University Library,gurukul Kangri Vishwavidyalaya

दिव्यदृष्टि

Shaastrii Naaraayand-a · 2006/03/02

PDF Proofread

Front matter

'मास्टर'मणिमालाया एकपत्राशत्संख्यको मणिः (साहित्यविभागे २) [प्रथममध्यमपरीक्षाश्रेणिगतच्छात्रवृन्दस्यानुवादा. भ्यासेऽत्यन्तमुपयोगिनी] anditherNTHMAN दिव्यदृष्टिः PHHATRIKA [ अद्भुतरसमयो सरला लघुकथा ] काशीस्थराजकीयसरस्वतीभवनपुस्तकालयोपाध्यक्षेण, साहित्याचार्येण, साहित्यवारिधिना, 'विद्वञ्चरित- पञ्चक' अभिज्ञानशाकुन्तलटीकालक्ष्मी' दरि- द्राणां हृदयम्' 'अलङ्कारसारम जरी' प्रभृत्य- नेकप्रन्थप्रणेत्रा, 'अमरभारती सम्पादकेन 'खिस्ते'इत्युपाख्य नारायण शास्त्रिया निबद्धा। काशीस्थ 'संस्कृतबुकडिपो' इत्यस्याभ्यः 'मास्टर खेलाडीलाल ऐएड सन्स' 'मास्टरप्रिण्टिङ्गवर्क्स' नाम्नि मुद्रणागारे संमुदय प्रकाशिता मूल्यमाणकचतुष्टयम् ई० सन १९३६ Postane EN 'मास्टर'मणिमालाया एकपञ्चाशत्संख्यको मणिः (साहित्यविभागे २) [ प्रथममध्यमपरीक्षाणिगतच्छात्रवृन्दस्यानुवादा भ्यासेऽत्यन्तमुपयोगिनी] दिव्यदृष्टिः [ अद्भुतरसमयी सरला लघुकथा ] काशीरथराजकीयसरवतीभवनपुरतकालयोपाध्यक्षेण, साहित्याचार्येण, साहित्यवारिधिना, विद्वश्चरित- पञ्च क' 'अभिज्ञानशाकुन्तलटीकालक्ष्मी दरि- द्राणां हृदयम्' 'अलङ्कारसारमजरी' प्रभृत्य- : नेकप्रन्थप्रणेत्रा, अमरभारतीसम्पादकेन 'खिस्ते'इत्युपाख्य नारायणशास्त्रिणा निबद्धा। काशीस्थ 'संस्कृत बुकडिपो' इत्यस्याध्यक्षः 'मास्टर खेलाडीलाल ऐण्ड सन्स' 'मास्टरप्रिण्टिङ्गवर्क्स नाम्नि मुद्रणागारे संमुदय प्रकाशिता मूल्यमाणकचतुष्टयम् ई० सन १९३६ भमिका 'दिव्यदृष्टि' रित्याख्यायाः सरलसंस्कृतलघुकथाया उपोद्घातं लिख- तामस्माकं महान् प्रमोदो भवति । संस्कृतसाहित्ये किल अलि- परिगणनीया एव त्रिचतुरा गद्यनिबन्धाः सन्ति, दीर्घसमासान्वितश्ले- षाधलङ्कारगम्भीरप्रौढभाषोपनिबद्धास्ते परिनिष्ठितानां विदुषामुत्तमवर्गी- याणां छात्राणां वा मनोरञ्जनाय भाषाभ्यासपाटवाय च प्रभवन्ति । प्रथममध्यमपरीक्षाश्रेणिगतच्छात्राणां कृते नासीत्कोऽपि तथाविधी लघुः सरलश्च गद्यबन्धः, यः किल मनोरञ्जनपुरस्सरं तेषामनुवादाभ्यास पाटवमापादयेत् । काशीस्थराजकीयसरस्वतीभवनोपाध्यक्षसाहित्याचार्यामरभारतीसंपा- दक-खिस्तेनारायणशास्त्रिभिर्निबद्धा 'दिव्यदृष्टि' र्नामाद्भुतरसमयीयं लघुकथा अश्लीलाद्यवद्यवर्जिता सरला संवादरूपा चास्तीत्येषा निःशङ्कम- ल्पवयसामपरिपक्कबुद्धीनामपि छात्राणां हस्ते दातुं योग्याऽस्ति । भूयो. भूयोऽभ्यस्ता चानया छात्राणां संस्कृतलेखपाटवं स्फुरिष्यतीति बाढं वयं विमृशामः। यद्यप्यस्मिन् संस्करणे बहवो मुद्रणप्रमादाः सन्ति, तथाऽपि द्वितीय- संस्करणे तन्निवारणं भविष्यति, पुस्तकं च कथाप्रसङ्गोपयुक्तचित्रादिभिर्वि भूषयिष्यत इति वयमाशास्महे । गवर्नमेण्ट संस्कृत कालेज सरस्वतीभवनम् काशी। श्रीत्रिभुवनप्रसादोपाध्यायाः व्याकरणाचार्याः, एम० ए०, इन्स्पेक्टर माफ संस्कृतपाठशालाज. यू० पी०, बनारस।

दिव्यदृष्टिः - त् कोऽपि पाखण्डी, ईदृशा बहवो धूर्ता द्रव्यमर्जयितुं साधु- "स्या वेषं विभ्रति लोकान् वश्च यन्तो विहरन्ति चेतस्ततः !!" 23 नहि, इदमेवैकं वैशिष्ट्यं तस्य पाखण्डितायां सन्देहं जनयति स कुतोऽपि द्रव्यं न गृह्णाति किंबहुना द्रव्यं स्पृशत्यपि न सः, केवलं भोज्यवस्तून्येव स गृहाति, तान्यपि न सचिनोति स्वोदरपूरणपर्या- तानि संस्थाप्य ततोऽधिकानि भिक्षुकेभ्यो विभज्यार्पयति ।" "किं तस्य वक्तव्यमस्ति, स आत्मनि कं वा विशेषगुणं ख्यापयति ?" "कमपि न, स आत्मनः किमपि वैशिष्ट्यं न कथयति, तथाऽपि भवि- प्यद्वक्ता त्रिकालदर्शी सिद्धोऽस्ति, लोकानां मनोगतमशेषं बोढुं शक्नोति । असाध्या अपि रोगास्तस्य करस्पर्शादेव सद्यो नश्यन्ति । तेन यस्मै यदर- दानं दीयते तदवश्यं पूर्ण भवति ।" "तस्यैते विशेषगुणा सन्ति केनाऽपि परीक्षिताः ?" "तैरसंख्यैः सज्जनैः, ये तं परिवार्य तिष्ठन्तः शतशः प्रभान् पृच्छन्ति, विविधान् स्वमनोरथान् तस्य पुरः प्रकटयन्ति च ।" 'स च नाधिकं भाषते केनापि । न च लोकानां पुर आत्मानं सविशेष प्रदर्शयति । केनापि तस्य भक्तेन गङ्गाकूले तदर्थमेका कुटी निर्मापिता वर्तते, तत्रैव स सन्ततं निवसति । केवलं प्रातरष्टमहोरात एकादशहोरापर्यन्तं होरात्रयमेव स लोकेभ्यो दर्शनं ददाति । तावत्यवसर एव यः कोऽपि यत्किमपि पृच्छति, तदुत्तरं तेन दीयते ।" अपराहसमय आसीत्तदानीम् , अहं मम सुहृदो मेघश्यामस्य गोटी- गहे विशाले वेत्रासने ऽर्द्धशयान प्रासम् । मम पार्श्ववर्ति उद्यानोपगं वातायनं विवृतद्वारमासीत् । जलधारासमु. छुसितभूसुरभिपरिमलेन सह समागच्छन् सुरभिकुसुमामोदो बाढं मद- यतिस्म मे मानसम् । गोष्ठीगृहे तदानीमावां द्वावेव स्थिताबभूव । मयोक्तम-"सखे ! मेघश्याम ! त्वं ऋजुरसि न जानासि बाधक दिव्यदृष्टिः निमान् । इयमेषां वचनाचातुरी, स खलु वचका केनाप्युपायेन लोकानां मनोगतमर्थ विदित्वा तेषां पुर आत्मनस्त्रिकालदर्शित्वं नाटयति । यदुच्यते, स लोकेभ्यो वरदानं ददाति, रोगिणां रोगांश्च दूरीकरोतीति, तच्छ- द्वाजखानां विश्वासभूयिष्ठताविजम्भित मात्रमेव । गभीरेण विश्वासेन दुःसाध्या अपि व्याधयो दूरीभवन्ति !: उत्कटा बहवो मनोरथा अपि विश्वासमात्रेणैव पूर्यन्ते । यदि तस्मिन् वास्तविकी कापि लोकोत्तरा शक्तिरभविष्यत् स कदापि लोकालये जनसम्मर्दमध्ये निवासं नाकरिष्यत्। तस्य तु निर्जन वनमेव समुचितं स्थानम् , यत्र मनुजगन्धोऽपि न भवेत् । मघश्यामो ऽब्र त-"एकदा केनापिऽपि तस्मै पृष्टमासात्-"भगवन् ! शान्ति- मयमात्मन. एकान्तस्थानं परित्यज्यं लोकालयऽस्मिन् किमर्थमागतं भग- वता ?” इति । स चाऽत्यन्तगभीराकतिरपि प्रसन्नवदनो लक्ष्यते । रोषक- पायितः स नाद्यापि केनापि दृष्टः । प्रष्टारस्तु विविधान् कुटिलाननुचितानपि समान तन्वते, परंतु तस्य महात्मनो वदने तैरनुचितानुयोगरेकाऽपि लघायस्यपि विकारलखा न दृग्गोचरीभवति । तथाविधेऽवसरे स केवलं तूष्णीमास्ते वचसा न किञ्चिदप्युत्तरयति । लोकालयागमनहेतुं पृच्छते सज्जनाय तेनत्थमुत्तरितम्-"वत्स ! भगवदिच्छेवास्माकं प्रेरिका शक्तिः तद्वशंवद एवाहमत्रागतोऽस्मि । विचारितं च चेतसि-कार्तिके ऽस्मिन् पुण्यमासे गङ्गास्नामार्थ काश्यां गङ्गातारे वसतिः कर्तव्यति । अतीते चास्मिनमासे स्थानमिदं परित्यज्याऽन्यतो गन्तव्यं भवेदिति सम्भावयामि।" सोत्कण्ठं मया प्राक्षि- 'त्वया सर्वमिदं कथमवगतम् ? कि तव ज्ञातपरिचित कश्चित्सजनस्तदन्तिकं गत आसीत् ?' । तेनोत्तरितम्-"न ज्ञातपरिचितो न कश्चिद्गतस्तत्र । अहं स्वयमेव गत आसम् । लोके- भ्यस्तत्प्रशंसावादं निशम्य स्वयमपि तं पश्येयमिति विचारितवान् । यदाऽहं तत्रागच्छम्, तदा स महात्मा समुत्तिष्ठन्नेवासीत् प्रणम्य समुपविशन्तं मामलादीत- "वत्स ! किमिच्छसि ?" मयोत्तरितम्-"केवलं भगवतो दर्शनम् ।" तेनोक्तम् “न हि, न केवलं दर्शनाभिलाषेणागतोऽसि, अन्यद्- प्यस्ति किंचित्तव चेतसि' । पुनरहमनवम्-"भगवन् ! अहमिदं प्रष्टुमि- च्छामि, यत् प्रातःकालं विहाय कालान्तरेऽपि भगवती दर्शनं सम्भवति नवा ? मम हि द्वित्राः सन्ति प्रश्ना अनुयोक्तुम्" । महात्मा ब्रूत- "इदानीं तु नाहं स्थातुं शक्नोमि अतिक्राम्यति समयः, नियमानुसारंतु मया कालान्तरे कस्यापि केपि प्रभा न ससाधीयन्ते । प्रश्नोत्तराणां तु कथैव न दिव्य दृष्टि 'का, तदानीमहं कुच्या बहिरपि नायामि । तथाऽपि किञ्चित्प्रष्ट चेत्तव समुत्कटो ऽभिलाषः, अद्य सायंसमये समेहि, यतो ऽचिरादेव स्थानमिदं मया. परित्यक्ष्यते' । निशम्यैवं मनस्येव प्रसीदन्नहं तत. प्रत्यागमम्, सविस्मयं च चेतसि चिन्तितवान्-किमिति महात्मना मम कृते स्वनिय- मेष्वीडक परिवर्तनमनुमतम्" इति । मया पृष्टम्-"किमद्य सायं त्वं तमेव महात्मानं द्रष्टुं गमिष्यसि" ? मेघश्याम ऊचे-"आम्, अहं तु गमिष्याम्येव, त्वयापि मया साकम- वश्यमागन्तव्यम् । त्वमीदग्विधेषु विषयेषु न विश्वसिषि । सर्वानेव मिथ्या- वादिना पाखण्डिनः कथयसि । सर्वत्रैव त्वं चिन्तयसि यंदसौ द्रव्यमर्ज- यितुं लोकवञ्चनां तनोतीति । इमां तव भ्रान्तिमपहर्तुमेव ममायमुद्यमः। महात्मनस्तस्य सिद्धिचमत्कारमनुभूय बाढमहं विश्वसिमि यत् स निश्च- येन त्रिकालदर्शी सिद्धो महात्माऽस्तीति । ईदृशा विरला एवं सत्पुरुषार कदाचिदेव नगरेष्वायान्ति । तं वीक्ष्य तवापि ज्ञातं भवेत् . यत् अद्यामि ध्रियन्ते सिद्धा वसुन्धरायाम् । इत्थमप्यत्यन्तमल्पाल्पा एव सन्ति तथा- विधाः । सौभाग्येनैव समुपनम्यते तथाविधानां पावनं दर्शनम् ।" अहमुच्चैः प्रहस्यावदम्-"मेघश्याम ! त्वं सर्वथा ऋजुप्रकृतिर्मूोऽसि, त्वमिव सरलप्रकृतिः सर्वत्रैव विश्वासी मया विरल एव दृष्टोऽस्मिन् वञ्चनामये संसारे । अन्ततो गत्वा मम सुहृन्मण्डले त्वमेवैकस्तथा- विधोऽसि, य ईदृशेषु विषयेषु त्वरितमेव विश्वासमावहेत् । कुत्र साधुः कुत्र महात्मा ? सर्वोऽयं केवलः पाखण्डः, लोकान् वञ्चयितुं प्रयुक्तेयं धूर्तानां युक्तिः । स्यादेतेन तस्य कोऽप्यर्थः । अत एव लोकानां चेतःसु स आत्मनो विषये विश्वासमाधातुं प्रयतते । यद्यहं तस्य पुरो गच्छेयम्, सद्यस्तस्य पाखण्डमुद्घाटयेयम् । यद्यनेन तस्य महात्मनश्चेतोऽन्यथा भावं न भजेत्, नाऽपि च त्वं चेत्प्तीपतां भावयेः। कथय, किमस्ति स्वीकृतम्?" मेघश्यामो गम्भीरभावेनाह-"श्राम, अस्ति स्वीकृतम्, त्वं यथेच्छं प्रश्नाननु योक्तुमर्हसि महात्मनः पुर , यथेच्छसि तथा तं परीक्षय, किन्तु सर्वमिदं सभ्यतामनतिक्रम्यैव कर्तव्यम् । संयतचेतसा सजनोचितमेव तस्य पुरो व्यवहर्तव्यम् । अन्ततोगत्वा बहिर्भवता महात्मनो विषये समादर एव दर्शयितव्यः । अहं बाढं विश्वसिमि, यत्स महात्मा भवतः प्रश्नानां यथार्थमेवोत्तरं दास्यति । परन्त्वत्र भवताऽप्येका प्रतिज्ञाकर्तुमुचिता" । मयोक्तम्-"कीदृशी प्रतिज्ञा ?" - - भी दिव्यदृष्टिः साहस्म-'इयमेव, यदि स महात्मा तव प्रश्नानां यथार्थमुत्तरं पास्यति, तर्हि त्वयाऽपि ततः परं तथाविधानां महात्मनां परिहासकरणं परित्यकव्यं भवेत् । 'सर्वस्याऽप्यतीन्द्रियस्य वस्तुन स्तत्साक्षात्कत णां च बब्चकत्वं च न ततः परं त्वया वक्तुमुचितम् । सर्वथा परिवर्जवितव्य एवायं भवेत् दुरभ्यासो नूनं त्वया। ईदृशेषु विषयेषु यन्मम परिहासा विक्षेपादि च त्वया क्रियते तदपि ततः परं परित्याज्यं भवेत् ।" मयोक्तम्- आम् स्वीकरोमि, प्रतिजाने च । किन्तु तथाविधमेवाह प्रश्नं करिष्यामि, यस्य 'यथार्थमुत्तरं तेन कृतकसि द्वेन दातुं नैव पार्येत । किश्च स यदुत्तरं दास्यति, तद्विलिख्य तवान्तिकमेव सुरक्षित स्थापयि- ज्यामि, येन समुचितसमये तस्यासत्यत्वं प्रमाणीक्रियेत । यदि तस्य महात्मनामधारिण उत्तरमसत्यमिति प्रमाणीकर्तुं शक्येत, तर्हि त्वया- ऽपि ततः परमीशानां वञ्चकानां सङ्गतिर्विश्वासश्च परित्याज्यः स्यात् । निश्चित त_दम् । कथय, अद्य सायं कदा तदन्तिकं गन्तव्यम् ?' मेघश्यामोऽवदत्-“सायं सप्त होरावसरेऽत्रैव समेहि । आवां सम्भू- यैव गमिष्यावः । तस्मिन्नवसरे गङ्गातटेऽपि कोऽपि नायाति । महात्मनः कुटीरेपि निर्जनवैव स्यात्तदानीम् । आवामेकान्ते तेन साकं यथेच्छं व्याहतुं शक्नुयाव ।" (२) अहं हि काश्यामेव वसामि । मम पितुरत्र महानापणोऽस्ति महार्घ- वस्त्राणाम् तत्सम्भूतेन प्रचुरेण लाभेनास्माकं गार्हस्थ्यं सुखेन चलति । न जाने केन हेतुना, तातेनाहमात्मनो वस्त्रव्यवसायं न शिक्षितोऽस्मि । तातसुहृद्भिः साग्रहमनुरोधे कृतेऽपि तातेन तेषां वचनेषु कर्णमदत्वैव सनिर्बन्धमहमांग्लविद्यामेव समध्यापितः । मया काशी विश्वविद्यालये समधीत्य एम् एस् सी. परीक्षा स-सम्मानं समुत्तीर्णा । पश्चात्तत्रत्ये 'इजिनियरिंग कालेज' नामके स्थापत्यविद्यालये पञ्चवर्षाणि समधीत्य सा विद्याऽपि मया सम्पादिता। ततः परं तातस्य प्रयत्नैः कतिपयमान्य- धनिकानुरोधैश्च कर्णपुरे प्रसिद्धवस्त्रयन्त्रालय पञ्चशतमासिकतने मम नियुक्तिः सजाता । आङ्ग लविद्याप्रभावात् काशी विश्वविद्यालयीय स्वतन्त्रतावायुमण्डलविहाराच्च घोरनास्तिकमतोऽहमभवम् । चार्वाका- स्याप्युपरि मम नास्तिक्यमासीत् । अविरत धर्मकर्मनिरतान् विधिनिषेध- प्रतिपालकान काशिकान् शानिणो दैन्यममान् दृष्ट्वा, धर्मकर्मसु श्रद्धारहि- मदिव्यदृष्टिः - .. तानां स्वैराचारिणां मादृशामहरहरभ्युम्नतिं च विभाव्य मम नास्तिक्य- विचारा बद्धमूला श्रभूवन् । वर्णाश्रमव्यवस्थां स्पृश्यास्पृश्यविवेकं, धर्ममीश्वरं वेदान, शास्त्राणि चाहं सर्वथा पाखण्डमेवाकलयन्नासम् । इन्द्रियतृप्तिरेव मम मते मुख्यो धर्मासीत् । मम मातुः प्रबलेयमिच्छा- सीत, यन्मम विवाहस्त्वरितं भवतु । मया तु यावच्छक्यमस्माद् बन्धनात् दूर एव स्थातुं प्रयतितम् । बहुषु स्थलेषु मम विवाहवार्ता प्रचलिता तथापि सा मम दुराग्रहात् दोषाविष्करणकौशलाच न लब्धास्पदाऽभूत्। सम्प्रत्य- हमेकमासिकमवकाशमवाप्य कर्णपुरात्काश्यां "यदा समागतस्तदा मम जनन्या स्पष्टमेवाहमभिहितः-"ललित! अस्मिन् वारे तव विवाहः कर्तव्य एव भवेत्, तव किमपि कैतवं विवाहकार्य रोद्ध न प्रभवेत् ।। कर्णपुरे त्वंस्थातुमिच्छसि चेत् परिणीता तव भार्याऽपि सहैव त्वया तत्र यास्यति"। मातुराग्रहवचनै र्मया समवगतम्, यदयं न केवलं मातुरेवाऽभिनिवेशः, तातस्याऽप्यत्राऽस्ति साहाय्यमाभ्यन्तरीणमिति । मम हि बहुवारकृतै- विवाहविघटनोद्योगैस्तातस्य चित्ते भूयानसन्तोषः कृतपदो मया लक्षितः, यद्यपि स तातेन बहिः स्पष्टं न प्रकाशितः । मयापि चित्ते चिन्तितम् इत. परं मम दुराग्रहो न शोभतेति । कथितच मातु पुरः -"अम्ब ! यधेतावती प्रबला तवेच्छा वधूमुखं द्रष्टुम् तर्हि ममाऽपि सा नूनं शिरोधार्यैव" । ततः परं मद्विवाहप्रबन्ध प्रकाशं त्वरितं च प्रारभ्यते स्म । शीघ्रतायाः कारणन्त्विदमासीत् यत् दैवज्ञैः कथितम्-यदि विवाहः कर्तव्यस्तर्हि अस्मिन्नेव मासे स भवितुमर्हति । तत परं वर्षमेकं यावद्विवाहमुहूर्तो नोपलभ्यते । आगामिनि वर्षेऽस्मिन्नेव मासे पुनर्विवाहमुहूर्तो भवेत् । मम मातुरियान विलम्बो दुःसह आसीत् । तातस्तु काश्यां प्रसिद्धो वस्त्र- व्यवसायी धनिकः, अहं च सुशिक्षितः पञ्चशतमासिकायो युवा सुन्दरश्चा- समिति मम विवाहप्रबन्धे न किमपि प्रतिबन्धकं विलम्बकारणं चासीत् । बहुषु स्थलेषु विचार्य परीक्ष्य च तिस्रः कन्यका मम कृते विचार्यताया- मुपस्थापिताः । तासां जन्मपत्राण्यपि समानायितानि । तिस्रोऽपि कुमार्यः साक्षराः सुशीलाः सुन्दर्यश्चासन्निति पुरोहितमुखादवगतम् । एतास्वेव कयाचिन्मम विवाहो निश्चितप्राय आसीत् । कया सह विवाहो निश्चेतिव्य इति तु जन्मपत्रविवेचकस्य हस्तगतमासीत् । विवाहसम्भारास्त्वरित संग्रहीतुमारब्धाः । अहं हि नवशिक्षितः स्वतन्त्रप्रकृतिश्चासमिति जनन्या तिसणामपि तासां कुमारीणां चित्रw की दिव्य दृष्टिः फलकानि समानाय्य मम पुरः स्थापितानि । अहं हि कृतकलजां परित्यज्य तास्वन्यतमा परिणेयां निर्धारयितुमिच्छन्नपि का निर्धारय यमिति नावगतवान् । यतस्तास्वेकाऽपि कुरूपा नासीत् । यद्येकस्या बिम्बफलो- पमोऽधरो मम मनो लोभयति. त_न्यस्यास्तिलपुष्पसन्निभा नासा चेतसि निखातेव लक्ष्यते। अपरस्याः खञ्जनमजुले भावपूर्णे नयने न मामन्यतो गन्तुं दन्तः । अस्मिन्नेवानिश्चयावर्ते पतितोहमचिन्तयम्--"किं क्रियताम्, तिस्रोऽपि स्वस्वविशेषगुणे मी लोभयन्ति । कस्मिन्निकषे एताः परीक्ष्य परिणेतव्यां निर्धारयेयम्" इति । इत्थं चिन्ताकुलस्यैव मे सुहृदा मेघश्यामेन तस्य त्रिकालदर्शिनो महात्मनो वृत्तान्तः कथितः । यः खलु महात्मा कार्तिके गङ्गास्नानपुण्य. मुपार्जयितुं काश्यां गङ्गातीरे निर्जने कुटी निर्माय स्थित आसीत् । मया मेवरयामेन सह महात्मनो निकटे गन्तुं तु प्रतिज्ञातम् , व्यचारयश्च कं वा तथाविध प्रलं महात्मनः पुर. समुपस्थापयेयम्, येन तस्य महात्मनाम- धारिणः कृत्स्ना वैदुषी त्रिकालदर्शिता चापाऽर्था भवेत् । पाखण्डिता च तस्य प्रकटीकत शक्येत । यदि मया स मृषावादी पाखण्डीति न प्रमाणी- कर्तुं शक्येत. तह्य हमात्मनो नामापि परिवर्तयेयम् । (३) सायं सप्तहोरावादनापूर्वमेवाहं मेघश्यामस्य गोष्ठीगृहे ,समुपस्थितो- ऽभवम् । सोऽपि सन्नद्ध एवासीत् । मां दृष्ट्वैवोवाच-"किं भोः समागत- स्त्वम् चिन्तितो वा तथाविध प्रश्ना, यस्त्वया महात्मनः पुरः प्रष्टव्यः।" मयोत्तरितम्-"आम् , निश्चितं मया किं प्रष्टव्यमिति । परंतु तदहं ते नाधुना वक्ष्यामि, महात्मनः पुर एव श्रोष्यसि"। आवां ततः परमनु गङ्गा- तटं प्रस्थितौ, यत्र सा महात्मनः कुटी आसीत् । निशामुखे प्रवहन् तुहि नजडः पवन श्रावयोहस्तपादं बधिरयतिस्म । भगवति भास्वति वर्तमान सति कुत्राऽपि निलीय निवसन् दोषाकरस्तमन्तर्हि विभाव्य सम्प्रति स्वानुयायिना ऋक्षगणेन सह गगनमण्डलमधिरुह्य विराजमानो दृश्यतेस्म। पतितपावनी जाह्नवी धीरगत्या प्रवहन्ती पश्यतां नेत्राणि मानसानि च शीतलयतिस्म। अहं मनस्येवाचिन्तयम्-पश्यत, अयं महात्माऽस्मिन् प्रचण्डशीते समये गङ्गातटे निवसति शीतवारणाय पर्याप्ता कम्बलादिसामग्री तस्यान्तिकेऽवश्यमेव न भवेत् । किमसौ दिव्यदृष्टिः । शीतेन न बाध्यते ? । इत्थं तर्हि किमर्थमनेनेदृशमुन्मुक्तं पचुरशीतं स्थानं स्वनिवासाय क्लप्तम् ? । कदाचिदयमस्याभिसन्धिः स्यात् यदी- दृशेनाचरणेन लोके स्वस्य शीतातपसहत्वं निर्द्वन्द्वत्वं च पृथितं भवेत् । कुटीरस्य समीपमुपगम्य आवां क्षणं तूष्णीं स्थितौ । उभयपार्वेऽपि कोपि नासीत् । सर्वथा शान्तिमयता लक्ष्यतेस्म । यत्र दिवसे महान् जनसम्मर्दो भवति तत्रैवेदानीं सर्वधा निर्जनतां दृष्ट्वा किश्चिदिव साश्च- योहमभवम् । किन्तु तत्क्षणमेव स्मृत मया यत्सार्य समय महात्मा न कैरपि मिलति, न च किंचिदपि भाषते, सर्वेपि महात्मनो नियममेनं जानन्ति अत एवात्रेदानी न कोपि लक्ष्यते । ईदृशेऽपि समये आवाभ्यां सह वक्तुमवकाशदानं दर्शनानुमोदनं च नूनमावयोरुपरि महात्मनो विशेषानुग्रह एवास्ति। पुराणं फलकद्वयमूर्ध्वमुखमवस्थाप्य कुटीनिर्मात्रा कुट्यां सामान्यमेकं प्रवेशद्वारं निर्मापितम । कदाचित् शीतवायुप्रवेशपतिबन्धाय, श्वमा- ॥रागमनवारणाय वा द्वारस्योपयोगश्चिन्तितो भवेत् । मेघश्यामेन तदेव द्वारं किञ्चिदवघट्य शनकैरुक्तम्:-"भगवन् ! आवामुपस्थिती स्वः ।" कदाचित् स महात्मा तदानीं निरुद्योगः अस्मात्पतीक्षापरो वाऽऽ- सीत् । त्वरितमेवोत्तरमागतम् । “आगच्छत वत्सौ ! अभ्यन्तरमुपा- गच्छतम्"। कपाटमुद्घाट्य आवामन्तः पविष्टौ । कपाटं च पुनः पूर्ववत् संवृतम् । मेघश्यामेन भक्तिपूर्वकं महात्मने पणामः कृतः । मया तु मेघश्याममन- स्तोपं रक्षता सदनुकरणं कृतम् । हस्तावुद्यम्य शुभाशीरभिधता महात्मना कुटीरैककोणस्थितान्यासनानि निर्दिष्टानि । आवां तत्रोपविष्टौ । मया सामान्य-शा सा कुटी सत्कृपर्यवेक्षिता । त्वरया निर्मितेव सा प्रतीयतेस्म, तथाऽपि नासुखावहाऽऽसीत् । पञ्चषा जनास्तत्र सुखेनोषितं शक्नुवन्ति स्म । तार्ण छादनम् प्राच्या दिश्येकं वातायनम, तस्यैव समीपें महात्मन श्रासनमास्तीर्णमासीत् । पुरस्तादग्निकुण्डम् दक्षिणपार्वे दारु- मयी त्रिपादी तदुपरि वेष्टनबद्धं किमपि पुरतकमासीत् । मया परीक्षकहशा महात्मन आकृतिरवलोकिता । षष्ठ्यधिकमेव बयः प्रतीतम् । केशाः सर्वेऽपि पलितशुक्ला आसन् । आनाभिलम्बमानं श्वेतकूर्च नितरां शोभते म । आकारो गम्भीर प्रशान्तश्च । सांसारिकदुःखसुखादिवास- नातीतत्वमाछतौ प्रतीयतेस्म । नेत्रयोः किमपि विद्युद्विलसितनिभं तेजो ८ नदिव्यदृष्टिः । लक्ष्यते म । येनाहं क्षणं चित्रितोऽभवम्-व्यचिन्तयश्च-इमे नेत्रे यदु- परि पतेताम् तदभ्यन्तरस्य गुप्तातिगुप्ततममपि रहस्यमवश्यमवगच्छे- तामिति । ममतु विशेषतश्चिन्तितुमवसर एव नासीत् । उपविष्टं मामवलोक्य स महात्मा मेघश्यामं सद्योऽब्रूत-"वत्स ! त्वया सह समेतः कोऽयं सजन ? किमर्थ वाऽत्रागतः ?" मेघश्यामेनोत्तरितम्-'भगवन् ! अयं मम सखा ललितकुमारो नाम । वदतो मम मुखाद्भगवतो नामधामनी श्रुत्वा दर्शनार्थमयमायातः"। मयाऽपि प्रणग्याभिहितम्-"श्रुत मया यदचिरादेव भगवता इतः प्रस्थास्यत इति, अतः स्वनयने सफलीकर्तुमहमप्युपस्थितोऽस्मि ।" मया एते शब्दा महात्मनो विषये समादरं प्रदर्शयितुम् . तस्य चेतसि मद्विषये कापि विपरीतभावना च नोपतिष्ठतामित्यर्थ च सविनयमुच्चा- रिता आसन् । परन्तु मया दृष्टम् , ममैतैश्चाटुवचनैर्महात्मा न प्रसीदति स्म । स यथा पूर्वमेव गभीरः पशान्ताकृतिश्चालक्ष्यत । सोऽब्रूत-"भवा- दृशां विदुषामनुग्रहोऽयम यद्भवद्भिर्ममकुटी पवित्रीक्रियते । कथयत, भवतां कीदृशी सेवा मयो कर्तुं शक्यते ?" कदाचिदस्मदागमनेन महात्मनः प्रसन्नता नासीत् । सम्भवतः स शीघ्रतगैव किञ्चिद्वार्तालापं विधाय आवां प्रस्थापयितुमैच्छत् । व्यर्थ मधिक वागाडम्बरस्तस्याप्रिय आसीत् । प्रायः संसारविरक्तानां साधूना- मीदृशः स्वभावो भवति । मयाऽपि विचारितम्-यद्येवम् . तर्हि व्यर्थ चाटुवचनैः को लाभः ? स्वप्रयोजनं साधयितव्यम् । इदमेवात्र परीक्ष- णीयम् , यदसौ वास्तविको महात्मा, काषायवनान्तरितः कोऽपि पाख- एडी वा ? वस्तुस्वरूपं परीक्ष्येतः प्रस्थातव्यम् , आवाभ्यामपि किमर्थ मधिकं कालक्षेप. क्रियताम् ? भूनिहितशिरसा साजलिना मयोक्तम्- "भगवन्! मदागमन कारण- मत्यन्तं क्षुद्रं स्वार्थमय चास्ति । श्रुतमस्ति मया, यद्भगवता इहागमना- त्यूभृति बहूनां भाग्यवतामिच्छा पूरिताः, कठिनाः शङ्काश्च समाहिता । ममापि चेतसि लोभः प्रादुरभूत् यदहमपिं भगवत समीपमुपस्था य निज भविष्यदर्थेषु कतिपयानर्थानवगन्तुं द्वित्रान् पश्नान् पृच्छेयम् , लभेय च तेषामुत्तराणि, यद्यनुमन्य त सानुकम्पं भगवता ।"

भी दिव्यदृष्टिः महात्मनो वदने न प्रसत्तिन विरक्तिध ददशे । स निर्विकारेणाकारे- गाह-"वत्स ! यदुक्त भवता, 'मया बहूनामिच्छा पूरिता' इति, तत्स- था मिथ्णैव । नाहमात्मनि किमपि तथाविधमलौकिकं सामथ्य" कलयामि, येन लोकानां कष्ट दूरीकरणे वाञ्छापूरणे च प्रभवेयम् , अहं तु लोकानापनस्तान दृष्ट्वा बाढमन्तरुत्पीडितो भवामि केवलं जगमिय- न्तारं परमात्मान प्रार्थय यत् 'दयासागर ! भगवन् ! हरे ! दुःखितानां दुःखानि त्वरितं हरेति' । मम हि सा प्रार्थना स्वीकृता भवतु न वा, दु लि- तानां दु खान्यपयान्तु न वा, सर्वमेतदहं न चिन्तयामि । एवं चिन्तनं किलाऽनधिकारचेष्टेति मे मतम् । यच्च भविष्यदर्थप्रकाशनचेष्टामुद्दिश्य भवतोकम् तत्रापि केवलं तथाविधार्थावगमाय प्रयतनमेव ममाय- त्तम् । इयानेवात्र विशेषः, भवाशां सांसारिकाणां स्थितेरपेक्षया मम स्थितावस्ति किंचिद्वैशिष्ट्यम् ।” महात्मा वदन्नेव मध्ये किश्चिद्विरमतिस्म, आवां तत्कथनं सावधान- माकर्णयावो न वेति ज्ञातुमेव तेन तथा कृतं स्यात् । मयाऽपाङ्गप्रेक्षित- मेघश्यामो दृष्टः, स एकाग्रचित्तो महात्मनो वचनं शृण्वन्नासीत् । अह- मपि महात्मनो वचनश्रवणे एकाग्रताऽभिनयमकरवम् । पुनरवत महात्मा-"पश्यत, व्यापकोऽयं विषय तथाऽप्यहं परिमिते- रेव शब्द स्वाभिपाय कथयामि, अधिकं पञ्चयितुं न ममावकाशोऽस्ति, नापि स भवतोरपि । संसारोऽय दुःखसागर इति कथ्यते-तेषां कृते ये तत्र समासक्ता वर्तन्ते । विविधानां वाञ्छानां भावनानां मोहजनितस्वार्थानां लालसानांच युद्धस्थलमेव किल संसारः ।सर्वेऽपि मिथः पतीपाः स्वाकाक्षाः पूरयितुं प्रयतन्ते । सर्वोऽपि वाञ्छति यदमुकं वस्तु मया लभ्यताम, ममाय स्वार्थः पूर्णां भवतु, तत्रान्यस्य कियदनिष्टं भवतीति न कोपि चिन्तयति । अत एव परस्परमिच्छानां वासनानां च भूयान् संघर्षो भवति, यः खलु दुखस्य निदानम् । कामक्रोधलोभमोहात्मिका यवनिका सर्वस्यव हफ- शक्ति तिरोधत्ते । अत एव प्रायः सोऽपि जाननपि, शान्तेन चेतसा स्वार्थहीनेन हृदयेन च, कमपि विषय विवेचयितुं न शक्नोति । अनेनैव हेतुना भविष्यतोऽर्थस्य वास्तवं रूपमवगन्तुं न शक्नोति सांसारिकोजनः। यश्च कश्चित् किंचिदवगच्छति सोऽपि मृषाभूतमेव सस्यमिति विपर्य: स्यति । यदि सांसारिकेष्वेव कोऽपि निरपेक्षहशा विवेकयुक्तेन हृदयेन, गम्भीरेण चेतसा वासनाश्चेतसो दूरमपसाय, निःस्वार्थेन मनसा भवि- - " .

दिव्यदृष्टि ध्यदर्थमन्वेष्टुं पयत्तेत, तर्हि तस्य भविष्यदर्थावगमे न किश्चिदपि पूतिक- न्धकं पश्यामि, अवश्य तथाविधेन भविष्यदर्थशानं सुलभम्। सांसारिक 'जनापेक्षया सर्वथा विपरीतवास्माकं संसारत्यागिनां साधूनां स्थितिः । 'अस्माकं तु कस्यापि शुभेनाशुभेन वा न कोऽप्यर्थ. कस्यापि प्रसाद विषादाभ्यां नास्माकं सुखं दुःखं वा सम्भवति । संसारे च नास्माकं काऽपीच्छा, न च कुत्राऽपिलालसा, क्वापि च वयं नासक्ताः स्मः अस्माकं विवेके न किमपि मालिन्य भवति, अतो वयं भविष्यतोऽर्थस्य वास्तविक रूपं द्रष्टुं पूभवामः। यदि भवादृशेष्वस्मादृशेषु चास्ति कोऽपि विभेद , तर्हि अयमेव स । भवतु कथयतु भवान् केनार्थेन समुद्विग्नं भवतश्चेतः, कंवा भविष्यदर्थ ज्ञातुमिच्छति भवान् । यद्यहं भवेयं वक्तुम, तहिं ध्रुवं वक्ष्यामि।" एवमुक्त्वा महात्मा तूष्णीं बभूव । मेघश्यामो मां साकूतमपश्यत । अहं व्यचिन्तयम-मम प्रश्न केन रूपेण महात्मनः पुर उपस्थापयेयम् । यथा मम प्रश्नस्योत्तरण महात्मनो दुष्करं भवेत् यथा च महात्मनो वास्तविकी वैदुषी च प्रकटिता भवेत् । एतावता संलापेनेदं तु निश्चितमा- सीत्-यत्स महात्मा विचारशीलो विद्वानप्यस्तीति । तेनैतावदुक्तमशेष यथार्थ चित्तपत्यययोग्य चासीत् । शनैः शनैर्ममापि चेतसि महात्मनो विषये श्रद्धावृत्तिरुदेतुमारभत । महात्मानं पाखण्डिनं प्रमाणयितु परीक्षितु, तस्य मिथ्यावादित्वं समर्थयितुं, 'सम्पति वास्तविका. महात्मानो दुर्लभाः सन्तीति' तन्वं मेघश्यामस्य चेतसि प्रवेशयितुं च ममात्रागमनमभूत् । महात्मनो वचनश्रवणमात्रेणैव तत्र श्रद्धाभावोहनं. तावतैव तम्य महात्मतायाः समर्थनं च ममेच्छायाः स्वार्थस्य च पूतीप- मासीत् । मां विचारयन्त दृष्ट्वा महात्माऽब्रूत-"पश्य वत्स! ममात्रागतस्यैको- मासो व्यतीतः । अत्रान्तरे सहस्रशो जना मम समीपमुपागताः तेषु प्रायः पत्यकं विभिन्नार्था आसन् । कश्चित् सरलचेतसा सदुपदेशं श्रोतुम् , दुखितः कोऽपि व्यथितं स्वहृदयमाश्वासयितुं, कोऽपि केवलं मां परीक्षित मेव समागत आसीत् । तेषु कास्याप्युपरि कोपं कर्तु, सन्तोषं च प्रदर्शयितुं म किमपि निदानमस्ति मदन्तिके । अहं हि लोकस्य भावना यावज्जीवना- भ्यस्तान् दुरभिनिवेशांश्च क्षणिकेन सहवासेन परिवर्तयितुं सर्वथाऽस. मर्थ एवाऽस्मि । यः खलु येन रूपेण समागतः मया स तेनैव रूपेण - दिव्यदृष्टिः ११ तयैव परिगृहीतः । विचारेण यच्चेतसि समायातं तत्तस्मै कथितम् । केनाप्यहं वास्तविको ज्ञातेति गृहीतोऽस्मि । केनापि च धूर्तः पाखण्डीति, मम दृष्टौ तु तावुभावपि समानावेव । यदि भवानपि मां परीक्षितुमेव समायात स्तर्हि तत्स्पष्टमभिधीयताम , न ममात्रेषदपि क्रोधो वैरूप्यं वा भवेत् । पत्युत भवतः सत्यानुरक्तिं दृष्ट्वा बाढमहं पसीदेयम् । तथागतेपि व्यतिकरे यथासम्भवमहं भवतः शङ्काः समाधातु पयतिष्ये ।" महात्मनो वचनानि यथार्थानि हृदय पविशन्ति चासन् । आश्वा- सित चासीन्महात्मना-यत्कस्याम प्यवस्थायां तेनास्मच्छङ्काः समाधा- स्यन्त इति । इत्थमवस्थायाम् , एवं स्फुटमभिहिते सत्यपि, मनोगतगोपन- मसत्यभाषणं वा न मे रोचतेस्म । मया विनीतभावेनोक्तम्- "अहमेकमर्थ ज्ञातुमिच्छामि, यन मम भविष्यजीवनस्य पगाढः "सम्बन्धोऽस्ति । यदि भगवता स्वकीयस्थिरविचारशक्तिद्वारा तद्विषय यथार्थमुत्तरं दीयत, तो हमुपकतो भवेयम् । इदमपि च नाहं गोपयामि, यद्भगवता मम प्रश्नानां यथार्थमुत्तरं दातुं शक्यते न वेत्यपि परीक्षितु- महमिच्छामि । पर्यवसाने भगवतः कथनानुसारमेव यदि फलं घटेत, तर्हि मम महात्मनां त्रिकालदर्शित्वे विश्वासो भवेत् । यन्मम मनोगत- मासीत् तन्मया स्पष्टं कथितम्। एवं कुर्वता मया यदि धाष्ट्य मनुष्ठि- तम्, तर्हि तत्सम्यतां भगवता।" महात्मा मन्दं मन्दं जहास । मदागमनात्पभृति पथम एवायमवसरो मम महात्मनो निर्विकारे वदने मन्दस्मितरेखादर्शनस्य । स आह- "वत्स ! निश्छलं सर्व मनोगतं स्पष्टमभिदधानं त्वां दृष्ट्वा पसीदामि । मम वेतेन महान् परितोषोऽस्ति, यत्त्वया स्वमनोगतो वास्तविको भावो न निह तः । किन्तु त्वयेदमवश्यमवगन्तव्यम्, यन्मयाऽऽत्मन एकान्तजीवने मनननिदिध्यासनादिभिर्यद्यपि हिरण्यगर्भसर्गस्य बहूनि दुज्ञेयानि रहस्या- ण्यवगतानि सन्ति, तथाऽपि सवोपरिष्टद्वर्तमानस्य लीलामयस्य परमा- स्मनोऽद्धतानां लीलानां शततममप्य शमवगन्तुमहं न पारयामि । इच्छा. शक्तिमहिम्ना सिद्धा महात्मानो यत्कर्तु भवन्ति, तदहमंशतो जानामि, स्वयमपि च समुचितेऽवसरे विराडिच्छाशक्त्या सह सङ्कुचितां निजेच्छा. शक्ति संयोजयितुं चेष्टे च । तथाऽप्येतावौव सामर्थ्यकणलाभेन नाहमा- मानं सिद्धमन्य, न चकथमपि गर्व करोमि । भवतः पुरः परीक्षापदा- नेऽपि न ममाधिकारोऽस्ति। भगवता शतवर्षमितमेव परमायुर्मानवेभ्यः दिव्यदृष्टिः कल्पितम, तावत्यल्पीयसि समय यदि मानवोऽहर्निशं प्रकृतिरहस्यान्वेषणे प्रयतेत, तर्हि तस्य रहस्यस्याल्पतमांशमप्यवगन्तुं न शक्नुयात् । इत्थमपि. त्वयाऽनुयुज्यताम्, तव द्वयोः प्रभयोरुत्तरमहं पदास्ये। यदि ममोद्योगेन तव किश्चिदपि भविष्यदर्थरहस्य विदित भवेत्तर्हि बाढमहं पसीदेयम् ।" मया महात्मानं प्रणम्य, आवरणादुन्मोच्य त्रीणि चित्राणि महात्मनः पुरो निहितानि । उक्तं च-"भगवन् ! दृश्यताम्, भगवान् किल मम पितृकल्पा, अतो भगवतः पुरो न मम लज्जाकरणमुचितम् नापि च किंचिन्निहोतुमुचितम् । अचिरादेव ममोद्बाहो भविता । प्रायः पक्षाभ्य- न्तर एव मुहूर्तनिश्चयो भवेत् । तिस्रः कन्यका मम तातेन मदर्थे विचार- योग्या इति निर्धारिताः । दैवज्ञैरद्याऽपि तासु कतमा निर्धारणीयेति नोपदिष्टम् । श्वः प्रातर्दैवज्ञाः स्वनिश्चयं वक्ष्यन्ति । भगवता चित्रत्रयमिदं वीक्ष्य सविचारमभिधीयताम् आसु कतमा मे भाविनी भार्या । कस्या जीवनसूत्रं मम जीवनसूत्रेण साकं संलग्नमस्ति । विधात्रा मम भार्या भवितुं का ललना सृष्टा वर्तते" ? । कुट्या एकस्मिन् कोणे एको दीपकः प्रज्वलन्नासीत् । यस्य साधारणं ज्योतिः कुटीगत तमो दूरयितुं चेष्टते स्म । मया शनकैः स दीप श्रानीय महात्मनः पुरो न्यधायि । तेन तानि चित्राणि सावधानं निरीक्षितानि । मया चिन्तित, कदाचिदसौ महात्मा वय माङ्गलशिक्षादीक्षिता नवयुवका इव सौवर्णशलाकाङ्कितमुपनेत्रमपेक्षतेति । परन्तु ममेयं चिन्ता निर्मू- लाऽऽसीत् । तस्मिन् साधारणेऽपि प्रकाशे महात्मनो नयनज्योतिस्तानि चित्राणि तदधः सूक्ष्मतमातरलिखितानि कन्यकानामान्यपि स्पष्टमवगन्तु- मपारयत् । महात्मना क्षणं चित्राणि निरीक्ष्य तानि मम हस्ते ददताऽभि- हितम् "वत्स ! दृष्टानि मया चित्राणि, अवगत चावगन्तव्यम, दीपं यथास्थानं निधेहि" इति । अहं च समुच्छलता चेतसा दीपं यथास्थानं निधाय पुनमहात्मन समीपमागत्योपाविशम् । महात्मा जगाद "वत्स ! अवधेहि त्वया कथि- तम्, एतानि तासां तिसणां कन्यानां चित्राणि यासु कयाचित्तव विवाहो भवितेति । किमेतदेव त्वया कथितमन्यद्वा किमपि ?" | मयोक्तम्-"इदमेवोक्त मया भगवन् !” । मेपश्यामेन मम ईदृशप्रश्नकरणस्य गूढोऽभिसन्धिरवगतो वा नवेत्यहं म जाने । बुद्धिपूर्वकमेव मयेदृशः प्रश्न उपन्यस्त आसीत । एतासु तिसृषु दिव्यदृष्टिः कन्यासु कया साकं परिणयः शुभो भवेदिति प्रभश्चेदभविष्यत्, तदा तु महात्मनस्तदुत्तरदानमतिसरलमभविष्यत् "अमुकया साकं तव विवाहः शुभ" इति । परन्तु 'कतमया सह मम विवाहो भविष्यती" ति मया पृष्टमासीत् । बाढं जटिलोऽयं प्रभः । एतदुत्तरश्रवणोत्तरं महात्मनो मृषावादित्वमक्लेशेन समर्थयितुं सुशकम् । महात्मा स्वबुद्धिनिकषे परीक्ष्य यया साकं मम विवाहनिश्चयं वक्ष्यति, तया सह विवाहमकृत्वैव महात्मनः सिद्धिपाखण्ड प्रकटयितुं शक्यः । इत्थं च मेघश्यामोऽपि महात्मनः सिद्धिमत्त्वे विश्वासं त्यक्ष्यति । अयमेव ममात्रागमनस्य हेतुः । ऋजुस्वभावो मेघश्याम ईदृशेषु पाखण्डिषु विश्वसिति, स त य विश्वासो मयाऽवश्यं दूरीकरिष्यते ! मम प्रश्नस्तु सत्यमेव महात्मानं सम्भ्रमे पातयामास । स नेत्रे निमील्य मुहूर्त तूष्णीमास । अथोन्मील्य चक्षुषी तेन शनैः शनैरभिहि- तम्-"वत्स ! त्वया प्रदर्शितचित्रासु तिसृष्वप्येतासु कन्यासु नैकाऽपि ते भार्या भविष्यतीति विधिलिखितं पश्यामि ।" उत्तरं श्रुत्वा चकितोऽहमभवम् । नेगुत्तरं मया प्रतीक्षितमासीत् । निमिषादेवात्मानं प्रकृतिस्थं विधाय सस्मितमहमवोचम्-"महात्मन् ! भवदुक्तरभिप्रायो मया नावगतः, किं न स्मर्यते भगवता, यन्मया कथित- मासीत् । एतास्वन्यतमया पक्षाभ्यन्तरे मम परिणयोऽवश्यं भावी, सर्वोऽपि विवाहसम्भारः सन्नद्धप्रायोऽस्तीति" । महात्मा ऽब्रूत- 'वत्स ! स्पष्टार्थमेव मयोक्तम्, पुनरधिकं विशदयामि शणु । इतः प्रभृत्येकवर्षाः भ्यन्तरे तव विवाहयोगो न दृश्यते । न च दर्शितचित्रासु कन्यासु काऽपि ते भार्या भविष्यति । इदं हि निश्चितं विधेर्विधानम् । एतत्प्रतीपगामी प्रबलोऽपि चेत्प्रयत्नस्त्वया क्रियेत, न सफलो भविष्यति स"। यदि काऽपि विशाला शिला सहसा मम शिरस्यपतिष्यत् ततोऽप्य- धिकमाश्चर्य ममाभूत् निशम्य महात्मनस्तथाविधमुत्तरम् । मया साश्चर्य- मभिहितम्-'भगवन् ! किं मम परिणयः पक्षाभ्यन्तरे न भविष्यति.? किं भगवता सम्यग्विचार्गदमभिधीयते ? विवाहोपस्करसम्पादनादौ यदहवो मम कुटुम्बिनः सम्प्रति व्याप्रियन्ते, यच्चान तैः परिश्रम्यते, किं तत्सर्वमेकपदे विफलं भवेत् ?"। महात्मा दृढगम्भीरस्वरेण जगाद-"आम्, सर्वमेकपदे व्यय स्थात्। मया सम्यग्विचार्य कथ्यत इदम् । नाधुना ते विवाहयोगः सम्प्राप्तः" ।

मदिव्यदृष्टि मेघश्यामस्य पुरो मया प्रतिज्ञातमासीत् यन्महात्मनः पुरर सभ्यता. मनतिक्रम्यैव वर्तेय इति । अत एव मया कथंचिदात्मानमवरुद्धय मुखान- मागतोऽप्यट्टहासप्रवाहो बलानिवर्तितः। मया मनसि चिन्तितम्-नूनं विक्षिप्त एवायं महात्मा । किमिदं सम्भवति, यदागामिनि पक्षे मम विवाहो न भवेत् । कुतो न भवेत् ? सर्वः प्रबन्धः सनद्धः । कन्यका अपि निश्चिताः। मुहूर्तोऽपि निश्चितप्रायः । किं तर्हि प्रतिबन्धकं विवाहे ? महा मनेदृशी शिरःपादरहिता भविष्यदर्था वाक्कथमभिहिता ? निश्चित- रूपेणासत्या वागियम् । मयाऽपि सयनमेषाऽस या विधास्यते । कृतक- गम्भीराकृति भूत्वा ऽहमवोचम्-"भगवन् ! कृपया भगवता यथेदम- भिहितम्, तथाऽन्यदपि किंचिदुच्यताम् । मम विवाहः कदा भविष्यति ? कुत्रत्या कीदृशी का च भवेन्मम भार्या ? भगवतो वचनं श्रुत्वा सत्यम- हमाश्चर्यसागरे मजामि । वाञ्छामि च भगवदनुग्रहेण मम विवाहविषये सर्वमपि भविष्यदर्थमवगन्तुम् !" महात्मना मम प्रश्नस्योत्तरं त्वरितं न प्रदत्तम् । प्रश्नं निशम्य स किश्चि सम्भ्रमे पतित इव लक्ष्यतेस्म । नेत्रे निमील्य क्षणं विचारयानासीत् । अहमेकाप्रहशा तन्मुखं निरवर्णयम् । मेघश्याममनु दृशौ प्रेर्य मया निभालितम् यत्सोऽपि महात्मनो वदने दत्तैकाप्रदृष्टिरासीत् । महात्मा मामपृच्छत्-"वत्स ! तव भाविन्या भार्याया रूपमाकृति चाहं वर्णयेयम्, तस्या नाम निवासस्थानं चाहं कथयेयमिति त्वमभिप्रेषि किम् ?" मयोक्तम्-"आम् भगवन् ! भवादृशां दिव्यदृशां सिद्धपुरुषाणां सर्वमेवाऽपरोक्षं किल । अस्माकं तु भविष्यदर्थ. सर्वोऽपि तिमिराच्छन्नः प्रतीयते । भगवान् दिव्यदृशा सर्व ज्ञातुं समथ इति पृच्छामि । यदुक्तं भगवता, तथैव ममाभिप्रायोऽस्ति ।" ततः परं स महात्मा न किश्चिदब्रत । स्थिरासनो नासाग्रदृष्टिः सन विचारयामास । तदानीं महात्मनः शरीरमेव तत्रासीत्, मनस्तु कुत्राप्यन्यत्र विचरितुं गतमिव प्रतीयतेस्म । आवयोरेव श्वासप्रश्वासशब्दः प्रचलना- सीत् । कुटीरस्य बहिः भगवती जहतनया निःशब्दं प्रवहतिस्म । सर्वतः शान्तमासीद्वातावरणम् । महात्मानमित्थं भूतं दृष्ट्वा मम मनसि विविधा विकल्पाः प्रादुरभूवन्-"किमसौ महात्मा मम प्रश्नस्य किमुत्तरं देयमिति चिन्तयति । यद्यसौ मम प्रभस्य सम्यगुचरं दास्यति तर्हि विश्वसनीया मदिव्यदृष्टिः भवेदस्य सिद्धता । परन्तु एतत्प्रश्नोत्तरसत्यता कयं परीक्ष्येत ? उत्तरप्रय- मांशपरीक्षा तु आगामिनि पक्ष एव भविष्यति । द्वितीयांशपरीक्षा त्वेक- वर्षानन्तरम् । यद्यनेन मम भाविन्याः पल्याः नामधामस्वरूपादिकं प्रक्ष्यते, तर्हि तदप्येकवर्षानन्तरं सुपरीक्षितं भवेत् । यधेकवर्षानन्तरं महात्मन उक्तिर्वितथा प्रमाणिता भवेत्, तदाऽहं किं कुर्याम् ? तदानीं कुत्र भविष्यत्यसौ महात्मा । संसारविरक्तो महात्मा मम भाविन्या पल्या रूपमाकृतिं च कथं वर्णयितुं प्रभवेदित्यपि महत्कौतुकास्पदम् । अद्याप्यसो तूष्णीमेवास्ति । मन्ये उत्तरं कथं देयमित्येव चिन्तयति ।" सहसा महात्मनः शरीरं किञ्चिचलितमभूत् । दीर्घः श्वासो विसृष्ट- स्तेन । मत्प्रभस्योत्तरमवधारितमिति प्रतीयते स्म । मामनु नयने प्रेयं स माह-"वत्स ! किं त्वमात्मनः प्रश्नस्य कृत्स्नमुत्तरमधिजिगमिषसि ?" मयोक्तम्-"यदि भगवानपरिचितेऽपि मयि दयां विधाय प्रश्नोत्तर- प्रदानायासं न गणयिष्यति-" सोऽब्रूत-"यद्येवम् , तर्हि पश्य तस्मिन् कोणे भूयानस्ति मृत्तिका- राशिः, तत एकं महान्तं खण्डमादाय मत्समीपमानय"। अहं मनस्येव व्यतर्कयम्-किं करिष्यति महात्मा मृत्तिकाखण्डेन । अहं मृत्खण्डमुपानयम् । स जगाद-"इमां त्रिपादीमात्मनः पुरः स्थाप- यित्वा तदुपरि मृत्खण्डं निधेहि" । मया तथाऽनुष्ठाय स्वस्थाने समुपावेशि । अथ महात्मा वदति स्म-"अवधेहि वत्स ! कुत्रस्या कीदृशी का च कदा ते भार्या भविष्यतीति तव प्रश्नोऽस्ति । यदि त्वं स्थिरया धिया शान्तेन चेतसा च चिन्तयितुं शक्नोषि, तर्हि सम्भवतः स्वप्रश्नस्य स्वयमे- वोत्तरं दातुं प्रभविष्यसि । यतः प्रत्येकं मनुष्यः स्वेच्छाशक्तिमहिम्ना ऽद्भुताद्भुतान्यपि कर्माणि कर्तुं शक्नोति । आत्मशक्तेः परं किश्चिदपि नास्ति । त्वमा मनश्चित्तमेकामं कृत्वा सावधानममुं मृत्खण्डम्पश्य, सम्भ- वत आत्मनो भाविन्याः पत्न्याश्चित्रमत्र द्रक्ष्यसि ।" "किमसौ महात्मा विक्षिप्तोऽस्ति ! सूत्खण्डे कस्याऽपि चित्रं कथमहं द्रष्टुं शकुयाम्" इत्यहं साश्चर्यमविश्वासपूर्णया दृशा- महात्मानमनु निरवर्णयम्।।

१६ दिव्यद्दष्टिः सोऽब त-"किं मृत्खण्डे कस्यापि चित्रस्य दर्शनमसम्भवि मन्यसे। वं मचनेन 'नायं मृत्खण्डः, किन्तु पारदर्शि काचमिद" मिति किचि. कालं मन्यस्व ।" अहमगादिषम्-'किं भगवता परिहासः क्रियते ? मृखण्डं काच- स्वेन कथमहं भावयेयम् , तदन्तरे चित्रं च कथं पश्येयम्, किमीटक कदापि सम्भवति ?" स उवाच-"किमिति न, संसारे ऽस्मिन्नसम्भाव्यं नाम किमपि नास्ति, मानवः स्वां प्रबलामिच्छाशक्तिं यदि व्यापारयितु नेहते तय न्य- देतत् । वं मद्वचनेन तथा कतु" चेष्टस्व, ततो द्रक्ष्यसि फलं भवति न वेति"। महात्मनः कथने गम्भीरता ऽऽसीत. अतस्तद्वचसां परिहासालाप- प्रायता न कल्पयितुं योग्या । इत्थमपि मम तद्वचने नाल्पीयानपि विश्वासो ऽभूत् । किं कुर्याम्, किं वा न कुर्याम् तद्वचांसि यथार्थानि परि- हास प्रायाणि वा ऽवगच्छेयम् । न किमपि निश्चेतुमहमपारयम् । पुनरभ्यधायि महात्मना-"वत्स ! त्वं स्थिरचेता भूत्वा सर्वा अपि मनोवृत्तीरस्मिन मृत्खण्ड एव सन्धेहि । अन्यत्सर्वमस्मिन् क्षणे विस्मर । इममशान्तिमय संसार, यत्र त्वं संसरसि, तवेमं सखाय', इमां कुटी, मां च तव पुरस्थितमथिमांसपिण्डं सर्वथा विस्मर । आन्तरेण कल्पनामयेन चक्षुषाऽपि मृत्खण्डमेव पश्य, भाविन्याः स्वभार्यायाचित्र- मत्राहं दिदृक्षामीति सर्वात्मना भावय । ततो द्रक्ष्यसि किं दृश्यत इति ।" मया चिन्तितम् -महात्मनः कथनानुसारं प्रयतने को दोषः, यदि मया स्थिरचेतसा ध्यानपूर्वकं दृष्टे ऽपि न किंचिदृश्य पुरः समुपतिष्ठेत तदा ध्रुवमवधारयेय धूर्तोऽयौं महात्मेति। मत्प्रश्नोत्तरं दातुमपारयन्नसौ मां वचनेषु व्यामोहयतीति । मुहू ते महात्मनो वचसि विश्वासमाधाय किमपि कौतुकं मया ऽवश्य द्रक्ष्यते इत्यप्यवधाय तं मृत्खण्डमनु दृष्टिं स्थिरां कृत्वा ऽहमुपाविशम् । कुटीराभ्यन्तरे सर्वथा शान्तिरासीत् । मेघश्यामो मम पावें स्थितः सन् कदाचित् आरूढमुत्खण्डां त्रिपादिकां, कदाचिन्मां च निर्वर्णयन्नासीत्। कुट्यामागमनात्परं तेनैकोऽपि शब्दो नोचरित आसीत् । महात्मना सह मम संवादे कौतूहलमनुभवता तेन मध्ये किमपि कथनमनुचितमिव विभावितभिवेत् । महात्माच स्थिरया दशा मामेव पश्यन्नासीत्, तदानीं तस्य नयनाभ्यां क्षणे क्षणे किमपि श्री दिव्यदृष्टिः मन विद्युद्विलसितनिभं तेजः प्रकटीभवलक्ष्यते स्म । अहं किल महात्मन आदेशानुसार तस्मिन् मृत्खण्डे चित्तं स्थिरीकर्तु सर्वभावेन चेष्टामकरवम् । अत्रान्तरे समयः कथमतीयायेति नाहं विस्पष्टमवागच्छम् । शनैः शनैः कुटीराभ्यन्तरे गाढं तमः प्रसृतमिव प्रतीतम्, दीपज्योतिरपि लुप्तमभूत् । अन्तर्बहिः सर्वत्र काऽपि विचित्रा पूर्वाननुभूता स्तिमितता लक्ष्यतेस्म । यथा यथा मम चित्तमेकाग्रं बभूव तथा तथा मम हृत्स्पन्दनमपि मन्द- मन्दं बभूवेव । अथ कयाऽपि प्रबलया शक्त्या मम चेतसि "सिद्धोऽय महात्मा स्वेच्छाशक्तिमहिम्ना मम पुरः किमप्यद्भतं दृश्यमवश्यमुपस्था- पयिष्यति" इति विश्वासो दृढमाहित इव । सहसा मया तस्मिन् मृत्खण्डे किमपि परिवर्तनमनुभूतम् । महात्मनः कथनानुसारमेव तस्य मृत्खण्डस्य पारदर्शककाचात्मना शनैः शनैः परिणतिरनुभूयते स्म । यावदहं मन्त्र- मुग्ध इव कौतुकमिदं पश्यन् “किमसौ मे हग भ्रमः" इति वितर्कयामि, तावदेव मया दष्टम्. स मृत्खण्डः काप्यन्तर्हित आसीत् तत्स्थाने तावदा- कार एका काचगोलः पुरः स्थितः । अन्तर्निर्मले तस्मिन् तदाधार- त्रिपादिकाकाष्ठमालिन्यमपि प्रतिफलितं व्यलोकि । किं मम नयने मां वञ्चयतः, विकृत वा मे शिरः, यदहं वस्तूनि विकृतानि पश्यामि । सक- न्नयने निमील्य पुनरुन्मील्य च दृष्टम्, तदेव दृश्यम् । चिन्तितं च-"किं स महात्मा मम सखा मेघश्यामश्चेमं मृत्खण्डमहमिव काचगोलं पश्यतो वा ?" परन्तु चेष्टमानेनापि मया तयोर्मुखावलोकनार्थ नयने प्रेरितुं न पारितम् । काचगोलान्नयने अपसारयितुं न मे शक्तिरासीत् । कापि प्रबला शक्तिर्मम नयने काचगोलादपसारयितुं न ददातिस्म । तस्मा- काचगोलाकिमपि पीतामं मन्दमन्दं ज्योतिरपि निःसरत्प्रतीतम् । येन स काचगोलस्तदन्तर्गतं च दृश्यमेव केवलं प्रकाशितं भवेत् तथाविधं मन्दं ज्योतिस्तदासीत् । सहसा मया चिन्तितम्-"नूनमिदमिन्द्रजालम् , ऐन्द्रजालिकोऽयं महात्मा मां वञ्चयितुं चेष्टते। उच्चैरुद्घोष्य बाढमस्य पाखण्डमहं प्रकटयेयम् ।" इत्थं विचिन्त्य उच्चैरुद्घोषयितुं चेष्टमानस्य मे कण्ठनलिका केनाऽप्यवरुद्धव जाता। नैकोऽपि शब्दः कण्ठावहिरुद्गच्छ- तिस्म । बलादिव केनापि प्रेरिता मम दृकशक्तिश्चिन्ताशक्तिश्च पुनरपि तस्मिन् काचगोले एव दृढमेकापतामगाहत । निमेषानन्तरमपश्यम्- तत्र कोचगोलाभ्यन्तरे धूम इव समुद्गच्छतिस्म । स एव धूमस्तदन- न्तरं विशालकुट्टिमात्मतां गृहस्वरूपं च दधार । यथा कश्चिञ्चलचित्रपटेषु विविधानि दृश्यानि स्पष्टं पश्यति, तथैवाहं तन कस्यापि धूमशकढीविश्रा- . म दिव्यदृष्टिः मस्थलस्य ( रेलवे स्टेशन ) स्पष्टं चित्रमवालोकयम् । विशाला धूमशकटी पुरस्थिताऽस्ति । यात्रिण आरोहन्ति, अवरोहन्ति च । भारवाहका इत- स्ततो धावन्ति । एकतः पंक्तिशः प्रकोष्ठा दृश्यन्ते । किञ्चिदन्तरं गत्वा पंक्यन्तरगामी सेतुरस्ति । किमभिधानमिदं धूमशकटीविश्रामस्थलम् ? अपरिचितमिव प्रतीयते । नूनं न दृष्टपूर्व मयेदम, अतो न स्मर्यते। चल- चित्रपट इवात्रापि सर्व स्पष्टं लक्ष्यते । अहं चकित इव भीत इव विक्षिप्त इव च निरुद्धनिश्वासं यावदिदं दृश्यं पश्यामि तावदेवैकस्यास्तरुण्याश्चलचित्रं पुरः समुपस्थितम्। यथा यथा सा तरुणी पुरः समुपसर्पति, तथा तथा तच्चित्रं स्पष्टतरं भवति । षोडशहायनावस्थायास्तस्यास्तरुण्याः शरीरे पीतवर्णा महार्घा शाटी, तदु- परि सूक्ष्मतरं श्वेतवर्णमुपरिधानीय च विराजते । हंसगतेस्तस्या गमन सौष्ठवं सौकुमार्यातिशय पुष्णाति । तस्या वदने विलसन्ती मुग्धता, विशाले मदिरे च तदीक्षले, रसाप्लुतः संवर्तिकारुणो बिम्बाधरः, शुकच- चुनिभा नासा, तप्तकार्तस्वरविजित्वरी देहातिश्च मां सविशेषमाचकर्ष । ईशी सुन्दरी न मया दृष्टपूर्वा ऽऽसीत् । दर्शनं तु दूरे ईदृशरूपवर्णन- मपि न मया कुत्रापि पठितमाकर्णितं च । भूतलवृत्तमर्वगन्तुमागता काऽपि सुरसुन्दरीव सा प्रतीयतेस्म । अहं तु तदानीं सर्वमप्यन्यत्-तां कुटी, तं महात्मानं, तत्प्रसादान्मया मृत्तिकाखण्डे दृश्यमानं चित्रं धूम- शकटीविश्रामधामादि सर्वमेकपदे विस्मृत्य तामेव सुन्दरी पश्यन्नासम् । किमीशं सौन्दर्य मयं लोके सम्भवति ? अथवा महात्मन इच्छाशक्ति- सम्भूता सेयं रूपसम्पत् ? किमेषा मम भार्याः भवेत् ? किमीशं मम सौभाग्यमस्ति ? मम तातेन मदर्थ पूर्व निश्चितास्तिस्रः कन्याः किला. ऽस्याः पदधूलितुलनामपि कर्तुं नेशते । किं वात्र प्रमाणम्, यदेषा सुन्दरी मया लब्धुं शक्येत । मन्ये विकृतं मे शिरः । अहं किंकर्तव्यविमूढ इव योपत्तां सुन्दरी पश्यन्नित्थं विचिन्तयामि, तावदेव सहसा सा ऽन्तर्दधे । अहमितस्ततो दत्तदृष्टिस्तामन्वेषयामि यावत्, तावत्स विशालः कुट्टिमः, ते प्रकोष्ठाः सा धूमशकटीत्यादि सकलमपि तदृश्यमव्यक्तच्छायं भव- छनैः शनैरन्तर्दधे । यथा कश्चिदालेख्यलेखकः स्वयं निर्मितं चित्रमग्री तिकरं मत्वा श्वेतवर्णतूलिकया तशेष विलोपयति, तथैव तत्सर्व दृश्य- मन्तर्हितम् अभ्रखण्डानीवेतस्ततो धूमपुजः केवल दहशे, सोऽपि शनैः शनैरन्तहितः, केवलं काचगोलोऽवशिष्टा, निमेषानन्तरं पूर्ववदेव मृत्खण्ड एवं गोचरोऽभूत् ।

दिव्यदृष्टिः अहं हि निसर्गतो निर्भीको हृष्टपुष्टसर्वाङ्गो युवाऽपि तत्क्षणं कम्प- मानसर्वाङ्गः केनापि भयेनाभिभूयमान आसमिति कथनं यद्यपि लजा- स्पदम्, तथापि सर्वथा सत्यम् । उच्चैराक्रोश्य इन्द्रजालमयात्तस्मा. स्कुटीरात् तत्क्षणं पलायितुमिच्छन्नपि गिरः शरीरस्य चाऽप्रभुतामनुभूय न किंचिदपि कर्तुमपारयम् । शनैः शनैर्मम शरीरे चलनशक्तिः प्रत्यावृत्तेव प्रतीयतेस्म । कर्थ- चिन्नेत्रे उन्नमय्य यावत्कुट्यां पश्यामि, तावत् सर्वत्र गाढं तमः प्रसृतं प्रतीतम् । निमेषानन्तरं कुटीकोणे निर्वाणप्रायस्य दीपस्य ज्योतिरमा- वास्यानिशि प्रकाशमानमेकनक्षत्रमिव सुदूरव्यवहितं विभातिस्म । महात्मनः पुरः प्रज्वलतोऽग्निकुण्डस्य मन्देन तेजसा महात्मनः शरीरम- प्यस्पष्टं लक्षितम् । पावें उपविशन् मेघश्यामस्तु चित्रलिखित इव तूष्णी- मासीत् । कशाऽभिहत इव सद्यः प्रकृतिस्थो ऽहमभवम् । यथा कश्चित सुखस्वप्नं दृष्ट्वाऽकस्माज्जागर्ति, तस्येव मम दशाऽभूत् । शनैः शनैर्मम सर्वाः शक्तयः परावृत्ताः । "वत्स ! निर्वाणोन्मुख दीपे तैलं देहि" इति महात्मनो गभीरा वाक् श्रवणपथमुपगता । तदाकर्ण्य मेघ- श्यामः सुप्तोस्थित इव गत्वा दीपे तैलं ददौ । तैलनिषेकालब्धबलो दीपः कुटीगतेन तमसा योद्धमारभत । प्रकाशाऽभूत्कुटी । मया दृष्टम्, महात्मा तथैव गम्भीरनिर्विकाराकृति यथास्थानं स्थितोऽस्ति । मया कम्पमानगिरा पृष्टम्-"भगवन् ! केयं लीला ? कीदृशोऽयमद्भुतो व्यापारः, यदृश्य मया दृष्टम, तरिकमंशतोऽपि सत्यम् ? उत विकारविलसितम् ? कथ्यतां भगवता । छिद्यतां त्वरितमसौ मम संशयः" । महात्मा सस्मितं जगाद-"वत्स ! यत्त्वया दृष्टम्, तत्सर्वथा सत्यमेव, यत्त्वया द्रष्टुमिष्टम् , यच्च पृष्टम् , “कीदृशीं भार्यामहं कुत्र लभेय” इति, मया तस्य वोत्तरं दत्तम् । अपि सम्पन्नस्ते सन्तोषः ?" अहमवदम्-"सन्तोषः, न हि भगवन् ! भूयानसन्तोषो मयाऽधि- गतः, पूर्वापेक्षया शतगुणिता मे चिन्ता संजाता। इदमभिधीयतां भग- वता-कुतः सर्वमिदं सम्पन्नम् ? ईटक चित्रं मया कथं द्रष्टुं पारितम्, यत्र सर्वाणि पात्राणि जीवन्तीव चेष्टन्तेस्म । किमीदग्विधमिन्द्रजालं सम्भवति ?" महात्मा स्थिरगिरा बभाषे-"कुतो न सम्भवति ? न सम्भवति चेत् कथं दृष्टवानसि । मया पूर्वमेवोक्तमासीत् यदिच्छाशक्तिमहिना सर्वमपि २० दिव्यदूधिः सम्भवतीति । तदेव इच्छाशक्तिमाहात्म्यं मया तुभ्यं प्रदर्शितम् । अलम, नातः परं तव कोऽप्यर्थः । अहमधुना विश्रान्तिमिच्छामि ।" मया प्राजलिना सविनयमभिहितम्-"भगवन् ! बाहमुपकत भग- वता । भगवतः प्रसादादेव इममद्भुतं व्यापारं द्रष्टुमहमपारयम् । इदमेकमे- वापरमहमत्र बोधुच्छामि, मया तदानीं यद् धूमशकटीविश्रामधाम दृष्टम् यत्र धूमशकटी स्थिरा ऽऽसीत् किं नामधेयं तत् ?" महात्मा ऽगादीत्-"वत्स ! नातः परं किंचिदप्यहं विवक्षामि, तव प्रार्थनया यावन्मया कथितं, दर्शितं च तावदेव बहु मन्यस्व । कदाचि न्ममैतेन व्यापारेण जगनियन्तुः संसारचक्रगतेः किश्चित् प्रयोजनं सम्पा. दितं स्यात् , यदिदमेतावन्मया त्वदर्थ प्रयतितम् , तदपि तव मित्रस्य मेघ- श्यामस्य कारणात् । मेघश्याम ! मया नाद्य यावत् ते कथितम अद्य प्रातर्मदा त्वमत्रागतः, तदा वदतस्तव मुखात्तव पितुर्नाम श्रुत्वा त्वामहं विज्ञातवान् । तव पिता किल बाल्ये मम सतीर्थ्य आसीत् । आवां पूज्यपादस्य रुक्माङ्गदाचार्यस्य गुरोः पाठशालायां सहैव वेदाभ्यासम- करवाव । तव पिता तु गुरुगृहादुपावनं गार्हस्थ्यमाचरत् । अहं हि शाश्वते ब्रह्मणि स्थित्वा गुरोरादेशमनुसरन् तीर्थाटनं करोमि । द्वादश- वत्सरेभ्यः पूर्व यदाहमत्रागमम् तदा तव पिता अष्टवर्षावस्थेन त्वया सह मां द्रष्टुमागत आसीत् । अस्तु । तव सन्तोषायैव मयाऽस्य तव मित्रस्य प्रश्नानामुत्तराणि दत्तानि, दर्शितं च यत्तेन द्रष्टुमिष्टम्"। मेघश्यामः प्रणम्य बभाषे-"भगवन् ! न मम विदितमासीत रवर्गवासिना मम तातेन सह भगवतः सौहार्दम् । मम तातः कदाचिद्वा. प्रिसङ्गे स्वसतीर्थ्यस्य कस्यापि महानन्दब्रह्मचारिणो विषये ऽद्भुताद्भ- तमितिवृतं कथयतिस्म, किं तद्भगवन्तमधिकृत्यैव भवेत् ?" महात्मा सस्मितमभाषत-"हुम् , अलमनया प्रसक्तानुप्रसक्तया कथया । अस्ति वा किमप्यन्यत् ते प्रष्टव्यम् ?" मेघश्यामः पुनरबूत-"भगवन् ! भवन्तं दृष्ट्वा सुरलोका प्रत्यावृत्तं पितरमहं पश्यामीव । भगवदनुग्रहान्न किञ्चिदपि मे न्यूनम् । धर्मे मम मतिः स्थिराऽस्त्वित्येव मे प्रार्थनीयम् । अयं मम सखा ललितकुमार। क्वापि न विश्वसिति, धर्मकर्मादिकं सर्वमापे पाखण्डं मन्यते ! प्रायः प्रत्यहं मया सह विवदते । मां च मूर्ख भणति । भगवताऽस्य संशयं छित्वा बहूपकृतम् । चेत्कापि सेवा समादिश्येत भगवता, नूनमात्मानं धन्यं मन्येय । श्वः पुनर्भगवतो दर्शनं भविष्यति ?"

दिव्य दृष्टिः महात्माऽन त-"मम हि सर्वमप्यनिश्चितमेव, कदाचित् श्व एवेतः प्रस्थास्ये । परन्तु युवाभ्यामितः परमत्र नागन्तव्यम् न चैतर्हि दृष्टस्या- द्भतव्यापारस्य विषये कापि चर्चा विधेया । एष वृत्तान्तः परेषां कर्णे गतो न मे रोचेत । श्रुत्वाऽपीत्थंविधं वृत्तमश्रद्धालवः परिहासं वितन्वते । अतोऽश्रद्धालुभ्यो बाढं गोपनीयोऽयं विषयः । अलम, सम्प्रति युवां गच्छतम् । मङ्गलमयो महेश्वरो युवयोमङ्गलं करोतु । इहागतयो युवयो. qयान विलम्बो जातः ।" अथ महात्मानं साष्टाङ्गं प्रणम्य आवां कुटीराद्वहिरागच्छाव । स्तोकं मार्गमतिक्रम्य मया मेघश्यामो ऽप्राक्षि-"कथय, सखे ! यत्किञ्चिद् दृष्टं तत्र, तद्विषये कीगभिप्रैषि ?" मेघश्याम उवाच-"मया तु नैव किमपि दृष्टम् , किमहं कथयेयम् ?" मया साश्चर्यमभिहितम्-"अरे ! त्वं परिहससि किम् ? तत् धूम- शकटीविश्रामधाम दृश्यम, सा च पीताभां शाटीं वसाना युवतिश्च किं विया न दृष्टा ?" मेघश्यामो गभीरभावेनावदत्-"सत्यमहं वदामि, अहं तव पार्श्व- एवोपाविशम् मम तु तस्मिन् मन्दपूकाशे त्रिपादिकावस्थापितं मृत्खण्डं विहाय नान्यत्किमपि पथमुपगतम् । त्वमेव कथय, किं त्वया दृष्टम्, अहमपि तच्छृणुयाम् । तत्र महात्मनः सन्निधौ त्वां किमपि नापाक्षम् मया यद्यत्तत्र समवालोकि, तत्तदशेष मेघश्यामाय सविस्तरं कथि- तम् । श्राकये सोऽवदत-"महात्मन एवायं महिमा, तस्यैव कृपया त्वं तद द्रष्टुमशक्कोः, त्वयाऽवलोकिते दृश्ये सत्यमेव किं सर्वाण्यपि पात्राणि जीवन्तीव चेष्टमानान्यासन् , अथवा तव केवलं सग्भ्रम एवा ऽऽसीत् ?" मया सनिर्धारमुक्तम्-"सर्वाण्यपि पात्राणि जीवन्ति चेष्टमानानि दृष्टानि नात्र संशयावकाशः। सा तरुणी त्वतीवाश्चर्यार पदमासीत् । अहं हि यावज्जीवं तस्वरूपं विस्मर्तुं न शक्ष्यामि । अपूर्व तत्सौन्दर्यम, अहं बाढं विचारयन्नपि नावगच्छामि, कथमित्थं मया द्रष्टुमपारि? महात्मना च केन बलेन तस्मिन् मृत्खण्डे विचित्रं तन्नाटकं प्रदर्शितम् । अहं मन्ये, स महात्मा सम्भवतः किंचित् 'मेस्मेरिजम' नामिका त्राटक- विद्यामपि जानाति, तन्मायायामेवाहमपतम् ।" मेघश्यामो ऽभ्यधात्-"पुनरारूढा संशयपिशाचिका त्वाम् बल- वान खलु संस्कारः, महात्मनो योगशक्तेरीदृशं लोकातिगं चमत्कार २२ दिव्यदृष्टिः दृष्ट्वाऽपि त्वं कथयसि, स "मेसमेरिजम" नामक त्राटकविद्यां जानातीति । अस्तु स किमपि जानातु न वा, अल्पैरेवाहोभिस्तस्य कथनं सत्यमसत्य वेति झास्यसि ।" अहमवदम्-"हुम् , सत्यमिदम्, दशपञ्चदिनैरेव तस्यक कथनं भूषेति प्रमाणीकृतं भवेदेव" । तेनोक्तम्-अधुना ते विवाहयोगो नास्तीति, तदपि विवाह सम्पन्ने वितथं भवेदेव । तदानीं तद् दृश्य मया सत्यमित्येवावगतम् । परन्तु सम्प्रति सा तस्य मायाविनो मागैवासीदिति चिन्तयामि । कस्यापि पुरः स्वमायाबलेन काल्पनिकं चित्रमेकमुपस्थाप- यितुं स समर्थोऽस्तीत्यहं मन्ये । परंतु तेन प्रदर्शितं चित्रं सत्यमस्ति, भविष्यजीवनेन सह तस्यास्ति सम्बन्ध इति तु नाहं विश्वसिमि । दश- पञ्चदिनैरेव तस्य वचसां सत्यत्वमसत्यत्वं वा स्वयमेव ज्ञातं भवेत् । तस्य सिद्धत्वं त्रिकालदर्शित्वं महात्मत्वं च समय एव समर्थयिष्यति । तस्मिन् पुरुषे वर्तते कोऽपि विशेषगुण इति तु स्वीकरोमि ।" मेघश्यामो ऽब्रूत-"वरम्, भवता एतावदपि स्वीकृतम्, कदाचित्स- भय इतोऽप्यधिकं त्वत्तःस्वीकारयिष्यति ।" अहं गृहं प्रत्यागमम् । रात्रे द्धितीयप्रहर आसीत् । तदानीमपि गृहे सर्वेऽपि विवाह बन्धव्यमा जाग्रतिस्म । दैवनिर्णयः श्रावितः । निर्धारि- तायाः कन्यायाः पिताऽपि सूचित आसीत्। शीघ्रातिशीघ्रं प्रथमे मुहूर्त एव विवाहो भवत्विति सर्वेषां मनीषा ऽऽसीत् । मम महात्मनः सन्निधौ गमनम्, तत्र विचित्रदृश्यदर्शनमित्यादिकं किमपि गृहे कस्यापि न कथि- तम् । तस्मिन् दृश्ये दृष्टां तां तरुणीमेव चिन्तयन्नहं शयनार्थं पर्यङ्कमुपा- रुहम् । शनैः शनैर्निद्राऽधीनोऽभवम् । (४) महति प्रत्यूष एव कस्यापि रटितमाकण्यं मम निद्रा भग्ना । "ललित ! ललित ! उतिष्ठ वत्स !" अहमुत्थाय पर्यके समुपाविशम् । समीपे स्थितां जननी चापश्यम् । मया पृष्टम्-"किमम्ब ! किमस्ति ?" सा जगाद--"वत्स ! तन्त्रीसन्देशवाहकः समागतः, हस्ताक्षरं कृत्वा सन्देशपत्रं गृहाण।" तन्त्रीसन्देशः ! कीदृशस्तन्त्रीसन्देशः ! कुतः समायातः ? केन मेषितः १ श्रुत्वैव सम्भूमे पतितं ह्रदयम् । आशङ्कया कृतमास्पदम् । सयो - दिव्यदृष्टिः महात्मनो वचनं मे स्मृतिपथमायातम् । तेन हि कथितमासीत् - "कृतेऽपि प्रबले समुद्योगे न भवेत्ते विवाहः यतस्तस्यावसरो नाधुना प्राप्तः” इति। तत्किमेष-तन्त्रीसन्देशः किमपि विध्नरूपं धृत्वा समागतः ? इत्थं स्वमनो दौर्बल्य कलयित्वा ऽहमहसम् । स्वमनोभावान् गोपाय- न्नेव मातरं पृष्टवांश्च-"किं मातः ! तातो गृहे नास्ति किम् ?" साऽब्रवीत्-"नहि वत्स ! महति प्रत्यूषे त्वय्यनुत्थिते एव विवाह- मुहूर्तविषये समालपितुं ते दैवज्ञसमीपं गताः सन्ति ।" अहमुत्थाय बहिरागमम् । हस्ताक्षरंकृत्वा तन्त्रीसन्देशमादाया ऽवाच यम् । तत्र लिखितमासीत्- "पिता गतदिनमारभ्य सविशेष रुग्णोऽस्ति, रोगमुक्तेराशा नास्त्येव, सन्देशं प्राप्यैव त्वरितमागम्यताम्" कुबेरप्रसादः । स तन्त्रीसन्देशो मन्नाम्ना मम स्वामिनः कर्णपुरवस्त्रयन्त्रालयाध्यक्षस्य धनपतिप्रसादस्य पुत्रेण कुबेरप्रसादेन प्रेषित आसीत् । श्रेष्ठिनो धनपति. प्रसादस्य किमकस्मात्सञ्जातम् ? यदाहं मासिकमवकाशमाप्य ततः प्रातिष्ठे, तदा हृष्टपुष्टो नीरोग आसीन्मम स्वामी उक्तं चासीत्तेन- "ललितकुमार ! यावच्छक्य शीघ्रमेव परावर्तस्व जानाभ्येव नास्ति त्वामृते ऽन्योऽत्र यन्त्रविशेषज्ञ इति ।" यान्त्रिकी दुर्घटना वा काचित्स- जाता ? कस्मिन्नप्यसाध्ये व्याधौ वा प्रस्तो मम स्वामी ? इत्थं विचिन्तयन शिरोविन्यस्तहस्तोऽहं तत्रैव क्षणमतिष्ठम। मम स्वामिनो धनपतिप्रसादस्य सौजन्यमनुजीविवत्सलता दयालुतां गभीरतां कार्य कौशलं शिष्टतां च चिन्तयतो मम नेत्रे बाष्पपूरमवर्षताम् । मां चिर- यन्तं वीक्ष्य प्रतीक्षमाणा मे माताऽभ्यन्तरप्रकोष्ठादेव मामुच्ची प्रपच्छ- "वत्स ! केन प्रेषितो वैद्युतः सन्देशः १ कुतो वा समागतः ?" अहं गद्गदस्वरेणोत्तरितवान्-"मातः ! अहमभ्यन्तरमागच्छाम्येव ।" अह मात्मानमवष्टभ्य मातुः समीपं गत्वा तस्मै तन्त्रीसन्देशवृत्तं सर्व न्यवे. दयम् । सा साश्वयं सचिन्तं च जगाद-"इदमनवसर घोरमनिष्टमुप- स्थितम्, त्वं त्विदानी तत्र गन्तु नाहसि. कमपरं तत्र प्रेषयिष्यसि " मयोक्तम्- 'ममैव स्वयं तत्र गन्तुमत्यन्तमावश्यकम् । यन्त्रालयमा स्वामिनं च विहाय नास्ति कोऽपि विशेषज्ञः, अन्येन केनापि तत्र गया कि न दिव्यदृष्टि साधयिष्यते ? किं च स्वामिपुत्रेण कुबेरप्रसादेनचाहमेव तत्राऽऽहूतोस्मि।" माताऽब्रूत-“तमुत्र किं भवेत् ? विवाहप्रबन्धः सर्वोऽपि सिद्धोऽस्ति, निश्चित मुहूर्ते न चेद्विवाहः सम्पद्येत, वयमत्र मुखं दर्शयितुं न शक्ष्याम । तव गमनं बाढमावश्यकं चेद्विवाहानन्तरं चतुर्थेऽहनि गमिष्यसि ।" मयोक्तम्-"अम्ब ! यथा त्वमादिशसि तथैव चेत्कर्तुं शकुयाम् , बाढं प्रमोदेय, परन्तु विचारय, तन्त्रीसन्देशे लिखितमस्ति, "मम स्वामी सातिशयं रुग्णोऽस्ति, रोगमुक्तेराशा नास्ति' इति । इत्थगते व्यतिकरे विवाहार्थमत्रावस्थानं मम शोभेत किम्, यस्य स्वामिनो मयाऽद्य याव- लवणं खादितम् , मृत्युशय्यां गतेन तेनाऽऽहूतोऽहं चेद्विलम्बेय, उभयलोक- भ्रष्टो भवेयम् । त्वमेवेत्थं सकलं विचार्य समुचित समादिश मे कर्त- व्यम् ।" माता तूष्णीमास । किं वा सा भणेत् ? तूष्णी स्थिताया अपि तस्या वदनविकारैर्मया तन्मनोगतमवगतम् । सा किल चिरान्मम विवाहविषये प्रयतमानाऽऽसीत् । एतावत्पर्यन्तमहमेव विवाहप्रतिबन्धको ऽभूवम् । अथ कथं चिन्मयाऽभ्युपगते विवाहप्रस्तावे सज्जे च सकले सम्भारे इदमपरमतर्कित प्रबलं प्रतिबन्धकमुपस्थितम् । तस्या अक्ष्णोर- श्रण्युपस्थितानि । अहं कथंचित् हृदयमवष्टभ्य स्वकीयं प्रकोष्ठमुपागाम । तत्र आरामवेत्रासनेऽद्ध शयानो व्यचिन्तयम-“पश्यत, कथमाकस्मिकी दुःखदेयं घटना समुपस्थिता। मुहूर्तात्पूर्वमया इदमित्थं भावीति स्वप्नेऽपि न चिन्तितमासीत् । मेघश्यामेन सह केवलं कौतुकबुद्धया तस्य महात्मनः सन्निधिमुपगम्य यत्तस्माच्छ्रुतम्, तदिदानी सत्यमिव पूतीयते । नून तस्मि- न्नस्ति कापि विशेषशक्तिः । किमहं त पुनरुपगम्य मम स्वामिनो विषये पृच्छेयम् । परन्तु तेन पुनदर्शनं निषिद्धमस्ति । किं कुर्याम ?" अत्रान्तरे तातेनागत्य सर्वोऽप्युदन्तः श्रुतः । मम स्वामिना धनपति- पसादेन सह तातस्य चिरन्तन सौहार्दमासीत् । स्वामिनो रुग्णतावृत्ता- न्तेन तातस्य चित्तं परं व्यथितं बभूव । तेन विधूय मोहं, विवाहसम्भा- रव्यर्थतामप्यविचिन्त्य स्पष्टमेवाहमभिहितः- "वत्स ! ललित ! त्वं जानास्येव, यद्विगतमासद्वयात्यूभृति तव विवाहविषये पयत्यते, पर्याप्तमत्र धावितं परिश्रान्तं च, द्रव्यमपि पुष्कलं व्ययीकृतम्। किञ्च तव माता तव विवाहविषये कीगुरकण्ठितास्तीच्यपि तव नाविदितम् । अस्मिन् वारे तच्छुभकर्माऽकृत्वा सा न तूष्णीं स्थास्यति । इत्थमपि तव कर्तव्य- मप्यहं वेनि । यदि त्वं साम्पतं विवाहविचारं परित्यज्य कर्णपुरं जिग- मिषसि तर्हि नाहं त्वां प्रतिरोधुं शक्नोमि ।"

दिव्यदृष्टिः मयोक्तम्-"तात ! विवाहस्तु यदा कदाऽपि भवितुं शक्नोति, परंतु मृत्युशय्यां गतो मनुज. शुभाशुभकार्य न पतीक्षते । ईश्वरो येन पथा चालयति तेनैव पथा गन्तव्यं भवति । यद्यस्मिन्नवसरे नाहं तत्र गच्छे- यम् तर्हि कर्तव्यभ्रष्टो भवेयम्. कदाचिदाजीविकामपि हापयेयं च"। तातोऽब्रत-"एवं तर्हि त्वरितं गम्यताम् । मध्याह्नोत्तरगामिना धूमशकटेन गन्तुमर्हति । तत्र गत्वैवाखिलमुदनां मे सूचय । यदि श्रेष्ठिन आरोग्यलाभो भवेत्तर्हि वरमेव, त्वरितमेव ततः प्रत्यागमिष्यति सः । यद्यन्यथा भवेत्तर्हि तदपि सकलं सूचय ।" तस्मिन्नेव दिनेऽहं कर्णपुरं पातिष्ठे । यन्त्रालयप्रधानकार्यालयं गत्वैव सर्व वृत्तमवगतम् । श्रेष्ठी धनपतिपसादः कमप्यागन्तुकं सुहृदं यन्त्रालयं दर्शयन्नेव दुर्भाग्यादनवधानतया प्रचलति यन्त्रे पतिता, यद्यपि तत्काल- मेव यन्त्रगतिम्ररुद्ध्यत, तथाऽपि यन्त्राग्रकरपत्रैस्तस्य द्वावपि चरणौ विच्छिन्नौ । वैद्यैर्जीविताशा परित्यक्ता, श्रेष्ठिनं मां च विहाय न कोपि यन्त्रविशेषज्ञ प्रासीदित्यग्रिमकार्यनिर्वाहाय श्रेष्ठिपुत्रेणाहं तन्त्रीसन्देशद्वारा समाहूतः । सर्वोऽप्ययं वृत्तान्तो मया ताताय निवेदितः, इदं चापरं लिखि. तम् , यन्मम शीघ्र पत्यावर्तनं न सम्भवेत । एकादशदिनानि यावन्मम स्वामी जीवननिधनयोरन्तर्लम्बमान आसीत् । यावन्मानवबुद्धेबलमस्ति, विज्ञानेन च यावन्त उपाया आविष्कृताः सन्ति, ते सर्वेऽपि कुबेरकल्पेन कुबेरपसादेन निजपितु कृते पयोजिता । पानीयमिव द्रव्यं प्रवाहितम् । मृत्युमुखात्तमाच्छेत्तुं काऽपि चेष्टा नावशेषिता । परन्तु दुर्भाग्यं सर्वोपरि- ष्टादासीत् । द्वादशे दिवसे श्रेष्ठिनः पाणाः पतस्थिरे । ततः परं कतिपयदिनानि महता सङ्कटेनातिवाहितानि । कियन्तः कीदृशाः प्रबन्धाः कर्तुमापतिता इत्यादि वर्णनमनुपयुक्तमिति न करोमि । पायः सार्द्धमासात्मकः कालस्तस्मिन्नेव सम्भ्रमेऽतिक्रान्तः । श्रेष्टिपुत्रो निसर्गतश्चतुर आसीत् । पितरि जीवत्येव तेन कार्यालयस्य बहुलः कार्य- भारः स्वायत्तीत आसीत् । अथेदानी मम मन्त्रणानुसारेण तेन सर्वो- ऽपि प्रबन्ध आमूलान्नवीकृत । अहं च प्रधानाध्यक्षपदे नियुक्तः । अत्रान्तरे मया काश्यां न गतम् । तातस्य तु पतिसप्ताहं कुशलपत्रा- ण्यायान्तिस्मैव । मेघश्यामस्य पत्रेण मयाऽवगतम् , यन्मदर्थ निर्धारितस्य कन्यात्रयस्याप्यन्यत्र विवाहः संवृत्त इति । न च तेन मम स्वल्पोऽपि विषादः समजनि । मेघश्यामेन स्वपत्रे इदं चान्यल्लिखितमासीत् , यन्मम माता मम विवाहाथै पुनरपि सर्वा मना पयतमानास्तीति । वर्षानन्तरमा. ४ २६ विष्टि गामिनि पथमे विवाहमुहूर्त एव मम विवाहस्तयाऽवश्यं कर्तव्यत्वेन निर्धारित इति च। महात्मनः कुट्यां मेघश्यामेन सह गमनम् , तत्रमहात्मना प्रभावादद्भुत- दृश्यावलोकनं च नाहं व्यस्मार्षम् । न च विस्मर्तुमपारयम् । केवलं कौतुकेनैव मया तदानीं तत्र गतमासीत् । अविश्वासेनैव तदुक्तमाकर्णि- तम् । परन्तु यतः प्रभृति महात्मन उक्तिषु एकस्यांशस्य सत्यता बाढम- नुभूता, ततः प्रभृति महात्मनो विषये मम हृदये काऽपि श्रद्धा समुदभूत् । ईदृशाः सिद्धपुरुषाः पूविरला एव दृश्यन्तेऽस्मिन् संसारे । सौभाग्येनैव तथाविधानां समागमो भवति, सांसारिकेष्वपि विरला एव तथाविधान् सिद्धान परिचिन्वन्ति। ते हि अकस्मादेव कुतोऽप्याविर्भवन्ति, अकस्मादेव च कुत्रापि प्रगाढे तमसि निलीयन्ते । स गङ्गातटवासी महात्मा इदानी कुत्राऽस्तीति को वेद ? एवं वर्षानन्तरं यया कन्यया सह मम विवाहस्य भावित्वं तेनोक्तमासीत् तत्सत्यं भवेन्नवेत्यनुभवितुं बाढमासीन्ममोत्कण्ठा। तस्य कुटीरे काचतामापन्ने तस्मिन् मृत्खण्डे यद् दृश्यं मया दृष्टमासीत्, जीवन्त इव चेष्टमाना ये वाऽऽकृतिविशेषास्तत्र मया दृष्टपूर्वास्ते खलु मम हृदये निखातप्राया इवासन् । तन्मुखम् , ते नेत्रे, सा शुकचञ्चुनिभा नासा, स च अत्यन्तपाकद्रवद्राक्षासमकक्षोऽधरः, किमेतानि विस्मर्तु शक्यानि ? चतुरादपि चतुरश्चित्रकारो नेहग रूपं निर्मातुं शक्नोति । किमेतारशी सुन्दरी कापि ध्रियते, उत महात्मनः कल्पनाविजम्भितमेवैतत् ? अस्तु द्रष्टव्यम् ! एकवर्षात्मको न भूयान् कालः । यतस्तस्यैकं वचनं सत्यमभूत् तत परमपि सत्यं भवेदिति बहुशः सम्भाव्यते । ...... अतीताः कतिचिन्मासाः । मम विवाहकथाऽवसानस्य, धनपतिप्र- सादनिधनस्य, यन्त्रालये प्रधानाध्यक्षपदे च मम कार्य कुर्वतश्च पञ्चषा मासा व्यतीयुः । मम हृदये च श्राशानिराशे परस्परमयुद्धर्थ ताम्। एव. मेव भूयोऽप्यतीतः कश्चित्कालः। परंतु मया मृत्खण्डे दृष्टं तद् दृश्य, सा सुन्दरी च न मनागपि विस्मृता । ततः परमकस्मादेकस्मिन् दिने निजेन वास्तविकरूपेण तद् दृश्य -महात्मनः प्रसादान्मृत्खण्डे दृष्टम-मम पुर स्वयमुपस्थितम् । कदा-कथं च,-तदेवाहमग्रे वर्णयामि । (५) यन्त्रालयविशेषकार्यवशान्मम लवपुरे गन्तुमापतितम् । कर्णपुरात्म- स्थानात्पूर्वमेव मया मातुरेकं पत्रमधिगतम् । तत्र लिखितमासीत्- भी दिव्यदृष्टिः २७ "चिरायुष्मन्तं वत्सं ललितकुमारं सस्नेहमाश्लिष्य मुघ्न्युपाघ्राय च शुभाशी- राशिभिरभिवईयन्ती तन्माता काशीतः प्रतिबोधयति- वत्स ! इतो बहुदिनेभ्यो नाधिगता ते कुशलपत्रिका । प्राशंसामि त्वं कुशली स्या इति । अग्रे--भावश्यकमेकं विषयं स्मारयितुं ते पत्र लिखामि । त्वं जानास्येव, यदतीते वत्सरे तव विवाहसम्भारेषु सत्रहेष्वेव अकस्मात्तव स्वामिनो निधनेन विवाहो विचित इति। अथेदानीमहमिच्छामि, यदागामिनि प्रथमे विवाहमुहूर्त एव कार्यमिदं सम्पादनी- यमिति । अस्मिन् वारे तव किमपि प्रतिबन्धकं कैतवं वा न मया मनागपि विचार- यिष्यते । अतस्त्वामधुनैव चेतयामि। त्वदर्थ मयैका कुलीना शिक्षिता च सुन्दरी कन्याऽवधारिताऽस्ति। अत्रत्यैव सा । विश्वसिमि चाहं यत्त्वं मम वचनं पूरयिष्यसि । किमपि कैतवं न करिष्यसि । यद्यस्मिन् वारेऽपि किमपि कपटमुद्भाव्य मम वचनं न पूरयिष्यसि, तर्हि मम भूयान् मनस्तापो भवेत् । सत्यवकाशे द्वित्रिदिनार्थमत्रावश्य- मागच्छ । मया त्वां दर्शयितुं तस्याः कन्यायाश्छायाप्रतिकृतिरानायिताऽस्ति, सा घया द्रष्टव्या । श्रावामत्र सकुशलौ स्वः । वत्सस्य सर्वतः कुशलमिच्छावः ।" -"तव माता।" इत्थं पत्रं पठित्वा ममाश्चर्यमभूत् । चिन्तितं मया-पश्यत, इयन्ति व्यतीतानि दिनानि, नाधुनाऽपि मातुर्मद्विवाहाभिनिवेशोऽपसृतः। अस्मिन वारे तु मातुर्वचनं पूरयितव्यमेव । परंतु तस्य महात्मनः सा भविष्यदर्था- वाक् किमपूर्ण स्थास्यति ? तेन तु मम भाविनी भार्या प्रामान्तरीयेव दर्शितेति मम स्मृतिपथमायाति । मात्रा तु कापि काशिकैव कन्याऽवधा- रिताऽस्ति । भवतु द्रक्ष्यामि किमस्ति भाग्ये लिखितमिति ।'महात्मनो वचनं मिथ्या भवेदिति तु विश्वासो न भवति । अथाह लवपुरमुपागमम् । तत्र यन्त्रालयकार्यविशेषसम्पादने प्रयत. मानस्य मे पञ्चदश दिनान्यतिजग्मुः । कार्यमपि समपद्यत । ततः परावर्त- मानोऽहं मध्ये मार्ग मथुरायामवातरम् । अदृष्टपूर्वेय पुण्यपुरी द्रष्टव्येति चिरान्मम मनीषाऽऽसीत । दृष्ट्वा च तां भगवतो नन्दनन्दनस्य लीलावि- हारभूमि मथुरां, गोकुलवृन्दावने च, बाढमप्रीयत ममान्तरात्मा । तस्यां पुण्यभुवि कोऽपि विशेषोऽस्ति, यः समृद्धेषु सुन्दरेष्वपि नगरान्तरेषु नोपलभ्यते-इत्यश्रद्धेनापि ममान्तरात्मना ऽनुभूतम् । 'आगरा' नगरे दिनमेकमुषित्वा पुनरहं कर्णपुरं प्रस्थितवान् । मार्गे 'जनसम्मपरिहार- पुरस्सरं सुखेन यात्रा भव'त्विति मया द्वितीयश्रेणिप्रवेशपत्रं क्रीतमा- २८ ran दिव्यदृष्टिः an सीत् । तत्र व्ययस्तु भूयान जाता, परन्तु यात्रा सुखेन समपद्यत । एता- वत्पर्यन्तं मम प्रकोष्ठे अहमेवैकल आसम् । शकटी 'टुंडला' स्थानमुपा- गता, ततः 'शिकोहाबादम्' । 'भिंड' स्थाने क्षणं विश्रम्य ततः परं 'इटावा'. माजगाम शकटी । अत्र विंशतिकलामितं कालं शकटी स्थास्यतीति विदित्वा अहमवातरम् । इतस्ततो दत्तदृष्टिः पुरः प्राङ्गणे पर्यटितुमारभे ! विहङ्गमदृशा एकवारं तत्सकलं धूमशकटीविश्रामधाम सपूर्वापरं पर्यवेक्षे च । इत्थं परिवीक्षमाण एवाहमकस्माञ्चकितोऽभवं चेतसि । इदं स्थानं तु मम परिचितमिव प्रातभाति । अचिरेणैवेदं दृष्टं स्मरामि । परन्त्वहमनेन पथा न कदापि पूर्वमागत इति तु निश्चितम् । ओः ‘स्मृतम् , स्मृतम् । स्मृतिमात्र एव मम तादृगपरिमितमाश्चर्य समुदभूत् यथा तस्मिन् महति सम्भ्रमे क्षणं मम हृदयमपि निःस्पन्दतामगाहत । मया परिचितम् तदेवेद स्थलं, यन्मया तस्य महात्मनः प्रसादेन काचगोलतामापन्ने मृत्खण्डे दृष्टमासीत् । निःसन्देहं तदेवेदं स्थानम, पुरः प्राङ्गणे सैवेयं प्रकोष्ठपङ्क्तिः, स एवायं पंक्त्यन्तरगामी सेतुः, तदेवेदं सकलम, यन्मयातदानीं सकुतूहल- मवलोकिमासीत् । अहो कीदृशीय तस्य महात्मनोऽचिन्त्या शक्तिः, सत्यम्, साधुवो हि कर्तुमकर्तुमन्यथाकर्तुं समर्था भवन्तीति । यथेदं दृश्य सत्यस्वरूपेण मम पुरः समुपस्थितम् ? तथैव तदपि दृश्य-सा सुन्दरी- लोकोत्तरसुषमाशालिनी सा बालाऽपि किं मर्त्यस्वरूपेण मम पुरः समुप तिष्ठेत ? महात्मनो वचनस्यौकोंऽशस्त्विदानी पूर्णः, अपरोऽपि किमिति न पूर्णो भवेत् ? यावदहं सकौतुकं सोत्कण्ठं च प्राङ्गणस्येतस्ततो दत्तदृष्टिः पश्यामि, तावदेव मम दृष्टिः पंक्तयन्तरगामिनः सेतोः सोपानमार्गे सहसा निरु- द्धाऽभूत् । तत्र यदृश्यं मया दृष्टं, तेन भूतलात् दूरमहमुच्छलित इवाभ- वम् । क्षणं मोहो मा मावृणोदिव । सत्यमेव निरुद्धा हृदयगतिः। अक्ष्णो- रप्यविश्वासोऽभूत् । मया समुच्छलता चेतसा विस्फार्य नयने च सम्यङ्- निवर्य दृष्टम-सैव सुन्दरी मदभिमुखमायान्ती प्रतीयतेस्म, या मया महात्मनः कुट्यां काचगोले दृष्टपूर्वाऽऽसीत् । मया पुनः पुनर्नयने प्रमृज्य विस्फार्य च सा निर्वर्णिता। सैवाऽऽसीदिति निश्चयेनावगतम् । सैव पीतामा शाटी, सैव गजगतिः, ते एव विशाले नयने सैव किञ्चित्तिर श्वीना नासा, स एव चात्यन्तपाकद्रवद्राक्षासपक्षोऽधरोष्ठः । कुत इयमु- पागता? किमहं स्वप्रवृत्त पश्यामि, सत्यमेव वाऽसौ सुवर्णप्रतिमा ममा- भिमुखमुपागच्छति ? सहसा मम सर्वा अपीन्द्रियवृत्तयो नयनपथमवतीर्णा ?

२९ । दिव्यदृष्टिः इव । पश्यत एव मे सा युवतिर्मयाऽधिष्ठितपूर्व द्वितीयश्रेणिक प्रकोष्ठमे. वारोहतिस्म । सा एकला नासीत् तया सह समुन्वलनेपथ्या काऽप्य. परा प्रौढा योषिदपि तमेव प्रकोष्ठमारुरोह । तयोः पश्चादेकोऽनुचरः शिर- स्यायी मञ्जूषां, करे चर्मपेटिकां च वहन् तत्रैव जगाम । अहं प्रवेशद्वा- रोपकण्ठं स्थित्वा ते निरवर्णयम् । अनुचरेण लौहमञ्जूषातूपरितनपट्टि- कायां निहिता। स्रस्तरं विस्तारितम् । मृत्कुम्भे च पानीयमापूरितम् । दर्शनेन ते उभे अपि सत्कुलीने प्रत्यभाताम् । यतः सा युवतिः परिहत्या- वगुण्ठनदम्भं तत्र निःशङ्कमतिष्ठत् , ततः सा शिक्षिता नव्यमतानुगा चाऽऽसीदिति निर्विवादमेव । द्वितीयश्रेणिकप्रकोष्ठारोहणात्तस्या धनिक- ताऽपि निश्चितैवासीत् । अत्रान्तरे धूमशकटीप्रस्थानसूचकः कलचीत्कारः श्रूयतेस्म । अहमपि सलज्जं सभयंच प्रकोष्ठान्तः प्रविश्य स्वस्थाने समुपा- विशम् । मम नेत्रे हठात्तामेव सुन्दरीमन्वधावताम् । मृत्खण्डे दृष्टाया आकृतस्तया सह सर्वात्मना संवादं दृष्ट्वाऽभूतपूर्वमाश्चर्यमहमन्वभवम् । चिराय तन्मुखनिवर्णनमसभ्यतास्पदं भवेदिति मया स्वोपबर्हतले निहितं तहिनस्य संवादपत्रं मुखाग्र धृतम् । अत्रान्तरे युवत्याः सहचरी प्रौढा योषिन्मदन्तिकमेत्य मामपृच्छत्-"महाशय ! उपरितनपट्टिकायां निहितं वस्तुजातं भवत एवास्ति किम् ?" मया स्वीकारसूचकं शिरःकम्पं विद धता "आम्, तन्ममैवाऽस्ति” इत्युत्तरितम् । भूयः सा पप्रच्छ-"कुत्र गन्तव्यमसित भवतः !” तां निःसङ्कोचं भाषमाणां दृष्ट्वा मयाऽपि लज्जा- करणमनुचितमवधार्य निर्भय प्रतिभाषितुमारब्धम् । कदाचिदस्मिन् संलापे तस्यास्तरुण्या नामधामादिकं विवाहितत्वाविवाहितत्वं च ज्ञातं भवेत्।, मयोत्तरितम्-“कर्णपुरमहं गच्छामि ।" साऽब्रूत-"श्रोः......तर्हि भवान् प्रथममेवावतरिष्यति । आवयोस्तु काश्यां गन्तव्यमस्ति।" साश्चर्यस्य मम मुखादकस्माभिर्गतम्-"किं काश्याम्. ..." तया पृष्टम्-"काशीनाम श्रुत्वैव किमिति विस्मितो भवान् ?" यद्यपि प्रौढय व साकं ममैष संवादः प्रचलनासीत, तथाऽपि सा युवतिरपि मध्ये मध्ये सलज्जाशं मयि क्षिपन्ती संवादे दत्तकर्णाऽतिष्ठत् । मयोत्तरितम्-"विस्मयस्य हेतुरयमेव, यदहमपि काश्यामेव वसामि । तत्रैवास्ति ममाऽपि गृहम् ।" ततः परं प्रौढया सह चिराय मम वार्ताः लापोऽभवत्। संवादे कदाचित्सा युवतिरपि मध्ये मध्ये किंचिद्वभाषे-किन्तु मया साकंन हि, तय व प्रौढया साकम् । शिक्षितयाऽपि तया सर्वथाऽप- दिव्यदृष्टि: रिचितेन युवकेन सह सहसा सम्भाषणमनुचितमवधारितं स्यात् । अत्रा- न्तरे तस्या विषये मया प्रायः सर्वमपि ज्ञातम् । ते द्वे अपि काशिके एवा- स्ताम् । युवतिः प्रौढाया भागिनेय्यासीत् । प्रौढा च "इटावा"यां निव- सति । युवतिश्चिराद् दृष्टां मातृष्वसारं सम्भावयितुं "इटावां"गताऽऽसीत् । "काश्यां तव विवाहो निश्चिता स्वरितमागम्यताम्" इति पित्रा प्रहितं विद्युत्सन्देशमवाप्य मातृष्वना सह काशीं गच्छति । आगामिषु विवाह- मुहूर्तेषु तस्या विवाहो भविष्यति । वरः काशिक एव कश्विनिर्धारि- तोऽस्तीति । युवति सम्यनिर्वयं मया निश्चयेनावगतम्-सैवेयौं युवतिर्या मया मृत्खण्डे दृष्टासीत् । मृत्खण्डदृष्टतदाकृत्यपेक्षया वास्तविकी तदाकृतिं शत. गुणसौन्दर्यामवालोकयम् । सर्वभावेन तस्यां समाकृष्टश्चाभवम् । मया मनसि चिन्तितम्-"तस्य महात्मनः कथनानुसारमन्यत्सर्व सम्पन्नम् । तदेवेदं धूमशकटीविश्रामधाम, सैव चेय सुन्दरी, परं त्वस्या विवाहः काशिकेनैव केनापि वरेण निश्चितोऽस्तीति शृणोमि । किमेताव- पर्यन्तं सर्वमपि महात्मवचनं सत्य सम्पन्नम् , मुख्यफल एव मम दौर्भाग्यात्तद्विसंवदेत किम् ? यद्यनया तरुण्या सह मम विवाहो न सम्प- घेत, निश्चयेनाहं तं महात्मानं पाखण्डिनमाकलयेयम् ।" इति । "इटावा"तः कर्णपुरपर्यन्तं पन्थाः सुखेनातिक्रान्तः । पुनरहमचि- न्तय चेतसि-अस्याः पितुर्नामधामादिकं मया ज्ञातमेवाऽस्ति । स काश्यामेव वसति । तथा कोऽपि प्रयत्नो विधेया, यथाऽस्याः पिता मयव साकमस्या विवाहमारचयेत् । भवतु, मातरं तावदुयोजयिष्यामि । यथा तस्य महात्मनो वाणी सर्वथा सत्या प्रमाणिता भवेत् तथैव मया प्रयतनीयम्। इत्थं चेतसि चिन्तयन्नेवाहं यथासमय कर्णपुरे समवातरम् । अवत- रणसमये पुनरपि तस्यास्तरुण्याः पितुर्नाम निवासस्थानं च पृष्टा सा प्रौढा निःशकं तत्कथयतिस्म । सा तरुण्यपि सलज्जैः कटाक्षबीक्षितैर्मा प्रेक्षत । तद्विषयेऽहं कीगुत्कण्ठितोऽस्मीति सा कथं जानातु । अस्यापि वृत्तान्तस्य सम्पन्नस्य बहून्यहान्यतीतानि । सा तरुणी सा औढा च न मे स्मृतिपथादपासरताम्। ततः परमेकमासानन्तरमहं स्वगृहं काशी प्रत्यागमम् । मया विचारितं चेतसि-यन्मार्गे दृष्टायास्तरुण्या विषये सर्वमपि मातुरस्र प्रकटनीयम् कथनीय च-यदनय व साकमहं विवाहं करिष्यामि नान्यया । इत्थं च मम माता येन केनाप्युपायेन ममा- . , मदिन्यष्टिः भीष्टं विवाहं घटयिष्यतीति । इत्थं विचिन्तयतो मम काश्यागमनादप- रेऽहनि मात्रा सह रहसि वक्तमवसरः समुपनतः । मया साहसपूर्वकमुक्तम्-"मातः ! मम हि विवाहविषये किंचिद्ध- क्तव्यमस्ति ।" सा साश्चर्य जगाद-"किं वत्स ! किमस्ति वक्तव्यम् ?" मयोक्तम-"त्वया निश्चितं मम विवाहमुद्दिश्य व किंचिद्विवक्षामि।" सा जगाद-"विवाहमुद्दिश्य किं विवक्षसि रे, किं पुनर्नकारपिशा. चिका स्वामुपारूढा ?" अहमगदम्-"न हि, न हि, नकारपिशाचिका नोपारूढा । इदमह विवक्षामि, भवत्या निर्धारितया कन्यया सह न मया विवाहः कर्तुमिष्यते।" सा साश्चय मपृच्छत्-"किं कारणं वत्स ! किं त्वया तस्या विषये कश्चिदोषः श्रुतः ? मया तु तस्याः कुलशीलादिकं सम्यकपरिशीलित, मस्ति । सात्वतीव सुशीला वर्तते । किं कारणं तर्हि तव निषेधस्य ?" अहमवदम्-'न हि न हि, तभ्या न कश्चिदपि दोषो गुणो वा मया श्रुतः। वास्तविकी कथा वियम्-मया काऽप्यपरा कन्या स्वयं निश्चिताऽस्ति ।" माता ममैतेन कथनेन नभसः पपातेव । सविस्मय चाहस्म- वत्स ! ललित ! कथय, कथमिदं सम्पन्नम् । त्वं तु पूर्व विवाहप्रस्ताव मपि नाभ्यन्वजानाः, इदानीं स्वयमेव कन्या निश्चेतुमपि प्रवृत्तोऽसि । साम्प्रतिकानां यूनां पित्रोरपेक्षैव न भवति पठिन्वा लिखित्वा च ते तथा चतुराः सम्पद्यन्ते, यथा पत्नीनिर्वाचनमपि मात्रा पित्रा वा कृतं नानुम- न्यन्ते । अस्तु कथय, का कीरशी च कन्या त्वया निश्चिता ?" मया लजमानेनोत्तरितम्-"अत्रत्य व सा कन्याऽस्ति । अस्माकं सजातीयेव । मया लवपुरात्परावर्तमानेन धूमशकट्यां सा दृष्टा । दशा. श्वमेधवीथ्यां निवसतो नारायणप्रसादस्य सा कन्या किल ।" माता मुहूर्त साश्चर्य मन्मुखं निरैक्षत । ततः परमुच्चै हास । अहं तु मातरमकारणं हसन्तीं दृष्ट्वा बाढं सम्भ्रमे न्यपतम् । मम कथने हि किमपि हासकारणं नासीत् । अथ मम माता ततस्त्वरितमुत्थाय स्वप्रकोष्ठं गत्वा तत एक चित्रफलकमानीय मम हस्ते दरवा सस्मितमपृच्छत्- "किमेतां कन्यामुद्दिश्य व त्वं ब्रवीषि ?" आश्चर्यातिरेकादहं किश्चिदपि वक्तुं न प्राभवम् । मया दृष्टम्, सचि- त्रफलकं तस्या एव तरुण्या श्रासीत्, या मया धूमशकन्या, महात्मनः .

३२ दिव्यदृष्टि कुटीरे मूत्खण्डे च दृष्टाऽऽसीत् । मया कम्यमानस्वरेण पृष्टम्-"मातः ! इदं चित्रफलकं तवान्तिके कुतः समागतम्। किं स्वमेतां कन्यां जानासि ?" सा सशिरकम्पं बभाषे-"आम, अवश्यमहं जानामि, यद्यहं न जानीयाम्, को वाऽपरो जानीयात् । अनय व सह मया तव विवाहो निश्चितः । त्वां दर्शयितुमेवेदं चित्रफलकं मयाऽऽनायितमस्ति । मया पत्रेऽपीदमेव लिखितमासीत् । किं न स्मरसि ?" किमहं वदेयम. कथं वा सर्व वृत्तान्तं निवेदयेयम्-यदेकवर्षादिमां' तरुणीमहं हृदये धारयामीति । परन्तु अयमद्भुतः संयोगः सम्पन्नः, महात्मनो वाणी कथं सर्वैरङ्गः सत्या प्रमाणीभूता। किमिय भगवतः कृपा, उत मम सौभाग्यम अथवा महात्मनः सिद्धिप्रभावः १...... मम विवाहस्तमैव कन्यया सह सम्पन्नः । मया बाढमवगतम, यन्म. हात्मना कथितं दर्शितं च सर्वमक्षरशः सत्यमिति । तत्राल्पीयानप्य शो न मिथ्याभूतः। कया शक्तथा केन बलेन महात्मनेदं कथितं दर्शितं चेति तु नाहं मनागपि जानामि, स महात्मा च न पुनर्मया दृष्टः । अन्विष्यापि न लब्धः । गङ्गातट परित्यज्य गतस्य तस्य भूयान् कालोऽतीतः । ततः प्रभृति धर्मकर्मादेः पाखण्डताकथनं मया परित्यक्तम्। साधुषु महात्मसु च मम चेतसि श्रद्धा समुदभूत् । इदं च मयाऽवगतम् यदस्मिन् संसारे यद्यपि बहवः पाखण्डिनः सन्ति, तथाऽपि केऽपि विरलाः सत्यसिद्धा महा मानोऽपि सन्ति । शास्त्रमीश्वरो धर्मकर्मादि च सर्वमपि यथार्थमस्ति । कदाचिन्मेघश्यामः तां घटनामधिकृत्य मां पृच्छति-"किं रे ललित ! अपि विश्वसिषीदानी साधुमहात्मसिद्ध षु ?" अहमुत्तरयामि-'अवश्य विश्वसिमि, यदि ते वास्तविका महात्मानो भवेयुः । कृतकसिद्धषु तु न मे विश्वासः।" -

No text on this page.

दिव्यदृष्टि

Author
Shaastrii Naaraayand-a
Title
Divyadrxshhti
File name
दिव्यदृष्टि
Text
OCR done
Citation
1936
Published
2006/03/02
Publisher
Maastara Khelaadiilaal End-da Sans, Sanskrxta Bukadiipo Kachaudii Galii, Kaashii
Language
Sanskrit
Pages
36
Library
University Library,gurukul Kangri Vishwavidyalaya
Classification
RELIGION THEOLOGY
DLI number
477239
Barcode
99999990173083.00
Scanning centre
C-DAC, Noida
Digital publisher
Digital Library of India
VMLT id
WcR2yNSwCJz
Download PDF

दिव्यदृष्टि