Charan Sahitya Shodh Sansthan, Ajmer

Kavya Mala (vi)

Krishnath Pandurang Parab · 2010/05

PDF Proofread

Front matter

r Registered according to act IX:V of 1807.4..
(All rights reserved by the publishor.)
5

॥श्रीः ।, काव्यमाला नाम नानाविधप्राचीनकाव्यनाटकचम्पूभाणप्रहसन- च्छन्दोऽलंकारादिसाहित्यग्रन्थानां संग्रहः । द्वितीयो गुच्छकः। जयपुरमहाराजाश्रितेन पण्डितव्रजलालसूनुना पण्डित- दुर्गाप्रसादेन, मुम्बापुरवासिना परवोपाह- पाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधितः। सच वय्यां निर्णयसागराख्ययत्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतः। . १८८६. त्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा जावजी दादाजी इत्यस्यैवाधिकार. । मूल्यमेको रूप्यकः। - अनुक्रमणिका। पृष्ठम् । । ५५ .... .... .... १. शंकराचार्यकृतं विष्णुपादादिकशान्तवर्णनस्तोत्रम् (सटीकम्) १ २. गुमानिकविप्रणीतमुपदेशशतकम् २० ३. क्षेमेन्द्रकृतं सुवृत्ततिलकम् ..:... २९ ४. जगन्नाथपण्डितराजविरचिता करुणालहरिः ५. शंभुमहाकविविरचितान्योक्तिमुक्तालता *६. क्षेमेन्द्रकृतः सेव्यसेवकोपदेशः .७९ ७. विक्रमविरचितं नेमिदूतम् ८. जगन्नाथपण्डितराजविरचिता लक्ष्मीलहरिः १०४ ९. रुद्रकविकतो भावविलासः १०. क्षेमेन्द्रकृता चारुचर्या ११. मधुसूदनसरस्वतीविरचितानन्दमन्दाकिनी १२. शंकराचार्यकृतमम्बाष्टकम् (सटीकम्) १५४ १३. मुकुन्दमुक्तावलिः १५७ ८५ .... .... .... ... १११ ..... १२८ .... .... .... .

काव्यमाला। भगवत्पादश्रीशंकराचार्यकृतं विष्णुपादादिकेशान्तवर्णनस्तोत्रम् टिप्पणसहितम् । लक्ष्मीभर्तु जाग्रे कतवसति सितं यस्य रूपं विशालं नीलादेस्तुगशृङ्गस्थितमिव रजनीनाथविम्बं विभाति । पायान्नः पाञ्चजन्यः स सकुलदितिजत्रासनैः पूरयन्स्वै- निर्वानैर्नीरदोषध्वनिपरिभवदेरम्वरं कम्बुराजः ॥ १ ॥ स पाश्चजन्यो नाम कम्बुराज. शङ्खश्रेष्ठो नोऽस्मान्यायात् । किविशिष्टः । स्वनिर्धा- नैनितरां ध्वानरम्बरं नम पूरयन् । नीरदा मेघास्तेषामोघोऽविच्छिन्नस्तोमस्तस्य छ- नीना गर्जितशब्दानां परिभवमभिभव ददतीत्येवविधैरित्यर्थः । मेघौघशङ्खयोर्युगपद्धनतोः श्रुतिमतां शङ्खशब्द एव श्रुतिगोचरो न मेघौघशब्द इति मेघध्वनयः शङ्खध्वनिभिरभिभू. यन्त इत्युच्यते । एतेन विशेषणेन निर्धारित्यत्र निरुपसर्गद्योतितोऽतिशय साधितः । कुलैः सह वर्तमाना. सकुलास्ते च ते दितिजा दैत्यास्तास्त्रासयन्तीति तैः । यस्य कम्बुरा- जस्य रूप लक्ष्मीमतुः श्रीकान्तस्य भुजाने । वामोलकर इति यावत् । कृता वसतियेन रूपेण तत् । सितं शुभ्रम् । विशाल महत् । उत्प्रेक्षते-नीलादिरिन्द्रनीलमणिपर्वतस्तस्य यत्तुगमुनत भृङ्ग शिखर तत्र स्थितं रजनीनाथस्य चन्द्रमसो बिम्ब मण्डलमित्र । इन्द्र- नीलगिरिरिव भगवन्मूर्तिस्तच्छृङ्गवत्करस्तत्रस्थचन्द्रमण्डलवच्छड्स इति योज्यम् ॥ आहुर्यस्य स्वरूपं क्षणमुखमखिलं सूरयः कालमेतं ध्वान्तस्यैकान्तमन्तं यदपि च परमं सर्वधाम्नां च धाम । १. बहवो अन्याः स्तोत्राणि च शंकराचार्यकृतिलेन प्रसिद्धानि समुपलभ्यते. तानि सर्वाण्यपि प्रधानशंकराचार्यकृतानीति न मन्तव्यम्, किंतु तसिहासनाधिरूढेरधुनापि शकराचार्यपदप्रसिद्धस्तच्छिष्यप्रशिष्यैरपि बहूनि विरचितानीति ज्ञेयम्, एतद्विष्णुपा- दादिकेशान्तवर्णनस्तोत्रं तु प्रधानशंकराचार्यकृतमेव भाति, यतो माधवीयशकरविजये चतुर्दशे सर्गे 'मुमूर्षुस्वजननीप्रेरणया शकराचार्यैर्विष्णुस्वरूपवर्णनमकारि' इत्यादिका क- था वर्तते. सा च विष्णुस्तुतिरियमेवेति वहूनां मतम् . प्रधानशकराचार्यास्तु खिस्त- संवत्सरीयाष्टमशतकसमाप्तौ प्रादुर्घभवुरिन्यार्यविद्यासुधाकरधृतशकरमन्दारसौरभादिवच- नेभ्योऽवसीयते. षष्ठशतकोत्तरमागे सप्तमशतकपूर्वभागे वा शंकराचार्यस्थितिरासीदिति नव्यविदुषां मतम्. एतदेव युक्तियुक्त प्रतीयते.

काव्यमाला । चक्रं तचक्रपाणेदितिजतनुगलद्रक्तधाराकधारं शश्वन्नो विश्ववन्द्यं वितरतु विपुलं शर्म धर्माशुशोभम् ॥ २ ॥ चक्रपाणेर्नारायणस्य तच्चक्र दक्षिणोर्ध्वकरस्थितं नोऽस्माक विपुल शर्म सुख वित- रतु । किविशिष्टम् । विश्ववन्यम् । पुनः किंविशिष्टम् । युद्धावसरे दितिजाना त- नुभ्यो विदारिताभ्यो या गलन्त्यो रक्तधारास्ताभिरक्ता लिप्ता धारा नेम्यन यस्य तत् । सूरयो विद्वांसः क्षणमुखं क्षणलवत्रुटिप्रभृतिकमखिल सवत्सरान्तमेत सर्वे कालं यस्य चक्रस्य स्वरूपमाहुस्तच्चक्रमिति संपन्धः । अपि च । यच्चक्र ध्वान्तस्यैकान्तमव्यभिचा- यन्तमन्तकर सूरय आहुः । अन्तयति नाशयतीत्यन्तम् । सर्वेषां धाना तेजसा चापि परम निरतिशयं धामाश्रयीभूतम् । धर्माशोः सूर्यस्येव शोभा यस्य । सूर्येऽपि कालात्म- फत्वं निरतिशयतेजोमयत्व निःशेषतमोनाशकत्व विश्ववन्धत्व च सर्वागमप्रसिद्धमेव ।। अव्यान्निर्घातघोरो हरिभुजपवनामर्शनाध्मातमूर्ते- रस्मान्विस्मेरनेत्रत्रिदशनुतिवचःसाधुकारैः सुतारः । सर्व संहर्तुमिच्छोररिकुलभुवनं स्फारविस्फारनादः संयत्कल्पान्तसिन्धौ शरसलिलघटावार्मुचः कार्मुकस्य ॥ ३ ॥ फार्मुकस्य धनुषः स्फारविस्फारनादोऽस्मानच्यात् । स्फारः प्रवलोऽतिशयितो वा विस्फारनादो धनुपघोपः । 'विस्फारो धनुपः स्वान.' इत्यमरः । ज्याकर्षणविशेषजो ध्व.. निरित्यथैः । किविशिष्टः । निर्घातोऽशनिपातशब्दस्तद्वदोरो दु.सहः । पुन किंविशिष्टः । किमिदमित्यकस्माद्विस्मेराणि विकसितानि नेत्राणि येषा ते च ते त्रिदशास्तेषां नुतिवच:- साधुकारैविस्मितर्देवकृतैः 'जय जय, रक्ष रक्ष' इत्यादिस्तुतिवचनसत्कारैमिश्रितः सन्सुतारः सुतरामुच्चः । हरेर्नारायणस्य भुजः कर एव पवनस्तेनामर्शन यदीपदाकर्षणं तेनाध्मातोपचिता मूर्तिर्यस्य । सर्वमशेषमरिकुलभुवन शत्रुसमूह एव भुवनं जगत्संहर्तु नाशयितुमिच्छोः । सयत्साम एव कल्पान्तसिन्धु. प्रलयकालीनसमुद्रस्तस्मिन् । शरा एव सलिलानि तेषां घटा धारा' । अनवच्छिन्नपरम्परा शरवृष्टिरिति यावत् । तस्या वार्मुक् मेघस्तस्य । अत्र वार्मुक्शब्दो मेघे रूढ एव ग्राह्यः, सलिलशब्देन पौनरुक्त्या- पातात् । यथा प्रलयकालीनो मेघः पवनामर्शनाध्मातमूर्तिः सर्वजगत्संहारेच्छु: सर्वसहार- कालयसिन्धुपूरणाय सलिलघटां मुश्चति तद्वद्धनुरपि ॥ जीमूतश्यामभासा मुहुरपि भगवद्वाहुना मोहयन्ती युद्धेपूडूयमाना झटिति तडिदिवालक्ष्यते यस्य मूर्तिः । सोऽसिस्त्रासोकुलाक्षत्रिदशरिपुवपुःशोणितास्वाददृप्तो नित्यानन्दाय भूयान्मधुमथनमनोनन्दको नन्दको नः ॥ ४ ॥ सोऽसिः खनो नन्दको नन्दकनामा नोऽस्माक नित्यानन्दाय भूयात् । किंलक्षण. । - - ।

. ३ विष्णुपादादिकेशान्तवर्णनस्तोत्रम् । त्रासेनाकुलान्यक्षाणीन्द्रियाणि येषां ते च ते त्रिदशरिपवस्तेषां क्यूंषि तेषु शोणितं रु- घिरं तस्यास्वाद. पान तेन दृप्तो दाविष्टः । मधुमयनो मधुसूदनस्तस्य मनो नन्दयतीति नन्दनः । यस्य मूर्तियुद्धेषु झटिति शीघ्रं तडिदिव चपलगतिरालक्ष्यते । किलक्षणा मूर्ति । जीमूतश्यामभासा भगवतो पाहुना मुहुरुद्भयमाना कम्प्यमाना । अपिशब्दान्मे- घान्तस्तडिदिव दैत्यदेहेषु प्रविश्यमानेति । अत एव मोहयन्ती । दैत्यानिति शेष । अत्रा- नुक्तमपि चर्म खड्गसहचर बोद्धव्यम्, अष्टायुधसहिताष्टबाहुयुक्तभगवन्मूर्तेः पुराणेषु प्रसिद्धत्वात् ॥ कम्राकारा मुरारेः करकमलतलेनानुरागागृहीता सम्यग्वृत्ता स्थिताग्रे सपदि न सहते दर्शनं या परेषाम् । राजन्ती दैत्यजीवासवमदमुदिता लोहितालेपनार्दा कामं दीप्तांशुकान्ता प्रदिशतु दयितेवास्य कौमोदकी नः ॥ ५॥ एवविशिष्टा सा कौमोदकी भगवद्गदा नोऽस्मभ्य काममभीष्ट प्रदिशतु । किंलक्षणा। कम्रो मनोहर आकारो यस्या सा । तथा मुरारे. करकमलतलेनानुरागाद्गृहीता । नि- मित्तार्या पश्चमी । सम्यग्वृत्ता वर्तुला । अग्रे भगवत्पुरतः स्थिता । परेषा शत्रूणां दर्शन न सहते । सपदि सहसैव तानिर्भसंयतीति शेषः । यद्वा सपदि कदापि परेषा दर्शन न सहते । राजन्ती शोभमाना । दैत्याना जीवो जीवन स एवासवो मय तदास्वादकृत- मदेन हर्षेण मुदिता । तथा दैत्यदेहस्थलोहितकृतालेपनेनागरागेणाी क्लिना । तथा दीप्तैरशुभिः किरणैः कान्ता कमनीया । अस्य भगवतो दयितेव । कथ तदुच्यते-- अनुरागाद्गृहीतेत्यन्त यथाव्याख्यातमेव । वृत्तं चारित्रम् । परेण परपुरुषाणाम् । लोहि- तचन्दनलेपनेनाः । दीप्त उज्ज्वलोंऽशुकस्य वस्त्रस्यान्तोऽग्रभागो यस्या. सा॥ यो विश्वप्राणभूतस्तनुरपि च हरेर्यानकेतुस्वरूपो यं संचिन्त्यैव सद्यः स्वयमुरगवधूवर्गगर्माः पतन्ति । चञ्चच्चण्डोरुतुण्डत्रुटितफणिवसारक्तपत्राङ्कितास्यं वन्दे छन्दोमयं त खगपतिममलस्वर्णवर्ण सुपर्णम् ॥ ६॥ त सुपर्ण गरुडं वन्दे । किंलक्षणम् । अमलं यत्स्वर्ण सुवर्ण तस्य वर्ण इव वर्णो यस्य । खगा. पक्षिणस्तेषां पतिस्तम् । चञ्चद्देदीप्यमान चण्डमतिकोपनमुरु महन्द यतुण्ड मुखं तेन त्रुटिताश्छिन्ना ये फणिनस्तेषां वसा रक्त च तयोः पङ्कः कर्दमस्तेना. द्वितं लिप्तमास्यं मुख यस्य । पुनः किंविशिष्टम् । छन्दोमयम् । यो विश्वप्राणभूत । सर्वप्राणेभ्यो भूत उद्भूतः । एकीभूतसकलपाणिवलमूर्तिरित्यर्थः । अपि च हरेस्तनुर्मर्त्य- ताम नशा नम्व यानकेतस्वरूप. वानरूपणे ध्वजरूपश्चयर्थः । यसचिन्त्यैव.

काव्यमाला। विष्णोविश्वेश्वरस्य प्रवरशयनकृत्सर्वलोकैकधर्ता सोऽनन्तः सर्वभूतः पृथुविमलयशाः सर्ववेदैश्च वेद्यः । पाता विश्वस्य शश्वत्सकलसुररिपुध्वंसनः पापहन्ता सर्वज्ञः सर्वसाक्षी सकलविषभयात्पातु भोगीश्वरो नः ॥ ७ ॥ सोऽनन्तोऽनन्तनामा भोगीश्वरो नागकुलपतिनोंऽस्मान्सकलविषमयात्पातु । विश्वे- श्वरस्य विष्णोः प्रवरं श्रेष्ठं यच्छयन शय्या तत्करोतीति । अत एव सर्वलोकैकधर्ता । स्वान्त.स्थितसकलजगतः परमात्मनो धारयितेत्यर्थः । सृष्टिकाले सर्वभूतमुत्पन्नमस्मा- दिति सर्वभूतः । अत एव पृथु महद्विमल पावयित यशो यस्य । सर्ववेदैः । वेद इत्युप- लक्षणम् । इतिहासपुराणादिभिरपि वेद्य इत्यर्थः । जगत्स्थितिकाले विश्वस्य पाता पाल- यिता । शश्वत्सदा । सकलसुररिपुध्वसनः । अखिलधर्मप्रतिपक्षध्वसन इत्यर्थः । नति- नुतिस्मरणादिभिः सर्वजनानां पापहन्ता । सर्वज्ञः । सर्वसाक्षी । अनन्तस्य विष्णोरव- तारत्वेन वणितत्वात्सर्वाणि विशेषणानि युक्तानि ।। वाग्भूगौर्यादिभेदैविदुरिह मुनयो यां यदीयैश्च पुंसां कारुण्याः कटाक्षः सहदपि पतितैः संपदः स्युः समग्राः । कुन्देन्दुखच्छमन्दस्मितमधुरमुखाम्भोरुहां सुन्दरागी वन्दे वन्द्यामशेषैरपि मुरभिदुरोमन्दिरामिन्दिरां ताम् ॥ ८ ॥ तामिन्दिरां लक्ष्मी वन्दे । किंलक्षणाम् । मुरभिदौ नारायणस्योरो वक्षो मन्दिरं गृह यस्याः । अशेषैः समस्तैर्वन्द्या । सुन्दराण्यङ्गानि यस्या. । कुन्दः कुसुमविशेषः, इन्दुश्चन्द्रः । कुन्देन्दू इव स्वच्छ शुभ्र मन्दमल्प च तस्मित तेन मधुरं मनोहरं मुखा- म्भोरुह यस्याः । यां मुनयो व्यासादयो वाक्सरस्वती, भूधरित्री, गौरी पार्वती । आ- दिपदाद्विद्यादीनां ग्रहणम् । तै दैविदुः । पुनः किंलक्षणाम् । यदीयैः कारुण्याः कृपा- परवशैः कटाक्षैः सकृदेकवारमपि पतितैः पुसां समग्रा. सपूर्णाः सपदः स्युः । ताम् ॥ या सूते सत्वजालं सकलमपि सदा संनिधानेन पुंसो धत्ते या सत्त्वयोगाच्चरमचरमिदं भूतये भूतजातम् । धात्री स्थात्री जनित्री प्रकृतिमविकृति विश्वशक्ति विधात्री विष्णोविश्वात्मनस्तां विपुलगुणमयी प्राणनाथां प्रणौमि ॥ ९ ॥ विश्वात्मनो विष्णोः प्राणनाथां प्रकृति तां प्रणौमि प्रकर्षेण स्तौमि । विश्वस्यात्मा सस्य । विश्वाधिष्ठानस्येत्यर्थः । प्राणनाथां प्राणप्रियाम् । भार्यामिति यावत् । प्रक्रियते प्रसूयते सर्वमस्या इति प्रकृति निमतामुपादानम् । किंलक्षणाम् । विकृतिर्विकारः । न विकृतिरविकृतिस्ताम् । अनादिमित्यर्थः । विश्वस्मिन्प्रपञ्चे शक्तिरुत्पादनसामर्थ्य यस्या.। ।

विष्णुपादादिकेशान्तवर्णनस्तोत्रम् । विधात्रीम् । स्थात्री स्थिरस्वभावाम् । जनित्रीमपूर्वाकारोत्पादयित्रीम् । विपुला विस्तीर्णा गुणाः सत्त्वादयस्तन्मयीं तत्स्वरूपाम् । लोहितशुक्लकृष्णमयीमिति वा । या पुसः सर्वा- धिष्ठानस्य विष्णो. सनिधानेन सनिधिसत्तामात्रेण सत्त्वजाल प्राणिसमूह सदा सूते जन- यति । सकलमित्यनेन न केवल भूमिगतानामेव प्रसवित्री, अपि तु देवादीनामपीति गम्यते । पुनः, या पुस- सत्त्वयोगात्सत्तासंबन्धादिदं प्रत्यक्षादिसनिधापितं चरं जग- ममचर स्थावरं च भूतजात भूतये विभूत्यर्थम् । प्राणिविस्तारार्थमिति यावत् । थत्ते वित्ति ॥ येभ्योऽस्यद्भिरुचैः सपदि पदमुरु त्यज्यते दैत्यवर्ग- येभ्यो धर्तुं च मूर्धा स्टहयति सततं सर्वगीर्वाणवर्गः । नित्यं निर्मूलयेयुनिचिततरममी भक्तिनिघ्नात्मनां नः पद्माक्षस्याभिपद्मद्वयतलनिलयाः पांसवः पापपङ्कम् ॥ १० ॥ अमी पद्माक्षस्य पुण्डरीकाक्षस्य हरेरविपद्मद्वयस्य तलमधोभागस्तनिलयः स्थान येषां ते पांसवो रेणवो नोऽस्माक पापपई दुरितकर्दम नित्यं निर्मूलयेयु. । नित्यमिति पापपङ्कविशेषणम् । नितरां चित निचितमुपर्युपरि संचितम्, तत्राप्यतिशयेन निचितं निचिततरम् । पूर्वपूर्वचितमनुत्सायैव पुन.पुनरुपर्युपरि चितमित्यर्थः । कथभूतानां नः । भक्तिनिघ्नात्मनां भक्त्यधीनचित्तानाम् । येभ्य. पादतलपासुभ्योऽसूयद्भिः । यान्द्रुह्य- द्भिरित्यर्थः । दैत्यवगैरसुरकुलैः । उच्चैरुनतः । आक्रान्तदेवकुलैरिति यावत् । उरु बढ्दै- श्वर्ययुक्तमपि पद स्वस्थान सपदि तत्क्षणमेव त्यज्यत उत्सृज्यते । पुन किंभूतानाम् । सर्वगीर्वाणवर्ग. सतत मूर्धा धर्तुमुद्रोढ येभ्य. स्पृहयति । यान्धर्तु वाञ्छतीत्यर्थः ॥ रेखा लेखाभिवन्द्याश्चरणतलगताश्चक्रमत्स्यादिरूपाः स्निग्धाः सूक्ष्माः सुजाता मृदुललिततरक्षौमसूत्रायमाणाः । दानों मङ्गलानि भ्रमरभरजुषा कोमलेनाधिजायाः कम्रेणानेज्यमानाः किसलयमृदुना पाणिना चक्रपाणेः ॥ ११ ॥ चक्रपाणेर्नारायणस्य चरणतलगताश्चक्रमत्स्यादिरूपा रेखा नोऽस्मभ्य महलानि दद्युः। किंविशिष्टः । लेखा देवास्तैर्वन्द्या वन्दनार्हाः । स्निग्धा अरूक्षाः । सूक्ष्माः कृशा. । सुजाता. । स्वाश्रयसमतलत्वाविरोधिन्य इत्यर्थ । मृनि श्लक्ष्णानि च तानि ललिततरा- ण्यतिशयमनोहराणि च यानि क्षौमसूत्राणि तद्वदाचरन्तीति ताः । अधिजाया लक्ष्म्याः पाणिनानेज्यमाना. पुन पुनरामृज्यमानाः । कथभूतेन पाणिना । किसलयमृदुना । कम्रेण कमनीयेन । भ्रमन्ति रुवन्ति वेति व्युत्पत्या सशब्द भ्रममाणानि प्रकोष्ठनिष्ठ- करभूषणानि भ्रमराणि तेषां भरः स्तोमस्तं जुषते तेन । कोमलेन लक्ष्णेन ।।

kur काव्यमाला। . यस्मादाक्रामतो द्यां गरुडमणिशिलाकेतुदण्डायमाना- दाभ्योतन्ती बमासे सुरसरिदमला वैजयन्तीव कान्ता । भूमिष्ठो यस्तथान्यो भुवनगृहबृहत्स्तम्भशोभां दधानः पातामेतौ पयोजोदरदलिततलौ पङ्कजाक्षस्य पादौ ॥ १२ ॥ यस्मात्पादादाश्चयोतन्त्यापतन्ती सुरसरिद्गगा । अमला निर्मलोदका कान्ता मनो- हरा वैजयन्ती पताकव बभासे । किंलक्षणात् । द्यामाक्रामतः। अण्डकपालस्फुटनप- र्यन्तं दीर्घाकृतादित्यर्थः । गरुडमणिमरकतमणिस्तन्मयी या शिला तद्रूपो यः केतुदण्डः पताकाश्रयभूता यष्टिस्तद्वदाचरतीति तस्मात् । एव वामपादं वर्णयित्वा दक्षिण वर्णयति- तथान्यो दक्षिणः पादो भूमिष्ठः । भुवन त्रैलोक्यं तदेव गृहं तस्मिन्बृहन्महान्यः स्तम्म- स्तस्य शोभां दधानः । त्रैलोक्यभवनोत्तम्भनस्तम्भ इव स्थित इत्यर्थः । यावेवविधी पङ्कजाक्षस्य हरेः पादौ तावेतौ पातां पालयेताम् । अस्मानिति शेषः । पयोज कमल तस्योदरं मध्यं तद्दलितं पराभूत याभ्यां तादृशे तले ययोस्तौ । पयोजोदरादपि सुकुमा- रतलावित्यर्थः ।। आक्रामद्भयां त्रिलोकीममुरसुरपती तत्क्षणादेव नीती याभ्यां वैरोचनीन्द्रौ युगपदपि विपत्संपदोरेकधाम । ताभ्यां तानोदराभ्यां मुहुरहमजितस्याञ्चिताभ्यामुभाभ्यां प्राज्यैश्वर्यप्रदाभ्यां प्रणतिमुपगतः पादपकरुहाभ्याम् ॥ १३ ॥ तत्क्षणादेव यस्मिन्क्षणे बलिदैत्यदत्तोदकं हस्ते पतित तदेव त्रिलोकीमाक्रामद्भया याभ्यामसुरसुरपती वैरोचनीन्द्रौ पलिशको युगपत्समकालमेव क्रमेण विपत्सपदोरैश्वर्य- भ्रशतत्सपत्त्योरेकधाम मुख्य स्थानं नीतौ प्रापितौ । विरोचनापत्यं बलिविपद्धामत्वम्, इन्द्रश्च सपद्धामत्व नीत इत्यर्थः । अपिशब्दो विरोधद्योतकः । एकस्यामाक्रमणक्रियायां विरुद्धोभयकार्ययोगो विरोधः । याभ्यामेव कृतं ताभ्यामुभाभ्यामजितस्य विष्णो. पाद- पड्केरुहाभ्यामहं मुहुः शश्वत्प्रणति नम्रतामुपगतः । ताम्रेत्यादीनि पादविशेषणानि । ताने आरक्ते उदरे अधस्तले ययोः । अचिताभ्यां पूजिताभ्याम् । ब्रह्मादिभिरिति शेषः । प्राज्यमधिकमैश्वर्य भक्तेभ्य. प्रददत इति ताभ्याम् ॥ येभ्यो वर्णश्चतुर्थश्चरमत उदभूदादिसर्गे प्रजानां साहस्त्री चापि संख्या प्रकटमभिहिता सर्ववेदेषु येपाम् । व्याप्ता विश्वंभरा यैरतिवितततनोविश्वमूर्विराजो विष्णोस्तेभ्यो महद्भयः सततमपि नमोऽस्त्वभिपङ्केरुहेभ्यः॥१४॥ विश्वमूर्विराजो विराड्पस्य विष्णोस्तेभ्योऽप्यविपकेरुहेभ्यः सतत सर्वदा नमोऽस्तु । - ७ । विष्णुपादादिकेशान्तवर्णनस्तोत्रम् । अतिवितततनोरपरिच्छिन्नदेहस्य । किंलक्षणेभ्यः । महद्भयः। येभ्य. सकाशात्प्रजानामा- दिसर्गे चतुर्थो वर्णः शूद्राख्यश्चरमतो वर्णत्रयोत्पत्त्यनन्तरमुदभूत् । अपि च येषामङ्घ्रिप- केरुहाणां साहस्री सख्या प्रकटं स्फुट सर्ववेदेष्वभिहिता । 'सहस्राक्ष. सहस्रपात्' इत्या- येत्यर्थः । यैर्विश्वंभरा पृथिवी व्याप्ता पूर्णा ॥ विष्णोः पादद्वयाग्रे विमलनखमणिभ्राजिता राजते या राजीवस्येव रम्या हिमजलकणिकालंकृताग्रा दलाली। अस्माकं विस्मयाण्यिखिलमुनिजनप्रार्थनीयानि सेयं दद्यादाद्यानवद्या ततिरतिरुचिरा मङ्गलान्यङ्गुलीनाम् ॥ १५ ॥ . सेयं विष्णोरगुलीनां ततिः पतिरस्माकं मगलानि दद्यात् । किंभूता । आदौ भवाद्या पूर्वसिद्धा । भक्तानामखिलाभीष्टकारणभूतेत्यर्थः । अनवद्या निर्मला । अम्लानेत्यर्थः । अतिरुचिरा । या पादद्वयाने विमला निर्मला ये नखमणयस्तै जिता सती राजते । राजीवस्य कमलस्य दलाली दलपतिरिव । किंलक्षणा दलाली । रम्या । हिमजलानां कणिकाभिर्विन्दुभिरलकृतान्यप्राणि यस्याः सा । किंलक्षणानि मङ्गलानि । विस्मयाही- ण्याश्चर्ययोग्यानि । अदृष्टपूर्वाणीति यावत् । तथाखिलमुनिजनप्रार्थनीयानि ।। यस्यां दृष्ट्वामलायां प्रतिकृतिममराः खां भवन्त्यानमन्तः सेन्द्राः सान्द्रीकृताः स्वपरसुरकुलाशङ्कयातङ्कवन्तः । सा सद्यः सातिरेका सकलसुखकरी संपदं साधयेन्न- श्चश्चञ्चाशुचक्रा चरणनलिनयोश्चक्रपाणेर्नखाली ॥१६॥ • सा चक्रपाणेश्वरणनलिनयोर्नखाली नोऽस्माक संपद सद्य साधयेत् । सफलान्य- हिकामुष्मिकाणि सुखानि करोति ताम् । सातिरेकामधिकाम् । किंलक्षणा नखाली। चश्चन्तः प्रसरन्तश्चारवो येऽशवस्तेषा चक्र समूहो यस्या. । यस्या नखाल्याममलायां सेन्द्रा अमरा आनमन्तः सन्तः स्वां प्रतिकृति प्रतिविम्ब दृष्ट्वा स्वपरसुरकुलाशङ्कया स्वप्रतिपक्षदेवसमूहभ्रान्त्या सान्द्रीकृतेा अतिशयेायुक्ता आतङ्कवन्तः शङ्कानिमित्त- कभययुक्ताश्च भवन्ति। पादाम्भोजन्मसेवासमवनतसुरवातभास्वत्किरीट- प्रत्युत्तोच्चावचाश्मप्रवरकरगणैश्चित्रितं यद्विभाति । नम्राङ्गाणां हरेनों हरिदुपलमहाकूर्मसौन्दर्यहारि- च्छायं श्रेयःप्रदायि प्रपदयुगमिदं प्रापयेत्पापमन्तम् ॥ १७ ॥ हरेरिद प्रपदयुग पादानद्वन्द्वं नोऽस्माक पापमन्तं नाशं प्रापयेत् । कथभूतानां न । नम्राहाणाम् । साष्टाङ्ग प्रणामं कुर्वतामित्यर्थः । किंलक्षण प्रपदयुगम् । हरिदुपलो हरित- ८ काव्यमाला। - A वर्गों मणिविशेषस्तनिर्मितो यो महाकूर्मस्तस्य सौन्दर्य लावण्यं हरतीत्येवंविधा छाया कान्तिर्यस्य तत् । तथा श्रेय.प्रदायि । पादावेवाम्मोजन्मनी कमले तयो सेवा तस्या समवनता ये सुरास्तेषां यो व्रातः समूहस्तस्मिन्यानि भास्वन्ति किरीटानि तेषु प्रत्युप्ता निखाता य उच्चावचा नानाविधा अश्मप्रवरा मणिश्रेष्ठास्तेषां करा रदमयस्तेषां गणे: समूहैश्चित्रित कथुरितं यद्विभाति ।। श्रीमत्यौ चारुदत्ते करपरिमलनानन्ददृष्टे रमायाः सौन्दर्याव्येन्द्रनीलोपलरचितमहादण्डयोः कान्तिचौरे । सूरीन्द्रैः स्तूयमाने सुरकुलसुखदे सूदितारातिसंघ जडे नारायणीये मुहुरपि जयतामस्मदहो हरन्त्यौ ॥ १८ ॥ नारायणस्येमे जड़े मुहुः शश्वदस्मदंहः पापं हरन्त्यो सत्यौ जयताम् । श्रीमत्यौ शो- भावत्यौ । चारु सुन्दर यथा स्यात्तथा वृत्ते वर्तुले । रमाया लक्ष्म्याः करयोः परिमलनेन य आनन्दस्तेन हृष्टे पुलकिते । सौन्दर्येण लावण्येनाढ्यो य इन्द्रनीलोपलस्तेन रचितौ यौ महादण्डौ तयोः कान्तिचौरे । सूरीन्द्रविद्वच्छ्रेठ्ठः स्तूयमाने वर्ण्यमाने । सुरकुलस्य सुखदे । यस्मात्सदितारातिसघे हतदेवशत्रुकुले ।। सम्यक्साह्यं विधातुं सममपि सततं जड़योः.खिन्नयोय भारीभूतोरुदण्डद्वयभरणकतोत्तम्भभावं भजेते । चित्तादर्श निधातुं महितमिव सतां ते समुदायमाने वृत्ताकारे विधत्तां हृदि मुदमजितस्यानिशं जानुनी नः ॥ १९ ॥ अजितस्य हरेस्ते जानुनी नोऽस्माकं चित्ते मुदमनिशं विधत्ताम् । वृत्ताकारे मण्ड- लवत्समवर्तुलाकारे । सतां भक्तानां चित्तादर्श मनोदर्पणं निधातुं समुदायमान आद- कोषायमाणे इव । महितं निर्मलीकृत चित्तादर्शम् । ये खिनयोर्जयोः सम्यगौचित्येन साह्य सहत्वम् । उपकारमिति यावत् । सम युगपदेव भारीभूतस्योरुदण्डद्वयस्य यद्भरण धारणं तस्मिन्कृत उत्तम्भभावोऽवष्टम्भत्व तद्भजेते । अपिशब्दः संभावनायाम् ॥ . देवो भीति विधातुः सपदि विदधतौ कैटभाख्यं मधुं या- वारोप्यारूढगर्वावधिजलधि ययोरेव दैत्यौ जघान । वृत्तावन्योन्यतुल्यौ चतुरमुपचयं विभ्रतावभ्रनीला- वूरू चारू हरेस्तौ मुदमतिशयिनी मानसे नो विधत्ताम् ॥ २० ॥ हरेस्तावूरू नोऽस्माक मानसेऽतिशयिनी मुद विधत्ताम् । चारू मनोहरौ । वृत्ती वर्तुलौ । अन्योन्यं परस्परं तुल्यौ समौ । चतुर यथा स्यात्तथोपचयं पुष्टिं बिभ्रतौ । करिकरसदृशाकारावित्यर्थः।अभ्रनीली सजलजलदेवच्छयामौ ।तौ कौ।ययोरिति सप्तमी. ।

विष्णुपादादिकेशान्तवर्णनस्तोत्रम् । द्विवचनम् । देवी विष्णुर्ययोरूबौदैत्यं कैटभाख्यं मधु चारोप्य जघानव । कथंभूती । विधातुब्रह्मणः सपदि स्वोत्पत्तिमात्रेण भीति विदधतौ । आरूढगर्छ । कुत्र जघान । अधिजलधि समुद्रे ॥ पीतेन द्योतते यच्चतुरपरिहिते नाम्बरेणात्युदारं जातालंकारयोगं जलमिव जलधेर्वाडवाग्निप्रभाभिः । एतत्पातित्यदान्नो जघनमतिघनादेनसो माननीयं सातत्येनैव चेतोविषयमवतरत्पातु पीताम्बरस्य ॥ २१ ॥ पीताम्बरस्य विष्णोरेतयाख्यास्यमानविशेषण जघन सातत्येन चेतोविषयमवतरन्मनो- वृत्तिसमारूढं सत् । एनस• पापानोऽस्मान्पातु । कथभूतादेनस. । अतिघनात् । अनेकजन्माभ्याससचितादित्यर्थः । अत एव पातित्यदात् । किलक्षण जघनम् । माननीय मानार्हम् । चतुरैरलंकरणकर्मकुशलैर्भक्तैश्चतुर यया स्यात्तथेति वा परिहितेनासञ्जितेन पीतेन सुवर्णाभेनाम्बरेण वस्त्रेण जातालकारयोग सदत्युदार यथा स्यात्तथा द्योतते प्रका- शते तदेतत् । वाडवामिप्रभामिर्जलधेर्जलमिव ।। यस्या दाभ्या त्रिधाम्नो जघनकलितया भ्राजतेऽङ्ग यथाव्धे- मध्यस्थो मन्दराद्रि नगपतिमहाभोगसंनद्धमध्यः । काञ्ची सा काश्चनामा मणिवरकिरणैरुल्लसद्भिः प्रदीप्ता कल्यां कल्याणदात्री मम मतिमनिशं कम्ररूपा करोतु ॥ २२ ॥ त्रिधाम्रो भगवतोऽहं यस्याः काया दाभ्या रशनया तस्यैव जघनकलितया नितम्ब- निबद्धया भ्राजते सा काची मम मतिमनिश सर्वदा कल्यां समर्थी कल्याणदात्री मह- लकरी करोतु । अब्धेः क्षीरसमुद्रस्य मध्ये स्थितो मन्दरादिर्भुजगपतेर्वासुकर्महाभोगेन पृथुदीर्घेण कायेन संनद्धं परिवेष्टितं मध्य यस्यैवविधो यथाभ्राजीत्तथा भ्राजते । किल- क्षणा काची । काश्चनाभा सुवर्णराजिकृतशोभा । मणिवराणां वादीना किरणैरुल- सद्भिः प्रदीप्ता प्रकाशिता । अत एव कम्ररूपा कमनीयाकारा । पीताम्बरं हि तर- हितसमुद्रजलवत्, तदन्तराले भगवन्मूर्तिमन्दराचलवत्, तत्परिवेष्टन काश्चीदानी वासुकिशरीरवत्, इति योज्यम् ॥ उन्ननं कम्रमुच्चैरुपचितमुदभूद्यत्र पत्रैविचित्रैः पूर्व गीर्वाणपूज्यं कमलजमधुपस्यास्पदं तत्पयोजम् । तस्मिन्नीलाश्मनीलैस्तरलरुचिनलैः पूरिते केलिवुद्धया नालीकाक्षस्य नाभीसरसि वसतु नश्चित्तहंसश्चिराय ॥ २३ ॥ यत्र यस्मिन्नाभीसरसि तत्पयो कमलं पूर्व सृष्टिकाल उदभूत्तस्मिनालीकाक्षस्य २ १० काव्यमाला। कमलनयनस्य भगवतो नाभीसरसि सरोवद्गम्भीरवर्तुले नाभिमण्डले नौऽस्माकं चित्त. हंसश्चिराय दीर्घकाल केलिबुद्वया रमणेच्छया वसतु । कथंभूते नाभीसरसि । नी- लाश्मनीलैरिन्द्रनीलमणिवनीलवर्णैस्तरलैश्चञ्चलै रुचिजलैदेहप्रभाकान्तिपूरैः पूरिते। किं- लक्षणं पयोजम् । उनम्रमुन्नतम् । कम्र मनोहरम् । विचित्रैन नावणैः पत्रैरुच्चैरति- शयेनोपचितम् । तथा गीर्वाणानां देवानां पूज्यम् । तथा कमलजो ब्रह्मा स एव मधुपो भ्रमरस्तस्यास्पद स्थानम् ।। पातालं यस्य नालं वलयमपि-दिशां पत्रपति नगेन्द्रा- विद्वांसः केसरीलीविदुरिह विपुलां कर्णिकां स्वर्णशैलम् | भूयाद्गायत्स्वयंभूमधुकरभवनं भूमयं कामदं नो नालीकं नाभिपद्माकरभवमुरु तन्नागशय्यस्य शौरेः ॥ २४ ॥ नागः शेषाख्यः शय्या यस्य तस्य शौरविष्णोन मिरव पद्माकरः सरस्तत्र भवतीति तथाविधमुरु बृहनालीकं कमलं नोऽस्माकं कामद भूयात् । गायन्वेदान्पठन्स्वयंभूब्रह्मा स एव मधुकरस्तस्य भवनं गृहम् । तथा भूमयं पृथ्वीस्वरूपम् । किं तत् । विद्वांसो वि. दितसकलवेद्या यस्य नाल पातालमाहुः । तथा यस्य पत्रपह्नि दिशां वलयं मण्डलमाहुः। तथा नगेन्द्रान्हिमवदादीन्यस्य केसरालीविदुः । तथा स्वर्णशैल मेरु यस्य विपुलां क- णिकां विदुः । तत् ॥ कान्त्यम्भःपूरपूर्णे लसदसितबलीभङ्गभास्वत्तरङ्गे गम्भीराकारनाभीचतुरतरमहावर्तशोभिन्युदारे । क्रीडत्वानहहेमोदरनविनमहावाडवाग्निप्रभाव्ये काम दामोदरीयोदरसलिलनिधौ चित्तमत्स्यश्चिरं नः ।। २५ ॥ दामोदरस्य भगवत उदरसलिलनिधी । 'कुक्षौ समुद्राश्चत्वारः' इत्युक्तत्वात् । नो. ऽस्माकं चित्तमत्स्यः काम यथेष्ट क्रीडतु । उदरसलिलनिधिविशेषणानि । कान्तिदेह- दीप्तिः सैवाम्भ उदकं तस्य पूरः प्रवाहासर्पणं तेन पूर्णे । तया लसन्तः शोभमाना असिता नीला बलीनामुदरदेशस्थरेखाविशेषाणां भगा एव भास्वन्तस्तरङ्गा यस्मिन् । 'तथा गम्भीरोऽगोध आकारो यस्य स चासी नाभिश्चति स एव चतुरतरोऽतिशयेन चतुरः सुन्दरो महानावर्तस्तेन शोभा विद्यते यस्मिन् । अत एवोदारे मनोहरे । तथा- नद्धमासमन्ताद्वद्ध यद्धेममयमुदरनविनमुदराभरण तदेव महती वाडवामिप्रभा तयास्ये सभृते। यद्वा 'हेमोदरनलिन-'इति पाठः । तदा 'कर्णिकां स्वर्णशैलम्' (२४) इति पूर्वश्लोके मेरुकणिकस्य नाभिकमलस्योक्तत्वात् । हेमोदरं हेम कर्णिकाख्यमुदरे मध्ये यस्य तच्च तन्नलिनं च तदेव महावाडवामिप्रभेति व्याख्येयम् ॥ .

। विष्णुपादादिकेशान्तवर्णनस्तोत्रम् । नाभीनालीकमूलादधिकपरिमलोन्मोहितानामलीनां माला. नीलेव यान्ती स्फुरति रुचिमती वक्रपद्मोन्मुखी या । रम्या सा रोमराजिर्महितरुचिमती मध्यभागस्य विष्णो- श्चित्तस्था मा विरंसोचिरतरमुचितां साधयन्ती श्रियं नः ॥२६॥ विष्णोर्मध्यभागस्य सबन्धिनी रोमराजिनॊऽस्माक चित्तस्था सती मा विरसीद्वि- रति मा करोतु । तत्र भूयादित्यर्थ. । किं कुर्वती । उचितामस्मद्योग्यां नियं साध- यन्ती। किंभूता । रम्या । महितरुचिमती महिता सर्वै प्रशस्ता या रुचिस्तद्वती। या नाभीनालीकस्य मूलाद्वक्रपद्मोन्मुखी । अलीनां भ्रमराणां नीला मालेव रुचिमती रुचिरा स्फुरति । कथंभूतानामलीनाम् । अधिकपरिमलोन्मोहितानाम् । नाभिकमल- सौरभ्याघ्राणादधिकमोहितानामित्यर्थः ।। आदौ कल्पस्य यस्मात्प्रभवति विततं विश्वमेतद्विकल्पैः कल्पान्ते यस्य चान्तः प्रविशति सकलं स्थावरं जङ्गमं च । अत्यन्ताचिन्त्यमूर्तेचिरतरमजितस्यान्तरीक्षखरूपे तस्मिन्नस्माकमन्तःकरणमतिमुदा क्रीडतात्क्रोडभागे ॥ २७ ॥ अजितस्य हरेः क्रोडभागे भुजद्वयमध्यप्रदेशे वक्षःस्थलादधोभागेऽस्माकमन्त करणं चिरतरमतिमुदा क्रीडतात् । कीदृशे । अन्तरीक्षस्वरूपे । हृदयाकाशस्थान इत्यर्थः । किंभूतस्याजितस्य । अत्यन्तं सर्वात्मना न चिन्त्या मूर्तिः स्वरूपं यस्य । यस्मात्त्रोद. भागात्सकल निरवशेषं विश्व कल्पस्यादौ प्रभवत्युद्भवति । तथा कल्पान्ते यस्यान्तः स्थावरं जगम च विश्वं प्रविशति। किंलक्षणं विश्वम् । मन्वन्तरादिभेदैविततं विस्तीर्णम् ॥ संस्तीर्ण कौस्तुभाशुप्रसरकिसलयैर्मुग्धमुक्ताफलाब्धं श्रीवत्सोल्लासि फुल्लप्रतिवनवनमालांशुराजदुजान्तम् । वक्षः श्रीरक्षकान्तं मधुकरनिकरश्यामलं शापाणे: संसाराध्वश्रमातॆरुपवनमिव यत्सेवितं तत्प्रपद्ये ॥ २८ ॥ शाईपाणेरायणस्य तद्वक्षः प्रपद्ये तात्पर्येणाश्रये । यत्संसाराध्वश्रमातर्जन्ममरणमी- गवेदनादिमार्गभ्रमणजश्रमपीडितैरुपवनमिव सेवितंमुपासितम् । उपवनतुल्यतामेव प्रति- पादयति~कौस्तुभस्य भगवत्कण्ठस्थितरत्नविशेषस्यांशवः किरणास्तेषा प्रसरास्तान्येव किसलयानि तै. संस्तोर्णम् । सर्वत्र विप्रसृतमिति यावत् । तथा मुग्धानि सुन्दराणि मुक्ताफलानि तैरास्यम् । मौक्तिकानि यत्र फलतुल्यानीति यावत् । श्रीवत्सो नाम भगवद्वक्षसि प्रदक्षिणरोमावर्ती भृगुपदप्रहारस्थानगतश्चिहविशेषस्तस्योल्लासोऽभिव्यत्ति- विद्यते यस्मिन् । तथा च फुला विकसिता प्रतिवन वने वने जाता या वनमाला .

१२ काव्यमाला। . । तस्या अंशुभिः परागै राजच्छोभमानं भुजान्त यस्मिन् । पत्रपुष्पमय्या पादलम्बिनी माला वनमालेत्युच्यते । तथा श्रीवृक्षो नाम शुमावर्तविशेषस्तेन कान्तम् । अथवा श्री. रेव वृक्षस्तेन कान्तम् । तथा मधुकरनिकरवच्छयामलम् । उपवनमपि किसलयसस्ती- णम् , फलाक्ष्यम्, श्रीमतां शोभमानानां गवादिवत्सानामुल्लासैर्युक्तम् , तथा फुल्लानि यानि प्रतिवनानि समुखवनानि तेषां या धनमाला सभजनीया(1) माला पतिस्तस्यां राजन्तो भुजा विटपास्तेषामन्तः पर्यन्तो यस्मिस्तादृशम्, श्रीवृक्षपिल्वद्रुमैः कान्तम्, मधुकरनि- करैः श्यामलं च भवति ।। कान्तं वक्षो नितान्तं विदधदिव गलं कालिमा कालशत्रो- 'रिन्दोर्बिम्बं यथाङ्को मधुप इव तरोमजरी राजते यः । श्रीमान्नित्यं विधेयादविरलमिलितः कौस्तुभश्रीप्रतानैः श्रीवत्सः श्रीपतेः स श्रिय इव दयितो वत्स उच्चैः श्रियं नः २९ श्रीपतेर्नारायणस्य श्रीवत्सश्चिहविशेपो नोऽस्माकं श्रियं नित्यमुच्चैरधिकं विधेयात् । किंलक्षणः । श्रीमाशोभात्यः । यतः कौस्तुभश्रीप्रतानः कौस्तुभमणिप्रभाप्रसरणैरविरलं निरन्तर यथा स्यात्तथा मिलितः । श्रियो लक्ष्म्या भगवद्वक्षःस्थलस्थाया दयितः प्रीत्या- स्पदो वत्स इव । तया नित्यं संलाल्यमानत्वात् । यः श्रीवत्सः कालशत्रोः शिवस्य गल कालिमा कालकूटकाय॑मिव, अङ्कः कलङ्क इन्दोपिम्बमिव, मधुपो भ्रमरस्तरोमरी- मिव श्रीपतेर्वक्षो नितान्त कान्तं मनोरमं विदधद्राजते शोभते ।। संभूयाम्भोधिमध्यात्सपदि सहजया यः श्रिया संनिधत्ते नीले नारायणोरःस्थलगगनतले हारतारोपसेव्ये । आशाः सर्वाः प्रकाशा विदधदपिदधच्चात्मभासान्यतेजां- स्याश्चर्यस्याकरो नो झुमणिरिव मणिः कौस्तुभः सोऽस्तु भूत्यै ३० यः सहजया श्रिया सहाम्भोधिमध्यात्सभूयाविर्भूय नारायणस्योरःस्थलमेव नीलवि. शालाकारवत्वाद्गनतल तस्मिन्सविधत्त उच्चैः प्रत्यक्षो भवति । किंलक्षणे । हारो मुक्तामाला स एव तारा नक्षत्राणि तैरुपसेव्ये । किं कुर्वन् । सर्वा आशा दिश आत्म. भासा प्रकाशा विदधत् । तथान्यतेजांस्याभरणान्तराणां प्रभा अपिदधत् । आत्मभा- साच्छादयन्नित्यर्थः । तथाचर्यस्य विस्मयस्याकरः स्थानभूतः । स कौस्तुभो नोऽस्माकं भूत्या अस्तु । उत्प्रेक्षते-युमणिरिव सूर्य इव । सूर्योऽपि प्रातः ममुद्रादुद्गच्छति । सह- सिद्धया श्रिया शोभया युक्तः । नीलवर्णे तारायुक्त गगनतले सनिधत्ते । आशाः प्रका- शयति.। अन्यतेजांसि चन्द्रनक्षत्रादितेजांसि पिदधाति ।। या वायावानुकूल्यात्सरति मणिरुचा भासमानासमाना साकं साकम्पमसे वसति विदधती वासुभद्रं सुभद्रम् । । . .

विष्णुपादादिकेशान्तवर्णनस्तोत्रम् । १३ सारं सारङ्गसंधैर्मुखरितकुसुमा मेचकान्ता च कान्ता माला मालालितास्मान्न विरमतु सुखैोजयन्ती जयन्ती ॥ ३१॥ या माला विष्णोरसे साकम्पमीपत्कम्पसहितं यथा स्यात्तथा वसति । सास्मान्सुखै. योजयन्ती सती न विरमतु । किंलक्षणा । जयन्ती जयकरी जयन्त्याख्या वा । वायो मारुत आनुकूल्यात्सरति वहति सति साकम्पमिति योज्यम् । मणिरुचा कौस्तुभप्रभया साक सह भासमानात एवासमानानुपमा । तथा वासुमद्र वासुदेवं सुभद्रं शोभनं विद- धती। भूषयन्तीत्यर्थः । तथा सारङ्गसधैर्ऋमरसमूहै. सार यथा स्यात्तथा मुखरितकुसुमा । तथा मेचकान्ता श्यामवर्णकुसुमगुम्फितप्रान्ता । अत एव कान्ता । तथा मालालिता वक्षःस्थया लक्ष्म्यानुमोदिता ।। हारस्योरुप्रभाभिः प्रतिवनवनमालांशुभिः प्रांशुभिर्य- च्छ्रीभिश्चाप्यङ्गदानां शबलितरुचिभिनिष्कभाभिश्च भाति । बाहुल्येनैव बहाअलिपुटमजितस्याभियाचामहे त- द्वन्धात वाधतां नो बहुविहतिकरी बन्धुरं वाहुमूलम् ।। ३२ ।। अजितस्य भगवतस्तद्वाहुमूलमंसदेशमभियाचामहे प्रार्थयामहे । किंलक्षणम् । पन्धुरं सुन्दरम् । किं कृत्वा । वाहुल्येन पुन.पुनरेवाझलिपुटं बद्धा । किं याच्नयेति चेत् । नोऽस्माकं बहुविहतिकरीमनेकानर्थकरी बन्धाति बन्धनरुपां पीडां बाधताम् । संसार- निगडादस्मान्मोचयत्वित्यर्थः । यद्वाहुमूलं हारस्योरुप्रभाभिरतिकान्तिमिः । तथा प्रतिव- नजातपुष्परचितवनमालाया अंशुभिरंशुस्थानीयविचित्रवर्ग. । निष्कस्य भूषणविशेषस्य भाभिः शबलिता रुचयो यासाम् । ताभिरङ्गदानां बाहुभूषणानां श्रीभिर्भाति । प्रांशुभिरि- त्यशुविशेषणम् ॥ विश्वत्राणैकदीक्षास्तदनगुणगुणक्षत्रनिर्माणदक्षाः कर्तारो दुर्निरूपाः स्फुटगुरुयशसां कर्मणामद्भुतानाम् । शार्ङ्ग वाणं कृपाणं फलकमरिगदे पद्मशङ्खौ सहस्त्रं विभ्राणाः शस्त्रजालं मम ददतु हरेर्वाहवो मोहहानिम् ॥ ३३ ॥ हरे हवो मम मोहहानि ददतु । किविशिष्टाः । विश्वस्य जगतस्त्राणे रक्षण एका मुख्या दीक्षा व्रतधारण येषाम् । अत एव तस्य विश्वत्राणस्यानुगुणा योग्या गुणा: शो- योदयो यस्य तादृशक्षत्रस्य निर्माणे दक्षा., समर्थाः । दुर्निरुपाः । एते एवप्रकारा इयन्तश्चेत्यवधारयितुमशक्याः। तथा स्फुटगुरुयशसामतिस्पष्टमहत्ख्यातियुक्तानामगुताना कर्मणां पराक्रमाणां कर्तारः । तथा शाई धनु., वाणम् , कृपाण खहम्, फलक चर्म, अरि सुदर्शन चक्रम्, गदा कौमोदकी, पाम्, शङ्खः पाञ्चजन्यः, इत्येवविधमन्यच सहस्रमपरिमितं शस्त्रजाल विभ्राणाः । सहस्रं वाहव इति वा योजना ॥

१४. काव्यमाला। - . । कण्ठाकल्पोद्तैर्यः कनकमयलसत्कुण्डलोस्वैरुदारै- रुद्योतैः कौस्तुभस्याप्युरुभिरुपचितश्चित्रवर्णों विभाति । कण्ठाश्लेषे रमायाः करवलयपदैर्मुद्रिते भद्ररूपे वैकुण्ठीयेऽत्र कण्ठे वसतु मम मतिः कुण्ठभावं विहाय ॥ ३४ ॥. अत्र वैकुण्ठस्य विष्णोरय वैकुण्ठीयस्तस्मिन्कण्ठे मम मतिः कुण्ठभावमालस्य विहाय वसतु स्थिरीभवतु । य. कण्ठाकल्पाः कण्ठभूषणानि तेभ्य उद्गतैरुद्योतः । तथा कनकमये लसन्ती ये कुण्डले तयोरुौ. किरणैः । उदारैर्मनोहरैरिष्टार्थदैर्वा । तथा कौस्तुभस्या- प्युरुभिरुद्योतैरुपचितः सन् । चित्रवर्णों विभाति । पुनः किलक्षणे । कण्ठे रमायाः क- ण्ठालेषे लक्ष्मीकृतकण्ठालिगने सति तस्या एव करवलयपदैर्मुद्रिते। अत एव भद्ररूपे सुन्दराकारे ॥ पद्मानन्दप्रदाता परिलसदरुणश्रीपरीताग्रभागः काले काले च कम्बुप्रवरशशधरापूरणे यः प्रवीणः । वक्राकाशान्तरस्थस्तिरयति नितरां दन्ततारौघशोभा श्रीभर्तुर्दन्तवासोामणिरघतमोनाशनायास्त्वसौ नः ॥ ३५॥ असौ श्रीमतुर्दन्तवासो दन्ताच्छादनम् । ओष्टद्वयमिति यावत् । स एव द्युमणिः सूर्यो नोऽस्माकमघतमोनाशनाय पापान्धकारदूरीकरणायास्तु । किंलक्षणः । पद्मा लक्ष्मीस्तस्या आनन्दप्रदाता । तथा परिलसन्ती यारुणश्री रक्तवर्णा कान्तिस्तया प- रीतो व्याप्तोऽग्रभागो यस्य । तथा काले काल उचितसमयेषु कम्युप्रवरः शसश्रेष्ठः स एव शशधरश्चन्द्रस्तस्यापूरणमाध्मान तत्र यः प्रवीणः । तथा वफरूपो य आकाश- स्तस्यान्तरे मध्ये तिष्ठतीति तथाविध. सन् । दन्तरूपाणां ताराणामोघः समूहस्तस्य शोभा तिरयत्यभिभवति । प्रसिद्धोऽपि युमणिः पद्मानामानन्दप्रदाता । अरुणः सूर्यसा- रथिस्तच्छ्रिया परीताग्रभागः । काले काले शुक्लपक्षतिथिषु चन्द्रस्य वृद्धिकरणे प्रवीणः । आकाशमध्यस्थः सन् । तारोघशोभा तिरस्करोति ॥ नित्यं स्नेहातिरेकान्निजकमितुरलं विप्रयोगाक्षमा या वकेन्दोरन्तराले कृतवसतिरिवाभाति नक्षत्रराजिः । लक्ष्मीकान्तस्य कान्तालतिरतिविलसन्मुग्धमुक्ताफलश्री- दन्ताली संततं सा नतिनुतिनिरतान्रक्षतादक्षता नः ॥ ३६ ॥ सा लक्ष्मीकान्तस्य दन्ताली दन्तपतिनतिनुतिनिरतान्नमस्कारस्तुतितत्परानोऽस्मा. न्संतत रक्षतात् । किंलक्षणा । अक्षता क्षतरहिता । निरन्तरेति यावत् । कान्ताकृति. मनोहराकारा । तथातिविलसतामत्यन्तशोभिना मुग्धानां सुन्दराणां मुक्ताफलानां श्री- । .

-- विष्णुपादादिकेशान्तवर्णनस्तोत्रम् । १५ रिव श्रीर्यस्याः । या नित्य लेहातिरेकात्प्रेमबाहुल्यानिजकमितुः स्वकान्तस्य विप्रयोगं वियोग न क्षमते सा विप्रयोगाक्षमा । एवंभूता सती वक्रेन्दोर्मुखचन्द्रस्यान्तराले मध्ये कृतवसतिनक्षत्रराजिरिवालमाभाति ।। ब्रह्मन्ब्रह्मण्यजिहां मतिमपि कुरुपे देव संभावये त्वां शंभो शक त्रिलोकीमवसि किममरैर्नारदाद्याः सुखं वः । इत्थं सेवावननं सुरमुनिनिकरं वीक्ष्य विष्णोः प्रसन्न- स्यास्येन्दोरालवन्ती वरवचनसुधा हादयेन्मानसं नः ॥ ३७ ॥ विष्णोरास्येन्दोर्मुखचन्द्रादास्रवन्ती सम्यथिःसरन्ती वरा श्रेष्टा वचनसुधा वचनामृत नोऽस्माकं मानस हादयेत् । सुखयतु । 'आहादयेत्' इति वा छेदः। किंलक्षणस्य । सेवावननं सुरमुनिनिकरं वीक्ष्य प्रसन्नस्य । अनुग्रहेच्छोरित्यर्थः । का वचनसुधा । हे ब्रह्मन्प्रजापते, ब्रह्मणि स्वस्वरूपेऽजिह्यामकुटिला तादात्म्यलक्षणां मतिमपि कुरुपे । हे देव शभो, त्वा संभावये । कुशल पृच्छामीत्यर्थः । हे शक्र, अमरैः सह त्रिलोकीमवसि किम् । सम्यक्पालयसीत्यर्थः । हे नारदाया मुनय , वो युष्माक कि सुखं वर्तते ।। कर्णस्थस्वर्णकम्रोज्ज्वलमकरमहाकुण्डलपोतदीप्य- न्माणिक्यश्रीप्रतानैः परिमिलितमालिश्यामलं कोमलं यत् । प्रोद्यत्सूर्याशुराजन्मरकतमुकुराकारचोरं मुरारे- गाढामागामिनी नो गमयतु विपदं गण्डयोर्मण्डलं तत् ॥ ३८ ॥ मुरारेनारायणस्य तद्गण्डयोः कपोलयोर्मण्डल नोऽस्माक गाद दृढामनेकानर्थकरोमा- गामिनी भाविनी विपदं गमयतु दूरीकरोतु । 'दमयतु' इति वा पाठः । किंलक्षणम् । प्रोद्यन्प्रादुर्भवन्यः सूर्यस्तस्यांशुवदाजद्दीप्यमानं यन्मरकतरनं तनिर्मितो मुकुरो दर्प- णस्तस्य य आकारस्तस्य चौरम् । तत्सशमित्यर्थः । कोमलम् । अलिबच्छ्यामलम् । तथा कर्णस्थयोः स्वर्णमययोः कम्रयोः कमनीययोरुज्ज्वलयोर्मकराकारयोर्महाकुण्डलयोः प्रोताना दीप्यता माणिक्यानां श्रीप्रतानैः परिमिलितं परितो व्याप्तम् ।। वक्राम्भोजे लसन्तं मुहुरधरमणि पक्वविम्बाभिरामं दृष्ट्वा दृष्टुं शुकस्य स्फुटमवतरतस्तुण्डदण्डायते यः । घोणः शोणीकृतात्मा श्रवणयुगलसत्कुण्डलोलैर्मुरारेः प्राणाख्यस्यानिलस्य प्रसरणसरणिः प्राणदानाय नः स्तात् ॥३९॥ मुरारे?णो नासिकादण्डो नोऽस्माकं प्राणदानाय जीवनं दातुं स्ताद्भूयात् । कथं- भूतः । श्रवणयुगे लसतोः कुण्डलयोरुखैः किरण शोणीकृतात्मा । प्राणाख्यत्यानिलस्य प्राणवायोः प्रसरणसरणिः । सचारमार्ग इत्यर्थः । यो वक्राम्भोजे लसन्त पकविम्रपलब- .

१६ काव्यमाला। - दभिराममारक्तमधरमणि मुहुर्दृष्ट्वा पुनःपुनरवलोक्य दष्टुं खादितुमवतरतः शुकस्य कीरस्य स्फुटं यथा स्यात्तथा तुण्डदण्डायते चचुदण्डवदाचरंस्तिष्ठति ॥ दिकालौ वेदयन्तौ जगति मुहुरिमौ संचरन्तौ रवीन्दू त्रैलोक्यालोकदीपावभिदधति ययोरेव रूपं मुनीन्द्राः । अस्मानजप्रभे ते प्रचुरतरकपानिर्भरं प्रेक्षमाणे पातामाताम्रशुक्लासितरुचिरुचिरे पद्मनेत्रस्य नेत्रे ॥१०॥ पद्मनेत्रस्य पुण्डरीकाक्षस्य नेत्रे अस्मान्पातां रक्षताम् । किंलक्षणे । अन्जप्रभ । तथा प्रचुरतरा या कृपा तया निर्भरं परिपूर्ण यया स्यात्तथा प्रेक्षमाणे । भक्तानिति शेषः । तयाताम्रपद्रक्ता शुक्लासिता च या रुचिः कान्तिस्तया रुचिरे । ते के। मुनीन्द्रा ययोरेव रूपमिमौ प्रसिद्धौ रवीन्दू अभिदधति वदन्ति । किंलक्षणौ रवीन्दू । जगति दिक्पाच्या- दिका, कालो मुहूर्तादिः, तो वेदयन्तौ प्रकाशयन्तौ । अत एव त्रैलोक्यालोकदीपी । तथा मुहुः प्रत्यहोरात्रं सचरन्तौ भ्रमन्तौ ।। लक्ष्माकारालकालिस्फुरदलिकशशाङ्कासंदर्शमील- नेत्राम्भोजप्रबोधोत्सुकनिभृततरालीनभृङ्गच्छदामे । लक्ष्मीनाथस्य लक्षीकृतविबुधगणापाङ्गबाणासनार्ध- च्छाये नो भूतिभूरिप्रसवकुशलते भूलते पालयेताम् ॥ ११ ॥ लक्ष्मीनाथस्य भूलते नोऽस्मान्पालयेताम् । कथंभूते । लक्ष्माकाराश्चिहाकृतयो ये- ऽलकास्तेषामालिस्तया स्फुरद्यदलिकं ललाटं तदेव शगाबा) तस्य सदर्शनेन मीलन्ती ये नेत्राम्भोजे तयोः प्रबोधे विकासननिमित्तमुत्सुकस्तथा निभृततरमालीनो यो भृगस्तस्य छदौ पक्षौ तद्वदामा ययोः । तथा लक्षीकृतो विशुधगणो यैस्तेषामपाङ्गबाणानां यदसन धनुस्तस्यार्धच्छाये । धनुरर्धभागसदृश इत्यर्थः । तथा भूतीनामैश्वर्याणां यो भूरिप्रसवो- ऽधिकोद्भूतिस्तत्र कुशलता सामर्थ्य ययोः । भक्तानां सर्वाभीष्टप्रद इत्यर्थः ॥ पातात्पातालपातात्पतगपतिगतेबूंयुगं भुग्नमध्यं येनेपच्चालितेन वपदनियमिताः सासुरा देवसंघाः । नृत्यल्लालाटरङ्गे रजनिकरतनोरर्धखण्डावदाते कालव्यालद्वयं वा विलसति समया वालिकामातरं नः ॥ ४२ ॥ पतगपतिर्गरुडस्तेन गतिर्गमनं यस्य तस्य भगवतो भूयुगं नोऽस्मान्पातालपातान्नरक- पतनात्पाताद्रक्षतात् । कीदृशम् । भुममध्यम् । येनेपच्चालितेन सासुरा देवसंघाः स्वपदे स्वस्वस्थाने व्यापारे च नियमिता वर्तन्ते । उत्प्रेक्षते-ललाटमेव लालाट तदेव रगो नृ- त्यस्यान तस्मिन्बालिकामातर समया नृत्यत्कालव्यालद्वयं वा । वाशब्द इवार्थः । समया- । .

विष्णुपादादिकेशान्तवर्णनस्तोत्रम् । १७ शब्दो नैकट्यवाची । बालिकाशब्दः शड्डास्मोरुपरिभ्रूलतापुच्छदेशवाचकः कपोलपान्त गतामकुन्तलपुजविशेषवाचको वा । सा बालिकासर्पमातत्वेनोत्प्रेक्षिता। किंभूते लाला- टर) । रजनिकरतनोश्चन्द्रमण्डलस्यार्धखण्डवदर्धभागवदवदाते निर्मले ॥ रूक्षस्मारेक्षुचापच्युतशरनिकरक्षीणलक्ष्मीकटाक्ष- प्रोत्फुल्लत्पद्ममालाविलसितमहितस्फाटिकेशानलिङ्गम् । भूयायो विभूत्यै मम भुवनपतेर्भूलताद्वन्द्वमध्या- दुत्थं तत्पुण्ड्रमूर्ध्व जनिमरणतमःखण्डनं मण्डनं च ॥ १३ ॥ भुवनपतेर्भगवतस्तदूर्ध्व पुण्डू तिलक मम भूयो विभूत्या अधिकैश्वीय भूयात् । कि- लक्षणम् । जनिमरणतम खण्डनम् । जन्ममरणकारणावानस्पतमोनाशकमित्यर्थः । भ्रूलताद्वन्द्वमध्यादुत्थ स्वयमेवोद्भूत स्फाटिकेशानलिङ्ग स्फटिकमणिमयशिवलिङ्गमिव । रूक्ष. यूरो य. स्मारेक्षुचापात्कामसबन्धीक्षुकोदण्डाच्युतः शरनिकरस्तेन क्षीण कृशमे- वंविधं तत् । लक्ष्मीकटाक्षेत्यादि चेति कर्मधारय । लक्ष्मीकटाक्षा एवं प्रोत्फुल्ल द्वि- कसत्पदानां माला तया विलसितमुज्जृम्भित महितं महत्व यस्य तच्च तत्स्फटिके. शानलिङ्ग च ॥ पीठीभूतालकान्ते कतमुकुटमहादेवलिङ्गप्रतिष्ठे लालाटे नाट्यरङ्गे विकटतरतटे कैटभारेश्चिराय । प्रोदाव्यैवात्मतन्द्रीप्रकटपटकुटी प्रस्फुरन्ती स्फुटाङ्गं पदीयं भावनाख्यां चटुलमति नटी नाटिकां नाटयेन्नः ॥ ४४ ॥ कैटभारेभंगवतो ललाटमेव लालाट तस्मिन्नाट्यरने नोऽस्माकमियं स्वभावसिद्धा चटुला चपला मतिरेव नटो नर्तकी भावनाख्यां भावनानाम्नी नाटिका स्वकन्या चि- राय दीर्घकाल नाटयेनतयेत् । अस्मन्मतिभंगवल्ललाटे ध्यानात्मिका वृत्ति नरन्तर्येण प्रवर्तयेदित्यर्थः । किलक्षणा । पट्टी चतुरा । किं कृत्वा । आत्मतन्द्री स्वालस्य तद्रूपा प्रकटपटकुटर्टी प्रसिद्धावरणपट प्रोद्धाव्य । आलस्यरूपनिविडतिरस्करिणीमपसायन्यर्थः । किंलक्षणा नाटिकाम् । स्फुटाई प्रस्फुरन्तीम् । कयभूते नाट्यरने। पीठीभूत पी- ठतां गतो योऽलकान्तः केशोद्गमप्रान्तदेशो ललाटोपरिरेखा तत्र कृता मुकुटलक्षणमहा- देवलिङ्गस्य प्रतिष्ठा यस्मिन् । तथा विकटतरतटेऽतिशयेन विशालतटे। मालालीवालिधाम्नः कुवलयकलिता श्रीपतेः कुन्तलाली कालिन्द्यारुह्य मूनों गलति हरशिरःस्वधुनीस्पर्धया नु । राहुर्वा याति वक्रं सकलशशिकलाभ्रान्तिलोलान्तरात्मा लोकैरालोच्यते या प्रदिशतु सकलैः साखिलं मङ्गलं नः ॥४५॥ ३ १८ काव्यमाला। अलिवच्छयामल धाम तेजो यस्य तस्य श्रीपतेः सा कुन्तलाली नोऽस्माकमखिलं मगलं प्रदिशतु । या सकलैलोकैः कुवलयकलिता नीलोत्पलरचिता मालाली माला- परंपरेव । अथवा कालिन्दी यमुना हरशिर.स्वर्धनीस्पर्धया महादेवमस्तकस्थगनेीया भगवन्मूर्धानमारुह्य ततो गलति नु । यद्वा सकला चासौ शशिकला शशिप्रकाश- स्तदाकारभ्रान्तियुक्तश्वासौ लोलश्चपलोऽन्तरात्मा मनो यस्यैतादृशो राहुवेत्यालोच्यत उत्प्रेक्ष्यते ॥ सुप्ताकाराः प्रसुप्ते भगवति विबुधैरप्यदृष्टस्वरूपा व्याप्तव्योमान्तरालास्तरलरुचिजलारजिताः स्पष्टभासः । देहच्छायोद्मामा रिपुवपुरगुरुप्लोषरोपाग्निधूम्याः केशाः केशिद्विपो नो विदधतु विपुलक्लेशपाशप्रणाशम् ॥ ४६॥ केशिद्विप. केशिनामकासुरहन्तुर्भगवत केशा नोऽस्माक विपुला बहुला ये क्लेशा अविद्यास्मितारागद्वेपाभिनिवेशास्त एव पाशास्तेषां प्रकर्षेण नाश विदधतु । किंलक्षणा.। भगवति प्रसुप्ते सुप्ताकारा सुप्तस्य भगवत आकार इवाकारो येषा ते । अत एव विबुधै- रपि न दृष्ट स्वरूप येषा ते तथाविधाः । तथा व्याप्त व्योमान्तराल ब्रह्माण्डोदरं यै । तथा तरलानि चपलानि रुचिमन्युज्ज्वलानि च जलानि क्षीरसागरनीराणि तैरासम- न्ताद्रञ्जिता. । स्पष्टभासः । देहस्य श्रीमन्मूर्तेश्छाया कान्तिस्तस्या उद्गम उपरिप्र- चारस्तद्वदाभान्ति ते। रिपूणां वप्येवागुरुस्तस्य प्लोषो दाहस्तस्मिन्रोपरूपो योऽमिस्तस्य धूम्या धूमसमूह इव । एतैविशेषणः केशानां मेघसाम्य ध्वनितम् । 'यस्य केशेषु जी. भूताः' इति पुराणप्रसिद्धया ।। यत्र प्रत्युप्तरत्नप्रवरपरिलसरिरोचिःप्रतान- स्फूर्त्या मूर्तिर्मुरारेघुमणिशतचितव्योमवहुनिरीक्ष्या । कुर्वत्पारेपयोधि ज्वलदकतमहाभास्वदौग्निशङ्का शश्वन्नः शर्म दिश्यात्कलिकलुपतमःपाटनं तत्किरीटम् ॥ ४७ ॥ तन्मुरारेः किरीट नोऽस्माक शश्वच्छम दिश्यात् । कथभूतम् । कलिकलुपतमः- पाटनम् । पारेपयोधि समुद्रमध्ये ज्वलनकृत्रिमो महान्प्रौढो भास्वान्प्रकाशबहुलश्च य और्वाग्निर्वाडवानलस्तस्य शङ्कां कुर्वत् । यत्र किरीटे प्रत्युप्तानां खचितानां रलप्रवराणां परितो लसद्भर्यधिक यद्रोचिस्तस्य प्रतानो विस्तारस्तस्य स्पू. स्फुरणेन मुरारेमूर्तिर्यु- मणिशतचितव्योमवद्युगपदुदितानेकसूर्यव्याप्ताकाशवहुर्निरीक्ष्या दुप्प्रेक्ष्या तत् ।। भ्रान्वा भ्रान्त्वा यदन्तस्त्रिभुवनगुरुरप्यब्दकोटीरनेका गन्तुं नान्तं समर्थो भ्रमर इव पुनर्नाभिनालीकनालात् ।

- - विष्णुपादादिकेशान्तवर्णनस्तोत्रम् । १९ उन्मज्नन्नूर्जितश्रीस्त्रिभुवनमपरं निर्ममे तत्सहरु देहाम्भोधिः स देयान्निरवधिरमृतं दैत्यविद्वेषिणो नः ॥ १८ ॥ दैत्यविद्वेषिणो नारायणस्य स देहाम्भोधिर्नोऽस्मभ्यममृत कैवल्यं देयात् । त्रिभुव. नगुरुस्त्रैलोक्यपिता ब्रह्मापि यदन्तर्मध्येऽनेका असख्याता अब्दकोटी । अनेककोटिस- वत्सरपर्यन्तमित्यर्थः । भ्रान्त्वा भ्रान्ला बहुशो विभ्रम्यान्तमवसानं गन्तु प्राप्तु न सम- र्थोऽभूदित्यध्याहारः । पुनरन्तप्राप्त्याशाविच्छेदानन्तर नाभिनालीकनालाड्रमर इवोन्म- ज्जनपरं त्रिभुवन तत्सदृक्षं निर्ममे । किंलक्षण । अर्जितश्री । कथभूतो देहाम्मोधिः । निरवधिः ॥ मत्स्यः कूर्मों वराहो नरहरिणपतिर्वामनो जामदग्न्यः काकुत्स्थः कंसघाती मनसिजविजयी यश्च कल्की भविष्यन् । विष्णोरंशावतारा भुवनहितकरा धर्मसंस्थापनार्थाः पायासुमी त एते गुरुतरकरुणाभारखिन्नाशया ये ।। ४९ ॥ हरिणपति. सिंह । नरश्चासौ हरिणपतिश्चेति विग्रहानरसिंह. । कसघाती कृष्णः । मनसिजविजयी मारजित्तपस्विवेषो भगवान्बुद्ध. । भविष्यन्कलियुगान्ते । अन्यत्स्फु- टम् । विष्णोरेतेऽशावतारा । भुवनहितकरा. । यतो धर्मसस्थापनार्था. 1 तथा गुरुत- रेण करुणाभारेण खिन्नः खेदं प्राप्तः । परवशीकृत इत्यर्थ. । आशयोऽन्त करण येषा ते मां भक्तं पायासु ॥ यस्माद्वाचो नियत्ताः सममपि मनसा लक्षणामीक्षमाणाः स्वार्थालाभात्परार्थव्यपगमकथनश्लाघिनो वेदवादाः । नित्यानन्दं स्वसंविनिरवधिममृतं स्वान्तसंक्रान्तविम्ब- च्छायापच्यापि नित्यं सुखयति यमिनो यत्तदव्यान्महो नः ॥५०॥ तन्महस्तेजो नोऽस्मान्सदाव्यात् । यस्मान्मनसा सम वाचोऽपि निवृत्ताः । तदि- दमेवेति बोधयितुमसमर्था । किंलक्षणा । लक्षणा मुख्यत्तवृत्त्यन्तर तामीक्षमाण आकाङ्क्षमाणा । कस्मात् । वेदलक्षणवादा स्वार्थस्य शक्तिविषयस्वार्थस्यालाभात्परे च तेऽर्थास्तेषा व्यपगमो निरसन तत्कथनेन श्लाघा येपा ते। किलक्षण मह । नित्यानन्दम् । स्वसवित्स्वय प्रकाशकम् । तथा निरवधि निरवधिकम् । ककारोऽन लुप्तो दृष्टव्य । अमृतमपरिणामि । कूटस्थमित्यर्थः । अपि च यन्मह स्वान्तमन्त करण तत्र सक्रान्ता बिम्बच्छाया विम्बाकृतिस्तदापत्यॉपि तावन्मात्रप्रात्यापि यमिनो यतोनित्य सुखय- त्यानन्दयति ॥ आ पादादा च शीणों वपुरिदमनघं वैष्णवं यः खचित्ते धत्ते नित्यं निरस्ताखिलकलिकलुपे संततान्तःप्रमोदः ।

२० काव्यमाला। जुह्वज्जिताकशानौ हरिचरितहविः स्तोत्रमन्त्रानुपाछै- स्तत्पादाम्भोरुहाभ्यां सततमपि नमस्कुर्महे निर्मलाभ्याम् ॥५१॥ आ पादात्पादमारभ्य, आ च शीर्णः शिरःपर्यन्तमिदं पूर्ववणितं वैष्णवं वपुर्विष्णु- स्वरूपं ये निरस्ताखिलकलिकलुषे स्वचित्ते संततान्तःप्रमोद आनन्दभरितान्तःकरणः सन् नित्य धत्ते निर्मलाभ्या तत्पादाम्भोरुहाभ्यामपि वयं नमस्क्रुर्महे । किं कुर्वन् । स्तोत्रमन्त्रानुपार्जिह्वाकृशानौ जिह्वारूपेऽनौ हरिचरितहवि. सतत जुद्दत् । हरिचरि- तानि तत्स्तोत्राणि च सदा पठन्नित्यर्थः ।। इति भगवत्पादश्रीशकराचार्यकृत विष्णुपादादिकेशान्तवर्णनस्तोत्र सटिप्पणं समाप्तम् । श्रीगुमानिकविप्रणीतम् उपदेशशतकम् । त्रिषु देवेषु महान्तं अगुव॒भुत्सुः परीक्ष्य हरिमेकम् । मेनेऽधिकं महिना सेव्यः सर्वोत्तमो विष्णुः ॥ १ ॥ रुक्माङ्गदः स्वपुत्रं निहत्य खङ्गेन मोहिनीवचसा- सत्यां ररक्ष वाचं न संकटेऽपि त्यजेद्धर्मम् ॥ २ ॥ निर्वासितो हितेप्सुर्विभीपणो रावणेन लङ्कायाः । तन्नाशहेतुरासीन्नहि निजवन्धुर्विरोद्धव्यः ॥ ३ ॥ हृतराज्यदर्पसारं सुयोधनं निग्रहीतुमपि शक्ताः । प्रोषुर्वनेषु पार्था धीरः समयं प्रतीक्षेत ॥ ४ ॥ मणिहेतोरभिशप्तः कृष्णः सत्राजिताथ जाम्बवतः । जित्वा ददौ तमस्मै जनापवादाद्भजेद्भीतिम् ॥ ५ ॥ स्वाराज्यमनुवानः प्रकोप्य नहुपो मुनीनहि त्वा । न्यपतत्त्वरितमधस्तात्माप्तैश्वर्यों न हप्तः स्यात् ॥ ६ ॥ सहधर्मिणी वनान्ताद्दशरथसूनोजहार दशवक्रः । बन्धनमाप समुद्रो न दुर्जनस्यान्तिके.निवसेत् ॥ ७ ॥ १. एतच्छतकोदाहरणकथास्तु प्राय श्रीमद्भागवते हरिवशे च वर्तन्ते. २. इय भृगुकथा श्रीमद्भागवते दशमस्कन्धे नवाशीतिमितेऽध्याये द्रष्टव्या. ३. 'खलः करोति दुर्वृत्त नून फलति साधुषु । दशाननोऽहरसीता वन्धन च महोदधेः ॥ इति प्राचीनः श्लोकः, .

उपदेशशतकम् । २१ हन्तुं देवकतनयां वसुदेवेनोद्यतायुधः सः । मधुरोक्तिभिरनुनीतः साम्ना मूर्ख वशे कुर्यात् ॥ ८ ॥ भ्रातर्महदतिचारो न युक्त इति वादिनं दशग्रीवः । धनदं वबन्ध युद्धे मूढमतिनोपदेष्टव्यः ॥ ९ ॥ विश्रब्धश्चटुवचनैः कैकेय्यै दशरथो वरं दत्त्वा । संकटमाप दुरन्तं स्त्रीषु न कुर्वीत विश्वासम् ॥ १० ॥ गर्वाद्योद्धमुपेतः पौलस्त्यः सपदि कार्तवीर्येण । क्रीडामृग इव बद्धो न बलोदिक्तेन योद्धव्यम् ॥ ११ ॥ संदीपितापपुच्छो बद्धतनुस्ताडितोऽपि रक्षोभिः लङ्कां मारुतिरदहद्विपदि विजह्यान्न शूरत्वम् ।। १२ ।। रुक्मी छलेन दीव्यन्वलं विजित्याथ परिहसन्त्रुच्चैः । द्राग्वधमाप सभायां नोपहसेन्निर्जितं द्यूते ॥ १३ ॥ शकुनिसुयोधनकर्णेजितोऽक्षधूतैर्युधिष्ठिरो छूते । निर्वासितः स्वराष्ट्रात्कितवैः सह नाचरेद्दयूतम् ॥ १४ ॥ मखरक्षणाय पुत्रं विश्वामित्राय दशरथोऽर्थयते । प्रायच्छद्गतशङ्ख दुस्त्यजमप्यर्थिने देयम् ॥ १५ ॥ त्यज पाथैः सह रणमिति विदुरेणोक्तोऽम्बिकासुतः सततम् । तदमत्वा क्षयमापत्कर्तव्यं भाषितं सुहृदाम् ॥ १६ ॥ शिशुपालः ऋतुकाले हरिमर्ह गर्हयन्नन)क्त्या । तत्क्षणमियाय नाशं न महान्तं क्वापि गहेत ॥ १७ ॥ अन्यद्विजाय मोहान्गो वदान्यो द्विजस्य गां दत्वा । सद्योऽभूत्वकलासो ब्रह्मस्वं दूरतो विसृजेत् ॥ १८ ॥ सुग्रीवो रघुपतिना हृतदारेणोपगम्य हृतदार. । दृढमाववन्ध सख्यं समानदुःखः सखा कार्यः ॥ १९ ॥ १. बलदेवम्. २. धृतराष्ट्र:. ३. गोपाख्यान महाभारतेऽनुशासनपर्वणि सप्तति- मितेऽध्याये द्रष्टव्यम्. - २२ काव्यमाला। वीरो वैतनिकः सन्विराटनगरोषितः कुमारीणाम् । नर्तयितार्जुन आसीद्भजेदवस्थोचितां वृत्तिम् ॥ २० ॥ दुष्यन्तः ववधूमपि कण्वानीतां शकुन्तलां ससुताम् । सुचिरं विमृश्य भेने कार्य सहसा न विदधीत ॥ २१ ॥ जमदग्निना नियुक्तः सद्यो निजघान मातरं रामः । निर्दोषः पुनरासीगुरूक्तमविचारितं कुर्यात् ॥ २२ ॥ शतयोजनततमब्धि विलवय वातात्मजोऽविशल्लङ्काम् । वीराग्रतःसरोऽभूद्यशोऽर्जयन्साहसं कुर्यात् ।। २३ ।। प्रहितः सुरैजिंगीपुर्हरं प्रहर्तुं स्मरोऽभ्ययाद्यावत् । भस्मीबभूव तावन्न चिकीपैदुष्करं कर्म ॥ २४ ॥ संकुव्य पादघातैः कालिन्द्यां कालियं कृतागस्कम् । निरयापयन्मुकुन्दो दुष्टे दण्डः प्रयोक्तव्यः ॥ २५ ॥ कुलिशाहतिहृतशिरसेऽप्यदात्कंवन्धाय जीवते शक्रः । अशनायोरसि वदनं दीनो रिपुरप्यनुग्राह्यः ॥ २६ ॥ सुग्रीवाय शुकः खादशमुखसंदेशमादिशन्कपिभिः । संताज्य सपदि बद्धो न दूतभावं भजेदसतः ॥ २७ ॥ अश्वत्थामा हत इति युधि गिरमनृतां युधिष्ठिरोऽवादीत् । पुनरनुतापमवापत्पापं कृत्वानुतप्येत ॥ २८ ॥ भोगान्वहून्ययाति क्त्वा वयसा सुतस्य चिरकालम् । निविद्यतावितृप्तः कामं मन्येत दुप्पूरम् ॥ २९ ॥ बलिरिन्द्रजित्रिलोक्यां भुञ्जन्भोगाञ्चिराद्विनष्टश्रीः । सुतलेऽवध्यत पाशैभॊगान्क्षणभङ्गरान्विद्यात् ॥ ३०॥ विलपन्तं हतपुत्रं धृतराष्ट्रं वीक्ष्य करुणया कृष्णः । क्षणमनुशुशोच सास्त्रं दुःखितमनु दुःखितो भूयात् ॥ ३१ ॥ १. एतनामकं सर्पम्. २. कबन्धकथा वाल्मीकिरामायणेऽरण्यकाण्डे द्रष्टव्या. ३. सारणसहचरो रावणदूतः. ४. निर्वेदं प्राप. - उपदेशशतकम् । २३ निःक्षत्रियां न चक्रे यावद्रामो भुवं रुपा तावत् । आसीद्रणैकतानो विरमेदसमाप्य नारब्धम् ॥ ३२ ॥ दुहिता विदेहभर्तुर्दाशरथे मिनी सीता । वधमाप राक्षसीनां विधेविचित्रा गतिवाध्या ॥ ३३ ॥ निगमागमैकवेत्ता द्रोणस्तप्त्वा तपोऽर्थमन्विच्छन् । धानुष्कवृत्तिरासीद्धर्म चार्थं च सेवेत ॥ ३४ ॥ अधिशंभुमौलि निवसन्नेककलात्मा यथार्च्यते चन्द्रः । न तथा स पूर्णविम्बः श्रयेन्महान्तं महत्त्वाय ॥ ३५ ॥ शरतल्पमधिशयानादीष्मादाकर्ण्य धर्मजो धर्मान् । दुःखं जहाँ दुरन्तं प्रष्टव्याः सत्पथं वृद्धाः ॥ ३६ ॥ कर्णेन घातयित्वा घटोत्कचं शक्रशक्तिनिर्मीक्षात । जीवितमरक्षि पार्थैः स्वात्मानं सर्वतो रक्षेत् ॥ ३७॥ पृथुकोपहारपाणिर्हरिं सखायं प्रपद्य दीनात्मा । श्रीमानभूत्सुदामा श्रयेत सन्मित्रमापत्सु ॥ ३८ ॥ दृष्ट्वा हरिः समक्षं वाणत्राणाय कोटवी नमाम् । समरे पराङ्मुखोऽभूत्स्त्रियं विवस्त्रां न वीक्षेत ।। ३९ ॥ अदिशल्लक्ष्मणहेतोर्मारुतिमानेतुमोषधी रामः । तामानयत्स दूरादुर्यः कार्य नियोक्तव्यः ॥ ४० ॥ आराध्य कैतवज्ञो रौद्र रुद्रादेको वरं लब्ध्वा । गौरीमियेष हर्तुं न विनीतं विश्वसेडूर्तम् ॥ ४१ ॥ दशकण्ठरक्षितायां लड्ायां रक्षसामभूबसताम् । गृहवित्तबन्धुनाशो वसेन्न राष्ट्रे कुभूपाले ॥ ४२ ॥ शप्त्वाम्बरीषमार्य दुर्वासाः कोपनो निरागस्कम् । चक्रेण तापितोऽभून्न विदध्यात्क्रोधमस्थाने ॥ ४३ ॥ १. कोटवो नग्ना स्त्री. तत्कथा हरिवशे वाणासुरयुद्धे प्रसिद्धा. २. शकुनिसनुको नाम कश्चिदसुर.. तत्कथा श्रीमद्भागवते दशमस्कन्धेऽष्टाशीतितमेऽध्याये द्रष्टव्या. ३. भागवतादिप्रसिद्ध विष्णुभक्तं कंचिद्राजविशेषम्.

२४ काव्यमाला। मखशिखिनि हूयमानं तक्षकमवितुं प्रपन्नमसमर्थः । अजहान्न तु पुरुहूतः शरणमुपेतो न हातव्यः ॥ ४४ ॥ हत्वा स्वसुस्तनूजान्सद्यो जातान्बहून्खलः कंसः । उत्सन्नः सहसाभून्न कुत्सितं कर्म कुर्वीत ॥ ४५ ॥ सीतां विसृज्य रामः साकं मुनिभिर्मुनिव्रतो राज्यम् । शासन्नुवास पुर्यां नेयः सद्भिः समं समयः ॥ ४६ ॥ कृष्णधनंजयभीमान्द्विजवेषस्थाञ्जरासुतश्चिकैः । क्षात्रैः क्षिप्रमजानादाकारैरिङ्गितं विद्यात् ॥ ४७ ॥ यां यां दिशं गतोऽभूहिरण्यकशिपुर्यदृच्छया विचरन् । तां तां सुराः प्रणेमुर्दष्टजनं दूरतः प्रणमेत् ॥ ४८ ॥ कुर्वन्नपि मुनिशप्तः खजीवितार्थी परीक्षितो यत्नम् । दष्टोऽहिना विनष्टो ज्ञेयो मृत्युः सुदुर्वारः ॥ ४९ ॥ सदिति प्रतीयमानं जगन्मृति केवलं बुवा । जनको विमुक्तिमागात्स्वप्नवदन्तर्जगद्बोध्यम् ॥ ५० ॥ विहरन्वधूभिरन्तःपुरेऽनिवौँ दिवानिशं कामी । प्रस्तोऽथ यक्ष्मणाभूद्विपयान्विषभीपणान्विद्यात् ॥ ११ ॥ विप्रः पतिईपल्या हिंस्रोऽप्यभिवादनान्महर्षीणाम् । वाल्मीकिर्मुनिरासीत्पुरुपानभिवादयेन्महतः ॥५२॥ निशि कामयन्दुरात्मा द्रुपदसुतां कीचको रहः प्राप्ताम् । वधमाप भीमसनात्परस्त्रियं नाभिकाङ्केत ॥ ५३॥ युधि कुरवः कृतवैरा वीरं व्यूह विशन्तमभिमन्युम् । बहवो निजघ्नुरेवं नैको रिपुमण्डलं प्रविशेत् ॥ १४ ॥ पुष्करनिर्जितराज्यः पुरमृतुपर्णस्य नैपंधो गत्वा । सारथिरभून्निगूढो दुरवस्थो न प्रकाशः स्यात् ॥ ५५ ॥ १. 'स सचरिष्णुर्भुवनान्तराणि याम्' (१।४६) इत्यादि शिशुपालवधश्लोकानुस। रिणीयमार्या. २. अग्निवर्णकथा रघुवशस्यैकोनविंशे सर्गे प्रसिद्धैव. ३ लोकप्रसिद्धवे कथा. रामायणादिषु न प्राप्यते. ४. नलभाता. ५. नल.. - - . उपदेशशतकम् । २५ क्षात्रं विमृष्य धर्म मान्यैर्गुरुभिर्दिनैः समं समरे । युयुधेऽर्जुनो धनुष्मान्धोरमपि स्वं चरेद्धर्मम् ॥ ५६ ॥ हरिरम्बुधिमथनोत्थां सुधां सुरेभ्यः सुरां सुरारिभ्यः । व्यतरत्सम यथार्ह योग्यं योग्याय दातव्यम् ।। ५७ ॥ अथ चैकत्वमवाप्ताः सुरां निपीयोद्धता मिथो नन्तः । युधि यादवाः प्रणेशु(मान्मद्यं न सेवेत ॥ १८ ॥ यज्ञोत्सवे स्वपित्रा हठादनाकारिता सती गत्वा । तनुमजहात्परिभूता क्वापि न गच्छेदनाहूतः ॥ ५९॥ मुंचकुन्देन मुकुन्दो यदुभिरवध्यस्य कालयवनस्य । छलतोऽचीकरदन्तं वध्योऽरिर्वञ्चयित्वापि ॥ ६ ॥ असमाधि विजितादपि भीतो बर्हिद्रथाजले दुर्गम् । कृत्वा हरिय॑वात्सीद्विजितोऽप्याशङ्कनीयोऽरिः ॥ ६१ ॥ तुरगार्थेऽभिसरन्तः प्रकोप्य कपिलं क्षणात्समं सर्वे । सगरसुताः क्षयमीयुर्न कोपयेत्तापस शान्तम् ॥ ६२ ॥ मुनिरपि विश्वामित्रः श्वा भूत्वा गूढमुर्वशीवशगः । अन्वव्रजत्स्मरातों भेतव्यं दुर्जयात्कामात् ॥ ६३ ॥ वलदर्पितस्त्रिलोक्यां तृणवद्गणयन्दशाननः शूरान् । युधि निर्जितः प्लवंगैर्न वहेगर्व बुधो मनसा ॥ ६४ ॥ मातुर्वाक्शरविद्धः पञ्चान्दो दुष्करं तपस्तप्ता । ध्रुव उच्चैःपदमभजत्पुंसा व्यवसायिना भाव्यम् ॥ ६५ ॥ नीता रहसि सखीभ्यो बहुमहिता वल्लवी पथि श्रान्ता । वह मामिति हरिमूचे न यतिसमानयेत्प्रमदाम् ॥ ६६ ॥ दधतः स्खलक्ष्म युद्धे मुहुः शृंगालस्य जल्पतः परुषम् । श्रुत्वा जहास शौरिन वाग्विवादं शठैः कुर्यात् ॥ १७ ॥ १. दक्षप्रजापतिना. २. राजविशेषेण. ३. जरासंधात्. ४. द्वारकास्पम्. ५. उत्ता- क * नपादसूनुः. ६. राजविशेषस्य. ४ . २६ काव्यमाला। " . . अकृतागसमंपि रामो वालिनमन्तर्हितश्छलेनैव । सख्युजघान शत्रं सुहृद्रिपुं भावयेद्रिपुवत् ॥ ६८ ॥ क्रुद्धो हली कुरूणां पुरमुत्थाप्य क्षिपन्नद्याम् । अनुनीतस्तदमुञ्चत्क्रोधाविष्टोऽनुनेतव्यः ॥ ६९ ।। वहार्पितं कुमारैोणो द्रुपदं कृतापराधमपि । व्यसृजद्विसृज्य रोषं क्षमिणा पुरुषेण भवितव्यम् ॥ ७० ॥ दुर्योधने सभायां मानभ्रष्टे जहास यहीमः । तदभूहिग्रहवीजं न रैमुत्पादयेत्स्वस्मात् ॥ ७१ ॥ स्वपितॄन्समद्दिधीर्पन्प्रापय्य मां भगीरथो गङ्गाम् । पावितवानितरानपि हितं चरेत्कर्म सर्वेपाम् ॥ ७२ ॥ तारां, जहार चन्द्रः स्त्रियं गुरोर्तृह्यतां मिथस्तेन । समरोऽभवत्सुराणां वोध्यं वैरैकवीजं स्त्री ॥ ७३ ॥ अधिवेश्म पूजनीया चिरमपिता ब्रह्मदत्तभूपस्य । अन्धं चकार पुत्रं न नीचमावासयेत्स्वगृहे ॥ ७४ ॥ लुब्धो वलाजिघृक्षन्कामदुर्घ कौशिको वसिष्ठस्य । न प्राप जातदों हठं न कुर्याड्रापेऽर्थे ॥ ७५ ॥ हप्तं बलेन रोषान्निवध्य वैरं किरीटिना कर्णम् । कुरवो व्यधुः सखायं रिपोर्विपक्षः सखा कार्यः ।। ७६ ॥ द्विषतां क्धे सहायं ककुत्स्थमिन्द्रो रणे उपो भूत्वा । अवहद्विहाय लज्जा कार्यार्थी नावहेन्मानम् ॥ ७७ ॥ अपि गौतमो द्विनेत्रं शक्रमहल्यारतं शपन्क्रुद्धः । चक्रे सहस्रनेत्रं गुणवान्वोध्यः सतां शापः ॥ ७८ ॥ धनदः पुष्पकमेकं लङ्कापतये युयुत्सवे दत्वा । अलकामपात्समयां बहु रक्षेदल्पदानेन ॥ ७९ ॥ १. हस्तिनापुरम् २. पूजनीया नाम काचिच्चटका. तत्कथा महाभारते शान्तिपर्व: -ण्यापद्धर्म एकोनचत्वारिंशदधिकशततमेऽध्याये, हरिवशे च प्रथमपर्वणि विशेऽध्याये द्रष्टव्या. .

. । उपदेशशतकम् । तनये विनयिनि वीरे पार्थः कुरुभिहतेऽपि सौभद्रे । युयुधे विधूय शोकं न गते शोको विधातव्यः ॥ ८० ॥ व्यासाच्छ्रुतं भविष्यद्भीमं जनमेजयः स्वकं वृत्तम् । शश्वत्स्मरन्नशोचन भाविनं चिन्तयेदर्थम् ।। ८१ ।। वैकर्तनमपि कुन्त्याः सुतमपि लोकोऽन्यसेविनं कर्णम् । राधेयमेव मेने बुधः खरत्त्यानुवर्तत ॥ ८२ ॥ हित्वान्यान्हरिदारान्सांत्राजित्यै सुरपिरर्थज्ञः । दिव्यं ददौ प्रसून मनोऽनुवृत्ति प्रभोः कुर्यात् ।। ८३ ॥ रोहिण्या वशगोऽन्याः स्त्रियः परित्यज्य दक्षशापेन । यक्ष्मी बभूव चन्द्रो नैकरतः स्याद्वहुस्त्रीकः ॥ ८४ ॥ तपसा विधूतपापं माण्डव्यं दण्डयन्यमः सद्यः । शूद्रत्वमाप शापान्नादण्ड्ये पातयेद्दण्डम् ॥ ८५ ॥ सत्राजितं निशायां निर्भरनिद्राणमेव शतधन्वा । अवधीत्स्यमन्तकार्थे नातिशयालुभवेद्रात्रौ ॥ ८६ ॥ हतवत्यपि निजतनुजान्गाधिसुते वीर्यवान्विधेः सूनुः । प्रतिकर्तुमाप लग्नां कुलानुरूपं वहेच्छीलम् ॥ ८७ ॥ विद्यां कचो बुभुत्सुः शुक्रात्संजीविनी विनीतात्मा । सुरपक्षगोऽपि लेभे विनयात्संसाधयेत्कार्यम् ॥ ८ ॥ द्रोणे सख इति वादिनि नारथिरथिनोः सखित्वमित्याह । द्रुपदो विधूय सख्यं नृपं न मित्रं विजानीयात् ।। ८९ ॥ अपि शक्तः परिहर्तु येयातिशापं हरिहते कंसे । राजासनं न भेजे पुरातनी पालयेत्संस्थाम् ॥ ९० ॥ विमुखो झुमद्गदातः प्रद्युम्नो धिकृतो रणे हरिणा । परिभवमाप महान्तं न भवेद्विमुखो रणाद्धीरः ॥ ९१ ॥ १. अभिमन्यौ. २ सत्यभामायै. ३. नारद . ४. वसिष्ठः. ५. यदवशीया राज्य न प्राप्स्यन्तीत्यादि रुपम्.

काव्यमाला। एकाग्रता स्वकर्मणि दत्तात्रेयः प्रशस्य शरकर्तुः । समशिक्षतात्मयोगं नीनादपि सहणो बाहाः ।। १२ ।। अपि वश्चयन्विरिधिः कृष्णं वत्सान्मवत्सपातला। खयमेव पधितोऽभून्मायाविषु नाचरेन्मायाम् ॥ ९३ ॥ मृगयारतः प्रसेनो विघटितमेनोऽटवोमटनेकः । केसरिणा विनिजन्ने नैकाकी मंत्ररेडिपिनम् ॥ ९४ ॥ शिवलिङ्गान्तमलब्धं लब्धं विधिनति कामधुक्माह । अध निन्द्यमाप शापं न विदध्यात्कूटमासिवम ॥ १२ ॥ पुत्रेण सव्यमानी पराजितो बभ्रुवाहनेनानी । तुप्यन्हाद न ललने पराजयं पुत्रतोऽन्विच्छेत् ॥ १६ ॥ चिरसंगताय कुन्ती कृष्णाय सेशिता कुरुक्षेत्रे । व्यसनं स्वमाह सर्व मुहदे विनिवेदयेद्दवम् ॥ ९७ ॥ पाञ्चालीगजराजों हरिणा दु.शासनावहारान्याम् । त्राती क्षणात्प्रपन्नौ हरि भयार्तः प्रपद्येत ॥ ९८ ॥ दैवाहनोपलब्धां ययातिरब्राह्मणोऽपि गतराहम् । शुक्रसुतामुपयेमे विधिप्रणीत प्रवतेत ॥ ९९ ॥ असुरो हितमुपदिष्टः प्रसादो नारदेन गर्भस्यः । तत्वविदुपां वरोऽभूद्धितोपदेशं सदा शृणुयात् ॥ १०० ।। स्फुटमायर्याशतगदितान्टयक्ममाणीकतानुबाहरणः । शतमेतानुपदेशान्विभावयन्भावयेन्सिद्धिम् ॥ १०१ ॥ कुतुकाय कोविदानां मूढमतीनां महोपकाराय । निरमात्कविर्गुमानिः शतोपदेशप्रवन्धममुम् ॥ १०२॥ इति श्रीगुमानिकविप्रणीतमुपदेशन ममाप्तम् । १. अवहारो पाहापरनामा जलजन्न:, सुवृत्ततिलकम् । २९ महाकविश्रीक्षेमेन्द्रकृतं सुवृत्ततिलकम् । प्रथमो विन्यासः। गणपतिगुरोर्वक्रथूडाशशाङ्ककलाकुर स्फुटफणिफणारत्नच्छायाछटाछुरणारुणः । गिरिपतिमुतासंसक्तेा विलासकचग्रह- च्युतनखशिखालेखाकान्तस्तनोतु सुखानि वः ॥ १॥ स्वच्छन्दलघुरूपाय त्रिजगद्गुरवे नमः । स्पष्टवामनवृत्ताय मायावक्राय चक्रिणे ॥ २॥ नमश्छन्दोनिधानाय सुवृत्ताचारवेधसे । तपःससनिवासाय व्यासायामिततेजसे ॥ ३॥ क्षेमेन्द्रेण सुशिष्याणां सरससाः प्रसाधनम् । मुत्ततिलकं वर्णरुचिरं क्रियते मुखे ॥४॥ दृष्ट्वा छन्दांसि सौन्दर्य विचार्यायप्रियः कृतः । प्रसिद्धकाव्यकर्मण्यवृत्तानामेष संग्रहः ॥५॥ दीर्घे संयोगपूर्वे च गुरुसंज्ञा प्रकीर्तिता । असंयोगग्रह इस्वं लघुसंज्ञं प्रकीर्तितम् ॥ ६॥ त्रिगुरुः प्राग्गुरुर्मध्यगुरुरन्तगुरुस्तथा । त्रिलघुः प्राग्लघुर्मध्यलघुरन्तलघुस्तथा ॥ ७ ॥ मभजाः सनया रेफतकारौ चेति संज्ञिताः। ज्ञेयो लघुर्लकारोऽत्र गकारश्च गुरुर्मतः ॥ ८॥ (युग्मम्) कचिद्विक्षिप्तसंस्थानः कचिदेकपदस्थितैः । संयोगस्थैः कचिदत्तमुदाहरणमक्षरैः ॥ ९ ॥ १ शिवस्य. २. sssमगणः,5।। भगणः, IS! जगणः, IIS सगणः.।।। नगणः, ISS यगणः, SIS रगणः, तगणः, इति गणस्वरूपम्.

३० काव्यमाला। पूर्वाक्षरद्वयासक्तविरामेण षडक्षरा । तकारेण यकारेण तनुमध्याभिधीयते ॥ १० ॥ यथा मम- तेन प्रविभक्ता कामं वयसा सा । येन प्रविलासं धत्ते तनुमध्या ॥ सप्ताक्षरसमायुक्तं जसाभ्यां गुरुणा तथा । अविराम विदुर्वृत्तं कुमारललिताभिधम् ॥ ११ ॥ यथा मम-- 'जनं स्मृतिदशाप्तं गतानुगतिकः किम् । न शोचति जनोऽयं कुमारललितं तत् ॥' मकारयुगपर्यन्ते यत्संयुक्तगुरुद्वयम् । विद्युन्मालाभिधं तद्धि वृत्तमष्टाक्षरं विदुः ॥ १२ ॥ यथा मम- - 'मौनं ध्यानं भूमौ शय्या गुर्वी तस्याः कामावस्था । मेघोत्सङ्गे नृत्तासक्ता यस्मिन्काले विद्युन्माला ॥' लघोर्गुरोश्च विच्छित्त्या यत्रानन्तर्यसंगतिः । वृत्तप्रमाणनिपुणैः सा प्रमाणीति कीर्तिता ॥ १३ ॥ यथा मम- 'लघु श्रुतं मदोद्धतं गुरुश्रमाय केवलम् । न यत्परोपकारकइयैव तत्प्रमाण्यपि । पञ्चमं लघु सर्वेषु सप्तमं द्विचतुर्थयोः । गुरु पठं च सर्वेपामेतच्छोकस्य लक्षणम् ॥ १४ ॥ असंख्यो भेदसंसर्गादनुष्टुप्छन्दसां गणः । तत्र लक्ष्यानुसारेण श्रव्यतायाः प्रधानता ॥ १५॥ १. केवल बालत्वमेवेति भाव.. २. प्रमाणयुक्तमपि.

३१ सुवृत्ततिलकम् । यथा भगवतो व्यासस्य-- 'ततः कुमुदनाथेन कामिनीगण्डपाण्डुना । नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता ।' नवाक्षरापि ननमैरक्षरैरुपलक्षिता । भुजगाग्रा शिशुसृता कथिता वृत्तकोविदैः॥ १६ ॥ यथा मम- . 'न नमति चरणौ भक्त्या किमिति जडमतिलौकः । भवभयशमनौ शंभोर्भुजगशिशुसृतावने ।' संयुक्तं भमसैरन्ते गुरुणा च दशाक्षरम् । वृत्तं रुक्मवती नाम कथितं वृत्तशालिभिः ॥१०॥ यथा मम- 'भग्नमसत्यैः कायसहस्त्रैर्मोहमयी गुर्वी भवमाया । स्वप्नविलासा योगवियोगा रुक्मवती हा कस्य कृते श्रीः ।।' तकाराभ्यां जकारेण युक्तं गुरुयुगेण च । इन्द्रवज्राभिधं प्राहुर्खत्तमेकादशाक्षरम् ॥ १८ ॥ यथा मम- 'तौ जन्मगूढौ चरणेन यस्य कष्टौ निविष्टौ हृदि कामकोपौ । तं दुःसहास्ता ज्वलदिन्द्रवजपातोपमाः क्लेशदशा विशन्ति ॥' जतजैर्गुरुयुग्मेन संसक्तैरुपलक्षितम् । वदन्त्युपेन्द्रवजाख्य वृत्तमेकादशाक्षरम् ॥ १९ ॥ यथा मम-- 'जितो जगत्येष भवभ्रमस्तैर्गुरूदितं ये गिरिशं स्मरन्ति । उपास्यमानं कमलासनाद्यैरुपेन्द्रवज्रायुधवारिनाथैः ॥' १. महाभारते द्रोणपर्वणि (१८४।४६). २. भुजगोपपदा शिशुमना भुजगशिशुसते- त्यर्थ.. ३. सुवर्णरत्नादियुक्तेति यावत्. ४. उपेन्द्रो विष्णुः, वजायुधः शक्र, वारिनायो वरुण..ते.

1 ३२ काव्यमाला । पदानन्तरविन्यासयोगैर्वहुभिरेतयोः। वैचित्र्यजातिरुचिरा भवन्त्येवोपजातयः॥ २० ॥ भकारत्रयसंयुक्तमन्ते गुरुयुगान्वितम् । कथितं दोधकं नाम वृत्तमेकादशाक्षरम् ॥ २१ ॥ यथा मम- 'भो भवविभ्रमभङ्गुरभोगा गच्छत नास्त्यधुना मम मोहः । तिष्ठति. चेतसि चन्द्रकलाभृद्भक्तजनाभयदोऽथ केपाली ॥' पूर्वाक्षरचतुष्कान्तविरतिर्मततान्विता । गुरुद्वितययुक्ता च शालिन्येकादशाक्षरा ॥ २२ ॥ यथा मम- 'मत्ता गोष्ठीगर्ममूढप्रलापा प्रौढा गाढालिङ्गिता यौवनेन । मध्वाताम्रस्वेदमीलत्कपोला लोला लीलाशालिनी कस्य नेष्टा ॥ रनरैरन्वितं युक्तं लघुना गुरुणा तथा । ख्यातं रथोद्धता नाम वृत्तमेकादशाक्षरम् ॥ २३ ॥ यथा मम 'रम्यनर्मकलभोगतर्जनी भूलतेव तरलारियोषिताम् । वैजयन्त्यभिमखी रणे रणे भाति ते नरपते रथोद्धता ॥' गुरुद्ययुतैरन्तरनभैरुपलक्षिता । गदिता स्वागतानाम वृत्तमेकादशाक्षरम् ॥ २४ ॥ । यथा मम- 'रत्नभङ्गविमलैर्गुणतुङ्गैरथिनामभिमतार्पणसक्तैः । स्वागताभिमुखनम्रशिरस्कै व्यते जगति साधुभिरेव ॥' सकारैरन्वितं वृत्तं चतुभिर्युगपत्स्थितैः । उदित तोटकं नाम वृत्तहादशाक्षरम् ॥ २५ ॥ १. शिवः. २. रथोपरि स्थितेति भावः.

सुरत्ततिलकम् । - यथा मम-- 'सरसः स्मरसारतरो वयसः समयः स्मृतिशेपदशापतितः । गलिताखिलरागरुचिविजने परितोऽट कपालकरः सुमते ।।' संलक्षितं जतजरैदशाक्षरमक्षरैः। छन्दोविचक्षणा वृत्तं वंशस्थाख्यं प्रचक्षते ॥ २६ ॥ यथा मम- 'जनस्य तीव्रातपजातिवारणा' जयन्ति सन्तः सततं समुन्नताः । सितातपत्रप्रतिमा विभान्ति ये विशालवंशस्थतया गुणोचिताः ।।' अभिव्यक्तं नमभरैरक्षरैदिशाक्षरम् । वदन्ति वृत्तजातिज्ञा वृत्तं द्रुतविलम्बितम् ॥ २७ ॥ यथा मम- 'नभसि भर्गगलच्छविमिर्धनद्रुतविलम्बितगैः परिवारितः । सितकरः कलहंस इवाभितस्तरति संवलितो यमुनोमिभिः ॥' समन्वितं मनजरैश्छिन्नं पूर्वाक्षरैत्रिभिः । प्रयोदशाक्षरं नाम्ना कीर्तयन्ति प्रहर्पिणीम् ।। २८ ।। यथा मम- 'मानौजःसुरभिगुणैर्यशःसितानां निर्व्याजा निजभुजविक्रमक्रमाप्ता । सर्वाशाप्रणयिजनोपजीव्यमाना भव्यानां भवति परमहर्षिणी श्रीः ॥ अभिज्ञातं तभजजैरन्तासक्तगुरुद्वयम् । चतुर्दशाक्षरं वृचं वसन्ततिलकं विदुः ॥ २९ ॥ यथा मम- 'तदाजि जन्मसचिवे भगवत्यनङ्गे प्राप्ते लसत्कुसुममण्डलपाण्डुरेण । भृङ्गावलीकुटिलकुन्तलसंनिवेशा कान्ता वसन्ततिलकेन विभूपिता भूः ।।' १. समन्तात् अट भ्रमण कुरु. २. वंशः कुल वेणुदण्डश्च. ३. केचिच्छीघ्रगामिनः, केचिन्मन्थरगामिनस्तै.. ४. अन्ते च गुरुणा युक्तमित्ति शेष.. ५. अन्येषा सुखप्रदा. --- काव्यमाला । । - . । - अष्टाक्षरविरामेण युक्ता ननमयैः सयैः । वदन्ति मालिनीनाम वृत्तं पञ्चदशाक्षरम् ॥ ३० ॥ यथा मम- 'ननननमयवाणी मेखलाष्टिकाले प्रविचलदिव शीलं नोत्सृजन्ती दुकूलम् । तृणलवचलनेऽपि स्वैरिणी शङ्कमाना दिशि दिशि कृतदृष्टिर्मालिनी कस्य नेष्टा ।' नजभैजलैरन्तगुरुभिर्नर्कुटाभिधम् । वृत्तं चानष्टविच्छेदं विदुः सप्तदशाक्षरम् ॥ ३१ ।। यथा मम- 'निजभुजविशालगुणविक्रमकीर्तिभरैः प्रविदधता सुधांशुधवलं भवता भुवनम् । कथय कथं कृतेयमतिरागवती जनता चरितमपूर्वमेव तव कस्य न नैकुंटकृत् ॥' जसजैः सयलैर्गेन युताष्टनवसंहतिः । दशसप्ताक्षरा पृथ्वी कथिता वृत्तवेदिभिः ।। ३२ ।। यथा मम- 'जवात्स रजसा युतः श्रमविसंस्थलागः पथा व्रजन्सततसेवकः पिशुनधाम वेश्म प्रभोः। कदाचिदवलोकनैः फलविवजितैर्मन्यते जडः करसमर्पितामिव मदेन पृथ्वीमिमाम् ॥' नसमै रसलैगैन युक्ता सप्तदशाक्षरा । विच्छिन्ना हरिणी षडभिश्चतुर्भिः सप्तभिस्तथा ॥ ३३ ॥ १. यगणेन सहितैरित्यर्थः. २. मालाधारिणी. ३. नर्कुटशब्दोऽत्राश्चर्यवाचक इति भाति. ४. मूर्खः स्वामिदृक्पातमात्रेण वसुधां स्वहस्तगता मन्यते. . . .

सुटत्ततिलकम् । ३५ यथा मम- 'न समरसनाः काले भोगाश्चलं धनयौवनं कुरुत मुरुतं यावन्नेयं तनुः प्रविशीर्यते । किमपि कलना कालस्येयं प्रधावति सत्वरा तरुणहरिणी संत्रस्तेव प्लवप्रविसारिणी ॥' यमनैः समलैर्गेन युक्ता सप्तदशाक्षरा । षडेकादशविच्छेदवती शिखरिणी मता ॥ ३४ ॥ यथा मम- 'यथा मन्युर्लीनः स च विभवभन्नः स्मरमद- स्तथा जाने जाता शमसमयरम्या परिणतिः । इदानी संसारव्यतिकरहरा तीव्रतपसे विविक्ता युक्ता मे गिरवरमही सा शिखरिणी ।।' चतुःषट्सप्तविरतिवृत्तं सप्तदशाक्षरम् । मन्दाक्रान्ता मभनतैस्तगगैश्वाभिधीयते ॥ ३५ ॥ यथा मम- 'मध्येभङ्गीवलनविततापाङ्गसंसङ्गभाजः स्मर्यन्ते ते यदि धृतिमुषः पक्ष्मलाक्षीकटाक्षाः । तत्कि मिथ्या नियमनिभृतैः कानने धीयते धी- मन्दाक्रान्ता दशति निशिता पन्नगी पाणिसक्ता ।। मसजैः सततैर्गेन युक्तमेकोनविंशवत् । शार्दूलक्रीडितं माहुश्छिन्नं द्वादशसप्तभिः ।। ३६ ॥ यथा मम- 'माद्यत्सजसमाततोग्रसुभटोद्भिन्नेभकुम्भस्थल- श्चिष्यन्मौक्तिकदन्तुरः सरभसोहेलद्यशःकेसरः। जृम्भारम्भभयंकरव्यतिकरत्रस्तैः समुद्दीक्षितः शत्रूणां त्वदसिः करोति समरे शार्दूलविक्रीडितम् ॥' १ मन्द यथा स्यात्तथा धृता.

काव्यमाला । युक्तं मरभनैपेंश्च त्रिभिः सप्ताक्षरैत्रिभिः । 'छदैश्च स्रग्धरावृत्तमेकविंशाक्षरं विदुः ॥ ३५ ॥ यथा मम- 'सारारम्भानुभावप्रियपरिचयया स्वर्गरङ्गाङ्गनानां लीलाकर्णावतंसश्रियमतनुगुणश्लेषया संश्रयन्त्या। आभाति व्यक्तमुक्ताविचकिललवलीचन्दकुन्देन्दुकान्त्या त्वत्कीर्त्या भूपितेयं भुवनपरिवृढ खग्धरेव त्रिलोकी ॥ इति सरलतरत्वात्सर्वकाव्योचितत्वा- मुकविपरिचितत्वात्कीर्णकर्णामृतत्वात् । परुपविषममात्रादुर्विरामोज्झितेयं प्रचुररुचिरवृत्तव्यक्तिरुक्ता हिताय ॥ ३८ ॥ इति श्रीप्रकाशेन्द्रात्मजव्यासदासापरनामश्रीक्षेमेन्द्रविरचिते सुवृततिलके वृत्तावचयो नाम प्रथमो विन्यासः । द्वितीयो विन्यासः । कृते प्रसिद्धवृत्तानां लक्ष्यलक्षणसंग्रहे । अधुना क्रियते तेषां गुणदोषप्रदर्शनम् ॥ १ ॥ न पट्सप्ताक्षरे वृत्ते विश्राम्यति सरस्वती। भृङ्गीच मल्लिकावालकलिकाकोटिसंकटे ॥ २॥ समासैर्लघुत्तानामसमासैर्महीयसाम् । शोभा भवति भव्यानामुपयोगवशेन वा ॥ ३ ॥ अनुष्टुप्छन्दसां भेदे कैश्चित्सामान्यलक्षणम् । यद्वक्तं पञ्चमं कुर्याल्लघु षष्ठं तथा गुरु ॥४॥ तत्राप्यनियमो दृष्टः प्रवन्धे महतामपि । तस्मादव्यभिचारेण श्रव्यतैव गरीयसी ॥५॥ १. अतिशुप्रया त्वत्कीर्त्या सितकुसुममालमारिणीवेयं त्रिलोकी शोमत इति भावः, 4 सुवृत्ततिलकम् । ३७ यथा कालिदासस्य- 'तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः । दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ॥' उपजातिविकल्पानां सिद्धो यद्यपि संकरः । तथापि प्रथमं कुर्यात्पूर्वापादाक्षरं लघु ॥ ६ ॥ यथा श्रीमदुत्पलराजस्य 'हृताञ्जनश्यामरुचस्तवैते स्थूलाः किमित्यश्रुकणाः पतन्ति । भृङ्गा इव व्यायतपङ्कयो ये तनीयसी रोमलतां श्रयन्ति ॥' सूत्रस्येवात्र-तीक्ष्णाग्रं श्लोकस्य लघुना मुखम् । कर्ण विशति निर्विघ्नं सरलत्वं च नोज्झति ॥ ७ ॥ गुर्वक्षरेण संरुद्धं ग्रन्थियुक्तमिवाग्रतः। करोति प्रथमं स्थूलं किंचित्कर्णकदर्थनाम् ॥ ८ ॥ यथा कालिदासस्य- 'अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ।।' त्र्यक्षरैत्यक्षरैरेव च्छेदैराभाति दोधकम् । अतोऽल्पैरधिकापि यति तालमिवोज्झति ॥९॥ यथा मम- 'सज्जनपूजनशीलनशोभामर्नय वर्जय दुर्जनसङ्गम् । दुस्तरसंसृतिसागरवेगे मज्जनकारणवारणमेतत् ॥' अतोऽल्पाधिकैर्यथा तुजीरस्य- 'त्वन्मुखचन्द्रनिरीक्षणवा यः सुतरामिह निर्मलनेत्रः । सर्वजनस्य पुरः स्थितमेतत्सोऽन्तकवनं न पश्यति चित्रम् ॥' १. शारदाक्षरेषु नकाररकारयोरतिस्वल्पो भेदः, तस्मात्कदाचित्तुअीन इति नाम स्यात्. तुञ्जीन इति तु कश्मीराधिपते रणादित्यस्य नामान्तरमस्ति. 'तस्यानुजो धरणि- भृद्रणादित्यस्ततोऽभवत् । तुझीनापरनामानं यं जनाः प्राहुरजसा ॥' इति राजतरगिणी (३३३८८). रणादित्यनामाङ्कित. श्लोकः सुभाषितावलीमध्ये वर्तते, तस्माद्रणादित्यः क- विरासीदिति स्फुटमेव.

- है ३८ काव्यमाला। १ शालिनी श्लथवन्धैव स्वभावेन विभाव्यते । उत्तेजयेत्तां यत्नेन मन्ददीपशिखामिव ॥ १०॥ कथा यथा मम- N 'प्लोषक्लेशं प्रोपितानां दिशन्ती मानम्लानिं मानिनीनां दधाना । गाढं सक्ता सद्गुणग्लानिदाने चन्द्रस्य श्रीर्दुर्जनस्येव जाता ॥' शत्रन्ताक्षरसंयोगैः किंचित्कार्कश्यकारिभिः । अन्ते विसर्जनीयैश्च शालिनी याति दीप्तताम् ॥ ११ ॥ यथा मम-- 'लज्जामन्जल्लोलतारान्तकान्तास्तिर्यनिर्यत्केतकीपत्रतीक्ष्णाः । मनाश्चित्ते कस्य निर्यान्ति भूयः प्रेमोन्मीलत्पक्ष्मलाक्षीकटाक्षाः ॥' श्लथस्वभावान्माधुर्यं शालिन्याः परिवय॑ते । रुचिः प्रयाति मन्दाग्ने क्षीरेणासन्तमन्दताम् ॥ १२॥ विसर्गयुक्तः पादान्तविराजति रथोड़ता। कलापरिचयैर्याता लटभेव प्रगल्भताम् ॥ १३॥. यथा मम- 'अत्र चैत्रसमये निरन्तराः प्रोषिताहृदयकीर्णपावकाः । वान्ति कामुकमनोविमोहना व्याललोलमलयाचलानिलाः ॥' अविसगैस्तु पादान्तनिष्पभैव रथोद्धता। अपार्थनामणयिनी म्लानमानेव मानिनी ॥ १४॥ यथा कैलशकस्य- 'अञ्जलौ जलमधीरलोचना लोचनप्रतिशरीरशारितम् । आत्तमात्तमपि कान्तमुक्षितुं कातरा शफरशङ्किनी जहौ ।' १. अनन्तराजसूनुः कलशः कश्मीरमहाराज आसीत. अस्यैव राज्यकाले विहणकविः कश्मीरदेशं परित्यज्य देशान्तरं गतः. अयं कलशः कविरासीदिति बिहणेनैव विक्रमाङ्क- देवचरितेऽटादशे सर्गे वर्णितम् . कलशस्य केचन श्लोकाः सुभाषितावलीमध्येऽपि सन्ति, फलशराज्यसमयस्तु १०८० मितात्विस्तसंवत्सरादारभ्य १०८८ पर्यन्तमासीत. अस्यैव कलशस्य सूनुईपैदेवो वभव, यत्मशस्तिरूपी राजेन्द्रकर्णपूरमन्यः. -RoRA - ३९ सुरत्ततिलकम् । साकारा_विसर्गान्तैः सर्वपादैः सविभ्रमा । स्वागता स्वागता भाति कविकर्मविलासिनी ॥ १५ ॥ यथा मम- 'व्यावलन्ति तरला जलधाराः पान्थसंगमघृतेः परिहाराः । प्रान्तरत्ननिभविशुद्धदाराः प्रापः पृथुपयोधरहाराः॥' न तु यथा ममैव- - 'अम्बरेऽम्बुभरलम्विपयोदे मत्तवहिरुचिरेऽद्रिनितम्बे । पुष्पधामनि कदम्बकदम्बे का गतिः पथिक कालविलम्बे ॥ द्रुतताललयैरेव व्यक्तं रूक्षाक्षरैः पदैः। मनर्तयति यच्चित्तं तत्तोटकमभीप्सितम् ॥ १६ ॥ यथा मम- 'मदपूर्णितलोचनषट्चरणं घनरागमनङ्गकराभरणम् । कमलद्युति मुग्धवधूवदनं सुकृती पिवतीह सुधासदनम् ।।' असमस्तपदैः पादसंधिविच्छेदसुन्दरम् । सर्वपादैविसर्गान्तवंशस्थं यासनताम् ॥ १७ ॥ यथा भवाणस्य- 'जयन्ति वाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्बिनः । सुरासुराधीशशिखान्तशायिनस्तमश्छिदरूयम्बकपादपांसवः ॥' विपरीतं यथास्यैव- 'नमामि भर्वोचरणाम्बुजवयं सशेखरैर्मीखरिभिः कृतार्चनम् । समस्तसामन्तकिरीटवेदिकाविटङ्कपीठोल्लुठितारुणाङ्गलि ।' प्रारम्भे दूतविन्यासं पर्यन्तेषु विलम्बितम् । विच्छित्त्या सर्वपादानां भाति द्रुतविलम्बितम् ॥ १८ ॥ यथा ममः- 'कमलपल्लववारिकणोपमं किमिव पासि सदा निधनं धनम् । कलभकर्णचलाञ्चलचञ्चलं स्थिरतराणि यशांसि न जीवितम् ।। --- काव्यमाला। - द्वतहीनं विलम्बितं यथा मम- 'निपततां भ्रमतां विनिमज्जतां प्रविशतां परिवारशतैरधः । तनुभृतां भव एव भवार्णवे भयमये भगवानवलम्बनम् ॥ आकारमन्धरैः प्रायः पादे पादेऽक्षरैत्रिभिः। शेपाक्षरै ततः प्रहाय महर्पिणी ॥ १९ ॥ यथा श्रीहर्षदेवस्य- 'दुर्वीरां कुसुमशरव्यथां वहन्त्या कामिन्या यदभिहितं पुरः सखीनाम् । तद्भूयः शिशुशुकसारिकाभिरुक्तं धन्यानां श्रवणपथातिथित्वमेति ॥ विपरीतं यथा मम- 'संकोचव्यतिकरबद्धभीतिलोलैंनिर्यद्भिद्ममरमरैः सरोरुहेभ्यः । आरब्धः क्षणमिव संध्यया जगत्यामुत्पत्त्यै घनतिमिरस्य बीजवापः । वसन्ततिलकस्याग्रे साकारे प्रथमाक्षरे । ओजसा जायते कान्तिः सविकासविलासिनी ॥२०॥ यथा विद्याधिपत्यपरनानो रत्नाकरस्य- 'कण्ठश्रियं कुवलयस्तवकाभिराम- दामानुकारिविकटच्छविकालकूटाम् । विभ्रत्सुखानि दिशतादुपहारपीत- धूपोत्थधूममलिनामिव धूर्जटिवः ॥' आकारेऽपि कृते पूर्व वन्धेऽल्पपदपेशले । वसन्ततिलकं धत्ते निग्रन्थि रमणीयताम् ॥ २१ ॥ यथा परिमलस्य- 'अच्छासु हंस इव वालमृणालिकासु भृङ्गो नवास्विव मधुगुममन्जरीपु । कोऽवन्तिभर्तुरपरो रसनिर्भरासु पृथ्वीपतिः सुकविसूक्तिपु बद्धभावः॥' .

सुटत्ततिलकम् ।
विसर्गहीनपर्यन्ता मालिनी न विराजते ।
चमरी छिन्नपुच्छेव वल्लीवालूनपल्लवा ॥ २२॥
यथा भहवल्लटस्य-
'वरमिह रवितापैः किं न शीर्णासि गुल्मे
किमु दवदहनैर्वा सर्वदाहं न दग्धा ।
यंदहृदयजनौधैठन्तपर्णानभिज्ञ
रितरकुसुममध्ये मालति प्रोम्भितासि ।'
संपूर्णा सा यथा कालिदासस्य-
'अथ स ललितयोषिझूलताचारुशृङ्गं
रतिवलयपदाङ्के चापमासज्य कण्ठे ।
सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः
शतमखमुपतस्थे प्रालिः पुष्पकेतुः ॥'
द्वितीया समस्ताभ्यां पादाभ्यां मालिनी वरा ।
प्रथमार्थे समस्ताभ्यां पादाभ्यामवरा मता ॥ २३ ॥
द्वितीयाधैं समस्तपादा यथा गन्दिनकस्य-
'करतरलितबन्धं कञ्चकं कुर्वतीनां
प्रतिफलितमिदानी दैपमाताम्रमचिः ।
स्तनतटपरिणाहे भामिनीनां भविष्य-
नखपदलिंपिलीलासूत्रपातं करोति ।'
प्रथमाधै समस्तपादा यथा राजशेखरस्य-
'इह हि नववसन्ते मञ्जरीपुञ्जरेणु-
च्छुरणधवलदेहा वद्धहेलं सरन्ति ।
तरलमलिसमूहा हारिहुंकारकण्ठा
बहुलपरिमलालीसुन्दरं सिन्दुवारम् ॥'-
अज्ञोऽप्यलक्ष्य मालिन्यां वीणायामिव विस्वरम् ।
श्रुत्वैवोद्वेगमायाति वाचा वक्तुं न वेचि तम् ॥ २४ ॥

४२ काव्यमाला। - - - । ५ 1 यथा भटेन्दुराजस्य- 'रहसि हृतदुकूला शीलिता तैलदीपे त्वदुपगतसमृद्धेः प्रेयसी श्रोत्रियस्य । विकिरति पटवासैर्हन्ति कर्णावतसैः शमयति मणिदीप पाणिफूत्कानिलेन ॥ गुरुलध्वादिनियमादविभ्रष्टेऽपि लक्षणात् । दोषस्त्वदुपगेसत्र श्रोत्रग्राह्योऽस्ति विस्वरः ॥ २५॥ प्रथमं यक्षरैश्छेदैस्ततस्त्रिचतुरक्षरैः। पञ्चाक्षरैश्च पर्यन्ते नर्कुटं याति चारुताम् ॥ २६ ॥ यथा वीरदेवस्य- 'तव शतपत्रपत्रमृदुताम्रतलश्चरण- श्चलकलहंसनूपुरवरध्वनिना मुखरः । महिपमहासुरस्य शिरसि प्रसमं निहितः कनकमहीधरेन्द्रगुरुतां कथमम्व गतः ।। विपरीतं यथास्यैव- 'सशिखिशिखेव धूमनिचिताअनशैलगुहा सकपिशपन्नगेव यमुनोन्नतनीलशिला । महिपमहासुरोपहितभासुरशूलकरा बहुलनिशेव भासि सतडिद्गुणमेवयुता ॥' असमासैः पदैर्भाति पृथ्वी पृथ्वी पृथक्स्थितैः । समासग्रन्थिभिः सैव यातिं संकोचखर्वताम् ॥ २७ ॥ . एथक्पदा यथा साहिलस्य- 'कचग्रहमनुग्रहं दशनखण्डनं मण्डनं हगञ्चनमवश्चनं मुखरसार्पणं तर्पणम् । १. निस्तसंवत्सरीयैकादशशतकसमाप्तौ विद्यमानाद्रुद्रटालंकारटीकाकर्तुः श्वेताम्ब- रनमिसाधुतः प्राचीनोऽय वीरदेवः, यतो नमिसाधुना 'नुत्वा तथाहि दुर्गाम्' (१15) इत्यादि रुद्रटार्याव्याख्यायाम् 'केचिद्वीरदेवादयो नीरुजत्व प्रापुः' इत्युक्तमस्ति. स एवायं वीरदेवः. योऽत्रापि दुर्गास्तुतिरूपमेवास्य श्लोकद्वयम्. . - .

. - सुर्दृत्ततिलकम् । ४३ नखार्दनमतर्दनं दृढमपीडनं पीडनं करोति रतिसंगरे मकरकेतनः कामिनाम् ।' समासवती यथा मम- 'कचग्रहसमुल्लसत्कमलकोपपीडाजड- द्विरेफकलकूजितानुरुतसील्छतालंकृताः। जयन्ति सुरतोत्सवव्यतिकरे कुरङ्गीदशां प्रमोदमदनिर्भरप्रणयचुम्बिनो विभ्रमाः ॥' पृथ्वी साकारगम्भीररोज सर्जिभिरक्षरैः। समासग्रन्थियुक्तापि याति प्रत्युत दीर्घताम् ।। २८ ॥ यथा भट्टनारायणस्य- 'महाप्रलयमारुताभितपुष्करावर्तक-- प्रचण्डघनगर्जितप्रतिरुतानकारी मुहुः । रवः श्रवणभैरवः स्थगितरोदसीकंदरः कुतोऽद्य समरोदधेरयमभूतपूर्वः श्रुतः ॥' त्वरातरलविच्छेदैविभाति हरिणी पदैः । मन्थरैर्ग्रन्थिबद्धव याति निःस्पन्दसङ्गताम् ।। २९ ।। तरलपदा यथा दीपकस्य- 'तनुधनहरकूरस्तेनोत्कटां विकटाटवीं तरति तरसा शौर्योत्सेकात्स्वसार्थवशाजनः । पुरवरवधूलीलावलगत्कटाक्षबलाकुले नगरनिकटे पन्थाः पान्थ स्फुटं दुरतिक्रमः ॥' मन्थरैर्यथा भद्देन्दुराजस्य- 'गुणपरिचयस्तीर्थे वासस्थिरोभयपक्षता वपुरतिदृढं वृत्तं सम्यक्सखे तव किं पुनः । सरति सुमते यस्त्वां पातुं दशा विनिमेपया वडिश विपमं तस्याक्षेपं करोपि सहासुभिः ॥'

काव्यमाला। . त्रिषु पादेषु विश्रान्तविलासैललिता पदैः। अन्ते तरङ्गितगतिहरिणी हारिणी तराम् ॥ ३० ॥ यथास्यैव- 'उपपरिसरं गोदावर्याः परित्यजताध्वगाः सरणिमपरो मार्गस्तावद्भवद्भिरवक्ष्यताम् । इह हि विहितो रक्ताशोकः कयापि हताशया चरणनलिनन्यासोदश्चन्नवाकरकबुकः॥' शिखरिण्याः समारोहात्सहजैवौजसः स्थितिः। सैव लप्सविसर्गान्तः प्रयात्यत्यन्तमुन्नंतिम् ॥ ३१ ॥ यथा मुक्ताकणस्य- 'यथा रन्धं व्योम्नश्चलजलधूमः स्थगयति स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः । यथा विद्युज्ज्वालोल्लसनपरिपिङ्गाश्च ककुभ- स्तथा मन्ये लग्नः पथिकतरुखण्डे स्मरदवः ॥' विपरीता यथा भट्टश्यामलस्य- 'धृतो गण्डाभोगे मधुप इव बद्धोऽब्जविवरे विलासिन्या मुक्तो बकुलतरुमापुष्पयति यः । विलासो नेत्राणां तरुणसहकारप्रियसखः स गण्डूषः सीधोः कथमिव शिरः प्राप्स्यति मधोः ।।" शिखरिण्याः पदैश्छिन्नैः स्वरूपं परिहीयते । मुक्तालताया निःसूत्रमुक्तैर्मुक्ताफलैरिव ॥ ३२ ॥ यथा भट्टभवभूतेः- 'असारं संसारं परिमुषितरत्नं त्रिभुवनं निरालोकं लोकं मरणशरणं बान्धवजनम् । अदर्प कंदर्प जननयननिर्माणमफलं जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः॥'

४५ । . सुटत्ततिलकम् । श्लोकेऽस्मिन्सचमत्कारसरसाखादशालिनि । केवलं शिखरिण्यैव स्वरूपमपहारितम् ॥ ३३ ॥ मन्थराक्रान्तविस्रब्धैश्चतुर्भिः प्रथमाक्षरैः। मध्यषदेऽतिचतुरे मन्दाक्रान्ता विराजते ॥ ३४ ॥ यथा कालिदासस्य- 'ब्रह्मावर्त जनपदमधश्छायया गाहमानः क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद्भजेथाः। राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा धारासारैस्त्वमिव कमलान्यभ्यपिञ्चन्मुखानि ॥' आदिमध्ये तुल्या यथास्यैव- 'कश्चित्कान्ताविरहगुरुणा खाधिकारप्रमत्तः शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः । यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसति रामगिर्याश्रमेषु ।' साकाराद्यक्षरैः पादपर्यन्तैः सविसर्गकैः । शार्दूलक्रीडितं धत्ते तेजोजीवितमूर्जितम् ॥ ३५ ॥ यथा भश्यामलस्य- 'आलानं जयकुचरस्य दृषदां सेतुर्विपद्वारिधेः पूर्वाद्रिः करवालचण्डमहसो लीलोपधानं श्रियः । सनामामृतसागरप्रमथनक्रीडाकृतौ मन्दरो राजनराजति वीरवैरिवनितावैधव्यदस्ते भुजः ॥' विपरीतं यथा लाटडिण्डीरस्य- 'चित्रं तावदिदं सुरेन्द्रभवनान्मन्दाकिनीपाथसा केनाप्युत्तमतेजसा नृपतिना मामण्डलं मण्डितम् । नातश्चित्रतरं निशाकरकलालावण्यदुग्धोदधे भूमेर्यद्भवता विरिञ्चिनगरी कीर्ति वैः छाव्यते ।।' .

. काव्यमाला। , - १६ विसर्जनीयस्योत्वेन पदैनिम्नोन्नतैरिव । शार्दूलक्रीडितं याति पाठे सायासतामिव ।। ३६ यथा मुक्ताकणस्य- 'लीलाचामरडम्बरो रतिपतेर्वालाम्बुदश्रेणयो रागोद्दण्डशिखण्डिनो मुखविधूतास्तमोविभ्रमाः । सौगन्ध्योद्धतधावदाकुलवलन्मत्तालिमालाकुलो धम्मिल्लो हरिणीशो विजयते त्रस्तो रतिव्यत्यये ।' विच्छिन्नपादं पूर्वार्धे द्वितीयाधैं समासवत् । शार्दूलक्रीडितं भाति विपरीतमतोऽधमम् ॥ ३७ ॥ पूर्वार्धे यथा भट्टभवभूतेः 'अज्ञानाद्यदि वाधिपत्यरभसादस्मत्परोक्षं हृता सीतेयं प्रविमुच्यतां शठ मरुत्पुत्रस्य हस्तेऽधुना । नो चेलक्ष्मणमुक्तमार्गणगणच्छेदोच्छलच्छोणित- च्छत्रच्छन्नदिगन्तमन्तकपुरं पुत्रैवतो यास्यसि ॥' विपरीतं यथा रिस्सोः 'स्नातुं वाञ्छसि किं मुधैव धवलक्षीरोदफेनच्छटा- छायाहारिणि वारिणि धुसरितो डिण्डीरविस्तारिणि । आस्ते ते कलिकालकल्मपमपीप्रक्षालनकक्षमा कीर्तिः संनिहितैव सप्तभुवनस्वच्छन्दमन्दाकिनी ।' आद्यन्तयोर्गुणोत्कर्पकान्त्या सर्वाविशायिनोः । शार्दूलक्रीडितं धत्ते मध्ये तद्गौरवोन्नतिम् ॥ ३८ ॥ यथा कालिदासस्य- 'गाहन्तां महिपा निपानसलिलं शरैर्मुहुस्ताडितं छायावद्धकदम्बकं मृगकुलं रोमन्यनभ्यस्यतु । विस्तब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले विश्रान्ति लभतामिदं च शिथिलज्यावन्धमस्मन्डनुः ।।

. सुटत्ततिलकम् । आद्यन्ताकारविरहात्पर्यन्ते चाविसर्गतः । शार्दूलक्रीडितं स्वस्य .रूपं नैवोपलभ्यते ॥ ३९ ॥ यथा श्रीयशोवर्मणः- 'यत्त्वन्नेत्रसमानकान्ति सलिले मनं तदिन्दीवरं मेधैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी । येऽपि त्वद्गमनानुकारिगतयस्ते राजहंसा गता- - स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ॥ मुकुमाररसस्यात्र रक्षायै वृत्तमुद्धतम् । वाक्पाकेनैव गलितं कविना नीतमल्पताम् ॥ ४० ॥ आकारगुरुयुक्तादिपर्यन्तान्तविसर्गिणी । असंस्यूतविरामा-च राजते स्रग्धरा तराम् ।। ४१ ।। यथा राजशेखरस्य- 'ताम्बूलीनद्धमुग्धक्रमुकतरुलताप्रस्तरे सानुगामिः पायं पायं कलायीकृतकदलिदलं नारिकेलीफलाम्भः । सेव्यन्तां व्योमयात्राश्रमजलजयिनः सैन्यसीमन्तिनीभि- दीत्यूहव्यूहकेलीकलितकुहकुहारावकान्ता वनान्ताः ।। विपरीतं यथा चक्रस्य- 'सत्यं पातालकुक्षिभरि चिरविलसदिक्करि प्रीणितानं श्रीगर्भश्वभ्रमभ्रंलिहलहरि हरिस्थानमप्येव किचित् । कल्पान्ते व्याप्तविश्वं परिरटति सरिन्नाथ पाथस्त्वदीयं किं त्वेतत्कुम्भयोनेः करकुहरदरीपूरमाचामतोऽभूत् ॥' आयन्ताकारविरहाद्वन्धदोषः स्फुटोऽपि यः। अविल्लुप्तैर्विसर्गान्तः स्रग्धरायां समीहते ॥ ४२ ॥ १. भवभूतिवाक्पतिराजादीना प्रभुः स्वयं च रामाभ्युदयादिनाटकाना कर्ता का. न्यकुञ्जमहीपालोऽयं यशोवर्मा. 'कविक्पितिराजश्रीभवभूत्यादिसेवितः। जितो या यशोवर्मा तद्गुणस्तुतिबन्दिताम् ॥' इति राजतरगिणी (४१४५). स च यशोवर्मा स्त्रि- स्तसवत्सरीयसप्तमशतकस्योत्तरार्ध आसीत्. - - काव्यमाला। - यथा मम- - , 'शौर्यश्रीकेशपाशः करिदलनमिलन्मौक्तिकव्यक्तपुष्पः क्षोणीरक्षाभुजंगः कुलशिखरिलुठत्कीर्तिनिर्मोकपट्टः । शत्रुव्रातप्रतापप्रलयजलधरस्फारधाराकरालः प्रीत्यै लक्ष्मीकटाक्षः कुवलयविजयी यस्य पाणौ कृपाणः ॥' एवमुद्देशलेशेन वृत्तानां दर्शितः क्रमः। अनयैव दिशा सर्व शेयं तयथोचितम् ॥ ४३ ॥ मन्दाक्रान्ता भवेन्मध्ये शालिनी पूरिताक्षरा । उपेन्द्रवज्रं वंशस्थं पर्यन्तैकाक्षराधिकम् ॥ ४४ ॥ इसादि दर्शितं नेह स्वतः सिद्धो ह्ययं क्रमः । न वेत्ति तदत्तज्ञस्तज्ज्ञस्य कोपयुज्यते ॥ ४५ ॥ इति परिचितनानारूपवाणीगुणानां विदितविविधदोषोद्देशलेशान्तराणाम् । इदमतिशयसूक्ष्मैचचर्चा विचारै- रभिहितमभिगम्यं योगितुल्याशयानाम् ॥ ४६|| इति श्रीप्रकाशेन्द्रात्मजव्यासदासापरनामश्रीक्षेमेन्द्रविरचिते सुवृत्ततिलग गुणदोषदर्शन नाम द्वितीयो विन्यासः । . . - तृतीयो विन्यासः। प्रवन्धः मुतरां भाति यथास्थानं विवेचक (निवेशितैः) । निर्दोपैर्गुणसंयुक्तैः मुत्तमौक्तिकैरिव ॥ १॥ शास्त्रं काव्यं शास्त्रकाव्यं काव्यशास्त्रं च भेदतः। चतुष्पकारः प्रसरः सतां सारस्वतो मतः॥२॥ शास्त्र काव्यविदः पाहुः सर्वकाव्याङ्गलक्षणम् । काव्यं विशिष्टशब्दार्थसाहिससदलंकृति ॥३॥ A - - - सुरत्ततिलकम् । शास्त्रकाव्यं चतुर्वर्गमायं सर्वोपदेशकृत् । भटिभीमककाव्यादि काव्यशास्त्रं प्रचक्षते ॥४॥ तत्र केवलशास्त्रेऽपि केचित्काव्यं प्रयुञ्जते । तिक्तौषधरसोद्वेगे गुडलेशमिवोपरि ॥५॥ यथा वैद्यके वाग्भटस्य- 'मधु मुखमिव सोत्पलं प्रियायाः कलरसना परिवादिनी प्रियेव । कुसुमचयमनोहरा च शय्या किसलयिनी लतिकेव पुष्पिताया। शास्त्रं कुर्यात्मयनेन प्रसन्नार्थमनुष्टुभा। येन सर्वोपकाराय याति सुस्पष्टसेतुताम् ॥ ६ ॥ काव्ये रसानुसारेण वर्णनानुगुणेन च । कुर्वीत सर्ववृत्तानां विनियोग विभागवित् ॥ ७ ॥ शास्त्रकान्येऽतिदीर्घाणां वृत्तानां न प्रयोजनम् । काव्यशास्त्रेऽपि वृत्तानि रसायत्तानि काव्यवित् ॥ ८॥ पुराणप्रतिविम्वेषु प्रसन्नोपायवम॑म् । उपदेशमधानेपु कुर्यात्सर्वेष्वनुष्टुभम् ॥९॥ नानावृत्तविशेषास्तु कवेः शस्तस्य शासनात् । यान्ति प्रभोरिवासन्तमयोग्या अपि योग्यताम् ॥ १० ॥ उनगोग्रहसङ्ग्रामे तत्कालसदृशोपमाः। दृष्टास्त एव वैराटेस्त एवाश्वाः किरीटिनः॥ ११ ॥ तथाप्यवस्थासहशैः : साधुशब्दपदस्थिताः। सुत्तैरेव शोभन्ते प्रवन्धाः सज्जना इव ॥ १२॥ १. क्षेमेन्द्रकृत एव चतुर्वर्गसग्रहाख्यो ग्रन्थ.. २. भभौमककृतं रावणार्जुनीय. काव्य भट्टिकाव्यतुल्य कश्मीरदेशप्रसिद्धम्. 'उदगात्कटकालाप प्रत्यष्टात्कठकोथुमम्' इति रावणार्जुनीयकाव्यश्लोकार्ध काशिकावृत्तौ 'अनुवादे चरणानाम्' (२।४।३) एत. सूत्रव्याख्यान उदाहृतम्, तस्मात्काशिकात्तिकर्तु. प्राचीनो भभौमकः, सिद्धान्त- कौमुद्यामपि द्वन्द्वसमासप्रकरणे पूर्वोक्तसूत्रव्याख्यान एवोदाहृत पूर्वोक्त श्लोकार्धम्, ५० काव्यमाला। S - वृत्तरत्नावली कामादस्थाने विनिवेशिता । कथयसज्ञतामेव मेखलेव गले कृता ॥ १३ ॥ नहि नाम नवोन्मेपिकुचायाश्चारुचक्षुषः । चिरत्यक्तस्मराचारे जराजीर्णकचे रुचिः ॥ १४ ॥ तस्मादत्र यथास्थाने विनियोगाय संगतिः । उदाहरणदिमात्रैर्दर्शितामिमता सताम् ॥ १५ ॥ आरम्भे सर्गवन्धस्य कथाविस्तरसंग्रहे । शमोपदेशकृत्तान्ते सन्तः शंसन्त्पनुष्टुभम् ॥ १६ -1 आरम्भे यथा भर्तृमण्ठस्य- 'आसीदैत्यो हयग्रीवः सुहृद्वेश्मसु यस्य ताः । प्रथयन्ति वलं वाहोः सितच्छन्नस्मिताः श्रियः ॥' कथाप्रसङ्गे यथाभिनन्दस्य- 'तस्यां निजभुजोद्योगविजितारातिमण्डलः । आखण्डल इव श्रीमानराजा शूद्रक इत्यभूत् ॥' शमोपदेशे यथा मम- 'पृथुशास्त्रकथाकन्थारोमन्थेन वृथैव किम् । अन्वेष्टव्यं प्रयत्नेन तत्त्वज्योतिरान्तरम् ।' शृङ्गारालम्बनोदारनायिकारूपवर्णनम् । . वसन्तादि तदङ्गं च सच्छायमुपजातिभिः ॥ १७ ॥ रूपवर्णनं यथा कालिदासस्य- 'मध्येन सा वेदिविलग्नमध्या वलित्रयं चारु वभार बाला । आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम् ॥ वसन्तवर्णनं यथास्यैव- 'वालेन्दुवक्राण्यविकासभावाद्वभुः पलाशान्यतिलोहितानि । सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥' १ कादम्बरीकथासारकर्ता ' वृत्तिकारापरनानो जयन्तभट्टस्य सूनुरभिनन्दकविः कश्मीरदेशे निस्तसंवत्सरीयसप्तमशतकसमाप्ती बभूव. रामचरिताख्यकाव्यस्य कर्ता तु शतानन्दसूनः कश्चिदन्योऽभिनन्दः, , 1 - - सुटत्ततिलकम् । ५१ रथोद्धता विभावपु भन्या चन्द्रोदयादिषु । पाहुण्यप्रगुणा नीतिवंशस्थेन विराजते ॥ १८ ॥ चन्द्रोदये यथास्यैव- अङ्गुलीभिरिव केशसंचयं संनियम्य तिमिरं मरीचिभिः । कुमलीकतसरोजलोचनं चुम्वतीव रजनीमुखं शशी ।' नीतियथा भारवेः- 'श्रियः कुरूणामधिपस्य पालिनी प्रजासु वृत्तिं यमयुक्त वेदितुम् । स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः ।।' वसन्ततिलकं भाति संकरे वीररौद्रयोः । कुर्यात्सर्गस्य पर्यन्ते मालिनी द्रुततालवत् ॥ १९ ॥ वीररौद्रयोर्यथा रत्नाकरस्य- 'जृम्भाविकासितमुखं नखदर्पणान्त- राविष्कृतप्रतिमुर्ख गुरुरोपगर्भम् । रूपं पुनातु जनितारिचमूविमर्श- मुद्दृत्तदैत्यवधनिर्वहणं हरेवः ।। सर्गान्ते यथा कालिदासस्य- 'अवचितवलिपुष्पा वेदिसंमार्गदक्षा नियमावधिजलानां वर्हिषां चोपनेत्री । गिरिशमुपचचार प्रत्यहं सा सुकेशी नियमितपरिखेदा तच्छिरश्चन्द्रपादैः ॥ १. अद्यापि भारविकवेः समयो न निश्चित , परतु ३७३५ मितकलिवर्षेणु गतेषु ५५६ मिते च शककाले, अर्थात् ६३४ मिते खिस्तसंवत्सरे, समुत्कीर्ण कस्मिंश्चित्पा- पाणलेखे 'येनायोजि नवेऽश्मस्थिरमर्थविधी विवकिना जिनवेश्म । स विजयतां रवि- कीर्तिः कविताश्रितकालिदासभारविकीर्ति. ॥' इयमार्यागीतिर्वर्तते. तस्मात्सप्तमशतक- प्रारम्भेऽपि कालिदासभारवी प्रसिद्धावास्ताम्. स च पाषाणलेखः 'धी इण्डियन् आण्टिक्करी'नामकपुस्तकस्य पञ्चमे भागे सप्ततिमिते पृष्ठे मुद्रितोऽस्ति. तव तद्विस्तरो द्रष्टव्यः ६२ काव्यमाला । . उपपनपरिच्छेदकाले शिखरिणी मता। औदार्यरुचिरौचित्यविचारे हरिणी वरा ॥ २० ॥ उपपन्नपरिच्छेदे यथा भर्तृहरेः- 'भवन्तो वेदान्तप्रणिहितधियामत्र गुरवो विचित्रालापानां वयमपि कवीनामनुचराः । तथाप्येवं ब्रूमो नहि परहितात्पुण्यमपरं न चास्मिन्संसारे कुवलयदृशो रम्यमपरम् ॥ औदार्येऽप्यस्यैव- 'विपुलहृदयैरन्यैः कैश्चिजगज्ननितं पुरा . विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं यथा । इह हि भुवनान्यन्ये धीराश्चतुर्दश भुजते कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः ॥' साक्षेपक्रोधधिक्कारे परं पृथ्वी भरक्षमा । पाहट्नवासव्यसने मन्दाक्रान्ता विराजते ॥ २१ ॥ साक्षेपे यथा यशोवर्मणः- 'स यस्य दशकंधरं कृतवतोऽपि कक्षान्तरे गतः स्फुटमवन्ध्यतामधिपयोधि सांध्यो विधिः । तदात्मज इहाङ्गदः प्रहित एप सौमित्रिणा क्क स क स दशाननो ननु निवेद्यतां राक्षसः ॥' प्राउट्प्रवासे यथा कालिदासस्य- 'तस्मिन्नद्रौ कतिचिवलाविप्रयुक्तः स कामी नीत्वा मासान्कनकवलयभ्रंशरिक्तप्रकोष्ठः । आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानु वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ।' शौर्यस्तवे नृपादीनां शार्दूलक्रीडितं मतम् । सावेगपवनादीनां वर्णने स्रग्धरा मता ॥ २२ ॥ 1 - सुटत्ततिलकम् । ५३ शौर्यस्तवे यथा श्रीचक्रस्य- 'नेतुं नौभिरिमा न यान्ति दृतिभिस्तार्याः कियन्तो हया- स्तजानुद्वयसेन देव पयसा सैन्यं समुत्तार्यताम् । नो चेद्भङ्गभयकृतारिवनितानेत्रप्रणालीलुठ- द्वाप्पाम्भःलवपूरितोभयतटी द्वाग्वय॑तीरावती ॥' सावेगपवने यथा मम पवनपञ्चाशिकायाम्- प्रिङ्खच्छसाभिघातस्फुटदखिलचलच्छुक्तिनिर्मुक्तमुक्ता- मुक्तव्यक्ताहासाः स्मरनृपसकलद्वीपसंचारचाराः । सर्पत्कर्पूरपूरप्रवणकरचिता दिग्वधूकर्णपूरा धावत्याध्मातविश्वा रतविधुतवधूबन्धवो गन्धवाहाः ॥' दोधकतोटकनकुंटयुक्तं मुक्तकमेव विराजति सूक्तम् । निर्विषयस्तु रसादिषु तेषां निनियमश्च सदा विनियोगः ॥२३॥ शेषाणामप्यनुक्तानां वृत्तानां विषयं विना । वैचिच्यमात्रपात्राणां विनियोगो न दर्शितः ।। २४ ॥ इत्येष वश्यवचसां सर्ववृत्तप्रसङ्गिनाम् । उक्तो विभागः सदृत्तविनिवेशे विशेषवान् ॥२५॥ एकस्मिन्नेव पत्ते कृतो द्वित्रेषु वा श्रमः । न नाम विनियोगार्हास्ते दरिद्रा इवोत्सवे ॥ २६ ॥ वृत्ते यस्य भवेद्यस्मिन्नभ्यासेन प्रगल्भता । स तेनैव विशेपेण स्वसंदर्भ प्रदर्शयेत् ॥ २७ ।। एकत्तादरः प्रायः पूर्वेषामपि दृश्यते । तत्रैवातिचमत्कारादन्यत्रारब्धपूरणात् ॥ २८ ।। अनुष्टुप्सततासक्ता साभिनन्दस्य नन्दिनी । विद्याधरस्य वदने गुलिकेव प्रभावभूः ॥ २९ ॥ स्पृहणीयत्वचरितं पाणिनेरुपजातिभिः । चमत्कारैकसाराभिरुद्यानस्येव जातिभिः ॥ ३० ॥ १. पातालविजये काव्ये.

काव्यमाला। हत्तच्छत्रस्य सा कापि वंशस्थस्य विचित्रता। प्रतिभा भारवेयन सच्छायेनाधिकीकृता ॥ ३१ ॥ वसन्ततिलकारूढा वाग्वल्ली गाढसङ्गिनी । रत्नाकरस्योत्कलिका चकास्त्याननकानने ॥ ३२ ॥ भवभूतेः शिखरिणी निरर्गलतरङ्गिणी। रुचिरा घनसंदर्भ या मयूरीव नृसति ॥ ३३ ॥ मुक्शा कालिदासस्य मन्दाक्रान्ता प्रवल्गति । सदश्वदमकस्येव काम्बोजतुरगागना ॥ ३४ ॥ शार्दूलक्रीडितैरेव प्रख्यातो राजशेखरः। शिखरीव परं वक्र: सोल्लेखैरुच्चशेखरः ॥ ३५ ॥ इसेवं पूर्वकवयः सर्ववृत्तकरा अपि । अस्मिन्हार इवैकस्मिन्प्रायेणाभ्यधिकादराः ॥ ३६ ॥ सुवर्णाहमवन्धेपु यथास्थाननिवेशिनाम् । रत्नानामिव वृत्तानां भवत्यभ्यधिका रुचिः॥ ३७॥ तस्माद्यथायं विनियोगमार्गः प्रदर्शितो वृत्तनिवेशनेषु । तथैव कार्यः कविभिः कृतज्ञैरवश्यवाचां नियमस्तु नायम् ।। ३८॥ इत्यारुरुक्षोः प्रथमोपयुक्तं प्रवृत्तवाचश्च विवेककारि । महाकवेरप्यतिसूक्ष्मतत्त्वविचारहर्पपदमेतदुक्तम् ॥ ३९॥ इत्यौचिसप्रचुररचनाविश्रुतश्रव्यवृत्त- व्यक्तिः शक्तिप्रसृतवचसां दर्शिता संग्रहेण । क्षेमेन्द्रेण प्रणयिविपदा हर्तुराश्चर्यकर्तु- भूभृद्भर्तुर्भुवनजयिनोऽनन्तराजस्य राज्ये ॥ ४० ॥ इति श्रीप्रकाशेन्द्रात्मजव्यासदासापरनामश्रीक्षेमेन्द्रविरचिते सुवृत्ततिलके वृत्तविनियोगो नाम तृतीयो विन्यासः । ! 4 ..

५५ . करुणालहरिः। पण्डितराजश्रीजगन्नाथविरचिता करुणालहरिः। विषीदता नाथ विषानलोपमे विपादभूमौ भवसागरे विभो । परं प्रतीकारमैपश्यताधुना मयायमात्मा भवते निवेदितः ॥ १ ॥ भवानलज्वालविलुप्तचेतनः शरण्य तेऽद्धिं शरणं भयादयाम् । विभाव्य भूयोऽपि दयासुधाम्बुधे विधेहि मे नाथ यथा यथेच्छसि ॥ २ ॥ विहाय संसारमहामरुस्थलीमलीकदेहादिमिलन्मरीचिकाम् । मनोमृगो मे करुणामृताम्बुधे .विगाढुमीश त्वयि गाढमीहते ॥ ३ ॥ त्वदनिफुल्लाम्बुजमध्यनिर्गलन्मरन्दनिःस्यन्दनितान्तलम्पटः । मनोमिलिन्दो मम मुक्तचापलस्त्वदन्यमीशान तृणाय मन्यते ॥ ४ ॥ जगत्रयत्राणविधौ धृतव्रतं तवाशिराजीवमपास्य ये जनाः । शरण्यमन्यन्मृगयन्ति यान्ति ते नितोन्तमीशान कृतान्तदेहलीम् ॥ ५ ॥ रमामुखाम्भोजविकासनक्षमो जगत्रयोद्बोधविधानदीक्षितः । कदा मदज्ञानविभावरी हरे हरिष्यति त्वन्नयनारुणोदयः ॥ ६ ॥ सुरासुरखान्तचकोरचुम्बिता समस्तसंतापचयापनोदिनी । महानिशीथे मम मानसे कदा स्फुरिष्यति त्वन्मुखचन्द्रचन्द्रिका ॥ ७ ॥ १. श्रीजगन्नाथपण्डितेन पण्डितराजपदवी दिल्लीप्रभो. शाहजहातः प्राप्तेति तत्कृत- 'आसफविलास'नामकग्रन्थोपोद्धाततोऽवगम्यते । यथा-'अथ सकललोकविस्तारविस्ता. रितमहोपकारपरम्पराधीनमानसेन, प्रतिदिनमुद्यदनवद्यगद्यपद्याद्यनेकविद्याविद्योतितान्त:- करणे. कविमिरुपास्यमानेन, कृतयुगीकृतकलिकालेन, कुमतितणजालसमाच्छादित- वेदवनमार्गविलोकनाय समुद्दीपितसुतर्कदहनज्वालाजालेन, मूर्तिमतेव नव्वाबासफखान. मन.प्रसादेन, द्विजकुलसेवाहेवाकिवामन कायेन, माथुरकुलसमुद्रेन्दुना, रायमुकुन्देना- दिष्टेन, सार्वभौमश्रीशाहजहांप्रसादाधिगतपण्डितराजपदवीविराजितेन, तैलङ्गकुलावतसेन, पण्डितजगन्नाथेनासफविलासाख्येयमाख्यायिका निरमीयत । सेयमनुग्रहेण सहृदयाना- मनुदिनमुलासिता भवतात्. जगदाभरणकाव्ये पण्डितराजेन वणितो दाराशाहोऽयंव शाहजहांमहीपतेज्येष्ठ सूनुरासीत्. २. केषुचित्पुस्तकेय 'विष्णुलहरि.' इत्यस्य ग्र- न्यस्य नाम वर्तते. ३. 'हरे' इति पाठ. ४. 'अपास्यता' इति पाठ.. ५. 'तनाथ' इति पाठ . ६. 'ईश न' इति पाठ . ७. 'धुरधरम्' इति पाठः, ८. 'मुनीन्द्रचित्त- कचकोरजीविका' इति पाठः. ९. 'वन्नख' इति पाठ..

काव्यमाला। -- , मुयौवनापाण्डुरगण्डमण्डलप्रतिस्फुरत्कुण्डलताण्डवादुतम् । गदाग्रज त्वन्मुखफुल्लपङ्कजं कदा मदक्ष्णोरतिथीभविष्यति ॥ ८॥ सुरापगातुगतरङ्गचालितां सुरासुरानीकललाटलालिताम् । कदा दधे देव दयामृतोदधे भवत्पदाम्भोरुहधूलिधोरणीम् ॥९॥ महाजवाश्छिन्नविवेकरश्मयो मदोद्धता देव मदक्षवाजिनः । हरे समासाद्य तवाभिमन्दुरामपास्तवेगा दधतां सुशीलताम् ॥ १० ॥ पुरातनानां वचसामगोचरं महेशितारं पुरुषोत्तमं पतिम् । अपास्य तं त्वां निरपत्रपा सती सैती मतिमें कथमन्यमेष्यति ॥ ११ ॥ न जाग्रता स्वप्नगतेन वा मया समीहितं ते करुणालवाहते । गिरं मदीयां यदि वेत्सि तात्त्विकी तदा जगन्नायक मामुरीकुरु ॥ १२॥ अयि दीनतरं दयानिधे दुरवस्थं सकलैः समुज्झितम् । अधुनापि न मां निभालयन्भजसे हा कथमश्मचित्तताम् ॥ १३ ॥ सुमहान्ति जगन्ति विभ्रतस्तव यो नाविरभून्मनागपि । स कथं पैरमाप्त देहिनां परमाणोर्मम धारणे श्रमः ॥ १४॥ नितरां विनयेन पृच्छते सुविचार्योत्तरमत्र यच्छ मे । करितो गिरितोऽप्यहं गुरुस्त्वरितो नोद्धरसे यदद्य माम् ॥ १५ ॥ न धनं न च राज्यसंपदं नहि विद्यामिदमेकमर्थये । मयि धेहि मनागपि प्रभो करुणाभङ्गितरङ्गिता दृशम् ॥ १६ ॥ अयमत्यधमोऽपि निर्गुणो दयनीयो भवता दयानिधे । वमतां फणिनां विपानलं किंमु नानन्दयिता हि चन्दनः ॥ १७ ॥ क्षुधितस्य नहि त्रपास्ति मे प्रतिरथ्यं प्रतिगृह्णतः कणान् । अकलङ्क यशस्करं नं ते भवदीयोऽपि यदन्यमृच्छति ॥ १८ ॥ १. 'मनोजवाः' इति पाठः. २. 'अलम्' इति पाठ . ३. 'सरस्वती में' इति पाठः. ४. 'न जाग्रति स्वप्नदशान्तरेऽपि वा पर विजाने तव पादपङ्कजात् । इति स्म सत्य यदि भाषितं मया करतोदा जगन्नाथक मामुरीकुरु ।' इति पाठ.. ५. 'इति' इति पाठः. ६. 'अनिभालयनिमम्' इति पाठः, ७. 'परमात्मदेहिन' इति पाठ.. ८. 'दु. गुणो मदनीयः' इति पाठ.. S 'नानन्दयतीह' इति पाठः, .

करुणालहरिः। ५७ नितरां नरकेऽपि सीदतः किमु हीनं गलितत्रपस्य मे । भगवन्कुरु सूक्ष्ममीक्षणं परतस्त्वां जनता किमालपेत् ॥ १९ ॥ नरके निजकर्मकल्पिता भजतो मे महतीरपि व्यथाः । इदमेकमसह्यमीक्षका यदनाथं निगदन्ति मां विभो ॥ २० ॥ मृगदन्तिमुखान्मया सह प्रतिरुद्धान्भवजालवन्धने । तव मामपहाय मुञ्चतः करुणा किं न भिनत्ति मानसम् ॥ २१ ॥ निरुपाधिजनातिहारिणं भगवस्त्वामवगत्य तत्त्वतः। कृतपुण्यचयावहेलनं कथमन्जेक्षण मामुपेक्षसे ॥ २२ ॥ सततं निगमेषु शृण्वता वरद त्वां पतितानुपावनम् । पुरु पापमुपास्यतेऽनिशं त्वयि विश्वासधिया मया विभो ।। २३ ।। सुकृतं न कृतं पुरा कदाप्यथ सर्व कृतमेव दुप्कृतम्। अधुना गलितहिया मया भगवंस्त्वां प्रति कि निगद्यताम् ॥ २४ ॥ मदकामविमोहमत्सरा रिपवस्त्वत्पुर एव विवलम् । धृतशागदारिनन्दक प्रतिकर्षन्ति कथं न लैजसे ॥ २५ ॥ अयि गर्तमुखे गतः शिशुः पथिकेनापि निवार्यते जवात् । जनकेन पतन्भवार्णवे न निवार्यों भवता कथं विभो ॥ २६ ॥ सुकतप्रिय मान्यथास्तु ते सुरुतिभ्यः सुखदस्य सुप्रथा । 'अपि पापमविभ्रतस्तु मां तव विश्वंभरनाम दुर्लभम् ॥ २७ ॥ वचनैः पुरुषैरिह प्रभो यदि रोपं समुपागतोऽसि मे । मुखरं कृतकोटिकल्मपं करुणाब्धे जगतोऽपसारय ॥ २८ ॥ यदि वीक्ष्य ददासि मत्कृति न मयैव प्रतिगृह्यते तदा । अथ चेन्निजमाशयं प्रभो परितुष्टः शिरसा वहामि तत् ।। २९ ॥ पतितोऽप्यतिदुर्गतोऽपि सन्नकृतज्ञो निखिलागसां पदम् । भवदीय इतीरयंस्त्वया दयनीयस्त्रपयैव केवलम् ॥ ३०॥ १. 'नग' इति पाठः. २. 'अवबुद्धय' इति पाठः. ३. 'पुण्यरस' इति पाठः. ४. 'बुध्यसे' इति पाठ.. ५. 'अपि' इति पाठ . ६. 'इत्यथास्तु' इति पाट . ७. 'सुख- दश्च' इति पाठ.. ८. 'तदा परितुप्यन्' इति पाठः. ६, 'लपनीय' इति पाठ., ६८ -- काव्यमाला। मुकतप्रकृतौ जने त्वया कृतया किं कृपया कृपानिधे । यदि मादशि सा विधीयते तव कीर्तिर्वद कीदृशी तदा ॥ ३१॥ आयि शैशवलालितः शिशुः प्रतिबुद्धो जनकेन ताज्यते । न कदापि च लालितस्त्वया किमु ताड्यो भगवन्कुकर्मभिः ॥ ३२ ॥ अहमेव हि दोपदूपितो भगवस्त्वां समुपालभे मुधा । रमणीविरहज्वरज्वलन्नमृतांशु कुमतिविनिन्दति ॥ ३३ ॥ करुणाकर दुर्दशाकुलं पतितालम्वन पापपञ्जरम् । अमृताम्बुनिधे महाज्वरं नहि जह्या जगदीश जातु माम् ॥ ३४ ॥ कटुजल्पनमल्पकस्य मे नहि ते कल्पयतु क्रुधं विभो । कुपितातुरवालभापितं किमु गृह्णन्ति मनाङ्महाशयाः ॥ ३५ ॥ भुजगाहितकल्पितध्वज स्फुरदाशाभुजगालिवेल्लितम् । जटिलज्वरकुञ्जराङ्कुश ज्वरजुष्टं न जहीहि जातु माम् ॥ ३६ नै वदामि न दुष्कृतं मया कृतमित्युक्तिमिमां तु मे शृणु । मम भीतिमनीनशद्विभो पतितोद्धारक नाम तावकम् ॥ ३७ ॥ अपि शर्वपितामहादिभिर्भजनीयः पुरुषोत्तमो हिँ यः । तमुपालभमानमुद्धतं धिगिमं मां धिगिमां धियं मम ॥ ३८ ॥ अथ सर्वमिदं मयोज्झितं भवतोऽन्यन्नहि किंचिदर्थये । मैम मानसगोचरीभवत्वरविन्दाक्ष तवाद्भुतं वपुः ॥ ३९ ॥ हरिनीलमयावनीतले वररन्दाविपिने विलासिनि । मणिमण्डपमध्यविस्फरहिवुधक्ष्मारुहमूलमाश्रितम् ॥ ४० ॥ शिखिपिच्छमहामणिस्फुरन्मुकुटाकुञ्चितकान्तकुन्तलम् । कमनीयतरालकावलिभ्रमणभ्राजिललाटसुन्दरम् ॥ ४१ ॥ १. 'कदाप्यनु' इति पाठ.. २. 'नहि' इति पाठः, ३. अयं श्लोक आर्यमित्र सिकपुस्तकमुद्रितकरुणालयों नास्ति. ४. 'अपि' इति पाठ. ५ 'अपि दर्शय मे द निधे हरचेतोहरणं वपुस्तव' इत्युत्तरार्ध पाठमेदः, ६. 'स्फुटरत्नमय' इति पा ७. 'अतिनीलघनालकावलिश्रमणभ्राजि ललाटपटले' इत्युत्तरार्धे पाठभेदः, २ . । . .... क .

करुणालहरिः। ५९ शरदिन्दुसहोदराननं दलदम्भोजपलाशलोचनम् । अरुणाधरकान्तिदन्तुरस्फुटदन्तांशुविकासिताम्वरम् ॥ ४२ ॥ दरपाण्डुरंगण्डमण्डलप्रतिसर्पकमनीयकुण्डलम् । मणिमौक्तिकमजुमञ्जरीमहनीयद्युतिरञ्जितश्रुति ॥ ४३ ॥ एथुर्वेर्तुलमौक्तिकावलीसुपमावेछितकान्तकंधरम् । हरिनीलगिरिद्युतिगुहा कमलामन्दिरवक्षसाश्चितम् ॥ ४४ ॥ चरणाजनखावलम्बिनीं भुजगाकारभुजान्तरागताम् । निविडाभ्रमिव क्षणप्रभां वृहदुत्फुल्लवनामलस्त्रजम् ॥ ४५ ॥ मणिकङ्कणकान्तिमांसलं दरफुल्लाम्बुजसुन्दरद्युति । पतितोद्धरणे दंढव्रतं कमनीयं करयोयुगं दधत् ॥ ४६ ।। वेररत्नमयाङ्गलीयकावलिशोभामिलिताङ्गुलीगणैः । मुहुराकुलितेन वेणुना वशयत्प्राणभृतां मनःश्रुतीः ॥ ४७ ॥ उदरद्युतिनिम्नगोच्छलल्लहरीरूपकरोमराजिकम् । पशुपालविलासिनीलसन्नयनाकर्पणनाभिनिनितम् ॥ ४८ ॥ कनकद्रवगौरमम्बरं देधेतोरुद्वितयेन सुन्दरम् । उदयन्मणिनूपुरप्रभासरणिश्रेणिजटालजानुकम् ॥ ४९ ॥ अरिगीर्णगजेन्द्रगोपने दधता जाद्धिकतामलौकिकीम् । त्रिजगन्महनीयमूर्तिना वरजङ्घायुगलेन शोभितम् ॥ ५० ॥ कुलिशाङ्कुशकम्बुसाम्बुजध्वजचक्राद्यभिरामलक्ष्मणा । अरुणारुणकोमलविषा कमनीयेन तलेन राजितम् ॥ ११ ॥ १. 'स्फुरत्' इति पाठः. २. 'दन्तुरम्' इति पाठः. ३. 'प्रतिगसत्' इति पाठः ४. 'वर्तित' इति पाठ.. ५. 'तुलसीनवमञ्जरीरज.पटलोल्लासितवक्षसा' इति पाठः, ६. 'चपलामनुशायिनीमिवोद्वहदुत्फुल' इति पाठ.. ७. 'भागलम्' इति पाठ . ८. 'धुरं. धरम्' इति पाठ.. ९. 'नवरत्नमयागुलीयकप्रतिभापिजरिताङ्गुलीगणे' इति पाठ.. १०. 'चारु चराचरान्तरम्' इति पाठः. ११. 'मिलनयनाकर्षणरश्मिभिर्नतम्' इति पाठः. १२. 'दधदूरु' इति पाठः. १३. 'अतिजीर्ण' इति पाठ.. १४. 'वाग्जिध्वजा- म्बुजचका' इति पाठ..

-- - - . । I - ६० काव्यमाला । विधिशर्वमुखामरस्फुरन्मुकुटोन्निन्द्रमणिप्रभाकुलम् । नखचन्द्रमयूखमूर्छिताखिलतापं पदयोर्युगं दधत् ॥ १२ ॥ सरतः सरणौ सतो बहिः खपतो वालपतो गृहान्तरे । वपुरीदशमीश तावकं हृदयालम्बनमस्तु मे सदा ॥ १३ ॥ (कुल नवनीरदनीलिमद्युतिर्नमनीयो निगमनिरन्तरम् । निरये निपतन्तमाशु मां नयनेनापि सनाथयेद्विभुः ॥ ५४ ॥ प्रणिपत्य हरे भवन्तमद्धा विनिवद्धाञ्जलिरेकमेव याचे । जनुरस्तु कुले छपीवलानामपि गोविन्दपदारविन्दभावः ॥ ५५ ॥ वाचा निर्मलया सुधामधुरया या नाथ शिक्षामदा- स्तां स्वप्नेऽपि न संस्मराम्यहमहंभावाटतो निस्पः । इत्यागःशतशालिनं पुनरपि स्त्रीयेषु मां विभ्रत- स्त्वत्तो नास्ति दयानिधिर्यदुपते मत्तो न मत्तः परः ॥ ५६ पातालं व्रज याहि वा सरपुरीमारोह मेरोः शिरः पारावारपरम्परां तर तथाप्याशा न शान्ता तव आधिव्याधिजरापराहत यदि क्षेमं निजं वाञ्छसि श्रीकृष्णेति रसायनं रसय रे शून्यैः किमन्यैः श्रमैः ॥ १८ वजं पापमहीभृतां भवगदोद्रेकस्य सिद्धौषधं मिथ्याज्ञाननिशाविशालतमसस्तिग्मांशुबिस्त्रोदयः । क्रूरक्लेशमहीरुहामुरुतरज्वालाजटालः शिखी द्वारं निर्वृतिसद्मनो विजयते कृष्णेतिवर्णद्वयम् ॥ १८ ॥ विशालविपयाटवीवलयलग्नदावानल- प्रमूवरशिखावलीविकलितं मदीयं मनः । १. 'अमरावलीमुकुटोनिद्र' इति पाठः. २. 'आविलम्' इति पाठः. ३. लोक आर्यमित्रपुस्तके नास्ति ४. 'नवनीय.' इति पाठः. ५. 'निरय निरयन्तम् ६. वाचेन्गदि शोकचतुष्टयमावमित्रपुस्तके- नास्ति. वाचेत्यादि श्लोक भामिनीविलासेऽप्यस्ति. ७. 'माम्' इति पाठः. ८. 'संस्पृशामि' इति पाठः. ९. - पाठ.. - म्येत्' इति पाठः.

अन्योक्तिमुक्तालता। अमन्दमिलदिन्दिरे निखिलमाधुरीमन्दिरे मुकुन्दमुखचन्दिरे चिरमिदं चकोरायताम् ॥ ५९ ॥ सुरस्रोतस्विन्याः पुलिनमधितिष्ठन्नयनयो- विधायान्तर्मुद्रामथ सपदि विद्राव्य विषयान् । विधूतान्तर्ध्वान्तो मधुरमधुरायां चिति कदा निमग्नः स्यां कस्यांचन नवनभस्याम्बुदरुचि ॥ ६० ॥ इति पण्डितराजश्रीजगन्नाथविरचिता करुणालहरि. समाप्ता । महाकविश्रीशंभुविरचिता अन्योक्तिमुक्तालता । मानं मुञ्च विपञ्चि पञ्चमरवन्यकारपारंगमा मा भूवन्कलकण्ठकण्ठकुहरे कुण्ठक्रमास्ते गिरः । प्राप्तः पञ्चशरप्रपञ्चशरणं यद्भुङ्गभङ्गीगुरु- वन्धूकप्रियवान्धवो धैवलितश्यामाधवो माधवः ॥ १ ॥ हेलाक्रान्तहरिन्ति कुन्तलवधूवेणीहरिन्ति स्फुटं भिन्दन्नेष तमांसि लोचनसुधावल्लस्तमीवल्लभः । पश्योद्गच्छति हारिकीरतरुणीहारानकारैः करै- रोकारं कुरु कैरवाकर निजोन्मेषेषु योग्यः क्षणः ॥ २ ॥ सत्यं सन्ति कियन्ति सन्ति न सखे रत्नानि रत्नाकरे संजातस्तु स वस्तुतः स्तुतिकथापात्रं परं कौस्तुभः । यो जातः स्मरकेलिलोलकमलासोल्लासदोःकन्दली- लीलालिङ्गनभाजनं भगवतो वक्षःस्थले शाङ्गिणः ॥ ३ ॥ १. अस्माच्छोकादने आर्यमित्रपुस्तके 'इमा वै विष्णुलहरी जगन्नाथेन निर्मिताम् । य पठेत्तस्य सर्वत्र जायन्ते जयसपद ॥ अय फलश्रुतिश्लोकोऽपि वर्तते. अन्यपुस्तके तु न प्राप्तः. २. मेघराहित्यादुज्ज्वलीकृतचन्द्रः. ३. हेलयाक्रान्तदिमण्डलानि ४. श्या- मवर्णानि. ५. आरम्भम्, 'प्रतीचीसिन्धुवीचीव दिनोंकारे सुधाकरम्' इति नैषधी. यकाव्यम् (२०१२). 'दिनोंकारे दिनप्रारम्भे' इति तहीकाया महिनायनारायणी. ६. समीचीनानि. M काव्यमाला। पातालंच नमत्तलं व गरिमद्वारेण यहारिणा पूरंदूरमरि यत्य बहुलं कडोलकोलाहलः । देवो येन मुकच्च्योऽपि कलितः कच्छेऽपि तत्यान्ममां मगोपदमात्र पूर्णवियों नो वित्नयो न त्मयः ॥ ४ ॥ उन्मुकुले बान्कुलैः शेफालिकानुनले- नत्रान्भोगकुलत्तया विचलिः कान्तं व कान्तं च यन् । तन्निन्मौरभवानि नान्नि किमिदं मौगन्यवन्व्यं मुवा मव्ये मुग्व कुमुन्भर्युन्ममि भवेन्नैवेप युक्तः क्रमः ॥ ५ ॥ यलिन्नतिं कुरङ्गनशां प्रेन्गा किमन्यदुवं यत्राले मदनत्य लुतरमणीमनमो विक्रमः । पर्व नागरसण्डअल्लयमिदं जाल्लः फलोदल- नान्टा हन्त नबोलितं न कलिलं नालाजितं नाहतम् ॥६॥ केनात्र ककेशकरीसनान्तराले बाले बलाहकुलकन्नाल रोपितानि । यत्रानुयुनधुनिहन्तब कानन्लानि नो कुलानि न दलानि न कन्दलानि ।। ७ पत्ते कोरब्धूरदच्छदमुपामाधुयनुद्रां रमो येयां मा परिपाकमनपि त्र भाद्रोहिणी। तेषां पुण्डकाण्ड पा-िउनां वपमा उत्रणां कि मुग्धाः करमा मुत्र विरमा विन्दान्त निन्दन्ति ॥ ८ ॥ नदुर्माद्यति यत्र यत्र भजते नाङ्ग वा यत्र न नौञ्चः किं च मनावति सरत्तन्नु कोऽयं ब्रहः । आने बालनगलमालमत्रमदिजरं गावती- कमांतनिचिनाजमुनुलं यन्नाननं ते नरः ॥ ९ ॥ श्रीमतनिकेत केक कुरु वं कुकलाडवरं हे नीप सदीप दीपय वनो टकं नवग्रैः । १.'उन्न पुग्य. २. फुक इनकः, . ६३ अन्योक्तिमुक्तालता। स्नेहस्नातपुरंध्रिकुन्तललताकान्तिः करोत्यम्बरे नीरोद्गारगभीरधीररसितप्रारम्भमम्मोधरः ॥ १० ॥ गुर्वीमुरूतिलक तिलक स्वीकुरु स्वामभिख्यां रूपं लक्ष्मीनगर तगर श्लाघ्यमुन्मीलयेथाः । भङ्गीमङ्गीकुरु रतिपतेर्भल्लि हे चूतवल्लि प्रक्रान्तोऽयं विषमरमणीमानजैत्रः स चैत्रः ॥ ११ ॥ अद्विद्रोण्यां निवस दिवसं जातलीलानुपङ्गै- रङ्गैर्मा स्म स्मयतरलितैरङ्ग सारङ्ग रङ्गः । दर्पद्वारं द्विरदकदनोदप्रपाणिर्यदये प्रत्यासन्नो वनविहरणक्रीडया कुञ्जरारिः ॥ १२ ॥ कान्ति केतककोरकद्युतिसखी राकामृगाङ्कस्य य- चञ्चच्चञ्चु चलुम्पति प्रतिदिनं प्रेम्णा चकोरामकः । तन्मन्ये नयनामृतं रतिपतेम॒त्यंजयेनार्थिना तेनेदं रमणीकपोलफलके लावण्यमालोकितम् ।। १३ ।। आस्ते रोहत्कनककमले केलिपात्रे मृडान्याः खेलन्हेलोन्मदमधुकरीमानसे मानसे यः । भेकोद्रेकप्रणयिनि वलद्वालजम्बालजाले स स्यादुत्कः परिमितजले पल्वले किं मरालः ॥ १४ ॥ द्यां च मां च गतं यदम्बुशिखरैराक्रान्तनाकोऽप्यसौ मेनाकोऽपि न कोऽपि यत्र दयितं यः सम पद्मापतेः । लोलद्वालकुलीरकम्पकलया देवस्य तस्याम्भसां भर्तुः कस्य कदा कियान्च नु ननु क्षोभो दृशोर्गोचरः ॥ १५ ॥ गर्व खर्व कुरु कररुहोदश्चनं मुञ्च कण्ठे कुण्ठः कण्ठीरव तव रवः किं च संकोचमेतु । शक्तः सप्ताम्बुनिधिपरिखामेखलामेष गुर्वी- मुर्वी वोढुं मदजलसरित्संगतो दिमतङ्गः ॥ १६ ॥ १. 'रगि गतो.

M CC काव्यमाला। चूतं चर्वय चम्पकं चर नवां वासन्तिकामन्तिंका- न्मा मा मुञ्च सविभ्रमं भ्रमर हे सङ्ग लवङ्गे कुरु । एकः कार्मुककर्मनमणि सखा देवस्य कान्तागुरोः प्रक्रान्तः प्रमदामदावहवहन्मन्दानिलो माधवः ॥ १७ ॥ उत्कण्ठाकुलमस्तु कण्टककुले संजायतां ते मनः सानन्दं पिचुमन्दकन्दलदलास्वादेषु का वा क्षतिः । एतत्कि तु तव क्रमेलक कथंकारं सहे दुःसहं तस्मिन्पुण्डूककन्दलीकिसलये येनासि निन्दापरः ॥ १८ ॥ शान्तं कान्तपुरंध्रिकुन्तललतालावण्यचौरं तमः पश्यारोहति पूर्वपर्वतशिखामम्भोजिनीवल्लभः । एवं का गणना तवाद्य हि रतावद्योत खद्योत हे दूर्वाकाण्डतले दिनं नय सखे खोऽस्तु गर्वग्रहः ॥ १९ ॥ अनोन्मीलति मालती स्मितमितो मल्ली समालम्बते तद्रोलम्ब विडम्बनाय नलिनी कि यासि कोऽयं क्रमः । एतस्यामपि दर्दुरैरपि बकैरेकैकमुविते गीते कुण्ठित एव कण्ठकुहरे जायेत ते पञ्चमः ॥ २० ॥ आश्चर्यकनिधिः स दुग्धजलधिर्मन्ये किमन्यद्यतो लेभे जन्म स लोकलोचनमुधासारस्तुपारद्युतिः । देवीकेलिकचग्रहेण ललिते गङ्गातरङ्गाड़िते निःशई निरटदि शंकरजटाजूटेऽपि येन स्थितिः ॥ २१ ॥ कुन्दे कन्दलितादरः सरसिजे संजातकौतूहल: कहारे कलितस्ष्टहः किमपरं यः केतके कौतुकी । निर्माता किममर्त्यराजतरुणीलीलावतंसश्रियो योग्यस्तस्य मधुव्रतस्य ललिताकल्पः स कल्पद्रुमः ॥ २२ ॥ शुभ्रो वा मलिनोऽस्तु वा मृगमदः किं तावता तादृशः कोऽप्यस्यानवधिश्चमत्कृतिनिधिः सौगन्थ्यमेको गुणः । . स - - अन्योक्तिमुक्तालता। ६५ येनैप स्मरविभ्रमैकवसतिर्भाले कपोलस्थले दोर्मूले कुचमण्डले च कुरुते रङ्ग कुरङ्गीदृशाम् ॥ २३ ॥ शान्तध्वान्तकलङ्क शंकरशिरोरत्न त्वमेणाङ्क चे- कंदर्पाङ्करकेन्द कुन्दकलिकाकारैः करैरुद्गतः । तत्कि मीलितमम्बुजैर्विदलितं किं दैन्तिदन्ताङ्करै- भगा कि नु तथा रथाङ्गमिथुनः प्रत्यङ्गमगीकृतः ॥ २४ ॥ अम्पामस्तगिरेः करोतु भजतां विष्णोः पदं गाहतां •क्षामाङ्गो गिरिजाभुजंगमुकुटोत्सङ्गेऽपि गाङ्गं पयः । एष क्लाम्यति केवलं कुमुदिनीकान्तो नहि त्वन्मुखे शङ्के किंकरतां नतागि लभते दूरोऽस्तु साम्यक्रमः ॥ २५ ॥ येनाप्तः कमलाविलासकमले किंजल्कपानोत्सवो यो लीलां वितनोति नाभिनलिनोत्सङ्ग तथा शाङ्गिणः । तस्य स्यात्कुसुमान्तरे मधुलिहः कुत्राप्यहो न स्थिति- नं प्रीतिर्न रतिर्न केलिसमयो नो विस्मयो न स्मयः ॥२६॥ अप्येतानि चुलुम्पितानि चुलकन्यायेन येन क्षणा- त्पारावारपयांसि येन विदधे विन्ध्योऽपि वन्ध्याकतिः । सोऽपि क्वापि भवत्तटे निवसति त्रैलोक्यमान्यो मुनि- स्तन्मन्ये तव नास्ति रोहण परः स्पर्धापरः माधरः ।। २७ ।। रोहत्सौरभविभ्रमाणि कैमलासनानि पद्माकरे पद्मान्यत्र कियन्ति सन्ति नु नतिः का तेषु का वा नुतिः । तत्साक्षादरविन्दमद्भुतलताकन्दं तु वन्देमहि त्रैलोक्यप्रभवः पुरा समभवद्यस्मात्पुराणः कविः ॥ २८ ॥ . १. चन्द्रिकाया हस्तिदन्ता विदलन्तीति कविसंप्रदायः. 'कवादिदन्तर्विस्फोटाश्चन्द्र- कान्तै सिरोद्गम.। श्वयंथुः पयसा पत्या दधे राज्युदयोन्मुखें (1३२४४) इति, 'महेमा. स्तापयत्यक कुर्याद्भमरदान्विधु' (१३३९२) इति च राजतरङ्गिणी. कवाटिनो गजा.. राशि चन्द्रे. २. अगस्त्यः. ३ लक्ष्मीगृहाणि. ४. ब्रह्मा. .

काव्यमाला। चूतं चर्वय चम्पकं चर नवां वासन्तिकामन्तिका- न्मा मा मुञ्च सविभ्रम भ्रमर हे सङ्गं लवङ्गे कुरु । एकः कामुककमनर्माण सखा देवस्य कान्तागुरोः प्रक्रान्तः प्रमदामदावहवहन्मन्दानिलो माधवः ।। १७ उत्कण्ठाकुलमस्तु कण्टककुले संजायतां ते मनः सानन्दं पिचुमन्दकन्दलदलास्वादेपु का वा क्षतिः । एतत्कि तु तव क्रमेलक कथंकारं सहे दुःसहं तस्मिन्पुण्ड्रककन्दलीकिसलये येनासि निन्दापरः ॥ १८ ॥ शान्तं कान्तपुरंजिंकुन्तललतालावण्यचौरं तमः पश्यारोहति पूर्वपर्वतशिखामम्भोजिनीवल्लभः । एवं का गणना तवाद्य हि रतावद्योत खद्योत हे दूर्वाकाण्डतले दिनं नय सखे खोऽस्तु गर्वग्रहः ॥ १९ ॥ अत्रोन्मीलति मालती स्मितमितो मल्ली समालम्बते तद्रोलम्ब विडम्बनाय नलिनी कि यासि कोऽयं क्रमः । एतस्यामपि दर्दुरैरपि बकैरेकैकमुङ्किते गीते कुण्ठित एव कण्ठकुहरे जायेत ते पञ्चमः ॥ २० ॥ आश्चर्यकनिधिः स दुग्धजलधिमन्ये किमन्यद्यतो लेभे जन्म स लोकलोचनसुधासारस्तुपारद्युतिः । देवीकेलिकचग्रहेण ललिते गङ्गातरङ्गादिते निःशकं निरटति शंकरजटाजूटेऽपि येन स्थितिः ॥ २१ ॥ कुन्दे कन्दलितादरः सरसिजे संजातकौतूहल: कतारे कलितस्टहः किमपरं यः केतके कौतुकी । निर्माता किममर्त्यराजतरुणीलीलावतंसश्रियो योग्यस्तस्य मधुव्रतस्य ललिताकल्पः स कल्पद्रुमः ॥ २२ ॥ शुभ्रो वा मलिनोऽस्तु वा मृगमदः किं तावता तादृशः कोऽप्यस्यानवधिश्चमत्कतिनिधिः सौगन्ध्यमेको गुणः ।

. . अन्योक्तिमुक्तालता। येनैप स्मरविभ्रमैकवसतिर्भाले कपोलस्थले दोर्मूले कुचमण्डले च कुरुते रङ्ग कुरङ्गीदृशाम् ।। २३ ॥ शान्तध्वान्तकलङ्क शंकरशिरोरन त्वमेणाङ्क चे- कंदर्पङ्करकन्द कुन्दकलिकाकारैः करैरुगतः । तरिक मीलितमम्बुजैर्विदलितं किं दैन्तिदन्तारै- भङ्गः किं नु तथा रथाङ्गमिथुनः प्रत्यङ्गमङ्गीकृतः ॥ २४ ॥ झम्पामस्तगिरेः करोतु भजतां विष्णोः पदं गाहतां -क्षामाङ्गो गिरिजाभुजंगमुकुटोत्सङ्गेऽपि गाङ्गं पयः । एष लाम्यति केवलं कुमुदिनीकान्तो नहि त्वन्मुखे शङ्के किंकरतां नताङ्गि लभते दूरोऽस्तु साम्यक्रमः ॥ २५ ॥ येनाप्तः कमलाविलासकमले किंजल्कपानोत्सवो यो लीलां वितनोति नाभिनलिनोत्सङ्गे तथा शाङ्गिणः। तस्य स्यात्कुसुमान्तरे मधुलिहः कुत्राप्यहो न स्थिति- न प्रीतिर्न रतिर्न केलिसमयो नो विस्मयो न स्मयः ॥२६॥ अप्येतानि चुलुम्पितानि चुलकन्यायेन येन क्षणा- पारावारपयांसि येन विदधे विन्ध्योऽपि वन्ध्याकृतिः । सोऽपि क्वापि भवत्तटे निवसति त्रैलोक्यमान्यो मुनि- स्तन्मन्ये तव नास्ति रोहण परः स्पर्धापरः क्ष्माधरः॥२७॥ रोहत्सौरभविभ्रमाणि कमलासनानि पद्माकरे पद्मान्यत्र कियन्ति सन्ति नु नतिः का तेषु का वा नुतिः । तत्साक्षादरविन्दमदुतलताकन्दं तु वन्देमहि त्रैलोक्यप्रभवः पुरा समभवद्यस्मात्पुराणः कविः ॥ २८ ॥ dem . १. चन्द्रिकायां हस्तिदन्ता विदलन्तीति कविसंप्रदायः. 'कवाटिदन्तविस्फोटामन्द- कान्तैः सिरोद्गमः । श्वयंथु. पयसां पत्या दधे राज्युदयोन्मुखे'(१३२४४) इति, महेभा स्तापयत्यर्क. कुर्याद्भमरदान्विधुः (१३३९२) इति च राजतरङ्गिगी. कवाटिनो गजाः. राशि चन्द्रे, २. अगस्त्यः. ३. लक्ष्मीगृहाणि. ४. ब्रह्मा.

किं ताभिर्वितताभिरद्रुतकथाकन्थाभिरेतावता वन्द्योऽयं विभुरम्मसां समभवद्रत्नं यतः कौस्तुभः । चक्रे लग्नरमाधनस्तनतटीकर्पूरपत्राङ्कुरे यः श्रीवत्समनोहरे हृदि धृति देवस्य दैत्यगृहः ॥ २९ ॥ नानन्दं मुचुकुन्दकुङ्मलकुले नो केतके कौतुकं नोत्फुल्ले कुमुदे मदं न कुटजे कौटुम्व्यमालम्बते । चोलीदन्तचतुष्किकाशुचिरुचिस्मेरां स्मरन्मालती किं वास्ते तरकोटिकोटरकुटीबद्धास्पदः षट्पदः ॥ ३०॥ “अस्तं यातस्तिमिरपटलीदत्तभङ्गः पतंगः प्राप्तो नैवोदयगिरिशिरोमूलमेणावचूलः । तत्ते कालं कतिपयमयं भाति खद्योतपोतं द्योतं द्योतं पुनरपि पुनौततां को विलम्बः ॥ ३१ ॥ पुष्पोत्करेषु च फलेषु च सावलेप- स्त्वं कन्दलेषु च दलेषु च सावहेलः ।' किं मुग्ध दग्धमकरोः सुरभेरगार- मङ्गारकार सहकारमकारणेन ॥ ३२ ॥ याच्यस्ते खदिरः करीरविटपः सेव्योऽपि किं कुर्महे मार्गः संगत एप ते खरतरुर्यद्वैरवो मारवः 1 तन्मल्लीमुकुलं तदुत्पलकुलं सा यूथिकावीथिका चङ्गं तच्च लवङ्गमङ्ग भवतो हा भृङ्ग दूरं गतम् ॥ ३३ लीनः माधरकंदरासु रचयन्कापि स्थिति भङ्गुरै- रङ्गैरङ्ग कुरङ्ग रङ्गसि कथंकारं विकाराकुलः । प्राप्तः पश्य विचेतुमुदूटसटाटोपः सकोपः स्वयं गर्नत्कुञ्जरपुञ्जभञ्जनपटुः पञ्चाननः काननम् ॥ ३४ ॥ १. सुन्दरम्. में ७ अन्योक्तिमुक्तालता। एताः केरलसुन्दरीरदरुचः सन्त्येव मुक्तालता मल्लीमाल्यमयानि सौरभमरोदामानि दामानि च । किं नीतः शितिकण्ठ कण्ठनिकटं गौरीभुजाकन्दली- लोलालिङ्गनयोग्यमुग्रगरलग्रामः फणिग्रामणीः ।। ३५ ।। सोढं येन पयोभृतां दिवि दलन्नीलारविन्दातां नैवोत्तुङ्गमृदङ्गनादविजयि काप्यूजितं गर्जितम् । वारंवारमुदारवारणरणव्यापारपारंगमो दृष्टः केन कुरङ्गसंगरविधौ कुण्ठः स कण्ठौरवः ॥ ३६ ॥ यत्केलिमन्थरमरालमरालवाल- शेवालकोमलमलं विमलं मृणालैः । तत्पश्य शुष्यति सरः प्रसरत्तुपार- रुद्ध विरुद्धविधिरेव विधिः किमन्यत् ॥ ३७ ॥ त्वय्युद्गच्छति को न बालकलिकाकान्तः कदम्बट्ठमो रोलम्बाकुलकम्प्रकुड्मलकुलल्लान्तो न कः केतकः । दोषः किं तु तवाम्बुवाह कलुपैरुद्वेजितोऽयं जलै- दूरं येन गतो गलत्कमलिनीलीलारसः सारसः ॥ ३८ ॥ रेमे यस्मिन्मधुपपटली यस्य लीलावतीभिः कृप्तो वालैबहुलमुकुलैः केलिकर्णावतंसः । तस्य क्रीडाकुरबकतरोरङ्गके दुर्निवारः स्फारं मुञ्चत्यहह दहनोद्गारमङ्गारकारः ॥ ३९ ॥ वीचीडम्बरमम्बरं नय बलाढेलावनालीमिमा- मुद्यन्नल्पय किं च कल्पय रयात्कल्लोलकोलाहलम् । देवः कोरपुरंध्रिहारलतिकाकारैरुदारैः करैः पश्योदेति समुद्र मुद्रिततमस्तोमस्तैमीवल्लभः ॥ १० ॥ D १. कुटिल. २. चन्द्रः.

काव्यमाला । - यस्य भ्राम्यन्मकरनिकरक्लान्तमूर्तेरसार- स्तारक्षारव्यतिकरखरः सीकरोऽपि व पेयः । तत्ते पाथः पवनजनितोत्तालकल्लोलजालं ज्वालं ज्वालं ज्वलतु जलधे सर्वमौर्वानलेन ॥ ११ ॥ निर्यातं तगरैः स्थितं कुरबकैरुज्जृम्भितं चम्पकैः संजातं वकुलैः स्मितं विचकिलैरुन्मीलितं पाटलैः । कि रोलम्ब विलम्बसे विहरणक्रीडां कुरु क्वापि ते किं चोदञ्चतु वञ्चितामृतरसः पाकाञ्चितः पञ्चमः ॥ ४२ ॥ नासीरद्रवनिर्झरेगमदस्यन्दैस्तथा चान्दनै- निःस्यन्दैः सह वालवालवलये युक्तो निपेकक्रमः । आस्तामेतदमुत्र मालति जलैः सेकोऽपि ते दूरतः संनद्धो यदयं निवद्धजगतीदाहग्रहोऽवग्रहः ॥ ४३ ॥ कलिं कल्पय कोलवाल लवलीवल्लीदलान्याहर- त्रुल्लासैरभिगर्न सैरिम भज त्वं पङ्कतल्पोत्सवम् । म्लानिं मुश्च मयूर दूरय भयं दाञ्चितः पञ्चतां युष्मन्निर्मथनप्रपञ्चचतुरः प्राप्तः स पञ्चाननः ॥ ४४ ॥ कुजे कोरकितं करीरतरुभिद्रेहाभिरुन्मुद्रितं यस्मिन्नङ्कुरितं करञ्जविटपैरुन्मीलितं पीलुभिः । तस्मिन्पल्लवितोऽसि किं वहसि किं कान्तामनोवागुरा- भङ्गीमङ्ग लवङ्ग भङ्गमगमः किं नासि कोऽयं क्रमः ॥ ४५ ॥ • खेलद्वालमृगाङ्कमौलिरमणीदोःकन्दलान्दोलिते पद्मासद्मनि मानसाम्बुनि पदं भेजे च रेजे च यः । हा जम्बालकदम्बचुम्बिनि मदभ्राम्यद्वकालम्बिनि भ्रष्टोऽल्पीयसि वापिकापयसि स त्रासालसः सारसः ॥४६॥ १. नासीर कर्पूरम्. 'श्यामाकामुकमाधवादिविरस नासीरकस्तूरिकाकाश्मीरादि- निरादर मलयजालेपावलेपावहम्' इति स्तुतिकुसुमाजलौ (३३।६) जगद्धरः. 'नासीर घनसारः' इति तोकायां रत्नकण्ठः. २. सूकरशिशो. ३. लम् अन्योक्तिमुक्तालता। ६९ अक्षामं मणिदाम संरणु ननु त्वं दर्शयेथा मुहु- मा मा मुग्धमनोहराः शशिकराकाराश्च हारस्त्रजः । एषा वैकैटिक स्फुटैव पुरतः सा पामराणां पुरी यस्यां काचललन्तिकावितकुचोत्सङ्गाः कुरङ्गदिशः ॥ १७ ॥ यत्कणे च कुचान्तरे रचयितुं युक्तं कुरङ्गीदृशां धत्ते धैर्यधुरां जगत्रयजयस्मेरः स येन स्मरः । तन्मल्लीमुकुलं वनेऽत्र विजने केनापि नोत्तंसितं नाघ्रातं न निरूपितं न कलितं नोदश्चितं नोम्भितम् ॥ १८ ॥ यल्लीलातरला मरालशिशवः प्रेम्णा भजन्ते सरः को वैरिञ्चैविमानहंस भवतस्तस्मिन्निवासग्रहः । यत्संक्रन्दनसुन्दरीकुचतटास्फालोच्छलाद्विन्दुनि स्वच्छन्दं तव सिद्धसिन्धुसलिले तत्रोचिताः केलयः ॥ १९॥ वापी दूरे किरति कुरुते नो मृणालीपु लीला नीलाम्भोजं त्यजति भजते नानकिजल्ककेलिम् । कि तु क्लान्ति वहति नलिनीनाललग्नाग्रकण्ठः क्षामः श्यामारमणकिरणव्याकुलाङ्गो रथाङ्गः ॥ ५० ॥ शोकात्कोककुलैरमीलि कमलैरम्लायि दन्ताङ्करै- रस्फोटि स्फटिकामलैः करटिनां यस्मिन्नवाप्तोदये । तं दृष्ट्वैव कुरङ्गकेतनमहो मुग्धः स दुग्धाम्बुधिः किं मिथ्या नरिनात चञ्चलवलत्कल्लोलदोःकन्दलः ॥ ५१ ॥ तालीपल्लवपाकपाण्डिमसखी यत्कान्तिरन्तर्गतो यत्कोऽपि प्रगुणो गुणः किमपरं यज्जन्म रत्नाकरात् । युक्तो मौक्तिकहार हारिणि कचत्कर्पूरपाकरे त्वत्सङ्गोऽयमनङ्गधामनि कुचोत्सङ्गे कुरङ्गीदृशाम् ॥ १२ ॥ - १. हे रलवणिक्. २. हे ब्रह्मदेववाहन हस. ३. गाजले. ४. हस्तिनान्. ५. चन्द्रम.

काव्यमाला। । - कुन्दे नन्दति कैरवे विहरते पकेरुहे रोहति प्रेमाणं तगरे तनोति भजते सङ्गं लवङ्गेऽपि यत् । तन्मन्ये न ददर्श सौरमभरेणाक्रान्तदिकंदरं कंदकविलासमन्दिरमिमं मन्दारमिन्दिन्दिरः ॥ १३ ॥ कंदककपाणवल्लरि वने कस्मादकस्मादियं हे कालागुरुवालमञ्जरि हहा मोहादिह प्रारुहः। सह्यन्तामुपजातसौरभपरिष्वङ्गैस्तदङ्गौरिमाः कान्तैः कान्तपुरंध्रिकुन्तरभरच्छायैः कुठारच्छिदः ॥ ५४ ।। लीलावासः कुसुमधनुपः कोऽपि यस्याधिवासः कुर्युर्यस्यास्तरुमुकुलकोसङ्गमङ्ग (C) नताङ्गन्यः । सान्द्रे तस्मिन्नपि जडतया पङ्कशङ्कां वहन्तो हन्त खान्तं मृगमदरसे पामरा नार्पयन्ति ॥ ५५ ॥ उढापि दुतरङ्गिणि त्रिजगतीवन्येन तेनाप्यहो मौलौ वालकुरङ्गकेतनकलालीलावतंसाविते । तारक्षारकरं करालमकरं सश्वभ्रमभ्रंकपं मुग्धे जाज्यनिधि मुधा जलनिधि यातासि चित्राः स्त्रियः॥५६॥ नीरं नीरसमस्तु कौपमिति तत्पाथो वरं मारवं कासाराम्बु तदस्तु वा परिमितं तहास्तु वापीपयः । पाने मज्जनकर्मनमणि तथा वारिलं वारिधे कल्लोलावलिहारिभिस्तव नमःसंचारिभिर्वारिभिः ॥ १७ ॥ कान्तिर्यस्य विनिद्रनीलनलिनच्छायासखी सुभ्रवां यत्पङ्केऽपि मुदोऽस्ति यस्य सुरभिः कासां रसोऽगोचरः । अङ्गारार्थितया जनैरतिजडैरुद्धामरैः पामरैः पश्यैष प्रगुणैर्गुणैरपि गुरुर्दग्धः स कालागुरुः ॥ ५८ ॥ एतैर्जातैः किमिह बहुभिर्भोगिभिः किं तु मन्ये मान्यः कोऽपि प्रभवति जगत्येकशेषः स शेपः। १. हे गणे. २. शिवेन. C 7 ७ अन्योक्तिमुक्तालता। यस्मिन्गौरीष्टथुकुचतटीकुड्मस्थासकाङ्के येन स्थाणोरुरसि रचितो हारवल्लीविलासः ॥ १९ ॥ यस्मिन्रोहति निम्बडम्बरमियान्यस्मिन्करीरद्रुमै- रुद्रेकः कलितः पटोलपटली यत्रेयमुन्मीलति । तस्मिन्नत्र निवेशितासि विपिने केनासि हा दुःसहः सह्योऽयं सहकारमञ्जरि कथंकारं निकारज्वरः ॥ १० ॥ द्वित्रान्वारिलवानवाप्य जलदादारम्भि संरम्भिाभः क्रीडाताण्डवडम्बरः शिखिकुलैः केकारवव्याकुलैः । उन्मीलत्कनकाव्जचुम्बिनि सुधानिःष्यन्दिदुग्धाम्बुनि प्राप्ते सारस मानसेऽपि भवता नैको विकारः कृतः ॥ ६१ ॥ चूतं मुश्च त्यज सरसिजं मृङ्ग मा गा लवङ्गं सङ्गं दूरीकुरु कुरबके केतके मा निपीद । लीलोत्तंसीकृतमुकुलकः खर्गसीमन्तिनीभि- यत्ते दैवात्परिसरगतः पारिजातः स जातः ॥ १२॥ पश्यैताः कति न स्फुरन्ति सरितः सान्द्रारविन्दच्छद- च्छायाभिः शिशिराः खरातपविपनिर्वापिका वापिकाः । माद्यन्मेदुरदर्दुर वककुलैरप्याकुलं सेव्यते तत्कस्मादविचार्य सारस रसान्निःसारनोरं सरः ॥ ६३ ॥ ब्रूमः किंचन जगुपुत्रि जडिमा कस्मादियान्स्वीकृतः पाथोधाग्नि कृतः करालमकरासङ्गेऽपि यत्संगमः । यन्मौलौ कलितं शशाङ्ककलिकाकान्ते सपाङ्गस्य त- त्पश्य स्वादु च हारदामशुचि च क्षारायते ते पयः ॥ ६४ ॥ ये तावन्ति पेयःटषन्ति जलदादत्यन्तमुत्कण्ठिता याचन्ते च नदन्ति च प्रतिपदं सन्त्येव ते बहिणः । - . १. समुद्रे. २. जलकणान.

७२ काव्यमाला । . . , . यः शूलाङ्कशिरःशशाङ्ककलिकापीयूपवर्षेऽप्यहो नो जातः प्रणयी स तारकरिपोरन्यः पुनर्वहिणः ॥ ६५ ॥ मुञ्चत्यन्तर्विचकिलरुचि चूतवल्लीविलासं मल्लीलीला सरसिजरसं केतकीकौतुकं च | जातप्रीतिर्बकुललतिकामुन्मिपत्कोरकान्तां कान्तां किं तु यति रचयन्पञ्चमं चञ्चरीकः ।। ६६ ।। उद्यद्विद्युति मेचकातिभृति स्त्रीणां मनोमोहिनि व्योमारोहिणि नीलकण्ठरमणीकेलिप्रदे वारिदे। यासि क्वापि मरालवालक वकक्रौञ्चाविले पल्वले सद्यन्तां कतिचिद्वियुक्तवनितादत्तज्वरा वासराः ॥ ६७ ॥ अङ्गाङ्किकया कलङ्कमतसीनीलं लुनीहि स्वयं सर्वा किं च निपिञ्च चन्दनरसस्यन्दैरमन्दैस्तनुम् । उद्यन्नङ्ग कुरङ्गकेतन भवानेवं भवेद्भाजनं जाने तामनुकर्तुमाननगतां भङ्गी कुरङ्गीदृशः ।। ६८ ॥ आनीतैरिपुकार कारणमिह श्लाव्यैः किमेभिः शरैः प्रख्यातामपि किं न पामरपुरीमेतां पुरः पश्यसि । दात्रं पात्रमिति ब्रवीति कुरुते स्तोत्राणि तोत्रे रसं धत्ते यत्र हले कुतूहलमपि ग्रामीणकग्रामणीः ॥ ६९ ।। यल्लीलातरलैरलचि कपिभिवालाभिरौनिलो यच्चक्राम यदाचचाम चुलकेनैकेन कुम्भोद्भवः । तस्मिन्नेव नगेन्द्रनन्दन सखे हे पार्वतीसोदर त्वं मेनाक जवाज्जले जलनिधेर्मजन्न किं लज्जितः ॥ ७० ॥ त्वं कालं नय कैरवेऽत्र विहॉल्लीलारविन्दे रस- न्कहारे निवसन्मधुव्रत पतन्नकेऽपि पङ्केरुहाम् । 'मयूरो बर्हिणो वहीं' इत्यमरः. २. क्षुद्रशस्त्रविशेपेण, and . M A .

३ अन्योक्तिमुक्तालता। ७३ शेफालीमुकुलैरलायि बकुलैरम्लायि किं चामलै- स्तैर्मल्लीमुकुलैरमीलि दहनालान्ते वनान्ते यतः ॥ ७१ ।। कान्तिर्लोचनवर्तिरदुतमयी मूर्तिर्महत्सौरभ निःष्यन्दोऽथ सुधाकरादपि सुधास्यन्दादपि हादकः । सर्वोऽयं विरलो जगत्यपि गुणग्रामोऽभिरामो हहा पश्योत्तंसभुजंगसंगमजुपः श्रीखण्ड ते खण्डितः ॥ ७२ ॥ येन प्राप्तः सुरभितककुप्कंदरः कोऽप्युदारो मान्दारोऽपि भ्रमररमणीदत्तरागः परागः। स त्वं तत्त्वं वद पदमहो मुग्ध कस्मादकस्मा- दस्मिन्मिथ्या मधुपं कुरुषे कर्णिकारे किमेतत् ॥ ७३ ॥ यद्गौरीरमणेन नाकतटिनीनीराङ्किते मूर्धनि न्यस्तः स्फारफणः फणी भवतु तच्चित्रः प्रभूणां विधिः । एतत्कि तु कथं सहेमहि महदुःसं यदनामुना निःशकं कलितः शशाङ्ककलिकापीयूषपानोत्सवः ॥ ७ ॥ दृष्टाश्चम्पकसंपदो विचकिलश्रेणी गता गोचरं प्राप्त केतकधाम कैरववनं दृष्टं विमृष्टं च तत् । सा श्रीस्तन्मधु तन्मधुव्रतकुलं तत्सौरभं वेधसा साश्चर्य निरमायि हेमकमल त्वय्येव तुभ्यं नमः ॥ ७९ ॥ बद्धः कोऽपि शिखामणिस्तव नवो मुक्तागुणो गुम्फितः कान्तः कृत्रिमपुत्रिके यदि कृतः कर्पूरपत्राङ्कुरः । तत्किचिन्नयनाअनं रतिपतिहादप्रदा सा गति- स्तन्मुग्धं हसितं सदामृतरसं मुञ्चन्कुतः पञ्चमः ॥ ७६ ॥ मुश्चैतां नवमालिकां कुरु पुरोमा मालतीमाल्यक मा मा मालिक मल्लिकालजमपि क्वापि त्वमुन्मुद्रयेः । लग्दामैकरतः कुतः कथमय स्यात्कर्णपूरोन्मुखः कुग्रामेऽत्र कदावतंसरसिको जायेत जाल्मो जनः॥ ७७ ॥ .

-- ७४ काव्यमाला। . - ܕ - हासश्चेदमृतं मृतं यदि रुचिर्नोद्दीपकं चम्पर्क वाचश्चेत्कलकण्ठकण्ठकुहरे कुण्ठक्रमः पञ्चमः । कि चान्यद्यदि मारमण्डनमणिस्पर्धाधरस्तेऽधरः सत्यं सुन्दरि वैट्ठमोऽपि विरमत्संपल्लवः पल्लवः ।। ७८ ॥ लीलोद्यानतलेऽपि केऽपि तरवो निष्कान्तयः किं तु ते. निःसारेऽपि खरेऽपि चम्पक मरौ रूढस्य दैवादिह । कान्तिः सैव स एव पल्लवगुणः सैव द्विरेफावली छाया सैव स एव सौरभभरस्ता एव पुष्पश्रियः ॥ ७९ ॥ कूपोल्लङ्घनकर्मनर्म विपमं जानन्ति शाखामृगा झम्पामप्युपकल्प्य कंचन पदं यान्ति प्लवंगाः परे दुर्वारेऽपि दुरुत्तरेऽपि विपुलस्फारेऽपि वारां निधौ हेलैव वगप्रभोः कृतजगत्पारिप्लवो विष्लवः ॥ ८ ॥ मुक्त्वाम्भोधि मदनजयिनः किं कपालावडे चूडामूले सितकरकले कल्पितोऽयं निवासः । यत्ते निर्यन्नयनदहनाङ्गारसङ्गेन गात्रं तत्रोन्मीलद्वकुलकलिकाकोमलं तान्तिमेति ॥ ८१ ॥ वल्लीभिज्वलितं जलैरपगतं दावानलैरुद्तं दभैरङ्कुरितं रवेरपि खरैर्यस्मिन्करैर्दीपितम् । तत्रैवासि मरौ शिरीप जगतीसारोऽपि सत्पल्लव- प्रस्तारोऽपि परिस्फुरत्परिमलोद्वारोऽपि हा रोपितः ॥ ८२ ॥ कैलासः क्वचिदुद्वहन्नपि पुराराति यदप्यायता- मूर्वीप विभर्ति सागरसरिद्गुर्वी गिरिग्रामणीः । लीलाकन्दुकविभ्रमेण तमपि प्रागेतमेकः करे चक्रे विक्रमभासुरः सुरचमूविद्रावणो रावणः ॥ ८३ ॥ लास्याभ्यास जहिहि विहितोत्रपीयूषमेकां केकां दूरीकुरु गुरुरयं मुग्ध वर्हिन्विमोहः । १ हनुमतः. २. महीधरत्वात्.

• . अन्योक्तिमुक्तालता। ७५ मिथ्या बिभ्रत्कनकनिकपस्निग्धसौन्दर्यलेखां विद्युल्लेखामुदयति यतः शारदोऽयं पयोदः ॥ ८ ॥ हंस भ्राम्यदनेकभेकशवले पङ्काविले पल्वले युक्तास्ते किमसारवारिणि रणत्क्रौञ्चाकुले केलयः । तल्लीलालससारसं हि सरसं दृष्टं त्वया मानसं वीचिन्यश्चितकाञ्चनाम्बुजरजःप्रस्तारमनं सरः ।। ८५॥ कान्तिर्यस्य शरन्निशाकरकलालावण्यसंवादिनी तं विक्रेतुमिहाँसि यासि किमहो हार विहारं श्रियः । एतां पश्य पुरः पुलिन्दनगरी भूपाः कुरङ्गीदृशां यत्रता गलकन्दले च कुचयोरड्वे च गुजास्त्रजः ।। ८६ ॥ लक्ष्मीवछभकेलितरुपमुदधिर्यजन्मभूर्भूपर्ण यन्मौलौ च कुचस्थले च सुदृशां पात्रं यदेव श्रियः । तन्मुक्ताफलमेतदस्थिकणिकाशङ्कापरैः पामरै- दूरे मुक्तमयुक्तमुक्तमापि च न्यकारयुक्तं वचः ॥ ८७ ॥ यस्मिन्विस्मयजन्म मन्मथमहोत्साहप्रदं सौरमं यस्य स्यात्कुचकुड्मलोपरि परिप्वगः कुरङ्गीदृशाम् । नेदं तस्य जनकनन्दन सहे हे चन्दन क्वापि ते मूले हालहलाकुलैरहिकुलैर्यत्संगमोऽङ्गीलतः ॥ ८॥ बालैः पञ्चशरी शिरीपमृदुलैर्निर्माय यत्पल्लवैः शङ्के शंकरसंगरेऽपि चतुरो जातोऽङ्ककारः स्मरः । सा श्रीस्तानि दलानि ते मधुलिहस्तत्सौरभं मल्लिके तस्यास्ते विरतं दवानलशिखामात्रेण धात्रे नमः ॥ ८९॥ मुग्धा स्था कुमुदिनीरमणे चकोराः को राग एप जडिमाग्लपिता मतिर्वः । १. त्वम्. २. 'च्युत्पन्नयोद्धा' इति श्रीकण्ठचरितटीकायां (१।४३) जोनगजः, काव्यमाला। M . एतन्न पश्यथ मुखं मंदिरेक्षणानां यस्मिन्स किंकरति कैरैविणीकुटुम्बः॥९॥ न कुन्दं सामोदं जनयति मुदं नैव कुमुद न सारं कलारं कुसुमतिलकं नैव तिलकम् । उदात्तं निधूतं न च.कमलमावर्जकमलं तदश्रान्तभ्रान्तभ्रमरवलयं चेत्कुवलयम् ॥११॥ निर्मायाम्बुनि नर्मकर्म कवलक्रीडां कुरु श्यामलैः शेवालैबिसकन्दलैरविरलैलैिर्मृणालीदलैः । ' हे मातङ्ग तरङ्गरजपटलीखेलत्पुलिन्दागनं लक्ष्मीप्राङ्गणमङ्गसंगतमिदं पुण्यैर्हि पम्पासरः ॥ ९२ ॥ वापीवारिणि हंस शंस कतरः प्रेमग्रहो गम्यता खेलत्पल्लवपार्वतीभुजलतालोलोमि दिव्यं सरः । व्याप्य व्योम च दिङ्मुखानि च नदत्युद्दामसौदामनी- दामव्याप्तवपुर्वियुक्तवनितादम्भोलिरम्भोधरः ।। ९३ ॥ कंचित्कालं नय गिरिगुहागहरे रे मुधैव क्रीडन्हालाहलरसलसदर्प मा सर्प सर्प । माद्यन्नुद्यत्सजलजलदव्याकुले मेघकाले येन प्राप्तो वनविहरणोत्कण्ठया नीलकण्ठः ॥ ९ ॥ चित्रे चन्दनचित्रके समुचिते कर्पूरपत्राङ्करे कस्तूरीमकरेषु कुङ्कुमरसस्थासेषु यत्कौतुकम् । १. मदिरा दृष्टिविशेषस्तद्युक्ते ईक्षणे यासाम्. 'आघूर्णमानमध्या या क्षामा चाञ्चित. लोचना । दृष्टिविकसितापागा मदिरा तरुणे मदे ।। इति हरविजयटीकायामलकरा- जानकः, 'तथा संगीतकलिकायाम्-सौठवेन परित्यक्ता स्मेरापागमनोहरा । वेपमा- नान्तरा दृष्टिर्मदिरा परिकीर्तिता ॥' इति (१८७९ मितस्निस्तसवत्सरमुद्रित-विक्र- मोर्वशीयटिप्पणे ५२ पृष्ठे) शंकर-पाण्डुरङ्ग-पण्डित . मल्लिनाथस्तु (रघुवंशटीकायाम् ८६८) 'माद्यत्यनयेति मदिरा लोकप्रसिद्धा । तथापि 'नार्यो मदिरलोचनाः' इत्यादि- प्रयोगदर्शनान्माद्यत्याभ्यामिति मदिरे अक्षिणी यस्या.' इति वदन्भ्रान्त एव भाति. २. चन्द्रः. ३. हे सर्प, मा गच्छ. ४. स्थासक एव स्थास:. .

. अन्योक्तिमुक्तालता। किं कुर्मस्तदमुत्र पामरपुरे सैरध्रि दूरेऽस्तु ते उत्ता यत्र कुतः प्रसाधनविधौ वाऽपि वामध्रुवाम् ॥ ९५ ॥ यल्लीलाम्बुजनर्म केतकलताकौतूहलं मालती- माल्यप्रेम लवङ्गसंगमरसः कङ्कलिकोलक्रमः । तत्सर्वं विजहाति किं तु रसयत्यालम्बते सादरं नन्दन्नन्दनकन्दलीसुमनसामामोदमिन्दिन्दिरः ॥ ६ ॥ माद्यन्मद्गु वलद्वकावलि बलिक्रौञ्चाविलं पल्वलं मन्ये मान्य मराल पङ्कपटलीयुक्तं न युक्तं तव । तत्त्वन्नेत्रपुटीरसायनरसासारं ससारं सर खच्छं गात्रनिमज्जनोत्सुकसुरस्त्रीमानसं मानसम् ॥१७॥ अम्भोजर्गलितं तर्विघटितं हंसर्दुतं विद्रुतं वापीभिर्विरतं पुरैव पतितैरद्याविलैस्त्वज्जलैः । हा घिकिं पुनरप्युपार्जितमहादौर्जन्य पर्जन्य हे प्रारब्धोऽयमतानवैरभिनवैर्वारिप्लवैविप्लवः ॥ ९८ ॥ तापातकं कलय विलयं याहि हे दुर्निवारं वारं वारं विगलितगतिर्नेह दाहं सहेयाः । दैवादग्रे खरतरजरद्दर्भसंदर्भगों नेदीयांस्ते नववनदवोद्दीपितः पान्थ पन्थाः ॥ ९९ ॥ यदूतं च भवच्च भावि च कुलं भूमण्डले भूरुहां तन्मध्ये न बभूव नास्ति भविता न क्वापि ताडक्तरुः । साम्ये यश्चलकेलिकङ्कणरणत्कारागदोर्लेखया पौलोम्या निहितालवालपयसः कल्पद्रुमस्य क्षमः ॥ १०० ॥ लब्धं वल्गदवल्गुमद्गुरसितं सोद्रेकमेकस्वरं किं च क्रौञ्चवचःप्रपञ्चविरसं देवादिदं ते सरः । तत्ते हंस न गीतिरत्रसरसा सा कान्तसीमन्तिनी- लीलाचड्रमणक्रमानुकरणोद्युक्ता च युक्ता गतिः ॥ १०१ ॥ १. गच्छ. २. इन्द्राण्या.

. काव्यमाला। । उन्मीलन्मुकुलो न चात्र वकुलो नाव काः केतका नास्मिन्कोमलकुमला विचकिला नोद्दीपकाश्चम्पकाः । तत्कि मुग्ध मुधैव दग्धसिकतागर्भः सदर्भो मरो- मार्गः पान्थ पतत्पतगकिरणाङ्गारोऽयमगीकृतः ॥ १०२ ॥ वार्ता यत्र न शेखरेषु न तथा धम्मिल्लमाल्यप्रथा 'कर्णोत्तंसकथा न काचन न च स्वग्दामनामग्रहः । तस्मिन्मालतिवल्लि हालिकपुरे रूढासि पश्यैप ते स्वात्मन्येव शमं गतस्त्रिजगतीगण्यो गुणानां गणः ॥१०३॥ एतस्मिन्विपुले प्लवंगमकुले जातो गुणैरप्रणी- रेकः क्वापि कपिः स कोऽपि मरुतां वन्द्यो मरुन्नन्दनः । केलिप्राङ्गणवापिकावदभवद्यस्याम्भसां भर्तरि द्राक्कल्लोलविकारकल्पितजगत्कम्पेऽपि झम्पारसः ॥ १०४ ॥ साश्चर्याः सरसाश्च सन्ति सरितः पाथःपतिप्रेयसि क्षोणीविभ्रमवैजयन्ति तदपि त्वां ताम्रपणि स्तुमः । स्वच्छे निर्जितनारिकेलसलिलस्वादिनि यद्वारिणि प्राप्तः केतकपत्रगर्भरुचिभिर्मुक्ताफलैरुद्भवः ॥ १०५ ॥ इयं यदि रदच्छदच्छविरपाटला पाटला नतानि तव चेदियं रुचिरकिचनं काञ्चनम् । किमन्यदमृतद्रवः श्रवणयोरिदं चेद्वचः क्क न भ्रमरयोपितां गलदहंकृतिहुँकतिः ॥ १०६ ॥ उद्भिन्ना कलकण्ठकण्ठकुहरात्कर्णामृतस्यन्दिनी हृद्या यद्यपि मार्दवैकवसतिः सा काकलीहुंचतिः । अन्यस्तन्वि तथापि ते पशुपतिलुष्टस्य जीवार्पणे पञ्चेपोरुचितः प्रपञ्चितरसः पाकाश्चितः पञ्चमः ।। १०७ ॥ या लक्ष्मीः स्मरकामुके स्फुरति या वाले प्रवाले रुचि- यौँ नीलाम्बुरुहच्छदे मृदुमरुत्प्रेडोलिते विभ्रमः । १. हे समुद्रपत्नि. २, पुष्पविशेषः, ।

. सेन्यसेवकोपदेशः। या कान्तिः कनकाम्बुजेऽपि सकलं द्रष्टुं तदेकत्र चे- चेतः कन्दलिताद्भुतं तव सखे पश्याननं सुभ्रवः ॥१०॥ इति महाकविश्रीशंभुकृतान्योक्तिमुक्तालता समाप्ता । महाकविश्रीक्षेमेन्द्रकृतः सेव्यसेवकोपदेशः। विभूषणाय महते तृष्णातिमिरहारिणे । नमः संतोपरताय सेवाविषविनाशिने ॥ १॥ उत्सृज्य निजकार्याणि सद्भिर्वाप्पाकुलेक्षणम् । 'सेव्यसेवकसेवानां क्रियतामनुशासनम् ॥ २॥ दीदेकः परो लोभाहावन्धौ सेव्यसेवको । धनोष्मदैन्यविकृती मुखे कः कस्य पश्यति ।। ३ ।। दुर्वारमोहलोभान्धो यदि न स्यादयं जनः । कः क्रूरक्रोधविधुरं सहेत धनिनां मुखम् ॥ ४ ॥ यः पृथ्वीमपि दन्धिो न पश्यति पुरःस्थिताम् । स दैन्यलघुतां यातं कथं सेवकमीक्षते ॥ ५॥ अगात वाहयत्येको वधिरं स्तौति चापरः । अहो जगति हास्याय निर्लज्जो सेव्यसेवको ॥६॥ दूरं हुंकारमात्रेण विसृष्टो मार्गणः सदा । गुणभ्रष्टः क्रियाहीनो नोद्वेगं याति सेवकः ॥७॥ मन्ये सुकृतिना तेन भागीरथ्यां कृतं तपः । वैराग्यभागी रथ्यां यः सेवासु न विगाहते ॥ ८॥ कथितलेशवापेन शापेनेव विपाकिना । सेवातापेन पच्यन्ते नह्यदुष्कृतिनो नराः॥९॥ अदैन्यपुण्यमनसां यशस्तेषां विराजते । सेवापनकलङ्कानां यैन पात्रीकतं शिरः ॥ १०॥ १.मार्गणो याचकः, शरश्च, ८०, काव्यमाला। . 3 प्रभुप्रणामे जठरं दैन्यमूलं विलोकयन् । प्रवेष्टुं सेवकः शङ्के विलक्षः क्षितिमीक्षते ॥ ११॥ सेवाध्वजोऽनलिनि हदि दैन्यं मुखे स्तुतिः । आशाग्रहगृहीतानां कियतीयं विडम्बना ॥ १२ ॥ अकालागमनक्रोधविधुरेश्वरचक्षुषा । क्षिप्रं स्मर इवायाति सेवको दग्धभूतिताम् ॥ १३ ॥ पुनः सेवावमानानां तेन दत्तं तिलोदकम् । प्रैविश्य वाहिनी येन खड्गपात्रीकृतं वपुः ॥ १४ ॥ कणरत्तिपरिक्लिष्टः कष्टं सेवकचातकः । चॅनाशानिरतो नित्यमुद्रीवः परिशुण्यति ॥ १५ ॥ निःसंतोषः परित्यज्य भ्रमरः पुष्पितं वनम् । सेवते दानलोभेन मातङ्गमपि सेवकः ॥ १६ ॥ जडसेवापरिक्लिष्टस्तीव्रदृम्भवकव्रतः । कृच्छ्रेण क्षणिकां प्रीतिमासादयति सेवकः ॥ १७ ॥ नित्यमुन्नतिकामोऽपि मानभङ्गादधोमुखः । यत्सत्यमुभयभ्रष्टत्रिंशङ्कुरिव सेवकः ॥ १८ ॥ स्वमांसविक्रयासक्तः प्रभुवेतालघहितः । निःसत्त्वः प्रलयं याति रात्रिसेवासु सेवकः ॥ १९ ॥ भूमिशायी निराहारः शीतवातातपक्षतः । मुनिव्रतोऽपि नरकक्लेशमश्नाति सेवकः ॥ २० ॥ १. ईश्वरो धनवान् , शिवश्च. २. भलिभस्म, संपञ्च. ३. वाहिनी सेना प्रविश्य येन वपुः खड्गपात्रीकृतम्. युद्धे मृत इत्यर्थः. तेन सेवाजनितावमानानां तिलोदक जलाञ्जलिर्दत्तम्. अन्योऽपि वाहिनी नदी प्रविश्य खड्गपात्र गण्डकचर्मनिर्मितमर्थ्य- पात्रमादाय पिलभ्यस्तिलमिश्रमुदक ददाति. ४. घना निपिडा आशा, अथ च धनानां मेघानामाशा. ५. मातगो गजः, चण्डालश्च. ६. त्रिशङ्ख म कश्चिद्राजा स्वर्ग प्राप्तस्ततश्च देवैः पुनरपि मर्त्यलोके पात्यमानो विश्वामित्रवचसा मध्ये स्तम्मितोऽद्यापि दक्षिणदिशि नक्षत्ररूपण तिष्ठतीति पौराणिकाः.

. सेव्यसवकोपदेशः। ८१ - - करोति सेवकः सेवां तावदाशामिवायताम् । यावद्भोगरसज्ञेन यौवनेन वियुज्यते ॥ २१ ।। चक्षुर्यअलौ पाणिः स्तुतौ जिह्वा नतौ शिरः । अहो नु सेवकैः कायः परोपकरणीलतः ।। २२ ।। हन्त याच्यावमानेन सेवको लघुतां गतः । सेवापङ्कपदे मनो यदन्विष्टो न लभ्यते ॥ २३ ॥ अविश्रान्त्याविरक्तस्य दीर्घोच्छ्ासेन शुष्यतः । जरेव दुःसहा जन्तोः सेवा संकोचकारिणी ॥ २४ ॥ त्रुध्यति क्लिन्नतन्त्रीव मालेव म्लायति क्षणात् । सेवा नारचयत्येव दिनच्छेदेन नश्यति ॥ २५ ॥ सेवासंक्षपिताङ्गानां राजरथ्यासु शुष्यताम् । तीव्रतृष्णाविपार्तानां शरणं शमवारिदः ॥ २६ ॥ लोमस्य मोहाध्वनि वृद्धभावे जाता दुराशाशयितस्य सेवा । अधोमुखी सा सततं सलज्जा जरत्कुमारीव न कस्य शोच्या ॥२७॥ आशेव शून्येषु विवर्तमाना तृष्णव संतोषपरामुखीयम् । दिवानिशं कर्षणदीर्घरज्जुः सेवा सुराणामपि दैन्यभूमिः ॥ २८ ॥ निसर्गवन्ध्यासु फलाशया ये कुर्वन्ति सेवासु सदा प्रयत्नम् । कृषिप्रवृत्ताः शशशृङ्गकोव्या खनन्ति मूर्खाः खलु खस्थली ते ।। २९ ।। अन्तःस्थितेऽप्यात्मनि यैः क्रियन्ते सेवाप्रवत्तैः पुरुषैः प्रणामाः । दुग्धाब्धिकलोलिनि कूलकच्छे तृष्णातुरास्ते जलमर्थयन्ते ॥ ३० ॥ भागीरथीतीरवनान्तरेषु फलावननेषु महाद्रुमेषु । क्षुत्तापतृष्णाशमनेषु सत्सु किं दैन्यसेवाव्यसनावमानैः ॥ ३१ ॥ नित्यप्रसक्त्या न सृजत्यवज्ञा न लौल्यगर्हागणनां करोति । अत्यन्तयामासु न याति खेदं भिक्षाभुजां पात्रमतो नु सेव्यम् ॥ ३२ ॥ जयन्ति ते स्वस्ति नमोऽस्तु तेभ्यः प्रभुप्रणामच्युतमानरत्नम् । सेवाप्रयासव्यसनेषु मिथ्या रथ्यारजोभागि शिरो न येषाम् ॥ ३३ ।।

- ८२ काव्यमाला। . किं राजभिर्दुर्जनजन्मजालव्याप्तैरवप्रप्तैरपि कष्टदृष्टः। सन्त्येव सेव्या भुवि भूभृतस्ते तटेपु येषां मुनयो निविष्टाः ॥ ३४ ॥ तृष्णातुराणां रजसा व्रतानां सेवाकुंकूलानलतापितानाम् । शान्त्यै हितं चन्द्रकिरीटजूटमैत्रीपवित्रं त्रिदशापगाम्भः ॥ ३५ ॥ उत्सृज्य तीव्र विषयाभिलापं संतोषपोषं कुशलो भजख । इत्यर्थ्यमानः सुखसेवयायमात्मैव सर्व सुधियां ददाति ॥ ३६ ॥ एकस्य जाने सुखभोगभाजः श्लाव्यस्य सेवाव्यसनं निवृत्तम् । सदैव शिश्नोदरवर्जितत्वादयाच्ययाच्नारहितस्य राहोः ॥ ३७ ॥ सेवाव्रते प्राय इवोपविष्टः सर्वात्मना निश्चितजीवनाशः । द्वाःस्थैः प्रयत्नेन निवारितोऽपि न दुहं मुञ्चति नष्टसंज्ञः ॥ ३८॥ तमोऽध्वतापेन च चिन्तया च शीतेन दैन्येन च पिण्डिताङ्गः । सुखाशया दुःखसहस्रभागी सेवाव्रतं मुग्धमतिबिभर्ति ॥ ३९.॥ गच्छामि गच्छामि दिनं गतं मे दिने गतोऽहं न नृपोऽद्य दृष्टः । इति ब्रुवाणस्य सदा जनस्य जीर्णातरां तस्य तनुर्न तृष्णा ॥ ४० ॥ विच्छेदकारी सहसा कथानामनीप्सितो दीप इव प्रविष्टः । संसक्तवस्त्रान्तरमक्षिकेव न सेवकः कस्य करोति दुःखम् ॥ ११ ॥ धूमायमानोऽक्षिविपक्षभूतश्चाटुक्रमोत्पादितकर्णशूलः । कुसेवकः पादतलेऽवलग्नः पदे पदे कण्टकतामुपैति ॥ ४२ ॥ एकः खमेव क्षितिमीक्षतेऽन्यः स निर्जनार्थी स च गाढलग्नः । स्वे खार्थिता तस्य (१) भृशं स चार्थी कथं स सेव्यः स च सेवकोऽस्तु ॥ ४३॥ छायाग्रहो मूर्त इवानुयायी स्थितश्चिरं वृश्चिकनिश्चलश्च । अकालपाती सुखकेलिलीलांयन्त्रोपलः सेवकदुर्विदग्धः ॥ ४४ ॥ विसृज्यमानोऽप्यनिशं न याति तीव्रोपरोधप्रणयेन मूर्खः । भर्तुः प्रसादे विहितप्रयत्नो जातः परं प्रत्युत कोपहेतुः ॥ ४५ ॥ १. कुकूलशब्दस्तुपामिवाचक', तस्मादत्रानलशब्दोऽधिक इवाभाति. परंतु क- वयस्त्वेवमेव प्रयुअते, यथा-'शिरीपादपि मृगी केयमायतलोचना । अय क च कुकू- लामिकर्कशो मदनज्वर. ॥' २. अनशनव्रते. ३. शनैश्चरः.

सेव्यसेवकोपदेशः । ८३ शूत्कारिदीर्घश्वसितानुबन्धैनिवेदितोडेगगतिप्रयासः । अतिप्रवेशात्खरमार्गणोऽसौ निरस्यमानो विफलत्वमेति ॥ १६ ॥ श्रीरत्रचन्द्रवरवाजिगजोजितेऽस्मि- भगम्भीरराजकुलनानि महासमुद्रे । 'अनाति मूढमतिरीश्वरतामवाप्तु- माशावशाक्षितिपतेर्बहु कालकूटम् ॥ १७ ॥ विरम विरम नेयं पान्थ नम्राम्रमाला बधिर खदिरपाली निप्फलैपा प्रयाहि । इति बहुविधमुक्तः सेवकोऽन्यापदेशै- स्त्यजति न विपुलाशापाशबद्धः कुसेवाम् ॥ १८ ॥ अम्लाना सरसत्वमेति न पुनर्मालेव लमातपा भन्ना काचमयीव संधिघटना योगेन न श्लिष्यति । सेवा दीपशिखेव दुर्गतगृहे संधार्यमाणा परं निःस्नेहा क्षयमेति खेदजनितैरुच्यासमालानिलैः ।। ४९ ॥ कैस्त्वं गत्वर सेवकस्त्वरितता कस्मात्मभुर्दश्यते लाभः कस्तव तत्र वेत्रिविपुलाघातैः शिरस्ताडनम् । किं मृद्गासि मुदा विशालचरणैमिथ्यैव रथ्यामिमां बन्धो वन्ध्यनरेन्द्रभव्यभवनभ्रान्त्या विडम्ध्यामहे ॥ ५० ॥ सुप्ताकर्षणदाम धाम महतो मोहस्य दैन्यस्य वा सेवाक्लेशमहर्निशं विपहते यो वित्तलेशाशया। प्रस्फूर्जवडवाग्निगर्भगहनोद्भूतोमिमालाकुलं संक्षुब्धं मकराकरं प्रविशति श्रीरनलब्ध्यै न किम् ।।११।। व्यर्थात्यर्थगतागतव्यतिकरैरान्ततीव्रत्वरो द्वारालोकनतत्परः परिजनैरुत्सार्यमाणः परम् । यनेनैव पुरः प्रवेशकलनैः क्लेशावमानाश्रयः सर्वापत्पिशुनः शुनः सदृशतामालप्स्यते सेवकः ॥ १२ ॥ १. अन्योक्तिभिः. २. उक्तिमत्युक्तिरूपोऽयं श्लोकः. - काव्यमाला। कूजक्रूरकपाटपीडनरुपा दत्तप्रहारैः पर द्वारावस्थगनाय मुस्थिरभुजैःस्थैर्भृशं भासितः। कुठलीभूय जनस्य जानुविवरैः क्षिप्रप्रवेशोत्सुकः पृच्छत्यन्तरनिर्गतानवसरं मौनव्रतान्सेवकः ॥ ५३॥ द्वारे रुद्धमुपेक्षते कथमपि प्राप्तं पुरो नेक्षते विज्ञप्तौ गजमीलनानि कुरुते गृह्णाति वाक्यच्छलम् । निर्यातस्य करोति दोषगणनां स्वल्पापराधे यमः स खामी यदि सेव्यते मरुतटे किं नः पिशाचैः कृतम् ॥१४॥ नित्यं राजकुले न पूज्ययजने तहारपालार्चन भक्ति भूतिसमुद्भवे न तु भवे ध्यानं धने नात्मनि । दृष्टादृष्टविचिन्तनं नरपतौ न खोचित कर्मणि श्रीहतोबत निष्फलं प्रकुरुते सर्व जडः सेवकः ॥ १५ ॥ सा तीव्र जडनिनपातनरता नो नित्यसक्ता त्वरा रथ्यापङ्ककलङ्कितं न वदनं न द्वारपालैः कलिः । यस्मिस्तच्चिरसेवक प्रविततं पुण्यं वनं गम्यतां क्रूरास्ते न भवन्ति तत्र विकतक्रोधोद्धताः पार्थिवाः ॥१६॥ हहो कष्टविनष्ट सेवक सखे खिन्नोऽसि पोषाशया रागश्चेद्विभवे तदेष कुपतिः क्लीवः किमासेव्यते । सेव्यः कोऽपि महेश्वरः स भगवान्यस्य प्रसादेक्षणै- रक्षुण्णैः करुणास्पदीकतमरुन्नाथो मरुत्तः कृतः ॥ १७ ॥ राज्ञामज्ञतया कृतं यदनिशं दैन्यं तदुत्सृज्यतां संतोषाम्भसि मृज्यतामपि रजः पादप्रणामार्जितम् । संतोपः परमः पुराणपुरुषः संविन्मयः सेव्यतां यत्स्मृत्या न भवन्ति ते सुमनसां भूयो भवग्रन्थयः ॥१८॥ १. महामारत आश्वमेधिकपर्वणि मरुत्तकथा द्रष्टव्या, द्रोणपर्वणि च पश्चपश्चा. शत्तमेऽध्याये.

ܪܐ नेमिदूतम् । उत्सृज्य प्राज्यसेवां विजनसुखजुषां भूभुजां व्याजभानां छित्वाशापाशवन्धान्विमलशमजलस्तीव्रतृष्णां निवार्य । स्थित्वा शुढे समाधौ किमपरममृतं मृग्यतां ज्योतिरन्त- यस्मिन्दृष्टे विनष्टोत्कटतिमिरमरे लभ्यते मोसलक्ष्मीः ॥ ५९॥ वृत्त्या जीवति लोकः सेवावृत्तिर्निजैव केषांचित । अस्थाने तीव्रतरा निन्द्या तु तदर्थिनां सेवा ॥६॥ विद्वज्जनाराधनतत्परेण संतोषसेवारसनिर्भरण । क्षेमेन्द्रनाम्ना सुधियां सदैव सुखाय सेवावसरः कृतोऽयम् ॥ ६१ ॥ इति श्रीव्यासदासापराख्यमहाकविश्रीक्षेमेन्द्रकृतः सेव्यसेवकोपदेश. समाप्तः । श्रीविक्रमविरचितं नेमिदूतम् । प्राणित्राणप्रवणहृदयो बन्धुवर्ग समग्रं हित्वा भोगान्सह परिजनैरुप्रसेनात्मजां च । श्रीमान्नेमिविषयविमुखो.मोक्षकामश्चकार स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ १॥ सा तत्रोच्चैः शिखरिणि समासीनमेनं मुनीशं नासान्यस्तानिमिपनयनं ध्याननि—तदोषम् । योगासक्तं सजलजलदश्यामलं राजपुत्री वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ।। २ ॥ उद्दीक्ष्यैनं शमसुखरतं मेदुराम्भोदनादै- नृत्यत्केकिव्रजमथ नगं मोन्मिपन्नीपपुष्पम् । सा शोकार्ता क्षितितलमगात्स्यान्न दुःखं हि नार्याः कण्ठाश्वेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ ३ ॥ तां दुःखार्ता शिशिरसलिलासारसारैः समीरे- राश्वास्यैवं स्फुटितकुटजामोदमत्तालिनादैः ।

८६ काव्यमाला। . - साध्वीमद्रिः पतिमनुगतां तत्पदन्यासपूतः प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ ४ ॥ सिद्धेः सङ्गं समभिलपतः प्राणनाथस्य नेमेः सा तन्वङ्गी विरहविधुरा तच्छिरोऽधिष्ठितस्य । तत्संमोहाइतमनुनयं शैलराज ययाचे कामाती हि प्रकृतिरूपणाश्चेतनाचेतनेषु ।। ६ ।। सा तं दूना मनसिजशरैर्यादवेशं बभापे रक्षेत्स्वामी शरणगमसौ भूपतीनां तु धर्मः। तन्मां खामिन्नव भवदधीनां समभ्यर्थये त्वां याच्या मोघा वरमधिगुणे नाधमे लब्धकामा ।। ६ ॥ तुझं शृङ्गं परिहर गिरेरोहि यावः पुरी स्वां रत्नश्रेणीरचितभवनद्योतिताशान्तरालाम् । शोभासाम्यं कलयति मनाड् नालका नाथ यस्या वाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहD ॥ ७ ॥ आलोक्यैनं तरलतडिदाक्रान्तनीलाब्दमालं प्रावटकालं विततविकसधूथिकाजातिजालम् । अन्तर्जाग्रहिरहदहनो जीवितालम्बनेऽलं न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः ॥ ८ ॥ अस्मादद्वेः प्रसरति मरुत्प्रेरितः प्रौढनादै- मिन्दानोऽयं विरहिजनताकर्णजाहं पयोदः । यं पश्यैताः पथिकवनिताम्भोजचन्द्रातपाभाः सेविण्यन्ते नयनसुभगं खे भवन्तं वलाकाः ॥ ९॥ वीक्ष्याकाशं नवजलधरश्याममुद्दामकामा- विर्भावेनं व्यथितवपुषो योपितो विह्वलायाः । काले कोऽस्मिन्वद यदुपते जीवितेशाढतेऽन्यः सद्यःपाति प्रणयिहृदयं विप्रयोगे रुणद्धि ॥ १० ॥ .

. ८७ नेमिदूतम् । शैलप्रस्थे जलदतमसा छादिताशाम्बरेण स्निग्धश्यामाखनचयरुचासादितामिनभावाः । यामिन्योऽमूर्विहितवसतेर्वासराश्चाजनेऽस्मि- न्संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ ११ ॥ तन्मत्वैवं ब्रज निजपुरी द्वारकां सत्सहायै- गोविन्दाद्यैः सममनुभवासाद्य राज्यं सुखानि । कामं तेषां यदुवर पुनःसंगमे भाविनी ते स्नेहव्यक्तिश्चिरविरहनं मुञ्चतो वाप्पमुष्णम् ॥ १२ ॥ वन्याहारा धृतमुनिजनाचारसाराः सदारा यां नाथान्ते वयसि सुधियः क्षत्रियाः संश्रयन्ति । किं तारुण्ये गिरिवरभुवं सेवसे तां तपोभिः क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य ॥ १३ ॥. कात्र प्रीतिस्तव नगवरे चार तहारकाया- स्त्यक्त्वोद्यानं युवयदुमनोन्मादि यत्रासुरारिः। निर्जित्येन्द्र ससुरमनयत्पारिजातं (लोका- दिड्नागानां पथि परिहरन्स्थूलहस्तावलेपान् ॥ १४ ॥ यत्मागासीदनलविलसपणाभाभिरामं भात्यारोहन्नवधनजलोद्भिन्नवल्लीचयेन । तत्ते नीलोपलतटविभाभिन्नभासाधुनाङ्गं बहेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥ १५ ॥ रम्या हम्र्यैः क्व तव नगरी दुर्गशृङ्गः क्व चाद्रिः कैतत्काम्यं तव मृदु वपुः क्व व्रतं दुःखचर्यम् । चित्तग्राह्यं हितमिति वचो मन्यसे चेन्ममालं किंचित्पश्चाइज लघुगतिर्भूय एवोत्तरेण ॥ ११ ॥ कुर्वन्पान्यास्त्वरितहृदयान्संगमायाङ्गनाना- मेनं पश्याधिगतसमयः स्वं वयस्यं मयूरम् । .

८.
काव्यमाला।
.
.
जीमूतोऽयं मदयति विभो कोऽथवान्योऽपि काले
प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥ १७ ॥
पूर्व येन त्वमसि वयसा भूपितोऽङ्गे समग्रे
तैस्तैः क्रीडारससुखसखैभव्यभोगैरिदानीम् ।
तत्तारुण्यं सफलय पुरी द्वारकामेत्य शीघ्र
सद्भावाः फलति न चिरेणोपकारो महत्सु ॥ १८ ॥
किं शैलेऽस्मिस्तव निवसतो न व्यथा कापि चित्ते
संत्यज्य स्वां पुरमनुपमा द्योतते नाथ यस्याः।
त्वत्सोधेनासितमणिमयाग्रेण हैमोग्रवप्रो
मेघश्यामः स्तन इव भुवः शेपविस्तारपाण्डुः ॥ १९ ॥
यामालोक्य स्वगृहगमनायोत्सुकाः स्युस्त्वदन्ये
पश्याकाशे जलदपटलेऽस्मिन्वलाकावली ताम् ।
अन्तर्विद्युत्स्फुरितरुचिरे सुप्रकाशेन्द्रचापे
भक्तिच्छेदैरिव विरचितां भूतिम) गजस्य ॥ २० ॥
युक्तं लक्ष्म्या मुदितमनसो यादवेशाः सभाया-
मासीनं यं निजपुरि चिरं त्वामसेवन्त पूर्वम् ।
संप्रत्येकः श्रयसि स नगं नाथ किं वेत्सि नैवं
रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ।। २१ ॥
मुक्तातङ्कास्तव यदुविभो जिह्वयानं लिहन्तः
संक्रीडन्ते शिशव इव येऽङ्के समाधिस्थितस्य ।
संप्रत्येते पुरमभियतो विप्रयोगेण नेत्रैः
सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥ २२ ॥
एतत्तुङ्गं त्यज शिखरिणः शृङ्गमङ्गीकुरुष्व
प्राज्यं राज्यं प्रणयमखिलं पालयन्बन्धुवगें ।
रम्ये हम्ये चिरमनुभव प्राप्य भोगानखण्डा-
न्सोत्कण्ठानि प्रियसहचरीसंभ्रमालिङ्गितानि ॥ २३ ॥

८९ - नेमिदूतम् । धूतोनिद्रार्जुनपरिमलोद्गारिणः पान्थसार्था- न्ये कुरिजलदमरुतो वेश्मसंदर्शनोत्कान् । तैः संस्टष्टो,विरहिड्दयोन्माथिभिः स्वां पुरी नु प्रत्युद्यातः कथमपि भवान्गन्तुमाशु व्यवस्येत् ॥ २४ ॥ नोत्साहस्ते स्वपुरगमने चेद्वियुक्ता त्वयाहं वृद्धावेतौ तव च पितरौ तजनास्ते त्रयोऽमी । म्लानास्याब्जाः कलुपतनवो ग्रीष्मतोयाशयामाः संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ २५ ॥ तन्नः प्राणानव तव मते जीवरक्षैव धर्मों वासार्थ वः सुरविरचितां तां पुरीमेहि यस्याः । वप्रप्रान्ते स्फुरति जलधेहरि वेलारमण्याः सभ्रूभङ्गं मुखमिव पयो वेत्रवत्याश्चलोमि ।। २६ ॥ अस्मादद्रेः प्रतिपथमधः संचरन्दानवारेः क्रीडाशैलं विमलमणिभिर्भासुरं द्रक्ष्यसि त्वम् । अन्तः कान्तारतरसगलदूषणैर्यो यदूना. मुद्दामानि प्रथयति शिलावेश्मभिर्योवनानि ॥ २७ ॥ तस्योद्याने वरतरुचिते त्वं मुहूर्त श्रमात- स्तिष्ठेस्तुष्टो विविधतदुपानीतयुप्पोपहारैः । पुष्णनन्तश्चर परिमलोद्गारसारस्मितानां छायादानक्षणपरिचितः पुष्पलावीमुखानाम् ॥ २८ ॥ दृष्ट्वा रूपं तव निरुपमं तत्र पीनस्तनीनां तासामन्तर्मनसिजरसोल्लासलीलालसानाम् । कर्णाम्भोजोपगतमधुकृत्संभ्रमोद्यहिलासै- लोलापाङ्गैर्यदि न रमसे लोचनैवञ्चितोऽसि ॥ २९ ॥ तस्मिन्नुद्यन्मनसिजरसाः प्रांशुशाखावनाम- व्याजादाविष्कृतकुचवलीनाभिकानीकलापाः । १२ 1 काव्यमाला। - संधास्यन्ते त्वयि मृगशस्ताविचित्रान्विलासा- स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ ३० ॥ त्वां याचेऽहं न नयविदुपां क्वापि कार्य विलम्बो गन्तव्या ते सपदि नगरी वा यतः सा त्वदम्बा । मुक्ताहारा सजलनयना त्वद्वियोगार्तिदीना काय येन त्यजति विधिना स त्वयैवोपपाद्यः ॥ ३१ ।। तस्याधस्ताद्विपमपुलिनां स्वर्णरेखामतीतो 'मागें दृष्ट्वा पुरमनुपमां तां भवान्वामनस्य । भुक्त्वा लोकोपचयमवनि नाकिनामागतानां शेपैः पुण्यैहतमिव दिवः कान्तिमत्खण्डमेकम् ।। ३२ ॥ यस्यां सान्द्रोऽनुपमचलितो वेश्मसु खेच्छयैवं मुष्णनगात्सुरतललितादुजयन्तीं विगाह्य । खेदं तीरे विदलितपुटः सेवते वारनारी सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ ३३ ॥ यत्र स्तम्भान्मरकतमयान्देहली विद्रुमाणां प्रासादाय विविधमणिभिनिर्मितं वासवेन । भूमि मुक्ताप्रकररचितां हास्तिकं चापि दृष्ट्वा संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेपाः ॥ ३४ ॥ अत्रात्युप्रैः किल मुनिवरो वामनः प्राक्तपोभि- लब्ध्वा सिद्धि निखिलभुवनव्यापिना विग्रहेण । ईशं वामं भुजगसदने प्रापयदानवाना- मित्यागन्तूनमयति जनो यत्र बन्धूनभिज्ञः ॥ ३५ ॥ तामासाद्य प्रवरनगरी विश्रुतां संनिवास कुर्याः पौरैवर विहितानेकपूजोपचारः । आस्तीर्णान्तर्विमलशयनेष्वग्रसौधेपु कामं नीत्वा खेदं ललितवनितापादरागाड़ितेषु ॥ ३६ ॥ , ९१ . नेमिदूतम् । उद्यानानामुपतटभुवामुज्नयन्त्याः समन्ता- दाधुन्वद्भिविपुलविकसन्मालतीजालकानि । अङ्गान्मार्गश्रमजलकणान्सेव्यसेऽस्यां हरद्भि- स्तोयक्रीडानिरतयुवतिस्त्रानतिक्तैर्मरुद्रिः ॥ ३७ ।। तत्रोपास्यः प्रथितमहिमा नाथ देवस्त्वयाद्यः प्रासादस्थः क्षणमनुपमं यं निरीक्ष्य त्वमश्णोः । शृण्वन्प्रेक्षामुरजनिनदान्वारिवाहस्य तुल्या- नामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥ ३८ ।। त्वद्रूपेणापहृतमनसो विस्मयात्पौरनार्यः सौन्दर्याधःकतमनसिजे राजमार्ग प्रयाति । प्रातस्तस्यां कुवलयदलश्यामलाङ्गे सलील- मामोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान्कटाक्षान् ॥ ३९ ॥ तस्याः पश्यन्वरगृहततिं तां व्रजेद्या स्टशन्ती- मैक्यं प्राप्यासितरजनिषु प्रस्फुरद्रत्नदीपाः । विद्योतन्ते निहततिमिरव्योममार्गश्च लोके शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या॥४०॥ पौरस्तस्यां रथमुपहृतं रम्यमास्थाय यान्तं द्रष्टुं ग्राम्याः पथि युवतयस्त्वामुपैयन्ति तस्मात् । शब्दैस्तत्र स्खलदुपलजैरथिसार्थीकतश्री- स्तोयोत्सर्गस्तनितमुखरो मा च भूविलवास्ताः ॥ ४१ ॥ त्वामायान्तं पथि यदुवराः केशवाद्या निशम्य प्रीता बन्धूंस्तव पितृमुखान्सौदानन्दयन्तः । साकं सैन्यै रथमभिमुखं प्रेषयिष्यन्ति तूर्ण मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकत्याः ॥ ४२ ॥ श्रुत्वा तीरे तदनुजलधेरागतं सोपहारो मान्यो मन्त्री यदि बलपुराच्छीरिणस्त्वामुपेतः ।

९२ काव्यमाला। . . 1 तस्यादेया स्वशयविहिता सत्क्रिया तेन वेत्सि प्रत्यारत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः ।। ४३ ॥ गच्छेवैलातटमनु ततस्तोयमुल्लासिमत्स्य स्वच्छं काचच्छवि जलनिधेस्तस्य पश्यन्रथस्थः । यः कामीव क्षणमपि सरित्कामिनीनां न शक्तो मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥ ४४ ॥ तां वेलाङ्के विमलसलिलामागतां द्रक्ष्यसि त्वं पूर्वोद्दिष्टां सरितमसकद्वारिभिर्वीचिहस्तैः । यामालिङ्गयोपरमति पिवन्यन्मुखं न क्षणार्ध ज्ञातास्वादो विपुलजधनां को विहातुं समर्थः ॥ ४५ ॥ तस्मिन्नुच्चैर्दलितलहरीसीकरासारहारी वारां राशेस्तटजविकसत्केतकामोदरम्यः । खेदं मार्गक्रमणजनितं ते हरिप्यत्यजत्रं शीतो वायुः परिणमयिता काननोदुम्बराणाम् ! ४६ ॥ नाम्ना रत्नाकरमथ पुरस्तादूजे वीक्षमाणो जज्ञे यस्मागुवनभयकत्तत्पुरा कालकूटम् । यत्रासाध्यं निवसति जगद्दाहदक्षं जलाना- मत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः ॥ ४७ ॥ त्वामायान्तं तटवनचरा मेघनीलं मयूरा दृष्ट्वा दूरान्मधुरविरुतैस्तत्र ये संस्तुवन्ति । त्वं तान्दिव्यध्वनिभिरुदधेः सान्द्रितैः संनिकृष्टः पश्चादद्रिग्रहणगुरुभिर्गजितैर्नर्तयेथाः ॥ १८ ॥ उत्कल्लोला विपुलपुलिनाग्रेऽथ भद्राभिधाना सा ते सिन्धुर्नयनविपयं यास्यति प्रस्थितस्य । वातोडूतैर्हसति सलिलैर्या शशाङ्कांशुगौरैः स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥ ४९ ॥ - . - । . - नेमिदूतम् । उच्चैमिन्नं जवितमुदधौ हारि नीरं रथस्थे तस्यास्त्वय्युत्तरति सरितो यादवेन्द्र प्रवाहम् । वीक्षिष्यन्ते क्षणमनिमिषो व्योममाजोऽतिदूरा- देकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥ ५० ॥ तामुत्तीर्णः पुनरधिवसेरीशपौराभिधानं नानादेशागतजनचयैः पूर्णरम्यापण तत् । यस्याकाशं स्टशति निवहो वेश्मनामू-भागा- त्पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ॥ ५१ ॥ तस्माद्वानघ तव कियद्गच्छतो भाति दुर्ग पड्काकीर्णं नवतृणचितं तत्र तोयाशयानाम् । कुर्वन्नब्दः किल कलुषतां मार्गणैः प्रागरीणां धारापातैस्त्वमिव कमलान्यभ्यषिश्चन्मुखानि ॥ १२ ॥ नानारत्नोपचितशिखरश्रेणिरम्यः पुरस्ते यास्यत्यक्ष्णोविषयमचलो मादनो गन्धपूर्वः । यं सोत्कण्ठो नवमिव पुनर्वीक्षितुं कान्त हर्षा- दन्तः शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥ १३ ॥ यस्मिन्पूर्व किल विरचितां वामभागे भवानी देवीं वीक्ष्य त्रिपुरजयिनः स्वेच्छया केलिभाजम् । जहोः पुत्री तदनु दधतोऽ।ऽभ्युपेयं सपत्नी शंभोः केशग्रहणमकरोदिन्दुलग्नोमिहस्ता ॥ ५४॥ आरूढस्य स्फटिकमणिभूश्वेतसानुप्रपाते यस्मिन्छेले विमलविलसत्कान्तितोयप्रवाहा । संक्रामन्त्या तव धनरुचा छायया खर्धनीव स्यादस्थानोपगतयमुनासंगमेवाभिरम्या ॥ ५५ ॥ भास्वद्भास्वन्मणिमयबृहत्तुङ्गशृङ्गाग्रसंस्थाः संप्रत्युद्यत्परिणतफलश्यामला वामभागे । . 4 3 काव्यमाला। यस्मिञ्जम्बुक्षितिरुहचया धारयियन्ति सान्द्राः शोभा शुभ्रत्रिनयनपोत्खातपङ्कोपमेयाम् ॥ १६ ॥ श्रुत्वायान्तं द्रुतमुपगतास्तत्र वन्दिव्रजा ये त्वां यावन्तः प्रथितयशसं येऽर्थिनो दौःस्थ्यदीनाः । तान्कुर्वीथाः सममिलपितार्थप्रदानैः कृतार्था- नापन्नातिप्रशमनफलाः संपदो ह्युत्तमानाम् ॥ १७ ॥ आकर्ष्याद्विप्रतिरवगुरु वानरास्त्वत्सकाशे क्रोधाताम्रास्ततमुखरवं तत्र येऽभिद्रवन्ति । तान्योधानां विमुखय पुनरुणानिनादैः के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥ १८ ॥ तस्मिन्नद्रौ निवसति विभुः स स्वयंभूर्भवो वा देवः सेवापरसुरगणैर्वन्द्यपादारविन्दः । यद्धयानेनापहृतदुरिता मानवाः पुण्यभाजः संकल्पन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ॥ ५९ ॥ नीपामोदोन्मदमधुकरं गुञ्जनं गीतरम्यं केका वेणुक्वणितमधुरा बहिणां चारु नृत्यम् । श्रोत्रानन्दी मुरजनिनदस्त्वत्प्रयाणे यदि स्या- संगीतार्थों ननु पशुपतेस्तत्र भावी समग्रः ॥ ६ ॥ 'तस्माद्च्छन्नथ पथि भवान्वीक्षिता वेणुनाख्यं शैलं नीलोपलपरिचयाशेपसानूच्छ्रयं तम् । व्याप्याकाशं नवजलभृतां संनिभो यो विभाति श्यामः पादो बलिनियमनायोद्यतस्येव विष्णोः ॥ ६१ ॥ तांस्तान्यामानपि शुचिगिरि दक्षिणेन व्यतीत्य द्रष्टास्यग्रे सितमणिमयं सौधसंघं स्वपुर्याः । क्रान्त्वा वर्ष वियति विशदैः शोभते योऽशुजालै राशीभूतः प्रतिदिशमिव त्र्यम्बकस्याट्टहासः ॥ ६२ ॥ t arra - . ९६ ॥ . नेमिदूतम् । प्रत्यासत्ति विशदशिखरोत्सङ्गभागे पयोदे नीलस्निग्धे क्षणमुपगते पुण्डरीकप्रभस्य । शोभा काचिद्विलसति मनोहारिणी यस्य संप्र- त्यसन्यस्ते सति हलभृतो मेचके वाससीव ॥ ६३ ॥ प्राप्योद्यानं पुरपरिसरे केलिशैले यदूनां विश्रामार्थ क्षणमभिरति गोमतीवारि पश्यन् । उत्सर्पद्भिर्दधदिव दिवो वर्त्मनो वाजिसंधैः सोपानत्वं कुरु मणितटारोहणायाग्रयायी ॥ ६४ ॥ तत्रासीनो मुररिपुयशो निश्चलः किंनरीमिः शृण्वंस्तिष्ठतिसुखकरं गीयमानं मुहूर्तम् । शब्दैरश्वस्खलितरवजदुरैरम्बुराशेः क्रीडालोलाः श्रवणपरुर्गजितीषयेस्ताः ॥६५॥ सान्द्रोन्निद्रार्जुनसुरभितं प्रोन्मिपत्केतकीक 'हृद्यं जातिप्रसवरजसास्वादमत्तालिनादैः। नृत्यत्केकामुखरशिखिनं भूषितोपान्तभूमि नानाचेष्टैर्जलदललितैनिर्विशेस्तं नगेन्द्रम् ॥ ६६ ॥ तस्या हर्षादवकतमहास्ते प्रवेशाय पुर्या निर्यास्यन्ति प्रवरयदवः संमुखाः शौरिमुख्याः । या कालेऽस्मिन्भवनशिखरैः प्रक्षरद्वारि धत्ते मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ॥ ६७ ॥ शश्वत्सान्द्रखतनुमहसं प्रोल्लसद्रनदीपा मानप्रांशु शिखरनिवहैव्योममार्ग स्टशन्तः । गौरं ज्योत्स्नाविमलयशसा शुभ्रवर्णाः सुधाभिः प्रासादास्त्वां तुलयितुमलं यत्र तैस्तविशेषैः ॥ ६८ ॥ यामुद्दामाखिलसुररिपून्माथिनो दानवारेः साहाय्याय प्रथितमहसोऽध्यासते योधवर्याः।

काव्यमाला। . नानादैत्यप्रहरणभवैः संगरेषु वकीर्त्या प्रत्यादिष्टाभरणरुचयश्चन्द्रहासव्रणाकैः ॥ ६९॥ व्याधिदेहान्स्टशति न भयाद्रक्षितुः शाङ्गपाणे- मृत्योर्वार्ता श्रवणपथगा कुत्र यहासभानाम् । कामक्रीडारससुखजुपां यच्छतामर्थिकामा- न्वित्तेशानां न च खलु वयो यौवनादन्यदस्ति ॥ ७० ॥ कणे जातिप्रसवममलं केतकं केशपाशे कस्तूरीभिः छतविरचना गण्डयोः पत्रवल्ली। कण्ठे माला ग्रथितकुटजा मण्डनं भावि काम्यं सीमन्ते च त्वदुपगमनं यत्र नीपं वधूनाम् ॥ ७१॥ यस्यां रम्यं युवजनमनोहारि वाराङ्गनानां लास्यं तालानुगतकरणं भास्यति त्वत्प्रवेशे । पाञ्छन्तीनां तदवगमनादङ्गभाजां प्रसाद त्वद्गम्भीरध्वनिपु शनकैः पुष्करप्वाहतेषु ॥ ७२ ।। संसक्तानां नवरतरसे कामिभिः कुण्व्यमानाः पृष्ठेऽण्वन्तः कृतविरचनाधर्मवार्यङ्गनानाम् । यस्यां ग्रीष्मे शिशिरकिरणस्यांशुभिर्यामिनीपु व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥ ७३ ।। गत्वा पूर्व रजनिसमये धूप्यमानेषु लीला- वेश्मस्वन्तर्युवतिनिहितै रत्नदीपैर्निरस्ताः । जालैर्यत्रान्धतमसचयाः साध्वसेनेव भूयो धूमोदारानुकृतिनिपुणा जर्जरा निप्पतन्ति ॥ ७४ ॥ रात्रौ यस्यामुपसखि भृशं गात्रसंकोचभाजां रागेणान्धैः शयनभवनेपूल्लसद्दीपवत्सु । प्रेम्णा कान्तैरभिकुचयुगं हृद्यगन्धिर्वधूनां हीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः ।। ७५ ॥ + 1 नेमिदूतम् । गायन्तीभिस्त्वदमलयशो वारसीमन्तिनीभिः साकं माद्यन्मधुरमुरजं तारसारान्यपुष्टम् । यस्यां रम्यं सुरभिसमये सोत्सवाः सीरिमुख्या बढापानं बहिरुपवनं कामिनो निर्विशन्ति ।। ७६ ॥ उद्यत्कामालसयुवतिभिः सेव्यमानैः सरोज- स्कन्धान्यस्यां सुमधुररसानक्षयानापिबद्भिः । निर्गम्यन्ते शरदि यदुभिः सद्मप्टष्ठे खकीर्त्या नित्यज्योत्स्नाः प्रतिहततमोवृत्तिरम्याः प्रदोषाः ॥ ७७ ।। कान्तोत्तंसास्तुहिनसमये कुङ्कुमालिप्तदेहाः सान्द्रच्छाये शुचिनि तरुभिर्गोमतीरम्यतीरे। रूपोल्लासाद्विजितरतयः कुन्दकाले सलीलं संक्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्याः ।। ७८ ॥ यस्यां पुष्पोपचयममलं भूषणं साधुहृद्यं गन्धद्रव्यं व्यजननिवहं सूक्ष्ममिच्छानुकूलम् । न्यस्तः प्रीत्या त्रिदशपतिना वासुदेवस्य सम- न्येकः सूते सकलमबलामण्डनं कल्परक्षः ॥ ७९ ॥ एणाङ्काश्मावनिषु शिशिरैः कुङ्कमाद्रैः पदाकैः शीतोत्कम्पाद्गतिविगलितैर्बालकैः केशपाशात् । भ्रष्टैः पीनस्तनपरिलसम्यमाल्यैश्च यस्यां नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥ ८० ॥ बाणस्याजी हरविजयिनो वासुदेवस्य यस्यां प्राप्यासत्तिं चरति गतभीः पुष्पचापो निरस्तः । यस्मावधाकृतयुवमनोमोहमात्मप्रक- स्तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः ॥ ८१ ॥ यायास्तस्माद्रथपरिवृतस्त्वं प्रवेशाय यस्यां तत्माचीनं पुरि हरिमुखैगोपुरं यादवेन्द्रैः । . १३ ९८ काव्यमाला। . - । -- यत्राशोकः कलयति नवस्तोरणामां तथान्यो हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः ॥ १२ ॥ उद्यद्वालव्यजनमनिलोल्लासिकाशप्रसूनाः श्वेतच्छन्नं विकसितसिताम्भोजभाजो विलोक्य । तस्यां पौरा विशदयशसं न श्रियः शारदीना नाध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः ॥ ८३ ॥ पुष्पाकीर्ण पुरि सह तदा यस्त्वया राजमार्ग यास्यत्युद्यड्वनिजवसनं चन्दनाम्भश्छटाङ्कम् । शौरि पीताम्बरधरमनुक्ष्माधरं मेघमेनं प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ।। ८४ ॥ यातं तस्याः पुरि पुरि बलादुत्सवैः कामिनोत्कं हपोत्कर्प नरपतिपथेनैप्यतस्तौ ययोस्तु । स्त्रीणामेको रमयति शतान्यगनां पाययित्वा काङ्कत्यन्यो वदनमदिरां दोहदच्छद्मनास्याः ।। ८५ ॥ सौधश्रेणीविततविलसत्तोरणास्ता व्यतीत्य स्वावासं तं मणिचयरुचा भासुरं प्राप्स्यसि त्वम् । यस्मिन्कस्मै न भवति मुदे साग्रभूमिर्चनानां यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृतः ॥ ८६ ॥ नत्वा पूर्व पितृमुखगुरूंस्तान्विसृज्याथ बन्धू- न्सौधं मञ्चद्वयमपि ततोऽलं कुरुप्वाईचित्तः । यन्नि:श्रीकं हरति न मनस्त्वां विना यादवेन्दो सूर्यापाये न खलु कमलं पुप्यति स्वामभिख्याम् ॥ ८७ ॥ इत्युक्तेऽस्या वदसि विमुखं मुक्तिकान्तानुरक्तं दृष्ट्वा नेमि किल जलधरः संनिधौ भूधरस्थः । तत्कारुण्यादिव जलधरश्रेणिमुक्ताश्रु धत्ते खद्योतालीविलसितनिभां विद्युदुन्मेपष्टिम् ॥ ८ ॥ - -- PATNA ९९ नेमिदूतम् । तत्सख्यूचे तमभिवचनं वान्छितं साधयास्या बालामेनां नय निजगृहं शैलशृङ्गं विहाय । त्वत्संयोगानन धृतिसमेतानवद्यागयष्टि- र्या तत्र स्यायुवतिविषये सृष्टिराद्येव धातुः ॥ ८९॥ अस्वीकारात्सुभग भवतः क्लिष्टशोभां कियद्भि- म॒हीमन्तविरहशिखिना वासरैर्दह्यमानाम् । एनां शुण्यद्वदनकमलां दूरविध्वस्तपत्रां जातां मन्ये तुहिनमथितां पद्मिनी वान्यरूपाम् ॥९॥ आकाइन्त्या मृदुकरपरिप्वङ्गसौख्यानि सख्याः पश्यामुण्या मुखमनुदिनं म्लानमस्मेरमश्रि । उद्यत्तापात्कुमुदमिव ते कैरविण्या वियोगा- दिन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेविति ॥ ९१ ॥ शय्योत्सङ्गे निशि पितृगृहे प्राप्य निद्रां पुरासौ त्वं व स्वामिन्ब्रजसि सहसेति ब्रुवाणा प्रबुद्धा । ऊचेऽस्माभिर्न खलु नयनेनापि यो वीक्षिताङ्गः कच्चिद्भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥ ९२ ॥ एतहुःखापनयरसिके प्राक्सखीनां समाजे गायत्यासां किमपि मधुरं गीतमादाय वीणाम् । तयानेनापहृतहृदया गातुकामा ललज्जे भूयो भूयः स्वयमपि कृतां मूर्छनां विस्मरन्ती ॥ ९३ ॥ त्वत्प्राप्त्यर्थ विरचितवती तत्र सौभाग्यदेव्याः पूजामेषा सुरभिकुसुमैरेकचित्ता मुहूर्तम् । दैवज्ञान्वानयति निपुणान्स्म क्षण भाषयन्ती प्रायेणेते रमणविरहेण्वगनानां विनोदाः ॥ ९४ ॥ याते पाणिग्रहणसमयेऽदि विहाय त्वयीमां त्यक्त्वा माल्यं सपदि रचिता यानया विप्रयोगे । । .

१०० काव्यमाला। , -- ।। तामेवैषा वहति शिरसा स्वे निधाय प्रदेशे गण्डाभोगात्कठिनविपमामेकवेणी करेण ॥ ९५ ॥ गीताद्यैर्वा श्रुतमुखकरैः प्रस्तुतैर्वा विनोदैः पौराणीभिः कृतनुतिमिमां त्वद्वियोगात्कथामिः । तुष्टिं नेतुं रजनिपु पुन लिवर्गः क्षमोऽभू- त्तामुन्निद्रामवनिशयनां सौधवातायनस्थः ॥ ९६ ॥ या प्रागस्याः क्षणमिव नवर्गीतवार्ताविनोदै- रासीच्छय्यातलविगलितैर्गल्लभागैर्विलद्धय । रात्रिं संवत्सरशतसमां वीक्षते सन्नगात्री तामेवाणीवरहजानतैरश्श्रुभिर्यापयन्ती ॥ ९७ ॥ पश्यन्ती त्वन्मयमिव जगन्मोहनावासमनं ध्यायन्ती त्वां मनसि निहितं तत्क्षणं तद्विरामे। मूर्ति भित्तावपि च लिखितामोक्षितुं ते पुरस्ता- दाकासन्ती नयनसलिलोत्पीडरुद्धावकाशम् ॥ ९८ ॥ अन्तर्भिन्ना मनसिजशरैमौलिताक्षी मुहूर्त लव्ध्वा संज्ञां दिशि दिशि मुहुर्वीक्ष्यमाणार्तिदीना । शय्योत्सङ्गे नवकिसलयाग्रेऽपि भद्रं न लेभे साभ्रेऽह्रीव स्थलकमलिनी न प्रबुद्धा न सुप्ता ॥ ९९ ॥ वृत्तान्तेऽस्मिस्तदनु कथिते मातुरस्यास्तयैत- दृत्तं ज्ञातुं निशि सह मया प्रेपितः सौविदल्लः । सख्याः पश्यन्नयमपि दशां तां तदावेक्ष्य जातं प्रत्यक्षं ते निखिलमचिराद्रातरुक्तं मया यत् ॥ १० ॥ प्रेक्ष्यैतस्मिन्नपि मृगदृशस्तामवस्थामसह्या- मस्याः प्रातः कथयति पुरा विस्तरात्सतदम्बा । श्रुत्वा दुःखं दुहितुरसृजद्वाप्पमच्छिन्नधारं प्रायः सो भवति करुणारतिरान्तरात्मा ॥१०१।। -- , .

ve -- . नेमिदूतम् । 303 आहूयैनामवददथ सा निर्दयो योऽत्यजत्त्वा- मित्थं,भद्रे कथय किमियद्धार्यते तत्र दुःखम् । त्यक्त्वा लोलं नयनयुगलं तेऽरुणत्वं रुदत्या मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥ १०२ ॥ अन्तस्तापान्मृदुभुजयुगं ते मृणालस्य दैन्यं म्लानि चैतन्मिहिरकिरणक्लिष्टशोभस्य धत्ते । प्लुष्टः श्वासैविरहशिखिना स द्वितीयस्तवायं यास्यत्यूरुः सरसकदलीस्तम्भगौरश्चलत्वम् ॥ १०३ ॥ वत्से शोकं त्यज सृज पुनः खच्छतां मृष्टवाणी यच्छस्वैवं प्रयतमनसानुग्रहं मे कुरुष्व । भर्तुर्भूयो न भवति-रहः संगतायास्तथा ते सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥ १०४ ॥ आरोप्याङ्के मधुरवचसाश्वासितेत्यं जनन्या तत्याजाधि क्षणमपि न या त्वद्वियोगात्कशागी । संप्रत्येषा विसृजति तनुं कोमलाङ्गी यथा नो वक्तुं धीरस्तनितवचनैर्मानिनी प्रक्रमेथाः ॥ १०५ ॥ मातुः शिक्षाशतमलमवज्ञाय दुःखं सखीना- मन्तश्चित्तेवजनयदियं पाणिपङ्केरुहाणि । हस्ताभ्यां प्राक्सपदि रुदती रुन्धती कोमलाभ्यां मन्द्रस्निग्धैर्ध्वनिभिरबला वेणिमोलोत्सुकानि ॥ १०६ ॥ रद्धः साध्व्या सुभग तव यः प्रेषितोऽभूत्प्रवृत्ति ज्ञातुं तस्मात्कुशलिनमियं रैवताद्रौ द्विजातिः । त्वामाकण्योच्छुसितहृदयासीत्क्षणं सुन्दरीणां कान्तोदन्तः सुहृदुपगतः संगमात्किचिदूनः ॥ १०७ ।। इत्यं कृच्छ्राद्विधुरवपुषो वासरान्वर्पतुल्या- नस्याः सख्या जनकसदने त्वद्वियोगान्नयन्त्याः।

. ३ . . 1. . १०२ काव्यमाला। अन्तश्चित्ते त्वयि सुखलवो न प्रपेदे प्रवेशं संकल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः ॥ १०८ ॥ प्राप्यानुज्ञामथ पितुरियं त्वां सहास्माभिरस्मि- संप्रत्यद्रौ शरणमवला प्राणनाथं प्रपन्ना । अहंस्येनां विषमविशिखाद्रक्षितुं त्वं हि कृच्छ्रा- त्पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव ॥ १०९ ॥ धर्मज्ञस्त्वं यदि सहचरीमेकचित्तां च रक्तां कि मामेवं विरहशिखिनोपेक्ष्यसे दह्यमानाम् । तत्स्वीकारात्कुरु मयि रुपां यादवाधीश वाला त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥ ११० ॥ दुर्लङ्घयत्वं शिखरिणि पयोधौ च गाम्भीर्यमुया स्थैर्य तेजः शिखिनि मदने रूपसौन्दर्यलक्ष्मीम् । बुद्धिं शान्ति नृवर कलया गीतवन्दं गुणानां हन्तैकस्थं क्वचिदपि न ते चण्डि सादृश्यमस्ति ॥ १११ ॥ एतानीत्थं विधुरमनसा स्वीकतायास्त्वया मे दुःखार्तायाः क्षितिभृति दिनानीश कल्पोपमानि । आसन्नस्मिन्मदनदहनोद्दीपकानि प्रकाश दिक्संसक्तप्रविरलघनव्यस्तसूर्यातपानि ॥ ११२ ॥ रात्रौ निन्द्रां कथमपि चिरात्प्राप्य यावद्भवन्तं लब्धं स्वप्ने प्रणयवचनैः किंचिदिच्छामि वक्तुम् । तावत्तस्या भवति दुरितैः प्राक्तनैमै विरामः क्रूरस्तस्मिन्नपि न सहते संगम नौ कृतान्तः ॥ ११३ ॥ मन्नाथेन ध्रुवमवजितो रूपलक्ष्म्या तपोभि- स्तद्वैरान्मामिपुभिरवला हन्त्यशक्तो मनोभः । दृग्भ्यां क्लुप्तेविति मम निशि स्त्रस्तरे चिन्तयन्त्या मुक्तास्थूलास्तरुकिसलयेप्वभुलेशाः पतन्ति ॥ ११ ॥ -- स -- - . नेमिदूतम् । १०३ अस्मिन्नेते शिखरिणि मया यादवेशान्तिकान्ते जीमूताम्भःकणचयमुषः संचरन्तः पुरस्तात् । संसेव्यन्ते विषमविशिखोत्सया नीपवाताः पूर्व स्टष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥ ११५ ।। संचिन्त्यैवं हृदि मयि दयां धारयस्तत्प्रसीद खामिन्निर्वापय वपुरिदं स्वाङ्गसङ्गामृतेन । यत्संताप्यानिशमतितरां प्राणलावण्यशेषं गाढोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥ ११६ ॥ दुःखं येनानवधि बुभुजे त्वद्वियोगादिदानी संयोगातेऽनुभवतु सुखं तह पुर्मे चिराय.। यस्माज्जन्मान्तरविरचितैः कर्मभिः प्राणभाजां नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ ११७ ॥ प्रादृट् प्रान्तं प्रियतम गता दुर्दशा दुःखदेव । प्रायोऽन्योन्यै रतिकरमितः सांप्रतं संगमाय । भोगानेकोत्सवसुखसुखानिच्छया मन्दिरे स्वे निवेश्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ ११८ ।। इत्येतस्याः सफलय चिराद्वाक्यमासाद्य सद्यः स्वं वेश्मैनां नय नवरसैः स्वस्थचित्तां कुरुप्व । तल्पे प्राक्त्वां निशि वदति या स्मेक्षमाणेव मोहा- दृष्टः स्वप्ने कितव रमयन्कामपि त्वं मयेति ॥ ११९ ॥ त्वत्संयोगाकुलितहृदयोत्कण्ठया राजपुत्री त्वामेषा च त्वरयति चिरात्स्नेहपूर्णा प्रयातु । प्रायेणैताः प्रियजनमनोरत्तयोऽप्राप्तिभावा- दिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥ १.२० ॥ तस्माद्वाला स्मरशरचयैर्दुःसहर्जर्जराङ्गी संभाष्यैनां नय निजगृहान्सत्वरं यादवेन्द्र ।

काव्यमाला। - , . प्रीत्या चास्या मधुरवचनाश्वासनाभिः प्रयान्तं प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥ १२१ ॥ . त्वामर्थेऽस्या किमिति नितरां प्रार्थये नाथ भूयो यस्मादीढग्जगति महतां लक्षणं सुप्रसिद्धम् । स्नेहादेते न खलु मुखरा याचिताः संभवन्ति प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥ १२२ ॥ गत्वा शीघ्रं स्वपुरमतुलं प्राप्य राज्यं त्रिलोक्याः कीर्ति शुद्धां वितनु सुहृदां पूरयाशां च पित्रोः । राजीमत्या सह नवघनस्येव वर्षासु भूयो मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ॥ १२३ ।। तत्सख्योक्ते वचसि सदयस्तां सतीमेकचित्तां संवोध्येशः स भवविरतो रम्यधर्मोपदेशैः । चक्रे योगान्निनसहचरी मोक्षसौख्याप्तिहेतोः केपां न स्यादभिमतफला प्रार्थना युत्तमेपु ॥ १२४ ॥ श्रीमान्योगादचलशिखरे केवलज्ञानमस्मि- नेमिदेवोरगनरगणैः स्तूयमानोऽधिगम्य । तामानन्दं शिवपुरि परित्याज्य संसारभाजां भोगानिष्टानविरतसुखं भोजयामास शश्वत् ॥ १२५ ॥ तहुःखार्थ प्रवरकवितुः कालिदासस्य काव्या- दन्त्यं पादं सुपदरचितान्मेघदूतागृहीत्वा । श्रीमन्नेमेश्चरितविशदं साङ्गणस्याङ्गजन्मा चक्रे काव्यं बुधजनमनःप्रीतये विक्रमाख्यः ॥ १२६ ॥ इति साङ्गणसूनुश्रीविक्रमकविविरचितं नेमिदूत समाप्तम् । पण्डितराजश्रीजगन्नाथविरचिता लक्ष्मीलहरिः। समुन्मीलन्नीलाम्बुजनिकरनीराजितरुचा- मपाङ्गानां भङ्गैरमृतलहरीश्रेणिमसृणैः । -- :. ; + लक्ष्मीलहरिः। १०५. ह्रिया हीनं दीनं भृशमुदरलीनं करुणया हरिश्यामा सा मामवतु जडसामाजिकमपि ॥ १ ॥ सन्मुन्मीलत्वन्तःकरणकरुणोद्वारचतुरः करिप्राणत्राणप्रणयिनि गन्तस्तव मयि । यमासाद्योन्माद्यहिपनियुतगण्डस्थलगल- न्मदक्लिन्नद्वारो भवति सुखसारो नरपतिः ।। २ ।। उरस्यस्य भ्रश्यत्कवरभरनिर्यत्सुमनसः पतन्ति स्वर्वालाः स्मरशरपराधीनमनसः । सुरास्तं गायन्ति स्फुरिततनु गङ्गाधरमुखा- स्तवायं दृक्पातो यदुपरि कपातो विलसति ॥ ३ ॥ समीपे संगीतस्वरमधुरभङ्गी मृगहशां विदूरे दानान्धद्विरदकलभोद्दामनिनदः । बहिबारे तेषां भवति हयहेषाकलकलो हगेषा ते येषामुपरि कमले देवि सदया ॥ ४ ॥ अगण्यैरिन्द्राद्यैरपि परमपुण्यैः परिचितो जगज्जन्मस्थानप्रलयरचनाशिल्पनिपुणः । उदश्चत्पीयूषाम्बुधिलहरिलीलामनुहर. नपाङ्गस्तेऽमन्दं मम कलुषवन्दं दलयतु ॥ ५ ॥ नमन्मौलिश्रेणित्रिपुरपरिपन्थिप्रतिलस- कपर्दव्यावृत्तिस्फुरितफणिफूत्कारचकितः । लसत्फुल्लाम्भोजम्रदिमहरणः कोऽपि चरण- श्चिरं चेतश्चारी मम भवतु वारीशदुहितुः ॥ ६ ॥ प्रवालानां दीक्षागुरुरपि च लाक्षारुणरुचां नियन्त्री बन्धूकातिनिकरवन्धूकतिपटुः । नृणामन्तर्वान्तं निविडमपहर्तु तव किल प्रभातश्रीरेषा चरणसचिवेषा विजयते ॥ ७ ॥ १४ . -- प्रभातप्रोन्मीलकमलवनसंचारसमये शिखाः किंजल्कानां विदधति रुजं यत्र मृदुलोः । तदेतन्मातस्ते चरणमरुणश्लाघ्यकरुणं कठोरा मदाणी कथमियमिदानी प्रविशतु ॥ ८ ॥ स्मितज्योत्स्नामजहिजमणिमयूखामृतझरै- निषिश्चन्तीं विश्वं तव विमलमूर्ति स्मरति यः । अमन्दं स्यन्दन्ते वदनकमलादस्य कृतिनो विविक्तौ वैकल्पाः सततमविकल्पा नवगिरः ॥ ९॥ शरौ मायाबीजी हिमकरकलाक्रान्तशिरसौ विधायोज़ बिन्दु स्फुरितमिति वीजं जलधिजे । जपेद्यः स्वच्छन्द स हि पुनरमन्दं गजघटा- मदभ्राम्यबृङ्गैर्मुखरयति वेश्मानि विदुपाम् ॥ १० ॥ स्मरो नाम नाम त्रिजगदभिरामं तव पदं प्रपेदे सिद्धि यां कथमिव नरस्तां कथयतु । यया पातं पातं पदकमलयोः पर्वतचरो हरो हा रोषामनुनयति शैलेन्द्रतनयाम् ॥ ११ ॥ हरन्तो निःशवं हिमकरकलानां रुचिरतां किरन्तः स्वच्छन्दं किरणमयपीयूषनिकरम् । विलुम्पन्तु प्रौढा हरिहृदयहाराः प्रियतमा ममान्तः संतापं तव चरणशोणाम्बुजनखाः ॥ १२ ॥ मिपान्माणिक्यानां विगलितनिमेष निमिपता- ममन्द सौन्दर्य तव चरणयोरम्बुधिसुते । पदालंकाराणां जयति कलनिकाणनपटु- रुदश्चन्नुद्दामः स्तुतिवचनलीलाकलकलः ॥ १३ ॥ मणिज्योत्स्नाजालैंर्निजतनुरुचां मांसलतया जटालं ते जड्डायुगलमघभङ्गाय भवतु । , 04 । - -- from है 17 . लक्ष्मीलहरिः। १०७ भ्रमन्ती यन्मध्ये दरदलितशोणाम्बुजरुचा दृशां माला नीराजनमिव विधत्ते मुररिपोः ।। १४ ॥ हरगर्व सर्व करिपतिकराणां मृदुतया भृशं भाभिर्दम्भं कनकमयरम्भावनिरुहाम् । लसजानज्योत्स्ना तरणिपरिणई जलधिजे तवोरुद्वन्दं नः श्लथयतु भवोरुज्वरभयम् ॥ १५ ॥ कलवाणां काञ्ची मणिगणजटालामधिवह- न्वसानः कौसुम्भं वसनमसनं कौस्तुभरुचाम् । मुनिव्रातः प्रातः शुचिवचनजातैरतिनुतं नितम्बस्ते बिम्ब हसति नवमम्बाम्बरमणेः ॥ १६ ॥ जगन्मिथ्याभूतं मम निगदतां वेदवचसा- मभिप्रायो नाद्यावधि हृदयमध्याविशदयम् । इदानी विश्वेषां जनकमुदरं ते विमृशतो विसंदेहं चेतोऽजनि गरुडकेतोः प्रियतमे ॥ १७ ॥ अनल्पैर्वादीन्द्ररगणितमहायुक्तिनिवहै- निरस्ता विस्तारं क्वचिदकलयन्ती तनुमपि । असत्ख्याति व्याख्याधिकचतुरिमाख्यातमहिमा वलग्ने लग्नेयं सुगतमतसिद्धान्तसरणिः ॥ १८ ॥ निदानं शृङ्गारप्रकरमकरन्दस्य कमले महानेवालम्बो हरिनयनरोलम्बवरयोः । निधानं शोभानां निधनमनुतापस्य जगतो जवेनाभीति मे दिशतु तव नाभीसरसिजम् ॥ १९ ॥ गभीरामुढेलां प्रथमरसकल्लोलमिलितां विगाढं ते नामीविमलसरसी गौर्मम मनाक् । पदं यावन्यस्यत्यहह विनिमनैव सहसा नहि क्षेमं सूते गुरुमहिमभूतेष्वविनयः ॥ २० ॥ . .

. १०८ काव्यमाला। कुचौ ते दुग्धाम्मोनिधिकुलशिखामण्डनमणे हरेते सौभाग्यं यदि सुरगिरेश्चित्रमिह किम् । त्रिलोकीलावण्याहरणनवलीलानिपुणयो- र्ययोर्दत्ते भूयः करमखिलनाथो मधुरिपुः ॥ २१ ॥ हरकोपत्रस्यन्मदननवदुर्गद्दयतुलां दधत्कोकद्वन्द्वद्युतिदमनदीक्षाधिगुरुताम् । तवैतहलोजद्वितयमरविन्दाक्षमहिले मम स्वान्तध्वान्तं किमपि च नितान्तं गमयतु ॥ २२ ॥ अनेकब्रह्माण्डस्थितिनियमलीलाविलसिते दयापीयूषाम्भोनिधिसहजसंवासभवने । विधोश्चित्तायामे हृदयकमले ते तु कमले मना मनिस्तारस्मृतिरपि च कोणे निवसतु ॥ २३ ॥ मृणालीनां लीलाः सहजलवणिना लघयतां चतुर्णा सौभाग्यं तव जननि दोष्णां वदतु कः। लुठन्ति स्वच्छन्दं मरकतशिलामांसलरुचः श्रुतीनां स्पर्धा ये दधत इव कण्ठे मधुरिपोः ॥ २४ ॥ अलभ्यं सौरभ्यं कविकुलनमस्या रुचिरता तथापि त्वद्धस्ते निवसदरविन्दं विकसितम् । कलापे काव्यानां प्रकृतिकमनीयस्तुतिविधौ गुणोत्कर्षाधानं प्रथितमुपमानं समजनि ॥ २५ ॥ अनल्पं जल्पन्तु प्रतिहतधियः पल्लवतुला रसज्ञामज्ञानां क इव कमले मन्थरयतु । त्रपन्तु श्रीभिक्षावितरणवशीभूतजगतां कराणां सौभाग्यं तव तुलयितुं तुङ्गरसनाः ॥ २६ ॥ समाहारः श्रीणां विरचितविहारो हरिदृशां परीहारो भक्तप्रभवभवसंतापसरणेः । - ।

लक्ष्मीलहरिः। १०९ प्रहारः सर्वासामपि च विपदां विष्णुदयिते ममोद्धारोपायं तव सपदि हारो विमृशतु ॥ २७ ॥ अलं कुर्वाणानां मणिगणघृणीनां लवणिमा यदीयाभिर्भाभिर्भजति महिमानं लघुरपि । सुपर्वश्रेणीनां जनितपरसौभाग्यविभवा- स्तवाङ्गुल्यस्ता मे ददतु हरिवामेऽभिलषितम् ॥ २८ ॥ . तपस्तेपे तीन किमपि परितप्य प्रतिदिनं तव ग्रीवालक्ष्मीलवपरिचयादाप्तविभवम् । हरिः कम्बु चुम्बत्यथ वहति पाणौ किमधिकं वदामस्तत्रायं प्रणयवशतोऽस्यै स्टहयति ॥ २९ ॥ अभूदप्रत्यूहः सकलहरिदुल्लासनविधि- विलीनो लोकानां स हि नयनतापोऽपि कमले । तवास्मिन्पीयूषं किरति वदने रम्यवदने कुतो हेतोश्तो विधुरयमुदेति स्म जलधेः ॥ ३० ॥ मुखाम्भोजे मन्दस्मितमधुरकान्त्या विकसतां द्विजानां ते हीरावलि विहितनीराजनरुचाम् । इयं ज्योत्स्ना कापि.स्त्रवदमृतसंदोहसरसा ममोद्यदारियज्वरतरुणतापं तिरयतु ॥ ३१ ॥ कुलैः कस्तूरीणां भृशमनिशमाशास्यमपि च प्रभातप्रोन्मीलन्नलिननिवहैरश्रुतचरम् । वहन्तः सौरभ्यं मृदुगतिविलासा मम शिवं तव श्वासा नासापुटविहितवासा विदधताम् ॥ ३२ ॥ कपोले ते दोलायितललितलोलालकवृते विमुक्ता धम्मिलादभिलसति मुक्तावलिरियम् । स्वकीयानां बन्दीकतमसहमानैरिव बला- निबध्यो– कष्टा तिमिरनिकुरम्बैर्विधुकला ॥ ३३ ॥ .

काव्यमाला। प्रसादो यस्यायं नमदमितगीर्वाणमुकुंट- प्रसर्पज्ज्योस्लाभिश्चरणतलपीठार्चितविधिः । हगम्भोजं तत्ते गतिहसितमत्तेभगमने लीनैर्दीनैः कथय कथमीयादिह तुलाम् ॥ ३४ ॥ दुरापा दुर्वृत्तैर्दुरितदमने दारणभरा दया दीनानामुपरि दलदिन्दीवरनिमा । दहन्ती दारिद्रयगुमकुलमुदारद्रविणदा त्वदीया दृष्टिम जननि दुरदृष्टं दलयतु ॥ ३५॥ तव श्रोत्रे फुल्लोत्पलसकलसौभाग्यजयिनी सदैव श्रीनारायणगुणगणौघप्रणयिनी । रवैर्दीनां लीनामनिशमवधानातिशयिनी ममाप्येतां वाचं जलधितनये गोचरयताम् ।। ३६ ॥ प्रभाजालैः प्राभातिकदिनकरामापनयनं तवेदं खेदं मे विघटयतु ताटङ्कयुगलम् । महिना यस्यायं प्रलयसमयेऽपि क्रतुभुजां जगत्पायं पायं स्वपिति निरपायं तव पतिः ॥ ३७॥ निवासो मुक्तानां निबिडतरनीलाम्बुदनिभ- स्तवायं धम्मिल्लो विमलयतु मल्लोचनयुगम् । भृशं यस्मिन्कालागुरुंबहुलसौरभ्यनिवर्हः पतन्ति श्रीभिक्षार्थिन इव मदान्धा मधुलिहः ॥ ३८ ॥ विलग्नौ ते पार्श्वद्वयपरिसरे मत्तकरिणौ करोनीतैरवन्मणिकलशमुग्धास्यगलितैः । निषिश्चन्तौ मुक्तामणिगणजयस्त्वां जलकणै- नमस्यामो दामोदरगृहिणि दारिद्यदलिताः ॥ ३९ ॥ अये मातर्लक्ष्मि त्वदरुणपदाम्भोजनिकटे लुठन्तं बालं मामविरलगलद्वाष्पजटिलम् । , भावविलासः । -१११ सुधासेकस्निग्धैरतिमसृणमुग्धैः करतलैः स्टशन्ती मा रोदीरिति वद समाश्वास्यसि कदा ॥ ४०॥ रमे पझे लक्ष्मि प्रणतजनकल्पद्रुमलते सुधाम्भोधेः पुत्रि त्रिदशनिकरोपास्तचरणे । परे नित्यं मातर्गुणमाय परब्रह्ममहिले जगन्नाथस्याकर्णय मृदुलवर्णावलिमिमाम् ॥ ४१ ॥ इति पण्डितराजश्रीजगन्नाथविरचिता लक्ष्मीलहरिः समाप्ता । न्यायवाचस्पतिश्रीरुद्रकविकृतो भावविलासः। यः फल्गूकतफाल्गुनो रणभुवि प्रौढप्रतापानल- ज्वालाभिः प्रतिपक्षपक्षविपिनश्रेणीर्ददाह क्षणात् । योऽभूदूसुरभूरुहोऽत्र भगवदासो निवासः श्रियां तस्मादाविरभूत्प्रभूतमहिमा श्रीमानसिंहो नृपः ॥ १ ॥ सङ्ग्रामोद्दामधामप्रतिभटटतनाकण्ठरक्तोपरका येनाकीर्य खसेनाश्चतुरुदधिजलैः क्षालिता खड्गधारा । गाढं शस्त्राभिघातादरिमदकरिणां दानमाच्छिद्य सद्यो हस्ते न्यस्तं च येन क्षपितरिपुकुले दक्षिणे दक्षिणेन ॥ २ ॥ तत्खगाघातजातव्यथरिपुवनितामुक्तबाप्पाम्बुधारा- सारादारादुदारा दिशि दिशि सरितो नोद्भटाश्चेद्भवेयुः । कल्पान्तक्रूरसूरप्रकरविजयिनो विस्फुरत्तत्मतापा- न्पारावारानपारानपि सपदि पराञ्छुप्यतः पूरयेत्कः ॥ ३ ॥ १. अय कविर्भावसिंहमहीपतेः समये बभूवेत्यस्मिन्नेव प्रन्ये स्फुटम्. स च भावसिंह- महीपतिवर्तमानजयपुरमहाराजस्य पोडशः पूर्वपुरुषः सिस्तसवत्सरीयसप्तदशशतकमा. रम्भ एवासीत. यतो भावसिंहमहीपतेर्जनकोऽतिप्रसिद्धो मानसिंहमहीपतिर्दिलीबादशाहो जलालुद्दीनापरनामाकारशाहश्च समकालीनौ. अकबरशाहस्य राज्यसमयस्तु १५५६ मितानिस्तसवत्सरादारभ्य १६०५ मितखिस्तसवत्सरपर्यन्तमासीत.

- . 1 - श्रीमाञ्छ्रीमानसिंहक्षितिपतिजलधेरुद्तो भावसिंहः पूर्णः पीयूषभानुर्विलसति किरणध्वस्तदैन्यान्धकारः । स्फारस्फारस्तुपाराचलसुरतटिनीहंसहारानुकाराः कीर्तिज्योत्स्नाः पिबन्ति प्रतिदिशमनिशं यस्य विद्वच्चकोराः॥४॥ यस्य स्फारासिधाराहतिदलितभुजभ्रष्टखङ्गप्रमुष्टि- प्राच्योदीच्य[प्रतीच्य]प्रभृतिनृपतिभिर्दर्शिता पृष्ठलक्ष्मीः । हर्षादुत्तंसयन्ते दिशि दिशि सुदृशो भूरिशो यस्य नित्यं व्याकोशं कीर्तिपुष्पं चतुरुदधितटीरक्षवाटीविलासि ॥ ५ ॥ रिङ्गतुङ्गतुरंगवन्धुरखुरक्षुण्णक्षमामण्डल- क्षुभ्यडूलिपरम्पराजलधरध्वस्ताचिपि व्योमनि । दोष्णोर्यस्य करालकालरसनाकल्पा रुपाणीलता विद्युबल्लिरिवानिशं प्रतिदिशं लोकैरलोकि प्रभोः ॥ ६ ॥ यद्गन्धद्विपदानवारिभिरभूत्सङ्ग्रामभूः पङ्किला तस्यां वैरिकरीन्द्रमौक्तिकमयं वीजं च येनाहितम् । तस्मादाविरभूद्यशस्तरुरयं तस्योद्गताः कोरका- स्तारास्तेषु च पूर्णचन्द्रकपटादेकैक उज्जृम्भते ॥ ७ ॥ घूर्णन्ते तूर्णमेते कुलधरणिभृतो दिग्विपा दिग्विदिक्षु क्षुभ्यन्ति क्षोभयन्ति क्षितिमतिमुदितो मर्मणा कूर्मराजः । प्रस्थाने यस्य गर्नत्करटिधनघटासंभ्रमन्यच्चदुर्वी- मुर्वी दर्वीकरेन्द्रः कलयितुमदितश्वासमाति विति ॥ ८ ॥ योऽसौ प्रत्यर्थिनारीनयनजलभरप्रोन्मिपन्नीरराशि- प्रोन्मीलत्कीर्तिचन्द्रः क्षितिपकुलमणि नुवंशावतंसः । यद्दोरुद्दामचापध्वनिजनितरुपो जामदग्न्यस्य राम- ज्यानिोपभ्रमेण भ्रमति विचलितस्यारुणा दिक्षु दृष्टिः ॥९॥ खेलन्ती व्योमगर्भ दिशि विदिशि मुहुनिप्पतन्ती हरन्ती शश्वत्प्रौढान्धकारानखिलजनमनोविस्मयं वर्धयन्ती भावविलासः । ११३ . यस्य स्फारासिधारा तडिदिव तरला वैरिकण्ठोपकण्ठं प्राप्ता सद्यो नटीव प्रणयकुतुकिनी मोहमाविष्करोति ॥ १० ॥ यस्याग्निः कोपपुले वसति खुरपुटे वाजिनां गन्धवाहो लक्ष्मीः सस्नेहदृष्टौ कमठकुलमणेर्वाचि वाचामधीशा। रूक्षे कौक्षेयकाग्रे क्षपितरिपुगणे कोपनोऽसौ कृतान्तः कस्तं श्रीभावसिंह प्रबलमखभुजामाश्रयं नाश्रयेत ॥ ११ ॥ रत्नान्यम्बुधितोयगर्भमगमन्मेरुः सुराञ्छिश्रिये स्वीयाङ्के कमलां निधाय विदधौ निद्रां हरिर्नीरधौ । यस्मिन्दित्सति भूरिदातरि नृणां भालस्थले दुर्लिपी- /डानम्रशिराः कमण्डलुजलं जग्राह मातृ विधिः ॥ १२ ॥ पादे कङ्कणमर्पयन्ति करयोमञ्जीरमातन्वते काञ्चीदाम च कुर्वते कुचतटे हारान्नितम्बेषु च । नेपथ्यग्रहणे बताग्रजनुषामेणीहशो भूरिशो यस्मिन्दानगुरौ महीसुरतरौ विश्वंभरां विभ्रति ॥ १३ ॥ फूत्कारेण कुमूर्छितस्य कटुभिः कीटान्तराणां रवै- बालानां रुदितारवैरपि च ये निन्युर्विनिद्रा निशाः । यस्मिन्दातरि यापयन्ति त इमे द्वेषास्वनैर्वृहितै- र्वामानां करकङ्कणध्वनिभिरप्युज्जागरा यामिनीः ॥ १४ ॥ यस्मिन्दित्सति दातरि द्विजनुषो दर्भाङ्कराकर्षण- रैः पाणितलैर्वधूस्तनतटे बनन्ति मुक्तास्त्रजः । शीतोष्णश्रमकर्कशैरतिकशैरङ्गैः प्रियालिङ्गितैः कान्ता रुक्मपरिच्छदाः शशिनिभाः शय्याःसमध्यासते ॥१५॥ ऐश्वर्य नहुषस्य विष्णुविषयश्रद्धाम्बरीपस्य सा पाण्डित्यं धनुषश्च पाण्डुजनुपो गाम्भीर्यमम्भोनिधेः । दातृत्वं बलिकर्णयोरिह जगत्येकत्र चेत्स्यात्तदा तस्य श्रीयुतभावर्सिहनृपतेः साम्यं समुन्मीलतु ॥ १६ ॥ १५

-
,
-
११४
काव्यमाला।
काव्यालापकलाकलापकलनावैदग्ध्यदीक्षागुरो-
भूमीकल्पतरोरशेषजनतासंगीतकोतरिह ।
तस्याज्ञामधिगत्य यः कविकुलानन्दाय संपादितः
संदर्भस्तममत्सराः कृतधियः कुर्वन्तु कर्णातिथिम् ॥ १७ ॥
जिह्मो लोकः कथयति पुरो हन्त हित्वा गुणौघा-
नम्भः क्षारं गुणगणनिधेस्तस्य रत्नाकरस्य ।
विष्वक्छिद्रानुसरणसमारूढसर्वेन्द्रियाणां
दोषे दृष्टिः पिशुनमनसां नानुरागो गुणेषु ॥ १८ ॥
गुणिनां गुणेषु सत्स्वपि पिशुनजनो दोषमात्रमादत्ते ।
कुसुमे फले विरागी क्रमेलकः कण्टकौघमिव ॥ १९ ॥
सुजनानामपि हृदयं पिशुनपरिष्वगमलिनमिह भवति ।
पवनः परागवाही रथ्यासङ्गे रजस्वलो भवति ॥ २० ॥
लोक एष गतलोचनत्रपः कस्य वा न विवृणोति वाच्यताम् । .
लोचनोत्सवमशेषजीवनं यत्कलङ्कयति चन्द्रमण्डलम् ॥ २१ ॥
पिशुन समारोहसि किं सुजनसमाजानभीष्टसौजन्यः ।
करटोऽपि किं नु लभते कलकण्ठपदं रसालमौलिगतः ॥ २२ ॥
द्विरदरदनप्रौढाघातान्न तादृशसंभ्रमः
परशुपतनादस्य त्रासो न हन्त तथाविधः ।
अयमविरतं क्रोडे क्रीडन्हताशहुताशनो
दलयति यथा मर्मात्यर्थ तरोन तथापरः ॥ २३ ॥
आपातमलिनिमासौ सहृदयहृदये न दोपाय ।
अङ्गारयोगजन्मा निसर्गशुद्धे यथा स्फटिके ॥ २४ ॥
केनादिष्टौ कमलकुमुदोन्मीलने पुष्पवन्ती
विश्वं तोयैः स्नपयितुमसौ केन वा वारिवाहः ।
विश्वानन्दोपचयचतुरो दुर्जनानां दुरापः
श्लाघ्यो लोके जयति महतामुज्ज्वलोऽयं निसर्गः ॥ २५ ॥

- - भावविलासः। कस्मादिन्दुरसौ धिनोति जगतीं पीयूपगरौंः करैः कस्माद्वा जलधारयैष धरणिं धाराधरः सिञ्चति । भ्रामं भ्राममयं च नन्दयति वा कस्मात्रिलोकी रविः साधूनां हि परोपकारकरणे नोपाध्यपेक्षं मनः ॥ २६ ॥ तोयानामधिपतिराकरो मणीनां शैलानामभयपदं महान्महङ्ग्यः । अग्राह्यो भवसि यदि त्वमेव तावत्को नु स्याजगति तदा जनावलम्वः ॥२७॥ कुम्भोद्भवस्य करपुष्करकोषकोणे पाथोनिधौ विधिवशाद्विपदं प्रयाते । ये दुर्लभास्त्रिदिवलोकविलासिनीनां ते पङ्कसीमनि महामणयो लुठन्ति ॥ २८ ॥ गरलं यदि जलराशेरिदमुत्पन्नं किमेतेन । तेनैवास्य तु महिमा यदभूत्पीयूषपारिजातादि ॥ २९॥ पीयूषपारिजाताद्याः केनाभवन्पयोनिधेः । रनरेव तथाप्येष रत्नाकरपदं गतः ॥ ३० ॥ गुणिनः क इव विशेषो गुणरहिते जननि निरणायि । येन विहाय गुणाश्रयमगुणे गाढानुरागासि ॥ ३१ ॥ हरिभामिनि सिन्धुसंभवे कमले किं कथयामि ते गुणान् । अनुरज्यास हा जडे जने गुणगौरे पुरुषे विरज्यसि ॥ ३२ ॥ मधूके माध्वीकं पिबसि शतपत्रेऽभिरमसे मधूलीपालीमिर्मधुप सहकारे विहरसि । वसन्ते वासन्तीमधु मधुरमश्नासि बहुशो दुरावेशोऽयं ते तदपि कुटजे यद्विचरसि ॥ ३३ ॥ मधूलीमन्विष्यन्मलयपवनान्दोलितदले मुधा मुग्धः कुन्दस्तवकनिकुरम्बे विचरसि । ततः कान्तादन्तच्छदनवसुधासारमधुरे बधान प्रेमाणं मधुकर नवाम्भोजमधुनि ॥ ३४ ॥ .

११६ काव्यमाला। निःशङ्कं गजपतिगण्डदानधारामाराध्य भ्रमर दिनान्यमून्यनैपीः । यावन्न स्फुरति करालकर्णतालस्तावत्वं नवनलिनीवनीमुपेयाः ॥३५॥ मधु नवसुधास्वादं तावन्निपाय्य निरन्तरं निशि निशि निजक्रोडे कामं ययासि निवेशितः । स्मरसि किमु तामेतामद्य त्वदेकपरायणां भ्रमर नलिनी दिनु भ्राम्यल्लताशतलम्पटः ॥ ३६ ॥ इह रूपमात्रसारे चित्रकते कनककहारे । न रसो नापि च गन्धो मधुकर वन्धो मुधा 'भ्रमसि || ३७ ॥ न चेतश्चाम्पेयस्तवकनिकुरम्वेऽभिरमते समुत्कण्ठा काचिन्न च विकचपुंनागमुकुले । न मल्लीवल्लीनामपि मधुनि वाञ्छा मधुलिहः समाघातो नूनं यदवधि लवड्गीपरिमलः ॥ ३८ ॥ भ्रम स्वैरं भ्रातर्धमर नवयूथीपु वहुशो मधूलीमन्विप्यन्कुमुदवनवीथीपु विचर । वसन्तप्रारम्भस्फुरितमधुसंमारसुभगो न ते विस्मर्तव्यः क्वचन सहकारव्यतिकरः ॥ ३९ ॥ आखाद्यात्र मधूनि पट्पद मदं मा गाः कपायाकुरै- किन्देन पिकान्प्रतारितवता मूर्धानमध्यासितः । प्रत्यासन्नतमे पिकेऽपि भवते येनार्पिता तादृशी माध्वी तस्य विवेकविच्युतिरियं साद्गुण्यमेतन्न,ते ॥ ४० ॥ नीरजान्यपि निपेव्य निर्भरं नीरसानि कुटजानि वाञ्छसि । चञ्चलत्वमिह चञ्चरीक ते साहनं कथमिदं विमोक्ष्यसि ॥ ४१ ॥ पीतमत्र मधु यापिता क्षपा भृङ्ग सर्वमचिरेण विस्मृतम् । हीयमानसुपमां हिमागमे पद्मिनी यदिह नावलोकसे ॥ ४२ ॥ एणीशः श्रवणसीन्नि यदानयन्ति तेनैव तस्य महिमा नवचम्पकस्य ।

भावविलासः । ११७ त्वं तत्र नो विहरसे यदि भृङ्ग तेन नैतस्य किंचिदपि तत्तु तवैव हानिः ।। ४३ ॥ गलितानि मधूनि सर्वतो विनिकीर्णानि दलानि मारुतैः । अधुनापि न हन्त माधवीं मधुपैनामिह नाम मुञ्चसि ॥ ४४ ॥ 'उपानीतं दूरात्परिमलमुपाघ्राय मरुता समायासीस्मिन्मधुरमधुलोमान्मधुकरः । परो दूरे लाभः कुपितफणिनश्चन्दनतरोः पुनर्जीवन्यायाद्यदि तदिह लाभोऽयमतुलः ॥ ४५ ॥ भ्रातर्भ्राम्य लवङ्गवल्लिषु पिव स्वैरं नवाम्भोरुहे माध्वी माधविकामधूनि मधुराण्याकण्ठमाखादय । कस्मादापतितोऽसि केतकमिदं यस्मिन्नुदीर्ण रजो दृष्टिं लुम्पति सूचयः प्रवितताः कन्तन्ति मर्माण्यपि ॥ १६ ॥ सहसा समये समीयुपो रुचितामङ्गविशेषशून्ययोः । इह षट्पदपङ्कजन्मनोर्न मनोग्लानिरसावुपैष्यति ॥ ४७ ॥ नालिङ्गिता नवलवगलता न चापि संभाविता विटपिनः कलगुजितेन । आसादिता सपदि काचन रीतिरन्या माकन्दकोरकमुदीक्ष्य मधुव्रतेन ॥ १८ ॥ किं न पश्यसि महेन्द्रदिअखे शीतदीधितिरसावुदञ्चति । मीलितैव नलिनीह मा कथास्तन्मधुव्रत मुधा गतागतम् ॥ ४९ ॥ कुन्दकुमलमुपास्यतां त्वया यत्र शीतसमयोऽतिवाहितः । चञ्चरीक परिहीणसौरभा रोचते न भवते सरोजिनी ॥ ५० ॥ अये मधुप मा कथा वत स्था मनोदीनतां तुषारसमये लताशतनिषेवणव्याकुलः । इयं पुरत एव ते सरसपुष्पमासोदये रसालनवमञ्जरी मधुझरी जरीजृम्भते ॥ ५१ ॥ - ११८ काव्यमाला। चश्चरीक चतुरोऽसि चन्द्रिकावैभवे कुमुदिनी निषेवसे । भास्करे जयति पुष्करे करैरुन्मिपन्नवदलेऽनुरज्यसि ॥ ५२ ॥ इतो वसन्तहेमन्तद्वैराज्यादिव दुर्मनाः । न कुन्दे नापि माकन्दे पदं बध्नाति पट्पदः ॥ ५३ ।। मा गाः खेदं कमल किरणैरेप पीयूपगर्भः पालेयांशुर्यदिह कुमुदामोदमाविष्करोति । नानुग्राह्यं यदसि महतामीडशानामयं ते मन्ये कालादिह परिणतः प्राक्तनो दुर्विपाकः ॥ १४ ॥ यावत्वां न खलु हसन्ति कैरविण्यो यावत्त्वां तरणिकराः परामृशन्ति । यावत्ते मधुविभवो नवोऽस्ति तावन्माध्वीकं वितर सरोज पट्पदेभ्यः ॥५५॥ रुचिरतिरुचिरा शुचित्वमुच्चैः शिरसि धृतः स्वयमेव शंकरण । कमलिनि मलिनीकरोपि कस्मान्मुखमिदमिन्दुमुदीक्ष्य लोककान्तम् ॥१६॥ नलिनि निपुणतां वदामि किं ते भ्रमरविलासविशेपलालसायाः । त्रिभुवननयनोत्सवं यदिन्दुं न नयसि हन्त गन्तवम॑सीमाम् ॥ १७ ॥ न कुले नापि च शीले न चापि रूपेऽस्ति कश्चिदुत्कर्पः । यत्पुष्णासि मिलिन्दानरविन्द महत्त्वमेतत्ते ॥ १८ ॥ वैदग्ध्यं मृगलाञ्छनस्य मनसो निर्माति मे न व्यथा नो दूये चिरलालिता मधुलिहः सर्पन्ति यन्नान्तिकम् । जल्पन्तीव दुरक्षराणि मधुपश्रेणीध्वनिच्छद्मना यत्कादम्ब कुमुद्दती हसति मां तन्मे मनस्ताम्यति ।। ५९ ॥ मरन्दलोभान्न मिलिन्दमाला भेजे न वाला श्रवणे निनाय । हा हन्त नालीकमिदं दुरन्तप्रालेयपाली कवलीचकार || ६० ॥ एकस्मिञ्जनिरावयोः समजनि स्वच्छे सरोवारिणि भ्रातः किं च सहैव कानिचिदहान्यत्र व्यतीतानि नौ । लब्धं तामरस त्वया मृगदृशां कर्णावतंसास्पदं शेवालं विलुठामि पामरवधूपादाहते पाथसि ॥ ११ ॥ 2 - स - A भावविलासः । ११९ विभ्रम्य काननमसौ दिवसावसाने त्वय्येव षट्पदयुवा हृदयं बबन्ध । राजीव चेन्मलिनिमानमुरीकरोपि कः स्यादहो मधुलिहामधुनावलम्बः ॥ ६२ ॥ मिलसि मनोज्ञे मनसा मालति मलिनेन वारिवाहेण । कुसुमाकरे विरज्यसि मुग्धे वैदग्ध्यमीदृशं कस्मात् ॥ ६३ ॥ सौरभ्येण समावृणोषि ककुभः पुष्णासि पुष्पंधयां- छूतातन्तुवृतस्तथापि कियतीस्त्वं यापयर्यामिनीः । अस्मिन्दाशपुरे पुरस्तत इतो विन्यस्तचित्रामिपे मालाकारमृते लवङ्गि ललितान्कस्ते गुणाझास्यति ।। ६४ ॥ संदर्शयस्व मधुवैभवमस्ति यत्ते रे कुन्द किं दुरभिमानमुरीकरोपि । एतन्न चेतसि करोषि सरोजबन्धुः पुष्पंधयोऽपि मयि सौरभमातनोति ॥ १५ ॥ एष षट्पदयुवा यदायताः कुन्द यापयति यामिनीस्त्वयि । दुर्वहा तदपि नापचीयते पद्मिनीविरहवेदना हृदि ॥ ६६ ॥ आस्वाद्यैष कषायमङ्करमुरुप्रेमानुबहाशयो माकन्दस्य यशांसि कोकिलयुवा निर्माति दिग्भित्तिषु । माध्वीकानि निपीय तस्य मधुपास्तत्रैव गुञ्जन्त्यमी को ब्रूतामसतां सतां द्विजनुषां मर्मातिगं चेष्टितम् ॥ ६७ ॥ न पश्यति लवङ्गिकां न च निषेवते मालती रसाल रसिकस्तथा न नलिनीवनीमञ्चति । भवन्तमयमीहते मधुपलक्षपक्षानिलाः क्षिपन्ति यदमुं जने जयति तत्तवैवायशः ॥ १८ ॥ शश्वनिसर्गमलिनाः सहकार कामं लुण्ठन्ति तान्यपि मधुन्यहह द्विरेफाः । .

- १२० काव्यमाला। युक्तं न तत्तव कपायरसप्ररोहै- रेतान्प्रतारयसि यत्कलकण्ठयूनः ॥ ६९ ॥ स्निग्धायाः फलिनो दलत्परिमलैः पुप्पैर्मधुस्यन्दिनो नानन्दाय भवन्ति किं वनभुवां भूमीरुहो भूरिशः । माधुर्यं मधुनस्तवैव विदितं माकन्द मन्यामहे माध्वीमर्मविदो दृढं मधुलिहः स्यूता यतो मर्मणि ॥ ७० ॥ विमुक्ता वासन्ती वकुलकुसुमे नापि मिलितं व्यलोकि व्याकोशः क्षणमपि न कोऽपि क्षितिरुहः । यमालोक्योत्कण्ठातरलमिह भृङ्गेन चलितं विदूरान्माकन्दः स खलु दलितो यूथपतिना ।। ७१॥ , उन्मीलयन्ति कुसुमानि मनोरमाणि के नाम नात्र तरवः समयोचितानि । कस्येदृशं कथय दोहदमस्ति तस्य यादृग्विनिर्मितमशोकमहीरुहस्य ॥ ७२ ॥ गर्वायसे विकचकोरकपुनगुन- दुद्वृत्तपट्पदघटाविभवेन कि नु। वामभ्रुवां चरणताडनदोहदानि 'किं नाम न स्मरसि तावदशोक तानि ॥ ७३ ॥ करट कलकण्ठशावकमेनं पुष्णासि कि मुधायासैः । अयमिह पुरा सपक्षः परिचयमपि ते न जानीते ॥ ७४ ॥ कलयसि मृणालकन्दं विहरसि विसिनोदलेपु सानन्दम् । अयि राजहंस शंस त्यजसि मनोहारि कथमिदं वारि ॥ ७५ ॥ नेदं सरः सरसवारि न वारिजं वा नैतन्मधूनि मधुपाः सहवासिनो वा। हेमारविन्दवनवासविलासभाजो रे हंस मानसजुपस्तव मानसेऽपि ॥ ७६ ॥ २ . .

भावविलासः। १२१ -- - अत्र स्नातमिहोपभुक्तममलं भूयो मृणालीदलं याम्यां शश्वदिहान्वभूयत सुखं कल्लोलहिन्दोलनम् । कष्टं तावशनिध्वनिप्रणयिभिः प्रौढानिलास्फालितः स्फाराम्भोधरमण्डलैर्विघटितौ चक्राङ्गचक्राहयौ ॥ ७७ ॥ दूरादेष निशां निरस्य ककुभामुन्मूल्य गाढं तमः प्रेमाणं युवयोर्व्यनक्ति तरणिविश्लेषदुःखं नुदन् । एतस्याङ्ग रथाङ्ग चण्डमहसो मा गाः समीपं व्रज- प्रीति हास्यसि निष्पतिष्यसि पुनर्निर्दग्धपक्षः क्षणात् ।। ७८ ॥ आयातैव विभावरी विभजते नो निर्दयोऽयं विधिः स्वस्तापाङ्गि स्थाङ्गि पश्यसि मुधा चित्तव्यथां मा कृथाः। दैवं संप्रति गर्हयाव बहुशो निर्माय येनावयो- ढं प्रेम विनिर्मितः प्रतिनिशं विच्छेदखेदो महान् ॥७९॥ कूपेऽम्भांसि पिबन्तु कूपरसिका वापीपु वापीजुषो नादेयाश्च पतत्रिणोऽपि नितरामाखादयन्तां पयः । सारङ्गस्य नभोनिवेशितशः किं तेन यावन्मही- मम्भोभिः स्नपयन्नसावुदयते न प्रारषेण्यो धनः ॥ २० ॥ तापं लुम्पसि सर्वतो वितनुषे मुक्ताफलं शुक्तिषु क्षेत्रान्सिञ्चसि किं च पल्लवयसि श्रीखण्डमुख्यान्ट्ठमान् । सारं क्षारमिदं जलं जलनिधेरादाय जीमूत हे विश्वं जीवयसि ब्रवीतु जगति प्रौढोऽपि कस्ते गुणान् ॥१॥ ऊपरेषु विवरेषु चाम्भसां वीचयोऽपि भवता प्रवर्तिताः। क्षेत्रसीनि निहितास्तु बिन्दवो वारिवाह भवतो नवो नयः ॥८२॥ संपादिताः सपदि दर्दुरदीर्घनादा यत्कोकिलाकलरुतानि निराकृतानि । निष्पीतमम्बु लवणं न तु देवनद्याः पर्जन्य तेन भवता न कृतो विवेकः ॥ १३ ॥ १६ . १२२ काव्यमाला। - . - - यत्तादृशेषु नलिनेषु न पक्षपातो जातो बत स्फुटमसौ कुटजानुरागः । विश्चैकजीवनपटोरपि वारिवाह "दुर्वारवायुवशगस्य न तद्विचित्रम् ॥ ८४ ॥ नैवामी प्रभवन्ति चातकतृषाविच्छेदसंपत्तये प्रागल्भ्यं दधते न हन्त हरितां संतापशान्तावपि । प्रक्षामास्तरणित्विपोऽपि न तिरोधातुं समर्थाः पुनः क्षुद्राः पिच्छलयन्ति केवलमपां लेशैः पथस्तोयदाः ॥ ८५॥ उद्दामामणिमयूखमूर्छितानामेतेषामहह महीरुहामिह स्यात् । आलम्बः क इव दिवं भुवं पयोभिः सिञ्चन्तं जगति विहाय वारिवाहम् ॥८६॥ संतापं जगतो विलुम्पसि धरां धाराभिरासिञ्चसि, क्षेत्राण्यङ्कुरयस्यमून्मुकुलयस्यह्राय नीपट्ठमान् । सारङ्गस्य नमोनिवेशितडशश्चथूपुटीपूरणे वैमुख्यं व्रजसि त्वमम्वुद यदि प्रत्येतु को नाम तत् ॥ ८७ ॥ तानि तानि कमलानि तज्जलं तानि पट्पदकुलानि ते खगाः । सर्वमेकपद एव विच्युतं पङ्कशेषमचिरादभूत्सरः ॥ ८ ॥ नावों न च तरलास्तरङ्गमाला नेदानी जलरयजा रवाः करालाः. सैव त्वं तटिनि तटट्ठमान्निपात्य प्रौढानामपयशसामिहासि पात्रम् ॥ ८९॥ वापी कापि कदापि न श्रुतिचरी को वेद कीहक्सरो व्योमाम्भोजवनीव नात्र तटिनी कैर्नाम न ज्ञायते । हहो पान्थ दुरन्तसाहसभरेणेहागतं चेन्मरौ मण्डूकाकुलपङ्कसंकुलतलादैन्धोः कवन्धं पिब ॥ ९० ॥ मूलं कूलमहीरुजां विरुजति क्विम्भाति तुङ्गास्तटी- विश्लेपं च रथाङ्गयोर्वितनुते राजीविनीः कर्पति । श्यामाः शैवलवल्लरीवितुदते मनाति वीचीः क्षणा- त्कि तद्यन्न करोति मारुतवशादम्भोधरः प्रारषि ॥ ९१ ॥ १. कूपाज्जलं पिब. . . -- , . । भावविलासः । १२३ रानीविनीविपिनसौरमसारगन्धि योऽभूहसन्तदिवसेषु जनैकबन्धुः । रथ्यारजांसि विकिरन्विरुजनगेन्द्रा- नुन्मत्तवद्रमति पश्यत सोऽद्य वायुः ॥ ९२ ॥ गन्धवाह गहनानि गाहसे गन्धजातमिह संचिनोपि च । नैपुणच्युतिरियं च तावकी यन्न तत्र सदसद्विवेचनम् ॥ १३ ॥ निधेः कलानामपि रीतिरेषा मर्माणि मे संस्टशतीव भूयः । कुतो विशेषात्कुमुदेऽनुरागः कुतो विरागश्च कुशेशयेषु ॥ ९४ ॥ रञ्जिता न ककुभो निवेशिता नार्चिषो बत चकोरचक्षुषु । कष्टमिन्दुरुदयन्निपीयते दारुणेन तमसा बलीयसा ॥ ९५ ।। लक्ष्मीकेलिगृहे कुशेशयदृशां पाणिद्युतिद्रोहिणि श्यामासूक्तसुधासहोदरमधुप्रस्यन्दसंदोहिनि । जीवातुस्त्रिदिवौकसां त्रिजगतामाप्यायनं चन्द्रम- स्त्वं चेदम्बुरुहे न रज्यसि गुणश्लाघा तदस्तं गता ॥ ९६ ।। श्रेयान्विधोर्बहुलपक्षपरिक्षयोऽपि नो पूर्णतापि जलधेरिह वर्णनीया । यद्वारि न स्टशति हन्त पृथग्जनोऽपि यस्यामृतैर्मखमुनोऽपि मुदं भजन्ते ॥ ९७ ॥ आरोपितः शिरसि यः खयमीश्वरेण सिक्तः सदैव सुरशैवलिनीजलेन । न क्षामतां तदपि मुञ्चति सोऽयमिन्दु- रेतद्वयनक्ति दुरतिक्रममेव दैवम् ॥ ९८ ॥ इन्दोनिन्दतु नाम धाम नलिनी निन्दन्तु चक्राह्वया नैवानेन सुधाकरस्य सुषमा हानिर्न वा दुर्यशः । एतेनैव कतार्थतास्य जनता यन्मोदमालम्बते यज्ज्योत्स्नासु चिरं चकोरपरिषच्चपुटं न्यस्यति ॥ ९९ ॥ ।

१२४ काव्यमाला। या महेशशिरसो विभूषणं या त्रिलोकजनलोचनोत्सवः । सेयमिन्दुकलिका दिनागमे तापिता कमिव नातितापयेत् ॥ १००॥ उत्साहं वनितासखेषु विरहग्लानेषु दैन्यं शशी शोक कोककुटुम्बिनीषु दिशति क्षेमं चकोरीषु च । लक्ष्मी लुम्पति पङ्कजस्य कुमुदामोदाय संपद्यते तद्वीजं ध्रुवमत्र पूर्वविहितं द्वेषस्य रागस्य च ॥ १०१ ॥ धुनोति ध्वान्तानि व्यपनयति नीहारपटलं कुलं राजीवानां दलयति रथाङ्गं रमयति । जगद्व्यापी देवो जनयति जनानां च नयनं न याति स्थेमानं यदि तदिह दैवं जयतु कः ॥ .१०२ ।। अरविन्दानि विन्दन्ति व्यथां विरहतो रवः । तेषां विरहतस्तस्य न जाने कीढगन्तरम् ॥ १०३ ॥ येन शैशवपदे मदेभराङ्गण्डसीम नखरैर्विखण्डितम् । यौवनोत्सवमवाप्य केसरी केषु दर्शयतु सोऽद्य पौरुषम् ॥ १० ॥ भूमिपालभवने स केसरी पञ्जरे स्फुरति रुद्धपौरुपः । उन्मिषत्सु करटेषु कुम्भिनां कः करोति करणार्पणोत्सवम् ॥ १०५॥ एतस्य केसरिपतेगिरिकाननानि तानि स्मरन्ति परमस्य पराक्रमस्य । अद्यातिदुर्वहजराविकलस्य को नु प्रत्येतु तानि चरितानि चिरंतनानि ॥ १०६ ॥ मनं मत्तैः सरसि करिमिविद्वतं हीपिमुख्यै- लीनं कुछ शबरपतिभिर्दछितं रयूथैः । आकोच्चैरिह मृगपतेर्जुम्ममाणस्य नादा- न्कैः कैः किं किं न खलु चकितैः काननेऽस्मिन्नकारि ॥ १०७ । खैरं सैरिभयूथपैरिह सरः शृङ्गेण विक्षोभितं तावन्यनुकुलं च हुंक्रतिशतैर्विद्रावितं द्वीपिभिः । .

भावविलासः।
१२५
हेलाक्षिप्तपदे पराक्रमनिधावुज्जृम्भमाणे हरौ
चित्रं सैव तदैव चित्रलिखितेवासीदरण्यस्थली ॥ १०८ ॥
माद्यत्कुअरकुम्भकूटविगलन्मुक्तावदातान्तराः
किंचित्कोपकषायितेन मनसा येनाद्रिपादाः कृताः ।
सोऽयं संप्रति क्षिकाकुलदृशा कष्टां दशामागतः
सिंहः पांसुभिरेणशावकखुरोन्मुक्तैः समाकीर्यते ॥ १०९ ॥
गर्भान्हठेन दलयन्ति करेणुकानां
गण्डूषयन्ति गजगण्डतटीमदाम्भः ।
यद्रजितानि जरया मुषितः स एव
कण्ठीरवः परिभवं सहते मृगेभ्यः ॥ ११० ॥
मीलितेक्षणयुगं विगाहसे वारणेन्द्र गहनं न वक्षिसे।
अन्तिके तृणविमुद्रिताननः कूप एप खलु दुस्तरस्तव ॥ १११॥
शैवलानि शिरसा प्रतीच्छतः पद्भिरेव कमलानि लुम्पतः ।
स्वैरिणस्तव सरोविहारिणो वारणेन्द्र विदितो न वो नयः ॥ ११२ ॥
नैवावासमहीरुहं विरहयंलीलासरो न त्यज-
विश्लिष्यन्न करेणुकाभिरभितः श्लिष्यन्न वा कण्टकान् ।
एवं नाम विदूयते मरुमहीमासाद्य मध्यंदिने
संतप्तः कलभैर्यथा करिपतिः कान्तारगस्ताम्यति ।। ११३ ॥
न खां करेणुमपि नापि निजान्किशोरा-
नात्मानमेष परिशोचति वारणेन्द्रः ।
दावाग्रिममतनुरत्र यथोपसन्ना-
न्दानार्थिनो मधुकरानधिरूढमावान् ॥ ११ ॥
हेलाकुड्डलितेक्षणेन करटं कण्डूयतोन्मूलिताः
शाखाचुम्बितचन्द्रबिम्बवपुषो भूमीरुहो भूरिशः ।
छिन्ना कुम्भविघटितैर्गिरितटी येनाद्य माद्यन्वला-
देरण्डे स कथं हि गण्डमिभराट् कण्डूयितुं काहतु ॥ ११५॥

१२६ काव्यमाला। रे . " यूथनाथ गहनानि विगाहमानो मनासि पादपशतानि भिनत्सि शैलान् । किं पौरुषाणि न वदामि हरेः परोक्ष किं तत्समक्षमथ तानि पलायितानि ॥ ११६ ॥ लीयन्तां मशकास्तृणेषु विहगा गुच्छेषु गुल्मेषु वा वल्लीषु भ्रमराः क्षुपेषु सृमराः श्वश्रेषु च श्वापदाः । मध्येऽहि घुमणौ महांसि खदिराङ्गारोपमान्युत्किर- त्युत्तप्तस्य मरौ परं करिपतेर्नास्त्येव विश्रामभूः ॥ ११७ ।। सरसि न सहसा विनिष्पतेस्त्वं बहिरमलं कलयन्विसारि वारि । द्विरदपरिवढ प्ररूढपङ्के कति करिणोऽत्र मदालसा न मनाः ॥ ११८ ॥ आधोरणेन सुतरां च निपीडितोऽसि धिक्छृङ्खलामपि हादिह लम्भितोऽसि । श्वभ्रोदरे कलमलुब्धमना निपत्य यूथनाथ सहसे बहुयन्त्रणानि ॥ ११९ ॥ साधो किमाधोरण यूथनाथमङ्गुष्ठकेनातितरां दुनोपि । नो चेदयं वेद निजानुभावं तज्ज्ञस्य ते कर्तुमिदं न युक्तम् ॥ १२० ।। तीर्णः कथं वनकिरातशराभिपाता- न्मुक्तः कथं कथमपि क्षुधितात्तरक्षोः । दुर्दैववैभववशान्मृगशावकोऽय- मुद्दामदावदहने गहने निमग्नः ॥ .१२१ ।। कस्तूरिकाहरिण मुञ्च वनोपकण्ठं मा सौरमेण ककुभः सुरभीकुरुष्व । आस्तां यशो ननु किरातशराभिपाता- प्रातापि हन्त भविता भवतो दुरापः ॥ १२२ ॥ विलपति तनुते गतागतानि स्टहयति न व्यथिता कुशाङ्करेभ्यः । अचकमत निरीक्ष्य रुद्धमेणी हरिणमरुंतुदजालबन्धनानि ॥ १२३ ।। 1 . - भावविलासः। १२७ वरितेन तरक्षुदर्शनानिजशावोऽपि मनाङ्न वीक्षितः । अधुना हरिणीषु हन्त ते वलते कोऽपि कुरङ्ग विक्रमः ॥ १२४ ॥ कुरु कुञ्चितचिल्लि पामराणां न समाजे सरसानि कौशलानि । स्फुटदर्शनमत्र दृग्विलासो न तु वैदग्ध्यमतिस्फुटैव वाणी ॥ १२५ ॥ सूर्याचन्द्रमसौ घनैरतिघनैरेतौ विलुप्तद्युती खच्छन्दं मलिनाः परं जलमुचो वर्षन्ति गर्नन्ति च । तुल्या एव सरित्समुद्रसरसीकुल्या बभूवुः क्षणा- कालः क्रीडति कौतुकं विरचयन्कस्मै किमाचक्ष्महे ॥१२६॥ अतुलरूपगुणोचितयोगयोः कमलिनीशशिनोरसमागमात् । अपयशो विधिना निजमर्जितं विनिहिता च जनस्य हृदि व्यथा॥१२७॥ परेषु लोकेषु विचिन्त्य याचनां परोऽपि को नाम न यातु नम्रताम् । त्रिलोकनाथोऽपि यया दुरन्तया हठादयं वामनतामनीयत ॥ १२८ ॥ लभते लघुरप्येष सपक्षो लक्षमाशुगः। '' पक्षहीनतयां हन्त न धनगुणवानपि ॥ १२९ ॥ मणिरयमनुष्ण इति ते मनसीलायामदेतु नाश्वासः। अचिरेण तरेणिकिरणव्यतिकरमात्रेण दन्दहीत्येपः ॥ १३०॥ घनपांसुविधूरसांशुराशिर्न मणे तापयसे मुधावधान । अधिचत्वरवीथि पामरीणाममरीदुर्लभ कस्तव प्रकारः ॥ १३१ ॥ दीणोऽसि चेत्कनकसूत्रनिवेशनाय मुक्ताकलाप किमतो भवतो विषादः । यत्पञ्चबाणजयमङ्गलहेमकुम्भे कुम्भस्तनीस्तनतटे भवितानुषङ्गः ॥ १३२ ॥ येनाकारि महीमृतामविरतं कण्ठेषु लीलायितं येन प्रापि सरोजमुन्दरदृशां तुङ्गस्तनालिङ्गनम् । जातं येन गजेन्द्रगण्डयुगले साधारणं गुञ्जया मुक्तादाम तदेव पामरपुरे नावाप कां कां दशाम् ॥ १३३ ॥ १. कुचितच यथा स्यात्. चिल्लीशब्दो भ्रूवाचक.. 1 अन्यापदेशविनिवेशविदग्धबुद्धि- श्रीभावसिंहनरसिंहनियोगयोगात् । संपादितो विविधभावविकासमाजां प्रीत्यै भृशं भवतु भावविलास एपः ॥ १३४ ।। सद्गुणानां समुद्रेण रुद्रेण प्रथिता गुणैः । कण्ठस्था श्लोकमालयं केषां न कुरुते श्रियम् ॥ १३५ ॥ विद्याविलासपुत्रस्य न्यायवाचस्पतेरियम् । काव्यालापविदग्धानां मुदं निर्मातु निर्मितिः ॥ १३६ ॥ इति विद्याविलाससूनुन्यायवाचस्पतिश्रीरुद्रकविकृतो भावविलासः समाप्तः । महाकविश्रीक्षेमेन्द्रकृता चारुचर्या। श्रीलाभसुभगः सत्यासतः स्वर्गापवर्गदः । जयतात्रिजगत्पूज्यः सदाचार इवाच्युतः ॥ १ ॥ ब्राह्मे मुहूर्ते पुरुषस्त्यजन्निद्रामतन्द्रितः । प्रातः प्रबुद्धं कमलमाश्रयेच्छ्रीर्गुणाश्रया ॥ २ ॥ पुण्यपूतशरीरः स्यात्सततं स्नाननिर्मलः । तत्याज त्रहा स्नानात्पापं सत्रवधार्जितम् ॥ ३ ॥ न कुर्वीत क्रियां कांचिदनभ्यर्च्य महेश्वरम् । ईशार्चनरतं श्वेतं नाभून्नेतुं यमः क्षमः ॥ ४ ॥ श्राद्धं श्रद्धान्वितं कुर्याच्छास्त्रोक्तेनैव वर्त्मना । भुवि पिण्डं ददौ विद्वान्भीष्मः पाणौ न शंतनोः॥ ५ ॥ नोत्तरस्यां प्रतीच्यां वा कुर्वीत शयने शिरः। शय्याविपर्ययागौं दितेः शक्रेण पातितः ॥ ६ ॥ अर्थिभुक्तावशिष्टं यत्तदश्नीयान्महाशयः । १. सत्ये सत्यभामायां चासक्तः. २. इन्द्रः. ३. श्वेतो नाम मुनिः. तत्कथा लिापुराणे पूर्वार्धे त्रिशन्मितेऽध्याये द्रष्टव्या. -- चारुचर्या । . - १२९ श्वेतोऽर्थिरहितं भुक्त्वा निजमांसाशनोऽभवत् ॥ ७ ॥ जपहोमार्चनं कुर्यात्सुधौतचरणः शुचिः । पादशौचविहीनं हि प्रविवेश नेलं कलिः ॥ ८॥ न संचरणशीलः स्यान्निशि निःशङ्कमानसः ।. माण्डव्यः शूललीनोऽभूदचौरश्चौरशङ्कया ॥९॥ न कुर्यात्परदारेच्छां विश्वासं स्त्रीषु वर्जयेत् । हतो दशास्यः सीतार्थे हतः पत्न्या.विद्रूरथः ॥ १० ॥ न मद्यव्यसनी क्षीवः कुर्यादेतालचेष्टितम् । वृष्णयो हि ययुः क्षीवास्तृणप्रहरणाः क्षयम् ॥ ११ ॥ ईर्ष्या कलहमूलं स्यात्क्षमा मूलं हि संपदाम् । ईर्ष्यादोषाद्विप्रशापमवाप जनमेजयः ॥ १२॥ न त्यजेद्धर्ममर्यादामपि क्लेशदशां श्रितः । हरिश्चन्द्रो हि धर्मार्थी सेहे चण्डालदासताम् ॥ १३ ॥ न सत्यव्रतभङ्गेन कार्य धीमान्प्रसोधयेत् । ददर्श नरकक्लेशं सत्यनाशायुधिष्ठिरः ॥ १४ ॥ कुर्वीत संगतं सद्भिर्नासद्भिर्गुणवर्जितैः । प्राप राघवसंगत्या प्राज्यं राज्यं विभीषणः ॥ १५ ॥ १. श्वेतो नाम राजा. तत्कथा वाल्मीकीयरामायण उत्तरकाण्डेऽष्टसप्ततितमे सगेंद्र- - ष्टच्या. २. 'कृत्वा मूत्रमुपस्पृश्य सध्यामन्यास्त नैषधः । अकृत्वा पादयोः शौचं तत्रैन कलिराविशत् ॥ इति महाभारते वनपर्वण्यकोनषष्टितमेऽध्याये. ३. 'स रक्षिमिस्तैर- ज्ञातः शूले प्रोतो महातपाः' इत्यादि महाभारत आदिपर्वणि १०७ अध्याये माण्डध्यकया द्रष्टव्या. ४. 'शत्रेण वेणीविनिगृहितेन विदूरथ स्वा महिषी जघान' इति बृहत्साहिता (७८१)। 'वेणीनिगूटेन च शस्त्रेण विन्दुमती वृष्णि विदूरथ [जधान] इति हर्षचरितप- ठोच्छासः. ५. वृष्णयो यादवाः. एतत्कथा महाभारते मौसलपर्वणि प्रसिद्धव. ६. 'ज- गाम स रथौ नाशं शापागाय॑स्य धीमतः । गाय॑स्य हि सुतं बालं सराजा जनमेजयः । वाक्शूरं हिंसयामास ब्रह्महत्यामवाप सः ॥' इति हरिवशे प्रथमपर्वणि त्रिंशेऽध्याये. . ७. 'व्याजेन हि त्वया द्रोण उपचीर्णः सुतं प्रति । व्याजेनैव ततो राजन्दर्शितो नरक- स्तव ॥ इति महाभारते स्वर्गारोहणपर्वणि हतीयेऽध्याये. - ।

. " , । . . . । . १३० काव्यमाला। मातरं पितरं मक्त्या तोषयेन्न प्रकोपयेत् । मातृशापेन नागानां सर्पसत्रेऽभवत्क्षयः ॥ १६ ॥ जराग्रहणतुष्टेन निजयौवनदः सुतः । कृतः कनीयान्प्रणतश्चक्रवर्ती ययातिना ॥१७॥ (युग्मम्) दानं सत्वमितं दद्यान्न पश्चात्तापदूपितम् । वलिनात्मार्पितो बन्धे दानशेषस्य शुद्धये ॥ १८॥ त्यागे सत्त्वनिधिः कुर्यात्न प्रत्युपकतिस्टहाम् । कर्णः कुण्डलदानेऽभूत्कलुषः शैक्तियाचया ॥ १९ ॥ ब्राह्मणान्नावमन्येत ब्रह्मशापो हि दुःसहः । तक्षकानौ ब्रह्मशापात्परीसिद्गमत्सयम् ॥ २० ॥ दम्भारम्भोद्धतं धर्म नाचरेदन्तनिष्फलम् । ब्राह्मण्यदम्भलब्धास्त्रविद्या कर्णस्य निष्फला ॥ २१ ॥ नासेव्यसेवया दध्यादैवाधीने धने धियम् । भीष्मद्रोणादयो याताः क्षयं दुर्योधनाश्रयात् ॥ २२ ॥ परप्राणपरित्राणपरः कारुण्यवान्भवेत् । मांसं कपोतरक्षायै स्वं श्येनाय ददौ शिविः ॥ २३ ॥ अद्वेषपेशलं कुर्यान्मनः कुसुमकोमलम् । १. "नावपद्यन्त ये वाक्य ताशशाप भुजगमान् । सर्पसन्ने वर्तमाने पावको वः प्रधक्ष्यति ॥' इति महाभारत आदिपर्वणि विशेऽध्याये. २. 'गृहाण यौवनं मत्तश्चर कामान्यथेप्सितान् । जरयाहं प्रतिच्छन्नो चरिष्यामि यथात्य माम् ॥ ययातिरुवाच- पुरो प्रीतोऽस्मि ते वत्स प्रीतश्चेदं ददामि ते। सर्वकामसमृद्धा ते प्रजा राज्ये भ- विष्यति ।।' इति महाभारत आदिपर्वणि चतुरशीतितमेऽध्याये. ३. 'वर्मणा कुण्ड- लाभ्यां च शक्ति में देहि वासव । अमोघां शत्रुसंघानां नाशिनी पृतनामुखे ।' इति महाभारते वनपर्वणि दशाधिकत्रिशततमेऽध्याये. ४. 'यस्मान्मिथ्योपचरितो ह्यन्त्रलोभादिह त्वया। तस्मादेतुन ते मूढ ब्रह्मास्त्र प्रतिभास्यति ।।' इति महाभा- रते शान्तिपर्वणि राजधर्म तृतीयेऽध्याये कर्णे प्रति परशुरामस्य शाप. ५. 'उत्कृत्य स्वय मांसं राजा परमधर्मवित् । तुलयामास कौन्तेय कपोतेन समं विभो ॥' इति म- हाभारते वनपर्वण्येकांत्रशदधिकशततमेऽध्याये. H . .

1 1 3 - १ 1 . . . . - . चारुचर्या ।' १३१ बभूव द्वेषदोषेण देवदानवसंक्षयः ॥ २४ ॥ अविस्मृतोपकारः स्यान्न कुर्वीत उतघ्नताम् । हत्वोपकारिणं विप्रो नाडीजङ्घमघश्युतः ॥ २५ ॥ स्त्रीजितो न भवेद्धीमान्गाढरागवशीकृतः । पुत्रशोकादशरथो जीव जायाजितोऽत्यजत् ।। २६ ।। न ख़यं संस्तुतिपदैर्लानिं गुणगणं नयेत् । खगुणस्तुतिवादेन ययातिरपतद्दिवः ।।.२७ ॥ त्यजेन्मृगव्यव्यसनं हिंसयातिमलीमसम् । मृगयारसिकः पाण्डुः शापेन तनुमत्यजत् ॥ २८ ॥ क्षिपेद्वाक्यशरांस्तीक्ष्णान्न पारुण्यव्युपछतान् । वाक्पारुण्यरुषा चक्रे भीमः कुरुकुलक्षयम् ॥ २९ ॥ परेषां क्लेशदं कुर्यान्न पैशुन्यं प्रभोः प्रियम् । पैशुन्येन गत्रौ राहोश्चन्द्रामै भक्षणीयताम् ॥ ३० ॥ कुर्यान्नीचजनाभ्यस्तां न याच्या मानहारिणीम् । वलियाच्यापरः प्राप लांघवं पुरुपोत्तमः ॥ ३१ ॥ न जातूलचनं कुर्यात्सतां मर्मविदारणम् । चिच्छेद वदनं शंभुर्ब्रह्मणो वेदवादिनः ॥ ३२ ॥ न बन्धुसंवन्धिजनं दूषयेन्नापि वर्जयेत् । दक्षयज्ञक्षयायाभूत्रिनेत्रस्य विमानना ॥ ३३ ॥ न विवादमदान्धः स्यान्न परेषाममर्पणः । वाक्पारुष्याच्छिरश्छिन्नं शिशुपालस्य शौरिणा ॥ ३४ ॥ गुणस्तवेन कुर्वीत महतां मानवर्धनम् । १. विप्रो गौतम . नाडीज नाम बकम्.' एतत्कथा महाभारते शान्तिपर्वण्यापद्धर्मे- अष्टषट्यधिकशततमाध्यायमारभ्यापद्धर्मसमाप्तिपर्यन्त द्रष्टव्या. २. इयं ययातिकथा महा- भारत आदिपर्वण्यटाशीतिमितेऽध्याये द्रष्टव्या. ३. 'ततो वैरविनिर्बन्धः कृतो राहु- -मुखेन वै । शाश्वतश्चन्द्रसूर्याभ्यां प्रसत्यद्यापि चैव तौ ॥' इति महाभारत आदिपर्व- ण्येकोनविंशतितमेऽध्याये. + . .

. M . -- . . १३२ काव्यमाला। हैनूमानभवत्स्तुत्या रामकार्यभरक्षमः ॥ ३५ ॥ गुणेष्वेवादरं कुर्यान्न जाती जातु तत्ववित् । द्रौणिजिोऽभवच्छूद्रः शूद्रश्च विदुरः क्षमी ॥ ३६ ।। नात्यर्थमर्थार्थनया धीमानुद्वेजयेज्जनम् । अब्धिर्दत्ताश्वरत्नश्रीमथ्यमानोऽसृजद्विषम् ॥ ३७ ।। वकैः क्रूरतरैर्लुब्धैर्न कुर्यात्प्रीतिसंगतिम् । वसिष्ठस्यौहरद्धेनुं विश्वामित्रो निमन्त्रितः ॥ ३८ ॥ तीब्रे तपसि लीनानामिन्द्रियाणां न विश्वसेत् । विश्वामित्रोऽपि सोत्कण्ठः कण्ठे जग्राह मे काम् ।। ३९ ॥ कुर्याद्वियोगदुःखेषु धैर्यमुत्सृज्य दीनताम् । अश्वत्थामवधं श्रुत्वा द्रोणो गतधृतिर्हतः ॥ ४० ॥ न क्रोधयातुधानस्य धीमान्गच्छेदधीनताम् । पपौ राक्षसवदीमः क्षतजं रिपुवक्षसः ।। ४१ ।। प्रभुप्रसादे नो दद्यात्वविनाशास्पदे मतिम् । वक्षयायोद्धतं युद्धं वाणरूयक्षमयाचत ॥ ४२ ॥ . विद्योद्योगी गतोद्वेगः सेवया तोपयेद्गुरुम् । गुरुसेवापरः सेहे कायक्लेशदशां कचः ॥ ४३ ॥ भक्तं शक्तं हितं रक्तं निदोपं न परित्यजेत् । रामस्त्यक्त्वा सती सीतां शोकशल्यातुरोऽभवत् ॥ ४४ ॥ रक्षेत्ख्याति पुनः स्मृत्या यशःकायस्य जीवनीम् । १. वाल्मीकीयरामायणे किष्किन्धाकाण्डे पट्पष्टितमे सर्गे कथेयं द्रष्टव्या. २. द्रौ. णिरश्वत्थामा. इय कथा महाभारते सौप्तिकपर्वसमाप्तौ द्रष्टव्या. ३. 'एवमुक्तस्तथा पार्थ विश्वामित्रो पलादिव । हंसचन्द्रप्रतीकाशां नन्दिनी तां जहार गाम् ॥' इति महाभारत आदिपर्वणि पश्चसप्तत्यधिकशततमेऽध्याये.. ४. इयं कथा महाभारत आ- दिपर्वणि द्विसप्ततितमेऽध्याये द्रष्टव्या. ५. दीनतामुत्सृज्य धैर्य कुर्यादित्यन्वयः. ६. 'तद्- हि मम युद्धस्य कच्चिदागमन भवेत् । न मे युद्धं विना देव रतिरस्ति प्रसीद मे ॥ इति हरिवशे द्वितीयपर्वणि. ७. कचो बृहस्पतिपुत्र.. तत्कथा महाभारत आदिपर्वणि परमप्रतितमेऽध्याये द्रष्टच्या . ।

। . ८ . चारुचर्य। १३३ च्युतः स्मृतो जनैः खर्गमिन्द्रद्युम्नः पुनर्गतः ॥ ४५ ॥ न कदर्यतया रक्षेल्लक्ष्मी क्षिप्रपलायिनीम् । युक्त्या व्याडीन्द्रदत्ताभ्यां हता श्रीनन्दभूभृतः ।। ४६ ॥ शक्तिक्षये क्षमा कुन्निाशक्तः शक्तमाक्षिपेत् । कार्तवीर्यः ससंरम्भ बैबन्ध दशकंधरम् ॥ ४७ ।। वेश्यावचसि विश्वासी न भवेन्नित्यकैतवे । ऋष्यशृङ्गोऽपि निःसङ्गः शृङ्गारी वेश्यया कृतः ॥ १८॥ अल्पमप्यवमन्येत न शत्रु बलदर्पितः। रोमेण रामः शिशुना ब्राह्मण्यदययोज्झितः ।। ४९ ॥ हिंसाक्रूरतराचारो न गच्छेद्विश्वशत्रुताम् । जगद्वैरी जरासंधः पाण्डवेन द्विधा कृतः ॥ १० ॥ औचित्यप्रच्युताचारो युक्त्या स्वार्थ न साधयेत् । व्याजबालिवधेनैव रामकीर्तिः कलङ्किता ॥ ११ ॥ वर्जयेदिन्द्रियजयी विजने जननीमपि । पुत्रीकतोऽपि प्रद्युम्नः कामितः शम्बरस्त्रिया ॥ ५२॥ न तीव्रतपसां कुर्याद्धैर्यविष्ठवचापलम् । नेत्राग्निशलमीभावं भवोऽनैपीन्मनोभवम् ।। ५३ ॥ न नित्यकलहाक्रान्ते सक्तिं कुर्वीत कैतवे । रुक्मी फेलकदुर्घातैयूँते हलभृता हतः ॥ ५४ ॥ १. इन्द्रद्युम्नो नाम राजा. तत्कथा महाभारते वनपर्वणि नवनवत्युत्तरशततमेऽध्याये द्रष्टव्या. २. इय व्याडीन्द्रदत्तयो. कथा कथासरित्सागरे चतुर्यतर) द्रष्टव्या. ३. 'स तु बाहुसंहस्रेण बलाद्गृह्या दशाननम् । वबन्ध बलवानराजा बलिं नारायणो यथा ॥ इति वाल्मीकीयरामायण उत्तरकाण्डे द्वात्रिंशे सर्गे. ४. ऋष्यशृङ्गकथा वाल्मीकोयरामायणेवा. लकाण्डे दशमसर्गे, महाभारते च वनपर्वणि दशोत्तरशततमेऽध्याये द्रष्टव्या. ५. रामेण दशरथसुतेन. रामः परशुरामः. ६. 'करे गृहीत्वा चरणे द्वेधा चके महावल' इति महामारते सभापर्वणि चतुर्विशेऽध्याये. ७. स यदा यौवनस्यस्तु प्रद्युम्नः कामदर्शनः । ते सा मायावती कान्त कामयामास कामिनी ।।' इति हरिवशे द्वितीयपर्वणि चतुरुत्तर- शततमेऽध्याये. ८. 'विवादे कुपितो राम क्षेप्तार किल रुक्मिणम् । जघानाष्टापदेनैव प्रमथ्य यदुनन्दनः ॥' इति हरिवशे द्वितीयपर्वण्येकषष्टिमितेऽध्याये. S . ॥'ने दिल्ली -- -- - - १३४ काव्यमाला। प्रभुप्रसादे सत्याशां न कुर्यात्खमसंनिभे । नन्देन मन्त्री निहितः शकटालो हि वन्धने ॥ ५५ ॥ । न लोकायतवादेन नास्तिकत्वेऽर्पयेद्धियम् । हरिहिरण्यकशिपु जघान स्तम्भनिर्गतः ॥ १६ ॥ अत्युन्नतपदारूढः पूज्यान्नैवावमानयेत् । 'नहुषः शक्रतामेत्य च्युतोऽगस्त्यावमाननात् ॥ १७ ॥ 'संधि विधाय रिपुणा न निःशङ्कः सुखी भवेत् । संधिं कृत्वावधीदिन्द्रो त्रं निःशङ्कमानसः ॥ १८ ॥ हितोपदेशं श्रुत्वा तु कुति च यथोचितम् । विदुरोक्तमकृत्वा तु शोच्योऽभूत्कौरवेश्वरः ॥ १९ ॥ वन्नाशनलोभन रोगी मन्दरुचिर्भवेत् । प्रभूताज्यभुजो जाड्यं देहनस्याप्यजायत ॥ ६० ॥ ..यत्नेन शोपयेद्दोपान्न तु तीव्रव्रतैस्तनुम् । तपसा कुम्भकर्णोऽभून्नित्यनिद्राविचेतनः ॥ ११ ॥ स्थिरताशां न वनीयादुवि भावेषु भाविषु । रामो रघुः शिविः पाण्डुः क्व गतास्ते नराधिपाः ॥ १२ ॥ 'विडम्बयेन्न रद्धानां वाक्यकर्मवपुःक्रियाः । श्रीसुतः प्राप वैरूप्यं विडम्बिततनुर्मुनेः॥ ६३ ॥ नोपदेशेऽप्यभव्यानां मिथ्या कुर्यात्प्रवादिताम् । शुक्रपागुण्यगुप्तापि प्रक्षीणा दैत्यसंततिः ॥ ६४ ॥ न तीव्रदीर्घवैराणां मन्यु मनसि रोपयेत् । कोपेनापातयन्नन्दं चाणक्यः सप्तभिर्दिनैः ॥ ६५ ॥ १. 'योगनन्दोऽथ कूपान्तः शकटाल तमक्षिपत्' इति कथासरित्सागरे चतुर्थतरङ्गे. २. इय नहुपकथानुशासनिकपर्वणि शततमेऽध्याये द्रष्टव्या. ३. इयं वृत्रवधकथा शा- न्तिपर्वणि मोक्षधर्म द्वयशीत्युत्तरद्विशततमेऽध्याये द्रष्टव्या. ४. अग्नेः. इयं कथा महा- भारत आदिपर्वणि त्रयोविंशत्युत्तरद्विशतमितऽध्याये द्रष्टव्या. ५. 'अवश्यं हतनन्दो- ऽयं सप्तभिर्दिवसैर्मया । विनाश्यो अन्धनीया च ततो निर्मन्युना शिखा । सप्तमे दिवसे प्राप्ते पश्चत्वं समुपागमत् ॥' इति- कथासरित्सागरे पश्चमतरले. . । - . .

चारुचर्या । १३५ . - . न सतीनां तपोदीप्तं कोपयेत्क्रोधपावकम् । वधाय दशकण्ठस्य वेदवत्यत्यजत्तनुम् ॥ ६ ॥ गुरुमाराधयेद्भक्त्या विद्याविनयसाधनम् । रामाय प्रददौ तुष्टो विश्वामित्रोऽस्त्रमण्डलम् ॥ ६७ ॥ वसु देयं वयं दद्याबलाद्यद्दापयेत्परः। द्रुपदोऽपह्नवी राज्यं द्रोणेनोक्रम्य दापितः ॥ ६८ ॥ साधयेद्धर्मकामार्थान्परस्परमवाधकान् । त्रिवर्गसाधना भूपा बभूवुः सगरादयः ॥ ६९ ॥ खकुलान्यूनतां नेच्छेत्तुल्यः स्यादथवाधिकः । सोत्कर्षेऽपि रघोर्वशे रामोऽभूत्स्वकुलाधिकः ॥ ७० ॥ कुर्यात्तीर्थाम्बुभिः पूतमात्मानं सततोज्ज्वलम् । लोमैशादिष्टतीर्थेभ्यः प्रापुः पार्थाः कृतार्थताम् ॥ ७१ ॥ आपत्कालोपयुक्तासु, कलासु स्यात्कृतश्रमः ! नृत्तवृत्तिविराटस्य किरीटी भवनेऽभवत् ॥ ७२ ॥ अरागभोगसुभगः स्यात्प्रसक्तविरक्तधीः । राज्ये जनकराजोऽभून्निलेंपोऽम्मसि पद्मवत् ॥ ७३ ॥ अशिष्यसेवया लाभलोमेन स्याद्रुलघुः । संवर्तयज्ञयाच्यामिर्लज्जां लेभे वृहस्पतिः ॥ ७४ ॥ नष्टशीलां त्यजेन्नारी रागवृद्धिविधायिनीम् । चन्द्रोच्छिष्टाधिकप्रीत्यै पत्नी निन्द्याप्यभूर्दुरोः ॥ ७५ ॥ न गीतवाद्यामिरतिर्विलासव्यसनी भवेत् । १. वेदवत्येव जन्मान्तरे सोता समभूत्. तत्कथा वाल्मीकीयरामायण उत्तरकाण्डे सप्तदशे सर्गे द्रष्टव्या. २. द्रुपदकथा महाभारत आदिपर्वण्यष्टत्रिंशदधिकशततमेऽध्याये . द्रष्टव्या. ३. लोमशोक्तं तीर्थवर्णन महाभारते वनपर्वण्यशीतितममध्यायमारभ्य द्रष्टव्यम्. ४. अर्जुनः. इयं कथा महाभारते विराटपर्वण्येकादशेऽध्याये द्रष्टव्या. ५. इयं संवर्त- बृहस्पतिकथा महाभारत आश्वमेधिकपर्वण्यष्टमनवमाध्याययोर्द्रष्टव्या. ६. इयं बृहस्प-. तिपलीकथा हरिवशे प्रथमपर्वणि पञ्चविंशेऽध्याये द्रष्टव्या. . 4 .

. . काव्यमाला। । 4 वीणाविनोदव्यसनी चेत्सेशः शत्रुणा हृतः ॥ ७६ ॥ उद्वेजयेन्न तैक्ष्ण्येन रामाः कुसुमकोमलाः । सूर्यों भाभियोच्छिन्त्यै तेजो निजमशातयत् ।।.७७ ॥ पद्मवन्न नयेत्कोपं धूर्तभ्रमरभोज्यताम् । सुरैः क्रमेण नीतार्थः श्रीहीनोऽभूत्पुराम्बुधिः ॥ ७८ ॥ नोपदेशामृतं प्राप्तं भग्नकुम्भनिभस्त्यजेत् । पार्थों विस्मृतगीतार्थः सासूयः कलहेऽभवत् ।। ७९ ।। न पुत्रायत्तमैश्वर्यं कार्यमार्यैः कदाचन । पुत्राप्तिप्रभुत्वोऽभूद्धृतराष्ट्रस्तृणोपमः ॥ ८० ॥ न शत्रुशेषदूष्याणां स्कन्धे कार्य समर्पयेत् । निष्प्रतापोऽभवत्कर्णः शल्यतेजोवादितः ॥ ८१ ॥ न लब्धे प्रभुसंमाने फलक्लेशं समाश्रयेत् । ईश्वरेण धृतो मूर्ध्नि क्षीण एव क्षपापतिः ॥ १२ ॥ श्रुतिस्मृत्युक्तमाचारं न त्यजेत्साधुसेवितम् । दैत्यानां श्रीवियोगोऽभूत्सत्यधर्मच्युतात्मनाम् ॥ ८३ ।। श्रियः कुर्यात्पलायिन्या वन्धाय गुणसंग्रहम् । दैत्यांस्त्यक्त्वा श्रिता देवा निर्गुणान्सगुणाः श्रिया ।। ८४ ॥ पदाग्निं गां गुरुं देवं न चोच्छिष्टः स्टशेद्धृतम् । दानवानां विनष्टा श्रीरुच्छिष्टस्टष्टसर्पिपाम् ॥ ८५ ॥ प्रतिलोमविवाहेषु न कुर्यादुन्नतिस्टहाम् । ययातिः शुक्रकन्यायां सस्टहो म्लेच्छतां गतः ॥ ८६ ॥ रूपार्थकुलविद्यादिहीनं नोपहसेन्नरम् । १. इयं वत्सेशकथा कथासरित्सागरे द्वादशे तरङ्गे द्रष्टव्या. २. 'ततोऽभ्युपगमारवटा मार्तण्डस्य विवस्वतः। भ्रमिमारोप्य तत्तेजः शातयामास भारत॥' इति हरिवंशे प्रथमपर्वणि नवमेऽध्याये. ३. अर्जुनस्य गीतार्थविस्मरणकथा महाभारत आश्वमेधिकपर्वण्यनुगीतायां प्रसिद्धा. ४. शल्यकृतकर्णतेजोवधकथा महाभारते कर्णपर्वण्यतिप्रसिद्धा. ५. देव. . का . यान्याम्.

, . 1 चारुचर्या । १३७ हसन्तमशपन्नन्दी रावणं वानराननः ॥ ८७ ॥ वन्धूनां वारयेद्वैरं नैकपक्षाश्रयो भवेत् । कुरुपाण्डवसङ्ग्रामे युयुधे न हलायुधः ॥ ८ ॥ परोपकारं संसारसारं कुर्वीत सत्त्ववान् । निदधे भगवान्बुद्धः सर्वसत्त्वोद्धतौ धियम् ॥ ८९॥ बिभृयाद्वन्धुमधनं मित्रं त्रायेत दुर्गतम् । बन्धुमित्रोपजीव्योऽभूर्थिकल्पद्रुमो बलिः ॥ ९० ॥ न कुर्यादभिचारोग्रवध्यादिकुहकाः क्रियाः । लक्ष्मणेनेन्द्रजित्कृत्याद्यभिचारमयो हतः ॥ ९१ ॥ ब्रह्मचारी गृहस्थः स्याद्वानप्रस्थो यतिः क्रमात् । आश्रमादाश्रमं याता ययातिप्नमुखा नृपाः ॥ ९२ ॥ कुर्याद्वययं स्वहस्तेन प्रभूतधनसंपदाम् । अगस्त्यमुक्त वातापो कोषस्यान्यैः कृतो व्ययः ॥ ९३ ॥ जन्मावधि न तत्कुर्यादन्ते संतापकारि यत् । सस्मारकशिरःशेपः सीताक्लेशं दशाननः ॥ ९४ ॥ जराशुभ्रेषु केशेषु तपोवनरुचिर्भवेत् । अन्ते वनं ययु(राः कुरुपूर्वा महीभुजः ॥ ९५ ॥ पुनर्जन्मजराछेदकोविदः स्याद्वयःक्षये । विदुरेण पुनर्जन्मवीनं ज्ञानानले हुतम् ॥ ९६ ॥ परमात्मानमन्तेऽन्तज्योतिः पश्येत्सनातनम् । तत्प्राप्त्या योगिनो जाताः शुकशान्तनवादयः ॥ ९७ ॥ प्राप्तावधिरजीवेऽपि जीवेत्सुकृतसंततिः । जीवन्त्यद्यापि मांधातृमुखाः कायैर्यशोमयैः ॥ ९८ ॥ अन्ते संतोषदं विष्णुं स्मरेद्धन्तारमापदाम् । १. 'यस्माद्वानररूपं मामवज्ञाय दशाननः' इत्यादि कथा वाल्मीकिरामायण उत्तर- काण्डे षोडशे सर्गे. २. इय वातोपिकयां महाभारते वनपर्वणि नवनवतिमितेऽध्याय . . द्रष्टव्या. १८ १३८ काव्यमाला। . शरतल्पगतो भीष्मः सस्मार गरुड़ध्वजम् ॥ ९९ ॥ श्रव्या श्रीव्यासदासेन समासेन सतो मता। क्षेमेन्द्रेण विचार्येयं चारुचर्या प्रकाशिता ॥ १० ॥ इति श्रीप्रकाशेन्दात्मजव्यासदासापराख्यमहाकविश्रीक्षेमेन्द्रकृता चारुचर्या समाप्ता। . . श्रीमधुसूदनसरस्वतीविरचिता आनन्दमन्दाकिनी। वाग्देवीचतुरास्यपञ्चवदना नित्यं सहसाननो- ऽप्युच्चैर्यत्र जडात्मतामुपगताः केऽन्ये वराकाः मुराः । माः स्वल्पधियः कथं नु कुशलास्तत्राप्यहं प्रज्ञया हीनः किं करवाणि तां व्रजकुलोत्तंस प्रशंसां तव ॥ १ ॥ नित्यं ब्रह्मसुरेन्द्रशंकरमुखैर्दत्तोपहाराय ते विस्वादास्तुषमिश्रतण्डुलकणान्विप्रः सुदामा ददौ । तहदेव निरर्थकैः कतिपयै रूक्षाक्षरौनिर्मितां वागीशप्रमुखस्तुतस्य भवतः कुर्यां स्तुति निस्त्रपः ॥ २ ॥ शश्वद्वह्मशिवेन्द्रदेवगुरुवाग्देवीफणीन्द्रादिभिः स्तुत्यस्यापि हरे ममास्तु रचिता वाणी विनोदाय ते।' चित्रालंकृतिशालिभिः मुललितैनित्यं कवीनां स्तवैः सम्राजः समुपासितस्य शुकगीर्धत्ते प्रमोद यथा ॥ ३ ॥ चित्राकारकिरीटकोटिविलसद्रतौघकान्तिच्छटा- संघटेन विचित्रमम्बरतलं कुर्वत्स्थितं मूर्धनि । जीयाकेकिशिखण्डमण्डनमिदं नीलाचलस्थायिनी खर्णाद्रेः शिखरे पुरंदरधनु!हस्य निन्दावहम् ॥ ४ ॥ १. भीष्मस्य गरुडध्वजस्मरणं महाभारते शान्तिपर्वणि राजधर्मे सप्तचत्वारिंशेऽध्याये द्रष्टव्यम्. २. अद्वैतसिद्धि प्रस्थानभेद-भगवद्गीताटीका-महिमस्तवटीका-सिद्धान्तविन्दुटी- काद्यनेकग्रन्थकर्ता श्रीमधुसूदनसरस्वती कस्मिन्समये वभूवेति न निश्चयः. ३. श्रीकृष्णस्य केशादिपादान्तवर्णनरूप स्तोत्रमिदम्.

4 . यत्पादान्तनखांशुचिन्तनवशादज्ञानमन्धं तमो- ऽप्यन्तं याति मुकुन्द तस्य भवतो ध्वान्तानि कि मूनि । ज्ञातं त्वां दयितं समेत्य जलदा ये केशतामाश्रिता- स्ते बद्धाश्चपलागणैः प्रणयजक्रोधात्किरीटच्छलात् ।। ५ ।। त्वच्चक्षुःसवितुः सरोरुहरुचे. साक्षात्कथं गण्डयो- र्भाले च ब्रजनाथ नर्तनपरा ध्वान्ताकाः संततम् । निर्णीतं मुखनेत्रपंकजवनीमाध्वीकपानान्मुहु- र्माद्यन्तो मधुपा भ्रमन्ति परितो वक्त्रालकव्याजतः ॥ ६ ॥ त्वद्भाले निकषोपले.विजयते काश्मीरगोरोचना-. संभूतस्तिलकः परीक्षणविधौ कि हेमरेखोद्गमः । चाञ्चल्यं चपला विहाय जलदं किं वा समालम्वते किं वा मारकतस्थले समुदितः कंदर्परक्षाङ्कुरः ॥ ७ ॥ त्वद्भवल्लिमिषेण कार्मुकलतामाकृष्य पुप्पाशुगः कृत्वा चम्पककोरकं च तिलकव्याजेन बाणं हरे । लक्ष्यं कुन्तलनीलकण्ठमतुलश्रीचन्द्रकं विध्यति प्रायः शत्रुसमाननान्यपि जनें क्रोधो यदू खिनाम् ॥ ८ ॥ निःशेषप्रमदामनोमनसिजक्रीडामहामन्दिर- व्रीडावजकपाटिकाविघटनप्रौढाकृतिः कुञ्चिका । दुर्मानग्रहिलत्रिलोकमहिलामानच्छिदाकर्तरी शृङ्गारद्रुममञ्जरी स्फुरति कि गोविन्द ते भ्रूलता ॥ ९ ॥ नो कार्य श्रुतिवमलङ्घनमिदं नोलीकमुग्धाकृतिः पर्यन्ताकलनं विधाय सहजस्वच्छेन भाव्यं सदा । अन्तः कैष्णमुपास्य तद्रुचिमता संभावना सर्वतः कार्यत्यम्बुजलोचनालियुगलं मानं दधौ ते सताम् ॥ १० ॥ १. श्रुतिवर्मन श्रोत्रसीमायाः, (पक्षे) वेदमार्गस्य. २. नालीकस्य कमलस्येव मुग्धा मनोहराकृतिः; (पक्षे) न अलोकेनासत्येन मुग्धा मूढाकृतिः, ३. कृष्णं कृष्णवर्णे स्वम- ध्यभागस्थितम् ; (पक्षे) श्रीकृष्णम् . - . . 1 -- काव्यमाला। - -- ! . . . - सौन्दर्यामृतदीर्घिके तव दृशौ पक्ष्मावलिश्चैतयोः कूले कामकृषीवलेन रचिता शृङ्गारसस्योन्नतिः । दृग्मङ्गोर्निगदन्ति यास्तु विबुधा रत्यम्भसां वीचय- स्ताः स्युौपवधूहृदम्वुजवनीदोलायिता यत्नतः ॥ ११ ॥ दूरे ब्रह्मशिवेन्द्रपूर्वदिविपहृन्दे नमस्कुर्वति व्यावल्गजबालकौघलगुडन्युयत्किरीटे हठात् । सावज्ञा मधुमत्तसुन्दरदृशां शोभाद्विषः सालसा ढक्पातास्तव नन्दवंशतिलक खान्ते सदा सन्तु मे ॥ १२ ॥ मुक्तेरप्यतिदुर्लभा हिमगिरिप्रस्यन्दिमन्दाकिनी- धारातोऽप्यतिशीतलातिमसृणा चान्द्रान्मयूखादपि । वाञ्छातोऽप्यतिविस्तृता विपयिणां त्वत्पादचिन्तापर- स्वान्तादप्यतिनिर्मला मयि कृपादृष्टिस्तवास्तां हरे ॥ १३ ॥ कल्पान्ताग्निशिखोन्नतिदितिसुतवाते प्रपन्ने जने पीयूषद्वसिन्धुद्धिरमरस्तोमे विभूत्यायतिः । सीमा प्रेमभरस्य गोपनिकरे कंदर्पकाण्डाहति- ब्रह्माण्डोदरसुन्दरीहदि हरे जीयादृशोस्ते द्युतिः ॥ १४ ॥ निर्बन्धेन यदीन्द्रनीलमहसा संपादितौ दर्पणौ ताभ्यां किं तुलना कपोलतलयोः संभाव्यते वा न वा । एवं ज्ञातुमुपागते श्रुतिपथं नेत्रे त्रपाकुञ्चिते शङ्के द्वैधवती त्वदीयवदनप्रान्तश्रियं पश्यतः ॥ १५ ॥ त्वां पादाङ्गदकङ्कणाङ्गदशिरोलंकारहाराम्बरः संपूज्य प्रददौ सुतामथ मणि रत्नाकरः कौस्तुभम् । आस्ये तस्य सुतः सुधांशुरखिलां कान्ति यदा दत्तवा- न्खाकारं व्यतरंस्तदैव मकराः किं कुण्डलान्तस्तव ॥ १६ ॥ लावण्यामृतवाहिनी तव मुखस्येयं मनोज्ञाकृति- स्तस्यामद्भुतबुद्भुदः समभवत्तत्रापि फेनोद्गमः । .

आनन्दमन्दाकिनी। . -१४१ . नाशावंशगतं तमेव विशदं मुक्ताफलं ये विदु- स्ते मान्या मधुसूदन त्वयि मनोरत्यैव धन्या यतः ॥ १७ ॥ नेत्राम्भोजमुखेन्दुमालतिलकैनित्यं विवादो यतः सौन्दर्यार्थमिति प्रतीत्य विधिना सीता कता नासिका । तूणी वा कुसुमायुधस्य नृपतेर्यन्मल्लिकाकोरकः काण्डस्तत्र चकास्ति मौक्तिकफलव्याजेन नन्दात्मज ॥ १८ ॥ योऽहं ते पदपङ्कजातिलवं प्राप्यामवं पल्लवः 'कल्पक्ष्मारुहमस्तकाभरणतां यातश्च राधापते । तं मां निन्दति विम्बविद्रुमलताश्रीतस्करोऽयं श्रुता- वेवं जल्पितुमागते किसलये स्थानेऽधरो रागवान् ॥ १९ ॥ 'ढग्भङ्गीः स्फुरदिन्द्रनीलनिचयः पक्ष्माणि कस्तूरिका जिज्ञेयं तव पद्मरागनिकरः शोणाधरो विद्रुमः । दन्ताली गजमौक्तिकानि मधुजिन्मन्दस्मितं चन्दनं पण्यस्थानमिदं मनोजवणिजो जाने तवास्ते मुखम् ॥ २० ॥ या रक्ता वदनेन्दुमण्डलगतं माधुर्यमुच्चैस्तरा- माखाद्येह सरस्वती स्थितवती सत्यं रसज्ञेव सा । यत्सप्तस्वरमण्डलानि बहुधा त्वत्कण्ठदेशाद्वहिः प्रादुर्भूय मुदं श्रुतौ सुकृतिनां यच्छन्ति नन्दात्मज ॥ २१ ॥ साम्यं त्वद्वदनस्य वाञ्छति विधुर्दोषाकरो यद्यपि क्षिप्तोऽप्यम्बुनि पद्मरागशकलो दन्तच्छदं स्पर्धते । दृष्दैवं कुशलः कुशेशयमवः केशाद्यशोदात्मन व्यक्तं वञ्चिबुकं तथैव विदधे यत्तुल्यता न क्वचित् ॥ २२ ॥ माधुर्य न लवं मधूनि दधति द्राक्षा तु साक्षाद्विपं पीयूषान्यपि यान्ति निम्बसमतां के दुग्धखण्डादयः । पालेयानि न शीतलानि सरसं नो कोकिलाकूजितं गोधुग्वंशवतंस जातु जयति त्वद्वाग्विलासोदये ।। २३ ॥ १. ब्रह्मा. २. मधूनि लवं कणिकामात्रमपि माधुर्य न दधति. । . . + . ११२ काव्यमाला। 4 - . वेदाश्चन्द्रमसं वदन्ति भवतः स्वान्तं कथं तथा कुर्वन्त्यत्र विवादमात्रकुशला गोविन्द नन्दादयः । तस्यैवामृतपङ्किलास्तव मुखादाविर्भवन्तो बहि- न्तिं यत्तिरयन्ति हन्त किरणा मन्दस्मितव्याजतः ॥ २४ ॥ यन्नामस्मरणादपि श्रवणतः प्रक्षीणरागाशया यान्ति त्वत्परमं सदाशिवपदं यद्योगिनां दुर्लभम् । तस्याप्याननपङ्कजे तव जयत्युच्चस्तरां रागिता येनाभीरकुलप्रदीप तदलं ताम्बूलमास्तां मुदे ॥ २५ ॥ पीयूपद्रवंसारसारघमधुद्रोणी त्वदीयाधरा- स्वादायार्कसुतातटे श्रितवती सदंशजाता तपः । तत्पुण्यैर्मुरलीमिषेण रसिका माधुर्यमुच्चैस्तरा- मास्येन्दोरनुभूय गोकुलपते गीतामृतं मुञ्चति ॥ २६ ॥ साफल्यं श्रुतिसंपदां त्रिजगतां प्रालेयधाराप्रपा पीयूषवमाधुरी परिभवक्लेशाम्बुधेः शोषणम् । ब्रह्मानन्दतिरस्कृतिः कुलवधूधैर्याद्रिवजाहतिः कंसध्वंसन शंस किं न भवतो वंशीनिनादोदयः ॥ २७ ॥ धैर्य धिक्कुरुते त्रपां विचिनुते कौलं यशः प्रोन्छति प्रत्येकं गुरुवर्गगजनशतं विस्मारयत्यजसा । साध्वीनाम निराकरोति भवनं भर्तुर्विधत्ते विषं किं किं नो विदधाति हन्त सुदृशां वंशीनिनादस्तव ।। २८ ।। लावण्यैरखिलैस्त्वदास्यमुकुरं निर्माय धाता चिरा- न्मुष्टिं मारकतं विधाय तदधः कण्ठस्थलव्याजतः । ध्यायं ध्यायमशेषवस्तुसुषमाधाराय रेखात्रयं ब्रूते नास्ति बभूव नो न भविता सौन्दर्यमेतादृशम् ।। २९ ॥ आशानागकरप्रसारिमहसा निःशेषवामभुवा- माशामिस्त्रिदशेशनिर्भरशुभैः कंसादिनाशश्रिया । १. सरघा मधुमक्षिका तत्संचितं मधु सारघमित्युच्यते. २. दिग्गजः. - - .

. आनन्दमन्दाकिनी । १४३ प्रम्णा नन्दयशोदयोस्तनुजुषां निःसीमभाग्यैदशां सौभाग्यैजसुध्रुवां व्रजपते किं ते भुजौ निर्मितौ ॥ ३० ॥ कं यस्मादलमभ्युदेति भवतः सर्वाङ्गमेतादृशं साम्यं वा.भजतां कथं जलरुहे सर्वज्ञ मध्यस्य ते (1)। मत्तर्कः पुनरत्र गोकुलपते त्रैलोक्यलक्ष्मी यत- स्त्वत्पाण्योरिति तो वदन्ति कमले सा यत्तदेकालया ॥३१॥ अङ्गुल्यस्तव हस्तयोर्मुरहर प्रायो रसालाकुर- श्रेणी यत्परितोऽङ्गुलीयकमिपस्निग्धालवालावलिः । किं वा पञ्चशरप्रचण्डतपसा पञ्चाशुगाः पञ्चतो- त्तीर्णाः सत्फलिनः पुनर्भवरुचा पुष्णन्ति नेत्रोत्सवान् ॥ ३२ ॥ भक्तानुग्रहकातरेण भवता कृत्वा नृसिंहाकृति रागान्धस्य पुरा हिरण्यकशिपोर्वक्षःस्थली पाटिता । तेनाभूत्तव पाणिपङ्कजयुगे रागः स राधापते गोपीनां कुचकुङ्कुर्द्विगुणितो नाद्यापि विश्राम्यति ॥ ३३ ॥ एतौ पञ्चशिरस्त्विषा दशदिशः संभावयन्तौ भृशं दैत्यप्राणसमीरसंहतियमौ श्यामौ भुजंगोत्तमौ । तन्मौलिद्युतिशालिनी पुनरियं रत्नावली जृम्भते यां प्राहुस्तव गोकुलेश नखर श्रेणी करस्थां जनाः॥ ३४ ॥ दोर्दण्डद्वयबन्धनानि विदधुनन्दोपनन्दादय- स्तद्रन्थित्रुटिशङ्कयातिचकिता गोवर्धनोद्धारिणे । . .... तान्येवाप्रतिमप्रमाणि हरितो गोविन्द यज्जानते ॥ ३५ ॥ शृङ्गारद्रुमसारकण्डनवशात्रैलोक्यसीमन्तिनी- क्रीडामन्दिरमण्डनाय विधिना स्तम्भौ प्रलम्बी कतौ । .१. नखकान्त्या. .

1 . - - • १४४ काव्यमाला। तन्मध्ये पुनरिन्द्रनीलमणिमिः संपादिता वेदिका तौ वाहू' मधुजिद्वदन्ति भवतो वक्षःस्थली तामपि ॥ ३६ ॥ यद्रक्तः कमलाकरं करतलेनालम्बते भास्कर- स्त्वच्चक्षुर्मुखपाणिपादकमले जातस्ततः शोणिमा । तन्मित्रं पुनराकलय्य स धृतः कण्ठे त्वया कौस्तुभ- व्याजेनेति मुकुन्द मादशि जने तर्कः समुज्जृम्भते.॥ ३७॥ आलोक्याखिलवेदशास्त्रजलधेस्तत्वं यदेकान्ततः कृत्वा संकलितं स्वकीयनिलये क्षीराब्धिमध्ये धृतम् । सर्वार्थप्रतिमासकं व्रजकुलालंकार तत्कौस्तुभ- व्याजाद्विस्मृतिशङ्कयेव भवता कण्ठे कृतं सांप्रतम् ॥ ३८ ॥ या त्वां विष्णुपदं समाश्रितवती नक्षत्रमाला स्फुर- दीप्तिर्योग्यमिदं कथं मुररिपो नक्तंदिनं द्योतते । आं ज्ञातं दयितं तवाननविधुं यान्तीमिमां यामिनी रोमश्रेणिमिषात्ततो धृतवती ज्ञात्वा सपत्नीमियम (१) ॥ ३९ ॥ यः पाशेन यशोदया नियमितो येनापराधं विना तस्मिन्नस्ति बलिस्त्रिधा मयि पुरः सोऽयं बलिध्वंसनः । एवं चिन्तनतत्परः-कशतरस्त्वन्मध्यदेशो भृशं याशोदेय स शोकमुद्गिरति ते रोमावलिव्याजतः (१) ॥ ४० ॥ सृष्टयादौ प्रकृतिर्गुणत्रयमयी या स्वीकृतासीत्वया सेयं सत्त्वमयी सुखाय जगतां हाराकतिस्ते भुवि । गुजादाममिषान्मुकुन्द दधती रागाद्रजोविग्रह नाभीसीनि तमोमयी पुनरियं रोमावली राजते ।। ४१ ।। सौन्दर्यामृतवारिधौ स्मरमहायादःसमारम्भतः संभूता भ्रमिरम्भसा सुललिता जातास्ततो वीचयः । . तां जाने स्फुरदिन्द्रनीलघटितश्रीसंपुटार्धद्युति त्वन्नाभीमपि तां वलित्रयमिति श्यामाभिरामाकते ॥ १२ ॥ १. स्मर एव महद्यादो जलजन्तुः. P . .

4 १४.६... ~ . आनन्दमन्दाकिनी। नीलाम्भोरुहवलिरुल्लसति .ते नाभीसरस्यां ध्रुवं यच्छीवत्समिषाद्विभर्ति कुसुमं नालं च रोमावली। यं वा वक्षसि कौस्तुभं बुधजना जानन्ति नन्दात्मज प्रायः सोऽप्यनुराग एव भविता त्रैलोक्यवामभ्रुवाम् ॥ ४३ ॥ नीरूपोऽपि धनद्युतिर्मुनिमनोमात्रैकपात्रीकतो- ऽप्याभीरीगणसंगतः सुखघनोऽप्यानन्दितो वान्धवैः। ज्ञानात्माप्यतिमुग्धतामुपगतो वामभुवां विनमै- रित्थं ते त्रिवलीमिषान्मुरहर त्रैय्यस्ति चित्रार्पिता ॥ ४ ॥ देव्यः पल्लवसंपदा विदधते सौभाग्यलक्ष्मी श्रुतौ स्वच्छन्दं सुमनःफलानि विबुधा विन्दन्ति ते सेवया । वेदेनापि निगद्यते मुरहर त्वं भक्तकल्पद्रुमः प्रायः कल्पलता ततः श्रितवती त्वां वैजयन्तीछलात् ॥ ४५ ॥ विश्वानन्दङदम्बसंपदमतिस्निग्धं तमालद्युति दृष्ट्वा निर्भरविभ्रमं घन इति त्वां संगता विद्युतः । त्वद्रूषामृतसिन्धुसंगमवशात्प्राप्याम्बरप्रच्च्यवं 'चाञ्चल्यात्किमु नन्दनन्दन भवत्पीताम्वरत्वं दधुः ॥ १६ ॥ काञ्ची ते धृतयोगसंपदभितो जाता विशालाकृति- विन्ती मधुरा ध्वनि विदधती पश्चादयोध्याभवत् । मायाहारवती शिवाधिवसतिः सा काशिका दृश्यते तच्चित्रं न वदामि माधव यतस्त्वां सा सदा संश्रिता,॥ १७ ॥ जानीमः सहजा त्वदङ्गमिलितामालोक्य पद्मालयां तत्सङ्गस्थितिभङ्गकातरतमौ कल्पद्रुमैरावतौ । १. निबिडकान्तिः, मेघच्छविश्व. २. वेदत्रयी. ३. चकिता. ४ समूह , रक्ष. विशेषश्च. ५. काञ्ची, विशाला (बदरीनारायणपुरी), अवन्ती (उज्जयिनी), मधुग (मथुरा), अयोध्या, माया (हरिद्वारम्), द्वारवती (द्वारका), काशिका (काशी), इत्यष्ट- पुरीनामान्यत्रोपन्यस्तानीति चमत्कारः. १९ . १४६ काव्यमाला। । . . आद्यः पल्लवसंपदं करपदे बिम्बाधरे चापरः शुण्डादण्डगुणं तवोरुयुगले येनादधे माधव ॥ १८ ॥ रम्भास्तम्भयुगं न तद्यदुपरि स्थूलं तवोरुद्वयं तूणीरौ मकरध्वजस्य सुमनोमोदेन विद्मो वयम् । हा कष्टं मधुकैटभौ स्कुटमदौ कि कैटभारे हठा- निष्पिष्टौ शतकोटिकोटिकठिनौ तस्मिन्स्थले कोमले ॥४९॥: स्तम्भद्वैतमिदं पयोनिधिसुतागेहस्य मन्दाकिनी, स्यन्दामन्दमरन्दिताभिकमलद्वन्द्वस्य नालायुगम् । त्वज्जङ्घायुगलं विमुक्तिकलशीनिर्माणदण्डद्वयं संपत्तिद्विपसंघयन्त्रणविधावालानयुग्मं भजे ॥ ५० ॥ विद्वान्सोऽपि कथं कठोरकमठीटष्ठेन तुल्यं वद- नीदक्पादयुगं कथं नु कमला वक्षोजशैले दधत् । धिड्मन्दां वसुधामिदं मधुरिपो गोचारणे संचर- त्पाषाणाङ्करकण्टकादिषु हठादृष्ट्वा विदीर्णा न यत् ।। ५१ ॥ यगतौघमरीचयोऽपि समताव्यावर्तनं विश्वतः कृत्वा दिग्वलयं भ्रमन्ति महिता नादैर्मधुस्यन्दिभिः । यच्च ब्रह्मशिवेन्द्रवन्दितपदद्वन्द्वोपरि द्योतते तत्कृष्णस्य पदाङ्गदद्वयमतः किं वर्ण्यतां मादृशैः ॥ ५२ ।। शेते यत्कमलालया तव पदाम्भोजद्वये संगता धाता तत्र तनूपधानयुगलं गुल्फच्छलान्निर्ममे । किं वा मन्मथकारुणा विरचिते तस्या मुदे कन्दुके सा यत्क्रीडति पाणिपङ्कजतले कृत्वा सखीभिः सह ॥ ५३ ॥ या रक्ता दशलोकपालमुकुटप्रान्तत्विपः संततं. कल्पक्ष्मारुहपुष्पसंभृतरुचस्त्वत्पादमूले वभुः । ता दीव्यन्नखराञ्चिताङ्गलितया जानन्ति सत्यं जनाः खस्मिन्नेव सदाधरेण दधते लेखा यदूर्ध्वश्रियम् (1) ॥ ५ ॥ १. वनायकठोरौ. + , * आनन्दमन्दाकिनी। १४७ पीयूषद्युतिबिम्बमम्बरतले विद्योतमान पुरः प्रेक्ष्योत्कुलदृशा वया मुहुरिदं देहीति यदापितम् । तन्मन्ये तव पङ्कजेक्षण महच्चित्र यशोदार्थन यत्त्वत्पादसरोजयोर्नखमणिव्याजेन शीतांशवः ॥ ५५ ॥ सत्यं यद्विवुधा वदन्ति पदयोईन्द्रं तवाम्भोरुहे गोधूलिच्छलतः स्थितानि परितो हंसालिचेतांस्यलम् । पीत्वैतन्मकरन्दविन्दुमसकन्दावनीभूपते मञ्जीरद्वयम शिश्चितमिषादञ्चन्ति यत्पञ्चमम् ॥ १६ ॥ [मन्ये मनुलफुलहल्लककुलं तप्त्वा चिरं पुष्करे, सायुज्यं भवदीयपादयुगलस्यागादिति श्रीपते ।] येनास्मिन्नरविन्दलोचन पुनस्तत्केसराणां शुति- स्तोमेनापि समन्वितः समुदयत्युच्चैस्तरां शोणिमा ॥ १७ ॥ हसास्त्वामुपनीय मानससरोजन्मनदेशेऽनिशं क्रीडन्तः कमलालयेन भवता सार्घ प्रमोदं दधुः । स त्वं लोचनलोहिताधरपदद्योतः श्रितो हंसतां तत्संपर्कवशादिति व्रजकुलालंकार शङ्कामहे ॥ ५८ ॥ क्षुद्रात्मा नितरां किमुन्नततरः काठिन्यवान्निर्भयं किं वा केवलकोमलः श्रयति चेत्किचिन्मदीयं पदम् । धन्यः सोऽयमितीव लोकमखिलं संबोधयन्माधव त्वं धत्से पदयोर्यवं ध्वजवरं दम्भोलिमम्भोरुहम् ॥ १९ ॥ त्वां नित्यं समुपास्य दास्यविधया स्थास्याम इत्याशया ब्रह्मेन्द्राधमरैस्त्वदीयपदयोः स्वीया धृताः संपदः । तासामङ्कुशनीरजाशनिलसच्छन्नध्वजाद्याकर्ति विभ्राणा, विजयश्रियं त्रिजगतां वन्द्यारविन्दालया ॥ ६ ॥ स्थाने स्थानगुणाद्भवन्ति हि जनाः प्रायः पदं संपदा किं त्वेकं शतपत्रलोचन महच्चित्रं यदस्मादधः । ।

१४८ काव्यमाला 1. याता. पुण्यतमा विमुक्तिनगरीनिःश्रेणिका वधुनी ॥ ११ ॥ यत्पादाम्बु विधाय मूर्धनि चितावासः शिवत्वं हठा- प्राप्तो भक्षितकालकूटनिकरो मृत्युंजयत्वं ययौ । दिग्वासा नृकपालमात्रविभवश्वाविन्ददीशानतां स त्वं नन्दसि यस्य मन्दिरगतो नन्दाय तस्मै नमः ॥१२॥ धूलोधूसरितं मुखं तव शरत्पूर्णेन्दुनिन्दावहं व्यालोलालककुण्डलद्युति चलन्नेत्रश्रिया प्रोल्लसत् । यालोक्याईविलोचना स्मितमुखी प्रस्यन्दमानस्तनी पाणिभ्यामवलम्व्य चुस्वितवती तां नन्दजायां भजे ॥ ६३ ॥. - पीत्वा स्तन्यविपं सहासुपवनैः संपातिते पूतना- देहे वै भवता जनार्दन तृणावर्ते च नीते क्षयम् । राहून्मुक्तसुधामयूखसुपमा याक्चकोरालिभि- र्याभिस्त्वद्वदनद्युतिश्शुलुंकिता ता गोपकन्याः स्तुमः ॥ ६४ ॥ यद्वन्धस्य विधित्सयापि विवशः कीनाशपाशैईहें वद्धः सानुगपुत्रबान्धवजनो दुर्योधनोऽन्तं गतः । तं त्वां येन निवध्य नन्ददयिता वृन्दारकैर्वन्दिता जातानन्दमयी मुकुन्द महते भावाय तस्मै नमः ।। ६५ ।। निर्भिन्ने यमलार्जुनेऽतिचकितास्तूर्णं गृहान्निर्गताः पीत्वा हक्चपकैरत्वदक्षततनूरूपामृत निर्दृताः । वामादाय. विधाय नेत्रसलिलैः सिक्तं वरामाश्रिता ये वृन्दावनमागताः कृतधियस्तान्गोपद्धान्स्तुमः ॥ ६६ ॥ छत्वा कालियदन्दशूकदमनं त्वय्यास्थिते ताण्डवं तस्योत्तब्धसमस्तमस्तकमाणिस्तोमे समुत्तस्थुपि । येनालम्भि विभातभास्करकरप्राग्भारशोभास्फुर- द्रनाम्भोजयुगद्युतिः प्रतिपदं तत्तेऽभियुग्मं भजे ॥ ६७ ।। . . : + .

. आनन्दमन्दाकिनी। १४९ उत्फुलैः परिपीय कर्णपुटकैवंशीनिनादामृतं । तच्च घ्राणमुदस्य दत्तकवलं प्रोद्भिन्नरोमाकुरम् । निःस्पन्दैनयनरमन्दमधुरैः श्याम महस्तावकं येनोद्दीक्षितमम्बुजेक्षण भजे तद्गोकदम्यं तव ॥ ६८ ॥ जम्भारेः स्फुरदायुधस्य भवता दम्भाद्रिविद्रावणं कृत्वा वामभुजेन सप्तदिवसान्योऽसौ धृतः पर्वतः सोऽस्तु स्निग्धतमालसारघटितस्तम्भैकसंभावित- . प्रासादयतिनिन्दकः प्रतिपदं भव्याय गोवर्धनः ॥ १९ ॥ वाहूद्धृतपर्वताप्तिदशः प्रेक्ष्य प्रियायाः स्खल- द्वासःपीनपयोधरक्षितिधरौ, दोःस्तम्भकम्पे तव । शैले चञ्चलतां गते ब्रजपते त्रासाकुले गोकुले नन्दे मन्दमुखद्युतौ जयति ते मन्दाक्षमन्देक्षणम् ॥ ७० ॥ पौगण्डं मदखण्डनं बलभिदः किं ते हठात्स्तूयते कौमारं चरितं यतो विजयते व्यामोहनं ब्रह्मणः । किं स्तव्यं तव यौवनं त्रिपुरजिद्यद्वाणयुद्धे जितः संमोहं गमितास्त्वया यदवला भावेऽपि नेत्रश्रिया(१) ॥७॥ पीते दांवहुताशने निजजनत्राणैकहेतोस्त्वया निःस्पन्दं पशुपौघपक्षिपशुभिः पेपीयमाने त्वयि ! प्रेमाज़्ण्यतिनिर्मलानि दिविषञ्चित्तानि सत्यं मुहु- स्त्वद्गात्रे नु वितीर्यमाणकुसुमव्याजेन भान्ति प्रभो ॥ ७२ ॥ कङ्केल्लिस्तवकं मुहुः 'कमलिनीकान्तं प्रतीचीगतं पर्यालोच्य विलोक्य धूमपटलं गोधूलिबुद्ध्याकुलाः । उच्चैः कोकिलकूजितं च मुरलीनादं विदित्वा गृहा- स्वां या वीक्षितुमागताः पथि गवां गोपाङ्गनास्ताः स्तुमः||७३॥ सायाह्ने समुदश्चति श्रुतिपथं वंशीनिनादे हठा- 'नेपथ्यस्य समापनेन शपथैरालीजनैः प्रार्थिते । १. सादरं विलोक्यमाने. - . . - . . 3 १५० काव्यमाला.. पाणिभ्यामवलम्व्य नीविरशना निर्गम्य तूर्ण.वहि- ईग्भ्यां ते मुखसौरभं चुलकितं याभिर्भजे ता जनीः ।। ७४ ॥ यत्राघासुरकेशिधेनुकवकारिष्टप्रलम्बादयः क्रोधाग्नौ भवता हुता दितिसुताः संतर्पिता देवताः । यस्मिस्ते पदपङ्कज़द्वयरजः पद्मोद्भवप्रार्थित भेजुर्गोमृगपक्षिभूरुहलता उन्दावनं तद्भजे ॥ ७५ ॥ देवेन्द्रस्य पराभवं किमपरं व्यामोहनं ब्रह्मणः । संपश्यन्नपि वैभवं व्रजकुलोत्तंस प्रचेतास्तव । नन्दं यत्पितरं जहार भवतः स्थाने जलात्मन्यदः स्थाने तादृशि ते बभूव न मनाकोधस्य लेशोऽपि.तत् ॥७६ ॥ मञ्जीरद्वयकङ्कणावलिलसत्काञ्चीघटाशिक्षिते वीणावेणुमृदङ्गझसरकरोत्ताले दिशश्चुम्वति । काम पूर्णकलानिधौ विलसति भ्रश्यत्पटे स्वर्वधू- वन्दे वर्षति दैवते सुमनसो रासस्तवास्तां मुदे ॥ ७७ ॥ नृत्यनयनोत्पलस्मितमुखखिद्यत्कपोलस्थल लीलाचञ्चलकुण्डलं भुजलतान्दोलवणत्कङ्कणम् । त्रुट्यत्कश्चकंवन्धमुन्नतकुचं तिर्यक्त्रिक प्रस्खल- नीवि व्यजितशिल्जितं जयति ते रासः प्रियाभिः सह ॥७८॥ आकुञ्चद्वदनं क्वचिद्विलसिताम्भोजास्यशोमं क्वचि- न्मन्दस्यन्दिविलोचलं क्वचिदलं ढक्चापलं कुत्रचित् । काप्युद्दाममदान्धसिन्धुरगतं कुत्रापि विद्युल्लता- चाञ्चल्यं स्मरवर्धनं विजयते लास्यं प्रियाणां तव ॥ ७९ ॥ अध्यास्योरुतलं वपुः पुलकितं खिद्यत्कपोलस्थली दोर्वल्लीमपि तावकांसमिलितां कम्पाकुलां विभ्रती । प्रोद्यत्पूर्णकलानिधावरुचिरे स्मेरे मुहःसीत्कृते राधा धन्यतमा दधार वदने ताम्बूलकल्के तव ॥ ८० ८॥ युक्तम्. - । . - १. वध्वः, २. --- आनन्दमन्दाकिनी। १५१ - - . यस्यां तुङ्गतरङ्गसंगमवशादीता भुजंगभ्रमा- दालिङ्गन्ति वराङ्गनास्तव जलक्रीडाजुपोऽङ्ग हठात् । सा नित्यं दलितेन्द्रनीलनिकरश्रीतस्करा भास्कर- स्यापत्यं तटिनी शिवं दिशतु मे गोपालभूपालन ॥ ८१ ॥ उत्फुल्लाम्बुजमाकलय्य दयितास्मेराननं विभ्रम- दृगश्रेणिमनङ्गभङ्गुरदृशस्तस्याः कटाक्षच्छटाम् । शैवालं परिगृह्य कुन्तलधिया द्राक्चुम्बनायोद्यत- स्त्वं यस्यां हसितः प्रियाभिरभितस्तां भानुकन्यां भजे ॥ ८२॥ पुष्पं त्वय्यवचिन्वति प्रियतमावृन्दैन साधु मुदा वन्दारण्यमहीरुहस्य निकरे कम्पाकुले निर्भरम् । तस्मिन्वर्षति कौतुकेन कुसुमान्युच्चैः पुनर्दैवत- स्तोमेऽपि व्रजभूपते विजयते तैस्तैश्चितं ते वपुः ॥ ८३ ।। कान्ताकोटिकलाकुलस्य भवतः संतोप्य रासे स्मर- क्षीणां वीक्ष्य निशां निशाकरकरस्तोमे परं मुञ्चति । सातई समुपागतस्य मदनायातं शयाने जने कीरस्यापि गिरा जयन्ति परितः पर्याकुला दृष्टयः(1) ॥ ८ ॥ उद्यन्नेव भवानिव व्रजभुवां सर्वापदां संहति- ध्वान्तस्तोममनुत्तमन्तमनयत्कान्तः सरोजन्मनाम् । सोल्लासानि सरोरुहाणि नयनानीव त्वदालोकने लोकानां किल नन्दवंशतिलक स्वापस्य नायं क्षणः ॥ ८५ ॥ मित्रणेह तमस्विनी विनिहतां नाथ त्वया पूतनां व्याधुतामिव कैरवेष्वपि भवद्विद्वेपिवक्त्रद्युतिम् । आशां पश्य पुरंदरस्य दयितां रक्ताम्बरालंकृतां सिन्दूरान्वितकुम्भमम्बरमणेविम्यं वहन्तीं पुरः ॥ ८६ ॥ गीतज्ञाः कवयो नटा बहुकलाशिक्षासु दक्षाः परे विप्रेन्द्राः कुशपाणयोऽपि भवनद्वारेषु सन्त्युत्सुकाः । . R- " + १ १५२ काव्यमाला। . - . तल्पं मुञ्च ददस्व लोचनफलं त्वं देहभाजामिति प्रातन्दिगिरोजयन्ति भवतः संबोधने नित्यशः||८७(विशेषकम्) भानोर्मण्डलमाविरस्ति पुरतो नाद्यापि निद्राहतिः किं ते तात वलानुजेति जननी वाग्वीचिमाचामतः । अर्धोन्मीलितपाटलाक्षियुगलं पर्यस्तनीलालकं जृम्भारम्भविशेषशोभिवदनाम्भोज भजामस्तव ॥ ८ ॥ मुञ्चन्तं शयनं भवन्तमभितः संगम्यगोपाङ्गना- स्तैलाभ्यञ्जनमञ्जनादि दधतीः संवीक्ष्य देय्यश्विरम् । 'उज्झन्त्यः सुमनोम्बराणि सुमनोभावा वरं संगताः प्रायो गोपवधूत्वलब्धिमनसैवाकाशसाम्यं दधुः(?) ॥ ८९ ॥ प्रातर्भोजनमारचय्य विपिनं प्रस्थातुकामे त्वयि प्रायो गोपवधूलतासु मिलितः कंदर्पदावानलः । यद्गोधूलिमिपादुदेति परितो धूमालिरभ्रंलिहा तासामश्वरसाः स्त्रवन्ति च मुहुर्दन्दह्यमानेऽन्तरे ॥ ९० ॥ पञ्चास्ये चतुरानने दशशतीनेत्रादिपूर्वे गवा- मध्वन्यध्वनि लोकपालनिवहे भूमीलुठन्मूर्धनि । तद्दयाघ्राजिनभूषणादिभिरलं त्रस्ते समस्ते पशौ गोपाः कोपवशाद्गृहीतलगुडा हीहीरवाः स्युर्मुदे ॥ ९१ ॥ तिग्मांशौ तपति क्वचिजलमुचां स्तोमे जलं मुञ्चति प्रेमाः प्रतनोति यः स्ववपुषा चित्रातपत्रं तव । सोऽयं भास्करकोटिभास्वरमहःसंभारपाटच्चरः पारीन्द्रोऽसुरदन्तिनां दिशतु मे भव्यं भुजंगान्तकः ॥ ९२ ॥ मध्याह्ने यमुनातटे विटपिनां मूले वयस्यैः समं दध्यन्नान्युपभुज्य रज्यति पुनस्तत्क्रीडने च त्वयि । देवेन्द्रस्त्रिपुरान्तकः कमलभूरन्ये च नाकालयाः काकाकारजुपो मुहुः कवलयन्त्युच्छिष्टमिष्टं तव ॥ ९३ ॥ १.सिंहः २. गरुडः. . 1 - .

. आनन्दमन्दाकिनी । १५३ निद्राणे त्वयि शीतले तरुतले तल्पे दलैः कल्पिते संवीक्ष्याम्बुजपत्रमन्दमरुता संवाहिते पादयोः । रुद्ब्रह्ममहेन्द्रतर्जनविधौ गोपा काणां कर- व्याधूतानि जयन्ति भङ्गुरदृशां कान्तिश्च शोणायिता ॥९४॥ स्फूर्जन्तस्तपसा पुलस्त्यपुलहागस्त्याः सदुर्वाससः 'सन्त्युच्चैर्यशसः परेऽपि स परं .धन्यो मुनि रदः । यस्य त्वद्गुणगानमनमनसो व्यापादिते केशिनि प्रालेयाद्रिविनिःसृतामरधुनीधारायतेऽस्त्रावलिः ॥ ९ ॥ लक्ष्माणि ध्वजवजपङ्कजयवच्छत्रोछलेखायुता- न्यालक्ष्याम्बुरुहाक्ष ते चरणयोः क्षोणीतलेऽहाय यः । 'ध्यायत्युत्पुलकत्युदञ्चति लुठत्याक्रन्दति प्रीयते कोऽन्यो धन्यतमस्ततस्त्रिभुवने स्यागीन्दिनीनन्दनात् ॥ ९६ ॥. धन्यं तस्य जनुस्तथैव पितरौ धन्यं तदीयं कुलं धन्या तेन वसुंधरा किमधिकं तेनैव धन्यं जगत् । यः कंसैकनिदेशवयपि भवत्पादाम्बुजालोकना- दक्रूरोऽश्रुनिरुद्धकण्ठकुहरः प्रेमाब्धिमग्नोऽजनि ॥ ९७ ॥ पर्यारत्त्य पशूनशेपसखिभिः साकं त्वया स्वीकते गोपीलोचनपङ्कजालिनिचिते सायं गवामध्वनि । जीयासुर्दयिताननेषु नितरां साकूतनृत्याकुलाः कालिन्दीसदृशाः स्मितेन सुरसास्त्वच्चक्षुषोः कान्तयः॥ ९८॥ यो वाचो मनसोऽपि नैव विषयस्तं त्वां विधायात्मज याभ्यङ्गस्नपनाशनप्रभृतिभिः संलालयत्यन्वहम् । नो दानेन न चेज्यया न तपसा नो सांख्ययोगादिभि- यल्लभ्यं तदवाप गोपदयिता सास्तां यशोदा मुदे ॥ ९९ ॥ पूर्णे दानपतेर्मनोरथशतैः सार्ध प्रलम्बारिणा तल्पे निन्दितदुग्धसिन्धसुषमासारे त्वया खोकते। १. अक्रूरः. . २० १५४ काव्यमाला । संदष्टोष्ठमुदश्रु मर्दितकरं तच्चेष्टितं शृण्वतः 'कंसध्वंसमभीप्सतो जयति ते भ्रात्रा समं मन्त्रणा ॥ १०० ॥ या संव्याप्य सुवर्णभूधरपदं जाता-गिरीशानिता खच्छा हंसकविप्रिया कमलमुद्गाम्भीर्यमभ्यश्चति । येयं कृष्णपदाब्जभक्तिवसुधापातालमालम्विता सा तापं मम सर्वतः प्रशमयत्वानन्दमन्दाकिनी ॥.१०१ ॥ ये पाण्डित्यकवित्वसूनुधरणीधर्मार्थकामाणिमा-' दीशिवेन्द्रपदाप्तिमोक्षमथवा वाञ्छन्ति भक्ति हरौ । संभूतां मधुसूदनप्रपदतः सन्तो भजन्वादरा- ते संसारदवाग्नितापशमनीमानन्दमन्दाकिनीम् ॥ १०२ ॥ इति श्रीमन्नन्दनन्दनपदद्वन्द्वसमुदश्चन्नखचन्द्रचन्द्रिकाचयदत्तचित्तचकोर- श्रीमधुसूदनसरस्वतीविरचितानन्दमन्दाकिनी संपूर्णा । श्रीशंकराचार्यकृतम् अम्बाष्टकम्। टिप्पणसहितम् । चेटीभवन्निखिलखेटी कदम्बतरुवाटीपु नाकिपटली- कोटीरचारुतरकोटीमणीकिरणकोटीकरम्वितपदा । पाटीरगन्धिकुचशाटी कवित्वपरिपाटीमगाधिपसुता घोटीकुलादधिकधाटीमुदारमुखवीटीरसेन तनुताम् ॥ १ ॥ अंगाधिपो हिमाद्रिस्तत्सुता । ममेति शेष. । मम कवित्वस्य कवितायाः परिपाटीम- तिपरिचितिमुदार; कवित्वादिगुणप्रसरकर्ता चासौ मुखवीटीरसस्तेन स्वमुखचर्वितताम्बूल- रसेन तनुतां विस्तारयतु । कीदृश्यगसुता । कदम्बतरूणां वाटीप्द्यानेषु चटीभवन्त्यो दासीभवन्त्यो निखिला. सर्वाः खेट्यो गगनचारिण्य सिद्धचारणविद्याधरादिस्त्रियो यस्याः सा । पुनः कीदृशी । नाकिना देवानां पटली समूहस्तस्याः कोटीराणि मुकुटास्तेषां चारुतरा अतिसुन्दराश्च ता. कोटीमणयोऽग्रभागस्थितरत्नानि तासां किरणकोट्यो ऽसख्या किरणास्ताभि. करम्बिते व्यामिश्रे पदे यस्याः सा । पुनः कोशी । पाटीरस्य चन्दनस्येव गन्धो यस्या एतादृशी कुचशाटी कञ्चकी यस्याः सा । कीदृशी कवित्वप- रिपाटीम् । घोटीना [वडवाना] कुलं समूहस्तस्मादधिका धाटी धोरणी यस्यास्ताम् । . . , .

. . । अम्बाष्टकम् । १५५ कूलातिगामिभयतूलावलिज्वलनकोला निजस्तुतिविधा- कोलाहलक्षपितकालामरी कुशलकीलालपोषणनभाः । स्थूला कुचे जलदनीला कचे कलितलीला कदम्बविपिने शूलायुधप्रणतिशीला विभातु हृदि शैलाधिराजतनया ॥ २ ॥ अमरी देवी। शैलाधिराजस्य हिमाद्रेस्तनया पार्वती हृदि विभातु स्फुग्तु । कीदृशी। कूलं सीमा । कूलमतीत्य गच्छन्तीति कूलातिगामीनि तानि च तानि भयानि तान्येव तूलावलयः कार्पासराशयस्तासां ज्वलने प्रदीपने कीलेवाग्निज्वालेव । पुन. कीदृशी। निजा चासौ स्तुतिस्तस्या विधा विधान तस्या य कोलाहलस्तेन क्षपितो दूरीकृतः कालो मृत्युलक्षणादिर्दुष्टसमयों यया सा । पुनः कीदृशी । कुशलमेव कीलाल जलं तेन . पोपण पालन तद्विषये नभा मेघ इव । 'मेघश्रावणवृष्टिषु । नभः' इति रलकोप. । पुनः कीदृशी । कुचे स्थूला । पीनस्तनीत्यर्थः । कचे केशपाशे जलदनीला । नोलालकेत्यर्थः । कदम्बविपिने कलिता कृतालीला यया सा । पुन. कीदृशी। शूलायुधस्य शिवस्य प्रणतो शोल यस्याः सा ॥ यत्राशयो लगति तत्रागजा वसतु कुत्रापि निस्तुलशुका सुत्रामकालमुखसत्राशनप्रकरसुत्राणकारिचरणा, छत्रानिलातिरयपत्राभिरामगुणमित्रामरीसमवधूः कुत्रासहन्मणिविचित्राकतिः स्फुरितपुत्रादिदाननिपुणा ॥ ३ ॥ अमरीभिः सम सहवर्तमाना वधू. शक्ति । ब्राहृयादिमि. सहिता शक्तिरित्यर्थः । एतादृश्यगजा पार्वती । ममेति शेष. । आशयश्चित्तत्तिर्यत्र शब्दस्पर्शादी लगति विप- ज्जति तत्र कुत्रापि वसतु । शब्दादिविषयचिन्तनावसरे स्वरूपाविर्भाव करोत्वित्यर्थः । कीदृश्यगजा । निस्तुलोऽनुपम शुको यस्याः सा । अर्थाद्धस्ते । पुनः कीदृशी। सुत्रामा इन्द्रः कालो यमः, तो मुखे प्रारम्भे येपा ते च ते सत्राशना यज्ञभजो देवास्तेपा प्रकरः समूहस्तस्य सुत्राण रक्षण तत्करणशीलौ चरणौ यस्या. सा । पुन. कीदृशी । अनिला- द्वायोरप्यतिवेगवत्पत्रं सिंहरूप वाहन यस्याः सा । छत्रोपलक्षिता चासावनिलातिर- यपत्रा च । पुन, कीदृशी । अभिरामाश्च ते गुणा. सौन्दर्यादयश्च ते मिपाणि यस्या. स । पुनः कीदृशी । को पृथिन्यास्त्रास हन्तीति कुत्रासहा विष्णुस्तस्य मणि. कौस्तुभस्तद्- द्देदीप्यमाना विचित्राकृतिराकारो,यस्या. सा । स्फुरिताना कीादियुक्ताना पुत्रादीनां दाने निपुणा ॥ द्वैपायनप्रभृतिशापायुधत्रिदिवसोपानधूलिचरणा पापापहस्वमनुजापानुलीनजनतापापनोदनिपुणा । . । । .

काव्यमाला। - - नीपालया सुरभिधूपालका दुरितकूपादुदञ्चयंतु मां रूपाधिका शिखरिभूपालवंशमणिदीपायिता भगवती ॥ ४ ॥ शिखरिण' पर्वतास्तेषां भूपालोऽधिपतिस्तस्य वंशः सततिस्तत्र रत्नदीपवदाचरिता भगवती मां दुरितलक्षणात्कूपादुदश्चयतु बहिनिष्कासयंतु । कीदृशी भगवती । द्वैपायन- प्रभृतयो व्यासाद्या ये शापायुधा मुनयस्तेषां त्रिदिव स्वर्ग प्रति गन्तुं सोपानमिव धूलिय- योस्तादृशौ चरणौ यस्या. सा । पुनः कीदृशी । पापं हन्तीति तादृशश्चासौ स्वमनुः स्वकीयो मन्त्रस्तस्य जाप जपकर्मण्यनुलीनास्तत्परा ये जनास्तेषां तापापनोदे निपुणा । पुनः कीदृशी । नीपेषु कदम्बवनेष्वालयो यस्याः सा । सुरभिश्चासौ धूपस्तद्वासिता अलकाचूर्णकुन्तला यस्याः सा । 'सुरवधूपालिका' इति वा पाठः । पुनः कीदृशी। रूपेण सौन्दर्येणाधिका ॥ यालीमिरात्मतनुताली सकत्प्रियकपालीपु खेलति भय- व्यालीनकुल्यसितचूलीभरा चरणधूलीलसन्मुनिवरा । वालीभृति श्रवसि तालीदलं वहति यालीकशोभितिलका सालीकरोतु मम काली.मनः स्वपदनालीकसेवनविधौ ॥ ५ ॥ सा काली मम मनः स्वपदनालीकयोरात्मीयचरणकमलयोः सेवनविधावलीकरोतु भ्रमरीकरोतु । सा का । यालीभिः सखीभिः सकृत् । सहेत्यर्थः । प्रियस्य शिवस्य क- पालीषु कण्ठमालास्थकरोटिष्वात्मना स्वभावेन तनुः सूक्ष्मा ताली करेणास्फालनं यस्याः सा । एतादृशी सती खेलति क्रीडति । पुन कीदृशी । भयमेव व्याली सर्पिणी तस्या नकुलीव नकुली। भयापहारिणीत्यर्थ। पुनः कीदृशी । असितचूलीभरा कृष्णकेश- पाशा । पुनः कीदृशी । चरणधूल्यां लसन्तो मुनिवरा यस्याः सा । या देवी वाली कर्णभूषणविशेष विभर्ति तादृशे श्रवणे तालीदल ताटङ्कपत्र वहति दधाति।पुनः कीदृशी। अलीके ललाटे शोभमानस्तिलको यस्याः सा ।। न्यङ्काकरे वपुषि कङ्कादिरक्तपुषि कङ्कादिपक्षिविपये त्वं कामनामयसि किं कारणं हृदय पङ्कारिमेहि गिरिजाम् । शङ्काशिलानिशितटङ्कायमानपदसंकाशमानसुमनो- झंकारिभृङ्गततिमङ्कानुपेतशशिसंकाशिवक्त्रकमलाम् ॥ ६ ॥ हे हृदय, त्व वपुषि शरीरे कामना लुब्धतामयसि गच्छसि । किं कारणम् । अत्र किं प्रयोजनमित्यर्थ. । पारि पापनाशकी गिरिजां प्रत्येहि शरण गच्छ । कीदृशे वपुषि नियतमकन्तीति न्यङ्काः कृम्यादयः । 'अकि कुटिलायां गतौं । तेषामाकरे । कङ्कादि- पक्षिणां रक्तेन पुष्यते तस्मिन् । रक्तपद मांसाधुपलक्षकम् । पुनः कीदृशे। कङ्कादि- पक्षिणां विषये । कङ्कादिभक्ष्यविषये' इति वा पाठः। कीदृशीं गिरिजाम् । शङ्का एवं , . १ , १ । मुकुन्दमुक्तावलिः। १५७ शिलास्तासां भेदकत्वेनं टङ्कायमानं यत्पदं तस्मिन्संकाशमानाः सुमनसः पुष्पाणि तत्र झकारिणी भृङ्गततिर्यस्याः सा । पुनः कीदृशे । अकेनानुपेतो रहितो यश्चन्द्रस्तद्वत्स- काशि वक्रकमल यस्याः सा । निष्कलङ्कचन्द्रवद्रमणीयमुखाम्बुजेत्यर्थ. । ताम् ॥ कुम्बावतीसमविडम्वा गलेन नवतुम्वाभवीणसविधा शं बाहुलेयशशिबिम्बाभिराममुखसंवाधितस्तनभरा । अम्बा कुरङ्गमदजम्बालरोचिरिह लम्वालका दिशतु मे बिम्बाधरा विनतशम्बायुधादिनिकुरम्बा कदम्बविपिने ॥ ७ ॥ अम्बा शं मं इह ददातु । कीदृश्यम्धा । कुम्बा कण्टकादिना भित्तिस्थाने कृत सुग. हनमावरणम् ।अरण्यवासित्वात्सास्त्यस्य कुम्बावाञ्शवरः । तस्य स्त्री कुम्वावती शबरी। तया समस्तुल्यो विडम्बो यस्याः । शबर्यनुकारिणीत्यर्थः । पुनः कीदृशी । गलेन कृत्वा नवा चासौ तुम्बा तुम्बफल तेनाभाति सा नवतुम्वाभा सा चासी वीणा च तेया स- माना विधाः स्वरप्रकारा यस्याः सा । वीणास्वनतुल्यकण्ठरवेत्यर्थ. । पुनः कीदृशी। कस्तूरीकर्दमंशरीरकान्तिः । पुनः कीदृशी । लम्बालका दीर्घकेशा । पाहुलेयस्य का- तिकेयस्य शशिबिम्बवदभिरामं मुखं तेन कृत्वा सबाधितः सुदृढमाकृष्टस्तनमरो यस्याः सा । बिम्बाधरा । पुनः कीदृशी । कदम्बविपिने शम्बायुध इन्द्र आदिउँपाते निकुरम्मा देवगणास्ते विनता यस्याः॥ इन्धानकीरमणिवन्धा भवे हृदयबन्धावतीवरसिका संधावती भुवनसंधारणेऽप्यमृतसिन्धावुदारनिलया। गन्धानुभावमुहुरन्धालिवीतकचबन्धा समर्पयतु मे शंधाम भानुमपि रुन्धानमाशु पदसंधानमप्यगसुता ॥ ८ ॥ अगसुता पदसधान मय्यर्पयतु । कीदृश्यगसुता । इन्धन्ते प्रकाशन्ते, इध्यते प्रका- श्यते यैस्ते वा, इन्धानाः । ते च कीरवर्णमणयो हरिन्मणयो गारुत्मतास्यास्तेपा पन्धो हाररचना यस्यां सा । यस्याः कण्ठ इत्यर्थः । पुनः कीदृशी। हृदयबन्धौ भवे शिवेऽतीवर- सिका । भुवनसधारणे लोकपालने सधावती प्रतिहायुक्ता । पुनः कीदृशी । अमृतसि- न्धावुदारो महानिलयो यस्या सा । गन्धस्य । अर्थादुपरिगुम्फितपुप्पाणाम् । अनुमा- वोऽनुभवस्तेन मुहुरन्धों मत्तास्ते च तेऽलिनो भ्रमरास्तैवीतो व्याप्तः कचवन्धो यस्याः सा । कीदृश पदसधानम् । शं सुखं तस्य धाम । 'शम्' इति सुखार्थेऽव्ययम् । पुनः कीदृशम् । भानुमपि रुन्धानम् । सूर्यादप्यधिकतेजस्वीत्यर्थः ।। इति श्रीशंकराचार्यविरचितमम्बाष्टकं टिप्पणसहितं समाप्तम् । मुकुन्दमुक्तावलिः। नवजलधरवर्ण चम्पकोद्भासिकर्ण, विकसितनलिनास्यं विस्फुरन्मन्दहास्यम् । .

१५८ काव्यमाला। . . 4 . - - . कनकरुचिदुकूलं चारुवर्हावचूलं कमपि निखिलसारं नौमि गोपीकुमारम् ॥ १ ॥ मुखजितशरदिन्दुः केलिलावण्यसिन्धुः करविनिहितकन्दुल्लवीप्राणबन्धुः । वपुरुपसृतरेणुः कक्षनिःक्षिप्तवेणु- र्वचनवशगधेनुः पातु मां नन्दसूनुः ॥ २ ॥ ध्वस्तदुष्टशङ्खचूड वल्लवीकुलोपगूढ भक्तमानसाधिरूढ नीलकण्ठपिच्छचूड । 'कण्ठलम्बिममुगुञ्ज केलिलब्धरम्यकुञ्ज कर्णवर्तिफुल्लकुन्द पाहि देव मां मुकुन्द ॥ ३ ॥ यज्ञमङ्गरुष्टशक्रनुन्नघोरमेघचक्र- वृष्टिपूरखिन्नगोपवीक्षणोपजातकोप । . क्षिप्तसव्यहस्तपद्मधारितीच्चशैलसन गुप्तगोष्ठ रक्ष रक्ष मां तथाद्य पड्कनाक्ष.॥ ४ ॥ मुक्ताहारं दधदुडुचक्राकारं सारं गोपीमनसि मनोजारोपी । कोपी कंसे खलनिकुरम्बोत्तंसे वंशे रङ्गी दिशतु रति निःसङ्गी ॥५॥ लीलोद्दामा जलधरमालाश्यामा क्षामा कामारभिरचयन्ती रामाः । सा मामव्यादखिलमुनीनां स्तव्या गव्यापूर्तिः प्रभुरघशत्रोमूर्तिः ॥ ६ ॥ पूर्ववर्तुलशर्वरीपतिगर्वरीतिहराननं नन्दनन्दनमिन्दिराकृतवन्दनं धृतचन्दनम् । सुन्दरीरतिमन्दिरीकृतकंदरं 'धृतमन्दरं कुण्डलद्युतिमण्डलप्लुतकंधरं भज मुन्दरम् ।। ७ ॥ गोकुलाङ्गनमङ्गलं कृतपूतनाभवमोचनं कुन्दसुन्दरदन्तमम्बुजवृन्दवन्दितलोचनम् । सौरभाकरफुल्लपुष्करविस्फुरत्करपल्लवं दैवतव्रजदुर्लभं भज बल्लवीकुलवल्लभम् ॥ ८ तुण्डकान्ति दण्डितोरुपाण्डरांशुमण्डलं गण्डपालिताण्डवालिशालिरत्नकुण्डलम् । . . ܐܳܐ ܐ 1 . १९९ . भ मुकुन्दमुक्तावलिः। फुल्लपुण्डरीकखण्डक्लप्तमाल्यमण्डनं चण्डवाहुंदण्डमत्र नौमि कंसखण्डनम् ॥ ९ ॥ उत्तरङ्गदङ्गरागसंगमातिपिङ्गल- स्तुङ्गशृङ्गसङ्गपाणिरङ्गनालिमङ्गलः । दिग्विलासिमल्लिहासिकीर्तिवल्लिपल्लव- स्त्वां स पातु फुल्लचारुचिलिरद्य वल्लवः ॥ १० ॥ इन्द्रनिवारं व्रजपतिवारं निर्धतवारं कृतघनवारम् । रक्षितगोत्रं प्रीणितगोत्रं त्वां धृतगोत्रं नौमि सगोत्रम् ॥ ११ ॥ कंसमहीपतिहगतशूलं संततसेवितयामुनकूलम् । 'वन्दे सुन्दरचन्द्रकचूलं त्वामहमखिलचराचरमूलम् ॥ १२ ॥ मलयजरुचिरस्तनुजितमुदिरः पालितविवुधस्तोषितवसुधः । मामतिरसिकः केलिभिरधिकः सितसुभगरदः कृपयतु वरदः ॥ १३ ॥ उररीकतमुरलीरुतभङ्ग नवजलधरकिरणोछसदङ्गम् । युवतिहृदयधृतमदनतरङ्गं प्रणमत यामुनतटकृतरङ्गम् ॥ १४ ॥ . नवाम्भोदनीलं जगत्तोषिशीलं मुखासङ्गिवंशं शिरडावतंसम् । करालम्बिवेत्रं वराम्भोजनेत्रं धृतस्फीतगुलं भजे लव्धकुञ्जम् ॥ १५ ॥ हृतक्षोणिभारं कृतक्लेशहारं जगद्गीतसारं महारतहारम् । मृदुश्यामकेशं लसद्वन्यवेशं कृपाभिर्नदेशं भजे वल्लवेशम् ॥ १६ ॥. उल्लसद्बल्लवीवाससां तस्करस्तेजसानिर्जितप्रस्फुरदास्करः । पीनदोःस्तम्भयोरुल्लसच्चन्दनः पातु वः सर्वतो देवकीनन्दनः ।। १७ ॥ संसृतेस्तारकं तं गवां चारक वेणुना मण्डितं क्रीडने पण्डितम् । धातुभिर्वेषिणं दानवद्वेषिणं चिन्तय स्वामिनं वलवीकामिनम् ॥ १८ ॥ उपात्तकवलं परागशवलं सदेकशरणं सरोजचरणम् । अरिष्टदलनं विष्टललनं नमामि तमहं सदैवतमहम् ॥ १९ ॥ विहारसदनं मनोज्ञरदनं प्रणीतमदनं शशाङ्कवदनम् । उरःस्थकमलं यशोभिरमलं करात्तकमलं भजस्व तमलम् ॥ २०॥ N - १६० काव्यमाला। दुष्टध्वंसः कर्णिकारावतंसः खेलहंशीपञ्चमध्वानशंसी । गोपीचेतःकेलिभङ्गीनिकेतः पातु स्वैरी हन्त वः कंसवैरी ॥ २१ ॥ वृन्दाटव्यां केलिमानन्दनव्यां कुर्वन्नारीचित्तकंदर्पधारी।, नोंगारी मां दुकूलापहारी नीपारूढः पातु बर्हावचूडः ॥ २२ ॥ रुचिरनखे रचय सखे वलितरति भजनततिम् । त्वमविरतिस्त्वरितगतिर्नतशरणे हरिचरणे ॥ २३ ॥ रुचिरपटः पुलिननटः पशुपगतिर्गुणवसतिः । स मम शुचिर्जलदरुचिर्मनसि परिस्फुरतु हरिः ॥ २४ ॥ केलिविहितयमलार्जुनमञ्जन सुललितचरित निखिलजनरञ्जन | लोचननर्तनजितचलखञ्जन मां परिपालय कालियगञ्जन ॥ २५ ॥ भुवनविसृत्वरमहिमाडम्बर विरचितनिखिलखलोत्करसंवर । वितर यशोदातनय वरं वरमभिलपितं मे धृतपीताम्बर ॥ २६ ॥ चिकुरकरम्बितचारुशिखण्डं भालविनिर्जितवरशशिखण्डम् । रदरुचिनिधूतमुद्रितकुन्दं कुरुत सुधा हृदि सपदि मुकुन्दम् ॥ २७ ।। यः परिरक्षितसुरभीलक्षस्तदपि च सुरभीमर्दनदक्षः। मुरलीवादनखुर शाली स दिशतु कुशलं तव वनमाली ।। २८ ।। शमितनिखिलडिम्बे वेणुपीतोष्ठविम्बे हतखलनिकुरम्बे बलवीदत्तचुम्बे। भवतु महितनन्दे तत्र वः केलिकन्दे जगदविरलतुन्दे भक्तिरुर्वी मुकुन्दे ॥ २९ ॥ पशुपयुवतिगोष्टीचुम्वितश्रीमदोष्ठी स्मरतरलितहष्टिनिर्मितानन्दवृष्टिः। अवजलधरधाम्नः पातु वः कृष्णनाम्नो भुवरमधुरवेषा मालिनी सूतिरेषा ॥ ३० ॥ श्रीमुकुन्दमुक्तावलिः समाप्ता । .

No text on this page.

t

No text on this page.

Kavya Mala (vi)

Author
Krishnath Pandurang Parab
Title
Kavya Mala (vi)
File name
Kavya Mala (vi)
Text
OCR done
Citation
1886
Published
2010/05
Publisher
Narniya Sagar Printing Press Mubai
Language
Sanskrit
Pages
168
Library
Charan Sahitya Shodh Sansthan, Ajmer
DLI number
327339
Barcode
99999990002826.00
Scanning centre
Banasthali University
Digital publisher
Digital Library of India
VMLT id
X4PlwBnychO
Download PDF

Kavya Mala (vi)