व्यवहारः । ग्रन्थादौ अष्टमश्लोकादारभ्य दशमश्लोकं यावत् वीरशैवमतस्थापकेषु श्रीजगद्गुरुरेणुकादिपश्चाचार्येषु तृतीयस्य श्रीमदेको- रामजगद्गुरोः महाप्रभावद्योतकं यत् स्तोत्रं निबद्धम्, तदस्य भाष्यकारस्य श्रीपतिपण्डितस्य श्रीमदेकोरामाचार्यशिष्यपरम्परात्वं भृङ्गिगोत्रित्वं च प्रकट- यति । अस्य सहजवीरशैवत्वं तु बाढमुररीक्रियते । आगन्तुकता न कैश्चिन्छङ्क- नीयाऽस्य । निराभारि (परिब्राजक) तास्वीकारात्प्रागयं गृहस्थो ब्रह्मचारी वति न निर्णीयते, तथापि विद्यानाथोऽयमाचार्यो विपुलयाऽनेकया छात्रसम्पत्त्या रराजेत्यत्र न सन्दिह्यते । परःशतैः पण्डिताचार्यः साकं कृतबहुशास्त्रार्थः, संस्थापितस्वसिद्धान्तोऽयं भाष्यकार: श्रीमद्रामानुजाचार्यस्य श्रीभाष्यं (......) आक्षिप्य "श्रीकरं भाष्यम्" किञ्चिदपूर्व ललितमधुरं स्वकीयमेव प्रणिनायेति महान् प्रवाद आन्ध्रवीरशैव- पण्डितेषु । अग्रिमया कालचर्चया चास्य विशेष वृत्तं संलक्ष्येत । - भाष्यनिदानम् श्रीकरभाष्यप्रणयने मूलमगस्त्यवृत्तिरिति श्रीपतिः स्वयमुवाच षोडशे श्लोके । रामानुजस्तु स्वभाष्यस्य बौधायनवृत्तिं निदानं जगाद । वृत्तिद्वयमपीद- मद्य न द्योतते भारते । किं किं नु खलु कालः करालः स्वकुक्षौ न चिक्षेप ?

३ ) श्रीकरभाष्ये सामान्यतो निगमागमोपनिषत्पुराणेतिहासप्रमाणानामुपन्यासस्तु- मुल एव । तथापि, येषामेव सदा मनननिदिध्यासनाभ्यामस्य श्रीपतेर्भाष्यरच- नापटिमाऽऽविरासीत् तेषां शिवधर्मग्रन्थानां अद्यालभ्यप्रायाणां तत्तदाचार्य- कृतीनां च नामानि अस्य चतुस्सूत्रीग्रन्थस्य पृष्ठानुसारेण सूच्यन्ते- ४० ४० वातूलागमः २ | शाम्भवानन्दाराध्यभाध्यम् ३८ अगस्त्यवृत्तिः २ कैवल्यप्रकाशः ऐश्वर्यशाखा १४ शिवज्ञानचन्द्रोदयः सिद्धान्तागमः १९ दूर्वासीयवृत्तिः ४१ कैवल्यचन्द्रोदयः ३१ ज्योति थभाध्यम् ४६ रेणुकभाष्यम् ३२ घण्टानाथभाष्यम् ४६ दारुकभाष्यम् ३२ भीमनाथभाष्यम् ४६ शङ्खकर्णभाष्यम् ३२ शिवाद्वैतप्रकाशः गोकर्णभाष्यम् ३२ शिवधर्मशास्त्रम् ६८ शिवागमः ३४ शिवरहस्यम् ६८ एकोरामभाष्यम् ३७ । वीरागमः एतेन श्रीपतिपण्डितभगवत्पादाचार्यस्य महदध्ययनं स्वसमयनिष्णातत्वं च व्यज्यते । ग्रन्थेष्वेतेषु केषाश्चिदेव नामानि वीरशैवपण्डितैरपि श्रवणगोचरीक- तानि, द्वित्राणां प्रत्यक्षतापि । परमतीयपण्डितानां कृते पुनः किमु वक्तव्यम् ? श्रीपतिपण्डिताराध्यभगवत्पादस्तु धन्यतमः सम्भाव्यते, यस्य जन्म पर:- सहस्रेषु स्वमतग्रन्थेषु सत्सु सुभिक्षकालेऽभूत्, अतएव महान प्रमाणप्रवाहोऽनि- रुद्ध इव भाष्येऽस्मिन् परसिद्धान्तभूजान निःशङ्कम् पातयति । साकल्यस्य अस्य भाष्यस्य यद्याशु प्रकाशनं भवेत् तर्हि ब्रह्मसूत्रार्थ परिशीलकानां विदुषां चेतसि किंचिदपूर्वमेव सजीवनं सञ्जायेत । भट्टभास्करस्य श्रीकण्ठाचार्यस्य च ब्रह्मसूत्रभाष्यप्रभावः श्रीकरभाष्ये तत्र तत्रातिसूक्ष्मः प्रतीयते, तथापि स्वतन्त्र एव अयं स्थापनामार्गः श्रीपतेः श्रीकर- भाष्ये गम्भीरतरं वैदुष्यमुद्घाटयतीति न तिरोहितं मतिमताम् । “नीलकण्ठशि- वाचार्य नाम्ना भाष्यमचीकरत्” इति क्रियासारस्मरणात् शिष्टपरम्परया जनश्रु- त्या च नीलकण्ठभाष्यमेव वीरशैवभाष्यत्वेन लब्धप्रतिष्ठं चिरादवगम्यते। किन्तु तदधुना न केनापि विदुषा लभ्यते । केचित्तुश्रीकण्ठभाष्यमेव नीलकण्ठभाष्य- ( ४ ) मिति मन्यन्ते, नास्माभिस्तत् समर्थ्यते । श्रीकण्ठभाष्ये वीरशैवीयानां आचाया- णां, ग्रन्थानां, षट्स्थलादीनां लेशतोऽप्युल्लेखनाभावात् न तल्लिङ्गधारिशक्ति- विशिष्टाद्वैतवादिना स्वकीयं भवितुमर्हति । रेणुकादिप्राचीनाचार्यभाष्याणामव- लम्बनं शिवागमधर्मस्थापनं चात्र श्रीकरभाष्ये वैशयेनोपलभ्यते । परम्पराभि- मतत्वात् प्रत्यक्षप्रमाणत्वाच श्रीकरभाष्यमेव नीलकण्ठभाष्यानन्तरं (यदि ल- भ्यते ?) वीरशैवजगति सिद्धान्तस्थापनप्रामाण्याय सर्वः स्वमतीयैर्मस्तकन्य- स्तहस्तस्तबकपुरःसरं समाद्रियते । भाष्यकारकालचर्चा । श्रीपतिपण्डितस्य स्थितिकालविषये कैश्चिदसाम्प्रदायिकैः सन्दिह्यते । समा- धेयांशः संक्षिप्यात्र प्रकाश्यते । श्रीकरभाष्यस्य चतुःसूत्र्याः ६०तमपृष्ठे भट्टभास्क- रस्य, प्रथमाध्यायप्रथमपादे २१ सूत्रभाष्ये नीलकण्ठस्य, द्वितीयाध्यायप्रथमपादे २२ सूत्रभाष्ये श्रीकण्ठस्य, द्वितीयाध्यायद्वितीयपादे ४२ सूत्रभाष्ये रामानुजस्य च नामग्रहणादयं श्रीपतिः, नीलकण्ठ-भट्टमास्कर-श्रीकण्ठ--रामानुजा- दिभ्य अर्वाचीन इति निःशङ्कम् निर्णयः। नीलकण्ठस्थ विपये तु “सोऽति- प्राचीनः" इत्येव अङ्गीकर्तव्यम्, तत्कालनिर्णयसाधनानुपलब्धेः । भट्टभास्करस्तु क्रि. श. दशमशताब्दीय इति राद्धान्त एव । अत एव डा. सर. एस्. राधाकृष्ण- महाशयः “इण्डियन्-फिलासफी” नामके स्वअन्य “ब्रह्मसूत्रभाष्यप्रणेता भास्करः क्रि० श० ९०० अब्दे आसीत, यतोऽस्य मतं क्रि. श. ५८० अब्दीयेन कुसुमाञ्जलिकारेण उदयनाचार्येण विमर्शितम्” इति लिलेख । Bhaskara wrote a commentary on the Bralıma Sutra called Bhaskara Bliasliya about 900 A, D.Ilis vicws are attacked by Udayana in his Kusumanjali ( A.D. 980.) ( Indian Philosophy Vol. IT IPage 670) श्रीकण्ठाचार्यकालोऽपि क्रि. श. १०६४ अब्द इति अधारशिवाचार्यकृते महोत्सवविधौ स्वकालस्य क्रि. श. ११५४ अब्दत्वेन निर्देशात, श्रीकण्ठस्य स्वप्रपितामहत्वकथनाच निश्चीयते । श्री एस. एस. सूर्यनारायणशास्त्रि- विरचित "शिवाद्वैत आफ श्रीकण्ठ" (Sivad waitil of Srcekantha) इति नाम्नि पुस्तके तथैव श्रीकण्ठाचार्यस्य दशमशताब्दीयत्वं प्रतिपादितम् ।

- - रामानुजाचार्यः क्रि. श. १०१७ अब्दे बभूवेति विद्वद्भिः श्रुतमेव अतो भास्कर-श्रीकण्ठ-रामानुजेभ्योऽनन्तरमेव श्रीपतिपण्डिताचार्य एतच्छीकर- भाष्यं जग्रन्थेति निरापदम् । अत्र काश्चिदुपपत्तयः प्रदश्यन्तेः- वीरशैवेषु पण्डितलयप्रशंसातु प्रायः श्रूयते "श्रीपतिपण्डित-मंचनपण्डित- मल्लिकार्जुनपण्डित-” व्यक्तित्रयमेवाब तत्पण्डित-त्रयमित्यपि निर्विवादम् । क्रि. श० ११९५ तमाब्दीयः पाल्कुरिकिसोमनाथकविः स्वान्ध्रपण्डिताराध्यचरि- दीक्षाप्रकरणारम्भे, पण्डितत्रयमेवं प्रशशंस,- "हरभक्तियुत्पत्तिकधिपतिनागबरगेनु दोल्लिश्रीपतिपण्डितय्य । चेनसि भक्तिक्रियास्थितिकर्तयनगजनि येनु लेकमंचनपंडितय्य। दूरान्यसमयसंहारुडै चनियेशूरुडु मल्लिकार्जुनपंडितय्य । ख्यापितभक्तिकिकारणपुरुषुलै पण्डितत्रयं बनभुवि जनिरि ।" अनेन मल्लिकार्जुनपण्डितोऽपि पा. सोमनाथात्पूर्व क्रि, श. ११६० अब्दे आसीदिति आन्ध्रचरित्रचतुरैनिर्णीतम् । मल्लिकार्जुनपंडिताराध्यकृतिस्तु "शिव- तत्त्वसारमु” इतिनाम्ना आन्ध्रवाचि सुप्रसिद्धा, आन्ध्रसाहित्यपरिषदा प्रकटिता च । तत्रस्थात् ४०६ तमपद्यात् श्रीपतिपण्डितस्य अग्निस्तम्भनकथा, शास्त्रार्थ- विजयश्च प्रतीयते, यथा-कं.। , "ओकडे देवमुशिवुडनि निक्कमु सेयुटकु मुडिचे निप्पुलु सीरन् । सुक्कक श्रीपतिपण्डितुं डक्कजमुग विजयवाड नलजम्मिशिवा!" (शिवतत्त्वसार ४०६ पद्यम्) कथामिमां पा. सोमनाथोऽपि कथयामास । "भक्तुण्डु श्रीपतिपण्डितुण्डीशुभक्तुनि किल गोटि ब्राह्मणुलैन नेन यन्न नालुकने गोसिवैतननुचुननन्तपालुनि सभास्थलिनि" (आन्ध्रबसवपुराणसप्तमाश्वासे) अनन्तपालास्थाने श्रीपतिपण्डितः परान् पराभवं प्रापयामासेति वृत्तान्तः कमपि प्राचीनमितिहासं स्मारयति । अनन्तपालो नाम राजा चालुक्यत्रिभुवन- मल्लदेवसामन्तः सन् विजयवाटिका ( Bez.wada )-गुंदर-कर्नूल आदि- मण्डलमण्डितं आन्ध्रप्रदेश, बनवास्यादि कर्णाटकदेशं च क्रि० श० ११ तमे शताब्दे परिपालयामासेति Inscriptions of Madras Presidency Vol. II ग्रन्थे, ३०५ संख्याक-गुण्टुरुशासनात , ३५१ संख्याककर्नूलशासनात, South Indian Inscriptions of Govt. of India. Vol. IV. ग्रन्थस्य ४८९ पृष्ठस्थितशासनात्, Epigraphia Carnatica Vol Vil ग्रन्थे शिकारपुरीयेभ्यः १३, ९८, ९९, १३१, १४९ शासनेभ्यश्च बाढं प्रतीयते। सर्वमिमं प्रमाणसमवायं समालोच्यैव स्यात् , श्री. टी. एस. नारायणशास्त्रिणा बी. ए. बी. एल, पदवीधरेण The Indian Review. Vol 16. May 1915 No.5 नाम्नि मासपनें “The fire Grcut Schools of Vedanta Philosophy इत्यभिधो लेखः प्रकाशितः, तद्यथा- - "Of these eleven Schools of Vedanta. philosophy, those of Shankara, Srikanta, Ramanuja, Srikara and Maddhwa are the most important and constitute the Five Great Schools of Vedanta Philosophy. Of these, Shankara belongs to the end of the 6th Century B. C. (born 509 B. C.) Srikantha was a contemporary of the Second Great Shankara, thc 38th Acharya or successor of Adi Shankara who was born in 788 A. D., and who is unfortunately mistaken for Adi Shankara and belongs to the latter part of the 8th Century A. D. Ramanuja belongs to the carlier part of the 11th century A. D. (born 1017. A. D.) Srikara and Maddhwa respectively belong to the latter half of the 11th century and the earlier half of the 12th Century A. D.( Srikara having been born in 1072 A.D.; and laddilva. in 1119 A. D.)' उपलब्धप्रमाणैरेतैः अनन्तपालराजस्य श्रीपतिपण्डितस्य च समकालिकत्वं क्रि० श० १०७२ तमेऽब्दे स्थितित्वं च सुदृढं प्रस्थाप्यते। येयं कथा श्रीपति- पण्डितमहिमाद्योतिनी अग्निस्तम्भनात्मिका जनश्रुतौ परम्परापतिता श्रूयते, सा नितरां सत्यतापूर्णेत्यत्रापरमप्येकं बलीयः प्रमाणमत्र प्रकाश्यते - शिलाशासनप्रमाणम् । विजयवाडनगर एव श्रीपतिपण्डिताचार्य-निवास इति ज्ञायत एवात्रस्थैः । तत्रैव अनन्तपालराजसम्मुखं शिवधर्मशास्त्रप्रस्थापन, अग्निस्तम्भनप्रकाशनं च श्रीपतिनानुष्ठितमित्यपि सुप्रसिद्धम् । किन्तु तद्वृत्तान्तस्थापनाय प्रत्यक्षसाध- नमन्वेषयताऽनेन जनेन प्रयत्नविशेषेण विजयवाडनगरस्थिते श्रीमल्लेश्वर- देवालये पल्लकेतराजविलेखितं शिलाशासनं समुपलब्धम्, यत्र वा अग्निस्त- म्भनं कृत्वा परविदुषः परं पराभवं प्रापय्य समुज्ज्वलं श्रीकरभाष्यमिदं प्रभाषि- तम्, तस्याधुनाऽपि शमीवेदिकति (जम्मिदोड्डि) व्यवहारो दृश्यते, यद्वा भाष्यरचनास्थलं, यत्र वा शिलाशासनस्थितिः, यच्च शिलाशासनं तदेतत्त्रयमपि मप्रतिविम्ब सपरिचयमत्र सम्मुद्रयते । श्रीपतिपण्डिताराध्यमहिमान्वितं पल्लकेतराजशिलाशासनम् शासनस्थान-विजयवाड-मल्लेश्वरालयः । दैय-विपादसार्धद्वया- गुलम् । विस्तारः-सपश्चाङ्गलपादः।

(८) maam aan - bhya शासनपाठो यथाच्छायम् । १-ॐ वितस्ति विस्त्रु (स्ट) तेनापि सर्वैस्तुलिततेजसा पीतासे (शे) पा.- २-ब्धितोयेन कुम्भजेनाप्यगस्तिना। पूर्व कृतजयेशान ना- ३-मापि तदनंत्त (त) रं आराध्य मल्लयुद्धेन फल्गुनेन कृता- ४-भिधः मल्लेश्वर इति ख्यात (:) सन्निधत्ते महेश्वरः श्रीमद्विज- ५-यवाटाख्यपुरे कृष्णाविभूषणे कलौ श्रीमच्छकाब्देऽब्धि- ६-शशिसायक संम्मि (मि) ते । राजा माधववर्माभूद्विख्यातो ध- ७-रणीतले ॥ तत (:) स्वपुत्रेण हते तिन्त्रिणीजीविनीसुते धर्मसं- ८-रक्षणार्थाय स्वपुत्रमवधीत्सराट । ततो मल्लेश्वरः- ९-प्रीतः स्वर्णवृष्टिं ववर्ष च शिशुपुत्रकयोः प्राणं दत्तवाँ- १०-स्तस्य कीर्तये ॥ तत [:] श्रीपण्डिताराध्यनाम्ना भक्तोत्तमेन च ११-शिवभक्ता एव नूनं देवर्षिभ्योऽधिका-इति । चीनाम्बरेग्नि संस्ता (स्था)। १२-प्य शमीकोमलशाखया बद्ध मल्लेश्वरः प्रीतः प्रत्यक्षस्सम- १३-जायत । ईदृग्विधं महादेवं भक्तवत्सलमव्ययं मल्लेश्व- १४-रं समाराध्य रेजिरे पृथिवीभुजः । स्वस्ति परमवंशाद्भव भार- १५-द्वाजगोत्र खट्वाङ्गध्वज वृषभलाञ्छन काजीपुरवरेश्वर कडु- १६-वायुपरपोषण पल्लवकुलतिलकपादाम्बुजसेवित (वक ?) अं- १७-नुव (?) कामकुलाधिनायक अनेकबंधु (धु) जनाश्रय पतिहि- १८-ताभरण पतिमेच्चुगंड (ड) नोडुवडि साहसार्जुन संग्राम- १९-रामसमरैकभीम डक्कु नूल शासनाधिप श्रीबेजवाडमल्ले- २०-श्वरदेवदिव्य श्रीपादपद्माराधक परबलसूदक विप्रजना- २१-श्रय श्री.गिदेश चालुक्यनंककार परमण्डल चूरकार- २२-पतिदेव गुरुद्विजपाभक्तु लनु वररिपुजमुंडुनु नैन २३–श्रीमन्महामण्डलेश्वर पल्लकेतभूपालंडु निखिललोक प्र- २४-[ सिद्ध कार्वेटिम ] हीपालुवंशमुननवतरिचि भुवनविज wom - - animom wimm - ⅥⅡ ( ⅥT) ⅡI. At Bezwada నిచేస్తుంది జబరాన్ని మన పువంగతజయ గానం పెదమల్ల యుద్ధనధిల్లును కోసం మహేశ్వరుడు వాడు సత్యంత ముచ్చశా. పరియ అను సవమ్యమంది సంతాది. నిరంతరం అనుక మకరరామము నరః ముపుత్రయోదానాండరము రాలయం ఉందిగా రాజు నవంబశాత్తమైన వరంనాంబరిగిరసం మన మతాబుల యబద్దతు పురంబురు తనకు జాయత చందనాల మువ్వయం మన రం సమారాడండి ఉప్పలపరమశంకొవ్వు అందనంది పురస్పర అదుడు పల్లవులతిలగంబుజdeo, మనాయక లని బందుజనాయకుడి రాజతే నాప మెచ్చుగండి నుడువ ఉసం షం సంజు సంగా రామనామం రే బామడుగు మండలానింజర్నబజవాడపల్లి పరదేవ ఉవులు విదేపద్మారాదర సంబంూం దశేఏప్రజూ ఆయ వంగి పటుకు శంక పరమంత్రి కూడా నాలు పడవ వాడభులును వరం ప్రజముండ్లు తెల్పంపం తలవాలంటే (३) पल्लिकेतराज (श्रीपतिपण्डिताराध्यमहिमान्वित) शिलाशासनम् (3) Inscription of Palliketa Raja ( Recording the Greatness of Shreepati Panditaradhya ) B

No text on this page.

k
(४) व्यासकाश्यां व्यासगुरुः श्री घण्टाकर्णशिवाचार्यः (लिङ्गधारी)
(4) Ghantakarna Shivacharya the Guru of Vyasa, at Vyasakashi.
(५) शीर्षलिङ्गधारी राजा भारशिव :
(5) Bharashiva, a King who bears the
linga on his lead.

विजयवाटिका (बेजवाड ) नगरे. At Bezwada
Neavidya
(१) श्रीकरभाष्यरचनास्थलम् (शमीवाटी) [जम्मिदोड्डि
(1) The Place where 'SHREEKARABHASHYAM' was composed
( Jammi Doddi or mimosa - yard )
oil
(२) शिलाशासनमन्दिरम् (2) Stone Inscription chamber

शासनसारः "अवस्थमल्लेश्वरस्वामिने पूर्वमगस्त्येन जयेशाननाम कृतम्। तदनु अर्जुनेन कृतमल्लयुद्धत्वात् मल्लेश्वर इत्यभिधा समागता। ततो विजयवाटनगरे ५१४ तमे शालिवाहनशके (क्रि. श. ५९२) माधववर्मा राजा बभूव । यः खलु तिन्त्रिणीपल्लवोपजीविन्याः पुत्रस्य प्राणापहृते स्वपुत्रायापि मरणदण्डं विधाय आत्मनो न्यायपक्षपातित्वं प्रकटयामास । तदा मल्लेश्वरः धर्मस्वरूपममुं माधववर्माणं स्वदर्शनानुग्रहेण, मृतयोः प्राणप्रदानेन च धन्यतमं चकार । तदनन्तरं श्रीपतिपण्डिताराध्यो वीरमाहेश्वरः "देवर्षिभ्योऽपि शिवभक्ता एवा- धिकाः इति" स्वप्रतिज्ञासिद्धये चीनाम्बरेऽग्निं संगृह्य शमीशाखायां बबन्ध । (तथापि न तच्चीनाम्बरं दग्धम् ) ततो मल्लेश्वरः प्रत्यक्षोऽभवत् । एवंविधेनैव, मल्लेश्वरमाराध्य प्राचीनास्सर्वं नृपाला रेजिरे । तदनन्तरं भारद्वाजगोत्रः, काञ्चीपुरेश्वरस्य पल्लववंशीयराजस्य पादसेवकः, वेङ्गी चालुक्यसामन्तः, इक्कुनूल्लदेश (ग्राम ? ) परिपालकः, बेजवाडमल्लेश्वरपादाराधकः कार्वेटि- वंशोद्भवः, पल्लकेत भूपाल (श्री मल्लेश्वरस्य नित्यपूजाभोगार्थ परिहृतसर्वकरग्रहां भूमिं समर्पयामास ?)" ! अनेन शासनवृत्तान्तेन श्रीपतिपण्डितस्य अग्निस्तम्भनकथा विजय- वाटिकायामेव संवृत्तेति पर्यवस्यते । श्रीपतिः पल्लकेतात्प्राचीन इत्यपि संगच्छते। अन्तिमभागस्य खण्डितत्वात् शासनलेखनकालो न ज्ञायते । तथापि लिपिशास्त्र- मर्यादया, चालुक्यशासनानां स्त्रि. श. १२ तमशताब्दानन्तरं अदर्शनाच्च, शासनमिदमपि द्वादशशताब्दीयमिति सम्भाव्यते । अतो मल्लिकार्जुनपण्डिता- राध्य-पा० सोमनाथ-पल्लकेतराजादिभिः संस्मृतः श्रीपतिपण्डितः, तेभ्यः प्राचीन इति, पूर्वोदाहृतप्रमाणैः त्रि. श. १०७० तमाब्दनिकटस्थ इति च निस्सन्देहं निर्धार्यते । श्रीकरभाष्याविर्भावकालोऽपि स एवेति सम्भव- प्रमाणेनानुसन्धातव्यः । सन्देहनिरसनम् बेंगलूर नगरनिवासिभिर्मध्वमतीयैः श्रीहयवदनरायैः सम्पादितं श्रीकर- भाष्यं प्रकटितमप्यप्रकटितमिव अस्मदादिभिर्भाव्यते, रायमहाशया आंग्लभाषा- निधयोऽपि देववाचि नितरामनधिगतसामर्थ्याद् भाष्यमखिलमपि अशुद्धिबहुलं मुद्रयामासुः । तत्पुस्तके एकत्र "मध्वद्वैतक्षपणकतार्किकादयः” इति वाक्यं दृश्यते, मध्वशब्दमिममवलम्ब्य मध्वाचार्यकालात् (११२०) अर्वाचीनत्वं (१० ) श्रीपतिपण्डितस्यारोपयितुं रायमहोदयेन परिश्रान्तमत्यन्तम् । अस्मत् परि- शीलितेषु श्रीकरभाष्यलिखितपुस्तकत्रयेपु कुत्रापि मध्वशब्दादर्शनात् , उपरितनवाक्ये मध्वशब्दं विना "द्वैतक्षपणकतार्किकादयः” इति वाक्यस्य स्वाभाविकत्वाध केनाप्यर्वाचीनेन स्वमतीयेन वा मध्वशब्दः प्रक्षिप्तः स्यादित्येव सम्यक् प्रतिभाति । शंकररामानुजभाष्यवाक्यानि यथा श्रीकरभाष्ये यथामूलं दृश्यन्ते, न तथा सध्वभाष्यवाक्यमेकमपि लभ्यते । अत्र भाप्ये दृश्यमानेऽपि द्वैतखण्डने न तन्मध्वाचार्यमतमित्येव परिगण्यते, किन्तु प्राचीनद्वैतमित्येवाव- गन्तव्यम् । एवमेव रायमहोदयलिखितं सर्वमसाम्प्रदायिक दत्तोत्तरप्रायमिव समाधेयम् । तदन्यत्र सत्वरं प्रपञ्चयिष्यते । वीरशैवसिद्धान्तः शेषा श्रोकरभाष्यपर्यालोचनया शक्तिविशिष्टाद्वैत-द्वैताद्वैत-विसिलद्वैत-भेदाभेद- शिवाद्वैताद्युपनामा वीरशैवसिद्धान्तः, अनादिसंसिद्भो वेदवेदान्तप्रसिद्धो रेणुक- दारुकैकोरामाद्याचार्यप्रस्थापितो नीलकण्ठ-परमशिवाराध्य-जोतिर्नाथ-शाम्भवा- नन्दादिभाष्यप्रकाशितो विराजत इति विबुधैरनेकैरविकलं विज्ञात एव । अत्र भाष्योपन्यस्ताः शिवागमाः, भाण्यादयः, शिवरहस्य-सिद्धान्तशिखामणि- कैवल्यप्रकाश-कैवल्यचन्द्रोदयादयो ग्रन्थाः श्रीकरभाष्यात्पूर्वमेव सुप्रसिद्धा आसन्निति निरातकमवगन्तव्यम् । अन्यापि चीरशैवग्रन्थसम्पत्तिविपुला विजयते भारतीयासु भारतीपु । अखिलमेतदजानद्भिविपरीतज्ञानादसूयाव- शाद्वा बसवप्रवर्तितत्वमस्य यदनुमीयते, तत्सर्वमवद्यमप्रामाणिकमनार्यजुष्ट- ञ्चेति दिक। श्रीमतः श्रीकरभाष्याद् वीरशैवसिद्धान्तः सम्यग बुद्धयत एव बुद्धि- मद्भिः। विस्तरस्तु शिवागमसिद्धान्तशिखामण्यादौ विलोकनीयः । श्रीमदाचार्यचरणानुग्रहाद् यथाबुद्धिवैभवमेतद्' भाप्यं संख्यावत्सु समय॑ते । अस्य परिष्करण-संकलन-लेखनादिपु येषां ग्रन्थानां लेखानां च साहाय्यं समजनि, तदर्थं सधन्यवादं “मणो वनसमुत्कीर्णे सूत्रस्येवाऽस्ति मे गतिः” इति कविकुलगुरूक्तिनिवेद्यते । अन्यथा, का शक्तिर्मम वराकस्य गभीरभाष्यपरिशीलने! इति निवेदयति शा. श. १८६३ वृषसहस्ये, सुधीजनविधेया, सिकन्दराबाद। चि०म० वीरभद्र शर्मा शा. श. १८६३ वषसहस्पे

IANuwakre
HEELHAN
MIFI
भाष्यकारभगवत्लानाचार्य-श्रीपतिपंडिताराध्यकृत
"अग्निस्तंभनम ,,

No text on this page.

श्रीकरभाष्य (चतुस्सूत्रो)- वि ष या नु क मणि का (पृष्ठाकाः) १ " " " २ " ३ (विषयाः) लिङ्गरूपशिवस्तुतिः शिवपादस्तुतिः शिवपादभक्तियाचना शिवगणस्तुतिः रेणुकाचार्यस्तुतिः मरुलाचार्य(मरुलसिद्ध)स्तुतिः एकोरामाचार्यस्तुतिः श्रीकरभाष्यनिर्वचनं, स्वकर्तृत्वनिर्देशश्च विशेषाद्वैत(शक्तिविशिष्टाद्वैत)कथनम् अगस्त्यकृतसूत्रवृत्त्याः स्खभाष्यकारणताकथनम् १. जिज्ञासाधिकरणम् भाष्यलक्षणम् प्रथमसूत्रावतारिका “अथातो ब्रह्मजिज्ञासे"ति सूत्रारम्भः ब्रह्मास्तित्वसन्देहः नास्तिकमतपूर्वपक्षः पूर्वमीमांसामतपूर्वपक्षः अद्वैतमतपूर्वपक्षः नास्तिकपूर्वपक्षखण्डनम् पूर्वमीमांसापूर्वपक्षखण्डनम् श्रुतिगत 'सदस'च्छब्दार्थनिरूपणम् परब्रह्मस्वरूपलक्षणम् जीवखरूपलक्षणम् संशयसूचना प्रयोजनप्रदर्शनम् अद्वैतमतपूर्वपक्षखण्डनम् "अथ".---शब्दार्थनिरूपणम् " " ६ " ९ (पृष्ठाकाः) १० ११ १३ १३ १७ १९ २० २१ २३ २४ २५ " " २७ २८ (विषयाः) "यश्छन्दसां" इति श्रुतेर्लिङ्गधारणपरत्वकथनम् लिङ्गधारणविषयकपूर्वपक्षः लिङ्गधारणसिद्धान्तवैदिकत्वनिरूपणम् लिङ्गधारणसिद्धान्तविस्तारः लिङ्गधारणस्य नित्यविधित्वनिरूपणम् लिङ्गपूजाकालिकसूतकाभावनिरूपणम् यज्ञे सूतकिन्याः समाप्तिपर्यन्तशुचित्वसूचनम् हरिब्रह्मादिदेवकृतलिङ्गधारणनिरूपणम् शिवेतरदेवमुक्तिदानानधिकारित्वसिद्धान्तः "पाणिमन्त्रार्थनिर्णयः सगुणोपासनेन निर्गुणपरशिवब्रह्मप्राप्तिः आगमप्रामाण्यसूचनम् लिङ्गधारणसत्त्वेऽपि ब्रह्मजिज्ञासाशास्त्रावश्यकता लिङ्गधारणस्य विधित्रयविहितत्वनिरूपणम् वीरशैवद्विजशिखासूत्रधारणनिरूपणम् “अथ"शब्दस्येष्टलिङ्गधारणात्मकपाशुपतदीक्षानन्तर्थिकत्वकथनम् “अतः"शब्दार्थकथनम् "ब्राह्मणानां शिवो देवः' इति निरूपणम् "ब्रह्मजिज्ञासा" शब्दार्थः निर्गुणश्रुतीनां सत्त्वादिगुणत्रयराहित्यपरत्वकथनम् अद्वैतश्रुतीनां सृष्टिप्राकालिकपरशिवब्रह्मपरत्वकथनम् अत्र रेणुकादिपूर्वाचार्यतात्पर्थप्रदर्शनम् शक्तिशक्तिमतोरभिन्नत्वप्रतिपादनम् विशिष्टाद्वैतमतखण्डनपूर्वकं द्वैताद्वैतमतस्थापनम् प्रकृतेर्जडत्वकथनम् परशिवब्रह्मणो मू"मूर्तस्वरूपकथनम् भेदाभेदयोरविरोधप्रदर्शनम् जीवेश्वरयोः कल्पितत्ववादनिराकरणम् निर्विशेषव्रमसद्भावे प्रमाणाभावकथनम् निर्विशेषज्ञानस्य अज्ञानादिबाधकत्वासम्भवप्रदर्शनम् " २९ ३० ३२ " الله الله الله الله الله كل الله له ته " ३ (पृष्ठाङ्काः) ३७ ३७ ३८ ४२ १६ " ४८ ४९ ५१ (विषयाः) श्रवणविधिमीमांसा सूत्रे कर्तव्यपदाध्याहारावश्यकताकथनम् जिज्ञासापदस्य विचारलक्षकत्वप्रदर्शनम् अत्र एकोरामाचार्यशाम्भवानन्दाराध्ययोः सम्मतिप्रदर्शनम् जिज्ञासापदीयलक्षणामीमांसा शिवस्य परब्रह्मत्वकथनम् बन्धसत्यत्वेऽपि तन्निवृत्त्युपपत्तिप्रदर्शनम् २. जन्माद्यधिकरणम् द्वितीयसूत्रावतरणिका जन्माद्यस्य यतः" इति सूत्रव्याख्या संशयप्रदर्शनम् अद्वैतमतपूर्वपक्षः तत्त्ववर्णनपुरस्सरम् खसिद्धान्तस्थापनम् मिथ्यात्ववादखण्डनम् प्रतिबिम्बवादखण्डनम् अवछिन्नत्ववादखण्डनम् एकधा बहुधा चैवे" ति श्रुतिदौर्बल्यकथनम् " मायाभासेने " ति श्रुतेः खसिद्धान्तपरत्वकथनम् परब्रह्मणः, तटस्थलक्षणस्वरूपलक्षणप्रदर्शनम् महेश्वरस्य चतुर्मुखब्रह्मादिजनकत्वकथनम् विष्णुरित्था " इति श्रुतेरादिविष्णूत्पत्तिपरत्वकथनम् मूर्तित्रयातीतशिवस्यैव परब्रह्मत्वप्रतिपादनम् नारायणादिशब्दानां परशिवपरत्वप्रतिपादनम् परशिवस्य भवमृडहरादिरूपाणां सृष्टिस्थितिसंहारकत्वकथनम् सर्वज्ञत्वादिशिवषडङ्गानां भक्तादिजीवषटस्थलतादात्म्यकथनम् शिवजगत्कारणत्वसिद्धान्तोपसंहारः ३. शास्त्रयोनित्वाधिकरण " शास्त्रयोनित्वादि " ति सूत्रार्थनिर्वचनम् संशयपूर्वपक्षप्रदर्शनम् 4 ५५ " " " ५८ ६० " " ६१ ६२ ६२ (पृष्ठाङ्काः) " ६४ " ६५ (विषयाः) वेदजन्यत्वाजन्यत्वप्रतिपादकश्रुतिविरोधपरिहारः शिवस्यैव वेदजनकत्वकथनम् शिवस्यैव सर्वज्ञत्वादिषड्विधधर्मसद्भावकथनम् परशिवब्रह्मसद्भावे शास्त्रैकप्रामाण्यकथनम् अत्र पूर्वपक्षः सिद्धान्तप्रतिपादनम् शैवपुराणानां तामसत्वनिरसनपूर्वकसात्त्विकत्वस्थापनम् शैववैष्णवादीनामपि एकादशीव्रतग्राह्यत्वकथनम् शिवस्यैव परमसात्त्विकत्वप्रतिपादनम् तामसत्वविचारः अष्टादशपुराणतामसत्वाभावप्रतिपादनम् विष्णोरपि तामसत्वाशङ्काप्रसङ्गः अधिकरणोपसंहारः ६५ ६६ " ७१ ७२ ७३ ७५ " " " ४. समन्वयाधिकरणम् सूत्रावतारिका तत्तु समन्वयादि " ति सूत्रार्थविचारः पूर्वपक्षप्रदर्शनम् सिद्धान्तनिरूपणम् उपक्रमादिषडविधलिङ्गप्रतिपादनम् वेदान्तानां ब्रह्मज्ञानविधायकत्वादिविचारः उपासनात्मकमोक्षफलकारणज्ञानस्य विध्युक्तत्वनिरूपणम् जगन्मिथ्यात्ववादखण्डनम् जगत: त्रैकालिकसत्यत्वप्रतिपादनम् जगद्व्यावहारिकत्वखण्डनम् तत्त्वमस्यादिमहावाक्येषु लक्षणाङ्गीकाराभावप्रदर्शनम् गरुकृतशिवदीक्षाशुद्धजीवस्य परशिवसाक्षात्कारसिद्धिनिरूपणम् चतुस्सूत्रीसमाप्तिः ८१ ८२ ८८८ Mmmmms- श्रीजगद्गुरुपञ्चाचार्याः प्रसीदन्तु श्रीपतिपण्डितभगवत्पादाचार्यविरचितं ब्रह्म मी मां सा सूत्र- श्रीकरभाष्यम २ ३ ॐ नमो लिङ्गरूपाय जगज्जन्मादिहेतवे । निगमागमवेद्याय भक्तसिद्धिप्रदायिने ।। यत् सन्दर्शनमात्रजजरितभक्तानीकपुर्यष्टकं द्वैताद्वैतविशिष्टबौद्धमतमतेभेन्द्रकण्ठीरवः । शैवाद्वैतविवेकसारविलसत्सिध्दान्तपक्षप्रद शम्भोस्तच्चरणं भवाब्धितरणं मन्ये जगत्पोषणम् ।। शिव त्वदासदासो यस्तद्दासोऽस्मीति या सुधीः । तां दत्त्वा कृपया पाहि जन्मजन्मान्तरेऽपि माम् ॥ शिवस्य तत्त्वं शिव एव वेत्ति नन्दी च विष्णुर्नगजाकुमारः । शिवप्रसादाच्छिवतत्त्वमापुस्तेभ्यो नमः शाङ्करतत्त्वविद्भयः॥ सदाशिवं शक्तिधरं सुकेश चण्डीश्वरं भृङ्गिरिटिं शिलादम् । कुम्भोद्भवं चिन्मयवामदेवं श्रीरेवणासिद्धगुरुं प्रपद्ये ॥ श्रीमच्छिवाचारविचारदीक्ष वशिष्यसत्प्रीणनपूर्णपक्षम् दुर्वारकामादिविदारदक्षं भजाम्यहं रेवणकल्पवृक्षम् ॥ श्रीमत्सर्वकलासु कोविदतमः प्रालेयशैलात्मजा- जानेः पूर्णकृपाविशेषनिचयप्रज्ञानधीर्यो बभौ श्रीमद्रेवणदेशिकेन्द्रविभवं लिङ्गावधानोज्ज्वलं सिद्धार्य मरुलप्रभुं बुधनुतं तं मन्महे श्रेयसे ॥ ५ ६ २ श्री कर भाष्ये १-१-१ ८ एकोरामाख्यसिद्धं प्रथितगुणगणागण्यपुण्योदयश्री- सम्यक्संसेव्यमानं बुधनुतचरितं द्वापराचार्यवर्यम् । उद्यद्वेदान्तशास्त्रोभयगतविलसच्छेवसंस्थापनाढ्यम् पूर्वाचार्यप्रसिद्धं शरणमहमिमं देशिकेन्द्रं प्रपद्ये ॥ वातूलान्तिमकामिकादिशिवशास्त्रज्ञानपाण्मातुरो मीमांसाद्वयतत्त्वबोधकवचस्सरम्भणाम्भोजजः ।। तर्कव्याकरणादिशास्त्रनिचये साक्षाद्भवानीपति- स्तस्मै श्रीगुरुमूर्तये शिवमताचार्याय तुभ्यं नमः ।। श्रीमद्दण्डशिखोपवीतविलसत्कन्थाजिनालङ्कृतः काषायाम्बरकुण्डिकाप्रणवपात्रच्छत्रमौञ्जीधरः। वेदान्तोभयवाप्रबोधितलसच्छीभस्मधुण्टीयुत- चैकोरामयतीन्द्रशेखरशिवाचार्यः सदा पातु नः ।। श्रीवैयासिकसूत्रवर्णपदमुख्यार्थं शिवानुग्रहाद् भाष्यं श्रीकरनामकं भवहरं दुर्वादिगर्वापहम् । सर्वानर्थविनाशकं बुधनुतं तत्त्वार्थबोधाकर श्रीमच्छ्रीपतिपण्डितेन्द्रयतिना व्यातन्यते साम्प्रतम् ॥ अशेषोपनिषत्सारविशेषाद्वैतमण्डनम् । शिवज्ञानप्रदं सूत्रभाष्यं जयतु सर्वदा।। वेदागमार्थतत्त्वज्ञशैवानां मोक्षकाक्षिणाम्। वैदिकानां विशुद्धानामेतद्भाष्य हि कल्पकं ।। श्रुत्येकदेशप्रामाण्यं द्वैताद्वैतमतादिषु । द्वैताद्वैतमते शुद्धे विशेषाद्वैतसंज्ञके। वीरशैवैकसिद्धान्ते सर्वश्रुतिसमन्वयः ॥ विशब्देनोच्यते शम्भु - "हँसहंसे" - ति मन्त्रतः । शेषशब्देन शारीरो "यथाग्ने" -रिति मन्त्रतः। अद्वैतेन भवेद्योगो “यथा नद्य” इति श्रुतेः ॥ अगस्त्यमुनिचन्द्रेण कृतां वैयासिकी शुभाम् । सूत्रवृत्ति समालोक्य कृतं भाष्यं शिवङ्करम् ।। ११ १२ १३ १४ " १५ १-१-१ च तु स्सू त्री ॥ जिज्ञासाधिकरणम् ॥ अथोपनिषद्ब्रह्ममीमांसां दर्शयिष्याम: विषय-संशय-पूर्वपक्ष-सिद्धान्त-प्रयोजन-सङ्गतिरूपाधिकरणविशिष्टत्वे सति, सूत्रानुकूलश्रुत्यादिसहलिखितपदपरिष्कृतसूत्रपदाधिष्ठानत्वे सति, उपक्रमोपसंहारादि- पडिधतात्पर्यलिङ्गप्रकाशकत्वं भाष्यत्वम् । गर्भाष्टमयुक्तोपनयन संस्कारसिद्धश्रुत्यर्थोपदेष्ट्रदेशिकमुखोदितनियमनियत- निगमार्थज्ञानावच्छिन्नश्रोत्रियस्यैव स्थूलारुन्धतीन्यायेन धर्मजिज्ञासादर्शने खभाव- नियमनियतप्रयोजकतया यत्पूर्वभावित्वं विधीयते, यत्पुरुषव्यापारतन्त्राम्युदयफलं, यदसन्दिग्धमप्रयोजनं घटवन्न तत्प्रेक्षाविषयः, अप्रयोजकत्वात् करटदन्तवत् । विषयस्सोपाधिको निरुपाधिको वा ? प्रसिद्धोप्रसिद्धो वा ? युष्मदस्म- प्रत्ययविषयाराध्याराधकयोः शिवजीवयोर्मेदो वा ? न वा ? भेदे “यथा नद्यः" (मुं. ३-२-८) इत्यादिश्रुतिशतविरोधापत्तिः, अभेदे "द्वा सुपर्णा" (मुं. ३-१-१) इत्यादिश्रुतिवैयर्थ्यप्रसङ्गः । मुख्यत्वेन प्रामाण्यं यावच्छ्रुतीनां यत्किञ्चिच्छ्रुतीनां वा ? यन्नियमनियतपूर्ववृत्तधर्मविषिष्टो ह्यधिकारी ? यदवच्छिन्नविशेषार्थित्वादयो धर्माः ? यदनन्तरमेतदारम्भः ? इत्याद्यनेकसंशयविशिष्टमुमुक्षुस्वान्तचिन्ताशूकविध्वंसनाथ परमकारुणिकेन सर्वशास्त्रविज्ञानशिखामणिना महापाशुपतदीक्षाविशिष्टेन पाराशर्येण पुनरावृत्तिरहितचरमशाश्वतपुरुषार्थफलपदर्शकमिदं सूत्रं निरूपितं । अथातो ब्रह्मजिज्ञासा ॥१॥ इति । अत्र जिज्ञासापदेन संशयप्रयोजने दर्शयति. संशयश्च सूत्रप्रतिपादित ब्रह्म अस्ति वा ? न वा ? इति । "ब्रह्म वा इदमग्र आसीत्। (बृ. १-४-१०) असद्वा इदमग्र आसीत्' (तै. आ. ७) इत्यादिभिः सत्त्वासत्त्वप्रतिपादनात् । तत्र पूर्वपक्ष:-- ब्रह्म नास्ति । घटादिवच्चाक्षुषादिविषयत्वायोगात् , जीवानां जन्मान्तरज्ञानादर्शनात्, परलोकगतपुरुषपुनरागत्यनुभवाभावात् , “भसीभूतस्य ४ श्री क र भा प्ये १-१-१ देहस्य पुनरागमनं कुतः। तस्मात्सर्वप्रयत्नेन ऋण कुत्वा घृतं पिबेत॥" इति शास्त्रदर्शनाच्च । सुधाहरिद्राचूर्णवैशिष्टयेनारुणरूपोत्पत्तिवत् गोमयादिषु कीटोत्प- त्तिवच्च पृथिव्यादिभूतवैशिष्टयेन चेतनाचेतनोत्पत्तिः, तद्वियोगो नाशः, न तस्माज्जीवः शरीरभिन्नः। किञ्च- मतान्तरवैदिकवादे शरीरभिन्नजीवसत्त्वपक्षेऽपि तज्जीवनियामकेश्वरो नास्ति. तथाहि- विधिमन्त्रार्थवादभेदेन श्रुतिस्त्रिविधा । तत्र- "ज्योतिष्टोमेन स्वर्गकामो यजेत" इति विधिवादो मुख्यः; मन्त्रवादो ह्यनुष्ठेयार्थप्रकाशनविषयः; अर्थवादः स्तुतिविषयः । जीवानां खकर्मानुसारोण सुखदुःखादिकमपूर्वमेव दास्यति. तस्मान्न ब्रह्मजिज्ञासा सम्भवति। किञ्च- उपनिषच्छास्त्रमनारम्भणीयं. संशयप्रयोजनसद्भावाभावात् . सन्दिग्धं हि विचारविषयः; "सन्दिग्धे न्यायः प्रवर्तते इति न्यायात् । संशयस्तु परशिवा- त्मानि ? शारीरात्मनि वा ? नाद्यः- "सत्यं ज्ञानमनन्तं ब्रह्मा' (ते. आनंद. १) "एको हि रुद्रो न द्वितीयाय तस्थु” (श्वे. ३-२) "रुद्रमेकत्वमाहुः शाश्वतं वै पुराणं" (अथर्वशिरः ५) इत्यादिश्रुतिशतेन परशिवात्मस्वरूपस्य निश्चितत्वात् । अहम्प्रत्ययेन शारीरात्मद्योतनान्न द्वितीयः । किञ्च- तद्विचारस्य तद्विषयज्ञानं हि फलं ? ज्ञेयपरिच्छेदो हि ज्ञानं ? तदा अनेन ब्रह्म परिच्छेद्य ? न वा ? परिच्छेदे हि अपरिच्छेद्यत्वविधायकश्रुतिशत- विरोधः, घटवदनित्यत्वप्रसङ्गश्च । अपरिच्छेदे यथार्थसाक्षात्काराभावेनाप्रसिद्धिप्रसङ्गः। न च प्रयोजनं- "अजामेकां लोहितशुक्लकृष्णां" (श्वे. ४-५) “ज्ञाज्ञौ द्वावजावीशनीशौ। (श्वे. १-९) इत्यादिभिः स्वाभाविकशारीरप्रकृत्योरविनाशित्वा- वगमेन ब्रह्मज्ञानेनापि मुक्तरसम्भवात् । ननु- "अयमात्मा ब्रह्म" (बृ. २-५-१९) "तत्त्वमसि' (छां ६-८-७) इत्यादिभिर्जीवब्रह्मणोरेकत्वप्रतिपादनात् , अहम्प्रत्ययेन भेदप्रतिपाद- नाच संशयः किं न स्यात् ? इति चेन्न ---- अबाधिताहम्प्रत्ययविरोधेनैक्यश्रुतीना- मुपचरितार्थत्वात् , न च परमात्मविषयेऽप्यहम्प्रत्ययस्य दुर्बलत्वं, स्वयम्प्रकाशेऽपि ब्रह्म- १-१-१ च तु स्सू त्री ण्यनाद्यविद्यावशादहम्प्रत्ययेन “मनुष्योऽह" इत्याद्यध्यासानुभवदर्शनात्. "नहि दृष्टेऽनुपपन्न नाम" इति न्यायात् अध्यासानुपपत्तावनिर्मोक्षप्रसङ्गः । किञ्च-तम:प्रकाशवद्भेदाभेदयोः परस्परविरुद्धखभावत्वादेकपक्षावलम्बन युक्तं. अत: ---"यतो वाचो निवर्तन्ते" (ते. आनं. ९) इत्यादिना ब्रह्मणोऽवि- षयत्वदर्शनाच वेदान्तशास्त्रमनारम्भणीयम्. इति प्राप्ते ब्रूम: सर्वोपनिषसिद्धद्वैताद्वैतविधायकब्रह्ममीमांसाशास्त्रारम्भो युक्तः. ब्रह्मसत्त्वे प्रत्य- क्षानुमानागमप्रमाणदर्शनात्. तथाहि-- "एको हि रुद्रो न द्वितीयाय तस्थुः" (श्वे ३-२) इत्यादिबह्वागमदर्शनादागमप्रमाणम्. सूर्यचन्द्र समुद्रकालादीनामीश्वरापेक्षावशात् स्वधर्मप्रवृत्तिद्योतनात् , लोके धनधान्यविद्यादिपूर्णसहायसम्पन्नानामपि स्वाभीष्टसर्वकार्यसिद्धयदर्शनात् , तत्सहायरहि- तानाम पि कदाचित्काले दुर्घटकार्यसिद्धेदृष्टत्वाच्च सर्वज्ञेश्वरसत्त्वे जीवानां जन्मसत्त्वे चेदमेव प्रत्यक्षं प्रमाणम् । लोके रथगोपुरप्रासादप्राकारादिकार्यजातस्य चेतनकर्तीपेक्षादर्शनात् , तद्वद्वि- यदादिजडाजडप्रपञ्चस्यापि कर्ता परमेश्वरोऽस्तीति विवेकिभिरनुमीयते। "सुधानिशाचूर्णसंयोगे लोहितरूपप्राप्तिवत् पृथिव्यादिभूतचतुष्टयसंयोगेनैव चेतनाचेतनसृष्टिः स्वतो भविष्यति" इति यदुक्तं तदयुक्तं. केवलपृथिव्यादिभूतसंयो- गेन पशुपक्षिमृगाद्युत्पत्त्यदर्शनात् , एकशरीरावच्छेदेन पशुमनुष्यादिधर्मविशिष्टभूतो- त्पत्तिश्च किं न स्यात् ? गोमयादिषु गुप्तजीवस्य ईश्वरेण स्थापितत्वात्, सर्वसहायस- म्पन्नस्य महाराजस्यापि अनपेक्षिताधिव्याधिजरामरणदरिद्रत्वादिप्राप्तिदर्शनात् , जीवानां जन्मान्तरकृतपुण्यापुण्यकर्मानुसारेण प्रभुवत् फलप्रदायकेश्वरोऽस्तीति निश्चीयते । जडस्यापूर्वस्य जीवकृतपुण्यापुण्यकर्मानुकूलफलदातृत्वायोगात्, जारचोरादि- कर्मणामेव तत्तत्कर्मानुसारेण फलदातृत्वादर्शनाच धर्ममीमांसावादोऽप्यविचारितरम- णीयः . एतेन कपिलकणादादीनां जडजगत्कारणवादोऽपि निरस्तः । "असद्वा इदमग्र आसीत्" (ते. आनं. ७)इति श्रुतावसच्छब्देन सूक्ष्म- त्वमुपदिष्टम्. नो चेत् “ततो वै सदजायत" (तै. आनं, ७) इत्युत्तरवाक्य- " श्री क र भा प्ये ९-१-१ , विरोधो दुर्निवारः । अत्रासच्छब्देन खपुष्पशशशृङ्गादिवच्छून्यत्वाङ्गीकारे वन्ध्यापुत्रेण सत्पुरुषोत्पत्तिः किं न स्यात् ? अत: पूर्वोक्तमेव युक्तं "असदिति चेव प्रतिषेधमा- व्रत्वात्" (ब्रह्मसू. २-१-७) इति सूत्रे बादरायणेनैवायमर्थो बहुधा प्रपञ्चितः । किञ्च–संशयप्रयोजनसद्भावादपि शास्त्रारम्भो युक्तः, वेदागमोभयवेदान्त- प्रतिपादितस्वाभाविकानन्तशक्तिविशिष्टजगदुभयकारणपशुपाशनियामकसकलनिष्कल- स्थूलसूक्ष्मचिदचित्प्रकाशकसत्यज्ञानानन्तकल्याणगुणविभवाश्रयत्वं ब्रह्मत्वम्। अनादि- खाभाविकमायापाशबद्धघोरापारनिस्सारसंसारख्यापारतापत्रयानलदन्दह्यमाननानाशरीरप्र- वेशनिर्गमनवर्णाश्रमाभिमानविशिष्टकामक्रोधाद्यनुस्यूतसुखदु:खाश्रयत्वं जीवत्वम् । परस्परविरुद्धखभावयोरजन्ययोरविनाशिखभावयोरेतयोः “तत्त्वमसि' (छां. ६-८-७) "अहं ब्रह्मास्मि' (बृ. १-४-१०) "ब्रह्म वेद ब्रह्मैव भवति" (मुं ३-२-९) इत्यादिभिरभेदव्यपदेशात् सन्देहः । ब्रह्मणस्सविशेषत्वे परिच्छेद्यत्वमिति यदुक्तं तदयुक्तं. घटवत्परिच्छेद्यत्वाभा- वेऽपि “ नेति नेति" (बृ. २-३-६) अस्थूलमनण्वहस्वमदीर्घ " (बृ. ३-८-८) इत्यादिव्यावर्तकलक्षणेन परिच्छेदयोग्यत्वात्. लक्ष्यविषयत्वाल्लक्षणपरि- च्छेदस्य तदलक्षणसजातीयविजातीयस्थूलसूक्ष्मप्रपञ्चव्यावृत्ततया ब्रह्म वेदान्तवाक्यैर्नि रूप्यते. तस्मात्तद्विचारो युक्तः। "ब्रह्मविदाप्नोति परम्" (तै. आनं. १) "ज्ञात्वा शिवं शान्तिमत्यन्त- मेति" (श्वे. ४-१४) "ईशं तं ज्ञात्वा अमृता भवन्ति" (श्वे. ३-७) "ज्ञान- निर्मथनाभ्यासात्पाशं दहति पण्डितः" (कैवल्य.१-१-१) “शिव एको ध्येयः शिवङ्करस्सर्वमन्यत्परित्यज्य" (अथर्वशिखा. ३) "क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः। तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः" (श्वे.१-१०) तमक्रतुं पश्यति वीतशोको धातुः प्रसा- दान्महिमानमीशं" (महाना. अनु. १०) "ज्ञात्वा देवं मुच्यते सर्वपाशैः" (श्वे. १-८) इत्यादिष्वद्वितीयषटस्थलपरशिवब्रह्मज्ञानेन स्वाभाविकमलत्रयात्मक- मायापाशदुःखनिवृत्तिपूर्वकपरमपुरुषार्थपरशिवतत्त्वप्राप्तिदर्शनात् प्रयोजनम् । अमरकीटलोहरसादिषु स्वभाविकभेदनिवृत्तिदर्शनात् तत्त्वमस्याद्यभेदश्रुतिषु मुख्याथबाधाभावान गौणार्थलक्षणार्थस्वीकारः। “यथा नद्यः स्यन्दमानास्समुद्रे १-१-१ च तु स्सू त्री " अस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वानामरूपाद्विमुक्तः परात्परं पुरुष- मुपैति दिव्यं" (मुं. ३-२-८) इत्यादिश्रुतावसन्दिग्धतया प्राप्यप्रापकत्वोपदेशात् . न चैतच्छ्रुतेरुपचरितार्थत्वम्. उपक्रमादिषड्डिधतात्पर्यलिङ्गसहकृतानेकश्रुतीनामुपचरि- तार्थत्वस्य वक्तुमयुक्तत्वात्. मुख्यार्थपरित्यागे ईक्षत्यधिकरणविरोधः। न चाध्यासानुपपत्तावनिर्मोक्षप्रसङ्गः. तद्विधायकप्रात्यक्षिकश्रुत्यदर्शनात्. "अहमज्ञः" इत्यनुभवस्य शरीरेनद्रियादिविशिष्टमायापाशबद्धजीवलक्षणत्वात्. निर्वि- शेषचिन्मात्रब्रह्मणस्तद्भिन्नमायोपाधित्वं कथमुपपद्यते ? “यस्सर्वज्ञस्सर्ववित्' (मु. १-१-९) "प्रज्ञानं ब्रह्म” इत्यादिश्रुतिषु तस्य सर्वज्ञत्वप्रज्ञानत्वादिधर्मोपदेशान्न जीववदज्ञत्वादिधर्मप्रसङ्गः, तस्याऽविद्याझीकारे ब्रह्मत्वभङ्गप्रसङ्गः तस्याविद्यासत्त्वे अविद्यैव मानमिति चेत् अन्योन्याश्रयदोषः। किञ्च- "अप्राणो ह्यमनाश्शुभ्रः" (मु. २-१-२) इति श्रुतौ तस्य मन:- प्राणसम्बन्धाभावदर्शनात्तद्विहीनस्य भ्रमः कथमुपपद्यते ? किञ्च जीववत्तस्याज्ञत्वस्वी- कारे तदज्ञाननिवर्तकब्रह्मान्तरमवश्यमङ्गीकर्तव्यं. तथा चेदनवस्थाप्रसङ्गः. ब्रह्मणः खस्वरूपतिरोधायकमज्ञानमस्ति चेत्, तस्य ततोऽधिकत्वेन मिथ्यात्वं नोपपद्यते. "ध्यात्वा मुनिर्गच्छति भूतयोनि समस्तसाक्षिं तमसः परस्तात्” (कैवल्य. १-७) “तमेव विदित्वातिमृत्युमेति" (श्वे. ३-८) ब्रह्मविदाप्नोति परं" (ते. आनं १) इत्यादिश्रुतिषु तस्य तमःपरत्वं, तद्ज्ञानस्य जीवानां मुक्तिहेतुत्वं चोपदिश्यत इति न तद्युक्तम् । शुक्तिरजतवत्तस्य जीवस्वं भ्रान्तिमात्रभिति चेन्न, सर्वत्र पदार्थचतुष्टयसद्भावे भ्रान्तिः सम्भवति. अत्र ब्रह्मेतरवस्त्वभावान्न भ्रान्त्युपपत्तिः, वस्त्वन्तराङ्गीकारे ह्यद्वैत- हानिः. अनङ्गीकारे भ्रान्त्यनुपपत्तिः, न स्वप्नवत् प्रपञ्चस्य मिथ्यात्वं, अर्थसिद्धिक्रिया- सिद्धिदर्शनात्. विधिनिषेधरूपशास्त्रार्थाचार्योपदेशादीनां कर्तव्यत्वायोगेन बुद्धमत- प्रवेशापत्तेश्च । "नाभाव उपलब्धेः” (ब्रह्मसू. २-२-२७) "वैधाच्च न स्वमा- दिवत्" (ब्रह्मसू. २-२-२८) इति द्वितीयेऽध्याये स्वप्नेन्द्रजालवत् प्रपञ्चमिथ्यात्व- वादो बहुधा निरस्तः ।

N श्री क र भा प्ये - असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरं । अपरस्परसम्भूतं किमन्यत्कामहेतुकम् ॥८॥ एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः॥९॥ (गीता. अ. १६.) इत्यादिना कृष्णगीतायां चैतन्मतं बहुधा निरस्त किञ्च-"लक्षणप्रमाणाधीना हि वस्तुसिद्धिः” इति न्यायेन निर्विशेष- ब्रह्मसत्त्वे किं मानं ? श्रुतिरस्तिचेत् , तस्या जगदन्तःपातित्वेन मिथ्यात्वात् तत्प्रति- पाद्यस्य ब्रह्मणोऽपि मिथ्यात्वं स्यात् ; वेदसत्यत्वाङ्गीकारे अद्वैतहानिः, असत्यत्वे तु ब्रह्मसत्त्वे सत्प्रमाणान्तराभावात् बन्ध्यापुत्रादेरिव ब्रह्मणोऽपि मिथ्यात्वं स्यात्। किञ्च-अध्यासानङ्गीकारे मुक्तेर्बाधकाभावः, तदङ्गीकारे स्वाभाविकत्वेन सर्वश्रुतीनां समन्वयायोग:. न चाध्यासे अविथैव मानं, स्वप्रकाशत्वभङ्गप्रसङ्गात्. नच अविद्या विशिष्टं चैतन्यमिति वाच्यं, अन्योन्याश्रयप्रसङ्गात्. “जीवोऽहं मनुष्योऽहं" इत्यादिभ्रमप्रत्ययस्यापि परमेश्वराधीनत्वात् , “एष एव साधु कर्म कारयति". (कौषी. २-९) इत्यादिषु परमेश्वरस्यैव सर्वकर्मकारयितृत्वोपदेशात् , ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन ! तिष्ठति। भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया॥ इति कृष्णगीतायां (गीता. १८-६१) तथैवोपदेशात् । "वाचारम्भण विकारो नामधेयं मृत्तिकेत्येव सत्यं” (छां: ६.१-४) इति शृतावपवाददर्शनादध्यासो ग्राह्य इति चेन्न, वाचारम्भणादिश्रुतीनां शिवोपादान- त्वात् प्रपञ्चस्य तत्तादात्म्यबोधकत्वं विधीयते; न मिथ्यात्वबोधकत्वं । वाचारम्भणवाक्यानि तदनन्यत्वबोधनात् । न मिथ्यात्वाय कल्पन्ते जगतश्शिवरूपतः ॥ इति स्मृतेश्च । अत एव भगवता व्यासेन जगन्मिथ्यात्ववारणाय "तदनन्य- त्वमारम्भणशब्दादिभ्यः" (अ. सू. २-१-१४) इति सूत्रे तज्जन्यप्रपञ्चस्य तत्व- रूपत्वं निर्दिष्टं।

१-१-१ च तु स्सू त्री अध्यारोपस्तु तस्य ? तदन्यस्य वा ? नाद्य :-ब्रह्मणश्शरीरेनद्रियादिशून्यत्वात् । न द्वितीयः - "सदेव सोम्येदमग्र आसीत्” (छां. ६-२-१) इत्यादौ सृष्टेः प्राक् द्वितीयवस्तुनिषेधदर्शनात्; तदन्यस्वीकारे शुद्धाद्वैतभङ्गप्रसङ्गाच्च । तम:प्रकाशवद्विरोधा- भावाद्भेदाभेदो युक्तः. द्वैताद्वैतात्मकशरीरशारीरपरमात्मनां तादात्म्यभावे व्यवहारा- योगाद्वैतिनामध्यासासम्भवात्। न च ब्रह्मज्ञानपर्यन्तमेव प्रपञ्चस्य सत्यत्वं, तदृर्द्धमपि क्षुत्पिपासादिद्वैतकर्म- द्योतनात्. न चैकपक्षो युक्तः अभेदखीकारे "द्वा सुपर्णा" (मु. ३-१-१) इत्यादिभेदश्रुतिविरोधः; भेदस्वीकारे "तत्त्वमसि' (छां. ६-८-७) इत्याद्य- भेदश्रुतिविरोधः. द्वैताद्वैतस्यैव खाभाविकत्वेन सर्वश्रुतिसमन्वयात् , श्रुतिसङ्कोचे मानाभावात्, यत्किञ्चिच्छ्रुतिप्रामाण्याङ्गीकारे बौद्धादिवद्वेदबाह्यत्वप्रसङ्गात् , “यतो वा" (ते. भृ. १) इत्यदिना द्वैताद्वैतात्मकप्रपञ्चब्रह्मणोः कार्यकारणत्वदर्शनात् , “प्रतिज्ञा- सिद्धेर्लिङ्गमाश्मरथ्यः” (ब्रह्मसू. १-४-२०) इत्यादिसूत्रत्रयेण भेदादिमतत्रय- स्यैवात्र विवक्षितत्वात् , “उभयव्यपदेशात्त्वहिकुंडलवत्” (ब्रह्मसू. ३-२-२६) इति सूत्रेण भेदाभेदस्यैवाविरोधित्वेन निर्दिष्टत्वात् , “भेदाभेदस्तथाऽभेदो भेद एते मतास्त्रयः” इति सूतसंहितायां, "ध्रुवं कश्चिद्रूते सकलमपरस्त्वध्रुव- मिदं परो ध्रौव्याघ्रौव्ये” इति महिम्नस्स्तवादिषु च भेदादिमतत्रयस्यैव निर्देशाच्च. “यतो वाचो निवर्तन्ते” (तै. आ. ९-१) इत्यादिश्रुतीनां गुरुकटाक्षरहितप्राकृत- जीवपरत्वं; नो चेत्---"आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चनेति" (तै आ. ९-१) इत्युत्तरवाक्यविरोधः, तन्माहात्म्यज्ञापनपरत्वं वा, अन्यार्थत्वे "ब्रह्मविदामोति पर तै. आ. १) "ब्रह्म वेद ब्रह्मैव भवति' (मु. ३-२-९) इत्यादिब्रह्मानुभवविधायकबहुश्रुतिविरोधश्च । किञ्च-"नावेदविन्मनुते तं बृहन्तं" (ते. बा. ३-१२-९-७) "नैषा तर्केण मतिरापनेया” (कठ १-२-९) "तं त्वौपनिषदं पुरुष पृच्छामि (बृ.३-९-२६) “शास्त्रयोनित्वात्। (ब्रह्मसू. १-१-३) इत्यादिश्रुतिसूत्रेषु ब्रह्मणो मानान्तरनिषेधदर्शनाच्च, सर्वश्रुतिसमन्वितभेदाभेदब्रह्ममीमांसारम्भो युक्तः । अत्राथशब्देनानन्तर्यार्थो विवक्षितः। “अथ शब्दानुशासनं" "अथ योगानुशासनं" (योगसू.१-१) “अथैष ज्योतिरथैष विश्वज्योतिः” इत्यादावि- वाथशब्दस्य नाधिकारार्थत्वं; जिज्ञासाया अनधिकार्यत्वात्. ननु जिज्ञासापदस्य विचार- 2 १० श्री क र भाष्ये १-१-१ लक्षकत्वात् विचारस्य च प्रत्यधिकरणं वर्तिष्यमाणत्वेन अधिकृतत्वसम्भव इति चेन्न- आनन्तर्याभिधानमुखेन विध्यपेक्षिताधिकारिविशेषसमर्पकत्वेन साधकत्वं विधीयते; तदनपेक्षिताधिकारार्थकत्वस्यायोगात् . “अथ शब्दानुशासन" इत्यादेविधिमूल- कत्वाभावान्नाधिकार्यपेक्षितृत्वं । मङ्गलस्य जिज्ञासायामन्वयासम्भवान्न मङ्गलार्थः, पूर्वाचार्यानुचारस्थापनार्थ वर्णध्वनिमात्रेण मङ्गलार्थकत्वं । ॐकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनियातौ तसान्माङ्गलिकावुभौ ॥ इति स्मृतेः। “अथातश्शेषलक्षणं” (पूर्वमी. ३-१-१) इतिवन्न पक्षान्तरं ; पूर्वमे- कस्याप्रकृतत्वात्। अदीक्षितस्य मलत्रयविध्वंसाभावान्न साधनचतुष्टयानन्तर्य । नच अनियतभोजनगमनादिवत् यत्किञ्चित्पूर्ववृत्तत्वं ; नियमविधिदर्शनात्. यत्पूर्वभावित्वं नियमनियतप्रयोजकतया मुमुक्षूणां मलत्रयविध्वंसने विधीयते, तत्पूर्व- कत्वं ब्रह्मविचारशास्त्रस्येति निर्णीयते । अस्य विषयः श्रूयते तैत्तीरीयशाखायां--- ब्रह्ममेधाकामस्य तत्प्राप्तिसाधनं किमित्याकाङ्क्षायामाह-"यश्छन्दसामृषभो विश्व- रूपः। छन्दोभ्योऽध्यमृतात् सम्बभूव । स मेन्द्रो मेधया स्पृणोतु। अमृ- तस्य देवधारणो भूयासं। शरीर में विचर्षणं । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि विश्रुवं । ब्रह्मणः कोशोऽसि मेधया पिहितः। श्रुतं मे गोपाय" इति (ते. शिक्षा ४.) अस्यार्थ:-य:- शिवः, छन्दसामृषभः - सर्वविद्याप्रभुः, "ईशानस्सर्व- विद्यानां" (महाना. ४७-अनु.) इति श्रुतेः. विश्वरूप:-----अपञ्चमयः, “सर्वो ह्येष रुद्रः” (महाना. अनु.-१६) इति श्रुतेः. यः- छन्दोभ्य:-आम्नायेभ्यः, अमृतात् अधिसम्बभूव-वेदोपनिषदागमादीनाममृतरूपत्वात् तत्प्रतिपाद्यः, वचनव्यत्ययश्छा- न्दसः. स इन्द्रः --परमैश्वर्यशाली शिवः, मा-~-मां, मेधया---प्रज्ञया, स्पृणोतु---- प्रीणयतु, बलयतु वा. तद्विज्ञानार्थं प्रज्ञाबलं हि प्रार्थ्यते । अमृतस्य-...मोक्षाय, देवधारण: ---देवस्य लिङ्गरूपशिवस्य धारणं यस्य सोऽहं देवधारणः, भूयास- भवेयं, चिच्छक्तिप्रकटीकृतपरशिवेष्टलिङ्गधारी भूयासमित्यर्थः, अतः मे शरीर विचर्षणं किल्बिषरहितं भूयादित्यर्थः । मे जिह्वा, मधुमत्तमा मधुमती, अतिशयेन Meanwar - - १-१-१ च तु स्सूत्री ११ मधुरसम्भाषिणी भूयात् , कर्णाभ्यां-श्रोत्राभ्यां, भूरि विश्रुवं-शिवज्ञानयोग्यकार्य- कारणसङ्घातरूपो भूयासमित्यर्थः । तन्मेधा च तदर्थमेव प्राय॑ते । ब्रह्मणः शिवस्य, कोशोऽसि-असेरिवोपलब्ध्यधिष्ठानमित्यर्थः । मेधया-लौकिकप्रज्ञया, पिहित: ----आच्छादितः, सामान्यप्रज्ञया अविदितसत्त्व इत्यथः, “नावेद विन्मनुते तं बृहन्तं" (ते. ब्रा. ३-१२-९-७) "नैषा तर्केण मतिरापनेया" (कठ. १-२-९) इति श्रुतेः, श्रुतं श्रवणपूर्वकं भक्तिज्ञानादिकं, मे - मम, गोपाय- रक्ष; तत्प्राप्त्यविस्मरणादिकं कुर्विति भावः । देवधारणो भूयासमित्यत्र बाह्यलिङ्गधारण ? अन्तर्लिङ्गधारण ? प्रणवधारण वा ? इति सन्देह:. "तं दैवतानां परमं च दैवतं" (श्वेता. ६-७) "तस्मादेव- शिशवः स्मृतः” “देव्या युतं देवतर्नु युवान” इत्यादौ देवशब्दस्य परशिवपर- त्वेन बहुश: प्रयोगदर्शनात्,अन्यदेवधारणकर्तव्यताविधायकशास्त्रादर्शनादाचाराभावाचा धारणशब्दस्य कर्तरिल्युडन्तत्वेन देवं धरतीत्यर्थे सिध्दे सति, अमृतस्य-मुक्त्यर्थं देवधारणो भूयासं, तस्मात् मां मेधया स्पृणोतु-संयोजयतु, इत्यादिना लिङ्गधारण- प्रतीतेः, भूयासमित्यत्र लिङोऽपि सत्त्वेन विध्यर्थोपपत्तेश्च ब्रह्ममेधाकामस्य लिङ्गधार- णावश्यकत्वं प्रतीयते। किञ्च "यश्छन्दसामृषभो विश्वरूपः" इत्यादिना प्रणवपरत्वमपि सूचितं. “यो वेदादौ स्वरः प्रोक्तः” (महाना. अनु. १०) इत्यनेन छन्दोवृषभत्वं, "ॐ तत्सर्व" (महाना. अनु. २८) इत्यादिना विश्वरूपत्वादिकं, "ब्रह्मणः कोशोऽसि' इत्यत्र परब्रह्माधिष्ठानत्वं च तस्यैवोपपन्नमिति अन्तर्धारणविधायकत्व- परत्वमपि सूचितं. यमाद्यष्टाङ्गयोगेषु वैदिकानामन्तर्धारणस्य विधेयत्वाच्च । पूर्वपक्षस्तु-विश्वरूप इति ब्रह्मलिङ्गस्य निरुपपदब्रह्मपदस्य च परिच्छिन्न- लिङ्गपरत्वायोगात् , देवधारण इत्यत्र "देव' इति पदच्छेदाभावे गोपायेत्यन्वयस्या- सम्भवात् , भूयासमित्यत्र आशीलित्वेन विध्यर्थकत्वासम्भवात् , “लिङ्गिनं चक्रिणं दृष्ट्वा" इत्यादिना बाह्यलिङ्गधारणस्य निषिद्धत्वात् , “लिङ्गमध्ये जगत्सर्व" "प्राणेष्वन्तर्मनसो लिङ्गमाहुः" "ज्योतिर्लिङ्ग भ्रुवोर्मध्ये नित्यं ध्यायेत्सदा यतिः” “लिङ्गं ब्रह्मैव केवलं' इत्यादिषु शिवस्य परब्रह्मणः लिङ्गरूपत्वोपदेशात् , तैत्तिरीयकैवल्यादिषु “दहरं विपाप्म परवेश्मभूतं” (महाना. अनु. १०) "हृत्पुण्डरीकं विरजं विशुद्धम्” (कैव. १-६) इत्यादिनाऽन्तलिङ्गधारणस्यैव निर्दि- , १२ श्रीक र भाष्ये १-१-१ टत्वात् , शाखान्तरेष्वपि बाह्यलिङ्गधारणाऽदर्शनात् न बाह्यलिङ्गधारणस्य वैदिकत्वं सिध्यति। ननु-"विश्वाधिको रुदो महर्षिः” (महाना. अनु. १०) "त्वं देवानां ब्राह्मणानामधिपतिः क्षत्रियाणामधिपतिर्विष्णुः” इत्यादिश्रुतिप्वद्वितीयस्य शिवस्य विश्वाधिकत्व-ब्राह्मणत्व-ब्राह्मणाधिपतित्वदर्शनात् , तत्प्रणीतकामिकादिवातू- लान्तागमविरुद्धमन्वादिस्मृतिपुराणानां मानत्वाभावात् , यजुर्वेदसहितायां त्रिपुरसं- हारे-“तेषामसुराणां तिस्रः पुर आसन्” इत्यारभ्य “सोऽब्रवीद्वरं वृणा अहमेव पशूनामधिपतिरसानि” (तै. सं ६-२-३) इत्यादिना ब्रह्मविष्ण्वादि- देवेषु पशुत्वस्य, शिवे पशुपतित्वस्य तेषु शिवलिङ्गमस्मरुद्राक्षादिशैवलाञ्छनधारणस्य च श्रूयमाणत्वात् लोके आराध्याराधकप्रभुभृत्ययोस्तथा दर्शनात् , "सर्वलिङ्ग स्थाप- यति" इत्यादिभिश्च बाह्यलिङ्गधारणस्य विधेयत्वदर्शनात् , रागद्वेषादिपाशबद्धानां पशुभावमापन्नानां मुमुक्षूणां भक्तानामस्माकं पतिलाञ्छनात्मकपरशिवेष्टलिङ्गधारणं किमु वक्तव्यं ? इति चेन्न. शिवोक्तकामिकाद्यागमानां यावज्जीवलिङ्गधारणविधायकत्वात् , "न हि कर्मणि कर्मान्तरारम्भः" इति न्ययेन नित्यौपासनादिपौण्डरीकान्तश्रौतस्मातकर्मणां निरव- काशत्वात् , दीक्षितस्य सूतकादिनिषेधदर्शनेन सापिड्याधुत्तरकर्मणां वैयर्थ्यप्रसङ्गात् , शैवदीक्षानन्तरं जीवत्वप्रेतत्वाभावेन स्वजात्याश्रमधर्माणां प्रयोजनाभावात् , "न कुर्या निष्फलं कर्म" इति न्यायेन विधिनिषेधनिरवकाशत्वेन वेदबाह्यमतप्रवेशापातात् , वसिष्ठादिब्रह्मनिष्ठानां मुक्तात्मनामपि ज्योतिष्टोमादिसर्वकर्मारम्भश्रवणात् , “यद्वै . किं च मनुरवदत्त-द्वेषज' (तै सं. २-२-१०-२) इत्यादिश्रुतौ मन्वादिस्मृती- नामौषधवद्विधेयत्वदर्शनात् , ब्रह्मादीनां लिङ्गधारणदीक्षाविधायकश्रुतिस्मृत्यागमपुराणो- पबृंहणाभावात् , “श्रद्धाभक्तिध्यानयोगादवेहि" (कैव. १-२) इति कैवल्ये श्रद्धाभक्त्यवच्छिन्नध्यानयोगस्यैव मोक्षसाधनल्वेनोपदेशात् , “तमेव विदित्वाऽति- मृत्युमेति नान्यः पन्था विद्यतेऽयनाय” (श्वे. ३-८) "ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये” (कैव. १-९) इत्यादिश्रुतिषु मोक्षस्य ज्ञानहेतुकत्वोप- देशात् , “ऐश्वर्यमीश्वरादिच्छेन्मोक्षमिच्छेजनार्दनात्" इत्यादिना जनार्दन- स्यैव मोक्षपदातृत्वश्रतणात् , “सर्वलिङ्ग स्थापयति” इत्यत्र लडन्तत्वेन विध्य- भावात् , अनेकविधाने वाक्यभेददोषाच्च, स्थापयतीति धात्वर्थेन स्थावरलिङ्गस्था- पनपरत्वद्योतनात् , 'तच लिङ्ग पाणिना अभिमत्रित पाणिमन्त्र' इत्यर्थलाभाच्च, .

१-१-१ च तु स्सू त्री निर्मलान्त:करणस्य बाह्यकर्माचरणे प्रयोजनाभावात् , राजनिष्ठश्वेतच्छवादिलाञ्छनानां भृत्येष्वदर्शनात् , परमेश्वरनिष्ठगरलभक्षणभुजगभूषणादिधर्माणां भयहेतुत्वेन धर्तु- मशक्यत्वात् , मङ्गलाचरणवन्मानाभावेऽपि निखिलवैदिकशिष्टाचाराभावात् , सगु- णोपासनस्य निर्गुणसाक्षिचैतन्यप्रापकत्वाभावात् , कामिकादीनामालयोत्सवप्रतिष्ठाद्य- शेष्वेव प्रमाणत्वात् , प्रात्यक्षिकश्रुतिस्मृत्याचारविरुद्धस्य लिङ्गधारणस्य स्मृत्यनवका- शन्यायेन सांङ्ख्यस्मृतिवन्न विधेयत्वं. इति चेत् , अत्र ब्रूमः- प्रात्यक्षिकश्रुतिस्मृत्यागमपुराणेतिहासविहितत्वेन लिङ्गधारणस्या- ग्निहोत्रादिवद्वैदिकत्वं सिद्ध. तस्माद्दीक्षानन्तरं ब्रह्मजिज्ञासा विधीयते. “यश्छन्द- सामृषभो विश्वरूपः" इत्यत्र शिवस्य भक्तोपासनार्थं परिच्छन्नत्वं युक्तं. नारायणीये "निधनपतये नमः (महाना. अनु. १४) इत्यादिना लिङ्गस्य सर्वात्मकत्व- मुक्त्वा 'सर्वलिङ्ग स्थापयति' इत्यनेन तस्यैव परिच्छिन्नलिङ्गधारणविधायकत्वदर्श- नात्, , सर्वाननशिरोग्रीवस्सर्वभूतगृहाशयः । सर्वव्यापी स भगवांस्तस्मात्सर्वगतश्शिवः ।। (श्वे. ३-११) "प्राञ्चः प्रत्यञ्चोऽहं" (अथर्वशिरः. १) इत्यादिश्वेताश्वतराथर्वशिरःप्रभृ- तिषु श्रवणाच, "प्राणेष्वन्तर्मनसो लिङ्गमाहुः" "लिङ्गे सुषुप्तिः” “लिङ्गं ब्रह्म सनातनं” इत्यथर्वशिरोहंसोपनिषल्लिङ्गपुराणादिषु निरुपपदब्रह्मपदस्य हस्तकरपाणिश- ब्दवल्लिङ्गपर्यायत्वेन निर्देशात् , “अमृतस्य देवधारणो भूयास......श्रुतं मे गोपाय"इति वाक्ये देवेति पदविभागे अपरिमिताधिकरणन्यायेन सन्निधिश्रुतधारण- शब्दान्वयं परित्यज्य व्यवहिते गोपायेत्यत्र अन्वयायोगात् , ब्रह्मणः कोशोऽसीति सन्निहितब्रह्मपदस्यैव विभक्तिविपरिणामेनान्वयसम्भवात् , धारणशब्दस्य संयोगार्थक- त्वेन अमृतपदवाच्यस्य मोक्षस्य अन्यथायोगात् , लिङ्गाङ्गसङ्गिनो वत्स ! पुनर्जन्म न विद्यते । युगपद्ज्ञानसिद्धिस्स्यात्ततो मोक्षमवाप्नुयात् ॥ इति शङ्करसंहितावचनोन तस्यैव मोक्षोपदेशात् , "शरीरं मे विचर्षण" इत्यादिना बाह्यपदार्थफलविशेषविधानात् , अत्याश्रमस्थस्सकलेन्द्रियाणि (कैव. ५) “अत्याश्रमी सर्वदा सकृद्वा जपेत्” (कैव. २४) "व्रतमेतत्पाशु- श्रीक र भाष्ये १-१-१ पतं पशुपाशविमोक्षाय” (अथर्वशिरः. ५) “व्रतमेतच्छाम्भवं सर्वेषु वेदेषु वेदवादिभिरुक्तं भवति तस्मात् तत्समाचरेन्मुमुक्षुन पुनर्भवाय" (कालामि. १) "तेषामेवैतां ब्रह्मविद्यां वदेत” (मुं. ३-२-१०) "तस्यैते कथिता ह्यार्थाः प्रकाशन्ते महात्मनः" (श्वे. ६-२३) इति कैवल्याथर्वशिरःकालाग्निरुद्रमुण्डक- श्वेताश्वतरादिषु पाशुपतव्रतस्थस्यैव ब्रह्मविद्याधिकारित्वोपदेशाच्च लिङ्गधारणदीक्षितस्यैव ब्रह्मविद्याधिकारित्वं सिद्ध । ननु-~~ “कैवल्यश्वेताश्वतराद्युपनिषत्सु लिङ्गधारणविधायकवाक्यादर्शनात् पाशुपतत्रतस्य भस्मधारणपरत्वमेव इति चेन्न. पाशुपतदीक्षितस्यैव लिझिनस्तदङ्गत्वेन भस्मधारणविधायकत्वोपदेशात् , लिङ्गाङ्गसङ्गिनां चैव पुनर्जन्म न विद्यते । एष पाशुपतो योगः पशुपाशनिवृत्तये ॥ सर्ववेदान्तसारोऽयमत्याश्रम इति श्रुतिः । परब्रह्माभिधं लिङ्ग पशुपाशविमोचकं ॥ यो धारयति सद्भक्त्या स पाशुपत उच्यते। शरीरत्रितये भक्त्या लिङ्गं परशिवात्मकम् ॥ यो धृत्त्वा विचरेद्भूमौ स पाशुपत उच्यते । लिङ्गं शिवो भवेत् क्षेत्रमङ्गं संयोग आश्रयः ॥ तस्माल्लिङ्गाङ्गसंयुक्तो यस्तु सोऽत्याश्रमी भवेत् । ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिस्तु वा । यस्तु लिङ्गाङ्गसंयुक्तः स एवात्याश्रमी भवेत् ॥ इत्यादित्यलैङ्गस्कन्दकूर्मपुराणेषु पाशुपतात्याश्रमिशब्दयोर्लिङ्गधारिपर्यायत्वेन निर्देशात् तत्परत्वमेवेति सिध्दं । किञ्च सामजैगीषीयशाखायां सदानन्दोपनिषदि-- अन्तर्धारणशक्तो वा ह्यशक्तो वा द्विजोत्तमः । संस्कृत्य गुरुणा दत्तं शैवं लिङ्गमुरस्स्थले। धार्य विप्रेण मुक्त्यर्थमेवं वेदविदो विदुः॥ अथर्वणे ऐश्वर्यशाखायां-- यो वामहस्तार्चितलिङ्गमेकं परात्परं धारयते सततं विप्रः क्षत्रियो वा। तस्यैवलभ्यः परमेश्वरोऽसौ निरअनः परमं साम्यमुपैति दिव्यं ॥

१-१-१ च तु स्सू त्री १५ इत्यादिमन्त्रेषु परमेश्वरध्यानधारणमेव मुमुक्षूणां विधेयमिति श्रूयते । रुद्राध्याये- "अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक" इत्यनेन परशिवस्यैव जननमरणप्रवाहरूपसंसाररोगनिवारकत्वं सूचितं। अत एव वेदपुरुषेणापि लिङ्गधारण- स्यैव पशुपाशविमोचकत्वं ऋग्यजुस्सामादिषूपादिश्यते । ऋग्वेदे-- "अयं मे हस्तो भगवानयं मे भगवत्तरः। अयम्मविश्वभेषजोऽयं शिवाभिमर्शनः । अयं माताऽयं पिताऽयं जीवातुरागमत् । इदं तव प्रसर्पणं सुबन्धवेहि निरीहि ॥” (८-१-२५) इत्यनेन वेदपुरुषस्य पाणिलिङ्गधारणं निार्दष्टम् । “शिवाभिमर्शनः” इत्यत्र स्थावरलिङ्गस्पर्शो विवक्षित इति चेत्-शिव- मभितस्सर्वदा स्पृशतीत्यर्थलाभात् सार्वकालिकस्पर्शान्यथानुपपत्त्या नान्यार्थी युक्तः । एतदेव वातूले श्रूयते- धारयेद्यस्तु हस्तेन लिङ्गाकारं शिवं सदा । तस्य हस्तस्थितं विद्धि मत्पदं सम्पदां पदं ॥ इति. अग्न्यवच्छिन्नाय:पिण्डस्य तन्निष्ठदाहकत्वप्रकाशकत्वोपदेशवत् लिङ्गधारणेनैव तत्करस्य भगवत्तरत्व-विश्वभेषजत्वादिपरमेश्वरधर्माः प्रतिपाद्यन्ते। तथा कामिके- अयं मे हस्तो भगवानिति मन्त्रेण सर्वदा । पाणिलिङ्गधृतिवैदपुरुषस्य समीरिता ॥ इति. यजुर्वेदे- या ते रुद्र शिवा तनूरघोराऽपापकाशिनी। तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि ॥ (तै. सं ४-५-१-१) त्र्यम्बकं यजामहे सुगन्धि पुष्टिवर्धनं । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥ (तै. सं. १-८-६-११) सोमारुद्रा युवमेतान्यस्मे विश्वा तनूषु भेषजानि धत्तं । अवस्यतं मुञ्चतं यन्नो अस्ति तनूषु बद्धं कृतमेनो अस्मत् ॥ (तै. सं. १-८-२२-४२) -- १६ ६ श्रीक र भा ध्ये १-१-१ इत्यादिमन्त्राणामुपबृंहणं श्रूयते लैङ्गे-- या ते शिवा तनू रुद्र लिङ्गं मङ्गलदायकं । लिङ्गं शिवा तनूः प्रोक्ता मूर्ति?रा तनुः स्मृता॥ अपापेषु च भक्तेषु तयोर्मध्ये शिवा तनूः। काशते परमेशस्य शिष्टास्ते लिङ्गधारिणः ॥ तया शन्तमया सौख्यकारिण्या लिङ्गरूपया। अभिचाकशीहि तन्वा गिरिशन्ताभिरक्ष मां ॥ त्रियम्बकं विरूपाक्षं लिङ्गं ब्रह्म सनातनं । यजामहे धारयामः सुगन्धि पुष्टिवर्धनं । उर्वारुकं यथा बन्धान्मृत्योर्मुक्षीय मामृतात् ॥ प्रथमाष्टे यजुर्वेदे प्रश्ने चरमसन्ज्ञके। लिङ्गधारणमाख्यातं वेदपुंसां महात्मनां ॥ सोमारुद्रा युवमेतान्यस्मे अस्मभ्यमेव हि। विश्वानि भेषजानीष्टप्राणभावात्मकानि च ॥ तनूषु देहलितये बद्धं मायामलात्मक। कृतं यदेनो दुरितं मनोवाक्कायकर्मजं ॥ तदस्मदस्मत्तस्तूणं मुख्यतोऽवस्यतं युवां । मुञ्चतं कृपया सम्यक प्रमोचयतमीश्वरी ॥ इति. (लिं. उ. अ. २१) सोमारुद्रा-सोमारुद्रौ, “देवताद्वन्द्वे च” (प्राणिनि सू. ६-२-१२१) इति पूर्वपदस्य दीर्वः, "सुपां सुलुक" (पाणिनि. सू. ७-१-३९) इत्यादिना आत्प्रत्ययः । तत्रैव परमेश्वरस्य मूर्तिद्वय श्रूयते. "रुदोवा एप यदग्निस्तस्यैते तनुवौ घोराऽन्या शिवान्या" (तै. सं. ५-७-४-६) इति तस्मात्सोमरुद्रशब्दा- भ्यां घोराघोरमूर्तिद्वयमुक्त. युवं - युवामित्यर्थः. विश्वे-विश्वति टाबन्तमेतत् ; विश्वा- नीत्यर्थः. एतानि भेषजानि भवरोगहरणि इष्टप्राणभावसंज्ञकानि, अस्मे - अस्मभ्यं, "सुपां सुलुक" इत्यादिना शे इत्यादेशः । तनू पु-शरीरत्रितये, धत्तं - धारयतं, नः तनूषु बद्ध - अनायविद्यावासितं, अत एव कृतं एन: - दुरितं, यदस्ति, तत् , अस्मत् - अस्मत्तः, युवा अवस्थतं मुख्यतः; मुञ्चतं - मोचयतं । “उमासहाय परमेश्वरं प्रभु त्रिलोचनं नीलकण्ठं प्रशान्त” (कै. १-७) इत्यादिष्वद्वितीयस्य शिवस्य परब्रह्मणो मूर्तिद्वयप्रतिपादनादत्र “सोमारुद्रा' इति मन्त्र तद्वदुभयं निरूपित.

१-१-१ च तु स्सू त्री १७ उमया सहितः सोमः - पञ्चोपनिषन्मयदिव्यमङ्गलविग्रहः, रुदम् - भक्तसंसारदुः- खं द्रावयतीति रुद्रः, युवामेतावुभौ अस्मच्छरीरेषु इष्टादिलिङ्गखरूपाणि धारयित्वा अस्मच्छरीरावच्छिन्नमलत्रयात्मककिल्बिषं नाशयतमित्यर्थः । "विश्वे देवं विदुषा वेदितव्यं शैवं लिङ्ग प्रधृतं सर्वदेवैः। तदा- त्मसिद्धेर्मुनिभिर्मुक्तिकामैः कण्ठे हस्ते मस्तके वा भवतु धार्यम्.” इति सामवेदेऽपि. अत एव भवभेषजात्मकशिवलिङ्गधारणादिकं मुमुक्षूणामावश्यकं । "पवित्र ते" (ऋ. ७-३-८) इति ऋग्वेदमन्त्रस्य- ऋगित्याह पवित्रं ते विततं ब्रह्मणस्पते । तस्मात् पवित्रं तल्लिङ्गं धार्य शैवमनामयं ॥ ब्रह्मेति लिङ्गमाख्यातं ब्रह्मणस्पतिरीश्वरः। पवित्रं तद्धि विख्यातं तत्सम्पत्तिनुः शुचिः ॥ अतप्ततनुरज्ञो वै ह्यामस्संस्कारवर्जितः । दीक्षया रहितस्साक्षान्नाप्नुयाल्लिङ्गमुत्तमम् ॥ (सि.शि. परि. ६) इति सिद्धान्तशिखामणौ श्रीरेणुकाचार्येण लिङ्गधारणपरत्वेन निर्देशात् , भक्तस्याबिभ्रतो लिङ्गं यावत्प्राणविधारणं । श्वमांसभक्षणं तावदन्नेन रचितं भवेत् ॥ लिङ्गस्य धारण यस्य स्थूलदेहे न विद्यते । तदेहं निष्फलं ज्ञेयं जीवत्यक्तशरीरवत् ॥ तस्मात्तद्धाणं प्रोक्तं यावज्जीवाग्निहोत्रवत् । यथा श्मशानगं काष्ठमनह सर्वकर्मसु । तथा लिङ्गविहीनस्तु सर्वकर्मबहिष्कृतः॥ इति वातूलस्कान्दलैङ्गादिषु सन्ध्यावन्दनादिवदकरणे प्रत्यवायदर्शनाच्च लिङ्गधार- णस्य नित्यत्वं सिद्धं । किञ्च-भूयासमित्यत्रापि “मेधावी भूयासम्" "ब्रह्मवर्चस्वी भूयासम्" "अहमेकः प्रथममास" इत्यादिष्विव विध्यर्थोपपत्तेः, देवतान्तरधारणविधायक- प्रमाणाचारादर्शनात् , दीक्षाऽकरणे शरीरत्रयगताणवादिमलत्रयध्वंसाभावात् , 3 १८ श्री क र भा प्ये १-१-१ वैदिकत्वं यथा वह्नः सर्ववेदप्रमाणतः । तथा वेदैकसिद्धत्वाद्वैदिकं लिङ्गधारणं ॥ वेदवेदान्तशास्त्रेषु पुराणेष्वागमेषु च । ब्राह्मणस्य समाख्यातं लिङ्गधारणमुत्तमं ॥ इत्यारभ्य, वेदोत्तमे यजुर्वेदे तैत्तिरीये विशेषतः । मोक्षार्थिनां मुक्तिहेतुर्लिङ्गधारण मीर्यते ॥ छन्दोभ्यस्सर्ववेदेभ्यो ह्यमृतात्सम्बभूव हि । इन्द्रस्तु परमैश्वर्यशाली साम्बस्त्रिलोचनः॥ मां मेधया प्रशया च स्पृणोतु प्रीणयत्वथ । अमृतस्य मोक्षलाभाय सर्वदेहेषु सर्वदा ॥ देवस्य लिङ्गरूपस्य शिवस्य परमात्मनः। धारणं तदतिर्यस्य देवधारण इष्यते ॥ तस्माच्छरीरं मे लोके विचर्षणमकिल्बिषं। जिह्वा मे रसना भूयान्मधुरालापभापिणी ॥ कर्णाभ्यां श्रोत्रयुग्मेन भूरि व्यश्वमस्म्यहं । ब्रह्मणः पार्वतीशस्य कोशोऽधिष्ठानमेव हि ॥ लोके प्रज्ञया मेधया श्रुतं तच्छ्रवणादीनि मे गोपाय प्रयत्नतः ॥ इत्यादिना लैंगे एतदुपबृंहणश्रवणात् , बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरेदिति । इतिहासपुराणाभ्यां वेदार्थमुपबृंहयेत् ॥ वेदार्थो यः स्वयं शातस्तवाशानं भवेदपि । ऋषिभिनिश्चिते तस्मिन् का शङ्का स्यान्महात्मनां ॥ इत्यादिस्मृतौ स्वतन्त्रतया वेदार्थनिरूपणनिषेधदर्शनाच्च नान्यार्थों युक्तः । “लिङ्गिन चक्रिणं दृष्ट्वा” इत्यादिनिषेधकस्मृतीनां प्रात्यक्षिकवेदमूलकत्वाभावात् साङ्ख्यस्मृ- तिवन्न विधायकत्वं; श्रौतविधेर्बलीयस्त्वात्। “उदिते जुहोति-अनुदिते जुहोति' इति वचनद्वयविरोधे शाखान्तरविषयवन्मूलानुट्टङ्कितधूर्तस्मातमायावादिकल्पितनिषेध- वाक्यानां गगनारविन्दवत् प्रामाण्याङ्गीकारे अवैदिकतप्तलिङ्गधारिविषयत्वं ग्राह्यम् ; चक्रिपदसामानाधिकरण्यदर्शनात् । श्रौतलिङ्गविषयत्वे लिङ्गधार्युत्तमाधिकारिव्यवस्थापक- श्रुतिस्मृतिपुराणागमादीनां दत्तजलाञ्जलित्वप्रसक्त्या वेदबाह्यमतप्रवेशः स्यात् । असेरिव यथा वृतः।

१-१-१ च तु स्सू त्री श्रौताश्रौतविभेदेन द्विधा लिङ्गस्य धारण । षडध्वशुद्धलिङ्गं तु श्रोतमित्यभिधीयते । अश्रौतं तप्तलिङ्गादिधारणं प्रोच्यते शिवे ॥ श्रीतानां वीरशैवानां वेदमार्गकवतिनां । तप्तलिङ्गपरिग्राहे प्रत्यवायो महान् भवेत् ।। इति सिद्धान्तागमे दर्शनात् । यावज्जीवाग्निहोत्रदीक्षितस्य तदितरश्रौतयागदीक्षा- विरोधाभाववल्लिङ्गधारणदीक्षाया अपि नित्यविधिप्राप्तत्वेन “नहि कर्मणि कमान्तरा- रम्भः” इति नियमस्य सावकाशदीक्षाविषयत्वं. शैवदीक्षाया अग्निष्टोमादिदीक्षावत् प्रतिप्रयोगापवर्गित्वाभावात् तया सह विरोधाभावात्समुच्चयोपपत्तेः शैवानां कृत्वनुष्ठान- मावश्यकमेव; उभयोः श्रौतत्वात् । निषेधस्य प्रतिप्रयोगापवर्गियावज्जीवनिषिद्ध- दीक्षान्तरनिषेधपरत्वादवैदिकपाञ्चरात्रादिदीक्षानिषेधपरत्वेनोपपत्तिः । जाताशौचमृताशौचादौ खकर्तृकयावज्जीवाग्निहोत्रदीक्षितस्य स्खनित्योपासना- धिकारवत् शैवदीक्षितस्य जाताशौचादावपि लिङ्गपूजामात्राधिकारवत्त्वम्. अत एव “सर्वलिङ्गं स्थपयति” इत्यत्र पवित्रशब्देन धृतलिङ्गस्य सर्वकालधारणपूजाधिकार- योग्यत्वं सूचितम् । शैवं देवार्चनं यस्य यस्य चाग्निपरिग्रहः। ब्रह्मचारियतीनाञ्च शरीरे नास्ति सूतकम्।। लिङ्गार्चनरता नारी सूतिका वा रजस्वला । रविरग्निर्यथा वायुस्तथा कोटिगुणोज्वला। जातके मृतके वाऽपि न त्याज्यं शिवपूजन ॥ इत्यादि पाराशरस्मृतिसिद्धान्तशिखामण्यादौ लिङ्गाङ्गिदेहस्य पवित्रत्वव्यपदेशा- ल्लिङ्गधारणपूजादेन विरोधः। ननु - प्रमाणाचारसत्त्वेऽपि प्रत्यक्षविरुद्धत्वात् रजस्सूतकादिकालकृतपूजा- धारणादिकमनुपपन्नम् । इति चेन्न-ज्योतिष्टोमातिरात्रपौण्डरीकादियागीयपशुविशसनमां- सभक्षणसुरापानब्रह्मचारिकृतदिवादासीसङ्गमादिप्रत्यक्षलोकविरुद्धश्रोताचारभङ्गप्रसङ्गात् ।

२० . श्री कर भा ष्ये १-१-१ ननु - शैवानां पञ्चसूतकाभावे वर्णचतुष्टयातीतत्वप्रसङ्गात् , तत्कृतपाकादि- परिग्रहप्रसक्तेश्च, वैदिकानां लिङ्गधारणमनहमिति चेन्न. खेष्टलिङ्गैकपूजायां नैवाशौच विधीयते । पौण्डरीके रजः स्त्रीणां स्वाग्निहोत्रे यथा तथा॥ अकरस्पशयोग्याऽपि यथा जिह्वा महेश्वरि । मन्त्रोचारणमात्रस्य पूता भवति भूतले । तथा सूतकिनः शैवाः पूजामात्रसुनिर्मलाः । नान्यस्पर्शानुकूलाः स्युरिति वेदानुशासनं ॥ इति सिद्धान्तागमादिषु शिवपूजामात्रयोग्यताश्रवणात् , शैवदीक्षानन्तरं प्रेत- त्वजीवत्वाभावेऽपि शिवागमेषु शैवानां स्ववर्णाश्रमोचितपूर्वापरकर्मकर्तव्यताया विधे- यत्वादकरणे प्रत्यवायदर्शनाच्च विधिविहितयावत्कर्मानुष्ठानमावश्यकमेव । स्वजातिविहितं धर्म कुर्वन्तः पूजयन्ति ये । भक्त्या श्रीकण्ठमनिश ते वै माहेश्वराः स्मृताः॥ कर्म विध्युक्तमुत्सृज्य स्वजातिविहितन्नराः। येऽर्चयन्ति शिवं तेषां पूजां गृह्णाति नेश्वरः ॥ वर्णाश्रमसदाचाराः शिवेन कथिताः पुरा । ये तानुल्लध्य वर्तन्ते शिवस्याज्ञापलापिनः॥ राजाशाभङ्गकन्नृणां यथा दण्डो भविष्यति । शिवाशाभङ्गकृन्नृणान्दण्डो हि नरकस्तथा ॥ साम्बेन शम्भुनाऽऽज्ञप्तं धर्म त्यक्त्वार्चयेच्छिवम् । यस्तस्मै कुप्यति स्थाणुः स्वाज्ञाभङ्गविधायिने ॥ चोदनालक्षणन्धर्म शिवेनाशप्तमत्यजन् । शङ्करं पूजयेद्यस्तु तस्मै साम्बः प्रसीदति ॥ (शङ्करसं.अ. १८५.७८-८३) अन्धपङ्गुवदन्योन्यसापेक्षे शानकर्मणी। फलोत्पत्तौ विरक्तस्तु तस्मात्तद्वयमाचरेत् ॥ शाने सिद्धेऽपि विदुषां कर्मापि विनियुज्यते । फलाभिसन्धिरहित तस्मात् कर्म न सन्त्यजेत् ॥

१-१-१
च तु स्सू त्री
२१
आचार एव सर्वेषामलङ्काराय कल्पते ।
आचारहीनः पुरूषो लोके भवति निन्दितः॥
शानेनाचारयुक्तेन प्रसीदति महेश्वरः ।
तस्मादाचारवान् ज्ञानी भवेदादेहपातनम् ॥
(सि. शि. परि. १६)
इति शङ्करसंहितासिद्धान्तशिखामण्यादौ कर्मकर्तव्यतादर्शनात् , स्वप्रयोजनाभावेऽपि
भृत्यानां राजाज्ञाभङ्गभयात् तदुदीरितकर्माचरणवत् शैवदीक्षितानां कर्मकरणे प्रयो-
जनाभावेऽपि शिवाज्ञापालनार्थमवश्यं तत्कर्तव्यमेव. "भीषाऽस्माद्वातः पवते ।
भीषोदेति सूर्यः” (तैत्ति. आनं. ८) इत्यादिश्रुतौ पवनप्रभाकरादिदेवानां शिवज्ञा-
नाधिकानामपि परमेश्वराज्ञाभङ्गभयेन सकलजगदनुकूलखोचितकर्मानुष्ठानश्रवणात् किं
वक्तव्यमल्पज्ञानिनां मनुष्याणां ।
किञ्च लैङ्गे-
वयं ब्रह्मादयस्सर्वे पशवः परिकीर्तिताः ।
त्वमस्माकं पतिर्यस्मात्तस्मात्पशुपतिः शिवः ।।
इत्युक्त्वा देवताः सर्वाः शिवलिङ्गादिधारण ।
कृत्वा पाशुपताः सर्वे तस्मात्पशुपतिः शिवः ।
अतो ब्रह्मादिदेवानामुपास्यः शिव एव हि ॥
तथा विभूतिरुद्राक्षलिङ्गधारणदेहिनः ।
शुद्धस्फटिकमालाभिर्बद्धहस्ताम्बुजानपि ॥
ब्रह्मविष्ण्वादिदेवांश्च दृष्ट्वा साम्बस्त्रीलोचनः ।
त्रिपुरासुरसंहारमकरोद्भक्तवत्सलः
ब्रह्मविष्ण्वादिदेवाश्च मुनयो गौतमादयः ।
धारयन्ति सदा लिङ्गमुत्तमाङ्गे विशेषतः ॥
किञ्च स्कान्दे शङ्करसंहितायां
उरस्स्थले हरिर्लिङ्गं धृत्वा मूर्ध्नि पितामहः ।
लिङ्गस्थम्मां समाराध्य खं खं पदमवापतुः ॥

२२ श्री क र भाष्ये १-१-१ इत्याधुपबृंहणवाक्ये ब्रह्मादीनां शिवलिङ्गादिधारणदर्शनात् , लोके अनन्त- पद्मनाभविठलेश्वरादिक्षेत्रेषु नारायणस्यापि पाणिशिरोदेशेषु प्रत्यक्षशिवलिङ्गधारणदर्श- नाच न सन्देहकलङ्कप्रसङ्गः। "श्रद्धाभक्तिध्यानयोगादवेहि" (कैव. १-२) इत्यादिषु ध्यानज्ञानयो- रेव मोक्षहेतुत्वव्यपदेशाद्वाह्यलिङ्गधारणादिना न किञ्चित्प्रयोजनमिति चेन्न-"तस्या- भिध्यानायोजनात्तत्वभावास्यश्चान्ते विश्वमायानिवृत्तिः” (श्वे. १-१०) इति श्रुतौ तस्य - हरस्य, अभिध्यानात् - अन्तरनुसन्धानात् , योजनात् - संयोगात् , बाह्यधारणात् , तत्त्वभावात् - तत्त्वसाक्षात्कारात् , सकलमायानिवृत्तिर्भवतीति श्रव- णात् , श्रुतिसङ्कोचे मानाभावात् , "जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैवि- ध्यादाश्रितत्वादिह तद्योगात्” (ब्र सू. १-१-३२) इत्यादौ भगवता व्यासेनापि त्रिविधोपासनाव्यपदेशात्. तथा स्कान्दे- मानसोपासनं कुर्याध्दृदये दहरेऽपि वा। पञ्चाक्षर्या च गायत्र्या रुद्रसूक्तादिभिस्तथा । वाचिकोपासनं प्रोक्तं धृतलिङ्गे शिवात्मके॥ पाणिपीठे तथा वह्नौ स्थण्डिले वा विधानतः । कामिकोपासनं कुर्यात् श्रद्धाभक्तिसमनवितः॥ एवं त्रिकरणौनित्यमीश्वरोपासनं द्विजः। कुर्वन्मुक्तिमवाप्नोति वौदिको नान्यहेतुना ॥ इत्यादिना, "मनस्येकं वचस्येकं कर्मण्येकम्महात्मनां" इति न्यायेन च मान- सयज्ञसन्यासादीनां प्रवर्तकत्वदर्शनात् , अन्तर्धारणमात्रत्वे बाह्याङ्गस्य निष्फलत्वात् , तद्गतकार्मिकमलध्वंसाभावप्रसङ्गाच्च । किञ्च–प्रागुपनयनदीक्षीतस्यैव "स्वाध्यायोऽध्येतव्यः" "अहरह- स्सन्ध्यामुपासीत" इत्यादिवाक्यविहितस्वाध्यायादिकर्माधिकारवत् लिङ्गधारणदी- क्षितस्यैव शिवज्ञानाधिकारित्वमविरुद्धम्। अन्तर्ध्यानधारणयोरावश्यकत्वेऽपि पाकस्य वह्निवत् मोक्षस्य लिङ्गदीक्षाया मुख्यसाधनत्वत् , तदखीकारे पूर्वोदाहृतश्रुतिस्मृत्यागम- पुराणवैरुध्येन वेदबाह्यत्वप्रसङ्गात् ।

१-१-१
च तु स्सू त्री
२३
शिवध्यानपरो भूत्वा शिवलिङ्गाङ्गसंयुतः।
शिवेतरपरित्यागी ध्यानयोगी स उच्यते॥
मुखे मन्त्रो हृदि ध्यानं मस्तके लिङ्गधारणम् ।
शिखा सूत्रं तथा भस्म चैतद्ब्राह्मणलक्षणम् ॥
इति मनुगौतमादिस्मृतिषु शिवलिङ्गधारणस्य वेदविहितत्वेन दृष्टत्वाच वैदिकाना-
मविरोधः।
"मोक्षमिच्छेजनार्दनातू” इति नारायणस्यैव मोक्षप्रदातृत्वोपदेशात्तस्योपा-
सनमेव मुमुक्षूणामावश्यकमिति चेन्न-तथाविधश्रुत्यभावात् , “शिव एको
ध्येयश्शिवङ्करस्सर्वमन्यत्परित्यज्य'' (अथर्वशिखा. ३) "ज्ञात्वा शिवं शांति-
मत्यन्तमेति" (श्वे. ४-१४) "ईश तं ज्ञात्वा अमृता भवन्ति” (श्वे. ३-७)
"क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः, तस्याभिध्यानाद्यो-
जनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः” (श्वे. १-१०) "एको हि
रुद्रो न द्वितीयाय तस्थुः” (श्वे- ३-२) “यो देवानां प्रथम पुरस्ताद्वि-
श्वाधिको रुद्रोमहर्षिः” (महाना. अनु. १०) “तमक्रतुं पश्यति वीतशोको
धातुः प्रसादान्महिमानमीशम्" (महाना. अनु. १०) इत्यादिश्रौतविधेर्बलीयस्त्वा.
नारायणस्य ब्राह्मणदेवतात्वाभावात् , श्रुतिविरुद्धस्मृतेः प्रामाण्याभावात् , तादृशस्मृती
नां समक्षजलन्यायेन परम्परया शिवोपासनाद्वारा मोक्षहेतुतापरत्वस्य सिद्धत्वात्।
साङ्ख्ययोगसहस्रेण जन्मना द्वैतगो भवेत् ।
तन्मतस्य सहस्रेण सौरम्मतमुपाश्नुते
तत्सहस्रसमभ्यासाद्गाणापत्यमती भवेत् ।
तत्सहस्रेण भूलोके वैष्णवं मतमीयते ॥
तद्वैष्णवसहस्रेण शाक्तो भवति सर्वदा ।
तत्सहस्रान्महाभाग शैवसामान्य उच्यते ॥
तत्सहस्रेण विप्रेन्द्र वीरशैवमती भवेत् ।
तेनैव मुक्तिमामोति नान्यथा बहुयत्नतः ।।

२४ श्री क र भा ध्ये १-१-१ इति स्कान्दे दर्शनाच्च । विष्णुलोकं प्राप्तानां विष्णुसारूप्यमापनानां शिवशर्मादीनां शिवोपासनद्वारा मोक्षप्राप्तिः काशीखण्डे श्रूयते । व्यासोऽपि स्वभुजस्तम्भनानन्तरं शिष्यैस्सह शाम्भवदीक्षा लब्ध्वा मोक्षाधिकार्यभूदिति तवैव श्रूयते । महिम्नस्स्त- वेऽपि, “त्रयी सांख्य” इत्यारभ्य “त्वमसि पयसामर्णव इव' इत्यंतेन ऋजु- कुटिलत्वेन स्वमतमन्यमतानि च निरूप्य शिव एव सर्वेषां प्राप्यस्थानमित्युपदिष्टम् । "सर्वलिङ्ग स्थापयति' इत्यत्र लडन्तत्वेऽपि “विहीन प्रोक्षति, ब्रीही- नवहन्ति” इत्यादिवद्विध्यर्थत्वोपपत्तिः। न चानेकविधाने वाक्यभेददोषः, “यदाने- योऽष्टाकपाल" इतिवत् सर्वेषामप्राप्तत्वेन विधेयत्वात् , “अप्राप्ते तु विधी- यन्ते बह्वोऽप्येकयत्नतः" इति स्मृतिदर्शनात् , स्थापयतीत्यत्र भूमावेवेति विनिगमकाभावात् , श्रुतेः सङ्कोचासहिष्णुत्वादुभयथा प्रमाणाचारदर्शनाच्च । न च पाणिना मननात्पूजनात्त्रायत इत्यर्थसम्भवेन लिङ्गधारणासिद्धिरिति वाच्यं, मानसादीनां पूजाकरणत्वदर्शनेन पाणिशब्दस्य वैयर्यप्रसङ्गात् , पाणिना अभिमन्त्रितं पाणिमन्त्रमित्यप्यसङ्गतं, मन्त्रशब्दस्य गौणार्थखीकारे ईक्षत्यधिकरण- विरोधप्रसङ्गः, एतन्मन्त्रार्थस्तु लैङ्गोत्तरभागे एकविंशाध्याये भगवता वेदव्यासेन स्पष्टमुक्तः। यजुरप्याह सर्व वै लिङ्गं स्थापयतीति च । तस्माद्धार्य महालिङ्गं पाणिमन्वेति मन्त्रतः ।। पाणौ लिङ्गं विनिक्षिप्य दीक्षाकाले गुरुः शिवम् । येन सरति तन्मन्त्रं पाणिमन्त्रं वदन्ति हि ।। पवित्रत्वान्महेशस्य शिवस्य प्रतिपादनात् । पवित्रीकरणात् पुंसां पवित्रमिति कथ्यते ॥ अतस्सर्वेषु कालेषु धारयर्लिङ्गमुत्तमम् । गच्छंस्तिष्ठन् स्वपन् जाग्रदुन्मिपन्निमिषन्नपि । शुचिर्वाप्यशुचिर्वापि लिङ्ग सर्वत्र धारयेत् ।। लिङ्गधारी सदा शुद्धो निजलिङ्ग मनोहरं । अर्चयेद्गन्धपुष्पाद्यैः करपीठे समाहितः ।

१-१-१ च तु स्सूत्रो '૨૫ नित्यानि कर्मवृन्दानि तथा नैमित्तिकानि च। शिवार्पणधिया कुर्यात्सम्यग्ज्ञानाभिवृद्धये ॥ इति. (लिं. पु. उ. भा. अ. २१) ननु वृश्चिकादिविषमात्रेण म्रियमाणस्य कालकूटभक्षणे शक्त्यभावात् , रज्जु- दर्शनेन सर्पभ्रान्त्या पलायमानस्य भुजगधारणे शक्त्यभावात् , यत्किञ्चिल्लाञ्छनधारणे प्रमाणाभावाच शिवलिङ्गमस्मरुद्राक्षधारणं मुमुक्षूणां राजभृत्यवन्नाङ्गीकर्तव्यमिति चेदुच्यते- भक्तानां वसायुज्यसिध्यर्थं स्खनिष्ठभस्मरुद्राक्षशिवलिङ्गचिह्नानामकरणे प्रत्य- वायजनकनित्यविधिविषयत्वेन परमेश्वरोपदिष्टत्वात् , लोके राजाज्ञाविहितराजचिह्ना- नामेव भृत्यैः स्वीकारदर्शनात्, पूर्वोक्तवेदशास्त्रपुराणागमादिषु शिवलिङ्गभस्मरुद्राक्ष- धारणविधायकविध्युपदेशात् , भुजगधारणविषभक्षणविध्यदर्शनात् , ब्रह्मविष्ण्वादीनां- सर्वेषां पूर्वभक्तानां शिवलिङ्गमस्मरुद्राक्षधारणस्यैव दर्शनात् , शिवाज्ञापालनार्थाय शिवभक्तः शिवव्रती। लिङ्गरुद्राक्षभस्मानि शिवचिह्नानि धारयेत् ॥ राजाज्ञोल्लङ्घनालोके यथा दण्डो विधीयते । शिवाज्ञोल्लङ्घनादण्डो रौरवं नरकं तथा॥ इति लैङ्गे दर्शनाच्च। सगुणस्य मिथ्याभूतत्वात् कथं तदुपासनस्य निर्गुणचैतन्यप्रापकत्वमिति चेन्न-“उमासहायं परमेश्वरं प्रभु त्रिलोचनं नीलकण्ठं प्रशान्तं, ध्यात्वा मुनि- गच्छति भूतयोनि समस्तसाक्षिं तमसः परस्तात्' (कैव. १-७) इति कैवल्य- श्वेताश्वतराद्युपनिषत्सु सगुणोपासनस्यैव हेयगुणरहितसर्वसाक्षिचैतन्यप्रापकत्वोपदेशात् , "स्थिरेभिरङ्गैः पुरुरूप उग्रः” (ऋ. २-७-१७) इति रुद्रसूक्तादिषु परमे- श्वरशरीरस्य नित्यत्वोपदेशाच्च । न चागमानामालयोत्सवप्रतिष्ठांश एव प्रामाण्यमिति वाच्यं । गायत्र्यादि- सर्वमन्त्राङ्गन्यासकरन्यासध्यानमुद्राकुण्डमण्टपादीनामागमप्रमाणविधेयत्वात् तदखी- कारे सर्वयागमन्त्रफलसाधनत्वायोगाच्च ब्रह्मविद्यायां शाम्भवदीक्षितस्यवाधिकारित्वमिति निर्णीयते।

२६ श्री क र भा प्ये १-१-१ , ननु—“यस्यैते चत्वारिंशत्संस्कारा न चाष्टावात्मगुणा न स ब्रह्म- णस्सायुज्यं सालोक्यं च गच्छति' (गौतमधर्मसूत्र. ८-२२). इत्यादिना गर्भा- धानादिसकलकर्मणां दुरितक्षयद्वारा परमेश्वरप्रापकत्वोपदेशात् , “विद्यां चाविद्यां च यस्तद्वेदोभयं सह" (ईशा. ११) “तेनैति ब्रह्मवित्पुण्यकृत्तैजसश्च" (बृ. ४-४-८) “सत्येन लभ्यस्तपसाह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यं" (मुं. ३-१-५) इत्यादिज्ञानकर्मसमुच्चयश्रुतिदर्शनाच धर्मजिज्ञासानन्तर्य युक्तं। किञ्च--"तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्य- चितो लोकः क्षीयते" (छां. ८-१-६) इत्यादिना कर्मफलानामनित्यत्वं, "परी- क्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन (मुं. १- २-१२) इत्यादिना कर्मफलेषु वैराग्य, "शान्तो दान्तः” (नारदपरि. १-९) इत्यादिना शान्त्यादिकं, “न स पुनरावर्तते। (छां. ८-१५-१) इत्यादिना मोक्ष- स्य नित्यत्वं चावगम्यते। अतस्तत्रेच्छासम्भवान्मुमुक्षुत्वं सूचितं. तस्मादेतत्साधन- चतुष्टयानन्तरं वा ब्रह्मजिज्ञासा कर्तव्या । लिङ्गधारणस्यापि कर्मत्वेन मोक्षोपयोगित्वा- भाव इति चेन्न । "नास्त्यकृतः कृतेन" (मुं १-२-१२) इति वाक्येन प्राकृतस्यैव कर्म- णो निषिद्धत्वात् , "अमृतस्य देवधारणो भूयास" (ते. शिक्षा. ४) "तस्या- भिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः। (श्वे. १-१०) "व्रतमेतच्छाम्भवं सर्वेषु वेदेषु वेदवादिभिरुक्तं भवति । तस्मात् तत्समाच- रेन्मुमुक्षुर्न पुनर्भवाय' (काला. रु. १) “सर्वलिङ्ग स्थापयति पाणिमन्त्रं पवित्रं" (महाना. अनु. १४) इति तैत्तिरीयश्वेताश्वतरकालामिरुद्रादिषु शिवलिङ्ग- ध्यानधारणादीनामप्राकृतकर्मणां मोक्षहेतुत्वोपदेशात् । गर्भाधानादिप्राकृतकर्मणां मोक्ष- साधनत्वविधायकश्रुतिस्मृतीनां साधनचतुष्टयानन्तर्यब्रह्मविद्याधिकारित्वोपदेशकवाक्या- नां च “अन्नं ब्रह्म' (ते. भू. २) इत्यादिवाक्यानामिव स्थूलारुन्धतीन्यायेन च परम्परया साधनत्वं युक्तं। "सन्दिग्धेषु वाक्यशेषात्।। (पूर्वमी. १-४-२९) इति न्यायेन "अमृ- तस्य देवधारणो मूयास" (तै. शिक्षा. ४) इति वाक्ये असदिग्धत्वेन ब्रह्मविद्या- धिकारित्वनिरूपणात् पूर्वोदाहृतज्ञानकर्मसमुच्चयसाधनचतुष्टयप्रतिपादकश्रुतीनां सन्दि- ग्वत्वं सिद्धं । शङ्करसंहितायां भगवता व्यासेन- २७ १-१-१ च तुस्सू त्री "नित्यानित्यविचारवानिह परत्रापेक्षितार्था रतिः" इत्यारभ्य “न त्यज प्राणलिङ्गं त्वं यावजीवं प्रतिज्ञया । पुनर्भवो न ते वत्स ! विद्यते मातृयोनिषु" इत्यन्तेन साधनचतुष्टयसम्पद्विशिष्टस्य लिङ्गधारणमुक्त्वा ततो ब्रह्मज्ञानोपदेशविधिनि- दिष्टः। रेणुकभगवत्पादाचार्येणापि “पिण्डता पिण्डविज्ञानं" इत्यारभ्य "एतानि शिवभक्तस्य कर्तव्यानि प्रयत्नतः” इत्यन्तेन सिद्धान्तशिखामणौ तथैवोपदिष्ट। ? न च लिङ्गधारणमात्रेण मुक्तिसम्भवे तदेवालं, किमौपनिषदशास्त्रविचार- प्रयासेन ? इति वाच्य-"आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदि- ध्यासितव्यः” (बृह. २-४-५) “वेदान्तश्रवण कुर्यात्' इत्यादिना मायापाश- विमुक्तानामपि प्रारब्धप्रतिभासनाशपर्यन्तं परमेश्वराज्ञापालनस्य कर्तव्यत्वश्रवणात् , तदभावे लिङ्गाङ्गज्ञानदृढप्रत्ययाभावात् , पुनःकामक्रोधादीनामन्तःकरणप्रवेशावका- , शहेतुत्वात् , आसुप्तेरामृतेः कालं नयेद्वेदान्तचिन्तया। कामादिपरिहाराय शिवज्ञानाभिवृद्धये ।। इति स्मृतेश्च। करणतया स्वतन्त्रविध्यन्तररहितसौतामणीबृहस्पतिसवादेरग्निचयनवाज- पेयाद्यङ्गत्वेन उभयविधिबलादुभयसिद्धिवत् लिङ्गधारणब्रह्मजिज्ञासयोन विरोधः । न च ज्योतिष्टोमादिवल्लिङ्गधारणस्यापि कर्मत्वेन परम्परया मुक्तिहेतुत्वमिति वाच्य, पूर्वोदाहृतप्रात्यक्षिकश्रुतिविरोधात् । श्रवणादीनामपि कर्मत्वेन तेषामपि मुक्ति- हेतुत्वं न स्यात् । तत्स्वीकारे मायापाशनिवृत्तौ मुख्यकारणाभावात् ब्रह्मजिज्ञासाशा- स्त्रस्य प्रसक्त्यसम्भवप्रसङ्गः। तथा चेन्मूलच्छेदी तव पाण्डित्यप्रकर्षः । व्रीहिप्रोक्षणादिकं दर्शपूर्णमासोत्पत्त्यपूर्वहेतुतया खर्गे यथा समुच्चीयते, तथा परमेश्वरार्पितपुराकृतज्योतिष्टोमादिसर्वकर्माणि साधनचतुष्टयादिकं च शिवज्ञानशिव- लिङ्गधारणप्रयोजकतया मोक्षे समुच्चीयन्ते। ननु-~-लिङ्गधारणब्रह्मविचारशास्त्रयोः कर्जक्याभावात् कथं क्रमनियमः ? क.क्यमिह आधारदर्शपूर्णमासवदङ्गाङ्गित्वेन वा ? पञ्चप्रयाजवदेकाङ्गिप्रयुक्तानेकाङ्ग- २८ श्री क र भाष्ये १-१-१ त्वेन वा ? गोदोहनादिवदधिकारान्तरप्रयुक्त्युपजीवित्वेन वा ? षड्यागवदौषध्यादिवच्च फलैक्येन वा भवति? इति चेदुच्यते--पूर्वोक्ततैत्तिरीयश्वेताश्वतरकैवल्यजाबालकठ- वल्लयादिश्रुतिस्मृतिपुराणागमप्रमाणैः कबॅक्यदर्शनात् कर्बेक्यविकल्पविचारो न विधेयः। ननु--- लिङ्गधारणस्य नित्यत्वमस्तु, जैमिनिसूत्रविहितविधित्रये को विधि- राश्रीयते ? अपूर्वविधिः ? नियमविधि: ? परिसङ्ख्याविधिर्वा ? "व्रीहीन् प्रोक्षति" इतिवन्नापूर्वविधिः, लिङ्गधारणस्य "पवित्रं ते विततं ब्रह्मणस्पते" (ऋग्वेद.७-३-८) इत्यादिबहुश्रुतिविहितत्वात् "ब्रीहीनवहन्ति " इतिवन नियमविधिः; शिवलिङ्गे- तरशिखायज्ञोपवीतभस्मरुद्राक्षधारणस्य सत्त्वात् “पञ्च पञ्चनखा भक्ष्याः" इति- वन्न परिसङ्ख्याविधिः, लिङ्गधारणादिकर्तव्यत्वाकर्तव्यत्वयोरेकदा समुच्चयप्रसक्त्य- सम्भवात् । अतो लिङ्गधारणस्य न वैदिकत्वमितिचेन्न----विधित्रयेणापि सिद्धत्वात्। "अमृतस्य देवधारणो भूयासं' इत्यत्रापूर्वविधिः. लिङ्गधारणस्य “सर्व- लिङ्ग स्थापयति" इत्यादिबहुश्रुतिविहितत्वेन नापूर्वविधिरिति चेत्----उपजीव्योप- जीवकभावन्यायेन "सर्वलिङ्ग स्थापयति' इत्यादिवाक्यानां फलधारणशब्दायो- गेन उपजीवित्वं; “अमृतस्य देवधारणो भूयास' इत्यत्र मोक्षफलधारणविधाय- कत्वश्रवणादुपजीव्यत्वं; अतो न दोषः। नियमविधिश्चतान्त्रिकतप्तलिङ्गशूलडमरुशङ्खचक्राङ्कननिषेधपूर्वकश्रौतभस्म.. रुद्राक्षलिङ्गधारणादिविधानश्रवणात्। परिसङ्घयाविधिरपि ---- तान्त्रिकतप्तलिङ्गशूलडमरुशङ्खचक्राकननिषेधपूर्वक- श्रौतशिखासूत्रभस्मरुद्राक्षलिङ्गधारणस्वीकारात्। “हरिकेशायोपवीतिने" (तै. सं. ४-५-२) "रुद्रश्शिखा” इत्यादौ भस्मरुद्राक्षादिवच्छिवस्यैव शिखासूत्रधारणश्रव- णाच्छिवलाञ्छनमिति सिद्ध। “यश्छन्दसां" इत्यादिलिङ्गधारणविधायकश्रुतीनां परमेश्वरानुग्रहलब्धसर्ववेदार्थवेदिभिः सर्वज्ञव्यासदुर्वासोरेणुकश्वेतोपमन्युद्धी- चिकुम्भसम्भवादिपूर्वाचा!लिङ्गधारणपरत्वेन व्याख्यानातदेव गौरवं । वयं श्रुतियु- क्त्यनुभूतिवादिनः, बौद्धादिवन्न युक्तिमात्रावलम्बिनः। निगमागमोभयवेदान्तप्रतिपादितभक्तिक्रियाज्ञानकाण्डत्रयविहितस्थूलसूक्ष्मचि- दचित्प्रपञ्चप्रकाशकषट्स्थलपरशिवसाक्षात्कारकारणबहुजन्मकृतशिवार्पितयजनयाजनत- पोध्यानाद्यनेकपुण्यापूर्वफलकशरीरत्रयगतमलत्रयध्वंसककारुण्यकल्याणकैवल्यविभूतित्र- - १-१-१ च तु स्सू त्री २९ यप्रदायकाष्टावरणपञ्चाचारसद्गुरुकरुणाकटाक्षलब्धशक्तिपाताधवच्छिन्नपरशिवेष्टलि- गधारणात्मकपाशुपतदीक्षाऽऽनन्तर्यमित्यथशब्दार्थो निर्णीयते। अत्रानन्तर्याभिधानमुखेनाथशब्देनैव हेतुत्वसिध्देः कुतोऽतःशब्दः ? इति चेन्न ; “अपाम सोमममृता अभूम' (ऋग्वेद. ६-४-११) इत्यादौ प्राकृत- कर्मफलस्यापि नित्यत्वश्रवणात् , “ओमित्येकाक्षरं ब्रह्म” (गीता. ८-१३) "असावादित्यो ब्रह्म" (तै. आर. २-२) "नारायणपरं ब्रह्म' (महाना. अनु. ११) "अन्न ब्रह्मेति व्यजानात् ,, (ते. भृ. २) इत्यादौ नानाविधोपासनदर्श- नात् कथं परशिवेष्टलिङ्गधारणान्मुक्तिस्सम्भवतीति शङ्कानिरासाय हेतुत्वदृढीकरणार्थ- मतःशब्दो निर्दिष्टः। प्राकृतकर्मफलस्यानित्यत्वे “पुण्यचितो लोकः क्षीयते" (छां. ८-१-६) इत्यादिबहुश्रुतीनां विद्यमानत्वात् , कर्मप्रकरणपठितश्रुत्यपेक्षया ब्रह्मप्रकरणपठिताया "अमृतस्य देवधारणो भूयास" (ते. शि. ४.) इत्यादिश्रुते- बलवत्त्वात् , “शिव एको ध्येयश्शिवङ्करस्सर्वमन्यत्परित्यज्य' (अथर्वशिखा. ३) “एको हि रुद्रो न द्वितीयाय तस्थुः" (श्वे. ३-२) “असङ्ख्यातास्सह- स्राणि मयते न च दृश्यते" (तै. आर. १२) "त्वं देवानां ब्राह्मणानामधि पतिर्विष्णुः क्षत्रियाणामधिपतिब्राह्मणानां ब्राह्मणैराश्रयत'' इत्यादिश्रुतिषु ब्राह्मणानां शिवोपासनस्यैव विधेयत्वात् , “यो वै स्वां देवतामतियजते प्रस्वायै देवतायै च्यवते न परां प्रामोति पापीयान् भवति" (तै. सं. २-५-४) इति श्रुतौ स्वदेवतापरित्यागे प्रत्यवायश्रवणात् । ब्राह्मणानां शिवो देवः क्षत्रियाणां तु माधवः । वैश्यानां तु तथा ब्रह्मा शूद्राणां सुरनायकः ॥ ब्राह्मणो भगवान् रुद्रः क्षत्रियः परमो हरिः। पितामहस्तथा वैश्यो वृषलस्तु पुरन्दरः॥ इत्यादिपाराशर्यपुराणादिषु वैदिकब्राह्मणानां शिवदेवत्वश्रवणात् , अपामेत्यादिश्रुतेः "आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते' इत्यादिस्मृत्या भूतप्रलयावध्यपेक्षि- तामृतत्वप्रतिपादनतात्पर्यावधारणाच्च । यतोऽसाधारणकारणत्वेन अमृतस्य देवधारण विधीयते, अतः पशुपति- खरूपब्रह्माज्ञानाय वेदान्तवाक्यविचारः कर्तव्यः । “सत्यकामः सत्यसङ्कल्पः सोऽ , ३० श्री क र भा प्ये १-१-१ न्वेष्टव्यः स विजिज्ञासितव्यः" (छां. ८-१-५) "आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' (बृ. २-४-५) इत्यादिषु ब्रह्मजिज्ञासा- विधिः श्रूयते. “प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः" (माण्डूक्य. १-७) इत्यादिश्रुतिष्वात्मन्शब्दस्य परशिवप्रतिपादकत्वदर्श- नान्नान्यार्थकत्वं । अत्र - ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासेति कर्मणि षष्ठी, न शेषषष्ठी. जिज्ञा- साया जिज्ञास्यापेक्षत्वात् । शेषषष्ठीपरिग्रहणेऽपि ब्रह्मणो जिज्ञासाकर्मत्वमुपदिश्यते. सम्बन्धसामान्यस्य विशेषनिष्ठत्वात् । एवमपि ब्रह्मणः प्रत्यक्ष कर्मत्वमुत्सृज्य सामान्य- द्वारेण परोक्षं कर्मत्वं कल्पयतो व्यर्थः प्रयासः स्यात्, प्रधानपरिग्रहे तदपेक्षिता- नामप्यर्थात् सिद्धत्वात्। अत्र सूत्रे कर्तव्येतिपदाध्याहारो नाङ्गीकर्तव्यः, विषयप्रयोजनज्ञानादेव पुरुष- व्यापारसम्भवात् , सिद्धान्ते कर्यान्विते पदशक्त यनङ्गीकाराच्च । नानुवाददोषः, अप्राप्तानुवादे दोषाभावात्. कर्तव्यपदाध्याहारमात्रेण कथमनुवाददोषपरिहारः ? "विष्णुरुषांशुयष्टव्योजामित्वाय” इत्यादौ तव्यप्रत्ययेऽप्यनुवाददर्शनात् । अप्रा- तस्यानुवादस्य कर्तव्यपदाध्याहारं विनापि “तत्त्वमसि' (छां. ६-८-७) "अय- मात्मा ब्रह्म' (बृ. २-५-१९) इत्यादिवदनुवादत्वसम्भन्नानुवादपरिहारायाध्या- हारः। न च श्रवणविध्यपेक्षितन्यायविचारार्थत्वादस्य सूत्रस्य श्रुतिसूत्रयोरैकरूप्यार्थ- मध्याहारः, श्रवणविधेरनङ्गीकारात्. विधित्वप्रयोजकरूपसम्पत्त्यभावेन न तावदपूर्व- विधि:. विचारस्य निर्णयहेतुत्वस्य तात्पर्यग्राहकस्य लोकसिद्धत्वात्. न च ब्रह्मसाक्षा- कारहेतुत्वं न प्राप्तमिति वाच्य, विचारमात्रस्य विचार्यनिर्णयहेतुत्वस्य ब्रह्मप्रमाणस्य तत्साक्षात्कारहेतुत्वस्य च प्राप्तौ विचारितवेदान्तज्ञानरूपश्रवणस्य तद्धेतुत्वप्राप्तेः । नापि नियमविधिः, व्यावाभावात्. न च गुरुविरहितविचारो व्यावर्त्यः, “परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठं" (मुं. १-२-१२) इति विज्ञानार्थ विधीयमानगुरूपसदनदृष्टद्वारसम्भवे अदृष्टकल्पनायो- गात्. वेदान्तविचारेणैव विज्ञानार्थः पर्थवस्यतीति खतन्त्रविचारव्यावृत्तेरुपगमविधिनैव सिद्धत्वात् । " १-१-१ च तु स्सू त्री । न परिसङ्ख्याविधिः, साधनान्तरस्य समुचित्य प्राप्त्यभावात्. न च व्यापा- रान्तरस्य निवृत्त्यर्थं यावज्जीवं वेदान्तविचारः कर्तव्यः । न च व्यापारान्तरनिवृत्ति- स्सम्भवतीति वाच्यं, तत्रैव दोषापातात् । किञ्च-संन्यासिनोऽसंन्यासिनो वा व्यापा- रान्तरनिवृत्तिः ? नान्त्यः - अशक्यत्वात्. नाद्यः - सन्यासविधायकवाक्येनैव सिद्धत्वात्. "ब्रह्मसंस्थोऽमृतत्वमेति" इति छान्द्योग्येऽप्यनन्यव्यापारस्यैव मुक्तिसाधकत्वश्रव- णात् , सम्पूर्वकतिष्ठतेस्समाप्तिवाचकत्वस्य "अग्निष्टोमसंस्था” इत्यादौ दर्शनात्, ब्रह्मसंस्थशब्दिताया ब्रह्मणि समाप्तेरनन्यव्यापाररूपत्वात् , “तमेवैकं जानथात्मा- नमन्या वाचो विमुञ्चथ' (मुं. २-२-५) इत्यावणिके कण्ठत एव व्यापारान्तर- निषेधाच्च, “आसुप्तेरामृतेः कलं नयेद्वेदान्तचिन्तया" इति स्मृतेश्च. तस्माद्वि- ध्यन्तरसिद्धस्य व्यापारान्तरनिषेधस्य नात्र त्रैदोष्यमङ्गीकृत्य विधानमङ्गीकर्तव्यं. अत एव “सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विद्यादिवत्" (ब्रह्मसू. ३-४-४७) इत्यधिकरणे कैवल्यचन्द्रोदये परमाराध्याः न चापूर्वविधिः प्राप्तेरनन्योपायतो न च । नियमः परिसङ्ख्या वा श्रवणादिषु सम्भवेत् ॥ इत्याहुः। तस्माच्छ्रवणविध्यभावान्न तदैकरूप्याय लक्षणाध्याहारौ। अस्तु वा श्रवण- विधिः. तथापि न लक्षणाध्याहारौ. सर्वत्र श्रुतिसूत्रयोरैकरूप्यस्यानुमानिकत्वात् । तस्माद्विषयप्रयोजनप्रतिपादनार्थमिदं सूत्र, ब्रह्मज्ञानस्य इप्यमाणतया प्रयोजनत्वं, ब्रह्मणश्च विषयत्वं श्रौतं. इप्यमाणं ब्रह्मज्ञानं न विचारमन्तरेणेति विचारः कर्तव्य इत्युपदिश्यते। सदा ब्रह्मणो न निर्विशेषत्वं—“पराऽस्यशक्ति विविधैव श्रूयते स्वाभा- विकी ज्ञानवलक्रिया च" (श्वे ६-८) इति श्रुतिदर्शनात् जिज्ञास्यब्रह्मणः सदा मूर्तामूर्तत्वं । “वे वाव ब्रह्मणो रूपे" (बृह. २-३-१) “तमादिमध्यान्तविही- नमेकं विभुं चिदानन्दमरूपमद्भुतं । उमासहायं परमेश्वरं प्रभु त्रिलोचनं नीलकण्ठं प्रशान्तं । ध्यात्वा मुनिर्गच्छति भूतयोनि समस्तसाक्षिं तमसः परस्तात्” (कैव. १-७) इत्यादिषूभयव्यपदेशात् ; श्रुतिसङ्कोचे मानाभावात् । ननु—“निर्विशेषब्रह्मज्ञानस्यैव तत्त्वज्ञानत्वात् तदेव पशुपाशमोचकं, न तु सगुणज्ञानं. धर्माणां बाध्यत्वात् ," "अथात आदेशो नेति नेतीति" (. " ३२ श्री क र भा प्ये १-१-१ " २-३-६) “एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वहस्खें" (बृ. ३-८-८) इत्यादिना सर्वधर्मनिषेधश्रवणात् , “एकमेवाद्वितीय" (छो. ६-२-१) “नेह नानास्ति किञ्चन' (बृ. ४-४-१९) इत्यादिनाऽद्वितीयत्वबोध- नात् , “साक्षी चेता केवलो निर्गुणश्च' (श्वे ६-११) इति श्रुतौ गुणनिषेधाच्च. इति चेन्न---नेति नेतीतिवाक्यस्य पूर्ववाक्यप्राप्तमूर्तामूर्तोभयप्रपञ्चनिषेधपर- त्वात् , ब्रह्मधर्माणामनिषिद्धत्वाच्च, तथा च सूत्र-----"प्रकृतैतावत्वं हि प्रतिषेधति ततो ब्रवीति च भूयः' (ब्र. सू- ३-२-२१) इति । अन्यथा आनन्दादीनामपि निषेधः स्यात् । अद्वितीयादिवाक्यानां च “सदेव सोम्येदमग्र आसीत्” (छां. ६-२-१) इति पूर्ववाक्यैकवाक्यतया सृष्टेः पूर्वकाले अद्वितीयत्वपरत्वप्रतीतेः, निर्गुणश्रुतेरपि सत्त्वादिगुणत्रयाभावपरत्वात् , अन्यथा “यस्सर्वज्ञस्सर्ववित्" (मु. २-२-७) इत्यादिवाक्यविरोधाच्च । रेणुकदारुकशङ्गकर्णगोकर्णादिपूर्वाचार्याणां वैदिकानां सृष्टेः पूर्वकाले व्यक्ताव्यक्तोभयप्रपञ्चोत्पत्तेरभावादद्वैतब्रह्मवाक्यानि तद्विषयाणीति तात्पर्यं। तथा च श्वेताश्वतरे— “यदा तमस्तन्न दिवा न रात्रिन सन्न चासच्छिव एव केवलः" (श्वे. ४-१८) अथर्वशिरसि च--"अहमेकः प्रथममासं वामि च भवि- ष्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्तः” (अथर्वशिरः. १) ऐतरेयके- "आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिपत्' (एतरेय. १) इति. सर्ववेदान्तेषु गतिसामान्यन्यायेन ब्रह्मणि सृष्टिपूर्वकाल एवाद्वैतत्वमवगन्तव्यं, सृष्टयु- न्मुखस्य ब्रह्मणः कामनया बहुभावश्रवणात्। तथा च श्रुति:----. "सोऽकामयत बहु स्यां प्रजायेयेति' (ते. आनन्द. ६) इति. निर्भेदवाक्यान्यपि सृष्टेः पूर्वकाले प्रतियोगिसापेक्षभेदस्याभावात्तद्विषयाण्येव. अभेदवाक्यान्यपि “ऐतदात्म्यमिदं सर्व" (छां. ६-८-७) “सर्वो ह्येष रुद्रः” (महाना. अनु. १६) “आत्मैवेदं सर्व” (छा. ७-२५-२) इत्यादीनि स्वेच्छया बहुभावमापन्नस्य ब्रह्मणो विश्वाभेदप- राणि। कार्यकारणयोरभेदश्च मृदादिदृष्टान्तेन, एकविज्ञानेन सर्वविज्ञानप्रतिज्ञया च। “यो मां वेद स सर्वान् देवान् वेद" (अथर्वशिर. १) इत्यथर्वशिरसि शिवतत्त्व ज्ञानेनसर्वविज्ञानसिद्धिरिति सिद्धं । सृष्टेः पूर्वकाले जगदुपादानकारणप्रकृतेस्सत्त्वात् कथमद्वैतमितिचेन्न। तस्या ईश्वरशक्तित्वेन तदभिन्नत्वात्। अयस्कान्तस्य लोहाकर्षणशक्तिवत्। वहेर्दाहशक्ति- , १-१-१ च तु स्सू त्री वच्च प्रकृतिस्ततोऽभिन्ना दृश्यते । तथा च श्रुति:-"देवात्मशक्तिं स्वगुणैर्निगूढां" (श्वे. १-३) इति. “पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानवलक्रि- या च" (श्वे. ६-८) इति च पराशक्तिश्च शिवस्यैवासाधारणीति श्रुत्यागमपुरा- णादिषु प्रसिद्धिः. अतो मुमुक्षुमिरवैदिकजगन्मिथ्यात्वाद्वैतवादो नाङ्गीकर्तव्यः । नेति नेति' (बृह. २-३-६) इत्यादिश्रुतीनां न केवलं निषेधमुखेन निरवयवब्रह्ममात्रनित्यत्वबोधकत्वं. "स्थिरेभिरङ्गैः पुरुरूप उग्रः " (ऋग्वेद.२-७- १७) इत्यादिश्रुतिष्वप्राकृतपरमशिवलीलादिव्यमङ्गलविग्रहाणामपि नित्यत्वश्रवणात् . सदा शेषशेषित्वव्यवस्थापकसंयुक्ताद्वैतपाञ्चरात्रादिवत् न चाङ्गाङ्गित्वेन वयं सावयव- त्ववादिनः. जीववत्सुखदुःखमोक्तृत्वप्रसङ्गात् , “आकाशवत्सर्वगतश्च पूर्णः इत्यादिश्रुतिशतभङ्गप्रसङ्गाच. सदा घटपटवन्नात्यन्तभेदवादिनः. “येनाश्रुतं श्रुतं भवति" (छां. ६-१-३) इत्यादिप्रतिज्ञादृष्टान्तश्रुतिभङ्गप्रसङ्गात् । न च रज्जुसर्प- वदेकतरमिथ्यात्ववादिनः. सत्यकामः सत्यसङ्कल्पः (छां. ८-१-५) इति श्रुतिसिद्धस्वाभाविकानन्तकल्याणगुणभङ्गप्रसङ्गात् , “ यतो वा इमानि भूतानि जायन्ते" (ते. भृगु. १) इत्यादि श्रुतिविहितजगज्जन्मादिकारणत्वभङ्गप्रसङ्गात् , एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाविधायकश्रुतिविरोधात् , मूर्तामूर्तोभयब्रह्मोपासनावैफ- ल्यप्रसङ्गाच. तस्माद्वयं स्वाभाविकसर्वश्रुतिसमन्वयसिद्धभेदाभेदवादिन इति राधान्तः। ज्ञाज्ञौ द्वावजावीशनीशौ" (श्वे. १-९) “प्रधानक्षेत्रज्ञपतिर्गुणेशः" (श्वे. ६-१६) इत्यादिश्रुतिष्वद्वितीयस्य शिवस्य परब्रह्मणः सर्वज्ञत्वाद्यसाधारणधर्मो- पदेशाच्छुद्धचिद्रूपत्वं. स्वाभाविकाविद्यापाशबद्धत्वाज्जीवस्य किञ्चिज्ज्ञत्वं सर्वानुभव- सिद्धं महदादिजगदुपादानकारणत्वाद्गुणत्रयात्मकप्रकृतेरचिद्रूपत्वं । सर्वाधिष्ठानस्य सर्वव्यापकस्य परमशिवस्य कथं मूर्तामूर्तत्वमितिचेन्न. मूर्त- त्वेन पवनस्य दिगेकदेशवर्तित्वं, अमूर्तत्वेन निखिललोकव्यापकत्वं, प्रधानस्य महदहङ्कारकालाकाशवायुरूपेणामूर्तत्वं, तेजस्सलिलपृथिवीरूपेण मूर्तत्वं च दृश्यत इति. अनन्तशक्तिविशिष्टस्य अघटितघटनासमर्थस्य परशिवस्य किमु वक्तव्यं ? 'विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमः" (तै. सं. ४-५-९) इत्यादिबहु- श्रुतिवाक्यदर्शनात् । शक्तः सङ्कोचभावेन सृष्टेः पूर्व महेश्वरः। निरंशो निर्गुणश्चेति वेदान्तेषु प्रमीयते॥ 5 ३ श्री क र भाष्ये १-१-१ Name शक्तेर्विकासभावेन ह्यनन्तगुणवानिति । प्रोच्यते भगवान् रुद्रः पशुपाशविमोचकः॥ मृर्तामूर्तस्वरूपेण यथा वायुर्विराजते। सदाशिवस्तथा भाति सर्वानुग्रहकारकः ।। मूर्तामूर्तजगपा यथा माया तथा शिवः। मूर्तामूर्तस्वरूपं स्यादिति वेदान्तडिण्डिमः॥ एतद्वेदान्तहृदयमज्ञात्वा मोहिताः परे। श्रुतेरपार्थ कुर्वन्ति लोके पण्डितमानिनः ॥ इत्यादिना शैवागमेषु वेदैकदेशमतनिन्दाश्रवणान्न तद्विद्वत्परिग्राह्यम् । न च तम:प्रकाशवद्भेदाभेदो विरुद्धः किं तदेककालेन वा ? दिवा- रात्रवत्कालभेदेन वा ? नाद्यः, रूपजाति-शब्दार्थ-गुणगुणि-मणिप्रकाशादिष्व- विरोधित्त्वेनैककाले दर्शनात् , द्वैतप्रपञ्चे “धटस्सन् , घटो भाति, घटः प्रियः" इत्यत्र नामरूपास्तिभातिप्रियाणामेकत्र द्योतनात् , चिदानन्दाद्यात्मकाद्वैतब्रह्मण्यनृतज- डदुःखस्वभावप्रकृतेः कार्यकारणत्वेन दर्शनात् , तदखीकारे “ न हि दृष्टेऽनुपपन्न नाम" इति न्यायविरोधात् , मरुमरीचिकादिवद्धान्तिमात्रत्वे ह्यर्थसिद्धिक्रियासिद्धि- विरोधाच। न द्वितीयः --" द्वा सुपर्णा" (मु. ३-१-१) इत्यादिश्रुत्यनुभवदर्शनात् । संसारदशायां जीवब्रह्मणोर्मेदः, “तत्त्वमसि" (छां. ६-८-७) इत्याद्यनेकश्रुत्यनु- भवदर्शनान्मोक्षदशायामभेदश्च युक्त एव । सत्यकामः" इति श्रुतौ शिवस्य परब्रह्मणः सृष्टिस्थितिप्रलयतिरोधानानुग्रहरूपकामस्य सत्यत्वेन व्यवस्थापनात् , ऐन्द्र- जालशुक्तिरजतवत्प्रपञ्चस्य न व्यवहारमात्रसत्यत्वं । न चाध्यासोपपत्तिः, कारणसत्यत्वेन कार्यसत्यत्वमिति नियमात् . निर्विशे- षस्य निष्क्रियस्य ब्रह्मणो जिज्ञास्यत्वायोगात्. तत्रारोपितप्रधानसत्त्वगुणप्रतिबिम्बितमि- ध्याभूतेश्वरशबलब्रह्मणो जिज्ञास्यत्वं युक्तमितिचेन्न-" यन्मनसा न मनुते येना- हुमनो मतं । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते" (केन. १-५) इत्या- दिश्रुतेः, पूर्ववाक्योपात्तवागिन्द्रियाद्यग्राह्यत्वप्रतिपादनद्वारा प्रधानवाक्यैकवाक्यतया " १-१-१ च तु स्सू त्री सर्वेन्द्रियसाक्षिभूतब्रह्मस्तुतिपरत्वात् , सगुणोपासनस्याप्युपक्रमादिसिद्धत्वात् , अन्यथा- गारुडमान्त्रिकयोरप्यसम्भवप्रसङ्गाच्च । सगुणब्रह्मत्वेश्वरत्वादिकं कल्पितमितिचेत्तद्विधायकप्रात्यक्षिकवेदवेदा- न्तेतिहासपुराणागमादीनां भक्तिक्रियाज्ञानशास्त्राणां दत्तजलाञ्जलित्वप्रसक्तिः स्यात् . असति कल्पिते अविद्यकेश्वरे कृत्रिमसालग्राम इव भक्तिश्रद्धाविश्वासाः कस्य वा भवेयुः ? कथं कल्पितेश्वरो नानाविधकर्माराधितस्सन् विचित्रफलदाता भवेत् ? “मातृदेवो भव, पितृदेवो भव, आचार्यदेवो भव" (ते. शिक्षा. ११) इत्यादिविधयोऽपि परित्यक्ता इत्यसम्भाष्यत्वमायातं। एवं चैतन्ये अध्यस्तश्वरत्ववि- शिष्टेश्वराद्रज्जुसादिवद्भयमपि न स्यात्. श्रूयते चापरोक्षविद्यावतामपि सूर्यादीनां भयं. “ भीषाऽस्माद्वातः पवते । भीषोदेति सूर्यः" (तै. आनं. ८) इत्यादौ । ज्ञाज्ञौ द्वावजावीशनीशौ” (श्वे. १-९) “अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः" (महाना. अनु. १०.) इत्यादिश्रुतिषु जीव- ब्रह्मणोरजन्यत्वप्रदर्शनेन कल्पितत्ववादो ह्यवैदिकः। किञ्च–निर्विशेषब्रह्मणि किं प्रमाणं प्रवर्तते ? न तावच्छब्दः, शब्दस्य शक्यतावच्छेदकलक्ष्यतावच्छेदकपुरस्सरं शक्तिलक्षणयोः प्रवृत्तेः। नाप्यनुमानं, अनुमानस्य पक्षतावच्छेदकव्यापकतावच्छेदकादिपुरस्सरं प्रवृत्तेः। तदनुकूलतर्काणां च व्यप्तिमूलत्वेन व्याप्यतावच्छेदकादिपुरस्सरं प्रवृत्तेः । निर्विशेषज्ञानस्य संशयविप- र्ययादिनिवर्तकत्वाभावात्. समानप्रकारकसमानविषयकनिश्चयस्यैव विपर्ययादिनिवर्त- कत्वात्. अन्यथा द्रव्यत्वेन घटनिश्चये “गेहे घटोऽस्ति न वा” इति संशयो न स्यात्। " ईश्वरः स्वनिष्ठबाध्यधर्मातिरिक्तधर्माश्रयः ? स्वज्ञानाबाध्यधर्माश्रयो वा ? धर्मित्वात् - घटवत् , आत्मत्वात् - देवदत्तवत् " " सत्यकामत्वादयः न ब्रह्मसाक्षा- कारबाध्याः, ईश्वरेतराबृत्तित्वात् ईश्वरत्ववत्." न चाप्रयोजकत्वं, निर्धर्मके वस्तुनि- साधकप्रमाणसत्त्वासत्त्वाभ्यां “मम माता वन्ध्या" इतिवद्वचनव्याघातेन सर्व- व्यवहारोच्छेदप्रसङ्गस्यैव विपक्षबाधकत्वात्. आत्मा वा अरे द्रष्टव्यः" (बृ. २-४-५) इति श्रुतौ परमात्मसाक्षात्कारफलमनूद्य तत्साधनत्वेन श्रवणं विधीयत इत्यनुपपन्नं "श्रु-श्रवणे-" इति धातोश्शब्दकर्मतया श्रावणज्ञानार्थकत्वात्तस्य चाविधेयत्वादध्ययनविध्यवच्छिन्नवेदाध्ययनादेव श्रावणज्ञानस्य वृत्तत्वात् , न च- - श्री क र भा प्ये १-१-१ . वेदार्थ शृणोति" इत्यादिप्रयोगदर्शनात् अर्थज्ञानेऽपि धातोश्शक्तिरिति वाच्यं, तत्र लक्षणयैवोपपत्तै शक्तिद्वयाकल्पनात् । “वीणानादं शृणोति" इत्यादावर्थज्ञा- नाभावेन वैपरीत्यशङ्कानवकाशात् । अस्तु वा अर्थज्ञानेऽपि शक्तिः -तथापि तदपि च न विधेये, अधीतसा- शाध्ययनस्य विदितपदपदार्थसङ्गतेः “सत्यं ज्ञानमनन्तं ब्रह्म" (ते. आनं. १) इत्यादिवाक्येनैव ज्ञातत्वात्। ननु-." आपातप्रतिपत्तिस्सा, अवधारणात्मकं तु ज्ञानमध्ययनमात्रान्न प्राप्यते” इति चेन्न—तस्यापि भ्रमरकीटवत् स्वाभाविकाविद्यानिवृत्तिपूर्वकगुरुकरुणा- कटाक्षप्राप्तत्वेन विध्यनर्हत्वात् । न च अत एव विचारः श्रवणशब्देन विवक्षित इति वाच्य----विधौ लक्षणापत्तेः । अत्राहुः --" न वा अरे पत्युः कामय पतिः प्रियो भवति" इत्या- रभ्य "आत्मनस्तु कामाय सर्व प्रियं भवति" (बृ. २-४-५) इत्यन्तेन आत्मन एव निरतिशयसुखस्वरूपत्वेन परमपुरुषार्थत्वमुक्त्वा “आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्व विदितं" (बृ. ४-५-६) “एतावदरे खल्व- मृतत्वं" (वृ. ५-५-१५) इत्युपसंहारादात्मज्ञानमेवतत्प्राप्त्युपाय इति निश्चीयते। तथा च तादृशमात्मज्ञानं " द्रष्टव्यः' इत्यनूद्य तत्साधनाकाङ्क्षायां " श्रोतव्यः" इत्यादिना साधनविधिरिति निश्चीयते। शाब्दज्ञाने ह्यसाधारणकारणतया विचार एव लक्षणया विधेयो ह्यवगम्यते. "तं त्यौपनिषदं पुरुषं पृच्छामि " (बृ. ३-९- २६) " नावेदविन्मनुते तं बृहन्तं" (ते. ब्रा. ३-१२-९-७) “ नैषा तर्केण मतिरापनेया" (कठ. १-२-९) इत्यादिना श्रुतिमात्रवेद्यत्वेन प्रतिपा- दिते ब्रह्मणि मानान्तराभावात् , द्रष्टव्य इत्यत्र दर्शनसाधनाकाङ्क्षायां वेदान्तवाक्यमेव तत्साधनं. तच्चाविचारितं न निश्चयाधायकं । मनननिदिध्यासनसहकृतं विचारित- वेदान्तवाक्यमात्मसाक्षात्कारहेतुरित्ययमर्थः सम्पद्यते। न च विधौ लक्षणा काप्यदृष्टचरी “अर्धमन्तर्वेदि मिनोत्यर्ध बहिर्वेदि" इत्यत्र देशविशेषविलक्षणायाः, “ जातपुत्रः कृष्णकेशोऽग्नीनादधीत' इत्यत्र वयो- विशेषलक्षणायाः, “ उच्चै ऋचा क्रियते” इत्यादौ ऋगादिपदेन वेदलक्षणायाः 'यावतोश्वान् प्रतिगृह्णीयात् ' इत्यत्र णिजर्थलक्षणायाः, “नेक्षेतोद्यन्तमा- येत्” १-१-१ च तु स्सू त्री ३७ दित्य " “नार्षेयं वृणीते" इत्यादौ पर्युदासलक्षणायाः, “न कलज भक्ष- " इत्यादि पुरुषार्थनिषेधेषु बलवदनिष्टसाधनतालक्षणायाश्च बहुश उपलब्धेः . तस्माल्लक्षणया विचारविधियुक्तः। ननु—विचारोऽपि विचार्यनिर्णयहेतुत्वेन लोकसिद्धत्वात्कथं विधेय इति- चेन्न. अपूर्वविध्यसम्भवेऽपि नियमविधेरवकाशात्। तथाहि, विधिस्त्रिविधः - अपूर्व- विधिः, नियमविधिः, परिसङ्ख्याविधिश्चेति. तत्र कालत्रयेऽपि मानान्तराप्रप्तस्य प्राप्ति- फलो विधिराद्यः, यथा “त्रीहीन् प्रोक्षति" इत्यत्र विधिव्यतिरेकेण प्रोक्षण केनापि न प्राप्त । पक्षप्राप्तस्य अप्राप्तांशपरिपूरणफलो विधिर्द्वितीयः, यथा “व्रीहीनवहन्ति " इत्यत्र विध्यभावेऽपि पुरोडाशप्रकृतिद्रव्याणां त्रीहीणां तण्डुलहोष्याक्षेपादेवा- वहननं प्राप्यत इति नापूर्वविधिः, किन्त्वाक्षेपान्नखविदलनमपि प्राप्नुयादिति तदानीमप्यवहननप्राप्त्यर्थः. द्वयोरेकत्र नित्यप्राप्तावितरनिवृत्तिफलकविधिस्तृतीयः, यथा-" इमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानीमादत्ते" (तै. सं. ५-१-२) इत्यत्र लिङ्गादेव मन्त्रो रशनाग्रहणे नित्यं प्रामोतीति नापूर्वनियमविधी ; किन्तु लिङ्गाविशेषादश्वाभिधान्यामिव गर्दभाभिधान्यामपि मन्त्रः प्राप्नुयादिति तन्निवृत्त्यर्थः. एवं च “वीहीनवहन्ति" इतिवत् “श्रोतव्यः” इति नियमविधिः . न च व्यावाभावः, शारीरात्मविचारस्य व्यावय॑त्वात्. न च तस्य मोक्षसाधनज्ञाने प्राप्त्य- द्वा सुपर्णा" " द्वे ब्रह्मणी" इत्यादिवाक्यादापातपतिपत्तिदशायां तस्यापि प्राप्तिसम्भवात् । न च वस्तुतस्साधनान्तरप्राप्तावेव नियमविधिः, अपूर्वीय- व्रीहिषु नखविदलनस्याप्राप्तेनियमो न स्यात्. कथञ्चित्तण्डुलीभावमाते तत्प्राप्त्या नियमेऽत्राप्यात्मज्ञानत्वेन जीवात्मविचरप्राप्या परमात्मविचारे नियमविधिरस्तु। इहात्मन्शब्दस्य " इदं सर्व यदयमात्सा" (बृ. ४-५-७) " आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्व विदितं' (बृ. ४-५-६) इत्यादि- प्रकरणपर्यालोचनया परमात्मपरत्वावगमात् , समन्वयसूत्रे एकोरामसिद्धभगवत्पा- दाचार्यैः “श्रोतव्यः' इत्यत्रात्मज्ञानविधिनिराकृतः, न तु ज्ञानोद्देशेन विचार- विधिरिति तदविरोध इति निर्णीयते. तस्माद्विचारविधौ न किञ्चिद्वाधकमित्येवं स्थिते श्रवणविधेरपेक्षिताधिकारिविषयफलत्रयपरमित्यागमिकन्यायेन निर्णीतमिदं सूत्रं अथातो ब्रह्मजिज्ञासा” इति । अत्रानुवादपरिहाराय शास्त्रेषु पुरुषप्रवृत्तिसिद्धये च कर्तव्येति पदमध्याहर्तव्यं. जिज्ञासापदेन विचारो लक्षणीयः । ननु जिज्ञासापदेन भावः श्री क र भाष्ये १-१-१ लक्षणा युक्ता, प्रकृतिप्रत्ययसमुदायस्याशक्ततया समुदायलक्षणानुपपत्तेः, इति चेन्न । सन्प्रत्ययेन जहल्लक्षणया विचारो बोध्यते, प्रकृत्या च साध्यज्ञानमजहल्लक्षणयोच्यते। कैश्चित्—प्रकृतेस्सिद्धज्ञानमात्रपरत्वमङ्गीकृत्य साध्यज्ञानेऽपि जहल्लक्षणैवेत्यु- क्तं. सिद्धतयोपस्थितौ साधनान्वयायोगेन साध्यतयोपस्थितेरावश्यकत्वात् प्रकृतिलक्ष- णाऽऽवश्यकीति लक्षणाद्वयमेव शाम्भवानन्दशिवाराध्याभिप्रेतं। अत्र केचित्-प्रकृतिप्रत्ययसमुदाये एकैव लक्षणा, न च वाक्ये लक्षणा न दृष्टचरी “ अर्धमन्तर्वेदि" इस्यत्र, “ विष भुङक्ष्य” इत्यादौ च दृष्टत्वात्. न च शक्यसम्बन्धाभावः. समुदायशक्त्यभावेऽपि समुदायिशक्यसम्बन्धादेव तदुपपत्तेः. सा चाजहतीति. न च एकरूपेणैकक्रियान्वयाभावान्न चैकस्य लक्षणेति वाच्यं-तस्या अप्रामाणिकत्वात्. " छत्रिणो गच्छन्ति' इत्यत्रापि छत्रित्वेनाच्छत्रित्वेन चैकान्वयि- त्वं न गमनकर्तृत्वेन, “गन्तारो गच्छन्ति " इति प्रसङ्गात्. शाब्दधियोऽवच्छेदक- प्रकारतानियमात्. गन्तृत्वस्यावच्छेदकत्वे मुख्यार्थस्यापि लक्ष्यत्वप्रसङ्गात्. न चेष्टा- पत्तिः. मुख्यार्थसम्बन्धाभावादेतदतिरेकेण मुख्यार्थकल्पनाप्रसङ्गात्. अतो नैकरूपे- णैकक्रियान्वयित्वं. किन्तु छत्रित्वेनाच्छत्रित्वेन च नानारूपेणैव । अत एव " काके- भ्यो दधि रक्ष्यतां" इत्यत्रापि काकत्वाद्याकारेणैव क्रियान्वयः, न दध्युपघातकत्वा- द्याकारण। न च एकवृत्त्युपस्थापितानां परस्परमनन्वयात् विचारज्ञानयोरनन्वयः स्यादिति वाच्यं, तयोभिन्नवृत्युपस्थाप्यत्वात्. मुख्यार्थस्य लक्ष्यत्वाभावेनाजहल्लक्षणा- स्थले सर्वत्र वृत्तिद्वयाङ्गीकारात्. न च सकृदुच्चरितस्य वृत्तिद्वयमव्युत्पन्नं, " गङ्गायां घोषमस्त्यौ" इत्यत्र दृष्टत्वात्. न च तीरस्य बोधने गङ्गापदस्य न व्यापारः --तात्पर्यपर्यवसानात्. ता- त्पर्यपर्यवसानस्यैव बोधकता. तस्मात्समुदाये अजहल्लक्षणायां न किञ्चिद्वाधकं । वस्तु- तस्तु- जिज्ञासापदं तन्त्रणोपात्तं, तत्रैकेन जहल्लक्षणया विचारो बोध्यते. इत- रेण इष्यमाणं ज्ञानमभिधया बोध्यत इति न किञ्चिदनुपपन्नम्. एवमेकलक्षणयैवोप- पत्तौ न लक्षणाद्वयं, गौरवात्. प्रत्ययलक्षणायाः क्वाप्यदृष्टचरत्वाच्च । किञ्च–इष्यमाणज्ञानत्यागेन तस्यैव पुनस्स्वीकारात् वान्तभोजनन्यायप्र- सङ्गः. ज्ञानस्य फलवत्त्वाच्च. अनुपपत्तौ हि साध्यत्वं लक्ष्य, तत्र मोक्षसाधनस्यैव सफलत्वमिति. तदंशोऽपि लक्ष्यते. न चेष्टापत्ति: -तस्यार्थिकत्वकथनविरोधात्.

१-१-१ च तु स्सूत्री यथा- - प्रत्ययानां प्रकृत्यान्वितस्वार्थाभिधायकत्वनिश्चयाच्च. जिज्ञासापदेनेति ग्रन्थविरोधा- चाहुः । वाक्ये तावनैकलक्षणा सम्भवति. शक्यसम्बन्धस्य लक्षणात्वात् शक्यान्वय- बाधे शब्दोपस्थितस्यैव विषयत्वप्रसक्त्या सर्वशक्तिकल्पने गौरवात्. अनन्यलभ्यस्य शब्दार्थत्वात्. शक्यसम्बन्धेनोपस्थितस्यापि तात्पर्यवशाद्विषयत्वमङ्गीक्रियत इति शक्य- भेदे तत्सम्बन्धानामपि भेदान्न लक्षणाया एकत्वं. एवं चार्थवादादिस्थलेऽपि पदाना- मेव वाक्यार्थद्वारा प्राशस्त्यादिलक्षकत्वं प्रत्येकमेव, न तु वाक्ये कदाचियासज्य- वृत्तिलक्षणा. पदानां तदर्थानां तत्सम्बन्धानां च नानात्वे लक्षणाया एकत्वासम्भ- वात्। एवञ्च–वाक्यार्थसम्बन्धेन यत्र वस्त्वन्तरं पदैलेक्ष्यते तत्र वाक्यलक्षणा. " अर्धमन्तर्वेदि" इत्यादौ । तद्भिन्ना पदलक्षणेति शास्त्रे व्यवहारः. एवं स्थिते प्रकृतेऽपि समुदाये नैकलक्षणा. समुदायिशक्यसम्बन्धादेव तदुपपत्ति- रिति वदतां च कथमेकत्वं ? समुदायिनां भेदेन तत्सम्बन्धस्यापि भेदात्. न च - एकप्रतीतिजनकत्वेन लक्षणानामेकत्वं, इष्टापत्तेः. तथा सत्यन्यतरलक्षणयैव विचा- रोपस्थिती लक्षणाद्वयेनापि तदुपस्थित्यङ्गीकारे वैयर्थ्यात् । यत्तु- छत्रिणो गच्छन्ति " इत्यत्र छत्रित्वादिनैवान्वयबोध इति, तच्चि- त्य-"प्राणभृत उपदधाति" सृष्टरुपदधाति" इत्यत्रेव समुदायस्य लक्ष्यत्वात्. छत्रिणो गच्छन्ति " इति च छत्र्यच्छत्रिसमुदायो गच्छतीत्यर्थः, न च बहुवचना- नुपपतिः, “ गङ्गायां घोषमत्स्यौ ” इत्यत्र वृत्तिद्वयवचनानामेकवचनस्यैव साधुत्वोप- पत्ते:. “अदितिः पाशान् ' इत्यत्रेवावयवबहुत्वेन वा साधुत्वात् । न च शक्यसम्बन्धाभाव: -समुदायसमुदायिनोरभेदसम्बन्धात्-तयोर- भेदेऽपि प्रत्यययो वैचित्र्यस्य सर्वसम्प्रतिपत्तेः। शक्यतावच्छेदकभिन्नधर्मेणोपस्थितेरेव लक्ष्यत्वप्रयोजकत्वात्. न च जहल्लक्षणातो भेदप्रसङ्गः – रूपान्तरेणोपस्थितस्यापि वार्थस्य क्रियान्वयात्. “काकेभ्यो दधि रक्ष्यतां " इत्यत्र दध्युपघातकत्वप्रकारक- बोधस्यानुभविकस्य अन्यथोपपादयितुमशक्यत्वाच्च । वस्तुतस्तु-~-यत्र छत्र्यच्छत्रिसमुदायत्वेन रूपेण गमनान्वयप्रतिपत्त्यर्थ " छत्रिणो गच्छति" इति वाक्यप्रयोगः, तत्राजहल्लक्षणया शक्याशक्योपस्थिति- ारा । अत एव गुणाधिकरणे दूर्वासीये-"ऋतं पिबन्ती" इत्यत्र पिबदपिबत्स- . " श्री क र भाष्ये १-१-१ मुदायलक्षणाया अजहल्लक्षणता प्रतिपादिता, एवं च लिङ्गसमवायाधिकरणे उपधान- योगितया गणे स्वार्थोऽप्यन्तर्भूत इति न वृत्तिद्वयविरोध इत्युक्तं कैवल्यप्रकाशे व्या- ख्यातं च परमशिवाराध्यभट्टाचार्येण. " उपधानयोगितया गणस्य लक्ष्य- ता" इति. यदि च वृत्तिद्वयमपि तात्पर्यवशात्सकृदुच्चरितस्याप्यङ्गीकृत्य छत्रित्वाच्छत्रि- त्वप्रकारकबोधेच्छया “ छत्रिणो गच्छन्ति " इति वाक्यमङ्गीकृत " गङ्गायां घोषम- स्यौ” इत्यनेव वृत्तिद्वयव्यापारोऽप्यङ्गीक्रियते; अङ्गीक्रियताम्. न चैतावता उक्तस्थले लक्षणया शक्याशक्योपस्थितिर्वारयितुं शक्येत्यवश्याभ्युपेयत्वात्. अजहल्लक्षणानिरासा- यासवैफल्यमिति दिक्। एवं स्थिते प्रकृतेऽजहल्लक्षणाङ्गीकारे एकवृत्त्युपस्थितयोर्विचारज्ञानयोः वषट्कर्तुः प्रथमभक्षः” इत्यत्रेव उद्देश्यविधेयभावेनन्वयो न स्यात्. दर्शि- तश्च तादृशान्वयः “ज्ञानाय विचारः कर्तव्य" इति परमशिवानन्दाराध्य- स्वामिना शिवज्ञानचन्द्रोदये. न च प्रकृते वृत्तिद्वयमेवाङ्गीक्रियते नाजहल्लक्षणेति वाच्य. तथासत्यजहल्लक्षणोक्तिविरोधात्. "गङ्गायां घोषमत्स्यौ" इत्यादौ वृत्ति- द्वयस्थले अजहल्लक्षणाव्यवहाराभावात् । आस्तां तावज्जहत्त्वाजहत्वविचारः, वृत्तिद्वयाङ्गीकारेऽपि प्रकृते नैकलक्षणया निर्वाहः –तथाहि ज्ञानस्य साध्यत्वोपस्थितिय॑तिरेकेण तावन्न साध्यतयाऽन्वयः, न चेच्छाविषयत्वमात्र साध्यत्वं. अनिच्छाविषयस्यापि दु:खस्य साध्यत्वात्. असाध्य- स्यापि इच्छाविषयत्वात्. विधुरस्यातीतभार्यायामिच्छौत्कट्यदर्शनात्. इष्टसाध्यशब्द- योरपर्यायत्वाच्च । अत एवेष्टत्वेन साध्यत्वानुमानं निरस्त. व्यभिचारस्योक्तत्वात्. अस्तु वा साध्यत्वानुमानं, तथापि प्रकृते नाप्युपयोगः ---वृत्त्युपस्थितस्यैव शाब्दान्वयबोध- विषयत्वनियमात्. अन्यथा विचारेऽपि लक्षणा न स्यात्. इष्यमाणज्ञानसाध्यत्वेन अनुमानादिनोपस्थितस्य अन्वयाद्धीविषयत्वसम्भवात् । किञ्च–प्रत्ययार्थविशेषणत्वेनोपस्थितस्य ज्ञानस्य खातन्त्र्यैणैव तदुपस्थि- तिर्नास्ति. “गौर्नित्या" इत्यादौ गोत्वस्य खतन्त्रोपस्थितये लक्षणाया अङ्गीकारात्, तस्मात् प्रकृत्या साध्यावस्थं ज्ञानं लक्षणीयमेवेति लक्षणाद्वयस्यावश्यकत्वात् प्रत्यय एव विचारलक्षणा युक्तम, न तु समुदाये, एतेन तत्कल्पनाऽपि निरस्ता. एकेन , १-१-१ च तु स्सू त्री ४१ विचारलक्षणाया इतरेणापि साध्यावस्थज्ञानलक्षणाया अप्युक्तक्रमणावश्यकत्वेन पद- द्वयं कल्पयित्वा पदद्वयेऽपि लक्षणाङ्गीकारापेक्षया एकस्मिन् श्रुतपदे प्रकृतिप्रत्यय- लक्षणाद्वयकल्पनात् द्वयोरेव लघुतरत्वात्. विचारलक्षणापि न समुदाये युक्ता। उक्तयुक्तेः प्रकृतेः प्रत्ययस्य वा तल्लक्षकत्वादन्यतरवैयादिति । यत्तु सन्प्रत्ययस्य लक्षकत्वं न दृष्टमिति तन्न । “सक्तून् जुहोति इत्यत्र द्वितीयायाः करणत्वलक्षकत्वस्य, “प्रयाजशेषेण हवींष्यमिधारयति इत्यत्र तृतीयाद्वितीययोः कर्मत्वाधारत्वलक्षकत्वस्य, आख्यातस्य कृत्यर्थकत्ववादिनां रथो गच्छति" इत्यत्र व्वापारलक्षकत्वस्य, फलानुकूलव्यापारार्थकत्ववादिनामपि 'जानाति - इच्छति - द्वेष्टि - यतते” इत्यादौ क्रियानुकूलकृतिव्यापारयोरप्रती- तेः, ज्ञानाद्याश्रयत्वप्रतीतेः, “नश्यति" इत्यादौ च नाशप्रतियोगित्वप्रतीतेराश्रयत्व- प्रतियोगित्वलक्षकत्वस्य च बहुलमुपलब्धेः । गुहाधिकरणपूर्वपक्षे “ऋतं पिबन्तौ इत्यत्र बुद्धिक्षेत्रज्ञसाधारणार्थशतृप्रत्ययस्य कर्तृत्वशक्तस्य कारकत्वमात्रलक्षणाया दूर्वा- सीये प्रतिपादनाच्च । न च प्रत्ययान्तरस्य लक्षकत्वेऽपि सन्प्रत्यये क्वापि लक्षणा न दृष्टेति वाच्यं, “श्वा मुमूर्षति" “ कूलं पिपतिषति" इत्यादौ व्यापारमात्रे लक्षणाया दृष्टत्वात्। अत एव “धातोः कर्मणस्समानकर्तृकादिच्छायां वा" (अष्टा. ३- १-७) इति सूत्रे “आशङ्कायामचेतनेषूपसङ्ख्यानं " इत्युपसङ्ख्यानं चोद- यित्वा “ न वा तुल्यकारणत्वादिच्छया वा प्रवृत्तित उपलब्धेः” इति वार्ति- केन इच्छाकार्ये व्यापारे लक्षणया प्रयोग इत्युक्तरचेतने इच्छावत्तदिच्छाकार्यस्याप्य- भावात् । तत्र "ऋचा - उपमानाद्वा" इति वार्तिकेन इच्छासदृशे व्यापारे गौणः प्रयोग इति पतञ्जलिभाष्ये प्रपञ्चितं। कैयटश्च - तथा सति “गौणमुख्ययो- मुख्य कार्यसम्प्रत्ययः" इति न्यायेन इच्छासदृशे प्रयोगो न स्यादित्याशङ्कय गौणमुख्यन्यायश्च क्वचिल्लक्ष्यानुरोधेनाप्यङ्गीक्रियत इति समादधे । ईक्षत्यधिकरणे कूलं पिपतिषति" इत्यत्र दूर्वासभगवत्पादाचार्यलक्ष- णाया अङ्गीकाराच्च । तस्मात् सन्प्रत्यये लक्षणा नास्तीति वचोरिक्तं । यदपि वान्त- भोजनन्याय इति, तन्न. प्रत्ययस्य विचारलक्षकत्वेन न बोध्यते साध्यता, किन्तु लक्षणया प्रकृत्त्यैवेति बोधकभेदस्वीकारमात्रेण वान्तभोजनन्यायासम्भवात्। साध्यत्व- स्यात्यागेन त्यक्तपुनःखीकाराभावात् । 6 श्री क र भाष्ये १-१-१ यदत्रार्थिकत्वकथनं विरुद्धमिति तदपि न । ज्ञानाय विचारः कर्तव्य " इति ज्ञानं साध्यत्वेनोद्दिश्य साधनं विचारो विधीयते। तत्र सिद्धत्वेनोपस्थितौ साधनाकाङ्- क्षा नेति साध्यतामात्र लक्ष्यते । यावता विना शब्दान्वयापर्यवसानं तावन्मात्रं लक्ष- णीयं । तस्मिन् पर्यवसिते विधेः पुरुषप्रवृतिपर्यवसितत्वात्तस्याश्च निष्फलाया असम्भ- वात् फलवत्त्वसिद्धये मोक्षसाधनत्वं ज्ञानस्य कल्प्यत इत्यार्थिकत्वं । तत्र भवतामेव तु तदृष्टया दुरुत्तरं । ज्ञानस्य प्रत्ययार्थेच्छायां विषयत्वेनान्वये ज्ञानमात्रस्य निष्प्रमा- णत्वेन विषयत्वासम्भवान्मोक्षसाधनब्रह्मज्ञानस्यैवेष्यमाणत्वेन श्रौतत्वप्रसङ्गात् । एवञ्च - इदमप्यपरं प्रत्यये विचारलक्षणायां बीजं । यदाचार्याणां मोक्षसाध- नत्वस्यार्थिकत्वकथनं, अन्यथा उक्तरीत्या श्रौतत्वप्रसङ्गात् । यदपि-प्रत्ययानामित्यादि, तदपि न. अपेक्षितविचारस्य प्रकृत्यर्थज्ञानं प्रति साधनत्वेनान्वयात् । इच्छाया विषय- विषयिभावेनान्वयः, विचारस्य तु साध्यसाधनभावेनेति प्रकृत्यान्वितस्वार्थाभिधाने न कश्चिद्विशेषः। यदपि जिज्ञासापदेन विरोध इति, तन्न. प्रकृतिप्रत्यययोयोरपि लक्षकत्वे पदस्य सकलस्य लक्षकत्वात्तदभिधानोपपत्तेः । ज्ञानस्य प्रकृत्यर्थस्य साध्यत्व- लक्षणाया विचारलक्षणाकथनेनैव कथितप्रायत्वात् तामनभिधाय विचारमनपेक्ष्यति, विचारलक्षणाभिधानोपपत्तेश्च । तस्माल्लक्षणाद्वयमेव परमानन्दाराध्येन निर्णितं। एकोरामसिद्धाराध्यभगवत्पादाचार्यादिभिः स्वीकृतत्वादेतदेव सम्यगुपादेयं । ॥शिवस्य परबह्मत्वकथनं । ननु--" असद्वा इदमग्र आसीत्, ततो वै सदजायत" (तै. आनं. ७) “अमूलमनाधारमिमाः प्रजाः प्रजायन्ते " न कदाचिदनीशं जगत्" इत्यादिना जगतः असत्कारणत्वानादित्वे प्रतिपादिते, तस्मात्तस्य न कत्र- पेक्षिता समुचिता। “ज्योतिष्टोमेन वर्गकामो यजेत" इत्यादौ यागादिकम- णां जीवकत्तृकत्वफलदादृत्वदर्शनात् , चेतनशारीरव्यतिरिक्तेश्वरसद्भावे मानाभावात् , तेन प्रयोजनादर्शनात् , अदृष्टद्वारा जीवानामेव कर्तृत्वाङ्गीकारात् , लोके सुखदुःख- भोक्तृत्वदर्शनात् , परमेश्वरकर्तृकत्वे वैषम्यनैघृण्यापत्त्या ईश्वरत्वभङ्गप्रसङ्गाच्च ईश्वरेण न किञ्चित्प्रयोजनं सिध्यति । किञ्च-~-जडकर्मणां जीवानां च फलदातृत्वासम्भवात् सर्वज्ञेश्वरसद्भावे क्षित्यकुरादिकं सकर्तृकं, कार्यत्वात् घटवत् इत्यनुमानेन ईश्वरस्याङ्गीकारे १-१-१ च तु स्सू त्री ४३ प्राणो ब्रह्म आत्मा वा इदमेक एवाग्र आसीत् " (ऐत. १-१-१) “ब्रह्म वा इदमग्र आसीत् ' (बृ. १-४-१०) “हिरण्यगर्भस्समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ” (तै. सं. ४-१-८) "ओमित्येकाक्षरं ब्रह्म " (गीता. ८-१९) असावादित्यो ब्रह्म" (तै. आर. २-२) “नमस्ते वायो, त्वमेव प्रत्यक्ष ब्रह्मासि" (तै. शिक्षा. १) "गणानां त्वा गणपतिं हवामहे" (तै. सं २- ३-१४) "विश्वसादिन्द्र उत्तरः” (ऋग्वेद. ८-४-१) "एको ह वै नारा- यण आसीत्, न ब्रह्मा नेशानो नापो नाग्निष्टोमौ नेमे द्यावापृथिवी" (महो. १-१) “अथ पुरुषो ह वै नारायणोऽकामयत प्रजास्सृजेयेति, नारायणा- ह्मा जायते नाराणाद्रद्रो जायते" (नारा. १-१) “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं" (छां. ६-९-१) “मनो वै ब्रह्मेति, चक्षुर्वै ब्रह्मेति, श्रोत्रं वै ब्रह्मेति. क ब्रह्म ख ब्रह्म (छां. ४-१०- ०-४) अन्नं ब्रह्म" (ते. भृ. २) इत्यादिना बहुविप्रतिपत्तिदर्शनात् , शिवस्यैकस्यैव कथं ब्रह्मत्वं ? इति चेन्न। 'अग्नीपोमीय पशुमालभेत' इत्यत्र “द्विपदाश्चतुष्पदाश्च पशवः इति श्रुत्या द्विपदां चतुष्पदां च पशुशब्दवाच्यत्वेन निर्देशात् , सन्देहे “ छागस्य वपाया मेदसः" (तै. ब्रा. ३-६-८) इति श्रुत्यन्तरेण छागपशुत्वनिर्णयवत् शिवस्य ब्रह्मत्वं ग्राह्य । अतः यतो वा इमानि भूतानि जायन्ते" (तै. भृ. १) इत्यादिषु जगजन्मादिकारणत्वं ब्रह्मलक्षणमुक्तं परमेश्वरस्य । त्रिगुणात्मक- शक्त्यवच्छिन्नहिरण्यगर्भनारायणकालरुद्रादीनां नेश्वरत्वं । तेषामेकैककर्तृत्वेन जगज्ज- न्मादिकर्तृत्वाभावात् । अत एव सूत्रकारेण “जन्माद्यस्य यतः” इति निर्दिष्टं । ब्रह्मोत्तरखण्डे- यस्याज्ञया जगत्स्रष्टा विरिश्चिः पालको हरिः। संहर्ता कालरुद्राख्यो नमस्तस्मै पिनाकिने॥ इति जगदुत्पत्त्यादीनां प्रयोजककर्तुश्शिवस्यैवश्वरत्वं निर्दिष्टं। किञ्च- मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरं। तस्यावयवभूतैस्तु व्याप्तं सर्व- मिदं जगत्" (श्वे. ४-१०) इति । मायां-प्रकृति कारण विद्यात्, मायिनं तु महे- श्वरं विद्यात् , इत्यनेन मायायाः परमेश्वराधीनत्वमुक्तं । अत एव वशीकृतमायत्वात् स्वतन्त्र इति, तस्यांशभूतैः ब्रह्मविष्णुकालरुद्रादिभिश्चतळ्याप्तं सर्वमिदं जगदित्युक्तं ।

श्री क र भा ष्ये १-१-१ तथा अथर्वशिरसि. देवा ह वै स्वर्ग लोकमगमन् , ते देवा रुद्र- मपृच्छन् को भवानिति । सोऽब्रवीदहमेकः प्रथममासं वामि च भविष्यामि च नान्यः कश्चन मत्तो व्यतिरिक्तः” (अथर्वशिरः. १) इत्यादिना शिवस्यैव - कालिकाबाध्यत्वं सर्वान्तर्यामित्वं सर्वकारणत्वं सर्वशब्दवाच्यत्वं सर्वेश्वरत्वं सर्वात्म- कत्वं ब्रह्मत्वं च प्रतिपादितं । काण्वशाखायां--" यः पृथिव्यां तिष्ठन्” इत्या- दिना पृथिव्याद्यष्टमूर्तिस्वरूपस्यैव ब्रह्मत्वकथनान्नान्यस्याश्शङ्खचक्रविशिष्टदेवताया भूत- भौतिकसृष्टिकर्तृत्वेनेश्वरत्वं । न चावयवव्युत्पत्त्या विष्णोरपि पृथिव्यादिशरीरत्वमन्तर्या- मित्वं च सम्भवतीति वाच्यं. अष्टमूर्तित्वं हि शिवस्यैव प्रसिद्धत्वात् , विष्णोरन्त- र्यामित्वाप्रसिद्धेः । न चोभयोः शिवकेशवयोरन्तर्यामित्वमष्टमूर्तित्वं च वक्तुं युक्तं; उभयोरेकशरीराभावात् । स्वतन्त्रयोरुभयोरपि नियन्तृत्वे जगतामुत्पत्तिस्थितिसंहाराणां- युगपत्सम्भवे विश्वविलयापत्तेः। “सोन्तरादुन्तरं प्राविशत्, दिशश्चान्तरं प्रावि- शत्" (अथर्वशिरः १) “यो रुद्रो अग्नौ यो अफ्सु य ओषधीषु यो रुद्रो विश्वा भुवनाऽऽविवेश तसै रुद्राय नमो अस्तु” (तै. सं. ५-५-९) इत्यादि- श्रुतिशतेषु शिवस्यैव सर्वात्मकत्वसर्वान्तर्यामित्वदर्शनात् । "यो वेदादौ स्वरः प्रोक्तः” इत्यारभ्य इत्यारभ्य “यः परस्समहेश्वरः (महाना. अनु. १०) इत्यन्तेन अकारोकारमकारवाच्यब्रह्मविष्णुरुद्राणां महेश्वरे विल- यः प्रतिपादितः ; तस्मान्नेतरेषां ब्रह्मत्वं । किञ्च----" इशानस्सर्वविद्यानां' इत्यारभ्य “ सदाशिवों" (महाना. अनु. २१) इत्यन्तेन तस्यैव ब्रह्मत्वं प्रणवप्रतिपाद्यत्वं चोक्तं । तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च देवतं। पति पतीनां प्रथमं परस्ताद्विदाम देवं भुवनेशमीड्यं” (श्वे. ६-७) इति श्वेता- श्वतरे ब्रह्मविष्णुरुद्रादिदेवानां नियन्तृत्वेनेश्वरं विदामो-जानीमः, नान्यथेश्वरं जानीम इति निर्णीयते । “सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथि- व्याः। जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः" (ऋग्वेद. ७-४-६) इति ऋग्वेदे बुध्यादिविष्ण्वन्तजगत्कारणत्वं तस्यैवोपपादितं । सोमप्रक- रणपठितत्वान्न सोमलतापरत्वं; अचेतनसोमलतायास्सर्वकारणत्वासम्भवात् । अथर्वशिखायां च-"ध्यायीतेशानं प्रध्यायितव्यं, सर्वमिदं ब्रह्म- विष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्ते सर्वाणि चेन्द्रियाणि सह भूतैर्न कारणं कारणा- “ १-१-१ च तु स्सू त्री नां ध्याता कारण तु ध्येयस्सर्वैश्वर्यसम्पन्नस्सर्वेश्वरश्शम्भुराकाशमध्ये ध्रुवं सर्वाधिकं" इत्युपक्रम्य “शिव एको ध्येयरिशवङ्करस्सर्वमन्यत्परित्यज्य" (अथर्वशिखा. ३) इत्यन्तेन मुमुक्षूणामितरनिषेधपूर्वकं शिवोपासनमेव विहितं। उतामृतत्वस्येशानः" (तै. आर. ३-१२) “ सर्वमिदं शिव एव विजानीमहि शुद्धो निरञ्जनो विभुरद्वयं शिवमेकं शिवमद्वैतं चतुर्थ मन्यन्ते स आत्मा स विज्ञेयः शिवोऽद्वैतः" "एको हि रुद्रो न द्विती- याय तस्थुः" (श्वे. ३-२) “न सन्न चासच्छिव एव केवलः (श्वे. ४-१८) " विश्वाधिको रुद्रो महर्षिः" (महाना. अनु. १०) इत्यादि- श्रुतिभिश्शिवस्याद्वितीयत्वप्रतिपादनाच्छिव एव पर इति निश्चीयते। किञ्च- ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलं । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः॥ (महाना. अनु. १२) इत्यादिना नीललोहितस्य शिवस्य परब्रह्मत्वमुक्त। "प्रपञ्चोपशम शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते" (माण्डूक्य. १-७) " उमासहाय परमेश्वरं प्रभु त्रिलोचन नीलकण्ठं प्रशान्त ध्यात्वा मुनिर्ग- च्छति भूतयोनि समस्तसाक्षिं तमसः परस्तात् " (कैव. १-७) " स ब्रह्मा स शिवस्सहरिस्सेन्द्रस्सोऽक्षरः परमः स्वराट् " (महाना. अनु. ११) इत्या- दिना शिवस्य मूर्तित्रयातीतपरब्रह्मत्वप्रतिपादनात् , तदन्येषां कारणत्वाभावान्नान्येषां ब्रह्मत्वं युक्तं । “अन्न ब्रह्म" इत्यादि तु स्तुतिमात्रमेव । किञ्च-" सर्वो वै रुद्रः" (महाना. अनु. १६) “ सर्व खल्विदं ब्रह्म" (छां. ३-१४-१) “त्रिषु धामसु यद्भोज्यं भोक्ता भोगश्च यद्भवेत् , तेभ्यो विलक्षणस्साक्षी चिन्मात्रोऽहं सदाशिवः॥ मय्येव सकलं जातं मयि सर्व प्रतिष्ठितं, मयि सर्व लयं याति तद्ब्रह्माद्वयमस्म्यहं" (कैव. १-१८) इत्या- दिना हस्तकरपाणिशब्दवत् ब्रह्मात्मशिवशब्दानां पर्यायत्वश्रवणात् , माण्डूक्योपनि- पद उपक्रमे----" सर्व ह्येतद्ब्रह्म अयमात्मा ब्रह्म सोऽयमात्मा" इत्युक्त्वा अन्ते “शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः" (माण्डूक्य. १-७) श्री क र भाष्ये १-१-१ इत्युक्त्वा अद्वितीयब्रह्मप्रकरणे उपक्रमोपसंहारयोरेकार्थप्रतिपादकत्वादुपक्रान्तस्य ब्रह्मण उपसंहारगताद्वैतशिवस्य चाभिन्नत्वोपदेशाच्च जगज्जन्मादिकारणत्वेन परब्रह्मत्वं तस्यैव सिद्धं । अन्यथा शिवब्रह्मात्मादीनां श्रुत्या जगत्कारणत्वप्रतिपादनात्तेषां प्रत्येकमीश्वर- त्वाङ्गीकारे ईश्वरनानात्वप्रसक्त्या सकलमतविरोधः, सकलश्रुतिविरोधश्च स्यात् । एवं सर्ववेदान्तार्थ जैमिन्याचार्यैः स्वकृतवेदपादस्तवे सकलवेदवाक्यानां शिवपरत्वमुक्तं. तथा च चतुर्वेदपारङ्ग तैः ज्योतिथिघण्टानाथभीमनाथभट्टभा- स्करादिभिर्वेदिकैदमार्गप्रतिष्ठापनाचार्यैरपि पाषण्डपाञ्चरात्रबौद्धाद्वैतादिदुर्मतनिराक- रणानन्तरं- महादेवो देवः सकलजगदाराध्यचरण- स्त्रयीमार्गों मार्गः कुमतिमतवृत्तिप्रमथनः। तयोर्यो वा ब्रूते वृजिनमनयोस्तस्य निदधे, शिरस्यप्रिं वादिप्रलयदहनोऽहं नृपसभे!॥ इत्यादिना शिवस्यैव परबत्मत्वं व्यवस्थापित तस्माच्छास्त्रे ब्रह्मजिज्ञासेत्यत्र शिवस्यैव खरूपजिज्ञासेति निर्दिष्ट । एवं ब्रह्मणो यज्जगत्कारणत्वं तच्छिवस्यैवेति सूत्रसन्दर्भरूपे शास्त्रे ब्रह्मेति व्यवहारः। "ब्रह्मविदामोति परं" (कै. आनं. १) "ब्रह्म वेद ब्रह्मैव भव- ति" (मुण्डक. ३-२-९) “शिव एको ध्येयश्शिवङ्करस्सर्वमन्यत्परित्यज्य " (अथर्वशिखा. ३) इत्यत्र शिवङ्करोतीति शिवङ्करः -भावप्रधानो निर्देशः, तस्मादा- त्यन्तिकपाशनिवृत्तिपूर्वकशिवत्वप्राप्तिरेव मुक्तिरित्युपदिश्यते. न च आगन्तुकत्वेना- नित्यत्वात् कथं शिवत्वप्राप्तिरेव मुक्तिरिति वाच्यं । भ्रमरकीटन्यायेन सत्यक्रिमे सत्यभ्रमरत्वप्राप्तिदर्शनात्. सत्यात्मकस्य जलस्य स्वभावनिवृत्तिपूर्वकसत्यमौक्तिकत्वप्रा- प्तिदर्शनात् किमर्थं बन्धमिथ्यात्वकल्पनमिति विवेकिभिर्बोद्धव्यं । ननु-मरुमरीचिकायां भासमानस्यासत्यस्य तोयज्ञानस्य सत्यं मरीचिका- ज्ञानं निवर्तकमिति व्याप्तिबलात् ज्ञानेन सत्यस्य कथं निवृत्तिः ? इति चेन्न, सत्यस्य पूर्वज्ञानस्योत्तरज्ञानेन, स्मृत्या संस्कारस्य, शिवस्मरणेन पापस्य, प्रियस्मरणेन दुःखस्य, पत्यधिकरण संशयस्य पूर्वपक्षनिर्णयेन, पूर्वपक्षस्य च सिद्धान्तेन निवृत्तिदर्शनात् ।

१-१-२ च तु स्सू त्री ४७ ननु--" अजामेकां लोहितशुक्लकृष्णां" (महाना. १०. अनु) इत्यादौ प्रधानस्य जगत्कारणत्वनिर्देशात् , ब्रह्मणो जगत्कारणत्वे विकारित्वप्रसङ्गाच। अथ-अत:-अब्रह्मजिज्ञासा" इति अब्रह्मणः प्रधानस्य जिज्ञासा कर्तव्येति- चेन्न--तज्जिज्ञासाविधायकश्रुत्यदर्शनात् , “ नोपास्यौ प्रकृतिजीवौ" इति श्रुतौ तदुपासनानिराकरणदर्शनात् , प्रधानवनिरधिष्ठानशक्तेरभावाच. प्रधानस्य जगत्का- रणत्वप्रतिपादकश्रुतीनां " शस्त्रं छिनत्ति श्रोत्रं शृणोति" इति वाक्यानामिव तदन्यकर्तृत्वं सूचितं । जडस्य जगत्कारणत्वासंभवात् “मायां तु प्रकृति विद्या- न्मायिन तु महेश्वरं" (श्वे. ४-१०) इत्यादौ मायायाः श्विाधीनत्वदर्शनात् । इति श्रीकरभाष्ये आधे जिज्ञासाधिकरणम्. - ॥ जन्मायधिकरणम् ॥ लक्षणप्रमाणाधीना हि वस्तुसिद्धिः" इति न्यायेन प्रथमं ब्रह्मणः प्राधा- न्यलक्षणार्थमिद सूत्रं प्रदर्श्य निर्विशेषत्वसविशेषत्वसंशयविपर्ययनिराकरणाथै जिज्ञा- स्यस्य ब्रह्मणो लक्षणमाह. जन्मायस्य यतः ॥२॥ इति-" यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद् ब्रह्मेति।" (ते. भृ. १) इति तैत्तिरीये श्रूयतेऽस्य विषयः, प्रयन्ति म्रियमाणानि सन्ति अभिसंविशन्तीति वाक्यार्थः । अत्र पूर्वाधिकरणे सन्दिग्धत्वेन ब्रह्मणो विचार्यत्वसम्भवादाक्षेपसङ्गतिः । सर्वत्र दृष्टान्तप्रत्युदाहरणसङ्गती च सम्भवतः। यथा सन्दिग्धत्वहेतुना न ब्रह्म वि- चार्य, तथा जन्मादीनां जगन्निष्ठत्वेन हेतुना न ब्रह्मणो लक्षणमिति दृष्टान्तसङ्गतिः । अत्र तटस्थलक्षणत्वेन न तथा सम्भवतीति प्रत्युदाहरणसङ्गतिः । जन्म आदिर्यस्येति तद्गुणसंविज्ञानबहुव्रीहिः. अत्र ब्रह्मेति पदमनुवर्तते तच्छब्दस्याध्याहारः। जन्मादि- अस्य -- यतः - इति पदविभागः । जन्मादि - सृष्टिस्थितिलयतिरोधानानुग्रहात्मक कृत्यपञ्चकं अस्य चिदचित्पपञ्चविलासस्य, यतो - यस्मात् खाभाविकानन्तशक्तिविशि- ष्टब्रह्मणः, सम्भवति तद्ब्रह्मेति सूत्रार्थः । , ४८ श्री क र भा प्ये १-१-२ अस्येत्यनेन चाक्षुषप्रत्यक्षविषयीभूतचेतनाचेतनप्रपञ्चस्य कार्यत्वं, यत इत्यनेन ब्रह्मणो जन्मादिपञ्चकृत्यकारणत्वं च निर्दिष्टं । परशिवस्य ब्रह्मणो जगज्जन्मादिपञ्चकृत्या- नां श्रुतिसिद्धत्वाज्जीवानां तदुपासकत्वं विधीयते। कारणस्य ब्रह्मणः कर्तुमकर्तुं च शक्यमेव । अत्र – यतो वेति श्रुतावभिसंविशन्तीत्यनेन आविर्भावतिरोधाने सूचिते। विज्ञाते ब्रह्मणि तटस्थादिलक्षणानुपपत्तिः; अविज्ञाते प्रवृत्तिरेव न स्यात्। अतस्तत्र कथं लक्ष्यलक्षणप्रवृत्तिरिति न शङ्कनीय गुरूपदिष्टशाम्भवदीक्षितस्यापातज्ञानसम्भ- वात् । तन्निश्चयार्थ लक्ष्यलक्षणविचारप्रवृत्तिर्न विरुध्यते। विशयस्तु—कारणत्वं सर्वाधिष्ठानस् यब्रह्मणः ? तत्रारोपितप्रधानसत्त्वगुण- प्रतिबिम्बितकल्पितेश्वरस्य वा ? सर्वाधिष्ठानस्य ब्रह्मणो निर्गुणत्वाज्जगतश्च नित्यत्वा- तन्न सम्भवति । सावयवस्य कल्पितस्य मिथ्याभूतस्य सुतरां न सम्भवति । किञ्च--" ज्ञाज्ञौ द्वावजावीशनीशौ” (श्वे. १-९) “न कदाचिदनी- दृशं जगत्" इत्यादिना जगज्जीवयोरजातत्वनित्यत्वव्यपदेशात् कथं परमेश्वरस्य कार- णत्वं ? कारणत्वे " उत्पत्त्यसम्भवात्" (२-२-४२) इति सूत्रे भगवता सूत्र- कारेण श्रुतिस्मृतिविरुद्धत्वेन जीवोत्पत्तिप्रधानवैष्णवमतस्य निराकृतत्वात् तन्न सम्भ- वति। अकारणत्वे " यतो वा इमानि” (ते. भृगु. १) इत्यादिश्रुतिविरोध: स्यात्। असद्वा इदमग्र आसीत्। ततो वै सदजायत" (ते. आनं ७) सदेव सोम्येदमग्र आसीत्" (छां. ६-२-१) “न सन्न चासच्छिव एव केवलः" (श्वे. ४-१८) इत्यादिश्रुतिषु असत्कारणत्वसत्कारणत्वसदसद्व्यतिरिक्त- परशिवकारणत्वश्रवणात् बहुविप्रतिपत्तिदृश्यते। -exam पूर्वपक्षस्तु-न च परमेश्वरस्य जगत्कारणत्वं, निर्गुणत्वात्। तथात्वे जग- द्विलक्षणत्वेन ? तदन्तर्यामित्वेन वा ? साकारस्य ? निराकारस्य वा ? नाद्यः सर्वव्यापकत्वमङ्गप्रसङ्गात्, निरुपाधिकत्वेन निराधारत्वेन च कुलालकुविन्दादिभ्यो घटपटाद्युत्पत्तेरसम्भवाच्च । न द्वितीयः -घटादिवत्परिच्छिन्नत्वप्रसङ्गात् , आधेयत्व- प्रसक्तेश्च । न तृतीयः -सावयवस्य ब्रह्मणः निरवयवाकाशादिकल्पनायोगात्, पूर्व- वत्परिच्छिन्नत्वप्रसङ्गाच्च । नापि चतुर्थः -- निरवयवस्य सावयवप्रपञ्चकल्पनासम्भ- वात्, “निष्कलं निष्क्रिय शान्तं निरवद्य निरञ्जनं" (श्वे. ६-१९) इत्या- दिश्रुतिविरोधप्रसङ्गाच।

१-१-२ च तु स्सू त्री ४९ " किञ्च-सत्यज्ञानानन्दात्मकपरशिवजन्यत्वाङ्गीकारे जगतोऽपि सच्चिदानन्दा- स्मकत्वं स्यात्. तदङ्गीकारे जगतो जन्मादिकं अनृतजडदुःखात्मकत्वं च न स्यात्. मृदादिवद्विकारित्वप्रसङ्गश्च । किञ्च कारणत्वं निमित्तत्वमुपादानत्वं वा? तदुभयत्वं वा ? किञ्च तद्विविधकारणत्वं ब्रह्मणः ? प्रधानस्य वा ? नाद्यः-- निमित्तत्वे “ सर्व खल्विदं ब्रह्म” (छां. ३-१४-१) “ सर्वो वै रुद्रः” (महाना. अनु. १६) इत्याद्यद्वैतश्रुतिभङ्गप्रसङ्गात् । न द्वितीयः एको हि रुद्रो न द्वितीयाय तस्थुः” (श्वे. ३-२) “एकमेवाद्वितीयं" (छां. ६-२-१) इत्यादिश्रुतिसि- द्धाधिष्ठात्रन्तरनिरासासम्भवात्। न तृतीयः -तम:प्रकाशवत्परस्परविरुद्धस्वभाव- त्वात् । प्रधानस्याङ्गीकारे अचेतनत्वादसत्त्वाच। कुलालादिवन्निमित्तोपादानत्वास- म्भवः, विरुद्धत्वात्तदुभयत्वासम्भवः। किञ्च-"आनन्दो ब्रह्मेति व्यजानात, आनन्दाध्येव खल्विमानि भूतानि जायन्ते" (तै. भृगु. ६) “सदेव सोम्येदमग्र आसीत् " (छां. ६-२-१)" न सन्नचासच्छिव एव केवलः” (श्वे. ४-१८) इत्यादिश्रुति- सिद्धानन्दादीनां ब्रह्मत्वे विकल्पस्समुच्चयो वा ? विकल्पत्वे कृतहानाकृताभ्यागम- प्रसङ्गोऽव्यवस्था च। व्यवस्थाविकल्पे अनेकब्रह्मत्वप्रसङ्गश्च। समुच्चय तेषामानन्दा- दीनां धर्मरूपत्वात् , जगज्जन्मादिकारणत्वासम्भवः । किञ्च--क्षीरादिवत्परिणाम्युपादानत्त्वाङ्गीकारे ब्रह्मनिष्ठानन्दादिभङ्गप्रसङ्गः । सुवर्णकुण्डलादिवदारम्भोपादनत्वे पूर्ववद्विकारित्वप्रसङ्गः। प्रागसद्रूपप्रधानादिप्रपञ्चस्य रज्जुसर्पवद्विवर्तत्वाङ्गीकारे शशशृङ्गादीनां किं न स्यात् ? अतः प्रपञ्चस्य नोत्पत्ति- विधीयते। तथापि “ अध्यारोपापवादाभ्यां निष्प्रपञ्चम् प्रपञ्चयते” इति पूर्वाचार्योक्तन्यायमनुसृत्य शिष्यबोधार्थ वेदप्रामाण्यसिद्धयर्थं च “ अजामेकां लोहि- तशुक्लकृष्णां" (श्वे. ८-५) इत्यादिश्रुतावचेतनमायाया जगत्कारणत्वोपदेशात्तस्या एवोपादानकारणत्वं वक्तुं शक्यं । ब्रह्माध्यस्तप्रकृतिसत्त्वगुणप्रतिबिम्बितकल्पितेश्वरस्य वा तत्कारणत्वं ? इति चेडूमः। सर्वाधिष्ठानसच्चिदानन्दषट्स्थलपरशिवब्रह्मण एव जगज्जन्मादिकारणत्वं युक्तं । " अपाणिपादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुः स शृणोम्यकर्णः। अहं विजानामि विविक्तरूपो न चास्ति वेत्ता मम चित्सदाऽहं" (कैवल्य. २४) "आकाशशरीरं ब्रह्म । सत्यात्मप्राणारामं मन आनन्दं" (तै.शिक्षा.६) "सर्वा- 7 ५० श्री कर भाष्ये १-१-२ णि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते । आकाशं प्रत्यस्तं यन्ति" (छां. १-९-१) “आकाशो ह वै नामरूपयोनिर्वहिता ते यदन्तरा तब्रह्म तदमृतं स आत्मा” (छां. ७-१४-१) इत्यादिश्रुतिकदम्बेन निरवयवस्यपि ब्रह्मणो बाह्यकरणनिरपेक्षतया सर्वकर्तृत्वं सूचितं । “आकाशशरीरं ब्रह्म' इत्यत्र आकाशशब्देन तत्वाभाविकचिच्छक्तिरुच्यते; न भूताकाशः; जडस्य तस्य कारण- त्वासम्भवात् । सत्यात्मा-सत्यस्वरूपः, “ ऋतं सत्यं” इति श्रुतेः, प्राणशब्देन सकलजगदधिष्ठानचिच्छक्तिक्यपदिश्यते. तस्यां रमते यः स प्राणारामः। मनश्श- ब्देन पराशक्तिरुच्यते. तस्यामानन्दो यस्य । अनेन बाह्यकरणनिरपेक्षता सूचिता । निरवयवस्य वायोवृक्षादिकम्पनशक्तिदर्शनाच। अनन्तशक्तिविशिष्टस्याघटितघटना- सामर्थ्य किमु वक्तव्यं ? मूर्तस्य प्रभाकरस्य ह्यमूर्तकालकल्पनदर्शनात् । भक्तानुग्रहार्थ वृतकाठिन्यवदिव्यमङ्गलविग्रहधरस्य महेश्वरस्य मूर्तामूर्तप्रपञ्चकल्पनेऽप्यदोषः । " सर्वं खल्विदं ब्रह्म तजलानिति शान्त उपासीत " (छां. ३-१४-१) इति श्रुतौ समुद्रोत्पन्नफेनतरङ्गादिवत् सर्वजगतस्तदुत्पत्तिस्थितिलय- कर्मतया तदात्मकत्वमिति श्रूयते। जगदुपादानपरमेश्वरशक्तेस्तु तदेकदेशवृत्तित्वं, पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवि " (तै. आर. ३-१२) इति श्रुत्या प्रदर्शितं । तस्मान्महाकाशान्तर्भूतपवनादीनामिव परमेश्वरान्तर्भूतजगतां परमे- श्वरकारणत्वं । “लिङ्गमध्ये जगत्सर्वं लिङ्गबाह्यात्परं नहि " इति श्रुत्यापि तथा सूचितं। यतो वा इमानि भूतानि जायन्ते" (तै. भृगु. १) इत्यनेन शिवस्य ब्रह्मणो निमित्तकारणत्वं, “ यत्प्रयन्ति" इत्यनेनोपादानकारणत्वं चोपदिश्यते । तस्मादविरुद्धमभिन्ननिमित्तोपादानकारणलं। न त्वेककारणत्वं, नाध्यारोपत्वं, न मिथ्यात्वं च विधीयते। ननु—“ज्ञाज्ञौ द्वावजावीशनीशौ" (श्वे' १-९) इत्यादिना परमेश्वर- वज्जीवस्याप्यजत्वोपदेशात् , “ यतो वा इमानि भूतानि जायन्ते" (तै. भृगु. १) इत्यादिश्रुत्या परमेश्वरस्य पञ्चमहाभूतमात्रकारणत्वमिति चेन्न । सृष्टेः प्राक् खात्मनि कुसूलधान्यवद्वर्तमानजीवानां बहिर्निर्गमनादिकर्तृत्वदर्शनात् , जन्यत्वाजन्यत्वविधा- यकश्रुतीनां न विरोधः । “मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरं । तस्या- वयवभूतैस्तु व्याप्तं सर्वमिदं जगत्" (श्वे. ४-१०) “ममैवांशो जीव- -- १-१-२ च तु स्सू त्री लोके जीवभूतस्सनातनः" (गीता. १५-७) इत्यादिश्रुतिस्मृतिदर्शनात् । शक्तिसङ्कोचतया सृष्टेः प्राक् परमेश्वरस्य निर्गुणत्वात् “निष्कलं निष्क्रिय शान्तं" (श्वे. ६-१९) इत्यादिनिर्गुणश्रुतीनां तत्कालपरत्वं । " स ईक्षां चक्रे" (प्रश्न. ६-३) इत्यादिसगुणश्रुतीनां सृष्ट्युन्मुखपरमेश्वरशक्तिविकासकालपरत्वं । सत्यज्ञाना- नन्दस्वरूपस्य शिवस्य ब्रह्मणो जगत्कारणत्वे मृदादिवद्विकारित्वं स्यादितिचेत्- मायां तु प्रकृति विद्यात् ' (श्वे. ४-१०) इत्यादिश्रुतिषु मायाया जगदुपा- दानत्वं परमेश्वरस्य निमित्तत्त्वं चोपदिश्यत इति न विरोधः। चिदात्मकपरशिवे कथं जडप्रपञ्चकल्पनमिति--- “ यथोर्णनाभिस्सृजते गृह्णते च” (मुं. १-१-७) इत्यादिश्रुतौ चेतनोर्णनाभेरचेतनतन्तूपत्तिदर्शनात् । अघटितघटनाशक्तिविशिष्टपरमेश्वरस्य किमु वक्तव्यं ? तस्माजडचेतनयोः प्रपञ्चपर- शिवयोः कार्यकारणभावस्य, ऐक्यस्य च पूर्वोदाहृतैः “ सर्वं खल्विदं ब्रह्म तज- लानिति शान्त उपासीत" (छां. ३-१४-१) इत्यादिश्रुतिवचनैः प्रतिपादि- तत्वात् स एव वैदिकसिद्धान्त इति घण्टाघोषः। “ अध्यारोपापवादाङ्गीकारे-" सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं" (छां. ६-२-१) तदैक्षत बहुस्यां प्रजायेयेति (छां. ६-२-३) एकोऽहं बहुस्यां प्रजायेय द्यावापृथिवी जनयन् देव एकः” (महाना. अनु १) द्वा सुपर्णा सयुजा सखाया (श्वे. ४-६) “प्रधानक्षेत्रज्ञपतिर्गुणेशः संसारमोक्ष- स्थितिबन्धहेतुः (श्वे. ६-१६) तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यं " (मुण्डक ३-२-८) “ सर्वो वै रुद्रः" (महा. अनु १३) इत्यादि बहुश्रुतिविरोधात् बौद्धादिवद्वेदबाह्यमतप्रवेशः स्यात् । जडाजडयोरेकत्वासम्भवात्प्रपञ्चस्याध्यासिकत्वेन मिथ्यात्वं सम्भवतीति यत् तत्तुच्छं। तथा हि-अन्यत्रान्यधर्मारोपः खल्वध्यासः. तत्र आत्मन्यनात्मप्रपञ्चा- रोपो वा ? अनात्मन्यात्मारोपो वा ? नाद्यः --पूर्वदृष्टसत्यसर्पसंस्कारेण रज्जुसर्पभ्रा- तिरुपपद्यते । तद्वदात्मव्यतिरिक्तसत्यप्रपञ्चानङ्गीकारात् , तदतरिक्तप्रदेशाभावाच । न द्वितीयः -अनात्मन्यात्मारोपे आरोपितात्मखरूपस्य ब्रह्मणो मिथ्यात्वापत्तेः, जड- त्वादिबहुदोषप्रसक्तेश्च । न च पूर्वदृष्टत्वमेव नियामकमिति वाच्यं । बीजान्कुरन्याय- वत्पूर्वपूर्वाध्यासस्योतरोत्तराध्यासहेतुत्वात् अध्यासस्सम्भवति इति चेत्, तीनव- स्थाप्रसङ्गः।

५२ श्री क र भाष्ये १-१-२ किञ्च - अस्म- यत्र यदृष्ट तत्र न तस्यारोपः" इति नियमात् तद्दष्टप्र- पञ्चस्य तस्मिन्नारोपः कथमुपपद्यते ? सपै सर्पत्वारोपासम्भवादनुपपत्तिर्दुर्वारा। अपि च ब्रह्मप्रपञ्चयोरनादित्वे-" यतो वा इमानि भूतानि जायन्ते ” (तै. भृ. १) इत्यादिबहुश्रुतिविरोधात् कार्यकारणत्वप्रयुक्तपौर्वापर्यनियमप्रतिपादकयुक्तिभङ्गप्रसङ्गश्च । दृश्यत्वेन प्रपञ्चस्य मिथ्यात्वाङ्गीकारे ब्रह्मणोऽपि मिथ्यात्वापत्तिः, दृश्यत्वाविशेषात् । दृश्यत्वानङ्गीकारान्नोक्तदोष इति चेत्-लोके ब्रह्मानुभूतिर्न स्यात्। किञ्च " त्प्रत्ययविषयत्वादपरोक्षत्वाच । प्रत्यगात्मप्रसिद्धः” इत्युक्तिविरोधात् नाहम्प्र- त्ययविषयो ब्रह्म, इति चेन्न. जीवब्रह्मणोः भेदानङ्गीकारात्। “कश्चिद्धीरः प्रत्य- गात्मानमैक्षत् ' (कठ. २-१-१) “ तरति शोकमात्मवित् । (छां. ७-१-३) आत्मावा अरे द्रष्टव्यः" (बृह. ४-४-५) " दृश्यते त्वग्रयया बुद्धया (कठ. १-३-१२) " पश्य मे योगमैश्वरं(गीता. ९-५) “शिवात्मक- मिदं सर्वं सदा पश्यन्ति सूरयः" इत्यादिश्रुतिस्मृतिपुराणवचनैर्ब्रह्मदृश्यत्वप्रतिपाद- नाच्च । ब्रह्मणो व्यावहारिकदृश्यत्वाङ्गीकारे निरधिष्ठानभ्रमप्रसङ्गः । तस्मान्नाध्यासोऽ- कीकरणीयः। ननु-"मायामासेन जीवेशौ करोति" इति कल्पितश्रुत्या जगतो मिथ्यात्वमङ्गीक्रियते इति चेन्न। "ज्ञाज्ञौ द्वावजावीशनीशौ" (श्वे. १-९) ममैवांशो जीवलोके जीवभूतः सनातनः” (गीता. १५-७) इत्यादिश्रुति- स्मृतिविरोधप्रसङ्गात् , अचेतनस्य प्रधानस्य चेतनजीवेश्वरकर्तृत्वासम्भवाच्च, “अन्त- वत्त्वमसर्वज्ञता वा” (ब्र. सू. २-२-४१) इति सूत्रविरोधः, कृतनाशाकृताभ्या- " गमप्रसङ्गश्चा परमेश्वरसत्तावशात्प्रधानस्य जगत्कारणत्वमितिचेन्न --.ईक्षत्यधिकरणे "तदै- क्षत" (छां. ६-२-३) इत्यादिश्रुतिप्रामाण्यमङ्गीकृत्य वेदबाह्यत्वेन प्रधानजगत्कारण- त्वमतस्य निराकृतत्वात्। किश्च-मिथ्यात्वं नाम -असत्त्वं? अनिर्वचनीयत्वं ? बाध्यत्वं वा ? नाद्यः -वेदाप्रामाण्यप्रसङ्गात् । न द्वितीयः मौनित्वापत्तेः। न तृतीयः -किमिदं बाध्यत्वं ? त्रैकालिंकनिषेधप्रतियोगित्वं ? 'ज्ञाननिवर्त्यत्वं वा? नाद्य:-प्रपञ्चस्य विद्यमानत्वात्, अर्थसिद्धिक्रियासिद्धिसत्वाच्च । अनादित्वान्न पूर्वकालनिषेधः, अनु- भुज्यमानत्वान्न वर्तमानकालनिषेधः, सङ्कोचरूपेण वेदराशेः प्रलयेऽधि परमेश्वरे - १-१-२ च तु स्सू त्री ५३ सत्त्वान्न भविष्यत्कालनिषेधः, न द्वितीयः-ज्ञानिनां पूर्ववत्प्रपञ्चस्य भासमानत्वात् , तेषां क्षुत्पिपासादिकस्य दृष्टत्वाच्च । न च-दग्धपटन्यायेन जीवन्मुक्तस्य देहेन्द्रियादिभेदज्ञानसम्बन्ध इति वाच्य । मरुमरीचिकादौ भ्रान्तिनाशेऽपि जलत्वेन प्रतीयमानत्वमिव । प्रकृते न वक्तु शक्यं यथा दग्धपटोऽपि पटवद्भासते शीतनिवारकत्वादिक्रियासिद्धयभावात् , लोके मरुमरीचिका जलवद्भासते पिपासाशान्त्यादिधर्माणामयोग्यत्वात् , तद्वज्जीवन्मुक्तानां भेदज्ञानसत्त्वेऽपि शरीरकम्पनक्षुत्पिपासादिकं न सम्बध्येत। लोके दण्डनाशेऽपि तज्जन्यभ्रमणवदविद्यानाशेऽपि तत्कार्यप्रारब्धशरीरादे गैकनाश्यत्वमिति चेन्न. तन्तु- पटादिवदविद्याया उपादानकारणत्वात् , तस्मात्तथा न युक्तं । तथा दूर्वासीये- "अनाद्यविद्यया बद्धं ब्रह्म तत्कालकारणं । स्वाविद्यया संसरति मुक्तिः कल्पितवाक्यतः एवं प्रतारणं शास्त्रं सर्वमाहात्म्यनाशकं । उपेक्ष्यं शिवभक्तैस्तु श्रुतिस्मृतिविरोधतः ॥ फलनाशादिदं तस्य फलं वै मुख्यतस्तमः । ज्ञाननाश्यत्वसिद्धयर्थं तदेव हि निरूपितं । तदन्यथैव संसिद्धं विद्याऽविद्यानिरूपणैः ॥ तन्मायिकत्वकथनं पुराणेषु प्रदृश्यते । तथेन्द्रजालपक्षेऽपि मतान्तरमिदं ध्रुवं । नास्ति श्रुतिषु तद्वार्ता दृश्यमानासु कुत्रचित्॥ वाचारम्भणवाक्यानि तदनन्यत्वबोधनात् । न मिथ्यात्वाय कल्पन्ते शिवोपादानकारणात् ॥ शानार्थमर्थवादश्चेजगत्सृष्टयादिकारिणि । शक्तेरनङ्गीकरणाद्विधिमाहात्म्ययोन तत् ॥ अपवादार्थमेवैतदारोपो वस्तुतो नहि । दृढप्रतीतिसिद्धयर्थमिति चेत्तन्न युज्यते ॥ मुख्यार्थबाधकं नास्ति कार्यदर्शनतश्श्नुतेः। : ऐन्द्रजालिकपक्षेऽपि तत्कर्तृत्वं तदीरितं ॥ मायादीनां च कर्तृत्वं श्रुतिसूत्रैर्न बोध्यते। अकर्तृत्वं च यत्तस्य माहात्म्यज्ञापनाय वै॥

श्री क र भा प्ये १-१-२ विरुद्धमध्यारोपादि न युक्तिस्तस्य कारणं । मायिकत्वं पुराणेषु मोहार्थमुपपद्यते । तस्मादविद्यामायात्वकथनं मोहनाय वै॥ असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरं । अपरस्परसम्भूतं किमन्यत्कामहेतुकं ॥ सेश्वराद्वैतभावे तु सर्वं शिवमयं जगत् । ज्ञानाद्विकल्पबुद्धिस्तु लीयते न स्वरूपतः॥ भिन्नत्वं नैव युजीत शिवोपादानतः क्वचित् । एवं वैदिकसिद्धान्तः सेव्यो नान्य इति श्रुतिः॥” इति, एवमविद्यामायाप्रतिबिम्बितजीवेश्वरवादोऽपि न युक्तः। तथा हि-अस्म- प्रत्ययगोचरश्शारीरस्तु अविद्याप्रतिबिम्बित: ? अन्तःकरणप्रतिबिम्बितो वा ? अविद्या- वच्छिन्नचैतन्यं ? अन्तःकरणावच्छिन्नचैतन्यं वा ? ईश्वरस्तु मायाप्रतिबिम्बितः ? मायावच्छिन्नो वा ? उभयोस्स्वाभाविकत्वं ? औपाधिकल्वं वा ? तदुपाधिस्तु माया ? अविद्या ? अन्तःकरणं वा । न तु स्थूलोपाधिः, परलोकगमनानुपपत्तेः । " कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः" इत्युक्तेः तत्प्रतिबिम्बपक्षोऽपि न युक्तः। ब्रह्मणो नीरूपत्वेन मायाया असत्पदार्थत्वेन तत्प्रतिबिम्बो न स्यात् । न च जलाकाशप्रतिबिम्बवत् , इति वाच्यं। " दृष्टानुसारिणी कल्पना” इति न्यायेन नीरूपस्याकाशस्य प्रतिबिम्बासम्भवात् तत्पतिबिम्बप्रतीतिस्तु भ्रान्तिरेव । जलादौ मूर्तात्मकसूर्यादिप्रतिबिम्बदर्शनात् । अन्यथा वायोरपि प्रतिबिम्बापत्तेः । दर्पणरेखावद्यत्र यदस्ति तत्र तत्प्रतिबिम्बो नास्तीति नियमात्सर्वगतस्य ब्रह्मणस्सर्वग- तमायायां प्रतिबिम्बः कथमुपपद्यते । नच-विभुपदार्थयोस्संयोगासम्भवात्प्रतिबिम्बाभावोऽयुक्त इति वाच्य। संयु- क्तस्यापि प्रभामण्डलस्य तथा तदर्शनात्। "गुहां प्रविष्टौ परमे परायें " (कठ. १-३-१) "गुहां प्रविष्टावात्मानौ हि तदर्शनात् ॥ (ब्र. सू. १-२-११) इत्यादिश्रुतिसूत्राभ्यां जीवेश्वरयोरेकल स्थितेनिर्णीतत्वात् , बिम्बप्रतिबिम्बयोरेकत्र निवेशासम्भवात्तत्यक्षो न युक्तः। किञ्च-मायाऽविद्ययोब्रह्मप्रतिबिम्बौ जीवेश्वरौ। मायाऽविद्यानाशस्तयोर्मोक्षः खलु ? तदङ्गीकारे जीवेश्वरनाश एव मोक्ष इति सम्पद्यते । अतः पाषण्डबौद्धमत- प्रवेश आत्महननमपुरुषार्थ इति मोक्षस्यापुरुषार्थत्वमापद्येत । जीवेश्वरयोरलीकवं १-१-२ च तु स्सू त्री स्यात् । तथात्वे पारलौकिकप्रयत्नं कोऽपि न कुर्यात् । मुमुक्षुर्हि मोक्षार्थ न यतेत। उभयस्वरूपस्य मिथ्यात्वात् , सर्वस्य दैहिकप्रवृत्तिरेव स्यात् । सर्वाप्रवृत्तौ प्रवृत्तिमा- त्रोच्छेदः स्यात् । सर्वेऽपि विधिनिषेधयोमिथ्यात्वाविशेषात् कुत्रापि न प्रवर्तेरन् । तथा सति सन्मार्गोच्छेदश्च स्यात्। जीवस्य प्रतिबिम्बत्वेनालीकत्वात् , “ ऐतदा- त्म्यम्” इत्यारभ्य स आत्मा" इत्यन्तेन तत्त्वम्पदार्थ निरूप्य “न तत्त्व- मसि" इत्येव वदेत् । दर्पणप्रतिफलितवयादिवदर्थक्रियाकारित्वं न सम्भवत्येव । किञ्च- "यो विज्ञाने तिष्ठन् ।" (बृह. ५-७-२२) इत्याद्यन्तर्यामि- बाह्मणविरोधः। निखिलोपाधौ प्रतिबिम्बस्यैकत्वेन जीवैक्याह्वन्धमोक्षसुखदुःखादिव्य- वस्थानुपपत्तेः. तस्मात्प्रतिबिम्बपक्षोऽप्यनुपपन्नः । जडान्त:करणावच्छिन्नचैतन्यस्य जीव- त्वाङ्गीकारे घटपटावच्छिन्नचैतन्यस्यापि जीवत्वमुपपद्येत तस्मादवच्छेद पक्षोऽपि क्तदूषणग्रस्तत्वान्न युक्तः। एकधा बहुधा चैव दृश्यते जलचन्द्रवत् (ब्रह्मबिन्दु. १२) इति श्रुतिरसाधुरेव. पूर्वोदाहृत श्रुतीनां बलिष्ठत्वात् । नहि दृष्टान्ते सर्वसम्भवः" इति न्यायेन ब्रह्मणः सर्वगतत्वे दृष्टान्त उपलभ्यते। 'मायाभासेन जीवेशौ करोति" इति वाक्येन न जीवेशयोः कल्पितत्वमुप- पद्यते "ज्ञाज्ञौ द्वावजावीशनीशौ” (श्वे. १-९) इत्यादिबहुश्रुतियुक्त यनुभव- विरोधात् । मं—शिवं, अयतीति माया, अय-पय-गतौ” इति धातो: प्राप्त्यर्थकत्वात् , “मः शम्भौ धातृचन्द्रयोः” इति निघण्टुश्रवणात् , प्रणवार्थ- विवरणे “अकारो ब्रह्मा, उकारो विष्णुः, मकारो रुद्रः” इति श्रुतेश्च । माया-परशिवशक्तिः, आभासेन परमेश्वरसमप्रकाशेन, जीवेशौ करोति- प्रकटीकरोतीत्यर्थः । अन्यथा सर्वश्रुतिभङ्गप्रसङ्गः। पूर्वोक्तसत्यानन्दादीनां जगत्कार- णत्वे न दोषः। तेषां परमेश्वरस्वरूपत्वात्तद्धर्मत्वाच. अमेौहित्यौष्ण्यप्रकाशवत् । तस्मात्प्रपञ्चस्य कर्तृजन्यत्वं घटादिवद्वक्तुं शक्यं । यद्यपि जन्मादिकं जगन्निष्ठं व्यधिकरणत्वान्न तद्ब्रह्मस्वरूपलक्षणं। तथापि जगत्कारणत्वं परमेश्वरस्योपदेशात्तटस्थलक्षणं । स्वरूपभिन्नत्वे सति व्यावर्तकं तटस्थ- लक्षणं । यद्यप्यव्यभिचाराज्जगज्जन्मादिकं प्रत्येकं लक्षण सम्भवति. तथाप्युत्पादकत्व मातं निमित्ते, अत उत्पत्तिस्थितिग्रहणं न लयग्रहणं । कदाचिदपि निमित्तकारणे न कार्यस्य लयस्सम्भवति । न च तावतैवोपादानत्वलाभादुत्पत्तिस्थितिग्रहणं व्यर्थमिति- वाच्यं । न हुयपादानत्वं सकलधर्मितयोच्यते। किन्तु प्रकृतिविकारन्यायेनाभेद- " - श्री क र भा ष्ये १-१-२ यथा- प्रतिपत्त्यै। भवतु ब्रह्मजगदुपादानं, उत्पत्तिस्थित्योरन्य एवाधिष्ठाता स्यात् , कुम्भ- कार इव कुम्भोत्पत्तौ राज्यवच्च राजावस्थानमिति। प्राशंसिकमुत्पत्तिस्थितिग्रहणमिति। स्वरूपलक्षणं तु " सत्यं ज्ञानमनन्तं ब्रह्म” (ते. आनं. १) इति श्रुतिप्रतिपादितं सत्यादिखरूपत्वं । ननु सत्यत्वादेः परमशिवखरूपाद्भेदेन परमशिव- खरूपलक्षणत्वं, अभेदे वाक्यार्थासिद्धिः ; गुणप्रधानभावापन्नपदार्थसंसर्गो हि सर्वत्र वाक्यार्थः; न चाभेदे तत्सम्भवति, इति चेन्न । यत्र पदार्थप्रमितिः तत्र संयोगो वाक्यार्थः, यत्र पदार्थप्रमितिपरः पदसन्दर्भः, तत्राखण्डपदार्थ एव वाक्यप्रतिपाद्यः । "अस्मिन् ज्योतिमण्डले कश्चन्द्रः” इति प्रश्ने “ प्रकृष्टप्रकाश- श्चन्द्रः" इति वाक्यमखण्डचन्द्रखरूपप्रतिपत्तिपरं । न च प्रकृष्टप्रकाशवैशिष्टयं, वाक्य- प्रतिपाद्यं प्रमेयं, मानान्तरसिद्धत्वात् । नापि चन्द्रत्ववैशिष्टयं, एकव्यक्तिकतया चन्द्र- त्वजातेरभावात् । न च चन्द्रशब्दवाच्यत्ववैशिष्टये, तस्याप्यदृष्टत्वात्। खरूपमात्र प्रश्ने तस्याभिधानानौचित्यात्। वस्तुतस्तु- वाक्यानां सर्वत्र श्रूयमाणपदार्थसंसर्गपरत्वनियमोत्सादनाय पदार्थमात्रनिष्ठत्वमपि क्वचिदस्तीति व्युत्पाद्य । तच्च लक्षणावाच्यं । तत्र लोके पदानां विशिष्टशक्तित्वेन पदार्थः सर्वोऽपि सखण्ड एव, तथापि न दृष्टान्तासिद्धिः. पदार्थ- मात्रनिष्ठत्वे वाक्यस्य दृष्टान्तत्वसम्भवात्। एवं चापि सत्यादिपदान्येकब्रह्मपदार्थनि- ठानि. ब्रह्मपदार्थश्च न विशिष्टः, अभेदश्रुतिसहस्रात् । ननु विशिष्टवाचकैस्सत्यादिपदैः कथमखण्डबोधः ? इति चेत् तल्लक्षणयेति गृहाण। उक्तञ्च शिवाद्वैतप्रकाशके-" उपायस्तु वैशिष्टयं अखण्डचन्द्रप्र- तिपत्तो, तच्च विरोधाचन्द्रे न ज्ञायते, सत्यादिवाक्येत्वनन्तादिपदैवैशिष्टय बाध्यते” इति । एतेन “ सेनावनादिलक्षणस्य नाखण्डार्थकत्वम् , सेनावनादीनां समुदायरूपत्वेनाखण्डार्थत्वाभावादिति न लक्षणामात्रस्याखण्डार्थत्वम् " इति निरस्त। तत्रापि पदार्थमात्रनिष्ठत्वस्याविवादात् । ननु लक्षणयैकत्वपरत्वे सत्यादिवाक्यानामेकेनैव ताहगर्थबोधात्पदान्तरवैयर्थं पर्यायत्वप्रसङ्गश्च इति चेन्न । विशिष्टशक्तानां शक्यार्थेऽपर्यायाणामेव लक्षणयैकार्थपर- त्वस्यार्थवादानां प्राशस्त्यपरत्वस्येवाविरोधात्। न च वैयर्थय, व्यावृत्तिभेदात् । सत्य- पदेनासत्यव्यावृत्तिः, ज्ञानपदेन जडव्यावृत्तिः, अनन्तपदेन परिच्छिन्नव्यावृत्तिरिति । सर्वत्र व्यावृत्तिभेदात् न पौनरुक्तचं।

१-१-२ च तु स्सू त्री ५७ ननु किं व्यावृत्तयोऽपि ब्रह्मभिन्ना अभिन्ना वा ? आये |क्यश्रुत्यनुपपत्तिः, द्वितीये तदेव पदान्तरवैयर्थ्य इति चेन्न। एकस्मिन् प्रतियोग्यनुयोगिकारणव्यापका- दिशब्दवदवैयोपपत्तेः । न हि कारणतादिकं धर्मान्तरं। एवं व्यावृत्तीनां ब्रह्मा- भेदेऽपि प्रतियोगिभेदादवैयर्थ्य । एतदभिप्रायेणैव शिवाद्वैतप्रकाशके सङ्ग्रहः अविशिष्टमपर्यायानेकशब्दप्रकाशितं । एकं वेदान्तनिष्ठितमखण्डं प्रतिपेदिरे॥ इति तस्मात्सत्यत्वादिकं स्वरूपलक्षणमिति सिद्धं । ननु “आधस्य ब्रह्मणः चतुर्मुखस्य, यतो जन्म, तद्ब्रह्म” इति चेन्न । श्रुतियुक्तयनुभवविरोधात्। चतुर्मुखस्याद्यत्वं नाम सर्वकार्यापेक्षया ? चेतनापेक्षया वा? नाद्यः आत्मन आकाशस्मम्भूतः” (तै. आनं १) इति भूतसृष्टेः प्रथममभिधानात्। न च हिरण्यगर्भजननान्तरमेव भूतसृष्टिरिति वाच्यं । समिष्टि- लिङ्गशरीराभिमानिनो हिरण्यगर्भस्य भूतसृष्टयनन्तरं जननावश्यकत्वेन ततः पूर्वमु- त्पत्तौ मानाभावात् । तथापि जनकत्वेऽस्य ज्ञेयब्रह्मलक्षणत्वासिद्धेः, रामकृष्णादेवि चतुर्मुखस्यैव जनकापेक्षया उत्कृष्टतापत्तेश्च. विष्णोरेव हिरण्यगर्भोत्पत्तिरिति विनिगम- काभावात्। 'यो देवानां प्रथम पुरस्ताद्विश्वाधिको रुद्रो महर्षिः। हिरण्यगर्भ पश्यत जायमानं स नो देवः शुभया स्मृत्या संयुनक्तु ॥” (महाना. अनु. ११) अस्यार्थः - महर्षिः - वेदकर्ता यः - सर्वज्ञत्वादिना, विश्वस्मात् - चिद- चित्प्रपञ्चात् , अधिको, रुद्रः - परमश्शिवः, सर्वेषां देवानामिन्द्रादीनां, प्रथम हिरण्यगर्भ - चतुर्मुखं, स्वसङ्कल्पेन प्रकृतिरूपात्मना जायमानं, सकलवेदोपदेशार्थ- मनुग्रहदृष्ट्या पश्यन् , स शिवः नः - अस्मानपि, शुभया - संसारपाशमोचिकया पर- मानन्दखरूपया वेदवेदान्तागमसिद्धया, स्मृत्या-दीक्षया, संयुनक्तु-संयोजय- त्विति तात्पर्य । . यो देवानां प्रभवश्वोद्भवश्च विश्वाधिको रुद्रो महर्षिः। हिरण्य- गर्भ जनयामास पूर्वं स नो बुद्धया शुभया संयुक्तु ॥" (वे. ३-४) इत्यादिना महेश्वरोत्पन्नत्वं हिरण्यगर्भस्यावगम्यते, तस्मात्तदर्थो न विधीयते । 8 श्री कर भाष्ये १-१-२ ननु “एको ह वै नारायण आसीत्, न ब्रह्मा नेशानो नापो नानी- षोमौ नेमे द्यावापृथिवी" (महा. १-१) इति महोपनिषदि नारायणस्यैव सर्वातिशायित्वस्य सृष्टः प्राक सत्ताया दर्शनात् , “नारायणाद्ब्रह्मा जायते नारायणाद्रुद्रो जायते" (नारायण. १-१) इत्यादिना सर्वकारणत्वदर्शनात् , अथ कस्मादुच्यते ब्रह्म वृहान्तो ह्यस्मिन् गुणाः” इत्यादिना तस्यैव पूर्ण- गुणत्वावगमात् , “तदेव ब्रह्म परमं कवीनां" (महाना. अनु. १) “अन्त- स्समुद्रे मनसा चरन्तं" (तै. आर. ३-११) इत्यादिना समुद्रशायित्वादिध- र्माणां विद्वद्र्व्या तस्यैव मुख्यत्वात्, “न सन्नचासच्छिच एव केवलः" (श्वे. ४-१८) "ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्ते" (अथर्वशिखा. १) “सदेव सोम्येदमग्र आसीत् " (छां. ६-२-१) इत्यादिवाक्यानां छागपशुन्यायेन सामा- न्यविशेषयोरेकत्वसिद्धिवत्तत्परत्वस्यैव युक्तत्वात् , गच्छतीति गौः” इति व्युत्पत्त्या नानार्थबोधकत्वेऽपि गवि रूढिवद् ब्रह्मशब्दस्यापि चतुर्मखब्रह्मप्रणवब्राह्म- णादिषु प्रवृत्तत्वेऽपि अनन्तकल्याणगुणविशिष्ट नारायण एव योगरूढत्वाच्च जगज्ज- न्मादिकारणत्वं तस्यैव समुचितं--इति चेट्टमः। विष्णोर्जगत्कारणत्वेऽपि न तद्ब्रह्मलक्षणं, सूक्ष्मसृष्टयनन्तरभाविदेवादि- सृष्टेः पूर्वं तज्जन्मश्रवणात् । विष्णोरुत्पत्तिः ऋग्वेदे (७-५-२९) श्रूयते "विष्षुरित्था परममस्य विद्वान् जातो बृहन्नभिपाति तृतीय, इति. अस्यार्थ:- अस्य- महेश्वरस्य, इत्था-इत्थम्भावेन, विद्वान्-वेत्ता, बृहन् विष्णुः, आदिविष्णुः जातस्सन् तृतीयं-कैलासं, अभिपाति-रक्षति । बृहच्छद्रेन आदिविष्णुरेव व्यपदिश्यते। “नमो विष्णवे बृहते करोमि" (तै. आर. १-१२) "बृहत्ते विष्णो सुमतिं भजा- महे" (ते. ब्रा. २-४-३) इत्यादिषु दर्शनात् , अजातपरमेश्वरमेवमुपस्थितं परि- त्यज्य अनुपस्थितकल्पने मानाभावात् , “ अजात इत्येवं कश्चिद्धीरुः प्रतिपद्यते रुद्र यत्ते दक्षिणं मुखं तेन मां पाहि नित्यं " (श्वे. ४-२१) इति श्वेताश्वत- रोपनिषदि महेश्वरस्यवाजातत्वश्रवणाच शम्भोरादिविष्णुजनकत्वं युक्तमेव। ऋग्वेदे "सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः। जनिताs- ग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णो।" (ऋग्वेद. ७-४-६) इति. "ध्यायीतेशानं प्रध्यायितव्यं सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्ते" (अथर्वशिखा. ३) इत्यादिषु शिवस्यैव सर्वकारणत्वं श्रूयते “शिव एव केवलः" , च तु स्सू त्री (श्वे. ४-१८) इति वाक्यस्य सनातनसृष्टिपरत्वं, “नारायणाब्रह्मा जायते" (नारा. १-१) इति वाक्यस्यावान्तरसृष्टिपरत्वमिति। तदुक्तं वायवीयसंहितायां- त्यस्ते कारणात्मानो जातास्साक्षान्महेश्वरात्। चराचरस्य विश्वस्य सर्गस्थित्यन्तहेतवः॥ पित्रा नियमिताः पूर्वं त्रयोऽपि त्रिषु कर्मसु । ब्रह्मा सर्ग हरिस्त्राणे रुद्रस्संहारणे पुनः॥ तथाप्यन्योन्यमात्सर्यादन्योन्यातिशयार्थिनः। तपसा तोषयित्वा स्वं पितरं चन्द्रशेखरं ॥ लब्धा सर्वात्मता तस्य प्रसादात्परमेष्ठिनः। ब्रह्मनारायणौ पूर्वं रुद्रः कल्पान्तरेऽस्मृजत् ॥ कल्पान्तरे पुनर्ब्रह्मा रुद्रविष्णू जगन्मयः॥ विष्णुश्च भगवान् रुद्रं ब्रह्माणमसृजत्पुनः। नारायणं पुनर्ब्रह्मा ब्रह्माणं च पुनर्भवः॥ इति. (शि. वा. स. पू. भा. ११ अ.) स ब्रह्मा स शिवस्सेन्द्रस्सोऽक्षरः परमः खराट् ” (महाना. अनु. १०) इत्यादिश्रुतिशतेन मूर्तित्रयव्यतिरिक्तस्यैव ब्रह्मत्वोपदेशात् , नारायणाद्युपनि- षत्सु मूर्तित्रयातीतत्वेन नारायणस्य व्यपदेशाभावात् , " अपञ्चोपशमं शान्तं शिव- मद्वैतं चतुर्थं मन्यन्ते, स आत्मा स विज्ञेयश्शिवोऽद्वैतः" (मां. १-७) “ध्यायीतेशानं प्रध्यायितव्यं सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्ते " (अथर्वशिखा. ३) इत्यादिषु शिवस्यैव त्रिमूर्त्यतीतत्वेन व्यवस्थापनाच्च तत्स्यैव ब्रह्मत्वं । आनुशासनिकेऽपि- सोऽसृजद्दक्षिणादङ्गाह्माणं लोकसम्भवं । वामपाश्वातथा विष्णु लोकरक्षार्थमीश्वरः। हृदयात्कालरुद्राख्य.. इत्युपदेशात् , रुद्रोत्पत्तेः कालरुद्रोत्पत्तिपरत्वं । अन्यथा “अजात इत्येवं कश्चि- भीरुः प्रतिपद्यते" (श्वे. ४-२१) इति श्रुतिविरोधात् , न च विष्णोरुत्पत्तिरव- तारपरा। "विष्णुरित्था” इति पूर्वोक्तश्रुति विरोधात् । ॥

कै. १-८) ६० श्री क र भाष्ये १-१-२ किञ्च-अथर्वशिखायां “अकारण कारणं तु ध्येयः' इति तुशब्देन पूर्वोक्तवैलक्षण्यं प्रतिपाद्य शम्भोः परमकारणत्वोपदेशात् , नारायण आसीत्" इति लङन्तेन अनद्यतनभूतभवनक्रियावाचिना भगवतो नारायणस्य प्रथमोत्पत्ति मात्रं प्रतिपाद्यते । “ शक्तेरासीत्पराशरः” इत्यादिवत् छागपशुन्यायेनैव सदा- स्मादिशब्दानां नारायणादिशब्दानामपि शिवपरत्वमेव । "सर्वो वै " इति श्रुतेः " स एव विष्णुस्सप्राणः स कालोऽग्निस्सचन्द्रमाः" इति कैवल्योक्तेः, “अहमेकः प्रथममासं वामि च भविष्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्तः" इत्यथर्वशिरोवचनात् , यानि नामानि गोविन्द तव लोके महान्ति वै। तान्येव मम नामानि नाव कार्या विचारणा॥ इति हरिवंशे कृष्णं प्रति शिववचनात्, जैमिनिभट्टभास्कराचार्यादिभिर्वैदिकैश्चतु- र्वेदतात्पर्यानुसारेण शिवस्यैव परब्रह्मत्वव्यवस्थापनात्. भगवता व्यासेनापि सूतसंहि- तायां सर्ववेदान्ततात्पर्येण शिवे परब्रह्मत्वनिर्देशात्, “ध्यायीतेशानं प्रध्यायि- तव्यं सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्ते" (अथर्वशिख. ३) “सोमः पवते जनिता मतीनां" (ऋग्वे. ७-४-६) "क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः " (श्वे. १-१०) “ ईशानस्सर्वविद्यानामीश्वर- स्सर्वभूतानां ब्रह्माधिपतिब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवों" (महाना. अनु २१) “एको हि रुद्रो न द्वितीयाय तस्थुः य इमांल्लोकानीशत ईशनीभिः" (श्वे. ३-२) “ येषामीशे पशुपतिः पशूनां चतुष्पदामुत च द्विपदाम्" (तै. सं. ३-१-४) प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थ मन्यन्ते (मांडू. १-७) "निधनपतये नमः। निधनपतान्तिकाय नमः (महाना. अनु. १४) “ सर्वभृतदमनाय नमो मनोन्मनाय नमः (महाना. अनु. २१) इत्यादिश्रुतिकदम्बेन परमशिवस्यैव जगज्जन्मादिहेतुत्व व्यपदेशाच्च, ब्रह्मलक्षणं जगज्जन्मादिकारणत्वं शिवस्य निष्प्रत्यूहम् । खशक्तयवच्छिन्नराजसगुणविशिष्टेन भवाभिधानेन सर्वजगन्निर्माणं, सात्त्विक- गुणास्पदमृडाभिधानेन पालनं, तामसावच्छिन्नहराभिधानेन सर्वसंहारं च कुर्वन् शिवः त्रिगुणात्मकप्रकृतेः खचिच्छक्तौ लयं कृत्वा खयं खभावचिच्छक्तचा एक - १-१-२ च तु स्सू त्री ६२ एव भासते। तदुक्तं महिम्नास्तवेऽपि “विपुलरजसे विश्वोत्पत्तौ भवाय नमो नमः" इति । अतएव शैवागमे- सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः। अनन्तशक्तिश्च विभोर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्य ॥ यद्भक्तस्थलमित्याहस्तत्सर्वज्ञत्वमुच्यते । यन्माहेश्वरं नाम सा तृप्तिर्मम शाङ्करि ॥ यत्प्रसादाभिधं नाम तद्बोधो मे निरङ्कुशः। यत्प्राणलिङ्गकं नाम तत्स्वातन्त्र्यमुदाहृतं ॥ यदस्ति शरणं नाम ह्यलुप्ता शक्तिरुच्यते । यदैक्यस्थलमूर्ध्वस्थं ह्यनन्ता शक्तिरुच्यते । एतदङ्गस्थलं देवि गुह्याद्गुह्यतरं परं ॥ इति. सर्वज्ञत्वादिधर्माणां शिवस्यैव सम्भवान्नेतरेषां जगज्जन्मादिकारणमिति सिद्धम् । इति जन्मायधिकरणम् . ma- ॥ शास्त्रयोनित्वाधिकरणम् ॥ जिज्ञास्यब्रह्मणो लक्षणं प्रसाध्य प्रमाणमाह -- शास्खयोनित्वात् ॥३॥ अस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदस्मामवेदः" (बृ. २-४-१०) इत्यादिवाक्यमस्य सूत्रस्य विषयः। शास्त्रं-ऋग्वेदादि. तस्य योनिः कारणं शिवः । “शिवो मामेव पितरः” इति श्रुतेः। अत एव निग- मागमानां प्रामाण्यं । अतो जगज्जन्मादिहेतुः शिव एव. अत्र श्रीत प्रतिज्ञा सङ्गतिः। " शिवो मामेव पितरः” इत्यादौ वेदानां परमेश्वरकारणत्वं “ वाचा विरूपनित्यया" इत्यादौ नित्यत्वं च दर्शितम्। परशिवस्य ब्रह्मणो निगमागमकारणत्वं युक्तं न वेति सन्दिह्यते- अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा। आदौ वेदमयी दिव्या यतस्सर्वाः प्रवृत्तयः॥ इत्यादिस्मृतौ वेदस्य नित्यत्वश्रवणात् , परमेश्वरजन्यत्वे पौरुषेयत्वेनाप्रामाण्यानित्यत्व- प्रसङ्गाच। तस्मात् परमेश्वरवद्वेदानामजन्यत्वम् , कालिकाबाध्यत्वं चेति प्राप्त ब्रमः वेदानां स्वयम्भवत्वे “शिवो मामेव पितरः" इति श्रुतिविरोधात् , सामशाखागतचरणव्यूहे तेषां शरीरगोलवर्णादिनिरूपणात् , पूर्वपूर्वस्योत्तरोत्तर- ज्ञानविषयहेतुत्वात् , तेषां शब्दात्मकगुणत्वेन व्योमकारणत्वात् , “ आत्मन आकाश- स्सम्भूतः” (तै. आ. १) इत्यादिना आकाशपञ्चभूतानां परमेश्वरकारणत्वनिर्दे- शाच कथं वेदानां स्वयम्भवत्वं? तथा च स्मृति:- अष्टादशानामेतासां विद्यानां ब्रह्मवर्मनाम् । आदिकर्ता शिवस्साक्षाच्छूलपाणिरिति श्रुतिः॥ सद्योजातेन ऋग्वेदं वामदेवेन याजुषम्। अघोरेण तथा साम पुरुषेण त्वथर्वणम् ॥

१-१-३ च तु स्सू त्री w " ईशानेन मुखेनैव कामिकाद्यागमांस्तथा। जनयामास विश्वेशः सर्वसिद्धिप्रदायकः॥ विमर्शरूपिणी शक्तिः शिवस्य परमात्मनः। निगमागमरूपा स्यात् सर्वतत्त्वप्रकाशिनी ॥ तस्माद्वेदागमार्थेषु यः कुर्याद्भेदभावनाम्। स सहस्रकुलं धोरे नरके पतति ध्रुवम् ॥ इति परमेश्वरस्य निगमागमादिसर्वविद्याकर्तृत्वप्रतिपादनात् , सृष्टेः प्राक् खात्मविलीनभूतस्वशक्त्यात्मकवेदागमादीन् निश्वसितवदयत्नेन पूर्वपूर्वानुपूर्वीवर्णरूप- रचनया बहिराविष्करोति. तस्मान्निगमागमादीनामपौरुषेयत्वमीश्वरकारणकत्वं च युक्तमेव। जन्यत्वाजन्यत्वविधायक श्रुतीनामतो न विरोधः । ननु “न सन्नचासच्छिव एव केवलः” (श्वे. ४-१८) “नान्यत् किञ्चनमिषत" (ऐत. १-१) " नेह नानास्ति किञ्चन" (बृ. ४-४-१९) न तु तद्वितीयमस्ति" इत्यादिश्रुतिषु द्वितीयवस्तुनिषेधव्यपदेशात्कथं वेदानां नित्यत्वं ? इति चेन्न। सर्वं खल्विदं ब्रह्म " (छां. ३-१४-१) “सर्वो " (महाना. अनु १६) इत्यादिश्रुतिषु चराचरप्रपञ्चस्य ब्रह्मोपादानत्वेन ब्रह्मत्वव्यपदेशात् पूर्वोक्तश्रुतीनां न जगन्मिथ्यात्वपरत्वं। सृष्टेः प्रागपि सङ्कुचित- रूपेण निगमागमात्मकविमर्श रूपपराशक्ते/जान्कुरवत्परमेश्वरे स्थितत्वात् , शक्ति- शक्तिमतोरभेदाच्च। परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबल- क्रिया च " (श्वे. ६-८) इति श्रुत्या परमेश्वरस्य खाभाविकत्वेन शक्तरुपदेशात् , जगन्मिथ्यात्वे श्रुत्यभावात्तदयुक्तं । ननु- शब्दबुद्धिकर्मणां तिक्षणावस्थायित्वेन शब्दात्मकस्य वेदस्य कथं नित्यत्वं इति चेन्न। “कारणनित्यत्वे कार्यनित्यत्वं' इति न्यायेन कारण- रूपसर्ववेदात्मकविमर्शशक्तेनित्यत्वात् , कार्यरूपवेदस्यापि नित्यत्वं निष्प्रत्यूहमेव । किञ्च--- नित्यमुक्तबुद्धशुद्धखभावस्य स्वत:प्रमाणभूतस्य परमाप्तस्य महेश्वरस्य वचनं प्रमाणमेव। " यत् पौरुषेयं तदप्रमाण" इति नियमस्तु रागद्वेषादि- पाशबद्धमानुषविषयक एव। किञ्च- वेदा अपि शाम्भवदीक्षां लब्ध्वा शिव- प्रसादमहिम्ना परमेश्वरानन्तकल्याणगुणस्तुतिपाठककवय इव तन्महिमातिशयं विधि- लक्षणमुखेन स्तुवन्ति। “जगतां पतये नमः नमो हिरण्यवाहवे वै रुद्रः " ६४ श्री क र भाष्ये १-१-३ इत्यादिना स्तुतिं च कुर्वन्ति। तस्मात्परमेश्वरविमर्शात्मकशक्तितया वेदागमानां पर- शिवप्रामाण्ये मुख्यत्वमुपपद्यते। ननु--- " षड्ढोता वै भूत्वा प्रजापतिरिदं सर्वमसृजत। ऋचो यजूंषि सामानि" (ते. ब्रा. २-३-२ ) इत्यादिना चतुर्मुखादेरपि वेदकर्तृ- त्वावगमात्कथं महेश्वरस्यैव तत्कर्तृत्वं ? इति चेन्न। “यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तरी (श्वे. ६-१८) इत्यादिश्रुतौ हिरण्यगर्भो- त्पत्तेः प्रागेव वेदसद्भावावगमात् , हिरण्यगर्भाय सर्ववेदोपदेशकत्वं परमेश्वरस्यैवेति दर्शनाच्च स एव सर्वाधिक इत्युच्यते । तथा च श्रुतिः- "यो देवानां प्रथम पुरस्ताद्विश्वाधिको रुद्रोमहर्षिः। हिरण्यगर्भ पश्यत जायमानं स नो देवः शुभया स्मृत्या संयुनक्तु” (महाना. अनु. १०) इत्यादिना चिदचित्प्रपञ्चाधिकत्वं हिरण्यगर्भोत्पादकत्वं च परमेश्वर- स्यैव निर्दिशति । ननु—सर्ववेदवेदान्तोक्तसकलपदार्थाभिज्ञत्वरूपं हि सर्वज्ञत्वं ? उपमन्यु दधीचिगौतमदूर्वासादीनामपि तद्दर्शनात् , कथं परमेश्वरस्यैकस्यैव ? इति चेन्न- परमेश्वरोपासनावशात् तत्कृपालब्धयत्किञ्चित्सर्वज्ञत्वस्य तेषां सत्त्वान्न विरोधः। खद्योत- प्रभाकरयोस्तजस्त्वेनैकत्वेपि प्रकाशवैलक्षण्यवत् सर्ववस्त्ववभासकश्रुतीनां परमेश्वरकर्तृ- तया तस्यैव सर्वाधिकज्ञानमुपपद्यते। शास्त्रप्रवर्तकापेक्षया शास्त्रप्रणेतृणां विशेषज्ञान- दर्शनात् । किञ्च—सकलजगद्व्यापकत्वेन, सर्वान्तर्यामित्वेन सर्वज्ञत्वं नान्येषां सम्भवति. सर्वज्ञत्वादिषड्डिधधर्माणामनन्यसाधारणत्वात् । ननु--पूर्वसूत्रेणैव जगजन्मादिकारणत्वेन शास्त्रकारणत्वसर्वज्ञत्वादीना- मपि सिद्धत्वात् किमस्य सूत्रस्य प्रयोजनं ? इति चेन्न । पूर्वसूत्रेण “अङ्कुरादिकं सकर्तृकं कार्यत्वाद् घटवत् ," इत्यनुमानेन ब्रह्मप्रामाण्यद्योतनात् , तच्छक्कानिरासा- र्थमेतत्सूत्रप्रवृत्तेस्सम्भवात् भगवता व्यासेन “शास्त्रयोनित्वात् " इति सूत्र निर्दिष्टम्। शास्त्र-निगमागमात्मकं, योनिः--प्रमाणं, यस्य तथात्वात् । न च पुन- रधिकरणान्तरनिरूपणे वाक्यभेदादिदोष इति वाच्यं। सूत्रस्य सूचनात्मकत्वेन १-१-३ च तु स्सू त्री ६५ श्लेषकाव्यवत् वाक्यभेदादिदोषाभावात् पुनरधिकरणान्तरं युक्तं । "तं त्वौपनिषदं पुरुषं पृच्छामि' (बृह ३-९-२६) " नावेदविन्मनुते तं बृहन्त " (तै-ब्रा- ३-१२-९) "नैषा तकेंण मतिरापनेया" (कठ-२-९) "ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलं । ऊर्ध्वरेतं विरूपाक्ष विश्वरूपाय वै नमो नमः (महाना अनु १२) “प्रधानक्षेत्रज्ञपतिर्गुणेशः संसारमोक्षस्थितिबन्धहेतुः श्वे. ६-१६) “सत्यं ज्ञानमनन्तं ब्रह्म" (तै. आ. १) इत्यादिवाक्यान्यस्य विषयः । 'न चक्षुषा गृह्यते नापि वाचा" (मुं. ३-१-८) "तं त्वौपनिषदं पुरुषं पृच्छामि " (बृह. ३-९-२६) " यतो वाचो निवर्तन्ते" (तै.आ.४) इति विषयत्वाविषयत्वविधायकश्रुतिदर्शनाद्ब्रह्मणो वेदान्तवेद्यत्वं युक्तं न वेति संशयः। पूर्वपक्षस्तु-न ब्रह्मणो वेदान्तवेद्यत्वं “न चक्षुषा गृह्यते नापि वाचा" (मुं ३-१-८) " यन्मनसा न मनुते येनाहुमनो मतं" (केन. १-५) यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान्। न बिभेति कुतश्चनेति " (तै. आ. ४) इत्यादि श्रुतिदर्शनात् । प्रपञ्चः सकर्तृकः कार्यत्वाद् धटवदित्यनुमानेन सर्वज्ञत्वादिषड्डिधधर्मावच्छिन्नः परमेश्वरस्साध्यते तस्य प्रमाणान्तरविषयत्वदर्शनान्न वेदान्तशास्त्रैकवेद्यं परं ब्रह्म इति प्राप्ते ब्रूमः। सिद्धान्तस्तु-जगजन्मादिकारणं ब्रह्म उपनिषच्छास्त्रप्रतिपाद्यमेव । नावेदविन्मनुते तं बृहन्तं" (तै. ब्रा. ३-१२-९-७) “नैषा तर्केण मतिरापनेया (कठ. २-९) इत्यादिना ब्रह्मणो मानान्तरनिषेधदर्शनात् , "तं त्वौपनिषदं पुरुषं पृच्छामि ” (बृह. ३-९-२६) इति श्रुत्या उपनि- पन्मात्रवेद्यत्वशासनाच्च वेदान्तशास्त्रानुकूलत्वेन अनुमानस्य प्रामाण्यं न तु वातन्त्र्येण रथमण्टपगोपुरप्रासादादिनिर्माणे नानाकर्तृकत्वदर्शनात् न चानुमानेन ककत्व- सिद्धिः । ब्रह्मनिष्ठसत्यसङ्कल्पसत्यज्ञानानन्दादिखरूपधर्मज्ञानासम्भवप्रसङ्गात् , जगदु- भयकारणत्वासम्भवाच्च ब्रह्मणो वेदान्तवेद्यत्वं निष्प्रत्यूह । “यतो वाचो निवर्तन्ते" (ते. आ. ४) इत्यादिवाक्यानां तन्माहात्म्यज्ञापनार्थत्वं विवक्षित। ब्रह्मविदाप्नोति परं" (तै. आ. १) इत्यादिवाक्यानां वैयर्थ्यप्रसङ्गः। ननु- अग्नेश्शिवस्य माहात्म्यं तामसेषु प्रकल्प्यते। राजसेषु च माहात्म्यमधिकं ब्रह्मणो विदुः ॥ अन्यथा 9 श्री क र भाष्ये १-१-३ सात्त्विकेषु च कल्पेषु माहात्म्यमधिकं हरेः। तेष्वेव योगसंसिद्धा गमिष्यन्ति परां गतिं॥ इति मात्स्ये शिवपुराणानां तामसत्वप्रतिपादनात् , “ सत्त्वात्संजायते ज्ञानं " इत्यारभ्य “बन्ध मोक्षं च या वेत्ति बुद्धि स्सा पार्थ सात्त्विकी' इत्यन्तेन सात्त्विकबुद्धेरेव मुक्तिहेतुत्वदर्शनात्। अग्नेश्शिवस्य माहात्म्य तामस मोहकारकं । तयोरुपासनादेव प्रत्यवायो भवेद्बुवं ।। इति पाञ्चरात्रागमवचनदर्शनाच्च शिवतत्त्वप्रतिपादकपुराणानां तामसत्वं सिद्ध. अत- स्तत्पुराणानामप्रामाण्यात् , तत्प्रतिपादितस्य परमेश्वरस्य वेदान्तवेद्यत्वं कथमुपपद्यते ? इति चेन्न । शिवपुराणानां तामसत्वे प्रात्यक्षिकश्रुत्यभावात् , कल्पितप्रच्छन्नबौद्ध- वाक्यानां प्रामाण्याभावाच्च । किञ्च-तमोगुणविशिष्टदेवताविषयकत्वेन, तमो- गुणविशिष्टव्यासकर्तकत्वेन , तमोगुणावसरजन्यत्वेन वा शिवपुराणानां तामसत्वं ? नाद्यः ---ऋगादि सर्ववेदवेदान्तानामपि रुद्रामिप्रतिपादकत्वेन तेषामपि तामसत्वा- पत्त्या अप्रामाण्यप्रसक्तिसम्भवात् बौद्धागमत्वप्रसङ्गस्स्यात् । न द्वितीयः - व्यासप्रोक्त- विष्णुपुराणादीनामपि तामसत्वं स्यात् । न तृतीयः----सात्त्विकेन विष्णुपुराणकल्पने तामसेन शिवपुराणकल्पने च मानाभावात् , सर्ववेदवेदान्तसारस्यैव पुराणरूपेण व्यासेन प्रपञ्चितत्वाच्च । ननु मात्स्ये----- मात्स्यं कौम तथा लोगं शैवं स्कान्द तथैव च आग्नेयं च षडेतानि तामसानि निवोध मे ॥ अग्नेशिशवस्य माहात्म्य तामसं मोहकारकं ॥इति. यत्र यत्र जगन्नाथं मुकुन्दं विष्णुमव्ययं । वदन्ति तानि शास्त्राणि सात्त्विकानि मतानि वै॥ यत्र यत्र ह्युमानार्थ शंकर भैरवं यम । दुर्गा गणपति कालं वदन्ति यानि तानि च । तामसानि मुनिश्रेष्ठ विविधानि फलनि वै ॥ पञ्च पूजाश्च देवांश्च तथा देवी सरस्वतीं। वदन्ति यानि शास्त्राणि राजसानि मतानि वै॥

१-१-३ च तु स्सू त्री " तं जने इत्यादिमात्स्यहारीतपाञ्चरात्रागमादिवचनेषु शिवपुराणानां तामसत्वव्यपदेशात् कथं तत्प्रतिपाद्यस्य परमेश्वरस्य परब्रह्मत्वं ? संहारस्य रुद्रधर्मत्वेन तामसत्वं तस्य निष्प्र- त्यूह मिति चेन्न। अग्ने शिशवस्य माहात्म्यं तामसं मोहकारकं " इत्यादि- वचनानां मत्स्यपुराणोक्तत्वेन, मत्स्यपुराणस्य तामसपुराणप्रकरणपठितत्वेन तद्वाक्या- नामप्रामाण्यात् । “ब्रह्मेन्द्रसूर्यचन्द्राग्निपरा राजससम्भवाः" इत्यादिना पाञ्च- रात्रागमे अग्ने: राजसत्वनिरूपणात् , मात्स्यपाञ्चरात्रागमवचनानां परस्परविरोधदर्श- नाच द्वयोरप्यप्रामाण्यं सिंद्ध। किञ्च–बाह्मणानां "अग्निरने प्रथमो देवतानां " "यावजीवमग्नि- होत्रं जुहोति " "अर्चत प्राचत" “व्यंबकं यजामहे अन्तरिच्छन्ति रुद्रं परो मनीषया गृभ्णन्ती जिह्वया यो वै स्वां देवता मतियजते” (तै. सं. २-५-४ ) इत्यादिना रुद्रवैश्वानरोपासनमेव कर्तव्यमिति चोदनादर्शनात् , अकरणे प्रत्यवायदर्शनात् “त्वं देवानां ब्राह्मणानामधिपति- विष्णुः क्षत्रियाणामधिपतिः' इत्यादिना स्वदेवतोपासनातिक्रमणे नरकप्राप्त्युप- देशात् , रुद्रवैश्वानरोपासनापरित्यागे वर्णचतुष्टयातीतत्वप्रसङ्गाच्च एतत्कल्पितवाक्या- नां वेदविरुद्धत्वेन वेदवादिभिस्तानि नाङ्गीकरणीयानि। “यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः" (कठ. १-२-२५) “अत्ता चराचरग्रहणात् " (ब्र. सू. १-२-९) इत्यादिश्रुतिसूत्रेषु महारस्य परब्रह्मधर्मत्वेन निर्देशात् , तदनङ्गी- कारे विष्णोरब्रह्मत्वप्रसङ्गाच। रुद्रो वा एष यदग्निः तस्यैते तनुवौ घोराऽ- न्या शिवान्या" 'अघोरेभ्योऽथ घोरेभ्यः' इत्यादिना तस्यैवाघोरमुखेन सृष्टि- स्थितिकर्तृत्वस्य धोरमुखेन संहारकर्तृत्वस्य चोपदेशात् तस्यैव जगज्जन्मादिकारण- त्वेन परब्रह्मत्वं सिद्धं। किञ्च–“याते रुद्र शिवा तनूरघोराऽपापकाशिनी (तै. सं. ४-५- १-१) इत्यादिना परमेश्वरस्य शुद्धसात्त्विकशिवशरीरप्रार्थनादर्शनात् , “प्रपञ्चोप- शमं शान्तं शिवमद्वैत चतुर्थ मन्यन्ते" (मां. १-७ ) “उमासहायं परमे- श्वरं प्रभु त्रिलोचन नीलकण्ठं प्रशान्तं" (कैव. १-७) इत्यादिना शिवस्यैव परमशान्तत्वोपदेशाच्च केवलतामसत्वप्रतिपादकवाक्यानां कालरुद्रपरत्वमेव । काल- रुद्रस्यापि शिवांशत्वेन विष्णोरधिकलं वेदशास्त्रेषु प्रसिद्धं । तथा च श्रुतिः परात्परतरो ब्रह्म यत्परात्परतो हरिः। तत्परात्परतोऽधीशस्तन्मे मनश्शिवसङ्कल्पमस्म ॥ इति.

६८ श्री क र भाष्ये १-१-३ अजामेकां लोहितशुक्लकृष्णां बह्वीं" (श्वे. ४-५ ) इत्यादिश्रुतौ परमेश्वरप्राकृतशक्तेर्गुणत्रयात्मकत्वं निर्दिष्टं । अतस्सत्त्वगुणावलम्बनेन नारायणस्य ब्रह्मत्वे अयुक्तत्वप्रसङ्गगात् अप्राकृतब्रह्मत्वविधायकसर्ववैदिकशास्त्रभङ्गप्रसङ्गः स्यात् . 'शुक्लध्यानपरायणः' इति जाबालोपनिषदि शुक्लशरीररुद्रध्यानस्थैव मुमुक्षूणां विधेयत्वेन दर्शनात् । सूतसंहितायां सूतगीतासु- अस्ति रुद्रस्य विनन्द्रा अन्तस्सत्त्वं बहिस्तमः। विष्णोरन्तस्तमस्सत्त्वं बहिरस्ति रजोगुणः ॥२-४०॥ अन्तर्वहिश्च विरेन्द्रा अस्ति तस्य प्रजापते । रजसा तमसाऽऽक्रान्तौ ब्रह्मनारायणौ खलु ॥२-४१॥ इति. शिवधर्मशास्त्रे- अन्तस्सत्त्वगुणोपेतो बहिस्तामससंयुतः। शुद्धसात्विकइत्युक्त श्शङ्करो लोकशङ्करः ।। अन्तस्तामसंयुक्तो बहिस्सत्त्वगुणान्वितः । शुद्धतामस इत्युक्तो विष्णुस्साक्षाच्छ्रियापतिः ॥ इति निर्देशात्तस्यैव ब्रह्मविष्ण्वांदेरप्यधिकत्वं । शङ्करसंहितायां शिवरहस्यखण्डे- दश शैवपुराणानि सात्त्विकानि विदुर्बुधाः। श्रद्धयानि द्विजवरैस्तेषां धर्मास्तु तत्र यत् ॥ सत्त्वं शुद्धं समादिष्टं सुखज्ञानास्पदं तु यत् । विद्योपदेष्टा योगिभ्यः शुद्धः स्फटिकसन्निभः ॥ न निद्राति शिवः क्वापि ब्राह्मणोधिपतिश्शिवः। ब्रुवन्त्येव पुराणानि ब्राह्मणानां कथाः शुभाः॥ दश शैवपुराणानि हिंसादोषपराणि च । वैष्णवानि च चत्वारि तामसानि मुनीश्वराः॥ क्षत्रियाणां श्रुता धर्मास्तेषु तद्देवता हरिः। तमःकृष्ण उदासीनः कूटकर्मविशारदः॥ निद्रालस्यप्रमादाद्यास्तद्गुणाः परिकीर्तिताः। कृष्णो विष्णुः स्मृतश्शेषशायी भक्तविमोहकः ॥ - १-१-३ च तु स्सू त्री ब्राह्मे तु राजसे वैश्यधर्मेस्सर्वत्र सम्मते । दुःखास्पद रक्तवर्ण चञ्चलं च रजः स्मृतं ॥ गुणत्रयसमायुक्तमाग्नेय सौरमेव च । तस्मच्छैवानि विप्राणां पुराणानि हितानि वै॥ इति शिवपुराणानामेव सात्त्विकत्वोक्तेः। किञ्च-शिवपुराणानां कल्पान्तरप्रसक्ति- रिति चेत् तदसङ्गतमेव । मात्स्ये- पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मणा कृतं । अनन्तरं तु वक्त्रेभ्यो वेदास्तस्य विनिर्गताः । पुराणमेकमेवासीच्छतकोटिप्रविस्तरं ॥ इत्यादिना ब्रह्मकृतब्रह्मपुराणमेव द्वापरान्ते वेदव्यासेन सङ्कोच्य चतुर्लक्षात्मना संक्षेपितमिति प्रतिपादनात्. धर्मसंहितायां- ब्राह्ममेव कृतेचाद्ये पुराणं श्रुतिसम्मतं । अष्टादशविधं तस्य कृतं कोटिप्रभेदतः॥ इति दर्शनाच्च । अत एव शैवपुराणानां कल्पान्तरविषयत्वमित्यसङ्गतं । ननु नारायणस्यैव मत्स्यकूर्मवराहादिरूपेण सकलभूभारनिवर्तकत्वदर्शना- त्परमसात्त्विकत्वं तस्यैवोपपन्नमिति चेन्न। कौमें एकादश्यां तु मध्याह्ने माघमासे महानटः । सर्वलोकहितार्थाय विषं भुक्त्वा ततः शिवः ॥ शिवयोगेन तद्रात्रौ स्थित्वा चन्द्रकलाधरः। परिवेष्टितविष्ण्वादीन् दृष्टवा तत्पादसेवकान् ॥ उपोषितमहाभक्तान् द्वादश्यां नीललोहितः। समुद्रमथनोद्भुतसुधापानार्थमादरात् ॥ आज्ञा चक्रे महादेवस्सर्वलोकभयावहः॥ इत्यादिना परमेश्वरस्य अनन्यसाधारणकालकूटभक्षणान्धकासुरजलन्धरासुरत्रिपुरासुर- व्याघ्रासुरगजासुरशूरपद्मासुरादिमहादानवसंहारपूर्वकभूभारनिवर्तकत्वदर्शनात्, अत एव पुराणागमेषु शैववैष्णवानामेकादशीव्रतावश्यकत्वं दृश्यते। तदुक्तं शिवधर्मशास्त्रे- amerama श्री कर भाष्ये १-१-३ शैववैष्णवयोग्राह्यमेकादश्यामुपोषणं । नन्दीशविष्णुप्रमुखा यतो व्रतमथाचरन् । शेष प्रधान स्मार्तानामेकादश्यामुपोषण । सायं प्रधानं शैवानां वेदमार्गकवर्तिनां ॥ ईति. तथा सिद्धान्तागमे- प्रदोषव्यापिनी शैवी सम्यगेकादशी स्मृता। नान्या शैवैः परिग्राह्या शैवशास्त्रैकशासनात् ॥ इति ॥ वीरागमे च--- सर्वेषां वीरशैवानां श्रतस्माानुवर्तिनां । प्रदोषव्यापिनी ग्राह्या सम्यगेकादशी शिवे॥ शैवव्रतानां सर्वेषां सायं प्राधान्यमेव हि । अन्यथाचरणे देवि प्रत्यवायो महान् भवेत् ॥ इति. किञ्च पद्मपुराणादीनां विष्णुप्रधानत्वेऽपि तत्रापि शिवमाहात्म्यकथनातेषामपि तामसत्वं किं न स्यात्। "त्रैगुण्यविषया वेदा निस्रगुण्यो भवार्जुन" इति गीता- वाक्येन वेदानामपि त्रिगुणात्मकत्वदर्शनान्मूर्तित्रयप्रतिपादकश्रुतीनां गुणत्रयात्मकत्व- मुपपन्नमिति चेन्न। “वाचा विरूपनित्यया" इति श्रुतिदर्शनान्नित्यरूपस्य वेदस्य गुणत्रयात्मकत्वमयुक्त श्रौतविधेर्बलवत्त्वात्। “शिवं प्रशान्तममृतं ब्रह्मयोनि (कैवल्य. १-६ ) इस्यादिना शिवस्य वेदेषु परमसात्त्विकत्वोपदेशात्। वेदानां गुणत्रयात्मकत्वकथनमधिकारिभेदेन स्थूलसूक्ष्मकारणात्मकपरमेश्वरोपासनापरत्वेन सांख्ययोगशास्त्रेषु विवक्षितत्वादन्यार्थो न युक्तः । किञ्च-किमिंद तामसत्वं, तमोगुणजन्यत्वं ? स्वेतरगुणासंसृष्टतमोगुण- जन्यत्वं वा? इतरानभिभूततमोगुणजन्यत्वं ? तमोगुणजन्यत्वविशिष्टत्वं ? तमोविशिष्ट- कर्तृकत्वं ? तमोगुणविशिष्टप्रतिपाद्यकत्वं तमोगुणप्रधानप्रतिपादकत्वं ? अन्यद्वा ? नाद्यः ---गुणत्रयातीतपरमेश्वरनिश्वसितरूपाणां वेदानां अनित्यत्वमोहकत्वपौरुषे- यत्वादिप्रसङ्गात् . सर्वचिदचित्प्रपञ्चस्य गुणत्रयात्मकप्रधानजन्यत्वेन विष्णुपुराणादीना- मपि तामसत्वप्रसङ्गात् । न च तमोमात्रजन्यत्वं, एकस्य अनारम्भकत्वेनासिद्धेः। न द्वितीयः -- सर्वस्य गुणस्य ' गुणान्तरयुक्तस्यैव जनकत्वेन इतरासंसृष्टतमोगुण- - १-१-३ च तु स्तू त्री ७१ , जन्यत्वस्याप्रसिद्धत्वात् । न तृतीयः- "यदा तमस्तन्न दिवा न रात्रि सन्न चासच्छिव एव केवलः" (श्वे.४-१८) इत्यादिश्रुतिसिद्धस्य शिवस्य नित्यशुद्ध- त्वेन प्रकृतेरसिद्धेः। न चतुर्थः अष्टादशपुराणानां कर्ता सत्यवतीसुतः । आख्यानैश्चाप्युपाख्यानैर्गाथाभिः कल्पशुद्धिभिः ।। पुराणसंहितां चक्रे पुराणार्थविशारदः। इति विष्णुपुराणवचनाद्वभ्यासकृतानां सर्वेषां पुराणानामपि तामसत्वाभावात् , अन्यथा त्वदभिमतानामपि तामसत्वप्रसङ्गात् , तुल्यन्यायत्वाच्च । न पञ्चमः - रुद्रस्य संहारकर्तृत्वेन संहारस्य तमोगुणकार्यत्वेन सर्वशास्त्रप्रसिद्धत्वादिति चेन्मैव। विष्णोः संहारकत्वाभावेनानीश्वरत्वप्रसङ्गात् , ' या ते रुद्र शिवा तनू" (तै.सं.४-५- १-१) इति श्रुत्या शिवशरीरस्य तामसत्वनिषेधाच । " त्रैगुण्यविषया वेदाः' (गीता. २-४५) इत्यनेन त्रिगुणात्मकप्रवृत्तिधर्मप्रतिपादकत्वेन गुणवैशिष्ट्यं न युक्त। " तमोगुणप्रचुरेषु कल्पेषु तद्विशिष्टत्वेन ब्रह्मकृतपुराणानि तामसानि, तत्प्रतिपाद्यत्वाच्छिवस्यापि तामसत्वं " इति चेन्न। तामसेषु कल्पेषु चतुर्मुखकृतानां पुराणानामस्मिम् वर्तमाने श्वेतवराहकल्पे अनुवर्तमानत्वे प्रमाणाभावात् , अस्मिन्नपि कल्पे अष्टाविंशतितमेन व्यासेन इदानीं पुराणकरणस्य श्रूयमाणत्वाच्च । तदुक्तं विष्णुपुराणे- वैवस्वतान्तरे तस्मिन् द्वापरेषु पुनःपुनः । वेदव्यासोऽवतीर्णोऽभूदष्टाविंशतिसत्तमः॥ इति. वर्तमानस्य पराशरात्मजस्य व्यासस्य प्रवर्तमानसर्वपुराणकर्तृत्वं च तत्रैव श्रुतं "पुराणसहितां चक्रे पुराणार्थविशारदः" इति । तान्यष्टादशपुराणानि तत्रैवगमयित्वा उत्पत्तिक्रमापेक्षया क्रम उक्तः- 'एतद्वैष्णवसंज्ञं वै पामस्य समनन्तरं" इति. एवं समस्ता अपि वर्तमानकल्प- स्था रामकृष्णाद्यवतारा रघुवंशादिसम्भवत्वात् , दक्षाध्वरध्वंसादीनामेतत्कल्पमध्यस्थ- त्वात् , एतत्कल्पस्थशैववैष्णवप्रतिपादकानामेतत्कल्पजातेनाष्टाविंशतितमेन वेदव्या- ननु- ७२ श्री क र भाष्ये १-१-३ सेन कृतानां पुराणानां परस्परं बलाबलचिन्तायां बहुकालव्यवहितानां तामसादि- ब्रह्मकल्पनोपन्यासो निरर्थकः। ननु-" पुराणकाराणां पुराणकर्तृत्वं ब्रह्मणस्सकाशात्पुरुषार्थानधिगम्यैव " इत्युक्तं सत्यं । तत्रातीतकल्पस्थाः पुराणार्था ब्रह्मणा पुराणकारैश्च तथैव प्रतिपाद्यन्ते यथा पद्मकल्पे मार्कण्डेयस्य परमेश्वरानुग्रहः। ये तु वर्तमानकल्पस्थाः पुराणार्था राम- कृष्णवराहावतारप्रभृतयः तथा कालकूटभक्षणदक्षाध्वरध्वंसादयः तेऽपि एतत्कल्पस्थ- त्वेनैव ब्रह्मणोपदिश्यन्तेः पुराणकारैरपि तथैव प्रतिपाद्यन्ते। तेषां परस्परविरोधे खाभिमतपुराणाधिक्यनिर्णयहेतुत्वं निरर्थकं । बहुकालव्यवहितानामतीतकल्पानां सा- त्त्विकतामसत्वाद्युपन्यासः कुत्र केन सङ्गत इति न जानीमः। नापि षष्ठः ---रुद्र- सम्बन्धिनो घोरशरीरस्य संहारकत्वेन तमोविशिष्टत्वेऽपि तच्छरीरिणः परमेश्वरस्य तमोऽतीतत्वात् । तथाच कैवल्ये- "उमासहायं परमेश्वरं प्रभु त्रिलोचनं नीलकण्ठं प्रशान्तं । ध्यात्वा मुनिर्गच्छति भूतयोनि समस्तसाक्षिं तमसः परसात् ॥ (कै. १-७ ) इति. यद्यपि देवदत्तादौ तमोगुणप्रधानशरीरादिविशिष्टे तामसत्वव्यवहारो दृष्टः। तथापि तत्र तन्मात्रविशिष्टत्वेन तथा व्यवहारः। प्रकृते तु परमेश्वरसम्बन्धिनां तमोऽ- तीतानामलौकिकप्रकाशस्वरूपाणामनेकेषां विग्रहाणां प्रमाणसिद्धत्वान्न तथा। स्थिरेभिरङ्गैः पुरुरूप उग्रो बभ्रुः शुक्लोभिः पिपिशे हिरण्यैः” (ऋग्वेद २-७-१७) इत्यत्र शुक्लेभिरिति शुक्लशब्देन सत्त्वमयत्वमुच्यते "लोहितशुक्ल- (महाना. अनु. १ ) इत्यादिवत्। अन्यथा विष्ण्वाधिक्यवादिनां मते तमोविशिष्टविष्णुप्रतिपादकत्वेन वैष्णवादिपुराणानामपि तामसत्वप्रसङ्गः । कथ- मन्यथा विष्णो भारहरणाय यादवकौरवदैत्यादिसंहारकत्वं ? कथं वा दैत्यव्यामोह- नाय महामोहाख्यपुरुषरूपेण दैत्यव्यामोहकबुद्धजिनादिशास्त्रप्रणेतृत्वं ? तदुक्तं विष्णु- पुराणे- इत्युक्त्वा भगवांस्तेभ्यो महामोहशरीरतः। समुत्पाद्य ददौ विष्णुः प्राह चेदं सुरोत्तमाः॥ मायामोहोऽयमखिलान् दैत्यांस्तान् मोहयिष्यति । वतो वध्या भविष्यन्ति वेदमार्गबहिष्कृताः॥ इति. कृष्णां" १-१-३ च तु स्सूत्रो ७ न हि स्वस्य तामसत्वाभावे महामोहाख्यं प्रति उपादानत्वमुपपद्यते; स्वस्य मोहिनीशरीरस्य तामसत्वात् । ननु-- विष्णोः कार्यार्थ तमोगुणसाहित्येऽपि तस्य सत्त्वेनाभिभूतत्वान्न प्राधान्यं । रुद्रस्य तु तमसाभिभूतत्वात्तद्विशिष्टतया संहारकर्तृत्वेन प्रतिपाद्यत्वमिति सप्तमः पक्षः कक्षीक्रियतां- इति चेन्मैवं । शत्रुसंहारमात्रप्रयोजनप्रवृत्तेषु नृसिंहा द्यवतारेपु तत्प्राधान्येन तामसत्वप्रसङ्गात् , शिवस्य निरस्ततमस्कत्वाद्विपक्षे बाधक- सत्वाच्च। नान्त्यः -यस्संहारकर्ता स तामस: -तस्यापि कश्चित्संहारकोऽस्ति न वा ? अस्ति चेत्तामसत्वेपि स एव सर्वाधिकः, सर्वसंहारस्वतन्त्रत्वात् । नास्ति चेदयमेव तामसस्सर्वाधिक इति तामसत्वं सर्वसंहारकर्तृत्वं सर्वाधिकत्वेन व्याप्तमिति विरुद्धो हेतुः। तस्माद् रुद्रस्सर्वाधिकः सर्वसंहर्तृत्वात् । व्यतिरेकेण जीववत् , न चाप्रयोजको हेतुः। प्रबलदुर्बलभावं विना बाध्यबाधकमावस्यैवासम्भवात् । सात्त्विकस्य बाध्यत्वे प्राप्ते संहारं प्रति विरुद्धत्वात् । मृदु सर्वत्र बाध्यते” इति न्यायेन च साध्या- प्रसिद्धिः, “विश्वाधिको रुद्रः" इति पक्षे प्रसिद्धेः। तदनुग्राहकत्वादनुमानस्य न सिद्धसाधनत्वं। एवं सात्त्विकत्वमुक्तप्रकारेण विकल्प्य दूषणीयं । किञ्च विष्ण्वाधिक्यप्रतिपा- दकानां मार्कण्डेयादिपुराणानां सात्त्विकत्वप्रसङ्गः स्यात् , रुदाधिक्यप्रतिपादकानां पद्मपुराणादीनां तामसत्वप्रसङ्गः स्यात् । पद्मपुराणे पूर्वोत्तरखण्डाभ्यां हरिहरयोराधि- क्यवर्णनात् , तदंशे तामसत्वमिष्टमिति चेद् रामायणभागवतादावपि तदंशे ताम- सत्वप्रसङ्गात् । रामायणवालकाण्डे -- " त्वां वै धारयितुं वीर नान्यं पश्यामि शूलिनः" इति. “उमापतिः पशुपतिस्सर्वलोकनमस्कृतः” इति युद्धकाण्डे एतदत्रबलं घोरं मम वा त्र्यम्बकस्य वा इत्युत्तरकाण्डे च। कैलासयात्रा- रावणनिग्रहेन्द्रजिदनुग्रहादिवर्णनस्य बहुतरत्वात् रावणविनाशार्थस्य रुद्राग्निनिमित्तत्वव- नात्तस्यापि तामसत्वप्रतीतेः। तस्माच्छिवपुराणनां तामसत्वकल्पने वेदबाह्यबौद्ध- प्रसङ्गः स्यादित्यलमतिविस्तरेण । अत्र प्रथमाधिकरणे शैवदीक्षितानां परमैकान्तिनां भक्तानां जिज्ञासेति पदेन जीवब्रह्मणो दाभेदो निरूपितः। “ब्रह्म वेद ब्रह्मैव भवति" (मुं. ३-२-९) ईशं ज्ञात्वा तत्रैकीभवन्ति" इत्यादिश्रुतावुपास्योपासकयोरभेदसिद्धिव्यपदेशात् । 10

श्रीक र भा प्ये
१-१-३
द्वितीयाधिकरणे - ब्रह्मणस्सविशेषत्वं, जगद्ब्रह्मणोः सृष्टिस्थित्यवसरे भिन्नत्वं, लया-
वसरे नदीसमुद्रवदभिन्नत्वं निरूपितं । तृतीयाधिकरणे-परमेश्वराविभूतभेदाभेदबो-
धकवेदवेदान्तागमशास्त्रमेव ब्रह्मसत्त्वे प्रमाणमिति दर्शितं ।
इति तृतीय शास्त्रयोनित्वाधिकरणम्.

॥ समन्वयाधिकरणं॥ mamaMW षट्स्थलपरशिवब्रह्माविर्भूतवेदवेदान्तानामिन्द्रोपेन्द्रचन्द्रादिनानादेवताप्रतिपाद- कत्वेन सर्वदा न परशिवैकपरत्वमिति शङ्कायां तदतिव्यातिनिवारणाय सर्वस्य तत्रैव सिन्धुप्रवाहन्यायेन समन्वयादव्यभिचार इति चतुर्थाधिकरणमारभ्यते- तत्तुसमन्वयात् ॥४॥ तच्छब्देन–सर्वाधिष्ठानं सर्वकारणं वेदान्तवेद्यं पूर्वनिर्दिष्ट पट्स्थलपर- शिवब्रह्मैव व्यपदिश्यते । तु शब्देन प्रत्यक्षादिप्रमाणान्तरं निरस्यते। समन्वयशब्देन तदन्तर्भूतचन्द्रोपेन्द्रदिनेन्द्रादिप्रतिपादकवाक्यानां स्थूलारुन्धतीन्यायेन उपक्रमोप- संहारादिषधितात्पर्यलिङ्गैः तत्रैव तात्पर्यमुपदिश्यते। तद्ब्रह्म प्रत्यक्षादिप्रमाणान्तर- निराकरणपूर्वकं सर्ववेदान्तैः षड्डिधतात्पर्यलिङ्गोपेतैः प्रतिपाद्यत इति सूत्रार्थः । अत्र सर्ववेदवेदान्तागमवाक्यान्यस्य विषय:--" सदेव सोम्येदमग्र आसीदेकमेवाद्वितीय (छां ६-२-१) “एको हि रुद्रो न द्वितीयाय तस्थुः” (श्वेता. ३-२) असङ्ख्यातास्सहस्राणि, मर्यते न च दृश्यते (तै. आर. १-१२) " देवा ह वै स्वर्ग लोकमगमन् , ते देवा रुद्रमपृच्छन् को भवानिति, सोऽब्रवीत् अहमेकः प्रथममासं वामि च भविष्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्त इति सोऽन्तरादन्तरं प्राविशत्' (अथर्वशिर:-१) "ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलं ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः" (महाना. अनु. १२) “सर्वे वेदा यत्पदमामनन्ति" (कठ. १-२-१५) इति. भेदाभेदविधायकसर्ववेदान्तवाक्यानां सर्वजगदुभयकारणषट्स्थलपरशिवब्रह्म- परत्वं कर्मशेषभूतेन्द्रोपेन्द्रादिनानादेवतोपासनपरत्वं वा ? तदुपादानभूतप्रधानादिप्रति- पादकत्वं वा ? इति बहुधा सन्दिह्यते । पूर्वपक्षस्तु-न सर्वथा ब्रह्मणः परशिवस्य सर्ववेदान्तप्रतिपाद्यत्वं सम्भवति, तेषां विधिपरत्वात् । उभयपरत्वे वाक्यभेदापत्तिः । जगब्रह्मणोः कार्यकारणत्वदर्शना- दनुमानेन ब्रह्मसिद्धिरुपपद्यते. तस्मान्न वेदान्तैकप्रतिपाद्यत्वं ।

श्री क र भा ष्ये १-१-४ नां" em. किञ्च-नानादेवतोपासनापरत्वमपि युक्तं । “अग्निरग्रे प्रथमो देवता- असावादित्यो ब्रह्मा " " नारायणपरं ब्रह्म' इत्यादिश्रुतिदर्शनात् । अपिच-" सैषा विचित्रा सुदृढा बढङ्कुरा स्वयं गुणभिन्ना अकुंरेष्वपि गुण- भिन्ना सर्वत्र ब्रह्मविष्णुशिवरूपिणी अजामेकां लोहितशुक्लकृष्णां वहीं प्रजां जनयन्ती सरूपां" (श्वे. ४-५ ) इत्यादिना सर्वदेवतामयत्वस्य सर्वकारणत्वस्य च प्रधानस्यैव निर्देशात्तत्परत्वमपि युक्तं । किञ्च—“अयं घटः, अयं पटः' इत्यादिलोकव्यवहारस्य परम्परावृद्ध- व्यवहारज्ञानसापेक्षत्वात् निरस्तसमस्तोपद्रवसर्वमङ्गलाधारसिद्धब्रह्मपरत्वे निष्प्रयोजनत्व- सापेक्षत्वयोः प्रसङ्गात्तदुभयदोपवारणाय वेदान्तानां विध्युपासनपरत्वं विधीयते । अथवा कर्तृदेवताप्रतिपादनद्वारा कर्मपरत्वं सिद्धम्। इति प्राप्ते ब्रूमः सिद्धान्तस्तु - वेदान्तानां ब्रह्मपरत्वं ब्रह्मध्यानविधिपरत्वं चोपपद्यते। अतो न वाक्यभेददोपप्रसङ्गः. तदुभयविधेर्दर्शनात्। तथा हि ----- उपक्रमादिषड्विधता- त्पर्यलिङ्गेन ब्रह्मपरत्वं । “आत्मा वा अरे द्रष्टव्यः" (बृह. २-४-५) इत्या- दिषु तद्धयानविधिपरत्वं च दृश्यते। उपक्रमोपसंहारावभ्यासोऽपूर्वता फलं। अर्थवादोपपत्ती च लिंङ्ग तात्पर्यनिर्णये॥ इति स्मृतावुपक्रमोपसंहारादिभिर्वोदान्ततात्पर्यनिर्णयश्रवणमित्यभिधीयते। अज्ञानप्रभवं दुःखं ज्ञानं तस्य निवर्तकं । सर्ववेदान्तवाक्यानां श्रवणं तत्प्रवर्तकं ॥ श्रवण नाम वाक्यानां वैदिकानां परात्परे उपक्रमादिभिलिङ्गैः कृतस्तात्पर्यनिर्णयः॥ इत्युपक्रमोपसंहारावेकं लिङ्गं । “सदेव सोम्येदमग्र आसीत् " (छो. ६-२-१) इत्युपक्रमः । “स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्व- मसि श्वेतकेतो" (छां. ६-९-४ ) इत्युपसंहारः। पुन: “ तत्त्वमसि" इत्य- भ्यासः। “तं त्यौपनिषदं पुरुषं पृच्छामि" (बृ. ३-९-२६) इति मानान्त- रागम्यत्वेनापूर्वत्वं । “ येनाश्रुतं श्रुतं भवति ” (छां. ६-१-३) इत्यादिना एकविज्ञानेन सर्वविज्ञानं फलं । " सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता ।

१-१-४ च तु स्सूत्री ७७ " - अनेन जीवनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीति ,, (छां. ६-३-२) इत्यादिसृष्टिस्थितिसंहारतिरोधानानुग्रहादिपञ्चकृत्यान्यर्थवादाः। यथा सोम्यकेन मृत्पिण्डेन सर्व मृत्मयं विज्ञातं स्यात् ' (छां. ६-१-४) इति मृदादिदृ- ष्टान्ता उपपत्तयः । एवमन्यत्रापि । नारायणीये अणोरणीयान् महतो महीयान्” (महाना. अनु. १०) इत्युपक्रमः । “ सर्वो ह्येष रुद्रः (महाना. अनु. १६) इत्युप- संहारः । “यः परस्स महेश्वरः" (महाना. अनु. १०) “अम्बिकापतय उमापतये पशुपतये नमो नमः " (महाना. अनु. १८) इत्याचभ्यासः । “विश्वाधिको रुद्रो महर्षिः" (महाना. अनु. १०) इत्यादौ विश्वाधिकत्वादेर्मा- नान्तराप्राप्तत्वादपूर्वता। “ परामृतात्परिमुच्यन्ति सर्वे" (महना. अनु. १०) इति फलं। “सहस्रशीप " (महाना. अनु. ११) इत्यर्थवादः। यस्मात्परं नापरमस्ति किञ्चित् ” (महाना अनु. १०) इत्युपपत्तिः । एवं सर्ववेदान्तेषु द्रष्टव्यं । तस्मात् स्वरूपव्यावर्तकतटस्थलक्षणत्रयेण सर्ववेदान्तानां ब्रह्मप्रतिपादकत्वं युक्तं । रूपप्रत्यक्षकारणस्य नेत्रस्य द्रव्यसिद्धिवत् , विधिपरत्वेन वेदान्तानां सर्वाधि- ष्ठानपरशिवब्रमसिद्धिः । तस्मान्नोभयपरत्वविरोधः । “नेपा तण मतिरापनेया" (कठ १-२-९) इति श्रुत्याऽनुमानप्रमाणस्य निरस्तत्वात् , अनुमानेन कर्बकत्व- सिद्धयभावाच्च ब्रह्मप्रामाण्येनानुमान विधीयते । " विश्वं भूतं भुवनं चित्रं बहुधाजातं जायमानं च यत् । सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु" (महाना. अनु. १६) इत्यादिना सर्वजग- दुपादानकारणत्वाज्जगन्मयत्वं । “ उमासहायं परमेश्वरं प्रभु इत्यारभ्य स एव विष्णुस्स प्राणस्स कालोऽग्निस्स चन्द्रमाः स एव सर्वं यद्धृत यच्च भव्य सनातनं । ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये॥ (कै. १-९) इत्यन्तेन परशिवस्य ब्रह्मणः सर्वदेवतामयत्वमुक्त्वा तदुपासनस्यैव मोक्षहेतुत्वोपदेशदर्शनात् , “ यो रुद्रो अग्नौ” (तै. सं ५-५-९) इत्यादिना शिवस्यैव सर्वान्तर्यामित्वोपदेशाच्च सर्वदेवतामयत्वादिकं तस्यैव सिद्धं । उत्तममध्यमाधमाधिकारिभेदेन नानादेवतोपासनं न विरुद्धं । भेदा- भेदात्मिका शक्तिब्रह्मनिष्ठा सनातनी" इति स्मृतौ शक्तेर्वह्विशक्तेरिव ब्रह्माधि- " ७८ श्री कर भाष्ये १-१-४ , ष्ठानत्वोपदेशात् , निरधिष्ठानशक्तेरभावात् , शक्तिशक्तिमतोरभेदाच्च तत्कर्तृत्वं, तदात्मकत्वं च तस्यैवोपपन्नमिति न प्रधानस्य सर्वकर्तृत्वं । पुत्रादिकुशलवार्ताश्रवणवत् सिद्धज्ञानस्यापि प्रवृत्तिहेतुत्वदर्शनात् न वृद्ध- व्यापारस्यैव प्रवृत्तिहेतुत्वं । बालानां मातृपित्रादिभिः " अयं घटः, घटः, अयं पट: इति निर्देशेन सिद्धार्थज्ञानोत्पत्तेस्सम्भवात् , काव्यालङ्कार स्तच्छिप्याणां तदुपदेशेन सर्वार्थज्ञानदर्शनात् । तस्माद्वेदान्तवाक्यानां ब्रह्मणि प्रामाण्यमिति सिद्ध । ननु सिद्धब्रह्मविषये शास्त्राणां प्रयोजनादर्शनाद्वेदान्तनां कर्मविधिशे- पत्वं युक्तं, न च पाशनिवृत्तिः फलं । स च पाशः तद्भिन्नो वा तदभिन्नो वा ? पुनस्स सत्यो वा मिथ्या वा ? नाद्यः--शक्तिविशिष्टशिवाद्वैतहानेः। न द्वितीयः-मायापाशस्य सत्यत्वात्सर्वदा संसारापत्त्या मुक्तरसम्भवात् । मायानिवृत्तौ न कोऽपि यत्नं कुर्यात् । अत एव न तृतीयः । नान्त्यः, परमेश्वरस्य नित्यसिद्धत्वेन मुमुक्षुप्रवृत्त्यसम्भवात्, बन्धमोक्षदशायां वैषम्याभावाच्च । सर्वथा वेदान्तशास्त्रप्रवृत्तिर्न सम्भवति इति चेन्न । गुणत्रयात्मकपाशस्तु परमेश्वराद्भिन्न एव। तस्मात्तन्निवृत्तौ स्वाभाविक- चिच्छक्त्यवच्छिन्नशिवाद्वैतहानिर्न सम्भवति । मायापाशस्य सत्यत्वेऽपि नानिर्मोक्ष- प्रसङ्गः। द्वैताद्वैतमताङ्गीकारात्। न च तत्र मानाभाव:-"ब्रह्म वेद ब्रह्मैव भवति' (मुं. ३-२-९) "ब्रह्मभवनकामो ब्रह्मवेदनं कुर्यात्' इत्यादिश्रुतिप्रमाणसद्भा- वात् । अविद्याया मोहाकारत्वेन चिच्छक्तभिन्नत्वात्तन्निवृत्तिशिवोपासनेनैव सम्भ- वत्येव । निवृत्तिर्नाम तत्कारणीभूतचिच्छत्तौ लयः, " नाश: कारणलयः” इति न्यायात् । चराचरप्रपञ्चस्योपादानकारणत्वादविद्यायास्तन्निवृत्तिः कदापि न सम्भवति, अतः ब्रह्मविदामपि संसारप्रवृत्तिस्सम्भवति-इति चेन्मैव । “अनीशया शोचति मुह्यमानः (श्वे. ४-७) 'ब्रह्म वेद ब्रह्मैव भवति" (मुं. ३-२-९) न च पुनरावर्तते न च पुनरावर्तते " (छां ८-१५) इत्यादिश्रुतिशतेषु ब्रह्मविदां तदात्मकत्वस्य पुनरावृत्तिरहितत्वस्य चोपदेशात् । न च ब्रह्मवाचकपदेन तद्ज्ञानसम्भवान्न विधेः प्रयोजनमिति वाच्यं । मन्त्राध्ययनमात्रेण होतव्यद्रव्य- देवताज्ञाने सिद्धेऽपि तद्धोमावसरे मन्त्रैरनुस्मर्तव्यं " इति प्रयोगविधिदर्शनात् । तथात्र वेदान्तवाक्यविधेर्न विरोधः । नन्वत्र उत्पत्तिविनियोगाधिकारविधीनामदर्शनात्कथं प्रयोगविधिस्सम्भवति ? इति चेन्न । “अमृतस्य देवधारणो भूयास” (ते. शिक्षा. ४ ) इत्यादौ " १-१-४ च तु स्सू त्री प्रकरणादपरिहारेणोत्पतिविधेस्सिद्धत्वात् परशिवलिङ्गधारणदीक्षां लब्ध्वा परमात्मानं पश्येदिति विनियोगविधिरुपपद्यते । तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भय- श्वान्ते विश्वमायानिवृत्तिः” (श्वे. १-१०) "ज्ञात्वा देवं मुच्यते सर्वपाशैः" (श्वे. १-८) इत्यादौ परशिवध्यानधारणयुक्तो मोक्षाधिकारी विधीयते । तस्मा- मोक्षकामो भस्मरुद्राक्षशिवलिङ्गधारणात्मकशाम्भवदीक्षां लब्ध्वा षट्स्थलपरशिव- ब्रह्मज्ञानं संपादयेदिति रात्रिसत्रन्यायेन प्रयोगविधिरुपपद्यते । ननु- आत्मा वा अरे द्रष्टव्यः (बृ. २-४-५) इत्यादौ ब्रह्म- ज्ञानस्य विधिर्न सम्भवति । निर्विकारस्य ब्रह्मणः कर्मकारकत्वप्रसङ्गात् । विधिसम्भ- वेऽपि उत्पत्तिप्राप्तिविकृतिसंस्कारभावो न युज्यते। किञ्च सक्तुन्यायेन स्वतन्त्र- फलाय “ सक्तुभिर्जुहोति" इतिवत्-" आत्मना पश्येत्” इति करणत्वविपरि- णामेन वक्तुमयुक्तं । निर्विकारस्य ब्रह्मणोऽवैषम्यान्न ब्रह्मज्ञानविधिरुपपन्न:-इति चेन्न । सर्वाधिष्ठानस्य परमात्मनः उत्पत्तिविनियोगाधिकारविधित्रयासम्भवेऽपि मुमु- क्षोर्मोक्षफलाय विधिन विरुध्यते । अत्र को विधिराश्रीयत इति चेत्-विधित्रय- मप्यूहनीयं । ननु-चक्षुषा धटसिद्धिवत् वेदान्तानां न तथा ब्रह्मसिद्धिः निरपेक्षतया चक्षुस्संयोगेन "अयं घटः" इति वस्तुज्ञानमुपपद्यते। शब्दाना तात्पर्थपर्यवसानेन प्रामाण्यं । अतो वेदान्तवाक्यानां ब्रह्मज्ञानविधायकत्वं, ब्रह्मप्रमापकत्वं, चायुक्तमिति चेन्मैवं । “समिधो यजति" इत्यादिवाक्यानां पञ्चप्रयाजविधायकत्वतदनुष्ठान- विधायकत्वयोरुभयोरपि विधिवलासिद्धिवद्वेदान्तानामपि ब्रह्मप्रमापकत्वं मोक्षोपकारक- ब्रह्मज्ञानं प्रति विधायकत्वं च सम्भवत्येव । ननु-वेदान्तवाक्यादेव ब्रह्मज्ञानसिद्धिदर्शनातद्विधिना न किञ्चित्प्रयोजन, ज्ञानादेव विधिप्रयोजनसम्भवात् इति चेन्न। वेदान्तवाक्यैः परोक्षत्वेन तद्ज्ञाने सिद्धेऽपि तदपरोक्षज्ञानाय तद्विध्युपपत्तेः । वेदान्तशब्दजन्यज्ञानादेव न ब्रह्मसाक्षा- कारो विधीयते। सद्गुरुकरुणाकटाक्षलब्धतदुपासनात्मकज्ञानादेव तत्साक्षात्कारसिद्धिः। अयमेव श्रौतमार्गः। ध्यात्वा मुनिर्गच्छति भूतयोनि समस्तसाक्षिं तमसः परस्तात् ' (कै. १-७) “ तस्याभिध्यानाद्योजनात्तत्त्वभावाद्धयश्चान्ते विश्व- मायानिवृत्तिः” (श्वे. १-१०) "श्रद्धाभक्तिध्यानयोगादवेहि" (कै. १-२) ब्रह्म वेद ब्रह्मैव भवति" (मुं. २-२-९) "ज्ञाननिर्मथनाभ्यासात्पाशं ८० श्री क र भा १-१-४ दहति पण्डितः" (कै. १-११) ज्ञात्वा देवं मुच्यते सर्वपाशैः (श्वे. १-८) “श त ज्ञात्वा अमृता भवन्ति " (श्वे. ३-७) आत्मन्ये- वात्मानं पश्येत् ।" "शम्भुराकाशमचे ध्येयः” (अथर्वशिखा. ३) “तज- लानिति शान्त उपासीत" (छां. ३-१४-१) "इति प्राचीनयोग्योपास्व" (तै. शिक्षा. ६) इत्यादिषु मोक्षफलाय परमेश्वरोपासनालकज्ञानं मुख्यकारणत्वेन विधीयते। तथा च स्मृतिः-- श्रोतव्यश्श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः । ध्यात्वा च सततं ध्येयमेतदर्शनहेतुतः॥ ज्ञानं वस्तुपरिच्छित्तियांन तद्भावकारणं । तस्माजीवो भवेच्छम्छुः क्रिमिवत्कीटचिन्तनात् ॥ इत्यादिना श्रवणमननविशिष्टध्यानानुगतनिदिध्यासनं पट्यसलपरशिवसाक्षात्कारे तत्ता- दात्म्ये च परमकारणमिति निर्दिशति । तस्मात् सर्वकाम्यकर्मनिषेधपूर्वकशिवमुखोद्गतनिगमागमोभयवेदान्तचोदितव- र्णाश्रमोचितशिवापितसकलकर्मानुष्ठानसम्पन्नचित्तशुद्धिलब्धाव्यभिचारपरमशिवभक्ति- परवशशाम्भवदीक्षितमुमुक्षूणां सर्वोपनिषत्प्रतिपाद्यसकलजगदुभयकारणषट्थसलपर- शिवोपासनस्य विधेयत्वात्. " तदुपास्त्र' इत्यादिश्रुतिभिर्ज्ञानोपासनाविधिस्तेषा- मेवोपपद्यते. “शिव एको ध्येयश्शिवङ्करस्सर्वमन्यत्परित्यज्य" " (अथर्व- शिखा ३) इत्यथर्वशिखायां मुमुक्षूणां शिवातिरिक्तोपासनं निरस्तम् । तस्मान्नान्यथा संसारमायापाशनिवृत्तिम्सम्भवति. " क्षरं प्रधानममृताक्षरं हरः क्षरात्मनावीशते देव एकः, तस्याभिध्यानाद्योजनात्तत्वभावाइयश्चान्ने विश्वमायानिवृत्तिः" (श्वे. १-१०) यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः । तदा शिवमवि- ज्ञाय दुःखस्यान्तो भविष्यति ॥ (वे. ६-२०) इत्यादिश्रुतिषु शिवध्यानधारण- ज्ञानादेव मोक्षरूपफलं विधीयते । तस्माच्छिव एव परब्रह्म मोक्षकामैर्धारणीयो ज्ञातव्यो ध्यातव्यः श्रोतव्यो मन्तव्योऽर्चनीय इति षड्डिधलिङ्गतात्पर्येण ब्रह्मपरा वेदा- न्तास्तदुपासनपराश्चेति निर्णयः । ननु-“ब्रह्म सत्यं जगन्मिथ्या" इति न्यायेन सर्ववेदान्तविचार- लब्धजगन्मिथ्यात्वज्ञानपूर्वकस्वखरूपज्ञानमेव मुक्तिरिति चेन्न-~-सर्ववेदवेदान्त- बाह्यत्वप्रसङ्गात् । किं नाम जगन्मिथ्यात्वं ? ब्रह्मज्ञानबाध्यत्वं ? कालिकनिषेधो

No text on this page.

८२ श्री कर भाष्ये १-१-४ किञ्च--असत्पदेन गगनारविन्दवदभावत्वाङ्गीकारे वन्ध्यापुत्रादीनामपि जगत्कारणत्वं किं न स्यात् ? सदेवेत्यवधारणेन न सविशेषत्वनिषेधः। किन्तु असतो भ्रान्तिप्रसक्तत्वात्तत्कारणत्वनिषेधः, किञ्च— “ सदेव सोम्येदमग्र आसीत् " " इति श्रुतौ कथं सविशेष- त्वनिषेधः ? ' अग्रे' इति कालविशेषः, 'आसीत् ' इति क्रिया विशेषश्च दृश्यते । एकमेवेत्यवधारणेनाधिष्ठात्रन्तरनिषेधः। अद्वितीयपदेन ब्रह्मणो जगदुभयकारणत्वं विधीयते। “एको हि रुद्रो न द्वितीयाय तस्थुः ॥ (श्वे. ३-२) इत्यादावप्येवं बोद्धव्यं । अत एव " विश्वाधिको रुद्रो महर्षिः " (महाना. अनु १०) इति श्रूयते. तस्मान्न त्रैकालिकनिषेध इति रहस्य । ॥ जगव्यावहारिकत्वखण्डनम् ॥ ननु-प्रपञ्चस्य व्यावहारिकमात्रसत्यत्वं न तु पारमार्थिकत्वमिति चेन्न। किमिदं व्यवहारसत्यत्वं ? व्यवहारमात्रगम्यत्वं ? बाधितव्यवहारगम्यत्वं ? त्रिचतुर- कक्ष्याखबाध्यत्वं वा ? तत्त्वावेदकप्रमाणविरुद्धत्वं ? अर्थक्रियाशून्यप्रतीतिगोचरत्वं ? करणदोषोपहितज्ञानविषयत्वं वा ? नाद्यः- ब्रह्मणोऽपि व्यवहारगम्यत्वेनातिव्याप्तेः। अन्यथा गुरुशिष्ययोमौनमौढ्यापत्तेः । अथातो ब्रह्मजिज्ञासा" सदेव सोम्येदमग्र आसीत्" "सत्यं ज्ञानमनन्तं ब्रह्म" (ते. आनन्दं. १) इत्यादिरूपेण प्रवृत्तायाः श्रुतिसूत्रफक्किकाया अभित्तिचित्रकर्मतापाताच्च । “सर्वापीयं फकिका सविशेषविषया; निर्विशेषं न कस्यापि व्यवहारस्य गोचरं" इति चेद् व्याहतमेतत् । “न गोचरः" इति व्यवहार प्रत्येव गोचरत्वात् । वेदान्ता- नां निर्विशेषविषयत्वाभावसमर्थनेन अस्मदनुकूलं च, तेषामपि व्यवहाररूपत्वात् । नापि बाधितव्यवहारगम्यत्वमिति द्वितीयः--ब्रह्मण्यव्याप्तेर्वारत्वात् । सर्वोऽपि व्यवहारो बाधित एवं प्रपञ्चान्तर्गतत्वात्। न च बाधितत्वं व्यवहारगम्यत्वस्य विशे- षणमिति शङ्कयं । तर्हि बाधितत्वस्यैव लक्षणत्वे शेषवैयर्थ्यात् । न चेष्टापत्तिः. प्राति- भासिकेऽतिव्याप्तेः। न च ब्रह्मातिरिक्तविषयकज्ञानाबाधितत्वे सति बाधितत्वमिति परिष्कारस्साधुः, ज्ञनाबाधितत्वस्य ज्ञानजन्यध्वंसाप्रतियोगित्वरूपत्वे उत्तरज्ञानजन्य- ध्वंसप्रतियोगिषु पूर्वज्ञानेषु लक्षणाव्यातेः । ज्ञानानपहृतधीविषयत्वरूपत्वे तु “घटो नास्ति पटो नास्ति' इति ज्ञानापहृतधीविषयेषु घटपटादिष्वव्याप्तिः। तेषां ज्ञाना- नां ब्रह्मातिरिक्तविषयकत्वात् । विस्तरेण चोपरिष्टान्निराकरिष्यामः ।

८३ १-१-४ च तु स्सू त्री किञ्च-नीलपृष्ठत्वादिसत्ताया अपि ब्रह्मरूपतया तद्विषयकज्ञानबाध्येषु रजता- दिष्वतिव्याप्तिर्दुर्वा रैव। तेषामपि ज्ञानानां ब्रह्मातिरिक्तविषयत्वाभावात्। न च नीलपृष्ठत्वादीनामब्रह्मरूपाणां तद्ज्ञानविषयत्वान्नातिप्रसङ्ग इति वाच्यं । तर्हि निर्विशे- षत्वप्रपञ्चमिथ्यात्वादिब्रह्मातिरिक्तविषयकज्ञानस्यैव प्रपञ्चनिवर्तकतया व्यावहारिक- माने लक्षणासम्भवप्रसङ्गात् । निर्विशेषत्वादीनां सप्रतियोगिकानां निष्पतियोगिक- ब्रह्मस्वरूपमात्रत्वं दुस्साधं । स्वरूपमात्रज्ञानस्याध्याससहस्त्रप्रकाशानतिरिक्तविषयतया निवर्तकत्वासम्भवेनासम्भवापादकं च। अनतिरिक्तविषयविज्ञाने वृत्तित्वं निवर्तकता- वच्छेदकमित्यभ्युपगमे जडाया वृत्तेर्निवर्त्यत्वे ज्ञानबाध्यत्वसिद्धान्तव्याहतिः । कथंचित् ज्ञानत्वाङ्गीकारेऽपि स्वस्वरूपज्ञानसाधारणस्य ज्ञाननिवर्तकतानवच्छेदक- त्वादपसिद्धान्तश्चेत्यास्तां विस्तरः । नापि त्रिचतुरकक्ष्याखबाध्यत्वमिति तृतीयः. ब्रह्मण्येवातिव्याप्तेः। अबाध्य हि ब्रह्म त्रिचतुरकक्ष्याऽबाध्यमेव। न च त्रिचतुरकक्ष्याखबाध्यत्वं, तथा सति प्रातिभासिकविशेषेऽतिव्याप्तेः। सम्भवति हि दीर्घकालानुवृत्तभ्रमविषयाणि प्राति- भासिकानि वस्तून्यलातचक्रगन्धर्वनगरादीनि । किञ्चकक्ष्याशब्दोऽयं युक्तिपरः ? कालपरः? विपरीतप्रमापरो वा ? नाद्य:-"प्रपञ्चोमिथ्या दृश्यत्वात्" इत्येकयैव कक्ष्यया प्रपञ्चस्य बाधेनासम्भवात्। तत्परत्वापरत्वाच्च निर्दोषत्वाच्च वैदिकं । पूर्वस्यवाधकं " इत्येकयुक्तचनु- सन्धानेनापि बाधेन तदापत्तेश्च । न द्वितीयः-दीर्घकालभ्रमविषये प्रातिभासिकेऽति- व्याप्तेः। न तृतीयः-----विपरीतप्रमाविषयश्च भवत्यबाधितश्चेति व्याघातात् । न च बाधः पदार्थनिवृत्तिरिति युक्तं। मुद्रादिनिवर्येषु घटादिषु त्रिचतुरविपरीतज्ञाना- निवर्त्यत्वे सति विपरीतज्ञाननिवर्त्यत्वखभावेनाव्याप्तेः। अपिच-त्रिचतुरयुक्तय- बाध्यत्वे सति बाध्यत्वमिति प्रथमकल्पे ब्रह्मण्यतिव्याप्तिः, तस्यापि युक्तिबाधितत्वात् । ज्ञानाज्ञानयोरेकविषयत्वेन यद्विषयकमज्ञानं तद्विषयकमेव ज्ञानं तादृशाज्ञाननिवर्तकं । प्रकृते ब्रह्मविषयकाज्ञानस्य ब्रह्मविषयकज्ञानेनैव निवृत्तिः। तथाहि-ब्रह्म दृश्य- मदृश्यं वा ? दृश्यत्वे मिथ्यात्वमवर्जनीयं । अदृश्यत्वे ब्रह्मव्यवहारमात्रोच्छेदः, तस्य दृगेकसाध्यत्वात्। अविद्यानिवृत्तिश्च न स्यात् , समानविषयकहगभावात् । न च वृत्तिज्ञानेन व्यवहारादिसर्वसमर्थन सम्भवति. वृत्तेरज्ञानपरिणामभूताया अज्ञा- नत्वात् । न च ज्ञानत्वारोपमात्रेण वृत्तिः ज्ञानकार्याणि कर्तुमर्हति. गुञ्जाधिष्ठानवहेरपि दाहकत्वप्रसङ्गात्। न च ज्ञानावच्छेदकतया मुख्यमेव ज्ञानत्वमिति शङ्कयं. अवच्छेद्यावच्छेदकभावेन ज्ञानभेदस्यैव समर्थनेन व्याघाताबू , घटेऽप्यवच्छेदक- तापत्तेश्च । “ घटवद् ज्ञानं " इत्यत्र घटोऽप्यवच्छेदकः ।

श्री क र भाष्ये १-१-४ किञ्च–वृत्तेर्ज्ञानपदमुख्यार्थत्वे ब्रह्मणो ज्ञानभिन्नतैव स्यात्. न च ब्रह्म- वृत्त्योरनुगतं किञ्चित्प्रवृत्तिनिमित्तमस्ति । येनोभयत्र मुख्यं स्यात्. न च ज्ञानत्वं असिद्धेरित्युक्तेः । न हि ज्ञानाज्ञानपरिणामानुगतं ज्ञानत्वं प्रामाणिकं. खव्यापक- स्वप्रकाशत्वनिवृत्त्या ज्ञानत्वनिवृत्तेश्च। निर्विशेषे चिन्मात्रे तदभावे अज्ञानत्व- प्रसङ्गाच । नाप्यविद्यानिवर्तकत्वं, ज्ञानत्वस्य स्वव्यापकस्य निवृत्त्या वस्यापि निवृत्तः । अध्याससहे चिन्मात्रे तदभावेनाव्याप्तेश्च। नापि प्रवृत्तिनिवृत्तिद्वयेनोभयमुख्यत्वं, अनेकार्थत्वकल्पनाप्रसङ्गात् । वृत्त्यवच्छिन्नचैतन्यस्य जग़दाभासकल्पनावैयर्थ्यात् । ब्रह्मणो दृश्यत्वेन मिथ्यात्वापादनस्य वज्रलेपत्वापाताच्च। ज्ञनाज्ञानयोर्ज्ञानपदमुख्या- र्थत्वसमर्थनाय प्रवृत्तिनिवृत्तिद्वयकल्पने घटपटयोर्घटपदमुख्यार्थत्वापत्तेश्च । एवञ्च वृत्तेनित्वाभावेन ब्रह्मणो निर्विषयत्वस्वरूपप्रकाशस्यापि खाविषयत्वाद्ब्रह्मणस्तुच्छत्वं, सर्वेषां चैतन्यानां खाविषयब्रह्माभिन्नतया मिथो व्यवहारानुपपत्तेश्च । वृत्तमुख्यज्ञानत्वे खप्रकाशस्त्रविषयत्वे वा ब्रह्मणो मिथ्यात्वमवर्जनीयं । कल्पितभेदमादाय देवदत्तादीनां मिथो व्यवहारे चैतन्यस्य चैतन्यविषयतया मिथ्यात्वमवर्जनीयं । न च-" मिथ्याभूतभेदवच्चैतन्यविषयत्वं न मिथ्यात्वप्रयोजकं, प्रपञ्चेऽपि तदसिद्धेः। जीवस्य विशिष्टरूपेण मिथ्यात्वमिष्टं, निष्कृष्टरूपं तु न चिद्विषयं " इति वाच्यं । तर्हि वृत्तिविशिष्टमपि ज्ञान मिथ्यात्वान्न मुख्या दृगिति न प्रपञ्चऽपि दृश्यत्वमिति जितमस्माभिः। विशिष्टान्यत्वे तस्यापि वृत्तिविषयत्वान्मिथ्यात्वं, अनन्यत्वे विशिष्टस्य मिथ्यात्वात्तस्य शुद्धाभिन्नत्वात्प्रपञ्चस्य सत्यत्वं ब्रह्मणो मिथ्यात्व- मिति विपरीतवृत्तिः। तस्माद्विशिष्टानन्यत्वान्यत्वभ्यां प्रपञ्चब्रह्मणोः सत्यत्वमिथ्यात्व- विपरीतवृत्तिारैव। किञ्च निर्विशेषं ब्रह्म किमस्ति ? उत नास्ति ? द्वितीये माध्यमिकमतप्रवेशः। प्रथमे ब्रह्मास्तीति प्रतिज्ञायां प्रवृत्तिनिमित्तभेदे निर्विशेषत्वव्याहतिः । न च प्रतिज्ञा- प्रवृत्तिनिमित्तयोः कल्पितत्वेन परिहारः, निर्विशेषं ब्रह्मास्तीति प्रतिज्ञायास्सविशेष- विषयकत्वाकथनस्य उन्मत्तप्रलापत्वात्. अस्तिशब्दप्रवृत्तिनिमित्तभूताया : सत्ताया- स्त्वन्मते मिथ्यात्वायोगाच्च । ब्रह्मत्वस्य कल्पितत्वे निर्विशेषस्याब्रह्मतापाताच्च । यत्र ब्रह्मत्वं प्रकल्पितं तदेव ब्रह्मेत्युक्तेाहतत्वाच्च. निर्विशेषस्य कल्पितसम्बन्धायोगाच्च । प्रवृत्तिनिमित्ताभेदे तु सामानाधिकरण्यायोगः । “ भिन्नप्रवृत्तिनिमित्तानां शब्दा- नामकस्मिन्नर्थे वृत्तिस्सामानाधिकरण्यं " इति वृद्धाः। अभावरूपधर्मप्रवृत्ति- निमित्तकतायामप्ययमेव दोषः। अभावानां स्वरूपानतिरेके सामानाधिकरण्यहानेः, अतिरेके सिद्धान्तहानेः। एतेन निर्विशेषः प्रतिज्ञादीनामविषयोऽपि खतस्सिद्ध्य- तीति निरस्तं। दुस्साध्येषु सर्वेष्वर्थेषु खतस्सिद्धेर्दुर्वारत्वापातात्. एतेन श्रुत्या निर्वि- । १-१-४ च तु स्सू त्री शेषसिद्धिरपास्ता। प्रकृतिप्रत्ययभेदभिन्नायाः श्रुतेस्तत्र प्रामाण्यासम्भवात्. पूर्वोक्त- दृश्यत्वानुमानग्रासाच्च। अपिच-मिथ्यार्थब्रह्मणोर्मेद: परमार्थः ? उतापरमार्थः ? प्रथमविकल्पे भेद- सत्यत्वाङ्गीकारात्सिद्धान्तहानिः । द्वितीये सत्यस्य ब्रह्मणोऽपि मिथ्यात्वं दुर्वारं । ययो- दो मिथ्या तयोरैक्यमिति व्याप्तेः। घटस्य खस्मा दे मिथ्याभूते ह्यभेदः परमार्थः । न च भेदाभेदयोमिथ्यात्वान्न दोष इत्यपि साधु, परस्परविरोधे प्रकारन्तरानव- स्थितेः। यद्येवं स्यात्तर्हि भेदाभेदयोरपक्षपातिना भवता जीवब्रह्मणोस्तदुभयमिथ्यात्वं किं न स्वीक्रियेत ? न चाभेदश्रुतिप्राबल्यात्तदसम्भवः। “ सर्व खल्विदं ब्रह्म इत्यादीनामेव प्रपञ्चब्रह्माभेदश्रुतीनामत्रापि सत्त्वात् । किञ्च---निर्विशेषं ब्रह्म ज्ञानमज्ञान वा ? द्वितीये अपसिद्धान्तः। प्रथमे तु सविषयं निर्विषयं वा ? निर्विषयत्वे त्वदभिमतज्ञानत्वव्याघातः। सविषयत्वे विषयनित्यताप्रसङ्गः । नित्यज्ञानस्य नित्यविषयावश्यम्भावात्। तथा च मुक्तावपि सप्रपञ्चताप्रसङ्गः । तदा विषयाणां निवृत्तत्वान्निविषयमिति चेत् तर्हि ज्ञानत्वमेव न स्यात्. निरालम्बनत्वज्ञानत्वयोर्व्याघातात् । न च---अतीतादिविषयज्ञानवद्विषयनित्य- त्वपरिहारः । तद्वदतीतत्वादि किञ्चित्प्रकारकत्वेन किञ्चिदालम्बनत्वेन वा ? निर्विशेष- त्वव्याघातात्. विषयसम्बन्धनित्यताया एवापाद्यत्वेन दोषापाताच्च । निर्विषया निरा- श्रया च संविदनुभवसिद्धेति तुच्छं। “घटमहं जानामि"!" अयं घटः" इति सानुबन्धत्वेनैवोपलम्भात्. अन्या तु सवित् त्वदभिमता गगनकुसुमादिसिद्धिकालं विना न सिद्धयतीति दिक्। अपिच-द्रव्यमद्रव्यं वा ? द्रव्यं चेद्गुणाश्रयत्वप्रसङ्गः। उत्पत्तिकालाव- च्छिन्नघटवदुपपत्तिरिति फल्गु । आद्यक्षणसंयोगस्य तत्रापि सत्त्वात्। तद्वत्कदा- चिद्गुणाश्रयत्वेऽपि अगुणाश्रयत्वव्याहतेः। गुणानां कल्पितत्वेऽपि निर्विशेषत्व- व्याहतिः। अविद्योपादानं विना बुद्धेस्तदसिद्धेः। अद्रव्यं चेद् द्रव्याश्रितत्वप्रसङ्गः । तथा च "स्वे महिम्नि" (छां ७-२४-१) इत्यादिश्रुतिविरोधः । आश्रयसम्बन्धा- निर्विशेषत्वभङ्गाच। तस्मादेवंविधाभिः खण्डनयुक्तिभिः प्रथमद्वितीयकक्ष्यान्तराल एवाबाधितस्य ब्रह्मणोऽपि तदुपरितनकक्ष्यासु बाध्यत्वसम्भवात्तदतिव्याप्तिर्दुवारैवे- ति दिक्। नापि तत्त्वावेदकप्रमाणविरुद्धत्वमिति तुरीयः----- ताल्वादिषु श्रोत्रादिषु च तत्त्वावेदकप्रमाणव्यञ्जितेषु तत्स्वरूपविरोधादर्शनात्। अथ तत्प्रमेयविरुद्धत्वमित्यपि न, वेदत्वेनैव तत्त्वावेदकत्वे " नेह नानास्ति' (बृ. ४-४-१९) इत्यादीना- ८६ श्री क र भाष्ये १-१-४ मपि “ यस्मिन् द्यौः" (मुं. २-२-५) इत्यादितत्त्वावेदकप्रमाणविरुद्धार्थकतया तदर्थप्रपञ्चाभावेऽपि व्यावहारिकत्वप्रसङ्गात् । प्रपञ्चामावस्यातिरिक्तस्य सत्यत्वे द्वैत- प्रसङ्गेन, मिथ्यात्वे तद्बोधकप्रमाणस्य तत्त्वावेदकत्वव्याघातेन च ब्रह्मभेदस्याङ्गीकार्य- तया ब्रह्मण्यतिव्याप्तेश्च। किञ्च–अत्र तत्त्वावेदकतदन्ययोर्मेदस्सिद्धो वाऽसिद्धो वा ? असिद्धौ स्वोक्तिव्याघातः, सिद्धौ तु अप्रमाणेन विषयासिद्धौ प्रमाणगोचरस्य भेदस्य सत्यत्व- प्रसङ्गेन प्रपञ्चव्यावहारिकत्वमङ्गः। तदसत्त्वे तु स एव तत्त्वावेदकाभेदादुक्ति व्याधातः। यद्भेदस्य मिथ्यात्वं तदभेदस्सत्य इति युक्तं प्राक् । नापि----अर्थक्रियाशून्यप्रतीतिविषयत्वमिति पञ्चमः-तथा सति त्वदीयायाः प्रवृत्तेर्लोकवेदगोचरायाः सर्वस्या अपि गगनकुसुमायमानत्वप्रसङ्गेन खक्रियास्ववचन व्याघातदण्ड एव दुष्टफणिनमिव त्वां नर्तनान्निवर्तयिष्यति । अथायमभिप्रायः-नञः प्रश्लेषेण अर्थक्रियाशून्यत्वं अर्थक्रियाशून्य- त्वाभावः इति । तथा सति सर्वार्थमूलकन्दे ब्रह्मण्यतिव्याप्तिः। न च अविद्या- वच्छिन्नस्य ब्रह्मणोऽर्थक्रियाकारित्वं न शुद्धस्येति अविच्छिन्नस्य च व्यावहारिकत्व- मिष्टमिति वाच्यं । विशिष्टस्य ज्ञानेन निवर्त्यत्वं तर्हि प्रसज्येतेति विशेषस्यापि निवृत्तौ शून्यवादसाम्राज्यप्रसङ्गः। न हि विशिष्टं विशेषणविशेष्यसम्बन्धेभ्योऽति- रिच्यते। अपि चाविद्यानिवृत्तिरूपार्थक्रियाहेतौ चरमान्त:करणवृत्तिविषयशुद्धब्रह्मण्य- तिव्याप्तेः। प्रकाशत्वेनाविद्यानिवृत्तित्वेन कार्यकारणभावः। अनात्मविषयप्रकाशत्वेन अनात्मविषयाविद्यानिवृत्तित्वेन चापरः। तथाच सति खविषयतां विनापि ब्रह्मणः स्वरूपप्रकाशः अविद्यां निवर्तयतीति त्वसिद्धान्तः । किञ्च-प्रातिभासिके रज्ज्वधिष्ठानसर्पादौ भयकम्पाद्यर्थक्रियाकारिण्य- तिव्याप्तिः । उत्पन्नप्रध्वस्तेषु घटादिषु चाव्याप्तिः। प्रचयाव्यवहितपूर्वक्षणोत्पन्नेषु तेषु च क्षणेष्वव्याप्तिः, अर्थक्रियायास्तेष्वदर्शनात्। स्वमेषु च शुभाशुभसूचकेषु तत्कालीनार्थक्रियाहेतुष्वतिव्याप्तिः । व्यावहारिकर्थक्रियाविवक्षायां त्वात्मश्रयदोष एव। न च कटकमुकुटादिपरिणामोऽर्थक्रियादिपदार्थ इत्युक्तावपि दोषपरिहारः। खाने- ध्वतिव्याप्तेरुत्पन्नध्वस्तेषु चाव्याप्तेर्दुष्परिहरत्वात् । अथ-~कारणतावच्छेदकजातीयत्वेनातिव्याप्तिपरिहारः। तथा सति प्राति- भासिकेऽतिव्याप्तेः। न च तत्र तादृशजात्यभावः । तथा सति तत्र त्वदीयरजतादि- व्यवहारस्याकस्मिकत्वप्रसङ्गात्। खमेष्यर्थक्रियाया अभावप्रसङ्गाच्चेत्यन्यत्र विस्तरः।

" यतो वा १-१-३ च तु स्सूत्री नापि करणदोषोपहितज्ञानविषयत्वमिति षष्ठः---शुक्तिरजतादिष्वतिव्याप्तेः । अबाधितसर्वजनप्रतीतिविषयेप्वदुष्टेन्द्रियगोचरेषु घटादिष्वसम्भवात् । इमानि भूतानि जातन्ते आत्मन आकाशस्सम्भूतः यस्मिन् यौः पृथिवी" इत्याद्यदुष्टश्रुतिजन्यज्ञानविषयत्वाच्च प्रपञ्चे लक्षणासम्भवः । अथ-~-अविद्यादोषमूला श्रुतिरपि, तस्मान्नासम्भवः इति मनुषे ? तर्हि ब्रह्मण्यतिव्याप्तिः, तादृशश्रुतिजन्यज्ञानविषयत्वात्तस्य । न च ब्रह्मणः प्रमाणान्तरैर- बाधान्न तद्विषयश्रुतिजन्यज्ञानं करणदोषोपहितमिति वाच्यं । अथात आदेशो नेति नेति' (बृ.४-३-६) “ नासदासीनो सदासीत्तदानीं" (यजु.२-८-९) न सन्नासन्न सदसत्” इत्यादिश्रुतिभिः पूर्वप्रपञ्चितकतनुगृहीताभिर्बह्मणोऽपि बाधात् । श्रुतीनां ब्रह्मनिषेधं विनाऽर्थान्तरवर्णनं प्रपञ्चनिषेधं विनाऽर्थान्तरस्य तत्रापि वर्णनादकिञ्चित्करं। किञ्च---अधिष्ठानसत्तारूपे सर्वप्रत्ययवेद्य ब्रह्मण्यतिव्याप्तिः। न च ज्ञान- प्रकारत्वमिति विवक्षितुं शक्यं घटादिष्वव्याप्तेः। तेषां ज्ञानविशेष्यत्वात् । सद्रूप- स्यापि ब्रह्मण: “घटस्सन् ” इत्यादि प्रतीतौ प्रकारित्वात्। “ब्रह्मणि प्रपञ्चः" इति ज्ञाने प्रकारत्वाच्च । न चाध्यस्तत्वं विषयविशेषणमिति युक्तं। तावन्मात्रस्यैव सम्यक्त्वे शेषवैयर्थ्यात्। प्रातिभासिके अतिव्याप्तयवारणाच्च । तस्माद्वयावहारिकमेव विश्वस्य सत्यत्वमिति यत्-तस्य श्रुतियुक्तयनुभवविरुद्धत्वात् प्रच्छन्नबौद्धवाद एवायं मायावाद इति श्रौतशैवघण्टाघोषः। किञ्च-तत्त्वमस्यादिमहावाक्येषु च न निर्विशेषब्रह्मैक्यमुपदिश्यते। त्वन्त- त्पदयोस्सविशेषजीवब्रह्मपरत्वव्यपदेशात् । तदैक्षत बहुस्यां" (छां. ६-२-३) इत्यादिषु तच्छब्दवाच्यस्य जगत्कारणस्य परमेश्वरस्य ब्रह्मणः सविशेषत्वोपदेशाच्च । ननु---मायाऽविद्यावच्छिन्नसर्वज्ञत्वकिञ्चिद्ज्ञत्वधर्मानुगतेश्वरजीवयोर्गोशुनो- रिव एकत्वासम्भवाजहदजहल्लक्षणोक्तत्यागात्यागविधायकसोऽयंदेवदत्तवन्मायाऽविद्यो- पाधिनिराकरणपूर्वकाधिष्ठानैक्ये बाधकामावाल्लक्षणाऽङ्गीक्रियते इति चेन्न । ब्रह्म वेद ब्रह्मैव भवति" (मुं. ३-२-९) "ब्रह्म कामो ब्रह्मवेदन कुर्यात् परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते" (छां ८- १२-२) “शिव एको ध्येयः शिवङ्करस्सर्वमन्यत् परित्यज्य " (अथर्वशिखा. ३) ध्यात्वा मुनिर्गच्छति भूतयोनि समस्तसाक्षिं तमसः परस्तात् (कै. १-७) “श्रद्धाभक्तिध्यानयोगादवेहि " (कैवल्य. १-२) इत्यादौ भ्रमर- कीटवत्परमेश्वरोपासनात्मकध्यानज्ञानवशात् जीवस्य शिवत्वप्राप्तुयपदेशात् । “एष ८८ - श्री क र भाष्ये १-१-४ एव साधु कर्म कारयति" (कैषी. ३-९) इत्यादिश्रुतिषु सर्वकर्मकारयितृत्व- सालोक्यादिचतुर्विधमुक्तिप्रदायकत्वयोः परमेश्वरस्वैवाभिधानात्। “तदक्षत बहु- स्यां" (छां. ६-२-३) इत्युपक्रमवाक्यविरोधात् , एकविज्ञानेन सर्वविज्ञानप्रति- ज्ञाभङ्गप्रसगाच्च। ननु-उपासनाविधिना परमेश्वरसाक्षात्कारो नोपपद्यते। “ यद् दृश्य तन्नश्यं " इति न्यायेन घटवन्नाशप्रसङ्गात्. तदभावे ध्यानस्य निष्प्रयोजनत्वात्। किञ्च- सर्वज्ञत्वादिषविधधर्मावच्छिन्नस्य परशिवस्य ब्रह्मणः शिवशर्वशङ्करा- नन्दज्ञनानन्तादिशब्दानां हस्तकरपाण्यादिशब्दवत्पर्यायत्वात् अखण्डज्ञानस्वरूपपरम- शिवावलोकी शुद्धजीवस्तु तद्भिन्नस्तदभिन्नो वा नाद्यः प्रभाकरप्रभाभासमानस्य घटापटादिप्रपञ्चस्य स्वभासकप्रभाकरप्रकाशकत्वासम्भववत् परमशिवप्रेरितस्य तद्वे- तृत्वासम्भवात् । न द्वितीयः-चक्षुरिन्द्रियवत् स्वसाक्षात्कारासम्भवात्। जीवस्य तद्भिन्नज्ञानखरूपत्वेन तत्साक्षात्कारसिद्धिरिति चेन्न। जीवस्य तत्साक्षात्कारकर्तृत्वं तदुत्कृष्टज्ञानात्मकत्वेन तत्समानज्ञानात्मकत्वेन तदपकृष्ठज्ञानात्मकत्वेन वा ? नाद्य:- श्रुतियुक्तयनुभवविरोधात्। न द्वितीयः- तदुपासनासम्भवात् । पूर्वोक्तदोषापत्तेश्च । न तृतीय:-" ज्ञाज्ञौ द्वावजावीशनीशौ (श्वे. १-९) "प्रधानक्षेत्रज्ञपति - णेशः' (श्वे. ६-१६) “ईशानस्सर्वविद्यानामीश्वरस्सर्वभूतानां” (महाना. अनु. ४७) इत्यादिश्रुतियुक्त यनुभवसिद्धत्वेन तदपकृष्टत्वं सम्भवति। तथापि प्रभाकरप्रभामध्यस्थदीपवत् तत्साक्षात्कारासम्भवात् । तस्मादुपासनाज्ञानेन न ब्रह्मसा- क्षात्कारसिद्धिरिति चेन्न। प्रभाकरांशचक्षुर्मात्रेणैव प्रभाकरसाक्षात्कारसिद्धिवत् गुरुदीक्षाशुद्धस्य जीव- स्यैव परमेश्वरानुग्रहात्तत्साक्षात्कारसिद्धरविरोधात् । नो चेत्- ' ज्ञात्वा शिवं शान्तिमत्यन्तमेति" (श्वे.४-१४) "ब्रह्म वेद ब्रह्मैव भवति" "एषोऽणुरा- स्मा चेतसा वेदितव्यः" (मुं.३-१-९) इत्यादिश्रुतिशतभङ्गप्रसङ्गः । लोके गुरु- शिष्यबोधप्रचारोऽपि न स्यात् । तस्मात्पूर्वोक्तार्थ एव सर्ववेदान्ततात्पर्यमिति सिद्धान्तः। इति श्रीमन्निराभारवीरशैवयतित्रजपरिवृढश्रीपतिपण्डितभगवत्पादा- चार्यकृते द्वैताद्वैताभिधानविशेषाद्वैतसिध्दान्तस्थापके चैयासिक- ब्रह्ममीमांसासूत्रार्थप्रकाशके श्रीकरभाष्ये प्रथमाध्याये- चतुस्सूत्री समाप्ता। - WWWome श्रीकरभाष्य चतुस्सूत्रीस्थ- व्य क्ति - ग्रन्थ शब्द सू ची (भाष्यकारेण खयमुल्लिखितानामेव प्रन्थानां, व्यक्तीनां चात्र सङ्ग्रहः कृतः. न तु सम्पादकप्रदर्शितानां ( ) धनुश्चिह्नमध्यस्थानाम् ) २ | गोकर्ण ३२ २३ ४६ ६२ २८-६८ १४ जैमिनि . ၀ २८ ४६ व्यक्तिग्रन्थनाम. पृष्ठम् | गीता अगस्त्यमुनि अथर्वशिखा ८० | गौतमस्मृति अथर्वशिरः १४-३२ घण्टानाथ अन्तर्यामिब्राह्मण ५५ चरणव्यूह आगम १८ छान्दोग्य आथर्वणिक ३१ जाबालोपनिषत् आदित्यपुराण आनुशासनिक ५९ जैमिनीसूत्र उपमन्यु २८ जौमिन्याचार्य ऋग्वेद १५-१७-४४-५८ | ज्योतिर्नाथ एकोराम १-३७-४२ तैत्तिरीय ऐतरेय ३२ | त्रिपुरसंहार ऐश्वर्यशाखा १४ दधीचि कठवल्ली २८ | दशरथ काण्वशाखा ४४ दारुक कामिक २-१५ | दुर्वास कालाग्निरुद्र १४-२६ दुर्वासीय काशीखण्ड २३ धर्मसंहिता कुम्भसम्भव २८ निघण्टु कूर्मपुराण १४ पद्मपुराण कृष्णगीता ८ परमशिवानन्द कैवल्योपनिषत् ११-१२-१४-२५ परमशिवाराध्य २८-७२ परमानन्दाराध्य कैवल्यचन्द्रोदय ३१ । परमाराध्य कैवल्यप्रकाश पाश्चरात्र कौम ६८ पाराशरस्मृति २६-२८-४२ १२ २७ ५७ ३२ ३२ ३८-५३-८१ ६५ २० ४० ४२ ३१ १९, ३२, ४६ १९ पाराशर्यपुराण २८ | विष्णुपुराण ७१, ७२ पुराण १८ : वीरागम बादरायण ६ वेदपादस्तव ४६ बौद्धादि २६, २८ वेदव्यास २४ ब्रह्मोत्तरखण्ड ४३ व्यास ८, २४, २८ भट्टभास्कर ४६, ६० शङ्कर संहिता १३, २१, २६, ६८, भीमनाथ ४६ शङ्खकर्ण ३२ मनुस्मृति २३ शाम्भवानन्द ३८ मन्वादिस्मृति १२ शिवज्ञानचन्द्रोदय मरुलसिद्ध १ शिवधर्मशास्त्र ६८, ६९ महाभारत ५९ शिवरहस्यखण्ड महिम्न:स्तव ९, २४, ६१ शिवागम २०, ६० महोपनिषत् ५८ शिवाद्वैतप्रकाशिका ५६, ५७ माण्डूक्य ४५ शैवागम ३४ मात्स्य ६६, ६८ श्रीकरभाष्य २ मुण्डक १४ श्रीपतिपडित १५ श्वेताश्वतर १३, १४, २५ २६, यजुर्वेदसंहिता १२ २८, ४४, ५८ राम ५७ सदानन्दोपनिषत् १४ रामायण ७३ सामजैगीष १४ रुद्राध्याय १५ सामशाखा ६२ रुद्रसूक्त २५ सिद्धान्तशिखामणि १७, १९,२६ रेणुक २६, २८, ३२ सिद्धान्तागम १९, २०, ७० रेवण १ सूतगीता ६८ रेवणदेशिक १ सूतसंहिता ६०, ६८ रेवणसिद्ध १ सूत्रवृत्ति लैङ्ग (पुराण) १४, १६, १७, १८ स्कान्दपुराण १४, १७, २१, २२, २१, २४, २५ २३ वातूल २, १५, १७ हंसोपनिषत् १३ वायवीयसंहिता ५९ हरिवंश ६० वासुदेव ५७ हारीत ६७ " यजुर्वेद w w २ श्रीकरभाष्यचतुस्सूत्री- परि शोध न पत्रम् पृष्ठे १२ पकौ ३ ३ असाधु "त्वं देवानां न्ययेन वचनोन पादिश्यते वैदपुरुषस्य कृपया रुदोवा साधु "त्वं देवेषु ब्राह्मणः" "त्वं देवानां न्यायेन वचनेन पदिश्यते १३ १५ वेदपुरुषस्य " १६ १७ २८ २१ कृपया रुद्रो वा " १७ खं द्राव खं द्राव धारणं यस्य " २० १८ १२ २ २० १६ २१ २२ २२ २२ २२ २४ २६ २९ ३१ ३३ ३४ २४ ३५ ३५ २३ २४ २२ २४ २६ धारण यस्य द्धाण तध्दति श्रोतमि स्त्रीलोचनः कामिकोपा त्रिकरणौ शिवज्ञान साधनत्वत् धारयेलिङ्ग न्यायेन च पासनस्यैब छान्द्योग्ये सर्वानुभब विरोधित्त्वे घटस्सन् व्यप्तिमूल तराबृत्ति कामय वृ. ५-५ . द्धारणं तद् धृति श्रौतमि स्त्रिलोचनः कायिकोपा त्रिकरणे शिवध्यान शिवज्ञान साधनत्वात् धारयेल्लिङ्ग न्यायेन समक्षजलन्यायेन च पासनस्यैव छान्दोग्ये सर्वानुभव विरोधित्वे घटस्सन् व्याप्तिमूल तरावृत्ति कामाय वृ.४-५- १९ १२ १२ १७ २३ १५ ३६ २५ २१ اللہ الم للمه ३८ ४० ४१ २४ ४ ८ २० ४३ ४४ १२ १९ ८ १८ ४८ ४९ ५० शेषविलक्षणा शेषलक्षणा यदयमात्सा यदयमात्मा भुङक्ष्य भुक्ष्व स्वातन्त्यै स्वातन्त्र्ये व्वापार व्यापार असत्कार असत्कर वश्वरत्वं वेश्वरत्वं अफसु अप्सु नब्रह्म वि- ब्रह्म वि- नस्यब नस्य ब्र आनन्दाध्येव आनन्दाद्ध्येव दर्शनाच दर्शनात् , निरवयवस्य जीवस्य खामिक प्रपञ्चोत्पादनशक्तिदर्शनाच कल्पनमिति कल्पनमिति चेन्न तत्पतिबि तत्प्रतिबि त्वासिद्धेः त्वासिद्धेः,रामकृष्णावतारजनकस्यदश स्थवसुदेवादेरिवतथात्वेसर्वज्ञत्वासिद्धेः अनु. ११ अ. १० संयुकतु संयुनक्तु रेऽस्सृजत् रेऽसृजत् पाश्वार्त पार्धात्त शिवो मामेव पितरः शिवोमावेव पितरौ (१) ५१ ५७ १३ १८ २५ १० २३ ५९ ६२ m w v w " w w w १६ २७ परमेश्वर ६५ २१ षन्मात्र सहारस्य ६८ २१ ब्राह्मणो २१ दृष्टवा ७२ १३ परसात् परस्तात् ८२ १२ ब्रह्मण्यव्या ब्रह्मण्यतिव्या परमेश्वर पण्मात्र संहारस्य ब्राह्मणा दृष्टवा ८५ ९ ब्रह्माभेद ब्रह्माभेद ८६ २४ हारिकर्थ हारिकार्थ -0-0 कृत) प्रकाशित सर्वोत्तम मत ग्रंथ- संस्कृत भाषेमध्ये जंगमवाडी मठका प्राचीनत्व लिंगधारण चन्द्रिका (म० म० पं० (हिंदी) श्री शिवकुमार शास्त्रीकृत टीका तेलगू भाषा ग्रंथ सहित) श्री महानारायणोपनिषत् वीरशैवरत्न ( वीरशैव भाष्य) लिंगधारणविधि पुरुषसूक्तम् ( वीरशैव भाष्य) ०-४-० लिंगधारणसिद्धान्त ०-२-० सिद्धान्तशिखामणिः (मूलमात्र) ०-६-० सिद्धान्तशिखामणि नन्दिकेश्वर कारिका (उपमन्यु (मूलमात्र) श्रीकरभाष्य (चतुस्सूत्री) ०-१२-० श्री ज० विश्वाराध्याष्टोत्तर- मठमुलु मंदिरमुलु शतनामावलिः ०-२-० रेणुकाचार्य चरित्र ( संक्षित) श्री ज० पंचाचार्याष्टोत्तर- शिवानंदनशास्त्रि शृंगभंगमु ०-१-० शतनामावलिः श्रीगणेशाष्टोत्तर शत- संक्षिप्त शिवपूजा विधि ०-२-० नामावलिः ७-१-० वीरशैव महात्मलु दुर्वाददूरीकरणम् ०-४-० रेणुकविजयपुराणम् १-०-० श्रीकरभाष्यम् १-४-० शिवपंचस्तवि वीरशैवरत्न (मराठी) विश्वाराध्य अष्टोत्तर शत- काशीपीठाचे प्रचीनत्व नामावली ०-२-० (मराठी) पाल्कुरिकि सोमनाथ चरित्र गोत्रसूत्रपट शक्तिविशिष्टाद्वैत सिद्धान्त शक्तिविशिष्टाद्वैत सिद्धान्त (मराठी) वीरशैव विवाह विधि संक्षिप्तशिवपूजा विधि सिद्धांत शिखामणि मूल शक्तिविशिष्टाद्वैत सिद्धान्त काशीपीठद जजमेंट (कन्नड- (हिंदी) इंग्लीषु ) काशी जगद्गुरु महास्वामी यांचे मनोहर रंगित फोटो वगैरे मिळत आहेत. मिळण्याचा पता- - ه-مسی मॅनेजर अंगमवाडी मठ बनारस सिटी

No text on this page.

Sri Karbhashyam Vol- I V

Author
Sri_chidirematiyeveerchandrasharma
Other authors
Ccl
Title
Sri Karbhashyam Vol- I V
File name
Sri Karbhashyam Vol- I V
Text
OCR done
Citation
1877
Publisher
Jangmavaadimthsthyshaybharthi_bhavanam
Language
Sanskrit
Pages
119
Library
Scl
DLI number
326482
Barcode
2020010007854.00
Scanning centre
City Central Library, Hyderabad
Digital publisher
par informatics, hyderabad
VMLT id
WS4zEdVDj9o
Download PDF

Sri Karbhashyam Vol- I V