Bharatiya Vidya Bhavan Library, Mumbai
The Kanadasiddhantachandrika
Front matter
निवेदना। काणादसिद्धान्त चन्द्रिकायाममयां कणादमुनेः सिद्धान्ता व्युस्पित्सुमुग- मया भगया प्रकाश्यन्ते । अस्याः प्रणेत्रा गङ्गाधरमूरिणा प्रसादाभिधानं व्या. स्त्यानमभ्येतस्या निर्मितमस्तीति श्रूयते । एप गदाधरमरिः कुवलयानन्दव्या' ख्याया रसिकरञ्जन्याः कर्नुगङ्गाधगध्वन्द्रिान्न भिन्नः द्वयोरपि विश्वरूपय- मिशिप्यतावगमात् । रमिकरञ्जन्याम् - 'अस्मपितामहसहोदरदेशिकेन्द्रमप्पय्ययावनिलकं प्रणमामि मनी' इति अप्पय्यदीक्षितान् स्वपितामहनातुराचार्यान् यदन् गदाधरसूपिप्पय्यदी- क्षितासन्नकालतामात्मनः सूचितवान् । म चायमप्पश्यदीक्षितशिष्यपत्रिस्य गङ्गा- परसूरेः काल नित्यादप्पय्यदीक्षितभ्रातृपात्रस्य नीलकण्ठदीक्षितस्य कालेन- * "घटस्य पने मूले च स्थितियंपा निकल्यते । मुििमस्नान गुरुन् वन्दै विधागेन्द्रयोगिनः॥ कापाद.) "यत्पादपराजरकणिरानाल. मागार देवशरमायवर्गकगान । मोऽपि न पशुपनेरपरावनार श्रौनियापयमिन गुम्मानना" (गिरानी ) नादगातारमणन ।
-
.
समान मम्मायन । अस्या सगाधना गारभूता प्रन्याम्तु-
१. (वा) परमेश्वग्मत्तत्सम्बन्धी 7. सन
२ पन्तलराजमम्बन्धी स सज
३ चम्प्परम् चित्रनम्पतिरिसागादधिगतो ग मन
जनन्तगायनम्
त गणपतिशास्त्री
॥ श्रीः ॥ गङ्गाधरसूरिकृता काणादसिद्धान्तचन्द्रिका। उशग्रन्थः। नत्वा विशुद्धविज्ञानं दक्षिणामूर्तिमीश्वरम् । कुर्वे काणादसिद्धान्तचन्द्रिकां बुधतुष्टये ॥ इह हि पदार्थानां साधर्म्यवैधाभ्यां तत्त्वज्ञानमपवर्ग- हेतुरिति पदार्थतत्वं निरूप्यते । प्रमाविषयः पदार्थः । स च द्विविधः, भावोऽभावश्चेति । तत्र भावो द्रव्यगुणकर्मसामान्य- विशेषसमवायभेदात् पड्डिधः । तत्र द्रव्याणि पृथिव्यत्तेजोवायचा. काशकालदिगात्ममनोभेदेन नव । सुवर्णस्य तेजस्यन्तर्भावो र. क्ष्यते । अन्धकारस्तु न द्रव्यं, तत्प्रतीतेः कृतालोकाभावेनैवोप- पत्तेः । रूपवत्ताप्रतीतिश्च तस्मिन् भ्रम एव । चलनादिप्रतीति- रपि तस्मिन्नालोकगमनाद्यौपाधिकी भ्रान्तिरेव । विस्तरस्लाकरे। नातो विभागव्याघातः। द्रव्यलक्षणं तु भावकार्यसमवायिकार: णत्वं द्रव्यत्वजातिमत्त्वं था । गुणास्तु रूपरसगन्धस्पर्शसङ्ख्या परिमाणपृथक्तसंयोगविभागपरत्वापरत्वबुद्धिसुखदुःखेच्छाद्देपप्रय लगुरुत्वद्रवत्वस्नेहसंस्कारधर्माधर्मशब्दाश्चतुर्विंशतिरिति कणाद 'वं क. ग. पाठ २. 'तोऽपि वि रा. पाटः।
काणादसिद्धान्तचन्द्रिकायाम् गौतममुनिमतानुसारिणः प्राचः । परवापरत्वपृथक्वगुरुत्वानां निरसिष्यमाणतया विंशतिरेव गुणा इति नव्याः । विभागस्यापि निरासादेकोनविंशतिरिति नव्यतराः । सङ्ख्याया अपि व्युदा- सादृष्टादशेति नव्यतमाः। संस्कारपरिमाणयोरपि तिरस्कारात् पोडशैव गुणा इति स्वतन्त्राः। धर्माधर्मयोरपि प्रतिक्षेपाचतुर्द- शेत्यतिस्वतन्त्राः । सर्व चेदं गुणनिरूपणावसरे निरूपयिप्यते । उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणगमनभेदात् पञ्च कर्माणि । भ्रम- णरेचनस्यन्दनोर्ध्वञ्चलनतिर्यग्गमनादिकं गमनविशेष एवेति न तेषां पार्थक्यमिति सिद्धान्तः । उत्क्षेपणादेरपि गमनविशेषतया पृथग्भावाभावाद् गमनमेवैकं कर्मति स्वतन्त्राः । सामान्यं द्वि. विधं, जातिरुपाधिश्चेति। जातिरपि हिविधा, परापरभेदात् । तत्र सर्वजात्यपेक्षया अधिकदेशवृत्तिः परा । यथा सत्ता । सा हि द्रव्यत्वाद्यपेक्षयाधिकदेशवृत्तिः । द्रव्यत्वगुणत्वादिकं हि द्रव्य- गुणादिमात्रवृत्ति । सत्ता तु द्रव्यगुणकर्मसु त्रिप्वपि वर्तत इति सा परा। द्रव्यत्वादिकं तु अपरा जातिः, सत्तापेक्षया अल्पदे- शवृत्तित्वात् । उपाधिरपि दुघा, सखण्डोऽखण्डश्च । तत्र नाना- पदावटितधर्मः सखण्डः । यथा इन्द्रियत्यादयः । तदघटितो- खण्डः । यथा अभावत्वादयः । अन्त्यो नित्यद्रव्यवृत्तिविशेषः । नित्यद्रव्येषु पार्थिवादियु परमाणुपु विभुपु च गगनादिषु मनसि च व्यावर्तकः स्वस्मिन् व्यावर्तकधर्मान्तरशून्यः कश्चिद् धर्मो- ऽभ्युपेयः। अन्यथा तेषां परस्परल्यावृत्तेरसिद्ध रिति सिद्धान्तः । . १, ध्याग, पास १. मोडमा रा. ग. पार হােম अतिरिक्तविशेषाभ्युपगमे तेषां परस्परव्यावर्तकधर्मान्तराभ्युपगमे अनवस्थापत्तेः स्वत एव तस्य व्यावृत्तिर्वक्तव्या। तथाच नित्य- द्रव्याणामेव खतो व्यावृत्तिसम्भवादतिरिक्तविशेषाङ्गीकारो मुधे- ति नव्याः । नित्यः सम्बन्धः समवायः । स चावयवावयक्निो- र्गुणगुणिनोः क्रियाक्रियावतोर्जातिव्यच्योविशेषनित्यद्रव्ययोश्च सम्बन्धः । स च सर्वत्रैक एवेति प्राञ्चः । प्रतिद्रव्यं तत्तद्रव्य- समवेतानामेक इति नव्याः। संयोगवदयमप्यनित्य इति प्रामा- कराः । अभावो द्विविधः, संसर्गाभावोऽन्योन्याभावति । तत्र संसर्गाभावस्विविधः, प्रागभावप्रध्वंसाभावात्यन्ताभावभेदात् । संसर्गाभावत्वं चान्योन्याभावभिन्नाभावत्वम् । अन्योन्याभावत्वं च तादाल्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वम् । तत्र घटो भविष्यतीति प्रतीतिसाक्षिको विनाशी अभावः प्रागभाव इति प्राञ्चः । नास्त्येत्र प्रागभाव इति नव्या वेदान्तिनश्च । घटो न- श्यतीति प्रतीतिसाक्षिक उत्पत्तिमानभावः प्रध्वंसाभावः । वेदा- न्तिनस्तु सर्वकार्यस्य चरमक्षणसम्बन्ध एवं धंस इति प्राहुः । विस्तररतु मीमांसासाम्राज्ये गुरुचरणैः कृतस्तत्रैव द्रष्टव्यः । अनादिरनन्त इदमिह नास्तीति प्रतीतिसाक्षिकः संसर्गाभावो- ऽत्यन्ताभावः । इदमिदं नेति प्रतीतिसाक्षिकोऽन्योन्याभावः । अत्र हि तादात्म्यसम्बन्धः प्रतियोगितावच्छेदक इति व्यवह- रन्ति। तथाहि-- घटः पटो न भवतीति घटे पटतादात्म्यं प्र- सज्य पश्चात् पटो निपिध्यते । येने सम्बन्धेन प्रतियोगी निषि- १. 'स्य परस्परख्या' ग. पाठः, २. 'नच स' स. पाटा फाणादसिद्धान्तचन्द्रियायो * ध्यते, स सम्बन्धः प्रतियोगितावच्छेदकसम्बन्धः । अत एव भूतले घटो नास्तीत्यादौ संयोगसम्बन्धेन भूतले घटो. निषि. ध्यत इति भूतलवृत्तिघटात्यन्ताभावप्रतियोगितावच्छेदकसम्ब- न्धः संयोगः ॥ इत्युदेशग्रन्थ। अथ साधर्म्यवेधर्म्यप्रक्रिया। सप्तानामपि पदार्थानां साधर्म्य ज्ञानविषयत्ववस्तुत्वादि। द्रव्यादीनां पञ्चानां भावत्वे सत्यनेकत्वम् । समवायस्य भावत्वे- ऽपि नानेकत्वम् । अभावस्यानेकत्वेऽपि न भावत्वम् । सामा. न्यादीनां चतुर्णा जातिशून्यत्वम् । द्रव्यादीनां त्रयाणां सत्ता- वत्त्वजातिमत्त्वे । गुणादीनां पण्णां निर्गुणत्वं द्रव्यान्यत्वं च।स- मवायिकारणत्वं द्रव्याणाम् । गुणकर्मणोरेवासमवायिकारणत्वम् । ननु किमिदं कारणत्वम्। उच्यते । अन्यथासिद्धिशून्यत्वे सति नियतपूर्ववर्तित्वम् । यथा पटं प्रति तन्वादेः । नियतपूर्ववर्ति- त्वमा तत्पटव्यक्तिं प्रति रासभादेरप्यस्ति यद्यपि, तथापि त- स्यान्यथासिद्धत्वान्न तत्पटव्यक्तिं प्रति कारणत्वम् । अन्यथा- सिद्धिस्तु अवश्यकल्प्यनियतपूर्ववर्तिन एव कार्यसम्भवे तत्सह- भूतत्वम् । यथा पटं प्रति रासभादेः । पटान्तरेऽवश्यकल्प्यनि- यतपूर्ववर्तिताकैस्तन्वादिभिरेव पटव्यक्तेरपि सम्भवे रासभो न - १. 'यस्म स स पाट.
- साधेम्वधर्म्यप्रक्रिया। कारणमिति। तच्च कारणं विविध, समवायिकारणत्वासमवा- यिकारणत्वनिमित्तकारणत्वभेदात् । तत्र समवायन कार्याधार- त्वमाद्यम् । यथा पटे प्रति सन्तोः। तन्तौ हि पटः समवाय- सम्बन्धेन वर्तते, न बेमादिषु । अतो भवति पटं प्रति तन्तुः समवायिकारणम् । कार्यकार्थकारणैकार्थान्यतरप्रत्यासत्त्या कार्य- जनकत्वं द्वितीयम् । यथा पटं प्रति तन्तुसंयोगस्य । तस्य हि कार्येण पटेन सह एकस्मिस्तन्तुरूपेऽर्थे प्रत्यासत्तिर्विद्यते । अतः कार्यैकार्थप्रत्यासत्या पटजनकत्वात् पटं प्रत्यसमवायिकारणं त- न्तुसंयोगः । यथा वा पटरूपं प्रति तन्तुरूपस्य । तस्य पटरू पकारणेन पटेन सहकस्मिस्तन्तुरूपेऽर्थे प्रत्यासत्तिरस्ति । अत- स्तया प्रत्यासत्त्या पटरूपजनकत्वात् तन्तुरूपं पटगतरूपं प्रत्य- .समवायिकारणम् । एतदुभयभिन्नत्वे सति कारणत्वं निमित्त- त्वम् । यथा पटं प्रति तुरीवेमादेः । भावकार्य एवास्य त्रिविध-. कारणस्यापेक्षा । अभावस्य तु निमित्तमात्रापेक्षैव । तस्य क्वचि- दप्यसमवायेनाग्रहयासम्भवादिति प्राञ्चः । नव्यास्तु भावका- येऽपि न त्रिविधकारणापेक्षानियमः, कचिदसमचायिकारणाभावे- ऽपि. कार्योत्पत्तिसम्भवादित्याहुः । अणुपरिमाणभिन्नानां कारण- त्वम् । नवानामपि द्रव्याणां गुणाश्रयलम् । नित्यद्रव्यभिन्नानां वृत्तिमत्त्वम् । गगनादीनां पञ्चानां द्रव्यानारम्भकद्रव्यत्वं स्प- र्शशून्यद्रव्यत्वं च । प्रथिन्यादीनां चतुर्णा स्पर्शवत्वद्रव्यारम्भ- कत्ते । पृथिव्यादिगगनान्तानां भूतत्वम् । तच्च बहिरिन्द्रिय- १. क्षित्यादी' ख पाठ:.
६ काणादसिद्धान्तचन्द्रिकाया ग्राह्यविशेषगुणवत्त्वम् । रूपरसगन्धस्पर्शशब्दा हि पृथिव्या- दीनां विशेपगुणाः। ते च चक्षुरादिभिर्वहिरिन्द्रियैर्ग्रहीतुं योग्याः। गगनपरित्यागेन मनःसहितानामेपां मूर्तत्वक्रियावत्त्ववेगवत्त्वा- नि । मूर्तत्वं चापकृष्टपरिमाणवत्त्वम् । गगनादीनामात्मान्तानां सर्वमूर्तद्रव्यसंयोगित्वपरममहत्त्वे । आकाशात्मनोरव्याप्यवृत्ति विशेषगुणवत्त्वम् । आकाशस्य विशेषगुणः शब्दः। स च विभौ तस्मिन् न सर्वप्रदेशे जायते, भेरीमृदङ्गादिप्रदेशं विहायान्यना- नुपलम्भात् । एवमात्मन्यपि विभौ ज्ञानादिविशेषगुणो न सर्व- नोत्पद्यते, किन्तु शरीराद्यवच्छेदेनेति भवति ज्ञानादिरव्याप्य- वृत्तिः । दिकालमनसा विशेषगुणानाश्रयद्रव्यत्वम् । दिकालयोः सर्वोत्पत्तिमन्निमित्तद्रव्यत्वम् । पृथिवीजलयोर्गुरुत्वरसवत्त्वे । पृथिवीतेजसोर्नमित्तिकद्रवत्वम् । महीपवनयोरनुप्णाशीतस्पर्श- वत्त्वमित्यादि । केबलान्वयिधर्म विहाय यस्य यत् साधर्म्य, तत् तदितरस्य वैधर्म्यम् । केवलान्वयिधर्मस्य तु न वैधर्म्य', प्रप- ञ्चमात्रस्यापि प्रमेयत्वाद् वस्तुत्वाच्च । इति साधयंवैधय॑प्रक्रिया। . अथ द्रव्यनिरूपणम् । अथेदानी क्षित्यादीनि द्रव्याणि प्रत्येकं निरूप्यन्ते । तत्र गन्धवती पृथिवी । शुक्लनीललोहितहरितपीतादिभेदेन + पिरुद्धो धर्मो विधर्म,तस्य भाव इति विग्रहो बोध्य .
, द्रव्यनिरूपणे पृथिवीनिरूपणम् । नानारूपं पृथिव्यामेव । मधुरतिक्तकटुकपायाम्ललवणभेदेन प- विधो रसस्तस्यामेव । स्पर्शो ह्यस्यामनुष्णाशीतः । सर्वे. चैते रूपादयोऽरयां पाकजाः । सा च नित्यानित्यभेदाद् द्विविधा । नित्या परमाणुरूपा । न च तस्यां मानाभावः । यथा हि महत्परिमाणतारतम्यं गगनादौ विश्रान्त, तथा अणुपरिमाणता- रतम्यस्यापि कचिद् विश्रान्तिर्वक्तव्या । यन्त्र च विश्रमस्तस्या- नित्यत्वे अनन्तावयवाग्व्धत्वाविशेषेण मेरुसर्पपयोस्तुल्यपरिमा- णत्वप्रसङ्गाद् नित्यत्वं वाच्यम् । स एव परमाणुः । न च जाल- मार्गप्रविष्टसौरालोकान्तरुपलभ्यमाने त्रुटिशब्दिते रजस्येव वि- श्रमोऽस्त्विति वाच्यम् । यत्र ह्यणुपरिमाणतारतम्यं विश्रान्तं, तन्नित्यमित्युक्तम् । न च त्रुटेनित्यत्वं सम्भवति । स हि चक्षुषा गृह्यते । अतो घटादिवच्चाक्षुपद्रव्यत्वादयमपि सावयवः। एवं त्रु- टेःसावयवत्वे सिद्धे तदवयवानां ध्यणुकसंज्ञानां कपालवन्महदार- म्भकत्वेन सावयवत्वम् । तदवयवास्तु न सावयवाः, मानाभा- बाद् अनवस्थापनेश्चेति न्यायवैशेषिकवृद्धाः । नवीनाः पुन- स्त्रुटेरेव नित्यतां स्वीकृत्य परमाणु प्रत्याचख्युः । अनित्या च ह्यणुकादिरूपा पृथिवी । सैवावयवसमवेतेत्युच्यते । ननु अव- यघातिरिक्तऽवयविनि किं प्रमाणं, घटादिव्यवहारस्य परमाणुपु- जैरेवोपपवेरिति चेद्, न । तेषां बहुत्वेन महत्त्वाभावेन च एको महान् घट इत्यादिव्यवहारानापत्तरिति संक्षेपः । अनित्यापि १. "था म' ग. पाठः * अस्यामेवेत्यर्थः । तेन पटादिगतपादीनामपाकजन्वेऽपि न क्षति. ] काणादसिद्धान्तचन्द्रिकायां त्रिविधा शरीरेन्द्रियविषयभेदात् । तत्र च,शरीरं योनिजायोनि- जभेदेन हिविधम्। योनिजं जरायुजाण्ड(जादिज)भेदेन द्विवि- धम् । तत्र जरायुजं मनुप्यादीनाम् । अण्डलं सरीसृपादीनाम् । अयोनिज स्वेदजोड्दिादिकम् । स्वेदजा मशकमत्कुणादयः । उद्भिदस्तगुल्मादयः । शरीरत्वं तु चेष्टावत्त्वे सत्यन्त्यावयवि- त्वम् । चेष्टावत्वमा हस्तादावधयवेऽतिप्रसक्तम् । अतो विशे- प्यदलम् । चेष्टा च हिताहितप्राप्तिपरिहारानुकूला किया, न तु स्पन्दमात्रम् । अतो नातिप्रसङ्गः । इन्द्रियं गन्धग्राहकं घ्राणम् । विपयो ड्यणुकादिमहापृथिव्यन्तः । उपभोगसाधनं विपय इत्यु- च्यते । यच्च कार्य यददृष्टाधीनं तत् तस्योपभोगं साक्षात् पर- म्परया वा साधयति । नहि बीजप्रयोजनाभ्यां विना कस्यचित् सम्भवोऽस्ति । शरीरेन्द्रिययोरेतदन्तःपातेऽपि पृथगुपदेशः शि- प्यत्रुहिवैशद्यार्थः । जलत्वजातिमजलम । तच्च शीतरपश्रियः । हस्तु तम्मिन्नेव । शुक्रमेव रूपम् । न च कालिन्दीजलादौ नीलरूपो- पलम्मादयुक्तमिदमिति वाच्यम् । पृथिव्या एव नीलरूपसमवा- यितया जले तदसंभवात् । तत्र नीलयत्त्वप्रततिराश्रयोपाधि- कत्वात् । अत एव कालिन्दीजलस्य वियति विक्षेप सति धर- लिमोपलभ्यते । मधुर एव रसस्तत्र । न च जले रस एव नोपल- भ्यते, प्रत्युत जम्बीरजलादावन्यरस एवोपलभ्यत इति वा- च्यम् । व्यञ्जकाममवधानदशायां तत्र रसानुपलम्भेऽपि आम- २ , ताप पाट . कारण ग पाठ, ६.' पाट.
द्रगनिरुपणे जन्लादिनिरुपणम् । लकीहरीतक्यादिभक्षणरूपव्यञ्जकसमवधाने तत्र मधुररसस्योप- लभ्यमानस्य प्रत्याख्यानायोगात् । जम्बीरनीरादौ रसान्तरोप- लम्भ 'आश्रयौपाधिकी. भ्रान्तिरेव । सांसिद्धिकद्रवत्वं चास्य गुणः । तच्च नित्यानित्यभेदाद् द्विविधम् । नित्यं परमाणुरूपम् अनित्यं कार्यरूपम् अवयवसमवेतं च । तदपि त्रिविधं शरीरे- न्द्रियविपयभेदात् । तत्र शरीरमयोनिजं वरुणलोके प्रसिद्धम् । इन्द्रियं रसनम् । हिमकरकादिपियः। तेजरत्वसामान्यवत् तेजः, उष्णस्पर्शाश्रयश्च । चन्द्रप्र- भादौ हिमादिनाभिभवात् तदग्रहः । शुक्लभास्वररूपाश्रयो हि ज्वलनः । मरतककिरणादौ पार्थिवरूपेणाभिभवात् श्वेतरूपा- ग्रहः । एवं सुवर्णेऽप्युपष्टम्भकपार्थिवरूपेणाभिभवात् तदग्रहः । अत एव न भास्वरत्वं तस्य रूपस्य । पृथिव्यामिव नैमित्तिक- द्रवत्वं तेजस्यपि, सुवर्णादिरूपे तेजसि अग्निसंयोगेन द्रवत्वो- पलम्भात् । न च सुवर्णस्य तैजसत्वे मानाभाव इति वाच्यम्। अत्यन्तानलसंयोगेऽपि तदीयद्वत्वस्योच्छेदादर्शनेन तस्य तेज- सत्वनिश्चयात् । पार्थिवद्रवत्वस्यात्यन्तानलसंयोगे उच्छेदोपल- म्भात् । जलवदेवास्यापि नित्यतादि । किन्त्विह तैजस शरीर- मादित्यलोके प्रसिद्धम् । नयनं तैजसमिन्द्रियम् । विपयो वह्नि- कनकादिः। . वायुवजातिमान् वायुः। स चापाकजानुष्णाशीतस्पर्श.. 1. 'यो काम, पाठ... २. 'दी च हि' र. पाठ.. ३."दिर, ग, पाठः.
१ M । फाणादसिद्धान्तचन्द्रिकाया वानप्रत्यक्षश्च । वियति विक्षिप्ताना तृणादीनां धारणेने शाखा- दीना कम्पनेन चानुमीयते । अयं प्रत्यक्षश्चेत्यग्रे वक्ष्यते । पूर्व- वदेवास्य नित्यतादि । वायवीयं शरीरं पिशाचादीनां प्रसि- छम् । त्वगिन्द्रियं वायवीयम् । प्राणादिपियः। शब्दाश्रय आकाशः। स चैको विभुनित्यश्च । एकम- प्याकाशं कर्णशप्फुल्यवच्छेदाच्छोत्रसंज्ञां लभते । तदेवे शब्द- ग्राहकम्। सर्वोत्पत्तिमन्निमित्तं जगदाधारश्च कालः | 'इदानी घट' इत्यादिमत्ययो हि कालस्य घटाधारतामवगाहते । कालकृतपर- त्वापरत्वयोरसमवायिकारणसंयोगाश्रयतया च तस्य सिद्धिः। स चैको विभुनित्यश्च । एकोऽप्ययमुपाधिवशात् क्षणादिव्यवहा- रहेतुः । उपाधिश्च गुणप्रागभावविशिष्टो घटः, पटप्रागभावाव- च्छिन्नान्यतन्तुसंयोगो वा, स्वकार्यविशिष्टसामग्री का। पातञ्जला- स्तु कालोऽवयवी क्षणलवाद्यवयवक्रमेण जन्यत इत्याहुः । अत्र च सहयादयो विभागान्ताः पञ्चैव गुणाः । घटतत्मागभावध्वंसै- र्भवतभविष्यत्कालादिव्यवहाराः । घटसत्तोपलक्षितः कालो हि भवन, वर्तमान इत्यर्थः । तत्रागभावोपलक्षितसमयो भूतः । तइंसोपलक्षितो भविष्यन्निति । दिकृत्तपरत्वापरत्वासमवायिकारणसंयोगाश्रयो दिक् पूर्वादि- प्रत्ययनिमित्तं च । 'अयं पूर्वः' 'अयमपर' इत्यादिप्रत्ययो हि 1.स. पाठ २. चचा ग, पाट द्रव्यनिरूपणे आत्मनिरूपणम् । घटादेरुदयाचलास्ताचलसंयोगवैशिष्ठ्यं विषयीकरोति । नचो- दयाचलादिसंयोगः साक्षात्सम्बन्धेन घटादौ विद्यते, किन्तु स्वसमवायिसंयुक्तसंयोगरूपपरम्परासम्बन्धेनेति सम्बन्धघटक. तया भवति दिग् निमित्तमुक्तप्रत्यये। पूर्ववदियमपि विम्वी नित्यै- का चोपाधिवशात् प्राच्यादिव्यपदेशभेदं लभते । उपाधियोद- याचलसंयोगादिरेव । उदयाचलसंनिहिता दिक् प्राची । अरता- चलसन्निहिता दिक् प्रतीची । सुमेरुसन्निहिता दिगुदीची । त- ध्यवहिता त्ववाची । कालबदस्यामपि सङ्घयादयः पञ्चैव गुणाः । आकाशादयस्तिस्रः संज्ञा न जातिनिमित्ताः, आकाशत्वादीनां -- जातीनामभावात्। नित्यत्वे सत्यनेकसमवेता हि जातिरित्युच्यते। यथा पृथिवीत्वादि । न चाकाशत्वादिकं तथा, आकाशादेरेक- व्यक्तित्वेन तस्यानेकसमवेतत्वाभावादिति । दीधितिकृतस्तु दि- छालाकाशा नेश्वरादतिरिच्यन्ते, तद्व्यवहारस्य परमात्मनैवोपप- तेरिति प्राहुः । विस्तरस्तु पदार्थखण्डनादौ द्रष्टव्यः । आत्मत्वजातिमान् समवायेन ज्ञानाश्रयो वा आत्मा । स च द्विविधः जीवात्मपरमात्मभेदात् । तत्र जीवो बुद्धिसुखदुः- खेच्छादेपप्रयत्नधर्माधर्मभावनाख्यसंस्कारवान् शरीरन्द्रियादिव्य- तिरिक्तः अहमितिप्रतीतिविषयः कर्ता भोक्ता च प्रतिशरीरं सु- खादिवैचित्र्याद् भिन्नश्च । शरीरमेवात्मेति सौगताः, इन्द्रिया- णीति तदेकदेशिनः । क्षणिकमालयविज्ञानमात्मेति विज्ञानवा- दिनः । नित्यं विज्ञानमात्मेत्यौपनिपदाः। एतन्मतविवेकनिरास- प्रकारावात्मविवेकादिपु द्रष्टव्यो । वयं तु विस्तराद विभीमः ।
१२ }, काणादसिद्धान्तचन्द्रिकाया परमात्मा तु जगतः कर्ता । बुद्धीच्छाप्रयत्नास्मय एव विशेषा हीत प्रान्च । दीधितिकृतस्तु सुसमपि तत्राङ्गीचकः। स चैको जीव- विलक्षणः सर्वज्ञः, शरीररहितश्चेति संक्षेपः । मनस्वजातियोगि मनः । सुसादिसाक्षात्कारसाधनतया चः तस्य सिद्धिः । तत्सम्बन्धाद् वाद्येन्द्रियाणि ज्ञानं जनय- न्ति । तयाणुपरिमाणम् , एकदा सर्वेन्द्रियैर्ज्ञानाजननात् । अष्टा- वधानवतामवधानादौ अन्येषां दीर्घशप्कुलीभक्षणादौ च युगपत् सन्द्रियैज्ञीनदेर्शनाद् आकाशादिवद् वैभवं तस्यति मीमांसकाः। बेधान्तिनस्तु सर्वदा ज्ञानयोगपद्यायोगपद्ययोरदर्शनान तस्य वैभवमणुत्वं बा, 'किन्तु सङ्कोचविकासात्मकं मध्यमपरिमाण- मित्याहुरिति संक्षेपः॥ इति द्रव्यनिरूपणम् । A । अथ गुणनिरूपणम् । 15, 11 अञ्च गुणा निस्प्यन्ते । गुणत्वजातिमन्तो गुणाः द्रव्य. कर्मान्यत्वे सति सामान्यवन्तो वा । रूपरसगन्धरपर्शपरत्वापर- स्वगुरुत्वबलस्नेहवेगाना मूर्तगुणत्वं साधर्म्यम् । शब्दबुद्धिसु- सःखेन्छाउपप्रयत्नधर्माधर्मभावनानाममूर्तगुणत्वम् । सहया- परिमाणपृथक्त्वसयोगविभागानामुभयगुणत्वम् । धर्माधर्मगुरु- , 'नाद' 4 पार्ट in- و منه مما لے • विशेषगुमा इयर्थ । -- गुणनिरूपणे गुणसाधर्म्यनिरूपणम् । त्वभावनाव्यतिरिक्तानामिन्द्रियग्राह्यत्वम् । रूपरसगन्धस्पर्श- सङ्ख्यापरिमाणश्थक्त्वसंयोगविभागपरत्वापरत्वद्रवत्वस्नेहवेग- स्थितस्थापकानां बहिरिन्द्रियग्राह्यत्वम् । बुद्धिसुखदुःखेच्छाउपप्र- यत्नानामन्तरिन्द्रियग्राह्यत्वम्। रूपरसगन्धस्पर्शशब्दबुद्धिसुखदु:- खेच्छाइपप्रयत्नानामेकेन्द्रियग्राह्यत्वम् । सङ्ख्यापरिमाणपृथ- क्त्वसंयोगविभागपरत्वापरत्वद्वत्वसंस्काराणां वीन्द्रियग्राह्य- त्वम् । रूपरसगन्धस्पर्शबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभाव- नास्नेहसांसिद्धिकद्रवत्वशब्दानां विशेषगुणत्वम्। तच्च स्वाथय- । समानाधिकरणद्रव्यविभाजकधर्मात्यन्ताभावसमानाधिकरणगु- णावृत्तिगुणत्वव्याप्यजातिमत्त्वम् । यो जातिमादाय लक्ष्ये लक्ष- णसङ्गतिः, तत्परं लक्षणे स्वपदम् । तथाच स्वाश्रयसमानाधिक- णो यो द्रव्यविभाजको धर्मः, तदत्यन्ताभावसमानाधिकरणो यो गुणस्तदवृत्तिर्या गुणत्वव्याप्या जातिस्तहत्त्वम् । वर्तते चेद नीलरूपादौ । स्वं नीलत्वादि, तदानयो यो नीलादिः तद- धिकरणवृत्तियों द्रव्यविभाजकधर्मः पृथिवीत्वादिः तदत्यन्ताभा- वसमानाधिकरणो जलादौ वर्तते यो गुणः संयोगादिः, तदवृत्ति- यो गुणत्वव्याप्या जातिः नीलत्वादिरेव, तहत्त्वं नालादेरिति । संयोगादौ सामान्ये च न लक्षणसत्त्वम्। सं संयोगत्वं, तदा- श्रयसमानाधिकरणो यो द्रव्यविभाजको धर्मः पृथिवीत्वादिः, तद- सन्ताभावसमानाधिकरणो यो गुणः संयोगादिरेव, तद्वृत्तिरेव संयोगत्वादिः, न तवृत्तिरितीतरेषां सामान्यगुणवंम् । शब्द- १. व वर्तते स्यादी।ग. पाठ, * भावनान्यतिरिक्तसत्कारागामिसर्थ । T सयोगादिसामान्यगुणे इत्सर्थ.
१४ फाणादसिद्धान्तचन्द्रिकाया बुद्धिसुखदुःखेच्छापिप्रयत्नधर्माधर्मभावनासंयोगविभागानाम- व्याप्यवृत्तित्वम् । इतरेपां व्याप्यवृत्तित्वम् । इत्यादि गुणानां साधर्म्य द्रष्टव्यम् । तन्न रूपत्वजातिमद् रूपं चक्षुर्मात्रग्राह्यगुणो वा । शु- क्लनीलपीतहरितलोहितश्यामचित्रभेदेन सप्तविधं तत् । अव्या- प्यवृत्तिनानारूपैरेव चित्रव्यवहारस्योपपत्तेरतिरिक्तचित्रे माना- भावेन पविधमेव रूपमित्यन्ये । तच्च द्विविधं नित्यानित्यभे- दात् । तत्र पाथस्तेजःपरमाणुगतं नित्यम् । पार्थिवपरमाणुगतं कार्यद्रव्यगतं चानित्यम् । प्राभाकरास्तु नीलारुणादिव्यक्तय एकै- काः । न चैकनीलनाशे जगतो नीलशुन्यतापत्तिरिति वाच्यम्। नीलादेनित्यत्वाभ्युपगमेन नाशविरहादिति वदन्ति । तन्न । नीलो नष्टो रक्त उत्पन्न इत्यनुभववलेन नीलादेरुत्पादविनाश- शालितया नित्यत्वायोगात् । नीलादेस्तारतम्यस्यानुभूयमानतया एकत्वायोगाच्चेति सङ्क्षेपः । रसत्वजातिमान रसनेन्द्रियग्राह्यगुणो वा रसः । मधुरति- क्तकटुकपायाम्ललवणचित्रभेदेन सप्तविध इति संप्रदायः । परे तु अतिरिक्तचित्ररसे भानाभावः, चित्ररसप्रत्ययस्यावयबगतनानार- सैरेवोपपत्तेः। अवयविनो नीरसत्वेऽपि क्षतिविरहादित्याहुः । पूर्व- वदयमपि द्विविधः । जलपरमाणुगतो नित्यः । जन्यजले पृथि- व्यां च सर्वत्रानित्यः । अवयविरसे चावयवरसोऽसमवायि- कारणम् । 1 'यो'ख. पाठ.
गुणनिरूपणे पाकक्रिया। गन्धत्वजातिमान् घ्राणग्राह्यविशेषगुणो वा गन्धः । स च द्विविधः सुरभिरसुरभिश्चेति । सर्वो गन्धोऽनित्यः । अवयवि- गन्धेऽवयवगन्धोऽसमवायिकारणं च । स्पर्शत्वजातिमान त्वगिन्द्रियमात्रग्राह्यगुणो वा रपर्शः । स च त्रिविधः शीतोष्णानुप्णाशीतस्पर्शभेदात् । नित्यानित्यभेदेन द्विवि- धश्च । आप्यतैजसवायवीयपरमाणषु नित्यः । जन्यद्रव्ये पार्थि- वपरमाणैा चानित्यः । अवयविस्पर्शेऽवयवस्पर्शोऽसमवायी च । सर्वेऽप्येते चत्वारो द्रवत्वं च पृथिव्यां क्वचिदवयवरूपादितः, क- चिच्च पाकादुत्पद्यन्ते । केचिदाश्रयनाशात् , केचित् पाकाद् विन- श्यन्ति । न च पृथिवीपरमाणुगतानामेषामुत्पादविनाशयोर्मा- नाभाव इति वाच्यम् । नीलमधुरसुरभिकठिनादिवस्तूनां भस्मनि विपरीतरूपादय उपलभ्यन्ते । न च भस्मारम्भकपरमाणुपु ताह- शरूपादिकमन्तरेण भरमान ते भवितुमर्हन्ति । कारणगुणानां कार्यगुणारम्भकत्वादिति भस्मारम्भकपरमाणुभिस्तादृशरूपादि- मानिर्भवितव्यम् । त एव च परमाणवस्तादृशवस्तुनोऽप्यार- म्भकाः । अतिरिक्तकल्पने गौरवान्मानाभाशश्च । ते च यदि भ. स्मारम्भकालात् प्रागपि भस्मगतरूपादिजातीयरूपादिमन्तस्तदा तादृशैस्तैरारब्धे वस्तुन्यपि तादृशरूपादयो भवेयुः। इदानी वा यदि ते नीलादिमन्तस्तदा तहस्मन्यपि ताशरूपाद्युपलम्भा- पत्तिः। अतस्तादृशवस्तुनस्तेजःसंयोगे सति तदारम्भकपरमा- गुप्वपि तेजःसंयोगेन पूर्वरूपादिनाशेन तदा रूपान्तरोत्पादोऽङ्गी- १ 'यो च' स, पाठ,२ शेत' ग. पाउ.
धागादमिहान्तचन्द्रिकाया . - कर्तव्य इति । सिद्ध नित्यपृथिवीगतानां तेपामनित्यत्वमित्येषा दिक् । अथ पाकाद् रूपाद्युत्पत्तिः क, क बावयवरूपादित इति चेद्,अत्र सिद्धान्तानुयायिनः सत्यवयविनि पाकेन रूप. नाशो न संभवति , समवेतनाशं प्रत्याश्रयनाशस्य हेतुतया विना कारणं कार्योत्पत्तेरसंभवात् । अतः पाकेन व्यणुकाद्यन्त्यावय- विपर्यन्तमवयवनाशक्रमेण नश्यति । नष्टे च तस्मिन् केवलेपु परमाणुपु पाकतः श्यामनाशरूपान्तरोत्पत्ती संपद्येते । ततो य- णुकादिकमेण कार्यद्रव्यान्तराण्युत्पद्यन्ते । ततस्तेषु कारणगुण- क्रमेण रूपान्तरोत्पादः । इत्थं च पाकात् परमाणावेव पूर्वरूप- नाशस्पान्तरोत्पादाविति। नैयायिकाः पुनरेवमुपवर्णयन्ति- पाकेन ह्यणुकाद्यन्त्यावयविपर्यन्तं द्रव्यनाशद्रव्यान्तरोत्पादौ न युक्ती , गौरवान्मानाभावाच्च । न चाश्रयनाशस्य समवेतनाशहे- तुतया विना पूर्वद्रव्यनाशं पूर्वरूपनाशो न संभवतीति वाच्यम्। विनाप्याश्रयनाशं परमाणुरूपादिनाशेन उक्तकार्यकारणभावाभा- वात् । अपिच पूर्वद्रव्यनाशाङ्गीकारे श्यामघटादौ कृतानां रेखो- परेखादीनां पाकानन्तरमनुपलम्भापत्तिः। नचावयविनायष्टब्धे- प्ववयवेपु पाको न संभवतीति वाच्यम् । अवयविनः सच्छिद्र- तया सत्येवावयविनि वढेरन्तः प्रवेशसंभवात् । एवञ्च पाकेन परमाण्वाद्यन्त्यावयविपर्यन्तम् । एकदेव श्यामादिनाशः, अन- न्तरं परमाणावेव पाकजरूपोत्पादः ह्यणुकादौ तु कारणगुण- कमेण रूपान्तरोत्पाद इति। नवीनास्तु-युगपदेव परमाण्याध. न्त्यावयविपर्यन्तं रूपनाशवद् रूपान्तरोत्पादः, न तु कारणगु- गुणनिरूपणे सहयानिरूपणम् । णक्रमेणेति वदन्ति । अथ ह्मणुकनाशमवधीकृत्य कियद्भिः क्ष- गैzणुकान्तरं रूपादिमद् भवतीति शिप्यबुद्धिवेशद्याय प्रक्रिया प्रदर्श्यते । वह्निना नोदनादभिघाताद् वा परमाणुपु प्रथमं कर्म, ततं आरम्भकसंयोगप्रतिद्वन्द्वी विभागः, तत आरम्भकसंयोग- नाशः, ततो ह्यणुकनाशः परमाणोरुत्तरदेशसंयोगश्वेत्येक- क्षणः । ततः श्यामनाशपरमाणुक्रियानाशौ। अनन्तरं परमाणी रक्तरूपमदृष्टवदात्मसंयोगाद् द्रव्यारम्भानुकूलक्रिया च । ततः कियया विभागः, विभागात् पूर्वदेशसंयोगनाशः, ततः परमा- गुहयसंयोगः, ततो घणुकोत्पादः, ततो रक्तोत्पाद इति । नव- क्षणादिप्रक्रियास्तु विस्तरभयान प्रदर्श्यन्ते । पुनरमी रूपादय- श्चत्वार उद्भूतानुभूतभेदेन द्विविधाः । तत्रोद्भूताः परमाणुह्यणु- कादिपु । अनुहूताः पुनः घ्राणादिप्विन्द्रियेपु, पवनानीतकुसु- मसलिलावयवेपु, तप्तवारिस्थदहनादिपु चेति प्राञ्चः । नवीना- स्तु-अनुहूतरूपादौ मानाभावः । न चैवं घाणादेन रूपादि- वापत्तिरिति वाच्यम् । इष्टापत्तरिति प्राहुरिति संक्षेपः । संख्यात्वजातिमान् गणनाव्यवहारासाधारणनिमित्तं वा : गुणः संख्या । सा चैकत्वादिपरार्धपर्यन्ता । तत्र नित्यगतमेक- त्वं नित्यम्।अनित्यगनमेकत्वमनिलं याबद्रव्यभावि आश्रयनाश- नाश्यं च अवयवगतमेकत्वमवयविगतैकत्वेऽसमयायिकारणमिति प्राञ्चः। नवीनास्तु-एकत्वस्यासमवायिकारणमेव नारित। तहि- लम्बेन तद्विलम्बाभावात् । नियतपूर्ववृत्तित्वमात्रेणावयवगतक- + १. 'महानु य पाठः.
काणादमिद्धान्त चन्द्रिकाया त्वस्य हेतुत्वे तहतपरिमाणादेरपि जनकत्यापत्तेः । न च सम- वेतकार्यमानेऽसमवायिकारणापेक्षानियमाद् अवयवगतैकलमस- मवायिकारणनिति वाच्यम् । तत्र हि कारणैकार्थप्रत्त्यासत्त्या कार्यजनकत्वादसमवायिकारणत्वं वाच्यम् । सा च प्रत्यासत्तिः परिमाणादेरप्यविगिटेति पूर्वदोपानिवारणात् । अनुगतानति- प्रसक्तस्यासमवायिकारणत्वस्याभावेन भावकार्यमानेऽसमयायि- कारणवत्वनियमे मानाभावाच । प्रागुक्तासमवायिकारणलक्ष- णस्य तन्तुतुरीसंयोगादेः पटासमवायिकारणत्वापत्त्या ज्ञानादेरि- च्छाधसमवायिकारणत्वास नचायुक्तत्वादिति। विरतरस्तु गुण- रहस्यादौ द्रष्टव्यः। हित्वादिपरार्धपर्यन्ता सङ्ख्या व्यासज्यवृत्तिर- नित्या चापेक्षावुद्धिजन्या तन्नाशनाच्या च हित्वाश्रयव्यक्तीनां प्रत्येकमेक(त्य)धुद्धिरयमेकोऽयमेक इत्या(द्या)कारापेक्षाबुद्धिः । इयं हित्वादी निमित्तकारणम् । प्रत्येकमेकत्वमसमवायिकारणम। प्रथममपेक्षाबुद्धिः, ततो द्वित्वोत्पत्तिः, अथ द्वित्वनिर्विकल्प- कं, ततो द्वित्वविशिष्टप्रत्यक्षं तदेवापेक्षात्रुद्धिनाशश्च, लतो द्वि- स्वनाश इति हित्वाद्युत्पत्तितन्नाशनमः । परमाणुहित्यादिकमी- चरापेक्षायुद्धया योगिनामपेक्षाबुद्ध्या चोत्पद्यत इति । दीधिति- कृतरतु-संख्या न गुणः, चतुर्विशतिर्गणाः पञ्च कर्माणीति गु- णादायपि तत्मतीतेः । न हि गुणादौ गुणः समस्ति, गुणादीनां निर्गुणत्वं साधर्म्यमित्यभिधानात् । अतः पदार्थान्तरमेव संख्ये- त्याहुरितिसंक्षेपः। त्या १ पाठ ..'पत' ग पाठ गुणानरूपणे परिमाणनिरूपणम् ।। परिमाणत्वजातियोगि मानव्यवहारासाधारणकारणं वा गुणः परिमाणम् । तच्चतुर्विधम् , अणुमहद्दीर्घहस्वभेदात् । सर्वे च तन्नित्यगतं नित्यमनित्यगतमनित्यम् । तस्मिश्च कचित् परिमाणं कचित् संख्या क्वचित् प्रचयो'ऽसमवायिकारणम् । तत्र व्यणुकादिपरिमाणमवयविपरिमाणेऽसमायिकारणम् । अवयव- गतं च तत् स्वापेक्षयोत्कृष्टं स्वसमानजातीयमवयविनि परि- माणमुत्पादयति । त्रुटिपरिमाणे ह्यणुकपरिमाणे च संख्या अ. समवायिकारणम् । न च तत्रापि स्वाधयवपरिमाणमेवासमवा- यिकारणमस्तु, किं संख्याहेतुल्वेनेति वाच्यम् । परिमाणस्य स्वस- मानजातीयोत्कृष्टपरिमाणजनकत्वस्वभावस्योक्ततया परमाणुप- रिमाणस्य जनकत्वे घणुकादेरणुतरत्वप्रसङ्गेनाणुतरारब्धव्यशु- कस्याणुतमत्वापत्त्या सरेणोरचाक्षुपत्वप्रसङ्गात् । अतः परमाणु- हित्वं घणुकपरिमाणे, घणुकबहुत्वं त्र्यणुकमहत्त्वे चासमवायि- कारणमिति प्राञ्चः । नवीनाः पुनरुत्नयन्ति ~~-ह्यणुकनिष्ठात्य. न्तापकृष्टाणुपरिमाणं प्रति परमाणुनिष्ठोत्कृष्टाणुपरिमाणस्य जन- कत्वं, व्यणुकनिष्ठापकृष्टमहत्त्वं प्रति व्यणुकपरिमाणस्यैव जनक- त्वं, न तु संख्यायाः, मानाभावात् । न च परमाण्वादिपरि- माणस्यापि जनकत्वे यणुकादेरणुतरत्वापत्तिरिति प्रागुक्तदोष इति वाच्यम्। परिमाणस्य स्वसमानजातीयोत्कृष्टपरिमाणजनक- वस्वभावनियमे मानाभावेनोक्तदोषानवकाशात् । न चाणुपरि- . 1. 'विप' ख पाठ. २ 'त्यादिना' स पाट. प्रचयस्तूलादिगत शिपिलास्यः संयोग ।
२० काणादसिद्धान्तचन्द्रिकायां माणस्यापि कारणत्वे अणुपरिमाणभिन्नानां कारणत्वमिति सिद्धा- न्तविरोध इति वाच्यम् । तत्राणुपरिमाणशब्देन मनोगताणुपरिमा- णस्यैव ग्रहणादिति वदन्ति । प्रचयापरनाम्ना प्रशिथिलावयवस- योगेन तूलपिण्डादौ परिमाणमुत्पद्यते । अनित्यं च परिमाणं याबद्दव्यभावि आश्रयनाशनाश्यं चेति । अयमस्मात् पृथगिति व्यवहारासाधारणकारणं पृथक्त्व- त्वजातिमान् वा गुणः पृथक्त्वम् । तच्चायमस्मात् पृथगित्येक- स्मिन् प्रतीयमानमेकपृथक्त्वम् । तच्च नित्येपु नित्यमनित्येप्य- नित्यमेकत्ववत् । इमावस्मात् पृथग इमे अस्मात् पृथगिति प्रती. यमानं द्विपृथक्त्वत्रिपृथक्त्वादिकम् । तच द्वित्वादिवदपेक्षा- बुद्धिजन्यं तन्नाशनाश्यं चेति न्यायवैशेपिकसम्प्रदायः। दीधि- तिकारादयतु- पृथक्त्वं न गुणः, अयमरमात् पृथगित्यादि. प्रतीतेरन्योन्याभाधेनैवोपपत्तरित्याहुः । संयोगत्वजातिमान् युतसिद्धयोः सम्बन्धो वा संयोगः। स द्विविधः कर्मजः संयोगजश्रोति । कर्मजोऽपि द्विविधः उभ- यकर्मजोऽन्यतरकर्मजश्चेति । तत्रायप्रथमो यथा सक्रिययोर्म- ल्लयोपयोर्वा संयोगः । आद्यद्वितीयस्तु घटाकाशसंयोगादिः। संयोगजसंयोगो हि कारणाकारणसंयोगात् कार्याकार्यसंयोगः । यथा हस्तपुस्तकसंयोगात् कायपुस्तकसंयोगः। ननु का पुनर्युत- सिद्धिरिति चेदन भाप्यकार:-पृथग्गतिमत्त्वं युताश्रयाश्रितत्वं गुणनिरूपणे सयोगनिरूपणम् । र युतसिद्धिरिति । परस्परसंयोगजनककर्मवत्त्वमाद्यस्यार्थः। हि- यस्य तु युते संयुक्त आश्रये आश्रित्तत्वमेकतरद्रव्यस्येत्यर्थः । पदेकतरसमवेतावृत्तिसंयोगजनको यः संयोगस्तदेकतरप्रतियो- गेकः, तत्समवेतत्वमन्यतरस्येति फलितोऽर्थः । ईदृशी युत- सिद्धिर्घटपटयोरस्ति । एकतरो घटः तत्समवेते न वर्तते यो घटप- टसंयोगः तज्जनको यो घटतन्तुसंयोगः तदति तन्तौ समवेतत्वं पटस्येति भवति घटपटयोयुतसिद्धिः । तन्तुपटयोश्च नेहशी युतसिद्धिः । तयोरेकतररतन्तुः तत्समयते पटादौ न वर्तते यः संयोगरतन्तुघटसंयोगः तज्जनको यरतन्तुप्रतियोगिककपालसं- योगः, तहति कपाले समवेतत्वाभावात् पटस्य । अत्रैकतरसम- वेतावृत्तीत्यस्यानुपादाने कपालद्वयसंयोगजनको यः कपाला- न्तरावयवप्रतियोगिकैकपालसंयोगः तहति कपाले समवेतत्वं घटस्येति कपालावयवघटयोयुतसिद्धयापत्तिः। अतस्तदुपात्तम् । कपालावयवकपालसंयोगस्य कपालावयवसमवेतवृत्तिकपालह- यसंयोगजनकत्वेन कपालावयवसमवेतावृत्तिसंयोगजनकत्वाभा- वाद् घटसमवेतावृत्तिकपालहयसंयोगजनककपालावयवप्रतियो- गिकसंयोगवति कपाले समवेतत्वेऽपि घटस्य न कपालेन युत- सिद्धिप्रसङ्गः। प्रथमैकतरशब्देन यस्य ग्रहणं द्वितीयैकतरश- ब्देन तस्यैव ग्रहणात् । तदेकतरप्रतियोगिकेत्सस्यानुपादाने कपा- लसमवेतावृत्तिः कपालपटसंयोगः तज्जनकस्तन्तुकपालसंयोग: तदधिकरणं कपालमपि तत्समवेतत्वस्य घटे सत्वाद् घटकपा- 3 तस्यैव द्वितीयकतरपदेन ' स पाट २. कम' स पाठ १.त'ख, पाठ, ४ करवस्या' ग पाठ कागादास द्वान्तचन्द्रिकाया लयोर्युतसियापत्तिः । अतस्तदुपादानम् । निरुक्तसंयोगजन- ककपालप्रतियोगिकसंयोगाश्रयश्च न कपालः । स्वप्रतियोगिक. संयोगस्य स्वस्मिन्नभावात्, किन्तु तन्तुरेव । तत्समवेतत्वं न घटस्येति नोक्तो दोपः । न चावयवावयविनोर्युतसिद्धयसंभवेऽपि परस्परसंयोगजनकगतिमत्त्वमित्याचा युतसिद्धिः कुतो ने संभ- बतीति वाच्यम् । कर्मणां ह्यभिसुखदेशसंयोगजनकत्वं स्वभावः । अभिमुखश्च कस्यचित् कर्मणः कश्चिद् देश इति अवयविरू- पश्च देशो नावयवकर्मणोऽभिमुख इत्यवयवक्रियाया न संयोग- जनकत्वम् । अवयवावयविनोर्निरुक्तयुतसिद्धेरभावान्न संयोगः सम्बन्ध इति। नवीनास्तु-शिरसि शरीरसंयुक्तः पाणिरिति अनु- भवबलादवयवकर्मणा अवयविनि संयोगजनने बाधकविरहाद- वयवावयविनोरपि संयोगमूरीकुर्वन्तीति संक्षेपः । विभागवजातिमान् विभक्त इति प्रत्ययासाधारणकार- णं वा विभागः सोऽपि संयोगवदुः द्विविधः कर्मजो विभागजथे- ति । तत्रायः संयोगवदेव द्विविधः । श्येनपर्वतविभागोऽन्यतरक- मंजः । मेषयोर्मल्लयोर्वा विभाग उभयकर्मजः । विभागजोऽपि द्विविधः कारणमात्रविभागजः कारणाकारणविभागजश्चेति । तत्र कारणमात्र विभागजो यथा--यन्त्र कपाले घटनाशानुक्- ला क्रिया तया क्रियया घटारम्भकसंयोगविरोधी कपालयवि- भागः तस्मात् कपालहयविभागात् कपालाकाशविभागः ततो 7 १. 'दि ग पाठ:. २. 'न भ' ख पाट. ३ त एवाक्यवि' म. पाद गुणनिरूपणे परवापरत्यनिरूपणम् । गगनकपालसंयोगनाशः ततः कपालस्योत्तरदेशसंयोगः ततः कपालकर्मणो नाश इति । ननु तया कपालक्रिययैव कुतो न कपालद्वयविभागवत् कपालाकाशविभागोऽपि जन्यत इति चेत्, शृणु। आरम्भकसंयोगप्रतिद्वन्द्विविभागजनककर्मणोऽनारम्भक- संयोगप्रतिद्वन्हिविभागाजनकत्वनियमात् । अन्यथा विकस- कमलमुकुलभङ्गापत्तेः । कमलदलकर्मणानारम्भकसंयोगप्रतिह- न्द्रिविभागजनकेन कमलारम्भकसंयोगप्रतिहन्हिविभागस्यापि जननसम्भवात् । विस्तरेण चैतत् कर्मनिरूपणावसरे निरूपयि- ' प्यते। कारणाकारणविभागजस्तु हस्तपुस्तकविभागात कायपु- स्तकविभागः । नवीनास्तु-विभक्त इति प्रत्ययस्य संयोगध्वंस- विषयत्वेनैवोपपत्तेविभागेगुण एवं नारतीत्याहुः । परापरव्यवहारासाधारणकारणे परत्वापरत्वे । ते च हि. विधे दिकृते कालकृते चेति । तत्र कालकृतपरत्यापरत्वे अनि- त्यगव्यगते । तयोश्च बहुतर(ल्पतर)तपनपरिस्पन्दान्तरितजन्म- त्वयुद्धी निमित्ते । परत्वोपरत्वाश्रयपिण्डस्य कालस्य च संयोगो- ऽसमवायिकारणम् । तदुत्पत्तिप्रकार श्वेत्थम् ---इन्द्रियसन्निकृष्टे स्थविरपिण्डे प्रथमम् अयमस्माद् बहुतरतपनपरिस्पन्दान्तरित- जन्मेति बुद्धिः, ततस्तस्मिन् परत्वोत्पत्तिः, ततः परत्वनिर्वि- कल्पकं, ततः परत्वविशिष्ट प्रत्यक्षमपेक्षाबुद्धिनाशश्च । ततोऽपेक्षा- चुद्धिनाशात् परत्वनाशः । एवं यस्मिन् यदपेक्षयाल्पतरतपनप- त क्म' स पाठः. २. 'गोगु'य पाठ. ३. साथ ए पाठः, " काणादसिद्धान्तचन्द्रिकाया रिस्पन्दान्तरितजन्मत्वबुद्धिः, तस्मिन्नपरत्वमुत्पद्यते । ततः पर- त्ववदेव तन्नाशादिकं बोध्यम् । देशिकपरत्वापरत्वयोस्तु बहुतर- संयोगान्तरितत्वाल्पतरसंयोगान्तरितत्वबुद्धी निमित्ते । दिक्पि- ण्डसंयोगोऽसमवायिकारणम् । तथाहि-इन्द्रियसन्निकृष्टे दूर- स्थपिण्डे अयमस्माद् बहुतरसंयोगान्तरित इति वुद्धा परत्वमुत्प- द्यते । निकटस्थपिण्डेऽल्पतरसंयोगान्तरितत्वबुधापरत्वमुत्पद्यते। ततः कालिकबदनयोर्नाश इति । इमे च कालिकपरत्वापरत्वविप- रीते, स्थविरेऽपि नेदीयसि दैशिकापरत्वस्य, यूनि दीयसि दैशिक- परत्वस्य च दर्शनात्। इमे च मूर्तमानसमवेते इति। नवीनास्तु- परत्वापरत्वे न गुणान्तरे, ज्येष्ठत्वकनिष्ठत्वाभ्यां कालिकपरत्वाप- रत्वव्यवहारस्य सन्निकृष्टविपकृष्टत्याभ्यां च दैशिकपरत्वापरत्व- व्यवहारस्योपपत्तेरित्याहुरिति दिक् । अर्थप्रकाशा बुद्धिः । सो च द्विविधा अनुभूतिः स्मृ- तिश्चेति । तत्र संस्कारासाधाणकारणकं ज्ञानं स्मृतिः । यथा पूर्वानुभूतेऽर्थे गङ्गादौ सा गङ्गा इत्यादिज्ञानम् । अत्र हि पूर्वा- नुभवः संस्कारद्वारा कारणम् । स्मृत्यन्यज्ञानमनुभूतिः। सा हि. विधा प्रत्यक्षानुमितिभेदात् । न चोपमितिशाब्दयोरसग्रह इति वाच्यम् । तयोरनुमितावन्तर्भावात् । यथा चैतत् तथा मूलन- न्थेषु सुव्यक्तम् । अस्माभिस्तु वालव्युत्पादनाय प्रवृत्तैर्दुरूहत्वा. न्न प्रदर्श्यते। नैयायिकास्तु-उपमितिशब्दयोः पार्थक्यादनुभृते- श्वातुर्विध्यमित्याहुः । तत्प्रदर्शनं चिन्तामण्यादिषु द्रष्टव्यम् । १. 'सा द्विग, पाठ गुणनिरूपणे प्रत्यक्षपण्डः । वयं तु न्यायमतमनुरुध्यैवानुभूतेश्चातुर्विध्यं प्रदर्शयामः । तत्र प्रत्यक्षं हिविधं नित्यानित्यभेदात् । तत्र नित्यप्रत्यक्षमैश्वरम् । अनिसं त्विन्द्रियजन्यम् । तत्र पड्डिधं चाक्षुपस्पार्शनादिभेदात् । तत्र चक्षुर्योग्यमुद्भतरूपं तदाश्रयद्रव्यं तद्गतसङ्ख्यापरिमाणपृथ- क्वसंयोगविभागपरत्वापरत्वस्नेहवत्वानि योग्यद्रव्यगता क्रिया तद्गता जातिः तद्गतः समवायश्च । वैशेषिकास्तु सम्बन्धम- सक्षे यावदाश्रयप्रत्यक्षस्य हेतुतया समवायाश्रयगगनादेप्रत्य- क्षतया यावदाश्रयप्रत्यक्षाभावात् समवायो न प्रत्यक्ष इत्याहुः । चाक्षुपप्रत्यक्षे चौद्भूतानभिभूतरूपालोकसंयोगो हेतुः। नातो- ऽन्धकारे घटादिचाक्षुपापत्तिः । निदाघोप्मण उद्धृतरूपाभावाद् न तत्संयोगेऽपि चाक्षुपम् । सुवर्णस्योद्भुतम्पयत्त्वेऽपि तद्रूप- स्याभिभूतत्वेन न तत्संयोगेऽपि चाक्षुपम् । उद्धृतरूपमपि तत्र हेतुः। अत एव तप्तवारिस्थदहनादेर्न चाक्षुपम् । स्पार्शनप्र- त्यक्षे उद्भूतरूपं तादृशरपर्शश्च हेतुः । निदाघोग्मण उद्भूतस्पर्श- वत्वेऽपि उद्धृतरूपाभावान्न स्पार्शनम् । एवं वायुरपि न स्पार्शन इति प्राचः। नव्यास्तु----स्पार्शनप्रत्यक्ष उद्धृतस्पर्श एव हेतुः, न तूहूतरूपमपि, गौरवान्मानाभावाच्च । किन्तु चाक्षुप- प्रत्यक्षे उद्भूतरूपं स्पार्शनेप्रत्यक्षे उद्भूतस्पर्शश्च हेतुः। न चैवम- ननुपलम् । इत्यादिति बदन्ति । प्रभाया. उद्धृतरूपवत्त्वेऽपि न स्पार्शनम् , उद्धृतरपर्शाभावात् । त्वचो योग्यम् उद्भूतस्पर्श तदाश्रयद्रव्यं रूपव्यतिरिक्ताश्चक्षुर्योग्या गुणाः योग्यद्रव्यगता , ‘य ज्ञानम् । । ग. पाठ, २. 'ने' ग, पाठ..
काणादसिद्धान्तचन्द्रिकाया क्रिया तद्ता जातिस्तथाविधः समवायश्च । महत्वसमानाधिक. रणोद्भूतो गन्धस्तद्गता जातिः समवायश्च प्राणयोग्यः । महत्त्व- समानाधिकरणोद्भूतो रसस्तद्गता जातिः समवायश्च ग्सनयोग्यः। शब्दस्तद्गता जातिः समवायश्च श्रवणयोग्यः । जीवात्मा तद्गतै- कलमहत्त्वे सविकल्पकबुद्धिः सुखदुःखेच्छापिप्रयत्नास्तता जातिः समवायश्च मनोयोग्याः । टीकाकृतस्तु तदेकत्वपरिमाणे न योग्ये इति वदन्ति । पविधेऽपि प्रत्यक्षे इन्द्रियं करणम् । ननु किन्नाम कर- णत्वम् । उच्यते । व्यापारवत्कारणं करणम् । यथा छिद्विकियां प्रति परशुः। तस्यच्छिदिक्रियायामुद्यमननिपतने व्यापारः । तज्जन्यस्तज्जन्यजनको हि व्यापारः। भवति घुद्यमनादिः पर- शुजन्यः परशुजन्यच्छिदिक्रियाया जनकश्च । इन्द्रियत्वं तु स्मृत्यजनकज्ञानजनकमनःसंयोगाश्रयत्वम् । अस्ति चेदं चक्षुरा- दौ । रमृत्यजनको ज्ञानजनको यो मनस्संयोगः इन्द्रियमनरसं- योगः, तदाश्रयत्वं चक्षुरादेरिति । अत्र स्मृत्यजनकेत्यस्यानुपा- दाने ज्ञानं प्रत्यात्ममनस्संयोगस्य कारणतया तादृशमनरसंयो- गाश्रयत्वमात्मनोऽपीति तत्रातिप्रसङ्गः स्यात् । अतस्तस्योपादा. नम् । आत्ममनस्संयोगस्य ज्ञानसामान्यकारणतया स्मृति प्र. त्यपि जनकत्वेन नोक्तदोपः। स्मृत्यजनकमनरसंयोगाश्रयत्व- 'प्र' ग पाठ. • मनोयोग्यानीति स्थान ।
s.1 २७ - . मित्येतावत्युच्यमाने स्मृत्यजनककालमनरसंयोगाश्रयत्वं काल- स्यापीति तनातिव्याप्तिः स्यात् । तत्परिहाराय ज्ञानजनकेति । कालमनरसंयोगस्य ज्ञानजनकत्वाभावान्नोक्तदोषः । स्मृत्यजन- को ज्ञानजनकः संयोगश्चक्षुर्घटसंयोगः, तदाश्रयो घटादिरपीति तत्रातिप्रसङ्गपरिहाराय मनःपदम् । तस्य चेन्द्रियस्य विप्रकृप्टार्थग्राहकत्वाभावात् सन्नि- कर्पोऽपि सहकारी । स च लौकिकालौकिकभेदेन द्विविधः । तत्र लौकिकसन्निकर्षः पोढा, संयोगः संयुक्तसमवायः संयु- क्तसमवेतसमवायः समवायः समवेतसमवायः विशेषणता चे- ति । तत्र द्रव्यग्रहे इन्द्रियसंयोगः सन्निकर्षः । द्रव्यसमवेतस्य गुणादेः प्रत्यक्षे संयुक्तसमवायः सन्निकर्पः, चक्षुस्संयुक्ते घटादौ गुणादेः समवायात् । द्रव्यसमवेतगुणादिसमवतजातिग्रहे संयु- क्तसमवेतसमवायः सन्निकर्षः, चक्षुरादिसंयुक्तघटादिसमवेतरूपा- दो रूपत्वादिजातीनां समवायात् । शब्दग्रहे समवायः सन्निकर्षः, श्रोत्रस्य गगनात्मकत्वेन तस्मिन् शब्दस्य समवायात् । शब्द- समवेतकत्वखत्वादिजातिग्रहे समवेतसमवायः सन्निकर्पः, श्रोत्र- समवेतककारादौ कत्वादीनां समवायात् । विशेषणतयाभावस्य ग्रहः । सा च नानाविधा । तथाहि---कचित् संयुक्तविशेपणता, यथा चक्षुरादिसंयुक्ते भूतलादौ घटाद्यभावप्रत्यक्षे । कचित् संयु- क्तसमवतविशेषणता, यथा चक्षुरादिसंयुक्तघटादिसमवेते रूपा- दौ रसत्वाद्यभावग्रहे । कचित् संयुक्तसमवेतसमवेतविशेषणता, यथा चक्षुरसंयुक्तघटादिसमवेतरूपादिसमवेतरूपत्वादी रसत्वा- .
फाणादसिद्धान्तवन्द्रिकाया धभावग्रहे । कचिद् विशेषणता, यथा श्रोत्रे शन्दाभावग्रहे । श्रोत्रस्य गगनात्मकत्वेन तस्मिन् शब्दाभावस्य विशेषणतया वृत्तेः । कचित् समवेतविशेषणता, (यथा) श्रोत्रसमवेते ककारादौ खत्वाधभावग्रह इत्यायूह्यम् । भूतलादौ घटादेरुपलम्भदशायां ध- टायभावाग्रहात् प्रतियोग्यनुपलम्भोऽपि सहकारी । अथैवं भूत-. लादी पिशाचाद्यभावोऽपि गृह्येत, भूतलादौ पिशाचादेः प्रति- योगिनोऽनुपलम्भादिति चंद्, उच्यते । न प्रतियोग्यनुपलब्धि- मानं हेतुः, किन्तु योग्यानुपलब्धिः । योग्या सहकारिसम्पन्ना अनुपलब्धियॊग्यानुपलब्धिः । अथ कः सहकारीति चेत्, शृणु । कचित् प्रतियोगियोग्यत्वम् । अत एव भूतलादौ पिशाचाद्य- भावो न प्रत्यक्षः। तत्प्रतियोगिनः पिशाचादेरयोग्यत्वात् । क- चिच्चाधिकरणयोग्यत्वम् । अत एव स्तम्भ पिशाचान्योन्याभावः प्रत्यक्ष इति मंक्षेपः । भाट्टास्तु-इन्द्रियाणां सम्बद्धार्थग्राहक- स्वादभावेन सममिन्द्रियस्यासन्निकर्पान्नेन्द्रियाणामभावग्रहे करण- स्वं, किन्तु योग्यानुपलब्धिः करणम् । अत एव सा प्रमाणान्तर- मित्याहुः । तन्न । अभावग्रहेऽपि सन्निकर्परयोक्ततया तत्रेन्द्रिय- स्य करणत्वसम्भवेनातिरिक्तप्रमाणकल्पने मानाभावाद्, अनुप- लब्धप्पाराभावेन करणत्वायोगाचेति । अलौकिकः सन्निकर्पस्त्रिविधः सामान्यलक्षणो ज्ञानलक्ष- णो योग(ज)लक्षणश्चेति । अत्र लक्षणशब्दः स्वरूपाची। तथाच सामान्य लक्षणं स्वरूपं यस्य स सामान्यसन्निकर्य इति लभ्यते । तन्द्रियसम्बद्धविशेष्यकज्ञानप्रकारीभूतं प्रत्यासत्तिः । तथाचे- ..
गुणनिरूपणे प्रत्यक्षखण्ड.. न्द्रियसंयुक्ते घटादावयं घट इत्यादिज्ञानम् । तत्र प्रकारो घट- स्वादि । तेन सन्निकर्षेण घटत्वाश्रययावहिशेप्यकं घट इत्याका- रकं प्रत्यक्षमुत्पद्यते । तत्र घटत्वाश्रययावद्यक्तिभिः समं चक्षुरादेः संयोगाद्यसम्भवेन ज्ञायमानं घटत्वादिसामान्यं तन्ज्ञानं वा प्र. त्यासत्तिः कल्प्यते । ज्ञानलक्षणो यथा- यत्र चन्दनखण्डादौ सौरभं संयुक्तसमवायेन गृहीतं पश्चाच्चन्दनखण्डे दृष्टे स्मृतं सौ- रमं चक्षुषा गृह्यते सुरभि चन्दननिति, तत्र चक्षुषा समं सौर- भस्य ज्ञानमेव सन्निकर्पः। योगजलक्षणो यथा-~योगिनामती- तानागतगोचरप्रत्यक्षं जायते । तत्र योगजधर्म एव सन्निकर्पः। तत्र साधकस्य चिन्तासहकारेण प्रत्यक्षम् । सिद्धस्य तु चिन्ता विनैव प्रत्यक्षमिति। मीमांसकास्तु--सामान्यादिप्रत्यासत्तिजन्य- ज्ञानानामनुमानादिनैवोपपत्तेः अलौकिकसन्निकर्ष एवं नास्तीत्या- हुरिति संक्षेपः । पुनश्चेदं जन्यप्रत्यक्षं प्रकारान्तरेण द्विविधं सवि- कल्पकनिर्विकल्पकभेदात् । तत्र निष्प्रकारकं प्रत्यक्षं निर्विकल्प- कम् । तथाहि जागरादौ प्रथमम अयं घट इत्यादि घटत्वादिवि- शिष्टघटादिप्रसक्षमुपजायते । न च तद् विशेषणीभूतपटवादि. ज्ञानं विना सम्भवति, दण्डादिज्ञानं विना दण्डविशिष्टप्रत्यक्षा- दर्शनात् । अतो विशेणीभूतघटत्यादिज्ञानमङ्गीकर्तव्यम् । तच्च निष्पकारकम् । तस्यापि विशिष्टज्ञानत्वे विशेषणज्ञानाधीनत्वेना- नवस्थापत्तेरिति संक्षेपः । तत्पश्चाज्जायमानम् अयं घट इत्या- दि सप्रकारकं प्रत्यक्ष सविकल्पकम् । अत्र हि ज्ञाने घटत्वादिक प्रकारतया भासते, घटो विशेप्यतया, घटत्वसमवायः संसर्गवि- धया। प्रकारतादयस्तिस्रोऽपि विषयताविशेषरूपाः । विषयताच .
काणादसिद्धान्त चन्द्रिकायां स्वरूपसम्बन्धविशेष इति प्राञ्चः। नव्योस्तु विषयताप्रकारतादिः पदार्थान्तरमेवेति वदन्ति । विस्तरभीतेरुपरम्यते । इति प्रत्यक्षखण्डः। अधानुमानखण्डः। अथानुमितिनिरूप्यते । अनुमितित्वजातिमद् ज्ञानमनु- मितिः। अनुमितित्वं च पर्वते बहिमनुमिनोमीत्यनुभवसिद्धा जातिः। तस्यां च ज्ञायमानं लिङ्गं करणमिति प्राञ्चः । नव्योस्तु लिङ्गज्ञानं करणमिति प्राहुः । एतदेवानुमितिकरणत्वादनुमान- मिति गीयते। परामर्शश्वास्य व्यापारः। किं पुनर्लिङ्गम् , उच्यते। व्याप्त्याश्रयो लिङ्गम् । यो ययाप्याश्रयः, स तस्य लिङ्गम् । भवति हि धूमो वह्निव्याप्त्याश्रयः । ततो धूमो बहेलिङ्गम् । इदमेव हेतुमाधनादिशब्दैर्व्यवहियते । यस्य लिङ्गमित्युच्यते, तत् साध्यादिशब्दरभिधीयते। का पुनर्व्याप्तिरिति चेद, नियत- साध्यसामानाधिकरण्यमिति गृहाण । यस्य येन सह नियतसा. मानाधिकरण्यं विद्यते, स तस्य व्याप्यः । धूमस्य हि वह्निना समं नियमेन सामानाधिकरण्यमस्ति, धूमाधिकरणे सर्वत्राग्नेः सत्त्वात् । अती भवति धूमो वह्राप्यः । बढेस्तु न धूमेन समं नियतसामानाधिकरण्यमस्ति, वह्नयधिकरणे सर्वत्र धूमा- भावाद्, अयोगोलकादौ तथादर्शनात् । अतो न वद्विधूम- व्याप्यः। यातिविशिष्टस्य पक्षवृत्तित्वज्ञानं परामर्शः। तच , वीनास्लु'पाट "धानास्तु' ग पठ . गुणनिरपणे अनुमानखण्डः । वहिव्याप्यो धूमः पर्वते इत्याकारं वहिव्याप्यधूमयान पर्वत इत्या- कारकं वा। इदमेव तृतीयलिङ्गपरामर्शशब्देन व्यवहरन्ति। ननु कथमस्य ज्ञानस्य तृतीयत्वम्, उच्यते । प्रथमं तावन्महानसादी धूमाग्न्योः सहचारज्ञाने व्यभिचारज्ञानविरहदशायां धूमलवह्नि- त्वसामान्यलक्षणप्रत्यासत्त्या सकलधूमवदयुपस्थिती यत्र यत्र धू- मस्तत्र तत्र वैह्रिरिति प्रागुक्तसामानाधिकरण्यरूपव्याप्तिज्ञानमुप- जायते। ततः कालान्तरे पर्वतसमीपं गतस्य पुंसः पर्वतवर्तिनी धू- मव्यक्तिं पश्यतः प्राङ् महानसादौ गृहीताया व्याप्ते(मदर्शनोहु- संस्कारवशात् स्मरणं धूमो वह्निव्याप्य इत्याकारकं जन्यते। तेत्र धूमो वहिव्याप्य इति ज्ञानं प्रथम, धूमयान् पर्वत इति ज्ञानं द्वि- तीय, वद्विव्याप्यधूमवान् पर्वत इति ज्ञानं तृतीयं, ततः पर्वतो यतिमानिति ज्ञानमुत्पद्यते । तदेवानुमितिः। ननु व्याप्यस्य पक्ष- त्तित्वज्ञानं परामर्श इत्युक्तम् । तत्र कः पुनः पक्ष इति चेद, उच्यते। पक्षताश्रयःपक्षः। पक्षता च सिपाधयिपाविरहविशिष्टसिद्यभावः। साधयितुमिच्छा सिपाधयिपा, तद्विरहविशिष्टा या सिद्धिः साध्य- निश्चयः, स यत्र नारित स पक्षः । यथा धूमेन पह्नयनुमितौ पर्वतः। तंत्र हि साध्यस्य वह्ननिश्चयो नास्ति । अत एवं यत्राधिकरणे महानसादी व्याप्तिग्रहस्तत्र नानुमितिः, वह्नस्तत्र निश्पाद, निषितेऽऽनुमानानुदयात् । अत एव लाडशो महा- नसादिः सपक्ष इति भण्यते । न चैवं सिद्धभावमात्रं पक्षतास्तु, कि विशिष्टान्तेन सिद्धिविशेषणेनेति वाच्यम् । यदा महानसादौ , 1. समितिस. पा. २. ''ग, पाठ: ३. ''स, पा.
काणादसिद्धान्तचन्द्रिकाया वह्निमनुमिनुयामितीच्छा, तदा तत्र वह्नयनुमितेरुदयाद् महानसा- देः पक्षता न स्यात्। अतो विशिष्टान्त सिद्धिविशेपणम्। तथाच तत्र सिपाधयियाविशिष्टंव सिद्विरस्ति , न तु सिपाधयिपाविर- हविशिष्टसिद्धिरिति निरुक्तसिचभावसत्वात पक्षतोपपत्तिरिति संक्षेपः। तच्चानुमानं त्रिविधं केवलान्वयिकेवलव्यतिरेक्यन्वय- व्यतिरेकिभेदात् । तत्रासद्विपक्षः केवलान्वयी, यथा घटोऽभि- धेयः प्रमेयत्वादिति । अत्र प्रमेयत्वं हेतुः। अभिधेयत्वं साध्यम् । घटः पक्षः । अस्य हेतोविपक्षो नास्ति । निश्चित. साध्याभाववान् हि विपक्ष इत्युच्यते न चात्र साध्यस्या- भिधेयत्वम्याभावः कचिदस्ति, वस्तुमात्रस्यैवाभिधेयत्वात् । अतोऽत्र हतुसाध्यसहचारमात्रमात् पटादी सपक्षे व्याप्तिर्गृह्यत इति प्रमेयत्वरूपी हेतुः केवलान्वयी । मीमांसकास्तु-केवला- वय्यनुमानमेव नास्ति , घटोऽभिधेयः प्रमेयत्वादिति तदुदाह- रणे साध्यसाधनयोः केवलान्वयित्वग्रहे घटेऽपि साध्यनिश्चयेन पक्षताविरहादिति वदन्ति । असत्मपक्षः केवलव्यतिरेकी, यथा पृथिवी इतरेभ्यो भिद्यते गन्धवत्वादित्यादि। अत्रेतर- भेदरूपसाध्यग्य पृथिवीमात्रवृत्तेरन्यत्रानिश्चयाद् हेतुसाध्ययो- व्याप्तिग्रहस्थलाभावात् सपक्षो नास्ति । अतोऽत्र साध्याभाव- हेवभावयोर्जलादौ विपक्षे सहचारग्रहाद् गन्धवत्त्वे इतरभेदव्या- प्तियते । न चैवमन्ययोः सहचारग्रहादन्यत्र व्याप्तिग्रहे धूमव- योःसहचारग्रहाद् घटपटयोरपि व्याप्तिग्रहप्रसङ्ग इति वाच्यम्। ..
गुणनिरूपणे अनुमानखण्ड । यदभावयोः सहचारग्रहस्तयोर्व्याप्तिर्गृह्यत इत्यनतिप्रसङ्गात् । सत्सपक्षविपक्षो हेतुरन्वयव्यतिरेकी । यथा पर्वतो वह्निमान् धूमवत्वादित्यादि । अत्र महानसादौ सपक्षे हेतुसाध्ययोः सह- चारग्रहाद् जलादौ विपक्षे साध्याभावहेत्वभावयोः सहचारग्रहाच व्यासिग्रहादन्वयव्यतिरेकी धूमादिति हेतुरिति संक्षेपः । पुनः प्रकारान्तरेण द्विविधमनुमानं स्वार्थ परार्थ चेति । यत्र स्वयमेव धूमाग्न्योाप्तिं गृहीत्वा पर्वतादौ धूमपरामर्शाद- मिमनुमिनोति, तत्र स्वार्थम् । यत्र स्वयं वह्निमनुमाय परं प्रति पञ्चावयवमनुमानवाक्यमभिधत्ते, तत्र परार्थम् । पञ्चावयवाश्च प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि । तत्र पक्षे साध्यवैशिष्टय- बोधजनकन्यायावयवत्वं प्रतिज्ञावं, यथा 'पर्वतो वह्निमानि ति। प्रतिज्ञान्वितखार्थबोधकन्यायावयवत्वं हेतुत्वं, यथा 'धूमादिति' अत्र ज्ञापकत्वं पञ्चम्यर्थः । तच्च प्रतिज्ञार्थे वह्नाइन्वेति । व्याप्ति- प्रतिपादकन्यायावयवत्वमुदाहरणत्वं, यथा 'यो यो धूमधान स सोऽभिमान यथा महानसमिति ! पक्षे हेतुबैशिष्टयबोधकन्याया- वयवत्वमुपनयत्वं, यथा 'तथाचायमिति।धूमवांश्चायमिति अस्य वाक्यस्यार्थः। तथाच पक्षे हेतुवैशिष्टयबोधजनकत्वादिदंवाक्यमु- पनय इत्युच्यते । उपनयसाकाङ्क्षवाक्यं निगमनं, यथा तस्मात् तथेति । अनेन 'वहिव्याप्यधूमवत्वाद् यहिमानि'त्यर्थ केनोप- नय आकाक्ष्यते, तस्मादिति तच्छब्देन प्रकृतपरामर्शिनोपन. यार्थस्य धूमवत्वस्य परामर्शात् । अत्र पञ्चरवपि लक्षणेषु न्या- . 5 "हिम' सपाट भाणादसिद्धान्तचन्द्रिकायां यावयवत्वपदम् उदासीनेषु प्रतिज्ञादिसमानाकारेषु वाक्येप्वति- प्रसङ्गवारणाय । एतहाक्यपञ्चकसमुदायो न्याय इति भण्यते । मीमांसकास्तु-प्रतिज्ञादय उदाहरणान्ता उदाहरणादयो निगम- नान्ता वात्रय एवावयवा इत्यूचुः । बौद्धास्तु-उदाहरणोपनयौ हावेवावयवौ स्वीकुर्वन्तीति संक्षेपः ॥ अथ हेत्वाभासा निरूप्यन्ते । ते च पञ्च सव्यभिचार- विरहासिद्धसत्पतिपक्षकालात्ययापदिष्टभेदात् । तत्र साधारणा- साधारणानुपसंहार्यन्यतमत्वं सव्यभिचारत्वम् । साधारणत्वं च साध्यात्यन्ताभाववदृत्तित्वं, यथा 'पर्वतोऽयं धृमवान् बढेरि'- त्यादि । अत्र वहिरूपो हेतुः साध्यात्यन्ताभाववत्ययोगोलके वर्तते । एतज्ज्ञाने सति नियतसामानाधिकरण्यरूपव्याप्तेर्ज्ञान प्रतिवध्यते । ततो व्याप्तिज्ञानरूपकारणाभावान्नानुमितिः । पक्षमात्रवृत्तित्वमसाधारणत्वं, यथा 'शब्दो नित्यः शब्दत्वाद्' इत्यादि । अत्र शब्दत्वं हेतुः सपक्षाद् गगनादेबिपक्षाद् घटादे. श्व व्यावृत्तः पक्षे शब्द एव वर्तते । अत्र च दृष्टान्ताभावाद- न्वयव्यातिज्ञानप्रतिवन्धः फलम् । सर्वपक्षः केवलान्वयिसाध्यकः केवलान्वयी हेतुरनुपसंहारी, यथा 'सर्वमभिधेयं प्रमेयत्वादि'- त्यादि । अत्र सर्वस्यापि पक्षतया साध्यसाधनयोर्व्याप्तिग्रहस्थ- लाभावाद् व्याप्तिग्रहो न भवति । साध्याभावव्याप्यो हेतुविरुद्धः, यथा 'गौरयमश्वत्वादि'. त्यादि । अत्र गोत्वाभावव्याप्यमश्वत्वमिति ज्ञाने सति गोत्वरू- पसाध्यानुमितिः प्रतिवध्यते । , गुणनिरूपणे अनुमानखण्ड। असिद्धिमानसिद्धः। असिद्धिश्चाश्रयासिद्धिस्वरूपासिद्धि- व्याप्यत्वासिद्धयन्यतमा । आश्रयासिद्धिस्तु पक्षे पक्षतावच्छेद- कस्याभावः, यथा 'मणिमयः पर्वतो वह्निमान् धूमवत्यादि'त्या- दि। अत्र पर्वते पक्षे पक्षतावच्छेदकस्य मणिमयत्वस्याभावनि- श्रये वहिव्याप्यधूमवान् मणिमयः पर्वत इति परामर्शप्रतिबन्धा- दनुमितिविरहः फलम् । पक्षे हेत्वभावः स्वरूपासिद्धिः, यथा 'अयोगोलकं वह्निमद् धूमादित्यादि । अत्र पक्षेऽयोगोलके धूमा- भावनिश्चये वहिव्याप्यधूमवदयोगोलकमिति परामर्शविरहेणानु- मित्यभावः फलम् । हेतुत्वेनाभिमते साध्यनिरूपितव्याप्त्यभावो व्याप्यत्वासिद्धिः, यथा 'पर्वतो धूमवान् वढेरि'त्यादि । अत्र वही धूमनिरूपितव्याप्त्यभावनिर्णये व्याप्तिज्ञानविरहादनुमितिप्रतिब- न्धः फलम् । एवं 'पर्वतो बद्विमान् नीलधूमवत्त्वादि'सादिप्रयोगे नीलधूमादिरपि व्याप्यत्वासिहः । ननु कथमयं व्याप्यत्वासिद्धः, धूममात्रस्य वहिव्याप्यत्वेन नीलधूमस्यापि वहिव्याप्यत्वादिति चेद, उच्यते । धूममात्रस्य वह्निव्याप्यत्वेऽपि तत्र नीलविशेप- णस्य व्यर्थतया व्यर्थविशेषणविशिष्टे व्याप्तिविरहेण नीलधूम- स्यापि व्याप्यत्वासिद्धत्वादिति सक्षेपः। सन् प्रतिपक्षी यस्य स सत्प्रतिपक्ष इत्युच्यते । प्रतिप- क्षश्च साध्यव्याप्यवत्तापरामर्शकालिकसाध्यामावव्याप्यवत्त्वपरा- मर्शविषयो हेतुः, यथा 'पर्वतो बद्विमान् धूमवत्त्वादियुक्ते 'स वयनारवान पापाणमयत्वादि'त्यादितदुदाहरणे पापाणमयत्वा- दिति हेतुः । अत्र च 'वद्विव्याप्यधूमवान् पर्वत' इति परामर्श- " काणादसिद्धान्तचन्द्रिकाया काले 'वह्नयभावच्याप्यपाषाणमयत्ववान् पर्वत' इति परामर्श सति परस्परानुमितिप्रतिबन्धो जायते । न च कथमनयोः परा- मर्शयोः परस्परानुमितिप्रतिबन्धकत्वमिति वाच्यम्।तदभावव्या- प्यवत्ताज्ञानं हि तत्तज्ञाने प्रतिबन्धकं, 'रजतत्वाभावव्याप्य- नीलपृष्ठत्वादिमानिति ज्ञाने सति 'रजतत्ववानिति ज्ञानानुद- यात् । तथाच वहिव्याप्यधूमवत्ताज्ञानेन “वह्नयभावबानित्यनु- मितिप्रतिबन्धः, 'वयभावव्याप्यपापाणमयत्ववान् पर्वत' इति परामर्शेन वयनुमितिप्रतिवन्धश्च क्रियते । अतोऽनयोः पराम- र्शयोः परस्परानुमितिप्रतिबन्धकतया परस्परानुमितिविरहः फ. लम् । रनकोशकारास्तु-वह्नितदभावव्याप्यवत्तापरामर्श सति वह्नितदभावोभयानुमितिः संशयरूपोत्पद्यते । तथाच सत्प्रतिपक्षे संशयाकारानुमितिजनकत्वमेव दूपकताबीजमित्याहुरिति संक्षेपः। पक्षे साध्याभावो वाधः, यथा गन्धप्रागभावविशिष्टो घटो गन्धवान् पृथिवीत्वादित्यादि । अत्र गन्धप्रागभावविशिष्टे घटे पक्षे साध्यस्य गन्धस्याभावनिश्चये गन्धानुमितिप्रतिबन्धो जायते । तदभाववत्ताज्ञानं हि तद्वत्ताज्ञाने प्रतिबन्धकं, भृत- लादौ घटाभाववत्ताज्ञाने सति घटवत्ताज्ञानानुदयात् । न च पक्षे घटे गन्धसत्वात् कथं बाघ इति वाच्यम्।पक्षतावच्छेदकविशिष्टे पक्षे हि साध्यानुमितिः । प्रकृते च गन्धप्रागभावस्य पक्षताव- च्छेदकतया तहिशिष्टे गन्धाभावात् । हेत्वाभासत्वं चानुमिति- तत्करणज्ञानान्यतरविरोधित्वं ज्ञानस्य यद्विपयकत्वेन, तद्वत्त्वम्। 3. 'त्यस पट:
गुणनिरूपणे अनुमानखण्ड । भवति हि साध्याभावव्याप्यविषयकत्वेन विरोधिपरामर्शस्यानु- मितिविरोधित्वात् सत्प्रतिपक्षे साध्याभावव्याप्यहेत्वादिकं दोपः। तद्वत्ता च धृमादेरेकज्ञानविषयत्वसंबन्धेन । एवं साध्याभावव- पक्षविषयत्वेन ज्ञानस्यानुमितिविरोधित्वात् साध्याभाववत्प- क्षादिकं वाधे दोपः। तहत्त्वं च हेतावस्तीति वाधसत्प्रतिपक्षयो- लक्षणसङ्गतिः । 'धूमवान् वरि'त्यादौ वढ्यादौ धूमव्यभिचार- ज्ञाने सत्यनुमितिकरणव्याप्तिज्ञानप्रतिबन्धाद् व्यभिचारादिदोपः। तहत्त्वं च वहावस्तीति तत्रापि लक्षणसमन्वयः। न च व्यभि. चारिणि हेतायुपाधिज्ञानेऽपि अनुमितिकरणच्याप्तिज्ञानप्रतिबन्धा- दुपाधेरपि हेत्वाभासत्वापत्तिरिति वाच्यम्।लक्षणे अनुमितितत्क- रणज्ञानान्यतरविरोधित्वनियम इति विवक्षितत्वात् । उपाधिज्ञा. नस्य च व्यभिचारज्ञानद्दारा व्याप्तिज्ञानविरोधित्वेन तस्मिन् सत्यपि व्यभिचारज्ञानविरहे व्याप्तिज्ञानप्रतिबन्धाभावेन विरोधि- त्वनियमाभावादिति दिक् । अथ कोऽयमुपाधिर्नाम, उच्यते । साध्यव्यापकः साध- नाव्यापकोऽयमुपाधिः, यथा 'धूमवान् वरि'त्यादौ आईन्धनम्। तद्धि साध्यस्य धूमस्य व्यापकं, 'यत्र यत्र धूमस्तत्र तत्रान्धन- मिति व्याप्तः । साधनस्य वढेरव्यापकं च, 'यत्र यत्र वद्विस्तत्र तत्राईन्धनमिति व्याप्तेरभावात् । अयोगोलकादौ वढेः सत्त्वे- ऽप्यादेंन्धनाभावात् । यथा वा 'सप्तसु मित्रातनयेपु श्यामेषु दृष्टेपु कश्चिद् गर्भस्थेऽपि मित्रातनये श्यामत्वं मित्रातनयत्वेना- कागादसिद्धान्तचन्द्रिकाया नुमिनोति ‘स श्यामो मित्रातनयत्वादिति । अत्र शाकपाकज- त्वमुपाधिः । अत्र यद्यपि 'यत्र यत्र न्यामत्वं तत्र तत्र शाकपा- कजत्वमिति नियमो नारित, घटादों श्यामत्वसत्वेऽपि शाक- पाकजवाभावात । तथापि मित्रातनयत्वविशिष्टश्यामत्वं यत्र, तत्र शाकपाकजत्वमिति नियमोऽस्त्येव । अत्त एवायं साधना- वच्छिन्नसाध्यव्यापक इति गीयते । एवं 'वायुः प्रत्यक्षः प्रमेय- लादित्यत्रोद्भूतरूपवत्वमुपाधिः । अत्र यद्यपि 'यत्र यत्र प्रत्यक्ष- त्वं तत्र तत्रोद्भूतरूपयत्वमिति नियमो नास्ति, आत्मादो व्य- भिचारात्, तथापि बहिदव्यत्वावच्छिन्नप्रत्यक्षलं यत्र घटादौ तत्रोद्भूतरूपवत्वमस्त्येव । अत एवायं पक्षधर्मावच्छिन्नसाध्य- व्यापक इति वदन्ति । ईशोपाधिज्ञाने सति हेतौ साध्यव्य- भिचारज्ञानमुपजायते । ततो व्याप्तिज्ञानविरह इत्येपा दिक् ॥ इत्यनुमानराण्ड । अधोपमानखण्डः) अथोपमितिः । गवयपदार्थमजानानो नागरिकः पुरुषः कुतश्चिदारण्यकपुरुषाद् गोसदृशो गवयशब्दवाच्य इति श्रुत्वा- रण्यं गतो गोसदृशं पिण्डं पश्यति 'अयं गोसदृश' इति । ततो गोसदृशो गवयपंदवाच्य' इत्यतिदेशवाक्याथै स्मरति । अनन्तरं तस्य 'अयमसौ गवयपदवान्य'इति ज्ञानं जायते। अत्र गोसादृश्य. १. शब्दार्थ' स. पाट २. 'शब्दया' ग पार गुणनिरूपणे शब्दखण्ड । विशिष्टपिण्डे गवयपवाच्यताज्ञानं यदुत्पद्यते, तदेवोपमितिः। अस्यां गोसादृश्यज्ञानं करणम् । एतदेवोपमितिकरणत्वादुपमा- नमिति बदन्ति । गोसदृशो गवयपदवाच्य' इत्यतिदेशवास्या- र्थस्मरणं व्यापार इति संक्षेपः॥ इत्युपमानरयण्ड । अथ शब्दसण्डः। . अथ शाब्दबोधो निरूप्यते । पदज्ञानं तत्र करणम् । पदजन्यपदार्थोपस्थितिवान्तरव्यापारः । गामानयेत्यादिशब्दाद् गोकर्मकमानयनं कार्यमिति यद् ज्ञानं जायते, तदेव फलम् | ननु किं पुनः पदम् । वृत्तिमत् पदम् । वृत्तिभ शक्तिलक्षणा- न्यतरः पदपदार्थयोः सम्बन्धः । अथ केयं शक्तिः । उच्यते । 'अस्माच्छन्दादयमों बोद्धव्य इत्याकारिकेश्वरेच्छे ति प्राञ्चः। नवीनास्तु-अतिरिक्तपदार्थ एव शक्तिरिति वदन्ति । नन्वेवं पामराणामर्थमविदुपामपि शब्दादर्थप्रत्ययः स्यादिति चेद्, न, तेषां पदधाविणामपि पदार्थोपस्थितिविरहेण वाक्यार्थबोधानु- त्पत्तः। पदार्थोपस्थितिविरह एव तेषां कुत इति चेत् , शक्तिग्रह- वैधुर्यादिति गृहाण । अथ कथं शक्तिग्रहः पदानाम् । उच्यते। 'घटमानयेति प्रयोजकवृद्धम्य वाक्यश्रवणानन्तरं प्रयोज्यवृद्धस्य घटानयनगोचरप्रवृत्तिं तदीयचेष्टयोपलभमानो व्युत्पित्सुर्वाल- स्तया प्रवृत्त्या तद्धेतुभूतं ज्ञानमनुमिनोति । अनन्तरं तस्य काणादसिद्धान्तचन्द्रिकाया ज्ञानस्य कारणमन्वेपमाणो बाक्यश्रवणात् प्रागजातत्वात् तस्मिन् सति जातत्वाचान्वयव्यतिरेकाभ्यां पदसमुदायरूपवाक्यस्य का. रणतामवधारयति । ततो घटादिपदानामावापोहापाभ्यां कम्यु- ग्रीवादिमच्छक्यविशेपे शक्ति कल्पयति । अयमेव व्यवहाराच्छ- क्तिग्रह इत्युच्यते । एवं गृहीतशक्तिकतत्समानार्थकपदान्तरेण तदर्थकथनं विवरणम् । ततोऽपि शक्तिग्रहः । यथा घटोऽस्ती- त्यस्य कलशोऽस्तीति विवरणेन घटपदशक्तिग्रहः । एवमन्येऽपि व्याकरणादयः शक्तिग्रहोपाया मूलग्रन्थेषु दृष्टच्याः। एवं श- त्यनुभवे जाते कालान्तरे घटादिपदंश्रवणेन शक्त्यनुभवजन्य- संस्कारोबोधेन शक्तिस्मरणात पदार्थोपस्थितिः। नन्वेवं देशान्त- रस्थितस्य काश्यां गौररित इति वाक्याद् बोधो न स्यात्, तस्याः प्रागनुपस्थितत्वेन तत्र शक्तिमहाभावादिति चेद्, उच्यते। व्यवहारादिना शक्तिग्रहबेलायां गोत्वादिसामान्यलक्षणप्रत्यासत्त्या उपस्थितसर्वगवीयु शक्तिग्रहेणोक्तदोपाभावात् । सा च शक्तिः पदानां जातिविशिष्टव्यक्ताविति प्राश्वः। नव्यास्तु-~-विशिष्टे न शक्तिः, गौरवात्, किन्तु व्यक्तिमात्र ।जातिरतु शक्यतावच्छेदि- केत्याहुः । मीमांसकारतु-व्यक्तौ न शक्तिः । तासामानन्सादन. न्तशक्तिकल्पनापतेः, किन्तु जातो, तस्या एकत्वात् । न चैवं पदाद् व्यक्तिबोधो न स्यादिति बान्यम् । जातिर्हि व्यक्ति विनानुपपन्नेत्यनुपपत्तिरूपाक्षेपाद् व्यक्तियोधमंभवादित्याहुरिति संक्षेपः। शक्तं पदं चतुर्विधं यौगिक रूढं योगरुढं यौगिकरूढं चेति यन्त्र - गुणनिरूपणे शब्दखण्ड । समुदायशक्ति विनावयवशत्या पदार्थोपस्थितिः तद् यौगिक, यथा पाचकादिपदम् । अत्र न प्रकृतिप्रत्ययसमुदायस्य कचिद् रढिरस्ति । किन्तु प्रकृतिप्रत्ययशक्तिभ्यां पाककर्तरुपस्थितिः । यत्राययवशक्तिनैरपेक्ष्येण समुदायशक्त्यैव पदार्थोपस्थितिः तद् रूदं, यथा गवादिपदम् । अत्र प्रकृतिप्रत्ययनरपेक्ष्येण समुदाय- शत्तया सास्त्रादिमद्यक्तिविशेपस्य गवादिपदादुपस्थितिः । यत्र तु समुदायावयवशक्तिभ्यामेकार्थोपस्थितिः तद् योगरुढं, यथा पत्र- जादिपदम् । अत्र ह्यवयवशच्या पङ्कजनिकर्तृत्वस्योपस्थितिः, समुदायशच्या च पदात्वस्य । अत्रावयवशक्तिमात्राभ्युपगमे पङ्क- जादिपदात् पङ्कजनिकर्तुमण्डूकादेरपि बोधप्रसङ्गः । समुदायश- क्तिमात्राभ्युपगमे पङ्कजनिकर्तृ पद्ममिति पङ्कजनिकर्तृत्वप्रकार- कबोधानुपपत्तिः । अतः शक्तिद्वयं पङ्कजादिपदेवभ्युपेयम् । यत्र योगेनान्यार्थस्य रूढ्या चान्यस्योपस्थिति. तद् यौगिकरूढं, यथोहिदादिपदम्। अत्र योगेनोविदारणकर्तुः सनित्राटे रूढया च यागविशेपस्योपस्थितिरिति संक्षेपः। ननु पदज्ञानस्य पदार्थोपस्थितिजनकत्वं कथमिति चेद, उच्यते । एकसम्बन्धिज्ञानमपरसम्बन्धिज्ञाने हेतुः । (यथा?) हस्तिनि दृष्टे हस्तिपकस्मरणदर्शनात् । प्रकृते च पदतदर्थयो- च्यवाचकभावरूपसम्बन्धवत्त्वेन एकसम्बन्धिनः पदस्य ज्ञाने सत्यपरसम्बन्धिनः पदार्थस्य स्मरणं भवतीति न किञ्चिदनुपप. नम् । लक्षणा तु शक्यसम्बन्धः, यथा गङ्गायां घोष इत्यादी : ४२ याणादसिद्धान्तचन्द्रिकायां गङ्गादिपदे । अत्र शक्यार्थस्य प्रवाहस्य घोपाधिकरणत्वं न स- म्भवतीति अनुपपत्तिज्ञाने सति गङ्गापदेन स्वशक्यार्थप्रवाहस- म्बन्धि तीरमुपस्थाप्यते । ततस्तीरे घोष इति वाक्यार्थबोध इत्येषा दिक् । अथ देवदत्तस्तण्डुलं पचतीत्यादौ किंविशेप्यकः किंग- कारको बोध इति चेत्, प्रथमान्तविशेष्यको बोध इति गृहाण । तथाहि-देवदत्तपदाद देवदत्तस्य, तण्डुलपदात् तण्डुलस्य, द्वि- तीयया कर्मत्वस्य, धातुनाधिश्रयणादेापारस्य, लकारेण कृतेः, एकवचनेनैकत्वादेश्वोपस्थितिः। अनन्तरं तण्डुलस्य द्वितीयार्थक- मत्वे आधाराधेयभावसम्बन्धेन, कर्मत्वस्य जनकत्वसंसर्गेण धा- त्वर्थे, तस्य जनकत्वसंसर्गेणाख्यातार्थकृती, तस्याथैकत्वस्य च समवायसम्बन्धेन देवदत्तेऽन्वयबोधः । तण्डुलवृत्तिविक्लित्तिजन- काधिश्रयणादिव्यापारानुकूलकृतिमान् देवदत्त एक इत्याकारको- ऽन्वयबोधो जायते । अन्वयबोध एव वाक्यार्थवाध इत्युच्यते । ननु क्रियाजन्यफलशालित्वं कर्मत्व, यथा तण्डुलं पचतीसादौ तण्डुले । अत्र पाकक्रियाजन्यफलं विक्लित्तिरवयवानां प्रशिथिल- संयोगः, तदाश्रयस्तण्डुल इति स कर्म । तथा चेदृशकर्मवस्य जनकतासंसर्गेण कथं धात्वर्थेऽन्वयः । उच्यते । क्रिया तावद् धातुना लभ्यते । जन्यत्वाश्रयत्वयोः संसर्गमर्यादया लाभः । अतः फलमनन्यलभ्यत्वाद हितीयार्थः । अतस्तस्य जनकतास- सर्गेण क्रियायामन्वयो युक्त एवं [ मीमांसकास्तु-आख्याता- र्थभावनागब्दितकृतिविशेष्यकरतण्डुलवृत्तिविक्लित्तिजनकपाका- नुकूला कृतिरेकदेवदत्ताश्रितेत्याकारको चोध इति वदन्ति ।
गुणनिरूपणे शब्दखण्डः। वैयाकरणास्तु-सत्यं कृतिविशेष्यको बोध इति । किन्तु कृतिरपि धात्वर्थ इति धात्वर्थविशेष्यक एव बोधः । न चैवमाख्यातार्थः के इति वाच्यम्। कर्तृकर्मभावानामेव यथायथमाख्यातार्थत्वात् । तस्मिंश्वाख्याता) कर्तादौ प्रथमान्तोपस्थाप्यस्य देवदत्तादेरभेदा- न्वयः। तथा च देवदत्ताभिन्नकर्तुकः पाकस्तण्डुलवृत्तिविक्लित्ति- जनक इति बोध इत्याहुः । देवदत्तेन तण्डुलाः पच्यन्त इत्यादिकमलकारेऽपि देव- दत्तादेः प्रातिपदिकार्थस्य तृतीयार्थकृती, तस्या जन्यतासम्बन्धेन पाके, तस्य चाख्यातार्थे फले जन्यत्वसंसर्गेण तस्य चाधारता- संसर्गेण प्रथमान्तपदोपस्थाप्येपु तण्डुलेप्यन्वये देवदत्ताश्रित- कृति(जन्य)पाकजन्यविक्लित्तिशालिनस्तण्डुला इति बोधः । एवं मीमांसकादिमतेऽपि बोधप्रकारः प्राग्वदुन्नेयः । विस्तरस्त्वाख्यात- शिरोमण्यादौ द्रष्टव्य इत्येषा दिक् । नन्वेवं घटः कर्मस्वमानयनं कृतिरित्यादितोऽपि घटमा- नयतीत्यादित इव शाब्दबोधः कुतो न भवतीति चेद्, आकाङ्क्षा- निश्चयाभावादिति. गृहाण। अथ केयमाकाङ्क्षा । उच्यते। यत्प- दस्य यत्पदव्यतिरेकप्रयुक्तमन्वयवोधाजनकत्वं तत्पदं तत्पदेन साकाङ्क्षम् । यथा क्रियापदं कारकपदाभावे नान्वययोधं जन- यति, तथा कारकपदमपि क्रियापदव्यतिरेके । अतस्तयोः परस्प- रमाकाङ्क्षा । एवं प्रातिपदिकं विभक्तिव्यतिरेकेण नान्वय- काणादसिद्धान्तचन्द्रिकाया वोधकं, तथा धातुपदमाख्यातव्यतिरेकेण । अतस्तयोईयोः परस्परसाकाङ्क्षत्वम् । एवञ्च घटः कर्मत्वमित्यादौ घटपदो- त्तरं द्वितीयादिसमभिव्याहारस्य धातूत्तरमाख्यातसमभिव्याहारस्य चाभावेनाकाङ्क्षाविरहान्नान्वयबोध इति । नन्वेवमपि वह्निना सिञ्चतीत्यादितोऽपि वाक्यार्थबोधप्रसङ्गः, आकाङ्क्षानिश्चयस- चादिति चेद्, न । योग्यताज्ञानस्यापि तत्र कारणतया तन्त्र तदभावेनोक्तदोषाभावात् । योग्यता चैकपदार्थेऽपरपदार्थसम्ब- न्धः। यथा-घटमानयेत्यादौ घटपदार्थे द्वितीयाविभक्त्यर्थकर्म. त्वस्याधाराधेयभावरूपान्वयवत्त्वाद् घटकर्मत्वयोराधाराधेयभाव- • लक्षणसंसर्गबोधः । न च वह्निना सिञ्चतीसादावुक्तरूपयोग्यता- स्ति, वह्निरूपपदार्थे सेककरणत्वरूपतृतीयार्थसम्बन्धाभावादिति संक्षेपः। : पदजन्यपदार्थोपस्थितिरासत्तिः । अत एव प्रत्यक्षोपस्थित कलायादिकमादाय न शाब्दबोधः । सा च शाब्दयोधे कारणम् । नन्विदमसङ्गतं, पदज्ञानात् पदार्थोपस्थितेरसम्भवात् । तथा- हि-वर्णास्तावदनित्या इत्यग्रे व्यवस्थापयिप्यते । क्रमिकवर्ण- समुदायश्च पदम् । ततश्चोत्तरोत्तरवर्णैः पूर्वपूर्ववर्णानां विनाशेन एकदा वर्णसमुदायरूपपदस्याभावेन तद्रणं न सम्भवति । इत्थञ्च पदज्ञानरूपकारणविरहे कथं पदार्थोपस्थितिरिति चेद्, उच्यते । पूर्वपूर्ववर्णानुभवजन्यसंस्कारसहकृतेन श्रोनेन्द्रियेणा- ५. 'यो प' ग. पाठ... 'ध' स. पाट.
गुणनिरूपणे अर्थापत्तिनिराकरणम् । न्यवर्णाशे लौकिकस्य पूर्ववर्णांशेऽलौकिकस्य पदप्रत्यक्षस्य स- म्भवेन पदार्थोपस्थितेः सम्भवादिति संक्षेपः । नानार्थसैन्धवादिपदप्रयोगेऽर्थविशेषतात्पर्यनिश्चयविरहे वाक्यार्थबोधानुदयात् तात्पर्यनिश्चयोऽपि तत्र कारणम् । तात्पर्य च तत्प्रतीतीच्छयोच्चारितत्वम् । इदं च प्रकरणादिना निीयते । एवञ्च सैन्धवमानयेत्यादौ भोजनप्रकरणनिर्णये सैन्धवादिपदस्य लवणादितात्पर्यनिश्चये लवणान्वयबोधः, गमनप्रकरणनिर्णये तुरगादिपरत्वनिश्चये तुरगान्वयबोधः । अत एव नानार्थस्थले तात्पर्यनिर्वाहार्थमीश्वरः कल्प्यते । सर्गाद्यकाले तदन्यस्य वक्त- रसंभवात् । न च प्रलये मानाभावेन सर्गाभावेऽ(वा?)विच्छिन्ना- ध्यापकपरम्परामादायैव तात्पर्यनिर्वाहसंभवात् किमीश्वरेणेति वाच्यम्।प्रलयस्यागमप्रतिपाद्यत्वेन सर्गादावध्यापकासंभवनेश्व- रस्यैव वक्तव्यत्वादिति संक्षेपः॥ इति शब्दपण्ड। - एवमनुभवस्य चतुर्विधतया तत्करणानामपि चानुर्विध्या- शत्वारि प्रमाणानि । तथा च भगवानक्षपादः. प्रत्यक्षानुमा- नोपमानशब्दाः प्रमाणानीति । नन्विदमनुपपन्नम्, अर्थापत्तर- प्यतिरिक्तममाणस्य सहावात् । तथाहि-शतवर्षजीवी देवदत्त २ १. 'दाग, पाठ २ भास.ट.
है ३ फाणादसिद्धान्त पन्द्रिकायां इति ज्योतिःशास्त्रात् शतवर्षजीवित्वनिश्चयेऽनन्तरं देवदत्तस्य गृहेऽभावनिश्चये गृहासतो देवदत्तस्य शतवर्पजीवित्वं वहिःसत्त्वं विनानुपपन्नमित्यनुपपचिज्ञाने सति वहिःसत्त्वज्ञानं जायते । अत्र वहिःसत्त्वज्ञानस्य प्रत्यक्षादिप्रमाणैरसम्भवात् तज्जनकमनु- पपत्तिज्ञानमिति कल्प्यते । तदेव चार्थापत्तिरिति चेद्, न । देवदत्तो बहिः सन् , शतवर्पजीवित्वे सति गृहासत्त्वाद्, यो न बहिः सन स न शतवर्पजीवित्वे सति गृहासन् , यथा गृहे वि- द्यमानो मृतो वा, न चायं तथा, तस्मान्न तथेति व्यतिरेकिणैव बहिःसत्त्वज्ञानस्य संभवेनातिरिक्तपमाणकल्पने गौरवान्माना- भावाच । अनुपलव्धेापाराभावेन करणत्वाभावादिति प्रमाण- वं प्रागेव निरस्तमिति संक्षेपः । २ पुनश्च ज्ञानमनुभूतिरूपं प्रकारान्तरेण द्विविधं प्रमाममा- भेदात् । तत्र तद्वति तत्प्रकारकानुभवः प्रमा । यथा इदं रज- तमिति रजतज्ञानम् । इदं हि रजतत्ववति रजतत्वप्रकारकम् । अत एव शुक्तौ रजतज्ञानं न प्रमा, रजतत्ववति रजतत्वप्रका- रकत्वाभावात् । स घट इत्यादिस्मरणस्य घटत्ववति घटत्वन- कारकत्वेऽपि न प्रमात्वं, तस्यानुभवलाभावात् । तदभावयति तत्प्रकारकं ज्ञानमप्रमा । यथा शुक्तौ इदं रजतमिति ज्ञानम् । इदं हि रजतत्वाभाववति रजतत्वप्रकारकम् । अपमापि द्विविधा संशयविपर्ययभेदात् । तत्रकर्मिणि विरुद्धनानाधर्मसम्बन्धाव- १ 'नस स पाठ २. 'तिज्ञा पाठ ३. 'काभा' रा. पार, ४७ तीयो यथा- गुणनिरूपणेऽप्रमानिग्पणम् । गाहि ज्ञानं संशयः । स त्रिविधः । साधारणधर्मदर्शनजोऽसा- धारणधर्मदर्शनजो विप्रतिपत्तिजश्चेति । तत्राद्यो यथा-मन्दा न्धकारे इन्द्रियसन्निकृष्टे ऊर्ध्वताशालिनि पिण्डे स्थाणुपुरुषसा- धारणोर्ध्वत्वधर्मदर्शनात् किमयं स्थाणुः पुरुषो वेति ज्ञानं जायते । अत्रेन्द्रियसन्निकृष्टे पुरोवर्तिनि धर्मिणि स्थाणुत्वपुरुष- त्वरूपविरुद्धनानाधर्मवैशिष्टयावगाहनादिदं ज्ञानं संशयः। द्वि- नित्यादनित्याच व्यावृत्तस्य शब्दत्वस्यासाधारण- धर्मस्य दर्शनात् शब्दो नित्यो न वेति सन्देहः। तृतीयो यथा- वेदः पौरुषेय इति कस्यचिद् वादिनो वाक्यात् पौरुषेयत्वस्य सोऽपौरुषेय इति कस्यचिद् वाक्यादपौरुषेयत्वस्य चोपस्थिती मध्यस्वैस्य वेदः पौरुपेयो न वेति संशयो जायते । सर्वत्र संशये धमिज्ञानं कोट्यपस्थितिश्च हेतुः विपर्ययो यथा--देहा. दावहमतिः शुत्यादौ रजतादिज्ञानं वा । यद्यपि संशयविपर्य- ययोईयोरप्यप्रमात्वमविशिष्टं, तथापि विपर्यये निर्णयत्वं विशे- पः । निर्णयत्वं च तदभावाप्रकारकत्वे सति तत्प्रकारकत्वम् । संशये हि भावाभावयोईयोरपि प्रकारत्वेन नोक्तरूपनिर्णय- त्वम् । मीमांसकास्तु --अज्ञातार्थगोचरज्ञानं प्रमेल्याहः, प्रमा- त्वं च स्वतो ग्राह्यमिति । तथाहि- येनैव ज्ञानं गृह्यते तेनैव तहतं प्रमात्वमपि । ज्ञानं च मुरारिमतेऽनुव्यवसायेन गृह्यते । इदं रजतमिति व्यवसायानन्तरम् इदं रजतं जानामीत्यनुव्यव- २. शिन- स्यारा रा. पर ३ 'पविर' पर १ तास पाट. ४. ति। ये रा पर । काणादसिद्धान्तचन्द्रिकायां सायो मनसा जायते । अत्र ज्ञाने रजतत्वं विषयः । तस्मिंश्च गृह्यमाणे तहतं तदति तत्प्रकारकत्वमपि गृह्यते । भट्टमते तु- ज्ञानमतीन्द्रियं ज्ञानजन्यज्ञाततयानुमीयते । न च ज्ञाततायां मानाभावः। घटादिज्ञानानन्तरं मया घटो ज्ञात इत्याद्यनुभव- स्यैव प्रमाणत्वात् । न चायमनुभवो ज्ञानविषयत्वमवगाहते, न तु तद्व्यतिरिक्तज्ञाततामिति वाच्यम् । ज्ञानविषयत्वातिरिक्तज्ञा- ततानङ्गीकारे घटं जानामीत्यादौ घटादेर्ज्ञानक्रियाजन्यफलशा- लित्वविरहेण कर्मवाभावप्रसङ्गात् । अतो ज्ञानजनितज्ञातता- रुपलिङ्गेन घटादिज्ञानेऽनुमीयमाने स्वगतं प्रमात्वमपि गृह्यत इति। गुरुमते तु-ज्ञान स्वप्रकाशम् । स्त्रप्रकाशत्वं च स्ववि- पयकत्वम् । सर्व हि ज्ञानं घटमहं जानामीत्याद्याकारमुत्पद्यते । अत्र च ज्ञाने मितिरूपज्ञानस्य, मेयरूपस्य घटस्य, मातुश्थाह- मर्थस्य, भानाद् मितिमातृमेयविपयत्वं ज्ञानस्येति तदीयो रा- द्वान्तः। सोऽयं त्रिपुटीप्रत्यक्षवादः । तथा च घटादिज्ञानेन स्व- स्वरूपे गृह्यमाणे स्वगतं प्रमात्वमपि गृह्यते । अतो मतत्रयेऽपि प्रमात्वस्य ज्ञानग्राहकसामग्रीग्राह्यतया स्वतस्त्वसिद्धिरिति । त- दिदं मीमांसकमतमनुपपन्नम्। ज्ञाने गृह्यमाण एव तद्गतप्रमात्व- स्यापि ग्रहणेऽनभ्यासदशोत्पन्नरजतादिज्ञाने ममोत्पन्नं रजतादि- ज्ञानं प्रमा न वेति प्रामाण्यसंशयो न स्यात् । संशये हि धर्मि- ज्ञानं कारणम् । तथा च प्रकृते संशय धर्मिणो ज्ञानस्य संशयात् प्राग् ग्रहणे तद्गतप्रमात्यस्यापि निश्चितत्वेन संशयानुपपत्तिः । . 'यम'ग पाठ २ 'तीस पाठ ३. 'तेहार पष्ठ ४ 'य' ग पाठ गुणनिरूपणे प्रामाण्यवादः। निश्चयस्य संशयप्रतिबन्धकत्वात् । ज्ञानस्य प्रागग्रहणे धर्मि- ज्ञानरूपकारणाभावेन संशयानुपपत्तिरिति सर्वसाधारणो दोपः । : मुरारिमतेऽनुव्यवसायस्य व्यवसायविषयकत्वेन व्यवसायानुप- नीतस्य प्रामाण्यस्य कथमनुव्यवसाये भानमित्यपरो दोपः। भट्ट- मतेऽपि ज्ञानजन्यज्ञाततायां मानाभावेन तया ज्ञानग्रहणानुप- पत्तिः । न च घटो ज्ञात इत्यादिप्रत्यय एव तत्र मानमिति वाच्यम् । तस्य ज्ञानविषयत्वावगाहित्वात् । घटं जानामीत्यादौ विषयत्वस्यैव द्वितीयार्थत्वात् । अतीतादौ विपयाभावेन तदाधि- तज्ञाततासम्भवेन विषयताया एव त्वया तत्र वाच्यत्वादित्यपरो दोपः । गुरुमतेऽपीन्द्रियस्य सन्निकृष्टार्थग्राहकत्वेन चक्षुरादिना सममात्मज्ञानयोरसन्निकर्येण तेन तयोर्ग्रह्णानुपपत्त्या स्वप्रका- शत्वासम्भवादिति दोपान्तरमिति संक्षेपः । तर्हि केन प्रमात्वं गृह्यत इति चेद्, अनुमानेनेति गृहाण । तथाहि-अनभ्यास. दशोत्पन्नरजतादिज्ञानानन्तरं रजतार्थी पुरुषः प्रवर्तते । ततस्तत्र रजतादिपतिलम्मे ममोत्पन्नं रजतादिज्ञानं प्रमा, संवादिप्रवृत्ति- जनकत्वाद्, यन्नैवं तन्नैवं, यथा शुक्तिरजतादिज्ञानं, न चेदं तथा, तस्मान्न तथेति केवलव्यतिरेकिणा प्रमावं गम्यत इति संक्षेपः। गुरवस्तु-प्रमालक्षणे तहहिशेष्यकत्वं विशेषणं व्यर्धम्, अय- थार्थज्ञानस्यैवाभावेन व्यावाप्रसिद्धः, सामग्रयमावेनान्यया- ख्यात्यनुपपत्तेः । द्रव्यसमवेतचाभुपे हि चक्षुःसंयुक्तसमवायघ- टिता सामग्री । न च शुक्तौ रजतत्वादिप्रत्यक्षहेतुः संयुक्तसम- .. १ 'ती' स. पादः, ५० माणादसिद्धान्तचन्द्रिका वायलक्षणः सन्निकर्पोऽस्ति । न चैवं शुक्तौ रजतार्थिप्रवृत्तिर्न स्यात्, प्रवर्तकस्य पुरोवर्तिविशेप्यकेप्टतावच्छेदकप्रकारकज्ञान- स्याभावादिति वाच्यम् । पुरोवर्तिनीष्टभेदाग्रहस्यैव प्रवृत्तिजनक स्वात् । न चैवं लोके भ्रमशब्दस्यापार्थकत्वप्रसङ्गः, ग्रहणस्मर- णात्मकस्य ज्ञानद्वयस्यैव भ्रमशब्दार्थत्वादित्याहः । तन्न । प्रमा- स्थले हि विशिष्टज्ञानं प्रवृत्तिहेतुरिति निणीतम् । ततश्च कृप्तहे- तुना तेन विना भ्रमस्थले प्रवृत्तिर्न स्यात् । न चै भेदाग्रहस्य प्रवृत्तिहेतुत्वम्। लाघवेन पुरोवर्तिनीष्टाभेदग्रहस्यैव जनकत्वात् । न च सन्निकर्पविरहेणान्यथाख्यात्यसम्भवः । स्मर्यमाणारोपे ज्ञा- नस्य सन्निकर्पस्य, अनुभूयमानारोपस्थले लौकिकसन्निकर्पस्य(च) सम्भयेन सन्निकर्पविरहासिद्धेः दोपबलादसन्निकृष्टभानसम्भवा- च। वेदान्तिनस्तु -पुरोदेशे रजतं साक्षात्करोमीत्यनुभवबलेन दोपसहकृतज्ञानसामग्रया पुरोदेशे तात्कालिकं रजतमुत्पद्यत इत्याहुः । तदपि न । कृप्तरजतावयवतत्संयोगादिरूपकारणविर- हेण तत्र रजतोत्पादायोगात्, प्रतिपुरुपं भिन्नभिन्नरजतादेस्त- सादेश्च कल्पने गौरवाद्, ज्ञानसामग्रथा अर्थजनकलानुपपत्तेश्चेति संक्षेपः। माध्यबौद्यालयस्तु-असदेव रजतं दोपबलाद् भा- सत इत्याहुः । तदप्यशुद्धम् । असतो भानासम्भवात् । न च दोष एव तत्र नियामक इति वाच्यम् । दोपो हि सादृश्यादिरूपः। न चासतः सादृश्यादिकमस्ति । तस्य निरुपाख्यत्वेनाधारत्वानुप- पत्तेरिति दिक् । आन्तरमेव रजतं बाह्यतया भातीत्यात्मख्याति- १ 'रज्ञा' ग पाट २ 'भेदन' ग पाठ ३ "चाभेदमग पाठ गुणनिरूपणे सुखदुःखनिरूपणम् । वादिनः । तदप्यनुभवपथं नारोहति । ग्जतादेाह्यत्वानुभवधि- रोधात् । न च दोषात् तथा भानमिति वाच्यम । दोपाभाये कदाचिदान्तरत्वानुभवप्रसङ्गादिति सिद्धान्ययाख्यातिरिति कृतं पल्लवेन । अस्यां चान्यथाख्यातायसाधारणकारण दोपः । स चा- ननुगतः । कचित् पित्तं, यथा शो पीततानमे। वंशोरगभ्रम मण्डकवसाजनमित्यादि । प्रमायां चासाधारणकारणं गुणः । तत्र प्रत्यक्षे विशेषणवहिशेप्येन्द्रियेसन्निको गुणः । अनुमितों साध्यवति पक्षे परामर्शः, उपमिती सादृश्यप्रमा, शाब्दयोधे योग्यताप्रमा तात्पर्यप्रमा-वेति । अत एव प्रमायां ज्ञानसामा. न्यसामप्रयतिरिक्तगुणजन्यनयोत्पत्तावपि तस्याः परतस्त्वमिति संक्षेपः॥ इन प्रामाण्यवाद । सुखत्वजातिमत् सुखव्यवहारासाधारणकारणं या गुणः मुखम् । तच सर्वपामभिलपितम् । अत एव तस्य स्वतः पुरु. पार्थत्वम् । तत्र च धर्मोऽसाधारणकारणम् । दुःखंत्वजातिमद् दुःसन्यवहारामाधारणकारण वा गुणा दुःखम् । तच सर्वेपी प्रतिकूलवेदनीयम । अत एव स्लयोप- विपयः । तत्र चाधर्मो निमित्तम् । 1. 'गु'...
५२ . काणादसिद्धान्तचन्द्रिकाया इच्छात्वजातिमती इच्छाव्यवहारासाधारणकारणं वा गुण इच्छा । सा च हिविधा उपायेच्छा फलेच्छा चेति । तत्रौदना- धुपाये पाकादाविच्छा उपायेच्छा । अस्यां च फलेच्छा इष्टसाध- नताज्ञानं बलबदनिष्टाजनकत्वज्ञानं चेति त्रयं कारणम् । अत एव फले वीतरागस्य सत्यपीष्टसाधनताज्ञाने सत्यपि च चल- वदनिष्टाजनकत्वज्ञाने न पाकादाविच्छा । एवं सत्यामपि फ- लेच्छायामिष्टसाधनताज्ञानाभावे बलबदनिष्टाजनकत्वज्ञानसत्त्वे- ऽपि नेच्छा । मधुविषसम्पृक्तानभोजनादौ फलेच्छेप्टसाधनताज्ञा- नयोः सत्त्वेऽपि नेच्छा, तत्र बलवदनिष्टजनकत्वज्ञानात् । फले- च्छायां फलज्ञानं कारणम् । फलं च सुसं दुःखाभावस्तत्साधनं चेति । " पित्वजातिमान् पिव्यवहारासाधारणकारणं वा द्वेपः । सोऽपि दुःखतदुपायगोचरत्वेन द्विविधः । तत्राये दुःखज्ञानं हेतुः, द्वितीये दुःखजनकताधीरिति । यनवजातिमान् यत्नव्यवहारासाधारणकारणं वा यत्नः। स विविधः प्रवृत्तिनिवृत्तिजीवनयोनिभेदात् । तत्र प्रवृत्ती चिकीर्षा हेतुः । चिकीर्पा च कृतिसाध्यविषयिणी कृतिसाध्यत्व. प्रकारिकेच्छा, पानं कृत्या साधयामीति तदनुभवात् । अस्यां च कृतिसाध्यत्वज्ञानमिष्टसाधनत्वज्ञानं वलवदनिष्टाजनकत्वज्ञा- नं च हेतुः । ततश्च एतत्रितयज्ञानं चिकीर्पाहारा प्रवृत्तौ जन- ३ विरा' र पाठ ३ 1 'मान् ग पाठ नीस. पाठ.
२ गुणनिरूपणे यत्ननिरूपणम् । कम् । अत एव चन्द्रमण्डलोहरणादाविष्टसाधनताज्ञानवलबद- निष्टाजनकत्वज्ञानसत्त्वेऽपि न प्रवृत्तिः, तत्र कृतिसाध्यताज्ञाना- भावात् । अत एव च मण्डलीकरणादौ कृतिसाध्यत्वबलवदनि- टाजनकत्वज्ञानसत्त्वेऽपि न प्रवृत्तिः, तत्रेप्टसाधनताज्ञानामा- वात् । न वा मधुविपसम्पृक्तान्नभोजने कृतिसाध्यत्वेष्टसाधनत्व- ज्ञानसत्वेऽपि प्रवृत्तिः । तस्य मरणरूपवलबदनिष्टजनकतया तदजनकत्वज्ञानाभावात् । प्रामाकरास्तु-इच्छायाः स्वसमा- नप्रकारकज्ञानसाध्यत्वेन कृतिसाध्यत्वप्रकारकेच्छारूपायां चि- कीर्षायां कृतिसाध्यत्वप्रकारकमेव ज्ञानं जनकम् । अतस्तदेव प्रवर्तकं, न विष्टसाधनतादिज्ञानं, तस्य भिन्नप्रकारकत्वाद्, नित्ये सन्ध्यावन्दनादौ फलाभावेनेष्टसाधनताज्ञानासम्भवाच्च । : नित्यनैमित्तिकयोहि ब्रह्मलोकप्राप्त्यादिश्रवणं स्तुतिमात्रम् । अ- न्यथा काम्य इव नित्यादावपि कामनाधीनकर्तव्यतापत्तेः । नित्यस्थले हि पण्डापूर्व फलम् । अतो न निष्फलत्वात् सन्ध्या- वन्दनादौ प्रवृत्त्यनुपपत्तिरिति । तन । कृतिसाध्यत्वप्रकारकज्ञा- नमात्रस्य प्रवर्तकत्वे निष्फले चैत्यबन्दनादी प्रवृत्तिप्रसङ्गाद, मधुविषसम्पृक्तान्नभोजनादौ प्रवृत्त्यापत्तेध । अतः प्रवृत्तौ तदपि द्वयं हेतुः। न च नित्यस्थले तदसम्भवः। तत्रापि फलश्रवणात् । न च तस कामनाधीनकर्तव्यतापतिः। इष्टत्वात् । न च काम- नाभावेऽकरणापत्तिरिति वाच्यम्। अकरणे प्रत्यवायश्रवणेन काम- नावश्यकत्वकल्पनात्।सुखदुःखाभावतत्साधनान्यतरत्याभावेना- १. '' काणादसिद्धान्तचन्द्रिकायां पुरुषार्थतया पण्डापूर्वस्य फलत्वानुपपत्तेश्च । तस्य फलवे का- मनाधीनकर्तव्यतापत्तेस्तोल्याचेति संक्षेपः । प्रवर्तकज्ञानविपये च लिङादेः शक्तिरिति लिङादिः प्रवर्तकज्ञानजनक इति गी- यते । कौमारिलास्तु लिडादिनिष्ठाभिधा नामैको ब्यापारः । स एव शब्दभावना प्रवर्तनेति चोच्यते । तज्ज्ञानादेव प्रवृत्ति- रित्याहुः । आचार्यास्तु-लोके पाकं कुर्यादित्साटावाज्ञादिरूपे- च्छा लिडादिना प्रतिपाद्यते । सैवाप्ताभिप्रायशब्देनोच्यते । तज्ज्ञानादेव प्रवृत्तिरिति कृप्तत्वाद् वेदेऽपि लिडादिना सेंब प्रति- पाद्यते । न च तत्रेश्वरातिरिक्तस्याज्ञा सम्भवतीति विध्यन्यथा- नुपपत्त्यापीश्वरसिद्धिरिति वदन्ति । निवृत्तिरूपे यत्न तु बलब- दनिष्टसाधनताज्ञानं कारणम् । अत एवाग्निकण्टकादिसम्पर्का- निवर्तते । नव्यास्तु-प्रवृत्त्यभावेनैव निवृत्तिव्यवहारोपपत्तेः निवृत्त्याख्ययते मानाभाव इत्याहुः । एतौ द्वावपि योग्यौ, अहं प्रवृत्तोऽहं निवृत्त इत्यनुभवात् । जीवनयोनियत्नस्तु प्राणप- कसच्चारानुमेयो जीवनादृष्टजन्य इति प्राबः। अर्वाचीनारतु- जीवनयोनियन एव नास्ति । न चैवं प्राणपञ्चकसञ्चारानुप- पत्तिः । जीवनादृष्टेनैव तस्योपपत्तरित्याहुः । गुरुत्वव्यवहारासाधारणकारणं गुरुत्वम् । तच पतना- समवायिकारणम् । अवयवगुरुत्वमवयविगुरत्वेऽसमवायि । नि- त्यगतगुरुत्वं नित्यम् । अनित्येऽनित्यम् । सर्व च गुरुत्वमती- न्द्रियं पतनानुमेयमिति सम्प्रदायः। लीलावतीकृतस्तु-पापाणा- दावधोवच्छेदेन गुरुत्वं प्रत्यक्षमित्याहुः ।
गुणनिरूपणे देवस्वग्नहसरकारनिरूपणम् । द्रवत्वव्यवहारासाधारणकारणं द्रवत्वम् । तद् विविध नैमित्तिकसांसिद्धिकद्वत्वभेदात् । तत्र नैमित्तिकद्रवत्वं क्वचि- दग्निसंयोगासमवायिकारणकं क्वचिदवयवद्रवत्वासमयायिकारण- कम् । तच्च पृथिवीतेजसोरित्युक्तम् । सांसिद्धिकं जलमात्रवृत्ति। जलपरमाणुगतं नित्यम् । घणुकादिगतमनित्यम् अवयवद्रवत्वा- समवायिकारणकं यावद्रव्यमावि च । सर्व च द्रवत्वं सङ्ग्रहसा- स्नेहत्वजातिमान् गुणः स्नेहः । स च जलमात्रवृत्तिः । नित्यगतो नित्यः, अनित्यगतोऽनित्यः । अवयवम्नेहजन्यश्च । संस्कारस्त्रिविधः वेगो भावना स्थितस्थापकश्चेति । तत्र वेगो मूर्तमानसमवेत इत्युक्तम् । तस्मिश्च वेगे नोदनजन्या क्रिया कारणम् । तथाहि-प्रथमं शरादौ मोदनात क्रिया जायते । ततरतया क्रियया शरादौ वेगोत्पत्तिः । ततस्तत्कर्मनाशे सति तेन वेगेन शरे कर्मान्तरोत्पत्तिः । तस्मिन् कर्मणि नटे पुनरपि तेनैव बेगेन कर्मान्तरोत्पत्तिः । एवमुत्तरदेशपर्यन्तं स एवोत्तरो- त्तरं कारभते । शरादेरुत्तरदेशसंयोगाच्च तस्य वेगस्य नाशः। तथाच पारमर्षसूत्रं-'नोदनादाद्यमिपोः कर्म, तत्कर्मकारि- ताच संस्कारादुत्तरं, तथोत्तरमुत्तरं च (वैशेषिकदर्शनम् आ.५. सू. १७) इति । ततश्चाद्यकर्मजन्यो वेग एक एवोत्तरसंयोग- पर्यन्तं तिष्ठतीति। नैयायिकास्तु-नीदनादिना शरादौ कर्मो- 1. एवो ग. पाठ काणादसिद्धान्तचन्द्रिका स्पतिः । तेन कर्मणा शरे वेगः । तेन तत्कर्मनाशे सति वेगा- न्तरं जन्यते, तेन वेगेन वेगान्तरं, तेन वेगान्तरमिति चरम- वेगस्यैवोत्तरसंयोगान्नाशः। आन्तरालिकवेगानां वेगजन्यकर्म- जैव नाशः । न चैवमनेकवेगकल्पने गौरवमिति शङ्कयम् । विहायसि विहङ्गमो द्रुततरं गच्छतीति प्रत्ययेन पूर्ववेगविलक्षण- वेगोत्पत्तेः प्रामाणिकत्वादित्याहुः । मीमांसकास्तु-निरन्तरंग- तिसन्तानस्यैव वेगव्यवहारविषयतया वेगाख्यसंस्कारे मानाभाव इति वदन्ति । भावनाख्यसंस्कारस्त्वात्ममात्रवृत्तिः । स च स्मृ. तिहेतुः । तत्र च पूर्वानुभवत्वेन कारणता । स चोहुद्ध एव स्मृतिहेतुः। उहोधकश्च सदृशदर्शनादिरननुगतः। यथोक्तं--- सहशादृष्टचिन्ताद्याः स्मृतिचीजस्य बोधका इति प्राञ्चः । दीधितिकारादयस्तु-पुनः पुनः स्मरणादपि दृढतरसंस्कारोत्पा- दनसम्भवान्नानुभवत्वेन तत्र कारणता। अपि तु स्मृतिसाधारणेन निर्णयत्वेन जनकतेत्याहुः । तन्नाशे कचित् फलं कचित् कालः कचिद् रोगः (कारणम्) इति दिक् | स्थितस्थापकसंस्कारः क्षितिवृत्तिः । स चाकृष्टस्य शाखादेः स्वस्थानप्राप्त्यनुकूलः । नित्यगतो नित्योऽनित्यगतोऽनित्यः । केचिञ्चतुर्वपि क्षित्यादिपु स्थितस्थापकसंस्कारमिच्छन्ति । धर्मवजातिमान् धर्मः । स च सुखासाधारणकारणम् । यागादिविहितक्रियाजन्यस्तयापारः । तथाहि~यागादेः स्वर्गा- दिसाधनत्वं श्रूयते । न चाशुविनाशिनः कर्मणः कालान्तरभावि- .. "जनता ख पाठ, AM २ 'नानुभवा' ग पाठ १.१'स पाठ गुगनिरूपणेऽवर्मशब्दयोनिरसगम् । स्वर्गादिजनकत्वं सम्भव(ती)ति, तस्य चिरध्वस्तस्य कार्यान्य- वहितपूर्ववृत्तित्वाभावात् । अतस्तत्साधनत्यो(प)पादनार्थ व्या- पार आवश्यकः । न चैवमपि यागादेः स्वर्गाद्यव्यवहितपूर्वव- तिवं नोपपादितमेति वाच्यम् । कार्याव्यवहितपूर्वसमये हि त्वस्वव्यापारान्यनरसलं कारणवप्रयोजकम् । तथा च प्रकृते स्वस्यासत्वेऽपि स्वव्यापारस्य सत्त्वाद् यागादेः कारणत्योप- पतिः । अयमंत्र धर्मशब्देनोच्यते । तमाशे च कर्मनाशाजल- स्पर्शादि कारणम् । मीमांमकास्तु-विहितक्रियैव धर्मः । न 3वं विहितक्रियायास्तत्कालमेव नाशात् कालान्तरे स्वर्गायनु- त्पादप्रसङ्गः । तस्याः सूक्ष्मरूपंण तावत्यासमवस्थानात् । एतेन कर्मनाशाजलरपर्शादिनाग्यतापि धर्मस्य व्याख्याता । एवमध. मोऽपि निपिडक्रियायाः मुमावस्यनि बदन्ति ! अधर्मवजातिमान अधर्मः । मन निषिक्रियाजन्यों दुःखासाधारणकारणम् । नत्र प्रमाणं च प्रायशिनशासन । तेन हि प्रायश्चित्तनाश्यता पापन्य प्रन्यान्यतेनर निमिड- क्रियारूपत्वे पापस्य मा युज्यते . तम्या: प्रायानं विनर ना. शादित्यतिरिक्तं नरकानुकल पापं करप्पन इति नि !
'काणादसिद्धान्तचन्द्रिकाया शब्दं प्रत्येव । डितीयादिशब्दानां तु पूर्वपूर्वशब्दोऽसमवायिका- रणम् । अनुकूलपवनादि निमित्तम् । वर्णात्मकस्तु शब्दोऽका. रादिः। तदुत्पत्तौ कण्ठादि निमित्तम् । कण्ठाकाशसंयोगोऽस- मवायिकारणम् । इदमप्याद्यवर्ण प्रत्येव । द्वितीयादिवर्णानां तु पूर्वपूर्ववर्णोऽसमवायिकारणम् । तस्य च शब्दस्य वीचीतरङ्गन्या- येनोत्पत्तिरिति केचित् । कदम्बगोलकन्यायेनोत्पत्तिरित्यपरे । आद्यादिशब्दानामुत्तरोत्तरशब्दै शः, अन्त्यस्य तूपान्त्येन सु. न्दोपसुन्दन्यायेन नाश इति केचित् । अन्ये तूपान्त्यनाशादन्त्य- . नाश इति प्राहुः। मीमांसकास्तु-स एवायं गकार इति प्रत्य- भिज्ञावलाद वर्णात्मकः शब्दो नित्य इत्याहुः। तन्न । उत्पन्नो गकारो विनष्टो गकार इति प्रत्ययवलेन वर्णानामुत्पादविनाश- मिद्धेः। न च प्रत्यभिज्ञानुपपत्तिः। तस्यास्तज्जातीयविषयकत्वात् । तदेवौषधं मया भुक्तमित्यादौ प्रत्यभिज्ञायास्तज्जातीय(विषय) त्वदर्शनादिति संक्षेपः॥ इति गुणपदार्थनिरूपणम्। , अथ फर्मनिस्पणम्। अथ कर्मपदार्थों निरूप्यते। कर्मत्वजातिमत् कर्म । यहा संयोगविभागोभयासमवायिकारणत्वं तल्लक्षणम् । तथाहि- प्रथमं द्रव्ये कर्म, ततो विभागः, विभागात् पूर्वसंयोगनाशः, तत उत्तरदेशसंयोग इति संयोगविभागयोः कर्मवासमवायिका- ज्ञानानु सपाट फर्मनिरूपणम् । रणमिति लक्ष्ये लक्षणसमन्वयः । अत्रैकैकासमवायिकारणत्वस्य तल्लक्षणेत्वे संयोगविभागयोरतिव्याप्तिः, तयोरपि संयोगेजविभा- गजसंयोगविभागौ प्रति असमवायिकारणत्वात् । अतः समुदि- तमुपात्तम् । यहा विभागासमवायिकारणत्वे सति संयोगकार- णत्वं तत् । न च विभागेऽतिव्याप्तिः, तस्य विभागजविभागं प्रत्यसमवायिकारणत्वात् पूर्वसंयोगनाशद्वारा संयोगजनकत्वाञ्चे- 'ति वाच्यम्। तस्य पूर्वसंयोगवसेनान्यथासिद्धतया संयोगजनक- : वाभावात् । न चाजनितसंयोगविभागे कर्मण्यव्याप्तिः। तत्रापि स्वरूपयोग्यतालक्षणकारणत्वसत्त्वात् । न च तादृशकर्मणि मा- नाभाव इति शङ्कयम् । तस्यापि कचित् सम्भवात् । तथाहि- चलत्यवयविनि नावयवा निश्चला उपलभ्यन्ते । अतोऽवयविनि कोत्पत्तिकालेऽवयवेवपि कोत्पत्तिगवश्यिका। अवयविकर्मणों योवदवयवकोत्पत्तिनियतत्वादिति वैशेषिकवृद्धाः । यावदवय- वकर्मव्याप्यतेति तदेकदेशिनः । इदमेव भाष्यकारादीनां सम्म- तम् । अत एव विभागग्रन्थे 'तेनांशेन कर्मोत्पत्त्यनन्तरं तदा- रब्धे तन्तौ कर्मोत्पद्यत' इत्यभिहितम् । तन्तुकर्मनाशक्षणे सा. मग्रीबलादायातायाः पटे कर्मोत्पत्तेवारयितुमशक्यतया मतव्य- मप्यसङ्गतम् । न च तदापि तन्तौ कर्मोत्पादः सम्भवनि, नल- तिबन्धकस्य कर्मणः सत्त्वादिति नैयायिकाः । नया च तत्राय. मते यत्रावयविनि क्रिया तत्र स्वसमानकालीसमावयवप्रियया- . १. 'सस्वे' स. पाद: २. 'गावाप..'म .. , पाठ..
काणादसिद्धान्तपन्द्रिकाया क्यविनाशानुकूलया विभागादिक्रमेणोत्तरदेशसंयोगकाले आश्र- यत्यावयबिनो नाशानावयविक्रियया संयोगो जनयितुं शक्यते। अतः सा क्रियाजनितसंयोगेति युक्तम् । अन्तिममतद्वये त्वव- यविनाशसामग्रीकाले जातस्यावयविकर्मणो हिक्षणावस्थायिनो- जनितसंयोगविभागत्वं स्फुटम् । एवं द्रव्यनाशसामग्रीपूर्वका- लोत्पन्नावयविकर्मणः क्षणत्रयावस्थायिनो द्रव्यनाशसामग्रीकाले जनितविभागत्वेऽपि तदुत्तरकालं द्रव्यनाशेन संयोगजननास- म्भवादजनितसंयोगत्वं द्रष्टव्यम् । एतादृशस्थलाभिप्रायः प्राचा कर्मणः क्षणत्रयस्थायित्वप्रवादः । प्रायशः कर्मणः क्षणचतुष्ट - स्थायित्वमेव, उत्तरसंयोगेन तन्नाशाभ्युपगमात् । द्विक्षणस्थायि- त्वमप्यनुपदमेव व्युदपादि।आरम्भकर्मयोगप्रतिद्वन्द्विविभागज- नकस्य तु पञ्चक्षणस्थायित्वं विभागजविभागावसरे व्यक्तीकृतम्। दीधितिकृतस्तु-प्रकारान्तरेणापि पञ्चादिक्षणस्थायित्वं वर्ण- यन्ति । तदतिदुरूह व्युत्पित्सनामिति नानोच्यत इति संक्षेपः। नैयायिकास्तु --- आरम्भकसंयोगप्रतिद्वन्द्विविभागजनकस्यापि कर्मणः कर्मान्तरवचतुःक्षणस्थायित्वमेव । यन्त्र कपाले घटनाशा- नुकूला क्रिया, तया कपालद्वयविभागः, ततः कपालाकाशवि- भागः, वतः कपालाकाशसंयोगनाशः, ततः कपालोत्तरदेशसंयो. गः, ततः कर्मनाश इति पञ्चक्षपस्थायित्वं प्रागुक्तम् । तदयुक्तम् । तया कपालकियया कपालद्दयविभागमाले कपालाकाशविभाग- स्थाप्युत्पादसम्भवाद्, एकस्य कर्मण आरम्भकसंयोगविरोध्यवि- १. 'm's १ विभा' पाठ सामान्यादिनिरूपणम् । शोधावसागजनकले विरोधाभावात् । न चैवं विकसत्कमलमुकु. लभङ्गापचिरितिवाच्यम्। संयोगस्याच्याप्यवृत्तितया यदवच्छेदेन कमलारम्भकसंयोगस्तदवच्छेदेन कर्मण एव तद्विरोधिविभाग- जनकत्वेनोक्तस्थले तदभावेन मुकुलभङ्गाप्रसक्तेरिति वदन्ती- ति दिक् । तच्च कर्म व्याप्यवृत्तीति प्राचः । नवीनास्तुकर्मा- पव्याप्यवृत्ति, शाखायां वृक्षश्चलति न मूल इति प्रतीतेरिति संक्षेपः॥ रति कर्मपदार्थनिरूपणर। अब सामान्यादिनिरूपणम् । सामान्यविशेषसमवायाभावानां विभागावसर एव प्रति- पादनेन तत्रात्यन्तवक्तव्याभावान्न तेपामिह पुनः प्रतिपादनमिति सिद्ध सप्सैव पदार्था इति । नन्विदमनुपपन्नं, शक्तिसादृश्यादीनां पदार्थान्तराणामपि सत्त्वात् । तथाहि-यादशादेव करतला- नलसंयोगाद् दाहो दृष्टः, तादृशादेव मणिमन्त्रादिसमवहिता दाहो न जन्यत इति निर्विवादम् । ततस्तत्र वह्नौ दाहानुकूला शक्तिमणिमन्त्रादिसमवधाननाश्या तदसमवधानेन च जन्यत १.प्र. पाठ.. १, फिग, माठ, काणादसिद्धान्त चन्द्रिकाया इति कल्प्यते । सा च न द्रव्यादिपडन्तर्गतेत्यतिरिक्तत्वसिद्धिः । एवं सादृश्यमपि न द्रव्यादिपडन्तर्गतं, सामान्यवृचित्वाद्, अभाववत् । न च हेतोरसिद्धिः। यथा घटत्वं नित्यं तथा पटत्व- मपीति प्रतीत्या तस्य सामान्येऽपि सत्त्वात् । नाप्यभावः। विधि- मुखेन प्रतीयमानत्वात् । मैवम् । मणिमन्त्राद्यभावस्योभयसम्म- तिपन्नस्यैव दाहजनकलाङ्गीकारेण तत्र दाहबारणोपपत्चावतिरि- क्तानन्तशक्तितत्मागभावध्वंसकल्पनाया गौग्वपराहतत्वादित्या- स्तां विस्तरः। एवं सादृश्यमपि न पदार्थान्तरम्। तत्र प्रमाणा- भावात् । उक्तहेतोर्वस्तुत्वप्रमेयत्वादौ व्यभिचारात् । किन्तु तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम् । यथा चन्द्रभिन्नत्वे सति चन्द्रगतकान्त्यादिमत्त्वमेव मुखे चन्द्रसादृश्यमिति । स च धर्मों द्रव्यगुणादिरूप इति दिक् । दीधितिकारीस्तु-शक्तिसहया- क्षणकारणत्वकार्यत्वविपयत्तविशेषणत्वादीनतिरिक्तानेव पदार्था- नभ्युपगच्छन्ति। यथा चैतत् तथा पदार्थखण्डनादौ सुव्यक्तमिति विस्तरभीतेनेह प्रतन्यत इति सर्वमनवद्यम् ॥ वटस्य पत्रे मूले च स्थिति]पां विकल्प्यते । सूरिभिस्तान् गुरून् वन्दे विश्वरूपेन्द्रयोगिनः॥१॥ तत्कृपापाङ्गनिर्धूतजडिमाखिलशास्त्रवित् । सिद्धान्तचन्द्रिकामेतां गङ्गाधरसुधीय॑धात् ॥२॥ १ 'समवेतान्त' ग पाठ १ 'रादयस्व' स. पाट १. 'या न नै पाठ.
सामान्यादिनिरूपणम् । अनया विशदीभूते न्यायवैशेपिकाध्वनि । निर्विशङ्क सश्चरन्तु बाला व्युत्पत्तिकाक्षिणः ॥ ३ ॥ इति श्रीसकलविद्यानिधानगङ्गाधरसूरिविरचिता काणादसिद्वान्तचन्द्रिका समाप्ता। वन्दारजनमन्दार वारिजासनपूजितम् । गगाधरं रलाटाक्ष भजे मध्यार्जुनेश्वरम् ॥ गगाधराण्यमविना बारव्युपत्तये कृता । ममाप्तिमधुना याना तकसिद्धान्तचन्द्रिका ।। शुभं भूयात् ।