Prakrit Bharati Academy, Jaipur

Shri Upamatigata Parinammal

2010/02

PDF Proofread

Front matter

No text on this page.

श्री उपमितिगता परिणाममाला । -- विद्वन्मार्गः तेषां कल्याणाभिनिवेशितया निष्प्रयोजनो विकल्पो न चेतसि विवर्त्तते, अथ कदाचिदसावितावस्थायां' विवर्तेत त- थापि ते न निनिमित्तं भापन्ते, अथ कदाचिदतत्त्वज्ञजनान्तर्गततया भापेरन् तथापि न निर्हेतुकं चेष्टन्ते, यदि पुनस्ते निष्कारणं चेष्टेरन् ततोऽतत्त्वज्ञजनसार्थादविशिष्टतया तत्त्ववित्ता विशीर्येत, तस्मात्तत्त्ववेदिधात्मनोऽन्तर्भावममिलपता सकलकाले सर्वेण खविकल्पजल्पा- चरणानां सार्थकत्वं यत्नतः परिचिन्तनीयम् , तद्वेदिनां च पुरतः कीर्तनीयम् , ते हि निरर्थकेष्वप्यात्मविकल्पजल्पव्यापारपु.सार्थकत्ववुद्धिं कुर्वन्तमनुकम्पया वारयेयुरिति । संसारस्य नगरत्वं-युज्यतेऽस्य नगरस्य नगरता कल्पयितुं, यतोऽन्न धवलगृहायन्ते देवलोकादिस्थानानि, हट्टमार्गायन्ते परापरज- न्मपद्धतयः, विविधपण्यायन्ते नानाकारसुखदुःखानि, तदनुरूपमूल्यायन्ते बहुविधपुण्यापुण्यानि, विचित्रचित्रोज्वलदेवकुलायन्ते सुगत- कणभक्षाक्षपादकपिलादिप्रणीतकुमतानि पौर्वापर्यपर्यालोचनविकलमुग्धजनचित्ताक्षेपकारितया, सहर्षप्रवलकलकलोपेतदुन्तिवालकलापा- यन्ते क्रोधादयः कषायाः सकलविवेकिमहालोकचित्तोद्वेगहेतुतया, तुङ्ग कारायन्ते महामोहोऽलङ्यतया वेष्टकतया च, महापरिखायते रागद्वेपाल्मिका तृष्णा विपयजलदुष्पूरतयाऽतिगम्भीरतया च, विस्तीर्णमहासरायन्ते शब्दादयो विपयाः प्रबलजलकल्लोलाकुलतया विप- यस्तजनशकुनाधारतया च, गम्भीरान्धकूपायन्ते प्रियविप्रयोगानिष्टसंयोगस्वजनमरणधनहरणादयो भावाः त्रासहेतुतया अदृष्टमूलतया च, विशालारामकाननायन्ते जन्तुदेहाः हपीकमनश्चञ्चरीकनिलयनकारणतया स्वकर्मविविधविटपिकुसुमफलभरपूरिततया चेति । जन श्रीकैलास गागरसूरि ज्ञान उ०१ । द्वारा सरा

परिणाम.
:-
उपमि०
भव.
जर्जरिततत्त्वाभिमुखशरीरत्वं न जानीते कार्याकार्यविचारं न लक्षयति भक्ष्याभक्ष्यविशेषं न कलयति पेयापेयखरूपं नाव-
बुध्यते हेयोपादेवविभागं नावगच्छति स्वपरयोर्गुणदोषनिमित्तमपीति, ततोऽसौ कुतर्कश्रान्तचित्तश्चिन्तयति-नास्ति परलोकों न विद्यते
कुशलाकुशलकर्मणां फलं न संभवति खल्वयमात्मा नोपपद्यते सर्वज्ञः न घटते तदुपदिष्टो मोक्षमार्ग इति, ततोऽसावतत्त्वामिनिविष्ट-
चित्तो हिनस्ति प्राणिनो भाषतेऽलीकमादत्ते परधनं रमते मैथुने परदारेघु वा गृह्णाति परिग्रहं न करोति चेच्छापरिमाणं भक्षयति मां-
समाखादयति मद्यं न गृहाति सदुपदेशं प्रकाशयति कुमार्ग निन्दति वन्दनीयान् वन्दतेऽवन्दुनीयान् गच्छति खपरयोर्गुणदोषनिमित्त-
मिति वदति परावर्णवादमाचरति समस्तपातकानीति । ततो बध्नाति निबिडं भूरिकर्मजालं पतत्येष जीवो नरकेषु, तत्र च पतितः पच्यते
कुम्भीपाकेन विपाट्यते क्रकचपाटनेन आरोगते वनकण्टकाकुलासु शाल्मलीपु पाय्यते सन्दंशकैर्मुखं विवृत्य कलकलायमानं तप्तं त्रपु
भक्ष्यन्ते निजमांसानि भृज्यतेऽत्यन्तसन्तप्तभ्राष्ट्रेषु तार्यते पूयवसारुधिरक्लेदमूत्रात्रकलुषां वैतरणी छिद्यतेऽसिपत्रवनेषु स्वपापभरप्रेरितैः
परमाधार्मिकसुरैरिति, तथा समस्तपुद्गलराशिभक्षणेऽपि नोपशाम्यति बुभुक्षा निःशेषजलधिपानेऽपि नापगच्छति तर्षः अभिभूयते शीत-
वेदनया कदर्थ्यते तापातिरेकेण, तथोदीरयन्ति च तदन्यनारका नानाकाराणि दुःखानि, ततश्चायं जीवो गाढतापानुगतो हा मातहीं
नाथाखायध्वं त्रायध्वमिति विक्लवमाकोशति, न चास्य तत्र गात्रनायकः कश्चिद्विद्यते, कथञ्चिदुत्तीर्णोऽपि नरकाद्विबाध्यते तिर्यक्षु वर्त्त-
मानः, कथम् ? वाह्यते भारं कुट्यते लकुटादिभिः छिद्यन्तेऽस्य कर्णपुच्छादयः खाद्यते कृमिजालैः सहते बुभुक्षा म्रियते पिपासया
तुद्यते नानाकारयातनाभिरिति, ततः कथञ्चिद्वाप्तमनुष्यभवोऽप्येष जीवः पीड्यत एव दुःखैः, कथम् , तदुच्यते-केशयन्त्यनन्त-
रोगबाताः, जर्जरयन्ति जराविकाराः दोदूयन्ते दुर्जनाः विह्वलयन्तीष्टवियोगाः परिदेवयन्त्यनिष्टसंप्रयोगाः विसंस्थुलयन्ति धनहरणानि
॥१॥
॥१॥

स आकुलयन्ति स्वजनमरणानि विह्वलयन्ति नानाऽध्यसनानीति, तथा कथञ्चिल्लब्धविबुधजन्माप्येष जीवो अस्यत एव नानावेदनाभिः, तथाहि-आज्ञाप्यते विवशः शक्रादिभिः खिद्यते परोत्कर्षदर्शनेन जीर्यते प्राग्भवकृतप्रमादस्मरणेन दुन्दह्यतेऽखाधीनामरसुन्दरीप्रार्थ- नेन शल्यते तन्निदानचिन्तनेन निन्द्यते महर्द्धिकदेववृन्देन विलपत्यात्मनश्यवनदर्शनेन आक्रन्दति गाढप्राप्तासन्नमृत्युः पतति समस्ताशु- चिनिदाने गर्भकलमल इति । महामोहजनिताः रौद्रा विकल्पा:-परिणेष्याम्यहमनल्पयोषितः ताश्च रूपेण पराजेष्यन्ति त्रिभुवनं सौभाग्येनाभिमुखयिष्यन्ति मकरध्वजं विलासैः क्षोभयिष्यन्ति मुनिहृदयानि कलाभिरुपहसिष्यन्ति बृहस्पति विज्ञानेन रजयिष्यन्ति अतिदुर्विदग्धजनचित्तानीति, तासां चाहं भविष्यामि सुतरां हृदयवल्लभः न सहिष्यन्ते ताः परपुरुषगन्धमपि न लवयिष्यन्ति मम कदाचिदाज्ञां करिष्यन्ति मे सततं चित्तानन्दातिरेकं प्रसादयिष्यन्ति मां दर्शितकृत्रिमकोपविकारं विधास्यन्ति कामोत्कोचकरणपटूनि चाटुशतानि प्रकटयिष्यन्तीङ्गिता- कारैर्मे हृदयसद्धावं हरिष्यन्ति नानाविकारबिब्बोकै, मानसं हनिष्यन्ति मामनवरतं ताः परस्परेयया साभिलाषं कटाक्षविक्षेपैरिति, तथा भविष्यति मे विनीतो दक्षः शुचिः सुवेषोऽवसरज्ञो हृदयग्राही मय्यनुरक्तः समस्तोपचारकुशलः शौयौदार्यसम्पन्नः सकलकलाकौ- शलोपेतः प्रतिपत्तिनिपुणोऽपहसितशक्रपरिकरः परिकर इति, तथा भविष्यन्ति मे निजयशःशुभ्रसुधाधवलतया स्वचित्तसनिभा अत्युच्च- तया च हिमगिरिसङ्काशा विचित्रचित्रोज्वलवितानमालोपशोभिताः शालभलिकाद्यनेकनयनानन्दकारिरूपरचनाकलिता बहुविधशालावि- शाला नानाप्रकारप्रकोष्ठविन्यासा अतिविस्तीर्णानेकाकारास्थानमण्डपपरिकरिता समन्तान्महाप्राकारपरिक्षिप्ता अपहसितविबुधाधिपावासाः सप्तभूमिकादयो भूयांसः प्रासादाः, तथा करिष्यन्ति मे भवने सततं प्रकाशं मरकतेन्द्रनीलमहानीलकर्केतनपद्मरागवज्रवैडूर्येन्दुकान्तसू-

S
परिणाम
उपमि०
भव:
॥२॥
र्यकान्तचूडामणिपुष्परागादिरनराशयः, तथा विराजिष्यन्ते मम मन्दिरे समन्तात्पीतोद्योतमादर्शयन्तो हाटककूटाः, तथा भविष्यति मम
सदनेऽनन्ततया हिरण्यधान्यकुप्यादिकमनास्थास्थानम् , तथा नन्दयिष्यन्ति मे हृदयं मुकुटाङ्गदकुण्डलपालम्बादयो भूषणविशेपाः, तथा
जनयिष्यन्ति मे चित्तरति चीनांशुकपट्टांशुकदेवांशुकप्रभृतयो वस्त्रविस्ताराः, तथा वर्द्धयिष्यन्ति मे मानसानन्दं मणिकनकविचित्रभक्तिम-
ण्डितराजतक्रीडापर्वतकलितानि दीर्घिकागुजालिकायन्त्रवापिकाद्यनेकविधजलाशयमनोहराणि वकुलपुन्नागनागाशोकचम्पकप्रभृतिविविध-
विटपिजातिविस्ताराणि पञ्चवर्णगन्धवन्धुरकुसुमभरानम्रशाखापर्यन्तानि कुमुदकोकनदादिजलरुचारूणि भ्रमद्धृङ्गझङ्कारसारतारोपगीतानि
प्रासादसमीपवर्तीनि लीलोपवनानि, प्रमोदयिष्यन्ति मां निर्जितदिनकरस्यन्दनसौन्दर्या रथसङ्घाताः हर्पयिष्यन्ति ममा(माम )पहस्तित-
सुराधिपहस्तिमाहात्म्यानां वरकरिणां कोटयः, तोपयिष्यन्ति मामधरितविबुधपतिहरिरया हयकोटिकोटयः, समुल्लासयिष्यन्ति मे मनसि
प्रमदातिरेकं पुरतो धावन्तोऽनुरक्ता अपरपराकरणपटवः परस्परमविभिन्नचेतसो न चात्यन्तसंहताः सयातीताः पदातिसङ्घाताः, रज-
यिष्यन्ति में प्रतिदिनं प्रणतिलालसानि राजवृन्दानि किरीटमणिमरीचिजालैश्चरणारविन्दम् , भविष्याम्यहं भूरिभूमिमण्डलाधिपतिः,
तत्रयिष्यन्ति मे समस्तकार्याणि प्रज्ञाऽवज्ञातसुरमत्रिणोऽमात्यमहत्तमाः, तदिदं सुसंस्कृतभिक्षालाभेच्छातुल्यं विज्ञेयम् । पुनश्च चिन्त-
यति-ततोऽहमतिसमृद्धतया निश्चिन्ततया च परिपूर्णसमप्रसामग्रीकः करिष्यामि विधिना कुटीप्रावेशिकं रसायनं, ततस्तदुपयोगात्
संपत्स्यते मे वलीपलितखालित्यव्यङ्गादिविकलं जरामरणविकाररहितं देवकुमाराधिकतरद्युतिवितानं निःशेपविपयोपभोगभाजनं महाप्राण
शरीरं, तदिदं लब्धभिक्षस्यैकान्तगमनमनोरथसममवगन्तव्यम् । भूयश्च मन्यते--ततोऽहमतिप्रमुदितचेता गम्भीररतिसागरावगाढस्तेन
ललनाकलापेन सार्द्ध ललमानः खल्वेवं करिष्ये यदुत-कचिदनवरतप्रवृत्तमदनरसपरवशोऽनारतसुरतविनोदेन स्पर्शनेन्द्रियं प्रीणयिष्ये,
॥२॥

कचिद्रसनेन्द्रियोत्सबद्वारेण स्वस्थीकृताशेपहपीकवर्गान्मनोज्ञरसानाखादयिष्ये, कचिदतिसुरभिकर्पूरानुविद्धमलयजकश्मीरजकुरङ्गमदादि- विलेपनद्वारेण च पञ्चमुगन्धिकताम्बूलास्वादनब्याजेन चाहं नाणेन्द्रियं तर्पयिष्ये, कचिदनारतताडितमरुजध्वनिसनाथममरसुन्दरीविभ्र- मललनालोकसम्पादितमनेकाकारकरणागहारमनोहरं प्रेक्षणकमीक्षमाणश्चक्षुरिन्द्रियानन्दं विधास्से, कचित्कलकण्ठतत्प्रयोगविशारदजनप्र- युक्तं वेणुवीणामृदनकाकलीगीतादिखनमाकर्णयन् श्रोत्रेन्द्रियमाहादयिष्ये, कचित्पुनरखिलकलाकलापकौशलोपेतैः समानवयोभिः सम- पितहृदयसर्वस्वैः शौयौदार्यवीर्यवयरपहसितमकरध्वजसौन्दयमित्रवगैः सार्द्ध नानाविधक्रीडाविलासै रममाणः समप्रेन्द्रियग्राममालादाति- रेकमास्कन्दयिष्यामीति । तदिदमेकान्ते भिक्षाभक्षणाकाहासदृशमवसेयम् । चिन्तयति च-ततो ममैवं निरतिशयसुखानुभवद्वारेण निष्ठनो भूयांसं कालं समुत्पत्स्यन्ते सुरकुमाराकारधारकाणि रिपुसुन्दरीहृदयदाहदायकानि च समाहादितसमस्तवन्धुवर्गप्रणयिजननाना- प्रकृतीनि मत्प्रतिविम्बकसंकाशानि सुतशतानि, ततोऽहं सम्पूर्णाशेपमनोरथविस्तारः प्रत्यस्तमितप्रत्यूहसमूहोऽनन्तकालं यथेष्टचेष्टया वि- चरिष्यामि, सोऽयं भूरिदिनार्थ स्थापनमनोरथ इव वर्त्तते । यत् पुनरालोचयति यदुत-अथ कदाचित्तं तथाभूतं मामकीनं संपत्प्रकर्ष शेपनृपनयः श्रोप्यन्ति, ततस्ते मत्सराध्मातचेतसः सर्वेऽपि संभूय मद्विपयेपूपप्लवं विधास्यन्ति, ततोऽहं तेपामुपरि चतुरङ्गसेनयाऽविक्षे- पेण यास्यामि ततस्ते खवलावलेपवशेन मया सह सद्धामं करिष्यन्ति, ततो भविष्यति प्रभूतकालिको महारणविमर्हः, ततस्ते परस्पर संहततया भूरिसाधनतया च मनाग मामाक्रमिष्यन्ति, ततोऽहमभिवर्द्धितक्रोधवन्धतया प्रादुर्भूतप्रवलरणोत्साहस्तानेकैकं सवलं चूर्ण- यिष्ये, नास्ति समस्तानामपि पातालेऽपि प्रविष्टानां मया वद्धानां मोक्ष इति, तदिदं रोररणकाण्डविड्वरसमानमवबोद्धव्यम् । भूयश्च S उपमिक भव. परिणाम भावयते-तोड्नकजसनत्तयित्रीमाविराजयन्द्रत्वाइप्से चक्रवर्निराज्यमहामेषेकन्, तो नाति बत्तु तरिमुत्रने यन्मे न - न्यत्सत वि। गृहिणो द्रमकता-द्विजातिकनिजकानीरान्यजादेभावेषु बनानोऽचं जीवोऽत्रमा वराकतुच्छाभिप्रायव्या कत्रिवित्रा- मानति कन्यामागां लानं ऋतिं मन्यते कविन् क्षेत्रलन्डनावश्नुवनात नहानगडलिकतनाकयति कतिनापुलवानन्यनरसु- न्दरी ऋल्लयति कविनाविन्दनन्यानानं नवजं चिन्तयति ऋचिन्नावापाटकाचारमन्यात्मपारेजनं शनगारखारनिव पश्याने कवि- अतिशल त्रिवनुरागां नहन्त्रागां शवाचां विशनानां वदपागाननि लामं कोटीवरवनवगच्छति कचिलञ्चगगानाने धान्यद्रोगाना- मुलनि धनविनवतुल्या उभयनि कारल्लकुटुन्वभरणनति महाराज्यनवबुध्यते कविहुम्यूरोदरदरीपूरनमा नहोत्तवाकारं जानीते क- चिद्भिावाभिमति जीविनावानि निश्चिनोति, कचिदन्यं शब्दादेविषयोपभोगनिरन्नुहोस्य राजादिकं शक्रोऽयं देवोऽयं वन्द्योऽयं पुण्य- मागचं नहानाचं पुरुषो यदि ननान्वे सन्पद्यन्ते विषयान्ततोड्नप्येवं विलसानीति चिन्तयन्परितान्यति, क्याविषाकृतविडन्वितच तय करोति भूमुजां नेवां पयुगाते जन् नर्वदा दर्शयति विन्य बदलनुलं गोकाक्रान्तोऽ हसावे तेधु हतन्तु तवातजावतपुत्रह- पंप्रकर्षोऽपि रोदिति वेयु रुनु निजशत्रूनान तौति ददृभिनवान् वपरननुद्रोऽनि निन्दति चहियो घावति पुरतो रात्रिन्दिवं नईयति खिन्नोऽपि तवरणान झालयसचिसानानि विषचे दद्वचनालजयन्यक्रनौगि प्रविशति कृतान्तबदनकुटर इव रखनुले समर्पयति करवालाविघातानानालयं नियते यनयानोऽपूर्णचान एव वराकः, तथा प्रारमते कमी लिद्यते सर्वनहोरात्रं बादाति हरुं अनुभव- सदन्यां पन्नुमात्र विनइयात नानासकारान् प्राणिनः परिचयते कृष्लभावेन बाध्यते बीजनाभेन, तया विषत्ते वाणिज्यं भाषतेली T णाति विश्रब्धमुग्धलोकान् याति देशान्तरेषु सहते शीतवेदनां क्षमते तापसन्तापं तितिक्षते बुभुक्षा न गणयति पिपासां अनुभवति नासायासादीनि दुःखशतानि प्रविशति महारौद्रसमुद्रे प्रलीयते यानपात्रभङ्गेन भवति भक्ष्यं जलचराणां, तथा भ्रमति गिरिकन्दरोदरेषु आस्कन्दरासुरविवराणि निभालयति रसकूपिकाः भक्ष्यते तदारक्षराक्षसैः, तथाऽवलम्बते महासाहसं याति रात्रौ श्मशानेपु वहति मृत- कलेबराणि विक्रीणाति महामांसं साधयति विकरालवेतालं निपात्यते तेन कुपितेन, तथाऽभ्यस्यति खन्यवादं निरीक्षते निधानलक्षणानि तुष्यति तदर्शनेन ददाति रात्रौ तद्ब्रहणार्थ भूतवलिं दूयते तदङ्गारभृतभाजनवीक्षणेन, तथाऽनुशीलयति धातुवादं समुपचरति नरेन्द्रवृन्द गृहाति तदुपदेशं मीलयति मूलजातानि समाहरति धातुमृत्तिकाः समुपढौकयति पारदं विश्यते तस्य जारणचारणमारणकरणेन धमते रात्रिन्दिवं पूत्करोति प्रतिक्षणं हृष्यति पीतश्वेतक्रिययोर्लेशसिद्धौ खादत्यहर्निशमाशामोदकान् व्ययीकरोति तदर्थ शेषमपि धनलवं मार्यते दुःसाधितकर्मविभ्रमेण, तथा विपयोपभोगसम्पत्तये धनार्थमेव चायं जीवः कुरुते चौर्य रमते द्यूतमाराधयति यक्षिणी परिजपति मान् गणयति ज्योतिपीं प्रयुते निमित्तं आवर्जयति लोकहृदयं अभ्यस्यति सकलं कलाकलापं, किंबहुना?, तन्नास्ति यन्न करोति तन विद्यते अन्न वदति तन्न सम्भवति यन्न चिन्तयति, न च तथाप्ययमनवरतमितश्चेतश्च तदर्थं चंभ्रम्यमाणः प्रागविहितपुण्यशून्यः सममिलपिता- र्थस्य तिलतुपनिभागमात्रमपि प्राप्नोति, केवलं स्वचित्तसन्तापमातरौद्रध्याने गुरुतरकर्मभारं तद्वारेण दुर्गतिं चात्मनोऽभिवर्द्धयतीति । आसक्तचेष्टाः-तद्रविणकलत्रादिकं कथञ्चित्तावता छेशजालेनोपार्जितं यदाऽनुभवति तदा विभेति तस्करेभ्यः त्रस्यति नरपतिभ्यः कम्पते भयेन दायादेभ्यः उद्विजते याचकेभ्यः, किं बहुनाऽत्र जल्पितेन?, अत्यन्तनिःस्पृहमुनिपुङ्गवेभ्योऽपि शङ्कते यदुतैते महता वच- नरचनाटोपेन मां प्रतार्य नूनमेतद् ग्रहीतुमिच्छन्ति, तथाविधगाढमूर्छाविपाभिभूतचित्तश्चिन्तयत्येवं हन्त धक्ष्यते ममैतगविणजातं उपमि० परिणाम भव.. ॥४॥ चित्रभानुना लावयिष्यते वा सलिलप्रवाहेन हरिष्यते वा चौरादिभिः अतः सुरक्षितं करोमि, ततोऽसहायः शेपजनाविश्रम्भितया रात्रा- चुत्थाय खनत्यतिदूरं भूतलं, निधत्ते तत्तत्र निभृतसञ्चारः, पुनः पूरयित्वा गर्त कुरुते समं भूतलं, विकिरति तस्योपरि धूलिकचवरा- दिकं, सम्पादयति किलालक्ष्यं स्वाकूतेन, मा पुनर्न ज्ञास्यामि स्वदेशमिति विधत्ते विविधानि चिह्नानि, प्रयोजनान्तरेण तदेशेन सञ्चर- न्तमपरं जनं मुहुर्मुहुर्निभालयति, कश्चित्तद्देशे यान्तीं तदृष्टिं शङ्कते-आ ज्ञातमेतेन, अतो मूर्छादन्दयमानमानसो न लभते रात्री निद्रां, पुनरुत्थाय तत्प्रदेशात्तदुत्खनति, निधत्ते च प्रदेशान्तरे, निरीक्षते पुनः पुनर्दिगन्तरेषु सभयं निक्षिपंश्चक्षुः, यदुत-मां कश्चि- द्रक्ष्यतीति, व्यापारान्तरमपि स केवलं कायेन करोति चेतस्तु तत्प्रतिवन्धवन्धनवद्धं ततः स्थानादन्यत्र पदमपि न चलतीति । अथ क- थञ्चित्तथाविधयत्नशतैरपि तेन रक्ष्यमाणमपरो लक्षयेत् गृहीयाच ततोऽसावकाण्डवज्रपातनिर्दलितशरीर इव हा तात! हा माती भ्रा- तरिति विचवमारा(र)ट्यमानः सकलविवेकिलोगं करुणापरीतचित्ततां प्रापयति, अतिमू व्याघाघ्रातचेतनो म्रियते वा, तदिदं धनल- वप्रतिबद्धचेतोवृत्तीनां विलसितमुपदर्शितम् । तथा गृहिणीप्रतिबन्धग्रहगृहीतविग्रहः अपि ईर्ष्याशल्यवितुद्यमानमानसः खल्वेष जीवस्तस्याः परवीक्षणरक्षणाक्षणिकः सन्न निःसरति गेहात् न स्वपिति रजन्यां सजति मातापितरौ शिथिलयति वन्धुवर्गान न ददाति परमसुहृदो- ऽपि स्वगृहे ढोकं अवधीरयति धर्मकार्याणि न गणयति लोकवचनीयतां, केवलं तस्या एव मुखमनवरतमीक्षमाणस्तामेव च परमात्ममू- तिमिव योगी निवृत्ताशेपव्यापारो ध्यायन्नेवास्ते, तस्य च यदेव सा कुरुते तत्सुन्दरं यदेव सा भापते तदेवानन्दकारि यत्सा विचिन्त- यति तदेवेङ्गिताकारैर्विज्ञायासौ सम्पादनायाई मन्यते, एवञ्चाकलयति मोहविडम्बितेन मनसा यदुतेयं ममानुरक्ता हितकारिणी, न चान्येशी सौन्दयौदार्यसौभाग्यादिगुणकलापकलिता जगति विद्यते, अथ कदाचित्तां मातेति भगिनीति देवतेत्यपि मन्यमानः परो वी- .

mmmm memo- अते तनोऽसौ मन्दः मोहात् क्रुध्यतीव विह्वलीभवतीव मूर्च्छतीव म्रियत इव किं करोमीति न जानीते, अथ सा वियुज्यते म्रियते वा ततोऽमाव'याक्रन्दति परिदेवते म्रियते वा, अथ सा कथञ्चिद्दुःशीलतया परपुरुषचारिणी स्यात् परपुरुषा वा बलात्तां समाक्रम्य गृहीयुः ततोऽसौ महामोइविहलो यावजीवं हृदयदाहेन जीर्यते प्राणैर्वा वियुज्यते दुःखासिकातिरेकेणेति । भ्रमणं जीवस्य-मदीयजीवरोरोऽयं कुविकल्पकुतर्ककुतीर्थिकलक्षणैर्दुर्दान्तडिम्भसंघातैस्तत्त्वाभिमुख्यरूपे शरीरे विपर्याससंपादन- लक्षणया ताडनया प्रतिक्षणं ताड्यमानो महामोहादिरोगबातग्रस्तशरीरस्तद्वशेन नरकादियातनास्थानेषु महावेदनोदयदलितस्वरूपोऽत एव विवेकविमलीभूतचेतसां कृपास्थानं पौर्वापर्यपर्यालोचनविकलान्तःकरणतया तत्त्वाववोधविप्रकृष्टोऽत एव प्रायः सर्वजीवेभ्यो जघन्यतमो- ऽत एव धनविपयादिरूपकदन्नदुराशापाशवशीकृतः कथञ्चित्तल्लेशलाभतुष्टोऽपि तेनातृप्तचेतास्तदुपार्जनवर्द्धनसंरक्षणप्रतिवद्धान्तःकरणस्त- हारेण च गृहीतनिबिडगुरुतराष्टप्रकारकर्मभाररूपानिष्ठितापथ्यपाथेयस्तदुपभोगद्वारेण विवर्द्धमानरागादिरोगगणपीडितस्तथापि विपर्यस्तचि- ततया तदेवानवरतं भुधानोऽप्राप्तसञ्चारित्ररूपपरमानाऽऽस्वादोऽरघट्टघटीयन्त्रन्यायेनानन्तपुद्गलपरावान् समस्तयोनिस्थानास्कन्दनद्वारेण पर्यटित इति । शासनं राजमन्दिरम्-दृश्यन्तेऽत्र मौनीन्द्रे प्रवचनेऽपास्ताज्ञानतमःपटलप्रसरा विविधरत्ननिकराकारधारका विलसदमलालोकप्र- काशितभुवनभवनोदरा ज्ञानविशेपाः, तथा विराजन्तेऽत्र भागवते प्रवचने सम्पादितमुनिपुङ्गवशरीरशोभतया मनोहरमणिखचितविभूप- णविशदाकारतां दधानाः खल्वामीपध्यादयो नानद्धिविशेपाः, तथा कुर्वन्ति सुजनहृदयाक्षेपमत्र जिनमतेऽतिसुन्दरतया विचित्रवखवि- स्ताराकारबहुविधतपोविशेषाः, तथा जनयन्ति चित्ताहादातिरेकमत्र पारमेश्वरे मते लोलोज्ज्वलांशुकोल्लोचावलम्विमौक्तिकावचूलरूपतामा- उपमि० परिणाम. भव. ५॥ बिभ्राणा रचनासौन्दर्ययोगितया चरणकरणरूपा मूलोत्तरगुणाः, तथाविधेऽत्र जैनेन्द्रदर्शने वर्तमानानां धन्यानां वक्त्रसौष्टवगन्धोत्कर्ष- चित्तानन्दातिरेकमुदारताम्बूलसनिभं सत्यवचनं, तथा व्याप्नुवन्ति स्वसौरभोत्कर्पण दिकक्रवालमत्र भागवते मते मुनिमधुकरनिकरप्रमोद- हेतुतया विचित्रभक्तिविन्यासप्रथिततया मनोहारिकुसुमप्रचयाकारधारकाण्यष्टादशशीलाङ्गसहस्राणि, तथा निर्वापयति मिथ्यात्वकषायस- न्तापानुगतानि भव्यसत्त्वशरीराणि गोशीर्षचन्दनादिविलेपनसन्दोहदेश्यतां दधानमत्र पारमेश्वरदर्शने सम्यग्दर्शनं, यतश्चात्र सर्वज्ञोपज्ञे सज्ज्ञानदर्शनचारित्रप्रधाने प्रवचने वर्त्तन्ते ये जीवास्तैर्महाभागधेयैः स्थगितो नरकान्धकूपः भग्नस्तिर्यग्गतिचारकावासः निर्वलितानि कु- मानुषत्वदुःखानि विमर्दिताः कुदेवत्वमानससन्तापाः प्रलयं नींतों मिथ्यात्ववेतालः निष्पन्दीकृता रागादिशत्रवः जरितप्रायं कर्मनिचया- जीर्णम् अपकर्णिता जराविकाराः अपहस्तितं मृत्युभयं करतलवर्तीनि संपादितानि स्वर्गापवर्गसुखानि, अथवाऽवधीरितानि तैर्भगवन्मतस्यै- जीवैः सांसारिकसुखानि गृहीतो हेयबुद्ध्या समस्तोऽपि भवप्रपञ्चः कृतं मोक्षैकतानमन्तःकरणम् , न च तेपां परमपदप्राप्ति प्रति व्यभि- चाराशङ्का, न छुपाय उपेयव्यभिचारी। श्रावकाणां सुभटत्वं-सदा ध्यायन्ति सर्वज्ञमहाराजं समाराधयन्ति सूरिराजवृन्दानि समाचरन्त्युपाध्यायामात्योपदेशं प्रवर्तन्ते गीतार्थवृषभमहायोधवचनेन सर्वधर्मकार्येषु वितरन्ति विधिना सदात्माऽनुग्रहधिया नियुक्तस्थानीयेभ्यः साधुवर्गोपग्रहनिरतेभ्यो गणचि- न्तकेभ्यो वनपात्रभक्तपानभेषजासनसंस्तारकवसत्यादिकं नमस्कुर्वन्ति विशुद्धमनोवाकायैस्तलवर्गिककल्पमद्यदीक्षितादिभेदभिन्नं सकलमपि सामान्यसाधुजनं वन्दन्ते भक्तिभरनिर्भरहृदयाः स्थविराजनस्थानीयमार्यालोकं प्रोत्साह्यन्ति समस्तधर्मकार्येषु विलासिनीसार्थस्थानीयं श्रा- विकाजनं अनुशीलयन्ति सकलकालं जिनजन्माभिपेकनन्दीश्वरवरद्वीपजिनयात्रामर्त्यलोकपर्वस्नानादिलक्षणानि तत्र जिनशासनसदने नि- ॥ ५॥ IMA । त्यनैमित्तिकानि, किं बहुनोक्तेन ?, ते हि भावनः सर्वज्ञशासनं विमुच्य नान्यत्किञ्चित्पश्यन्ति नाकर्णयन्ति न जानन्ति न श्रद्दधते न रोचयन्ति नानुपालयन्ति, किन्तर्हि ?, तदेव सकलकल्याणकारणं मन्यन्ते धर्ममहिमा-आकर्णय भो भद्र ! संसारे पर्यटतोऽस्य जीवस्य धर्म एवातिवत्सलहृदयः पिता धर्म एव गाढस्नेहवन्धुरा जनयित्री धर्म एवाभिन्नहृदयाभिप्रायो भ्राता धर्म एव सदैकस्नेहरसवशा भगिनी धर्म एव समस्तसुखखानीभूताऽनुरक्ता गुणवती भार्या धर्म एव विश्वासस्थानमेकरसमनुकूलं सकलकलाकलापकुशलं मित्रं धर्म एव सुरकुमाराकारधारकश्चित्तानन्दातिरेकहेतुस्तनयः धर्म एव शीलसौन्द- र्यगुणलब्धजयपताकाकुलोन्नतिनिमित्तभूता दुहिता धर्म एवाव्यभिचारी बन्धुवर्गः धर्म एव विनीतः परिकरः धर्म एव नरेश्वरता धर्म एव चक्रवर्तित्वं धर्म एव विवुधभावः धर्म एवामरेश्वरता धर्म एव वज्राकारो लावण्यापकर्णितभुवनो जरामरणविकारविकलः कायः धर्म एव समस्तशास्त्रार्थशुभशब्दग्रहणचतुरं श्रोत्रं धर्म एव भुवनालोकनक्षमे कल्याणदर्शने लोचने धर्म एव मनःप्रमोदहेतवोऽनयेया रत्नराशयः धर्म एव चित्ताहादविधायिनो विपघातनाद्यष्टगुणोपेताः कनककूटाः धर्म एव परनिराकरणपक्षं चतुरङ्गं बलं धर्म एवानन्तर- तिसागरावगाहनहेतुभूतानि विलासस्थानानि, किंबहुना जल्पितेन ?, धर्म एवैको निर्विघ्नानन्तसुखपरम्पराकारणं, नापरं किंश्चिदपि । धर्मभेदा:-यदि भवतोऽस्ति सुखाकाला ततोऽयमनुष्ठातुं चतुर्विधोऽपि युज्यते भवता, दीयतां सुपात्रेभ्यो यथाशक्त्या दान- क्रियता समस्तपापेभ्यो वा स्थूलपापेभ्यो वा प्राणातिपाताद्वा मृषावादाद्वा चौर्यकरणाद्वा परदारगमनाद्वा अपरिमितग्रहणाद्वा रात्रिभोजनाद्वा मद्य- पानाद्वा मांसभक्षणाद्वा सजीवफलास्वादनाद्वा मित्रद्रोहाद्वा गुर्वङ्गनागमनाद्वा- अन्यस्माद्वा-शक्यपरिहारान्निवृत्तिः, तथा विधीयतां यथाशक्ति कश्चित्तपोविशेपः, भाव्यतामनवरतं शुभभावना भवता, येन ते संपद्यन्ते निःसंशयमिहामुत्र च सकलकल्याणानि ।

उपमि० परिणाम. भव. देशकस्वरूप-एते भगवन्तः सद्धर्माचार्या विदिततुपमुष्टिनिःसारसंसारगर्भार्था अतुलसन्तोपामृततृप्तान्त:करणा अवगतविषयविष- विषमविपाका मोक्षकाखैकतानेन चेतसा सर्वत्र समवृत्ततयाऽत्यन्तनिःस्पृहतया च सन्मार्गोपदेशदाने प्रवर्त्तमानाः सन्तो न देवेन्द्रद्रमकयो- विशेष लक्षयन्ति न महद्धिविबुधनिर्द्धनपुरुपयोर्विभार्ग कल्पयन्ति न चक्रेश्वररोरयोरन्तरं दर्शयन्ति नोदारपरमेश्वरकृपणनरयोरादरानाद- राभ्यां विवर्तन्ते, समानमेपां चेतसि विवर्त्तते परमैश्वर्य दारियेण तुल्या महार्हरनराशयो जरठपाषाणनिकरेण सहशा उत्तप्तहाटककूटा लोप्टपूगेन सहशा हिरण्यस्तोमा धूलिपुजेन सन्निभो धान्यनिचयः क्षारराशेः तुल्यं चतुष्पदकुप्यादिकं निःसारकचवरेण न विशेपो नि- र्जितरतिरूपाभिरपि ललितललनाभिः सह जरत्काष्ठस्तम्भानामिति । पुनर्मिथ्यात्वे विकल्पा:-प्रसर्पति मिथ्यात्वविपं, ततस्तद्वशगोऽयं जीवः शिथिलयति मौनीन्द्रदर्शनपक्षपातं, विमुञ्चति पदार्थ- जिज्ञासां, अवधीरयति सद्धर्मनिरतं जनं, बहु मन्यते निर्विचारकलोकं, प्रमादयति प्राक् प्रवृत्तं सत्कर्त्तव्यलेशं, परित्यजति भद्रकभावं, रज्यते नितरां विषयेषु, पश्यति तत्त्वबुद्ध्या तत्साधनं धनकनकादिकं, गृह्णाति तथोपदिशन्तं गुरुं वञ्चकबुद्ध्या, नाकर्णयति तद्वचनं, भाषते धर्मावर्णवादान् , उद्घट्टयति धर्मगुरूणां मर्मस्थानानि, लगति प्रतीपं कूटवादेन, निराक्रियते पदे पदे गुरुभिः, ततश्चासौ चिन्त- यति-सुरचितग्रन्थप्रपञ्चा एते श्रमणा न निराकर्तुं मादशैः पार्यन्ते, ततों मामलीकविकल्पजालेन विप्रतार्य पुनः करिष्यन्येते मायावि- तयाऽऽत्मभक्ष्यस्थानं, अतो दूरत एव मयते वर्जनीयाः, स्वगृहाद्वारणीयाः, दृष्टा अपि न सम्भापणीयाः, नामापि न सोढव्यमेतेपां । मार्गे गुरुवाक्यं-भद्र! किं नागम्यते साधूपाश्रये किन्न विधीयते भवताऽऽत्महितं किं विफलीक्रियते मनुष्यभवः किन्न विज्ञायते Hos शुभाशुभविशेषः किमित्यनुभूयते पशुभावो भवता?, वयं हि भवत एवेदं पथ्यमिति भूयो भूयोऽभिध्महे, तदिदं सर्व शलाकाजन- स्थापनकल्पं विनेयं, सम्मानहेतुतया कारणे कार्योपचारादिति । अर्थमहिमा-अर्थनिचयकलितः पुरुपो लोके जराजीर्णशरीरोऽपि उन्मत्तपञ्चविंशतिकतरुणनराकारः प्रतीयते, अतिकातरहृदयोऽपि महासमरसट्टनियूंढसाहसोऽतुलबलपराक्रम इति गीयते, सिद्धमातृकापाठमात्रशक्तिविकलबुद्धिरपि समस्तशास्त्रार्थावगाहनचतुरमतिरिति पन्दिभिः पठ्यते, कुरूपतया नितरामदर्शनीयोऽपि चाटुकरणपरायणैः सेवकजनैरवजितमकरकेतुरिति हेतुभिः स्थाप्यते, अविद्यमानप्र- भावगन्धोऽपि समस्तवस्तुसाधनप्रवणप्रभावोऽयमिति सर्वत्र तद्धनलुन्धबुद्धिभिः प्रकाश्यते, जघन्यघटदासिकातनयोऽपि प्रख्यातोन्नतम- हावंशप्रसूतोऽयमिति प्रणयिजनैः स्तूयते, आसप्तमकुलवन्धुतासम्बन्धविकलोऽपि परमवन्धुबुद्ध्याऽध्यारोपेण समस्तलोकैर्गृह्यते, तदिदं समस्तमर्थस्य भगवतो विलसितं, किञ्च-समाने पुरुपत्वे समसङ्ख्यावयवाः पुरुषा यदेते दृश्यन्ते लोके यदुत-एके दायकाः अन्ये तु याचकाः तथैके नरपतयोऽन्ये पदातयः तथैके निरतिशयशब्दाद्युपभोगभाजनमन्ये तु दुष्पूरोदरदरीपूरणकरणेऽप्यशक्ताः तथैके पोपका अन्ये पोप्या इत्यादयो निःशेषविशेपा निजसद्भावासद्भावाभ्यामर्थेनैव संपाद्यन्ते, तस्मादर्थ एव प्रधानः पुरुषार्थः । अत एवोच्यते- अर्थाख्यः पुरुषार्थोऽयं, प्रधानः प्रतिभासते । तृणादपि लघु लोके, धिगर्थरहितं नरम् ॥ १ ॥ कामवर्णनं-न खलु ललितललनावदनकमलमकरन्दावादनचतुरचञ्चरीकताऽऽचरणमन्तरेण पुरुषः परमार्थतः पुरुषां स्वीकुरुते, किं च-अर्थनिचयस्य कलाकौशल्यस्य धर्मार्जनस्य जन्मनश्च काम एव वस्तुतः परमं फलं, कामविकलैः पुनः किमेतैः सुन्दरैरपि क्रि- यते ?, अन्यथ-कामासेवनप्रवणचेतसां पुरुपाणां तत्सम्पादका धनकनककलनादयो योग्यतया स्वत एवोपतिष्ठन्ते, संपद्यन्ते भोगिनां Indu

R
परिणाम,
उपमि०
भव.
॥७॥
भोगा इंति गोपालवालाबलादीनामपि सुप्रसिद्धमिदं, अपि च-स्मितं न लक्षेण वचों न कोटिभिर्न कोटिलक्षैः सविलासमीक्षितम् ।
अवाप्यतेऽन्यैरदयोपगृहनं, न कोटिकोट्याऽपि तदस्ति कामिनाम् ॥ १॥ अतः किन्न पर्याप्तं तेषां ?, तस्मात्काम एव प्रधानः पुरुषार्थः ।
अत एवाभिहितम्-कामाख्यः पुरुषार्थोऽयं, प्राधान्येनैव गीयते । नीरसं काष्ठकल्पं हि, धिक्कामविकलं नरम् ॥ १॥
धर्मप्राधान्यवर्णनं-तुल्ये जीवत्वे किमित्येक पुरुषाः कुलक्रमागतद्रविणोपचितेपु गुरुतरचित्तानन्दसन्दर्भधामसु निःशेषजगभ्य-
हितेषु कूलपूपजायन्ते ?, किमिति चान्ये पुरुपा एवं धनगन्धसम्बन्धविकलेपु समस्तदुःखभरभाजनेषु सर्वजननिन्दनीयेषु कुलेपूत्पद्यन्ते ?,
तथा किमित्येकजननीजनकतया सहोदरयोर्यमलयोश्च व्योः पुरुपयोरेप विशेपो दृश्यते यदुत-एकस्तयोर्मध्ये रूपेण मीनकेतनायते
प्रशान्ततया मुनिजनायते बुद्धिविभवेनाभयकुमारायते गम्भीरतया क्षीरनीरेश्वरायते स्थिरतया सुमेरुशिखरायते शौर्येण धनञ्जया-
यते धनेन धनदायते दानेन कर्णायते नीरोगतया वञशरीरायते प्रमुदितचित्ततया महर्द्धिविबुधायते ?, ततश्चैवं निःशेषगुणकलाकला-
पकलितोऽसौ सकलजननयनमनोनन्दनो भवति, द्वितीयः पुनर्वभित्सदर्शनतया भुवनमुद्वेजयति दुष्टचेष्टतया मातापितरावपि सन्तापयति
मूर्खशेखरतया पृथ्वी विजयते तुच्छतयाऽर्कशाल्मलीतूलमतिशेते चपलतया वानरलीलां विडम्वयति कातरतया भूपककदम्बकमधरयति
निर्द्धनतया रोराकारमाविभर्ति कृपणतया टक्कजातीयानतिलयति महारोगभराक्रान्ततया विक्लवं क्रन्दमानो जगतोऽप्यात्मनि कारुण्य-
मुत्पादयति दैन्योद्वेगशोकाद्युपहतचित्ततया घोरमहानरकाकारं सन्तापं स्वीकुरुते ततश्चैवं समस्तदोपभाजनतया लोकैः पापिष्ठोऽयमिति
निन्द्यते, अन्यच्च-द्वयोः पुरुषयोरनुपह्तसत्त्वबुद्धिपौरुपपराक्रमयोनिःशेपविशेपैस्तुल्यकक्षयोरर्थोपार्जनार्थ प्रवर्त्तमानयोः किमिलेको
यद्यदारभते कृर्षि पाशुपाल्यं वाणिज्यं राजादिसेवामन्यद्वा तदर्थ कर्म तत्तत्सफलतामुपगच्छति, इतरस्य पुनस्तदेव कर्म न केवलं विफलं
॥७॥

- संपद्यते, किन्तर्हि ?, पूर्वपुरुपोपार्जितमपि धनलवं वैपरीत्यापत्त्या प्रत्युत निःशेषयति ?, अन्यचेदमपि चिन्तनीयं, यदुत-द्वयोरेव पुरुष- योनिरुपचरिनाः पञ्चप्रकाराः शब्दादिविपयाः कचिदुपनमन्ते, तत्र तयोरेकः प्रवलशक्तिः प्रवर्द्धमानप्रीतिस्ताननवरतमनुभवति, द्विती- यन्य पुनरकाण्ड एव क्रिमिति कार्पण्यरोगादिकं कारणमुत्पद्यते? येन वाञ्छन्नपि तानेव भोक्तुं न शक्नोतीति । न ह्येवंविधानां विशेपाणां जीवेषु जायमानानां परिदृष्टं किञ्चित्कारणमुपलक्ष्यते, न चाकारणं किञ्चिद्भवितुमर्हति, यदि पुनरकारणा एवंविधा विशेपा भवेयुः तनः मर्वदा भवेयुः यथाऽऽकाशं, न वा कदाचिद्भवेयुर्यथा शशविपाणादयो, यतश्चैते कचिद्भवन्ति कचिन्न भवन्ति तस्मान्नैते निष्कारणा इति गम्यते । समस्तानामपि जीवगतानां सुन्दरविशेपाणां धर्म एवान्तरङ्गं कारणं भवति, स एव हि भगवानेनं जीवं सुकुलेपूत्पादयति निःशेष- गुणमन्दिरतां नयति समस्तान्यनुष्ठानान्यस्य सफलयति उपनतभोगाननवरतं भोजयति अन्यांश्च समस्तशुभविशेषान् संपादयति, तथा सर्वेषामपि जीवगतानामशोभनविशेपाणामधर्म एवान्तरङ्गं कारणं, स एव हि दुरन्तोऽमुं जीवं दुष्कूलेपूत्पादयति निःशेपदोपनिवासतां प्रापयति सर्वव्यवसायानस्य विफलयति उपनतभोगोपभोगविनभूतं शक्तिवैकल्यं जनयति अपरांश्चामनोज्ञाननन्तान् विशेषानस्य जीव- स्थाधत्ते, तस्मादागुलेनैताः समस्तसम्पदः स एव धर्मः प्रधानः पुरुपार्थः । धर्मस्य कारणं स्वभावः कार्य च -सामान्येन तावद्धर्मस्य त्रीण्येव रूपाणि द्रष्टव्यानि भवन्ति, तद्यथा कारणं स्वभावः कार्य च, तत्र सदनुष्टानं धर्मस्य कारणं, तद् दृश्यत एव, स्वभावः पुनर्द्विविधः-साश्रवोऽनावश्च, तत्र साश्रवो जीवे शुभपरमाणूपचय- रूपः, अनाश्रवस्तु पूर्वोपचितकर्मपरमाणुविलयमावलक्षणः, स एप द्विविधोऽपि धर्मखभावो योगिभिदृश्यते, अस्मादृशैरप्यनुमानेन ह- उपमि० परिणाम. भव. ॥८॥ श्यत एव, कार्य पुनर्धर्मस्य यावन्तो जीवगताः सुन्दरविशेपाः तेऽपि प्रतिप्राणि प्रसिद्धतया परिस्फुटतरं दृश्यन्त एव, तदिदं कारण- स्वभावकार्यरूपत्रयं पश्यता धर्मस्य किं न दृष्टं भवता? येनोच्यते न दृष्टो मया धर्म इति, यस्मादेतदेव तृतीयं धर्मध्वनिनाऽभिधीयते, केवलमेष विशेषो यदुत-सदनुष्ठानं कारणे कार्योपचाराद्धर्म इत्युच्यते, यथा तन्दुलान वर्पति पर्जन्य इति, स्वभावस्तु यः साश्रवो निगदितः स पुण्यानुवन्धिपुण्यरूपो विज्ञेयः, यः पुनरनाश्रवः स निर्जरात्मको मन्तव्यः, स एष द्विविधोऽपि स्वभावो निरुपचरितः साक्षाद्धर्म एवाभिधीयते, ये त्वमी जीववर्तिनः समस्ता अपि सुन्दरविशेषाः ते कार्य कारणोपचाराद्धर्मशब्देन गीयन्ते, यथा ममेदं शरीरं पुराणं कर्मेति । सम्यक्त्वस्वरूप-भद्र ! यो रागद्वेपमोहादिरहितोऽनन्तज्ञानदर्शनवीर्यानन्दात्मकः समस्तजगदनुग्रहप्रवणः सकलनिष्कलरूपः पर- मात्मा स एव परमार्थतो देव इति बुद्ध्या तस्योपरि यद्धक्तिकरणं तथा तेनैव भाषिता ये जीवाजीवपुण्यपापाश्रवसंवरनिर्जराबन्धमो- क्षाख्या नव पदार्थाः ते अवितथा एवेति या प्रतिपत्तिः तथा तदुपदिष्टे ज्ञानदर्शनचारित्रात्मके मोक्षमार्गे ये प्रवर्तन्ते साधवः त एव गुरवो वन्दनीया इति या बुद्धिस्तत्सम्यग्दर्शनं, तत्पुनर्जीवे वर्तमान प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणैर्वाहालि लक्ष्यते, तथा तदगीकृत्य जीवेन सत्त्वगुणाधिकविश्यमानाविनेयेपु मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि समाचरणीयानि भवन्ति, तथा स्थिरता भगवदायतनसेवा आगमकुशलता भक्तिः प्रवचनप्रभावना इत्येते पञ्च भावाः सम्यग्दर्शनं दीपयन्ति, तथा शङ्का काला विचिकित्सा परपापण्डप्रशंसा संस्तवश्चैते तु तदेव दूपयन्ति, तदेप सकलकल्याणावहो दर्शनमोहनीयकर्मक्षयोपशमादिनाऽऽविर्भूतः खल्वात्मपरिणाम एव विशुद्धसम्यग्दर्शनमभिधीयते । - * र सूरिकृतः प्रमादिन उपालंभः-ज्ञानदर्शनविदूपक ! केयं भवतोऽनात्मज्ञता? किमिति प्रतिक्षणमस्मानारारव्यमानान् भवान्न लक्ष- यति ?, दृष्टा बह्वोऽस्माभिरन्येऽप्यकल्याणभाजनभूताः प्राणिनः, केवलं तेपामपि मध्ये शेखरायितं भवता, यतस्त्वं जाननपि भगवद्व चनं श्रद्दधानोऽपि जीवादिपदार्थसाथ विद्यमानेऽपि मादृशे प्रोत्साहके लक्षयन्नपीदृशसामथ्याः सुदुर्लभतां भावयन्नपि संसारदुरन्तता परिकलयन्नपि कर्मदारुणा बुद्ध्यमानोऽपि रागादिरौद्रतां तथापि समस्तानर्थसार्थप्रवर्तकेपु कतिपयदिवसवर्तिपु तुपमुष्टिनिःसारेषु विप- येषु सततं रज्यमे, न पुनरस्माभिरनगर्तपातिनं भवन्तमवगम्य दययोपदिश्यमानामेनां सकलक्लेशदोषविरेककारिणी भागवतीं समस्त- पापविरतिं भवानवहेलयाऽपि विलोकयति, अन्यच-एतदपि न लक्षितं भवतः यदर्थमेषोऽस्माकं भवन्तं प्रति महानादरः, तदाकर्णय अत्रापि यत्कारणं-यतस्त्वं सज्जानदर्शनयुक्ततया सर्वज्ञशासनाभ्यन्तरभूतो वर्त्तसे यतश्च प्रथमावसरेऽपि भगवन्मतमवलोक्य जातस्ते प्रमोदः तदर्शनेन च लक्षिताऽस्माभिस्त्वयि भवन्ती परमात्मावलोकना ततो वयं भगवदनुगृहीतोऽयमितिकृत्वा तवोपर्यादरवन्तः, युज्यते च भगवदनुचराणां तदभिमतेपु पक्षपातः कर्तुं, ये तु जीवाः सर्वज्ञशासनमन्दिरमद्यापि नावगाहन्ते कथञ्चित्प्रविष्टा अपि तत्र न तद्दशनेन हृष्यन्ति अत एव च परमात्मावलोकनाया बहिता लक्ष्यन्ते तांस्तथाभूताननन्तानपि जीवान् पश्यन्तोऽपि च यदुदासीनभावं भजामहे, नोचितास्ते खल्वादरकरणस्य, अयं चेयन्तं कालं याववष्टम्भोऽस्माकमासीत्-किलामुनोपायेन ये योग्याः सन्मार्गावतरणस्येति निश्चीयते ते न कदाचन व्यभिचरन्ति, यावता भवताऽयमनेकसत्त्वेपु सुनिश्चितोऽप्यस्माभिरुपायो विपरीतमाचरता व्यभिचारितो वर्तते, ततो भो दुर्मते! मैवं विधेहि, कुरुष्वाधुनापि यदहं वच्मि, परित्यजेदं दौःशील्यं, विहाय दुर्गतिपुरीवर्तनीकल्पामविरतिमुररीकुरु निन्द्वानन्दसन्दोहदायिका सर्वज्ञोपज्ञां ज्ञानदर्शनयोः फलभूतां विरतिं, इतरथा परमार्थतो ज्ञानदर्शने अपि निष्फले संपत्स्येते, इयं हि

में
उपमि०
परिणाम.
भव.
॥९॥
भागवती दीक्षा गृहीता सती सम्यक् पाल्यमाना सकलकल्याणपरम्परां संपादयति, यदिवा तिष्ठन्तु तावत् पारलौकिककल्याणानि, कि
न पश्यति भवानिदानीमेवैते भगवदुक्तविरतिरतचित्ताः सुसाधवो यदनन्तामृतरसतृप्ता इव स्वस्थाः सदा मानसेन अवेदयितारो विषया-
मिलापजनितानां कामविकलतयौत्सुक्यप्रियविरहवेदनानां अनभिज्ञातारो लोभमूलानां निष्कषायतया धनार्जनरक्षणनाशदुःखानां वन्द-
नीयात्रिभुवनस्य संसारसागरादुत्तीर्णमेवात्मानं मन्यमानाः सदा मोदन्ते, तदेवंभूतगुणेयं विरतिः किमात्मवैरितया नादीयते भवतेति ?
मूर्च्छयाऽपथ्यासेवा-यदा पुनरयं जीवोऽनात्मज्ञतया गाढतरं विपयधनादिपु गृद्धिं विधत्ते, ततश्चादत्ते भूरिपरिग्रहं, समारभते
महाजालकल्पं वाणिज्यं समाचरति कृष्यादिकं विधापयति तथाविधानन्यांश्च सदाऽऽरम्भान् तदा ते रागादयो भावरोगाः प्रवलस-
हकारिकारणकलापमासाद्य नानाकारान् विकारान् दर्शयन्येव, नानादरविहितमनुष्ठानमात्रं तत्र त्राणं, ततश्चायं जीवः कचित्पीड्यते अ-
काण्डशूलकल्पया धनव्ययचिन्तया, कचिद्दन्दह्यते परेादाहेन, कचिन्मुमूर्परिव मूॉमनुभवति सर्वखहरणेन, कचिद्बाध्यते कामज्वर-
सन्तापेन, कचिच्छर्दिमिव कार्यते बलादुत्तमणैर्गृहीतधननिर्यातना, कचिज्जाड्यमिव संपद्यते जानतोऽप्यस्यैवंविधा प्रवृत्तिरिति प्रवादेनं
लोकमध्ये मूर्खत्वं, कचित्ताम्यति हृत्पार्श्ववेदनातुल्यया इष्टवियोगानिष्टसम्प्रयोगादिपीडया, कचित्प्रभवति प्रमत्तस्य पुनरपि मिथ्यात्वो-
न्मादसन्तापः, कचिद्भवति सदनुष्ठानलक्षणे पथ्ये भृशतरमरोचकः, तदेवमेवंविधैर्विकारस्तावती कोटिमध्यारूढोऽपि खल्वेप जीवोsप-
थ्यसेवनासक्तो वाध्यते ।
विकारे उपालम्भ:-भोः कथितमेवेदं प्रागेव भवतो, न दुर्लभाः खल विषयासक्तचित्तैर्मनःसन्तापाः, न दूरवर्तिन्यो धनार्जनर-
क्षणप्रवणानां नाना व्यापदः, तथापि भवतस्तत्रैव गाढतरं प्रतिवन्धः, यत्पुनरेतदशेपक्लेशराशिमहाऽजीर्णविरेककारितया परमखास्थ्यका-
॥९॥

रणं ज्ञानदर्शनचारित्रत्रयं तदनादरेणावलोकयसि लं, तदत्र किं कुर्मो वयं?, · यदि किञ्चिद् मस्ततो भवानाकुलीभवति, ततो दृष्ट- तान्ता वयं भवन्तमनेकोपवैरुपद्रूयमानं पश्यन्तोऽपि तूष्णीमास्महे, न पुनराकुलताभयाद्भवन्तममार्ग प्रस्थितमपि वारयामः, आदरव- तामेव पुंमां विरुद्धकर्माणि परिहरतां ज्ञानदर्शनदेशचारित्राण्यनुतिष्ठतां तानि विकारनिवारणायालं नानादरवतां, यदा चास्माकं पश्य- तामपि त्वं रागादिरोगैरभिभूयसे तदा भवद्गुरव इतिकृत्वा वयमप्युपालम्भभाजनं लोके भविष्यामः । अवाप्तापायनिवेदनं-भगवन्नहं यदा युष्मन्निवारणया न गृहामि स्तेनाहृतं, न करोमि विरुद्धराज्यातिक्रम, नाचरामि वेश्यादि- गमनं, नानुतिष्टामि तथाविधमन्यदपि [धर्म लोकविरुद्धं, न रज्यामि महारम्भपरिग्रहयोः, तदा मां लोकः साधुतया गृहाति, मयि विनम्मं विधत्ते, लायां चाचरति, तथा न जानामि शरीरायासजनितं दुःखं, संपद्यते हृदयस्वास्थ्य, धर्मश्चैवं तिष्ठतां सुगतिप्रापको भवतीति भावनया भवति चित्तानन्द इति, यदा तु युष्मनिवारणा न भवति भवन्ती वा तामनपेक्ष्य निर्भयतया न जानन्ति मां गुरव इत्यभिप्रायेण धनमूर्छनया गृहामि स्तेनाहूतादिकं विपयलौल्येन गच्छामि वेश्यादिकं समाचरामि तादृशमन्यदपि भगवन्निवारितं तदा लोकादश्शायां राजकुलात्सर्वस्वहरणं शरीरखेदं मनस्तापमपरांश्च समस्तानननिहलोक एव प्राप्नोमि, पापं च दुर्गतिगर्तपातहेतुरेवं वर्त्त-| मानानां भवतीतिचिन्तया दन्दह्यमानहृदयः क्षणमपि सुखं न लभेऽहमिति, तस्मान्नाथास्तथा कुरुध्वं यूयं यथाऽहमनवरतं युष्मद्वचनाच- रणसन्नाहेन सततमेतस्मादनशरजालाद्रक्षितो भवामि । सद्बुद्धिमहिमा-भद्र! दीयते सद्बुद्धिः, वचनायत्ता हि सा मादृशां वर्त्तते, केवलं दीयमानाऽपि सा पुण्यभाजामेव जन्तूनां स- म्यक् परिणमति, नेतरेपां, यतः पुण्यभाज एव तस्यामादरवन्तो जायन्ते, नापरे, तदभावभाविनो हि देहिनां सर्वेऽनर्थाः, तदायत्ता- परिणाम. उपमि० न्येव सकलकल्याणानि, तस्यामेव च ये महात्मानो यतन्ते त एव भगवन्तं सर्वज्ञमाराधयन्ति, नेतरे, तत्संपादनार्थः खल्वेष माशां वचनप्रपञ्चः, सद्बुद्धिविकलानां हि पुरुषाणां व्यवहारतः संजातान्यपि ज्ञानादीनि नासंजातेभ्यो विशिष्यन्ते, स्वकार्याकरणात्, किं ब- हुनोक्तेन ?, सदुद्धिविकलः पुरुषो न पशूनतिशेते, तस्मादि तेऽस्ति सुखाकाला दुःखेभ्यो वा यदि विभेषि ततोऽस्यामस्माभिर्दी- यमानायां सद्बुद्धौ यत्नो विधेयः, तस्यां हि यनवता समाराधितं प्रवचनं वहुमतो भुवनभर्ती परितोपिता वयं अङ्गीकृतं लोकोत्तरयानं परित्यक्ता लोकसंज्ञा समासेविता धर्मचारिता समुत्तारितो भवोदधेरात्मा भवतेति । उपदेशः-यावदेष जीवो विपर्यासवशेन दुःखात्मकेपु धनविषयादिपु सुखाध्यारोपं विधत्ते सुखात्मकेषु वैराग्यतपःसंयमादिषु दु:- खाध्यारोपं कुरुते तावदेवास्य दुःखसम्बन्धः, यदा पुनरनेन विदितं भवति-विषयेषु प्रवृत्तिर्दुःखं धनाद्याकाद्वानिवृत्तिः सुखं, तदाऽय- मशेषेच्छाविच्छेदेन निराकुलतया खाभाविकसुखादेर्भावात् सततानन्दो भवति, अन्यत्र-भवतोऽयं परमार्थः कथ्यते, यथा यथाऽयं पुरुपो निःस्पृहीभवति तथा तथाऽस्य पात्रतया सकलाः संपदः संपद्यन्ते, यथा यथा संपदभिलापी भवति तथा तथा तदयो- ग्यतामिव निश्चित्य तास्ततो गाढतरं दूरीभवन्ति, तदिदं निश्चित्य भवता सर्वत्र सांसारिकपदार्थसाथै नास्था विधेया, ततस्ते स्वप्नदशायामपि पीडागंधोऽपि मनःशरीरयोनैव संपत्स्यत इति । त्यागदुष्करता-यदाऽयं सांसारिकार्थेषु चित्तानुवन्धत्रोटनेन ज्ञानाद्याचरणे दृढमनुसक्ततया गृहस्थावस्थायामपि वर्तमानो विज्ञा- तसंतोपसुखस्वरूपो भवति तदाऽस्याविच्छिन्नप्रशमसुखवाञ्छया -प्रादुर्भवत्येव सर्वसङ्गत्यागवुद्धिः, प-लोचयति चात्मीयसदुद्ध्या सार्द्ध यदुत--किमहमस्य विधाने समर्थो न वेति ?, ततः सद्बुद्धिप्रसादादेवेदमेप लक्षयत्येव यथा-अनादिभवाभ्यासवशेन स्वरसप्रवृत्तिरेष ॥१०॥ ॥१०॥ 4-5 -- Stro जीयो विषयादिपु, ततो यदि निःशेपदोपनिवृत्तिलक्षणां भागवतीमपि दीक्षामुररीकृत्य पुनरयं तामनादिरूढकर्मजनितां प्रकृतिमनुवर्त्त- मानो विपयादिस्पृहयाऽप्यात्मानं विडम्बयिष्यति ततोऽस्यादित एव तदनङ्गीकरणं श्रेयस्कर, यतस्तीत्राभिष्वङ्गरहितो विपयादिपु वर्तमानो गृहस्थोऽपि द्रव्यस्तवं ज्ञानाद्याचरणप्रधानं कुर्वाणः कर्माजीर्णजरणेन रागादिभावरोगतनुतामधिकृत्य याप्यतां लभते, न चेयमप्यनादौ भ- वभ्रमणे फचिदवाप्तपूर्वाऽनेन जीवनातोऽत्यन्तदुर्लभेयं, यदि तु प्रव्रज्यां प्रतिपद्य पुनर्विषयाद्यभिलापं विधत्ते ततः प्रतिज्ञाताकरणेन बृह- त्तरचित्तसंछेशप्राप्तेर्गुरुतररागापुद्रेकेण तामपि याप्यतां न लभते, ततो यावदेवं निरूपयत्ययं जीवः तावदस्य चारित्रमोहनीयकर्माशैरनु- वर्तमानैर्विधुरिता सती पूर्व प्रवृत्ताऽपि सर्वसङ्गत्यागबुद्धिः पुनर्दोलायते, ततः संपद्यते वीर्यहानिः, ततोऽवलम्बते खल्वयमेवंविधानि यदुत-सीदति तावदधुना ममेदं कुटुम्बकं, मन्मुखनिरीक्षकं चेदं न वर्त्तते मद्विरहे, अतः कथमकाण्ड एव मुञ्चामि ?, यदिवाऽद्याप्य- संजातवलोऽयं तनयः, अपरिणीतेयं दुहिता, प्रोपितभर्तृकेयं भगिनी मृतपतिका वा, अतः पालनीया ममेयं, तथा नाद्यापि गृहधूर्धर- पक्षमोऽयं भ्राता, जराजर्जरितशरीराविमौ मातापितरौ स्नेहकातरौ च, गर्भवतीयं भार्या दृढमनुरक्तहृदया च न जीवति मद्विरहिता, अतः कथमेवं विसंस्थुलं परित्यजामि ?, यदिवा विद्यते मे भूरिधननिचयः, सन्ति बहवोऽधमर्णाः, अस्ति च सुपरीक्षितभक्तिर्भूयान् परिकरो बन्धुवर्गश्च, तदयं पोष्यो मे वर्त्तते, तस्मादुद्राह्य द्रविणं लोकेभ्यः कृत्वा बन्धुपरिकराधीनं विधाय धर्मद्वारेण धनविनियोग, अनुमातः स्वरसेन सर्वैर्मातापित्रादिभिर्विहिताशेपगृहस्थकृत्य एव दीक्षामङ्गीकरिष्ये, किमनेनाकाण्डविडरेणेति ?, अन्यच्च-यदिदं प्रत्र- जनं नाम साक्षाद्वाहुभ्यां तरणमेतत् स्वयंभूरमणस्य वर्तते, प्रतिस्रोतोगमनमेतद्गङ्गायाः, चर्वणमेतदयोयवानां, भक्षणमेतदयोगोलकानां, भरणमेतत्सूक्ष्मपवनेन कम्बलमुत्कोल्याः, भेदनमेतत् शिरसा सुरगिरेः, मानग्रहणमेतत्कुशाग्रेण नीरनिधेः, नयनमेतदविन्दुपातं धावता

परिणाम.
उपमि०
भव.
योजनशतं तैलापूर्णपाच्याः, ताडनमेतत् सव्यापसव्यभ्रमणशीलाष्टचक्रविवरगामिना शिलीमुखेन वामलोचने पुत्रिकायाः, भ्रमणमेतद्-
नपेक्षितपादपातं निशातकरवालधारायामिति, यतोऽत्र परिसोढव्याः परिषहाः, निराकर्त्तव्या दिव्याग्रुपसर्गाः, विधातव्या समस्तपाप-
योगनिवृत्तिः, वोढव्यो यावत्कथं सुरगिरिगुरुः शीलभारो, वर्तयितव्यः सकलकालं माधुकर्या वर्तनयाऽऽत्मा, निष्टप्तव्यो विकृष्टतपो-
भिर्देहः, खात्मीभावमानेतव्यः संयमः, समुन्मूलयितव्या रागादयो, निरोद्धव्यो हार्दतमःप्रसरः, किंबहुना?, निहन्तव्योऽप्रमत्तचित्तैर्मो-
हमहावेताल इति, मृदुशयनाहारलालितपालितं च मामकं शरीरं, तथा अपरिकर्मितमद्यापि चित्तं, तन्नैतावतः प्रायेण महाभारस्योद्वहने
सामर्थ्य, अथचैतदप्यस्ति न यावत्सकलद्वन्द्वविच्छेदद्वारेण भागवती दीक्षाऽभ्युपगता न तावत्सम्पूर्ण प्रशमसुखमशेषकेशवित्रोटलक्षणो
वां मोक्षोऽवाप्यत इति, न जानीमः किं कुर्महे ?, ।
॥११॥
वैराग्यम्-यदा भार्या वा व्यलीकमाचरेत् , पुत्रो वा दुर्विनीततां कुर्यात् , दुहिता वा विनयमतिलच्येत्, भगिनी वा विपरीत-
चारितामनुचेष्टेत, भ्राता वा धर्मद्वारेण धनव्ययं विधीयमानं न बहु मन्यते, जननीजनको वां गृहकर्त्तव्येषु शिथिलोऽयमिति जनसम-
क्षमाक्रोशेतां, वन्धुवर्गो वा व्यभिचारं भजेत, परिकरो वाऽऽज्ञां प्रतिकूलयेत् , खदेहो वाऽतिलालितपालितोऽपि खलजनवद्रोगादिकं
विकारमादर्शयेत्, धननिचयो वा अकाण्ड एव विद्युल्लताविलसितमनुविध्यान्, तदाऽस्य जीवस्य परमानतृप्तस्य कुभोजनमिव. समस्तो-
ऽपि संसारविस्तरः सुतरां यथावस्थितस्वरूपेण मनसि प्रतिभासयेत् ।
परोपकारः-परोपकारः सम्यक् क्रियमाणो धीरतामभिवर्द्धयति, दीनतामपकर्षति, उदारचित्ततां विधत्ते, आत्मम्भरितां मोचयति,
॥११॥

चेतोवैमन्यं वितनुते, प्रभुत्वमाविर्भावयति, ततोऽसौ प्रादुर्भूतवीर्योल्लासः प्रणष्टरजोमोहः परोपकारकरणपरः पुरुपो जन्मान्तरेष्वप्युत्त- रोत्तरक्रमेण चामतरं सन्मार्गविशेषमासादयति, न पुनस्ततः प्रतिपततीति संसारनाटक-यान्येतानि योनिजवनिकाव्यवहितानि पात्राणि तिष्ठन्ति(तानि)मद्वचनेन निर्गच्छन्तु शीघ्रं, एतानि च निर्गतानि उपगनमदितव्यापाराणि गृहन्तु मातुःस्तनं, पुनधूलीधूसराणि रजन्तु भूमौ, पुनढुंठमानानि पदे पदे परिष्वजन्तु चरणाभ्यां, कुर्वन्तु मूत्रपुरीपविमर्दनवीभत्समात्मानं, पुनरतिक्रान्तबालभावानि धारयन्तु कुमारतां, क्रीडन्तु नानाविधक्रीडाविब्बोकैः, अभ्यस्यन्तु सकलक- लाकलापकौगलं, पुनरतिलजितकुमारभावान्यध्यासयन्तु तरुणतां, दर्शयन्तु मन्मथगुरूपदेशानुसारेण सकलविवेकिलोकहास्यकारिणोऽन- पेक्षिननिजकुलकलवाद्यपायान् कटाक्षविक्षेपादिसारान् नानाकारविलासविशेपानिति, प्रवर्तन्तां पारदार्यादिष्वनार्यकार्येषु, पुनरपगततारु- ण्यानि स्वीकुर्वन्तु मध्यमवयस्तां, प्रकटयन्तु सत्त्वबुद्धिपौरुपपराक्रमप्रकप, पुनरतिवाहितमध्यमवयोभावानि संश्रयन्तु जराजीर्णतां, दर्श- यन्तु वलीपलिताङ्गभङ्गकरणविकलत्वमलजम्बालाविलशरीरतां, समाचरन्तु विपरीतस्वभावतां, पुनर्व्यवकलितसकलजीवितभावानि देह- त्यागेन नाटयन्तु मृतरूपतां, ततः पुनः प्रविशन्तु योनिजवनिकाभ्यन्तरे, अनुभवन्तु तत्र गर्भकलमलान्तर्गतानि विविधदुःखं, पुनश्च निर्गच्छन्तु रूपान्तरमुपादाय, कुर्वन्त्वेवमनन्तवाराः प्रवेशनिर्गमनम् । भव्यपुरुषवर्णनं-भविष्यत्येप निदर्शनं रूपस्य, निलयो यौवनस्य, मन्दिरं लावण्यस्य, दृष्टान्तः प्रश्रयस्य, निकेतनमौदार्यस्य, निधि- विनयस्य, मदन गाम्भीर्यस्य, आलयो विज्ञानस्य, आकरो दाक्षिण्यस्य, उत्पत्तिभूमिक्ष्यस्य, इयत्तापरिच्छेदः स्थैर्यस्य, प्रत्यादेशो धै- यस्य, गोचरो लज्जायाः, उदाहरणं विषयप्रागल्भ्यस्य, सद्भर्त्ता धृतिस्मृतिश्रद्धाविविदिपादिसुन्दरीणामिति, अन्यच्चानेकभवाभ्यस्तकुशलक-

उपमि०
परिणाम.
4
॥ १२ ॥
र्मतया वालकालेऽपि प्रवर्त्तमानोऽयं न भविष्यति केलिप्रियः, दर्शयिष्यति जने वत्सलता, समाचरिष्यति गुरुविनयं, प्रकटयिष्यति
धर्मानुरागं, न करिष्यति लोलतां विपयेषु, विजेष्यते कामक्रोधादिकमान्तरमरिषड्वर्ग, नन्दयिष्यति भवतां चित्तानीति ।
सदागममहिमा-केवलं प्रकृतिरियमस्य भगवतः सदागमस्य यया वचनविपरीतकारिषु कुपात्रेष्ववधीरणां विधत्ते, ततस्तेनावधी-
रिताः सन्तो नाथरहिता इति मत्वा गाढतरं कर्मपरिणामराजेन कदर्थ्यन्ते, ये तु पात्रभूततयाऽस्य निर्देशकारिणो भवन्ति तानेव स्वां
प्रकृतिमनुवर्तमानः कर्मपरिणामकदर्थनायाः सर्वथाऽयं मोचयतीति, येऽपि लोका भगवतोऽस्य सदागमस्योपरि भक्तिमन्तोऽप्यस्य सम्ब-
न्धि वचनं तथाविधशक्तिविकलतया संपूर्णमनुष्ठातुं न शक्नुवन्ति, किं तर्हि ?, तन्मध्याद् बहुतमं बहुतरं बहुस्तोकं स्तोकतरं स्तोकतमं वा
कुर्वन्ति भक्तिमात्रकं वाऽस्योपरि विदधति नाममात्रं वाऽस्य गृहन्ति यदिवा येऽस्य भगवतः संबन्धिनि वचने वर्तन्ते महात्मानस्तेपामु-
परि 'धन्याः कृतार्थाः पुण्यभाजः सुलब्धजन्मान एते'इत्यादिवचनलिङ्गगम्यं पक्षपातं कुर्वन्ति यद्वाऽस्य भगवतोऽभिधानमात्रमप्यजा-
नानाः प्रकृत्यैव ये भद्रका भवन्ति ततश्च मार्गानुसारिसदन्धन्यायेनानाभोगतोऽप्यस्य वचनानुसारेण वर्तन्ते तानप्येवंविधाननल्पवि-
कल्पान लोकानेप कर्मपरिणामो महानरेन्द्रो यद्यपि संसारनाटके कियन्तमपि कालं नाटयति तथाऽपि सदागमस्याभिप्रेता एत इति मत्वा
नाधमपात्रभावं नारकतिर्यककुमानुपकदमररूपं तेषां विधत्ते, किं तर्हि ?, केपाश्चिदनुत्तरसुररूपं दर्शयति, केपाश्चिद् गैवेयकामराकारं
प्रकटयति, केपाश्चिदुपरितनकल्पोपपन्नदेवरूपतां जनयति, केपाश्चिद्धस्तनकल्पोत्पन्नमहर्द्धिलेखकरणिं कारयति, केपाश्चिद् भुवि सुरूपता
लक्षयति, केपाश्चिञ्चक्रवर्तिमहामण्डलिकादिप्रधानपुरुपभावं भावयति, सर्वथा प्रधानपात्ररूपतां विहाय न कदाचिद्रूपान्तरेण तान्नर्तयति,
तत्पर्याप्तमेतावताऽस्य भगवतः सदार्गमस्य माहात्म्येन, यदेवंविधसामर्थ्ययुक्तोऽप्येप कर्मपरिणामो महानृपतिरेतद्भयाक्रान्तहृदयः खल्वेवं
॥ १२ ॥

RESS बनते. -अन्यत्र कश्यते तुभ्यं, कौतुकं यदि विद्यते । रूपं सदागमस्यास्य, तद् बुध्यस्त्र मृगेक्षणे! ॥१॥ एप एव जगन्नाथो, वत्सलः परमार्थतः । एष एवं जगत्राणमेप एव सुबान्धवः ॥ २॥ एप एव विपद्र्ते, पततामवलम्बनम् । एप एव भवाटव्यामटतां मार्गदेशकः ॥ ३ ॥ पण एव महावैद्यः, मर्वव्याधिनिबर्हणः । एप एव गदोच्छेदकारणं परमौषधम् ॥ ४ ॥ एप एव जगदीपः, सर्ववस्तुप्रकाशकः । प्रमादराक्षसात्तूर्णमेप एवं विमोचकः ॥ ५॥ एपोऽविरतिजम्बालकल्मपक्षालनक्षमः । एप एव च योगानां, दुष्टानां वारणोद्यतः ६॥ शब्दादिचरटाक्रान्ते, हृतधर्मधने जने । समर्थो भगवानेप, नान्यस्तस्य विमोचने ॥ ७ ॥ एप एव महाघोरनरकोद्धरणक्षमः । पशुत्वदुः- खमंबाताबायकोऽप्येप देहिनाम् ॥ ८ ॥ एप एव कुमानुष्यदुःखविच्छेदकारणम् । एप एव कुदेवत्वमनःसन्तापनाशकः ॥ ९॥ अज्ञान- तरुविच्छंद, एप एव कुठारकः । एप एव महानिद्राद्रावणः प्रतिवोधकः ॥ १० ॥ एप स्वाभाविकानन्दकारणत्वेन गीयते । सातासातो- दयोत्सायमिथ्यावुद्धिविधूनकः ॥ ११ ॥ एप एव गुरुक्रोधवह्निविध्यापने जलम् । एप एव महामानपर्वतोदलने पविः ॥ १२ ॥ एप मायामहाव्यात्रीपातने शरभायते । एप एव महालोभनीरदे शोषणानिलः ॥ १३ ॥ एप हास्यविकारस्य, गाढं प्रशमनक्षमः । एप मोहो- दयोत्पाद्यां, गतिं निर्नाशयत्यलम् ॥ १४ ॥ एप एवारतिग्रस्ते, जनेऽस्मिन्नमृतायते । एप एव भयोद्धान्तसत्त्वसंरक्षणक्षमः ॥ १५ ॥ पण शोकभराकान्तं, संधीरयति देहिनम् । एप एव जुगुप्सादिविकारं शमयत्यलम् ॥ १६॥ एप कामपिशाचस्य, दृढमुचाटने पटुः । एप एव च मानण्डो, मिथ्यात्वध्वान्तसूदनः ॥ १७ ॥ एप एव चतुर्भेदजीवितोच्छेदकारणम् । यतो जीवं ततोऽतीते, नयत्येप शिवालये ॥ १८ ॥ शुभेतरेण या नाना, कृता लोकविडम्बना । कृन्ते तामेप लोकानामनङ्गस्थानदानतः ॥ १९ ॥ सर्वोत्तमत्वं भक्तानां, विधाया- श्रयमव्ययम् । एप एव छिनत्त्युचैर्नीचैर्गोत्रविडम्वनाम् ॥२०॥ एप एव च दानादिशक्तिसन्दोहकारणम् । एप एव महावीर्ययोगहेतुरुदाहृतः उ०३ RS परिणाम. उपमि० भव. ॥ २१ ॥ अन्यच्च ये महापापा, निर्भाग्याः पुरुषाधमाः । न ते सदागमस्यास्य, नामापि वहु मन्यते ॥ २२ ॥ ततस्तेन नरेन्द्रेण, ते पूर्वो- क्तविधानतः । संसारनाटकेनोच्चैः, कदर्थ्यन्ते निरन्तरम् ॥ २३ ॥ य एव भाविकल्याणाः, पुण्यभाजो नरोत्तमाः। ते सदागम- निर्देशं, कुर्वन्ति महदादरात् ॥ २४ ॥ ततोऽपकर्ण्य राजानं, ते विडम्वनकारिणम् । संसारनाटकान्मुक्ता, मोदन्ते निर्वृतौ गताः ॥ २५ ॥ राजभुक्तौ वसन्तोऽपि, राजानं तृणतुल्यकम् । सदागमप्रसादेन, मन्यन्ते ते निराकुलाः ॥२६॥ किंचात्र वहुनोक्तेन ?, नास्ति तद्वस्तु किञ्चन । सदागमेऽस्मिन् भक्तानां, सुन्दरं यन्न जायते ॥ २७ ॥ तदेतदस्य माहात्म्यं, किञ्चिल्लेशेन वर्णितम् । विशेषतः पुनः कोऽस्य, गुणानां वर्णनक्षमः ? ॥ २८ ॥ कलाज्ञानं-खीकृतमनेन समस्तमपि लिपिज्ञानं स्वयंपृष्टमिव गणितं उत्पादितमिवात्मना व्याकरणं क्षेत्रीभूतमस्य ज्योतिपं सात्मी- भूतमष्टाङ्गमहानिमित्तं व्याख्यातमन्येभ्यश्छन्दोऽनेन अभ्यस्तं नृतं शिक्षितं गेयं प्रणयिनीवास्य हस्तशिक्षा वयस्य इव धनुर्वेदः मित्रमिव वैद्यकं निर्देशकारीव धातुवादः अनुचराणीव नरलक्षणादीनि आधेयविक्रयाणि पत्रच्छेद्यादीनि, किं वहुना? नास्ति सा काचित्कला या कुमारमासाद्य न प्राप्ता परां काष्ठामिति । ॥ १३ ॥ ॥ १३ ॥ भोगतृष्णास्वरूप-रजनीव तमिस्रस्य, भोगतृष्णैव सर्वदा. रागादिदोपवृन्दस्य, सर्वस्यैपा प्रवर्तिका ॥ १ ॥ येषामेपा भवेहेहे, प्राणिनां पापचेष्टिता । तेपामकार्येषु मतिः, प्रसभं संप्रवर्त्तते ॥ २॥ तृणकार्यथा वहिर्जलपूरैर्यथोदधिः। तथा न तृप्यत्येपाऽपि, भोगै- रोसेवितैरपि ॥ ३ ॥ यो मूढः शमयत्येना, किल शब्दादिभोगतः । जले निशीथिनीनाथं, स हस्तेन जिघृक्षति ॥ ४ ॥ मोहादेनां प्रियां

I
कृत्वा, भोगतृष्णां नराधमाः । संसारसागरे घोरे, पर्यटन्ति निरन्तके ॥ ५ ॥ सदोपेयमिति ज्ञात्वा, ये पुनः पुरुषोत्तमाः । स्वदेहगेहा-
निःसार्य, चित्तद्वारं निरुन्धते ॥ ६ ॥ ते सर्वोपद्रवैर्मुक्ताः, प्रलीनाशेपकल्मपाः । आत्मानं निर्मलीकृत्य, प्रयान्ति परमं पदम् ॥ ७ ॥
युग्मम् । येऽनया रहिताः सन्तस्ते वन्द्या भुवनत्रये । वशे गताः पुनर्येऽस्याः, साधुभिस्ते विगर्हिताः ॥ ८॥ अनुकूला भवन्त्यस्या, ये
मोहादधमा नराः । तेपामेपा प्रकृयैव, दुःखसागरदायिका ॥ ९ ॥ प्रतिकूला भवन्यस्या, ये पुनः पुरुषोत्तमाः । तेपामेपा प्रकृत्यैव,
मुग्यसन्दोहकारिका ॥ १० ॥ तावन्मोक्षं नरो द्वेष्टि, संसारं वहु मन्यते । पापिष्ठा भोगतृष्णेयं, यावञ्चित्ते विवर्त्तते ॥ ११॥ यदा पुन-
चिलीयेत, कथश्चित्पुण्यकर्मणाम् । एपा भवस्तदा सर्वो, धूलिरूपः प्रकाशते ॥ १२ ॥ तावञ्चाशुचिपुजेपु, योपिदङ्गेपु मूढधीः । कुन्दे-
न्दीवरचन्द्रादिकल्पनां प्रतिपद्यते ॥ १३ ॥ यावदेपा शरीरस्था, वर्त्तते भोगतृष्णिका । तदभावे मनस्तेयु, न स्वप्नेऽपि प्रवर्त्तते ॥ १४ ॥
युग्मम् । समाने पुरुपत्वेऽपि, परकिङ्करतां गताः। निन्द्यं यत्कर्म कुर्वन्ति, भोगतृष्णाऽत्र कारणम् ॥ १५ ॥ येषां पुनरियं देहान्निर्गता
मुमहात्मनाम् । निर्द्धना अपि ते धीराः, शक्रादेरपि नायकाः ॥ १६ ॥ किञ्चित्तामससंमिश्रे, राजसैः परमाणुभिः । निर्वर्तितशरीरेयं,
गीता नत्रान्तरेवपि ॥ १७ ॥
अज्ञानदोपाः-यत्नावविदमनानं, युप्महेहाद्विनिर्गतम् । एतदेव समस्तस्य, दोपवृन्दस्य कारणम् ॥ १ ॥ अनेन वर्तमानेन, शरीरे
जन्तबो रतः । बायांत्रायं न जानन्नि, गम्यागन्यं च तत्त्वतः ॥ २ ॥ भक्ष्याभल्यं न बुध्यन्ते, पेयापेयं च सर्वथा । अन्धा इव कुमा-
गंग, प्रवनन्ते ननः परम् ॥ ३ !! नतो निवन्य पोराणि, कर्माण्यकृतशम्बलाः । भवमार्गे निरन्तेऽत्र, पर्यटन्ति सुदुःखिताः ॥ ४ ॥

परिणाम
उपमि०
.
भव.
॥ १४ ॥
अज्ञानमेव सर्वेपा, रागादीनां प्रवर्तकम् । स्वकार्य भोगतृष्णाऽपि, यतोऽज्ञानमपेक्षते ॥ ५ ॥ अज्ञानविरहेणैव, भोगतृष्णा निवर्त्तते ।
कथञ्चित्संप्रवृत्ताऽपि, झटित्येव निवर्त्तते ॥ ६ ॥ सर्वज्ञः सर्वदर्शी च, निर्मलोऽयं स्वरूपतः । अज्ञानमलिनो ह्यात्मा, पापाणान्न विशेष्यते
॥ ७ ॥ याः काश्विदेवमर्येपु, निर्वाणे च विभूतयः । अज्ञानेनैव ताः सर्वां, हृताः सन्मार्गरोधिना ॥ ८॥ अज्ञानं नरको घोरस्तमोरू-
पतया मतम् । अज्ञानमेव दारिद्र्यमज्ञानं परमो रिपुः ॥ ९ ॥ अज्ञानं रोगसंघातो, जराऽप्यज्ञानमुच्यते । अज्ञानं विपदः सर्वा, अज्ञानं
मरणं मतम् ॥ १०॥ अज्ञानविरहे नैप, घोरः संसारसागरः । अत्रापि वसतां पुंसां, वाधकः प्रतिभासते ॥ ११ ॥ याः काश्चिदप्य-
वस्थाः स्युर्याश्चोन्मार्गप्रवृत्तयः । यच्चासमक्षसं किञ्चिदज्ञानं तत्र कारणम् ॥ १२ ॥ त एव हि प्रवर्त्तन्ते, पापकर्मसु जन्तवः । प्रकाशा-
च्छादकं येषामेतचेतसि वर्तते ॥ १३ ॥ येपां पुनरिदं चित्ताद्धन्यानां विनिवर्त्तते । शुभ्रीभूतान्तरात्मानस्ते सदाचारवर्तिनः ॥ १४ ॥
वन्द्यास्त्रिभुवनस्यापि, भूत्वा भावितमानसाः । अशेपकल्मपोन्मुक्ता, गच्छन्ति परमं पदम् ॥ १५ ॥ एतच्चाज्ञानमत्रार्थे, सर्वेषां भवतां
समम् । संजातं तेन दोपोऽयमस्यैव न भवाहशाम् ॥ १६ ॥ डिम्भरूपमनेनैव, द्वितीयं पापनामकम्
६ ॥ डिम्भरूपमनेनैव, द्वितीयं पापनामकम् । सर्वत्र जन्यते तस्मादत्रापि जनितं
किल ॥ १७ ॥ एतद्धि सर्वदुःखाना, कारणं वर्णितं बुधैः । उद्वेगसागरे घोरे, हठादेतत्प्रवर्तकम् ॥ १८ ॥ मूलं संक्लेगजालस्य, पापमेत-
दुदाहृतम् । न कर्त्तव्यमतः प्राज्ञैः, सर्व यत्पापकारणम् ॥ १९॥ हिंसानृतादयः पञ्च, तत्त्वाश्रद्धानमेव च । क्रोधादयश्च चत्वार,
इति पापस्य हेतवः ॥ २० ॥ वर्जनीयाः प्रयत्नेन, तस्मादेते मनीपिणा । ततो न जायते पाप, तस्मान्नो दुःखसंभवः ॥ २१ ॥ युष्माकं
पुनरज्ञानाज्जातं.पापमिदं यतः । अज्ञानमेव सर्वेषां, हिंसादीनां प्रवर्तकम् ॥ २२ ॥ वर्द्धमानमिदं पापमार्जवेन निवारितम् । यत्र
कारणं सम्यक्, कथ्यमानं निबोधत ॥ २३ ॥ आर्जवं हि स्वरूपेण, शुद्धाशयकरं परम् । वर्द्धमानमतः पापं, मारयत्येव दे-
.
।
M
॥ १४ ॥

- हिनाम् ॥ २४ ॥ एतचार्जवमबार्थे, सर्वेषां वर्तते समम् । अज्ञानजनितं पापं, युष्माकममुना जिंतम् ॥ २५ ॥ रक्षितानि मया यूयमत एव मुहर्मुहुः । सहपमेतदाचष्टे, डिम्भरूपं स्मिताननम् ।। २६ ॥ धन्यानामार्जवं येपामेतचेतसि वर्तते । अनानादाचरन्तोऽपि, पापं ते बन्पपापकाः ॥ २७ ॥ यदा पुनर्विजानन्ति, ते शुद्ध मार्गमञ्चसा । तदा विधूय कर्माणि, चेष्टन्ते मोक्षवमनि ॥ २८ ॥ आर्जवेन तनो धन्यास्ते शुभ्रीभूतमानसाः । निर्मलाचारविस्ताराः, पारं गच्छन्ति संसृतेः ॥ २९ ॥ तदेवंविधभावानां, भद्राणां बुध्यतेऽधुना । अज्ञानपापे निर्दृय, सम्यग्धर्मनिषेवणम् ॥ ३० ।। उपादेयो हि संसारे, धर्म एव बुधैः सदा । विशुद्धो मुक्तये सर्व, यतोऽन्य- दुःखकारणम् ॥ ३१ ॥ अनित्यः प्रियसंयोग, इहेयांशोकसंकुलः। अनित्यं यौवनं चापि, कुत्सिताचरणास्पदम् ॥ ३२ ॥ अनित्याः संपदस्तीव्रक्लेशवर्गसमुद्भवाः । अनित्यं जीवितं चेह, सर्वभावनिवन्धनम् ॥ ३३ ॥ पुनर्जन्म पुनर्मृत्युहीनादि- स्थानसंश्रयः । पुनः पुनश्च यदतः, सुखमन न विद्यते ॥ ३४ ॥ प्रकृत्याऽसुन्दरं ह्येवं, संसारे सर्वमेव यत् । अतोऽत्र वद किं युक्ता, कचिदास्था विवेकिनाम्? ॥ ३५ ॥ मुक्त्वा धर्म जगद्वन्द्यमकलङ्क सनातनम् । परार्थसाधकं धीरैः, सेवितं शीलशालिभिः॥ ३६॥ ततो भागवतं वाक्यं, श्रुत्वेदममृतोपमम् । संसारवासात्तैः सबै, खं खं चित्तं निवर्तितम् ॥ ३७॥ राजा- sऽद क्रियते सर्व, यदादिष्टं महात्मना । प्रगुणाऽऽह महाराज!, किमद्यापि विलम्ब्यते? ॥ ३८ ॥ चारु चारूदितं तात!, सम्यगम्ब प्रजल्पितम् । युक्तमेतदनुष्ठानं, मुग्धेनैवं प्रभापितम् ॥ ३९ ॥ होत्फुल्लसरोजाक्षी, तथाऽपि गुरुलज्जया । तदुक्तं बहु मन्वाना, वधूमानेन संम्गिता ॥ १०॥ जिनस्तुतिः-नमस्ते जगदानन्द!, मोक्षमार्गविधायक! । जिनेन्द्र ! विदिताशेपभावसद्भावनायक! ॥ २८ ॥ प्रलीनागेपसंसारवि- उपमि० परिणाम. भव. ॥१५॥ स्तार! परमेश्वर! । नमस्ते वाक्पथातीत, त्रिलोकनरशेखर! ॥ २९ ॥ भवाब्धिपतितानन्तसत्त्वसंघाततारक! । घोरसंसारकान्तारसार्थ- वाह! नमोऽस्तु ते ॥ ३० ॥ अनन्तपरमानन्दपूर्णधामव्यवस्थितम् । भवन्तं भक्तितः साक्षात्पश्यतीह जनो जिन! ॥ ३१ ॥ स्तुवतस्ता- वकं बिम्बमन्यथा कथमीदृशः । प्रमोदातिशयश्चित्ते, जायते भुवनातिग! ॥ ३२ ॥ पापाणुजनितस्तावत्तापः संसारिचेतसाम् । यावत्तेपां सदानन्द !, मध्ये नाथ! न वर्त्तसे ॥ ३३ ॥ येषां पुनर्विधत्ते सा, नाथ! चित्तेपु देहिनाम् । पापाणवः क्षणात्तेपां, ध्वंसमायान्ति सर्वथा ॥ ३४ ॥ ततस्ते द्राविताशेषपापपङ्कतया जनाः । सद्भावामृतसंसिक्ता, मोदन्ते नाथ! सर्वदा ॥३५॥ युग्मम् ।। ते वराका न मुष्यन्तां, रागादिचरटैः कथम् ? । येपां नाथ! भवान्नास्ति, तप्तिसानिध्यकारकः ॥ ३६ ॥ भवन्तमुररीकृत्य, नाथ! निःशङ्कमानसाः । शिवं यान्ति मदादीनां, विधाय गलपादिकाम् ॥ ३७ ॥ न्यपतिष्यदिदं नाथ!, जगन्नरककूपके । अहिसाहस्तदानेन, यदि त्वं नाधरिष्यथाः ॥ ३८ ॥ विलीनसकलक्लेशं, निर्विकारं मनोहरम् । शरीरं पश्यतां नाथ!, तावकीनमदो वरम् ॥ ३९ ॥ अनन्तवीर्य! सर्वज्ञो, वीतरागस्त्वमक्षसा। न भासि यदभव्यानां, तत्तेपां पापजृम्भितम् ॥ ४० ॥ रागद्वेपमहामोहसूचकैर्वीतकल्मप! । हास्यहेतिविलासाक्षमालाचैहीन! ते नमः ॥४१॥ अनन्तगुणसङ्कीर्ण !, कियद्वाऽत्र वदिष्यति । तावकरतवने नाथ!, जडबुद्धिरयं जनः ॥ ४२ ॥ सद्भावोऽप्यथवा नाथ!, भवतै- वावबुध्यते । तदस्य करुणां कृत्वा, विधांतव्यो भवे भवे । [भवोच्छेदकरी नाथ!, भक्तिरात्मनि निश्चला] ॥ ४३ ।। इन्द्रियमहिमा-स्पर्शनं रसनं घ्राणं, चक्षुः श्रोत्रं च पञ्चमम् । एतानि तानि राजेन्द्र !, हपीकाणि प्रचक्षते ॥ ६१ ॥ इष्टैः स्पर्शा- दिभिस्तोषो, द्वेपवृद्धिस्तथेतरैः । एतत्स्वरूपमेतेपामिन्द्रियाणां नृपोत्तम! ॥ ६२ ।। दुर्जयानि यथा तानि, कथ्यमानं मयाऽधुना । दत्ताव- धानस्तं सर्वमनुश्रुत्यावधारय ॥ ६३ ॥ अनेकभटसङ्कीर्णे, समरे योधयन्ति ये । मत्तमातङ्गसंघातमेतैस्तेऽपि विनिर्जिताः ॥ ६४ ॥ अङ्गु- , ल्यने निधायेदं, भुवनं नाटयन्ति ये । शक्रादयोऽतिशक्तिष्ठास्तेऽप्यमीभिर्वशीकृताः ॥ ६५ ॥ हिरण्यगर्भवैकुण्ठमहेश्वरपुरःसराः । एतैर्नि- राकृताः सन्तः, सर्वे किङ्करतां गताः ॥ ६६ ॥ अधीत्य सर्वशास्त्राणि, परमार्थविदो जनाः । एभिर्विधुरिताः सन्तश्चेष्टन्ते वालिशा इव ॥ ६७ ॥ एतानि हि स्ववीर्येण, ससुरासुरमानुषम् । वराकमिव मन्यन्ते, सकलं भुवनंत्रयम् ॥ ६८ ॥ दुर्जयानि ततो मूनि, हृषीकाणि नराधिप!। अप्रमादयन्त्र यावज्जीवमेते नाचरन्ति तनीयसीमपि परपीडां न भाषन्ते सूक्ष्ममप्यलीकवचनं न गृहन्ति दन्तशोधनमत्रमप्यदत्तं धा- रयन्ति नवगुप्तिसनाथं ब्रह्मचर्य वर्जयन्ति निःशेषतया परिग्रहं न विदधते धर्मोपकरणशरीरयोरपि ममत्वबुद्धिं नासेवन्ते रजन्यां चतुर्भेदमप्या- हारजातं आददते प्रवचनोपवर्णितं समस्तोपघिविशुद्धं संयमयात्रामात्रसिद्धये निरवद्यमाहारादिकं वर्तन्ते समितिगुप्तिपरिपूरितेनाचरणेन पराक्रम- न्ते विविधाभिग्रहकरणेन परिहरन्त्यकल्याणमित्रयोगं दर्शयन्ति सतामात्मभावंन लश्यन्ति निजामुचितस्थितिं नापेक्षन्ते लोकमार्ग मानयन्ति गुरुसंहतिं चेष्टन्ते तत्तत्रतया आकर्णयन्ति भगवदागमं भावयति महायत्नेन अवलम्बते द्रव्यापदादिषु धैर्य पर्यालोचयन्यागामिनमपायं यतन्ते प्रतिक्षणमसपत्नयोगेपु लक्षयन्ति चित्तविश्रोतसिकां प्रतिविधते चानागतमेव तस्याः प्रतिविधान निर्मलयन्ति सततमसङ्गताभ्यासरततया मानसं अभ्यस्यन्ति योगमार्ग स्थापयन्ति चेतसि परमात्मानं निवघ्नन्ति तत्र धारणां परित्यजन्ति वहिर्विक्षेपं कुर्वन्ति तत्प्रत्ययैकतानमन्तः- करणं यतन्ते योगसिद्धौ आपूरयन्ति शुक्लध्यानं पश्यन्ति देहेन्द्रियादिविविक्तमात्मानं लभन्ते परमसमाधिं भवन्ति शरीरिणोऽपि सन्तो मुक्तिसुखभाजनम् । प्रवोधः -यतः प्रादुर्भूतोऽस्य महात्मनो विषयविषविपाकावेदनचतुरे भगवद्वचने सुनिश्चितः प्रबोधः विस्फुरितं सकलमलकालुष्यक्षा- + . उपमि० भव. परिणाम. ॥१६॥ लनक्षम हृदयसरोवरे विवेकरत्नं समुल्लसितं यथावस्थितार्थस्वरूपनिरूपणनिपुणं सम्यग्दर्शनं संजातोऽस्य निःशेपदोपमोषकरश्चरणपरिणामः सति च भगवदवलोकनया जीवस्यैवंविधे कल्याणाभिनिवेशकारिणि गुणकदम्बके न रमते विपयेपु चित्तं प्रतिभासते हेयत्वबुद्ध्या भवप्र- पञ्चः इन्द्रजालायते निःसारतया सकलं जगद्विलसितं स्वप्नदर्शनायते क्षणहष्टनष्टतया जनसमागमः न निवर्तते प्रलयकालेऽपि कस्यचिद- नुरोधेन मोक्षमार्गस्य साधनप्रवणा बुद्धिः, । निष्क्रमणोत्सवः ततः सुखसुकुमारासनोपविष्टः स्वयं प्रतिपन्नसारथिभावेन सह नरपतिना विलसत्किरीटांशुरक्षितोत्तमाग- भागो ध्रियमाणेन निजयशोधवलेनातपत्रेण कपोललोलायमानकुण्डलो धूयमानेन शशधरदीपितिच्छटाच्छेन वरविलासिनीकरवर्तिना चा- मरप्रकरेण स्थूलमुक्ताफलकलापविराजितवक्षःस्थलः पठताऽतितारमुद्दामबन्दिवृन्देन कटककेयूरखचिववाहुदण्डो नृत्यता तोपनिर्भरवरवि- लासिनीसार्थेन अतिसुरभिताम्बूलाङ्गरागप्रीणिताशेपेन्द्रियग्रामो वधिरयता दिक्चक्रवालं वरतूर्यनिर्घोपेण विशददिव्यांशुकप्रतिपन्नदेहो गा- यता मनोहारिकिन्नरसबेन धूर्णमानविचित्रवनमालानिचयचर्चितशरीरो मुञ्चता हर्पातिरेकादुत्कृष्टसिंहनादसन्दर्भ देवसङ्घन प्रीणिताशेपप्र- णयिजनमनोरथः श्लाघयता नागरलोकेन, तथाऽमरकुमाराकारधरोऽयमिति सकौतुकाभिः समागतोऽस्माकमयं दृष्टिपथमिति सहर्षाभिरस्म- दभिमुखमवलोकयतीति सङ्गाराभिर्मदनरसवशीकृतहदयतया नानाविधविलासाभिर्मामियं तिरोधाय दर्शनलोलतया खयमवलोकयतीति परस्परं सेाभिर्गुरुजनोऽस्मानेवमवलोकयन्तीः पश्यतीति सलज्जाभिः प्रव्रजितः किलायं भविष्यतीति सशोकाभिरलं संसारेण योऽय- मेवंविधैरपि त्यज्यत इति ससंवेगाभिरेवमनेकरसंभावनिर्भरं हृदयमुद्वहन्तीभिर्निरीक्ष्यमाणमूर्तिर्वातायनविनिर्गतवदनसहनाभिः पुरसुन्दरी- भिरभिनन्द्यमानोऽम्बरविवरवर्तिनीभिः सुरसुन्दरीभिः सहितो रथान्तरारूढेन खप्रतिबिम्बसन्निभेन मध्यमबुद्धिना अनुगम्यमानो रथहरि- करिंगतैर्महासामन्तसमूहमहता विमर्दैन प्राप्तो मनीषी निजविलसितोद्याने । प्रव्रज्या-अनाद्यनन्तसंसारे, जन्ममृत्युभयाकरे । मौनीन्द्री दुर्लभा सत्त्वैः, प्रव्रज्येयं सुनिर्मला ॥ २९ ॥ यतः-तावहुः- खान्यनन्तानि, तावद्रागादिसन्ततिः। प्रभवः कर्मणस्तावत्तावज्जन्मपरम्परा ॥ ३० ॥ विपदस्तावदेवतास्तावत्सर्वा विडम्बनाः । तावदी- नानि जल्पन्ति, नरा एव पुरो नृणाम् ॥ ३१ ॥ तावद्दौर्गत्यसद्भावस्तावद्रोगसमुद्भवः । तावदेप वहुक्लेशो, घोरसंसारसागरः ॥ ३२ ॥ यावन्निःशेपसावद्ययोगोपरतिलक्षणा । एषा न लभ्यते जीवैः, प्रव्रज्याऽत्यन्तदुर्लभा ॥ ३३ ॥ चतुर्भिः कलापकं ॥ प्रसादालोकनाथस्य, स्वकर्मविवरेण च । यदा तु सत्त्वैर्लभ्येत, प्रव्रज्येयं जिनोदिता ॥ ३४ ॥ तदा निर्धूय पापानि, यान्ति ते परमां गतिम् । अनन्तानन्दसं- पूर्णा, निःशेषक्लेशवर्जिताम् ॥ ३५ ॥ युग्मम् । ततोऽमी ये पुरा प्रोक्ताः, सर्वेऽपि भवभाविनः । क्षुद्रोपद्रवसंघाता, दूरापास्ता भवन्ति ते ॥ ३६॥ किं च-इहापि भो भवन्त्येव, प्रशमामृतपायिनः । प्रव्रज्याग्राहिणो जीवा, निर्बाधाः सुखपूरिताः ॥ ३७॥ सा च भाग- वती दीक्षा, युष्माभिरधुना स्फुटम् । संप्राप्ता तेन संप्राप्तं, यत्प्राप्तव्यं भवोदधौ ॥ ३८ ॥ केवलं सततं यत्नः, प्रमादपरिवर्जितैः । याव- जीवं विधातव्यो, भवद्भिरिंदमुच्यते ॥ ३९ ॥ यतः-नाधन्याः पारमेतस्या, गच्छन्ति पुरुपाधमाः । ये तु पारं व्रजन्त्यस्यास्त एव पुरुषोत्तमाः ॥४०॥ सकुटुम्बदयामहिमा-अस्ति रहितं सर्वोपद्रवैर्निवासस्थानं समस्तगुणानां कारणं कल्याणपरम्परायाः दुर्लभं मन्दभागधेयैश्चित्तसौ न्दर्य नगरं, तत्र च यो वर्णितः यथा अस्ति हितकारी लोकानां कृतोद्योगो दुष्टविग्रहे दत्तावधानः शिष्टपरिपालने परिपूर्णः कोशदण्डस-

-
परिणाम.
उपमि०
भव.
॥ १७॥
मुदयेन शुभपरिणामो नाम राजा, तस्य राज्ञो यथासौ क्षान्तेर्जनयित्री निष्प्रकम्पता नाम महादेवी तदा वर्णिता तथैव तस्यान्यापि द्वि-
तीयाऽस्ति हितकारिणी लोकानां निकपभूमिः सर्वशास्त्रार्थानां प्रवर्तिका सदनुष्ठानानां दूरवर्तिनी पापानां चारुता नाम राज्ञी । तथाहि-
तावदुःखानि संसारे, लभन्ते सर्वजन्तवः । स्वर्गापवर्गमार्ग च, न लभन्ते कदाचन ॥ १ ॥ यावत्सा चारुता देवी, नैर्न सम्यग् निपेव्यते
यदा पुनर्निपेवन्ते, तां देवीं ते विधानतः ॥ २ ॥ लब्ध्वा कल्याणसन्दोहं, तदा यान्ति शिवं नराः । अतः सा चारुता देवी, लोकानां
हितकारिणी ॥ ३ ॥ त्रिमिविशेषकं । संसारसागरोत्तारकारणानि महात्मनाम् । लोके लोकोत्तरे वापि, यानि शास्त्राणि कानिचित् ॥ ४ ॥
तेपु सर्वेषु शास्त्रेपु, वर्णिता परमार्थतः । उपादेयतया देवी, सा प्राज्ञैतत्त्वचिन्तकैः ॥ ५॥ युग्मम् । तेन सा निकपस्थानं, शास्त्राणामिह
गीयते । तां विना सर्वशास्त्रार्थोऽसद्बुद्धिप्रकरायते ॥ ६ ॥ दानं शीलं तपो ध्यानं, गुरुपूजा शमो दमः । एवमादीनि लोकेऽत्र, चारुक-
मर्माणि भावतः ॥ ७ ॥ प्रवर्तयति सा देवी, स्वबलेन महात्मनाम् । तेन सा सदनुष्ठानजनकेति निरुच्यते ॥ ८॥ युग्मम् । कामको-
धभयद्रोहमोहमात्सर्यविभ्रमाः। शाठ्यपैशुन्यरागाद्या, ये लोके पापहेतवः ॥ ९॥ तेषां तया सहावस्था, नास्त्येव भुवनत्रये । अतः सा चारुता ।
देवी, पापानां दूरवर्तिनी ॥ १०॥ युग्मम् । तस्याश्च शुभपरिणामसम्बन्धिन्याश्चारताया महादेव्या आहादहेतुर्जगतः सुन्दरा रूपेण वल्लभा
वन्धूनां कारणमानन्दपरम्परायाः सततं मुनीनामपि हृदयवासिनी विद्यते दया नाम दुहिता, तथाहि सर्ने चराचरा जीवा, भुवनोदर-
चारिणः । दुःखं वा मरणं वाऽपि, नाभिकान्ति सर्वदा ॥ १ ॥ तता-सा दया द्वयमप्येतद्वारयरोव देहिनाम् । तेन सा भुवनाझाद-
कारणं परिकीर्तिता ॥ २ ॥ मुखं शशधराकारं, माभी नाग्यमुत्तमम् । सदानदुःखत्राणाख्यौ, दयायाः पीवरौ स्तनौ ॥ ३ ॥ विस्तीर्ण
जगदानन्दं, शमान्यं जघनस्थलम् । यद्वा नास्त्येव तहेहे, किश्चिदगमसुन्दरम् ॥ ४ ॥ रूपेण सुन्दरा प्रोक्ता, तेन सा मुनिपुनवैः ।
॥ १७॥

SS यथेष्टा वन्धुवर्गस्य, तथेदानी निगद्यते ॥ ५॥ क्षान्तिः शुभपरिणामश्च, चारुता निष्प्रकम्पता । शौचसन्तोपधैर्याद्या, दयाया वान्धवा मताः ॥ ६ ॥ तेषां तु सतताहादकारिणी हृदयस्थिता । तेनातिवल्लभा प्रोक्ता, बन्धुवर्गस्य सा दया ॥ ७ ॥ सुरेपु मर्त्यलोके च, मोक्षे च सुखपद्धतिः । दयापरीतचित्तानां, वर्तते करवर्तिनी ॥ ८॥ आनन्दपद्धतेर्हेतुस्तेन सा कन्यका मता । अत एव सुसाधूनां, हृदये सा प्रति- ष्ठिता ॥ ९ ॥ अथवा-दया हितकरी लोके, दया सर्वगुणावहा । दया हि धर्मसर्वस्वं, दया दोषनिषूदनी ॥ १० ॥ दयैव चित्तसन्तापविध्यापनपरायणा । दयावतां न जायन्ते, नूनं वैरपरम्पराः॥ ११॥ किं चात्र वहुनोक्तेन?, गुणसम्भारगौरवम् । वहन्ती पद्मपत्राक्षी, सा दया केन वर्ण्यताम् ? ॥ १२ ॥ तदन परमार्थोऽयं, महाराजाय कथ्यते । हिसायाः प्रलयोपायो, नापरोऽत्र निरीक्ष्यते ॥ १३ ॥ यदेष तां दयां धीरः, कुमारः परिणेष्यति । तदाऽस्य स्वयमेवैपा, दुष्टा भार्या विनसयति ॥ १४ ॥ यतः-इयं दाहात्मिका पापा, सा पुनर्हिमशीतला । ततोऽनयोर्विरोधोऽस्ति, यथाऽग्निजलयोः सदा ॥ १५ ॥ केवलिमहिमा-अकाण्ड एव विजृम्भितः सुरभिपवनः, . विमुक्तः सहजोऽपि वैरानुबन्धः पशुगणैः, भुवनश्रियेव तत्समध्यासितं काननं, समवतीर्णाः समकमेव सर्व ऋतवः, प्रमुदिता विहङ्गमगणाः, मनोहरमनुत्तालतालं रुण्टितं मधुकरावलीमिः, - विगततापं विशेष- तस्तमुद्देशमुद्योतयितुमारब्धो दिनकरः, तथा ममापि मनाम्गलित इव चित्तसन्तापः, तदनन्तरं च देहभूपणप्रभाप्रवाहेण द्योतयन्तो दिक्- चक्रवालं समागतास्तत्र देवाः, शोधितं तैर्भूतलं, वृष्टमतिसुरभि गन्धोदकं, विमुक्तः पञ्चवर्णमनोहारिकुसुमप्रकरः, विरचितं विशालमतिर- मणीयं मणिकुट्टिमं, विहितं तस्योपरि कनककमलं, विस्तारितमुपरिष्टाद्देवदूष्यवितानं, अवलम्बितास्तत्र मौक्तिकावचूलाः, ततः समुत्सुकै- स्तैर्देवैरवलोकितमार्गः कल्पद्रुम इव यथेष्टफलदायितया कनकगिरिरिव स्थिरतया क्षीरनीरधिरिव गुणरत्नाकरतया शशधर इव शीतलेश्य- परिणाम- उपमि० भव. ॥१८॥ तया दिनकर इव सप्रतापतया चिन्तामणिरिव दुर्लभतया स्फटिक इत्र निर्मलतया भूभाग इवं सर्वसहिष्णुतया गगनतलमिव निरालम्बन- तया गन्धकरटीव वरकरिभिः परिकरितः स्वप्रतिविम्वकैरिव वहुविधविनेयैः समागतः केवलज्ञानदिवाकरो विवेको नामाचार्यः । केवलिनः स्तुतिः-अज्ञानतिमिरोच्छेदकर नाथ दिवाकर! । नमस्ते रागसन्तापनाशकारिनिशाकर!॥५॥ खपाददर्शनेनाद्य, नाथ! कारुण्यसागर! । भवता भवनिर्णाश! पूतपापाः कृता वयम् ॥ ६॥ अद्यैव ननु जातोऽस्मि, राज्येऽद्यैव प्रतिष्ठितः । अद्यैव पटु- कर्णोऽस्मि, पश्याम्यथैव चक्षुपा ॥ ७ ॥ ययाखिलसन्तापपापाजीर्णविरेचनम् । भाग्यसंसूचकं मन्ये, संपन्नं तब दर्शनम् ॥ ८ ॥ धर्मदुर्लभता-भो भव्या! भवकान्तारे, पर्यटगिरनारतम् । अत्यन्तदुर्लभो ोप, धर्मः सर्वज्ञभाषितः ॥ १२ ॥ यतः-अनादिरेप संसारः, कालोऽनादिः प्रवाहतः । जीवाश्चानादिकाः सर्वे, दृश्यन्ते ज्ञानचक्षुपा ॥ १३ ॥ न चैते प्राप्नुवन्तोऽमुं, धर्म सर्वतभापितम् । कदाचिदपि पूर्व तु, तेनैते भवभाजनम् ॥ १४ ॥ अथावाप्तो भवेजैनो, धर्मोऽमीभिः कदाचन । ततः कुतो भवोऽमीयां ?, फ ताणं बहि- मीलके ? ॥ १५ ॥ तस्मात्सुनिश्चितं राजन्नेतनास्त्यत्र संशयः । नैवावाप्तः पुरा धर्मो, जन्तुभिर्जिनदेगिनः ।। १६ ॥ एवं च स्थिते- यदाऽनादौ भवेऽमीपां, मत्स्यानामिव सागरे । सदा दोलायमानानां, जीवानां दुःससले ॥ १७ ॥ स्वकर्मपरिणामेन, भव्यत्वपरिपा- कतः । मनुष्यत्वादिसामग्र्या, तथा कालादियोगतः ।। १८ ॥ धन्यः सकलकल्याणजनकोऽचिन्राशक्तिकः । यत्र कचिद्भवेनीवेऽनुग्रहः पारमेश्वरः ॥ १९॥ स तदा लभते जीवो, दुर्भेदप्रन्थिभेदतः । अशेपछेशनिर्णाशि, जैनेन्द्रं तत्त्वदर्शनम् ॥ २०॥ चतुर्भिः कलापकम् । ततोऽसौ गृहिधर्म वा, प्राप्नुयाजिनभापितम् । लभते. साधुसद्धर्म, सर्वदुःखविमोचकम् ॥ २१ ॥ सा चेयती भवेत्कस्य, सामग्रीगं सु- . ॥१८॥ 455 दुर्लभा । राधावेधोपमानेन, धर्मप्राप्तिः प्रकीर्तिता ॥ २२ ॥ तदन लब्धे सद्धर्मे, कुरुध्वं यनमुत्तमम् । अलव्धस्य तु लाभार्थ, घटध्वमिह हे जनाः! ॥ २३ ॥ क्रोधहिंसादोपाः-अनयोश्च समर्पितहृदयोऽयं न गणयति स्वकमानर्थ न लक्षयति भक्ष्याभल्यं नाकलयति पेयापेयं न जानीते वाच्यावाच्यं नावगच्छति गम्यागम्यं न बुध्यते हिताहितविभागं, ततो विस्मरन्ति स्वभ्यस्ता अपि समस्ता गुणाः, क्षणमात्रेण परावर्तते निःशेषदोषपुञ्जतयाऽस्यात्मा, ततो महाराज! नन्दिवर्धनेनानेन बालकाले कर्थिता निरपराधा दारकाः खलीकृतः कलोपाध्यायस्ताडितो हितोपदेशदायकोऽपि विदुरः, तथा तरुणेन सता घातिताः प्राणिसंघाताः, विहिता महासङ्ग्रामा, जनितो जगत्सन्तापः, परमोपकारिणौ वान्धवावपि मारयितुमारब्धौ, तिरस्कृतौ कनकचूडकनकशेखरौ, तदारात्पुनर्यदनेनाचरितं स्फुटवचनेन सहाकाण्डभण्डनं तन्मारणं च तथा जननीजनकसहोदरभगिनीप्रियभार्यादिव्यापादानं नगरदहनं स्नेहनिर्भरमित्रभृत्यनिपातनं च तन्निवेदितमेव युष्माकं, स एष महाराज! समस्तोऽण्यनयोरेव पापयोहिसावैश्वानरयोरस्य भार्यावयस्ययोर्दोषसंघातः । संसारिमूलसंबन्धः-स्थिताः सर्वेऽप्येतेऽनादिकं कालं प्रायोऽसांव्यवहारिकजीवराशिमध्ये, तत्र च निवसतामेतेषामेत एव क्रोध- मानमायालोभास्रवद्वारादयोऽन्तरङ्गः परिजनः, यावन्तश्चागमप्रतिपादितानुष्ठानबलेन जीवाः सिध्यन्ति तावन्त एवासांव्यवहारिकजीवरा- शिमध्यादागच्छन्तीति केवलिवचनं, ततो निर्गताश्चैतेऽपि सर्वे जीवाः, विडम्बिता भूयांसं कालमेकेन्द्रियेषु, विनाटिता विकलेन्द्रियेषु, विगोपिताः पञ्चेन्द्रियतिर्यग्योनिजेषु, कर्थिता नानाविधानन्तदुःखैः, कारिता बहुविधरूपाणि सततमपरापरभवप्रायोग्यकर्मजालविपाकोदय- द्वारेण भवितव्यतया, भ्रमिताश्चारघट्टघटीयन्त्रन्यायेन सूक्ष्मबादरपर्याप्तकापर्याप्तकपृथिव्यप्तेजोवायुवनस्पतिद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियसंश्य- उ०४ परिणाम. उपमि० भव. ॥ १९ ॥ संज्ञिपञ्चेन्द्रियतिर्यग्योनिजखचरजलचरस्थलचरादिभेदविवर्तेन सर्वस्थानेषु प्रत्येकमनन्तवाराः, ततः कैश्चिज्जीवैः कथञ्चिन्महासागरपतितैरिव रत्नद्वीपं महारोगभराक्रान्तैरिव महाभेपजं विपमूछितैरिव महामत्रो दारिद्र्याभिभूतैरिव चिन्तामणिः प्राप्यतेऽतिदुर्लभोऽयं मनुष्यभवः, त- त्रापि महानिधिग्रहण इव बेताला भृशमाविर्भवन्त्येते हिसाक्रोधादयो दोषाः, यैरभिभूतास्तिष्ठन्तु तावदेते प्रबलमहामोहनिद्राघूर्णितमानसा नन्दिवर्धनमङ्गुला(प्रमुखा) वराकसत्त्वाः, किं तर्हि ?, येऽपि जिनवचनप्रदीपेन जानन्यनन्तमपि भवप्रपञ्चं लक्षयन्ति मनुष्यभवदुर्लभतां बुध्यन्ते संसारसागरतारकं धर्म वेदयन्ते स्वसंवेदनेन भगवद्वचनार्थ निश्चिन्वन्ति निरुपमानन्दरूपं परमपदं तेऽपि बालिशा इव प्रवर्तन्ते परोपतापेपु, भवन्ति गर्वाध्माताः, कुर्वन्ति परवञ्चनानि, रज्यन्ते द्रविणोपार्जनेषु, व्यापादयन्ति सत्त्वसंघातं, भापन्तेऽलीकवचनानि, आददते परधनं, गृध्यन्ति विषयोपभोगेषु, आचरन्ति महापरिग्रहं, भजन्ते रजनीभोजनानि, तथा मुह्यन्ति शब्देषु मूर्च्छन्ति रूपेषु लुभ्य- न्ति रसेपु तृष्यन्ति गन्धेषु आश्लिष्यन्ति स्पर्शेषु द्विषन्ति चानिष्टशब्दादीन भ्रमयन्ति पापस्थानेषु सततमन्तःकरणं न नियन्त्रयन्ति भारती उच्छृङ्खलयन्ति कायं भज्यन्ते दूरेण तपश्चरणात् , ततोऽयं मनुष्यभवो मोक्षाक्षेपकारणभूतोऽपि तेषामधन्यतया न केवलं न किञ्चिद्गुणल- वलेशमात्रमपि साधयति, किं तर्हि ?, यथाऽस्य नन्दिवर्धनस्य तथैव प्रत्युतानन्तदुःखपरम्पराकुलसंसारकारणतां प्रतिपद्यते, तथाहि- प्राप्तोऽयं मनुष्यभवोऽनादौ संसारे पूर्वमनन्तवारान् , न च सद्धर्मानुष्ठानविकलेनानेन किञ्चित्साधितं, अत एवास्माभिः पूर्व भगवद्धर्म- स्यात्यन्तदुर्लभता प्रतिपादिता, तथाहि-पद्मरागेन्द्रनीलादिरनसङ्घातपूरितम् । लभ्यते भवनं राजन्न तु जैनेन्द्रशासनम् ॥ १॥ समृद्धं कोषदण्डाभ्यामेकच्छत्रमकण्टकम् । सुप्रापमीदृशं राज्यं, न तु धर्मो जिनोदितः ॥२॥ संपूर्णभोगसम्प्राप्तिप्रीणितेन्द्रियमानसम् । सुलभ नृप! देवत्वं, न मतं पारमेश्वरम् ॥ ३ ॥ संसारे परमैश्वर्यकारणं भूप! लभ्यते । इन्द्रत्वमपि जीवेन, न धर्मो जिनदेशितः ॥ ४ ॥ एते SEE ॥ १९ ॥ - A हि भावा राजेन्द्र !, संसारसुखकारणम् । सद्धर्मस्तु मुनीन्द्रोक्तो, निर्वाणसुखकारणम् ॥ ५ ॥ निर्वाणसुखसंसारसुखयोश्च परस्परम् । चि- न्तारत्नस्य काचेन, यावत्तावद्गुणान्तरम् ॥ ६ ॥ एवं च ज्ञातमाहात्म्यैः, संसारे ब्रूहि तत्त्वतः । ईक्षधर्मसम्प्राप्तिर्भूप! केनोपमीयताम् ? ॥ ७ ॥ एवं स्थिते-एनं संसारविस्तार, विलक्ष्य कथमप्यदः । मानुष्यं प्राप्य दुष्प्रापं, राधावेधोपमं जनः ॥ ८॥ यो जैनमपि संप्राप्य, शासनं कर्मनाशनम् । हिसाक्रोधादिपापेषु, रज्यते मूढमानसः ॥ ९ ॥ स हारयति काचेन, चिन्तामणिमनुत्तमम् । करोत्यङ्गारवाणिज्यं, दग्ध्वा गोशीर्षचन्दनम् ॥ १०॥ भिनत्ति नावं मूढात्मा, लोहार्थ स महोदधौ । सूत्रार्थ दारयत्युच्चैवैडूर्य रत्नमुत्तमम् ॥ ११॥ प्रदीपयति कीलार्थ, देव! द्रोणी महत्तमाम् । रत्नस्थाल्यां पचत्याम्लखलकं मोहदोषतः ॥ १२ ॥ सौवर्णलाङ्गलाण, लिखित्वा वसुधां तथा । अर्कवीजं वपत्येष, चूतार्थ मूढमानसः ॥ १३ ॥ छित्त्वा कर्पूरखण्डानि, कोद्रवाणां समन्ततः । वृतिं विधत्ते मूढोऽयमहिंसाश्रुतिकः किल ॥ १४ ॥ कुलकम् यतः–हिंसाक्रोधादिपापेषु, जन्तोरासक्तचेतसः । सद्धर्मोऽयं जिनेन्द्रोक्तो, दूरादूरेण गच्छति ॥ १५ ॥ सद्धर्मरहितश्चासौ, पापपूरितमानसः । न मोक्षमार्गलेशेन, कथञ्चिदपि युज्यते ॥ १६ ॥ ततो जानन्नपि बलात्पुनर्भीमे भवोदधौ । निर्बोलं याति मोहान्धो, यथाऽयं नन्दिवर्धनः ॥ १७॥ अतिनिघृणं कर्म-अनादिस्नेहसंवद्धं, द्वितीयं यत्कुटुम्बकम् । योधयन्ति तदायेन, घोरचित्ता दिवानिशम् ॥ १ ॥ तथाहि-नि- घृणा यत एवेदमाविर्भूतं कुटुम्बकम् । तं घातयन्ति ज्ञानेन, महामोहपितामहम् ॥ २ ॥ यस्तन्त्रकः समस्तस्य, कुटुम्बस्य महाबलः । रागं वैराग्ययन्त्रेण, तमेते चूर्णयन्त्यलम् ॥ ३ ॥ अन्यच्च निरनुक्रोशा, रामस्यैव सहोदरम् । द्वेपं मैत्रीशरेणोचैरेते निघ्नन्ति साधवः ॥ ४ ॥ क्षमाक्रकचपाटेन, पाटयन्ति सुदारुणाः । एते भोः! साधवः क्रोधं, रटन्तं स्निग्धवान्धवम् ॥ ५॥ क्रोधस्य भ्रातरं मानं, तथैते द्वेषन- परिणाम. उपमि० भव. ॥ २० ॥ न्दनम् । हत्वा मार्दवखङ्गेन, क्षालयन्त्यपि नो करौ ॥ ६ ॥ मायामार्जवदण्डेन, दलयन्ति तपखिनीम् । लोभं मुक्तिकुठारेण, रौद्राश्छि- न्दन्ति खण्डशः ॥ ७ ॥ तथैते मुनयो भूप!, स्नेहाबन्धपरायणम् । कामं निष्पीड्य हस्तेन, मर्दयन्तीव मत्कुणम् ॥ ८॥ दहन्ति शोकर सम्बन्ध, तीवेण ध्यानवह्निना । भयं भिन्दन्ति निर्भीका, धैर्यवाणेन वत्सलम् ॥ ९॥ हास्यं रतिर्जुगुप्सा च, तथाऽरतिः पितृष्वसा । विवेकशक्त्या राजेन्द्र!, साधुभिर्दारिता पुरा ॥ १० ॥ अन्यच्च भ्रातृभाण्डानि, पश्चाक्षाणि सुनिघृणाः। सन्तोषमुद्रेणोचैर्दलयन्ति सुसा- धवः ॥ ११॥ एवं ये ये भवन्त्यत्र, कुटुम्बे स्निग्धबान्धवाः। तांस्तान्निपातयन्त्येते, जाताजातान् सुनिर्दयाः ॥ १२ ॥ वर्धयन्ति बलं नित्यं, प्रथमे च कुटुम्बके । सर्वेषां स्निग्धबन्धूनामेते राजेन्द्र ! साधवः ॥ १३ ॥ पुष्टिं गतेन तेनोचैर्निहतं भग्नपौरुषम् । अमीषां बाधक नैवं, तद्वितीयं कुटुम्बकम् ॥ १४ ॥ अन्यच्च पोषकं ज्ञात्वा, द्वितीयस्य तृतीयकम् । राजन्नेतैः परित्यक्तं, सर्वथैव कुटुम्बकम् ॥ १५ ॥ यावत्तृतीयं न त्यक्तं, तावज्जेतुं न शक्यते । द्वितीयमपि कात्स्न्येन, पुरुषेण कुटुम्बकम् १६ ॥ अतो यद्यस्ति ते वाञ्छा, भूप! संसार- मोचने । ततोऽतिनिघृणं कर्म, मयोक्तमिदमाचर ॥ १७ ॥ केवलं सम्यगालोच्यं, मध्यस्थेनान्तरात्मना । किं शक्येत मया कर्तु', 'किं वा नेदमिति त्वया ॥ १८ ॥ एतेऽतिनिघृणाः कर्म, कथञ्चिदिदमीदृशम् । कुर्वन्यभ्यासयोगेन, नृशंसा भूप! साधवः ॥ १९ ॥ अन्येन पुनरीक्षं, कर्म बन्धुदयालुना । चिन्तयितुमपि नो शक्यं, करणं दूरतः स्थितम् ॥ २० ॥ किं तु-योऽयं त्यागस्तृतीयस्य, द्वितीयस्य च घातनम् । कुटुम्बकस्य राजेन्द्र !, प्रथमस्य च पोपणम् ॥ २१ ॥ एतत्रयं परिज्ञाय, कृत्वा श्रद्धानमन्जसा । अनुष्ठाय च वीर्येण, भू- यांसो मुनिपुङ्गवाः ॥ २२ ॥ भवप्रपञ्चान्निर्मुक्ताः, सर्वद्वन्द्वविवर्जिताः । स्थित्वा स्वाभाविक रूपे, मोदन्ते मोक्षवर्तिनः ॥ २३ ॥ त्रिभि- ॥२०॥ कन विशेषकम् । - विचक्षणसूरिदेशना-प्रदीप्तभवनोदरकल्पोऽयं संसारविस्तारो, निवासः शारीरादिदुःखानां, न युक्त इह विदुषः प्रमादः, अतिदुर्ल- भेयं मानुपावस्था, प्रधानं परलोकसाधन, परिणामकटवो विषयाः, विप्रयोगान्तानि सत्सङ्गतानि, वातभयातुरमविज्ञातपातमायुः, तदेवं व्यवस्थिते विध्यापनेऽस्य संसारप्रदीपनकस्य यत्नः कर्तव्यः, तस्य च हेतुः सिद्धान्तवासनासारो धर्ममेधः, अतः स्वीकर्तव्यः सिद्धान्तः, सम्यक् सेवितव्यास्तदभिज्ञाः, भावनीयं मुण्डमालालुकोपमानं, त्यक्तव्या खल्वसदपेक्षा, भवितव्यमाज्ञाप्रधानेन, उपादेयं प्रणिधान, पोष- णीयं सत्साधुसेवया, रक्षणीयं प्रवचनमालिन्यं । एतच्च विधिप्रवृत्तः संपादयति, अतः सर्वत्र विधिना प्रवर्तितव्यं सूत्रानुसारेण, प्रत्य- भिज्ञातव्यमात्मस्वरूपं, प्रवृत्तावपेक्षितव्यानि निमित्तानि, यतितव्यमसंपन्नयोगेषु, लक्षयितव्या विस्रोतसिका, प्रतिविधेयमनागतमस्याः, भवत्येवं प्रवर्तमानानां सोपक्रमकर्मविलयः, विच्छिद्यते निरुपक्रमकर्मानुबन्धः, तस्मादत्रैव यतध्वं यूयम् । विचक्षणगुणा:-मार्गानुसारिविज्ञानः, पूजको गुरुसंहतेः । मेधावी प्रगुणो दक्षो, लब्धलक्ष्यो जितेन्द्रियः ॥ १७ ॥ सदाचा- रपरो धीरः, सद्भोगी दृढसौहृदः । देवाभिपूजको दाता, ज्ञाता स्वपरचेतसाम् ॥ १८ ॥ सत्यवादी विनीतात्मा, प्रणयागतवत्सलः । क्षमाप्रधानो मध्यस्थः, सत्त्वानां कल्पपादपः ॥ १९ ॥ धमैकनिष्ठः शुद्धात्मा, व्यसनेऽप्यविषण्णधीः । स्थानमानान्तराभिज्ञः, कुत्सिता- ग्रहवर्जितः ॥ २० ॥ समस्तशास्त्रतत्त्वज्ञो, वाचि पाटवसंगतः । नीतिमार्गप्रवीणत्वात् , त्रासकः शत्रुसंहतेः ॥ २१ ॥ स्वगुणोत्सेकही- नात्मा, विमुक्तः परनिन्दया । अहृष्टः सम्पदा लामे, परार्थं च विनिर्मितः ॥ २२ ॥ नारीदोषा:-वत्सः! तावत्समस्तापि, नारी पवनचञ्चला । क्षणरक्तविरक्ता च, सन्ध्याभ्रालीव वर्तते ॥३६॥ नदीव पर्वतो- द्भूता, प्रकृत्या नीचगामिनी । दर्पणार्पितदुर्गाद्यवदनप्रतिमोपमा ॥ ३७ ॥ बहुकौटिल्यनागानां, संस्थापनकरण्डिका । कालकूटविषस्योचै- .

परिणाम उपमि० भव. ॥२१॥ लतेव मरणप्रदा ॥ ३८ ॥ नरकानलसन्तापदायिकेयमुदाहृता । मोक्षप्रापकसद्ध्यानशत्रुभूता च वर्तते ॥३९॥ कार्य संचिन्तयत्यन्य- द्भाषतेऽन्यच्च मायया । करोत्यन्यच्च सा पुंसः, शुद्धशीला च भासते ॥ ४० ॥ ऐन्द्रजालिकविद्येव, दृष्टेराच्छादकारिका । नरचित्तजतु- द्रावकारिणी वह्निपिण्डवत् ॥ ४१ ॥ प्रकृत्यैव च सर्वेषां, वैमनस्यविधायिनी । संसारचक्रविभ्रान्तिहेतुर्नारी बुधैर्मता ॥ ४२ ॥ पुंभिरावादितं दिव्यं, विवेकामृतभोजनम् । क्षुद्रेव वामयत्येपा, भुज्यमाना न संशयः ॥ ४३ ॥ अनृतं साहसं माया, नैर्लज्यमतिलो- भिता । निर्दवत्वमशौचं च, नार्याः स्वाभाविका गुणाः॥४४॥ वत्स! किं वहुनोक्तेन ?, ये केचिद्दोपसञ्चयाः। ते नारीभाण्डशाला- यामाकालं सुप्रतिष्ठिता ॥ ४५ ॥ विमर्शमहिमा-युक्तं चायुक्तवद्भाति, सारं चासारमुच्चकैः । अयुक्तं युक्तवद्भाति, विमर्शेन विना जने ॥१॥ तस्य हेयमुपादेयमुपादेयं च हेयताम् । भजेत वस्तु यस्यायं, विमर्शो नानुकूलकः ॥ २॥ अत्यन्तगहने कार्ये, मतिभेदतिरोहिते । विमर्शः कुरुते नृणामेकपक्षं विवेचितम् ॥ ३ ॥ किं च-नरस्य नार्या देशस्य, राज्यस्य नृपतेस्तथा । रत्नानां लोकधर्माणां, सर्वस्य भुवनस्य वा ॥ ४ ॥ देवानां सर्वशास्त्राणां, धर्माधर्मव्यवस्थितेः । विमर्शोऽयं विजानीते, तत्त्वं नान्यो जगत्रये ॥ ५॥ युग्गम् । येपामेष महाप्राज्ञो, वत्स निर्देशकारकः । ते ज्ञातसर्वतत्त्वार्था, जायन्ते सुखभाजनम् ॥ ६ ॥ चित्तवृत्त्यटवी-यद्येवं ततस्तावदेषा चित्तवृत्तिर्नाम महाटवी,-इयं च भद्र! विस्तीर्णविविधाद्भुतसंगता । उत्पत्तिभूमिः सर्वेषां, सदनानामुदाहृता ॥ १ ॥ इयमेव च सर्वेपा, लोकोपद्रवकारिणाम् । महानर्थपिशाचानां, कारणं परिकीर्तिता ॥ २ ॥ सर्वेपामन्तरङ्गाणां, लोकानामत्र संस्थिताः । चित्तवृत्तिमहादव्यां, ग्रामपत्तनभूमयः ॥३॥ यदापि बहिरङ्गेषु, निर्दिश्यन्ते पुरेषु ते । किञ्चित्कारणमालोक्य, ॥ २१॥ R है विद्वद्भिर्ज्ञानचक्षुषा ॥ ४ ॥ तथापि परमार्थेन, तेऽन्तरङ्गजनाः सदा । अस्यामेव महाटव्यां, विज्ञेयाः सुप्रतिष्ठिताः ॥ ५ ॥ (युग्मम् ) यतः-नैवान्तरङ्गलोकानां, चित्तवृत्तिमहाटवीम् । विहाय विद्यते स्थानं, बहिरङ्गपुरे कचित् ॥ ६ ॥ ततश्व-सुन्दरासुन्दराः सर्वे, येऽ- न्तरङ्गाः कचिजनाः । एनां विहाय ते भद्र!, न वर्तन्ते कदाचन ॥ ७ ॥ अन्यच्च-मिथ्यानिषेविता भद्र!, भवत्येषा महाटवी । घोर- संसारकान्तारकारणं पापकर्मणाम् ॥ ८॥ सम्यनिपेविता भद्र !, भवत्येषा महाटवी । अनन्तानन्दसन्दोहपूर्णमोक्षस्य कारणम् ॥ ९॥ किं चेह बहुनोक्तेन?, सुन्दरेतरवस्तुनः । सर्वस्य कारणं भद्र!, चित्तवृत्तिमहाटवी ॥ १०॥ प्रमत्ततानदी-इयं चासारविस्तारा, ६- श्यते या महानदी । एपा प्रमत्तता नाम, भद्र! गीता मनीषिभिः ॥ ११ ॥ इयं निद्रातटी तुङ्गा, कषायजलवाहिनी । विज्ञेया मदिरा- स्वादविकथास्रोतसां निधिः ॥ १२॥ महाविषयकल्लोललोलमालाकुला सदा । विकल्पानल्पसत्त्वौधैः, पूरिता च निगद्यते ॥ १३ ॥ योऽस्यास्तटेऽपि वर्तेत, नरो बुद्धिविहीनकः । तमुन्मूल्य महावर्ते, क्षिपत्येषा महापगा ॥ १४ ॥ यस्तु प्रवाहे नीरस्य, प्रविष्टोऽस्याः पुमा- नलम् । स यज्जीवति मूढात्मा, क्षणमात्रं तदद्भुतम् ॥१५॥ यदृष्टं भवता पूर्व, रागकेसरिपत्तनम् । यच्च द्वेषगजेन्द्रस्य, सम्बन्धि नगरं परम् ॥१६॥ ताभ्यामेषा समुद्भूता, विगा मां महाटवीम् । गत्वा पुनः पतत्येषा, घोरसंसारनीरधौ ॥१७॥ युग्मम् । अतोऽस्यां पतितो भद्र!, पुरुषस्तत्र सागरे । अवश्यं याति वेगेन, तस्य चोत्तरणं कुतः ?, ॥ १८ ॥ ये गन्तुकामास्तत्रैव, भीमे संसारसागरे । अत एव सदा तेषां, वल्लभेयं महापगा ॥ १९ ॥ ये तु भीताः पुनस्तस्माद्, घोरात्संसारसागरात् । ते दूरादूरतो यान्ति, विहायेमां महानदीम् ॥ २०॥ तदेषा गुणतो भेद्र!, वर्णिता तव निम्नगा । तद्विलसितं पुलिनं-त्वं तद्विलसितं नाम, साम्प्रतं पुलिनं शृणु ॥ २१ ॥ एतद्धि पुलिनं भद्र!, हास्यविब्बोकसैकतम् । विलासलाससङ्गीतहंससारसराजितम् ॥ २२ ॥ स्नेहपाशमहाकाशविकासधवलं तथा । घूर्णमानमहानिद्रा- . है

परिणाम.
उपमि०
भव.
॥२२॥
मदिरामत्तदुर्जनम् ॥ २३ ॥ केलिस्थानं सुविस्तीर्ण, बालिशानां मनोरमम् । विज्ञाततत्त्वैर्दूरेण, वर्जितं शीलशालिभिः ॥ २४ ॥ तदिदं
पुलिनं भद्र!, कथितं तव साम्प्रतम् । महामण्डपरूपं ते, कथयामि सनायकम् ।। २५ ॥ चित्तविक्षेपमण्डप:-अयं हि चित्तविक्षेपो,
नाम्ना संगीयते बुधैः । गुणतः सर्वदोषौघवासस्थानमुदाहृतः ॥ २६ ॥ अत्र प्रविष्टमात्राणां, विस्मरन्ति निजा गुणाः । प्रवर्तन्ते महापाप-
साधनेषु च बुद्धयः ॥ २७ ॥ एतेषामेव कार्येण, निर्मितोऽयं सुवेधसा । राजानो येऽत्र दृश्यन्ते, महामोहादयः किल ।। २८ ॥ बहि-
रङ्गाः पुनर्लोका, यदि मोहवशानुंगाः । स्युर्महामण्डपे भद्र !, प्रविष्टाः क्वचिदत्र ते ॥ २९ ॥ ततो विभ्रमसन्तापचित्तोन्मादब्रतप्लवान् ।
प्राप्नुवन्ति न सन्देहो, महामण्डपदोषतः ॥ ३० ॥ युग्मम् ॥ एनं भद्र! प्रकृत्यैव, महामण्डपमुच्चकैः । एते नरेन्द्राः संप्राप्य, मोदन्ते
तुष्टमानसाः ॥ ३१ ॥ बहिरङ्गाः पुनर्लोका, मोहादासाद्य. मण्डपम् । एनं हि दौर्मनस्येन, लभन्ते दुःखसागरम् ॥ ३२ ॥ अयं हि चि-
तनिर्वाणकारिणी निजवीर्यतः । तेषामेकाग्रतां हन्ति, सुखसन्दोहदायिनीम् ॥ ३३ ॥ केवलं ते न जानन्ति, वीर्यमस्य तपस्विनः । प्रवे-
शमाचरन्यत्र, तेन मोहात्पुनः पुनः ॥ ३४ ॥ यैस्तु वीर्य पुनोतं, कथञ्चित् पुण्यकर्मभिः । अस्य नैवात्र ते भद्र!, प्रवेशं कुर्वते नराः
॥ ३५ ।। एकाग्रमनसो नित्यं, चित्तनिर्वाणयोगतः । ततस्ते सततानन्दा, भवन्यत्रैव जन्मनि ॥ ३६॥ तदेष गुणतो भद्र!, चित्तविक्षे-
पमण्डपः । मया निवेदितस्तुभ्यमधुना शृणु वेदिकाम् ॥ ३७॥ तृष्णावेदिका-एषा प्रसिद्धा लोकेऽत्र, तृष्णानाम्नी सुवेदिका ।
अस्यैव च नरेन्द्रस्य, कारणेन निरूपिता ॥ ३८ ॥ भद्रात एव त्वं पश्य, महामोहेन यो निजः । कुटुम्बान्तर्गतो लोकः, स एवास्यां नि-
वेशितः ॥ ३९ ॥ ये तु शेषा: महीपालास्तत्सेवामात्रवृत्तयः । एते निविष्टास्ते पश्य, सर्वे मुत्कलमण्डपे ॥ ४० ॥ एषा हि वेदिका भद्र!,
प्रकृत्यैवास्य वल्लभा । महामोहनरेन्द्रस्य, स्वजनस्य विशेषतः ॥ ४१. ॥ अस्यां समुपविष्टोऽयमत एव मुहुर्मुहुः । सगर्व वीक्षते लोकं, सि-
RLS
.
॥ २२॥

द्धार्थोऽहं किलाधुना ॥ ४२ ॥ एतच्च प्रीणयत्येषा, स्वभावेनैव वेदिका । स्वस्योपरिष्टादासीनं, महामोहकुटुम्बकम् ॥ ४३ ॥ बहिरङ्गाः पुनर्लोका, यद्येनां भद्र ! वेदिकाम् । आरोहन्ति ततस्तेषां, कौतस्त्यं दीर्घजीवितम् ? ॥ ४४ ॥ अन्यच्चैषा खवीर्येण, तृष्णाख्या भद्र ! वे- दिका । अत्रैव संस्थिता नित्यं, भ्रामयत्यखिलं जगत् ॥ ४५ ॥ तदेषा गुणतो भद्!, यथार्था वरवेदिका । मया निवेदिता तुभ्यमिदानी शृणु विष्टरम् ॥ ४६ ॥ विपर्यासविष्टरं-एतत्सिंहासनं भद्र!, विपर्यासाख्यमुच्यते । अस्यैव विधिना नूनं, महामोहस्य कल्पितम् ॥४७॥ यदिदं लोकविख्यातं, राज्यं याश्च विभूतयः । तत्राहं कारणं मन्ये, नृपतेरस्य विष्टरम् ॥ ४८ ॥ यावच्चास्य नरेन्द्रस्य, विद्यते वरविष्टरम् । इदं तावदहं मन्ये, राज्यमेताश्च भूतयः ॥४९॥ यत:-अस्मिन्निविष्टो राजाऽयं, महासिंहासने सदा । सर्वेषामेव शत्रूणामगम्यः परिकीर्तितः ॥ ५० ॥ यदा पुनरयं राजा, भवेदस्मादहिः स्थितः । सामान्यपुरुषस्यापि, तदा गम्यः प्रकीर्तितः ॥ ५१ ॥ एतद्धि विष्टरं भद्र !, बहिरङ्गजनैः सदा । आलोकितं करोयेव, रौद्रानर्थपरम्पराम् ॥ ५२ ॥ यतः-तावत्तेषां प्रवर्तन्ते, सर्वाः सुन्दरबुद्धयः । यावत्तै- विष्टरे लोकैरन दृष्टिने पातिता ॥ ५३ ॥ निबद्धदृष्टयः सन्तः, पुनरत्र महासने । ते पापिनो भवन्त्युचैः, कुतः सुन्दरबुद्धयः ? ॥ ५४॥ किं च-यन्नद्यास्तत्पुलीनस्य, मण्डपस्य च वर्णितम् । वेदिकायाश्च तद्वीर्य, सर्वमन प्रतिष्ठितम् ॥ ५५ ॥ तदिदं गुणतो भद्र!, कथितं तब विष्टरम् । महामोहनरेन्द्रस्य, निबोध गुणगौरवम् ॥ ५६ ॥ अविद्यागात्रयष्टिः-जराजीर्णकपोलापि, यैषा भुवनविश्नुता । अमु- ज्येयमविद्याख्या, गात्रयष्टिरुदाहृता ।। ५७ ॥ एषाऽन संस्थिता भद्र!, सकलेऽपि जगत्रये । यत्करोति खवीर्येण, तदाकर्णय साम्प्रतम् ॥ ५८ ॥ अनित्येष्वपि नित्यत्वमशुचिष्वपि शुद्धताम् । दुःखात्मकेषु सुखतामनात्मस्वात्मरूपताम् ॥ ५९॥ पुद्गलस्कन्धरूपेषु, शरीरादिषु -- ८ परिणाम. CLES उपमि० भव. अनर्थकं जनाः ॥ २३ ॥ वस्तुषु । लोकानां दर्शयत्येषा, ममकारपरायणा ॥ ६० ॥ युग्मम् । ततस्ते बद्धचित्तत्वात्तेषु पुद्गलवस्तुपु । आत्मरूपमजानन्तः, क्लिश्यन्ते- ६१ ॥ तदेनां धारयन्नुच्चैर्गात्रयष्टिं महाबलः । जराजीर्णोऽपि नैवायं, मुच्यते निजतेजसा ॥ ६२ ॥ मिथ्यादर्शनमहिमा-अदेवे देवसङ्कल्पमधर्मे धर्ममानिताम् । अतत्त्वे तत्त्वबुद्धिं च, विधत्ते सुपरिस्फुटम् ॥ १७२ ॥ अपात्रे पात्रतारोपमगुणेषु गुणग्रहम् । संसारहेतौ निर्वाणहेतुभावं करोत्ययम् ॥ १७३ ॥ युग्मम् ॥ तथाहि-हसितोद्गीतविब्वोकनाट्याटोपप- रायणाः । हताः कटाक्षविक्षेपैर्नारीदेहार्धधारिणः ॥ १७४ ॥ कामान्धाः परदारेषु, सक्तचित्ताः क्षतत्रपाः । सक्रोधाः सायुधा घोरा, वैरिमारणतत्पराः ॥ १७५ ॥ शापप्रसादयोगेन, लसच्चित्तमलाविलाः । ईदृशा भो! महादेवा, लोकेऽनेन प्रतिष्ठिताः ॥ १७६ ॥ त्रिभि- विशेपकम् । ये वीतरागाः सर्वज्ञा, ये शाश्वतसुखेश्वराः । क्लिष्टकर्मकलातीता, निष्कलाश्च महाधियः ॥ १७७ ॥ शान्तक्रोधा गताटोपा, हास्यस्त्रीहेतिवर्जिताः । आकाशनिर्मला धीरा, भगवन्तः सदाशिवाः ॥ १७८ ॥ शापप्रसादनिर्मुक्तास्तथापि शिवहेतवः । त्रिकोटिशुद्ध- शास्त्रार्थदेशकाः परमेश्वराः ॥ १७९ ॥ ये पूज्याः सर्वदेवानां, ये ध्येयाः सर्वयोगिनाम् । ये चाज्ञाकरणाराध्या, निर्द्वन्द्वफलदायिनः ॥ १८० ॥ ते मिथ्यादर्शनाख्येन, लोकेऽनेन स्ववीर्यतः । देवाः प्रच्छादिता भद्र!, न ज्ञायन्ते विशेपतः ॥ १८१ ॥ पञ्चभिः कुलकम् । तथा-हिरण्यदानं गोदानं, धरादानं मुहुर्मुहुः । स्नानं पानं च धूमस्य, पञ्चाग्नितपनं तथा ॥ १८२ ॥ तर्पणं चण्डिकादीनां, तीर्था- न्तरनिपातनम् । यतेरेकगृहे पिण्डो, गीतवाद्ये महादरः ॥ १८३ ॥ वापीकूपतडागादिकारणं च विशेषतः । यागे मत्रप्रयोगेण, मारणं पशुसंहतेः ॥ १८४ ॥ कियन्तो वा भणिष्यन्ते ?, भूतमर्दनहेतवः । रहिताः शुद्धभावेन, ये धर्माः केचिदीदृशाः ॥ १८५ ॥ सर्वे बलिनाऽनेन, मुग्धलोके प्रपञ्चतः । ते मिथ्यादर्शनाढेन, भद्र ! ज्ञेयाः प्रवर्तिताः ॥ १८६ ॥ प्रञ्चभिः कुलकम् ॥ क्षान्तिमार्दवसन्तो- ॥२३॥ SEGA पशौचार्जवविमुक्तयः । तपःसंयमसत्यानि, ब्रह्मचर्य शमो दमः ॥ १८७ ॥ अहिंसास्तेयसद्ध्यानवैराग्यगुरुभक्तयः । अप्रमादसदैकाग्र्य- नैर्ग्रन्थ्यपरतादयः ॥ १८८ ॥ ये चान्ये चित्तनैर्मल्यकारिणोऽमृतसन्निभाः। सद्धर्मा जगदानन्दहेतवो भवसेतवः ॥ १८९ ॥ तेषामेप प्रकृत्यैव, महामोहमहत्तमः । भवेत्प्रच्छादनो लोके, मिथ्यादर्शननामकः ॥ १९० ॥ चतुर्भिः कलापकम् ॥ तथा-श्यामाकतण्डुलाका- रस्तथा पञ्चधनुःशतः । एको नित्यस्तथा व्यापी, सर्वस्य जगतो विभुः ॥ १९१ ॥ क्षणसन्तानरूपो वा, ललाटस्थो हृदि स्थितः । आ- त्मेति ज्ञानमानं वा, शून्यं वा सचराचरम् ॥ १९२ ॥ पञ्चभूतविवर्तो वा, ब्रह्मोप्तमिति वाऽखिलम् । देवोप्तमिति वा ज्ञेयं, महेश्वरवि- निर्मितम् ॥ १९३ ॥ प्रमाणबाधितं तत्त्वं, यदेवंविधमजसा । सद्गुद्धिं कुरुते तत्र, महामोहमहत्तमः ॥ १९४ ॥ चतुर्भिः कलापकम् ॥ जीवाजीवौ तथा पुण्यपापसंवरनिर्जराः । आस्रवो बन्धमोक्षौ च, तत्त्वमेतन्नवात्मकम् ॥ १९५ ॥ सत्यं प्रतीतितः सिद्धं, प्रमाणेन प्रति- ष्ठितम् । तथापि निहते भद्र!, तदेष जनदारुणः ॥ १९६ ॥ युग्मम् ॥ तथा गृहिणो ललनाऽवाच्यमर्दका भूतघातिनः । असत्यसन्धाः पापिष्ठाः, सङ्ग्रहोपग्रहे रताः ॥ १९७ ॥ तथाऽन्ये पचने नित्यमासक्ताः पाचनेऽपि च । मद्यपाः परदारादिसेविनो मार्गदूपकाः ॥१९८॥ तप्तायोगोलकाकारास्तथापि यतिरूपिणः । ये तेषु कुरुते भद्र!, पानबुद्धिमयं जने ॥ १९९ ॥ त्रिभिर्विशेषकम् । सज्ज्ञानध्यानचारित्रत- पोवीर्यपरायणाः । गुणरत्नधना धीरा, जङ्गमाः कल्पपादपाः ॥ २०० ॥ संसारसागरोत्तारकारिणो दानदायिनाम् । अचिन्त्यवस्तुबोहि- त्थतुल्या ये पारगामिनः ॥ २०१ ॥ तेषु निर्मलचित्तेषु, पुरुषेषु जडात्मनाम् । एषोऽपानधियं धत्ते, महामोहमहत्तमः ॥ २०२ ॥ त्रि- भिर्विशेषकम् । तथा-कौतुकं कुहकं मन्त्रमिन्द्रजालं रसक्रियाम् । निर्विषीकरणं तन्त्रमन्तर्धानं सविस्मयम् ॥ २०३ ॥ औत्पातमान्तरिक्षं च, दिव्यमाङ्गं स्वरं तथा । लक्षणं व्यञ्जनं भौम, निमित्तं च शुभाशुभम् ॥ २०४ ॥ उच्चाटनं सविद्वेषमायुर्वेदं सजातकम् । ज्योतिष OF

Sha
परिणाम.
उपमि०
भव.
॥ २४॥
ग़ाणितं चूर्ण, योगलेपास्तथाविधाः ॥ २०५॥ ये चान्ये विस्मयकरा, विशेषाः पापशास्त्रजाः । अन्ये भूतोपमर्दस्य, हेतवः शाठ्यकेतवः
॥२०६॥ तानेव ये विजानन्ति, निःशङ्काश्च प्रयुञ्जते । न धर्मबाधां मन्यन्ते, शठाः पापपरायणाः ॥ २०७ ॥ त एव गुणिनो धी-
रास्ते पूज्यास्ते मनस्विनः । त एव वीरास्ते लाभभाजिनस्ते मुनीश्वराः ॥ २०८ ॥ इत्येवं निजवीर्येण, बहिरङ्गजनेऽमुना । मिथ्यादर्श-
नसंज्ञेन, भद्र! पापाः प्रकाशिताः ॥ २०९ ॥ सप्तभिः कुलकम् । ये पुनर्मत्रतत्रादिवेदिनोऽप्यतिनिःस्पृहाः । निवृत्ता लोकयात्राया, ध-
मौतिक्रमभीरवः ॥ २१० ॥ मूकान्धाः परवृत्तान्ते, स्वगुणाभ्यासने रताः । असक्ता निजदेहेऽपि, किं पुनविणादिके ? ॥ २११ ॥
कोपाहङ्कारलोभायैर्दूरतः परिवर्जिताः । तिष्ठन्ति शान्तव्यापारा, निरपेक्षास्तपोधनाः ॥ २१२ ॥ न दिव्यादिकमाख्यान्ति, कुहकादि न
कुर्वते । मन्त्रादीनानुतिष्ठन्ति, निमित्तं न प्रयुञ्जते ॥ २.१३ ॥ लोकोपचारं निःशेष, परित्यज्य यथासुखम् । खाध्यायध्यानयोगेषु, सक्त-
चित्ताः सदाऽऽसते ॥ २१४ ॥ ते निर्गुणा अलोकज्ञा, विमूढा भोगवञ्चिताः । अपमानहता.दीना, ज्ञानहीनाश्च कुर्कुटाः ॥ २१५ ॥
इत्येवं निजवीर्येण, बहिरङ्गजनेऽमुना । ते मिथ्यादर्शनाढेन, स्थापिता भद्र! साधवः ॥ २१६ ॥ सप्तभिः कुलकम् । तथा-उद्वाहनंच
कन्यानां, जननं पुत्रसंहतेः । निपातनं च शत्रूणां, कुटुम्बपरिपालनम् ॥ २१७ ॥ यदेवमादिकं कर्म, घोरसंसारकारणम् । तद्धर्म इति
संस्थाप्य, दर्शितं भवतारणम् ॥ २१८ ॥ युग्मम् । यः पुनर्ज्ञानचारित्रदर्शनाढ्यो विमुक्तये । मार्गः सर्वोऽपि सोऽनेन, लोपितो लोक-
वैरिणा ॥ २१९॥
चित्तविक्षेपादिमहिमा-यदुन्मत्तग्रहप्रस्तसन्निभो भद्र! सर्वदा । जनो दोलायतेऽत्यर्थ, धर्मबुद्ध्या वराककः ॥ २२९ ॥ कथम्
करोति भैरवे पातं, याति मूढो महापथम् । शीतेन म्रियते माघे, कुर्वाणो जलगाहनम् ॥ २३० ॥ पञ्चाग्नितपने रक्तो, दह्यते तीव्र-
,
?
॥२४॥

वह्निना । गवाश्वत्थादिवन्दारुरास्फोटयति मस्तकम् ॥ २३१ ॥ कुमारीब्राह्मणादीनामतियानेन निर्धनः । सहते दुःखसङ्घातं, श्राद्धः पूत- मलः किल ।। २३२ ॥ परित्यज्य धनं गेहं, वन्धुवर्ग च दुःखितः । अटाट्यते विदेशेषु, तीर्थयात्राभिलाषुकः ॥ २३३ ॥ पितृतर्पणका- र्येण, देवाराधनकाम्यया । निपातयति भूतानि, विधत्ते च धनव्ययम् ॥ २३४ ॥ मांसैमथैर्धनैः खाद्यैर्भक्तिनिर्भरमानसः । ततायोगोलका- कारं, ततस्तर्पयते जनम् ॥ २३५ ॥ हास्यं विवेकिलोकस्य, धर्मबुद्ध्या विनादितः । इत्येवमादिकं धर्म, करोयेष पृथगजने ।। २३६ ॥ न लक्षयति शून्यात्मा, भूतमर्द सुदारुणम् । नात्मनो दुःखसङ्घातं, हास्यं नापि धनव्ययम् ॥ २३७ ॥ रागद्वेषादिजातस्य, स्वपापस्य विशुद्धये । एवं च घटते लोकस्तत्त्वमार्गाद्वहिष्कृतः ॥ २३८ ।। धर्मोपायमजानानः, कुरुते जीवमर्दनम् । प्राप्नोति करभं नैव, रासभं दामयत्ययम् ॥ २३९ ॥ तिला भस्मीकृता वह्नौ, दुग्धं पेयं तवेयहो । धनमुद्दालितं धूतैर्जनस्तु हृदि भावितः ॥ २४०॥ न च सन्मार्गवक्तारः,' पूत्कुर्वन्तोऽप्यनेकधा । लोकेनानेन गण्यन्ते, -प्रोच्यन्ते च विमूढकाः ॥ २४१ ॥ तदिदं भद्र! निःशेष, मिथ्यादर्श- नसंज्ञिना । अमुना संस्कृतस्यास्य, मण्डपस्य विजृम्भितम् ॥ २४२ ॥ यत्पुनम्रियमाणोऽपि, लोकोऽयं नैव मुञ्चति । भद्र ! कामार्थला- म्पट्यं, नानाकारैर्विडम्बनैः ।। २४३ ॥ कथम्?-अप्सरोऽर्थ करोत्येष, नदीकुण्डप्रवेशनम् । पत्युः सङ्गमनार्थ च, दहत्यात्मानमग्निना ॥ २४४ ॥ स्वर्गार्थ भूतिकामेन, पुत्रखजनकाम्यया । अग्निहोत्राणि यागांश्च, कुरुतेऽन्यच्च तादृशम् ॥ २४५ ॥ दानं ददाति चाशास्ते, भूयादेतन्मृतस्य मे । आशास्ते केशनिर्मुक्तं, न फलं मोक्षलक्षणम् ॥ २४६ ॥ यत्किञ्चित्कुरुते कर्म, तन्निदानेन दूषितम् । अर्थकामप्रदं मेऽदः, परलोके भविष्यति ।। २४७ ॥ तदस्य सकलस्येयं, मिथ्यादर्शनसंस्कृता । वृत्तान्तस्येह तृष्णाख्या, वेदिका भद्र! कारणम् ॥ २४८॥ यत्पुनर्भद्र! लोकोऽयं, दिङ्मूढ इव मानवः । शिवं गन्तुमनास्तूर्ण, विपरीतः पलायते ॥ २४९ ॥ कथम् ?--देवं विगर्हते उ०५

सर
परिणाम.
उपमि०
भव.
॥२५॥
SSCREE
मूढः, सर्वज्ञं सर्वदर्शिनम् । वेदाः प्रमाणमित्येवं, भाषते निष्प्रमाणकम् ॥ २५० ॥ धर्म च दूषययेष, जडोऽहिंसादिलक्षणम् । प्रख्याप-
यति, यत्नेन, यागं पशुनिवर्हणम् ।। २५१ ॥ जीवादितत्त्वं, मोहेनापहृतेऽलीकदण्डितः । संस्थापयति शून्यं वा, पञ्चभूतात्मकादि वा
॥ २५२ ॥ ज्ञानादिनिर्मलं पात्रं, निन्दत्येष जडात्मकः । सर्वारम्भप्रवृत्तेभ्यो, दानमुच्चैः प्रयच्छति ॥ २५३ ॥ तपः क्षमा निरीहत्वम-
मून दोषांश्च मन्यते । शाव्यमुक्तौ पिशाचत्वं, खिड्गत्वं मनुते गुणान् ॥ २५४ ॥ शुभ्रं ज्ञानादिकं मार्ग, मन्यते धूर्तकल्पितम् ।
कौलमार्गादिकं मूढो, मनुते शिवकारणम् ॥ २५५ ॥ कलयत्यतुलं धर्म, विशेषेण गृहाश्रमम् । निःशेपद्वन्द्वविच्छेदां, गर्हते यतिरूपताम्
॥ २५६ ॥ तदनेनात्र रूपेण, मिथ्यादर्शनसंस्कृतम् । लोके भो! विलसत्येतद्विपर्यासाख्यविष्टरम् ॥ २५७ ॥ अन्यच्चास्यैव सामर्थ्यालोका
ध्वान्तवशं गताः । यदन्यदपि कुर्वन्ति, भद्र! तत्ते निवेदये ॥२५८॥ जराजीर्णकपोला ये, हास्यप्रायाश्च योषिताम् । वलीपलितखालित्य-
पिप्लुव्यङ्गादिदूषिताः ॥ २५९ ॥ तेऽपि त्रपन्ते जरसा, विकाररसनिर्भराः । कथयन्त्यात्मनो जन्म, गाढमित्वरकालिकम् ॥२६०॥ युग्मम्
अनेकद्रव्ययोगैश्च, कार्यसम्पत्तये किल । तमसेव सहार्दैन, रञ्जयन्ति शिरोरुहान् ॥ २६१ ॥ जनयन्ति मृजां देहे, नानास्नेहैंर्मुहुर्मुहुः ।
तवा कपोलशैथिल्यं, यत्नतश्छादयन्ति ते ॥ २६२ ॥ भ्रमन्ति विकटं मूढास्तरुणा इव लीलया । वयःस्तम्भनिमित्तं च, भक्षयन्ति रसा-
यनम् ॥ २६३ ॥ खच्छायां दर्पणे बिम्ब, निरीक्षन्ते जलेषु- च । क्लिश्यन्ते राढया नित्यं, देहमण्डनतत्पराः ॥ २६४ ॥ आहूतास्तात
तातेति, ललनाभिस्तथापि ते । पितामहसमाः सन्तः, कामयन्ते विमूढकाः ॥ २६५ ॥ सर्वस्य प्रेरणाकाराः, सन्तोऽपि नितरां पुनः ।
कुर्वन्तो हास्यविव्वोंकान, गाढं गच्छन्ति हास्यताम् ॥ २६६ ॥ जराजीर्णशरीराणां, येषामेषा विडम्वना । ते भद्र! सति तारुण्ये, की-
दृशाः सन्तु जन्तवः ? ॥ २६७ ।। श्लेष्मानक्लेदजाम्बालपूरिते ते कलेवरे । आसक्तचित्ताः खिद्यन्ते, यावजीवं वराककाः ॥ २६८ ॥
॥ २५ ॥

अनन्तभवकोटीभिर्लब्धं मानुष्यकं भवम् । वृथा कुर्वन्ति निहींका, धर्मसाधनवर्जिताः ॥ २६९ ॥ आयतिं न निरीक्षन्ते, देहतत्त्वं न जानते । आहारनिद्राकामा स्तिष्ठन्ति पशुसन्निभाः ॥ २७० ॥ ततस्तेषामपारेऽत्र, पतितानां भवोदधौ । निर्नष्टशिष्टचेष्टानां, पुनरुत्तरणं कुतः ? ॥ २७१ ॥ तदनेनापि रूपेण, मिथ्यादर्शनसंस्कृतम् । इदं विजृम्भते भद्र!, विपर्यासाख्यमासनम् ॥ २७२ ॥ अन्यच्च-प्रश- मानन्दरूपेषु, सारेषु नियमादिषु । वशेनास्य भवेन्द्र!, दुःखबुद्धिर्जडात्मनाम् ॥ २७३ ॥ गत्वरेषु सुतुच्छेषु, दुःखरूपेषु देहिनाम् । भोगेषु सुखबुद्धिः स्यादासनस्यास्य तेजसा।।२७४॥तथैष भुवनख्यातः, प्रधानोऽन महाबलः ।बहिरङ्गजनस्योचैः सर्वानर्थविधायकः॥२७५॥ पाखण्डभेदाः-शाक्यास्त्रैदण्डिकाः शैवाः, गौतमाश्चरकास्तथा । सामानिकाः सामपरा, वेधर्माश्च धार्मिकाः ॥ २८२ ॥ आजी- विकास्तथा शुद्धा, विद्युहन्ताश्च चुञ्चणाः । माहेन्द्राश्चारिका धूमा, बद्धवेषाश्च खुखुकाः ॥ २८३ ॥ उल्काः पाशुपंताः कौलाः, काणा- दाश्चर्मखण्डिकाः । सयोगिनस्तथोलूका, गोदेहा यज्ञतापसाः ॥ २८४ ॥ घोषपाशुपताश्चान्ये, कन्दच्छेदा दिगम्बराः । कामर्दकाः काल- मुखाः, पाणिलेहात्रिराशिकाः ॥ २८५ ॥ कापालिकाः क्रियावादा, गोव्रता मृगचारिणः । लोकायताः शङ्खधमाः, सिद्धवादाः कुलंतपाः ॥ २८६ ॥ तापसा गिरिरोहाच, शुचयो राजपिण्डकाः। संसारमोचकाश्चान्ये, सर्वावस्थास्तथा परे ॥ २८७ ॥ अज्ञानवादिनो ज्ञेया- स्तथा पाण्डुरभिक्षवः । कुमारब्रतिकाश्चान्ये, शरीररिपवस्तथा ॥ २८८ ॥ उत्कन्दाश्चकवालाच, त्रपवो हस्तितापसाः । चित्तदेवा बिला- वासास्तथा मैथुनचारिणः ॥ २८९ ॥ अम्बरा असिधाराश्च, तथा माठरपुत्रकाः । चन्द्रोद्गमिका(ख्या)श्चान्ये, तथैवोदकमृत्तिकाः ॥२९॥ एकैकस्थालिका मङ्खाः, पक्षापक्षा गजध्वजाः । उलूकपक्षा मात्रादिभक्ताः कण्टकमर्दकाः ॥ २९१ ॥ सामान्यविशेषस्वरूपं-अवयव्यत्र सामान्यं, विशेषोऽवयवाः स्मृताः । राजानश्वांशिनो ज्ञेयास्तदंशास्तु पदातयः ॥ ५४३ ॥ इह उपमि० परिणाम. भव. - ॥ २६॥ । च-नायातः कस्यचित्साक्षादेकदा ज्ञानगोचरम् । ययैतौ प्रकृतिस्तात!, सा सामान्यविशेपयोः ।। ५४४ ॥ देशकालखभावैश्च, भेदोऽपि च न विद्यते । तादात्म्यादेतयोस्तात!, तेनैकः प्रतिभाति ते ॥ ५४५ ॥ तथाहि के तरोभैदिनः सन्तु, धवानखदिरादयः । धवाम्रा- दिविनाभूतः, कस्ता ? प्रकाश्यताम् ॥ ५४६ ।। श्रुतस्कन्धातिरेकेण, नास्यध्ययनसंभवः । न चाध्ययननिर्मुक्तः, श्रुतस्कन्धोऽस्ति कश्चन ।। ५४७ ॥ केवलं योगपचेन, न दृष्टौ तावितीयता । नादृष्टावेव तौ वत्स!, कालभेदेन दर्शनात् ।। ५४८ ॥ तथाहि-दृश्यते हि तरु- दूरान्न लक्ष्यन्ते धवादयः । अभ्यर्णे तेऽपि दृश्यन्ते, लक्ष्यते न तरुः पृथक् ।। ५४९ ॥ तथापि तहयं दृष्टं, कालभेदेऽपि कीर्यते । यथा- क्रमेण दृष्टत्वाद्भूपा(द्धवा)द्याश्चक्षुरादिभिः ॥ ५५० ।। अतो भेदेन दृष्टत्वाद्भिन्नमेवेदमिष्यताम् । अभिन्नस्य हि नो भिन्नं, कालभेदेऽपि दर्शनम् ॥ ५५१ ॥ तथाहि-अभेदेऽपि स्वभावाद्यैर्यत्सामान्यविशेषयोः । संख्यासंज्ञाऽङ्ककार्येभ्यो, भेदोऽप्यस्ति परिस्फुटः ।। ५५२ ॥ तेन तद्वारजः सर्वो, व्यवहारो न दुष्यति । भेदाभेदात्मके तत्त्वे, भेदस्वेत्थं निदर्शनात् ।। ५५३ ॥ तथाहि-संख्यया तरुरित्येको, भू- यांसः खदिरादयः । संज्ञाऽपि तरुरित्येपां, धवाम्रार्कादिभेदिनाम् ।। ५५४ ॥ अनुवृत्तिस्तरोस्तेषु, लक्षणं पृथगीक्ष्यते । धवाश्वत्थादिभे- दानां, व्यावृत्तिश्च परस्परम् ।। ५५५ ।। कार्य तु तरुमात्रेण, साध्यं छायादिकं पृथक् । विशिष्टफलपुष्पाद्यमन्यदेवाम्रकादिभिः ।। ५५६ ॥ व्यवहारोऽधि सामान्ये, श्रुतस्कन्धेऽन्य एव हि । अन्य एवास्य भेदेपु, यदुद्देशादिलक्षणः ।। ५५७ ॥ जगत्स्वरूपम्-अनादिनिधनो घोरो, दुस्तरोऽयं भवोदधिः । राधावेधोपमा लोके, दुर्लभा च मनुष्यता ।। ५७५ ॥ मूलं हि सर्व- कार्याणामाशापाशनिवन्धनम् । जलबुद्बुदसंकाशं, दृष्टनष्टं च जीवितम् ।। ५७६ ॥ वीभत्समशुचेः पूर्ण, कर्मजं भिन्नमात्मनः । गम्यं रोगपिशाचानां, शरीरं क्षणभङ्गुरम् ।। ५७७ ॥ यौवनं च मनुष्याणां, सन्ध्यारक्ताभ्रविभ्रमम् । चण्डवातेरिवाम्भोमालारूपाश्च सम्पदः ॥ २६॥ .

, MAR ।। ५७८ ॥ आदौ संपादिताहादाः, पर्यन्तेऽत्यन्तदारुणाः । एते शब्दादिसम्भोगाः किम्पाकफलसन्निभाः॥ ५७९-॥ माता भ्राता पिता भार्या, पुत्रो जातेति जन्तवः । जाताः सर्वेऽपि सर्वेषामनादिभवचक्रके ॥ ५८० ॥ उषित्वैकतरौ रात्रौ, यथा प्रातर्विहङ्गमाः । यथायथं व्रजन्येव, कुटुम्बे विश्र (श्व) बान्धवाः ॥ ५८१ ॥ इष्टैः समागमाः सर्वे, स्वप्नाप्तनिधिरूपताम् । नूनं समाचरन्त्येव, वियोगानलतापिनः ॥ ५८२ ॥ जरा जर्जरयत्येव, देहं सर्वशरीरिणाम् । दुलयत्येव भूतानि, भीमो मृत्युमहीधरः ॥ ५८३ ॥ योषिदङ्गसतत्त्वं-सितासिते विशाले ते, ताम्रराजिविराजिनी । जीव! चिन्तय निर्मिथ्यमक्षिणी मांसगोलकौ ॥ ५९३ ॥ सुमां- सकौ सुसंस्थानौ, सुश्लिष्टौ वक्रभूषणौ । लम्बमानाविमौ वधौं, कौँ यौ ते मनोहरौ ॥ ५९४ ॥ यावेतावुल्लसद्दीप्ती, भवतश्चित्तरजको । ततचर्मावृतं स्थूलमस्थिमानं कपोलकौ ॥ ५९५ ॥ ललाटमपि तादृक्षं, यत्ते हृदयवल्लभम् । दीर्घोत्तुङ्गा सुसंस्थाना, नासिका चर्मखण्ड- कम् ॥ ५९६ ॥ यदिदं मधुनस्तुल्यमधरोष्ठं विभाति ते । मांसपेशीद्वयं स्थूरमिदं लालामलाविलम् ॥ ५९७ ॥ ये कुन्दकलिकाकारा, रद- नाश्चित्तहारिणः । एतेऽस्थिखण्डकानीति, पद्धतिस्थानि लक्षय ॥ ५९८ ॥ य एषोऽलिकुलच्छायः, केशपाशो मनोहरः । योषितां तत्तमो- हार्द, प्रकाशमिति चिन्तय ॥ ५९९ ॥ यौ काञ्चनमहाकुम्भविभ्रमौ ते हृदि स्थितौ । स्त्रीस्तनौ मूढ ! बुध्यख, तौ स्थूलो मांसपिण्डको ॥ ६०० ॥ यल्लासयति ते चित्तं, ललितं दोलताद्वयम् । ततचर्मावृतं दीर्घ, तदस्थियुगलं चलम् ॥ ६०१॥ अशोकपल्लवाकारौ, यौ करौ ते मनोहरौ । तावस्थिघटितौ विद्धि, चर्मनद्धौ करङ्ककौ ॥ ६०२ ॥ यद्रजयति ते चित्तं, वलित्रयविराजितम् । उदरं मूढ ! तद्विष्ठामूत्रा- अमलपूरितम् ॥ ६०३ ॥ यदाक्षिपति ते खान्तं, श्रोणीबिम्बं विशालकम् । प्रभूताशुचिनिर्वाहद्वारमेतद्विभाव्यताम् ॥ ६०४ ॥ यौ मूढेहीं- टकस्तम्भसन्निभी परिकल्पितौ । तावूरू पूरितौ विद्धि, वसामज्जाशुचेनलौ ।। ६०५ ।। सञ्चारिरकराजीवबन्धुरं भाति यञ्च ते । तद्भि- परिणाम. उपमि० भव. ॥२७॥ युगलं स्नायुबद्धास्थां पचरद्वयम् ॥ ६०६ ॥ यत्ते कर्णामृतं भाति, मन्मनोल्लापजल्पितम् । तन्मारणात्मकं मूढ!, विपं हालाहलं तव ॥ ६०७ ॥ शुक्रशोणितसंभूतं, नवच्छिद्रं मलोल्बणम् । अस्थिशृङ्खलिकामानं, हन्त योषिच्छरीरकम् ॥ ६०८॥ न चास्माद्भिद्यते जीव!, तावकीनं शरीरकम् । कश्चैवं ज्ञाततत्त्वोऽपि, कुर्यात्कङ्कालमीलकम् ? ॥ ६०९ ॥ प्रचण्डपवनोद्भूतध्वजचेलाग्रचञ्चलम् । चित्तं तु विदुपां स्त्रीणां, कथं रागनिबन्धनम् ॥ ६१० ॥ विलसल्लोलकल्लोलजालमालाकुले जले । शशाङ्कविम्बवल्लोकैस्तद् ग्रहीतुं न पार्यते ॥ ६११ ॥ वर्गापवर्गसन्मार्गनिसर्गार्गलिकासमाः । एता हि योषितो नूनं, नरकद्वारदेशिकाः ॥ ६१२ ॥ न भुक्तासु न युक्तासु, न वियुक्तासु देहि- नाम् । विद्यमानासु नारीषु, सुखगन्धोऽपि विद्यते ॥ ६१३ ॥ याश्चैवं योषितोऽनेकमहानर्थविधायिकाः । सुखमार्गार्गलास्तासु, तुच्छं स्नेहनिबन्धनम् ॥ ६१४ ॥ एवं व्यवस्थितें नृणां, यदिदं मूढचेष्टितम् । तदीदृशं ममाभाति, पर्यालोचयतोऽधुना ॥ ६१५ ॥ यदुत- महाविगोपको भूयान् , हसनं च विडम्बनम् । बिब्वोका वध्यभूमीपु,, गच्छतां पटहोपमाः ॥ ६१६ ॥ नाट्यं तु प्रेरणाकारं, गान्धर्व रोदनोपमम् -। विवेकिकरुणास्थानं, योपिदात्मनिरीक्षणम् ॥ ६१७ ॥ विलासाः सन्निपावानामपथ्याहारसन्निभाः । उच्चैर्विनाटनं योपिदा- श्लेषसुरतादिकम् ॥ ६१८ ॥ तदेवंविधसद्भूतभावनाभावितात्मभिः । तैर्जितो भद्र! सत्सुम्भिरेषोऽपि. मकरध्वजः ॥ ६१९ ॥ चतुर्भि: 5 ॥ २७॥ कलापकम् । मधुरसगो विमर्शविचारः-अहो महामोइसामर्थ्य अहो रागकेसरिविलसितं अहो विषयाभिलाषप्रतापः, अहो मकरध्वजमाहात्म्य अहो रतिविजृम्भितं. अहाँ हासमहाभदोल्लासः अहो अमीषां लोकानामकार्यकरणधीरता अहो प्रमचता अहो स्रोतोगामिता अहो अदीर्घ- . 'दर्शिता अहो विक्षिप्तचित्तता अहो अनालोचक़त्वं अहो विपर्यासातिरेकः अहो अशुभभावनापरता अहो भोगतृष्णादौर्लालित्यं अहो अवि- द्यापहृतचिंत्ततेति । मद्यपदशा-मदिरामत्ता हि प्राणिनः कुर्वन्त्यगम्यगमनानि न लक्षयन्ति पुरःस्थितं मारयन्ति प्रियवान्धवान् जनयन्त्यकाण्डविरं समाचरन्ति समस्तपातकानि भवन्ति सर्वजगत्सन्तापकाः निपात्यन्ते निष्प्रयोजनं मृत्वा च गच्छन्ति दुर्गतौ, किमत्राश्चर्यमिति, किं च -मद्ये च पारदार्ये च, ये रताः क्षुद्रजन्तवः । तेषामेवंविधानर्थान् , वत्स! कः प्रष्टुमर्हति ? ॥ १.॥ मधं हि निन्दितं सद्भिर्मा कलह- कारणम् । मद्यं सर्वापदां मूलं, मद्यं पापशताकुलम् ॥ २ ॥ न यजेब्यसनं मये, पारदार्ये च यो नरः । यथाऽयं वत्स! लोलाक्षस्तथाऽसौ लभते क्षयम् ॥ ३॥ मद्यं च पारदार्य च, यः पुमांस्तात! मुञ्चति । स पण्डितः स पुण्यात्मा, स धन्यः स कृतार्थकः ॥ ४ ॥ धनस्वरूपम्-धनं हि धर्मसंतप्तविहङ्गगलचञ्चलम् । ग्रीष्मोष्माक्रान्तशार्दूलजिह्वातरलमीरितम् ॥ १० ॥ इन्द्रजालमिवानेकदर्शि- ताद्भुतविभ्रमम् । क्षणदृष्टविनष्टं च, नीरबुद्बुदसन्निभम् ॥ ११ ॥ युग्मम् । अस्य वाणिजकस्येदं, तात! दुर्नयदोषतः । नष्ट महापदस्थानं, जातं च विविधं धनम् ॥ १२ ॥ इहान्येषां पुनर्भद्र, दोषसंश्लेषवर्जिनाम् । अपि नश्यदिदं रिक्थं, भवेच्च भयकारणम् ॥ १३ तथाहि-येऽपि फूत्कृय फूत्कृत्य, पादं मुञ्चन्ति भूतले । तेषामपि क्षणार्धन, नश्यतीर्द न संशयः ॥ १४ ॥ प्राप्नुवन्ति च दुःखानि, धनिनो धनदोषतः । जलज्वलनलुण्टाकराजदायादतस्करैः ॥ १५ ॥ अन्यच्चेदं धनं वत्स!, मेघजालमिवातुलम् । हतं प्रचण्डवातेन, यदा याति कथञ्चन ॥ १६ ॥ तदा नालोकयति रूपं न विगणयति परिचयं न निरूपयति कुलीनतां नानुवर्तयति कुलक्रमं नाकलयति शीलं नापेक्षते पाण्डित्यं नालोचयति सौन्दर्य नावरुध्यते धर्मपरतां नाद्रियते दानव्यसनितां न विचारयति विशेषज्ञतां न लक्षयति सदा- ..

परिणाम.
उपमि०
भव.
॥ २८॥
.
चारपरायणता न परिपालयति चिरस्नेहभावं नोररीकरोति सत्त्वसारतां न प्रमाणयति शरीरलक्षणम् , किं तर्हि ?-गन्धर्वनगराकारे-
पश्यतामेव देहिनाम् । तद्धनं क्षणमात्रेण, कापि न ज्ञायते गतम् ? ॥ १ ॥ अर्जितं बहुभिः क्लेशैः, पालितं जीवितं यथा । नष्टं तु
याहङ् नृत्यत्सु, नटेष्वपि तदीक्षितम् ।। २ ।। तथाप्यमी महामोहनिहताः क्षुद्रजन्तवः । ईदृशेऽपि धने भद्र, चिन्ताबद्धं(न्धं) वितन्वते
॥ ३ ॥ अलीकधनगर्वेण, विह्वलीभूतमानसाः । विकारकोटीः कुर्वन्ति, यथैवैप महेश्वर ॥ ४॥ तदीडशो धनस्येह, पर्यन्तस्तात!
जन्मनि । परलोके पुनर्घोरा, धनाडुःखपरम्परा ॥ ५॥ प्रकर्षेणोदितं माम!, येन स्यानिश्चलं धनम् । तथा शुद्धविपाकं च, स्यात् कल्याण-
निबन्धनम् ॥ ६ ॥ तत्तादृशं जगत्यत्र, किमस्ति बत कारणम् ? । किं वा न संभवत्येव, तदिदं मे निवेदय ॥ ७॥ युग्मम् । विमर्शनोदितं
तात!, संभवत्येव तादृशम् । कारणं विरलानां भोः, केवलं तेन मीलकः ॥ ८॥ करोति वर्धनस्थैर्य, अजातं जनयेद्धनम् । अत्य-
न्तदुर्लभं भद्र!, पुण्यं पुण्यानुबन्धि यत् ॥ ९ ॥ यच्च-दया भूतेषु वैराग्य, विधिवद्गुरुपूजनम् । विशुद्धा शीलवृत्तिश्च,
पुण्यं पुण्यानुबन्ध्यदः ॥ १० ॥ अथवा-परोपतापविरतिः, परानुग्रह एव च । स्वचित्तदमनं चैव, पुण्यं पुण्यानुबन्ध्यदः
।। ११.॥ एतच्चान्यभवे धन्यैरुपात्तमिहापि वा । स्थिरमेव धनं तेषां, सुमेरोः शिखरं यथा ॥ १२ ॥ अन्यच्च ते महात्मानस्तत्पुण्य-
परिढौकितम् । बाह्यं तुच्छ मलप्राय, विज्ञाय क्षणगत्वरम् ॥ १३ ॥ योजयन्ति शुभे स्थाने, स्वयं च परिभुञ्जते । न च तत्र धने
मूर्छामाचरन्ति महाधियः॥१४॥ युगमम् ततश्च तद्धनं तेषां, सत्पुण्यावाप्तजन्मनाम् । इत्थं विशुद्धबुद्धीनां, जायते शुभकारणम् ॥ १५॥
निन्ये बांहों महानर्थकारणे मूछिता धने । शून्यास्ते दानभोगाभ्यां, ये पुनः क्षुद्रजन्तवः ॥ १६ ॥ इहैव चित्तसन्तापं, घोरानर्थपर-
म्पराम् । यो लभन्ते . पापिष्ठास्तत्र किं भद्र! कौतुकम् ? ॥ १७ ॥ तदत्र परमार्थोऽयं, मूर्छागवौं धने सति । न कायौँ दान-
॥ २०॥

भोगौ तु, कर्तव्यौ तत्त्ववेदिना ॥ १८ ॥ यस्तु नैवं करोत्युच्चैः, स वराको निरर्थकम् । अमूल्यकः कर्मकरः, केवलं परिताम्यति ॥ १९॥ स्नेहदुर्नयगन्धोऽपि, वर्जनीयश्च जानता । अन्यथा जायते कष्टं, यथाऽस्य वणिजो महत् ॥ २० ॥ वेश्याव्यसनं-वस्त्रभूपणताम्बूलगन्धमाल्यविलेपनैः । हृताक्षास्ते न पश्यन्ति, सहजाशुचिरूपताम् ॥ २॥ संचरिष्णुमहाविष्ठाको- ठिकाभिर्विमूढकाः । वाञ्छन्तस्ताभिराश्ले, कुर्वन्त्येव धनक्षयम् ॥ ३ ॥ ततो भिक्षाचरप्राया, भवन्ति कुलदूपणाः । न च मूढा विर- ज्यन्ते, तामवस्थां गता अपि ॥ ४ ॥ ततस्ते प्राप्नुवन्येव, वेश्याव्यसननाटिताः । एवंविधानि दुःखानि, वत्स! किं चात्र कौतुकम् ॥५॥ चलचित्ताः प्रकृत्यैव, कुलजा अपि योपितः । चटुलत्वेन वेश्यानां, तात! कः प्रश्नगोचरः ? ॥ ६ ॥ कुलीना अपि भो! नार्यः, सर्वमा- याकरण्डिकाः । को मायां जीर्णवेश्यानां, वत्स! पृच्छेत्सकर्णकः ? ॥ ७ ॥ शेपाभिरपि नारीभिः, स्नेहे दत्तो जलाञ्जलिः । यस्यास्था गणिकास्नेहे, स मूर्खपट्टवन्धकः ॥ ८॥ अन्यस्मै दत्तसंकेता, वीक्षतेऽन्यं गृहे परः । अन्यश्चित्ते परः पार्श्व, गणिकानामहो नरः ॥ ९ ॥ कुर्वन्ति चाटुकर्माणि, यावत्स्वार्थः प्रपूर्यते । च्युतसारं विमुञ्चन्ति, निर्लाक्षालक्तकं यथा ॥ १० ॥ पुरापघसरप्राया, गणिकाः परिकी- र्तिताः । ये तास्वपि च गृध्यन्ति, ते श्वानो न मनुष्यकाः ॥११॥ मांसे दूषणं-परमारितजीवानां, पिशितं योऽपि खादति । इहामुत्र च दुःखाना, पद्धतेः सोऽपि भाजनम् ॥ ४४ ॥ यस्तु क्रूरो महापापः, स्वयमेव निकृन्तति । स्फुरन्तं जीवसङ्घातं, तस्य मांसं च खादति ॥ ४५ ॥ तस्येह यदि दुःखानि, भवन्त्येवंविधानि भोः!। परत्र नरके पातो, वत्स! किं तत्र कौतुकम् ? ॥ ४६॥ युग्मम् । वीभत्समशुचेः पिण्डो, निन्धं रोगनिवन्धनम् । कृमिजालोल्वणं मांसं, भक्षयन्तीह राक्षसाः ॥ ४७ ॥ यैस्त्विदं धर्मबुद्धबैव, भक्ष्यते स्वर्गकाम्यमा । कालकूटविपं नूनमद्युस्ते जीवितार्थिनः ॥ ४८ ॥ अहिंसा परिणाम. उपमि० भव. ॥३०॥ कर्तिते जुगुप्सारती, निपुदितौ भयशोको, विदलिता दुष्टाभिसन्धिप्रभृतयश्चरटाः, पलायित्तानि डिम्मरूपाणि, विद्राविता ज्ञानसंवरणा- दयस्ते त्रयो दुष्टनरपतयः, अनुकूलीभूतास्ते चत्वारः सप्तानां मध्यवर्तिनो वेदनीयाद्याः, व्यपगतं चतुरङ्गमपि तत्सकलं वलं, प्रशान्ता विब्बोकाः, विगलिता विलासाः, तिरोभूताः समस्तविकाराः । किं बहुना? सर्वथा-यदृष्टं भवता तस्यां, वर्णितं च मया पुरा । वस्तु किञ्चित्समस्तानां, दुःखदं बाह्यदेहिनाम् ॥ १॥ चित्तवृत्तिमहाटव्यां, तत्सर्वमिह संस्थिताः । प्रलीनं वत्स! पश्यन्ति, नूनमेते महाधियों ॥ २ ॥ युग्मम् । सा सर्वोपद्रवैर्मुक्ता, श्वेता रत्नौघपूरिता । एतेषां ध्यानयोगेन, चित्तवृत्तिः प्रभासते ॥ ३ ॥ 'प्रशस्ता मोहाद्याः-मूर्च्छन्ति भगवद्विम्येषु रज्यन्ते स्वाध्यायकरणेषु स्निह्यन्ति साधर्मिकजनेषु प्रीयन्ते सदनुष्ठानेषु तुष्यन्ति गुरु- दर्शनेषु हृष्यन्ति सदर्थोपलम्भेषु द्विपन्ति व्रतातिचारकरणेषु क्रुध्यन्ति सामाचारीविलोपेषु रुष्यन्ति प्रवचनप्रत्यनीकेषु माद्यन्ति कर्मनिर्ज- 'रणेषु अहङ्कुर्वन्ति प्रतिज्ञातनिर्वाहणेषु अवष्टश्नन्ति परीषहेषु स्मयन्ते दिव्याद्युपसर्गेषु गृहयंति प्रवचनमालिन्य वञ्चयन्तीन्द्रियधूर्त्तगणं लु- भ्यन्ति तपश्चरणेषु गृध्यन्ति वैयावृत्याचरणेषु अभ्युपपद्यन्ते सद्ध्यानयोगेषु तृष्यन्ति परोपकारकरणेषु निन्नन्ति प्रमादचौरवृन्दं बिभ्यति भ- वचक्रभ्रमणात् जुगुप्सन्ते विमार्गचारिता रमन्ते निर्वृतिनगरीगमनमार्गे उपहसन्ति विषयसुखशीलता उद्विजन्ते शैथिल्याचरणात् शोचन्ति चिरन्तनदुश्चरितानि गर्हन्ते निजशीलस्खलितानि निन्दन्ति भवचक्रनिवासं आराधयन्ति जिनाज्ञायुवर्ति प्रतिसेवन्ते द्विविधशिक्षाललनां ॥ भावनां:-समस्तवस्तुविस्तारमतितुच्छं विनश्वरम् ॥ १२७ ॥ नास्तीह शरणं लोके, दुःखपीडितदेहिनाम् । एकश्च जायते जन्तु- म्रियते च भवोदधौ ।। १२८ ॥ यदिदं देहिनां किञ्चिच्चित्ताबन्धविधायकम् । शरीरं धनमन्यद्वा, सर्व तद्भिन्नमात्मनः ।। १२९ ।। मूत्रा- अक्छेदजम्बालपूरितं च कलेवरम् । तदत्रात्यन्तबीभत्से, शुचिगन्धो न विद्यते ॥ १३० ॥ माता भूत्वा पुनर्भार्या, भवत्यत्र भवोधौ । ॥३० 5A कर्मास्रवो भवत्येव, पापानुष्ठानकारिणाम् ॥१३१॥ निवृत्तानां सदाचारान्जायते वरसंवरः । तपसा तु भवत्येव, सततं कर्मनिर्जरा॥१३२॥ मृता जाताश्च सर्वेषु, लोकोद्देशेषु जन्तवः । भक्षितानि च सर्वेषु, रूपिद्रव्याणि जन्तुना ॥ १३३ ॥ संसारसागरोत्तारकारकश्च जिनो- दितः । धर्मः सुदुर्लभा चान, वोधिः सर्वज्ञदर्शने ॥ १३४ ॥ अष्टभिः कुलकम् । स्त्रीपुंसलक्षणानि-रक्तस्निग्धमवर्क च, पद्माभं मृदु कोमलम् । प्रशस्तं वर्णितं प्राज्ञैः, सुश्लिष्टं पादयोस्तलम् ॥ ८५ ॥ शशिवज्रा- कुशच्छत्रशङ्खादित्यादयस्तले । पादयोर्यस्य दृश्यन्ते, स धन्यः पुरुषोत्तमः ॥ ८६ ॥ एत एव च चन्द्राद्या, यद्यसंपूर्णभिन्नकाः । भवेयुः पश्चिमा भोगाः, संपद्यन्ते तदा नरे ॥ ८७ ॥ रासभो वा वराहो वा, जम्बुको वा परिस्फुटम् । दृश्येत पादतलयोर्यस्यासौ दुःखितो नरः ॥ ८८ ॥ मयोक्तं- लक्षणे प्रस्तुते वक्तुं, त्वयेदमपलक्षणम् । किमुक्तं ? विमलः प्राह, समाकर्णय कारणम् ॥ ८९ ॥ लक्ष्यते दृष्टमात्रस्य, नरस्येह शुभाशुभम् । येन तल्लक्षणं प्रोक्तं, तराधा सुन्दरेतरम् ॥ ९० ॥ ततश्चेदं समासेन, सुखदुःखनिवेदकम् । शरीरसंस्थितं चिहं, लक्षणं विदुपां मतम् ॥ ९१ ॥ तेनापलक्षणस्यापि, यदिदं प्रतिपादितम् । युक्तं तद्भद्र ! जानीहि, प्रस्तुते नरलक्षणे ॥ ९२ ॥ मयोक्तं- कुमार! परिहासोऽयं, व्युत्पत्त्यर्थ मया कृतः । तद्रूहि सर्व यद्वाच्यं, द्विगुणोऽयमनुग्रहः ॥ ९३ ॥ विमलेनोक्तं-उत्तुङ्गाः पृथुलास्ताम्राः, स्निग्धा दर्पणसन्निभाः । नखा भवन्ति धन्यानां, धनभोगसुखप्रदाः ॥ ९४ ॥ सितैः श्रमणता ज्ञेया, रूक्षपुष्पितकैः पुनः । जायते किल दुःशीलो, नखैलोकेऽत्र मानवः ॥ ९५ ॥ मध्ये संक्षिप्तपादस्य, स्त्रीकार्ये मरणं भवेत् । निर्मासावुत्कटौ पादौ, न प्रशस्तावुदाहृतौ ॥९६॥ कूर्मोन्नतौ घनौ स्निग्धौ, मांसलौ समकोमलौ । सुश्लिष्टौ चरणौ धन्यौ, नराणां सुखसाधकौ ॥ ९७ ॥ ये काकजवाः पुरुषास्तथैवोद्वद्ध- पिण्डिकाः । ये दीर्घस्थूलजङ्घाश्च, दुःखितास्तेऽध्वगामिनः ॥ ९८॥ ये हंसशिखिमातङ्गवृषगत्यनुकारिणः । नरास्ते सुखिनो लोके, दुः-

परिणाम.
उपमि०
भव.
॥३१॥
।
खिनोऽन्ये प्रकीर्तिताः ॥ ९९ ॥ जानुद्वयं भवेद्गुढं, गुल्फो वा सुसमाहितौं । यस्यांसौ सुखितो ज्ञेयों, घंटजानुन सुन्दरः॥ १०॥
हवं राजीवसच्छायमुन्नतं मणिके शुभम् । वक्र दीर्घ विवर्ण च, न लिङ्गमिह शस्यते ॥ १०१ ॥ दीर्घायुष्का भवन्तीह, प्रलंम्वृषणा
नैराः । उत्कटाभ्यां पुनस्ताभ्यां, हवायुष्काः प्रकीर्तिताः ॥ १०२ ॥ मांसोपचितविस्तीर्ण, शुभंकारि कटीतटम् । तदेव दारिद्र्यकरं, वि-
ज्ञेयं इस्वसङ्कटम् ॥ १०३ ॥ यस्योदरं भवेत्तुल्यं, सिंहव्याघ्रशिखण्डिनाम् । तथैव वृषमत्स्यानां, भोगभोगी स मानवः ॥ १०४ ॥ वृ-
तोदरोऽपि भोगानां, भाजनं किल गीयते । शूरो निवेदितः प्राहमण्डूकसमकुक्षिकः ॥ १.०५ ॥ गम्भीरा दक्षिणावर्ता, नाभिरुक्तेह सु-
न्दरा । वामावर्ता च तुङ्गा च, नेष्टा लक्षणवेदिभिः ॥ १०६ ॥ विशालमुन्नतं तुङ्ग, स्निग्धलोमशमार्दवम् । वक्षःस्थल भवेद्धन्यं, विप-
रीतमतोऽपरम् ॥ १०७ ॥ कूर्मसिहाश्वमातङ्गसमपृष्ठाः शुभां नराः । उद्बद्धबाहंवो दुष्टा, दासांस्तु लघुवाहवः ॥ १०८ ॥ प्रलम्बवाहवो
धन्या:, प्रशस्ता दीर्घबाहवः । अकर्मकठिनौ हस्तौ, विज्ञेयाः पादवन्नखाः ॥ १०९ ॥ दीर्घो मेषसमः स्कन्धो; निर्मासो भारवाहकः ।
मांसलो लक्षणज्ञानां, लघुस्कन्धो मतः किल ॥ ११० ॥ कण्ठो दुःखकरो ज्ञेयः, कृशो दीर्घश्च यो भवेत् । स कम्बुसन्निभः श्रेष्ठो,
वलित्रयविराजितः ॥ १११ ॥ लघ्वोप्टो दुःखितो नित्यं, पीनोष्ठः सुभगो भवेत् । विषमोष्ठो भवेद्भीरुर्लम्बोष्ठो भोगभाजनम् ॥ ११२ ॥
शुद्धाः समाः शिखरिणो, दन्ताः स्निग्धा घनाः शुभाः । विपरीताः पुनशैंया, नराणां दुःखहेतवः ॥ ११३ ॥ द्वात्रिंशद्रदनो राजा, भोगी
स्यादेकहीनकः । त्रिंशता मध्यमो ज्ञेयस्ततोऽधस्तान्न सुन्दरः ॥ ११४ ॥ स्तोकदन्ता अतिदन्ता, श्यामदन्ताश्च ये नराः । मूपकैः समद-
न्ताश्च, ते पापाः परिकीर्तिताः ॥११५॥ बीभत्सैश्च करालैश्च, दन्तैर्विषमसंस्थितैः । तेऽत्यन्तपापिनो ज्ञेया, दुष्टशीला नराधमाः ॥११६॥
या पद्मदलसच्छाया, सूक्ष्मा सा शास्त्रवेदिनाम् । भवेजिह्वा विशालाक्ष !, चित्रिता मद्यपायिनाम् ॥ ११७॥ शूराणां पद्मसच्छायं, भवे-
-
॥३१॥

तालु मनोरमम् । कृष्णं कुलक्षयकरं, नीलं दुःखस्य कारणम् ॥ ११८ ॥ हंससारसनादानुकारिणः सुखरा नराः । भवन्ति सुखिनः काकखरनादास्तु दुःखिताः ॥ ११९ ॥ दीर्घया सुखितों नियं, सुभगस्तु विशुद्धया । नसा चिपिटया पापश्चौरः कुञ्चितंनासिकः ॥१२०॥ नीलोत्पलदलच्छाया, दृष्टिरिष्टा मनस्विनाम् । मधुपिङ्गा प्रशस्तैव, पापा मार्जारसन्निभा ॥ १२१ ॥ सदृष्टिब्रिह्मदृष्टिश्च, रौद्रदृष्टिश्च के- करा । दीनातिरक्ता रूक्षा च, पिङ्गला च विगर्हिता ॥१२२॥ इन्दीवराभा धन्यानां, गम्भीरा चिरजीविनाम् । विपुला भोगिनां दृष्टिरुच्छ- (ज्व)ला स्तोंकजीविनाम् ॥ १२३ ॥ काणाद्वरतरोऽन्धः स्यात्केकरादपि काणकः । वरमन्धोऽपि काणोऽपि, केकरोऽपि न कातरः ॥१२४॥ अवद्धलक्ष्या सततं, घूर्णते कारणं विना । रूक्षामा म्लानरूपा च, सा दृष्टिः पापकर्मणाम् ॥ १२५ ॥ अधो निरीक्षते पापः, सरलं ऋजुरीक्षते । ऊर्द्ध निरीक्षते धन्यस्तिरश्चीनं तु कोपनः ॥ १२६ ॥ दीर्धे पृथुलरूपे च, मानसौभाग्यशालिनाम् । ध्रुवौ नराणां हीने तु, योपिदर्थे महापदाम् ॥ १२७ ॥ लघुस्थूलौ महाभोगौ, कौँ तौ धनभागिनाम् । आखुकर्णे भवेन्मेधा, लोमशौ चिरजीविनाम् ॥ १२८॥ ललाटपट्टो विपुलश्चन्द्रामः सम्पदाकरः । दुःखिनामतिविस्तीर्णः, संक्षिप्तः स्वल्पजीविनाम् ॥ १२९ ॥ वामावर्ती भवेद्यस्य, वामायां दिशि मस्तके । निर्लक्षणः क्षुधाक्षामो, भिक्षामट्यात्स रूक्षिकाम् ॥ १३० ॥ दक्षिणों दक्षिणे भागे, यस्यावर्तस्तु मस्तके । तस्य नित्यं प्रजायेत, कमला करवर्तिनी ॥ १३१ ॥ यदि स्यादक्षिणे वामो, दक्षिणो वामपार्श्वके । पश्चात्काले ततस्तस्य, भोगा नास्त्यत्र संशयः ॥ १३२ ॥ स्फुटिता रूक्षमलिनाः, केशा दारिद्यहेतवः । सुखदास्ते मृदुस्निग्धा, वह्नयाभाः केलिहेतवः ॥ १३३ ॥ अन्यच्च-उरोमुखललाटानि, पृ- थूनि सुखभागिनाम् । गम्भीराणि पुनस्त्रीणि, नाभिः सत्त्वं स्वरस्तथा ॥ १३४ ॥ केशदन्तनखाः सूक्ष्मा, भवन्ति सुखहेतवः । कण्ठः पृष्ठं तथा जो, ह्रखं लिङ्गं च पूजितम् ॥ १३५ ॥ रक्ता जिह्वा भवेद्धन्या, पाणिपादतलानि च । पृथुलाः पाणिपादास्तु, धन्यानां दीर्घor

परिणाम
उपमि०
भव.
॥३२॥
जीविनाम् ॥ १३६ ॥ स्निग्धदन्तः शुभाचारः, सुभगः स्निग्धलोचनः । नरोऽतिदीर्घो हस्वश्व, स्थूलः कृष्णश्च निन्दितः ॥ १३७ ॥
त्वचि रोमसु दन्तेषु, जिह्वायां चिकुरेषु च । नेत्रयोश्वातिरक्षा ये, ते न धन्याः प्रकीर्तिताः ॥ १३८ ॥ पञ्चभिः शतमुद्दिष्टं, चतुर्भिर्न-
वतिस्तथा । त्रिभिः षष्टिः समुद्दिष्टा, लेखाकैर्भालवर्तिभिः ॥ १३९ ॥ चत्वारिंशत्पुनः प्रोक्तं, वर्षाणि नरजीवितम् । ताभ्यां द्वाभ्यां तथै-
केन, त्रिंशद्वर्षाणि सुन्दर! ॥ १४० ॥ युग्मम् । किं च-अस्थिध्वर्थाः सुखं मांसे, त्वचि भोगाः खियोऽक्षिषु । गतौ यानं खरे चाज्ञा,
सर्व सत्त्वे प्रतिष्ठितम् ॥ १४१ ॥ गतेर्धन्यतरो वर्णो, वर्णाद्धन्यतरः स्वरः । स्वराद्धन्यतरं सत्त्वं, सर्व सत्त्वे प्रतिष्ठितम् ॥ १४२॥
यथा वर्णस्तथा रूपं, यथा रूपं तथा मनः । यथा मनस्तथा सत्त्वं, यथा सत्त्वं तथा गुणाः ॥ १४३ ॥ तदिदं ते समासेन, वर्णितं
नरलक्षणम् । अधुना योषितां भद्र !, लक्षणं मे निशामय ॥ १४४ ॥ मयोक्तं-कुमार! भवता तावदाधारमिह कीर्तितम् । सर्वस्य लक्ष-
णस्यास्य, सत्त्वमत्यन्तनिर्मलम् ॥१४५॥ तच्च किं यादृशं जातं, ताडगेवावतिष्ठते । किं वा कथञ्चिद्वर्धेत, नराणामिह जन्मनि ?॥१४६॥
विमलेनोक्तं-सन्ति संवर्धनोपायाः, सत्त्वस्यात्रैव जन्मनि । ते चेमे ज्ञानविज्ञानधैर्यस्मृतिसमाधयः ॥ १४७ ॥ ब्रह्मचर्यं दया दानं,
निःस्पृहत्वमृतं तपः। औदासीन्यं च सर्वत्र, सत्त्वसंशुद्धिहेतवः ॥ १४८ ॥ एतैरविमलं सत्त्वं, शुद्ध्युपायैर्विशुध्यति । मृज्यमान
इवादर्शः, क्षारचेलकरादिभिः ॥ १४९ ॥ यतः-भावस्नेहं निराकृत्य, रूक्षयन्ति न संशयः । भावा एतेऽन्तरात्मानं, सेव्यमानाः
पुनः पुनः ॥ १५० ॥ रूक्षीभूतात्पतत्यस्मादात्मनो मलसञ्चयः । ततः शुद्धा भवेल्लेश्या, सा च सत्त्वमिहोच्यते ॥ १५१ ॥ शुद्धे
च सत्त्वे कुर्वन्ति, लक्षणानि बहिर्गुणम् । अपलक्षणदोषाश्च, जायन्ते नैव बाधकाः ॥ १५२ ॥ तदेवं भद्र! विद्यन्ते, ते भावा यै-
र्विवर्धते । समस्तगुणसम्भाराधारं तत्सत्त्वमुत्तमम् ॥ १५३ ॥ एवं च वदति विमले-मया भद्रे! न विज्ञातो, भावार्थस्तत्र कश्चन ।
॥३२॥

. तथापि भगिनीदोषान्तं प्रतीदं प्रजल्पितम् ॥ १५४ ॥ कुमार! साधु साधूक्तं, नष्टो मे संशयोऽधुना । तत्तावद्वर्णयेदानी, लक्षणं मम यो- पिताम् ॥ १५५ ॥ अन्यच्च कीदृशं तावदिदं ते प्रतिभासते । मिथुनं लक्षणैर्येन, जातस्ते विस्मयोऽतुलः ॥ १५६ ॥ विमलेनोक्तं आक- र्णय-चक्रवर्ती भवत्येव, नरोऽमूदृशलक्षणैः । ललनाऽपीदृशी भद्र!, भार्या तस्यैव जायते ॥ १५७ ॥ तेन मे विस्मयो जातो, दृष्ट्येदं मिथुनोत्तमम् । निशामय ततो भद्र!, लक्षणं योषितोऽधुना ॥ १५८ ॥ मयोक्तं कथयतु कुमारः, विमलेनोक्तं-मुखमधु शरीरस्य, सर्व वा मुखमुच्यते । ततोऽपि नासिका श्रेष्ठा, नासिकातोऽपि लोचने ॥ १५९ ॥ चक्र पद्मं ध्वजं छनं, स्वस्तिकं वर्धमानकम् । यासां पाद- तले विन्याः, ताः खियो राजयोषितः ॥ १६० ॥ दासत्वं पृथुलैः पादैर्वकैः शूर्पनिभैस्तथा । शुष्कै रिन्यमानोति, शोकं चेति मुनेर्वचः ॥ १६१ ॥ अङ्गुल्यो विरला रूक्षा, यस्याः कर्मकरी तु सा । स्थूलाभिर्दुःखमाप्नोति, दारिद्यं च न संशयः ॥ १६२ ॥ लक्ष्णाभिः संह- ताभिश्च, सुवृत्ताभिस्तथैव च । रक्ताभिर्नातिदीर्घाभिरङ्गुलीभिः सुखान्विताः ॥ १६३ ॥ पीनौ सुसंहतौ खिग्धौ, सिरारोमविवर्जितौ । हस्तिहस्तनिभौ यस्या, जोरू सा प्रशस्यते ॥ १६४ ॥ विस्तीर्णमांसला गुर्वी, चतुरस्राऽतिशोभना । समुन्नतनितम्बा च, कटिः स्त्रीणां प्रशस्यते ॥ १६५ ॥ उदरेण शिरालेन, निर्मासेन क्षुधार्दिता । विलग्नमध्यशोभेन, तेनैव सुखभागिनी ॥ १६६ ॥ कुनखैः सत्रणैः खिनै- विस्तीर्णे रोमशैः खरैः । विकृतैः पाण्डुरै रूक्षैार्यों हस्तैः सुदुःखिताः ॥ १६७ ॥ मूर्तिदर्शनमहिमा-पुनरपि निवेशिता मया भक्तिभरनिर्भरेण भूरिभवेषु वर्तमानेन भगवद्विम्बे दृष्टिः निर्मलीकृतं सम्यगज्ञाननि- मलजलेन चित्तरत्नं रञ्जितं सम्यग्दर्शनेन मानसं सात्मीकृतं सदनुष्ठानं भावितो भावनाभिरात्मा वासितं तत्साधुपर्युपासनयाऽन्तःकरणं सात्मीभूता मे समस्तभूतेषु मैत्री गतोऽङ्गाङ्गीभावं गुणाधिकेपु प्रमोदः धारितं बहुराश्चित्ते हिश्यमानेपु कारुण्यं दृढीभूता दुर्विनीतेपूपेक्षा .

परिणाम.
उपमि०
भव.
॥३३॥
.
निश्चलीभूतं वैषयिकसुखदुःखयोरौदासीन्यं तथा परिणतः प्रशमः परिचितः संवेगः चिरसंस्तुतो भवनिर्वेदः प्रगुणिता करुणा. अनुगुणि-
तमास्तिक्यं प्रगुणीभूता गुरुभक्तिः क्षेत्रीभूतौ तपःसंयमाविति ।
लब्धयः-भवन्त्येते यथेच्छया विविधरूपधारिणों जायन्ते परमाणुवत्सूक्ष्माः संपद्यन्ते पर्वतवद्गुरवः वर्तन्ते अर्कतूलवल्लघवः पूर-
यन्ति स्वदेहविस्तारेण भुक्नं आज्ञापयन्ति किङ्करमिव देवेश्वरं निमज्जन्ति कठिनशिलातले कुर्वन्त्येकघटाघटशतसहस्रं दर्शयन्येकपटात्पटश-
तसहस्रं आकर्णयन्ति सर्वाङ्गोपाङ्गैः हरन्ति स्पर्शमात्रेण निःशेषरोगगणं गच्छन्ति पवनवद् गगने सर्वथा नास्तिं किञ्चिदसाध्यमेतेषां भग-
वतां सुसाधूनां, प्राप्तलब्धयो ह्येते सर्वस्य करणपटवो भवन्ति ।
'विमलीया जिनस्तुतिः-अपारघोरसंसारनिमग्नजनतारक! । किमेष घोरसंसारे, नाथ! ते विस्मृतो जनः ? ॥ १६ ॥ सद्भावप्र-
तिपन्नस्य, तारणे लोकबान्धव! । त्वयाऽस्य भुवनानन्द !, येनाद्यापि विलम्ब्यते ॥ १७॥ आपन्नशरणे हीने, करुणामृतसागर! । न युक्तमी-
दृशं कर्तु, जने नाथ! भवादृशाम् ॥ १८ ॥ भीमेऽहं भवकान्तारे, मृगशाक्कसन्निभः। विमुक्तो भवता नाथ!, किमेकाकी दयालुना
॥ १९ ॥ इतश्चेतश्च निक्षिप्तचक्षुस्तरलतारकः । निरालम्बो भयेनैव, विनश्येऽहं त्वया विना ॥ २० ॥ अनन्तवीर्यसम्भार!, जगदाल-
म्बदायक! । विधेहि निर्भयं नाथ!, मामुत्तार्य भवाटवीम् ॥ २१ ॥ न भास्कराहते नाथ!, कमलाकरबोधनम् । यथा तथा जगन्नेत्र
त्वहते नास्ति निर्वृतिः ॥ २२ ॥ किमेष कर्मणां दोषः ?, किं ममैव दुरात्मनः ? । किं वाऽस्य हतकालस्य ?, किं वा मे नास्ति भव्यता
॥ २३ ॥ किं वा सद्भक्तिनिय!, सद्भक्तिस्त्वयि तादृशी । निश्चलाऽद्यापि संपन्ना?, न मे भुवनभूषण! ॥ २४ ॥ लीलादलितनिःशे-
षकर्मजाल! कृपापर! । मुक्तिमर्थयते नाथ!, येनाद्यापि न दीयते ॥ २५ ।। त्रिभिर्विशेषकम् । स्फुटं च जगदालम्ब!, नाथेदं ते निवे-
.
॥३३॥

यते । नास्तीह शरणं लोके, भगवन्तं विमुच्य मे ॥ २६ ॥ त्वं माता त्वं पिता बन्धुस्त्वं स्वामी त्वं च मे गुरुः । त्वमेव जगदानन्द!, जीवितं जीवितेश्वर! ॥ २७ ॥ त्वयाऽवधीरितो नाथ!, मीनवजलवर्जिते । निराशो दैन्यमालम्व्य, म्रियेऽहं जगतीतले ॥ २८ ॥ स्वसं- वेदनसिद्धं मे, निश्चलं त्वयि मानसम् । साक्षाद्भूतान्यभावस्य, यद्वा किं ते निवेद्यताम् ? ॥२९॥ मच्चित्तं पद्मवन्नाथ !, दृष्टे भुवनभास्करे। त्वयीह विकसत्येव, विदलत्कर्मकोशकम् ॥३०॥ अनन्तजन्तुसन्तानव्यापाराक्षणिकंस्य ते । ममोपरि जगन्नाथ !, न जाने कीदृशी दया? ॥ ३१ ॥ समुन्नते जगन्नार्थ!, त्वयि सद्धर्मनीरदे । नृत्यत्येष मयूराभो, मदोर्दण्डशिखण्डिकः ॥ ३२ ॥ तदस्य किमियं भक्तिः ?, किमु- न्मादोऽयमीदृशः । दीयतां वचनं नाथ!, कृपया मे निवेद्यताम् ॥ ३३ ॥ मजरीराजिते नाथ!, सञ्चूते केलकोकिलः । यथा दृष्टे भ- वत्येव, लसत्कलकलाकुलः ॥३४॥ तथैष संरसानन्दविन्दुसन्दोहदायक! । त्वयि दृष्टे भवत्येवं, मूर्योऽपि मुखरो जनः ॥३५॥ युग्मम् । तदेनं माऽवमन्येथां, नाथासंवद्धभाषिणम् । मत्वा जडं जगज्येष्ठ!, सन्तों हि नतवत्सलाः ॥३६॥ किं वालोऽलीकवाचाल, आलजालं लपन्नपि । न जायते जगन्नाथ!, पितुरानन्दवर्धकः ॥ ३७॥ तथाऽश्लीलाक्षरोल्लापजल्पाकोऽयं जनस्तव । किश्चिद् वर्धयते नाथ!, तोषं किं नेति कथ्यताम् ? ॥ ३८ ॥ अनाद्यभ्यासयोगेन, विषयाशुचिकर्दमे । गर्ने सूकरसंकाशं, याति मे चटुलं मनः ॥ ३९ ॥ न चाहं नाथ ! शक्नोमि, तन्निवारयितुं चलम् । अतः प्रसीद तद्देव!, देव! वारय वारय ॥ ४०॥ किं ममापि विकल्पोऽस्ति?, नाथ! तावकशा- सने । येनैवं लपतोऽधीश!, नोत्तरं मम दीयते ॥ ४१ ॥ आरूढमियती कोटी, तव किङ्करतां गतम् । मोमप्येतेऽनुधावन्ति, किमद्यापि परीपहाः ॥ ४२ ॥ किं चामी प्रणताशेषजनवीर्यविधायक! । उपसर्गा ममाद्यापि, पृष्ठं मुञ्चन्ति नो खलाः ॥ ४३ ॥ पश्यन्नपि जग- सर्व, नाथ! मां पुरतः स्थितम् । कपायारातिवर्गेण, किं न पश्यसि पीडितम् ? ॥ ४४ ॥ कषायाभिद्रुतं वीक्ष्य, मां हि कारुणिकस्य ते । RECEM उपमि० परिणाम भव ॥३४॥ विमोचने समर्थस्य, नोपेक्षा नाथ! युज्यते ॥ ४५ ॥ विलोकिते महाभाग!, त्वयि संसारपारगे । आसितुं क्षणमप्येकं, संसारे नास्ति मे रतिः॥४६॥ किं तु किं करवाणीह ?, नाथ! मामेष दारुणः । आन्तरो रिपुसङ्घातः, प्रतिबध्नाति सत्वरम् ॥ ४७॥ विधाय मयि कारुण्यं, तदेनं विनिवारय । उद्दामलीलया नाथ!, येनागच्छामि तेऽन्तिके ॥ ४८॥ तवायत्तो भवो धीर!, भवोत्तारोऽपि ते वशः। एवं व्यवस्थिते किं वा, स्थीयते ? परमेश्वर! ॥ ४९ ॥ तद्दीयतां भवोत्तारो, मा विलम्बो विधीयताम् । नाथ! निर्गतिकोल्लापं, न शृण्वन्ति भवाहशाः १॥ ५० ॥ सवैराग्यवृत्तं-गाढतरमभ्यस्ततया कुशलभावस्य प्रहीणतया कर्मजालस्य विशुद्धतया ज्ञानस्य हेयतया विषयाणां उपादेयतया प्रश- मस्य अविद्यमानतया दुश्चरितानां प्रबलतया जीववीर्यस्य प्रत्यासन्नतया परमपदसम्पत्तेर्न बहुमन्यते राज्यश्रियं न कुरुते शरीरसंस्कारं न ललति विचित्रलीलाभिः नाभिलषति ग्राम्यधर्मसम्बन्धगन्धमपीति । साधुकायावस्था-दवदग्धस्थाणुरिवातिकृष्णो वर्णेन बुभुक्षाक्षामेणोदरेण पिपासाशोषितेनाधरोष्ठेन अध्वखेदनिःसहेनाङ्गेन बहिरन्त- स्तापसूचकेन खेदजलेन कुष्ठेन गलता कृमिजालोल्बणेन देहेन अन्तःशूलनिवेदकैर्मुखभङ्गैः प्रकम्पमानया जराजीर्णकपोलया गात्रयष्ट्या म- हाज्वरसूचकेन दीर्घोष्णनिःश्वासजालेन मलाविलेनाथुगलनाविकलेन लोचनयुगलेन प्रविष्टया नासिकया शटितप्रायैः करचरणैरभिनवलुश्चि- तेन मस्तकेनात्यन्तमलिनैश्चीवरखण्डैर्ललमानेन कम्बलेन गृहीतेन सदण्डेनालाबुद्वयेन करतलावलम्बिनौर्णिकपिच्छेन । धर्मबाह्यानां प्रचला-दुरन्तः कर्मसन्तानो, घोरः संसारसागरः । रौद्रा रागादयो दोषास्तरलं देहिनां मनः ।। २१८ ॥ चटुलश्वे- न्द्रियग्रामो, दृष्टनष्टं च जीवितम् । चला विभूतयः सर्वा, देहश्च क्षणभङ्गुरः ॥ २१९ ॥ शत्रुः प्रमादो जीवानां, दुस्तरः पापसञ्चयः । h . असंयतत्वं दुःखाय, भीमो नरककूपकः ॥ २२० ॥ अनित्याः प्रियसंयोगा, भवन्यप्रियसङ्गमाः । क्षणरक्तविरक्ताश्च, योषितो मित्रबा- न्धवाः ॥ २२१ ॥ उग्रो मिथ्यात्ववेतालो, जरा करविवर्तिनी । भोगाश्चानन्तदुःखाय, दारुणो मृत्युभूधरः ॥ २२२ ॥ जिन वचोबाह्यजनावस्था-महाराज! य इमे जिनवचनामृतबहिर्भूताः संसारोदरवर्तिनो जन्तवोऽनवरतं वराका बध्यन्ते दृढकर्मस- न्तानरज्वा पीड्यन्ते विषयासन्तोषबुभुक्षया शुष्यन्ति विपयाशापिपासया खिद्यन्ते निरन्तरभवचक्रभ्रमणेन सततोपतप्ताः कषायघर्मोष्मणा गृह्यन्ते मिथ्यात्वमहाकुप्ठेन तुद्यन्ते परेाशूलेन जीर्यन्ते दीर्घसंसारावस्थानेन दन्दह्यन्ते रागमहाज्वरेण अन्धीक्रियन्ते कामकाचपटलेन आक्रम्यन्ते भावदारियेण अभिभूयन्ते जराराक्षस्या आच्छाद्यन्ते मोहतिमिरेण आकृष्यन्ते हृषीकतुरङ्गमैः पापच्यन्ते क्रोधतीव्रवहिना अव- ष्टभ्यन्ते मानमहापर्वतेन वेष्ट्यन्ते मायाजालिकया प्लान्यन्ते लोभसागरप्लवेन परिताप्यन्त इष्टवियोगवेदनया दोदूयन्तेऽनिष्टसङ्गमतापेन दो- लायन्ते कालपरिणतिवशेन तन्तम्यन्ते कुटुम्बपोषणपरायणतया कदर्थ्यन्ते कर्मदानग्रहणिकैः अभिद्यन्ते महामोहनिद्रया कवलीक्रियन्ते मृत्युमहामकरेणेति त इमे महाराज! जन्तवो यद्यपि शृण्वन्ति वेणुवीणामृदङ्गकाकलीगीतानि पश्यन्ति विभ्रमविब्बोककारिमनोहारिरू- पाणि आस्वादयन्ति सुसंस्कृतकोमलपेशलहृदयेष्टविशिष्टाहारप्रकारजातं आजिनन्ति कर्पूरागुरुकस्तूरिकापारिजातमन्दारनमेरुहरिचन्दनसन्ता- नकसुमनोहरकोष्ठपुटपाकादिगन्धजातं आलिगन्ति कोमलललितललनातूल्यादिस्पर्शजातं तथा ललन्ते सह स्निग्धमित्रवृन्देन विलसन्ति मनोरमकाननेपु विचरन्ति यथेष्टचेष्टया कीडन्ति नानाक्रीडाभिः भवन्ति सुखाभिमानेनानाख्येयरसवशनिर्भरा निमीलिताक्षाः तथाप्यमीपां जन्तूनां क्लेशरूप एवायं वृथा सुखानुशयः, एवंविधविविधदुःखहेतुशतव्रातपूरितानां हि महाराज! कीदृशं सुखं ? का वा मनोनिर्वृत्तिरिति । सत्साध्वस्था-प्रनष्टं मोहतिमिरं आविर्भूतं सम्यग्ज्ञानं निवृत्तः सर्वत्राग्रहविशेषः परिणतं सन्तोषामृतं व्यपगता दुष्टक्रिया त्रुटित- परिणाम MORE उपमि० भव. ॥ ३५॥ प्राया भववल्लरी स्थिरीभूतो धर्ममेघसमाधिः, तथा गाढानुरक्तमन्तरङ्गमन्तःपुरं यतस्तेपां भगवता सन्तोपदायिनी धृतिसुन्दरी चित्तप्रसा- दहेतुः श्रद्धा आह्वादकारिणी सुखासिका निर्वाणकारणं विविदिपा प्रमोदविधायिनी विज्ञप्तिः सद्बोधकारिणी मेधा प्रमदातिरेकनिमित्तमनु- प्रेक्षा अनुकूलचारिणी मैत्री अकारणवत्सला करुणा सदानन्ददायिनी मुदिता सर्वोद्वेगविघातिनी उपेक्षेति । चारित्रवज्रदण्डप्रभावः-जीवलोकः सज्ज्ञानप्रदीपोद्योतितस्वरूपशिवमन्दिरे महाप्रभावसम्यग्दर्शनसलिलपाननष्टकर्मोन्मादो गृही- तचारित्रदण्डभासुरो गुरुवचनेनैव निर्दलयति सस्पर्धमाहूय महामोहादिधूर्ततस्करगणं, तं च निर्दलयतोऽस्य जीवलोकस्य विशालीभवति कुशलाशयः क्षीयन्तें प्राचीनकर्माणि न बध्यन्ते नूतनानि विलीयते दुश्चरितानुवन्धः समुल्लसति जीववीर्य निर्मलीभवत्यात्मा परिणमति गाढमप्रमादो निवर्तन्ते मिथ्याविकल्पाः स्थिरीभवति समाधिरत्नं प्रहीयते भवसन्तानः, ततः प्रविघाटयत्येष जीवलोकश्चित्तापवरकावरण- कपाटं, ततः प्रादुर्भवति खाभाविकगुणकुटुम्बकं विस्फुरन्ति ऋद्धिविशेपाः विलोकयति तानेष जीवलोको विमलसंवेदनालोकेन, ततः संजायते निरभिष्वङ्गानन्दसन्दोहः, समुत्पद्यते बहुदोपभवग्रामजिहासा उपशाम्यति विषयमृगतृष्णिका रूक्षीभवत्यन्तर्यामी विचटन्ति सू- मकर्मपरमाणवः व्यावर्तते चिन्ता संतिष्ठते विशुद्धध्यानं दृढीभवति योगरत्नं जायते महासामायिकं प्रवर्ततेऽपूर्वकरणं विजृम्भते क्षपक- श्रेणी निहन्यते कर्मजालशक्तिः विवर्तते शुक्लध्यानानलः प्रकटीभवति योगमाहात्म्यं विमोच्यते सर्वथा घातिकर्मपाशेभ्यः क्षेत्रज्ञः स्थाप्यते परमयोगे देदीप्यते विमलकेवलालोकेन कुरुते जगदनुग्रहं विधत्ते च केवलिसमुद्घातं समानयति कर्मशेष संपादयति योगनिरोधं समारो- हति शैलेश्यवस्था त्रोटयति भवोपप्राहिकर्मवन्धनं विमुञ्चति सर्वथा देहपजरं ततो विहाय भवग्राममेप जीवलोकः सततानन्दो निराबाधो गत्वा तत्र शिवालयाभिधाने महामठे सारगुरुरिवं सभावकुटुम्बकः सकलकालं तिष्ठतीति ॥ ॥ ३५॥ SK देशदर्शनं-यो न निर्गत्य निःशेषां, विलोकयति मेदिनीम् । अनेकाद्भुतवृत्तान्तां, स नरः कूपदर्दुरः ॥ ४६१ ॥ यतः -क विलासाः क्व पाण्डित्यं, व बुद्धिः क्व विदग्धता । क्व देशभाषाविज्ञानं, कं चैपाऽऽचारचारुता? ॥ ४६२ ॥ याव- भूर्तशताकीर्णा, नानावृत्तान्तसङ्कुला । नानेकशः परिभ्रान्ता, पुरुषेण वसुन्धरा ॥ ४६३ ।। लोभमहिमा-धनमत्र जगत्सारं, धनमेव सुखाकरः । धनमेव जनश्लाघ्यं, धनमेव गुणाधिकम् ॥ १९ ॥ धनमेव जगद्वन्द्यं, धनं तत्तत्त्वमुत्तमम् । धनं हि परमात्मेति, धने सर्व प्रतिष्ठितम् ॥ २० ॥ धनेन रहितो लोके, पुरुषः परमार्थतः । तृणं भस्माशुचिधूलियद्वा नास्त्येव किञ्चन ।। २१ ॥ धनादिन्द्रो धनाद्देवा, धनादेते महीभुजः । अन्येभ्योऽभ्यधिका भान्ति, नान्यत्किञ्चन कारणम् ।। २२ ॥ एको दाता परोऽर्थीति, स्वाम्येकः सेवकोऽपरः । पुरुषत्वे समानेऽपि, धनस्येदं विजृम्भितम् ॥ २३ ॥ तदत्र परमार्थोऽयं, सर्वयत्नेन तद्धनम् । स्वीकर्तव्यं नरेणोथैरन्यथा जन्म निष्फलम् ॥ २४ ॥ देशाटने सावधानता-दवीयो देशान्तरं विषमा मार्गाः कुटिलहृदया लोकाः वञ्चनप्रवणाः कामिन्यः भूयांसो दुर्जनाः विरलविरलाः सज्जनाः प्रयोगचतुरा धूर्ताः मायाविनो वाणिजकाः दुष्परिपाल भाण्डजातं विकारकारि नवयौवनं दुरधिगमाः कार्यगतयः अनर्थरुचिः कृतान्तः अनपराधक्रुद्धाश्चौरचरटादयः, तत्सर्वथा भवता क्वचित्पण्डितेन कचिन्मूर्खेण कचिदक्षिणेन कचिन्निष्टुरेण कचिद्दयालुना कचि- निष्कृपेण कचित्सुभटेन कचित्कातरेण कचित्त्यागिना कचित्कृपणेन कचिद्धकवृत्तिना कचिद्विदग्धेन सर्वथा परैरलब्धमध्यागाधदुग्धनीर- धिधीरगम्भीरधिषणेनं भवितव्यं । लोभमूलो व्यवहार: तेन च सागरेण प्रियमित्रेण प्रतिक्षणं प्रेर्यमाणस्य. मे विवर्धन्ते मनोरथकल्लोलाः विगलति धर्मबुद्धिः अपंस- RESS HESAR

परिणाम.
उपमिक
भव.
॥३६॥
रति दयालुता नश्यति सरलता प्रभवति धने तत्त्वबुद्धिः विघटते दाक्षिण्यं प्रलीयते सन्तोषोऽपीति, ततः संगृह्णामि धान्यानि भाण्डशा-
2 लयामि कार्पासतैलादिकं स्वीकरोमि लाक्षां व्यवहरामि गुलिकया पीडयामि जन्तुसंसक्ततिलान् दाहयाम्यङ्गारान् छेदयामि वनं जल्पाम्य-
लीकं मुष्णामि मुग्धजनं वश्चयामि विश्रब्धक्रायकं करोम्यूनाधिकं मानोन्मानेन विनिमयं सर्वथा ।
वैद्यकं-वायुः पित्तं कफश्चोक्तः, शारीरो दोषसङ्ग्रहः । मानसः पुनरुद्दिष्टो, रजश्च तम एव च ॥ १४४ ॥ ततः-प्रशाम्यत्यौषधैः
पूर्वो, दैवयुक्तिव्यपाश्रवैः । मानसो ज्ञानविज्ञानधैर्यस्मृतिसमाधिभिः ॥ १४५ ॥ अन्यच्च-रूक्षः शीतो लघुः सूक्ष्मश्चलोऽथ विशदः
खरः । विपरीतगुणैव्यैारुतः संप्रशाम्यति ॥ १४६ ॥ सस्नेहमुष्णं तीक्ष्णं च, द्रवमस्रं रसं पटुः । विपरीतगुणैः पित्तं, द्रव्यैराशु प्र-
शाम्यति ॥ १४७ ॥ गुरुशीतमृदुस्निग्धमधुरश्लक्ष्णपिच्छलाः । श्लेष्मणः प्रकृति यान्ति, विपरीतगुणैर्गुणाः ॥ १४८॥ खादुरम्लोऽथ
लवणः, कटुकस्तिक्त एव च । कषाय इति षट्रोऽयं, रसानां सङ्ग्रहो मतः ॥ १४९ ॥ तत्र-कर्फ स्वाद्वम्ललवणाः, कषायकटुतिक्तकाः ।
जनयन्त्यनिलं पित्तं, कटुम्ललवणा रसाः ॥ १५० ॥ वाद्वाललवणा वायु, कषायस्वादुतिक्तकाः । जयन्ति पित्तं श्लेष्माणं, कषायकटुति-
क्तकाः ॥ १५१ ॥ आमे सदृशगन्धः स्याद्विदग्धे धूमगन्धिता । विष्टब्धे गात्रभङ्गश्च, रसशेषेऽन्नद्वेषिता ॥ १५२ ॥ आमेषु वमनं कुर्या-
द्विदग्धे चाम्लकं पिबेत् । विष्टब्धे स्वेदनं कुर्याद्रसशेषे तथा स्वपेत् ।। १५३ ॥ अन्यच्च-अजीर्णप्रभवा रोगास्तच्चाजीर्ण चतुर्विधम् । आम
विदग्धं विष्टब्धं, रसशेषं तथा परम् ॥ १५४ ॥ एवं च स्थिते यथाऽयं कुमारस्यान्तस्तापस्तथाऽजीर्णविकारो लक्ष्यते, विदग्धावस्थां गतेन
हि तेन क्षोभितमस्य वायुना सहितं पित्तं, ततो जनितोऽयमन्तस्तापः, विहितं शूलं, यत एवं पठ्यते-मुक्ते जीर्यति जीर्णेऽन्ने, जीर्णे
भुक्ते च जीर्यति । जीणे जीर्यति मुक्तेऽन्ने, दोषैर्ना नामिभूयते ॥ १५५ ॥
॥३६॥

आदित एवातुरस्य समुपलक्षणीया प्रकृतिः पर्यालोच्यं शरीरसारं विचार्य संहननं विज्ञातव्यं प्रमाणं लक्षयितव्यं सात्म्यं वेदितव्यं सत्त्वं मन्तव्याऽऽहारशक्तिः बोद्धव्यं व्यायामसौष्ठवं परिकलनीयं वयःप्रमाणमिति, अन्यच्च-संचयं च प्रकोपं च, प्रसरं स्थानसंश्रयम् । व्यक्तिभेदांश्च यो वेत्ति, दोपाणां स भिषग्वरः ॥ १५६ ॥ संचयेऽपहृता दोषाः, लभन्ते नोत्तरां गतिम् । ते तूत्तरासु गतिषु, भवन्ति बलवत्तराः ॥ १५७ ॥ घातिकर्माद्याश्चरटाद्याः-तस्यां च राज्यभुक्तिभूमौ विद्यन्ते घातिकर्मसंज्ञा भूयांसश्चरटाः सन्तीन्द्रियनामानस्तस्कराः परिभ्रमन्ति कषायरूपा लूपकाः विचरन्ति नोकषायाख्या लुण्टाकाः उपप्लवन्ते परीषहाह्वाश्चारभटाः संभवन्त्युपसर्गाभिधाना दुष्टभुजङ्गाः विलसन्ति प्रमादनामकाः षिङ्गाः। मोहनृपकार्यम्-यावन्न जानीते संसारिजीवस्तदात्मीयं महाराज्यं न लक्षयति तचतुरङ्ग महावलं न वेदयंते तां महासमृद्धि नो कलयत्यात्मनः परमेश्वरतां तावदसौ महामोहो लब्धावसरश्चरटवृन्दपरिकरितः समाक्रामति समस्तां तां राजभुक्तिं स्वीकरोति निःशेषन- गरनामाकरादीन् विलसति यथेच्छया करोयकिंचित्करं संसारिजीवं निर्णाशयति तद्बलं भवति स्वयमेव तत्र संसारिजीवमहाराज्ये प्रभु- रिति । यदा तु कथंचित्संसारिजीवस्तदात्मीयं राज्यं बलं समृद्धिं स्वरूपं च लक्षयेत् तदा विगृह्णाति तेन महामोहेन सार्धमुत्कर्षयति नि- जवलं वर्धयति स्वसमृद्धिं विग्रहारूढश्च बहुशो महामोहं विजयतेऽनेकशो महामोहेनाप्यसौ विजीयते यावन्मानं यदा विजयते तावन्मानं तदा सुखमाप्नोति यावन्मानं यदा विजीयते तावन्मानं तदा दुःखमास्कन्दति । अन्तरङ्गराज्यम्-तत्र भोः प्रविशताऽन्तरङ्गराज्ये नरपतिना प्रथममेव प्रष्टव्या गुरवः सम्यगनुष्ठेयस्तदुपदेशः विधेयाऽऽहिताग्नि उ०७ - परिणाम, उपमि० भव. ॥ ३७॥ नेवाग्नेस्तदुपचर्या कर्तव्यं धर्मशास्त्रपारगमनं विमर्शनीयस्तात्पर्येण तद्भावार्थः जनयितव्यस्तेन चेतसोऽवष्टम्भः अनुशीलनीया धर्मशास्त्रे यथोक्ताः क्रियाः पर्युपासनीयाः सन्तः परिवर्जनीयाः सततमसन्तः रक्षणीयाः स्वरूपोपमया सर्वजन्तवः भाषितव्यं सत्यं सर्वभूतहितम- परुपमनतिकाले परीक्ष्य वचनं न ग्राह्यमणीयोऽपि परधनमदत्तं विधेयं सर्वासामस्मरणमसंकल्पनमप्रार्थनमनिरीक्षणमनभिभाषणं च स्त्रीणां कर्तव्यो बहिरङ्गान्तरङ्गसङ्गत्यागः धारणीयः संयमोपकारी महायतिवेषः यापनीयं नवकोटिविशुद्धेनाहारोपधिशय्यादिनाऽऽत्मशरीरं विह- तव्यमनियतविहारेण न दातव्यस्तन्द्रानिद्राऽऽलस्यविषादादीनामवकाशः न मूछितव्यं मृदुस्पर्शेषु न गर्धितव्यं खादुरसेषु न मोहितव्यं सुरभिगन्धेषु नाध्युपपत्तव्यं कमनीयरूपेषु नाभिकावितव्यं कलध्वानेषु नोद्वेजितव्यं कर्कशशब्देभ्यः न जुगुप्सनीयानि बीभत्सरूपाणि न द्वेष्टव्यममनोज्ञरसेषु न निन्दितव्या दुरभिगन्धाः न गर्हणीयमकान्तस्पर्शेषु प्रतिक्षणं क्षालनीयो विशुद्धभावनयाऽऽत्मा भवितव्यं सदा संतुष्टचित्तेन समाचरणीयं विचित्रं तपश्चरणं विधातव्योऽनवरतं पञ्चविधः स्वाध्यायः प्रणिधेयं परमेश्वरे सततमन्तःकरणं वर्तितव्यं समि- तिगुप्तिपरिपूतेन मार्गेण परिसोढव्याः क्षुत्पिपासादयः परीषहाः तितिक्षितव्या दिव्याद्युपसर्गाः अभ्यसनीयं धीधृतिस्मृतिवलाधानं यति- तव्यमसपत्नयोगेषु। वैराग्यमहिमा-निरोद्धव्यो महामोहादिसैन्यस्य यत्नतो बहिःप्रचारः निहन्तव्या यथादर्श बलान्निर्गच्छन्तस्तत्सैनिकाः संधीरणीयं चारित्रधर्मसैन्यं स्थिरीकर्तव्या चित्तवृत्तिराज्यभूमिः प्रवर्तितव्या मैत्रीमुदिताकरुणोपेक्षाभिधानाश्चतस्रो महादेव्यः, ततः सममसामग्रीकेण सता पूर्वद्वारेण प्रवेष्टव्यं तत्र राज्ये भवता, तस्य च वामे दिग्भागे महामोहादिसैन्याधारभूतानि सर्वाण्यपि ग्रामनगराकरपर्वतनद्यादीनि प्रतिवसन्ति दक्षिणे तु दिग्भागे चारित्रधर्मसैन्यस्य सम्बन्धीनि प्रामादीनि विद्यन्ते, सर्वाधारा पुनस्तेषां चित्तवृत्तिर्महाटवी वर्तते, तस्याश्च ॥३७॥ . SAR HAM . पर्यन्ते पश्चिमे दिग्भागे विद्यते निर्वृति म नगरी, सा हि तां महाटवीमतिलय व्यवस्थिता, तां च नितिनगरी प्राप्तस्य ते परिपूर्ण भविष्यत्यस्य राज्यस्य फलं, अतस्तद्गमनार्थमेव प्रस्थान विधेयं, न कर्तव्योऽन्यत्र भवता प्रतिबन्धः, गन्तव्यं च तस्यां नगर्यामनवरतप्रया- णकैश्चित्तवृत्तिमध्यभागवर्तिनाऽत्यन्तप्रगुणेन महामोहादिसैन्यास्पृष्टेन चारित्रधर्मादिसैन्यातिवल्लभेन सततमौदासीन्यनामकेन महाराजमा- र्गेण, इतश्चादावेवास्ति तावदध्यवसायो नाम महाहदः, स यदा पङ्ककलुषो भवति तदा प्रकृत्यैव महामोहादिसैन्यं पोषयति चारित्रध- मानीकं तु पीडयति, यदा पुनः प्रसन्नतया स्वस्थो भवति तदा सोऽध्यवसायमहाहदश्चारित्रधर्मसैन्यं तत्स्वभावतया व्यति महामोहादि- वलं तु कर्शयति, अत एव महामोहादयस्तं खोपकारार्थ कलुषयन्ति चारित्रधर्मादयस्त्वात्मोपकारार्थमेव तं प्रसादयन्ति, भवता तु तस्या- ध्यवसायमहा इदस्य प्रसादनार्थ ताश्चतस्रोऽपि महादेव्यो नियोज्याः यतो निपुणास्तास्तस्य नितराममलताकरणे, ततः प्रसन्नीभूते तत्रादि- महाहहे पुष्टीभूतेषु चारित्रधर्मादिषु स्वाङ्गिकभूपेषु कर्शितेषु महामोहादितस्करेषु पुनरातो गन्तव्यं, ततो भविष्यति तस्मादेव महाहदात् प्रवृत्ता धारणा नाम महानदी, सा च स्थिरसुखयानासनोपविष्टेनोच्छासरहितमतिवेगेन गच्छता परित्यज्य निःशेषमिन्द्रियव्याक्षेपं भवता प्राप्तव्या, तस्यां च जनयिष्यन्ति ते महामोहादिशत्रवो विविधविकल्पकल्पकल्लोलकान् , ते भवताऽत्यन्तावहितेन भजनीयाः, ततो द्रक्ष्यसि त्वं धर्मध्याननामानमतिप्रगुणं दण्डोलकं, तेन च गन्तव्यं, स च गत्वा पतिष्यति सबीजयोगाभिधाने महति मार्गे, तेन च गच्छतस्ते प्रतिक्षणं प्रलयीभविष्यन्ति सर्वेऽपि महामोहादिशत्रवः समुच्चलिष्यन्ति तेषां सम्बन्धीनि समस्तस्थानानि प्रबलीभविष्यन्ति चारित्रधर्मादयः धनलतां धारयिष्यति समस्तापि राज्यभूमिः न भविष्यति च रजस्तमसो मापि, ततो लप्स्यसे त्वं शुक्लध्यानाभिधानं दण्डोलकं, तेन च गच्छतो भविष्यति ते विमलकेवलालोकः, ततः स दण्डोलको गत्वा मिलिष्यति निर्बीजयोगाख्ये बृहति मार्गे, तत्र च स्थितेन त्वय . A परिणाम. उपमि० भव. विषमरिपुसमीकरणाय विधातव्यः केवलिसमुद्घाताख्यः प्रयत्नो, निहन्तव्याश्च योगाख्यास्त्रयो दुष्टवेतालाः, ततः परं भविष्यति शैलेशी नाम वर्तनी, तया गन्तव्यं, सैव तस्यां निर्वृतिनगर्या भवन्तं प्रापयिष्यति सा यतो नारतस्तिष्ठतीति । वरिष्ठराजस्वरूपं-भगवान् वरिष्ठो नरेन्द्रः सकलकालं परार्थव्यसनी उपसर्जनीकृतस्वार्थ उचितक्रियावान् देवगुरुबहुसानी दैन्य- हीनहृदयः सफ़लारम्भी कृतज्ञाता परमेश्वरो दृढानुशयविकलोऽत्यन्धधीरगम्भीराशयः, अवज्ञाऽस्य परीषहेषु न भयमुपसर्गेषु न चिन्ता- पीन्द्रियवर्गे न गणनापि महामोहादिशत्रुवर्गे सात्मीभावश्चारित्रधर्मराजादिके निजबले अभिरति वनोपकारकरणे । ३४ अतिशया:-राजतस्तपनीयान्यश्चित्ररनैश्च निर्मितः । एते त्रयः प्रभो न्ति, प्राकारास्तस्य निर्मलाः ॥ ६१६ ॥ भ्रमद्धमरवि- स्तारतारझङ्कारबन्धुरः । अशोकपादपो भाति, मनोनन्दनपल्लवः ॥ ६१७ ॥ रणहिरेफसंकीर्णा, सुरासुरकरेरिता । पुष्पवृष्टिः पतत्युच्चैर्ग- न्धामोदितदिक्पथा ॥ ६१८ ॥ तथा प्राकारत्रयमध्यस्थे, कुर्वाणे मार्गदेशनाम् । वरिष्ठे सततानन्दी, निर्घोषः श्रूयते किल ॥ ६१९ ॥ मृणालनालसत्तन्तुसन्तानाकारधारिताम् । आचरन्ति विराजन्ते, चामराणि जगत्प्रभोः ॥ ६२० ॥ विचित्ररत्नविच्छित्तिनिर्मितानि महा- न्ति च । सिंहासनानि शोभन्ते, चत्वारि चतुराकृतेः ॥ ६२१ ॥ प्रकाशितनभोभाग, भास्कराकारधारकम् । राजते तत्तनूलासि, प्रभा- मण्डलमुत्तमम् ॥ ६२२ ॥ उल्लासितजनाहादः, सुरकिन्नरताडितः । ध्वनते दुन्दुभिर्दिव्यो, जगतां कर्णपेशलः ॥ ६२३ ॥ आतपत्रत्रयं भाति, भुवनत्रयनायकः । अयं वरिष्ठ इत्येवं, ख्यापनार्थमिव प्रभोः ॥ ६२४ ॥ इत्येवमादिभिर्देव!, देवदानवनिर्मितैः । प्रातिहार्महा- भागः, स वरिष्ठो विराजते ॥ ६२५ ॥ अन्यच्च-सुगन्धिमिलो देहः, प्रस्खेदामयवर्जितः । गोक्षीरहारसङ्काश, रक्तं मांसं च भूपते: ॥ ६२६ ॥ निर्हाराहारचेष्टा च, न दृश्या मांसचक्षुषाम् । निश्वासः सुरभिस्तस्य, जन्मायेयं गुणावली ॥ ६२७ ॥.कोटीकोट्योऽपि.मा: ॥३८॥ ॥३०॥ क R न्त्युच्चैः, क्षेत्रे योजनमानके । एकापि भारती भाति, सर्वेषां निजभापया.॥ ६२८ 1) पूर्वोत्पन्नाः प्रशाम्यन्ति, वैरमारीरुगीतयः । प्रादु- भीवं न यान्त्येता, भाविन्यस्तस्य तेजसा ।। ६२९ ॥ योजनानां शते नास्ति, दुर्भिक्षं तत्प्रभावतः । अवृष्टिरतिवृष्टिश्च, न स्तः स्तेनादि- तश्च भीः ॥ ६३० ॥ इत्येते सद्गुणास्तस्य, महामोहादिवैरिणाम् । समुदलनतो देव!, संजाता वरभूपतेः ॥ ६३.१ ॥ चक्र छत्रं ध्वजो रनैश्चर्चितश्चारुविक्रमः । भाति राजीवराजिञ्च, क्रामतः क्रमवर्तिनी ॥ ६३२ ।। अधोमुखाश्च तिष्ठन्ति, कण्टकास्तत्प्रभावतः । अवस्थित तदा तस्य, नखरोमादिकं प्रभोः ॥ ६३३ ॥ शब्दरूपरसस्पर्शगन्धा हृदयहारिणः । ऋतवश्च भवन्त्युच्चैः, प्रभावेण जगत्प्रभोः ।। ६३४॥ भूमिर्गन्धोदकासिक्ता, पुष्पप्रकरराजिता । आजानूत्सेधिभिः पुष्पैः, पञ्चवणः सुगन्धिभिः ।। ६३५ ॥ पक्षिणोऽपि जगन्नाथं, तं कुर्वन्ति प्रदक्षिणम् । वाति तस्य सदाकालमनुकूलः समीरणः ॥ ६३६ ॥ नमन्ति पादपास्तस्य, सम्मुखं भक्तिनिर्भराः । कोटिर्न याति देवानां, पादमूलात्कदाचन ।। ६३७ ॥ मेपादिराशिजन्मगुणादि-चक्षुर्लोलः सदाऽऽरोगी, धर्मार्थे कृतनिश्चयः । पृथुजङ्घः कृतज्ञश्व, विक्रान्तो राजपूजितः ॥ १४ ॥ का- मिनीहृदयानन्ददायको जलभीरुकः । चण्डकर्मा मृदुश्चान्ते, मेपे जातो भवेन्नरः ॥ १५ ॥ अपमृत्युर्भवेत्तस्य, किलाष्टादशवत्सरे । पञ्च- विंशतिपर्यन्तवर्षे वापि कथंचन ॥ १६ ॥ भ्रष्टस्ताभ्यां पुनर्जीवेच्छतमेकं म्रियेत वा । कृत्तिकावर्धरात्रेऽसौ, चतुर्दश्यां च मङ्गले ॥ १७ ॥ भोगी दाता शुचिर्दक्षः, स्थूलगण्डो महाबलः । तेजस्वी रागबहुलः, कण्ठरोगी सुपुत्रकः ॥ १८ ॥ सविलासगतिः सत्यो, लाञ्छनी स्क- न्धगण्डयोः । एवं गुणगणोपेतो, वृपे जातो भवेन्नरः ॥ १९ ॥ स समानां शतं जीवेत्पञ्चविंशतिको यदि । भ्रश्येचतुष्पदात्तस्य, मरणं रोहिणीवुधे ॥ २० ॥ पुष्टाङ्गो दृष्टिलोलश्च, मैथुनासक्तमानसः । धनाढ्यः करुणोपेतः, कण्ठरोगी जनप्रियः ॥ २१ ॥ गान्धर्वनाट्यकु- परिणाम. उपमि० भव. ॥३९॥ शलः, कीर्तिभागी गुणाकरः । गौरो दीर्घः पटुचि, मिथुनोद्भूतमानवः ॥ २२ ॥ जले तस्यापमृत्युः स्याद्वत्सरे किल षोडशे । अशीतिको नियेतासौ, पौषमासे जलानले ॥२३॥ कार्यसारो धनी शूरो, धर्मिष्ठो गुरुवत्सलः। शिरोरोगी महाबुद्धिः, कृशाङ्गः कृतवेदकः ॥२४॥ प्रवासशीलः कोपान्धो, बाल्ये दुःखी सुमित्रकः । भृतभृत्यो मनाग्वक्रः, कर्कटोद्भूतमानवः ॥ २५ ॥ पतनेन म्रियेतासौ, वर्षाणां विंशतौ नरः । अशीतौ वा पुनः पौषे, मृगशीर्षे सिते निशि ॥ २६ ॥ क्षमी मानी क्रियायुक्तो, वत्सलो मद्यमांसयोः । देशभ्रमणशीलश्च, वि. नीतः शीतभीरुकः ॥ २७ ॥ क्षिप्रकोपी सुपुत्रश्च, जननीजनकप्रियः । व्यसनी प्रकटो लोके, सिंहे जातो मनुष्यकः ॥ २८ ॥ पञ्चा- शत्को म्रियेतासौ, यदि वा शतिको मधौ । मघासु जीवितं मुञ्चेत्, पुण्यक्षेत्रे शनैश्चरे ॥ २९ ॥ विलासिनीजनाहाददायको धनपूरितः। दाता दक्षः कविर्वृद्धभावे धर्मपरायणः ॥ ३० ॥ सर्वलोकप्रियो नाट्यगान्धर्वव्यसने रतः । प्रवासशीलः स्त्रीदुःखी, कन्याजातो भवेन्नरः ॥ ३१ ॥ विंशत्को म्रियते शस्त्राज्जलाद्वा यदिवा पुनः । अशीतौ मूलनक्षत्रे, वैशाखे बुधवासरे ॥ ३२ ॥ अस्थानरोषणो दुःखी, स्फुट- भाषी क्षमान्वितः । चलाक्षश्चललक्ष्मीको, गृहे दर्शितविक्रमः ॥ ३३ ॥ वाणिज्यदक्षो देवानां, पूजको मित्रवत्सलः । प्रवासी सुहृदामि- ष्टस्तुलाजातो भवेन्नरः ॥ ३४ ॥ म्रियेत विंशतौ कुड्यपातादिभ्योऽथवा पुनः । अशीतावनुराधासु, ज्येष्ठे मङ्गलवासरे ॥ ३५ ॥ बाल्य- प्रवासी क्रूरात्मा, शूरः पिङ्गललोचनः । परदाररतो मानी, निष्ठुरः स्वजने जने ॥ ३६ ॥ साहसावाप्तलक्ष्मीको, जनन्यामपि दुष्टधीः । धूर्तश्चौरोऽफलारम्भी, वृश्चिकोद्भूतमानवः ॥ ३७ ॥ स चेचौराहिशस्त्रानो, म्रियेताष्टादशाब्दकः । पञ्चविंशतिको वापि, ततो जीवति सप्त- तिम् ॥ ३८ ॥ शूरः सत्यो धिया युक्तः, सात्त्विको जननन्दनः । शिल्पविज्ञानसंयुक्तो, धनाढ्यो वरभार्यकः ॥ ३९॥ मानी चारित्रसं- पन्नो, ललिताक्षरभाषकः । तेजस्वी स्थूलदेहश्च, कुलनो धनुजातकः ॥ ४० ॥ स चोत्पत्तिदिनानो चेन्नियेताष्टादशे दिने । ततो जीवति ॥३९॥ म - वर्षाणां, किलासौ सप्तसप्ततिम् ।। ४१ ॥ कुजनेष्टो वशः स्त्रीणां, पण्डितः पारदारिकः । गीतज्ञो लाञ्छनी गुह्ये, पुत्राढ्यो माल्यवत्सलः ॥ ४२ ॥ धनी त्यागी सुरूपश्च, शीतालुभूरिवान्धवः । परिचिन्तितसौख्यश्च, संजातो मकरे नरः ॥ ४३ ॥ म्रियते विंशतौ नो चेत्ततः शूलेन सप्ततौ । शनैश्चरे भाद्रपदे, जीवितं स विमुञ्चति ॥ ४४ ॥ दाताऽलसः कृतनश्च, गजेन्द्रतुरगवनः । शालूरकुक्षिर्निर्भीको, धन- भागी सशक्तिकः ॥ ४५ ॥ स्तब्धदृष्टिश्चलो हस्ते, मानविद्याकृतोद्यमः । पुण्याव्यः स्नेहहीनश्च, कुम्भे जातो भवेन्नरः ॥ ४६॥ स चे- दष्टादशे वर्षे, व्याघ्रण न हतस्ततः । जीवेदशीतिं वर्षाणां, चतुर्भिरधिकां नरः॥ ४७ ॥ गम्भीरचेष्टितः शूरः, पटुवाक्यो नरोत्तमः । कोपप्रज्ञा (कोपः प्राज्ञो) रणश्रेष्ठो, न त्यागी बन्धुवत्सलः ॥४८॥ गान्धर्ववेदको नित्यं, सेवकश्वेतरे जने । गच्छति त्वरया मार्गे, मीने जातो मनुष्यकः ॥ ४९ ॥ तदेवं देव! ये प्रोक्ता, मेषादीनां गुणा मया । एते पूर्व स्वशिष्येभ्यः, सर्वज्ञेन निवेदिताः ॥ ५० ॥ संसारापानकं सत्यमापानकरूप एवायं हन्त संसारो वर्तते यतोऽत्र वृत्ता वर्तन्ते वय॑न्ति चानन्ता वृत्तान्ताः, मत्तपालका(मद्यपा)- यन्तेऽत्रानन्ता जीवाः, विविधमद्यायतेऽष्टविध कर्मप्रकृतिजालं विशेषतः पुनरासवायन्ते कषायाः सरकायन्ते नोकषायाः सुरायन्ते घाति- कर्माणि विचित्रभाजनायन्ते आयूंषि तदाधारतया चषकायन्ते जन्तुशरीराणि कर्ममद्योपयोगहेतुतया नीलनीरजायन्ते तेषु हृषीकाणि त- द्विभूषकतया लौल्यहेतुतया च घूर्णन्ते कर्ममधमत्ताः सर्वेऽमी जन्तवः, कुर्वन्ति रासविलासलासविकासहासबिब्बोकादिकलकलं मर्दला- यन्तेऽत्र कलहाः कंसालकायन्ते सगसगायन्तः खलजनाः वीणायन्ते दुःखितजनपरिदेवनानि वंशरवायन्ते सशोकलोककरुणकूजितानि मुगुन्दशब्दायन्ते आपद्गतजनतिमितिमायितानि कंसिकायन्ते प्रियविप्रयोगादौ जनदैन्यरुण्टितानि वोद्रवृन्दायन्ते गाढमज्ञतया मूर्खलोकाः 2 परिणाम. उपमि० भव. ॥४०॥ 5 कमनीयनरायन्ते विबुधाः प्रौढललनायन्ते तदप्सरसः, अनादिनिधनं चेदं संसारापानकं सदा निविष्टं लोकांकाशभूमौ युक्तं नर्तनगानवि- लसनखादनपानदानमानविभूपणादिभिः समस्तभावैलौल्याभिवृद्धिकारणं जडानां विरागताहेतुर्विवेकिनां । ससंवेगविचार:-जन्ममृत्युज़राव्याधिरोगशोकायुपद्रुतः । क्लेशाय केवलं पुंसामहो भीमो भवोदधिः ॥ १७८ ॥ सुखाय तु परं मोक्षो, जन्मादिळेशवर्जितः । भयशक्त्या विनिर्मुक्तो, व्यावाधावर्जितः सदा ॥ १७९ ॥ हेतुर्भवस्य हिंसाविर्दुःखाद्यन्वयदर्शनात् । मुक्तेः पुनरहिंसादिप्वाधाविनिवृत्तितः ॥१८०॥ बुद्धैव भवनैर्गुण्य, मुक्तेश्च गुणरूपताम् । तदर्थ.चेष्टते नित्यं, विशुद्धात्मा यथागमम् ॥१८॥ कल्याणमाला-साधुसेवा सदा भक्त्या, मैत्री सत्त्वेषु भावतः । आत्मीयग्रहमोक्षश्च, धर्महेतुप्रसाधनम् ॥ १९० ॥ उपदेशः शुभो नित्यं, दर्शनं धर्मचारिणाम् । स्थाने विनय इत्येतत् , साधुसेवाफलं महत् ॥ १९१ ॥ तथा-मैत्री भावयतो नित्यं, शुभो भावः प्रजा- यते । ततो भावोदकाजन्तोद्धेषाग्निरुपशाम्यति ॥ १९२ ॥ तथा अशेषदोषजननी, निःशेषगुणघातिनी । आत्मीयग्रहमोक्षण, तृष्णा हि विनिवर्तते ।। १९३ ॥ एवं गुणगणोपेतो, विशुद्धात्मा स्थिराशयः । तत्त्वविद्भिः समाख्यातः, सम्यग्धर्मस्य साधकः ॥ १९४ ॥ मिथ्यात्वसन्निपातः येषां पुनर्जन्तूनां नारकतिर्यनरामरभवेषु विवर्तमानानामकल्याणभाजनतया संजातो मनसि सर्वज्ञशासन- विपरीतोऽभिनिवेशः तद्वशेन,यैर्गृहीतो रागद्वेषमोहकलुषितः परमात्मा प्रतिपन्न एकान्तनित्यः क्षणिको वा सर्वगतो वा पञ्चभूतात्मको वा श्यामाकतण्डुलादिरूपो वा आत्मा अड्गीकृताः सृष्टिवादादयः कृतः शेषतत्त्वानामपि विपर्यासः तेषां जन्तूनां तदभिगृहीतमिथ्यादर्शनं कर्म- भोजनसामर्थ्यजनितमुन्माद इत्युच्यते । लघुकर्मचिन्ता-यथाऽतिदुर्लभमिदं मानुष्यमाकरो भावरत्नानां कारणं निर्वाणसुखस्य संप्राप्तमिदमधुनाऽस्माभिः समारूढा वयं म- २- हत्तरां कोटिं तन्न युक्तोऽस्माकमधुना विपादपि विषमतरो विपाकेषु विषयधनादिषु प्रतिवन्धः, समासादयन्ति च ते सर्वज्ञोपझं धर्ममार्ग, ततो न विपलभ्यन्ते कुतीथिकैः न प्रवर्तन्ते कुधर्मग्रहणे कुर्वन्ति साधुधर्माङ्गीकरणलक्षणं वाणिज्यं गृहन्ति क्षान्तिमार्दवार्जवमुक्तितपःसंय- मसत्यशौचाकिञ्चनत्वब्रह्मचर्यसन्तोपप्रशमादिकं प्रतिक्षणं गुणरत्ननिचयं आवर्जयन्ति सद्गुरुसाधुसाधर्मिकजनं पूरयन्ति सद्गुणानामात्मानं संजायन्ते खकार्यनिष्पादका इति । देशविरतशिक्षा-भो भद्रा! न युक्तं युष्मादृशामवाप्ते मनुष्यभावे जानतां जिनवचनामृतरसं लक्षयतां भवनैर्गुण्यमाकलयतां काय- कलिलमलाविलतां वेदयतां यौवनस्य सन्ध्याभ्ररागभङ्गुरतां पश्यतां जीवितस्य धर्मोपतप्तशकुनिगलचञ्चलतां भावयतां खजनवर्गस्नेहादेर- चिरद्युतिविलसितदृष्टनष्टतां कर्तुमीदृशं धनविषयादिममत्वव्यसनं वञ्चनमिदमात्मनो महान्तरायो ज्ञानादिसाधनस्य जानन्ति च भद्राः यथा परिणामदारुणा विषयाः कारणं चित्तविप्लवानां तरलहृदया योषितोऽभूमिः सद्भावसुखानां हेतुभूतमातरौद्रध्यानानां सुगतिमार्गप्रदीपो ज्ञान जनक मानसाहादानां कुयोनिगर्तातिपातहस्तावलम्बो दर्शनं सम्पादनमनन्तमनःप्रमोदानां सुक्षेमाक्षेपमोक्षनिक्षेपणं चारित्रं समर्पकं निरन्तरचित्तोत्सवानां अनादिजीववस्रमलक्षालनसलिलं तपो दायकं निःसङ्गादिसन्दोहानामनागतकर्मकचवरनिवारक: संयमो भावको भवभ्रमणभयाभावितभूरिभावहर्षाणां, तदेवमपि जानतां भवतां भो भद्राः! केयमविद्या कोऽयं मोहः केयमात्मवञ्चनता केयमात्मवैरिकता केन यूयं गृध्यथ विषयेषु मुह्यथ कलत्रेषु लुभ्यथ धनेषु निह्यथ स्वजनेषु हृष्यथ यौवनेषु तुष्यथ निजरूपेषु पुष्यथ प्रियसङ्गतेषु रुष्यथ हितोपदेशेषु दूष्यथ गुणेषु नश्यथ सन्मार्गात्सत्वप्यस्मादृशेषु सहायेषु प्रीयथ सांसारिकसुखेषु न पुन!यमभ्यस्यथ ज्ञानं नानुशीलयथ दर्शनं नानुतिष्ठथ चारित्रं नाचरथ तपः न कुरुथ संयमं न संपादयथ सद्भूतगुणसम्भारभाजनमात्मानमिति, एवं च तिष्ठतां भवतां भो 25 है परिणाम. उपमि० भव. ॥४१॥ भद्रा! निरर्थकोऽयं मनुष्यभवो निष्फलमस्मादृशसन्निधानं निष्प्रयोजनो भवतां परिज्ञानाभिमानोऽकिंचित्करमिव भगवदर्शनासादनं, एवं हिं स्वार्थभ्रंशः परमवशिष्यते, स च भवतामज्ञत्वमालक्षयति, न पुनश्चिरादपि विषयादिषु सन्तोषः, तन्न युक्तमेवमासितुं भवादृशां, अतो मुञ्चत विषयप्रतिबन्धं परिहरत खजनस्नेहादिकं विरहयत धनभवनममत्वव्यसनं परित्यजत निःशेष सांसारिकमलजाम्बालं गृहीत भाग- वती भावदीक्षां विधत्तं सज्ज्ञानादिगुणगणसञ्चयं पूरयत तेनात्मानं भवत स्वार्धसाधका यावत्सन्निहिता भवतां वयं अन्यथाऽस्मदुपदे- शाभावे सद्बुद्धिविकला यूयं स्वार्थभ्रष्टा एव सर्वथा भविष्यथेति । हितशिक्षा-सन्निहिताशेषापाये काये वलात्सु विविधरोगेषु त्वरागामिन्यां जरायां मनःशरीरसन्तापकारिषु राजाद्युपद्रवेषु याया- वरे यौवने सर्वव्यसनकारिणीषु सम्पत्सु मनोदाहिनीष्टवियोगे चित्तवैधुर्यकारिणि विप्रियसम्प्रयोगे सततमागामुके-मरणे सर्वथाऽशुचिनि- धाने शरीरे पुद्गलपरिणाममात्रनिःसारेषु विषयेषु असंख्यदुःखलक्षपरिपूरिते जगति वर्तमानानामसुमतां कीदृशं नाम सुखं ?, परमार्थतो दुःखेऽपि सुखविपर्यास एष भवतां, कर्मजनितः खल्वेष विभ्रमः कारणमनन्तभवभ्रमणस्य, ततो भो भद्रा! कृच्छ्रेण प्राप्ते मनुष्यभवे सन्निहितायां धर्मसामग्र्यां सत्यस्मदुपदेशे खाधीने गुणाधाने प्रकटे ज्ञानादिमोक्षमार्गे अनन्तानन्दरूपे जीवे तस्य स्वरूपलाभलक्षणे मोक्षे ज्ञानश्रद्धानुष्ठानमात्रायत्ते तल्लाभे न युक्तं भवतामीदृशमात्मवञ्चनं कर्तु । सद्धर्मसाधनानि-सेवनीया दयालुता न विधेयः परपरिभवः मोक्तव्या कोपनता वर्जनीयो दुर्जनसंसर्गः विरहितव्याऽलीकवा- दिता अभ्यसनीयो गुणानुरागः न कार्या चौर्यबुद्धिः त्यजनीयो मिथ्याभिमानः वारणीयः परदाराभिलाषः परिहर्तव्यो धनादिगर्वः नि- धेया दुःखितदुःखत्राणेच्छा पूजनीया गुरवः वन्दनीया देवसङ्काः सन्माननीयः परिजनः पूरणीयः प्रणयिलोकः अनुवर्तनीयो मित्रवर्ग: R ॥४१॥ RE ६ . न भाषणीयः परावर्णवादो ग्रहीतव्याः परगुणाः लजनीयं निजगुणविकत्थनेन स्मर्तव्यमणीयोऽपि सुकृतं यतितव्यं परार्थे संभाषणीयः प्रथमं विशिष्टलोकः अनुमोदनीयो धार्मिकजनः न विधेयं परमर्मोद्घट्टनं भवितव्यं सुवेषाचारैः। गृहस्थधर्म:-गृहस्थैः सद्भिः परिहर्तव्योऽकल्याणमित्रयोगः सेवितव्यानि कल्याणमित्राणि न लवनीयोचितस्थितिः अपेक्षितव्यो लोकमार्गः माननीया गुरुसंहतिः भवितव्यमेतत्तत्रैः प्रवर्तितव्यं दानादौ कर्तव्योदारपूजा भगवतां निरूपणीयः साधुविशेषः श्रोतव्यं विधिना धर्मशास्त्र भावनीयं महायनेन अनुप्ठेयस्तदर्थों विधानेन अवलम्बनीयं धैर्य पर्यालोचनीयाऽऽयतिः अवलोकनीयो मृत्युः भवि- तव्यं परलोकप्रधानैः सेवितव्यो गुरुजनः कर्तव्यं योगपट्टदर्शनं स्थापनीयं तद्रूपादि मानसे निरूपयितव्या धारणा परिहर्तव्यो विक्षेप- मार्गः प्रयतितव्यं योगशुद्धौ कारयितव्यं भगवद्भुवनविम्वादिकं लेखनीयं भुवनेशवचनं कर्तव्यो मङ्गलजपः प्रतिपत्तव्यं चतुःशरणं गर्हि- तव्यानि दुष्कृतानि अनुमोदयितव्यं कुशलं पूजनीया मत्रदेवताः श्रोतव्यानि सच्चेष्टितानि भावनीयमौदार्य वर्तितक्यमुत्तमज्ञातेन । साधुधर्मः-कृतवहिरन्तरङ्गसङ्गत्यागैः परदत्तभोजिभिर्भावमुनिभिः सद्भिर्भवद्भिरासेवनीया ग्रहणशिक्षा विधेया वस्तुतत्त्वजिज्ञासा मृगणीयः स्वपरतत्रवेदिना परहितनिरतेन पराशयवेदिना यथार्थाभिधानेन गुरुणा सम्यक् सम्बन्धः प्रयोक्तव्यो गुरुविनयः अनुष्ठेया विधिपरता कर्तव्यो मण्डलीनिपद्याक्षादौ यत्नः अनुपालनीयो ज्येष्ठक्रमो भजनीयोचिताशनक्रिया हेयो विकथादिविक्षेपः शीलनीया भाव- सारमुपयोगप्रधानता शिक्षणीयोऽयं श्रवणविधिः आचरणीया बोधपरिणतिः यतितव्यं सम्यग्ज्ञानस्थिरतायां कार्य मनःस्थैर्य न विधेयो ज्ञानव॒त्सेकः नोपहसनीयास्तदज्ञाः परित्याज्यो विवादः परिहार्यमबुद्धबुद्धिभेदकरणं न विधेयः कुपात्रे शाखनियोगः । साधुक्रिया अनुशीलनीया भवद्भिरासेवनाशिक्षा समाचरणीया प्रत्युपेक्षणा भजनीया प्रमार्जना सात्म्यीभावमानेतव्या भिक्षाचर्या ISR परिणाम. M उपमि० भव. प्रतिक्रमणीयेर्यापथिका दातव्याऽऽलोचना शिक्षणीया निर्दोषभोजनता विधेया भाजनपरिकर्मणा अनुष्ठेयाऽऽगमिकी विचारचर्या निरीक्ष- णीयाः स्थण्डिलभूमयः कर्तव्यं समस्तोपाधिविशुद्धमावश्यकं प्रवर्तितव्यं यथागमं कालग्रहणे आम्नातव्यः पञ्चविधः स्वाध्यायः तदेवम- भ्यसनीया प्रतिदिनक्रिया पालनीयः पञ्चविधोऽप्याचारः आसेवनीये चरणकरणे अङ्गागीभावमानेयोऽप्रमादः स्थातव्यमत्युग्रविहारितया । भवविभ्रमः-एते हि भोगा नागानां, भोगा इव सुदारुणाः । पर्यन्तकटुकाः पापास्तीव्रसंक्लेशवर्धनाः ।।४०४ ॥ नार्योऽनार्याः कृताकार्याः, सर्वमायाकरण्डिकाः । विलासनृत्तसङ्गीतविब्वोकाद्या विडम्वनाः ॥ ४०५ ॥ मोक्षस्तु भद्राः! सततमनन्तानन्दसुन्दरः । जीवस्यात्मव्यवस्थानं, निःशेषक्लेशवर्जितः ॥ ४०६ ॥ मनुष्यभवमासाद्य, तन्न युक्तं भवादृशाम् । खाद्यपेयविलासादिकौतुकेनात्मवञ्चनम् ॥ ४०७ ॥ एतेषु सक्ता भोगेषु, कतिचिदिनमाविषु । मा मोक्षमार्गमुत्सृज्य, गच्छतानन्तके भवे ॥ ४०८ ॥ धर्मानुष्ठानबुद्ध्या च, यदिदं मारणादिकम् । यूयं कुरुथ तत्पापं, सर्व संसारवर्धनम् ॥ ४०९ ॥ कुशास्त्रकारमोहेन, मा कुरुध्वमथेदृशम् । अहिंसाद्यात्मकं धर्म, कुरुध्वं दोषसूदनम् ॥ ४१० ॥ मनोवानरलीवभयानि-सौम्य! विद्यन्ते तत्र गर्भगृहके वसतोऽस्य भूयांसः खल्लूपद्रवकारिणो यतो भक्ष्यते वराकमिदं कषायना- मकैश्चटुलमूषकैः तरलतरीक्रियते नोकषायाख्यैर्वेधपटुभिर्दुष्टवृश्चिकैः खाद्यते संज्ञाख्याभिः क्रूरमार्जारीभिः विलुप्यते रागद्वेषनामकाभ्यां भीषणकोलोन्दुराभ्यां अस्यते महामोहसंज्ञेनातिरौद्रमार्जारेण उपताप्यते परीषहोपसर्गालैः सततं त्रोटयद्भिर्दशमशकैः विह्वलीक्रियते दुष्टा- भिसन्धिवितांख्यैर्ववतुण्डैर्भक्षयद्भिर्मकुणैः उपद्रूयतेऽलीकचिन्तासंज्ञामिर्गृहकोकिलिकाभिः अभिभूयते दारुणाकारैः प्रमादककलासैः तुद्यतेऽनवरतमविरतिजाम्बालनामकेन षट्पदिकाजालेन अन्धीक्रियते मिथ्यादर्शनसंज्ञेनातिघोरेण तमसा। ॥४२॥ ॥४२॥ - - अप्रमादानुशीलनम्-स्वप्नोऽयमिन्द्रजालं वा, हरिश्चन्द्रपुरं तथा । शरीरं भूतयो भोगा, यच्चान्यत्स्वजनादिकम् ।। ४६३ ।। एवं निश्चित्य सद्बुद्ध्या, भावयिष्यामि तत्त्वतः । ततः संसारजालान्मे, चित्तबन्धो निवर्त्यति ॥ ४६४ ॥ अनाद्यभ्यासयोगेन, निस्सरच पुनः पुनः । आत्मन्येवाऽऽहितं चित्तं, धारयिष्यामि यत्नतः ॥ ४६५ ॥ तथेदं शिक्षयिष्यामि, चित्तं किं निर्गतेन ते ? । बहिः स्वरूपे तिष्ठ त्वं, येनानन्दे निलीयसे ।। ४६६ ॥ संसारस्ते बहिश्वारः, स च दुःखभराकरः । मोक्षः स्वरूपेऽवस्थानं, स चानन्दभराकरः ॥ ४६७ ॥ ततो बहिर्न युक्तं ते, निर्गन्तुं सुखलिप्सया । युक्तमात्मन्यवस्थानं, चित्त ! हित्वा बहिज्रमम् ॥ ४६८ ॥ आत्मन्यवस्थितस्येह, जन्मन्येव सुखं तव । बहिनिःसरतोऽत्रैव, दुःखं तद्यदि बुध्यसे ॥ ४६९ ॥ तथाहि -सर्वं दुःखं परायत्तं, सर्वमात्मवशं सुखम् । वहिश्च ते पराधीनं, स्वाधीनं सुखमात्मनि ॥ ४७० ॥ अन्यच्च-यदात्मनो बहिर्भूतं, वस्तुजातं तव प्रियम् । तत्सर्वं नश्वरं दुःखं, निःस्वभावं मलाविलम् ॥ ४७१ ॥ अतस्तदर्थ हे चित्त !, किं वृथा परिताम्यसि । किं वाऽऽत्मानं विमुच्येत्थं, बंभ्रमीपि पुनः पुनः ? ॥ ४७२ ॥ यदि स्यात्सुन्दरं किंचिद्वहिस्तस्य निवारणम् । संभवेत्तव दुःखा(सौख्या)य, तच्च चित्त! न विद्यते ॥ ४७३ ॥ दयमानं पुनर्पोरै गाङ्गारैर्निवारितम् । आत्मन्यानन्दरूपे त्वं, मुधा.ताम्यसि धारितम् ॥४७४॥ अनन्तदर्शनज्ञानवीर्यानन्दप्रपूरिते । चित्त ! कृत्वाऽऽत्मनि स्थानं, भव शीघ्रं निराकुलः ॥ ४७५ ॥ अन ते तिष्ठतो नित्यं, भोगस्नेहस्य शोषणे । संजाते जायतेऽवश्यं, रज:- पातो न संशयः ॥ ४७६ ॥ ततश्व-संक्लिष्टवासनाजन्या, व्रणा रोहन्ति दारुणाः । ततस्तद्वाधनिर्मुक्तं, न त्वं भोगेपु रज्यसे ॥ ४७७ ।। पिण्डीप्राया बुधैः प्रोक्ता, भोगाश्चित्तक्षतेषु ते । अत एव मुहूर्त ते, भासन्ते स्वास्थ्यकारिणः ॥ ४७८ ॥ मुहूर्तसुखमाधाय, ते भुक्ताः RANE

परिणाम.
उपमि०
भव.
॥४३॥
.
क्षतवर्धनम् । संक्लिष्टवासनाध्यानाजनयन्ति सुदारुणम्॥४७९॥ इतरथा-संक्लिष्टवासनोन्मुक्ते, रूढे तव शरीरके । निर्बाधे सतता-
नन्दें, तदिच्छैव न जायते ॥४८०॥ तदेवं संस्थिते चित्त!, हित्वा सर्व बहिर्धमम् । स्वरूपे सततं तिष्ठ, लीनं हन्त निरातुरम् ॥४८१॥
चित्तरक्षा-यदेदं निःस्पृहं भूत्वा, परित्यज्य बहिर्धमम् । स्थिरं संपत्स्यते चित्तं, तदा ते परमं सुखम् ॥ ५३५ ॥ भक्ते स्तोतरि
कोपान्धे, निन्दाकर्तरि चोत्थिते । यदा समं भवेचित्तं, तदा ते परमं सुखम् ॥ ५३६ ॥ वजने स्नेहसम्बद्धे, रिपुवर्गेऽपकारिणि । स्या-
तुल्यं ते यदा चित्तं, तदा ते परमं सुखम् ॥ ५३७ ॥ शब्दादिविषयग्रामे, सुन्दरेऽसुन्दरेऽपि च । एकाकारं यदा चित्तं, तदा ते परम
सुखम् ॥ ५३८ ॥ गोशीर्षचन्दनालेपिवासीच्छेदकयोर्यदा । अभिन्नचित्तवृत्तिः स्यात्तदा ते परमं सुखम् ॥ ५३९ ॥ सांसारिकपदार्थेषु,
जलकल्पेषु ते यदा । अश्लिष्टं चित्तपमं स्यात्तदा ते परमं सुखम् ॥ ५४० ॥ दृष्टेपूदामलावण्यबन्धुराङ्गेषु योषिताम् । निर्विकारं यदा
चित्तं, तदा ते परमं सुखम् ॥ ५४१॥ यदा सत्त्वैकसारत्वादर्थकामपराङ्मुखम् । धर्मे रतं भवेच्चित्तं, तदा ते परमं सुखम् ॥ ५४२ ॥
रजस्तमोविनिर्मुक्तं, स्तिमितोदधिसन्निभम् । निष्कल्लोलं यदा चित्तं, तदा ते परमं सुखम् ॥ ५४३ ॥ मैत्रीकारुण्यमाध्यस्थ्यप्रमोदोद्दाम-
भावनम् । यदा मोक्षकतानं तत्तदा ते परमं सुखम् ॥ ५४४ ॥
शोकनाशनं-भो भो महाराज धनवाहन! न युक्तमीदृशं भवादृशां विधातुं वालचरितं तत्परित्यज क्लीबतां उररीकुरु धीरतां स्व-
स्थतां नयान्तःकरणं स्मरात्मानं विरहयेममेकान्तेनाहितं महामोहं मुञ्च शोकं शिथिलय परिग्रहं अनुवर्तय सदागमं समाचरः तदुपदेशं
जनय मम चित्तप्रमोदं, किं विस्मृतं भवतोऽधुनैव तत्साधुनिवेदितं भवप्रदीपनकं ? किं न स्मरसि तत्संसारापानकं ? किं न चिन्तयसि
तं भवारघट्ट ? किं न ध्यायसि तं सकर्मकजीवचट्टमठवृत्तान्तं ? किं न पर्यालोचयसि तां मनुष्यजन्मरत्नद्वीपदुर्लभतां ? किं न निर्विद्यसे
॥४३॥

वसंस्तत्र जन्मसन्तानहट्टमार्गे ? किं विस्मारयसि तां चित्तवानरलीवरूपतरलतां ? किं नानुशीलयसि तस्यैव सततं रक्षणं ? कि बंभ्रमीषि तेषु विषयविपवृक्षेषु ? किं लुठसि तस्मिन्ननर्थनिचयसंज्ञे पत्रकुसुमफलरजःकचवरे किं निपातयसि जानन्नपि मोक्षमार्गमात्मानं घोरेषु म- हानरकेषु ? कि नारोहयसि तेनोपायेनात्मानं तत्र सततानन्दे शिवालयमठे ?, संसारे हि निवसतां महाराज! देहिनां करतलस्थानि व्यू- सनानि सुलभाः प्रियजनविप्रयोगाः अदूरगा महाव्याधयः प्रत्यासन्नानि दुःखानि अवश्यंभावीनि मरणानि, ततः पुरुषस्य विमलविवेक एवात्र त्राणं नापरमिति । धर्मघोषमुनिदेशना-मनुजजन्म जगत्यतिदुर्लभं, जिनमतं पुनरत्र विशेषतः । तदिमाप्य नरेण सुमेधसा, विढपनीयमतोऽपि परं पदम् ॥९२६॥ इतरथा पुनरेव निरन्तके, निपतितस्य सुभीमभवाध्वके । कुशलशम्बलमुत्कलखादनं, ननु विनाऽतुलदुःखपरंपरा॥९२७॥ इदमवेत्य जनेन विजानता, कुशलकर्म भवोदधितारकम् । इह विधेयमहो विफलं मुधा, न करणीयमिदं नरजन्मकम् ॥ ९२८॥ बुधकरणीयं-अवधीरणीयो भवता भवप्रपञ्चः आराधनीयो विलीनरागद्वेषमोहोऽनन्तज्ञानदर्शनवीर्यानन्दपरिपूर्णः परमात्मा वन्द- नीयास्तदुपदिष्टमार्गवर्तिनो भगवन्तः साधवः प्रतिपत्तव्यानि जीवाजीवपुण्यपापास्रवसंवरनिर्जराबन्धमोक्षलक्षणानि नव तत्त्वानि सर्वथा पेयं जिनवचनामृतं नेयं तदङ्गाशीभावेन अनुष्ठेयमात्महितं उपचेयं कुशलानुवन्धि कुशलं विधेयं निष्कलङ्कमन्तःकरणं हेयं कुविकल्पजल्प- जालं अवसेयं भगवद्वचनसारं विज्ञेयं रागादिदोषवृन्दं लेयं सुगुरुसदुपदेशभेषजं देयं सततं सदाचरणे मानसं अवगेयं दुर्जनप्रणीतकुम- तवचनं निमेयं महापुरुषवर्गमध्ये स्वरूपं स्थेयं निष्प्रकम्पचित्तेनेति । निर्मलकेवलिदेशना-भो भव्याः शरणं धर्मो, नास्त्यन्यत्सततभ्रमे । लसदुद्दामदुःखौघसङ्कले भवचक्रके ॥ २३३ ॥ मरणाय RS5515 परिणाम. उपमि० - ॥४४॥ भवे जन्म, कायो रोगनिबन्धनम् । तारुण्यं जरसो हेतुर्वियोगाय समागमः॥ २३४ ॥ निमित्तं विपदां लोके, देहिनां सर्वसम्पदः । तन्नास्ति यन्न दुःखाय, वस्तु सांसारिकं जनाः ॥ २३५ ॥ एवं च स्थिते-अमूर्ताः सर्वभावज्ञास्त्रैलोक्यो- परिवर्तिनः । क्षीणसङ्गा महात्मानः, केवलं सुखमासते ॥ २३६ ॥ सर्वद्वन्द्वविनिर्मुक्ताः, सर्वाबाधाविवर्जिताः । सर्वसंसिद्धसत्कार्याः, सुखं तेषां किमुच्यते ॥ २३७ ॥ किं च-जन्माभावे जरामृत्योरभावो हेत्वभावतः । तदभावे च निःशेषदुःखाभावः सदैव हि ॥२३८॥ परमानन्दभावश्च, तदभावे हि शाश्वतः । व्याबाधाभावसंसिद्धं, सिद्धानां सुखमिष्यते ॥ २३९ ॥ अथवा-त्यक्तबाह्येतरग्रन्था, निःस्पृहा भवचारके । संतुष्टा ध्यानयोगेन, प्रशमामृतपायिनः ॥ २४०॥ निःसङ्गा निरहङ्कारा, निर्मलीभूतचेतसः। सुखिनः केवलं लोके, देहिनो- ऽपि सुसाधवः ॥ २४१ ॥ सुखमेव च वाञ्छन्ति, सर्वे जगति जन्तवः। तच्च नास्त्येव संसारे, विहायैकां सुसाधुताम् ॥ २४२ ॥ तदिदं भो महासत्त्वा!, विनिश्चित्य विधीयताम् । विमुच्यासारसंसारं, भवद्भिः सा सुसाधुता ॥ २४३ ॥ सुस्थितकृते सुखदुःखे-याऽस्त्यसौ निर्वृतिर्नाम, नगरी सुमनोहरा । निरन्तानन्दसन्दोहपरिपूर्णा निरामया ॥ २७३ ॥ तस्याम- नन्तवीर्याढ्यः, सर्वज्ञः सर्वदर्शनः । अनन्तानन्दसंपूर्णः, सुस्थितः परमेश्वरः ॥ २७४ ॥ यो विद्यते महाराज!, सर्वस्य जगतः प्रभुः । सुन्दरेतरकार्याणां, स ते परमकारणम् ॥ २७५ ॥ अनेकोऽप्येकरूपोऽसौ, गीयते वरसूरिभिः । अचिन्त्यवीर्ययुक्तात्मा, परमात्मा स गद्यते ॥ २७६ ॥ स बुद्धः स विरिञ्चाख्यः, स विष्णुः स महेश्वरः । निष्कलः स जिनः प्रोक्तो, दृष्टतत्त्वैर्महात्मभिः ॥ २७७ ॥ न चेच्छया करोयेष, तव कार्यपरम्पराम् । वीतरागो गतद्वेषो, निरिच्छोऽयं यतो मतः ॥ २७८ ॥ यथा तु कुरुते तात!, तवायं सुन्दरे- तरम् । कार्यजातं तथा वच्मि, साम्प्रतं विशदाक्षरैः ॥ २७९ ॥ सिद्धा भगवतस्तस्य, निश्चला सुप्रतिष्ठिता । अस्त्याज्ञा सर्वलोकानामा- ॥४४॥ TUSS .

कालं करणोचिता ॥ २८० ॥ यदुत-निरन्धकारा कर्तव्या, चित्तवृत्तिः प्रभाखरा । गोक्षीरहारनीहारकुन्देन्दुविशदा सदा ॥ २८१ ॥ गृहीत्वा रिपुबुद्ध्या च, महामोहादिकं वलम् । अनुक्षणं निहन्तव्यं, घोरसंसारकारणम् ॥ २८२ ॥ वन्धुवुद्ध्याऽवधार्येदं, पोषणीयं च सर्वदा । चारित्रधर्मराजाचं, सैन्यं कल्याणकारणम् ॥ २८३ ॥ इयमेतावती तस्य, सर्वलोकसमाश्रया । वर्तते नृपतेराज्ञा, विधातुहितका- रिणी ॥ २८४ ॥ संपूजनेन ध्यानेन, स्तवेन व्रतचर्यया । इयमेव विधातव्या, तदाज्ञा तस्य सेवकैः ॥ २८५ ॥ निषिद्धाचरणैः सर्वैरिय- मेव विराध्यते । तदुक्तद्वादशाङ्गार्थः, सर्वोऽप्यस्यां व्यवस्थितः ॥ २८६ ॥ तां च यो यावतीं लोके, विदधाति नरः सदा । अजानन्नपि तद्रूपं, तस्य तावद्भवेत्सुखम् ।। २८७ ॥ केवलं-यस्तु तां लङ्घयन्नाज्ञां, विपरीतं विचेष्टते । जानन्नपि च तद्रूपं, स भवेद्दुःखभाजनम् ॥ २८८ ॥ यो यावत्कुरुते मोहात्तदाज्ञालचनं जनः । तस्य तावद्भवेद्दुःखं, यथा तत्करणे सुखम् ॥ २८९ ॥ एवं च स्थिते -तदाज्ञा- लनाडुःखं, तदाज्ञाकरणात्सुखम् । यतः संपद्यते सर्वं, सर्वेषामपि देहिनाम् ॥ २९० ॥ अणुमात्रमपि तन्नास्ति, भुवनेऽत्र शुभा- शुभम् । तदाज्ञानिरपेक्षं हि, यज्जायेत कदाचन ॥ २९१ ॥ तेनेच्छारागविद्वेषराहतोऽपि स भूपतिः । निर्वृतिस्थोऽपि कार्याणां, ज्ञेयः परमकारणम् ॥ २९२ ॥ स एव परमो हेतुरतस्ते गुणधारण! । सुन्दरेतरकार्याणां, सर्वेषां नात्र संशयः ॥ २९३ ॥ तदाज्ञालङ्घनात्पूर्व, जाता ते दुःखमालिका । अधुना तत्करत्वेन, सुखलेशोऽयमीदृशः ॥ २९४ ॥ यदा तु तस्य संपूर्णामाज्ञप्तिं तां करिष्यसि । तदा यः सुखसन्दोहस्तस्य विज्ञास्यसे रसम् ॥ २९५ ॥ क्षान्त्याधुपायाः-आर्य! क्षान्तिमभिवाञ्छता तावदनेन भावनीया समस्तजन्तुषु मैत्री सहनीयः परविहितः परिभवः अनुमोदनी- यस्तद्वारेण परप्रीतियोगः चिन्तनीयस्तत्सम्पादनेनात्मानुग्रहः निन्दनीयः परिभावकदुर्गतिहेतुतयाऽऽत्मा श्लाघनीयाः परकोपकारणभावर- - . परिणाम. उपमि० भक - ॥ ४५ ॥ हिता धन्यतया भगवन्तो मुक्तात्मानः ग्रहीतव्याः कर्मनिर्जरणहेतुतया न्यकारकर्तारो हितबुद्ध्या प्रतिपत्तव्याः संसारासारत्वदाशतया त एव गुरुभावेन सर्वथा विधेयं निष्प्रकम्पमन्तःकरणमिति ॥ दयां पुनः परिणिनीषताऽनेन सर्वथा वर्जनीयः स्तोकोऽपि परोपापः दर्श- नीयः सर्वदेहिनां बन्धुभावः प्रवर्तितव्यं परोपकारकरणे नोदासितव्यं परव्यसनेषु सर्वथा भवितव्यं समस्तजगदालादकरामृताशयधारि- णेति ॥ मृदुतां पुनरार्य! विवाहयिषता महाराजेन मोक्तव्यो जातिमदः परित्याज्यः कुलाभिमानः वर्जनीयो बलोद्रेकः रहयितव्यः रूपो- सेकः परिहर्तव्यस्तपोऽवष्टम्भः निराकरणीयो धनगर्वः निर्वासनीयः श्रुताहङ्कारः अपक्षेप्तव्यो लाभमदः शिथिलयितव्यो वाल्लभ्यकानुशयः सेवनीया नम्रता अभ्यसनीयो विनयः सर्वथा कर्तव्यं नवनीतपिण्डोपमं हृदयमिति ॥ तथा परिहरतः परेषां मर्मोद्घट्टनं वर्जयतः पैशुन्यं विमुञ्चतोऽवर्णवादं शिथिलयतो वाक्पारुष्यं गर्हयतो वक्रोक्तिं अनाचरतः परिहासं अवदतोऽलीकवचनं त्यजतो वाचोटतां विदधतो भूतार्थोद्भावनं प्रगुणीभविष्यति गुणानुरक्ता महाराजस्य स्खयमेव सा सत्यतेति ॥ तथा निर्भर्त्सयता कौटिल्यं दर्शयता सर्वत्र सरलभावं परित्यजता परवञ्चनं विमलयता मानसं समनुशीलयता प्रकटाचारतां अनुवर्तयता सद्भावप्रधानतां सर्वथा कुर्वता प्रगुणदण्डोपममात्मा- न्तःकरणं महाराजेन सा ऋजुता वशीकर्तव्येति ॥ तथा धारयति परपीडाभीरुतां निराकुर्वति परद्रोहबुद्धिं वर्जयति परधनहरणं लक्षयति तदपायहेतुतां गृहति दुर्गतिभयं महाराजे संजातानुरागाऽऽगमिष्यति स्वयंवरा सा नूनमचौरतेति ।। मुक्तता पुनरभिलषताऽऽय! महाराजेन सात्मीभावमानेतव्यो विवेकः द्रष्टव्यो बाह्याभ्यन्तरग्रन्थाद्भिन्नः खल्वात्मा शमनीयो ग्रन्थपिपासा धारणीय भावतो बहिरेन्तञ्चालग्नमन्त:- करणं सर्वथा पङ्कजलोभ्यामिवार्थकामाभ्यामश्लिष्टः पद्मवजनयितव्यो निजभाव इति ॥ ब्रह्मरति पुनः पाणौ जिघृक्षता कन्दमुने! महारा- जेन प्रतिपत्तव्याः समस्ता-अपि मातर इव सुरनरतिरश्च नार्यः न वस्तव्यं तद्वसतौ न कार्या तत्कथा न भंजनीया तन्निषद्या न विलो- ॥४५॥ ESS *-* कनीयानि तदिन्द्रियाणि न स्थातव्यं रतिस्थामिथुनकुड्याभ्यणे न स्मरणीयं पूर्वललितं नाहरणीयः प्रणीताहारः रक्षणीया तदतिमात्रा न करणीया शरीरराढा सर्वथोद्दलनीया रताभिलाषितेति ॥ तथा सर्वपुद्गलद्रव्याणां देहधनविषयादीनां भावयते सततमनित्यतां चिन्तयते गाढमशुचिरूपतां ध्यायते दुःखात्मकतां लक्षयते चात्मभिन्नखभावतां विरहयते सकलं कुवितर्कजालं विमृशते समस्तवस्तुतत्त्वमस्मै महा- राजाय गुणधारणाय स सद्बोधः समानीय दास्यति तां सम्यग्दर्शनात्मजां विद्याकन्यकामिति ॥ तथा चित्तसन्तापायेच्छा मनोदुःखाय भोगाभिलाषो मरणाय जन्म वियोगाय प्रियसङ्गमः कोशकारकीटस्येव तन्तुसन्तानरचना निविडात्मवन्धनाय जीवस्य सङ्ग्रहपरता क्लेशा- यासाय सकलं सङ्गजालं प्रवृत्तिर्दुःखं निवृत्तिः सुखमित्येवमनवरतं भावयतो महाराजस्य भविष्यति गाढमनुरक्ता सा निरीहतेति ॥ दीक्षां प्रति कातरविचाराः-अतिदुष्करा च प्रव्रज्या तुल्या बाहुभ्यां स्वयंभूरमणतरणेन नैष्टिकं यत्यनुष्ठानं सुखलालितं मे शरीरं संभविनो रोगातङ्काः तन्न क्षमिष्यते प्रायो दीर्घकालं मे रूक्षवृत्तिता कातरहृदया च वराकी मदनमजरी बाधिष्यते द्राधीयसा यावज्जी- विकमदीयवियोगेन इत्यादि चिन्तयतश्च मे संजातो मनाङ् मनोभङ्गः, ततश्चिन्तितं मया-तत् किं न परिणयामि तावदेताः ? तिष्ठामि यथासुखासिकया गमयामि यौवनं स्वाधीनाश्च ममैताः ततः पश्चात्काले परिणीय प्रव्रजिष्यामीति । प्रवचनमात्रष्टक-आद्या हि कुरुते माता, युगमात्रप्रलोकिनम् । मुनिलोकं पुरे जैने, मार्गे व्याक्षेपवर्जितम् ॥ ३७२ ॥ सद्बुद्धिपू- तवाक्येन, तथ्यं पथ्यं मिताक्षरम् । द्वितीया भाषयत्येव, माता यतिजनं सदा ॥ ३७३ ॥ तृतीयमाता निःशेषदोषनिर्मुक्तमञ्जसा । आहारमेषयत्येव, यतिलोकेन कारणे ॥ ३७४॥ चतुर्थमाता मुनिभिः, सुदृष्टं सुप्रमार्जितम् । पात्राद्यादाननिक्षेपं, कारयन्ती विजृम्भते ॥ ३७५ ॥ यत्किंचित्स्यात्परित्याज्यं, देहाहारमलादिकम् । स्थण्डिले पञ्चमी माता, तन्नीत्या त्याजयत्यलम् ॥ ३७६ ॥ षष्ठी माता पुन- उपमि० परिणाम. भव. ॥४६॥ नित्यं, साधुचित्तमनाकुला । रक्षन्ती क्षपयत्येव, दोषसङ्घातमञ्जसा ॥ ३७७ ॥ सप्तमी कारणाभावे, माता. मौनविधायिका । साधूनां कारणे वाक्यदोषरक्षणतत्परा ॥ ३७८ ॥ अष्टमी कूर्मवल्लीनं, मुनिलोकमकारणे । धारयेत्कारणे कायदोषविप्लवधारिका ॥ ३७९ ।। दीक्षाकार्य-विधायाष्ट दिनानि जिनमुनिपूजां समुत्पाद्य नागरकानन्दं संभाल्य बन्धुवर्ग पूरयित्वाऽर्थिसवातं स्थापयित्वा निजसुतं जनतारणाभिधानं राज्ये समाप्य तत्कालोचितं निःशेष कृत्यविधि सह मदनमचर्या युक्तः कुलंधरेण प्रधानपरिजनेन च निष्कान्तो निर्मलसूरिपादमूले विधानेनाहमिति, ततोऽभ्यस्तः समस्तः साधुक्रियाकलापः वल्लभीभूतो गाढतरं सदागमः शिक्षितानि तदुपदिष्टान्ये- कादशाङ्गानि कालिकोत्कालिकश्रुतानि च तथाऽभीष्टतरीभूतः सम्मग्दर्शनः संजातश्चारित्रधर्मे चित्ताबन्धः विज्ञातं विशेपतस्तत्सैन्यं पालितौ नितरां संयमतपोयोगौ भग्नानि सुतरां प्रमत्ततानद्यादीनि रिपुक्रीडास्थानानि निर्मलीकृता चित्तवृत्तिः, तदेवं गुरुचरणशुश्रूषारतो विहृतोऽहं भूरिकालं मुनिचर्ययेति । पातहेतवः-विषयाभिलाषेणोक्तं-इवमत्र प्राप्तकालं-अभ्यर्णीभवतु तावत्तस्य समिथ्यादर्शनो ज्ञानसंवरणः निकटीभवन्तु शैलरा- जसहितानि गौरवाभिधानानि त्रीणि मानुषाणि तद्नु प्रहेतव्यावार्ताशयरौद्राभिसन्धिनामानौ द्वौ पुरुषो तयोश्च परिचारिका यास्यन्ति खत एव कृष्णनीलकापोताभिधाना लेश्या इति गोत्रेण प्रसिद्धास्तिस्रो नार्यः वयं तु तावत्प्रमत्ततानदी पुनः संस्थाप्य प्रवाहयामो मण्डपादीनि च भूयः समारयामः, एवं च कुर्वतां भविष्यत्यलेशेनैवास्माकं प्रभाव इति, । गौरवितविकल्पा:-अहो ममातुलं तेजस्तथाऽहो मम गौरवम् । अहो जगति पाण्डित्यमन्यासाधारणं मम ॥ ४४३ ॥ अहो युग- प्रधानोऽहं, यथाऽतिक्रान्तभाविनोः । कालयोरपि मादक्षो, न भूतो न भविष्यति ॥ ४४४॥ सर्वा विद्याः कलाः सर्वाः, सर्वे चातिशयाः SEE त

परम् । अहो विमुच्य भुवनं, मय्येव ननु संस्थिताः ॥ ४४५ ॥ नरेन्द्रः पूर्वपर्याये, सुरूपो भोगलालितः । अधुना त्वीदृशः सूरिरहो
नाहं लघुः पुमान् ॥ ४४६ ॥ महत्कुलं महत्तेजो, महती श्रीमहत्तपः। महती च मम प्रज्ञा, सर्व हि महतां महत् ।। ४४७ ॥ एवं-
विधविकल्पैश्च, साहकारस्य मे तदा । समं तेनानुवन्धेन, शैलराजो विजृम्भितः ॥ ४४८ ॥ तथा यत्रासौ तत्र नियमान्मिथ्यादर्श-
नवश्यता । ज्ञानसंवरणस्यापि, विलासो विद्यते ध्रुवः ॥ ४४९ ॥ ताभ्यां वशीकृतश्चाहं, मलिनीभूतचेतनः । जाननपि न जानामि,
शास्त्रगर्भार्थमजसा ।। ४५० ॥ पठामि पाठयाम्यन्यं, व्याचक्षे शास्त्रसंहतिम् । भावार्थ न च बुध्येऽहं, तद्वशीभूतमानसः ॥ ४५१ ॥
केवलं मे परिभ्रष्टं, सार्धं पूर्वचतुष्टयम् । पाश्चात्यं हन्त तत्काले, शेपज्ञानं न विस्मृतम् ॥४५२॥ अत्रान्तरे प्रयनेन, चित्तवृत्तौ ममानघे!।
प्रवाहिता नदी तूर्ण, रिपुभिः सा प्रमत्तता ॥ ४५३ ॥ ततो विजृम्भितान्युचैनिजवीर्येण सुन्दरि! । तानि गौरवसंज्ञानि, मानुषाणि विशे-
पतः ॥ ४५४ ॥ कथं ?-ईदृशः शिष्यवर्गों मे, वस्त्रपात्रादयस्तथा । अहं पूज्यो जने मां हि, वन्दन्ते देवदानवाः ॥४५५॥ ममाणिमा-
दयः सर्वा, विद्यन्ते भावभूतयः । इत्युत्सेकपरो भूत्या, प्रार्थयामि च भाविनीः ॥ ४५६ ॥ युग्मम् । तथा-आखादितेपु लब्धेषु, रसेषु
परमा रतिः । आविर्भूताऽतिलौल्यान्मे, प्रार्थनाऽनागतेपु च ॥ ४५७ ॥ शय्यासनादिसंपाद्ये, वस्खाहारादिगोचरे । सुखे शारीरिके तोपः,
प्राप्ते लौल्यं च भाविनि ॥४५८॥ जातं मे त्रितयस्यापि, तदानी वशवर्तिनः । विहायोगविहारंच, जातोऽहं शिथिलस्तदा ॥४५९॥ युग्मम्
गौरवत्रितयेनापि, ततो मे हतचेतसः । आशियोऽपि संपन्नो, दुष्टसङ्कल्पकारकः ॥ ४६० ॥ स च रौद्राभिसन्धिर्मे, न जातो वाधक-
स्तदा । आर्ताशयसमीपस्थः, केवलं सोऽप्यवस्थितः ॥ ४६१ ॥ ततस्ता अपि संपन्नास्तिस्रस्तत्परिचारिकाः । तस्यैव वर्धनोयुक्ता, मम दौर-
शील्यकारिकाः ।। ४६२ ॥ इतश्च चित्तविक्षेपो, मण्डपो वेदिका च सा । चित्तवृत्तौ कृता सज्जा, विष्टरं च समारितम् ॥ ४६३ ॥

'
आयुनामा
च
संदिष्टः
,
स
राजा
मम
भार्यया
॥
४६५॥
यदुत
-
निरूपयाऽऽर्यपुत्रस्य
,
भद्र
!
स्थानं
मनोहरम्
।
साम्प्रतं
चारुवासा
चारित्रधर्मराजाद्याश्चित्तवृत्तौ तिरोहिताः । जातः श्रमणवेषोऽपि, मिथ्यादृष्टिरहं तदा ।। ४६४ ॥ ततो लब्धावकाशैस्तैरेवं सर्वैररातिभिः ।
परिणाम.
उपमि०
भव.
॥४७॥
MESEN
योग्यमीहशकर्मणाम् ॥ ४६६ ॥-तेनोक्तं-भगवति ! निरूपितमेवास्य निवासस्थानं, यतो मिलितः साम्प्रतं महामोहबलेऽमुष्य चरितेन
विरञ्जितहृदयः कर्मपरिणामः पुरस्कृतस्तेन पापोदयः प्रस्थापितोऽहमेकाक्षनिवासनगरे आकारितौ च ततस्तीबमोहोदयात्यन्ताबोधी महत्त-
मबलाधिकृतौ रुष्टश्च केनचित्कारणेन वेदनीयस्योपरि कर्मपरिणामः ततः सर्वस्खमपहृत्य कृतोऽसावकिंचित्करः ततस्ताभ्यां तीव्रमोहोदयात्य-
न्ताबोधाभ्यां सहानेन सपरिवारेण मया भगवत्या च तस्मिन्नेवैकाक्षनिवासनगरेऽधुना निवस्तव्यं ।
शोकनिवारणं-यथा पापभरं कृत्वा, प्रवृत्तो नरकं प्रति । यदि गच्छेत्तथैवात्र, ततः शोच्यो भवोदधौ ॥ ६७४॥ यः पुनः प्राप्य
सद्धर्म, निषूय निजकल्मषम् । सर्वार्थसिद्धिं संप्राप्तो, नासौ शोकस्य गोचरः॥६७५॥ शोचनीयः सतामिष्टो, नरः संयमदुर्बलेः । स हि
सर्वत्र संसारे, भ्रमेहुःखभरेरितः ॥ ६७६ ॥ न शोचनीयः स्निग्धेन, मृतः संयमवान् नरः । स हि संसारचक्रेऽपि, तिष्ठेदानन्दपूरितः
॥ ६७७ ॥ स एवच विभेत्युच्चैमरणे समुपस्थिते । येन नो चरितो धर्मः, परलोकसुखावहः ॥ ६७८ ॥ सद्धर्मपथ्यपाथेयं,
यस्त्वादाय प्रतीक्षते । मरणं तस्य तत्प्राप्ती, न भीः किं तु महोत्सवः ॥ ६७९ ॥ ज्ञानदर्शनचारित्रंतपोरूपाप्यनाशिनी । आरा-
धना चतुःस्कन्धा, यस्य स्यात्तस्य किं मृतम् ॥ ६८० ।। आनन्दोत्पादकास्तेऽत्र, भगवन्तो मुनीश्वराः । ये क्षालयित्वा पापौघ,
मृताः पण्डितमृत्युना, ॥ ६८१ ॥
विविधीध्यानयोगः-एके प्राहुर्यथा. सर्व, हिंसादि क्रियतामिति । केवलं बुद्धिलेपोऽत्र, रक्षणीयो मुमुक्षुणा ।।७३५॥ यतः यस्य
to
।
।
॥४७॥

बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् । आकाशमिक पङ्केन, नासौ पापेन लिप्यते ॥ ७३६ ॥ अन्ये प्राहुर्यथा सर्व, पापं कृत्वा हि मानवाः । मुच्यन्ते क्षणमात्रेण, ये स्मरन्ति महेश्वरम् ॥ ७३७ ॥ यतः-छित्त्वा भित्त्वा च भूतानि, कृत्वा पापशतानि च । स्मरेदेकं विरूपाक्षं, सर्वपापैः प्रमुच्यते ॥७३८॥ अन्यैस्तु पापशुद्ध्यर्थ, विष्णुध्यानमुदाहृतम् । तद्भ्यशेषमलक्षालि, यतः प्रोक्तमिदं वचः॥७३९॥ अपवित्रः पवित्रो वा, सर्वावस्थां गतोऽपि वा । यः स्मरेत्पुण्डरीकाक्षं, स बाह्याभ्यत्तरः शुचिः ॥ ७४० ॥ अन्ये पापाशनं मत्रं, प्राहुः पापनिवर्हणम् । अन्ये वायुजयं प्राज्ञाः, प्राहुर्मोक्षस्य साधनम् ॥ ७४१ ॥ यथा-ध्यानेनोद्वर्तते यत्तत्पौण्डरीकं हृदि स्थितम् । विघाटि- तदलं रम्य, मनोऽलिसुखदं परम् ॥७४२॥ तहारेण निलीयेत, मनोऽलिः परमे पदे । तस्य यो लक्ष्यते नादस्तत्तत्त्वमपरे जगुः॥७४३॥ तथाऽन्ये पूरकं प्राहुः, कुम्भकं रेचकं तथा । तस्यैव पुण्डरीकस्य, पवने प्रविघाटिकम् ॥ ७४४ ॥ अन्ये प्राहुः पुनर्विन्दु, कुन्देन्दुस्फटि- कप्रभम् । तिर्यगूर्ध्वमधश्चैवं, सर्पन्तं ज्ञानकारणम् ॥ ७४५ ॥ अन्ये परां शिखां प्राहुरू/धो लेपितां किल । परमाक्षरमात्रा सा, सैवामृ- तकलोच्यते ॥ ७४६ ॥ नासाने भ्रूलतामध्ये, बिन्दुं देवमथापरे । तुषारहारविमलं, ध्येयमाहुश्चलस्थिरम् ॥ ७४७ ॥ आग्नेयमण्डले स स्यान्मीलिते रक्तवर्णकः । माहेन्द्रे पीतक कृष्णो, वायव्ये वारुणे सितः ॥ ७४८ ॥ तत्र-पीतःसुन्दरचित्तेन, रक्तस्तापेषु चिन्यते । कृष्णोऽभिचारिके कार्ये, पुष्टिदो धवलो मतः ॥ ७४९ ॥ अन्येऽप्याहुर्यथा साध्यो, नाडीमार्गों मुमुक्षुणा । इडापिङ्गलयो यं, नाड्योः सञ्चारकर्म च ॥ ७५० ॥ नाडीचक्रस्य विज्ञेयः, प्रचारो दक्षिणेतरः । तद्वारेण च मन्तव्यं, बहिष्कालबलादिकम् ॥ ७५१ ॥ पद्मासनं विधायोचैर्घण्टानादायतं कलम् । ॐकारोचारणं प्राहुरपरे शान्तिदायकम् ॥ ७५२ ॥ तथाऽन्ये प्राहुर्यथा-आ नाभेः सरलं प्राणं, बिस- तन्तुसमं शनैः । मूर्धान्तस्तालुरन्ध्रण, निर्गच्छन्तं विचिन्तयेत् ॥. ७५३ ॥ आदित्यमण्डलस्थं वा, वक्षोराजीवसंस्थितम् । आद्यं पुमांस- . उपमि० भव. परिणाम. ॥४८॥ N NRHMEEG मपरे, तथा ध्येयतया विदुः ॥ ७५४ ॥ हृद्योनि संस्थितं नित्यं, पुमांसं परमं तथा । लसदंशुशताकीर्ण, ध्येयमाहुर्मनीषिणः ॥ ७५५ ॥ आकाशमात्रमपरे, विश्वमन्ये चराचरम् । आत्मस्थं चित्तमित्याहुरपरे ब्रह्म शाश्वतम् ॥ ७५६ ॥ भाववैद्यकूटवैद्याः-एते हि तीर्थ्याः सर्वेऽपि, कूटवैद्यसमानकाः । जिनसद्वैद्यशास्त्रस्य, पल्लवग्राहिणो मताः ॥ ७६२ ॥ तथा चात्र कथानकं-एकस्मिन्नगरे भूरिरोगग्रस्तसमस्तलोके विद्यते कश्चिदेक एव महावैद्यः, स चोत्पन्नदिव्यज्ञानः स्रष्टा स- मस्तरोगसंहितानां नाशको निःशेषरोगाणामुपकारनिरतो लोकानां तथापि ते लोका अधन्यया न प्रतिपद्यन्ते तस्य वचनं के- चित्तु धन्यतमाः प्रतिपद्यन्ते, स चानवरतं विधत्ते स्वशिष्येभ्यो व्याख्यानं, तच्चोपश्रुत्याप्रसङ्गागतैरवधारितं स्वबुद्ध्या कियदप्यन्येधूतः, ततस्ते तल्लवमानतुष्टाः स्खपूजार्थ वैद्यकमाचरितुमारब्धाः, तेषां तु लोकानामधन्यतयैव ते नितरां प्रतिभासन्ते, ततस्तैः पण्डितंमन्यतया विरचिता निजनिजसंहिताः प्रथितानि कैश्चित्तान्युपश्रुत्याऽवधारितानि सद्वैद्यवचनान्यनुसरद्भिः कानिचित्तासां मध्ये वचनानि अन्यैः पुनरेकान्तविपरीतसद्वैद्यवचनानामतिपाण्डित्याभिमानेन संहिता विहिताः, विविधरुचयश्च ते रोगिणो नागरकाः, ततस्तेषामपि कूटवैद्यानां मध्ये कश्चिदेव केषांचिच्चित्ते प्रतिभाति नापरः, ततः प्रसिद्धिं गताः सर्वेषां सम्बन्धिन्यो वैद्यशालाः, व्याख्याताः सर्वैविनेयेभ्यो निजनि- जसंहिता वाचालतया प्रसिद्धास्तेऽपि महावैद्यतया अवधीरित इव भूरिलोकैरसौ मौलमहावैद्यः । एवं च स्थिते-ये ते मौलमहावैद्यस- क्रियां विधिपूर्वकम् । कुर्वन्ति रोगिणस्तावत्ते भवन्त्येव नीरुजः ॥ ७६३ ॥ किं च-तत्र जीवति सद्वैये, रोगैर्मुक्ता यथा जनाः । तस्यां सुवैद्यशालायां, भूयांसो विहितक्रियाः ॥ ७६४ ॥ तथा मृतेऽपि सा शाला, सविनेया ससंहिता । संजाता सर्वलोकानां, रोगच्छेदविधा- यिनी ॥ ७६५ ॥ युग्मम् । ये पुनः कूटवैद्यानां, रोगिणो गोचरं गताः । तेषां ते रोगजालेन, नितरां परिपीडिताः ॥ ७६६ ॥ किं च ॥४८॥ G -यथा जीवत्सु तच्छाला, लोकानामपकारिकाः । मृतेष्वपि तथा जाताः, सविनेयाः ससंहिताः ॥ ७६७ ॥ यस्तु तावपि दृश्येत- वैद्यशालासु कश्चन । विशेपो रोगिणां हन्त, रोगतानवलक्षणः ॥ ७६८ ॥ सर्वरोगविमोक्षो वा, कथंचिदैवयोगतः । तासु स्थितानां शा- लासु, यदि जायेत देहिनाम् ॥ ७६९ ॥ सोऽपि तेषां गुणो नूनं, सर्वव्याधिनिवर्हिणाम् । यानि सद्वैद्यशाखस्य, गृहीतानि पदानि तैः ॥७७०॥ त्रिभिर्विशेपकम् । तथाहि-यैस्तानि न गृहीतानि, सर्वथा दुष्टबुद्धिभिः । एकान्तेनैव ते जाता, व्याधिवृद्धविधायकाः ॥७७१॥ किं बहुना?--सा महावैद्यशालैका, ज्ञेया रोगनिवर्हणी । तत्संहितानुसारेण, शेषा अपि कदाचन ॥ ७७२ ॥ यतः-वातः पित्तं कफ- श्चेति, सर्वरोगविधायकम् । दोषत्रयं विजानीते, सुवैद्यस्तस्य भेषजम् ॥ ७७३ ।। कूटवैद्या न जानन्ति, स्वयं तत्त्वविरोधतः । तेभ्यो योऽपि विशेषः स्याद्धन्यानां रोगिणां क्वचित् ।। ७७४॥ सोऽयं घुणाक्षरन्यायः, स्याद्दोषत्रयहानितः । तस्मात्स एव सद्वैद्यस्तत्र रोगचिकि- त्सकः ।। ७७५ ॥ युग्मम् तदिदं ते समासेन, मया वैद्यकथानकम् । पौण्डरीक! समाख्यातं, सन्देहदलनं परम् ॥ ७७६ ॥ भवोऽत्र नगरं ज्ञेयः, सर्वरोगप्रपीडितः। एकस्तत्र महावैद्यः, सर्वज्ञः परमेश्वरः ॥ ७७७ ॥ संजातकेवलज्ञानः, शिष्टसिद्धान्तसंहितः । सर्वलोको- पकारी च, कर्मरोगनिवर्हणः ॥ ७७८ ॥ तथापि गुरुकर्माणः, संसारोदरचारिणः । भूयांसो न प्रपद्यन्ते, जीवास्तं परमेश्वरम् ॥ ७७९॥ ये भव्या लघुकर्माणो, जीवा धन्यतमाः परम् । त एव तं प्रपद्यन्ते, सवैद्यं परमेश्वरम् ॥ ७८० ॥ सदेवमनुजायां च, स सभायां यदा- ऽतुलम् । शिष्येभ्यो देशयत्युच्चैर्मोक्षमार्ग जगद्गुरुः ॥ ७८१ ॥ तदा देवा मनुष्याच, केचित्ता कलुषाशयाः । प्रसङ्गे नागतास्तत्र, शृण्वन्ति जिनदेशनाम् ।। ७८२ ॥ अनेकनयगम्भीरां, तां श्रुत्वा मन्दबुद्धयः । अन्यथा कल्पयन्येते, मिथ्यात्वाध्मातचेतसः ॥ ७८३ ।। ततस्ते जिनसद्वैद्यादुपश्रुत्य वहिर्गताः । स्वशास्त्राणि प्रकुर्वन्ति, कूटवैद्यसमा मानकाः ॥ ७८४ ॥ तत्र च-ये तावदास्तिकाः केचित्तीर्थ्याः सांख्यादयो उ० ९

.
परिणाम,
.
उपमि०
भव.
॥४९॥
मताः । जिनवाक्यानुसारेण, तैर्ग्रन्थेषु कियन्यपि ॥ ७८५ ॥ कृतानि चारुकाक्यानि, शेषमभ्यूहितं स्वयम् । स्वपाण्डित्याभिमानेन, कूट-
वैद्यैरिवाखिलम् ॥ ७८६ ॥ युग्मम् । ततः सर्वज्ञसद्वाक्यभूषितानि महीतले । तच्छास्त्राण्यपि राजन्ते, प्रसिद्धिं प्रगतानि च ॥ ७८७ ॥
ये पुनर्नास्तिकाः पापा, बृहस्पतिसुतादयः । सर्व तैर्जिनशास्त्रस्य, विपरीतं विकल्पितम् ।। ७८८ ॥ तेऽपि वाचालतासारास्तथाविधजने
गताः । प्रसिद्धिं तस्करस्येह, प्रागल्भ्यं हि महत्तरम् ॥७८९॥ तथा-नानारुचित्वाल्लोकानां, प्रतिभान्ति यथाशयम् । केषांचिदेव ते
तीर्थ्याः, केचिदेव न चापरे ॥ ७९० ॥ अन्यच्च-कणभक्षाक्षपादाद्या, ये तीर्थ्याः शास्त्रकारिणः । तैस्तानि निजशास्त्राणि, शिष्येभ्यः
कथितानि भोः। ॥ ७९१ ॥ प्रवर्तितानि तीर्थानि, शिष्टानुष्ठानमालिका । तदिदं वैद्यशालानामुत्थानमभिधीयते ॥ ७९२ ॥ एवं च स्थिते
-ये सर्वज्ञमहावैद्यशालायां कमरोगिणः । चिकित्सां कुर्वते धन्यास्ते भवन्येव नीरुजः ॥ ७९३ ॥ आस्तिकेषु च तीर्येषु, कर्मरोगस्य
तानवम् । यदृश्यते तथा सर्वमोक्षो वा श्रूयते कचित् ॥ ७९४ ॥ सोऽपि सर्वज्ञवाक्यानां, तेषामेव गुणो ननु । यानि' तैर्निजशास्त्रेषु,
प्रथितानि कथंचन ॥ ७९५ ॥ युग्मम् । यद्वा जातिस्मरादीनां, तेषां सर्वज्ञभाषितम् । हृदि स्थितं भवत्येव, कर्मरोगनिवर्हणम् ॥ ७९६ ॥
यथा दोषत्रयं वैद्यः, शारीरज्ञश्चिकित्सति । रागद्वेषमहामोहांस्तथा सर्वज्ञ एव हि ॥ ७९७ ॥ तस्मान्नास्त्येव सर्वज्ञवैद्यशास्त्रबहिःस्थिता ।
चिकित्सा कर्मरोगाणां, नूनमेतेन हेतुना ॥ ७९८ ॥ तथाहि-एकान्तविपरीता ये; जैनशास्त्रस्य नास्तिकाः । एकान्तेनैव ते पापा, दी-
र्घसंसारकारकाः ॥ ७९९ ॥ तथापि क्लिष्टजन्तूनां, गृद्धानामर्थकामयोः । त एव प्रतिभान्त्युच्चैर्नास्तिकाः साम्प्रतेक्षिणाम् ॥ ८०० तदे-
वमार्य! शेषाणि, तीर्थानि जिनभाषितात् । विनिर्गतानि तेनेदं, व्यापक जिनदर्शनम् ॥ ८०१॥ एवं च स्थिते-यद्रागद्वेषमोहानां, प्र-
तिपक्षतया स्थितम् । सत्यं भूतदया ब्रह्म, शौचमिन्द्रियनिग्रहः ॥ ८०२ ॥ औदार्य सुन्दरं वीर्यमाकिञ्चन्यमलोभता । गुरुभक्तिस्तपो
॥
॥४९॥

ज्ञानं, ध्यानमन्यच्च तादृशम् ॥८०३॥ आस्तिकेष्वपि तीर्थेषु, तत्स्वरूपेण सुन्दरम् । किंतु नो राजते तेषु, यथा याचितभूषणम् ? ॥८०४॥ त्रिभिर्विशेषकम् । तद्धि स्वकल्पितैः शेषैः, सर्वज्ञवचनातिगैः । यागहोमादिभिः सार्ध, मीलितं न विराजते ॥ ८०५ ॥ समस्तोपाधिशु- द्वानां, गुणानां प्रतिपादकम् । तदेवं सर्वतीर्थेषु, स्थितं सर्वज्ञदर्शनम् ॥ ८०६ ॥ तच्च सद्भाविकं जैन, तीर्थ सर्वगुणात्मकम् । सर्वत्र संस्थितं ज्ञेयं, न लिङ्गं धर्मकारणम् ॥ ८०७ ॥ अतो मदुक्तमार्गेण, यथा ते तीथिकास्तथा । ध्यानयोगबलेनैव, किं स्युर्मोक्षस्य साधकाः ? ॥ ८०८ ॥ तत्र-शुद्धानुष्ठानविकलं, ध्यानं यदुष्टशीलिनः। ध्यायन्ति तद्वचोमात्रं, नास्थाकारि विवेकिनाम् ॥ ८०९॥ यतोऽत्र तण्डुलस्येव, जीवस्य तुषसन्निभे । शुद्धे मले सदाचारध्यानाच्छोध्यस्तथेतरः ॥ ८१० ॥ यः पुनर्मलिनारम्भी, बहिानपरो भवेत् । नासौ ध्यानाद्भवेच्छुद्धः, सतुषस्तण्डुलो यथा ॥ ८११ ॥ युग्मम् । सर्वोपाधिविशुद्धेन, ततो जीवेन साध्यते । ध्यान- योगः परः श्रेष्ठो, यः स्यान्मोक्षस्य साधकः ॥ ८१२ ॥ यश्च स्यात्ताशो जीवो, निर्मलात्मा कथंचन । स तीर्थकोऽपि भावेन, वर्तते जिनशासने ॥ ८१३ ॥ तस्माजैनेन्द्रमेवैकं, शासनं भवनाशनम् । तीथिका अपि तत्रस्था, भवन्त्येव भवच्छिदः ॥ ८१४ ॥ किं बहुना ? -वातपित्तकफानां भो, निःशेषतदकारिणाम् । शमादारोग्यजननं, यथा लोके सुभेषजम् ॥ ८१५ ॥ तत्कूटभिषजाऽपीह, प्रयुक्तं पर- मार्थतः । कचिघुणाक्षरन्यायाद्यथा सद्वैद्यसम्मतम् ॥ ८१६ ॥ तथा सर्वमनुष्ठानं, यद्भवेन्नाशकारणम् । सरागद्वेषमोहानां, चित्ताखिलम- लात्मनाम् ।। ८१७ ॥ तल्लोके सर्वतीर्थेपु, साक्षाज्जैनेऽपि वा मते । यथा तथा कृतं हन्त, ज्ञेयं सर्वज्ञसम्मतम् ॥ ८१८ ॥ चतुर्भिः कला- पकम् । यत्पुनश्चित्तमालिन्यकारकं मोक्षवारकम् । यतिश्रावकरूपेण, कुर्युः कर्म प्रवादिनः ॥ ८१९ ॥ तज्जैनेन्द्रमता वाढं, बहिर्भूतं न संशयः । कि पुनर्लोकतीर्थाणां, कर्तव्यं बहुदोषलम् ? ॥ ८२० ॥ युग्मम् । तदिदं भावसत्तीर्थमवतीर्य तरन्ति भोः! । संसारसागरं R- परिणाम. 'उपमि० भव. ॥ ५० ॥ जीवाः, पर्याप्तं वेषचिन्तया ॥ ८२१ ॥ यच्च ते ध्येयनानात्वमत्र सन्देहकारणम् । समाकर्णय तत्रापि, परमार्थो निवेद्यते ॥ ८२२ ॥ पापं हि दुष्टकल्लोलैः, पुण्यं गृह्णाति सुन्दरैः । चित्तैरात्मा तथोभाभ्यामौदासीन्येन मुच्यते ॥ ८२३ ॥ स्वभाव एष जीवस्य, यत्तथापरि- णामभाग् । बध्यते पुण्यपापाभ्यां, माध्यस्थात्तु विमुच्यते ॥ ८२४ ॥ ते च हिंसाद्यनुष्ठानाद्, भ्रमकालुल्यकारकात् । जायन्ते चित्तक- लोला, यथाऽपध्याद्गदास्तनौ ॥ ८२५ ॥ तथाऽहिंसाद्यनुष्ठानात् , स्थैर्यनैर्मल्यकारकात् । जायन्ते शुभकल्लोलाः, पथ्यादिव सुखासिकाः ॥ ८२६ ॥ चित्तजालोपसंहारि, यत्पुनानमीदृशम् । औदासीन्यं मतं तद्धि, निर्जरामात्रकारणम् ॥ ८२७ ॥ तदत्र तन्निरोद्धव्यं, चित्त- जालं मुमुक्षुणा । तच्च नानाविधोपाय, रागद्वेषादिसूदनैः ॥ ८२८ ॥ ततो यस्तीथिकैः प्रोक्तो, यः प्रोक्तो जिनशासने । भावतीर्थे स्थितः सोऽयं, ध्येयभावो न दुष्यति ।। ८२९ ॥ यतः-बहिर्विशुद्धकर्तव्याः, साधयन्ति मुमुक्षवः । मोक्षं नानाविधैध्येयैर्माध्यस्थ्यं तत्र कार- णम् ॥ ८३० ॥ किं तु-परमात्मादयो ध्येया, यथा संवेगकारिणः । जीवस्य चेतसोऽत्यर्थ, न हि बिन्द्वादयस्तथा ॥ ८३१ ॥ आल- म्बनविशेषेण, चेतसः सुन्दरेतरम् । स्वरूपं जायते सिद्धं, स्वसंवेदनतो ह्यदः ॥ ८३२ ॥ किं तु-नानारुचित्वाज्जीवानां, कस्यचित्स्या- त्कथंचन । चेतःशुद्धिरतश्चित्रा, मौनीन्द्री मार्गदेशना ॥ ८३३ ॥ ततो विशुद्धचित्तानां, शुद्धमाध्यस्थ्यशालिनाम् । केषांचित्तेऽपि बि- न्द्वाद्याः, स्युविशुद्धविधायकाः ॥ ८३४ ॥ इतरथा-तत्त्वं विज्ञाय ये मूढाः, प्रवर्तन्तेऽर्थकामयोः । तद्बलेनैव निश्चिन्ता, योगिनोऽत्र वयं किल ॥८३५॥ तेषां ज्ञानमुलूकानां, यादृक् सूर्योदयेऽमले । कोटरान्तःप्रविष्टानां, तादृग् ज्ञेयं महात्मभिः ॥८३६॥ युग्मम् ते ह्यज्ञान- तमोलिप्ताः, सुदृष्टिप्रसरं विना । कौशिका इव लीयन्ते, नितरां भवकोटरे ॥ ८३७ ॥ योगे ज्ञानांशुदीप्ताङ्गे, परिस्फुरति भास्करे । हृदये हि कुतस्तिष्ठेदर्थकामस्पृहातमः ॥ ८३८ ॥ तस्मान्निर्मलचित्तानां, वैराग्याभ्यासलासिनाम् । चित्रमालम्बनं प्राप्य, माध्यस्थ्यं संप्रवर्तते ॥५०॥ ।

।। ८३९ ॥ अतोऽमी ये पुरा प्रोक्ता, ध्येयभेदाः कुतीर्थिकैः । निष्यन्दविन्दुभूतास्ते, स्युजैनमतवारिधेः ॥ ८४०॥ तत्कूटवैद्यशालावद्- न्यदर्शनमालिका । स्वरूपेण सदा ज्ञेया, कर्मरोगविवर्धनी ॥ ८४१ ॥ तत्रस्थानां पुनर्यः स्यात्कर्मरोगक्षयः क्वचित् । विशेषो वा स वि- ज्ञेयः, सर्वज्ञवचनाद्गुणः ॥ ८४२ ॥ इयं सद्वैद्यशालावदाकालं तन्मतात्मिका । कर्मरोगहरी ज्ञेया, द्वादशाङ्गी सुसंहिता ॥ ८४३॥ यहो- पोच्छेदनं लोके, किंचित्स्यात्सुन्दरं वचः । तद्गुणाकररूपायां, सर्वमस्यां प्रतिष्ठितम् ॥ ८४४ ॥ यत्पुनर्बुद्धिलेपेन, विना हिंसादि.सुन्दरम् । समस्तपापनाशश्च, स्मृतिमात्रेण देवयोः ॥ ८४५ ॥ प्रोक्तमित्यादिकं पूर्व, तीथ्यस्तत्त्वबहिश्वरैः । नियुक्तिकं वचोमात्रं, तत्तु हास्यं विवे- किनाम् ॥ ८४६ ॥ युग्मम् । देवगुरुधर्मस्वरूपं तत्रोपलब्धे जीवानां, स्वयमेव मलोद्भवाः । एता हि विनिवर्तन्ते, मोहिन्यो भेदबुद्धयः॥८५५॥ एकः प्रभासते देवः, सर्वज्ञः सर्वदर्शनः । वीतरागो गतद्वेषो, महामोहादिसूदनः ॥८५६॥ सकलो भुवनभर्ताऽसौ, सशरीरो निगद्यते । निष्कलो मोक्षमा- पन्नः, स एव भुवनप्रभुः ॥ ८५७ ॥ इदं स्वरूपं निश्चित्य, यैः स देवोऽवधारितः । तेषां नानाविधाः शब्दा, भेदबुद्धिं न कुर्वते ॥८५८॥ तथाहि-स बुद्धः प्रोच्यतां लोके, ब्रह्मा विष्णुमहेश्वरः। जिनेश्वरोऽपि वा हन्त, नार्थभेदस्तथापि च ॥ ८५९ ॥ य एवं तं परिज्ञाय, भजेत्तस्यैव स प्रभुः । ममास्ति तव नास्तीति, सर्वो मत्सरविभ्रमः ॥ ८६० ॥ यस्यैव भावतोऽभीष्टस्तस्यासौ कुरुते शिवम् । न शृङ्गकेण पानीयं, चण्डालस्यापि वार्यते ॥ ८६१ ॥ निःशेषक्लेशनिर्मुक्तः, स समः सर्वदेहिनाम् । विज्ञातः कुरुते मोक्षं, तातीया कस्य जाह्नवी ॥ ८६२ ॥ संसारिणां हि नानात्वमात्मनां कर्मनिर्मितम् । कर्मप्रपञ्चनिर्मुक्तः, परमात्मा न भिद्यते ॥ ८६३ ॥ स देवः परमात्माख्यः, शुद्धवोधप्रभावकः । अशरीरोऽप्यनन्तेन, वीर्येण भवमोचकः ॥ ८६४ ॥ विज्ञातो यैर्महाभागैः, प्रतिपन्नश्च भावतः । तेषां परिणाम. 56 उपमिक भव. ॥५१॥ निर्णीतरूपाणां, विवादः कुत्र कारणे ? ॥ ८६५ ॥ केवलं-ये कल्पयन्ति तं मूढा, रागद्वेषमलाविलम् । ते ज्ञाततत्स्वरूपैस्तैर्वार्यन्ते करु- णापरैः ॥ ८६६ ॥ तदेवं तात्त्विकस्तावद्देवस्तुभ्यं निवेदितः । यः प्रमाणप्रसिद्धत्वादेकः सर्वप्रवादिनाम् ॥ ८६७ ॥ धर्मोऽप्येको जगत्यत्र, विज्ञेयः पारमार्थिकः । कल्याणमालिकाहेतुः, शुद्धः शुद्धगुणात्मकः ॥ ८६८ ॥ क्षमामार्दवसच्छौचतपःसंयममुक्तयः । सत्यब्रह्मार्जवत्यागा, एते धर्मगुणा दश ॥ ८६९ ॥ दशलक्षणकं धर्ममेनं विज्ञाय पण्डिताः । स्वर्गापवर्गदातारं, विवदन्ते न केनचित् ॥ ८७० ॥ यस्त्वस्य वैपरीयेन, कल्प्यते मूढमानवैः । धर्मस्तं वारयन्तीमे, करुणाऽऽक्रान्तबुद्धयः ॥ ८७१ ॥ तदेष धर्मः सर्वत्र, यः प्रमाणप्रतिष्ठितः । एकः स वर्णितस्तुभ्यं, पौण्डरीकमुने! मया ॥ ८७२ ॥ तथाऽत्र मोक्षमार्गों य:, संगीतस्तत्त्वसंज्ञकः । सोऽप्येक एव विज्ञातः, पण्डितैः पर. मार्थतः ॥ ८७३ ॥ तथाहि-सत्त्वं कैश्चित्तदाख्यातं, लेश्याशुद्धिस्तथाऽपरैः । शक्तिस्तथाऽऽत्मनो वीर्य, यल्लभ्यं योगिभिः परम् ॥८७४॥ तदिदं शब्दभेदेन, भिद्यते नार्थतो ध्रुवम् । तथाऽस्याचरणेऽप्यत्र, ध्वनयो भेदिनः परम् ॥ ८७५ ।। यतः-अदृष्टकर्मसंस्कारा, पुण्या- पुण्ये शुभाशुभे । धर्माधौं तथा पाशाः, पर्यायास्तस्य कीर्तिताः ॥ ८७६ ॥ एतच्च सत्त्ववीर्यादिशब्दवाच्यं यदिष्यते । इदं स्वहानिवृ- द्विभ्यां, कारणं भवमोक्षयोः ॥ ८७७ ॥ हीयमाने भवन्त्यस्मिन् , भवे सर्वा विपत्तयः । वर्धमाने पुनः सर्वाः, संभवन्ति विभूतयः ॥ ८७८ ॥ इदमेव चतुष्कोटिविशुद्धमपरे विदुः । ऐश्वर्यज्ञानवैराग्यधर्मरूपास्तु कोटयः ॥ ८७९ ।। रजस्तमोभ्यां तत्सत्त्वमावृतं न प्रका- शते । विपरीताच्च जोयन्ते, तस्यैश्वर्यादयो गुणाः ॥ ८८० ॥ तत्र-जोवशादवैराग्यमनैश्वर्य तमोवशोत् । तमसश्चैव माहात्म्यादज्ञानाध- मसम्भवः ॥ ८८१ ॥ यत्रैकं तत्र नियमाहितीयमपि विद्यते । रजस्तमोभ्यामेवं हि, भावितव्यं सदा सह ॥ ८८२ ॥ सर्वथा मलिनं सत्त्वं, हेतुः संसारदुःखयोः । तदेव विमलं वीर्य, कारणं सुखमोक्षयोः ॥ ८८३ ॥ तल्लीभार्थमिमे सर्वे, तपोध्यानव्रतादयः । विचित्रा ॥५१॥ SERIES म । हेतवो लोके, तत्तत्त्वं पारमेश्वरम् ।। ८८४ ॥ ज्ञानं तद्गोचरं यत्स्याच्छ्रद्धानं च तदाश्रयम् । क्रिया च वर्धनी तस्य, मोक्षमार्गः स की- र्तितः ॥ ८८५ ॥ एतच्च तत्त्वं यैः सत्त्वैर्विज्ञातं शुद्धबुद्धिभिः । मेरुनिष्कम्पचित्तानां, तेषां भ्रान्तिः कुतस्त्यिका ? ॥ ८८६ ॥ केवलं वारयन्तीमे, मूढलोकं कृपापराः । तत्त्वमार्गात्परिभ्रष्टं, यान्तमर्दवितर्दकम् ।। ८८७ ।। तदिदं ते समासेन, तत्त्वं साद्भाविकं मया । आख्यातं यद्विनिश्चित्य, घटन्ते चारुयोगिनः ॥ ८८८ ॥ इदं चाविचलं लोके, यथैकं मानतः स्थितम् । तथा मोक्षोऽप्यनेनैकः, साध्यः प्रहादसुन्दरः ॥ ८८९ ॥ आत्मनोऽनन्तसद्बोधदर्शनानन्दवोर्यिणः । अमूर्तस्यात्रिरूपस्य, स्वरूपस्थितिलक्षणः ॥ ८९० ॥ संसिद्धिनिर्वृतिः शान्तिः, शिवमक्षयमव्ययम् । अमृतं ब्रह्म निर्वाणं, ध्वनयस्तस्य वाचकाः ॥ ८९१ ॥ समस्तमितिकर्तव्यं, लेश्याशुद्ध्यर्थमीरितम् । लेश्या- शुद्धिस्तु मोक्षाय, स चैवंविधलक्षणः ॥ ८९२ ॥ तद्बुद्धितारतम्येन, यद्देवमनुजादिषु । अनुपङ्गात्सुखं तत्तु, हेयपक्षे प्रतिष्ठितम् ॥८९३॥ तदेवंविधसद्देवधर्मतत्त्वनिवेदकम् । सच्छास्त्रमीदृशस्यैव, मोक्षस्य प्रतिपादकम् ॥ ८९४ ॥ दृष्टेष्टाव्याहतं सार्व, प्रमाणेन प्रतिष्ठितम् । तदेक- मिह सर्वत्र, व्यापकं परिकीर्तितम् ॥ ८९५ ॥ युग्मम् । अमुं च तस्य भावार्थ, परिज्ञाय विशेषतः । तन्नरैर्विविधैः शब्दैर्यथेष्टमभिधीयते ॥ ८९६ ॥ वैष्णवं वा यदुच्येत, ब्राह्मणं वा निगद्यताम् । माहेश्वरं वा गीयेत, वौद्धं वाऽप्यभिधीयताम् ॥ ८९७ ॥ जैनेन्द्रं वा निवे- येत, ज्ञाताथैरिह मानवैः । अविनष्टे हि भावार्थे, शब्दभेदो न दुष्यति ॥ ८९८ ॥ अर्थेन हि प्रसीदन्ति, शब्दमात्रेण नो बुधाः । संतुण्येदेव इत्युक्तो, मूर्ख एव निरर्थकम् ।। ८९९ ॥ एवं च स्थिते-एवंविधार्थ चेत्तेऽपि, बदेयुस्तीर्थिकाः स्वकम् । दर्शनं व्यापकत्वेन, न विवादोऽस्ति तैः सह ।। ९०० ॥ आच्छादितानां मोहेन, पौण्डरीकमहामुने! । बहूनि दर्शनानीति, मोहोऽयं संप्रवर्तते ॥ ९०१॥ तस्यापाये पुनः पुंसां, सद्बुद्धेर्गोचरं गते । अत्र सदर्शने नूनं, भेदबुद्धिर्निवर्तते ॥ ९०२ ॥ आत्मा साधारणो ह्येप, सर्वेषामपि वादिनाम् ।

उपमि० परिणाम. भव. ॥५२॥ समलो न विजानीते, मोक्षमार्ग यथास्थितम् ॥ ९०३ ॥ मलक्षये पुनस्तस्य, मोक्षमार्गो यथास्थितः । यत्र तत्र स्थितस्यापि, हठादेष प्र- काशते ॥ ९०४ ॥ ततश्चेदं विनिश्चित्य, दर्शनं पारमार्थिकम् । स मुञ्चेदाग्रहं स्वीयं, तथा चोक्तं मनीषिभिः ॥ ९०५ ॥ रिक्तस्य जन्तो- र्जातस्य, गुणदोपानपश्यतः । विलब्धा बत केनामी, सिद्धान्तविषमग्रहाः ॥ ९०६ ॥ अहं चारुरचारुस्त्वं, मदीयं चारु दर्शनम् । न त्वदीयमिति स्पष्टं, मत्सरस्य विजृम्भितम् ॥ ९०७ ॥ किं बहुना?-यावन्तो देहिनो लोके, यथावस्थितदृष्टयः । ते सर्वेऽप्यत्र वर्तन्ते, तात्त्विके शुद्धदर्शने ॥ ९०८ ॥ निर्नष्टममकारास्ते, विवादं नैव कुर्वते । अथ कुर्युस्ततस्तेभ्यो, दातव्यैवैकवाक्यता ॥ ९०९ ॥ ये त्वक्षी- णमलत्वेन, विपरीतविलोकिनः । वतीर्थ व्यापकत्वेन, संगिरन्ते समत्सराः ॥ ९१० ।। तेषां जात्यन्धकल्पानामपकर्णनमुत्तरम् । अथवा तत्त्वमार्ग ते, वोधनीयाः प्रयत्नतः ।। ९११ ॥ युग्मम् । न मोहदलनादन्यो, युपकारो महत्तमः । अतो यदुक्तं भवता यदुत- स्वतीर्थ व्यापि चेत्तीर्थ्या, ब्युस्तत्र किमुत्तरम् ? । तदिदं ते मयाऽऽख्यातं, प्रतिघातविवर्जितम् ॥ ९१२ ॥ यावदृष्टिविवादाङ्गे, निःशेष- नयसागरे । कुदृष्टिसरितः सर्वाः, पतन्तीक्ष्यसि स्फुटम् ॥ ९१३ ॥ तावत्ते सर्वसन्देहा, यास्यन्ति प्रलयं तदा । ज्ञास्यसि त्वं यथा नास्ति, सर्वज्ञवचनात्परम् ॥ ९१४ ॥ युग्मम् । आचार्यस्यानुशिष्टिः-धन्यस्त्वं येन विज्ञातः, संसारगिरिदारकः । वज्रवहुर्भिदश्वाय, महाभाग! जिनागमः ॥९२८॥ इदं चारोपितं यत्ते, पदं सत्सम्पदां पदम् । अत्युत्तममिदं लोके, महासत्त्वनिषेवितम् ॥९२९॥धन्येभ्यो दीयते तात!, धन्या एवास्य पारगाः । गत्वाऽस्य पारं ते धन्याः, पारं गच्छन्ति संसृतेः ॥ ९३० ॥ भीतं संसारकान्तारात्समर्थस्य विमोचने । साधुवृन्दमिदं सर्व, भवतः शरणागतम् ॥ ९३१ ॥ संप्राप्य गुणसन्दोहं, निर्मलं पारमेश्वरम् । त्राणं संसारभीतानां, धन्याः कुर्वन्ति देहिनाम् ॥ ९३२ ॥ तदेते भावरोगार्तास्त्वं ॥५२॥ .

च भावभिपग्वरः । अतस्त्वयाऽमी सज्जीवा, मोचनीयाः प्रयत्नतः ॥ ९३३ ॥ गुरुश्च मोचयत्येतानप्रमत्तो हितोद्यतः । वद्धलक्षो दृढं मोक्षे, निःस्पृहो भवचारके ॥ ९३४ ॥ शिष्याणामनुशिष्टिः-युष्माभिरपि नैवैष, सुथबोहित्थसन्निभः । संसारसागरोचारी, न मोक्तव्यः कदाचन ॥ ९३७॥ प्रतिकूलं न कर्तव्यमनुकूलतरैः सदा । भाव्यमस्य गृहत्यागो, येन वः सफलो भवेत् ॥ ९३८ ॥ अन्यथा जन्तुवन्धूनामाज्ञालोपः कृतो भवेत् । ततो विडम्बना शेपा, भवेदन परत्र च ॥ ९३९ ॥ ततः कुलवधून्यायात्कार्ये निर्भसितैरपि । यावज्जीवं न मोक्तव्यं, पादमूलममुष्य भोः! ॥ ९४०॥ ते ज्ञानभाजनं धन्यास्ते स्वदर्शननिर्मलाः। ते निष्प्रकम्पचारित्रा, ये सदा गुरुसेविनः ॥ ९४१ ॥ आराधना:-ज्ञानदर्शनचारित्रवीर्याराधनतत्परः । एक एवान्तरात्मा मे, व्युत्सृष्टमधुनाऽपरम् ॥ ९४७ ॥ रागद्वेषमहामोहकषाय- मलधूनकः । विशुद्धः साम्प्रतं वर्ते, स्नातकोऽहं समाहितः ॥ ९४८ ॥ क्षाम्यन्तु सर्वसत्त्वा मे, क्षान्ति, सर्वजन्तुषु । निर्वैरः साम्प्रतं शान्तः, क्षेत्रज्ञो मम वर्तते ॥ ९४९ ॥ यदन्तर्यायिनः किंचिद्वहिर्भूतं पुरा मया । गृहीतं स्वीयबुद्ध्या तब्यत्सृष्टमधुनाऽखिलम् ॥ ९५० ॥ तीर्थेश्वरा महात्मानः, सिद्धा निर्धूतकल्मपाः । सद्धर्मः साधवश्वेति, भवन्तु मम मन्नलम् ॥ ९५१ ॥ एतानेवोत्तमत्वेन, गृहामि भुवनेs- प्यहम् । एतानेव प्रपद्येऽहं शरणं भवभीरुकः ॥ ९५२ ॥ निवृत्तसर्वकामोऽदं, मनोजालनिरोधकः । बन्धुः समस्तभूतानां, सूनुवत्सर्व- योपिताम् ॥ ९५३ ॥ स्थितः सामायिके शुद्धे, सर्वयोगनिरोधिनि । व्युत्सृष्टचेष्टं मां सिद्धाः, पश्यन्तु परमेश्वराः ॥ ९५४ ॥ यच्च दुश्च- रितं किंचिदिहान्यत्र च मे भवेत् । संजातं जातसंवेगस्तन्निन्दामि पुनः पुनः ॥ ९५५ ॥ सर्वोपाधिविशुद्धोऽहं, ममेयमधुना गतिः । साक्षात्केवलिनस्तत्त्वं, भगवन्तो विजानते ॥ ९५६ ॥ सर्वथा-भवप्रपञ्चविरतो, मोक्षकगतचेतसा । समर्पितो मयाऽऽत्मैष, जिनानां 'परिणाम - उपमि० भव. , जन्मनाशिनाम् ॥ ९५७ ॥ तत एव महात्मानः, सद्भावार्पितचेतसः । स्वशक्त्याशेषकर्माशच्छेदं कुर्वन्तु मेऽधुना ॥ ९५८ ॥ कल्याणयोगमहिमा-सम्पत्सम्पादको हि कल्याणमित्रयोगो जनको योग्यताया आकरोगुणरत्नानां सूचको भाविकल्याणपरंपरायाः अमृतयोग इव निर्घातकः कर्मविषघस्मरकस्य ।। भवाद्यवलोकना-निष्ठितनाटकप्रायोऽयं प्राणिनां भवप्रपञ्चोऽपरापरवेषकरणोपमानि शरीरग्रहणानि अन्योऽन्यस्थाननर्तनकल्पानि बहु- विधयोनिविशेषसञ्चरणानि नानाविधवासककुटीरकतुल्यानि विमानभवनालयादीनि कूटनटपेटकदेश्यानि बन्धुकुटुम्बकादीनि, एकोऽयं द्रव्य- मपेक्ष्य परमार्थेनात्मा कृत्रिमेयमस्य मनुष्यादिपर्यायेष्वपरापरनाममाला नेयमास्थास्थानं विवेकिनां लोकस्थितिकालपरिणतिकर्मपरिणामखभाव- भवितव्यतानिजभव्यतादिपरस्परंसव्यपेक्षकारणसमुदायजनितः समस्तोऽप्यस्य भवप्रपञ्चः तत्परिपाकलभ्यस्तु विच्छेदको प्रपञ्चस्यास्य परमे श्वरानुप्रहः, स हि कारणं विमलज्ञानस्य तद्बलादेवायमात्मा जानीते यदुत परमेश्वराज्ञीकरणाकरणजनिते मम सुखदुःखे भवमोक्षौ च लेश्या- विशोधनं तदाज्ञाकरणं लेश्यामालिन्यजननं तदाज्ञाविराधनं, ततः प्रवर्तते लेश्याविशोधकेषु सद्भूतगुणेषु निवर्तते लेश्यामालिन्यजनकेभ्यः समस्तदोषेभ्यः, ततोऽत्यन्तविशोधितां लेश्यामपि विहाय भवत्यलेश्यः ततः स्वरूपे स्थितः स एवात्मा संपद्यते परमेश्वरः परमात्मेति, । परमार्थः-भो भव्या इदं संसारिजीवचरितमनुभवागमसिद्धमवबुध्यध्वं अवबोधानुरूपं चाचरत विरहयत कषायान् स्थागयतास्रव- द्वाराणि निराकुरुतेन्द्रियगणं दुलयत सकलं . मनोमलजालं पोषयत सद्भूतगुणगणं मुञ्चतः भवप्रपञ्च यात तूर्ण शिवालय येन यूयमर्पि सुमतयो भव्यपुरुषा भवथ । ॥ ५३॥ k

No text on this page.

Shri Upamatigata Parinammal

Author
Not Available
Title
Shri Upamatigata Parinammal
File name
Shri Upamatigata Parinammal
Text
OCR done
Published
2010/02
Publisher
Jain Gyan Mandir Shanti Nagar, Sirohi
Language
Sanskrit
Pages
106
Library
Prakrit Bharati Academy, Jaipur
DLI number
322201
Barcode
99999990245039.00
Scanning centre
Banasthali University
Digital publisher
Digital Library of India
VMLT id
X3E9DvCz0jY
Download PDF

Shri Upamatigata Parinammal