Central Library, University Of Rajasthan

The Mallinatha Charitra Of Shree Vinaya Chandra Suri

Pandiit Shravak Hargovind Dass · 2010/04

PDF Proofread

Front matter

No text on this page.

TASIIOVIJAYAJAINA GRANTIIAMALA, 29.
nimeo
ΤΙΙΕ
MALLINATHA CHARITRA
SHREE VINAYA CHANDRA, SURT
OF
EDITED BY
SIIRAVAK PANDIT HARGOVINDDAS
AID
SIIRAVAK PANDIT BIECHARDAS,
VOST DEVOTED SERVA VTS OF
DIS HOLINESS SHASTRA HISIARAN JAINACIIARYA
SHREE VIJAYA DHARNIA SURI
11 ITIT
THE PECCAIARY IFLP OF
JETIIALAL DIPCHAND PARI
OF
VISNAGAR
PRINTED AND PUBLISHED
BY
HARSHCHAND BHURABHAI
Proprietor of Dharmabhyudaya Press.
BENARES.
Veel-Ela, 2438.
-000

No text on this page.

प्रस्तावना। . अस्य श्रीमल्लिखामिचरितनानो महाकाव्यस्य प्रणेतारः कविचक्र- शकाः कुन्देन्दुकीर्तय आगमगगनगगनध्वजा. श्रीविनय चन्द्रसूरयः के १, कीदृशाः ?, क च लोक कदा स्वचरित्रपावित्र्येण · पावयांच- क्रिवास १, इति जिज्ञासमानस्य जिज्ञासाऽस्यैव काव्यस्य प्रशस्ति- प्रतिष्ठितश्लोकान् दृष्टैवोपशाम्यति, तथाहि- समोपहारी सवृत्तो गच्छश्चन्द्रोऽभवद् भुवि । चित्र न जलधी राग यत्र चक्रे कदाचन ॥१॥ तस्मिन्नभूत् शीलगणाभिधान सूरि समापूरितभव्यवान्छ । यत्पञ्चशाख किल कल्पवृक्ष- इछाया नवीना तनुते जनानाम् ॥ २ ॥ यत्पाच किल देवता त्रिभुवनस्वामिन्युपेता स्वय पूर्वप्रीतितरनितेव वचसा बद्वैव कृप्टेव च । सौभाग्याद्भूतवैभवो भवमहाम्भोराशिकुम्भोद्भव श्रीमानत्र स मानतुगगणभृन्नन्द्यादविद्यापह ॥ ३ ॥ यस्योच्चै परिपाकपेशलतरा तृप्ति प्रदत्तेऽशिनां व्याख्यापर्वणि भारती रसवती लावण्यपुण्या भृशम् । एतद् नूनमजीर्णमप्यविकल यस्या सुख निस्तुप श्रीमानेप रविप्रभ स विजयी स्तात्सूपकार पर ॥ ४ ॥ विविधग्रन्थनिर्माणविरञ्चिरुचिरो गुरु । योऽभूद् रजोगुणो नैव नालीकस्थितिमान् क्वचित् ।। ५ ।। श्रीमदैवततुगशैलशिखरे सुध्यानलींनायुपा स्वायु कर्मतरुपपातवशतो लेभे गतिस्ताविपी। . १ दैवी । .

भव्यत्रातमन कुरङ्गशमकृत् तत्पभूपाकरो
राम श्रीनरसिहरिरभवत विद्यात्रयीपावन ॥ ६ ॥
नित्यं य समितौ रत कलयते सद्गुप्तिशक्तित्रय-
सातत्यं व्रतपञ्चवल्लभलसद्गन्धर्वगर्वादधुर ।
श्रीमत्पूज्यरविप्रभप्रविकसत्पदृक्षमालकृति
साक्षादेप नरेन्द्र एव जयति श्रीमन्नरेन्द्रप्रभ ॥७॥
दुर्वारप्रतिवादिविन्ध्यशमकृञ्चान्टेकुले विश्रुतो
देवानन्द इति प्रसिद्धमहिमोहामा मुनिग्रामणी ।
अष्टव्याकरणाम्बधीन् निरवधीन् शब्दोमिमालाऽऽकुलान्
य स्वव्याकरणप्रशस्तिचुलुकैश्चित्र चकारोच्चकै ॥ ८ ॥
तच्छिप्योऽजनि जागरूकमहिमा रत्नप्रभाख्यप्रभु
पट्टे श्रीकनकप्रभ प्रतिमया वाचस्पतिर्मूर्तिमान् ।
तत्पादाम्बुजचञ्चरीकचरित प्रद्युम्नसुरिनव-
प्रीति श्रीविनयेन्दुना तदखिल चाशोधयद् बोधये ॥ ९ ॥
'पूज्यश्रीरत्र (1) सिंहमूरिसुगुरो श्रीमन्नरेन्द्रप्रभो-
रादेशाद् विनयात्रपार्श्वचरितस्रष्टाशया (?)।
गच्छोत्तसरविप्रभाभिधगुरो शिप्योऽल्पमेधा अपि
सूरि श्रीविनयेन्दुरेप विदधे मल्लेश्चरित्र नवम् ॥ १० ॥
क्षेत्रे भारतनामके जिनपतेर्यावत् पर शासन
(१) शस्यीमद वृपनजपरीपोपक्षम वर्धते ।
एतद् नीरदवृन्दसुन्दरतनो श्रीमल्लितीर्थेशितु
प्रोहामं रसपूरचारुचरित तावञ्चिर नन्दतात् ॥ ११ ॥
आपादयति चात्रार्थे तैरेव निर्मितस्य कल्पनिरुक्तनाम्नो ग्रन्थस्य
पाश्चात्यः कियानंगो विशेषतो दाढर्यम् । स चायम्-
"सैद्धान्तिकश्रीमुनिचन्द्रशिप्या
प्राज्ञा अनृचानवरा नयन्ति ।
श्रीरवसिंहायसूरिमुग्न्या
यच्चियटेगो विनयेन्दुसूरि ॥ १ ॥

( ३ ), , श्रीविक्रमात् तत्त्व-गुणे-न्दुवर्षे ( १३२५.) चूादि वीक्ष्य स्वगुरोर्मुखाच्च । ज्ञात्वाऽनघ पर्युषणाभिधाने कल्पस्य किचिद् विदधे निरूक्तम् ॥ २॥ किञ्च, श्रीधर्मविधिग्रन्थवृत्तिविधायकाः श्रीउदयसिंहसूरयोऽप्ये- तानेवाचार्यवर्यान् महाकवित्वेन ग्रन्थशोधकशिरोमणित्वेन च प्रख्या- पयन्ति, तथाच धर्मविधिप्रशस्ति - "स श्रीमाणिक्यप्रभगुरुसेवी स्वगुरुबन्धुसंमत्या ।। आचार्य उदयसिंहश्चक्रे श्रीधर्मविधिवृत्तिम् ॥ ११ ॥ श्रीमत्पूज्यरविप्रभमुनिपतिपदकमलमण्डनमराल । वृत्तिमशोधयदेना महाकविविनयचन्द्राख्य ॥ १२ ॥ या शासनपुष्टिपरा जननीवद् भव्यसतति पाति । ला श्रीशासनदेवी शिवतातिर्भवतु सघस्य ॥ १६ ॥ रस-मङ्गल-सूर्य(१२८६.)-मिते वर्षे श्रीविक्रमादतिक्रान्ते ।। चके चन्द्रावत्या वृत्तिरिय सघसान्निध्यात् ॥ १७ ॥" एभिः सकलैः प्रमाणैरेषा सूरिवगणा समयो द्वादशशताव्या- दिभूतस्त्रयोदशशताब्द्यन्तभूतश्चेति नितरां निश्चीयते ।. सरस समुपवर्णितं चात्र गगनकुसुमायमानमनोमनोरथलक्षजल- सकुलं दम्भस्तम्भानेकनक्रचक्रचक्रवालबलप्रबल दु खात्मनैकदुप्करमकर- प्रकरप्रपूरित मिथ्याहकाराकारभूरिभूधराधृष्यकूटविकट सर्वत्र दुर्योध- क्रोधप्रसर्पत्सरीसृपसर्पणभीषणमनादिगभीरापारससारपारावार सशोप्य, सभूष्य च खं निखिलनिर्मललोकाऽलोकलोकिन्या विज्ञानश्रिया, प्रति- ष्ठाप्य च. सकललोकाऽमितहितावह ससारोत्तारकं तीर्थम् , प्रतियोध्य च माढमिथ्यात्वनिशानिद्रावशीभूतप्रभूतभूतगणान् , उत्तार्य च काश्चन संसारसागरात् , प्रापय्य च, प्रवरशिवनगरनिकटम् , परमामनश्वरी- मितरदेवदवीयसीं गरीयसी पदवी प्राप्ताना श्रीमल्लिस्वामिजिनेश्वराणा- मामूलचूलमदनपापाअधवित्र पुष्करारिष्टमललचित्रं निसर्गगुणगणप- ( ४ ) । . वित्र चरित्रम् । अन्तर्भावितानि चात्र श्रीमल्लिमित्रषटककथानकानि । अन्या अपि लोकप्रबोधविधायिन्यो बयः कथाश्च व्यावर्णिता । तत्र तत्र चानुरूप सुन्दर सकलरसावर्षि सवर्णनमपि पाठकहृदयकोशप्रवेशं प्रापितम्। समावेशितानि चात्र महाकाव्यनिखिललक्षणानि । इति सर्वैरेव प्रकारैरय चरितग्रन्थ चरितग्रन्थेषूत्तम स्थान लम्भित । इमे चाचार्यपूज्या अन्यानपि कल्पनिरुक्त-श्रीपार्श्वचरितप्रभृतीन् ग्रन्थान् जग्रन्थुः, व्यशूशुधश्च धर्मविधिवृत्तिप्रमुखानल्पग्रन्थान् । एतेषा च सूरिवराणा ग्रन्थग्रन्थितृत्वं ग्रन्थशोधकत्व चेदमुभयं तदपूर्वादूष्य- वैदुष्य-लोकोपकारकत्वाऽन्यथानुपपद्यमान तेषा परमकारुणिकत्वं सक- लशास्त्रनिष्णातत्व च स्पष्ट निष्टङ्कयति । सशोधकाश्चास्य शोधकप्रकाण्डता गताः श्रीप्रद्युम्नसूरयः, येषा शोधननैपुण्य बहवः कविकुञ्जरा व्यावर्णयाबभूवांसः। अतोऽपि चरित- १ यदाह धर्मकुमारपण्डित खीये शालिभद्रचरित्रे प्रतिप्रक्रमम्- "श्रीशालिचरिते धर्मकुमारसुधिया कृते । श्रीप्रद्युम्नधिया शुद्धे" अन्त्यप्रक्रमे च--- "इय कथा वृद्धकुमारिकेव सदूषणा भूषणवर्जिताऽऽसीत् । प्रद्युम्नदेवस्य पर प्रसादाद् बभूव प्राणिग्रहणस्य योग्या" ॥ १५३ ॥ तेपा च श्रीविनयचन्द्रसूरिकृत श्रीमलिनाथमहाकाव्यम् , श्रीप्रभाचन्द्राचार्यवि- रचित श्रीप्रभावकचरित्रम् , श्रीदेवेन्द्रसूरिप्रणीत श्रीउपभितिभवप्रपञ्चकथासारोद्धार , श्रीरत्नप्रभसूरिविहिता श्रीकुवलयमालाकथा, श्रीवालचन्द्रसूरिनिर्मिता श्रीउपदेशक- न्दलाटीका श्रीविवेकमञ्जरीटीका, श्रीउदयप्रभसूरिरचिता उपदेशमालाकर्णिका- टीका चेत्यादितात्कालिकबहुग्रन्थाना सशोधकत्वेन ग्रन्थसशोधननैपुण्यम् , श्रीसम- रादित्यसक्षेपादे स्वतन्त्र सविधानेन च शास्त्रवैशारयं च सुतरा प्रतीतम् । पुनस्तदानीन्तनाचायवाट समानिता बभूवुरित्यपि श्रीमानतुजाचार्यविरचितश्रीश्रे- यामनाथचरित्रान्तर्गतन- "शिष्य श्रीकनकप्रभस्य सुक्रवि श्रीवालचन्द्रानुजो ज्यायान् श्रीजयसिंहत प्रतिभया श्रीवस्तुपालस्तुत । अम्मोत्रमहत्तर कविगुरु प्रद्युम्नसूरिप्रभु- विद्वदवृन्दकवित्वगोधनधनो ग्रन्थ मुदाऽशोधयत्" ॥ १॥ इति पद्येन व्यतमाविर्भवति ।

। ( ५ ) - ४ मिदं विशेषेण महत्त्वमचकलत् । एतस्य श्रीमल्लिचरितस्य पुस्तकचतुष्टयमावां प्राप्तवन्तौ, तदर्थ च तदर्पयितॄन् नामग्राहमभिवन्दावहे-- १ श्रीमल्लिचरितमस्मद्गुरूणां श्रीशास्त्रविशारदजैनाचार्यश्रीविज- यधर्मसूरीणा शुद्धदेश्यम् । २""पुण्यपत्तनस्थडकनकॉलेजाख्यपुस्तकालयस्य, नात्यशुद्धम् । मुनिमोहनलालजिपुस्तकालयस्य, अशुद्धम् । स्तम्भनपुरस्थधर्मशालाभिधभाण्डागारस्य, अपूर्णम् , शुद्धप्रायं च । तदेवं पुस्तकचतुष्टयमाश्रित्य सशोधितम् , तत्र तत्र पाठान्तरितं च चित्ताादकमिद चरित सकर्णा निजविमलनेत्रसन्निकर्षाद् नाय- यन्तु स्वीयनेत्रे पावित्र्यम् । पठित्वा चैतत् त्यजन्तु कपटनाटकपाट- वपटं पटवः, मुनयश्च लोकयन्तु कर्मनरपतिवैचित्र्यम् , मुच्यतां च सकलो लोकः, उत्साहयन्तु चासत्परिश्रान्तिम् , संशोधयन्तु सूचयन्तु च मतिमान्द्यसहभूनि दृग्दोषहेतूनि सीसकाक्षरयोजकजातानि च दूष- णानि हंसन्तः समन्तत. सन्तः । अस्य च मुद्रणादिव्ययदातु परमोदारश्रीश्रेष्ठिप्रवरगोकुलभाइतनु- जनुषो वदान्यवरेण्यस्य श्रीश्रेष्ठिवरमणिलालस्य परमं धन्यवाद समर्पयाव. । इति निवेदयतो- हरगोविन्द-बेचरदासौ।

No text on this page.

अनुक्रमणिका। पृष्ठम् । १ सर्गः। विषयः। मङ्गलाचरणम् । ग्रन्थोपक्रमः । प्रत्येकबुद्धश्रीरत्नचन्द्र-सत्यहरिश्चन्द्रनिदर्शनयुक्तः श्रीबल- नृपतिबोधः । २ दान-शील-तपो भावनासु जिनदत्त-वनमाला-श्रीविद्याविला- सक्षितिपति-श्रीदृढप्रतिहारिमहर्षिकथासहित श्रीमहाबलराजर्षि- अचल-धरण-पूरण-वसु-वैश्रमणा-ऽभिचन्द्रदीक्षामहोत्सव । ९७ ३ अन्तरङ्गदेशनासनाथं प्रथम-द्वितीयजन्मवर्णनम् । ११७ च्यवन-जन्मकल्याणिकद्वितयवर्णनम् । १३४ ५ दीक्षाकेवलज्ञानोत्पत्तिकीर्तनम् । १६० ६ सम्यक्त्वफले महासत्या दवदन्त्या वर्णनम् । २०२ सम्यक्त्वपुरःसरप्राणातिपातादिव्रतेषु सुदत्त-सुबन्धु-सङ्गमक- सुदर्शन-भोगदत्त-मित्रानन्द-भीम-भीमसेन-लाभनन्दि-तारा- चन्द्र-चन्द्रावतंसक-धनसेन-शिखरसेन-चन्दनबाला-फलनि- दर्शनम् । २९१ ८ आस्तिकनृप-चित्रकुम्भ-नरदेवपाल-गोपाल-यज्ञदत्त-चिलाती- पुत्रचण्डरुद्राचार्यशिष्य-कुलध्वजमहर्षिकथानकसमन्वितमो- क्षाभिधानम् । ४

No text on this page.

श्रीविजयधर्मसूरिभ्यो नमः । मल्लिनाथमहाकाव्यम् । -org प्रथमः सर्गः। महातेजःप्रमः सर्वमङ्गलोल्लासकारणम् । अर्हन् गणाश्रयं प्रीणन् जयताद् दृपभध्वजः॥१॥ कुम्भजन्मा सितध्यानाञ्जलिपीतभवोदधिः । श्रीमन्मल्लिर्जिनो भूयात् पापवातापितापनः ॥ २॥ क्रमहीनो द्विजिद्रोऽपि क्षमाभारक्षमोऽजनि । आश्रयाद्यस्य स स्याद्वः श्रिये पार्श्वजिनेश्वरः ॥ ३॥ चन्दारुसुरकोटीरचकोरीचक्रचुम्बिताः । जीयासुर्वीरनाथस्य क्रमद्वन्द्वनखेन्दवः ॥ ४ ॥ अन्यानपि गतत्रासान् सच्छायाने विमलानलम् । नौमि मुक्तावलीमध्यनायकान् जिननायकान् ।। ५ ।। त्रिपद्यपि जिनानां गौर्जगद्गोचरचारिणी । सालङ्कारागिनी मे स्यात्तवपीयूपवर्षिणी ॥ ६ ॥ रजाक्षोदपयोः श्रीविद्यायावतंसकम् । प्रणौम्यहं भवोद्यानभगनागं गुरुं स्वकम् * ॥७॥ जगजैत्रस्य यस्यैते किङ्करास्ते सुरेश्वराः । तं जिगाय जिनो मारं कौमारेऽपि जवेन यः॥८॥ तस्य श्रीमल्लिनाथस्य जगन्नाथस्य पावनम् । श्रोतृश्रोत्रसुधासत्रं सच्चरित्रमुदीर्य्यते ॥ ९ ॥ (१) गणनियमित्यपि (२)-नमलान इत्यपि (३) जितेन्द्रिय इत्यपि । * आधान्त्याक्षरैर्गुरोनाम कवेः शोधयितुश्च रविप्रभ, श्रीकनकम् । 1 - मल्लिनाथमहाकाव्य- श्रीपष्ठाङ्गादिदं चित्रमहं ग्रश्नामि माल्यवत् । आरामिक इबारामादुचित्य सुमनोभरम् ॥ १० ॥ जम्बूद्वीप इति द्वीपः कनकाचलकर्णिकः । स्पष्टाष्टदिग्दलाकीर्णः प्रोन्निद्रशतपत्रति ॥ ११ ॥ तत्रापरविदेहेषु विजयः सलिलावी । वीतशोका पुरी तत्र वीतशोकजनाकुला ॥ १२ ॥ प्रवन्धाः पुष्करिण्यश्च गम्भीरपदसंक्रमाः। राजन्ते यत्र सरसाः कविम्त्रभृता कृताः ।। १३ ।। परोपकारप्रगुणा उत्तमर्णाः प्रियम्बदाः । धैर्यवन्तो जना यत्र सुषमाकालजातवत् ॥ १४ ॥ अवृद्धिारिधेरेव निष्कोशत्वमसेरपि । दानच्छेदो गजस्यापि न यस्यां पौरुषेष्वभूत् ।। १५ ।। वलो नाम तृपस्तत्र वलेन वलसूदनः । वैरिवारवलोन्माथी ऋद्धया वलिनिषूदनः॥१६॥ अम्भोधिना गभीरत्वे. पारीन्द्रश्च पराक्रमे । कल्पक्षितिरुहेर्दाने जाने यस्याधमर्ण्यते ॥ १७॥ आकार एव यस्योच्चैः शशंस प्रभुसम्पदम् । छत्रचामरकोटीरहारप्रभृति तु स्थितिः ॥ १८ ॥ विलासराजहंसानां विकस्वरसरोजिनी। वशीकरणविद्येव शृङ्गाररसयोगिनः ॥ १९ ॥ देव्यस्य धारिणी नाम शीलालङ्कारधारिणी। सारिणी गुणवल्लीनां चातुर्यरसहारिणी ।।२०।। (युग्मम् ) पुर्यामन्यगुरुद्याने वने नाम्नेन्द्रकुजके । रत्नचन्द्राभिधोऽभ्यागात् मुनिर्दोपान्धकारभित् ।।२।। यस्यासन्नमरस्तीरपादपाः प्रतिविम्विताः । (२) योगिनीत्यपि।

मथमः सर्गः भान्ति वारिणि सर्वाङ्ग नीरं पातुमिवातुराः ॥२२॥ शुष्पाक्षतविहस्तै हस्तैर्यद्विजलीलया। मन्त्रोच्चारमलिध्वानैस्तनुतेऽभ्यागतं प्रति ।। २३ ।। नक्षत्ररिव सन्मित्रैस्तदुद्याननभोणम् । राजा समागमक्षेत्रकैरवस्मरतागुरुः ।। २४ ।। (त्रिभिर्विशेषकम् ) तस्मिन् वीक्ष्य मुनेरूपं स्वरूपं दिवसेशितुः । उत्फुल्लवदनो नत्वा राजा पप्रच्छ सादरम् ॥२५॥ रूपेऽप्यप्रतिरूपेशस्मिन् लावण्ये च समुज्ज्वले । कथं त्यका गृहस्थत्वं भवद्भिर्जगृहे व्रतम् ।। २६ ।। योतयन्निव दन्तांशुडम्बरैरम्बरान्तरम् । रजेन्दुर्भगवानेवं व्याजहार मनोहरम् ।। २७॥ असारेऽमुत्र संसारे सर्वमेव विरागकृत । विशेषतोऽपि चास्माकमिदं बैराग्यकारणम् ॥२८॥ तथाह्यत्र विदेहाख्ये क्षेत्रे कुरुविभूषणम् । पुरं चन्द्रपुरं नाम वासौकः सर्वसंपदाम् ।।२९ ।। वसुभूतिनृपस्तत्र महातेजाः परन्वपः । तस्य रत्नावली देवी रनचन्द्रस्तयोः सुतः ॥३०॥ अन्येधुरश्ववाहिन्यां गतो नृपतिनन्दनः । उच्चैरुच्चैःश्रवस्तुल्यं निर्मासमुखमण्डलम् ।। ३१ ।। लघुस्तब्धश्रवोयुग्म पीनं पश्चिमपार्श्वयोः । दशावर्तमनोज्ञाझं मनोवेगातिवेगिनम् ॥ ३२ ॥ दक्षश्चतुष्पकारासु धारासु क्रमयन् क्रमान् । अवाहयद्रयं चारु कातपातादि कारयन् ॥ ३३ ॥ (त्रिभिर्विशेषकम् ) मल्लिनाथमहाकाव्ये- आरूढः पञ्चमीं धारामुदूढः प्रौढविक्रमः । जवं चकार चतुरं वाजी वाजजितानिलः ॥ ३४ ॥ स्फुरत्खुरपुटोड्डीनरजःसङ्गमपि त्यजन् । अङ्गमालिन्यभीत्येव रभसा नभसि व्रजन् ।। ३५॥ सरित्पुरगिरिग्रामसमुल्लङ्घनजाड्विकः । जगाम काननं क्रीडत्पञ्चाननभयानकम् ।। ३६ ॥ रत्नचन्द्रे समुत्तीर्णे तत्पृष्ठायसनादिव । चित्रमेकोऽपि स प्राप पञ्चत्वं दूरलड्वनात् ।। ३७ ॥ क सा राज्यस्थितिः कैषा महावनविभीषिका । क च वन्दिजनोल्लापः क्व चेदं व्याघ्रबूत्कृतम् ॥३८॥ अथवा क्षीणपुण्यत्वादित्थं सम्पद्यतां मम । नहि त्यक्ष्यामि धीरत्वकङ्कट सङ्कटे स्फुटम् ।।३९ ।। इत्यं विचार्य सद्धैर्यपरिच्छदपरावृतः । चचाल पादचारेण महारण्ये नृपाङ्गजः ॥४०॥ हा तात ! तात हा! भ्रातही भ्रातर्भुवनोत्तम !। खण्डशः खड्गयष्टयाऽहं क्रिये सूरणकन्दवत् ।। ४१ ॥ नेयं वीरप्रसूः क्षोणी नापि संक्रन्दनादयः । लोकपाला यथार्थाख्या हन्ये यदवला बलात् ॥४२॥ रवचन्द्र ! गतः कापि ममाभाग्यैर्भवानपि । यन्मां व्यसनमापन्नां न रक्षसि मृगीमिव ॥ ४३ ॥ सर्वज्ञेनेव दैवज्ञ ! यत्त्वयाऽऽख्यायि मे पितुः । सुप्तपलपितं तत्कि कि वा ते मतिविभ्रमः ॥४४॥ सुदती रुदतीमेकामित्थं स करुणस्वरैः । रोदयन्तीमरण्यानी प्रतिशब्दैः सखीमिव ॥४५॥ श्रुत्वा भूमीपतेः मनुर्निदध्याविति मानसे । (१) इय इत्यपि।

प्रथमः सर्गः। केयं रोदिति सत्रासं निर्वीरेव वराकिका ॥ ४६ ।। उच्चचार कथकारं मन्नाम प्रकटाक्षरम् । सदृक्षाण्याभिधानानि थूयन्ते वाऽवनीतले ।। ४७ ।। परं देहव्ययेनापि सवलैरवलाजनः । त्रातव्योऽतिप्रयत्नेन क्षत्रियार्थ वितन्वता ॥४८॥ विमृश्यति करे कृत्वा कृपाणं सकृपाशयः । स्वरानुसारतस्तस्या दधावे क्रोधदुर्धरः ॥ ४९ ।। प्रज्वलत्खदिरागारपूर्णकुण्डतटस्थिताम् । कण्ठपीठधृतारक्तकरवीरस्रजं पुरः ।।५०॥ वद्धपाणिपदद्वन्द्वां सूनानीतामजामिव । भयलोलदृशं चिल्लीं श्येनचञ्चुगतामिव ॥५१॥ अद्राक्षीदवलां वालामालानितवशामिव । कपालिनं च धारालकर्तिकानर्तनोद्यतम् ॥ ५२ ॥ (त्रिभिर्विशेषकम् ) तमूचे च विमर्याद ! रे रे कापालिकाधम !! अशरण्यामरण्ये किमेनां हन्तुं समुद्यतः १ ॥ ५३॥ रे प्रहर्तुमिमां पाप ! कथमुत्सहते मनः । अथवा पापकुम्भस्ते तूर्ण पूर्णोऽद्य विद्यते ॥ ५४ ।। तन्मन्ये तव निर्लज्ज ! भुजौजः शिष्टगर्हितम् । यदीडशे जने दीने प्रजिहीर्घः प्रवर्तसे ॥ ५५ ॥ इत्युक्तिव्यक्तिमाकर्ण्य कर्णायःमूचिसूचिकाम् । उद्दधावेतरां योगी भीमः कल्पान्तभीमवत् ॥५६॥ कवाक्यगिरां कल्पः शिक्षितोऽद्य कुतस्त्वया। आविरासीद् ध्रुवंधाच्यां यदि वा त्वत्त एव सः॥५७|| रे वीरखेटवाचाट ! याहि दृष्टेन वर्त्मना । यदि वैष खभावेन परतप्तिपरो जनः ॥ ५८ ।। !

६. मल्लिनायमहाकाव्ये- विक्रमककथाव्यासचन्द्रहासो ममाचलः । सकल्मषाणां तद्वात्रामाचारं शोधयिष्यति ।। ५९ ।। इत्युक्तवति सत्यस्मिन् रनवन्द्रोऽवदचया । मुन्न घातं तथा चक्रे योगिनाऽन्योऽप्यवञ्चयत्।। ६० ॥ कापालिकाहारंऽय विनय रत्नचन्द्रमाः। बदायुःकमलं खड़गधागंशुभिरालयत् ॥६॥ विच्छिय बन्यसम्वन्यं प्रेमवन्यं प्रपञ्चयन् । उवाच कन्यकामनां कुतस्त्वं कास्ययं च कः ? ।। ६२ ।। तीक्ष्य जातमन्दाना पद्मानी सानादिति । समस्ति नगरी चम्मा गनकम्मा रिपुत्रजात् ।। ६३ ॥ तस्यां भूमिपतिः गृङ्खः शृङ्ख्शुभ्रगुणाञ्चलः । पद्मव पालखति नस्य देवी पतिव्रता ॥ ६४ ॥ तयोरभृवं तनया नान्नाऽई पद्मलोचना । उन्मथ्य वाल्यपायोचिं प्रपन्ना चौवनश्रियम् ।। ६५।। मादृचिकं शुभं नाम शुभाशुभविवारदम् । अन्याः कपालः पर्यपृच्छन् कलानिधिम् ॥६६॥ को नामास्याः पतिर्भावी पण वयसा समः । सेवः लिनिवारी वा विचिन्त्य मम कथ्यताम् ॥६७|| अभ्यबाढय देवगः सम्यग्नानवलेन सः । अन्वेंद्र चन्द्राभिधान मनिकनन ॥६८ ॥ वनुभूनः मुना रनवतस्तन्द्राविजितः । पणिप्यति ने पुत्रीं गंहिणीमित्र चन्द्रमाः ।।६९॥ एवं शुभांगरः श्रुत्वा पित्रभृति पुगंधनम् । वर्गतुं ग्नन म प्रहिणोनि महीपतिः ॥ ७० ॥ इति कापालिऽयंय जालझान्नावतिनीम् । दृष्ट्वा मां कश्मिः पुत्रः कीदन्ती समखीजनाम् !|७||

प्रथमः सर्गः।
पद्मिनीमिव मातङ्गः करेणाभ्यासवर्तिनीम् ।
अपाहार्षीदयं पापः पूर्ववैरस्मृतेरिव ॥७२॥ (युग्मम्)
अभ्यर्थिता ततोऽत्यन्तं न मन्ये तद्वचो यदा।
तदाऽनेनातिपापेन प्रापिताऽस्मीदृशी दशाम् ॥७३॥
ततो रोदितुमारब्धा विरसैः करुणस्वरैः ।
विधुरे रोदनादन्यन्न भीरूणां बलं किल ॥७४॥
स्वयमेव विजानासि परन्तप ! ततः परम् ।
निजेन तु चरित्रेण पवित्रय मम श्रुती ॥७५।।
अभ्यधादथ रत्नेन्दुः स्मितशुभ्ररदद्युतिः ।
अहं चन्द्रपुरे रत्नचन्द्रस्यास्मि परिग्रहे ॥७६।।
कल्याणि ! त्वां तदादेशादायातस्त्रातुमातुराम् ।
एतस्य शासने शक्तिस्तस्यैवेयं प्रगल्भते ॥७७॥
तया विशिष्टचेष्टाभिलक्षणैरपि लक्षितः ।
रत्नचन्द्रः स एवायमिति स्व गोपयन्नपि ॥ ७८ ।।
भवेदन्यस्य कस्येदं वीरव्रतमनुद्धतम् ।
यतो मां त्रातवानस्माद्योगिनो भोगिनो यथा ॥७९॥
ध्यात्वेत्युवाच सा रत्नचन्द्रमुवीक्ष्य विस्मिता ।
गतोऽस्त्यानेतुमेधांसि वीरशिष्योऽस्य योगिनः॥८॥
अत्यर्थमसमर्थः संश्छलेन च बलेन सः।
किश्चिदत्याहितं कुर्यात्तदपक्रमणं कुरु ॥८१ ॥
युक्तियुक्तमिति प्रोक्तस्तयाऽऽतङ्घद्धचित्तया ।
प्रेम स्थेमानमानेतुं मेने तस्या वचस्ततः ॥८२॥
शक्त्येवासक्तया साकं तया क्षितिपतेः सुतः ।
प्रचचालाचलं प्रीत इतश्चास्तमगाद्रविः ॥८३॥
अञ्जनाद्रेरिवोद्भूतः पातालविवरादिव ।
सूचीभेद्यस्तमस्तोमः प्रससार रसां प्रति ॥८४॥

? मल्लिनाथमहाकाव्ये- अमृकधूकधूत्कारैरटन्ति मलिनाननाः । अस्तं गते रवौ नाथे दिशः शोकाकुला इव ॥ ८५।। विश्वमित्रे जगन्नेत्रे परलोकमुपेयुषि । तमोभिः पर्यपूर्य्यन्त लोचनानि तदाऽङ्गिनाम् ।। ८६ ।। कासारेभ्यः शशाङ्केन मुष्यन्ते कमलाकराः । जडात्मकानां गेहेषु न हि श्रीः स्थायिनी चिरम् ।।८७।। ततः कुमारो रत्नेन्दुर्दुस्तरे वंशगड्ढरे । शाययित्वा विशालाक्षी तस्य द्वारिस्थितः स्वयम् ।।८८।। विभातायां विभावर्या यावदाह्वयति प्रियाम् । ददौ प्रत्युत्तरं शैलः प्रतिशब्दैन सा पुनः ॥८९।। मदीया दयिता हन्त ! न वेनि च्छमसमना । हहा केनापि पापेनापहताऽपहृताऽथवा ? ॥९॥ कुतोऽश्वेनापहारो मे कुतश्चास्याः समागमः । अपहारः कथं चैप अर्द्धस्थादपि जाग्रतः ? ॥९१ । अथवा पुण्यनिर्णाशे जायते सर्वमीदृशम् । विधिव प्रगल्भोऽत्र कृते योगवियोगयोः ।।९२ ।। एवं विमृश्य रत्नेन्दुश्चलितः काननोढरे । आराममिव धर्मद्रोनिधानमिव सम्पदाम् ।।९३ ।। पिधानमिव दुष्कर्मविरोचननिकेतने । ददर्श देवधामैकं विस्सयोत्फुल्ललोचनः ॥ ९४ ।। मध्येचैत्यं प्रविष्टोऽसौ प्रमोदमिव देहिनाम् । निदध्यौ तीर्थकृद्विम्बं दृग्मृगीपाशवन्धनम् ।।९५॥ प्रणत्य परया भक्त्या वीतरागं जगद्गुरुम् । अभ्यगान्मण्डप चारुदन्तपञ्चालिकाहते ।।९६।। इतवागानरः कोऽपि जराजर्जगविग्रहः । कौपीनवसनः सामः क्लिन्नक्लिन्नो मलेन च ॥९७।।

मधमः सर्गः स प्रणम्य जिनाधीशं भावशुद्धथा पवित्रितः । कुमारं प्रति सस्नेहं जगाद वदतां वरः ॥९८॥ गन्धारश्रावकं विद्धि मामयोध्यानिवासिनम् । धुर्येष्विव स्वपुत्रेषु न्यस्तोकोभारसम्पदम् ।। ९९ ॥ जन्मदीक्षादितीर्थेषु प्रतिमास्त्रिजगद्गुरोः । वन्दमानो महातीर्थमहमागतवानिह ॥१०॥ अत्रैवानशमं कृत्वा परलोकः सुनिर्मलः । उपार्जनीयो भावेन नो कार्य मयकाऽपरम् ॥१॥ यतोऽहि ह्यस्तने भद्र ! विद्याधरमहामुनिः। वन्दितो भावतो ज्ञानशातविश्वत्रयस्थितिः ॥ २॥ स प्रणम्य मयाऽपृच्छि प्रमाणं निजकायुपः। तेनोचे जीवितं भद्र ! पश्चैव दिवसानि ते ॥ ३ ॥ मया तदत्रायातेन साध्यैवानशनास्थतिः । मुक्तिः श्रीवश्यविद्येव त्वत्त उत्तरसाधकात् ॥ ४ ॥ निशम्येदमुवाचोच्चै रत्नेन्दुर्विस्मिताशयः। किं साहाय्यं मया कार्य परलोकोत्सुकस्य ते ॥ ५ ॥ अथाभाषिष्ट गन्धारो गृहाण विधिपूर्वकम् । मन्त्रं पश्चनमस्कारसंज्ञया ख्यातिमागतम् ॥ ६ ॥ यत:- ये याता येऽपि यास्यन्ति ये च यान्ति परं पदम् । ते सर्वेऽपि नमस्कारं स्मारं स्मारं कृतस्मयाः ॥७॥ नमस्कारः पिता माता नमस्कारः परो गुरुः । नमस्कारः प्रियं मित्रं नमस्कारः कुलं वलम् ॥८॥ आयान्ति यस्य माहात्म्यादाकृष्टा इव सम्पदः । विपदश्च विनश्यन्ति श्रुतेरिव कुवासनाः ॥ ९ ॥ नमोईदादिभ्य इत्ति महामन्त्रं पवित्रधीः ।

१० मल्लिनाथमहाकाव्ये- अपठच्यावकाभ्यणे शुद्धवर्ण यथाविधि ॥ १० ॥ अथ प्रोवाच गन्धारः समयेऽस्मिन् सखे ! मम । कर्णयोर्निकटस्थेन प्रदेयः प्रकटाक्षरम् ।। ११ ॥ आमेति भाषिते तेन गन्धारः श्रावकोत्तमः । अकरोत् त्रिविधाहारपरीहारं यथाविधि ।। १२ ।। कर्णाभ्यासनिषण्णेन सुस्वरं नृपसूनुना । दीयमानेषु शुद्धेषु नमस्कारेषु भावतः ॥ १३ ॥ समाथिध्यानमाधाय श्रद्धासंशुद्धमानसः । देवभूयमगादेष गन्धारः पञ्चमेऽहनि ॥१४।। (युग्यम्) रत्नेन्दुः प्रेतकार्याणि कृत्वाऽस्य निजवन्धुवत् । तस्माञ्चचाल पूर्वाशामुद्यमी देवतासखः ॥ १५ ॥ सिच्यमानतळं मुग्धतापसैः कुटवादिभिः । क्रीडन्मृगाङ्गनाग्रामं नीवारै राजिताजिरम् ॥ १६ ॥ इकुदीतैलनिर्माणव्यग्रतापसकन्यकम् । तिम्यत्तारवतन्तूनां मालया राजितोटजम् ॥ १७ ॥ वेदिकामार्जनानिष्ठऋषिपनीमनोहरम् । अपश्यदाश्रममसौ दृक्चकोरीहिमद्युतिम् ।। १८ ।। (त्रिभिर्विशेषकम् ) तत्र प्रविश्य भूपालतनयो विनयोज्ज्वलः । भक्त्या कुलपतिं नत्वा निषसाद विनेयवत् ॥१९॥ इतश्च तापसद्वन्द्वे प्रणन्तरि कृताञ्जलौ । पप्रच्छ तापसस्वामी स्वागतं प्रीतिकार्मणम् ॥ २० ॥ अथ तावूचतुः पूज्य ! स्वागतं त्वत्प्रसादतः । अस्मन्मुखेन वः पादान् शङ्खराजो नमस्यति ॥२१॥ सुखेन तत्र संप्राप्ता पित्रोर्नेत्रसुधा प्रभो! । नमत्यम्मद्राि युप्मच्चरणौ पद्मलोचना ।। २२ ।।

प्रथमः सर्गः ११ निशम्य शङ्खनामादि वभापे रत्रचन्द्रमाः । कोऽयं शह्वमहीपालः का वेयं पद्मलोचना ? ॥२३॥ प्रत्यवादीत्कुलपतिश्चम्पायां पुरि शहराट् । तस्याभून्नन्दिनी नेत्रानन्दिनी पद्मलोचना ।। २४ ।। इत्तश्च केनचिद्वालाऽपहृता जालकान्तरात् । न भदेवन्यथाभावः पूर्वोपार्जितकर्मणाम् ।। २५ ॥ एतस्यां हन्यमानायां रत्नचन्द्रः कुतश्चन । समागात्तत्र युद्धन योगिनं तं जघान च ॥ २६ ॥ नृपपुच्या तया सार्द्ध चलितो वसुभूतिजः । निशि वंशदरीकोणे तां कृत्वा द्वारि सोऽस्वपत् ।। २७॥ इतश्च योगिशिप्येण पदिकेनेव गहरे । समागत्यापजह्न सा द्वारं निर्माय पश्चिमम् ।। २८ ।। कण्ठपीठे स्वसिचयाञ्चलेन सुरभीमिव । गहराच्चालयामास विनिद्रां पद्मलोचनाम् ॥ २९ ॥ कियन्मार्गमतिकान्ते वभापे योगिसेवकः । अरे रे ! तव कि कुर्वे मद्गुरोः प्राणघातिके ॥३०॥ अथोचे भूपतिसुता दधती हृदि धीरताम् । तन्निमिमीष्व वेगेन यत्ते सङ्गतिमगति ॥ ३१ ॥ प्रत्यवादीदसौ वाले ! जीवितं न हरामि ते । सिद्धमन्त्रौषधीविधं यदि मां परिणेष्यसि ॥ ३२ ॥ इदं निशम्य सा ध्यौ मानसे पद्मलोचना । भवितव्यं कथङ्कारं प्राप्यो राजसुतो मया ॥ ३३ ॥ धीमानशुभकालस्य हरणं विदधीत यत् । न विधेया क्वचिचिन्ता कालः कालो भाविष्यति॥३४॥ विमृश्यैवं सुता राशस्तं प्रत्याह स्मितोत्तरम् । युक्तमुक्त त्वया सर्व परं मम वचः श्रृणु ॥ ३५ ॥ .

१२
मल्लिनाथमहाकाव्ये-
-
अस्मद्वयस्या देवश्रीविद्यते तापसाश्रमे ।
प्रपन्नमेतया सार्द्धमेवं शपथपूर्वकम् ।। ३६ ।।
आवाभ्यां रूपलावण्यपुण्यश्रीभ्यां ससौहृदम् ।
एकः कार्यः पतिः प्रीतिरतिभ्यामिव मन्मथः ॥३७ ।।
तदाश्रममनुप्रीतस्त्वरस्व गुणवारिधे ।
एकद्रम्मेण ते भाषि पाणतद्वयमुत्तमम् ।। ३८ ।।
योगिशिष्यस्तथेत्युक्त्वा समागात्तापसाश्रमम्
साऽस्मन्नेत्रपयं प्राप्ता सिंहाकृष्टा मृगी यथा ॥ ३९ ॥
भद्रास्य ! सा मे जामेयी जीवन्ती कुलभाग्यतः ।
मुदेऽजनिष्ट वल्लीव घना घनघनोदयात् ॥ ४० ॥
योगिशिष्यस्ततोऽस्माभिः प्रहतो मुष्टियष्टिभिः।
प्रणनाश महारण्ये घूकवद्भानुधामभिः ॥ ४१ ॥
इयं कथा मयाऽज्ञायि कथिता पद्मनेत्रया ।
इष्टसङ्गे भवेत्साय उदन्तः मुखदुःखयोः ॥ ४२ ॥
अथानयोरर्पयित्वा भागिनेयीं तपस्विनोः ।
सा शबभूपतेः पार्थे प्रेषिता प्रीतिनिर्भरम् ॥ ४३ ॥
ताविमौ तापसी शान्ततामसी कोपनिग्रहात् ।
इहायातौ गुणाम्भोधे ! प्रष्टव्यस्त्वं कुतः पुनः ॥४४॥
अहं वैदेशिकः स्वामिन् ! प्रदेशमिममागमम् ।
गन्ता चम्पापुरी पृथ्वीसमालोकनकौतुकी ॥ ४५ ॥
स्वामिन् ! प्रसादमाधाय दर्शयादर्शशुद्धधीः ।
चम्पायाः पदवी साधुः प्रार्थनाविएखो नहि ॥ ४६ ।।
अर्पिर्दर्शयामास चम्पामार्ग तपोवनात् ।
तस्यां पुरि समायातो वसुभूतिनृपात्मजः ॥ १७ ॥
विलोक्य नगरी सर्वा कन्यान्तःपुरसन्निधौ ।
निविष्टः कामदेवस्य प्रासादे तुङ्गजालके ॥ १८ ॥

।
प्रथमः सर्गः।
१३
सन्ध्यायां वलभौ पद्मलोचना निहितासना।
विलोकते स्म रत्नेन्दं द्वितीयेन्दुमिवोदितम् ।। ४९ ।।
चन्द्राश्मप्रतिमेवास्य सुधांशोरिव दर्शनात् ।
सिस्विदे सर्वतः पद्मा निश्छद्मप्रेममन्दिरम् ॥ ५० ॥
आलस्यचञ्चलैलज्जानिर्जितनयनोत्पलैः।
पपा पद्मा मुहुः प्रेमरसं नालैरिवोच्चकैः ॥५१॥
कोऽयं किं नाम कौतस्त्य इति प्रष्टे सखीजनैः ।
साऽङ्गुष्ठेन विनम्रास्या विलिलेख महीतलम् ।। ५२ ॥
इगिताकारतत्त्वज्ञो ज्ञातवांस्तत्सखीजनः।
नूनं रनकुमारोऽसौ स्वामिनीजीवितमदः ॥ ५३ ।।
ततः सखीजनाद् ज्ञातवृत्तान्तः क्षितिनायकः।
रत्नं महात्सवः सौधमानिन्ये काममूर्तिवत् ।। ५४ ॥
शुभे मुहर्ने दैवज्ञजनेन विनिवेदिते ।
सार्क रत्नेन्दुना राजा पर्यणाययदङ्गजाम् ॥ ५५ ।।
अतिष्ठद्रत्नचन्द्रोऽथ मासमेकं तदालये।
अपि विज्ञपयामास श्वशुरं शिष्यवद् गुरुम् ।। ५६॥
कलावानपि संपूर्णतेजा अपि पिता मम ।
लभते मद्वियोगेऽपि कृष्णपक्षादिव क्षयम् ॥ ५७ ॥
अतस्तत्राशु गन्तास्मि परं तव निदेशतः ।
संभावयामि पितरौ चिरं विरहदुःखितौ ॥ ५८ ॥
महत्याऽथ विभूत्याऽसौ साकं राजीवनेत्रया।
रत्नेन्दु प्रेषयामास शङ्खश्चन्द्रपुरं प्रति ।। ५९॥
समायान्तं सुतं श्रुत्वा वसुभूतिः क्षितीश्वरः ।
प्रसादधवलेनॆत्रकमलैरर्घमादधौ ॥६॥
देवताभिर्दत्तमिव पुनर्जातमिवात्मजम् ।
आलिलिङ्ग महीपालश्चिरान्मिालतमित्रवत् ॥ ६१ ॥

१४ मल्लिनाथमहाकाव्ये- आ वाजिहरणाच्छुत्वा वृत्तान्तं तनयोद्भवम् । युगपच्छोकहाभ्यामभ्यपूर्यत भूपतिः ।। ६२ ।। कियत्यथ गते काले परलोकं प्रपित्सुना। राज्ये भूपतिना न्यस्तो रत्नचन्द्रः शुभे दिने ।। ६३ ।। असौ ररक्ष भूपीठमखिलं ग्रामलीलया । अरिषदकं निजग्राह दुर्ग्रहं शास्त्रसम्पदा ।। ६४ ॥ अन्येद्यवि निशाशेषे सुखसुप्तं क्षितीश्वरम् । सर्पः सदर्पो निद्राणं वामपाणी ददंश तम् ।। ६५ ।। आहूता यान्त्रिकास्तेषामुपचारपरम्परा । अजायत वृथा सर्वा दुर्जनोपकृतियथा ।। ६६ ।। अथ विज्ञाय पञ्चत्वं प्रस्थितं पद्मलोचना । विललापति विरसर्विषदिग्धैरिवाक्षरैः ।।६७।। एतत्तदेव हृदयं विशालं व्योमपीठवत् । यत्र ज्योत्स्नेव रेमेऽहं शारदीनहिमद्युतेः ॥ ६८ ॥ हे नाथनाथ ! विस्मेरप्रसूनैस्त्वां विनाऽपरः। कः करिष्यति मे कौँ कत्तिसविभूषणौ ॥६९॥ अनङ्गलीलालुलितानलकानतिचञ्चलान् । कः कर्त्ता स्थानविन्यस्तसुभगानिधने तव ॥ ७० ॥ विपमायुधसन्तापतप्ते मम शरीरके । कः कर्ता चन्दनरसैः शीतशीतैर्विलेपनम् ? ॥ ७१ ॥ को विधास्यति मे नाथ ! पत्रवल्ली कपोलयोः । सिक्तां प्रेमरसः काम कामारामिकलालिताम् ॥७२॥ विलप्यैवं प्रिया राज्ञः प्रकृतीः प्रत्यकृत्रिमम् । योजयित्वा करद्वन्द्वं वभापे सात्त्विकं वचः ॥७३॥ प्राणनाथपथं भद्राः! याताऽहं विरहासहा । यानपात्रमिवाहाय सज्जीकुरुत पावकम् ।। ७४ ।।

प्रथमः सर्गः। १५ अथ प्रकृतयः प्रोचुर्मा वादीः स्वामिनोदृशम् । अनाथाः प्रकृतीः कृत्वा गन्तासि स्वामिवत् कथम्? ॥७५।। प्रत्युवाच वचो धीरं सात्त्विकं पद्मलोचना । अम्भोधरं वरं सुत्का किं खेलन्ति तडिल्लताः १ ॥७६।। अथ वाञ्छाधिकं दानं ददाना पद्मलोचना । सशोकपोग्लोकेन वार्यमाणा पदे पदे ॥ ७७ ॥ कारागारचरान् वैरिवारान् धृतशुक्रानिव । मोचयन्ती सतीभ्यः स्वं कथयन्ती विशेषतः ॥ ७८ ॥ अमावास्यामयमिव कुर्वाणा निखिलं पुरम् । पितृवेश्मन्यगादेवी पितृवेश्मेव संमुदा ॥ ७९ ॥ चितायां तल्पकल्पायां दक्षिणाशापतेरथ । चन्दनैधांसि भूयांसि तत्र युक्तानि चिक्षिपुः ॥८॥ पयःपूणाञ्जलिं वद्ध्वा प्रज्वलन्तं हविर्भुजम् । त्रिश्च प्रदक्षिणीचक्रे तत् क्षणं दाक्षिणार्चिषम् ॥ ८१ ॥ इतश्च- दिव्यरूपधरः कोऽपि दीप्यमानरतनुश्रुता । अवाततार नभसा रभसा विजितानिलः ॥ ८२ ॥ मा पद्मलोचने ! देवि ! कुरु साहसमद्भुतम् । जीवयिष्यामि ते नार्थ केयं विषविभीषिका ? ॥८३ ॥ श्रुत्वेति देवी दध्यौ कः पूरयत्यमृतः श्रुती ? । यद्वा सत्त्वपरीक्षायै प्रतारयति कोऽपि माम् ॥ ८४ ॥ इत्यस्यां ध्यातवत्यां द्रागपि नेत्रनिरीक्षणात । स भूपं निर्विषीचके तोत्तलेव महेश्वरम् ॥ ८५ ॥ ध्वस्ताशेषविपो राजा विकसल्लोचनद्वयः । मृत्यवे कृतनेपथ्यामपश्यत् पद्मलोचनाम् ।। ८६ ॥ पुरस्तादूर्द्धमं दिव्यं दिव्यरूपधरं नरम् ।

१६ मल्लिनाथमहाकाव्ये- दृष्ट्वा जजल्प भूपालः के यूयं कुत्र वासिनः ॥ ८७ ॥ अथ व्याहृतवानेष रत्नेन्दो ! वेत्सि किं न माम् ? | सोऽहं गन्धारनामास्मि मिलितस्तव यो वने ।।८८|| त्वत्तः माप्तनमस्कारादभूवं लान्तके सुरः । इदानीमवधिज्ञानादागतस्ते विषोद्धृतौ ।। ८९ ॥ नेदं तवोपकारस्य प्रत्युपकारकारणम् । किन्त्वेतल्लवणोदन्वल्लवणप्राभृतोपमम् ॥ ९ ॥ अन्यस्मिन्नपि विधुरे स्मर्तव्योऽहं पदातिवत् । इत्युदित्वा सुधाभोजी पुनस्त्रिदिवमासदत् ।। ९१ बन्दिन्देषु सानन्दं पठत्सु विरुदावली । आजगाम नृपः सौधं विमानमिव नाकसत् ।। ९२ ॥ ततः प्रभृति पद्मायाः प्रेमभिर्भूपतर्मनः । अरञ्जि कम्वल इव लाक्षारगैर्विकस्वरैः ॥ ९३ ॥ एवंरूपकथोपेतः सोऽहमस्मि सुधीर्वलः । यन्मे संसारवैराग्यं तत् सर्व कथयिष्यते ॥ ९४ ।। तथाऽन्येयुर्घसन्नाथ इव दन्तीन्द्रपृष्ठगः । चतुरङ्गचमूयुक्तः क्रीडार्थमचलं पथि ॥ ९५ ॥ विस्मेरमञ्जरीपुञ्जम गुञ्जन्मधुव्रतैः । पथिकान् परिपृच्छन्तमिव स्वागतमागतान् ॥ ९६ ॥ चतुर्दिगन्तशाखोपशाखाशतसमाकुलम् । सेवितं पाक्षिसड्वातैः सहकारमथैक्षिपि ॥९७१ (युग्मम) वीक्षमाणस्य तल्लक्ष्मी नेत्रव्यापार एव मे । वृत्तिः शेपेन्द्रियाणां तु सकलापि तिरस्कृता ॥९८॥ अथागम महोद्यानं मधुना कृतसन्निधि । यस्मिन् पिकीरवैर्मन्द्रवोध्यते मकरध्वजः ॥ ९९ ॥ लोलप्रवालकलिता यस्मिन् किंकिल्लिवल्लयः।

प्रथमः सर्गः। १७ इभ्यागना इवाभान्ति पिकीरवविभूपणाः ।। २०० ॥ श्रूयते चर्चरी यत्र पञ्चमोद्गारहारिणी। शृङ्गारनीरधेः प्रेसवेलेव तटगामिनी ॥ १ ॥ मेखलाकलिता काचित्कटकावलिमालिनी । ललना खेलति प्रेहासुभगा गिरिभूरिव ।। २ ॥ तस्मिन्नुपदने क्रीडामकार्प मेयसीवृतः । रागसागरमध्यस्थः पुष्पकेतुवशंवदः ॥ ३ ॥ तस्मात्मतिनिवृत्तोऽहमथ तेनैव वर्मना । तमेव चूतमद्राक्षमन्यादृक्षमिव जन् ॥ ४ ॥ कोऽयं वृक्ष इति भ्रान्तं तस्मिन्मम मनश्चिरम् । क्षणाद्विमुक्तनेपथ्यनटरूप इवाधिकम् ॥ ५ ॥ ममाभिमायविज्ञानादभ्यधात् सचिवोत्तमः । राजन् ! स एप चूतोऽयं यः पुरा ददृशे त्वया ॥६॥ परं दवाग्निचारेण नरः कुष्ठरुजा यथा । अस्तोककालतः स्वामिन्नन्यादृक्ष इवाजनि ॥७॥ श्रुत्वेदं मन्त्रिणो वाक्यं सद्गुरोरिव भावतः । अचिन्तयमई तत्त्वं वैराग्यद्रुमदोहदम् ॥ ८ ॥ मन्ये यथाऽसौ माकन्दोऽन्यादृक्षोऽजायत क्षणात् । विनश्वरी तथान्याऽपि दृष्टनष्टा भवस्थितिः ॥ ९ ॥ पुत्रमित्रकलत्रेषु याऽऽत्मीयमिति वासना । पित्तोद्रेकवतः सेयं शङ्खादिपु सुवर्णधीः॥१०॥ न दुःखैः खिद्यते प्राणी न सुखैरपि तुष्यति । तस्मान्मुमुक्षुभिः किं न भूयते द्वन्द्वहारिभिः ? ॥११॥ य एव रूपान्नारीणां कन्दर्प तनुतेतराम् । स एव वार्द्धके प्राप्ते कंदर्प संविधास्यति । १२ ॥ य एव मन्द्रनादेन भारतीवल्लकीयते । स एव श्लेष्मणा हन्त ! भाषमाणोऽरघट्टति ॥ १३॥ ३ १८ मल्लिनाथमहाकाव्ये- यैरेव श्यामलैः स्निग्धैः केशपाशैः प्रशस्यते । तैरेव तूलपूलपस्पर्दिभिः परिभूयते ॥ १४ ॥ य एव सुरभिद्रव्यैश्चलत्कर्पूरवृक्षति । स एव कुष्ठसम्भूतवणगन्धैः शवायते ॥ १५ ॥ इत्थं विमृशतो मेऽभूद्वैराग्यं तत्तथा तदा । येन प्रत्येकवुद्धोऽहमभवं कर्मलाघवात् ।। १६ ।। विहरन् वसुधापीठं प्रतिबोधविधित्सया । अत्रागां तव वोधार्थमथोचे बलभूपतिः ॥ १७ ।। स्वामिन् ! वश्चरितं श्रुत्वा व्यावृत्तो भववासतः। परं क्रमागतां क्षोणी न क्षमस्त्यक्तुमञ्जसा ।। १८ ।। तथापि येन धर्मेण सुकरेण मुनीश्वर ! पवित्रः स्यां नृपत्वेऽपि तं धर्म मह्यमादिश ।। १९ ।। अथाचार्योक्तसुश्राद्धव्रतानि क्षितिनायकः । प्रपद्य मेने स्वं जन्म कृतकृत्य निधीनिव ॥ २० ॥ इतश्चैत्य नभोमार्गात् कश्चिद्विद्याधरो नरः। त्रिश्च प्रदक्षिणीकृत्य मुनीन्द्रं स्म नमस्यति ॥ २१ ॥ तीर्थयात्रिक ! विद्याभृत् ! प्रष्टव्योऽसि, कुतोऽधुना । इत्युक्ते सुरिणाऽवादीदसौ विनयमेदुरः ॥ २२ ॥ नगर्या पुण्डरीकियां नत्वा पूज्यपदद्वयीम् । व्रतं प्रपित्सुतान्यमेरुनन्दीश्वरादिषु ॥ २३ ॥ तीर्थानि बन्दमानोऽहं कृत्रिमाकृविमाण्यपि । दक्षिणे भारतस्याद्देऽयोध्यायां पुर्यगांप्रभो! ॥२४॥(युग्मम्) तत्र शक्रावताराख्यं तीर्थ दृष्टं मनोहरम् । हरिश्चन्द्रनरेन्द्रेण सम्पत्येव समुवृतम् ॥ २५ ॥ एकं वाग्महातीर्थ हरिश्चन्द्रोदृतं परम् । एकं सुवर्णमपरं परं परिमलाकुलम् ॥ २६ ॥ -- -

प्रथमः सर्गः।
१९
,
तत्रास्थां तीर्थसेवायै कुर्वाणोऽष्टाहिकोत्सवम् ।
इदानी प्रभुपादान्ते पवित्र जिपुरागतः ।। २७ ।।
अथोवाच बलो राजा किमिदं तीर्थमुत्तमम् ।
कोऽयं राजा हरिश्चन्द्रः स्वामिन्निति निगद्यताम्॥२८॥
महीश !जम्बूद्वीपेऽस्मिन् क्षेत्रे दक्षिणभारते ।
अभूत्कुलकरो नाभिराभिमुख्यमिव श्रियाम् ॥२९।।
मरुदेवा प्रिया तस्य स्वच्छा शान्ता पतिव्रता ।
तयोरात्मभवः श्रीमान् भगवानृषभध्वजः ॥ ३० ॥
तदर्थ पुरुहूतेन कृताऽयोध्या महापुरी ।
द्वादशयोजनायामा नवयोजनविस्तृता ॥ ३१ ॥
तत्र शक्रावताराख्यं यथार्थं तीर्थमुत्तमम् ।
युगादिदेवप्रतिमाभासुरं सम्पदा पदम् ॥ ३१ ॥
हरिश्चन्द्रो नृपस्तत्र नाभेयान्वयभूषणम् ।
नलिनं नीतिभृङ्गीणां कामकुम्भः सदार्थिनाम् ॥३२॥
सुतारा प्रेयसी तस्य च्छायेव तुहिनश्रुतेः ।
वसुभूतिरमात्योऽस्य नयवल्लीघनाघनः ।। ३३ ।।
अन्यधुर्यामिनीशेषे सुखसुप्तः क्षितीश्वरः।
इमं शुश्राव सत्त्वाम्बुजलधि श्लोकमीदृशम् ॥३४॥
धीरैर्वीरैः समर्यादैः सत्त्वं रक्ष्यं विवेकिभिः ।
समापने निजप्राणसंशये सुमहत्यपि ॥ ३५ ॥
इति श्रुत्वा पठन्नेवं निद्रां तत्याज़ भूपतिः ।
अस्मरद्विस्मयोल्लासात्पौनःपुन्येन मन्त्रवत् ॥ ३६॥
इतश्च तापसः कोऽपि सभीकोरिगृहीतवत् ।
समागादित्युवाचोच्चैर्वाचा सग्रहकण्ठया ॥ ३७॥
त्वयि शासति भूनाथ ! मेदिनीमन्यदेहिनाम् ।
न भयं वास्तवं किञ्चिद् दृश्यते शशशृङ्गवत् ॥ ३८ ॥

२०
मल्लिनाथमहाकाव्ये-
अकस्मात्परमस्माकं ज्ञानध्यानवतां भयम् ।
संवृत्तं येन निर्माथा इव स्मः क्षितिनायक ! ॥ ३९ ॥
कुतोऽप्यभ्येत्य भीमास्यः कोलः काल इवापरः ।
वभञ्जास्मद्रुमान्पुत्रानिव संवर्द्धितान् स्वयम् ॥ ४० ॥
चकर्त च लताः क्रोधात् मूर्ती अस्मत्क्रिया इच ।
यज्ञानिव कुशावासानालवालान्ममर्द च ।। ४१ ॥
आश्रमाणां पुराणां च त्राता येन त्वमेव भोः ।
इति तस्मिन्वदत्येव राजोचे धीरया गिरा ॥ ४२ ॥
एष हन्मि दुरात्मानं कोडं कुल्यं विरोधिवत् ।
एवं प्रत्यशृणोद्धीरो मुनिश्वाथ तिरोदधे ॥ ४३ ॥
अथ प्रातः स कृत्यानि कृत्वा सेनापरीतः ।
मनोजवमिवारुह्य वाजिनं निर्ययौ ततः ॥ ४४ ॥
क्वचित्पान्थैः कृतस्नानां कचित् यूपैश्च दन्तुराम् ।
कचित्सन्ध्याविधिव्यग्रद्विजलोकसमाकुलाम् ॥ ४५ ॥
कल्लोलक्रीडगान् इंसान् क्रीडयन्ती सुतानिव ।
वीक्षांचक्रे क्षमाधीशः सरयूं सरिदुत्तमाम् ॥४६।। (युग्मम्)
राजा पप्रच्छ पार्श्वस्थौ कपिञ्जलकपिङ्गलौ ।
कक्रोडा पोचतुस्तौ तु स्वामिन्नेष पुरस्थितः ॥ ४७ ॥
स क्रोडस्तद्वचः श्रुत्वा शौर्यचर्यातरङ्गितः।
संमुखीनोऽभवत्तस्य वादीव प्रतिवादिनः ।। ४८ ॥
अथ राजा धनुः सज्जं कृत्वा शौर्यमिवात्मनः।
टवारैः : पूरयन् व्योम पातयामास तं भुवि ॥४९॥
यावदेति नृपस्तत्र तं स्वयं हतमीक्षितुम् ।
तावदक्षत भूमिष्ठां लुठद्गी हतां मृगीम् ॥ ५० ॥
विपण्णमानसः स्माह हरिश्चन्द्रः कृपापरः।
धिम् पिग्मां हरिणीभ्रूणघातपातकलङ्कितम् ॥ ५१ ॥

प्रथमः सर्गः
२१
दुर्भगोऽपि दरिद्रोऽपि सदाधिव्याधिमानपि ।
पराश्रयाभिभूतोऽपि प्राणी प्राणितुमिच्छति ॥ ५२ ॥
इयतः कल्मषाच्छुद्धिः कथं मम भविष्यति ।
विना मुनीन् शमध्यानतत्परान् भवतारकान् ॥ ५३ ।।
विमृश्यति दयानिघ्नो विरक्तः पापवर्त्मनः ।
प्राविक्षदाश्रमं पद्भयां सखिभ्यांसह भूपतिः ।। ५४||
ततः कुलपतिं दृष्ट्वा ननाम जगतीपतिः।
न्यधात्पृष्ठे करकोडमुच्चरन्नाशिषं स च ।। ५५ ॥
हर्षालवालकलितः फलितः सुकृतद्रुमः ।
यौष्माकं दर्शनं यन्मे जातमित्यूचिवान्नृपः ।। ५६ ।।
मुनिः प्राह महीपाल ! वयमद्य जगत्यपि ।
धन्या येन भवान् दृष्टः पञ्चमो लोकपालकः।। ५७ ।।
अस्मिन्नवसरे तत्र बहुलस्तुमुलोऽभवत् ।
अब्रह्मण्यमब्रह्मण्यमिति ध्वानभयङ्करः ॥ ५८ ॥
उत्कौँ मुनिभूमीन्द्रौ सिंहनस्तद्विपाविव ।
नातावगण्यकारुण्यरससंसिक्तमानसौ ॥ ५९ ॥
ततस्तारतरं सास्रं रुदतीं सुदतीं भृशम् ।
सुवत्सां वश्चनां स्नेहादनुयान्तीं शनैः शनैः॥ ६ ॥
रक्ष रक्षाश्रमगुरो ! निर्नाथामिव मामिति ।
जल्पन्तीं निकृति भार्यामपश्यत्स्वां तपोधनः॥६१॥ (युग्मम्)
ऋषिः पुत्री निरीक्ष्योचे कथं रोदिषि वालिके! ।
साध्वोचत्तात ! केनापि सखी मम मृगी हता॥६२॥
सासं कुलपतिः माह या किलासीत् प्रजावती ।
एक मृगीवधोऽन्यच्च भ्रूणहत्या वचोतिगा ॥ ६३ ॥
कोपाक्रान्तः पुनः प्राह हृदयस्फोटकृचः ।
अरे रे ! तेन दुष्टेन कृतोऽस्माकं कुलक्षयः ॥ ६४ ॥

२२ मल्लिनाथमहाकाव्ये- यतः-विनेमा हरिणीं वालवयस्यामिव मत्सुता। विमन यति पञ्चान्मे नूनं पन्नी विपत्स्यते ॥ ६५ ॥ बिना प्राणपियामेनां कुतो मे स्यात्तपोविधिः । विना तपोविधि क्व स्याद् ब्राह्मण्यमनघं मम? ॥६६॥ अहो ! अन्याय ईदृक्षः भमिणामपि दुःसहः । यन्मृगी मृगयाऽन्धेन हता केनापि पापिना ? ॥६७|| एवं विषादमापन्नोऽवादीत कुलपतिस्ततः । ज्ञात्वा कृतोऽपि भूपाल ! ससाध्यः पित्वैरिवत् ॥६८॥ इतोऽभ्यधान् मुनेः पुत्री सासू जनक ! सत्वरम् । प्रगुणीकुरु मचोग्यां चितां वह्निसमाचिताम् ।। ६९ ।। किं न वसि मृगोमेनां विना में जीवितं कुतः ? | पश्चादपि हि यत् कृत्वं तत् पूर्व किं न तन्यते ।।७०॥ अथ सास्रं तृपः प्रोचे दुष्कृत्यन्यञ्चदाननः । शिक्षा कर्तास्मि सर्वेषां नात्मनो निन्धकर्मणः ॥७॥ तच्छुत्वा स मुनिः स्मात् यथार्थः भत्रियो भवान् । सत्याययं त्वया चक्रे नितरां प्राकृतश्रुतिः ॥ ७२ ।। निर्मिता गस्यरक्षायें वृत्तिः भत्रे कृपीवलैः। सा चेटत्तितरां गस्यं कस्य पूचकुर्महे पुरः ।। ७३ ॥ प्रणिपत्य मुनेः पादौ राजावादीन्नयान्वितम् । क्षमखेदं ममागस्त्वं क्षमाघरगिरोमणे ! ॥ ७४ ।। Qत्वेत्याख्यत् कुलपतिर्ममापसर दृक्पयात् । आः पाप : कोल्टेरोसिरे अत्रियपांगन ! ॥७५|| ययागारमुखोवाढीमा त्पा बढतांवर!। नवापमानमुर्वीगः सोई परिवृस्तव ॥ ७६ ।। (१) सहस्त्र मन्तुमकं मे सन्तो यन्नतवत्सलाः इत्यपि । (२) मुनिः पराङ्मुखीभूव चुक्रोश क्षिनिनायकम् इत्यपि ।

प्रथमः सर्गः
२३
धैर्य भज महाराज ! प्रतीकारोऽस्ति पाप्मनः ।
मलिनस्यापि वस्त्रस्य शोधकं वारि किं नहि ।। ७७॥
शुद्धिर्जायत एवास्य पापस्यापि प्रथीयसः !
ददासि राज्यं यद्यस्मै दानं हन्ति हि दुर्नयम् ॥७८॥
सोल्लासमिव राज्ञोचे प्रसन्नोऽस्म्युपदेशतः ।
भवानङ्गारवक्त्रोऽपि सुधावकत्रो ममाभवत् ॥ ७९ ।।
सकोशग्रामनगरा भूरियं वार्धिमेखला ।
तुभ्यं दत्ता तत्प्रसीदेत्युत्वा भूपोऽनमन्मुनिम् ।। ८० ॥
पणत्याहारवक्त्रोऽपि तमवादीत् कृताञ्जलिः ।
अयं यदाभधत्ते राट् प्रतिपद्यस्व तत्तथा ।। ८१ ॥
एवमस्त्विति भापित्वा स साक्षेपमदोऽवदत् ।
अद्यप्रभृति धात्रीयं धात्रीव ध्यायतां त्वया ।। ८२॥
अथाभ्यधाद् धराधीशो धरा दत्तैव तेऽधुना ।
प्रतिभूरत्र कौटिल्यो भूमिदाने विचिन्तय ॥ ८३ ॥
अथ विज्ञपयामास कोऽपि शिष्यो महामुनिम् ।
न तपो न जपस्तावद्यावदस्ति मृता मृगी ॥ ८४ ॥
सखेदं सोऽप्यभाषिष्ट कारयानलसंस्कृतिम् ।
वञ्चनोचे मया साकमेतस्याः सा भविष्यति ॥ ८५।।
उवाच विनयाद्राजा वश्चने ! दुर्नयं मम ।
सहस्बैकं महाभागे ! सार्दाऽसि नतदहिषु ॥ ८६ ॥
अहं तुभ्यं प्रदास्यामि स्वर्णलक्षं सुलक्षणे ।
आमेत्युवाच सा यद्वा किं न स्याद्दानकर्मणा ? ॥८७॥
महर्षिः प्राह मे याहि पुरी लक्ष्मीविकस्वराम् ।
सन्ध्याकृत्यं विधायाशु पश्यते वयमागताः।। ८८ ।।
एवमाकर्ण्य निर्वर्ण्य तं मुनि क्षितिनायकः ।
ततो राजन्यमूर्धन्योऽयोध्यां प्राप निजां पुरीम् ॥८९॥

२४ मल्लिनाथमहाकान्ये- आत्मानं निर्वसुं ज्ञात्वा यात्यस्तं तेजसां पतिः । तपस्विपाण्डुरच्छायाः प्रसञस्तारका अमी ।। ९० ।। इति वैतालिकीमुक्तिं भावयन् भवितव्यताम् । जगामधाम भूमीशो धाम्नां निधिरिवाम्बुधिम् ।।९१॥ राजामित्रद्वयात् ज्ञातवृत्तान्तः सचिवाग्रणीः । इतसर्वस्ववच्छ्न्यो वसुभूतिरचिन्तयत् ।। ९२ ।। अनेन दम्भिना भूपो दम्भितो गर्भरूपवत् । अविचारितकर्त्तारो विमुह्यन्ति पदे पदे ॥ ९३ ॥ विधेर्विलसितं हन्त ! विचाराणामगोचरे । सुघट यो विधटयेदघट घटयदपि ।। ९४ ॥ विमृश्यैवं महामात्यः सशल्य इव दुःखितः। विलासमण्डपासानं राजानं प्राणमत्तदा ।। ९५ ।। नत्वोपविष्टः सचिवस्तद् वृत्तं वक्तुमुद्यतम् । देव ! सर्व मयाऽज्ञायि मा वादीरित्यवारयत् ।। ९६ ॥ हरिश्चन्द्रस्ततः प्राह सधीरं नीरदध्वनिः । मा विषाद विदग्धोऽसि सत्त्वं यन्मानिनां धनम् ।।९७॥ सत्त्वमेकामिदं मा गात् सर्वमन्यद्भविष्यति । सति कन्दे न सन्देहो वल्याः पल्लवसम्पदाम् ॥९८|| कण्ठपीठी कुठारेण वाध्यतामस्तु वन्धनम् । न तु जातु प्रतिशातमर्थमुज्झन्ति सात्त्विकाः ॥ ९९ ।। इति राजवचः श्रुत्वा वसुभूतिर्धियां निधिः । हृदये चिन्तयांचक्रे सत्त्वमत्र विजृम्भते ।। ३०० ।। सविनेयो मुनिः सोऽथ समागात्कृतशब्दवत् । अयाचत महीपालं स्वर्णलक्षमलक्ष्यधीः ॥ १ ॥ भाण्डागारिकमादिश्य कोशतः क्रोशतो मुनेः। भानाययत् क्षणादक्षः स्वर्णलक्षं क्षितीश्वरः ।। २ ।। - , प्रथमः सर्गः । २५ मुनिरूचे तत' कोपभृकुटीभाभीपणः । चिकीपुरनृणं खं मद्वित्तेनापि विवेक्यास? ॥३॥ व्रजामो वयमन्यत्र दृष्टं सत्त्वं तवाधुना । वावदकाश्च वीक्ष्यन्ते निःशूकाश्च गृहे गृहे ॥ ४ ॥ अयोवाच महीभर्त्ता विलम्बध्वं गुणानघाः!। यावदप्यन्यतः स्वर्णमानयामि कलान्तरैः ॥ ५ ॥ वणिजो भूभुजामीशः समाकार्य समादिशत् । ददत स्वर्णलक्षं मे दास्येऽहं वृद्धिसंयुतम् ।। ६ ।। मुनिना दिव्यशक्त्या ते हरिश्चन्द्रे खिलीकृताः। तत्यजुस्ते तदादेशं नतमस्तककैतवात् ।। ७ ।। विलोक्य मापतिर्दध्यौ किं करोमि प्रयामि कम्? । आनयेऽहं कथं स्वर्ण मरुदेशे यथा जलम् ? ॥ ८ ॥ ततः कुलपतिः कोपकम्पमानाधरोऽवदत् । पाप्मन् ! कियन्तमद्यापि विलम्ब मे विधास्यसि ।।९।। वमुभूतिस्ततः प्राह महर्षे ! हर्षवर्षक! । हरिश्चन्द्रममः कापि दृष्टः किं सात्त्विकाग्रणीः१ ११० अथागारमुखोऽवादीत्सोपहासममुं प्रति । दृष्टस्त्वत्तो न वाचालो हरिश्चन्द्राच वश्चकः ॥ ११ ॥ अरे रे! कर्मचाण्डाल! किमभिाषितेस्तव । रुष्टो हि रूपकात् पादवन्दनः किमु तुष्याते॥ १२॥ अदत्तेऽस्मिन् दुराचार ! किमु वाञ्छसि जीवितम् ? । तव श्लोकस्य लोकस्य क्षय एष उपागतः ।। १३ ।। अथावादीन्नृपः साधो ! कुतस्त्वत्तः कुलक्षयः । नाहे पीयूषपानेन मृत्युः कस्यापि जायते ॥ १४ ।। जघान पाणिना भूप मुनी राजा ननाम तम् । कोपिनां क्षमिणामाचं संजातो तो निदर्शनम् ॥ १५ ॥ ४

२६
मल्लिनाथमहाकाव्ये-
ऊचेऽङ्गारमुखः कोपादिप्लावयसि किं मुनिम् ।
नाय हास्यपदे मूढ ! पत्नीभ्रातेव ते गुरुः ॥ १६ ॥
इत्याकर्ण्य वचः कर्णद्वयतप्तत्रपुप्रभम् ।
वसुभूतिरुवायेदं मा वादीरिति राजनि ।। १७ ।।
राजस्त्वमेकमेवैनं वाचालं वारयाऽन्यथा ।
एतस्य प्रकटं शिक्षा कर्त्तास्मीत्यवदन्मुनिः ॥ १८ ॥
कुन्तलो वसुभूतिश्च मोचतुवपि स्फुटम् ।
यावद्ददाति ते स्वर्ण तावदावां गृहाण भोः ।। १९ ।।
अरे ! जीर्णविरालाभ्यां भवद्भयां किं प्रयोजनम् ।
इत्युक्तवति सत्यस्मिन् राजा कुन्तलमादिशत् ।। २० ।।
सहितां रोहिताश्वेन देवीमाकारय द्रुतम् ।
विक्रयाय सवत्सां गामिवावक्रयवमनि ॥ २१ ॥
प्रतिपद्येदृशं दुःखी कुन्तलः श्लथकुन्तलः ।
तामादाय समायातः सपुत्रां नृपपर्षदि ॥ २२ ॥
मुनिमानम्य राजाऽऽह गृहाणाभरणादिकम् ।
तपस्व्युवाच ते केयं दक्षता दानकर्मणि ? ॥ २३ ॥
नेपथ्यं मामकीनं यन्ममैव तद्वितीर्यते ।
स्वसुः पुष्पाणि वध्यन्ते स्वसुरेव हि सत्यगीः ! ॥२४॥
अथागारमुखोऽवादीत् स्वामिन्निमां न वेत्सि किम् ।
कपटाम्भोधिचन्द्रस्य हरिश्चन्द्रस्य वल्लभाम् ॥ २५ ॥
अथोचे कुन्तलः कोपाढावद्धभृकुटीत्रयः ।
अरे! पतिव्रतां कान्तां वेत्सि नो सत्त्वशालिनः ॥२६॥
मुनिवेषधरा यूयं प्रत्यक्षा राक्षसा इव ।
मधमत्ता इवोन्मत्ता वाचाला वासका इव ॥ २७ ॥
ततः कुलपतिः कोपात्कमण्डलुजलेन तम् ।
आच्छोट्य कुन्तलं चक्र जम्बुकं क्षणमात्रतः ॥ २८ ॥

प्रथमः सर्गः ।
२७
कुन्तलो जम्बुको भूत्वा शब्दं कुर्वन् बहिर्ययो ।
कोपं महर्षे! मा कार्षानत्वेदमवदन्नृपः ॥ २९ ॥
मुनिना विहितं दूरे पादेनाहन्यं भूपतिम् ।
विलोक्य रोहिताश्चोऽथ रुरोद करुणस्वरैः ॥ ३०॥
मां गृहाण मुने! तातं मा मा ताडय निर्दयम् ।
झते श्रुत्वा शिशोर्वाक्यमृषिस्तुष्टो मनस्यभूत् ॥ ३१ ॥
क्रोधोत्तालं मुनिः प्राह सुतारां प्रति निघृणः ।
रे! त्वया शिक्षितो बालो जानाति कथमीदृशम् ॥३२॥
हरिश्चन्द्रोऽभ्यधादित्थं महर्षे । ब्रह्मसेवधे।।
मासमेकं प्रतीक्षस्व तुभ्यं दास्यामि काञ्चनम् ॥ ३३ ॥
स मुनिः माह किं भिक्षां याचित्वाऽथ नृपोऽवदत् ।
ऐक्ष्वाकवोऽपि किं भिक्षा याचन्ते मानिनो ननु ? ॥३४॥
कुतस्तहाँति तेनोक्ते 'भूपः माह कृतस्मितः ।'
कृत्वा स्वं परदास्येऽपि तुभ्यं दास्ये यथोचितम् ॥३५॥
भवत्वेवं महीपाल ! मम मुञ्च वसुन्धराम् ।
नैक्ष्वाकवस्त्यजन्त्येव सन्धां प्राणक्षयादपि ।। ३६ ॥
विमृश्योचे नृपः सुभ्र ! गच्छान्तःपुरमञ्जसा ।
नायं सोढा 'शिशुर्मागखेदं मृदुशरीरकः ।। ३७ ॥
सावष्टम्भं सुतारोचे यद्भाव्यं तद्भविष्यति ।
आयास्यामि त्वया साकं छायेनातुहिनांशुना ॥ ३८ ॥
क यातासि सुतारे! त्वं मुनिना समुदीरितम् ? ।
सांऽभ्यधादार्यपुत्रेण गन्ता, पत्यनुगाः स्त्रियः ॥ ३९ ॥
ममाधीनां हरिश्चन्द्रश्चेम्नेष्यति तदद्भुतम् I. fr: ..
पारीन्द्रवक्त्रगामेणी किं गृहन्ति मदद्विपाः ॥ ४०॥
वसुभूविरुवाचेदं प्रज्वलन् क्रोधहिना ।
अरे! तापस! नो वेत्सि लोकमार्ग पुलिन्दवत् ॥४१॥

२८ मल्लिनाथमहाकाव्ये- परायताः कचिन्न स्युललनाः पतिदेवताः ! इतिस्मृतिस्मृतौ मुर्ख! कथं तापसपांशनः १ ॥ ४२ ॥ वसुभूतिस्ततस्तेन शपित्वा कीरकीकृतः । वचो हि बन्धनायैव निष्पस्तावमुदीरितम् । ४३ ।। रण्डे ! संत्यज नेपथ्यं याहीति मुनिनोदिते । सुतारा मुमुचे सद्यः किरीटादि शरीरतः ॥ ४४ ॥ मुनीन्द्राविधवामानचिह्न मे मुश्च किञ्चन । श्रुत्वेदं सपरीहासमवदनिष्ठुरो मुनिः ।। ४५ ।। चण्डि ! वैशिक एवास्ति दुर्भगाया विभूषणम् । सवाष्पं साततः सर्व नेपथ्यं तत्पुरोऽमुचत् ।। ४६ ।। ततः पुत्रकलत्राभ्यां धरित्रीधवपुङ्गवः । अरण्यान्या इव स्वस्या नगर्या निर्ययौ तदा ॥४७॥ अनुरागाल्लुठद्वाष्पमनुयान्तं पुरीजनम् । अभाषिष्टेति भूपालः प्रीतिपेशलया गिरा ॥ ४८ ॥ चिरं परिचयात् क्रोधादज्ञानाद्वा प्रलोभतः । राज्यश्रीप्रणयोन्मादादपराद्धा यतस्ततः ॥ ४९ ॥ तत्तत् क्षाम्यन्तु मे सर्वं यद्यदागो मया कृतम् । श्रुत्वेदमरुदन् पौरा मृतप्रियजना इव ॥ ५० ॥ स्मरन्तः स्वामिनः कामं गुणानेणाङ्कनिर्मलान् । नगरी नागरा जग्मुर्देहेन मनसा नहि ।। ५१ ।। किश्चिन्मार्गमतिकान्ता परिश्रान्ता सुलोचना । कियदद्यापि गन्तव्यमित्यपृच्छद् महीपतिम् ।। ५२ ।। उवाच क्ष्मापतिर्देवि ! किं ताम्यसि न पश्यसि । इमां वाराणसी श्रान्तनेत्रपान्थप्रपामभाम् ।। ५३ ।। वहन्ती नन्दनं देवि ! यदि खिन्नाऽसि दूरतः । अनुगडमिमं चारु चम्पकं ममाश्रय ॥ ५४ ।।

प्रथमः सर्गः। २९ . देव्या तथाकृते राजा स्वकरेण निजक्रमात् । दर्भाङ्कुरान्समाकर्पदयाकीलकसन्निभान् ।। ५५ ॥ कुर्वती पादरुधिरैरिन्द्रगोपाङ्कितां धगम् । मन्दमन्दरवा देवी न्यग्मुखी रोदिति स्म सा ॥५६॥ रोहिताश्व उवाचेदं यदा पद्भयां महीमहम् । अचलं तात! मे पादौ विद्धा दारुणकण्टकैः ॥ ५७ ॥ राजा सकरुणं प्राह कतरस्ते सुत! क्रमः । विद्धो यस्मादयःशल्यकल्पं कण्टकमाहरे ॥ ५८ ।। कण्टकं कण्टकेनैव तत्क्रमाभ्यां हरत्यसौ । अग्निरेवाग्निदग्धस्य भैषजं हि निशम्यते ॥ ५९ ॥ रोहिताश्वस्ततः प्राह तात ! तात ! क्षुधादितः । अथोचे पूर्ववद्राजा देहि पुत्राय मोदकम् ॥ ६० ॥ देवी सुतारा श्रुत्वेदमन्तहकरं वचः । किमिदं भाषसे स्वामिन् ! स्वप्नदृष्टसमं हहा? ॥ ६१ ॥ रोहिताश्वः पुनः प्रोचे मातरस्मि क्षुधादितः । तारस्वरं रुरोदासौ बलं नान्यद् मृगीदृशाम् ।। ६२ ।। सर्वलक्षणपूर्णस्य भरतान्वयजन्मिनः । अवस्था केयमायाता हन्त ! रोरशिशोरिव १ ।। ६३ ।। निदध्यौ भूपतिः सास्र केयं कालस्थितिर्मम । यदस्य गर्भरूपस्य कल्यवर्तेऽप्यशक्तिता ॥ ६४ ॥ आस्तां विनोदयाम्येनं विनोदैः कौतुकप्रियम् । पश्यैतां स्वर्धनी पुत्र ! कलहंससमाकुलाम् ॥ ६५ ॥ इति विप्लावयत्यस्मिन् रोहिताश्वं कुतूहलैः । अकस्मादाययौ कापि सपाथेया कुटुम्बिनी ।। ६६ ।। पृच्छन्ती नगरीमार्ग भूपमेषा व्यचारयत् । नृपलक्षणभाजोस्याऽवस्थेयं कथमीदृशी ? ॥ ६७ ॥ १ ३० मल्लिनाथमहाकाव्ये- कुतस्त्योऽसि कुतश्चागास्तयेति व्याहृते सति । अनाकर्येव तद्वाक्यं मौन्यभूभृमिनायकः ॥ ६८ ।। अयाचितं स्वपाथेयं वृद्धादात् नृपसूनवे । अयाचितं दीयते यत्तदानं श्रेयसे खलु ॥ ६९ ॥ गतवेदाऽसि चेदेवि ! तदोत्तिष्ठ पुरीं प्रति । अथाग्रे गौरिव पथा प्रवृत्ता सावदद् नृपम् ।। ७० ॥ राज्यलक्ष्मीपरिभ्रंशाल्लज्जते न किमु प्रियः । वैरिपुर्या कथमस्यामार्यपुत्रः प्रवेक्ष्यति ॥ ७१ ॥ सावष्टम्भं बभाषेऽथ का लज्जा सत्त्वशालिनाम् । आपदः सम्पदायन्ते प्रतिज्ञातार्यकारिणाम् ॥७२॥ प्रभवद् वार्यते केन कृतं कर्म शुभाशुभम् । तन्माहात्म्या६शाऽस्माकं यद्यषा किं परे द्विषः ॥७३।। प्रचचाल ततः मापः पुरीं वाराणसी प्रति । इतो देव्यवदद्देव ! समासन्नोऽवधिMनेः ॥ ७४ ।। मां विक्रीय गृहाणाशु काञ्चनं किञ्चनाधुना । अथ पुत्रोऽब्रवीत्तात! विक्रेयोऽहं नहि त्वया ।। ७५ ।। मातर्वारय तातं मे विक्रीणन्तं चतुष्पथे । रुदत्याह सुताराऽमु वत्स! भूपो भविष्यसि ॥७६॥ मा रोदीर्भद्र !मारोदीस्त्वां विक्रेता न कश्चन । मत्समीपे निषीदाशु तुभ्यं दास्यामे मोदकम् ।।७७॥ सा निदध्या हहा ! दैवं भवे भवशतानि मे । शैलूप इव रूपाणि प्रपञ्चयति नाटके ।। ७८ ।। विक्रेतुमथ रथ्यायां गतोऽसौ सपरिच्छदः । व्यसनं सत्त्वहेम्नो हि कपपट्टो निगद्यते ॥ ७९ ॥ चित्तेऽवधार्य भूमीशस्तृणान्याधाय मस्तके । पुत्रस्य स्वकलत्रस्य तस्थौ साश्रुविलोचनः ।। ८० ।।

मथमः सर्गः। ३१ फसा शिरसि कोटीरकोटी रविशतायिता। कार्य पूलकविन्यासो निर्णाशः सर्वसम्पदाम् ? ॥८१॥ ध्यात्वेति व्युत्सृजाम्येनां साङ्गजां शिविवेश्मानि । यद्भाव्यं भवतात्तन्मे ध्यात्वेदमवदन्नृपः ।। ८२ ।। याहि देवि ! पितुर्धाम समादाय स्तनन्धयम् । यथातथाऽप्यहं हेम दास्येऽवश्यं तपस्विने ।। ८३ ॥ साक्षेपमाचचक्षे सा न युक्तं भवतोदितम् । पतिकार्यविधायिन्यो निशम्यन्ते पतिव्रताः ।। ८४ ॥ इतश्च ब्राह्मणः कोऽपि भृतकक्रयकाम्यया । समया पृथवीनाधमागात् प्रतिजनं भ्रमन् ।। ८५ ॥ विलोक्य भूपमादाय मस्तकं शस्तलक्षणम् । ऊचे कस्त्वं कथं देहं भृतकीयसि रकवत् ? ।। ८६ ॥ कृतमौनं शुचा भूपं विलोक्य ब्राह्मणः स च । सुतारां तां लुलत्तारां स निनिन्द विधेविधिम् ।।८७|| सलक्षणं सुतं दृष्ट्वा तदाऽचिन्तयद् द्विजः । त्रीण्यमूनि न सामान्यान्यत्र विश्वत्रयेऽपि हि ।। ८८ ।। किमस्या मूल्यामित्युक्त ब्राह्मणेन मुहुर्मुहुः ।। मन्दगीरवदद्' भूमानुचितं यदस्व तत् ।। ८९ ।। अस्या मूल्ये सहस्राणि तुभ्यं पञ्च ददामि भोः ! । गदतीति द्विजे मौनी समजायत भूपतिः ।। ९० ॥ अनिषिद्धं मतं कार्यमिति ध्यात्वा नृपाश्चले तावद्धवन्ध गाङ्गेयमहो ! विधिविडम्बना ॥ ९१ ।। तां गामिवाग्रतः कृत्वा ब्राह्मणश्चलितः पथि : लग्नः सुतोऽश्चलेऽमुष्यास्तारतारस्वरं रुदन् ।। ९२ ॥ रुदन्तं तं सुतारोचे तिष्ठ त्वं पितुरन्तिके । आनेतुं मोदकान् इट्टे गच्छन्त्यस्मि गुणानव ॥९३ ।।

३२ मल्लिनाथमहाकाव्ये- अत्यजत्यश्चले तस्मिन् वोधितेऽपि सुतारया । किं किङ्कार ! विलम्बोऽयमित्यऋध्यत्तरां द्विजः ।।९४॥ यान्ती मुतारां स्नेहेन यावन्मुञ्चति नार्भकः । तावत्तेन पदाग्राभ्यां निहत्य भुवि पातितः ।। ९५ ॥ सासं विलोक्य भूपालो लुठन्तं भुवि नन्दनम् । मुमूर्छ लब्धसंज्ञोऽसौ चिन्तयामास चेतसि ॥ ९६ ॥ इन्द्रस्याप्यङ्कलाल्योऽयं रक्षितोऽप्यङ्गरक्षकैः । उपयाचितसंप्राप्तः कृतोत्तारणमङ्गलः ॥ ९७ ॥ अनेकदेवताशेषाशेखरोत्तममस्तकः । अयं विप्रेण पादेन पात्यते रङ्कवद्भुवि ॥९८॥ (युग्मम्) अयोवाच द्विजं राजा नायं तिष्ठेदिमां विना । एषोऽपि हि भवद्हे कर्म किञ्चित्करिष्यति ॥ ९९ ॥ रोषाद्वभाषे विमोऽस्याः कर्मविघ्नकरं शिशुम् । न गृहामि मुधाऽप्येनं किं पुनः स्वर्णदानतः ।।४००। सवाप्पं पट्टदेव्यूचे तात ! पुत्रं विना मम । भावता हृदयं द्वेधा पक्केारुफलं यथा ।। १ ।। मम प्रसाढमाधाय गृहाणमं महाग्रहात् । आर्थिनां प्रार्थनां सन्तो नान्यथा कुर्वते यतः ॥ २ ॥ श्रुत्वेदं ब्राह्मणो दत्त्वा सहस्रं काञ्चनस्य च । ताभ्यां सार्द्धमगाद्धाम ब्राह्मणो हर्षपूरितः ।। ३ । दुःखधायमिट वित्त यद्यागच्छत्यसा मुनिः । समीचीन, तदाऽऽयासीचिन्तितोपनतोऽथ सः ॥ ४ ॥ सशिप्यमागत वीक्ष्य तमृर्षि स्माह भूपतिः । ऋप! गृहाण हेमेदं खेद मनसि मा कृथाः ॥५॥ क्रोधान्धः स मुनिः प्राह ग्रहीयेऽल्पं न काञ्चनम् । अबोचङ्गारवक्त्रोऽ{ चन्द्रशेखरमर्थय ।। ६ ।। .

मथमः सर्गः
३३
१
र.जोचेजारचक्र ! त्वं किं ब्रूर्षेऽनुचितं वचः ।
इक्ष्वाकवोऽपि किं भिक्षामर्थयन्ति कदाचन ॥ ७ ॥
ऋषिरूचे पुरोऽस्माक महत्त्वं स्वस्य जल्पसि।
पतिज्ञाभ्रष्ट ! वाचाट ! किमात्मानं विकत्थसे? ॥ ८॥
मुनीश ! मा कुपस्तुभ्यं लभ्यं दास्यामि काञ्चनम् ।
निषादस्यापि कर्माणि विधास्यामि गतत्रपः ।। ९ ।।
ततः कोपीनवसनः कालः काल इवापरः।
सविपादपतरस्य निषादः पुरतोऽभवत् ॥ १० ॥
भूपालं वीक्ष्य स प्रोचे रे ! त्वं कर्म करिष्यसि ? ।
तेनेत्युक्ते महीनाथो निदध्याविति चेतसि ॥ ११ ।।
क्रीडां कृत्वा नभाकोडे ययावस्तं गभस्तिमान् ।
न कश्चित् क्रायकोऽस्माकं, मुनिः स्वर्णसमुत्सुकः।।१२।।
करिष्ये कर्म तेऽवश्यं राज्ञेत्युक्तेऽथ सोऽवदत् ।
कर्तासि किमु मे कर्म ?, स ऊचे यन्निदेक्ष्यति ॥१३॥
कालदण्डाभिधानोऽहं निषादः कोपकाननम् ।
गङ्गासव्यश्मशानेशो द्वितीय इव दण्डभृत् ।। १४ ॥
रक्षितव्यं श्मशानं मे ग्रहीतव्यं मृताम्बरम् ।
किश्चिदग्धानि काष्ठानि ग्राह्याणि चितितस्त्वया ॥१५॥
यत्तत्रोत्पद्यते तस्य गृह्णात्यई महीश्वरः ।
अन्यस्यार्द्धस्य भागौ द्वौ मामकस्तावकोऽपरः ॥१६॥
इत्युक्ते तेन भूपाल आमेति न्यगदद्वचः ।
परं महर्षये देहि निःशेषं मम काञ्चनम् ॥ १७ ॥
अथ दध्यौ मुनिः स्वान्ते नमस्ते सत्त्वशालिने ।
नमस्ते धैर्यपात्राय नमस्ते करुणात्मने ॥ १८ ॥
कालदण्डोऽपि तावत्तद् दत्त्वा स्वर्ण महर्षये।
श्मशानमात्मनः प्राप हरिश्चन्द्रसमन्वितः ॥ १९॥

३४ मल्लिनाथमहाकाव्ये- इतो वाराणसीपुर्यामाशवं समभूद् महद् । निलीयास्थादिव कापि येनोचैर्मङ्गलध्वनिः ॥ २० ॥ अथाहास्त महीचन्द्रोऽतन्द्रधीश्चन्द्रशेखरः । मन्त्रिगं सत्यवस्वाख्यं प्रतिरूपमिवात्मनः ॥ २१ ॥ राजादेशात् समायातुर्मन्त्रिणः कोऽपि पूरुषः । अन्तरा मिलितः पाणौ विभ्राणः कीरपञ्जरम् ।।२२।। कलहंस ! क कीरोऽयं सम्प्राप्तो मन्त्रिणोदिते ? | सोऽप्यूचे चम्पोपवनस्थितमेनमवाप्नुवम् ॥ २३ ।। इति तद्वचनं श्रुत्वा सार्द्ध तेनैव मन्त्रिराट् । आगादुपमहीपालं यथास्थानमुपाविशत् ।। २४ ।। मन्त्रिन् ! पश्य पुरीलोको विना व्याधिविडम्बनाम् । अकालेऽस्तं प्रयात्येव स्वस्वधर्मरतोऽन्वहम् ।। २५ ॥ इतश्च कुट्टिनी काचिद् रुदती करुणस्वरैः । हा! देव ! दैव! मुष्टाऽहं भाषमाणा सदस्यगात् ।।२६।। मत्पुत्री नामतोऽनगमञ्जरी मञ्जुलस्वरा । रोगयोगं विना सुप्ता मृताऽस्तीति विचिन्त्यताम् ।।२७।। नगर्या जगतीनाथ! विद्यते मारिरुत्थितः । तच्छोधय तदुत्पत्ति सत्यार्थो नान्यथा नृपः ।। २८ ॥ मन्त्र्यूचे देव ! मार्यर्थे प्रष्टव्यो मान्त्रिकोत्तमः । आयातः स स्वयं पुर्या उज्जयिन्या निशम्यते ।। २९ ।। अतीतानागतज्ञानाकालपुप्पोपदर्शनै । वस्त्राकृष्टिकुटभ्रान्तिमुद्गलादिनियन्त्रणैः ।। ३० ।। दृष्टिमुटिशराकाशवन्धदृश्यादिशक्तिभिः । स्वमोपदेशगकुनमतिपात्रावतारणैः ॥ ३१ ।। मन्यादाकृष्टदेवेशो मन्त्राद् यन्त्रितभास्करः । मन्त्रान्नतिशेषादिमन्त्रात् स्तम्भितपावकः ।। ३२ ।।

प्रथमः सर्गः ३५ चतुर्भिः कलापकम् ।। नृपादेशादसो प्राप्तो ज्ञातवृत्तो महीपतेः । दधानो ध्यानमाचख्यौ राक्षसीललितं त्विदम् ।।३३।। इतो वेश्याऽऽह सोल्लासं पुत्रिका मम मान्त्रिक ।। मृता मारिप्रयोगेण विनाऽऽधिव्याधिगौरवम् ॥ ३४ ॥ अवादीद् मन्त्रवादी च मन्त्रात् प्राणिति ते सुता । इतोऽभ्येत्यागदच्चेटी स्वामिनी मम जीवति ।। ३५ ।। सत्यप्रत्यायितक्ष्मापसमादेशेन मान्त्रिकः । लिखित्वा मण्डलं हांहींमन्त्रविन्याससुन्दरम् ॥ ३६॥ क्षामकुक्षिललन्नेत्रां चण्डी मूर्तिमतीमिव । आनयद्राक्षसी भीमां स्फारस्फेत्कारकारिणीम् ॥३७(युग्मम्) सविस्मयं नृपो दध्यौ महामन्त्रविजृम्भितम् । य एनां राक्षसी मन्त्रिन्नानैषीत् पश्यतां हि नः ।। ३८ ॥ कार्य तत् कृतं तव सन्निधौ । आकार्यतां ततो वेगानिषादोऽस्य वधाय सः ।।३९॥ अधास्माभ्येति चाण्डालो हरिश्चन्द्रसमन्वितः। अयोध्येशं ततो दृष्ट्वा शुकोऽवादीद् द्विजादिवत् ॥४०॥ स्वस्ति तुभ्यं हरिश्चन्द्र ! भरतान्वयभूषण ! । सत्त्वमानवतां धुर्य ! शौर्यचर्यातरङ्गित ! ॥ ४१ ।। साक्षेपमथ राजोचे भाषसे किं प्रमत्तवत् । नात्र कोऽपि हरिश्चन्द्रो मुधा भ्रान्तोऽसि रेशुक!१४२ (युग्मम्) सुतारां राक्षसी वीक्ष्य हरिश्चन्द्रो व्यचिन्तयत् । कस्यचिद्दम्भिनो वृत्तं नेदं देवीविजृम्भितम् ।। ४३ ।। किंतु मकर्मघोरत्वं प्रसरत्यनिवारितम् । यत्करिष्यति दैवं तन्मया सर्व सहिष्यते ॥४४ ॥ उशीनरमहीपालपुत्रि ! पावित्र्यदर्शने ! । सुतारे ! ते नमः कीरः सप्रणाममदोऽवदत् ।। ४५ ॥ मान्त्रिकः प्राह यत् ३६ मल्लिनाथमहाकाव्य- अरे निषादभृतक ! हरिश्चन्द्रोऽसि सत्यतः। इयं ते गृहिणी सम्यगित्यपृच्छद् महीपतिः ।। ४६ ।। नाहं राजन् ! हरिश्चन्द्रो नेयं प्राणमिया मम । तिर्यग्योनित्वतः किञ्चिच्छुको वक्ति यथा तथा।।४७॥ शुकं प्रत्याह राजाऽथ किमस्मान् वञ्चयस्यरे ! ?। तस्मादियमिव त्वं रे ! वध्यो वन्ध्यगिरो गिरन् ।। ४८॥ शुकोऽप्यूचे च्युता राज्यावरिवेश्मविहारिणः । नात्मानं हि प्रकाशन्ते सहन्ते विपदां पदम् ।। ४९ ॥ तस्यादेशाद् हरिश्चन्द्रः खरे तामध्यरोपयत् । अभीष्टार्थेऽपि किं कुर्यात् परायत्तो विचक्षणः १ ॥५०॥ सुतारैषा हरिश्चन्द्रो यदुभी स्तो न भूपते! । दह्यादेहं ममार्चिष्मान् सत्य चेदस्तु वारिवत् ।। ५१ ॥ प्रतिज्ञामिति कृत्वाऽथ मन्त्रिणा रचितां चिताम् । झम्पादत्त्वा शुकोऽविक्षदक्षताङ्गो विनिर्ययौ ॥ ५२ ॥ मन्त्र्यूचे देव ! मन्येऽहं किञ्चिन्मान्त्रिकवैशसम् । आकृत्या सुन्दराकारा सम्भाव्या राक्षसी कथम्॥५३॥ इत्युक्ते तेन भूमीगो रासभादुदतारयत् । किं कुर्मः, कर्म केनापि निर्मितं मर्मवेधकम् ? ॥ ५४ ।। इति कोपानुतापाभ्यां संपृक्तः काश्यपीपतिः । मान्त्रिकं व्यसृजत् कीरं पञ्जरेऽपि व्यधापयत् ।।५५ ।। हरिश्चन्द्रोऽपि चण्डालनिदेशादिवसात्यये । श्मशानं रक्षितुमसावाययो सात्त्विकाग्रणीः ॥ ५६ ॥ कचिद्रक्षोगणाकीर्ण कचिद्योगोन्द्रसेवितम् । कचित्फेरण्डफेत्कारं कचिद्भुतविभीषणम् ।। ५७ ॥ फचिद्विभीपिकाभीष्मं श्मशानं स परिभ्रमन् । रुदती सुदती काश्चिद् हरिश्चन्द्रो व्यलोकयत् ॥ ५८ ।।

प्रथमः सर्गः । ३७ ? ऊचे च सुतनो! किं ते परिदेवनकारणम् ? । मांचे गत्वा पुरः पश्य न्यग्रोधं, स तथाऽकरोत् ।।५९।। ऊर्ध्वपादमधांवकं वटशाखावलम्बिनम् । नरमेकं निरैक्षिष्ट सर्वलक्षणलक्षितम् ।। ६० ।। तन्निरीक्ष्य नृपो दध्या प्रादायि मुनये मही। मुनिकन्याधनोपाये विक्रीते सुतवल्लभे ॥ ६१ ॥ जीवितस्यापि निर्विण्णो म्रियेऽहं यदि साम्प्रतम् । परमाणपरित्राणकारणाद्भावि मे शुभम् ।। ६२ ।। विचिन्त्येति नृपः माह कस्त्वं कस्यासि नन्दनः । अवस्था कथमीक्षा, बद्धः किं वटपादपे १ ॥ ६३ ।। सोऽब्रवीदेव ! काशीशचन्द्रशेखरनन्दनः । विद्याधर्याऽस्मि पल्ल्यङ्कात् समानीतोऽत्र सप्रियः॥६४॥ मांसेन मे महाहोमं सा करिष्यति निश्चितम् । इतस्तरङ्गिणीतीरं गताऽस्ति स्नानहेतवे ।। ६५ ।। तमुवाच हरिश्चन्द्रो गच्छ त्वं शाधि मेदिनीम् । यत्कार्य तत् करिष्येऽहं विद्याधर्याः स्वमांसतः ।।६६ ।। प्रत्याह चन्द्रसर्नेदं समीचीनत्वमञ्चति । खरस्यायुःक्षये कापि म्रियेत रजकः कथम् ? ॥६७।। पुनः प्रोवाच भूपो मे प्रार्थनां मा कृथा वृथा । इत्युका स्थान एतस्य स्वं वबन्ध तरारधः ॥ ६८ ॥ सकलत्रः स वेगेन प्रययौ चन्द्रनन्दनः । अथागाललना व्योम्नि दधाना साऽऽर्द्रचीवरम् ।।६९।। उत्क्षिप्योत्क्षिप्य भूमीशो निजमांस समार्पयत् । विद्यासिद्धिनिमित्तं सा चिक्षेपाग्नौ यथाविधि ॥७॥ इतो गोमायुफेत्कारः कुण्डकं परितोऽभवत् । भादिशत् खेचरं साऽथ विखिन्ना तस्य रक्षणे ॥७१।।

३८ मल्लिनाथमहाकान्य- तेनासो वार्यमाणोऽपि समीपे प्रत्युताभवत् । जजागाराश्रममुनिस्तत्रागाद्वायुवद् द्रुतम् ।। ७२ ॥ अरे ! किमेतदारब्धं गदतीति महामुनौ ? । भीता विद्याधरी कापि ननाश सपरिच्छदा।। ७३ ॥ शाखाबद्धं नृपं दृष्ट्वा श्वसन्तं रुधिराविलम् । उपलक्ष्याथ कौटिल्यस्तमौषध्याऽकरोन्नवम् ।। ७४ ।। उतश्च-अरे ! क त्वं गतोसीति शब्दितः श्वपचेन सः १ । उपसृत्य श्मशानान्तं शुश्राव करुणध्वनिम् ।। ७५ ।। हा पुत्र ! क गतोऽसीति मूर्च्छन्ती हरिणीदृशम् । विलोक्य भूपतिः प्राह कस्मात्ते नन्दनो मृतः ॥७६।। साऽब्रवीदेव ! पत्न्यस्मि हरिश्चन्द्रमहीभुजः। रोहिताश्वाभिधानोऽयं नन्दनो नेत्रनन्दनः ।।७७॥ मम निःक्षीणभाग्याया दष्टः फणभृता सुतः । अकृतोपकृतिवात् मम्प्राप्त ईदृशीं दशाम ।। ७८ ।। हरिश्चन्द्रो रुरोढाशु धैर्य कस्य सुतव्यये ? । आश्लिषद् नितरां पुत्रं चुम्वति स्म च मूर्द्धनि |॥७९॥ रुष्टोऽसि वारितो वाऽसि किं नु यच्छसि नोत्तरम् ? । न मां प्रत्यभिजानासि चिरकालसमागमात् ।। ८० ॥ इतश्च श्वपचः प्राह किमारेभेऽनया समम् ? । आनयाकवासांसि स्वाचारे को विलम्बते ? ॥८१।। इति चण्डालवाक्यानि दुःश्रवाणि निशम्य सः । भूत्वा पराङ्मुखोऽशक्तो याचितुं स्फुटया गिरा ॥८२॥ आदित्सयाऽऽच्छादनस्य विच्छायवदनातिः । करं प्रसारयामास हरिश्चन्द्रो, हहा! विधिः ॥ ८३ ।। इतश्च विदधुः पूष्पवृष्टिं पीयूषभोजिनः । अहो ! सत्यमहो! सत्त्वमिति व्याहारचारवः ।। ८४ ।। ?

प्रथमः सर्गः।
३९
ततोऽयोध्यापुरीसंस्थमात्मानं दृएवान् नृपः ।
सेवितं गुरुवच्छियैर्वसुभूत्यादिसेवकः ।। ८५ ।।
यावच्च विस्मयस्मेरः किञ्चिद् ध्यायति भूपतिः ।
तावत्तत्र क्षणात् प्राप्तस्त्रिदशस्तमवोचत ।। ८६ ॥
न वयं तापसा राजन् ! नैते निकृतिवञ्चने ।
किं त्वस्माभिः कृतं सर्व तव सत्त्वपरीक्षणे ।। ८७ ।।
शक्रः स्वयं महीशक! चक्रे सत्त्वस्तुति तव ।
सभामण्डपमासीनो वाचा धीरप्रशान्तया ।। ८८ ।।
हरिश्चन्द्रो नृपः सत्त्वाद् न देवैरपि चाल्यते ।
आपन्नेऽपि निजप्राणसंशयेऽपि कदाचन ।। ८९ ।।
अश्रद्धेयं वचः श्रुत्वाऽस्माभिरीहग विचेष्टितम् ।
तत्क्षन्तव्यं, महात्मानो विनम्र हि कृपालवः ॥ ९० ॥
सत्त्वेन भवतस्तुल्यो नास्त्यन्यस्त्रिजगत्यपि ।
तमःस्तामापहः कोऽपि कि सूर्यादतिरिच्यते ? ।।२१।।
स्तुत्वेति जगतीनाथं नत्वा योजितपाणयः ।
दिवौकसो दिवं जग्मुस्तत्पशंसापरायणाः ॥ ९२ ।।
अन्येधुर्वहिरुद्याने गतः क्षोणीपतिः स्वयम् ।
तीर्थ शकावताराख्यं जीर्ण शीर्ण व्यलोकयत् ।।९३॥
वसुभूतिरुवाचाथ ज्ञात्वा चेतो महीभुजः।
इङ्गिताकारतत्त्वज्ञा मन्त्रिणः सर्ववेदिनः ॥ ९४ ॥
वृषभस्वामिनो बिम्बं भासुरं शक्रनिर्मितम् ।
इदं शक्रावताराख्यं महातीर्थ महीतले ।। ९५ ।।
कालक्रमादिदं जीर्णं बभूव क्षितिनायक ! ।
उद्धारकारिणो यस्मात् प्रभवन्ति भवादृशाः ।।९६ ॥
भवानप्यादिमजिनसन्ताने समजायत ।
कुरुष्वेदं नवं तीर्थ देहिनं रसवेदिवत् ॥ ९७ ॥

४०
मल्लिनाथमहाकाव्ये-
भरतेशादित्ययशाप्रभृतीनां महीसुजाम् ।
म्पपूर्वजानामाख्याभिः ख्याताः स प्रतिमा व्यधात् ९८
अमारिपूर्वकं भूरिदानसम्पीणितार्थि च ।
प्रतिष्ठां कारयामास चैत्योद्धारमकारयत् । ९९ ।।
सम्यवं निर्मल विभ्रद् विदधानः प्रभावनाम् ।
कालक्रमेण शुद्धात्मा देवभूयमगादयम् ॥ ५०० ।।
अथोवाच बलः स्वामिन् ! तदृष्टान्तश्रुतेर्मम ।
अमन्दानन्दकन्दल्याः प्रमोदः समपद्यत ॥ १ ॥
एक सर्वरसस्यन्दि हरिश्चन्द्रनिदर्शनम् ।
परं योष्माकनिःसीमवचोडम्बरगौरवम् ॥ २ ॥
केचिद् मृता अपि जनाश्चरित्रैश्चित्रकारिभिः ।
जीवन्त इव जायन्ते कीर्तिरेवाविनश्वरी ॥ ३
ततोऽयोध्यासमायातविद्याभृनियमोत्सवम् ।
विदधुर्जुम्भका देवाः प्राक्तनभवबान्धवाः ॥ ४ ॥
अथ राजाऽपि सूरीणां प्रणिपत्य पदद्वयीम् ।
धर्मकर्मप्रवीणात्मा जगाम सदनं निजम् ॥ ५ ॥
अन्येद्यर्धारिणी देवी सुखसुप्ता महासती ।
शान्तं कान्तं मृगाधीश प्रविशन्तं मुखाम्बुजम् ॥६॥
विलोक्य निद्वाविच्छेदे स्मृत्वाऽभीष्टं जिनेश्वरम् ।
स्थित्वा वेत्रासने चित्रे निशाशेषमवाहयत् ।। ७ ।। (युग्मम्
प्रभाते धारिणी देवी महास्वमं महीभुजः ।
अचीकथद् महोत्साहक्षीरवार्डीन्दुमण्डलम् ॥ ८ ॥
विचार्यासौ महास्वप्नमेतस्या न्यगदत् पुरः।
प्रवीरो जगदुत्कृष्टो भविता तनयस्तव ॥ ९ ॥
अथावर्द्धत धारिण्या गर्भो वाञ्छानुमाम्बुदः
दानपूजादिकृत्येषु भावश्चास्य प्रभावतः ॥ १० ॥

प्रथमः सर्गः। ४१ पाणिना विधृतं सख्या अपास्य मणिदर्पणम् । कोषेयकेषु धौतेषु धारिणी मुखमैक्षत ।। ११ ।। एणनाभिमपास्योपैर्विलासमकरीकृवे ! दन्तावलमदं देवी प्रग्रहीतुं मचक्रमे ॥ १२ ॥ तस्यां गर्भमभावेन दोहदा हृत्पमोददाः । पर्यपूर्यन्त भूपेन लतायां मधुना यथा ॥ १३ ॥ क्रियमाणेषु सर्वत्र मान्तिकेषु महर्षिभिः । रक्षाभूतिषु धारिण्या वध्यमानासु दोर्युगे ॥ १४ ॥ घटीतात्पर्ययुक्तेषु निविष्टेपु द्विजेष्वपि । मूतिकर्मप्रवीणासु तल्लीनासु पुरन्ध्रिषु ॥ १५ ॥ परिपूर्णेषु मासेपु सार्धाष्टमदिनेप्वपि । अमृत धारिणी पुत्रं राजनीतिर्यथा धनम् ॥ १६ ॥ (त्रिभिर्विशेषकम् ) सर्वातिगायिशोभाऽऽढ्यं तदानन्दकृतं शुभम् । मङ्गल्यदीपैरखिलैः सूतिवेश्म तदा बभौ ॥ १७ ॥ यथाविधि व्यतिक्रान्ते षष्ठीजागरणोत्सवे । मानयित्वा निजं ज्ञाविमित्रवर्गमनुद्धनः ॥ १८ ॥ गुरुलोकं समभ्यर्च्य मोचयित्वाऽरिवन्दिनः । दशमेऽह्नि वलोऽस्याख्यां महावल इति व्यधात् ॥१९॥ स्वाङ्गैरिव तदाकारैस्तदा जातैः स्तनन्धयैः । अन्वीयमानः सततं वलमूनुर्व्यवर्धत ॥ २० ॥ पञ्चस्वितेषु वर्षेषु भीरकण्ठो महाबलः । पपाठ सकला विद्याः पूर्वाधीत इवाऽञ्जसा ॥२१॥ कृतज्ञो विनयी धीरः परनारीसहोदरः। भविष्यतीर्थकुन्नामजीवानां लक्षणं त्विदम् ।। २२॥ सम्यग्दर्शनलाभस्य बिरहेऽप्येष शुद्धधीः । अयन्नमपि कि जात्यरत्नं रत्नैः समं परैः १ ॥ २३ ॥ ६

४२
मल्लिनाथमहाकाव्ये-
सारस्वतमिवोदामकामविभ्रमवाङ्मये ।
कामिनीमदजीवातुयौवनं समुपागतः ॥ २४ ॥
कमलश्रीप्रभृतिकाः कन्यकाः काश्यपीभुजा ।
शतानि पञ्चैकदिने कुमारः पर्यणाय्यत ॥ २५ ॥
(युग्मम् )
तस्याऽऽसन् वालमित्राण्यचलो धरणपूरणौ ।
वसुर्वैश्रवणश्चाभिश्चन्द्र इत्यभिधानतः ॥ २६ ॥
पििमत्ररमीभिः स वर्षक्षोणीधरैरिव ।
अधिकाधिकलक्ष्मीकैर्जम्बूद्वीप इवाऽद्युतत् ।। २७ ।।
कदाचित खेलयामास गजानैरावतायितान् ।
शक्रवद् विबुधैः साकं तच्चित्रं यद् वलाङ्गजः ॥२८॥
कदाचिदुद्यानगतो वृतो मित्रैर्गुणैरिव ।
चिक्रीड विविधैः क्रीडाचक्रैवक्रेतराशयः ॥ २९ ॥
कदाचिदुच्चैःश्रवसः सोदरान् भूगतानिव ।
लातपातस्फुरद्धौर्यवर्यान् सोऽश्वानवाहयत् ॥ ३० ॥
कदाचिचित्रकाव्यानां रहस्यानि व्यचारयत् ।
एकस्थानधियाऽऽसीनैरसैः सर्वैरिव स्थितैः ॥३१॥
न सीदति यथा धर्मो नाऽर्थों याति क्षयं यथा ।
यथा न तरलायन्ते वाह्याभ्यन्तरवैरिणः ॥ ३२ ॥
यथा न स्थानविन्यस्तः प्रकृत्योघो विरज्यते ।
संसाराशेपसर्वस्वमन्वभूद् भूपभूस्तथा ॥३३॥(युग्मम्)
एवं संसारकल्पद्रोभुजे विषयावलीम् ।
भाविनस्तीर्थकृजीवा भावदेवा इवाऽवनौ ॥३४ ॥
अन्येद्युबलवोधाय पुनारत्नेन्दुसंयमी ।
इन्द्रकुब्जे महोद्याने स्थितवान् गमतानिधिः ॥ ३५ ॥
प्रत्येकबुद्धं निग्रन्थं श्रुत्वोद्यानसमागतम् ।
भवे संजातवैराग्य इनि दध्यो वलो नृपः ॥ ३६॥

प्रथमः सर्गः । ४३ अलं मे पुत्रमित्रादिसुखैः क्षणविनश्वरैः । अलं मे संपदा कुम्भिकर्णतालविलोलया ॥ ३७ ।। अलं मे भववासेन पाशेनेवाऽन्तरात्मनः । ध्यात्वेति सुतमाहूय मन्त्रिणश्चाभ्यधादिदम् ॥ ३८ ॥ वयमत्रैव राजानो यूयमन्वयमन्त्रिणः । अतो राज्यधुराभारो मयि युष्मास्ववस्थितः ॥ ३९ ॥ भयेयं साधिता पृथ्वी भवद्भिः कृतसन्निधैः । सुव्रता सौरभेयी यत् तद् गोपालविशेषणम् ॥४०॥ यद् भवन्तो मयैश्वर्यात् खेदिताः शुभकर्मणि । यत्तु न्यायेतरं चक्रे भूमिपीठे मदान्ध्यतः॥४१॥ चालिता जययात्रायै चलता ये निरागसः। उन्मूलिता महीपाला वात्ययेव महाद्रुमाः ॥४२॥ विधाय भस्मसाद् ग्रामान् यल्लोका निर्धनीकृताः। नश्यद्भीरुकरक्रोडाद् यच्च वाला वियोजिताः ॥४३॥ तदर्घ क्षालयिष्यामि मलक्लिन्नमिवाऽम्बरम् । गृहीत्वा प्रभुपादान्ते संयमं यमिनां मतम् ॥४४॥ सुते न्यस्यामि राज्यस्य जरसा जर्जरो भरम् । 'प्रदोषकाले पूपेव निज तेजो हविर्भुजि ॥ ४५ ॥ अमुष्मिन् कवचहरे मयीव नृपसंसदि वर्तितव्यं महाभागाः ! युष्माभिर्मम शिक्षया ॥४६॥ अथेत्थं मन्त्रिणोऽप्यूचुः स्वामिन् ! जातो विरागवान् । अन्यथा कथमासन्नमोक्षस्येव वचस्तव ? ॥४७॥ यः श्रेयसि प्रवृत्तानां निषेधो मोहतो भवेत् । स शालीनूपरक्षेत्रेष्वारोपयति वप्रतः ॥ ४८ ॥ तवापि पूर्वजा राजन् ! वार्धके मुनिवृत्तयः । साम्प्रतं साम्प्रतं तत् ते कृतज्ञत्वं प्रसर्पति ।। ४९ ॥

मल्लिनाथमहाकाव्ये- इदं राज्यं कुमारेऽस्मिन् यत त्वया विनिवेश्यते । विचार्य तत्र किश्चिद् नाऽस्माकमेष भवानिव ॥५०॥ पितुश्च सचिवानां च गिरं श्रुत्वा महावलः । • प्रोवाच तातचरणा अप्रसादाः कथं मम ? ॥ ५१ ॥ अथोचे जातीपालो मत्पुत्रोऽसि विवेक्यसि । गिरो निराक्रियन्ते मे किमज्ञनेव तत् त्वया ॥५२॥ ततः पितृगिरः श्रुत्वा महाबलकुमारराट् । देवादेशः प्रमाणं मे रात्रिस्वमोपदेशवत् ।। ५३ ।। असौ निवेशयामास कुमारं संमदोद्धरः । अभिषेकासने शक्रपर्यङ्क इस तीर्थपम् ॥ ५४ ॥ मङ्गल्याऽऽतोद्यमालासु वाद्यमानासु सर्वतः । कुमारः सिषिचे मूर्ध्नि भूभुजा तीर्थवारिभिः ॥५५॥ अथ भूमीभुजोऽन्येऽपि सौवर्णकलशैर्नृपम् । तमभ्यषिश्चन् तीर्धेशविम्बमिव प्रतिष्ठितम् ॥ ५६ ॥ 'अथोदितं द्वितीयेन्दुमिव नम्रशिरोधराः । प्राणमन् नवमुर्वीशमखिला अपि नागराः ॥ ५७ ।। सदशानि मनोज्ञानि वासांसि श्रीवलाऽऽज्ञया । च्युतानीवेन्दुकिरणः पर्यधाद् नूतनो नृपः ।। ५८ ।। चन्दनैश्चन्द्रकान्ताश्मस्त्यानबिन्दूदकैरिव । तस्याऽङ्गराग सर्वाङ्गं विदधुर्वारयोषितः ॥ ५९ ।। भूषणैर्भूपितस्तैस्तैर्मुक्तामाणिक्यसंभवैः । नवो राजा रराजाऽसौ कल्पद्रुः पल्लवैरिव ॥ ६० ॥ माणिक्यभासुरं रेजे मुकुटं तस्य मूर्धनि । उदयाद्रितटे टीकमानं विम्बं रवेरिव ॥ ६१ ।। श्रीवलो धारयामास च्छत्रं मूर्ध्नि निवेशितम् । क्षीरसागरडिण्डीरपिण्डैरिव विनिर्मितम् ॥ ६२ ॥ १ एपमित्सपि ।

प्रथमः सर्गः । ४५ चामराररामाणामवीज्यत कृतादरैः। नवसङ्गकृतोल्लासै राज्यलक्ष्मीहसैरिव ।। ६३ ।। विशाले बलभूपालस्तद्भाले लटभभ्रुवि । -तिलकं रचयामास राज्यश्रीन्यासमण्डलम् ॥ ६४ ॥ ततः श्रीवलभूपालः पालिताऽखिलभूतलः । एवं शिक्षा ददौ तस्य नीतिशास्त्रविशारदः ।। ६५॥ वारांनिधिजलोत्पत्तेरिव नीचत्वगामिनी । नैकत्रस्थायिनी वेला संक्रान्तव्यसनादिव ॥६६॥ उद्दाममददात्रीयं सहोत्पन्नद्विपादिव । लक्ष्मीदेवी दुराराध्या वत्स ! राधापतेरपि ।। ६७ ॥ एतस्या रक्षणे वत्स! यामिक इव विक्रमः। जागरूकस्त्वया कार्यः प्रदत्तन्यायवृत्तिमान् ॥ ६८ ॥ नरो विक्रमवान् वत्स! सत्वेन परिभूष्यते । तदेव यनतो रक्ष्यं स्वामिदत्तप्रसादवत् ॥ ६९ ॥ ससत्वेनापि नाऽऽधेयं प्रचण्डकरताण्डवम् । पश्य चण्डकरं लोको न दृशापि विलोकते ॥७०॥ प्रचण्डकरचातुर्ये जायते व्यसनोदयः । तस्माद् भ्रश्यति संसारेऽरघट्टीयो पो यथा ॥७१॥ सप्तभिर्व्यसनैः सप्तनरकादायकैरिव । अन्तरगारिपवर्ग उजागति नवेश्वरः ॥ ७२ ॥ तदाधीनः पुमान् वत्स ! रज्यते मदनार्थयोः । तावपि स्त्रीमपामृलौ तयोरेपाऽस्त्यवस्थितिः ॥ ७३ ।। दोपोदयकरी मृरकराणामप्यगोचरी । क्षणं रक्ता विरक्ता व नारी सन्थ्येव राजते ॥७४॥ मृपावादात् भयं यान्ति प्रतिष्ठाः प्रत्ययाः किल । नदीपूरादिव ग्रामाः कोपादिव सुवासनाः॥ ७५ ॥ रति विनयविनम्र शिक्षयित्वा नगेन्द्र ४६ मल्लिनाथमहाकाव्ये- नवमभिनवभङ्गया तात्त्विकप्रेमवृत्त्या । बलनृपतिरुदारं मोहतां मोक्तुकामः सुगुरुचरणसेवालालसोज्गाद् वनान्तः॥५७६॥ इत्याचार्यश्रीविनयचन्द्रविरचिते श्रीमदाचार्यप्रद्युम्नशोधिते श्री- मल्लित्वामिचरिते विनयाङ्के महाकाव्ये प्रत्येकबुद्धश्रीरत्न- चन्द्रसत्यहरिश्चन्द्रनिदर्शनगर्मित श्रीबलनृपतिबोध- बधुरः श्रीमहाबलराज्याभिषेकोत्सवव्यावर्णनो नाम प्रथम सर्गः॥ - अहम् अथ द्वितीयः सर्गः। अथ प्रहृष्टसर्वाङ्गः कृतस्नानादिमङ्गलः । सहस्रवाह्यां शिविकामारुरोह बलो नृपः ॥ १॥ ददानो विधिवद् दानं भावशुद्ध्या विशुद्धधीः । उपेत्योपवनं तस्या उत्ततार भवादिव ॥ २ ॥ उज्झाञ्चकार निःशेषं नेपथ्यादि स्वमोहवत् । श्रीरत्नचन्द्रपादाब्जं ववन्दे मोदमेदुरः ॥ ३ ॥ सामायिकमहामन्त्रं सत्रं निर्वाणसंपदाम् । राजर्षिर्गुरुवक्त्रेणोच्चचार प्रकटाक्षरम् ॥ ४ ॥ विविधाभिग्रहग्राही निगृहीतकुवासनः। अनगारः शमागारो निनिदानतपःपरः ॥ ५ ॥ विधिवत् पालयित्वाऽथ सुचिरं संयम यमी । जित्वा कर्माणि राजर्पिलेंभे निर्वाणसंपदम् ॥ ६ ॥ (युग्मम् ) .

द्वितीयः सर्गः।- ४७ महावलनरेन्द्रेण सिंहस्समेन मूचितः । कमलश्रीमहादेव्यामुढपादि शरीरजः ॥ ७ ॥ भविष्यद्बलभद्रत्वादिति ध्यात्वेव भूभुजा । बलभद्राभिधानेनाऽऽहूतः प्रेमकिरा गिरा ॥ ८ ॥ अन्यदा वहिरुयाने चञ्चचम्पकचारुणि । वरधर्माभिधः मूरिभगवान् समवासरत् ॥ ९ ॥ तदाऽऽगमनमङ्गल्यमाकाऽऽरामपालकात् । यथेच्छ पीतपीयपगण्ड्प इव सोऽहुपत् ॥ १० ॥ तं नमस्कर्तुमुवीगश्वचालाऽचलमानसः । पिधानो वरच्छत्रेविं हंसगणैरिव ॥ ११ ॥ दन्तावलैबलोद्दामैरभ्रमूवल्लभायिनैः । तुरङ्गैश्चापि मार्तण्डरथादपहृतैरिव ॥ १२ ।। रथैः श्रोत्रपथावन्यचारुचीत्कारवन्धुरैः । अनन्तभक्तसामन्तैः : समन्तात् परिवारितः ॥ १३ ॥ भूचरवर्वधूभ्रान्तिपढवारपुरन्धिभिः । चामरे रत्नखचिते-ज्यमानः पढे पढ़े ॥ १४ ॥ वन्दिभोगावलीपाठस्पर्धामसमरैरिख । नार्मङ्गलतूर्याणां पिधन् रोदसीतलम् ॥ १५ ॥ धर्मातन्त्रैर्वृतो मित्रैः पड्भिर्लक्ष्मीविकखरैः । पदातिभिश्च पारीन्द्रमोहविक्रमविश्रुनैः ॥ १६ ॥ गजेन्द्रस्कन्धमाल्डः प्रौढप्रसृतभावनः । तदुबानमथ प्राप नन्दनं वासवो यथा ॥ १७ ॥ ( सप्तभिः कुलकम् ) दरादेवाञ्वनीनाथः करिस्कन्धाद् मदादिव । उत्तीर्य राजचिह्नानि पञ्चाऽमुश्चन् समाहितः ॥ १८ ॥ १ नवनिित पाजन्नरन् ।

४ मल्लिनाथमहाकाव्ये- क्रोधाऽन्धकारमार्तण्डं मानाऽचलपविप्रभम् । मायावल्लीतुषाराभं लोभाऽम्भोधिघटोद्भवम् ॥१९॥ आरामं साम्यवल्लीनामभिरामं महाव्रतैः । आत्मारामं महासत्त्वं मुक्तरामं विरागतः ॥ २० ॥ लब्धिरत्नाकरं श्रीमज्जिनधर्ममिवाङ्गिनम् । वरधर्माख्यमाचार्यमद्राक्षीत् क्षितिनायकः ॥ २१ ॥ (त्रिभिर्विशपकम् ) अथ प्रदक्षिणीकृत्य मुनिनाथ जिनेन्द्रवत् । पुलकच्छद्मना विभ्रद् भक्तिं मूर्ती ननाम तम् ॥२२॥ कांश्चित् पद्मासनाऽऽसीनान् कांश्चिद् वज्रासनस्थितान् । कांश्चिद् वीरासनस्थांश्च कांचन बर्हणाश्रितान् ॥२३॥ कांश्चिद् भद्रासनासीनान् कांश्चिद् दण्डासनाश्रितान् । कायोत्सर्गस्थितान् कांश्चिद् कांश्चिद् हंसासनश्रितान् ।। कांचन शीलागरथपरावर्तनतत्परान् । कांश्चिदक्षैर्विनिक्षिप्तैर्भङ्गान् गणयतो भृशम् ॥२५॥ कालानुष्ठाननिष्ठांस्तांस्तन्वानान् बहुशोऽपि कान् । सिद्धान्तवाचिकाः कांश्चित् कुर्वाणान् परया मुदा ॥२६॥ पात्रलेपपरान् कांश्चित् कांश्चिद् मौनमुपागतान् । शैक्षान् शिक्षयतः कांश्चित् कांश्चन पठतः पदः ॥२७॥ कांश्चित् कर्मप्रकृत्यादिविचारग्रन्थनिर्णयम् । कुर्वाणांचूर्णिभाष्यादेः पदव्याख्याप्रकाशनैः ॥२८॥ कांश्चित् प्रकरणान्युच्चेर्नूतनानि प्रकुर्वतः । वन्द्यान् ववन्दे निर्ग्रन्यांस्त्रिविधं काश्यपीपतिः ॥२९॥ (अष्टभिः कुलकम्) अथोपेत्य वनं मृरिं प्रणम्य प्रमढान्वितः । मित्रः साकमुपाविक्षत् चक्रे च विनयाञ्जलिम् ॥३०॥ १ मृत्यपि।

द्वितीयः सर्गः। ४९ अंथो दन्तांशुभिः शुभैज्योत्स्नाव्यतिकररिव । सौधवन्छुभ्रयन् भन्यानुवाचेदं महामुनिः ॥ ३१ ॥ चतुर्गतिकसंसारक्षारवारांनिधाविव । पोतोपमानाचत्वारो धर्मादानादिका अमी ॥ ३२ ॥ तेषां मध्याद् दानधर्मः पृथक्कृत्य वितन्यते । यः सिपेवे जिनाधीशरावर्प हर्पवर्षिभिः ॥ ३३ ॥ सर्वेपामपि जीवानां देहः सुकृतसाधनः । पुद्गलः स तु निप्पन्न आहाररससंभवैः ॥ ३४ ॥ आहारः प्राशुकर्ये तु दानं ददति साधये । ते सौख्यभाजिनो राजन्! भवन्ति जिनदत्तवत् ॥३५॥ तथाहि पुष्करद्वीपे पुरी चन्द्रकलादया । अभिधानविधानाभ्यां तत्र राजा परन्तपः ॥ ३६ ॥ तस्य सोमायशोवत्यौ हरस्येवाद्रिजह्ह्णजे । अमेयरूपलादण्ये पट्टदेच्यो बभूवतुः ॥ ३७ ॥ पद्मशेखर आद्यायाः सोमायाः सूर इत्यपि । विमातृजावपि प्रीत्या तौ पुत्रौ युग्मजातवत् ॥३८॥ युगपज्जाग्रतोस्तुल्यहर्पयोस्तुल्यशोकयोः । आजन्माऽजायत प्रीतिरेतयोर्नेत्रयोरिव ॥ ३९ ॥ अन्येयुः सोमयाऽध्यायि सपत्नीजेऽत्र जीवति । कथं मामकपुत्रस्य राज्यं सूरस्य संभवि १॥ ४० ॥ सापत्नेयश्च रोगश्च नोपेक्ष्यौ हितमिच्छता । मूलादेव समुच्छेद्यौ विपक्षाविवोद्गतौ ॥ ४१ ॥ विचिन्त्येति महादेवी सोमाऽलीकप्रकोपना । वासागारे निलीयाऽस्थाद् मेघच्छन्नेन्दुकान्तिवत्॥४२॥ प्रमादवशतो भ्रष्टविद्या विद्याधरीमिव । सोमां वीक्ष्य नृपोऽप्यूचे प्रेममन्थरया गिरा॥ ४३ ॥ उत्तरायणतिग्मांशुविम्ववद् वदनं तव । . ७ - -- J ५१. मल्लिनाथमहाकाव्ये- गततेजः कथं जातं सोमे ! सोमवरानने ! १ ॥४४॥- तवाज्ञाखण्डनं मोहाद् मादृशेन विनिर्मितम् । यदेवं कोपसंस्त्याये मोहभित्तिघने स्थिता ॥ ४५ ॥ अथाऽभ्युवाच भूपालं सोमा श्यामास्यमण्डला । चित्तेन धर्तुं नो वक्तुं शक्यते यत् तदाऽभवत् ॥४६॥ अथो निर्बन्धतः पृष्टा दत्त्वोच्चैः शपथावलीम् । हृतनिःशेषसारेव साऽप्यूचे गद्दाक्षरम् ॥ ४७ ॥ तव वल्लभपुत्रेण पद्माख्येन स्मरान्यतः । अभ्यार्थता कृतस्नेहं प्रदोषे कुलरेणुना ॥ ४८ ॥ निशम्येदं महीपालः कोपाटोपं विनिर्ममौ । युक्तियुक्तं वचो नैतदविचार्येति चेतसा ॥ ४९ ॥ आहूय चण्डनामानमगरक्षं निशागमे । मारणीयो नवैर्मारैर्भवता पद्मशेखरः ॥५०॥ इत्यादेशं नृपो दत्त्वा त्यक्तोद्गारमिव क्रुधम् । सौख्यभागी बभूवाशु कोपान्धानां कुतो मतिः ॥५१॥ चण्डागरक्षकः सोऽथ लब्ध्वाऽऽदेशं सुदुःश्रवम् । विजने कथयामास पद्मस्य पुरतोऽखिलम् ॥ ५२ ।। अश्रद्धेयमिदं श्रुत्वा कुमारो हृद्यचिन्तयत् । अप्रसादः कुतस्तातपादैर्मम विनिर्ममे ? ॥ ५३॥ पप्रच्छ चण्डसुर्वीशनन्दनः किमु कारणम् ? । भवानाकारभावज्ञो दैवज्ञ इव वर्तते ।। ५४ ॥ चण्डोऽवदद् विमातुस्ते मन्ये कपटनाटकम् । नृपेगितात् , क्रियातत्त्वं प्रत्ययादिव पण्डितः ॥ ५५ ॥ ततोऽनया स्फुटं कृत्वा कूटं किञ्चित् कठोरया । व्यामोहितो महीपालश्छाया लेखनया यथा॥५६॥ जगन्मोहनिदानाय दुर्लक्षाय बुधैरपि । विवेकिजनमुक्ताय खीरत्ताय नमोनमः ।। ५७ ।। .

द्वितीयः सर्गः।
ܟ
सुनेहपात्रसंस्थायिदीमा दीपशिखा यथा ।
मालनी तनुते लोललोचना निजमाश्रयम् ॥ ५८ ॥
एवं विभाव्य शुद्धात्मा विमुच्य नगरं निजम् ।
उत्तराशामुत्तराशः प्रतस्थे पद्मशेखरः ॥ ५९ ।।
व्याधव्याहतसारगशुन्यभ्राम्यन्मृगीकुलाम् ।
विलोक्यमानपारीन्द्रपादां पांशुलभूमिपु ।। ६०॥
नाहलबद्धगोष्ठीकैर्भज्ज्यमानपशुव्रजाम् ।
वंभ्रम्यमाणनिखासयोगिनीशतसकुलाम् ।। ६१ ॥
कापालिकजनारब्धघोरमन्त्रप्रसादनाम् ।
निशम्यमानशार्दूलरफुत्कारदारुणाम् ।। ६२ ।।
भववद् विपुलाकारां प्रेतभर्तुः प्रियामिव ।
दिनैः कतिपयैः पद्म आपपात महाटवीम् ॥ ६३ ॥
( चतुर्भिः कलापकम् )
इतश्च पन्नगः कोऽपि नीच कृतमहाफणः ।
देवदग्ध इव श्यामो ददृशे तेन मार्गगः ॥ ६४ ॥
मन्दं मन्दं जगादाऽसाविति मानुष्यभापया ।
कुमारवर! मां पाथस्तुपात पाययाऽधुना ॥ ६५ ॥
अन्यथा मम जीवद्रुः शोपं यास्यति सत्वरम्
खिन्नेषु दुःखितेपूच्चैर्महात्मानः कृपापराः ॥ ६६ ॥
पश्चात् तव करिष्यामि परामुपकृति सखे !।
विस्मरिष्यसि न त्वं मां मनस्याऽऽहितया यया ॥६७॥
ततः कुमारः संप्राप्य नीरं तीरवतीभवम् ।
पन्नगं पाययामास नलिनीनालचर्यया ॥ ६८ ॥
अथाभवदसौ वेगाद् दिव्यरूपधरो नरः ।
दधानः करराजीवे चारु काञ्चनपङ्कजम् ॥ ६९ ॥
आहत्य करपादेन पद्मोऽसौ वामनीकृतः ।
अहो ! तस्योपकारस्योपकृतं तेन पापिना ॥ ७० ॥

५२ मल्लिनाथमहाकाव्ये- - 4 अहो ! अस्य कठोरत्वं कुलिशेनेव निर्मितम् ।, अहो ! अस्य द्विजिह्वत्वं यथार्थमिव लक्ष्यते ॥७शा विमृश्येत्यचलत् पद्म उत्तरी प्रति सत्वरम् । इतश्चैक्षिष्ट निश्छिद्रां रजोराजी प्रसर्पिणीम् ।। ७२ ।। शृणोति स्म तुरङ्गाणां स्फुरत्खुरपुटारवम् । जयश्रीकरकेयूरतारठात्कारसुन्दरम् ॥ ७३ ।। अस्वाणि दीप्यमानानि दिवाकरकरोत्करैः। दृष्टवानवनीनाथसूनुः सौर्यगृहा इव ॥ ७४ ॥ उपलक्ष्य स्वकीयं तद् वलं बलवदाकुलम् । अपृच्छत् सादिनं कश्चिद् नामतः प्रकटाक्षरम् ॥७॥ अथाऽसौ न्यगदच्चन्द्रकलायां पुरि भूपतिः । परन्तपः सुतस्तस्य पद्मशेखरनामकः ॥ ७६ ॥ मर्यादास्तम्भमुन्मूल्य, महान् मत्त इव द्विपः । देवी यशोमती कामात् प्रार्थयामास पद्मकः ।।७७॥ अग्राह्यनामा नष्टः स.चण्डकादङ्गरक्षकात् । तस्मादिदं वलं भद्र ! प्रेषितं दिक्षु सर्वतः ॥ ७८ ॥ अन्यच्च मामकं नाम कथं विज्ञातवानसि ।। पद्मोऽप्युवाच त्वद्वस्वाञ्चलाऽक्षरविलोकनात् ॥७९॥ ततः पद्मो महाटव्या निःससार भवादिव । भुजङ्गकृतखर्वत्वं चिन्तयन् जीवनौषधम् ।। ८०.1 , तस्या विनिर्गतः पद्मः प्राप शोभापुरं पुरम् । इतश्च चण्डो मार्तण्डो नभोमध्यं व्यगाहत ।। ८१॥ नखम्पचासु धूलीपु दुःसञ्चारेषु वर्त्मसु । विभ्राणेष्विव निक्षिप्तकारीपानलविभ्रमम् ।। ८२ ॥ होदध्ययनस्थानाद् गृहीत्वा पुस्तिकावलीम् । वटरच्छात्रवर्गेपूत्तिष्ठत्सु निजकासनात् ।। ८३॥. मार्गभ्रमपरिश्रान्तः क्षुधाक्षामकडेवरः ।।

द्वितीयः सर्गः। - सुष्वाप सहकारस्य च्छायायां पद्मशेखरः॥ ८४ ॥ इतश्वागत्य तत्पादाङ्गुष्ठं चञ्चन्नखप्रभम् । अचालयन् कराग्रेण नरः कश्चिद् महामनाः ॥ ८५ ॥ अथ निद्रां परित्यज्योपाविक्षत् पद्मशेखरः । कस्त्वं भवान् कथं निद्राविद्रावणपरोऽसि मे १॥८६॥ सोऽप्युवाच महाभाग ! पुरं शोभापुराभिधम् । अत्रास्ति भूपत्तिः सोमः सोमान्वयविभूपणम् ।।८७॥ तस्याहं सचिवाधीशः सुवुद्धिर्नाम सन्मते ! । मम राज्यभरं राजा न्यस्तवान् धुर्यबच्चिरम् ॥८८।। भद्र ! सोमनृपो देवादाक्रान्तोऽस्ति रुजा भृशम् । यत्र मन्त्र इवाऽकर्णे निष्फला औषधक्रियाः॥८९॥ दुश्चिकित्स्यनृपव्याधिवीक्षणाच्चिन्तयाऽऽकुलः । अहं निर्गमयामास दिन संवत्सरोपमम् ।। ९० ॥ -- निशायामद्य निद्राणे मयि काचन देवता। एवमादेशयामास मा मा चिन्तातुरो भव ॥ ९१ ॥ यः प्रातः सहकारस्य च्छायायां मार्गखेदतः । शयितं वीक्षसे राज्ये तं भद्र ! विनिवेशयेः ।। ९२ ।। पद्मशेखर इत्यस्य नाम स्थाममनोहरम् । यस्माद् राज्यश्रियो वृद्धिः संभविष्यति निश्चितम्॥१३॥ सत्याकर्तुमहं मन्ये भवदागमनोत्सवः । समायातोऽसि नो भाग्यैः पाहि राज्यमखण्डितम्।।९४|| ततः पद्मो निजं दृष्ट्वा वपुर्नैसर्गिकाकृति । अचिन्तयदहो ! कीहक् पुण्योदयविजृम्भितम् ॥१५॥ अथ राज्येऽसको न्यस्तो भूपोऽभूत् पद्मशेखरः। पुण्यानि सहचारीण विदेशेऽपि महात्मनाम् ॥१६॥ इतश्च तत्रैव.पुरे परकर्मोपजीवकः । महोदराख्यया, ख्यातः समभूत् कुलपुत्रकः ।।९।७३ १ .

५४ मल्लिनाथमहाकाव्ये- विजातनिष्फलोपायोऽसुकृताद्वैतमावहन् । उपवासान् वितन्वानः पदेव्याः पुरोऽपतत् ।।९८॥ महाशक्त्योपवासेषु कृतेषु निशि देवता । प्रादुरासीत् पुरस्तस्य दीप्यमाना तनुद्युता ।। ९९॥ वरं वृणु महाभाग ! तुष्टाऽहं तव साह्सात् । सुस्वमेक्षणवद् मोपं नाऽस्माकं दर्शनं यतः ॥१०॥ यदि तुष्टाऽसि पढ़ेंगे ! स्वर्णलक्षं प्रयच्छ मे। अन्यथा मम वाञ्छादुर्गतमूलः पतिष्यति ॥१०॥ स्मित्वा पद्रेश्वरी प्रोचे स्वर्णलक्षं न संनिधौ । ममास्ति भद्र ! किन्तूच्चरुपायं दर्शयामि ते ॥१०२।। अथाभ्यधाढसो देवीमुपायं प्रकटीकुरु । न किं कलान्तराकृष्टाद् वित्ताद् वित्तमुपाय॑ते॥१०॥ गृहाण पुरुषाकारं नरं मृत्स्नामयं तनु । दारिद्यमस्य नामेति दुःस्थितादयितान्वितम् ।।१०४॥ स्मित्वा स्मित्वाऽवददसौ देवि! प्रणतवत्सले !! दारिद्यस्य प्रसादेन प्राप्त एतादृशीं दगाम् ॥१०५।। अनेन निघनेनेव न मे कार्य कदाचन । यास्यामि निजसंस्त्यायं लाभो मम तपस्यभूत् ॥१०६॥ पुनरप्यवदद् देवी कश्चिदेनं विनिश्चितम् । ग्रहीता स्वर्णलक्षण दधानः सत्त्वमद्भुतम् ।। १०७ ॥ नो चेत् तुभ्यं प्रदास्यामि स्वर्णलक्षमसंशयम् । पुत्रस्येव तवानेन न कुर्वे विप्रतारणम् ॥ १०८ ॥ आदेगामितिर्मेऽस्तु निगयेति स पूरुषः । दारियपुरुष मूनि न्यस्याऽस्माद् निरगाद् नरः।।१०९॥ किमिदं लभ्यते भद्र ! पृष्टे सति पुरीजने । दारिद्यं स्वर्णलक्षण प्राप्यते दायितान्वितम् ॥११०॥ हा! पाप! पाप! हा! तापकारणं सुखवारणम् ।

द्वितीयः सर्गः।
५५
गृहीतं किमिदं गाढक्रोशायैतत् क्रयाणकम् ? ॥१११।।
इत्थं पौरजनोद्गीर्ण शृण्वानो वाक्यताण्डवम् ।
पर्यभ्राम्यदसौ पुर्या भूतार्त इव सर्वतः ॥ ११२ ।।
परिभ्राम्यन् परिभ्राम्यन् राजसौधमसौ गतः ।
इतश्च तं गवाक्षस्थो वीक्षाञ्चक्रे क्षितीश्वरः ॥११३॥
तमाश्चाकारयामास मूर्तव्यसनचक्रवत् ।
सोऽप्यागत्य प्रणत्यैनं वभाषे योजिताञ्जलिः॥११४||
देवैतद् देवतादत्तं दारिद्र्यं पुरुषाकृति ।
न केनापि गृहीतं तद् दधता सत्त्वमद्भुतम् ॥ ११५ ॥
अस्मिन् सत्त्व विनिर्मुक्ता वसन्ति पुरवासिनः ।
असात्त्विकं पुरं सर्वमिदं स्वामिन् ! त्वया विना ।११६॥
इत्थं तस्य वचः श्रुत्वा बभाषे नरपुङ्गवः ।
अर्पयाऽमुं गृहाण त्वं स्वर्णलक्षं निजं यथा ॥११७॥
गृहीते सति दारिद्यपुरुषे धरणीभुजा ।
तद्भयादिव मार्तण्डो ययौ पश्चिमभूधरम् ॥ ११८ ।।
दौर्भाग्यमिव दारिद्ये प्रससार तमस्ततिः ।
दूराद् ध्वस्तो दृगालोकः साधुवाद इव द्रुतम् ॥११९॥
इतश्च स्मेरराजीवं दधाना करपद्मयोः ।
लक्ष्मीः प्रादुरभूदने पुण्यक्षीराम्बुधेः सुता ॥१२०॥
देव ! यस्मिन्नयं भद्रः सुखं खेलति कौतुकी।
अहं तत्र न तिष्ठामि सतीव गणिकौकसि ॥ १२१॥
अहो ! विदधताङ्गेऽहं सत्य आभानकः कृतः।
ऊर्णायुः प्रज्वलस्तार्णपाणौकसि निविक्षिपन् ॥१२२॥
कार्य किमपि नो कार्यमविचार्य विचक्षणैः ।
प्रत्यक्षेणाऽनुमानेन परीक्षा च विधीयते ॥ १२३ ॥
अविचार्य कृते कार्ये पश्चाद् बुद्धिविचारणम् ।
सेतुबन्धनवद् धिर धिग् गत्पाथसि भूयासि ॥१२४॥

५६
मल्लिनाथमहाकाव्ये-
इत्थमुक्त्वार्थ देवी श्रीनिर्ययौ राजवेश्मनः ।
इतश्चागाद् नरः कोऽपि पुरस्तात् पृथिवीपतेः ॥१२५॥
अथाभ्युवाच भूपालः कस्त्वं कस्मात् समागतः ।
सोऽप्यूचे देव ! दानाख्यं पुरुषं मां विचिन्तयेः॥१२६॥
यंत्र लक्ष्मीरवस्थानं तनुते सुकृतोदयात् ।
प्रायशस्तत्र तिष्ठामि मराल इव मानसे ॥ १२७ ॥
चिरं स्थितस्तवाऽऽवांसे प्राप्तं लक्ष्मीफलं मया ।
यास्यामो वयमेतर्हि स्वस्ति तुभ्यं महात्मने ॥१२८॥
इत्थं दाननरो भूपं प्रत्युक्त्वाऽथ श्रियं प्रति ।
चलितो दत्तसंकेत इव राजनिकेतनात् ॥ १२९ ॥
इतश्चागाद् नरस्तद्वत् पुरतः पृथिवीभुजः।
देव! त्वं विद्धि मां श्लोकनामानं वेगवत्तरम् ॥१३०॥
लक्ष्मीलताफलं यत्र देव! दानं विज़म्भते ।
तत्राहं सततं कुर्वेऽवस्थानं गुणबद्धवत् ॥ १३१॥
तूष्णींभाजि महीनाथे श्लोकनामा नरः क्षणात् ।
तत्पादाभ्यामचलत् तदाहूत इवोच्चकैः ॥ १३२ ॥
इतश्च चण्डकोदण्डं दोर्दण्डे कलयन् कलम् ।
प्रादुर्वभूव मनुजः कोऽपि कार्तस्वराकृतिः ॥ १३३ ॥
कस्त्वं भवसि भूपेन पृष्टे सति महात्मना ।
सोऽभाषिष्ट वचश्चारु रूप्यघर्घरनिस्वनः॥१३४ ॥
भूपते ! सत्वनामानं मां विद्धि नररूपिणम् ।
श्रियं प्रति प्रयातास्मिन स्थास्यामि तवान्तिके ॥१३५।।
विहस्येत्यगदद् राजा त्वां समुद्दिश्य चित्तगम् ।
गृहीतमिदमुद्दामं दारिद्यं दयितान्वितम् ॥ १३६ ॥
श्रीर्यातु यातु दानं च यातु श्लोकोऽपि लोकतः।
न ते गमनमाजीवमनुमन्यामहे वयम् ॥ १३७ ॥

द्वितीयः सर्गः । ५७ - सर्वेऽप्यास्त्वयि सति प्राप्यन्ते पाणिपङ्कजे । न नरस्त्वां विना भाति वक्ता निर्लक्षणो यथा ॥१३८॥ अर्थास्तावद् गुणास्तावत् तावत् कीर्तिः समुज्ज्वला । यावत् खेलसि सत्व ! त्वं चित्तपत्तनमध्यगः ॥१३९॥ निशम्येदमुवाचाथ सत्त्वनामा महामतिः । देव! स्थास्यामि यौष्माकगुणसंवन्धवद्धधीः ॥१४॥ इतोऽभाणि श्रिया देव्या हंहो! दान! नरोत्तम । नैवाद्यापि समायाति सत्त्वनामा महाबलः॥१४१॥ वयमेकाकिनः सर्वे तमेकं पुरुपं विना । लोचनं हि विना सर्वमङ्गोपाङ्गं हि पङ्गुवत् ॥१४२॥ ततो दाननरोऽचालीदाहातुं सत्त्वपूरुपम् । नृपपार्श्व समागत्य दृष्ट्राऽमुं तत्र संस्थितः ॥१४३॥ अनायाते नरे दाने दध्यौ लक्ष्मीः स्वचेतसि । वन्दिग्राहेण मां कश्चिद् ग्रहीता गतयामिकाम् ॥१४४॥ अथ श्लोकेन सा साकं समागत्य नृपाग्रतः । उवाच देवी भूपालं दीप्यमाना रदद्युता ॥ १४५ ॥ देवाऽहं पद्रदेव्यस्मि त्वत्पुरद्वारवासिनी । मत्सखी चन्द्रभागाऽस्मि चन्द्रज्योत्स्लेव निर्मला॥१४६॥ तयाऽभाणि विहस्येदं तव नव्यस्य भूपतेः । किं यदस्तितरां सत्त्वं राज्यश्रीप्रतिभूनिभम् ॥१४७॥ ततो दारिद्यनामाऽयं मया चक्रेतरां नरः। तव सत्त्वपरीक्षायै महासत्त्वशिरोमणेः ॥ १४८ ॥ वरं वृणु महाभाग ! तुष्टाहं तव साहसात् । अथोवाच नृपो देवि ! हृषितासि यदि स्फुटम्॥१४९॥ शत्रोरमारकं राज्यलक्ष्मीवृद्धिनिवन्धनम् । वरं प्रयच्छ मे देवि! यदि तुष्टासि सत्यतः ॥१५०॥ अथ तस्मै ददौ देवी दिव्यरत्नं स्फुरत्मभम् । + ८

५८
मल्लिनाथमहाकाव्ये-
अस्मिन् बढे धनुर्दण्डे निद्रात्यरिवलं रणे ॥ १५१॥
अथो तिरोदधे देवी तत्सत्त्वालोकविस्मिता ।
राजापि नितरां दधे परमामोदसंपदम् ।। १५२ ॥
अथान्येधुर्यशो नाम दूत एत्य व्यजिज्ञपत् ।
देव ! चन्द्रकलापुर्या भूमीनाथः परन्तपः ।। १५३ ॥
तस्य सोमागभूः सूरः पद्मो यशोमतीभवः ।
भुजाविव समपाणावभूतां तनुसंभवौ ॥ १५४ ॥
कैतवेन विनिक्षिप्तः सोमया पद्मशेखरः।
तद्वियोगेन भूपालः परलोकमुपेयिवान् ॥ १५५ ॥
बभूव तत्पदस्वामी सूरः सोमासमुद्भवः ।
सोऽपि त्वदेशभागेषु समागाच्च युयुत्सया ॥ १५६ ॥
सहजं कृत्रिमं वापि यत्तु वैरं समं मया ।
तदहं वेनि नः स्वामिन् ! गूढमन्त्रः स भूपतिः।।१५७॥
सोऽयं भवानिवाऽऽकृत्या लक्ष्यतेऽलक्ष्यतेजसा ।
युवयोन तिलेनापि भेदः क्षीराम्बुनोरिव ॥ १५८ ॥
तत्क्षणं कणिकागुप्यद्गुर्वादिभिरनेकशः।
व्यानशे नगरीवाह्यप्रदेशोऽङ्गीच कर्मभिः॥१५९ ॥
वभूवुर्मण्डलाधीशाः सर्वसनहनोद्यताः ।
जहपुर्वीरभोगीणवाहवो बाहुसंभवाः ॥ १६० ॥
विन्ध्याद्रिभूरिवाऽऽभाति निर्यद्भिर्भूर्मतङ्गजैः।
हयैश्च सिन्धुवाहीकाऽऽकरनिर्मितवद् भृशम् ॥१६१॥
सुषमाकालजातैर्वा पत्तिभिश्च पदे पदे ।
स्थैरनेकनिष्पन्नप्रद्योतनरथैरिव ॥ १६२ ॥
प्रयाणैरुत्मयाणैश्च बहुभिः पद्मशेखरः ।
खकीयदेशसीमस्थः समभूदु भूरिसैन्यवान् ॥ १६३ ॥
सूरोऽपि निकटीभूय तस्थिवान् वलमेदुरः ।
आवाससंस्थया विभ्रत् सार्वभौमबलश्रियम् ॥१६॥

द्वितीयः सर्गः। ५९ ॥ संजग्माते क्रमेणाऽथ सेनाम्भोधी महारयौ । खनत्समरतूर्यालीगम्भीररवभीषणौ ॥ १६५ ।। गजा गजैरयुध्यन्त योधा योधै रथा रथैः । दन्तादन्ति खड्गाखड्गि तुण्डातुण्डि यथाक्रमम्।।१६६॥ रजोराज्याऽम्बरे छन्ने घण्टानादैर्महागजाः। सुभटैरन्वमीयन्त प्रोद्गारैरिव भोजनम् ॥ १६७ ।। मुद्गरैः केपि पात्यन्ते पवनैरिव पादपाः । अधावन् केचनोदना उद्दन्ता इव दन्तिनः ॥ १६८ ॥ पद्मशेखरभूपालवलं निर्वलतां गतम् । सूरभूमीपतेः सैन्यसन्निपातेन सर्पता ॥ १६९ ।। दत्तं देवतया रजे कोदण्डे पद्मशेखरः। ध्वान्ताधायि परवले वंशे ध्वजमिवादधे ॥ १७० ॥ अथाऽवष्टभ्य कोदण्डे स्वदोर्दण्ड इवाऽर्पिते । निद्रान्ति स्म भटाः सौमाश्चिरं भ्रान्ताऽध्वगा इव।।१७१।। केचिद् रथेषु रथिनस्तल्पेषु रचितेष्विव । प्रसार्य चरणद्वन्द्वं शेरते स्म रणाङ्गणे ॥ १७२ ॥ केषां पाणितलादत्रं हियेव गलितं ततः। पूर्वाधीतं यथा शास्त्रमिव स्मरणवर्जनात् ॥ १७३ ॥ तुरगा अपि निद्रान्ति किञ्चिन्मीलितलोचनाः। ऊर्ध्वस्था नवमुद्गानां खेच्छया खादनादिव ॥१७४॥ अथो पद्ममहीपालो नियम्य निजवान्धवम् । सूरं निजे रथे न्यस्यत् गुम्फेर्थमिव सत्कविः॥१७॥ कोदण्डाद् देवतारत्नमुः पद्मशेखरः। सुप्तोत्थिता इव भटा बभूवुः सूरसेविनः ॥१७६॥ जितकाशी नृपः पन आसाद्य विषयं निजम् । पुरी चन्द्रकलां पाप प्रतापजितभा पतिः ॥१७७॥ परन्तप इव प्राज्यं राज्यं भवलविक्रमः । .

- . ६० मल्लिनाथमहाकाव्ये- आससाद पुरं चापि स त्वरितवलान्वितः ॥१७८ अन्येाः कोऽपि निर्ग्रन्थो ग्रन्थवद्वर्णभास्वरः । सतत्त्वः सज्जनानन्दी पूर्व हि समवासरत् ॥१७९।। तं वन्दितुं महीनाथः सनाथः परया मुदा । अगादुपवने तस्मिन् महामुनिपवित्रिते ॥ १८० ॥ प्रणम्य परया भक्त्या सुखासीने क्षितीश्वरे । महामुनिरुवाचेदं मोहध्वान्तदिवामुखम् ॥ १८१॥ अमुष्यां संमृतौ सर्वमस्थैर्यस्य मुखं सुखम् । दाराः कारागृहाणीव जीवितं फेनवच्चलम् ॥ १८२॥ श्रुत्वेदं पद्मभूपालो भववैराग्यभावतः । अवोचत प्रभो ! कर्मविपाकेभ्यो विभेम्यहम् ॥१८३॥ कर्मवन्धच्छिदं कञ्चिद् मार्ग सन्मार्गदेशक ।। निवेदय परं पूर्वभवं श्रोतुं समुत्सुकः ॥ १८४ ॥ अथाभ्युवाच निर्ग्रन्थः पुरातनभवेऽभवः । भाल्लूकनामनि ग्रामे जिनदत्तः कृषीवलः ॥ १८५।। भीष्मे ग्रीष्मे त्वमन्येाहीत्वा शकटावलीम् । अनेकैः किंकरैः पूर्णामायासी मकाननम् ॥ १८६ ॥ लकोद्देशमिवोत्तालपलाशशतसंकुलम् । गेयवद् विलसत्तालं सशालं नगरं यथा ॥ १८७ ॥ पाण्डुपुत्रमिव प्रेवदर्जुनेन प्रसाधितम् । हरिवक्ष इव क्रीडद्वनमालाविभूषितम् ॥ १८८ ॥ (त्रिभिर्विशेषकम् ) कांश्चिदुच्छेदयामास मूलादपि विरोधिवत् । शाखोपशाखाविकलांश्चक्रे कांश्वन भूपवत् ॥१८९॥ गगनाङ्गणमाध्यस्थ्यं गते गगनदीपके । अगाः समं कर्मकरैः सरो मानसविभ्रमम् ।। १९० ॥ इस्तपादादिकं शौचं विदधुः किंकरास्तव ।

द्वितीयः सर्गः। इतश्चागाद् मुनिः कश्चिद् मार्गभ्रष्टस्तदन्तिके ॥१९॥ दिष्ट्या दृष्टा मुनिं दध्यौ धन्योऽहं यदसौ मुनिः । मया दृष्टो महारण्ये कल्पद्रुम इवाऽङ्गवान् ॥ १९२ ।। तदेव भोजनं शस्यं यद् दत्तं गुरवे भवेत् । सैव प्रज्ञा यया पापं न कुर्याद् विधुरेष्वपि ॥ १९३ ॥ विमृश्येदं विशुद्धात्मा भूरिभावविशेषतः । द्विः करम्बेण पीयूषशीतेन प्रत्यलाभयत् ॥ १९४ ॥ तवाभ्यर्णचरचण्डो भवन्तं दानतत्परम् । विलोक्य धन्योऽयमिति मुहुस्त्वामन्वमोदत ॥१९५।। वसन्ती जगतीं प्राप त्वत्सार्थेन महामुनिः । क्रमेण च भवांल्लेभे सौधर्म त्रिदशश्रियम् ॥ १९६ ॥ अथ च्युत्वा भवाञ्जज्ञे नरेन्द्रः पद्मशेखरः । करम्बदानाद् दिलाभोऽभवद् राज्यद्वयस्य ते ॥१९७॥ चण्डोऽपि क्रमशो जज्ञे तस्मिन् यक्षो महावने । भवान् यत्र समायातो देवीकूटप्रयोगतः ॥ १९८ ।। यक्षेण फणिनो रूपं विधाय त्वं च रक्षितः । संहृतं तव खर्वत्वं राज्यलक्ष्मीसमागमे ॥ १९९ ॥ अहो ! सुपात्रदानस्य यत् फलं जायतेऽङ्गिनाम् । वागीशोऽपि गिरां गुम्फैस्तद् वर्णयितुमक्षमः॥२०॥ यत्त्वयामच्छि भूनाथ ! समुपार्जितकर्मणाम् । विपाको बन्धसत्तात्मा चतुर्गतिनिवन्धनम् ।।२०१॥ स विपाकः क्षितेनाथ ! सर्वकर्मलतापनः । जिनभर्तुविना दीक्षां वध्यमानो न रक्ष्यते ॥ २०२॥ यतः- प्रव्रज्या भवपाथोधिनिस्तारणतरीनिभा । प्रव्रज्या साम्यमाकन्दवसन्तसमयोपमा । २०३ ।। श्रुत्वेदं पद्मभूपालो राज्यसौस्थ्यं विधाय च ।

६२ मल्लिनाथमहाकाव्ये- प्रव्रज्यामाददे राजपुत्रैः साकं तदन्तिके ॥ २०४ ॥ परिपाल्य चिरं चार चारित्रं राजसंयमी । एकावतारः समभूद् वैजयन्ते स नाकसत् ।। २०५॥ तस्माच्च्युत्वा विदेहेऽसौ प्राप्य तीर्थकरव्रतम् । अक्षयं नीरु कान्तं निर्वाणपदमष्यति ॥ २०६ ॥ श्रुत्वेदं हन्त ! सत्पात्रं फलं न विकलं श्रिया । उवाच विस्मितो राजा राजमानो महाबलः ॥२०७॥ साम्पतं श्रोतुमिच्छामि गुरोः शीलनिदर्शनम् । उत्सुकोऽस्मीति गदिते वभाषे संयमीश्वरः ॥ २०८ ॥ सर्वेषामपि धर्माणां दुष्करं शीलपालनम् । इदं वशंवदं सर्व भुवनं पुष्पधन्विनः ॥ २०९ ॥ शीलं भावलतामूलं शीलं कीर्तिनदीगिरिः । शीलं धर्माब्दपाथोधिः शीलं पापगिरेः पविः।।२१०॥ यथा महीपतिर्नीत्या यथा रात्रिः शशिधुता । यथा च दयया धर्मो यथा पूर्वप्रसंपदा ॥ २११ ॥ यथा क्षान्त्या च निर्ग्रन्थो यथा ग्रन्थः सदाख्यया । यथा ज्ञानं क्रिययाऽङ्गी तथा शीलेन भूष्यते ॥२१२।। (युग्मम् ) इलथसद्भावनाधर्मः स्त्रीविलासशिलीमुखैः । सुनयोराहतोऽधस्ताद् निपतेच्छीलकुञ्जरात् ॥२१३॥ अकीर्तेः कारणं योषिद् योषिद् वैरस्य कारणम् । संसारकारणं योषिद् योषितं परिवर्जयेत् ॥२१४॥ सुशीलापावना काचित् स्तूयते विबुधैरपि । यथा पौतिकवृत्तान्ते श्रूयते वनमालिका ॥ २१५ ॥ तथाहि पुष्करद्वीपे कालम्भोधिमनोहरे । पुरं विभूषणं नाम भूतधात्रीविभूपणम् ॥ २१६ ॥ निरालम्बपरिभ्रान्तो यत्र श्रान्तो दिवाकरः ।।

दिनीयः सर्गः। ६३ भभनिएपन्यान प्रदनंपायनपिन ।। २१७ ॥ मापजानकानिर्गन्धुपमं घनोपमम् । विलाप कफिनः कमां गुर्वन यत्र रेग्मगाः॥२.१८॥ नम्मिन बभूव भूपाला विमलो विमलागयः । मृन्या मोमोऽपि यः मृगः पनापन प्रकाशने ॥२१९।। नाना नम्पकमालनि पुष्पमान महणा। तम्यागीत संयनी प्रमग्नगराणलिया ।। २२० ॥ भन्येशुमृगयाऽऽमतो पावनमगाट नृपः । पानवमपर्णपानेः मा गाधणोजिमनः ॥२२॥ ननी रंगपवन कपि ममुगनपरश्वधाः । फनिन् प्राकाग्नद भृरिन्यम्तयन्त्राः पद पटे॥२२२॥ जधान निगिनः कुन्नः कविताहय शुकरम् । कश्चिन्द्रग्रहयग्रो निलीनोऽस्थालतान्तरे ।। २२३ ।। उद्दीनपक्षिपक्षात्यविगवेः करुणाकरः । अहो! अन्यायवाश्यं तु व्याजहारंव काननम् ।।२२४॥ एतन्मरन्ददम्भन रुदत्विव बनविन । भयेन कम्पमानासु वल्लरीए भुनाम्बिव ॥ २२५ ॥ कंचित् पादहीनपु धार्यमाणः केचित् । केपुचित् प्रोबहीनपु पुच्छहीनेषु केचित् ।। २२६ ॥ केपुचिद् वध्यमानेपु मार्यमाणेपु केपुचित् । केपुचिद् नश्यमानेषु श्वापदोघेषु सर्वतः ॥ २२७ ॥ इतश्च कश्चिदागत्य प्रणम्य परया मुदा। व्यजिज्ञपद् महीपालं कालं काननचारिणाम् ॥२२८॥ (चतुर्भिः कलापकम्) देव! ऋक्षाध्वचारेण गच्छता दूरतो मया । एका निरीक्षिता वाला कामसंजीवनौषधम् ॥२२९।। तस्या रूपमतिच्छन्दो दर्पणे यदि वीक्ष्यते ।

६४
मल्लिनाथमहाकाव्ये-
सुधारसस्य किं तुल्यं त्रिजगत्यपि वर्तते ? ॥ २३० ॥
तद्रूपं वीक्षमाणोऽहं निर्निमेषविलोचनः ।
कोऽहं कुतश्च किं नाम न जानामीति मत्तवत् ? ॥२३१॥
सर्वाश्चर्यनिधानाया यदि तस्या भवान् पतिः।
पुरुषार्थस्तृतीयोऽपि ततः प्रथमतां गतः ॥ २३२ ॥
निशम्येदं महीपालो विमलश्चित्रिताशयः ।
तन्मार्ग दर्शयाऽस्माकमकारणसुहृत्तमः ।। २३३ ॥
तस्याध्वदर्शनेनाऽथ ध्रुवस्य गुरुपोतवत् ।
संचेरे धरिणीनाथस्तत्काननमहोदधौ ।। २३४
दूरादेव समायान्तमवलोक्य तपोधनाः।
उत्तस्थुरुदयाहार्योंदिततिग्मांशुविम्बवत् ॥ २३५ ॥
षडंशभागिने तस्मै पाद्यमयं यथाविधि ।
दत्त्वा कुशाऽऽसने राजा महर्षिभिनिवेशितः ॥२३६॥
तेषां मुख्यो जगादैवं चन्द्रः कुलपतिस्ततः ।
धन्या वयं यतो दिष्ट्या दृष्टस्त्वमसि तत्ववित् ॥२३७॥
भवते तत्रभवते सपर्या काञ्चनाऽधुना ।
करिष्यामोऽतिथिभ्यो हि प्रदत्तं श्रेयसे किल।।२३८॥
अथाह धरिणीनाथः पाथोनाथपृथुध्वनिः ।
युष्माकमिदमातिथ्यं यदाशीर्वादमङ्गलम् ॥ २३९ ।।
अथ प्रोवाच स ऋषिर्विहस्य जगतीपतेः ।
यदाशीर्वाददुष्पापं तद् मया दास्यतेऽधुना ॥२४॥
ततः पुरस्थितां कन्यां धृतवल्कलवाससम् ।
साक्षात्सिद्धिमिवात्मीयामदीदृशदसौ ऋषिः॥२४१॥
उक्तिप्रत्युक्तिकालोऽयं नैवाऽस्माकं गुणानघ!।
परमेकां वरां कन्यां कृतार्थय करग्रहात् ॥ २४२ ॥
अथो वभापे भूपालः केयं किं नाम कन्यका ।
कमलकुरुते वंशं किमर्थमिह संस्थिता ॥ २४३ ॥

द्वितीयः सर्गः। ६५ . M ' इत्युक्ते धरिणीभ; जगादपिमहातपाः। शुभाख्ये पत्तने भूमान् समभूद् मेघवाहनः ॥२४४॥ निजनाथमनःपान्थविश्रामप्रान्तरप्रपा । तस्य लक्ष्मीवती देवी लक्ष्मीर्लक्ष्मीपतेरिव ॥२४५।। वार्धकोत्पन्नवैराग्यो लक्ष्मीवत्या समन्वितः । गिरिगर्भाश्रमे रम्ये तापसव्रतवानभूत् ॥ २४६॥ देव्या पूर्वभवो गर्भः पूर्व राज्ञोऽप्रकाशितः । अवर्धिष्टाऽऽश्रमस्थाया वल्ल्याः फलमिवोच्चकैः।।२४७॥ सुषुवे सा सुतां कान्तां गङ्गेव स्वर्णपद्मिनीम् । वनमालेति नामाऽभूदस्या दत्तं महर्षिभिः ॥२४८॥ बाल्यावस्थां व्यतीत्याऽसौ वल्कलाम्बरधारिणी। रूपसौन्दर्यराजिष्णुयौवनं समुपाययौ ॥ २४९ ।। अस्याः मियो भवानेव ज्ञानाज्ज्ञातो महीपते । दिनाधिपं विना नान्यः कमलिन्या यतो वरः॥२५०॥ अर्थिनां कामधुकल्पः कल्पद्रुरिव जगमः । लावण्यजलपाथोधिदृशां विश्रामपल्लवः ॥२५१॥ कलानामेक आधारः क्षत्रवंशसमुद्भवः । एवं विमृशतामत्रभवानत्र समाययौ ॥२५२॥ (युग्मम्) वल्लीनिभालिता यैव सैव लग्ना पदाम्बुजे । एकं हरिः परं गेहमायात इति सत्यगीः ॥२५३॥ इत्युक्त्वा कुलपो भूपं सुमुहूर्ते शुभे दिने । लक्ष्मीमिवाऽम्बुधिः कृष्णं पर्यणाययदङ्गजाम् ॥२५४॥ प्रणत्य मुनिमुर्वीशो निवृत्तः स्वपुरं प्रति । ऊचे परिजनं सर्व गिरा मेघगभीरया ॥२५५॥ यः कश्चिद् मोहतो लोभाद् यदा कलहकौतुकात् । इमां चम्पकमालायाः पुरतः कथयिष्यति ॥२५६॥ खयं गतदयं हन्त ! हनिष्याम्यहितं हि तम् । S ६६ मल्लिनाथमहाकाव्य- - F इत्युक्ते तज्जनोऽवादीद् नाथ ! शोश्रूयतां वचः।।२५७॥ युष्मत्प्रसादपात्रं स नर्मकेलिर्विदूषकः । रक्षणीयः प्रयत्नेन शपथैरपि सर्वथा ॥ २५८ ॥ नर्मकेलिरथाऽवादीद् मुक्त्वा व्यतिकरं त्वमुम् । नान्यद् भोः ! कथयिष्यामि यतःसत्ययुधिष्ठिरः।२५९॥ हो! ग्रहिल ! मा ग्रामं ज्वालयेति निवारिते। स्मारितोऽहं शुभमिति लोकोक्तिः सत्यवाक् कृता॥२६०॥ इत्थं निर्भय॑ भूपालो नर्मकेलि विदूषकम् । न्यक्षेपयत् क्षणात कारागारे नरकसन्निभे ॥२६॥ योगीन्द्रो भैरवानन्दी खवाङ्गीह समागमत् । तमुपासितुमेतहि गच्छामि मृगलोचने ! ॥२६॥ व्यपदिश्यति भूपालो देवी चम्पकमालिकाम् । वनमालां नवावासवासिनीमभ्यपद्यत ॥ २६३॥ कियत्यपि गते काले देवी चम्पकमालिका । ब्राह्म मुहूर्ते विदुषी चिन्तयामास चेतसि ॥२६४॥ योगीन्द्रव्यपदेशेन निषिध्य स्वपरिच्छदम् । नवोढां योषितं काञ्चिद् यात्यसौ कपटे पटुः ॥२६५॥ विमृश्येति सहाऽस्तोकलोका चम्पकमालिका। यावत् कारागृहाभ्यणे संप्रापत् कोपनाऽऽशया॥२६६॥ तावदेक्ष्यत सा देवी तत्क्षणं नर्मकलिना। मेघदृष्टिरिव शुष्यच्छस्यौघेन कुटुम्बिना ॥२६७॥ करमूर्ध्व वितन्वानः शाखोद्धारमिवाऽऽयतम् । उवाच देवि! त्वत्कार्ये मम जातं निवन्धनम् ॥२६८॥ श्रुत्वेदं विस्मिता देवी तत्रागत्येत्युवाच सा । किमर्थं तव संजाता मम कार्ये हि दुःखता ?॥२६९॥ देवि ! श्रीविमलो राजा मृगयायामुपागतः । वनमालां परिणिन्ये प्रदत्तां तापसैजनैः ।। २७० ॥ ..

द्वितीयः सर्गः। ६७ भयपूर्व निपिढेऽथ समस्ते स्वपरिच्छदे । मया संलपितं देव्याः कथयिष्यामि निश्चितम्।।२७१।। तां चित्ते विभ्रता भस्माडुरां राज्ञा ममोपरि । पीति वियुच्य मयुचरीगी विदधे दशा ॥२७२।। प्रदीप्यमाना कोपेन कारागारादमुं ततः । आकृप्य नर्मकेलि च वभापे वान्धवोऽसि नः ॥२७३।। जगाम वनमालायाः सौधं चम्पकमालिका । विपकमणीतेन सा मार्गेण निरर्गला ॥ २७४ ॥ अवस्कन्दमिवायान्ती तां दृष्ट्वा सौधरक्षकाः । पलायाञ्चक्रिरे भीतिश्लयमूर्धनवन्धनाः ॥२७५।। अमुनथ समादाय वनमाला भयद्रुता । सौधोत्सगाद् ददौ झम्पा भयार्ताः किं न कुर्वते ॥२७६।। निपतन्ती द्विजः कश्चित् स्वामिदत्तप्रसत्तिवत् । वनमालां गृहीत्वाऽऽशु न्यक्षिपद् गर्भवेश्मनि॥२७७॥ विभ्राणाः सुभटाः केचिद् रोमाञ्चान् कवचानिव । कौक्षेयकान् समाकर्पन यमजिह्वाभयङ्करान्।।२७८।। केचिद् दृढतरं दत्वा भीत्या द्वारं स्तनन्धवान् । रुदतोऽपि निषेधन्ति दत्त्वा पाणिं मुखाग्रतः ॥२७९।। अक्रियन्त प्रतोल्योऽपि दत्तद्वारा महाभटैः । निषिद्धलोकसंचारा महतीषु निगास्तिव ॥२८॥ नृपः कृत्वा समागच्छन् दाहाल्यां वाहवाहनम् । श्रुत्वा तुमुलमनाक्षीत् किमेतदिति रक्षकान् ? ॥२८१॥ ततः कलकलं राजा निशम्योचे स्वरक्षकान् । किमागात् परचक्रं भोः किं वाऽकाण्डयुगक्षयः॥२८२॥ उवाच रक्षको ज्ञात्वा समुद्भूतं तदद्भुतम् । तच्छुत्वा शून्यचेतस्कः सोऽभवद् गतवित्तवत्।।२८३।। १ निषिद्धे तु इत्यपि पाठ. । २ साक्षेपनिति च।

मल्लिनाथमहाकाव्ये- अथ चम्पकमालापि भूपतेः पार्श्वमेत्य च । अभाषिष्ट मृषावादी त्वत्तो नान्यो जगत्यपि।।२८४॥ योगिनं भैरवं नन्तुं प्रयामीत्युपदिश्य माम् । भैरवीं तां मुहुर्यासि सेवितुं निजवल्लभाम् ।।२८५।। इत्युक्त्वा कोपना देवी कोपागारमुपेत्य च । उद्घन्धनं व्यधादाऽऽशु नास्ति कोपवतां मतिः॥२८६॥ अन्वेषिताऽपि शतशो महीशेन जनैरपि । न दृष्टा वनमाला सा हस्तभ्रष्टाणुरत्नवत् ॥ २८७ ॥ यः कश्चिद् वनमालाया उदन्तं कथयिष्यति । तस्मै लक्षं प्रदास्यामि दीनाराणां विनिश्चितम् ॥२८८ इति घोषणया राजा ताडयामास डिण्डिमम् । शुद्धिस्तथापि न कापि लेभे दुःखी ततो नृपः॥२८९॥ निवृत्ते सर्वथाऽमुष्या उदन्ते दिक्षु विस्तृते । समातृको द्विजस्तस्मात् तया साकं विनिर्ययो॥२९॥ किञ्चिागमतिकान्तो द्विजः प्रोवाच तां निशि । दुःखाद् रक्षितपञ्चत्वे ! साम्पतं वल्लभा भव ।।२९१॥ आकर्येत्यवदद् देवी द्विजोऽसि मतिमानसि । क्षत्रियाण्या समं कामं संगमं किं विधित्ससि? ॥२९२॥ प्रतापाक्रान्तलोकोऽपि परासक्तो दिवाकरः । अपराधीव दैवेन पात्यते वार्धिपाथसि ॥ २९३ ॥ पुराणवेदिनो यूयं यद्यन्यायं करिष्यथ ? । तदा सन्येति गीरासीत् समुद्राद् धूलिरुत्थिता॥२९४॥ आपातरम्यैर्विपयैः किम्पाकद्रुफलैरिव । कथं स्वकुलमर्यादां त्यजसि क्षयवाधिवत् ? ॥२९५॥ दिवा न वीक्षते घूकः काको नक्तं न वीक्षते । कामातः कोऽपि पापीयान् दिवा नक्तं न वीक्षते ॥२९६॥ १ अभापतेति पाठान्तरम् ।

द्वितीयः सर्गः। ६९ जीवितं शीलमेवैकं कुलीनस्य क्षमातले । आयुर्मतादभ्यधिको यतः शीलमृतोऽशुभः ॥२९७।। : गुरुस्त्वं प्राणदातृत्वाद् महीशस्तव नन्दनः । अहं पुत्री स्नुषेवाऽथ कथमन्यद् विभाषसे ? ॥२९८॥ एप प्रोवाच कोपेन विदुष्यसि दुरात्मिके ! । अतस्त्वां मारयिष्यामि मारैर्नवनवैरहम् ॥ २९९ ॥ त्वदर्थे विषयस्त्यक्तः सेवितोऽपि हि पूर्वजैः । परं तवेदृशी चेष्टा निकृष्टे ! दुष्टचेष्टिते ! ॥ ३०० ॥ त्यक्तं राज्यं त्वदर्थेन देशो वन्धुः कुलं गृहम् । वित्तं मित्रं निजा भूमिः परं ते चेष्टितं ह्यदः ॥३०१॥ । वनमालाऽप्यथोवाच रक्षताद् मां महापदः । जनकोऽसि सदाचारपरोपकृतिसुन्दरः ॥ ३०२ ।। 1 अथाकर्षद् द्विजश्चर्मकोशादस्त्री भृशं सिताम् । कामान्या इव कोपान्धा कृत्याकृत्यपराङ्मुखाः३०३॥ ब्राह्मणस्य ततो माता वभाषे प्रेमवन्धुरम् । जीवन् प्राणी सुते ! भद्रशतं पश्यति निश्चितम् ३०४॥ बनमालाऽगदद् मातः ! पञ्चत्वं मम जायताम् । तथापि शीलविध्वंसो मा मे भवतु जातुचित् ॥३०५॥ ज्ञात्वेति निधनत्वेऽपि सस्पृहां शीलपालनात् । सहस्रेण सुवर्णस्य विक्रीणीते स्म स द्विजः ॥३०६॥ क्रायकेणापि तेनाशु प्रार्थिता द्विजवद् भृशम् । तद्वत् प्रोवाच सा साध्वी ह्येकरूपा सती यतः॥३०७॥ ततो बर्बरदेशे सा विक्रीता तेन विप्रवत् । एकत्रापि हि दुर्दैवाद् भवे भवशतं भवेत् ॥ ३०८ ॥ कद्रन्नभोजिनी कामं मलाविलकलेवरा । वनमालाऽभजद् नूनं शुष्कमालेव हेयताम् ॥३०९।। अन्येास्तृणकाष्ठौघमानेतु काननं.गता । 1 - मल्लिनाथमहाकाव्ये- ततः सा मृच्छयाऽभ्रश्यत् पृथिव्यां छिन्नक्षवत्३१०॥ मृतेव गतनिःश्वासा मौनिनी योगिनीव सा। अलब्धसंज्ञा सुचिरं स्थिता ही विधिजम्भितम्।।३११।। मृतकल्पामिमां चञ्च्चा ततो भारण्डपक्षिराट् । जगृहे नीरधेरन्तीपे चन्द्रकलाह्वये ॥ ३१२ ॥ अम्भोधिवीचिभिर्लब्धसंज्ञाऽभूद् वनमालिका । संशुष्यदल्लरीवोच्चैः प्रथमाम्भोददृष्टिभिः ॥ ३१३ ॥ किश्चिञ्चलत्तनूं दृष्ट्वा तां मुक्त्वा च नभस्तले । दयाधर्मपरायत्तश्चलति स्म स पक्षिराट् ॥ ३१४ ॥ 'स्वस्था सा हृदये दध्यौ तद् वृत्तं स्वप्नदृष्टिवत् । क चाश्रमो महर्षीणां क च राज्यपरिक्रिया ?॥३१५॥ क चाऽयमन्तरद्वीपे निवासो जनवर्जिते ? । क्व च मृर्छागमोऽरण्ये क्व चाऽयं वीचिसङ्गमः१३१६॥ " अथवा दुःखसंदोहो ममाऽन्योऽपि प्रसर्पताम् । पश्चादपि हि यद् देयं तत्पूर्व किं न दीयते ॥३१७॥ इति मीमांसमानायां तस्यां कश्चन पूरुषः । समभ्येत्याऽभ्यधादेवं प्रेममन्थरया गिरा॥ ३१८ ॥ कासि विस्मेरपझाक्षि ! कस्मादिह समागता । इत्युक्ते तेन सा कामं मौनमुद्रामशिश्रियत् ।। ३१९ ।। सोऽथाऽभाषिष्ट वृत्तं मे शृणु शोभनदर्शने !। कासारनगरावासी भन्नपोतो महोदधौ ॥ ३२० ॥ दैवात् फलकमासाद्याऽन्तरीपं प्राप्य सुन्दरि ।। एकाकिनोऽद्वितीया मे द्वितीया त्वं भविष्यसि ॥३२॥ श्रुत्वाथ दध्यावित्येपा हा ! दूरक्षमिदं व्रतम् । यत्र वा तत्र वा यातु कर्पासो लोठ्यते जनैः ॥३२२॥ उवाच वनमालेदं मा वान्धव ! वदेदृशम् । १ तस्थुप इत्यपि पाट ।

द्वितीयः सर्गः।
७१
लोकद्वयविरुद्धं हि किं कुर्वन्ति विवेकिनः ? ॥३२३।।
अथ बौहित्थिकस्तस्याः कण्ठपाशं ददौ दृढम् ।
एवं सौधर्मकल्पस्य पश्यन्ति स्म सुधाभुजः ॥३२४॥
तां पञ्चत्वदशां प्राप्तामपि पालितसताम् ।
वनमालां विलोक्यते प्रादुरासन् सुधाशनाः ॥३२५।।
रे पौतिक ! परस्त्रैणसङ्गलालसमानस !।
कथमेतां सती हंसि शौनिको वर्करीमिव ? ॥३२६ ।।
शीलव्रतप्रभावेण वयमस्याः पदातयः ।
तवैतत्माणघातेन कृतान्ताऽनुचरा इव ॥ ३२७ ॥
ततः पोतवणिग् भुञ्जन्निवाऽऽस्येऽक्षिपदमुलीः ।
सर्वासामपि भीतीनां मरणं हि महद् भयम् ॥३२८॥
अर्थतैः करुणासान्द्रस्तं विमुच्य नृपमिया ।
विज्ञायाऽवधिना नीता विभूपणपुरे पुरे ॥ ३२९ ॥
आवासमध्यमासीनां तां निरीक्ष्य क्षितीश्वरः ।
विस्मयस्मेरहदयो यावद् ध्यायति किञ्चन ॥३३०॥
अथोचुस्ते सुपर्वाणो देव ! धन्या वयं ननु ।
सतीचूडामणेरस्याः प्रणतं यत् पदद्वयम् ॥ ३३१ ।।
अमुष्याः शीलमाहात्म्यं वागीशो वक्तुमक्षमः ।
मन्ये शून्यपदभ्रान्ति नित्यं नित्यं दधात्यलम् ॥३३२॥
ततः पौतिकवृत्तान्तमनल्पं कल्पवासिनः ।
प्रजल्पन्ति स्म विस्मेरवदनाम्भोजराजिताः ॥३३३॥
अस्याः शीलमनश्लील हरेर्वर्णयितुं पुरः।
गच्छामो वयमित्युक्त्वा प्रचेलुः कल्पवासिनः॥३३४॥
सस्नेहमगदद् देवी देव ! कस्मात् कृशाङ्गकाः।
भवन्तः श्वेतवसनाः संप्राप्तदर्शना इव ? ॥ ३३५ ॥
देवि! त्वद्विरहे प्राप्ते क्षमिणः साम्यभाजिनः ।
जैनाचार्याः समाजग्मुहिरन्तः कृपालवः ॥ ३३६ ॥

७२ मल्लिनाथमहाकाव्ये- १ तेषामन्तेऽर्हतो धर्म श्रुत्वा न्यगदमञ्जसा। दीक्षां दत्त भवाम्भोधौ मङ्गिनीमङ्गिनीमिव ॥३३७॥ राजन् ! भोगफलं कर्म तवाद्यापि हि वर्तते । ततोऽहं न्यगदं तूर्णमपूर्णस्वमनोरथः ॥ ३३८ ।। वनमालां विना स्वामिन् ! सर्वस्त्रीनियमो मम । तस्याः शुद्धिर्मया लब्धा न चरैरपि भूरिभिः॥३३९॥ अखण्डशीलालङ्कारा रुन्धतीव महासती । राजन् ! द्वादशवर्षान्ते मिलिष्यति तव प्रिया॥३४०॥ वामिन् ! मम कथं दुःखं जातं द्वादशवार्षिकम् । अथोचे भगवानेवं ज्ञानज्ञातजगत्त्रयः ॥ ३४१ ॥ 'अनेकगोधनस्वामी भद्रसंज्ञः कृषीवलः । शालिग्रामे पुराऽऽसीस्त्वं दीनदानपरायणः ॥३४२॥ शरत्काले समायाते केदारे शालिशालिनि । गतस्त्वं हंसमिथुनमपश्यः काममोहितम् ॥ ३४३ ॥ गृहीत्वा वारलां पाशैषस्यन्तीमथैकदा। आलिम्पस्त्वं कुङ्कुमेनात्मानं चाशुभकर्मणा ॥३४४॥ तद्वियोगातुरो हंसः परिभ्रमन्नितस्ततः । नैवाऽऽद विशखण्डानि नैवाऽऽप सलिले रतिम् ॥३४५॥ अथ तं तादृशं वीक्ष्य वारलां जलधारया । अन्ते द्वादश नाडीनां प्रक्षाल्य दययाऽमुचः ॥३४६॥ दीनदानप्रभावेण त्वमभूद् धरणीश्वरः। दानेन परमा भोगा भवन्ति भववर्तिनाम् ॥३४७॥ . त्वया द्वादशनाडीभिर्यत् कर्म समुपार्जितम् । वीदशभिर्वाटं तदशेष सहिष्यते ॥ ३४८ ॥ यतः- अदीर्घदर्शिभिः क्रूरैर्मुटैरिन्द्रियवाजिभिः । हसद्भिः क्रियते कर्म रुढद्भिरनुभूयते ॥ ३४९ ॥ ।

M -द्वितीयः सर्गः। तव प्राग्भवपनीयं त्वत्कृतमन्वमोदत । ततोऽस्या अपहारोऽभूत् कृतं कर्मैव नाऽन्यथा॥३५०॥ श्रुत्वेद सुगुरून् नत्वा प्राप्य श्राद्धव्रतावलीम् । अतिष्ठं पौषधग्राही चतुष्पा निजौकसि ॥ ३५१॥ देवैरसि त्वमानीता मम भाग्यैरिव द्रुतम् । न प्राप्नोति किमु प्राणी धर्मकर्मणि कर्मठः ॥३५२।। अथ भूमिपतिः साकं तया वैषयिकं सुखम् । भुञ्जानो न्यगमत् कालं सुधाभुगिव भूचरः॥३५३॥ पर्यन्तेऽनशनं कृत्वा द्रव्यभावविभेदतः । जगाम लान्तकं कल्पं क्रमाद् निर्वाणमष्यति ॥३५४॥ वनमालापि संप्राप्तद्वादशश्रावकव्रती । इतवत्यच्युतं कल्पं तस्माद् मोक्षमवाप्स्यति ॥३५५।। यथाऽनया निष्कलङ्कं सुशीलं परिपालितम् । तथान्यैरपि भूपाल! पालनीयं महावल! ॥३५६।। स्वामिन् ! शीलवतीमध्ये धन्यैका वनमालिका । त्वरते ब्रह्मचर्याय यच्चरित्रेण मन्मनः ॥ ३५७ ॥ मूढो विषयसेवाभिर्विधत्ते जन्म निष्फलम् । विक्रीणीवे न किं वालो रत्नं स्वल्पैः कपर्दकैः ॥३५८॥ नरकाय प्रजायन्ते विषया हन्त ! सेविताः । तेषां त्यागस्तु भावेनापवर्गपथदर्शकः ॥३५९ ॥ यथोद्देशं हि निर्देश इति ध्यायन् मेहामुनिः । उपाक्रमत माहात्म्यं तपसो वक्तुमप्यथ ॥३६०॥ तपो विजयतामकं कार्मणं भुवनश्रियः । धर्मरोहणमाणिक्यं कर्मकक्षाऽऽशुशुक्षणिः ॥३६शा विधिवद्विहितादस्मात् कर्ममर्मविभेदकात् । सुगतिं लभते विद्याविलासो नृपनिर्यथा ॥३६२।। (युग्मम् ) १ 'सर्वने इलपि । २ 'नहामति इति पलान्तरम् ।

७४ मल्लिनाथमहाकाव्य- तथाहि- अस्ति स्त्रीस्पर्शवत् सर्वविषयेष्वादिमं पुरम् । काञ्चनाख्यं लसद्भद्रशालं काञ्चनशैलवत् ॥३६३॥ तत्रासीत् पृथिवीपालः सूरसेनो महारथः । धरणीधारिणीनाम्नी तस्य देव्यौ वभूवतुः ॥३६४॥ विज्ञातजीवाजीवादिनवतत्त्वः सदाऽऽस्तिकः । तस्मिन्नेव पुरे श्रेष्ठी श्रीपालः परमाईतः ॥३६५॥ सुशीललालसा धर्मे दानशौण्डा दयावती । श्रीमती तस्य जायाऽभूद् धीमती परमाईती ॥३६६॥ चत्वारो नन्दनास्तस्य लक्ष्मीभर्तुर्भुजा इव । श्रीधरः श्रीपतिश्च श्रीदत्तः श्रीवत्स इत्यपि ॥३६७॥ अन्येयुः कौतुकाच्छ्रेष्ठी तल्पस्थः सर्वनन्दनान् । पप्रच्छ केन केन स्वमुपायेनार्जयिष्यथ ? ॥ ३६८ ॥ तन्मध्यात् प्रथमोऽवादीत् तात ! चिन्तातुराः कथम् । वित्तार्जनं करिष्यामि नानारत्नपरीक्षया ॥३६९।। सुवर्णस्य तथा वस्त्रसमूहानां च विक्रयैः । वित्तोत्पत्ति विधास्याव इत्यन्यौ पोचतुःसुतौ ॥३७०॥ श्रीवत्सोऽथ जजल्पोचैर्गेयदत्तमना मनाक् । लक्षपाकादितैलेन कृताभ्यङ्गाङ्गमर्दकैः ॥ ३७१ ॥ विहितस्नानमगल्यः पञ्चतूर्यलयान्वितम् । सौवर्णरत्नप्रतिमाः पूजयन् लास्यवन्धुरम् ॥ ३७२ ॥ नानाप्रसादपात्रौघेः पत्तिभिः परिवारितः। कुर्वाणो भोजनं भोज्यलेह्यपेयसुपेशलम् ॥ ३७३ ॥ सुश्लिष्टशाटकमान्तनिरितकरद्वयः । शलाकाऽवसरस्फूर्जद्गेयदत्तश्रवोयुगः ॥ ३७४ ॥ गय्यायां पुलिनाभायां निविष्टस्त्रिदशेशवत् । १ 'सूरमेनोऽभिधानत ' इति च । ।

द्वितीयः सर्गः। ৩৭ . एकस्यां मूर्ध्नि वन्नत्यां धम्मिल्लं नवभङ्गिभिः॥३७५।। निक्षिपन्त्यां द्वितीयस्यां तालवृन्तानिलं मृदु । तृतीयस्यां ददत्यां तु ताम्बूलं प्रेमगर्भितम् ॥३७६॥ चतुर्थ्यां दयितायां तु मर्दयन्त्यां क्रमाम्बुजे । एवंभूतः करिष्यामि राज्यं श्रीसूरसेनवत् ॥ ३७७ ।। (सप्तभिः कुलकम् ) अरे रे ! बक्षि वाचाटाऽसंवद्धं किमिदं वचः । मामकं त्यज धामेदममुं श्रेष्ठीत्यतर्जयत् ॥ ३७८ ।। तेजः संगृह्य चण्डांशुर्वारिधेरिव रंहसा । क्षीरकण्ठोऽपि तद्गेहाद निर्ययौ श्रेष्ठिनन्दनः॥३७९।। अपमानेन तातस्य प्रेरितः प्राप सुन्दरम् । पुरं रत्नपुरं नाम सश्रीकं स्मेरपद्मवत् ॥ ३८० ॥ तत्र श्रीरत्नकेत्वाख्यो हरिवंशान्वयी नृपः । सुदक्षिणा प्रिया तस्य क्रतोरिव सुदक्षिणा ॥ ३८१ ।। चारुसौभाग्यसौधायपताकाकाञ्चनच्छविः । सौभाग्यमञ्जरी तस्य नन्दनी नेत्रनन्दनी ॥ ३८२॥ । नयसारो यथार्थाख्यो मन्त्रिपुत्रः पवित्रधीः । अपाठीद् विमलाख्यस्योपाध्यायस्यान्तिके तथा।३८३॥ अधीयानैश्छात्रवर्गः सेवितक्रमपङ्कजम् । श्रीवत्सो नगरस्यान्नस्तमुपाध्यायमैक्षत ॥ ३८४ ॥ तं प्रणम्याऽवदत् पूज्य ! मह्यं विद्याप्रदो भव । इत्युक्तेऽपाठयदसौ सुतवच्छेष्ठिनः सुतम् ।। ३८५ ॥ पुरातनभवोपाचज्ञानावरणकर्मणा । पठन्नपि न जानीते किञ्चनाऽसंज्ञिजीववत् ॥३८६॥ मूर्खचट्ट इति स्फीतं गुणनिष्पन्नमीदृशम् । तस्य नाम ददुश्छात्रा यतस्ते केलिवृत्तयः ॥३८७॥ अनेनाहूयमानोऽसौ दूयते स्म क्षणे क्षणे । - ।

१ ७६ मल्लिनाथमहाकाव्ये- । प्रनष्टनेव शल्येन घनाघनघनोदये ॥ ३८८ ।। निह्रोतव्यमिदं केनाप्युपायेन मया कथम् । 'विमृश्येति मुहुश्चक्रे छात्राणां भक्तिमद्भुताम् ।।३८९॥ उत्तितेज कपर्देन पट्टिकाः प्रतिवासरम् । पर्यपूर्यन्त पात्राणि विधाय खटिनीद्रवम् ॥ ३९० ॥ छात्राणामासनान्येष विन्यस्यति दिवानिशम् । पदसंवाहनादीनि कर्माणि विदधेतराम् ॥३९१॥ : नाम च्छात्रैर्ददेऽथास्य विनयचट्ट इत्यपि । दुर्भिक्षं नाम तेषां हि किमाख्यासु विजृम्भते ? ॥३९२॥ अमुष्य भक्तिचट्टस्य पाठकुण्ठस्य सर्वथा । एवं द्वादश वर्षाणि हर्षोत्कर्षजुषोऽव्रजन् ॥३९३॥ तस्यां तु लेखशालायां पठन्ती राजकन्यका । सौभाग्यमञ्जरी नाम्ना जज्ञे यौवनपावना ॥३९४॥ कस्मैचिद् गतविद्यायाऽवद्यवाक्यवराय माम् । दास्यते जगतीनाथः कन्यार्थो मत्यगोचरः ॥३९५॥ नयसारः पुनरसौ मन्त्रिपुत्रो निधिर्धियाम् । वीरः शूरो नयी शान्तः सुदाक्षिण्यः प्रियंवदः ॥३९६।। यद्येप मम जीवेशो जायते पुण्ययोगतः। तुष्टा मे देवताः कुल्याः सत्याश्चाशी परम्पराः॥३९७।। इत्थं विचिन्त्य सप्रेमप्रपञ्चवचनं च सा । नयसारं प्रति प्रीत्या वभापे रहसि स्थिता ॥३९८॥ नयसारोऽप्युवाचेदं कैतवेन कृतस्मयः । युक्तमुक्तं त्वया भद्रे ! शृङ्गारझुघनावलि ! ॥३९९॥ देवानामर्थनीया त्वं यदि प्रार्थयसे च माम् । ती सभाग्यं सौभाग्यं किन्तु किञ्चन वच्म्यहम्।४००॥ त्वं कन्यकासि भूमीन्दोस्तत्पत्तेरस्मि नन्दनः । १ 'सटिकाद्रवम्' इत्यपि । , द्वितीयः सर्गः। ७७ मृगद्विपेन संवन्धः किं भद्रायाः प्रशस्यते ? ॥ ४०१ ।। अथोचे भूपतेः पुत्री सत्यमेव त्वयोदितम् । परं विद्यागुणैः कोऽन्यस्तव तुल्यो जगत्यपि ?॥४०२॥ कस्याऽपि गुणहीनस्य किं करिष्यामि पाणिगा। ककुद्मतो गले बद्धाऽनड्डाहीव वराकिका ॥४०३॥ नयसारोऽदधाचित्तेऽनुरक्तं मयि मानसम् । रक्षितुं शक्यते नव निपिद्धमपि युक्तिभिः ॥४०॥ यतः- अपि चण्डाऽनिलोद्धृततरङ्गस्य महोदधेः । शक्येत प्रसरो रोर्बु नानुरक्तस्य चेतसः ॥ ४०५ ॥ उवाच राजपुत्री च यदि त्वं सदयो मयि । तदा सत्यं कुरु वचोऽपरथाऽग्निर्वरो मम ॥ ४०६ ॥ ओमित्युक्ते नयेनाऽथ दाक्षिण्यन क्षणादपि । अन्येनुः प्रेषयामास तदन्ते चेटिकां च सा ॥४०७।। अस्मिन्नव दिने लग्नं परमोच्चग्रहान्वितम् । आकृष्टमावयोः पौण्यैरंशैरिव पुरःसरम् ॥ ४०८ ॥ करभ्यो वायुवेगिन्यो गोणी पूर्णा मणीगणैः । प्रगुणीकारिताः सन्ति प्रच्छन्न मन्त्रिनन्दनः॥४०९॥ आमेत्युक्तेति कापठ्यादसौ विनयचद्दकम् । रहस्युवाच भोः! राजकन्यकां दापयामि ते ॥४१०॥ अश्रद्धेयमिदं श्रुत्वा व्योमपुष्पमिवाऽवदत् । नयसार! कथं दैवहतं हससि केलिना? ॥४१॥ अयुक्तं वक्तुमन्याय्यं हन्त ! युष्मादृशां विशाम् । न भाति चरणे बद्धं करभस्य हि नूपुरम् ॥४१२॥ हो! विनय ! जल्पामि वचनं सत्यमीदृशम् । नात्र हास्याऽऽस्पदं किञ्चिद्भवता सह तन्यते ॥४१३॥ कृत्वा सौभाग्यकन्दल्या पाणिग्रहमहोत्सवम् ।

मल्लिनाथमहाकाव्ये-
उष्ट्रीमारुह्य गन्तव्यमुज्जयिन्यां त्वया द्रुतम् ॥४१४॥
अथ प्रमाणमेवास्तु जजल्प श्रेष्टिनन्दनः ।
सक्तुमध्ये घृतक्षेपो हर्षोत्कर्षाय कस्य न ? ॥४१५॥
प्रढोपेऽध्यापकं नत्वाऽवादीद् विनयचट्टकः ।
तात ! प्रातर्गमिप्यामि पितृपादनमस्यया ॥४१६॥
हो ! वत्स! ममापणे स्थितो विनयभृचिरम् ।
परं विद्यालयो ज्ञातो न त्वया पूर्वकर्मतः ॥४१७॥
गुरूणां क्रमसेवा हि निष्फला न प्रजायते।
एष प्रवाटो मा भूयादसत्य इति चिन्तयन् ॥४१८॥
अभिमन्व्य पवित्रात्मा श्रीसारस्वत विद्यया ।
अपाययद् घर्षयित्वा चन्दन श्रेष्ठिनन्दनम् ॥४१९॥
मणिपत्य गुरोः पादौ नयसारनिवेदिते ।
तस्मिन् स्थाने गतो रात्रौ हृष्टो विनयचट्टकः ॥४२०॥
तस्य साहायकं कर्तुमिव ध्वान्तं जगत्यपि ।
प्रसृतं पुण्यपात्राणां सहायः को न संभवत् ? ॥४२१॥
नयसाराम्बरं प्रीत्या परिधाय वणिसुतः ।
तामायातां परिणीयाऽध्यासामास ऋमेलकीम् ॥४२२॥
गतवत्यथ भूयस्यां काश्यप्यां राजकन्यका ।
अद्राची विनयं सर्वपाउकानां विपकम् ॥ ४२३ ।।
तप्तग्रावतलक्षिप्तविमुग्धशफरीबिता ।
सर्वाङ्गतप्ता समभूद् नितरां राजकन्यका ।। ४२४ ॥
अविचार्य कृतं कार्य यत्तत् स्फुटं निरीक्षितम् ।
गुरुद्रोहपराया मे सर्वमल्पमिदं पुनः ॥ ४२५ ॥
अन्यासामपि स्वच्छन्दवारिणीनां जगत्यपि ।
भनो मार्गो मयाऽजन्यं नयसारप्रयोगतः ॥ ४२६ ।।
आत्मकुलभयत्रासाद् नयसारेण बुद्धिनः ।
उवाहितो धिया न्यूनो नूनं विनयकः ॥ ४२७ ॥

द्वितीयः सर्गः । ७९ इत्थं चिन्तातुरा दूरं तरुणं तरणिं यथा । दृशा संभावयामास तं न श्रेष्ठितनूद्भवम् ।।४२८॥ अथोजयिन्यां संप्राप्तो गृहीतोत्तुङ्गमन्दिरः । जनगोष्ठीपु विचरन् रञ्जयन् जनमानसम् ॥ ४२९ ॥ नव्यैः काव्यैः शुभैः श्राव्यैः सरसाथैः स्वयंकृतैः । विद्याविलास इत्याख्यां लेभे पुर्या मनोहराम् ॥४३०॥ (युग्मम् ) गृहापवरकासीना रुदती करुणस्वरैः। वासरान् गमयामास कृच्छ्रात् सौभाग्यकन्दली॥४३१॥ अन्येारवदद् धात्री देव्यसौ श्रेष्टिनन्दनः । शास्त्राम्भोनिधिपारीणोधुरीणः सत्क्रियावताम्॥४३२॥ यौवनोद्यानदहनं मान मुक्त्वा मनस्विनि! । प्रेमामृतरसापूर्ण तूर्ण ब्रूहि स्ववल्लभम् ।। ४३३ ।। प्रत्युवाच सुता राज्ञो यादृशोऽस्त्येष धात्रिके । जानामि तादृशं दृष्टो मया द्वादशवत्सरीम् ॥४३४॥ कलानां कौशलाद् देवि ! रञ्जितो नागरो जनः । विद्याविलास इत्याख्यां ततो नामास्य निर्ममे ॥४३५॥ कथञ्चित्तेन खङ्गित्वाद् रञ्जितो धात्रिके ! जनः । जानाति कनकमध्यं स्वर्णकारः, परो नहि ॥ ४३६॥ इतश्व- काश्मीरमण्डलाधीशभीमनाम्ना महीभुजा । लेखः श्रीरत्नकेतोश्च प्रेषितः सन्धिविग्रहे ॥ ४३७ ॥ सलिप्यन्तरसंपूर्णो लेखः केनापि नैव सः। वाचितो गुरुणा नूनं दत्तमुद्र इवोच्चकैः ॥ ४३८ ।। जगाद सचिवः स्वामिन् ! वाच्यते केवलं धिया । यदि विद्याविलासेन शास्त्राम्भोधिहियाता ॥४३९॥ १ मन्जरी' इति च । २ 'भाषख निजवल्लभम्' इत्यपि ।

१० मल्लिनाथमहाकाव्ये- -- नृपादेशात् समाहूतः पूर्वं पठितवत्सुखम् । तं लेख वाचयामास निःशेषलिपिकोविदः ॥४४० ॥ तत्क्षणं परितुष्टेन महीनाथेन सन्मतिः ।। स्थापितः सचिवत्वेऽसौ न श्रद्धालुर्गुणेषु कः? ॥४४॥ नृपप्रदत्तसाम्राज्यभारः सुमतिहेतिभिः । 'दुःसाध्यान् साधयामास सचिवः शुचिभूषणः।।४४२॥ कदाचित् कथयामास कोऽपि क्षोणीपतेः पुरः । जगत्प्रियोऽपि देवायं न प्रियो निजयोषितः ।।४४३॥ 'कथं वेत्सि नृपोक्तोऽसौ वभाषे हन्त ! होरया । देव! जानामि कामिन्या निजाया वल्लभो न यः।४४४। श्रुत्वेदं कौतुकादेष सेवावसरमागतम् । उवाच सचिवं चारु समक्षं निजपर्पदः॥ ४४५ ॥ मन्त्रिन्नभिनवो मन्त्री राज्ञो भोजनदायकः । इत्यस्माकं सदाचारः कर्तव्यः सत्वरं त्वया ॥४४६॥ आमेत्युक्त्वा गतो गेहं विमनस्को गतस्ववत् । उवाच धात्रिका मन्त्रि श्रेष्ठं श्रेष्ठगिरा तया ॥४४७॥ अपमान महीभा किं ते वत्स! प्रकाशितम् । किंवा धीविषयेऽप्युच्चैः कश्चिदर्थस्त्वगोचरः॥४४८॥ न मे मातर्महीमा मानम्लानिः प्रकाशिता । कश्चिदर्थो न मे धात्रि! मत्यगोचरतां गतः ॥४४९॥ परं क्रूरनिदेशोऽयं दत्तः क्षोणीभुजा खयम् । यत्ताकसि भोक्तव्यं कल्पोऽस्माकं कुले ह्ययम् ॥४५०॥ गृहाऽऽगते महीनाथे मन्त्रिण्याः किल चेष्टितम् । प्रकटं भविता सर्व तदर्थ खेद एप मे ॥ ४५१ ।। मन्त्रीश ! चिन्तया चित्तं खेदकान्तं करोपि किम् ? । भोजने सज्जयिष्यामि राज्ञः सौभाग्यकन्दलीम्।।४५२।।

द्वितीयः सर्गः। ८१ तद्वचःश्रवणादेव सुधासिक्त इवाभवत् । हस्तावलम्बनं पुंसां पततां किं मुदे नहि ? ॥४५३।। उवाच धात्रिका मन्त्रिगेहिनीं धीरया गिरा। एकाग्रहाऽसि हे वत्से ! कृत्याकृत्यवहिर्मुखि! ॥४५४॥ मामक वचनं वेगादेकं कुर्वभिमानिनि! । जनन्या इव नाज्ञा मे लेड्वितुं युज्यते कचित् ॥४५५।। सचिवो जगतीपालं त्वद्गहे भोजयिष्यते । अभ्यधादिति ते भर्ता मन्मुखेन तवाग्रतः ॥ ४५६ ॥ मातः! केनापि भूपालो ज्ञापितश्चरितं मम । बुभुक्षुर्मी दिदृक्षुश्च तद् मन्ये तेन हेतुना ॥ ४५७ ॥ मातस्तर्हि मदाकारा मद्यामय इवाऽपराः । समानवसालङ्कारास्तिस्सस्तूर्ण समानय ।। ४५८ ।। भोजयन्ती महीपालं ताभिः साकमलक्षिता । यथा भवाम्यहं मातस्तथा कुरु गुणाकरे! ॥४५९॥ तस्या वचसि सत्यार्थे प्रगुणे विहिते चिरात् । भूपमामन्त्रयामास सचिवो भक्तिमेदुरम् ॥ ४६० ॥ आवासे मन्त्रिणोऽथास्य विमानसदृशे श्रिया । राजाऽगात् कृतशृङ्गारः परीवारपरीतः ॥४६॥ भोजनायाऽऽसनासीने भूपाले सपरिच्छदे । एका मुमोच सौवर्ण विशालं स्थालमुत्तमम् ॥ ४६२ ॥ पीयूपरसनिष्यन्दिसंपूर्णानीच तत्क्षणम् । एका चिक्षेप पकानि फलान्यविकलान्यपि ॥४६३॥ अपरा काऽपि हृयानि पक्कान्नानि समन्ततः । द्राक् परिवेषयामास कणकवणपाणिना ॥ ४६४ ॥ एका परिमलोद्गारहृयमोदनमद्भुता । अक्षिपद् भूपतेः स्थाले विशाले साधुचित्तवत्॥४६५|| १ हस्ताग्लम्बद इत्यपि । २ लद्धिताऽहनिदेशवत् ।

८२ मल्लिनाथमहाकाव्य- - इयं त्वियमियं मन्त्रिगेहिनीति विचिन्वता । न सम्यग् विविद राज्ञा सादृश्यं भ्रमकारिहि ॥४६६॥ कृतभुक्तिर्महीपालोऽशक्नुवन् प्रष्टुमञ्जसा । समीपे मन्त्रिणो मौनमाधत्ते स्म सविस्मयः ॥३६७॥ सपयाँ मन्त्रिणः प्राप्य गतवान् मन्दिरं नृपः । “, स्वानुवाच नरानेवं न ज्ञाता सचिवाङ्गना ॥४६८॥ तस्या निरीक्षणे कार्यः कोऽप्युपायो विशारदाः। ते प्रोचुर्देव ! नगरबाह्येऽस्ति पुरदेवता ॥ ४६९ ।। कार्यं नृत्यं मन्त्रिपत्न्या मन्त्रिण्याऽऽतोद्यवादके । पुरो देव्याः पुरः परैर्देवेन ज्ञायते यथा ॥ ४७०॥ भवत्वेवं नृपः प्रोच्य द्वितीयेऽह्नि महीपतिः । पुरतः कथयामास तमादेशं मनोगतम् ॥ ४७१ ॥ क्षुद्राऽऽदेशमिमं श्रुत्वा गत्वौकसि सविस्मयः । अशेत मन्दिरस्यान्तश्चिन्तासन्तानतापितः ॥ ४७२ ।। मन्त्री खेदपरो धाच्या पृष्टः प्रोचे महत्तमः । क्षुद्राऽऽदेशस्य पृथ्वीशो धात्रि! पात्रीचकार माम् ४७३॥ जगाद भूपतेः पुत्रीं धात्री पावनया गिरा।। समादेशं महीभर्तुर्दुःश्रवं धीमतामपि ॥ ४७४ ॥ पटहे पटुपाटं च वाद्यमानेऽमुना मुदा । । अहं नृत्यं विधास्यामि हसन्तीति जगाद सा ॥४७५।। वादयितुम, पुत्रि! चेदसौ ज्ञास्यते नहि । लप्स्यते हास्यतां मन्त्री समक्षं नृपपर्षदः ॥ ४७६ ॥ तदाभाषिष्ट हृष्टा सा पुरतः सचिवेशितुः । दुष्पापार्थस्य लाभे हि हो याति प्रकर्पताम् ॥४७७॥ अथ देवीगृहस्यान्तर्मश्चविन्याससुन्दरम् । साकं पौरजनैः सर्वैरुपविष्टे महीभुजि ॥ ४७८ ॥ मन्द्रमध्यादिभेदेन तत्तेतिध्वनिनादतः। - द्वितीयः सर्गः । ८३ मन्त्रिणा वाद्यमानेऽपि पटहे पटुनिःस्वने ॥ ४७९|| विहितोदामशृङ्गारा रम्भेव क्षितिगोचरी । हरन्ती पौरचेतांसि समागाद् मन्त्रिगेहिनी ॥ ४८०॥ (त्रिभिर्विशेषकम्) ध्वनिमाकर्णयत्येषा पटहस्य यथा यथा । तथा तथाऽङ्गे रोमाञ्चोऽङ्क्रपूरमपूरयत् ॥ ४८१ ॥ अहो। ईदृक् कुतोऽनेन ज्ञातं पटहवादनम् । चित्रीयमाणा हृदये ननति स्म लयोत्तरम् ।। ४८२ ॥ नृणां निरीक्षमाणानां दम्पत्योस्तं कलाक्रमम् । शेषेन्द्रियभवा' वृत्तिर्लोचनेषु लयं ययौ ॥ ४८३ ।। मूर्धानं भूपतिर्धन्वन् विस्मयस्मरतां गतः । सर्वतत्वप्रवीणोऽसि व्याजहारेति मन्त्रिणम् ।।४८४॥ तामपूर्वी कलां दृष्ट्रा पद्मिनीप्राणवल्लभः । * - : माप द्वीपं परं 'द्रष्टुमिवान्यत्रापि तादृशीम् ॥ ४८५ ॥ परिस्पन्दैः समं राजा प्रतस्थे नगरी प्रति ।": ऊचेऽथ मन्त्रिणी नाथ! करमुद्रा ममापतत् ॥४८६॥ सान्वया सुभगाऽऽनेया सस्नेहमिति वादिनी । प्राविक्षद् नगरस्यान्तर्दृष्टा सौभाग्यकन्दली ॥ ४८७ ॥ तदाऽऽदेशवशादेष प्रमोदोन्मादमासदत् । धन्योऽहमद्य सद्गाच्या भाषितो गौरवोत्तरम् ॥४८८॥ विजने तत्र ता वीक्ष्य लब्ध्वा च करमुद्रिकाम् ।। अचालीदुज्जयिन्यां हि वहिःस्थानां भवेद् मृतिः।।४८९॥ शीघ्रमायन् पुरी दत्तकपाटं गोपुरं पुरः। निरीक्ष्य वप्रविस्तीर्णपयोमार्गमुपाययौ ॥ ४९० ॥ विश्रान्तोऽन्तर्भुजङ्गेन दष्टः स्पष्टमथो करे । हाहेति न्यगदद् मन्त्री मृत्योः पटहविभ्रमम् ॥४९१॥ इतश्च सौधमासीना वारवेश्याऽवनीशितुः ।

८४ मल्लिनाथमहाकाव्ये- तं शुश्राव महानादं कर्णयोर्विपसेचनम् ॥ ४९२ ।। अद्राक्षीत् पतितं क्षोण्यां सचिवं प्रसरद्गरम् । अक्षालयञ्च पाणिस्थं मणि नीरेण भूरिणा ॥४९३॥ अपाययदमुं तच्च परोपकृतितत्परा । सोऽभूदपविषो यस्मादचिन्त्यं मणिवैभवम् ।।४९४|| पुनर्जातमिवात्मानं मन्यमानः कृतज्ञराट् । सचिवस्तामुवाचेदं किं कुर्वे तव वाञ्छितम् ॥ ४९५ ॥ चेद् नाथ! वरदोऽसि त्वं मत्तोऽन्यत्र त्वया ततः। भवेनैव भवानीतो न गन्तव्यं कदाचन ॥ ४९६ ॥ तया सार्क चतुर्यामीमतिवाह्य घटीमिव । मातःकृत्यानि कृत्वाऽसौ निषसाद महासने ॥४९७|| केनचिद् योगिना दत्तं प्रभावौषधिकण्डकम् । अवघ्नात् पणपद्माक्षी चरणे सचिवेशितुः ॥४९८॥ तत्प्रभावादसौ जज्ञे चन्द्रकी वरचन्द्रकः। एकस्मिन् जन्मनि प्राप्तजन्मान्तर इव क्षणात् ॥४९९॥ उड्डीय वर्हिणो भ्राम्यन् गतत्रासं पुरेऽखिले । सन्ध्यायां तत्र पण्यस्त्रीगेहं याति स्म सर्वदा ॥५००॥ कण्डकव्यत्ययादेप यवनिकान्तरादिव । प्राप्तपुंस्त्वो नट इव वाहयामास शर्वरीम् ॥५०१।। रमयित्वा निशां सर्वा पणस्त्रीणां करण्डकात् । प्रत्यहं विदधे मन्त्रिपुङ्गवं बर्हिणाकृतिम् ॥ ५०२ ॥ इतस्ततोऽपि गेहेषु भ्राम्यन्नेप दिने दिने । रात्रौ पणागनागहमागच्छति वशीकृतः ।।५०३।। इतो मन्त्रिण्यनायाते मन्त्रिण्यधृतिकारिणी । रतिं न क्वापि सा प्राप ग्रीष्मे हंसी मराविव ॥५०४॥ सोऽन्येयुर्वहिरूपेण भ्राम्यन् स्वगृहतोरणम् । १ मुहुर्तवदिनि च पाठ ।

द्वितीयः सर्गः।
८५
आच्छाद्य पिच्छसंभारे वितेने तोरणश्रियम् ।।५०५।।
पत्युविरहतप्ताया मातरेप कलापवान् ।
प्रियागमनवत्प्रीतिं प्रदत्ते मम नेत्रयोः ।। ५०६ ।।
अज्ञानतो मया पूर्व दृष्टः प्राणप्रियोऽप्रियः ।
इदानीं पूर्वदुष्कर्मविपाकाद् दूरतो गतः ।। ५०७ ।।
छद्म श्रीसद्मनस्तस्य प्रियस्याहमजानती।
पुरापि रोदनं चक्रधुनाऽपि चिरशिक्षितम् ।।५०८||
भोगिभोगविषज्वालालीदं दहतु चन्दनम् ।
कथं दहतु मे देहं निःसन्देहं हिमद्युतिः ?॥ ५०९ ॥
इत्थं विलापं कुर्वाणा मुहुः सौभाग्यकन्दली ।
निपपात महीपीठे हृतजीवेव केनचित् ।। ५१० ॥
धाच्या परिजनेनापि प्रतीकारे कृते सति ।
अतुच्छमूर्छाऽपगमात् खस्था तस्थौ कथञ्चन ॥५११॥
एवं च भाषमाणायां तस्या गेहादथो शिखी।
अन्येशुरगमद्भूपपुत्र्याः सौधे मनोहरे ॥ ५१२ ।।
तत्सख्या कौतुकादेष विधृतो गृहिजातवत् ।
अर्पितो मदनावल्या विश्राम इव चेतसः ॥ ५१३ ॥
कण्डकं त्रोटयामास वीक्षमाणा शिखण्डिनम् ।
नररूपिणमद्राक्षीदमुं सा सचिवोत्तमम् ॥ ५१४ ।।
किमेतदिति विस्मरनयना मदनावली ।
रोमाञ्चकण्टकभयादिवासनमथामुचत् ॥ ५१५ ॥
सत्यस्मिन्नासनासीने किमेतदिति साऽवदत् ।।
अथोचे सचिवः सर्वमेतस्याः पुरतो मुदा ॥ ५१६ ॥
मन्त्रिन् ! त्वद्विरहे राजा निखिला नागरा अपि ।
विमूढमनसोऽभूवन् दिग्मूढाः पथिका इव ॥५१७॥
मन्त्रिन् ! निष्ठुरचित्तोऽसि रूपं संगोपयन्निजम् ।
कुरुते लेख्यमेकोऽन्यो लेखामपि ददाति न ॥५१८॥

८६ मल्लिनाथमहाकाव्ये- यत्पजल्पसि तत्सत्यं वाचा बद्धोऽस्मि निश्चितम् । मुश्च मां बर्हिणं कृत्वा बद्धा च क्रमकण्डकम् ॥५१९।। इत्युक्ते केकिरूपेऽस्मिन्ननया विहिते गते । इतवाभाणि तद्धात्र्या नरशब्दो मया श्रुतः ॥५२०॥ उपमातः ! कथं पुंसः संचारः संभवेदिह १ । यदीदृग्भाषसे नूनमसंबद्धमिवाधुना ॥ ५२१॥ पौनःपुन्येन धात्री सा तामूचे शपथान्वितम् । अथ सा कथयामास तत्सर्व सचिवोदितम् ॥५२२॥ द्वितीयेऽयेष स भ्राम्यन् कृतसङ्केतशब्दवत् । समागात् तत्र धात्री साध्वर्द्धयज्जगतीपतिम् ।।५२३॥ ज्ञातवृत्तः समेत्यासौ कर्त्तित्वा करकण्डकम् । मुख्यरूपधरं चक्रे धरणीशोऽथ मन्त्रिणम् ॥ ५२४ ॥ सानन्देनाथ राज्ञोचे मम पुत्री समुद्रह । वेश्यावृत्तं च तेनास्य समस्तं विनिवेदितम् ॥५२५॥ साकूतमथ साऽऽहूता क्षोणीशेन पणागना। वामिन् ! प्रसादमाधेहि ममाऽऽदेशनिदेशतः॥५२६॥ वाचा बद्धममुं मुञ्च सचिवं दत्तजीवितम् । यथाऽङ्गजाया मे पाणिं गृह्णाति शुभवासरे ॥५२७॥ आमेत्युक्ते नृपस्तस्याः प्रसादं बहकारंयत् । उचितानुचितज्ञानं वारवेश्याखवस्थितम् ॥ ५२८॥ सुन्दरश्रेष्ठिनः पुत्र्या सहितां मदनावलीम् । पर्यणाययदुर्वीशो मन्त्रीशं शुभवासरे ।। ५२९ ।। स्थापितो युवराजत्वे दत्त्वा देशान् महत्तमः । न पुण्यं देहिनां मातुं शक्यतेऽम्भोऽम्बुधेरिव ॥५३०॥ तिसृभिः परिणीताभिर्वेश्यया सह मन्त्रिराट् । वुभुजे विपयान् मर्त्यजन्मचूतफलोपमान् ॥ ५३१॥ कालेन कियता रत्नकेतुः क्षितिपति शम् ।

द्वितीयः सर्गः। ८७ भवोद्विग्नोऽग्रहीद् दीक्षां तापसानां यथाविधि ॥५३२॥ विद्याविलासः समभूद् भूपालः पालयन् प्रजाम् । प्रचण्डशासनः पाकशासनः स्वरिवाऽऽगतः ॥५३३॥ अन्येयुः श्रेष्ठिम् राजा चतुरङ्गचमूवृतः । रुरोध काञ्चनपुरं जम्बूद्वीपमिवाऽम्बुधिः ॥ ५३४ ।। तेजोऽधिगम्य दुःसह्यं तस्य व्योममणेरिव । उलूक इव वाग्मूकः सूरसेनो ननाश च ॥५३५॥ नीलपत्रावलीकीणे वद्धकाञ्चनतोरणे । तत्राविक्षत् पुरे राजा सविद्युद्वारिदोपमे ॥ ५३६ ॥ वर्णपात्राणि संभृत्य रत्नैः पौरा डुढोकिरे। प्रसादं तेषु चक्रेऽसौ वाञ्छितार्थसमर्थकम् ॥५३७॥ श्रेष्ठ्यागाद् नगरीमुख्यः श्रीपालः सूनुभिः सह । श्रेष्ठिन् ! मामभिजानासि भाषते स्मेति भूपतिः॥५३८॥ सोऽप्यूचे मूर्यवत् ख्यातं राजानं त्वां न वेत्ति कः । वस्तुतस्तु यथावस्थं नो बेमि त्वां महीपते ॥५३९॥ समक्षं सर्वलोकानां ततः श्रीवत्सभूपतिः । चरित्रं मूलतः सम्यग संक्षेपेणेत्यवोचत ॥ ५४० ॥ तव सूनुरहं श्रेष्ठिन् ! श्रीवत्स इति विश्रुतः। रामाचतुष्टयीयोगप्रभृतेर्वचनात् पुरा ॥ ५४१ ॥ कोपाटोपोत्कटं स्पष्टं विज्ञाय त्वां विनिर्गतः। इमाश्चतस्रः संप्राप्तास्तव पादप्रसादतः॥५४२॥(युग्मम्) सच्चक्रे पृथिवीपालः श्रीपालश्रेष्ठिनं ततः । वध्वः सर्वाश्च हृष्टाङ्गयो ह्याचारः कुलयोपिताम्।५४३॥ यौवराज्ये पदे न्यस्य श्रीधरं प्रथमाङ्गजम् । राज्ययुग्ममथ प्राज्यं नयवृत्त्या शशास सः॥ ५४४॥ अन्यदोपवनस्यान्तः मूरिः श्रीमतिसागरः । सवितेव तपोदीप्त्या पूर्वहिः समवासरत् ॥५४५।।

८८ मल्लिनाथमहाकाव्ये- तं वन्दितुं महीपालः पालयन पावनी क्रियाम् । जगाम भक्तितस्तत्र पौरवृन्दपरीवृतः ।। ५४६॥ देशनाऽन्ते महिपालः पृष्टवानिति तान् गुरुन् । पुरा कथं ममाज्ञानं सर्वत्रोल्लसितं प्रभो !॥ ५४७॥ कथं पश्चाद् मुने ! ज्ञानं प्रसृतं मम कोविदात् । इत्युक्ते न्यगदच्छ्रीमान् सरिभूरिगुणोत्तरः ॥ ५४८ ॥ पुराजन्मनि पठतां महाविघ्नस्त्वया कृतः । अतस्तत्कर्मवन्धेन ज्ञानोल्लासोऽभवद् न ते ॥५४९।। गुरुणा केनचित् पश्चात् सद्वाक्यैः प्रतिवोधितः । भक्तिं चक्रे धिया तेषु प्रत्यहं पुस्तकादिभिः ॥५५०॥ सत्कर्मवन्धतोऽभूस्त्वमुपाध्यायविशारदः । ज्ञानविघ्नाच्च मूर्खत्वं पूर्व संप्राप्तवानसि ।। ५५१ ॥ श्रुत्वेदमवदद् राजा कर्मवन्धो महान् कृतः। कथं श्लथी भवेद् नाथ ! ततः प्रोवाच संयमी?॥५५२॥ वद्धस्पृष्टनिधत्ताख्यास्त्रयो भेदा महीपते । मिथ्यादुष्कृतभणनादिभिर्जेयाः सुहृतिभिः ॥५५३॥ तदन्यः कर्मवन्धो यो निकाचित इति स्मृतः । भूयसा तपसा सोऽपि विजेतव्यो मुमुक्षुभिः॥५५४॥ यथा तुपारपातेन दह्यतेऽनोकहब्रजः । यथाऽऽम्लरसविष्टब्धं लड्डनेनापदिश्यते ।। ५५५ ।। यथा दवाग्निनाऽरण्यं दह्यतेऽसह्यतेजसा । तथा सर्वाणि कर्माणि जीयन्ते तपसा चिरात् ॥५५६।। (युग्मम्) कीर्तेर्गर्वाद् भयाद् वाऽपि सुदेयं दानमगिनाम् । कुललज्जाभराभ्यां च सुकरं शीलपालनम् ॥५५७।। मृपाऽन्यरञ्जनाद् वाऽपि सुकरा हन्त! भावना । दुष्करं तु तपस्तप्तुं देहधातुक्षयावहम् ।। ५५८ ।।

द्वितीयः सर्गः। ८९ श्रुत्वेति नन्दनं राज्ये मदनावलिसंभवम् । संस्थाप्य मूरिपादान्ते श्रीवत्सो जगृहे व्रतम् ।।५५९|| सोऽभ्यस्य द्विविधां शिक्षा दक्षः कंक्षीकृतक्रियः । विशेषतस्तपस्तप्तुं त्रैविध्येन प्रचक्रमे ॥ ५६० ।। यथा यथा तपो देहतनुतां तनुते तनौ । सथा तथाऽस्य सद्भावमहिमा नहि हीयते ॥५६१॥ परितक्ष्य तपष्टकैः शिलामिव निजां तनूम् । उच्चकार तथा सोऽभूद् यथा जङ्गमदैवतम् ॥५६२।। आयुःक्षये स राजर्षिहीत्वाऽनशनं चिरात् । एकावतारस्त्रिदशो जज्ञे तस्माच सेत्स्यति ॥५६३।। विद्याविलासराजर्षिर्यथा तेपेतरां तपः। तथाऽन्यैरपि भावेन पालनीयं महाबल ! ॥५६४॥ ततो महाबलो राजा जगादेति कृतस्मितम् । करिष्यामि तपः शुद्धं स्वामिन् ! विद्यानरेन्द्रवत्॥५६५।। दानशीलतपोधर्मा अमी भावं विना त्रयः । न फलन्ति महीपाल ! शाला इव ऋतुं विना ॥५६६॥ यद्वद् रूपं दृशा यद्वदलङ्कृत्या कवेर्वचः । यद्वचन्द्रो ग्रुता तद्वद् धर्मो भावेन भूष्यते ॥ ५६७ ॥ भविनो भावनैवैका मुक्तिसङ्गमदूतिका । भवे भवेदिहैवाऽऽशु दृढप्रहारिसाधुवत् ॥५६८॥ तथाह्यासीत् पुरे कश्चिद् महाकोपी द्विजात्मजः । अन्यायकारिणामाद्यो यौवनं चाप्युपाययौ॥५६९॥ ग्रन्थिभेदं व्यधत्तोचैः स कदाचन भव्यवत् । कचिच्च खानखात्राणि लोलः कोल इवानिशम् ॥५७०॥ अवध्यत्वादसौ राजनृभिनिर्वासितः पुरात् । अथाऽगाचौरभूपल्ली चौरीहल्लीसकाकुलाम् ॥५७१।। चौरसेनापतिं शश्वत् सेवते स द्विजात्मजः ।

९० मल्लिनाथमहाकाव्ये- स्थानलाभात् कृतार्थ खंमन्यमानो मनोऽन्तरे ॥५७२।। तेस्तैरुदनचरितैरात्मतुल्यं विलोक्य तम् । अमन्यत सुतत्वेन चौरसेनापतिः स्वयम् ॥५७३॥ दस्युस्वामिनि पञ्चत्वमुपेयुषि स दस्युभिः । तत्पदे स्थापितश्चण्डकर्माऽजनि विशेषतः ॥५७४॥ सुदृढं प्रहरत्येष प्राणिनो निष्कृपं यतः । ततो दृढपहारीति सान्वयं नाम 'निर्ममे ॥ ५७५ ॥ वभञ्ज नगराण्येष जग्राह पथिकव्रजान् । ग्रामान् प्रज्वालयामास पञ्जिकार्थे कृताग्रहः ॥५७६|| अन्येास्तस्करैः साकं स्वांगैरिव पृथग्गतैः । भक्तुं कुशस्थलं ग्राममगादेष महाभुजः ॥५७७॥ तत्रास्ति देवशर्मेति ब्राह्मणः शर्मवर्जितः। स्वागवत् सहजं यस्य दोर्गत्यं प्रसृतं चिरम् ॥५७८॥ तदैव वालकैरेष क्षीरानं याचितो द्विजः । वालका न हि जानन्ति सदसत्त्वं निजौकसि ॥५७९।। यतः दस्यवो डिम्मरूपाणि राजानश्च द्विजा अपि । परपीडां न जानन्ति गृह्यते च यथा तथा ॥५८०॥ परिभ्रम्याऽखिलं ग्रामं याचित्वा च कचित् पयः । कचिच तन्दुलान् स्त्यानीभूतेन्दुकिरणानिव ॥५८१॥ कापि कापि गुडं हृद्यमभ्यर्थ्य स्वस्तिभाषणात् । क्षैरेयी पाचयामास स्नातुं चागाद् नदीरये ॥५८२॥ इतश्चोग्रदृशो गेहमागच्छंस्तस्य तस्कराः । तेषामेकतमोऽनश्यत् क्षैरेयीं प्राप्य रङ्कवत् ॥५८३॥ अधोवेडिंम्भरूपाणि चक्रन्दुविरसस्वरम् । उदितं रुदितं ह्यास्त्रं वालानां योषितामिव ॥५८४॥ १ निर्मितमिलपि पाठ । २ पृथूनतरिति च।

द्वितीयः सर्गः। ९९० . रुदन्तस्ते नदीं गत्वा तूर्ण जनकमूचिरे । फेनचित् पश्यतां तात ! जहे नः पायसं गृहात् ॥५८५।। तदाकाऽधाञ्चित्ते दैवं दुर्वलघातकम् । अन्येषु वेश्मसु ग्रामे दुर्भिक्षं किं विजृम्भते ॥५८६॥ क्रुध्यन्नथ द्विजस्ताम्रवर्दनो ग्राममीयिवान् । भुजाभ्यां परिघं प्रेतभर्तुर्दण्डमिवायतम् ॥५८७।। आदाय गेहमागत्य स भूत इव नूतनः। समुल्लासितदोर्दण्डोजघान स्तेनमण्डलम् ॥५८८॥ (युग्मम्) दृष्टा वित्रस्यतश्चौरांस्तेन वातेन तूलवत् । दधावे तस्कराधीशो यमदूत इव स्वयम् ॥ ५८९ ॥ सत्वरं धावमानस्य प्रवाहस्य शिला यथा । अन्तराले बभूवाऽस्य सौरभेयी गतिच्छिदे ॥५९०॥ प्रेरित इव दुर्गत्याधिष्ठित इव रक्षसा । निष्कृपस्तां कृपाणेन निजघान निपादवत् ॥५९१।। तस्कराणामधीशस्य संमुखीनोऽभवद् द्विजः । मृगो मृगाधिपस्येव शिशुपालनतत्परः ॥५९२॥ रे।रे । तस्कर! मद्देश्म विशन् मूर्ख ! मुमूर्पसि । शापेनापि ममाऽनन्ताः क्षयं नीता वधं विना ॥५९३॥ तदाकाऽथ चौरेशो मण्डलाग्रेण चोग्रधीः । फलवत् पातयामास शिरो रोरद्विजन्मनः ॥५९४॥ आः पाप! पापिनामाय ! ब्रह्महत्याविधायक!। एवमुक्त्वाऽभ्यगादस्य वेलामासवती वधूः ॥५९५।। दुर्गतेः सङ्गतेन धौतेन तरचारिणा । विददारोदरं तस्याश्चण्डः कूष्माण्डखण्डवत् ॥५९६॥ गर्भ जरायुमध्यस्थं कम्पमानं भयादिव । निरीक्ष्य पुरतस्तस्य करुणा तरुणायते ॥५९७।। १ -नस्ताम्रपौत्रवदित्यपि पाठ । २ -रानमुष्मातूलपूलवदिति च । . t मल्लिनाथमहाकाव्ये- हा मातस्तात! हा! मातर्विलपन्त इति स्फुटम् । एते स्तनन्धया मोहाद् मयैव निहताः खलु ॥५९८॥ पितृमातृपरित्यक्ताः किमु जीवन्ति वालकाः । कठोरेण कुठारेण विलूनाः पल्लवा इव ।। ५९९ ।। गोब्रह्मवनिताभ्रूणहत्यामित्यादधद् भृशम् । पातक पातकं जन्तोधिगार्जयमनार्यवत् ॥६००॥ स्वयं खं हन्मि किं शस्या कूपे झम्पां ददामि किम् ।। विशामिज्वलने किंवा विषादाद् विषमद्मि किम् ।।६०१।। एवं विचिन्तयन्नेष जातवैराग्यभावनः । व्यावर्तमान उद्याने स्थितान् साधूनवैक्षत ॥६०२॥ प्रणिपत्येति तानूचे पापात्माऽहं दुराशयः । शाऽप्यदृश्यों वचनैरभाष्योऽहं भवादृशैः ॥६०३॥ नास्ति मत्तः कचित् पापी नास्ति मत्तोऽपि निघृणः । नास्ति मत्तोऽपि निर्धर्मा नास्ति मत्तोऽधमाधमः॥६०४या ईदृक्षमपि मां त्रातुं यूयमहत सांप्रतम् । प्रायश्चित्तरहस्यज्ञाः सर्वसाधारणा यतः ॥६०५।। ततस्ते साधवः साधुधर्मतत्त्वमुपादिशन् । श्रामण्यमेष जग्राह पापपङ्कनदीरयम् ॥६०६॥ यस्मिन्नह्नि स्वतोऽन्यस्मादपि स्मास्मि पातकम् । तत्र तत्रैव नो भोक्ष्ये कृतपर्वतपा इव ॥६०७॥ कर्तास्मि क्षान्तिमक्षूणामित्यभिग्रहयोर्युगम् । अग्रहीदेष शुद्धात्मा भववैराग्यरगितः ॥६०८॥ अथावस्कन्दिते ग्रामे तस्मिन्नेव कुशस्थले । विजहार महासत्त्वः कर्मक्षयकृताग्रहः ॥६०९॥ विधायैष महापापी नटवद् वेषमोचनम् । पुनर्खण्टयितुं ग्राममाययौ हेरिकोपमः ॥६१०॥ १ -मनार्जव इति च ।

द्वितीयः सर्गः ।
रे ! भ्रूणादिमहापापकारकोऽपि न मारितः ।
दर्शनव्याजतोऽस्माभिरित्यतयंत तैर्जनैः ॥६११॥
भिक्षार्थं प्रविशन्नेष ग्रामवेश्मसु संयमी ।
कीटकैक्षितश्चैव लोष्टखण्डैरताडयत ॥६१२।।
विशेषतस्ताड्यमानस्तत्पापं संस्मरन्नसौ।
नाभुङ्ग किमुत क्षान्ति विधत्ते स्म दिवानिशम् ॥६१३।।
यष्टिभिस्ताडयामासुस्तं दुर्दान्तमहोक्षवत् ।
जघ्नुश्च मुष्टिभिः कामं वपुर्गुल्मविधायकम् ॥६१४॥
कायोत्सर्गस्थितं ग्राम्याः पिदधुः पांशुष्टिभिः ।
देशारिष्टसमुद्भूता उत्पाता इन पत्तनम् ॥६१५॥
इत्थं कदर्यमानोऽसौ ग्रामीणैः प्रतिवासरम् ।
एवं विभावयामास मुच्यमानरजोगुणः ॥६१६॥
दूयसे किमु रे ! जीवाऽनर्गलैः खलु जल्पितैः ।
प्रदत्तं लभ्यते नैवाऽप्रदत्तं हि कदाचन ॥६१७॥
शुभेतरपरीणामाकृष्टमेतत् तवाऽऽगतम् ।
तेनार्जितं स्वयं भोक्ता हेतुमात्रं परः पुमान् ॥६१८॥
यदुपात्तं त्वया पापं भोग्यं जननकोटिभिः ।
तदिहैव शुभखान्तो भोक्ष्यसे क्षणमात्रतः ॥६१९।।
यतः-
-
अज्ञानी यत् कृतं कर्म क्षिपेद् वन्सरकोटिभिः ।
तज्ज्ञानी गुप्तिसंपूर्णः क्षिपेदुच्छासमात्रतः ॥६२०॥
जात्यरत्नमिवाप्राप्तं प्राप्य चारित्रमद्धृतम् ।
शमेन जयकर्माणि शर्माण्यपि तथाऽर्जय ॥६२१।।
प्रथमं कटुकं पश्चात् पीयूषति यथौषधम् ।
तथा ग्राम्यवचो जीव ! विचिन्तय सचेतनः॥६२२।।
कर्मक्षयसखा तेऽसौ जीव ! मा क्लीवतां भज ।
एतत्साहाय्यतः सर्वकर्मनिर्मूलकोऽसि यत् ॥६२३॥

९४ मल्लिनाथमहाकाव्ये- चिरं सहित्वा दुःखानि त्वं चेद् नेदं सहिष्यसे । तद् वृथा प्राक्तनं सर्व मतिर्याऽन्ते हि सागतिः॥६२४॥ यादृक् कर्म कृतं जीव ! भज तादृगवेदनम् । न शालिट्रूयते कापि वपने कोद्रवस्य यत् ॥ ६२५ ॥ वदनच्छायया कर्म यया जीव ! त्वयार्जितम् । तामेव विभृहीदानीमेकरूपा महत्तराः ॥६२६॥ एवं भावयतस्तस्य भावनाशुद्धचेतसः । उत्पन्नं केवलज्ञानं लोकालोकप्रकाशकम् ॥६२७॥ निःशेषक्षीणकर्मागोऽयोगिस्थो योगिनां वरः । दृढप्रहारी भगवान् प्रपेदे परमं पदम् ।। ६२८ ।। भावनायाः फलं राजन् ! न सम्यग् वक्तुमीश्वरः । यदीशोऽपि तमसः परं पदमवाप्तवान् ॥ ६२९ ॥ इत्यादितीर्थकृद्धर्म श्रावं श्रावं महाबलः । रोमाञ्चैरश्चितो देहे भावनाऽम्भोटबिन्दुभिः ॥६३०॥ अथाऽचलादयोऽप्यूचुर्नुपमित्रा मुनीश्वरम् । व्रतं वयमपि प्रीत्या ग्रहीष्यामो नरेन्द्रवत् ॥६३१॥ यावद् राज्येऽङ्गजं न्यस्य समागच्छामि सत्वरम् । भवद्भिस्तावदत्रैव स्थेयं मयि कृपापरैः ॥६३२॥ अथ प्रोवाच भगवान् वरधर्मा मुनीश्वरः । देवानुप्रिय ! मा कार्षीः प्रमादं श्रेयसः कृते ॥६३३॥ प्रभो ! प्रमादः सुतरां तदैव तत्यजे मया । यव भवतां वाणी सुश्रुवे तत्त्वसारिणी ॥६३४॥ अथ नत्वा गुरुं गत्वा पर्पदं जगतीपतिः । वलभद्रकुमारस्याभिषेकार्थ कृतोद्यमः ॥६३५॥ पप्रच्छाऽष्टाङ्गनिमित्ततत्त्वज्ञं गणकोत्तमम् । ब्रूहि लग्नं यथा शुद्धं राज्यलक्ष्मीप्रवर्धकम् ॥६३६॥ ६ भव ताटनवेदने इति पाठान्तरम् ।

द्वितीयः सर्गः। ९५ अथो विचार्य संस्थाप्य लग्नं धरणिमण्डले । नैमित्तिक उवाचोचज्योतिःगाखमहोदधिः ।।६३७।। पातेन लत्तया वेधो प्रग्रहैकार्गलादिभिः । दोपैरेभिर्विनिर्मुक्तं रोगैरिव कलेवरम् ॥६३८॥ त्यक्तऋरग्रहग्राम फरालिगितमेव च । वारस्य जन्मभं यत्तु तस्माच्च दशमं परम् ॥६३९॥ अष्टादशं तथैकोनविंशकविंशमेव च । वर्जनीयं मया प्रोक्तं नक्षत्रं क्षितिवासव ! ॥६४०॥ (त्रिभिर्विशेषकम् ) सरा जन्मभूर्दग्धा तारा साम्यवती तथा । त्रिदिनस्पर्शिनी चापि रिक्ता भद्राऽन्विता तथा।।६४१॥ संक्रान्तिग्रहणाभ्यां च हीनकालमुखी तिथिः । अद्यानेकगुणा राजन् ! पुण्या तिथिरिवागता ॥६४२।। राहुकेतुयमच्छाया क्रूरवारस्तथैव च । दिनवारारिहोरा च क्रूरवारस्य सा पुनः ॥६४३॥ यमघण्टकर्कयोगावुत्पातो मृत्युकाणको । संवर्तक इति दोपा वारेऽस्मिन् सन्ति न कचित्॥६४४॥ विष्कम्भगण्डशुलाश्चातिगण्डो वज़वैधृती। व्याघातः परिघश्चापि व्यतीपातयुता नव ॥६४५॥ एतैर्योगैः परित्यक्तं शुभयोगैः परामृतम् । कुनामकालदण्डाद्युपयोगैरुज्झितं दिनम् ॥६४६॥ मुहूर्त पावनं राजन् ! वववालवकौलवैः । त्रिसंख्यैः करणैहृद्यखिलोकीशत्वसूचकैः ।।६४७|| अजन्ममासि निर्मुक्तधनुर्मीनस्थभास्करम् । असिंहस्थसुराचार्य लग्नमेतद् मनोहरम् ॥६४८॥ मघा पुनर्वसुः पुष्यो हस्तः स्वातिश्च रेवती। १ -रिवाजनेति च पाठ ।

मल्लिनाथमहाकाव्ये-
रोहिणी श्रवणं चैव धनिष्ठा चोत्तरात्रयम् ॥६४९॥
मृगशीर्ष तथा मूलमनुराधा नराधिप ! ।
पञ्चदशापि ऋक्षाणि प्रतिष्ठायां शुभान्यहो ! ॥६५०॥
शन्यर्कक्षितिजाः षष्ठतृतीयस्थाः शुभावहाः ।
द्वित्रिस्थश्चन्द्रमाः श्रेष्ठः सर्वकार्यप्रसाधकः ॥६५१॥
एकद्वित्रिचतुष्पञ्चदशमस्थो बुधो मतः ।
एकद्वित्रिचतुष्पश्चनवसप्तदशस्थितः ॥६५२॥
गुरुः शुभतरः प्रोक्त एकपञ्चचतुःस्थितः ।
नवचतुर्दशस्थश्च शुक्रः प्रीतिकरः सताम् ॥६५३।।
केतुविधुन्तुदौ नूनमेकादशगतौ शुभौ ।
प्रतिष्ठायां ग्रहा एते लग्नस्यातिशयप्रदाः ॥६५४॥
श्रुत्वेदमुचितं दत्त्वा तेभ्यः स्खं क्षितिवासवः ।
लग्नेऽस्मिन्नेव राज्ये श्रीवलभद्रं न्यवीविशत् ॥६५५।।
अथाधिरूढशिविको नरेन्द्रः श्रीमहाबलः ।
मुनिपादरजःपूतं महोद्यानमुपेयिवान् ॥६५६॥
स्वपदन्यस्तसत्पुत्रोऽथाञ्चलो निश्चलाशयः।
गुणैः स्थैर्यादिकैर्वर्यैर्धरणो धरिणीयितः ॥६५७॥
सप्तक्षेत्र्यां धनं न्यस्य पूरणोऽप्यनृणो नृणाम् ।
वसुभिः पूरयन् विश्वं वसुर्वसुरिव श्रिया ॥६५८॥
वैश्रमणः श्रमणत्वे बद्धकक्षो महामतिः ।
अभिचन्द्रस्तु निस्तन्द्रो गुरुशुश्रूषणाशया ॥६५९॥
सर्वेऽप्यमी यथा वित्तं ददाना भावनोद्धताः ।
शिविकास्था गुरोः पार्वे व्रतमाप्तुमुपागमन् ॥६६०॥
(चतुर्भिः कलापकम् )
अथाऽवामान् वामपार्थे कृत्वैतान् विधिपूर्वकम् ।
धर्मध्वजादि तत् सर्वमदादथ मुनीश्वरः ॥६६१॥

द्विर्तायः सर्गः। पञ्चभिर्मुष्टिभिः केशान् मूत्तिमद्विपयानिव । खयमुत्पाटयामासुरेते गुरुनिदेशतः ॥६६२॥ सामायिकमहामन्त्रं पात्रं निःश्रेयसश्रियाम् । गुरोरुच्चारयामासुस्ते पीयूपकिरा गिरा।।६६३।। तत्कालमाप्तसाघुत्वलिनिनोऽपि तपोधनाः। संकृताङ्गाः समाधिस्थाश्चिरंदीक्षितवद् वभुः ॥६६४॥ प्रदक्षिणात्रयीं दत्त्वा प्रणिपत्य गुरुक्रमौ । उपाविक्षन् पुरस्तात् ते विनयाऽऽनम्रकन्धराः॥६६५॥ अथोपश्लोकयामास गुरुस्तद्भाववृद्धये ! असारेऽपि भवे माप्तं श्रामण्यं मुक्तिपूरथः ॥६६६॥ चक्रित्वं त्रिदशत्वं च नृपत्वमहमिन्द्रता । विदन्तु सुलभं चैतद् दुर्लभं तु जिननम् ॥६६७॥ - यतः- एकाहमपि निर्मोहः प्रव्रज्यापरिपालकः । न चेद् मोक्षमवामोति तथापि स्वर्गभाग भवेत्।।६६८।। किं पुनस्ते महाभागास्त्यक्त्वा तृणमिव श्रियम् । आद्रियन्ते परिव्रज्यां सुचिरं पालयन्त्यपि ? ॥६७९।। इति विनयविनम्रा देशनां पावनां तां कुमततिमिरवीथीभास्वदंशुप्रकाराम् । श्रुतिपथमुपनीय प्रीतिभाजो मुनीन्द्रा विदधति मुदमेते सप्त साम्यैकतानाः ।। ६७० ॥ इति श्रीविनयचन्द्रसूरिविरचिते श्रीमल्लिखामिचरिते विन- याङ्के महाकाव्ये दान-शील-तपो-भावनासु जिनदत्त- वनमाला-श्रीविद्याविलासक्षितिपति-श्रीदृढप्रहारिमह- र्षिकथागर्भित श्रीमहावलराजर्षि-अचल-धरण- पूरण-वसु-वैश्रमणा-ऽभिचन्द्रव्रतमहोत्सव- व्यावर्णनो नाम द्वितीयः सर्ग । ? । १२ अईम अथ तृतीयः सर्गः। अथ स्वगुरुणा साकमवियुक्ता गुणा इव । सत्त्वराशिहितोत्कृष्टा विजहस्ते तपोधनाः॥१॥ गुर्वाज्ञामिव समिती रक्षन्तस्ते यथाविधि । अभजन्ततरां साम्यं निःसीमाचरणप्रियाः ॥२॥ कायोत्सर्गजुषामेषां स्कन्धकण्डूयनं मृगाः। विदधुनिशितैः शृङ्गैस्तीक्ष्णैर्वासीमयैरिव ॥ ३ ॥ क्षुधार्ता अप्यमी धीराः कुर्वाणा दुस्तपं तपः । एषणा न व्यलवन्त निजच्छाया इवाङ्गिनः ॥ ४ ॥ अरण्यानीपथि भ्रान्ता वाढं पिपासिता अपि । नो ववाञ्छुर्जलं शीतं स्फीतं पीतामृता इव ॥ ५ ॥ 'शीतेन वाध्यमानास्ते तुषारकणवाहिना । ईपुर्नो ज्वलनज्वालां ग्रीष्मसन्तापिता इव ॥ ६ ॥ उष्णेन दह्यमानाङ्गा न च्छायां फलिनस्य ते । अस्मरन् कायमानस्थाः सुस्था इभ्यजना इव ॥ ७॥ मशकैरपि संदष्टा अयःशूचीमयैरिव । नोद्वेगं विदधुः कापि न द्वेषं च मनागपि ॥ ८ ॥ इत्थं परीपहच{ जयन्तस्ते तपोधनाः । वीतशोकां पुरी जग्मुर्गुर्वादेशवशंवदाः॥ ९ ॥ तदागमनकल्याणमुद्यानतरुरक्षकः । तत्क्षणात् कथयामास जयेत्याशी:पुरःसरम् ॥ १० ॥ ततः प्रकृतिभद्रोऽसौ वलभद्रः क्षितीश्वरः । तान् वन्दितुमगाद् भक्त्या पौरलोकैरलडकृतः ॥११॥ १ -शुक्ता इति च। m तृतीयः सर्गः। ९९ वन्दित्वा स्वोचिते स्थाने निषण्णे पृथिवीभुजि । तेषां मुख्योऽवदद् वाग्मी महावलमहामुनिः॥ १२ ॥ अनादिमूलपर्यन्तः संसारो नाम पत्तनम् । विना केवलिनं यस्य स्वरूपं न निगद्यते ॥ १३ ॥ यस्मिन् देवकुलायन्ते सौधर्माद्याः सुरालयाः । पण्याकुलापणायन्ते कर्माऽकर्मभुवोऽखिलाः ॥ १४ ॥ शैवा वैशेषिका वौद्धाः कापिला नास्तिका अमी । वाणिज्यकारकायन्ते यत्र चाटुविचक्षणाः॥ १५॥ मोहो वप्रायते यत्र तृष्णोचैः परिखायते । विशालविशिखायन्ते सुखासुखसमागमाः ॥ १६ ॥ शब्दाद्या विषया यत्र पञ्चामी पद्रदेवताः । विशालकाननायन्ते जन्तुदेहाः समन्ततः ॥१७ ।। तत्र कर्मपरीणामो नाम भूपो महाबलः । यदाज्ञा माल्यवत् सर्वैरुह्यते नृसुरैरपि ॥ १८ ॥ सर्वत्राऽलद्ध्यरचना वचनागोचरोद्यमा। तस्याग्रमहिषी कालसङ्गतिर्गतिशोभना ॥ १९ ॥ देवपूजापरः शान्तः शोभनः स्वमनूचितः। अल्पक्रोधोऽल्पमानोऽल्पमायोऽल्पाहकृतिः कृती २० आस्तिकः सात्त्विकः प्राज्ञः शुभमार्गमरूपकः । भव्यो नाम तयोः पुत्रः पवित्राचरणप्रियः॥ २१ ॥ (युग्मम् ) कलही क्लिष्टकर्मज्ञो महामोहसखः खलु । निगोदपृथ्वीकायादिस्थितितत्त्वकृतोत्सवः॥ २२ ॥ पुद्गलानां परावर्तक्षायसेवाधिरक्षकः । अभव्यनामा समभूद् द्वितीयश्च तयोः सुतः ॥ २३ ॥ (युग्मम् ) क्रमादुद्यौवनं भव्यतरं पुत्रं विलोक्य सा । .

१०० मल्लिनाथमहाकाव्ये- चिन्तासन्तानविधुरा समजायत जातुचित् ॥२४॥ तामालोक्य महीपाला वभापे सुभगोत्तमे !! कथं चिन्तापराऽसि त्वं हि वर्णैः सुकोमल ? ॥२५॥ देवाऽभव्यसुतः प्राप्तयौवनोऽपि कथं त्वया । उत्तमकुलनन्दिन्या साकं नो परिणाय्यते ॥ २६ ॥ अथोवाच नृपः सुप्ठु स्मारितोऽस्मि सुलोचने ! | अनेककार्यनिध्नस्य विस्मृतिम गरीयसी ।। २७ ।। तनः क्लिष्टागयं नाम देवनं कर्मभूपतिः । आजूइवत् प्रतीहारपेषणात् सर्वकार्यवित् ।। २८ ।। तस्मिन्नुपागते राजा वभाषे वदतां वरः। जानादभव्यपुत्रस्य स्नुपां योग्यां निवेदय ॥ २९ ॥ ज्ञानात् सम्यम् विचार्योः क्षणं स्थित्वा जगाढ सः। अस्ति कालप्रनिष्ठाख्यमव्यवहारपत्तनम् ॥ ३० ॥ तत्रानादिवनस्पतिनामा राजति राजराट् । अनन्तकालचक्राख्या तस्य प्राणप्रिया प्रिया ॥३॥ तीव्रमोहादितिनाम तयारका तनूद्भवा । यस्या रूपमनिगायि न द्रष्टुमपि पार्यते ॥ ३२ ॥ अमुं भव्येतरं पुत्रं तया योजयसे यदि । स्वर्ग सुरभि जायत रत्नं स्वर्गेन योज्यते ॥ ३३ ॥ श्रुत्वदं नास्तिको नाम दृतो भूमीभुजा स्वयम् । प्रपितस्तस्य सामीप्ये स प्रणत्वेत्यवोचत ॥ ३४ ॥ मन्मुखेन मम स्वामी स्वामिन् ! व्याहरते वचः । निनां मोहोदिनिं पुत्री मत्पुत्राय प्रयच्छत ॥ ३५॥ युवायद्यपि स्नेहः कुलक्रमसमागतः । तथापि तं स्थिरीकर्तु संवन्धः क्रियतेऽधुना ॥३६|| वनस्पतिरथोवाच विस्मिताननपङ्कजः । लुलोट स्वधुनीमध्ये नालस्योपहतस्य में ।। ३७ ।।

मृतीयः सर्गः। १०१ असंभाव्यमभाग्यानां मनोरथशतेऽपि यत् । तदेतन्मम संपन्नं पात्रजामातलाभतः ॥ ३८ ॥ श्रीमत्कर्ममहीपालसमादेशः सुदुर्लभः । सुचिरं विधृतो मौलौ हरिचन्दनदामवत् ।। ३९ ॥ ताम्बूलवस्त्रपात्राद्यैः पूजयित्वा समुच्चकैः । मुख्यं संख्यावतां मध्ये आत्मानं मन्यते स्म सः॥४०॥ नास्तिकोऽय समागत्य निःशेष कर्मभूभुजः । तदुक्तं कथयामास संयोज्य करकुड्मलम् ॥ ४१॥ तद्वचःश्रवणादेव जातरोमाञ्चकञ्चुकः । आजूइवन्निमित्तई लिष्ट क्लिष्टाशयाभिधम् ।। ४२ ।। दैवज्ञ! बद सल्लग्नं परमोच्चाहान्वितम् । यत्प्रभावेण मत्पुत्रो जायतेऽनन्तसन्ततिः॥ ४३ ॥ दैवज्ञः पट्टके न्यस्य ग्रहचक्रं यथाविधि । देवामुष्मादिनाल्लग्नं पञ्चमेऽह्नि विमृश्यताम् ॥ ४४ ॥ ततः शुभतरं लग्नं वत्सरान्ते महीपते!। विलम्बः पुण्यकार्याणां न क्षोणीश! विधीयते ॥४५॥ मिथ्यादर्शननामानं मन्त्रिणं पृथिवीश्वरः । तत्क्षणं प्रेषयामास समीपे श्रीवनस्पतेः ।। ४६ ॥ वनस्पतिमहीभर्तुः पुरतः कर्ममन्त्रिराट् । नैकल्यं कथयामास लग्नस्योत्तमताजुषः ॥४७॥ वनस्पतिरथ प्रोचे प्रमाणमिदमस्तु भोः। सत्वरं कारयिष्यामि विवाहस्योचितं विधिम् ॥४८॥ यतः-देवानां मनसा साकं पार्थिवानां गिरा समम् । धनिनामर्थदानेन कार्य स्यात् क्षणमात्रतः ।। ४९ ॥ अथादिक्षद् नृपो भृत्यान् निगोदान बादरानसौ । क्रियन्तामिन्दुविशदाः पक्कान्नस्य हि पर्वताः ॥ ५० ॥ १ महीपाल इत्यपि । .

१०२ मल्लिनाथमहाकाव्ये- आज्यैः प्राज्यः प्रपूर्यन्तां महावाप्यः पदे पदे । वररूपैः सुचित्राव्यैर्मण्डपा अपि वेश्मनाम् ॥ ५१ ॥ भवितव्यताप्रभृतिः सर्वः सुवासिनीजनः । पर्पटादिकृते भूयात् कलोलूलुस्वरोत्तरम् ।। ५२ ।। लेख्यन्तां गोत्रिणां लेखा विवाहाहोनिवेदिनः। कुडुमैः क्षुल्लकभवग्रहणाभिधलेखकैः ॥५३ ॥ अथ संप्रेषितो राज्ञा मन्त्री प्राप्य पुरं निजम् । विवाहप्रगुणः स्वामिन् ! जज्ञेऽनन्तवनस्पतिः ॥५४॥ उन्मार्गदेशकाभिख्या वराकृष्टिविधायिनः । संसारपत्तनं मापुर्वनस्पतिनिदेशतः ।। ५५ ।। प्रवेशिता महोत्साहपूर्वकं कर्मभूभुजा । तृत्वाभिधानमावासमास्थिताः समदेक्षणाः ॥ ५६ ॥ मर्मोद्घट्टनया वध्वा कृतस्नानमहोत्सवाः । क्षारसूपकृता नीता दुर्वाक्रसवतीगृहे ।। ५७॥ विन्यस्तमत्सरस्थाला अनार्याचरणादिकाः । द्राक् परिवेषयामासुः कुरङ्गार्भकलोचनाः ॥५८ ॥ भोजनान्ते नृपस्यान्ते संस्थायोन्मार्गदेशिनः । अमुमामन्त्रयामासुः करग्रहणपर्वणि ॥ ५९ ॥ वस्त्रायेस्तान् स संपूज्य जन्ययात्राकृतोद्यमः । खावासान् दापयामास निधत्तस्तम्भवेश्मनि ॥६० ॥ अभिगृहीतमभृतिभ्रातरः पञ्च दुर्जयाः । तत्राऽऽगच्छन् सशृङ्गारा भ्रातृव्यकरमगले ॥६॥ द्वादशारकनामानः कालसङ्गतिसोदराः । उपाजग्मुर्गृहीत्वोच्चैर्मातृशालाविधिक्षणम् ।। ६२ ।। रतिप्रियरतिप्रीतिगीयमानोरुमङ्गलः । वरो भव्येतरोऽचारीद् रजःकालीकृताम्बरः ॥६३॥ आपतन्तं वरं श्रुत्वा वनस्पतिमहीपतिः ।

तृतीयः सर्गः। पुद्गलपरावतैः पुरं व्यधापयत् केतुलोलमालासमाकुलम् ॥६४॥ वनस्पतिसमादिष्टं रागाख्यं जन्यमन्दिरम् । हंसः सरोजवनवदलश्चक्रेतरां वरः॥६५॥ कुवासनामयं तत्र धृलीभक्तं वनस्पतिः । सोत्साहं प्रेषयामास कामेच्छाधवलोत्तरम् ॥ ६६ ॥ निकाचिताहये चारुवर्णके कर्मनन्दनः । विन्यस्तः स्वस्तिवचनरचनाभिः पुरन्ध्रिभिः॥ ६७॥ नीरङ्गीपूर्वकं श्वेतपोतपातविग्रहः । उन्मादाख्यं वरो नागमारुरोह यथाविधि ॥ ६८ ॥ द्रव्यक्षेत्रकालभावस्थूलसूक्ष्मविभेदिभिः । धवलैः : संगीतविक्रमः ।। ६९ ॥ द्वितीन्द्रियादिभिर्जीवैर्वन्दिवृन्दैरिवोच्चकैः । पुरःस्थैर्वर्णिताशेषगुणग्रामः पदे पदे ।। ७० ॥ कौतुकागारसामीप्यं प्राप्य भव्येतरो वरः । उत्ततार द्विपादस्मात् प्रबोधादिव दुर्मतिः ॥७॥ (त्रिभिर्विशेषकम् ) अनन्तकालचक्राख्यखस्राकृष्टः स्ववाससा । संव्यानसंपुटस्फोटं चक्रे पादप्रहारतः ।। ७२ ॥ यथाप्रवृत्तिनामाख्यां कुलदेवीं प्रणम्य सः। मोहोदयवधूतारामेलकं विदधे तदा ॥ ७३ ।। अनादिभवरूपेण कृतज्ञेन द्विजन्मना । कारितः करसंयोगोऽनयोर्मन्त्रपुरःसरम् ॥ ७४ ॥ वनस्पतिमहीपालः करमोचनपर्वणि । भववेद्याभिधां विद्यां ददावक्षयकारिणीम् ।। ७५ ॥ वृत्ते विवाहमङ्गल्ये दशाहानि महोत्सवात् । स्थित्वा वरः समागच्छद् निजं संसारपत्तनम् ।।७६।। भुञ्जानः पञ्चधा भोगान् तया साकं नरेन्द्रजः ।

१०४ मल्लिनाथमहाकाव्ये- . अमृत नन्दनान् पञ्च विकारान् विदितान् भुवि ॥७॥ आसन्नदुरसिद्धिकवेश्मान्येष दिवानिशम् । उपाद्रौपीत सुतैः साकं पञ्चभिर्वामचेष्टितैः ॥ ७८ ।। आसन्नदूरभव्याद्या मिलित्वा तैरुपद्रुताः । आगमन् कर्मभूमीशसमीपे प्राभृतोत्तराः ॥ ७९ ॥ प्रणम्य कर्मभूपालं तत्सर्वं ते व्यजिज्ञपन् । परैर्हि परिभूतानां सर्वेषां पार्थिवो गतिः ॥ ८० ॥ यदूचे- दुवैलानामनाथानां वालवृद्धतपस्विनाम् । अन्यायैः परिभूतानां सर्वेषां पार्थिवो गतिः ॥८१॥ . तं निशम्याऽवदद् भूमान् रे रे नगरवासिनः!। मदल्लभसुतस्यायमन्यायः पूत्कृतः कथम् ॥ ८२॥ यद्यन्ममाङ्गभूर्लोकान् गृह्णाति गृहमध्यतः । तत्तस्य शेषमन्यस्य प्रसाद इति यत्कृतः ॥ ८३ ॥ यद्यत्र स्थातुमीशा न ततो गच्छत मे पुरात् । नगरस्य न कोणेऽपि ममायं कूणयिष्यति ।। ८४ ॥.. ततः कलिः प्रतीहारः संज्ञितो नेत्रसंज्ञया । तानचन्द्रयामासानाथानिव नृपाग्रतः ॥ ८५ ॥ ते खिन्नमानसा दीनवदना भ्रष्टबुद्धयः । विमृश्य सुचिरं चित्ते भव्यप्रासादमासदन ॥८६॥ तानायातश्चिरं दृष्ट्वा मुहुः स्नेहलचेतसा । अभ्युत्थानमलञ्चक्रे सर्वस्याभ्यागतो गुरुः ॥ ८७ ॥ किञ्चिदुच्छसितास्तेऽथ प्रदत्तद्रविणा इव । प्राणमन् कर्मभूपालकुमारं परया मुदा ।।८८॥ कर्मणा विहितं यच्च तेऽजल्पन्नपमाननम् । सुहृदां कथितं दुःखं लघूभवति निश्चितम् ॥८९ ।। , तृतीयः सर्गः। समीपवर्ती तन्मित्रं सदागम इति श्रुतः । द्वितीयं मानेसमिव भव्यस्य नृपजन्मनः ॥ ९० ॥ निध्यौ तन्मुखं भव्यः सोऽप्यूचे देव ! मदनः । शृण्वमीपां यथा वाणसामर्थ्य तैव जायते ॥ ९१ ।। अमुष्मिन् भवपाथोधौ द्विघ्नसप्तकरज्जुके । ग्रन्थिभेदाभिधो द्वीपोऽमाप्तोऽभव्येतरैर्नहि ॥ ९२ ।। अपूर्वानिवृत्तिसंज्ञकरणारक्षकान्वितः । कोट्टः सास्वादनो नामाऽतिक्रम्यो यः पडावलिः ॥१३॥ सम्यग्दृष्टिरिति ख्यातं तस्मिन्नस्ति महापुरम् । सुवोधो यत्र भूपालस्तद्भार्या बुद्धिसुन्दरी ॥ ९४ ॥ त्रिपुञ्जीकरणो नाम तस्य बन्दी महामतिः । यः सदा वीतरागस्य पठेद् भोगावली किल ॥ ९५ ॥ . ततः परमविरतिनामाऽस्ति नगरी शुभा । त्रयस्त्रिंशदब्धिमानाऽनुत्तरसुरभासुरा ॥९६ ॥ तस्या देशविरत्याख्यो महाग्रामो विराजते । यस्मिन्नुपासको भव्यसंज्ञः खेलति धार्मिकः ॥१७॥ ततः सर्वविरत्याख्यं नामाऽस्ति नगरं महत् । यस्मिंश्चारित्रभूपालः पराक्रममहानिधिः ॥९८॥ 'तस्य क्षमाभिधा पट्टदेवी कोमलगीः सुधीः । मुनीन्द्ररपि यद्रूपं गीयते ज्ञानगीतिभिः ।। ९९ ।। अस्ति तस्य महामात्यः सम्यग्दर्शनसंज्ञकः । मिश्राख्यः प्रणिधिर्यस्य सर्वगः पवनो यथा॥१०॥ समीपे तस्य चेद् भव्यमहाभाग्येन गम्यते । अवश्यं कर्तुमस्योच्चैरपमानं हि शक्यते ॥१०॥ 'निःसहायैर्महाभाग! न किञ्चिदपि शक्यते । वायुना कृतसान्निध्यो दहेत् कक्षं हुताशनः ॥१०२॥ १.ममेति पाठान्तरम् । १४ १ मल्लिनाथमहाकाव्ये- - - यतः- असहायः समर्थोऽपि तेजस्वी किं करिष्यति । निर्वाते ज्वलितो वह्निः स्वयमेव प्रशाम्यति ॥ १०३॥ श्रुत्वेदं निशितैः सर्वैः समित्रः कर्मनन्दनः । चचाल शकुनैश्चारु प्रेरितः सुकृतैरिव ॥ १०४ ॥ प्रातस्तेषां गृहाण्येष शून्यान्यालोक्य सर्वतः । लोको विज्ञपयामास राजानं कोपनाऽऽशयम् ॥१०५॥ तन्निशम्य वचो राजा कोपवहिप्रभञ्जनम् । आजूहवद् महामात्यं मिथ्यात्वं बहुसंमतम् ॥१०६॥ अथावादीद् महाभाग ! सनीरजलदस्वरः । ममाग्रे मिश्रदूतेन जगदे जगदेकधीः ॥ १०७ ।। भव्यो भव्यसमूहेन साकं स्वामिन् ! निशीथतः । उच्चल्य सर्वविरतौ नगरे गतवान् खलु ॥ १०८ ॥ स च चारित्रभूपेन कृतसंमानपूर्वकम् । समीपे स्थापितः पुत्रवद् दृष्टश्च दिवानिशम् ॥१०९॥ चारित्रभूपतेः साधु धर्मपुत्रेण सङ्गतम् । नीलीरक्ताम्बरमिव जज्ञे तस्याविनश्वरम् ११०॥ सन्मार्गदेशनानाम्नी वारवेश्या सुलक्षणा । तस्या गेहे स्थितो भव्यो विरागी भवतः प्रति॥१११॥ क्रमशः क्रमशस्तेन तत्पुरं कर्मभूपते ! । उद्वासितं सुवोधेन स्तोकलोकं भविष्यति ॥११२॥ श्रुत्वेति कर्मभूपालः क्रोधेनौष्ठदलं दशन् । ऊचे चारित्रभूपालं हनिष्यामि शृगालवत् ॥११३।। मया चारित्रनामापि श्रुतमद्य महत्तम ! । मां मुक्त्वाऽन्यो महीपालो न कापि श्रूयते क्षितौ ॥११४॥ अथवा कल्पवृक्षेपि विद्यमानेर्थिनां प्रिये । स्नुहीमहावृक्ष इति किं मूढ़ों निगद्यते ? ।। ११५ ।।

तृतीयः सर्गः। १०७ यस्तार्यपक्षैः पक्षालीचिकीर्मक्षु स्वसायके । दिग्दन्तिदन्तैः प्रेयस्याः सत्कङ्कणचिकीर्नरः॥११६।। सिंहस्य केशरैर्लाक्षारसदिग्धैरिवारुणैः । वेणीवन्धचिकीर्यश्च स मे पितृसपत्नति ॥११७।। (युग्मम् ) दुर्नयस्य फलं सद्यो दर्शयामि रणाङ्गणे । मद्विक्रमकथा सभ्याः! वीक्षन्तां पौनरुक्त्यतः।।११८॥ अथ कर्ममहीपाल प्रज्वलन् क्रोधवह्निना । कुवासनाभिधा वाढं जैत्रढक्कामवीवदत् ।। ११९ ।। तस्या नादं समाकर्ण्य शौर्यद्रुमघनाघनम् । कामाया मण्डलाधीशाः सर्वे संनहनं व्यधुः ॥१२०॥ आहारभयसंज्ञाश्च चतस्रो यानकाहला । चतुर्दिक्षु जयायेव ताडिताः कर्मभूभुजा ॥१२॥ कदाग्रहमयास्तत्र निःस्वानाः सस्वनुस्तराम् । पञ्चेन्द्रियविकाराश्च पञ्च तूर्याण्यपि स्फुटम् ॥१२२॥ अथ कर्ममहीपालः कृतप्रस्थानमङ्गलः । आरुराहाभिमानाख्यं नाग नगमिवोन्नतम् ॥१२३।। अभव्यैर्मण्डलाधीशैश्चलत्कर्मगुणैरिव । दूरभव्यैस्तथा वर्गपत्तिभिः परिवारितः॥ १२४ ॥ प्रभञ्जन इवोदामो नस्खलत्पौरुषोत्तरः। ददौ योजनमानेन प्रयाण कर्मभूपतिः॥१२५।। इत्थं प्रयाणकं कुर्वन् सर्वगः कर्मभूपतिः । ग्रन्थिभेदाभिधे द्वीपे कृतवासो व्यराजत ॥१२६॥ मिश्रनामा भहादूतः प्रेरितः कर्मभूभुजा । सम्यक्त्वमन्त्रिणो गेहमभ्यगाञ्चित्तवद् द्रुतम् ॥१२७।। स्वामिन् ! कर्ममहीपालो मन्मुखेन तवाग्रतः। ईदृशं कथयामासाऽवधार्य तन्मयोदितम् ॥ १२८ ॥ .

१०८ मल्लिनाथमहाकाव्ये- भव्यसान्वितो भव्यकुमारो यत्वया धृतः । तत् प्रसुप्तो मृगाधीशो हतो हन्त ! चपेटया ॥ १२९ ।। एतावताऽपि नो नष्टं किमप्यस्ति महीपते । गत्वा.क्षमय निःशेष नतिग्राह्या हि साधवः ॥ १३०॥ इति ब्रुवाणं तं दूतं श्रुत्वा चारित्रभूपतिः । सहास्यमवदत् पाथःपूर्णपाथोदनिःस्वनः ॥ १३१॥ त्वनाथनगरीलोकैः सदागमविमोचितैः । मदीयं नगरं भद्र ! वसदस्ति निरन्तरम् ॥ १३२ ।। अमुमर्थ तव स्वामी जाननपि निजे हृदि । कथमद्योद्यतो जज्ञे विग्रहाय समं मया ॥ १३३ ॥ अथवा विग्रहं मत्वा सर्वोऽपि परमण्डले । प्रवेशं कुरुते धीमान् कीर्तिहासोऽन्यथा भवेत् ॥१३४॥ न न्यूनं तव नाथेन तोलनीयं ममाधुना । इत्युक्त्वा व्यसृजद् दूतं ततश्चारित्रभूपतिः ॥ १३५ ॥ अथ प्रभावनां जैत्रढक्कां चारित्रभूपतिः । तत्क्षणात् ताडयामास वैरिंगर्वगिरेः पविः ॥ १३६ ॥ शमसंवेगनिर्वेदप्रमुखास्तस्य भूपतेः । सर्वाभिसारप्रयता बभूवुर्मण्डलेश्वराः ॥ १३७ ॥ ज्ञानमौनक्रियाशीलसंपदो यानकाहलाः। समताड्यन्त भव्येन श्रवणप्रमदप्रदाः ॥ १३८ ॥ अथ चारु मुहूर्तेऽह्नि कृतप्रस्थानमङ्गलः । आरुरोह व्रतक्ष्माभृत् संयमाभिधकुञ्जरम् ॥ १३९ ।। जैनधर्माभिधो बन्दी भावनातुरगीस्थितः । एवं वचोऽगदत् काममाशीर्वादपुरस्सरम् ॥ १४ ॥ जय चारित्रभूपाल ! प्रलीनाशेषकल्मष ! । जय भव्यजनारामवसन्तसमयायित ! ॥ १४१ ॥ १ -वर्ग• इति च पाठ ।

तृतीयः सर्गः । १०९ । जय त्रैलोक्यमाणिक्य ! जय साम्यमहानिधे ! । जय दुर्जयदर्पोग्रकन्दर्पपंचनाशन ! ।। १४२ ।। अहिंसा ध्यानयोगश्च रागादीनां विनिर्जयः । साधर्मिकानुरागश्च सारमेतत् तवाऽऽगमे ॥ १४३ ॥ अर्हन् देवो गुरुः साधुस्तत्त्वं तीर्थकरोदितम् । इति यस्य स्फुरत्यन्तः संसारोऽस्य करोति किम्?।१४४॥ इत्यायुर्वचनधारः पूरयन् रोदसीतलम् । चारित्रभूपतेरग्रे प्रासरद् वन्दिसुन्दरः ॥ १४५।। शुक्लध्याननरो दधे मूर्ति छत्रं समुञ्चलम् । केवलज्ञाननामाऽस्य लोकालोकप्रकाशकम् ॥ १४६ ॥ आरोहकः समत्वाख्यः कुम्भिकुम्भे व्यवस्थितः । अन्येऽपि वलिनो योधाः सन्तोपशमसंज्ञकाः ॥१४७॥ प्रयाणकशमिश्रकोट्टदुर्गसमीपगः । बभूव व्रतभूपालो विहितावाससंहतिः ॥ १४८ ॥ शमस्य मार्दवस्याऽप्याजवसंतोपयोरपि । रणपट्टा अवध्यन्त श्रीमच्चारित्रभूभुजा ॥ १४९ ॥ क्रोधाहवारयोर्मायालोभयोरपि तत्क्षणम् । कर्मक्षोणीभुजा भालेऽवध्यन्त रणपट्टकाः ॥ १५० ॥ अथ सैन्यद्वयं तत्र डुढौके रणरङ्गतः । ब्रियन्ते सुभटा यत्र साभिज्ञानपुरस्सरम् ॥ १५१ ।। रणतर्वाद्यमानैर्वन्दिकोलाहलैस्तथा । वीराणां सिंहनादैश्च शब्दाद्वैतमभूत्तदा ॥ १५२ ।। शरच्छन्नपतद्दण्डैरुच्छलद्भिर्मुहुर्मुहुः । तदा जज्ञे सितच्छत्रैः शतचन्द्रं नभस्तलम् ॥१५३।। रणकृत्तशिरोभिश्च हुकाररवभीषणैः । परिव्याप्तं नमो भाति वाचालैरिव राहुभिः ॥१५४|| १ प्रहघस्मर इति च पाठ ।

११० मल्लिनाथमहाकाव्ये- नास्त्यात्मा नास्ति देवोऽपि नास्ति काचन नितिः। नास्ति पुण्यं तथा पापं किन्तु भूतमयं जगत् ॥१५५।। एकस्मिन् दृषदि न्यस्य पादद्वन्द्वमुपासकैः । अभ्यर्च्यते शिला त्वन्या शवमण्डनलीलया ॥१५६।। किं तया विहितं पापं यस्या उपरि संस्थितम् । स्थाप्यन्ते चरणा अन्याः पूज्यास्तत्कि कृतं शुभम् ११५७ यद् बुद्धयते न तत्त्वं तद् यत्तत्वं तन्न बुध्यते । अतत्त्वलोलुपो लोको धिग्मुर्विप्रतार्यते ॥ १५८ ॥ इत्थं वचनवीथीभिर्भल्लीभिरिव ताडिताः । द्रव्यश्राद्धा अभव्यस्तैः क्षणादेव विनिर्जिताः ॥१५९।। ( चतुर्भिः कलापकम् ) अत्र चारित्रभूपालं प्रणम्य परमाईताः । अभव्यस्तैः समं यो प्रवृत्ता रणरगिणः ।। १६० ॥ यदुच्यते भवद्भिश्च नास्तीति वचनं भृशम् । अस्तीत्युपेक्षया तच्च घटाकोटिमुपैति भोः। ॥ १६१ ॥ चरणस्थापनं भक्तिपूजनं यच्छिलावलम् । तत्प्रतिष्ठाफलं नाऽऽभिः पुण्यापुण्यमुपार्जितम् ॥१६२।। इत्थं वाक्यैः सर्वलोहमयैरस्वैरिवोच्चकैः । पलायाञ्चक्रिरे वेगादभव्यास्ताडितास्ततः ॥ १६३ ।। साकं संचारिभी राजपुत्रैः क्रमागतैरिव । सात्त्विकैरनुभावैश्च शान्तैः प्रहरणैरिव ॥ १६४ ॥ लीलाविलासविच्छित्तिविब्बोकादिमविभ्रमैः । इत्यायैः सहजैर्युक्ता रागवार्द्धिहिमांशुभिः ॥१६५|| मण्डलाधिपकन्दर्पनिदेशाद् विषया भटाः । स्थायिभिर्मुर्ततेजोभिरिव योद्धु डुढौकिरे ।।१६६॥ (त्रिभिर्विशेषकम् ) तेषां दर्शनतः श्रीमद्वतराट्पक्षवर्तिनः ।

तृतीयः सर्गः। १११ द्रव्यतो यतयो नेशुः किंकर्तव्यविमोहिताः ॥१६७।। स्ववलं भग्नमुवीक्ष्य बलात्कर्ममहीभुजः । अशिक्षतेति निर्ग्रन्थान् श्रीमच्चारित्रभूपतिः ।। १६८ ।। यूयं धन्या महासत्त्वा आजन्मब्रह्मचारिणः । यथाख्यातव्रतास्तीर्णघोरसंसारसागराः ॥ १६९ ।। युप्मदीयं व्रतं भद्राः ! पालितं सफलं तदा । यदाऽमून् विपयान् घोरान् जेतारो ब्रह्मविक्रमः॥१७॥ अन्यथा विपयरेभिर्ब्रह्मचर्यमहानिधिः । अवश्यं गृह्यते सर्वो भवतां जीवतामपि ॥१७१।। अमुप्मिन् दुग्रहे दुर्गे निर्जिते विपयाभिधे । भवाशेनिज गोत्रमद्यैवाऽलं विभूष्यते ॥ १७२ ।। एपामपि पतिः कामः प्रकामवलदुर्धरः । ब्रह्माद्यात्रिदशा येन लीलयैव वशीकृताः ॥ १७३ ।। एतज्जयो विधातव्यः शुचिब्रह्मनिपेवणैः । वसतिणवार्तादिनवगुप्तिविशेपितैः ।। १७४ ।। इत्युपबंद्य भूपालो विजितेन्द्रियसंज्ञकम् । ताम्बूलं प्रददौ तेपां वहस्तेन प्रसादवत् ॥ १७५ ॥ अथ चारित्रभूपेन समादिष्टाः समन्ततः । सर्वागमलसन्नाहा ब्रह्मगुप्त्यवभासुराः ॥ १७६ ।। निरीहतातुरङ्गस्था निशातशमसेल्लकाः। योढुं ताभिः समं विष्वग् ढौकन्ते स्म महर्षिताः।।१७७॥ (युग्मम् ) तेषां दर्शनमात्रेण प्रणेशुर्विषया भटाः । उदये तेजसा भर्तुः किमु खेलन्ति कौशिकाः ॥१७८॥ शमः कोपमथो मानं मृदुता रणपट्टभृत् । मायामार्जववीरेशो लोभं तोषस्ततोऽजयत् ।। १७९ ।। अथ कर्ममहीपालः साकं चारित्रभूभुजा ।

११२
मल्लिनाथमहाकाव्ये-
योv प्रववृतेऽत्यन्त वन्धसत्ताऽऽदिवर्मभृत् ॥१८॥
मतिश्रुताऽवधिमनःकेवलावरणैः समम् ।
ज्ञानावरणकर्माऽथाऽचलत् कर्मविपानुगम् ॥ १८१॥
चक्षुरचक्षुरवधिकेवलदर्शनातिः ।
आद्या निद्रा निद्रानिद्रा प्रचला च तृतीयका ॥१८२॥
प्रचलाप्रचला स्त्यानधिरेवं नवभिस्ततः ।
'दर्शनावरणं कर्म पाणिभागेऽभवत्तराम् ।। १८३ ।।
सातासातभिदाभ्यां तु वेदनीयं तदग्रतः ।
तिर्यग्नारकनृस्वर्गिभेदादायुश्चतुर्विधम् ।। १८४ ॥
गतिजातितनूपाङ्गवन्धनादिविशेषतः ।
व्युत्तरशतेन नाम संना प्रगुणं स्थितम् ॥ १८५॥
उच्चैनींचैर्द्विधा भिन्नं गोत्रं तस्य पुरस्सरम् ।
अन्तरायो दानलाभवीर्यभोगोपभोगयुक् ।। १८६ ।।
कषायोंकषायैश्च योधैरिव महावलैः ।
रणकामी भवस्वामी रणक्षेत्रममण्डयत् ॥ १८७ ।।
ततो व्रतमहीपालः सत्क्रियाकवचोत्तरः।
अवर्षद् धर्मचापेन देशनानिर्मितैः खगैः ॥ १८८ ॥
पात्रस्यानुपघातेनानिहवेन गुरोरपि ।
जिगाय ज्ञानावरणदर्शनावरणे नृपः ॥ १८९ ।।
जिनेन्द्रसिद्धचैत्यौघसंघस्य द्वेषवर्जनैः ।
अनन्तदुःखसंभारं सोऽजयद् दृष्टिमोहनम् ॥१९॥
तीव्रक्रोधपरीहारैर्भवभ्रमणवारणैः ।
चारित्रमोहं चारित्रभूपालो जितवांस्तदा ।। १९१ ॥
महारम्भपरित्यागैस्तीवरागविवर्जनः ।
व्रतेशो नरकायुष्कं समूलमुदपाटयत् ॥ १९२ ॥
सन्मार्गदेशकत्वेन तिर्यगायुस्ततः परम् ।
विजयेन कपायाणां मनुष्यायुरथाज्जयत् ॥ १९३ ॥

तृतीयः सर्गः ११३ तपोभिनिर्मलैः कामं निर्जराभिः पदे पदे। देवायुप्कं लीलयैव जितवान् संयमाधिपः ।। १९४ ॥ गारवाणां परित्यागाद् नीचैर्गोत्रमधिक्षिपत् । उच्चैर्गोत्रं तु चारित्रबवायुःपरिपूरणः ॥ १९५ ॥ अन्तरायं पराजिग्ये दानलाभाऽनिवारणः । इत्थं कर्ममहीपालो मूलादुन्मूलिवस्तदा ॥ १९६ ।। जितकाशी ततः श्रीमच्चारित्रक्षितिनायकः । निर्वाणनगरी प्राप भासुरां शाश्ववैः सुखैः ॥ १९७ ।। तदाऽऽदेशेन भव्यानां प्रतिवोधपरायणः । बलभद्रमहीपाल! वंभ्रमीमि यथाविधि ॥ १९८ ।। तत्त्वार्थरसिकामेनां देशनां कर्मनाशिनीम् । श्रुत्वा संसारभीतः सन् उवाच वलभद्रराट् ॥ १९९ ।। तावदर्कभवस्तापो यावच्छत्रं न तन्यते । तावद्भवस्य भीर्यावद् न श्रुता धर्मदेशना ॥ २० ॥ प्रभो! देशविरत्याख्ये यथा पुरि वसाम्यहम् । तथा कुरु गुरूपास्तेः सर्वमल्पमिदं मम ।। २०१ ॥ क्रमात्तत्रोपितेनेशश्चारित्रो द्रक्ष्यते मया । तस्मादभीष्टसिद्धिर्मे भवितैव महामते ! ॥२०२ ।। ततो देशविरत्याख्यगुणान् देहि महामुने!। ततोऽप्युवाच निर्ग्रन्थः क्षमादिपुरुपोपमः ।। २०३।। सम्यक्त्वपूर्वकं पञ्चाऽणुव्रतानि गुणास्त्रयः। शिक्षात्रतानि चत्वारि ब्रतान्येतानि मेहिनाम् ॥२४॥ श्रुत्वेदं स सम्यक्तेन पूर्वकं गृहमेधिनाम् । व्रतानि द्वादशाऽगृह्णाद् महावलनिदेशतः ।। तद्वदन्येऽपि भावेन जगृहाशवाम् । सम्यक्श्रद्धानसंशुद्धा यया गजा का मजा २०६३ अतिज्ञेयमभूत् तेषां समानामपि चमक। १५ ११४ मल्लिनाथमहाकाव्ये- अन्यैरपि हि तत्कार्य यद्येकः कुरुते तपः ॥२०७॥ ते सर्वेऽथ चतुर्थादि कर्मग्रन्थविभेदकृत् । चतुर्थपुरुषार्थस्य कारणं तेपिरे तपः ॥ २०८ ।। अद्य दुष्यति मे मूर्धा दुष्यत्यद्य ममोदरम् । वर्ततेऽद्याऽरुचिः प्राज्यरसवीर्यविपाकतः ।। २०९ ।। अद्याहारस्य नामापि सर्वथा न सुखायते । अथोद्गारैर्मुखं वापि कटुकैः कटुकैरिव ।। २१० ।। व्यपदिश्येति राजर्षिः खस्याऽधिकफलेच्छया । पारणाहेऽपि नाऽभुत मायया तान् ववञ्च सः॥२११॥ भूयसा तपसा शश्वद् मायामिश्रेण सर्वतः । स्त्रीवेदकर्म सोऽवध्नाद् महावलमहामुनिः ॥ २१२ ॥ अर्हद्भक्त्यादिभिः स्थानविंशत्या नृपसंयमी । तीर्थकृन्नामकर्मोच्चै/मानर्जितवानिति ॥ २१३ ॥ अर्हतां प्रतिमाऽऽर्चाभिरहतां स्तवनादिभिः । एकमर्जितवान् स्थानमवर्णादिनिवारणैः ॥ २१४ ॥ सिद्धिस्थानेषु सिद्धानामुत्सवैः प्रतिजागरैः । एकत्रिंशत्सिद्धगुणकीर्तनैश्च द्वितीयकम् ।। २१५ ॥ प्रवचनोनतेः सम्यग् ग्लानवालादिसाधुषु । अनुग्रहमनोज्ञायाः स्थानमेतत् तृतीयकम् ॥ २१६ ।। गुरूणामञ्जलेबन्धादस्वाहारादिदानतः । असमाधिनिषेधेन स्थानमेतत् तुरीयकम् ॥ २१७ ।।। स्थविरा द्विविधा प्रोक्ता वयसा सुगुणैरपि । तेषां भक्तिविधानेन पञ्चमं स्थानकं विदुः ॥२१८॥ बहुश्रुतानां ग्रन्थार्थवेदिनां तत्त्वशालिनाम् । प्राशुकाऽन्नादिढानेन षष्ठं स्थानमुदीरितम् ॥ २१९ ।। तपस्विनां सढोत्कृष्टतपाकर्मस्थिरात्मनाम् । विश्रामणादिवात्सल्यात् सप्तमं स्थानमिष्यते ॥२२०॥ .

तृतीयः सर्गः । ११५ ज्ञानोपयोगसातत्यं द्वादशाङ्गाऽऽगमस्य च । सूत्रार्थोभयभेदेन स्थानं ननु तदष्टमम् ।। २२१ ॥ शझविहीन स्थैर्यादिसहितं दर्शनं स्मृतम् । शमादिलक्षणं यत्तु स्थानकं नवमं मतम् ॥ २२२ ।। विनयो यश्चतुर्भेदो ज्ञानाद् दर्शनतोऽपि च । चारित्रादुपचाराच स्थानं तद् दशमं मतम् ।। २२३ ॥ आवश्यकं भवेत् स्थानमेकादशमिदं पुनः । इच्छादिदशधा या सा सामाचारी जिनोदिता ।।२२४॥ शीलवतं विशुद्धं यद् नवगुप्तिनियन्त्रितम् । तत्पाल्यं निरतीचारं स्थानं तद् द्वादशं भवेत् ॥२२५।। त्रयोदशमिदं स्थानं क्षणे क्षणे लवे लवे । शुभध्यानस्य करणं प्रमादपरिवर्जनात् ।। २२६ ॥ तपो विधीयते शक्त्या वाह्याभ्यन्तरभेदतः । असमाधिपरित्यागात् स्थानमुक्तं चतुर्दशम् ।।२२७।। त्यागोऽतिथिसंविभागः शुद्धानोदकदानतः । तपस्विनां स्वयं शक्त्या स्थानं पञ्चदशं तु तत् ॥२.२८॥ वैयावृत्त्यं तु गच्छस्य वालादिदशभेदतः । भक्तविश्रामणाद्यैः स्यात् स्थानं षोडशकं किल ।।२२९।। समाधिः सर्वलोकस्य पीडादिकनिवारणात् । मनःसमाधिजननं स्थानं सप्तदशं भवेत् ॥ २३०॥ अपूर्वज्ञानग्रहणात् मुत्रार्थोभयभेदतः । अष्टादशमिदं स्थानं सर्वज्ञैः परिभाषितम् ।। २३१ ।। श्रुतभक्तिः पुस्तकानां लेखनादिषु कर्मसु । व्याख्याव्याख्यापनैरेकोनविंशं स्थानकं भवेत् ।।२३२॥ प्रभावनाप्रवचने विद्यावादनिमित्ततः । शासनस्योन्नतेर्या स्यात् स्थानं विंशतिसंज्ञकम्।।२३३।। १. 'भेदिन' इत्यपि । .

११६ मल्लिनाथमहाकाव्ये- एकैकं तीर्थकन्नामकर्मवन्धस्य कारणम् । सर्वैराराधितैरेभिस्तद् ववन्ध स संयमी ।। २३४ ।। पूर्वलक्षचतुरशीत्यायुष्को नृपसंयमी । पर्यन्तमात्मनो ज्ञात्वा व्यधादाराधनामिति ।।२३५॥ अकालबिनयायर्यो ज्ञानाचारहरूपिणि । अतींचारः कृतस्तत्र स्याद् मिथ्या दुष्कृतं मम ॥२३६।। अष्टधादर्शनाऽऽचारे भेदैनिःशकित्तादिभिः । योऽतीचारः कृतस्तत्र भूयाद् मे दुष्कृतं खलु ॥२३७॥ समितिभिः पञ्चभिश्च गुप्तिभिस्तिमृभिर्वृतम् । पालितं यद् न चारित्रं तत्र मे दुष्कृतं तथा ॥२३८।। तपसि द्वादशभेदे वाह्याभ्यन्तरभेदतः । योऽतीचारः कृतस्तत्र मिथ्या मे दुष्कृतं भवेत् ।।२३९।। निगृहितं वलं यच्च धर्मानुष्ठानकर्मसु । तमहं भावतो वीर्याचारं निन्दामि सर्वतः ।। २४० ।। त्रसानां स्थावराणां च या हिंसा प्राणिनां कृता । क्रोधादिभिः कषायैश्च यदलीकं मयोदितम् ।। २४१ ।। यत् कापि भूरि वाऽल्पं च परद्रविणमादृतम् । तैरश्चं दिव्यमानुष्ये यन्मैथुनमकारि च ॥२४२॥ लोभोद्रेकाद् मयाऽकारि बहुभेदपरिग्रहः । प्रत्यक्षं सर्वसिद्धानां सर्व निन्दामि तत् त्रिधा ॥२४॥ (युग्मम् ) पाणिघातो मृपावादोऽदत्तादानं च मैथुनम् । परिग्रहस्तथा कोपो मानो माया च लोभकः ॥२४४॥ रागो द्वेषो रत्यरत्याभ्याख्यानं कलहस्तथा । पैशुन्यं परिवादश्च माया सूनृतमेव च ॥ १४५ ॥ मिथ्यादर्शनशल्यं च भवसन्ततिकारणम् । अमून्यष्टादशानद्यस्थानानि व्युत्सृजाम्यहम् ॥२४६॥ ..

तृतीयः सर्गः। ११७ एकेन्द्रियादिका जीवा ये केचन भवाम्बुधौ । भ्रमता पीडितास्वैधं तान् क्षमयामि शुद्धहत् ॥२४७।। यञ्चक्रे पापशास्त्रादि तद् निन्दामि समाहितः । शीलं यत् पालितं शुद्धं तदभिष्टौमि तत्त्वतः ॥२४८॥ ग्लानानां यत्समाचीर्ण वैयावत्यादिकं मया । षड्विधावश्यकं शुद्धं यच्चक्रे तत् स्तवीम्यहम् ।।२४९।। शरणं मम तीर्थेशाः सिद्धाश्च शरणं मम | साधवः शरणं सर्वे धर्मः शरणामाईतः॥ २५० ।। उपधि देहमाहारमुवासेनान्तिमेन च । त्रिविधं व्युत्सृजाम्युच्चैनिममत्वविभूषितः ॥२५१ ॥ ये जानन्ति जिनाः सम्यगपराधान् मया कृतान् । तान् भूरिभावतः सर्वान् गहेऽहं सिद्धसाक्षिकम्।।२५२।। एष जीवः कियत् पापं छमस्थः स्मरति स्वयम् । यदहं न स्मराम्यत्र मिथ्या दुष्कृतमस्तु तत् ।।२५३।। वर्तमानजिनेन्द्राणां सिद्धानां च पुरस्सरम् । माक् कृतं दुष्कृतं सर्वं निन्दामि व्युत्सृजामि च।।२५४॥ शुभध्यानपरो मृत्वा नमस्कारपरायणः । भासुरे वैजयन्त्याख्ये विमाने जातवान् सुरः ॥२५५।। अन्येऽपि मुनयः कृत्वाराधनां पावनाशयाः। तस्मिन्नेव विमानेगुः पूर्व सङ्केतिता इव ।। २५६ ॥ षडपि मुनय एते भावनापावनान्तः- करणकमलभाजो ज्ञातसिद्धान्ततत्त्वाः। सुगुरुचरणसेवालब्धकीर्तिप्रचाराः सुरसदनमगच्छन् वैजयन्ताभिधानम् ।।२५७॥ इत्याचार्यश्रीविनयचन्द्रसूरिविरचिते श्रीमल्लिस्वामिचरिते महाकाव्ये विनयाङ्केऽन्तरङ्गदेशनागर्भितः प्रथम- द्वितीयभवच्यावर्णनो नाम तृतीय. सर्ग । ३ ।

अर्हम्
अथ चतुर्थः सर्गः।
-
जिनानामि नाभेयः सरसामिव मानसम् ।
तरूणामिव कल्पद्रुर्भरतश्चक्रिणामिव ।।१।।
देवानामिव सुत्रामा ग्रहाणामिव भास्करः ।
द्वीपानामादिमो द्वीपो जम्बूद्वीपोऽस्ति विश्रुतः ।। २ ।।
(युग्मम् )
तत्रास्ति भरतक्षेत्रं क्षेत्रवत् प्राज्यविस्तरम् ।
पहुधान्यायसामर्थ्य यतः प्रसरति क्षितौ ॥ ३ ॥
विदेहविषयस्तत्र ग्रामाकरपुराकुलः ।
नोपमानं नोपमेयमन्येषां दधते श्रिया ।।४ ।।
निधानानीव पुण्यानां कुण्डानीव यशोऽर्णसाम् ।
प्रतिग्रामं प्रतिपुरं यत्र चैत्यानि रेजिरे ॥ ५ ॥
यत्र ग्रामाः पुरायन्ते स्वर्गायन्ते पुराण्यपि ।
उपमानविहीनानि नगराणि गुरूणि तु ॥ ६ ॥
तत्राऽस्ति मिथिलानाम नगरी श्रीगरीयसी ।
श्वस्तनीवचनानीव गुणिन्यो यत्र योषितः ॥ ७ ॥
यच्चैत्यधूपवेलोत्थधूमवल्लीभिरम्बरे ।
अयत्नपटवासत्वं खेचरीणां वितन्यते ॥ ८ ॥
दधाना जगतीं श्लाघ्यास्तु रङ्गैः शुभदर्शनैः ।
मासादा यत्र राजन्ते मत्तवारणभासुराः ॥९॥
यस्यां गणकृतं व्यर्थ शास्त्रेष्वेव निशम्यते ।
विद्वद्गणकृतं विष्वक प्रमाणं जिनवाक्यवत् ॥ १० ॥

चतुर्थः सर्गः।
११९
कुम्भभूवैरिगर्वाब्धेः कुम्भः कीर्तिसुधाम्भसः ।
तत्राभूद् भूपतिः कुम्भः कामकुम्भ इवार्थिनाम् ॥११॥
सश्रीके यस्य खगाधों शङ्खशीतांशुपुष्करे ।
कीर्तयः प्रत्यनीकानां निपेतुर्निम्नगा इव ॥ १२ ॥
भ्रमन्त्याः शेषकैलासविधुव्याजाद् जगत्त्रये ।
यत्कीर्तेश्चण्डिकाकान्तेर्वाऽसुकः स्थानभूरभूत् ॥ १३ ॥
यत्वगः समिती स्वर्गिमुक्तामुभयतः स्रजम् ।
समासाद्य दधौ कक्षान्वितदन्तावलश्रियम् ॥ १४ ॥
वक्त्रमभापराभूतपार्वणेन्दुः प्रभावती ।
सतीमतल्लिका तस्य जज्ञे देवी प्रभावती ॥ १५ ॥
तस्याः शीलमनश्लीलं लोकंमीणा गुणा अपि ।
रूपं सुरूपमुर्वश्याः वाचोऽपि च सुधामुचः ॥ १६ ॥
सुविस्तीर्णनितम्बश्रीर्या चचार शनैः शनैः ।
मत्पतेधृतभूपीठभारो मा भूद् महानिति ।। १७
वुभुजे कुम्भभूपालो भोगसौख्यं तया समम् ।
लक्ष्म्येव लक्ष्मीरमणः शच्येव च शचीपतिः॥१८॥
इतो महाबलस्याथ जीवः पूर्णनिजस्थितिः ।
प्रच्युत्याऽच्युतसत्कर्मा वैजयन्नविमानतः ।। १९ ॥
अश्वयुक्संस्थिते चन्द्रे क्रूरग्रहविवर्जिते ।
फाल्गुनश्वेतचतुर्थ्या दिवसे विजयाभिधे ॥२०॥
श्रीमत्कुम्भनृपागारे देव्याः कुक्षाववातरत् ।
कन्दरायां सुवर्णाद्रेः कल्पोपपदशाखिवत् ॥ २१ ॥
(त्रिभिर्विशेषकम्)
तदावतारयामिन्यां सुखसुप्ता महासती ।
वीक्षाञ्चक्रे क्रमादेतान् महास्वमान् प्रभावती ॥ २२॥
गोक्षीरधारागौरागः : ककुमान् मदमेदुरः।
उन्नदन् मधुरध्वानमानन्दं प्रोद्रिन्निव ॥ २३ ॥

. मल्लिनाथमहाकाव्य चतुर्भिर्दशनैः शुभैरुपायरिब भूपतिः । करी मदरुचिः प्रवद्रोलम्बरवडम्बरी ।। २४ ॥ रज्यन्द्रिरिव काठमीरः राजितः स्कन्धक शरैः । केगरी सौम्यकामास्यः गरलीकृतवालधिः ॥ २५ ॥ करीश्वरकरकांडस्वर्णकुम्भजलोमिभिः । संसिच्यमानपुण्यदुरिव लक्ष्मीः पुरःस्थिता ।। २६ ।। कल्पद्रुपारिजातादिप्रमृनस्तोमगुम्फिनम् । दाम दामाऽच्छिन्नमिव चञ्चलायाः सदा श्रियाः ॥२७॥ तन्वन् कुवलयोल्लासं दृक्चकोरमुदं दिशन् । राजमानः करै राजा पुण्यपादपदोदः ॥ २८ ॥ भाभिरुयोतिताशंपदिक्चक्रश्चक्रवान्धवः । पूर्वाद्रिमौलिमाणिक्यपद्मिनीबनवल्लभः ॥ २९ ।। सुवर्णकिङ्किणीकाणैर्जगतोऽशेषसंपदः । व्याहरन्निव सट्टूशभ्राजिष्णुश्चपली ध्वजः ॥ ३० ॥ नीलाम्बरोबरणेत्र रोचिष्णुः प्रबदलः । कामकुम्भः श्रियो देव्याश्चित्रं लीलाविलासभूः ।। ३१ ॥ आकण्ठं पूर्णमम्भोभिः सुधाकुण्डमिवापरम् ! तापापतापविध्वंसि पद्मरम्यं सरोवरम् ॥ ३२ ।। मर्यादादयरोचिष्णुर्कीजिष्णुवाहिनीगत्तैः । सार्वभौमभ्रम चिन्वन् गम्भीरः सरितांपविः ।। ३३ ।। गर्भजीवस्फुरत्याज्यपव्यतिकरादिव । विमानमनुगं स्फूर्जकिङ्किणीकाणभासुरम् ॥ ३४ ॥ किं रोदणं करे कृत्वा किंवा रत्नाकरं पुनः । रत्नाचयः पुरः पुण्यसम्पदा प्राभृतीकृतः ॥ ३५ ॥ दबानो वट्ठमी भ्रान्ति बालामालाकरालितः । व्यदिनेशसदगो निधुमश्च विभावनः ।। ३६ ।।

चतुर्थः सर्गः। १२१ इत्येतान् हर्पकल्पद्रोः सुमेरुगिरिकन्दरान् । ममावती महादेवी दृष्ट्वा स्वप्नान् व्यबुध्यत ॥ ३७ ।। (पश्चदशभिः कुलकम् ) इतस्तत्र समागत्य सर्वेऽपि त्रिदशेश्वराः । चलत्कुण्डलमाणिक्यरचितेन्द्रधनुर्युतः ॥ ३८ ॥ किरीटस्पृष्टभूपीठा नेत्रनीलोत्पलरिव । प्रभावती समभ्यर्च्य पेठुस्तवनमादृशम् ।। ३९ ।। प्रभावनि ! नमस्तुभ्यं प्रभावातिशयान्विते ।। सद्वृत्ताटोपदीर्थेशरबरोहणचूलिके ! ॥४०॥ प्रभावमहिमालास्यमौपधं सुदृशां परम् । अनूपेऽम्बुनिपानं च मरौ नद्यवतारणम् ॥ ४१ ।। दरिद्राणां धनमिदं प्रपा भवपथे नृणाम् । यत्त्वया त्रिजगन्नायोध्रियते कुक्षिकन्दरे॥४२॥ (युग्मम् ) प्रभावतीमिति स्तुत्वा द्वीपे नन्दीश्वराभिधे । कृत्वा महोत्सवं स्थानं स्वं स्वमीयुः सुरोत्तमाः॥४३॥ स्वमान्तादपि जाग्रत्या प्रभावत्या महीपतेः । कथयामासिरे प्रातर्यथादृष्टममून्यथ ।। ४४ ॥ ऋजुना मनसा स्वमान् विचार्य क्षोणिनायकः । आचख्याविति ते देव्यपत्यरत्नं भविष्यति ॥ ४५ ॥ विशेपतस्त्वमीपां तु फलं ज्ञातुं धरेश्वरः। आजूहवत् प्रतीहारात् स्वमशास्त्रविशारदान् ।। ४६ ।। पार्वणेन्दुवदाऽऽनन्दसम्पादनकृतोद्यमाः । वंशगोरोचनापुण्ड्रा आजग्मुः स्वभपाठकाः ॥४७॥ आर्यवेदोद्भवान् मन्त्रानुच्चार्योदामया गिरा। उपाविक्षन्नासनेषु मराला नलिनेष्विव ।। ४८॥ आसयामास भूपालो जायां जवनिकान्तरे। अथैषा न्यगदत् स्वमानाऽऽप्ततत्त्वयुजा गिरा ॥४९॥ १६

१२२
मल्लिनाथमहाकाव्ये
.
स्वमान् द्वासप्ततिं राजन् ! प्रशस्तान् कोविदा विदुः ।
तन्मध्यात् त्रिंशतं तेषु महास्वमांश्चतुर्दश ॥ ५० ॥
अर्हतां चक्रिणां माता चतुर्दशैव पश्यति ।
हरेर्माता तथा सप्त चतुरः सीरिणोऽपि च ॥ ५१ ॥
अमुत्र भरतक्षेत्रे जिना अष्टादशाऽभवन् ।
चक्रिणोऽष्टौ भरताद्याः षट्खण्डभरतेश्वराः ॥ ५२ ॥
एकोनविंशतीर्थेशजनिरुद्भाव्यतेऽधुना ।
अथवा चक्रिणोराजन् ! नवमस्य हि साम्पतम् ॥५३॥
परितुष्टोऽथ भूनाथस्तद्वचःश्रवणादसौ ।
ददौ ग्रामाकरायुच्चैर्वासोऽलङ्करणादि च ॥ ५४ ॥
वस्त्रालङ्करणैरेते कल्पद्रुमदलरिव ।
राजमाना ययुर्गेहं श्रिया श्रीदविडम्बिकाः ॥ ५५ ॥
देवानुभावसम्पूर्णमनोरथतया भृशम् ।
मुदितायाः सुखेनैव गर्भो देव्या व्यवर्धत ॥ ५६ ॥
सार्धाष्टमदिने मासनवके गतवत्यथ ।
मार्गविशुद्धैकादश्यामश्विन्यां च निशाकरे ॥ ५७ ॥
ग्रहेषञ्चस्थितेषूच्चैस्तज्जन्मौको दिदृक्षया ।
एकोनविंशमर्हन्तं नीलाभं कुम्भलाञ्छनम् ॥ ५८ ॥
प्राग्जन्ममाययोपात्तस्त्रीकर्मत्वेन कन्यकाम् ।
प्रभावती प्रसूते स्म गनेव स्वर्णपद्मिनीम् ।। ५९ ॥
(त्रिभिर्विशेषकम् )
अनुकूला ववुर्वातास्तजन्मसुखिता इव ।
सुप्रसन्ना दिशोऽभूवन् कृतकृत्या इव प्रजाः॥६०॥
अरिष्टानि क्षयं जग्मुः शुभशस्यमभूद् जगत् ।
नारकाणामपि सुखमाकस्मिकमभूत् क्षणम् ॥ ६१ ॥
दिक्कुमार्यो विदित्वाऽथ तज्जन्मासनकम्पतः ।
अधोलोकात् समाजग्मुरष्टौ देव्यः ससंभ्रमम् ॥६२॥

चतुर्थः सर्गः । १२३ ताचताः- भोगङ्करा भोगवती सुभोगा भोगमालिनी । सुवत्सा वत्समित्रा च पुष्पमाला त्वनिन्दिता ।। ६३ ॥ एकोनविंशतीर्थेशमम्बां च जगतां पतेः । अनुमदक्षिणीकृत्य नत्वा भक्त्येस्थमृचिरे ॥ ६४ ॥ समुयोतितभुवने ! जगन्नायकजन्मना । जगद्वन्द्यगुणाधारे ! जगन्मातर्नमोऽस्तु ते ।। ६५ ।। अधोलोकनिवासिन्यो वयमण्टौ जगन्नते ! । तीर्थकृज्जन्ममहिमां कर्तुंकामा इहागताः ॥ ६६ ॥ अस्मत्तस्तद् न भेतव्यमुक्त्वा पूर्वोत्तरस्थिताः । प्राङ्मुखं सूतिकौकस्ताश्चक्रुः स्तम्भसहस्रयुक् ॥ ६७ ॥ अभितः सूतिकाधाम ततः संवर्त्तवायुना । कण्टकतृणकाष्ठाघमायोजनमपाहरन् ॥ ६८ ॥ अथ संहत्य पवनं प्रणम्य जिननायकम् । आसन्नाऽऽसनमासीना गायन्त्योऽस्थुर्यथाविधि ।।६।। सुवर्णाद्रिकृतावासास्तद्वदासनकम्पतः । ऊर्ध्वलोकात् समाजग्मुरष्टौ देव्यस्तथाऽपराः॥ ७० ॥ मेघड्करा मेघवती सुमेघा मेघमालिनी । तोयधारा विचित्रा च वारिपेणा वलाहिका ॥ ७१ ॥ विकृत्य जलदं कृत्वा प्रशान्तरजसं महीम् । विधाय पुष्पवृष्टिं च तागायन्त्योऽवतस्थिरे ॥ ७२ ॥ पौरस्त्यरुचकादष्टौ पूर्वस्या दिश आगताः । हस्तस्थदर्पणा देव्यो जगुस्तत्राहतो गुणान् ।। ७३ ।। ताश्च नन्दोत्तरानन्दे सुनन्दानन्दिवर्द्धने । विजया वैजयन्ती च जयन्ती चाऽपराजिता ।। ७४ ॥ अपाच्यरुचकाद्रिस्था दक्षिणस्या दिशोऽपराः। १ 'निजगत्पते ' इत्यपि । । , १२४ मल्लिनाथमहाकाव्ये- अष्टावेत्य स्वदिग्भागेऽगायन् भृङ्गारपाणयः ।। ७५॥ ताश्चेमा:- समाहारा सुप्रदत्ता सुप्रबुद्धा यशोधरा। लक्ष्मीवती शेषवती चित्रगुप्ता वसुन्धरा ॥ ७६ ।। ततस्तस्य गिरेरेव प्रहृष्टा वारुणीदिशः। संस्थानं तत्र देव्योऽष्टौ चक्रुर्व्यजनपाणयः ॥ ७७ ॥ ताश्चेमाः- इलादेवी सुरादेवी पृथिवी पद्मवत्यथ । एकनासाऽनवमिका भद्रशोकेति नामतः।। ७८ ।। एवमुत्तरदिग्भागादपि रुचकवर्तिनः । समेत्याष्टौ स्थितिं चक्रुस्तत्र चामरपाणयः ।।-७९ ॥ ताश्चमाः- अलम्बुशा मिश्रकेशी पुण्डरीका च वारुणी। हासा सर्वप्रभा चैव श्री रित्यभिधानतः ॥ ८० ॥ चतस्रो विदियुचकात् सदीपा दिकुमारिकाः । चित्रा चित्रकनका सुतारा सौत्रामणी तथा ॥ ८१॥ प्रणिपत्य जगन्नाथं जगन्नाथस्य मातरम् । ईशान्यादिविदिक्संस्था बभूवुर्दीपपाणयः ॥ ८२ ॥ देव्योऽन्या मध्यरुचकात् चतस्त्रः समुपस्थिताः रूपा रूपाश्चिका चाऽपि सुरूपा रूपकावती ।। ८३ ।। ताश्चतुरङ्गुलीवर्ज नालं छित्त्वा भुवोऽन्तरे । क्षिप्त्वा रत्नमयं रत्नपूर्वापीठं विचक्रिरे ॥ ८४ ॥ विहाय पश्चिमां जन्मगृहाद् दिक्षु तिसृष्वपि । रम्भागृहाणि चत्वारि देव्यस्ताश्च विचक्रिरे ॥ ८५ ॥ तेषां मध्ये चतुःशालं विशालं निजचित्तवत् । प्रत्येकं रचयामासुः सिंहासनविकस्वरम् ।। ८६ ।। दाक्षिणात्ये चतुःशाले नीत्वाऽमुं विनिवेश्य च । .

चतुर्थः सर्गः । १२५ सिंहासने सुतैलेनाऽभ्यानजुर्मूदु मर्दनम् ।। ८७ ॥ जनन्या सममभ्यर्च्य शीघ्रमुद्दवं च प्रभुम् । निन्थिरे निभृतं देव्यः पौरस्त्ये कदलीगृहे ।। ८८ ।। तत्र गन्धाम्बुभिः पुष्पाम्बुभिः शुद्धाम्बुभिस्तथा । द्वावपि स्नपयित्वाथ भूपयन्ति विभूपणैः ।। ८९ ॥ नीत्वोत्तरस्या रम्भायाः सदने हरिचन्दनैः। मज्वाल्याऽरणिना वहि ताश्च भूतिं विचक्रिरे ॥१०॥ रक्षावन्धं व्यधुस्ताञ्च जननीस्वामिनोः करे । रक्षा दुरितभिद्रेखां लभते सर्ववस्तुषु ॥ ९१ ॥ पर्वतायुर्भवेत्युच्चैरुक्त्वा कर्णान्तिके प्रभोः। अवादयंस्ततो रत्नपापाणी कांस्यतालवत् ।। ९२ ।। सूतिकाधाम ता निन्युर्जननीं जिनमप्यथ । षट्पञ्चाशदिक्कुमार्यस्ता गायन्त्योऽवतस्थिरे ॥ ९३ ॥ इत्तश्च- सौधर्म प्रथमे कल्पे कल्पेशोऽनल्पवैभवः । अनेकदेवदेवीनां कोटीभिः परिवारितः ॥ ९४ ।। गीयमानगुणग्रामो गन्धः कोमलस्वनैः। स्तूयमानयशाश्चारु चारणैर्विरुदालिभिः ॥९५॥ दोधूयमानचमरो देवनारीभिरादरात् । यावदास्ते हरिस्तावदासनं कम्पमासदत् ।। ९६ ॥ (त्रिभिर्विशेषकम् ) तत्मकम्पादसौ रुटस्ताम्रीकुर्वन् दृशोर्युगम् । अन्तर्बलत्कोपवह्निज्वालाः प्रकटयन्निव ॥ ९७ ॥ वक्रीकुर्वन् भुवोर्युग्मं कोदण्डमिव भीषणम् । ज्वलज्ज्वालाकुलं पाणौ वज्र वज्रधरोऽधरत ॥ ९८॥ तत्कोपाटोपमुवीक्ष्य नम्रमौलिः कृताञ्जलिः। प्राचीनवर्हिषं मोचे नैगमेपी चमूपतिः ॥ ९९ ॥ - .

१२६ मल्लिनाथमहाकाव्ये- कयङ्कारं प्रभो! कोपो मयि सत्यपि तन्यते । मृणु स्वाऽऽसनकम्पस्य कारणं श्रोत्रपारणम् ।।१००॥ द्वीपाये जम्बूद्दीपेऽस्मिन् वर्षे दक्षिणभारते । मिथिलायां महापुर्या श्रीमत्कुम्भमहीपतेः ॥ १०१ ।। पट्टदेव्याः प्रभावत्या अद्येव त्रिजगत्पतिः । एकोनविंशतीर्थेशो भगवान् समजायत ॥१०२॥(युग्मम्) तेनासनपकम्पोऽयं तीर्थकृज्जन्मसूचकः । दिव्यसौख्यप्रमचानां कथं बोऽवधिरन्यथा ॥१०३।। श्रुत्वेदं त्रिदशाधीगस्तस्मिन् दुश्चिन्तिते निजे । मिथ्यादुष्कृतमवदन् निन्दन्नात्मप्रमादिताम् ॥१०४ ॥ अयोत्यायाऽऽसनादिन्द्रः सप्लाष्टौ च पदान्यदात् । संमुखं जिननायस्य ततःस्तोतुं प्रचक्रमे ॥ १०५॥ सम्पूर्णस्त्वं त्रिभि नगर्भवासादपि प्रभो !! अतोऽपि यो गुणोच्छायः स भवेत् कस्य गोचरः॥१०६॥ एवं जिनस्तुतिं कृत्वा सेनान्यं हरिणाननम् । आदिदेगेति सुत्रामा गिरा धीरप्रशान्तया ॥ १०७ ।। जम्बूद्वीपे मिथिलायां श्रीमत्कुम्भस्य भूपतेः । एकोनविंशस्तीर्थेशः प्रभावत्यामजायत ॥ १०८ ॥ कर्तु तस्या जनिस्नात्रमाहूयन्तां दिवौकसः । कल्याणिकोत्सवविधेराधिकारो यतोऽस्ति नः॥१०९॥ अवादयदसौ घण्टां परिमण्डलयोजनाम् । सुघोषां ननिनादेन घोपः सर्वाखजायत ॥ ११० ।। द्वात्रिंगतीविमानानां घण्टालनेष्वय खनः । समकालं समुत्तस्थे गन्दानमभूत् तदा ।। १११ ।। संभ्रान्तान् रणनस्तासां दृष्ट्वा तानिति सोऽवदत् । जन्मन्नात्रे जिनेन्द्रस्य सहेन्द्रण प्रसर्पनाम् ।। ११२ ।। केऽपि शुक्राया चेलुः केचिद् भत्त्या जिनं प्रति ।

चतुर्थः सर्गः।
१२७
विचित्रीहनै रूढात्रिदशाः शक्रसन्निधौ ॥ ११३।।
पालको द्युसदीशेनाऽऽभियोगिकशिरोमणिः ।
आदिष्टो विदधे वेगाद्विमानं बहुमानतः॥ ११४ ॥
भुजैरिव ध्वजैर्नृत्यच्छत्रैर्हसदिवोज्ज्वलैः ।
वीक्षधमाणं यदुत्तुङ्गैर्गवाक्षर्नयनैरिव ॥ ११५ ॥
ततः प्रदक्षिणीकृत्य प्राच्यसोपानवर्त्मना।
द्युसन्नाथो विमानं तदारुरोह समं सुरैः।।११६॥(युग्मम्)
गन्धर्वनाट्यानीकाभ्यां कौतुकाक्षिप्तमानसः।
अभिस्वयम्भूरमणं तेनाचालीत् पुरन्दरः॥ ११७॥
हस्तिवाहन ! मा गास्त्वं पुरः सिंहभृतो मम ।
अश्वसादिन्नितो याहि महिषो मम वाहनम् ॥११८॥
सर्पगामिन्नितो याहि न मे तायः साहिष्यते ।
मद्विमानं विमानाङ्गः किं घट्टसि सुधाशन !? ॥११९॥
इत्थं सौधर्मकल्पस्य देवानां परिसर्पताम् ।
कोलाहलै भो व्यापि सरिद्घोषैरिवाम्बुधिः ॥१२॥
अथाऽसंख्यातद्वीपाब्धीनतिक्रम्य क्षणादपि ।
संक्षिपन् संक्षिपन्नुच्चैस्तद्गन्धवत् पुरन्दरः ॥ १२१॥
भारते दक्षिणे पुर्या मघवा समुपागतः ।
तस्मादुत्तीर्य तीर्थेशं तदम्बां चाऽनमत्तराम् ॥१२२।।
प्रभावति ! प्रभायुक्ते ! जिनकल्पद्रुमपदे ।।
नमो दत्तजगद्दीपे ! नमश्चिन्तामणिप्रदे ! ॥ १२३ ॥
इति प्रभावती स्तुत्वा दत्त्वा च स्वापिनीं हरिः।
प्रतिरूपं प्रभोर्मुक्ता चलितोऽभिसुराञ्चलम् ॥१२४॥
वजं छत्रं जिनं विभ्रचामरे च पृथक् पृथक् ।
इतीन्द्रः पञ्च रूपोऽभूद् मार्गे मेरुं प्रति व्रजन् ॥१२५॥
ततो देवागनादेवकोटिलक्षसमन्वितः
पूरयन् गगनं तूर्यघोषैईर्षमयैरिव ॥ १२६ ॥

(१२८ मल्लिनाथमहाकव्ये- निमेषान गत्वाऽसौ सुवर्णाचलचूलिकाम् । अतिपाण्डुकस्वलायां शिलायां प्राङ्मुखःस्थितः॥१२७|| एवमीशानकल्पेशः सनत्कुमारसंज्ञिकः । माहेन्द्रो ब्रह्मलोकेशो लान्तकस्त्रिदशाधिपः ॥१२८ ॥ शुक्रशक्रः सहस्रार आनतः प्राणतेश्वरः। आरणाच्युतराजोऽपि दशेत्थं कल्पवासवाः ॥१२९।। श्रेणिद्वयनिकायेषु दशसूभयतः क्रमात् । अमी विंशतिरिन्द्राः स्युर्भवनानामधीश्वराः ॥१३०॥ पुर्या चमरचञ्चायां चमेरन्द्रो वलिस्तथा । धरणेन्द्रो भूतानन्दो हरिस्सहहरिस्वभौ ।। १३१ ।। वेणुदेवो वेणुदारी त्वग्निशिखाग्निमाणवौ । वेलम्बप्रभञ्जनाख्यौ सुघोषो भवनेश्वरः॥ १३२ ।। महाघोषो जलकान्तो जलप्रभ इति स्मृतः । पूर्णो विशिष्टशक्रश्च त्वमितामितवाहनौ ॥ १३३ ।। एवं च व्यन्तरश्रेण्योदक्षिणोत्तरकोणयोः। अष्टावष्टनिकायाः स्युस्तेष्विन्द्राः योडश क्रमात्॥१३४॥ कालशको महाकालः सुरूपः प्रतिरूपकः । पूर्णभद्रो माणिभद्रो भीमो यक्षगणेश्वरः ॥ १३५ ।। महाभीमः किन्नरश्च किंपुरुषस्ततः परम् । तथा सत्पुरुषमहापुरुषो वासवाचिमौ ।। १३६ ॥ अतिकायमहाकायौ महोरगप्रभाविमौ । गीतरतिीतयशा गन्धर्वाणामधीश्वराः ॥ १३७ ।। तद्वदामज्ञप्तिपञ्चज्ञप्त्यादीनां तु पोडश । व्यन्तराष्टनिकायाणां वासवाः समुपागताः॥१३८॥ तथाप्रज्ञप्तीनां शक्रः संनिहितः समानकः । धाता विधाता च हरी ऋषिश्च ऋषिपालकः॥१३९॥ ईश्वरो महेन्चरश्च सुवत्सकविशालकौ ।

चतुर्थः सर्गः। १२९ हासहासरती श्वेतमहाश्वेतौ पुरन्दरौ ॥ १४० ॥ पवकपावकपती पवकानां तु वज्रिणौ । एवं पोडश देवेन्द्रा आययुर्मेरुमूर्द्धनि ॥ १४१ ॥ ज्योतिप्काणामशेपाणां चन्द्रादित्यावधीश्वरौ । चतुःपष्टिरितीन्द्राणां मेरुमृर्द्धनमाययौ ॥ १४२ ।। आदिदेशाऽच्युतेन्द्रोऽथाऽऽभियोगिकदिवौकसः । क्षीरोदादि समानेतुं जिनस्नपनहेतवे ।। १४३ ॥ क्षीरोदादिसमुद्रेषु गद्गादिषु नदीषु च । तीर्थपु मागधायेपु ते गत्वा जगृहुर्जलम् ।। १४४ ॥ तद्वन्मृत्स्नापयोजादि लात्वा क्षीरोदवाद्धितः । गोशीपचन्दनादीनि ते शक्रेभ्यो डुढौकिरे ।। १४५ ॥ सौवर्णान् राजतान् रानान् स्वर्णरूप्यविनिर्मितान् । रत्नवर्णमयान् दिव्यान् रजतस्वर्णरत्नजान् ॥१४६॥ रूप्यरत्नमयान् भौमान् विचक्रुः कलशांश्च ते । अष्टोत्तरं सहस्रं स्यात्तेपां प्रत्येकमेव च॥१४७॥(युग्मम्) अतिपाण्डुशिलापीठरत्नसिंहासने स्वयम् । सौधर्मेन्द्रो निपद्याऽङ्के दधौ त्रिजगतां पतिम् ॥१४८॥ अच्युतेन्द्रस्ततो भक्त्या कर्पूरागरुधूपितम् । मुमोच विश्वनाथस्य पुरतः कुसुमाञ्जलिम् ।। १४९ ॥ ताड्यमानासु भेरीषु मृदङ्गेषु स्वनत्स्वथ । मुहुरास्फाल्यमानासु कांस्यतालासु निर्दयम्॥ १५०॥ स्मयमानैरिव न्यस्तविस्मरकुसुमोत्करैः । अधीयानैरिव स्नात्रश्लोकान् गुञ्जदलिच्छलात्॥१५१॥ अच्युतेन्द्रेण तैः कुम्भैर्योजनाऽऽस्यैर्जगद्गुरोः । स्नात्रं चक्रे महानन्दात् सुधाभुग्भिः समं निजैः॥१५२॥ ( त्रिभिर्विशेषकम् ) एवं द्वापष्टिरन्येऽपि स्नात्रं चक्रुर्जगत्पतेः ।

१३० मल्लिनाथमहाकाव्ये- भक्त्या महत्याऽनुज्येष्ठं सोदर्या इव हर्पतः ॥१५३ ॥ यदैकः कुरुते स्नात्रं शक्रोऽन्ये हरयस्तदा । सर्वेऽर्हतः पुरः सन्ति धृतचामरपाणयः ॥ १५४ ॥ विकृत्य पञ्च रूपाणि तद्वदीशानवासवः । सौधर्मेन्द्राधिपस्थाने दधन्नाथमवस्थितः ॥ १५५ ।। अथ सौधर्मनाथोऽपि चतुर्दिक्षु व्यधात् क्रमात् । दृषभांश्चतुरः स्फारस्फाटिकोपलनिर्मितान् ॥ १५६ ॥ तेषामुत्तुङ्गशृङ्गाग्रप्रसृता गगनाङ्गणे । प्रससुरम्भसामष्टौ धाराश्चन्द्रकलोज्ज्वलाः ॥ १५७ ।। एकीभूय पतन्त्यस्ताश्चन्द्रकान्तसमुज्ज्वलाः । निम्नगा इव पाथोधौ निपेतुः प्रभुमूर्द्धनि ॥ १५८ ॥ स्नपयित्वेति तीर्थेशं भाविनं त्रिदशाधिपः । रत्नदर्पणवद्वेगाद् ममार्जामं विभोरथ ।। १५९ ॥ ततो रत्नमये पट्टे स लिलेखाऽष्टमङ्गलीम् । निजपुण्यैरिवाखण्डैस्तण्डुलै रूप्यनिर्मितैः ॥ १६० ॥ ततो विलेपयामास वासवोऽहं जगत्पतेः। भूषणानि च प्रत्यहं वासवः पर्यदीधपत् ॥ १६१ ॥ विनिद्रपारिजातायैः कुसुमैः परमेश्वरम् । मुखकोशमनोहारि पूजयामास वृत्रहा ॥ १६२ ॥ उत्तार्य लवण त्रिश्च सर्वदोपविभेदकृत् । आरात्रिकमुपादत्त पुरोभूय हरिविभोः ॥ १६३ ।। इतश्च विस्मिताः केचिद् मैजु गुञ्जन्ति भृङ्गवत् । केचिच्च बृंहितं चक्रुः कुञ्जरा इव निर्जराः ॥१६४॥ केचित्तकारधौङ्कारं वाद्यैरिव मुखैय॑धुः । सिंहनादं मुहुः केचिद् नटा इव वितेनिरे ॥१६५।। १ 'त्रिदिवाधिप' इत्यपि । २ 'दीप्राणि' इति च । ३ 'सजगुर्जातिभृङ्गवत्' अयमपि पाठ ।

चतुर्थः सर्गः। १३१ केचित् कोलाहलं चक्रुर्जितद्यूतपणा इव । अहासयन् सुरान् केचिद् विटवद् नर्मभाषणैः ॥१६६।। एवं जन्मोत्सवे कोऽपि हो जज्ञे दिवौकसाम् । वागीशोऽपि गिरी गुम्फैर्य वर्णयितुमक्षमः ॥ १६७ ।। वाम जानुमथाऽऽकुञ्च्य शिरोन्यस्तकरो हरिः । परमानन्दनिर्मग्नः शक्रस्तवनमुज्जगौ ॥ १६८ ॥ नमोऽर्हते भगवते आदितीर्थकृते नमः । स्वयंसंबुद्धतत्त्वाय नराणामुत्तमाय च ॥ १६९ ॥ नरसिंहाय पुरुषपुण्डरीकाय ते नमः । नृवरगन्धकरिणे नमो लोकोत्तमाय च ।। १७० ॥ लोकनाथाय लोकानां कृतोत्तमहिताय च । लोकानां तु प्रदीपाय लोकप्रद्योतकारिणे ॥१७१।। नमोऽस्त्वभयदात्रे च चक्षुर्दात्रे च सर्वदा । मार्गदाय शरण्याय बोधिदात्रे नमो नमः ॥ १७२ ।। धर्मदात्रे धर्मदेष्ट्र धर्माधिपतये नमः । धर्मसारथये धर्मचतुरन्तैकचक्रिणे ।। १७३ ।। नमः सदाऽप्रतिहत्तज्ञानदर्शनधारिणे । विगतच्छभने नित्यं जिनाय जापकाय च ॥ १७४ ।। तीर्णाय तारकायोचैर्बुद्धाय बोधकाय च । मुक्ताय मोचकाय सर्वज्ञाय सर्वदार्शने ॥ १७५॥ शिवाऽचलाऽरुजाऽनन्ताऽक्षयाऽव्यावाधनिर्वृतौ । सम्पाप्ताय नमस्तुभ्यमिति शक्रः स्तवं व्यधात् ॥१७६॥ कृतकृत्यमिवात्मानं मन्यमानोऽहतो नतौ । रोमाञ्चितवपुः शक्र इति स्तोतुं प्रचक्रमे ॥ १७७ ॥ नमस्तुभ्यं जिनाधीश ! परमानन्ददायिने । उल्लसत्करुणाक्षीरपाथोधिशशलक्ष्मणे ॥ १७८ ॥ त्वया त्रिजगतां नाथ ! फलिनीदलकान्तिना।

१३२
मल्लिनाथमहाकाव्य-
वृद्धेन्द्रनीलमुकुट इवाऽऽभाति सुराऽचलः ॥ १७९ ।।
स्तुत्वेति मिथिलां गत्वा हृत्वा च स्वापिनीमपि ।
भूत्वा मातुर्जिनं पार्थे मुक्त्वा शक्रोऽभ्यधादिदम्।।१८०१
अस्मिन् स्वामिन्यकल्याणं योऽधमश्चिन्तयिष्यति ।
तस्यार्जमञ्जरीवाऽऽशु स्फुटिष्यति शिरः स्वयम्॥१८१॥
पूरयित्वा विभोर्वेश्म रत्नस्वर्णादिभिः स च ।
यात्रां नन्दीश्वरे कृत्वा खं स्थानं हरयो ययुः॥१८२॥
प्रभावतीमथ ज्ञात्वा प्रमुतां सम्भ्रमान्विताः ।
स्त्रियः श्रीकुम्भभूपस्य सुतोत्पत्तिं वभाषिरे ॥१८३।।
स्वकिरीटं विना ताभ्यः स्वाझिकं भूपणं ददौ ।
वृत्तिं च चक्रिरे यावद् वेणिकामपि सप्तमीम् ॥१८४॥
रत्नस्वर्णादिभिः पूर्ण गृहं वीक्ष्य नरेश्वरः ।
अज्ञासीत् तनयोत्पत्तौ देवेन्द्राणां समागमम् ।। १८५।।
ततो मुमुचिरे राज्ञा कारागाराद् द्विषन्नृपाः ।
कारयाञ्चक्रिरे पूजा जैनचैत्येषु सर्वदा ॥ १८६॥
समाजग्मुरुपाध्यायाः पठन्तः सुतमातृकाम् ।
उच्चावच्चपदैश्छात्रैग्लद्भिर्मर्कटेरिच ॥ १८७ ॥
चन्द्रार्कदर्शनं भर्तुस्तृतीयेऽह्नि प्रमोदतः ।
पष्ठीजागरणं षष्ठे पितृभ्यां च व्यरच्यत ॥ १८८ ॥
गर्भस्थेऽस्मिन् प्रभौ मातुर्माल्यशयनदोहदम् ।
वभूव तन्मल्लिरिति प्रभो म प्रतिष्ठितम् ॥ १८९ ॥
अङ्गुष्टस्थां पपो स्वामी शक्रसंक्रमितां सुधाम् ।
उदयेऽपि क्षुधः स्तन्यं न पिवन्ति जिनेश्वराः॥१९०॥
रेजे देहः शुचिर्भर्तुरमक्षालितनिर्मलः ।
निरामयः सुगन्धिश्च पूर्णकर्पूरपात्रवत् ।। १९१ ।।
पद्मकिखल्कसुरभिर्वभौ श्वासो जगत्पतेः ।
गोभीरधारागोरे च रेजाते रुधिरामिषे ॥ १९२ ॥

चतुर्थः सर्गः। १३३ विभोराहारनीहारौ चर्मचक्षुरगोचरौ । चत्वारोऽतिशया एते सहजोत्था गुणा इव ॥ १९३ ॥ मजनस्तन्यनेपथ्यक्रीडालालनकर्मसु । कर्मठाः पञ्च धाग्योऽथ शक्रेण विनियोजिताः॥१९४॥ लाल्यमानः प्रभुस्ताभिर्देहोपचयमागमत् । क्रमेण यौवनं प्राप त्रैलोक्यश्रीगौषधम् ॥ १९५ ॥ पञ्चविंशतिधन्वोचो नीलोत्पलदलच्छविः । वज्रर्षभसंहननधारी कलशलाञ्छनः ।। १९६ ॥ मल्लीसुरभिनिःश्वासो निवासः सर्वसम्पदाम् । पाशो रतिप्रियन्यकोः श्रीमन्मल्लिरभात्तराम् ।। १९७॥ (युग्मम् ) नमन्तृपतिशीर्षेषु कुन्दकान्तनखेन्दवः । विस्सेरकेतकीपत्रशोभा भेजुर्जगत्पतेः ॥ १९८ ॥ एणीजड्डोपमं जड्डायुग्मं भाति जगत्पतेः । नाभिश्च सरितां भर्तृकल्पो लवणिमाश्रयः ॥ १९९ ॥ प्रभोर्वक्त्रश्रियं प्राप्तुं मग्नमाकण्ठमम्बुजम् । रोलम्बर्रवजव्याजाद् मन्त्रजापं तनोत्यलम् ॥२०॥ प्रभोर्नेत्राब्जयोर्लक्ष्मीर्वाचि देवी सरस्वती । कलङ्कमिव संमाष्टुं स्नेहादेकत्र तिष्ठतः ॥ २०१॥ नव्यः श्रियः पतिः स्वामी हिरण्यकशिपुप्रदः । यस्य वक्षःस्थिता लक्ष्मीर्जगत्काम्या विराजते ॥२०२॥ विद्रुमैरिव किंकिल्लिपल्लवैः कोमलैरिव । कुरुविन्दैरिवालिप्तं प्रभोः पाणितलं वभौ ॥ २०३ ॥ अलीकत्वं प्रभोः केशे वक्रत्वं लटभभ्रुवोः । तुच्छत्वं मध्यदेशेऽपि नान्यत्र खामिनि स्थित्तम्।।२०४॥ अहंपूर्विकया सवेर्लक्षणैः पर्यलङ्कुतः । १ 'तुमुल ' इत्यपि।

१३४ मल्लिनाथमहाकाव्ये- वभौ देहो जगद्भर्तुनंद्योपैरिव वारिधिः ॥ २०५ ।। को भवेद् जिनरूपस्य निपुणो वर्णनं प्रति । देवदेहा अपि बभुर्यत्पुरोऽङ्गारका इव ॥ २०६ ॥ अलिककलितपाणिद्वन्द्वविभ्राजमानो भवजलधिनिमज्जज्जन्तुपोतोपमस्य । जिनपरिदृढभल्ले: पुण्यवल्ले: स्वरूपं विनयविनतमूर्तिर्वर्णयामास रूपम् ॥२०७।। इत्याचार्यश्रीविनयचन्द्रसूरिविरचिते श्रीमल्लिस्वामिचरिते महाकाव्ये विनयाके च्यवनजन्मकल्याणिक- द्वितयव्यावर्णनो नाम चतुर्थः सर्गः ।। अहम् अथ पञ्चमः सर्गः। इतश्च वैजयन्ताख्यविमानात् स परिच्युतः । जीवोऽचलस्य साकेते प्रतिबुद्धिर्तृपोऽजनि ॥१॥ कामो वयसि पीयूषं यो वचसि महीयसि । गीपतिः सदसि त्वष्टा महसि क्षात्रसंम्भवे ॥२॥ देवी पद्मावती तस्य पद्मा पद्मापतेरिव । निश्छद्मसद्म निःशेषगुणानामनणीयसाम् ॥३॥ इतश्च तस्मिन्नगरे गरीयो नागवेश्मनि । ईशान्यां दिशि नागानां प्रतिमाश्चिन्तितप्रदाः ॥४॥ आनचुस्ताः प्रतिदिनं नागरा भक्तिसागराः । उपयाचितसन्ताने सम्पूर्णे सति सर्वदा ॥ ५ ॥ आपृच्छय क्षितिपं तासां यात्रायै हर्षिताशया । अगात् पद्मावती देवी नागदैवतवेश्मनि ॥ ६॥ प्रतिबुद्धिर्महीपालः सशृक्षारोऽसमः श्रिया ।

पञ्चमः सर्गः ।
१३५
इमामन्वगमद् देवीं केतकीमिव पट्पदः ।। ७ ।।
पुष्पमण्डपिकां नागप्रतिमामनुनिर्मिताम् ।
विलोक्य मुद्गरं पोष्पं चाऽवदद् नृपपुङ्गवः ।। ८ ।।
सुबुद्धे ! सचिवाधीश ! त्वमस्मत्प्रेपणोत्सवैः ।
ईक्वरूपं स्त्रीरत्नं जात्यरत्नमिवोज्ज्वलम् ।। ९ ।।
राज्ञां वेश्मनि कुत्रापि दक्ष ! वीक्षितवानसि ।
कौसुमं मुद्गरं विभ्रद्भमद्भमरधोरणीम् ।।१०।। (युग्मम् )
विहस्य सचिवाधीशः सुवुद्धिय॑गदद् नृपम् ।
त्वदादेशेन भूमीश ! गतोऽहं मिथिलां पुरीम् ।।११।।
कन्यकां कुम्भभूपस्य नेत्रसारङ्गवागुराम् ।
मनोऽध्वनीनविश्रामद्रुमच्छायासहोदरीम् ।। १२ ।।
अनेकैर्लक्षणैः पुण्यैः पुण्यैरिव समन्विताम् ।
मल्लीमित्यहमद्राक्षमस्राक्षमपि संमदम् ॥ १३ ॥
तस्याः स्त्रीरत्नमुख्याया आयुर्घन्धौ महीपते ।।
विधीयते सकोऽप्युचैनिस्सीमः पुष्पमुद्गरः॥ १४ ॥
तवैप पुरतो यस्य लक्षांशेनापि सर्वथा ।
न भाति किन्तु विच्छायदर्पणत्वं दधात्यहो ! ॥१५॥
यद्येकदापि श्रीमल्लेर्ददृशे रूपवैभवम् ।
तदा भूमिस्थितेनापि प्राप्यतेऽनिमिपस्थितिः ॥१६॥
मल्लेः प्रतिकृतिः स्वामिन् ! दर्पणेष्वेव दृश्यते ।
उपमानं महाम्भोधेर्महाम्भोधिर्निगद्यते ॥ १७ ॥
न मेरोरधिकः शैलो मानसाद् न परं सरः ।
नाकाशादधिक किञ्चित् तद्रूपादधिकं नु किम् ॥१८॥
मल्लीरूपं न दृष्टं यैः स्फारतारैर्विलोचनैः ।
स मन्ये नररूपेण कूपमण्डूकसन्निभः ॥ १९ ॥
सकर्णकर्णपीयूषं श्रुत्वेति प्रतिबुद्धिराट् ।
रोमाञ्चरश्चितो देहे कदम्बः कुसुमैरिव ॥ २० ॥

१३६
मल्लिनाथमहाकव्ये-
-
स पूर्वजन्मनः स्नेहाद् वीरीतुमथ कन्यकाम् ।
दूतं प्रैषीद् निसृष्टार्थ कुम्भभूपान्तिके निजम् ॥ २१ ॥
इति मल्लिस्वामिपूर्वभवाचलप्रथमपरममित्रोत्पत्ति ।
इतश्च-
च्युत्वा धरणजीवोऽपि वैजयन्तविमानतः ।
अभूत् चम्पामहापुर्या चन्द्रच्छायाभिधो नृपः ॥ २२ ॥
विज्ञातजीवाऽजीवादितत्त्वः सत्त्वकृपापरः ।
चतुःपां कृततपाः समाधिश्रितपौषधः ॥ २३ ॥
लब्धगृहीतपृष्टार्थो पिहितद्वारबन्धुरः ।
वस्त्रपात्राऽऽसनावासप्रदः साधुजनेष्वलम् ।। २४ ॥
कृतज्ञो विनयी धीरः परनारीसहोदरः।
तस्यामेव महापुर्या श्रावकोऽर्हन्नयावयः ॥२५॥
(त्रिभिर्विशेषकम् )
सोऽन्यदा वाडियात्रायै मनश्चक्रे महामतिः ।
क्षणमात्राद् दरिद्रघ्नं सामुद्रं पर्युपासनम् ॥ २६ ॥
यतः-
इक्षुक्षेत्रं समुद्रश्च योनिपोषणमेव च ।
प्रसादो भूभुजां चेति क्षणाद् नन्ति दरिद्रताम् ॥२७॥
विविधं वित्तमादाय समेतः सुहृदां गणैः ।
असौ वारांनिधेस्तीरमचालीदचलाशयः ॥ २८ ॥
चारुवस्त्रपरधिानां गृहीताक्षतभाजनाम् ।
अर्थसिद्धिमिवादाक्षीदायान्ती पुरतः स्त्रियम् ॥२९॥
शकुनैः प्रेरितः पुण्यैरिव श्रेष्ठितनूद्भवः ।
पाप वारांनिधेः कूलं मूलं वाणिज्यशाखिनः ॥३०॥
स्वनामेव महाम्भोधेरावर्तादि विदन्ति ये ।
तेभ्यो निर्यामिकेभ्यः खं ददौ सांयात्रिकाग्रणीः ॥३१॥

पञ्चमः सर्गः। १३७ । - नीलीगुग्गुललाक्षाश्च निम्बचीवरसंहतीः । असौ संग्राहयामास हरिद्रादि विशेषतः ॥ ३२ ॥ शुक्रवारेऽथ विस्फूर्जज्जैववादित्रसुन्दरम् । पोतं प्रपूरयामास समुद्रा_पुरस्सरम् ॥ ३३ ॥ ध्रुवचक्रप्रमाणेन सिद्धान्तेनाऽथ साधुवत् । संचेरे सरितां नाथे पोतो वेगेन वायुवत् ।। ३४ ॥ शक्रः सभामुपासीन उपाइन्नयमाहताः । त्रिदशानां पुरश्चके वर्णनं कलया गिरा ॥ ३५ ॥ मनुष्यकीटको धर्मादचाल्यस्त्रिदशैरपि । अवोचद् यद्वचः शक्रस्तदद्याऽलीकयाम्यहम् ।। ३६ ।। इति ध्यात्वा सुरः कश्चिद् मत्सराध्मातमानसः । गधिवार्घि महामेघं विचक्रे व्योममण्डले ॥ ३७॥ नीलीरक्तेव सर्वत्र नजृम्भे घनमण्डली । पोतस्थजनजीवानां ग्रसने राक्षसीयिता ॥ ३८ ॥ सत्वहेम्नः परीक्षायां शाणायन्ते चिरातः । गर्जितान्यपि जीवानां ठात्कारा इव निग्रहे ॥ ३९ ॥ यथा यथा प्रवहणं कम्पते चैत्यकेतुवत् । तथा तथाऽङ्गिनां भीतिग्रहिलानि मनांस्यपि ॥ ४०॥ . कम्पमाने प्रवहणे वीचिभिः पूरिताम्बरे । स्पर्धया धीवरा वारि चिक्षिपुश्चटसैर्वहिः ॥४१॥ विचक्रेऽथानिलं स्वर्गी झञ्झावातभयङ्करम् । सेनेक्षणानि पोतस्था मिमीलु स्वाधिया समम् ॥४२॥ . हा मातस्तात ! हा भ्रातर्हा वन्धो ! कुलदेवताः। अस्माकं कुरुताऽमुन्न साहाय्यं महदापदि ॥४३॥ इत्यादिलोकसंलापैः कर्णाय सूचिकोपमैः । व्यानशे रोदसीकूपो निर्भीमैगर्जितैः समम् ॥ ४४ ।। कुम्भलक्षैः करिष्यामि स्नात्रं कुङ्कुमवाहिभिः । L १८ - १३८ मल्लिनाथमहाकाव्ये- अमुष्माद् विधुरादाशु देवि ! तारय तारय ॥४५॥ एवंरूपा विदधिरे उपयाचितसंहतीः । आर्ता हि देवतापादभक्तिं विदधतेतराम् ।। ४६ ॥ इत्युपद्रवमालोक्य स्मृतपश्चनमस्कृतिः । पवित्रासनमासीनः प्रत्याख्यानसमाहितः ॥ ४७ ॥ वीतरागं मनोऽम्भोजे विदधानः शुभाशयः । श्रावकोऽर्हन्नयोऽस्मादिनित्यादिकभावनाम् ।।४८॥ (युग्मम् ) अमुमीदग्विधं वीक्ष्य क्षोभाय सुरपांसनः । विचक्रे रक्षसो रूपं कालरात्रिसहोदरम् ॥ ४९ ॥ मुखज्वालास्फुलिङ्गोच्चैया खद्योतमयीमिव । कुर्वन् हास्यच्छटापातैः क्षमा फेनमयीमिव ॥ ५० ॥ पाददर्दुरिकाघातैरधः क्षोणी क्षिपनिव । उच्चैः कलकलारावं तन्वन् प्रलयरुद्रवत् ॥ ५१ ॥ उद्वहन् कर्तिकां पाणौ प्रेतभर्तुः प्रियामिव । ऊचे नक्तंचरः क्रूरो रे रे श्रावकपांसन ! ॥ ५२ ॥ मुश्च धर्ममिमं मुञ्च नो चेत् कर्तिकयाऽमुया । पातयिष्यामि ते मुण्डमखण्डं फलवत्तरोः ॥ ५३ ।। वलाद् वलिं करिष्यामि यादसां त्वां दुराशय ! । नाऽयं धर्मोऽर्गलो भावी पततोऽम्भोधिपाथसि ॥५४॥ आत्मानं श्रावकत्वेन भाषमाणः पदे पदे । कुरुषेऽम्बुनिधौ यात्रामहो ! निघृणधर्वर ॥५५॥ एवं विभाषमाणेऽस्मिन्नहन्नय उपासकः। खध्यानाद् नाऽचलच्छैलः किं वातेन प्रकम्पते ॥५६॥ भद्र ! सौधर्मशक्रेण संस्तुतोऽसीति पर्पदि । त्रिदशैरपि स्वधर्मादचाल्योऽर्हन्नयः सुधीः ॥ ५७ ॥ तत्पशंसामिमां श्रुत्वा परीक्षार्थमिहाऽऽगमम् ।

पञ्चमः सर्गः। १३९ ममेदृक् चेष्टितं सर्व क्षमस्व करुणानिधे ! ॥ ५८ ॥ शिलोचय इवासि त्वं मनागपि न कम्पितः । मत्तस्य दन्तिनो दन्तघातेनेव मया ननु ॥ ५९ ॥ दिव्यं कुण्डलयोर्द्वन्द्वं तस्सै दत्त्वा स नाकसद् । संहृत्य मेघवातादि तिरोऽभूदभ्रगेन्दुवत् ।। ६० ॥ क्षेमेणाऽर्हन्नयो बाधि तीळ गोष्पदवत् क्रमात् । गृहीताऽशेपभाण्डौघो नगरी मिथिलां गतः ॥६१।। एकं श्रीकुम्भभूपस्य प्राभृते कुण्डलद्वयम् । दढदेऽहन्नयः पोतवाहकः साढराशयः ॥ ६२ ॥ तदेवं पृथिवीनाथस्तां दिव्यां कुण्डलद्वयीम् । दुहित्रे नेत्रमित्राय श्रीमत्यै मल्लये ददौ ।। ६३ ।। अर्हन्नयाय पात्रज्ञो दत्त्वोच्चैः पारितोपिकम् । विससर्ज महीपेन्दुर्यथाऽम्बु जलधिर्धनम् ।। ६४ ॥ क्रीतविक्रीतनिःशेषभाण्डश्चम्पामुपागतः । चन्द्रच्छायनरेन्द्रस्य सभामण्डपमभ्यगात् ।। ६५ ॥ चकार प्राभृते श्रेष्ठी द्वितीयां कुण्डलद्वयीम् । पदार्थाः खलु युज्यन्त उत्तमानामिहोत्तमाः ।। ६६ ।। राजोचेऽर्हन्नय ! श्रेष्ठिन् ! कुतोऽदः प्राप्तमीदृशम् ।। नेदृग् मर्त्यतले भावि कान्त्या जितदिवाकरम् ॥६७॥ भादौ समुद्रवृत्तान्तं विधाय श्रेष्ठिनन्दनः । अन्ते वितत्य चम्पाया आगमं सर्वमब्रवीत् ॥ ६८ ॥ केयं मल्लीति पप्रच्छ चन्द्रच्छायक्षितीश्वरः । अपूर्वश्रवणे यत्नः किं सकर्णस्य नो भवेत् ? ॥ ६९ ॥ अथाऽसौ न्यगदच्छ्रेष्ठी देव ! श्रीमिथिलापुरि। विजयी श्रीकुम्भभूपाल इक्ष्वाकुकुलभूपणम् ॥ ७० ॥ तत्सुता जननेत्राणामध्वगानामिव प्रपा । मल्लिमल्लिस्मिता चारुगुणवल्लीव जगमा ।। ७१ ।। .

१४० मल्लिनाथमहाकाव्ये- पुरो यस्या मुखस्योच्चै निर्माल्यमिव चन्द्रमाः । यस्याश्च नेत्रयोलक्ष्मीरलक्ष्मीरम्बुजबजे ॥ ७२॥ इत्थमाकर्ण्य चन्द्रेशः प्राग्जन्मस्नेहमोहितः । मल्लीं वरीतुं पाहेपीद् दृतं कुम्भमहीपतेः ॥ ७३ ।। ॥ इति श्रीमल्लिस्वामिपूर्वभवद्वितीयमित्रोत्पत्तिः।। इतश्च पूरणप्राणी वैजयन्तं विहाय सः । श्रावस्त्यामभवत् पुर्यां रुक्मी नाम क्षितीश्वरः ॥७४।। तस्याऽभूद्धारिणी नाम स्वर्देवीव महीचरी । रूपातिशायिनी शान्ता कान्ताकारा सुलक्षणा ॥७५३ अजनिष्ट तयोः सौम्या सुबाहु म कन्यका । लक्ष्मीरिव सुरेन्द्रस्य समुद्रस्येव वाधिजा ।। ७६ ।। साऽतीव धरणीभर्तुः स्वप्राणेभ्योऽपि वल्लभा । इतरेभ्योऽप्यपत्यानि किं पुनः पृथिवीमुजाम् ? ॥७॥ साऽन्येयुः परिवारेण चतुर्मास्यां विशेषतः । अकार्यततरां स्नानक्षणं मङ्गल्यपूर्वकम् ।। ७८ ॥ अन्तःपुरवधूलोकैर्मुदितैः स्लपिताऽप्सकौ । लवणोत्तारणायुक्तवस्त्रालङ्कारपूर्वकम् ॥ ७९ ॥ अङ्गीचङ्गीप्रभृतिभिश्चेटीभिः परिवारिता। प्रणन्तुं जनकंपाप सभामण्डपमुत्तमम् ।।८०|| (युग्मम् तामुत्सङ्गे समारोप्य बल्लकीमित्र सद्गुणाम् । सौविदल्लामभाषिष्ट नृपः प्रेमतरङ्गितम् ॥ ८१ ॥ कन्यायात्रोत्सवो भद्रमुखेदृग्वीक्षितः क्वचित् । अथ स्मित्वाऽनदढसौ राजन् ! शृणु गिरं मम ।।८।। त्वदादेशेन भूमीश ! गतोऽहं मिथिलापुरीम् । श्रीकुम्भस्वामिनः पुत्र्याः श्रीमल्लेः प्रवरातेः ।।८।। आयुर्घन्यौ भवत्युच्चैः स कोऽपि स्वपनक्षणः । १ ‘कलाकलापकलिना भाग्यभृजया महोत्पलम् ' इत्यपि पाठ ।

पञ्चमः सर्गः। १४१ यः खर्गेऽपि न संभाव्यः किं पुनः पृथिवीतले ।।८४॥ जलधेर्जलधिर्यत सुधायाश्च सुधा यथा । मल्लिरूपस्य ताद्रूप्यं मल्ले रूपे व्यवस्थितम् ॥ ८५ ॥ मर्त्यमण्डलपाथोधेः स्त्रीरत्नं पृथिवीतले । तदेवोत्पन्नमाभाति जगन्नयनकार्मणम् ॥ ८६ ॥ श्रुत्वेति माग्भवस्नेहाद् भूमिनाथेन रुक्मिणा । अप्रेष्यततरां दूतो निसृष्टार्थो धियां निधिः ॥ ८७ ॥ ॥ इति श्रीमल्लिस्वामिपूर्वभवतृतीयमित्रपूरणोत्पत्तिः ।। इतश्च वसुजीवोऽपि वैजयन्तविमानतः । च्युत्वा वाणारसीपुर्या शङ्को नाम नृपोऽजनि ॥८८॥ श्रीमल्लेः कुण्डलद्वन्द्वं तदिव्यं दैवयोगतः । तदा विजघटे कामं रामणीयकमन्दिरम् ॥ ८९ ॥ राज्ञा संघटनायाऽस्य मीलिताः स्वर्णकारकाः। तद्वीक्ष्य शून्यमनसोऽभूवन् संज्ञीतरा इव ॥ ९० ॥ देव ! दिव्यमिदं दीप्य नो संघट्टयितुं क्षमाः। दिव्यानां हि पदार्थानां दिव्या एव विधायिनः॥९॥ ततो निर्वासिता राज्ञा रुष्टेन स्वर्णकारकाः । नृपाप्रसादादीदृशं न दूरे पुरवासिनाम् ।। ९२ ॥ ते च वाराणसीं गत्वा प्रणेमुः गह्वभूभुजम् । कौतस्कुता इति क्षमापः पप्रच्छ मधुराक्षरम् ॥१३॥ देवाऽमी मिथिलापुर्यां वासिनः स्वर्णशिल्पिनः । विज्ञानवल्लरीजालपादकालघनाघनाः ॥ ९४ ॥ वसतां तत्र चास्माकं पूर्वजानां महीपते ! वेणयः सप्त संभूताः स्वर्णताडनभाजिनाम् ॥ ९५ ॥ मिथिलावामिना कुम्भराज्ञा कुण्डलयोजने । अनीशा ईश ! सर्वेऽमी पूर्या निर्वासिता हठात् ॥१६॥ कुण्डलपक्रमप्राप्त श्रीमल्ले रूपमुत्तमम् ।

१४२ मल्लिनाथमहाकाव्ये- सदणैर्वर्णयामासुहर्पोत्कर्षमुपागताः ॥ ९७ ।। आस्यस्य पुरतो यस्याः शङ्के दासायते शशी । एतावतेव तद्रूपमसरूपं निरूप्यते ॥ ९८ ।। पूर्वस्नेहातिरेकेण तद्रूपश्रवणादपि । श्रुत्वेति तां वरीतुं तु विशिष्टं विससर्ज सः ॥ ९९ ।। ॥ इति श्रीमल्लिस्वामिपूर्वभवचतुर्थवसुमित्रोत्पत्तिः ।। जीवो वैश्रमणस्याऽथ वैजयन्तात् परिच्युतः । अदीनशत्रुनामाऽभूद् भूपालो हस्तिनापुरे ॥ १०० ॥ इतश्च- श्रीमल्लेरनुजो मल्लो नाम्ना यौवनमागतः । आजूहवचित्रकरान् लेप्यकर्मविशारदान् ।। १०१॥ भित्तिविभज्य तेभ्योऽसौ गोत्रिभ्य इव सम्पदः । सचित्रं कारयामासोन्मीलितं भागवर्तनः ॥ १०२॥ तेष्वेकश्चित्रकर्यो लब्धदेवतसद्वरः । एकागदर्शनेनाऽपि यथावस्थितरूपवित् ॥ १०३ ।। अन्तर्जवनिकं पादाङ्गुष्ठं मल्लेनिरीक्ष्य सः । यथावद्रूपमलिखत् सर्वाङ्गोपाङ्गशोभनम् ॥ १०४॥ मल्लस्तत्राऽगमत् क्रीडारसिको मित्रसंयुतः । श्रीमल्लिखामिनीरूपं चित्रस्थमवलोकयत् ॥ १०५ ।। साक्षात्वसारमूर्ध्वस्थां मन्यमानस्तथा पदैः । लजया प्रसरत्कुल्याजलवत् सेतुहेतुना ॥ १०६ ॥ (युग्मम् ) निवृत्तं वेगतो धात्री दृष्टिपात्रीचकार तम् । कथं पुत्र ! निवृत्तोऽसि त्वरितं त्वरितैः पदेः॥१०७॥ कुमारोऽप्यव्रवीदेवं मातम भगिनी पुरः । ऊर्ध्वा समस्ति खेलामि कथं मित्ररहं वृतः ॥१०८॥ सम्यग निरूप्य धाग्योचे नेयं मल्ली तव स्वसा।

पञ्चमः सर्गः।
१४३
किन्तु चित्रकृता पुत्र ! कृताभ्रान्तिप्रदा मुदा।।१०९॥
अथ क्रुद्धोऽनुजो मल्लेस्तस्य चित्रकृतो भृशम् ।
निकृत्य दक्षिणं पाणिं स्वदेशाद् निरवासयत् ॥११०॥
विष्वग् भ्राम्यन् महीपीठं गतवान् हस्तिनापुरे ।
अदीनशत्रुभूपाय नमश्चक्रे कृताञ्जलिः॥१११ ॥
स्ववृत्तान्तं यथाभूतं मूलादारभ्य भूभुजः ।
श्रीमल्लिस्वामिनीरूपमेवं वर्णितवानथ ॥ ११२ ॥
नदीनां स्वर्धनी यद्वत्सुमनस्वपि मालती।
यद्वत् कामगवी गोषु तद्वद् रूपवतीषु सा॥११३॥
न दृष्टा येन सा मल्लिमन केकिघनाघनः ।
तस्य नेत्रद्वयं डित्थडवित्थयुगमञ्चति ॥११४॥
यदीयं लियते रूपं लोचनैश्चुलुकैरिव ।
यदीयं वर्ण्यते चारुचरितं कविकुञ्जरैः ॥११५।।
एवं तद्वर्णनां कृत्वा चित्रकृच्चित्रसंस्थिताम् ।
अर्चामदर्शयदु मल्लेद्देशोरायुष्यकारिणीम् ॥११६॥
वीक्ष्यमा विस्मितः पूर्वस्नेहमोहितमानसः ।
तद्याचनाय दूतं स्वं प्रैपीदुपमहीपति ॥११७॥
॥ इति श्रीमल्लिस्वामिपूर्वभवपरममित्रपञ्चमवैश्रमणोत्पत्तिः ॥
इतश्च जम्बूद्वीपेऽस्मिन् काम्पिल्यनगरे वरे ।
अभिचन्द्रस्य जीवोऽपि च्युत्वा तस्माद्विमानतः।।११८॥
जितशत्रुर्यथार्थाख्यः समभूत्पृथिवीपतिः।
यत्प्रतापाद् विलीयन्ते द्विपःस्त्यानाज्यपिण्डवत्।।११९॥
(युग्मम् )
धारिणीप्रमुखास्तस्य सहस्रं प्राणवल्लभाः।
अगण्यपुण्यलावण्या भूचर्यो देवता इव ।। १२०॥
इतोऽभूद् मिथिलापुर्या चोधा नाम विचक्षणा ।
मन्त्रकार्मणरत्नानां रोहणाचलचूलिका ॥ १२१ ॥

१४४
मल्लिनाथमहाकाव्ये--
।
त्रिदण्डमण्डितकरकोडा कापायिताम्बरा । ।
शौचाय दधती दर्भसगी जलकुण्डिकाम् ॥ १२२ ।।
(युग्मम् ).
साऽन्यदा कुम्भभूपस्य कन्यान्तःपुरमुत्तमम् ।
अस्खलितगतिरगात् सा वात्येव निरत्यया ॥१२३॥
श्रीमल्लिस्वामिपादान्ते सोपाविक्षद् यथाविधि ।
निजं दर्शयितुं धर्म दम्भसंरम्भया गिरा ॥ १२४॥
जलशौचमयो धर्मस्तया ख्यातः सविस्तरः।
तस्याः पुरः पुराणस्य वाक्यैर्वाक्यविधिज्ञया ॥१२५॥
अथ प्रोवाच श्रीमल्लिधर्मोऽस्ति जलसङ्गमात् ।
जितं तर्हि झोंके जलस्थाननिवासिभिः ॥१२६।।
सैवं शैवं निराचक्रे शौचधर्म सुयुक्तिभिः ।
मुखमर्कटिकां दत्त्वा तां चेव्यो निरवासयन् ॥१२७॥
भवेद् यथेयं दुःखार्ता सपनीजनमध्यगा ।
तथा वेगात् करिष्यामि सा यान्तीति व्यचिन्तयत् ।।
एवं विचिन्त्य दर्पणाध्माता निर्गत्य पूर्वरात् ।
काम्पिल्यनगरं प्राप पञ्चालमुखमण्डनम् ॥ १२९ ।।
जितशत्रुः सभाप्राप्तां तां वीक्ष्य स्मितचक्षुषा ।
विष्टरं दापयामास पूजनीया हि लिङ्गिनी ।। १३० ॥
महत्या प्रतिपत्त्या सा पूजिता जगतीभुजा ।
औचित्याचरणं सन्तः शिक्ष्यन्ते किमु तादृशाः॥१३१॥
सा प्रोदिताशीर्वचना तदासनमशिश्रियत् ।
आशीर्मूलधनं यस्मादक्षयं लिङ्गधारिणाम् ॥ १३२ ।।
साऽवाद्यत महीभा महाभक्तितरङ्गितम् ।
नृपप्राणप्रियाभिश्च, पतिमार्गाऽनुगाः स्त्रियः ॥१३३॥
जलशौचपरो धर्मो राजन् ! राजीवलोचने !।
न भूतो न च संभावी प्रेत्याऽमुत्र प्रियङ्करः ॥१३४॥

- पञ्चमः "सर्गः।- १४५ . एवमाख्याय विरता तामुदीक्ष्य नृपोऽवदत् । भगवत्यखिला दृष्टा मही सागरमेखला ॥ १३५ ।। ईदृगन्तःपुरं मातः ! कार्पि दृष्टं कचिच्छ्रुतम् । त्वादृशां दूरदृश्वानो यद्भवन्ति व्रतस्थिताः ॥ १३६।। विलक्षं विस्मितं कृत्वा चोक्षोचे भूभुजं प्रति । कृपमण्डूकसकांशो राजन् ! त्वमसि भूतले ।।१३७।। या श्रीममिथिलापुर्यां कुम्भराजस्य पुत्रिका । श्रीमल्लिस्वामिनी देवललनाललिताकृतिः ॥ १३८ ॥ तस्याः पादद्वयाङ्गुष्ठसंपदः पुरतस्तव । इदमन्तःपुरं सर्वमङ्गारादपि हीयते ॥ १३९ ॥ शरीरलक्ष्मीः सा कापि यस्या उपमितिः कचित् । न विद्यते त्रिभुवने किमन्यत्परिगयते ? ॥ १४० ॥ जितशत्रुरिति श्रुत्वा प्राग्जन्मस्नेहमोहितः । उपकुम्भमयुताऽसौ तत्कृते दूतमग्रिमम् ॥ १४१ ।। ॥ इति श्रीमल्लिस्वामिप्राग्भवषष्ठमित्राऽभिचन्द्रोत्पत्तिः ॥ इत्थं प्राग्जन्ममित्राणां षण्णामपि महाधियाम् । समागुर्युगपद् दूता मिथिलायां महापुरि ॥ १४२ ।। ज्ञानत्रयधरः स्वामी मल्लिस्तेषु कृपापरः। एवं विनिर्ममौ यस्मात्पतिवोधोद्यता जिनाः॥१४३॥ अशोकवनिकायां तु स्वर्णभित्तिविकखरे । सौधमध्यापवरके रत्नपीठमनोहरे ।। १४४ ॥ आत्मनः सदृशीं हैमी प्रतिमां सदलङ्कृताम् । इन्द्रनीलदृशं सोमां विद्रुमाधरपल्लवाम् ॥ १४५ ॥ कज्जलश्यामलकचां प्रवालारुणपाणिकाम् । सवर्णा कलशाकारशिरसं लटभभुवम् ॥ १४६ ॥ आजानुदोर्युगां मध्यतुच्छां - " नु नु । १९ १४६ मल्लिनाथमहाकाव्ये- - गूढगुल्फा वृत्तजवां त्रिवलीभिस्तरङ्गिताम् ॥ १४७ ॥ ( पञ्चभिः कुलकम् ) तस्यापवरकस्योच्चैः पुरो भित्तावकारयत् । षड् द्वाराणि कपाटाभ्यां पिहितानि बृहन्ति च।।१४८॥ द्वाराणां पुरतस्तेषां लघ्वपवरिकास्तु षट् । प्रतिमापृष्ठभागेऽपि द्वारमेकमकारयत् ॥ १४९ ॥ . आतालुशुपिरोदर्यामर्चायां त्रिजगद्गुरुः । सकलाहारपिण्डी तु प्रक्षिप्य बुभुजेऽन्वहम् ॥१५०॥ इतश्चैषां समं दूताः श्रीकुम्भनृपवेश्मनि । आगत्य प्रणिपत्येदं क्रमेणाऽथ वभाषिरे ॥१५॥ देव ! साकेतपूर्नाथशत्रून्माषप्रतापवान् । प्रतिबुद्धिः सुबुद्धीनां रत्नानामिव सेवधिः ॥ १५२॥ वीरभोगीणदोर्दण्डो महाबाहुर्महाबलः। रूपन्यक्कृतकन्दर्पः सदर्पपरिविग्रहः ॥ १५३ ॥ खेष्टसोदरवद् मेने यो धर्म धर्मवत्सलः । गुरुवाक्यमिवाऽमंस्त वचनं मन्त्रिणां शुचि ॥१५४॥ असौ मल्ली तव सुतां परिणेतुं महीपतिः । याचते हि सतां याच्या विफलापि न होकरी॥१५५॥ यस्य कस्याऽपि देयेयं कन्या परधनं यतः । जामाता त्वीदृशः पाप्यो न कुत्रापि गवेषितः॥१५६॥ अथ द्वितीयदूतोऽपि जगाद वदतां वरः। देव ! चम्पापुरीस्वामी पीनस्कन्धो महाभुजः॥१५७॥ कुल्यः कलङ्कविकलः सत्यगीः सत्यसगरः । सगरार्जितसत्कीर्तिः कीर्तनीयगुणोत्करः ॥ १५८ ।। पूर्णेन्दुवदनच्छायश्चन्द्रच्छायक्षितीश्वरः । मार्गयति तव सुतां मल्लीमुद्वाहपर्वाण ॥ १५९ ॥ तृतीयेनाऽपि वभणे श्रावस्तीनगरीश्वरः ।

पञ्चमः
सर्गः।
१४७
अग्रणीभेटकोटीनां कृतज्ञः प्राज्ञपुङ्गवः ॥ १६० ॥
निकपः शूरताहेम्नः शरण्यः शरणार्थिनाम् ।
उद्यानं दानदाक्षिण्यस्थैर्यधैर्यमहीरुहाम् ।। १६१ ।।
रुक्मी नाम महीपाल: पालितक्षत्रियव्रतः।
परिणेतुं महानन्दात् कन्यकां तव वाञ्छति ॥१६२॥
(त्रिभिर्विशेषकम् )
चतुर्थोऽप्यब्रवीदेवं देव ! काशीपुरीश्वरः।
निशाकरोज्ज्वलयशाः कल्पद्रुरनुजीविनाम् ।। १६३ ।।
नयकन्दलिनीमेघोऽमोघगीरघहानिकृत् ।
दानशौण्डः प्रतापेन दुनिरीक्षः खरांशुवत् ॥ १६४ ॥
सदा सदाचारपथप्रवीणः क्षितिनायकः ।
शङ्खभूमानिमां पाणिगृहीती कर्तुमीप्सति ॥ १६५ ।।
(त्रिभिर्विशेषकम् )
इतश्च पञ्चमोऽप्यूचे यद्धास्तिनपुरेश्वरः ।
स्मररूपोपमः संख्यनियूंढौहविक्रमः ।। १६६ ।।
सालपांशुर्महास्कन्धो गुणज्ञो गुणिनां घरः।
अदीनशत्रुभूपालस्त्वत्कन्यां हन्त ! याचते ॥ १६७॥
(युग्मम् )
षष्ठोऽपीत्थमथोवाच देव ! काम्पील्यभूपतिः ।
अमेयसेनो निर्मायः शुनासीरपराक्रमः ॥ १६८ ।।
जितान्तरारिषड्वर्गो जितदुर्दान्तशात्रवः ।
जितशत्रुस्तव सुतां मद्वाचा याचतेतरास् ॥ १६९ ॥
(युग्मम्)
श्रुत्वेदं कुम्भराजोऽपि जगादैवं कृतक्रुधः ।
ईदगाशापराः किं वः स्वामिनो नेह लज्जिताः॥१७॥
त्रैलोक्यजनतारत्नं कन्यारत्नमनुत्तरम् ।
शरपि.नमस्कार्य विवाहाय कथं भवेत् ॥१७१ ॥

१४८ मल्लिनाथमहाकाव्ये- अस्या जन्मनि देवाद्रौ मिमीलुस्त्रिदशेश्वराः । अस्याः शरीरवृद्धिश्च बभूव सुधयाऽन्वहम् ॥ १७२ ॥ येनाऽचिन्ति विरूपं भो एनां प्रति दुराशया ।। तस्यार्जमञ्जरीवोच्चैरस्फुटत् खण्डशः शिरः ॥१७३॥ वधार्हा अपि भो ! नूनं विमुक्ता दौत्यकर्मणा.। , .' स्त्रीवालदूतमूकादीन् न नन्ति न्यायवेदिनः ॥१७४॥ भूसंज्ञाप्रेरिता राजपुरुषाः परुषाक्षरम् । शीघ्र निष्काशयामासुरेतांस्ताडनपूर्वकम् ॥ १७५ ॥ एवं ते न्यक्कृताः कामं गत्वाऽख्यन् स्वामिनोऽखिलम् । अथ तेषां मनःकुण्डे क्रोधवहिरदीप्यत ॥ १७६ ॥ प्रयाणभेरीमाङ्कारैरं दूरं प्रसपिभिः । व्यानशे रोदसीकूपो नदीयोपैरिवार्णवः ॥ १७७ ॥ तेषां वलजलैर्लोलैराच्छाद्यत समन्ततः। प्रलयक्षुभिताम्भोधिवीचीभिरिव भूतलम् ॥ १७८ ॥ चेलुः षडपि मानार्ता मूर्ता वर्षधरा इव | विततैर्ध्वजिनीपक्षैः क्षोभयन्तः क्षितेस्तलम् ॥१७९|| रथै रथमयीवाभूद् गजैगजमयीव भूः। . अश्वैरश्वमयीवाऽपि भटैर्भटमयीव नु ॥ १८०॥ धातुमत्तामिव कुथान विकिरन्तो विकखराम् ।। गण्डशैलश्रियं भेजुर्जगमां गन्धहस्तिनः ॥ १८१ ॥ कुर्वाणाः स्थलवद् धृलीपटलीभिः सरांस्यपि । स्थलान्यपि हयखुरपुटैश्च कमलाकरान् ॥ १८२ ।। स्फारस्फारस्फटावन्तश्चन्दनद्रुलताभिव । देहयष्टिमिव श्वासनिरोधाद् योगवेदिनः ॥ १८३ ॥ प्रवेशनिर्गमद्वारं निषेधन्तः पदे पदे । अरुन्धन् मिथिलां वार्धिवीचयो द्वारकामिव ॥१८४॥ (त्रिभिर्चिशेषकम् ) पञ्चमः सर्गः। (१४९ - तेन रोधेन कुम्भोऽपि खिन्नाऽऽखिन्नः कदाचन ।। , चिन्तासन्तानवान् जज्ञे हृतपाणिस्थवित्तवत् ॥१८५।। उद्विमा,इव किं तातपादास्तिष्ठन्ति साम्प्रतम् ।। इत्यूचे भगवान् मल्लियोजिताञ्जलिकुड्मलः॥१८६॥ उद्वेगकारणं रोधलक्षणं क्षितिनायकः । सर्वमाख्यत् पुरोमल्ले सद्गुरोरिवं भाविकः॥१८७॥ मल्लिरप्यवदत् तात ! युगपद् गूढपूरुषैः । युष्मभ्यं दास्यते मल्लीत्युक्त्वा सर्वान् प्रबोधय॥१८८॥ आकार्या मम ते सर्व ततोऽपवरकेष्वपि । , प्रच्छनाःसायमानेयाः स्वल्पलोकपरिच्छदाः॥१८९।। तथैव विहिते सायं राजानो मुदिताशयाः। उपागताः पुरो मल्लेः प्रतिमा वीक्ष्य विस्मिता॥१९॥ । मल्लीति ददृशे दिष्टया ध्यायन्त इव चेतसि । कृतकृत्यममन्यन्त वात्मानं सिद्धमन्त्रवत् ॥१९१॥ .: पृष्ठद्वारविभागेन प्रतिमाया नृपात्मजा । उदघाटयत् प्रतिमान्तःस्थित तालुचीवरम् ॥१९२॥ निक्षिप्तकुथितग्रासगन्धः प्रासरदुच्चकैः । दुःसहो लशुनस्येव सर्वतोऽपसरज्जनः ॥ १९३ ।। अहिगोश्वानमृतकदुर्गन्धादपि दुःसहा । गन्धः षण्णामपीशानां व्यानशे नासिकापुटीम् ॥१९४॥ तद्न्धाच्छातकुन्ताग्रमहारादिव कातराः । अधोमुखा अजायन्त मृतप्रियसुता इव ।। १९५॥ तानवाचो विलोक्योचैरूचे मल्लिर्जगद्गुरुः । किं यूयं न्यङ्मुखा जाता भारातशिरसो यथा॥१९६।। । सोढुं न शक्नुमो नूनममुं दुर्गन्धमुच्चकैः । एवं वभाषिरे वस्त्रप्रान्तैः पिहितनासिकाः ।।१९७॥ तान् स्वामी प्रत्युवाचेदं प्रतिबोधपरायणः ।

१५० मल्लिनाथमहाकाव्ये- सौवर्णी प्रतिमा यद् दृश्यमाना मनोहरा ॥ १९८ ॥ तथा वराङ्गनाः स्मेरनीलेन्दीवरलोचनाः। विण्मृत्रश्लेष्ममज्जासृग्मलधातुप्रपूरिताः ॥ १९९।। अकाम्यानपि रामाणां काम्यानिव शरीरके । शरीरांगान् प्रपश्यन्त्यनुरागहतलोचनाः ॥ २००॥ पीतोन्मत्तो यथा लोष्ठं सुवर्ण मन्यते जनः । तथा स्त्रीसङ्गजं दुःखं सुख मोहान्धमानसः ॥२०१।। जटी मुण्डी शिखी मोनी वल्कली सुतपा अपि । ब्रह्माऽप्यब्रह्मशीलश्वेचदा मह्यं न रोचते ॥ २०२॥ कण्डूयन् कच्छुरः कच्छ् यथा दुःखं सुखीयति । दुर्वारमन्मथावेशविवशो रतिजं तथा ।। २०३ ।। नार्यो येरुपमीयन्ते काञ्चनप्रतिमादिभिः । आलिङ्गथालिङ्गन्ध तान्येव किमु कामी न तृप्यति।२०४॥ यदेवाझं गोपनीयं कुत्सनीयं च योषिताम् । तत्रैव हि जनो रज्यन् केनाऽन्येन विरज्यते? ॥२०५।। मोहादहह ! नारीणामङ्गैर्मासास्थिनिर्मितेः । चन्द्रेन्दीवरकुन्दादि सदृक्षीकृत्य दूषितम् ।। २०६ ॥ एवं संसारकाराया रामाया रूपवर्णनाम् । श्रुत्वा कुर्वन्तु मा रागमङ्गनाङ्गस्य सङ्गमे ॥ २०७ ॥ इतो भवात् तृतीये मे भवन्तः सुहृदोऽभवन् । समानवयसस्तुल्यभुक्तवैषयिकक्षणाः ॥ २०८ ॥ युगपत् तुल्यनिर्मुक्तसावद्यावयचेष्टिताः । युगपत् तुल्यविहितचतुर्थादितपःपराः ॥ २०९ ॥ स्मरतेति न किं यूयं प्राक्तनं भवचेष्टितम् ? । अहं वः सप्तमं मित्रं कथाख्यानाद् महावलः॥२१०॥ श्रुत्वेदं वचनं वाणीदेवताहस्तपुस्तकम् । जातिस्मरणमेतेषामुत्पेदे कर्मलायवात् ॥ २११ ।।

पञ्चमः सर्गः।
१५१.
अथ जालकपाटानि तीर्थेश उदघाटयत् ।
एतेऽभ्यागत्य सर्वेऽपि प्रमोदाश्रुजलापिलाः ॥२१२।।
प्रबोधोन्मुक्तकालुप्याः शारदीन घनाइव ।
भगवन्तं प्रणम्येदमाख्यन् पडपि भक्तितः ॥२१३।।
स्मरामः प्राग्भवे पूज्यपादाः ! सप्ताऽपि सत्तपः ।
अकृष्महि चतुर्थादि कर्मधर्मघनोदयम् ॥ २१४ ।।
वोधिता अधुना स्वामिपादैर्देशनयाऽनया ।
आदिशन्तु विधेयं यद्भवन्तो गुरवो हि नः ॥२१५।।
अथोवाच जगन्नाथः पाथ पूर्णघनखनः ।
अहं संसारकान्तारं विमुच्या निष्टगेहवत् ॥ २१६ ॥
मुक्तिसंवननं कर्मनि शनकृतोद्यमम् ।
सत्तपस्यां ग्रहीष्यामि भविष्यामि च निर्ममः॥२१७॥
(युग्मम्.)
खामिममी वयं तावद् युष्मन्मार्गप्रवर्तनम् ।
करिष्यामो गुरोर्मा, प्रवृत्तानां शुभं नृणाम् ॥२.१८॥
इत्युदीर्य पुनर्नाथं नमस्कृत्य शुभाशयाः।
षडपि क्ष्माभुजोऽगच्छन् स्वां पुरीं स्ववलैः सह।।२१९॥
इतः पञ्चमकल्पस्य विमानेऽरिष्टनामनि ।
लोकान्तिकानां देवानामासनानि चकम्पिरे ॥२२०॥
तत्कम्पादवधिज्ञानप्रयोगादपि ते सुराः ।
सारखतादयः सर्वेऽजानन् दीक्षाक्षणं प्रभोः॥२२॥
एत्य श्रीमल्लिनाथाग्रे तेऽवोचन्निति भक्तितः ।
सर्वजगजीवहितं स्वामिन् ! तीर्थ प्रवर्तय ॥ २२२ ।।
खामी गार्हस्थ्यवासेऽपि वैराग्यकनिकेतनम् ।
विज्ञप्तस्तैर्विशेषेण दीक्षायां सत्वरोऽजनि ॥ २२३ ॥
अथ वात्सरिकं दानं समारेभे जगत्पतिः।
सर्वे येन महारम्भा दानपूर्वा महात्मनाम् ॥ २२४ ॥

१५२
मल्लिनाथमहाकाव्ये-
है
शृङ्गाटकचतुष्कादिस्थानेषु प्रतिवासरम् ।
आरभ्य सूर्योदयतो घोषणां स्वाम्यकारयत्॥२२५।।
यो येनार्थी स तद्वस्तु गृह्णातु निजयेच्छया ।
एवं वर्षावधि प्रातः प्रातरुद्धोष्यते जनः ।। २२६ ॥
धनानि धनदो यक्षः शक्रादेशाद् दिने दिने ।
आहत्य भ्रष्टनष्टानि पूरयत्यम्बुवद् घनः ।। २२७ ।।
सर्वत्रेच्छानुमानेन दीयन्ते कुञ्जरा हयाः ।
रथाभरणवस्त्राणि रत्नानां राशयस्तथा ।।.२२८ ।।"
करभा वेसश्चिापि नगराणि गुरूण्यपि ।
ग्रामग्रामधिराऽऽरामा यथाकामं धनादयः ॥२२९।।
(युग्मम् )
स्वेच्छया याचमानेभ्यो यद् गृहाद्वस्तु दीयते ।।
पल्यङ्कासनयानादि संख्यातुं शक्यते न तत् ॥२३०॥
कोटीमेकां सुवर्णस्य लक्षाण्यष्टौ दिने दिने ।
सूर्योदयात्मातराशकालं यावद् ददौ विभुः ।। २३१ ।।
सर्वाङ्के दत्तवान् स्वामी हेमकोटित्रयीशतम् ।
अष्टाशीतिं च कोटीनां लक्षाशीतिं च सर्वतः।।२३२॥
सांवत्सरिकदानान्ते सौधर्मादिपतिः स्वयम् ।
दीक्षोत्सवं विधित्सुः सन् समागाचलितासनः।।२३३।।
सलिलापूर्णसौवर्णकुम्भसम्भृतपाणिभिः ।
सुरैः शक्रः सम दीक्षाभिषेकं कृतवान् प्रभोः॥२३४॥
विलिलेप प्रभोरङ्ग दिव्यैर्गोशीर्षचन्दनः ।
मौलौ सन्तानपुष्पैश्चाऽवध्नाद्धम्मिलमद्रिभित् ।।२३५।।
वासांस्यलङ्कृतीः शक्रः स्वामिनं पर्यधापयत् ।
जयन्तीनामशिविकां रचयामास च स्वयम् ॥२३६॥
दत्तहस्तसुरेन्द्रेणारुरोहैनां जगद्गुरुः ।
पश्चादमत्यैर्मत्यैश्चाग्रभागे सा समुद्धृता ॥ २३७ ॥

पञ्चमः सर्गः ।। १५३ पार्श्वतो मल्लिनाथस्य चकाने चामरद्वयम् । धर्मशुक्लाभिधध्यानयुग्मं भूर्तमिवाऽमलम् ।। २३८ ।। वादित्राणां महाघोपैया॑नशे सकला.दिशः। अधर्मवार्ता सर्वत्र सर्वतस्तिरयन्निव ॥ २३९ ।।. वृन्दारकाणां वृन्देभ्यः स्पष्टो जयजयारवः । उत्तस्थे मोहराजस्य प्रवासपटहोपमः ।। २४० ।। क्षणमग्रे क्षणं पृष्ठे पौरास्तस्थुः प्रमोदतः । खामिनो विरह सोडुममौटा इव सर्वतः ॥ २४१ ॥ केऽप्यारुरुहुरट्टाग्रं सौधाग्राणि च केचन । सन्मश्चाग्राणि केचिच्च प्रभोर्दर्शनकाम्यया ॥ २४२ ।। हस्त्यश्वरथपादासपौरवृन्दपराहतः। श्रीमत्कुम्भमहीपालश्चचाल जिनपृष्ठतः ॥ २४३ ॥.. करिणीपृष्ठविन्यस्तमश्चिकासनमासिता । प्रभावत्यपि गोत्रस्त्रीसहत्या पर्यलङ्कृता ॥२४४ ॥ स्वामिदीक्षाश्रुतेरुकैः पवित्रजिषुभिः समम् । राजभित्रिशतीसंख्यैः सहरग्रतः स्थितैः ॥ २४५॥ स्त्रीणामप्यान्तरपरीवाराणां च त्रिभिः शतैः । दिक्षुभिः परं पौरैरुत्सवं समुपागतः ॥ २४६ ।। पूर्णपार्थो जगन्नाथो मिथिलामध्यवर्त्मना । वधूपाणिमिवादातुं दीक्षामुत्को वरो यथा ॥ २४७ ।। शिबिकावाहिनस्तत्र दिव्याभरणभासुराः। अदधुर्भूगतानेकाश्विनीनन्दनवैभवम् ।। २४८ ।। , तदा श्रीमल्लिनाथस्य तस्मिन्निष्क्रमणोत्सवे । गतक्षुणो दिदृक्षूणां क्षोभः स्त्रीणां क्षणादभूत्।।२४९॥ अर्धपोतस्फुरत्काञ्च्या प्रस्खलन्त्यः पदे पदे । तुगजालकमध्यासुः काश्चित् स्वामिदिदृक्षया ॥२५॥ काश्चिद् देशान्तरायातप्रियवार्ता अपास्य ताः । .. - H २०

१५४
मल्लिनाथमहाकाव्ये-
खामिदीक्षोत्सवं द्रष्टुं चेलुश्वपललोचनाः ॥ २५१ ॥
काश्चिदिभ्याङ्गनाः पौत्रजन्म श्रुत्वापि पावनम् ।
न दत्त्वा हर्षदानान्यधावन्तोहामवल्पितम् ॥२५२।।
चेलाञ्चलांश्चलदृशश्चञ्चचामरवेभवात् । .
काश्चिच चालयामासुश्चलहाववपुलताः ॥ २५३ ॥
पुण्याङ्कुरानिवाऽमोघान् लाजान् काश्चन चिनिपुः
काश्चन तन्दुलान्मोलो शुक्लध्यानलवानिव ॥ २५४ ॥
शीतांशुकरमित्राणि पूर्णपात्राणि काश्चन ।
विदधुः करराजीवे यशांसीव जगद्गुरोः ॥ २५५ ॥
खाम्यङ्कपूर्णकुम्भस्य स्पर्धिनः काश्चिदङ्गनाः ।
पूर्णकुम्भान् करकोडे दधुः श्रेयःफलोपमान् ॥२५६॥
तत्र काश्चित् प्रनृत्यन्ति जातपुत्रोत्सवा इव ।
गोत्रद्धा इव जगुर्मगलान्यपि काश्चन ॥ २५७ ॥
सुरेन्द्राणां चतुःषष्टिनाट्यानीकैः प्रभोः पुरः।
नाट्यानि चक्रिरे व्योन्नि गन्धर्वनगराणि वा ॥२५८॥
मत्रमः पातालवासिभिस्तरुपागतः ।
एकत्रैव कृतवती त्रिलोकी कौतुकादिव ॥२५९ ॥
मिथिलामण्डनं राजगन्धर्वा नवगीतिभिः।
अगायंखिजगन्नायगुणग्रामाननेकपा ॥२६० ॥
'इभ्यसामन्तवर्गाणां संमर्दाद् गलितच्युतैः ।
हारै रचितपूजेव पूरभूत सर्वतोमुखी ॥ २६१ ।।
निर्ममोऽपि जगन्नाथो मङ्गलानि पदे पदे ।
प्रतीयेपाऽनुचराणां सेवास्थितिविदो जिनाः ॥२६॥
कांश्चिन्नमस्यतो देवानाका भुवनाधिपः ।
कृतार्थान् विदधे स्मेरनयनाम्भोजवीक्षणैः ॥ २६३ ॥
एवं सुरासुरनरैः क्रियमाणमहोत्सवः।
पुरीगोपुरमुल्लङ्मय भववासनिवासवत् ॥ २६४ ॥

पञ्चमः सर्गः।। १५५ . कुमुदामोदसंमत्तरोलम्बरवडम्बरैः। अथैरिव महाकाव्य मूचितस्मरकेतकैः ।। २६५॥ एलालचङ्गककोलनागरङ्गादिभूरुहैः । सदाशापसतैः पूर्णमिव साधुमनोरथैः ॥ २६६ ॥ . अभ्रंलिहानोकहेषु वद्धदोलं कुमारकैः। मुखासवाद्यैः पौरीभिः पूर्यमाणद्दोहदम् ।। २६७ ॥ चाल्यमानलताचक्र क्रीडया पौरवालकैः । उच्चीयमानसुमनोमालिनीभिः कराम्बुजैः ।। २६८ ॥ मञ्जुगुञ्जस्पिकीनादैराहदिव जगद्गुरुम् । महोद्यानमथ प्राप श्रीमन्मल्लिजिनेश्वरः॥२६९ ।। अथाग्न्याच्छिविकारत्नात्पातादिव महाभुजः। उत्ततार खवाहुभ्यां तरीतुं भववारिधिम् ।। २७० ।। उज्झाञ्चकार निःशेषं नेपथ्यादि जगद्गुरुः। निर्मोकमिव नागेन्द्रो मिथ्यात्वमिव तत्त्ववित् ॥२७१।। अदृष्यं देवदूष्यं स्वाराजस्त्रिजगदीशितुः । स्कन्धे चिक्षेप सुज्ञानाप्रयानमिव मूर्तिमत् ॥२७२।। पञ्चविंशतिधन्वोचः कृतषष्ठमहातपाः । मार्गशुक्लस्यैकादश्याः पूर्वाह्ने भेऽश्वयुज्यथ ॥ २७३ ।। श्रीमन्मल्लिजिनाधीशः पञ्चभिमुष्टिभिः स्वयम् । केशानुत्पाटयामास मूर्तिमद्विपयानिव ।। २७४ ॥ प्रत्यैच्छत् त्रिदशाधीशः स्वामिदत्तप्रसादवत् । अब्दमुक्तोम्बुवत् पृथ्वी निजचेलानलेन सः॥२७५॥ अद्रिभित्स्वामिनः केशान् कजलश्यामलश्रियः । माक्षिपत् क्षीरपायोधौ निर्मलीकरणाय वा ॥२७६॥ वेगात् तत्रैत्य सद्भक्तिरूवीकृतकरयः । तुमुलं वारयामास वासवो नटवद् नृणाम् ।।२७७॥ उच्या सिद्धनमस्कारं सामायिकमधोच्चरन् ।

१५६ मल्लिनाथमहाकाव्ये- - चारित्रं जगृहे स्वामी मुक्तिसंवननौषधम् ।।२७८|| मनःपर्यायसंज्ञं च ज्ञानं भर्तुरभूत् तदा । केवलज्ञानलाभस्य सत्यकार इवानघः ।। २७९ ॥ नारकाणामपि सुखमाकस्मिकमजायत । सौदामिन्या इव द्योतः क्षणं च नरकेऽजनि ॥२८॥ त्रिशतीप्रमिता भूपास्त्रिशतीप्रमिताः स्त्रियः । संवेगाम्भः कृतस्नानाः प्रावजन्ननु तीर्थपम् ।।२८१|| ततः प्रदक्षिणीकृत्य श्रीमल्लिस्वामिनं जिनम् । वाचा पीयूषहारिण्याऽऽरेभे स्तोतुं पुरन्दरः ॥२८२।। नमो मल्लिजिनेशाय कुमारब्रह्मचारिणे । वैराग्यदुपयोदाय क्लेशावेशाग्निवारिणे ॥२८॥ कर्मभिस्त्वमसंस्पृष्टः पद्मपत्रमिवोदकैः । तव संसारवासोऽपि मुक्तिवास इवाऽजनि ॥२८४।। मैच्यादिवासनापूर्त दूतं शाश्वतशमणि । नाऽभिभूतं मदेनापि स्मरामि तब शासनम् ॥२८५।। स्वामिन् ! विश्वोपकाराय तपस्यां प्राप्तवानसि । मार्गदुः पान्थसार्थाय फलैः फलति पेशलैः ॥२८६॥ त्वजितस्त्रिजगन्नाथाऽनङ्गत्वं दधते स्मरः। दग्बो दुग्धेन यो लोके स फूत्कृत्य पयः पिवेत्।।२८७|| इत्थं जगत्पतिं स्तुत्वा भक्तिप्रहः पुरन्दरः। अनुनाथं धरापीठं त्रिनमो विदधेतराम् ।। २८८ ।। अथ च्छत्रायमाणस्याऽशोकद्रोः प्रवरे तले । अतिष्ठत् प्रतिमायां श्रीजिनो लम्बि जद्वयः ॥२८९।। अप्रमत्तः संयतादिगुणस्थानानि तत्क्षणम् । आश्रित्य घातिकर्माणि पुप्लोप ध्यानपावके।।२९०॥ तस्मिन्नेव क्षणे विश्वभर्तुर्विश्वप्रकाशकम् । उत्पेदे केवलज्ञानं सर्वपर्यायतत्त्ववित् ।। २९१ ।। - पश्चमः सर्गः। १५७ अथ क्षगात् सहस्राक्षः प्रयुक्तावधिना स्वयम् । उत्पन्नं केवलज्ञानमज्ञासीदुक्तवत् तदा ॥ २९२ ॥ अपनिन्युहरेराज्ञाविधेर्वायुतमारकाः। योजनप्रमिते क्षेत्रे तृणकाष्ठादि विस्तृतम् ।। २९३ ॥ तत्र गन्धाम्बुभिः शुद्धस्वातिज्योतिर्भवामिव । रजापुञ्जप्रशमनी वृष्टिं चक्रुर्दिवौकसः ।। २९४ ।। स्वर्णरत्नशिलाजालस्तूद्रवन्धुर्महीतलम् । सुरास्तत्र भृतैश्चैत्यमध्यवद् मेध्यबुद्धयः ।। २९५ ।। जानुदनीं पञ्चवर्णामामोदाद् मत्तपट्पदाम् । विकूणिकां कूणयन्तीं दृष्टिं पौष्पी व्यधुः सुराः।।२९६।। कृत्वाऽन्तर्मणिमयस्तूपमभितस्तमधः सुराः । कपिशीर्षकं वप्रं व्यधुर्भुवनवासिनः ॥ २९७ ।। ज्योतिष्कास्तद् द्वितीयं तु सदनकपिशीर्षकम् । चक्रिरे काञ्चनैः सूर्यरश्मिभिरिव पिण्डितम् ।।२९८।। रत्नैः प्राकारमुत्तुङ्गं रोहणारेहतैरिव । सुरा वैमानिकाचक्रुर्माणिक्यकपिशीर्षकम् ।।२९९।। वणं व प्रति कृता प्रतोलीनां चतुष्टयी। चतुर्दिगन्तलोकानामाहातुमिव दूतिकाः ॥३०॥ उपरिष्टात् प्रतोलीनां तोरणानि चकाशिरे। विलोकितुं दिगन्तानि स्थितानीवोर्ध्वमम्बरे ॥३०१।। मुखन्यस्ताम्बुजाः पूर्णकलशास्तोरणस्थिताः । रेजिरे मोहसंतप्तान् भन्यान् सेक्तुमिवोद्यताः ॥३०२॥ प्रतोलीनां पुरो दिव्या वाप्यः सौवर्णपङ्कजाः । क्रीडार्थमिव कैवल्यलक्ष्मया इव सुदीर्घिकाः॥३०३|| प्रतिद्वारं धूपघव्यः स्फुरद्धपाः पदे पदे । विपदंशविनाशाय निर्मितास्त्रिदशेश्वरैः ॥३०४॥ देवच्छन्दं जगद्भर्तुर्विश्रामाय दिवौकसः। .

१५८ मल्लिनाथमहाकाव्ये- प्राकारे मध्यमे चक्रुः पूर्वोदीच्या यथास्थिति ॥३०५|| धनुःशतत्रयं प्रांशु चैत्यद्वं पत्रलं ततम् । तृतीयशालमध्यो विदधुर्व्यन्तरामराः ॥३०६।। (युग्मम् ) ततः सिंहासनं दिव्यं चारुणी चामरे अपि । त्रैलोक्यविभुताशंसि शुभ्रं छत्रत्रयं सुराः ॥३०७।। सर्वाश्चयरिव कृतं निर्मितं मङ्गलैरिव । संकीर्णमिव लक्ष्मीभिहमूतरिवानृतम् ॥ ३०८ ।। जगचित्रैरिव व्याप्तं निधानैरिव सेवितुम् । 'चक्रे समवसरणं शरणं पर्वणामिव ।।३०९।। एकत्र दिव्यरम्भोरुकरताडितदुन्दुभीः । एकत्र पञ्चसुग्रामप्रपञ्चस्थिरकिन्नरम् ॥ ३१० ।। एकत्र लेप्यललनाकरकुम्भगलज्जलम् । एकत्र रममाणस्वःकुमारकृतहुंकृति ॥ ३११ ॥ एकत्र स्वर्वधूलोकहल्लीसककृतोत्सवम् । एकत्र किन्नरीगानदत्तश्रवणकिन्नरम् ॥ ३१२ ।। (पञ्चभिद्वितीयश्लोकमध्यक्रियाकुलकम् ) मुहुः संचार्यमाणेषु लक्ष्मीलीलागृहेष्विव । वर्णमयेषु पोषु न्यस्य पादौ सुकोमलौ ।। ३१३ ।। पुरस्ताद् वन्दिभिरिव त्रिर्जयेति विभाषकैः । अमरैर्दर्यमानाऽध्वा देवीभिर्गीतमङ्गलः ॥ ३१४ ॥ पूर्वद्वारात् प्रविश्योचैश्चैत्यद्रोश्च प्रदक्षिणाम् । विदधेऽवश्यकार्याणि जिना अपि वितन्वते ॥ ३१५ ।। नमस्तीर्थायेति वचो धीरधीरमुदीरयन् । दिव्यसिंहासने तस्थौ कुम्भाङ्कः कुम्भभूर्जिनः।।३१६।। कन्दर्पजयनं नाथ ! त्वां दृष्ट्वाऽशोकपादपः । प्रनृत्यति चलैः पत्रैः सलीलमिव पाणिभिः ॥३१७|| पञ्चमः सर्गः। .१५९ दिव्यध्वनिरसास्वादलुब्धास्त्वत्पादपङ्कजम् । तदेकतानहदयाः सेवन्ते सततं मृगाः॥ ३१८ ॥ स्यूते इन करैरिन्दोः फेनैरिव करम्बिते । तव पार्षे जगन्नाथ ! रेजाते चामरे इमे ॥ ३१९ ॥ तव सिंहासन नाथ ! धत्ते सुरगिरिश्रियम् । अमकम्प्यं परैः कामं चारुकल्याणभाजनम् ॥३२०॥ भाति भामण्डलं पृष्ठे पिण्डीकृतमहः सुरैः। उदयद्वादशादित्यतेजास्तोमविडम्बकम् ।। ३२१ ।। श्रीमल्ले वनाधीशदिवि दुन्दुभिवादनम् । विधत्ते मोहनीयादिमलिम्लुचपराभवम् ॥ ३२२ ॥ प्रये स्युत्रिजगन्नाथ ! जम्बूद्वीपे यदीन्दवः । तेनोपमीयते छत्रत्रितयं मूनि भासुरम् ।। ३२३ ॥ स्तुत्वेति विरते शक्रे श्रीकुम्भः पृथिवीपतिः। विरचय्याञ्जलीवन्धं स्तुतवानिति भक्तिभाक् ॥३२४॥ धन्य ईक्ष्वाकुवंशोऽयं प्रसिद्धोऽजनि भारते । यस्मिन् भवादृशा जाताः सुवृत्ता मौक्तिकोपमा॥३२५|| येन स्मरेण तीर्थेश ! कुम्भदासीकृतं जगत् । स त्वयोन्मूलितो जीर्णपादप इव वात्यया ॥३२६॥ स्तुत्वेति सत्यमहन्तं श्रीकुम्भो मुदिताशयः । अतृप्त इव तीर्थेशवक्त्रराजीवमैक्षत ॥३२७॥ सांवत्सरिकदानान्तं विज्ञाय स्वपुरी तदा । विहाय षडपि प्राप्ता भूभुजस्ते शमादृताः ॥ ३२८॥ स्पृष्ट्वा भूमीतटं मूर्धा योजिताञ्जलयोऽखिलाः । एवमारेभिरे स्तोतुं गिरा धीरप्रशान्तया ॥ ३२९ ॥ पूर्वस्मिन् जन्मनि स्वामिन् ! तारकोऽसि यथा भृशम् । तदेदानी विवाहस्य क्षणं देशनयाऽनया ॥ ३३० ॥ भवप्रतिभयं नष्टं तव मूर्तिविलोकनात् ।

१६०
मल्लिनाथमहाकाव्ये-
खेलन्ति कौशिकास्तावद् याचन्नोदेत्य हर्पतिः।।३३।।
इति विनयविनम्रा भक्तिभाजो नरेन्द्रा-
स्त्रिभुवनगुरुमेनं मल्लिनाथं प्रणम्य ।
मरुदधिपतिपृष्ठे पृष्ठतामादयाना
जिनवचनवितानं श्रोतुपुत्का न्यपीदन् ||३३२।।
इत्याचार्यश्रीविनयचन्द्रविरचिते श्रीमल्लिस्वामिचरिते महाकाव्ये
विनयाङ्के दीक्षाकेवलज्ञानोत्पत्तिसकीर्तनो नाम पञ्चम सर्ग. ।
अहम्
अथ षष्ठः सर्गः।
यो-लद्देशविलोपनव्रतधरो-रौद्रं च धर्म भजन-
संप्राप्तः सकलत्र एव तपसे ताताऽनुमत्या-वने ।
राज्यप्राज्यसुखोत्सवस्य विमुखो रामावतारो जिनः
स श्रीमल्लिरपौरुषेयचरितः पायादपायाज्जगत् ॥१॥
अथारभत विश्वेशः क्लेशनाशाय देशनाम् ।
गिरा संदेहहारिण्या पश्चत्रिंशद्गुणस्पृशा ॥२॥
भो भो भव्याः ! भवाम्भोधौ भ्रमद्भिर्नित्यमङ्गिभिः ।
दुष्पापमेव मानुष्यं समिलायुगयोगवत् ॥ ३ ।।
कथञ्चित् तत्र लब्धेऽपि सम्यक् तत्त्वं सुदुर्लभम् ।
देवतत्त्व-गुरुतत्त्व-सम्यक्तत्त्वखरूपमृत् ॥ ४ ॥
एवंवरूपं सम्यक्त्वं ये रक्षन्ति दिशन्ति च ।
परेपां, दवदन्तीव लभन्ते परमं पदम् ॥ ५ ॥
उपाष्टापदमस्त्यत्र भारते सगरं पुरम् ।
मम्मणस्तत्र भूपोऽभूद् वीरमत्यस्य वल्लभा ॥६॥

'पष्ठः सर्गःग पापद्ध्यै सोऽन्यदाऽचालीत्सकलत्रः पुराद् वहिः । मुनि वीक्ष्य समायान्तमशकुनममन्यत ॥७॥ पृथक्कृत्य दुनं सार्थाद् नीत्वा राजकुले ततः। घटिका द्वादश द्वाभ्यां ताभ्यामृषिरखेदि सः ॥ ८॥ ताभ्यां कृपावशात् पृष्टः कुत आगाः क यास्यसि । तेनोक्तमष्टापदाद्री याता बिम्बानि वन्दितुम् ॥९॥ वियोजितो भवद्भधां च सार्थादस्मि शुभाशयौं । श्रुत्वेति लघुकर्मत्वात् तौ कोपं जहतुः क्षणात् ॥१०॥ ततो जीवदयामूलं धर्ममाख्यद् महामुनिः । धर्माभिमुख्यं तौ प्राप्तौ प्रत्यलाभयतां च तम् ॥११॥ ताभ्यामनुमतः सोऽष्टापदं प्राप ततो मुनिः । आई तो पुनर्धर्म पालयामासतुश्चिरम् ॥ १२ ।। निन्येऽन्यदा वीरमती धर्मस्थैर्यप्रवृद्धये । देच्या शासनवाहिन्याअष्टापदे पुण्यसंप्रदे ॥ १३ ॥ प्रतिमा पूजयन्ती सा परमानन्दमाप च । वन्दित्वा पुनरप्यागात् वपुरे देवतावशात् ॥ १४ ॥ सा विंशतिमाचाम्लानि चक्रे जिनं जिनं मति। चतुर्विंशतिसंख्यानि तिलकान्यप्यकारयत् ।। १५ ।। अन्यदाऽष्टापदे गत्वा स्नात्रपूजापुरस्सरम् । प्रतिमानां ललाटेषु तिलकानि व्यधत्त सा ॥ १६ ॥ दत्त्वा दानं च साधूनां तपस्तदुददीपयत् । कृतार्थाऽथ प्रनृत्यन्ती चेतसाऽगाद् निजं पुरम् ॥१७॥ पालयित्वाऽऽर्हतं धर्म समाधिमरणेन तौ । पूर्णकाले देवलोके दाम्पत्येन बभूवतुः ॥ १८ ॥ मच्युत्य मम्मुणो जम्बूद्वीपे भरतमण्डने । वहलीसंज्ञके देशे पुरे पोतननामनि ॥ १९ ॥ धम्मिलाभाऽभीरपत्नीरेणुकाकुक्षिसम्भवः । २१ मल्लिनाथमहाकाव्ये- - धन्यो नाम सुतो जज्ञे धन्यमन्यः पिता यतः ॥२०॥ (युग्मम् ) वीरमत्या अपि पाणी प्रच्युत्य विबुधालयात् । धन्यस्य गृहिणी जज्ञे धूसरी नामधेयतः ॥ २१ ॥ धन्योऽय चारयाश्चक्रे महिषीरनुवासरम् । वर्षाकालोऽन्यदा कालः प्रोषितानां समाययौ ॥२२॥ वर्षत्यपि घने हर्षाद् महिषीचारणोधतः । विभ्राणश्छत्रकं मूर्ध्नि धन्यो वन्यामथाऽभ्रमत् ॥२॥ कायोत्सर्गस्थितं साधुमेकमेकपदे स्थितम् । दृष्टिशैत्येन सर्वात कम्पमानं ददर्श सः ।। २४ ।। तं दृष्ट्वा सकृपश्छत्रं तस्य मूर्धन्यधारयत् । दृष्टिकष्टमजानानः सुखेन स मुनिः स्थितः ॥२५॥ वृष्टेने व्यरमद् मेघः कायोत्सर्गाद् मुनि च । छत्रधारणतो धन्यो, बद्धस्पर्धा इवात्र ते ॥ २६ ॥ मेघेऽथ विरते साधुः कायोत्सर्गमपारयत् । प्रणम्य चांहिसंवाहपूर्वकं तमुवाच सः ॥ २७ ॥ महर्षे ! कुत आयासीः किल कालेऽत्र पड्किले । पाण्डुदेशादिहायातो यास्यामि च गुरुं प्रति ॥२८॥ प्रोचे धन्यो मुनि नत्वाऽध्यारोह महिषं मम । मुनिराह न जीवेषु समारोहन्ति साधवः ॥ २९ ॥ धन्योऽथ महिषी दुग्ध्वा दुग्धकुम्भमुपानयत् । पारणं कारयाञ्चके वक्रेतरमना मुनिः ॥३०॥ वर्षाकालमतिक्रम्य पोतनात स मुनिर्ययौ। धन्योऽपि सह धूसर्या विशिष्टश्रावकोऽभवत् ॥३१॥ दीक्षां गृहीत्वा सप्ताब्दी पालयित्वा समाहिती। विपद्य युग्मधर्माणी जाती हैमवतेऽथ तौ ॥ ३२॥ ततो मृत्वाऽनातरौद्रध्यानसन्धानवन्धुरौ ।

N पष्ठः सर्गः। १६३ अभूतां दम्पतीत्वेन क्षीरडिण्डीरनामको ।। ३३ ।। देवश्च्युत्वान भरते देशे कोशलनामनि । कोशलायां महापुर्या निषधस्य महीभुजः ॥ ३४ ॥ सुन्दरायां महादेव्यां नलो नामाऽभवत् सुतः । सात्त्विको विपरीतस्तु तल्लघुः कूवराभिधः ॥ ३५ ॥ (युग्मम् ) इतो विदर्भदेशेषु नगरे कुण्डिनाभिधे । अभूद् भीमरथो राजा पुष्पदन्तीति तत्प्रिया॥३६॥ अन्यदा क्षीरडिण्डीरा देवी प्रच्युत्य नाकतः । सुतात्वेनाऽवततार तस्याः कुक्षौ शुभे क्षणे ॥ ३७॥ सुखप्रसुप्ता सा स्वमं प्रेक्ष्य राज्ञे व्यजिज्ञपत् । जाने हस्ती दवत्रस्तस्तवौकसि समाययौ ॥ ३८ ॥ व्याजहार ततो राजा देवि ! राजश्रियाऽधिकम् । सैन्येषु मुख्यो दन्तीव गर्भस्तव भविष्यति ।। ३९ ॥ एवं च कुर्वतोर्तीि तयोर्दन्ती समागमत् । व्याकर्तुमिव तत्स्वमविचारं चारु संचरन् ॥ ४० ॥ सकलत्रं नृपं स्कन्धे समारोप्य परिभ्रमन् । नागरैः पूजितः सौधे तावानीयोदतारयत् ॥४१॥ आलाने च स्वयं लीनः सिन्धुरो गोत्रवन्धुरः। सुमनोभिः सुमनोभी रनैश्च ववृधेऽधिकम् ।। ४२ ॥ विलिप्य द्विपमर्चित्वा चक्रे नीराजनां नृपः। स्थितः स तत्र गर्भस्य पुण्येनेव स्थिरीकृतः ॥ ४३ ॥ राजकान्ताऽजनयत् तनयां च सा। तद्भाले तिलको नित्योऽभवद् रविरिव द्यवि ।।४४॥ खयं तेजस्विनी तेन विशेषात्तिलकेन सा। दिद्युते विद्युतेंवोचैर्धारा वारिधरोद्भवा ॥४५॥ प्रभावाजन्मनस्तस्या भीमो भीमपराक्रमः । , पूर्णे काले मल्लिनाथमहाकाव्ये- अधृष्यो भूभुजां जज्ञे वाहवेनेव वारिधिः ॥ ४६ ।। तस्यां स्वमगतं प्रत्यक्षागतं च मतगजम् । वीक्ष्य भीमरथो नाम दवदन्तीति निर्ममौ ॥४७॥ पद्मसुन्दरनिःश्वासा पद्मास्या पद्मलोचना । जितपद्मा पाणिपादैमूर्ता पद्मेव सा बभौ ॥ ४८ ॥ तामष्टवर्षदेशीयां कलाज्ञापनहेतवे । कलाचार्यस्य धुर्यस्यार्पयामास शुभे दिने ॥ ४९ ॥ तस्याः प्रज्ञातिशायिन्याः साक्षिमात्रमभूद् गुरुः। स्याद्वादवादवादिन्याः प्रतिवादी न कश्चन ॥ ५० ॥ तां पारदृश्वरी वागीश्वरीमिव कलाम्बुधेः ।। 15 राजा निरीक्ष्य दीनारलक्षं तद्गुरवे ददौ ।। ५१.॥ तामुवाचाऽन्यदा साक्षाद्भूय निर्वृतिदेवता। भाविनः शान्तिनाथस्य पूज्येयं प्रतिमा त्वया ॥५२॥ देवी तिरोऽभूदित्युक्त्वा प्रतिमां दवदन्त्यथ । अजस्रं पूजयामाप्त निवेश्य सदने निजे ॥ ५३ ॥ . समं सखीभिः क्रीडन्ती सा लताभिरिवालिनी। अनगरतिविश्रामोपवनं प्राप यौवनम् ॥ ५४ ।। दन्तीव दवदन्ती तामन्यूनकुचकुम्भिनीम् । निरीक्ष्य पितरौ चित्तं चक्रतुस्तद्विवाहने ॥ ५५ ॥ येतां पितरौ चित्ते तद्योग्यवरचिन्तया । दवदन्ती बभूवोचैरष्टादशसमाश्या ॥ ५६ ॥ योषितां स्यादनूढानां प्रौढानां हि स्वयंवरः । विचिन्त्येत्याऽऽदिशद् राज्ञामाद्वानाय नरान् नृपः॥५७॥ भूपा भूपालपुत्राश्च तत्र लावण्यशालिनः । एकैकशोऽधिका लक्ष्म्या त्वरितास्तत्र चाययुः ॥५८॥ तत्र दूतसमाहूतो निषधोऽपि समाययो । पुत्रावपि समं तेनाऽऽजग्मतुर्नलकूबरौ ॥ ५९ ॥ + पछः सर्गः १६५ सर्वेषामपि भूपानां स्वागत कुण्डिनेश्वरः । । चकार युज्यते ह्येतदागतेभ्यागते जने ॥ ६०॥ अचीकरदथो भीमः स्वयंवरणमण्डपे । मञ्चास्तदन्तःसौवर्णसिंहासनमनोहरान् ॥ ६१ ।। - आययुस्तत्र राजानो दिव्यालङ्कारभासुराः । निपेदुरथ मञ्चेषु कुर्वाणाः स्फुटचोष्टित्तम् ॥ ६२ ।। कश्चित् करसरोजेन लीलासरसिज जितम् । लीलयोल्लालयामास निरस्यन्निव दूरतः ।। ६३ ।। . कश्चिञ्च मल्लिकामाल्यमाजघ्रौ भृङ्गवद् युवा । यशसो मल्लिकायाश्च परीक्षितुमिवान्तरम् ॥ ६४ ॥ कश्चिदुल्लालयाञ्चक्रे करात् कुसुमकन्दुकम् । दधानो गोलकाभ्यासं पुष्पायुध इवाधिकम् ॥ ६५ः।। पस्पर्श पाणिना कश्चिद् मासुरी स्वामनुक्षणम् । अहमेव पुमानेवमिव शंसितुमादरात् ।। ६६ ॥ अनर्तयच्छुरी कश्चिद् मुष्टिरङ्गे मुहुर्मुहुः । क्वणकङ्कणतालेन नाट्याचार्य इवोद्भटः ॥ ६७ ॥ दीपदीपप्रमेव द्रागाययौ वरमण्डपम् । द्योतयन्ती दवदन्ती पितुरादेशतस्तदा ॥ ६८ ॥ मौक्तिकमायसच्छायाऽलङ्कारसमलङ्कृताम् । जङ्गमामजडां स्वच्छां ताम्रपर्णीमिवाऽपराम् ।। ६९ ।। रवेरिवाग्रज-भाले तिलकं विभ्रती सतीम् । निर्मार्जितमिवाऽदर्श भूपालप्रतिबिम्बने ।। ७० ।। नीलोत्पलचलन्नेत्रां कज्जलोज्ज्वलकुन्तलाम् । दवदन्ती नृपाः प्रेक्ष्य विश्रामं चक्षुषोय॑धुः ॥७१॥ (त्रिभिर्विशेषकम्) पुरोभूय प्रतीहारी श्रीभीमरथशासनात् ।। नामग्राहं महीपालानारेभे शंसितुं ततः ।। ७२४॥

१६६ मल्लिनाथमहाकाव्ये- मुकुटेशाभिधो भूपः कुसुमायुधनन्दनः। उषेव पनी भवितुं चेदस्येच्छसि तद् वृणु ॥ ७३ ॥ जयकेशरिपुत्रोऽयं शशलक्ष्मा क्षमापतिः । किमस्य रोहिणीव त्वं पत्नीत्वं प्रतिपद्यसे १ ॥७४॥ चम्पाधिपो भोगवंशो धरणेन्द्रनृपात्मजः । सुवाहु,हुमस्य त्वं गृहाण यदि रोचते ॥ ७५ ।। दधिपर्णनरेन्द्रोऽयं सुंसुमारपुरेश्वरः । कृशानि! स्वदृशा पश्य यद्याकर्पति ते मनः ॥७६।। कोशलाधिपतिश्चैष निषधोरिनिषेधकः । वृषभखामिकुलधुर्वृषभो विदितोऽस्ति ते ॥ ७७ ।। तनयः सनयश्चास्य नलः प्रवलदोर्बलः । उन्नतोऽपि विनीतात्मा तवास्त्वभिमतः शुभे! ॥७८॥ दवदन्त्यपि तत्कालं मालां नलगलेऽक्षिपत् । अहो ! सुष्टु वृतं सुष्टु वृतमित्यभवद् ध्वनिः ॥७९॥ कृष्णराजः समाकृष्टखट्रोऽथ नलमाक्षिपत् । तं नलोऽपि तथाऽवादीदुचितं क्षत्रियेष्वदः ॥ ८०॥ द्वयोरपि ततोऽनीकं संवर्मितमभूत् तदा । दवदन्ती ततः सत्यश्रावणामीदशी व्यधात् ॥ ८१॥ अर्हन् देवो गुरुः साधुश्चेद् मे, तत्सैन्ययोर्द्वयोः । क्षेमोऽस्तु विजयी चास्तु नलः परवलं द्विषन् ॥८२॥ तद्वाक्यात् कृष्णराजस्य करात् खड़मथाऽपतत् । स ननाम नलं मूर्ना चिरेणाऽऽगतभृत्यवत् ॥८३॥ उवाच च विनीताङ्गो मन्तुमेकं क्षमख मे । तं संभाष्य नलोऽमुञ्चद् भीमोऽपि मुदितोऽजनि।।८४॥ अन्यान् संभाष्य भूमीशान् भीमो व्यसृजदजसा । पाणिग्रहोत्सवं चक्रे दवदन्त्या नलस्य च ॥८५ ॥ तद्विवाहोत्सवे वृत्ते हस्तमोचनपर्वणि ।

पष्ठः सर्गः।
१६७
ददौ नैषधये भीमभूमीशः सिन्धुरादिकम् ।। ८६ ॥
वधूवरौ नवोदौ तौ सकङ्कणकराम्बुजौ ।
गृहविम्बान्यवन्दतां भवद्धवलमङ्गलौ ।। ८७ ॥
भीमः सपुत्रं निषधं समान्याऽथ विसृष्टवान् ।
प्रयाणकानि कतिचित् समागत्य स्थितः स्वयम् ।।८८॥
यान्तीमनुनलं भैमी पुष्पदन्त्यन्वशादिति ।
ध्वजेव वंशं हे वत्से ! मा त्याक्षीर्व्यसने पतिम् ।।९९।।
मातृशिक्षा गृहीत्वेति दवदन्तीमुपागताम् ।
न्यवेशयद् रथकोडे नलः क्रोडेऽपि च प्रियाम् ॥१०॥
ततश्च कोशलाधीशो मार्गेऽखण्डप्रयाणकैः ।
नव्यैः काव्यैरिव कविः शास्त्रवाऽतिगच्छति ।।९१॥
प्रयाणं कुर्वतस्तस्य ततोऽस्तमगमद् रविः ।
ब्रह्माण्डं तमसाऽपूरि तद् दृष्ट्रोचे नलः प्रियाम् ॥१२॥
क्षणं देवि प्रबुध्य त्वं तिलकं प्रकटीकुरु ।
परिमाय ललाटं सा दीपवत् तमदीपयत् ॥ ९३ ॥
निर्विघ्नं तेजसा तेन चचाल सकलं वलम् ।
नलः पुरःस्थितं कायोत्सर्गिणं मुनिमक्षत ॥९४ ॥
उवाच निपधं नाथ ! दृश्यतां वन्यतां मुनिः ।
अयं च घृष्टो मत्तेनेभेन यत्कलितोलिभिः ॥९५॥
न चालितः परं ध्यानात् तेन मत्तेन दन्तिना ।
ततः सपुत्रो निषधः श्रद्धया तं न्यसेवत ॥ ९६ ॥
नलश्च दवदन्ती च निषधः कूबरोऽपि च ।
नन्वा नत्वा च निरुपद्रवं कृत्वा मुनि ययुः ॥ ९७ ॥
कोशलायां समाजग्मुर्महेन च महीयसा ।
दवदन्त्यालोक्यमानचैत्यायां हृष्टचेतसा ॥ ९८ ॥
कदाचिद् गीतनृत्ताभ्यां जलकेल्या कदाचन ।
कदापि दोलाखेलाभिः कदाचिद् द्यूतकर्मणा ॥१९॥

१६८
मल्लिनाथमहाकाव्ये-
नलश्च दवदन्ती च स्वेच्छयोद्यानवीथिषु ।
गत कालं न जानाति, स्वर्गिणामिव दम्पती ॥१०॥
(युग्मम् )
अन्यदा निषधो राज्ये स्थापयित्वा नलं सुतम् ।
यौवराज्ये कूबरं च स्वयं दीक्षामुपाददे ।। १०१ ।।
न्यायधर्ममयं राज्यं नलः प्रवलविक्रमः ।
पालयनन्यदाऽपृच्छदमात्यादीन् क्रमागतान् ॥१०२॥
पित्रादीनां भुवं शास्म्यधिकां वा ते ततोऽवदन् ।
व्यंशोनं भरतं भुक्तं त्वत्पित्रा, सकलं त्वया ।।१०३॥
किन्तु तक्षशिला नाम पूर्योजनशतद्वये ।
तत्र राजा कदम्बोऽस्ति त्वदाज्ञां स न मन्यते॥१०४॥
तच्छ्रुत्वा नलभूपालः कोपाटोपसमुद्भटः ।
दूतं व्यसृजदेतस्य स गत्वा तमवोचत ॥ १०५॥
मत्स्वामिनोऽनलस्फूर्तितेजसो नलभूपतेः ।
आत्मानं यमपूर्मध्ये आज्ञा मा नय मानय ॥१०६॥
कदम्बराजस्तच्छ्रुत्वा
भृकुटीभीषणाननः ।
तमर्धचन्द्रयाञ्चक्रे स्वकीयामिव जीवितम् ॥१०७ ।।
दूतोऽपि गत्वा तत्सर्वं नलायाऽकथयत्तराम् ।
तं चाऽभिषेणयाञ्चक्रे नलः सवलवाहनः ॥ १०८ ॥
सैन्येन वेष्टयामास नलस्तक्षशिला पुरीम् ।
कदम्बः सह सैन्येन संमुखस्तस्य चाभवत् ॥१०९॥
मिथः समरसंरम्भसमारम्भे तयोर्भृशम् ।
नलः कदम्बं निर्द्वन्द्वो द्वन्द्वयुद्धमयाचत ॥ ११० ॥
तौ द्वावपि ततो द्वन्द्वैर्युबैरुद्धतदोर्युगौ।
अयुध्येतां चिरं तत्र जगमौ पर्वताविव ॥ १११ ॥
सर्वेष्वपि हि युद्धेषु कदम्बमजयद् नलः।
अपसृत्य स जग्राह व्रतं वैराग्यवासितः॥ ११२ ॥

षष्ठः सर्गः। १६९ नलस्तबूचे धन्योऽसि प्राज्यं राज्यं यदत्यजः । स नोत्तरपदाचरी निरीहस्य नलो नलः ॥११३॥ जयशक्ति च तत्सूनुं नलो राज्ये न्यवेशयत् । नलस्य भरतार्धाभिषेकश्चक्रे च पार्थिवैः ॥११४॥ कोशलायायथायातो नगर्यो कोशलेश्वरः । महेन महता भैम्या सहाऽस्थात्पालयन् भुकम् ॥११५।। कूवरो राज्यलुब्धस्तु नलच्छलगवेपणम् । कुरुते प्रत्यहं दुष्टव्यन्तरः शुभपात्रवत् ।।११६।। नलश्च कूवरश्चापि द्यूतासक्तिजुषाबुभौ । जयं पराजयं चापि लेभाते पाशपातनात् ॥११७॥ अन्यदा न नलस्याऽनुकूलोऽक्षः कासितोऽपतर । कूवरोऽमारयत् शारांततस्तस्य गुहर्मुहुः ।।११८॥ कूवरेण पराजिग्ये पुरग्रामादिकं नलः । विषण्णो राजलोकोऽय कूवरो हर्पमाययौ ॥११९।। दबदन्त्यवदद् धृतव्यसनाऽनलसं नलम् । स्वामिस्ते बन्धनायतो पागको पाशकाविव ।।१२०॥ कृवराय वरं राज्यं स्वयं दत्तं त्वया शुभग्न् । आत्तं घृते पराजित्ल प्रबादाऽयं न सुन्दरः ॥१२२॥ पश्यति स शृगानि न तां नहात्रं च नो नलः । अवजाना तनः पत्या सुदनी न्दनी यया ॥१२२१ कुलायापि चूनाद् निपिछी नैपधिस्ततः । नचा नहि शुश्राव भयो भूताभिभूतवन् ।।१२३॥ पृथिवीं हारयामाय नान्नापुर परिच्छनास् । नलो मुमांचाज्य सर्व गात्रादाभरणादिकम् ।।१२४ ऋवगे नत्रनृत्रं च नल ! गज्यं परित्यन । गज्यं ममदनभवन पात्रशमितापिन् ।।१२५॥ नदरे दोप्यतां ज्यामिति जखनलोज्य नम् :

१७० मल्लिनाथमहाकाव्ये- - संव्यानमात्रद्रविणः प्रचचाल कलानिधिः ॥१२६॥ अनुयान्ती नलं भैमी कूवरस्त्ववराशयः । उवाच त्वं जिता द्यूते मेऽन्तःपुरमर्ककुरु ॥१२७॥ इतध- अमात्याः कूवरं प्रोचुर्मा कोपय सतीमिमाम् । ज्येष्ठो भ्राता पितेव स्यात् तदियं जननी तव॥१२८॥ वलादपि नलादेतां यद्याच्छिद्य ग्रहीष्यसि । त्वां कोपज्वलनेनेयं ततो भस्मीकरिष्यति ॥१२९।। अनुयान्ती नलं तस्मादियं प्रोत्साह्यतां त्वया । नलं विसृज तम्या सरथ्यरथसारथिम् ॥१३०॥ इत्युक्तः कूबरश्चक्रे तत्तथाऽमात्यभाषितम् । निषेधं नैषधिश्चक्रे कूवरस्य रथार्पणे ॥१३१।। प्रधानपुरुषाः प्रोचुर्नलं नाथ ! त्वया समम् । कथं नु वयमायामः सेव्यः पट्टो यतोऽस्ति नः ॥१३२॥ तेनाद्य जगतीनाथ! नागच्छामस्त्वया सह । तेऽधुना दवदन्ती च मित्रं मन्त्री प्रिया सखा ॥१३३॥ तदियं पादचारेण कथं यास्यति वर्त्मनि । गृहाण तद्रथं नाथाऽनुगृहाण जनानमून् ॥१३४॥ अभ्यर्थनां प्रधानानामङ्गीकृत्य स कृत्यवित् । दवदन्त्या सहाऽऽरुह्य रथं राजपथेऽचलत् ॥१३५॥ नार्यों भैमीमेकवस्त्रां वीक्ष्याभ्यङ्गोद्यतामिव । वषुर्दुःखतश्चेलनोपमश्रान्तमश्रुभिः ॥१३६॥ गच्छन् नगरमध्येन पञ्चहस्तशतीमितम् । नलः स्तम्भं समुन्मूल्य पुनरारोपयत्तदा ॥१३७॥ तद् दृष्ट्रा प्रोचिरे पौरा अहो ! सत्त्वमहो! बलम् । नलस्य वलिनोऽप्यस्य व्यसनं दैवतोऽभवत् ॥१३८॥ ज्ञानिना मुनिनैकेन पुराऽस्ति कथितं किल ।

पष्ठः सर्गः।
१७१
भाव्ययं भरतार्धेशः क्षीरदानवशाद् मुनौ ॥१३९।।
स्तम्भमुन्मूल्य चारोप्य भाव्यर्धभरताधिपः।
मिलितं तदिदं किन्तु राज्यभ्रंशोऽस्य दुःखकृत्॥१४०॥
अस्यां पुर्या पुना राजा भवेद्यदि पुनर्नलः ।
खवान्धवं प्रति क्रूरो नन्दिष्यति न कूवरः ॥१४१॥
इत्थं पौरवचः भृण्वन्नत्याक्षीत् कोशलां नलः ।
दवदन्त्या समं वाप्पैः कृतहारावतारया ॥१४२॥
दवदन्ती नलोऽवादीद् देवि ! यामः क सम्प्रति ।
भैमी वभापे मे तातोऽतिथीभूय पविश्यताम् ॥१४३॥
इयान्न प्रेरयामास सारथिः कुण्डिनं प्रति ।
कर्मावलीमिवाऽलड्डयां पर्याटदटवीं नलः ।।१४४॥
भल्लीहताच्छभल्लादीन् भिल्लास्तत्र ददर्श सः ।
दधाविरे नलं दृष्ट्वा ते शरासारवर्षिणः ॥ १४५ ॥
नलोऽप्याकृष्टखगः सन् दधावे नाहलान् प्रति ।
सत्त्वशुद्धौ तदाकृष्टघटसर्प इवाधिकम् ।। १४६ ।।
भैमी भुजे नलं धृत्वा वभाषे नाथ! कीदृशः १ ।
ईदृशेषु तवाक्षेपो गजस्य मशकष्विव ॥ १४७ ।।
भरतार्धजयोसिक्तो निस्त्रिंशस्त्रपते ह्ययम् ।
सुनियोगी कुनियोगे योजितः स्वामिना यथा ॥१४८॥
भैमी तानभि हुंकारान् मुमोच शरदारुणान् ।
तेषां प्रभावात् ते काकनाशं नेशुर्जनंगमाः ॥१४९।।
वभूवतू रथाद् दूरे तौ तु तानभिगामुको ।
तयोरथ रथो भिल्लैरपरैरपहारितः ॥१५॥
करे भीमसुतां कृत्वा पर्याटीवी नलः ।
तस्या विश्वासनायेव ददाना दक्षिणं करम् ॥१५॥
बैदर्भी दर्भसंदर्भगर्भक्रामपची ।
सानुरागमिवारण्यं चक्रे रुधिरविन्दुभिः ॥१५२॥

१७२ मल्लिनाथमहाकाव्ये- पट्टवन्धं तदा पादद्वन्द्वे तस्या नलो व्यधात् । मार्गस्तावानतिक्रम्यो यतस्तस्य प्रभावतः ॥१५३॥ तरुमूलसमासीनां भीमजां निरवापयत् । स्वकीयपरिधानस्य चालयन्नश्चलं नलः ॥१५४॥ त्रिपत्रपत्राण्यादाय पुटीकृत्य जलं नलः । समानीयाऽपाययत् तां प्रद्धं नेत्रवारिभिः ॥१५५।। विनयाद् भीमतनयाऽपृच्छदेतद् कियद्वनम् । नलोऽबादीदिदं देवि ! गव्यूतीनां चतुःशती ॥१५६॥ कोशानां विंशतिश्चैकाऽऽवाभ्यानुल्लविताऽच तु | एवं वार्तयतोः सूर्योऽस्तयापाऽनित्यतां वदन् ॥१५७।। अशोकपत्राण्युञ्चित्य दवदन्त्याः कृते नलः । अनल्पं कल्पयाञ्चक्रे तल्पयल्पेतराशयः ॥१५८॥ उवाच दयितां देवि ! तल्पे निद्रासखी भव । स्थास्यामि जागरूकोऽहं यामिन्यां यामिको यथा १५९॥ संव्यानार्थ नलस्तल्पे निक्षिप्य प्रेयसीं ततः । असूयुपत् , सा सुष्वाप स्मृत्वा पञ्चनमस्कृतिम् ।।१६०॥ निद्राजुषि दवदन्त्यां ध्यायति माथ नैंषधिः । व्यत्तने श्वशुर स्याथ धिर मां शरणयायिनम् ॥१६१॥ तबल्लभामपि त्यक्त्वा विधाय हृदयं दृढम् । आत्मालमेकमादाय गच्छाम्यूर्ध्वमुखो वरम् ॥१६२।। मन्ये न हि स्यादेतस्याः सुशीलाया उपद्रवः । सतीनामगरक्षाकृच्छीलमेकं यतो मतम् ॥ १६३ ॥ छुर्या चिच्छेद संव्यानं भैभ्याः प्रेम्णा समं नलः । खरतनालिखद्भीमसुतावनेऽक्षराणि च ॥१६४॥ अयमध्वा विदर्भेषु याति न्यग्रोधरोधसा । कोशलेषु तु तद्वामस्तद्गच्छेस्त्वं यथारुचि ॥१६५॥ लिखित्वेति नलः क्रोशनिभृतं निभृतक्रमः । .

पष्ठः सर्गः। १७३ पश्यन् विचलितग्रीवं ततो गन्तुं समुवतः ॥१६६।। तावद् ययौं नलो यावददृश्या दवदन्त्यभूत् । वलित्या पुनरप्यागात् पतितद्रविणो यथा ।। १६७ ।। दध्यापिति नलो दृष्टा भैमी भूतल शायिनीम् । अधिशेतेऽध्वनि श्रान्तं शुद्धान्तं नैपयेरहो ! ॥१६८॥ हहा ! सर्माविया दुष्कर्मणा मे कुकर्मणः । दनामेतादशी माता कुलीनेयं कलानिधिः ॥१६९।। घिग मामधर्मकर्माणं मर्मभापकवद् भृशम् । शुद्धशीला धर्मशीला यदेवं मापिता दशाम् ॥१७०॥ निर्नायका समीपस्थे मयि सत्यपि ही! नले। भूयौ नितम्बिनी शेते क्षेत्रस्थेव कुटुम्बिनी ॥१७१॥ एतामेकाकिनी मुक्त्वाऽन्यतो यास्याम्यहं यदि । मन्ये जीवितमेतस्या भविता मे पुरस्सरम् ॥१७२॥ रक्ता भक्ता परित्यक्तुं युक्ता नेयं ततो मम । दुःखं वापि सुखं वापि तत् सहिष्ये सहैतया ॥१७३।। अथवा स्वपितुर्मेहं बलाद् नेष्यति मामियम् । वरं पितृपतेर्गेहं न तु पत्नीपितुहम् ॥१७॥ तस्मादहं गमिष्यामि गृहीत्वा जठरं निजम् । मान्यां ममाज्ञां विभ्राणा यात्वसौ सुजनालये ॥१७५॥ निश्चित्येति नलश्चित्ते तामुल्लय विभावरीम् । प्रबोधकाले वैदास्त्वरितस्त्वरितं ययौ ॥१७६।। प्रभाते मारुते वाति कमलामोदमेदुरे । भीमपुत्री निशाशेषे खप्नमीहशमैक्षत ॥१७७।। यदहं सहकाराधिरूढाऽस्मि वनदन्तिना । भग्नः स तु समागत्य भ्रष्टा तस्मादहं ततः ॥१७८॥ प्रवुद्धा भीमतनया नाऽपश्यद् नलमग्रतः । समालुलोके ककुभः सा विक्रीता च शिष्टवत् ॥१७९॥ 4 १७४ मल्लिनाथमहाकाव्ये- अकारुण्यादरण्यान्तः कथं मां वल्लभोऽमुचत् । भविष्यति गतो मन्ये क्षालनाय मुखस्य वा ॥१८०॥ यद्वा पलाशपालाशैरानेतुं विमलं जलम् । मन्मुखक्षालनायाऽयसुद्यतो नैति यद् नलः ॥१८॥ तदेव हि सरोऽरण्यसरिगिरिगुहादिकम् । नलं विनाऽखिलं युक्तमनलं तनुते दृशोः ॥१८२॥ एवं चिन्ताचान्तचेतोवृत्तिर्दिगवलोकिनी । स्वप्राणेशमपश्यन्ती स्वप्नस्याऽर्थ व्यचारयत् ॥१८॥ सहकारो नलो राज्यं फलं परिजनो लयः । दवदन्ती परिभ्रष्टाऽस्म्यहं तद् दुर्लभो नलः ॥१८४॥ खप्नार्थनिश्चयादेवं दध्यौ भीमसुता हृदि । न भर्ता न च राज्यं मे दैवाद् भ्रष्टा द्वयोरपि ॥१८५॥ तारतारस्वरं तारलोचना विललाप सा । दुर्दशापतितानां ह्यबलानां रुदितं बलम् ॥१८६॥ प्राणनाथ ! किमु त्यक्ता भक्तचित्ताऽपि हि त्वया । कथं भारं तवाऽकार्ष यद्वा चरणबन्धनम् १ ॥१८७॥ तिरोहितोऽथ वल्लीभिः परिहासेन यद्यसि । तदेहि दर्शनं स्थातुं न चिरं रुचिरं यतः ॥१८८॥ याचते दवदन्त्येषा वनदेव्यः ! प्रसीदत । प्रियं प्रियस्य मार्ग वा मह्यं दर्शयताऽनघाः! ॥१८९॥ त्वं धरित्रि ! भव द्वैधं पवन ! त्वं गृहाण माम् । दूरं जीवित ! गच्छ त्वं प्राणास्त्यजत मां लघु।।१९०॥ इति भीमसुता वृक्षान् सिञ्चन्ती नयनोदकैः । स्वयं तेनेऽश्रुपुष्पाणि दुःखमेकं फलं परम् ।।१९१॥ न जले न स्थले नैव छायायामातपे न च । लवोऽपि हि सुखस्याऽभूञ्चिन्तयन्त्या नलं नलम्॥१९२।। खं संस्थाप्य स्वयं वस्त्रान्तेन वक्त्रममार्जयत् ।

पष्ठः सर्गः।
१७५
तत्राक्षराणि संवीक्ष्य मुदिताऽवाचयत् ततः ॥१९३।।
अचिन्तयच्च तच्चेतोगगनाङ्गणचन्द्रिका ।
ध्रुवमसम्यन्यथाऽऽदेशमसादोऽयं कथं मम ॥ १९४ ॥
ततः स्वभर्तुरादेशं दधाना हृदयेऽधिकम् ।
व्रजामि स्वपितुमि पत्युन तु पति विना ॥१९५॥
मया सह प्रियेणाऽपि गन्तव्यं वाञ्छितं पुरा ।
विशेषेणाद्य तदु यामि पत्यादेशात् पितुर्म्यहम्।।१९६।।
ध्यात्वेति गन्तुमारेभे दवदन्ती वटाध्वना ।
वीक्ष्यमाणाऽक्षराण्युचर्पत नलमिवाध्यतः ।।१९७॥
व्याघ्रा व्यात्तमुखाः सर्पाः सदर्पा नगजा गजाः ।
ज्वाला जालिकासिंहीवदस्या दूरतोऽभवन्॥१९८॥
अन्येऽप्युपद्रवास्तस्या यान्त्या वर्त्मनि नाऽभवन् ।
पतिव्रताव्रतं स्त्रीणां क्षेमस्थेमावहं यतः ।। १९९ ।।
सा लोलकुन्तला खेदजलाविलवपुर्लता ।
समुत्सुकपदं यान्ती हृद्यमान्ती महाशुचा ॥२०० ॥
दर्भविद्धपदप्रोद्यद्रक्तसिक्तमहीतला ।
सार्थमेकमुदैक्षिष्ट विष्टपर्धिनिकेतनम् ।। २०१ ।।
अचिन्तयच्च सार्थोऽयं मया लब्धस्तरण्डवत् ।
अरण्यार्णवनिस्तारस्तदनेन भविष्यति ॥ २०२ ॥
यावत्
तस्थावमौ स्वस्था दवदन्ती महासती ।
तावत् तं रुरुधुः सार्थ कचिदागत्य दस्यवः ॥२०३॥
आयान्तीमिति च दृष्टा ततश्चौरचम्ममूम् ।
चकारविभयां लोको यतः स्याद् भाजने भयम्॥२०४॥
मा मा यूयं भयं लोकाः ! कुरुध्वं सार्थवासिनः ।
तदीयगोत्रदेवीवाऽवादीदिति नलप्रिया ॥२०५॥
तस्करानवद् रे रे ! यात दूरं दुराशयाः ! ।
अन्यथाऽनर्थसार्थों वः सार्थो यद् रक्ष्यते मया॥२०६॥

मल्लिनाथमहाकाव्ये- बदन्ती दवदन्ती ते समाकोऽपि तस्कराः। मन्यन्ते स्म तृणायाऽपि नैते दैवपराहताः ॥२०७|| ततस्तदीयाहारतिरस्काराय भीमजा । क्षेम काराय सार्थस्य हुंकारान् सुमुचे दृढान् ॥२०८॥ श्रुत्वा तदीयहुंकाराननश्यन्नव दस्यवः।' कोदण्डदण्डटकारात् कान्दिशीका द्विका इव ॥२०९॥ सार्थेशोऽथायदद् नत्वा तां निजां जननीमिव । कासि भामिनि ! कस्माच्च परिभ्राम्यसि कानने१२१० सवाष्पलोचना चास्मै वान्धवायेव भीमजा । यथावस्थं स्ववृत्तान्तं सर्व कथितवत्यथ ।। २११॥ अवोचत् सार्थनाथस्त्वं स्वामिनी जननी च मे । स्वामिनी नलपत्नीति जननी जीवदानतः ॥ २१२ ॥ तनिष्कारणवन्धोस्ते किङ्करोऽसीति संलपन् । नीत्वा पटगृहे तस्या वरिवस्यापरोऽभवत् ।।२१३॥ स्फूर्जथुध्वनिवगर्जन्नूजितं तर्जितोष्मकः । वृष्टिं चकार विस्तारिधारं धाराधरस्ततः ॥ २१४ ॥ स्थाने स्थाने परीवाहाः प्रवहन्तो वसुस्तदा । पान्थसार्थस्य रोधाय खातिका इव निर्मिताः॥२१५।। तदा निरन्तरं वृष्टिरभवद् दिवसत्रयम् । दवदन्ती पुनस्तस्थौ सुखं सार्थेशमन्दिरे ॥२१६॥ विरते वारिदे दृष्टेर्दवदन्ती सती तदा । विहाय सार्थमेकाकिन्यपि यातवती ततः ॥२१७।। प्रयान्ती पथि भैमी च कजलश्यामलद्युतिम् । कर्तिकानर्तनव्यग्रकर पिङ्गलकुन्तलम् ।।२१८।। ज्वालाकरालवदनं भयङ्करभयङ्करम् । मूर्त यममिवाद्राक्षीद् राक्षसं क्षुद्रमानसम् ॥२१९॥ (युग्मम्) “पष्ठः सर्गः। १७७ उवाच भक्षयिष्यामि त्वामेवं राक्षसोऽत्रदत् । अभीता साउदद् धैर्याद मदीय वचनं शृणु ॥२२०॥ मृत्युभीरकृतार्थानां कृतार्थाया न मे भयम् । मा मां संस्पृश, शापेन संस्पृशन् न हि नन्दसि ॥२२१॥ धीरां वाचमिति श्रुत्वा तस्याः स रजनीचरः । उवाच तुभ्यं तुष्टोऽस्मि किं करोमि ददामि किम्? २२२।। सोचे तुष्टस्तदाऽऽख्याहि कदा मे पतिसगमः । रक्षोऽवादीद द्वादशाब्दे प्रवासदिवसाऽऽदितः॥२२३।। समायातः स्वयं वेश्म पितुस्तव नलः किल । मिलिष्यति ततः खेदं हृदये मा कृथा वृथा ॥२२४॥ (युग्मम्) त्वं चेद् भणसि त्वत्तातसदनेऽथ नयाम्यहम् । सोचे सहाऽन्यपुंसाऽहं न यामि स्वस्ति तेऽस्तु तत् २२५ आविष्कृत्य निजं रूपं यथागतमथागमत् । जग्राहाऽभिग्रहानित्यं भैमी द्वादशहायनीम् ।।२२६॥ विकृती रक्तवासांसि ताम्बूलं च विलेपनम् । भूषां च न ग्रहीष्यामि नलस्य मिलनावधेः ॥२२७॥ गिरिदाँ तदाऽत्येतु प्रादृषं भैम्यवास्थित । विम्वं श्रीशान्तिनाथस्य निर्ममे मृण्मयं खयम् ॥२२८॥ खयमानीय पुष्पाणि तत्पूजयति भीमजा । तपःप्रान्ते च कुरुते पारणं प्राशुकैः फलैः ॥२२९॥ भैमीमपश्यन् सार्थेशाऽप्यागादनुपदं तदा । अर्हद्विम्बं पूजयन्तीं तां दृष्ट्वा मुमुदे हृदि ॥२३०॥ तां नत्वा धरणीपृष्ठे निविष्टो भीमजाऽपि तम् । विधाय खागतप्रश्नं सार्थनाथमवार्तयत् ॥२३॥ तापसास्तत्र चाऽऽजग्मुः केपि चासन्नवासिनः । . २३ १७८ मल्लिनाथमहाकाव्ये- . तस्थुस्तथोन्मुखा अन्दशब्दं श्रुत्वेव केकिनः ॥२३२॥ अनवच्छिन्नमम्भोभिरम्भोऽम्भोदस्तथाऽमुचत् । । तापसाश्च मिथः प्रोचुः क वृष्टिर्वच्यतामसौ ॥२३३।। त्रस्तांस्तान् वीक्ष्य भैम्यूचे हंहो ! मा भैष्ट तापसाः ।। कुण्डं तत्परिधौ कृत्वेत्युवाच च सतीतमा ॥२३४।। । सती यद्यस्मि तत्कुण्डादन्यतोऽब्दः-प्रवर्षतु । तयेत्युक्ते तृणच्छन्न इव कुण्डेऽम्बु नाऽपतत् ॥२३५॥ वर्षत्यब्दे तथा शैलः सर्वतो निर्जरोऽभवत् । उपत्यका गिरीर पूरेणेव च निर्मिता ॥२३६॥ तेऽध्यायन् रूपशक्तिभ्यां भात्यसौ देवतेच नः । पप्रच्छ सार्थवाहस्तां को देवः पूज्यते त्वया ॥२३७॥ तस्मै भैम्याऽऽख्यदहन्तं सर्वज्ञं त्रिजगद्गुरुम् । पूजयन्त्यहमस्म्यत्र श्वापदेभ्यो बिभेमि न ॥२३६॥ खरूपमहतो धर्ममार्हतं च दयापरम् । सार्थवाहाय साऽऽचख्यौ स च तं प्रत्यपद्यत ॥२३९॥ निजधर्मविरागेण तं धर्म तापसा अपि । प्रत्यपधन्त, को रत्नलाभे काचं न हि त्यजेत् ? ॥२४॥ सार्थवाहः पुरं तत्र तापसानां प्रबोधतः । आख्यया तापसपुरमिति ख्यातं विनिर्ममौ ॥२४॥ कृतार्थीकर्तुमर्थं खं स सार्थेशः समर्थधी। अर्हतः शान्तिनाथस्य तत्र चैत्यमचीकरत् ॥२४२॥ सार्थतापसलोकोऽस्थात् तत्रार्हद्धर्मकर्मठः । निशीथे त्वन्यदा भैमी तेजोऽपश्यच्छिलोच्चये १२४३। आगच्छतो गच्छतश्चाद्राक्षीद् देवाऽसुरानपि । तत्तथाऽपश्यदुत्पश्यः पुरलोकोऽपि विस्मितः ॥२४४॥ सवणिक्तापसा भैमी समारूढाऽथ पर्वतम् । मुनि केवलिनं तत्राऽपश्यच्च सुरसेवितम् ॥२४५।।.' , , 'षष्ठः सर्गः । १७९ सं वन्दित्वा तदीयांऽहिमूले न्यषददादरात् । यशोभद्रगुरुस्तस्य तं नत्वा स्थितवान् पुरः ॥२४६॥ सिंहकेसर्यपि ज्ञानी कारुण्यक्षीरसागरः । चकार देशनां क्लेशनिर्नाशनमहौषधीम् ॥२४॥ दुष्पापं प्राप्य मानुष्यं कार्य सफलमादरात् । देवपूजादयादानधर्मकर्मविधानतः ॥२४८॥ धर्ममाख्याय स ज्ञानी प्रोचे कुलपति ततः । भैम्या यः कथितो धर्मः स विधेयः सदा हदि।।२४९।। अनया हि तदा रेखाकुण्डे वारिधरो धृतः । अस्याः सतीत्वात् सांनिध्यं कुर्वते देवता अपि।।२५०॥ साथैशस्याऽस्य सार्थश्च स्तेनेभ्यो रक्षितोऽनया। तदिय नान्यथा ब्रूते दवदन्ती महासत्ती-|२५१|| तदा चे कश्चिदागत्य ततः केचलिनं नतेः। भैमीमुवाच भद्रेऽस्मिन् वनेऽहं तापसोऽभवम् ॥२५२॥ कर्परो नामतः सोऽहं पञ्चाग्नितपसोत्कटः।- वचसाऽपि न सानन्दं तोपसाः किं नु मां व्यधुः १२५३ निर्गतोऽहमहंकारात् तत्संत्यज्य तपोवनम् । गच्छन् समुत्सुको रात्रौ पतितोऽस्म्यद्रिकन्दरे॥२५४॥ गिरिदन्तास्फालितस्य दन्ताः सर्वेऽपि मेऽपतन् । सप्तरात्रं स्थितो वार्तामपि चक्रुर्न तापसाः ॥२५५।। गते मय्यभवत् तेषां सुखं प्रत्युत मे ततः । तेषामुपरि कोपोऽभूद् गिरिदाहसहोदरः ॥२५६॥ ज्वलत्कोपेन मृत्वाऽहमिहारण्येऽभवं फंणी। त्वां दंष्टुं धांवितोऽपाठिं नमस्कारस्त्वयाऽनघे॥२५७॥ कर्णाऽऽगतेन तेनाऽहं जाङ्गुल्येबान्यतोऽगमम् । भेकादिजीवाहारेण जीवामि च बिले स्थितः ॥२५८॥ अन्यदेत्थं कथ्यमानं त्वयाऽऔषमहं शुभे।

१८० मल्लिनाथमहाकाव्ये- जीवहिंसाकराः पापा जायन्त दुःखभाजनम् ॥२५९॥ तदाकाऽइमध्यायं सर्वदा जीवघातकः । पापाऽऽमाहं द्विजिद्दोऽस्मि का गतिर्भविता मम॥२६॥ एवं च ध्यायतो मेऽभूत्लान्तिरुद्वीभ्य ताफ्सान् । जातिस्मरणतोऽस्मार्य भवं यःकृतकार्यवत् ॥२६॥ ततो वैराग्यकल्लोलपरिप्लावितमानसः । आहारस्य परीहारमात्मना कृतवानहम् ॥ २६२ ।। सोऽहं विपद्याऽऽद्यकल्ये देवोऽस्मि कुसुमप्रभः । नाम्ना विमाने कुसुमसमृद्धे त्वत्प्रसादतः ॥ २६३ ॥ अभविष्यद् न ते धर्मवचनं चेच्छ्वोऽतिथिः । कुत्राऽगमिष्यं पापात्मा तदाऽहं दुर्गतो गतौ ।।२६४॥ अवधिजानतो देवि ! ज्ञात्वा त्वामुपकारिणीम् । समागमं धर्मगीले ! धर्मपुत्रोऽस्म्यहं तव ॥ २६५ ॥ इत्युक्त्वा तापसानूचे स तापसवरः सुरः। मदीयकोपाऽऽचरणं क्षमध्वं परमाईताः ! ॥२६६ ॥ प्रोच्यति तदहेवर्म कृष्ट्रा गिरिगुहागृहात् । उल्लम्ब्योवाच कोपी स्यात् सोऽहं कर्परो यथा २६७॥ तदा परमवैराग्याद् नत्वा केवलिनं मुनिम् । तापसानामधिपतिर्ययाचे व्रतमादरात् ।। २६८ ॥ केवल्याख्यद् यशोभद्रमृरिर्दास्यति ते व्रतम् गुरुर्ममाप्यपृच्छच्च ज्ञानिनं कुलपः पुनः ॥ २६९ ॥ किं तारुण्यभरे दीक्षा गृहीता भावतः प्रभो ! ? | केवल्यूचे कौशलेशः कवरोऽस्ति नलानुजः ॥२७०॥ तस्याऽस्म्यहं सुतः, सङ्गानगरीशश्च केशरी। अदाद् मञ्च निजां पुत्री बन्धुमत्यभिधानिकाम् ॥२७१|| पित्राऽऽदेशादहं तत्र गनस्तां परिणीय च । अनन्यापच्छता रिदृष्टोऽयं मूर्तिमान् शमः ॥२७२|| षष्ठः सर्गः। १८१ देशनान्ते मया पृष्टः प्रमाणं निजकाऽऽयुषः । पञ्चैव दिवसा इत्याचख्यौ च गुरुरेष मे ॥२७३॥ श्रुत्वेति मां विषण्णाऽऽस्य प्रेक्ष्य प्राह गुरुः पुनः । नाऽभैहाण दीक्षां त्वं सैकाहमपि मुक्तिदा ॥२७४॥ प्रव्रज्याऽस्मादिहाऽऽयातः पर्वतेऽस्य निदेशतः । घातिकर्मक्षयादेव केवलज्ञानमासदम् ॥२७५।। एवं वदन्नयोगिस्थः केवली सिंहकेसरी । हत्वा चत्वारि कर्माणि जगाम परमं पदम् ।।२७६॥ चक्रे शरीरसंस्कारः सुरैस्तस्य शुभाशयः । यशोभद्रान्तिके दीक्षामग्रहीत् तापसाधिपः ॥२७७॥ दवदन्त्यप्युवाचैवं स्वामिन् ! दीक्षां प्रदेहि मे । अवदच्छ्रीयशोभद्रो भोयं कर्माऽस्ति भैमि ! ते॥२७८॥ उत्तीर्य पर्वतात् तत्र नगरे पुरवासिनाम् । सम्यक्त्वाऽऽरोपणं चक्रे गुरुः श्रीशान्तिमन्दिरे॥२७९॥ धर्मध्यानपरा वस्त्रगात्रमालिन्यधारिणी। गुहागृहान्तरे निन्ये सप्ताब्दी भीमनन्दिनी ॥२८॥ कश्चित् पान्थोऽन्यदा तस्यै कथयामास ते पतिः । मया दृष्टस्तदाऽऽकर्ण्य साऽभूद् रोमाञ्चदन्तुरा ॥२८॥ कर्णयोरमृतं कोऽयं निषिञ्चति वदन्त्यदः । भैमी तमन्वधाविष्ट स तु कापि तिरोदधे ॥२८२॥ पान्थस्य च गुहायाश्च सा भ्रष्टा कष्टपूरिता । खिन्ना खिन्ना महारण्ये निपपात नलप्रिया ॥२८३॥ वने निपतिता तस्थौ ययौ भूयो रुरोद च । किं करोमि क यामीति विमृश्य चलिता गुहाम् ॥२८४॥ दृष्ट्वा यान्ती च राक्षस्या मृगी सिंहिकयेव सा । प्रसारितवदनया ग्रसिष्य इति चौच्यत ॥२८५।। भैम्यूचे भव भग्नाशा त्वं राक्षसि ! ममास्ति चेत् ।

१८२ मल्लिनाथमहाकाव्ये- अर्हन् देवो गुरुः साधुजैनो धर्मो नलः पतिः ॥२८६।। तच्छुत्वाऽस्य महासत्या वचनं तां प्रणम्य च । क्षणादन्तर्दधे स्वमसमायातेव राक्षसी ॥२८७॥ यान्त्यग्रे निर्जलामेकां नदीमैक्षत भीमजा । तृपासंशुष्यत्ताल्वाष्ठी गननिष्ठीवनाऽवदत् ॥२८८॥ मम चेद् मानसं सम्यक् सम्यग्दर्शनवासितम् । तदत्र लोलकल्लोलविमलं जलमस्त्विति ॥२८९।। इत्युक्त्वा पाणिना हत्वा भूतलं तत्क्षणाजलम् । आचकर्प पपौ तच्च पीयूपपरिपेशलम् ।।२९०॥ ततो यान्ती परिश्रान्ता न्यग्रोधाऽयो न्यविक्षत । पान्थाः सार्थाऽऽगता दृष्ट्वा तामूचुः काऽसि सुन्दरि १।२९१॥ सोचे सार्थात् परिभ्रा निवसामि वने ननु । यास्यामि तापसपुरं तद्वर्त्म मम कथ्यताम् ॥२९॥ ते प्रोचुः शक्नुमो नैव मार्ग दर्शयितुं वयम् । आयान्ती सह गृहीमस्त्वां कापि हि पुरे पुनः ॥२९३॥ तां तैः सह गतां सार्थे सार्थेगः करुणाम्बुधिः। धनदेवाधिपोऽपृच्छत् कासि किं वनवासिनी? ॥२९४॥ भैम्याऽऽख्यद् वणिजः पुत्री पत्या सह पितुहे । चलिता गयिता रात्रौ त्यक्ता तेनाऽस्मि देवतः॥२९५॥ स्वबन्धुभिरिवैभिश्च त्वदीयपुरुषैः समम् । समायातास्मि तत्कापि स्थाने वसति मां नय ॥२९६॥ सार्थनाथोऽवदहं गन्ताऽचलपुरे वरे । वत्से ! सह मया गच्छ जनकेनेव निर्भया ॥२९७॥ इत्युक्त्वा तां सार्थनाथो यानस्थामनयत्यधि । एकस्मिन्नद्रिकुञ्जे च संनिवेशं न्यवीविशत् ।।२९८॥ भैमी तत्र स्थिता सुप्ता निशि शुश्राव केनचिन् । पछ्यमानं नमस्कारं सार्थवाहमुवाच तु ॥२९९।।

पछुः सर्गः। १८३ . नमस्कारं पठन् कश्चिच्चाद्धः साधर्मिको मम । पार्थस्य सोढरस्येव गच्छामि भवदाज्ञया ॥३०॥ सार्थेगेन स्वपित्रेव सह भैमी तदाश्रयम् । ययौ श्राद्धमपश्यञ्च कुर्वाणं चैत्यवन्दनम् ।।३०११॥ आचैत्यवन्दनं तत्र तस्थुपी नलवल्लभा । ददर्श च ववन्दे च विनीलं विम्बईतः ॥३०२।। अपृच्छद् भीमजा भ्रातर्विम् कस्यैतदर्हतः। स आख्यद् यामे ! श्रीमस्तीर्थपस्य भविष्यतः॥३०॥ एतदिम्यं पूजयामि यतस्तत्कारणं शृणु । काञ्चीपुर्या वणिगस्मि ज्ञानी तत्रैकदाऽऽगमत् ।।३०४॥ धर्मगुप्ताभिधस्तत्रोद्याने स समवासरत् । नत्वाऽमन्छि मया कस्मिस्तीर्थे मे निर्टतिर्वियो॥३०५।। सोचे च त्वं दिवश्युत्वा मिथिलानगरीश्वरः । प्रसन्नचन्द्रो भूत्वा श्रीमल्लितीर्थे हि सेत्स्यसि ॥३०६॥ ततः प्रभृत्यहं मल्लिनाथे भक्तिभरोद्धरः । पटस्थं पूजयाम्येतद्विम्बं धार्मिकसत्तमे ! ॥३०७॥ , इत्याऽऽख्यायाऽवदद् भैमी स्वसः कात्वं कुतोऽसि वा। तस्मै श्राद्धाय वृत्तान्तमस्याः सार्थाधिपोऽवदत् ।।३०८॥ श्रावकोऽपि हि तदुःखदुःख्यूचे मा कृथाः शुचम् । सार्थेशस्ते पिता भ्राता चाहं तिष्ठ सुखेन तत् ॥३०९॥ सार्थनाथोऽपि हि तत्मातः प्राप्तोऽचलपुरे पुरे । मुक्त्वा भीमसुतां तत्र जगाम स्वयमन्यतः ॥३१०॥ तपातुरा पुरद्वारवापीमध्यं विवेश च । लक्ष्यमाणाऽम्बुहत्रीभिः सा साक्षादिव देवता ॥३१॥ वाम तस्याः क्रमं गोधा जग्राह जलमध्यगम् । बिनमस्कारपठनप्रभावेण मुमोच च ॥ ३१२ ।। प्रक्षाल्याऽऽस्यक्रमकरं वारि हारि निपीय च ।

१८४ मल्लिनाथमहाकाव्ये- - . , . निर्गत्य वाप्यास्तत्मान्तवलभ्यां सा न्यविक्षत॥३१३॥ तत्र राड् ऋतुपर्णोऽस्ति तस्य चन्द्रयशाः प्रिया । तत्कुम्भदास्य आनेतुं वारि वाप्यां समागमन् ॥३१४॥ मिथो हसन्त्यो विभ्रत्यः स्वमूर्धमुकुटान् कुटान् । तास्तां निरूपयामासू रूपतो देवतामिव ॥३१५॥ असंरूपं च रूपं च वीक्षमाणाः शनैः शनैः विविशुश्च निरीयुश्च निर्निमेषविलोचनाः ॥३१६॥ 'चेट्योऽथ कथयाञ्चक्रुर्गत्वा परमया मुदा । तां देव्यै चन्द्रयशसे प्राप्तां कल्पलतामिव ॥३१७।। ऊचे चन्द्रयशाश्चेटीः समानयत तामिह । चन्द्रवत्याः सुताया मे भविता भगिनीव सा॥३१८॥ वापीसमीपे यातास्ता नगराभिमुखी ततः । वीक्षामासुर्भीमसुतां मूर्तामब्धिसुतामिव ।।३१९॥ ऊचुश्च, ऋतुपर्णस्य देवी चन्द्रयशोऽभिधा । त्वामाइयति पुत्रीत्वस्नेहमादधती हृदि ॥३२०॥ तद् देहि दुःखं दुःखेभ्यः स्वामिनीस विधे चल । छलं ते शून्यचित्ताया भूतादिभ्योऽन्यथा भवेत् ।।३२१॥ इति तद्वचसाञ्चालीदालीढा स्नेहतन्तुभिः । ताभिविनीतवाक्याभिर्भूपावासमनीयत ॥३२२।। न चन्द्रयशसं मातृष्वसारं वेत्ति भीमजा। बाल्यदृष्टां भागिनेयीं देवी चन्द्रयशा अपि ॥३२३॥ दूरतोऽपि परं धर्मपुत्रीमेम्णा ददर्श ताम् । इष्टेऽनिष्टे च यद् रागविरागौ तनुते मनः ॥३२४॥ गाढं चन्द्रयशोदेव्या सखजे नलवल्लभा । वैदर्भी तु ववन्दे तत्पादौ विनयवामना ॥३२५॥ पृष्टा देव्या च काऽसि त्वं कथयामास भीमजा। यत्पुरा सार्थनाथाय तदेव हि सवाष्पदृक् ॥३२६॥ - - पष्टः सर्गः। १८५ - देवी भैमीमवाचाऽध भद्रे! मम निकेतने । पुत्री चन्द्रवनीव हं सुखं तिष्ठ शुभाये ! ॥३२७॥ देवी चन्द्रवतीमचेऽन्यदा भैमीव भात्यसौ । कथमीहगवस्था स्यात् तस्याः सा हि नलप्रिया?॥३२८॥ योजनानां गते सार्ध तस्या आगमनं कुतः । ततो मदीयजामेयी नेयं, सादृश्यमस्ति तु ।। ३२९ ।। सा च राज्ञी चन्द्रयशा ददी दानं निरन्तरम् । दीनदुःस्थितपात्रेभ्यो नगरस्य बहिर्भुवि ।। ३३० ।। राजी व्यापि वैदाऽन्यदा दानं ददाम्यहम् । अत्र सत्रे कुतोऽप्यति पतिर्यदि पुनर्मम ॥ ३३१ ।। तदाऽऽद्यपि तदादेशाद् दवदन्ती यथास्थिति | ददा दानं खेदसहा नलाऽऽगमनवाञ्छ्या ।। ३३२ ।। सा प्रत्येकमपृच्छच्चाऽनुदिनं दानवाञ्छिनम् । ईगीदृक् पुमान् कोऽपि भवद्भिः काऽप्यदृश्यत ॥३३३॥ सत्रस्था सान्यदा चौरमपश्यत् तलरक्षकैः । वद्धं पुरो नीयमानं रसद्विरसडिण्डिमम् ॥३३४॥ तलाध्यक्षानपृच्छञ्च भीमजाऽनेन कीदृशः । अपराधोऽत्र विदधे वध एवविधोऽस्य यत् ? ॥३३५।। चन्द्रवत्या जहारप पापो रत्नसमुद्कम् तेनासौ कर्मणा वध्यभूमिकां देवि ! नीयते ॥३३६।। चौरो भैमी प्रणम्योचे त्राणं स्वामिनि ! मे भव । भैम्यप्यभयदानेनाऽभ्यनन्दत तं मलिम्लुचम् ।।३३७।। सतीत्वश्रावणापूर्व निर्जलाच्छोटनेन सा । तद्धन्धास्त्रोटयाश्चक्रे तुमुलश्वोत्थितो महान् ॥३३८॥ तच्छ्रुत्वा ऋतुपर्णोऽथ जगाम सपरिच्छदः । विस्मितः सस्मितं भैमीमत्रदद् वदतां वरः ॥३३९।। १ शुभाशयरित्यपि ।

१८६ मल्लिनाथमहाकाव्ये- सर्वत्र क्षत्रधर्मोऽयं नीतिमार्गप्रवर्तकः । कार्ये यद् भूभुजा दुष्टशिष्टनिग्रहपालने ॥३४०॥ करं हि गृह्णता राज्ञा रक्ष्यः सर्वोऽप्युपद्रवः । अन्यथा तेन पापेन लिप्यते भूपतिः स्वयम् ॥३४१॥ पुत्रि ! चेदस्य चौरस्य निग्रहं न करोम्यहम् । तन्निर्भयो जनः सर्वः सर्वस्वं हरति द्रुतम् ॥३४२॥ भैम्यूचे तात ! मदृष्टौ चटितः सन् शरीरभृत् । मार्येत परमाईत्यास्तन्मे कीहक् कृपालुता ॥३४३॥ तदयं क्षम्यतां मन्तुर्यन्मां शरणमाश्रितः । धर्मपुत्र्या वचनेन तं स्तेनममुचद् नृपः ॥३४४॥ मुक्तमात्रः स तां मेने जननी नतमस्तकः। प्राणदानोपकारं तं स्मरनित्यं नमोऽकरोत् ॥३४५॥ भैमी तमन्यदाऽपृच्छत् कोऽसि त्वं कुत आगतः । स ऊचे तापसपुरे वसन्तस्याऽस्मि कर्मकृत् ॥३४६॥ पिगलो नामतः सोऽहं व्यसनस्यैकमन्दिरम् । जग्राह खात्रखननात्तस्य सर्वस्वमन्यदा ॥३४७॥ मार्गे गच्छन् सलोख्रश्च लुण्टाकै ण्टितोऽस्म्यहम् । स्वगुरुस्वामिमित्रस्त्रीद्रोहिणं कुशलं कियत् ? ॥३४८॥ अत्राऽऽगत्यर्तुपर्णं च सेवमानः कुधीरहम् । अपश्यमन्यदा रत्नसमुद्गमहरं ततः ॥३४९।। स्वमाच्छाद्योत्तरीयेण निर्गच्छन् भूभुजा स्वयम् । विज्ञातोऽस्मि न हि प्रज्ञावतामज्ञातमस्ति किम् ॥३५०॥ नृपादेशात्तलाध्यक्षैर्वद्धोऽथ वधहेतवे । नीयमानस्त्वामपश्यं मोचितोऽस्मि त्वयाऽनघे॥३५१॥ किञ्च तापसनगराद्गतायामीश्वरि ! त्वयि । ज्वरात इव तत्याज भोजनं सार्थनायकः ॥३५२॥ १ मास्थित इति च ।

षष्ठः सर्गः । १८७ *संबोधितो यशोभद्रमुरिणा स कथंचन । सप्तरात्रोपवासान्ते बुभुजे सपरिच्छदः ॥ ३५३ ।। वसन्तश्चान्यदा देवि ! गतः कूवरभूपतिम् । ढोकनस्य ढोकनेन तुष्टोऽस्मै नरनिर्जरः ।। ३५४ ॥ दत्वा छत्रादिकं चके तं तापसपुरेश्वरम् । वसन्तः श्रीशेखर इत्यभिधां चापि भूपतिः ॥३५५।। विसृष्टो भूभुजा भम्भापिकीस्वरविकस्वरः । वसन्तपुरमायासीजनचित्तद्रुतोषकृत् ॥ ३५६ ।। भवदीयप्रसादेन दवदन्ति ! महासति ।। राज्यं प्रकुरुते प्राज्यं स तापसपुरेश्वरः ।। ३५७ ॥ भैम्युचे निजदुष्कर्ममर्मभेदनकर्मठम् । व्रतं गृहाण सोऽप्यूचे करिष्ये तव भाषितम् ॥३५८॥ तत्रायातं साधुयुग्मं प्रतिलम्भ्य च भीमजा । अवादीद्यधयं योग्यस्तदस्मै दीयतां व्रतम् ।। ३५९।। तेन योग्य इति प्रोक्ते ययाचे पिङ्गलो व्रतम् । सधो देवगृहे नीत्वा प्रव्रज्यां ग्राहितश्च सः॥३६०॥ अन्यदा कुण्डिनेशेनाऽश्रावि यनलभूपतिम् । राज्यं छूते हारयित्वा कूबरो निरवासयत् ॥ ३६१ ॥ स विवेश महारण्ये दवदन्त्या सहैव हि । मृतो जीवति वा नैवं ज्ञायते काऽप्यसौ गतः॥३६२।। पुष्पदन्त्यपि राज्ञी तं श्रुत्वा भीमरथाद् नृपात् । अरोदीद्रोदयन्ती सा रोदसी प्रगुरुवरम् ॥ ३६३ ।। ततो भीमरथो राजा हरिमित्राभिधं वटुम् । निदिदेश प्रतिदिशं तयोः शुद्धिनिवन्धनम् ।। ३६४ ।। सर्वत्र शोधयंस्तौ तु सोऽथाऽचलपुरे ययौ । अपश्यद् भूपतिं चन्द्रयशसाअच्छि चाऽऽदरात् ॥३६५॥ कचित् सपरिवारायाः कुशलं मायकवसुः । + १

१८८
मल्लिनाथमहाकाव्ये-
सांवाचत्तुगलं देव्या नलभैम्योस्तु चिन्यताम्।।३६वा
किं बीपनि भणिनी देव्या बाक्यपटुः ।
नप्रभृतिका वर्णव्ययिकां न्यगवन् कथाम् ॥३६॥
ततश्चन्द्रयना देवी दती नत्र संसहि ।
नत्रयोः कजलमित्र प्रमाई निरवामयन् ।। ३६८ ।।
तत्सर्व दुःखितं प्रेभ्य वुमुनानामक्षिकः ।
वटुः स्त्रं ययौ यत्सा भाज्यं हि प्रयमं फलम् ॥३६९॥
निविष्टस्तत्र भोज्याय भोज्यनालाधिकारिम् ।
निजतामिमुतां वीक्ष्य तामुपालायच सः ॥३७०।।
वन्दे वरणी देव्याः स्फुरद्रोमाञ्चकञ्चुकः।
विकासिनयनाम्भोजी विस्मृत दुवाच च ॥३७||
केयं दब दना देवि : वानतिरिख ?।
यत् त्रयसि सत्र कर्म कर्मकरोचितम् ॥३७शा
दिष्टया दृष्टिपयं याता जीवनीसभियाय सः ।
उत्यायावर्षयचन्द्रयगावीपर्वातधीः ॥ ३७३ ॥
अस्ति खस्तिमती दानमालायां देवि ! भीमजा ।
सत्रकुण्ठसमुत्कण्ठाऽऽयाता चन्द्रयमास्ततः ॥३७४||
देवी चन्द्रयगा भीमनन्दिनीं नेत्रनन्दिनीम् ।
आशिष विरायातनलिनीमलिनी यथा ॥३७५।।
उचेच वन्से ! मुव्यक्तलमणलक्षिताऽपि हि ।
नैवोपलक्षिताऽसि पिग्माजानश्चिताम्।।३७६।
वयापि हि कयवारं वञ्चितास्मि गतस्मये!।
दुर्दगायामागतायां का लज्जा मामन्दिर? ॥३७७||
वत्से ! नलस्वा मुक्तस्त्वं मुक्ताऽसि नलेन वा ? !
तेन त्यत्ता मि. तंतुवं महामति न मुञ्चसि||३७८॥
त्वं च सजाति दुर्दैवावस्यापति पतिम् ।
वतः नुवान्त्रविम्वानानुकणवर्षणम् ॥ ३७९ ॥

षष्ठः सर्गः। १८९ किमेष नैषधेर्धर्मस्तत्कुले वा कुलीनता ? । महासती प्रिया मार्गे त्यज्यतेऽलज्जचेतसा ॥३८०॥ तव दुःखानि गृह्णामि कुर्यां भ्रामणकं तव । मम मन्तुं क्षमस्वैनं यन्मया नोपलक्षिता ॥ ३८१ ॥ तमोविधुन्तुदच्छेदः कृष्णपक्षनिशाखपि । क वा विशेषको वाले! तव भाले सहोद्भवः||३८२॥ इत्युक्त्वा स्वमुखाम्भोजनिष्ठीवनजलेन सा । भैम्या ललाटं माटि स्म जघौ मूर्ध्नि पुनः पुनः॥३८३॥ शशीवाम्भोदनिर्मुक्तः प्रदीप इव बोधितः । विशेषको विशेषेण तत्क्षणं दिद्युते द्युता ॥ ३८४ ॥ ततश्चन्द्रयशा देवी स्वपाणिभ्यां नलप्रियाम् । गन्धोदकैरनपयत् तां साक्षादिव देवताम् ॥३८५॥ वसने श्वेतममृणे चन्द्रिकानिर्मिते इव । देव्या समर्पिते भैमी ततः परिदधे मुदा ॥ ३८६ ॥ देवी करे गृहीत्वा तां निषसाद सदस्यथ । ऋतुपर्णान्तिकेयासीत् तदा चास्तं गतो रविः॥३८७॥ तदा च तमसाऽपूरि निःशेषमपि पुष्करम् । वर्षासु वारिपूरेण वामलूर इवाधिकम् ॥३८८॥ सभायां भूपतेनैव प्रविवेश तमीतमः । वारितं भीमजापुण्डूतेजोभिर्वेत्रिभिर्यथा ॥ ३८९ ॥ उवाच राजा यातेऽस्तं पद्मिनीप्राणवल्लभे । दीपिकाया अभावेऽपि देवि! कौतस्कुती युतिः॥३९०॥ राज्ञी जन्मोद्भवं भैम्यास्तिलकं तददर्शयत् । कौतुकात् तत् प्यधाद्राजा संदश्च तिमिरं तदा ॥३९१॥ दूरेकृत्य ततः पाणिमृतुपर्णनरेश्वरः । पप्रच्छ पितृवद्राज्यभ्रंशप्रभृतिका कथाम् ॥३९२॥ १ दिवाकर एतदपि। २ सदसि ध्वान्तमप्यभूत् , इदमपि ।

१९० मल्लिनाथमहाकाव्ये- दवदन्त्यपि हि छूतादारभ्याऽकथयत्कथाम् । निजनेत्रपयःपूरै स्तन्वन्ती पड्किलामिलाम् ॥३९३॥ राजा निजोत्तरीयेण तस्याः संमार्ण्य लोचने । उवाच वत्से !मा रोदीः कश्चिदैवादलीन हि ॥३९४।। अत्रान्तरे सुरः कश्चित् स्वर्गादागत्य संसदि । तत्रोचे भीमतनयां विनयाद् रचिताञ्जलिः ॥ ३९५ ॥ स्वामिन्यहं तबादेशात्तस्करः पिङ्गलाहयः । प्रव्रज्य विहरन् यातः श्रीतापसपुरेऽन्यदा ॥३९६॥ श्मशानमध्ये माध्यस्थ्येनाऽस्थां प्रतिमया ततः । चितानलोऽनिलोद्भूतो मद्देहमदहत् तदा ॥ ३९७ ।। तथापि धर्मध्यानस्थो विधायाऽऽराधनामहम् । पिङ्गलो नामधेयेनाऽजनि स्वर्गे सुरोत्तमः ॥ ३९८ ॥ त्वां नन्तुमागतो ज्ञात्वाऽवधिज्ञानाद् महासति ।। त्वयाऽस्मि रक्षितः साक्षात् शिक्षितो दीक्षितोऽस्म्यहम् ॥ तव पादप्रसादेनाऽऽसदं स्वर्गसदां पदम् । इत्युक्त्वा स्वर्णकोटीः स सप्त वृष्ट्वा तिरोदधे ॥४००॥ तच्छ्रुत्वा चाद्भुतं भूपः सप्रत्ययमनत्ययम् । अधर्ममर्मव्यथकं प्रपेदे धर्ममाईतम् ॥ ४०१ ।। हरिमित्रोऽन्यदा चन्द्रयशसा सहितं नृपम् । अनुज्ञाप्याऽनयद् भीमतनयां कुण्डिनं प्रति ॥४०२॥ आगच्छन्ती सुतां श्रुत्वाऽभ्यागमद् भीमभूपतिः । वाजिना वायुवाजेन स्नेहेन च पुरस्कृतः ।। ४०३ ।। आयान्तं पितरं वीक्ष्य भैमी चरणचारिणी । तत्पदाम्भोजयोः स्मेरमुखाम्भोजाऽपतत्ततः॥४०४॥ तयोमिलितयोर्नवनीरैः प्रसूमरैस्तदा । भूरिपकाऽभवद् भूमिः पयोदसमये यथा ॥ ४०५ ॥ पुष्पदन्ती तदायातां दवदन्तीं निजाङ्गजाम् ।

पष्टः सर्गः। १९१ आश्लिष्यति स्म सुदृढं राजहंसीव पद्मिनीम् ॥४०६॥ मुक्तकण्ठ च तत्कण्ठे लगित्वाऽरुददुच्चकैः । नलप्रिया, भवेद् दुःखमिष्टे दृष्टे नवं यतः ॥ ४०७ ॥ प्रक्षाल्य नयनान्युच्चैर्वारिणा विनिवारणम् । चक्रुः परस्परं दुःखसमुद्रिणपूर्वकम् ।। ४०८ ।। पुष्पदन्ती सुताममधिरोप्य जगाद च । दिष्ट्या दृष्टाऽद्य जीवन्ती भाग्यं नोऽद्यापि वर्तते।।४०९॥ समयं गमयन्त्यास्ते सुखेन न चिरादपि । मिलिष्यति नलः सर्व जीवो जीवल्लभेत हि॥४१०॥ हरिमित्राय भूपालो ग्रामपञ्चशतीं ददौ । पुरे तत्रोत्सवं चक्रे देवगुवर्चया समम् ॥ ४११ ॥ विदर्भाधिपतिः पोचे वैदर्भामध सादरम् । नलो मिलिष्यति यथा तथा वत्से ! विधास्यते॥४१२॥ तदा च भीमजां मुक्त्वा परिभ्राम्यन् वने नलः । कक्षात् समुत्थितं धूममपश्यद् गगनातिगम् ॥४१३।। धूमो निमेषमात्रेणाप्यभूत कीलाकरालितः । वने समुद्यत्कुसुमकिंशुकौघभ्रमप्रदः ॥ ४१४ ॥ दह्यमानेपु वंशेपु क्रीडत्सु श्वापदेषु च । शब्दाद्वैतमभूत तत्र कल्पान्तभ्रान्तिकृत्तदा ।। ४१५ ।। नलो दवानले दीप्तेऽथाऽश्रौषीत् पुरुषखरम् । रक्ष मां नलभूपालेक्ष्वाकुवंशसमुद्भव ! ॥ ४१६ ॥ अकारणोपकर्तारः सन्तो याद तदाऽपि हि । उपकारं करिष्यामि तुभ्यमभ्यधिकं नृप ! ॥ ४१७ ।। मार्गणः शब्दवेधीव तं शब्दमभिजग्मिवान् । वदन्तं रक्षरक्षेत्यद्राक्षीत् सर्प तदन्तरे ॥ ४१८ ॥ नलोऽपृच्छत् कथं वेत्सि मम नामान्वयौ ननु । , विद्यते, इत्यपि ।

१९२
मल्लिनाथमहाकाव्ये-
कुतो वा मानुषी भाषा तवेयं नयनश्रवः! १॥४१९।।
स आख्यदवधिज्ञानात्सर्व विदितमेव मे ।
प्राग्भवे मनुजोऽधूवं तेन भाषा च मानुषी ॥४२०॥
नलोऽवलोक्य साकम्पं सकृपस्तं सरीसृपम् ।
समाक्रष्टुं निचिक्षेप निजां वल्लीवने पटीम् ॥ ४२१ ॥
भूलग्नमञ्चलं प्राप्य पन्नगोऽवेष्टयद् भृशम् ।
पटीलग्नं परसुखोत्कर्षी राजा चकर्ष तम् ॥४२२॥
गत्वा दूरप्रदेशे तं दवस्याऽगोचरेऽमुचत् ।
मुच्यमानेन दष्टश्च पन्नगेन करे नलः ॥ ४२३ ॥
नलोऽवदत्तमाच्छोट्य भवता स्वोचितं कृतम् ।
पयः पाययते योऽपि युष्माभिः सोऽपि दश्यते।।४२४॥
नलस्यैवं
ब्रुवाणस्य
प्रससर्प विषं तनौ ।
वपुः कुब्जमभूत्तेन वार्धकेनेव बाधितम् ॥ ४२५ ॥
सूक्ष्मक्रमकरग्रीवो लम्बोष्ठः पिङ्गकुन्तलः ।
अञ्जिरोदरो मूर्त्या बीभत्सोऽभूद्विषाद् नलः॥४२६।।
अचिन्तयच्च रूपेणाऽनेन मे प्राणितं वृथा ।
तद् गृह्णामि वरं दीक्षामप्यक्षयफलप्रदाम् ॥४२७॥
नलस्य ध्यायतश्चैवं मुक्त्वा सर्पः स सर्पताम् ।
दिव्यालङ्कारसम्भारधारकोऽभूत् क्षणात् सुरः॥४२८॥
ऊचे च मा कृथाः खेदं पिताऽस्मि निषधस्तव ।
दीक्षाग्रहणतो ब्रह्मलोके वृन्दारकोऽभवम् ॥ ४२९ ।।
ज्ञात्वा चावधिनाऽवस्थां तवेमां मायया मया ।
समस्ताङ्गेषु वैरूप्यं विहितं ते हितं ननु ॥ ४३० ।।
दण्डिताः खण्डिता दासीकृताश्च भवता द्विषः ।
ते त्वामनुपलक्ष्यत्वात् पीडयिष्यन्ति नाधुना ॥४३१॥
अधुनापि विधेयो न त्वया दीक्षामनोरथः ।
अद्याऽपि भरतस्यार्ध भोक्तव्यं भवता यथा ॥४३२॥

, पष्ठः सर्गः। कथयिष्यामि ते दीक्षादिनं देवज्ञवद् दिनम् । अन्यच्च श्रीफलं रनकरण्डं च गृहाण भोः!॥४३३।। यदा कार्य खरूपेण प्रस्फोम्यं श्रीफलं तदा । दृष्ट्वा तदन्तरे देवदूष्ये रत्नकरण्डकम् ॥ ४३४ ॥ उद्घाट्याऽऽभरणान्यस्य मध्ये वीक्ष्य क्षणादपि । परिदध्या यथारूपं देवरूपनिभं भवेत् ।। ४३५ ।। (युग्मम् ) अपृच्छत्तं नलस्तात ! क स्नुषा तेऽवदत् सुरः । ततः स्थानात् तदुदन्तं चिदर्भागमनावधि ॥४३६।। अवोचच्च नलं वत्स ! कि भ्राम्यसि बनान्तरे। यियासति भवान् यत्र तत्र स्थाने नयाम्यहम् ॥४३७॥ (युग्मम् ) नलोऽवोचच्छंशुमारपुरं प्रापय मां प्रभो ! । देव एवं विधायाऽऽशु सुशशनपदं चयौ ॥ ४३८ ॥ नलोऽपि तत्पुरोपान्तोद्याने चैत्यं व्यलोकयत् । तदन्तर्नमिनाथस्य प्रतिमां प्रणनाम च ।। ४३९ ।। शुंशुमारपुरस्याऽन्तर्यावद् विशति कुब्जकः । तदालानं समुन्मूल्य भ्राम्यति स्म मतगजः ॥ ४४० ॥ स्फुरन्तं नाधिसेहे स समीरमपि तीरगम् । आचकर्ष करेणोच्चैः सनीडनीडजानपि ॥ ४४१ ॥ गजाजीवा गजस्याऽस्य पृष्ठिं दूरेण तत्यजुः । उद्यानवृक्षानाक्षेपात् स वभञ्ज प्रभञ्जनः ॥ ४४२ ॥ भूपतिर्दधिपर्णोऽथ क्षिमं वोपरि स्थितः । मत्तं मतगजं कर्तुमसमर्थो वशंवदम् ।। ४४३ ।। अवादीदिति विस्पष्टं गजं यः कुरुते वशम् । ददामि वाञ्छितं तस्य कोऽप्यस्ति द्विपशिक्षकः॥४४४॥ कुब्जस्तद्वाक्यमाकर्ण्य करिणं प्रत्यधावत ।- २५

१९४
मल्लिनाथमहाकाव्ये-
गजश्च गर्जन् पर्जन्य इवाऽभ्यागाद् नलं प्रति ॥ ४४५ ॥
म्रियते म्रियते कुब्ज इति लोके बदत्यपि ।
शिक्षावशेन खेदित्वा वशीचक्रे नलो द्विपम् ।। ४४६॥
वैनतेय इवोत्पत्य तमारूढो मतगजम् ।
आलोक्यमानो लोकेन तदाऽऽश्चर्यस्पृशा शा॥ ४४७॥
भूपक्षिप्तस्वर्णमालाराजमानगलो नलः ।
व्यालमालानसंलीनं चक्रे नाड्योत्ततार च ॥ ४४८ ॥
अकृतप्रणिपातः सन्नुपान्ते नृपतेरसौ ।
उपाविक्षदथामाक्षीदित्यं पृथ्वीपतिनलम् ॥ ४४९ ।।
गजशिक्षासुदक्षोसि वेत्स्यन्यदपि किञ्चन ।
स आचख्ये वेमि सूर्यपाका रसवती नृप ! ॥४५०॥
राजा कुब्जाय साश्चर्यं तन्दुलादि तदाऽऽर्पयत् ।
यत्राकृतिस्तत्र गुणा इति व्यर्थ विचिन्तयन् ॥४५१ ॥
विद्यां सौरी स्मरन् मुक्त्वा चरून् सूर्यातपे नलः ।
दिव्यां रसवतीं निष्पादयांचक्रे क्षणादपि ॥ ४५२ ॥
बुभुजे सपरीवारो रसवत्या तया नृपः ।
श्रमच्छिदाकृतानन्द तामास्वाद्याऽवदच्च सः ॥ ४५३ ॥
नलं विना रसवतीमीदृशीं वत्ति नापरः।
पुराऽप्यास्वादिता सेयं सेवमानेन तं मया ॥ ४५४ ॥
तत्कि नलोऽसि नैताहर नलः क्रोशशताष्टकात् ।
काऽस्याऽऽगमः क चैकत्वं क च रूपविपर्ययः ? ॥४५५॥
अथ कुब्जाय भूपालोऽदाद् वस्त्राभरणादिकम् ।
टकलक्षमपि ग्रामशतपञ्चकमादरात् ॥ ४५६ ॥
ग्रामग्राम विमुच्यान्यत् सर्व जग्राह कुब्जकः ।
राजा जगाद किं कुब्ज ! प्रयच्छामि तवापरम् १ ॥४५७॥
कुजोऽवोचद् निजाज्ञायां मद्याऽऽखेटौ निवारय ।
राजाऽपि तत्तथा चक्रे तदभ्यर्थनया समुत् ॥ ४५८ ॥

पष्ठः सर्गः। १९५ . अन्यदा कुब्जमेकान्तस्थितमूचे क्षितीश्वरः । क त्वं कुतः क वास्तव्यो निवेदय ममाग्रतः॥४५९॥ कुब्जचाख्यत् कोशलायां नलभूपस्य सूपकृत् । हुण्डिकाख्यः, समीपेऽस्य मया संशिक्षिताः कलाः।४६०॥ नलः पराजितो छूते कूवरेणाऽखिलां भुवम् । वभूव भैमीमादाय वनवासी मुनिर्यथा ।। ४६१ ।। व्यपद्यत नलस्तत्राऽहं तु त्वां समुपागमम् । कूवरं न तु शिश्राय गुणहीनं च वश्चकम् ।। ४६२ ।। तया च वार्तया भूपः क्रन्दित्वा करुणवरम् । नलपेतक्रियां कुर्वन् कुब्जेनैक्ष्यत सस्मितम् ॥४६३|| दधिपर्णनृपोऽन्येार्दतं केनापि हेतुना । प्रैपीद् मित्रत्वतत्त्वैपी कुण्डिनेश्वरसनिधौ ॥ ४६४ ॥ दूतोऽन्यदाऽऽख्यद् भीमाय मदीयस्वामिनोऽन्तिके । सूर्यपाकरसवतीविदस्ति नलसूपकृत् ॥ ४६५ ॥ तदाकर्ण्य तदोत्कर्णा दवदन्त्यवदद् नृपम् । तात! प्रेष्य चरं विद्धि कीग्रूपः स सूपकृत् ॥४६६॥ ततः स्वामिसमादेशकुशलं कुशलं द्विजम् । समाहूय समादिक्षद् नृपतिर्नलशुद्धये ॥ ४६७ ॥ स पृथु पृथिवीनाथाऽऽदेशं प्राप्याञ्चलद् द्विजः । शुंशुमारपुरं प्राप शकुनैः सूचितप्रियः ॥ ४६८ ।। अवजत् कुब्जकाभ्यर्णे प्रच्छं प्रच्छमतुच्छधीः । निषण्णश्च विषण्णश्च तं प्रेक्ष्य विकृताकृतिम् ।।४६९।। अध्यायत् क नलः कैप क स्वर्ण क च पित्तलम् । तन्नलभ्रान्तिरेतस्मिन् भीमपुच्या वृथैव हि ॥४७ना निश्चिनोमि तथाप्येनमिति चित्ते विचिन्त्य च । नलापश्लोकयुगलं स श्लोकयुगलं जगौ ॥४७१।। पापिष्ठानां निकृष्टानामसत्त्वानां शिरोमाणिः । .

१९६ मल्लिनाथमहाकाव्ये- । । एक एव नलः पत्नी सती तत्याज यो वने ॥४७२|| ऋजुगेकाकिनी सुप्तां प्रियामुत्सृज्य गच्छतः । विलीनौ भुवि लीनौ वा कथं पादौ न नैषधेः ॥४७॥ पुनः पुनरिति श्रुत्वा पठन्तं तं मियां स्मरन् । नलो रुरोद नेत्रोदबिन्दुस्यन्दितभूतलः ॥४७४॥ कि रोदिपि द्विजेनेति प्रोक्ते प्रोचेऽथ कुब्जकः?।। त्वद्गीतं करुणास्फीतं कर्ण्यमाकर्ण्य रोदिमि ॥४७५॥ 'द्विजः कुब्जेन पृष्टश्च श्लोकार्थ, न्यगदत् कथाम् । द्यूतादारभ्य वैदर्भीगमनं कुण्डिनावधि ॥४७६|| अन्यच्च शुंशुमारेशदूतो भीमनृपाग्रतः । सूर्य पाकरसातत्त्वज्ञं त्वामचीकथत् ।। ४७७॥ श्रुत्वेति त्वां नलं मन्यमाना भैमी व्यसर्जयत् । मामहं तु निरीक्ष्य त्वां गताशः खेदमासदम् ॥४७८|| नलो न त्वमिति व्यर्थो मेऽधूच्छकुनसंचयः । पदमेतद् मुधा मन्ये शकुनो दण्डनायकः ॥४७९|| । प्रियां ध्यायन् रुदन् कुब्जो नत्विा धाम तमब्रवीत् । महासत्त्व ! कथाख्यातुःस्वागतं किं करोमि ते ॥४८॥ इत्युक्त्वा स्नपयित्वाऽथ भोजयित्वा च तं द्विजम् । नेपथ्यं दधिपणेन दत्तं तस्मै ददौ ततः ॥४८१॥ कुशलस्तमनुज्ञाप्य कुण्डिनं पुरमाययौ । यथानिरीक्षितं कुब्जमाख्यद् भीमरथाय च ॥४८२।। 'कुब्जस्य गजशिक्षादिवृत्तं दानावधि द्विजः । श्लोकश्रवणखेदं च भीमभैम्योः पुरोऽवदत् ॥४८३॥ भैम्यूचे तात ! दोषेण कर्मणो भोजनस्य वा । रूपं सरूपं न प्राप्तो निश्चितं क्रियया नलः ॥४८४॥ नलं विनाऽस्ति नाऽन्यस्य गजशिक्षासु कौशलम् । सूर्यपाकपरिज्ञानं दानं वाऽद्भुतमीदृशम् ।।४८५।। - षष्ठः सर्गः। h १९७ केनाऽपि तदुपायेन साताऽत्राऽऽनय कुब्जकेम् । यथा करोम्यहं तेन तं निरीक्ष्य परीक्षणम् ॥४८६॥ भीमोऽवदत् तवालीकं समारभ्य स्वयंवरम् । विसृज्य दूतमाकार्यों दधिपर्णः समुत्सुकः ॥४८७॥ ततस्तेन सहाऽऽगन्ता तव श्रुत्वा स्वयंवरम् । नारीनिकारं नान्योऽपि सहेत, किमु चेद् नलः १॥४८८|| अश्वविद्याविदा तेनाऽऽनेष्यते दधिपणराद् । महावलेन न चिरात् तूलपूल इवात्र सः ॥ ४८९ ।। उक्त्वेति प्रेषितो दूतः शुंशुमारेशमाहत । श्वो लग्नमिति श्रुत्वाऽभूद् दीनो जालगमीनवत् ॥४९०॥ तच्छ्रुत्वा कुन्जको दध्यौ भैमी नैच्छत् परं पतिम् । यदीच्छेत् तर्हि गृह्णीयात् कस्तां मय्यपि जीवति ॥४२१॥ तद् द्रक्ष्यामीति सप्रीतिर्विलक्षं स्वापराधतः । पुनः स्वयंवराक्रोधि तदाभूद् नलमानसम् ॥४९२॥ कुण्डिने दधिपर्ण च पडभिर्यामर्नयाम्यहम् । यथा प्रासङ्गिकं यानमनेन सह संभवेत् ।। ४९३ ।। ध्यात्वत्युवाच राजानं ब्रूहि खेदस्य कारणम् । स्थगितानां मौक्तिकानां नार्यः संजायते यतः॥४९॥ नृपोऽवदद् यशःशेषो नलोऽभूत् श्वः स्वयंवरः । वैदा भविताऽऽहूतः षड्याम्या याम्यहं कथम्।४९५/ कुब्जो जगाद भूपाल ! विषादं मा कृथा वृथा । अश्वान् समार्पय रथं कुण्डिनं त्वां नये लघु ॥४९६॥ गृहाण स्वेच्छयेत्युक्ते राज्ञा कुब्जोऽग्रहीद् रथम् । सर्वलक्षणसंपूर्णी जात्यावश्वौ च स स्वयम् ॥४९७।। सर्वत्र विज्ञं विज्ञाय तं दध्यौ दधिपर्णराद । असावनन्यसापान्यो सुरो विद्याधरोऽथवा ||४९८|| रंथं विधाय युक्ताऽश्वं कुब्नो नृपमवोचत । १ १९८ मल्लिनाथमहाकाव्ये- त्वां नेष्यामि रथारूढं निशान्ते कुण्डिनं पुरम् ।।४९९।। राजा स्थगीभृच्छत्री च कुन्जचामरधारिणौ । पडप्यमी रथं सजं तमारुरुहुरुत्सुकाः ॥ ५०० ॥ तं करण्डं च विल्वं च संनिवध्य कटीतटे । वाहानखेटयत् कुब्जः स्मृतपश्चनमस्कृतिः ।। ५०१॥ नलेन चाश्वहृद्विद्याविदा स प्राजितो रथः । जगाम मनसा सार्ध मनोरथ इवाङ्गवान् ॥ ५०२ ।। दधिपर्णोत्तरीयं च रथरहोऽनिलेरितम् । साक्षाद् भैमीसमायोगमनोरथ इवापतत् ॥ ५०३ ।। कुब्ज वभाषे भूपालो विलम्बय रथं क्षणम् । उड्डीय यातां वातेन यथा गृह्णाम्यहं पटीम् ॥५०४॥ स्मित्वा कुब्जोऽवदत् काऽस्ति पटी तव धराधव ! १। पटीपातादतिक्रान्तं क्रोशानां हि शतं हयैः ।।५०५।। मध्यमौ तुरगावेतौ, भवेतां यदि तूत्तमौ । एतावता व्रजेतां तौ ततः क्रोशशतद्वयीम् ॥५०६॥ दधिपर्णोऽथ दूरादप्यक्षवृक्षमुदैवत । कुञ्जमूचे फलान्यस्य कथयाऽगणयन्नपि ॥ ५०७ ।। व्यावृत्तो दर्शयिष्यामि कौतुकं ते, नलोऽवदत् । मा भैर्मय्यश्वविद्याविदि कालविलम्वतः ।।५०८॥ एकमुष्टिप्रहारेण नलः फलान्यपातयत् । अष्टादश सहस्राणि कथितानि तथाऽभवन् । ५०९ ॥ ददौ कुब्जोऽश्वहृद्विद्या दधिपाय वर्ण्यधीः । विद्यां च फलसंख्यायाः स तस्माद् विधिनाऽऽददे।५१०। स रथः कुण्डिनाभ्यर्ण यातः प्रातर्नलेरितः। निशान्तेऽथ निशान्तस्था भैमी स्वप्नं तदैक्षत ॥५११॥ तत्पित्रेऽकथयच्चैवं जाने निर्वृतिदेवता । कोशलोद्यानमानीयाऽदर्शयद् गगनाङ्गणे ।। ५१२ ।।

पष्ठः सर्गः। १९९ आरूढा फलितं चूतं तदादेशात् तयाऽम्वुजम् । हस्तेऽर्पितं च मे, पक्षी पुराऽऽरूढोऽपतत् ततः॥५१३॥ भीमोऽवोचत् सुते ! स्वप्नो मनोझोऽयं तथाह्यसौ । देवता पुण्यराशिस्ते उद्यानं राज्यमद्भुतम् ॥५१४॥ चूतारोहः पतिसङ्गोऽपतत् पक्षीव कूवरः । प्रातः स्वप्नेक्षणाद् मन्ये मिलिष्यत्यय ते नलः॥५१५॥ (युग्मम्) तदा पूरगं कश्चिद् दधिपर्णमजिज्ञपत् । भीमोऽभ्यागम्य चालिङ्यातिथ्यं कृत्वा तमब्रवीत् ५१६ सूर्यपाका रसवती मूदस्ते वेत्ति कुब्जकः । तद् दर्शय ममाश्चर्य पूर्यता वार्तयाऽनया ॥५१७॥ दधिपर्णोऽवदत् कुब्जं चक्रे रसवती स च । भीमोऽपि बुभुजे स्वादं विज्ञातुं सपरिच्छदः ॥५१८॥ स्थालमोदनसंपूर्ण तदानाय्य नलमिया । बुभुजेऽथ तदास्वादात् कुब्नं ज्ञातवती नलम् ॥५१९।। पुरा मे शानिनाऽऽख्यातं भारत सूर्यपाकवित् । केवलं नल एवात्र तदयं निश्चितं नलः ॥ ५२० ॥ तदेष तिलकं कुर्वनिव मां स्पृशतु द्रुतम् । नलाङ्गुल्या यतः स्पृष्टाऽहं स्यां पुलकमालिनी।।५२१॥ भैमीवक्षो नलोऽस्पृक्षदगुल्या च क्षणादभूत् । वपुः सरोजिनीनालमिवात्युत्कटकण्टकम् ॥ ५२२ ॥ निद्राणाऽहं तदाऽत्याजि यास्यसि काधुना पुनः १। भैमीत्युक्त्वा करे धृत्वा नलं निन्ये गृहान्तरे ॥५२३॥ नलो विल्वकरण्डाभ्यां वसनाभरणादिकम् । परिधायाऽभवत् सद्यः सुरवद् निजरूपभृत् ॥ ५२४ ।। यथारूपं नलं भैमी ताडयित्वा कटाक्षितैः । चित्तचौरं चिरात् प्राप्तं भुजपाशैर्ववन्ध सा ॥५२५।।

२०० मल्लिनाथमहाकाव्ये- - पुनरि समायान्तं नलालिगय भीमराद् । निजे सिंहासनेऽध्यास्य स्मेरास्यकमलोऽवदत् ।।५२६॥ इदं देहमिदं गेहमियं लक्ष्मीरियं सुता । । त्वदीयं सर्वमप्येतत्तद् ब्रूहि करवाणि किम् ।।५२७|| दधिपर्णोऽवदद् नत्वा नलं, नाथोऽसि नाथ! मे । तत्प्रसीद ममान्यायकार्य सर्व सहस्व तत् ॥ ५२८ ॥ अत्रान्तरे च सार्थेशो धनदेवः समागमत् । द्रष्टुं भीमरथं भैम्योपलक्ष्य बहुमानतः ॥ ५२९ ॥ वसन्तमृतुपर्णं च तत्मियां तत्सुत्तामपि । सर्वानाऽनाययद् भैमी तत्प्रत्युपचिकर्षिया ॥ ५३० ॥ कृतसत्कृतयस्तेऽथ बन्धुवद् भीमभूभुजा । तस्थुः प्रमनसो मासमातिथेयर्नवैर्नवैः ॥ ५३१ ॥ अन्यदा तेषु सर्वेषु सत्सु भीमस्य संसदि । कश्चिदगाद् दिवो देवः स भैमीमभ्यधादिति ॥५३२॥ भद्रे ! कुलपतिः सोऽहं यस्त्वया बोधितः पुरा । विमाने केशरेऽभूवं नाम्ना श्रीकेशरः सुरः ।।५३३।। त्वत्प्रसादादसौ प्राप्ता देवद्धि द्धिवैभवा । उक्त्वेति दृष्ट्वा स्वर्णस्य सप्तकोटीस्तिरोदधे ॥५३४॥ भीमर्तुदधिपर्णश्रीवसन्ताद्या नरेश्वराः। नलं राज्येऽभिपिपिचुः श्राद्धा विम्वमिवाहतम्।।५३५॥ स्वानि खानि नलादेशाद् बलानि सबलानि ते । हेलया मेलयामासुर्भूभुजो भुजशालिनः ॥ ५३६ ।। ततः परवलद्वेषी मूर्तिमान् मेघवाहनः । चचाल पृथिवीपालो नलः सवलवाहनः ॥ ५३७ ॥ दिनैः कतिपयैः सैन्यमदैन्यः संन्यवेशयत् ।। अयोध्यावहिरुह्याने नामतो रतिवल्लभे ॥ ५३८ ।।

पष्ठः सर्गः । २०१ कूवरोऽथ नलं ज्ञात्वा समायानं भयातुरः । बभूव गतसर्वस्व इत्र संशून्यमानसः ॥ ५३९ ।। नलोऽथ कूवरं प्रोचे पाशैः क्रीड मया समम् । द्वयोरपि श्रियोरेकः पतिः कोऽपि भवत्विति ॥५४०॥ मुदितः कूवरो द्यूतं मेने तत्र जिताहवः । क्रीडन् नलेन जिग्ये च भाग्येन विजयः करे।।५४१॥ नलेन कूवरः क्रूरो राज्यं जित्वा जितक्रुधा । अलंकृत्य निजं राज्यं यौवराज्यमलम्भ्यत ।। ५४२।। नलः प्राप्य निजं राज्यं तदा भीमसुत्तायुतः । मुदा दृग्दत्तसैन्यानि पुरीचैत्यान्यवन्दत ॥ ५४३ ।। कौशलिकान्युपादाय कुशलपश्नपूर्वकम् । सेवायां कुशला भूपाः कोशलाधीशमभ्ययुः ।।५४४॥ आखण्डल इवाखण्डशासनः खण्डयन रिपून् । त्रिखण्डं भरतं रक्षन् सहस्रादीमलड्डयत् ॥ ५४५॥ स्वर्गादागत्य निषधोऽन्यदा नलमवोधयत् । न युज्यते रतिः कर्तुं विषयेषु विषेष्विव ।। ५४६ ।। प्रव्रज्याकालकथनं प्रतिपन्नं पुरा तव । गृहाण तदहो! दीक्षां जीवितव्यतरोः फलम् ॥५४७॥ भवे भवे भवेद् दुःखं यच्चतुतिके भवे । तद् द्विधाविषयग्रामत्यजनं भज नन्दन ! ।। ५४८ ॥ निषिद्धो निषधेनैष नैषधिर्विषयान् प्रति । इयेष दीक्षामादातुं दातुं पात्रे धनानि च ॥५४९॥, अथ तत्राऽऽगमत् मूरिर्जिनसेनाऽभिधः सुधीः । चित्रं यः सावधिर्जानैः परं निरवधिर्गुणैः ।। ५५० ।। तत्र भैमीनलौ गत्वाऽवन्दिपातां तमाहतौ । पृष्टः प्राच्यभवावस्थां कथयित्वाऽवदव पुनः ।। ५५१ ॥ यशःसुरभि सद्वर्ण स्वादुजन्म क्षपान्तरे।

- - २०२ मल्लिनाथमहाकाव्ये- साधुमदत्तदुग्धात् ते राज्यमाज्यमिवाभवत् ॥ ५५२ ॥ यत्पुनादशघटी खेदितो मुनिपुङ्गवः । तदेष विरहो जज्ञे युवयोदशाब्दिकः ॥ ५५३ ॥ श्रुत्वेति तौ न्यस्य राज्यं तनये पुष्कलाभिधे । गुरोस्तस्माद् व्रतं लात्वा पालयांचक्रतुश्विरम् ॥५५४॥ भोगेच्छुरन्यदा भैम्यां नलोऽत्यज्यत मूरिणा । सुरलोकात् समागत्य निषधेन प्रबोधितः ॥ ५५५ ॥ विदधेऽनशनं कर्तुमसमर्थों व्रतं नलः । नलानुरागतश्चक्रे दवदन्त्यपि तत् तथा ॥ ५५६ ॥ नलो मृत्वा कुबेरोऽभूद् भीमजा दयिताऽस्य च । तत्रापि हि तयोः स्नेहो महानजनि पूर्ववत् ।। ५५७ ॥ च्युत्वाऽथ पेढालपुरे हरिश्चन्द्रनृपौकसि । भैमी लक्ष्मीवतीकुक्षौ सुता कनकवत्यभूत् ॥५५८॥ स्वयंवरे तां च वरेण्यमूर्तिरथोपयमे दशमो दशाईः । साधार्मिकी धर्मकथासु लीना कलङ्कहीना समयं निनाय॥ पौत्रे सागरचन्द्रनामनि बलस्योच्चैर्गते स्वर्गितां गेहस्थापि भवस्थितिं सविनया सा चिन्तयन्ती ज्ञानं केवलमाप्य नेमिनिकटं संप्राप्य मासं दिना- न्याधायानशनं च नितिमथ प्रक्षीणकर्माऽगमत् ॥५६०॥ सम्यक्त्वं परिपाति रक्षति जगद् नैवाऽनृतं भाषते नादत्तेऽन्यधनं ह्यदत्तमिह यो ब्रह्मव्रतं सेवते । यो द्युम्नं प्रमितं दधाति विनयं धत्ते च साधुव्रजे सिद्ध्यत्येष जनो यथैष दवदन्त्येभिर्गुणैर्भूपिता ॥५६१।। इत्याचार्यश्रीविनयचन्द्रविरचिते श्रीमल्लिस्वामिचरिते महाकाव्ये विनयाङ्के सम्यक्त्वफले दवदन्ती- महासतीचरितव्यावर्णनो नाम षष्ठः सर्गः । -- अहम् सप्तमः सर्गः। . - अथ नत्वा जगन्नाथं जगन्नाथपिता नृपः । उवाच नाथ ! सम्यक्त्वदृष्टान्तः संश्रुतो मया ॥१॥ अमुष्माद् नाथ ! दृष्टान्ताद् गतवान् मोहविप्लवः । मनश्च शुद्धिमज्जातं वैराग्यरसभावितम् ॥२॥ इदानीं श्रोतुमिच्छामि श्रावकाणां व्रतावलीम् । अपवर्गसमारोहे दृढां निःश्रेणिकामिव ।।३।। श्रीकुम्भभूपते ! मूलं व्रतेषु माणिरक्षणम् । यद् विना विफलं सर्वमूषरक्षिप्तवीजवत् ।।४।। जटी.मुण्डी तपस्वी च दिग्वासा अरुणाम्बरः। शोभते न दयां मुक्त्वा जलहीनं यथा सरः ॥५॥ अहिंसा सर्वजन्तूनां भीतानामभयपदा । अहिंसा भवसंतप्तौत्तराहजलदावली ॥६॥ हिंसाया लवमात्रेणोपार्यते पातकं महत् । कालकूटकणेनाऽपि नरः किं न विनश्यति ॥७॥ प्राणातिपातविरतिं ये कुर्वन्ति विवेकिनः । प्रेत्य सर्वश्रियः पात्रं ते भवन्ति सुदत्तवत् ॥८॥ तथाहि मागधेष्वस्ति स्वस्तिवल्लीघनाघनम् । पुरं राजगृहं नाम गृहं सकलसंपदाम् ॥ ९ ॥ विश्वविश्वम्भराधीशनिषेवितपदद्वयः। विक्रमस्तत्र भूपालस्त्रिविक्रम इव श्रिया ॥ १० ॥ अन्येाः सीमभूपालैः प्रान्तो देशः कदर्थितः । बन्दिग्राहं च विधृतास्तत्रत्याः कोटिसंचयाः॥ ११ ॥ खदेशमथनं श्रुत्वा तानभिप्राहिणोद् बलम् ।

२०४ मल्लिनाथमहाकाव्ये- अध्यासामासुरेतेऽपि दुर्ग दुर्ग्रहमाग्रहात् ॥ १२ ॥ विक्रमस्य वलैस्तेषां ग्रामग्रामा उपद्रुताः । अत्युग्रकृतपापानामिह लोकेऽपि यत्फलम् ॥ १३ ॥ सुदत्तग्रामवास्तव्यः सुदत्तो वणिगात्मभूः । सप्तवर्षप्रमाणागो विधृतः केनचिद् हठात् ।। १४ ।। अथाऽऽनीतः पुरे राजगृहे राजभटेन सः । धृतश्च पूलकं दत्त्वा मस्तकेऽसौ चतुष्पथे ॥ १५ ॥ अन्येन केनचित् तत्र सुदत्तस्य जनन्यपि । तदा विक्रेतुमारव्या पुरस्तात्पुत्रनेत्रयोः ॥ १६ ॥ स तामुवीक्ष्य साप्येनं रुरोद करुणवरैः । महौषधं हि दुःखार्ते रोदनादपरं नहि ॥ १७ ॥ भगो निजकदेशस्य गोधनस्य परिक्ष्यः । दत्तलभ्यपरिभ्रंशः स्वजनानां परिच्युतिः ॥ १८ ॥ मत्पुत्रो गतभाग्यांशो विधृतो रोरवालवत् । एवं विचिन्तयामास सुदत्तजननी तदा ॥ १९ ।। हा ! निर्वीरेव मन्माता धृताऽनेन चतुष्पथे । अचिन्त्या हि गतिः पूर्वकर्मणां हतशर्मणाम् ॥ २० ॥ स्फुटत्यूर्वी यदि ततो विशामि क्षितिवेश्मवत् । अहं लभे विष प्सामि ततो मोदकलीलया ।। २१ ॥ तयोधिन्तयतोरेवं सुदत्तस्य जनन्यथ । तत्क्षणं हृदयस्फोटाद् व्यपद्यत चतुष्पथे ॥ २२ ॥ ततो विशेषतस्तारतरं तरललोचनः । सुदत्तो रोदिति स्मोच्चै रोदयनपरानपि ॥ २३ ॥ मूर्च्छया न्यपतत् पृथ्व्यां मूलकच इवांहिपः । एकं हि जननीमृत्युः परदेशागमः परम् ।। २४ ।। दयया नागरैः सिक्तो धनैः शुष्यद्वनं यथा । १ वाऽधि, इत्यपि । २ क्षत , इति च।

सप्तमः सर्गः।
२०५
लब्धसंज्ञः समुत्तस्थौ सुंदत्तो दत्तलोचनः ॥ २५ ॥
राजकीयभटेनाऽपि पृष्ट मृच्छानिवन्धनम् ।
दुःखं जगाद निःशेष जननीमरणावधि ॥ २६ ॥
इतश्च सूद आगत्य मूल्यमेतस्य पृष्टवान् ।
सोचोचदेनं मूल्येन न विक्रीणामि सन्मते ! ॥२७॥
एतस्य मूल्यवित्तेन न कर्तास्मि सुरालयम् ।
न न्यूनं पूरणं भावि दारिद्योपहतस्य मे ।। २८॥
दुःखितस्याऽस्य नो कर्तु भृतियुक्ता वपुत्रवत् ।
परं तुभ्यं प्रयच्छामि स्नेहेनैनं धनं विना ॥ २९ ॥
मुधा संप्राप्य हृष्टः सन् सूदस्तस्माद् न्यवर्तत ।
अगादपि निजावासं भोजयामास तं स्वयम् ॥३०॥
गृहीतो राजसौधेऽप्तौ सूदेनौदनपक्तये ।
कारितश्च समादेशादिन्धनाऽऽनयनादिकम् ॥ ३१ ॥
प्रस्तावे जगदे तेन हंहो बालक ! लावकान् ।
वंशकम्बादिनिष्पन्नपञ्जराद् निरवासय ॥ ३२ ॥
विदधानो दयां चित्ते पञ्जराद् लावकानसौ।
अशेषानमुश्चत् तेऽपि नभसा रभसा ययुः ॥ ३३ ॥
क्षणं स्थित्वा समागत्य पञ्जराद् लावका मया।
तात ! सर्वे विनिर्मुक्ता यौष्माकीणनिदेशतः ॥ ३४ ॥
इत्युक्तवन्तं तं सूदः कम्बया समताडयत् ।
मुग्धोऽयमिति तं बालं विततर्क निजे हृदि ॥ ३५॥
द्वितीयेऽद्भयमुनाऽऽदिष्टो लावकान् बालकाऽधुना।
वक्रां ग्रीवां विधायाऽऽशु पञ्जरेभ्यः समानय ॥३६॥
अथाऽसौ तत्र तांस्तेभ्य आकृष्य पूर्ववत्क्षणात् ।
मद्ध्वमुञ्चदशेषांश्च चक्रग्रीवोऽभवत् स्वयम् ।। ३७ ॥
वक्रग्रीवममुं दृष्ट्वाऽवादीत् सूदः कुतो भवान् ।
वक्रग्रीवः समायातः सोऽवोचदथ मन्दगीः ॥ ३८ ॥

२०६ मल्लिनाथमहाकाव्ये- योप्माकादेशतस्तात ! वक्रग्रीवोऽधुनाऽजनि । तच्छ्रुत्वेदं दधौ चित्ते डिगिरो डिगिरो ह्ययम् ॥ ३९ ॥ वक्रस्ताडनतः शिष्यो लोभी द्रविणदानतः । दुर्दान्तो दारपुत्रश्च मायी त्वावर्जनागुणैः ।। ४० ॥ विचिन्त्येति कमाघातपातेः शुकलवाजिवत् । ताडितः संयतश्चापि सुदृहं केगरज्जुना ॥ ४१|| ताड्यमानममुं राजा गवाक्षस्थो विलोक्य च । कथं मृद ! वराकोऽयं ताड्यते वनजोक्षवत् १ ॥४२॥ तवृत्तमवदत् मूदः श्रुत्वा राजापि तत्तथा । कोपेन कम्पमानाङ्गो वातकम्पितवृक्षवत् ॥ ४३ ॥ वन्धयित्वा शिशुं राजा गजाग्रे चर्मपुत्रवत् । निर्दयं मोचयांचके कृतान्त इव दारुणः ॥४४॥ (युग्मम्) करणोत्पाटयामास करेणुस्तं च संजिनः । निघृणं शिक्षिताः प्राजेस्तियश्चः किं न कुर्वते ? ॥४५|| इतश्च पृष्टो भूपेन जिजीविषति चेद्वान् । जीवितं हर जीवानामन्यथा मरणं तव ४६|| सुदत्तोऽधाऽगदद् देव ! भूयाद् मृत्युः करीश्वरान् । नाहं प्राणात्ययेऽप्युच्चैः करिष्ये प्राणिनां वधम् ॥४७॥ तद्वचःश्रवणात् तुष्टः पृथ्वीगो वणिगात्मजम् । स्नेहस्मेरमुखाम्भोजोऽपृच्छद् गोत्रादिकं च सः॥४८॥ सुदत्तग्रामवास्तव्यो देवाऽहं वणिगात्मभूः । सुदत्तः संजया गर्भश्रावको मृतमातृकः ।।४९।। देवाऽगलितमर्णश्च पीयते तृपितेन हि । अगोधिनमिन्धनादि लिप्यते नो हुतागने ॥५०॥ निशायां भुज्यते नापि पूज्यते भगवान् जिनः । 'वन्द्यन्ते गुरवः श्वेताम्बराः क्षान्तिपरायणाः ॥५१।।

सप्तमः सर्गः। २०७ सर्वथा जीवरक्षार्थ यतन्ते कुलजा मम । इत्यतो नाधिकं वेनि बाल्यतः पृथिवीपते ! ॥५२॥ निशम्यति नृपोऽवोचद् धन्यं श्राद्धकुलं क्षितौ । यस्मिन् वाला अपि दयामकृष्टाः शिष्टताजुपः ॥५३।। वालका अपि यत्रेग्जीवरक्षापरायणाः । ये पुनर्जीतसिद्धान्तास्ते कीदृक्षाः क्षमातले १ ॥५४॥ प्रशस्येति श्राद्धकुलं सुदत्तं दत्तशासनम् । अगरक्षकनेतृत्वे चकार क्षोणिनायकः ॥ ५५ ॥ नृपागरक्षां कुर्वाणस्तीर्थनाथार्चनोद्यतः। कुलीनललनोद्वाही दानशौण्डः प्रशान्तधीः ।। ५६ ।। श्रीचन्द्रप्रभतीर्थेशसमीपे श्रावकव्रतम् । आदाय विधिना शुद्धं सम्यक्त्वविधिवन्धुरम् ॥५७॥ पर्यन्तेऽनशनं कृत्वा परमेष्ठिस्तवं स्मरन् । मृत्वा माहेन्द्रकल्पेऽभूत तस्माद् निर्वाणमेष्यति ॥५८ सुदत्तस्य यथा जातमिहाऽमुत्र श्रियां पदम् । तथान्येपामपि भवेत्याणिनां वधरक्षणात् ॥५९।। अथ नत्वा जिनं कुम्भो जगाद रचिताञ्जलिः । धन्यः सुदत्तो भगवान् यो वाल्येऽपि दयापर: ॥६०॥ राजन् ! प्राणातिपातस्य विरतेभूषणं सदा । मृपावादं परिहरेत् द्वैतीयीकमणुव्रतम् ॥६१॥ सत्यं कीर्तिलतामूलं सत्यं पुण्यनदीगिरिः । सत्यं विश्वाससौधं च सत्यं लक्ष्मीनिकेतनम् ।।६२॥ यथा पुण्ड्रेण रामाया वक्ताम्भोजं विभूष्यते । यथा गङ्गाप्रवाहेण पूयते भुवनत्रयम् ॥६३॥ यथा च शोभते काव्यं सार्थया पदशय्यया । तथा सत्येन मनुज इहाऽमुत्र विराजते ॥६४॥(युग्मम् ) प्रतिष्ठाः लोकविश्वासप्रत्यया अनृतोदितः ।।

२०८
मल्लिनाथमहाकाव्ये-
नदीपूरादिव ग्रामाः प्लाव्यन्ते तटवासिनः ॥६५।।
सत्यवाक्यप्रभावेण भूपालैरपि पूज्यते ।
वसुबन्धुर्यथा श्रेष्ठी धर्मदेवकलो किल ॥६६॥
तथाहि धरणीवासाभिधानं पुरमुत्तमम् ।
तत्रारविन्दभूपालो विशालो निलयं श्रियः ॥६७।।
वसुबन्धवाद्वयः श्रेष्ठी तत्र श्रेष्ठो गुणोत्करः ।
यद्वित्तैर्व्यवहतु वा कौवेरी धनदोऽगमत् ॥६८॥
वसुभद्रः सुतोऽमुष्य दुर्दान्तसुहृदां गणैः ।
समेतो नगरी भ्राम्यन् मदमत्त इव द्विपः ॥६९।।
न पितुर्मन्यते शिक्षा नाभ्यस्यति कलाः कचित् ।
पर्वण्यपि गुरोः पादौ न ननाम दुराशयः ।।७०॥
अन्येयुः श्रेष्ठिमूवीक्ष्योपक्ष्मापतिनिकेतनम् ।
गृहश्रोतःस्फुरद्भरिकृमिप्रोन्मत्तकर्दमम् ।।७१।।
देवदृष्यमिवाहायोत्तार्य मौलेर्वरां पटीम् ।
श्रोतोऽन्तः कुण्डलीकृत्य क्षिप्तवान् लेष्टुखण्डवत् ।।७२।।
(युग्मम् )
तस्योपरि क्रमौ न्यस्य विहाय चोत्तरच्छदम् ।
अग्रतः प्रससाराऽसौ मदोन्मत्तशिरोमणिः ॥ ७३ ।।
कोऽयमेष इति नरं कश्चित् पप्रच्छ भूपतिः ।
अवादीदेष निःशेषतदीयकुलवेदकः ॥ ७४ ॥
देवाऽयं वसुबन्धोश्च नन्दनो वसुभद्रकः ।
व्यसनोपहतस्त्यागी दुःशिक्षितमदान्धलः ।। ७५ ।।
ततः कौतुकितो राजा वसुबन्धुमजूहवत् ।
श्रेष्टिस्तवात्मजः कस्मात्कुलशिक्षाविवर्जितः ॥७६ ।।
स्वामिन् ! शिक्षोपदेशांस्तन्नाऽमंस्ताऽयं कथञ्चन ।
कुलक्षये भवन्त्युचैः सुता ईदृग्विचेष्टिताः ॥ ७७ ॥

सप्तमः सर्गः। २०९ । अधृति मा कृथाः श्रेष्ठिन् ! विचारय वचो मम । भविष्यति कृतोद्वाहः शान्तात्मा तव नन्दनः ॥७८ ॥ काचिद् वेत्रधराः! श्रेष्ठिपुत्र योग्यास्ति दिक्करी । परिणेतुं यद् भवन्तो नागरान्वयवेदिनः ॥ ७९ ॥ अथाऽऽख्यद् वेत्रभृच्चैकः स्वामिन्नत्र पुरे वरे । आसीत् श्रेष्ठी गुणी शान्तः पद्मः पद्मविलोचनः ॥८॥ पद्मादेवीति तस्याऽऽसीत् प्रेयसी कटुभाषिणी । मर्मविद्वचसां खानिः जङ्गमः कलिपादपः ॥ ८१ ॥ तयोः शुभकरः पुत्रः पवित्राचारभासुरः । अल्पक्रुदल्पवाही च गुणमाणिक्यरोहणः ॥ ८२ ॥ तस्याऽभूद् धारिणी नाम धरिणीव स्थिरा गिरा। नीरङ्गीसुभगा साध्वी श्वश्रूपादोपजीविनी ।। ८३ ।। पद्मातिकर्कशैर्वाक्यैः सर्वलोहमयैरिव । वधूं निरागसमपि ताडयामास दुर्मुखी ॥ ८४ ।। तन्न स्थापयति स्थाले यत्प्रयाति गलात्परम् । कृतमासोपवासेव शुभङ्करप्रियाऽजनि ।। ८५ ।। आदेशः कर्मभिः प्राज्य रोगैरिव कलेवरम् । तस्या दग्धमभूत् किं वा जातरोगेव साऽभवत् ।।८।। श्वशुरौकः स्वयं त्यक्त्वा स पित्राऽऽवासमासदत् । अतिपूर्ण स्फुटत्येव सत्यं लोकवचो यतः ।। ८७ ॥ वत्से ! श्वशुरवेश्माऽऽशु गम्यतां स्थीयतां तु न । तातवेश्मनि पुत्रीणां निवासे वचनीयता ॥८८॥ यान्यक्षराणि रुष्टाऽपि भाषते श्वशुरप्रिया । तानि मन्त्राक्षराणीव शुभायेति विचिन्त्यताम् ।।८९।। इत्यादितातशिक्षां च श्रुत्वा धारिण्युवाच तम् । प्रेतधामेव यत्त्यक्तं श्वाशुरं वेश्म सर्वथा ॥ ९ ॥ वल्लरी दवदग्धाऽपि प्ररोहति मुहुर्मुहुः । २७ : २१० मल्लिनाथमहाकाव्ये- वाचा दग्धः पुनस्तात ! प्रादुर्भवति न कचित् ॥९१॥ गृहवासो ममाऽभाग्याद् वनवास इवाजनि । क्लिष्टकर्मोदितेः श्वश्रूर्जज्ञे विषमुखी मम ।। ९२ ॥ तात ! कूपे पतिष्यामि प्रवेक्ष्यामि हुताशने । न पुनः श्वाशुरं वेश्म गमिष्यामि कदाचन ॥१३॥ इत्थमाकर्ण्य तद्वाक्यं चक्रे मौनं मुनिर्यथा । अति हि व्याहृतं हन्त ! प्राणात्याय प्रजायते ॥१४॥ अथ देवरि संमाप्ते तामाहातुं तदौकसि । ऊचेऽथ धरिणी तात ! न गन्तास्मि प्रियौकसि।९५॥ शिरःकण्डूयनं कृत्वा ज्ञात्वा मातुर्विजृम्भितम् । यथागतस्तथाऽऽयातो मौन्यभूच्च गृहे गतः ॥ ९६ ॥ इतश्च- कस्यचिद्गतचित्तस्य वित्तं दत्त्वा यथारुचि । पद्मदेवी निजं पुत्रं पर्यणाययदञ्जसा ॥ ९७ ॥ पूर्ववत् ताडयामास तां वधं कर्कशैः पदैः । खभावो यस्य यो लग्नः किं शक्यः कर्तुमन्यथा ॥९८॥ ततो वधूजनैर्देव ! वधूमारिरिति स्फुटम् । अदीयताहयस्तस्याः सान्वयं स्वरवत् तदा ॥ ९९ ॥ देव ! तस्याः सुता तद्वत्कलिवल्लीव जङ्गमा । पुत्र्यो हि मातृवद् दृष्टाः पुत्राः पितृसमा यथा॥१०॥ अङ्गारशकटीत्युच्चैस्तस्या नाम व्यजृम्भत । न कश्चिदुद्वहत्येनां विषकन्यामिवाऽवनौ ॥ १०१ ॥ चेत्तया सह संयोगो वसुभद्रे भविष्यति । एकमेव गृहं स्वामिस्तद् विनश्यति नापरम् ॥ १०२ ॥ अथ स्वयं महीपालो वसुभद्रं स्वपुत्रवत् । सार्धमङ्गारशकट्या पर्यणाययदजसा ॥ १०३ ॥ भिन्नश्च विहितः श्रेष्टिगेहादक्षरपत्रकैः ।

सप्तमः
सर्गः ।
२११
दुर्दान्तानां तनूजानां शिक्षा भवति नान्यथा ॥१०४॥
निष्कलोऽसौ दिनैः स्तोकैरव्ययद् वित्तसंचयम् ।
निर्धनश्चापि संवृत्तो दुर्घत्तानां हि तत्कियत् ॥१०५।।
'साक्षात् शृलास्वरूपेण कलत्रेण कदार्थतः।
नाऽभुङ्ग, समये नीरमपिवद् नापि सौख्यतः ॥१०६॥
गृहस्यान्तःमविष्टोऽसौ न ब्रूते कृतमौनवत् ।
कलिभीत्या मन्यते च तद्वाक्यं गुरुवाक्यवत् ॥१०७॥
अथ वर्षासु सीरं स वाहयामास दुःखितः ।
निष्कलानां हि कर्माणि कृप्यादि किल भुक्तये।।१०८||
कदन्नमशनं साऽप्यपराहे रुक्षशीतलम् ।
प्रददौ प्रत्यहं पत्यै सोऽप्यभुङ्ग, दिवानिशम् ।।१०९।।
सोऽपरेयुर्हलक्षेत्रे वाहमानः कुशागवान् ।
प्राजनेन वलीवर्दै खजं दुर्बलविग्रहम् ।।११०॥
ताडयन्नित्यभापिष्ट रे रे पभ ! सादरम् ।
शीघ्रं परिणाययिष्ये शान्तो मद् भवाऽन्यथा॥१११॥
वाह्यालीविनिवृत्तोऽथ भूपः शुश्राव तद्वचः ।
हंहो वत्स ! कदा तेजाद् दुर्दान्तत्वमनुत्तरम् ।।११२॥
स प्रोवाच यदा देव! त्वयाऽस्मि परिणायितः ।
तदाऽभूद् मम शान्तत्वं तत्वं तत्त्वविदो यथा ॥११३।।
इतः प्रभृति यत्किञ्चिद् गुरवो गौरवान्वितम् ।
निदेक्ष्यन्ति विधास्यामि तदहं निरहंकृतिः ॥११४||
ततः सगौरवं राजा जिनचन्द्रसमुद्भवाम् ।
सुताममृतमुख्याख्यां श्रेष्ठिजं पर्यणाययत् ।।११५।।
सर्वथा मुक्तदौर्गत्यः सर्वथाकृतसक्रियः ।
सर्वथा रञ्जितजनः सर्वथाऽभूच्छमादृतः ॥११६॥
विषयान् सेवमानस्य समभूत् तस्य नन्दनः ।
सोमदेव इति ख्याता तस्याऽऽख्या भूभुजा कृता॥११७॥

२१२ मल्लिनाथमहाकाव्ये- अन्यदा पोतमारुह्य सोमदेवोऽम्बुधौ गतः । परकूलाद् निवृत्तश्च मन्दिरद्वारमाययौ ॥११८॥ पौत्रोत्को गतवांस्तत्र वसुबन्धुर्महाधृतिः । पोतस्थमालिलिङ्गाऽऽशु सुतं मूर्ध्नि चुचुम्ब च ॥११९॥ अमच्छि स्वस्थचित्तेन मार्गव्यतिकरोऽखिलः । चिराय मिलितानांस्याद् वार्ताभिर्य महाधृतिः।।१२०॥ पोतेऽत्रैव वणिपुत्रं धर्मदेवाभिधाश्रुतम् । पप्रच्छ सोमदेवोऽथ किमिदं दृश्यते पुरः ॥ १२१ ॥ देवाऽयं पुरतो मत्स्यः साक्षादद्रिरिवापरः । कुतश्चिद् निश्चलः सम्यग् नायं शैलः शुभाशय ! ॥१२२॥ सोमदेव उवाचाऽथ झषो नायं महामते ! । किन्त्वयं पर्वतः कोऽपि यादस्तुल्यो महोदधौ ॥१२३॥ चेदयं भद्र ! मत्स्यः स्याद् मामकीनं धनं तव । चेदयं पर्वतो भावी तावकीनः पणश्च कः ? ॥ १२४ ॥ अथेत्थं धर्मदेवन जगदे प्रमिताक्षरम् । मामकीनं शिरस्तेऽस्तु तद्वशे लभ्यभागवत् ॥ १२५ ॥ उभाभ्यां वसुवन्धुश्च साक्षीचक्रे स्वजल्पयोः । ततो धर्मोऽक्षिपत् तत्र प्रज्वलत्तृणपूलकम् ॥ १२६ ॥ तत्पृष्ठं पतता तेन संजातं तापितं तिमः । ननाश काकनाशं च वराको लगुडादिव ॥ १२७ ॥ धर्मदेवो धनं तस्य याचते पितृदत्तवत् । सोऽपि मौन्यभवत् काममन्यथाक्षिप्तचित्तवत् ॥१२८।। ततस्तेन महीभर्तुर्गदितं पुरतोऽखिलम् । परिभूतेषु भूपालः पितेव परिपालकः ॥ १२९ ॥ हंहो ! युष्मद्विवादेऽभूत् कः साक्षीत्यगदद् नृपः ? । अनयोरगदद् धर्मः साक्ष्यस्त्यस्य पितामहः ॥१३०॥ १ भागत , इत्यपि।

सप्तमः सर्गः। २१३ वसुबन्धुं समाहूयाऽपृच्छत् क्षितिपतिश्च तत् । असो सत्यमभापिष्ट तं वृत्तान्तं सविस्तरम् ।। १३१ ॥ अस्य सत्यवचः श्रुत्वाऽभ्यधादथ महीश्वरः । अहो! मनृतगीः श्रेष्ठी अहो! व्रतविवेचनम् ॥१३२।। कौस्तुभेन यथा वो भूप्यने केशिशासितुः । तथा सत्येन मनुजो वक्षःस्थेनाऽकलविना ॥ १३३ ।। जरामरणकल्लोलः प्रत्यूहव्यूहबारिधिः । विप्वकमवहणेनेव सत्यवाक्येन तीर्यते || १३४ ॥ धर्मवानपि विज्ञोऽपि मूनृतेतरभाषणात् । न नन्दति निरानन्दो मन्त्रपाठी यथाऽशुचौ ॥ १३५॥ असारे विभवेऽमुष्मिन् सारो मूनृतगीरहो !। भाराम्बुधाविव क्षीरकूपिका तर्पिकाऽधिकम् ॥१३६।। प्रशस्येत्यवदद् धात्रीपुङ्गवः श्रेष्ठिपुङ्गवम् । पौत्रस्यार्थे कथं नोक्तं भवता मूनृतेतरत् ? ॥१३७।। स्वामिन् ! श्वेताम्बराचार्यद्रुमघोपपदान्तिके । गृह्णता भावतः सर्वव्रतानि बहुभेदतः ॥१३८॥ विशेषतो व्रतेऽप्यस्मिन् निश्चयो विदधे मया । असावेनहिं योप्माकादेशतः परिपालितः ।। १३९ ।। अथ सत्कृत्य भूपालस्तद्भाले स्वर्णपट्टकम् । सत्यस्य सूचकं वद्ध्वा गृहे स्वयममोचयत् ॥१४॥ ततः प्रभृति स श्राव्रतानि परिपालयन् । कल्पं लान्तकमासाद्य भरते मोक्षमेष्यति ॥१४१॥ नृनाथोऽथ जगन्नाथं नत्वा कुम्भोऽभणत्तराम् । वसुबन्धुः कृतार्थोऽयं यः सत्यव्रततत्परः ॥ १४२ ।। अथाऽभकाशयद् नाथस्ताीयीकमणुव्रतम् । अदत्तादानविरतिलक्षणं शुभलक्षणम् ॥ १४३ ॥ परद्रव्यमतिः प्रायः प्राणी स्यात् कर्मगौरवात् ।

२१४ मल्लिनाथमहाकाव्ये- पश्य सोमोऽपि पद्मिन्याः श्रियं हरति रात्रिषु॥१४४॥ परद्रव्याऽपहर्तारः कर्तारः कर्मवैभवम् । हन्तारः प्राप्तकीर्तीनां यातारो नरकावनीम् ।।१४५।। अदत्तादाननिरतास्ते लभन्ते शुभेतरद् । शृणु भव्य ! प्रबोधाय संगमकनिदर्शनम् ॥ १४६ ॥ तथारािवते क्षेत्रे नगरे सोमपत्तने । अभूद् भूपीश्वरश्चन्द्रकेतुः केतुरिव द्विषाम् ॥ १४७ ॥ क्षत्रियायाः सुतस्तत्र वास्तव्यः संगमाभिधः । पञ्चवत्सरदेशीयः समभूद् घस्मरोनिशम् ।। १४८ ।। अन्येार्वभणे तेन देहि मातस्तिलान् मम । साऽप्याख्यत् खलतो गत्वा गृहाण निजयेच्छया।।१४९।। न मे तिलपतिस्तातो न बन्धुर्न च मातुलः । न पितृव्यः पतिवाऽपि कथं दास्यति सोऽवदत् ॥१५०॥ जनयिच्या ततः कण्ठस्नानं सैष विधापितः । सोऽप्याविग्रहस्तत्र गतवान् प्रमितैः पदैः ॥ १५१ ॥ श्येनपातं पपातोच्चैस्तत्र तेष्वथ संगतः । लुठति स्म तरां श्रान्ततुरङ्गम इवाधिकम् ।। १५२ ।। आः पाप ! बालकक्रीडां कथमत्र विधास्यसि । जनस्ताज्यमान इति स मन्दं प्रासरत् ततः ॥ १५३ ॥ धुत्वा धुत्वा शरीरं सोऽपातयद् भुवि तांस्तिलान् । जनन्याऽथ प्रमार्जिन्या ते च पुञ्जीकृताः क्षितौ॥१५४॥ जाता सुखादिका तस्य लब्धोपायस्तदर्जने । एवं दिवानिशं कुर्वन् जातास्वादः प्रगल्भते ।। १५५ ॥ कालक इति पौरश्च मुच्यमानो दिवानिशम् । क्रमशस्तस्करो जातो दुर्ग्राह्यो भटकोटिभिः ॥१५६ ।। गर्तावत्परिखां जानन् सखीमपि महोदधेः । १ मन्वन् , इत्यपि ।

सप्तमः सर्गः ।
२१५
सौधान्यपि क्षणालीपुजानीव व्यलड् यत् ॥१५७॥
कदाचिद् मौनभागेप कदाचिद् भिक्षुकक्रियः ।
कदाचिद् धनदः श्रीभिः कदाचिद् नाट्यकारकः।।१५८॥
सर्वरूपधरः सोऽभूद् विद्यासिद्ध इवावनौ ।
कृतदानोऽम्बया रागात् मूर मूर इति स्फुटम्।।१५९॥
अन्येद्युर्मातुलस्तस्य यशोनागोऽभिधानतः ।
एकान्ते शिक्षयामास तं विनेयं गुरुर्यथा ॥१६० ॥
वत्स! स्वच्छाशय ! त्यक्तुं चौर्य साम्प्रतमेव ते ।
परद्रव्यहरा नून छिद्यन्ते ऋजुक्षवत् ॥ १६१ ।।
मार्यन्ते विविधैारैः क्रीडायां शारयो यथा ।
ताड्यन्ते च कशाघातैस्तुरङ्गा इत्र सादिभिः ॥१६२॥
एतावन्ति दिनान्युचैर्यत्कृतं सुन्दरदृशम् ।
तद् वालत्वाद् मया क्षान्तं वाला अज्ञा इति श्रुतिः।१६३।
एतद्वचांस्यनाकर्ण्य प्रासरद् निजकर्मणि ।
किं विधत्ते यतोऽन्धानां प्रदीप्ता दीपकोट्यपि ॥१६॥
तत्रवास्तव्यभद्राख्यसार्थवाहमहोकसि ।
खात्रं पातयितुं सज्जो न प्रापौपायनं च सः॥१६५।।
ऊर्ध्वस्थाः सुभटा विष्वभित्तयः फलकाङ्किताः।
खात्रदाने कुतो हेतुर्निर्हेतुः सोऽप्यजायत ।। १६६ ॥
अन्येार्भद्रवित्तेशो विपयं चन्दनं गतः ।
पदातिरिव तत्पृष्ठे संगमोऽपि हि संगतः॥१६७ ।।
तत्र गत्वेदृशीं चक्रे वार्ता कापि महामतिः ।
भद्रस्य मुपितं गेहं खात्रदानेन केनचित् ॥ १६८ ॥
किंवदन्ती च सा पौरप्रणाल्या भद्रसन्निधौ ।
अगादाख्यत सोप्युच्चैनै ह्येतद् घटते क्वचित् ॥१६९॥
परं कोशस्य कोणोऽस्ति जर्जरो दक्षिणेतरः
तत्र संभाव्यते खासंभवोऽन्यत्र न कचित् ॥१७० ॥

मल्लिनाथमहाकाव्ये- तद्दचो मन्त्रवच्छ्रुत्वा ववले नगरं प्रति । रात्रौ खात्रमदासीच तत्र स्मेराम्बुजाकृतिः ॥ १७१ ।। गृहीतभद्रवित्तोऽसौ तत्राऽस्थाद् निर्भयाशयः । उभ्योऽप्यगाच वेगेन तदेवादी निरक्षत ॥ १७२ ।। अद्यैव पातितं खात्रं निशायां नाथ ! केनचित् । इत्यारक्षकवाक्यानि श्रुत्वोचे वणिजां पतिः ॥ १७३॥ ह्यस्तनेऽति मयाऽश्रावि यत् खात्रं ते महोकसि । पातितं तदद्य सत्यं जातं भाग्येतरोदयात् ।। १७४ ॥ तद्भूतक्रीडितं किश्चिचिन्त्यते धीविलोकनात् । यद् देवैरपि दुर्जेयं तत्साध्यं बुद्धिवैभवात् ।। १७५ ॥ अक्षतैरिव रनौषैः भृत्वा स्थालं महीपतेः । प्राभृतीकृत्य तत्खात्रवृत्तमाख्यत वित्तवान् ।। १७६ ॥ तटाकर्ण्य नृपः कोपारुणदारुणलोचनः । समाकार्य तलारक्षं साक्षेपमिदमब्रवीत् ॥ १७७ ॥ रे रे तलाधिपाऽशेषं त्वयि सत्यपि तस्करैः। अनाथमिव मे नूनं पत्तनं परिमोण्यते ॥ १७८ ॥ सोऽवदद् तद्ग्रहे नाथ! उपाया वहवः कृताः । परं न कापि संमाप्तः समुद्रक्षिप्तचूर्णवत् ॥ १७९ ।। सप्ताहाद् देवपादानां पुरश्चौरमुपानये । अन्यथा तेन दण्डेन दण्डो मम विधीयताम् ॥१८०॥ ततः प्रभृति सातत्याद् भ्राम्यन् नगररक्षकः । स्थूलाझं पुरुषं कञ्चिद् भ्रमन्तं दृष्टवान् पुरे ॥१८१।। तं दूरस्थस्तलाध्यक्षो वीक्षमाणः पदे पदे । मध्याह्ने द्विजवेषेण यान्तमिभ्यमहोकसि ॥ १८२ ।। सन्ध्यायां कृतनेपथ्यं सामन्ततनयायितम् । निरीक्ष्य ज्ञातवानेप चौरबुद्धिर्हि सिद्धिकृत् ।।१८३॥ (युग्मम् ) सप्तमः सर्गः। २१७ स बद्धो वहिबन्धेन ततो नीतो नृपान्तिके। पपात भद्रनामाइमुद्रा तद्वस्त्रमध्यतः ॥ १८४ ॥ नृपाऽऽदेशात् तलाध्यक्षः शूलायामेनमक्षिपत् । इतथाऽजानती तत्राऽऽगमत्तस्याम्बिका पुरः॥१८५।। शूलामोतं सुतं दृष्टा कालरक्षाकटाक्षितम् । चक्रेपलायां सा भीता पान्धो दुःशकुनादिव ॥१८६।। हंहो! तलाध्यक्षनराः ! इमां रण्डां मदन्तिके । समानयत, वेगेन कथयिष्ये धनं हि वः ॥१८७॥ कोकूयमाना खरवत्साऽऽनीताऽजा करिव । रे रण्डे ! तब दुःशिक्षाफलं मम विजृम्भितम् ॥१८८॥ भक्षके यद्यरक्षिप्यस्तिलस्तन्यपरं हि माम् । तदा नैवंविधोऽनों निरपत्स्यत मेऽधुना ॥१८९॥ दुस्त्यजो वाल्यसंस्कारो नीलीराग इवाम्बरे । अहं त्वयोपेक्षितश्च मारितश्च त्वयैव हि ॥१९०॥ इत्युक्त्वा वाहुदण्डाभ्यां विधृत्याम्बां दुराशयः । घ्राणं चिच्छेद दन्तायैः कर्णावपि च मूलतः ॥१९१॥ इति कृत्वा स रौद्रात्मा रौद्रध्यानकदर्थितः । जगाम सद्गमो धूमप्रभाख्यां नरकावनीम् ।।१९२।। अदत्तग्रहणे राजन् ! फलमीग् विलोक्यते । तस्मात्परधनत्यागः कर्तव्यो हितमिच्छना ॥१९३॥ उवाचाऽथ धरानाथः श्रुत्वाऽमुष्य निदर्शनम् । अस्माकं कम्पते चित्तं वाताऽऽन्दोलितकेतुवत् ।।१९४॥ केपाश्चिदाधिपत्येन महेशानां निरागसाम् । सर्वखं जगृहेऽस्माभिः खानयित्वा गृहाण्यपि ॥१९५।। केचिद् वाला अपि च्छिन्नाः केचिदुन्मीलितास्तताः । वृक्षा इव परोलक्षा मया वाकिना यथा ॥१९६।। सर्वस्वं हरता तेषां यत्कर्मोपार्जितं मया । २८

२१८
मल्लिनाथमहाकाव्ये-
-
तद्भस्मसात्करिष्यामि त्वत्पादरजसाऽञ्जसा ।।१९७॥
अथ व्याख्यानयद् विश्वनाथस्तुर्यमणुव्रतम् ।
अब्रह्मविरति म माहात्म्यद्रुधनाघनः ॥१९८।।
केचिद् नवेऽपि तारुण्ये वृद्धा इव विवेकिनः ।
अनाचारे न वर्तन्ते शीलमालिन्यशङ्कया ।।१९९।।
वित्तापहारदुःखानि नानाकारकदर्थनाः ।
अङ्गप्रत्यङ्गविच्छेदॉल्लभन्ते पारदारिकाः ॥२०॥
विश्वासवसतिः शीलं शीलमुन्नतिकारणम् ।
सर्वसौख्यनिधिः शीलं शीलं कीर्तिनदीगिरिः॥२०१॥
अहार्य मण्डनं शीलं शीलं सर्वाङ्गभूपणम् ।
शीलं सर्वज्ञधर्मद्रोर्मुलं शीलं श्रियः पदम् ।।२०२।।
शीलवतगुणाऽऽकृष्टा देवा अपि हि पत्तिवत् ।
आयान्ति स्मृतिमात्रेण प्रयान्ति च विसर्जनात् ॥२०३॥
स्वकीयदारसंतोषं ये भजन्ति दृढव्रताः ।
तेषां सुदर्शनस्येव शूला सिंहासनं भवेत् ॥२०४॥
तथाहि भरते वर्षे विषयेऽप्यगनामनि ।
चम्पानाम पुरी तत्र भूपालो दधिवाहनः ॥२०५॥
देवी तस्याऽभया नाम धाम लावण्यसंपदाम् ।
धात्री पात्री च बुद्धीनाममुष्याः पण्डिताह्वया ॥२०६॥
श्रेष्ठी वृषभदासाख्यस्तत्रासीद् धाम संपदाम् ।
अर्हदासीति सत्यार्था तस्य पत्नी पतिव्रता ॥२०७॥
अमुष्यर्षभदासस्य सदयः प्रियभाषकः ।
महिण्या रक्षकः शान्तः सुभगः सुभगाशयः ॥२०८॥
अन्येाचारयित्वा स महिषीर्वलितस्तदा ।
अपश्यत् तपसा क्षामं मुनि शममिवाङ्गिनम् ॥२०९॥
यत्रास्तमितवासत्वात्कायोत्सर्गपरायणम् ।
सोऽपश्यञ्च महासत्त्वं पुरीपरिसरेऽपि हि ॥२१०॥

सप्तमः सर्गः। २१९ तं वीक्ष्याचिन्तयदसौ धन्योऽयं पुण्यभागयम् । यः पूः पितृवनेऽवात्सीदेकाकी खङ्गिशृङ्गवत् ॥२११॥ तपस्तेजोऽस्य वीक्ष्येव दिनान्तेऽप्यविनश्वरम् । ममज्ज भानुमानब्धौ, किं न कुर्वीत लज्जितः ॥२१२॥ दृष्टिपचारं रुन्धाना लुण्टाकी पदवेः सताम् । कुमहीपतिसेवेव रुरोधाशां तमस्ततिः ॥२१३।। विकाल इति विज्ञाय गृहीत्वा माहिषं ततः। स्मरन् मुनिपदाम्भोजमगमद् निजमन्दिरम् ।।२१४॥ महिषीदोहनाद्यानि स्वकर्माणि विधाय सः । अस्वाप्सीदुचिते स्थाने पलालालीकरालिते ॥२१५।। अहो ! करालः शिशिरस्तुषारकणवर्षकः । दहन् कमलिनीखण्डं खण्डीकुल्लताततीः॥ २१६ ॥ निर्वातवासवेश्मस्था ऊरीकृतहसन्तिकाः । अमुं शीतमृतुं सौख्याद् गमयन्ति धनेश्वराः ॥२१७|| अस्मादृशास्तु तैलेन दिग्धाङ्गाः कन्थयान्विताः । पलालशयनस्याऽन्तर्गमयन्ति महानिशाः ॥२१८|| स यतिः प्राहतो नैव यथाजात इव स्थितः । सहिष्यते कथं शीतं दुःसहं सहसा कृतम् १ ॥२१९।। तदाऽहं निजया पट्या भावरिष्यं मुनि यदि । इदं शीतं महासत्त्वोऽलड्वयिष्यदसंशयम् ॥ २२० ॥ विमृशन्निति कृत्यानि विनिर्माय स सादरम् । मुनिपादरजःपूतं तं प्रदेशमगादथ ॥ २२१ ॥ अत्रान्तरे दिशां चक्रं द्योतयन् संहरंस्तमः । पूर्वभूधरमाणिक्यमुदियाय नभोमणिः ।। २२२ ॥ नमोऽहद्भय इति पोच्य सोऽपि साधुः खगेन्द्रवत् । अमुष्य वीक्षमाणस्य विहायस्तलमासदत् ॥२२३।। अहो ! अभाग्यपात्राणामद्य मुख्योऽस्मि निश्चितम् ।

२२०
मल्लिनाथमहाकाव्ये-
येनाऽसौ वन्दितो नैव नास्माद्धर्मोऽपि संश्रुतः॥२२४॥
अथवा येन मन्त्रेण नमोऽगादेप पावनः ।
स मया शुश्रुवे सम्यक् तस्मादस्मि कृतार्थहृत् ।।२२५॥
ममाप्यम्बरचारित्वं भविता मुनिराजवत् ।
नमोऽर्हद्भय इतीयन्ति पठति स्माक्षराणि सः।।२२६॥
भोजनावसरे रात्रौ शयानो जाग्रदप्यथ ।
अमुमाघोषयामास प्रकृत्या भद्रकाशयः ।। २२७ ।।
अन्यदा श्रेष्ठिनः पत्नी भणन्तममुमुच्चकैः ।
श्रुत्वा रे पाप! मन्त्रं नो हससीति स्म भापते॥२२८||
नाहं मातरमुं मन्त्रं हसामि शपथा मम ।
किन्त्वस्य लाभमङ्गल्यं प्रसद्य निखिलं शृणु ॥२२९॥
ततस्तापोधनं वृत्तं सुवृत्तस्तमचीकथत् ।
तत्तथेति तयाऽज्ञायि भाषितं तस्य सत्यतः ॥२३०॥
आद्योऽयं सर्वमन्त्राणां विद्यानां वसुसंपदाम् ।
मद्गल्यानामशेषाणां निःश्रेयसश्रियामपि ॥२३॥
तदहो ! शोभने स्थाने शुचिभूतेन भावतः ।
ध्यातव्योऽयं महामन्त्रः कल्पद्रुरिव जङ्गमः ॥२३२॥
माती कल्यसंपूर्णममुं शिक्षय सुन्दरम् ।
तयाऽथ पाठितः पञ्चपरमेष्ठिस्तबोऽखिलः ॥२३३॥
इतश्च ग्रीष्मवेतालसमुच्चाटनयन्त्रवत् ।
व्यानशे व्योम मेघानां पटलं गवलद्युति ॥२३४॥
श्रूयन्ते केकिनां केकाः कामं कर्णमुदां पदम् ।
पान्थानां गमनच्छेदकामाज्ञा इव सर्वगाः ॥२३५।।
धारावाणैरब्दयोधा यदविध्यन् धनुर्भृतः ।
तदश्रुमिषतः पान्धनत्रयोर्लक्ष्यते जलम् ।।२३६।।
मृदां गन्धाद् भवन्ति स्म मातङ्गा उन्मदिष्णवः ।
किं चित्रं यत्प्रमोदन्ते मलिना मलिनोदये ॥२३७॥

सप्तमः सर्गः। २२१ विहाय पद्मिनी भृङ्गा निषेवन्ते स्म मालतीम् । संपूर्ण सेवते सर्वो रिक्तं त्यजति दूरतः ॥ २३८ ।। मन्दं वर्षति पर्जन्ये स समादाय माहिपम् । अर्वाक् चारयितुं व्यूढं गङ्गायाः कूलमासदत् ।।२३९॥ अथ पायोधरः पाथोधाराभिर्धरणी तथा । अपूरयद् यथा निम्नस्थलाचं नाप्यलक्ष्यत ।। २४० ॥ कृकाराकारविद्युद्भिर्दीप्रदीपायितं ततः । कज्जलश्यामलैः कामं दुर्दिनैः शर्वरीयितम् ॥२४१॥ नीडेषु नीडजा मुकीभूता विद्युद्भयादिव । लपन्ति चातका विष्वक् प्रत्यवं याचका इच ।।२४२।। वाहा अपि नदीयन्ते सरिन्नाथन्ति निम्नगाः । अभूद् भूः पाथसां पानमेकं कल्पान्तवत् तदा ।।२४३॥ कम्बलपाततनुः सुभगो नागवेश्मनि । चिरमस्थाद् महिष्यश्च नद्याः कूलं परं ययुः ॥२४४॥ कपिञ्जलकलकलै रात्रि विज्ञाय भाविनीम् । तस्माद् निर्गत्य ता विष्वग्वीक्षमाणः स सैरभीः॥२४५।। बुद्धथा विज्ञाय गङ्गायाः परकूलं ममाधुना । महिष्यश्चरितुं प्राप्ताः सांप्रतं किं नु सांप्रतम् ना२४६॥ विमृश्यति स्मरन्मत्रं नमोऽहद्भय इति श्रुतम् । अविक्षत् स्वर्धनी वारिस्फारस्फूत्कारदारुणाम्।।२४७॥ यस्यां वृक्षा महान्तोऽपि मूलोन्मूलितसंपदः । शरारिवत् तरन्त्युच्चैः स्थानभ्रंशे कुतः स्थितिः ॥२४८॥ तीरग्रामगृहाण्युच्चैर्वभुर्यत्र तरन्ति च । मुक्तानीव विमानानि मेघदेवैः सहोदकैः ।। २४९॥ पयोभिह्यमाणानां जनानामार्तनिस्वनाः । श्रूयन्ते दण्डभूमण्डमङ्गलातोद्यनादवत् ॥ २५०॥ तत्माप्तरथमायः सुभगस्तारकोत्तमः ।

२२२
मल्लिनाथमहाकाव्ये-
विद्धोऽतितीक्ष्णकीलेन शूलाप्रोत इवाजनि ॥२५॥
स्मरन् पश्चनमस्कारं सद्गतेः शासनोपमम् ।
सुभगः पाप पञ्चत्वं दुर्लड्डया भवितव्यता ॥ २५२॥
वृषभश्रेष्ठिभार्याया अर्हद्दास्यास्ततस्तदा ।
वभूव स सुतत्वेन सुभगः स्वप्नमूचितः ॥२५३॥
जिनानामनां कुर्वे दीने दानं ददामि च ।
पात्रं वित्ते वितरामि गुप्तेर्मुश्चामि वन्दिनः ।।२५४॥
दोहदमिदमेतस्याः विज्ञाय स्वानुसारतः ।
अमारिघोषणापूर्व तत्सर्व श्रेष्ठयपूरयत् ।।२५५।।
अथ जाते सुते श्रेष्ठी महोत्सवमनोरमम् ।
सुदर्शन इति प्रीत्या सत्यार्थ नाम निर्ममौ ॥२५६।।
देहेन स कलाभिश्च वर्धमानो दिने दिने ।
नयनानन्दजननो रजनीश इवाजनि ॥२५७॥
पुरन्ध्रीणां मनःपद्मसमुल्लासनभास्करम् ।
वनं काममहे तस्य स यौवनमुपेयिवान् ।। २५८ ।।
ततः सागरदत्ताख्यश्रेष्ठिनः कन्यकां शुभाम् ।
मनोरमाभियां हर्षाद् गुरुणा परिणायितः ॥२५९।।
अमुना गृह्णता दीक्षां न्यस्तो निजपदे सुतः ।
सुदर्शनः सतां श्लाघ्यः सर्वदैव सुदर्शनः ॥२६॥
झपध्वजति रूपेण धिया च धिषणायते ।
चरित्रेण प्रेवित्रेण गृहस्थोऽपि मुनीयते ॥ २६१ ।।
सत्यवाक्येन यस्यास्यं विवकेन मनोऽम्बुजम् ।
रूपं लावण्यपूरेण युतं यस्य व्यराजत ॥२६२॥
सर्वज्ञशासने यस्य रागो नैव पुरन्ध्रिषु ।
यस्याऽभूद् व्यसनं शास्त्रे कामास्त्रे न मनागपि॥२६३॥
असो
द्वादशधा श्राद्धधर्म सुगुरुसन्निधौ ।
प्रपद्य परमश्राद्धोऽजनिष्ट सुविशिष्टधीः ॥२६४॥

सप्तमः सर्गः। २२३ - राजादीनां स मान्योऽभूत् किं पुनः पौरसंहतौ । यस्माद् मनोरमं शीलं यस्य गीश्च मनोरमा ॥२६५ ॥ बभूव तस्य सन्मित्रं कपिलो नाम सन्मतिः । पुरोधा भूमिपालस्य षटकर्मप्रगुणाशयः ॥२६६॥ कपिला नाम तत्पत्नी तारुण्यमदविह्वला । चतुःषष्टिकलापात्रं दक्षा पण्डितमानिनी ॥२६७|| अन्येयुर्वर्णिता प्रेम्णा कपिलेन तदग्रतः । सुदर्शनगुणग्रामोऽभिरामस्त्रिदशेष्वपि ॥२६८।। ततो न सा रतिं पाप विद्धवानङ्गमार्गणैः । ततः प्रभृति तत्रोकादिक्षत सुदर्शनम् ॥२६९॥ अन्येयुः कपिलो राजकार्याद् ग्रामान्तरं गतः । प्रस्तावविज्ञा कपिला निजधानीमवोचत ॥२७०॥ श्रेष्ठिस्तावकमित्रस्य जातं वपुरपाटवम् । देहवार्तामपि प्रष्टुं कस्माद् नागम्यते त्वया ? ॥२७१॥ इति शिक्षा मुहुर्दत्त्वा प्रेषिता निजधात्रिका । सा तद्नेहं समासाद्य तत्तथाऽवददुच्चकैः ॥२७२॥ तच्छ्रुत्वा वत्सलः श्रेष्ठी तत्रागत्येत्यवोचत । भ्रातृजाये! मम भ्राता भट्टः कुत्रावतिष्ठते ? ॥२७३॥ तयोचे मन्दिरस्यान्तस्तव सुप्तोऽस्ति बान्धवः । भवानपि द्रुतं तत्र यातु यातु सदाशयः ॥ २७४ ॥ गृहस्यान्तः प्रविष्टो न दृष्टवान् सुहृदं निजम् । भ्रातृजाये ! कथं मां तु विप्लावयसि वालवत्॥२७५॥ हृन्नाभिस्तननेत्राणि कामास्त्राणीव विभ्रती । प्रकटानि चलनेत्रा पुरस्तादस्य संस्थिता ।।२७६॥ यदैवाऽशृणवं नाथ ! तव रूपादिवर्णनम् । तदा प्रभृति मे कामतप्तं वपुरजायत ॥ २७७ ॥ संगमामृतरूपेण गात्रं निर्वापय प्रिय ! ।

"
२२४
मल्लिनाथमहाकाव्ये-
यावत्कन्दर्पदहनाद् भस्मसाद् न भवाम्यहम् ॥२७८॥
विहस्योचे ततः श्रेष्ठी मुग्धे! मुग्धासि निश्चितम् ।
पुवेषेण भ्रमाम्युच्चैरहमस्मि नपुंसकः ।। २७९ ।।
एवं कूटप्रयोगेण विमोच्य स्वं शुभाशयः ।
निरगाच्छ्रेष्ठिपुन्नागो दध्याविति च मानसे ॥२८०॥
परगेहे न गन्तव्यं स्वस्मादपि प्रयोजनात् ।
परगेहप्रविष्टानां व्यलीकानि भवन्ति यत् ॥२८१।।
मानिनीमानलुण्टाकः स्मरसञ्जीवनौषधम् ।
लासकः पद्मिनीनां च वसन्तः समवातरत् ॥२८२॥
भृङ्गीणां विरुतैर्यत्र कोकिलानां तु कृजितैः ।
स्मरः सुप्तो व्यवोधिष्ट राजा वन्दिस्खरैरिव ॥२८३||
प्रतिवृक्षं विलोक्यन्ते दोलाः शाखासु लम्बिताः।
पान्थप्राणाण्डजग्राहे पाशा इव मनोभुवा ॥२८४||
वसन्तश्रीसनाथानि काननानि निरीक्षितुम् ।
दधिवाहनभूपालश्चचाल सपरिच्छदः ॥२८५।।
सुदर्शनश्च रूपेण सुदर्शनधरायितः।
गतः क्रीडितुमुद्याने नन्दनस्येव सोदरे ॥२८६॥
कपिलश्च द्विजः प्रान्तिकर्मज्ञैर्वेदवेदिभिः।
अतिधीराक्षरोच्चारबधिरीकृतपुष्करैः ॥२८७॥
तदनु प्रस्थिता यातुं कपिला ब्राह्मणीकृता ।
तत्पुरश्चाभया देवी वरयानसमाश्रिता ॥२८८॥
मनोरमाऽपि सश्रीका सर्वालङ्कारशालिनी ।
साकं पुत्रैश्चतुर्भिश्च लक्ष्मीपति जैरिव ॥२८९।।
दृष्ट्वा लीलायितं तस्या देवीनामपि दुर्लभम् ।
पप्रच्छ कपिला राज्ञी कस्यैषा वरवर्णिनी? ॥२९॥
पत्नी सुदर्शनस्येयं नामधेयाद् मनोरमा ।
एतयोर्नन्दना एते उपाया इव रूपिणः ॥२९१॥

सप्तमः सर्गः। २२५ . एवं निगदिते देव्या सहासं साऽप्यवोचत । अहो ! वणिप्रियाणां हि कीदृशं किल कौशलम् ॥२९२॥ यत:- ? अस्या नपुंसकं भर्ता परं जाताः सुताः कथम् ? । इत्यन्योन्यविरुद्धार्थी वणिक्पनी पतिव्रता ॥ २९३ ॥ चेत्पमं संभवेद् व्योम्नि ग्रन्थौ चेद्वध्यतेऽनलः । तथाऽपि श्रेष्ठिनोऽमुष्माद् न भवन्ति सुताः खलु ॥२९४॥ अथाऽख्यदर्भया देवी मुग्धे ! ज्ञातमिदं कथम् १। ततः सा पूर्ववृत्तान्तमवदच्च तदग्रतः ।। २९५ ।। सहास्यमभया प्राह कपिले ! मुग्धचेतने !। अज्ञातकामशास्त्रार्थे ! वृथा पण्डितमानिनि ! ।। २९६ ॥ असको परकीयासु रामासु भगिनीष्विव । सदा नपुंसकं श्रेष्ठी न पुनर्निजयोषिति ॥ २९७ ॥ तद् मुग्धे ! वञ्चिताऽसि त्वं छलात्तेन सुबुद्धिना । अथो कपिलयाऽऽख्यायि सख्यहं तावदीदृशी ।। २९८ ॥ कामशास्त्रेषु नैपुण्यं भवतीषु विराजते । स्वामिन्या यादृशी ज्ञाता तादृश्येवाऽस्म्यहं पुनः ॥ २९९ ।। ज्ञास्यामि तव दक्षत्वं कामार्थेषु विनिश्चितम् । यद्यमुं राजवद् देवि ! निर्जीड क्रीडयिष्यति ॥ ३०० ।। निशम्येदं वभाणैषा सख्यमुं रमये न हि । तदा तव सतीर्थ्याऽहं वृथा विज्ञातकौशला ॥ ३०१ ॥ इत्थं विज्ञाय सा देवी प्रतिज्ञां तां गरीयसीम् । गत्वोद्याने यथाकामं क्रीडित्वा सौधमागमत् ॥ ३०२ ॥ अस्त्यस्याः पण्डिता नाम धात्री विश्वासभाजनम् । तदने विजने देवी कथयामास सादरम् ॥ ३०३ ॥ सुदर्शनेन सार्ध मे यथा भवति सङ्गमः । तथा कुरु वितत्योच्चैः किञ्चित्कैतवनाटकम् ।। ३०४ ॥ २ २२६ मल्लिनाथमहाकाव्ये- उवाच धात्रिका पुत्रि ! धरित्रीधववल्लभे !। न सुन्दरं त्वया प्रोक्तमिहाऽमुत्राऽप्रियङ्करम् ॥ ३०५ ॥ यस्मादेष महासत्त्वः परनारीसहोदरः । कामयिष्यति कस्मात् त्वां गृहस्थोऽपि महाव्रती ? ॥३०६ कथमत्र समानेयः पारीन्द्र इव काननात् । आनीतोऽपि तव स्वार्थ न कर्तेति विचिन्तय ॥ ३०७ ॥ अथोवाचाऽभया देवी प्रतिज्ञेयं कृता मया । साकं कपिलगेहिन्या सत्या कार्या यथा तथा ॥ ३०८ ।। नान्यस्य पुरतो मातराख्यातुमपि पार्यते । अतिदुष्करकार्याणां भवत्येव विचक्षणा ।। ३०९ ॥ निःश्वस्याऽथ क्षणं स्थित्वाऽवादीद्धात्री मया सुते ! । उपायो लब्ध ईदक्षः, कीदृक्ष इति साऽगदत् ? ॥ ३१० ॥ श्रेष्ठ्येष पौषधं पूर्ण विधत्ते पर्ववासरे । चत्वरादिषु मौनेन कायोत्सर्गीव तिष्ठति ॥ ३११ ॥ तत्कृते तत्र गत्वा तं कायोत्सर्गपरायणम् । मूकीभावेन तिष्ठन्तं संवेष्ट्य वसनाञ्चलैः ॥ ३१२ ॥ कन्दर्पप्रतिमाव्याजाद् व्यामोह्य द्वाररक्षकान् । द्वित्रि, नयनव्याजादानेष्यामि सुदर्शनम् ।। ३१३ ।। एवंकृते त्वया कार्या स्वप्रतिज्ञा यथोदिता । ढक्का देया ढाक्तिकेन नात्र जेयं परं बलम् ॥ ३१४ ॥ एवं राजी धात्रिकया गदिता मुदिताऽभवत् । प्रस्तावपण्डिता शश्वद्वीक्षमाणा चिरं स्थिता ॥ ३१५॥ अन्येचुरष्टमीरात्रौ धान्या विज्ञातकार्यया । दृष्टः श्रेष्ठी महासत्त्वः पौषधागारमाश्रितः ॥ ३१६ ॥ 'पुष्पादिकसपर्याया नयनाऽऽनयनच्छलात् । कन्दर्पप्रतिविम्बस्य व्याजादेष प्रवेशितः ॥ ३१७ ।। अमुं वीक्ष्याऽभयादेवी हृष्टा प्राप्तनिधानवत् ।

सप्तमः सर्गः। २२७ क्षोभयितुं समारंभे कटाक्षविशिखैः शितैः ॥ ३१८ ॥ • निजसंगसुधास्वादकलनां ललनापिय !। दयां विधाय संधेहि स्वर्गसौख्यमहाद्भुतम् ॥ ३१९ ।। किमिति व्रतकष्टानि कुरुषे मूढमानस ! १ । या व्रतैरपि दुष्पापा सा प्राप्ताऽहं त्वयाऽधुना ॥ ३२० ॥ अनाथामिव मां हन्यमानां मदनमार्गणैः । कस्मादुपेक्षसे नाथ ! सदयोऽस्यज्वलाजने ॥ ३२१ ॥ त्वां स्सरन्त्या ममाभूवन् दिनाः कल्पशतोपमाः। निशा अपि गुणाधार ! ब्राह्मया मे दिवसा इव ।।३२२।। निशास्वमेषु वार्तासु दिगन्तेषु दृशोः पुरः । त्वामेकरूपिणमपि वीक्षे रूपसहस्रगम् ॥ ३२३॥ निशम्येत्यथ साकारं प्रत्याख्यानं समाहितः । धर्मध्यानरतः श्रेष्ठी विशेषेण चकार सः ॥ ३२४ ॥ अभयाऽपि यथावुद्धि भाषमाणा नवा गिरः । मुनीनामपि हि क्षोभकारिणी रूपसम्पदा ॥ ३२५॥ गायन्ती पञ्चमग्रामवन्धुरा नवगीतिकाम् । क्षोभयामास नैवामुं रजन्याऽपि समग्रया ॥ ३२६ ॥ अमुं स्वदारसन्तोषपवित्रामिव वीक्षितुम् । अजनिष्ट प्रभास्फोटस्तिमिरं संहरन् करैः ॥ ३२७ ।। एतावत्यो मया वाचः सामभिः प्रतिपादिनाः। तैः साध्यो यद्भवानैव सन्निपात इवोदकैः ॥ ३२८ ।। इदानीं पाटितं देहं कृत्वाऽहं नखकोटिभिः । पूत्करिष्येतरां पाप ! नेदं भाव्यर्गला व्रतम् ॥ ३२९ ॥ तथाप्यक्षुभ्यति श्रेष्ठिपुगवे नृपवल्लभा । अहो बजमयो ह्येष न विलीनो मदन्तिके ॥ ३३० ।। चिन्तयित्वेति पूत्कर्तु समारेभे महारवैः। सत्यं रक्ता विरक्ताश्च मारयन्ति स्त्रियः खलु ।। ३३१ ।।

२२८ मल्लिनाथमहाकाव्ये- रे रक्षकाः ! बलादेष मां कामयितुमुद्यतः । दारयति नखैस्तीक्ष्णैः शीघ्रं धावत धावत ॥ ३३२ ॥ श्रुत्वेदं सत्वरं तत्र समागात्पृथिवीपतिः । अमुं विश्वासभवनमपश्यञ्च स्वचित्तवत् ।। ३३३ ।। अपृच्छच्च प्रयत्नेन वृत्तान्तस्तव चैप कः ? । सोऽप्यस्थाद् मौनभाक् कामं विशेषेण समाहितः ॥३३४॥ नाऽदासीदुत्तरं किञ्चिदेष क्रुद्धः क्षितीश्वरः । शूलामोतो विधातव्य एष इत्यादिशन्नरान् ।। ३३५ ॥ रे ! पारदारिकेत्युप्रैः संदंशैरिव भाषितः । तस्य श्रोत्रपुटीमन्त]दयामासुराशु ते ॥ ३३६ ॥ न्यस्तोऽसौ रासभे पृष्ठे कण्ठन्यस्तशराववान् । निम्बपत्रैः कृतोष्णीषः कज्जलैर्लिप्तविग्रहः ॥ ३३७ ।। गाद विडश्वयित्वासौ भ्रामयित्वा महापुरे । नीतः पितृवने श्रेष्ठी स्मरन् पञ्चनमस्कृतिम् ।। ३३८ ॥ इतश्च श्रेष्ठिनः पत्नी महासती मनारमा । अशृणोद् दुःश्रवां वार्ता तदीयां वज्रपातवत् ॥ ३३९ ।। सर्वज्ञशासनाभिज्ञः परदारपराङ्मुखः । पट्टदेवी महीयतुः श्रेष्ठी प्रार्थयते कथम् ।। ३४० ॥ किश्चित्संभाव्यते देव्याः कूटं कूटनिधिर्हि सा । असंपूर्णे निजार्थे हि कि न कुर्युर्मलीमसाः ? ॥ ३४१ ॥ अन्तःशून्या बहीरम्या नारी वारीव देहिनाम् । लौल्यादास्वाद्यमानोचैर्निर्मिमीत गलग्रहम् ॥ ३४२ ।। लज्जाकोशविनिर्मुक्ता स्त्री शस्त्रीव भयङ्करा । किं न धत्ते महामोहहस्तन्यस्ता विवेकिनाम् १ ॥ ३४३ ॥ विचिन्त्येति कृतस्नाना साना श्वेतवाससी । पूजयित्वाहतो विम्ब निर्विलम्ब मनोरमा ॥ ३४४ ॥ यद्येप परदारेषु निर्विकारः सुदर्शनः । ?

सप्तमः सर्गः :। २२९ तदय कुरु सांनिध्यं मातः! शासनदेवते! ॥ ३४५ ॥ इति व्याकृत्य नासाग्रन्यस्तनेत्रा सदाहती। कायोत्सर्ग विधत्ते स्म निश्चलागी शिला यथा ॥ ३४६॥ (त्रिभिविशेषकम् ) इतश्चाहत्पवचनदेवी तस्याः प्रभावतः । अगाद् वध्यभुवं तत्र यत्राऽतिष्ठत् सुदर्शनः ॥ ३४७ ॥ इतः सुदर्शनः श्रेष्ठी शुलायां विनिवेशितः । शूला सिहासनं जज्ञे देवतायाः प्रभावतः ॥ ३४८ ॥ ततश्च कृष्टाः कोशेभ्यो निस्त्रिंशा निस्पैस्तदा । मुक्ताश्च श्रेष्ठिनः कण्ठपीठे नगररक्षकः ।। ३४९ ॥ देवतायाः प्रभावेण प्रहारास्ते समन्ततः । स्रग्माल्यरूपिणो जाता भ्रमद्भगमनोरमाः ॥ ३५० ॥ ततो रक्षानिवद्धोऽसौ कण्ठपीठे तलाधिपैः । हाररूपोऽभवत्सोऽपि चलत्तरलनायकः ॥ ३५१ ॥ उपरिष्टात् ततः पुर्या विचक्र देवता शिलाम् । पुरीपिधानवत् कालचक्रवद्यमवक्त्रवत् ॥ ३५२ ।। तामालोक्य भयोभ्रान्तः सपौरोऽजनि भूपतिः । सर्वासामेव भीतीनां मरणं हि महाभयम् ॥ ३५३ ॥ सागसं पृथिवीपालं सपोरं सपरिच्छदम् । एपा हन्मि शिलापातादिति शृण्वन्तु मे वचः ॥ ३५४ ॥ स्मरन्तु देवतां पौरा युष्मद्व्यसनवारिणीम् । क्रुद्धाऽहं सर्वथा दोषरहितश्रेष्ठिनो वधात् ।। ३५५ ।। रे! रे! धरेश! नो वेत्सि स्वभार्याया विजृम्भितम् । यदस्य चिन्तितं झूढ ! तत्ते पततु मस्तके ॥ ३५६ ।। इति दैवं वचः श्रुत्वा वज्रपातसहोदरम् । मृत्युभीतो नृपः प्राह स्वामिन्यागः सहस्व मे ॥ ३५७ ॥ अविमृश्य विधाताऽस्मि क्षन्तव्यो दुर्नयो मम ।

२३० मल्लिनाथमहाकाव्ये- विनम्र सव्यलीकेऽपि महात्मानः कृपापराः ॥ ३५८ ॥ द्विपेन्द्र चेदमुं मृढ ! स्वयं धातासि सन्मतिम् । मौलौ दधासि चेच्छत्रं छत्रधारकवत्स्वयम् ।। ३५९ ।। तदा ते जीवितं राज्यं कृतरक्षं भविष्यति । अन्यथा ते शिलापातान्निपातो भविता द्रुतम् ।। ३६० ।। श्रुत्वेदं भीतभीतोऽसौ सपौरः पादचारतः । वध्यभूमीमनुप्राप्तो गृहीतप्राभृतोत्करः ॥ ३६१ ।। श्रेष्ठिन्निरपराधोऽपि खेदितो यद्विमानतः । तत् क्षमस्व भवाशेषजीवानां जीवितप्रदः ॥ ३६२ ।। तत्प्रभावादिहाऽऽयान्ति देवता अपि पत्तिवत् । अस्मादृशाः कियन्मात्रा निर्विकारमतल्लिके!? ॥ ३६३ ॥ : कुम्भिपृष्ठे समारोप्य श्रेष्ठिनं श्रेष्ठितायुतम् । बभार स स्वयं मूर्ध्नि विमलातपवारणम् ।। ३६४ ।। पौरैः प्रमुदितः साकं गायमानावदानभृत् । वन्दिभिः स्तूयमानस्तु वर्ण्यमानः कवीश्वरैः॥ ३६५ ॥ उद्घोष्यमाणमङ्गल्यो वृद्धस्त्रीभिः पदे पदे । खगेहेऽगाद् वणिगनेता भवरागविरागवान् ॥ ३६६ ॥ (युग्मम् ) भूमीपतिर्नित्य स्वमावासमगमत् ततः । मनोरमामनुज्ञाप्य देवताऽपि तिरोदधे ॥ ३६७ ।। क्षणाद् बन्धः क्षणात् पूजा क्षणाद् दुःखं क्षणात् सुखम् । क्षणिकेऽस्मिन् भवे सर्व दृश्यते क्षणिकं किल ।। ३६८ ।। स्वातिप्रांता यथा मेघा द्विरदान्ता यथा श्रियः । तथा राजप्रसादाश्च विपदन्ता असंशयम् ।। ३६९ ।। यकाभ्यामेव कर्णाभ्यां श्रुतं स्वगुणवर्णनम् । २ ! पारदारिक ! इति ताभ्यामेव हि शुश्रुवे ॥ ३७० ॥ यैरेव विनयोत्कर्षात् पादा मे वन्दिताश्चिरम् ।

सप्तमः सर्गः । २३१ तैरेव ताडिनः शातैः कृपाणैः निष्कृपाऽऽशयः ॥ ३७१ ।। इत्थं निध्यायतस्तस्य समागात्पावनाकृतिः । सूरिः कोऽपि श्रुताम्भोधिसमुल्लासनचन्द्रमाः ॥ ३७२ ॥ राज्ञा स पोरलोकैश्च वार्यमाणोऽपि सन्मतिः । संवेगादाढदे दीक्षामन्तिके तस्य भावतः ॥ ३७३ ॥ अभयाऽपि प्रभावं तं प्रभावन्तं निरीक्ष्य तम् । उदध्यात्मानमफरोज्जीवितत्यागमञ्जसा ॥ ३७४ ॥ अथ पाटलिपुत्रस्य उमशाने व्यन्तरामरी । अभूदुब्दन्धनाद्यहि व्यन्तरत्वं प्रजायते ।। ३७५ ।। यतः उद्धन्धनाद् विपग्रासाद् रज्जुबन्धाद् हुताशनात् । सलिलस्य प्रवेशाच व्यन्तरत्वं प्रकीर्तितम् ॥ ३७६ ॥ चेद् विशुद्धं भवेञ्चेतो निधने कर्मलाघवात् । महादुःख निधानेषु परथा नरकादिषु ॥ ३७७ ॥ (युग्मम् ) नरनाथभयोभ्रान्ता तथा धान्यपि पण्डिता । चम्पापुर्या विनिःसृत्य पाटलीपुत्रमास्थिता ।। ३७८ ॥ देवदत्ताभिधानाया वेश्याया गृहमागता । रूपं सुदर्शनस्योचैः सदा व्याख्यातवत्यऽसौ ॥ ३७९ ॥ तद्गुणश्रवणादेपा जातरागा दिने दिने । कृष्णपक्षेन्दुलेखेव भजते स्म परिक्षयम् ॥ ३८० ॥ ततः सोऽपि महासत्त्वो गीतार्थः श्रुतपारगः । एकाकी प्रतिमां धीमान् भेजे गुरुनिदेशतः ॥ ३८१ ॥ विहरन्मेदिनीपीठे तप:शोषितविग्रहः । समस्तलब्धिसंपूर्णः समागात् पाटलीपथे ॥ ३८२ ॥ सिद्धान्तोक्तविधानेन भिक्षायै पर्यटन्नसौ । निरैक्ष्यत तया धान्या देवदत्ताऽसमेतया ॥ ३८३ ।। + - २३२ मल्लिनाथमहाकाव्ये- - ऊचे सा भगवानेप साधुः सुदर्शनाभिधः । यद्वार्त्ताभिः क्षणमिव दिन निर्गम्यते मया ।। ३८४ ।। यद्येष तपसा क्षीणस्तथाऽप्यऽद्भुतरूपभाक् । भग्नोऽपि कलशो हैमो न तुल्यः कलशैः परैः ॥ ३८५ ॥ तदादेशात् ततः काचिद् गत्वा चेटी तदान्तिके । गर्भश्राद्ध्युपमानेन ववन्दे चरणौ सुनेः ।। ३८६ ।। उपोषिता मुनेऽस्माकं स्वामिनी श्वस्तनेऽहनि । इदानीं पारणां कर्ता तदायातु भवांस्ततः ॥ ३८७ ॥ ऋजुचेना महासत्त्वस्तया दर्शितवर्मना । भ्राम्यन् वेश्यागृहं प्रापदपरिज्ञातचर्यया ॥ ३८८ ।। यथा यथा मुनिगैहमविशन्मुनिचर्यया । तथा तथार्गलां चेटी ददाति स्म दुराशया ॥ ३८९ ॥ चलैनॆत्राञ्चलैः साधोश्चारित्रं कज्जलध्वजम् । विध्यापयितुमारेभे सा रम्भेव मनोहरा ।। ३९० ।। यद्यपि व्रतवानस्मि तथापि मम विग्रहः । विग्रहो मूर्तिमान् जज्ञे धिग् मे सुन्दरमूर्त्तिताम् ॥ ३९१ ॥ ध्यात्वेति मौनमाधाय कायोत्सर्ग ददौ मुनिः । कायोत्सर्गाद् विलीयन्ते उपसर्गपरम्पराः ॥ ३९२ ।। सकलं वासरं साधुः खदितः कामजल्पनैः । तथापि ध्यानतोऽचालीत्कचिन्नैवाऽश्मपुत्रवत् ।। ३९३ ॥ देवदत्तानिदेशेन रात्री साधुसुदर्शनः । परित्यक्तः पितृवने क्रीडत्कौशिकभीषणे ॥ ३९४ ॥ अथासौ व्यन्तरी तत्र क्रीडन्ती वीक्ष्य तं मुनिम् । पूर्ववैरं स्मृति प्रापावधिज्ञानप्रयोगतः ॥ ३९५ ।। विचक्रे शीतलं वातं तुषारकणवर्षिणम् । येनास्माभिर्विदीर्येत किं पुनस्तादृशां तनूः १ ॥ ३९६ ।। ततः शकुनिकारूपं विकृत्य व्यन्तरामरी ।

सप्तमः सर्गः । २३३ भृत्वा पक्षौ च नीरेण स्थित्वा तस्योपरि क्रुधा ||३९७॥ मोचयन्ती जलान्युः पक्षगाणि शनैः शनैः । विदधे पक्षपातं सा तालचन्ताऽनिलायितम् ॥३९८॥ (युग्मम् ) तपःक्षामो शिवसनः कथं शीतं सहेद् मुनिः । तद्गात्रं कम्पितव्याजाच्छीतं दुरेऽकरोदिव ॥३९९॥ रे! रे ! जीव ! कियन्मात्रं तव कष्टमुपस्थितम् । यत्सोहं नरके तस्य वर्णिकामात्रमीक्ष्यताम् ॥४००॥ पायितं त्रषु संतप्तं कुम्भीपाकेपु पाचितः। तारितः पूयसंपूर्णा वैतरिणी तरगिणीम् ॥४०॥ संछिन्नः कुन्तचक्रायः परमाधार्मिकः सुरैः । तत्कष्टं जीव ! हृदये दधतः किमिदं तव ? ॥४०२॥ तवोपकृतिकारिण्याः कर्पयन्त्यास्तनूमिमाम् । एतस्या नालमीशोऽसि कर्तु प्रत्युपकारिताम् ।।४०३॥ एवं भावयतस्तस्य सहमानस्य तां व्यथाम् । सूर्योदये वरज्ञानमुत्पेदे विश्वदीपकम् ।।४०४॥ अथ भक्त्या समाकृष्टा आगतात्रिदशास्तदा। केवलज्ञानमहिमां चक्रिरे सुमहै। सह ॥४०५।। ततो देवकृते पद्मासने मुनिमतगजः । उपाविक्षदथाऽऽनन्तुमापतन् पुरवासिनः ॥४०६॥ ततो देशनया तस्य प्रबुद्धा व्यन्तरामरी । अन्येऽपि वहवो लोका भेजिरे धर्ममाईतम् ॥४०७॥ अथो विहत्य सुचिरं केवली प्रतिबोधकृत् । निर्वाणसंपदं भेजे सर्वक्लेशप्रणाशकम् ॥४०८॥ राजन्! यथाऽमुना चक्रे गृहस्थत्वेऽपि सद्धिया। व्रतं स्खदारसंतोषं तथा कार्य नरैरपि ।।४०९॥ अथ प्रणम्य तीर्थेशं श्रीकुम्भोऽभिदधे नृपः। - ३१

२३४
मल्लिनाथमहाकाव्ये-
.
धन्यः सुदर्शनः श्रेष्ठी जिनदर्शनविश्रुतः ॥४१०॥
तावत्सर्यो जनो धीमांस्तावत्सर्वोऽपि पण्डितः ।
तावच्छुचिः कृतज्ञश्च यावद् न स्त्रीकटाक्षितः॥४११॥
विकारैर्यान्मथैः काम्यैर्यद्धनैरिव ताडितम् ।
न भिन्नं रनवजात्यं शीलं तद् निर्दृतेः पदम् ॥४१२॥
अथ प्राकाशयद्विश्वनाथः पाथोदनिखनः।
परिग्रहमिति माणुव्रतं पञ्चमं व्रतम् ॥४१३॥
पोतो यथाऽतिसंपूर्णो मज्जत्येव महोदधौ ।
तथा परिमितिभ्रष्टः संसारे दुस्तरे नरः॥४१४॥
धनधान्यक्षेत्रवस्तुरजतस्य चतुष्पदाम् ।
सुवर्णकुप्यद्विपदां प्रमाणं पञ्चमं व्रतम् ।।४१५।।
सचित्ताचित्तयोर्येन यावती विरतिः कृता ।
तावती तेन पाल्यैव नोल्लवया मूलमार्गवत् ॥४१६॥
परिग्रहमितिं चक्रुर्ये ज्ञातजिनशासनाः ।
ते स्युर्भोगपदं शश्वद् भोगदत्तसुदत्तवत् ॥ ४१७ ॥
समस्ति भारतेऽमुत्र पुरं रत्नाकराभिधम् ।
यद् वेष्टितमिवाम्भोधिवलयैः परिखामिषात् ।।४१८।।
सत्मभस्तत्र भूपालः सप्रतापः परन्तपः।
तद्गुणैग्रंथिता कीर्तिपटी छादयते दिशः ॥४१९।।
तस्मिन्नेवास्ति वास्तव्यो भोगदत्ताभिधः सुधीः ।
इभ्यपुत्रः परं दैवाद् दारिद्यस्य निकेतनम् ॥४२०॥
लक्ष्मीः खलु सखी कीर्तेर्लक्ष्मीः कल्याणपारदः ।
लक्ष्मीर्विपल्लतादात्रं लक्ष्मी रक्षणमङ्गलम् ॥४२१॥
जातिः कुलं विवेकोऽपि सर्वे रूपादयो गुणाः ।
एकयैव श्रिया हीनास्तृणायन्ते शरीरिणाम् ॥४२२।।
धनुर्दण्डः सुवंशोऽपि सगुणः पर्ववानपि ।
सततं लक्षलाभाय यतते कोटिमानपि ॥४२३॥

सप्तमः सर्गः। २३५ लक्ष्म्या मुक्तस्य पाथोधेरपेयं जलमप्यभूत् । शाक्रीफलानि स्वानि भवन्ति श्रीमतो गृहे ॥४२४॥ गोपमुख्योऽपि कृष्णोऽपि हलिनो वन्धुरप्यहो । लक्ष्म्या कक्षीकृतः शश्वद् भण्यते पुरुषोत्तमः ॥४२५॥ एवं विचिन्त्य नगराद् निर्ययौ देवतासखः । अरण्ये योगिनं कंचिद् वीक्षामास च विस्मितः॥४२६।। वितन्वता तदादेशं तन्वता शिष्यतां भृशम् । अरजि तेन योगीन्द्रो विनयाकि न सिध्यति ॥४२७॥ हंहो !नर ! कथं शश्वत्सेवसे मां कृतादरः । तद् ब्रूहि चिन्तितं चित्ते पूरये ते समीहितम् ॥४२८॥ योगीन्द्र ! द्रविणार्थ्यस्मि तदुपायं निवेदय । वित्तजातविहीनोऽपि नरो गौरिव गण्यते ॥ ४२९ ॥ वत्साऽत्र कूपिका कान्ता कोटीवेधरसाकुला । अस्यां प्रविश्य वेगेन तमाकृष निमेषतः ॥ ४३० ॥ यथा ते जायते स्वर्णसिद्धिश्चिन्तितपूरदा । अचिन्त्यो हि रसादीनां महिमा कल्पवृक्षवत् ॥४३१॥ ततश्च लघुखट्वायां निवेश्याऽमुं सतुम्बकम् । गुणैः प्रसमरैः क्षिप्तः कूपिकायां खनाविव ॥४३२॥ उपत्यकास्थितेनाऽथ कण्ठपीठागतासुना। कूपिकाधं गतो यावत् तावद् दृष्टः स केनचित् ॥४३३॥ हहो ! नर ! रसं कस्मादाक्रष्टुं त्वं समुद्यतः । तदवश्यं मृतिस्तेऽत्र न क्षेमो यमसंनिधौ ॥४३४॥ इत्याकर्ण्य वचस्तस्य भेरीमाङ्कारभासुरम् । ऊचे कस्त्वं कुतोऽप्यत्र संस्थितस्तनिवेदय ॥४३५॥ भ्रातरास्मि धनग्रामवासी व्यवहृतिप्रियः। सुदत्तनामतो दत्तद्रव्यः कौटुम्बिकबजे ॥ ४३६ ॥ स ग्रामश्चौरधाटीभिर्भग्नः प्रचालितो भृशम् ।

२३६ मल्लिनाथमहाकाव्ये- . . ततोऽहं काननेऽमुष्मिन् भ्राम्यन् योगीन्द्रमैक्षिषि॥४३७॥ सेवितश्च मया पाणिपादसंवाहनादिभिः । रजितश्च धनोपायमित्यभाषिष्ट दुष्टधीः ॥ ४३८ ।। अमुष्या रसमाकृष्य कृत्वा हेमशतान्यहो ! रसेन देह्यनेनैव दारिद्यस्य जलाञ्जलिम् ।। ४३९ ।। . ततोऽहं त्वामिवात्रैव क्षिप्तस्तेन दुरात्मना । मयाऽलाबु भृतं भद्र ! रसेनाऽऽनन्ददायिना ॥४४०॥ कूपिकाकण्ठमानीतस्तेनाकृष्टो गुणोद्धृतेः । याचितं तुम्बकं भद्र ! मुग्धबुद्ध्या मयार्पितम् ॥४४१।। छित्त्वा छित्त्वा गुणं तेन पातितो दुष्टबुद्धिना । पततात्र मया लब्धाऽधित्यका सुखवृत्तिका ॥४४२॥ अस्यां निवसतो भद्र ! दिनाष्टकमजायत । इतश्चागाद् भवानन मद्गोत्रज इवाऽपरः॥४४३|| द्यूतं वेश्यानुरागश्च धातुवादश्च विभ्रमः । यौगिसेवा सदा रुष्टे दैवेऽमी स्युः शरीरिणाम् ॥४४४॥ बहवो द्रविणोपायाः पाशुपाल्यादिकाः क्षितौ । योगिसेवा कथं चक्रे मतिः कर्मानुसारिणी ॥४४५॥ एकराशिगतत्वेन योगिनश्च यमस्य च । विभेमि स्वप्नमध्येऽपि किं पुना रूपदर्शनात् ॥४४६॥ श्रुत्वेति भोगदत्तोऽथ स्थितो भीतस्तदन्तिके । मूकीभूत इवोडीनप्राणः प्राणभयं महत् ॥४४७॥ इतश्च योगिनाऽप्यूचे वत्साऽलाबु रसेन मे । संपूर्णीकुरु वेगेन विघ्ननिम्नः शुभक्षणः ॥ ४४८ ॥ नाऽवदद् भोगदत्तोऽथ भाषितोऽपि मुहुर्मुहुः । शुकवत्पञ्जरान्तस्थो माारस्य निरीक्षणात् ॥४४९॥ क्षणं छित्त्वा विचेतस्को योग्यभूद् योग्यकर्मणि । एतौ तु निर्गमोपायं ध्यायन्तौ गर्भगाविव ।।४५०॥

सप्तमः सर्गः। २३७ ऊर्ध्वस्थभोगदत्तेन प्रलम्वीकृतवाहुना । द्वितीयाधित्यका दृष्टा प्रत्याशाबीजभूमिका ॥४५१॥ ततो द्वावपि तौ तत्र वरत्रालम्बिताविव । द्वितीयोत्पत्यकामाप्ती निर्यातौ च वहिस्ततः॥४५२॥ इतश्च चलितो तस्मात् प्रेतेशसदनादिव । प्राप्तः शोणेक्षणो योगी मदिरामदमत्तवत् ॥४५३।। ततश्च दण्डमादाय डुढौके योगवित् तयोः । तावपि प्रसृतप्राणौ चलतः स्म महाभुजौ ॥४५४॥ भल्लाभाल्लि मुष्टामुष्टि दण्डादण्डि मुजाभुजि । अभूत्तेषां महायुद्धं प्रेक्षणीयमिवान्तकम् ॥ ४५५॥ बद्धस्ताभ्यां दृढं योगी कन्दलीजालरज्जुभिः । यत्क्रियेताऽस्य तद् न्यूनं, शठे हि शठता मता।।४५६॥ रे! रे! वत्सौ ! कथंकारं हथो मां गलसंग्रहात् ।। युवयोर्द्रविणं दास्ये वाञ्छाविच्छेदकोविदम् ॥४५७॥ अस्या रसं समाकृष्य कोटीवेधं प्रयच्छ नौ । तदा ते जीवितं भावि नान्यथा स्मर्यतां प्रभुः ॥४५८|| आमित्युक्तेऽथ तेनोच्चैः क्षिप्तोऽसौ कूपिकाजले । तेनैव च प्रयोगेण सोऽभूत् संभृततुम्बकः ॥४५९।। न पूर्वमर्पयिष्यामि भवतस्तुम्बकं करे । पश्चान्मदीयमाचारं भवन्तौ कुरुतो यतः ॥ ४६० ॥ यथा ते योगवित् । प्राणा वल्लभा आवयोस्तथा। अयं न्यायः कथं क्षेपे विस्मृतो भवता भृशम् ॥४६१॥ ततस्ताभ्यां स योगीन्द्र आकृष्टस्तुम्बपात्रयुक् । एतेन रसकर्माणि कथितानि तयोः पुरः ॥ ४६२ ।। अयोभौ वलितौ तस्मात् तूर्णं पूर्णमनोरथौ । विभ्रतौ सुचिरं चित्ते योगिनः कूटनाटकम् ॥४६३।। मार्गे भिल्लैः सहालोच्य गृहीता यद्यमुं कथम् ? ।

२३८
मल्लिनाथमहाकाव्ये-
1
तदा प्रसारितशोहूतं वातेन कज्जलम् ।। ४६४ ॥
ध्यात्वेति धरिणीपीठे निक्षिप्यालायु संभृतम् ।
चेलतुः सत्वरं भीतौ वीक्षमाणौ दिगन्तरान् ॥४६५।।
इतश्च नाहलैर्वद्ध्वा गृहीत्वाऽलावु चापरम् ।
कथञ्चिद् विमुमुचाते स्मृताभीप्सितदैवतौ ॥४६६॥
यद्ययं रसः संप्राप्तस्तथापि विधिवल्गितात् ।
प्रनष्टः किमभाग्यानां करस्थमपि याति न ?॥४६७॥
उपाया वहवोऽस्माभिर्विहिता दुष्करा अपि ।
परं भाग्येतरं याति दूरतः पुरतः स्थितम् ॥४६८॥
ध्यात्वेति पर्यटन्तौ च धावित्वा नाहलैः पुनः ।
धृत्वा धृत्वा पद्रदेव्या निक्षिप्तौ गर्भवेश्मनि ॥४६९||
ऊचतुर्यामिकानावां कथंकारं धृत्तौ ननु ?।
गृहीतरससर्वखौ गृहीतीपघसंचयौ ।। ४७० ॥
ऊचिरे यामिका भद्रौ ! योगिना नाहलेशितुः ।
दत्त्वा हेम्नः सहस्रं च धारितौ मारणेच्छया ॥४७१॥
कपाटच्छन्नगभौंकोवासिनौ गतमानसौ ।
श्रावं श्रावं गिरो जातौ किंकर्तव्यपरायणौ ॥४७२।।
भोगदत्तेन पाणिभ्यामादायाश्मानमुद्भटम् ।
अभि भट्टारिकां भक्तुं डुढौके निर्भयत्वतः॥४७३॥
रे चौरग्रामवास्तव्ये ! पद्ररक्षाभिधायिनि !।
नेयं भवसि निग्राह्ये ! ततः प्रोवाच देवता ।। ४७४ ।।
निरागसं कथं भक्तुमुद्यतोऽसि महामते ।।
सोप्यूचेत्र समाचारो यद्वधो हि निरागसाम् ॥४७५।।
आवाभ्यां हन्त ! पान्थाभ्यां किमागो विहितं कचित् ।
येन क्षिप्तौ तवागारद्वारि विन्यस्तयामिके ! ॥४७६।।
यद् यूयं भणिताऽशेषं तत्कुर्वे पितृमातृवत् ।
सत्त्वेन विहिता अर्थाः संपद्यन्ते क्षणादपि ॥४७७॥

सप्तमः सर्गः । २३९ पद्रदेवि ! परं तुम्बं भूमीमध्यनिवेशितम् । आनीयार्पय नौ मुश्च पल्लिदेशस्य दूरतः ।। ४७८ ॥ तत्तया विहिते देव्या चलितौ मगधानभि । प्रापतुः कुशस्थलाख्यं पुरं प्रवरमंदिरम् ॥ ४७९ ।। तत्र सूत्रभृतः कुट्यां स्थित्वा मुक्त्वा च तुम्बकम् । रक्षाकृते निवेश्याऽमुं भोगदत्ता वहिर्ययौ ॥ ४८० ॥ सुदत्तेऽप्यथ निद्राणे गलितालाबुकच्छटा । तया सूत्रभृतो वंशी संतप्ता हेममय्यभूत् ॥ ७८१ ॥ तं वीक्ष्य सूत्रभृत्तुष्टो गृहीत्वा तुम्बकं करे । विमुच्याऽनलतोऽधाक्षीत्कुटी पूत्कारपूर्वकम् ।।४८२।। निद्रायमाणं धृत्वाऽध सुदत्तं करकैरवे । वहिश्चिक्षेप वेगेन तन्वन् मायादयोदयम् ॥ ४८३ ॥ आखुनाऽलावुकगुणश्चिच्छेदे जीर्णगेहगः । रसश्च पतितो भूमौ निष्फलत्वमजायत ॥ ४८४ ॥ यत:- येऽर्थाः विश्वस्तघातेन येऽर्था मित्रवधादपि । न तेऽर्थाः सुचिरं सन्ति वह्नयालीढा गृहा इव ॥४८५।। इतश्चेतो भोगदत्तो दग्धां सूत्रभृतः कुटीम् । दृष्ट्वा पप्रच्छ सुहृदं तुम्बकं तव संनिधौ? ॥ ४८६ ॥ मित्रोकः संस्थितं तुम्बं भस्मराशिरजायत । अद्यापि भाग्यलेशोऽपि नावयोः क्रियतां कथम् १ ४८७ अथो तौ निर्गतौ तस्मात् प्राप्य वैभारपर्वतम् । स्मृतेष्टदेवतौ यावद् झम्पां दातुं समुद्यतौ ॥ ४८८ ॥ तावन्महीभृतः शृङ्गे कायोत्सर्गस्थितो मुनिः । उभाभ्यां समतां तन्वन् ददृशेऽसौ दृशोः पुरः॥ ४८९॥ ततो मृत्युमति काश्चिच्छिथिलीकृत्य तावुभौ । आगत्य प्रणिपत्सर्षि ववन्दाते .४९०॥ .

२४० मल्लिनाथमहाकाव्ये- मुनिर्व्यानं विमुच्याथ दत्त्वा धर्माशिषं तयोः । अभाषिष्टेति लोभान्धौ विहतौ स्थश्चिरंक्षितौ ॥४९१॥ योगिनस्तुम्बके प्राप्य पद्रदेव्याः प्रभावतः । लब्धायुष्कौ पुनातमरणावत्र पर्वते ॥ ४९२ ॥ लोभक्षोभमहाम्भोधेभ्रंमकल्लोलमालिनः । इदं फेनायितं भद्रौ ! जानीतां धीविमर्शनात् ॥४९॥ जनाः पीतमहामोहकनकाः कनकाशया । लभन्ते प्राकृताः प्रायः स्वर्ण प्राकृतभाषया ॥४९४ ॥ तृष्णा खानिरगाधेयं दुष्पूरा केन पूर्यते ? । या महद्भिरपि क्षिप्तैर्भूयो भूयो विवर्धते ॥ ४९५ ॥ च्युता दन्ताः सिताः केशा वाग्विरोधः पदे पदे । पातसाममुं देहं तृष्णा साध्वी न शाम्यति ।। ४९६ ॥ प्रभूतैरपि संप्राप्तैरभैस्तृष्णा न शाम्यति । हविषा कृष्णवर्मेव भूयो भूयः प्रवर्धते ॥ ४९७ ॥ पादसंवाहनादीनि वेश्यानामपि कुर्वते । अवन्द्यमपि वन्दन्ते उच्छिष्टमपि भुञ्जते ॥ ४९८ ॥ अकृत्यमपि कुर्वन्ति कृत्यमपि त्यजन्त्यलम् । लोभाभिभूता मनुजाः किं किं नाम न कुर्वते ? ॥४९९॥ परिग्रहस्य प्रमितिं कुर्वतां लोभशान्तये । सेतुबन्धमिवाऽपारमहामोहमहोदधेः ।। ५०० ॥ अथ तौ द्वादशश्राद्धव्रतान्यप्यविशेषतः । त्रिंशत्कनकसहस्राश्चक्रतुः प्रमितिव्रते ॥ ५०१ ॥ इतो भ्रातृसुतः साधोर्विद्युन्मालीति खेचरः। नभसा विद्यया पाप वन्दितुं तं महामुनिम् ॥ ५०२ ॥ नत्वा मुनिमिमौ दृष्ट्वा पृच्छति स्म नभश्वरः। काविमौ भद्रकाकारौ त्वन्मुखेक्षणतत्परौ? ॥ ५०३ ।।

सप्तमः सर्गः1 २४१ सुधीरिदानीमापनद्वादशश्रावकव्रतौ । भोगदत्तसुदत्ताख्यौ भद्रको भद्रकोविंदौ । ५०४॥ मुने! युक्तं ततः कर्तुं साधु साधर्मिकाणम् । " विद्यया वित्तदानैर्वा यतो राद्धान्तगीरिति ।। ५०५ ।। अन्योन्यदेशजन्मानस्त्वन्यान्याहारवर्द्धिताः । जिनशासनसंपन्नाः सर्वे ते वान्धवा मताः ।।५०६॥ ततः कुष्टरुजाहन्त वलयं सन्महौषधेः । अर्पयामास ताभ्यां स सत्ये मुह्यन्ति नोत्तमाः॥५०७॥ 'धन्यौ स्तः कृतपुण्यौ स्तः सुलब्धजन्मजीवितौ । यदयं तीर्थकृद्धर्मः संप्राप्तो दिव्यरत्नवत् ।। ५०८ ॥ . तौ प्रशस्य मुनि नत्वा विद्युन्माली तिरोदधे । ताचप्येनं नमस्कृत्येयतुः पुरं कुशस्थलम् ।। ५०९ ॥ तत्रत्यभूमिनाथस्य नरदेवस्य संज्ञिनः । पुत्रः परन्तपो नाम गलकुष्टरुजान्वितः ॥ ५१० ॥ यः कश्चिदेनमुल्लापं विदधाति कथंचन । स स्वर्णलक्षं गृह्णातु घोषयामासिवानिति ॥ ५११ ।। इमामाघोषणां श्रुत्वा डिण्डिमध्यानपूर्वकम् । धारयामासतुर्वाद्यमानं पटहमुद्भटम् ।। ५१२ ॥ गत्वोपभूपमालोक्य कुमारं वेदनातुरम् । विनष्टनासिकं कुष्टरोगस्यातिभरादिव ।। ५१३ ॥ (त्रिभिर्विशेषकम् ) सप्ताहात् कामसंकाशः कुमारो रूपसंपदा । क्रियते स्म ततस्ताभ्यां वैद्याभ्यामिव नाकिनः ॥५१४॥ अथ भूमीपतिस्तुष्टोऽवादीद् विकसिताननः । इदं राज्यमियं लक्ष्मीर्युक्योरिति गृह्यताम् ॥ ५१५ ॥ हेम्नस्त्रिंशत्सहस्रेभ्यः परं भूमिपते ! हि नौ । १ सिद्धान्त-इत्यपि।

२४२
मल्लिनाथमहाकाव्ये-
मुक्त्वाऽस्ति नियमः साधुपादान्ते विहितो भृशम् ॥५१६
तच्छ्रुत्वा
विस्मितो राजा प्राह धन्याविमौ नरों।
ययोनियम ईदृक्षो लोभाब्धः कुम्भसंभवः ॥५१७॥
तावन्मानं वरं स्वर्ण गृहीत्वोभौ पुरस्थितौ ।
पालयामासतुः श्राद्धधर्म शुद्धं यथाविधि ।। ५१८ ।।
अस्माकं मागधे देशे विहारं कुर्वतां सताम् ।
गृहीतारौ मुनीन्द्रत्वं यानारौ च परं पदम् ।। ५१९ ।।
इत्याकाऽहतो वाक्यमभाषिष्ट क्षमापतिः
तौ धन्यौ यो प्रभोः पार्थे गृहीतारौ महाव्रतम्॥५२०।
एक महाव्रतं तीर्थनाथादधिगतं परम् ।
कामधेनुपयःसिक्तकल्पद्रोः साम्यमञ्चति ।। ५२१ ।।
स्वामिन् ! पश्चाणुव्रतानि श्रुतान्येकानचेतसा
गुणव्रतत्रयी श्रोतुमुत्कस्तिष्ठामि साम्प्रतम् ॥ ५२२ ॥
तत्राचं दिग्व्रतं भोगोपभोगाख्यं द्वितीयकम् ।
ततश्चानर्थदण्डाख्यं शृणु कुम्भमहीपते ! ॥ ५२३ ॥
कर्मणा गन्धिकनेव मूक्ष्मीकृत्य प्रवेशितैः ।
इदं व्याप्तं जगज्जीवैर्वासैरिव समुद्कः ॥ ५२४ ।।
स्थावरजङ्गमभेदा बादरा अपि जन्तवः ।
सन्ति तिर्यगधश्चोर्ध्व तेषां व्यापत्तिभीरुणा ।। ५२५॥
आदाय दिग्व्रतं सम्यक् पालनीयं प्रयत्वतः ।
अयतोऽयं यतः प्राणी तप्ताऽयोगोलसंनिभः ॥५२६॥
नियन्त्रिते हि देहे खे गमनं प्रति देहिना ।
अभयं सर्वसत्त्वेभ्यो दत्तं पुण्यफलप्रदम् ॥ ५२७ ॥
दिव्रतग्रहणात् प्राणी प्रेत्याऽमुत्र श्रियः पदम् ।
संपद्यतेतरां मित्रानन्द ऐरवते यथा ॥ ५२८ ॥
तथाहि पुष्करद्वीपे क्षेत्रे ऐरावताभिधे ।
पुरं भोगपुरं तत्र मित्रानन्दक्षितीश्वरः ॥ ५२९ ॥

सप्तमः सर्गः। २४३ शृङ्गाररसवापीभिर्वनिताभिर्दिवानिशम् । साकं चिक्रीड राज्यस्य चिन्ता नैव चकार सः ५३०॥ कदाचिच्चषकैमैरश्चितैः स्मेरपङ्कजैः । रामाभिः सह मैरेयं पिबति स्म सविस्मयम् ॥५३१।। कदाचिदुद्यानगतः पुष्पावचयमुच्चकैः । योषिद्भिः सह कुर्वाणो वसन्ते खेलति स्म सः ॥ ५३२ ॥ • वर्षासु कृतहर्षासु सौधोत्सङ्गे नराधिपः। मेघरागं स रामाभिरगायत्तुम्वुरूपमः ॥ ५३३ ॥ कदाचित् क्रीडावापिषु भृङ्गीभिर्लोललोचनाः । असिञ्चन् कामतप्ताङ्गीः स करीव करेणुकाः ॥ ५३४ ॥ एवं विषयसेवां स वितन्यानो दिवानिशम् । दिवसान् गमयामास हर्षोत्कर्षमयानिव ।। ५३५ ।। अन्येशुमन्त्रिणो भूपमुपरुध्य महाग्रहात् । एवं विज्ञपयामासुमृद्वीकारम्यया गिरा ॥ ५३६ ।। स्वप्नदृष्टं यथा पुंसः क्षणमात्रं सुखायते । प्रबुद्धस्य न तत् किञ्चिदेवं विषयजं सुखम् ॥ ५३७ ॥ शब्दादिविषयाऽऽसक्ता धर्ममार्गपराङ्मुखाः। अजरामरवद् मूढाश्चेष्टन्ते नष्टचेतनाः ॥ ५३८ ॥ विषयेषु निषीदन्तो न जानन्ति हिताहितम् । शृण्वन्ति न हितं वाक्यमेडमूका इवानिशम् ।। ५३९ ।। आदौ हृद्यरसाऽऽस्वादाः पर्यन्ते परितापिनः । विषया विषवत् त्याज्याः पुंसा खहितमिच्छता ॥५४०॥ एकवारं विषं हन्ति भुक्तमेव न चिन्तितम् । विषयाश्चिन्तनादेव वहुधा च विनाशकाः ॥ ५४१ ॥ पाता अपि नरैः कामा दुःखं ददति देहिनाम् । क्षणात्तुष्टाः क्षणाद् रुष्टा गन्धर्वनगरोपमाः ।। ५४२ ॥ विषयेषु प्रसक्तानां कन्दज्ञाविधायिनाम् ।

३४४ मल्लिनाथमहाकाव्ये- - - लोकद्वयविघांतिन्यों जायन्तेऽनर्थवीथयः ॥ ५४३ ॥ एतेषामवलामूलं शूलं निर्दृतिसंपदः । पश्य धर्मधरो राजा स्त्रियः पञ्चत्वमासदत् ।। ५४४ ॥ तथाह्यत्रैव स क्षेत्रे नगरे पुण्डवर्द्धने । राजा धर्मधरो नाम दुईरो वैरिभूभुजाम् ।। ५४५ ॥ E. तत्रैव नगरेऽस्ति स्म ब्राह्मणो गोधनाभिधः । सावित्री प्रेयसी तस्य सावित्री ब्रह्मणो यथा ॥ ५४६ ॥ साऽन्यदा भूभुजा दृष्टा निःसमानवपुलता । हठादन्तः पुरे क्षिप्ता कामिनां का विवेकता ? ॥ ५४७ ॥ । गृहीतां गृहिणी ज्ञात्वा ब्राह्मणो वेदपारगः । मुष्टो मुष्ट इति चिरं व्याजहार घृणाकरम् ॥ ५४८ ॥ मिये । प्राणप्रिये ! हा! हा! स्मेरपङ्केरुहानने !। म्रियेऽहं त्वां विना कस्माद् गताऽसि नृपवेश्मनि ॥५४९॥ त्वां विना दिवसा जाता दीर्घा मासोपमा मम । सर्वगां त्वां निरीक्षेऽहं विष्णुमूर्तिमिवाऽपराम् ॥ ५५० ।। [ स्वाहा स्वधा कथङ्कारं करिष्ये त्वां विना प्रिये ! । धर्मक्रियाणां मूलं हि गृहिण्यो गृहमधिनाम् ॥ ५५१ ।। विलपनिति षट्कर्मा भ्राम्यन् शून्यमनास्ततः । जगौ पञ्चपदीं तस्याः प्रेमपादपसारिणीम् ।। ५५२ ।। :. इतश्च तनयस्तस्य पञ्चवर्षप्रमाणभृत् । वाणिज्यकारकैरातो ही दुष्कर्मविजम्भितम् ।। ५५३ ।। । कालक्रमेण संपन्ना तस्य तद्यजीविका । व्यतिक्रान्ते हि सप्ताहे दुःखं विस्मरति स्फुटम् ॥ ५५४ ॥ सावित्र्या सह भूपालो बुभुजे विषयान् सदा । साऽपि प्रेयःसुतस्नेहगेहादि व्यस्मरत्ततः ॥ ५५५ ॥ [, अन्यदा ब्राह्मणो राजसौधाग्रे मधुरखरम् । तस्याः पञ्चपदीं गायन् ददृशे जगतीभुजा.॥.५५६.॥ ३ .

सप्तमः सर्गः। २४५ प्रियेऽमुं पश्य को न्वेप इति व्याकुरु सत्त्वरम् ? । । साऽप्यूचे देव ! नैवाऽमुं जानेऽहं कोऽयमित्यपि ॥५५७॥ आज्ञाऽत्र राजपादानां यदि जानामि किश्चन । उवाच भूपतिर्भद्रे ! परिणीतः पतिस्तव ॥ ५५८ ॥ निशम्येति च सा दध्यौ परिणीतः पतिश्च यः । तं न वेद्मि महाभाग ! धिग् मां कामवशंवदाम् ।। ५५९ ॥ अनेन भूभुजा शीलं मामकीनं विखण्डितम् । तदेनं खण्डयिष्यामि कृते प्रतिकृतिः शुभा ॥ ५६० ॥ अवहित्थमथाऽऽदृत्य दिनं निर्गम्य दुःखिता । निशायां भूभुजं सुप्तं निजघान घनेर्ण्यया ॥ ५६१ ॥ इतश्च यामिकानां सा वञ्चयित्वा शो निशि । खकीयाऽऽवासमायासीदपश्यच्च निजं प्रियम् ।। ५६२ ।। अङ्गुष्ठमोटनाचक्रे निद्राच्छेदममुष्य सा । केयं देवीति निायन्नुपविष्टो द्विजोऽभवत् ।। ५६३ ।। प्राणप्रिय ! प्रिया तेऽस्मि सावित्रीति विचिन्तय । : एतावन्ति दिनान्यस्थामपश्यन्ती छलं कचित् ।। ५६४ ।। इदानीं तु छलं प्राप्य समागां तव संनिधौ । त्वत्पादौ शरणं मे स्तां गुरुः स्त्रीणां पतिर्यतः ॥ ५६५ ॥ अकस्मादीर्घपृष्ठेन पृष्ठे दष्टोऽथ स द्विजः । भीतैरिव विषावेगात् प्राणैश्च मुमुचे क्षणात् ॥ ५६६ ॥ गतप्राणं प्रियं प्रेक्ष्य विज्ञातनिजचेष्टिता । तस्यामेव निशीथिन्यां चलिता पश्चिमां प्रति ॥ ५६७ ॥ कतिभिर्दिवसः प्राप नगरं पाटलाभिधम् । ;. . देवतामन्दिरं चै निरैक्षिष्ट मनोहरम् ।। ५६८ ।। इतवाऽगात्कामदंष्ट्रा वेश्या वैशिकमन्दिरं । :. विलोललोचनामेनां विलोक्य ध्यातवत्यसौ ॥ ५६९ ॥ १ पतिरेव गुरु स्त्रियामित्यपि ।

२४६ मल्लिनाथमहाकाव्ये- स्थानभ्रष्टा च सृष्टा च नष्टा कष्टादुपागता । अस्मढावासयोग्याऽप्तौ योग्या कुसुमधन्विनः ।। ५७० ।। ध्यात्वेति पुत्रि ! जामेयि ! कथं नागा गृहे मम ? । देवादुपागते दुःखे का त्रपा मातृमन्दिरे ? ॥ ५७१ ।। इत्युक्त्वा निजबाहुभ्यामुपगृह्य पणागना । दृशो वाप्पाऽश्चिते कृत्वा तां निनाय निजालयम् ॥५७२।। स्नपयित्वा च तां प्रीत्या विलिप्तां चन्दनद्रवैः । गणिका चन्द्रिकाशुभ्र वाससी पर्यधापयत् ।। ५७३ ।। आगच्छद्भिश्च गच्छद्भिर्नरैः प्राभृतसंभृतेः । देवता सकलेवाऽसौ सेव्यते स्म दिवानिशम् ॥ ५७४ ॥ अन्येचुर्ग्रहणं दत्वा स्थितः कश्चिद्धनेश्वरः । रमयित्वा निगां सा प्रातः पृष्टेति तेन सा ॥ ५७५ ॥ कौतस्कुताऽसि रंभोरु ! किमाख्याऽसि सुलोचने ! ? । त्वां दृष्ट्रा मे मनोजातं प्रेमाई तन्वतो वद ॥ ५७६ ।। साऽप्याख्यद् मूलतो वृत्तं नामस्थानपुरस्सरम् । ततः शय्यातलं मुक्त्वा विदूरस्थो जगाद सः॥ ५७७ ॥ तव सूनुरई मातह॒तो वाणिज्यकारकैः । हा ! अकार्यमिदं वृत्तं चण्डालैरपि वर्जितम् ।। ५७८ ।। यद्यहं खण्डशः कृत्वा देहं वह्नौ दहाम्यहो !। तथाप्यमुष्य पापस्य पारं गच्छामि न कचित् ॥ ५७९ ।। अदृष्टव्येष्वहं नूनमद्रष्टव्यशिरोमणिः । अग्राह्यनामकेभ्योऽपि प्रथमः पृथिवीतले ॥ ५८० ॥ त्वद्भुवनं प्रविष्टोऽहं निषिद्धः शकुनैनहि । अथवा तेऽपि भाव्यर्थ विहन्तुं शक्नुवन्ति न ॥ ५८१ ॥ पातकं क्षालयिष्यामि तदहं वह्निसाधनात् । अत्युग्रकृतपापस्य नाऽन्या काचिद् गतिर्मम ॥ ५८२ ॥ अथैनां स नमस्कृत्य गत्वा निजकुटी प्रगे ।

सप्तमः सर्गः। २४७ दत्त्वा दानानि दीनेभ्यो भस्मसात्समजायत ॥ ५८३ ।। साऽपि तद् दुष्कृतं पोचे वेश्यायाः पुरतो निजम् । मातरनिं प्रवेक्ष्यामि सुवर्णमिव शुद्धये ॥ ५८४ ॥ पुत्रि ! चान्द्रायणादीनि व्रतानि विविधान्यपि । विधाय दुष्कृतं सर्व प्रक्षालय शुभाशये ! ॥ ५८५ ॥ दत्त्वा दानानि तीर्थेषु पुत्रि ! पातकमुत्सृज । नेदं तव वपुः सोढा हुताशं स्फुरदर्चिपम् ।। ५८६ ॥ महातीर्थनमस्कारात् तिलस्वर्णादिदानतः । पुत्रसङ्गादिकं पापं प्रयाति क्षयमञ्जसा ॥ ५८७ ॥ एवं स्मार्तानि वाक्यानि श्रावयन्ती द्विजाऽऽननात् । दिनयामत्रयं यावत् खेदिता सा पणाङ्गना ।। ५८८ ।। नवीनैर्दशनर्मातः! करिष्ये भोजनं स्फुटम् । इति मे निश्चयो धर्मकार्ये विघ्नक्रियेति किम् ॥५८९।। इति निश्चयमेतस्याः परिज्ञायाऽथ कुहिनी । ऊचे द्रव्यमिदं सर्व कृतार्थीकुरु दानतः ।। ५९० ॥ ततः सा विहितस्नाना ददाना दानमद्भुतम् । चितापाधै समागत्य पौरलोकसमाकुला ॥ ५९१ ।। चितां प्रदक्षिणीकृत्य विवेशाऽनौ पणाङ्गना । इतोऽभूद् डामरो वातो महादृष्टिरजायत ॥ ५९२ ॥ तदङ्गस्पर्शभीत्येव ज्वलनो ज्वलितोऽपि सन् । निर्वाणः, नागरो लोकः प्रनष्टो जलताडितः ॥ ५९३ ॥ किंचिद् दग्ध्वा ततो वेश्या निर्गत्य चितिमध्यतः । सरयूसरितस्तीरे पपात चितिदारुवत् ॥ ५९४ ॥ स्तोकाम्भसि शफरीव वेपमाना मुहुर्मुहुः । रोदयन्ती दिशां चक्रं चक्रन्द कुरुरीव सा॥ ५९५ ॥ विरते वारिदे दृष्टेः कोऽपि गोपः समापतत् । शुश्राव रुदितं तस्या निशीथे करुणापरः ।। ५९६ ।।

२४८ मल्लिनाथमहाकाव्ये- काचित्पावकदग्धेति ज्ञात्वा गोपाधिपेन सा । गृहीता स्वौकसि प्रीत्या स्पृष्टाऽङ्गानि मृदूनि च ॥ ५९७ ॥ एरण्डपत्रजीर्णाद्यैरुत्तार्य ज्वलनं ततः । उल्लाघा विदधे कालक्रमेण पणसुन्दरी ।। ५९८ ॥ (युग्मम् ) ततः कलंत्रमस्याऽभूदेपा विधिविजृम्भणात् । जन्मान्तरशतानि स्युरेकस्मिन्नपि जन्मनि ।। ५९९ ॥ स गोपाधिपतिओम्यन् दुर्दरूढपुरेऽगमत् । नैकत्र स्थितिरेतेषां शरत्पाथोमुचामिव ।। ६०० ।। सा चूतपल्लवीच्छन्नविग्रहा गोपगेहिनी । मस्तकन्यस्तदध्याऽऽज्यनवनीतादिभाजना ॥ ६०१॥ तक्रं गृह्णीत गृह्णीत वदन्ती सुदती भृशम् । इन्द्रकीले स्खलित्वाऽसौ पपात चललोचना ॥६०२ ॥ पुस्फुटुस्तत्र भाण्डानि मूर्खनिर्दिष्टमन्त्रवत् | ततोऽन्याभिरियं स्नेहाद् बभणे गोपकामिनी ॥ ६०३ ॥ सखि ! भग्नानि भाण्डानि, करिष्यसि किमुत्तरम् ? । निजस्य पुरतः पत्युनिकेतनगता सती ॥ ६०४ ।। किंचिद् विहस्य साऽप्यूचे सख्यः ! शोचामि किं ननु शोचनीयं मया प्राज्यमनृणं हि ऋणं बहु ॥६०५ ॥ हत्वा नृपं पतिमवेक्ष्य भुजङ्गदष्टं देशान्तरे विधिवशाद् गणिकास्मि जाता। पुत्रं भुजगमधिगम्य चिनां प्रविष्टा शोचामि गोपगृहिणी कथमद्य तक्रम् ॥ ६०६॥ एवं लोलेक्षणावृत्तं श्रुत्वा भोगपुरेश्वर! । जीवितव्यव्ययकरी विषयाशां श्लथीकुरु ॥ ६०७ ॥ मित्रानन्दस्ततोऽवोचद् युष्मदुक्तकथाश्रुतेः । १ गहिनीत्यपि।

सप्तमः सर्गः। २४९ विषयेभ्यो निवृत्तोऽपशकुनेभ्य इवाध्वगः ॥ ६०८ ॥ प्रसरत् सलिलं यद्वत्सेतुबन्धेन वाध्यते । यद्वत् तुरग उन्मार्गप्रसक्तो वरसादिना ।। ६०९ ।। यथा कुलवधूः पत्या स्वैरिणी गणसङ्गिनी । अप्रवृत्तिप्रवृत्तौ राद् तथाऽऽचार्यः सुमन्त्रिभिः ॥ ६१० ॥ ( युग्मम् ) भवन्तो गुरवोऽस्माकं भवन्तः सुहृदोऽपि च । भवन्तो नयनमाया भवन्तश्च विपश्चितः ॥ ६११ ।। अन्येाश्चन्द्रशालायामास्थितः पृथिवीपतिः । अपश्यत् स्फारशृङ्गारं जनं यान्तं पुरोवहिः ॥६१२।। राजेस्तव वरोद्याने केवली सुव्रताभिधः । समागादित्युवाचोचैः कश्चित् पृष्टो महीभुजा ॥६१३।। मित्रानन्दः कृतानन्दः सचिवैः सह वन्दितुम् । नत्वा गत्वा मुनिं भक्त्या विनिविष्टः कृताञ्जलिः॥६१४॥ मुनिपतिमुद्दिश्य व्याजहारेति कोमलम् । आशापिशाची सुदृढा तया व्याप्तं जगत्रयम् ॥६१५॥ चिन्ताचक्रसमारूढो योगदण्डसमाहतः । प्राच्यकर्मकुलालेन भ्राम्यते घटवद् नरः ॥ ६१६ ॥ आतपच्छाययोर्यद्वत् सहाऽवस्थानलक्षणः । विरोधस्तद्वदत्रापि विज्ञेयः सुखवाञ्छयोः ॥ ६१७ ॥ वाञ्छा चेन सुखं जन्तोस्तदभावे परं सुखम् । न भूतानि न भावीनि सुखानि सह वाञ्छया ।।६१८॥ जीवान्निरागसो नन्ति मृषावादं वदन्ति च । कुर्वन्ति कूटदम्भादि वञ्चयन्ति निजानपि ॥ ६१९ ।। पूज्येभ्योऽपि हि द्रुह्यन्ति निन्दन्ति स्वगुरूनपि । आरभन्ते महारम्भान् लुम्पन्ति यामनगमान् ॥ ६२०॥ गोहत्यां भूणहत्यां च ब्रह्महत्यां च निखपाः। ३ मल्लिनाथमहाकाव्ये- : लोभान्धाः किं न कुर्वन्ति परद्रव्यजिघृक्षवः ॥६२१।। लोभव्यालमहामन्त्रं दिग्प्रमाणाऽभिधं व्रतम् । समाहितः प्रपन्नं यस्तैः कृता प्राणिनां कृपा।।६२२॥ श्रुत्वेति जगतीनाथः काष्ठासु चतसृष्वपि । विशेषतो दिग्विरतौ योजनानां शतं व्यधात् ॥६२३॥ पुनः प्रणम्य निग्रन्थं ग्रन्थवद् वर्णभासुरः । आगत्याऽऽासमुर्वीशः श्राद्धधर्ममपालयत् ।। ६२४ ।। समभूदभ्यमित्रीणो मित्रानन्दो नृपोऽन्यदा । देशान्ते शत्रुभिः साकं संग्रामः समजायत ।। ६२५ ॥ भूपेन निर्जिताः सर्वे बलीयांसोऽपि लीलया । तेषां प्रणश्यतां पृष्ठे गतो दूरं महीपतिः ।। ६२६ ॥ स दूराऽतिक्रमं ज्ञात्वा राजा पप्रच्छ मन्त्रिणम् । कियन्मानां भुवं भद्र! समायाता वयं पुरात् ॥६२७॥ मन्त्री प्रोवाच नगराद् योजनशतमागताः । ततोऽसौ चिन्तयामास स्मृतदिग्विरतिव्रतः॥६२८॥ न गन्तव्यं मया कापि योजनानां शतात्परम् । ईदृक्षो नियमोऽग्राहि केवलज्ञानिनोऽन्तिके ।। ६२९ ।। अथ मौनपरं भूपं दृष्ट्वा मन्त्री व्यजिज्ञपत् । क्रियतां सत्वरं देव ! प्रयाणकमभिद्विषः ॥ ६३० ।। यस्मात्सन्ति महीपाल ! शत्रवोऽभ्यर्णचारिणः । अथ प्रोवाच भूपालो नाऽहं गन्तास्म्यऽतः परम्॥६३१॥ दिग्विरतिव्रते मन्त्रिन् ! समस्ति मैम निश्चयः । नाऽतः प्रयाणं कर्तास्मि श्रेयोनिश्चयपालनम् ॥६३२॥ सुस्थाऽवस्थासु भूपाल ! पाल्यतां नियमस्थितिः। विधुरे प्रोगते सर्व कार्य कार्य यथाविधि ॥ ६३३ ॥ विशेषाद् विधुरे मन्त्रिन् ! कार्य नियमपालनम् । १ -भासुरमित्यपि । २ मिति- इति च ।

सप्तमः सर्गः। २५१ धीराणां कातराणां च व्यसने लभ्यतेऽन्तरम् ॥६३४॥ अथाऽनापृच्छय भूपालं मन्त्री नीतिघटस्ततः । किश्चित् सैन्यं समादाय प्रतस्थे द्विजिगीषया ॥६३५।। अतिश्रान्तं बलं ज्ञात्वा मन्त्रिणोऽरिमहीभुजः । विजिग्यिरे ततो नीतिघट जघ्नुश्व लीलया ।। ६३६ ॥ मन्त्रिणं नृपतिः श्रुत्वा कालधर्ममुपागतम् । आचार्यानेव तुष्टाव भवाम्भोधिघटोद्भवान् ।। ६३७ ॥ यैर्मे नियमदानेन प्रदत्तमिह जीवितम् । प्रणम्य तत्पदद्वन्द्वं ग्रहीष्यामि महावतम् ।। ६३८ ।। इति निश्चयमादाय ववले नगरं प्रति ! मार्गस्याऽर्धे च तान् राजा दृष्टवान् मुनिपुङ्गवान्।।६३९॥ तेषां गुरूणामभ्यर्णे भवार्णवतितीर्षया । अगृह्णाद् भूमिपालोऽथ व्रतं निर्ग्रन्थसेवितम् ॥६४०॥ महाव्रतं परिपाल्य यथोक्तं नृपसंयमी । जगामाऽप्यच्युतं कल्पं तस्मात्सिद्धिमवाप्स्यति ।।६४१॥ कथान्ते न्यगदद् राजा शिरःप्रणतिपूर्वकम् । धन्योऽप्तौ दिग्मिती येन विशुद्धो नियमः कृतः।।६४२।। भोगोपभोगयोः संख्या क्रियते या महीपते ! । भोगोपभोगनामाऽस्ति तद् द्वितीयं गुणवतम् ।।६४३॥ भोज्यभेदात् कर्मभेदादिदं संभवति द्विधा । भोज्येषु बहुचीजानि खरकर्माणि कर्मसु ॥ ६४४ ॥ भोज्यभेदे फलं सर्वमज्ञातं बहुबीजवत् अनन्तकायमांसानि मद्यपानं निशाऽशनम् ।। ६४५ ॥ न्यग्रोधोदुम्बरप्लक्षकाष्ठोदुम्बरभूरुहाम् । श्रीवृक्षस्य च नो भोज्यं श्राद्धर्जीवाऽऽकुलं फलम् ६४६ अपर्क गोरसोन्मिश्रपुष्पितं द्विदलं तथा । १ -पि महीभुज , एवमपि । २ विदलमित्यपि ।

२५२ मल्लिनाथमहाकाव्ये- अयमतिक्रान्तं दध्यन्नं कथितं त्यजेत् ॥ ६४७॥ इदं भोजनतः भोक्तं कर्मतोऽङ्गारकर्म च । वनच्छेदं शाकटं च भाटकं स्फोटकर्म च ॥६४८॥ रसकेशविषाणां तु वाणिज्यं दन्तलाक्षयोः । यन्त्रपीडानिलाञ्छनदवदानानि कानने ।। ६४९ ।। सरःशोषविडालश्वकुक्कुटादिकपोषणम् । धर्मार्थी वर्जयेनित्यं जीवेषु करुणापरः ॥ ६५० ॥ भोगोपभोगविरतिं ये कुर्वन्ति मनीषिणः । से लभन्ते सुखं भीमभीमसेनौ यथाश्रुतौ ॥६५१॥ संनिवेशे निवेशाख्ये व्रजवजविराजिनि । • अभूतां भ्रातरौ भीमभीमसेनाऽभिधावुभौ ॥६५२॥ पूर्वाऽपरपयोराशिपयांसीव युगक्षये । सर्वदिग्संभवाः क्रूरा अमिलस्तस्करास्तयोः ॥६५२।। धनान्यहरतां सार्द्ध तस्करैर्गोधनान्यपि । बभञ्जतुः पुराण्युच्चैरगृह्णीतां प्रवासिनः ॥६५४॥ अन्येद्युर्विमहासत्त्वाः पावयन्तो महीतलम् । तत्राऽऽचार्याः समाजग्मुः शमश्रीपुरुषोत्तमाः॥६५५।। अथाऽऽविरभवद् व्योम्नि प्रचण्डा घनमण्डली। मण्डलीकृतसुत्रामाऽखण्डकोदण्डमण्डना ॥६५६।। पदव्यस्तटिनीयन्ते वार्दीयन्ते सरिद्वराः। सरांसि मानसायन्ते वरीषति वारिदे ॥६५७॥ , जनानामपि संचारो निषिद्धः प्रसृतैर्जलैः । का पुनर्यमिनां वार्ता प्रासुकाध्वविहारिणाम् ॥६५८|| आचार्यैः प्रेषितं साधुयुगलं विपुलं धिया । तत्तयोः पार्थमागत्य वभाषे निषुणं वचः ॥६५९॥ आयुष्मन्तौ ! भवत्पार्चे प्रेषितौ गुरुणाऽधुना । - १ कुधितमपि ।

सप्तमः सर्गः । २५३ वर्षाकाल: समायातो न गन्तुं युज्यते कचित् ॥६६०॥ मुनिवाचमिमां श्रुत्वा बभाषाते इति स्फुटम् । अत्र तिष्ठन्तु निष्ठां स्वां तन्वाना गुरुभिः समम्॥६६१॥ अन्नमभृति यत्किञ्चिद् रोचते वो निरन्तरम् । तत्सर्वं भवद्भिग्राह्यं लक्ष्मी नफला ! यतः ॥६६२।। अवोचतां मुनी भद्रौ ! न निग्रन्थानां कल्पते । एकस्मिन्नपि संस्त्याये ग्रहीतुमशनादिकम् ॥६६३।। यत:- यथा द्रुमस्य पुष्पेषु रमं पिवति षट्पदः । न च पुष्पं क्लामयति स खं प्रीणाति नित्यशः॥६६४॥ तथा सुसाधवो धीराः प्रविष्टा गोचरक्षणे । गृहेषु गृह्णते भिक्षामगृद्धा रससंपदि ॥६६५॥ भो ! भो ! भद्रौ ! परं शुद्धं स्त्रीषण्डपशुवर्जितम् । कुलीनजनगेहाऽन्तः संप्रदत्तामुपाश्रयम् ॥६६६।। यतः- यो ददात्याऽऽश्रयं ज्ञानशालिनां तत्वमालिनाम् । वस्त्रानपानशय्यादि सर्व प्राऽदायि तेन यत् ॥६६७।। परोपकारः स्वाध्यायो ज्ञानाऽभ्यासश्च संयमः । एतन्निर्मापितं तेन येन दत्त उपाश्रयः ॥६६८॥ प्रामोति राज्यचक्रित्वस्वर्गिशक्रश्रियं नरः । उत्पत्तिं सुकुले कीर्ति स्फुर्ति च जनपर्षदि ॥६६९।। शय्यादानप्रभावेण भवाब्धि तरति क्षणात् । अतः शय्यातरस्तीर्थकरैः सर्वैरुदाहृतः ॥६७०॥ निशम्येति मुनिप्रोक्तमभ्यधत्तां मुनीन् प्रति । असावुपाश्रयः साधु ! गृह्यतां विधिपूर्वकम् ॥६७१॥ तत्राऽस्थुः सूरयः श्रीमत्सिद्धान्तार्थस्य वाचनाम् । वितन्वानाः समाधानं सावधानवमानसाः ॥६७२।।

२५४ मल्लिनाथमहाकाव्ये- तावपि शृणुतः स्मोचैः सिद्धान्तध्वनिमुत्तमम् । अशृण्वानौ पदव्याख्यां दृष्टान्तस्थितिशालिनीम् ॥६७३॥ वरात्र व्यतिक्रान्त शोपमायाति कर्दमे । कूलमध्यप्रवाहासु कूलिनीषु समन्ततः ॥६६४॥ शरत्कालश्रियो हासे कामे पुष्यति सर्वतः । विहारं कर्तुमारब्धा आचार्याः साधुचर्यया ॥६७५।। (युग्मम्) द्वावपि भ्रातरौ सूरीननुगन्तुं शुभाशयो । गर्भश्राद्धोपमा भक्त्या प्रवृत्तौ सपरिच्छदौ ॥६७६॥ उचिते भूमिभागेधः मूरिः स्थित्वा प्रशान्तगीः । उवाच भद्रकौ ! वाक्यमास्माकीनं निशम्यताम् ॥६७७॥ शुद्धानपानदानेन सान्निध्याद् भवतोरिह । सौख्येन संस्थिता वर्षारात्रमेकदिनं यथा ॥६७८॥ आज्ञया जिनराजस्य निर्ग्रन्थभटवेष्टिताः । वयं मोहरिपुं जेतुं चलिताः सैन्यपा इव ॥६७९।। धर्मश्रवणमस्माकं न जातं भवतोः कचित् । परमेकं वचश्चारु विधेयं शुभद्धये ॥६८०॥ अभिग्रहाणामन्येषां भवन्तो न सहिष्णवः । रात्रिभुक्तिपरीहारो भावशुद्ध्या विधीयताम् ।।६८११॥ यतः भ्रमन्ति सर्वतो भीमा रजन्यां रजनीचराः । अतो निशि न भोक्तव्यं दुष्टवेलेति दूषणात् ॥६८२॥ मक्षिका कुरुते वान्ति प्रज्ञां हन्ति पिपीलिका । कोलिकः कुष्ठरोगं तु विधत्ते निशि भोजनात् ।।६८३॥ स्वरभङ्गं कचः कुर्यादलिर्विध्यति तालु च । दोषानेवंविधान् ज्ञात्वा रात्रौ कोऽश्नाति कोविदः१ ६८४ आयुर्वर्षशतं लोके तदर्द्ध स उपोषितः । करोति विरतिं धन्यो यः सदा निशि भोजनात् ॥६८५।।

सप्तमः सर्गः । २५५ आचार्योक्तमिति श्रुत्वा संवेगरसरङ्गितौ । प्रापद्यतां व्रतं रात्रिभोजनप्रतिषेधकृत् ॥६८६॥ आचार्या अपि निर्ग्रन्थैः सार्द्धमन्यत्र धीधनाः । विजहुः कोकिला भृङ्गा हंसा न नियता यतः ।।६८७।। अन्येास्तावपि प्रति ग्रामे धाटी विधाय च । अगृह्णीतां धनान्युच्चैर्गोधनानि विशेषतः ॥६८८॥ तयोः परिच्छदैः पापैनिवृत्तैः प्रान्तरान्तरे । पीनाङ्गो महिपः कोऽपि हतो धोतः परश्वधैः॥६८९॥ कैश्चित् प्रविश्य ग्रामान्तः क्रीतं मैरेयमुच्चकैः । पुंसां पापप्रवृत्तानां सर्वव्यसनसंभवः ॥६९०॥ अनयोः पत्तिभिश्चैवं चिन्तितं दुष्टमानसैः । मारयामो विषं दत्त्वा मदिराकायिकान् यदि ॥६९१।। एतत्सर्व धनाद्युच्चैरस्माकं भागवर्जितम् । सकलं जायते यस्मान्मारणीया विभागिनः ॥६९२॥ मैरेयनायिकैरेवं ध्यात्वेति गरलं क्षणात् । मदिष्ठायां म्रदिष्ठायां चिक्षिपे गन्धधूलिवत् ॥६९३॥ तदीयविषदानस्य शङ्कया पादचारतः। अस्तपर्वतमारुह्य पपाताऽम्भोनिधो रविः ॥६९४॥ प्रसस्रे तिमिरैर्विष्वग् नागपूगानुजैरिव । घूकैर्जुघुपिरे भीमै रक्षोमगलतूर्यवत् ।।६९५॥ अथोभयेऽपि मिलितास्तस्कराः क्रूरचेष्टिताः। परस्परं निजं वस्तु प्राभृतं विदधुस्तदा ॥६९६॥ स्वामिनौ ! पश्यतामेतत्सुखादरसपेशलम् । अघोचतुर्महाभागौ निषेधो रात्रिभोजने ॥६९७॥ सुस्थाऽवस्थासु नेतारौ ! पाल्यतां नियमस्थितिः । शरीरमाय सर्वत्र साधकं धर्मकर्मणि ॥६९८॥ हहो ! भद्रमुखास्तेषां गुरूणां पादसंनिधौ ।

२५६
मल्लिनाथमहाकाव्ये-
विदधे नियमस्तस्य भगः किं श्रेयसे खलु ? ॥६९९।।
शूरः स एव यः संख्ये भिनत्तीभरदद्वयम् ।
वादी स एव यो राजसभायां युक्तियुक्तगीः ॥७००॥
गुरुः स एव यस्तत्त्वं शास्तोपासकपर्षदि ।
भव्यः स एव यः सम्यक् परिपालयति व्रतम्।।७०१॥
एतयोगिरमाकर्ण्य ततस्तत्वार्थसाधिकाम् ।
अथान्ये तस्करास्तद्वदन्योन्यस्य ददुस्तराम् ॥७०२।।
ततो विषोत्थकीलाभिः कल्पकालानलैरिव ।
तेषामायुमो देहे सापायं हन्त जीवितम् ॥७०३॥
एतान् पश्चत्वमापन्नान्वीक्ष्य तौ हृदि वभ्रतुः ।
गुरुणा व्रतदानेनऽऽवयोर्दत्तं हि जीवितम् ॥७०४॥
तेषां गुरूणां सातत्यं परोपकृतिकारिणाम् ।
भवाचो भुवि जीवन्तावनृणत्वपरौ कथम् ॥७०५॥
तेषामेव गुरूणां तौ पार्षे जगृहतुव्रतम् ।
जग्मतुरच्युतं कल्पं तस्मानिर्वाणमेष्यतः ॥ ७०६ ।।
आकर्ण्यतां सकर्णेन वर्ण्यमानं मितैः पदैः ।
अनर्थदण्डविरतिस्तार्तीयीकी गुणव्रतम् ॥ ७०७ ॥
आर्तरौद्रे अपध्याने विना स्वार्थ परस्य च ।
पापोपदेशः सोऽनर्थदण्ड इत्यभिधीयते ।। ७०८ ॥
येऽनर्थदण्डमीदृशं कुर्वते क्रूरचेष्टिताः ।
ते दुःखभागिनो लोके लोभनन्यादिको यथा ॥७०९।।
तथाहि समभूत् ख्यातं पुरं भोगपुराभिधम् ।
ताराचन्द्राभिधस्तत्र श्रेष्ठी श्रेष्ठगुणाकरः ॥ ७१० ॥
संपूर्णसर्वसामग्यः प्रकृष्टीकृतनाविकः ।
गृहीतभूरिभाण्डौघः सुभटैरुद्भटैः समम् ॥ ७११ ।।
आशुगो वायुवत्पोतो लढयन्मकराकरम् ।
रत्नमेखलनामानं महाद्वीपमुपेयिवान् ॥ ७१२ ॥

सप्तमः सर्गः। २५७ तस्मादुत्तार्य भाण्डानि कूले कूलंकषापतेः । उत्करान् कारयामास श्रियांक्रीडाऽचलानिव।। ७१३।। पुरन्दरपुरं प्राप्य श्रिया पौरन्दरं पुरम् । तत्राऽभूद् भूपतिः स्फीतवाहनो मेघवाहनः ।। ७१४॥ लोभनन्दीति तत्राऽभूत् सत्यार्थों वणिजां पतिः । पापकर्मरतो नित्यं महामोहनिकेतनम् ।। ७१५ ।। तत्रैव नगरे मन्त्री काणको वञ्चनामतिः । बुद्ध्या गृहीतद्रविणः परेषां पश्यतामपि ॥ ७१६ ॥ तयोर्मन्त्रधियां पात्रं सत्रागारमिवैनसाम् । सुशिल्पी चर्मकारोऽस्ति मायामय इतीरितः ॥ ७१७ ।। सवितुर्मन्दिरे शान्तो द्विजो होराविचक्षणः अविद्यमाननेत्रोऽपि त्रिलोचन इति स्मृतः ॥ ७१८ ।। इतश्च लोभनन्येष श्रुत्वा पोतं समागतम् । ताराचन्द्राऽन्तिके प्राप गृहीत्वा प्राभृतं निशि ॥७१९।। संभाषमुचितं कृत्वा पप्रच्छाऽस्वच्छमानसः । पोतभाण्डं कियद् भद्र ! ममाऽशेष निगद्यताम् ॥७२०॥ प्राञ्जलत्वात्ततस्तेन सर्वमुक्तं यथास्थितम् । शिरो विधृय तेनापि सखेदमिव भाषितम् ।। ७२१ ॥ प्रयास एवं जातस्ते कुभाण्डाऽऽनयनात् परम् । यस्मादमीषां न कापि विक्रयः कपिवद् भवेत् ॥ ७२२ ॥ हंहो ! तथापि गृहेऽहं पुरा कीर्तिभयात् परम् । दास्येऽहं प्रस्थमेकं ते निजमानसवाञ्छितम् ॥ ७२३ ॥ तथाऽऽदृतमनेनापि सत्यकारः समर्पितः । लग्नका विहिताः पौरा भाण्डं दृष्ट्याहतं कृतम् ॥ ७२४ ॥ परकीयाऽपि मेऽद्य श्रीरात्मीयति विचिन्तयन् । गत्वा गृहं सुखं सुप्तः सुतोद्वाहक्षणादिव ॥ ७२५ ॥ १ १ प्राप्त, इत्याप। ३३ २५८ मल्लिनाथमहाकाव्ये- द्वितीये यामिनीयामे सचिवो वञ्चनामतिः । ताराचन्द्रं छलयितुं हृष्टः प्राप तदन्तिके ॥ ७२६ ॥ उचितप्रनिप्रत्याऽसौ ताराचन्द्रण विप्पर । उपविश्य पप्रच्छेऽथ स्वागतं मन्त्रिणोऽन्तिके ॥ ७२७ ॥ मन्त्रिणा वार्तावसरे भणितं क्रूरचेतसा । पुराऽहं चौरवत् क्षिप्तश्चारके जगतीभुजा ॥ ७२८ ।। तस्मात् कथञ्चिद् नष्ट्राऽहं पोतादुत्तीर्य सागरम् । पुरं भोगपुरं प्राप त्वत्पितुः सदनं स्थितः ।। ७२९ ।। मया समक्ष लोकानां चक्षुर्मुक्त्वाऽय दक्षिणम् । जगृहे स्वर्णलक्षश्च ततोऽत्राऽऽगां नृपान्तिके ।। ७३० ॥ तन्मगल्यपदे दत्वा क्षमयित्वा स्वदुर्नयं । पूर्ववत्सचित्रो जातो द्रव्यात् किं न प्रजायने ? ॥ ७३१ ।। मत्पुण्यस्त्वमिहायातः स्वर्णलक्षमिदं सखे ! गृहाणाऽर्पय मे चक्षुर्व्यवहारं प्रवर्त्तय ।। ७३२ ।। दत्त मे लोचने भद्र ! कर्त्तव्यो भाण्डविक्रयः । आंहारे व्यवहारे च सज्जा लज्जा सतां न यत् ।। ७३३ ॥ इत्युक्त्वा सचिव याते विमनाः पोतनायकः । चिन्तया रजनीयामयुगं युगमिवाऽनयत् ।। ७३४ ॥ मायामयो महामायः पर्यटस्तत्कुटीतटे । आगात् सन्धापयाञ्चक्रे वणिजो पादरक्षणम् ॥ ७३५ ॥ चर्मकारस्ततः प्राह किं मे दास्यथ वेतनम् ? । पोतनाथ उवाच लां तोषयिष्यामि सर्वथा ।। ७३६ ॥ कृतकार्यममुं दृष्ट्वा सोऽथाऽवोचत रूपकम् । इम्मं द्रम्माष्टकं द्रम्मगतं वा त्वं गृहाण भोः ॥ ७३७ ॥ तनो द्रम्मसहस्रेषु दीयमानेषु तेन तु । नायं सन्तोषवान् जातः किं पुनर्भूरिवाञ्छकः ? ॥ ७३८ ।। अयोचे चर्मकृद् श्रेष्ठिन् ! पोतपण्यं ममाखिलम् ।

सप्तमः सर्गः। २५९ यद्यर्पयसि तत्तोषो जायते मम नान्यथा ॥ ७३९ ॥ ममानुज्ञां विना पण्यं चेद्विक्रष्यसि किञ्चन । तद् भूपाज्ञाविभङ्गस्य कारयिष्यामि कारणम् ।। ७४० ॥ एवमुक्त्वाऽगमञ्चर्मकारः कारुककूटधीः । जगाम नगरस्यान्तस्ताराचन्द्रोऽपि पर्यटन् ॥ ७४० ॥ दृष्टो मदनमञ्जर्या वेश्यया शस्यरूपया । लक्षीकृतः कटाक्षाणां स साक्षादिवसात्यये ॥ ७४२ ।। आनायितो गृहे श्रेष्ठी प्रेष्य चेटीं सुलोचनाम् । स्लपितो भोजितो भक्त्या परमानन्दमेदुराम् ॥ ७४३॥ एवं निवसतस्तस्य कियन्त्यपि दिनान्यगुः । अन्येयुः स तया पृष्टः कस्त्वं कस्मादिहागतः १ ॥ ७४४ ॥ ततस्तेन वस्त्तान्तः समीचीनो निवेदितः । साध्वोचद् विपदः प्राप्ती खेदः कार्यों न कोविदैः ।।७४५॥ आपदः संपदोऽप्यत्र समीपस्थाः शरीरिणाम् । न शोकहर्षयोस्तस्मादर्पणीयं मनो बुधैः ।। ७४६ ॥ एवमुक्वाऽथ सा गत्वा नत्वा भट्ट त्रिलोचनम् । एवं विज्ञपयामास रूपाजीवा सुकोमलम् ।। ७४७ ।। मत्पतेस्तारचन्द्रस्य व्यसनं महदुत्थितम् । निस्तरिष्यति तत्सौख्यान्नवेति वद कोविद! ॥ ७४८ ॥ सोऽप्युवाच तव पतिर्व्यसनं निस्तरिष्यति । सुखेनाऽपि न खेदस्तत्त्वया कार्यो निजे हृदि ॥ ७४९ ॥ श्रुत्वेत्युपश्रुतिप्राय हृष्टा वेश्यागृहं गता। यामिन्यां प्रेषयामास तारेन्दु रविमन्दिरे ॥ ७५० ॥ प्रछन्नीभूय सूर्यस्य मन्दिरेऽस्थाद् वणिग्वरः । इतोऽभ्यागाल्लोभनन्दी छात्रेण विनिवेदितः।। ७५१ ॥ आख्याय पूर्ववृत्तान्तं श्रेष्ठिनोदितमीदृशम् । निरूपय निजां होरां निर्वाहो भविता नवा ।। ७५२ ।।

२६० मल्लिनाथमहाकाव्ये- होरां विचार्य सोऽप्यूचे यदीदं पोतनायकः। वक्ष्यते वचनं प्राज्ञस्तदा तव किमुत्तरम् ।। ७५३ ।। न किंचित् शोभनं भद्र ! भविता प्रत्युताऽऽपदं । श्रुत्वेति शून्यधीः प्राप मन्दिरं श्रेष्ठिसुन्दरः ।। ७५४ ॥ अथाख्यत् तस्य पार्श्वस्थश्छात्रः पात्रं महाधियाम् । होराज्ञानस्य तत्त्वार्थ पुनः पाठय मां प्रभो! ॥ ७५५ ॥ तत्र पाठयितुं भट्ट उपाक्रमत सत्वरम् । विनेयविद्यादाने हि बुधाः स्युः सततोद्यमाः ॥ ७५६ ॥ वेदाध्ययनदानेषु देवार्चासु विषोद्धृतौ । पुरीधामप्रवेशेषु वामा होरा शुभा मता ॥ ७५७ ।। संग्रामे भोजनस्ताने स्त्रीसंगे राजदर्शने । क्रूरकर्मसु शेषेषु दीप्ते वामेतरा मता ॥७५८ ॥ दक्षिणे यदि वा वामे यत्र वायुर्निरन्तरम् । तं पादमग्रतः कृत्वा निस्सरेद् निजमन्दिरात् ॥ ७५९ ॥ गुरुवुधनृपामात्या अन्येऽपीप्सितदायिनः । पूर्णाङ्ग खलु कर्त्तव्या कार्यसिद्धिमभीप्सता ॥ ७६० ॥ आसने शयने वाऽपि पूर्णाङ्गे विनिवेशिताः । वशीभवन्ति कामिन्यो न कार्मणमतः परम् ।। ७६१ ॥ यदा पृच्छति चन्द्रस्थस्तदा संधानमादिशेत् । पृच्छेद् यदा तु सूर्यस्थस्तदा जानिहि विग्रहम् ॥ ७६२ ॥ चन्द्रस्थाने यदा वायुः सूर्यस्थाने च पृच्छति । तदा न रक्ष्यते रोगी मृत्योर्वैद्यशतैरपि ॥ ७६३ ।। रविस्थाने यदा प्राणः प्रष्टा पृच्छति चन्द्रगः । तदासौ म्रियते रोगी यदि त्राता सुरेश्वरः ॥ ७६४ ॥ यस्मिन्नने चरेद् वायुस्तत्रस्थो यदि पृच्छति । पीडितोऽपि तदा रोगै रोगी जीवत्यसंशयम् ॥ ७६५॥ वहन्तीं नासिकां वामां दक्षिणां चाभिसंस्थितः ।

सप्तमः सर्गः।
२६१
यदि पृच्छेत् तदा पुत्रो रिक्तायां तु सुता भवेत् ॥ ७६६ ।।
पार्थिवे जीवविज्ञानं मूलज्ञानं जलेऽनिले ।
आग्नेये धातुविज्ञानं व्योम्नि शून्यं विनिर्दिशेत् ॥ ७६७ ॥
एवं तं पाठयन्नस्ति मन्त्र्यागाद् वञ्चनामतिः।
पूर्ववत् कथयामास स पूर्ववदभाषत ॥ ७६८ ॥
अथ चर्मकृति प्राप्ते पूर्ववद् गदिते सति ।
मन्त्री कृष्णमुखो जातो मृतज्येष्ठसुतो यथा ॥ ७६९ ।।
तच्छ्रुत्वा चर्मकारोऽपि निरानन्दो गतस्मयः ।
विपस्य कटुकैर्वाक्यैः श्रेष्ठिवन्मानसे भृशम् ।। ७७० ॥
तारेन्दुर्भट्टवाक्यानि सुधारससमान्यथ ।
आकर्ण्य मुदितस्वान्तः सततं सुयना ययौ ॥ ७७१ ।।
अथ प्रातपाभ्यर्णमागत्य सह वेश्यया ।
ताराचन्द्रेण सर्वोऽपि स्ववृत्तान्तो निवेदितः ॥ ७७२ ॥
अथ श्रेष्ठी समाहूतो भूमिपालेन कोपिना ।
आगतः सोऽपि साशवं नत्वा भूपमुपाविशत् ॥ ७७३ ॥
रोषरक्तक्षणः क्षमापः साक्षेपं स्मेति भाषते ।
रे! श्रेष्ठिन्नीदृशं कर्म मर्माऽऽविष्कुरुषेञ किम् ? ॥७७४ ॥
अराजकमिदं राज्यं किं वा न्यायो न विद्यते ।
येन कार्याण्यनार्याणि क्रियन्ते निजयेच्छया ॥ ७७५ ॥
श्रेष्ठी सधैर्यमूचे च गत्वाभ्यर्णेऽस्य साञ्जसम् ।
संलापपूर्वकं राजन् ! निविष्टोऽहं यथाविधि ॥ ७७६ ॥
अनेनोचे सखेऽमीषां भाण्डानां मम विक्रयात् ।
संभाव्यते कृचिल्लाभस्ततोऽजल्पमधीश्वर !? ॥ ७७७॥
त्वदीयपण्यराशीनां विक्रयो भविता न हि ।
ततोऽयमगढदेव ! निर्भाग्योऽहं महामते ! ॥ ७७८ ॥
यत् किञ्चिद्रोचते तुभ्यं तद्भाण्डपस्थिकं सखे!।
भृत्वा शीघ्र ग्रहीष्यामि कुभाण्डान्यखिलान्यपि ॥७७९॥

२६२ मल्लिनाथमहाकाव्ये- अङ्गीकृतमनेनाऽपि सत्यंकारो मयार्पितः । अत्रार्थे साक्षिणो नाथ ! बहवो विहिता मया ।। ७८० ।। 'अथाह भूपतिः श्रेष्ठी न्याययुक्तं वचोऽवदत् । अनेन लभ्यमेवैतद् यतस्तिष्ठन्ति साक्षिणः ॥ ७८१॥ ताराचन्द्रस्ततः प्राह सस्मितं संमतं मम । यथेष ददते मह्यं प्रस्थमेकं समीहितम् ।। ७८२ ॥ लोभनन्दी ततः प्राह प्रस्थमेकं मनोगतम् । याचखति विवादे हि कालक्षेपः क्षमेत किम् ? ॥ ७८३ ॥ ताराचन्द्रोऽप्यभाषिष्ट शृणु मे रुचिरं वचः । उत्तरानिलपूतानां खण्डितानामुदूखले ॥ ७८४ ॥ रामाकरगृहीतानां समक्ष नृपपर्षदः । प्रदेहि मशकस्याऽस्थ्नां प्रस्थं स्वच्छ ! ममाधुना ||७८५॥ (युग्मम् ) एवं तारेन्दुना प्रोक्त विलक्षोऽजन्यसौ वणिक् । असाध्यं न मतेः किञ्चिजलानामिव धीमताम् ॥८७६॥ सचिवोऽपि समाहूतो नत्वा नृपमुपाविशत् । ऊचे नृपतिरेतस्य निषिद्धं किं क्रयाणकम् १ ॥७८७॥ सोऽप्यूचे दक्षिणं चक्षुरस्य ग्रहणकेऽस्ति मे । वर्णलक्षं गृहीत्वाऽसौ तदर्पयतु साम्प्रतम् ।।७८८॥ राज्ञोक्तं शोभनं वक्ति मन्त्र्ययं नयकोविदः । ताराचन्द्रस्ततः प्राह युक्तमुक्तं विपश्चिता ॥७८९॥ राजन् ! मे मन्दिरे नूनं सहस्राणि दृशां नृणाम् । त्वन्मध्यपतितं नेत्रं न जाने हन्त ! निश्चितम् ॥७९०॥ त्वं वामलोचनं मन्त्रिन् ! समुद्धृत्य समर्पय । येनोपलक्ष्यते पूर्ण विदधामि मनोरथम् ॥७९१॥ चिहस्याऽथ नृपोऽवादीद् युक्तियुक्तं वदत्ययम् । १ स्वच्छमते, एवमपि ।

सप्तमः सर्गः। २६३ उपलक्ष्य यतः कर्ता नेत्रार्पणविधि ननु ॥७९२॥ अहो ! मतिप्रपञ्चोऽस्य यच्चक्रेऽहं निरुत्तरः। विचिन्त्येति स मायाची मौनमाश्रित्य निर्गतः ॥७९३॥ चर्मकारं समाहूतं ताराचन्द्रोऽप्यभापत । कैमर्थ्यक्येन पण्यं मे दीयमानं निषेधसि? ॥७९४॥ चर्मकृत्तमुवाचेति यावदस्मि न तोपितः । त्वया क्रयाणकं नैव तावद् देयं हि कस्यचित् ।।७९५॥ ताराचन्द्रोऽथ न्यगददिदं चर्मकृतां वर !। अमुष्य रत्नचन्द्रस्य नरेन्द्रस्य सुतोऽजनि ॥ ७९६॥ तस्य जन्मनि तुष्टस्त्वं नवेति वद कद्वद ? । सोऽप्युवाच सखे ! तुष्टः संजातोऽहं गिरा तव ॥७९७॥ ताराचन्द्रो नरेन्द्रस्य प्रणम्य क्रमपङ्कजम् । एतद्ग्रहत्रयीमुक्तो व्यवहारपरोऽजनि ॥ ७९८ ।। इतश्च नगरे तत्र द्यूतकारो धनाढयः क्षुधया पीडितः कामं तारेन्द्रं समुपागमत् ॥ ७९९ ।। ताराचन्द्र क्षुधात्र्तोऽहं देहि मे भोजनं वरम् । अन्यथा जीवितव्यद्रुः क्षुद्दवेन विनाश्यते ॥ ८०० ॥ यतः- क्षुधया परिभूतानां प्राणाः बुद्धिः पराक्रमः । एते सर्वे विलीयन्ते कल्पान्तेनेव पर्वताः ॥ ८०१॥ क्षुधाक्लीवस्य जीवस्य पञ्च नश्यन्त्यसंशयम् । सुवासनेन्द्रियवलं धर्मकृत्यं रतिः स्मृतिः ॥८०२॥ सगौरवं कृतस्नेहं ताराचन्द्रेण भोजितः । अन्नदानात्परं दानं न भूतं न भविष्यति ॥ ८०३ ॥ अथ द्यूतरतः सोऽपि लोभनन्दी गृहे निशि । पद्माकारमदात् खात्रं किमसाध्यं हि तादृशाम् ।।८०४॥ आँग्राहींनम इत्यादि मन्त्राक्षरपरायणम् ।

२६४ मल्लिनाथमहाकाव्ये- वारं वारं ताराचन्द्र इत्याख्यां ग्राहकं स्फुटम् ।।८०५॥ प्रज्वलद्वह्निकुण्डस्य पुरस्थं कृष्णमासुरम् । ध्यानमापूरयन्तं च दाहयन्तं तिलादिकम् ।। ८०६ ॥ करवीरारुणपुष्पैः पूजयन्तं च देवताम् । अद्राक्षीदेप निभृतं श्रेष्टिनं लोभनन्दिनम् ॥ ८०७ ॥ (त्रिभिर्विशेषकम् ) अमुमर्थ गदिष्यामि तारेन्दोः प्राणदायकम् । यतो मया गृहे भुक्तमतस्य स्नेहगौरवात् ।। ८०८ ॥ तृणमुत्तारितं मूर्धा येन तस्याऽपि तन्यते । उपकारः किमेतस्य पुनः सर्वोपकारिणः ॥ ८०९ ॥ ध्यात्वेति विनिवृत्तोऽसौ प्रातस्तारेन्दुमन्दिरम् । यावद्गच्छति तावत्स मूकं लोकं विलोकते ॥ ८१० ॥ अथाऽपृच्छत् कथं लोको गतासुरिव दृश्यते ।। ततः कश्चिन्नरोऽवोचद् दाहोऽभूद् श्रेष्ठिनस्तनौ ॥८११॥ तल्लोभनन्दिनो नूनं विस्पष्टं दुष्टचेष्टितम् । यतोऽभिचारमन्त्राणां माहात्म्यं हि निरर्गलम्।।८१२॥ तत् ज्ञात्वा रत्नचन्द्रस्य नरेन्द्रस्यान्तिके गतः । तत् सर्व कथयामास तदीक्षामास भूपतिः ॥ ८१३ ॥ यथावदुक्तं तत्सर्वं तदागम्याऽधिगम्य च । अवन्धयद् श्रेष्ठिगलेऽश्मपिण्डं पापपिण्डवत् ॥८१४॥ तं चिक्षेप महाम्भोधौ दुष्टशिक्षापरो नृपः । ताराचन्द्रोऽपि संजज्ञे विहितौषधवत्पटुः ॥८१५ ॥ योऽनर्थदण्डमीदृशं कुरुते क्रूरधीः स हि । लोभनन्दिवदम्भोधौ भवाम्भोधौ निमज्जति ॥८१६॥ प्रणम्याऽथ जिनं राजा राजमानो मुदा भृशम् । उवाचाऽनर्थदण्डस्य शुश्रुवे निखिलं वचः ॥ ८१७ ॥ १ रक्तपुष्पप्रसूनश्चेत्यपि।

सप्तमः सर्गः। २६५ अनर्थदण्डमुज्झन्ति ये नराः शिववादिनः । तेपामर्थाः प्रसिद्धयेयुरनानामिवोज्झनात् ।। ८१८ ।। अथ मल्लिः प्रभुः प्राह शिक्षाबतचतुष्टयीम् । तत्र सामायिक देशावकाशिकं च पौषधम् ।।८१९ ।। अतिथेः संविभागश्च शिक्षाबतचतुष्टयीम् । यः पालयति पुण्यात्मा तस्य सिद्धिरसंशयम् ॥८२०॥ अङ्गिनां समभावो यः सर्वभूतेषु भावतः । पाहुः सामायिकं नज्ज्ञास्तत् शिक्षापदमादिमम् ।।८२१॥ आधशिक्षापदस्थस्य श्राद्धस्याऽपि यतेरिव । चन्द्रावतंसनृपतेरिव कर्मक्षयो भवेत् ॥ ८२२ ॥ नगरं नाम साकेत सङ्केतगृहवत् श्रियाम् । चन्द्रावतंसकस्तत्र नृपतिः समजायत ॥ ८२३ ॥ हिमवृष्टिं विकुर्वाणः स्तनयित्नुरिचाधिकम् । पद्मिनीमानलुण्टाकः शिशिरर्तुरवातरत् ।। ८२४ ॥ शिशिरे वर्तमानेऽस्मिन् माघमासेऽनघाशयः। रजन्यामगमद् राजा वासवेश्म गतस्मयः॥ ८२५ ॥ विधिवद् भावनालीनो राजचिलैर्विवर्जितः । दण्डकोच्चारसम्पूर्णमादात् सामायिकं व्रतम् ॥८२६॥ प्रज्वलिष्यति दीपोऽसौ यावद् ध्वान्तविलोपकः । स्पर्धयेव मया तावत् स्थेयं ध्यानवता सता ॥८२७॥ विचिन्त्येत्थं महीनाथः सामायिकपवित्रितः। अतिष्ठत् प्रतिमायां स रौद्रार्तध्यानवर्जितः ॥८२८॥ तत् तल्पपालिका ध्वान्तं स्वामिनो मा स्म भूदिति । गते पाग्यामिनीयामे प्रदीपे तैलमक्षिपत् ॥८२९॥ अचिन्तयन्नृपो मेऽसौ कर्मक्षयविधायिनी 'संधास्यामि निजं भावं प्राक्तनकर्मभेदनम् ।।८३०॥ १ संध्यास्यामीत्यपि । ३४ २६६ मल्लिनाथमहाकाव्ये- ? गते द्वितीये यामेऽथ प्रदीपेऽत्र गृहस्थिते । अक्षिपद् जाग्रती तैलं सा शय्यापालिका पुनः ८३१ ततोऽप्यचिन्तयद् राजा रणादौ कष्टमुत्कटम् । सोढं मया कियच्चेदं परम्परसुखप्रदम् ? ॥ ८३२ ॥ व्यतीते रजनीयामे तृतीये तल्पपालिका । चिक्षेप मल्लिकायां तु तैलं सा भक्तमानिनी ॥८३२॥ पुनर्दध्यौ महीपालः क्षालयिष्याम्यहं निजम् । पापं तापविनिर्मुक्तः शरीरे स्ववशे सति ।। ८३४ ॥ सर्वोऽपि सहते कष्टं प्रायः परवशः पुमान् । कर्मक्षयाय तन्नैव, कर्मनिर्मूलनं त्विदम् ।। ८३५ ॥ श्रमोत्पन्नव्यथाखिन्नः स प्रदीप इवाचिरात् । विभातायां विभावाँ निर्वाणाऽभिमुखोऽभवत्।।८३६॥ अतिप्रवृद्धभावोऽसौ विहिताऽऽलोचनादिकः । आयुःक्षये विपद्याऽसौ महर्द्धिस्त्रिदशोऽजनि ॥८३७॥ सामायिकत्रतं चक्रे यथाऽनेन महीभुजा । तथाऽन्यैरपि कर्तव्यमिदं सर्वसुखपदम् ।। ८३८ ॥ दिगवते योऽवधिश्चके तत्संक्षेपो दिने दिने । देशावकाशिकं तत् स्यात् शिक्षाव्रतं द्वितीयकम् ।।८३९।। देशावकाशिकं यस्तु परिपालयति व्रतम् । स सुखी जायते धीमान् धनसेनधनेशवत् ।।८४०॥ तथाहि रत्नखेटाख्ये खेटे रत्नधनाभिधः। श्रेष्ठी श्रेष्ठमतिस्तस्य धनसेनसुतोऽजनि ।। ८४१ ।। स सर्वदा नीचसेवी खभावेन विदूषकः । परापवादतन्निष्ठः साधूनामपि दूषकः ।। ८४२ ॥ अन्येयुर्विजने श्रेष्ठी प्रेम्णा पुत्रमजूहवत् । परापवादं मा वत्स ! कार्षीः कीर्तिलताहिमम्।।८४३।। १ सम्यगिति पर पाठ ।

सप्तमः सर्गः।
२६७
मूलं परापवादद्रोः कलिः, स्कन्धश्च दुर्वचः।
धर्मभ्रंशः प्रसूनानि फलं दुर्गतिसंगतिः ॥ ८४४ ॥
नीचसंगाच्चिरं पुत्र ! सुदीर्घा भवसंततिः ।
शृणु चन्द्रयशोवृत्तं वृत्तं नवभवावधि ॥८४५।।
तथाहि भरतक्षेत्रे पुरं ब्रह्मपुराभिधम् ।
ब्रह्मसेनो नृपस्तत्र जयसेनो जिघांसुभिः ॥८४६॥
निःशेषशास्त्रविदुरो विदुरोऽस्य पुरोहितः ।
पुरन्दरयशास्तस्य भार्या शीलधुरन्धरा ॥८४७॥
तयोश्चन्द्रयशाः पुत्री वल्लभा निजजीववत् ।
पैतृके साऽर्हतो धर्मे नाऽकापी वासनां कचित् ।।८४८॥
कलिकाननकन्दल्या पैशून्याऽशून्यचित्तया ।
यशोदेववणिकपत्न्या ब्रह्मसुन्दरीसंज्ञया ।।८४९।।
गृद्धया कामभोगेषु सदाचारपथद्विषा ।
तस्या अजायत प्रीतिः सख्यं तुल्ये स्मृतं यतः ॥८५०।।
(युग्मम् )
वत्सेऽनया समं सख्यं न श्रेयांसि समाश्रयेत् ।
न तथोद्योतकृद् रत्नं सर्पमूर्ध्नि यथा भिये ।।८५१॥
इत्थं सा प्रतिषिद्धाऽपि पितृभ्यां न निवर्तते ।
यद् यन्निवारितं प्रायः तत्तदाऽऽसेवते जनः ॥ ८५२ ॥
अन्येशुरुन्मनाश्चन्द्रयशाः सख्याऽनयोदिता ।
मूर्खचित्तमिवात्यन्तं किमु शून्येव लक्षसे १ ॥८५३॥
सखि ! प्रियो विरक्तो मे रक्तो मदिरयेव सः।
प्रकामं मदिरावत्या न मां दृष्ट्रापि वीक्षते ॥८५४॥
अजातनन्दना कालं निर्गमिष्यामि किं सखि !? ।
न पुत्रो न पतिश्चापि केवलं जन्म हार्यते ।।८५५॥
अलं सखि ! विषादेनाऽऽकर्णयौपयिकं वचः ।
नीलीरागनिभं रागं यथा कुर्यात् त्वयि प्रियः ॥८५६॥

२६८ मल्लिनाथमहाकाव्ये- अत्रास्ति धर्मधी म पुरः प्रवाजिका वहिः । वहुश्रुता समभावा चाऽस्मिन् कर्मणि कर्मठा ॥८५७॥ अथ द्वाभ्यां तत्र गत्वा पूजयित्वा धनादिभिः । पत्युत्तान्त आख्यातः साऽवादीन्मा विपीदतां ॥८५८॥ ब्रह्मसुन्दर्यथोवाचाऽनुगृहीता त्वयाऽम्बिके । युक्तं परोपकाराय प्रवर्त्तन्ते भवादृशाः ॥ ८५९ ॥ अथोच्चाटननामोच्चैश्चूर्ण प्रवाजिका रहः । अदाच चन्द्रयशसे दुष्टकर्मेव मूर्तिमत् ॥ ८६० ॥ तद्योगचूर्णमाहात्म्यात् शिरसि क्षेपणात् पतिः । विरक्तो मदिरावत्यां रक्तश्चन्द्रयशस्यभूत् ॥ ८६१ ॥ बद्धं क्लिष्टं तया कर्म महादुःखनिवन्धनम् । विपाको यस्य संभावी बहुसंसारकारणम् ॥ ८६२ ॥ कालक्रमेण सा मृत्वा समभूत्पर्वते वशा । अप्रिया यूथनाथस्य तत्तत्कर्मविपाकतः ॥ ८६३ ॥ यत्र सा क्रीडति प्रीत्या तत्र एष न गच्छति । तां विलोक्य प्रजज्वाल नवेनेव दवेन सः ॥८६४॥ अथ मृत्वा गिरौ तत्र वानरीत्वेन साऽभवत् । अनिष्टा पूर्ववत् पत्युः स्वदुष्कृतवशंवदा ॥ ८६५ ॥ अन्येार्यथनाथेन ताडिता सा बलीमुखी । भ्राम्यन्ती शून्यहृत् पुंसा केनचिद् विधृता हठात् ।।८६६॥ अथाय शृङ्खलाबद्धा महादुःखपपीडिता । मृत्वाऽभूत् कुक्कुटीत्वेन कुत्रचित् कोलिकोंकसि ॥ ८६७ ॥ तथापि कुकुटस्याभूदनिष्टा पूर्वजन्मवत् । मृत्ला बिडालिकात्वेन जाता तत्रापि पूर्ववत् ॥ ८६८ ॥ अथ मृत्वाऽभवत् पत्नी चाण्डालस्य सदाधियुक् । दुर्गन्धा दुर्भगा क्रूरा वामना पामनाऽपि च ।। ८६२ ॥ ताडयित्वा श्वपाकेन गृहाद् निष्कासिता सती ।

सप्तमः सर्गः। २६९ भ्राम्यन्ती कानने घोरे निध्याता साधुपुङ्गवैः ॥ ८७० ।। पन्था धर्मपरेऽस्माकं दयतां मुनयोऽवदन् । अनया दर्शितः पन्थाः साधवः प्रोचिरेऽथ ताम् ॥ ८७१ ॥ भद्रे ! भद्रकरो धर्मः कार्यः स्वस्य हितेच्छया । साऽवदत्कीदृशो धर्मोऽकथयंस्ते यथाविधि ॥ ८७२ ।। ततः प्रभृति सा शुद्धं कुर्वाणा धर्ममार्हतम् । तत्कर्मदोषशेषांऽशात् सुताऽभूत् श्वेतवीपतेः ।। ८७३ ॥ कोशलस्वामिना साकं कृतोद्वाहेयमप्यभूत् । तद्रूपं यक्षिणी काचिद् विकृत्याऽन्तःपुरेऽगमत् ॥ ८७४ ॥ तद् वृत्तं श्वेतवीनाथपुत्री ज्ञात्वाऽत्तिदुःखिता। प्रवर्तिनी समीपेगाद् नत्वाऽविक्षद् .यथासनम् ॥ ८७५ ॥ ज्ञानादुक्तवती प्रत्राजिकाचूर्णादि सा सती । ततोऽस्या गलितं मोहध्वान्तं वोधिरदीप्यत ॥ ८७६ ।। जातिस्मरणमुत्पेदे संवेगः प्रासरद् हृदि । कियद्भगवति ! क्लिष्टं मम कर्माऽस्ति साम्प्रतम् ॥ ८७७ ॥ ऊचे प्रवर्तिनी वत्सेऽहोरात्रमिति कर्म ते । अथाऽख्यदेपा मे प्राणनाथो ज्ञास्यति मां कथम् ? ॥८७८॥ इदानी जातशङ्कस्ते प्रियो निशि कथञ्चन । प्रतिमां तीर्थनाथस्य समीपस्थां करिष्यति ॥ ८७९ ॥ तां दृष्ट्वा यक्षिणी दूरादपयास्यति दस्युवत् । जिनार्चायाः पुरो यस्मान्न दुष्टाः स्थातुमीश्वराः ॥ ८८० ॥ प्रवर्तिनि ! न सा पत्युस्तद् विधास्यति खण्डनम् । साऽख्यत् शुभाशये ! नैव किंचित् कर्ता शुभोदयात् ॥८८१॥ ततः प्रभृति ते भर्ता कर्त्ता त्वां प्राणवल्लभाम् । सर्वथा पूर्वसंभूतः क्षिप्तः कर्मभवो यतः ॥ ८८२ ।। प्रवर्त्तिन्यहतो धर्मे तत्त्वं किमपि यन्मतम् । १ यथातथमेपोऽपि पाठ ।

२७० मल्लिनाथमहाकाव्य- तद् हि करुणां कृत्वा यतस्त्वं करुणानिधिः ॥ ८८३ ।। प्रधानं सर्वमन्त्रेषु भीतानां वज्रपञ्जरम् । साधकं मुक्तिमार्गस्य दीपकं ज्ञानसम्पदाम् ।। ८८४ ।। जीववत् शाश्वतं साऽध नमस्कारं यथाविधि । अशिक्षयत्मियां राज्ञः सा सम्यक् प्रत्यपद्यत ॥ ८८५ ॥ तत्रस्थैव नमस्कारतत्परा नृपवल्लभा । सकलां गमयामास क्षणवत्क्षणदां मुढा ॥ ८८६ ॥ ततस्तस्याः पतिवृत्तं यक्षिण्या अवगम्य च । तमुपाश्रयमागत्य देव्या अनुनयं व्यधात् ।। ८८७ ।। आर्यपुत्र ! न ते किञ्चित् कुप्यामः, कर्मणे भृशम् । निमित्तमात्र सर्वोऽप्यपराधगुणयोरपि ।। ८८८ ।। अधोवाच नृपो देवि ! कर्मणे कुंप्यसि कथम् ? । साऽऽचख्यो मूलतो वृत्तं प्रवर्त्तिन्या निवेदितम् ॥८८९॥ निशम्योचे नृपः प्राच्यकर्मणां फलमीदृशम् । अनुभूतमनुस्यूतमित्र पल्या भवे भवे ॥ ८९० ॥ तनः प्रवर्तिनी नत्वा धामाऽगात्सपियो तृपः। साऽपि द्वादशधा धर्म परिपाल्य दिवं ययौ ॥ ८९१ ।। एतचन्द्रयशोवृत्तं श्रुत्वा पुत्र ! पवित्रधीः । नीचसंगं विमुञ्चाऽऽशु चेदिच्छसि समुन्नतिम् ॥ ८९२ ॥ नत्वा तातमसौ प्राह नीचसंगान् समन्ततः । निवृत्तोऽहं प्रवृत्तस्तु तवाऽध्वनि शुभाशयम् ॥ ८९३ ।। अहं ताताहतं धर्म श्रोतुमिच्छामि साम्प्रतम् । ततोऽसो कथयामास श्रावकत्रतपद्धतिम् ॥ ८९४ ॥ उपादत्तार्हतो धर्म सद्गुरोरिव भाविकम् । विशेषाच्च मनश्चक्रे व्रते देशावकाशिके ॥ ८९५ ॥ अन्येार्जनकादेशात् पण्यान्तरजिघृक्षया । १ क्नुि कुप्यनीलपि । २ स गुरो सद्गुरोरिव, एवमपि ।

सप्तमः सर्गः।
२७१
चलितः पूर्णगोणीकैः तृपैः पञ्चशतैर्युतः ।। ८९६ ।।
कण्ठबद्धस्फुरण्टानिर्घोपाः मासरंस्तराम् ।
देशान्तरश्रियामाकारणद्ता इवोद्भटाः ।। ८९७ ॥
बगाङ्गयोरन्तराले सार्थस्तस्योषितोऽखिलः।
मिमिलरपरे सार्थ सार्था वार्धाविवापगाः ॥ ८९८ ॥
धनसेनोऽथ शर्वर्या कृतार्चत्रिजगद्गुरोः ।
आ सार्थाद् विदधे देशावकाशिकं व्रतं मुदा ॥ ८९९ ।।
इतश्च निशि कोऽप्येत्य जगाद वणिजां पतिम् ।
देव ! नाहलसंघाताश्चेलुः सार्थजिघृक्षया ॥ ९०० ॥
इदं वृत्तं परेषां स वैदेहानां जगाद तु ।
तेऽप्यूचुस्तर्हि वेगेन नश्यतां धनसेन ! भोः ! ।। ९०१ ॥
न्यगदद् धनसेनोऽथ व्यूहं कृत्वान तिष्ठत ।
नाहलानीकिनीसंघाः किं करिष्यन्ति जाग्रताम् ? ॥९०२॥
यष्टिभिर्मुष्टिभिश्चापैः प्रस्तरैगोलकादिभिः ।
व्यूह भेदं विधास्यन्ति धनसेनेति चिन्तय ॥ ९०३ ॥
अथाऽभ्यधाद् धनसेनो मया स्थातव्यमत्र यत् ।
आ सार्थात्परतो यस्मान्निषेधो गमने निशि ।। ९०४ ।।
अहो ! ते मूर्खता भद्रावादीद् यन्नियमो मम ।
वस्थावस्थासु कर्त्तव्यं व्रतस्य परिपालनम् ॥ ९०५ ॥
भद्र ! धर्मप्रभावात्ते भूयाद् रक्षा निशान्तरे ।
वयं नु सधना यामो नश्यतां नास्ति भीः कचित् ॥९०६।।
वैदेहा अपरे सार्थमादाय रजनीमुखे ।
भीत्या मृगा इवाऽनश्यन्नास्ति मृत्युसमं भयम् ।। ९०७॥
तेषां प्रणश्यतामर्द्धमार्गे भिल्ला उदायुधाः ।
आययुः संमुखं मूर्ताः कालरात्रिसुता इव ॥ ९०८ ॥
अथ तैर्वेष्टितः सार्थः शरीरीवोग्रकर्मभिः ।
गृहीतसारश्च कृतः प्रहतः प्रस्तरादिभिः ॥ ९०९॥

२७२ मल्लिनाथमहाकाव्ये- अथ प्राणान् समादाय नेशुः सार्थजना निशि । धनसेनस्तु कुशली तत्रस्थो व्रतपालनात् ।। ९१० ॥ अवबुद्ध्य स्वरूपं तत् प्रनष्टा गतपौरुषात् । विशेषतो रतो जैने धर्मेऽभूत् सुसमाहितः ।। ९११ ।। अथ प्राप्य स्वकीयं तत् पुरं रत्नपुराभिधम् । समुपार्जितलक्ष्मीकः श्राद्धव्रतमपालयत् ॥ ९१२ ।। पर्यन्तेऽनशनं कृत्वा समाधिध्यानतत्परः। मृत्वाऽभूत् प्रथमे कल्पे सुरो ललितसंज्ञकः ॥ ९१३ ॥ देशावकाशिकं शुद्धं यथाऽनेन सुरक्षितम् । तथाऽन्यैरपि भूपाल ! पालनीयं विवकिना ।। ९१४ ॥ श्रीकुम्भो न्यगदद् नाथ ! धनसेनः कृतार्थधीः । यस्येदृक्षं मनो धर्मे सुस्थितं परमार्थतः ॥ ९१५ ।। - वरं पुरं शरीरं च द्रविणं च त्यजन्त्यपि । त्यजन्त्यभिग्रहं नैव जीवितव्यव्ययेऽपि हि ॥ ९१६ ॥ पौषधवतदृष्टान्तं स्वामिन् ! श्रोतुं समुत्सुकः । केषां तृप्यन्ति चेतांसि यौष्माकोणवचःश्रुतौ ? ॥ ९१७ ॥ अथाऽभ्यधाद् जिनो मल्लिः संदेहध्वान्तभास्करः। माकन्दफलसप्रीत्या गिरा तत्त्वकिरा भृशम् ।। ९१८ ॥ पोपं दत्ते क्रमाद् ध्यानधर्मस्य शुभदायिनः । इति निष्पत्तितः प्राहुस्तत्त्वज्ञाः पौषधव्रतम् ॥ ९१९ ।। केचित् पौषधतन्निष्ठा मृत्युदा अपि वेदनाः । सहन्तेऽन्यत्वभावेन राजन् ! शिखरसेनवत् ॥ ९२० ।। तथाहि मिथिलापुयाँ विजयी विनयी नयी । राजा विजयधर्माख्यश्चन्द्रधर्माऽस्य वल्लभा ॥ ९२१ ।। अन्येारनवद्यागी खेलन्ती सममालिभिः। विशिष्टलक्षणाधारा स्त्रीरत्नमिति कश्वन ॥ ९२२ ॥ व्यामोद्य विद्यया लोकान् विद्यासाधनहेतवे ।

ससमः सर्गः। २७३ जहेऽन्तःपुरमासीनां चन्द्रधर्मी निशामुखे ॥९२३॥ (युग्मम्) अस्या अपहतिं वात्वा निधेरिव धराधवः । मूलच्छिन्नांहिप इव पपात पृथिवीतले ॥ ९२४ ।। चन्दनद्रवनिष्यन्दितालवृन्तमहानिलैः । चिरं कृतप्रतीकारो मूर्छाविच्छेदमाप सः ॥ ९२५ ॥ हा ! प्रिये ! हा! प्रिये ! राकाशशाङ्कवदनानघे!। कुतोऽस्मान् त्वमनापृच्छय गताऽसि मृगलोचने ! ॥९२६।। त्वां विना नगरं देवि ! शून्यमेतद् विलोक्यते । त्वदनु प्रस्थिताः प्राणाः शून्यमस्थात् कलेवरम् ॥९२७।। एवं दुःखपरे राज्ञि चतुर्थे दिवसे दिवः । जटाजूटधरो मन्त्रसिद्धः कश्चिदुपागतः ॥ ९२८ ॥ वयस्य ! मन्त्रसिद्ध्यर्थं तव कान्ता मया हृता । एष कल्पो यतोऽमुष्याऽऽराधने गुरुणोदितः ॥ ९२९ ।। तां जामिमिव मे विद्धि न ते पीडा भविष्यति । षण्मासान्ते त्वया साकं संगमः साधु सेत्स्यति ॥९३०॥ इत्युदित्वा गते तस्मिन् पुनः मूर्छामवाप सः । आर्दीभूतं च तद् दुःखं पिटको घर्षणादिव ।। ९३१ ॥ मूर्छान्ते प्रेयसी स्मृत्वा ध्यानी मौनी च सोऽभवत् । पल्योपमोपमास्तस्य बभूवुर्दिवसाः कति ॥ ९३२ ॥ व्यामोहतिमिरे तस्य दूरीभूते कथञ्चन । जहषुः सचिवाः सर्वे लब्धाऽपूर्वनिधानवत् ॥ ९३३ ।। अत्रान्तरे समागत्योद्यानपालोऽप्यभाषत । विजयस्व महीपाल ! मङ्गलैरतुलैर्भृशम् ॥ ९३४ ।। तवोद्याने जिनस्वामी गजगामी समागतः । अनेकसंशयध्वान्तध्वंसकस्तिग्मभानुवत् ।। ९३५ ॥ श्रुत्वेदं हर्षरोचिष्णुग् पारितोषिकं नृपः । दत्त्वा व्यसृजदेनं तु स्वयमागाच वन्दितुम् ।। ९३६ ।।

२७४ मल्लिनाथमहाकाव्ये- कस्य प्राकारत्रितयं दृष्टा भ्राजमानं जिनेशितुः । धाराकदम्बवद् धाराहतो रोमाश्चितोऽभवत् ।।९३७|| ततः प्रदक्षिणीकृत्य तीर्थनाथं क्षमापतिः । स्तुत्वा स्तोत्रविचित्रैश्च यथास्थानमुपाविशत् ।। ९३८ ।। अनादिनिधनो जीवो बद्धः कर्मभिरुटैः । दुर्वातभ्रामितः पोत इवाम्भोधौ भ्रमत्यलम् ।।९३९।। तत्रैव भ्राम्यतो द्वीपकल्पः कल्पद्रुमोपमः । जैनो धर्मः स च द्वेधा साधुश्राद्धविभेदतः ।।९४०॥ साधुधर्मों यथा प्रोक्तो व्रतपञ्चकबन्धुरः। अदवीयानयं मार्गों लोकाग्रमुपतिष्ठते ॥९४१॥ श्राद्धधर्मात् परं मोक्षो भवति द्वित्रिजन्मतः । अयं तु सुकरो ज्ञेयः प्रायशो विषयैषिणाम् ।। ९४२ ॥ धर्मस्य माहात्म्यादभूवं पृथिवीश्वरः । इत्युक्ते भूभुजा तेन प्रोचे वाचंयमाग्रणीः ॥९४३॥ आसीदिहैव भरते विन्ध्यसंज्ञो महीधरः । चतुर्विधगजोत्पत्तिभूमि मितिदण्डवत् ।।९४४॥ तस्मिन् शिबिरसेनोऽभूत् पल्लीशः क्षत्रियाग्रणीः । जन्तुजातवधे निष्ठो गरिष्ठः स्तेयसाहसः ॥९४५।। इयं ते प्रेयसी प्रेमरत्नरोहणभूमिका । समभूत् श्रीमती नाम्ना पल्लिश्रीरिव गेहिनी ॥९४६॥ गुञ्जामुक्ताफलाहारा वल्कलाम्बरधारिणी । बर्हिपिच्छकृतोत्सा प्रियङ्गुद्युतिभासुरा ॥९४७।। त्वया सह सदुर्गादिनिकुञ्ज कृतचक्रमा ! पिबन्ती नैझरं वारि त्रासयन्ती मृगीरपि ॥९४८॥ यूथभ्रष्टमिव न्यदु सार्थच्युतमिवाध्वगम् । एकं ददर्श सा साधुं पर्यटन्तं महागिरौ ॥ ९४९ ॥ (त्रिभिर्विशेपकम् ) सप्तमः सर्गः २७५ अथोवाच भवान् साधो ! कस्माद् भ्राम्यनिहाऽऽगतः । ' सोऽप्याख्यनिजकाद् गच्छाद् भ्रष्टोऽहं दिवसात्यये।।९५०॥ नाऽहं किञ्चिद् कचिद् वेमि दिग्मूढ इच साम्प्रतम् । दर्शयतु भवान् मार्ग श्रेयस्ते भावि भाविकः ॥९५१॥ अथैष स्वगृहे नीत्वा स्थापयित्वा वराश्रये । वस्त्रानपानशय्याभिर्भवद्भ्यों पतिलाभितः ॥९५२॥ शृण्वतोराहतं धर्म दम्पत्योर्वासनाऽभवत् । अशिक्षेतां भवन्तौ चाऽऽवश्यकादिविधि पुनः ॥९५३॥ चतुष्पा ग्रहीष्यामि पौषधं पातकौषधम् । एवं निश्चयमाधत्त भवान् भवविरागधीः ॥९५४॥ अन्येयुः शिखरसेनोऽमावास्यां शुद्धवासनः । अगृह्णात् पौषधं तद्वत् श्रीमत्यपि शुभाशया ॥९५५।। पुच्छेनाऽऽच्छोटयन पृथ्वी नादैर्मुखरयन् दिशः । कोपाग्नेरर्चिषा रज्यल्लोचनद्वयदीपिकः ॥९५६॥ मूतॊ रौद्रो रसः प्रेताधिपतेः प्रतिहस्तकः । इतश्चाऽगाद् निशीथिन्यां पारीन्द्रः पौपधालये ॥९५७।। (युग्मम् ) तं दृष्ट्वा धन्य धन्वेति भाषमाणं मुहुर्मुहुः । भवन्तं वीक्ष्य त्वत्पनी प्रोचे वाचं मिताक्षरम् ॥९५८॥ नाथ! सन्यस्तशस्त्रस्य पौषधवतशालिनः । जन्तोर्घातं न दातुं ते युज्यते जैनसाधुवत् ।। ९६९ ।। सहयोपसर्गममुं कर्मेन्धनहुताशनम् । येन ते शिवशर्माणि भावीनि करगोचरे ॥ ९६० ॥ श्रुत्वैवं वचनं चारुगुरुवाक्यमिवापरम् । भवान् शान्तिवरागारे स्थितः साम्यमहाधनः ॥९६१॥ १ प्रतिलाभ्यते, इत्यपि । २ अमावासीशव्दस्य सप्तम्यन्तमेतत् । ३-मानस , एवमपि ।

२७६ मल्लिनाथमहाकाव्ये- नतः सिंहेन दुःसह्यं भवान् शिरसि ताडितः । अनित्यतादिभावज्ञ इत्याशु ध्यानवान् भवान् ।।९६२॥ रे! जीव ! किमिदं कष्टं यत्सोढा नरकोदरे । तदिदं वर्णिकामा दयते तेन साम्प्रतम् ।।९६३॥ रे! जीव ! शतशः प्राणत्यागस्तेऽजनि संसृतौ । पाण्डित्यमरणं नैव प्राप्तं कर्मद्रुपावकम् ।।९६४।। स्मरनिति भवान् मृत्वा भूत्वा नाकी च लान्तके । त्वमभूः पृथिवीपालस्तद्वदेपाऽपि ते प्रिया ॥९६५।। तत्पूर्व पशवो भद्र ! निरागसो वियोजिताः । तद्विपाकं विरहेण सहसे दुःसहं चिरम् ।। ९६६ ॥ श्रुत्वेति तीर्थकृत्मोक्तं लघुका महीपतिः । राज्ये पुरन्दरपुत्रं न्यस्याऽभूत् श्रमणोत्तमः ॥९६७॥ ततस्तीर्थकरोपान्ते तपस्तप्त्वा सुदुष्करम् । अन्तकृत्केवलीभूय राजर्षिः प्राप निर्वृतिम् ।। ९६८ ॥ तेन विद्याभृता नीता तत्र सा वल्लभेशितुः । श्रुत्वा तीर्थकरप्रोक्तं प्रव्रज्याऽथ शिवं ययौ ॥१६९।। अथ नत्वाऽवदत् कुम्भपृथ्वीशः प्राज्यविक्रमः । स्वामिन् ! पोषधदृष्टान्तो जातः कर्णावतंसताम् ।।९७०॥ कृतार्थः शिखरसेनः पौषधवततत्परः । येन प्राणात्ययेऽप्युच्चैः पालित पौषधव्रतम् ॥ ९७१ ।। इदानीं श्रोतुमिच्छामि तुर्य शिक्षाक्तं प्रभो!। श्राद्धधर्मो भवेद् येन समग्रोऽथाह तीर्थकृत् ॥ ९७२ ।। तुर्य शिक्षाक्तं प्राहुरतिथेः संविभागतः । प्राप्ताय साध्वे काले दानात् प्राशुकवस्तुनः ॥ ९७३ ॥ अतिथेः संविभागः स्यादेतद्व्तनिषेवणात् । भाविनी चन्दना वीरतीर्थे निर्वाणगामिनी ॥ ९७४ ॥ १ स्वर्गी, इतीतरदपि ।

सप्तमः सर्गः। २७७ - तथाहि- इक्ष्वाकुवंशसिद्धार्थनन्दनः पावनाकृतिः । सुवर्णवर्णरुचिरः सिहाङ्कः सिंहविक्रमः ॥ ९७५ ।। गृहीतचारुचारित्रश्छद्मस्थः छावर्जितः। विहरन्नगरी प्राप कौशस्वी चरमो जिनः ॥ ९७६ ॥ (युग्मम् ) तत्र राजा शतानीकः शतानीकजिताहितः । सुता चेटकराजस्य तस्य देवी मृगावती ।। ९७७ ।। सुगुप्तः सचिवस्तस्य नन्दाख्या तस्य गेहिनी । सुवयस्या मृगावत्याः परमप्रीतिभूरभूत् ॥ ९७८ ॥ श्रेष्ठी धनावहस्तत्र धनैर्धनदसनिमः । मूलाख्या प्रेयसी तस्य गृहकर्मधुरन्धरा ॥ ९७९ ।। अत्राईन् पौषमासस्य श्यामले प्रतिपदिने । जग्राहाऽभिग्रहममुं दुर्गाह्यमितरैर्जनैः ।। ९८० ॥ मुण्डिता लोहनिगडबद्धपादा तपःपरा । रुदती सुदती किंचिन् मन्युना राजपुत्रिका ॥९८१ ॥ प्रेष्यभावं गता काचिद् देहल्यन्तस्थितकमा । बहिःक्षिप्ताऽपरपदा भिक्षुकेषु गतेष्वपि ॥ ९८२ ।। कुल्माषान् सूर्पकोणेन यदि मह्यं प्रदास्यति । तदैवाऽहं विधास्यामि पारणामन्यथा न तु ॥९८३॥ नीचोच्चेषु गृहेपूचैर्गोचराऽध्वानमागतः । अलक्ष्याभिग्रहो वीरः पर्यभ्राम्यत् दिने दिने ॥९८४॥ दीयमानां मुहुर्भिक्षामगृहति जिनेश्वरे । अभिग्रहवशेनाऽथ पौराः खेदमुपागमन् ॥९८५।। अहन्ननात्तभिक्षोऽसौ सहमानः परीषहान् । अनयंश्चतुरो मासान् दिवसानिव निर्ममः ।।९८६।। अन्येाश्वरमस्वामी सुगुप्तौकसि भिक्षया ।

२७८ मल्लिनाथमहाकाव्ये- प्रविणनि तत्पत्त्या सुमेरुरिव जङ्गमः ॥९८७|| नन्दयाऽऽनन्दसंपूर्ण वस्तुकल्पमढौक्यत । धन्या धन्येति भापिण्या यद् वीरो गृहमागतः ।।९८८॥ अनुकूलमभूत् देवं सत्याथा आशिपोऽपि च । उज्जृम्भितं मुहुः पुण्यं तुष्टा मे कुलदेवता ॥९८९।। एवं मनसि विभ्रत्यामभिग्रहवगाद् जिनः । अनात्तभिक्षस्तद्नेहाद् निर्ययो गजलीलया ।।९९०॥ अधन्या मन्दभाग्याऽहम संपूर्णमनोरथा । यथागतः तथागच्छत्येप चिन्तामणिः श्रिया ॥९९१।। एवं खेदपरां नन्दां दास्यूचेऽयं दिने दिने । आयाति याति च स्वामी तद्धतुरवगम्यताम् ।।९९२॥ इत्थमाकर्ण्य नन्दाऽपि सखेटा पत्युरग्रतः । वीरस्याऽनात्तभिनत्वं कथयामासुषी तदा ॥ ९९३ ।। परचित्तोपलक्षिण्या किं कार्य भवतां धिया। यदसौ जगतां नाथो गृहमायाति याति च ।। ९९४ ॥ जानात्वभिग्रहं प्रेयान् दुर्लक्षे धीप्रयोगतः । सर्वज्ञेनेव कार्याणि जायन्ते भवता धिया ॥ ९९५ ।। अभुक्ते सुगुरौ नाथ ! भुज्यते किं विवेकिभिः । अन्यथा पशुवजन्म वयं मन्यामहे निजम् ॥ ९९६ ।। मन्त्री जगादेवं तीर्थेशितुरभिग्रहम् । यथातथा करिष्यामि पूर्ण प्रातः मृगेक्षणे ! ॥ ९९७ ॥ विजयाख्या प्रतीहारी मृगावत्यास्तदागता । तयोरालापमाकर्ण्य गत्वा देव्या उवाच च ॥ ९९८ ।। मृगावत्यपि तत्कालं विदधे खेदमुच्चकैः । जिनशासनभक्तानां किमिदं किल कौतुकम् ।। ९९९ ॥ संभ्रान्तस्तां शतानीकोऽपृच्छत् खेटनिवन्धनम् । १ भुवननाथे, इलपरम् ।

सप्तमः सर्गः ।
२७९
तस्याः हृदयवासिन्याः संक्रान्तं हृदयादिव ॥१०००।
उच्चकैः खेदसंच्छन्ना मन्दध्वाना मृगावती ।
व्याजहार नृपस्याऽग्रे दीनं दीनं महासती ॥ १००१ ॥
चराचरं चरैविश्वं जानते जगतीभुजः।
स्वपुरीमपि नैव त्वमहो ! ते मतिकौशलम् ॥ १००२ ॥
त्रैलोक्याधिपतिं वीरं वसन्तं नात्र वेत्सि किम् ? ।
अथवा राज्यलुब्धा हि गुरुपूजाप्रमद्वराः ॥ १००३ ॥
राजा वभाषे धिर धिग मां यदसौ परमेश्वरः ?।
अलक्ष्याभिग्रहोऽप्युचैः संपूर्णाभिग्रहो न यत् ।। १००४ ॥
साधु साधु प्रिये ! वीराभिग्रहं प्रेरितः प्रति ।
मन्त्री मन्त्रं गुरुस्त्वं मे यदस्यवं प्रमादहत् ।। १००५ ॥
प्रभाते प्रेयसि! ज्ञात्वाऽभिग्रहं चरमेशितुः ।
पारणां कारयिष्यामि शरीरग्लानिहारिणीम् ॥१००६॥
राजा सचिवमाहूय वीरवृत्तं यथातथम् ।
सविस्तरमुवाचाऽर्हद्भक्तिकञ्चुकचञ्चुरः ॥ १००७ ॥
धिग् धिग् नश्चतुरो मासान् वसंस्तपसि तत्परः ।
प्रभुनों वन्दितो नैव ज्ञातोऽपि ज्ञाननन्दनः ॥ १००८ ॥
विज्ञेयोऽभिग्रहो भर्तुः कथंचिदपि धीधन ! ।
पारणं कारणीयश्च नान्यथा श्राद्धताऽपि का? ॥१००९।।
सचिवोऽप्यनवीद् देव ! वहवोऽभिग्रहाः श्रुताः ।
तथ्यवाद्यभिधो वक्तोपाध्यायः सर्वशास्त्रवित् ।। १०१०॥
भूपोऽप्यथ समाहूयाऽध्यापक तथ्यवादिनम् ।
वीरस्याभिग्रहं चारु विचारय यथामति ॥ १०११ ॥
अर्थ्यन्ते सर्वधर्माणामाचारास्तव शासने ।
तन्मध्यात् केनचिद् भर्ता विधाता पारणाविधिम्॥१०१२॥
अध्यापकोऽप्यभाषिष्ट भूयांसोऽभिग्रहाः खलु ।
द्रव्यक्षेत्रकालभावभेदात् संयमिनां मताः ॥ १०१३ ॥

२८०
मल्लिनाथमहाकाव्ये-
?
ते चामी-
महर्पिः कोऽपि कुन्तेन प्रोतः संख्यातमण्डकैः ।
सादिना दीयमानैश्च विधत्ते पारणाविधिम् ।। १०१४ ॥
कश्चिद् वालादिहस्तेन प्राशुकं चणकादिकम् ।
गृह्णाति पारणाकालेऽभिग्रहा विविधाः किल ॥१०१५||
आलानस्तम्भमुन्मूल्य परहस्ती मदान्धलः ।
गत्वा कान्दविकाहानि करेणाऽऽदाय मण्डकान् ॥१०१६।।
मह्यं ददाति चेत् काले तदा स्यात् पारणाविधिः ।
इत्याद्यभिग्रहा राजन् ! पूर्यन्ते देवतावशात् ॥१०१७॥
( युग्मम् )
विशिष्टज्ञानमाहात्म्यं विनाऽस्याऽभिग्रहः कथम् ।
मादृशैर्गदितुं शक्यः, सर्व हि महतां महत् ? ॥१०१८॥
ईदृशोऽभिग्रहान् राजा पुर्यामाघोष्य डिण्डिमात् ।
वहुधाऽध्यापकेनोक्तान् कारयामास कार्यवित् ॥१०१९।।
केचित् नृपाज्ञया चक्रुः केचिद् भक्त्या जिनं प्रति ।
रत्नदृष्टीच्छया केचित् केचित् कीर्तिजिघृक्षया ॥१०२०॥
केचित् कुल्याशया स्पष्टं व्यधुरेवंविधं जनाः ।
तथापि तीर्थकृद् भिक्षां न जग्राह कथञ्चन ॥१०२१॥
प्रम्लानवदनच्छाया रजनीनीरजोपमाः ।
ब्रीडां खेदाकुलाः पौरा विदधुर्मुखिता इव ॥१०२२॥
इतश्च-
अस्त्रैश्चतुर्विधैः शान्तैः कङ्कटैगंजवाजिभिः ।
पूरयित्वा गणं नावां पूर्ववैरेण दूरतः ॥१०२३॥
नद्याः पथा शतानीको विक्रमादेकया निशा।
एत्याऽरुधत् पुरी चम्पां तित्तिरीमिव पाशकः ॥१०२४॥
ज्ञात्वा तदागमं झम्पापातवद् भयविद्रुतः ।
चम्पाधिपः पलायिष्ट दस्युवद् दधिवाहनः ॥१०२५॥

सप्तमः सर्गः । २८१ यो यद् वस्तु समादत्ते तत् तस्येत्याऽऽदिशद् नृपः । मुमुपुः तद्भटाश्चम्पां निर्वीरावेमवद् भृशम् ॥१०२६॥ दधिवाहनभूभर्तुर्धारिणीमङ्कहारिणीम् । श्रिया भूमीचरी देवीमिव देवीमवीतधीः ॥१०२७॥ वसुमत्या समं पुत्र्या राजलक्ष्म्येव मूर्तया । कोऽप्यौष्टिकोऽग्रहीद् राज्यसर्वस्वमिव संचितम् ।।१०२८॥ (युग्मम् ) शतानीकः परान करनाकः पर्यलकृतः। कृतकृत्यः पुरी माप खविक्रमकथासखीम् ॥१०२९।। मोहितस्तेन धारिण्या रूपेणाऽप्रतिमश्रिया । जनानां पुरतो गच्छन् जगादेति सुदुःसहम् ।। १०३० ।। इमा रूपवती प्रौढां भार्या कर्तास्मि निश्चितम् । पुर्याश्चतुष्पथे गत्वा विक्रेतास्मि कुमारिकाम् ॥१०३१।। श्रुत्वेति धारिणी देवी कर्णयोः कटुकं वचः । मनस्येवं दधारोच्चैः सिञ्चन्त्यश्रुजलमहीम् ॥ १०३२ ।। महाकुले प्रस्ताऽहमिन्दोरपि सुनिर्मले । दधिवाहनराजस्य पढदेव्यस्मि विश्रुता ॥ १०३३ ॥ विज्ञाततीर्थकृद्ध शीलालङ्कारशालिनी । उल्लापानीदृशान् दैवाद् विशृणोम्यघकारकान् ॥१०३४॥ नाऽद्यापि किमु रे ! जीव ! मत्तेभश्रुतिचञ्चलम् । देहं त्यक्त्वा यशोदेहं न रक्षसि सनातनम् ॥१०३५।। वपुषोऽस्मात् स्वयं गच्छ विलतो मूषको यथा । द्विजिह्वस्य प्रवेशे स्याच्छुभयो ! न शुभं तव ॥१०३६॥ सोक्ता तद्भर्त्सनोयुक्तैरिव प्राणैर्विमुच्यते । अङ्गुलीदर्शनाद् शोषं याति कूष्माण्डकं यतः ॥१०३७॥ नृपपत्नी समालोक्य विपन्नां करभासनः । १ निर्वरा-इत्यपि । २ शुभयुक्त' इत्यर्थ २८२ मल्लिनाथमहाकाव्ये- यदेपाऽभवत् नदेपाऽपि भविना क्षणान् ।।१०३८॥ एवं विचिन्त्य साम्नां भाषमाणः पुरा नयन् । राजवत्मनि विक्रेतं दधा, मूर्ध्नि तृणं ददौ ।।१०३९॥ क सान्तःपुग्भूः क्रीडा केयं विक्रयभूमिका ? | क मृन्नि मुकुट श्रीश्च क चैतन् तृणमोचनम् ? ॥१०४०॥ अथवा प्राकृनानां हि कर्मणां फलमीदृशम् । परो निमित्तमात्रं स्याद्, कस्म कुप्याम्यहं ततः ॥१०४१॥ एवं खेदपरां राजपुत्रीमालोक्य भास्करः । पश्चिमामगमन् , सन्तः परदुःखेन दुःखिताः ॥१०४२॥ नभालक्ष्मीरिमां वीक्ष्य स्थितां विक्रयवत्मनि । तिमिरच्छमना दधे कजलाश्रुजलश्रियम् !!१०४३।। श्रेष्ठी धनावहस्तत्राऽऽगतो दासजिलया । एनां श्रियमिवालोक्य दयाराऽऽनन्दसंपठम् ॥१०४४|| असो कन्या न सामान्याजाद् देवादीदृशीं दगाम् । संपढो विपदश्चाप्यरयध्यटिका यतः ॥१०४५|| इमां क्रयभितो लिप्तां वीक्षमाणाङ्गजामिव । हृदयं भविता या वालुई मित्र पक्तिमम् ।।१०४६॥ यस्य कस्यापि हीनस्य करे यास्यनि रत्नवत् । यतश्चतुप्पये तेन विक्रतुं विधृता ध्रुवम् !!१०४७|| तिष्ठन्त्या मद्गृहस्यान्तः स्यादस्या बन्धुसंगमः । मूलद्रव्यं यतो नव्यं सनामुपकृतिर्मता ॥१०४८॥ धनावहो विचिन्त्येति नमै दत्चप्सितं धनम् । निन्ये वसुमती वाला खवेश्म विगतस्मयः ॥१०४९॥ पृष्टाऽय श्रेष्ठिना वत्स ! का वं कस्याऽसि नन्दिनी ?। किं गोत्रं किमु ने नाम का नाम जननी तब ? ||१०५०॥ महत्त्वेन कुलस्याः स्वकुलं वक्तुमनमा । 1 चिमिनिवसामय ।

सप्तमः सर्गः। २८३ सा तस्थौ न्यग्मुखी बाला रजन्यामिव पद्मिनी ॥१०५१।। उवाच श्रेष्टिनी मूलामावयोर्दुहिताऽसकौ । लालनीया पालनीया नेत्रकैरवकौमुदी ॥१०५२॥ तया श्रेष्ठिगिराऽवात्सीत् वत्सा वसुमती सुखम् । जङ्गमा कल्पवल्लीव नानाभरणभूषिता ॥१०५३।। प्रज्ञाविनयवाक्शीलैनिःशेपैश्चन्दनोपमैः । चन्दनेत्यभिधां चक्रे सत्यामस्या धनावहः ॥१०५४।। आवाल्यविमलैर्वृत्तैर्वाला तारुण्यशालिनी । द्वितीयेन्दुवदानन्दं विदधे, पिदधे तमः ॥१०५५॥ खभावेन स्वरूपेयं विशेषाद् यौवनश्रिया । अश्विनीपूर्णमासीवाऽशुभदिन्द्रमहेन सा ॥१०५६॥ वीक्ष्येमा यौवनोद्यानवशां गजवशामिव । विदध्यौ श्रेष्टिनी मृला चिन्तयन्त्याऽऽयतिं हृदि ॥१०५७॥ श्रेष्ठी संभाषते नित्यं यद्यप्येनां सुतामपि । चेद् दैवादुपयच्छेत जीवन्त्यपि मृताऽस्म्यहम् ॥१०५८॥ अथवा- न सा विद्या न तद् ज्ञानं न तद् ध्यानं न सा कला । निवर्येत मनो येन स्मरापस्मारघस्मरम् ॥१०५९।। यदूचे- वलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति । विश्वामित्रोऽपि सोत्कण्ठं कण्ठं जग्राह मेनकाम् ॥१०६०॥ पद्मयोनिः निजां पुत्रीं न प्रियां कृतवान् किमु ? । तावत् शूरो भवेत् सर्वो यावद् न स्त्रीकटाक्षितः ॥१०६१॥ परं रामा सुलम्भेन तुच्छत्वेन मुहुर्मुहुः । कालं निनाय ताम्यन्ती शाकिनीव दुराशया ॥१०६२॥ इतश्च प्रासरद् ग्रीष्मो भ्राष्ट्रमिन्धनविद्युतिः । १ पद्मजन्मेत्यपि।

२८४ मल्लिनाथमहाकाव्ये- नखंपचरजालोकगायुःकर्मनाशनः ॥१०६३॥ सर्वत्र क्षिप्तकारीपपावकौपम्यमध्वसु । वहमानेपूलूकानां झलत्कारेषु सर्वतः ॥१०६४॥ श्रेष्ठी धनावहो गेहमासाद्य चिरपान्थवत् । हा हेति मन्त्रमुच्चार्य निविष्टो दृष्टविष्टरे ॥१०६५॥ तदंहितालकः कोऽपि नासीद् दासीमुखो जनः । विनयाचन्दनोत्थाय निषिद्धा श्रेष्ठिनाऽपि हि ॥१०६६।। पादौ क्षालयितुं भक्त्या प्रावर्तिष्ट विशिष्टधीः । भवेत् कुलप्रसूतानां विनयो मण्डनं यतः ॥१०६७॥ सुभगः केशपाशोऽस्या निपतन् पड्किलक्षितौ । लक्ष्यते स्म मुखैणाङ्कभयात्तम इव वजन् ॥१०६८॥ मा भूदेतर्हि वत्सायाः पङ्किलः कचसंचयः। इति यष्ट्या दधारोच्चैः पितृवत् प्रेमलालसः ॥१०६९।। एतच्च श्रेष्ठिनी दूरजालकान्तरवर्तिनी । विलोक्य ध्यातवत्येवं तत्सत्यं चिन्तितं च यत् ॥१०७०॥ पत्नीत्वसत्यङ्कारोऽस्याः केशपाशनियन्त्रणम् । पितुः क्रियेशी नैव, दुर्जया भवितव्यता ॥१०७१।। उच्छेद्या तदियं मूलाद् गरवल्लीव जङ्गमा । इति निश्चयमाधाय मौनं मूला चकार सा ।।१०७२॥ जगाम विपणिं श्रेष्ठी मूलाऽप्याऽऽहूय नापितम् । रोगा या इवाऽमुष्याः केशपाशमनाशयत् ।।१०७३॥ ददौ च पादयोः कामं निगडानि दृढान्यपि । चन्दनां ताडयामास स्वकरैः करिणीमिव ॥१०७४॥ गृहापवरके न्यस्य सा बन्दीमिव चन्दनाम् । कपाटसंपुटं दत्त्वा कोपाटोपादवोचत ||१०७५|| यः कश्चित् श्रेष्ठिनोऽप्यग्रे चन्दनां कथयिष्यति । स मे कोपहुनाशस्य होमद्रव्यं भविष्यति ॥१०७६।।

सप्तमः सर्गः । २८५ एवं नियन्त्र्य लोकं स्वं मूला मूलगृहं ययौ । सायं श्रेष्ठी समायातोऽपृच्छत् काऽस्ति सुता मम ॥१०७७॥ कश्चन श्रेष्ठिनीभीतेः पृच्छतोऽप्यस्य नाऽवदत् । सर्वोऽपि गृहिणीहस्तगोचरो गृहमागतः ।। १०७८ ॥ मत्सुता रमते काऽपि स्वच्छस्वान्ता परौकसि । ध्यात्वेत्यगमयत्कालं मृदुधीः स्नेहलाशयः ॥ १०७९ ॥ अपश्यंश्चन्दनां कापि द्वितीयेऽवयऽप्यऽभाषन । मूकीभूत इव जनो नाऽऽख्यत् किंचन सर्वथा ॥ १०८० ॥ ततः शोकाकुल: श्रेष्ठी प्रोवाच स परिच्छदम् । जानन्तश्चेन्नाऽऽख्यास्यथ ताडयिष्यामि वस्तदा ॥१०८१॥ श्रुत्वेत्यऽचिन्तयत् काचित् स्थविरा किंकरी हृदि । जीवेद् मे जीवितव्येन चन्दनाऽऽनन्ददा दृशाम् ।।१०८२।। ममाऽस्त्यरतो मृत्युर्जर या जर्जरं वपुः । अदूरवीक्षिणी दृष्टिविस्मृतिश्च गरीयसी ॥ १०८३ ।। इयं सुयौवना वत्सा महाकष्टेन पूरिता । विपत्स्यते, कियद् वल्लीच्छिन्नं पुष्पं हि नन्दति ॥१०८४॥ गदिते चन्दनावृत्ते किमेषा मे विधास्यति ? । उदस्ते शकटे हन्त ! किं विधाता गणाधिपः ? ॥१०८५॥ ध्यात्वेत्यदर्शयत् तस्य चन्दनारोधमन्दिरम् । मूलाया वीक्षमाणायाः कोपारुणदृशो भृशम् ॥१०८६।। खयमुद्घाटयामास द्वारं श्रेष्ठी धनावहः । तत्रैक्षत सुतां तृष्णाक्षुधा म्लानविग्रहाम् ॥ १०८७ ॥ पादयोनिगडैर्वाद यन्त्रितां हस्तिनीमिव । भिक्षुकीमिव मुण्डां च चामुण्डावत्कृशोदरीम् ॥ १०८८ ।। वहलैर्वहलैः क्षोणी सिचन्ती लोचनाश्रुभिः । रुष्यन्ती कर्मणे स्वस्य विमृशन्ती निजस्थितिम् ॥१०८९।। (त्रिभिविशेपकम् ) २८६ मल्लिनाथमहाकाव्ये- ॥ मरौ गतां राजहंसीमिवेमां वीक्ष्य दुःखितः । पुत्रिके ! भव विश्वस्ता जल्पन् रसवतीं ययौ ।। १०९० ॥ दैवाद् भोज्यं विशिष्टं नो वीक्षमाणो धनावहः । एतस्याः सूर्पकोणस्थान् कुल्मापान् स समार्पयत् ॥१०९१॥ अमून् भुक्ष्व सुते ! तावद् यावत् कारमानये । भवन्निगडविच्छेदे गदित्वेत्यगमद् धनी ॥ १०९२ ॥ ऊर्ध्वस्था चन्दना चित्ते चिन्तयन्तीत्यखिद्यत । मम राजकुले जन्म केदं चेटीत्वचेष्टितम् ? ॥ १०९३ ॥ चेदागां श्रेष्ठिनो गेहे कुतोऽवस्थेशी मम ? | काकमांसं तदुच्छिष्टं स्वल्पं तदपि याचितम् ॥ १०९४ ॥ पष्टपारणकालेऽमी कुल्मापा मम भुक्तये । यद्याऽऽयात्यतिथिः कोऽपि चारित्री समतानिधिः॥१०९५॥ अदत्तं भुज्यते यच्च तत्पशूनां समञ्जसम् । अतिथेः संविभागेन भोजनं भाजनं श्रियाम् ॥ १०९६ ॥ विचिन्त्यैवं सुता राज्ञो द्वाराभिमुखमैक्षत | इक्षितैरतिथिं प्रेम्णाऽऽकारयन्तीव दूरतः ॥ १०९७ ॥ इतश्च श्रीमहावीरो भिक्षायै पर्यटन् पुरि । पुण्यराशिरिर्वतस्या मूर्तिमान् समुपागमत् ॥ १०९८ ।। अहो ! अहो ! तपःपात्रं निश्रेयसश्रियां मुनिः। कोऽपि कोऽपि महासत्त्वः स्वशरीरेऽपि निर्ममः ॥१०९९।। ईदृक्षाय तपःस्थाय पुरा जन्मनि नो मया । प्रदत्तं किंचन क्वापि तदवस्थाऽजनीदृशी ॥ ११०० ॥ अथवा मे महत्पुण्यं यदसावागतो मुनिः। उच्छुसतीच मे चित्तममुष्मात् खेदभागपि ॥ ११०१॥ ध्यात्वेति चन्दनाऽचालीत् कुल्मापान्वितमूर्षिका । एकं पादं ददावन्तस्तदेहल्याः परं वहिः ॥११०२ ॥ देहली निगडैर्गाढमाक्रमितुमनीश्वरी ।

सप्तमः सर्गः। २८७ . तत्रैवास्थाद् दृढभक्तिर्जिननाथमुवाच च ॥ ११०३ ।। कल्पन्ते यदि कुल्माषा भगवन् ! भवतारक!। गृह्यतां सूर्पकोणेन ममानुग्रहकाम्यया ॥ ११०४ ।। द्रव्यक्षेत्रादिसम्पूर्ण विज्ञायाभिग्रहं जिनः । करं कुल्माषभिक्षायै ततः प्रासारयद् वरम् ॥ ११०५ ॥ धन्याऽस्मि कृतपुण्याऽस्मि श्लाघ्याऽस्मि क्षमिणामपि । सुलब्धपात्रदानाऽस्मि मनस्येवं विचिन्वती ॥ ११६० ॥ वीक्षमाणा जगदिदं स्वाभाविकमुदान्वितम् । विस्मरन्ती क्षुधाग्लानि जिनरूपविलोकनात् ।। ११०७ ॥ उल्लसत्प्रोतरोमाञ्चा कुल्मापांस्तीर्थकृत्करे । अक्षिपत्नुर्पकोणेन कतिचिद् भक्तिवत्सला ॥ ११०८ ॥ (त्रिभिर्विशेषकम् ) 'अहो ! दानमहो ! दानं श्लाघमाना मुहुर्मुहुः । तत्र मीत्याऽऽययुर्देवा दीप्यमानास्तनुाता ।। ११०९ ॥ पञ्चदिव्याभिषेकश्च विदधुर्जयवन्धुरम् । तुत्रुटुर्निगडान्यस्या जीर्णरज्जुवदञ्जसा ॥ १११० ॥ पादयोर्ने पूरे तस्या जज्ञाते हेमनिर्मिते । तत्कालं केशपाशश्च पूर्वप्रेम्ण इवागतः ॥ ११११ ।। सामपि नेपथ्यधारिणी धारिणीसुता। वीरभक्तैः सुरैश्चक्रे देवीव क्षितिचारिणी ॥ १११२ ॥ दिव्यां भेरी नभोमार्गे ताडयन्तो मुहर्मुहुः। जयनादं वितन्वन्तो ननृतु कवासिनः ॥ १११३ ॥ तं श्रुत्वा दुन्दुभिध्वानं शतानीको मृगावती । सुगुप्तो नन्दया सार्द्ध तत्रेयुर्जिनपारणे ॥ १११४ ॥ ' सम्पूर्णाभिग्रहं वीरं विज्ञायाऽवधिना हरिः। उत्फुल्लचेता आगच्छत् द्योतयंस्तेजसा नभः ॥ १११५ ।। दधिवाहनभूपालकञ्चुकी सम्पुलाभिधः । -- - - २८८ मल्लिनाथमहाकाव्ये- शतानीकसमीपस्थश्चम्पावस्कन्द आगतः॥१११६ ॥ तस्मिन्नत्य वसुमती दृष्टा तत्पादयोः स्थितः । अरोदीद् मुक्तकण्ठत्वाद् रोदयनितरानपि ॥ १११७ ॥ किमु रोदिषि राज्ञोक्तः कञ्चुकीति जगाद तम् १ । दधिवाहनभूरेपा धारिणीकुक्षिसम्भवा ॥१११८॥ निजराज्यपरिभ्रष्टां चेटीवत् परवेश्मगाम् । मुक्तकण्ठं रोदिमि स्म वीक्ष्येमां स्वामिनन्दिनीम् ॥१११९॥ राजा प्राह न शोच्येयं ययाऽर्हन् प्रतिलाभितः । आ संसृतेरियं धन्या वीरं याऽपारयत् प्रभुम् ॥११२०॥ मृगावत्युवाचेयं भगिनी मम धारिणी। नाथेयं मम यामयी नयनानन्ददायिनी ॥११२१॥ पञ्चभिर्दिवसैन्यूनषण्मासान् तपसो विधेः । विधाय पारणां वीरो धनगेहाद् विनिर्गतः ॥११२२॥ आदित्सुर्लोभतो रत्नदृष्टिं भूमीपतिस्ततः । निषिद्धो हरिणाऽगृह्णाचन्दनाऽऽदेशतो धनी ॥११२३।। उत्पन्न केवलज्ञानाच्चन्दना ज्ञातिनन्दनात् । व्रतमादायनिर्वाणपदमेष्यति शाश्वतम् ॥११२४॥ सुपात्रदानमाहात्म्यात् तत्क्षणात् संपदः सताम् । घनाम्भःसिक्तवल्लीनां यथान्यायं वनश्रियः ॥११२५॥ इत्थं श्रावकधर्मस्य व्रतानि परिपालयन् । क्रमादुपासको मोक्षसौख्यभार द्वित्रिजन्मतः ॥११२६॥ ततः श्रीकुम्भभूपालः प्रोवाच रुचिरं वचः । श्राद्धधर्माद् विरक्तोऽस्मि क्रमशो मोक्षदायकात् ॥११२७॥ अथोत्थाय पुरीप्राप्तः श्रीकुम्भः पृथिवीपतिः । आहूय नन्दनं मल्लं नाम राज्ये न्यवीविशत् ॥११२८॥ पडपि स्वामिमित्राणि न्यस्य राज्ये तनूद्भवान् । अचलन् शिविकासीना विमानस्था इवः ॥११२९॥ १ ऋभवो देवा इत्यर्थ ।

सप्तमः सर्गः। २८९ महता विस्तरेणाऽथ स्फीतसंगीतमङ्गलः। देवैव्योमस्थितैक्षिमाणः कौतुकितेक्षणैः ॥११३०॥ प्रविजिपुभिश्चाऽन्यैर्यथाद्धपुरस्सरैः । प्रभावत्या समं देव्या पराभिश्च महीपतिः ॥११३१।। महान्तमुत्सवं कृत्वा प्रदक्षिणिततीर्थकृत् । उवाच स्वामिनं भक्त्या मां तारय भवाम्बुधेः११३२।। प्रभोः पडपि मित्राणि परिच्छदयुतान्यथ । वभापिरे जगन्नार्थ नाथ ! तारय संसृतेः ॥११३३॥ अथ श्रीकुम्भभूपालप्रमुखान् नरपुङ्गवान् । प्रभावतीप्रभृतिकाः पौरनारीरनेकशः॥११३४॥ सामायिकत्रतोच्चारपूर्व मल्लिजिनेश्वरः । स्वयं प्रव्राजयामास वासनिक्षेपपूर्वकम् ॥११३५॥ पडपि स्वामिमित्राणि प्रभोः वक्ताद् प्रवत्रजुः । क्रमाद् केवलमासाद्य नाथप्राक् शिवगामिनः॥११३६॥ आद्यशिष्यो जिनेन्द्रस्य भिषगाख्यो गणाग्रणीः । सप्ताविंशतिरन्येऽपि वभूवुर्भुवनोत्तमाः ।।११३७ ।। उत्पादविगमध्रौव्यत्रिपद्यास्तेऽनुसारतः । द्वादशाङ्गानि पूर्णानि रचयामासुरञ्जसा ॥ ११३८ । दिव्यचूर्णभृते स्थाले विधृते वज्रिणा स्वयम् । स्वामिनोत्थाय तन्मौलौ वासाः क्षिप्ता यथाक्रमम् ११३९ गर्जत्सु सुरतूर्येषु प्रनृत्यत्स्वमरेषु च । गीयमानेषु देवीभिर्धवलेषूज्ज्वलेषु च ॥११४०॥ सूत्रेणार्थेन सर्वेण तथा तदुभयेन च । द्रव्यैर्गुणैश्च पर्यायैर्नयैरपि च सप्तभिः ॥ ११४१॥ अनुज्ञामनुयोगस्य गणानुज्ञां च सर्वतः । श्रीमल्लिदत्तवांस्तेषां प्रत्येक विधिपूर्वकम् ॥११४२।। (त्रिभिर्विशेषकम् ) 1.

२९०
मल्लिनाथमहाकाव्ये-
प्राग्वत् पूर्वासने स्थित्वा श्रीमल्र्देिशनां व्यधात् ।
अनुशास्तिमयीं तेऽपि श्रुत्वा तां वहु मेनिरे ॥११४३॥
पौरुष्यन्ते प्रभोर्धाता श्रीमल्लः क्षितिपालकः।
तण्डुलानां चतुष्पस्थी चतुःस्थालस्थितामथ॥११४४॥
वज्रभृन्निहितैर्गन्धैर्द्विगुणीकृतसौरभैः।
सौधादाऽऽनाययामास तूर्यगीतपुरस्सरम् ॥११४५॥
(युग्मम्)
दौकित्वा स्वामिनोऽग्रेऽसौ दिव्यपूजापुरस्सरं ।
अर्ध्वमुत्क्षिप्य तरिक्षप तदर्द्ध जगृहुः सुराः ॥११४६॥
भूगताध नृपेणात्तं परमानन्ददायिना ।
शेषम विभज्याऽन्यैर्गोंत्रिवद् जगृहे जनैः ॥११४७॥
पूर्वोत्पन्ना रुजः सर्वा नवीना न भवन्ति यत् ।
षण्मासी यावदेतस्य स्थलेर्माहात्म्यतोऽङ्गिनाम्॥११४८
अथोत्तस्थौ जगन्नाथः श्रीमान् मल्लिर्निजासनात् ।
अन्तरद्वारमार्गेण निर्ययौ त्रिदशान्वितः ॥११४९॥
द्वितीयवप्रमध्यस्थेशानकाष्ठाविभागगे ।
देवच्छन्दे प्रभुमल्लिर्गतो विश्रामहेतवे ॥११५०॥
धियां निधिभिषक् श्रीमान् सूरिगणभृद् गुणी ।
खामिनः पादपीठस्थो विदधे धर्मदेशनाम् ॥११५१॥
खेदच्छेदो जिनेन्द्रस्य शिष्योघे गुणदीपनम् ।
सभायां प्रत्ययो द्वाभ्यां गणभृत्कथनं गुणाः॥११५२॥
गणमृद्देशनाप्रान्ते प्रणम्य त्रिदशेश्वराः।
स्थानं निजं निजं जग्मुः स्मरन्तः स्वामिदेशनाम् ११५३
तीर्थे तस्मिन्नभूद् यक्षः कुबेरो नाम भक्तिमान् ।
इन्द्रायुधद्युतिःर्भिरष्टाभिश्च मनोहरः॥११५४॥
वरदेनाऽपि शूलेनाऽभयदेनाऽपि पशुना ।
चतुर्भिर्दक्षिणैरित्थं भुजैर्भूपितविग्रहः ॥ ११५५ ॥

अहमः सर्गः २९१ वामैस्तु शक्तिमुद्गरवीजपूगतिमृत्रिभिः । चश्चचतुर्मुखाम्भोजः श्रीमल्लिकमसेवकः ॥११५६॥ (त्रिभिविशेषकम् ) बरोटया नाम तत्तीर्थे समभूत् गासनेश्वरी। कृष्णाद्री कमलासीना सोमा सोमाननाम्बुजा॥११५७॥ पुरः पुरस्थविनयाभिनन- वन्दाभिर्देवगणरुपेतः। हेमाम्युजन्यस्तपदारविन्दः श्रीमल्लिनाथो विजहार तस्मात् ॥११५८॥ इत्याचार्यश्रीविनयचन्द्रविरचिते श्रीमल्लिस्वामिचरिते महा- काव्ये विनया सम्यक्त्वपूर्वकप्राणानिपातादिवतेपु मुदत्त-सुबन्धु-सझमक-सुदर्शन-भोगदत्त-मित्रानन्द- भीम-भीमसेन-लाभनन्दि-ताराचन्द्र-चन्द्रा- वतसक-धनसेन गिखरसेन-चन्दनवाला फलव्यावर्णनो नाम सप्तम. सर्ग । अहम् अष्टमः सर्गः। अथ श्रीभगवान् मल्लिनिंदधानः क्रमद्वयीम् । दिव्यस्वर्णसरोजेपु न्यस्यमानेषु नाकिभिः ।।१।। प्रभापूरितदिवचक्रे धर्मचक्र प्रसर्पति । पुरः स्थिते विराजिष्णौ रविसब्रह्मचारिणि ॥ २ ॥ ऋतुषु भ्राजमानेषु स्मेरैः पुष्पैनिजैनिजैः । कण्टकेषु च जातेषु नम्रपु न्यग्मुखेषु च ॥ ३॥ प्रदक्षिणं च गच्छत्सु ततपक्षेषु पक्षिषु ।

२९२ मल्लिनाधमहाकाव्ये- अनुकूलेऽनिले वाति जन्तुजातसुखावहम् ॥ ४ ॥ विहरंस्त्रिजगन्नाथः सनाथोऽतिशयश्रिया । पुरं चन्द्रपुरं पाप कुशावर्त्तविभूषणम् ॥ ५ ॥ ( पञ्चभिः कुलकम् ) तत्राऽभून्नास्तिको राजाऽभिधानादास्तिकः पुनः । अध्यक्षममितिवादी पञ्चभूतस्थितौ रतः॥६॥ सर्वज्ञः प्राप इत्युच्चैः श्रुत्वा कोपनमानसः । विवादायाऽऽस्तिको राजा गतवान् स्वामिसंनिधौ ॥७॥ उवाच जगतां स्वामी गिरा तत्त्वकिरा स्वयम् । जीवाजीवादितत्त्वानि सदृष्टान्तानि सप्तधा ॥८॥ अथ दध्याविति क्षोणीपालो हृदि विमोहवान् । असदेतदिहाध्यक्षपमाणाविषयत्वतः ॥९॥ प्रभुरूचे महीपाल ! नास्तिता याऽस्ति ते हृदि । तवैवाऽपेक्षया सेयमथवा सर्वदेहिनाम् ॥ १० ॥ प्रत्यक्षं चेत् तवाभीष्टं तदा वंश्यादिपुरुषान् । त्वमनुमन्यसे नो चेद् तदा सर्व विसंस्थुलम् ॥११॥ कचिदध्यक्षगम्योऽयं कचिद् परोक्षगोचरः। कचिच्चानुमतेर्गम्यस्तस्माद् जीवोऽस्ति सर्वथा ॥१२॥ तसिद्धौ च तवैवेह सर्वज्ञत्वं प्रसिद्ध्यति । सर्वज्ञत्वे च संसिद्धे जीवत्वं सर्वमेव हि ॥१३॥ जीवत्वेऽपि च संसिद्धे पुण्यपापादयोऽखिलाः । उद्धृते हि तरौ किं न भवेयुः पल्लवोदयाः ? ॥१४॥ अथाह भूपतिः स्वामिन् ! परलोकोऽस्ति चेद् क्वचित् । आसीद् धर्मरता मेऽम्बा सर्वदा सदयाङ्गिनाम् ॥१५॥ अथ युष्मन्मतेनाऽसौ भविष्यति दिवं गता। तातश्च कृतपापेन निश्चितं नरकं गतः ॥१६॥ मन्माता किं न मामेत्य प्रबोधयति सत्वरम् ? ।

अष्टमः सर्गः।
२९.३
पिता तु नरकादेत्य किं न यच्छत्ति दर्शनम् ॥१७॥
प्रेत्यामुत्रस्थितिः तस्मात् जगन्नाथ ! न विद्यते ।
प्रत्यये व्यत्यये दृष्टे किमु मुह्यति कोविदः ? ॥१८॥
प्रभुरूचे महीपाल ! यत् ते माता समेति नो ।
दिवो मनुष्यलोकेऽस्मिंस्तदाऽऽकर्णय कारणम् ॥१९॥
देवा हि विषयासक्ता नानाक्रीडाविधायिनः ।
असमाप्तविधेयार्था मनुष्येपु विनिस्पृहाः ॥२०॥
मनुष्यलोकदुर्गन्धैरिहाऽऽगच्छन्ति नैव ते ।
विना कल्याणकादीनि पूर्वम्नेहं च भूपते ! ॥२१॥
परमाधार्मिकैः कामं वाध्यमाना निरन्तरम् ।
नारकास्तु पराधीना आगच्छेयुः कथं किल ? ॥२२॥
भूयोऽपि भूपतिः प्रोचे भगवन् ! एकदा मया ।
एकश्चौरो महाकुम्भ्यां प्रक्षिप्तः खलु यत् ततः॥२३॥
पिधायोचैर्गुरुद्वारे निश्छिद्रे जतुसारिते ।
गृतश्चौरो मयाऽलोकि तत् जीवस्य न निर्गमः ॥२४॥
कुम्भीमध्येऽपि यत्नेन वीक्ष्यमाणैः मुहुर्मुहुः ।
जीवः कुत्रापि नो दृष्टो दृष्टास्तु कृमिराशयः ॥२५॥
तद्वदन्यो मया दस्युः मूक्ष्मखण्डानि कारितः ।
न तत्र वीक्षितः प्राणी तस्मान्नास्तीति चिन्त्यताम्॥२६॥
अथार्हन् न्यगदद् वीरं कुम्भीमध्ये स्थितो नरः।
निश्छिद्रे पिहितद्वारे शङ्खमादाय वादयेत् ॥२७॥
स शहनिखनो भद्र ! यथा वाह्ये प्रसर्पति ।
तथाऽप्यसुमान् गच्छन् दृश्यते न विलोकनात् ॥२८॥
ध्मायमाने लोहपिण्डे पुरुषेण निरन्तरम् ।
सर्वात्मना कुतस्तत्र प्रविवेश हुताशनः ॥ २९ ॥
तथायं प्रविशन्नात्मा निर्गच्छन् न च वीक्ष्यते ।
दृष्टकृमिगणो राजन् ! दृष्टान्तोऽयं मयोदितः ॥३०॥

२९४ मल्लिनाथमहाकाव्ये- अथो विहस्य भूपालोऽप्यूचे किश्चिद् विमोहवान् । अहन ! परेद्यविश्चौरो विधृतो विहितागसः ॥ ३१ ॥ जीवन्नेव तुलारूढो पौराध्यक्ष प्रतोलितः । उच्छ्वासस्य निरोधेन मारयित्वा तथैव सः ॥३२॥ तोलितस्तत्क्षणं यावांस्तावानेव जिनेश्वरः। तस्माद् देहात् कथं प्राणी व्यतिरिक्तो विचिन्त्यताम्१३३ प्रभुरूचेऽथ केनापि गोपालेन दृतिदृढम् । तोलितो वातसम्पूर्णो रिक्तोऽपि हि तथा नथा ॥३४॥ तस्मात् सर्वाङ्गसंस्पर्शे कथञ्चिद् देहतः पृथक् स्वसंवेदनसंसिद्धो जीवः प्रत्यक्ष एव हि ॥३५॥ तथाहि- चैतन्यानुगतानेकचलनस्पन्दनादिभिः। चेष्टाभिर्लक्ष्यते जीवो वातवद् ध्वजकम्पनात् ॥३६॥ यदूचे- लोकाकाशसमप्रदेशनिचयः कर्तोपभोक्ता स्वयं- सङ्कोचप्रविकाशधर्मसदनं कायप्रमाणस्तथा । चैतन्यान्वितवीर्यलब्धिकलितो भोगोपभोगैर्युतो- भेदच्छेदवियुक्तसर्वगतिको जीवोऽत्र संसारगः।।३७॥ राजाऽऽह भगवन्नध सद्यो मोहः पलायितः। स्फुरित चेतसि स्फीतमास्तिकत्वं यथोदितम् ॥३८॥ परं कुलक्रमायातं नास्तिकत्वं सदा धृतम् । विमोक्तुं तत् कथं शक्तो भवेदात्मनि हीनता ॥३९।। प्रभुः प्राह महाभाग! स्तोकमेतद् विवेकिनाम् । किञ्च व्याधिःक्रमायातो दारिद्यं नाऽत्र मुच्यते ॥४०॥ यथेह वणिजः केऽपि नानावाहनशालिनः । गता वाणिज्यकार्येण लोहकारं व्यलोकयन् ॥४१॥ ततो लोहं गृहीत्वा ते गच्छन्तः पुनरग्रतः।

अष्टमः सर्गः। २९५ पुकाकरमालोक्य मुक्त्वाऽयो जगृहुस्रषु ॥४२॥ तानुवीक्ष्य महामोहाडेको लोहं न मुञ्चति । सीसपत्रं ततस्तानं रूप्यं स्वर्ण महाशुति ॥४३॥ दृष्टा विमुच्य पूर्वाप्तं वणिजो मुदिताशयाः। लोभवन्तः स्म गृहन्तस्ते मणीननणीयसः ॥४४॥ एकस्तु भण्यमानोऽपि तणिग्भिः पदे पदे । तन्मोहं नैव तत्याज महामोहमिवापरम् ॥४५।। ततः सर्वे समायाताः स्वेषु स्वेषु गृहेषु ते । मणिविक्रयमाहात्म्याद् बभूवुर्धनदा इव ॥४६॥ लोहग्राही तदा तूचैर्वीक्ष्य वीक्ष्य दिने दिन । सञ्जातराजयक्ष्मेव क्षीयते स्म प्रतिक्षणम् ॥४७॥ तथा तवापि भूमीश ! पश्चात्तापो भविष्यति । अथो विमुच्यतामेप कदाग्रहमहाग्रहः ॥१८॥ श्रुत्वेति स्वामिनोदीर्ण प्रभुं नत्वा क्षितीश्वरः। उवाच जगतीनाथ ! भवादुत्तारयाऽधुना ॥४९॥ स्वामिन् ! मोहपिशाचो मे नष्टस्त्वन्मूर्तियन्त्रितः । उद्भूतं च शुभं ज्ञानं ज्ञातं तत्त्वं प्रभूदितम् ॥५०॥ परमेतावता सद्भिः श्लाघ्यतेऽयं भवो नृणाम् । निर्वाणान्तसुखमाप्तेर्हेतवोऽत्रैव यद्गुणाः ॥५१॥ उक्त्वेति नगरी गत्वा राज्ये न्यस्य स्खनन्दनम् । सप्तशतमितै राजपुत्रैः पावित्र्यहेतवे ॥५२॥ दत्वा दानानि सर्वत्र यथार्थो नृप आस्तिकः । प्रभूच्चारितसन्मन्त्राद् नाथस्यान्तेऽभवद् यतिः॥५३॥ इतश्च शाल्मलीग्रामेऽभिरामो गोधनोत्करैः। वृषपोषपरः शश्वत् कठसंज्ञः कृषीवलः ॥५४॥ दारिद्र्यभिक्षुकमठी कठीनासाऽस्य वल्लभा । आपनसत्त्वा समभूत् सा तुतोष स्खमानसे ॥५५|| २९६ मल्लिनाथमहाकाव्ये- - गर्भस्थजीवदुष्कर्मभारादिव कठो मृतः । संजातनन्दना मूतिव्यथार्ता साऽपि दैवतः ॥५६॥ ततः संवर्द्धितो मातृष्वना स्नेहेन बालकः। वृत्त्यर्थी ग्राम्यलोकानां वत्सरूपाण्यचारयत् ॥५७॥ यमदूतैरिवोदयुर्वत्सरूपाणि गोचरे। चरन्ति वृकसवातैर्ग्रस्यन्तेऽस्य पुरःस्थितैः ॥५८॥ तत्तत्स्वामिजनैर्वाहं ताड्यमानः पदे पदे । स सीरं वाहयामास परक्षेत्रेषु वृत्तये ॥५९।। क्षेत्रेषु येषां येषां स हलं वाहयति स्फुटम् । तेषां तेषां च धान्यस्य न स्यादेकः कणोऽपि हि।।६०॥ रे ! रे ! कपोतपोताभ ! त्यज क्षेत्राणि नः क्षणात् । तर्व्यमान इति ग्राम्यैः स स्वग्रामाद् विनिर्ययौ ॥६१।। स बभ्राम महीपीठं भूतात इव शून्यधीः । उत्खातो रोहणस्तेन नाप्तं किश्चिद् रजो विना ॥६२।। यतः- यत्र वा तत्र वा यातु पाताले वा प्रगच्छतु । तथाऽपि पूर्वजीर्णानि कर्माणि पुर इयूति ॥ ॥६३ ॥ ततो निवृत्तो दीनास्यः सर्वथा पुण्यवर्जितः । सर्वोपायपरिभ्रष्टो मुष्टो दुष्कर्मधर्मणा ॥ ६४ ॥ नैतस्य भोजनं दातुमुदयास्तमयान्तरे । प्रभुरस्मीति ध्यात्वेति ययावस्तं दिवाकरः ॥६५॥ इतश्च तेन संध्यायां सुरसद्म मनोहरम् । अरण्यानीमहाम्भोधेरन्तरीपमिवैक्षत् ॥ ६६ ॥ मध्यस्थितः पुमान् कोऽपि भद्राकारः सुलक्षणः । वर्णवर्णवपुस्तेन ददृशे दिवसात्यये ॥ ६७ ॥ ततश्चित्रघटं पुष्पैरर्चयन् जिनविम्बवत् । घण्टानुरणनाकारं हुङ्कारं विदधेऽप्यसौ ।। ६८ ॥ - .

अष्टमः सर्गः। २९७ तस्य प्रभावतो भास्वान् प्रसादः समजायत । तत्र दिव्याङ्गनाकाराश्चिक्रीडुश्चपलेक्षणाः ।। ६९ ।। जलैरुष्णैः कवोष्णैश्च ताभिः स्नानमकारयत् । स्फूर्जज्जयजयोद्दामप्रथमोत्पन्नदेववत् ।। ७० ॥ असावङ्गे नरः सिद्धश्चलत्कल्पद्रुमोपमः । आपादमस्तकं शस्ताऽऽभरणश्रेणिकां व्यधात् ॥७१॥ ततो रसवतीं दिव्यां वुभुजे सिद्धपुरुषः । विद्याः प्रसाधिताः किं किं न कुर्वन्ति समीहितम् ।।७२।। त्रियामां सुखसम्भारैरेकयाममिवोज्ज्वलैः । अतिवाह्य प्रभातेऽसावुपजहेऽखिलं च तत् ॥ ७३ ॥ चित्रकुम्भं निवेश्याऽऽशु सुरमन्दिरकोणके । पुनः प्रभाते देवौकोमध्येऽस्थात् सिद्धमन्त्रभृत् ।।७४।। एतत् सर्व विलोक्याऽथ स नरो ग्रामसम्भवः । अमुं गुरुमिवात्यन्तं सिषेवे भक्तिवत्सलः ॥ ७५ ।। पादसवाहनायैस्तु ग्रामीणः सिद्धपुरुषम् । आराध्य प्रत्यहं सोऽथ तुतोष विनयादलम् ॥ ७६ ॥ यतः- विनयः सम्पदा धाम विनयः कीर्तिकार्मणम् । विनयो धर्मवा/न्दुर्विनयो मूलमुन्नतेः ॥ ७७ ॥ हंहो ! तवाऽहं तुष्टोऽस्मि याचस्वेप्सितमात्मनः । अथ ग्राम्योऽवदत् सिद्धं कोशीकृतकरद्वयः ।। ७८ ॥ सर्वथा हन्त ! निष्पुण्यो मृतखजनवान्धवः । मन्दप्रतिभ एकाकी नभोमार्गादिव च्युतः ॥ ७९ ॥ युष्माकं शरणं प्राप्तो यद् युक्तं तत् समाचरेः । ससत्त्वा हि महासत्त्वाः परोपकृतिकर्मणि ॥ ८० ॥ यतः दयालुत्वमनौद्धत्यं दाक्षिण्यं पियभापिता । ३८ २९८ माल्लिनाथमहाकाव्ये- परोपकारकारित्वं मण्डनानि महात्मनाम् ।। ८१॥ अहो ! अयमपुण्यैकोऽहो ! दौर्गत्यदूषितः । अहो ! विनयवानेष ध्यायति स्मेति सिद्धराट् ।।८२।। एतस्य मन्दभाग्यस्य यत् क्रियेतोपकारकम् । तत् तत्स्याद् बहुपुण्यार्थ व्याधितस्यौषधं यथा ॥८३॥ यतः- संपदं प्राप्य कर्तव्या सर्वसत्त्वोपकारिता । काकोऽपि पूरयत्युच्चै ठरं परितो भ्रमन् ।। ८४ ॥ विमृश्येत्यब्रवीदेवं प्रहष्टः सिद्धपूरुषः । ददामि भद्र ! ते विद्यां कामितश्रीमहोदधिम् ।। ८५ ।। विद्याभिमन्त्रितं किं वा चित्रं कुम्भमिमं शुभम् । एतद् विचिन्त्य सम्यक् त्वं वद वाञ्छितमात्मनः।।८६॥ ग्रामीणश्चिन्तयामास यदि विद्याक्षरं मम । एकं तु विस्मृतं दैवात् तदा का नाम मे गतिः ॥८७॥ अयं चित्रघटो मेऽस्तु सर्वाभिष्टार्थसार्थदः । विमृश्येत्यवदद् गोधो देवार्पय घटं मम ।। ८८ ।। विद्यासिद्धेन स घटः प्रदत्तः कल्पवृक्षवत् । यत्मभावेन सर्वेऽर्थाः सम्पद्यन्ते समीहिताः ॥ ८९ ॥ असौ चित्रपट प्राप्य शासनाप्तनिधानवत् । एवं विचिन्तयामास स्वग्रामाभिमुखं व्रजन् ॥ ९० ॥ किं तया क्रियते लक्ष्म्या या स्यादन्यत्र भूयसी । यां सुहृदो न वीक्ष्यन्ते प्रमोदोत्फुल्लचक्षुषः ॥ ९१ ॥ अथासौ ग्राममापन्नो दधानो मस्तके घटम् । चित्रकुम्भ इति नरैराहूतः संज्ञया मुदा ॥ ९२ ॥ तेषां विलोकमानानां घटमाहात्म्यतो न्वहम् । सौधं विरचयामास क्षणात् काव्यं कवीन्द्रवत् ॥१३॥ कुम्भभूरिमभावेण नेपथ्यादि विनिर्ममौ ।

अष्टमः सर्गः। २९९ अल्पैरपि दिनैः सोऽभूटामुष्यायण उच्चकैः ॥ ९४ ॥ अवन्धोरपि तस्याऽथ समजायन्त वान्धवाः । सोऽयं लक्ष्म्या महादेव्याः प्रभावः प्रेट्वति क्षितौ।।९५।। यत:- अनाथानामियं नेत्री निःसखानामियं सखी । अगुरूणामियं गुर्वी रत्नाकरतनूद्भवा ॥ ९६ ॥ अन्यदा सुजनास्तेन मीलिताः शुभपर्वणि । भोजिता विविधैर्भोज्यैर्वस्त्रैश्च प्रतिलाभिताः ॥ ९७ ॥ ततस्ते सुजना हर्पाद् ननृतुर्लयवन्धुरम् । सोऽपि चित्रघट मौलौ विधायाऽऽनन्दमन्दिरम् ।।९८॥ हस्ताभ्यां तेन तालायां प्रदत्तायां प्रमादतः । पपात मौलितः कुम्भो वभञ्जाऽप्याऽऽमपात्रवत् ॥९९।। (युग्मम् ) एतत् सर्व तिरोजज्ञे गन्धर्वनगरोपमम् । घटभद्गादिवैतस्य भई पुण्यानि लेभिरे ॥ १० ॥ पूर्वोपार्जितदारियं पुण्यधैर्दूरतो गतम् । पूर्वस्नेहादिवैतस्य डुढौके क्षणमात्रतः ॥ १०१ ॥ सबन्धुः शून्यचेतस्को भ्राम्यन् भूतार्तवद् भृशम् । पुरं चन्द्रपुरं पाप कुशाग्रमुखमण्डनम् ॥ १०२ ॥ गतस्तत्राऽणोदेप श्रीसर्वज्ञोऽत्र देवता । कोऽप्यस्ति यो ममोपायं घटस्य घटयिष्यति ॥१०३॥ ध्यात्वेति स्वामिनं नत्वा भद्रको भद्रकाशयः । उपाविक्षत् सभागन्तक्षिमाणः प्रभुश्रियम् ॥१०४॥ चित्रकुम्भार्जनोपायं हृदये ध्यातवानसि। श्रुत्वेति तद्गिरः सत्यमसौ सर्वज्ञदेवता ॥ १०५॥ तस्मादेतस्य पार्थेऽहं चित्रकुम्भार्जनासुखम् । १ तिरोभूतमित्यपि।

३००
मल्लिनाथमहाकाव्ये-
अविनाशवशं याचे गोधोऽधादिति चेतसि ॥१०६||
अथोवाच प्रभुर्भद्र ! यदीच्छसि सुखं किल ।
अविनश्वरमुद्दाम तत् प्रव्रज्य समाय ॥ १०७॥
ततो जगत्पते ! दीक्षां देहि नित्यसुखावहाम् ।
येन ध्यायामि नाथ ! त्वां सिद्धपुरुपसन्निभम्॥१०८।।
चित्रकुम्भनरः सोऽथ सवन्धुः सप्रियः प्रभोः ।
पार्श्वे दीक्षां स्म गृह्णाति किं न स्याल्लघुकर्मणाम्? १०९
इतश्च भारते वर्षे गङ्गासिन्धुविराजिते ।
हस्तिनागपुरं नाम पुरं सुरपुरोपमम् ॥ ११० ॥
तत्र सिंहरथो नाम भूपतिः सिंहविक्रमः
अभूत् काञ्चनमालेति तस्य प्राणप्रिया सती ॥१११॥
गुरुपादाम्बुजद्वन्दुसेवाहेवाकपट्पदः ।
तत्रासीजिनदत्ताख्यो धार्मिको वणिगग्रणीः ॥ ११२ ॥
तस्य गेहे प्रतिज्ञातकर्मनिर्वाहकर्मठः ।
अभवद् देवपालाख्यो गोपालः क्षत्रवंशभूः ॥ ११३ ॥
दृष्ट्या सद्धर्मनिष्ठं स श्रेष्ठिनं शुद्धमानसः ।
भद्रकत्वेन गोपालः चिन्तयामासिवानिति ।। ११४ ॥
धर्मेण द्रविणं राज्यं धर्मेण विजयश्रियः ।
धर्मेण कामिता अर्था धर्मेण सुखकीर्तयः ॥ ११५ ।।
अतुलं मगलं धर्मो धर्मः पापद्रुमाऽनलः ।
धर्मश्चतुर्गतिक्रोडनिपतज्जन्तुधारकः ॥ ११६ ।।
उत्तिष्ठन्तं शयानं च नमस्कारपरायणम् ।
दृष्टाऽथ श्रेष्ठिनं देवपालः पप्रच्छ भद्रकः ॥ ११७ ॥
श्रेष्ठिन्नहर्निशं मन्त्रकल्पं किमिदमुच्यते ? ।
असावाह महाभाग ! विद्यतेऽस्य महाफलम् ॥ ११८ ॥
अधनानां धनं रूपहीनानां रूपमुत्तमम् ।
रोगिणां रोगनिर्णाशं नमस्कारः करोत्यसौ ॥ ११९ ॥

अष्टमः सर्गः। श्रुत्वेति श्रेष्ठिनो वाक्यं देवपालः शुभाशयः । परमेष्ठिमहामन्त्रमपाठीत् सर्वकामदम् ।। १२० ॥ कतिपयेषु जातेषु वासरेषु समाययौ। वर्षाकालो महाभीष्मग्रीष्मद्रुमपरश्वधः ॥ १२१ ॥ धरा धाराधरं द्रष्टाऽभीष्टमागतमुन्नतम् । कदम्बकुटजोद्भूतैः पुष्परमिवाऽतनोत् ।। १२२ ॥ मेघराजागमं दृष्ट्वा दूराद् वैतालिका इव । चकुर्जयजयारावं केकाच्याजेन केकिनः ॥ १२३ ॥ समायान्ति महोत्कण्ठाः पथिकाः स्वगृहानमि। कः करोति जडैः सार्द्ध संगमं हि मनागपि ॥ १२४ । पन्थानो गतसंचारा जाता दुईमकर्दमात् । जाड्योदये हि संवृत्ते सर्व दुःखाकरं नृणाम् ॥ १२५ ॥ उदकेनोदपूर्यन्त भूमिभागाः प्रतिक्षणम् । पुण्याधिकानां कमलासंचयेन गृहा इव ।। १२६ ।। नदीतीरेषु रच्यन्ते वालुकाभिः कुमारकैः । देवागाराणि रम्याणि भूमीरोमाकुरा इव ॥ १२७ ।। अभियोगात्तकमला राजहंसा जिगीषवः । संचेरुराश्रयं स्वीयं स्वपक्षवलशालिनः ॥ १२८ ।। गवां वृन्दमथादाय वर्पत्यथ घनाघने । चारणार्थ गिरेः कुञ्जे गतवान् धेनुपालकः ॥१२९ ॥ करविन्यस्तदण्डोऽसौ कम्बलातविग्रहः । नदीरयक्षतक्षोण्यां जिनवक्तं ददर्श सः॥१३० ।। तद्दर्शनघनेनाऽऽशु संजातानन्दकन्दलः। विम्बमाकृष्टवानेष लब्धाद्भुतनिधानवत् ॥ १३१ ॥ विधाय वेदिकां तत्र जिनविम्ब न्यबीविशत् । मन्दिरं रचयाञ्चक्रे तृणभित्तिविभूषितम् ॥ १३२ ।। १ प्रतीत्यपि।

३०२ माल्लिनाथमहाकाव्य- धन्योऽहं कृतपुण्योऽहं यस्य मे वृपभो जिनः । प्रत्यक्षोऽभूत् स्वयं देवाधिदेवः परमेश्वरः ॥ १३३ ।। नदीतीरे कृतस्नानः प्राकृतश्वेतचीवरः । स स्नात्रं कृतवांस्तस्य पवित्रं स्वं तु निर्ममौ ॥ १३४ ॥ सिन्दुवारैर्नवैर्गोप आनर्च त्रिजगद्गुरुम् । अथ तुष्टाव भावेन नम्रमौलिशुभाशयः ॥ १३५ ॥ नमः श्रीकृषभेशाय जगद्वन्याय तायिने । अनन्तज्ञानसौख्याय मुख्याय परमेष्ठिनाम् ॥ १३६ ॥ एवं स्तुत्वा जिनाधीशं प्रमोदोत्फुल्ललोचनः । मेने कृतार्थमात्मानं भक्तिव्यक्तिविकस्वरः ॥ १३७ ।। यावज्जीवं जिनाधीशं पूजयित्वाऽमुमुत्तमम् । भोक्तव्यमिति सोऽकार्षीदिति निश्चयमञ्जसा ॥१३८|| पुष्पैः कान्तारसंभूतैर्जिनं पूजयतः सतः गोपालदेवपालस्य ययौ कालः कियानपि ॥ १३९ ॥ इतश्च नृपसिंहरथस्याभूत् पुत्री नान्ना मनोरमा । काञ्चनप्रेयसीकुक्षिसरोमण्डनवारला ॥ १४० ॥ जाडुली ग्रीष्मसर्पस्य वर्षाकालोऽन्यदाऽस्फुरत् । अब्धिकल्लोलवद् येन जाता मार्गाः सुदुर्गमाः ॥ १४१ ।। असौ गाढप्रतिज्ञत्वाद् भणितः श्रेष्ठिनाऽपि हि । नैवाऽकार्षांत ततो जग्धं तदेकहृदयः सुधीः ॥ १४२ ॥ पयःपूर्ण नदीतीरं गन्तुं नेशः कथञ्चन । उपवासान् वसन् गेहमकार्षीत् सप्त भक्तिभाक् ॥१४३॥ (युग्मम् ) मन्दीभूते नदीतीरे कथञ्चिद् वासरेऽष्टमे । उत्तीर्य भुजदण्डाभ्यां निजं चैत्यमगादसौ ॥ १४४ ॥ १ तत्र, एवमपि । २ हमीति हृदयम् ।

अष्टमः सर्गः । ३०३ सुखसागरकल्लोलैरिचाप्तं स्वं विचिन्तयन् । प्रणनाम जिनाधीशं पठितस्तोत्रपूर्वकम् ।। १४५ ॥ तद्भक्तितोपतेनांच्चैःस्थितेन गगनाङ्गणे । तदधिष्ठातृदेवेनेत्युचेऽथ रुचिरं वचः ॥ १४६ ।। वरं वृणु महाभाग! यथेच्छं स्वच्छमानसः । गुरूणां क्रमसेवा हि सफलैव शरीरिणाम् ।। १४७ ॥ यदि तुष्टोऽसि देवाऽऽशु देहि मे राजसम्पदम् । इत्युक्तवान् प्रहृष्टात्मा देवपालः मुदाङ्कितः ॥ १४८ ।। समुद्रपरिखारम्यां क्षोणीमेकपुरीमिव । अचिराल्लप्स्यसे नूनमित्युक्त्वा स तिरोऽभवत् ।। १४९ ।। तदाप्रभृति भावेन देवपालो महामतिः । प्रमोदभाक् विशेषेण जिनमानर्च सर्वदा ॥ १५० ॥ अन्यदा बहिरुद्याने दमसारमहामुनेः । घातिकर्मक्षयाद् जज्ञे पञ्चमं ज्ञानमुत्तमम् ॥ १५१ ॥ ततः सुधाभुजो हृष्टा पुष्पवृष्टिमथ व्यधुः । सुवर्णकमलं चक्रुक्रियं च मनोहरम् ।। १५२ ।। धर्ममाख्यातुमारेभे तत्रासीनो महामुनिः । देवागमं विलोक्याऽथ समागाद् वन्दितुं नृपः॥ १५३॥ संसारः कदलीगर्भ इवाऽसारो विशां पते !। निवास इच दुःखानां गृहावासः सदाङ्गिनाम् ॥१५४॥ दम्भोलिनेव यन्मुष्ट्या चूर्ण्यन्ते पर्वतोत्कराः। कम्पमानकरास्तेऽपि भवन्ति निधनागमे ॥१५५।। मृत्योः काले समायाते शरणं नास्ति देहिनाम् । जिनोपज्ञं विना धर्म निर्वाणपदसाधकम् ॥१५६|| इति श्रुत्वा महीपालो विधाय करकुड्मलम् । पप्रच्छ निजमायुष्कं भववासविरागवान् ॥१५७|| १ शुभाशय इति च । २ नराणामित्यर्थ ।

३०४
मल्लिनाथमहाकाव्ये-
.
दिनानि त्रीणि ते राजन् ! आयुष्कमवशिष्यते ।
इत्युक्तवान् मुनिर्ज्ञानज्ञातसर्वजगतस्थितिः ॥१५८॥
शीता इव भूपालः कम्पमानकरद्वयः ।
स्तोकेन जीवितव्येन किं करिष्यामि सम्प्रति ? ॥१५९।।
अथाह भगवानेव मा विषीद रसापते ।।
अणुनाऽप्यायुषा किं न क्रियते हि विवेकिभिः १ ॥१६०॥
मुहूर्त्तमपि सावद्यत्यागः स्यात् शाश्वतश्रिये ।
हन्यन्ते विषकल्लोला एकस्मादपि मन्त्रतः ॥१६१॥
विन्यस्य पुरुष कश्चिद् राज्ये प्रबलविक्रमम् ।
आगच्छामि प्रभो! यावत् तत् त्वं तिष्ठ दयानिधे !॥१६२॥
महापुरुष ! मा कार्षीः प्रमादं मूलमापदाम् ।
सर्वेर्षामपि कार्याणां प्रमादः प्रथमो रिपुः ॥१६॥
प्रणिपत्य गुरोः पादौ यथास्थानमगान्नृपः ।
तच्चिन्तयापि कृच्छ्रेण कृत्स्नं दिनमवाहयत् ।। १६४ ॥
कोऽधिष्ठितस्य लोकस्य भावी विक्रमवारिधिः ।
केनोपायेन निष्पुत्रो मोक्ष्यामि क्षितिपालनम् ॥ १६५ ॥
तस्य चिन्ता प्रपन्नस्य सिद्धाख्या कुल देवता ।
प्रत्यक्षाऽभूत् तमस्विन्यां दीपिकेव तमोपहा ॥ १६६ ॥
मा कृथाः सर्वथा खेदं नरनाथ ! स्वमानसे ।
अभिषिञ्च प्रभाते त्वं दिव्यपञ्चकमुच्चकैः ॥ १६७ ॥
तत्कृतं पुरुषं राज्ये विन्यस्य निजपुत्रवत् ।
परलोकाय पश्चात्त्वं यतस्वोक्त्वेति साऽगमत् ॥१६८॥
प्रभातेऽथाऽभिषिक्तानि पञ्च दिव्यानि भूभुजा ।
भ्रेमुस्तान्यथ सर्वत्र मतिरथ्यं प्रतित्रिकम् ।।१६९।।
मन्त्रिसामन्तपुत्राश्च भ्रमुस्तद्राज्यलिप्सया ।
पुरो द्विपस्य शृङ्गारैरिन्द्रसामानिका इव ॥१७०॥

अष्टमः सर्गः। ३०५ पुरे भ्रान्तानि तान्यापुर्नैव राज्यधरं नरम् । मध्याह्नसमये जग्मुर्वाह्योद्यानादिवीथिषु ।।१७१।। निदद्रौ देवपालोऽथ कस्यचित् शाखिनस्तले । यष्टिमुच्छीर्षके कृत्वा कम्बलाऽऽतविग्रहः ॥१७२।। देवपालं समालोक्य नवाम्बुकणवर्पकः । करी जगजै गम्भीर तडित्वानिव मूर्तिमान् ||१७३॥ हेपां चकार वाल्हीकः कोकिला ध्वानसुन्दरम् । विस्तृतं पाण्डुरं छत्रमुत्फुल्लकमलोपमम् ॥१७४॥ जाह्नवीलहरीश्वेते चामरे चेलतुः स्वयम् । अभिपिच्य करीन्द्रेण न्यस्तः स्कन्धे विभुर्गवाम् ॥१७५॥ ततः सिहरथेनाऽसौ महोत्सवपुरस्सरम् । तत्रैव वासरे पुच्याः कारितः पाणिपीडनम् ॥१७६॥ ततः सिंहस्थो गत्वा नरेन्द्रो मुनिसन्निधौ । व्रतं जग्राह भावेन पूर्वोपात्ततमोऽपहम् ॥१७७॥ कृत्वा चतुर्विधाहारपरित्यागं महामुनिः । चतुर्थे देवलोकेऽसौ पूर्णायुष्कः सुरोऽभवत् ॥१७८॥ तदुपानकम्बलाचं गोपालैः श्रेष्ठिनो गृहे । अन्यैः समर्पितं गावः स्वयमीयुर्दिनात्यये ॥१७९॥ गोपाल इति कृत्वा तं सामन्ता नन्तुमीय॑या । अहङ्काराद् न चाऽऽयान्ति जनाः पूजितपूजकाः ॥१८०॥ महाजनप्रधानोऽयमिति ध्यात्वा विशां पतिः । आजूहवजिनदत्तं नाऽऽययौ सोऽप्यऽवज्ञया ॥१८१॥ कम्बलादि निशाप्रान्ते सिंहद्वारे नरेशितुः । अवज्ञोपायनानीव जिनदत्तोऽप्यऽमोचयत् ॥१८२॥ तान्याऽऽलोक्य निदध्यौ स हहा! पूर्वविजृम्भितम् । तृणायाऽपि न मन्यन्ते धिग् मां राज्यर्द्धिभूषितम् ॥१८३॥ अव इत्यभिधेयम् ।

३०६ मल्लिनाथमहाकाव्ये- अहं खिये कथंकारं येन दत्तमिदं पदम् ? । स करिष्यति निःशेपं जनमाज्ञाविधायिनम् ॥१८४॥ ततोऽर्चयित्वा विधिवजिनेन्द्रमिति सोऽवदत् । कथं दत्तं त्वया राज्यं स्वामिन् ! विप्लवकारणम् ? ॥१८५॥ अथोचे व्यन्तरो भद्र ! गजेन्द्र मृत्तिकामयम् । विनिर्माय समागच्छेः समारुह्याऽत्र वन्दितुम् ॥१८६॥ द्विरदोऽस्मत्प्रभावेण त्वय्यारूढे चलिष्यति । आज्ञां करिष्यते सर्वस्ततस्तव निरन्तरम् ॥१८७॥ श्रुत्वेति भूपतिः पाप प्रासादं मुदिताशयः। कुम्भकारा नृपादेशाच्चमत्तामयं गजम् ॥१८८॥ इममारुह्य भूपालो वन्दितुं जिननायकम् । आगामीति ततो जज्ञे पुरे हास्यास्पदं महत् ॥ १८९ ।। सामन्ता मन्त्रिणां पुत्राः पौरग्रामेयका अपि । तमवेक्षितुमाजग्मुः सर्वोऽप्यऽमृतकौतुकी ।। १९० ॥ शुभेऽह्नि गजमारुह्याऽऽहूय तं श्रेष्ठिपुङ्गवम् । सशृङ्गारो महीपालः पश्वासने न्यवेशयत् ॥ १९१ ॥ व्यन्तरस्यानुभावेन करी मृत्स्नामयोऽचलत् । विसिष्मिये जनः सर्वः पश्यन् नवकुतूहलम् ।। १९२ ॥ पुरात् स्खे निर्मिते गत्वा चैत्ये नत्वा जगद्गुरुम् । तमेव गजमारूढो नृपोऽगाद् निजमन्दिरम् ।। १९३ ।। आलानस्तम्भसम्बद्धं श्रेष्ठिन्नेनं गजं कुरु । इत्यादेशं महीभतुर्लब्ध्वा सो हर्षितोऽभवत् ॥ १९४ ॥ तेन दत्ता कुम्भे शृणिक्षितिः । न चचाल पदं हस्ती वारित इव केनचित् ॥ १९५ ॥ वीक्षापन्नोऽभवच्छ्रेष्ठी तस्मादुत्तीर्य सत्वरम् । नृपपादाम्बुजं भक्त्याऽनमन्निदमुवाच च ॥१९६॥ गोपाल इति यत्कृत्वाऽपराद्धं भवतः प्रतिः । श्रेष्ठिना राजवत्

अष्टमः सर्गः।
३०७
तत्क्षमस्व महीपाल ! पुण्यलक्ष्मीनिकेतन ! ।। १९७ ॥
ततो देवानुभावेन निःशेषाः पृथ्वीभुजः ।
आज्ञां प्रपेदिरे तस्य शेषामिव नरेशितुः ॥१९८॥
शाश्वताहद्भवनानां सदृशं पृथिवीपतिः ।
तचैत्यं कारयामास स्वर्णस्तम्भमनोहरम् ॥१९९।।
श्वेतवस्त्रे परिधाय भक्तिमान् पृथिवीपतिः ।
पुष्पैरान तीर्थेशं त्रिसन्ध्यं श्रेणिको यथा ॥२०॥
स्वचैत्ये कारयामासाऽष्टाह्निकादिषु पर्वसु ।
शासनोन्नतये राजा नाट्यं सूर्याभदेववत् ॥२०१॥
अन्यदा वन्दितुं देवमचलद् नगराद् नृपः ।
सार्द्ध मनोरमादेव्या शच्येव घनवाहनः ॥२०२॥
कौपीनवसनं क्षामं भारभुग्नशिरोधरम् ।
मनोरमा पुरोऽद्राक्षीद् व्रजन्तं काष्ठवाहकम् ॥२०३॥
तं विलोक्य मुमूर्छाऽऽशु देवी मोहपरायणा ।
अर्द्धविच्छिन्नशाखेव पपात पृथिवीतले ॥२०४॥
तथाविधापदि प्राप्तां दृष्टा देवी मनोरमाम् ।
वज्राहत इव मापः कृच्छ्राद् वक्तुं प्रचक्रमे ॥२०५।।
यो यद् वेत्ति जनः सर्वः स तच्च कुरुतामिह ।
स्मर्तव्या व्यसनप्राप्ते विद्या मन्त्राधिदेवताः ॥२०६॥
वैद्याः प्राहुः पित्तमूर्छा दैवज्ञा ग्रहपीडनम् ।
मान्त्रिका देवतादोषमाप्ता मुद्गल विप्लवम् ।।२०७।।
प्रगुणं रचयामासुर्भिषजः शर्करादिकम् ।
दैवज्ञा विदधुः पूजां ग्रहाणां मन्त्रपूर्वकम् ॥२०८।।
देवतानां समारेभे पूजनं मान्त्रिकैरथ ।
मन्यन्ते नितरामाप्ता उपयाचितसंहतिम् ॥२०९॥
एकतश्च विरच्यन्ते शय्याः पङ्कजिनीदलैः ।
एकतश्चापि चूर्ण्यन्ते स्थूलमौक्तिकराशयः ॥२१०॥

३०८ मल्लिनाथमहाकाव्य- ? मृतिमद्भिरिवाऽम्भादेर्घनाम्भाणवर्षिभिः । वीज्यते तालवृन्तः सा मृदुवातमनोहरैः ।।२११॥ उपचारशतैः कृत्वा मूर्छाव्यपगमे सति । एवं पपाठ भूपालवल्लभा मधुरस्वरम् ॥ २१२ ॥ अडविहि पत्ती न इहि जलु तो वि न बूढा हत्थ । अव्वो! तहवि कवाडियह ! अज्ज वि सावि अवत्थ ।।२१३॥ देवि! क एष वृत्तान्तो येन प्रोक्तं त्वयेदृशम् ? । साऽऽख्यद् देवेमकं काष्ठवाहकं द्रुतमानय ॥२१४॥ सोऽथाऽऽहूतः समायातः साऽऽख्यदेवी मनोरमा । देवायं काहलो नाम मत्पतिः पूर्वजन्मनि ॥ २१५ ॥ पूर्वजन्मनि पत्न्यऽस्याऽभवं सिंहलिकाद्वया । दुःखदौर्भाग्यदौर्गत्यपराभवनिकेतनम् ॥ २१६ ॥ अन्यदाऽनेन संयुक्ता गताऽहं काष्ठहेतवे । वनमध्ये महाकायतालशालमनोहरे ॥ २१७ ॥ मिथ्यात्वाभ्रे गते दूरं सूर्यवज्जिननायकः । दृष्टो दिष्टया जगन्नाथः सनाथोऽतिशयश्रिया ॥ २१८ ॥ पूजयाव इमं देवमावां प्रिय ! जगन्नतम् । मयोचेऽयमथ प्राह त्वमेव कुरु सर्वदा ॥ २१९ ॥ 'निर्द्धर्म वल्लभं ज्ञात्वा गत्वा शैवलिनीतटम् । सिन्दुवारैरिमं देवं भावतः पर्यपूजयम् ।। २२० ॥ अत्रान्तरे महीपाल ! त्वं दृष्टो गोपवेषभृत् । पूजयंत्रिजगन्नाथं जटाजूटेन मण्डितम् ।। २२१ ।। धन्योऽयं जगतां नाथं यः पूजयति भावतः । मत्पतिन पुनर्नूनं देवपूजापराङ्मुखः ॥ २२२ ॥ दधती भावनामेवं तस्मिन्नेव दिने नृप ! । कदन्नाशनयोगेन मृत्वा राज्ञः सुताऽभवम् ।। २२३ ॥ १ निर्धर्मवासनमित्यपि ।

अष्टमः सर्गः। ३०९ विदाकरोतु भूपालो देवार्चाफलमुत्तमम् । पारत्रिकं ममानन्तसौख्यलक्ष्मीविधायकम् ॥ २२४ ॥ इमं विलोक्य संपन्ना मम जातिस्मृतिः प्रिय!। इदं ततः पपाठाऽहं मूव्यिपगमे सति ।। २२५ ।। इदं श्रुत्वा नृपः प्रात्यजिनेशार्चाफलं महत् । पारत्रिकं तवैतस्या ऐहिकं मम वर्तते ॥ २२६ ॥ इतश्च भगवान् धर्मो मूर्तिमानिव निर्ममः । मुनिचन्द्राभिधः सूरि भेयं नन्तुमागतः ।। २२७ ।। प्रणिपत्य मुनेः पादौ श्रुतवान् देशनां नृपः । सपनीकस्तु सम्यक्त्वं भावतः प्रत्यपद्यत ।। २२८ ॥ परमश्रावको राजा द्वादशव्रतपूर्वकम् । चकार जगतीं चैत्यैनिःशेषामपि भूषिताम् ।। २२९ ॥ देशे देशे महीपेन मारिव्यसनरक्षणम् । कारितं जीर्णचैत्यानामुद्धृतिश्च पुरे पुरे ॥ २३० ।। निर्दोषमथ सम्यक्त्वं परिपाल्य मनोरमा । मृत्वा समाधिना प्राप पूर्णायुष्का सुरालयम् ।। २३१ ।। इतश्च- अथाऽऽस्तिकमहीपर्षिसमेतः समतानिधिः । हस्तिनानगरं प्राप विहरन् जगतां पतिः ।। २३२ ॥ स्वामिनं समवसृतं विज्ञाय जगतीपतिः । देवपालः समायातो वन्दितुं जगतां गुरुम् ॥ २३३॥ प्रदक्षिणितीशः कृतस्तवनमङ्गलः । निषसाद यथास्थानं दत्तदृष्टिर्जिनेश्वरे ।। २३४ ॥ उवाच जगतां नाथो मोहपङ्कमहाप्लवः । राजन् ! राजीवनेत्राया मरणाद् दुःखमाप्तवान् ॥ २३५॥ अनित्यं सर्वमप्येतत् पयःपूर्णामकुम्भवत् । १ प्राहेति च।

मल्लिनाथमहाकाव्ये- तस्मिन् ममत्वमुच्चर्यत्तद् मोहस्य विजृम्भितम् ।। २३६ ।। जीवाः सर्वे सुतत्वेन भार्यात्वेनाऽपि जज्ञिरे । सबन्धः किं स कोऽप्यस्ति स्पृष्टः कर्मवगैर्न यः॥२३७॥ यस्यैव हर्पकार्याणि क्रियन्ते स्नेहगतिः तस्यैव प्रतकर्माणि तन्यन्ते गोकसंकुलैः ॥२३८॥ अनित्यताकृतमतिः शुष्कमाल्यो न शोचति । नित्यताकृतत्रुद्धिस्तु भग्नभाण्डोऽपि रोदिति ॥२३९।। इत्यादिखामिवाक्यानि श्रावं श्रावं महीपतिः । विरक्तो भवपागंभ्यो राज्ये पुत्रं निवेश्य च ।।२४०॥ त्रिगतीप्रमित राजः पुत्रैवैराग्यरङ्गितैः । साकं श्रीमल्लिनाथान्ते श्रमणोऽजायतोचकैः ॥२४१॥ (युग्मम् ) इनश्च कश्चिदागत्य द्विजः प्रकृतिमानभृत् । स्तम्भ इव स्थिरोऽतिष्ठत् श्रीमल्लिस्वामिनः पुरः ॥२४२॥ उवाच जगतां नाथो मा मानं कुरु मानव ! । अयं वन्द्योऽप्ययं निन्ध इति चेतसि मा कृथाः ॥२४३॥ पुराऽपि मानमाहात्म्याद् यज्ञदत्ताभिधो द्विजः । निन्दनीयकुले जातो विजातः कर्मवन्धने ॥२४४॥ पुरे क्षितिप्रतिष्ठाख्ये महीमण्डलमण्डने । यज्ञदत्तो द्विजः क्रोधी प्रतियो मूर्तिमानिव ॥२४५।। सोऽनिन्दत् पण्डितंमन्यो जिननायकगासनम् । जृम्भते खल्पबुद्धीनामात्मनीना न हि क्रिया ॥२४६॥ तस्य निन्दामसहिष्णुः सहिष्णुरपि तत्क्षणात् । गुरुणा प्रतिपिद्धोऽपि चेल्लकः कोऽपि बुद्धिमान् ॥२४७॥ वाढायाऽऽढाययामास यजदत्तं द्विजं मुदा । यतः परवले दृप्टे नहि स्थातुमलं भटाः ॥२४८॥ (युग्मम् ) अष्टमः सर्गः । ३११ जेप्यते येन यस्तस्य सोऽन्तेवासी भविष्यति । तयोर्विवद तोरेपा प्रतिज्ञाऽभून्महीयमी ॥२४९॥ हेतुवादी विवादेन सोऽजयत् चेल्लको द्विजम् । उदयंस्तरणिः किन्तु तमसा परिभूयते ।।२५०॥ प्रतिज्ञातं व्रतं विप्रस्तस्य जग्राह सन्निधौ । प्रतिज्ञापालने सन्तस्त्वरन्ते दुष्करेऽपि हि ॥२५१॥ वृथाऽप्याऽऽस्वादितो हन्त ! सुधाऽऽहारो जराहरः । प्रतिज्ञावगतोऽप्याऽऽत्तं व्रतं सौख्याय जायते ॥२५२॥ एवं शासनदेव्याऽसौ बावितोऽपि महामुनिः । अनिन्दद् वस्त्रागमलम् दुस्त्यजा कुलवासना ॥२५३॥ जातयस्तस्य संसर्गाद् भेजुः शान्ति क्षणादपि । प्रापेण्याच सम्पर्काद् दवदग्धा द्रुमा इव ॥२५४॥ तस्य प्रणयिनी तत्रानुरागं बिभ्रती गठा । वश्याय पारणे तस्मै कदाचित् कार्मणं ददौ ॥२५॥ स राजयक्ष्मणेवोचैः क्षयं तेनाऽनिगं व्रजन् । स्मरन् पञ्च नमस्कार देवलोकमगान्मुनिः ॥२५६॥ तस्याऽऽवसानं सा श्रुत्वा वैराग्यात् सहचारिणी । वनं जग्राह मानुष्यजन्मभूमीरुहः फलम् ॥२५७।। पतिहत्यात्मकं घोरमनालोच्यैव पातकम् । तपः कृत्वा दिवं साऽऽप तपः सर्वाऽर्थसाधकम् ॥२५८॥ यज्ञदत्तस्य जीवोऽथ च्युत्वा राजगृहे पुरे । धनसार्थपतेर्दास्याश्चिलात्या नन्दनोऽजनि ॥२५९॥ चिलातीपुत्र इत्येप चिलात्याः पुत्र इत्यभून् । को नामकरणादीनि गोपानां हि प्रकल्पयेत् ? ॥२६०॥ यज्ञदत्तप्रियाजीवः पुत्रपञ्चकपृष्ठतः । भद्राया धनभार्यायाः सुसुमाख्या सुताऽभवत् ॥२६॥ वालधारककर्मत्वे सुसुमाया धनो धनी ।

३१२ मल्लिनाथमहाकाव्ये- योजयामास दासेरंयुक्तेयं स्थितिरीदृशाम् ॥२६२।। भूयांस्याऽऽगांस्यऽसौ चक्रे विभ्यत् श्रेष्ठीव राजतः । निरवासयदन्यायकृतं तं दन्दशूकवत् ।। २६३ ।। अन्यायपुंश्चलीक्रीडासङ्केतस्य निकेतनम् । पल्ली सिंहगुहाभिख्यामगाद् दासीसुतस्ततः ।।२६४॥ अथो मलिम्लुचैः साकं प्रवीणैरनयाऽध्वनः । तस्याऽजायत सत्पीतिः सख्यं तुल्ये प्रवर्धते ॥२६५।। मृते सिंहगुहेशेऽसौ तत्पदे तैर्निवेशितः । नरेन्द्रेणाऽपि दुर्जेयः सपक्ष इव पन्नगः ।। २६६ ॥ इतश्च सुसुमां कायो राजधानीमिवोत्तमाम् । कामिचित्तजनावासनिवेशाय विनिर्ममौ ॥२६७॥ अस्ति राजगृहे श्रेष्ठी पञ्चपुत्रो धनाभिधः । सुंसुमाख्या सुता तस्य निःसीमा रूपसम्पदा ॥२६८।। युष्माकं द्रविणं तस्य सुंसुमा मे कुमारिका । व्यवस्थायेति तैः सार्द्धमगाद् धनगृहं निशि।।२६९।।(युग्मम्) दत्त्वाऽवस्वापिनी विद्यां श्रेष्ठिलोकस्य तत्क्षणम् । वेगेन लुण्टयामास निष्पुत्रस्येव तद् धनं ॥२७॥ पद्मिनीमिव मातङ्गः पौलस्त्य इव जानकीम् । स सुंसुमामपाऽहापीत् प्रीतिवल्लीघनोदयाम् ।। २७१ ।। तद्वासरोढजम्बूवद् मोघा विद्याऽभवद् धने । सपुत्रोऽपससाराऽथ नीति तिमतामसौ ॥२७२।। लुण्टयित्वा धनं हत्वा सुंसुमां च तथा स्वयम् । दुष्टबुद्धिः पलायिष्ट लुण्टाकैः सह दुर्जयैः ॥२७॥ धनः श्रेष्ठी समाहूय रक्षकानित्यभापत । समानयत भोः ! वित्तं निशेपं सुंसमामपि ॥२७४॥ आरक्षकजनैः साकं नन्दनैरपि पञ्चभिः । अनुवजन् धनः श्रेष्ठी सुतामयममन्यत ॥२७५।।

अष्टमः सर्गः ३१३ इत इतः पलायन्त इतोऽपि श्रूयते रवः । इतोऽपि दृश्यते रेणुधौराणां चरणोद्भवः ॥२७६।। ब्रुवाणैः पदिकैरेवमनुस्यता इव क्षणात् । सलोमांस्तस्करान् क्रूरान् ददृशुः पुररक्षकाः ॥२७७॥ इतो गृहीत गृहीत हत हतेति भापकैः । रक्षकैस्तस्करा व्याप्ता मृगा वागुरिकैरिव ।।२७८॥ आरक्षकजनवातघातवित्रस्तचेतसः। वित्तं मुक्त्वा प्रणेशुस्ते श्येनादिव विहङ्गमाः॥२७९॥ आरक्षपुरुपा वित्तं दुप्पापं प्राप्य पुष्कलम् । व्यावतन्त, कृतार्था हि जनाः स्वस्थानगामिनः।।२८०॥ सुसमामुद्दन्नंगे खड़यष्टिमिवाऽपराम् । अरण्यानी प्रविष्टोऽसौ गुहामिव मृगाधिपः ॥२८१।। सहितः पञ्चभिः पुत्रः पुत्री क्रष्टुं तदाननात् । स्वमनःस्पर्द्धयेवाऽऽशु धावति स्म धनोऽसुखी ॥२८२।। समीपमागते तस्मिन् सुसमा माऽस्तु मेऽस्य सा । ध्यात्वेति कदलीलावमलावीत् सुसमाशिरः ॥२८॥ पुरस्तात्तत्कवन्धस्य पुत्रयुक्तो धनो रुदन् । अरोदयत् तरुश्रेणी प्रतिध्वानः सुदुःश्रवैः ॥२८४॥ तस्याः कवन्धमुत्सृज्य निवृत्तोऽसौ सनन्दनः । नखंपचरजा जज्ञे मध्याह्नसमयस्ततः ॥२८५॥ श्रेष्ठिशोकेन विच्छायाः खजना इव शाखिनः । वाहमश्रूणि मुश्चन्ति पतत्किञ्जल्ककैतवात् ।।२८६।। न जलं न फलं काऽपि ददृशुर्धननन्दनाः । पशुंश्च प्रत्युत हिंस्रांश्चौरेगप्रेरितानिव ॥२८७॥ पुत्रिकामरणं वित्तनाशो दुःखसमागमः विचिन्त्येति धनो दैवमुपालभत भूरिशः ॥२८८।। १ अपहृतद्रविणसहितानिति भाव । २ स्कन्ध इत्यर्थः। ३-ऽसुधीरित्यपि । ४० ३१४ मल्लिनाथमहाकाव्ये- देवमेवापदां करी हत सुप्राप्तसम्पदाम् । विधात शुभवुद्धीनां दातृ निन्धधियामपि ॥२८९।। इत्यं ध्यायन् धनः श्रेष्ठी प्राप राजगृहं पुरम् । मुंसमायाश्चकाराऽऽशु प्रेतकार्य यथाविधि ॥२९०॥ अथ वैराग्यमापन्नः श्रीवीरस्वामिसन्निधौ । व्रतं माप तपस्तप्त्वा धनर्पित्रिदिवं ययौ ॥२९१॥ चलातेयः सुसमाया वीक्षमाणो मुखं ययो। दिशं याम्यामुपगतां प्रियामनुव्रजन्निव ।।२९२।। कायोत्सर्गस्थितं ध्यानतत्परं कामविहिपम् । सोऽप्रकम्प मेलमिव मुनिमकमथैवत ॥२९३॥ स्वकीयकर्मणा काम लज्जितस्तमुवाच सः। धर्म बृह्यन्यथा तेपि छेत्स्याम्यस्याः गिरो यथा॥२९४॥ स ज्ञानी ज्ञानतो ज्ञात्वा भव्योऽयमिति चाब्रवीत् । उपशमा विवेकश्च संवरः कार्य इत्यपि ॥२९५।। ततश्च चारणमुनिनभोगमनविद्यया । उत्पपात महासत्त्वः सत्त्वराशिप्रबोधकृत् ॥२९६॥ अथ भावयतस्तस्य वारं वारं पढत्रयीम् । उल्लेख ईदृशो जजे दुष्टस्याऽपि शुभोदयात् ॥२९७॥ क्रोधादीनां कपायाणां कुर्यादुपशमं सुधीः । तेरहं हहहा!! क्रान्तः कुष्टीव कृमिजालकैः ॥२९८॥ श्रद्धामुकुष्टजं कुर्वन् पथ्यं सन्तोषचूर्णितम् । चिकित्साम्यद्य तान् सर्वान् गमभेपजयोगतः ॥२९९।। धर्मरोहणमाणिक्यं लग्नकं शिवसम्पदः । कार्मणं कीर्तिकान्ताया आवालं ज्ञानगाखिनः॥३०॥ अधिष्ठानं माहात्म्यस्य क्रकचं मोहदारुणः । विवेकं कुरुतां धीमान् सायद्यत्यागलक्षणम् ॥३०१॥ (युग्मम्) १ श्रद्धाल्या नाहांमेव पश्य कुर्वनिन्यान्तरम् । २ मोहकाष्ठम्यनि ज्ञानीयम् ।

अष्टमः सर्गः। ३१५ सुंसमायाः शिरः पाणौ सत्यकारमिवैनसः । दवानस्य मम काऽऽस्ते विवेकः कारणं श्रियः१॥३०२॥ तच्छीर्ष दुर्गतिद्वारकपिशीर्ष विवेकतः। मुञ्चति स्म चिलातीमुर्मुत्तीभूतशिवेतरम् ॥३०३॥ संवरो भणितोऽक्षाणां मनसश्च निवर्तनम् | स प्रपन्नो मया भाग्यात् कल्यकल्पः शिवश्रियः॥३०॥ पदानामर्थमेवं स भावयन् भावनान्वितम् । समाधिमधिगम्योचैरभूत हुन्मात्रचेतनः ॥३०५|| अथ विस्राऽसृजा देहं व्याप्तं तस्य महात्मनः । क्षणात् पिपीलिकाश्चक्रुः सच्छिद्रं चालनीसमम्।।३०६॥ स तासामुपसर्गेऽपि चित्रन्यस्त इव स्थिरः । अहोरात्रद्वये सार्धे व्यतिक्रान्ते दिवं ययौ ॥३०७॥ श्रुत्वेति यज्ञदत्तस्य दृष्टान्तं-मानसंभवम् । द्विजो मानं परित्यज्य स्वामिनं प्रणमंस्तदा ॥३०८|| अथाऽवोचत भगवन्नऽहमस्मि हिजाग्रणीः । अयं क्षत्रकुलोत्पन्नो मया वन्यः कथं जिनः? ॥३०९॥ इत्यादिमिकः स्वामिन् ! विकल्पो भवकोटिकन् । क्षणमात्रादयं नप्टः किं न स्याद् गुरुसङ्गमान् ? ॥३१०॥ ततत्रिभुवनाधीशपाढानत्वा द्विजाग्रणीः । कृतमानपरित्यागश्चारित्रं प्रत्यपचत ॥३११।। ततश्च विहरन्नाथः श्वेताम्बी नगरी ययों। तत्रास्थुः तापसाः कोपमानसान्त्रिगतीमिनाः ॥३१२॥ सर्वत्रो भगवानेष श्रुत्वेति वचनं कटु । आगुः समवसरणं रणं दुप्कृतकमणाम् ।।३१३।। तानुवाच जगन्नायो भोः ! भोः! मुनिमतमाः। सर्वज्ञवचनं श्रुन्वा किं कोपेन मलीमसाः? ॥३१४|| ६ भूदा इनि हुन ।

मल्लिनाथमहाकाव्ये- मनोगतपरिजातादुत्कर्णास्तेऽवदन्निति । प्रणत्य भगवत्पादो कोपाख्यानं मकागय ॥३१५॥ अथ प्रबोधमुद्दिश्य श्रीमन्मल्लिजिनेश्वरः। एवं गदितुमारेभे प्रत्यूवान्तभास्करः ॥३१६।। सिद्धान्तपारदृश्वाऽपि प्रकृत्या कोपनोऽधिकम् । चण्डरुद्राभिधः मरिरभूद् भुवनविश्रुतः ॥ ३१७ ॥ अत्यल्पेपि क्रियालोपे प्रमाद्यन्तं कदाचन । आचुक्रोश मुनिमं क्रोधावेशविसंस्थुलः ॥३१८॥ स्तोकमानं मुनीनां स स्खलितं सोडमनमः । गच्छस्य दूरदेशेऽस्थाद् मुनिसंक्लेभीलुकः ॥३१९।। मासकल्पेन सातत्वं गच्छेन सह संयमी । विहरन् मालवे देशेऽवन्त्युद्यानमुपेयिवान् ॥ ३२० ॥ इतः कश्चिन्महेशस्य मृनुः कन्दर्पसुन्दरः। पर्यणयत वित्तेशकन्यकां रतिसन्निभाम् ॥ ३२१ ।। मित्रः समानशीलाङ्गैस्तत्पादाम्भोजपावितम् । स युवा क्रीडितुं रम्यं तदुद्यानं समागमत् ॥३२२।। नानाविधाभिः क्रीडाभिः क्रीडन्तः प्रतिपादपम् । ददृशुः सुहृदस्तस्य धर्मध्यानरतान् मुनीन् ।। ३२३ ॥ यथाचारं नमस्कृत्य गर्भश्रावकसन्निभाः । ववन्दिरे मुनीनेतान् क्षमाश्रमणपूर्वकम् ॥ ३२४ ।। पूज्याः ! सखाऽयमस्माकं वाल्याद् वैराग्यनिर्भरः। व्रतं गृहीतुकामोऽस्ति कुरुताऽस्य समीहितम् ॥३२५।। शठान् वण्ठानिव ज्ञात्वा जजल्पुर्मुनिपुङ्गवाः । दीक्षायामधिकारोऽस्ति गुरोरस्मागां नहि ।।३२६॥ काऽऽस्ते गुरुस्तदापृष्टैः कृतवक्रौष्ठिकश्च तैः । इत्वचिन्त्यत निग्रन्थेष्यतां कलिना कलिः ॥३२७॥ १ मुदिताऽऽशया एवमपि । २ वृतहात्यैरियर्थ ।

अष्टमः सर्गः। ३१७ दर्शितः सस्मितं पाणिसंजया मुनिपुङ्गवः । नत्वा मूरि ततस्तद्वत् सुहृद्वर्गोऽप्यवोचत ॥३२८॥ मया सह कथं मूर्खा एते हास्यं वितन्वते । तत्फलं दर्शयिष्यामि केशलुञ्चनकैतवात् ॥३२९॥ ध्यात्वेति कोपनः मूरिः कम्पमानकराधरः । तैर्भस्माऽऽनाययद् वेगात् तेषां क्षेप्तुमिवानने ॥३३०॥ वीक्षामहे करोत्येप किमिदानी मुनीश्वरः । भस्मोपनिन्यिरे तेऽपि विचिन्त्येति कुतूहलात् ॥३३१।। लुलुश्च तत् शिरस्तूर्ण विधृत्योरुद्वयेन सः । गुरो! मा लुश्च मुश्चैनं तेपामारटतामिति ।। ३३२ ॥ अचिन्तयद् नवोढोऽथ लुश्चितोऽहं यथा तथा । इदानी गर्हिताऽत्यन्तमीदृक्षस्य गृहस्थता ॥ ३३३ ॥ हास्येनाऽपि मया प्राप्तं श्रामण्यं भवतारकम् । इदानीं भावतस्तावत् प्रपद्येऽर्हन्निवेदितम् ।। ३३४ ॥ ऊर्ध्वस्थमित्रवर्गाणामश्रुभिर्निर्जरोपमैः । तस्य भस्माविले मूर्ध्नि पङ्कशङ्का व्यजम्भत ॥ ३३५ ।। अस्माभिर्यत् कृतं हास्यमपतद् मस्तकेऽस्य तत् । वराहात्तेक्षुदण्डेषु पिण्यते माहिषं मुखम् ॥ ३३६ ॥ अविचारितमेवैतत् कृतमस्माभिरुच्चकैः । केशलुश्चनदम्भेन तदस्य फलमुत्थितम् ॥३३७।। सुहृदोऽसुहृदो जाता वयमस्य दुराशयाः। अनाथस्येव यदियं दशा जज्ञे मनोतिगा॥३३८ ॥ एतत्वजनलोकस्य विवाहक्षणशालिन: कथं वार्ता महोद्वेगकारिणी कथयिष्यते ? ॥ ३३९ ॥ कुसङ्गाद् जायते नो चेद् मरणं गर्जनं भवेत् । कृत आहानकोऽस्माभिर्यधार्थकुटिलाशयः ॥३४०॥ १ तिरस्करणमिति मतम् ।

३१८ मल्लिनाथमहाकाव्ये- - एवं खेदप्रपन्नेपु मित्रपु निखिलेवऽथ । उवाच स युवा नव्यदीक्षितः पूर्वसाधुवत् ॥ ३४१ ॥ विप्लवादपि संप्राप्तं श्रामण्यं जिनभापितम् । गृहीतं काचखण्डस्य शङ्कया रत्नसन्निभम् ॥३४२॥ अकामस्याऽपि दीक्षा मे जज्ञे पुण्यप्रसाधिका । अनिच्छयाऽपि संभुक्ता मोदकाः किं न तृप्तये॥३४३।। यूयं मित्राणि मित्राणि भवार्णवनिमज्जनात् । यदहं तारितस्तूर्णं व्रतपोतप्रदापनात् ॥ ३४४ ॥ इति तस्य गिरः श्रुत्वा वाष्पपूर्णविलोचनाः। तदलङ्कारमादाय ययुस्ते खं निकेतनम् ॥ ३४५ ॥ शैक्षोऽवादीद् गुरुं नत्वा मुखवासपुरःसरम् । मुनीन्द्र ! स्वजना नूनं कारो मे व्रतक्षितिम्॥३४६॥ करणीयं तथा स्वामिन् ! यथा जैनेन्द्रदर्शने । न स्याद् हास्यास्पदं किंचित् पाखण्डिषु निरन्तरम् ३४७ ऊचे मूरिर्दिवा वत्स ! वर्त्मनः प्रत्युपेक्षणम् । क्रियतां सत्वरं यस्मादावाभ्यां गम्यते निशि ॥३४८॥ तथेति प्रतिपद्याऽसौ कृत्वाऽध्वप्रत्युपेक्षणम् । आगच्छद् मुनिवेषण बभौ गीतार्थवत् तदा ॥३४९।। सुरिणा सह शैक्षोऽथावश्यकं कृतवानऽसौ । व्यतीते रजनीयामे निशि तेन सहाऽचलत् ॥३५०॥ स्पष्टमग्रस्थिते मार्गमव्यग्रं कथयत्यपि । तस्मिन् जराभरक्रान्तः पदे पदेऽस्खलद् मुहुः॥३५॥ कीदृशं प्रत्युपक्षिष्ठा मार्ग रे! शैक्ष! दुर्जन! । इति वाक्यैर्वह्रिकल्पैः स्वशरीरे ददाह सः ।। ३५२ ॥ शिष्यशीर्ष गुरुः क्रोधादवधीद् दण्डकोटिना । कोपारघखादकारविस्तारभ्रमसंनिभम् ॥३५३।। १ शिप्य , इत्यपि । २ व्रतनागमिलाशय ।

अष्टमः सर्गः। ३१९ क्षमावतां धुरीणोऽसौ शैक्षोऽथ ध्यातवानिति । अहं हा! गुरुसन्तापनिदान वहतेतराम् ।। ३५४ ।। विनीतशिष्यसङ्घाताद् मन्निदानेन साधुराट् । निष्क्रान्तो लभते कष्टं स्खलति स्म पदे पदे ॥३५५|| आचार्यसवितुः सर्वतपस्तोमापहारिणः । उपप्लवाय संजज्ञे मल्लाभो बुद्धयोगवत् ।। ३५६ ॥ घ्नतोऽप्याऽऽक्रोशतोऽप्यस्य न दोपः कोऽपि वर्त्तते । यतो ममाऽपराधोऽयं विहारः कारितो निशि ॥३५७॥ केचिद् निजगुरून् भक्त्या शक्रा इव जिनेश्वरम् । बहुलोद्भिन्नरोमाञ्चाः सेवन्ते प्रतिवासरम् ॥३५८॥ एवं भावयतस्तस्य क्षमासम्भृतचेतसः । उत्पन्न पश्चमं ज्ञानं सर्वपर्यायतत्त्ववित् ॥ ३५९ ॥ कराब्जमुक्तावल्लोकमखिलं पश्यतः सतः । सुखेन नयतः मूर्ति विभाति स्म विभावरी ॥३६०॥ मृतिमत्क्रोधसप्ताःळलां रुधिरधोरणीम् । क्षरन्तीं मूरिरैक्षिष्ट शिष्यमस्तकपर्वतात् ।। ३६१ ॥ नवव्रतोप्यऽसौ धन्यो नैव पूर्वव्रतोऽप्यऽहम् । अक्षमाऽभूद् ममेदृक्षा क्षान्तिरस्येदृशी परम् ॥३६२॥ सच्चारित्रं मया प्रोक्तं कृताः सिद्धान्तवाचिकाः। परं क्षान्तिर्मया नैव चक्रे साधुजनोचिता ॥ ३६३ ॥ साधवस्त त्यजुर्मी ते क्रोधापस्मारदूषितम् । एकक्रोधावकाशेऽपि निष्प्रकाशमभूत् परम् ॥३६४॥ अन्तःक्षमावतां वासे वसन्नपि निरन्तरम् । अक्षम्यहं यतोऽम्बुस्थः कुलीरस्तरणे पटुः ॥ ३६५ ॥ एवं सुतीसंवेगवह्निना कर्मपादपम् । दहतः केवलज्योतिरुद्भिन्नं पापघातकम् ॥३६६॥ भूयोऽप्यसौ परीवारसम्पदा समयुज्यत ।

३२० मल्लिनाथमहाकाव्ये- १ श्रीचण्डरुद्र आचार्यः शिष्यकेवलिना सह ॥३६७।। विहृत्य सुचिरं धाच्या प्रतिबोधपरायणी । शिवामचलस्वरूप प्रापतुर्योक्षसम्पदम् ॥३६८॥ तत्छ्रुत्वा तापसाः सर्वे प्रशान्तहृदयास्ततः । अगृह्णन् स्वामिनः पार्थे दीक्षां सर्वज्ञभापिताम् ॥३६९॥ ततश्च भगवांस्तस्माद् विहरन् मदिरावतीम् । पुरी शक्रपुरी लक्ष्म्या ययौ त्रिभुवनार्यमा ॥३७॥ तत्र राजा यशश्चन्द्रः प्रकृत्या स्त्रैणलम्पटः । तदैव खर्वधूरूपं द्रष्टुं प्रापाऽन्तिके प्रभोः ॥३७१॥ तस्य प्रवोधमुद्दिश्य कुलध्वजनरेशितुः । कथां गदितुमारेभे धीरवाचा जगद्गुरुः ॥३७२॥ तथाहि- जम्बूद्वीपाऽभिधे द्वीपे वर्षे दक्षिणभारते । अस्त्यऽयोध्येति नगरी चूडारत्नमिव क्षितेः ॥३७३॥ तत्राऽभूद् भूपतिः शङ्खो धुरीणः सर्वभूभृताम् । सधर्मचारिणी तस्य धारिणी धर्मचारिणी ॥३७४॥ तयोः कुलध्वजः पुत्रो ध्वजवद् वंशभूषणम् । द्वासप्ततिकलागारं द्वारं निःशेषसम्पदाम् ॥३७५|| अन्येानगरोपान्ते बाह्याली गतवानसौ । अमात्यादिपरिवृतः समानगुणशालिभिः ॥३७६।। अधः पद्मासनासीनं शतशाखस्य शाखिनः । सेवकैरिव राजानं मुनिवृन्दैः परिवृतम् ||३७७|| वाचा मधुमुचा तत्र कुर्वाणं धर्मदेशनाम् । मृत धर्ममिवापश्यद् मानतुङ्गाऽभिधं गुरुम् ॥३७८।। (युग्मम् ) विनीतवेषस्तत्पार्चे गत्वा नत्वा यथाविधि । उचितासनमासीनः श्रुतवान् धर्मदेशनाम् ॥३७९।।

अष्टमः सर्गः। ३२१ दुष्टाष्टकर्मविस्तीर्णनेपथ्यान्तरितः सदा । नटवद् भवनाट्यऽस्मिन जन्तुविपरिवर्नते ॥३८०॥ वध्यते जीवसारद्गः खेच्छया संचरन्नपि । पुरन्ध्रीरूपपाशायैः कामव्याधेन दुधिया ।।३८१।। आदरः परदारेषु स्वदाराणां विवर्जनम् । भवेत् पिपतिपोः पुमो नरके नर ! केवलम् ॥३८२।। गोत्राचारपरीहारः प्राणाना संशयागमः । साधुवाद परिभ्रंशः परस्त्रीगमनाद् ध्रुवम् ।।३८३॥ एतद्वाक्यश्रुते गजपुत्रों वैराग्यमागतः । विरक्तः परदारेषु निषेधं प्रत्यपद्यत ॥३८४।। प्रणिपत्य पुनः सुरेः पादाम्भोज नृपागनः । निवर्तमानश्चाद्धाक्षीकलई योपितां पथि ॥३८५।। किं वृथा कलहायेथे रोपोत्कर्पाद् मुहुर्मुहुः । इति पृष्टा कुमारेण चैका तन्मथ्यतोऽवदत् ।।३८६।। दवाई लोहकारस्य पन्नी सौभाग्यकन्दली। पूर्णकुम्भयात्राऽऽगां भारभुग्नशिरोधरा ॥३८७|| इयं रथकृतः पत्नी नाम्ना कनकमञ्जरी । रिक्तकुम्भया देव ! समागान् मम संसुखं ।।३८८॥ रिक्तकुम्भद्यादेव मोन्यो मार्गोऽनया मम । एकं कारणमेवेदमपरं च निशम्यताम् ॥३८९॥ यावन्मात्रं हि पत्युमें विज्ञानं जगतीतले । तादृग् न कस्यचिद् नूनं विद्यते वाग्मिनां वर! ॥३९०॥ कौतुकाऽऽक्षिप्तचेतस्कः कुमारः प्राह किं तव । पत्युः समस्ति विज्ञानं सर्वलोकप्रमोदकृत् ? ॥३९१॥ मत्पतिश्चन्द्रदेवाख्यो लोहकारशिरोमणिः । विज्ञानवल्लरीजालपाट्वालसमः प्रभो ! ॥३९२।। स चेल्लोहमयं मीनं विधत्ते राजशासनात् ।

३२२
मल्लिनाथमहाकाव्ये-
उत्प्लुत्य व्योमयानेन स याति मकराकरम् ॥२९३॥
गिलित्वा गलरन्ध्रेण तन्मध्यान् मौक्तिकावलीः ।
पुनरायाति संस्थानं स्वकीयं लोहजस्तिमिः ॥३९४॥
मुखमर्कटिकां दत्वा श्रुत्वेति तद्विरः पुरः ।
आह स रथकृत्पत्नी तालिकावादनान्वितम् ॥३९५॥
विज्ञानेनाऽमुना लोके न हि किञ्चन लभ्यते ।
मन्ये तदेव विज्ञानं यत्पत्यौ मे विजृम्भते ॥३९६।।
अथोचे भूपतेः पुत्रः किं ते पत्युर्मनोहरम् ।
विज्ञान विद्यते हि त्वमशेष सुलोचने !? ॥३९७।।
अत्रास्ति नगरे रम्ये मत्पतिः सूत्रभृद्वरः ।
कन्दर्पो नाम रूपेण कन्दर्प इव मूर्तिमान् ॥३९८॥
स चेत् काष्ठमयं चारु निर्मिमीते तुरङ्गमम् ।
षण्मासान् यावदाकाशे स भ्राम्यति सपौरुषम्।।३९९॥
श्रुत्वेति वचनं तस्या राजपुत्रः सकौतुकः ।
ताभ्यां सह सभां राज्ञो जगाम सपरिच्छदः ॥४०॥
वृत्तान्तः कथितस्तेन कुमारेण नृपाग्रतः।
ततो राज्ञा समाहूतौ लोहकृत्सूत्रधारको ॥४०१॥
लोहं लोहकृते भूमानर्पयामास समयम् ।
निर्माति स्म ततः सद्यः स मीनं लोहमृत्रितम्॥४०२॥
ततोऽपवरकं पृष्ठे तस्य मीनस्य स व्यधात् ।
शुभेऽह्नि लोहकृत् तत्र प्राविशद् भूभुजा समम्।।४०३।।
पृष्ठेऽथ कीलिका तस्य निहिता वायुधारिणी।
उत्पपात नभोमार्ग मत्स्यः शकुनिराडिव ॥४०४॥
मीनस्थो जगतीपालो ग्रामाकुलपुराकुलाम् ।
विपुलां विपुलां वीक्षांचक्रे विद्याधरोपमः ॥४०५॥
वार्द्धिमध्यं गते मीने छन्नेऽपवरके सति ।
गर्भस्थाविव रेजाते लोहकृत्पृथिवीश्वरौ ॥४०६॥

अष्टमः सर्गः। ३२३ ? मुक्ताः स गलरन्ध्रेण गिलित्वाऽऽमिपवद् भृशम् निरवर्नत पाधोधेः कार्मुकाद् मुक्तकाण्डवत् ॥४०७।। आयाते स्वपुरं तस्मिन्नाऽऽक्रप्टा कीलिका क्षणात् । निपेतुमौक्तिकश्रेण्यस्तन्म-यात् सेवधेरिव ॥४०८॥ ततः कौतुकितो राजा बभापे लोहकारिणम् ? । गतप्रत्यागतं चक्रे कथमेप सुलक्षणम् ? ॥४०९।। सोपाख्यद् देव ! सिद्धाख्या राधा देवी मया ततः । अपित कीलिके नया गुयानार्थमिम शुभे ॥४१०॥ कालिकायोगतो गजन् ! याम्यहं गगनागणे । अचिन्त्या देवताशक्तिः साधयति न किं नृणाम्।।४११॥ मृत्रधारोऽथ भूपालादेशाद् दारुमयं हयम् । उच्चरुचाश्रवस्तुल्यं कृत्वाऽदर्शयदजसा ॥४१२॥ देवाऽस्मिन् तुरगे यूयं कुमारो वा कुलध्वजः । आरोहत्वपरो नैव सोऽवादीदिति कोमलम् ।।४१३।। अथोचे भूपजो देव ! युप्मदादेशतोऽधुना । कृत्रिमा समारुध वीक्ष्ये विश्वम्भरातलम् ॥४१४॥ आमेत्युक्ते नरेन्द्रेण मूत्रकृत् कीलिकाद्वयीम् । गमनाऽऽगमनायाऽऽशु कुमारस्य समर्पयत् ॥४१५।। तस्य पृष्ठेऽथ विन्यस्य कीलिकां नृपनन्दनः । अलञ्चकार दावश्यं नमस्कृत्य नरेश्वरम् ॥४१६।। पश्यतां सर्वलोकानां स्मयविस्मेरचक्षुपाम् । उत्पपात नभोमार्ग वाजी दारुविनिर्मितः ॥४१७॥ खर्गे किमगमत् किं वा सिद्धाऽदृश्याजनोऽभवत् । अदृश्यः सोऽपि दाश्वो लोकैरेवं वितर्कितः ॥४१८॥ पुर्याः कस्याश्चिदुद्याने भ्रान्त्वा वाजी समस्थितः । कृष्टायां कीलिकायां च राजपुत्रेण तत्क्षणम् ॥४१९।। कुलध्वजकुमारोऽथ पृथक् पृथक् विधाय सः। 1 ३२४ मल्लिनाथमहाकाव्ये- काष्ठनातं तुरङ्गस्य भाररूपं चकार सः॥४२०॥ विधायांच्छीपके काष्ठचक्रवालं कुलध्वजः । सुष्वाप श्रमखिन्नाङ्गः सहकारतरोरधः ॥४२१॥ इतश्च नभसो मध्यं भेजे दिवसनायकः । कीलितेव स्थिरा वृक्षच्छाया तस्याऽभवत्तराम् ।।४२२॥ इतश्चारामिकस्तस्मिन्नागात् पुष्पजिघृक्षया । स्थिरच्छायस्तरदृष्टो मध्याह्नेऽपि मनोहरः ॥४२ ॥ अल्पसुप्तनरस्याऽयं प्रभावश्चिन्तयन्निति । अस्पाक्षीत् तत्पदाङ्गुष्ठं जजागाराऽथ भूपजः॥४२४॥ यूय भवथ सत्पुण्या मन्दिरेऽतिथयोऽद्य मे। एवं विज्ञपयामास मालिको भक्तिमालिकः ॥४२५॥ आमेत्युक्तं कुमारेण प्रार्थनाभगभीरुणा । गेहे सो भोजितो नीत्वा तेन हर्षपुरस्सरम् ॥४२६॥ कोणे गृहस्य विन्यस्य तौरझं काष्ठसञ्चयम् । अथाऽचालीत् पुरो मध्यं वीक्षितुं दिवसाऽत्यये।।४२७।। स्वर्णपश्चालिकाकीर्ण रूप्यतोरणभासुरम् । सङ्केतमन्दिरं श्रीणां नेत्रपान्थप्रपोपमम् ॥४२८॥ प्रमोदनृपतेः पर्षद् मोक्षाध्वपान्तरद्रुमम् । निधानमिव धर्मस्य दृष्टवान् जिनमन्दिरम् ॥४२९।। (युग्मम् ) श्रीमन्तं सुव्रतं देवं दृष्ट्वा तत्र कुलध्वजः। प्रणनाम नमन्मौलिकिणावलिपचेलिमः॥४३०॥ इतश्च वेत्रभृत् कश्चित् समागत्य भृशं जनान् । कोणस्थानपि प्रत्येकं वेगतो निरवासयत् ॥४३१॥ किमेतदिति संभ्रान्तः कुमारस्तस्य कोणके । लीयते स्म यथा जीवः परमात्मनि योगिनः॥४३२॥ अद्वितीयवपुः काचिदेत्य कन्या जिनार्चनात् ।

अष्टमः सर्गः। ३२५ लास्यं प्रचक्रमे कर्तुं सखीभिः परिवारिता ॥४३३॥ नमस्कृत्याऽथ देवेन्द्र स्त्रीराज्यमिव तन्वती । सखीभिः सह संपाप कन्याऽन्तःपुरमुत्तमम् ॥४३४॥ कोणान्निर्गत्य रात्रौ स तद्रूपेण विमोहितः । पप्रच्छ पुरुपं कश्चित् केयं वाला सुलोचना? ॥४३५॥ आख्यत् स श्रूयतां देव ! श्रोत्रापेयः कथारसः । अस्य श्रवणमात्रेण संपद्यन्ते मुदोऽगिनाम् ॥४३६॥ इदं रनपुरं नाम्ना वरपाकारमण्डितम् । अस्ति श्रीसुव्रतस्वामिश्रावको विजयी नृपः ॥४३७॥ विस्तीर्णचारुसौवर्णतुङ्ग तोरणसुन्दरम् । तेनेदं भूभुजाकारि चैत्यं कुलगृहं श्रियः ॥४३८॥ तस्येयं कन्यका देव ! जयमालासमुद्भवा । सर्वलक्षणसम्पूर्णा नाम्ना भुवनमञ्जरी ॥४३९॥ विलोक्य यौवनोद्याने कुमारी करिणीमिव । विजयी तद्विवाहार्थमैक्षिष्ट नृपकुञ्जरम् ॥४४०॥ कुमारान्वेषणं श्रुत्वा कुमारी निजचेतसि । अथेत्थं चिन्तयामास विवाहो मे समागतः ॥४४१।। महीचरोऽपि यः कश्चित् स्वशक्त्या खचरो भवेत् । स भविष्यति मे भर्ताऽन्यथा वहिर्वरो मम ॥४४२।। गूढाभिप्रायमात्मीयं प्रियसख्य न्यवेदयत् । सा सम्यक् कथयामास विजने पृथिवीशितुः ॥४४३॥ विज्ञाय निश्चयं तस्याः खपुष्पमिव दुर्लभम् । तूष्णींशालो महीपालोऽभवद् चिन्ताभिरुच्चकैः ।।४४४॥ इति व्याहृत्य स पुमान् ययौ राजनिकेतनम् । कुलध्वजोऽपि संपाप प्रातिहारिकमन्दिरम् ॥४४५॥ तस्याऽथ कोणके कृत्वा सज्जं दारुमयं हयम् । कीलिकायाः प्रयोगेणाऽऽगच्छत् तद्वासमन्दिरम् ।

३२६ मल्लिनाथमहाकाव्ये- तत्तल्पस्य चतुर्भागे ताम्बूलं त्वर्धचर्वितम् । क्षिप्त्वा तेनैव मार्गेण पुनः स्वगृहमागमत् ॥४४७॥ प्रबुद्धा वीक्ष्य ताम्बूलं तत्र सर्वत्र विस्तृतम् । सा दध्याविति कोऽत्राऽऽगात खेचगस्त्रिदशोऽधवा?॥४४८॥ अनया चिन्तया सा तद् दिनं वर्पमिवाऽऽनयत् । अलीकनिद्रया रात्रौ सुष्याप तृपकन्यका ॥४४९॥ द्वितीयेऽह्नि निशीथेऽथ दावश्वमधिरुह्य च । तेनैव विधिना तत्र समायातः कुलध्वजः ॥४५०॥ क्षिप्त्वा सर्वत्र ताम्बूलपचालीद् यावदुच्चकैः । तावद् चेलाञ्चले वादं हस्ताभ्यां विधृतस्तया ॥४५१॥ कुतस्त्योऽसि धियां धाम ! चलितोऽसि क सम्पति?। कुमार्येति कुमारोऽसौ पृष्ट एवमवोचत ॥४५२॥ भूमीचरोऽपि जज्ञेऽहं खेचरः काष्ठवाजिना । इत्युक्ते तेन साऽवादीत् पूर्णो मम मनोरथः ॥४५३॥ प्रदीपं साक्षिणं कृत्वा पुरोहितमिवाऽसकौ । उपायंस्त विवाहेन गान्धर्वेण कुमारिकाम् ॥४५४॥ ततो भवनमञ्जर्या बुभुजे विषयानसौ । अदृश्यो वायुवत् कन्यान्तःपुररक्षकैनरः ॥४५५।। दधुर्लावण्यपुण्यानि तदङ्गानि श्रियं पराम् । मुक्ताफलमनोज्ञानि तटानीव पयोनिधेः ॥४५६॥ अङ्गानां वृद्धिमालोक्य मेने दक्षः सखीजनः। अकालफलसंवित्तिभूरुहामिव भीतिदाम् ॥४५७॥ तद् देव्या जयमालायाः स्थिताया विजने सखी। कथयामास निःशेषं नीचीकृतमुखाम्बुजा ॥ ४५८ ॥ दुःखाधीतगलद्वाक्यविद्यामिव नभश्वरीम् । अपश्यत् पृथिवीनाथो जयमालां रहःस्थिताम् ॥ ४५९ ॥ अनात्मज्ञेन केनेह तवाज्ञाखण्डनं कृतम् । .

अष्टमः सर्गः। ३२७ अकाण्डे निजकान्ताया देवि! वैधव्यमिच्छता ॥ ४६० ॥ त्वत्मसादान केनापि मदाज्ञाखण्डनं कृतम् । परं तु खण्डनं जातं कुमार्या वचनानिगम् ॥ ४६१ ॥ प्राणनाथ ! समागत्य रजन्यां कन्यकां तव । अदत्तामप्यलं भुङ्क्ते वीरः कोऽपि भयोज्झितः ॥४६२॥ येनेदं मद्गृहे देवि ! चेष्टितं दुष्टचेतसा । तमाशु दक्षिणेशस्य करिष्ये प्राभृतोपमम् ॥ ४६३ ॥ कोपाटोपोत्कटस्वेदविन्दुभृकुटीभीपणः । उपविष्टः सभां राजा तदन्वेपणलालसः ।। ४६४ ॥ विवेद पार्थिवाकूतं वारस्त्री भववागुरा । वेश्यानां हि खभावोऽयं परचित्तोपलक्षणम् ।। ४६५ ॥ तया निवन्धतः पृष्टो भूपतिश्चिन्तयाऽऽकुलः । पुच्या वृत्तान्तमाचख्यावपंडक्षीणमञ्जसा ।। ४६६ ॥ तमन्यायकृतं वध्वा त्वत्पादान्तमुपानये । अगादिति प्रतिज्ञाय स्वगृहं भववागुरा ॥४६७ ॥ संध्यायां गणिका बुद्ध्या नानोपायविशारदा । सतैलनवसिन्दूरैः कन्यागारमलेपयत् ।। ४६८ ॥ तुरङ्गमाधिरूढोऽसौ त्रियामायां कुलध्वजः । अगाद् वातायनं तस्याः सान्द्रसिन्दूरपङ्किलम् ॥४६९।। तया साकं चतुर्यामीमतिवाह्य घटीमिव । गतवान् मालिकागारमुदियायाऽथ भास्करः ॥४७० ॥ आययौ गणिका प्रातः कन्याया भवनाङ्गणस् । पादयोः प्रतिबिम्बानि पद्मानीव व्यलोकयत् ॥ ४७१ ।। प्रतिविम्वानुमानेन तयाऽज्ञायि महीधरः । काव्येनेव कवेर्भाव आचारेण कुलं यथा ॥ ४७२ ॥ १ यमस्येत्यर्थ । २ अविद्यमानानि षडक्षीणि यस्मिन् , त गुप्तमिति यावत् ।

३२८ मल्लिनाथमहाकाव्ये- तलाध्यक्षनरैः साई भ्रमन्ती भववागुरा । द्यूतस्थानस्थितं भूपनन्दनं वीक्षते स्म सा ॥ ४७३ ॥ सिन्दूरारुणपादाभ्यां तयाऽसावुपलक्षितः । तदादेशात्तलाध्यक्षपुरुषैः स धृतो हठात् ।। ४७४ ॥ तत्प्राप्तिश्रवणेनाऽऽशु मरुतेव मुहुर्मुहुः । दिदीपे भूपतेः कोपो हव्यवाडिव तत्क्षणम् ॥ ४७५ ॥ पण्ढवद् दर्शनं माऽस्य भूयात् तत्कर्मकारिणः । इत्युक्त्वा दीयतां वायोरित्यादेशं नृपो ददौ ॥ ४७६ ॥ अथादेशं समासाद्य वध्यभूम्युपरि द्रुतम् । तलाधिपनरैः क्रूरैहीतो नृपनन्दनः ॥ ४७७ ॥ जनास्तद्रूपमालोक्य विवदन्ते परस्परम् । यत्कृतोऽयं वरः पुच्या व्यलीकं तदिदं नु किम् ? ॥४७८॥ पीयूषगुणसारस्य वियोगेऽस्य कलाभृतः । क्षयं राकानिशेवाऽऽशु राजपुत्री प्रपत्स्यते ॥ ४७९ ।। पुच्याश्चेदीदृशं चक्रे भूभुजा किं प्रकाशितम् ? । गृहे दुश्चरितं यस्माद् दक्षा रक्षन्ति सर्वथा ॥ ४८० ॥ इत्यादिलोकसंलापान् शृण्वानो नृपनन्दनः । मालिकागारसामीप्यमगाद् राजभटातः॥४८१ ॥ ममान्वये समायातां मालिकागारवासिनीम् । कुलदेवीं नमश्चक्रे युष्मत्पादप्रसादतः ॥ ४८२ ॥ आमेत्युक्ते भटौघेन प्रविश्य मालिकालयम् । शरीरं रसवेदीव पुनः सज्जं हयं व्यधात् ।। ४८३ ॥ पश्यतां राजलोकानां कामं विस्मेरचक्षुषाम् । उत्पपात पतत्रीव हयः काष्ठविनिर्मितः ॥ ४८४ ॥ गत्वा वातायनं वेगात् कुर्मायाः कृत्रिमो हयः । उत्ततार चिरं भ्रान्तिश्रान्ताङ्ग इव तत्क्षणम् ॥४८५॥ तत्राधिरोद्यतां पत्नी नवोढामिव हर्षितः ।

अष्टमः सर्गः।
३२९
बारां निधेर्महादुर्गमन्तरीपमवाप सः॥ ४८६ ॥
यस्यान्ते रेजिरे नीलास्तमालवनराशयः ।
अवतीर्णा इवाम्भांसि पातुमम्भोदराजयः ॥ ४८७ ॥
विभान्ति यत्र शीतांशुशुभ्रा डिण्डीरराशयः ।
हास्योद्वारा इवाम्भोधेः सवन्तीनां समागमे ॥ ४८८ ।।
अथोत्तीर्य महीपालपुत्रः सुष्वाप निर्भयः ।
मृदुपल्लवपल्य। मनसीव मनोभवः ॥ ४८९ ॥
क्षुधाक्षामं प्रियं वीक्ष्य मोदकाऽऽनयनाशया ।
अध्यासामास दावश्व मूर्तेवाऽऽकाशदेवता ॥ ४९० ॥
गत्वा वातायने मुक्तो तयाऽसौ नृपकन्यया ।
प्राविशत् सा निजागारं सम्पूर्ण मोदकादिभिः ।। ४९१ ।।
इतश्च वात्यया कामं पातितस्तुरगः क्षितौ ।
अभावीत् तटिनीनाथमध्यस्खलितपोतवत् ।। ४९२ ।।
यावदागाद् महीपालकन्यका मोदकान्विता ।
तावदैवत दार्वश्वस्तया भग्नो भुवस्तले ॥ ४९३ ।।
प्रतिकूलमहो ! दैवं सर्वतो विपदावहम् ।
हहा ! पुरातनाऽऽचीर्ण कम्र्मोदग्रं ममाधुना ॥ ४९४ ॥
अनुकूलो विधिः पाति पितेव व्यसनेऽप्यलम् ।
प्रतिकूलः पुनायमार्गनिष्ठं जुगुप्सते ॥ ४९५ ॥
वारिधी गमनं पत्युभगो मे दारुवाजिनः ।
सर्व कष्टावहं जातं मम भाग्यविपर्ययात् ॥ ४९६ ॥
दृष्टे प्रिये अमावश्यं भोक्तव्यं नान्यथा खलु ।
एवं नियममाधत्त प्रेमपादपदोपदम् ॥ ४९७॥
इतश्च भूपतेः सूनुर्निद्रया शुरुचे तदा ।
न चाऽद्राक्षी प्रियां शेयवर्णवर्णाद्रिचूलिकाम् ॥ ४९८ ॥
किं श्रीभ्रान्त्या समाहूता पयसां निधिना प्रिया ।
उत श्रीपतिना जहे चिन्तयामासिवानिति ? ॥ ४९९ ॥

३३० मल्लिनाथमहाकाव्ये- इतश्च व्योमयानेन काचिद् विद्याधरप्रिया । अगादप्सरसां वृन्दं जयन्ती रूपवैभवात् ॥ ५०० ॥ कासि भामिनि ! कुत्रत्या कस्मादत्र समागता । तत्सर्व श्रवणद्वन्द्वप्रमोदाय निवेद्यताम् ॥ ५०१ ॥ महाभाग ! शृणु श्रौत्रसुधारमनिपेचनम् । कथारसं महाप्रीतिमेघपौरस्त्यमारुतम् ॥ ५०२ ॥ चैताढ्येऽभूद् मणिनाम्ना विद्याधरशिरोमणिः । तस्याऽहं पट्टदेव्यस्मि नान्ना कनकलोचना ॥ ५०३ ॥ सोऽद्य मे वल्लभो हन्त ! वैरिणा विधृतो हठात् । त्वद्रूपान्तरमापन्नः स त्वं दृष्टोऽसि धीनिधे ! ॥ ५०४ ॥ कामवाणेन देहस्य भिद्यमानस्य मेऽधुना तव सङ्गमसन्नाहं विना न शरणं परम् ॥ ५०५ ॥ ऊचे कुलध्वजो मातः ! परस्त्रीनियमो मम । भङ्ग नैतस्य कर्वेऽहं सुसिक्तस्येव शाखिनः ॥५०६ ॥ श्रुत्वेति वचनं तस्य विद्याभृत्प्राणवल्लभा । तं प्रति प्राहिणोत् पुष्पमभिमन्व्याऽथ विद्यया ॥ ५०७ ॥ तत्मभावान्मुमूर्बोच्चैर्विषादिव नृपाङ्गजः । अज्ञायत निर्मनस्कोऽसंज्ञिपश्चेन्द्रियोपमः ॥ ५०८ ।। काष्ठवत्तं समुद्धृत्य चिक्षिपे वारिधौ तया । निर्दयत्वमहो! स्त्रीणां धिग् धिग् प्रेमातिचञ्चलम् ।।५०९।। जलदेव्या पतन् दृष्टस्तेजःपुञ्ज इवाम्बरात् । गृहीतः पाणिपद्माभ्यां स्वामिदत्तप्रसादवत् ॥ ५१० ॥ तत्मभावाद् ननाशास्त्रपुष्पविद्या नृपात्मजात् । वस्थीभूतः क्षणादेष समुन्मीलितलोचनः ॥ ५११ ॥ तया पृष्टः कुमारोऽसौ तद्वृत्तान्तमचीकथत् । परकीयाङ्गनाभोगनियमेन पुरस्सरम् ॥ ५१२ ॥ १ स इति कर्माऽभ्याहार ।

अष्टमः सर्गः। ३३१ वरं वृणु महाभाग ! तुष्टाऽहं नियमश्रुतेः । अमोघं दर्शनं दैवं शुविद्युदिव दृष्टिकृत् ॥ ५१३ ॥ सोऽप्याऽऽख्यत् प्रियया साकं यथा भोगो भवेद् मम । तथा कुरु पयोदेवि ! परोपकृतिलालसे। ॥ ५१४ ॥ समुत्पाव्य करेणाऽथ तत्पनीभवनाङ्गणे । देव्याऽसौ मुमुचे वेगाद् लाजाञ्जलिरिवाऽपरः ॥ ५१५ ॥ भग्नो दृष्टः कुमारेण वाजी दारुविनिर्मितः। प्रिया च रुदती शोकशङ्कुमूढविचेतना ॥ ५१६ ॥ देव्यूचे वत्स ! तेऽभीष्टं साम्मतं करवाणि किम् ? । सोऽप्याऽख्यद् वाजिनं सज्जं कुरु पूज्ये! यशस्विनि ! ५१७ तत्क्षणं प्रगुणीचके देवशक्त्या तया हयः । अचिन्त्यं किल देवीनां शक्तिविस्फूर्तिवैभवम् ॥ ५१८ ॥ देव्यगाद्' मन्दिरं स्वीयं कुमारोऽपि तुरङ्गमम् । अध्यासामास वेगेन प्रियया सह तत्क्षणम् ।। ५१९ ।। इतश्च शङ्खभूपेन सूत्रभृद् विधृतो हठात् । पूर्णेषु षट्सु मासेषु नागते नन्दने सति ॥ ५२० ॥ नृपः प्रगुणयाश्चक्रे सूत्रधारकृते चिताम् । भूभुजो यमवद् रुष्टास्तुष्टा धनदवद् यतः ।। ५२१ ।। रसद्विरसवादित्रमानीतः सचिवान्तिकम् । दृश्यमानो जनैः पौरः पूर्णवाष्पविलोचनः ।। ५२२ ।। यावत् क्षिपन्ति तत्राऽनौ हव्यवत् सूत्रभृद्वरम् । तावद् दृष्टो महीपालनन्दनो व्योम्नि समियः ॥ ५२३ ॥ समुत्तीर्णस्ततो व्योम्नस्तुरगाद् नृपनन्दनः । पौरैरानन्दितो राजा पुत्रागमनशंसिभिः॥ ५२४ ॥ प्रवेशितो महीपेन सूनुः सूत्रभृता सह । रसत्सुस्वरवादित्रं महोत्सवपुरस्सरम् ॥ ५२५ ॥ देशानथ ददौ राजा लोहसूत्रकृतोर्द्वयोः । ।

३३२ मल्लिनाथमहाकाव्ये- प्रसादिता महीपाला न भवन्ति निरर्थकाः ॥ ५२६ ॥ कालक्रमेण पञ्चत्वमापन्ने शहभूभृति । पितुः पदमलञ्चक्रे नीतिविज्ञः कुलध्वजः ॥ ५२७ ॥ पट्टदेवी पदे चक्र राजा भवनमज्जरीम् । अभुत विषयान् वाञ्छाऽनुरूपांश्च तया सह ॥ ५२८ ॥ अन्यदा तत्पुराऽऽयातकेवलज्ञानिसन्निधौ । श्रुत्वा दुष्पारसंसारतारिणी धर्मदेशनाम् ।। ५२९ ॥ प्रबुद्धः कान्तया साकं राज्ये न्यस्य तनूद्भवम् । कुलध्वजमहीपालः प्रव्रज्यां विधिनाऽऽददे ॥ ५३० ॥ ( युग्मम् ) ततःप्रभृति संसारं कारागारमिवात्मनः । भावयन् भावनां सम्यक् भावयामास संयमी ॥५३१॥ यतः- लोला लक्ष्मीः सुखं स्वल्पं परिणामि शरीरकम् । निरुद्यमः किमत्राहमद्य श्वो वा प्रयाणकम् ? ॥ ५३२ ॥ पुनर्जन्म पुनर्मत्युः पुनः क्लेशपरम्परा । अरघट्टघटीन्यायो न कदाचिदनीदृशः ॥ ५३३ ।। मनस्तुरगवद् भ्रास्यत् विशृङ्खलमहर्निशम् । स वशं स्थापयामास विशिष्टज्ञानवलगया ॥ ५३४ ॥ आनिनाय मुनिः शान्ति ज्वरं मनसिजोद्भवम् । सिद्धान्तार्थस्य चूर्णेन न कुर्वन् गुरुलङ्घनम् ॥ ५३५ ॥ कुवासनाघनश्लेष्मा पातितस्तेन लीलया । निरन्तरं शुभध्याननस्यग्रहणयोगतः ॥ ५३६ ।। मायावातं तमःपित्तं मोहश्लेष्माणमुच्चकैः । ज्ञानदर्शनचारित्रौषधौधैरजयन्मुनिः ॥ ५३७ ॥ जगाम मोहनीयाख्या भ्रमिस्तस्य महात्मनः । १ नासिकाया हित नस्यम् , शुभध्यानमेव नस्यमिति समन्विति ।

अष्टमः सर्गः। ३३३ शर्कराकल्पया नित्यं भावद्भावनयाऽनया ।। ५३८ । वशीचकार नित्यं स दुर्द्धराणीन्द्रियाण्यपि । अनल्पेतरसहल्पविकल्पपरिहारतः ॥५३९।। कपायाः शमितास्तेन दुर्जया अपि वैरिवत् । क्षमामभृतिनिःशेपप्रतिपक्षपरिग्रहात् ॥५४०॥ एवं विशुद्धभावस्य कुलध्वजमहामुनः । उत्पेदे केवलज्ञानं क्रमाद् निर्वाणमाप च ||५४१।। इत्युक्त्वाऽऽह जगन्नाथो यशश्चन्द्रमहीपते ! । पाल्यः कुलध्वजेनेव नियमोऽन्यवधूजने ॥५४२॥ यतः - दुर्गाद्या हि मनोवृत्तिः स्त्रीणामुत्कलिकोत्तरा । किं केनाऽपि मिता कापि समुद्रजलपद्धतिः ? ॥ ५४३ ॥ मधुरा कोमलागी वा परस्त्री दुःखदायिनी । किं हिताय भवेत् स्पृष्टा कालकूटस्य कन्दली? ॥ ५४४ ॥ श्रुत्वेति स्वामिनः प्रोक्तं यशश्चन्द्रः क्षमापतिः । पञ्चभी राजपुत्राणां सहस्रैर्वतमग्रहीत् ।। ५४५॥ एवं श्रीमल्लिनाथस्य पृथ्वीं विहरतः सतः। गणभृतोऽष्टाविंशतिरभूवन् भिपगादयः ॥ ५४६ ॥ चत्वारिंशत्सहस्राणि क्षमिणां तत्वधारिणाम् । साम्बीनां पञ्चपञ्चाशत्सहस्राणि तपोजुषाम् ॥ ५४७ ॥ अधिकानि तु पट्पष्टेः पशतानि महात्मनाम् । विज्ञातसर्वतत्त्वानां दिनसप्तकपूर्विणाम् ।। ५४८ ॥ द्वाविंशतिशतान्यऽस्याऽवधिज्ञानविराजिनाम् । केवलज्ञानिनां सङ्ख्या पूर्वोदिता यथास्थिता ॥ ५४९ ॥ एकोनत्रिंशच्छतानि वैक्रियलब्धिकारिणाम् । सप्तदशशतान्यस्य सार्दानि शमभृन्ति च ।। ५५० ॥ १ द्विगुणितसप्तकपूर्विणामित्याशय ।

३३४ मल्लिनाथमहाकाव्ये- मनःपर्यायविज्ञानां धीज्ञातजगतामपि । चतुर्दशशतान्यासन् वादिनां कीर्त्तिशालिनाम् ॥ ५५१ ॥ श्रावकाणां लक्षमेकं सत्र्यऽशीतिसहस्रयुक् । युता सहस्रसप्तत्या श्राविकाणां त्रिलक्ष्यभूत् ॥ ५५२ ॥ ज्ञात्वा निर्वाणकल्याणमासन्नं त्रिजगत्पतिः । संक्रमं सिद्धिसौधस्य समेतगिरिमभ्यगात् ।। ५५३ ॥ संवत्सरशताद् न्यूनं पञ्चपञ्चाशतं प्रभोः । समाः सहस्रान् विहर्तुः परिवारो बसावभूत् ॥ ५५४ ॥ तत्रारुह्य पञ्चशतमहामुनिपरिच्छदः । मासमेकं च स न्यासं कृतवान् परमेश्वरः ॥ ५५५ ॥ फाल्गुनश्वेतद्वादश्यामश्वयुजि निशाकरे । त्रैलोक्यवन्द्यपादाब्जो भव्यलोकप्रबोधकृत् ।। ५५६ ॥ वाग्योगं वादरं सम्यक् मनोयोगं च वादरम् । रुरोध द्वितयं स्वामी सारथिधुर्ययुग्मवत् ।। ५५७ ॥ वादरं काययोगं च सूक्ष्मकायनिरोधनात् । अरौत्सीद् योगिवन्नाथः श्वासप्रश्वासवारणात् ॥ ५५८ ॥ अथ सूक्ष्माङ्गयोगस्थः सूक्ष्मवाचित्तरोषयोः । रोधं स्वामी वितन्वानः सूक्ष्मध्यानरतोऽभवत् ।। ५५९ ।। अथोच्छिन्नक्रियं नाम तुर्य ध्यानमशिश्रियत् । पञ्चहस्वाक्षरोचारप्रमाणं परमेश्वरः ॥ ५६० ॥ क्षीणार्थो विगतकर्मा सिद्धानन्तचतुष्टयः । सर्वक्लेशविनिर्मुक्तः केवलज्ञानदर्शनः ॥ ५६१ ॥ ऊर्ध्वगामी जगन्नाथो लेपाभावादलावुवत् । स्वभावादृजुमार्गेण लोकाग्रमुपजग्मिवान् ॥ ५६२ ।। (युग्गम् ) विनष्टशर्मणां शर्म नारकाणामपि क्षणम् । प्रभोर्निर्वाणकालेऽस्मिन् न पूर्व समजायत ।। ५६३ ॥

अष्टमः सर्गः। ३३५ मुनयोऽपि महासत्वा विहितानशनक्रियाः । सर्वकर्मविनिर्मुक्ता लेभिरे पदमव्ययम् ॥ ५६४ ॥ क्षीराम्भोधिजलैर्गात्रमिन्द्रोऽन्नपयदर्हतः । अङ्गरागेण दिव्येन विलिलेप सुगन्धिना ॥५६५।। परिधाय सिते वस्त्रे शिविकायां विमानवत् । स्वयं न्यधाद् प्रभोदेह वासवः साश्रुलोचनः ॥५६६॥ मूर्ध्नि मालामिवाऽधासीद् धुरि शक्रस्ततोऽथ ताम् । धूपमुद्गाहयामासुः पुरस्तस्या दिवौकसः ॥५६७॥ श्रावकश्राविकोंघेषु शोकः कोकेष्विवाधिकम् । श्रीमल्लिभास्करे प्राप्ते नयनानामगोचरे ॥५६८॥ भणन्त्यो रासकान् देव्यः प्रस्खलन्ति पदे पदे । स्मरन्त्यः स्वामिनः सौम्यान् गुणग्रामाननेकधा ॥५६९॥ खामिनोऽङ्ग चितामध्ये विदधेऽथ पुरन्दरः। अग्नीनग्निकुमाराश्च विचक्रुस्तत्र वेगतः ॥५७०॥ वायुं वायुकुमाराश्च तद्दीपनकृते व्यधुः । गोशीर्षचन्दनैधोभिर्चालयामासुराशु ताम् ॥५७१॥ गन्धधूपान् बहून् प्राज्यघृतकुम्भांश्च नाकिनः । ज्वलन्त्यामथ चित्यायां चिक्षिपुर्बहुमानतः ॥५७२।। मांसादिकेषु दग्धेषु जलैः क्षीरार्णवाहृतैः । स्तनितत्रिदशा विध्यापयामासुश्चितां ततः ॥५७३।। अन्येषामपि साधूनां शरीराणि सुरेश्वराः । प्रतीचीनचितामध्ये निदधुः प्रथमेन्द्रवत् ॥५७४॥ दक्षिणाऽदक्षिणे ऊर्ध्वदंष्ट्र त्रिजगतां पतेः । अगृह्णीतांतरां भक्त्या सौधर्मेशानवासवौ॥५७५॥ शको चमरवलाख्यावधोदंष्ट्रे जिनेशितुः । इन्द्रास्त्वन्ये सुराश्चान्ये दन्तानस्थीनि च स्वयम् ॥५७६॥ प्रभोश्चित्योद्भवं भस्म पुमांसो जगृहुस्ततः .

३३६ मल्लिनाथमहाकाव्ये- पवित्रं वन्द्यमर्यं च सर्वमेवाऽर्हतां शुचि ॥५७७|| चितास्थाने प्रभोः स्तूपमकुर्वत दिवौकसः । नानारत्नमयं रत्नाचलशृङ्गमहोदयम् ।। ५७८ ।। निर्वाणमहिमामेवं कृत्वा मल्लिजिनेशितुः । ययुनन्दीश्वरद्वीपे कर्तुमष्टाह्रिकोत्सवम् ॥५७९|| गत्वा स्वमथ स्थानं तन्माणवस्तम्भमूर्धसु । स्वामिदंष्ट्रां न्यधुः शक्रा भक्तिं मृामिव प्रभोः५८०॥ कौमारव्रतपर्याय आयुर्मल्लिजिनेशितुः । वर्षाणां पञ्चपञ्चाशत् सहस्राण्यभवन् प्रभोः ॥५८१॥ अरनाथस्य निर्वाणाच्छ्रीमल्लिजिननितिः । कोटीसहस्रे वर्षाणां समतिक्रान्तवत्यभूत् ।।५८२।। चरित्रं श्रीमल्ले: श्रवणयुगपीयूषसरसी रसीभूतात्मानो विनयविनता ये भवभृतः । विगाहन्ते सर्व सकलकमलोद्भूतिजनक भवेत् तेषां सत्यं निजनिजमनश्चिन्तितमिदम्।।५८३।। इत्याचार्यश्रीविनयचन्द्रविरचिते श्रीमल्लिखामिचरिते महा- काव्ये विनयाङ्के आस्तिकनृप-चित्रकुम्भ-नरदेवपाल-गो- पाल-यज्ञदत्त-चिलातीपुत्र-चण्डरुद्राचार्यशिष्य-कुलध्व- जमहर्षिकथानकर्मितो निर्वाणव्यावर्णनो नामाष्टमः सर्गः ।

अथ प्रशस्तिः। तमोपहारी सत्तो गच्छश्चन्द्रोऽभवद् भुवि । चित्र न जलधी राग यत्र चक्रे कदाचन ॥ १ ॥ तस्मिन्नभूत गीलगणाभिधानः सूरिः समापूरितभव्यवाञ्छः । यत्पञ्चशाखः किल कल्पवृक्ष- श्छायां नवीनां तनुते जनानाम् ॥ २ ॥ यत्पावं किल देवता त्रिभुवनस्वामिन्युपेता स्वयं पूर्वप्रीतितरगितेव वचसा बद्धैव कष्टेव च । सौभाग्याद्भुतवैभवो भवमहाम्भोराशिकुम्भोद्भवः श्रीमानत्र स मानतुङ्गगणभृन्नन्द्यादविद्यापहः ॥ ३॥ यस्योच्चैः परिपाकपेशलतरां तृप्तिं प्रदत्तेगिनां व्याख्यापर्वणि भारती रसवती लावण्यपुण्या भृशम् । एतद् नूनमजीर्णमप्यविकलं यस्याः सुखं निस्तुपं श्रीमानेष रविप्रभः स विजयी स्तात् सुपकारः परः॥४॥ विविधग्रन्थनिर्माणविरश्चिरुचिरो गुरुः । योऽभूद् रजोगुणो नैव नालीकस्थितिमान् कचित् ॥५॥ श्रीमदैवततुङ्गशैलशिखरे सुध्यानलीनायुषा वायुःकर्मतरुपपातवशतो लेभे गतिस्ताविपी । भव्यत्रातमनःकुरङ्गशमकृत् तत्पभूपाकरो रामः श्रीनरसिंहमूरिरभवत् विद्यात्रीपावनः ॥६॥ नित्यं यः समितौ रतः कलयते सद्गुप्तिशक्तित्रय- सातत्यं व्रतपञ्चवल्लभलसद्गन्धर्वगर्वोधुरः । १ देवी। 1 ( २ ) श्रीमत्पूज्यरविप्रभाविकसत्पदृक्षमालकृतिः साक्षादेष नरेन्द्र एवं जयति श्रीमन्नरेन्द्रप्रभः ॥ ७ ॥ दुर्वारप्रतिवादिविन्ध्यशमकृच्चान्द्रे कुले विश्रुतो देवानन्द इति प्रसिद्धमहिमोद्दामा मुनिग्रामणीः । अष्टव्याकरणाम्बुधीन् निरवधीन् शब्दोमिमालाऽऽकुलान् यः स्वव्याकरणप्रशस्तिचुलुकैश्चित्रं चकारोच्चकैः ।। ८ ।। तच्छिष्योऽजनि जागरूकमहिमा रत्नप्रभाख्यप्रभुः पट्टे श्रीकनकप्रभः प्रतिमया वाचस्पतिमूर्तिमान् । तत्पादाम्बुजचञ्चरीकचरितः प्रद्युम्नमरिर्नव- प्रीतिः श्रीविनयेन्दुना तदखिलं चाशोधयद् बोधये ॥९॥ पूज्यश्रीरत्न (?) सिंहमृरिसुगुरोः श्रीमन्नरेन्द्रप्रभो- रादेशाद् विनयापार्श्वचरितस्रष्टाशया (?) । गच्छोसरविप्रभाभिधगुरोः शिष्योऽल्पमेधा अपि सरिः श्रीविनयेन्दुरेष विदधे मल्लेश्वरित्रं नवम् ॥१०॥ क्षेत्रे भारतनामके जिनपतेर्यावत परं शासन (?) शस्यमिदं वृपव्रजपरीपोषक्षम वर्धते । एतद् नीरदवृन्दसुन्दरतनोः श्रीमल्लितीर्थेशितुः पोहामं रसपूरचारुचरितं तावचिरं नन्दतात् ॥ ११ ॥ ॥ इति प्रशस्तिः॥ १ (?) एतचिह्वाङ्कित यादृशमादर्शपुस्तके समुपलब्धं तादृशमेवाऽत्र न्य. स्तम् , आसीप्लेयं प्रशस्तिरेकस्मिन्नेव पुस्तके ।

No text on this page.

( २ ) - पृष्ठे, पट्क्ती, अशुद्धम् । ९९ २४ -वर्तक्षय- १०० २६ •ननपङ्कज. ११३ १२ सन् उवाच शरणामा- ११७ ९ मुख्वासे- ११९ ६ -र्वाऽसुक- -कमीणा ११० ३ काश्मीरैः १२१ ७ पेठस्तव- १२२ १२ -विडम्बिका १२२ २४ -मभूद् ज- १२३ ९ -तुका- १२४ १९ न्कात् च- १२७ २५ पञ्च रूपो- १२८ ९ चमेरन्द्रो १३२ १७ उच्चावच्चपदै- १३२ १७ वग्लनि- २ भवेद् जिन- १३६ १ वीरीतु- १३६ ६ अभूत् च- शुद्धम् । -वर्ताक्षय- -ननपङ्कजम् सन्नुवाच शरणमा- मुच्छ्वासे- -र्वासुकि- -कम्पृणा काश्मीरै पेठु स्तव- -विडम्वका. मभूज्ज- -तुका- -काच्च- पञ्चरूपो- चमरेन्द्रो उच्चावचपदै- लागि- भवेजिन- वरीतु- अभूच्च- चतु पया चतुष्पा पृष्टार्थ सौविदल्ल- पुर्या स चित्र ९ पृष्टार्थो १४० २१ सौविदल्ला- १४१ २६ पूर्या १४२ १३ सचित्र ६ -घान् ला- रम्भोरुक- १ दम्पतीत्वेन ३ मण्डपे १६५ मञ्चास्त- १६७ २३ नन्वा १७८ १६ निजधर्मवि- -घाला रम्भोरुका दम्पतित्वेन मण्डपम् मञ्चास्त- नत्वा निजधर्मवि- पृष्ठे, पतो, अशुद्धम् । शुद्धम् । समयं १९१ वदन्त वदन्त दोपण २४ दोपणे २०० २०० २०० १० सर्वानाs- १७ देवद्धि- -नमुञ्चत् ९ नृपाड्गरक्षा प्रतिष्ठा २०७ ००८ २५ स्तन्नाम- नल सर्वाना- देवर्द्धिव- नमुचत नृपाझरक्षा प्रतिष्ठा स्तासाम- त्यये रलौघे - चम्पा नाम मरन्मन्त्र -मेतस्या शान्तिक- -ऽभया देवी वन्धुरा स्वत्प्रभावा- कृपाणैनि- चिन्ता ऋडिावापापु हठादन्त पुरे दत्त्वा तन्व्यतो मद्रष्टव्ये- त्वद्भवन श्रेयो नि तेपामायुनुमो दत्त्वा वेश्या गृहं न वा त्याय २१६ ११ रोघे भृ- २१८ चम्पानाम २२१ १९ स्मरन्मत्र २२२ ८ -मतस्या २२४ १८ -प्रान्तिक- २२६ २७ -Sभयादेवी २२७ -बन्धुरा २३० तत्प्रभावा- ૨૨૧ १ कृपाणै नि- २४३ २ चिन्ता २४३ ९ क्रीढावापिपु २४४ हठादन्त पुरे २४६ दत्वा २४६ १४ तन्वतो २४६ २१ अदृष्टव्य- २१६ २३ त्वद्भुवनं २५० २३ श्रेयोनि- २५६ ९ तेपामायुमो २५८ दत्वा २५९ २२ वेश्यागृह २५९ २७ नवा १ ( ४ ) पृष्ठे, पडतो, अशुद्वम् । गुन्हम् । २६३ সাগ प्राणा २६४ तत् २६४ २० अवन्धयद विपीदता २६८ गोणीकै. वृ. . 20 १ २७२ विवेकिना २७३ १६ १६ पुन मू. २७३ २६ -ौग पा- ३ किञ्चिद् २७५ २० सन्यस्तश- ३ सिहाह कौशम्बी २७७ १३ दुर्गाह्य- पयभ्राम्यत् २७८ -मभूत् २७९ १ तस्या २८० १५ केचित् २८० मुखिता २८२ स्याद् २८३ २२ -योनि नि- २८५ २ कास्ति २८७ २६ आगच्छत् २८९ १३ वकाद् २८९ क्रमाद् २९० -पुरस्सर २९१ १२ सुदर्शन २९२ १७ क्वचिद् २९२ २३ चेद् २९३ २ तस्मात् ज- २९३ तत् जीवस्य २९३ १५ वीक्ष्यमाणे मु- २९३ २५ तद् अवन्धयत् विपीढताम् गोणीकै- विवेकिभि पुनर्मू- द्राक् पा- किञ्चित् सन्यस्तश- सिंहाङ्क कौशाम्बी दुर्ग्राह्य पर्यभ्राम्यद मभूद तस्या केचिद मपिता स्यात् -योनिनि- कास्ति आगच्छद् वक्रात् क्रमात् -पुरस्सरम् सुदर्शन वचित् चेत् तस्माज्ज तज्जीवस्य वक्ष्यिमाणैर्मु- -न ?

५ ) शुद्धम् । दत्वा वीक्षन्ते गोपालाश्च- देवपालो प्रमोदभाग सर्वेषा चिन्ता प्रति पृथिवीभुज. प्राप्ता पु. दिष्ट्या सबन्ध वस्त्रागमलं पृष्ठे, पक्ती, अशुद्धम् । २९५ २२ दत्वा २९८ २२ वीक्ष्यन्ते गोपाल चि- ८ देवपाल १२ प्रमोदभाक् ३०४ १२ सर्वे- ३०४ चिन्ता २७ प्रति ३०७ २ पृथ्वीभुज, ३०७ प्राप्ता मु. ३०८ १६ दिष्टया ३ सबन्ध वनाङ्गमलम् ३१२ धन ३१४ २४ आवालं ३१५ रभूत् ३२५ ६ श्रोत्रापेय ३२५ २३ २३ तूणींशालो ३२५ २३ -ऽभबद् ३२६ ३२६ १८ -पुररक्षकैर्नर ३२७ ८ -बिन्दुभृकुटी- ३२८ २७ तत्राधिरोद्यतां ३३० मणिनाम्ना ३३० २० धिग ३३२ १८ भ्राम्यत् ११ दुर्गाद्या ३३४ १३ सम्यक् २५ युग्गम् ६ न्यधाद् धनम् आबाल तावद् चे- -रभूद् श्रोत्राऽऽपेय. तूणींशीलो -ऽभवत् तावच्चे- -पुररक्षकैर्नरै -बिन्दुभृकुटि- तत्राधिरोह्य तां मणिर्नाम्ना धिक् भ्राम्यद् दुग्राह्या सम्यह युग्मम् न्यधात्

The Mallinatha Charitra Of Shree Vinaya Chandra Suri

Author
Pandiit Shravak Hargovind Dass
Title
The Mallinatha Charitra Of Shree Vinaya Chandra Suri
File name
The Mallinatha Charitra Of Shree Vinaya Chandra Suri
Text
OCR done
Published
2010/04
Publisher
Maktaba Urdu Printing Prees Lahor
Language
Sanskrit
Pages
354
Library
Central Library, University Of Rajasthan
DLI number
327755
Barcode
99999990003335.00
Scanning centre
Banasthali University
Digital publisher
Digital Library of India
VMLT id
X6torEaIWc0
Download PDF

The Mallinatha Charitra Of Shree Vinaya Chandra Suri