Ramkrishna Mission Institute Of Culture, Golpark

Rik Sanhita

2006/04/28

PDF Proofread

Front matter

No text on this page.

AKRISHN: WISOWA IW710i.
، ان
LIBRARY

No text on this page.

श्रीः
ऋक्संहिता
SARIANTHALUARLSHOP
-rimur
मायणाचार्यविरचिताप्यसहिता
पदपाठयुताच.
इयंच
तत्वविवेचकयंथप्रसारकसमित्याप्रेरितः तुकागमतात्याभिद
गणपतकष्णाजीमुद्रायंत्रालयाधिपतिः आत्मागमकाहाबानिय
इत्येता यां
बाइसोपाहमहामहोपाध्यायराजारामशाखि.
गोग्दन्युपाभिधशिवरामशाखिभ्यांशोधयित्वा
मुंबय्यां
गणपतकृष्णाजीमुद्रायंत्रालये मुद्रयित्वा
प्रकाशिता.
तम्याअयंप्रथमोष्टकः
शाम 'A
M
31

2.2051ST 6./.

प्रस्तावना. अस्पग्रंथस्यांकनकमः-प्रथमं स्थूलाक्षराकक्सस्वरा । ततोधः किंचित्स्वल्पाक्षरस्व स्याकचःपदपाठः । ततोधस्तेभ्योपिलध्वक्षरं सायणाचा विरचितंभाष्यम् । एवंसर्वत्रकमः ।। प्रतिपष्ठमधोभागेभाष्यअन्यग्रंथेयोगृहोतपमाणानां तत्रतत्रागतानां तत्तच्छाखांतर्गतानां प्रा- लणादिवाक्यानामंकन्यासःटिप्पण्यांकतोष्टकवर्गादीनां । किंच भाष्येप्रक्रियायामागतान पाणिन्युणादिफिट्सूत्राणां शीघोपस्थानार्थ वर्णानुक्रमेणसूचीचदत्ताद्वितीयाष्टकांते । तथाप- तिपृष्ठोपरिभागे अध्यायवर्गमंडलानुवाकसूतानामंकाविन्यस्ताः । एवंसुबोधीकरणार्थमंत्रपुस्त. केकमोगीकृतः।

No text on this page.

अम् ऋक्संहिता सभाष्या, पदपाठसहिताच. t उपोहातप्रकरणम् श्रीगणेशायनमः श्रीसरस्वत्यैनमः वागीशाद्याःसुमनसःसर्वार्थानामुपक्रमे । यनत्वारुतक- त्याःस्युस्तनमामिगजाननम् ॥१॥ यस्यनिःश्वसितंवेदायोवेदेश्योऽखिलंजगत् । निर्ममेतमहंवन्दे विद्यातीर्थमहेश्वरम् ॥ २॥ यत्कटाक्षेणतद्रूपंदधद्रुक्कमहीपतिः। आदिशन्माधवाचार्यवेदार्थस्य प्रकाशने ॥ ३॥ येपूर्वोत्तरमीमांसेतेव्याख्यायातिसङ्ग्रहाव । रुपालुर्माधवाचार्योवेदार्थवक्तुमुद्यतः ॥४॥ आध्वर्यवस्ययज्ञेषुपाधान्यायाकृतःपुरा । यजुर्वेदोथहौत्रार्थमृग्वेदोव्याकरिष्यते॥५॥एक- स्मिन्मथमाध्यायःश्रोतव्यःसम्पदायतः । व्युत्पन्नस्तावतासर्वबोद्धुं शक्नोतिबुदिमान् ॥६॥अत्र केचिदाहुः-ऋग्वेदस्यपाथम्येनसर्वत्रानातत्वात् अहितंपूर्वमितिन्यायेनाभ्यर्हितत्वात् तया- ख्यानमादौयुक्तम् माथम्यंचपुरुषसूक्तेविस्पष्टम्-तस्माद्यज्ञात्सर्वहुतऋचःसामानिजज्ञिरे। छन्दां- सिजज्ञिरेतस्माद्यजुस्तस्मादजायतेति । सहसशीर्षापुरुषइत्युक्तत्वात परमेश्वरायज्ञाद्यजनीयात्पू- जनीयात्सर्वहुतःसर्वैहूंयमानात् । यद्यपीन्द्रादयस्तत्रतबहूयन्ते तथापिपरमेश्वरस्यैवेन्द्रादितपे- गोवस्थानादविरोधः । तथाचमत्रवर्णः-ईन्द्र मित्रवरुणमग्निमाहुरथोदिव्यःससुपर्णोगरुत्मान् । १ सप्राहनृपतिराजन्सायणार्योममानुजः। सर्ववेत्त्येषवेदानांव्याख्यातृत्वेनियुज्यताम् । इत्युक्तोमावार्येणवीरबुक्कमहीपतिः । अश्वगात्सायणाचार्यवेदार्थस्यप्रकाशने इत्यधिकमेक रिंगनपुस्तके। २ ऋक्संहिता अष्टमाष्टकः (८) चतुर्थाध्यायः ( ४ ) अष्टादशोवर्गः ३ ऋक्संहितायांअष्टमाष्टके चतुर्थाध्यायस्यसनदशेवर्गे ( ४.४. १५.)। १. सं. २.३.२२.। (१८)।

२ ऋक्संहिताभाष्ये (एकंसद्विपाबहुधावदन्त्यग्निंयममातरिश्वानमाहुरिति । वाजसनेयिनश्चामनन्ति-तद्यदिदमाहुरमुं पजामुंयजेत्येकैकंदेवमेतस्यैवसाविसृष्टिरेषउद्देवसर्वेदेवाइति । तस्मात्सर्वैरपिपरमेश्वरएवहूयते नकेवलमृचांपाठमाथम्येनास्यर्हितत्वम् किन्तु यज्ञागदाढचहेतुत्वादपि तथाचतैत्तिरीयाआमन- न्ति-यद्वैयज्ञस्यसानायजुषाक्रियतेशिभिलंतद्यदृचातदृढमिति । तथाचसर्ववेदगतानिब्राह्मणानि- स्वाभिहितेऽर्थेविश्वासदाढाय तदेतदृचायुक्तमित्युचमेवोदाहरन्ति।मत्रकाण्डेष्वपियजुर्वेदगतेषु तत्रतत्राध्वर्युणामयोज्याऋचोवहवआनाताः । सानांतुसर्वेषामृगाश्रितत्वंप्रसिद्धम् । आथर्वणि- कैरपि स्वकीयसंहितायामृचएवबाहुल्येनाधीयन्ते अतोऽन्यैःसर्वे वेदैराहतत्वात् अभ्यर्हितत्वम् । छन्दोगास्तुपाथम्येनसनत्कुमारंपति नारदवाक्यमेवमामनन्ति-ऋग्वेदंभगवोऽध्येमियजुर्वेदसा- मवेदमाथर्वणंचेति । मुण्डकोपनिषद्यप्येवमानायते-ऋग्वेदोयजुर्वेदःसामवेदोऽथर्वणइति । ता- पनीयोपनिषद्यपिमत्रराजपादेषुक्रमेणाध्ययनमेवमामनन्ति- ऋग्यजुःसामाथर्वाणश्चत्वारोवेदाः साङ्गाःसशाखाश्चत्वारःपादाभवन्तीति । एवंसर्वत्रोदाहरणीयम् तस्मात् ऋग्वेदस्याभ्यर्हितस्या- दौव्याख्यानमुचितमिति । तान्मत्येतदुच्यते-अस्त्वेसर्ववेदाध्ययनतत्पारायणब्रह्मयज्ञजपादी मग्वेदस्यैवप्राथम्यम् अर्थज्ञानस्यतु यज्ञानुष्ठानार्थत्वात् तत्रतुयजुर्वेदस्यैवप्रधानत्वात् तद्व्याख्या- नमेवादीयुक्तम् । तत्माधान्यंचकाचिदृगेवाह-चांवःपोषमास्तेपुपुष्वान्गायत्वोगायतिश- करीषु । बलात्वोवदतिजातविद्यांयज्ञस्यमाघांविमिमीतउत्वइति । एतस्यामचस्तात्पर्यनिरुक्त- कारोयास्कःसंक्षिप्यदर्शयति-इत्य॒त्विकर्मणांविनियोगमाचष्टेइति पुनर पिसएवपथमंपादंविवृणो ति-ऋचामेक:पोषमास्तेपुपुष्वान्होतर्गनीति । अस्यायमर्थः-त्वशब्दएकशब्दपर्यायोहोतृवि- शेषणम होतृनामकएकऋत्विग्यज्ञकालेस्वकीयवेदगतानामृचांपुष्टिंकुर्वन्नास्ते भिन्नपदेशेष्वाना- तानामृचांसंघमेकत्रसम्पाद्येतावदिदंशस्त्रमितिकुतिकरोति सेयंपुष्टिः ।अर्चनीत्यमुमर्थमृक्शब्द- आचष्टे अर्ग्यतेप्रशस्यतेऽनयादेवविशेषःक्रियाविशेषस्तत्साधनविशेषोवेत्यृक्शन्दव्युत्पत्तेरि- ति। अथद्वितीयंपादविवृणोति-गायत्रमेकोगायतिशक्करीषदातागायत्रंगायतेःस्तुतिकर्मणःशक्व- यंऋचःशनातेस्तद्यदाभित्रमशकद्धन्तुंतच्छक्वरीणांशक्करीत्वमितिविज्ञायतइति । अस्यायमर्थः- उद्गाठूनामकएकऋत्विग्गायत्रशन्दाभिधेयस्तोत्रशक्करीशब्दांभिधेयास्वृक्षगायति धातूनामने- कार्थत्वेन स्तुतिक्रियावाचिनोगायतिधातोरुत्पन्नोगायत्रशब्दः शक्करीशब्दस्तुशक्नोतिधातोरुत्प- भः वृत्रंशत्रुहन्तुंशकोत्याभिग्भिरित्येषाव्युत्पनिःकस्मिंश्चिद्वालणेविज्ञायतेइति । अथतृतीयं पादविवृणोति-लैकोजातेजाते विद्यावदतिबलासर्वविदिति । अस्यायमर्थः-अलनामकएकक- , तैत्तिरीयसंहितायांषष्ठकाण्डेपञ्चमप्रपाठकेदशमेनुवाके (६.५.१०) । २ . सं. ३ नि०१.८.। १ नि. १.८ । ०२. २४.।

रणम् ३ विग्णातेजातेतदातदोत्पनेप्रस्तुतेपणयनादिकर्मणिविद्यामनुज्ञावदति ' ब्रह्मनपःमणेष्यामीत्येवं सम्बोधितःसन् ओमपणयेत्यनुजानाति सचबलावेदत्रयोक्तसर्वकर्माभिज्ञः तस्माद्योग्यतांदृष्ट्वा तत्तदनुज्ञातुंसतिभमादेसमाधातुंचसमर्थइति । तच्चसामर्थ्यछन्दोगाआमनन्ति-एषएवयज्ञस्तस्य मनश्चवाक्चवर्तनीतयोरन्यतरांमनसासंस्करोतिबलावाचाहोताध्वर्युरुद्वातान्यतरामिति । कल्लो- यज्ञापमादराहित्यायमनसासम्यगनुसन्धेयः वाचाचवेदत्रयोक्तमन्त्राःपठनीयाः तत्रहोत्रादयस्व- योमिलित्वावायूपंयज्ञमार्गसंस्कुर्वन्ति ब्रह्मात्वेकएवमनोरूपयज्ञमार्गकृत्स्नमपिसंस्करोति तस्माद- स्यास्तिसोमर्थ्यमिति । अथचतुर्थंपादंविवृणोति-यज्ञस्यमात्रांविमिमीतएकोध्वर्युरध्वर्युरध्वर- युरध्वरंयुनक्त्यध्वरस्यनेतेति।अस्यायमर्थः-अध्वर्युनामकएकऋत्विग्यज्ञस्यमात्रांस्वरूपविमि- मीविशेषेशनिष्पादयति मीयतेनिर्मीयतेइतिमात्राःस्वरूपं तनिष्पादकत्वंचाध्वर्यो मनिर्वचना- दवगम्यते अध्वर्युरित्यत्रछान्दस्यापक्रिययालुप्तंअकारंपुनःमक्षिप्याध्वरयुरितिनामसम्पादनीय- म् अध्वरंयुनक्तीत्यवयवार्थः अध्वरस्यनेतेतितात्पर्यार्थइति । एतदेवाभिमेत्याध्वर्युवेदस्ययागनि- पादकद्योतकंनिर्वचनंयास्कोदर्शयति-मधामननात् छन्दांसिछादनात् स्तोमःस्तवनात् यजुर्य- जतेरिति । एवंसत्यध्वर्युसम्बन्धिनियजुर्वेदेनिष्पन्नयज्ञशरीरमुपजीव्य तदपेक्षितौस्तोत्रशस्त्ररूपा- वषयवावितरेणवेदवयेनपूर्येते इत्युपजीव्यस्ययजुर्वेदस्यपथमतोव्याख्यानंयुक्तम् ततऊर्ध्वंसाना- मृगाश्रितत्वात् उभयोर्मध्यपथमतकग्व्याख्यानंयुक्तमित्युग्वेदइदानींव्याख्यायते । ननु वेदए- वतावन्नास्ति कुतस्तदवान्तरविशेषकग्वेदः तथाहि कोयंवेदोनाम नहितवलक्षणंप्रमाणंचास्ति नचतदुभयव्यतिरेकेणकिश्चिद्वस्तुमसिधति लक्षणप्रमाणायांहिवस्तुसिद्धिरितिन्यायविदांम- तम् प्रत्यक्षानुमानोपमानागमेषुपमाणविशेषेष्वन्तिमोवेदइतितल्लक्षणमितिचेत् न मन्वादि- स्मृतिष्वतिव्याः समयवलेनसम्यक्परोक्षानुभवसाधनमित्येतस्यागमलक्षणस्यतास्वपिसद्भा- पाव अपौरुषेयत्वेसतीतिविशेषणाददोषइतिचेत् न वेदस्यापिपरमेश्वरनिर्मितत्वेनपौरुषेय- स्वाद शरीरधारिजीवपुरुषनिर्मितत्वाभावादपौरुषेयत्वमितिचे न सहसशीर्षापुरुषइत्यादिश्रु- तिभिरीश्वरस्यापिशरीरित्वात् कर्मफलरूपशरीरधारिजीवनिर्मितत्वाभावमात्रेणापौरुषेयत्वंवि- क्षिमितिचेत् न जीवविशेषैरग्निवावादित्यैर्वेदानामुत्पादितत्वात् ऋग्वेदएवामेरजायतयजुर्वे- दोवायोःसामवेदआदित्यादितिश्रुतेः । ईश्वरस्याग्न्यादिपेरकत्वेननिर्मातृत्वंद्रष्टव्यम् । मघवाल- णात्मकःशब्दराशिर्वेदइतिचेत् न ईदृशोमबईदृशंब्राह्मणमित्यनयोरद्याप्यनिर्णीतत्वात्। तस्माना- स्तिकिञ्चिद्वेदस्यलक्षणम् नापितत्सद्भावेप्रमाणपश्यामः ऋग्वेदंभगवोध्येमियजुर्वेदसामवेदमा- पर्वणंचतुर्थमित्यादिवाक्यंप्रमाणमितिचेत् न तस्यापिवाक्यस्यवेदान्तःपातित्वेनात्माश्रयत्वपस- नि... २ ऐतरेयवालणेपञ्चमपंचिकायांद्वात्रिंशेखण्डे (५-१२.)।

ऋक्संहिताभाष्ये शाद नखलुनिपुणोपिस्वस्कंधमारोपभवेदिति।। वेदंएवद्विजातीनांनिःश्रेयसकरःपरइत्यादिस्मृ- तिवाक्यंप्रमाणमितिचेत् न तस्याप्युक्तश्रुतिमूलत्वेननिराकृतत्वात् । प्रत्यक्षादिकंशङ्कितुमप्ययो- ग्यम् । वेदविषयातुलोकपसिद्धिःसार्वजनीनापि नीलंनभइत्यादिवद्भान्ता । तस्माल्लक्षणप- माणरहितस्यवेदस्यसद्भावोनाङ्गीकर्तुशक्यतइतिपूर्वःपक्षः। अत्रोच्यते-पवनालणात्मकत्वंताव- ददुष्टंलक्षणम् अतएवापस्तम्बोयज्ञपरिभाषायामेवमाह-मंत्रबालणयोर्वेदनामधेयमिति । तयो- स्तुस्वरूपमुपरिष्टानिर्णेष्यते अपौरुषेयवाक्यत्वमिदमपियादृशमस्माभिर्विवक्षितं तादृशमुत्तरत्र सष्टीभविष्यति प्रमाणान्यपियथोक्तश्रुतिस्मृतिलोकमसिद्धिरूपाणिवेदसद्भावेष्टव्यानि यथा घटपटादिद्वव्याणांस्वपकाशकत्वाभावेऽपिसूर्यचन्द्रादीनांस्वप्रकाशकत्वमविरुद्धम् तथामनुष्या- दीनांस्वस्कन्धारोहासंभवेऽप्यकुण्ठितशक्तेर्वेदस्येतरवस्तुपतिपादकत्ववत्स्वपतिपादकलमप्यस्तु। अतएवसंपदायविदोऽकुण्ठितांशक्तिवेदस्यदर्शयन्ति-चोदनाहिभूतं भवन्तंभविष्यन्तंसूक्ष्मव्यवहि- तंविरुष्टमित्येवंजातीयकमर्थशनोत्यवगमयितुमिति । तथासति वेदमूलायाःस्मृतेस्तदुभयमूला- यालोकमसिद्धेश्वमामाण्यंदुर्वारम् तस्माल्लक्षणप्रमाणसिद्धोवेदोनकेनापिचार्वाकादिनाऽपोढुंश- क्यइतिस्थितम् । नन अस्तुनामवेदाख्यःकश्चित्पदार्थः तथापिनासोव्याख्यानमर्हति अपमाणत्वे- नानुपयुक्तत्वात् नहिवेदःममाणम् तल्लक्षणस्यतत्रदुःसंपादत्वात् तथाहि सम्यगनुभवसाधनंप- माणमितिकेचितक्षणमाहुः अपरेवनविगतार्थगन्तृप्रमाणमित्याचक्षते नचैतदुभयवेदेसंभवति मववालणात्मकोहिवेदः तत्रमा केचिदबोधकाः अम्यक्सातइन्द्रष्टिरित्येकोमयः । यादृश्मि- धायितमपस्ययाविददित्यन्यः । सृण्येवंजर्भरीतुर्फरीतूइत्यपरः । एवं आपान्तमन्युस्तृपलमभर्मे- त्यादयउदाहार्याः । नयेतैर्मवैःकश्चिदप्यर्थोवबुध्यते एतेष्वनुभवएवयदानास्ति तदात सक्त्वं सदीयसाधनत्वंचरापेतम् । अर्धःस्विदासी३दुपरिस्विदासी३दितिमधस्पबोधकत्वेपिस्थाणु पुरुषोवेत्यादिवाक्यवत्सन्दिग्धार्थबोधकत्वान्नास्तिपामाण्यं ओषधेत्रायस्वैनमितिमबोदर्भवि- पयः। स्वधितेमैनंहिंसीरितिक्षुरविषयः।Uणोतयावाणइतिपाषाणविषयः। एतेष्वचेतनानांदर्भक्षु- पाषाणानांचेतनवत्सम्बोधनंश्रूयते ततोट्वीचन्द्रमसावितिवाक्यवद्विपरीतार्थबोधकत्यादपामा- ण्यम् एकएवरुद्रोनद्वितीयोवतस्थे । सहसौणिसहस्रशोयेरुद्राअधिभूम्यामित्येतयोस्तुमत्रयों- विनीवमहंमौनीतिवाक्यवद्ध्याघातबोधकत्वात् अपामाण्यम् आपैउन्दन्त्वितिमबोयजमान- १ याज्ञवल्क्यस्मृतौआचाराध्यायश्लो. (४०)। २ आपस्तंबसपथमाध्यासे । ३ शाव रभाष्ये चोदनालक्षणाधर्मइति सू०२.। ४ . सं.२.४.८.। ५. सं.१.२.२४ । ६ ऋ.सं. ८.६.२.। .. सं.८.१.१४. । ८ ऋ.सं.८.७.१७ । ९ नैत्तिरीयसं. प्र.कां.द्वि. प्रपा. प्रथमा नुवाके (१.२.१.)। १० तै. सं.१.३.१३. । ११.सं.१.५-११. । १.सं १.२.१..

उपोहातप्रकरणम् स्यक्षौरकालेजलेनशिरस क्लेदनंबते । शुभिकेशिरआरोहशोभयन्तीमुखममेतिमत्रोविवाहकाले मङ्गलाचरणार्थपुष्पनिर्मितायाःशुभिकायावरवध्वोःशिरस्यवस्थानंबते । तयोश्चमत्रयोर्लोकम- सिद्धार्थानुवादित्वात् अनधिगतार्थगन्तृत्वनास्ति तस्मान्मत्रभागोनप्रमाणम् । अत्रोच्य- ते-अम्यगादिमत्राणामोंयास्केननिरुक्तग्रन्थेऽवबोधितः तत्परिचयरहितानामबोधोनमत्रा- णांदोषमावहति । अतएवावलौकिकन्यायमुदाहरन्ति-नैषस्थाणोरपराधोयदेनमन्धोनपश्यतिपु- रुषांपराधःसभवतीति । अधःस्विदासीदितिमत्रश्चनसन्देहबोधनायप्रवृत्तः किंतर्हिजगत्कार- णस्यपरवस्तुनोतिगभीरत्वंनिश्चेतुमेवपवृत्तः तदर्थमेवहिगुरुशास्त्रसंपदायरहितैर्दुर्बोधत्वमधःस्वि- दित्यनयावचोभन्योपन्यस्यति सएवाभिमायउपरितनेषु कोअदावेदेत्यादिमत्रेषुस्पष्टीकृतः । ओषध्यादिमनेष्वपिचेतनाएवतत्तदभिमानिदेवतास्तेनतेननानासम्बोध्यन्ते ताश्चदेवताभगवता बादरायणेनाभिमानिव्यपदेशस्त्वितिसूत्रेसूत्रिताः । एकस्यापिरुद्रस्य स्वमहिनासहस्रमूर्तिस्वी- कारात् नास्तिपरस्परव्याघातः । जलादिद्रव्येणशिरःक्लेदनादेर्लोकप्रसिद्धत्वेऽपि तदभिमानिदे- वतानुग्रहस्यापसिद्धत्वात् तद्विषयत्वेनाज्ञातार्थज्ञापकत्वम् ततोलक्षणसद्भावादस्तिमवभागस्य पामाण्यम् । एतदेवाभिमेत्यंभगवानजैमिनिर्मवाधिकरणेमवाणांविवक्षितार्थत्वमसूत्रयव ता- निचसूत्राणिक्रमेणोदाहत्यव्याख्यास्यामः तत्रपूर्वपक्षसूत्रयति-तदर्थशास्त्रादिति १ य. स्यार्थस्याभिधानेसमर्थोमवः सएवाभिधेयोयस्यशास्त्रस्यब्राह्मणवाक्यस्यतदिदंवाक्यंतदर्थशा- स्वम तस्माच्छास्वादविवक्षितार्थोमवइत्यवगम्यते तथाहि उपथस्वेतिमशेणपुरोडाशपथन- मभिधीयते पुरोडाशंपथयतीतिबालणेनापितदेवाभिधीयते तथासतिमन्त्रेणैवप्रतीतत्वात् तद- र्थबोधनायप्रवृत्तंबालणवाक्यमनर्थकस्यात् मघस्याविवक्षितार्थत्वेतुविनियोगबोधनायबाल- णमुपयुक्तम् तस्मान्मधाउच्चारणेनैवानुष्ठानमुपकुर्वन्ति । ननूच्चारणार्थत्वेसत्यदृष्टंप्रयोजनंप- रिकल्प्येत अर्थाभिधायकत्वेतुदृष्टलायेत तस्माद्राह्मणस्यानुवादत्वमायुपेत्यापिमवस्याभिधा- नार्थत्वमेवेत्याशंक्य उत्तरंसूत्रयति-वाक्यनियमादिति २ अनिर्धादिवःककुदित्येवमेववाक्यं पठितव्यमितिमवेनियमउपलभ्यते अर्थपत्यायनंतमूर्धाग्निरित्येवंव्युकमपाठेपिभवत्येव तस्मा- नियतपाठक्रमसाफल्याय उच्चारणमेवमंत्रयोजनम् । ननुपाठक्रमनियममावस्यादृष्टार्थत्वेपिम- अपाठोऽर्थबोधनार्थएवेत्याशंक्यतत्रदोषान्तरंसूत्रयति-बुद्धशास्त्रादिति ३ अंमीदमीन्विहरेति प्रेषमन्त्रःमयोगकालेपठ्यते तच्चाग्निविहरणादिकांनीधेणाध्ययनकालेएवस्वकर्तव्यत्वेनबुद्धम् तस्पचचुवस्पार्थस्यपुनर्मवोच्चारणेनशासनमनर्थकम नहिसोपानत्केपादेपुनरप्युपानहंपतिमुश्च-. १ बौधायनसूत्रे.। २ ऋ• सं० ८.७.१७. । ३ ब्रह्मसूत्रतृतीया । ४ जेमिनिसूत्रे प्रथमाध्याये. ५ कै. सं. १.८१६ ० सं०६.३.३९. । • तै० सं० ६.३.१ ।

aur ऋक्संहिताभाष्ये न्ति । ननुयुद्धस्यार्थस्यमामादिकविस्मरणपहिारायमत्रेणस्मारणमस्त्वित्याशंक्यान्यंदोषसूत्र- यति-अविद्यमानवचनादिति ४ चत्वारिशृङ्गात्रयोअस्यपादादेशीर्षसप्तहस्तासोभस्येतिमव- आनायते नखलुचतुःशृङ्गत्वाद्युपेतंकिञ्चियज्ञसाधनंविद्यते यन्मत्रपाठेनानुस्मयते नवीदृशी काचिद्देवतास्यादित्याशक्यान्यंदोषसूत्रयति-अचेतनेअर्थबन्धनादिति ५ ओषधेवायस्वैनं शृणोतयावाणइत्यादावचेतनद्रव्येचेतनोचितंरक्षणश्रवणाद्यर्थवभाति सचायुक्तः नन्वभिमानि- व्यपदेशइतिवैयासिकशास्त्रसूत्रितत्वात् ओषध्याद्यभिमानिचेतनदेवतात्रविवक्ष्यतामित्याशङ्काय दोषान्तरंसूत्रयति-अर्थविपतिषेधादिति ६ अदितिौरदितिरन्तरिक्षमितिमवआम्नायते । यदे- वद्यौस्तदेवान्तरिक्षमित्ययमोंविपतिषिदः एकएवरुद्रः सहस्राणिसहस्रशोयेरुद्राइत्यादिकम- प्युदाहर्तव्यम् ।ननुत्वमेवमाताचपितात्वमेवेत्यादिवदन्तरिक्षादिरूपत्वेनादितिःस्तूयते एवमेकस्या- पिरुद्रस्ययोगसामर्थ्याद्वहुरूपस्वीकारोऽस्तु ततोनार्थविप्रतिषेधइत्याशङ्कयदोषान्तरंसूत्रयति- स्वाध्यायवदवचनादिति ७ पूर्णिकानामकाचिद्योषिदवघातंकरोति सत्समीपेमाणवकःस्वा- ध्यायग्रहणार्थंकदाचिदवघातमन्त्रमधीते नचतस्यार्थप्रकाशनविवक्षास्ति प्रतिमुसलमहारंतस्य मवस्यापठ्यमानत्वात् अक्षरग्रहणायैवतंमत्रमन्यांश्चमवानभ्यस्पति तत्रस्वाध्यायकालेपटिनो- ऽप्यवघातमबोयथापूर्णिकांपतिस्वार्थनबूते तथाकर्मकालेऽपिस्वार्थनवक्ष्यति। ननु तत्रमाणवक- स्यार्थविवक्षानास्ति पूर्णिकाप्यवबोद्धमक्षमा कर्मणित्वध्वर्योरर्थविवक्षाविद्यते बोधश्चसंभवती- त्याशक्यदोषान्तरंसूत्रयति-अविज्ञेयादिति ८ केषांचिन्मत्राणांअर्थोविज्ञानशक्यते तद्यथा भम्यक्सातइन्द्रऋष्टिरस्मेइत्येकोमवः। सृण्येषजभरीतुर्फरीतूइत्यपरोमनः । ननु ईदृशमवार्थयो- धायैवनिगमनिघण्टुनिरुक्तव्याकरणानिमवृत्तानीत्याशक-यदोषान्तरंसूत्रयति-अनित्यसंयोगान्म- वानर्थक्यमिति९ किन्तेकैण्वन्तिकीकटेष्वितिमवेकीकटोनामजनपदआत्रातः । तथानचाशावं नामनगरं प्रमगन्दोराजत्येतेअर्थाअनित्याआनीताः। तथासतिमाक्ममगन्दामायंमत्रोभूतपूर्वइति गम्यते । तदेवमेतैस्तदर्थशास्त्रादिभिहेतुभिर्मवाणामर्थपत्यायनार्थत्वंनास्ति किन्तूच्चारणाददृष्टा- एवेतिपूर्वःपक्षः । तसिद्धान्तंसूत्रयति-अविशिष्टस्तुवाक्यार्थइति १०तुशब्देनमत्राणामदृष्टा- र्थमुञ्चारणमात्रंवारयति क्रियाकारकसंबन्धेनपतीयमानोवाक्यार्थोलोकवेदयोरविशिष्टः।तथास- ति यथालोकेऽर्थपत्यायनायैववाक्यमुच्चार्यते तथावैदिकेयागमयोगेऽपिद्रष्टव्यम् मणमकाशि- तस्त्वर्थोऽनुष्ठातुंशक्यते नत्वप्रकाशितः तस्मान्मत्रोच्चारणस्यार्थमकाशनरूपंदृष्टमेवप्रयोजनम् । ननु अधिरसिनारिरसीत्यारण्यत्रैष्टुभेनत्वाछन्दसादहतिमधानातः तेनैवमक्षेणमतीतेप्यभ्या- ऋ० सं०३.८१०। २३०सं० १.६.१६.। ३ऋ.सं. ३. ३.११.। १ कितेकण्वन्तीतिमत्रेएव.। ५ ते० सं०४.१.१..

उपोद्घातप्रकरणम् ७ दाने पुनालणेनतां चतुभिरभ्रिमादत्ते इतिविधीयो ।तदेतद्विधानत्वत्पक्षेव्यर्थस्यात् इत्याशङ्कयो- तरंसूत्रयति-गुणार्थेनपुनःश्रुतिरिति ११ मत्रेणपतीतस्यैवार्थस्यब्राह्मणेयत्पुनःश्रवणंतदेतच्चनुः १ तै०सं० ५. १. १ तैत्तिरीयशाखायांसंहिताकतिपयब्राह्मणभागमिश्रिता ब्राह्मणम- पिकतिपयमंत्रभागमिश्रितं तत्सारस्वतपाठानुसारेणेतिज्ञातव्यम् । अमिश्रितपाठस्तुसंहि- ताब्राह्मणयोःसत्याषाढगृहोक्तकांडानुक्रमानुसारेणबोद्धव्यः। तदुक्तंसंस्काररत्नमालायाम्- कांडानांसंकीर्णत्वेनयथाकांडमिदानीमध्ययनासंभवात्कांडानुक्रमणिकायांसारस्वतपाठस्या- प्यभ्यनुज्ञातत्वाच्च सारस्वतपाठेनैवेदानीमध्ययनमस्ति सारवतकथाचेतिहासपुराणादौप्रसि. दा साकांडनिरूपणावसरेसंस्काररत्नमालायामुपन्यस्ता-यथाब्रह्मसभायांदुर्वासाःसामगा- यन्नास । तखलुतेजसारंदृष्ट्वासभामध्यसरखत्यस्मयत् । ततःक्रुद्धोमुनिःसरस्वतींशशाप मर्त्ययोनौप्रजायतेति । ततस्तंदेवीप्रसादयामास भगवन्विप्रगृहेप्रजायेयमिति । ततःसमु. निस्तथेत्युक्त्वाजगाम। ततोदेव्यात्रेयगृहेजायत । ततोवेदविदंभर्तारंपाप्यविद्यानिधिपुत्र रुतोपनयनंपितासारस्वतंवेदमध्यापयामासयथावृद्धक्रमेण ॥ ततस्तं बालत्वादल्पमेध- संपिताताडयामासपृष्ठवेणुदलेन् । ततःसोरोदी सापितंदृष्ट्वापुत्रमालिंग्यातिदुःखिताबभूव । अश्रुपूर्णतंवागीशानिवार्यचपुनः ततःसाचिंतयामासयस्याःकस्याःसुतोनहि । प्राप्यमां ताड्यतेबालोमममाणप्रियःसुतः।ततश्यतुःषष्टिकलाः सर्वान्वेदान्त्सांगान्ब्रह्मविद्यापर्यंतान्त्सा- रखतायसरस्वत्युपादिशत् । क्षत्पिपासानिवर्त्यवायुधारणंचोपादिशत् । ततःसंपूर्णविद्यो- सौकुरुक्षेत्रेवसन्मुनिः । तपस्तेपेमहाभागोदेवैरपिसुदुष्करम् ॥ ततःकालेनमहतारानाव ष्टिरभूत्किल । कुरुक्षेत्रेसारस्वतंदृष्टपुष्टमंतर्वायुधार्यमाणंतमूपिंददृशुः । तमूचुर्मुनयःसर्वेशा. कंदेहीतिनःप्रभो । अलंशाकेनभोविप्रायदिशाकंभवेद्भुवि । सारस्वतोमुनिःमाहतेभ्योदेहीति- चंडिकाम् । सुतशाकंप्रदास्यामियदिशाकेनतेलं । शाकंभरीतिमुनिनाप्रसन्नाकारिवै. तदा । शाकाहारास्ततःसर्वेमुनयःकृतजीविताः । भिक्षेविनिवृत्तेप्यध्ययनंनास्मरम्त. दा। अन्योन्यमभिजग्मुस्तउच्चरंतश्चनकंचन । ततोविस्मृतवेदास्तेबभूवुर्मुनयोभृशम् ।त. तोतिदुःखितेषुमुनिषुनारदेनोक्तम् । सारस्वतंकतसर्ववेदाध्ययनंगत्वा अध्ययनंकुरुध्व- मिति । ततस्तेसारस्वतंप्रार्थयामासुः । अध्यापनंकुरुष्वभगवनिति । ततःसारस्वतः प्रार्थितश्चतुःषष्टिमुनिगणसहस्रेभ्यश्चतुःषष्टिसहस्रवेदानध्यापयामास । ततस्तान्वेदास्तच्छा. खिनःसाकल्येनाधीतवंतः । तैत्तिरीयशाखिनस्तु साकल्येनाध्ययनरुत्वासर्ववेद- विलक्षणांतैत्तिरीयशाखांदृष्ट्वान्योन्यमूचुः अहो अतीवविस्मयोस्माकंसर्वविलक्षणांशा- खामण्यापयतिस्मास्मान्मटान्रुत्वानिमिताम् ततःसर्वेतैत्तिरीयशाखिनःसंभूयसारस्व- तमूचुः नायंवेदस्त्वयाध्यापितःसर्ववेदविलक्षणत्वादिति । ततःसारस्वतःसर्वान् श्रेष्ठान्मुनी. माहवचः यययनभवेद्वेदःप्रतिज्ञातुकरोम्यहम् । अमिप्रवेशनंकुर्याभवंतोवाचमीरिताम् । त- मूचुर्मुनयःसर्वेवधनंयत्वयोदितम् । यदिवेदक्रमविप्रमतिज्ञांकुर्महेवयम् । ततःसारलतेनस. हिताःसर्वेमुनयःतस्तत्रमुनीन्गत्वानिर्णेतुनशकुमइतितैरुक्ताब्रह्माणंजग्मुर्यथायथंमतिमानिवे.

८ ऋक्संहिताभाष्ये संख्यालक्षणगुणविधानार्थत्वेनोपयुज्यते एतस्यविधानस्याभावे चतुमित्राणांमध्येयेनकेना- प्लेकेनाभिरादीयेत । ननु इमामगृणित्रशनामृतस्येत्यश्वाभिधानीमादत्तइत्यत्रमत्रसामर्थ्यादे- वमाप्तस्यरशनादानस्यपुनर्बाह्मणवाक्यंविनियोजकमानायते तदेतत्त्वन्मतेव्यर्थमित्याशङ्कयोत्त- रंसूत्रयति-परिसंख्येति १२ गर्दभाभिधानींनादत्तइतिनिषेधःपरिसंख्या तदर्थमिदंब्राह्मणवाक्य- म् । ननुपरिसंख्यायांत्रयोदोषाःपामुयुः आदत्तइतिशब्दः रशनादानलक्षणंस्वार्थजह्यात् तनिषे- धलक्षणःपरास्यशब्दस्यकल्प्येत रशनात्वसामान्येनचमाप्तगर्दभरशनायाआदानंबाध्येतेतित्र- योदोषाः।मैवं गर्दभरशनायाअप्राप्तत्वात् तथाहि त्वत्पक्षेपकरणपाठान्यथानुपपत्त्यामत्रेणानेना- दानंकुर्यादितिवाक्यंपरिकल्प्यते तेनचवाक्येनमवादानयोःसम्बन्धेसिद्धेसति पश्चात्किंविषय- मादानमितिवीक्षायांलिङ्गादशनामावस्यादानमुपेत्यगर्दभरशनायाःपाप्तिर्वक्तव्या साचविलम्ब्यते इत्यश्वाभिधानीमितिपत्यक्षेणवाक्येनमत्रादानयोःसंबन्धेसतिलिङ्गादशनामात्रेमाप्तमादानमश्वा- भिधानीमितिश्रुत्याविशेषेव्यवस्थाप्यते ततोमवस्यनिराकाहत्वात् गर्दभरशनायाअमाप्त- त्वान्नास्तिमाप्तबाधः अतएवनिषेधार्थोनकल्प्यते विध्यर्थश्चनत्यज्यते तबकुतोदोषत्रयम् ईट- शममाप्तिरूपमेवगर्दभरशनायानिवारणमभिप्रेत्यपरिसंख्येतिसूत्रितम् । ननु उरुमथस्वेतिपथ- यतीतिब्राह्मणवैयर्यंतदवस्थमेवेत्याशङ्कयोत्तरंसूत्रयति-अर्थवादोवेति १३ वाशब्दोवैयर्थ्य वारयति अस्त्यवार्थवादः यज्ञपतिमेवतत्पथयतीति तेनार्थवादेनसंबन्धायबाह्मणेविधिःपठ्य- ते । ननु पथयतीत्यनेनैवविधिशब्देनप्रथनमनूद्ययज्ञपतिमेवेत्यादिनार्थवादेनस्तोतव्यंतदेवतुप- थनंकुतःमाप्तमित्याशङ्कयोत्तरंसूत्रयति-मत्राभिधानादिति १४ अध्वर्युःपुरोडाशमुद्दिश्यमन्त्रे प्रथस्वेत्येवमभिधत्ते तस्मादभिधानादध्वर्युकर्तृकंपथनंपातम् यथालोकेयःकुर्वितिब्रूतेसकार- यत्येव तथावापियःमथस्वेतिब्रूतेसप्रथयत्येव यदुक्तम् अग्निर्मूर्धादिवइतिपाटकमनियमा- त् अदृष्टार्थोमवइति तत्रोत्तरंसूत्रयति-अविरुद्धंपरमिति १५ परंद्वितीयसूत्रोक्तमस्मत्पक्षेऽप्य- विरुद्धम् नहिवयंपाठक्रमनियमाददृष्टंनिवारयामः किंतर्हिमन्त्रोच्चारणेनजायमानमर्थपत्यायनं दिताः । ब्रह्मापिमुनिसारस्वतमाह-सत्यप्रतिज्ञातंतत्रभवतासारवतेन सारस्वतोवेदपा- ठसारवतोक्तक्रमेणैवाध्येतव्यः अन्यथाध्ययनफलंनास्तीति ततइतरान्मुनीमाह सत्यन- पाठक्रमेणार्थानुष्ठानक्रमोभवतीति तस्मात्सर्वेजितं नामिप्रवेशनकर्तव्यमितीतिहासः । १ तै० सं० ५.१.२. । इमामगृभ्णनरशनामृतस्येत्यादिचतुर्थकाण्डेप्रथमाध्यायेद्वितीया. नुवाकेमन्त्रःपठितःतस्यैवइमामगृभ्णत्रशनामृतस्येत्यश्वाभिधानीमादत्तेइतिपंचमकाण्डप्रथम प्रपाठकेद्वितीयानुवाकेनालणम् । २.ना. ३.२.८.।

उपोद्घातप्रकरणम् दृष्टप्रयोजनत्वात् नोपेक्षितव्यमित्येतावदेवब्रूमः ॥ ननुमोक्षणीरासादयतिमत्रोबुद्धमेवार्थशास्ति तदयुक्तम् सोपानत्कस्यपादस्योपानदन्तरासंभवादित्युक्तमितिचेत् तस्यपरिहारंसूत्रयति-स- म्प्रेषकर्मणोगर्हानुपलम्भःसंस्कारत्वादिति १६ सम्प्रेषकर्मणोगऱ्यात्वदुक्तदोषोनोपलभ्यते बु- दस्याप्यर्थस्यमणैवानुस्मरणेसतिनियमात दृष्टलक्षणस्यसंस्कारस्यसद्भावात् । यच्चोक्तम् चत्वारिशृङ्गेतिमत्रोऽसन्तमेवार्थमभिधत्तइति तस्योत्तरंसूत्रयति-अभिधानेऽर्थवादइति १७ असतोऽर्थस्याभिधायकवाक्येगौणस्यार्थस्योक्तिद्रष्टव्या तद्यथा चत्वारोहोत्रध्वगाव- लाणोस्यकर्मणःशृङ्गाणि प्रातःसवनादयस्त्रयःपादाः पत्नीयजमानौद्देशीर्ष गायत्र्यादीनि सप्तछन्दांसिहस्ताः ऋग्वेदादिभित्रिभिदैत्रेधाबन्धनं कामान्वर्षतीतिवृषभः रोरवीतिस्तोत्रश- सादिशब्दापुनःपुनःकरोति महोदेवःसोयंप्रौढोयज्ञरूपोदेवोमानाविवेशेति । मनुष्याएवात्रा- धिकारिणः लोकेप्येवंगौणप्रयोगादृश्यन्ते चक्रवाकस्तनी हंसदन्दावली काशवस्त्रा शैवलकेशि- नीत्येवंनद्याःस्तूयमानत्वात् एवमोषधेत्रायस्व शृणोतग्रावाणइत्याद्यचेतनसम्बोधनानिस्तुति- परत्वेनयोजनीयानि यस्मिन्वपनेओषधिरपित्रायतेतत्रवपनकर्तात्रायतइतिकिमुवक्तव्यम् तथा प्रावाणोपिमातरनुवाकंशृण्वन्ति किमुतविद्वांसोब्राह्मणाइत्यादिमत्राणामभिप्रायः योप्यदिति- चौरदितिरन्तरिक्षमितिविप्रतिषेधउक्तः तस्योत्तरंसूत्रयति-गुणादविप्रतिषेधःस्यादिति १८ य- थात्वमेवपितात्वमेवमातेत्यत्रगौणप्रयोगादविरोधः तद्वत् एवमेकरुद्रदेवत्येकर्मण्येकोरुद्रः शत- रुद्रदेवत्येशतरुद्राइत्यविरोधः । यदप्युक्तम् स्वाध्यायमधीयानोमाणवकःपूर्णिकायाअवहतिं नप्रकाशयितुमिच्छति तत्रोत्तरंसूत्रयति-विद्यावचनमसंयोगादिति १९ वेदविद्याग्रहणकालेऽ- र्थस्ययदवचनंतदयज्ञसंयोगादुपपद्यते नहिपूर्णिकायाअवघातोयज्ञसंयुक्तः नापिमाणवको- यज्ञमनुतिष्ठति अतोयज्ञानुपकारान्नतत्रार्थविवक्षा। यदप्युक्तम् अम्यक्सातइन्द्र सृण्येवज- भरीतुर्फरीतूइत्यादौअर्थस्यज्ञातुमशक्यत्वान्नास्त्येवार्थइति तत्रोत्तरंसूत्रयति-सतःपरमविज्ञान- मिति २० विद्यमानएवार्थःप्रमादालस्यादिभिर्नज्ञायतेतेषांनिगमनिरुक्तव्याकरणवशेनधातुतो- ऽर्थःपरिकल्पयितव्यः तद्यथा जर्भरीतुर्फरीतूइत्येवमादीन्यश्विनोरभिधानानि तेषुहिद्विवचना. न्तत्वलक्ष्यते आश्विनंचेदंसूक्तम् अश्विनोःकामममाइतिदर्शनात् एतदेवाभिप्रेत्यनिरुक्तका- रोव्याचष्टे-भरीभारावित्यर्थः तुर्फरीतूहन्तारावित्यर्थइति एवमम्यक्सातइत्यादावप्युग्नेय- म् । यदप्युक्तम् प्रमगन्दाद्यनित्यार्थसंयोगान्मवस्यानादित्वंनस्यादिति तत्रोत्तरंसूत्रयति-उक्त- १ तै. ब्रा० ३. २. ९.। २ऋ. सं. ३.८.१०.। ३ सृण्येवजर्भरीइतिमन्त्री यस्मिन्मूक्तेवर्ततेतत् ( ऋ० सं० ८. ६. २.)। ४ नि० १३. ५. ।

ऋक्संहिताभाष्ये थानित्यसंयोगइति २१ प्रथमपादस्यान्तिमाधिकरणे सोयमनित्यसंयोगदोषउक्तःपरिहतः व- थाहि तत्र पूर्वपक्षेवेदानांपौरुषेयत्वंवक्तुं काठकंकालापकमित्यादिपुरुषसंबन्धाभिधानहेतूकृत्या- नित्यदर्शनाच्चेतिहेत्वन्तरंसूत्रितम् तस्यायमर्थः-बबर मावाहणिरकामयतेत्यनित्यानांबबरा- दीनामर्थानादर्शनाव ततःपूर्वमसत्वात्पौरुषेयोवेदइतितस्योत्तरमेवंसूत्रितम्-परंतुश्रुतिसामान्य- मावमिति तस्यायमर्थः यत्काठकादिसमाख्यानंतत्मवचननिमित्तम् यत्नुपरंवबराद्यनित्यदर्श- नं तच्छब्दसामान्यमा नतुतबानित्योबबराख्यःकश्चित्पुरुषोविवक्षितः किन्तु बबरइतिशब्दानु- रुतिः तथासतिबबरइतिशब्दकुर्वन्वायुरभिधीयते सचपावाहणिः प्रकर्षणवहनशीलः एवम- न्यवाप्यूहनीयम् । तदेवंकस्यचिदपिदोषस्यासंभवात् विवक्षितार्थामश्राःस्वार्थपकाशनायैवम- मोक्तव्याः। नन्वर्थप्रकाशनार्थत्वेसतिदृष्टंप्रयोजनलस्यतइतियुक्तिमात्रमिदमुच्यते नत्वेतदुपोद- लकंकिंचितश्रीतलिङ्गंपश्यामइत्याशङ्कयोत्तरंसूत्रयति-लिङ्गोपदेशश्चतदर्थवदिति २२ आमे- य्यानीधमुपतिष्ठेतइतिश्रूयते । तस्यायमर्थः-अग्निर्देवतायस्याऋचः सेयमाग्नेयी तयानीधस्था- नमुपतिष्ठतेति अत्रापस्थानमुपदिशद्वाह्मणं अग्नेनयेत्यनयोपतिष्ठेतेतिमत्रपतीकंपठित्वानोप- दिशति कित्वाग्नेयीत्वलिकेनोपदिशति यदातस्यामृच्यग्निःपाधान्यनमतिपाद्यते तदातस्याक- चोनिर्देवताभवति तथासत्याग्नेय्येतिदेवतावाचितद्धितान्तनिर्देशउपपद्यते तस्मादयमुपदेशस्त- न्मत्रवाक्यमर्थवदितिबोधयति अतोविवक्षितार्थत्वात् अर्थपत्यायनार्थपयोगकालेमत्रोच्चारणम् तस्मिन्नेवविवक्षितार्थत्वेलिङ्गान्तरंसूत्रयति-ऊहइति २३ परतावानातस्यमन्त्रस्यविकतौसम- वेतार्थत्वायतदुचितपदान्तरस्यपक्षेपेणपाठऊहः तद्यथा अन्वेनंमातामन्यतामनुपितानुभातेति प्राकृतपशुविषयोमत्रपाटः तस्यचमवस्यविकृतीपशुवयसति अन्वेनीमातामन्यतामित्यूहः प- शुबहुत्वेसति अन्वेनान्मातामन्यतामित्यूहःकर्तव्यः एतन्मवव्याख्यानरूपंवालणमेवमानायते- नमातावर्धतेनपितेति तवेदंचिन्तनीयम् किमवशरीरवृद्धिनिषिध्यतेआहोस्विच्छन्दवृद्धिरिति । एकवचनान्तस्यमातृशब्दस्य मातरावितिद्विवचनान्तत्वेनवा मातरइतिबहुवचनान्तत्वेनवापयोगः शब्दवृद्धिः तत्रनतावच्छरीरवृद्धिनिषेधुंशक्यते बाल्यकौमारयौवनादिवयोनुसारेणत :म- त्यक्षत्वाव अतःशब्दवृद्धिनिषेधएवपरिशिष्यते मातृशन्दपितृशब्दयोर्विशेषाकारेणवृद्धिनिषेधा- व इवरस्यैनमितिशब्दस्यार्थानुसारिणीवृद्धिःसूचिताभवति तत्रयद्यर्थोनषिवक्ष्येत तदापशुद्वि- वेद्विवचनम् पशुबहुत्वेबहुवचनंचकथमूह्येत तस्माद्विवक्षितार्थामत्राः । तस्मिन्नेवार्थेलिङ्गान्त- रंसूत्रयति-विधिशब्दाचेति २४ मत्रव्याख्यानरूपोब्राह्मणगतःशब्दोविधिशम्दइत्युच्यते सचै- १० सं० १. २. ४.।

उपोहातप्रकरणम् पमानायते-शहिमाःशतंवर्षाणिजीव्याः स्मेत्येतदाहेति।तत्रशतंहिमाइत्येतद्व्याख्येयमन्त्रस्यप- नीकम् अवशिष्टतुतस्यतात्पर्यव्याख्यानम् मत्रस्याविवक्षितार्थत्वेतुकिन्नामतात्पर्यंमत्रेव्याख्यासते तस्माद्विवक्षितार्थामवाः प्रयोगकालेस्वार्थप्रकाशनायैवोच्चारयितव्याः तत्रसङ्ग्रहश्लोको-मबाउ- रुपयस्वेतिकिमदृष्टैकहेतवः । यागेषूतपुरोडाशपथनादेश्वभासकाः १ ब्रालणेनापितदानान्म- श्राःपुण्यैकहेतवः । नतद्भानस्यदृष्टत्वादृष्टंवरमदृष्टतः २ ननु अस्तुमत्रभागस्यपामाण्यम् बाल- णभागस्यतुनतधुज्यते तथाहि द्विविधंब्राह्मणम् विधिरर्थवादश्चेति तथाचापस्तम्बः-कर्मचो- दनाब्राह्मणानिबालणशेषोर्थवादइति । विधिरपिद्विविधः अमवृत्तपवर्तनमज्ञातज्ञापनंचेति आं- मावैष्णवंपुरोडाशंनिर्वपन्तिदीक्षणीयायामित्याद्याःकर्मकाण्डगताविधयोऽप्रवृत्तपवर्तकाः ओ- त्यावाइदमेकएवाग्रआसीदित्यादयोब्रह्मकाण्डगताविधयोज्ञातज्ञापकाः तत्रकर्मकाण्डगतानां - तिलयवाग्वावाजुहुयाद्वीधुकयवाग्वावेत्यादिविधीनांनास्तिप्रामाण्यम् प्रवृत्त्ययोग्यद्रव्यविधा- नेनसम्यगनुभवसाधनत्वाभावात् अयोग्यत्वंचवाक्यशेषेसमान्नोंतम्-अनाहुतिजतिलाश्च- मवीधुकाश्चेति । तत्रयारण्यतिलानांआरण्यगोधूमानांचाहुतिद्रव्यत्वं निषिद्धम् तस्माद्वाधिवोण- तिलादिविधिरममाणम् । एवमैतरेयतैत्तिरीयादिब्राह्मणेषुतत्तनादृत्यं तत्तथॉनकार्यमितिवाक्या- श्यावहवोविषयोनिषिद्धाः अपिचैतरेयब्राह्मणेअनुदितहोमंबहुधानिन्दित्वातस्मादितेहोतव्य. मित्यसरूनिगमितम् तैत्तिरीयाश्चतथैवामनन्ति-यदनुदितेसूर्येमातर्जुहुयादुभयमेवानेय स्यात् । उदितेसूर्येपातर्जुहोतीतिपुनरपितएवोदितहोमेदोषामनन्ति-यदुदितेसूर्येपातर्जुहुयात् यथातिथ- येपद्रुतापशून्यायावसथायाहार्यहरन्तितादृगेवतदिति । तथैवातिराषोडशिनंगृह्णातीतिविधिः नातिराषोडशिनंगृह्णातीतिनिषेधेनबाध्यते ज्योतिष्टोमादिष्वप्यनुष्ठानानन्तरमेवस्वर्गादिफलं मो. पलायते नहि भोजनानन्तरंतृप्तेरनुपलम्भोस्ति तस्मात्कर्मविधिषुपामाण्यंदुःसंपादनीयम् । भन्ना- तज्ञापकेषुबलविधिष्वपिपरस्परविरोधानास्तिमामाण्यम् आत्मावाइदमेकएवामआसीदित्पतरे- पिणआमनन्ति । असवाइदमग्रआसीदितितैत्तिरीयाः। सोयंविरोधः तस्मादेिविधिभागःसयों- प्यममाणमितिमाप्नेब्रूमः-अस्त्वेवंजतिलादिविधेरपामाण्यम् तदर्थस्याननुष्ठेयत्वाव अनुष्ठेयस्व- र्थउपरितनेऽजाक्षीरेणजुहोतिइतिवाक्येविधीयते तत्पशंसार्थमंत्रजातिलादिकमनूधनिन्धवे य- थागपामश्वानांचप्रशंसार्थमपशवोवाअन्येगोअश्वज्यइतिवाक्येनार्थवादरूपेणाजादीनांपशुत्वं १ आपस्तम्बधर्मसूत्रे । २ ऐतरेयब्राह्मणेप्रथमपञ्चिकायाःप्रथमखण्डे १. १.। ३. ऐतरेयोपनिषदिप्रथमाध्याये । ४ तै० सं० ५. ४. ३.। ५० सं०५. ४. ३.। ६ ऐ० ब्रा० २. २३.। ७ तै. बा. १.१.८.। ८ऐ. बा.५.३१.। बा.२.१.२.. .१० तै. बा. २.१.२॥ ११ ऐ. आरण्यके।

Rik Sanhita

Author
Not Available
Other authors
Bhaynacharya
Title
Rik Sanhita
File name
Rik Sanhita
Text
OCR done
Citation
1810
Published
2006/04/28
Publisher
Ganapat Krishna Jee, Mumbai
Language
Sanskrit
Pages
18
Library
Ramkrishna Mission Institute Of Culture, Golpark
Classification
The Vedas
Keywords
Religion - Philosophy
DLI number
344950
Barcode
4990010216681.00
Scanning centre
C-DAK, Kolkata
Digital publisher
Digital Library Of India
Rights
In Public Domain
VMLT id
Wf0m8U5gqow
Download PDF

Rik Sanhita