Asr,melkote

Mimamsa Koustubha Vol.3 And Fasciculus 2

Khand-d'adeva · 2004/12/26

PDF Proofread

Front matter

No text on this page.

September 19:31. THE CHOWKHAMBA SANSKRIT SERIES! A COLLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS. NO.405. R- मीमांसाकौस्तुभः॥ Reyrstered According to Act LXV 9f i 867. (All Rights Reserved.) ( मीमांसासूत्रोपरि काचन विस्तृता टीका ) (द्वितीयाध्यायस्य प्रथमः पादः।) पूर्वोत्तरमीमांसापारावारपारीण- श्रीखण्डदेवविरचितः श्रीकाशीहिन्दूविश्वविद्यालयप्रधानमीमांसाध्यापकेन वेदविशारदबिरुदाजा पं. अ. चिन्नस्वामिशास्त्रिणा तच्छिष्येण श्रीपट्टाभिरामशर्मणा मीमांसाशास्त्रिणा च संशोधितः श्रीजयकृष्णदासगुप्तेन मुद्रापितो विजयताम् । BY MIMAMSAKAUSTUBHA [ An exhaustive Commentary of Jaiminisutras ] (I Pada of II Adhyaya ) KHANDADEVA. Edited by «VedaVisaruda” Pandit A, Chinnaswami Sastri, Chief Professor of Mimamsa. Benares Hindu University and his pupil Sri Pattabhirama Sarma M. S. Vol. III. FASCICULUS II-२. PUBLISHED & SOLD BY THE SECRETARY, CHOWKHAMBA SANSKRIT SERIES OFFICE, Vidya Vilas Press North of Gopal Mandir Benares City. 1932 DOHOOK *श्रीः आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता। सुवर्णाऽङ्कितभव्याभशतपत्रपरिष्कृता ॥ १ ॥ चौखम्बा-संस्कृतग्रन्थमाला मञ्जुलदर्शना । रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥ २ ॥ स्तबक:-४०५ सिद्धान्तः] प्रथमाध्यायस्थ दितीयः पादः । ९.9 " सि यस्य सः,त्रिभिदैर्बद्धः, कामावर्षतीति वृषभः, रोरवीति फलार्थं मह्यं कुरुतेत्यावेदयति, महो देवः, मान मनुष्यान्, अ. धिकारित्वेन स्वीकृतवानिति गोण्या वृत्त्या यागस्तुतिरिति भा. ध्यकारण व्याख्यातम् । तद्विनियोगाऽननुसारित्वाद्वार्तिककृताऽन्यथा व्याख्यातम् । अयं हि ऋग्वेदे विषुवत्संज्ञके एकाहे अतिदेशप्राप्तेषु होत्रादीनां चतुणीमाज्यसंज्ञकेषु शस्त्रेषु मध्ये होतुराज्ये 'आग्नेयं होता शंसती' ति वचनादग्निस्तावके विनियुक्तोऽग्निप्रकाशक इत्य- विवादम् । विषुवतश्च "सूर्यदेवत्यं होतदह" रिति श्रुतेरादित्य- देवतात्वेन संस्तवात्तजस्त्वसामान्यादादित्यरूपेणाऽग्नेः स्तुतिरुप- वर्ण्यते-चत्वारो दिवसयामाः, त्रयः शीतोष्णवर्षाकालाः, द्वे अयने, सप्त अश्वाः शृङ्गादिरूपेण यस्य सः, सवनत्रये बद्धः, वृष्टिहेतुत्वादृषभः, रोरवीति गर्जितेन, महो देवो मानाविवेश उत्साहकारित्वात् । अतश्च यद्यपि स्तोत्र शस्त्राणामदृष्टार्थत्वान्ना. ऽस्य कर्मसमवेताऽग्निप्रकाशनार्थत्वं, तथाऽपि 'त्रयो अस्य पादा' इति सर्वनाम्ना सन्निहिताऽग्निपरामर्शेनाऽग्निस्तुसर्थत्वेनाऽवधा- रणान्नाऽऽनर्थक्यम् । एवं(१) "ओषधे त्रायस्वैन" मित्यादा. वप्यचेतने स्तुयर्थं चैतन्याध्यारोपेण सम्बोधनरूपत्वमुप- पादनीयम् ॥ ४८॥ गुणादविप्रतिषेधस्स्यात् ॥ १-२-४९ ॥ यस्तु(२) "अदितिौरदितिरन्तरिक्ष" मित्यादावर्थविप्र- तिषेधशङ्कितः, स शुत्वादीनां स्वरूपेणाऽविवक्षितत्वाद्वौण्या वृत्या स्तुत्यर्थमेवोपात्तत्वात्, त्वमेव माता त्वमेव पितेच्यादिवन्न १. तै. सं. १. २. १. २. ऋ. सं. १. ६. १६. १३ मी० को मीमांसाकौस्तुभे [ मन्त्राधिकरण- दोषाय ॥ ४९॥ विद्याऽवचनमसंयोगात ॥ १-२-५० ॥ यत्तु स्वाध्यायाऽध्ययनकालेऽर्थप्रकाशनानभ्यासरूपं विद्याया अवचनं, तत्कर्मकाल एवार्थाभिधानस्याऽभ्यासमन्तरेणैव सौक- योदिति द्रष्टव्यम् ॥ ५० ॥ सतः परमविज्ञानम् ॥१-२.५१ ॥ यदपि परमर्थाज्ञानाख्यं कारणमुक्तं, तत्सत एवाऽर्थस्य प्रमादालस्यादिनाऽविज्ञेयत्वाद्रष्टव्यम्। अर्थसत्ताऽवधारणं तु नि- गमनिरुक्तव्याकरणप्रकरणऋषिदेवतास्मरणादिना यथासम्भव. मुपपादनीयम् । तद्यथा- "अम्यक्सात इन्द्र ऋष्टिरस्मे सनेम्यभ्वं मरुतो जुनन्ति । अग्निश्चिद्धि मातसे शुशुकानापो न द्वीपं दधति प्रयांसि "॥ इत्यस्यामृचि (१)छन्दोमद्वितीयेऽहनि चिनियुक्तायामगस्त्येन १. द्वादशाहे द्वादश दीक्षाः द्वादशोपसदः द्वादश सुत्याः। तत्र द्वाद- शसु सुत्यासु प्रथमोत्तमे अहनी वर्जयित्वा मध्यगतानां द्वादशानामहां क्लतिरेवमाम्नाता-'पृष्ट्यषडहायश्छन्दोमाः अविवाक्यं दशम. मह' रिति । अस्याऽयमर्थ:-यषडहस्स पृष्ठ्यः, पृष्ठस्तोत्रसाधनी. भूतरथन्तरादिविशिष्टः । माहेन्द्रस्तोत्राख्यं यत्पृष्ठस्तोत्रं तत्प्रथमदिने रथन्तरण सामना कर्तव्यं, द्वितीयदिने बृहता, तृतीयदिने वैरूपेण, चतुर्थदिने वैराजेन, पञ्चमदिने शावरण, षष्ठादिने रैवतेनेति या. वत् । ततस्त्रयश्छन्दोमाः । यदीयास्तोमाः गायत्रीबृहत्त्यनुष्टुप्छन्दो- गतसङ्ख्याभिर्मीयन्ते ते छन्दोमा इत्युच्यन्ते । गायन्यादिसमसङ्ख्याक- स्तोमविशिष्टान्यहानीति यावत् । तेषां त्रयाणामह्नां मध्ये यद्वितीयमहः अर्थाद्वादशाहीयनवमहस्तनेत्यर्थः ।।

सिद्धान्तः ] प्रथमाध्यायस्य द्वितीयः पादः । , ASIATIHAR ऋषिणा इन्द्रो मरुत्वान् धन प्रार्थितः । अत एव (१)"त्वंतून इन्द्र तं रयिं दा" इति वक्ष्यमाणेन सम्बन्धात्प्रथमतृतीयपादयोईि. तीयचतुर्थपादयोश्च सम्बन्धादयमर्थोऽवगम्यते-हे इन्द्र ! ते, या ऋष्टिः आयुधविशेषः, अम्यक् अमा सह अञ्चतीत्यम्यक् , नित्य सहचारिणी आतिवल्लभाऽपि सा, त्वत्प्रसादेन अस्मे अस्माक- मेव । येऽपि मरुतो मेघाः, सनेमि पुराणं, अभ्वं तोयं, जुनन्ति क्षिपन्ति, तेऽप्यमी स्वप्रियसखाः, अस्मे अस्माकमेव । कीदृशी ऋष्टिः ? अतसे शुष्कतृणे, शुशुकान दीप्तवान् , अग्निरिव । हि स्म प्रसिद्धौ, चिदित्युपमाः। कीदृशाश्च मेघाः ? नेत्युपमार्थे । आपो यथा द्वीपं पुलिनं प्रति, प्रयांसि अन्नाद्यानि, दधति धारयन्ति, तथेति । एवं साधारणद्रव्ये भवानस्माकं, रयिं धनं, दाः देहि, इति । एवं- "मृण्येव जरी तुर्फरीतू नैतोशेव तुर्फरी पर्फरीका । उदन्यजेव जेमना मदेरू ता मे जरायबजरं मरायु" ॥ इत्यस्यामृचि भूतांशेन ऋषिणा जरामरणनित्यर्थमश्विनौ स्तुताविति(२) "आभूतांशो अश्विनोः काममाः" इत्युपसंहा- रादवगम्यते । मृणिः अङ्कुशः, तत्र साधू मृण्यौ, अर्थात्कुञ्जरौ, ताविव जरी जृम्भमाणी, तुर्फरीतू हिंसितारौ, नितोशनं वधा, तत्कारिणौ नैतोशौ योद्धाराविति यावत् । ताविव, तुर्फरी स्वरमाणौ, पर्फरीका शोभायुक्तौ, उदन्या पिपासा, सा च चात- कस्य विवक्षिता । तत्काले प्राकृषि जातौ चातको यथा जेमना उदकवन्तौ सन्तौ उदकलाभेन मदेरू मत्तौ भवतः, तथा यौ मदेरू मत्तौ, तौ, मे, जरायु मरायु जरामरणधर्मकं शरीरं, अजरं अमरं च कुरुतमित्यध्याहारः ॥ ५१ ।। १.ऋ. सं.२.४.८. २. ऋ. सं.८.६.२० मीमांसाकौस्तुभे [मन्त्राधिकरण- उक्तश्चाऽनित्यसंयोगः ॥ १.२.५२ ॥ यश्च "किन्ते कृण्वन्ती" त्यत्राऽनित्य संयोगश्शङ्कितस्सः (१)"परन्तु श्रुतिसामान्यमात्र" मित्यत्र परिहृत एव । कीकटाः कृपणाः, प्रमगन्दः कुसीदवृत्तिः, तस्य वेदः धनं, नीचाशाखः पण्डः, तदीयं धनं नैचाशाखं, तबोभ यमपि (२)न कर्माऽह, तेषां कर्मण्यनधिकारात् । अतस्तदस्माकमाहरोति । एवं हि गोण्या वृक्या प्रमगन्दादिशब्दानामर्थे क्रियमाणे सर्वेषां प्रवाहनित्यत्वान्ना- स्त्यनित्यसंयोगः ॥ ५२ ॥ लिङ्गोपदेशश्च तदर्थवत् ॥ १-२-५३ ॥ किञ्च "आग्नेय्याऽऽग्नीध्रमुपतिष्ठत” इत्यर्थाभिधानलिङ्गेनोप. स्थानोपदेशोऽर्थाभिधानपरत्व एवोपयुज्यते, नोच्चारणार्थत्वे । आग्नेय्येति देवतातद्धितोऽयम् । देवतात्वचाऽत्र प्राधान्येन मन्त्रजन्यस्तुतिभाक्त्वम् , न त्वभिधीयमानत्वमात्रं, एकदेवत्येऽपि मन्त्रेऽनेकदेवतान्तरपदप्रयोगे सति तद्देवत्यव्यपदेशाभावात् । न च प्राधान्यमर्थपरत्वं विना सम्भवतीत्यर्थपरत्वनिश्चयः ॥५३॥ ऊहः ॥ १-२-५४ ॥ तथा उहदर्शनं "न माता वर्द्धते न पिते" त्यादिकम- प्यर्थपरत्व पवाऽर्थवत् । न ह्यनेन(३)पितृमा त्रादीनां स्थौल्पादि. रूपा वृद्धिः प्रतिषिध्यते, प्रत्यक्षविरोधात् । अतश्शब्दवृद्धिः प्रतिषेद्धव्या । सोऽपि च न वर्णान्तरोपजननेन, न वा स्थूलो- च्चारणेन । वर्णान्तरोपजनने पदान्तरत्वापत्तेः प्रकृतिप्राप्तप. १. जै. सू. १. १. ३१. २. अकर्माऽहमिति. ख. पु. ३. पशुमात्रादीति. ख. पु. । ..

सिद्धान्तः ] प्रथमाध्यायस्य द्वितीयः पादः । ॥ दवृध्यसम्भवात् । स्थूलोच्चारणस्य च नादधर्मत्वेन शब्दत्ति- स्वाऽसम्भवात् । अतो द्विवचनबहुवचनान्तत्वेनाऽर्थगताधिक्य. द्वारा शब्दशद्धिरूहाल्मिका तेन वचनेन प्रतिषिध्यत इति वक्त. व्यम् । प्रतिषेधश्व प्राप्तिसापेक्षः । प्राप्तिश्च पशुगणे सर्वत्र मा. त्रादीनामभिधाने कर्तव्येऽवकल्पते नाऽन्यथा । अतश्चाऽयं प्र. निषेधः यथाऽध्रिगुप्रैषस्याऽर्थपरत्वे लिङ्गं तथाऽन्यमन्त्राणामप्य. र्थपरत्वे । सत्यां हि सर्वत्राऽर्थपरत्वेन ऊहप्राप्तीकचित्तनिषेधोऽव. कल्पते नाऽन्यथा। यद्यपि च नाऽयं निषेधविधिः, इडानिगदगतयज्ञपतिशब्द. वन्मात्रादीनां पशुविशेषणानां (१)परार्थत्वेनोहाविषयत्वात् । (२)अर्थपरत्वेऽपि च पशुभेदेऽपि यत्रैकमात्रादिजन्यत्वं तत्रोह. स्याऽप्रसक्तत्वादेव निषेधानुपपत्तिः। यत्र तु मात्रादीनां भेद- स्तत्राऽपि मातृत्वादीनां स्त्रीत्वादिसमानाधिकरणजनकत्वादिरू- पाणां ससम्बन्धिकत्वात्प्रतिसम्बन्धिपशुभेदप्रतीत्यैव मात्रादि- भेदप्रतीतिसिद्धेनं मात्रादिभेदप्रतीतिसिध्यर्थमूहप्रसक्तिः, तथा. ऽपि न्यायासिद्धानूहानुवाद एवाऽन्यत्र मन्त्रान्तरे न्यायसि. दोहोपोदलकत्वादर्थपरत्वविवक्षायां लिङ्गामित्याविरोधः । तथा "यद्यप्यन्यदेवत्यः पशुराग्नेय्येव मनोता कार्ये" ति वचनमपि वायव्यादिपशौ ऊहनिषेधकमन्यत्र ऊहमाप्तलिङ्गमुदाहृतं वार्ति ककृता । इदं हि (३) त्वं ह्यग्ने प्रथमो मनोते" ति मनोता. मुक्तस्याऽग्नीषोमीयाद्वायव्यादिपशावातिदेशेन प्राप्तस्योहप्रसक्ती आग्नेय्येव कार्येत्येवमूहप्रतिषेधार्थ वचनम् । वस्तुतस्तु अस्य सूक्तस्य केवलाग्निप्रकाशकस्योभयदेव. १. अर्थपरत्वेनेति. ख. पु. २. अपारायेंऽपीति. क.ख.पु. ३. ऋ. सं. ४. ४.३१० मीमांसाकौस्तुभे [ मन्त्राधिकरण- त्येऽग्नीषोमीये लिङ्गेनाऽविनियोगादुत्कर्षे प्रासे, ज्योतिष्टोमप्रकर- णबाहिर्भूतकेवलाऽग्निदेवत्ये पशुयागे च सामान्य सम्बन्धबोधक- प्रमाणाऽभावेनोत्कर्षाऽयोगेऽपि ज्योतिष्टोमप्रकरणादस्य मुक्तस्य केवलज्योतिष्टोमसम्बन्धावगते, साक्षाञ्च(१) 'मनोताय इवि. षोऽवदीयमानस्याऽनुब्रूही ति प्रैषवशेनाऽवदीयमानपश्वाख्यद्रव्य. सम्बन्धित्वेनाऽवगतस्य मनोतामूक्तस्य ज्योतिष्टोमसम्बन्धाऽयो. गादानर्थक्यतदङ्गन्यायेन ज्योतिष्टोमाङ्गभूतकेवलाग्निदेवत्य- सवनीयपशुयाग उत्कर्षः प्रसक्तः, तनिवृत्यर्थत्वेन प्रकृतावे. वैतस्य वचनस्योत्कर्षनिवृत्त्यर्थत्वेनोपपत्तौ न वायव्यादि. पशावप्रसक्तऋगृहनिवृत्यर्थत्वकल्पनमुपपत्तिमत् । न हि मनो. तास्थाऽनिशब्दस्यैव ऐन्द्रीन्यायेनाऽग्रीषोमीयदेवताल क्षकत्वात्प्र. कृतावन्यायनिगदस्य वायव्यादिपशावूहमसाक्तरास्ति । नन्वेतस्याऽग्निपदस्य प्रकृताऽपूर्वसाधनीभूतदेवताप्रथमाधि- ष्ठानप्रकाशकत्वेन मुख्यार्थत्वोपपत्तौ ऐन्द्रीन्यायानुपपत्तेरस्यैव सोमापौष्णयागादौ प्रथमाधिष्ठानप्रकाश नार्थमूहमसक्तिः, न च "पूयति वा एतहचोऽक्षरं यदेनदूहती"ति ऋगक्षरोहनिषेधाद- प्रसक्तिः, अक्षरोहनिषेधेऽपि प्राकृत्या ऋचोऽसमर्थत्वेन निवृत्ता- याः प्रथमाधिष्ठानप्रकाशनरूपोपकारस्य जनकापेक्षायां ऋग. न्तरागमरूपस्योहस्य दुर्निवारत्वादिति चेन्न, अग्निपदस्य मनो- तापदसमानाधिकरणत्वेनैन्द्रीन्यायेन प्रकृतापूर्वसाधनीभूतदेव- तालक्षकस्यैवाऽङ्गीकारात् । मनोतापदं हि 'मनोतायै हविषोऽव. दीयमानस्येति प्रैषे अवदीयमानयागीयपश्वाख्यद्रव्योद्देश्यत्वरू. पदेवतात्ववाचिचतुर्थीयोगादेवतापरम् । तदुद्देशेन च मनोतानु- वचनस्य त्रैषवलेन विध्यवगतेमनोतामन्त्रो देवताप्रकाशनार्थ १. आप. श्री. ७. २४.१.

चाव्या. सिद्धान्तः ] प्रथमाध्यायस्य द्वितीयः पादः । १०३ एव । अतस्तत्समानाधिकरणमग्निपदमपि मन्त्रे देवतालक्षणार्थ. मेव । लक्षणाऽपि च नान्यधिष्ठानकत्वसम्बन्धेन, यतो धान्य. शब्दवद्वायव्यादिपशौ सम्बन्धाभावादूहः प्रसज्येत । तस्य स्व. व्याप्यत्तित्वाचाप्यत्तिसम्बन्धेन लक्षणासम्भवे प्यत्तिसम्बन्धेन तदयोगादनिमुखा वै देवा' इत्यर्थवादा. नुसारेणाऽनिमुखत्वसम्बन्धेन लक्षणाश्रयणम् । अतश्च तस्य वायव्यादिपशौ सम्भवेन "तस्यै शृत" मित्यादिवदनूहः । अत एवाऽऽग्नेय्यवेत्यत्राऽग्निपदलक्ष्यदेवतातद्धितोपपत्तिः । वि. स्तरेण चैतदशमे(१) वक्ष्यते । अतोऽन्याय्यनिगदत्वादहाप्रस. तेरलिङ्गमिदम् । एवं 'छागस्य वपायामिति मन्त्रस्य गोपशावतिदेशप्राप्त. स्याऽनेकैर्गोपर्यायैरूहप्रसक्तौ 'उस्राया वपाया' इति मन्त्रवि- शेषानानं नियममात्रकरणलाघवायाऽर्थपरत्वमेव ज्ञापयति ॥५४॥ विधिशब्दश्च ॥ १-२-५५॥ ब्राह्मणाख्यविधिशब्दश्च 'शतं हिमा' इति मन्त्रगतहिमाश- ब्दव्याख्यार्थः 'शतं वर्षाणी'त्याद्यर्थवादरूपो मन्त्राणामर्थप्रत्या. यनार्थत्व एवाऽवकल्पते, नाऽन्यथा। प्रयोजनं तु- (२)अग्निहोत्रपदं नाम, (३)आधारे यागकल्पनम् । १. पू. मी.१०.४.१४. २. 'अग्निज्योतिज्योतिरग्निस्स्वाहे' ति मन्त्रस्य विवक्षितार्थत्वे सत्येवा 'ग्निहोत्रं जुहोती' त्यत्राऽग्निहोत्रपदस्य कर्मनामधेयत्वं सि. ध्यति । एतच १-४-४ अधिकरणे विचारितम् ॥ ३. 'इन्द्र ऊोऽध्वर' इत्याऽऽधाराङ्गत्वेन विहितेन मन्त्रेण देवता- याः प्रापितत्वाद्रव्यदेवतासम्बन्धान्यथाऽनुपपत्त्या यागकल्पने द्वि. तीयोक्तं (२-२-५) सङ्गछते ॥

१०४ मीमांसाकौस्तुभे [ मन्त्राधिकरण- (१)मुख्यार्थे विनियोगोऽयं (२)आमिक्षा पय एव च ॥ (३)मन्त्रक्रमबलीयस्त्वं (४)छागस्य नियमस्तथा । (५)अग्नौ पृष्ठपदं मन्त्रलक्षणार्थ वदिष्यते ॥ (६)अभिमर्शनमन्त्राणां विकल्पस्सौर्य इष्यते । (७)अहोऽथ नवमे यस्तु(८)आधारे मन्त्रबाधनम् ॥ १. मन्त्राणामर्थवत्वे सत्येव 'बहिर्देवसदनं दामी' त्यादिमन्त्राणां मुख्ये कुशलवनरूप एवार्थ विनियोगः न पुनरुलपराजिलवनादादिति तार्तीयीको निर्णयः (३-२-१) सङ्गतो भवति ॥ २. 'जुषन्तां युज्यं पयः' इति मन्त्रस्याऽर्थप्रकाशकत्वे सत्येक तत्प्रतिपादितं पय एवाऽऽमिक्षापदवाच्यं न तु दध्यपीति चातु- र्थिको निर्णयः (४-१-९) उपपद्यते॥ ३. आग्नेयाऽग्नीषाभीययो ब्राह्मणपाठक्रमस्याऽन्यथात्वेऽपि मन्त्र- पाठक्रमादेव तयोः क्रमः । ब्राह्मणपाठापेक्षया अन्तरङ्गत्वेन मन्त्रपाठस्य प्राबल्यादिति पाञ्चमिको ( ५-१-९)निर्णयः मन्त्राणां विवक्षिता. थत्व एव घटते॥ ४. एवमनीषोमीयपशुयागाङ्गभूतमन्त्र 'छागस्य वपाया मेदस' इत्यस्मिन्छागपदश्रवणाद्यागीयः पशुरज एवेति निर्णीतं षष्टाष्टमा. त्याधिकरणे॥ ५. पृष्ठेरुपतिष्ठत' इति चयनप्रकरणे श्रुते वाक्ये पृष्ठशब्दः पृष्ठ. स्तोत्रसाधनरथन्तराद्याधारभूतऋग्लक्षक इत्युक्तं सप्तमतृतीयाऽन्त्या. धिकरणे॥ ६. 'चतुर्होत्रा पौर्णमासीमाभिमृशेत्पञ्चहोत्राऽमावास्या' मिति पौर्णमास्यमावास्याकालिकयागीयहविरभिमर्शनाङ्गत्वेन विहितयोः 'पृथिवी होते' त्यादिमन्त्रयोः सौर्येष्टौ विकल्पेन प्राप्तिः। तस्याभय- कालिकाग्नेयद्वयविकृतित्वादियुक्तमष्टमप्रथमषष्ठे ॥ ७. नवमे मन्त्राणां प्रकृती पाठतानां प्राकृतकार्यभिन्नकार्यप्रकाश कत्वेन विकृतावूह उक्तः ॥ १.वायव्यपशो 'हिरण्यगर्भस्समवर्तताऽन इत्याघारमाधारयः तीति विहितस्य वैशेषिकमन्त्रस्य प्राकृते 'न्द्र ऊध्वोऽध्वर' इति मन्त्रवाधकत्वमुक्तं दशमतृतीयद्वितीयाधिकरणे ॥ .

सिद्धान्तः ] प्रथमाध्यायस्य द्वितीयः पादः । १०५ (१)मन्त्रावृत्तिर्दीक्षितस्याऽभिवृष्ट्यादिदर्शने । (२)तथा करणमन्त्राणां विकल्पो द्वादशेऽपि यः ॥ सर्वमेतत्तदा सिध्येन्मन्त्रार्थ श्चेद्विवक्षितः । तस्मादर्थप्रसायनार्था मन्त्रा इति सिद्धं प्रामाण्यम् ॥५५॥ इति मन्त्राधिकरणम् ॥ ४॥ मीमांसाम्बुनिधि प्रमथ्य विविधैन्यायोच्चयैर्निरैः कृत्वा जैमिनिसूत्रमन्दरममुं वेदं तथा वासुकिम् । यद्धालाहलसंज्ञमेव कलितं ग्रन्थान्तरं सज्जनः श्रीकृष्णस्य तु भूषणाय स परं यः कौस्तुभाख्यो मणिः ।। श्रीरुद्रदेवसुनोः कृतिरेषा खण्डदेवस्य । मीमांसाकौस्तुभाख्या प्रथमेऽध्याये द्वितीयाङ्ग्रेः ॥ इति पूर्वोत्तरमीमांसापारावारपारीणश्रीरुद्रदेवमूनोः खण्डदेवस्य कृतौ मीमांसाकौस्तुभे प्रथमाध्याये द्वितीयः पादः समाप्तः॥ १. दीक्षितस्य प्रयाणमध्ये वृष्टयादिसम्भवे पठनीयत्वेन विहि. तस्य मन्त्रस्य प्रतिनिमित्तमावृत्तिरित्युक्तमेकादशे ॥ २. 'भगो वां विभजत्वि' त्यादिकरणमन्त्राणां ब्रीहियववद्वि कल्प इति द्वादशतृतीयत्रयोदशाऽधिकरणे निर्णीतम् । सर्वमेतन्मन्त्राणां विवक्षितार्थत्व एव साधु सङ्गच्छते । अविवक्षितार्थत्वे तु प्रतिपादनीयस्यैवाऽर्थस्याऽभावात्सर्वमिदं दत्त. जलाजलि स्यादिति भावः ॥ १४ मी० को

No text on this page.

॥ श्रीः ॥ मीमांसाकौस्तुभः॥ ( द्वितीयाध्यायस्य प्रथमः पादः ।) अथ प्रथमं प्रतिपदाधिकरणम् ॥ १ ॥ भावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतीयतैष यर्थों विधीयते ॥ २-१-१॥ (विषयसंशयो) एवमुक्तेषु धर्मप्रमाणेष्वधुना प्रमेयभूतं धर्मस्वरूपं निरू- प्यते । तत्राऽपि धर्मप्रमाणेषूक्तेषु अर्थादेतत्प्रमाणप्रतिपाद्यो धर्म इत्येव सामान्यतो धर्मस्वरूपावगतावपि कात्स्न्येन तदनवगमा. दिदानी धर्मस्वरूपस्य विशेषतोऽवगत्यै तद्गतानेकत्वरूपो भेदो निरूप्यते । अतश्चोत्सर्गापवादाभ्यां भेद एवाऽध्यायार्थः । तत्राऽपि प्राधान्येन भावनाभेदो निरूप्यते । धात्वर्थभेदस्तु तत्सिध्य. र्थम् । अवच्छेदकीभूतधात्वर्थभेदेन तदवच्छिन्नभावनाया भेद- स्य(१)शब्दान्तराधिकरणे वक्ष्यमाणत्वात् । इदं च प्रायिकम् । अत एव धात्वर्थभेदाभावेऽपि गुणादिप्रमाणेनाऽऽपतन्भाव- नाभेदोऽपि गुणफलाधिकारेऽङ्गीक्रियत एवेति वक्ष्यते । अपूर्व दस्तु भावनाभेदानुनिष्पादितया । सति हि व्यापाररूपभावनाभे. दे(२) फळभेदाधीनत्वायापारभेदस्य फलभूतापूर्वभेदसिद्धिः १. पू. मी. २. २. १. २. फलभेदव्याप्यत्वादिति. क: पु.

मीमांसाकौस्तुभे [प्रतिपदाधिकरण- सुलभैव । अतश्च धात्वर्थभेदापूर्वभेदयोर्भावनाभेदसिध्यर्थत्वा. स्फलस्वरूपत्वेऽपि प्राधान्येन भावनाभेदस्यैव शब्दान्तरादिभिः षभिः प्रमाणैः प्रतिपाद्यत्वात् स एवैकोऽध्यायार्थः । तत्र च 'मानाधीना मेयासिद्धि' रिति न्यायेन प्रमाणनिरूपण- स्य धर्मस्वरूपनिरूपणं प्रति हेतुत्वात्(१) तदनन्तरमेतदारम्भोना- ऽयुक्तः । अङ्गत्वादिनिरूपणस्याऽपि प्रमाणाधीनत्वे सत्यपि भेदा. पेक्षत्वस्याऽप्यधिकत्वादयमेव भेदनिरूपणावसरः । तत्र च(२) प्रतिपाद्यस्य भावनाभेदस्याऽपूर्वभेदाधीनत्वात् अपूर्वस्य च सा- क्षाद्भावनाजन्यत्वाभावेन द्वारीभूतधात्वर्थादिजन्यत्वप्रतीतः त. द्भदादेव भेदोऽवसीयते, नाऽन्यथा; ब्यापकाभावे व्याप्यामा- वस्य नियतत्वात् । धात्वादीनां चाऽपूर्वजनकता फलकरण स्वाधीनेति प्रथम फलसम्बन्ध एव किं धात्वर्थस्य ? उत सोमा- दिद्रव्यस्य ? इति विचार्यते । यद्यपि च "त्रीहीनवहन्ति, व्रीहीन्प्रोक्षाती" त्यादेः द्वि. तीययैव ब्रीह्यादेः कर्मत्वावधारणात् परिशेषेणैव धात्वर्थस्य क- रणत्वावगतेः, “दध्ना जुहोति' "दध्नेन्द्रियकामस्य जुहुयादि" त्यादेश्व होमस्य प्राप्तत्वनाऽविधेयत्वात् विधेयस्य गुणस्यैव क. रणत्वावगतेस्सन्देहाभावेन नोदाहरणत्वम् , अत एव एतदधि. करणापवादभूते(३) "तानि द्वैध" मित्यादौ(४) इन्द्रियकामाधि. करणे च तयोरुदाहरणत्वमिष्टम्, तथाऽपि “सोमेन यजेत"(५) "सौर्य चळं निर्वपेत् ब्रह्मवर्चसकाम" इत्यादौ किं होमादीनां फलभावनाकरणत्वं ? उत धात्वर्थस्यैव तदिति विचार्यते । ७ -- १. तदनन्तरमेव तदारम्भ इति. क. पु. २. प्रतिपाद्यभावनेति. क. पु. ३. जै. सू. २.१.६. ४. प.मी. २.२.१०. ५. तै. सं. २. ३. २. .

पूर्वपक्षः ] द्वितीयाध्यायस्य प्रथमः पादः। (सङ्गतिः ) अत्र चाऽपूर्व भेदोपयोगिचिन्तनस्य पादार्थत्वादपूर्वभेदस्य चाऽध्यायार्थभूतभाननाभेदफलत्वात् पादाध्यायसङ्गती स्पष्टे । अनन्तरा तु स्वाधवदानानां कार्यविशेषे निरूपिते सम्प्रति स्व. र्गादिरूपकार्यस्य कारणावशेषनिरूपणाद्रष्टव्या । एतद्विचारोपो. द्वातत्वेनाऽपि किं सर्वेषामेव फलभावनाकरणत्वं, उत इतरपदा. थविशेषितस्यैकस्यैवेति चिन्तनीयम् । (पूर्वपक्षः) तत्र प्राथमिकभावनासम्बन्धस्य हि तावत्सर्वेषामेव पदानां सिद्धान्तिनोऽपि सम्मतत्वात् पार्टिकः फलान्वयोऽपि सर्वेषा. मेवाऽगृह्यमाणविशेषत्वाद्वक्तुमुचितः, न त्वेकस्यैव फलान्वयः, इ. तरेषां तु तदर्थत्वमिति । न हि गृह्यते विशेषो यदेकस्यैव, कर- गत्वं नेतरेषामिति । समानपदश्रुत्या धा धात्वर्थस्य, कारकश्रुत्या सोमादीनामपि चाऽविशेषेण फलभावनाकरणत्वप्रतीतेः, सति सम्भत्रे प्रधानान्वयस्य न्याय्यत्वाच्च । एकस्य फलान्यायिनः फलगुणान्वये वैरूप्यस्य मत्वर्थलक्षणाया वा प्रसङ्गापत्तेश्चा(१)अ. तश्च सर्वेषां फलसाधनत्वादेकेनाऽपि वाक्येन तत्तत्करणभेदभि. नभावनाविधानोपपत्तेः सत्रे एकैकस्य फलभोक्तृत्ववदेकैकस्य प्र. त्येकमेव फलसाधनता । तावत्फलार्थिनस्तु सहप्रयोगेऽपि न क्षति. रिति केचित् । भिन्नप्रयोगविधिविहितानां सहप्रयोगे प्रमाणा. भावेन(२)एकार्थत्वेन काम्यकर्मणामिव विकल्प एवेत्यन्ये । वस्तुतस्तु द्रव्यक्रियादिरूपेण करणानां भेदेऽपि तेषां पर. स्परसापेक्षत्वात् भावनाभेदकत्वानुपपत्तेरेकस्यां च भावनायां तृतीयादिवलेन करणानां नैरपेक्ष्यावगमेऽप्यरुणैकहायन्योरिव १. अतश्चेति नास्ति. क. पु. २. एकार्थानककाम्येति. क. पु.

Crep मीमांसाकौस्तुभे प्रतिपदाधिकरणम् व्यक्रिययोः परस्परापेक्षत्वस्वाभाव्येन तृतीयायवगतनैरपेक्ष्य- स्य(१)चोपादेयतावत्करणातिरिक्तविषयत्वाभ्युपगमात् दर्शादि- बच्चैकपदोपादानाभावेऽप्येकवाक्योपादानात साहित्यप्रतीतेस्त- स्य चोपादेयगतत्वेन विवक्षितत्वात्समुच्चितसाधनत्वाभावेऽपि साधनानां समुच्चयोपपत्तिरिति प्राप्ते- (सिद्धान्तः) अनेकाष्टकल्पनापत्तेने सर्वेषां फल सम्बन्धः । तथा हि-- फलतद्भावनाभेदाङ्गीकारे तावत् पक्षद्वयेऽप्य दृष्टभेदस्पष्ट एव । भावनैक्याङ्गीकारेऽपि च सत्यपि परमापूर्वैक्ये तत्तत्करणजन्यो- त्पत्यपूर्वभेदावश्यम्भावादनेकादृष्टकल्पना । न च करणानां पर. स्परसापेक्षत्वेन क्रमिकत्वाभावादेकमेवोत्पत्यपूर्व कल्प्यतामिति वाच्यम् , तृतीयादिनाऽवगतस्याऽन्योन्यानिरपेक्षकरणत्वस्य का. यनिरूपितत्वावश्यम्भावात् फले फलापूर्वे वा तदसम्भवेनोत्प स्य पूर्वनिरूपितत्वावगतेस्तद्भेदस्याऽपरिहार्यत्वात् । अत एव द. घिपयोयागयोः क्रमिकत्वाभावेऽपि व्युत्पत्तिवाक्यावगतनैरपेक्ष्यब- लादेवोत्पत्त्यपूर्व भेदोऽङ्गीकृतः श्रीगुरुचरणैः। अतोऽनेकादृष्टक- ल्पनापत्तेरगत्या प्रधानसम्बन्धत्यागो मत्वर्थलक्षणाङ्गीकरणं च न विरुध्यते । तेन धात्वर्थविशिष्टसोमादिविधानं सोमादिवि. शिष्टधात्वर्थविधानं वा नाऽनुपपन्नम् । तथा हि- धात्वर्थात्फलपक्षे तस्मादेवाऽपूर्वम्, सोमादीनां तु दृष्टविधयैव धात्वर्थाङ्गत्वम् । एवं सोमादिभ्यः फलपक्षे तेभ्य एवाऽपूर्वम् धात्वर्थस्तु निर्यापाराणां सोमादीनां फलजनकत्वानुपपत्तेराश्र- यत्वेन दृष्टविधयैव सोमायुपकारकः । विशिष्टविधिना सोमाद्य- गत्वस्वीकाराच्चाऽश्रयस्य भाकरणिकत्वाभावेऽपि न क्षतिः १.चोपादेयोति नास्ति. क, पु. .

द्वितीयाध्यायस्य प्रथमः पादः । तेनाऽनेकाष्टकल्पनाभावादितरविशिष्टस्यै कस्यैव फलसम्बन्धः । न च विनिगमनाविरहात्सर्वेषामेव फलसम्बन्धसिद्धेरने. कादृष्टकल्पनमपि फलमुखत्वान्न दोषमावहतीति वाच्यम् , भावा. थाधिकरणे वक्ष्यमाणरीया विनिगमकस्य सत्त्वात् । तस्मादेक- स्यैव फलसम्बन्ध इति सिद्धम् ॥ इति प्रथमं प्रतिपदाधिकरणम् ।। १ ।। windia HN अथ द्वितीयं भावार्थाधिरकरणम् ॥ २ ॥ ( संशयः) यदा चैकस्य तदा किं धात्वर्थस्य ? उत उपपदार्थस्य ? इति विचार्यते। ( पूर्वपक्षः) तत्र फलस्य साध्यत्वात्सिद्धरूपसाधनापेक्षायां योग्यत्त्वा- सोमादेरेव करणत्वेनाऽन्वयो न स्वसिद्धस्य धात्वर्थस्य । साध्यस्य साध्येन(१)तत्त्वेनाऽसम्बन्धात् । अतश्च योग्यतारूप. लिङ्गात्तावत्सोमादेरेव करणत्वम् । न च शब्दगतप्रसासत्या धात्वर्थस्यैव कथञ्चित्स्वकारकस. म्पादनेन योग्यतामापनस्य करणत्वावगतः पदश्रुत्या लिङ्गं बाध्येतेति वाच्यम्। फलपदापेक्षया द्वयोरपि पदान्तरोपात्त. त्वेन फलसम्बन्धे पदश्रुत्यभावात् । प्राथमिकभावनासम्बन्धे विद्यमानाया अपि तस्या विरोधाभावेन सोमाद्यन्वये बाधक. स्वाभावाच । न हि प्राथमिको भावनान्वयस्सोमादीनां सिद्धा- १. समत्वेनेति. क. पु.

६ भीमांसाकौस्तुभे [भावर्थाधिकरण- TERRAYARI अपि तु न्तिनोऽनभिमतः, सप्तमाद्याधिकरणे सर्वेषां भावनान्वयस्य व्यु- त्पाद्यमानत्वात् । न च यस्य यस्य भावनासम्बन्धे यद्यत्प्रमाणं तद्वतबलव- वेनैव पाठिकफलसम्बन्धे निर्णयाङ्गीकरणात् धात्वर्थस्य च पद- श्रुत्या भावनान्वयात् तस्यैव फलसम्बन्धोपपत्तोर्लिङ्गबाघोपप. त्तिरिति वाच्यम् । तर्हि सोमाद्यन्वयबोधिकायाः कारकश्रुतेः पद. श्रुत्यपेक्षयाऽपि प्रबलत्वेन तया लिङ्गोज्जीवनात् । तथा हि- पदश्रुतिर्हि सनिधानत्वात् स्थानरूपा भवेत् एकवाक्यगतप्त. विधानत्वाद्वाक्यरूपा वा, उभयथाऽपि श्रुत्यपेक्षया दौर्बल्यम् । अस्तु वा एकपदत्वात् श्रुतिरूपत्वम् । न ह्यत्र संसर्गोऽन्यसंसर्गवत्सं- सर्गविधया भासते । तथा सति 'प्रकृतिप्रत्ययौ प्रसयार्थं सह ब्रूत' इति साहित्यरूपसंसगांशेऽनुशासनवैयांपत्तेः । पदार्थविधयैव शक्त्या निरूढलक्षणया वा। अतश्च यद्यपि एकप. दस्थले सामान्यतोऽन्वयस्याऽप्युपात्तत्वाच्छुतिरूपत्वं, तथाऽपि सोमादौ करणतारूपविशेषस्य तृतीयया शक्त्यैवोपात्तत्वात्का- रकश्रुतेर्बलव च्वमिष्टमेव । अतश्च तदुपजीवितेन लिङ्गेन सोमादी- नामेव पाठिकफलसम्बन्धावगमाद्धात्वर्थों यथैव(१)स्वर्गका- माधिकरणन्यायेन भाव्यत्वात्पच्यावितस्तथैव करणत्वादपीति पदश्रुया इतिकर्तव्यतांशे निपततीति सिद्धं धात्वर्थविशिष्टस्य सो. मादेरेव फलकरणत्वमिति प्राप्ते- (सिद्धान्तः) अभिधीयते-न सोमादेः फलसम्बन्धः । स हि भाव- नान्वयनरपेक्ष्येण वाऽभ्युपगम्यते ? उत तदन्वयोत्तरकालं वा ? नाऽऽद्यः, कारकाणां परस्परान्वयानङ्गीकारात् । भावनावाचिनः १. पू. मी. ६. १.१. diumma सिद्धान्तः ] द्वितीयाध्यायस्य प्रथमः पादः ! कृत्रो हि सम्बन्ध्यर्थके ण्वुलादिप्रत्यये कुले कारकादिशब्दव्यु. पत्तेः क्रियासम्बन्धित्वमेव कारकत्वम् । तदसति क्रियासम्बन्धे बाध्येत । अतो न कारकाणां परस्परसम्बन्धः। सोमादिपदानां फलपदान्वये फलपदस्य च भावनापदान्वये फलपदातिरिक्तसु. बन्तार्थप्रकारकशाब्दबोधत्वावच्छिन्नं प्रति फलपदजन्योपस्थितिः कारणं, फलप्रकारकशाब्दबोधत्वावच्छिन्नं प्रति च प्रत्ययज. न्योपस्थितिरित्यनेककार्यकारणभावकल्पनागौरवापत्तेश्च । अतो लाघवात्सर्वेषां कारकाणां भावनायामेवाऽन्वयान तावत्सोमादे- स्तदन्वयनरपेक्ष्येण फलान्वयोऽभ्युपगन्तुं युज्यते । तेन भाव. नान्वयोत्तरं पार्मिकः फलान्वयो वाच्यः । स चाऽसौ भावनाव. च्छेदकीभूतस्य धात्वर्थस्यैव वक्तुमुचितो न तदनवच्छेदकीभूता- नां द्रव्यगुणादीनाम् । अतो धात्वर्थस्यैव फलसम्बन्धो युक्तः । सूत्रं तु-ये भावनावच्छेदार्थाः कर्मशब्दाः धात्वर्था इति यावत् । तेभ्य एव, अपूर्वोत्पत्तिरूपा वा फलोत्पत्तिरूपा वा क्रि. या, प्रतीयेत। कुतः एष ह्यर्थो विधेयफलभावनावच्छेदकत्वेन सम्बध्यते, न तु द्रव्यगुणादिरूपः इति व्याख्येयम् ।। १ ।। सर्वेषां भावोर्थ इति चेत् ।। २-१-२॥ ननु धात्वर्थस्याऽपि न कारकत्वातिरिक्तसम्बन्धेन भाव- नावच्छेदकता, पचति पाकं करोति पाकेन करोत्योदनमित्येवं. प्रकारेणैव विवरणात् । तच्च कारकत्वं द्रव्यगुणादिष्वप्यविशि- टमिति भावनावच्छेदकत्वाविशेषा मात्सर्वेषामेव फलसम्बन्धप्रसक्ती योग्यतारूपलिङ्गाद्दव्यादेरेव फलसम्बन्धोपपत्तिरिति हेतु ॥ २ ॥ २, मी० को मीमांसाकौस्तुभे [भावार्थाधिकरण- येषामुत्पत्तौ स्खे प्रयोगे रूपोपलब्धिस्तानि नामानि, तस्मात्तेभ्यः पराऽऽकाङ्क्षा, भूतत्वात्स्वे प्रयोगे ॥ २-१-३॥ , 1 ? येषां तूत्पत्तावर्थे वे प्रयोगो विद्यते तान्या- ख्यातानि, तस्मात्तेभ्यः प्रतीयेत ॥ २-१-४ ।। न सोमादेः फलसम्बन्धः, तथात्वे प्रतिपदाधिकरणोक्त. स्याऽनेकादृष्टकल्पनप्रसङ्गस्याऽनिवारणात् । तथा हि-सोमाता वदेकमपूर्वमावश्यकम् । यागस्याऽपि न दृष्टविधया सोपोपकारक- त्वमिति ततोऽप्यपरं कल्प्यम् । यागस्याऽऽश्रयत्वेन दृष्टविधयैव सोमोपकारकत्वमिति चेत्, किमिदमाश्रयत्वं नाम ? अवान्त. रव्यापाररूपत्वं वा, जन्यत्वमात्रं वा, संस्कारकत्वं वा? नाऽऽद्यः; तथा सति यागस्याऽपि फलजनकत्वावश्यम्भावात् तस्य चाऽपूर्वमन्तरेणाऽनुपपत्तेः । न हि यागसोमयोरेकापूर्वजनकत्वं सम्भवति । अपूर्वस्य शक्तिरूपत्वेन शक्तिमद्भेदे भेदस्याऽऽवश्य. कत्वात् । न द्वितीयः, यागानुष्ठानस्य निष्प्रयोजनवापत्तेः । न ह्यस्यन्द्रियकामादिहोमवत्प्रयोजनान्तरं क्लुप्तमस्ति । अतश्च तस्य फलान्तरकल्पने पुनरदृष्टान्तरकल्पना तदवस्थैव । नाऽपि तृतीयः; यागस्याऽवघातादिवत्संस्कारकत्वायोगेन प्रोक्षणादिवददृष्टद्वारकत्वावश्यम्भावात् । अतश्च यागस्य फल- सम्बन्धे तस्मादेवाऽपूर्वम् । सोमादेस्तु सत्यपि प्राथामिके भाव- नाकरणत्वे पार्टिकफलसम्बन्धाङ्गीकारे अपूर्वान्तरकल्पनापचे सिद्धान्तः ] द्वितीयाध्यायस्य प्रथमः पादः। । ছানিয়া आ यागसम्बन्ध एव पाष्ठिकोऽङ्गीक्रियते । तेनाऽष्टकल्प नालाघवार्थ धात्वर्थस्यैव फलसम्बन्धः । अयमेव चाऽर्थो धातूपपदार्थस्वरूपनिरूपणद्वारेण(१)सूत्र- कृतोक्तः । येषामुञ्चारण एव स्वे वाच्ये निष्पन्नरूपस्योपल. ब्धिः, तानि नामानि । तस्मात्तेभ्यस्साधनाकाङ्क्षा, परा दुरे । नाऽस्तीति यावत् । तदुच्चारणकाल एव तदर्थानां सिद्ध- त्वप्रतीतेः । अतस्तत्साधनत्वेन यागादिविधानं न दृष्टविधयोप. युज्यत इत्यदृष्टं कल्प्यम् । येषांत्त्पत्तो उच्चारणकाले, स्वेऽर्थे प्रयोगो न वि. द्यते, स्वार्थो न विद्यत इति यावत् । तान्याख्यातानि । तस्मात्तदर्थेभ्यो निष्पन्नरूपत्वेन प्रतीयमानेभ्यस्ताधनाकाङ्क्षा झटिति प्रतीयेत । अतस्तत्साधनत्वेन विधीयमानं सोमादि दृष्ट. विधयैवोपयुज्यत इत्यनेकादृष्टकल्पनाभावाद्धात्वर्थादेव फलमिति भाव: ।। ३,४ ॥ ननु सम्भवत्यपूर्वाख्यावान्तरव्यापारद्वारा सोमादेः फलक- रणत्वे क्रियारूपाश्रयव्याप्यत्वं विना फलकामनायां सत्यां स्व. त एवाऽपूर्वोत्पत्तिद्वारा फलोत्पत्तिप्रसङ्गेन विधिवैयर्थ्यप्रसङ्गादा. श्रयाकाङ्क्षोपपत्तेराश्रयस्याऽपि च गुणनिष्ठकृतिफलजनकतानि. वाहार्थत्वेन दृष्टविधयैवेन्द्रियकामहोमवत्फलान्तराभावेऽपि सो. माद्यङ्गत्वोपपत्ते ऽनेकादृष्टकल्पना । सत्यामपि चाऽनेकादृष्टक- ल्पनायां, सत्यपि गुणनिष्ठकरणता(२)निरूपकयागनिष्ठकरण. त्वकल्पनाकृते गौरवे सोमादीनामपि भावनावच्छेदकत्वाविशेषा. प्रथमसूत्रोक्तं धात्वर्थस्यैव भावनावच्छेदकत्वं नैवोपपादितमि- १. मुखेनेति. क. पु. २.निर्वाहकति. ख. पु.

भीमासाकौस्तुभे [भवार्थाधिकरण त्यत आह- - १ . आश्रितत्वात्प्रयोगस्य ॥२-१-५॥ यद्यपि(१)तावत्प्राथमिकभावनासम्बन्धवेलायां सोमादेरपि करणत्वमविशिष्टं, तथाऽपि पाष्टिकः फलसम्बन्धो यद्गत प्राथ- मिकभावनासम्बन्धबोधकप्रमाणबलवत्त्वं, तस्यैव वक्तुमुचितो नाऽन्यस्य । धात्वर्थस्य च तत् । तथा हि-यद्यपि तावत्सोमादेः करणत्वं श्रुत्या, लक्षण या च धात्वर्थस्य, तथाऽपि प्रत्ययार्थस्य भावनायाः प्रकृत्यर्थ प्रति "तयोस्तु प्रत्ययः प्राधान्येने" ति स्मृत्या प्राधान्यस्याऽनुशासितत्वात् 'त्रीहीनवहन्ती तिवत्माधा- न्येऽवगते यागस्य श्रुत्यैव तदङ्गत्वोपपत्तिः । न च प्राधान्यस्याऽनुशासनेऽपि प्रत्ययस्य भावनामात्र एव शक्तिकल्पनेन तत्प्राधान्यस्य लक्षणादिनाऽपि भानोपपत्ती तत्र शक्त्यकल्पनान्न 'ब्रीहीनवहन्ती' तिवत्प्राधान्यस्य श्रौतत्वेना. ङ्गस्य श्रौतत्वमिति वाच्यम् । सत्यपि प्राधान्यस्य लाक्षणिक- स्वे परिपूर्ण पदं पदान्तरेणाऽन्वेतीति न्यायेन सोमादिपदानां भावनापदान्वये तस्य परिपूर्णत्वापेक्षणात्ततः पूर्वमेव यागादेरङ्ग- स्वावगतेः तदुत्तरभाविनस्सोमाद्यङ्गत्वस्य दौर्बल्यात् । अतश्च यथैवाऽऽग्नेयादिवाक्येऽष्टाकपालादीनां करणत्वस्य लाक्षणिक. त्वेऽपि उपजीव्यत्वेन पूर्वभावित्वात्तदुत्तरभाविौतमपि 'बीहि. भिर्यजेते' त्यादौ ब्राहीणां करणत्वं परम्परासम्बन्धेनैव निर्वा- ह्यते, एवं सोमादेरपीति सिद्धं धात्वर्थस्यैव फलसम्बन्धस्सोमा. दीनां तदर्थतेति । प्रयोजनं तु-सर्वेषां फलसम्बन्धपक्षे विहितयोः क्रिया. १. तावदिति नास्ति. क. पु.

सिद्धान्तः ] द्वितीयाध्यायस्य प्रथमः पादः । पूर्व- .. द्रव्ययोरसम्भवे काम्ये सङ्कल्पोत्तरं, काम्ये सङ्कल्पोत्तरं, नित्ये ततः मपि न प्रतिनिध्युपादानम् । उभयोर दृष्टार्थत्वेन प्रयाजादिवत्पति. निध्यभावात् । प्रारब्धप्रयोगापरिसमापननिमित्तदोषपरिहारार्थ तु यत्किश्चिदनियतद्रव्याक्रियोपादानेन प्रयोगलमापनामिष्टमेव । न चैतावता तस्य प्रतिनिधित्तम्, सदृशानिय प्रमाणाभावेन प्रति. निधित्वानुपपत्तेः । एवं सोमादेः फलसम्बन्धपक्षेऽपि तस्याऽ. दृष्टार्थत्वात्तदपचारे न तत्प्रतिनिध्युपादानम् । प्रक्रान्तसोमप्र- योगस्तु यत्किञ्चिदसहशमपि द्रव्यं गृहीत्वा समापनीय एव । न च प्रधानाभावे कथं प्रयोगसमाप्तिः? शिष्टविगर्हणान्यथानुपपत्या प्रयोगसमाप्तिं प्रति कामनादिवत्प्रयोगप्रक्रमस्याऽप्यनुष्ठापक. स्वस्य (१)षष्ठे वक्ष्यमाणत्वेन प्रधान सत्यासत्वयोरकिञ्चित्कर. त्वात् । न पत्र प्रधानफलं स्वर्गाद्युत्पद्यने यत्प्रधानासत्त्वे नो. त्पद्यतेत्याशङ्ख्येत । तस्य तु साङ्गादेवोत्पत्तेनैतादृशे विषये उ. त्पत्तिसम्भवः। यत्तु नियस्थले प्रत्यवायध्वंसादि, तत्कामं प्रधानाभावे नो. त्पद्यताम् । न त्वेतावता शिष्टविगर्हणान्यथानुपपत्तिकल्पितदोषप. रिहारार्थ प्रयोगो न समापनीयः, प्रयोगारम्भस्यैवाऽनुष्ठापकस्य सत्वात् । अतो यत्किञ्चिद्रव्यमुपादाय प्रयोगसमापनं युक्तमेव । न चैतावता प्रतिनिधित्वम् , सदृशनियमे प्रमाणाभावेन तत्वानुप- पत्तेः । सिद्धान्ते तु सोमादेष्टार्थत्वेन युक्तस्तदपचारे प्रतिनिधिः। यत्तु मूले श्येनोद्भिदादिपदानां नामतासिद्धिरपि विचा. रप्रयोजनम् । उयेनादिपदार्थस्य फलसम्बन्धे धात्वर्थसामाना- धिकरण्या(२)सम्भवान्न श्येनादिपदानां नामत्वम् । अत एव त- द्विचारोऽप्यार्थादेतदधिकरणोत्तरं द्रष्टव्य इत्युक्तं, तदनादरात् । १. पू. मी. ६. २. ३. २. सामानाधिकरण्याभावादिति. क. पु.

१२ मीमांसाकौस्तुभे [भावार्थाधिकरणे तथा हि-न तावगुणविधित्वनिराकरणार्थानां मत्वर्थलक्षणा- दिहेतूनामेतदधिकरणात्पूर्वमसम्भवः । एतदधिकरणपूर्वपक्षिणो. ऽपि यागवता सोमेनेत्येवं मत्वर्थ लक्षणाया, विशिष्टविधिगौरवादे- श्च सोमादिवाक्ये अवश्याङ्गीकार्यत्वेन तद्भिया उद्भिदादिवा- क्ये उद्भिपदार्थस्याऽपि यागरूपत्वाङ्गीकारौचित्यात् । अतश्चो. द्भिपदार्थस्यैव फलभावनाकरणत्वम् , यजिपदं (१)त्वर्थविशेष- ग्राहकमित्येवंविधः परं पूर्वपक्षोऽस्तु । न त्वेतावता नामत्वसिद्धिः, मत्वर्थलक्षणादिदोषस्य सिद्धान्तवत्पूर्वपक्षेऽप्यविशेषात् । ये तु धातुपरार्थ्यवाक्यभेदतत्प्रख्यतयपदेशादिहेतवः ते न धात्वर्थ- करणत्वापेक्षा इति तन्निरूपणोत्तरमिच ततः पूर्वमप्युद्भावयितुं शक्या एव । यदपि धात्वर्थस्य करणत्वासिद्धौ तृतीयान्तनामपदानां धातुसामानाधिकरण्याभावान्न तन्निमित्तनामधेयत्वोपपत्तिरित्यु. क्तं, तदुक्तहेतुभिः गुणविधित्वासम्भवे सिद्धे 'अग्निहोत्रं जु. होती' तिवत्समभिव्याहारमात्रेणैव नामत्वेऽवगते सामानाधिक- रण्यार्थ तात्पर्य ग्राहकस्य यजेः करणत्वलक्षकत्वाङ्गीकारादुपे- क्षणीयम् । तस्मात्पूर्वोक्तमेव प्रयोजनं ज्यायो न तु सूत्रकृतश्शून्यहृद- यतापादिका नामत्वसिद्धिरपीति सिद्धम् ॥ सूत्रं तु-प्रयोगस्य प्रयुज्यमानाया भावनायाः, स. मानपदोपात्तेन धात्वर्थेनैव पूर्व, आश्रितत्वात् फलान्वयोऽप्यौ. तरकालिकः तस्यैव स्यादित्येवं व्याख्येयम् ।। ननु सर्वमिदं धात्वतिरिक्तभावनासद्भावे समञ्जसम् । न तु तस्यामेव प्रमाणं पश्यामः । तथा हि-पच्यादिधातवस्तावद्वि- १. त्वर्थविशेषतात्पर्यग्राहकमिति क. पु.

भावनाविचारः] द्वितीयाध्यायस्य प्रथमः पादः । क्लत्यादिरूपे फले तज्जनकव्यापारे च शक्ताः, न तु फलमात्रे तज्जनकव्यापारमात्रे वेत्यविवादम् । अन्यथा ग्रामो गमनवानि. त्यादिप्रतीत्यापत्तेः । फलानुकूलव्यापारारम्भेऽपि फलानुत्पाद. दशायां पाको भवतीति प्रयोगानापत्तेश्च । (२) व्यापारापगमेऽपि फलसत्तादशायां पाको विद्यत इत्यस्याऽप्यापत्तेश्च । न च घन- तधातोः फलानुकूले व्यपारे शक्तिः, अन्यस्य फलमात्र इति कल्पनात्रोक्तदोषापत्तिरिति वाच्यम्, अनेकशक्तिकल्पनापत्तेः । न च तर्हि घत्र एव व्यापारे शक्तिः, धातोस्तु फल एवेति वाच्यम् । घनो भावप्रययत्वेन धात्वर्थातिरिक्तार्थवाचित्वानुपपत्तेः । पच्य- थों विद्यते इत्यादिप्रयोगस्यैवंकल्पनायामपि निवारयितुमशक्य. स्वाच । अतो न तावत्फलमात्रं धात्वर्थ इति मण्डनमतं युक्तम् । नाऽपि व्यापारमात्र, त्यजिगम्योः पर्यायत्वापत्तेः । अतो विक्लत्यादि फले तज्जनकव्यापारे च तत्तद्धातूनां शक्तिः । साऽपि च न फलविशिष्टव्यापारे एका । तथात्वे फलस्य पदार्थे - कदेशत्वात्पदार्थान्तरेणाऽन्वयानुपपत्तेः । अपि तु प्रत्येकमेव । तयोस्तु साध्यसाधनभावस्संसर्गबललभ्य इति न तत्राऽप्यति. रिक्ता शक्तिः शक्ततावच्छेदकञ्च तत्तद्धातुत्वम् । शक्यतावच्छेद. कमपि तत्तत्फलत्वं, तत्तयापारत्वं च । यथा पचतीत्यत्र विक्ल. त्तिः फलं तदनुकूलव्यापारश्चोभयं पच्यर्थः । व्यापारश्वाऽत्रात्म. निष्ठः। प्रयत्नोऽधिश्रयणफूत्कारादिकञ्च शरीरगतम् । सर्वस्य विक्लत्यनुकूलत्वेन व्यापारत्वाविशेषात् । शक्तिश्च फूत्कारत्वा- धस्सन्तापनत्वयत्नत्वादिना प्रत्येकमेव । न तु सर्वानुगता । अवच्छेदकमन्तरेण तस्य निर्वक्तुमशक्तः । न चैवं मर्यकारकव्यापाराणां तत्त्वेन पच्यर्थत्वे नानार्थ- १. व्यापारविगमेऽपीति क. ख. पु.

१४ मीमांसाकौस्तुभे [ भावधिकरणे कत्वापत्तिः, तदाश्रयत्वेन च सर्वकारकाणां कर्तृत्वापत्तेस्तृती. याद्यनापत्तिश्चेति वाच्यम् । सत्यपि नानार्थत्वे तदादाविव बुद्धि स्थत्वस्य वक्तृविवक्षाया एव नियामकत्वात् । अतश्च यत्कारक- व्यापारो यदा पच्यर्थत्वेन विवक्षितस्तदा तदाश्रयस्य कर्तृत्वं विवक्षितम् । अत एव काष्ठं पचति, स्थाली पचतीत्यादिप्रयो. गोऽपि सङ्गच्छते । यदा तु तद्वयापारो न विवक्षितः, तदा तदा. श्रयस्य काष्ठादेर्धातूपातव्यापारजनकत्वेन करणत्वस्य विवक्षित. स्वात् काष्ठैः पचतीसादिप्रयोगोऽपि नाऽसङ्गतः । अतस्सिद्धं पच्यादिधातूनां फलतयापारवाचित्वम् । किञ्च यत्राऽप्यस्ति, भवति, विक्लियतीसादौ फलमेव स्पष्ट प्रतीयते न तु तज्जनको व्यापारः, तत्राऽपि व्यापारवाचित्वं धातोरव्याहतमित्युक्तं, 'अस्त्यादावपि कशे भाव्येऽस्त्येव हि भावने' त्येवंबदद्भिवैयाकरणैः, वार्तिककृता च, तदा कश्श- क्तस्सर्वजनानुभवसाक्षिकतया पच्यादौ प्रतीयमानस्य व्यापार- समूहस्य वाच्यत्वकल्पनामपहोतुम् ? अतश्च सर्वस्याऽपि फला. नुकूलस्य यत्नादेर्धातु वाक्तत्वादाख्यातार्थत्वासम्भवेन प्रत्ययवा- च्याया धात्वर्थातिरिक्तभावनाया असम्भवः । न चैवं तिङर्थाभावः । फलव्यापाराश्रयस्यैव कर्मकादि- रूपस्य तिर्थत्वात् । तत्रापि फलव्यापारयोर्धातलभ्यत्वादाश्र- यत्वमेव लाघवाच्छक्यतावच्छेदकम् । एवमेकत्वादिसङ्ख्याऽपि (१) तिङाद्यर्थः। वर्तमानादिकालश्च लडाद्यर्थः । प्रवर्तना च लिङाद्यर्थः । तत्र फलं व्यापार प्रति विशेषणम् । कर्म च फलं प्रति । कर्ता व्यापार प्रति । सङ्ख्या कर्तृकर्मविशेषणम् । कालादिकं तु व्यापार एव, तथैवाऽनुभवात् । अतश्च सर्वत्र व्यापारविशे. १.तिबाद्यर्थ इति. ख. पु. ?

भावनाविचारः ] द्वितीयाध्यायस्य प्रथमः पादः । १५ : ज्यक एव बोधः। न चैव "प्रकृतिप्रययौ प्रत्ययार्थ सह ब्रूतस्तयोस्तु प्रत्ययः प्राधान्येने" ति स्मृत्या प्रत्ययार्थस्य(१)प्राधान्यावगतः कथं प्रकृ. त्यर्थस्य व्यापारस्य विशेष्यतेति वाच्यम् ? (२) "भावप्रधानमा. ख्यातमि"ति निरुक्तस्मृसा भावशब्दवाच्यव्यापारस्य प्राधान्या. वगतः, तस्य च "धात्वर्थः केवलः शुद्धो भाव इत्यभिधीयत" इति वैयाकरणस्मृत्या धातुवाच्यत्वावगतेः, विशेषस्मृत्यनुरोधेन सामान्यरूपायाः प्रत्ययार्थमाधान्यस्मृतेस्सुबादिविषयत्वेन व्या. ख्यानात् । वस्तुतस्तु नेयं प्रथयार्थमाधान्यस्मृतिः प्रत्ययार्थत्वावच्छे. देन प्राधान्यनियामिका, लिङ्गसङ्ख्यादेः प्रत्ययार्थत्वेऽपि प्राधा- न्यानङ्गीकारात् । नाऽपि प्रधानस्य सतः प्रत्ययार्थत्वनियमपरा, (३)"सत्वप्रधानानि नामानी" ति स्मृत्या लिङ्गसङ्ख्यादीप्रति प्रधानस्याऽपि प्रातिपदिकार्थस्य प्रत्ययार्थत्वाभावात् । किन्तु यत्रैव प्रमाणान्तरेण सुवर्थस्य करणत्वादेः प्रातिपदिकार्थ प्रति प्राधान्यं प्रसिद्धं , तदनुवादमात्रमियं स्मृतिरिति नाऽनया व्या. पारस्य धात्वर्थत्वेऽपि विशेष्यताप्रतिबन्धः। एवं च पचतीति काख्यातस्थले एकाश्रयको विक्लत्यनुकूलो वर्तमानो व्यापार इति बोधः । पच्यत इति कर्माख्यातस्थले च एकाश्रयिका या विक्लृत्तिस्तदनुकूला भावनेति । पचति देवदत्तः, पच्यते तण्डुल , १. विशेष्यत्वावगतेरिति. ख. पु. २. भावो भावना । प्रधानं प्राधान्येन मुख्यविशेष्यतया प्रतिपाद्यं यस्य तादृशमाख्यातमिति यास्कवचनस्याऽर्थः।(निरु.अ.१.खं.१.सू.९.) ३. सत्त्वं द्रव्यं प्रधानं विशेष्यतया प्रतिपाद्यं येषां तानि सत्व. प्रधानानि ॥ (निरु. अ. १. खं. १. सू. ९.) ३, मी० कौ० मीमांसाकौस्तुभे [भावार्थाधिकरणे इत्यादौ देवदत्ततण्डुलयोः प्रथमान्तयोर्यथाक्रममाख्यातोपात्ताभ्यां कर्तृकर्मभ्यामभेदान्वयः । इतरकारकाणां तु यथायोग साक्षात्पर. म्परासम्बन्धेन व्यापाररूपे धात्वर्थ एवाऽन्वय इति ध्येयम् । चैत्रेण स्थीयत इत्यत्र भावाख्याते तु कर्तृकर्मणोरप्रतीतेः सङ्ख्याऽनन्वितव, धात्वान्विता वा । न चैवं धात्वर्थस्य द्वित्वा. दिविवक्षायां द्विवचनाद्यापत्तिः, अनुशासनबलेन कवचनस्यैव साधुत्वात् । यत्तु उष्ट्रासिका आस्यन्त इति भावेऽपि बहुवचनं, तद्भाष्यकारवचनादत्रैव सावित्य वगन्तव्यम् । अतश्च कचिद. प्याख्यातस्य भावनावाचित्वाभावास्कथं तस्यां समानपदश्रुत्या करणत्वावगतिरिति चेत्-न; धातोः फले तदनुकूलव्यापारे च शक्तिकल्पनायामपि धात्वर्थातिरिक्ताया आख्यातवाच्याया भावनाया अनपवात् । तथा हि-अनुकूलच्यापागे धात्वर्थ इति वदतोऽनुकूलत्वं किं जनकत्वमात्रमभिप्रेतम् ? प्रयोजकत्वसाधारणं वा ? नाऽऽद्यः, विक्लृत्तिरूपफळजनकी भूतशरीरगतक्रियाविशेषजनकस्याऽऽत्मग- तस्य प्रयत्नादेः(१)उपक्षीणस्य फलाजनकत्वेनाऽसङ्ग्रहापत्तेः । न च तस्य पचतीत्यतोऽननुभवादेव तदसङ्ग्रहोऽप्यदोषः, पचति पाके यतत इत्येवंविधाविवरणादेवाऽनुभवस्याऽपोतुमशक्यत्वात् । न द्वितीयः, कृष्यादीनामप्यत्यन्तव्यवहितानां विक्लात्त. प्रयोजकत्वेन सङ्ग्रहापत्तेः। न च फलकारणतत्कारणीभूतव्या. पारयोरेव ग्रहणमित्यत्राऽपिकिञ्चिनियामकमस्ति, उभयप्रवेशस्य गौरवग्रस्तत्वात् । न च फलानुकूलत्वस्य शक्यतावच्छेदकत्वानङ्गीकरणात् १. उपक्षीणत्वेन फलाजनकस्येति. क. ख. पु.

भावनाविचारः ] द्वितीयाध्यायस्य प्रथमः पादः। यत्नत्वावस्सन्तापनत्वादीनां तत्वेन शक्यतावच्छेदकत्वाङ्गीका. राधावत्सु व्यापारेषु पचेः प्रयोगप्रतीतिस्तावतामेव वाच्यत्वक. ल्पनानाऽतिप्रसङ्ग इति वाच्यम् । एवं तहि पचति पाके यतते, पाकं करोति, पाकं भावयतीत्यादिविवरणाय स्नादीनां पाकास्पृ. थक्करणेन यत्नादीनां पचौ सङ्ग्रहानुपपत्तेः । न च घनादिसमभिव्याहृतपच्यादेः फलमात्रबोधकत्वकल्प. नादेव व्यापारस्य पृथग्विवरणोपपत्तिरिति वाच्यम् । तथात्वे व्यापारबोधक सामग्रीतो व्यापारबोधप्रसक्तौ तद्वोधं प्रति घ. जादिसमभिव्याहारस्य प्रतिबन्धकत्वकल्पने गौरवापत्तेः। ति. बादिसमभिव्याहृतधातुत्वस्यैव व्यापारशक्ततावच्छेदकत्वकल्पने च कार्यकारणभावद्वयकल्पनस्य, शक्ततावच्छेदकगौरवस्य चाऽऽप- तेश्च । घनादिसमाभिव्याहृतधातुतो व्यापारानुभवापलापापत्तश्च । न च विवक्षितस्यैव कारकव्यापारस्य पचिनोपादानाय. बादीनां विवक्षाविरहादेव पृथक्करणोपपत्तिरिति वाच्यम् । दे. वदत्तः पचति, देवदत्तःपाके यतत इत्यत्र देवदत्तनिष्ठयनादेवि. वक्षावश्यम्भावात् । अन्यथा भवन्मते धातूपात्तव्यापाराश्रयत्वा- भावाद्देवदत्तस्य प्रथमान्तत्वानुपपत्तेः । न च देवदत्तनिष्ठव्यापा. रान्तरविवक्षया तदुपपत्तिः, तथा सति पचतीत्यत्र भवन्मते यत्वबोधकशब्दाभावेन विवरणवेलायां यत्नानुवादानुपपत्तेः । अतोऽवश्यं पचतीत्यत्र भासमानोऽपि यत्रादिर्न पच्यर्थ इत्यभ्युपगन्तव्यम् । कस्तर्हि पच्यर्थ इति चेत् ? फलावच्छिन्नो व्यापार विशेष एव, यो वस्तुतः फलजनकः । फले तज्जनक- व्यापारविशेषे च त्वदुक्तरीत्यैव वा अतिरिक्ता शक्तिः । तयो. स्तु जन्यजनकभावस्संसर्गबललभ्यः । अस्मिश्च पक्षहये द्विती- यार्थः : फलाश्रयत्वं, न तु फलमपि । तस्य धातुनैव लाभात् । .

१८ भीमासाकौस्तुभे [ भवार्थाधिकरणे १ " अथवा व्यापारविशेष एव धातोश्शक्तिः, न तु फलेऽपि, गौरवात् । द्वितीयायास्तु फलमर्थः, न त्वाश्रयत्वमपि, तस्य प्र. कृतिप्रत्ययसमभिव्याहारादेव बोधोपपत्तेः । नन्वेवं त्यजिगम्योः पर्यायत्वापत्तिः, संयोगानुकूलं हि कर्म गमेरर्थः, विभागानुकूलं त्यजेः । तद्यदि कर्ममात्रं धात्वर्थः, फलसामान्यं च द्वितीयार्थ- स्तदा त्यजिगम्योः(१) पर्यायवापत्तिः । तथा च ग्राम गच्छतीति वक्तव्ये ग्रामं त्यजतीति प्रयोगापत्तिरिति चेद--गमिधातुसमाभि- व्याहृतद्वितीयायास्संयोगरूपफलविशेषबोधकत्वं, त्यजिसमभि- व्याहृतायाश्च विभागबोधकत्वमिति व्युत्पत्तिकल्पनेनोक्तातिप्र- सङ्गनिरासात् । वस्तुतस्तु विजातीयफलानुकूलतावयापारविशेषनिष्ठा फ. लानुकूलान्तिमव्यापारनिष्ठा वा (२)यागत्वादिजातिरखण्डोपा. धिरेव वा तत्तत्फलजनकतावच्छेदकतया सिद्धा तत्तद्धातुशक्यता- वच्छेदिका सती तत्तद्धात्वर्थः । एवं कर्मत्वकर्तृत्वादिकमपि क्रिया. जन्यफलशालित्वादिसमनियतं जातिरूपमखण्डोपाधिरूपं वासा- मान्यमङ्गीकृत्य तस्यैव(३) द्वितीयार्थताऽवगन्तव्या । अत एव व्या. सज्यवृत्तिकर्तुत्वं देवतात्वं चेति सिद्धान्तोऽपि सङ्गच्छते । अन्य. था आश्रयभेदेन प्रतिव्यक्तिभेदस्याऽऽवश्यकत्वात्कर्तृत्वैक्यो. पपादनानुपपत्तेः । तस्य च ससम्बन्धिकत्वाङ्गीकारानिरूपकापेक्षा. यां करणादिना निरूपकेगाऽन्वयोऽपि नाऽनुपपन्नः। अ. स्मिश्च पक्षे फलानुकूलव्यापारार्थकेषु(४) पच्यादिषु प्रयोज्य. व्यापाररूपस्य फलस्य नाऽवश्यं शब्देनैव भानापेक्षा । १. पर्यायतापत्तिरिति क.ख. पु. २ पाकत्वयागत्वादिरिति ख.पु. ३. द्वितीयाद्यर्थताऽधिगन्तव्येति. क. पु. ४. पच्यादिधातुध्विति. क. पु.

भावनाविचारः ] द्वितीयाध्यायस्य प्रथमः पादः । १९ कत्वादिसमनियतस्य विक्लत्यनुकूलत्वादिधर्मस्याऽऽक्षेपेणैव भानोपपत्तेः। एवं प्रयोज्यव्यापाररूपफलवाचिष्वपि धातुषु भवति वि- क्लिधतीत्यादिषु वाच्येन(१)विक्लत्तित्त्वादिसामान्येन स्वस. मनियतस्य प्रयोजकव्यापारजन्यत्वस्याऽऽक्षेपेणैव बोधोपपत्तेन तदंशे(२)शब्दव्यापारकल्पना युक्ता । अत एवोभयत्र विवरणे. न(३) नियमेन तेषामुल्लेखः । न हि पचतीत्यस्प विक्तिधती. त्यस्य वा कृत्या विवरणं कचिनियतं दृश्यते । तस्मात्प्रयोज्य. प्रयोजकव्यापारयोरन्यतरवाचिषु धातुवितरप्रतातिराक्षेपेणैवेति न तस्मिन्नपि शन्दव्यापारकल्पनावसरः। अत एवोक्तं वार्ति. ककृता(४) 'कदाचिदभिधीयमानकर्मशक्त्याक्षिप्तप्रयोज्यव्यापा. रो वा स्त्रयमेवाऽऽक्षिप्तप्रयोज्यव्यापारो वा केवलं प्रयोजकल्या. पार एव विवक्ष्यते-घटं करोत्योदनं पचतीति। कदाचिदाक्षि. सप्रयोजकव्यापार प्रयोज्यव्यापारमात्रं-घटो भवति विक्लियन्ति तण्डुला' इति । तत्सिद्धं फलानुकूलयावयापारविशेषवर्ति अ. न्तिमव्यापारवर्ति वा पाकत्वयागत्वादिजातिरखण्डोपाधियां तत्त. द्धातुशक्यतावच्छेदकम् । शक्ततावच्छेदकं च तत्तद्धातुत्वमिति । अतश्च फलानुकूलव्यापारसमूहस्य पच्यर्थत्वेऽपि तदनुकू. लस्य यन्नादेर्धात्वर्थात्पृथक् (५)वित्रियमाणस्य धात्वर्थत्वायोगात् , विवरणवेलायाश्च भासमानस्य भानकारणजिज्ञासायां धातो. रन्यत्र व्यापृतत्वात् , पारिशेष्यात्तिवादेरेव तद्बोधकत्वमिति निश्चीयते । तत्र च पचति पाकं भावयतीच्यनुकूलव्यापारवा. १. भवनविक्लत्तित्वेति ख. पु. २. शब्दस्य व्यापारेति ख. ३. विक्लत्यनुकूलत्वादिना नियमेनेति. ख. पु. ४. तं. वा. पृ.३४३ पं. २४. ५. क्रियमाणस्येति ग. पु. .

मीमांसाकौस्तुभे [भावार्थाधिकरणे चिणिजन्तभूधातुना विवरणात्सङ्ग्राहकलाघवाचाऽनुकूलव्या पार एव तिर्थो न तु यत्नमात्रम्, रथो गच्छतीत्यादौ रथे यत्ना- सम्भवेनाऽव्यापकत्वात् । अतस्सर्वसाधारण्येनाऽनुकूलव्यापार एव तिङर्थः । न च पाकं करोतीति यत्नार्थकेन कृना विवरणा- चिडोऽपि यत्नार्थकत्वम्, करोतेर्भावयतिपर्यायत्वेन यत्नार्थकत्वा- सिद्धेः। यथैव हि घटो भवतीत्यादौ भवनकर्तृत्वं प्रतिपन्नस्य घटस्य तमपरो भाव यतीत्यादौ भावयनिकमत्वं, एवं तमपर: करोतीत्यत्र करोतिकर्मत्वमपि । अतश्च भवत्यर्थ(१)कर्तृकर्मक स्वाविशेषात्करोतिर्भावयतिपर्यायो न यत्नार्थकः । अत एव रथो गच्छतीत्यत्राऽपि करोतिना विवरणमविशिष्टम् । किञ्च यत्नार्थकत्वे करोतेयततेरिवाऽकर्मकतापत्तिः। अतश्च सकर्मकत्वाकर्मकत्वरूपधर्मभेदान्न करोतियतयोः पर्यायत्वं, अपि तु भावयतिपर्यायत्वमेवेति तद्विवरणमध्यनुकूळव्यापारवाचित एवं तिङस्साधकम् । यत्तु पचति पाके यतत इसेवं यत्नेन विवरणं, तल्लाक्ष. णिकम् । सङ्ग्राहकलाघवानुरोधेनाऽनुकुलव्यापारे शक्तौ गृही. तायां यत्नत्वेन तद्बोधस्य लक्षणयाऽङ्गीकारात् । वरं च सामा- न्यवाचकस्य पदस्य लक्षणयाऽपि कचिद्विशेषपरत्वम्, न तु यत्नादिविशेषवाचकस्य स्थादिनिष्ठविशेष लक्षकत्वम्, जहत्स्वा. र्थलक्षणापत्तेः । अतो विक्लुत्तिरूपफलोद्देश्यकः पाकानुकूलो व्यापारसमूह एव तिङर्थः : । तत्र च सर्वानुगतस्याऽन्योत्पादक- व्यापारत्वस्यैव शक्यतावच्छेदकत्वात्(२) तेन रूपेणाऽऽख्या- ताद्वोधेऽपि तत्तद्विशेषरूपेण तत्तादितिकर्तव्यताविधिभ्यो बोधान्न १. कर्तुः कर्मत्वाविशेषादिति. ख. पु. २. तत्वेन रूपेणेति क. ख. पु.

भावनाविचारः] द्वितीयाध्यायस्य प्रथमः पादः । २१ तेषामपि वैयर्थ्यमिति पार्थसारथिमतानुयायिनः । वस्तुतस्तु(१) तत्तज्जन्यभेदेन तत्तदुत्पादकभेदेन च(२) व्या. पारत्वभेदादेकशक्यतावच्छेदकाभावेन सर्वानुगतैकशक्तिकल्प. नानुपपत्तेस्तत्तद्विशेषविषयकतत्तच्छक्तिकल्पने च तत्तदितिक- तव्यताविधीनां वैयोपत्तेस्तेषां तात्पर्य ग्राहकताङ्गीकारे चाऽने कशक्तिकल्पनस्य तावदवश्यम्भावाल्लाघवादकत्रैव शक्तिरन्येषां लक्षणादिना, विध्यन्तरण वा बोध इत्यङ्गीक्रियते । न च क श. क्तिः क लक्षणेत्यत्र नियामकाभावः । पचति पाके यतते, पार्क करोतीत्यादिविवरणस्यैव यत्नशक्तिग्राहकत्वात् । न च सङ्ग्राह- कलाघवानुरोधेनाऽनेकशक्तिकल्पना युक्ता, गङ्गापदस्याऽपि तीरे तदापत्तेः। यत्राऽपि गुरुभूतैकशक्यतावच्छेदकानुरोधेनैक- शक्तिकल्पनं, तत्राऽपि लघुभूतैकशक्यतावच्छेदकसम्भवे समाह- कलाघवार्थ गुरुभूतावच्छेदकाङ्गीकरणमन्याय्यमेव । सङ्ग्राह्याणा: मवच्छेदकप्रतीत्युत्तरप्रतीतिकत्वेन तनिष्ठगौरवस्य फलमुखत्वे. नाऽप्रामाणिकत्वात् । अतश्च यत्नत्वस्य जातिरूपत्वेन लघुत्वा. च्छक्यतावच्छेदकत्वम् । न च यत्नत्वेन रूपेण भानाभावः, पच. ति पाके यतते, पाकं करोतीति विवरणस्याऽनुभविकत्वात् । यत्तु कुमो न यत्नार्थकत्वं, भावयतिपर्यायवादित्युक्तं तन्न, आख्यातवत्करोतेरपि यत्नार्थकत्वस्यैव लाघवेनाऽङ्गीकारात् । न च शक्यतावच्छेदकस्य पदादप्रतीयमानस्य कल्पयितुमशक्यत्वा. कथं करोतेयत्नार्थकत्वम् ? प्रयत्नाभावे वातरोगादिना स्पन्द- माने चैत्रे स्पन्दानुकूलविजातीयवायुसंयोगरूपव्यापारवत्यपि नाऽयं स्पन्दं करोतीति प्रयोगदर्शनाद्यत्नार्थकत्वातीतः । व्यापार- जन्यत्वाविशेषेऽपि यनजन्यत्वाजन्यत्वाभ्यामेव घटाङ्कुरयोः कृता. १ तत्तदन्यभेदेनेति. क. ख. पु. २. व्यापारत्वानामिति. ख. पु.

२२ मीमांसाकौस्तुभे [ भावधिकरणे कृतव्यवहारदर्शनाच्च । न च बीजेनाऽङ्कुरः कुतः, रथो गमनं क- रोति, स्थाली पार्क करोतीत्यादावचेतनेऽपि प्रयोगादनुकूलव्यापा- रवाचित्वम् । उभयविधव्यवहारसत्वे शक्यतावच्छेदकलाघवस्यैव नियामकत्वात् । अचेतने कृत्याश्रयत्वव्यवहारस्तु अनुकूलव्या. पारे लाक्षणिकः । अत एव चैत्रत्वाद्यप्रतीतावपि शोभन: पाक करोतीत्यादौ शोभनाश्रितः पाकानुकूलो यत्न इत्येव प्रतीयत इति कैश्चिदुक्तम् । अतो यत्न एव कृअर्थः । यत्तु कुबो यत्नार्थकत्वे यततरिवाऽकर्मकतापत्तिः। फलव्य. धिकरणव्यापारवाचकत्वं हि धातोरसकर्मकत्वम् । यथा पच्या. दौ फलस्यौदननिष्ठत्वात् , व्यापारस्य च देवदत्तादिनिष्ठत्वा. त् । अकर्मके तु शयनासनादौ क्रियाफलयोरेकवृत्तित्वान्न सक मकत्वम् । अतश्च यत्नजन्यफलस्य कर्मण्य भावाद्यथैव यततिरक मकः, तथैव कृमोऽपि (१)स्यात् । अथ ज्ञानजन्यस्य ज्ञातता- ख्यफलस्येव कृतिजन्यस्याऽप्युत्पत्तिरूपस्य(२)तस्य कणि स्वी. काराज्ज्ञाधातुबदेव कृषोऽपि सकर्मकत्वम् , ततो यततेरपि त. दापत्तिः । ततश्च देवदत्तेन क्रियते घट इतिवद्यततिधातोरपि क. मणि लकारापत्तिः। यततिबद्वा कुनोऽपि तदनापत्तिः। घटं करोतीत्यादौ घटे द्वितीयानापत्तिश्च । कृतोऽप्यकर्मकत्वाङ्गीका. रे(३) "कर्मवत्कर्मणा तुल्य क्रियः" इत्येतत्सूत्रविहित यगाधना- पत्तेः क्रियते घटः स्वयमेवेत्यनापत्तिश्च । तद्वदेव वा यतते. रपि तदापत्तिश्चेत्युक्तम् , तन्न। वस्तुतो यः फलव्यधिकरणो व्यापारस्तद्वाचित्वं धातोरसकर्मकत्वमभिप्रेतम् ? किंवा फलव्यधि. करणत्वेन व्यापारवाचकताऽभिप्रेता ? नाऽऽधः, पच्यादेरपि - २. तस्येति नाऽस्ति ख. पु. १. तत्स्यादिति क. ख. पु. ३ पा. सू. ३. १. ८७.

भावनाविचारः } द्वितीयाध्यायस्य प्रथमः पादः । फलाविवक्षायामकर्मकत्वाङ्गीकारात्तत्र च फलव्यधिकरणत्वस्य त्रस्तुत सत्वादतिव्याप्तः । न च वैवक्षिकाकर्मकत्वसत्वेऽपि स्वा. भाविकाकर्मकत्वानङ्गीकारात्स्वाभाविकसकर्मकत्वलक्षणाच्याह- तिः । एवमपि (१)यतत्यादौ स्वाभाविकाकर्मके उत्पत्तिरूपस्य फलस्य यत्नव्यधिकरणत्वेनाऽतिव्यानरनिवारणात् । न च धात्वर्थभूतफलसामानाधिकरण्य वैयधिकरण्ये एव तत्प्रयोजके । उत्पत्तिश्च न यततेरर्थः, अपितु फलसमानाधिकरण. क्रियेवेति वाच्यम् । तथात्वे करोतेरप्युत्पत्तिवाचित्वेन फलभे. दोपपत्या उक्तदोषाप्रसङ्गेन यत्नवाचित्वे बाघकाभावात् । आ. सनशयनादीनामपि कालादिकर्मयोगेन स्वाभाविकसकर्मकत्वस्य चैत्रेणाऽऽस्यते मास इत्यादिप्रयोगसिध्यर्थमङ्गीकृतत्वात्तत्र च फलव्यापारयोरेकनिष्ठत्वादुक्तलक्षणाच्याप्तेश्च । अत एव न द्वितीयोऽपि । फलव्यधिकरणत्वस्य वस्तुस्वभा. बबललभ्यत्वेन वाच्यताङ्गीकारे गौरवाच । अतो नेयं सकर्मकाक- मकत्वयोनिरुक्तिः। किन्तु अविवक्षाविरहविशिष्टकर्माकाङ्क्षयातुत्वं सकर्मकत्वम् ! अस्ति चेदं घटं करोतीत्यादौ, जो नियमेन विव- क्षायां सत्यां कर्मपदसाकाङ्कत्वात् । न तु पर्यायत्वेऽपि यततेः । आकाङ्कायाश्शब्दविशेषधमत्वेन पर्यायत्वाबाधकत्वात् । अतश्च यथैव कर्मत्वमित्येतत्पदं नाऽऽनयतिपदापेक्षं, किन्तु समानार्थ कत्वेऽपि द्वितीयैव तत्साकाङ्क्षा, तथा पर्यायत्वेऽपि कृत्र एवं कर्माकाङ्क्षा न यततेः । अत्र च कर्माविवक्षायां पच्यादरकर्मकत्व- मविवक्षाविरहवैशिष्टयाभावादव्याहतम् । आसनादीनां च का. लादियोगविशिष्टानां कर्माकाङ्गत्वादविरुदं सकर्मकत्वम् । एवं यत्रक एव धातुर्थान्तरे सकर्मकोऽर्थान्तरे चाऽकर्म- १. यत्नादाविति. क. ख. पु. ४ मी० को मीमांसाकौस्तुभे [भावार्थाधिकरणे कः तत्राऽप्ये कस्यैव तत्तदर्थप्रतिपादकत्वरूपधर्मपुरस्कारेण कर्म- साकाहत्वतदनाकाङ्कत्व द्रष्टव्ये । यथा(१)ग्रन्थधातोः ग्रथनार्थ- कस्य ग्रथ्यमानव्यापारवाचित्वेऽकर्मकत्वं, अथितृव्यापारवाचि त्वे च सकर्मकता । अत एष यत्र कर्मद्वयसाकाङ्कत्वं तत्र द्विकर्मक- स्वमपीति प्राश्चः । वस्तुतस्तु द्वितीयकर्मणो मुख्य कर्मस्वाभावेऽपि कर्मकारक- सम्बन्धित्वविवक्षायामपादानादिकारकान्तरत्वाद्यविवक्षायां च पारिभाषिककर्मत्वस्य व्याकरणे प्रतिपादनान तस्याऽऽद्यकर्मतु. ल्यत्वमिति द्रष्टव्यम् । अतश्च कबो यत्नपर्यायत्वेऽपि सकर्मकत्वाक्षतेयुक्तस्तनिमि- त्तद्वितीयाकर्मलकारादियोगः, 'कर्मवकर्मणे ति सूत्रविहितयगा. दियोगश्च । तत्र त्वयं विशेष:---यत्माप्यकर्मातिरिक्तकर्मान्तरा. काङ्गत्व एव सः, न तु प्राप्यकर्मण्यपि । अत एव जायते घटः स्वयमेवेत्येवं न भवति, भवति च स्वयमेव क्रियते घट इति । न त्वेतावता यततेरपि कर्मकर्तरि प्रयोगः, तस्य शब्द. स्वाभाव्येनैव कर्मानाकाङ्कत्वात् । शब्दस्वभावेन कर्माकासादेव धातोः कर्मत्वाविवक्षापूर्वकं तस्यैव कर्तृत्वविवक्षायां यगादि. विधानात् । नन्वेवमपि “कर्मवत्कर्मणा तुल्यक्रिय" इति सूत्रेण कर्मनिष्ठे व्यापार एव कर्तृत्वविवक्षायां यगादिविधानात् यत्नस्य च देव दत्तनिष्ठत्वेन ओदननिष्ठत्वाभावात् पच्यते ओदनस्स्वयमेवेति प्रयोगानुपपत्तिरिति चेत्-न ; तादृशस्थले कृनादेरप्युत्पत्त्यादिरू. पफलळक्षकत्वाङ्गीकारात् । लक्षणां विनाऽप्युपपत्तिमग्रे निरूप यिष्यामः ! ३. श्लोकुधातोरिति. क. ख. पु. .

भावनाविचारः ] द्वितीयाध्यायस्य प्रथमः पादः। तत्सिद्धं कुलो यत्नवाचित्वात्तेन यततिना च विवरणादा. ख्यातस्य यत्नवाचित्वम् । अत एव न्यायसुधाकारोऽध्यमुमेव पक्षं सङ्केपेणाऽनुसृतवान् । यत्तु पचति पाकं भावयतीत्यनुकूळव्यापारवाचिणिजन्तभू- धातुना विवरणं, तच्छक्यतावच्छेदके गौरवापत्तेलाक्षणिकार्थ- विषयं व्याख्येयम् । एवं रथो गच्छति, चैत्रो जानति, इच्छति, करोती. सादावनुकूलव्यापारे गमनाद्याश्रयत्व एच वा लक्षणेसपि द्रष्टव्यम् । नश्यतीत्यादौ तु प्रतियोगित्व इत्यपि । शक्यतावच्छे. दकं च करोतिसमानाधिकरण(१)तिप्तवादिकम् । अतश्च घटो भवतीत्यादौ तदभावाद्यनाभानेऽपि सङ्ख्यादिभानार्थमेव तिङा. दिप्रयोग इति मूलानुयायिनः । वस्तुतस्तु लाघवात्तिप्वादिकमेव शक्ततावच्छेदकम् । अ. तश्च घटो भवतीत्यादावपि भावनाश्रयत्व एव लक्षणा । न चाऽऽश्रयत्वस्य सम्बन्धविधयैव भानोपपत्तेलेक्षणावैयर्थ्यम् , नामार्थधात्वर्थयोर्भेदान्वयस्याऽव्युत्पन्नत्वात् । अन्यथा चैत्रः पचति तण्डुलः, चैत्रः पच्यते तण्डुल इत्यादावन्वयबोधापत्तेः । कचिद्धात्वर्थे कारकान्वयः, कचिच्चाऽऽख्यातार्थ इति व्युत्प. त्तिवैचित्यकल्पनापत्तेश्च । आख्यातेनाऽऽश्रयत्वलक्षणायां तु तत्रैव भावनावत्कारकान्वयोपपत्चेनं व्युत्पत्तिवैचित्र्यम् । अत्र तिप्त्वादिकमेव शक्ततावच्छेदकं, न तु स्थानिभूत लट्त्वादि । तस्य साधुत्वबोधनार्थं कल्पितत्वेन स्वतोऽविद्यमानत्वात् , प्रति. व्याकरणं तेषामननुगतत्वाच । यत्र तु गच्छेत्यादौ तिङो लोप- स्तत्र शवादिविकरणस्यैव तद्वाचकत्वम् । न च तिडादिलोप. १. तित्वादिकमिति. क. ख. पु.

भीमासाकौस्तुभे [ भवार्थाधिकरणे ज्ञानं तद्बोधकम् , तज्ज्ञानाभावेऽपि तद्बोधस्याऽऽनुभाषिकत्वात् । तत्सिद्धमाख्यातस्य यत्नो वाच्य इति । स च यत्नः कृञ्धात्वभिहित इवाऽऽख्याताभिहितोऽपि नित्यं कर्मसाकाङ्क्ष एव प्रतीयते । विशेषेण तु विध्यादिसमाभिव्याहारे सतीप्सितकर्मकः । अत एव 'स्वास्थ्यकामश्शयीत' इत्यादौ शायनादेरकर्मकत्वेऽपि स्वास्थ्यस्य भावनाकर्मत्वोपपत्तिः। अत- श्वाऽऽख्याताभिहितस्य यत्नस्य वस्तुतः फलभावनानुकूळव्यापा- रत्वाद्भावनापदवाच्यत्वोपपत्तिः । सा च सकलकारकान्वाय. स्वादसति बाधके मुख्याविशेष्यतयैव प्रतीयते । तथा हि-न तावत्प्रथमान्तं प्रति भावनायास्सङ्ख्यावद्विशेष- णत्वाभ्युपगमेन प्रथमान्तस्य मुख्यविशेष्यत्वम् । (१)तथा च सति भावनाप्रकारक(२)शाब्दबुद्धित्वावच्छिन्नं प्रति प्रथमान्तपदजन्यो- पस्थितिः कारणमिति नियमः फलितः । न चाऽसौ सम्भवति काष्ठैः पचति, 'दधेन्द्रिय कामस्य जुहुया' दित्यादौ प्रथमान्तप. दाभावेन व्यभिचारात् । न चाऽध्याहारेण तत्सम्पादनम्, अध्या. हारापेक्षयाऽनुशासनिकनिरूढलक्षणाया लघुत्वेनाऽऽख्यातेनैव कर्तृकर्मलक्षणौचित्यात् । न ह्यत्र 'ना जुहोती तिवत्स्वर्गकाम- पदानुषङ्गश्शङ्कितुं शक्यते, येन लक्षणातोऽपि लाघवमाशङ्कयेत, इन्द्रियकामपदस्याऽनन्वयापत्तेः । यस्त्वत्राऽऽख्यातेनाऽध्वर्युः कर्ता लक्ष्यते, नाऽसौ पूर्व प्रथमान्तपदोपात्तः, योऽनुषज्येत । अतो लक्षणैवाऽऽख्यातेन कतकर्मणोः । तत्रैवाऽभेदान्वयश्चै त्रादिपदानाम् । युक्तं चैतत् , सङ्ख्यायास्समानपदश्रुसैव कर्ता धन्वयोपपत्तेः । इतरथा भिन्नपदोपात्तचैत्रायन्वये गौरवात् । १. तदा हीति. क. ख. पु. २. शान्दत्वावच्छिन्नमिति, ख. पु.

भावनाविचारः ] द्वितीयाध्यायस्य प्रथमः पादः। किञ्च विभावय मृगो धावतीत्यादौ (१)महाभाष्यकारा. भ्युपेतैकवाक्यतायां साधुताऽपि प्रथमान्तविशेष्यकत्वे नाऽवक- ल्पते । तथा हि-न तावदा मृगस्थ विभावनं प्रति कर्मत्वम्, द्विती. यान्तत्वापत्तेः । न च द्वितीयान्तपदाध्याहारेण कर्माकासापूर्तिः, वाक्य भेदापत्तेः । अतो धावन भावनाया एव कर्मत्वं वाच्यम् । तच्च तदोपपद्यते, यदि तस्य नाऽन्यत्र प्रकारतयाऽन्वयः। अ. न्यथा सकृदुचारिताया उभयत्राऽन्वयानुपपत्तेः । भावनायाः प्र. थमान्त(२)प्रति विशेष्यत्वे तु कर्मतासंसर्गेण तस्या विभावनभा. वनां प्रत्यन्वयोपपत्तिः । न च तदाऽपि तत्र द्वितीयापत्तिश्श. झ्या, स्वादिविभक्तीनां प्रातिपदिकपरत्वस्य नियतत्त्वेनाऽऽ. ख्यातपरत्वशङ्कानुपपत्तेः । न च मृगात्मगत यत्नस्य नित्यानुमेयत्वेन भवन्मतेऽपि साक्षा- काररूपविभावनकर्मत्वानुपपत्तेः कथमेकवाक्यत्वोपपत्तिरिति वा. च्यम् ? विभावनस्य साक्षात्कारघटितत्वाभावेन नि यानुमेय कर्म- कत्वस्याऽप्युपपत्तेः। घटितत्वेऽपि वा धावनाश्रयत्वरूपाख्यातल. क्ष्यार्थस्यैव विभावनकर्मत्वोपपतेः । अतोऽस्मन्मते एकवाक्यत्वो. पपत्तिरिति मुख्यविशेष्यैव भावना । एतेन भावनाया मुख्यवि- शेष्यत्वे पाकभावना जायत इत्यास्मिन्नर्थे पचति भवतीति प्रयो. गापत्तिरिति दूषणमिष्टापत्यैव निरस्तम् । (३)अत एवोक्तं वाक्य- ७ १. महाभाष्यकाराभ्युपेतायामिति. क. पु. २.प्रत्यपीति.क.ख. पु. ३. येऽपि अपाक्षीत्, भवति, पक्ष्यति, भवतीत्यादयः प्रयोगास्तेषु भूधातुनाऽयुक्तत्वामावस्यक्तित्वात्तस्य च लटा वर्तमानत्वोपपत्तेर्भूत. भाविपाकानुकूल कृतिवृत्तिवर्तमानायुक्तत्वाभावाश्रयत्वमिति शाब्द- बोधाङ्गीकारान्नाऽयुक्ताः । अस्ति च भूधातोरयुक्तत्वाभावेऽपि प्रयो. गः, पण्डितो भवतीत्यादौ । अत एव पचन्ति भवन्तीत्यादयो न प्रयो- गाः पचति भवतीत्यादयश्च प्रयोगाः इत्यधिकमुपलभ्यते 'क' पुस्तके ।

२८ मीमांसाकौस्तुभे [ भावाथाधिकरण . पदीये "बहुष्वपि तिङन्तेषु सकाङ्केवेकवाक्यना"(१) इति । किञ्च भवन्मते सर्वकारकाणां धात्वर्थे, तस्य कालादेश्च भावनायां, सङ्ख्याभावनयोश्च प्रथमान्तपदोपस्थाप्येऽन्वयस्वी. काराद्यत्पत्तिवैचित्र्यकल्पनापत्तिः । तद्वरं वक्ष्यमाणरीत्या सर्वे षां भावनान्त्रयाङ्गीकारादेकैव व्युत्पत्तियुक्ता कल्पयितुम् । ए. तेन प्रथमान्तपदोपस्थाप्यभावनान्वयानङ्गीकारेऽप्याख्यातलक्ष्ये कर्तरि कर्मणि वा तदन्वय इति न भावनाया मुख्यविशेष्यत्व मिसपास्तम् , व्युत्पत्तिवैचित्र्यतादवस्थ्यात् । किञ्चाऽस्मिन्पक्षे "भावप्रधानमाख्यात" मिति स्मृतिवि रोधः । तथा हि-न तावादियं स्मृतिः भावशब्दवाच्यभावना. प्राधान्यं प्रकृत्यर्थापेक्षया विधत्ते, तस्य 'प्रकृतिप्रत्ययाविति स्मृ- त्यैव सिद्धेः । किन्तु यदाख्यातं शक्तिलक्षणासाधारण्येन भाव. नासङ्ख्याकालकादिपरं तत्र भावनायाः प्राधान्यं, न तु कत्री- देरित्येवं परम् । अत एव "धात्वर्थः केवलश्शुद्धो भाव इत्यभि. धीयत" इति व्याकरणस्मृत्या धात्वर्थस्य भावपरिभाषणेऽपि नाऽस्यां निरुक्तस्मृतौ भावशब्देन तद्ब्रहणम् । तथा सति धा. तोरेव भावप्रधानत्वापत्या आख्यातशब्दस्य(२)भावप्रधानत्वा. नुपपत्तेः । किन्तु णिजन्तस्य भुवोऽजन्तत्वव्युत्पत्त्या आख्याता- र्थभावनायाः । वैयाकरणपरिभाषणं तु तच्छास्त्रविहितकृत्यवि. षयं, न निरुक्तविषयमपि, तस्य परिभाषारूपत्वेनाऽन्यत्राऽप्र- वृत्तेः । तदपि च (३) नपुंसके भावे क्त' इत्यादौ शुद्धधात्वर्थना हणमेव, न तु त्वनलाद्यर्थभावग्रहणमित्येतदर्थम् । नाऽपि भावप. दशक्यनियमाथ, प्रवृत्तिनिमित्तादेस्तदनुपपत्तेः । २. भावाभिधानेति क. ख पु. १. वाक्य. कां. २. श्लो. ४५० ३. पा. सु. ३. ३.११४.

भावनाविचारः] दितीयाध्यायस्य प्रथमः पादः । २९ न च(१) "सर्वमाख्यात नामे"ति निरुक्तकारेणाऽभिधा- नादाख्यातशब्देन धातुरेवोच्यत इति वाच्यम् । कृदन्ते धातावा. ख्यातपदप्रयोगाभावेनाऽऽख्यात(२)पदस्य धातुबाचित्वानुपप- तेः। निरुक्त नामनिर्वचने स्वाऽऽख्यातशब्देन लक्षणयाऽऽख्या. तान्तस्य धातोर्ग्रहणं नाऽनुपपन्नम् । अत एव(३) 'तान्याख्यातानी' ति जैमिनिसूत्रेऽपि चाऽऽख्यातशब्देन(४)लक्षणयाऽऽख्याता. तधातोग्रहणम् । एतावांस्तु विशेषः-यजैमिनिसूत्रे आख्याता. न्तकत्वं विशेषणं, तेन तिङन्तस्यैव धातोर्ग्रहणम् । निरुक्तं तू. पलक्षणम्, तेन तत्राऽतिङन्तस्य धातुस्वरूपस्यैव ! न त्वेतावता आख्यातशब्दस्य धातुवाचित्वं, कृदन्ते धातो पाक इसादौ त. पदप्रयोगाभावेन तद्वाचित्वानुपपत्तेः । अपि तु तिङ्वाचित्वमेव । अतोऽऽख्यातप्रतिपाद्यानेकपदार्थविषये कस्य प्राधान्यमिति जिज्ञासायां भावनाप्राधान्य मनया स्मृत्या नियम्यते । एवं “सत्वप्रधानानि नामानी" त्यत्राऽप्यनेकार्थप्रतिपाद. केषु प्रातिपदिकापरनामधेयेषु नामसु पाचको लावक इसादिषु विभक्त्युपात्तसङ्गघान्वययोगिनस्सत्वपदाभिधेयस्य कर्तुरेव मा. धान्यं, न तु पाककृतरित्ययमर्थोऽवगम्यते । नामत्वाविशेषेऽपि च यत्र घटादिपदे घटघटत्वरूपयोरुभयोरप्यर्थयोर्विभक्त्युपात्त. सङ्घयान्वय ययोगित्वरूपा सत्वता तत्रोभयोरपि शब्दतः प्राधा- न्यम् । अत एव आकृत्यधिकरणेऽभिहितं यत्तृतीयादौ जाते. रेव सङ्ख्याकारकान्वयः, अन्यत्र तु लक्षितव्यक्तेः जातिव्यक्त्यो. श्च न वैशिष्ट्यावगाहोको बोधः, किन्तु बोधद्वयं शक्तिलक्षणा. जन्यमिति । अतस्तत्रोभयोस्सत्वभूतत्वादुभयोरपि प्राधान्यम् । १. निरु. अ. १. खं.१३. सू. ५. २. पदलक्ष्यधातुवाचित्वेति ख.पु. ३. जै. सू. २. १.३.४ ४. लक्षणयैव धातोग्रहणमिति क.ख.पु.

मीमांसाकौस्तुभ [ भावर्थाधिकरणे , तंदवमाख्याते नाममु चाऽनेकार्थप्रतिपादकेष्वन्या स्मृत्या प्राधान्य नियम्यते । सुवादिषु वनेकार्थप्रतिपादकेषु प्रधानभूतक्रियान्वाय- त्वात्कारकादेरेव प्राधान्यं, न तु लिङ्गसङ्ख्यादेः । कारकस्यैव प्रधा. नभूतक्रियान्वयित्वम् । क्रियान्वयित्वविरहे कारकत्वव्याघातात् । क्रियायाः प्रधानत्वं च क्रियापदं विना कारकाणां नैराकाङ्या- दर्शनात् । अतः प्रधानभूतक्रियान्वयित्वात्सुबर्थे कारकादेरेव प्रा. धान्यम् । लिङ्गसङ्ख्यादेस्तु समानाभिधानश्रुत्या तदन्वाय. त्वम् । तच्च साक्षादयोग्यमिति पदश्रुतेर्योग्यतारूपलिङ्गाच्च पाठि. कः प्रातिपदिकार्यान्वय इति प्रातिपदिकार्थस्याऽपि लिङ्गसङ्खये प्रति प्राधान्यम् । अत एव विभक्त्युपातसयान्वययोग्यत्वरू- पा सत्वताऽप्यस्य पाठिकान्वयमादायैव निर्वाह्या सर्व चैतत् (१) पश्वकत्वाधिकरणे वक्ष्यते । प्रातिपदिकार्थस्तु प्रधान भूते कारकरूपे प्रत्ययार्थेऽन्वेति । 'प्रकृति प्रयया प्रत्ययार्थं सह ब्रूतस्तयोस्तु प्रत्ययः प्राधान्य ने ति स्मृत्या प्रत्ययार्थस्य प्रकृत्यर्थं प्रति प्राधान्याचगमात् । सा. मान्यस्मृतिरपीयं प्रमाणान्तरानुसारात्कारकादिविषयैव, न तु सङ्ख्यादिविषयाऽपि । अन्यथा प्रातिपदिकार्थस्य सत्वसमाख्या. नुपपत्तेः । कारकादिरूपस्सुबर्थस्तु प्रधानभूते प्रत्ययार्थे भावना. यामन्वेति, न तु धात्वर्थे प्रत्ययार्थान्तरे वा । तेषामुपसर्जनत्वात् , प्रधानान्वयस्य चाऽभ्यर्हितत्वात् , कारकाणां धात्वर्थे, तस्य च भावनायामन्वय इति व्युत्पत्तिद्वयकल्पनापत्तेश्च । अतो लाघ- वात्सर्वेषां भावनायामेवान्वयो युक्तः । स च यद्यपि साक्षाद. योग्यः, तथाऽपि पाष्ठिकान्वयलभ्यधात्वर्थद्वारक इति निश्चीयते । एवं प्रथमान्तस्याऽपि चैत्रादिपदस्याऽभिहितकर्तृकर्मकार- १. पू. मी. ४. १. ५.

भावनाविचारः] द्वितीयाध्यायस्य प्रथमः पादः। कवाचिनी प्रथमेति मते कर्तृकर्मवाचकत्वात्कर्तृत्वादेर्युक्त एव भावनान्वयः । प्रातिपदिकार्थे प्रथमेति मते तु प्रातिपदिकार्थ- स्यैव कर्तृत्वकर्मवाधिकारित्वान्यतमसंसर्गेण भावनायामन्वयो नाऽनुपपन्नः । एवं सम्बोधनान्तस्याऽपि द्रष्टव्यम् । एवं निणि- चादेः कारकत्वाभावेऽप्यनुष्ठापकत्वावगमाविधिवदेवाऽनुष्ठेपायां भावनायामेवाऽन्वयः । एवं क्वाप्रत्य यादीनां क्रियासम्बन्धसा- पेक्षाणां क्रियाश्यावृत्तिविहितानां च कृत्वसुजादीना(१)भावना. यामेवाऽन्वयः, पाठिकान्त्रयः परं धात्वर्थादो। इदं च तत्र तत्रो. पपादयिष्यते। षष्ट्यास्तु सम्बन्धसामान्याभिधायिन्याः कारकविभक्तिः स्वाभावाद्भावनां विनाऽप्यन्येन सम्बन्धो न विरुध्यते । अतश्च तस्या धात्वर्थकारकादिभिरप्यन्बयो नाऽनुपपन्न इति मला. नुयायिनः। वस्तुतस्तु तत्रापि साक्षात्परम्परासाधारण्येन भावनाया- मेवाऽन्वयः, प्रधानान्वयस्याऽभ्यर्हितत्वात् । धात्वर्थस्य तु भाव- नायामेवाऽन्वयः, प्रकृत्यर्थत्वात् , कारकत्वेन(२)विवरणाच । किञ्च धात्वर्थस्याऽप्यत्र कारकत्वेनाऽन्वयाभावे तृतीया. न्तानां ज्योतिष्टोमादीनामनन्धयापत्तिः । न च साधुत्वार्था अभेदलक्षणार्था वा तृतीयेति वाच्यम् । करणत्वरूपश्रौतार्थावि. वक्षायां कारणाभावात् । अभेदलक्षणार्थायास्तृतीया:(३) छ. न्दसि काऽप्यदर्शनाच्च । (४)धान्येन धनवानित्यादावपि च न ७ १. नाश्च भावनायामिति. ख. पु. २. विवरणाचाऽविवाद एवेति. क. ख. पु. ३. छन्दसीति नाऽस्ति. क. ख. पु. ४. धान्येन धनी भवतीति क. ख.पु. मी० को मीमांसाकौस्तुभे [ भावार्थाधिकरणे धान्याभिन्नधनवानित्यर्थः। धान्यस्य धनसम्बन्धोत्पत्तिं प्रति करणत्वोपपत्तेर्दण्डेन घटो भवतीतिवल्लक्षणायां प्रमाणाभावा- त् । अत एव भासमानोऽपि धनधान्याभेदः पाठिकान्वयलभ्य एवेति न तदर्थमपि लक्षणा । अतो लक्षणायाः काऽप्यदर्शना- नृतीयान्तनामधेयानुराधेनाऽपि धात्वर्थस्य करणत्वमवश्यमङ्गीक- तव्यम् । अत एव (१)चाऽन्यकरणत्वस्य पदार्थविधया भासमा- नत्वाद्धात्वर्थस्याऽपि करणत्वं न संसर्गबललभ्यम्, अपि तु धा- तुलभ्यमेव । अतश्च धात्वर्थो यागादिः करणत्वेनाऽन्वेति । तच कारकत्वाद्भावनायामित्यपि द्रष्टव्यम् । एवं लडादिवाच्यः कालोऽपि (२)पाठिकान्वयलभ्यधात्व. थद्वारा वा साक्षासम्बन्धेनैव वा भावनान्वयी। एवं विधिरपि प्रवर्तनारूपः प्रधानभूतायां तस्यामेव भावनायामन्वेति(३)जन- कत्वसम्बन्धेन । सङ्ख्यायास्तु प्रतीत्यनुरोधादनुशासनानुरो. धाच्च भावनाक्षिप्तकर्तृत्वकर्मत्वान्यतरयोगित्वम् । भावना हि कर्तृत्वकर्मत्वे अखण्डोपाधिरूपे आक्षिपति । ते च स्वाश्रयमाक्षि- पतः । कर्तृत्वकर्मत्वयोश्चाऽऽक्षेपलभ्ययोरपि शाब्दत्वसिध्यर्थ ल. क्षणा, न तु तदाश्रयस्याऽपि । सर्वं चैतद्विस्तरेण (४)क-धिक- रणे निरूपयिष्यते। तत्र शबादिविकरणस्थले तिवाच्या सङ्ख्या कर्तृत्वान्वि- ता। यगादिविकरणस्थले कचित्कर्मत्वान्विताऽपि । न तु तत्त- दाश्रयान्विता, तस्याऽशाब्दत्वात् । अत एव दर्शपूर्णमासादावा- श्रयभेदेऽपि कर्तृत्वैक्यादेकवचनम् । 'लौमे वसानावित्यत्र तु १. नाम्नि करणत्वस्येति क. पु. २. पार्टिकान्वयेन धात्वर्थेति. क.पु. ३. प्रयोज्यत्वसम्बन्धेनेति. क. पु. ४. पू. मी. ३. ४. ८.

भावना विचारः] द्वितीयाध्यायस्थ प्रथमः पादः । प्रमाणान्तरानुसारादधिष्ठानलक्षणामङ्गीकृत्य सङ्ख्यान्वय आश्रय एवेति विशेषः । अतस्सङ्ख्यायाः कर्तृकर्माख्यातस्थले तावत. त्रैवाऽन्वय इति मूलानुयायिनः । वस्तुतस्तु प्रधानान्वयस्याऽभ्यहि तत्वात्सुबाभिहितसङ्ख्याया इवाऽस्या अपि पाठिकान्वयलभ्यकर्तृत्वद्वारकः कर्मत्वद्वारको वा परम्परासम्बन्धेन भावनायामेवाऽन्वयः । भावाख्यातस्थले तु भावनायामेवाऽन्वयस्सङ्ख्यायाः। यथा चैत्रेण सुप्यते, स्थीयत इत्यादौ । अत्र हि स्वापादिकृतिस्तिङर्थः, अखण्डोपाधिरूपं क. तत्वं तु तृतीयार्थः । अत एव चैत्रेण किं क्रियत इति प्रश्ने सु. प्यत इत्युत्तरं सङ्गच्छते । अतः प्रतीत्यभावान्नाऽत्र कृतिस्तिङर्थ इति परमतमपास्तम् । अतस्तत्र भावनायां साक्षात्सम्बन्धेनैव सङ्ख्यान्वयः । न चैव तस्या द्वित्वादिविवक्षायां द्विवचनापत्तिः, एकव. चनस्पैच तत्र साधुत्वस्मृतेः तेनैव विवक्षितसङ्ख्यालक्षणोप- पत्तेः । न चैवं साक्षात्सम्बन्धेन विभक्त्युपात्तसङ्ख्यायोगिः स्वरूपसत्वतापत्तेविप्राधान्यानापत्तिः, सत्वतास्वीकारेऽपि भा. वत्वानपायात् । अस्यां हि स्मृतौ भावस्य प्राधान्यमिति नि. यमः क्रियते, न तु सत्वातिरिक्तस्पेति, सङ्ख्यादेरपि प्राधान्य. प्रसङ्गात् । अतो भावत्वानपायात्सङ्ख्यान्वयेऽपि न प्राधान्य- क्षतिः । अस्तु वा कर्तृकर्मान्वयवद्धात्वर्थान्य यः पाकिस्सङ्ख्या याः। अतो भावाख्यातस्थले साक्षात्सम्बन्धाभावेऽपि स्वर्थद्वारैव भावनान्वयोपपत्तिः । यत्र तु गगनेन स्थीयत इसादौ यत्नस्य बाधः, तत्र घटो भवतीत्यादौ प्रथमान्तपदान्वयस्येवाऽऽश्रयत्वलक्षणायां कारणा. भावाद्धात्वर्थ एव सङ्ख्यान्वयोऽनन्विता वा सेति केचित् । : , घा.

मीमांसाकौस्तुभे [ भवार्थाधिकरण वस्तुतस्तु भावप्रधानमिति स्मृत्या आख्यातत्वावच्छेदेन भावनाप्राधान्यस्य विहितत्वात्तदन्यथानुपपत्तिरेवाऽत्राऽऽश्रयत्व लक्षणाबीजम् । एवं कारकान्वयेऽप्यरूप्यं भविष्यति । इतरथा कचिद्धात्वर्थे कचिदाख्यातार्थ इति व्युत्पत्तिद्वयकल्पनापत्तेः । अस्मन्मते तु वृत्त्याऽऽख्यातपदगम्ये सर्वत्र कारकान्वय इत्यवै. रूप्यम् । कर्तृत्वकर्मत्वयोस्तु भावनायामेवाऽन्नयः। तत्र कर्तृत्वस्य भावनायामन्वयोऽविवाद एव । कर्मत्वस्य तु कर्माख्यातस्थले यत्नवाचिना तिङा यत्नप्रयोज्यफललक्षणात्तत्राऽन्वय इति मूला- नुयायिनः । एवं कर्मकर्तृस्थलेऽपि पच्यते ओदनस्स्वयमेवेत्यादौ कर्मण एव स्वव्यापारे कर्तृत्वविवक्षणात्फललक्षणा द्रष्टव्या । केचित्तु कर्माख्यातस्थले फलमात्मनेपदशक्यं, न तु कृतिः, शवादिसमभिव्याहृततिङ एव तत्र शक्तिग्रहात् । अतस्तत्र भा- समाना कृतिः परं तृतीयार्थः, ओदनस्तु फल एवाऽन्वेती. त्याहुः । तन्ना लायवेन तिप्त्वस्यैव शक्ततावच्छेदकत्वौचि- त्यात् । ओदनान्वयार्थ फलस्य लक्षणयाऽपि बोधोपपत्तेश्च तृतीयाया अपि कर्तृत्वरूपाखण्डोपाधावेव शक्तिर्न तु कृतौ । तथात्वे तत्रापि कारकान्वयापत्तेः । वस्तुतस्तु कर्माख्यातेऽपि न फल लक्षणा, कृतावेवाऽखण्डो- पाधिरूपस्य कर्मत्वस्य स्वसमानाधिकरणफलप्रयोजकत्वसम्बन्धे. नाऽन्वयागीकारात् । अत एव कर्मकाख्यातस्थलेऽपि कर्मत्वरूपा. ऽखण्डोपाधेरविवक्षणाकर्तृत कर्तृत्वरूपाखण्डोपाधेरेवौदननिष्ठस्योक्तपर- म्परासम्बन्धेन(१) कृतावऽन्वयोपपत्तेर्न फल लक्षणा । न चैव मेता- दृशस्थले देवदत्तस्य साक्षात्सम्बन्धेन(२) कर्तृत्वाभावेन प्रथमाना- १. कृतावेवाऽन्वयेति. क. पु. २. कर्तृत्वाभावेनेति नास्ति 'ग' पुस्तके भावनाविचारः ] द्वितीयाध्यायस्य प्रथमः पादः। ३५ " पत्तावपि तृतीयापत्तिस्यादेवेति वाच्यम् । देवदत्तनिष्ठ कर्तृत्वस्य तिडाऽनभिधानेऽपि कृतिनिरूपितकर्तृत्वस्य तिङभिहितत्वादन. भिहिताधिकारविहित(१)तृतीयाया आपादयितुमशक्यत्वात् न च प्रथमेव तोऽऽपयेत, प्रथमायास्तिपातसङ्घयान्वयिचाचि- स्वव्याप्तत्वेन व्यापकाभावे आपादयितुमशक्यत्वात् । अतस्सम्ब. म्धसामान्यवाचिनी षष्ठयेव तत्र युक्ता । तदेवं सर्वकारकाणि प्रति भावनायाः प्राधान्ये तिकुपात्त. कादि प्रति सुतरां प्राधान्यापत्तेः, तदनङ्गीकारे 'भावप्रधानमा- रूपातमिति स्मृतिविरोधस्य दुष्परिहरत्वाद्भावनापा एवं मुख्यविशेष्यत्वमिति सिद्धम् । अत एव भावप्राधान्यस्मृत्या भावनायाः प्राधान्यावगमादप्रधानभूतयोः कर्तृकर्मणोस्तल्ल. क्ष्यत्वम् । अन्यथा ते कृदन्तवदेव तद्वाच्ये स्याताम्, न तु तल्लक्ष्ये । तथा हि- यत्रैकस्मात्पदादनेकार्थप्रतीतिस्तत्राऽनेकशक्तिकल्पनागौरव- भिया एकत्रैव शक्तिरपरत्र लक्षणेत्यवश्यमभ्युपगन्तव्यम् । तत्र च नियामकापेक्षायां प्रथमं तावत्प्रधानस्य लोके वेदे च गुणभू. ताक्षेपकत्वदर्शनात्माधान्यमेव शक्तिनियामकमवसीयते । तदिह भावनायाः प्राधान्यपक्षे तदपेक्षितयोर्गुणभूतयोः कर्तृकर्मणो. राक्षेपेणैव बोधोपपत्ते ऽतिरिक्तशक्तिकल्पनावसरः । अत एव यत्र व्यभिचारान्नाऽऽक्षेपकत्वशक्तिः, ययकत्वादौ, तबाऽनेक शक्तिकल्पनमपि । यदि तु तयोरेवे प्राधान्यं ततस्तयोरेव शक्य. त्वापत्तेर्भावनायाश्च गुणभूतायास्ताभ्यामेवाऽऽक्षेपसम्मान त. स्या वाच्यत्वं युज्येत । अत एव कृदन्तस्थले पाकः, पकमि. त्यादौ पचिधातोः पाकमात्रवाचित्वेऽपि प्रत्ययस्य कृतिकादि. १. कर्तृतृतीयाया इति. क. पु.

मीमांसाकौस्तुभे [ भावार्थाधिकरणे . रूपानेकार्थबोधकस्य क शक्तिरिति नियामकापेक्षायां, 'सत्त्वप्र- धानानि नामानी ति सवरूपस्य कोदेरेव प्राधान्यावग- मात् , तत्र शक्ताववधारितायां गुणभूतायाः कृतेराक्षेपेणैव बो. घोपपत्तर्नाऽतिरिक्तशक्तिकल्पनम् । न चैवं तस्या अशाब्दत्वेन पाकादिरूपकारकान्वयानापत्ति, आख्याते एकत्वान्वयार्थ कर्तृकर्मणोरिव कृदन्तस्थले कारका. न्वयार्थ कृतेलक्षणाङ्गीकारात् । न चैवमपि लाघवात्कृतावेव शक्तिरस्तु, लाघवस्याऽप्यङ्गनिष्ठस्य(१) दीक्षणीयामुख्यत्वस्ये वाऽङ्गगुणविरोधन्यायेनाऽकिञ्चित्करत्वात् । प्रधानस्य पुरस्फूर्ति- कत्वेन तत्र शक्ताववधारितायामनवाच्छिन्नायाश्शक्तरयोगादवच्छे- दकापेक्षायां तद्गतगौरवादेरुत्तरकाळप्रतीतिकत्वेन फलमुखत्वाच्च । अत एवाऽनेकार्थप्रतिपादकेऽपि घटादिपदे यत्राऽन्यतरार्थ- प्राधान्यनियामकामावस्तत्रैव लाघवस्य आकृत्यधिकरणव्युत्पा. दितस्य (२)नियामकत्वम् । न हि घटघटत्वयोः प्राधान्यनि- याम किश्चिदस्ति, पूर्वोक्तविधयोभयोरपि सत्वभूतत्वेन स्मृ. १. 'य इष्ट्या पशुना सोमेन वा यजेत सोऽमावास्यायां पौर्णमा. स्यां वे'त्यनेनेष्टिपशुसोमाः पर्वदिने कर्तव्यत्वेन विहिताः । तत्र पञ्चदिनलाध्यकलोमयागे प्रथमदिने अङ्गभुता दीक्षणीयेष्टिरनुष्ठीयते, पञ्चमदिने च सोमयागः । तदत्र निरूक्तवाक्येनोभयोरपि पर्वकाल. कर्तव्यत्वस्य विरोधे सति किं पर्वण्यङ्गमनुष्ठीयताम् ? उत प्रधान मिति सन्देहे-अङ्गभुताया अपि दीक्षणीयेष्टेः पाठतोऽनुष्ठानतश्च प्रथ- मोपस्थितत्वेन मुख्यत्वात्तस्या एव पर्वण्यनुष्ठानमिति पूर्वपक्षयित्वा, पाठतोऽनुष्ठानतश्च जघन्यस्याऽपि सोमयागस्य प्रधानतया, अङ्गानां च तत्साद्गुण्यार्थत्वेन दीक्षणीयामुख्यत्वस्याऽकिञ्चित्करत्वात्सोम- यागस्यैव पर्वकालकत्वमिति द्वादशद्वितीयनवमे सिद्धान्तितम् । २. 'नाऽगृहीतविशेषणा बुद्धिर्विशेष्यमुपसङ्क्रामतीति न्यायस्य नियामकत्वामिति (१.३.१०) अधिकरणे स्पष्टम् ।

भावनाविचार: ] द्वितीयाध्यायस्य प्रथमः पादः । तेरनियामकत्वाद , उभयोरपि क्रमिकत्वेन बोषद्वयाङ्गीकारेण वैशि- ध्यानवगाहनात्मतीतेरप्यनियामकत्वाच्च । कृत्सु तु पूर्वोक्त- विधया प्राधान्यस्यैव नियामकत्वायुक्ता कर्नादौ शक्तिः, न तु कृतौ । भावकत्सु तु पाक इत्यादौ पाकपदमात्रेण कृतिप्रतीतो पाकः क्रियत इति पृथक्कृतिवाचकपदसमभिव्याहारानुपपत्तेर्धा- त्वर्थमात्रप्रतीतावपि कारकान्वयार्थ काष्ठरोदनस्य पाक इत्या- दावपि जायते, क्रियत इति वा क्रियापदाध्याहारेण वाक्यपूरणं द्रष्टव्यम् । (१)युक्तञ्चैतत् । धात्वर्थस्याऽपि स्वजनकीभूतव्या- पाराक्षेपकत्वं सम्बन्धात् । अत: कृदन्तस्थले कृतिप्राधान्याभावा- देवाच्यत्ववातिङन्तस्थलेऽपि भावनाप्राधान्याभावे अवाच्यत्वा- पत्तिः । न चेष्टापत्तिः, भावप्राधान्यबोधकस्मृतिविरोधापत्ते. रुक्तत्वात्। किश्चाऽस्मन्मते निपातोपसर्गप्रातिपदिकातिरिक्तशब्दगम्यो यस्सुबुपाचलिङ्गसङ्ख्याव्यतिरिक्तोऽर्थः, तत्मकारकशाब्दबुद्धित्वा- वच्छिन्नं प्रति लिङ्गानन्वयिभावनाविशेष्यतासम्बन्धेन पदजन्यो. पस्थितिः कारणमित्येकयैव व्युत्पश्या बहूनां सङ्ग्रहाल्लाघवम् । अन्यथा हि तत्तकारकादीनां धात्वर्थे, तस्य च कालादीनां च भावनायां, तस्यास्साङ्ख्यायाश्च प्रथमान्त इत्यनेकव्युत्पत्तिकल्प. नागौरवम् । अत्र च कार्यतावच्छेदके निपातोपसर्गाणां समभिव्याहृता. र्थान्वयं विना स्वार्थबोधकत्वादाचं विशेषणम् । अत एव तेषु क्रियासमाभन्याहारे सति तथैवाऽन्वयः, यथा निषेधेषु नमः। अन्यसमभिव्याहारे त्वन्येनाऽपि । प्रातिपदिकार्थस्याऽपि घट. घटत्वादेस्सुबर्थ प्रत्येवाऽन्वयाद्वितीयम् । १. युक्तञ्च धात्वर्यस्याऽपीति. क. ख. पु.

" मीमांसाकौस्तुभे [ भावधिकरणे यत्र तु दधि इत्यादौ सुलोपस्तत्र(१) प्रातिपदिकलक्ष्यस्यैव दषिकर्मत्वादेव्युत्पत्त्यन्तरेणैव भावनान्वयेऽपि न क्षतिः । अत्र च 'आग्नेयोऽष्टाकपाल' इत्यादौ तद्धितोपात्तस्य देवतात्वरूपस्य कारकस्य तद्धितोपाचद्रव्यान्वयं(२)विनाऽपि क्रियान्वयिनः प्रा. तिपदिकार्थत्वेऽपि व्युत्पत्त्यन्तरेण तदङ्गीकारान्नोक्तव्युत्पत्तिभ- ङ्गः । अत एव कारकत्वातिरिक्तसम्बन्धेन यत्र तद्धितसमासा- दिवृत्तिः, यथा उपगवः, राजपुरुष इत्यादौ, तत्र क्रियान्वयाभा. वेऽपि पुरुषादावन्धयो नाऽनिष्टः । यत्र तु कारकत्वसम्बन्धेन वृत्तिः, यथा 'आग्नेय' इत्यादौ तत्र प्राथमिकक्रियान्वयं विना कारकत्वायोगात्, वृत्तेश्च पाष्टि- कसम्बन्धेनाऽपि निर्वाहोपपत्तेर्नाऽऽदावेवाऽष्टाकपालसम्बन्धः, अपि तु भावनासम्बन्धद्वारक एवाऽसौ। विवारिष्यते चेतन(३) पौर्णमास्यधिकरणे वाक्यभेदोपपादनार्थम् । सुबुपात्तलिङ्गसङ्ख्य- योस्सुवर्थकरणत्वाद्यन्वयिनोरुक्तविधशब्दगम्यत्वात्तनिवृत्त्यर्थं तृ- तीयम् प्रथमान्तस्थले च प्रातिपदिकार्थस्याऽपि प्रथमोपस्थितस्यैवाऽन्वयाङ्गीकारानाऽतिप्रसङ्गः एवं (४)षष्ठ्यादीनामपि कारकत्वातिरिक्तनाऽपि सम्बन्धेन निमित्तवत्(५)भावनान्वयाङ्गीकारादतिप्रसङ्गो निराकर्तव्यः । अर्थपदं च पदजन्योपस्थितिविशेष्यपरम् । तेन यागादेः करणत्वान्वायनो भावनानन्वयेऽपि न क्षतिः। कारणतावच्छे. दकेऽपि कारकाणां भावनापदोपस्थापितभावनान्वयापत्तस्तया. । १. प्रातिपदिकान्वयस्यैवेति. ग. पु. २. विहायाऽपीति. क. ख. पु. ३. पू. मी. २.२.३. ४. षष्ठीक्त्वान्तादीनामिति. क. ख. पु. ५. भावनान्वयेऽपि न क्षतिरित. क. पु.

भावनाविचारः] द्वितीयाध्यायस्य प्रथमः पादः। वृत्यर्थं लिङ्गानन्धयोति विशेषणम् । अत एचोदनं भुक्त्वा वज. तीत्यादौ क्त्वाप्रत्ययोपात्तभाव नायामोदनादेरसम्बन्धेऽपि तस्या लिङ्गानन्वयित्वात् नोकव्युत्पत्तिविघातः । न चैवमेकस्मिन्वाक्ये भावनाद्वयसवात्कस्यां केषां कार. काणामन्वय(१)इत्यत्राऽपि नियामकाभावः, योग्यताया आस- त्तेस्तात्पर्यस्य च नियामकत्वात् । एवं गच्छत्यादौ(२)प्रत्ययार्थ. स्याऽपि शबादिविकरणार्थभूतायामेव तस्यामन्वयः। तस्मादे. कयैव व्युत्पत्या बहूनां सङ्ग्रहाल्लाघवम् । अस्तु वा प्रकारीभूत. तत्तदर्थभेदेन व्युत्पत्तिभेदः। तथाऽपि परिपूर्ण पदं पदान्तरे- णाऽन्वेतीति न्यायेन प्रथमावगतयागादिव्युत्पत्तिवेलायां भाव- नाविशेष्यत्वस्योपस्थितत्वात्तत्रैव विशेषणज्ञानरूपसामग्रीसचेन स्वर्गादिपदार्थान्तराणामपि प्रकारतया अन्वयव्युत्पत्तिकल्पना, न त्वन्यत्र । अन्यगतमुख्य विशेष्यत्वस्याऽनुपस्थितत्वेन विशेषण. ज्ञानाभावात् । अत एवंविधलाघवादपि भावनायामेच साक्षात्पर म्परया वा योग्यतानुसारेण सर्वेषामन्वयः । परम्परासम्बन्ध- स्थले तु पार्टिको धान्वर्थादिसम्बन्ध इति न कोऽपि(३) दोषः । न च पार्टिकबोधस्याऽपि श्रुतशब्दजन्यत्वाद्वयुत्पत्यन्तर- कल्पनातादवस्थ्यम् , पार्टिकबोधस्य योग्यतत्तत्समस्तपदकल्प. नयाऽनुमितपदजन्य त्वेन व्युत्पत्त्यन्तरकल्पनानापत्तेः । निरुक्त- पदाध्याहारं प्रति श्रुतशब्दस्य कारणत्वं तु तवाऽपि सम्मतमेव । इतरथा अयं घटोऽस्ति, जलमानेयामित्यतो घटकरणकजलानयन. मित्येवंविधार्थप्रतिपादकपदाध्याहारानापत्तेः । पदान्तरकल्पना- कृतं तु गौरवं कार्यकारणभावकल्पनाभावात्फलमुखत्वाच्च न १. इत्यत्र विनिगमकाभाव इति. क. ख. पु. २. प्रत्ययलोपेऽपीति. क. स. पु. ३. विरोध इति क. पु ६ मी० को मीमांसाकौस्तुभे [ भावार्थाधिकरणे दोषमावहति । तत्राऽप्याकाङ्कायोग्यतातापर्यादिचशात्तत्तत्पदार्थ एक पाठिकान्वयस्तत्तत्पदार्थस्येति नाऽव्यवस्थाऽपि । स्पष्टश्वाऽय- मर्थो भावार्थाधिकरणादौ तत्र तत्र । न चैवं राजपुरुषोऽस्तीत्यत्र क्रियान्वयोत्तरं पाठिकस्तात्प. र्यादिसरचे राजपुरुषयोवस्वामिभावादिरूपो भेदसम्बन्धोऽपि बुध्येतेति वाच्यम् । अनुभवानुरोधेन नामप्रयोज्यतदर्थप्रकार- कतदर्थविशेष्य कान्वयबोधस्याऽभेदविषयत्वमिति नियमाङ्गीका- रात् । राजपुरुषयोः पाठिकान्वयबोधस्याऽप्यस्मन्मते नामज. न्यत्वाभावेऽपि स्वजन्य शाब्दबोधानुमेयशब्दजन्यत्वेन नामप्रयो- ज्यत्वमस्तीति युक्तं तस्या भेदविषयत्वम् । वरं च नामार्थयोः (१)तदभेदान्वयव्युत्पत्तिकल्पनापेक्षया निरुक्तव्युत्पत्तिकल्पनम् प्रयोज्यत्वस्य जन्यत्वापेक्षया लघुत्वात् । राज्ञः पुरुषोऽस्तीत्यादौ तु षष्ठ्यर्थनामार्थयोरन्वयस्य पा- टिकत्वान्नाऽभेदाविषयत्वप्रमङ्गः । अत एव तत्राऽभेदस्य बाधि- तत्त्वादेव षष्ठ्यर्थो नाऽभेद सम्बन्धेन पुरुषेऽन्वेति, अपि तु भेद संसर्गेणैव । अभेदभ्रमद शायां परं ताशवाक्यात्पाठिकाभे. दबोधवारणार्थं सुष्प्रयोज्य तदर्थप्रकारकनामार्थविशेष्यकबोधस्य भेदसंसर्गविषयत्वम् , स्तोकं पचतीत्यादावभेदबोधार्थं च सुप्प- योग्यतदर्थप्रकारकधात्वर्थविशाध्य काधम्याऽभेदविषयत्वम् , द. धि पश्यतीत्यादौ भेदसंसर्गबोधार्थं च शुद्धमातिपदिकप्रयोज्य- तदर्थप्रकारकधात्वर्थविशेष्यकबोधस्य भेदविषयत्वमित्यायनुभ- वानुसारेण कल्प्यम् । न चैविधव्युत्पत्तिकल्पनावश्यंभावे किमिति शाब्दबोध. विषयत्वमेव परेषामिव नाऽङ्गीक्रियत इति वाच्यम् । संसर्ग: १. अभेदान्वति क. पु. , भावनाविचारः] द्वितीयाध्यायस्य प्रथमः पादः ! . विशेषनियामकम्युत्पत्तीनां तुल्यस्वेऽपि सचद्विशेष्यतानिरूपि- तप्रकारतानियामकव्युत्पत्तीनां भेदाभावेनाऽस्मन्मतस्य ल. घुत्वात्। न च भवन्मतेऽपि पाष्ट्रिकान्वये प्रकारतानियमार्थ तस्क. ल्पनावश्यंभावः, इतरथा सोमं पति यागस्य, आरुण्यं प्रत्येक हायन्या वा प्रकारतापत्तेरिति वाच्यम् । यस्य यदोधाव्यवहि. तपूर्वबोधे साक्षात्सम्बन्धेन विशेष्ये प्रकारता, तस्य निराकाङ्क स्वादेव तदुत्तरबोधेऽन्यं प्रत्यप्रकारत्वम् । अत एव यस्य यद्धोधाव्यवहितपूर्वबोधे परम्परासम्बन्धन विशेष्ये प्रकारता, तस्यैव (१)परम्पराघटकतावगत्यै तदुत्तरबो- धेऽन्यं प्रति प्रकारत्वम् । यागैकहायन्यादेहि स्वर्गक्रयौ प्रति द्वि- तीयबोधे साक्षादेव भकारत्वान्न तृतीयबोधे सोमारुपये प्रति प्रकारता । अपि तु सोमारुण्ययोरेच परम्परया (२)भावनां क्रय पति च प्रकारयोः परम्पराघटकावगत्यै यागमेकहायनी वा प्रति प्रकारत्वम् । तयोश्च तद्वलादेव विशेष्यत्वम् । इतरथा सोमारुण्या. दिगतपरम्परासम्बन्धानिर्वाहात् । अत एव यस्य प्रकारस्य वि. शेष्यान्वये यो वस्तुतः परम्परा(३)सम्बन्धरूपः संसर्गस्तस्यैव तत्वेनाऽवगत्यै तटकपदार्थेन पाठिकोऽन्वयः(४)शब्देनाऽव- गम्यते, न तु योग्यत्वेऽप्यन्येन । अत एव राज्ञः पुरुषोऽस्तीत्यत्र प्रातिपदिकार्थभूतस्य रा- ज्ञष्षष्ट्यर्थे निरूपकतासंसर्गेण प्रकारतयान्वितस्य नाऽयोग्य. तानिश्चयाभावदशायां पुरुषेणाऽभेदान्वयः पार्मिकः, निरूपक- तासंसर्गस्याऽभेदाघटितत्वात् । अत एवाऽऽरुण्यकरणत्वस्य द्रव्य. १. परस्परावगत्य इति. क पु. २. भावनायां क्रये चेति. क. पु. ३. सम्बन्धरूपस्तस्यैवेति. ग. पु. ४. अनुमितशब्देनेति. क. पु.

४२ भीमांसाकौस्तुभे [ भवार्थाधिकरणे परिच्छे इद्वारैव क्रयं पति प्रकारत्वात्तस्यैवैकहायनी प्रति पा. ष्टिकोऽन्वयः, न स्वारुण्यस्य समायसम्बन्धेनैकहायनी प्रति, तस्य स्वकृत्तिकरणत्वं प्रत्याधेयतासम्बन्धेनाऽन्विततया करण. त्वनिरूपिताधेयताया एकहायनीसमवायाधघटितत्वात् । अत एव ताशस्थलेऽऽरुण्यस्यैकहायनीसमवेतत्ववोधः परप्रनुमाना- दिना, न तु तदर्थे तद्वाचकशब्दानुमानम् । यदि तु न प्रकारतानियामकव्युत्पत्तितस्संसर्गनियामकव्यु. स्प चीनां भेदेन कल्पनं, अपि तु सुवर्णपकारक भेदसंसर्गकशा- ब्दत्वावच्छिन्नं प्रति विशेष्यतासम्बन्धेन धातुपदजन्योपस्थितिः कारणमित्येवमादिक्रमेणेकैवेत्याऽऽशोत, तथाऽपि धात्वर्थस्य, भावनायाः, कालस्य, विधेश्च पृथक्कार्यकारणभावाकल्पनाद स्मन्म : एव लाघवमिति । (१)इष्यते च परैरपि क्लुमव्युत्पत्ति- तः श्रुतशाब्दबोधे वृत्ते पश्च। तन्त्रिीहार्यपान्तरविषयमनुपानम् । यथा-तिङर्थेषु सामान्यसाधनत्वविशेषणीभूते इष्टे प्रथमान्तपदो. पस्थाप्यस्वर्गकापविशेषणीभूतस्वर्गाभेदस्य । न हि नैयायिक मते स्वर्गसाधनत्वं लिङः, अपि विष्ट सामान्यसाधनत्वमेव । न वा कामशब्दविशेषणं स्वर्गपदमिष्टाभेदं प्रतिपादयितुमलम् । अतश्चेष्टसाधनीभूतयागानुकूलकृतिमान् स्वर्गकाम इति शाब्द. बोधे वृत्ते पश्चादेव स्वर्गाभिन्नेष्टसाधनं याग इत्यनुमानमिति, ममाऽपि श्रुतशाब्दबोधे लघुव्युत्पत्तितो वृत्ते पश्चादेव यथाऽनु- भवं पार्टिको बोधोऽनुमितशब्दादनुपानाद्वेति न कश्चिद्विरोधः । तत्सिदं सर्वकारकाणां भावनायामन्वयात्तस्या मुख्यविशेष्य. त्वमिति । न चैवं द्वितीयान्तस्याऽपि भावनायामेवाऽन्वयादातोस्सक- १. उच्यते चेति. स. पु.

भावनाविचारः ] द्वितीयाध्यायस्य प्रथमः पादः। " मकरवाकर्मकत्वब्यवस्थानापत्तिः, यद्धावर्षस्य पाठि कान्वये क. मण आकासा तद्धातोरसकर्षकत्वाङ्गीकारात् । पाठिकान्त्र- यलभ्यधात्वर्थकर्मत्वमादायैव चोदनादौ द्वितीयोत्पत्तिः, न तु भावनाकर्मत्वमादाय । अन्यथा स्वास्थ्यं शपीते त्यपि प्रयोगा. पत्तेः । पार्टिकान्वयलग्यसकर्मकत्यादिव्यवहारवदेव 'स्तोकं प. चतीत्यादौ क्रियाविशेषणानामपि भावनारूपक्रियासम्बन्धोत्त- रकाललभ्यो धात्वर्थेनाऽभेदान्वयो द्रष्टव्यः । तस्मात्सिद्धा घा. स्वातिरेकिणी प्रत्ययवाच्या मुख्य विशेष्या प्रयत्नरूपा भावनेति । तत्र च पूर्वोक्तन्यायेन(१) कर्माकाङ्कत्वाद्विधित्तमभिव्याहा. राच्च तस्यां (२)स्वर्गकामाधिकरणन्यायेनेप्सितं जन्यं स्वर्गादि भाव्यत्वेनाऽन्वेति । भावार्थाधिकरणन्यायेन च यागादिः कर- णत्वेन । न च तस्य यत्नरूपभावनाजन्यत्वात्कथं तस्यामेव कर. णत्वमिति वाच्यम् ? भावनाफलजनकत्वेन पारिभाषिकस्यैव भा. बनाकरणत्वस्याऽङ्गीकारात् । तस्याश्च स्वजन्यकरणेन फले जन्य- मानेऽनुग्राहकापेक्षायां (३)प्रकरणाधिकरणन्यायेन प्रयाजादि इति कर्तव्यतात्वेनाऽन्वीयते । अत एव निप्पारस्य द्रव्यस्याऽनुग्रा. हकत्वायोगात् व्यापारानाविष्टं द्रव्यमपि नेतिकर्तव्यतात्वेन ज्ञा. यते । व्यापारसम्बन्धोत्तरं तु तस्येतिकर्तव्यतास्वेन बोध इत्यपि तत्र तत्र वक्तव्यं भविष्यति । पार्थसारथिमते तु व्यापारसामान्यस्यैव भावनात्वात्मयाजा. दीनां च तद्विशेषाणां व्यापारविशेषाकारूपेतिकर्तव्यताका- कया तत्वेनाऽन्वयो न त्वनुग्राहकत्वेन । अत एव व्यापाराना- विष्टस्य द्रव्यस्य तद्विशेषत्वायोगान्न तत्वेन ग्रहणमिति विशेषो. १. नियमेन कर्माकाङ्क्षति. क. ख. पु. २. पू. मी. ६. १. १० ३. प. मी. ३. ३. ४.

मीमांसाकौस्तुभे [भावार्थाधिकरणम्
ऽपि प्रकरणाधिकरणे निरूपयिष्यते । न चैवं भावनायां साध्य-
साधनतिकर्तव्यताच येऽपि समानप्रत्ययोपादानश्रुत्या शुद्धाया-
मेव तस्यां विध्यन्वयात्तदुत्तरकालीनस्य तदंशत्रयस्य विधिसंस्प-
भावेन ग्रहैकत्वबदविवक्षापत्तिः, अंशत्रयान्वयोत्तरं तद्विशि-
टायां भावनायां विध्यन्वयाभ्युपगमे तु 'परिपूर्ण पदं पदान्तरे.
णाऽन्वेतीति न्यायभङ्गापत्तिरिति वाच्यम् । शुद्धस्य यत्नस्य वि.
घिविषयत्वानुपपत्तेः, सामान्यतो यत्किश्चिदाक्षिप्तांशत्रयोपेतभा.
बनायामेव विधिसम्बन्धाभ्युपगमेन च पर्यवसानोपपत्तेः, पश्चा-
निर्धारणापेक्षायां तत्तत्पदैविशेषनिर्धारणोपपत्तेः।
तस्मात्सिद्धा अंशत्रयान्विता प्रत्ययवाच्या भावना । अतश्च
तस्यां धात्वर्थस्यैव करणत्वं शीघ्र प्रमितमिति पार्टिकफलस.
म्बन्धवेलायां तस्यैवाऽन्वयो न तु द्रव्यादेरिति सिद्धम् । ततश्च
फलसम्बन्धनिर्वाहार्थ कल्प्यमानमपूर्वमपि तत एवेत्यपि सिद्धम् ।।
द्रव्यत्यागाचुतवहमुखक्षेपणाचाऽऽतिशस्ता
निष्प्रत्यूह विधिपरिचिता भावनेयं चकास्ति ।
यस्यास्सङ्गादतिशयफलप्रापि यागादिजातं
तामद्याऽई मुररिपुपदद्वन्द्वपोऽर्पयामि ।।
इति द्वितीयं भावार्थाधिकरणम् ॥ २ ॥

द्वितीयाध्यायस्य प्रथमः पादः । ४६ अथ तृतीयमपूर्वाधिकरणम् ॥ ३॥ चोदना पुनरारम्भः ॥२-१-६॥ (विषयसंशयसङ्गतयः) एवं तावदपूर्व सिद्ध गृहीत्वा तज्जनकं विचारितम् । तत्स. द्भाव एव त्वधुना विचार्यते-किमस्त्यपूर्वम् ? उत नेति ?। अत्र चाऽऽपूर्वसद्भावस्याऽप्यपूर्वभेदोपयोगित्वात्पादाध्यायसङ्गती पूर्व- वदेव । आक्षेपिकी त्वनन्तरा। (पूर्वपक्षः ) तत्र प्रमाणाभावान्नाऽपूर्वमस्ति । तथा हि-न तावदत्र प्र- त्यक्षादिकं प्रवर्तते, यागस्वर्गसाध्यसाधनभाव इवाऽपूर्वे ऽपि तस्याऽप्रवृत्तेः । नाऽपि शब्दः, तदनुपलम्भात् । न(१) च श्रुतः यागस्वर्गसाध्य साधनभावान्यथानुपपत्तिरेव तत्कल्पिका । न धन्यथा क्षणिकयागस्य कालान्तरभावि स्वर्गसाधनत्वमुपपद्यते । अतः प्रमाणान्तरा भावेऽपि श्रुतार्थापत्तिरेवाऽपूर्वसद्भावे प्रमाण. मिति वाच्यम् । साध्यसाधनभावस्याऽन्यथानुपपत्तावप्यपूर्वस्य तदुपपादकत्वाभावात्कल्पनानुपपत्तेः । न ह्यपूर्व कल्पिते तेनैव स्वर्गजननादपूर्वोत्पत्तिं प्रत्यन्यथासिद्धस्य यागस्य स्वर्गजनक- ता सम्भवति । न चाऽपूर्वस्य शक्तिरूपत्वादवान्तरव्यापारत्वाद्वा ज्वालादिभिरिव न तेन यागस्याऽन्यथामिद्धिः, शक्तिव्यापारयो. शक्तिमद्वयापारवनिष्ठत्वनियमेन शक्तिमति व्यापारवति च यागे नष्टे शक्तिव्यापारयोरवस्थानानुपपत्तेः । न चाऽपूर्वस्य फलबलकल्प्यस्य याग(२)निष्ठत्वासम्भवेऽपि यागाश्रयभूतात्मनिष्ठत्वकल्पनेनाऽपि शक्तिव्यापारत्वोपपचिरि. १. नाऽपि चेति. ख. पु. २. निष्ठत्वासंभवेनेति. क.ख. पु.

मीमांसाकौस्तुभे [ अपूर्वाधिकरण- ति वाच्यम् । गुरुभूतापूर्वकल्पनां विनाऽपि यागस्वर्गसाध्यसाध- नभावस्योपपन्नतरत्वेनैताहशकल्पनायां प्रमाणाभावात् । तथा हि-यद्यपि तावत्क्षणिको यागस्साक्षादेव कालान्तरभावि- स्वर्गजननाय नाडलम्, तथाऽपि स्वजन्यध्वंसद्वारा समर्थ एव । तस्य हि यागजन्यत्वसद्भावयोः क्लुप्तत्वात्केवलं फलजनकत्वमात्रं क- प्यमित्यवान्तरव्यापारत्वं मुलभम् । अपूर्वस्य तु सद्भावः, स्था- यित्वं, यागजन्य त्वं, स्वर्गजनकत्वं चेत्य नेकपदार्थकल्पनान्न त सुलभम् । (१)यागस्य विनाशित्वप्रतिसन्धानोत्तरकालमेव च द्वारकल्पनेन विनाशस्योपस्थितत्वाञ्च । नन्वेवं ध्वंसस्यैव व्यापारत्वे तस्य नित्यत्वेन कीर्तनप्राय- श्चित्तादिना नाशानुपपत्तेः,(२) 'धर्मः क्षरति कीर्तनाच' 'प्रायः श्चित्तेन नश्यन्ति पापानि सुमहान्त्यपी'त्यादिशास्त्रविरोधः । न ह्यनयोज्योतिष्टोमब्रह्महत्यानाशकत्वसम्भवः, तयोराशुतरविना. शिवेन नाशकारणानपेक्षत्वात् । नाऽपि तजन्यमुखदुःखनाश- कत्वम्, तयारनुत्पन्नत्वेन नाशायोग्यत्वात् । अत: कीर्तनप्रायः श्चित्तादिनाश्यं यागादिजन्यमपूर्वमावश्यकमिति चेत् , क्लुप्तध्वं. सस्यैव व्यापारत्वेऽवधारिते कीर्तनादीनां फलोत्पत्तिप्रतिबन्ध कत्वस्यैव स्वजन्यध्वंसद्वारा साक्षादेव वा कल्पनात् । अत एव यागध्वंसस्य नित्यत्वेन स्वर्गोपत्त्यानन्तरमपि स्व. गान्तरोत्पत्तिप्रसङ्ग इत्यप्यपास्तम् , स्वर्गध्वंसस्याऽपि तत्पति- बन्धकत्वकल्पनात् । न च कीर्तनादिध्वंसस्य प्रतिबन्धकत्वकल्पने प्रयोगान्तरजन्यस्याऽपि फलस्य प्रतिबन्धापत्तिः, तद्यागव्याक्ति- कीर्तनजन्यध्वंसस्य तद्यागव्यक्तिजन्यफलप्रतिबन्धकत्वकल्पना. त् । न चैवं गौरवापाचः, तस्य फलमुखत्वात् । अपूर्वपक्षेs- १. यागगतविनाशित्वेति. क.ख. पु. २. कर्मनाशाजलस्पर्शादित्यादिः।

पूर्वपक्षः] द्वितीयाध्यायस्य प्रथमः पादः । MARIENTA SI पि समानत्वाच्च। अथ वा न कीर्तनध्वंसस्य प्रतिबन्धकत्वं कल्प्यते, गौरवा- त् , अपि तु कीर्तनात्यन्ताभावविशिष्टज्योतिष्टोमव्यक्तित्वेन का. रणत्वकल्पनान्न कीर्तनस्थले यागध्वंसमात्रात्फलसिद्धिः । अत्र च तद्वयक्तित्वान्तमवश्यं विवक्षणीयम् , अन्यथा एकव्यक्तिकीर्तने व्यक्त्यन्तरेभ्योऽपि फलानिष्पत्तिप्रसङ्गात् । न च कीर्तनवाक्ये कीर्तनमात्रश्रवणात ज्योतिष्टोमवाक्ये च तन्मात्रश्रवणादुक्ताविधकारणतावच्छेदकबोधकाभावः, तस्य वाक्य कवाक्यतोत्तरमनुमानविषया बोधोपपत्तः। न हि ज्योति- ष्टोमादिवाक्येऽपि ज्योतिष्टोमत्वादिरूपस्य कारणतावच्छेदकस्य वाक्येन बोधः, कार्यतावच्छेदकबोधं विना कारणतावच्छेदकबो- धानुपपत्तेः । न छत्र स्वर्गवं कार्यतावच्छेदकम्, अपि तु विजा- तीयस्वर्गवम् । न च वैजात्यस्य वाचकं पदमत्राऽस्ति । स्वर्ग- पदेनैव तल्लक्षणायां प्रमाणाभावात् । अतो वाक्येन सामानाधि- करण्येनैव जन्यजनकभावे बोधिते, पश्चादेवाऽनुमानविधया विजातीयस्वर्गवस्य कार्यतावच्छेदकत्वे कल्पिते, पश्चादेव ज्योति. ष्टोमत्वादेरिवोक्तविधस्याऽपि कारणतावच्छेदकस्य कल्पयितुं शक्यत्वात् । अतो युक्तं ध्वंसस्यैव व्यापारत्वं, न त्वक्लुप्तस्याऽपू वस्य । एतेन(१) "तृप्त एवैनमिन्द्रः प्रजया पशुभिश्च तर्पयती" त्यर्थवा. दोपात्तस्य देवताप्रसादस्यैव (२)रात्रिसत्रन्यायेन द्वारत्वोपपत्ते. नऽनुपस्थितापूर्वकल्पनं युक्तमिति वेदान्तिमतमपि प्रत्युक्तम् , ततोऽप्युपस्थिततरध्वंसदारकत्वेनैव नैराकाङ्क्षये रात्रिसत्रन्या- यानवतारात् । देवताप्रसादस्याऽपीच्छाविशेषरूपस्य क्षणिक- १.ते. सं.२.५.४. ७ मी० को २.पू. मी.४.३.६.

মালাক্ষী [ अपूर्वाधिकरण- त्वेन व्यापारान्तरापेक्षणाञ्च । तस्य ध्वंसद्वारकत्वाङ्गीकारे च तस्याऽन्तर्गडुकत्वापत्तेर्वरं यागध्वंसस्यैव व्यापारत्वकल्पनम् । न च ध्वंसस्य फलकारणत्वे यागस्य कारणीभूताभावप्रति. योगित्वेन प्रतिबन्धकत्वापत्तिः, यस्मिनभावे संसर्गाभावत्वेन कारणता ताशाभावप्रतियोगित्वस्यैव प्रतिबन्धकत्वाङ्गीकाराव । प्रकृते तु ध्वंसत्वेन कारणता, न तु संसर्गाभावत्वेनेत्यदोषः । न च ध्वंसस्याऽभावरूपत्वात्कथं फलजनकत्वम् ? अभा- वस्य काऽपि कारणत्वादर्शनादिति वाच्यम् । अभावस्थाऽपि कारणत्वाङ्गीकारे बाधकाभावात् । अत एवाऽनुपलब्धेरभावरूपा- या एव घटावभावग्राहकत्वमङ्गीकृतम् । एवं सन्ध्यावन्दनाथ(१). भावस्य च प्रत्यवायजनकत्वम् । यत्तु वार्तिके नैवाऽभावस्थ कचिदपि कारणत्वं दृष्टम् , यदि तु सन्ध्यावन्दनादौ कचिदुद्भाव्येत, तर निमेषादिरूपस्य तत्का. लक्रियमाणस्य भावस्यैव कारणत्वकल्पनादप्रयोजकमित्युक्तम् , यच्च न्यायसुधाकृता अभावस्य कारणत्वेऽपि भावसहकृतस्यैव तस्य कारणता, न शुद्धस्य, कचिदपि तथा अदर्शनात् । सन्ध्या- वन्दनाकरणस्याऽपि च विध्यवज्ञारूपभावान्तरसहकृतस्यैव प्रत्य- वाय(२)जनकत्वादियुक्तम् , तदतिशयार्थम् , शुद्धस्याऽभावस्या- ऽपि कारणत्वाङ्गीकारे बायकाभावात् । अतोऽभावस्याऽपि कारणत्वाङ्गीकारायुक्तं ध्वंसस्याऽपि द्वारत्वम् । यत्तु वार्तिके यागध्वंसविशिष्टादात्मन एव फलोत्पत्युपपत्ते- नाsपूर्वकल्पना युक्तेति पक्षान्तरमुपन्यस्तम्, तदात्मनो नित्यत्वे- नाऽवान्तरव्यापारवायोगाद्विशिष्टस्य व्यापारत्वाङ्गीकारेऽपि वा लाघवेन ध्वंसस्यैव व्यापारतोपपत्रात्मनोऽपि व्यापारान्त:- १. करणस्येति. क. पु. २. जनकत्वाङ्गीकारादिति. क, पु.

सिद्धान्तः ] द्वितीयाध्यायस्य प्रथमः पादः । प्रवेशे गौरथादुपेक्षितम् । सर्वथा नास्त्यपूर्वमिति मासे - (सिद्धान्तः) अभिधीयते-फुलं तावत्प्रधानकालान्तरभावीति निर्विवाद- म् । न हि बन्न दुःखेने त्यादिवाक्य शेषाचगतनिरतिशय सुखदुः। खरूपयोस्स्वर्गनरकयोरस्मिान्मन्युपभोगसम्भवति । ऐहि- कस्याऽपि वृष्टि(१)पश्चादेस्साङ्गप्रधानजन्यस्य न प्रधानमात्रो. त्तरमुत्पत्तिसम्भवः । अत: कालान्तरभाविफलोत्पत्तिनै क्षणिका- कर्मणो व्यापारमन्तरेण सम्भवतीति व्यापारापेक्षायां न तावत् ध्वंसस्य (२)व्यापारत्वं सम्भवति । स एव हि व्यापारः कल्प- नीयो यश्श्रुताविरोधी । तदिह यथैव निरतिशयमुख रूपे स्वर्गा- ख्ये फले श्रुते, तस्येह जन्मन्य सम्भवेऽपि जन्मान्तरीयत्वमेव कल्प्यते, न तु पुत्रायपेक्षयाऽऽपेक्षिकं निरतिशयत्वमादाय सा- वभौमत्वादिकं गृह्यते । स्वर्गशब्दस्यौपचारिकत्वाङ्गीकरणे कार णाभावात् , जन्मान्तरीयत्वकल्पनस्य च फलमुखत्वेनाऽदोष. त्वात् । तद्वदिहाऽपि 'धर्मः क्षरति कीर्तनात्' 'प्रायश्चित्तेन नश्य. न्ति पापानि सुमहान्त्यपीति कीर्तनप्रायश्चित्तादीनां नाशकत्व श्रवणानाशाह किश्चिदवश्यं कल्पनीयम् । न च यागः, तवं- सः, तत्फलं वा सम्भवति । न च नाशशब्दस्य फलोत्पत्तिपतिबन्धे, कारणीभूनावच्छे . दकघटकीभूतात्यन्ताभावे वा लक्षणेति वाच्यम् । लक्षणायां प्रमाणाभावात् । अतश्च क्लृप्तध्वंसदारकत्वकल्पनापेक्षयाऽपूर्वक ल्पनस्य गुरुभूतत्वेऽपि तस्य फलमुखत्वादवश्यं प्रायश्चित्तादिना. . १. पशुपुत्रादेरिति ख. पु. २. व्यापारत्वसम्भव इति क. पु.

rate 4 ६० मीमांसाकौस्तुभे [अपूर्वाधिकरण- श्यमपूर्वमेव कल्प्यम् । तेन यथैव(१) निषादस्थपतिपदे लक्षणा- पादकसमासानङ्गीकरणेन श्रौतकर्मधारयमेवाऽङ्गीकृत्य पश्चादाप- द्यमानं विद्या(२)तदुपायाक्षेपकत्वं फलमुखत्वादङ्गीकृतम्, तथैव नाशपदस्य श्रीतार्थलिप्सयाऽपूर्वमङ्गीकर्तव्यमेव । किश्च कीर्तनादेः फलप्रतिबन्धकत्वाङ्गीकारे तावत् प्रतिव. ध्यतावच्छेदकस्य तव्यक्तित्व स्याऽप्रसिद्धत्वादेवाऽनुपपचेः । विजातीयस्वर्गत्वादिना प्रतिबध्यताङ्गीकारे च प्रयोगान्तरतोऽपि फलानापत्तिप्रसङ्गः कीर्तनात्यन्ताभावविशिष्टज्योतिष्टोम- व्यक्तित्वेन कारणताङ्गीकारे गौरवं, अनेककार्यकारणभावक ल्पनापत्तिश्च । अस्मन्मते तु सयपि तत्कीर्तनत्वेन तव्यक्ति जन्यापूर्वनाशत्वेन कार्यकारणभावानेकत्वे कारणतावच्छेदके गौरवाभावात् 'धर्मः क्षरति कीर्तनादिति शास्त्रोन्नीतत्वेन प्रामा. णिकत्वाच न दोषः। किञ्च ध्वंसस्य प्रधानव्यापारत्वे तुल्यन्यायत्वादङ्गेष्वपि स एव व्यापारोऽङ्गीकर्तव्यः । ततश्च तस्य नित्यत्वाद्विकृतिप्रयोग वेलायामपि सवाद्विकृतीनां पशुपुरोडाशवत्मासानिकत्वोपपत्तेः प्रयोगभेदेऽपि तज्जन्यस्योपकारस्य लब्धत्वान्न पृथगङ्गानि क- तव्यानि स्युः । तथा च विकृतौ (३) प्रयाजे प्रयाजे कृष्णलं जुहोती ति दर्शनानुपपत्तिः । अस्मन्मते त्वङ्गापूर्वाणां प्रधानापू. र्वोत्पत्यनन्तरं नाशाद्विकृत्यपूर्वसिध्यर्थं पुनराकरणोपपत्तिः । अपि चाऽस्मिन्पक्षे काऽङ्गानामुपयोगः ? न तावत्प्रधाने, त. स्य प्रयाजाधजन्यत्वात् । नाऽपि तद्धंसे, तस्य तानि विनाऽपि जायमानत्वात् । नाऽपि फले, प्रधानत्वापत्तेः। अतोऽवश्यम. १. विचारोऽयं षष्ठप्रथमान्तिमाधिकरणे विशदः । २. तद्गुणाक्षेपकत्वमिति. क. पु. ३. तै. सं.२.३.२.

सिद्धान्तः ] द्वितीयाध्यायस्य प्रथमः पादः । कृपधानव्यवस्थासिध्यर्थमध्यपूर्व कल्पनीयम् । तदा हि प्रधाने- नाऽपूर्वे जननीये अङ्गानामपि सहकारित्वकल्पनात्प्रधान एवं वा योग्यताविशेषजननादस्ति तेषामुपयोगः । तस्मादवश्यं या- गस्य ध्वंसातिरिक्तो व्यापारो वाच्यः । न च यागस्यैव तर्हि फलं यावत्स्थायित्वं लाघवादस्तु, किं व्यापारकल्पनयेति वाच्यम् ? तृतीयादिक्षणे प्रत्यक्षताप- तेः। तद्यागव्यक्तिमत्यक्षे तद्यागव्याक्तिद्वितीयक्षणस्य कारण. त्वकल्पने चाऽनन्तकार्यकारणभावकल्पनापत्तिः । न चैतस्य फ- लमुखत्वम् , विषयप्रत्यक्षयोः कार्यकारणभावस्य लोकसिद्ध. त्वेन स्वर्गसाधनत्वज्ञानानपेक्षत्वात् । कीर्तनापूर्वव्यत्यो श्य- नाशकभावानेकत्वकल्पना तु 'धर्मः क्षरतीति शाब्दबोधोत्तर- कालीनत्वात्फलमुखेति विशेषः । अतोऽवश्यं व्यापारो वाच्यः । सोऽपि च न देवताप्रसादरूपः, तस्य देवतानिष्ठत्वेन फलव्य- धिकरणस्य फलजनकत्वानुपपत्तेः, देवतायाश्चैतन्य, विग्रहः, प्रसादः, तस्य च स्थायित्वामित्यनेकार्थकल्प नापत्तेश्च । विशि. ध्य चाऽयं (१)नवमे निराकरिष्यते । अतः(२)परिशेषादपूर्वमेव कल्प्यम् । तच्च 'यागेनाऽपूर्व कृत्वा स्वर्ग कुर्यादि'ति(३)श्रुता- र्थापत्तिकल्पितवैदिकशब्दगम्यत्वादेव नाऽभामाणिकम् । न चै. वं श्रुतयागस्वर्गसाध्यसाधनभावव्याघातः, अपूर्वस्य शक्तिरूप- त्वेन व्यापाररूपत्वेन वा कल्प्यमानत्वाच्छक्तिव्यापाराभ्यां च ज्वालादिवच्छक्तिमतो व्यापारवतो वा साधनत्वाविघातात् । न चैवं शक्तिमति व्यापारवति वा यागे नष्टे तन्निष्ठापूर्व- १. पू. मी. ९. १.४. २. पारिशेष्यादिति क. ख. पु. ३. श्रुतं शब्दः तत्कल्पकार्थापत्तिरिति व्युत्पत्त्या यत्राऽनुपपद्य. मानः शब्दः शब्दान्तरं कल्पयति सा श्रुतार्थापत्तिरित्यर्थः ।।

भीमांसाकौस्तुभे [अपूर्वाधिकरण- स्याऽपि नाशापत्तिः, अपूर्वस्य यागीयत्वेऽपि(१)फलबल कल्य- वेन यागनिष्ठत्वाकल्पनात् । यथैव ह्यनुभवव्यापारस्याऽपि सं. स्कारस्य नाऽनुभवानेष्ठत्वं, किन्तु फलबलेन स्मृतिसमानाधि. करणत्वसिध्यर्थमात्मनिष्ठत्वमेव, तथाऽत्राऽप्यपूर्वस्य फलसा मानाधिकरण्यासिध्यर्थं फलबलेन फल भोत्कृनिष्टत्वमेव कल्प्यत इति न विरोधः । अत एव गयाश्राद्धादौ यत्र पितुः पुत्रस्य च फलभोक्तृत्व शास्त्रान्तरममितम्, तत्रो भयनिष्ठापूर्वद्वपकल्पनम् । अपूर्वयमपि च तत्र(२)कीर्तन नाश्यमेव । एवं दम्पत्योरुभयोर- पि भोक्तृत्वादुभयनिष्ठमपूर्वद्वयम् । तत्राऽपि तत्तनिष्ठ कीर्तनस्पै. व तत्तनिष्ठापूर्वनाशकत्वम् । (३)यमान्यतरस्यैव रोगादिनिवृत्यर्थ दर्शपूर्णमासाय नुष्ठानं, तत्र सत्यपीतरस्य व्यासज्यवृत्तिकर्तृत्वे फलभोक्तृत्वाभावान्न तन्निष्ठापूर्वान्तरकल्पनम्, अपि तु भोक्तनिष्ठ मेव । अत एव तत्रे. तरस्य सत्यपि कर्तृत्वे फलभोक्तृत्वाभावान्न तत्र फलिसंस्का- रा वपनादयः । एवं जातेष्टयादौ पुत्रस्यैव फलभोक्तृत्वम् , न तु पितुः,(४)न सत्राऽपूर्व फलिसंस्कारो वा । याज्ञिकास्तु पितर्यपि फलिसंस्काराननुतिष्ठन्त्येव । न चैवं पुत्रस्य भोक्तृत्वसत्यात्तत्र फलिसंस्कारा अप्यपूर्व- वदभ्युपगम्यरनिति वाच्यम् । वपनादीनां कर्तुनिष्ठफलाधान- योग्यताजननार्थत्वात्पुत्रस्य कर्तृत्वाभावेन वपनादिप्राप्त्यभावा- । वपत इत्यादिषु हि आत्मनेपदानुरोधेन पुरुषप्राधान्येऽवगते वपनादेरवघातादिवत्संस्कारत्वावगमापनेन प्रधानफलाधारत्व. १. फलबलेनेति. क. ख. पु. २. कर्तृकीर्तनेति. क. ख. पु. ३. यत्रेतरस्यति. क. पु. ४. तत्राऽपि, न तत्र अपूर्वमिति. क. ख. पु. , सिद्धान्तः ] द्वितीयाध्यायस्य प्रथमः पादः । योग्यतासम्पादनद्वारा पुरुषं संस्कुर्यादित्यर्थावगतेः, संस्कार्यस्य च भूतभाव्युपयोगापेक्षायां कर्तृत्वद्वारेण यागापूर्वसम्बन्धावगते. रपूर्वजनकयागकर्तारं यागजन्य फलाधारवयोग्यतासम्पादनद्वा. रा वपनेन संस्कुर्यादित्यर्थः प्रतीयते । अतश्च पुत्रस्य कर्तृत्वा. भावादप्राकृतकार्यकारिणि तस्मिन्न वपनादिधर्मप्राप्तिः । न च संस्कार्यस्याऽपूर्वजन्य फलाश्रयत्वसम्बन्धेनैवाऽपूर्वस. म्बन्धोपपत्ते ऽवश्यं कर्तृत्वनैव स विवक्षणीय इति वाच्यम् । वपत इत्यात्मनेपदेन वपनकर्तरि चपनजन्य फलोत्पच्याभिधाना. द्वपनस्य चाऽङ्गत्वेन प्रधानविधिविधेयस्य प्रधानकत्रैव कर्वनिरूप- णाद्वपनवाक्ये कर्तृतासम्बन्धस्यैव शीघ्रोपस्थितिकत्वात् । वि. स्तरेण चाऽयमर्थः (१)तृतीये निरूपयिष्यते । तस्माजातेष्टिस्थ. ले फलिसंस्काराभावेऽपि पुननिष्ठमेवाऽपूर्व न पितृनिष्ठम् । त. मिस्तु निमित्तबलादकरण एक दुःखजनकीभूतं प्रत्यवायरूपम- पूर्वमिति विशेषः । तत्सिद्धं नष्टेऽपि प्रधाने फलबलेनाऽत्मनिष्ठा- पूर्वकल्पनम् । एवमङ्गानामपि प्रधानगतफलजननयोग्यतासम्पादनफल. कानामनेकेषां युगपद्योग्यतासम्पादकत्वानुपपत्तेरवान्तरव्यापार- रूपापूर्वकल्पनाचष्टेष्वप्यङ्गेष्वात्मगतापूर्वसिद्धिः । तत्र च पर- परासम्बन्धेन प्रधानगतयोग्यताया अपि सत्वात्फलसामाना. धिकरण्यलाभः । तत्र स्वयं विशेष:-आरादुपकारकाणां तावत्स मिदादीनां प्रकरणाधवगतयागाङ्गभावानामपि प्रधानयागस्वरूप. स्य तदजन्यत्वात्तत्रोपयोगकल्पनानुपपते, तज्जन्योत्पत्यपूर्वाणां च प्रधानाव्यवहितोत्पत्तिकानां प्रधानापूर्वोत्तरकालवर्तिभिरारा. दुपकारकैरुत्पत्यसम्भवात्तत्राऽनुपयोगेऽपि तेष्वेव तज्जन्या- १. पू. मी. ३. ७.२.

। मीमांसाकौस्तुभे [अपूर्वाधिकरण- पूर्वजननानुकूला योग्यता जन्यते । न चोत्तराङ्गानामेव परमापूर्वजननानुकूळयोग्यताप्सम्पादक- त्वमस्तु । पूर्वाङ्गानां तूत्पत्यनुकूल(१)योग्यताजनकत्वमेवाऽस्त्वि. ति वाच्यम् । लाघवादारादुपकारित्वावच्छेदेनैव परमापूर्वोपयो- गित्वस्य कल्पनात् । न चोत्पत्यपूर्वेष्वनुपयोगेऽपि प्रधानापूर्वैः परमापूर्वे जननीयेऽङ्गानामपि स्वस्वावान्तरापूर्वद्वारा सहकारिका- रणत्वमस्त्विति वाच्यम् । तथा सति फल इव परमापूर्वेऽपि ज. नकत्वाविशेषेण प्रधानतुल्यतापत्तेः । अतो योग्यतासम्पादनमेव तैरुपत्त्य पूर्वेषु क्रियते । योग्यैश्च तैः परमापूर्वादिजननमिति द्रष्टव्य. म् । अत एव प्रधानापूर्वानेकत्वे क्रमेण सर्वेषु तेषु तैरेवाऽपूर्वैर्यो. ग्यतासम्पादनमिति द्रष्टव्यम् । अतश्चाऽन्तिममधानापूर्वनिष्ठयो- ग्य ताजननानन्तरमेव तेषां नाशः । योग्यता चेयमुत्पत्त्यपूर्वाव्य- हितापूर्वजननानुकूला । तच्छ कचिद्वक्ष्यमाणरीत्या समुदायापूर्वम्, कचिच्च परमापूर्वमिति विशेषः । अत एव प्रकृतौ समुदायापूर्वस्याऽव्यवहितस्य सौर्यादावभा. वेऽपि परमापूर्वस्यैवाऽव्यवहितत्त्वात्तदनुकूलैव योग्यता । सुत्या- काकीनाङ्गानां च प्रकृतावव्यवहितपरमापूर्वानुकूलयोग्यताजनका. नां द्वादशाहे अव्यवहिततत्तत्सत्यासमुदायापूर्वानुकूलयोग्यताज- नकत्वम् । युक्तं चैतत् । कारणस्याऽनुग्रहापेक्षारूपतिकर्तव्यता. कासाख्यप्रकरणादिनाऽवगताङ्गभावानां मयाजादीनां साक्षात्प्रधा. नतदपूर्वार्थत्वयोरसम्भवे तदव्यवहितापूर्वार्थत्वस्यैव कल्पनात् । अतश्वोत्पत्यपूर्वाव्यवहितापूर्वजननानुकूळयोग्यतासम्पादनमुत्प- त्यपूर्वनिष्ठमारादुपकारकाणां स्थावान्तरापूर्वद्वारा फलमिति सिद्धम् । १. प्रधानयोग्यतेति. क. ख. पु.

सिद्धान्तः ] द्वितीयाध्यायस्य प्रथमः पादः। ५५ यत्र तु "वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेते" त्यादौ बृह- स्पतिसवादीनां वाजपेयेनेति तृतीयाबलेन बृहस्पतिसवव्यतिरि. क्तसर्वाङ्गयुक्तवाजपेयानुष्ठानेन तजन्यपरमापूर्वनिष्पत्यनन्तरं क्रियमाणानां न परमापूर्वनिष्पत्ताचप्युपयोगसम्भवः, तत्र परमा- पूर्वस्यैव वृहस्पतिसवाकरणे नाशकल्पनात्परमापूर्वस्थापकत्वम्, वै. मृघस्य च पौर्णमासीसमुदायापूर्वस्थापकत्वामिति मूलानुयायिनः । वस्तुतस्तु बृहस्पतिसवापूर्व वाजपेयपरमापूर्वावस्थानं या- वत् स्थायि, न वा ? आधे प्रसङ्ग(१)सिध्यापत्तेर्वाजपेयप्रयोगा- न्तरे पुनबृहस्पतिसवकरणानापत्तिः । नाऽन्त्यः; बृहस्पतिसवा पूर्वनाशे वाजपेयापूर्वस्याऽवस्थानानुपपत्तेः । न च बृहस्पतिस- वापूर्वानुत्पत्तेरेव तन्नाशकत्वकल्पनात्(२) न दोष इति वाच्यम् । प्रथाजायपूर्वानुत्पत्तेरपि दर्शाधपूर्वोत्पत्तिप्रतिबन्धकत्वकल्पनाप- या तस्याऽपि स्थायित्वानापत्तौ पशुपुरोडाशेऽपि प्रसङ्गासि. ध्यनापत्तेः। अथ अपूर्वानुत्पत्तेरश्रुताया गुरुभूतायाश्च कारणत्वाकल्प. नात्मयाजाद्यपूर्वाणां प्रधानापूर्वनिष्पत्तिपर्यन्तं स्थायित्वं कल्प्यते, ततो बृहस्पतिसवाकरणस्थाऽपि नाशकारणत्वाकल्पनाम स्थाप. कत्वसिद्धिः । अवो बाजपेयपरमापूर्व एव बाजपेयफलानुकूल- योग्यतासम्पादनं बृहस्पतिसवापूर्वेण क्रियत इति वेदितव्यम् । एवं (३)परिधानीये कर्मण्यपि सादनादिपात्रप्रतिपत्यपूर्वस्याऽप्य- व्यभिचरितक्रतुसम्बन्धोपस्थापितामुष्मिकफलसाधनक्रतुजन्यप. रमापूर्वनिष्ठयोग्यतां फलानुकूला प्रत्येव जनकत्वं बोध्यम् । १. सिध्यापातेनेति. क. ख. पु. २. नोक्तदोषापत्तिरिति. क. ख. पु. ३. 'आहिताग्निमग्निभिर्दहन्ति यज्ञपात्रैश्चेति वाक्यविहितान्त्येष्ट्या- ख्ये कर्मणीत्यर्थः॥ ८ मी०को D ५६ मीमांसाकौस्तुभ [ अपूर्वाधिकरण- न चाऽविशेषप्रवृत्तप्रतिपश्यनुरोधेन कार्यादिजन्यवृष्टर प्यामुष्मिकत्वकल्पना,(१) ऐहिकाग्निजनकपषमानेष्टयनुरोधेन प्रतिपत्ते रैहिकातिरिक्तऋतुविषयत्वस्याऽऽवश्यकत्वेनैवविध कल्प- नस्याऽन्याय्यत्वात् । अत एव परमानेष्टयनन्तरमेव मरणे न (२)दक्षिणहस्तादिनियमः। याज्ञिकास्तु साद नस्य दाहाङ्गत्वमभिः प्रेत्य तमनुतिष्ठन्ति । दाहस्य तु संस्कारेषु पाठादामुष्मिकं फलो- पयोगिसंस्कार प्रत्यपि जनकत्वात्पवमानेष्टयनन्तरं करणेऽपि न विरोधः । आहिताग्निशरीरमतिपत्तिस्तु आनुषङ्गिकीति तद- भावेऽपि न क्षतिः। न चैवं दर्शायुत्पत्यपूर्वेष्वेव फलजननानुकूलयोग्यताया उत्तराङ्गैस्सम्पादनोपपत्तेसमुदायापूर्वपरमापूर्वयोः कल्पनानुप. पत्तिः, तत्र वा तत्कल्पने वाजपेयेऽपि परमापूर्वजन्यापूर्वान्तर- स्वीकारापत्तिरिति वाच्यम् । अपूर्वान्तर स्वीकारे मानाभावात् । यथा च समुदायापूर्वपरमापूर्वयोः कल्पनोपपत्तिस्तथोत्तरत्र निरूपयिष्यामः । तत्सिद्धं आरादुपकारकाणामुपयोगः । सन्निपत्योपकारकाणां तु श्रुत्यायवगतनीह्याद्यङ्गभावानां ब्रीह्यादिस्वरूपे आनर्थक्यप्रसङ्गेन तण्डुलादिपरम्परया प्रधा. नपर्यन्तं गमनात्तत्राऽप्यानर्थक्यप्रसक्तरुत्पत्त्यपूर्वजननानुकूलत- द्गतयोग्यतासम्पादनमेव फलमवसीयते । अत एव तत्तदुत्पत्त्य- पूर्वजननानुकूलतत्तत्प्रधानगततत्तद्योग्यत्तासम्पादनपर्यन्तं प्रोक्ष- णादिजन्यावान्तरापूर्वस्याऽवस्थानम् । १. आहिताग्निजनकेति. ग. पु. २. 'दक्षिणे हस्ते जुहूमासादयति, दक्षिणपूर्व अहवनीयमिति वाक्यविहित दक्षिणहस्तादिनियमः। अयं च ( ११-३-१३) अधिक- रणे विचारित इति द्रष्टव्यम् ॥

सिद्धान्तः ] द्वितीयाध्यायस्थ प्रथमः पादः । ? अवघा- न च ब्रीहिगतयोग्यताजननमेव प्रोक्षणादेः फलमस्तु, किं प्रधानगतयेति वाच्यम् ? ब्रीहिगता हि योग्यता किं तण्डु- लादिजनिका वा स्यात् ? अपूर्वजनिका वा ? नाऽऽधः; तण्डुलाधुत्पत्तेर्लोकासेद्धत्वेन प्रोक्षणावजन्यत्वात् । तजन्यत्वेऽपि तन्नियमाजन्यत्वस्य तुल्यत्वाच्च । नाऽऽन्त्यः; ब्रीहीणामपूर्वाजनकत्वात् । परम्परासम्बन्धाङ्गीकारेऽपि(१) वि- बक्षितरीत्या प्रधान लदपूर्व(२)जन कस्यैवाऽदृष्टोपायापेक्षितत्वेन तत्रैव प्रोक्षणादीनां योग्यताजनकत्वस्य कल्पनीयत्वात् । अत उत्पत्त्यपूर्वजनकपधानगतयोग्यतासम्पादन फलकानां मोक्षणा- दीनां साक्षात्तत्तत्फलकत्वायोगादवान्तरोपकारद्वारेण तदित्या. श्रीयते । स चाऽवान्तरोपकारः कचिददृष्टरूपो यथा-प्रोक्ष. णादिषु । कचिदृष्टरूपो यथा-अवघातादिषु । यत्राऽपि दृष्टरूप. स्तत्रापि नियमांशेऽदृष्टरूपोऽस्त्येवेति (३)वक्ष्यते । उभयवि. घोपकारश्चाऽयं व्रीह्यादिगतक्रियाजन्यातिशयशालिस्वरूपकर्मत्व. निर्वाहाय ब्रीह्यादिगत एव कल्प्यते, न तु प्रयाजादिवदात्मनिष्ठः । अत एव वपनादिजन्यस्याऽदृष्टस्याऽऽत्मगतत्वेऽपि संस्का. यत्वादात्मनः कर्मात्वाविघातः। दृष्टरूपस्य तु वितुषीभावादे. बौद्यादिनिष्ठत्वं प्रत्यक्षसिद्धमेव । अवघातादिनियमादृष्टस्याऽपि 'यदर्था क्रिया तदर्थो नियम' इति न्यायेन वह्यर्थतावधारणाही. हिनिष्ठत्वमेव । न चैवं ब्रीह्यादिनाशे तन्नाशापत्तिः, व्रीहिनाशे- ऽपि तद दृष्टस्य व्रीह्मवयवनिष्ठत्वकल्पनात् । अतः पुरोडाश- त्तिमोक्षणादिजन्यमपूर्व विषयतासम्बन्धेन पुरोडाशत्तियागे उ. त्पत्त्यपूर्वानुकूला योग्यतामादधातीति सिद्धम् । १. विवक्षितगत्येति. क. ख. पु. २. जन्यजनकभावस्येति. क. ख. पु. ३. अनन्तराधिकरणे स्पष्टमिदम्.

भीमांसाकौस्तुभे [ अपूर्वाधिकरण- ननुक्तन्यायेनाऽवघातनियमादृष्टस्योपयोगसम्भवेऽपि दधि- वीह्यादिनियमादृष्टानां न तत्सम्भवः, तद्धि यागे कृते नियेमेनो- पद्येत । अतश्च प्रथमक्षणे यागोत्पत्तिः, द्वितीयक्षणे अष्टं, तृती- यक्षणे च तेन योग्यता, तेन चतुर्थक्षणे यागस्य नष्टत्वाद नाऽपू. वोत्पादकत्वसम्भव इति चेत्-न नियमादृष्टं हि न नियमन न्यं, किन्त्ववघातजन्यमेव । वितुषीभावे तूद्देश्यताऽप्याधिकेति परं (१)वक्ष्यते । अतश्च तुल्यन्यायत्वाध्यादिभिर्यागे जन्यमाने तस्मिन्नेव क्षणे तैरदृष्टमपि, द्वितीयक्षणे तेन यागे योग्यता,तृतीयक्ष- ण च योग्येन तेनोत्पत्यपूर्व यागनाशश्चेति न किञ्चिदनुपपन्नम् । अत एव तददृष्टस्य न दध्यादिनिष्ठता, तस्य यागसमान- काल एव प्रक्षिप्यमाणत्वेन तन्नाशे नाशापत्तेः । अपि तु याग. निष्ठता आत्मनिष्ठता वा । येषां तु प्रधानसमकालानां तदुत्तर. भाविनां वा प्रक्षेपस्विष्टकृदादिभक्षाणां प्रतिपत्तित्वेन नोत्पत्य- पूर्वोत्पत्त्युपयोगिप्रधानगतयोग्यताजनकत्वसम्भवः, मापूर्वजननानुकूलोत्पश्यपूर्वगतयोग्यताजनकत्वेन वा उत्पत्यपूर्व- स्थापकत्वेनैव वोपयोगो द्रष्टव्यः । अत एव तन्नियमापूर्वमप्यात्म- गतमेव कल्प्यते, न तु संस्कार्यत्वेऽपि द्रव्यगतम् , तस्य प्रतिपत्ति- नाश्यत्वेनाऽपूर्वाधारत्वानुपपत्तेः । संस्कार्यत्वं च तत्र दृष्टरूपसं. स्काराश्रयत्वादेवोपपन्नमिति न कश्चिद्विरोधः । तदेवमङ्गानां प्र. कारभेदे सत्यपि सर्वेषां साक्षात्परम्परया वा करणानुग्राहक. स्वात्तदितिकर्तव्यतात्वोपपत्तिः । तसिद्धं नष्टेऽपि व्यापारिणि फलबलेनाऽऽश्रयान्तरकल्प. नोपपत्तेरपूर्वव्यापारेणैव यागादीनां फलजनकत्वमिति । तद्यत्र एकमेव प्रधान पूर्वोत्तरागविशिष्टं फलसाधनं तत्र प्रधानानन्तर. १. अनन्तराधिकरणे स्पष्टमिदम् . तेषामपि पर.

सिद्धान्तः ] द्वितीयाध्यायस्य प्रथमः पादः। . . क्षणे एकमपूर्वमपरं च सर्वाङ्गसमाप्त्युत्तरं परमापूर्वम् । एवं यत्र प्रधानान्यनेकानि तत्राऽपि तावन्त्युत्पत्त्यपूर्वाणि, एकं परमापू. मित्युत्सर्गः । यत्र तु दर्शपूर्णमासादौ पौर्णमास्यां दर्शे च सा. गत्रिकद्वयानुष्ठानम् , तत्रैकैकस्मिन्समुदाये उत्पत्त्यपूर्वत्रयेण स. ङ्गिकरणातैरेकैकं समुदायापूर्व जन्यते । ततश्च समुदायद्वया. न्ते ताभ्यामेकं परमापूर्वमिति विशेषः । अत एवाऽऽरादुपकार काङ्गानामपि तत्तत्समुदायापूर्व एवोपयोगकल्पनात्समुदायद्वये. ऽपि पुनः पुनरनुष्ठानमङ्गानां न विरुध्यते । न च द्विरङ्गानुष्ठानस्य परपूर्व एवोपयोगसम्भवात्समायापूर्व कल्पने मानाभावः, “पौर्णमास्यां पौर्णमास्या यजेत" "अमा. वास्यायाममावास्यया यजेते"ति वाक्यद्वयावगतकरणत्रय सा. हित्यस्यैव मानत्वात् । यद्यपि चोत्पत्तिवाक्ये प्रत्येकमेव करण- स्वादत्राऽपि न(१)त्रिकनिष्ठं व्यासज्यवृत्त्येकं तत् , तथाऽपि करणतात्रयसाहित्यस्योपादेयगतस्यैककार्यनिरुपितत्वमावश्यक- म् , अन्यथा चित्रासौर्यादाविव साहित्यव्यवहारानुपपत्तेः । अ. त एव समुच्चित्यैककार्य(२)कारित्वमेव साहित्यपदार्थः । इदं च न फलनिरूपितम् , करणषट्कसाहित्यस्यैव तदङ्गत्वात् । अत एव न परमापूर्वनिरूपितम् । नाऽप्युत्पत्यपूर्वनिरूपितम् , तस्यै- ककरणजन्यत्वात् । अतस्तत्तद्वाक्ये करणत्रयसाहित्यस्याऽपि कार्यापेक्षायां समुदायापूर्वद्वयसिद्धिः । अत एव सान्नायये दधि- पयसोरसम्प्रतिपन्नदेवताकत्वेन सहानुष्ठानादेकमेवाऽपूर्वमस्त्वि. त्यपास्तम् । तत्तदुत्पत्तिवाक्ये निरपेक्षकरणत्वस्य निरूपकापे- क्षायामन्यासम्भवेनवाऽपूर्वद्वयसिद्धेः । एवमग्निहोत्रचातुर्मास्यादि ध्वपि सायं प्रातरादिवाक्येषु करणत्वेन प्रयोगविधानात्समुदा. १. त्रिषु व्यासज्योति, क. ख. पु. २. जनकत्वमेवेति. क. पु. .

मीमांसाकौस्तुभे [अपूर्वाधिकरण- यापूर्वसिद्धिः। अग्निहोत्रे तु सत्यपि कर्मकत्वे देवतासमुच्चयायनुरोधेना- ऽभ्यासादुत्पत्यपूर्वभेदावगमात्कालभेदेन समुदायापूर्वभेदात्तदुत्तरं परमापूर्वोत्पत्तिरिति द्रष्टव्यम् । सोमे तु सत्यप्यभ्यासादुत्पत्यपूर्वभे- दे समुदायापूर्वाभावात्तदुत्तरमेव परमापूर्वोत्पत्तिः । द्वादशाहादौ तु तत्तदहर्वाक्यगतकरणत्ववलेन तत्तत्सत्यापूर्वाण्यपि तत्तयज्य: भ्यासोत्पत्यपूर्वजन्यानि कल्प्यन्त इति तैरेव परमापूर्वसिद्धिः । ननु कल्प्यन्तां तत्र तत्रोत्पत्यपूर्वाणि, करणत्वबलेन वा समुदायापूर्वाणि, परमापूर्वं तु नैव किञ्चित्प्रमाणं पश्यामः । तथाहि -यत्र तावदस्ति समुदायापूर्व, तत्राऽऽरादुपकारकाणां तत्रैवोपयोगान्नाऽतिरिक्तापूर्वान्तरकल्पनायां प्रमाणमस्ति। यत्रा ऽपि च न समुदायापूर्व, तत्राऽप्युत्तराङ्गैरुत्पत्यपूर्वेष्वेव फलजन नानुकूलयोग्यतासम्पादनोपपत्तेर्नाऽतिरिक्तापूर्वकल्पनम् । यत्र नैवाऽऽरादुपकारकाण्युत्तराङ्गानि सन्ति, तत्र परमापूर्वकल्पनायां किं प्रमाणम् ? यदि चाऽङ्गवैयर्यानुपपत्त्या परमापूर्व कल्प्येत, ततो विकृतिषु परमापूर्वकल्पनाभावेन द्वार लोपानाऽङ्गानि प्रा. प्नुयुः । अतः किं परमापूर्वसद्भाचे प्रमाणमिति चेत्-न; दर्शपू. र्णमासादौ तावत्फलवाक्ये साहित्यविशिष्टानां षण्णां यागकर- णतानां फलनिरूपितत्वावगमात्तस्य च व्यापारमन्तरेणाऽनुपप- त्तेः(१) तदपेक्षायां परमापूर्वकल्पनोपपत्तेः । न हि तत्रोत्पत्त्या पूर्वाणां समुदायापूर्वयोव्यापारत्वं सम्भवति, तेषां पट्साहित्या- वच्छिन्नजन्यत्वाभावात् । फलनिरूपक तावच्छेदकावच्छिन्नजन्य. स्यैव व्यापारत्वौचित्यात् । यद्यपि चाऽत्र प्रतियागं करणताभेदः, तदवच्छेदकानि चाऽऽग्नेयादीनि भिन्नान्येव, तथाऽपि सर्वासु करणतास्वेका फलनिरूपकता,(२)फलस्यैक्यात् । तदवच्छे- १. तदपेक्षायामेवेति. क. ख. पु. २. फलस्यैकत्वादिति, ख. पु.

सिद्धान्तः ] द्वितीयाध्यायस्थ प्रथमः पादः । " दकञ्च षट्साहित्यम् । न च तदवच्छिन्नजन्य त्वमुत्पत्यपूर्वादीनां सम्भवति । अतस्तेषां व्यापारत्वायोगास्परमापूर्वसिद्धिः । न चैवं समुदायादिवाक्येष्वपि करणत्वश्रवणात्तस्य च कार्यनिरूपितत्वात्कार्यरूपापूर्वकल्पनचयापारापेक्षायां व्यापार- रूपाणामप्यपूर्वान्तराणां कल्पनापत्तिः, अनेकापूर्वकल्पना(१)भि. या समुदायादिवाक्येषु साधकतमत्वापरपर्यायानन्तरकार्योत्पा: दकत्वरूपस्यैव करणत्वस्य विवक्षितत्वात् । अनुशिष्टव हि ता. शकरणतायां तृतीया पाणिनिनाऽपि । फलवाक्ये तु फलस्य का. लान्तरभावित्वेन ताशकरणत्वस्य बाधाब्यापारबदसाधारण. कारणत्वरूपा करणता वाच्या । न चाऽसौ व्यापारमन्तरेण सिध्यतीत्युक्तविधया परमापूर्वसिद्धिः । एवमङ्गानामपि परस्परसहितानामेव प्रयोगविधिबलेन प्रधा. नोपकाररूपफलजनकत्वावगमात्तस्य चाऽव्यवधानेनाऽनुत्पत्तेया- पारापेक्षयामवान्तरोपकारकाणां साहित्यावच्छिन्नाजन्य त्वेन व्या. पारत्वायोगात्परमापूर्वस्थानापन्नमेकमपूर्वं व्यापारत्वेन कल्प्यते । (२)पार्थसारथेस्त्वेतदानच्छतः परमापूर्वमपि न सिध्येदिति ध्येयम्। यत्र त्वेकमेव प्रधानं पूर्वोत्तराङ्गविशिष्टफलजनकत्वेन १. गौरवभियेति. क. ख.पु. २. मिश्राणामयमाशयः-आग्नेयादिषु प्रधानेषु फलाकाङ्काया उत्कटत्वात् फलस्य च कालान्तरजन्यत्वात् कथमस्माभिः कालान्त- रजन्यं स्वर्गरूपं फलं साधनीयामिति सर्वसाध्यैकपरमापूर्वकल्पकजि. शासोदयात्तत्र तत्कल्प्यते । तथा सर्वेष्वप्यङ्गेषु अन्वाधानादिब्राह्मण. तर्पणान्ताङ्गानुष्ठानाव्यवहितोत्तरमेव तज्जन्यस्य ऋतूपकारस्योत्प तेः, कथमस्माभिः कालान्तरभविक्रतुपकारस्सम्पाद्य इति जिशाला नोदेति, किन्तु कथं साहित्यमस्माकमित्येव जिज्ञासा । सा च तत्त. प्रातिस्विकापूर्वकल्पनामात्रेणैव शाम्यतीति न परमापूर्वस्थानापन्न. मेकमपूर्व कल्प्यत इति ॥

मीमांसाकौस्तुभ [ अपूर्वाधिकरण- श्रूयते, तत्र फलस्य कालान्तरभावित्वेन व्यापारापेक्षा कल्पि. तस्याऽपूर्वस्यापि साजधानोत्तरकालोस्पत्तिकत्वाबगतेयुक्ता तत्राऽपि परमापूर्वसिद्धिः। न च तत्राऽऽवश्यकत्वेनोत्पत्यपूर्वेणैव फळसिध्युपपत्तेरपू. वान्तरकल्पने गौरवामिति वाच्यम् । (१)साङ्गस्य फळजनकत्व. श्रवणान्यथानुपपया कल्पितस्याऽप्यपूर्वस्य साङ्गमाधानानन्तर- मेवोत्पत्तिसम्भवन गौरवस्याऽपि प्रामाणिकत्वात् । न च औत्तरकालिकेनाऽपि गौरवप्रतिसन्धानेन पूर्वप्रमि- तस्याऽपि साङ्गप्रधानानन्तर्यस्य बाध एवं किं न स्यादिति वा. च्यम् ? तथात्वे श्रुतायास्साङ्गफलकरणताया एवं बाधापत्तेः । अस्तु वा तादृशस्थले उत्पत्त्यपूर्वादेव फलम् , अङ्गानां च फलानुकूल योग्यताजनकत्वम् । न चैवं विकृतिषु परमापूर्वाभा वादतिदेशानापतिः, प्रकृतावुत्पत्यपूर्वगताव्यवहितकार्यजननानु कूलयोग्यताजनकत्वस्यैवाऽऽरादुपकारकाङ्गकार्यत्वेन विवक्षित- स्वात् । तच्चोत्पत्य पूर्वा(२)व्यवहितं कचित्समुदायापूर्व, कचित्प. रमापूर्व, कचित्फलमेवेति युक्तोऽतिदेशः । उक्तश्चाऽयमपि पक्षो वार्तिककृता 'केचिदाहु' रित्यादिना । अत एव दर्शपूर्णमासा. दिष्वपि परमापूर्व विनैव क्लुप्तापूर्वैरेव फलसिद्धर्न तत्कल्पनमिः त्यपि सुवचम् । सर्वथा सिद्धमपूर्वम् । अस्य चाऽधिकरणस्याऽऽक्षेपसमाधानरूपत्वान्न स्वातन्त्र्येण प्रयोजनकथने यतितव्यम् । सूत्रं तु-आरभ्यत इति आरम्भः अपूर्व, तत्पुनः उत्पाद्यते यागेन । यतो यागस्वर्गसाध्यसाधन. भावस्य वाक्येन चोदनेति व्याख्येयम् ॥ ६ ॥ इति तृतीयमपूर्वाधिकरणम् ॥ ३ ॥ १. यागस्येति. क. पु. २. व्यवहितं कार्यमिति. क. ख. पु.

द्वितीयाध्यायस्य प्रथमः पादः। अथ चतुर्थ तानिछैधाधिकरणम् ॥ ४ ॥ तानि छैधं गुणप्रधानभूतानि ॥२-१-७॥ (विषयसंशयौ) एवं तावस्सिद्धमपूर्वस, सच्च धात्वर्थादेवेत्यपि, धात्वर्थ- स्याऽपूर्वजनकत्वे द्रव्यादेस्तदर्थत्वमियपि च । इदानीं तदपवादः प्रस्तूयते। "त्रीहीनवहन्ति" "तण्डुलान् पिनष्टि" इसादाववघातपे- षणादीनां स्वतन्त्रापूर्वार्थत्वं, ब्रीह्यादेस्तु तदर्थत्वम् ? उत तेषां चितुर्षीमाधादिरूपप्रयोजनलाभानाऽदृष्टार्थत्व, ब्रीह्यादेस्तु अब- घातादीन्प्रति प्राधान्यादेव न तदर्थत्वम् ? इति विचार्यते । (सङ्गतिः) सति च दृष्टार्थत्वे धात्वर्थभावनाभेदसत्वेऽप्यपूर्वभेदा. भावात् अपूर्व भेदोपयोगिचिन्तनात्मकत्वेन पादाध्यायसङ्गत्य- विघातः। (पूर्वपक्षः) तत्र 'अवहन्ती'(१)त्यवघातभावनाया अन्योत्पादकस्वभाव. त्वेन जन्यभाव्यापेक्षायां सत्यपि त्रीह्यादीनां द्वितीयया कर्मवाः वगमे तेषामवघाताद्यजन्यत्वेन भाव्यत्वायोगान तावदवघातो बाह्यर्थः । न च स्वरूपेण तीहीणामजन्यत्वेऽपि वैतुष्यविशिष्टत्वेन भाव्यत्वोपपत्तिः, वितुषीभावजनकत्वेनाऽवघातस्य लोकत एव प्राप्तत्वेन तदंशे विधि(२)वैयर्थात् । न च लोकतो विदलनादेरपि प्राप्तत्वेन तन्नितिफलकस्य नियमस्यैवाऽयं विधिरस्त्विति वाच्यम् । तर्हि नियमेन वितुषीमा- वस्याऽप्यजननात्तद्वैशिष्ट्यरूपेणाऽपि वीहीणां नियमं प्रतिभाव्य. १ त्यत्र भावनाया इति ख. पु. २. वैफल्यादिति ख. पु. . ९ मी० को मीमांसाकौस्तुभ [ तानिधाधिकरण - तानुपपत्तेः । (१)न च नियमं प्रति वितुषीभावविशिष्टत्वेन भाव्य- तानुपपत्तावप्यदृष्टविशिष्टत्वेन भाव्यत्वोपपत्तिः, अशाब्दनियमा. दृष्टकल्पनापेक्षया शाब्दावधातादेव तत्कल्पनस्योचितत्वात् । न चाऽस्तु तविघातादेव व्रीहिनिष्ठाददृष्टकल्पनमिति न ब्रीहीणामवघातार्यत्वसिद्धिः, अदृष्टे आत्मनिष्ठत्वेन प्रयाजादि- जन्यादृष्टवदनपेक्षिताश्रये बीमाश्रयत्वकल्पनापेक्षया अवघात एवं द्रव्यापेक्षे वीहिरूपद्रव्यविधिप्रतीतेः । अत एवाऽपेक्षितविधिला. भाय प्रयाजशेषाभिधारण इच लक्षणया द्वितीयाविभक्तिः कर- णत्वपरा अनीप्सितकर्मत्वपरा वा नीयमाना न दुष्यति । न च तवाऽपि वीहिविधेस्तन्नियमविधेळ अवघातविधिवदे- वाऽनुपपत्तिस्तुल्येति वाच्यम् । अवघातजन्यादृष्टं प्रत्येव वीहि- नियमविधेपयोगोपपत्तेः । त्वया स्वपघातस्य वीहिसाध्यापूर्व प्रत्युपयोगाङ्गीकारे वीहिसाध्यस्य यागजन्यापूर्वस्य यागभावना- यामेव भाव्यत्वेनाऽन्वयानाऽवघातभावनायां भाव्यत्वेन तद- न्वय इत्यवघात(२)जन्येप्सितरूपभाव्याभावप्रसङ्गः। तस्माद्री हिविशिष्टोऽवघात एव प्रयाजादिवददृष्टार्थ विर्धायत इति प्राप्ते- (सिद्धान्तः) अभिधीयते यत्र दृष्टप्रयोजनं न सम्भवति तत्र युक्ता अदृष्टस्याऽपि कल्पना आत्मनिष्ठस्याऽपि । यत्र तु दृष्टप्रयोज- नसम्भवः यथा प्रकृते, न तत्राऽऽत्मनिष्ठादृष्ट(३)कल्पना । अत एवोभयत्र क्रियां प्रति द्रव्यस्य यथायथं गुणत्वं प्राधान्यं च, क्रियायाश्च द्रव्यं प्रति प्राधान्यं गुणत्वं च । अतो धात्वर्थरूप- क्रियाप्रतिपादकान्याख्यातान्तानि पदानि यथासम्भवं गुण- -- २. विधौ जन्येति. क. ख. पु. १. न हीति. ग. पु. ३. कल्पनमिति. ख. पु.

सिद्धान्तः ] द्वितीयाध्यायस्यः प्रथमः पादः । प्रधानभावेन द्विविधानि विज्ञयानीति सूत्रार्थः ॥ ७ ॥ यैस्तु द्रव्यं न चिकीर्यते तानि प्रधानभूतानि द्रव्यस्य गुणभूतत्वात् ।। २-१-८॥ नन्वेवमपि क दृष्टप्रयोजनासम्भवेन प्रधानकर्मता, क वा तत्सम्भवेन गुणकभैरवमित्याशङ्कय पूर्वपक्ष्युक्तमयाजदृष्टान्तवैष- म्य प्रदर्शनार्थ चाऽनेन सूत्रेण प्रधानकर्म(१)लक्षणमुच्यते । येषां हि यागीयद्रव्यदेवतादिसंस्कारार्थत्वं तदङ्गताबोधकप्रमा. णाभावेन नेष्यते, तानि कमाणि स्वतन्त्रात्मनिष्ठादृष्टजनकानि सन्ति द्रव्यादि प्रति प्रधान भूतानि । द्रव्यादीनि च तत्र 'सिद्ध- साध्यसमभिव्याहारे(२) सिद्धं साध्यायोपयुज्यत' इति न्यायेन तृतीयाश्रुत्यैव वा क्रिया प्रति च गुणभूतम् ॥ ८ ॥ यैस्तु द्रव्यं चिकीर्ण्यते गुणस्तत्र प्रतीयेत तस्य द्रव्यप्रधानत्वात् ॥ २-१-९॥ येषां तु यागीयद्रव्यादिसंस्कारार्थत्वं प्रमाणवशेन निर्मातं तेषां दृष्टप्रयोजनासम्भवे 'नीहीन् प्रोक्षती'त्यादावदृष्टद्वाराऽपि यदा द्रव्यसंस्कारार्थत्वं मोक्षणादेरभ्युपगम्य द्रव्यं प्रति गुणक- मत्वमुत्तराधिकरणे उपपादयिष्यते, तदा को नाम 'ब्रीहीनवह- न्ती'त्यादौ पुरोडाशनिष्पत्योपथिकवितुषीभावरूपद्रव्यप्रयोजन लाभसम्भवे अदृष्टकल्पनया प्रधानकर्मत्वमापादयितुं समर्थः ? अत एव तत्र भावनाभाव्यमपि वितुषीभावविशिष्टत्वेन ब्रीहय एव । १. कर्मणो लक्षणमिति. ग. पु. २.सिद्धं साध्यार्थमिति न्यायेति. क. ख.

६६ " मीमांसाकौस्तुभे [ तानिद्वैधाधिकरण- चतुर्विधं हि सर्वत्र भाव्यमिष्यते---किश्चित्स्वत एवोत्पाद्यत्वेन, यथा-संयवनेन पिण्डः । किश्चिदाप्तिविषयत्वेन, यथा-दोहनेन पयः । किञ्चिद्विकाराविशिष्टत्वेन, यथा-अवघातेन व्रीहयः । तत्र वितुषीभावाख्यो विकारो जन्यते । किञ्चिच्च संस्कारविशिष्ट खेन । यथाऽत एव प्रोक्षणेनाऽदृष्टरूपसंस्कारजननात् । अतश्च वीहीणां स्वरूपेण भाव्यत्वायोगेऽपि युक्ता वितुषीभावविशिष्ट- स्वेन भाव्यता। न च वितुषीभावसाधनत्वस्य लोकत एव प्राप्तत्वाद्विधिवै. ययम् । लोकस्याऽव्यभिचरितान्वयव्यतिरेकग्रहसापेक्षत्वेन वि. लम्बितत्वात्ततः पूर्वमेव विधिवाक्येन तद्विधानात् । तत्प्रयोजनं च विदलनादिव्यावृत्तिफलको नियमः । तस्याऽपि च प्रयोजन दृष्टाभावाददृष्टम् । तस्य चाऽदृष्टस्य(२) वितुषीभावप्रयुक्तावघातो. पजीविनियमजन्यवान कृष्णलचरौ वैतुष्यासम्भवे नियमावघात. प्रयोजकत्वम् । यदि त्वशाब्दस्य नियमस्याऽदृष्टजनकत्वानुपप- तिराशयेत, ततो विधेयादवघतादेवाऽदृष्टं कल्प्यते । तच्च वि- तुषीभावस्य मुख्य फलत्वेऽप्यानुषङ्गिकत्वेन कल्प्यते, न त्व. नुष्ठापकत्वरूपमुख्योद्देश्यतया, गौरवापत्तेः । अत एव कृष्णल. चरौ चैतुष्याभावेनाऽदृष्टानुरोधेनाऽवघातानुष्ठानम् । उद्देश्यता- वैजात्याच नोद्देश्यानेकत्वानिमित्तको वाक्यभेदोऽपि । आर्थिक- विध्यन्तरफलत्वाद्वा न सः । अदृष्टस्याऽननुष्ठापकताऽपि चैता. दशी-यद्वैतुष्याभावे तस्याऽननुष्टानं, न तु वैतुष्यसम्भवेऽपि तत् , विदलनादेरप्यनुष्ठानापत्तेः । अत एव तव्यावृत्तिफलक- नियमफलकत्वानियमादृष्टत्वव्यवहारः । ननु (२)नवमाधिकरणन्यायेन ब्रीहिपदेऽपूर्वसाधनत्वलक्ष. १. वितुषीभावफलावघातेति ग. पु. २. पू.मी. १.१.१. ।

सिद्धान्तः ] द्वितीयाध्यायस्य प्रथमः पादः । । णाया आवश्यकत्वादवघातविधेहिस्वरूपे वितुषीभावस्वरूपे बाऽऽनर्थक्येऽपि तज्जन्यमधानापूर्वस्याऽवघातं विनाऽनुत्पत्तेस्तदु. स्पत्यर्थत्वेनाऽत्रघात(१)विषिसार्थक्यात्कृतं नियमादृष्टेन । (२)नि. यमादृष्टकल्पने वा तेनैवाऽऽनर्थक्यपरिहारोपपत्तेः कृतमपूर्व- साधनत्वलक्षणयेति चेत्--न, अवघात विना विदलनादिना वितुषीभावसत्वेनाऽपूर्वानुत्पत्तौ प्रमाणाभावात् । न चाऽवघाता. भावे तज्जन्यवितुषीभावाभावात्सामग्रयभावः, अवघातविदल. नजन्यवितुषीभावव्यत्यो_जात्ये प्रमाणाभावेनाऽवघाताभावेऽपि तजन्यवितुषीभावसत्वात्सामग्रयभावासिद्धेः। न च कार्यकारणभावे व्यभिचारपरिहारार्थमेव वैजात्यक- ल्पना, अनेक कार्यकारणभावादिकल्पनागौरवभिया द्वयोरेकश- क्तिमत्वेन कारणताङ्गीकारात् । यत्र तु व्रीहियवादिवाक्ये कार. णताद्वयं (३)प्रमाणसिद्धं तत्रैव परमानेयादौ वैजात्यकल्पनमि- ति (४)तेषामधिकरणे वक्ष्यते, न सत्र । अतश्चाऽपूर्वसाधन. त्वलक्षणायामप्यवघातविधिवैयर्यस्य तदवस्थत्वादश्यमवधाते. न चैतुष्यवददृष्टमपि वीहिनिष्ठमाधेयम् । अन्यथा अवघातस्याऽ- पूर्वसाधनवानुषपत्तेः। न चैत्रमपूर्वसाधनत्वलक्षणावपर्यम् , नियमादृष्टस्याऽपि त्री हिस्वरूपे अनुपयोगित्वेन प्रधानापूर्वार्थत्वावश्यं भावात् । अतस्सि- द्धा अवघातस्य नियमादृष्टजनकत्वेऽपि दृष्टवितुषीभावद्वारा वी- ह्यर्थता, योग्यतारूपलिङ्गात् , द्वितीयाश्रुतेनियमविधिलाघवाच्च । एवं च द्वितीयविधिप्रकाराङ्गीकरणाल्लाघवम् । इतरथा विशि. विध्याश्रयणात्पञ्चमप्रकाराङ्गीकरणे गौरवं स्यात् । तस्मानाऽव- १. विधेस्सार्थक्यति. क. ख. पु. २. अवश्यं वा नियमेति. क. पु. ३. प्रमाणसिद्धमिति नाऽस्ति. क. पु. ४. पू. मी. ३. १. ४. ।

मीमांसाकौस्तुभे [ तानिद्वैधाधिकरण- घातप्रयोजनीभूतादृष्टकल्पनम् । अतश्चैतादृशस्थले धात्वर्थ- भावनाभेदसत्वेऽपि न प्रयोजनीभूतापूर्वभेदः । प्रयोजनं पूर्वपक्ष(२) 'व्यङ्गवश्चरुर्भवतीत्येतद्वाक्यविहित यागे यागीयहविःप्रकृतिभूननीयभावेऽप्यतिदेशप्राप्तावघाताङ्गत्वेन वीहयस्सम्पाद्या एव । यथा-अतिदेशप्राप्तमयाजाधङ्गत्वेनाss- ज्यम् । न च प्रकृतौ निर्वापोत्तरकालमवघातानुष्ठानादवघातस्य परप्रयुक्तबीलु पजीवित्वावगतेः भैय्यङ्गवचरौ तदभावे अवघा- तस्याऽननुष्ठानमेव स्यान्न तदनुरोधेन ब्रीहिसम्पादन मिति वाच्यम् । अवघातस्य बाजिनादिन्यायाविषयत्वेन परप्रयु. तत्रीपजीवित्वासिद्धेः। तथा हि--न ताव(२)वाजिनन्यायविषयत्वम् , दध्यानयनस्य ह्यामिक्षार्थत्वं वाक्यीयं, न वाजिनार्थत्वम् । अत आमिक्षाप्रयु- क्तदध्यानयनानुनिष्पनत्वाद्वाजिनस्य न दध्यानयनप्रयोजकतेति हि तन्न्यायः । न चाऽऽसौ प्रकृते समस्ति, व्रीहीणां यागाङ्गत्व. स्येवाऽवघाताङ्गत्वस्याऽपि वाक्पीयत्वाविशेषात् , वाजिनवद- वघातस्याऽनुनिष्पन्नत्वाभावाच्च । नाऽपि (३)पदकर्मन्यायः, तत्र हि 'तेनाऽक्षमुपांज्यादिति तच्छब्दस्य 'सप्तमं पदमध्वर्युरअलिना गृह्णाती'त्यत्र च पदश- ब्दस्य सापेक्षत्वाद्युक्तं परप्रयुक्तक्रयाङ्गभूतकहायनीनयनोपजी- वित्वम्, प्रकृते तु ब्रीहिशब्दस्य प्रकृतानपेक्षत्वान्न यागीयवाह्यप- जीवितेति विशेषः । 'पुरोडाशकपालेने तिवच्च प्रयोजकयुक्ता- भिधानाभावान (8)पुराडोशकपालन्यायः । ब्रीहिशब्दस्य सस- १. तै. सं. २. २. ११. ४. २. पू. मी. ४. १. ९. ३. पू.मी. ४. १. १०. ४. पू. मी.४.१.११. ४ सिद्धान्तः] द्वितीयाध्यायस्थ प्रथमः पादः । म्वन्धिकत्वाभावात् न(१)उत्तरार्धन्यायोऽपि । (२)निनयनन्या. यस्तु प्रतिपत्तित्वाभावादेवाऽनाशयः । न च गुणस्य गोदोहना- देः परप्रयुक्ताश्रयोपजीवित्वेनाऽऽश्रया(३)प्रयोजकत्वादवघातस्या. ऽपि यागप्रयुक्तबीयाश्रयत्वाचदम्योजकत्वमिति वाच्यम् । प्रण. यनादेर्हि गुणाङ्गत्वे प्रमाणाभावेन गुणस्य तत्प्रयोजकत्वानुपपत्ते- युक्ता तस्य परप्रयुक्तोपजीवकता । ब्रीहीणां तु यागाङ्गत्वस्येवा- ऽवघाताङ्गत्वस्याऽपि वाक्यीयत्वाविशेषाद्विनिगमनाविरहेणै. कस्येतरप्रयुक्तोपजीवकत्वानुपपत्तेः । न च निर्वापेण वाहीणां यागीयत्वनिश्चयाघागप्रयुक्तत्वा. वगतेर्विनिगमकसत्वेन तदुत्तरभाविनोऽवघातस्य तदुपविक- त्वोपपत्तिः, एतत्पूर्वपक्षे निर्वापस्याऽप्यारादुपकारकत्वेनाऽवघा. ततुल्यत्वात्तेन हिीणां यागीयत्वनिश्चयानुपपत्तेः । न च निर्वा. पार्थमुपात्तानां तहपादानलाघवेन ग्रहणोपपत्तेरवघातस्याऽ. न्यानाक्षेपकत्वम् , निर्वापसाधनानां तदवशिष्टानां च सन्निहि- तत्वाविशेषेणोपादानलाघवस्याप्यनियामकत्वात् , निर्वापे कृते तत्साधनानामपि लौकिकत्वाविशेषाच्च । अत एव क्लुप्त- सामान्य सम्बन्धत्वादानेयीन्यायेन निर्वापसाधनानामेव ग्रहण- मित्यपास्तम् । निर्वापे कृते तत्साधनीभूतव्यक्तिविशेषस्य लौ. किकत्वाविशेषण सामान्यसम्बन्धाक्लप्तेः । वीदिजातीयस्य तु सामान्य सम्बन्धो निर्वापवाक्य इवाऽवघातवाक्येऽपि तुल्य एव । आग्नेयीवाक्ये हि न(४)मन्त्रविशेषोपादानम् , अपि तु स्तोत्रादि- सम्बन्धेनैव तत् । प्रकृते तु यथैव निर्वापवाक्ये व्रीह्युपादानं १. पू. मी. ४.१.१३. २. पू. मी. ४. २. ५. ३. प्रयोजकत्ववदवघातेति क. ख. पु. ४. क्लप्तसामान्यसंबन्धेन मन्त्रविशेषेति क. ख. पु. , मीमांसाकौस्तुभे [ तानिद्वैधाधिकण- . तत्तथैवाऽवघातवाक्येऽपीति नाऽत्राऽऽग्नेयोन्यायप्रवृत्तिः । न चैवमपि सिद्धान्तवत्पूर्वपक्षेऽपि प्रकरणेन प्रकृतवाहिन. हणोपपत्तिः, प्रकरणं हीतिकर्तव्यताकाङ्कारूपं व्रीहिपदसङ्को चकत्वेनाऽभ्युपगम्यते ? अधिकारात्मकं वा ? नाऽऽद्यः, तस्य विनियोगातिरिक्त अप्रत्तेः । इतिकर्तव्यताकाङ्या हीतिक तव्यतात्वमेवाऽवगम्यते, न तु पदसङ्कोचाद्यपि । न द्वितीयः, तस्थ (१) तुल्येषु नाऽधिकारस्स्यादि'त्यत्र नैराकांक्ष्ये सत्यस- कोचकत्वस्य वक्ष्यमाणत्वात् । अत एव यत्रोपादेयेष्वपि 'तेना- ऽक्षमुपांज्यादि'त्यत्र सर्वनाम्नस्साकाङ्कत्वं तत्रेष्टमेव प्रकृतग्रह णम् । प्रकृते तु वीहिपदस्याऽनपेक्षत्वाधिकारेण सङ्कोच इति प्रकृतौ न निर्वाफ्यागावघातानामेकबीहि(२)प्रयुक्तत्वं नियत. मिति भैय्यङ्गवचरौ यागार्थव्रीहिलोपेऽपि सिद्धं निर्वापावधाता धर्थ व्रीहिसम्पादनम् । सिद्धान्ते तु चीहीणामवघातं प्रति संस्कार्यत्वाद्रीहि- स्वरूपार्थत्वे चाऽवघातस्याऽऽनर्थक्यापत्तरपूर्वसाधनत्वापेक्षायां व्रीहिपदस्य तल्लक्षकत्वे अधिकाराख्याकरणस्य तात्पर्य ग्राहकत्वाङ्गीकारात्प्रकृतग्रहणोपपत्तिः । प्रकृतौ च यागी. यहविःप्रकृतिद्रव्यसंस्कारस्याऽवघातस्य प्रैयङ्गवचरावतिदेशेन प्राप्तस्य स्थानापत्या प्रियङ्गुष्वेवाऽनुष्ठानान्न तदर्थं व्रीहसम्पाद- नम् । पूर्वपक्षे चाऽदृष्टार्थत्वादवघातस्य(३) सर्वोषधावघातवत्सकदेव करणम् । सिद्धान्ते त्वातण्डुलीभावात् । अन्यच्च पूर्वपक्षे यागी- १. जै. सू. ९. १. १९. २. व्यक्तिकत्वं इति. क. पु. ३. अग्निचयने 'औदुम्बरमुलूखलं सर्वोषधस्य पूरयित्वा अवह- न्ति अथैनदुपद्धातीति वाक्येन विहितो योऽवघातः स सर्वे- षधावघातः ।

द्वितीयाध्यायस्य प्रथमः पादः। यहविःप्रकृतिद्रव्यस्याऽवघातं विनाऽपि तण्डुलीभावः। प्रकृतौ च प्रयाजादिवदवघातस्य सानाययोपांशुयाजाङ्गत्वाविशेषात्तद्विका- रेष्वप्यतिदेशः । यवपक्षेऽपि ब्रीहीणामेवाऽवघात । त्रयाणामेव च तेषां(१)कपिञ्जकाधिकरणन्यायेन स इति प्रयोजनम् । सिद्धान्ते तु यागीयद्रव्येऽवघातनियमः । प्रकृतौ चौषधद्रव्यकया. गाङ्गत्वात्तद्विकारेष्वेवाऽतिदेशः, यवपक्षेऽपि च तेष्वेवाऽवघातान्न तदर्थं व्रीहिसम्पादनम्, चतुर्मुष्टिपरिमितानामेव च यागसाधन- स्वात्तावतामेवाऽवघात इति तत् । सूत्रं निगदव्याख्यातम् ॥८॥ इति चतुर्थं तानिद्वैधाधिकरणम् ॥ ४ ॥ अथ पञ्चमं सम्मार्गाधिकरणम् ॥ ५ ॥ धर्ममात्रे तु कर्म स्यादनिवृत्तेः प्रयाजवत ॥२-१-९॥ (विषयसंशयौ) एवं तावदृष्टोपकारकत्व लाभाद्गुणकर्मत्वे प्रसाधिते, अधुना दृष्टोपकारकत्वासम्भवेऽपि तदस्ति न वेति विचार्यते। दर्शपूर्ण- मासयोश्रूयते-"घुचस्सम्मार्टि' "परिधि सम्मार्टि" "पुरो. डाशं पर्यग्निकरोति" "त्रीहीन प्रोक्षती"ति । तत्र सम्मार्गादिकं किं जुगादिसंस्कारार्थत्वेन विधीयते, अतश्च गुणकर्म ? उत स्रगादिसाधन स्वतन्त्रादृष्टाय सत्प्रधानकर्म ? इति विचार्यते । (सङ्गतिः) अत्र च सिद्धान्ते युगादिनिष्ठाधेय शक्तिरूपातिशयसद्भा- १. पू. मी. ११. १. ६. १० मी० कौ० मीमांसाकौस्तुभे [ सम्माधिकरण- वेऽपि तस्याऽऽत्मनिष्ठादृष्टपदवाच्यत्वाभावादपूर्वाभावेन पूर्ववदे. वाऽपूर्व भेदोपयोगिचिन्तनात्मकत्वात्पादाध्यायसङ्गतिः। प्रोक्षणा- देस्संस्कारकर्मत्वे प्रतिपुरोडाशमपूर्वकल्पनाद्वा तद्भेदोपयोगित्वेन सा। अनन्तरा तु पूर्वाधिकरणसिद्धान्तहेतुभूतदृष्टोपकारकत्व- प्रत्युदाहरणरूपेण पूर्वपक्षोत्थानाद्रष्टव्या । (पूर्वपक्षः) तत्र पूर्वाधिकरणपूर्वपक्षन्यायेनैव अगादेस्सम्मार्गाद्यजन्य- स्वेन भाव्यत्वायोगादवघातवच दृष्टोपकारविशिष्टत्वेनाऽपि तदसम्भवात् , युगादिविशिष्टसम्मार्गादिविधानमेव प्रयाजादि- वत् स्वतन्त्रतूपकारभाव्यकं युक्तमाश्रयितुम् । न चाऽवघात. वद्योग्यतारूपलिङ्गात्सम्मार्गादेर्गुणकर्मस्वासम्भवेऽपि द्वितीयया गादीनां प्राधान्यावगमादर्थात्सम्मादीनां तद्गुणत्वावगते. दृष्टोपकाराभावे च तहलेनैवाऽदृष्टस्य व्यनिष्ठस्य कल्पनोपप: त्तेर्न जुगादिविशिष्टसम्मार्गादिविधानमिति वाच्यम् । द्वितीयायाः प्राधान्यवाचित्वाभावेन गुणकर्मत्वासिद्धः । तथा हि-प्राधान्यवाचित्वं किं प्रयोगानुसारादभ्युपगम्यते ? अनुशासनानुरोधाद्वा ? न तावदाद्यः, "बल्बजान् शिखण्ड कान् कुरु" "सक्तून् जुहोती" त्यादौ करणत्व एव द्वितीयादर्शनेन तदसिद्धेः । न ह्यत्र बल्बजादीनां कर्मत्वं सम्भवति, करोतेर्द्वि- कर्मकत्वाभावेन शिखण्डककविरुद्ध तस्मिन् बल्बजानां क. मत्वेनाऽन्वयस्य वक्तुमशक्यत्वात् । जुहोतेश्च देवतोद्देश्यकप्रक्षे- पदव्यत्यागसमुदायबाचित्वेन सक्तूनां समुदायकर्मत्वानुपपत्तेः, सक्तुनामनीप्सितत्वेनैकदेशकर्मत्वस्याऽप्यनुपपत्तेश्च । अतोऽत्र बल्खजादीनां द्वितीयया करणत्वमेवाऽङ्गीकर्तव्यम् । ततश्चाऽन्य. यव्यभिचाराद्वितीयायाः करणत्व एव शक्तिर्न प्राधान्ये । तथा ?

सिद्धान्तः ] द्वितीयाध्यायस्य प्रथमः पादः । ७३ 'प्रयाजशेषेणे सादौ द्वितीयाभावेऽपि प्राधान्यदर्शनेन व्यतिरेक- व्यभिचारादपि तथात्वनिश्चयः । न चैवं घटं करोतीत्यादौ करणत्वासम्भवेऽपि द्विती. यादर्शनात्तवाऽपि व्यभिचारतादवस्थ्यमिति वाच्यम् । वि. षयतासम्बन्धेन घटादेर्शानं प्रति करणलवकृति प्रत्यपि तदुपपत्तेः । अतोऽव्यभिचाराकरणत्वमेव द्वितीयार्थः, न तु प्राधान्यमिति प्रयोगानुसारेण निर्णीयते । अत एव प्रयोगविरुद्धमनुशासनमपि(१) 'कर्मणि द्वितीये' त्यादिकं न प्राधान्यबाचित्वे प्रमाणम् । अतो न सम्मादीनां द्वितीयया गुणकर्मत्वप्रतीतिः । नाऽपि सप्रयोजनवमात्रेण; पु. रोडाशकपालादीनां सप्रयोजनत्वेऽपि तुषोपचाप संस्कार्यवाभा. वात् । अतो गुणकर्मत्वावेदकप्रमाणामा भावात्पूर्वाधिकरणपूर्वपक्ष- न्यायेन युगादिविशिष्टसम्माविधिरेवाऽयम् । सूत्रं तु-धर्ममात्रे दृष्टोपकाराजनकसम्मार्गादिरूपे, प्रयाजादिवत् प्रधानकर्मत्वं स्यात् , द्रव्यनिष्ठोपकारस्य तेन अनिवृत्तेः इति व्याख्येयम् ॥ ९ ॥ (सिद्धान्त: तुल्यश्रुतित्वादेतरैस्सधर्म स्यात् ।। २-१-१०॥ सत्यं (२)दृष्टोपकारकत्वेन नाऽस्याऽवघाततुल्यत्त्वम्, तथाऽपि द्वितीयाश्रुतितुल्यत्वादवघातादिवगुणकर्मत्वं सम्भवत्येव तथा हि--द्वितीया प्राधान्याभिधायिनी वीहीणामिव नु. गादीनामपि प्राधान्यं प्रतिपादयन्ती अर्थादवघातस्येव सम्मा. १. पा. सु.२.३.२. २. दृष्टोपकारकत्वे प्रयाजवनाऽस्येति. क. ख. पु.

७४ मीमांसाकौस्तुभे [ सम्माधिकरण- SareARTAIN . गादीनामपि गुणत्वं गमयति । अतश्च दृष्टोपकारकत्वाभावेऽपि द्वितीयावगतगुणकर्मत्वनिर्वाहार्थ द्रव्यनिष्ठादृष्टोपकारकल्पनेऽपि न क्षतिः॥ १० ॥ द्रव्योपदेश इति चेत् ॥ २-१-११ ।। यत्तु द्वितीयायाः प्राधान्यबाचित्वे प्रमाणाभावात्प्रयोगानु. सारेण (१)करणस्वावगतेः सक्तवत्स्नुगादिद्रव्यस्यैव सम्मार्गादि प्रत्युपदेशो विधानमित्युक्तम् , तत्रोच्यते-- न तदर्थत्वाल्लोकवत्तस्य च शेषभूतत्वात् ॥२-१-१२॥ न करणत्ववाचिनी द्वितीया, प्रमाणाभावात् । अपि तु 'क: मणि द्वितीये' त्यनुशासनात्कर्मत्वपरैव । न च तस्य निर्मलत्वम् , घटं करोतीत्यादिप्रयोगस्यैव मूलत्वात् । न ह्यत्र सत्यपि घट- स्य विषयतासम्बन्धेन कृतिकरणत्वे तदवभासते, अपि तु कर्म- त्वमेवेति सर्वस्वसंवेद्यम् । अतश्च प्रयोगानुगृहीतस्मृत्या कर्मत्व- मेव द्वितीयार्थः । न चैव(२) 'कर्तुरीप्सिततम कर्म (३) 'तथा- युक्तं चाऽनीप्सित मित्यादिस्मृत्या कर्मत्वस्याऽनेकविधत्वावगते. रेकत्रैव शक्तिरपरत्र लक्षणेत्यस्य च विनिगमनाविरहेणाऽसम्भ. वात्सर्वेषामेव वाच्यत्वापत्तौ शक्यतावच्छेदकैक्याभावेनाऽनेकश क्तिकल्पनापत्तेौरवमिति वाच्यम् । लाघवेनेप्सितानीप्सितसाधा- रण्येन व्याप्यत्वापरपर्यायस्य क्रियाजन्यचतुर्विधफलान्यतमफला- श्रयत्वरूपस्य कर्मत्वस्य, तत्समनियताखण्डोपाधेा द्वितीयावा. च्यत्वावधारणात् । ईप्सितत्वानीप्सितत्त्वयोस्तु प्रमाणान्तरल. भ्यत्वेन तत्राऽपि शत्यङ्गीकारे गौरवात् । १. करणत्ववाचित्वेति. क. पु. ३. पा. सू. १.४.५० . २. पा.सू.१.४.४९.

सिद्धान्तः ] द्वितीयाध्यायस्य प्रथमः पादः। ७५ - ७ न चैवं व्याप्यं कर्मेत्येव स्मरणापत्तौ सूत्रद्वयवैश्याप. त्तिः,(१) 'वारणार्थानामीप्सित' इति सूत्रात् 'अग्नेमाणवकं वा. रयती'त्यत्रोभयोरग्निमाणवकयोाप्यत्वे इप्सितत्वे चाऽविशिष्टे तन्निमित्तककर्मसंज्ञाबाधेनाऽपादानसंज्ञापमाणवके तो वारयितु. मीप्सिततमे तस्मिन् कर्मसंज्ञाविधायकस्याऽऽधसुत्रस्याऽवश्य. कल्वे सति, द्वेष्योदासीनसङ्ग्रहार्थं तथायुक्तसूत्रस्याऽप्यावश्यकत्वा. त् । एतेन सूत्रद्वयवैयपित्तेः प्रथमोपस्थितत्वादीसितकर्मत्व एवं शक्तिः, तथायुक्तसूत्रं तु अकथितादिसूत्रवल्लाक्षणिकानुशास- नमिति न्यायसुधाकारोक्तमपास्तम् , शक्यतावच्छेदकलाघवस- शाहकलाघवाभ्यामीप्सितानीप्सितसाधारण्येन व्याप्यत्व एवं शक्तिकल्पनेनेप्सितत्वेऽपि तदकल्पनात् । अकथितादिसाधार- ण्येन तु शक्यतावच्छेदकालाभादगत्या अकथितादिसूत्रस्य लाक्षणिकानुशासनस्वमिति विवेकः । न चैवं गादीनामीप्सितत्वानवगमे कथं प्राधान्यासद्धिः? द्वितीय या तदनवगमेऽपि विध्यपेक्षितत्वात्तदरगमोपपत्तेः। वि. धिहि चेतनप्रवर्तनात्मा अनीप्सितफले व्यापारे तं प्रवर्तयितुम- शक्नुवन् भावनाया ईप्सितजन्यत्वमवगमयति । अतश्चेप्सितज. न्यापेक्षायां द्वितीयया जन्यत्वेनाऽवगतानां सुगादीनां 'जुद्दा जुहोतीति शास्त्रान्तरपमितेप्सितभावानां भावनाभाव्यत्वेन स्वी. कारो नाऽनुपपन्नः। अत एव यत्र 'सक्तून् जुहोती'त्यादौ न शास्त्रान्तरेण विनियोगः सक्तूनाम् , तत्र द्वितीयया व्याप्यत्वमात्रा- वगमेऽपीप्सितत्वस्य बाधान्न भावनाभाव्यत्वसम्भवः । ननु तत्राऽपि द्वितीयावगतव्याप्यत्वनिर्वाहार्थं विध्यपेक्षया १.पा.सू.१.४.२७.

मीमांसाकौस्तुमे सम्माधिकरण- . च सक्तूनां भूते भाविनि वा ज्योतिष्टोमे उपयोगः कल्प्यः । न च निर्यापारत्वासक्तुनां प्रकरणग्रहणायोगेन कथमुपयोग कल्पनम् ? व्यापारान्तरासम्भवेऽपि संस्कारकत्वेनोपस्थितस्य होमस्यैवाऽर्थाध्यापारत्वोपपत्तेः । न हि 'अग्नीषोमीयं पशुपुरोडाश- मि'त्यत्र तद्धितश्रुत्या गुणभूताया अपि देवताया अर्थात्संस्का- यत्वाङ्गीकारवदिहाऽपि तथाङ्गीकारे कश्चिद्विरोधः । अतस्सक्तु. ष्वपि श्रुतच्याप्यतादिनिर्वाहार्थमुत्तरकाळं विनियोगकल्पनेऽपि बाधकाभावात्कथं प्राधान्यासम्भव इति चेत् --न; इप्सितकर्मत्व. शक्तिवादिनो ह्ययं दोषस्स्यात् । तन्मते हीप्सितत्वस्याऽपि द्विती. ययाऽभिधानात्तनिर्वाहार्थं विनियोगोऽपि कल्प्यते । इष्यत एव हि श्रुतस्वर्गादिसाध्यतानिहाथै स्वर्गसत्ता । साध्यत्वमात्रार्थ- कत्ववादिनस्तु यथैव द्वितीयया सक्तूनां तदभिहितं, तथैव धातुसामाद्धोमस्याऽपि साध्य त्वमवगतमेवेति न तदलेनेप्सि- तत्वकल्पनायां(१) प्रमाणमस्ति, प्रत्युत होमस्यैव विधिप्रत्यास. नत्वात् व्यापारान्तरानपेक्षत्वाच्चाऽऽरादुपकारकत्वविधया इप्सितत्त्वकल्पनमुचितम् । एवञ्च सक्तूनां भूतभाव्यसमुच्चार- णन्यायेन होमार्थत्वावधारणाद्वितीयाऽपि विषयतासम्बन्धिकरण- स्वलक्षणार्थव द्रष्टव्या । अत एव संस्कारविधेः प्राक् संस्कार्यस्य विनियोगानवगमे- ऽपि यत्र लौकिकप्रमाणेनैव क्रियाजनकत्वमात्रमवगन्तुं शक्यं, यथा “अध्वर्यु वृणीते" "स्वाध्यायोऽध्येतव्यः" "अष्टवर्ष ब्रा- ह्मणमुपनयीते" त्यादौ, तत्र यसत्यपि वरणादिविधितः प्राग- ध्वर्वादीनां विनियोगे सामर्थ्यमात्रेणैव तेषां तत्तस्क्रियाजनक- त्वावगमायुक्तं तत्तत्संस्कारविधौ तत्तक्रियासाधकत्वेन रूपेणो. १.विनिगमकमिति. क. स्व. पु.

, सिद्धान्तः ] द्वितीयाध्यायस्य प्रथमः पादः । द्देश्यतामध्वर्वादीनामजीकृत्य तत्ततिक्रयासु विनियोगकल्पनम् , सक्तूनां तूत्पत्तिशिष्टसोमाधवरुद्ध ज्योतिष्टोमे साधनत्वस्यऽस. म्भवाददृष्टविधयोपकारकत्वस्य च लौकिकप्रमाणागम्यत्वान्न शक्यं संस्कारविध्यन्यथानुपपच्या विनियोगकल्पनम् । अतश्च द्वितीया सक्तुगत(१)करणत्वाथैव । ननु सक्तूनां विनियोगकल्पनायोगेऽपि न द्वितीया करण. त्वलक्षणार्था, अननुशिष्टलक्षणायां गौरवात् । किं त्वनीप्सित- कर्मत्वार्थिका, अतश्च सक्तूनां कर्मत्वेनैवाऽन्वयः । स च यद्यपि धात्वर्थे प्रथमत एवाऽसंभवी, तथा सति(२) पश्वकत्वाधिकरण. पूर्वपक्षन्यायेन सक्तुनामविवक्षापचेः, तथाऽपि भावनायामेव सो. मादिवत्परम्परासम्बन्धेन कर्मत्वेऽवगते पाश्चात्य इत्यवगन्तव्यम् । न चैवमुद्देश्याने कत्वं शङ्काम् , सक्तूनां कर्मत्वेऽप्युद्देश्यत्वानङ्गी- कारात् । अतस्सक्तुनामनीप्सितकर्मत्वेनैवाऽन्वयोपपत्तेने करण. त्वलक्षणेति चेत्-न; भावनावाचिप्रत्ययस्य नित्यं सकर्मकत्वेऽ. प्येककर्मकत्वेन कर्मान्तरस्याऽन्वयानुपपत्तेः । अन्यथा तत्समाना- र्थकस्य करोतेरपि द्विकर्मकतापत्तिः । अथ करोतेरेककर्मकत्वेऽपि भावनावाचिप्रत्ययस्य द्विकर्म- कत्वमुच्येत, ततो 'नीहीनवहन्ती'त्यादौ कर्मान्तराभावात्प्रत्य- यानुपपत्तिः । अत एव यत्र लोके तृणं स्पृशतीत्यादौ विध्यभा. वेनेप्सितकर्मानादरस्तत्रैव तृणादीनामनीपिसतत्वेनाऽन्वयः। त- द्विषयमेव च तथायुक्तसूत्रं विधिसत्वेऽपि पार्टिकधात्वर्थान्वयवि. षयम् । भावनान्वयस्तु विधिसत्त्वे करणत्वेनैव । आवश्यकी च धात्वर्थान्वयेऽपि करणत्वलक्षणा बल्बजान् शिखण्डकान कुर्वि- त्यादौ, करोतेरेककर्मकत्वेन कर्मान्तरान्वयानुपपत्तेः । अतश्च सर्वत्र १. करणत्वलक्षणार्थैवेति. क. पु. २. पू. मी. ४. १.५.

मीमांसाकौस्तुभे [ सम्माधिकरण- विधिसत्वे भावनान्वयो द्वितीयस्य कर्मणः करणत्वेनैव । अत एव(१) मैत्रावरुणाय दण्डं प्रयच्छती' त्यादौ मैत्रावरुणस्यैवोद्दे- श्यत्वेन भावनान्वयाद्दण्डस्य करणत्वेनैव तदन्वयो न त्वनीप्सि. सकर्मत्वेनेति ध्येयम् । यत्तु तन्त्ररत्ने तन्त्रसारन्यायसुधयोश्च यच्छतेस्सकर्मकत्वा. व युक्तो दण्डस्याऽनीप्सितकर्मत्वेनाऽन्वयः, जुहोतेस्त्वकर्मक- स्वात् सक्तूनां द्वितीयया करणत्वलक्षणे'क्युक्तम्, तन्न,(२) 'हुतो. ऽहुतः पर्यावर्तत' इत्यादौ कर्मणि निष्ठादर्शनेन जुहोतेरकर्मक- स्वासिद्धेः, होः कर्मणि तृतीया चकाराद्वितीया च स्यादित्यर्थ केन(३) 'तृतीया च होश्छन्दसी'ति सूत्रकारव्यवहारेण सकर्म- स्वावगतेश्च । तस्मादुक्त एव प्रकारः श्रेयान् । अत एव गुणफलाधिकारे इन्द्रियकामायवरुद्धायां भाव नायां न होमस्याऽनीप्सितकर्मत्वरूपाश्रयत्वेन वाक्यीयोऽन्व- योऽङ्गीकृतः । अन्यथा तत्रापि तथात्वसम्भवे विशिष्टभावनावि- धानेन वाक्यभेदाभावाजितं प्राभाकरेण । तस्मादुक्तप्रकारेणैव सक्तुषु करणवलक्षणामङ्गीकृत्य सक्तुविशिष्टहोमविधानमारादुप- कारकतयेति सिद्धम् । सुगादीनां तु प्रयोजनवत्त्वस्य प्रमाणान्त- रेणाऽवगतत्वात्तेषामेव भाव्यत्वोपपत्तेयुक्तं तत्संस्कारार्थत्वं स. म्मादीनामिति । न चैवं सर्वत्र सप्रयोजनत्वनिष्प्रयोजनत्वकृतमेव द्रव्यस्य १. तै. सं.६. १.४. २. 'यत्सर्वहुतं जुहोति सा त्वेका परिचक्षा। हुतोऽहुतः पर्यावर्तः ते सा द्वितीया, तस्मादाज्यस्यैव द्यावापृथिव्यौ यजेते'ति समग्रं वा. क्यम् । इदं च आग्रयणे द्यावापृथिव्यमेककपालविधिसनिधो श्रुतम्॥ ३. पा. सु. २.३.३.

सिद्धान्तः ] द्वितीयाध्यायस्य प्रथमः पादः। क्रिया प्रति गुणप्रधानत्वमिति कृतं द्वितीयातृतीयाभ्यामिति वाच्य- म् । (१) ऐन्द्रया गार्हपत्यमुपतिष्ठत' इत्यत्र हि मत्यपि इन्द्रगा. ईपत्ययोः क्रतुसम्बन्धित्वेन प्रयोजनवत्वे, द्वितीयैव गार्हपत्यमा. धान्ये प्रमाणम् । न च तत्राऽपि द्वितीयाया नियामकमात्रत्वेऽपि कथं प्रमाणत्वमिति वाच्यम् । द्वितीयाभावे मन्त्रस्य लिङ्गादिन्द्रा- र्थत्वस्यैवाऽवगमात्तस्याऽनियामकत्वाभावात् । गार्हपत्यप्रातिप. दिकमात्रसमभिव्याहारस्य च लिङ्गविरोधे सामीप्यनिरूपकत्वे. नाऽप्युपपत्तेः । अतो लिङ्गबाधेन गार्हपत्यप्राधान्य द्वितीयाप्रमा- णकमेव । तथा सूक्तवाकप्रस्तरमहरणयोरुभयोरपि निष्प्रयोजन- त्वाविशेषे केवलतृतीयाकृतमेव सूक्तवाकस्य प्रस्तरमहरणाङ्गत्व. म् । अतश्च सत्येव द्वितीयाश्रुतिप्रामाण्ये निष्प्रयोजनत्वं सक्तु- ध्वपवादः । सत्यपि च तृतीयाप्रामाण्ये दृष्टार्थत्वादि प्रयाजशेषा. भिधारणस्थलेऽपवादः । अतस्सिमदृष्टार्थत्वेऽपि सम्मादीनां गुणकर्मत्वम् । सूत्रं तु-न द्वितीया गुणत्वपरा, अपि तु प्राधान्यपरा, त. दर्थत्वेन स्मृत्याऽनुशिष्टत्वात् । लोकवत् लोकसिद्धघटादिपदवद- नुशिष्टार्थप्रतिपादकत्वस्योपपत्तेः । न चैवं सक्तुष्वपि तदापत्तिः, तेषां निष्प्रयोजनकत्वात् । प्रकृते तु तेषां त्रुगादीनां क्रतो शेष. भावावगमात्मयोजनववसिद्धेर्युक्तं गुणकर्मत्वमिति व्याख्येयम् । प्रयोजनं झुगुदाहरणे पूर्वपक्षे सम्मार्गसाधनीभूतसुचां प्रक. तौ विवक्षितसङ्ख्यात्वात्कपिञ्जलाधिकरणन्यायेन त्रित्वस्यैव शा. स्त्रीयत्वात्पश्चादौ मुग्विवृद्धावपि तिस्र एवं सम्माष्टव्याः । सि- द्धान्ते तु संस्कार्यत्वात्सा एवं सम्माष्टव्याः । परिध्युदाहरणेऽ. प्येकस्यैव परिधः पूर्वपले सम्मार्गः । तैत्तिरीयशाखास्थबहुवच. १. तै. सं. ५. ५.७. ११ मी०को मीमांसाकौस्तुभे [ सम्मार्गाधिकरण- नान्तवाक्योदाहरणे तु त्रयाणाम् । सिद्धान्ते तु यावत्परिधि । अग्नेरपि पूर्वपक्षे एकस्यैवाऽऽहवनीयस्य । सिद्धान्ते स्वाहवनीय- वृद्धौ सर्वेषाम् । यत्तु वार्तिके पूर्वपक्षे 'अग्निमुपनिधाय स्तुवत' इतिवल्लो. किकस्याऽग्नेस्सम्मार्गः, सिद्धान्ते वाहवनीयादीनां सर्वेषामिति प्रयोजनमुक्तम् , तत् 'अग्निं सम्माष्टी त्यस्य कल्पसूत्रकार वचनमूलभूतश्रुत्या आहवनीयमात्रविषयिण्या अनुपसंहारा भिप्रायेण । यदा तु तेनाऽऽहवनीय मात्रविषयेण सामा- न्यवाक्यस्योपसंहारः, तदा सिद्धान्तवत्पूर्वपक्षेऽप्याहवनीयस्यैव सम्मासिद्धान्तेऽपि च गाईपत्यादीनामसम्मार्गात्पूर्वोक्तमेव प. योजनं द्रष्टव्यम् । एवं पुरोडाशोदाहरणेऽपि पूर्वपक्षे एकस्यैव । सिद्धान्ते तु सर्वेषां पर्यग्निकरणमिति द्रष्टव्यम् । तथा (१)शाक्त्मा- नामयने 'तरसमयास्सवनीयाः पुरोडाशा भवन्ती'त्यत्र पूर्वपक्षे पर्यनिकरणत्वेन पिष्टमयपुरोडाशस्सम्पादनीयः । न च तत्राऽपि पुरोडाशोदेशेन मांसविधानात्सवनीय पुरोडाशवत्पर्यग्निकरणपु. रोडाशेऽपि मांसमाप्त्युपपत्तेर्न पिष्टमयोत्पादनम् , (२)तृतीये पु. रोडाशपदस्य जघन्यस्य (३)धानादिपञ्चकेलिङ्गसमवायेन वृत्ति- १. शक्तिनामकस्य ऋषर्गोत्रोत्पन्ना ऋषयश्शाक्त्याः, तैरनुष्ठितत्वात् शाक्त्यानामयनमिति कर्मनाम । तच्च षट्त्रिशत्संवत्सरसाध्यं स. त्रम् । तत्र श्रूयते 'संस्थित संस्थितेऽहनि गृहपतिर्मंगयां याति, स तत्र यान् मृगान् हन्ति तेषां तरसमयाः सवनीयाः पुरोडाशा भवन्ति' इति । अस्याऽर्थः-प्रतिदिनं गृहपतिसंज्ञको यजमानस्तत्तदहस्सम्ब. न्धिक्रियाकलापसमाप्त्यनन्तरं मृगयार्थ वनं गच्छत् । तत्र तेन ये मृ गा हताः तेषां मांसमानीय तेन सवनीयाः पुरोडाशास्सम्पादनीया इति । केषुचिद्ग्रन्थान्तरेषु शाक्यानामयनमित्यपि पाठ उपलभ्यते । २. पू. मी. ३. ८.२३. ३. धानाः करम्भाः परिवापाः पुरोडाशः पयस्या इति पञ्च सव.

सिद्धान्तः द्वितीयाध्यायस्य प्रथमः पादः । मङ्गीकृत्य सवनीयमात्रोद्देशनैव तरसविधानस्य वक्ष्यमाणत्वेन पर्यग्निकरणपुरोडाशे तदप्राप्तः । न चैवमपि सवनमध्यवर्तित्वेन तस्याऽपि सबनीयपदाभि- धेयत्वोपपत्तेमासप्राप्त्युपपत्तिः, सबनमध्यवर्तिनि दक्षिणादानादौ सवनीयपदप्रयोगाभावाद्योगरून्या सवनीयपदस्य धानादियागप- चकवाचित्वावगतेः । अतश्च पर्यनिकरणपुरोडाशे मांसप्राप्तेरभा- वात्पुरोडाशपदस्य च लोके पिष्टापण्डवाचित्वापिष्टपिण्डरूप एव पुरोडाशस्सम्पादनीयः। तत्राऽपि च न व्रीहिमयत्वं यवमयत्वं वा नियतम्, प्रकृतौ श्रीह्यादिवाक्यर्यागीयपुरोडाशोदेशेनैव तद्विधाना- त् । सिद्धान्ते तु क्लुप्तदर्शपूर्णमासप्रकृतिकसवनीययागपञ्चको- देशेन मांसविधानात्मदेयपुरोडाशादिस्थानापन्नत्वात्तद्धर्मप्राप्त पुरोडाशादिचतुष्ट स्थानापन्ने मासे पर्यनिकरणं भवत्येव । यद्यपि च प्रदेयत्वेन मांसविधानादर्थलोपाच्च नाऽवघात- पेषणादिधर्मप्राप्तिमासे सम्भाव्यते, तथाऽपि प्रकृतौ पर्यग्निकर- णस्य प्रदेयपुरोडाशधर्मत्वावगतेमासे(१) प्राप्नोत्येव तत् । न चैवं पेषणप्राप्त्यभावे तदर्थाधिवापमन्त्रस्य 'धान्यमसी'त्यस्योहान् - चिन्ता(२) नवये करिष्यमाणा निर्विषया आपछतेति वाच्यम् । तस्याः कृत्वाचिन्तात्वेनोपपत्तेर्वक्ष्यमाणत्वात् । यत्तु न्यायसुधाकृता सवनीयपदोपेते वाक्ये अधिवापमाप्त्य. भावेऽपि छान्दोग्यशाखास्थे(३) 'एतेन वै गौरीवितिश्शाक्त्यस्तर- समयपुरोडाशो यव्यावत्या सर्वामृद्धिमानोदिति वचने सवनीय. नीयहवींषि । तत्र धानाः भ्रष्टयवाः । करम्भाः दधिमिश्रितारसक्तवः। परिवापा लाजाः पयस्या आमिक्षा इति । १.प्राप्त्यविधात इति क. पु. २. पृ.मी.९.१.१३. ३ ता. प्रा. ११.७.२.

भीमांसाकौस्तुभे [सम्माधिकरण- पदाभावात्पुरोडाशपदेनैव व च तत्कार्योद्देशे लक्षणापत्या(१)पुरो. डाशमात्रोद्देशेन मांसविध्यवगतेमासेन च पिष्टपिण्डरूपपुरोडाश. स्य कर्तुमशक्यत्वेऽपि 'तरसपुरोडाशमन्नसंरोधादिति छान्दोग्य- सूत्रकृदचनादनामिश्रितेन तेन पुरोडाशोपपत्तेस्तत्र चाऽधिवा- पप्राप्त तन्मन्त्रोहानूहचिन्तापपत्तिरित्युक्तम् । तन्न, पुरोडाशपदे- नाऽत्र पिण्डमात्रं वा प्रतिपाद्यते लक्षणया, पिष्टपिण्डो वा ? ना. sऽद्यः, लक्षणापत्तेः। न द्वितीयः, तस्याऽन्नमात्रोपादानकस्य मां- सप्रकृतिकत्वानुपपत्तेः । तस्मास्पिष्टपिण्डप्रकृतिकस्यैवाऽस्य मांस- संस्कारकत्वेन विधीयते । ततश्च(२) "पयसा मैत्रावरुणं श्रीणा. ती" तिवत्संस्कारके तस्मिन् प्रदेयप्रकृतिधर्माणां पेषणादीनाम: प्राप्ते!हचिन्तोपपत्तिः । अतश्च कृत्वाचिन्तात्वेनैव तदधिकरणो. पपत्तिः । ततश्च सवनीय पदोपेतवाक्ये पेषणाद्यप्राप्तावपि पर्यग्नि- करणप्राप्तिमत्त्वात्प्रयोजनोपपत्तिः । यनु भाष्यकारेण स्रगुदाहरणे पूर्वपक्षे वरुणप्रघासेषु 'श- मीमध्यस्वचो भवन्ति, हिरण्मय्यो चे' ति वाक्योक्तशमीमयत्वा- दीनां प्रधानाङ्गभूतलगनुवादेनैव विहितत्वात्सम्मार्गानभूतमुक्षु प्रकृतिप्राप्तनानाक्षीयत्वम् । सिद्धान्ते तु संस्कार्यत्वाच्छमीम. म्यादीनामेव सम्मार्ग इति प्रयोजनमुक्तम् । तन्न, खुङ मात्रानुवा. देन शमीमयत्वविधानात्मधानविच सम्मार्गसूक्ष्वपि शमीम यत्वप्राप्तः । न च प्रियङ्गुवत्मकरणात्पधानमात्रलाभा, प्रकरणस्य वाक्य सङ्कोचकत्वानुपपत्तेः। प्रियशनां तु चरूद्देशेन विहितानामपि चरोः प्रधानमात्रसम्बन्धित्वेन विधानायुक्तं प्रधानमात्रगामित्वम् । अतश्च यथैव 'वेद्यां हवींष्यासादयती'त्यादौ प्रधानप्रकरणेन ह- १. पुरोडशप्रकृतित्वेनेति. क. व. पु. २. तै. सं. ६.४.८. .

सिद्धान्तः] द्वितीयाध्यायस्य प्रथमः पादः । विश्शब्दसङ्कोचायोगादानर्थक्यपरिहारस्योपस्थित्यविशेषादङ्गा- धानसाधारणापूर्वसाधनीभूतहनिर्मात्रळक्षणयाऽप्युपपत्तेर्न वेधा- दे, प्रधानमात्रगामित्वम् , तथैव प्रधानप्रकरणेन उक्छब्दसङ्को- चायोगादतिदेशसहकृतेन च प्रधानवाक्येनोभयो(१)रुपस्थित्यवि. शेषादुभयाङ्गत्वमेव शमीमयत्वादीनाम् । न चाऽतिदेशेन सम्मार्गस्य क्लुप्तोपकारनानाक्षीयनुग्विशिष्टस्यैव प्राप्तत्त्वात्तदबाधाय चुक्प. दसङ्कोचोपपत्तिः, प्राकृतनानाक्षीयत्वाबाधाय स्रक्पदसङ्कोचा- गीकारे(२) अङ्गगुणविरोधन्यायेन प्रधानत्रुक्षु नानाक्षीयत्वा- नुग्रहेण सम्मार्गादिसूक्ष्वेव शमीमयत्वादिनिवेशोपपत्तेः । वस्तुतस्तु "अप्स्ववभृथेन चरन्ती" तिबदुपदेशेन प्रधान- गतास्विव सम्मागगतास्वपि मुक्षु शमीमयत्वादिविधानात्प्रया- जादिगताविव तद्तास्वपि प्राकृतनानाक्षीयत्वबाधो गुण एव । न हीदमुद्रातृवेदस्थश्येनपाकृताङ्गेषगातृकर्तृकत्वत्प्रयोगविधिद्वा- रकं प्रधानाश्रितमङ्गेष्ववतरति, येनाऽतिदेशापेक्षया दौर्बल्यं श. कथेत । अङ्गप्रधानसाधारणमात्रानुवादेन विधानादपामि- वाऽस्याऽप्यौपदेशिकत्वात्प्राबल्यमिष्टमेव । अतश्च यथैव प्रया. जादिक्षु शमीमयत्वमाप्तिरुपपादनीया, तथा सम्मार्गस्रुवपीति नाऽस्य प्रयोजनत्वोपपत्तिः । यवत्र वार्तिकेऽभ्युपगम्याऽपि यथाकथञ्चिच्छपीमयत्वा. देः प्रधानप्सम्बन्ध, न सम्मार्गसक्षु नानाक्षीयत्वमाप्तिस्सम्भव- ति, प्रधानसुम्भिरेवाऽङ्गानामपि प्रसङ्गात्कार्यसिद्धेस्स्वतन्त्रमुगाक्षे- पकत्वानुपपत्तेः । अतश्च यथैव 'दक्षिणास्सोमस्येति वचनात्म- १. रूपस्थितत्वाविशेषेति. क.ख.पु. २. पू. मी. १२.२. ९.

मीमांसाकौस्तुभे [ सम्माधिकरण- धानमात्राङ्गभूतयाऽपि दक्षिणया प्रसङ्गात्कार्यसिद्धेर्नाऽभूतेष्टिप- शुष्वातिदेशिकान्वाहार्यदक्षिणाप्राप्तिरिति(१) द्वादशे वक्ष्यते, त- थैव प्रधानसम्भिरेच प्रसङ्गसिद्धेनं सम्मार्गार्थ नानातीयत्रगुत्पा. दनमिति दूषणान्तरमुक्तम् , तन्नः सौमिकपात्रैरोष्टिकपात्रकार्य- स्येव शामित्राग्निना पौरोडाशिकाग्निकार्यस्य पाकस्येवाना सम्मार्गस्य प्रधानसम्भिस्सिध्यनुपपत्तेः । दक्षिणया धानता. नां कर्तृणामङ्गप्रधानसाधारण्यादानतिरूपकार्यसिद्धेः प्रत्यक्ष- वायुक्ता तलाधनीभूतान्याहार्यनिवृत्तिः । प्रकृते तु मुग्भिः प्र- धाननिष्पत्या सम्मानिष्पत्तेस्तम्मार्गस्य पृथगनुष्यत्वाद्युक्त. मैष्टिकपासवत्स्वाङ्गभृतस्त्रगाक्षेपकत्वम् । न च यथा सोमागभूतमहावद्यैवैष्टिकहविरासादनादिकार्यस्य पृथगनुष्ठेयस्याऽप्यनुनिप्पादनात्तदङ्गभूतदार्शपूर्णमासिकवेदिनि- वृत्तिः(२) द्वादशे वक्ष्यते, तथाऽत्राऽपि सम्मागस्य पृथगनुष्ठेयत्वे- ऽपि प्रधानमुग्भिरेव निष्पादनोपपत्तेने नानावृक्षीयत्वप्राप्तिरिति वाच्यम् । सौमिकवेदेर्देशत्वेनाङ्गप्रधानार्थत्वस्य(३) तृतीये वक्ष्य- माणत्वाद्धविरासादनादिकार्याङ्गत्वेन तस्या एव प्राप्तेरातिदेशि- कैष्टिकवेदेरुपदेशेन बाधोपपत्तेः । न चैवं वेदेस्तन्त्रत्वापचेाद- शोक्तप्रसङ्गानुपपत्तिः, तस्य 'इयति शक्ष्यामहेऽस्यां कर्तुमि'त्यार्थ- वादिककर्तृगमनागमनादिरूपप्रचारार्थत्वं कृत्वाचिन्तया कर्तृम. चारार्थायाः वेदेहविरासादनसिध्यङ्गीकारेण वक्ष्यमाणत्वात् । न चैवमपि पात्रन्यायेन हविरासादनरूपस्य कार्यस्य पृथ- गनुष्ठेयत्वान्न प्रसङ्गोपपत्तिः, कर्तृपचारार्थमनुष्ठितेनैव सौमिक- १.पू. मी. १२. १. ३. २. पू. मी. १२ १. १६. ३. पू. मी. ३. ७.३.

सिद्धान्तः ] द्वितीयाध्यायस्य प्रथमः पादः । ८५ , वेदिकरणेनाऽविशेषावच्छिन्नाहवनीयप्रत्यग्देशरूपाया वेदेस्सि- द्धत्वादैष्टिकवेदिकरणनित्या प्रसङ्गोपपादनात् । न बष्टिकसौमि- कवेदिकरणभेदे वेदिभेदस्समस्ति, प्रत्यग्देशस्य प्रत्यक्षेणैकत्वात् , वेदिपदस्य नानार्थकत्व(१) कल्पनायोगाददृष्टस्याऽप्येकस्यैव कल्पनाच । अत एव तत्तत्क्रत्वपूर्वसाधनीभूतवेदिरूपादृष्टत्वेनैव तत्तद्वेदिकरणं प्रति कार्यत्वाद्यभिचारस्सङ्करो वा नाऽशक्यः । पात्रेषु तु सौमिकापेक्षया ऐष्टिकानां भेदस्य सम्पादयितुं शक्य. त्वान्न प्रसङ्ग हति वैषम्यम् । तश्च पात्रन्यायेन प्रधाननुगपे. क्षया सम्मार्गस्रचा भेदेन कर्तुं शक्यत्वान्न प्रसङ्गोपपत्तिः । न च प्रसङ्गासंभवेऽप्याग्नेयीन्यायेन प्रकृतानामेवोपादानशङ्का, तस्य प्रकृतिप्राप्तनानाक्षीयत्वबाधकृतवैगुण्यप्रसङ्गेनाऽनुदयात्। अत. श्व वार्तिके प्रसङ्गापादनमनास्थयैवेति द्रष्टव्यम् । इदं विह वक्तव्यम्-कथञ्चिच्छमीमयत्वादः प्रधानमात्रसं. बन्धाभ्युपगमे प्रकृतौ नानाक्षीयत्वस्याऽपि प्रधानमात्रसम्बन्धा- पत्तेस्सम्मार्गस्नुक्षु नानावृक्षीयत्वस्यैवाऽभावाभाष्योक्तमयोजना. नुपपत्तिरिति । एतेन यदपि परिध्युदाहरणे 'वाणवन्तः परिधयो भवन्ती' त्यत्र पूर्वपक्षे सम्मार्गार्थे पलाशा उत्पादयितव्याः, सिद्धान्ते बाणवतामेव सम्मार्ग इत्युक्तं प्रयोजनमपास्तम् ; बाणवत्वस्या- ऽङ्गप्रधानसाधारण्येन विधानात् । अन्यथा पालाशत्वस्याऽपि स- म्मार्गः परिधिष्वप्राप्तः । किंच "परिधीन् सम्माष्टी'त्यत्र परिधि. शब्देन परिधीयते अनेनेति व्युत्पत्या अग्निपरिधानोपल्लक्षित- द्रव्याभिधानात्पुरोडाशकपालन्यायेन पालाशाप्रयोजकत्वानोक्त- प्रयोजनसिद्धिः। १. कल्पनाभियेति. क. पु.

७ ८६ मीमांसाकौस्तुभे [ स्तुतशस्त्राधिकरण- यदपि चाऽन्युदाहरणे 'अप्स्ववभृथेन चरन्ती'त्यत्र पूर्वपक्ष सम्मार्गोऽग्नेः कर्तव्यः, सिद्धान्ते त्वपामिति प्रयोजनमुक्तम् , तदपि अवभृथे तस्याऽपूर्वत्वेन तदर्थ पुनः श्रूयमाणपयाजानू- याजाद्यर्थ वा आरादुपकारकसम्मार्गप्राप्त्यभावाद्यथाकथंचित्मा. त्यङ्गीकारेऽपि तृतीयान्तेनाऽवभृथपदेन साङ्गस्यैव करणत्वावग- माचरन्तीत्यनेन च साङ्गस्यैव प्रयोगविधानादपांच देशत्वात्साङ्ग- प्रधानविषयत्वस्य (१)एकादशे वक्ष्यमाणत्वेन सम्मा प्यपामेव प्राप्तरुपेक्षणीयम् । अतः पूर्वोक्तान्येव प्रयोजनानि द्रष्टव्यानि ।। इति पञ्चमं सम्मार्गाधिकरणम् ॥ ५ ॥ अथ षष्ठं स्तुतशस्त्राधिकरणम् ।। स्तुतशस्त्रयोस्तु संस्कारो याज्यावदेवताभिधा- नत्वात् ॥ २-१-१३॥ ( विषयसंशयसङ्गतयः) इह स्तोत्र शास्त्राण्युदाहरणम् । तत्र प्रगीतमन्त्रसाध्यं गुणगु. णिसम्बन्धकीर्तनं स्तोत्रम् , शस्त्रं च तदेवाऽप्रगीतमन्त्रसाध्यम् । तत्र किं तयोरारादुपकारकत्वं प्रयाजादिवत् , उत देवतादिरूप- गुणिस्मरणार्थत्वेन सन्निपत्योपकारकत्वमिति विचारः । अत्राऽ. पूर्वभेदोपयोगिचिन्तनात्पादाध्यायसङ्गतिः पूर्ववत् । अनन्तरा तु पूर्वाधिकरणे श्रुतिग्रहणस्य द्रव्याङ्गताबोधकप्रमाणमात्रोपलक्षणत्वा. दिहापि गुण्यङ्गताबोधकलिङ्गसद्भाचेन पूर्वपक्षकरणादापवादिकी। १. पू. मी. ११. २.७.

द्वितीयाध्यायस्य प्रथमः पादः । q तेनाऽनेकादृष्टकल्पनाभावादितरविशिष्टस्यैकस्यैव फलसम्बन्धः । न च विनिगमनाविरहात्सर्वेषामेव फलसम्बन्धसिद्धरने. कादृष्टकल्पनमपि फलमुखत्वान्न दोषमावहतीति वाच्यम् , भावा- र्थाधिकरणे वक्ष्यमाणरीया विनिगमकस्य सत्वाद । तस्मादेक- स्यैव फलसम्बन्ध इति सिद्धम् ॥ इति प्रथमं प्रतिपदाधिकरणम् ॥ १ ॥ Pawanpur अथ द्वितीयं भावार्थाधिरकरणम् ॥ २ ॥ ( संशयः) यदा चैकस्य तदा किं धात्वर्थस्य ? उत उपपदार्थस्य ? इति विचार्यते। ( पूर्वपक्षः) तत्र फलस्य साध्यत्वात्सिद्धरूपसाधनापेक्षायां योग्यत्वा- सोमादेरेव करणत्वेनाऽन्वयो न त्वसिद्धस्य धात्वर्थस्य । साध्यस्य साध्येन(१)तत्त्वेनाऽसम्बन्धात् । अतश्च योग्यतारूप- लिङ्गात्तावत्सोमादेरेव करणत्वम् । न च शब्दगतप्रयासत्या धात्वर्थस्यैव कथञ्चित्स्वकारकस- म्पादनेन योग्यतामापनस्य करणत्वावगतेः पदश्रुत्या लिङ्गं बाध्येतेति वाच्यम्। फलपदापेक्षया द्वयोरपि पदान्तरोपात्त. त्वेन फलसम्बन्धे पदश्रुत्यभावात् । प्राथमिकभावनासम्बन्धे विद्यमानाया अपि तस्या विरोधाभावेन सोमाद्यन्वये बाधक स्वाभावाच्च । न हि प्राथमिको भावनान्वयस्सोमादीनां सिद्धा- १ १. समत्वेनेति. क. पु.

। ७६ किरातार्जुनीयम् । श्रीमत्कविकुलचूडामणिभारविविरचितम् । मल्लिनाथ- सूरिकृतया घण्टापथलमाख्यया तथा पं० श्रीकनकलाल शर्मणा कृतया भावा- र्थदीपिनीव्याख्यया समलङ्कृतम् । [सर्गत्रयमात्रम् ] काव्य वि०११ रु. ०- ७७ शक्तिवादः, श्रीगदाधरभट्टाचार्य प्रणीतः, पण्डितप्रवरश्रीहरिनाथतर्क सिद्धा- न्तभट्टाचार्यविरचितविवृतिसहितः । [ न्यायविभागे १० ] रु० ३-० ७८ माथुरीपञ्चलक्षणी। पं० श्रीउमानाथाालकृतव्याख्या सहिता तथा माथुरीसिंहव्याघ्रलक्षणम् । पं० श्रीहरिरामशुक्ल विरचितया व्याख्यया साहतं तथा ५० श्रीहरिहरशास्त्रि सङ्कलित माथुरीपञ्चलक्षणी क्रोडपत्रेए [ न्याय वि० ११ ] रु० ०-६ ७६ रसाध्यायः । टीकया संवलितः । [ आयुर्वेदशास्त्र वि० २'] रु० ०-१० ८० पाणिनिव्याकरणे वादरत्नम् । न्यायव्याकरणाचार्य मीमांसक शिरोमणि पं० सूर्यनारायणशुक्लेन विरचितम् । ( तत्र च न्यास परिष्कारपरिशिष्भेदेन प्रकरण त्रयम् यत्र पञ्चन्यून सार्धशतसूत्रेषु १४५ महताटोपेन न्यासा- विचारिताः तत्र प्रथमं प्रकरणं मुद्रितं द्वितीय प्रकरणमपि मुद्रित प्रायं शिव- मेव भवन्तं दृष्टि पथभधिगमिष्यतीति । )प्रथमो भागः। (व्या० वि १०)रु०१-८ ८१ गणितकौमुदी । (हिन्दीभाषाटीकासहिता ) प्रथमापरीक्षापाठ्यनि- रितगणितसंग्रहपुस्तकम् । [गणितविभागे १] रु० ०-६ ८२ छन्दःकौमुदी । (हिन्दीभाषाटीकासहिता ) प्रथमापरीक्षापाठ्यनिर्धा- रितछन्दःसंग्रहपुस्तकम् । [ छन्दोविभागे ३ ] रु० ८३ योगदर्शनम् । महर्षिप्रवरपतञ्जलिप्रणीतम् । तत्र (१) भोजवृत्तिः, (२) भावागणेशवृत्तिः, (३) नागोजीभवृत्तिः, (४) मणिप्रभा, (२) योग- चन्द्रिका, (६) योगसुधाकराख्य टीका पटकसमेतम् । [योग विभागे१] २० २ ८४ रघुवंशमहाकाव्यम् । श्रीकालिदासविरचितम् । म० म० मल्लिनाथकृत सञ्जीविनीटीका तथा पं० ब्रह्मशङ्कर मिश्रकृतपरीक्षोपयोगि सुधाऽऽख्यव्याख्यया सहितः । १से ४ सर्गः मू०१-४-०।१से ५ सर्गः रु०१-८-० तथा ६ से ८५ योगदर्शनम् । पण्डित बलदेवमिश्रकृतया सटिप्पण्यायोगप्रदीख्यि विवृत्त्या समन्वितम् । (योग विभागे २) रु० १६ काव्यमीमांसा । राजशेखरविरचिता । साहित्याचार्य पणि । श्रीनारायण- शास्त्रीखिस्तकृत काव्यमीमांसा-चन्द्रिका टीका सहिता । प्रथमाध्याय- मारभ्य पञ्चमाध्यायपर्यन्ता प्रथमो भागः । ( काव्य विभागे १३ ) रु० 9 नागानन्दनाटकम् । श्रीहर्षदेवप्रणीतम् । काशीविश्वविद्यालयाध्यापकेन एम० ए० साहित्याचायति पदवी विभूषितेन पण्डित श्री बलदेव उपाध्यायेन स्वप्रणीतया भावार्थदीपिकाख्यया व्याख्या समलङ्कृत्य बृहत् भूमिका हिन्दीभाषा- नुवादादिभिः सनाथीकृत्य सम्पादितम् । ( नाटक विभागे १ ) रु०१-४ ८ मेघदुतकाव्यम् । महाकवि श्री कालीदासविरचितम् । मल्लिनाथकृत सञ्जीविन्या, चारित्रावर्द्धनाचार्य विरचित चारित्रवर्द्धिन्या तथा साहित्याचार्य पं० श्रीनारायण- शास्त्रि खिस्तेकृत भावप्रबोधिनी व्याख्या टिप्पण्या च सहितम् । (काव्य वि०१४) २००-८ ९ जागदीशीव्यधिकरणम् । न्यायाचार्य पं० श्रीशिवदत्तमिश्रविरचित गंगाख्यव्याख्या टिप्पणी सहितम् । (न्यायविभागे १२) रु० २- • काव्यकल्पलतावृत्तिः। श्रीअमरचन्द्रयतिनिर्मिता अरिसिंहकृतसूत्रसहिता। (अलङ्कारविभागे ४ ) रु०१-४ सर्वविधपुस्तकप्राप्तिस्थानम्- चौखम्बा संस्कृत सीरिज आफिस, विद्याविलास प्रेस, गोपालमन्दिर के उत्तर फाटक, बनारस सिटी। १६ सर्गः an -

No text on this page.

Mimamsa Koustubha Vol.3 And Fasciculus 2

Author
Khand-d'adeva
Other authors
Chinnasawami Sastri A
Title
Miimaan'saakaustubha Vol.3 And Fasciculus 2
File name
Mimamsa Koustubha Vol.3 And Fasciculus 2
Text
OCR done
Citation
1932
Published
2004/12/26
Publisher
Chowkambha Sanskrit Series Office , Banares
Language
Sanskrit
Pages
102
Library
Asr,melkote
Classification
Hinduism Narrowly
Keywords
Hinduism,Indology
DLI number
383182
Barcode
1990020047474.00
Scanning centre
ASR, Melkote
Digital publisher
Digital Library Of India
Rights
Not Available
VMLT id
Wa5jlNKbfhA
Download PDF

Mimamsa Koustubha Vol.3 And Fasciculus 2