Bharatiya Jnanpith Delhi
The Tattavasara
Front matter
No text on this page.
No text on this page.
No text on this page.
THE
PRINCESS OF WALES
SARASVATI BHAVANA TEXTS
No. 32
eeeeeeeeeeeeeceecettceeeeeetceCCG
EDITED BY
GOPINATH KAVIRAJ
THE
ecceeceeeeeecas eeeeeeeeeeeted manga 009299920aenon
AFTVA SARA
Printed by Vonkatesh Shastri Dravid, B.A.,
Sanga Veda Vidyalaya Press,
Ramghat, Benares City.
1930
KWAMBA SANSKRIT SNIES *****
10. DOX KUANES GITY
No text on this page.
महामहोपाध्याय राखालदास न्यायरत्नकृतः
तत्त्वसारः
THE
OF
MAHAMA HOPADHYAT: RAKHALADÁSA
NYAT:RITNA,
Edited with Introduction etc
BY
HARIHARA SAASTRI
Proje8801", Benares Hiniu l'ninersity, Benares.
Published under the authority of the Government
of the United Provinces by the Government
Press, Allahabad. Government Sanskrit
Library Benares.
1930)
No text on this page.
भूमिका अथैषा प्रस्तूयते द्वितीयावृत्तिस्तस्वसारस्य मुद्रयित्वा प्रकाशयितुम् । एष खलु फलकाता-प्रेसिडेन्सीकलेजाध्यापकन श्रीमता हरिचन्द्र कपि. रत्नेन कलकातामहानगर्यो गिरिश-विचारनयन्त्रे १८८७ तमे वृष्टवर्षे बङ्गाक्षरः प्रथम मुद्रितः प्रकाशितश्च। प्रथममुद्रितप्रन्थावसाने तर्क- रसिकानां बहोः कालात् प्रभृति तदसौलम्यवैमनस्यमासीदिति सारतर. सन्दर्भप्रचारप्रवणचेतसा श्रवास्पदमित्रवरेण काशिकराजकीयसंस्कृत- पाठशालाध्यक्षेण पण्डितप्रकाण्डेन श्रीमता गोपीनाथकविराज एम० ए० महोदयेन तत्सम्पाद्यमानायां सरस्वतीभवनप्रन्थमाला'यां “तत्वसार स्य प्रकाशने प्रोत्साहितोऽहम्। अस्य वखण्डनार्थ जयपुरराजकीयतात्कालिक- शिक्षाविभागाध्यक्षेण (Director of Public Instruction,Jaypur State ) श्रीहरिदास-शात्रि-पम० ए० महोदयेन "तस्पसारविचारो" नाम कश्चन प्रन्यः प्रणीतो मुद्रापितश्च १८६१ मे सृष्टा दे। तत्र व प्रायः सर्वत्र गालिवर्षणममर्षणमेवानुष्ठितं कस्यापि महामहोपाध्यायस्य प्रणोदनप्रन्यकतिनामलोलुपेन तेनैव शास्त्रिवर्येण । यत्र तु विचारस्या- वर्तत वार्तापि, तस्य सोत्तरः समुहलेखः कृतो यथामति निबन्धेऽस्मिन् टिप्यण्याकारण। अस्य खलु "तस्वसार"स्य रचयिता दिगन्तविश्रान्तकोतिःसाक्षादक्ष- पादमूर्तिः परमपूज्यपादः श्रीमान् महामहोपाध्यायोराखालदासन्यायरमः। बङ्गेषु गङ्गातीरत्तिनि 'मट्टपल्ली'ति प्रसिद्ध प्रामे १७५१ तमे शाक- वर्षे भाई मासि अनन्तचतुर्दश्यां पाश्चात्यवैदिकश्रेण्या यजुर्वेदिवा- शिष्ठगोत्रे समुत्पनोऽसौराखालदासः। तातस्तस्य सीतानाथविद्याभूषणो धर्मशानाध्यापक आसीत् , माता व विमला देवी। मालन् बलु राजालदासस्य प्रयो भ्रातरः कनिष्ठाः शाखीकनिहाः। तेषामन्यतमः [ ख ] प्रतिमावतारस्ताराचरणतरत्नो ज्यायसो न्यायरत्नमहाशयादेव नव्य- प्राचीनसमप्रन्यायशास्त्रमधीत्य लब्धाऽनितरसाधारणव्युत्पत्तिविशेषः काशिराजसभास्तारपदमलकुर्वाणो गीर्वाणवाणीलीलानिकेतनायमानः काशिकविद्वन्मण्डलीषु प्रधानतया विराजते स्म व्याकरणं साहित्याऽलङ्कारांश्चासौ राखालदासो भट्टपल्लीनिवा- सादेव जयरामन्यायभूषणादध्यैष्ट। चतुर्दशवयोवर्षे अभिजातकुलल. लामया सुप्रभादेव्या साक्षाद्गौयेवाऽष्टमवर्षीयया संवृत्तस्तस्य परिणयः। स खलु- ऊनविंशवयसि स्थितस्तत स्तर्कशासमधिगन्तुमिच्छया । आजगाम मुधियां सुधानिधि सार्वभौमयदुरामनामकम् ॥ सब एव स च बुद्धिवैभवैः कल्पनासु कुशलैरनल्पकैः। शिक्षकस्य सहपाठिनां तथा मानसेषु सृजति स्म विस्मयम् ॥ असौ परमगुरोर्गुरोरवतारादिव हलधरतर्कचूड़ामणिमहाशयादधि- जगाम निगूढ़ रहस्यं तर्कशालाणाम् । 'कणादसूत्रविवृति'कारत्वेन प्रसिद्धात् जयनारायणतर्कपञ्चाननादपि 'आत्मतत्वविवेक' 'शब्दशक्ति- प्रकाशिका' ऽवासीदधीतवानेष यशोमात्रावशेषे यदुरामसार्वभौमे । 'न्यायरन'सुपनाम सार्थकं धारयन् स गुरुभिः समर्पितम् । बनमारभत शास्त्रपाठनां त्रिंशवर्षपरिपूरणात् पुरः ॥ पस्या कनीयान् तनयो महामहोपाध्यायः श्रीमान् प्रमथनाथवभूषण- महाशयः साम्प्रतं कापीहिन्दू विश्वविद्यालये प्राच्यपियाविभागाध्यक्षपदमबाचन [ ग ] साक्षाद्वौद्धावतारः परगुणोलसितो विश्वविश्रुतकीतिः श्रीमदी- श्वरचन्द्रविद्यासागरो नवीनाध्यापकस्याऽस्य विद्यालयसुपरिपोषणार्य मुद्रादशकमितां मासिकी वृर्ति स्वत एवं प्रदत्तवानासीत् । परन्तु न्यायरलमहाशयः- ततश्चतुस्लिंशवयाक्रमोदये स्वयं तदर्थग्रहणान्यवर्तत । बभूव विद्यार्जितवित्तसञ्चयः समर्थता तस्य हि शिष्यपोषणे ॥ विचारे पाण्डित्यं परिषदि बुधानां प्रकटयन् धनं राजन्यायैः समुपहृतमत्यादरभरैः । गृहीत्वा सौहित्यं मनसि लभमानः स च चिरं स्वतन्त्रः स्वीचक्रे न खलु भूतकाऽध्यापकपदम् ॥ १८२७ तमे खुष्टवर्षे भारतेश्वर्ध्या भिक्टोरियाया 'जुबिली' महोत्. सवावसरे न्यायरत्नमहाशयप्रमुखा अष्टावेव भारतीया विद्वांसः सर्वप्रथम 'महामहोपाध्याय' इति गरीयसोपाधिना बभूवुर्विभूषिताः । पञ्चाशद्वर्षाधिकमसौ भोजनादिप्रबन्धपुरसरं थिनोऽध्यापयामास । तेषु स्वर्गतो महामहोपाध्यायो नैयायिककुल- पतित्वेन परिचितः शिवचन्द्रसार्बभौमः प्रधानतम इति सुविदितमेष सर्वेषां शालरसिकानाम् । अस्यैव सार्वभौममहाशयस्य च्छात्रेषु साम्प्रतं महामहोपाध्याय-श्रीमत्प्रमथनाथतर्कभूषण-शास्त्रकानन-पञ्चा- नन-श्रीमत्पञ्चाननतरत्न-महामहोपाध्याय-श्रीमद्गुरुचरणतर्कदर्शन- तीर्थ-महामहोपाध्यायश्रीमत्पार्वतीचरणतर्कतीर्थप्रमुखा पण्डितमण्डली- शिरोमण्डनानीव विराजन्ते । भ्रात्रादि खजनेषु शासरसविन्मित्रेषु व मायशः वर्ग मस्थितवत्सु वत्सलतया शोकेन खिमान्तरः । बहून् विद्या.
[ घ ] आशामायु पुपोष चेतसि सुषी राखालदासस्लसौ बासाय स्मरसूदनस्य नगरे श्रीकृत्तिवासामियः ।। इसोमवसुक्षपाकर (१८१५) प्रमिताब्दे शकभूपतेरसौ । सफलामकरोचिरन्तनीमधिवाराणसि वासवासनाम् ॥ काश्यां यथा प्रतिग्रहमन्तरेण पण्डितप्रकाण्डस्यास्य जोविकानि- वाहः स्यात् , तथा पूर्वमेव व्यवस्थापितं विद्यानुरागिणा. 'हाथुया'- नरेशेन कृष्णप्रतापसाहिवाहादूरेणेति निरुवेगमत्रापि पाठनामात्र. अतोऽयं शालालोचनेनैव समयमतिपातयति स्म। काश्यामपि विभूयिष्ठायां न्यायरत्नमहाशयस्य महतो प्रतिष्ठा समवर्तत । वाराणसेयकोविदकुलशिरोभूषणायित: सकलशालपारङ्गमः शिवकुमारशास्त्री न्यायरत्नमहाशयं विरं गुरुमिव मन्यते स्म । कृष्णायेव युधिष्ठिरो नरपतिस्तदराजसूयक्रतो भक्तिमेममहामर्थ्यमनघं शम्भुषतिष्ठोत्सवे । मायच्छद् विरुदावलीविलसितः काशीनरेशः स्वयं तस्मै सादरमानमय्य मुकुटं मध्ये च विधावताम् ॥ अय- खपक्षवमुशीतगु (१८२०) प्रमितशाकसम्वत्सरे तदीयसहपम्मिणी स्वपुरभट्टपन्लीं गता । अरेण सहसाऽऽक्रमादमरनिम्नगायास्तटे प्रतादिपरिवेष्टिता सपदि दिव्यधामागमत् ।। गिरीशनगरीस्थितित्रतविघातशङ्कायुतो न तत्र गतवानसौ चिरकलविच्छेदने ।
[ 7 ] विषोडुमपि शक्पते हृदयमर्मभेदम्यथा तथापि न मनस्विमिनियमतो मनाग भ्रश्यते ॥ जायया बहुभिः पुत्रकन्यादिमिश्च विरहितोऽपि न्यायरनमहाशयः स्वानुरूपेणेकमात्रेण तनयेन साई काश्यामध्यापनाभगवदाराधनादिना कियता व सुखेनेव दिवसान् यापयति स्म। परन्तु दैवहतकस्य तदप्य- सहमिवाऽभवत्। अहो, तेन तत्रमवतो न्यायरत्नमहाशयस्य शिरसि सब पर भोषणः शोकाशनिनिपातितः। १८२८ तमे शाकाब्दे सोर- पैशाखस्य पञ्चमे दिवसे अमानुषमनीषासमुज्ज्वलो निपुणतमकविः सुपण्डितः साक्षात् कुमार इव 'हरकुमारशालोति प्रसिद्धस्तदीय. स्तनयो वाराणस्या सुरतरङ्गिणीतीरे द्वात्रिंशद्वर्षवयस्येव प्राणान- मुश्चत् । परन्तु- सदा निदषदन्तरे सुतवियोगशोकमतं मनागपि महामना विकलतां स नैवाऽतनोत् । प्रवृद्धवडवानलं सततमधिरन्तस्तले बहनपि मुशीतलो वितनुते च नोवेलताम् ।। ययाविधि च पाउनास्वभवदेव लिसः पुन निवन्धरचनामु च मणिदधौ प्रसनं मनः । मुपर्वमुच पूर्वतोऽप्यधिकमेव चेतो ददा बमानुषमनीषिणश्चरितमेवमत्यद्भुतम् ॥ 'कुमारहर'नामकं स शिवलिङ्गमस्थापयत् समस्तवनसम्पदामपि चकार तत्रार्पणम् । यथा चिरमपि क्रिया भवति नित्यनैमित्तिकी प्रबन्धमकरोत्तथा स्थिरतरेण वित्तेन सः॥
[ व ]
अमुना पण्डितप्रकाण्डेन अधोलिखिता अन्याः प्रणीताः, तेषु
बिहाकिता मुद्रिताः, प्रकाशिताश्च ।-
(१) जीवतत्त्वनिरूपणम्
(२)तस्वसारः
(३) रसरत्नम् के
(४) कवितावली *
(५) अद्वैतवादखण्डनम् के
(६) मायावादनिरासः *
(७) विधवोद्वाहखण्डनम् *
(८) विविधविवारः *
(६) अद्वैतवादखण्डनपरिशिष्टम् *
(१०) दीधितिरन्न्यूनतावादः *
(११) जगदीशन्यूनतावादः
(१२) गदाधरन्यूनतावादः *
१३) शक्तिवादरहस्यप्रकाशः *
(१४) पश्चलक्षणोकोड़पत्रम्
(१५) व्यधिकरणधर्मावच्छिन्नाभावकोड़पत्रम्
(१६) सिद्धान्तलक्षणक्रोडपत्रम्
(१७) अपच्छेदकत्वनिरुकिकोड़पत्रम्
(१८) शब्दशक्तिप्रकाशिकाकोड़पत्रम्
(१९) आत्मतत्वविवेकटिप्पणी
(२०)मानवैशिष्टयावच्छित्रप्रतिबन्धकताबण्डनम्
[ छ ] चिरमेवमेव समयं नयनसी पड़शीतिवर्षवयसि स्थितः क्रमात् । सहसा ज्वरेण परिपीड़ितो जहौ चिरवाञ्छितञ्च निजशठनाव्रतम् ॥ क $ अथ गातीरमनुगन्तुमिच्छया स बभूव नूनमतिवेलविहलः । इति तावदादिमणिकर्णिकातट नयति स्म शिष्यनिकरस्तमञ्जसा ॥ रसशवनेत्रवसुचन्द्र ( १८३६ ) पूरणे शकहायने च निशि सोमवासरे। बत कार्तिकाऽसित चतुर्दशीतियो स जगाम धाम परमं तनुं त्यजन् ॥ १ श्रीहरिहरशास्त्री काशीहिन्दूविश्वविद्यालयः। ८ मई, १६३०। * परमपूज्यपादानां गुरुवराणां सम्पूर्णजीवनवृत्तान्तो 'न्यायरत- परितम्' इत्याख्ये खण्डकाव्ये मया विशदं वर्णितः । काव्यं 'काशीसरस्वतीभवनतः' प्रकाश्यमाने 'सारस्वतालोक' इत्यमिधाने राजकीये महानिबन्धेऽचिरमेव प्रकाश्यते । अत्रत्याः लोकास्तत एव समुद्धृताः।
विषयसूची २ २ - ४ ४ - ५ ६ १० १५ - १८ जीवः सर्वमूर्तसंयोगी मनरत्यणुतरं पदार्थान्तरम् इति प्राचीननैयायिकमतम् मनास्वेव चैतन्यादिगुणवत्वम् प्रत्यक्ष प्रति महत्वाऽनाश्रयस्परांवकिन- परिमाणत्वेनैव कारणत्वम् गुणाविष्वपि संख्यावस्वम् धीविशेषविषयत्वरूपद्वित्वादिस्वीकारावश्यकत्वम् मनसः पवनपरमाणुत्वाशङ्का धुटावेष द्रव्यस्य विधामः गुणगुण्यभेदवादिमतनिष्कर्षः सदस्य वायुसमवेतत्वावासमाधाने भवण्डोपाधः पदार्थान्तरत्वं तलक्षणञ्च मागभाषाऽनङ्गीकमतविचारः परमेश्वरेऽप्यपेक्षाबुद्धिस्वीकारावश्यकत्वम् विशेषलण्डनम् द्रव्यानां पाविध्यम् प्रमाणस्य प्रविध्यम् उपमानस्य प्रमाणान्तरतामण्डनम् ज्या निरूप्यत्व बदजमाधानम् - २२ २५ - २८ २६ २६ २६-३० महामहोपाध्याय-श्रीराखालदासन्यायरन ।
No text on this page.
श्री तत्त्वसारः मातर्ममातितमसा'तमाधविधे चेतोऽतिकुत्सितचिता'ऽशितमीशहये। नान्ये स्पृशन्तु घृणयन्तु मुराः शरण्ये नोपेक्ष्यमत्र नटनं तव दक्षकन्ये ॥१॥ "सीतानाय पितः प्रबन्धनविषिव्याघातविध्वंसनं मात्रा साधय सीतया विमलया" शीतांशुसोदयेया' । नीलाम्भोरुहनिन्दिनीलमणिभा क्षोभाकरं शोभया संगृह खगुणेन विग्रहमनुग्राबस्य वित्त वसन् ।।२।। काव्यव्याकरणाधिपारकरणे यः कर्णधारायते तस्मात् श्रीजयरामपादकमलात् चोदाखलामे कृते । लम्घोऽभूद् यदुरामपादगमणिर्यः सर्वविघाखनिः तोदोऽशिक्षत भास्करात् हलधरात् यस्तर्कचूड़ामणिः ॥२॥ भो भो विद्वतमा ममाघ विनयैरहस्य विज्ञापन स्वेच्छाचारमवेक्ष्य कल्पनविधौ निन्दा विधेया न मे । यस्मात्सर्वनिबन्धकृद्गुरुकृतग्रन्थस्य संसेवया शिक्षा तस्य जिगीषया सह फलं यत्नेन लग्यं मया ॥४॥ (१)'अतितमसा' प्रचुरतमोगुणेन, पो प्रगाढान्धकारे। (२ ) 'अविकसितचिता' पक्षानेन, पक्षे चायडामा विश्ववाहयोग्यस्थानरूप- चितया। 'अग्वितं' युक्तम् । (३ ) 'पक्षस्य मह-मानसपुत्रस्य कन्ये, अन्यत्र निएबवरकाये। (४) सीवानाय पित' श्रीरामचन्द्र जगतपितः, पक्षे पोतानानाम्ना प्रति मदीयजनक। (१) विमलया' मालिन्धरल्यथा, पजे विमलनाम्न्या मदीपमाना। (1) Traigसोवळया' मोमबा, पासोपसम्पाया।
२
तत्वसारः
यद्वाक्यं श्रुतिषु श्रुतं स्मृतिगतं यद् भारतान्तःस्थितं
तत्तद्वाक्यविरोधि किश्चन बचो नोक्तं न चासङ्गतम् ।
को दोषस्ववहेलनेन कियताऽनाप्लेन सिद्धान्तित
भो भो भ्रातरतोऽत्र नास्तु भवतोऽनास्था व्यवस्थापिते ॥५॥
विमुक्तचिन्तामणिदीधितिखादन्तस्तमो यस्य न यातमन्तम् ।
ध्रुवं भवेदेव नवप्रवन्धप्रभावतस्तस्य न तेन बन्धः ॥६॥
शैत्यमाधुर्यवैधुर्य्यदोषश्चेदवधार्यते ।
विनाऽवगाहपानाभ्यां तरङ्गिण्यास्तु तेन किम् ॥७॥
सत्काव्येऽप्यतिकोमले सति महाकाठिन्यदोषाडिन्त
किं स्यायुष्मदनादरः सहृदया यत्नैर्मया योजिते ।
सर्वस्याऽहृदयङ्गमेऽपि हृदये लिसे नृपश्चन्दन-
होरं मारकतं शिलामयमपि प्रीत्या न किं धारयेत् ।।८।।
सुबुधमुदभिलाषाट्टपल्लीस्थवासः
स्थिरगिरिशपदाशः श्रीलराखालदासः ।
रचयति नवयुक्तथा नायरवः सयत्न
सदयहृदयरम्यं तत्त्वसारात्मरत्नम् ।। ६ ।।
अथारभ्यते-जीवः सर्वमूर्तसंयोगी परममहान् एकदाऽवस्थितया-
पच्छरीरभेदेन भिन्नः स एव च स्वर्गमरकादिभोक्ता । मनस्त्वणुतरं पदा-
र्थान्तरं शरीरभेदेन भिन्नं ज्ञानादेः करणश्च न तु महत्वपरिमाणाश्रयश्चै-
तन्याद्याश्रयश्च । एतदेवोक्तं प्राचीन:-"अयोगपद्याज् झानानां तस्याणु-
स्वमिहेष्यते।" अपिच "मनोऽपिन तथा ज्ञानाद्यनध्यक्षं तदा भवेदिति॥"
इति प्राचीननैयायिकसम्प्रदायसम्मतजीवनिष्कर्षः।
अथ नव्यनैयायिकमतम् ।
मनसामेव चैतन्यं तत्रैवेच्छादिका गुणाः ।
अहम्बतीतिस्तत्रैव न तु जीवान्तरस्थितिः ॥१०॥
तत्वसार ३ भयमाशयः-शानेच्छाद्वेषादृष्टकृतिभावना मनसामेव गुणाः। एतदु- गुणगणधर्मितया मनसामेव साधनीयत्वात्। नपुनस्तद्धर्मितया जीवान्तर सिधिरपि गौरवान्मानाभावाच । अत एव "भव हृदय सामिलाप सम्पति सन्देहनिर्णयो जातः । आशङ्कसे यदग्निं तदिदं स्पर्शक्षम रत्नम् ॥" इति' भगवत्कालिदासकाव्यमपि साधु सङ्गच्छते। अन्यथाऽमि. लाषवत्वस्य आशङ्कारूपज्ञानवत्त्वस्य च मनसि बाधेन तदीयकाव्यवाक्य- स्य बाधितार्थकत्वं प्रसज्येत । अत एव भारतपुराणमहाकाव्यादिष्वपि मनसामेव ज्ञानहर्षादिमत्त्वं बोधयन्ति बहुतरवाक्यानीति दृश्यते । तेष्वेव तादशगुणवत्वं श्रुतिरपि प्रमापयति । श्रुतिर्यथा-"कामः सङ्ग यो विचिकित्सा श्रद्धा श्रद्धाधृतिहीं धीरधृति भीरतत् सर्व मनस्एवेति।" न च मनसा वेत्तोत्यादिन्यवहारस्यापि सर्वसिद्धतया तबलात् मनसि शानकरणत्वस्यैव प्रतिपत्रोः करी त्वकरणत्वयोस्तु परस्परविरोधेन तदाश्रयकर्तन्तरस्वीकारावस्यकत्वं स एव त्वतिरिकोजीवः प्रकारान्तरण तदनि हादिति वाच्यम् ,-"आत्मानमात्मना वेत्ति सृजस्यात्मानमा- त्मने" त्यादिकालिदासाथुक्तिदर्शनेन तयोर्विरोधे मानाभावात्। तदर्शनेन व प्रसिद्धनिबन्धकारर्जगदीशतकीलङ्कारैरपि "शन्दशक्तिमकाशिकायो" तयोरेका सत्त्वं स्वीकृतम्। अतो नापसिद्धान्तभीतिरपि। एवम् महं शरीरी त्वञ्च सुखीत्यादिप्रतीतिविषयो मन एव ।जन्मान्तरीणशरीरपरिग्रहः स्वर्गनरकादिभोगकैवल्यादिकञ्च मनसामेव । न च “वासांसि जीर्णानि यथा विहाय नवानि गृहाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णा- न्यन्यानि संयाति नवानि देहो"त्यादि श्रीभगवडवनस्थक्वाप्रत्यय- श्रवणेन गृहीतशरीरपरित्यागानन्तरमेव शरीरान्तरपरिग्रहः प्रतिपाद्यते,सव जीवानां विश्वव्यापित्वं विना न हि सम्भवति स्वकर्मवशेनाऽतिदूरवर्ति- स्वर्गनरकस्थानदेशान्तरेषु त्वरितगतिशीलानामपि मनसां शरीरान्तर- (.) अभिज्ञानशाकुन्तले प्रथमेशा। (क) पदारण्यकोपनिषद्, १३ ४ तत्त्वसारः परिग्रहे कालविलम्बापत्तेरिति वाच्यम्, एकशरीरपरित्यागानन्तरमेव शरीरान्तरपरिग्रह इति नियमे मानाभावात् । अन्यथा "ऋतञ्च सत्यञ्चे"- त्यादिश्रुत्या मन्त्रादिना च प्रलयस्य प्रलयोत्तरं शरीरपरिग्रहस्य च प्रतिपादन विरुध्येत। प्रलये जन्यद्रव्यमात्रस्याऽसत्त्वेन तदुत्तरकाले शरीरपरिग्रहे पूर्वशरीरानन्तर्यव्याघातस्य सर्वैरेव स्वीकृतत्वात् । परन्तु “न स्नानमाचरेभुक्त्वा" "प्रातःसन्ध्यां ततः कृत्वा सङ्कल्पं बुध भाचरेद"। इत्यादौ क्त्वाप्रत्ययोऽप्युत्तरकालार्थको न त्ववहितोत्तेरार्थक इति । “वासांसि जीर्णानी"त्यादिववनेनापि मनसामेव जीवत्वं प्रतिपादित न तु विश्वव्यापिनाम् । तथा सति शरीराणां तादृशजीवाच्छादकत्वविर- हेण वसने तवष्टान्तताऽनुपपत्तेः । अथ मनसामणुतरत्वेन तदाश्रितसुखादीनामप्रत्यक्षत्वापत्तिः विधप्रत्यक्ष एवाश्रयमहत्त्वस्य हेतुत्वात् । अन्यथा परमाणुव्यणुकतदाधि- तगुणादोनामपि प्रत्यक्ष वारयितुं न हि शक्येत । इति चेन्न,- महत्वाऽनाश्रयस्पर्शवदन्यपरिमाणतः । प्रत्यक्षं जायते सर्व महत्त्वादेव तन तु ॥२॥ अयमाशयः-प्रत्यक्षसामान्य प्रति महत्त्वानाश्रया ये स्पर्शवन्तोऽव- च्छेदकतासम्बन्धेन तद्भदवत्परिमाणत्वेनैव हेतुत्वं स्वीक्रियते, न तु महत्त्वत्वेन । तथा च मनसामणुत्वेऽपि स्पर्शवत्वविरहेण उक्तपरि- माणरूपकारणसत्वात् तदोयसुखादिप्रत्यक्षं निराबाधमेव । परमाणूनां व्यगुकानाच स्पर्शवत्वेन महत्त्वानाश्रयत्वेन च उक्तकारणविरहात् तेषां तदाधितगुणानाञ्च न प्रत्यक्षम् । व्यासज्यवृत्तिधर्मावच्छेदेनको गच्छति न द्वावित्यादिवत् परमा- ण्वादावपि स्पर्शसत्त्वेऽपि निरुक्तस्पर्शवदन्यत्वस्यापि सम्भवात् तादश- भेदत्वेन कारणत्वमपहाय गुरुणापि तादृशमेदवत्परिमाणत्वेन कारण- त्वमभिहितम्। न चावच्छेकतासम्बेधन तादृशमेदवत्परिमाणत्वेनेव .
तषसारः तादशभेदवदेकत्वत्वजातिमत्त्वेनापि हेतुत्वस्य वक्तुं शक्यतया विनि- गमनाविरहप्रसङ्गो दुर्वार इति वाच्यम् , यतो महत्त्वरूपनिखिलपरिमा- णेषु अन्यथासिद्धिशून्यत्वं महत्त्वत्वेन प्रत्यक्षहेतुतावादिभिरपि स्वीकृतम्, अतस्तेषु तत् क्लुप्तमेव परन्त्वस्मन्मते मनःपरिमाणेष्वेव कतिपयेषु तत् कल्प्यम् । तादृशैकत्वत्वेन कारणताकल्पने तु सर्वेष्वेव तादशैक- त्वेषु तत्तदन्यथासिद्धिशून्यत्वं कल्पनीयम्, एवञ्चापेक्षाकृतक्लुप्तपदार्थ- घटितकारणत्वकल्पनसम्भवे कल्पनाबाहुल्यभिया न तादशैकत्वत्वेन कारणत्वकल्पन सम्भवदुक्तिकम्। एक द्रब्यमितिवत् एको गुण एका क्रिया एका जातिरभावोऽयमेक इत्यादिप्रतीतेरपि स्वारसिकतया गुणादिष्वपि संख्यावत्वं निराबाधमेव । एवञ्च द्रव्यमात्रावस्थायिपरि- माणापेक्षया एकत्वानामसंख्यतेति तन्निबन्धनम्मिगौरवेण तादर्शक- त्वेषु प्रत्यक्षकारणता कल्पनाया असम्भवाच । न व गुणमात्रस्यैव द्रव्यमात्रावस्थायित्वनियमात् गुणात्मिकायाः संख्याया सम्भवो न हि गुणादौ तत्र तत्र एकत्वद्वित्वादिकन्तु तत्तद्- व्यक्तित्वधीविशेषविषयत्वरूपमेवाऽगत्याङ्गीकार्यमिति वाच्यम् , तथा सत्येकोऽयं गुण एकमिदं द्रव्यमित्यादिप्रतीत्योरेकत्वाद्यशे कियतोऽपि वैषम्यास्याऽननुभवेन संख्यायागुणात्मकत्वे प्रमाणस्यैव दुर्लभत्वापः। न च गुणान्तर्गतत्वेन भगवत्कणादायुक्तिरेव तत् प्रमाणमास्तां महर्षि- वचनस्याप्रमाणत्वे वैधावैधव्यवस्थितिविलयप्रसङ्ग इति वाच्यम्, विधि- निषेधबोधकालैकिकमहर्षिवाक्यानामेव बलवत्तोपगमात, ताशवाक्या- नामेव योगद्धिसम्पादितत्वात्, न तु तदीयलौकिकवाक्यानामपि तथा सति कपिलकणादादीनां परस्परविरुद्धोतिर्न खलु सम्भवेत् । अय तुल्यपरिमाणकतन्त्वादिद्वयाघारब्धपटादिपरिमाणतस्तत्त्रया- धारब्धपटादीनां विलक्षणपरिमाणोत्पादनार्थं ताशविलक्षणपरिमाणं प्रति तन्त्वादिनिष्ठत्रित्वादेः प्रसरेणुपरिमाणं प्रति व्यणुकनिष्ठत्रित्वस्य व्यणु- कपरिमाणं प्रति च परमाणुनिष्ठद्वित्वस्य हेतुत्वमावश्यकम् । एवञ्चापेक्षा- ६ तत्त्वसारः बुद्धिविषयत्वरूपद्वित्वादेस्तद्धे तुत्वेऽवच्छदकगौरवम् । अतः सुखदुःखहे. तुतया धर्माधर्मसिद्धिवत् स्मृतिहेतुतया संस्कारसिद्धिवच ताद्शतादू- शहेतुतया द्वित्वत्रित्वादिनामकसंख्यारूपगुणान्तरसिद्धिरप्यावश्यकी। न व द्वित्वादिकं गुणस्वरूपं क्रियारूपं वेत्यत्र विनिगमनाविरह इति वाच्यम्, द्वित्वादिकं न क्रिया परन्तु गुण एवं द्विष्ठत्वे सति जन्यनिरवयवत्वात्, संयोगादिवदित्यनुमानेन, तस्य गुणत्वसिद्धः। न चैतावता परिमाणकार- णतया द्रव्यनिष्ठदित्वादेर्गुणत्वसिद्धावपि गुणादेवि द्रव्यस्यापि तत्तद्वय- क्तित्वरूपमेवैकत्वमास्तां किमस्य गुणरूपपदार्थान्तरतास्वीकारणेति पाच्यम्, अयमेकोऽयमेक इत्याद्यपेक्षाबुद्धिनिष्ठाया द्वित्वादिकारणताया अपच्छेदकघटकतया द्वित्वाद्यसमवायिकारणतया व लाघवेन तस्यापि गुणत्वसिद्धः। न चैकत्वे कथं न क्रियात्वमिति वाच्यम्, अचञ्चले गग- नादौ निष्कियत्वव्यवहारस्य सर्वसम्मततया तत्र क्रियात्वाभावसिद्धनिष्प- त्यूहत्वात् । न च गगनादौ अन्त्यावयविषु च परिमाणजनकतया द्वित्वा- दिरूपगुणस्यैवासिद्धत्वात्तदसमवायिकारणतया कथं तत्रैकत्वसिद्धिः । घटोऽयमेकः घटौ द्वावित्यादिप्रतीतिस्तु गुणोऽयमेकः गुणौ द्वावित्यादिप्रतीतिवदुपपादयितुं शक्यते इति वाच्यम्, अपेक्षाबुद्धी- नामनुगतरूपेण कारणतया तादृशकारणबलेन घटगगनादावपि द्वित्वा- धुत्पशेरावश्यकत्वात्। अनुगमप्रकारस्तु एकत्वप्रकारताविशिष्ट- ज्ञानत्वमेव द्वित्वोत्पादकापेक्षाबुद्धीनामनुगमकम् । ज्ञाने प्रकारतावे. शिष्ट्य स्वनिरूपकत्व स्वनिरूपितविशेष्यतावच्छेदकीभूतोभयावृत्तिधर्मे- तरोभयावृत्तिधर्मावच्छिन्नविशेष्यतानिरूपितैकत्वप्रकारतानिरूपकत्वचा, यवस्वविशिष्टैकत्वाकारताशून्यत्वमेतत्रितयसम्बन्धेन बोध्यम्।त्रित्वा. घुत्पादकाले नियमतो द्वित्वाद्युत्पादवारणाय उक्तत्रितयसम्बन्धघटक- चरमदलम् । उक्तशून्यत्वप्रतियोगिप्रकारतायां स्ववैशिष्ट्य स्वनिरूपक- शानीयस्वनिरूपितविशेष्यतावच्छेदकेतरोभयावृत्तिधर्मावच्छिन्नविशेष्य - शानिरूपितकत्वाकारतावेशिष्ट्य स्वनिरूपितविशेष्यतावच्छेदक- तत्वसार । त्रित्वा- भिन्नद्यावृत्तिधर्मावच्छिन्नविशेष्यतानिरूपितत्वञ्चैतदुभयसम्बन्धेन बो- ध्यम् । एतदुभयसम्बन्धघटकप्रकारतावैशिष्टय व स्वनिरूपितविशेष्य- तापच्छेदकेतरधर्मावच्छिन्नविशेष्यतानिरूपितत्वसम्बन्धेन घुत्पादकाले नियमतो द्वित्वाद्युत्पादस्वीकारे तु उक्तत्रितयसम्बन्ध- घटकतृतीयदलं न देयम्। त्रित्वाछुत्पादिकानामयमेकोऽयमेकोऽयमेक इत्याधपेपेक्षाबुद्धीनामनुगमोऽप्यनयव दिशा करणीयः । नचोक्तपरस्परायाः संसर्गत्वं न शास्त्रकारसम्मतमिति वाच्यम् ,अपेक्षा- बुद्धिविषयत्वतात्पर्य्यक द्वयोद्विवचन बहुषु बहुवचनमित्युक्तवता भग- वत्पाणिन्यादीनां तादृशपरम्परायाः संसर्गत्वे सुव्यक्तसम्मतेष्टत्वात् । तस्या असंसर्गत्वे सकलद्विवचनबहुवचनाना दुर्भिक्षता प्रसज्येत । तत्र- स्थितस्य द्वयोर्वहुष्वित्यस्य गुणरूपसंख्यापरत्वाभावोऽग्रे दर्शयिष्यते । तादृशविषयत्यमेव द्विरचनबहुवचनयोरर्थ इति व्युत्पत्तिवादे महामहो- पाध्यायगदाधरभट्टाचार्यैरपि प्रदर्शितम् । एतेन- संख्यात्वव्याप्यसामान्ये वृत्तिमान् प्रत्ययस्तु यः। सा विभक्तिदिधा मोक्ता सुतिौ चेतिभेदतः ।। इति शब्दशक्तिप्रकाशिकायां जगदीशप्रदर्शितविभक्तिलक्षणं प्रत्युक्तम् विभक्तिप्रतिपाद्यापेक्षाबुद्धिविषयत्वे संख्यात्चच्याप्यजातेरसत्वात् । एवञ्च अपेक्षाबुद्धिविषयत्वरूपद्वित्वादीनामपि संख्यापदेनाभिलापः सकल- सम्प्रदायसम्मत एष पाणिन्यादीनां तदर्थपरतत्पद्घटितबहुतरसूत्राणां दृष्टत्वात्। तत्र च संख्यात्वं न जातिस्तदाश्रयस्य द्रव्यगुणकानात्म- कत्वात् परन्तु गुणात्मकसंख्याजनकाऽपेक्षाबुद्धिविषयतात्वमखण्डोपाधि- अपं वाऽनुगतं तत् । न च गगनादीनां गुणरूपैकत्वविरहेण ताशेकत्व- घटितापेक्षाबुद्धरेनुगताया अपि गगनाधन्तर्भावेणासम्भवात् तत्रैकत्व- कपाऽसमवायिकारणविरहाच कथं द्वित्वा त्पत्तिः सम्भवेदिति वाच्यम्, तन्त्पादौ त्रित्वाद्युत्पादकताया सिद्धानामेकत्वगुणानामुत्पादार्थ एकत्वं तत्वसारः प्रति द्रव्यत्वेन लघुरूपेण हेतुत्वस्य, एकत्वधारावारणार्थ एकत्वं प्रत्येकत्वस्थ प्रतिबन्धकतायाश्च कल्पनाऽऽवश्यकतया एकत्वधाराया अनुत्पादनिहाय गगनादौ नित्यैकत्वस्वीकाराऽऽवश्यकत्वात् । एवञ्च गगनादौ स्वसामग्रीबलेन सम्पादितद्वित्वादिगुणानां वारणं गीर्वाण- गुरुणापि न हि शक्यते। इति प्राचीनन्यायविदा पन्थाः । घस्तुतस्तु द्वित्वाचंशेऽपि साक्षात्कारतानिर्वाहायाऽपेक्षाबुद्धिविषय- तातः पृथगेव द्वित्वादिगुणःस्वीकर्तव्यः, घटादिविषयत्वाचंशे साक्षात्का- रस्य सव्वैरेवाऽनभ्युपगमात्।अन्यथा तत्र कदा पुमन्तरीयज्ञानादिविषयत्वं कदा वा नेत्यादिकं चक्षुरादिनाऽवधायेत,अव्याप्यवृत्तिकपिसंयोगतदभा- पादिवत् । न च तत् लौकिकविषयत्वमेवास्तां तावतापि का क्षतिरिति घाच्यम् , यत्किञ्चिद्विवरान्तर्गतविषधरादौ प्रमाणान्तरेण द्वित्वादेर्बाध- भ्रमोत्तर दशा जन्यमानस्य द्वित्वादिप्रत्यक्षस्य तदर्श साक्षात्काराऽनात्म- फत्वे जनिनुमक्षमत्वात् साक्षात्कारान्यविशिष्टबुद्धौ बाधनिश्चयस्य प्रतिबन्धकत्वात् । एवञ्च घटादाविव गुणादावपि तदंशे साक्षात्कारा- विशेषेण गुणादावपि गुणात्मकं द्वित्वादिकं निराबाधमेव । एकत्वरूपा संख्यापि द्वित्वाद्यसमवायिकारणतया तत्रावश्यकी। अतीन्द्रियमप्येकत्व- द्वित्वादिकं दशितानुगतकारणबलेन जन्यते । एतेन व्यणुकादीनामनङ्गी- कारपक्षे कस्मिन्नपि द्वित्वे परिमाणहेतुत्वं नास्त्येव इति किमनुरोधेन द्वित्वस्य गुणत्वसिद्धिर्भवेदित्यपि समाहितम्, साक्षात्कारविषयतयैव घटादौ गुणात्मकद्वित्वसिद्धः। न व संख्या गुणरूपा क्रियारूपा वेत्यत्र विनिगमनाविरह इति वाच्यम्, तस्याः क्रियात्वे संयोगादिकं प्रति क्रिया- त्वेन हेतुतायाः सर्वसम्मततया संख्याश्रयसंयोगादेरपि संयोगस्वीकार- प्रसक्त्या तन्निबन्धना प्रामाणिकानवस्थाप्रसङ्गात्। न च क्रियात्वेन संयोगादिकं प्रति हेतुत्वं नाङ्गीकार्यमपि तु तव्याप्यस्पन्दत्वेनैव एवञ्च गुणादौ संख्यारूपक्रियासत्त्वेऽपि गुणादिकं स्पन्दते इति व्यवहाराभावेन गुणादौ स्पन्दाभावान्न तत्र संयोगविभापत्तिस्तदीयध्वंसप्रागभावाद्याप- तत्वसार त्तिश्च इति वाच्यम्, क्रियात्वस्य तव्याप्यस्पन्दत्वस्य च विध्यकल्प- नापेक्षया तदेक्यमङ्गीकृत्य संख्याया गुणात्मकत्वस्यैवौचित्यात्। न च निखिलपदार्थेष्वेव गुणरूपद्वित्वादिस्वीकारे धीविशेषविषयत्व- रूपपदार्थेष्वपि द्वित्वादिशब्दः कथं प्रयुक्तः प्राचीनैरिति वाच्यम्, "ब्रह्मणो वर्षशतमायुः।" "अष्टवर्षा भवेद् गौरी नववर्षा तु रोहिणी। दशमे कन्यका प्रोक्ता तदूर्ध्वञ्च रजस्वला" "त्रिंशद्वर्षों वहेद्धार्या यां द्वादशवार्षिकीम् । “गृहीत्वा पञ्चवर्षीय पुत्रेष्टिं प्रथम चरेत् ।" "संवत्सरं द्विमासोनं पुनस्तीर्थे व्रजेद्यदि। मुण्डनश्चोपवासञ्च यत्नतः परिवर्जयेत्। इति बहुशः श्रुतिस्मृत्यादिदर्शनेन धीविशेषविषयत्वेऽपि द्वित्वादिपदवृत्तिस्वीकारावश्यकत्वात् संख्यारूपगुणतात्पर्येणैव तत्सत्य- योग उपपादनीय इति तु नाशङ्कय तत्तत्तावत्कालेषु द्वित्वादिगुणाना- मुत्पत्तुमक्षमत्वात् अनेकसमवेतगुणोत्पादे स्वयावदाप्रयाणामेवाऽव्यव. हितपूर्वसत्त्वाऽपेक्षणात् । युगपदनवस्थायिकालादिवाचकपदोत्तरद्विष- चनबहुववनप्रयोगस्य साधुत्वार्थं द्विवचनबहुवचनविभक्तीनामपि धीविशे- षविषयत्वपरत्वमेव पाणिन्याद्यभिमतम् । इति मादृशां रमणीयः पन्थाः। व्यासज्यवृत्तिधविच्छेदेन भेदानभ्युपगमे तु प्रत्यक्ष प्रति महत्त्व- शून्यस्पर्शवभेदत्वेनैव स्वरूपसम्बन्धेन हेतुत्वं न तु प्रोक्तपरिमाणत्वेनेति । अथ भवदुक्तकारणतायामवच्छेदकगौरवात विशेष्यविशेषणभावे विनिगमनाविरहेण कारणताबाहुल्याच मानसप्रत्यक्षे क्रियाभेदस्य कारणताकल्पनापत्तेश्च महत्त्वत्वेन एकमेव हेतुत्वं कल्पयितुमुचितम् । मतः सुतरामेवाऽतिरिक्तजीवाः सेत्स्यन्ति । इति चेन्न,- स्वाऽनाश्रये सुखादीनां वारणाय भवन्मते । कार्यकारणभावाच तत्रैवातीव लाघवम् ॥ १२॥ अयमाशयः-तत्तद्व्यक्तिसमवेतानां जन्यानामन्येषत्पादवारणार्थ स्वसमवेतत्वावच्छिन्नं प्रति तत्तद्व्यक्तित्वेन सर्वस्यैव समवेतानामधि. २ तत्वसार करणस्य हेतुतायाः सर्वमत एव स्वीकरणमस्ति। एवञ्च अतिरिकजीव- कल्पनेऽनन्तजीवमन्तर्भाव्यापि जीवसमसंख्यकतत्तव्यक्तित्वेन कारणता- कल्पनमावश्यकम् । अन्यथा एफजीवसमवेतानां जीवान्तरेषु जननमा- पद्येत । न च मनसां सुखादिमत्त्वस्वीकर्तृमतेऽप्येकमनःसमवेत- सुखादीनां मनोरूपजीवान्तरेषत्पादवारणार्थ जीवान्तरवादिसमान एव कार्यकारणभाव इत्येतन्मते क्व लाघवम् । प्रत्युत प्रागुक्तरीत्या परिमाणस्य प्रत्यक्षकारणताया क्रियाभेदस्य मानसकारणतायाञ्च गौरवमेव पर्यवसितमिति वाच्यम्, मनःपदार्थानां सर्वसम्मततया तदीयक्लप्तगुणकर्मणां स्वानधिकरणेषत्पादवारणार्थमुभयवादिसम्मत- कारणतयैव तद्गतसुखादीनामपि एकैकसमवेतत्वनिर्वाहणाऽनन्तकार्य- कारणभावकल्पनकृतगौरवाऽनवकाशात् । एवञ्च प्रोक्तगुरुरूपेणापि परिमाणस्य प्रत्यक्षकारणतायाः क्रियामे- दस्य मानसकारणतायाश्च कल्पनेऽप्यनन्तातिरिकजीवान्तर्भावणोक्तकार- णतातोऽतीव लाघवम् । अथ मनोन पदार्थान्तरमपि तु पवनपरमाणुरेव तत्, इति भवदुक्त- प्रकारेण परिमाणस्य प्रत्यक्षकारणताकल्पनेऽपि मनसो महत्त्वशून्यत्वेन स्पर्शवत्वेन च प्रोक्तपरिमाणरूपकारणविरहात्तद्गतसुखाद्यप्रत्यक्षापत्तिः । इति चेन्न,- त्रुटौ द्रव्यस्य विश्रामात् दयणुकादेरलीकता । प्रत्यक्षे षड्विधे तस्मात् परिमाणं न कारणम् ॥ १३ ॥ अयमाशयः, त्रुटिपर्य्यन्तानामेव मनोमिन्नाऽविभुद्रव्यत्वस्वीकारात् ध्यणुकानां तदवयवपरमाणूनाश्चालीकतैव । अतः प्रत्यक्ष परिमाणस्य कारणव नास्ति। परमाण्वादिसत्त्व एव तत्प्रत्यक्षवारणस्यैव महत्त्वत्वेन कारणताकल्पनप्रयोजनत्वात्। न व प्रत्यक्षविषयद्रव्यं सावयवं विभु- त्वाऽन्यमहत्त्ववत्वात् घटपटादिवदित्यनुमानेन पक्षीभूतत्रुटीनामवयवाः साधनीयाः, त पर चातीन्द्रिया छ्यणुकसंक्षकाः । ततः प्रत्यक्षविषयस्या.
तत्त्वसार वयवाः सावयवाः महदवयवत्वात् कपालतन्त्वादिवत् इत्यनुमानेन व्यगुकानामप्यवयवाः साध्येरन् । त एव परमाणुनामकाः। एपश्चा- नुमानसिद्धपरमाण्वादीनां प्रत्यक्षवारणार्थं महत्त्वत्वेन कारणताकल्पना. वश्यकतया मनसां सुखादिमत्त्वे तेषां परमाणुरूपत्वेन तदीयसुखादी- नामप्रत्यक्षापत्तिरिति वाच्यम्, प्रत्यक्षविषयद्रव्यं महत्त्वशून्यासमवेत जात्यन्यत्वे सति बाह्यप्रत्यक्षविषयत्वात् घटपटादितदीयगुणपवनस्पर्श- शब्दादिवदित्याद्यनुमानसाम्राज्येन त्रुटीनां महत्त्वशून्यासमवेतत्वसिद्धा- वर्थत एव द्वयणुकपरमाण्वसिद्धः। न चैवमपीदृशानुमानेन पचनीय- घणुकादीनामलीकता नायाति पवनानां प्रत्यक्षाविषयत्वात्। एवश्व तदीयद्वयणुकादिस्पर्शस्य स्पार्शनवारणार्थं प्रत्यक्षे महत्त्वस्य हेतुत्वमय- श्यमभ्युपेतव्यमिति वाच्यम्, एतावता वरं स्पार्शन एव महत्त्वस्य कारणताया वक्तव्यत्वात्। वायोरपि स्पार्शनस्वीकारेणोक्तानुमानकव- लितत्वाच। वायोरप्रत्यक्षमते द्रव्यं महत्त्वशून्यासमवेतं परिमाण- वत्त्वात् त्रुट्यादिकं महत्त्वान्यासमवेतं महत्त्ववत्त्वावत्यनुमानेन सर्व- सामञ्जस्यात्। न च द्वयगुकादिसिद्धयनुगुणानुमानयोरपि प्रागदर्शि- तत्वेन तबलेनापि न कथं तेषां सिद्धिर्भवेदिति वाच्यम् , सत्प्रतिपक्ष- सम्बलने द्वयोरेवासिया द्वयणुकाद्यसिद्धावेव पर्यवसानात् भवदभि- प्रेतानुमानप्रणाल्या परमाणूनामप्यवयवस्य साधयितुं शक्यतया उका- नुमानविषयहेतोरप्रयोजकत्वशङ्काकवलितत्वाञ्च । अथाऽनवस्थामयेन परमाणूनामवयवाः सेधुं नाहन्ति अन्यथा मेरुसर्षपयोः साम्यं प्रसज्येत । इति चेत्, परमाणूनां सावयवत्वसिद्धावेर भवतामनवस्थाप्रसङ्ग भयं त्रुटीनां पुनप्रामाणिकावयवादिसिद्धौ न तथा प्रसङ्गः । अस्य तु रहस्य भवन्त एवानुभवितुं प्रभवः सन्तु। वस्तुतस्तु अस्मत्प्रदर्शितोक्का- नुमानेन प्रोकासमवेतत्वसिद्धौ द्वयणुकाद्यनन्तपदार्थान्तराऽकल्पनकृत लाघवम् । युष्मत्प्रदर्शितानुमानेन तु अनन्ततत्कल्पनप्रयुक्त महागौरव- मित्यादिप्रतिसन्धानरूपतर्कस्यास्मद्धिमतसिद्धयनुगुणत्वात्।
१२ तत्वसार एवञ्च प्रत्यक्षे परिमाणस्य कारणतैव नास्तीति किं महत्त्वानुसन्धा- मैन । मानसे क्रियाभेदत्वरूपगुरुधर्मेण कारणत्वावश्यकत्वेऽपि पर- स्परानधिकरणेषु समवेतकार्योत्पादवारणार्थं भवन्मतेऽनन्तकार्यका- रणभावकल्पनकृतं गौरवं सुदृढमेव । तार्किकेषु सुप्रसिद्धनिबन्धनकुद्धी रघुनाथशिरोमणिभिः स्वकृते पदार्थखण्डनग्रन्थे व्यणुकानां परमाणूना- वाप्रामाणिकत्वमुक्तम् । अतस्तदनङ्गीकारे नापसिद्धान्तभीतिरपि ।। अथ व्यणुकादिरूपाऽणुतरदव्यमप्रामाणिकं भवेच्चेद् भवतु तत्स्थी- कारपक्ष एवास्माभिरपि प्रत्यक्षे महत्त्वस्य कारणत्वं व्यवस्थापितम् । (१) अत्र यत्तु "तत्त्वसारविचार" ग्रन्थे ..."त्रुटित्यूणुकत्रसरेणुशब्दानां पायता सर्वसम्मता । शब्दे पर्यायत्वं च एकार्थवाचकत्वे सति विभिनानुपूर्वीक- स्वम् । तथा च त्रयः अणवो विद्यन्ते यस्मिन् स अयणुक इति व्युत्पत्त्या ऋयणुकस्य सावयत्वमव्याहतमेव। अत्राणुपदं द्वरणुकपरम् । एवं द्वौ अणू विद्यते यस्मिन् स इयणुक इति व्युत्पत्त्या लब्ध द्वयणुकस्यापि सावयत्वम् । अत्राणुपदं परमाणुपर- मतः परमाणावेव विश्रामो न त्रुटाविति ।" इत्युक्तम् , तत्तुच्छम् , यतस्त्रयणुकपद- स्य परिभाषया त्रुटिरूपताइगनिरवयवद्रव्यबोधकवसम्भवेन नानुपपत्तिगन्धोऽपि । एवम् "पृथित्यादिनिरूपणावसरे सा द्विविधा नित्याऽनित्या च। परमाणुलक्षणा नित्या इत्यादिभाप्योक्तश्च परमाणु सिद्धिरप्रत्यूहा। तथा च त्रुटावेव विश्राम इति पदन् न केवलं नव्यः किन्तु दोधितिकारोऽपि परास्तः।" तत्रत्य इत्यपि प्रलापः प्रलाप एव । यतो दर्शनस्य युक्तियास्वत्वात् न हि कस्यचिद् अन्यकत्तविरुद्धोक्तिर्वस्तुसाधिका भवितुमर्हति । भाप्यायु तत्वेनैव परमाणुसिद्धौ तत्साधकानुमानप्रदर्शनप्रयासो वैफल्यमापयेत् । तथा च महर्षीणामपि कपिलकणादादीनां मतखण्डने परमास्तिका: गाराचाव्दयो भियमणीयसीमपि नासादितवन्तः । अत एव "अहरहः सन्ध्यामु- पासीते"त्याज्ञाशास्रोपदेशकाले नोपलभ्यत युक्तिमयसूक्तिलेयोऽपि । इत्थं च गोतमा- दीनां विधिनिषेधबोधकालौकिकवाक्याऽस्वीकरण एव दोषः, न तु तदुक्त युक्ति- पायाऽनङ्गीकारे । तदुक्तं विष्णुपुराणे- "न घातवादा नभसो निपतन्ति महासराः। युक्तिमदूचन पायं मयाऽन्न्यैश्च भवद्विधः ॥"- (तृतीयांशः, १८ अ०, २६ श्लो) तत्त्वसारः १३ तदनङ्गीकारे तु जीवस्यातिरिक्तत्वपक्षेऽपि महत्त्वस्य कारणत्वं परित्या- ज्यमेव । तथा च मनसा जीवत्वे तदीयकर्मपरत्वापरत्ववेगाख्यगुणानां मानसवारणार्थ मानसं प्रति क्रियाभेदपरत्वभेदापरत्वमेदवेगभेदानां कारणत्वकल्पने तासां बाहुल्यमवच्छदकगौरवञ्च । अतस्तत्तद्गुणशून्या- चञ्चलजीव एवं कल्पयितुमुचितः। एवं स्वसमवेतत्वावच्छिन्न प्रति प्रत्येकजीवानां कारणत्वकल्पनकृतोदीच्यगौरवप्रतिसन्धानमपि नातिरि- कजीवकल्पना प्रतिबन्धुं प्रभवेत्। यतस्तादृशजीवसिद्धिमूलकमेवोक्त- गौरवं प्रतिसन्धीयते सिद्धस्त्वपलपितुं न हि शक्यते। अत एवामन्त- संयोगतद्ध्वंसप्रागभावकल्पननिबन्धनोदीच्यगौरवज्ञानसम्भवेऽपि एक- धर्मिणि गगनसंयोगादेर्नानात्वं प्रथमतः कार्यकारणभावकल्पनलाघ- वबलेन साधितं सकलसाम्प्रदायिकैः । इति चेन्न, अनध्यक्षाददृष्टादेयतो जीवगमानसे । अवच्छिन्नतया देहहेतुता सर्वसम्मता ॥ १४ ॥ अयमाशयः। भावनाख्यसंस्कारधर्माधर्मरूपाऽदृष्टात्मगतपरिमाणे- फत्वादिमानसवारणार्थमुक्तप्रत्येकधावच्छिन्नभेदहेतुत्वकल्पनापेक्षया जीवसमवेतेषु संवेदनविषयाणामिच्छाद्वेषसुखदुःखकृतिमतीनामेव देह- रूपद्रव्यावच्छिन्नत्वस्य सर्वानुभवसिद्धतया जीवसमवेतानां द्रव्यसम- वेतानां वा मानसं प्रति देहत्वेन द्रव्यत्वेन वा धर्मेण अवच्छिन्नत्व- सम्बन्धेन एकमेव हेतुत्वं भवताऽप्यङ्गीकृतम् । अस्मन्मतेऽपि तेनैव कारण- बलेन सुखादीनामेव प्रत्यक्षं न तु मनसः कादीनामपि तदीयेषु तेषु शरीरानवच्छिन्नत्वस्य सर्वसम्मतत्वात्। एवञ्चाऽनन्तातिरिक्तजी- वानामकल्पनकृतं लाघवं सुद्ढमेव । न चात्मत्वजातिमानसे व्यमि- चारापत्तिभयेन प्रोतकार्यकारणभावो न केनाऽप्यनुमत इति वाच्यम्, आत्मत्वसाक्षात्कारस्यैवाऽनभ्युपगमात् यस्मिन् साक्षात्कार व्यभिचार- माशङ्कसे। अन्यथा साक्षात्कृतवस्तुनः सुखादेखि विवादाऽनहतया वादशजातौ विवादास्पदत्वमङ्गः प्रसज्येताशानवत्वादिनाऽऽत्मव्यवहार- १४ तरवसार मुपपाच गदाधरभट्टाचार्योणाऽनुमितिग्रन्थे आत्मत्वजातेरनङ्गीकाराय । एवम् आत्मत्वजातिस्वीकारेऽप्यात्मनि सत्ताद्रव्यत्वजातिसत्त्वेऽपि च तदंशे साक्षात्कारो न केनाऽप्यनुमतः सत्ताद्रव्यत्वजातिप्रत्यक्षे तन्यून- वृत्तिजातिसाक्षात्कारस्य हेतुत्वात्। अत एव घृतजतुप्रभृतिषु द्रव्यत्व- न्यूनवृत्तिजातेः साक्षात्कारविरहेण द्रव्यत्वं न प्रत्यक्षसिद्धा जातिरिति प्राचीनरुतम्, अपि तु तास्वलौकिकी विषयतैव । अत एव 'धर्माधर्माश्रयोऽध्यक्षो विशेषगुणयोगतः । इति । 'मनो- प्रारं सुखं दुःखमिच्छा द्वेषो मतिः कृतिः। इति च प्राचीनरुक्तम् । सुख- त्वादिवदगुष्टत्वादिसाक्षात्कारापत्तिस्तु योग्यवृत्तित्वाभावाद्वारणीया । एवमतिरिक्तजीवकल्पनपक्षे सुषुप्त्यादिदशायां ज्ञानवारणाय तत्तत्पुरुषी- यसुखाद्यन्यविषयकज्ञानसामान्य प्रति ज्ञानसामान्यं प्रति वा तत्तत्पुरुषीय- त्वमनोयोगत्वेन गुरुरूपेण हेतुत्वे गौरवम् । अस्मन्मते तदनन्तर्भाव्य सम- पायेन ज्ञानसामान्य प्रति त्वक्संयोगत्वरूपलघुरूपेणैव हेतुत्वं कल्पनी- यमिति मनोजीवत्वपक्ष एव साधीयान् । एवञ्च प्रागभावस्वीकृन्मते श्रावणसम्पादकतयाऽऽकाशस्य परममहत्त्वरूपपरिमाणमपि नस्वीक्रियते। सुतरां दिक्कालपरमेश्वराणाम् । न च गगनं परममहदिति व्यवहारेण तत्र तत् सिध्येदिति वाच्यम्, ताद्शव्यवहारस्याप्रामाणिकत्वात् । अन्यथा तानुशव्यवहारबलात् गगनसिद्धरपि सहजत एव सम्भवेन कुतर्ककण्टका- घृतानुमानात् शब्दसमवायितया प्राचां तत्सिद्धिप्रयासो वैफल्यमाप- चेत । नव तस्याऽतथात्वेऽपि ईश्वरः परममहानित्यादिव्यवहारस्य सक- लास्तिकसम्प्रदायसम्मततया परमेश्वरे परममहत्त्वं दुरपहवमेवेति वाच्यम्, परोपकारिमनुजेषु महत्त्वव्यवहारवत् परमकारुणिके परमेश्वरे परमम- हत्त्वज्यवहारस्यार्थान्तरविषयकत्वेनोपपत्तेः । भगवानपरिमेय इत्यादि- रूपस्य तद्विरोधिव्यवहारस्य जागरूकत्वाच । अथ प्रत्यक्षाविषयाऽणुत्वा- दिकमप्यसिद्धं स्यादिति चेन्न, अणुत्वपरिमाणत्वेन परिमाणत्वेन वा शियाहेतुत्वावश्यकतया सक्रियमात्रस्यैव परिमाणसिद्धेरावश्यकत्वात् ।
तपसार यत्तु गुणगुणिनोरभेदात गुणानां द्रव्यस्वरूपतया कि परिमाणस्य द्रव्यविशेषे सघासत्वविधैवनया । अत एष गन्धघायुस्पर्शादिवत् घटपटादिगतं गुणक्रियादिकमेन्द्रिय ह्यते न तु घटपटाधात्मकं द्रव्य. मपि । द्रव्यग्रहस्तु वायुवाय्वानीतसुरमिभागगगनग्रहणवत् अनुमानादि- नैव सम्भवति। अन्यथा वाय्वादेरपीन्द्रियप्रायतास्वीकारापत्तेरिति प्रत्युक्तं गुणानां द्रव्यस्वरूपतया गुणप्रत्यक्षे जायमाने द्रव्यप्रत्यक्षस्यार्थ- यशसम्पन्नत्वात् । न च तयोरभेदे गन्धानां चाक्षुषादिकं रूपादेः स्पार्शन स्पर्शादेश्वाक्षुषमापति वाच्यम्, न्यायमते स्वरूपसम्बन्धात्मकप्रतियो- गिताविषयताधेयत्वाधिकरणत्वादेः स्वाधयादिस्वरूपतया तेषां चाक्षु- पादिवत् उक्तगुणानामपि चाक्षुषादेरिणत्वात् परन्तु प्रतियोगितात्वक- पाऽखण्डोपाधिवत् गन्धत्वादेश्वाक्षुषादिविरहेण गन्धत्वादिप्रकारेण गन्धादिचाक्षुषादिकं न जनितुमीष्टे। अत एव “यः सर्वशः सर्वविदि”तिश्रुतेः “नित्यं विज्ञानमानन्दं ब्रह्मेति” श्रुतेश्च तूयोरेष सुष्ट्रपपत्तिः। नित्यज्ञानरूपगुणस्य विश्वव्यापिद्रव्यात्मकपरमात्मन- श्वाभेदात्। यदि च गुणमात्रस्यैव स्वाश्रयद्रव्यस्वरूपत्वे रूपरसकपि- संयोगाऽनेकपर्याप्तात्मकाऽव्याप्यवृत्तिगुणानां स्वाश्रयद्रव्यप्रत्यक्षदशायां नियमतः प्रत्यक्षं स्यात्। न च नित्यस्यापि रूपत्वादेरत्यन्ताभावविशेष- पदव्याप्यवृत्तित्वमभ्युपगन्तव्यमिति वाच्यम् , जात्यखण्डोपाधीनाम- व्याप्यवृत्तित्वस्य सिद्धान्तविरुद्धत्वात् तेषां सामयिकसत्वासस्वप्रयो- जकदौर्भिक्ष्याच्च । अत्यन्ताभावविशेषस्याव्याप्यवृत्तितानिर्वाहकन्तु प्रतियोग्यसत्तादिकम् । इति यदि विभाव्यते तदा व्याप्यवृत्तीना परिमाणपृथक्त्वैकत्वस्पर्शगुरुत्वनित्यशानादीनामाश्रयस्वरूपत्वमुपगन्त- व्यं न तु तदन्यगुणानामपि । परिमाणत्वादीनान्तु द्रव्यधर्माणां न गुणत्वव्याप्यत्वमपि तु द्रव्यत्वव्याप्यत्वमेव। अस्योपरि केचन प्राचीना दूषणं कल्पयन्ति। तेषां पुनरयमभिप्रायः। यद् यद् द्रव्यं येन येनेन्द्रियेण गृह्यते तत्तदियाऽग्राह्याणां तत्तद्रव्यधर्माणां तत्तदि- तत्वसार १६ न्द्रियप्रावतावारणाय तत्तदिन्द्रियजप्रत्यक्षे यथासम्भवं तत्तद्धर्म- भेदत्वेन कारणत्वमवश्यं सर्वमत एव वक्तव्यम्। एवञ्च तदितराः वृत्तित्वे सति सकलतवृत्तित्वरूपतत्तजातित्वादिनाऽतिगुरुणा तत्तजा- त्यादिभेदानां बहुतरकारणताकल्पनापेक्षया स्पर्शगुरुत्वादीनां गुणान्तरत्वं स्वीकृत्य स्वरूपतस्तत्तजातिरूपातिलघुधर्मेण तादृशतादशगुणभेदानां यथासम्भव प्रत्यक्षकारणत्वं युज्यत एव । न चैतन्मतेऽपि तत्तदिन्द्रियसंयु- तसमवेतसमवायरूपसन्निकर्षबलात्तत्तजातिप्रत्यक्षवारणार्थ तत्तजाति- भेदत्वेन कारणत्वमावश्यकमिति क्व लाघवं तत्तद्गुणभेदत्वेन कारणत्वं पुनरतिरिच्यते इति वाच्यम् ,एतन्मते तत्तजातिभेदत्वेन कारणत्वमनभ्युप- गम्य योग्यवृत्तित्वेनैव स्वल्पतरकारणताया अभ्युपगमात्। योग्यत्वं हि यथायथं चाक्षुषादिविषयत्वम् । न चैतान्यपि कारणत्वानतिरिक्ता- न्येवेति वाच्यम्, अतिगुरुशरीरजातिभेदत्वेन कारणताकल्पने जातिघटक- पदार्थानां मिथो विशेष्यविशेषणभावे विनिगमनाविरहेण कार्यकारण- भावाऽतिबाहुल्यापत्तेर्वज्रलेपत्वात् रूपत्वादीनां त्वाचादिवारणार्थं योग्यः वृत्तित्वेन कारणत्वस्योभयमत एव कृप्तत्वाच। नवीनाः पुनः तत्तद्वयक्तित्व झ्याखण्डोपाधिरूपतया तत्तद्व्यक्तित्वेनैव तत्तजातिभेदानां कारणत्वम- भ्युपगन्तव्यं न तु गुरुशरीरजातित्वेन एवं परिमाणकत्वैकपृथक्त्वपर- मेश्वरज्ञानादेः स्वाश्रयस्वरूपत्वे किञ्चिदपि बाधकं नेक्षामहे । तावतापि प्रागुक्तश्रुतिद्वयोपपत्तिः साधीयसी साधीयसी च द्रव्यप्रत्यक्षोपपत्तिः। एवं सजातीयपरिमाणाद्युत्पादे परिमाणादीनां स्वाश्रयसमवेतत्वरूपगुरुस- म्बन्धेन कारणत्वं सम्भवदुक्तिकम् । न व गुणगुणिनोरभेदे द्रव्येषु परिमाणादिकं वर्तते इति व्यवहारस्याप्रामाण्यापत्तिः पदार्थयोरभेदे आधारसप्तम्यनुपपत्तेः । अन्यथा गगने गगनमित्यपि व्यवहार प्रमाण स्यात् इति वाच्यम् , न्यायमते प्रतियोगित्वादेः स्वाश्रयादिरूपत्वेऽपि घटे घटाभावप्रतियोगित्वमित्यादिव्यवहारवत घटाभावे घटो नास्तीत्या- दिव्यवहारवध द्रव्येषु परिमाणादिकम् इतिव्यवहारेऽपि प्रामाण्यस्योप- तत्वसार पादयितुं शक्यत्वात्। अथ बहव एव नैयायिका गुणगुणिनोरभेद नाङ्गीकृतवन्त इत्यधुनातनव्यक्तीनां तयोरभेदस्वीकरणं पुनरतीष साह- सम् इति चेत्, गुणगुणिनोरभेदवादिनोऽपि बहवो विद्वांसो दृश्यन्ते । कतिपयास्तु लोकास्तन्मतविरुद्ध प्रलपित्तवन्तः । एतावतेषामपि साहस किं नावलोकयथ । तस्मान्मतद्वयसत्त्वे युक्तिसिद्धपदार्थस्वीकरणे कोऽय- मनुयोग इति परिमाणादिगुणतदाश्रयाणामभेदं निपुणतरमुपपादयन्ति नव्याः। वस्तुतो दिकालाकाशानां पदार्थान्तरतैव न स्वीक्रियतेऽतः कि तेषां महत्त्वरूपपरिमाणानुसन्धानेन शशश्टङ्गपारिमणानुसन्धानसमत्वात् तत्सन्धानस्येति । जन्यमूर्त्तमात्राणामेव दिक्त्वं क्रियादिजन्यसमुदाय- स्यैव कालत्वं तेषां तत्त्वस्य महादिङ्महाकालाङ्गीकृभिरपि स्वीकृत त्वात् । न च महाकाले सर्वमित्यादिव्यवहारस्य 'कालस्वरूपं रूपं तद्वि- ष्णोमैत्रेय वर्तत' इत्यार्षस्य व प्रामाण्यानुरोधेन क्रियाद्यतिरिक्तेऽपि काल- त्वमास्तामिति वाच्यम् , तादृशव्यवहारस्य सर्वशाधप्रयुक्ततया सन्दिग्ध- प्रामाण्यकत्वात् , 'मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकर' इतिवत् कालधाराया उत्कर्षबोधकत्वेन तत्तदा!पपत्तेश्च । गगनमपीश्वरस्वरूपमेव न तु ततोऽन्यदपि तत्प्रमाणाभावात् सुतरां शब्दाश्रयत्वमीश्वर एव स्वीक्रियतेन च भगवति तत्स्वीकारे शब्दश्रावण- वत् तदीयमानेच्छाप्रयत्नानामपि श्रावणापत्तिः,हेतोरविशेषादिति वाच्यम्, गगनस्य पदार्थान्तरत्ववादिनयेऽपि तदेकत्वादिश्रावणवारणार्थ तत्समवे. 'तानां श्रावणं प्रति शब्दत्वेन कारणत्वान्तरस्य शब्दनिष्ठसमवायसम्बन्धेन श्रावणकारणताया वा भवन्मतेऽप्यावश्यकतया मन्मतेऽपि तत एव परमे. श्वरसमवेतलानादीनां श्रावणापत्तिवारणसम्भवात् । अत एव यथा “आयु- घृतम्""आत्मा वै जायतेपुत्रः""सव्वं विष्णुमयं जग"दित्यादिप्रयोगोपपा- दकं जन्यजनकयोरभेदोपचारस्य स्वारसिकत्वम् तथा गुणगुणिनोरभेदोप- चारस्य स्वारसिकत्वं सर्वशे सर्वविषयकेच्छावति परदुःखहरणेच्छारू- पदयावति च भगवति चिन्मयेच्छामयकरुणामयेत्यभिलापस्येव शब्दमयं ३ तत्त्वसार ब्रह्मत्यभिलापस्य सुष्पपादकमेव । गुणगुणिनोरभेदोपचारस्य स्वार- सिकत्वं लोकेऽपि दृश्यते, यथा-शृङ्गारादिरससम्पन्नायां रमण्यां रसम- यीत्यभिलापः सद्गुणसम्पन्ने च पुसिगुणमय इत्याधमिलापश्च। वेदान्ति- कानामुपचारं विना चिन्मयेत्यमिलापसम्भवेऽपि अपरप्रयोगाणामशक्य- समाधेः । “यः सर्वज्ञः सर्ववित्" "यस्य ज्ञानमयं तप” इत्यादिश्रुतिविरोधाच तन्मतमश्रद्धेयम् । एतेन शब्दाश्रयतयाऽऽकाशरूपपदार्थान्तरकल्पनापेक्षया तत्र वाय्वाश्रितत्वमेव कल्पपितुं युक्तम् । न च शब्दो न वायुविशेषगुणः स्वाश्रयनाशाधीननाशाप्रतियोगिविशेषगुणत्वात् यन्नैवं तन्नैवं वायु स्पर्शवत् । इति व्यतिरेकतः, यत्र हेतुस्तत्र साध्यमात्मगुणादिवदित्य- न्वयतश्च दृष्टान्तं कृत्वाऽनुमानेन शब्दानां पवनाऽनाश्रितत्वसिद्धावनायत्या तम्मितयाऽऽकाशरूपपदार्थान्तरं सिध्येदिति वाच्यम् ,शब्दो वायुसमवेत: रूपशून्यद्रव्यसमवेतत्वे सति वाह्यप्रत्यक्षविषयत्वात् सत्ताद्रव्यत्ववायु- स्पर्शवदित्यन्वयादितो दृष्टान्तं कृत्वाऽनुमानस्याऽपि सम्भवेनोक्तहेतोः सत्प्रतिपक्षकवलितत्वादित्यपि समाहितम्। मन्मते क्लप्तपरमेश्वर एव शब्दाश्रयत्वोपगमेनाऽक्लप्तकल्पनानिबन्ध- नगौरवाऽनवकाशात् । अनन्तपवनेषु शब्दाश्रयत्वकल्पनापेक्षया क्लप्त- कभगवति तत्कल्पनायां लाघवाच। एतेनोक्तसत्प्रतिपक्षस्य जागरूकत्वात् भगवत्यपि शब्दस्याश्रयत्वं न सम्भवतीति परास्तम् , उक्तलाघवरूपयुक्ति- बलेन सत्प्रतिपक्षस्य बलहीनत्वात् । अत एव कालदिशोर्भगवद्वाचकमन- न्तनिशमनभिधायाऽऽकाशवाचकतया तन्निर्देशोऽभिहितः शास्त्रका- रैरिति । अथ निर्वातयन्त्रादौ शब्दानुत्पत्तिदर्शनात् अकामेनापि तेषां पवना- भितत्वमङ्गीकर्तव्यम् इति चेन्न,- शब्दोत्पादेऽभिघातस्य पवने सहकारिता । कल्प्यते कलसोत्पादे मृत्तिकादेस्तु दण्डवत् ॥ १५ ॥ अयमाशयः। केवलमृदादिसत्त्वे घटोत्पादवारणार्थ यथा घर्ट प्रति तत्त्वसार १६ मृत्तिकादिसहकारित्वं दण्डादौ कल्पनीयं तथाऽभिघाताख्यसंयोगरूपस्य शब्दकारणस्य सहकारित्वरूपनिमित्तकारणत्वं वायौ कल्प्यते नातो निर्वातदेशे शब्दोत्पत्तिः। न हि सहकारिकारणमात्र एव कार्य्याव- स्थानमिति नियमः। न च यत्कारणनिवृत्तौ यत्कार्यानिवृत्तिः स्यात् तत्काव्यं तत्कारणसमवेतं भवतीत्येव नियमः सर्वसम्मतः। यथा कपालविनाशे घटनिवृत्तघटादिविनाशे च तत्कार्य्यरूपादिनिवृरोस्तत्र तत्र कार्यावस्याने सर्वसम्मतम् , तथा वायुनिवृत्तौ शब्दनिवृत्तिदर्श- नेन शब्दे वायुसमवेतत्वमुचितं न तु घटादौ दण्डादि- समवेतत्वमपि दण्डादिविनाशेऽपि स्वकार्यघटादेधिरावस्थानस्य दुष्टत्वादिति वाच्यम् , ताशनियमे व्यभिचारात् । अन्यथाऽ ऽलोकरूपकारणविनाशे चाक्षुषनिवृत्तिदर्शनेन चाक्षुषेऽप्यालोक- समवेतत्वमापयेत, दहननिवृत्ती सुवर्णादेवत्वनिवृत्तिदर्शनेन दहनसमवेतत्वमपि तदोयद्रवत्वे च । न व सहकारित्वरूपनिमित्तहेतुत्व. कल्पने शब्दसमवायिकारणत्वान्तरकल्पनापत्तिरतो वायोरेव तत्सम- वायिकारणत्वकल्पनमुचितमिति वाच्यम् , वायुस्पर्शसंख्यापरिमाणादेः स्पार्शनस्येव शब्दानां स्पार्शनस्यापत्तिवारणार्थ वायुसमवेतस्पार्शन प्रति शब्दभेदत्वेन गुरुधर्मेण कारणत्वकल्पनापेक्षया शब्दं प्रति वायुत्वजातिरूपलघुधर्मेणेव निमित्तहेतुत्वस्यवौचित्यात् यह शावच्छे- देन वायुसंयोगस्तद्देशावच्छेदेनैव शब्दोपत्तिदर्शनात् अवच्छेदकता- सम्बन्धेनैव तयोः कार्यकारणभावः स्वीकर्तव्यः । अथ सौभरिप्रभृतिमहर्षीणामेकदा शतशरीरादिधारणम् आर्ष- तिहासप्रतिपादितं जीवस्य महत्त्वपरिमाणमन्तरेण नोपपद्यतेऽतः सुत- रामेव प्राचीननैयायिकमतं समीचीनमिति चेत् , भो भोः प्राचीननैया- यिका युष्माभियुकिसायका इदानीं कि कान्तारे प्रस्थापिताः, साधु साधु कश्चिदपि पुरावृत्तपथमनुसरथ। तन्मार्गोऽपि न श्रेयसे युष्माकम् । तत्तन्महर्षीणां शुद्रतरस्यापि मनोरूपजीवस्योत्कटतपःप्रभावेण
तत्त्वसार
यथाकामं शरीरान्तरेष्वाशुसञ्चारतात्पर्य्यविषयतयैव एकशरीर एवं
शतशरीरसम्भोगसामर्थ्यतात्पर्य्यविषयतया वाऽऽर्षापपत्तेः। अन्यथेति-
हासानुरोधेन प्रागदर्शितश्रुत्यादेः (कामः सङ्कल्प इत्यादेरिति ) यथाश्रु-
तार्थकत्वं विलोप्येत।
अथ नव्यमते जीवादीनां पदार्थान्तरत्वास्वीकारे तन्मते पदार्थाः
कतिविधाः । इति चेत्,
दैविध्यं स्यात् पदार्थानां भावाभावप्रभेदतः ।
भावांस्तु षड्विधानाहुरभावास्तु चतुर्विधान ॥ १६ ॥
अयमाशयः। जगति पदार्थो भावनामकोऽभावनामकश्च । तत्र भावत्व-
मखण्डोपाधिरेवानुगतप्रत्ययबलेन सिद्धः। अभावत्वन्तु भावभिन्नत्व-
मेव तावताऽप्यभावानामनुगतप्रत्ययनिळहात्। न वाभावत्वमेवाखण्डो-
पाधिर्भावत्वन्तु अभावभिन्नत्वमित्यपि वक्तुं शक्यतया विनिगमनाविर-
हेण द्वयोरेवाखण्डोपाधित्वमुवितम् , एकशेषस्य कर्तुमशक्यत्वादिति
वाच्यम्, भावनाशं प्रति जन्यभावत्वेन सामान्यतः कारणताया गदाधर-
भट्टाचार्याधुक्ततया तादृशकारणतावच्छेदकत्वेन तन्नाशरूपकार्य्यघटक-
त्वेन च लाघवतो भावत्वरूपाऽखण्डोपाधित्वसिद्धनिष्प्रत्यूहत्वात् ।
एवश्व भावभिन्नत्वेनेवाऽभावप्रतीत्युत्पत्तिसम्भवेन तत्राप्यखण्डोपाधि-
रूपपदार्थान्तरताकल्पनमप्रामाणिकम् । न च बाधाभावपक्षतादिनिष्टका-
रणतावच्छेदकतया लाघवादभावत्वमप्यखण्डोपाधिरास्तामिति वाच्यम् ,
यतस्तत्तत्कारणतावच्छेदकेष्वभावत्वप्रवेश एव नास्तोत्यभावत्वेऽखण्डो-
पाधित्वसन्धानस्य बायसदन्तसूक्ष्माप्रतासन्धानसमत्वात्। एवं अभा-
वत्वस्याखण्डोपाधित्वे समस्ताभावपदस्य योगार्थकताव्याघातापत्तेः ।
रूढिशक्तिकल्पनापश्च।
अथ के हि धर्मा भावानां विभाजकाः । इति चेत्,
द्रव्यत्वञ्च गुणत्वच क्रियास्वं समवायता ।
प्रखण्डोपाधिजातित्वं धर्मा भावविभाजकाः ॥ १७ ॥
तत्त्वसारः अयमाशयः । एते षड् धर्मा भावानां विभाजकाः । तत्राखण्डोपा- धित्वं स्वरूपसम्बन्धेन शाब्दबोधीयनिरवच्छिन्नप्रकारत्वम् । जातित्वञ्च 'समवायसम्बन्धेन शाब्दबोधीयनिरवच्छिन्नप्रकारत्वम् । * न तु नित्य- त्वे सत्यनेकसमवेतत्वं तत्, गौरवात् समवायगामित्वाच। समवाय- स्यासमवेतत्वे एकार्थसमवायसम्बन्धेन समवाये जातिमत्त्वमङ्गीकृत्य समवायः सन्नित्यादिव्यवहारप्रदर्शनं ग्रन्थकृजगदीशतर्कालङ्कारप्रभृतीनां विरुध्येत । न च तादृशसम्बन्धेन स्वरूपतो घटत्वादिभानमुपादाय जातिः समवायश्च घट इत्यपि व्यवहारः प्रमाणं स्यादिति वाच्यम् , जातिः सती समवायः सन्नितिव्यवहारस्य प्रामाण्यानुरोधेन सत्तारूपजातेरेव शुद्धसमवायसम्बन्धवत् तादशपरम्परासम्बन्धेनापि शाब्दे स्वरूपतो भानाभ्युपगमात् न तु घटत्वादिजातेरपि, व्यवहारादेव पदार्थसाधक- त्वात् । येन सम्बन्धेन कस्यचित् स्वरूपतो भानं तेन सम्बन्धेन सर्वेषामेव तथा इति न नियमः, तथा सति समवायसम्बन्धेन घटत्वादिजातेः स्वरूपतो भानदर्शनेन घटादेरपि तेन सम्बन्धेन स्वरूपतो भानस्वीकारप्रसङ्गात् । अथ वा घटादिपदस्य शुद्धसमवायसम्बन्धेन घटत्वाधवच्छिन्ने शक्तिः स्वीकार्या न त्वेकार्थसमवायसम्बन्धेनापोति समवायो घट इत्यादिव्य- वहारस्य न प्रामाण्यं घटाभेदस्य समवायादावसत्त्वात् । सत्पदस्य तु एकार्थसमवायेनापि सत्ताजात्यवच्छिन्ने आजानिकवृत्तिस्वीकारेण सम- वायः सन्नित्यादिव्यवहारः सूपपद्यते । @ समवायसम्बन्धावच्छिवनिरवच्छिसप्रकारतासम्बन्येन शाब्दवत्वमिति यावत्। अत्र यत् 'तत्वसारविचार'कारेणोक्त-........."शाब्दत्वं यदि वाद- वामोत्यनुभवसिद्धो जातिविशेषस्तदा तत्रापि जातित्वं तथैव वाच्यम् इत्यात्मा- श्रय" इति । वन, यतस्तत्र शाब्दत्वस्य स्वरूपत एव भानं न तु जातित्वेन प्रवेशः। जगदीशतालङ्कारैरपि सूतौ-नानाधर्मिण्येकप्रकारकामाप्रकारीभूतो यो धर्मः स सामान्यमित्यर्थः। प्रकारत्वन्ध समवायेन प्रासमतोऽभावत्वादेरखगड- वेपिन वनातिव्यातिः।" इति जातिलक्षणमुक्तम् ।
तत्त्वसारः अथ पुनरभावानां विभाजकाः। यद्बलादभावानां चातुर्विध्यं व्यवहतुं शक्यते इति चेत्, विमानकान्यभावानां ध्वंसता भागभावता । अत्यन्ताभावभेदत्वं न द्वितीया क्वचिन्मते ॥ १८ ॥ अयमाशयः । ध्वंसत्वमखण्डोपाधिः भावनाशादिनिष्ठजन्यताया अवच्छेदकतया तत्सिद्धरावश्यकत्वात् तृणारणिमण्यादिनिरूपितवाया- दिनिष्ठजन्यताया अवच्छेदकतया तार्णत्वादिजातिसिद्धिवत् । न तु जन्यत्वे सत्यभावत्वं तत् तस्य गुरुतरपदार्थस्य तत्तत्कारणतावच्छेदक- त्वे गौरवात् । प्रागभावत्वमप्यखण्डोपाधिः। भूतव्यक्तेरापत्तः स्व- स्वानधिकरणेषु कार्यापत्तेश्च वारणार्थ प्रागभावस्वीकर्तृमते तत्त- कायंप्रति तदीयप्रागभावत्वेन हेतुत्वकल्पनाया आवश्यकत्वेन लाघवात् तत्तत्कारणतावच्छेदकतया तसिद्धरावश्यकत्वात् । भेदत्वमप्यखण्डोपाधिः, चाक्षुषादिकं प्रति गन्धादिभेदनिष्ठकार- णतावच्छेदकतया तसिद्धः । न तु तादात्म्यसम्बन्धावच्छिन्नप्रति- योगिताकाभावत्वं तत्, प्रोतकारणतावच्छेदकगौरवात् , अभावीयप्रति- योगितायां वृत्यनियामकसम्बन्धावच्छिन्नत्वापाताच शिरो. मणिमते प्रागभावो नास्त्येव अनधिकरणे कार्यापत्तिस्तु प्रकारा- न्तरेण तेन वारिता । तन्मते प्रागभावत्वव्यवहारस्त्वत्यन्ताभावविशेषेष्वेव तब तत्तत्कााधिकरणक्षणोत्पन्नानधिकरणकालवृत्तित्वविशिष्टतत्तत्- काय याभावत्वम् । अतः प्रागभावास्याभावान्तरतायां बलवत् प्रमाणं दुर्लभम्। एवञ्च प्रागभावत्वस्याभावविभाजकता न हि सम्भ- वेव। मिथो विरुद्धधर्माणामेव विभाजकत्वात्। अतस्तदवशिष्टध- र्माणामेव तन्मतेऽभावविभाजकत्वमुपगन्तव्यमिति । अथ परिमाणं प्रति द्रव्यत्वेन कारणत्वं तद्धारावारणार्थ परि. माणत्वेन प्रतिबन्धकत्वम् एवं एकत्वगुणं प्रति व्यत्वेन कारणत्वं तत्वसार २३ तद्धारावारणाय च एकत्वत्वेन प्रतिबन्धकत्वम् । एवञ्च परमाणुगगना. दिषु तद्धाराविरहनिर्वाहाय तत्र नित्यमेव परिमाणमेकत्वश्चागत्याऽङ्गीका- ठमिति तु न विचारसहम्, परिमाणमेकत्वञ्च प्रति परिमाणप्रागभावत्वेने. फत्वप्रागभावत्वेन व कारणताद्वयमेव कल्पनीयं न पुनरुकचतुष्टयम् । अद्रव्ये द्रव्ये व परिमाणादिजननोत्तरकाले परिमाणादिप्रागभावासस्व- स्य सर्वसम्मततया द्रव्यभिन्ने परिमाणादेद्रव्ये व परिमाणादिधाराया सहजत एवोत्पादवारणसम्भवात् । न च भूतव्यक्तेरत्पादसमये भाषिष्य- क्तेरुत्पादवारणार्थ व्यक्तिविशेष प्रति कारणविशेषकल्पनमावश्यकं प्राग- भावरूपकारणकल्पनया तद्वारणासम्भवात् भूतसमये भाविनां प्रागभाव- सत्वात् ताशकारणकल्पनाबलेन स्वानधिकरणेष्वपि कार्य्यव्यक्ते - पत्तिः सम्भवेत् नितरां व्यर्थमेवातिरिक्तप्रागभावपदार्थकल्पनम् । इति दीधितिकारमते प्रागभावस्यासत्त्वेन कथं परिमाणादिप्रागभाषे कारण- त्वं सम्भवदुक्तिकमिति वाच्यम्, एक त्वं परिमाणश्चान्तर्भाव्य प्रोकवतुष्ट- यकल्पनापेक्षया कारणताद्वयमात्रकल्पनालाघ्रधानुरोधेन तत्कारणतया प्रागभावरूपमिकल्पनाया आवश्यकत्वात्। एवञ्च प्रागभाषखण्डन- मुन्मत्तप्रलपितमेव । न ह्येकत्र तत्कल्पनायामनावश्यकत्व प्रदाऽन्यत्र लाघवसत्त्वेऽपि तत्कल्पनां परिहातुमी?। अत एव परमाणुगगनादि- स्वीकर्तृ मतेऽपि तत्र तत्र परमेश्वरे च परिमाणं गुणात्मकैकत्वञ्चाप्रा- माणिकमेव सुतरां गुणात्मकद्वित्वादिकमपि। न च परमाण्वादिस्वो- कर्तृ मते व्यणुकादेः परिमाणोत्पादार्थं परमाण्वादिगतद्वित्वादिगुणस्थी- कारावश्यकत्वमेव ताशपरिमाणं प्रति ताशद्वित्वादेः कारणत्वस्य सर्वसम्मतत्वादिति वाच्यम् , एवमपि वर लाघवेन तत्र नित्यद्वित्वादेरे- वोपगमात् न तु तत्र तत्र परिमाणकत्यानामपि। एतेन "वाक्यात् संख्याविशेषाच साध्यो विश्वविदव्ययः।" इत्यनेन सर्गाधकालीनदय- गुकादिसमवेतपरिमाणानुगुणद्वित्वादिजनकापेक्षाबुद्धिर्मितया परमेश्व- रसाधित उदयनावाव्यस्तचिन्तनीयम् । इति चेन्न, यतः प्रागभावास- २४ तत्वसार स्वेऽपि परिमाणत्वाधवच्छिन्न प्रति द्रव्यत्वेन पृथक् कारणत्वं मयापि न कल्पनीयं तव्यापकगुणत्वावच्छिन्न प्रति द्रव्यत्वेन क्लुप्तकारणतयः वाद्रव्ये गुणान्तर्गणितपरिमाणादेरुत्पादवारणसम्भवात् । परन्तु तद्धा- रावारणार्थमेव परिमाणत्वकत्वत्वाभ्यां प्रतिबन्धकताद्वयं कल्पनीयम् । एषा क्लुप्तपदार्थमन्तर्भाव्य कारणताद्वयकल्पनापेक्षया प्रागभावत्वरूपा- खण्डधर्म प्रागभावांश्व कल्पयित्वा तत्र तत्र कारणताइयकल्पनमपि गौरवदोषकवलितमेव । एवं मन्मते प्रतियोगितासम्बन्धेन सामान्यतो नाशत्वावच्छिनं प्रति जन्यभावत्वेन एकमेव हेतुत्वं कार्यतावच्छे- दके प्रतियोगिविधयाऽभावाप्रवेशकृतलाघवञ्च। प्रागभावस्वीकर्तृ मते व प्रागभावे व्यभिवारवारणाय भावनाशं प्रति जन्यभावत्वेन हेतुत्वं अभावनाशं प्रति च प्रागभावत्वेन हेतुत्वमिति गुरुशरीरकार्यकारणभाव- यकृतं गौरवमपि दुरपह्नवमेव । एवञ्च परमाण्वादावपि परिमाणादि- धारावारणार्थ युज्यत एव नित्यपरिमाणादिमत्त्वस्वीकारः। न च सर्गाचकाले परमाण्वादावेकत्वसत्त्वेऽपि तदानीं जन्यापेक्षावुद्धरसत्त्वेन तत्कालावस्थायिनां तद्गतद्वित्वादीनां नित्यत्वमेवोचितम् । तेषां जन्यत्वमभ्युपेत्य तदुत्पादार्थ परमश्वरस्यापेक्षाबुद्धिकल्पनं तु "प्रक्षा- लनाद्धि पङ्कस्य दूरादस्पर्शनं वर"मित्यादिन्यायेनायुक्तमेव । एवमी- श्वरस्यापेक्षाबुद्धिस्वीकारे परमाणुपर्याप्तद्वित्वादीनामनवस्थाप्रसङ्गोऽपि । यतो द्वित्वादिसंख्यामात्रस्यैव जन्यत्वस्वीकारेऽनतिप्रस- तद्वित्वत्वादिजातिमात्रेणैव एकत्वापेक्षाबुद्धिनिरूपितजन्यत्वं कल्पयितुं शक्यते । कतिपयद्वित्वानां नित्यत्वस्वीकारे तु एकत्वादिनिरूपित- जन्यतावच्छेदककुक्षौ जन्यत्वस्यापि निवेशावश्यकत्वं नित्यद्वित्वसाधा- रणद्वित्वत्वजातेस्तजन्यतातिप्रसक्तत्वात्। एवञ्च द्वित्वत्रित्वादिनिष्ठ- -बहुजन्यतानामतिगुरुशरीरजन्यत्वेऽवच्छेदकत्वकल्पनापेक्षया लघीयस्या केवलद्वित्वत्वादिजात्याऽनेकपर्याप्तसकलसंख्यानां जन्यत्वमङ्गोकत्या- बच्छेदः कल्पयितुं युक्तः । प्रोक्तानवस्था तु प्रामाणिकत्वात् न खलु इति वाच्यम्, तत्वसारः । दोषाय बोजाङ्करवत् । न च कार्य्यतावच्छेदकलाघवानुरोधेन सर्वेषा- मेव द्वित्वादीनां जन्यत्वस्वीकारे सर्वेषां परिमाणानामपि तुल्ययुक्तया जन्यत्वव्यवस्था स्यादिति वाच्यम्, यत एकत्वस्य परिमाणस्य च धारा न करप्यनुमता, अन्यथा घटादेरपि तद्धारास्वीकारः कमपचयमा- पहेत् यद्वारणार्थ कारणकल्पनं भवताप्यागुतम् । एवञ्च तादशधाराया एवाप्रामाणिकत्वे व पुनस्तदनवस्थावार्तापि। एवञ्च परिमाणकत्वा- नामप्रामाणिकानवस्थाप्रसङ्गवारणार्थं परमाण्वादीनां नित्यपरिमाणे- कत्वकल्पनं साधीयः। साधीयांश्च गुरुतरस्यापि जन्यत्वस्य परिमा- णादिगतजन्यतावच्छेदके स्वानतिप्रसक्ततानिर्वाहायाऽगत्या तदवच्छेद- कघटकतया निवेशोऽपि: वस्तुतस्तु सर्वज्ञे भगवत्यपेक्षाबुद्धिस्वीकारावश्यकत्वम् । अन्यथा “यः सर्वशः सर्वविदि" त्यादिश्रुतिरूपप्रमाणेन प्रतिपादिताया भगवतः सर्वज्ञताया व्याधातापत्तिः। न च तज्ज्ञानेऽयमेक इत्यादिरूपविशिष्ट- विषयकत्वरूपापेक्षाबुद्धित्वं न स्वीक्रियते परन्तु तत्र सर्वविषयकत्व- निर्वाहाय यथा कथञ्चिद्रूपेण सर्वविषयकत्वमेव स्वीक्रियते लाक्षणि- कपदजन्यलक्ष्यार्थविषयकशाग्दत्वविशिष्टविषयिताशून्यायामपि भगवदि- च्छायो सर्वविषयकत्ववत् । एवञ्च तदीयापेक्षाबुद्धरसत्वेन सर्गाच- कालीनद्वित्वादेनित्यत्वमव्याहतमेव तृणारणिमणिन्यायेन जन्यद्वित्वा- दिमात्त्रगतं वैजात्यम् अपेक्षाधुद्धिजन्यतावच्छेदकतया कल्पनीयम् । एवञ्च तज्जन्यतावच्छेदके जन्यत्वं न निवेशनीयं व्यर्थत्वात् । तथा च सर्गाद्यकालीनद्वित्वादीनां नित्यत्वसम्भवेन तेषां नानन्तता न वाऽनव- स्थाप्रसङ्गः इति चेन्न, “सव्वं खल्विदं ब्रह्म” “सव्वं विष्णुमयं जगदि." त्यादिरूपस्य परमेश्वरकृतव्यवहारस्य व्यवहर्तव्यज्ञानमूलकस्य तदीया- पेक्षाबुद्धिविषयत्वज्ञानमन्तरेण कथमपि निर्वाहासम्भवात् । यतो नित्य- जन्यभाविभूतसकलपदार्थपरतद्वाक्यस्थसळपदेन नित्यबहुत्वगुणस्य प्रतिपादनासम्भवात् अपेक्षाबुद्धिविषयत्वरूपं सर्वत्वमेव प्रतिपादितम् । ४ तत्त्वसार २६ न च योगिनां भाविभूतसृष्टिसमयोत्पन्नापेक्षाबुद्धिविषयत्वरूप- व्यवहर्सव्यस्य सर्वज्ञे भगवति ज्ञानसम्भवेन तेन व्यवहर्तव्यज्ञानेन सर्गाघसमयेऽपि तदीयव्यवहारोपपत्तिः सम्भवति इति वाच्यम्, परकी- यापेक्षाबुद्धिजन्यव्यासज्यवृत्तिगुणप्रत्यक्षस्येव तादृशापेक्षाबुद्धिविषयत्व- हानाधीनापेक्षाबुद्धिविषयत्वरूपबहुत्वादिव्यवहारस्याप्यदृष्टचरत्वेन तत्त- पुरुषीयबहुत्वादिव्यवहारं प्रति तदीयापेक्षाबुद्धिविषयत्वस्य ज्ञानमनु- कूलमित्येवोपगन्तव्यतया “सव्वं खल्विदं ब्रह्मेत्यादिश्रुतिरूपव्यवहा- रानुरोधेन परमेश्वरेऽपि परमाण्वादिसकलपदार्थान्तर्भावणापि भगवद्- पेक्षाबुद्धिस्वीकारावश्यकत्वम् । यदि व 'मम सुवर्णशतमस्ति' इति कस्यचित् वचनं श्रुत्वा देवदत्तस्य सुवर्णशतं विद्यते इति व्यवहारस्या- न्यपुरुषप्रयुक्तत्वदर्शनेन पुरुषविशेषनियन्तितोक्तकार्यकारणभावस्य न प्रमाणसिद्धत्वं यत्र तु परकीयापेक्षाबुद्धिविषयत्वज्ञानमसशस्य न सम्भवति तत्रैव स्वकीयापेक्षाबुद्धिः सुतरामेवोपयुज्यते इत्येव दृष्टवरमि- त्युच्यते, तापतापि प्रलयदशायामपि पदार्थाः सर्वत्ववन्त इति व्यवहार- बलेन तत्कालेऽप्यपेक्षाबुद्धिस्वीकारावश्यकत्वात् । न च भाविभूतयोगि- शानस्य विषयतामादाय तहशायामपि तत्र सर्वत्वं निराबाधमेव विषयताया ज्ञानसमानकालीनत्वनियमे प्रमाणाभावादिति वाच्यम्, विषयताया ज्ञानसमानकालीनत्वस्यैवावश्यमभ्युपेतव्यत्वात्। अत एव तत्पुरुषेण यदा कदाचिदेतद्घटो दृष्ट एतद्घटस्तत्पुरुषदष्टो वान वन्धतादशायाम् इत्यादिरूपप्रामाणिकव्यवहारतस्तदीयचाक्षुषविषय- त्वसामान्याभाववत्वमन्धतादशावच्छेदेन प्रत्याय्यते न तु तत्कालीना. यास्तदीयदृष्टेरभाववत्त्वं तदा तस्या असम्भवात् इति सुसङ्गतम् । नव विषयताया ज्ञानसमानकालीनत्वानियमेऽपि तत्पुरुषीयदर्शननि- कपितत्वविशिष्टविषयतायाः सर्वमत एवाव्याप्यवृत्तितया तादशविशिष्टा- भाव एवान्धतादशायां प्रतीयतां पूर्वक्षणविशिष्टगगनामावस्याभावः भणान्तरावच्छेदेनेवेति वाच्यम्, विषयताया तत्तजज्ञाननिकपितत्ववि- तस्वसाः शिष्टनिरूपितं केवलतत्तविषयतानिरूपितञ्च द्विविधमधिकरणत्वमक- ल्पयित्वा लाघवेन विषयताया शानसमानकालीनत्वस्यैवौचित्यात् । एवश्व प्रलयकालीनपदार्थे तहशायां बहुत्वं नास्ति तत्कालीनपदार्था- स्तहशायां न बहव इत्यादिव्यवहारस्य संख्यामात्रस्यैवैकत्वबहुत्वान्य. तरत्वनियमेन ते पदार्था एक एव इति व्यवहारस्य वार्यवशसम्पन्नस्य प्रामाण्यापत्तिर्वजलेपवत् प्रतिभाति । अतस्तदापत्तिवारणार्य सर्व- पदार्थान्तर्भावण परमेश्वरस्यापेक्षाबुद्धिस्वीकारावश्यकतया तादशा- पेक्षाबुद्धयादिघटितसामग्रीबलेन सर्गाद्यकाले परमाण्वादौ द्वित्वापुत्पा- दस्य दुरितया तेषां नित्यत्वव्यवस्थापनं गीर्वाणगुरूणामप्य. शक्यम् । अथ तादशाधिकरणताद्वयकल्पनाभयेन परमेश्वरापेक्षाबुद्धिं कल्प- यित्वा सर्गादौ परमाणुगतसंख्यानां नित्यत्वखण्डनपटुत्वं प्रकटीकृतम्, एतदतीवरहस्यम्, केवलं विषयताधिकरणताद्वयकल्पनात एव विभेषि परमाणुगतासंख्यसंख्यानामनन्ततानवस्थाकल्पनाकृतगौरवमयानि कि नोपतिष्ठन्ते । इति चेदनन्तानवस्थितविषयाणामनन्तानवस्थितज्ञानव्य. किनिरूपितविषयत्वाधिकरणत्वेषु प्रत्येकं द्वविध्यकल्पनापेक्षयाऽनवस्थि- तस्यापि तादृशद्वित्वादेः कल्पनाया लघीयस्त्वात्। परमार्थस्तु भग- वतोऽपेक्षाबुद्धिस्वीकारेऽपि गुणादिगतापेक्षाबुद्धौ एकत्वरूपगुणाविष- यकत्ववत् परमाण्वाद्यन्तर्भावेणापि भगवदपेक्षाबुद्धौ एकत्वरूपगुणवि- षयकत्वस्वीकारमन्तरेणापि तस्या अपेक्षात्वं निर्वहति तत्र तादशगुण- विषयकत्वस्वोकारे सद्यकालीनद्वित्वादीनामनवस्थास्वीकारनिवन्धनो महानेव दोषः । अतः प्राचीननैयायिकमते नित्यमात्प्रवृत्तिद्वित्वादीनां नित्यत्वकल्पन विना न निस्तारः । न च पर्याप्तसंख्यामात्रस्यैव जन्यत्व. मिति प्राचीनसिद्धान्तविरोध इति वाच्यम्, भगवदक्षपादकणादादिप्रन्ये तादशसिद्धान्तस्य सुव्यकमदृष्टचरत्वात् । "वाक्यात् संख्याविशेषाच्चे त्युदयनाचार्यालिबनेन न २८ तत्त्वसार तादशसिद्धान्तः सुव्यकमवगम्यत एवेति वाच्यम्, प्रसरेणुपरि- माणानुगुणद्वयगुकसंख्यायाः कथमपि नित्यत्वासम्भवेन तत्संख्या- परतयैव तादशकारिकाया व्याख्येयत्वात्। क्रियाहेतुतया परि- माणविशेषस्य परमाणुघटपटादिसाधारणस्य सिद्धरावश्यकतया घटादौ परिमाणधारावारणार्थ क्रियारहिते तु विश्वव्यापिगगनपर- मेश्वरादौ तदुत्पादवारणार्थश्च परिमाणविशेषप्रतिबन्धकतया सर्वे- वेव द्रव्येषु परिमाणसिद्धिरावश्यकी। एवञ्च एकत्वधारादिवारणार्थ एकत्वस्य प्रतिबन्धकत्वं न कल्प्यते, तथा सति परमाणुपरमेश्वरादी सर्वत्र तत्कल्पननिबन्धनं गौरवं स्यात् । परन्तु परमाण्वादौ क्रिया- हेतुतया उभयवादिसिद्धस्य विश्वव्यापिगगनादिमात्रे कल्प्यस्य व परिमाणस्यैव एकत्वधारादिवारणार्थमेकत्वं प्रत्यपि प्रतिबन्ध- कत्वं स्वीकर्तुमुवितम् । एवञ्च तत्र तत्र नित्यमपि गुणात्मक- फत्वमप्रामाणिकं किं पुनस्तन्मूलकतया द्वित्वादीनां जन्यत्वसि- द्विचिन्तनेन तत्र तत्रैकत्वव्यवहारस्तु गुणादावेकत्वव्यवहारवदुपपाद. नीयः । गुणादिसाधारणसंख्यारूपगुणस्वीकर्तृमते व गुणातिरिक्त- कत्वानामलोकतया भगवदपेक्षाबुद्धरपि सकलपदार्थान्तर्भावण एकत्वगुणमात्प्रविषयकत्वस्यावश्यकत्वम् । अतस्तन्मत एवं प्राचीन- स्वोकृतपरमाणुगगनादीनां द्वित्वादिगुणस्याप्युत्पादो दुरपवादः । सर्गादौ तसरेगुपरिमाणानुगुणव्यगुकानां त्रित्वगुणोत्पादार्थ सर्वमत एव परमेश्वरापेक्षाबुद्धः स्वोकर्तब्यत्वेन तस्या असंख्यकत्वविषयक- त्वेऽपि द्वित्वत्रित्वाद्युत्पादकत्वं निर्विवादमेव । एतेन द्वित्वाद्युत्पादे एकत्वत्रयाद्यविषयकस्य तद्वयादिविषयकस्यापेक्षाज्ञानस्यैव द्वित्वायु: त्पादकत्वमिति निरस्तम् । त्रित्वायुत्पादकाले नियमतो द्वित्वाद्युत्पत्ति- रपि स्वीक्रियते । अन्यथा भगवदपेक्षाबुद्धद्धित्वाद्युत्पादकत्वमङ्गप्रसङ्गः स्यादिति। इत्यास्तां विस्तरः। भय कथमखण्डोपाधीनां पदार्थान्तरता कयं वा पूर्वाचार्य्यसम्म तस्वसारः तानां परमाणुगतविशेषाणां परित्यागः । इति चेत्,- दृष्ट्वा प्रकारतात्वाचमखण्डोपाधिराहतः । विशेषा निद्रिताः सन्तु साई व्योमान्जसौरभैः ॥१६॥ अयमाशयः । घटपटादिकं गगनादितो भिन्नमिति प्रतीत्या भेद गगननिष्ठप्रतियोगिताकत्वमेव, शब्दवत्त्वेन गगनं जानातीत्यादि. प्रतीत्या तन्निष्ठविशेष्यताकत्वमेव, गगने शब्दा शायन्ते इत्यादिप्रतीत्या च गगननिष्ठप्रकारताकत्वमेवावगाह्यते न तु तद्वपरीत्यमपि, प्रकारता- स्वादेरखण्डपदार्थान्तरत्वास्वीकारे प्रकारत्वादेराश्रयस्वरूपतया तेषामलक्षण्यात् उक्तनियमो नोपपद्यते । एवं विशिष्टबुद्धिबाधनिश्चययोः प्रतिबध्यप्रतिबन्धकभावानुरोधेनापि विशेष्यतात्वप्रकारतात्वादीनां विलक्षणपदार्थान्तरताया आवश्यकत्वम्। त एव च पदार्था अखण्डोपा. धित्वेन गीयन्ते । परमाणुधर्मा हि विशेषास्तु न सन्त्येव । यतः परमाण्यादीनामलीकता प्राग्व्यवस्थिता किं पुनस्तद्गतविशेषरूपपदा- र्थान्तरचिन्तनेन व्योमकमलपरिमलचिन्तनवत् । भथ मनः क्रिमन्तर्भूतम्, इति चेत्, भूरि तेजः पवनः परमात्मा तथा मनः। द्रव्याणि षड्विधान्येव जीवादिर्नेतरस्ततः ॥२०॥ अयमाशयः । जीवात्माकाशकालदिशां यथासम्भवं क्लप्तपदा. र्थान्तर्भावः प्राग्दर्शितः । अतो न विभागन्यूनत्वम् । अथ प्रमा- णाधीना सर्वेषां पदार्थानां व्यवस्थितिः । अतः कि प्रमाणम् , इति चेत्,- मानमिन्द्रियमध्यक्षेऽनुमानमनुमा प्रति । शान्दबोधे तु शन्दाख्यमतो मान लिया मतम् ॥२१॥ भयमाशयमानुषप्रत्यक्षे नयनरूपेन्द्रियस्य त्वाचप्रत्यक्षे त्वगिन्द्रिय- स्य रासनप्रत्यक्षे रसनेन्द्रियस्य प्राणजप्रत्यक्षे प्राणेन्द्रि- .'
तत्वसारेः यस्य श्रावणप्रत्यक्षे श्रवणेन्द्रियस्य मानसप्रत्यक्ष मनोरुपेन्द्रियस्य स्वव्या- पाद्वारा कारणतया तेषां सर्वेषामेवेन्द्रियाणां प्रत्यक्षमितिकरणत्वरूपं प्रामाण्यं निराबाधम्। अनुमितौ परामर्शद्वारा व्याप्तिज्ञानस्य कारणत्वात् तस्यानुमितिकर- णत्वरूपं प्रामाण्यं निष्प्रत्यूहम् । शाब्दोत्पादे तु पदार्थोपस्थितिद्वारा श्रुतशब्दानां हेतुत्वात् तेषां शाब्दबोधकरणत्वरूपं प्रामाण्यमक्षतम् । इति प्रमाणानां त्रैविध्यमेवेति सर्वानुमतम् । अथ पीनो देवदत्तो दिवा न भुङ्क्ते इति दिवसे भोजनाभावरूपविशेष- बाधनिश्चयदशायां भोजनं विना पोनत्वमनुपपन्नमित्यनुपपत्तिप्रतिसन्धाने सति देवदत्तस्य रात्रिभोजनावधारणरूपमर्थापत्तेः फलमापत्तिरूपप्र- माणान्तरादेव जायते । अत एव पीनो देवदत्तो दिवा न भुके अर्थाद्रा- प्रावित्यादिवाक्यं प्रयुञ्जते वृद्धाः। एवञ्च तस्याः प्रमाणान्तराप्रदर्शनेन विभागन्यूनत्वं स्यात्। अर्थापत्तेः फले यस्मादनुमात्वमवस्थितम् । अतोऽसावतपादेन मानत्वेन न सूत्रिता ॥२२॥ पर्वतो वहिमान् धूमादित्यादिस्थलान्तरेषु क्लुप्तस्यानुमितित्वस्यैव कल्पनमुचित लाघवात् न तु तत्रानुमितिवैजात्यस्य गौरवात्। एवञ्चा- नुमानत्वेनेवार्थापोः प्रमाणत्वनिहिण तदप्रदर्शननिबन्धनं न विभाग. न्यूनत्यमिति । न चानुमानान्तर्गतार्थापत्तिः किं वार्थापत्यन्तर्गतमनुमा- नमित्यत्र विनिगमनाविरह इति वाच्यम्, यतोऽर्थापत्तेः फलगतार्थापति- त्वमितरबाघसहकृतेन केवलव्यतिरेकव्याप्तिहानेन प्रयुक्तम् । अनुमिति- त्वन्तु इतरवाधस्य सरवेऽप्यसत्वेऽपि वान्वयव्यतिरेकव्याप्तिहानप्रयु. अयमाशयः। भोजन विना पीनत्वमनुपपन्नमित्यादिवाक्यतो यत्र यत्र. भोजनाभावो पर्सते तत्र तत्र पीनत्वाभाव इत्येवार्यः प्रतीयते। सवार्थः पीनत्वरूपहतो भोजनरूपसाध्यव्यतिरेकव्याप्तिस्वरूपः । पत्र ताशावधारणस्थले नियमतो व्याप्तिहानादिसस्वेन तादशावधारणे तरवसार ३१ कम् । एवञ्च प्रत्यक्षविशेषे सामग्रीविशेषप्रयुक्तसाक्षात्कारत्ववत् अनुमितिविशेषे उक्तसामग्रीविशेषप्रयुक्तार्थापत्तित्वरययौचित्यात् । एवं श्रुत्यादावनुमितिबोधक मनन'शब्दस्य रमृत्यादौ तु अनुमानशब्दस्य च दर्शनेनानुमानत्वानुमितित्वयोरपलापः कर्तुं न हि शक्यते । श्रुतिर्यथा “आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति (१)। स्मृतिर्यथा"-आगमेनानुमानेन ध्यानाभ्यासरसेन च । विधा प्रकल्पयन् प्रशां लभते योगमुत्तम” मिति ( २ )। एतेन शादोऽप्यनुमित्यन्तर्भूत इति केषाश्चिन्मतं तदपि निरस्तम्, उक्तमहर्षिवाक्ये विधेति धाप्रत्ययस्य इष्टत्वात्, तत्प्रत्ययस्य मिथोविरुद्धधर्मबोधकत्वव्युत्पत्तः, शायदत्य- स्थानुमितित्वव्याप्यत्वस्वीकारे तत्प्रयोक्तुर्भगवनमहर्षेरव्युत्पन्नत्वस्थी- कारः प्रसज्येत । न चार्थापयामि (३) न त्वनुमिनोमीत्यनुव्यवसायबले- नार्थापत्तेः फलमनुमितिभिन्नत्वेन स्पष्टमेव प्रतीयते इति वाच्यम् ,यतस्ता- दशानुव्यवसायस्तस्याः प्रमाणान्तरतास्वीकर्तर्येव जायते न तु सर्वेषु व्युत्पन्नपुरुषेष्वपि इत्येवोपगन्तव्यम् । सूत्रकारिणि भगवदक्षपादे तथा- ऽनुव्यवसायानुत्पादस्य भवतापि स्वीकारात् । अथ प्रामीणस्य प्रथमतो गवयादिप्रहे गोसादृश्यं गवयत्वजातिश्च वक्षुषा गृह्यते तदनन्तरं गोसदशो गवयपदचाच्य इति यदा कदाचित् श्रुतवृद्धवाक्यार्थस्य स्मरणं तदनन्तरश्च गवयत्वजातौ लाघवज्ञानसह- कारण उक्तप्रत्यक्षस्मरणाभ्यां गवयत्वजात्यवच्छिन्नगवयपदवाच्यत्व- (१)१०२।४।। ( २ ) "प्रत्यक्षमनुमानञ्च शास्त्रश्च विविधागमम् । अयं विदित कार्य्य" मित्यादि मानवस्मृतिरपि (१२।१०५) द्रष्टव्या। ( ३ ) "अर्थापत्तिविषयकसाक्षात्कारस्यार्थापयामीत्याकारकताप्रतिपादनेन व्याकरणशास्त्रऽपि विलक्षणपाण्डित्यं प्रकाशितमेतदुग्रन्थको"-इति तत्व- सारविचार'कारस्याकाण्डताण्डवमतीच हास्यास्पदम्, वैयाकरणकूड़ामरिना रखनन "पदार्थदीपिकायां" "अर्थापयामीत्यनुभवसिद्धजातिविशेषवत्पपति- रिति स्वहस्तितत्वातू।
३२ तत्वसारः मह उत्पाद्यते स चोपमानामकं प्रत्यक्षादिज्ञानत्रयाद् भिन्नमेष शानान्त- रम्। एवञ्च तत्करणतयोपमानस्य प्रमाणान्तरत्वमावश्यकमेव । अत- स्तदनुक्त्या विभागन्यूनता । न च गोसदृशो गवयपदवाच्य इति- पाक्यार्थस्य पूर्वस्मिन् काले शाब्दबोधेनैव गवरत्वावच्छिन्नगवयपद- पाच्यतायाः विषयीकरणं भूतं तत्पदार्थतावच्छेदकावच्छिन्नतत्पदज- न्यबोध्यत्वीयभगवत्सङ्केतविषयतायास्तत्पदवाच्यतास्वरूपतया गदा- घरभट्टाचार्य्यप्रदर्शितत्वात् । एवञ्च उक्तशाब्दबोधेनैव चरितार्थतया कथमुपमानामकं ज्ञानान्तरमङ्गीकर्तव्यमिति वाच्यम्, उक्तशाब्दबोधद- शायां गवयत्वादिजातेः कश्चिदप्यनुपस्थित्या गवयत्वावच्छिन्नस्य तादशसतधर्मत्वेऽपि तादृशशाब्दबोधे तद्भानस्य कथमप्यसम्भधेन सुतरां तदंश परित्यज्य पूर्व शाब्दबोधजननावश्यकत्वात्। यो यो धर्मो यत्र धर्मिणि वर्तते तद्धर्मिणः शाब्दादिज्ञाने जायमाने तत्र तद्गत- सकलधर्मभानं न हीति नियमः। इति चेन्न,- उपमाबोधकं मानं श्रुत्यादिषु न दृश्यते । अतोऽप्यस्यास्तु करणे मन्यतामनुमानता ॥२३॥ अयमाशयः। गोसादृश्यावच्छेदेन गवयपदवाच्यताग्रहतात्पर्येणव वृद्धरतिदेशवाक्यप्रयुक्तरावश्यकत्वं तत्सामानाधिकरण्येन बोधतात्प- ात्तत्प्रयोगे कस्मिंश्चिदेकस्मिन्नेव समये केन वृद्धेन गोसदृशो गवय. पदवाच्यः केनविच तत्सद्दशो न तत्पदवाच्य इतिवाक्यम् अथ वा एकेनेव वाक्यद्वयं प्रयुक्त तत्श्रवणेन ग्रामीणस्य तद्विविधविषयकमेव समूहालम्बनशाब्दज्ञानं जातं तादृशबोधमूलकसमूहालम्बनस्मरणोदये धर्मविशेषावच्छिन्नवाच्यताग्रहस्य सर्वाननुभूतस्य जननमापद्येत। एपश्च तत्सादृश्यावच्छेदेन तत्पदवाच्यताया नियमतः शाब्दस्यावश्यकत्वे तरोधानन्तरं तत्सादृश्ये तद्वाच्यताया मानसग्रह औचित्येन जनितः । ताशमानसमहमूलकसंस्कारबलादपि गवये गोसादृश्यप्रत्यक्षरुपोबो- धकसहकारेण तादृशव्याप्यस्मरणं धूमदर्शनरूपोद्बोधके समुपस्थिते तत्वसार ३३ सति बहिव्याप्यधूमस्मरणपत् । तदनन्तरं प्रत्यक्षतो निश्चीयमाने गवयत्वजात्यवच्छिन्ने तादृशव्याप्यवत्ताया गवयरूपपक्षे प्रात्यक्षिकपरा- मर्शः । वाच्यत्वमवश्यं किञ्चिद्धावच्छिन्न घटादिपवधाच्यत्ववत् गषयत्वजातौ तदवच्छेदकत्वे लाघवमिति प्रतिसन्धानश्च उपमाप्राक- कालेऽवश्यमपेक्षणीयम्। एवं गवयादिपदवाच्यत्वे धावच्छिन्नत्व- सिद्धयर्थमपि गवयपदार्थः किञ्चिद्धावच्छिन्नवाच्यतावान् शक्तिभ्रमा- जन्यलक्षणामहाजन्यशाब्दबोधविषयत्वात् घटादिपदार्थवदित्यनुमानमपि। एवञ्च गवयत्वावच्छिन्नगवयपदवाच्यत्वप्रहार्थमुक्तद्विविधपरामर्शयोरेव जागरूकत्वेन प्रोक्तलाघवादिज्ञानसहकृतपरामर्शात् गवयत्वजात्यपच्छि- न्नगवयपद्वाच्यताया अनुमितेरेव सम्भवेन व्यर्थमुपमारूपज्ञानान्तर- कल्पनम् । अथ वा उत्पत्तिकालावच्छिन्नघटो गन्धवान् पृथिवीत्वादित्यादि. सामान्यानुमानेन गन्धरूपविधेयांशे उत्पत्तिकालावच्छिन्नत्वभानवत् प्रत्यक्षगृहीतगवयत्वजातिविशिष्टे गवयपदवाच्यताव्याप्यगोसादृश्यव्या- प्यवत्तारूपसामान्यपरामर्शेनापि लाघवादिप्रतिसन्धान विनापि तादश- वाच्यतारूपसाध्यांशे गवयत्वजात्यवच्छिन्नत्वस्य सहजत एव भान निराबाधम्, असति बाधके उद्देश्यतावच्छेदकावच्छिन्नत्वस्य विधेयांश माननियमात्। एतेन लाघवादिज्ञानसत्त्वेऽपि सामान्यपरामर्शाहिशे. षधर्मावच्छिन्नानुमितिर्नवीनानामसम्मता अतो वाच्यतायां गवयत्वरूप. विशेषधर्मावच्छिन्नत्वसिद्धयर्थं तन्मते उपमानादर इति गदाधरभट्टावा- यो चिन्तनीयम्। अपि च लाघवेतरवाधादिप्रतिसन्धाने सामान्यपरामर्शादपि विशेष. धर्मावच्छिन्नत्वसिद्धिरपि सर्वसम्मता। अन्यथा क्षितिः सकर्तृका कार्य्यत्वादिति सामान्यानुमानेन इतरबाधवलादीश्वरो न सिध्येत्, गन्धादिसमवायिकारणतावच्छेदकतया पृथिवीत्वादिजातिध । अत एव "मात्मा पारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य" इतिश्रुत्यापि ५ ३४ तत्त्वसार प्रत्यक्षशाब्दानुमितिस्मृत्यात्मकं चतुर्विधमेव ज्ञान प्रतिपादितं न तु केनापि सर्वक्षवाक्येन तदन्यत् शानमपि । अथानुमितौ ब्याप्तिज्ञानं प्रमाणम् इति यदुक्तं तन्न सम्भवति, व्याप्ति- पदार्थस्य दुनिरूप्यत्वात् । न च स्वप्रतियोगिव्यधिकरणानां हेतुसमा. नाधिकरणानाम् अथ वा स्वप्रतियोगिमत्ताबुद्धेर्षिषयविधया प्रतिबन्ध- कतावच्छेदकसम्बन्धेन हेतुसमानाधिकरणानामभावानां प्रतियोगिता- नवच्छेदको यो धर्मस्तद्धर्मावच्छिन्नसामानाधिकरण्यं हेतौ साध्यस्य व्याप्तिरिति वाच्यम् , तादशव्याप्तेः स्वत्वघटिततया जन्मसहस्रेणापि शातुमशक्यत्वात्। परम्परासम्बन्धेन कश्चिदनुगमय्य तादशज्याप्ति- प्रहसम्भवेऽपि तादशपरम्परायाः संसर्गत्वे प्रमाणस्य दुर्लभत्वात् । न वानुमित्यन्यथाऽनुपपत्त्या अनुमितिकरणतावच्छेदकघटकतया तादश- परम्परायाः संसर्गत्वं कल्पनीयमिति वाच्यम्, अनुमितेरेव कल्पनापदा- र्थतया तादशपरम्परायाः संसर्गत्वकल्पनार्थमपि तत्कारणतावच्छेदक- तयापि परम्परायाः संसर्गत्वकल्पनावश्यकत्वम् एवं रीत्या कल्पना- याममवस्थापर्यवसानात् । उक्तव्याप्तेः कश्चिदनुगमसम्भवेऽपि बहित्यत्वाद्यनुपस्थितिदशायांः स्वरूपतो वहित्वाचवच्छिन्नविधेयता- कानुमितेरपलापप्रसङ्गात् व्यभिचारज्ञानाविरोधिव्याप्तिज्ञानस्यानुमिता- पहेतुत्वात्। न च स्वरूपतो वहित्वाधवच्छिन्नविधेयताकानुमिति प्रत्यपि पहित्वत्वाधवच्छिन्ने व्यापकतावच्छेदकत्वज्ञान एवानुकूल्य- मगत्या स्वीकार्यम् । एवञ्च तदवच्छिन्ने व्यापकत्वज्ञानस्यानुमिति- कारणत्वे व्यवस्थापिते तदशानदशायामनुमितिर्नेष्यत एव । अन्यथा व्यापकत्वाग्रहदशायामप्यनुमिति सम्भाव्य अनुयोगः स्यादिति वाच्यम्, पहित्यत्वावच्छिन्ने व्यापकतावच्छेदकत्वज्ञानात् पक्षतासरचे नियमतो बहित्ववस्वान् वहिमांश्चेति द्विविधाकारकानुमित्युत्पादस्य तावता- ऽप्यवारणात्। .नव इतरत्वप्रतियोगितावच्छेदकतया यत् वहिवादः स्वरूपतो तत्त्वसार यादशहानं अर्थावहीतरावृत्तिहेतुसमानाधिकरणामावप्रतियोगितानव- च्छेदक इत्यादिरूपं जायते तत्र स्थले तादशहानात् वहिमानित्याका- कारिका स्वरूपतो वह्नित्वप्रकारेणैवानुमितिरङ्गी क्रियते । यत्र तु इतरत्वप्रतियोगितावच्छेदकतया वह्नित्वत्वेन वहित्वादेर्शानम् अर्थात् पहित्वषदिनरावृत्तिहेतुसमानाधिकरणाभावप्रतियोगितानवच्छेदकमित्या. कारकं भवेत्, तादृशशानात् वह्नित्ववत्त्वानित्याकारिका वहित्वत्वरूपेण वहित्वप्रकारिकवेति नोक्तद्विविधप्रकारकानुमितेनियमतः प्रसङ्ग इति वाच्यम् , तथा सति सदितरावृत्तित्वस्याप्रसिद्धत्वेन स्वरूपतः सत्ता- पच्छिन्नविधेयकानुमितेरधिकरणमितिप्रतीतिसाक्षिकाधिकरणत्वस्याल. ण्डोपाधित्वमते सकलपदार्थसाधारणाधिकरणत्वनिष्ठस्वरूपतोविधेय. तावच्छेदकताकानुमितेः भावाभावसाधारणस्य भेदत्वस्याभावत्वस्य वाऽखण्डोपाधित्वमते स्वरूपतस्तद्धावच्छिन्नविधेयताकानुमितेधाप- लापापत्तेर्वजलेपत्वात् । न चावृत्तिगगनादो भेदत्वमभावत्वञ्च नास्तीति तद्वदितरस्य नाप्रसिद्धिरिति वाच्यम्, “अभावविरहात्मत्वं वस्तुनः प्रतियो- गिते"ति स्वाभावाभावत्वरूपप्रतियोगिताङ्गीकृतामुदयनाचार्यादीनां भेदायनुमितेरुच्छेदप्रसङ्गात् न हि स्वकपोलकल्पितोतकार्य- कारणभाववादिनः कस्यचिदनुमित्युत्पादेनैव जगदाप्यायनम् । व स्वरूपतः सत्तादेविधेयतावच्छेदकत्वस्थले सत्समवेत व्यापकतावच्छेदकमित्येव ज्ञानमुपयुज्यतामिति वाच्यम् , इच्छा- मात्रस्य ताशकारणताकल्पकत्वे रूपवान् पृथिवीत्वात् इत्यादी रसावृत्ति सत् यद् रूपवृत्ति गन्धावृत्ति सत् यद्पवृत्ति तत्वादिरूपा- णामनन्तधर्माणां रूपत्वमात्रे वर्तमानानां तदेकतरधर्मेण रूपेतरा- वृत्तित्वापेक्षया लघुतरेणावच्छिन्ने व्यापकतावच्छेदकत्वशानेषु रूपाद्य- नुमिति प्रति स्वतन्त्रपुरुषेच्छया कारणताकल्पनाया बसलेपत्वात् । न
३६
तत्त्वसाः
अत एव केवलान्वयिप्रन्ये दीधितिकारेण स्वरूपतो शानत्वाद्यवच्छिन्न-
विधेयताकानुमितेरसंग्रहमयेन व्यापकताज्ञानस्यानुमितिकारणत्वं
खण्डितम् ।
न च साध्यतावच्छेदकावच्छिन्नाधिकरणत्वे व्यापकताब-
च्छेदकत्वज्ञानमनुमितिहेतुरित्येवोपगन्तव्यं यत्र च तादशाधिकरणत्व-
शरीरे साध्यतावच्छेदकं स्वरूपतो निविष्टं तत्र स्वरूपतस्तदवच्छिन्न-
विधेयताकानुमितिः फलमित्यादि यथायथमूहनीयमधिकरणत्वमख-
ण्डोपाधि अव्याप्यवृत्तिमभेदोऽपि व्याप्यवृत्तिरेव अत्र तु व्यापकत्वं
भेदघटितं व्यापकताघटकभेदे हेतुसामानाधिकरण्यं स्वरूपसम्बन्धेनैव
वाच्यम्, न तु स्वस्वप्रतियोगिवैयधिकरण्यादिकमपि तत्र निवेशनी-
यम् । न हि घटभिन्नभेदो घटत्वादतिरिच्यते इति नियमेन घटादिभिन्न-
भेदस्य घटत्वादिस्वरूपत्वेऽपि घटभेदाधिकरणतावभेदश्च न घटत्वाः
दिस्वरूपः परन्त्वतिरिक्त एव अतो व्यापकताया न दुईयत्वावका-
शोऽपीति वाच्यम् , घटभिन्नभेदादेखि तभेदाधिकरणत्ववभेदादे.
रपि लाघवेन घटत्वादिस्वरूपत्वोपगमात् । अत एव प्रसिद्धनिबन्ध-
काररैर्जगदीशतर्कालङ्कारैरपि द्रव्यभिन्नत्वप्रकारकप्रमाविशेष्यत्वाभावस्य
द्रव्यत्वानतिरिक्तत्वमङ्गीकृतम् । न च तद्भदस्यातिरिक्तत्वस्वीकृन्मते
तल्लक्षणं साधीय इति वाच्यम् , तभेदस्य द्रवत्वादिस्वरूपतावादिनाम्
भव्याप्यवृत्तिमभेदस्याव्याप्यवृत्तित्ववादिनामधिकरणभेदेनाधिकरणता.
या भिन्नत्ववादिनाञ्चोक्तव्याप्तिज्ञानस्य दुर्लभत्धेन तेषामनुमित्यपलापत्तः।
नहि केषाश्चिदनुमिति सम्पाद्य चरितार्थता । इति चेन्न-
सामानाधिकरण्येन साध्यासम्बन्धिवृचिता ।
अनुवृत्ततया याऽस्या विरहो व्याप्तिरुच्यते ॥ २४ ॥
अथवा
साध्यसम्बन्धिवृत्त्यन्येष्वनुवृत्त्या च चिता ।
या स्यात्तस्यास्तु वैधुर्य व्यासिरित्यभिधीयते ॥२५॥
तत्त्वसारः पर्य्यवसितास्तु साध्यतावच्छेदकसम्बन्धेन यत् स्वाधिकरणं स्व. रूपसम्बन्धावच्छिन्नं तत्र यद् वृत्तित्वम् ईशसामानाधिकरण्यसम्ब- न्धेन यद् यत् साध्यतावच्छेदकावच्छिन्नसम्बन्धि तदन्यनिरूपिता, अथ वा साध्यतावच्छेदकसम्बन्धेन साध्यतावच्छेदकधर्मावच्छिन्नसम्ब- न्धिनि स्वरूपसम्बन्धेन ये ये वर्तमानास्तदन्यनिरूपिता या हेतुताव- च्छेदकसम्बन्धावच्छिन्नाधिकरणतावनिरूपितं यत् स्वरूपसम्बन्धावच्छि- माधेयत्वं तादृशाधेयतासम्बन्धावच्छिन्नसम्बध्यता तस्याः सामान्या- भावो व्याप्तिरिति। वस्तुतस्तु या हेतुतावच्छेदकसम्बन्धावच्छिन्नाधिकरणतावनिरूपित- स्वरूपसम्बन्धावच्छिन्नाधेयत्वसम्बन्धावच्छिन्नसम्बध्यता तादशसम्ब- ध्यताप्रतियोगिकस्वरूपसम्बन्धन प्रोक्तसाध्यासम्बन्ध्यादिनिरूपितसम्ब- ध्यत्वसामान्याभावो व्याप्तिः । उक्तसम्बध्यतायां पुनः सम्बन्धविशेषाव- छिन्नत्वं न देयम् । अतः केवलान्वयिसाध्यके नाव्याप्तिः । उभयत्वा- दिना विरुद्धद्वयदिसाध्यकस्यलेऽतिव्याप्तिवारणार्थ साध्यतावच्छेदकाव. च्छिन्नत्वनिवेशः। ननु महानसीयत्वादिविशिष्टवयाद्यवगाहितयैव वहिमानित्याविप्रती- त्युपपत्तिसम्भवेन शुद्धवहित्वाद्यवच्छिन्नाधिकरणतायां मानाभावादुक्त- व्याप्तिघटकसम्बन्धिताकुक्षौ शुद्धसाध्यतावच्छेदकावच्छिन्नत्वं निवेश- यितुं न हि शक्यते । एवञ्च शुद्धवह्नित्वादिना प्रतियोगितास- म्बधेन वयादिसाध्यकमहानसीयवहयभावत्वादिहेतावतिव्याप्तिरपरिहा. ा महानसीयवहयभावस्यापि महानसीयत्वसहितसाध्यतावच्छेदकी. भूतवहित्वावच्छिन्नसम्बन्धितया साध्यसम्बन्धिनिरूपितवृत्तिमदन्यत्वेन पहिसामान्याभावभेदादीनामप्राप्तत्वात्। इति चेन, सम्बन्धितायां साध्यतावच्छेदकसम्बन्धावच्छिन्नत्व निवेशसद्भावेन शुद्धसाध्यतावच्छेदकधर्मावच्छिन्नत्वस्य तत्र निवेशा- सम्भवेऽपि तत्रातिव्याप्तेरनवकाशात् । यतस्तत्र वहिवमात्रावच्छि- तथा च ३८ तत्त्वसारंः प्रत्वविशिष्ट प्रतियोगित्वमेव साध्यतावच्छेदकसम्बन्धो न तु शुद्धप्र- तियोगितात्वेन तत्र संसर्गत्वमपि प्रतियोगितावच्छेदकतापर्याप्त्यधि- करणधर्ममात्रावच्छिन्नत्वविशिष्टप्रतियोगितात्वेनैव तत्र प्रतियोगिम- सानियामकसंसर्गत्वस्य सर्वसम्मतत्वात् । अन्यथा विशेषाभावानां सामान्याभावसाम्यापत्तिरपरिहाय्यव। शुद्धसंयोगादिसम्बन्धेन महान- सीयवहिमत्सु शुद्धवहित्वाद्यवच्छिन्नवयदिमदभेदवत् । साध्यतावच्छेदकीभूतताद्दशप्रतियोगितासम्बन्धेन महानसीयवहयभावा. दौ वह्निसम्बन्धित्वं नास्त्येव वह्निसामान्याभाव एव ताशसम्बन्धेन वः सत्त्वात् । प्रतियोगितासम्बन्धेन हेतुतास्थले विशिष्टसत्तादेर्हेतु- तात्यले चाव्यातिवारणार्थमपीदृश्येव गतिश्चिन्तनीया । तत्रापि वहि- त्वमात्रावच्छिमत्वविशिष्ट प्रतियोगिताविशिष्टसत्तादिनिरूपितत्वविशिष्ट- समवाययोरेव संसर्गत्वात् । न च सामानाधिकरण्यस्य संसर्गत्वे सत्येव उक्तन्याप्तिलक्षण सम्भवेत् तस्य तदेव नास्ति प्रमाणाभावादिति वाच्यम् , सामा- नाधिकरण्यस्थ संसर्गत्वं विना धम्मपारतन्त्र्येण धर्मिताव- च्छेदके सकलसम्प्रदायानुमतस्यापलापापत्तेः । न व ताशसम्बध्यताप्रतियोगिकस्वरूपसम्बन्धेनेति यदुक्तं तदसङ्गत तत्तत्प्रतियोगिकत्वादिस्वरूपविशेषरूपेण संसर्गताया अप्राणिकत्वादि- स्वादिति वाच्यम् , उपलक्षणविधया किञ्चित्प्रकारेण धम्मिप्रकारक- मानतो विशेषणविधया ताकिञ्चित्प्रकारेण धम्मिप्रकारेण विशिष्ट- वैशिष्टयबुद्धलक्षण्यनिर्वाहाय विशिष्टप्रतियोगिकत्वेन विशेषरूपेणापि संसर्गतायाः सर्वसम्मतत्वात् । सूपकारमानयेत्यादौ कर्मत्वां प्र- कारोभवत्सूपकारे सूपरुतेरूपलक्षणविधया भानमेव । "अरुणया गवा सोमं क्रोणातो त्यादिश्रुतौ "अपुषेणैव कर्तव्यः पुत्रः प्रतिनिधिः सदे"त्याचार्षे च करणत्वकर्तृत्वांशेप्रकारीभूतयोर्गवापुत्रयोः आरुण्यस्य पुषविरहस्य व वैशिष्टयविधया भानमेवाङ्गीकर्तव्यं तदभानवैविध्यानुप- प्रकारभानस्य तत्वसार ३६ गमे दोषचिन्तनीयः। महामहोपाध्यायमथुरानाथेन व्याप्तिवादे वृत्ति- त्वीयस्वरूपसम्बन्धेन साध्याभावववृत्तित्वस्य सामान्याभाव उक्तः । एतेन साध्याभावववृत्तिरेव व्याप्तिरनुमित्यौपायिकीति दी. धितिकारमतमप्यनादेयं केवलान्वयितावच्छेदकावच्छिन्नविधेयताकत्वे. नानुव्यवसीयमानाया अनुमितेरपलापापत्तः । इष्टापत्तौ अनुव्यवसा- यमात्रसाक्षिका निखिलानुमितिरेव तत्करणे प्रमाणान्तरत्वञ्चोच्छित। व्यतिरेकिविधेयकत्वेनैवानुमितेरनुव्यवसायसाक्षिकतया तादृशानुमिते- रेव नालीकता । परन्तु केवलान्वयिविधेयकानुमितेरेष तस्या अन- नुव्यवसीयमानत्वात्। इति तु शपथवचोमात्रागम्यत्वादश्रद्धयमेव । यत्तु स्वावच्छिन्नसामानाधिकरण्यव्यापकसाध्यतावच्छेदकावच्छि- सामानाधिकरण्यकहेतुतावच्छेदकवत्वं व्याप्तिस्तदप्यनादूतम् , तस्या हेतुतावच्छेदकभेदेनानन्तत्वात् गुरुशरीरत्वाच । वस्तुतस्तु मीमांसकमते वाच्यवाचकभाववत् दीधितिकारमते कार्यकारणभाववत् सर्वमत एवाधाराधेयनिरूप्यनिरूपकभावावच्छे- द्यावच्छेदकभावादिवत् व्याप्यव्यापकभावोऽपि स्वरूपसम्बन्धविशेष अतो न दुईयत्वाधवकाशः। प्रत्यक्षसामान्ये गुरुत्वगुणवत् दाहे मणिवत् व्यभिचारादिज्ञाने तर्कवत् ध्याप्तिझाने विरोध्यविषय- कस्यापि व्यभिचारादिनिश्चयस्य प्रतिबन्धकत्वमास्थेयम् । अत एवं तार्किकभिन्नपुसां पशुपतत्रिपतङ्गप्रभृतीनाञ्च स्वस्वप्रयोजनार्थ नानु- मानस्यासौलभ्यम् । अन्यथाऽगाधनीरधितरङ्गापेक्षया दुरवगाहप्रोक्तव्या- प्त्यवगाहिग्रहस्य तार्किकपुरुष एव दुर्लभतया व पुनस्तदन्यपुरुषे तद्वार्तापि नितरामेव पशुप्रभृतिषु । इति नव्यनैयायिकमतं समाप्तम् । पत्र।
तत्वसारः एताः सुवृत्तिबहुशक्तिसदर्थयुक्ताः सद्भारतीः सरलभाववतीः प्रतीत्य । संसेव्य सत्पथगतं पदमेतदीयं दुष्पापमर्थमखिलं मुधियो लभन्ताम् ॥ २६ ॥ शाके पुष्पशरेषुपुष्करवसुश्वेतांशुमाने शुचौ ग्रन्थो मेऽचलयुक्तिकाज्जलधितश्चिन्तामयादुत्थितः । पीयूषोपमताऽस्य वा गरलता स्यादेतदास्वादनं साधोः सम्भविताऽशुतोषसुमनोभावेन सम्भाव्यते ॥२७॥ [इति श्रीमहामहोपाध्यायराखालदासन्यायरत्नक्तः] समाप्तस्तत्त्वसारनामकग्रन्थोऽयम् ।
THE PRINCESS OF WALES SARASVATI BHAVANA TEXTS Edited by GOPINATH KAVIRAJ, M. A. No. 1-The Kiranāvali Bhāskara, a Commentary on Udayana's Kiranavali, Dravya, section, by Padmanabha Misra. Ed. with Introdnction and Index by Gopinath Kaviraj, M. A. Rs. 1-1% No. 2-The Advaita Chintamani, by Rangoji Bhatta, Ed. with Introduction eto. by Narayana Santri Khiste Sähityãohārya. Rs. 1-12 No. 3-The Vedānta Kalpalatikā, by Madhusudana Sarasvati. Edited with Introduction etc. by Rāmājnā Pandoya Vyākaranáchārya. Rs. 1-12 No. 1-The Kusumānjali Bodhani, a Commentary on Udayana's Theistic Tract, Nyāya Kusumanjali, by Varadarīja. Ed. with Introduction etc. by Gopinath Kaviraj M. A. Rs. 2-1) No. 1—The Rasasāra, a Coinmentray on Udayana's Kiranavali, Guna Section, by Bhatta Vädindra. Ed.with Introduction eto. by Gopinath Kaviraj, M. A. Rs. 1-2 No. 6—(Part 1)-The Bhāvanā Viveka by Mandan Misra, with a Commentary by Bhatta Umbeka, Ed.with Introduction etc. by M.M. Ganganatha Jhā, M. A., D. Litt. Rs. 0-.12 No. 6--(Part II) -Ditto Ditto Rs. 0-12 No. 7-(Part 1)-The Yoginihrdaya dipika, by Amrtānanda Natba, being a Commentary on Yoginihrdaya, a part of Vāmakesvara Tantra. Ed. with Introduction eto. by Gopinath Kaviraj, M. A. R9. 1-8 No. 7- Part II ) Ditto Ditto Rs. 1-4 No. 8-The Kävyadakini, by Gangananda Kavindra. Ed. with Introduction etc. by Jagnnåtha Sastri Hoshing Sābityopādhyāya Rs. 0-10 [ 2 ] No. 9-(Part I)-The Bhakti Chandrikā, a Commentary on Sandilya's Bhaktisutras, by Nārāyana Tirtha. Ed. with a Prefatory Note by Gopinath Kaviraj, M. A. Rs. 0-15 No. 10-(Part I)-The Siddhantaratna,by Baladeva Vidyābhusana. Ed. with a :Prefatory Note by Gopinath Kavia raj, M. A. Rs. 1-2 No. 10-( Part II)-Do. Do. Rs. 2-12 No. 11-The Sri Vidya Ratna Sutras, by Gauda pada, with a Commentary by Sankararanya. Ed. with Introduction etc. by Narayana Sastri Khiste Sahityacharya. Rs. 0-9 No. 12-The Rasapradipa, by Prabhakara Bhatta, Ed. with Introduction etc. by Narayana Sastri Khiste Sahityãohárya. Rs. 1-2 No. 13-The Siddhasiddhānta Sangraha, by Balabhadra. Ed, with Introduction by Gopinath Kaviraj, M.A.RH.0-14 No. 14-The The Trivenikā, by Asadhara Bhatta. Ed. with Introduction by Batukanātha Sarmā Sābityopidhyāya. M.A. and Jagannatha Sastri IIoshing Sahityopadhyāya. Rs. 0-14 No. 15-(l'art 1)-The Tripurärahasya. (Jnāna Khanda ) Ed. with a Prefatory Note by Gopinath Kavi. raj. M.A. Rs. 0-14 No. 15-( Part-]1 )-Do. Do. Rs. 24 No. 15-(Part-III-Do. Do. Rs. 2-0 No. 16-The Kávya Vilāsa, by Chiranjiva Bhattãoharya. Ed. with Introduction etc. by Batukanātha Sarma Sahityopadhyâya, M. A. and Jagannātha Sastri Hosing Sāhityopādhyāya. Rs. 1-2 No. 17-The Nyåya Kalika, by Bhatta Jayanta. Ed. with Introduction by M. M. Gangānātha Jhi, M. A. D. Litt, Rs. 0-14 [ ] No. 18-( Part 1 )-The Gorakna Siddhanta Sangraha. Ed. with a Prefatory Note by Gopinath Kav:. raj, ... Rx, U-11 No. 199-lart. I:-The Prikrita l'rakinn by Vararuchi with the Prakrita Sanjivani lvy Vasantarāja and the Subothini by Sadinanda. El. with lrefatury note etc. y Batuk Nath S:trma, M...and Baladeva Upadhyāya, M.A. Rn. 2-1 No. 1:1-Part. II , Ditto Ditto R. -1% No. 19- Part III Introduction etc. (In Preparation. ) No. 90-The Mānnatattvari veka by Visvanatha Nyāyapanchanana Bhattacharya, Editud with Introduction etc. ly 1'. Jagannātha Santri Toshing Sāliity pilhyāyil, with a Forow oril by Pandit Gopi Nath Kavirīja, M.A., l'rincipal, Government Sanskrit. College, Benarus. RN. 0-12 No.:1- Part 1) The Nvaya Sisihänta Mālā by Jayarim Nyiya lanchānana Bhattacharya, Edited with Introduction etc.by Mangal Deva Sixtri M.A., D). Phil. (Oxon), Librarian, Govt. Sanskrt Library, Saritsvat: Bhavana, Bonares. Rs. 1-2 No. 21- Part-II) Ditto Ditt.) Rs. :-) Xo. -The Dharinānuanilii Slokachaturiani by Sri Sesa Krsna with a Commentary by Rāma l'indit. Edited with Introduction etc. by Nārāyana Sastri Khiste Sahityacharya, Assistant Librarian, Giovernment Sanskrit Library, Sarawati Bhavana, Bonaros. No. 23-Navarātraprailipa by Nanda l'andit Dharmādhikari. Ed.with Introduction eto.hy Vaijanātha Sāstri Varakale, Dharmasastra-Sāstrī, Sacholal Research Scholar, Sanskrit College, Benares, with a Foreword by P. Gopinath Kaviraj, M. A., Principal, Government Sanskrit ('ollege, Benare4.
[ 4 ] No. 24-The Sri Rāmatāpiniyopanisad with the Commentary called Rāma Käsikä in Purvatāpini and Anandanidhi in Uttara tāpini by Anandavana. Ed. with Introducton etc. by Anäntarāma Sāstri Vetāla Sāhityopādhyāya, Post-Acharya Scholar, Govt Sanskrit College, Benares, with a Foreword by Pandit Gopi Nātha Kaviraja, M. A., Principal, Government Sanskrit College, Benares. Rs. 3-12 No. 25-The Säpindyakalpalatikā by Sadāsivadeva alias Apadeva with a commentary by Nārāyna Deva. Edited with Introduction etc. by Jagannātha Sāstri Iloringa, Sāhityopadhyāva, Sadholal Research Scholar, (ievt. Sanskrit ('ollege, Benares. Rs, 1-4 No. 26-The Mryankalekhā Nātikā by Visvanatha Deve Krvi. Edited with Introduction etc. by Nārāyana Sastri Khinte Silityācharya, 24st. Librarian, Government Sanskrit Library, Benares. RM. 1-0 No. 27-The Vidvachcharita Panchakam By Nārāyana Santri Khinte, Sāhityacharya. Assistant Librarian, Govt. Sanskrit ('allege, Library, Sarasvati Bhavana, Benares, with an Introduction by Gopinath Koviraja, M.A., Principal. Govt. Sanskrit (allege, Benares. Rx. 2-0 No. 28-The l'rata Kosa by Jagannātha Sāstri llosingā Sāhityopāil lyåvik, late Sadholal Research Scholar Sanskrit College, Benares, with a Foreword by Sri Gopinatha Kaviraja, M.A., l'rincipal, Govt. Sanskrit College, Benares. Rs. 1-0 No. 29-The lritti dipiki by Vauni Sri Krsna Bhatta. Edited with Introduction etc. by Pt. Gangadhara Sastri Bha.alvaja Professor. Govr. Sanskrit College Benares. No. 30-The Palärtha Manilanam By Sri Venidatta Eilited with Introduction etc, by Pandit Gopāla Sastri Xene, I'rofessor, Govt. Sanskrit College, Benares. No. 31-(l'art 1 The Tantraratna by Partha Sarathi Misra. Edited by M. I. Dr.Ganganatha Jha, M.A., D. Litt, Vice-Chancellor, Allahabad University, Allahabad.
[ 6 ] No. 32-Tattvagåra by Rakhaldan Nyayaratna. Edited with Introduotion eto by P. Harihara Sastri, Professor, Benares Hindu University, Benares. No. 33-The Nyāya Kaustubha (Pratyaksa), by Mahadeva Punatamkar. Edited with Introduction, etc by P. Umesh Miſrá, M. A., Allahabad University, Allahabad. No. 34-The Advaita vidyatilaka ( Part 1 ), by Samara Pungava Diksita, with Darpana by Dharnayya Dikrita. Edited by P. Ganapati lal Jha, M. A., Sadholal Scholar, Government Sanskrit Library, Benares. No. 35-The Dharma Vijaya Natata by Bhndeva Sukla. Edited with Introduction by P. Nārāyana Sastri Khinte, Government Sanskrit Library, Benaren.
No text on this page.
THE PRINCESS OF WALES SARASVATI BHAVANA STUDIES: Edited by GoPixaTu KATIRA, Y. A. Vol. I, (a) Studies in Hinilu Law (1; its Evolution, by (angila natha Jha. (b) The view-point of Nyaya Vaišusika Philosophy, by Gopināth Kaviraj, (c) Nirmana Kaya, by Gopinath Kaviraj Rs, 1-15 Vol. II- (a) Parasurāma Miśra alias Vani Rasala Raya, by Gopinath Kaviraj. (b) Index to Sabara's Bhasya, by the late Col. G.A. Jacob. (c) Studies in llindu Law (2):-its sources, by Ganganath Jha (d) A New Bhakti Sutra, by Gopinath Kaviraj. (e) The System of Chakras acco.ding to Goraksa natha, by Gopinath Kaviraj. (f) Theism in Ancient India, by Gopinath Kaviraj. (g) Hindu Poetics, loy Batuka natha Sarma. (h) A Seventeenth Century Astrolabe by,Padmakara Dvivedi: (i) Some aspects of Vira Saiva Philosophy by, Gopinath Kaviraj. (j) Nyaya Kusumanjali ( English Translation ), by Gopinath Kaviraj. ik, The Definition of Poetry, by Narayana Sastri Khiste (1) Sondala Upadhyaya, by Gopinath Kaviraj. Rs. 5 Vol. III (a) Index to Sabara's Bhasya, by the late Col. G.A. Jacob. (b) Studies in Hindu Law ( 3 ) Judicial Procedure: by Ganganatha Jha. (c) Theism in Ancient India by Gopinath Kaviraj. (d) History and Bibliography of Nyāya Vaisenika Literature, by Gopinath Kaviraj. (e) Naivad ha and Sri Harta by Nilakamala Bhattacharya. (f) Indian Dramaturgy, P. X. Patankar. Rs. 5 ( 2 ) Vol. IV (a) Studies in Hindu Law (4): Judicial Procedure: by Ganganatha Jha. (b) History and Bibliography of Nyaya Vaišesika Literature, by Gopinath Kaviraj. (c) Analysis of the Contents of the Rgveda-Pratisak hya, by Mangala Deva Sastri. (a) Näräyana's Ganitakaumudi, by Padmakara Dvivedi, (e) Food and Drink in the Ramayanic Age, by Manmathanatha Roy (f) Satkāryavāda: Causality in Sāúkhya, by Gopinath Kaviraj. (g) Discipline by Consequences, by G.L. Sinha. (h) History of the origin and expansion of the Aryans, by A.C. Ganguly. (i) punishments in Ancient Indian Schools, by G. L. Sinha. Rs. Vol. Veneto (a) Anciant Ilome of the Aryans and their migration to India, by A. C. Ganguly. (b) A Satrap Coin, by Shyamalal Mehr. (e) An Estimate of the Civilisation of the Vanaras as depicted in the Ramayana, by Manmatha natha Roy. (d) A Comparibun of the Contents:of the Rgveda, Vājasaneya, Tait tiriya and Atharvaveda Prātiśākhyas, by Mangala Deva Sastri. (e) Formal Tra’ning and the Ancient India. Thought, by G. L. Sinha. (f) History an'l Bibliography of Nyāya Vais'esika Liter ature, by Gopinath Kaviraj. (g) A Dascriptive Index to the names in the Ramayana, by Manmatha näth Roy (h) Notes and Queries (1) Virgin worship, by Gopinath Kaviraj. Rs. 5 Vol. VI. (a) Index to Sabara's Bhasya, by the late Col. G. A. Jacob (b) Some Aspects of the History and Dootrines of the Nathas, by Gopinath Kaviraj. (c) Studies in Hindu Law (6) Evidence, by Ganganatha Jha ( 3 ) (a) An Index etc to the Rāmāyana, by Manmatha natha Roy: (0) Studies in lindu Law, by M. M. Ganganatha Jba. (f) The Mimanna Manusoripus in the Govt. Sanskrit Library ( Benares ), by Gopinath Kaviraj. (g) Notes and Queries, by Gopinath Kaviraj. Vol VII Bhamaha and his Kavyālaiikära, by Batuka ntāba Sarma and Baladeva Upadhyaya. (b) Some variants in the readings of the Vaikenika Sutran, by Gopinath Kaviraj. (0) IIistory and Bibliography of Nyāya Vaišesika Literature, by Gopinath Kaviraj. (d) An attempt to arrive at the correct meaning of nome obscure Vedic words, by Sitaram Joshi. (e) A comparison of the contents of the Rig Veda, Vājananoya, Taittiriya and Atharva Veda ( Chāturadhyayika ) Prātiśāk hyas, by Mangaldeva Sastri. An Index to the Rāmāyana. by Manmatha nath Roy. An Index to Sabara's Bhasya, by the late Col J.A.Jacob (h) The date of Madhusudan Sarasvati, by Gopinath Kaviraj. Descriptive Notes on Sanskrit Manunoripts, by Gopinath Kaviraj. (j) A note on the meaning of the term l'arardha, by Umesa Misra. Vol VIII ( in Progress) To be had of The Superintendent Government Press, U. P. Allahabad.
No text on this page.
No text on this page.
No text on this page.