Sarnath Varanasi

Parvatiparinayam

Nyayopadhyaya Pt.dhumdhiraja Shastri Principal N.v.vidyalaya Benaras · 2006/05/07

PDF Proofread

Front matter

THE
PÂRVATÎPARINAYA
OF
BANABHATTA.
EDITED
BY
MANGESH RÂMKRISHNA TELANG
Fourth Edition,
PUBLISHED BY
PÂNDURANG JAWAJI,
ROPRIETOR OF THE “NIRNAYA-SAGAR" PRESS,
BOMBAY
1923.

All rights reserved by the publisher,
PRINTER:-Ramchandra Yesu Shedge,
PUBLISHER:-Pandurang Javaji,
Niranya-sagar Pre
23, Kolbbat Lane, Boi

॥ श्रीः॥
महाकविश्रीबाणभट्टप्रणीतं
पार्वतीपरिणयम्।
मङ्गेश रामकृष्ण तेलङ्ग इत्यनेन संस्कृतम् ।
तस्येदं चतुर्थ संस्करणं
पणशीकरोपाह्वलक्ष्मणशर्मतनुजनुषा वासुदेवशर्मणा
संशोधितम् ।
मुम्बयां
पाण्डुरङ्ग जावजी
इत्येतैः स्वीये निर्णयसागराख्यमुद्रणयत्रालये
मुद्रयित्वा प्रकाशितम्।
शाके १८४५, सन १९२३.
मूल्य

विज्ञप्तिः । अस्य नाटकस प्रणेता महाकविर्बाणभट्टः खिस्तवर्षीयसप्तमशतकपूर्वार्ध- समुद्भूतस्य कान्यकुब्जाधिपतेर्हर्षवर्धनस्य सभामलंचकार । बाणभट्टकृतिषु कादम्बरीपूर्वभागः, हर्षचरितम्, चण्डीशतकम्, पार्वतीपरिणयं चेति प्रब- न्धचतुष्टयमेव संप्रत्युपलभ्यते । निरुक्तप्रबन्धचतुष्टयाल्लभ्यं बाणभट्टचरितं समासेनात्र संगृह्यते । तथाहि-कश्मीरेषु वात्स्यायनवंशेऽस संभूतिः । अस्य पिता चित्रभानुः। माता राजदेवी। सा चास्य बाल्य एव पञ्चत्वं प्राप । चतुर्दशवर्षदेशीये च बाणे पितापि दिवं जगाम । बभूवुरस्य विविध- कलाकुशला बहवो वयस्या इति । कृतश्चानेन हर्षचरितप्रस्तावे श्रीमद्भ्यास- सुबन्धु-भट्टारहरिचन्द्र-सातवाहनप्रवरसेन-भास-कालिदास-आब्धराजम- हाकवीनां, श्रीमहाभारतवृहत्कथाप्रबन्धयोश्च सप्रशंसमुल्लेखः । 'श्लोकबद्धा कादम्बरी मुकुटताडितकनाटकं च बाणभट्टेन प्रणीतमित्यपि ज्ञातम् । किं त्वेतद्न्थद्वयं नाघाप्युपलब्धम् ।' इति काव्यमालायां प्रकाशि- तस्य चण्डीशतकस टिप्पण्यां कृतानेकप्राचीनकाव्योद्धारैर्महामहोपाध्यायैः पण्डितश्रीदुर्गाप्रसादैश्वोक्तम् । कादम्बर्या उत्तरभागस्तु बाणभट्टतनयेन भूषणभट्टेन पूरित इति प्रसिद्धमेव । केचिदाधुनिका बाणभट्टविरचितान्यग्रन्थेभ्यः पार्वतीपरिणयनाटकस्य रीति- वैलक्षण्यं पश्यन्तः नेयं बाणभट्टकृतिरिति तर्कयन्ति । तत्तु बलवत्प्रमाणामा- वाञ्चिन्त्यमेव सुघीमिरिति विज्ञापयति । मङ्गेशशर्मा।

॥ श्रीः ॥ महाकविश्रीबाणभट्टप्रणीतं पार्वतीपरिणयम् । प्रथमोऽङ्कः। आदौ प्रेमकषायिता हरमुखव्यापारलोला शनै- वीराभारविघूर्णिता मुकुलिता धूमोद्गमव्याजतः । पत्युः संमिलिता दृशा सरभसव्यावर्तनव्याकुला पार्वत्याः परिणीतिमङ्गलविधौ दृष्टिः शिवायास्तु नः॥१॥ अपि च । संपदमतरललभ्यामनन्यसामान्यबहलदर्पनिधेः। पुष्णातु चित्तयोनेरघटितघटनापटीयसी विभुता ॥२॥ (नान्द्यन्ते) सूत्रधारः-(सप्रणयमञ्जलिं बद्ध्वा ।) ब्रह्मस्तम्बकुटुम्बस्य योगक्षेमविधायिनौ । आनन्दविग्रही भूत्यै भूयास्तामादिदम्पती ॥ ३ ॥ (इति पुष्पाञ्जलिं विकीर्य ।) आर्ये, इतस्तावत् । (प्रविश्य ।) नटी-अज, इअलि । सूत्रधारः-आर्ये अद्य खलु किमप्यभिनवं पार्वतीपरिणयं नाम रूपकं द्रष्टुममिलषति परिषदेषा । नटी-अज, तं उण कस्स कइणो किदी हुविस्सदि । १. आर्य, इयमस्मि । २. आर्य, तत्पुनः कस्य कवेः कृतिर्भविष्यति ।

पार्वतीपरिणये सूत्रधार अस्ति कविसार्वभौमो वत्सान्वयजलधिसंभवो वाणः । नृत्यति यद्रसनायां वेधोमुखलासिका वाणी ॥४॥ तद्विरचितेन विचित्रसंविधानेन वस्तुनानेन सामाजिकानुपस्थास्यामहे। नटी-अन्ज, अण्णेसु नाडएसु वदेसु कहं तहिं चेव्व तत्त- होदो अहिलासो। सूत्रधार:- संनिधानस्य सामग्यं रसानां परिपुष्टता । संदर्भसौकुमार्य च सभ्यानां रखने क्षमम् ॥ ५ ॥ तत एवाहं गुणग्राहितया तत्र प्रवृत्तः । नटी-जई एवं जुज्जइ। सूत्रधारः-(नटी निर्वर्ण्य ।) आर्ये, पार्वतीपरिणयप्रसङ्गेऽपि किंनिमित्तं भवती विमनायमानेव विलोक्यते । नटी-अज, इमिणा परिणअप्पसङ्गेण अह्माणं वि वच्छाए बालचण्डिआए अणुरूववरलाहमहूसवो कहं भविस्सदित्ति णिरन्दरं चिन्दाउलं होइ मे हिअअम् । सूत्रधारः-अलं विषादेन । विधिरेव कन्यकानाममिमतवरयोजनार्थमुद्युके । अयमिह महतीदयितो मुनिरिव गिरिराजकन्यायाः ॥६॥ इतिं प्रस्तावना। १. आर्य, अन्येषु नाटकेषु वर्तमानेषु कथं तत्रैव तत्रभवतोऽमिलाषः । २. यद्येवं युज्यते। १. आर्य, अनेन परिणयप्रसङ्गेनासाकमपि वत्साया बालचण्डिकाया अनुरूपवरलाभमहोत्सवः कथं भविष्यतीति निरन्तरं चिन्ताकुलं भवति मे हृदयम्।

प्रथमाऽङ्कः । ३ (ततः प्रविशत्याकाशमार्गेण नारदः।) नारदः-हन्त, जन्मनः प्रभृति न जहाति नूनमस्मानियममर- कार्यघटनाकुतूहलिता । यतः । दक्षाल्लब्धसमुद्भवा तदनु तं त्यक्त्वा पतिद्रोहिणं जाता संप्रति शैलराजसदने गौरीति दाक्षायणी । एतां योजयितुं हरेण हिमवत्सानौ तपस्तन्वता कार्य भावि समाकलय्य मरुतामद्य प्रवर्तामहे ॥ ७ ॥ (किंचिदन्तरमवतीर्यावलोक्य च ।) परिवहनाम्नः पवनस्य पन्थानं प्राप्त- वानस्मि । तथा हि। आरादञ्जलिपेयमत्र विकसन्मन्दारपुष्पोत्थितं सौरभ्यं पवनोपनीतममितो धावन्त्यमी षट्पदाः। तन्त्रीमण्डलमार्द्रयन्ति कणिका मन्दाकिनीपाथसा- मप्यन्तःकरणं च मे सुमहतीमालम्बते निर्वृतिम् ॥ ८॥ (सरभसावतरणं नाटयित्वा । अधोऽवलोक्य ।) अये, मध्यमलोकस्य नेदी- यांसं प्रदेशमनुप्राप्तोऽस्मि । यतः। उद्यद्भिः शिखरैरमी कतिचन व्यज्यन्त एवाचला वैमल्यादनुमीयते च सरितां स्रोतस्विनी संततिः । सूच्यन्ते परिमण्डलेन तरवो नीलाम्बुदश्रीमुषो मन्दं मन्दमुपैति लोचनपथग्राह्यां दशां मेदिनी ।। ९ ।। (पुनर्विलोक्य साश्चर्यम् ।) गिरिवरतटिनीगुल्मैदर्शनपदवीं क्रमादुपारूढः। अवरोहति मयि रभसाद्भूरियमारोहतीव गगनतलम् ॥ १० ॥ मुहूर्तमात्रादवतीर्णोऽस्मि हिमवदुपकण्ठभूमिम् । (किंचिदन्तरमवतीर्या- बलोक्य च ।) अयं हि शैलराजः उत्सारयन्निव विभाति नमोवकाशं शृङ्गैविहारभवनैरिव तुङ्गतायाः।

४ पावतापारणय - आभोगवद्भिरमृतांशुकरावदातै- राक्रामतीव कटकैहरिदन्तराणि ॥ ११ ॥ अतिरिच्यते खल्वयमसाधारणेन भुवनधुरंधरेण भूना मन्दरगन्ध. मादनप्रभृतिभ्यो महामहीधरेभ्यः । यतः। त्रिभुवनगुरुणा गुणातिरागा- कमलभुवाकलिताधिपत्यलक्ष्मीः। अविरतमनुशास्ति देवतात्मा सकलमिदं कुलशैलचक्रवालम् ॥ १२ ॥ तदहमधुना किन्नरीगीतनिष्पन्दकृष्णसारेण चमरीजालबालविक्षेप- विरचितालीकचन्द्रोदयविलासेन कस्तूरीपरिमलोपहतगगनागमनखे- देन शैलेयगन्धिना कटकवर्मना प्रस्तुतवस्तुसाधनाय प्रविशामि या- वदोषधिप्रस्थम् । (तथा कृत्वा पुरोऽवलोक्य ।) इदं तदोषधिप्रस्थं विपुलकनकशृङ्गोपान्तविश्रान्तमेचं सुरतरुवरवादीशोभमानोपकण्ठम् । मणिभवनमहोमिः मृज्यमानेन्द्रचाप मदयति मम चेतो मन्दिरं विस्मयानाम् ॥ १३ ॥ (पुरप्रवेशममिनीयाप्रतो दृष्टिं दत्त्वा।) इदमभ्रंलिहगोपुरशिखरावलीढनक्ष- त्रपथं हैमवतमायतनम् । (प्रवेशं नाटयन् । आकाशे।) भोः कञ्चुकिन् , कुत्र वर्तते कुलाचलचक्रवर्ती । किं ब्रवीषि-'देव्या मेनयां सार्थ किमपि मत्रयन्नभ्यन्तरेमण्डपमधिवसति' इति। तर्हि साधीयानवसरः कार्यनिवेदनस्य । (इति परिक्रामति ।) (ततः प्रविशति हिमवान्मेनापरिवृतः परिजनश्च ।) हिमवान्-देवि, कन्यापितृत्वं खलु गृहमेधिनामधिकतरं दुःखमावहति । अस्मत्कुलालंकरणमियं च गौरी परिणययोग्यां दशां प्रतिपद्यते । तथा हि । आभोगशालिकुचकुङालमायताक्ष्या वक्षोऽवकाशममिवाञ्छति संनिरोद्धुम् ।

५ प्रथमोऽङ्कः। अप्यस्ति नास्ति वचसा विषयेऽवलग्ने तन्वी समुल्लसति काचन रोमरेषा ॥ १४ ॥ मेना-जहा अजउत्तो आणवेदि तहा विवाहमङ्गलजोग्गा संवृत्ता। हिमवान्-देवि, अन्यदपि श्रूयताम् । कुचयुगुलं परिणद्धं यथा यथा वृद्धिमेति तन्वङ्गयाः। वरचिन्ताहृतमनसस्तथा तथा कार्यमेति मे गात्रम् ॥ १५ ॥ मेना-मह वि रतिंदिरं भाइदे अस्सि जेव अत्थे णिहिअ- हिअआए किं लक्खीअदि । हिमवान्-(पुरोऽवलोक्य ।) देवि, वीणाविहारी मुनिरित एवा- भिवर्तते । तदर्ग्यमानीयताम् । मेना-जहा आणवेदि अजउत्तो। हिमवान्–(उत्थाय साञ्जलिबन्धम् ।) भगवन् , अभिवादये । नारदः-अभ्युदयपरम्परावाप्तिरस्तु । (हिमवानासनमुपनीयाध्यं समर्पयति ।) (नारदः प्रतिगृह्णाति ।) हिमवान्-(सहर्षमजलिं बवा ।) स्वायत्तसिद्धाखिलकामनानां तत्त्वे परस्मिन्परिनिष्ठितानाम् । भवादृशामागमनोत्सवोऽयं न लभ्यते नूनमहोऽल्पपुण्यैः॥१६॥ नारदः-निःस्पृहैरपि मादृशैस्त्वादृशाः सर्वाश्रमोपकारिणो गृह- मेधिनः पुरुषा द्रष्टव्या एव । हिमवान्-यदभिहितं भवता तदनुग्राह्येषु । नारदः-किमनुग्राहकस्यानुप्राह्यतायां वितर्कः। किं च तीर्थ- रूपो भवानस्माभिरभिगन्तव्य एव । यतः। १. यथार्यपुत्र आज्ञापयति तथा विवाहमङ्गलयोग्या संवृत्ता । २: ममापि रात्रिंदिवं भावितेऽस्मिन्नेवार्थे निहितहृदयायाः किं लक्ष्यते । ३. यथायरयत्यार्यपुत्रः।

६ पार्वतीपरिणये - शिरसि निपतिता पुरा पुरारेरथ शिखरे तव यत्ततोऽवतीर्णा । अमरसरिदशेषलोकमान्या त्रिभुवनपावनतामुपैति तेन ॥१७॥ हिमवान्–किमेवमतिभूमिमारोप्यते निदेशवर्ती परिजनः । नारद:- अप्रतिमरूपलक्ष्ये गङ्गा गौरी च कन्यके भवतः । हिमवान्-एवमेतत् । नारद:- पूर्वा तयोः पुरस्ताद्नुरूपं रमणमम्बुधि प्राप्ता ॥ १८ ॥ हिमवान्-अस्त्येतत् । नारदः-द्वितीयायास्तु ते दुहितुः को नाम वरोऽभिप्रेतस्त- त्रभवता। हिमवान्-भगवन् , इममेवाथै विचिन्तयतो मे मनसि महा- नुपतापः। नारद: न नागलोके न मनुष्यलोके न देवलोकेऽपि समो वरोऽस्याः । एषां प्रभुर्यस्तनयां त्वदीयां स एव देवः परिणेतुमीष्टे ॥ १९ ॥ हिमवान्-तमपि भगवानेव निवेदितुं प्रगल्भते । नारदः-(आत्मगतम्।) अस्सेदानी सामान्यवचनैरेव चन्द्रचूडा- मणिनिगृहितव्यः। (प्रकाशम् ।) मया किल प्रणिधानचक्षुषा दृष्टोऽय- मर्थः । यथा विश्वाधिकं कमपि वरमियं ते दुहिता प्रपत्स्यते । न पुनरिममिति विशेषेण । हिमवान्-विश्वाधिक इत्येतावता कृतार्थोऽस्मि । नारद:- पुण्येन केनापि किलावतीर्णा पुरातनी शक्तिरियं सुता ते । इमामसाधारणरूपलक्ष्मी न लोकसामान्यसुतां प्रतीयाः ॥२०॥ ततश्च भवता दुहितेयं न यस्मै कस्मैचित्मदित्सितव्या ।

. प्रथमोऽङ्कः । ७ हिमवान्-नाहं भवदाज्ञा लवयामि । नारदः-अभ्युदयस्य निमित्तमन्यदपि किंचिदुपदिश्यते । यथा- अष्टामिरेव तनुभिर्भुवनं दधान- स्तेजस्त्रयेण महता विहितेक्षणश्रीः । अन्येषु सत्स्वपि य ईश्वरशब्दवाच्यः सोऽयं तपस्यति तटे तव चन्द्रमौलिः ॥ २१ ॥ हिमवान्-अस्त्येतत् । नारदः-ततो भवानन्तिकमागतमिन्दुशेखरं सपर्यया कया- चिदुपतिष्ठताम् । हिमवान्-भगवन् , अभिधेहि का वा सपर्या । नारदः-अनुरूपसखीजनपरिवृतां दुहितरमिमां गौरी समित्कु- शदूर्वाद्युपहरन्ती परिचर चन्द्रशेखरमिति प्रेषयतु भवान् । हिमवान् तथा करिष्यामि । नारदः-(आत्मगतम् ।) उपक्षिप्तं बीजम् । कर्तव्यं च सामान्य- वृत्त्या निवेदितम् । तद्यथागतं गमिष्यामि । (प्रकाशम् ।) हिमवान् , यदुक्तमस्माभिस्तदनुष्ठीयताम् । (इत्याकाशमार्गेण निष्कान्तः ।) हिमवान्-(विलोक्य ।) दिवापि देहप्रभया दर्शयन्दिनु चन्द्रिकाम् । द्वितीय इव चन्द्रोऽयमारोहति दिवं मुनिः ॥ २२ ॥ (मेनां प्रति ।) देवि, श्रुतं खलु त्वया महामुनेर्वचनम् । मेना-सुदं मए विस्साहिओ पुरिसो णाहो त्ति । हिमवान-(खगतम् ।) विश्वाधिकशब्दोपक्षेपेण कर्तव्योपदेशेन च दुहितुरस्याश्चन्द्रशेखर एव वर इति सूचितम् । (प्रकाशम् ।) देवि, नारदोपदिष्टामिन्दुमौलिसपर्या विरचयितुंदुहितरं नियोक्तुमुधुलामहे। (इति निष्कान्ताः सर्वे ।) इति प्रथमोऽङ्कः। . श्रुतं मया विश्वाधिकः पुरुषो नाथ इति । २ द्वितीयोऽङ्कः। (ततः प्रविशति वनदेवता वासन्तिका ।) वासन्तिका-आणत्तम्हि णन्दीस्सरेण जहा वासन्दिए, णिअ- मट्टिदस्स णीललोहिदस्स पूआपुप्फाई णन्दणवणादो आणेहित्ति । ता जहा आदिट्ट गन्दीस्सरेण तहा आआसमग्गेण गदुअ सोरहवा- सिददिसामुहाई कप्पहुमकुसुमाई णन्दणवणादो अवचेदुं गमिस्सम् । (इति तथा करोति ।) (ततः प्रविशति रम्भा ।) रम्भा-तारआसुरबन्दिग्गहणसझसपरिसकिदो अच्छराजणो महामेरुगुहाणिलीणो आसि । अहं उण कुबेरणन्दणं णलकूवरं खणं विहाय जीविदं धारेदु ण पारेमि । तदो तं एव्व अहिसरामि । (इत्यवतरति ।) वासन्तिका-(रम्भां दृष्ट्वा ।) अए, पिअसही रम्भा आअच्छइ । ता उपसप्पामि णं । (हति तथा करोति ।) रम्भा-अए, हिमवकडअणिवासिणी वणदेवदा वासन्दिआ । भई पिअसहीए। १ आज्ञप्तासि नन्दीश्वरेण यथा धासन्तिके, नियमस्थितस्य नीललोहि. तस्य पूजापुष्पाणि नन्दनवनादानयेति । तद्यथादिष्टं नन्दीश्वरेण तथाकाश- मार्गेण गत्वा सौरभवासितदिशामुखानि कल्पद्रुमकुसुमानि नन्दनवनादव. चेतुं गमिष्यामि। २. तारकासुरबन्दिग्रहणसाध्वसपरिशङ्कितोऽप्सरोजनो महामेरुगुहानि- लीन आसीत्. । अहं पुनः कुबेरनन्दनं नलकूबरं क्षणं विहाय जीवितं धारयितुं न पारयामि । ततस्तमेवाभिसरामि । ३. अये, प्रियसखी रम्भागच्छति । तदुपसाम्येनाम् । ४. अये, हिमवत्कटकनिवासिनी वनदेवता वासन्तिका । भई प्रियसख्याः ।

द्वितीयोऽङ्कः । वासन्तिका-पिअसहि, किं एत्थ आअदे । रम्भा-तारआसुरबन्दिग्गहसज्झससङ्किदो अच्छराणो महा- मेरुगुहाणिलीणो वट्टइ। वासन्तिका–सञ्चं सो तारिसो दुट्टसीलो। रम्भा-कुबेरणन्दणं खणं अदिट्टिअ ण सक्कुणोमि जीविदं धा. रेदुं त्ति पिअसही सटुंदरं जाणादि । वासन्तिका-पंढमं जाणामि पसिद्धो क्खु तुह्माणं अण्णो- ण्णाणुराओ। रम्भा-तदो अहं आसण्णा एत्थ मअणकोअण्डणिरन्दरणि. स्सरन्तसरणिअरजजरिदहिअआ अहिसरामि वञ्चिअ सहीजणाणं णलकूबरम्। वासन्तिका-जुजइ तारिसस्स अणुराअस्स ईरिसोबावारो। रम्भा-तुमं उण कहिं गच्छसि । वासन्तिका-णिञ्चाणन्दणिजस्सरुवस्स लोअणमेत्तवाडवस्स am--- १. प्रियसखि, किमत्रागतम् । २. तारकासुरबन्दिग्रहसाध्वसशङ्कितोऽप्सरोजनो महामेरुगुहानिलीनो वर्तते । ३. सत्यं स तादृशो दुष्टशीलः । ४. कुबेरनन्दनं क्षणमदृष्ट्वा न शक्नोमि जीवितं धारयितुमिति प्रियसखी सुश्रुतरं जानाति । ५. प्रथमं जानामि प्रसिद्धः खलु युवयोरन्योन्यानुरागः । ६. ततोऽहमासन्नात्र मदनकोदण्डनिरन्तरनिःसरच्छरनिकरजर्जरितहद- याभिसरामि वश्चयित्वा सखीजनानलकूबरम् । ७. युज्यते तादृशस्यानुरागस्येदृशो व्यापारः । ८. त्वं पुनः कुत्र गच्छसि । ९. नित्यानन्दनिजखरूपस्य. लोचनमात्रवाडवस्य भगवतो नीललोहि- तस्य पूजापुष्पाणि नन्दनवनादानेतुमाञप्तास्मि नन्दीश्वरेण ।

१० पार्वतीपरिणये भअवदस्स णीललोहिदस्स पूआपुप्फाई णन्दणवणादो आणेदुं आ- गत्तहि गन्दीस्सरेण । रम्भा-पिअसहि, अत्थि अहिणवो तत्थ वुत्तन्तो। वासन्तिका अण्णो कोवि णस्थि । पिदुणो णिदेसेण सवरि- जणा पवई दिअसे दिअसे आगदुअ महादेवं आराधे । रम्भा-कि आराधणस्स फलम् । वासन्तिका-परमेस्सरप्पसादो। रम्भा-जुनह । गच्छ तुम पत्थुदं कनं कादुम् । अहं वि जहासंकप्पिदं कादं गमिस्सम् । (इति निष्कान्ते।) विष्कम्भकः। (ततः प्रविशति विविकस्थानमधिवसन्महेन्द्रः ।) महेन्द्रः-(मण्डपद्वारं विलोक्य ।) कः कोऽत्र भोः। देवनन्दी-(प्रविश्य ।) स्वामिन्, अयमस्मि । महेन्द्रः-महत्कार्य विचारणीयमस्ति । अतो बृहस्पतिमन्तरेण नान्यः प्रवेशनीयः। देवनन्दी तथा । (इति निष्क्रान्तः।) (ततः प्रविशति बृहस्पतिः।) बृहस्पतिः-(पुरोऽवलोक्य ।) अयमिह महेन्द्रो विविक्तस्थान- मण्डपे वर्तते । एष खलु १. प्रियसखि, अस्सभिनवस्तत्र वृत्तान्तः । २. अन्यः कोऽपि नास्ति । पितुर्निदेशेन सपरिजना पार्वती दिवसे दि- बस आगत्य महादेवमाराधयति । ३. किमाराधनस्य फलम् । ४. परमेश्वरप्रसादः। ५. युज्यते । मच्छ त्वं प्रस्तुतं कार्य कर्तुम् । अहमपि पथासंकल्पितं कर्तुं गमिष्यामि।

द्वितीयोऽङ्कः। १ कैश्चिन्नेत्रैर्दलितदनुजं वनमालोकमानः कैश्चित्पश्यन्नमरसुदृशां सस्मितान्याननानि । कैश्चित्सेवाविहितमनसामजलिं वीक्षमाण- श्चित्ते चिन्तापर इव पुरोदर्शनो वासवो मे ॥ १ ॥ तदेनमुपसरामि । (इति तथा करोति ।) महेन्द्र:-(बृहस्पतिं दृष्ट्वा ।) इहोपविश्यताम् । बृहस्पतिः-तथा (इति भद्रासनान्तिकमुपविशति ।) देवनन्दी-(प्रविश्य) स्वामिन् , देवदूतो देवलो विज्ञापयति विज्ञाप्यं मे किंचिदस्तीति । महेन्द्रः-तर्हि तमेकं प्रवेशय । (ततः प्रविशति देवदूतः।) देवदूतः-अयं हि स्वामी बृहस्पतिना किमपि मत्रयन्वर्तते । तदेनमुपसमि । (इत्युपसृत्य ।) जयतु जयतु स्वामी । महेन्द्रः-देवल, किमुद्विग्न इव विलोक्यसे । देवदूतः-अतिभूमिं गमितामसुरपीडां कथं स्वामिने विज्ञा- पयामि। महेन्द्रः-मा भैषीः । कथय तेषामुद्यमम् । देवदूतः-कथयामि । श्रूयताम् । उद्धृत्यामरदीर्घिकाजलभुवामम्भोरहाणां तति वैरं नन्दनपादपानमिमतानामूलमुन्मूल्य नः । हृत्वा वाञ्छितवस्तुदानचतुरां तामर्जुनी दुर्जनाः (इत्यधों के विरमति ।) महेन्द्रः---अवशिष्टं च कथ्यताम् । देवदूत:- वर्गस्त्रैणकचग्रहं रचयितुं निःशङ्कमुशुजते ॥ २ ॥ महेन्द्रः-देवल, कुलिशसहाये मदाही जाप्रति किमेवमति- शङ्का क्रियते । यथा । -

पार्वतीपरिणये
वृत्रं बलं च नमुचिं च कथावशेष
कृत्वा विधाय किल पर्वतपक्षभेदम् ।
त्रैलोक्यरक्षणपटोर्मम तारकेऽस्मि-
वेधो वरः किमु महानयमन्तरायः ॥ ३
तत्कतिपयैरेव दिवसैस्तत्प्रतिक्रिया भविष्यति । गच्छ त्वं समुचि-
तनियोगकरणाय।
देवदूतः-तथा । (इति निष्कान्तः ।)
महेन्द्रः-गुरो, किमतः परं विधातव्यम्। यथा पूर्वेधुरेव तार-
कदनुजाक्रान्तिमसहमानरस्मामिरमरपरिषदा साधै भगवानुपस्थितः
पद्मयोनिराचष्ट । यथा सेनान्यमन्तरेण नान्येन तारको निह-
न्तव्यः । तदुत्पादने चायमभ्युपायः ।
हैमवते कटकतटे शशाङ्कचूडामणिस्तपस्तनुते ।
यत्नेन येन केनचिदस्तु प्रणयी स पार्वत्याम् ॥ ४ ॥
ततस्तयोरात्मसंभवेन सेनान्याकुमारेण वो मनोरथसिद्धिर्भविष्यति।
महेन्द्रः-तत्कथं गिरिजा गिरिशेन परिग्राह्यते । कदा वा
तदुत्पन्नः कुमारः पूरयिष्यति नो मनोरथान् ।
बृहस्पतिः-न हीश्वराणां व्याहृतयो व्यभिचरन्ति ।
महेन्द्र:-(सस्मरणं सहर्ष च ।) विरिश्श्यसमादिष्टमस्मत्कार्यमप्य.
ङ्गीकुर्वतीव पितुर्निदेशेन सपरिजना पार्वती दिवसे दिवसे समा-
गय भगवन्तमिन्दुशेखरं परिचरतीति रम्भामुखादश्रौषम् ।
बृहस्पतिः-यद्येवं सिद्धं नः समीहितम् ।
महेन्द्रः-किमेतावता।
मुग्धैरप्सरसां विलाससहितैर्वाक्यैर्मनोहारिमिः
कर्णान्तस्खलितैरपाङ्गवलितैरारेचितधूलतः ।
बाहोः सस्तकुचोत्तरीयघटनामचुकणत्कङ्कण-
यापारैरपि यो विकारपदवीं न प्रापितः संयमी॥५॥

द्वितीयोऽङ्कः।
१३
तस्य पुनरचिन्तनीयमधिकानन्दसुन्दरमनादिनिधनमनजनमगुण-
क्रियमात्मानमबाह्येन चक्षुषा साक्षात्कुर्वतः समुपसंहृताखिलद्वैतक-
ल्पनाविकल्पस्य स्वतन्त्रकर्तुश्चराचरगुरोर्भगवतश्चन्द्रमौलेः कियद्वशी-
करणं गौरीपरिचरणम् ।
बृहस्पतिः-भगवन् , अन्ययुवतिसामान्यामेव तां न म-
न्येथाः । यतः।
आसेचनकतनुश्रीरन्तःकरणस्य किमपि संवननम् ।
सा खलु गिरिराजसुता संमोहनमस्त्रमेव पुष्पेषोः ॥ ६ ॥
महेन्द्रः-(सहर्षम् ।) पुष्पेषोरित्युपोद्घातेन स्मारितोऽस्मि स
एव तयोगिरिजागिरिशयोघंटने पटीयानिति ।
बृहस्पतिः-(सहर्षम् ।)
त्रैलोक्यशासने दक्षा तावकी मतिरूर्जिता ।
शान्तिकं पौष्टिकं कर्तुं शक्ता नः केवलं मतिः ॥ ७ ॥
यतो मदीयापि बुद्धिरिमां वितर्कपदवीं नावतीर्णा । तदविलम्बि.
तमेव समाहूयतां कामः।
महेन्द्रः-(मण्डपद्वारं विलोक्य ।) कः कोऽत्र भोः ।
(प्रविश्य ।)
देवनन्दी-स्वामिन् , अयमस्मि ।
महेन्द्रः-देवनन्दिन् , आहूयतां झटिति कामः ।
देवनन्दी-यथा। (इति निष्क्रान्तः।)
(ततः प्रविशति रतिवसन्ताभ्यां कामः ।)
काम:-(उपसृत्य ।) सर्वे स्थास्यामः । (इत्युपसर्पति।)
महेन्द्र:-(विलोक्य सहर्षम् ।)
मुखरमधुपमालाचारुमौर्वीसनाथं
त्रिभुवनजययोग्यं चापमंसे धानः ।
मुखमुदितविलासं वीक्ष्यमाणः प्रियायाः
सहमधुरिह मन्दं मन्दमायाति कामः ॥ ८॥

१४ पार्वतीपरिणये (कामो रतिवसन्ताभ्यां सार्थमुपसर्पति । चापगर्भणाजलिना सविलास प्रणमति।) महेन्द्रः-(आसनास्तिकं हस्तेन निर्दिशन् ।) सखे काम, इहोप- विश्यताम् । कामो रतिवसन्ताभ्यां सार्धमुपविशति ।) बृहस्पतिः-अये, माननीयं भवन्तं स्थाने खलु मानयति महेन्द्रः। काम:-(भञ्जलिं बद्धा।) त्रैलोक्यनाथस्य तवातिशत: किमस्ति कार्य मघवन्मयापि । प्रकाशिताशेषदिशावकाशो दिवाकरो दीपमपेक्षते किम् ॥ ९॥ बृहस्पतिः-मा भवानेवमाचष्ट । असावलोकसामन्यचापविद्याधुरंधरः । करोतु कार्य सकलं बाहुस्तव दिवौकसाम् ॥ १० ॥ महेन्द्रः-सखे काम, चक्रेण विष्णोरपि यदुराप तरखिना वा शतकोटिना मे । तत्साधयेत्पुष्पमयं तदस्त्रमहो भवानद्भुतबाहुवीर्यः ॥ ११ ॥ काम:-(सगर्वम् ।) स्वामिन् , यस्ते सापनमाचरति । दनुजो वा मनुजो वा मुनिरपि वा मुग्धचन्द्रचूडो वा । सुरलोकसुन्दरीणां स भवतु बद्धः कटाक्षशृङ्खलया ॥ १२ ॥ (महेन्द्रो बृहस्पतेर्मुखमवलोकयति ।) बृहस्पतिः-अये काम, यस्त्वया चरमोऽर्थः परिगणितश्चन्द्र- चूडो वेति स इदानीं शंकरः शैलराजकटकसीनि निरतिशयशी- तलान्तःकरणस्तपश्चरति । कामः-ततस्ततः। बृहस्पतिः-तमिदानी पितुर्निदेशेन सपरिजना पार्वती सौ- भाग्यमयीव सालभजिका सौन्दर्यदेवतेव विग्रहिणी परिचरति ।

द्वितीयोऽङ्कः । काम:-ततस्ततः । बृहस्पतिः-तयोश्च मेलने दिविषदां महती कार्यसिद्धिः । सा च भवन्तमेव कटाक्षयति । कामः-(आत्मगतम् ।) अनात्मज्ञता हि पुंसामात्मनिधनमा- पादयति, यदहमात्मप्रशंसापरवशः परमेश्वरमपि सामान्यवृत्त्या पर्यजीगणम् । वसन्तः-(आत्मगतम् ।) अन्यदुपक्रान्तमन्यदेवापतितम् । कायं सुगन्धिविशिखः स्वदमानचापः स्त्रीणां वशीकरणकर्मणि जागरूकः । कासौ ललाटनयनानलविस्फुलिङ्ग- वार्तावशेषितपुरत्रितयो महेशः ॥ १३ ॥ रतिः-अह्मो, अञ्चाहिदं आपडिदं जं खण्डपरसू जेदन्यो । कामः-यत्पुनः परिजनपरमाणोर्मत्तोऽपि मखभुनः कार्यमि च्छन्ति तदात्मव्ययेनापि कर्म कर्तुमुपयुज्यते । महेन्द्रः- संमोहने तव शरे संहितमात्रे गिरीन्द्रकन्यायाः। मुखमतिमुदितविलासं विलोकयति मुग्धधृतिरीशः॥ १४ ॥ तदीपत्करेऽस्मिन्कार्ये भवता न किंचिदपि शङ्कनीयम् । काम:- त्यजन्यास्यामि कार्याय प्राणान्प्रियतमानपि । यशःशरीरममलं लभन्ते ह्यनुषङ्गिणः ॥ १५ ॥ तद्यथादिष्टं स्वामिना तथा करिष्यामि । महेन्द्रो बृहस्पतिश्च-(हस्तमुद्यम्य ।) अस्तु वस्त्ययनं तवाद्य मरुतां सत्याशिषामाशिष- स्त्वां रक्षन्तु यशश्च तेऽस्तु विपुलं लोकत्रये दीव्यतु । - - १. अहो अलाहितमापतितं यत्खण्डपरशुर्जेतव्यः।

पार्वतीपरिणये शौर्य त्वद्भुजयोरिदं च भवतात्पुङ्खानुपुङ्खोदयं किंचोद्योगमिमं समर्थयतु नः स्वच्छन्दचेष्टाविधिः ॥१६॥ कामो रतिवसन्ताभ्यां सह शङ्कमानो निष्क्रान्तः।) महेन्द्रः-गुरोः विरिभ्यादेशाद्नुरूपमस्माभिरेव तावदनुष्ठि- तम् । कार्यसिद्धौ भगवती नियतिरेव प्रभवति । बृहस्पतिः-अहमपि प्रस्तुतकार्यसिद्धये कुलदेवताः प्रार्थयितुं गमिष्यामि । (इति निष्कान्ताः सर्वे ।) इति द्वितीयोऽङ्कः।

तृतीयोऽङ्कः। (ततः प्रविशति महेन्द्रो बृहस्पतिश्च ।) महेन्द्रः-गुरो किं नाम कामः केनापि बाणसंधानेन खण्डपरशुं वशीकुर्यात् । आहोस्वित्संवर्तसमयदिनकरदुष्प्रेक्ष्य मुनिमीक्षितुमश- कुवन्निवर्तेत । अथवा कोपान्धकारिचेतसामानं भालनयनपावकस्य पुरोडाशतां नीयेत । कथं भविष्यतीति न जाने ! (वामाक्षिस्पन्दनं सूचयिखा. साशङ्कम् ।) अदक्षिणमिदं चक्षुः स्फुरितैः शंसतीव मे । देवकार्यविघाताय जाग्रतो वामतां विधेः ॥ १ ॥ बृहस्पतिः-प्रतिहतममङ्गलम् । भगवन् , अनेन निमित्तेन ज्ञाप्यते वृत्तान्तज्ञेन केनचिदागन्तव्यमिति । (ततः प्रविशति नारदः।) नारदः-मघवदादेशेन स्थाण्वाश्रमं गत्वा तत्रत्यमुदन्तं वि- ज्ञाय समागतोऽस्मि । तदेनमुपसृत्य निवेदयिष्यामि तत्रत्यमखिलमु- दन्तम् । (इति परिकामति ।) महेन्द्रः-(अञ्जलिं बवा विलोक्य ।) अयमेव महतीवल्लभो मुनि- रुपसर्पति । तदासनमुपनीयताम् । (बृहस्पतिरासनमुपनयति।) (नारद उपविशति ।) महेन्द्रः-(अञ्जलिं बद्ध्वा ।) भगवन्, कथय भद्रमभद्रं वा दिवि- पदामभिलषितम् । नारदः-सर्वमादितः प्रभृति कथयामि । श्रूयताम् । महेन्द्रः-अवहितोऽस्मि । नारदः तथा देवकार्याय प्रस्थितं कंदपै तिरस्करिण्या विद्यया तत्रत्यवृत्तान्तजिज्ञासयाहं त्वनिदेशादन्वचरम् । महेन्द्रः-ततस्ततः।

तृतीयोऽङ्कः। नारद:- चूताः कोरकिता विनापि सुदृशां हस्ताम्बुजामर्शना- तत्पादाम्बुजताडनैरपि विना ककेलयः पुष्पिताः । तत्संगीतकमन्तरेण हसिता रम्याः प्रियालद्रुमा मुक्त्वा तद्वदनासवं मुकुलिता गन्धोत्तराः केसराः ॥६॥ महेन्द्रः-ततस्ततः । नारद: -किं बहुना। तस्मिन्वने निवसतामनुतटमुल्लञ्चय धैर्यमर्यादाम् । अबलासु निर्ममानामासीदतिरागसिन्धुरुद्वेलः ॥ ७॥ महेन्द्रः-एवं सकलजनविकारकारिणि तस्मिन्प्रवृत्ते किं कृत- वान्कामः । नारद: -स कामो रत्या वसन्तेन चान्वीयमानो महति देव- दारुखण्डमण्डपे तरक्षुचर्मनिर्मितायामहिमशिलावेदिकायामासीनम- न्तर्मुखनिहितचित्तवृत्तिमभ्यन्तरपवननिरोधनिश्चलाननं नासायनि- हितपक्ष्माण्यक्षीणि धारयन्तमपरमिव निस्तरङ्गमम्बुधिं तमिन्दुशे- खरमपश्यत् । महेन्द्रः-ततस्ततः। नारदः-ततो भगवानपि नीललोहितः प्रतीचावलोकनेन प्रत्य- ञ्चमात्मानमपरोक्षीकृत्य शिथिलितपर्यङ्कबन्धः प्रणिधानाव्यरंसीत् । महेन्द्रः-ततस्ततः। नारदः-स कामस्तद्दर्शनेन करतलविधृतकार्मुकः कर्तव्यमप- रमजानन्क्षणमालिखित इव भयादतिष्ठत् । महेन्द्रः-ततस्ततः। अत्रान्तरे हरमुपासितुमभ्ययासी- द्वासन्तिकप्रसवकल्पितमण्डनश्री।

पार्वतीपरिणये नारद: -तत्र स्थाण्वाश्रमसमीपमासाथ कामो वसन्तमभिहि- तवान् । महेन्द्र:-कथमिति । नारदः-सखे, त्वयास्मिन्हिमवदुपकण्ठकानने विजृम्भितव्य. मिति । - - महेन्द्रः-स किं कृतवान् । नारद: वाचालयन्नथ कुलानि वनप्रियाणा- मङ्करयन्मलयमारुतकन्दलानि । सख्यु प्रसूनविशिखस्य भुजावलेपं संवर्धयन्मधुरजृम्भत काननेषु ॥ २ ॥ महेन्द्रः-ततस्ततः। नारद:- दत्तं प्रियाभिर्बहुमानपूर्वमासाद्य चूतासवमन्यपुष्टाः । आमोदिमिः पञ्चमरागभेदैः प्राबोधयन्पञ्चशरावलेपम् ॥ ३ ॥ महेन्द्रः-ततस्ततः। नारद:- आधूय चन्दनतरूनुत्तमनद्यास्तरङ्गमालिङ्गय । आदाय कमलसौरभमङ्कुरितो मलयशैलपवमानः ॥ ४ ॥ महेन्द्रः-ततस्ततः। नारद:- आदाय चापमधिरोपितषट्पदज्यं तस्मिन्हिमाचलमुपेयुषि पञ्चबाणे । वेलातिलजि किमपि प्रणयातिरेका- इन्द्वानि लौल्यमभजन्त विमोहितानि ॥ ५ ॥ महेन्द्रः--ततस्ततः।

२० पार्वतीपरिणये शृङ्गारवीरतपसामधिदेवतेव साकं सखीमिरवनीधरराजकन्या ॥८॥ महेन्द्रः-ततस्ततः । नारदः-ततः स कामो लब्धालम्ब इव समाश्वस्य दृष्टिप्रती- पविहारेण पाश्चात्त्यभागमाश्रित्य समयं प्रतीक्ष्य स्थितवान् । महेन्द्रः-ततस्ततः। नारदः-पार्वती च सुखोपविष्टमष्टमूर्तिमष्टाङ्गस्पृष्टभूमिरवन्दिष्ट महेन्द्रः-ततस्ततः। नारदः-अनुरूपरमणमासादयेति तामाशिषावर्धयदर्धचन्द्र- मौलिः। महेन्द्रः-ततस्ततः। नारदः ततः क्षणे तस्मिन्नयमेवावसर इति स कामः कार्मुके समाधत्त संमोहन बाणम् । महेन्द्रा-ततस्ततः। नारद: तदनु युगपदीशः पार्वतीवक्रपझे स्मितविकसितगण्डे प्राहिणोल्लोचनानि । महेन्द्रः-ततस्ततः। नारद:- पुलकिततनुरन्तर्भावमावेदयन्ती दरमुदितमुखेन्दुः सा च सब्रीडमस्थात् ॥ ९॥ महेन्द्रः-ततस्ततः । नारदः-ततो भगवानन्तःकरणविक्रियां तपोबलेन संयन्य तत्कारणाय विष्वग्विलोचनानि व्यापारितवान् । महेन्द्रः-ततस्ततः।

तृतीयोऽङ्कः।
नारद:-
आरादपश्यदधिसंहितमोहनास्त्रं
कर्णावतंसपदकल्पितकार्मुकज्यम् ।
आकुञ्चितैकपदमश्चितपूर्वकायं
लक्ष्यीकृतात्मवपुष मदनं महेशः ॥ १० ॥
महेन्द्रः-(सभयम् ।) अवशिष्टं च कथ्यताम् ।
नारदः-तदनु प्रकुपितस्य शूलिनो भाललोचनादुदजम्भवा-
लावलीजटालो ग्रासलालस इव कालानलो वह्निः ।
महेन्द्र:-(सनिर्वेदम् ।) किमतः परं निवेद्यते ।
नारदः-तेन पुरारेनयनानलेन मदनः पुरोडाशतां नीतः।
(महेन्द्रो मूर्छति।)
(नारदः समाश्वासयति ।)
महेन्द्र:-(आश्वस्य ।) हा भुवनरमणीय पुष्पबाण सकलजना-
नन्दन, पुरंदरस्यार्थे त्यक्तजीवितोऽसि ।
बृहस्पतिः-भगवन् , मा विषीद । भवितव्यता हि बलवती।
तदास्ताम्।
महेन्द्रः-रतिः किं कृतवती ।
नारदः-रतिरपि मोहं प्राप्ता ।
महेन्द्र:-किं कृतवान्वसन्तः ।
नारद:-मोहं प्राप्तः सखा वसन्तोऽपि ।
महेन्द्रः-मूच्छितौ रतिवसन्तौ किमन्वतिष्ठताम् ।
नारदः-प्रथममाश्वास्य तेन मधुना कथंचित्संज्ञां लम्भिता
रतिरपि पुनः परुषपवनकीर्यमाणपांसुपटलं भसितमयं पुरुषाकृति
पत्युरङ्गमालिङ्गय
गुरुतरशोकापहता कुररीव प्रियवियोगमापन्ना।
आक्रन्ददातनादं बाष्पस्नपितोन्नतस्तनी बाला ॥ ११ ॥

२२ पार्वतीपरिणये महेन्द्रः-ततस्ततः। नारदः-तदनु हा नाथेति बहु विलपन्ती रतिमाश्वासयदा- काशवाणी । यथा- मुश्च शोकमिह कामवल्लभे लक्ष्यते जगति केन कल्पना । उद्भविष्यति पुनश्च ते पतिः पार्वतीपरिणये पिनाकिनः ॥ १२ ॥ इति । महेन्द्रः-(साश्वस्य सहर्षमिव ।) भग्नो मनोरथो मे पुनरङ्कुरितं किलायमुद्यङ्के । दावाग्निलीढशेषस्तरुरिव धाराधरेण संसिक्तः ॥ १३ ॥ बृहस्पतिः-मघवन् , सत्यैव वैहायसी वाणी । सर्वथा कामः पुनरुद्भविष्यति । महेन्द्रः-ततस्ततः। नारदः कथंचित्प्रत्याश्वस्ता रतिर्नीता सा समा दुःखेन मधुना निजं भवनम् । महेन्द्रः-कामं कथावशेषं कृत्वा कालकण्ठः किमकरोत् । नारदः-स्त्रीसनिकर्ष परिजिहीर्षया सह भूतगणेन भूतपति- रन्तर्धानमकरोत् । महेन्द्रः-किं कृतवती पार्वती । नारदः- आगत्य दोामादाय मूर्छामुकुलितेक्षणा । नीता नितान्तवात्सल्यागौरी हिमवता गृहम् ।। १४ ॥ महेन्द्रः-भगवन्नारद, श्रुतं श्रोतव्यम्। किमतः परं प्रतिपद्यसे। नारदः-पुनरिमं वृत्तान्तं सत्यलोकवर्तिने चतुर्मुखाय निवेद- यितुं गमिष्यामि । (इति निष्क्रान्तः।)

तृतीयोऽङ्कः। २३ (ततः प्रविशति रम्भा।) रम्भा-कुबेरभवणादो णिवढमाणाए ओसहिप्पत्थणअरे जो मए आकण्णिदो वुत्तन्तो तं सामिणे विण्णवेमि । (इति परिक्रामति ।) महेन्द्रः-(विलोक्य ।) संचारिणीव वल्ली विद्युल्लतिकेव चापलान्मुक्ता । मोहनकलेव मूर्ता काखिदियं कमलपत्राक्षी ॥ १५ ॥ (निरूप्य ।) रम्भा खल्वियम् । रम्भा-(उपमृत्य।) जे? जेदु भट्टा । महेन्द्र:-रम्भे, कुत आगम्यते भवत्या । रम्भा-कुबेरभवणादो। महेन्द्र:-किमस्ति तत्रापूर्वो वृत्तान्तः । रम्भा-गीललोहिदुस्स णिडिलग्गिकालजालेण कहावसेसिदो कामो त्ति सव्वो भणइ । अण्णच्च किं वि ओसहिप्पत्थणअरे । महेन्द्रः-किं तदन्यत् । रम्भा-मम्महदाहेण भग्गमणोरहा पवई परमेस्सरं जेव्व पइ अहिलसन्दी कठिणेहिं तवचरणेहिं अत्तणो अहिलासं पूरिद्रं इस्सदि ति। महेन्द्रः-किमुक्तमस्मिन्नर्थे मातापितृभ्याम् । रम्भा मेणादेवीए एव्वं भणिदम् । १. कुबेरभवनानिवर्तमानयौषधिप्रस्थनगरे यो मयाकर्णितो वृत्तान्तस्त खामिने विज्ञापयामि। २. जयतु जयतु ३. कुबेरभवनात् । ४. नीललोहितस्य निटिलामिकालजालेन कथावशेषितः काम इति सर्वो भणति । अन्यच्च किमप्योषधिप्रस्थनगरे। ५. मन्मथदाहेन भनमनोरथा पार्वती परमेश्वरमेव पतिममिलषन्ती कठि- नैस्तपश्चरणैरात्मनोऽभिलाषं पुरयितुमिच्छतीति । ६. मेनकादेव्या एवं भणितम् । भती।

पार्वतीपरिणये महेन्द्रः-किमिति । परसो तवोविसेसो तुह उण अग्गं सिरीससुउमारम् । विवसिदमेदं कहिणं पव्वइ ता दुक्करं त्ति पडिभाइ ॥ १६ ॥ महेन्द्रः-किमुक्तं हिमवता। रम्भा-अद्धि अणुमदं देण । महेन्द्रः-रम्भे, साधीयांसमुदन्तमानीतवती । गच्छ त्वं समु- चितनियोगकरणाय । रम्भा-तहा । (इति निष्क्रान्तः ।) (नेपथ्ये) वैतालिका:- आधूय प्रणयं विवस्वति गते देशान्तरे पद्मिनी सोढुं तस्य वियोगमक्षमतया म्लायत्सरोजानना। संध्यावल्कलिनी द्विरेफपरिषद्रुद्राक्षमालावती तत्प्राप्तिस्पृहयेव संप्रति तपासता समालक्ष्यते ॥१७॥ महेन्द्र:-(आकर्ण्य ।) वयमपि संध्यां वन्दितुं साधयामः । (इति निष्कान्ताः सर्वे ।) इति तृतीयोऽङ्कः। १. परुषस्खपोविशेषस्तव पुनरङ्गं शिरीषसुकुमारम् । व्यवसितमेतत्कठिनं पार्वति तहुष्करमिति प्रतिभाति ॥ २. अस्त्यनुमतं तेन । ३. तथा।

चतुर्थोऽङ्कः। (ततः प्रविशति गृहीतमुनिविग्रहो नन्दी।) नन्दी-आज्ञप्तोऽस्मि भगवता नीललोहितेन यथा-'नन्दिन् , मन्मथदाहेन भनमनोरथा पार्वती मनिबन्धनेन भावेन महान्तं निय: ममनुतिष्ठन्ती गौरीशिखरनाम्नि पितुः शिखरे तपश्चरति । तपस्य- न्याश्च तस्या व्यतीतो बहुतिथः कालः । तद्भवांस्तत्र गत्वा गृहीत- मुनिवेषः कीदृशो वा तस्या नियमः, कीडशो वाभिलाषबन्ध इति तत्सख्योर्जयाविजययोर्मुखेन विदित्वा पुनरागच्छतु' इति । तत्प्र. भोनियोगमनुतिष्ठामि । (इति परिकामन्विमृश्य ।) प्रकृतिकठिनानि खलु स्त्रीणां चेतांसि । तथाहि । एषा शिरीषसुकुमारशरीरयष्टि- श्चान्द्री कलेव नयनोत्सवमावहन्ती । संचेतुमिच्छति शिलाकठिनैः शरीरैः संपादितान्यपि तपांसि तपोधनानाम् ॥ १॥ अपि च । शेते या किल हंसतूलशयने निद्राति सा स्थण्डिले वस्ते या मृदुलं दुकूलमबला गृह्णाति सा वल्कलम् । या वा चन्दनपङ्कलेपशिशिरे धारागृहे वर्तते पञ्चानामुदितोष्मणां हुतभुजां सा मध्यमासेवते ॥२॥ (ततः प्रविशतः कुसुमावचयमाचरन्त्यौ जयाविजये।) जया-हला विजय, तवञ्चरणे किदमतीए गौरीए मणोरहक- प्पडुमो कदा फलं दसइस्सदि । विजया-हला जए, तहा मम्महदाहपरुसहिअओ णिकरण- १. हला विजये, तपश्चरणे कृतमत्या गौर्या मनोरथकल्पद्रुमः कदा फलं दर्शयिष्यति। २. हला जये, तथा मन्मथदाहपरुषहृदयो निष्करुणतया प्रथमं निद- र्शनभूतः परमेश्वरो यदा दग्धहृदयो भविष्यति तदा फलं दर्शयिष्यति ।

पार्वतीपरिणये दाए पढम णिदंसणभूदो परमेस्सरो जदा दुद्धहिअओ हुविस्सदि तदा फलं दंसइस्सदि। (इति पुष्पावचयमाचरतः।) नन्दी-इमे खलु तस्याःप्रियसख्यौ जयाविजये।यावदुपसमि (तथा करोति ।) जया-हला, मम पुप्फकरण्ड पूरिदं पुप्फेहिं । तुअ उण कहम्। विजया-(पुष्पकरण्डकं विलोक्य ।) मह उण अद्धं पूरिदम् । अवसिढें पूरइस्सम् । (इति पुष्पकरण्डकं पुष्पैः पूरयति ।) नन्दी-(उपसृत्य ।) भद्रं भवतीभ्याम् । जयाविजये-भैअवं, वन्दामो। नन्दी -के युवाम्, किंनिमित्तं वा पुष्पावचयमाचरथः । उभे अम्हे हिमवदस्स कण्णाए गौरीए पिअसहीओ । तवञ्चर- गणिअमट्ठिदाए ताए देवपूआपुष्फाई अवचिणुमो । नन्दी-किंनिमित्तं वा तपस्तस्याः । जया-अणुरूवं वरं लहेअंति । नन्दी-कोऽसावनुरूपो वरः । जया- जं किल भणन्दि वेआ णिच्चजुवाणं पुलाणपुलिसं च । जो किल धारइ णिचं ईस्सरसहं च चन्द्रलेहां च ॥ ३ ॥ १. हला, मम पुष्पकरण्डकं पूरितं पुष्पैः । तव पुनः कथम् । २. मम पुनरर्थ पूरितम् । अवशिष्टं पूरयिष्यामि । ३. भगवन् , वन्दावहे। ४. आवां हिमवतः कन्याया गौर्याः प्रियसख्यौ । तपश्चरणनियमस्थिता- यास्तस्या देवपूजापुष्पाण्यवचिनुवः । ५ अनुरूपं वरं लभेयमिति । ६. यं किल भणन्ति वेदा नित्ययुवानं पुराणपुरुषं च । यः किल धारयति नित्यमीश्वरशब्दं च चन्द्रलेखां च ॥

- चतुर्थोऽङ्कः। एसा णो प्पिअसही तं जेव्व परमेस्सरं पई अहिलसन्दी महिन्द- प्पमुहं लोअपालं अवमण्णिअ तवञ्चरणं करेइ । किं च मम्महदाहि- वइरादो पिदुणो घरं पविसिम बलों उक्कण्ठिदा आसी । नन्दी-तत्कथमुच्यताम् । जया- पाण्डुक्खामसरीरा झडिदि णमन्तवअणसरसिरहा । क्खीणा पव्वइणलिणी पसुपइणो विरहग्रहेण ॥४॥ नन्दी-ततः कथमासीद्वां प्रियसखी । जया-अदो वरं सुणु। चञ्चव्वापिदचन्दणद्विपवणप्पस्सं ण संमण्णए सनं पल्लवकप्पिदं ण सहदे चन्दाअवं णिन्दइ । गोवा प्पोम्मपलासणिम्मिअतणुप्पावारमक्खम्मए सा णीहारसिलाअले सुणु वरं तावादुरा वट्टइ ॥५॥ नन्दी-एवं प्रबलमदनज्वरा सा पश्चारिक कृतवती । उमे-पैच्छा किं वि उवाअं अदेक्खन्ती तवचरणेहिं परमे- स्सरं अहिमुखीकार्दु पउत्ता तहा तिव्वणिअमं करेइ । एषा नौ प्रियसखी तमेव परमेश्वर पतिमभिलषन्ती महेन्द्रप्रमुखाँल्लोकपा- लानवमान्य तपश्चरणं करोति । किं च मन्मथदाहिवैरात्पितुहं प्रविश्य बलवदुत्कण्ठितासीत् । १. पाण्डक्षामशरीरा झटिति नमद्वदनसरसिरहा । क्षीणा पार्वतिनलिनी पशुपतेविरहग्रहेण ॥ २. अतः परं शृणु। शश्वद्यापृतचन्दनादिपवनस्पर्श न संमन्यते शय्यां पल्लवकल्पितां न सहते चन्द्रातपं निन्दति । नो वा पद्मपलाशनिर्मिततनुप्रावारमक्षम्यते सा नीहारशिलातले शृणु परं तापातुरा वर्तते । ३. पश्चात्कमप्युपायमपश्यन्ती तपश्चरणैः परमेश्वरमभिमुखीकर्तुं प्रवृत्ता तथा तीव्रनियमं करोति।

२८ पार्वतीपरिणये नन्दी-तकिमनेन संदिग्धफलेन दुर्लभवस्तुप्रार्थनानिबन्धेन देवेष्वियं कंचिदनुरूपं वरं वृणीताम् । अयं पुनः खण्डपरशुरप्र. णीरेव वीतरागाणाम् । तद्बुद्धिमुपदिशतां भवत्यौ सख्यौ । जया-भअवं, एदं अम्हाणं प्पिअसहीए व्ववसिदं जहा परमे- स्सरं एव्व पई लहेअम् । अण्णहा अत्थ एव्व सिहरे कठिणेहिं तवचरणेहिं विलीणा भवेत्ति । नन्दी-(आत्मगतम् ।) श्रुतं श्रोतव्यम् । तमिमं वृत्तान्तं नील- लोहिताय निवेदयामि । (प्रकाशम् ।) भद्रे, यथागतं गमिष्यामः । (इति निष्कान्तः ।) जया-अम्हे वि प्पिअसहीए पूआपुष्फाई उवहरामो । (हति निष्क्रान्ते।) इति मिश्रविष्कम्भकः। (ततः प्रविशति नैष्ठिकभूमिकावलम्बी शंकरः।) शंकर:-(आत्मानं निर्वर्ण्य ।) पर्याप्तेयं भूमिका पार्वती प्रति प्रतारयितुम् । तथाहि । असे कृष्णाजिनश्रीस्त्रिगुणविरचिता मेखला श्रोणिभागे पाणावाषाढदण्डो भसितविरचितं पुण्ड्रकं भालदेशे। दभैः क्लसं पवित्रं अवसि परिणमन्मानतुङ्गी पिशङ्गी मौलौ पकिर्जटानां जयवलयमिदं स्फाटिकं च प्रकोष्ठे ।। ६ ।। (विचिन्य।) यत्सा मन्मथमोहनानसमये सापत्रमा चारुणा वक्रेण स्मितफुल्लगण्डफलकं ब्रीडाविलोलेक्षणम् । उन्मीलत्पुलकाङ्करं स्थितवती प्राप्तेव रूपान्तरं तन्वी तत्पुनरध चेतसि मम प्रादुर्भवत्यखसा ॥७॥ १. भगवन्, एतदस्माकं प्रियसख्या व्यवसितं यथा परमेश्वरमेव पति लमेय । अन्यथात्रैव शिखरे कठिनैस्तपश्चरणविलीना भवेयमिति । २. आवामपि प्रियसख्याः पूजापुष्पाण्युपहरावः।

चतुर्थोऽङ्कः । २९ तदिदानीमेव गाढतरतरणिकिरणपरिक्लान्तामिव मेदिनी मेघश्चा- तकमिव कठिनतपोविशेषतप्तामभ्युपपत्स्ये। यदैवं जयाविजयाभ्यां निवेदितो भावबन्धस्तस्या नन्दिना मह्यमर्पितस्तदैवात्मानमपाकर्तुमि- बावधारयामि (इति सविनयं परिकामति ।) (ततः प्रविशति जयाविजयाभ्यामन्वास्थमाना तपस्यन्ती पार्वती।) पार्वती-(वामाक्षिस्पन्दनं सूचयित्वा ।) हेला प्पिअसहिओ, आणन्दवाहसिसिरं अकारणं फुरइ लोअणं वामम् । मह मन्दभाइणीए जाअइ एअस्स अज किं णु फलम् ॥ ८॥ जया-हला पव्वइ, इत्थिआणं वामक्खिचलणं पुरिसाणं दक्खिणक्खिचलणं सुउणं त्ति उपराणिआ भणन्दि । तहा मम्मह- दाहणिक्करुणो वि परमेस्सरो कस्स वि मुणिणो मुहेण तुमं अणु- गिहिस्सदि। पार्वती-सच्चं होदु प्पिअसहीए वअणम् । विजया-सच्चं भणिदं सहीए जाए। शंकर:-(पार्वतीं दृष्ट्वा ।) केदं तपः कठोरं केदं सुकुमारमङ्गमबलायाः। दिवसः कुत्र धनोष्मा कुत्र कला कमलकोमला चान्द्री ॥९॥ अहो महत्तपःक्लेशमनुभवति मामुद्दिश्य मजभाषिणी । १. हला प्रियसख्यौ, आनन्दबाष्पशिशिरमकारणं स्फुरति लोचनं वामम् । मम मन्दभागिन्या जायतेऽस्याद्य किं नु फलम् ॥ २. सखि पार्वति, स्त्रीणां वामाक्षिचलनं पुरुषाणां दक्षिणाक्षिचलन सुगुणमिति पौराणिका भणन्ति । तथा मन्मयदाहनिष्करुणोऽपि परमेश्वरः सापि मुनेर्मुखेन वामनुग्रहीष्यति । ३. सत्यं भवतु प्रियसख्या वचनम् । ४. सत्यं भणितं सख्या जयया।

पार्वतीपरिणये जया-(विलोक्य ।) हेला पव्वइ, गहिअतणू विअ पढमस्समो जुवा कोवि महापुरिसो इदोमुहो आअच्छइ । पार्वती-आअदाणं अदिहिणं तुम्हेहिं अच्चणा कादव्वा । अहं उण जहापुव्वं णिअमं अणुचिहामि । (इति मौनमालम्बते।) शंकरः -(निर्वर्ण्य) आभाति वल्कलवती पाण्डुक्षामा मदीयविरहेण । प्रतिपत्कलेव चान्द्री संध्याशकलेन संवीता ॥ १०॥ (इति समीपमुपसर्पति ।) (जयाविजये विष्टरमुपनयतः।) (शंकर उपविश्य मार्गखेदं नाटयति ।) (पार्वती सख्यौ विलोकयति । (सख्यौ वर्णिनं तालवृन्तेन वीजयतः ।) शंकरः-(हस्तमुद्यम्य ।) गतः श्रमोऽस्माकमनन्यसामान्येन भव- तीनां सौजन्येन । उभे-(सविनयम् ।) हुँदो आअच्छदि महापुरिसो। शंकर:-अघ कैलासादागम्यते । जया-जैइ एव्वं अग्धं पडिगेण्हादु महापुरिसो। शंकरः-तथा । (इत्यर्यप्रतिग्रहं रूपयित्वा ।) भद्रे, एकं प्रष्टुममि- लषामो भवत्यौ। जया-पृच्छदु महापुरिसो। शंकरः कस्येयं दुहिता, के भवत्यौ, किंनिमित्तं वा कठोरे तपसि वर्तते । , १. सखि पार्वति, गृहीततनुरिव प्रथमाश्रमो युवा कोऽपि महापुरुष इतोमुख आगच्छति । २. आगतानामतिथीनां युवाभ्यामर्चना कर्तव्या । अहं पुनर्यथापूर्व नियममनुतिष्ठामि । ३. कुत आगच्छति महापुरुषः। ४. यद्येवमयं प्रतिगृहातु महापुरुषः । ५पृच्छतु महापुरुषः ।

चतुर्थोऽङ्कः। ३१ जया-एसा णो प्पिअसही हिमवदस्स कण्णआ पव्वईणाम- हेआ। अम्हे वि से प्पिअसहीओ जआविजए । अनुरूववरलाह- णिमित्तं अ अस्से तवञ्चरणम् । शंकर:- जन्मान्ववाये प्रथमस्य धातुः पिता गरीयान्गिरिसार्वभौमः । वपुर्मनोहारि वचश्व रम्यं पदं च लोकादतिलोकमस्याः ॥११॥ तत्किमनया प्रार्थनीयो वरत्रिलोक्याम् । जया-अत्थि को वि महापुरिसो। शंकरः-कोऽसावात्मसौमाग्यविशेषदुर्विदग्धः कठिनहृदयः । जया-महापुरिस, सुणु दाव । (जं किल भणन्दि वेदा' इत्यादि पठिला।) एव्व परमेस्सरं अहिलसन्दी णो पिअसही तवोणि- अमं अनुचिट्ठइ। शंकर:-(पार्वतीं प्रति) भद्रे, अपि सत्यमेतत् । पार्वती-(मौनमुन्मुच्य ।) महापुरिस, जहा आअक्खिदं सहीहिं तहा मे मणोरहो। शंकर:-(आत्मगतम् ।) इदानीमात्मनिन्दनैरपि चित्तमस्याः परीक्षिष्ये । (प्रकाशम् । सहस्ततालं प्रहस्य ।) आलेपो भसितं विभूषितमहिर्वासः पितॄणां वने वेतालाः परिचारकाः प्रतिदिनं वृत्तिश्च भिक्षामयी। इत्थं यस्य शुभेतराणि चरितान्याख्यान्ति सर्वे जना- स्तस्मिन्मौग्ध्यवशान्मतिस्तव रुचिं बध्नाति किं ब्रूमहे ॥१२॥ १. एषा नौ प्रियसखी हिमवतः कन्यका पार्वतीनामधेया । आवाम- प्यस्याः प्रियसख्यौ जयाविजये । अनुरूपवरलाभनिमित्तं चास्यास्तपश्चरणम् । २. अस्ति कोऽपि महापुरुषः। ३. महापुरुष, शृणु तावत् । तमेव परमेश्वरममिलषन्ती नौ प्रियसखी तपोनियममनुतिष्ठति । ४. महापुरुष, यथाख्यातं सखीभ्यां तथा मे मनोरथः ।

पार्वतीपरिणये अन्यच्चा जगत्रयीलोचनबालचन्द्रिका कुलस्य रत्नं भवती क भूभृतः । क कृत्तिवासाःपितृकानने वसन्नमङ्गलाचाररतित्रिलोचनः॥१३॥ पार्वती-(कर्णी पिधाय ।) सन्तं पावं, सन्तं पावम् । शंकरः-यद्येवं ते दृढतरो मनसि निश्चयस्तर्हि विधुतुदं चान्द्रमसी यदि कामयते कला । परं वृणीताद्भवती संप्रत्येव पिनाकिनम् ॥ १४ ॥ पार्वती-(मुखवैवर्ण्य रूपयित्वा ।) जं कुव्वन्ति खु णिअमात्सअला वि मउलिणा णमकारम् । तं गिरिसं णिन्दन्तो किं णु तुह जिहाण होइ णिभिण्णा ॥१५॥ हला सहि, महापुरिसणिन्दाकालिणं तारिसं पावं जारिसं सुणु दाव णम् । एस उण बह्मणो ईस्सरणिन्दाणिरङ्कुसमुहो ता अण्णदो सरामो । (इति विखंसमानवल्कलमन्यतः परावर्तते ।) शंकर:-(खरूपं प्रकाश्य ।) परिणाहि सनयुगुलं कृशमवलग्नं क्षमेत किं गिरिजे । तव हस्तदानचतुरस्तपसा हि कृतोऽयमस्मि दासजनः ॥ १६ ॥ (इति पार्वत्या हस्तमवलम्बते।) (पार्वती समयविस्मयप्रहर्ष पुलकिततनुः प्रखिन्नगण्डा प्रतिपत्तिमूढा तिष्ठति ।) जया-प्पिं णो, प्पि णो । सण्णिहिदो परमेस्सरो अह्माणं सकम्मपलिणामेण । १. शान्तं पापम् , शान्तं पापम् । २. यं कुर्वन्ति खलु नियमात्सकला अपि मौलिनो नमस्कारम् । तं गिरिशं निन्दतः किं नु तव जिह्वा न भवति निर्मिना । हला सखि, महापुरुषनिन्दाकारिणं तादृशं पापं यादृशं शृणु तावदेनम् । एष पुनर्ब्राह्मण ईश्वरनिन्दानिराशमुखस्तदन्यतः सरामः । ३. प्रियं नः, प्रियं नः । संनिहितः परमेश्वरोऽस्माकं सत्कर्मपरिणामेन ।

चतुर्थोऽङ्कः। शंकर:- आवि:श्रमाम्बुकणिकामङ्गलतां गाढमरत्पुलकाम् । मण्डितपयोधरां त्वामालिङ्गय कृती भवाम्यहं गिरिजे ॥ १७ ॥ तदिमां गान्धर्वेण विवाहेन पाणौकर्तुमभिलषामि । जया--भअवं, अह्माणं पत्थणा तुए काव्वा । जहा समल- कुलाचलचकवट्टिणो तादस्स हिमवदस्स घरणिम्मिअविवाहकजे उवत्थातुं मं पडिच्छ । शंकरः-(सनिर्वेदमात्मगतम् ।) इतः परं कथमिमां वर्तिष्ये । (प्रकाशम् ।) भवतु । लोकयात्रा न हातव्या । जया-पंचदिवसमन्भन्तरे जहा विवाहमङ्गलं भविस्सदि तहा करीअदु। शंकर:-त्रिचतुरदिवसाभ्यन्तर इति वक्तव्यम् । तथाहि । क्षणमपि विरहे मम प्रियायाः कलयति कल्पसहस्रकोटिसाम्यम् । कतिपयदिवसप्रयोगमेनं कथमिव हन्त सहिष्यते मनो मे ॥ १८ ॥ जया-अझे गच्छामो विवाहमङ्गलं संवादेदुम् । शंकरः-तथा क्रियताम् । वयमपि सप्तर्षीन्विवाहमङ्गलाय प्रेषयितुं गमिष्यामः। (इति निष्क्रान्ताः सर्वे ।) इति चतुर्थोऽङ्कः। १ भगवन् , अस्माकं प्रार्थना त्वया कर्तव्या । यथा सकलकुलाचलच- क्रवर्तिनखातस्य हिमवतो गृहनिर्मितविवाहकायें उपस्थातुं मा प्रतीच्छ । २. पंचदिवसमभ्यन्तरे यथा विवाहमङ्गलं भविष्यति तथा क्रियताम् । ३. वयं गच्छामो विवाहमङ्गलं संपादयितुम् ।

पञ्चमोऽङ्कः। (ततः प्रविशति कञ्चुकी।) कचकी-आज्ञप्तोऽस्मि सकलकुलाचलचक्रवर्तिना हिमवता यथा-'शिलाधर, पूर्वेधुरेव परमेश्वरप्रहिताःसारुन्धतीका: सप्तर्षयः समागत्य लब्धवराया वत्साया दिनमिदं विवाहमङ्गलयोग्यमकल्प- यन् । तद्भवता चौषधिप्रस्थवासिनः पौराः पुरं परिष्क्रियतामिति नियोक्तव्याः' इति । तत्प्रभोर्नियोगमनुतिष्ठामि । (इति परिक्रम्य सर्वतो विलोक्य ।) भो भोः पौराः, संनहन्तां विचित्राः प्रतिभवनमिह श्रेणयस्तोरणाना- मुन्नेष्यन्तां समन्ताद्गगनतललिहः केतनानां पताकाः । संसिच्यन्तां पटीरवभरितजलैथियो मुक्तपुष्पाः संप्राप्तोऽसावुमायाः परिणयदिवसो विश्वमाङ्गल्यहेतुः ॥१॥ (आकाशे।) किं ब्रूथ-'भगवद्वचनात्मागेव सर्वमस्माभिर्द्विगुण- माचरितम्' इति । (सर्वतो निर्वर्ण्य सहर्षम् ।) अहो, अस्मादादेशा- प्रागेव प्रवृत्तमहोत्सवं नगरम् । तथाहि । एषा चन्दनमालिका विरचिता चूतप्रवालै वै रम्भास्तम्भपरिष्कृतेषु भवनद्वारेषु संलक्ष्यते । आमन्द्रध्वनयः कणन्ति मुरजा मूर्च्छन्ति तत्रीखराः सिजानैर्मणिभूषणैस्तत इतो नृत्यन्ति वाराङ्गनाः ॥२॥ इतश्च। उत्सर्पदागरवधूपपरम्परामिः प्रादुर्भवत्यमिनवो जलदागमोऽयम् । उन्नद्धतोरणमणिप्रभया स्फुरत्या संजायते च शतमन्युशरासनश्रीः ॥ ३ ॥ अन्यतश्चामूः

पञ्चमोऽङ्कः।
३५
धवलारुणमेचकैरपाङ्गैरपि रामा रचयन्ति रङ्गवल्लीः ।
कुचयोयुगलेन पूर्णकुम्भात्पुनरुक्तानिव कुर्वते मृगाक्ष्यः ॥ ४ ॥
(सर्वतोऽवलोक्य ।)
विक्षिप्तः सरभसमेष पौरलोकै-
विस्फूर्जत्कनकरजःपिशङ्गदीप्तिः ।
प्रत्यप्रद्युमणिमयूखजालशोभा-
माधत्ते दिशि दिशि कौडमः परागः ॥५॥
तदेनं प्रवर्तमानं पुरपरिष्कारं प्रभवे निवेदयामि
(ततः प्रविशति विविक्तस्थानमधिवसन्हिमवान् ।)
हिमवान्-
पूर्व नारदसूचनेन महता चन्द्रार्धचूडामणि-
जोमातेत्यभवत्पुनस्तदनु तत्संप्राप्तिराकाङ्किता ।
लब्धोऽसौ तपसा मया दिनमिदं तस्याश्च वैवाहिक
जातो विघ्नगणानतीत्य कृतिनामद्याहमग्रेसरः ॥६॥
शिलाधर:-(उपसृत्य।)
जयतु
स्वामी।
हिमवान्-किं पुरपरिष्कारः प्रवर्तितो भवता ।
शिलाधरः-स्वामिन् , अस्मदीयोऽयमुत्सव इति प्रत्येक
पौराणाममिमानः । कथं परिहीयते पुरपरिष्कारः। सर्व द्विगुण-
माचरितं पौरैः।
हिमवान्-शिलाधर, किं सर्वे पर्वताः पार्वतीपरिग्रहमङ्गलं
द्रष्टुमागताः।
शिलाधरः-स्वामिन् , अवधार्यताम् ।
भूपकेरुहकर्णिकायिततनुरुः सुराणां प्रियो
योकीभूतभुजङ्गराजकषणस्निग्धोपलो मन्दरः ।
विन्ध्यो व्योमनि भानुमालिपदवीजङ्घालशृङ्गावलिः
साकं संप्रति गन्धमादनमुखैस्त्वां द्रष्टुमभ्यागताः ॥ ७ ॥

पार्वतीपरिणये - हिमवान्-अथ कैलासः किं करोति । शिलाघर:-स्वामिन् , स खलु जामातृपक्षस्थितेनैव सार्धमा. गमिष्यति । हिमवान्-युज्यते । अथ विश्वावसुप्रभृतय आगता गन्धर्वाः सवधूगणाः। शिलाधरः- आतोद्यपाणयः सर्वे गन्धर्वाः सवधूगणाः । उपवीणयितुं प्राप्ता मानयन्तस्तवोल्सवम् ॥ ८॥ हिमवान्-आगताः किमप्सरसः सार्धममरैः । शिलाघर:-श्रूयताम् । विद्युद्वल्लीवितानव्यतिकरसुषमा व्योनि विस्तारयन्त्यः कान्या नीलोत्पलानां श्रियमिव नयनैर्दिसुखैर्दर्शयन्यः । ज्योत्स्नालक्ष्मी दिवापि स्मितरुचिविसरैर्विष्वगुत्पादयन्यः सर्वाः स्वास्योषाः समममरगणैरागताः प्रीतये नः॥९॥ हिमवान्-यद्येवमन्तःपुरं गत्वा भवान्कुलवृद्धां कौशिकी पुर- स्कृत्य समागतामिरप्सरोभिर्वत्सा पार्वती सम्यगलंक्रियतामित्यमि- धत्ताम् । अलंक्रियाप्रकारं च कौशिकी समागत्य मह्यमाचष्टाम् । किंचागतानां वधूनां गिरीणां च सत्कृतये तत्रभवता संविधातव्यः सकललोकवस्तुसंभारः। शिलाधरः-यथादिष्टं स्वामिना तथा सर्व संपादयिष्यामि । (इति निष्क्रान्तः।) (प्रविश्य) नारद:- प्राङ्मया यदुपक्रान्तं कार्य गुरु दिवौकसाम् । अन्तरायानतिक्रम्य तद्धि सिद्ध्यति सांप्रतम् ॥ १०॥ (इति परिक्रम्यावलोक्य च ।) अयमध्यास्ते विवाहमण्डपं हिमवान् । तदेनमुपसामि । (इत्युपसर्पति ।)

पञ्चमोऽङ्कः। हिमवान्-(विलोक्या ) अये, नारदः । (अञ्जलिं बध्नाति ।) नारदः-हिमवन् , अभ्युदयः खलु तत्रभवतः । हिमवान्-भवदुपक्षिप्तस्य फलमिदं बीजस्य । (इत्यासनमुपनयति।) (नारद उपविशति ।) (ततः प्रविशति कौशिकी । उपविश्य पार्वत्याः परिकर्मप्रकार निर्दिशति ।) हिमवान्–किमलंकृता वत्सा । कौशिकी-भगवन् , कथयामि । श्रूयताम् । हिमवान्-अवहितोऽस्मि । कौशिकी- असमप्रभूषणायास्तनुतरकौशेयवासधारिण्याः । आलिप्तमङ्गमखिलं तैलेन सुगन्धिना तस्याः ॥११॥ हिमवान-ततस्ततः । कौशिकी- मणिपीठवर्तिनी तां मङ्गलशलेषु मन्द्रघोषेषु । अम्भोमिरमरनद्याः सखीजनो विहितमन्जनां व्यतनोत्॥१२॥ हिमवान्-ततस्ततः कौशिकी- मङ्गलमजनविशदा कर्पूरक्षोदपाण्डुरं क्षौमम् । साधत्त जलधौता द्यौरिव शरदिन्दुचन्द्रिको दम् ।। १३॥ हिमवान्-ततस्ततः । कौशिकी- चरणकमलं तदीयं लाक्षाबालातपेन सवलितम् । अध्यास्त भृङ्गमालावलिमिर्मणिखचितनूपुरव्याजात् ॥१४॥ हिमवान् ततस्ततः । कौशिकी- बद्धा मणिमयकाची तस्याः परिणाहशालिनि नितम्बे । पङ्किरिव सारसानां सुरसरितः पुलिनमण्डलाभोगे ॥१५॥ - - - पार्वतीपरिणये - हिमवान्-ततस्ततः । कौशिकी- करतलयुगपरिणद्धे कुचकलशे कुङ्कुमारणे तस्याः । सिन्दूरिते करिपतेः कुम्भे नक्षत्रमालेव ।। १६ ।। हिमवान्-ततस्ततः । कौशिकी- कमनीयतानिवासः कर्णस्तस्या विचित्रमणिभूषः । सविधप्रसूनरत्नं शङ्खनिधि दूरतरमकरोत् ॥ १७ ॥ हिमवान्-ततस्ततः । कौशिकी- मुक्ताताटङ्कयुगं प्रतिमुक्तं कर्णपार्श्वयोरस्याः । मुखकमलमिव निषेवितुमागतममृतांशुबिम्बयुगम् ॥ १८ ॥ हिमवान्-ततस्ततः । कौशिकी- आयामिनोस्तदक्ष्णोरजनरेखाविधि वितन्वन्याः। पाणिः प्रसाधिकायाः प्रापदपाङ्गं चिरेण विश्रम्य ॥ १९ ॥ हिमवान्-ततस्ततः। कौशिकी- तस्या ललाटसीमनि चन्दनपङ्केन मेनया लिखितम् । आसीसितातपत्रं तिलकमनङ्गस्य दर्शितच्छायम् ॥ २० ॥ हिमवान्-ततस्ततः । कौशिकी- आगुल्फलम्बमस्याः कुन्तलमन्तर्निगूढमन्दारम् । संयम्य चतुरबन्धं सखीजनः स्तिमितनेत्रमास चिरम् ॥२१॥ हिमवान-ततस्ततः ।

पञ्चमोऽङ्कः। - कौशिकी- अङ्गं भूषणनिकरो भूषयतीत्येष लौकिको वादः । अङ्गानि भूषणानां कामपि सुषमामजीजनंस्तस्याः ॥ २२ ।। हिमवान् यद्येवं तत्सम्यगलंकृता वत्सा । तद्भवत्या संनिधि- विशेषेण । (नेपथ्ये ।) भ्राम्यन्मन्दरकन्दराहतिचलक्षीरोदपूरोदर- स्फूर्जद्वीचिपरम्पराकलकलप्रोचण्डवैतण्डिकः । निर्घोषैः कुलशैलगह्वरगुहारन्ध्राणि वाचालय- न्दिव्यः कश्चन दुन्दुभिः पररवः साटोपमाहन्यते ॥ २३ ॥ (सर्वे ससंभ्रममाकर्णयन्ति) (पुनर्नेपथ्ये।) जम्भारे भव पार्श्वतः परिसरेणायाहि लक्ष्मीपते वेधः स्वस्त्ययनान्यधीष्ट मुनयः प्रब्रूत रौद्रीमृचम् । चन्द्राविपि चामरे विधुनुतां छत्री भवाहीश्वर प्रष्ठा रुद्रगणाः प्रयात पवन स्पन्दख मन्दोदयः ॥ २४ ॥ हिमवान्-भगवन्नारद, कोऽयं देवानामिव कोलाहलः श्रूयते । नारदः-सकलजगदुत्पत्तिस्थितिप्रलयैरुद्धष्यमाणमहिमा चरा. चरगुरुस्ते जामाता चटुलविवाहवेषमास्थाय सह देवगणैरित एवा. मिवर्तते । अयं कलकलस्तत्पुरःसरनन्दिनः प्रोत्सारणायाः । तद्भवा- नयंपाणिः प्रत्युद्यातु भगवन्तमिन्दुशेखरम् । (ततः प्रविशति गृहीतविवाहवेषः शंकरो देवलोकश्च ।) शंकरः-(शार्जिणं प्रति ।) अमरावतीमतिक्रम्य शोभते पुरमिद- मोषधिप्रस्थम् । शाी-किं परिहीयते महेन्द्रान्महीमहेन्द्रः।

पार्वतीपरिणये (हिमवानग्रंपाणिरुपसर्पति ।) शंकर:-(अवलोक्य ।) अभ्युद्गच्छति मामगाधिराजः । तद्वाह- नादवरुह्य यास्यामः । (तथा करोति ।) हिमवान्- आ चार्मणानामपि दूरमक्ष्णामकर्तृकाणां वचसामभूमिम् । जामातरं लब्धुममुं गिरीशं कियन्ति पुण्यानि मया कृतानि ॥२५॥ (इत्युपसर्पति ।) शंकर:-(विलोक्य ।) अतिगुरुचरणक्रमैर्वितन्व- भवनमितोन्नमितस्थलामिवोर्वीम् । विनयमुपदिशनिवात्मभाजा- मयमुपसर्पति मामगाधिराजः ॥ २६ ॥ (हिमवानय॑मुपहरति ।) (शंकरः सप्रणामं गृह्णाति ।) (हिमवान्सलज्जं मुखमवनमयति ।) (जामातरं पुरस्कृत्य हरिविरञ्चिमुखाः परिकामन्ति ।) ब्रह्मा-भगवन् , कुत्र वैवाहिकी वेदी । हिमवान्-इत इतो भवन्तः । (सर्व उपसर्पन्ति ।) बृहस्पतिः-हिमवन् , प्रत्यासन्नो मुहूर्तः । (ततः प्रविशति जयाविजयाभ्यां सह पार्वती ।) पार्वती-अन्ज क्खु मे मणोरहकप्पहुमो फलं दंसेइ । जया-(सस्मितम् ।) ईला पव्वई, एत्तिसं तुह प्पिसहिओ वि आ जाआ। १. अद्य खलु मे मनोरथकल्पद्रुमः फलं दर्शयति । २. हला पार्वति, एतावत्तव प्रियसख्यावपि आवां जाते।

पञ्चमोऽङ्कः। पार्वती-(सासूयम् ।) हेला विजए, किं एसा भणइ । विजया-हेला पव्वइ, एसा सरसालापपेसलत्तणं दंसेइ । (इत्युपसर्पति ।) ब्रह्मा-(शार्जिणं प्रति ।) भगवन् , सर्वे देवाः सह भूतगणैर्यथा- स्थानमुपविशन्तु । (सर्वे तथा कुर्वन्ति ।) हिमवान्-अस्मत्पक्षाः कुलपर्वताश्च कैलासेन समं वामपार्श्व- मुपविशन्तु । (कुलपर्वताश्च तथा कुर्वन्ति ।) शंकर:-(पार्वती विलोक्य । आत्मगतम् ।) एषा विशेषरम्या विवाहवेषेण मोहनेन दृशा । प्रतिभाति मानसे मे मदनसहस्राणि कल्पयन्तीव ॥२७॥ बृहस्पतिः-भो शंकर, वध्वा सहास्यां वेदिकायां प्रामुखो वर्तेथाः। (शंकरः पार्वत्या सहोपविशति ।) शंकर:-(आत्मगतम् ।) नन्दितनयनचकोरा नवनवलावण्यकौमुदीविसरा । उत्कूलयति मनो मे जलधि सैषा कलेव चान्द्रमसी ॥२८॥ बृहस्पतिः-(अग्निमुपसमाधाय ।) शंकर, त्वदीयेन पाणिना पार्वत्याः पाणिमवलम्बस्व । (शंकरस्तथा करोति ।) (पार्वती पुलकोद्रेदममिनयति ।) शंकर:-(आत्मगतम् ।) आभाति बालिकेयं पाणिस्पर्शेन पुलकितावयवा । अभिनववसन्तसङ्गादाविमुकुलेव बालचूतलता ॥ २९ ॥ १. हला विजये, किमेषा भणति । २. हला पार्वति, एषा सरसालापपेशलत्वं दर्शयति ।

पार्वतीपरिणये ब्रह्मा-वधूवरौ, पावकं प्रदक्षिणां कुरुताम् । (उभौ तथा कुरुतः।) (पार्वती शंकरमवलोकयति ।) (शंकरः प्रत्यवलोकयति।) (पार्वती दृष्टिं परावर्तयति।) शंकरः-(आत्मगतम् ।) अवलोकनाय लोला दृष्टिरियं मृगहशो निवृत्तिमती । गत्वा प्रतिप्रवाहं राजति शफरी निवर्तमानेव ॥ ३०॥ (बृहस्पतिः पार्वत्याः पाणिना जलाजलिं कारयति ।) (पार्वती धूमाक्रमेण वैक्लव्यं निरूपयति ।) शंकरः-(आत्मगतम् । प्रखिन्नगण्डफलकच्युतपत्रलेख धूमानुषङ्गगलिताखनपाटलाक्षम् । म्लायद्वसन्तकुसुमं मुखमायताक्ष्या- श्चित्ते ममार्पयति कामपि रागमुद्राम् ॥ ३१ ॥ बृहस्पतिः-शंकर, पार्वत्याः पादकमलं पाणिभ्यामश्मानमा- रोपयतु भवान् । (शंकरः सयमानमुखस्तूष्णीं तिष्ठति ।) कुलपर्वताः-(ससंभ्रमम् ।) भगवन् , प्रमाणभूतेन पुरोधसा यदुच्यते तदनुष्ठीयताम् । भूतगणः-(ससंरम्भम् ।) कुलपर्वताः, कथमिव नियम्यते त्रिभुवननियन्ता नीललोहितः । ब्रह्मा-(सस्मितमुभयानिवार्य ।) सकलजननियामिका खतःप्रमा- णभूता श्रुतिरेव सम्यगित्थमभिदधाति । तद्यथोक्तमनुष्ठीयताम् । (शंकरः संकुचिताभ्यां पाणिभ्यां पार्वत्याः पादकमलमश्मानमारोपयति ।) बृहस्पतिः कर्मशेष समापयन्वधूवरौ ब्रह्माणं प्रणमयति ।) ब्रह्मा-(हस्तमुद्यम्य ।) सकलजगतां सवित्रोरनन्यसामान्यमस्तु वां प्रेम । भुवनभयभङ्गदक्षो भवतु कुमारोऽपि तारकध्वंसी ॥ ३२ ॥ (इत्याशिषं प्रयुक्त) पञ्चमोऽङ्कः। 40 - (प्रविश्य ।) वृद्धपुरंध्य:- अण्णोण्णसमसरीराणं अण्णोण्णप्परूढपेम्माणं । जोहाणिसाअराणं तुह्माणं होदु को वि अणुराओ ॥ ३३ ॥ (इत्या क्षतारोपणमाचरन्ति ।) नारद:-(उत्थाय साञ्जलिबन्धम्।) भगवन् , देवकार्यहेतोः कृता- पराधं कंदर्प पुनर्गृहीतवपुष पदकमलसेविनं च भवाननुगृह्णातु । शंकर:-यथा रोचते तथा भवतु । (ततः प्रविशति रतिवसन्ताभ्यां सह पूर्वाधिकविग्रहः कामः ।) सर्वे माधुर्यसौरभतरक्षितचापबाणः सख्युः करं समवलम्ब्य शनैरनङ्गः । आयाति रुद्रनयनानलदग्धकायः पूर्वाधिकः कथमहो ललनासमेतः॥ ३४ ॥ (सर्वे विस्मयं निरूपयन्ति ।) हिमवान्-(सहर्षम् ।) तथा । पुण्यैरेव पुरातनैरुपनतैर्देवेन विश्वात्मना पुत्री भूरिगुणावदातचरिता पाणौ गृहीता मम । देवानां च मनोरथः परिणतः प्राप्यानवचं वपु- लोकानन्दकरः स्मरोऽपि नयनातिथ्यं विधत्ते पुनः॥ ३५॥ शंकर:-किमतःपरं ते प्रियमस्ति । हिमवान्-समधिगतसकलमनोरथानां किमतःपरं प्रार्थनीयम् । तथापीदमस्तु भरतवाक्यम् । १. अन्योन्यसमशरीरयोरन्योन्यप्ररूढप्रेम्णोः। ज्योत्नानिशाकरयोर्युवयोर्भवतु कोऽप्यनुरागः ॥

४४ पार्वतीपरिणये पर्जन्यो वृष्टिमिष्टां प्रदिशतु जगतो भद्रसंपादयित्री शश्वत्सस्यैः प्ररूद्वैर्भवतु पुलकिता सर्वतो भूतधात्री । वर्धन्तां वीतविनाः स्फुरदुपकृतयः संपदः सज्जनानां नित्यानन्दो महेशो निरतिशयसुखप्राप्तये कल्पतां वः॥३६॥ (इति निष्कान्ताः सर्वे ।) इति पञ्चमोऽङ्कः। इति श्रीवाणकविकृतं पार्वतीपरिणयं नाटकं संपूर्णम् ।

लोकानुक्रमणी। अंसे कृष्ण ४१६ अङ्गं भूषण ५।३३ अण्णोण्णसम ५।२२ अतिगुरुचरण ५।२६ अत्रान्तरे हर ३२८ अदक्षिण ३१ अप्रतिमरूप ११८ अवलोकनाय ५.३० असमप्रभूष ५।११ असावलोक २११० अस्ति कविसावं १४ अस्तु खस्त्यय २०१६ अष्टाभिरेव १।२१ आगत्य दोभा ३।१४ आ गुल्फलम्ब ५।२१ आ चार्मणाना ५।२५ आणन्दवाह ४१८ आतोद्यपाणयः ५।८ आदाय चाप ३१५ आदौ प्रेम ११ आधूय चन्दन ३४ आधूय प्रणयं ३३१७ आमाति बालि ५।२९ आभाति वल्कल ४११० आभोगशालि १।१४ आयामिनोस्त ५।१९ आरादजलि १८ आरादपश्य ३.१५ आलेपो भसित ४.१२ आविःश्रमाम्बु ४।१७ आसेचनक २६ उद्धृत्यामर २२ उद्यद्भिः शिख १९ उत्सर्पदागरव ५।३ उत्सारयन्निव १११ एषा चन्दन ५२ एषा विशेष ५।२७ एषा शिरीष ४१ कमनीयता ५।१७ करतलयुग ५।१६ कुचयुगुलं १११५ कैश्चिन्नेत्र १ कायं सुगन्धि २।१३ क्वेदं तपः ४९ क्षणमपि ४।१० गिरिवरतटिनी १११० गुरुतरशोका ३३११ चचवापिद ४।५ चक्रेण विष्णो २।११ चरणकमलं ५।१४ चूताः कोरकिता ३६ जं किल भण ४।३ जं कुम्वन्ति ४/१५ जगत्रयीलो ४।१३ जन्मान्ववाये ४११ जम्भारे भव ५।२४ तदनु युगप ३९ तसिन्वने ३७

Parvatiparinayam

Author
Nyayopadhyaya Pt.dhumdhiraja Shastri Principal N.v.vidyalaya Benaras
Other authors
Roprietor Of The Nirnaya Sagar-press Bombay
Title
Parvatiparinayam
File name
Parvatiparinayam
Text
OCR done
Citation
1923
Published
2006/05/07
Publisher
Pandurang Jawa Ji
Language
Sanskrit
Pages
49
Library
Sarnath Varanasi
Classification
Literature
DLI number
477552
Barcode
5990010152556.00
Scanning centre
IIIT, Allahabad
Rights
In Public Domain
VMLT id
WsceYoKbQAG
Download PDF

Parvatiparinayam