Svclrc

Siddantha Sidda Gnanam

Anantha Charya. M

PDF Proofread

Front matter

unisiacterriberia ननु-त स्वीकर्तव | ॥ श्रीः ।। चान सिद्धान्तसिद्धाञ्जनम्. श्रीयादवाद्रिनिलयं श्रितकल्पवृक्ष नारायणं निखिललोकनिदानभूतम् । निस्सीमनिर्मलगुणं निरवद्यरूपं नित्यं नमामि शिरसा सकलार्थसिद्धय । जयन्तु श्रीमन्तः श्रु तिशिखरसारस्यमधुराः सुधासध्रीचीनाः कुटिलमतकोलाहलमुषः । स्फुरधु क्त्यासक्त्या द्रु हिणरमणीश्लाघ्यविभवा: यतिक्षोणीभर्तुनिरुपमवचोगुम्भविसराः ।। शेषार्यवंशाम्बुधिशीतरश्मिस्सुधीरनन्तार्य इति प्रतीतः । सिद्धान्तसिद्धाञ्जननामधेयं प्रबन्धमेनं प्रकटीकरोति ॥ येऽर्था दुर्बोधतां प्राप्ता गम्भीराचार्यसूक्तिषु । तादृशार्थप्रकटनात्सफलोऽयं श्रमो मम ।। ' चिदचिदीश्वरतत्त्वज्ञानसहकृतभगवदुपासनस्य मोक्षहेतुतया दृशतत्त्वज्ञानार्थं प्रमेयं निरूप्यते ॥ 223709 ज्ञेयत्वं प्रमेयसामान्यलक्षणम्। ज्ञेयत्वं च विषयतासम्बन्धेन नमेव ; तेन विषयत्वमात्रस्यैव लक्षणत्वसम्भवात्तत्र ज्ञान- नरूपितत्वं व्यर्थमिति शङ्काऽनवकाशः ॥ यद्यपि-सिद्धान्ते.

२ ] सिद्धान्तसिद्धञ्जनम्. ज्ञानस्य द्रव्यतया विषयतायाश्च संयोगरूपतया ज्ञानवत्त्वं लक्षणं पर्यवसन्नमित्यद्रव्येऽव्याप्तिः । तथ संयोगेन संयोगसंयुक्तापृथक्सिद्धयोईयोरेव विषयतात्वस्य वक्ष्य माऽपि- तया अद्रव्ये संयुक्तापृथक्सिद्धिरूपविषयतासम्बन्धेन ज्ञानस्याण- सत्त्वान्नाव्याप्तिः ।। SHIRD तच प्रमेयं द्विविधं-द्रव्याद्रव्यभेदात् । तत्रावस्थावत्त्वं द्रव्य- लक्षणं, तदन्यत्वं चाद्रव्यलक्षणं बोध्यम् । ईश्वरादावपि 'नित्यं विभुं सर्वगतं सुसूक्ष्मम्'-इत्यादिश्रु त्या सर्वसंयुक्तत्वरूपसर्वग- तत्वप्रतिपादनेनानवरतपरिस्पन्दमानाणुसंयोगरूपावस्थावत्त्व- स्य सत्त्वान्नाव्याप्तिः; आगन्तुकापृथक्सिद्धधर्मस्यैवावस्थाशब्दा- र्थत्वात् । न चैवं-निर्विकारत्वश्रु तिविरोधः, स्वभिन्नत्वस्व- सामानाधिकरण्योभयसम्बन्धेन परिमाणविशिष्टपरिमाण- रूपस्य सङ्कोचविकासादिरूपावस्थाद्वयवत्त्वस्यैव निर्विकारत्व- श्रु तिघटकविकारशब्दार्थत्वेनाविरोधात् ॥ अत एव-न च पर्यायादप्यविरोधो विकारादिभ्यः-इति सूत्र सङ्कोचविकास- वत्त्वरूपावस्थाद्वयाङ्गीकार एव विकारित्वमापादितं, न तु शरीरसंयोगादिरूपावस्थावत्व इति स्फुटीभविष्यति चेदमु- परिष्टात् ॥ द्रव्यां द्विविधं-जडमजडं चेति । जडत्वं चास्वप्रकाशत्वं, स्वनिरूपितविषयतावत्त्वतादात्म्योभयसम्बन्धेन किञ्चिद्विशि- ष्टान्यत्वम् । उक्तोभयसम्बन्धेन किञ्चिद्विशिष्टत्वरूपस्वप्र- काशत्वं चाजडत्वम् । तत्र जडं प्रकृतिकालभेदाद्विविधम्, अजडं तु जीवेश्वरनित्यविभूतिधर्मभूतज्ञानभेदाच्चतुर्विध- मिति-द्रव्याणि षट् ॥

सिद्धान्तसिद्धाञ्जनम्. ननु-तत्तद्विषयकव्यवहारनिर्वाहार्थं तत्तद्विषयकज्ञानस्य स्वीकर्तव्यतया ज्ञानगोचरव्यवहारस्य ज्ञानान्तरेण निर्वाह चानवस्थापत्त्या धर्मभूतज्ञानस्य स्वप्रकाशत्वाङ्गीकारस्य युक्त- त्वेऽपि जीवादीनां स्वप्रकाशत्वमयुक्तम् । तथा हि-जीवानां स्वस्वगोचरव्यवहारस्य स्वविषयकस्वापृथक्सिद्धसाक्षात्कार- रूपधर्मभूतज्ञानेनैव निर्वाहात् जीवान्तरविषयकव्यवहारस्य च तद्विषयकप्रवृत्त्यादिलिङ्गकानुमित्यादिरूपज्ञानेनैव निर्वाहात्स्व- प्रकाशत्वाङ्गीकारो व्यर्थः । तदङ्गीकारेऽपि जीवस्य स्वगोचर- धर्मभूतज्ञानेन विना स्वव्यवहारानिर्वाहाच्च । स्वानुकूलकृति- मत्त्वसम्बन्धेन बुबोधयिषापूर्वकतत्तद्विषयकव्यवहार प्रति तत्त- द्विषयकज्ञानस्य अपृथक्सिद्धिसम्बन्धेन हेतुत्वेन स्वस्य स्व- विषयकत्वेऽप्यात्मन्यपृथक्सि द्धिसम्बन्धेन अभावेन तद्वयवहार- हेतुत्वासम्भवात् । शुकादिव्यवहारे व्यभिचारवारणाय बुबोध- यिषापूर्वकेति । एवमीश्वरगोचरास्मदादिकर्तृ कव्यवहारे शास्त्रादिजन्येश्वरज्ञानस्य हेतुतया ईश्वरकर्तृ कस्वगोचर व्यवहारे तद्गतधर्मभूतज्ञानस्यैव हेतुत्वात्स्वप्रकाशत्वकल्पनम- फलम्; स्वस्य स्वस्मिन्नपृथक्सिद्धिसम्बन्धेनाभावाच्च । एवं नित्यविभूतेरपि तत्कल्पनमफलं, नित्यमुक्तादिकर्तृ कतद्गोचर- व्यवहारस्य तदीयधर्मभूतज्ञानेनैव निर्वाहात्, बद्धकर्तृकव्यव- हारस्य च शास्त्रजन्यज्ञानेन निर्वाहात्-ईति चेन्न । घटचाक्षु- पादौ रूपादिशून्यस्यात्मनो भानासम्भवेन तद्दशायामपि स्वगोचरव्यवहारस्य अनुभवसिद्धस्य निर्वाहायात्मनस्स्वविषय- कत्वस्य स्वानुकूलकृतिमत्त्वसम्बन्धेन तद्विषयकव्यवहारं प्रति तादात्म्यापृथसिद्धयन्यतरसम्बन्धेन कारणत्वस्य च कल्प- नात् । अनुमितौ परामर्शाविषयस्य शाब्दबोधे पदानुपस्थितस्य ४ ] सिद्धान्तसिद्धाञ्जनम्. च भानासम्भवेन तद्दशायामपि तद्वयवहारनिर्वाहार्थं स्व- प्रकाशत्वावश्यकत्वात् । एवं सुखमहमस्वाप्समिति सुषुप्त्यु- त्तरकालीनप्रत्यभिज्ञानिहाय सुषुप्तिकाले आत्मानुभवस्य वक्तव्यतया तद्दशायां च धर्मभूतज्ञानस्य इतरविषयकत्वा- सम्भवेन स्वप्रकाशात्मकानुभवस्यैव तादृशप्रत्यभिज्ञाहेतुभूत- संस्कारजनकताया अङ्गीकार्यत्वात्, आत्मनः स्वप्रकाशत्वाव- श्यकत्वात् । समानविषयकसंस्कारं प्रति तादात्म्यापृथसिद्धय- न्यतरसम्बन्धेन अनुभवस्य कारणत्वेन स्वरूपात्मकानुभव- स्यापि संस्कारजनकतासम्भवात् । व्यवस्थापयिष्यते चेदमग्रे ।। ईश्वरनित्यविभूत्योश्च प्रमाणबलात्स्वप्रकाशत्व मङ्गीक्रियते । ईश्वरस्वरूपात्मकानुभवस्येश्वरकर्तृकव्यवहारे तादात्म्येन हेतु- त्वसम्भवात्, नित्यविभूतेरपि नित्यमुक्तादिकर्तृ के स्वगोचर- व्यवहारे अपृथक्सिद्धिसम्बन्धेन हेतुतासम्भवात्, शरीरात्मना परिणतायास्तस्या नित्यमुक्तादिष्वपृथक्सिद्धिसम्बन्वेन सत्त्वात् । प्रपञ्चयिष्यते चेदं यथावस रमिति दिक् ।। एवं जीवेश्वरयोः प्रत्यक्त्वं नित्यविभूतिधर्मभूतज्ञानयोश्च पराक्त्वं साधारणधर्मः । तत्र प्रत्यक्त्वं स्वस्मै स्वेनावभास- सानत्वम्॥ ननु-अत्र स्वस्मा इति चतुर्थ्यन्तार्थः स्वकर्तृ कव्यवहारजनक- तावच्छेदकत्वं यदि, तदा अहमेक इत्यादिस्वकर्तृकव्यवहार- जनकतावच्छेदिकाया एकत्वप्नकारतानिरूपिताहन्त्वावच्छिन्न- विशेष्यतायाः स्वनिरूपिताया: मानुषादिशरीरावच्छिन्नात्मनि सत्त्वेऽपि पश्चादिशरीरावच्छिन्नात्मन्यव्याप्तिः । यदि स्वनिष्ठ- संशयप्रतिबन्धकतावच्छेदकत्वं, तदा असम्भवः ; अहमेको न वेत्यादिसंशयं प्रत्यपृथक्सिद्धिसम्बन्धेन तत्समानाधिकरणनि- सिद्धान्तसिद्धाञ्जनम्. [ ५ श्चयस्यैव प्रतिबन्धकत्वात् । अपृथक्सिद्धितादात्म्यान्यतर- सम्बन्धेन तत्समानाधिकरणनिश्वयस्य प्रतिबन्धकत्वाङ्गीकारे- ऽप्यसम्भवः ; स्वनिष्ठस्य स्वविशेष्यकैकत्वादिसंशयस्याप्र- सिद्धेः । स्वनिष्ठो यस्संशयानुत्पादः तत्प्रयोजकत्वं चतुर्थ्य- न्तार्थ इत्यपि न युक्तम्, संशयानुत्पादस्य तादृशसंशयप्रागभाव- रूपस्य स्वनिष्ठत्वासम्भवात्, यत्र तादृशसंशयो जायते तत्रैव तत्प्रागभावाभ्युपगमात्-इति चेन्न । स्वकर्तृकव्यवहारजनक- तावच्छेदकत्वस्य तदर्थत्वेऽपि पश्चाद्यवच्छिन्नात्मन्यव्याप्तच- सम्भवात्, तादृशात्मन एव मनुष्यादिशरीरावच्छिन्नत्व- सम्भवेन स्वकर्तृकव्यवहारप्रसिद्धेः । स्वनिष्ठसंशयाभावप्रयो- जकत्वस्य तदर्थत्वेऽप्यदोषात्, संशयप्रागभावस्य स्वनिष्ठत्वा- सम्भवेऽपि तदत्यन्ताभावस्य तन्निष्ठत्वसम्भवात् । न चैवं- धर्मभूतज्ञानस्य प्रत्यक्त्वापत्तिः, अधिकरणभेदेनाभावभेदानु- पगमे तादृशज्ञाननिष्ठस्वनिरूपितविषयत्वस्यात्मनिष्ठसंशया- भावप्रयोजकस्य स्वनिष्ठसंशयाभावप्रयोजकत्वानपायात्-इति वाच्यम् । स्वनिष्ठसंशयाभावाधिकरणताप्रयोजकत्वस्य निवे- शात्, आधेयाभेदेऽपि अधिकरणभेदेन अधिकरणताया भेदात्, सिद्धान्ते अभावस्याधिकरणवृत्तिधर्मरूपत्वेनाधिकरणभेदेन भेदाच्च । स्वसामानाधिकरण्यस्वप्रयोजकत्वोभयसम्बन्धेन) संशयाभावविशिष्टस्वनिरूपितविषयतावत्त्वं' प्रत्यक्त्वमिति) निष्कर्षः । प्रथमस्वपदद्वयं संशया भावपरम् । चरमस्वपदं च यत्र प्रत्यक्त्वं स्थाप्यं तत्परम् ।। एतदन्यत्वे सति स्वप्रकाश- त्वम् पराक्त्वमवसेयम् ॥ अद्रव्यं तु दशधा-सत्त्वरजस्तमोरूपरसगन्धस्पर्शशब्दसंयोग- शक्तिभेदात् ॥

६ ] सिद्धान्तसिद्धाञ्जनम्. द्रव्याद्रव्यभेदभिन्नं प्रमेयं स्थिरमेव, क्षणभङ्गे प्रमाणाभा- वात् । न च-जगत्क्षणिक सत्त्वादित्यनुमानेन तत्सिद्धिरिति- वाच्यम् ; क्षणिकत्वस्य स्वाधिकरणक्षणध्वंसाधिकरणक्षण- वृत्तिध्वंसप्रतियोगित्वरूपत्वे सिद्धसाधनस्यार्थान्तरस्य वा प्रसङ्गात् । स्ववृत्तित्वस्वभिन्नक्षणावृत्तित्वोभयसम्बन्धेन क्षणविशिष्टत्वरूपत्वे च साध्याप्रसिद्धिः, एकक्षणमात्रवृत्ति- वस्तुनोऽस्माभिरनङ्गीकारात्, क्षणोपाधे: क्रियारूपत्वे काल- द्रव्यपरिमाणामरूपत्वेऽपि वा क्षण मात्रवृत्तित्वानभ्युपगमात् ।। न च-क्षेत्रस्थबीजादक रोत्पत्तिः कुसूलस्थबीजान्नेत्यङ्क रजन- नसामर्थ्यासामर्थ्य रूपविरुद्धधर्माध्यासेन तादृशबीजयोर्भेदसिद्धौ तत्रैव क्षणिकत्वरूपसाध्यप्रसिद्धिरिति-वाच्यम् । तावताप्य- ङ्क रमकुर्वाणस्य कुसूलस्थबीजस्य क्षणिकत्वासिद्धेः,तादृशस्या- ङ्क रजन्मपूर्वतृतीयक्षणपर्यन्तावस्थाने बाधकाभावात् ।। न च- अङ्क,रकारिबीजजननसमर्थात् तृतीयक्षणस्थबीजात्तदसमर्थ- चतुर्थक्षणस्थबीजस्य भेदः, एवं तृतीयक्षणस्थबीजजननसमर्था- चतुर्थक्षणस्थवीजात्तदसमर्थपञ्चमक्षणस्थबीजस्य भेद इत्यादि- रीत्या कुसूलस्थबीजपर्यन्तं भेदसिद्ध या क्षणिकत्वसिद्धिरिति- वाच्यम् । सामर्थ्यासामर्थ्यशब्देन स्वरूपयोग्यत्वतदभावयो- विवक्षणे कुसूलस्थवीजे असामर्थ्यासिद्धिः, तस्यापि बीजत्वे- नाङ्करोत्पत्तिस्वरूपयोग्यत्वात्, सहकारिसमवधानासमवधा- नयोविवक्षणे च तयोरेकस्मिन्नपि काल भेदेन समावेशसम्भवेन तयोविरोधासिद्धया स्वाश्रयभेदकत्वासम्भवात् ।। नच-उक्तोभयसम्बन्धेन क्षणविशिष्टत्वस्य साध्यता न स्वीक्रियते, येनोक्तदोषः स्यात्, किन्तु स्वाधिकरणसमयप्रागभावाधिकरण- (टि) स्ववृत्तित्वस्वभिन्नक्षणावृत्तित्वोभयेत्यर्थः ।। --- सिद्धान्तसिद्धाञ्जनम्. [ ७ अतः क्षणानुत्पत्तिकत्वे सति कादाचित्कत्वमेव साध्यम्, तच्च प्रागभावे प्रसिद्धमिति न साध्याप्रसिद्धिः । अत्र कादाचित्कत्वानिवेशे उत्प- त्तिरहितनित्यवस्तुन्यात्मादौ अंशतस्सिद्धसाधनं स्यात् । अवच्छे- दकावच्छेदेन साध्यसिद्धेरुद्देश्यतया तस्यादोषत्वेऽप्यर्थान्तरम् । आत्मादेनित्यत्वेऽप्युत्पत्तिविरहेणैवोक्तसाध्य निर्वाहात् । कादाचित्कत्वरूपविशेष्यदलम्-इति वाच्यम् ॥ तन्मते अभा- वमात्रस्य तुच्छत्वेन कालसम्बन्धित्वासम्भवेन स्वाधिकरण- क्षणप्रागभावाधिकरणक्षणाप्रसिद्धया साध्याप्रसिद्धरेवमपि दुरित्वात् ।। न च-सौगतमते अभावस्य तुच्छत्वेऽपि तस्य कालसम्बन्धोऽस्त्येव । किन्त्वर्थक्रियाकारित्वरूपसत्त्वमेव नेति न साध्याप्रसिद्धिरिति-वाच्यम् । एवमप्यर्थान्तरस्य दुर्वार- त्वात्, आत्मादेर्महाप्रलयमात्रासत्त्वाङ्गीकारेणैव तस्य कादा- चित्कत्वनिर्वाहात् ।। न च कादाचित्कत्वस्थाने उत्पत्तिमत्त्वनि- वेशान्नोक्तार्थान्तरम्, साध्यप्रसिद्धिस्तु नैयायिकादिमते महा- जलयात्मकचरमध्वंस एव, तत्र चरमध्वंसाधिकरणक्षणश्वरम- ध्वंसात्मक एवेति तत्प्रागभावाधिकरणक्षणानुत्पत्तिकत्वस्य तादृशचरमध्वंसात्मकक्षणोत्पत्तिकत्वस्य च सत्त्वात्; चरमध्वं- ससाधारणं क्षणत्वं च स्वाधेयपदार्थप्रागभावान धिकरणत्व- मिति-वाच्यम् । तथापि साध्याप्रसिद्धेः, स्वाधिकरणसमय- ध्वंसानधिकरणसमयसम्बन्धरूपोत्पत्तिमत्त्वस्य चरमध्वंसे अभावात्, स्वाधिकरणसमयस्य महाकालरूपस्य वा ध्वंसरूप- स्य वा ध्वंसाप्रसिद्धेः ।। न च-स्वाधिकरणक्षणावृत्तिप्रागभाव- प्रतियोगिक्षणसम्बन्ध एवोत्पत्तिरिति महाप्रलयेऽपि तादृशो- त्पत्तिसत्त्वान्नाप्रसिद्धिरिति-वाच्यम् । उक्तरीत्या नैयायिकमते कथञ्चित्साध्यप्रसिद्धावपि सत्त्वरूपसाधनवति दृष्टान्ते साध्यस्याप्रसिद्धचा व्याप्तिग्रहासम्भवात्, केवलव्यतिरेकिण- .. ८ ] सिद्धान्तसिद्धाञ्जनम्. रेकिणश्चाग्रे निरसिष्यमाणत्वात् । सिद्धान्ते त्वनादेः प्रागभावस्य नैयायिकाद्यभिमतमहाप्रलयस्य चानङ्गीकारेण साध्याप्रसिद्धि- दुष्परिहरैव । सोऽयं घट इत्यादिप्रत्यभिज्ञाबाधितञ्च दमनु- मानमित्यन्यत्र विस्तरः ॥ इदानीमुद्देशक्रमानुसारेण प्रकृतिनि- रूप्यते ॥ कालभिन्नत्वे सति जडत्वं प्रकृतेर्लक्षणम् । काले- ऽतिव्याप्तिवारणाय सत्यन्तम्, जीवादिवारणाय विशेष्यम् ।। रजोगुणवत्त्वं तमोगुणवत्त्वं च तल्लक्षणम्; सत्त्ववत्त्वं तु न ल- क्षणम्, शुद्धसत्त्वाश्रयनित्यविभूतावतिव्याप्तः ॥ एवं नित्यवि- भूतित्वसमानाधिकरणभेदप्रतियोगितानिरूपितसंयोगसम्बन्धा- वछिन्नावच्छेदकताश्रयत्वे सति तद्भिन्नद्रव्यत्वसमानाधिकरण भेद प्रतियोगितानिरूपितसंयोगसम्बन्धावच्छिन्नावच्छेद- कताशून्यत्वमपि तल्लक्षणम् ।। तदनन्तमसङ्ख्यातमप्रमाणञ्च- इति वचनेन प्रकृतेरध:प्रदेशेषु अपरिच्छिन्नत्वस्य नित्यविभूतेः तमःपरत्वश्रुत्या तद्देशे परिच्छिन्नत्वस्य च प्रमितत्वाल्लक्षणस- ङ्गतिः ।। कालादिरूपविभुद्रव्यवारणाय सत्यन्तम्, जीवादि- रूपाणुवारणाय विशेष्यम् ॥ तद्भिन्नद्रव्ये तदनवच्छिन्नत्वमपि निवेश्यम्, तेन नित्यविभूतिस्थजीवादिषु संयोगेन प्रकृतिम:- दसत्त्वेऽपि न क्षतिः ॥ न च-प्रकृतेस्सर्वत्रावस्थाने गतिमतां गतिनिरोधापत्तिरिति गतियोग्यप्रदेशेप्वनवस्थानं स्वीकर्तव्य- मित्युक्तलक्षणाव्याप्तिरिति-वाच्यम् । प्रकृतेः स्पर्शरहितत्वेन गतिनिरोधकताविरहेणाधोदेशे सर्वत्रावस्थाने बाधकाभावात् ।। सा च प्रकृतिस्सृष्टिकाले गुणवैषम्ययुक्तप्रदेश विशेषे महदादी- विषमविकारानारभते ; गुणसाम्ययुक्ते च समान्विकाराना- भते; प्रकृतिस्वरूपस्य सततविकारलक्षणत्वात् प्रलयकाले च सर्वत्र समा एव विकारा भवन्ति । न च-प्रलयत्वव्याधातः, विषमविकारराहित्यस्यैव प्रलयपदार्थत्वात् ।।

सिद्धान्तसिद्धाञ्जनम्. m [६ पूर्वावस्थोपमईकावस्थाभेदात्मा चतुविशतिधा-मूल प्रकृति- महानहङ्कार इन्द्रियाण्येकादश पञ्च तन्मात्राणि पञ्च भूतानि चेति ॥ जानु-एषा प्रकृतिनिरंशा सांशा वा ! • आधे-अनेकतत्त्वात्मना परिणामानुपपत्तिः, निरंशस्यैकस्या- नेकरू पेग परिणामासम्भवात्, मृत्पिण्डादेस्सावयवस्यैव घट- शरावादिरूपेण बहुधा परिणामदर्शनात् ।। न च-स्वभावतो भिरंशस्यापि प्रधानस्यौपाधिकांशसम्भवाद्विविधकार्योत्पादक- त्वसम्भवः; नैयायिकनये स्वभावतो निरंशस्यापि गगनस्य भेयं वच्छिन्नांशे तीव्रशब्दजनकत्वं, मृदङ्गाद्यवच्छिन्नांशे मृदु- शब्दजनकत्वमित्यौपाधिकांशभेदस्यापि कार्यवैलक्षण्यनिर्वाह- कत्वदर्शनादिति-वाच्या । तोत्रमन्दशब्दोत्पादकतावच्छेदक- भोरीमृदङ्गादिवत् महदहङ्काराद्युत्पादकतावच्छेद कानांत्रयो विशत्युपाधीनामदर्शना- औपाधिकांशासम्भवात्, प्रधानस्य स्वभावतो निरंशत्वे पृथिवीत्वाद्यवस्थापन्नस्यापि तस्य छेदनाद्यनुपपत्तेः । औपाधिकभेदाभेदवादिनं प्रति भाष्ये उपाधिसंसर्गादपि निरंशस्य ब्रह्मणः छेदनाद्यनुपपत्तेरुक्त- त्वात् ॥ द्वितीये तु-महदादिकार्याणामेकोपादानवादभङ्गः; तत्तदंशा- नामेव तत्तत्कार्योत्पादकत्वेन बहूनामेव बहुकार्योत्पादकत्वात् । तादृशांशेषु प्रधानत्वरूपैकधर्माङ्गीकारस्य विफलत्वात् । परमाण कारणवादादविशेषप्रसङ्गश्च ।। तथा च तादृशांशानां परस्परसंयुक्तानामेव महदाधुत्पादकत्वस्य वाच्यतया तादृशां- शानां कृत्स्नसंयोगे स्वाधिकपरिमाणद्रव्यारम्भकत्वासम्भवः, एकदेशसंयोगे चांशस्याप्येकदेशाङ्गीकारेणानवस्थेत्यादिरूपस्य १० ] सिद्धान्तसिद्धाञ्जनम्. 'महद्दीर्घवद्वा ह स्वपरिमण्डलाभ्याम्' इति सूत्रोक्तस्य परमाणु- कारणवाददूषणस्य स्वमतेऽपि दुरिता ।। -इति चेन्न ॥ अत्र महानुत्पद्यतां, अत्राहकार उत्पद्यतां-इत्यादिरूपाणां त्रयोविंशतिभगवत्सङ्कल्पानामेव त्रयोविंशतितत्त्वोत्पादकताव- च्छेद फत्वसम्भवेनौपाधिकांशवादे दोषाभावात्; भेर्यादिवद्भग- वत्सङ्कल्पस्यापि द्रव्यत्वेन प्रधानसंयुक्ततया प्रधानप्रदेशावच्छे- दकत्वसम्भवात् ।। न च-भगवत्सङ्कल्पसंयोगोऽपि प्रधाने किमेकदेशावच्छेदेन कृत्स्नावच्छेदेन वेति विकल्पो दुर्निवार इति-बाच्य न् । भेरीसंयोगेऽपि तादृशविकल्पसाम्यात् । न च- भेरोसंयोगः स्वावयवावच्छेदेन गगने सम्भवतीति-वाच्यम्; तथाऽपि परमाणुगगनसंयोगे उक्तविकल्पस्य दुर्वारत्वात् ।। न च-अणुसंयोगावच्छिन्नगगन एवाणुसंयोगो जायते, आत्मा- श्रयस्त्वगत्या स्वीक्रियते; अत एव बौद्धाधिकारे शिरोमणिना बटाभावस्य स्ववृत्तित्वस्वीकारे आत्माश्रये इष्टापत्तिरभि- हितेति-वाच्यम् । प्रकृतेऽपि तत्तद्भगवत्सङ्कल्पसंयुक्तप्रधान तत्तद्भगवत्सङ्कल्पसंयोगोत्पत्तिस्वीकारसम्भवादगत्या आत्माश्रयस्यादोषत्वात् ।। व उक्त च न्यायसिद्धाञ्जने- "प्रदेशवृत्तिसंयोगाद्याधाराणुविभुक्रमात् । निरंशस्यापि घटते प्रादेशिकविकारिता ।।" इति । यथा अव्याप्यवृत्ति योगादिगंगनादौ निरंशेऽपि प्रदेशभेदेनो- त्पद्यते, तथा महदादिकमपि निरंशे प्रधाने उत्पद्यत इत्यर्थः । न च छेदनाद्यनुपपत्तिः, पृथिवीत्वाद्यवस्थापन्नस्य तस्य' छेद जडपरिच्छेदः [ ११ नाद्यङ्गीकारे बाधकाभावात् । न च भाष्यविरोधः, ब्रह्म- स्वरूपस्य निष्कलत्वाच्छेद्यत्वादिवचनविरोधेन छेदनाद्यसम्भवे तद्भाष्यतात्पर्यात्; अन्यथा ब्रह्मस्वरूप एव सविकारत्वापत्तौ निर्विकारत्वश्रुतेनिरवकाशत्वप्रसङ्गात् । ब्रह्मणस्सर्वज्ञत्वेन सर्वांशगतसुखदुःखादिप्रतिसन्धानप्रसङ्गस्यापि दुष्परिहर- त्वात् । प्रधानस्य च पृथिवीत्वाद्यवस्थापन्नस्य छेदनाद्यङ्गी- कारे प्रमाणविरोधस्य बाधकयुक्त श्चाभावात् ।। अत एव तत्त्वमुक्ताकलापे अव्यक्तप्रतिबन्दी पुरस्कृत्य प्रवृत्ते ब्रह्मपरिणामवादे ब्रह्मणस्स्वस्मिन् जीवभावेन दुर्विषहदुःखाधु- त्पादनानुपपत्तिरेव दोष उक्तः ।। "अव्यक्त त्वन्मतेऽपि ह्यनवयवमथाप्येतदंशा विकाराः ते चान्योन्यं विचित्राः पुनरपि विलयं तत्र तत्त्वेन यान्ति । इत्थं ब्रह्मापि जीवः परिणमति विहृत्यर्थमित्यप्यसारं स्वानर्थंकप्रवृत्तेःप्र सजति च तदासर्वशास्त्रोपघातः ।।-इति।। प्रधानस्य स्वाभाविकानन्तांशाङ्गीकारपक्षोऽपि निर्दुष्टः । न च-तत्कल्पे तदंशैरेव कार्यारम्भनिर्वाहात्तावदंशेषु प्रधानत्व- रूपैकावस्थाङ्गीकारो विफल इति-वाच्यम् । तद्धेदं तद्य व्या- कृतमासोत्', 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं', 'तदैक्षत बहु स्याम्'-इत्यादिकारणबोधकश्रुतावेकत्वावस्थायाः प्रति- पन्नत्वेन तन्निर्वाहाय प्रधानत्वरूपैकावस्थाङ्गीकारस्य युक्त- त्वात् । न चैवं-प्रधानस्य परमाणुपुञ्जमात्रत्वे पर्यवसानेन नैयायिकमतप्रवेश इति-वाच्यम् । गन्धरसरूपस्पर्शादिरहित- परस्पराप्रतिघातकसत्त्वरजस्तमोरूपगुणत्रयाश्रयपरस्परसंयुक्त- पञ्चभूतसूक्ष्मतमद्रव्यरूपत्वेन “शब्दस्पर्शविहीनं तद्पादिभि- रसंयुतम् । त्रिगुणं तज्जगद्योनिः' इत्यादिप्रमाणसिद्धे प्रधाने १२ ] सिद्धान्तसिद्धाञ्जनम्. परमाणु स्वभावगन्धाभावात्, जालक रन्ध्रनिर्गत सौरालोक- दृश्यमानत्रसरेणुशब्दवाच्यद्रव्यातिरिक्तपरमाणु कल्पने प्रमा- णाभावाच ॥ न वै तत्कल्पे महद्दीचवद्वे-त्यादिसूत्रोक्तदोषप्र- सङ्गः, अनुमानादिभिः कल्पितार्थ एव तादृशदोषस्योक्तत्वात्; श्रुतिप्रतिपन्नार्थे तादृशदोषस्याप्रसरात्, अन्यथा माध्यामिका- तिरिक्तम तसामान्ये तादृश दोषप्रसङ्गात्, अगुसंयोगे विभुसंयोगे जानशेयसम्वन्धे जातिव्यक्तिसम्बन्धे कृत्स्नैकदेशविकल्पस्य दुर्वारत्वात् ।। विभुरीश्वरो घटादिभिरेकदेशेन संयुज्यते, सर्वा- त्मना वा ! एकदेशेन संयोगे तस्य सावयवत्वप्रसङ्गः । सर्वा- त्मना संयोगे च घटासंयुक्तप्रदेशस्यैवाभावेनेश्वरस्य पटादि- संयोगानुपपत्त्या विभुत्वानुपपत्तिरित्यादिदोषाणां तत्तत्पशेषु सम्भवात् । तस्मात् श्रुतिप्रतिपन्नार्थे नोक्तरीत्या दोषसम्भवः । अत एव-बहु स्यामिति सङ्कल्पानुरोधेनाकाशवाय्वादिरूपेण ब्रह्मणः कार्यत्वाभ्युपगमे कृत्स्नस्य ब्रह्मणः कार्यत्वापत्तिः, एकदेशतः कार्यवाभ्युपगमे च ब्रह्म गो. निरवयवत्वश्रुतिवि- रोधःइत्याशङ्कां कृत्स्नप्रसलिनिरवयवत्वशब्दकोपो वा-इत्य- नेनोपन्यस्य · श्रुतिप्रतिमन्नार्थ ईदृशशङ्का न ; युक्त त्यभिप्रायक्तं श्रुतेस्तु शब्दमूलत्वाः इति परिहारसूत्रमारचितम् ।। तथा च-प्रधानस्यौपाधिकांशवत्त्वे स्वाभाविकांशत्त्वे वा बाधक- विरहान्महदादिविचित्रपरिणामहेतुत्वं तस्य सम्भवतीति दिक ।। :- तत्र गुणत्रयसाम्यावस्थापनत्वं मूल प्रकृतेर्लक्षणम् । तच्च तद्वैषम्यप्रयोज्यकार्याभाववत्त्वं, स्वजन्यत न्यत्वकालिकविशेषणत्वो- भयसम्बन्धेन धर्म विशिष्टधर्माभाववत्त्वपर्यवसितम् । अव्यक्त- त्यानयाजन्ताशेषु सत्स्वेव कतिपयांशेष्वव्यक्तत्वनाशपूर्वकमह- जडपरिच्छेद [ ४१३ त्त्वावस्थायाः महत्त्वाद्याश्रयानन्तांशेषु सत्स्वेव तन्नाशपूर्वक कतिपयांशेवहङ्कारत्वाद्यवस्थाया- उत्पत्तिस्वीकारेण - पूर्वान्न- स्थाकालीनत्वतज्जन्यत्वयोरुत रसवस्थासु सात्वेन, निरुक्तोभम्र- सम्वन्धेन धर्मविशिष्टनर्माः अव्यक्तत्वविशिष्टमहत्त्वत विशिष्ट्रा- हकारत्वादय इति लच्छून्य त्वस्य मूल प्रकृती सल्वाल्लक्षण- सङ्गतिः ।। i. Vipi て i न च। . भ “वारिवह्नयनिलाकाशैस्ततो भूतादिना "बहिः ।। वृत 'देशगुण रण्डे भूतादिमहतो' तथा ' अव्यक्त नावृतो 'ब्रह्मन् तैसवैस्स हिती 'महान् ।' एभिरीवरणरण्डं "सप्तभिः 'प्राकृतैर्वृ तम् ।। इत्यादिना जलतेजोवाय्वाकाशाहकारमहन्मूलप्रकृतीनामंण्डा- वरणतया ऽवस्थानस्य सिद्धतया तथाऽवस्थाननिर्वाहाय, 'महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च' इत्यनेन' अष्टद्रव्याणां शशिरारम्भकतयाऽवस्थानस्य भगवद्गीलादिसिद्धत्वेन तन्निर्वा- -हाय च. प्रकृत्यादीनामे कद्रेशपरिणामो युक्तः । अन्यथा पृथिव्ये- -कशेषप्रसङ्गेन प्रत्यक्षादिबाधापत्तेः । तन्मात्राणां त्वावारकत्व- शरीरारम्भ कन्वयोरनवणेन. निश्शेषपरिणामाङ्गीकारेऽग्नि बाधकाभाव इत्युक्तलक्षणस्याकाशादावतिव्याप्तिः, आकाश- -त्वस्य शब्दतन्मात्रत्वजन्यत्वेऽपि तत्समानकालीनत्वाभावा- दिति-वाचप्रन्ः ॥ तन्मात्रापामावारकत्वाद्यश्रवणेऽपि 'अष्ठौ प्रकृतयष्षोडश विकाराश्शसेरे तस्य देहिनः' इत्यादिना शरीरस्य चतुर्विंशतितत्त्वमयत्वप्रतिपादनेन तेषां-- भूतैस्सहा- वस्थानसिद्ध्या. तेषामप्येकद्रेशपरिणामस्यैव युक्तत्वात् ।। न चैवं-गीताभाष्ये 'महाभूलान्यहङ्गारो बुद्धिरव्यक्तमेव च'इनि iFiF5F, TSHR .... ६१४ ] सिद्धान्तसिद्धाञ्जनम्. क्षेत्रारम्भकद्रव्याणीत्युक्तत्वाच्छरीरस्याष्टद्रव्योपादानकत्वाभ्यु- पगमाद्भाष्यकृतां तन्मात्राणां निश्शेषपरिणामपक्ष एवेष्ट -इति-वाच्यम् ; गीतातद्भाष्ययोरुपलक्षणपरत्वात् । अन्यथा शरीरे एकादशेन्द्रियाणामप्यवस्थानासिद्धयापत्तेः ।। -"न च-उक्तोभयसम्बन्धेन प्रकृतित्वविशिष्टाक्षरत्वाद्यवस्थायाः प्रकृतौ सत्वात्तच्छून्यत्वलक्षणस्यासम्भवः--इति वाच्यम् । अक्षरत्वावस्थायास्तमस्त्वावस्थानाशरूपत्वेन तज्जन्यत्वेऽपि प्रकृतित्वावस्थानाशरूपत्वाभावेन तज्जन्यत्वासम्भवात्,तन्ना- शरूपत्वावस्थाया एव तज्जन्यत्वात्, प्रकृतित्वातिरिक्तत्वेन प्राथमिकधर्मविशेषणेनाक्ष रत्वादीनां प्रकृतित्वजन्यत्वेऽपिक्षत्य- भावाच । अविभक्ततमसः कृत्स्नत एव विभक्ततमोरूपेण विभक्ततमसः कृत्स्नत एवाक्षररूपेणाक्षरस्य च कृत्स्नत एवा- व्यक्तरूपेण परिणामादुक्तधर्मचतुष्टये एकैकस्य जन्यतासम्ब- न्धेन अपरधर्मविशिष्टत्वेऽपि कालिकसम्बन्धेन तद्विशिष्टत्वा १ भावादसम्भवविरहात्, । अव्यक्तत्वप्रागभावासमानकालीन- त्वेन प्राथमिकधर्मविशेषणेन अक्षरादीनां सुवालश्रुतावण्डावर- णतोऽवस्थानस्योक्त्या तमःप्रभृतीनां निश्शेषपरिणामासम्भ- वेऽपि न क्षतिः ॥ 'अव्यक्तत्वनाशप्रागभाववत्त्वं तस्या लघु लक्षणं बोध्यम् ॥ सा च मूलप्रकृतिश्चतुर्धा-अव्यक्त मक्षरं विभक्ततमोऽविभ- क्ततमश्चेति । तत्र महत्तत्त्वादिरूपफलोन्मुखावस्था अव्यक्ता- 'वस्था, तत्पूर्वावस्था चाक्षरत्वम्-इति रीत्या बोध्यम् ।। १.पा.] तन्मात्राणांनिश्शेषपरिणामाभ्युपगमे तु स्वजन्यत्वस्थाने स्वप्रयोज्यत्वं निवेश्यम् । तन्मात्रत्वस्य नाशे पि तज्जनकीभूताह करत्वादेरनाशेन तद्वि शिष्टा- कोशत्वादेः आकाशादौ सत्त्वान्नातिव्याप्तिः । महत्वावस्थाप्रागभाववत्व वा तल्लक्षण मवसेयम् ।।

जडपरिच्छेद : -- "भूतल निहितबीजस्थानीयमविभक्तं तमः, मृनिस्सूतबीज- वद्विभक्तं तमः, सलिलसंसृष्टा पृथ्ववयवबीजतुल्यमक्षरं, उच्छ्रनबीजसमानमव्यक्तं, : अङ्क रस्थानीयो - महान्-इति विवेकः ।।” इति व्यासायः सुबालोपनिषद्व्याख्याने प्रपञ्चितम् । मूलप्रकृ- तावुक्तावस्थाचतुष्टयं च-- 'महानव्यवते लीयते, अव्यक्तमक्षरे लीयंते, अक्षरं तमसि लीयते, तमः परे देव एकीभवति ।। इति सुबालश्रु तिसिद्धम् । तमः परे देव , एकीभवतीत्यनेन अविभक्ततमोऽवस्थाभिधानात् ।। ननु- उक्तसुबालश्रुतेर्मूलप्रकृतिगतावस्थाचतुष्टयपरत्वं न सम्भवति; सा च प्रशासनादिति सूत्रावतरणभाष्यादिषु- 'अव्यक्तमक्षरे लीयते, अक्षरं तमसि लीयते', 'यस्याव्यक्तं शरीरं यस्याक्षरं शरीरम्' इत्यादिश्रु तिगताव्यक्तसहचरिता- क्षरशब्दस्य जीवपरतया व्याख्यानात्-इति चेत् ।। अत्राहुः- उक्ताक्षरशब्दव्याख्यानस्य परव्याख्यानानुरोधेन प्रवृत्तत्वान्न तत्र तात्पर्यम् । यद्वा-जीवे धर्मभूतज्ञानगतसङ्कोचविकासादि- रूपविकारस्य परम्परया. सत्त्वेऽपि साक्षात्सम्बन्धावच्छिन्न- विकाराभाववाचकाक्षरशब्दस्यः प्रवृत्तिर्यथा न विरुध्यते, महत्त्वाहङ्कारत्वादिरूपविकारविशेषाभावपरत्वे, मूलप्रकृता- वपि तच्छब्दप्रवृत्तिरुपपद्यत इति दृष्टान्तविधया जीवपरता: प्रतिपादनपरत्वान्न विरोधः ॥ अथवा-मूलप्रकृतौ विकार- सामान्याभावस्य बाधेन तद्वाचकाक्षरशब्दस्यमुख्यत्वा सम्भ- वात् अक्षरब्रह्मसम्बन्धित्वेन वा तादृशजीवसम्बन्धित्वेन वाः लक्षणा वाच्या, तत्र ब्रह्मसम्बन्धित्वेन लक्षणोक्तौ विशेषणे तथा सिद्धान्ससिद्धाजनम्. लयान्वयसम्भवात् विशेष्यमात्रे लयान्वयंस्य विशिष्टे लयान्वय- प्रकरणविरोधेना सम्भवात्,जीवसम्बन्धित्वावच्छिन्न एवाजह- हलक्षणेत्यभिप्रायेण तद्भाष्यस्य प्रवृत्त त्वान्न विरोधः ।। -इति ।। तत्र अव्यक्तत्वावस्थानाशरूपत्वे सत्यहङ्कारत्वावस्थानाग- भीवरूपत्वं-महत्त्वावस्थाया लक्षणम्; अव्यक्तत्वावस्थाना- शत्वस्याहङ्कारत्वतन्मात्रत्वादिसाधारणत्वाद्विारणाय विशे- प्यम् ; तावन्मात्रस्याव्यवृतत्वाक्षरत्वादिसाधारण्यात्त द्वारणाय सत्यन्तम् । यद्वा अव्यक्तत्वावस्थाध्वंसत्वावच्छिन्नविषयता- कसङ्कल्पजन्यावस्थात्वं-तल्लक्षणम्; अव्यक्तत्वावस्थाश्रयेष्वन तांशेषु मध्ये केषु चिंद शेषु अव्यक्तत्वावस्थाध्वंसरूँप महत्त्वा- वस्थोत्पद्यतामिति-सङ्कल्पैन तादृशावस्थोत्पत्तेर्लक्ष णसङ्गतिः। अत्र सङ्कल्पनिष्ठजनकता विषयतासम्बन्धावच्छिन्ना ग्राह्या, तैन'तादृशसङ्कल्पंगतोत्तरावस्थाएँ नातिव्याप्तिः । अव्यवतत्वा- वस्थान्यूनवृत्तित्वें सत्यहवारस्वावस्थाव्यापकप्रकृतिविभाज- कोपाधिमास्वंवा तल्लक्षणम् ; अव्यक्तत्वाक्ष रत्वादिवारणाय सत्यन्तम्, अहङ्कारत्वादिवरणाय विशेष्यम्। व्यापकत्वं च तत्समौ करणभेदप्रतियोगितानवच्छेदकत्वे सति तदभाव- बंबृत्तित्वम् तेनोहङ्कारत्वादेस्तद्व्यापकत्वेऽपि न तद्दोषताद- स्थ्यम् । प्रकृति विभाजकोपाधित्वनिवेशदिव्यक्तत्वन्यूनवृत्त्यह- खारत्वव्यापकान्यतमत्वादौ नातिव्याप्तिः ।।।। - सोऽयं महांस्त्रिविधः-सात्त्विकराजसतामसभेदात् । सत्त्व- गुणोन्मेषवान सात्विक इत्यादिबोध्यम् ।। महत्त्वावस्थानाशरूपत्वे सति । तन्मावत्वावस्थाप्राक्काली- नत्वं अहङ्कारत्वस्य लक्षणम् । अत्र तन्मात्रत्वावस्थाप्राग- भावत्वस्य तामसाहङ्कारत्व एव सत्त्वात्सात्त्विकराजससाधा- रण्याहारत्व।। तदभावादसम्भवः प्राप्नोतीति न तथा जडपरिच्छेदः [ १७ निवेशः । तन्मात्रत्व पूर्वकालीनत्वं चाहङ्कारत्वे अक्षतमेव । व्यावृत्तिः पूर्ववत् । महत्त्वावस्थानाशत्वावच्छिन्नविषयताकस- ङ्कल्पप्रयोज्यावस्थात्वं वा तल्लक्षणं ; महत्त्वावस्थान्यूनवृत्ति- वृत्तित्वे सति तन्मात्रत्वावस्थाव्यापकप्रकृतिविभाजकोपाधि- त्वमपि तल्लक्षणमवसेयम् ।। सोऽयमहङ्कारास्त्रिविधः-सात्त्विकराजसतामसभेदात् । तत्र सात्त्विकादिन्द्रियाणि जायन्ते, तामसाच शब्दतन्मात्रं, राजस उभयानुग्राहकः ।। तत्र शब्दाश्रयान्यत्वे सति आत्मप्रयत्नजन्यव्यापारवत्त्वरूप- जीवात्मोपकरणत्वं-इन्द्रियसामान्यलक्षणम् । शरीरप्राणयोर- तिव्याप्तिवारणाय सत्यन्तम् । महदहकारवारणाय विशे- प्यम् ॥ नच-अप्राकृतद्रव्ये अव्यक्तमहदहङ्कारविभागाभावेन अत्राकृ- तेन्द्रियाणामप्राकृतभूतपरिणामत्वस्यैव वाच्यतया तेषु शब्दाश्र- यान्यत्वघटितोक्तलक्षणाव्याप्तिरिति-वाच्यम्,अप्राकृतद्रव्येऽप्य- व्यक्तमहदहङ्कारविभागस्य कैश्चिदाचार्यैरङ्गीकारादप्राकृते- न्द्रियाणां तत्परिणामत्वसम्भावात्, प्राकृतशब्दाश्रयान्यत्वस्य सत्यन्तार्थत्वे तद्दोषाप्रसक्तेश्च । प्राकृतत्वं च-रजस्समाना- धिकरणत्वं तमस्समानाधिकरणत्वं वा ।। न च-श्रीमद्गीताभाष्ये “महाभूतान्यहङ्कारो बुद्धिरव्यक्त- मेव च" इति श्लोकन्याख्याने अव्यक्तमहदहङ्कारपञ्चमहाभूता- रब्धं शरीरम्' इत्युक्तत्वेन अतिरिक्तावयविनमनङ्गीकुर्वा- णानां वेदान्तिनां मते शरीरस्योक्ताष्टद्रव्यसमुदायरूपत्वे पर्यवसानात्ताशशरीरघटकाव्यक्तमहदहङ्कारेष्वतिव्याप्ति : ; तेषां शब्दाश्रयान्यत्वे सत्यात्मप्रयत्नजन्यव्यापारवत्त्वादिति- वाच्यम् । तेषां शरीरघटकत्वेऽप्यात्मप्रयत्नजन्यव्यापारवत्त्वा- सिद्धान्तसिद्धाञ्जनम्. PM * importamily नम्यानमाल, पञ्चमहाभूतात्मकभागेष्वेव तत्स्वीकारात्, मायान्यवं परित्यज्य प्राणशरीरान्यत्वनिवेशे तादृशभागे- निसायप्रसक्तेश्च, तेषां शरीरान्यत्वाभावात् ।। एतेन वनादिनीरे उक्तलक्षणस्यातिव्याप्तिरिति निरस्तम् ।। इन्द्रिय विविधं-प्राकृतमप्राकृतं चेति । रजोरहितत्वे सति मानदितत्वे सति वा इन्द्रियत्वमप्राकृतेन्द्रियलक्षणम् । रात्रि काहकारोपादानकत्वं प्राकृतेन्द्रियस्य लक्षणं; जीवगम- न्यायकगम नवदिन्द्रियत्वं वा प्राकृतेन्द्रियलक्षणम्, यदा तीवगमनं तदन्द्रियगमन मिति व्याप्त: ।। Aistaurange IYANS यद्यषि-मुक्तिकाले जीवगमनेऽपि नेन्द्रियगमन मिति न मारसम्भवः । तथाऽपि बद्धजीवगमनव्यापकगमनव उम्प लक्षणवान्न दोषः ।। न च-कर्मेन्द्रियाणां हस्तपादा- नागरीरेण सह विनाशदर्शनाज्जीवेन सह गमनासम्भावा- ननक्षणस्य तत्राव्याप्तिरिति-वाच्यम् । इन्द्रियाधिष्ठान- म्य भौतिकहस्तपादादेशेिऽपि तदधिष्ठानकस्याहङ्कारि- न्येन्द्रियस्य शरीरनाशकाले नाशानुपलम्भेन . जीवेन सह मनोपपतेः । तेषां शरीरेण सह नाश इति यादवप्रकाश- चयुक्तवान् । हस्तादोनां प्रतिशरीरमुत्पत्तिवि- माभ्युदगमे 'अष्टौ प्रकृतयष्योडश विकाराः', नृनितिनङ्खचातमव्यक्तं व्यक्त मुच्यते'-इत्यादिश्रु त्यभि- लतत्वमङ्याया विकारसङ्घयायाश्च विरोधप्रसङ्गात्, यत्पुत्पत्तिप्रतियोगिकध्वंसपूर्वकालीनोत्पत्तिकानामेव तत्त्व- न्यात् । अन्यथा घटपटादीनामपि तत्त्वरूपतापत्त्यावसङ्ख- विकाप्रसङ्गात् । “तमुत्क्रामन्तं प्राणोऽनूत्क्रामति, प्राणम- कामनं सर्वे प्राणा अनूत्क्रामन्ति'' इति श्रुतौ सर्वपदेने- जडपरिच्छेदः [ १६ न्द्रियत्वव्यापकोत्क्रमणप्रतीतेश्च ॥ यद्यपि-'सर्वेभ्यो दर्शपूर्णमासौ' इत्यादौ सर्वपदस्य प्रक्रान्त- कतिपयवस्तुपरत्वं दृश्यते । तथाऽपि-अभेदसम्बन्धेन किञ्चि- द्धर्मावच्छिन्नविशेषणतापन्नसर्वशब्दस्योद्देश्यतावच्छेदकव्यापक- विधेयव्याप्यसर्वत्वावच्छिन्नबोधकत्वस्य व्युत्पत्तिसिद्धत्वान्न प्रकृते सर्वशब्दस्य संकुचितवृत्तिकत्वं युक्तम् ।। स्पष्टं चेदं प्रतिज्ञालक्षणगादाधर्याम् ॥किञ्च अग्न्यादिशु तेरिति चेन्न भाक्तत्वादिति सूत्रे 'यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वायु प्राणश्वभुरादित्यम्' इत्यादिना प्राणानां जीवमरणकाले अग्न्यादिष्वप्ययश्रवणान्न तेषां जीवेन सह गमनमित्याशङ्. क्याप्ययश्रवणस्य देवतापक्रमणपरत्वान्न दोष इति समाधा- नेन कर्मेन्द्रियस्य वाचो जीवेन सह गमनस्य स्थापितत्वात् तनयायेन सर्वेषामपि गमनाङ्गीकारस्य युक्तत्वात् ।। न च-वेदान्तदीपे हस्तादयस्तु स्थितेऽतो नैवमिति सूत्रे- "तत्र श्रोत्रादीनि जीवेन सह शरोरान्तरगमनेऽपि गच्छन्ति । वाग्धस्तादीनि कर्मेन्द्रियाणि तु शरीरे तेनैव सहोत्पत्तिविनाशयोगीन्युपकारकाणि ।' " इत्युक्तं विरुध्येतेति-वाच्यम् । उदाहृतवेदान्तदीपवाक्यस्य परमतवद्धस्तादीनां प्रतिशरीरभुत्पादविनाशाभ्युपगमेऽपि तेषामिन्द्रियत्वं सिद्ध्यतीत्यत्र तात्पर्यात्तेषां शरीरेण सहोत्पा- दविनाशवत्त्वे तात्पर्यविरहात् । अत एव सारे तत्सूत्रमन्यथा व्याख्यातं-"हस्तादयोऽपीन्द्रियाणि, जीवे देहान्तरवस्थिते उपकारकत्वाविशेषात्" --इति ।। एवमेव भाष्येऽपि व्याख्या- तं "न सप्त वेन्द्रियाणि अपित्वेकादश; हस्तादीनामपि शरीरे . ...

२० ] सिद्धान्तसिद्धाञ्जनम्. स्थिते जीवे तस्य भोगोपकरणत्वात् ॥” इति ।। न च-सूत्रघटकस्थित इत्यस्य दीपोक्तरीत्या शरीरे स्थित इत्यर्थकत्वे शरीरेण सहोत्पत्तिविनाशवत्त्वं हस्तादीनां प्रतीयते, सारभाष्योसयरीत्या शरीरान्तरवस्थिते' जोवे हस्तादीन्युप- कारकाणीत्यर्थकत्वे च स्थित इत्यस्य वैयर्थ्य; चक्षुरादीना- मपि शरीरे जीवावस्थानदशायामेवोपकरणत्वेन तव्यावर्तक- त्वासम्भवात्; तथा च दीपोक्तयोजनाया एव युत्त त्वाद्धस्ता- दीनां शरीरेण सहोत्पतिविनाशवत्वेऽपि सूत्रादितात्पर्यम- स्तीति-वाच्यम् । सारभाष्योक्तयोजनायामपि दोषाभावात् । शरीरान्तरवस्थिते जीवे हस्तादीन्युपकारकाणीत्यत्र जीव इत्य- स्य कर्तरीत्यर्थकत्वेनेच्छाविषयकार्यजनकत्वरूपोपकारकत्व- घटककार्ये जीवकृतिजन्यत्वलाभाद्धस्तादिजन्यादानादिरूपकार्य जीवकृतिजन्यत्वं, चक्षुरादिजन्यसाक्षात्कारे च तदजन्यत्वमिति वैलक्षण्यसूचकतया स्थितइत्यस्य सार्थकत्वात् । पाथसि पीते तृष्णा शाम्यतीत्यादाविव सतिसप्तम्या जन्यजनकभावला- भात् । यद्वा-शरीरान्तरवस्थिते जीवे उपकारकाणीत्यस्य जीवाधिकरणीभूतशरीरावच्छेदेनादानादिकार्यजनकानीत्यर्थः ; चक्षुरादीनि वृत्त्या शरीरानवच्छिन्न घटादिदेशेऽपि चाक्षुषादिरूपकार्य जनकानीति चक्षुरादीनां वृत्त्या कार्यजनकत्वं, हस्तादीनां तन्निरपेक्षक.यंजन कत्वमिति बैलक्षण्यसूचकतया स्थित इत्यस्य सार्थकत्वात् ।। यद्यपि-सप्तगतेविशेषितत्वाच्च' इवि पूर्वपक्षसूत्रे सप्तानां गतिश्रवणात्सप्त वेन्द्रियाणीत्यर्थ के गतेरित्यस्य प्रतिकोटितया हस्तादय इति सिद्धान्तसूत्रे स्थित इत्यस्योपादानात् : हस्तादीनां गतिर्नास्तीति स्वरसतः प्रतीयते । तथाऽपि-भौ- तिकेन्द्रियवादे दोषस्योक्तत्वा दाहङ्कारिकेन्द्रियपक्षे च ताह- तु - जडपरि च्छेद : [ २१ शार्थासम्भवादुकार्थ एवं युक्त इति बोध्यम् ।। न चैवमपि-जीवस्य परकायप्रवेशदशायामिन्द्रियादीनाम- गमनादव्याप्तिरिति-वाच्यम् । जीवस्य स्वेन्द्रियै सहैव परकाये प्रवेशात्; अन्यथा तच्छरीरावच्छेदेनेन्द्रियकार्याणामनुत्पत्तेः । मृतशरीरे प्रवेशस्थले तदीयेन्द्रियाणामभावात्तनयायेन जीव- विशिटशरीरप्रवेशस्थलेऽपीन्द्रियैस्सह प्रवेशाङ्गीकारस्य युक्त- त्वात्, अन्यदीयेन्द्रियाणामन्यादृष्टोपार्जितानामेतदुपकारकत्वा- सम्भवात् । "शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयान् ॥" इति स्मृतेश्च ।। तथा चपूर्वपरित्यक्ते स्वशरोरे मृतकायप्रवे- शवत् पुनरिन्द्रियैस्सह प्रवेशः ।। न च-प्रदीपवदावेशस्तथा हि दर्शयतीति सूत्रे योगिनों एकदा अनेकशरीरेषु प्रवेशो ज्ञानव्याप्त्येत्युक्तम्, तत्रेन्द्रियाणा- मभावात् कथं तत्कार्य निर्वाहः-इति वाच्यम् । तत्रानेकशरी- रेष्विन्द्रियाणामपि प्रतिशरीरं विविक्ताभिर्व तिभिरीश्वरस- ङ्कल्पेनप्रसृताभिः कार्यनिर्वाहाङ्गकारात् । उक्तञ्च न्याय- सिद्धाञ्जने- "प्रतिदेहं विविक्तानि मनःप्रभृतिकान्यपि । इन्द्रियाणीश्वरेच्छाद्यः प्रवर्तन्ते तु योगिनः ।।''--इति ।। एवमेव स्वप्ने भगवता सृष्टेष्वपि देहेष्विन्द्रियकार्यनिर्वाहो वृत्तिभिरेव बोध्यः ।। पुनरिन्द्रियं द्विविधं-ज्ञानेन्द्रियकर्मेन्द्रिय भेदात् ।। ज्ञानप्रसरणहेतुत्वे सतीन्द्रियत्वं-ज्ञानेन्द्रियत्वम् । इन्द्रियसं- योगेऽतिव्याप्तिवारणायेन्द्रियत्वनिवेशः । न च-अप्राकृतज्ञाने- - NS ४. ...pridichitana क सिद्धान्तसिद्धाञ्जनम्. लियामिः, नित्यमुक्तेश्वराणां ज्ञानस्येन्द्रियाधीनप्रसरण- भावादिनि-- वाच्यम्; ज्ञानप्रसरणहेतुतावच्छेदकधर्मव- - चित्रस्तित्वात्, अप्राकृतेन्द्रियेष्वपि ताशहेतुतावच्छे- कन्नरसन्नादिमत्त्वस्वाक्षतत्वात् ॥ तच्च विधम् मन- सामननयन रसनब्राणभेदात् । तत्र मनस्स्पर्शननयनानां मायावेन्द्रियत्वम्, अन्येषां तदग्राहकेन्द्रियत्वं लक्षणम् । दिगामवेन्द्रियाणां तत्तत्काल विशिष्टवस्तुग्राहकत्वाद्र- परचा जयन्त्रमविशिष्ट; तथाऽपि-द्रव्यपदेन कालातिरिक्तद्रव्य- विचितमिति न दोषः । कालस्य षडिन्द्रियवेद्यत्वं च . AN dista DAMA 1 MANTRA ना श्रावणम्पासनोभयजनकेन्द्रियत्वं- मनसो लक्षणम् । 47 जनकन्चमात्रोक्तो श्रोत्रे, स्पार्शनजनकत्वमात्रोक्तो त्व- पतियामिः : अत उभयनिवेश: । तावन्मात्रोक्तो जीनामावतियाप्तिः ; अत इन्द्रियत्वनिवेश: । एवं स्पार्शन- मोभवादिघटितमपि लक्षणान्तरमह्यम् ।। न चोक्तलक्ष- प्राकृतमनस्यव्याप्तिः ; नित्यमुक्तादिज्ञानस्येन्द्रियान्तरा- मोन कारणवत्त्वाभावेऽपि मनोऽधीनप्रसरणस्याङ्गीकारात् , मनमनान्कामान् पश्यन् रमते' इति श्रुत्या मुक्तादिज्ञानेऽपि मनावीनप्रसरणबोधनान, श्रावणस्पार्शनोभयजनकतावच्छेद- ऋधर्मटितलक्षणसम्भवाच्च ।। स्मृतिजनकतावच्छेदकधर्मव- दिन्तियन्वं बा मनोलक्षणम्, हृत्प्रदेशमात्रवृत्तित्वं वा तल्ल- क्षणम् । न च--'अनवस्थितेरसम्भवाच्च नेतरः' इति सूत्रभा- र नावस्यापि सर्वेन्द्रियव्यापारानुगुणत्वाय सर्वेन्द्रियकन्दभूते थानविशेषे वृत्तिरिति चक्षुषि नावस्थानमित्युक्तत्वाज्जीवेs- निवारितरिति--वाच्यम् । इन्द्रियत्वस्यापि निवेशात्, चक्षुरा- जडपरि च्छेद : [ २३ न -- ܕܝ प्राणस्य दीनां च स्वस्वाधिष्ठाने हृत्प्रदेशे च वर्तमानत्वेऽपि न तन्मा- त्रवृत्तित्वमिति नातिव्याप्तिः ।। तदेकमेव मनः वृत्तिभेदात् बुद्ध्यहङ्कारचित्तसंज्ञां लभते, तु बुद्ध्यादिकमिन्द्रियान्तरम् । न च-सुबालोपनिषदि चक्षुश्च द्रष्टव्यं च नारायणः' इत्यादिना पञ्च ज्ञानेन्द्रियाण्युक्त्वा- "मनश्च मन्तव्यं च नारायणः, बुद्धिश्च बोद्धव्यं च नारायणः, अहङ्कारोऽहङ्कर्तव्यं च नारायण: ।।" इत्याम्नात्, अनन्तरं च कर्मेन्द्रियाणां गणनात्, बुध्द्यादीना- मपीन्द्रियान्तरत्वं प्रतीयत इति-वाच्यम् । वृत्तिभेदादेव पृथग्गणनोपपत्तेः वृत्तिभेदात्प्राणापानादिरूपेण पृथक्परिगणनवन्मनसोऽपि वृत्तिभेदात् पृथगभिधानोपपत्तेः । कामसङ्कल्पविचिकित्सादयोऽपि मनोवृत्तिविशेषाः-'कामस्स- ङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिह्रीं/र्भीरित्येत त्सर्वं मन एव' इति श्रुतेः, पञ्चवृत्तिर्मनोवन्धपदिश्यते इति सूत्रभाष्ये कामादीनां मनोवृत्तित्वाभिधानाच्च । “कामा- दयोऽध्यवसायादयश्च पुरुषधर्मा एव । उक्तश्रुतौ कामादिप- दस्य आयुर्घ तमित्यादाविव तज्जनके लाक्षणिकत्वात्" इत्युक्तं सर्वार्थसिद्धौ ॥ नचैवं-पञ्चवृत्तिर्मनोवन्धपदिश्यते इति सूत्रभाष्यवि रोधः, तत्र कामादीनां मनोवृत्ति विशेषत्वाभिधानात् ; एवं सप्तगतरित्यधिकरणभाष्यविरोधश्च, तत्राध्यवसायाभिमान- चिन्तावृत्तिभेदान्मन एव बुध्धहङ्कारचित्तशब्दैर्व्यपदिश्यत इत्युक्तत्वादिति-वाच्यम् । कामत्वाध्यवसायत्वाद्यवस्थाश्रय- ज्ञानजनकत्वादिरूपतत्तदवस्थाविशिष्टस्य मनस एव कामस- ङ्कल्पादिशब्दबुं यहङ्कारादिशब्दैश्च व्यपदेशस्योदाहृतभाष्या- २४ ] सिद्धान्तसिद्धाञ्जनम्. भिप्रेततया श्रुतप्रकाशिकान्यायसिद्धाइजनयोः प्रतिपादित- स्वात् ।। अन्ये तु-'पञ्चवृत्तिर्मनोवद्व्यपदिश्यते' इति सूत्रे श्रुतौ च मन:पदं धर्मभूतज्ञानपरम् । नचैवं लक्षणाप्रसङ्गः, 'मनश्च तस्सं- ज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टि तिर्मतिर्मनीषा ज्यो- तिस्स्मृतिस्सङ्कल्पः क्रतु रसुः कामो वश इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति' इति ऐतरे- श्रुत्या मनः- पदस्प ज्ञाने शक्त्यभिधानात् । तथा च- धर्मभूतज्ञानस्य यथा कामादिवृत्तिमत्त्वं, तथा प्राणस्य प्राणापानादिवृत्तिमत्त्व- मिति दृष्टान्तसामञ्जस्यम्- इत्याहुः ।। स्पर्शविषयक साक्षात्काराजनकत्वे सति शब्दविषयक साक्षात्कार-जनकेद्रियत्वं-श्रोत्रस्य लक्षणम् । मनस्यतिव्याप्ति वारणाय सत्यन्तं, चक्षुष्यतिव्याप्तिवारणाय शब्दविषयक- साक्षात्कारजनकेति, श्रोत्रसंयोगेऽतिव्याप्तिवारणायेन्द्रियत्व- मिति । तच्च मनुष्यादीनां कर्णशष्कुल्य-वच्छिन्न प्रदेशवृत्ति: द्विजिह्वादीनां नयनवृत्तीति ज्ञेयम् ।। ननु-एकादशेन्द्रियाणामपि अणवश्चेति सूत्रेणाणुत्वा- भिधानात् श्रोत्रस्याणु रूपस्य कथं दूरस्थशब्दग्राहकत्वम् । न च-गगने वीचीतरङ्ग-न्यायेन शब्दधाराया उत्पत्त्यङ्गीकारात् श्रोत्रसम्बद्धस्य शब्दस्य तेन ग्रहण युज्यत युज्यत इति- वाच्यम् । तथा सत्यनन्तशब्दकल्पनाप्रसङ्गेन गौरवात्: श्रोत्रदेशोत्पन्तस्यैव ग्रहणे प्राच्यां शब्दः, प्रतीच्यां शब्द:, दूरे शब्द:, समीपे शब्द इत्यादिप्रतीत्यनुपपत्तिश्च इति चेत् ।। अत्र केचित्-श्रोत्रस्याणुत्वेऽपि शब्दोत्पत्तिदेशपर्यन्तं प्रसृतथा तद्वत्त्या शब्दस्य सम्बन्धात् दूरस्थ शब्दग्रहोपपत्तिः, प्राच्यां शब्दो दूरे शब्द इत्यादिप्रतीत्युपपत्तिश्च ।वीणायाः - जडपरिच्छेद : [ २५ , ब्दं शृणेमीत्यादि-व्यवहारस्याप्युपपत्तिः, वीचीतरङ्गन्यायेन शब्दोत्पत्तिपक्षेवीणाजन्यशब्दस्याश्रवणात्तदनुपपत्तिः-इत्याहुः। वस्तुतस्तु-'शब्दगन्धसूर्यालोकरत्नप्रभादयो धर्म्यतिवति- नो गति मन्तश्च इति आत्मसिद्धिवाक्यानुरोधात्, शब्दाश्रयस्य वाय्वादि-भूतस्य श्रोत्रदेशागमनात् शब्दस्य सन्निकृष्टत्वात् शब्दप्रत्यक्षरेपपत्तिः । उक्तात्मसिद्धिवाक्ये गन्धपदं शब्दपदं च तत्तदाश्रयद्रव्यपरं, यथा गन्धाश्रयपार्थिवभागानां वायुना समानीतत्वाहू रस्थचम्पकादेर्गन्धो घ्राणेन गृह्यते, तद्वत् शब्दोऽपीति भावः । अत एवानुकूलवातदशायां दूरस्थस्यापि शब्दस्य गहणं, प्रतिकूलवाते च समीपस्थस्याप्यग्रहण मित्यु- पपद्यते । एवं भेर्यां ताड्यमानायां प्रथम समीपस्थानां पुरुषाणां शब्दप्रत्यक्षं, अनन्तरं च विप्रकृष्टानां प्रत्यक्षं, गृहान्तर्गतानामस्फुटं दूरस्थशब्दग्रहण बहिनिर्गतानां च स्फुट तद्ग्रहणमित्यादिक चोपपद्यते । नच-प्रतिकूलवातेन श्रोत्रबृत्त निरोधान्न तदा शब्दग्रहणं, समीपस्थानां च झडिति वृत्तिप्रसरणादविलम्बेन शब्दग्रहणं, गृहान्तर्गतानांतु श्रोत्र- वृत्तौ कतिपयांशस्य कुड्यादिना निरोधादल्पांशानां प्रसरणा- दस्फुटग्रहणमिति रीत्या वृत्तिगमनपक्षेऽप्युपपत्तिरिति-वाच्यम् भेर्यादिशब्देन गुहासौधादौ प्रतिशब्दोत्पादस्य चलनस्य च ताशशब्दाश्रयद्रव्याभिघातमन्त रेणानुपपत्तेश्शब्दाश्रयद्रव्याग- मनपक्षस्यैव युक्तत्वात् ॥ उक्तं च सर्वार्थसिद्धौ- "गुहासौधा दिसङ्क्षोभः प्रतिशब्दश्च जृम्भते । निस्साणादिप्रणादेन तदेतत्पक्षसङ्गतम् ॥" इति 1. .

२६ ] सिद्धान्तसिद्धाञ्जनम्. न चैतत्पक्षे प्राच्यां शब्द इत्यादिप्रतीत्यनुपपत्तिः । प्राच्यास्स- मागतवायुना शब्दोपलम्भेन शब्दे प्राच्यादित्वप्रतीतेरानुमा- निकत्वात् । एतदप्युक्तं तत्रैव- "यथा मयू रवीणादेश्शब्दोऽयमिति गृह्यते । तथा प्राच्यादिशब्दोऽयमिति लिङ्गात्तथा विधात् ।।"-इति ।। तस्मात् शब्दाश्रयद्रव्यागमनपक्षे न कोऽपि दोष इति दिक् ।। रूपाग्राहकत्वे सति स्पर्शग्राहकेन्द्रियत्वं-त्वगिन्द्रियलक्षणम् । मनस्यतिव्याप्तिवारणाय सत्यन्तं, श्रोत्रेऽतिव्याप्तिवारणाय स्प- र्शग्राहकेति, त्वगिन्द्रियसंयोगवारणायेन्द्रियत्वमिति । त्वगि- न्द्रियं च सर्वशरीरवृत्ति, अणुत्वेऽपि तस्य विकासशक्त्या वृत्ति- द्वारेण वा तस्य शरीरव्यापकत्वसम्भवात् । अत एव पिपी- लिकांदिशरीरस्थस्य स्पर्शनस्य विकासावस्थयैव गजादिशरीर प्रवेशे तादृशशरीरव्यापकत्वं, । गजादि शरीरस्थस्य च तस्य सङ्कोचावस्थया पिपीलिकादिशरीरव्यापकत्वमुपपद्यते । नख- दन्तकेशादिषु प्राणमान्यतारतम्यात् स्पर्शानुपलम्भः ।। स्पर्शाग्राहकत्वे सति रूपग्राहकेन्द्रियत्वं-चक्षुषो लक्षणम् । तच्च नयनवृत्ति, एतस्य च वृत्तिप्रसरणेन विषयदेशप्राप्त्या दूरस्थपदार्थग्राहकत्वं 'दिवीव चक्षुराततम्' इति श्रुतिव्यवहार- स्वारस्याच्चक्षुषो वृत्त्यङ्गीकारस्य युक्तत्वात् । कुड्यादिव्यव- धानस्थले कुड्यादिना अञ्जनाद्यसंस्कृतनेत्रवृत्तेः प्रतिरोधान्न व्यवहितार्थग्राहकत्वम् । अञ्जनादिसंस्कृतनेत्रवृत्तेः कुड्यादावपि प्रवेशादञ्जनसंस्कृतचक्षुषां व्यवहितार्थंग्रहोपपत्ति. । काचज- लाद्यच्छद्रव्याणां च वृत्तिनिरोधकत्वाभावात्तव्यवहितानामपि चक्षुषा ग्रहणमुपपन्नम् । ज्ञानेन्द्रि येषु चक्षुष एकस्यैव विषय- देशं गत्वा तद्ग्राहकत्वं, अन्येषां तु स्वदेशप्राप्तविषयग्राहकत्व- मिति-विवेकः । पिपीलिकादीनां रसनं पश्चादीनां घ्राणमपि जडपरिच्छेदः [ २७ वृत्त्या विषयदेशं गत्वा तद्ग्राहकमित्यनुभवानुसारात् कल्पयन्ति । रूपाग्राहकत्वे सति रसग्राहकेन्द्रियत्वं-रसनेन्द्रियलक्षणम्। तच्च जिह्वाग्रवति ॥ रसाग्राहकत्वे सति गन्धग्राहकेन्द्रियं-घ्राणं,तच्च नासाग्रवति ।। उक्तानामिन्द्रियाणां द्रव्यप्रत्यक्षे संयोगः । द्रव्याश्रितानां रूपा- दीनां प्रत्यक्षे संयुक्तापृथक्सिद्धत्वं सन्निकर्ष इति बोध्यम् ।। उच्चारणाद्यन्यतमजनकेन्द्रियत्वं- कर्मेन्द्रियसामान्यलक्षणम् । तच्च बाक्पाणिपादपायूपस्थभेदात् पञ्चधा । तत्र वर्णोद्देश्यक- कृतिजन्यव्यापारवदिन्द्रियं वाक् । अत्र जिह्वादावतिव्याप्तिवा- रणोन्द्रियत्वनिवेशः । सा च हृत्कण्ठजिह्वामूलतालुदन्तोष्ठना- सामूर्धरूपस्थानाष्टकवृत्तिः। शुकादिव्यतिरिक्तविहङ्गादीनामु- तेन्द्रियसत्त्वेऽप्यदृष्टसंस्थानादिसहकारिविरहाद्वर्णाद्यनुत्पत्तिः । शुकादीनामपि किञ्चित्तादृशसंस्थानवैषम्यादुच्चारणवैषम्यम् ॥ आल्यकबलसंयोगोद्देश्यककृतिप्रयोज्यव्यापारवदिन्द्रियं-पाणिः भौतिकहस्तादावतिव्याप्तिवारणायेन्द्रियमिति । विलेखनसाध- नेन्द्रियं वा स: ; विलेखनं च पत्रादिगतावयवविभागमष्यादि- संयोगान्यतरानुकूल व्यापारः । तथा चावयवविभागमष्यादिसं- योगान्यतरोद्देश्यककृतिजन्यव्यापारवदिन्द्रियं पाणिरिति फलि- तम् । स च मनुष्यादीनां अङ्गल्यग्रवृत्तिः, गजादीनां नासाग्र- वृत्तिः । न च-अभ्यासपाटवात्पादादिभिरपिकेषां चिद्विलेख- रस्य जायमानत्वात्पादादावतिव्याप्तिरिति-वाच्यम् । तत्रा- यल्पीयस्याः हस्तादिवृत्तेः प्रसरणाङ्गीकरेण तादृशवृत्त्यैव लेखनाद्युत्पत्तेः ॥ उत्तरदेशसंयोगोद्देश्यककृतिजन्यव्यापारवदिन्द्रियं-पादः । भौ- २८ ] सिद्धान्तसिद्धाञ्जनम्. तिकपादवारणायेन्द्रियमिति । स च मनुष्यादीनां चरण भुजगपतगादीनां उरःपक्षादिवृत्तिः ।। मलादिपतनोद्देश्य कृतिजन्यव्यापारवदिन्द्रियं-पायुः । स तत्तदवयवविशेषवृत्तिः ॥ आनन्दविशेषोद्देश्यककृतिजन्यव्यापारवदिन्द्रियं-उपस्थः। स मेहनादिव त्तिः ॥ उक्तानामिन्द्रियार्णा मुक्तिदशायामप्राकृतदेशगमनासम्भवा हैव यावत्प्रलयं स्थितिः करणविधुरैरन्यैः परिग्रहो वा बोध्यः अत्र नैयायिकाः कर्मेन्द्रियाणामिन्द्रियत्वमेवासिद्धं, प्रमाणाभावात् । ज्ञानेनि येषु च श्रोत्रस्याकाशत्व स्पर्शनस्य वायुत्व, नयनस्य तेजस् रसनस्य जलत्व, प्राणस्य च पृथिवीत्व युक्तम् । तथा हि श्रोत्रं स्वग्राह्यगुणसजातीयगुणवत्, बाह्य न्द्रियत्वात्, चक्षुर दिवत्; स्पर्शनं वायवीयं, रूपाग्राहकत्वे सति स्पर्शग्राहकत्व अङ्गसङ्गिसलिलशैत्याभिव्यञ्जक व्यजनपवनवत्; चक्षुस्तैज स्पर्शाग्रहकत्वे सति रूपग्राहकत्वात्, प्रदीपप्रभावत्; रसनं : लीयं, रूयाग्राहकत्वे सति रसग्राहकत्वात्ः सक्तुरसाभिव्यञ्जर नवशरावोदक्रवत् घ्राणं पार्थिव, रसाग्राहकत्वे सति गन ग्राहकत्वात्, कुङ्कमगन्धाभिव्यञ्जकगोघृतवत् -- इत्यद्यानुमान श्रोत्रादीनामाकाशत्वादिकं सिध्यति-इत्याहुः ।। तन्न । 'एका कन्या दशेन्द्रियाणि दशेमे पुरुषे प्राणा अ मैकादशः' इति श्रुत्या, 'इन्द्रियाणि दशैकं च, देवा व कारिः दश । एकादशं मनश्च' इत्यादिस्मृत्या च हस्तादीनामपनि यत्वावगमात् । श्रुतौ कन्यापदमात्मपदं च मनः परं, श्रुत प्राणपदं स्मृतौ. देवपदं चेन्द्रियपरं बोध्यम् । श्रोत्रादीनामनुम जडपरिच्छेदः [ २६ . नैराकाशत्वादिसाधनमप्ययुक्तम् । तत्र श्रोत्रादिशब्दैः प्रत्यक्ष- ग्राहयकर्णशष्कुल्यादिरूपाधिष्ठानानां ग्रहणे बाधः 1 , स्वमते तेषामाकाशत्ववायुत्वादेरनङ्गीकारात् तत्तदधिष्ठानकेन्द्रियाणां चाकाशादिरूपाणामनुमानात्पूर्व मसिध्द्या उक्तानुमानेषु पक्ष- त्वासम्भवात् । न च- शब्दग्नाहकेन्द्रियत्बस्पर्श ग्राहकेन्द्रिय- त्वादिना पक्षीकरणात् न दोष इति- वाच्यम् । प्रथमानुमाने स्वग्राहयगुण सजातीयगुणाभाववति हस्तादौ वाहय न्द्रिय- त्वस्य हेतोर्व्यभिचारात्, मनोभिन्नज्ञानेन्द्रियत्वस्य हेतुत्वेऽपि दृष्टान्तस्य साध्यविकलत्वात्, चक्षुरादौ स्वग्राहयरूपादिमत्त्व- स्यास्माभिरनङ्गीकारात् । द्वितीयतृतीयानुमानयोरपि दृष्टान्त- स्साधनविकलः, व्यजनपवतस्य वेगेन शरीरोपरि निपततस्त- संयुक्तसूक्ष्मसलिलकणानां शरीरान्तः प्रवेश हेतुत्वेऽपिस्पर्शग्रा- हकत्वा भावात् । प्रविष्टानां सलिलानां शैत्यस्यान्तर्गतत्वगिन्द्रि- यप्रदेशेन स्फुटमवगमान्; विषयतासम्बन्धेन चाक्षुष प्रति संयोगादिसम्बन्धेन तमसःप्रतिवन्धकतया दीपप्रभायास्तादृशत- मोनिवर्तकत्वेन चाक्षुषप्रयोजकत्वेऽप्यालोकसंयोगत्वादिना चा- क्षुषहेतुत्वे मानाभावात्, प्रभायाः रूपग्राहकत्वाभावात् । किञ्च द्रव्यचाक्षुषे आलोकप्रतियोगिकसंयोगो न हेतुः ; मणि- प्रभादौ तदभावेऽपि चाक्षुषोत्पत्तेः ; नाप्यालोकानुयोगिकः, घटादौ तदभावात् ; नाप्यालोकप्रतियोगिकत्वतदनुयोगिकत्वा- न्यतरविशिष्टस्संयोग;, आलोकप्रतियोगिकत्वतदनुयोगिकत्वा- दीनां विशेषणविशेष्यभावे वितिगमनाविरहेण तदवच्छिन्नस्य कारणताबाहुल्यापत्तेः ।। न च-अन्यदेशावच्छिन्नादप्यालोक- संयोगाच्चाक्ष षोत्पत्त्यभावाज्जातिबिशेष स्यैव द्रव्यादिचाक्ष जनकतायामालोकसंयोगनिष्ठायामवच्छेदकत्वं स्वीकार्यम् । सा च-जाति रालोकनिष्ठे वाय्वादिसंयोगेऽपि सम्भवतिः ।। --- प- ३० ] सिद्धान्तसिद्धाञ्जनम्. अत एव प्रभादि चाक्ष षमिति-वाच्यम् । तादृशजातिरालोक संयोगे तत्समानाधिकरणतत्समानकालीनवायुसंयोगादौ वेत्यः विनिगमकाभावात् । किन्तु तमस्त्वेन प्रतिबन्धकत्वमेव द्रव्य चाक्षषे कल्प्यते; तदभावादेवोत्त प्रभादौ चाक्ष षोपपत्तिः । च-तमोऽभावत्वेन हेतुत्वेऽपि तमःप्रतियोगिकत्वाभावत्वयोर्वि शेषणविशेष्यभावे निविगमनाविरहेण कारणताद्वयापत्तिरिति वाच्यम् । स्वावच्छिन्न प्रतियोगिताकत्वसम्बन्वेन तमस्त्ववि शिष्टत्वेनैव कारणतास्वीकारेण कारणतावच्छेदके अभावत्वानि. वेशात् । न च-अत्रापि प्रतियोगितासम्बन्धेनालोकविशिष्टत्वे. नहेतुतास्वीकारान्न विनिगमनाविरह इति-वाच्यम्; मणि. प्रभादौ व्यभिचारावारणात् ॥ एतेन-संयोगेनालोकस्य हेतु- त्वमित्यपि-निरस्तम् ॥ उक्तं च प्रथमसूत्रभाष्ये- “प्रदीपप्रभायास्तु चक्ष रिन्द्रियस्य ज्ञानमुत्पादयतो विरोधि- तमोनिरसनद्वारेणोपकारकत्वमात्रमेव ।।" - इति ।। न च-यथाकञ्चिच्चाक्ष षप्रयोजकत्वस्य हेतुत्वात्तस्य प्रभायां सत्त्वान्न साधन व कल्यमिति-वाच्यम् ; ताशप्रयोजकत्वस्यो- न्मीलनादिहेतुभूतपक्षादिसाधारण्येन व्यभिचारात् । एवमुक्ता- नुमानानां--इन्द्रियाण्यभौतिकानि, इन्द्रियत्वात् मनोवत्- इत्यादिभिस्सत्प्रतिपक्षितत्वादाहङ्कारिकत्वप्रतिपादकश्रुत्यादि- बाधितत्वाच्च न भौतिकत्वमिन्द्रियाणामिति । न च-'आकाश- मिन्द्रियेषु, इन्द्रियाणि तन्मात्रेषु, तन्मात्राणि भूतादौ लीयन्ते' इतिश्रु त्या इन्द्रियाणां तन्मात्रेषु लयप्रतिपादनात्तन्निष्ठलयप्र- तियोगित्वस्य तदुपादानकत्वव्याप्यत्वात्तन्मात्रोपादनकत्व- सिध्द्या भौतिकत्वं सिध्यतीति-वाच्यम् ; इन्द्रियपर्याये आका- जडपरिच्छेदः [ ३१ शपर्याये च लीयन्त इति पदाश्रवणेन तत्पर्यायद्वयस्याकाशेन्द्रि- ययोः इन्द्रियतन्मात्रयोश्च परस्परसंयोगप्रतिपादनपरत्वात् ।। न चेन्द्रियपर्याये लीयन्त इति पदानुषङ्गः, सति गत्यन्तरे अध्याहारवत्तस्याप्ययोगात्; अन्यथा आकाशपर्यायेऽप्यवैरूप्याया नुषङ्गापत्त्या सर्वोपबृहणविरोधापत्तेः । इन्द्रियाणामाकाशोपा- दानत्वस्य कुत्राप्यकथनात् । अस्याञ्चोपनिषदि भूतादेराकाश- माकाशाद्वायुरिति भृष्टिक्रमेण भूतादेरेवाकाशोपादानत्वाभि- धानात् ।। न च-उक्तपर्यायद्वयस्याकाशेन्द्रिययोस्संसर्गप्रतिपा- दनपरत्वमपि न सम्भवति, तादृशसंसर्गस्येदानीमपि सत्त्वेन तत्प्रतिपादने प्रयोजनाभावादिति-वाच्यम् ; स्पर्शनचक्ष रादि ष्विन्द्रियेष्वाप्यायकानां वायुतेजःप्रभृतिभागानां सत्त्वात् तत्त- दिन्द्रियाप्यायकत्वस्य तत्तदिन्द्रियेण कस'चाततापत्तिरूपत्वात्ताह शभूतांशानां सर्वेषामपि तद्दशायामाकाशतापत्त्या इन्द्रियत्वा- वच्छेदेनाकाशत्वावच्छिन्नप्रतियोगिकविलक्षणसंयोगस्य प्रलय- दशायामेव सम्भवात् । ततस्तादृशा काशस्य शब्द तन्मात्ररू- पताप्राप्तौ तन्मात्रत्वावच्छिन्ने इन्द्रियसंयोगस्योपपत्तेः । शब्द- तन्मात्रस्यैकत्वेऽप्यंशभेदविवक्षया बहुवचनोपपत्त: । तन्मा- त्राणि भूतादौ लीयन्त इत्यनेन शब्दतन्मात्रस्य तामसाहङ्कारे भूतादिपदवाच्ये लयप्रतिपादनेन विरोधाभावादिति ।। अथ तन्मात्रादिकं निरूप्यते । तन्मात्र भूतोभयसाधारण लक्षणं तु शब्दवत्त्वम्, शब्दतन्मात्रादिपञ्चतन्मात्रेषु पञ्चमहा- भूतेषु च तत्सत्त्वाल्लक्षणसङ्गतिः । स्वसमानाधिकरणस्वसजा- तीयगुणध्वंसासमानकालीन गुणवत्त्वं पञ्चतन्मात्राणां लक्षणम्। साजात्यं चाद्रव्यविभाजकशब्दत्वस्पर्शत्वादिना । शब्दतन्मात्रे । ३२ सिद्धान्त सिद्धाञ्जनम्. ..- पूर्वं शब्दविरहेऽपि भगवत्सङ्कल्पेन शब्दोत्पत्त्या तादृशशब्दस्य स्वसमानाधिकरणशब्दध्वंसासमानकालीनत्त्वाल्लक्षणसमन्वयः एवं स्पर्शतन्मात्रे स्पर्श रूपतन्मात्रादौ रूपादिकं चादाय लक्ष- । णमन्वयो बोध्यः । अत्र शब्दादिमत्त्वस्याकाशादिभूते सत्त्वा- दतिव्याप्तिवारणायासमानकालीनान्तगुणविशेषणं, आकाशादौ तन्मात्रादिनिष्ठसूक्ष्मशब्दादिनाशपूर्वकं स्थूल शब्दाद्युत्पत्तेस्ता- हशस्थूल शब्दस्य च स्वसमानाधिकरण स्वस जातीय सूक्ष्मशब्द- ध्वंससमानकालीनत्वान्नातिव्याप्तिः । स्थूलसूक्ष्मगुण भेदादेव भूततन्मात्रयोर्भेदात् ।। उक्त च तत्त्वमुक्ताकलापे- "सूक्ष्मस्थूलस्वभावस्व गुणसमुदयप्रक्रियातारतम्यात् तन्मात्राभूतभेदः कलिलदधिनयात्कल्पितस्तत्त्व विद्भिः ।" :- -इति । “स्वगुण:-शब्दादयः, तेषां, समुदयः-उत्पत्तिः । अत्र शब्दादो स्थूलत्वसूक्ष्मत्वे उद्भूतत्वानुद्भू तत्वरूपे ।। . उक्त च सर्वार्थसिद्धौ- 'आगमेन विना सिद्धिस्तन्मात्राणां च दुर्वचा। उद्भवानुद्भवाद्यैस्तु लोके सूक्ष्मादिकल्पना ॥" -इति ।। स्पर्शतन्मात्रादिषु स्पर्शादेरपि घटादिनिष्ठस्पर्शध्वंससमानका- लीनत्वादसम्भव इति तद्वारणाय स्वसमानाधिकरणत्वं गुण- विशेषणम् । तादृशस्पर्शादः स्वसमानाधिकरणसंयोगादिध्वं- ससमानकालीनत्वात्तद्दोषतादवस्थ्यवारणाय स्वसजातीयेति ।। न च-शब्दतन्मात्रेऽव्यामिः, तत्र शब्दस्य यावद्व्यभाविन एकस्यासम्भवात् द्वितीयादिशब्दानां प्रथमशब्दध्वंससमान- कालीनत्वेन तदसमानकालीनशब्दवत्त्वाभावादितिवाच्यम् । सोऽयं ककार इत्यादिप्रत्यभिज्ञाबलेन सिद्धान्तिभिरपि शब्दस्य जडपरिच्छेदः -इति ॥ यावद्रव्यभावित्वाभ्युपगमात् । उक्त च न्यायसिद्धाञ्जने- “आकाशनिष्ठस्य शब्दस्थाकाशेन सहोत्पत्तिविनाशी, वाय्वादिनिष्ठस्यापि तत्तद्भूतत्सह ॥" स्वसमानाधिकरणस्वसजातीयगुणे स्वपूर्वप्रलयपूर्वत्वाभाव- बत्त्वं विशेशणं देयम् । तेन पूर्वसृष्टौ ताशतन्मात्रत्वाद्याश्रय- प्रकृत्यशेषु स्पर्शादेस्सत्त्वेन तदध्वससमानकीलीनत्वस्यैतत्सृष्टि- घटकतन्मात्रनिष्ठस्पर्शादिषु सत्त्वेऽपि न क्षतिः ।। स्वपूर्वावस्थापूर्वत्वाभाववत्त्वस्वपूर्वत्वोभयसम्बन्धेन भूत- त्वावस्थाविशिष्टावस्थावत्त्वं वा तल्लक्षणं, भूतत्वविशिष्टघट- त्वावस्थामादाय घटादावतिव्यामिवारणाय स्वपूर्वत्वनिवेशः । भूतत्वविशिष्टाहङ्कारत्वादिकमादाय तत्रातिव्यासिवारणाय स्वपूर्वावस्थापूर्वत्वाभावनिवेशः । तत्र प्राकृताप्राकृतविभाग: पूर्ववत् ॥ तानि च तन्मात्राणि पञ्च-शब्दतन्मात्रस्पर्शतन्मात्ररू- पतन्मात्ररसतन्मात्रगन्धतन्मात्रभेदात् ।। तत्र स्पर्शशून्यत्वे सति तन्मात्रत्वं-शब्दत्तन्मात्रलक्षणं । स्पर्शतन्मात्रादिवारणाय सत्यन्तं, अव्यक्तादिवारणाय विशे- प्यम् ॥ रूपशून्यत्वे सति स्पर्शवत्तन्मात्रत्वं-स्पर्शतमात्रल- क्षणम् । रूपतन्मात्रादिवारणाय सत्यन्तं, शब्दतत्मात्रवारणाय स्पर्शवदिति, वायुवारणाय तन्मात्रत्वमिति ।। रसशून्यत्वे सति रूपवत्तन्मात्रत्वं-रूपतन्मात्रलक्षणं । रसतन्मात्रादिवार- णाय सत्यन्तम् शव्दतन्मात्रादिवारणायरूपवदिति, तेजस्य- तिव्याप्तिवारणाय तन्मात्रत्वनिवेशः ।। एवं गन्धशून्यत्वे सति रसवत्तन्मात्रत्वं-रसतन्मात्रस्य लक्षणं, व्यावृत्तिः पूर्ववत् । गन्धपत्तन्मात्रत्वं च गन्ध तन्मात्रलक्षणमिति बोध्यम् ।।

३४ ] सिद्धान्तसिद्धाञ्जनम्. यद्वा - तामसाहङ्कारत्वावस्थाध्वंसरूपाकाशत्वावस्थाप्राग- भावरूपावस्थावत्त्वं-शब्दतन्मात्रलक्षणं, आकाशत्वावस्थाध्वं- सरूपवायुत्वावस्थाप्रागभावरूपावस्थावत्त्वं स्पर्शतन्मात्रल- क्षणं, वायुत्वध्वंसरूपतेजस्त्वप्रागभावरूपावस्थावत्त्वं रूपत- न्मात्र लक्षणं-इत्यादिरोत्या ज्ञेयम् । तामसाहङ्कारात् शब्द- तन्मात्रस्य तस्मादाकाशस्य; आकाशात् स्पर्श तन्मात्रस्य तस्माद्वायोः, वायोश्च रूपतन्मात्रस्य तस्मात्तेजसः, . तेजसो रसतन्मात्रस्य तस्माज्जलस्य, जलाद्गन्धतन्मात्रस्य तस्मा- त्पृथिव्याश्चोत्पत्तेरुक्तलक्षणानां सङ्गतिः ।। यत्तु-तामसाहङ्कारात्पञ्चतन्मात्राणामुत्पत्तिः, तेभ्यश्चा- काशादिपञ्चभूतोत्पत्तिः । अत एवः तन्मात्राणि भूतादौ लीयन्त इति बहुवचनं स्वरसतस्सङ्गच्छते इति । तन्न । तथा सति 'आकाशाद्वायुः, वायोरग्निः, अग्नेरापः, अभ्या: पृथिवी' इति श्रुति विरोधापत्तेः । तन्मात्राणि भूतादाविति श्रुतेः शब्दतन्मात्रमात्रलयप्रतिपादकत्वेन 'सकल तन्मात्राणां भूतादौ लयप्रतिपादकत्वविरहात् ; अदितिः पाशा नितिवद्वहु- वचनोपपत्तेः । अन्यथा-'पृथिव्यप्सु प्रलीयते, आपस्तेजसि लीयन्ते', इत्यादिपूर्ववाक्यविरोधापत्तेः । न च-आकाशस- हकृतस्पर्शतन्मात्रस्य वायुजनकत्वमितिरीत्या पूर्वपूर्वभूतसंह- कृतस्य तन्मात्रस्योत्तरोत्तरभूतजनकत्वस्वीकारा दाकाशस्य वायु प्रति निमित्तत्वात्तत्परा आकाशाद्वायुरित्यादिश्रुतिः । अन्यथा 'अष्टौ प्रकृतयष्षोडश विकाराः' इति आथर्वणश्रुति- विरोधापत्तेः । तच्छु तौ प्रकृतिमहदहङ्कारतन्मात्राणां प्रकृति- त्वस्यैकादशेन्द्रियपञ्चभूतानां च विकृतित्वस्याभिधानात् ; आकाशादीनां चतुर्णा : तन्मात्रद्वारेण तत्त्वान्तरोत्पादकत्वे जडपरिच्छेदः [ ३५ तेषामपि प्रकृतित्वापत्त्या द्वादशप्रकृतीनां द्वादशविकृतीनां चापत्ते: इतिवाच्यम् । तथा सति पृथिव्यप्सु प्रलीयत इत्यादि- श्रुतिविरोधापत्तेः। आकाद्वायुरित्यादेरुपादानपरत्वस्य पृथिव्या ओषधयः ओषधीभ्योऽन्नम्' इत्याद्युत्तरवाक्यानुरोधेनाङ्गी- कार्यत्वात् ॥ "भूतादिस्तु विकुर्वाणश्शब्दमात्रं ससर्ज है। ततस्ससर्ज तन्मात्रमाकाशं शब्दलक्षणम् ॥ आकाशस्तु विकुर्वाण: स्पर्शमात्रं ससर्ज ह । बलवान भवद्वायुस्तस्य स्पर्शो गुणो मतः ।। ततो वायुविकुर्वाणो रूपमात्र ससर्ज ह ॥" इत्यादि विष्णुपुराणवचनेष्वप्युपादानताया उक्तत्वाच्च । अष्टौं प्रकृतयषोडश विकाराश्शरीर इत्यादिश्र तिर्न हि चतुर्विंश- तितत्त्वानां प्रकृतिभावेन भेदप्रतिपादनपरा ; किन्तु अव्यक्त- महदहङ्कारपञ्चमहाभूतरूपाष्टद्रव्याणां शरीरारम्भकत्वेन प्रकृतित्वं, शब्दादिपञ्चविषयकादशेन्द्रियाणां शरीराश्रितत्वेन विकारत्वमित्येवम्परा। स्फुटं चेदं श्रीगीताभाष्ये।। अष्टौप्रकृतय इत्यत्र प्रकृतित्वं च न तावद्यत्किञ्चित्कार्योपादानत्वं, पृथिव्या अपि घटाद्य पादानत्वादिन्द्रियाणामपि वृत्त्युपादानत्वात् प्रकृति- स्वापत्तेः । नापि प्रकृतिविभाजकोपाधिरूपेण स्वविजातीयका- र्योपादानत्वं तत्, आकाशत्वादीनां भूतविभाजकत्वेन प्रकृति- विभाजकल्वाभावेन तेन रूपेण विजातीयकार्यजनकत्वस्य- तन्मानेष्वभावेन तेषां प्रकृतित्वानापत्तेः ; किन्तु-भूतविभा- जकोपाधिमहदहंकारशब्दतन्मात्रत्वान्यतमरूपेण विजातीय- कार्यजनकत्वं तथेतिवाच्यम् । तदस्माकमपि तन्मात्रसाधा- रणमाकाशादिव्यावृत्तं चेति नोक्तश्रु तिविरोधः ॥ तत्र स्पर्शरहितत्वे सति उद्भूतशब्दवान-आकाशः । वाय्वा- सिद्धान्तसिद्धाञ्जनम्. दिवारणाय सत्यन्तं;अव्यक्तादिवारणाय विशेष्यम्; शब्दसन्मा- अवारणायोद्भूतेति श्रोत्राप्यायकत्वं वा तल्लक्षणम्।श्रोत्राप्या- यकत्वं च क्षोत्रेण सहैकसङ्घाततापन्नत्वम् । न च-श्रोत्राना- प्यायकभागेष्वव्याप्तिः ; श्रोत्राप्यायकत्वसमानाधिकरणभूत- विभाजकोपाधिमत्त्वस्य तदर्थत्वात् ।। न च-स्पर्शवद्गत्याद्य- प्रतिबन्धरूपावकाशात्मक कार्यसिद्ध्यर्थमेवाकाशोऽङ्गीकार्यः,तथा शास्त्रसिद्धत्वात् ; तथाचाकाशरूपपरिणामरहितप्रकृतिप्रदेशे- ऽपि गतिनिरोधप्रसङ्गः, स्पर्शशून्यद्रव्यत्वेनवावकाशहतुत्वस्वी- कारात्प्रकृत्यादीनामपि तथात्वे चाकाशकल्पनं व्यर्थमिति वाच्यम् । यत आकाशस्यावकाशरूपकार्यनिर्वाहार्थमेव न स्वीकारः, किन्तु श्रुतिसिद्धत्वात्प्रत्यक्षसिद्धत्वाच्च;आकाशोऽयं, कूमोऽयं, रन्ध्रमिदम्, इह पतङ्गः पतति- इत्यादिचाक्षुषप्रत्य- क्षस्याकाशेऽपि सत्त्वात् । न च-इह पतङ्ग इति प्रत्यक्षे आलो कस्याधिक रणतया भानं; नाकाशस्येति-वाच्यम् ; इहालोक इति प्रत्यक्षे तदसम्भवात्, आलोकावयवस्य तदधिकरणतया भानोपगमेऽपि त्र्यणुकाद्यात्मकालोकविषयकतादृशप्रत्यक्षे तद- वयस्य व्यणुकस्याप्रत्यक्षत्वेनाधिकरणतया भानासम्भवात् ॥ न च-सभाया ब्राह्मणा इतिवदिह व्यणुकमिति प्रत्य ते त्र्यणुकसमुदायस्याधिकरणतया भानसम्भव इति-वाच्यम् ; एवमपि-नभसि व्यणुक-व्योम्न्यातप इत्यादिप्रत्यक्षे त्र्यणुक- समुदायस्याधिकरणतया भानासम्भवात्, तस्य नभोव्योमा- दिशब्दार्थत्वासम्भवात्, आकाशस्याप्रत्यक्षत्वे नीलं नभ इति प्रत्यक्षानुपपत्तेश्च ।। न च-उपनीतस्य नीलादेरुपनीते आकाशे आरोप: आकाशस्याप्रत्यक्षत्वेऽप्युपपद्यत इति-वाच्यम् । उपनीतं विशेषणतयैव भासत इति नियमेन चाक्षुषे नीलं जडपरि च्छेद : [ ३७ : " नभ इति प्रत्यक्षे आकाशस्य विशेष्यतया भानासम्भवात्, स्वायोग्यविशेष्यकज्ञानजनने इन्द्रियाणामसामर्थ्यात् । स्पष्टञ्चदं पक्षतायां ॥ मानसत्वं तु तादृशप्रतीते- वक्तुमशक्यं; निमीलितनयनस्यापि तदापत्तेः, नीलं नभश्चक्षुषा साक्षात्कारोमीत्यादिप्रतीत्यनुपपत्तेश्च । न च-द्रव्यनिष्ठविष- यतासम्बन्धेन चाक्षुषप्रत्यक्षं प्रति समवायेन रूपस्य कारणतया आकाशे च रूपाभावान्न चाक्षुषसम्भव इति-वाच्यम्; कालस्य षडिन्द्रियवेद्यताया वक्ष्यमाणत्वेन तच्चाक्षुषे व्यभिचारेण उक्त कारणत्वासम्भवात् । न चैवं-प्रकृतिमहदहङ्काराणां वाय्वी- श्वरयोश्च चाक्षुषप्रसङ्ग इति-वाच्यम्; सामानाधिकरण्येन कालाकाशान्यत्वविशिष्टो य उद्भूतरूपाभावस्तदभावत्वेन द्र- व्यचाक्षुष प्रति हेतुतास्वीकारात् कालाकाशयोविशेषणाभावेन पृथिव्यादौ च विशेष्याभावेनोक्तविशिष्टान्यत्वसम्भवात्, प्रकृ- त्यादौ चोक्तयोविशेषणविशेष्ययोर्द्वयोरेव सत्त्वेन विशिष्टाभा- वविरहात् ॥ वस्तुतस्तु-चाक्षुषं प्रत्युद्भूतरूपस्य नोद्भूतरूपत्वेन कारणता, किन्तु शक्तिमत्त्वेन; तत्रोद्भूतरूपे कालाकाशत्वयोश्च कस्या एव शक्त स्वीकारात् कालाकाशयोश्चाक्षुषोपपत्तिः ; प्रकृत्यादौ तदनापत्तिश्च । अद्रव्येपि शक्तिसद्भावो वक्ष्यते ।। यत्तु-भाष्ये पञ्चीकरणप्रक्रियया रूपवत्त्वादाकाशस्य चाक्षुष- त्वमुपपद्यत इस्युक्तम् । तत्तु-वैभववादमात्रमित्युक्त सर्वार्थसिद्धौ । तथा रूपाङ्गीकारे आकाशस्याष्टमांश एव रूपसत्त्वेन तादृशभागस्य चाक्षुषोपपादनेऽपि भागान्तरे तदुप- पादनासम्भवात्, कालस्य सुतरां तदसम्भवात् ॥ यदपि-न चक्षुषा सन्मात्रं गृह्यते, तस्य रूपरूपिरूपैकार्थसमवेतपदार्थ- ३८ ] सिद्धान्तसिद्धाञ्जनम्. - ग्राहित्वादिति भाष्यम्, तदपि-न चाक्षुषसामान्ये रूपक ताप्रदर्शनपरं, किन्तु द्रव्यचाक्षुषस्य रूपप्रकारकत्व नियमपर- मिति बोध्यम् ।। अत्र नैयायिकाः-आकाशं नित्यं, निर वयवद्रव्यत्वात्, महाका- लवत्-इत्या द्यनुमानेनाकाशस्य नित्यत्वं सिध्यतीति। तन्न; आ त्मनआकाशस्सम्भूतः' इति श्रुतिवाधितत्वात्तदनुमानस्य । किञ्च-नित्यत्वं वंसाप्रतियोगित्व प्रागभावाप्रतियोगित्वं, कालनिष्ठभेदप्रतियोगितानवच्छेदकत्वं वा ? सर्वत्र सिद्धसा- धनं दुर्वारम् । आकाशत्वरूपावस्थायां ध्वंसप्रतियोगित्वादि- सत्त्वेऽपि तदाश्रयद्रव्ये तदभावस्याक्षतत्वात्, द्रव्यस्य कालनि- प्ठ भेदप्रतियोगितानवच्छेदकत्वाच्च । न च-आकाशलयोक्त.या आकाशो नष्ट इत्यादिप्रतोतेर्भवन्मते' प्रमात्वात् आकाशत्व- विशिष्टेऽपि ध्वंसप्रतियोगित्वादिकं स्वीकार्यमिति- -वाच्यम्, तादृशप्रतियोगिताया विशिष्ट एव पर्याप्ततया द्रव्यस्वरूपे तद- पर्याप्त स्तस्य नित्यत्वानपायात् । न च-आकाशत्वं काल निष्ठ- भेदप्रतियोगितावच्छेदकतानवच्छेदकं; निरवयवद्रव्यवृत्तित्वा- दित्यत्र तात्पर्यान्न सिद्धसाधनता, आकाशत्वावच्छिन्नावच्छे- दकताभेदस्य प्रलये सिद्धान्तिभिरुषगमादिति-वाच्यम्। तथाऽ- पि निरवयवद्रव्य वृत्तित्वस्यासमवेतद्रव्यवृत्तित्वरूपत्वे घटत्वादी व्यभिचारात् घटादेरपि सिद्धान्ते असमवेतत्वात्, समवायान- ङ्गीकारेण हेत्वप्रसिद्धेश्चति ।। आकाशात् स्पर्शतन्मात्र, ततो वायुः।रूपशून्यत्वे सत्युद्भूतस्प- वित्त्वं तल्लक्षणं । तेजोजलादिवारणाय सत्यन्तम्, आका- शवारणाय विशेष्य, स्पर्शतन्मात्रवारणायोद्भूतेति । गन्ध- जडपंरिच्छेदः शून्यत्वे सत्यनुष्णाशीतस्पर्शवत्त्वं च तल्लक्षणं; पृथिवीवार- णाय सत्यन्तः जलतेजसोर्वारणायानुष्णाशीतेति । तन्मात्रवा- रणायोद्भूतत्वमपि निवेश्यम् ।। न च-सुरभिर्वायुरिति प्रती- तेर्गन्धशून्यत्वं वायावसिद्धम्, एवं शीतो वायुरुष्णो वायुरिति प्रतीतेश्चानुष्णाशीतस्पर्शवत्त्वमप्यसिद्धमिति-वाच्यम् ; कुसु- मादिगन्धस्य स्वाश्रयसंयोगादिसम्बन्धेन वायुसम्बद्धस्य तत्र साक्षात्सम्बन्धेनारोपात् जलातपगतयोरेव शीतोष्णस्पर्शयो- स्तत्रारोपात, चाक्षुषाविषयत्वे सति स्पार्शनप्रत्यक्षविषयद्रव्य त्व च लक्षणम् । रूपशून्यत्वेऽपि वायोः स्पार्शनं सम्भवत्येव; द्रव्यनिष्ठविषयतासम्बन्धेन स्पार्शनं प्रति स्पर्शस्यैव हेतुत्वात् ।। बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षत्वावच्छिन्न प्रदि रूपस्य कार- णत्वमिति तु न युक्त; मानाभावात् उक्त च. श्री भाष्ये-- "स्पार्शनमपि न सन्मात्रविषयं, स्पर्शतद्वद्विषयत्वात्' इति । कालान्यत्वविशिष्टोद्भूतस्पर्शाभावाभावत्वेन हेतुत्वात् काल- त्वस्पर्शयोरेकशक्तिमत्त्वेन हेतुत्वाद्वा कालस्य स्पार्शनोपपत्तिः । अयं च समीपस्थेन स्पर्शनेन्द्रियग्राह्यः; दूरस्थितेन तु तृणरजः प्रभृतीनां भ्रमणोर्ध्वगमनादिभिरनुमेयः । अस्य चादृष्टात्मके- श्वरसङ्कल्पात्तिर्यग्गमनं स्वाभाविक, पार्थिवादिद्रव्येण वायवा- न्तरेण वाऽभिघातादिवशात् भ्रमणोर्ध्वगमनादयः ।। स चायं वायु:-इन्द्रियाप्यायकप्राणशरीरविषयभेदाच्चतुर्धाः । तत्र त्वगिन्द्रियेणैकसङ्घाततापन्ना वाय्वांशा इन्द्रियाप्यायकाः; शरीरधारणादिहेतुर्वायुविशेषः प्राणः । स चैकोऽपि प्राणापा- नव्यानोदानसमानात्मकवृत्तिभेदात्पञ्चधा, नागकूर्मकृकरदेव- दत्तधनञ्जयभेदैस्सह दशधा चोच्यते ।

सिद्धान्तसिद्धाञ्जनम्. दगीपानम्ममानश्च उदानो व्यान एव च । नामः कुर्मश्च कृकरो देवदत्तो धनञ्जयः अस्ति दानाडीषु दश प्राणादिवायवः ॥" Hetstandinagar * Angi rajague उदगानदीनथो नागः कुर्मोऽक्ष्यादिनिमीलनम् । कारचक्षपः कर्ता दत्तो निद्रादिकर्मकृत् ॥" निरमाणात् । जङ्गमशरीरवत् स्थावरशरीरेऽप्यसाव- भग्नगाखादीनां संरोहणेन क्षतभागानां वृद्ध्या च नादौ प्राणामभावोनयनात् । परं तु स्थावरशरीरेष्वेकधैव न अधा ।। उक्तं च भाष्ये-- झ्यावर हि प्राणसद्भावेऽपि हि तस्य पञ्चाधाऽवस्थाय शोरधारणत्वेनावस्थानं नास्ति ॥" -इति ॥ "वान भूताद्वायोरन्थ एव प्राणाख्यो वायु:, वायवीयं * हार मातादीनां प्रसिद्ध, चण्डानिल तालवृन्तपवनादि- यो पतन्मात्र, ततस्तेजः' ; 'वायोरग्निः इति श्रुतेः, अमिनदादम्य ते जम्मामान्यपरत्वात् ।। ननु-वायुपरिणामत्व- " पादानक- तेजसो न सम्भवति, तृणपर्णकाष्ठादी- याधिवानामग्नधादिरूपेण परिणामदर्शनात् ।। * चाटाद्यपनीतैस्तेजोऽवयवैरेवाग्नयारम्भ इति-वाच्यम्; यिन गौरवात् । एवं च वायोरग्निरिति श्रुतिनिमत्तकारण- कमाणात्युपपद्यते-इति चेन्न । तृणपर्णादावपि पञ्चीकर- " कई दिया ले जोभागसत्त्वेन तस्यैव सजातीयावयवयोगेनोद्भूता- नादिम पेण परिणामोपपत्तेगौरव विरहात्, श्रुतेरनन्यथासि- दानप्रकरणपटिताया निमित्तकारणत्वपरत्वासम्भवात् ।

जडपरि च्छेद : [ ४१ अन्यथा काष्ठादिजन्याग्न्यादौ पार्थिवोपादानकत्वं, अबिन्धना- ग्नौ च तदसम्भवाज्जलोपादानकत्वमिति कल्पने भवतामेवा- नेकोपादानकल्पना गौरवात् । काष्ठादावनुद्भूताग्निसत्त्वं च महर्षि भिरेवोक्त - "काष्ठेऽग्निरिव शेरते । दारुण्यग्निर्यथा तैलं तिले तद्वत्पुमानपि ।।" --इति ।। तथा च- समष्टिसृष्टिदशायां वायोरेवोपादनभूताद्वह्न रुत्पतिः, व्यष्टिदशायां तु सूक्ष्मात्तेजस एव स्थूलतेजस उत्पत्तिरिति ।। उष्णसवित्त्वं भास्वररूपवत्त्वं च तेजसो लक्षणं; रसशू- न्यत्वे सति रूपवत्त्वं च तल्लक्षणम् । तच्चतुर्धा-आप्यायकव- श्वानरशरीरविषयभेदात् । बाक्चक्षुषोराप्यायकं तेज इन्द्रिया- प्यायकं ; तेजोमयी वाक्', 'आदित्यश्चक्षुर्भूत्वा अक्षिणि प्राविशत्, रश्मिभिरेषोऽस्मिन् प्रतिष्ठितः' इति श्रुतेः । भुक्ता- नादे: परिणामहेतुस्तेजोविशेषो वैश्वानरः । आदित्यादिशरीरं लैजसशरीरं, 'सुकृतां वा एतानि ज्योतींषि यन्नक्षत्राणि' इत्या- दिश्रुतिसिद्धम् । चन्द्रिकातपादिविषयः ।। तेजः पुनस्सामान्यतो द्विधर---प्रभा प्रभावांश्चति । स्वापृथ क्लिद्धत्वस्वाधिकपरिमाणवत्त्वोभयसम्बन्धेन तेजोबिशिष्टं तेजः--प्रभा । अपृथक्सिद्धत्वं च-अपृथक्सिध्द्यात्मकसंयोगप्रति- योगित्वं, गुणगुणिनोस्स्वरूपसम्बन्ध इव प्रभाप्रभावतोस्संयोगे- ऽप्यपृथक्सिद्धित्वस्य स्वीकारात् । सर्वं तं परादाद्योऽन्यत्रात्म- नस्सर्वं वेद', 'न तदस्ति विना यत्स्यान्मया भूतं चराचरम्' इत्यादिना जगद्ब्रह्मणोस्संयोगे अपृथक्सिद्धित्वस्य प्रतिपन्नत्वेन तादृशधर्मस्य संयोगत्वविरुद्धत्वाभावात् ।यद्वा-स्वापृथक्सिद्धत्वं स्वसंयोगाभावनिरूपितकालविशेषावच्छिन्नाधिकरणताशून्यत्वे सति स्वसंयोगवत्त्वम् । स्वापृथक्सिद्धत्वसम्बन्धेन प्रभाविशि- ४२ ] सिद्धान्तसिद्धाञ्जनम्. टदीपकलिकादिवारणाय स्वाधिकपरिमाणवत्त्वनिवेश: अल्पदीपविशिष्टमहादीपवारणाय स्वापृथक्सिद्धत्वनिवेशः । स्वाधिपरिमाणवत्त्वं च स्वासंयुक्तानेकदेशसंयुक्तत्वम् । तेन परिमाणानङ्गीकारेऽपि न क्षतिः । न च-आतपतप्तसलिलादौ रात्रावप्यौष्ण्योपलम्भादादित्यमुक्ताः किरणास्सलिलान्तःप्रविष्ट स्सन्तीत्यभ्युपगन्तव्यं तथा चादित्यापृथसिद्धत्वं किरणेषु नास्त त्यव्याप्तिरिति-वाच्यन् । रविकिरणोपात्तमुक्तानां तुहिनकिर- णानां संक्रमाच्छैत्योपलम्भवत्तत्किरणोपातमुक्तानामग्न्यवय- वानां संक्रमात्सलिलादौ औष्ण्योपलम्भोपपत्तेः तत्र किरणानां सद्भावस्याकल्पनात् । उक्तं च मात्स्ये- "वसन्ते ग्रीष्मके रश्मिशतैस्सन्तपति त्रिभिः । शरद्यपि च वर्षासु चतुभिस्सम्प्रवर्षति ।। हेमन्ते शिशिरे चैव हिममुत्सृजति त्रिभिः ।"-इति।। अत्र सन्तपतीत्यस्याग्न्यवयवानुत्सृजतीत्यर्थः । स्पष्टं चैत- च्छ्र तप्रकाशिकायां ॥ यत्तु-विशीर्णदीपावयवसमुदाय एव प्रभेति । तन्न ; ऊर्ध्वग- मनस्वभावानां दीपावयवानां वाताद्यभिघातादर्शने युगपद्विष्व- ग्विशरणादिकल्पनस्य गुरुत्वात्, प्रभाया द्रव्यान्तरत्वे तु प्रत्य- क्षाद्यनुरोधेन तथाऽ भ्युपगमोपपत्तेः, मण्यादिप्रभाया विशीर्ण- तदवयवसमुदायत्वासम्भवाच्च । न च-मण्यादौ पार्थिवांशस्य स्थिरत्वेपि तदन्तर्गततेजोंशस्य विशरणप्रसरणादिकमुपपन्न- मिति-वाच्यम्, कल्पनागौरवात् ।। तदतिरिक्त तेजः प्रभावत्, तच्च मणिधुमणिप्रदीपादि । सुवर्णं तु पार्थिवमेव, पोतरूपवत्त्वात्, गुरुत्ववत्त्वात्, काठि- न्यवत्त्वाच्च; 'काठिन्यवान्यो बिभर्ति' इत्यनेन पृथिव्या एव - जडपरिच्छेदः [४३ ताहशद्र- काठिन्योत्तेः । न च-सुवर्ण तैजसम्, अत्यन्तानलसंयोगे सत्य- नुच्छिद्यमानद्रवत्वाधिकरणत्वात्; यन्न वं तन्न वमिति व्यति- रेक्यनुमानेन सुवर्णस्य तैजसत्वसिद्धिरिति-वाच्यम् च्यतिरे- क्यनुमानस्य निरसिष्यमाणत्वात्, द्रुतं द्रुततरं द्र ततममिति प्रतीत्या उच्छिद्यमानद्रवत्ववत्वेनानुच्छिद्यमानद्रवत्वासिद्ध, पीतंद्रतमिति प्रतीत्या पार्थिवभागेऽपि चत्वदर्शनेनं व्यभिचाराच्चेति । अत्र रक्तभास्वरमेव रूपं,रूपा- न्तरोपलम्भस्तु पृथिवीजलांशसंसर्गवशात् । एतच्च “यदग्ने रोहितं रूपं तेजसस्तद्र पं यच्छुल्कं तदपा यत् कृष्णं तदन्नस्य इत्यादि श्रुतिसिद्धम् । एवमुष्ण एव स्पर्शः, चन्द्रिकादौ शीत- स्पर्शशुल्करूपयोस्तदन्तर्गतजलांशसम्बन्धित्वात्, म रकतप्रभा- दावनुष्णाशीतनीलरूपयो श्चपार्थिवत्वादिति ।। तेजसो रसतन्मात्र, तस्माज्जलम् । शीतस्पर्शवत्त्वं, निर्गन्ध- त्वे सति रसवत्त्वं,अपाकजशुल्करूपवत्वं,सांसिद्धिकद्रवत्ववत्त्व- मित्यादि-तल्लक्षणम् । न च-उष्णोदके शोतस्पर्शवत्त्वस्याव्या- 'प्तिरिति-वाच्यम् तत्रापिशोतस्पर्शसत्त्वात्,तेजस्स्पर्शेनाभिभवेन- तदनुपलब्धेः । प्रथमं पृथिव्याः कृष्णाया एवोत्पत्तावपि पाकव- शात्तत्र शुक्लरूपोत्पत्तेस्तनातिव्याप्सिबारणायापाकजेतिन च-- सांसिद्धिकद्रवत्वस्य हिमकरकयोः अव्याप्तिरिति-वाच्यम् तत्रा- पिद्रवत्वसत्त्वादुपष्टम्भकपार्थिवभागगतकाठिन्येनाभिभूतत्वाद- नुपलम्भोपपत्तेः । तच्चाप्यायकशरीरविषयभेदात्विधा । तत्र रसनप्राणयोराप्यायका अंशा आप्यायकाः । शरीरं वरुणलोके । सरित्समुद्रादिविषयः---इति ।। जलाद्गन्धतन्मात्र, तस्मात्पृथिवी । गन्धवत्त्वं तल्लक्षम् । न च-तन्मात्रेऽतिव्याप्तिः, उद्भूतत्वनिवेशे च पाषाणेऽव्याप्ति- रिति-वाच्यम् । गन्धध्वंससमानाधिकरणगन्धवत्त्वस्य विव. - on

सिद्धान्तसिद्धाञ्जनम्
-
दानवान् । रलवत्त्वे सत्यनुष्णाशीतस्प
मिन्यादिकमपि तल्लक्षणम् । सा प्रथ
मागोतस्पर्शा जाता । तत्रानुष्णाशीत
जनलिनसम्पदिौष्ण्याद्युपलम्भः ।।
मति च यत्कृष्णं तदन्नस्य' इति श्रुति
*पान्तरोत्पत्तिः । सा त्रिधा-आप्याय
मनोत्राणयोराप्यायकाः पार्थिवभागाः 3
आगेर पार्थिवं ; विषयो मृत्पाषाणादिनि
नमो द्रव्यं, सङ्कोचविकासरूपावस्थाव
पाथिव चाबाधितनीलादिप्रत्ययविषयत्व
न च-तेजोऽभाव एव तमः, द्रव्यान्तरः
श्राव्यम् ; तथा सत्यबाधितनीलादिप्रत्य
मर्ज भगवान् इति तत्त्वान्तरवर सृष्टिश्रवण
ज्योतिरभून्न चान्यत्' इति तेजस्तमसो
तन, तयोर्भावाभावरूपत्वे एकदा निषे
मिब्रह्मणे यस्य तमश्शरीरमिति त
जनरत्रस्य वक्ष्यमाणरीत्या द्रव्यत्वछ
नममः पार्थिवत्वे पृथिवीतः पृथगेव सृ
अमिति-वाच्यम् ; पृथक्सृष्टिबचनस्य
दिवदुपपत्तेः । न च- तमसो द्रव्यत्वे ।
चाभुषानुपपत्तिः । द्रव्य निष्ठलौकिकविष
प्रति संयोगेन तमसः प्रतिबन्धकत्वादि
भिन्नद्रव्यनिष्ठविषयतासम्बन्धेन चाक्षुपं
कन्नास्वोकारात् ॥
व्यासाचार्यानुयायिनस्तु-तम आ

जडपरिच्छेदः त्वाभावे सति चक्षुषप्रत्यक्षविषयद्रव्यत्वात्, प्रसिद्धाकाशव पृथिव्यां व्यभिचारवारणाय सत्यन्तम्, आत्मनि व्यभिचा वारणाय चाक्षुषेति । प्रत्यक्षविषयता च-मुख्यविशेष्यतारू ग्राह्या; तेन काले न व्यभिचारः । उक्त च श्रु तप्रकाशिका 'स्वच्छद्रव्यत्वादाकाशकार्यं तमः' -इति ।। गतिनिरोधकत्व भावे सति चाक्षुषविषयद्रव्यत्वमेव स्वच्छन्द्र व्यत्वं; यद्वा-स्पर शून्यत्वे सति चाक्षुषविषयद्रव्यत्वं तत्; तेन प्रभादौ न व्यनि चारः । न च तमस आकाशत्वे रूपवत्त्वानुपपत्तिः ; पञ्ची रणवशात्तदुपपत्तेः। अथवा तमस्तैजसं, रसशून्यत्वे स रूपवत्त्वात्, वह्नयादिवत् । न चैवमुष्णस्पर्शप्रत्यक्षापत्ति नीलमणिप्रभादाविव स्पर्शस्यानुद्भूतत्वकल्पनात् ॥ उक्त श्रुतप्रकाशिकायां-"यद्वा तेजःकार्यं तमः, रूपवत्त्वात्; स्पश नुपल म्भस्तु स्वच्छद्रव्यत्वात्' इति ॥ स्वच्छत्वादित्यस्या द्भू तत्वादित्यर्थः ।। -इत्याहुः अपरे तु-प्रकृतेरवस्थान्तरमेव तमः, न तावद्वायुपर्यन्तेषु तस्र न्तर्भावः, रूपवत्त्वात्;नापि जलतेजसोः, नील रूपवत्त्वात्; ना। पृथिव्यां, गन्धरसादिरहितत्वात्।अत एवोक्त न्यायसिद्धाञ्ज "अस्तु वा किञ्चिदभिनवधनाघनावलीमलीमसमनाघ्रात शरसगन्धमन्धकाराभिधानमवस्थान्तरं प्रकृतेः।।" - इति तत्त्वरत्नाक रेऽपि-- "अत्र तत्त्वविदः प्राहुस्स्थूलसूक्ष्मात्मना स्थिता । दैवी गुणमयी माया बाह्यान्तरतमो मता ॥"-- इति अत एव भाष्येऽप्यस्य द्रव्यत्वमेवोक्त, पृथिव्यादिष्वन्तर्भात नाभिहितः ॥ --इत्याहुः एवं चतुविशतिविधा प्रकृतिनिरूपिता ॥ इदमल बोध्यम्- " सिद्धान्तसिद्धाञ्जनम्. --24 -1 24 . है .. IMA i M प्रवक्ताद: कारणत्वं, महदादेः कार्यत्वं मात्मन व कारणत्वं कार्यत्वं च ।। रादाबाकाशशरीरकाद्वायुशरीरकपरम । अत एव तत्तेज ऐक्षत, बहुस्यां प्रजाये र आरक्षन्त, ववच स्स्याम प्रजा नाजदशब्दवाच्ये अपशब्दवाच्ये समुपपद्यते : तेज आदिशब्दस्याचे समानुपानेः । ईक्षतिधातोगौणत्वं तु-गौर ५. द निराकृतम् न चैवं-'आत्मन आव सम्भूतशब्दस्य गौण्यसम्भवादिति पूर्वप - पलि,. आकाशस्योत्पत्तिमत्त्वेऽपि तः भनदासम्भवादिति-वाच्यम्'; स्वाधिकरण पारम्बन्धरूपोत्पत्तेः; विशेषण इव विति वाधिकरणक्षणध्वंसान धिकरणक्षणाप्रसि मायामामोपादानासम्भवेऽपि आकाशादिशरी १० मा मन उपादानसम्भवात्, विशिष्ट निरूपिता भावसानाधिकरणत्वस्याकाशोत्पत्तिक्षणे प्ररि ४" कोडाधिकारे शिरोमणिना- मन मुत्पत्त्य भावेऽपि विशेषणस्य शरीरस्ट दारस्य तथात्वव्यपदेशः, अपूर्वशरीरादि तु में मुग्यो जन्यर्थः ।।" न चात्र गदाधरेण-"विशेषणोत्पत्तिक्षण मामयवसाधिकरणत्वेऽपि विशिष्टाधिकर .NP -otek . . " से माधिकरणान्वरूपाद्यत्वाक्षतेः, तत्सम्बन्धरूपजनन ४ सिद्धिाच्चैत्रो जात इत्यगौणः प्रयोग उपप जडपरिच्छेदः [ ४७ -इति ॥ इत्यस्याद्यशरीरसम्बन्धवानित्याद्यर्थकत्वे च जात इत्यस्य लाक्षणिकत्वापत्तिः ।।" तथा च 'आत्मनं आकाशस्सम्भूतः' इत्यादौ न गौणताप्र- सङ्गः । अत्र पृथिव्यप्तेजसां त्रिवृत्करणं छान्दोग्येऽभिहितं 'तासां त्रिवृत त्रिवृतमेकैकां करवाणि' इति । तच्च-स्वसजा- तीयधर्मद्वयविशिष्टधर्मवत्त्वम् । साजात्यं च-पृथिवीत्वजलत्व- तेजस्त्वान्यतमत्वेन । धर्मद्वयवैशिष्टय च-स्वाश्रयचतुर्थीशसं- युक्तार्धभागवृत्तित्वसम्बन्धेन । तथा च स्वपदेन पृथिवीत्वोपा- दाने उक्तान्यतमत्वरूपेण स्वसजातीयधर्मद्वयं जलत्वं तेजस्त्वं च, तदाश्रयजल चतुर्थांशतेजश्चतुर्थांशयोस्संयोगस्य पृथिव्यर्ध- भागे सत्त्वादुक्तसम्बन्धेन जलत्वतेजस्वोभयविशिष्टपृथिवी- त्वंवत्त्वं पृथिव्यामुपपन्नम् । त्रिवृत्करणपक्षे भूते भूतान्तरच- तुर्थांशमेलनस्याभिमतत्वात् । चतुर्थांशसंयोगश्चाण्डोत्पत्त्यभा- वप्रयोजकीभूताभावप्रतियोगित्वेन विशेषणीयः ; तेन न यथा- कथञ्चित्संयोगस्य त्रिवृत्करणरूपतापत्तिः, परस्परानुप्रवेशात्म- कसंयोगस्यैव अण्डोत्पत्तिप्रयोजकत्वेनोक्तविशेषणेन तादृशसंयो- गस्यैव लाभात् । "नानावीर्या:पृथग्भूतास्ततस्ते संहति विना । नाशवनुवन् प्रजास्त्रष्टुमसमागम्य कृत्स्नशः।। समेत्यान्योन्यसंयोगं . परस्परसमाश्रयाः । एकसङ्घातलक्ष्यास्तु संप्राप्यैक्यमशेषतः ।। महदादयो विशेषान्ता ह्यण्डमुत्पादयन्ति ते ।" इति भगवत्पराशरवचनाद्विलक्षणसंयोगाभावस्यवाण्डोत्पत्त्य- भावप्रयोजकत्वाभिधानात् । “संहतत्वं समागतत्वं चेत्यवस्था- द्वयमस्ति । तत्र संहतत्वं नाम-पृयस्थित्यहसंयोगमात्रं, समा- - ४८ ] सिद्धान्तसिद्धञ्जनम् गतत्वं च-पृथक स्थित्यनहसंयोगविशेषः" इति व्यासाया- ख्यातम् ।। पञ्चीकरणं सप्तीकरणं च पुराणप्रसिद्धम् । स्वसजातीय- धर्मचतुष्टय विशिष्टधर्मवत्त्वं-पञ्चीकरण ; साजात्यं च-पृथि- बीत्वजलत्वतेजस्त्ववायुत्वाकाशत्वान्यतमत्वेन । धर्मचतुष्टय. वैशिष्टयं च-स्वाश्रयाष्टमांश संयुक्तार्धभागवृत्तित्वसम्बन्धेन । पञ्चीकरणपक्षे भूतानि प्रत्येक द्विधा विभज्य पृथिव्यायेकैका- धषु जलादीनामष्टमांशचतुष्टयसंयोगस्य स्वीकार।त् । "एवं जातेषु भूतानि प्रत्येकं स्युद्विधा ततः । चतुर्धा भिन्नमेकैकमर्धमधू तथा स्थितम् ।। व्योम्नोऽर्धभागश्चत्वारो वायुतेजः पयोभुवाम् । अर्धानि यानि वायोस्तु व्योमतेजःपयोभुवाम् ॥" इत्यादिपुराणवचनात् ।। एतेन-पृथिव्यादिकं द्वेधा विभज्य तदर्धं पञ्चधा विभज्य पञ्चस्वर्धान्तरेषु योजनं पञ्चीकरणम्; तथा चोक्तलक्षणे स्वाश्र- याष्टमांशसंयुक्तेत्यपहाय दशमांशसंयुक्तेति वक्तव्यमिति-निरस्तम् उक्तपुराणवचनविरोधात् ।। सप्तीकरणं तु-स्वसजातीयधर्मषट्कविशिष्टधर्मवत्त्वं'; साजात्यं च महत्त्वाहङ्कारत्वपृथिवीत्वादिपञ्चकान्यतमत्वेन । धर्मषट्कवैशिष्टयं च स्वाश्रयद्वादशांशसंयुकार्धभागवृत्तित्वस- म्वन्धेन । सप्तीकरणपक्षे पृथिव्याघेककाध षोढा विभज्य षट्- स्वान्तरेषु संयोगस्याभिप्रेतत्वात् ।। यद्यपि-पृथिव्याद्यर्थेषु जलादिचतुर्थांशसंयोगरूपत्रिवृत्करणस्य श्रुत्यभिप्रेतत्वे तदष्टमांशद्वादशांशसंयोगप्रतिपादनपराणामुदा- हृतपुराणवचनानामप्रामण्यं प्राप्नोति;पञ्चीकरणपक्षे चतुर्थांश- "जडपरिच्छेदः [ ४ संयोगासम्भवात्, वस्तुनि विकल्पासम्भवेनैकत राप्रामाण्या श्यकत्वे 'विरोधे त्वनपेक्षं स्यात्' इति न्यायेनश्रुतिविरुद्ध पुराणादेः प्रामाण्यासम्भवात् । तथाऽपि-तासां त्रिवृतंत्रिवृ मित्यादेरेकैकं तेजःप्रभृति भूतं स्वार्धेनेतरार्धयोर्भागद्वयेन च भागं करवाणीत्यर्थः।।तथा च तादृशश्रुतौ चतुर्थांशसंयोगाप्रत रष्टमांश संयोगपरताया एबोपबृहणानुरोधेनाङ्गीकारेण विर धाभावात्,स्वाश्रयाष्टमांशसंयुक्तार्धभागवृत्तित्वसम्बन्धेना स्र सजातीयधर्मद्वयविशिष्टधर्मवत्त्वमे वत्रिवृत्करणम् न तु चर थांशघटितपूर्वोक्तलक्षणं ; उक्तदोषात् । सप्तीकरणपक्षे तु त्रि करणं पञ्चीकरणं च द्वादशांशघटितं, न त्वष्टमांशघटितं तथा सति विरोधापत्तेः । इत्थं च सप्तीकरणकदेश: पञ्चीकर तदेकदेशस्त्रिवृत्त्करणमिति न परस्पविरोध इति बोध्यम् ।। एतेन-चतुर्थांशघटितनिवृत्करणप्रतिपादकश्रुतिविरुद्धत्वात्प राणमप्रमाणं, वाचस्पत्युक्तं त्रिवृत्करणमेव युक्तम्; तदुः कल्पतरौ- सम्प्रदायाध्वना पञ्चीकरणं यद्यपि स्थितम् । तथाऽपि श्रुतियुक्तिभ्यां वाचस्पतिमतं शुभम् ॥" इत्यादिकं--निरस्तम् । उक्तरीत्या श्रुतिविरोधाभावात् ।।- इति । इत्थं-- पञ्चीकृतैस्सप्तीकृतैर्वा तत्त्वैरण्डाद्यारम्भो देहा द्युत्पत्तिश्च । न च-देहादेरनेकभूतोपादनकत्वे पृथिवीत्वादि जातीनां देहे सङ्करस्यादिति-वाच्यम् । अवयवातिरिक्तावयवि नोऽस्माभिरनङ्गीकाराज्जा तिसङ्करात्रसक्तेः ; कार्यकारणयोर नन्यत्वात् ॥ न च--पटतन्त्वादिरूपकार्यकारणयोरनन्यत्वं । सम्भवति; एकत्वानेकत्वस्थूलत्वसूक्ष्मत्यादिरूपविरुद्धधर्माध्या सात्, कारकव्यापारवैयर्थ्यापत्तेश्च ति-वाच्यम् ; असमवायि. कारणत्वेन भवदभिमतसंयोगविशेषविशिष्टतन्तूनामेव पटत्वेन - ४८ ] सिद्धान्तसिद्धञ्जनम् गतत्वं च-पृथक स्थित्यनहसंयोगविशेषः" इति व्यासाया- ख्यातम् ॥ पञ्चीकरणं सप्तीकरणं च पुराणप्रसिद्धम् । स्वसजातीय- धर्मचतुष्टयविशिष्टधर्मवत्त्वं--पञ्चीकरणं ; साजात्यं च-पृथि- वीत्वजलत्वतेजस्त्ववायुत्वाकाशत्वान्यतमत्वेन । धर्मचतुष्टय- वैशिष्टयं च-स्वाश्रयाष्टमांश संयुक्तार्धभागवृत्तित्वसम्बन्धेन । पञ्चीकरणपक्षे भूतानि प्रत्येक द्विधा विभज्य पृथिव्यायेकैका- र्धषु जलादीनामष्टमांशचतुष्टयसंयोगस्य स्वीकारात् । "एवं जातेषु भूतानि प्रत्येकं स्युर्द्विधा तत: । चतुर्धा भिन्नमेकैकमर्धमधू तथा स्थितम् ।। व्योम्नोऽर्धभागश्चत्वारो वायुतेजः पयोभुवाम् । अर्धानि यानि वायोस्तु व्योमतेजःपयोभुवाम् ।।" इत्यादिपुराणवचनात् ॥ एतेन-पृथिव्यादिकं द्वेधा विभज्य तदर्धं पञ्चधा विभज्य पञ्चस्वर्धान्तरेषु योजनं पञ्चीकरणम्; तथा चोक्तलक्षणे स्वाश्र- याष्टमांशसंयुक्तेत्यपहाय दशमांशसंयुक्तेति वक्तव्यमिति-निरस्तम् उक्तपुराणवचनविरोधात् ।। सप्तीकरणं तु-स्वसजातीयधर्मषट्कविशिष्टधर्मवत्त्वं ; साजात्यं च महत्त्वाहङ्कारत्वपृथिवीत्वादिपञ्चकान्यतमत्वेन । धर्मषट्कवैशिष्टय च स्वाश्रयद्वादशांशसंयुक्तार्धभागवृत्तित्वस- म्वन्धेन । सप्तीकरणपक्षे पृथिव्याघेकैकाध घोढा विभज्य षट्- स्वर्धान्तरेषु संयोगस्याभिप्रेतत्वात् ॥ यद्यपि-पृथिव्याद्यर्थेषु जलादिचतुर्थांशसंयोगरूपत्रिवृत्करणस्य श्रुत्यभिप्रेतत्वे तदष्टमांशद्वादशांशसंयोगप्रतिपादनपराणामुदा- हृतपुराणवचनानामप्रामण्यं प्राप्नोति;पञ्चीकरणपक्षे चतुर्थांश- ܩܐ "जडपरिच्छेदः .. .. संयोगासम्भवात्, वस्तुनि विकल्पासम्भवेनैकतराप्रामाण्याव. श्यकत्वे 'विरोधे त्वनपेक्षं स्यात्' इति न्यायेनश्रुतिविरुद्धार्थे पुराणादेः प्रामाण्यासम्भवात् । तथाऽपि-तासां त्रिवृतंत्रिवृत- मित्यादेरेकैक तेजःप्रभृति भूतं स्वार्धेनेतरार्धयोर्भागद्वयेन च त्रि भागं करवाणीत्यर्थः। तथा च तादृशश्रुतौ चतुर्थांशसंयोगाप्रतीते. रप्टमांशसंयोगपरताया एवोपबृहणानुरोधेनाङ्गीकारेण विरो- धाभावात्,स्वाश्रयाप्टमांशसंयुक्तार्धभागवृत्तित्वसम्बन्धेना स्व- सजातीयधर्मद्वयविशिष्टधर्मवत्त्वमे वत्रिवृत्करणम् न तु चतु- शिघटितपूर्वोक्तलक्षणं ; उक्तदोषात् । सप्तीकरणपक्षे तु त्रिवृ- करणं पञ्चीकरणं च द्वादशांशघटितं, न त्वष्टमांशघटितं ; तथा सति विरोधापत्तेः । इत्थं च सप्तीकरणैकदेशः पञ्चीकरण, तदेकदेश स्त्रिवृत्करणमिति न परस्पविरोध इति बोध्यम् ।। एतेन-चतुर्थांशघटितत्रिवृत्करणप्रतिपादकश्रुतिविरुद्धत्वात्पु- राणमप्रमाणं, वाचस्पत्युक्तं त्रिवृत्करणमेव युक्तम्; तदुक्तं कल्पतरौ--- "सम्प्रदायाध्वना पञ्चीकरणं यद्यपि स्थितम् । तथाऽपि श्रुतियुक्तिभ्यां वाचस्पतिमतं शुभम् ॥" इत्यादिकं-निरस्तम् । उक्तरीत्या श्रुति विरोधाभावात् ।।- इति । इत्थं-पञ्चीकृतैस्सप्तीकृतैर्वा तत्त्वैरण्डाद्यारम्भो देहा- द्युत्पत्तिश्च । न च-देहादेरनेकभूतोपादनकत्वे पृथिवीत्वादि- जातीनां देहे सङ्करस्यादिति-वाच्यम् । अवयवातिरिक्तावयवि- नोऽस्माभिरनङ्गीकाराज्जातिसङ्करात्रसक्तेः ; कार्यकारणयोर- नन्यत्वात् ॥ न च-पटतन्त्वादिरूपकार्यकारणयोरनन्यत्वं न सम्भवति; एकत्वानेकत्वस्थूलत्वसूक्ष्मत्वादिरूपविरुद्धधर्माध्या- सात्, कारकव्यापारवैयर्थ्यापत्तेश्चति--वाच्यम् ; असमवायि- कारणत्वेन भवदभिमतसंयोगविशेषविशिष्टतन्तूनामेव पटत्वेन .rayp -ti M -0 Ma yre Pyana-an- Met -- मिद्धान्तसिद्धाञ्जनम्. कामेव कारकव्यापारसार्थक्यात; एकत्व. गभित्रनसेनादिष्विवोपपत्तेः; संयोगविशेष विशि- माम बरागित्वेऽपि तद्गतापेक्षाबुद्धि विशेष विषयन्व.. वेन एकत्व व्यवहारात्। अन्यथा पत्रताटकादा- 37 रनार प्रारम्भकल्पनाप्रसङ्गात् । तत्रावयवद्वससंयोगला- : माया विरहेण तत्र द्रव्यारम्भस्य भवभिरयातीका- .: ५ : था-आकुंचनप्रसरणादावपि द्रव्यान्तरकल्पनाप्रसङ्गात्। ** अवयवातिरिक्तावयविस्वीकारे अनेकावयवारब्धकनक- बादाय वयवगतगुरुत्वैरवयविगुरुत्वोत्पत्त्यापातालोलने अ- नम्भप्रगङ्गः।न च-अवयविनि गुरुत्वोत्पत्यानन्तर- चार बनागानाधिक्यमिति-वाच्यम्; अवयवानां गुरुत्व- 'बादीनां पतनाभावप्रसङ्गात्, समवायेन पतनं प्रनि - म म पर गुरुवस्यासमवायिकारणत्वात्, अवयविनि गुरुवा- ११ न अवयविन: पतनानुपपत्तेः । एवं तन्तुसमुदायाति- ...पादिपदार्थत्वे दीधैंकतन्तुभ्रमणारब्धे पटे पट ल्या- * गनुपपत्तिः, असमवायिकारणरूपतन्तुद्वयसंयोगाभा- अपनाननेः ।। अपि च-सहस्रतन्तुकपटस्थले हिलीय- ४... भयोगमारभ्य प्रतितन्तुसंयोग द्वितन्तुकादिपटपनिमा- रा, नवा ? || आधे-अनेकपटोपलम्भप्रसङ्गः । * अन्तर घटोत्पत्तिदशायां द्वितन्तुकपटस्य नाशानापतितरिति roy . . । नाम काभावादहेतुकविनाशस्यायुक्तत्वात् । कालम्भप्रसङ्गः । तदुक्तं सर्वार्थसिद्धौ-- दुःसिद्धपटैस्सार्धं तन्तुभिः पटसम्भवे पाकिस्समीक्ष्येत क्रमादाधिक्यशालिनी ।। नाक्सिद्धाना पटादीनामुत्तरोत्तरजन्मनि । अहनुको विनाशश्च स्थिरपक्षे न युज्यते ।।" ---- इति ।।

Library, जडपरिच्छेदः TIREPRI द्वितीये-अन्त्यतन्तुसंयोगात्पूर्वमुत्पद्यमानानां पदप्रतातील स्वप्रसङ्गात् । न चेष्टापत्तिः; एकद्वितन्त्वाद्यपगमेऽपि जायाँ- नायाः पटंप्रतीते मत्वप्रसङ्गात् । न च तत्रापीष्टापत्तिः; भव- द्भिरपि तत्र खण्ड पटोत्पत्तेरभ्युपगमेन भ्रमत्वानङ्गीकारात्।। अथ--पूर्वतन्त्रे नवमे “अग्निधर्मः प्रतीष्टक सङ्घातात्पूर्णमासी- वत्" इत्यधिकरणे' हिरण्यशकलैरग्नि प्रोक्षति, मण्डूकेनाग्नि विकर्षति' इति विहितमग्निपदलक्षिताग्न्यधिकरणस्थण्डिलकर्म कं प्रोक्षणं विकर्षणं च अवयवातिरिक्तावयव्यभावात् प्रतीष्टकं कर्तव्यमिति पूर्वपक्षं प्रापय्य अवयवातिरिक्तावयविस-भावात्स- कृदेव कर्तव्यमिति सिद्धान्तितम्; तथा चावयवातिरिक्तावयव्य- नङ्गीकारे तद्विरोधः-इति चेन्न ॥ ब्रीह्यादिप्यतिरिक्तावयव्य- भावेऽपि प्रतिव्यक्तिप्रोक्षणवदुपपत्तेः, पूर्वोत्तरपक्षयोरेकत्वाव- स्थानारम्भतदारभ्याभ्यां उपपत्तावेकत्वाश्रयातिरिक्तावयव्या- रम्भानारम्भपरत्वे प्रमाणाभावात् ॥ अथ कालो निरूप्यते ॥ अतीतादिव्यवहारहेतुः कालिकसम्बन्धावच्छि नकार्य स्वावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धा वच्छि- चकारणताश्रयत्वं-तल्लक्षणम्, ईश्वरवारणाय कालि कसम्ब- न्धावच्छिन्ने ति ; तस्यापृथसिद्धिसम्बन्धन कार्यसामान्य प्रति तादात्म्येन हेतुत्वेऽपि कालिकेन कार्यसामान्यं प्रत्यहेतुत्वात्, कालिकेन सर्वाधारत्वं च तल्लक्षणम् ॥ अथ-कालसद्भावे प्रमाणाभावः । न च-अतीतादिव्यवहार- निर्वाहार्थं तस्यावश्यकतेति-वाच्यम्, प्रकृतशब्दप्रागभावाव- च्छिन्नाकाशादिभिरतीतव्यवहारस्य, प्रकृतशब्दावच्छिन्नाका- शादिभिर्वर्तमानव्यवहारस्य, प्रकृतशब्दध्वंसावच्छिन्नाकाशा- दिभिर्भविष्यद्व्यवहारस्य च निर्वाहसम्भवेनातिरिक्तकालक- ल्पनानावश्यकत्वात्- इति चेन्न । 'सदेवसोम्येदमग्न आसीत्' काल:, ५२ ] सिद्धान्तसिद्धाञ्जनम्. इत्य दिश्रुत्या आकाशोत्पत्तेः पूर्वमपि काल बोधनात्तत्तदुपाध्य- वच्छिन्नाकाशस्य कालरूपत्वासम्भवादतिरित्तकालकल्पनस्या वश्यकत्वात् ।। न चैवमपि-'अनादिर्भगवान् कालो नान्तोऽस्य द्विज विद्यते', कालोऽस्मि लोकक्षयकृत्प्रवृद्धः' इत्याद्यनुरोधा- द्भगवत एव कालत्वमस्तु ; तत्तदुपाध्यवच्छिन्नस्य तस्य प्रल. येऽपि सत्त्वेन सर्वव्यवहारनिर्वाहकत्वसम्भवादिति-वाच्यम् । तथा सति 'विष्णोस्स्वरूपात्परतोदिते द्वे' इत्यारभ्य, 'रूपा- न्तरं तद्विज कालसंज्ञ' इत्यादिविष्णुपुराणविरोधापत्तेः; स्व- स्य स्वापेक्षयारूपान्तरत्वायोगात्, 'ब्रह्मा दक्षादयः कालः' इति कालस्य भगवद्विभूतित्वाभिधानविरोधाच्च । 'विष्णुमन्वादयः कालः' इत्यत्र विष्णुशब्दस्यावतारविष्णुपरत्वेन तस्यापि विभू- तित्वाविरोधात्, 'अनादिर्भगवान कालः' इत्यादिसामानाधि- करण्यस्य शरीरशरीरिभावेन निर्वाहात् । न चैवं-जैनमत- निराकरणपरभाष्ये 'कालस्य पदार्थविशेषणतयैव प्रतीतेस्तस्य पृथगस्तित्वनास्तित्वादयो न वक्तव्याः, न च परिहर्तव्याः' इ- त्यादिना कालनिराकरणं प्रतीयमानं विरुध्यत इति वाच्यम् । सर्वप्रतीतिषु विशेषणतया सर्वलोकानुभवसिद्धस्य कालस्य नास्तित्वशङ्काया बौद्धादिभिरपि कर्तुमशक्यतया जैनानां कालास्तित्वसाधनस्य विफलत्वादित्यत्र तहाप्यतात्पर्यात, तन्निराकरणे तात्पर्यविरहात्;एवमेव श्रुतप्रकाशिकासर्वार्थसि- द्ध्योस्तद्भाष्याशयवर्णनात् । अत एव वेदार्थसङ्ग्रहे- 'निमेषकाष्ठाकलामुहूर्तादिपरार्धपर्यन्तापरिमितावच्छेदसर्वोत्प - त्तिस्थितिविनाशादिसर्वपरिणामनिमितभूतकालंकृतपरिणा- मास्पृष्टानन्तमहाविभूति" इत्यादिना कालाभ्युपगमो भाष्यकृतां सङ्गच्छते । भाष्यवेदार्थसङ्ग्रहयोविरोधापत्तेः । निमेषकाष्ठाकलामुहूर्ता- द्यः परार्धपर्यन्ता अपरिमिता अवच्छेदाः कालविभागाः स्वरू- " अन्यथा जडपरिच्छेदः [ ५३ पमसाधारणधर्मो यस्य कालस्य, स तथोक्तः । तादृश एव सन्महदादिसर्वोत्पत्तिस्थितिविनाशादिसर्वपरिणामनिमित्तभू- तो यः कालस्तत्कृतपरिणामास्पृष्टानन्तमहाविभूतियुक्तं ब्रह्म- ति तदर्थात् ॥ न च-नित्यविभूते: कालकृतपरिणामास्पर्श कार्यसामान येका- लस्य कारणत्वानुपपत्तिः, प्राकृतकार्यसामान्यं प्रति कारणत्व- मिति स्वीकारे च धर्मभूतज्ञानपरिणामादेः कार्यतावच्छेदका- नाक्रान्ततया कालकार्यत्वानुपपत्तिरिति-वाच्यम् । नित्यविभू- तिभिन्नकार्यसामान्यं प्रत्येव तस्य हेतुतास्वीकारात् पूर्वोक्तलं- क्षणेऽपि नित्यविभूतिभिन्नकार्यत्वावच्छिन्नकार्यताया एवं निवे- शात् । 'कालं स पचते तत्र न कालस्तत्र वै प्रभुः', 'कलामु- हूर्तादिमयश्च कालो न यद्विभूतेः परिणामहेतुः' इत्यादिवचनात्। सर्वाधारत्वलक्षणे च नित्यविभूतिभिन्नत्वं न निवेश्यम्, नित्य- विभूतेरपि कालवृत्तित्वाङ्गीकारात् अन्यथा नित्यविभूतेः स्वं- परिणाम प्रति हेतुत्वानुपपत्तेः, हेतुतायाः पूर्वकालवृत्तित्वघटि- तत्वात्। एवं नित्यविभुतेः कालासम्बन्धित्वे तदवच्छेदेन जायमानकार्यस्यापि कालासम्वन्धित्वापत्त्या 'सदा पश्यन्ति सूरयः' इति श्रुतिविरोधाच । नित्यसूरिनिष्ठदर्शनस्यापि काल- वृत्तित्वात् ॥ अयं च कालो नित्यो विभुरेक एव; क्षणादिव्यवहारस्तु एक- स्याप्युपाधिभेदादुपपद्यते । यद्वा कालस्यैकस्यैव क्षणलवादिरूपे. ण परिणामाङ्गीकारात् विभिन्नव्यवहारोपपत्तिः । 'सर्वे निमे- घा जज्ञिरे विद्युत; पुरुषादधि, : काला मुहूर्ताः काष्ठाश्चाहोरा- त्राश्च सर्वशः', 'कालं स पचते तत्र', 'कलामुहूर्तादिमयश्च कालः' -- इत्यादिस्मृतेश्च । क्षणादयः परिणामा अपि सर्वगता ५४ ] जाइपरिच्छेदः ch एव; एकैकक्षणादिसम्बन्धस्य सर्वपदार्थेषु प्रतीते: ।। "एकेनैव क्षणेनास्य विश्वस्यापि विशेषणात् ।। कालवत्तत्क्षणानां च व्यापित्वमवसीयते ॥''-इत्युक्तेः ।। न च-कालिकसम्बन्धे न देशनैरन्तयं नियामक कि तु कालनै- रन्तर्यमेव । तथा च क्षणादेरणुत्वेऽपि सर्वाधारतासम्भवः-इति वाच्यम् । देशतो व्यवहितयोस्सम्बन्धकल्पनस्यानुभवविरुद्ध त्वात्' तत्तत्कालसंयोगातिरिक्तकालिकसम्बन्धे मानाभावाच्च; अद्रव्ये च संयुक्तापृथक्सिद्धेरेव कालिकसम्बन्धत्वेन रूपादेरपि कालवृत्तितानिर्वाहात् । न च-काल तत्परिणामयोयोरेव वि- भुत्वाङ्गीकारे परिणामपरिणामिभावानुपपत्ति :, विभोविका- रित्वस्य विकारत्वस्य चादर्शनादिति-वाच्यम् । ईश्वरज्ञानत- त्परिणामयोविभुत्वेऽपि विकारविकारिभावोपलब्धेः । एतेन- कालो न विकारी, विभुत्वात्; क्षणादिर्न विकारः, विभुत्वात्; ईश्वरवत्-इत्यनुमानं निरस्तम् । ईश्वरज्ञाने व्यभिचारात् । न च-कालस्य क्षणरूपेण परिणाम एव युक्तः, न तु दिवसादिरू- पेण परिणामः ; तादृशक्षणकूटादेव दिवसादिव्यवहार निर्वा- हादिति-वाच्यम्; तथ सति 'अमावास्यायां पितृभ्यो दद्यात् इत्यादौ लिङः प्रत्यवायप्रयोजकीभूताभावप्रतियोगित्वार्थकतया अमावास्यानिष्ठस्य श्राद्धकरणाभावस्य प्रत्यवायप्रयोजकत्वबो- धनेन श्राद्धकर्तुरपि प्रत्यवायप्रसङ्गात्, कृतेऽपि श्राद्धे अमावा- स्याघटकेषु केषुचित्क्षणेषु श्राद्धकरणाभावस्य निरवच्छिन्नवि- शेषणतासम्बन्धेनापि सत्त्वात् । दिवसस्याखण्डातिरिक्त परि-- णामात्मकत्वे च श्राद्धकरणस्थले तत्र निरवच्छिन्नविशेषण- तया तदभावविरहान्न प्रत्यवायापत्तिः। एवं पक्षमासादिप- रिणामस्वीकारेऽपि युक्तिर्बोध्या ॥ अयं च कालष्पडिन्द्रियवेद्यः ; घटस्सन्निति चाक्षुषादिप्रतीते- .

"५६ ] सिद्धान्तसिद्धाञ्जनम्. - सति 'नाभ्या आसीदन्तरिक्षं, शोगों द्यौस्समवर्तत' इति पूर्व- वाक्ये स्वर्गान्तरिक्षयोरपि पृथवसृष्टिश्रुत्या तयोरप्यतिरिक्तद्र- व्यत्वायत्तेः, पूर्ववावयस्याभिमानिदेवतासृष्टिपरत्वे बोत्तरवा- क्यस्यापि तत्परताया एवोचितत्वात् ; 'चन्द्रमा मनसो जातः, चक्षोस्सूर्यो अजायत' इति देवतासृष्टेरेव प्रक्रान्तत्वात् । किञ्च 'एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च', 'खं वायुयॊति- रापः पृथिवी विश्वस्य धारणी' इति श्रुतौ वाय्वपेक्षया प्राण- स्य पृथक्सृष्टिश्रवणेऽपि वायुविशेषत्वमेव न वायुनिये पृथगु- पदेशान् इत्यधिकरणे निर्णीतम् । तच पृथक्सृष्टिमतां दिगादी- नामपि प्रदर्शनार्थं मन्तव्यम् । एवं दिशो व्यष्टिदशायां सृष्टे: श्रूयमाणतया तदनुरोधेन सृष्टिकल्पने तत्सृष्टः पूर्वं तन्नाशान- न्तरं च विद्यमानानां प्रकृतिमहदहङ्कारादितत्त्वानामावरणा- वार्यभावानुपपत्तेः ; अहङ्काराद्यपेक्षया सर्वदिग्ब्यापकत्वरूप- स्याहङ्कारावरणत्वस्य दिग्घटितत्वात्, तद्दशायां दूरासन्नत्वा- दिव्यवस्थानुपपत्तेच; दिशः प्रकृतिकार्यत्वे नित्यविभूती प्रा- प्राच्यादिव्यवस्थानुपपत्तेश्च न च-समष्टिदशायां प्रकृति प्रदेशा- त्मकोपाधिभिनित्यविभूतौ च तत्प्रदेशरूपोपाधिभिरेव प्राच्या- दिव्यवहार निर्वाह:-इति वाच्यम् ; तथा सति सर्वत्रोपाधिभि- रेव प्राच्यादिव्यवहारनिर्वाहाद्दिशो द्रव्यान्तरत्वे मानाभा- वादिति ।। इत्यनन्तार्यकृतौ सिद्धान्तसिद्धाञ्जने जडपरिच्छेदः प्रथमः . ... .

अथ जीवो निरूप्यते ॥ अणुत्वे सति ज्ञानाश्रयत्वं, स्वव्यधिकरणसङ्कल्पजन्यकृतिमत्त्वं च-तल्लक्षणं । लक्षणद्वयेऽपीश्वरवा रणाय सत्यन्तं जन्यान्तं च । जीवकृतिसामान्यस्य स्वव्यधिकरणेश्वरसङ्कल्पजन्यत्वाल्लक्षण- सङ्गतिः । न च-'नित्यस्सर्वगतः' इति श्रुत्या जीवस्य विभु- त्वबोधनाच्छरीरस्य देशान्तरगमनेऽपि ज्ञानसुखाद्युत्पत्तिदर्श- नात्तन्निर्वाहायात्मनोऽपि गमनागमनादिकल्पने गौरवाच्च वि- भुत्वकल्पनमेवोचितमित्यणुत्वघटितलक्षणासम्भव इति- वाच्यम् । "एषोऽणुरात्मा चेतसा वेदितव्यो बुद्धेर्गुणेनात्मगुणेन चैव ह्याराग्नमात्रो ह्यवरोऽपि दृष्टः', "वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीव- स्स विज्ञेयः' इत्यादिश्रुतिभिर्जीवस्याणुत्वसिद्धौ सर्वगतत्वश्रुतेः 'अग्निर्यथे- को भुवनं प्रविष्टः', 'वायुस्सर्वगतो महान्'-इत्यादिवदेकजाती- यानां सर्वत्रानुप्रवेशपरत्वेन जीवस्तवंगत इत्यस्य द्रव्यत्वसमा- नाधिकरणभेदप्रतियोगितानिरूपितसंयोगसम्बन्धावच्छिन्नाव- च्छेदकतानवच्छेदकजीवत्वाश्रय इत्यर्थात्, द्रव्ये तत्तद्व्यक्ति- त्वावच्छिन्नजीवनिष्ठावच्छेदकताकभेदसत्त्वेऽपि जीवत्वाव- 'च्छिन्नसंयोमावच्छिन्नावच्छेदकताकभेदाभावात् ।। न च-एषो- ऽणुरात्मेति परमात्मन एवेन्द्रियजन्यज्ञानाविषयत्वात्मकदुर्द- त्विरूपमणुत्वं प्रतिपाद्यते ; न चक्षुषा गृह्यत इत्यादिना त- स्याव्यवहितपूर्ववाक्ये प्रकृतत्वात् चेतसावेदितव्य इति विशु- द्धमनोग्राह्यत्वलिङ्गाच्चेति-वाच्यम् ; 'यस्मिन् प्राणः पञ्चधा संविवेश' इति यच्छब्दयोगेनैतच्छब्दस्य वक्ष्यमाणपरामशि- ५८ ] सिद्धान्तसिद्धञ्जनम् त्वात् । न च-तत्रापि परमात्मैव प्रतिपाद्यते, 'यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः प्राणैश्वसर्वैः' इत्यादाविव प्राणा- धारत्वस्य परमात्मन्यपि सम्भवादिति वाच्यम् ; यस्मिन् द्यौरित्यादेरिवास्य वाक्यस्य सर्वाधारताप्रतिपादनपरत्वाभा- वात् जीवासाधारणप्राणचित्तेन्द्रियाधारत्वमात्रप्रतिपादपर- त्वात् जीवपरताया एव युक्तत्वात् । न च वेदितव्यत्वलिङ्ग- विरोधः ; नियन्तृनियाम्यवैलक्षण्यज्ञानस्य अमृतत्वसाधनत्वा- दविरोधात् , इहापि पूर्वत्र 'बृहच्च तद्दिव्यमचिन्त्यरूपम्' इति परमात्मनो महत्त्वमुक्त्वा एषोऽणुरात्मेति जीवे तव लक्षण्य- प्रतिपादनात् ॥ न च-अत्र वाक्ये चेतसाणुरित्यन्तः करणौपाधिकमणुत्वं प्रतिपाद्यत इति-वाच्यम् । चेतसेत्यस्य वेदितव्य इत्यनेनैव अन्वयस्य स्वरसतः प्रतोतेः । बुद्धेर्गुणेनेत्यत्र च बुद्धेर्गुणेनारा- ग्रमात्रः आत्मगुणेन महानिति नार्थः ; व्यवहितान्वयप्रसङ्गा- दध्याहारप्रसङ्गात्, समुच्चयार्थनिपातानन्वयाच्च । किं तु अपरो जीवस्संसारदशायां बुद्धेर्गुणेनात्मगुणेन चाराग्रमात्रः ; आरा-चर्मसूची, बुद्धेविभुत्वयोग्यत्वेऽपि कर्मणा संकुचित- त्वान्मलरुद्धमणिप्रभावदाश्रयतुल्यपरिमाणोपपत्तेः । बुद्धया सह पूर्वमणुत्वस्य कीर्तनात्तद्वत्कादाचित्कताशङ्काव्यावृत्त्यर्थं पुनस्स्वरूपमाह-वालाग्रेत्यादि । पुनः कीर्तनात्स्वाभाविकता- सिद्धेः आत्मा न विभुः, क्रियावत्त्वात्, घटादिवत्-इत्यानुमा- नेन विभुत्वस्य बाधाच्च। न च क्रियावत्त्वमसिद्धम् ; 'तेन प्रद्योतेनैष आत्मानिष्क्रामति चक्षुषो वा मूर्नो वा अन्येभ्यो वा शरीरदेशेभ्यः' इति श्रुत्या विभागानुकूलव्यापाररूपनिष्क्र- मणस्य, 'ये वै के चास्माल्लोकात्प्रयान्ति, चन्द्रमसमेव ते सर्वे गच्छन्ति, इति श्रुत्या संयोगानुकूलव्यापाररूपगमनस्य, 'त- • जीवपरिच्छेदः स्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मणे' इति श्रुत्या स्वसजाती- यसंयोगध्वंससमानाधिकरणसंयोगानुकूलव्यापाररूपपुनरागम- नस्य च जीवे सिद्धत्वात् । स्वपदं धात्वर्थतावच्छेदकसंयोग- त्वावच्छिन्नपरं; साजात्यं च स्वप्रतियोगिप्रतियोगिकसंयोग- त्वेन ।। यद्यपि-निष्कामति गच्छतीत्यादौ शरीरनिष्ठं यन्निष्क्रमण- गमनादिकं तदनुकूल कृतिमत्त्वमेव जीवे प्रतीयते, न तु क्रिया- वत्त्वं; आख्यातस्य यत्रार्थकत्वात् । तथाऽपि शरीरविरहदशा- यामेवोक्तश्रुति त्क्रान्त्यादीनां श्रूयमाणत्वेन रथो गच्छतीत्यादा- विव आख्यातस्य आश्रयत्वार्थकताया एव वक्तव्यत्वादुक्तश्रुति- भिरात्मनः क्रियावत्त्वं सिध्यति ।। न च-निष्क्रामतीत्यस्य प्राणविभागाश्रय इत्यर्थाङ्गीकाराद्विभुत्वपक्षेऽपि नानुपपत्ति- रिति-बाच्यम् । तथाऽपि-'तमुत्क्रामन्तं प्राणोऽनूत्क्रामति, प्रा- णमुत्क्रामन्तं सर्वे प्राणा अनुत्क्रामन्ति' इत्यादौ जीवोत्क्रमणज- न्योत्क्रमणाश्रत्वस्य प्राणेषु प्रतीत्या जीवस्य क्रियावत्त्वावश्य- कत्वात् ; यज्ञमनुप्रावर्षीदित्यादाविव अनुशब्दस्य जन्यत्वार्थ- कत्वात्, द्वितीयायाश्च निरूपितत्वार्थकत्वात्, उत्क्रमणविशिष्ट- जीवजन्यत्वस्य जीवोत्क्रमणजन्यत्वे पर्यवसानात्, ‘अनुर्लक्षणे' इत्यनेन जन्यत्वरूपलक्षणार्थकानुशब्दयोगे द्वितीयाविधानात्, गत्यागतिश्रुतेरनिर्वाहाच्च ।एतदभिप्रेत्यैव सूत्रितम् 'उत्क्रान्ति- गत्यागतीनां', 'स्वात्मना चोत्तरयोः' इति किञ्चात्मनो विभु- स्वे अन्यदीयमनसा अन्यात्मनः प्रत्यक्षापत्तिः ; आत्ममनस्सं- योगे परात्मसंयोगव्यावृत्तं वैजात्यं कल्पयित्वा तेन रूपेणात्म- मानसं प्रति हेतुतास्वीकारे च गौरवात् ।। न च-जीवस्याणुत्वे प्रत्यक्षानुपपत्तिः, प्रत्यक्षसामान्ये महत्त्व- स्य कारणत्वात्; अन्यथा परमाणोरपि प्रत्यक्षत्वापत्तिरिति- ६० ] सिद्धान्तसिद्धाञ्जनम्. वाच्यम् । नालसूर्यमरीचिकास्थस्य त्रसरेणुशब्दवाच्यस्यैव पर- माणुत्वेन तदतिरिक्तपरमाणोरस्वीकारात्, तस्य च प्रत्यक्षे महत्त्वस्य हेतुत्वानभ्युपगमात् ॥ अथ-जीवस्याणुत्वे एकस्य जीवस्यानेकशरीरावच्छेदेन सुख- दुःखादिप्रतिसन्धानानुपपत्तिः ; न चेष्टापत्तिः, सौभरिप्रभृती- नामेकदा अनेकशरीरावच्छेदेन सुखदुःखादिसाक्षात्कारस्य पू- राणादिसिद्धत्वात् । न च-जीवस्य तत्र तत्र गमनवशादनेक- रीरावच्छेदेनापि सुखाद्युपलभ्भोपपत्तिः; वेगातिशयाच्च क्रमे- पा जायमानानामपि सुखदुःखाद्यनुभवानां यौगपद्यभ्रमः शतप- बच्छेदनयोगपद्यभ्रमवदिति-वाच्यम् । योगिनां भ्रमासम्भवात्, प्रयत्नवदात्मसंयोगस्यैव शरीरपतनप्रतिबन्धकत्वेनानेकदेशवि- द्यमानानामनेकशरीराणां युगपद्धारणानुपपत्तेश्च, एकशरीरे तादृशात्मसंयोगदशायामन्यशरीरे संयोगनाशात्- इति चेन्न।। प्रयत्नवदात्मसंयोगत्वेन पतन प्रतिबन्धकत्वे गौरवात्संयोगेन प्रयत्नत्वावस्थापन्नधर्मभूतज्ञानस्यैव शरीरपतने प्रतिबन्धक- त्वात्, आत्मन एकशरीरस्थत्वेऽपि धर्मभूतज्ञानस्य मणिप्रभा- न्यायेन अनेकशरीरेषु प्रसरणोपपत्तेः, निरात्मकेषु शरीरेषु धर्म- भूताज्ञानव्याप्त्यैव सुखदुःखाद्यनुभवोपपत्तेः, जीवस्य सुखाद्य- नुभवार्थं तत्र तत्र गमनाकल्पनात्, 'गुणाद्वाऽलोकवत्', ,प्रदी- पवदावेशस्तथा हि दर्शयति' इति सूत्राम्यां तथा प्रतिपाद- नात् ।। न च-सुषुप्त्यवस्थायां शरीरधारणानुपपत्तिः, निर- त्मकशरीरस्य धर्मभूतज्ञानसंयोगेनैव धारणस्य वक्तव्यत्वात्तद्द- शायां धर्मभूतज्ञानप्रसरणाभावादिति-वाच्यम्; तद्दशायामपि निरात्मकशरीरेषु धर्मभूतज्ञानसंयोगाभ्युपगमात्; विषयतारू- पविजातीयसंयोगस्यैव तदानीमस्वीकारात् ।। न च-अस्य जीवपरिच्छेदः . [ ६१ -- सोम्य महतो वृक्षस्य यदेकां शाखां जीवो जहाति, अथ सा शुष्यति' इति श्रुत्या जीवस्य सङ्कोचविकासप्रतीत्या अणुत्वा- नुपपत्तिरिति-वाच्यम्; ताद्दशश्रु त्या धर्मभूतज्ञानसङ्कोचवि- कासयोरेव शरीरशोषणाशोषणप्रयोजकत्वावगमात्, शाखादौ भोगावच्छेदकताप्रयोजकादृष्टनाशाधीनधर्मभूतज्ञान विभागानु- कूलव्यापारस्यैव जहात्यर्थत्वात् ।। उक्त चाधिकरणसारावल्यां- "मैवं शाखादिभोगायननियतिक रोपाधिनाशात्प्रहाणं क्षेत्रादिन्यायतोऽसावभिमतिविरहात्स्यादधीतो जहाति।" इति न चैवं-निरात्मकशरीरेषु स्वापार्थं प्रवृत्त्यनुपपत्तिः, सौषुप्ति- कात्मस्वरूपात्मकसुखानुभवार्थमेव प्रवृत्तेर्वक्तव्यत्वात्तत्रात्मस्व- रूपाभावात्तत्स्वरूपात्मकसुखानुभवासम्भवादिति-वाच्यम् ; जाग्नदवस्थाकालीनशरीरायासजनितदुःखोपशान्त्यर्थमेव तत्र प्रवृत्त्युपपत्ते:- "स्वापे सुखत्वाभिज्ञानात्तद्विच्छिदे च रोषतः। तदर्थमन्यत्यागाच्च श्रुतिस्मृतिशतैरपि ।' इति विष्णुचित्तवचनस्य स्वापार्थप्रवृत्तेस्सुखानुभवार्थत्वपरस्य च सात्मकशरीरविषयत्वेन तद्विरोधाभावात् ॥ न च-बीज- गताङकुरत्वावस्थायाश्च त्रभोगजनिकायास्तददृष्टजन्यत्वादकु- रत्वावस्थां प्रत्यात्मगतादृष्टस्य स्वाश्रयसंयोगेन कारणत्वं बाच्यम्, आत्मनोऽणुत्वे तन्न सम्भवतीति-वाच्यम् । कार्यसा- मान्ये अदृष्टस्य स्वाश्रयसंयोगेन हेतुत्वे शब्दादावदृष्टस्य कार- णत्वानुपपत्तेः, विभोरात्मन: विभावाकाशे संयोगासम्भवात् नैयायिकैविभुद्वयसंयोगानुपगमात् ; स्वाश्रयसंयुक्तसंयोगेन अह- ष्टस्य हेतुत्वे चाणुत्वपक्षेऽप्यनुपपत्तिविरहात्स्वाश्रयजीवसंयुक्ते- ६२ ] सिद्धान्तसिद्धाञ्जनम्. वर संयोगस्य बीजेऽपि सत्त्वात् । अदृष्टस्य भगवत्सङ्कल्पर ताया वक्ष्यमाणत्वेन भगवदात्मनश्च विभुत्वेन जीवस्याण ऽपि स्वाथयसंयोगेनैवादृष्टस्य हेतुत्वसम्भवाच्च, विभृतः योगाङ्गीकारेण काल गतपरिणामेऽपि तत्सम्बन्धेन हेतुत अबाधात् ॥ स चायमात्मा ज्ञानाश्रयो ज्ञानस्वरूपश्च । 'विज्ञाता केन विजानीयात्', 'जानात्येवायं पुरुषः' इत्यादिश्र त्या ज्ञा श्रयत्वस्य विज्ञानं यज्ञं तनुते', 'यो विज्ञाने तिष्ठन्' इत्या श्रुत्या ज्ञानस्वरूपत्वस्य च प्रतिपन्नत्वात् ॥ यद्यपि-विः यज्ञं तनुते' इत्यादी विज्ञानपदं तद्गुणसारत्वादितिसूत्रे ज्ञ श्रयपरं व्याख्यातम् । तथापि 'एष हि द्रष्टा श्रोता ध्र रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरूषः' इति-2 द्रष्टा श्रोतेति विशेषतो बोद्धेति सामान्यतश्च ज्ञानाश्रयत्व तत्वेन विज्ञानात्मेत्यस्य ज्ञानाश्रयत्वपरत्वे पौनरुक्त्याप ज्ञानस्वरूपत्वपरत्वावश्यकतया ज्ञानस्वरूपत्वसिद्धिः ।। अथ-आत्मनो ज्ञानत्वं न सम्भवति, तस्य सविषयकत्व प्यत्वात्, आत्मनश्च सविषयकत्वासम्भवात् । न तावदात्य स्वभिन्नविषयकत्वं; अनङ्गीकारात्; अङ्गीकारे च धर्म ज्ञानवैयपित्तेः । नापि स्वमात्रविषयकत्वं, भाष्ये निष्प रकज्ञान निराकरणेन तद्विरोधात् ॥ न च-आत्मस्वरूपज्ञ स्याहमित्याकारकस्य प्रत्यक्त्वैकत्वप्रकारकत्वाङ्गीका निष्प्रकारकत्वमिति-वाच्यम् ; प्रत्यक्त्वस्यात्मविशेषण नात्मस्वरूपत्वासम्भवेन आत्मस्वरूपज्ञानस्य कारकत्वासम्भवात्, प्रत्यक्त्वात्मनोरभेदे. आधारा भावासम्भवात् । अन्यथा 'भेदव्यपदेशाच्चान्यः' 'उभये हि भेदेनैनमधीयते' इत्यादौ च 'आदित्ये तिष्ठन् य आत त --- - ६४ ] सिद्धान्तसिद्धाञ्जनम्. समिति ज्ञानम् । जागराधः क्षण: कालपूर्वकः, कालर द्वितीयादिक्षणवत्-इत्यनुमानेन पूर्वकालमनुमाय; तत्क वच्छिन्नोऽहं ज्ञानाभाववान्, ज्ञानसामग्रीविरहवत्त्वात्, । योगक्षेमे आत्मादौ स्मर्यमाणेऽपि तद्वत्तया नियमेन अस्म णत्वाद्वेति प्रयोगासम्भवात् । उक्तं च न्यायसिद्धाञ्जने "प्रत्यक्स्वयंप्रभसुखे नित्ये पुंसि व्यवस्थिते । अस्वाप्सं सुखमुत्यादौ कालाद्यंशेऽनुमास्थितिः । -इति चेन्न ।। ज्ञानद्वयकल्पनापेक्षया आत्मसुखांशयोर मितिरूपत्वकल्पने लाघवात् ।।- इति चेत् ।। अन व्यासाचार्या:-- सुखमस्वाप्समिति ज्ञानस्य भिज्ञारूपत्वं स्वरसतः प्रतीयते, स्वापकालांशे च प्रत्यार रूपत्वाम्भवेऽपि सुखविशिष्टात्मांशे तत्स्वरूपतासम्भवात तिस्वारस्यानुरोधेन ज्ञानद्वयरूपताकल्पनं युक्तम् । यथा- चत्वरे गजो नासीदिति ज्ञानं ज्ञानद्वयात्मकं; तत्र हि प्र त्वरमात्रमनुभूतं, न गजाभावः; प्रतियोगिभूतगजास्मर पश्चात्तु गजः कि स्थित इति पृष्टे योग्यास्मिरण गजाभावोऽनुमीयते । पूर्वोक्तरीत्या कालोऽपि तद्वत् ॥ - इत्याहुः॥ उक्तज्ञानस्यात्मांशेऽपि प्रत्यभिज्ञारू सम्भवति, संस्कारजन्यप्रत्यक्षस्यय प्रत्यभिज्ञारूपत्वादार रूपात्मकानुभवस्य नित्यत्वेन तस्य संस्कारजनकत्वाकर चिरातीतस्य अनुभवस्य कालान्तरभाविस्मरणप्रजनकत हार्थमेव द्वारतया संस्कारस्यानित्यानु भवस्थले कल्पनी नित्यानुभवस्थले च तत्कल्पनस्य विफलत्वादिति-वा स्वजन्यसंस्कारवत्तासम्वन्धेनानुभवस्य नित्यानित्यसाधा नैकहेतुतानिहाय नित्यानुभवस्थलेऽपि संस्कारकल्पन न च जीवपरिच्छेदः वश्यकत्वात् ; अन्यथा निस्यानुभवस्य साक्षादनित्यानुभवस्य च परम्परया हेतुत्वमिति कार्यकारणभावद्वयापत्तेः ।। अयं चात्मा कर्ता ; भोक्तृत्वात्, चेतनोऽहं करोमीति प्रतीत्या आत्मनि कृत्याश्रयत्वरूपकर्तृत्वस्य प्रत्यक्षसिद्धत्वाच्च । न च-जपाकुसुमस्थं लौहित्यं स्फटिक इवान्तःकरणगतं कर्तृ- त्वमात्मन्यध्यस्यते, न तु तात्त्विक ; निर्विकारत्वश्रुतिविरो- धात्, सुषुप्तौ बुद्ध्यभावे कर्तृत्वादर्शनाचेति-वाच्यम् ; तथा सति रवतं कुसुममितिवत्कदाचित् मनः कत्रिति प्रमा, लोहि तस्स्फटिक इतिवच्चैतन्यं कत्रिति भ्रमश्च स्यात् ; सुषुप्ता- वन्त: करणाभावेऽप्यात्मनि श्वासादिकर्तृत्वदर्शनात् सुषप्तौ भूर्भुवरित्येव श्वसितीति श्रुतेश्च, आत्मनि कर्तृत्वस्याप्यौपाधि- कत्वासम्भवात् । किञ्च-आत्मनोऽकर्तृत्वे बुद्धिरेव श्रवणादि- कर्कीति तस्या एव तत्फलं मोक्षोऽपि स्यात्; शास्त्रफलं प्रयोक्त- रीतिन्यायात्, अन्यथाऽतिप्रसङ्गात् । न च-जातेष्टिपितृयज्ञयो- यभिचारान्न कर्तुरेव फलभाक्त्वनियम इति-वाच्यम्, तत्रापि पूतपुत्रकत्वस्वर्गभागिपितृकत्वयोः कर्तृगतयोरेव फलत्वात् । एवं तन्मनोऽकुरुतेति श्रुतौ मनसः कृतिकर्मत्वस्य श्रृण्वन्त- श्श्रोत्रेण विद्वांसो मनसा' इत्यादिश्रुतौ 'शरीरवाङ्मनोभिर्य- त्कर्म प्रारभते नरः।' इति स्मृतौ च करणत्वस्य प्रतिपन्नत्वेन कर्तृत्वासम्भात् ; कर्तृ स्वकर्मत्वयोरेकत्रासम्भवस्य 'कर्तृ कर्म- व्यपदेशाच' इति सूत्रसिद्धत्वात् । 'मन उदक्रामन् मिलित इवाश्नन्पिबन्नास्ते वा' इत्यादिश्रुतौ मनस उत्क्रमणेऽप्यात्मनः कर्तृत्वस्य, तथा- "परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते, स तत्र पर्येति जक्षन्क्रीडनममाण: स्त्रीभिर्वा यानैर्वा ॥" - सिद्धान्तसिद्धाञ्जनम्. - इत्यादिस्वरूपाविर्भावरूपमुक्तावपि कर्तृत्वस्य प्रतिपन्नत्वेन नास्यौपाधिकतासम्भवः । तच कर्तृत्वं परमपुरुषहेतुकमिति- कर्ता शास्त्रार्थवत्वात्, परात्तु तच्छ ते:--इत्यधिकरणयोः प्रपञ्चितम् ।। न च-जीवकृतिसामान्यस्येश्वरकृतिजन्यत्वे कलञ्जभक्ष- णादिकर्तुरपि पापाद्यनुपपत्तिः, आश्रयतासम्बन्धेन पापं प्रति स्वानुकूल कृतिमत्त्वसम्बन्धेन कलञ्जभक्षणादेर्हेतुत्वे बलात्कल- ञ्जभक्षणं कारिते पुरुषे पापापत्तिवारणाय स्वानुकूलकृता- वितरकृत्यजन्यत्वनिवेशस्यावश्यकत्वादितरकृत्यजन्यस्वानुकूल- कृतिमत्त्वसम्बन्धेन कलञ्जभक्षणादेस्तादृशकर्तर्यभावादिति- वाच्यत्; जीवकृतिसामान्यस्येश्वरसङ्कल्पजन्यत्वेन तत्कृति- जन्यत्वानङ्गीकारात्, तदङ्गीकारेऽपीतरकृतिनिष्ठासाधारण- कारणताकान्यत्वस्यैव निवेशादीश्वरकृतेश्च साधारणकारण- ताकान्यत्वस्यैव निवेशादीश्वरकृतेश्च : साधारणकारणत्वेना- दोषात् ॥ न च- 'एष ह्य व साधु कर्म कारयति, तं यमेभ्यो लोकेभ्य उन्निनी- षति । एष एवासाधुकर्म कारयति, तं यमधो निनीषति ॥' - इति श्रुत्या, "अज्ञो जन्तुरनीशोऽयमात्मनस्सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा ॥" इति स्मृत्या च जीवनिष्ठसाधुकर्मानुकूलकृति प्रति उन्निनी- षाजन्य भगवद्यत्नस्य, असाधुकर्मानुकूल कृति प्रति चाधोनि- नीषाजन्यभगवद्यत्नस्य हेतुताबोधनात्, भगवत्कृतिनिष्ठा- साधारणकारणताकत्वमेव जीवकृतावस्तीति-वाच्यम्; साधु- कर्मकारयितृत्वथ तेरतिमात्रभगवदानुकूल्यप्रसक्तपुरुषविशेष- जीवपरिच्छेदः [ ६७ विषयत्वेनासाधुकर्मकारयितृत्वश्रुतेश्वातिमात्रप्रातिकूल्यप्रसक्त- पुरुषविशेषविषयत्वेन सर्वविषयत्वाभावात्तदतिरिक्तपुरुषकृतौ भगवत्सङ्कल्पादेस्साधारणतयैव निर्वाहे असाधारणकारणत्वा कल्पनात् । न चैवमप्यतिमात्रप्रातिकूल्यप्रसक्तपुरुषे पापोत्प- त्यनुपपत्तिरिति वाच्यम्; ईश्वरभिन्न तरकृत्यजन्यत्वस्यैव स्वानुक लकृतौ निवेशेन तादृशपुरुषेऽपि निषिद्धानुष्ठानस्य पापजनकत्वोपपत्तेः । न च-सिद्धान्ते पुण्यपापयोर्भगवदनुग्रह- निग्रहरूपतया निषिद्धानुष्ठातरि भगवन्निग्रहानुपपत्तिस्तदव- स्थैव; विषयतासम्बन्धेन तत्पुरुषीयनिग्रहं प्रति तत्पुरुषान भिमतकरणस्य हेतुत्वे अयमस्मदनभिमतं कुर्यादितीच्छाद- शायां तस्य निग्रहजनकत्वादर्शनेन, तत्पुरुषीयेच्छाविरह- विशिष्टतत्पुरुषानभिमतकरणस्य तत्पुरुषीयनिग्रहजनकत्वस्य वाच्यत्वात्, कलञ्जभक्षणादेर्भगवदनभिमतत्वेऽपि तदनुकू ल- कृतेर्भगदिच्छाविरहविशिष्टत्वाभावाद्भगवतस्सङ्कल्पात्मकता दृशेच्छाविरहे तादृशकृतेरेवोत्पत्त्यनुपपत्तेरिति-वाच्यम्; अयं यत्किञ्चित्कार्यं कुर्यादित्यादीच्छासत्त्वे राजाद्यनभिमतकरणस्य राजनिग्रहजनकत्वदर्शनेन तत्तत्कार्यं कुर्यादित्यादिरूपविशेषा- कारेच्छाविरहस्यैव निग्रहजनकतावच्छेदकगर्भे निवेश्यत्वात् । प्रकृते चायं कलजं भक्षयेदिति विशेषाकाराया भगवदि- च्छाया अभावादयं स्वेष्टं कुर्यादिति सामान्यसङ्कल्पेनैव ताह- शकृत्युपपत्तेः, तदर्थं विशेषसङ्कल्पानावश्यकत्वादिति दिक । जीवो द्विविधः-संसार्यसंसारिभेदात् । पुण्यपापान्य- तरवत्त्वं संसारिणो लक्षणम् ॥ संसार्याप द्विविधः-नित्यानित्य संसारिभेदात् । पुण्य- पापान्यतरत्वावच्छिन्नाभाववदन्यत्वं-नित्यसंसारिलक्षणम् ।

६८ ] सिद्धान्तसिद्धाञ्जनम्. स्वपूर्वकालीनत्वस्वसामानाधिकरण्योभयसम्बन्धेन तादृशान्य- तरत्वावच्छिन्नाभावविशिष्टतादृशान्यतरवत्त्वं-अनित्यसंसारि- लक्षणम् । नित्यसंसारिसद्भावे प्रमाणं तु 'अव्युच्छिन्नास्त- तस्त्वेते सर्गस्थित्यन्तसंयमाः ।' इत्यादिरूपा लीलाविभूति- नित्यतोक्तिः । “क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु' 'न क्षमामि कदाचन'-इत्यादिक च ॥ परे तु-क्षिपाम्यजत्रमित्यादेविलम्बातिरेकपरत्वान्नि- त्यसंसारिसद्भावे प्रमाणाभाव एव । विमतो जीवो मोक्ष- साधनज्ञानवान्, जीवत्वात्, सम्प्रतिपन्नजीववत्-इत्यनुमानेन जीवत्वावच्छेदेन मुक्तियोग्यतासिद्धौ नित्यसंसार्यसम्भवात् । अन्यथा सर्वेषां स्वस्मिन् नित्यसंसारित्वसन्देहसम्भवेन मोक्ष- साधनानुष्ठाने कस्यापि प्रवृत्तिनस्यादिति श्रवणादिविधिवैय- •पत्तिः; संसारिणामनन्तत्वाच्च सर्वेषां मुक्तियोग्यत्वेऽपि लीलाविभूतिनित्यतोपपत्तिः ॥ न च-संसारिणामनन्तत्वे 'पादोस्य विश्वा भूतानि, त्रिपादस्यामृतं दिवि' इति संसार्य- संसारिजीवानां एकपादत्वत्रिपादत्वतारतम्यकथनं नोपपद्यत इति-वाच्यम्; मुहूर्तयामाहोरात्रकल्पादीनामानन्त्यस्य समान- त्वेऽपि-यथा कल्पापेक्षयाऽहोरात्रादीनामाधिक्यं तदपेक्षया च मुहूर्ताधिक्यं, यथा वा सतां द्रव्याणां च आनन्त्येऽपि द्रव्या- नन्त्यापेक्षाया सदानन्त्याधिक्यं तद्वदुपपत्तेः । इत्याहुः ।। असंसारी द्विविधः-नित्यमुक्तभेदात् । पुण्यपापान्यतर- वद्भिन्नत्वे सत्यणुत्वं नित्यानां लक्षणम् । ईश्वरवारणायाणु- त्वनिवेशः, ते चानन्तगरुडविष्वक्सेनादयः । "सदा पश्यन्ति सूरयः' इत्यादिभिस्सदापश्यदनेकद्रष्टविशिष्टस्थानविधाना- जीवपरिच्छेदः [ ६६ नित्यसूरिसद्भावसिद्धिः । न चोक्तश्रुतेर्मुक्तप्रवाहविषयत्वमी- श्वरविषयत्वं वाऽस्त्विति वाच्यम्; सदापदार्थस्य कालत्व- व्यापकत्वस्य मुक्तदर्शने बाधाद्भगवति बहुवचनार्थबहुत्वानु- पपत्तेः । स्वसामानाधिकरण्यस्वसमानकालीनत्वोभयसम्बन्धेन कर्मप्रागभावविशिष्टान्यकर्मध्वंससमानाधिकरणपरमात्मानुभव रूपो यो मोक्षस्तद्वत्त्व-मुक्तलक्षणम् । मोक्षहेतुश्च परविद्या; परविद्यात्वं च ब्रह्मविषयक- विद्यात्वं, विद्यात्वं च वेदविहित भक्तित्वम् । वेदविहितत्वनि- वेशादुदासीनस्मृतिसन्ततौ नातिव्याप्तिः वेदविहितत्वं च वेद- तात्पर्यविषयीभूतकृतिसाध्यत्वादिप्रकारकबोधविषयत्वं; 'स आत्मानमुपासीत मनोमयं प्राणशरीरम्' इत्यादौ लिङः कृति- साध्यत्वार्थकत्वात्, वेदार्थसंग्रहे 'लिङः कोऽर्थः परिगृहीतः' इति प्रश्नपूर्वक 'यज देवपूजायामिति देवताराधनभूतयागादेः कर्तृ व्यापारसाध्यतां व्युत्पत्तिसिद्धां लिङादयोऽभिदधति' इत्युक्तेः; वेदतात्पर्य विषयीभूतकृतिसाध्यत्वप्रकारकबोधविषय- त्वं शाण्डिल्यविद्यादावस्तीति लक्षणसङ्गतिः, मनोमयत्वादि- प्रकारकात्मविशेष्यक यत्कृतिसाध्यमुपासनं तत्कर्तेति बोधस्य तद्वाक्यादुत्पत्तेः; कत्रधिकरणदीपादावाख्यातार्थमुख्यविशेष्यक- बोधस्योक्तत्वात्, लिङो लिङ्त्वेन कृतिसाध्यत्वार्थकत्वस्य आख्यातत्वेन कत्रर्थकतायाश्च सम्भवात् । बोधे वेदजन्यत्व- मनिवेश्य वेदतात्पर्यविषयत्वनिवेशात्सद्विद्यादौ नाव्याप्तिः तत्र सदुपासीतेति विध्यभावेऽपि 'तस्य तावदेव चिरं यावन्न विमो- क्ष्ये, अथ सम्पत्स्ये' इति मोक्षसाधनत्वश्रवणेन विधिकल्पन- स्यावश्यकतया सदुपासनविशेष्यककृतिसाध्यत्वप्रकारकबोध- स्यापि सद्विद्यातात्पर्यविषयत्वात् । अत एवोद्गीथविद्याविचारे ७० ] सिद्धान्तसिद्धाञ्जनम्. - भाष्ये उक्त- “वेदनविषयविधिप्रत्ययाश्रवणेऽपि फलसाधनत्वश्रवणा- द्वेदनविषये विधिः कल्प्यते ।।' -इति ॥ वेदतात्पर्य च वेदोच्चारणप्रयोजकेच्छा, न तु वेदकर्मकाद्योच्चार- णप्रयोजकेच्छा; वेदस्यापौरुषेयत्वेन तत्कर्मकाद्योच्चारणस्यै- वाप्रसिद्धेः । सा चेच्छा क्वचिदीश्वरसमवेता, क्वचिदध्यामक- समवेता च प्रसिध्यतीति नाप्रसिद्धि: । भक्तित्वं च प्रीतिरूप- तापन्नदर्शनसमानाकारध्र वानुस्मृतिरूपध्यानत्वम्; प्रीतित्वं चानुकूलत्वप्रकारकत्वं; अनुकूलत्वं च-यद्धर्मावच्छिन्नविषयता इतरेच्छानधीनेच्छाजनकतावच्छेदिका, तादृशधर्मरूपं वैजा- त्यं । इच्छायामितरेच्छानधीनत्वनिवेशादिष्टसाधनत्वव्युदासः । दर्शनसमानाकारत्वं च-साक्षात्कारत्वव्यञ्जकविषयितावत्त्वम् । अनवरतभावनावशात् स्मृतावपि तादृशविषयिता जायते, 'वृक्षे वृक्षे च पश्यामि चीरकृष्णाजिनाम्बरौ' इत्यादौ तथा दर्शनात् ।। यद्यपि-इदं रजतमित्यादाविव वृक्षविशेष्यकं रामा- दिप्रकारक ज्ञानं भ्रमात्मकसाक्षात्कार एव; तथाऽपि-सिद्धा- न्ते असन्निकृष्टभ्रमस्थले ग्रहणस्मरणात्मकज्ञानद्वयस्य तदीय- विषयतयोनिरूप्यनिरूपकभावस्य च स्वीकारात्स्मरणस्यैव लौकिकविषयितावत्त्वमभ्युपगन्तव्यं; अन्यथा पश्यामीत्यस्या- नुपपत्तेः । स्पष्टं चेदं ज्ञानयाथार्थ्यवादार्थे ।। न च-एवमपि कामातुरपरिभावितकामिनीसाक्षात्का. रवत् ब्रह्मध्यानस्यापि भ्रमत्वापत्तिः, भावनारूपदोषजन्य- त्वात्, उक्तस्थले भावनाया दोषत्वेन क्लुप्तत्वादिति-वाच्यम्; न हि भावनाजन्यत्वमुक्तकामिनीसाक्षात्कारे अप्रामाण्यप्रयो- जक, किं तु बाधितविषयत्वं, भावनानपेक्षेऽपि शुक्तिरज-

जीवपरिच्छेदः
तादिभ्रमे बाधादेवाप्रामाण्यस्वीकारात्, ब्रह्मणश्च सर्वव्य
सर्वप्रमाणाबाधितत्वात्तद्भावनाजन्यज्ञानस्यापि प्रामाण
धातात्, भावनायाश्च व्यवहितकामिनीसाक्षात्कारे दोष
ब्रह्मध्याने दोषत्वासम्भवात्; अन्यथा शङ्खपीतत्व भ्रमक
भूतस्य पित्तद्रव्यस्य स्वविषयकज्ञानेऽप्यप्रामाण्यप्रयोज
पत्तेः, क्वचिदेव कस्य चिद्दोषत्वमित्येवाङ्गीकार्यत्वात् ।।
नुस्मृतित्वं च-घटिकाद्यात्मककालनिष्ठावान्तरकाला
भावाप्रतियोगित्वं, धारावाहिकप्रत्यक्षस्थल इव ता
न्तमेकस्या एव स्मृतिव्यक्त स्स्वीकारात् ।।
उक्त च प्रज्ञापरित्राणे वरदनारायणभट्टारकैः
"स्तम्भस्स्तम्भस्तम्भ इति धीर्धारावाहिका मता
धारावाहिकविज्ञानमेकं ज्ञानं मतं हि नः ।।"
यदि च-धारावाहिकज्ञानस्थले नैका व्यक्तिः, किं तु
तीयज्ञानधारैव । उक्तं च श्रीमति भाष्ये-"ध्यानं ६
धारावदविच्छिन्नस्मृतिसन्तानरूपा ध्रुवानुस्मृतिः" इ
इत्युच्यते; तदा-घटिकाद्यात्मककालनिष्ठावान्तरकाला
यस्स्वाश्रयत्वस्वसमानविषयकस्वसमानाधिकरणस्मृत्या?
तदन्यतरसम्बन्धावच्छिन्नप्रतियोगिताकोऽभावस्तादृशा
प्रतियोगित्वं ध्र वानुस्मृतित्वमिति बोध्यम् । ब्रह्मविष
च सत्यत्वज्ञानत्वानन्दत्वामलत्वनिष्ठप्रकारतानिरूपि
निष्ठविशेष्यताकत्वम् । तेन मनो ब्रह्मत्युपासीतेत्यादि
हितेषु प्रतीकोपासनेयु नातिव्याप्तिः । परविद्यासामान्ये
त्वादिप्रकारकत्वं च-आनन्दादयः प्रधानस्य, इतरे त्वर
न्यादिति सूत्रसिद्धम् ।।
सा च विद्या-सदानन्दमयान्तरादित्यशाण्डिल्यदह

७२ ] सिद्धान्तसिद्धाञ्जनम् भूमवैश्वानरपञ्चाग्न्यादिविद्याभेदाद्बहुविधा ॥ तत्र-जगदुप दानत्व-जगन्निमित्तत्वसत्यसङ्कल्पत्व-तेजःप्रभृतिस्रष्टुत्वतत्तच रीरकत्व-तत्तदनुप्रवेष्टत्वनामरूपव्याकर्तृत्व-जगज्जन्मस्थि लयहेतुत्वादिगुणप्रकारकसच्छब्दवाच्यपरब्रह्मविशेष्यकोपास सद्विद्या । सा च-सदेव सोम्येदमन आसीदित्यादिना छान्द ग्ये प्रतिपादिता ॥ विपश्चित्त्व-जगत्कारणत्वानन्दैकतानत्वे रानन्दयितृत्व-स्वसङ्कल्पप्रयोज्यचिदचिदात्मक- प्रपञ्चस्रष्टर सृज्यवर्गानुप्रवेशकृततदात्मकत्व-भयाभयहेतुत्व-वाय्वादित्या प्रशासितृत्व निरतिशयानन्दाश्रयत्वादिप्रकारकानन्दमयवि व्यकभक्तिः-आनन्दमयविद्या । सा च तैत्तिरीयकगता ॥ मन मयत्व-प्राणशरीरकत्व भारूपत्वसत्यसङ्कल्पत्वाकाशशरीरक सर्वगन्धत्व - सर्वरसत्वावाप्तसमस्तकामत्वावाकित्वानादरत्व हृदयोपाधिकाणुत्वादिप्रकारकात्मविशेष्यकोपासनं-शाण्डिल विद्या । सा च छान्दोग्ये बृहदारण्यकेऽग्निरहस्ये चाम्नाता अथ-बृहदारण्यके सत्यसङ्कल्पत्वाद्यप्रतिपादनात्तत्प्रका कत्वघटितोक्तलक्षणस्य तदुक्तशाण्डिल्यविद्यायामव्याप्तिः । च-सत्यसङ्कल्पत्वादिप्रकारकत्वमनिवेश्य मनोमयत्वभारूप हृदयोपाधिकाणुत्वैतत्त्रितयप्रकारकत्वमेव लक्षणे निवेश इति नाव्याप्तिः, उक्तगुणत्रयस्य छान्दोग्येऽग्निरहस्ये बृह्दा ण्यके च सत्त्वादिति-वाच्यम् । शाण्डिल्यविद्यायां उक्तगु त्रयप्रकारकत्वेनैव कारणत्वे छान्दोग्याग्नि रहस्ययोः प्राणश रकत्वसत्यसङ्कल्पत्वादीनां प्रतिपादनस्य वैयर्थ्यप्रसङ्गेन प्रा शरीरकत्वादिप्रकारकत्वस्यापि कारणतावच्छेदकत्वावद कत्वात् बृहदारण्यकोक्तशाण्डिल्यविद्यायास्तत्प्रकारकत्वा मोक्षजनकत्वानुपपत्तेः । न च-सर्ववेदान्तप्रत्ययं चोदना सिद्धान्तसिद्धाञ्जनम्. . विशेषात् इत्यादिना रूपैक्यस्य विद्यै क्यप्रयोजकतया गुणोपं हारप्रयोजकत्वाभिधानात् प्रकृते मनोमयत्वभारूपत्वर्वाि ष्टात्मन एव बृहदारण्यकेऽप्युपास्यत्वोक्त्या रूपैक्याद्गुणो हारावश्यकत्वेन तद्विद्याया अपि प्राणशरीरकत्वादिप्रकार त्वान्मोक्षजनकतासम्भव इति-वाच्यम् । विद्यै क्यस्य तत्पर जकरूपैक्यस्य च बृहदारण्यकोक्तविद्यायामसम्भवात् । त हि--विद्यैक्यं च न तावदभिन्नत्व; पुरुषभेदेन कालभेदेन भिन्नानां मनोमयत्वादिप्रकारकोपासनरूपशाण्डिल्यविद्यार मभेदायोगात्; किन्त्वभिन्नकारणताश्रयत्वं, शाण्डिल्यविद्या सर्वासामेकरूपेण कारणत्वात्; एकविषयतावत्त्वं वा, समान कारज्ञानेषु विषयताया ऐक्यात् । तत्प्रयोजक रूपैक्यमपि तावदेकविशेष्यकत्वम्, उद्गीथविद्यानां सर्वासामप्युद्गथा कैक विशेष्यकत्वेनैक्यापत्तेः । कि तु तदनिवर्त्यसंशयनिवर्तः तावच्छेदक विषयताशून्यत्वरूपं तदनतिरिक्तविषयकत्वमे तदैक्यप्रयोजक रूपैक्यम् । तथा च-"तत्रापि दह्र गर विशोकस्तस्मिन्यदन्तस्तदुपासितव्यम्” इति तैत्तिरीयकग दहर विद्या छान्दोग्यगतदहरविद्यानिष्ठकारणतावती तन्निष् विषयिताबती वा, तादृशविद्यानिष्ठप्रतिबन्धकताकान्यसंश निवर्तकतावच्छेदकविषयिताशून्यत्वात्, छान्दोग्यगतदहररि द्यावत् इत्याद्यनुमानेन भिन्नभिन्नशाखागतविद्यानामैक्यं सा नीयमिति सर्ववेदान्तप्रत्ययन्यायाभिप्रेतम् । तथा च-बृहदा ण्यकगतशाण्डिल्यविद्याया अग्नि रहस्याधुक्तशाण्डिल्यविद्यैक्य सम्भवति , तादृशोपासनाप्रतिबध्यवशित्वेशानत्वादिकोटि संशयनिवर्तकतावच्छेदकविषयितावत्त्वेन तच्छृन्यत्वात्मकरू क्याभावात् ।। इति चेत् ॥ मैवम् - सर्वस्थितिप्रयोजकसङ्कल्पवत्त्वरूपवशित्वस्य सर

सिद्धान्तसिद्धाञ्जनम्.
saptasha AM
R
PUR
निप्रयोजकसङ्कल्पवत्वरूपसर्वेशानत्वस्य सर्वचेष्टा
वत्त्वरूपसर्वप्रशासितृत्वस्य च बृहदारण्यकोक्तर
गच्छान्दोग्ययोस्सत्यसङ्कल्पपदेनोक्तत्वात् सत्यपद
अतिप्रयोजकत्वसर्वोत्पत्तिप्रयोजकत्व-सर्वचेष्टाप्रयोज
सर्वनिष्ठस्वत्वनिरूपक त्वरूपसर्वाधिपतित्व
गर्व स्वामितया प्राप्तवानित्यर्थकेन सर्वमिदमभ्या
ननोनवेन
वृहदारण्यकोक्तविद्यायां
रूपैक्यनि
र चेदं 'समान एवं चाभेदात्' इत्यत्र भाष्ये ।।
अथ-एवमपि छान्दोग्यादौ ज्यायान्पृथिव्या इ
व्यायम्बस्योक्तचा तत्प्रकारकत्वस्यापि हेतुतावच्छेद
कामाका, अन्यथा तत्प्रतिपादनवैयर्थात् तच्च-न स
क्यावच्छिन्नपरमात्मनि पृथिव्याद्यवधिक ज्यायस्त्वार
में च-तादशज्यायस्त्वस्यावच्छिन्ने असम्भवेऽपि स्वरू
अन्नानुपपत्तिः; एवं चानन्दादय इत्यस्यापि न विरो
यावच्छिन्नपरमात्मन्यपि स्वरूपे अपरिच्छिन्नत्वरूपा
सम्भवेन तत्प्रकारकत्वनिर्वाहादिति-- वाच्यम् । त
सम्भूतिद्य व्याप्त्यपि चातः” इत्यधिकरणविरोधाथः
हृदयादिरूपाल्पस्थानगोचरासु विद्यासु धुव्याप्तिप्रका
सम्भवस्य प्रतिपादनात्, उक्तरीत्या धु व्याप्तेर्ह दयार
असम्भवेऽपि स्वरूपे सम्भवात् ।। न च-द्य व्याप्तिरा
चकमहत्त्वं; तच स्वरूपे न सम्भवति, स्वरूपगतपरम
र निरवधिकत्वेनाकाशाद्यवधिकत्वाभावात्; मध्यमा
गवान्यापेक्षयाऽल्पत्वरूपत्वस्येतरापेक्षया महत्त्वरूपत्व
यस्वर्थ मावधिकत्वकल्पनादिति-बाच्यम् । तथा सा

जीवपरिच्छेदः [ ७५ व्याद्यवधिकज्यायस्त्वस्यापि शाण्डिल्यविद्याप्रकारत्वासम्भव- तादवस्थ्यात्, आनन्दादय इतिसूत्रोक्तानन्त्यस्यैव स्वरूपांशे प्रकारतया भानसम्भवात्-इति चेन्न । ज्यायान्पृथिव्या इत्या- देरुपास्यमाहात्म्यप्रतिपादनपरत्वेन शाण्डिल्यविद्यावेद्यत्वानु- पगमात्, सम्भृत्यधिकरणभाष्ये तथा प्रतिपादनादिति दिक् । उक्तरीत्यैव विद्यान्तराणां लक्षणान्यूह्यानि ॥ तासां च विद्यानां तृणारणिमणिन्यायेन पृथवेग हेतुत्वं, न तु दण्डचक्रादिन्यायेन मिलितानां हेतुत्वमिति विकल्प ऽवि- शिष्टफलल्वादिति सूत्रसिद्धम्; दहरा दिविद्यागतमोक्षोत्पाद- प्रयोजकतावच्छेदकसमुदायत्वशून्यत्वे सति मोक्षोत्पादप्रयोज- कतावच्छेदकसमुदायाश्रयत्वरूपभिन्नसामग्रीप्रविष्टत्वस्यैव विक- ल्पशब्दार्थत्वात्, अव्यवहितोत्तरत्व निवेशाच्च-न परस्परं व्य- भिचार इति बोध्यम् । अत्र अविशिष्टफलत्वादिति सूत्रयता भुक्तावानन्दतारतम्यं निरस्तं; ब्रह्मविद्यासामान्यस्यैकजातीय- फलजनकत्वाभिधानात्, भोगमात्रसाम्यलिङ्गाच्चेति सूत्रोक्त- स्य भोगसाम्यस्य सम्भवाच्च । तथा हि-अनुकूलत्वप्रकारक- साक्षात्कारो भोगः, तत्साम्यं च समानविषयकत्वम् । तथा च प्रमेयत्वव्यापकानुकूलत्वनिष्ठप्रकारता निरूपितविशेष्यताकसा क्षात्कारवत्त्वमेव समान भोगवत्वम्, 'सदा पश्यन्ति सूरयः" इत्यनेन नित्यानां, ‘सर्व ह पश्यः पश्यति' इत्यनेन मुक्तानां चेश्वरस्येव सर्व साक्षात्कारवत्त्वबोधनात्तदंशे वलक्षण्याभावात् परस्परमीश्वरेण च भोगसाम्यमुपपन्नम् । उक्तं च तत्त्वमुक्ताकलापे- "शेषाणां शेषिणश्च स्फुरति सुखतया सर्वदा सर्वतत्त्वे । नित्यानां मुक्तिभाजामपि भुवनकृतं भोगमात्रं समानम् ।।" - - -इति ॥

सिद्धान्तसिद्धाजनम्. - न च-मुक्तानां दुःखादिसाक्षात्कर्तृत्वे दुःखित्वापत्त्या न सर्वसाक्षात्कारसम्भवः; 'न पश्यो मृत्यु पश्यति, न रोगं नोत दुःखताम्' इति श्रुत्या दुःखादिसाक्षात्कारनिषेधाच्च, 'सर्वं ह पश्यः पश्यति' इत्यस्य सङ्कोचावश्यकत्वादिति-वाच्यम् । स्वतोऽनुकूलभूतभगवद्विभूतित्वेन सर्वस्याप्यनुकूलत्वेन दुःखा- देरपि मुक्तान्प्रति प्रतिकूलत्वाभावेनानुकूलतया दुःखादिसाक्षा- स्कर्तृत्वसम्भवात्तस्य दुःखित्वानापादकत्वात् प्रतिकूलतया तत्साक्षात्कर्तृत्वस्यैव तथात्वात्, स्वतोऽनुकूलभूते वस्तुनि प्रातिकूल्यस्य कर्मकृतत्वेन कर्मनाशे तत्कृतप्रातिकूल्यस्या- सम्भवात्, नोतदुःखतामित्यस्य प्रातिकूल्यप्रकारकसाक्षात्का- रनिषेधपरत्वेन दुःखसाक्षात्कारनिषेधपरत्वाभावाच्च ।। न च- पूर्वानुभूतनरकादौ प्रातिकूल्यस्य पूर्व स्थितत्वादतीतादिसा- क्षात्कर्तुर्मुक्तस्य तत्साक्षात्कर्तृत्वमावश्यकमिति-वाच्यम् । प्रतिकूलतया अनुभूतं नरकादिकमपि भगवद्विभूतित्वादनुकूल- मेवेति साक्षात्कारस्य मुक्तिदशायां स्वीकारेऽपि तस्य दुखि- त्वानापादकत्वात्, प्रत्युतानन्दावहत्वात् ।। अत्र माध्वाः-देवमनुष्यादीनां मुक्तानां परस्परमानन्दे तारतम्यमावश्यकम्; साधनतारतम्यस्य साध्यतारतम्यप्रयो- जकत्वात्, मनुष्योपासनापेक्षया देवोपासनस्य कालतो विषय- तश्च प्रकृष्टत्वात्, अन्यथा प्रयत्नाधिक्यवैफल्यापत्तेः, प्रकृष्टा- प्रकष्टसाधनवतामेकजातीयफलप्रदत्वे भगवतो वैषम्यापत्तेश्च । श्रुतिसिद्धश्चायमर्थः- "अक्षण्वन्तः कर्णवन्तस्सखायो मनोजवेष्वसमा बभूवुः ॥" इति ।। अत्र हि मनोजवशब्दितेज्ञाने साम्याभावप्रतिपादनात्तारतम्य- जीवपरिच्छेदः [ ৩০ मवगम्यते, तेन च फलतारतम्यमर्थसिद्धम् । तथा 'सैषानन्द- स्य मीमांसा भवति'-इत्यारभ्य मनुष्यादिचतुर्भुखपर्यन्तानां मुक्तानामानन्दतारतम्यं प्रतिपाद्य 'श्रोत्रियस्य चाकामहतस्य' इति तत्तन्मुक्तेष्वपि तत्तदानन्दतारतम्यातिदेशात्, परमसाम्य श्रुतेश्च भवन्मतेऽपि नासङ्घ चितार्थत्वं; जगत्कारणत्वलक्ष्मी- पतित्वादेर्मुक्तेष्वसम्भवाच्छेषित्वशेषत्वाणुत्व विभुत्वादिकृतता- रतम्यस्य दुरपह्मवत्वाच्च । अतो निर्दोषत्वमात्रेण तत्साम्यमु- पपन्नमिति न तेनानन्दसाम्यसिद्धि:- इति वदन्ति ।। अत्रोच्यते-मुक्तानामानन्दतारतम्यं सङ्ख्याकृतं परि- माणकृतं विषयकृतं स्वरूपकृतं वा न सम्भवति ।। सङ्घया- कृततारतम्यं हि-एकतरकृतमुक्तानन्दपर्याप्तसङ्घयाव्याप्यत्व- व्यापकत्वान्यतरावच्छेदकसङ्खयाविभाजकधर्मवत्सङ्घयापर्या- प्त्यधिकरणत्वमपरमुक्तानन्देषु । यथा अष्टवस्वपेक्षया सप्तर्षिषु द्वादशादित्येषु च वसुपर्याप्ताष्टत्वसङ्घयाव्याप्यतावच्छेदक- सप्तत्वत्वरूपसङ्ख्याविभाजकधर्मवत्सङ्ख्यापर्याप्तयधिकरण त्वस्य सप्तर्षिषु तादृशसङ्ख्याव्यापकतावच्छेदकद्वादशत्वत्व- रूपतादृशधर्मवत्सङख्यापर्याप्तत्यधिकरणत्वस्य द्वादशादित्येषु च सत्त्वात् । एतादृश च तारतम्यं मुक्तानन्देष्वसंम्भवि; आनन्दस्य भवन्मते जीवस्वरूपत्वेन प्रत्येकमेकत्वेन सङ्ख्या- कृतवैषम्याभावात् ।। नापि परिमाणकृतं, परिमाणकृततार- तम्यं ह्यामलकापेक्षया बिल्वबदरयोस्तत्संयुक्तयावत्प्रदेशसंयो- गयोग्यत्वसमानाधिकरणतदसंयुक्तप्रवेशसंयोगयोग्यत्वतत्संयुक्त यत्किञ्चित्प्रदेशसंयोगयोग्यत्वान्यतररूपं प्रसिद्धं; तादृशस्याणु- रूपजीवस्वरूपानन्देष्वसम्भवात् ॥ नापि विषयकृतं; तद्धि तद्विषययत्किञ्चिदविषयकत्वतदविषयविषयकत्वान्यतररूप; al ७८ ] सिद्धान्तसिद्धाञ्जनम् ܝ यथा-घटपटोभयविषयकज्ञानगपेक्षया एकविषयकज्ञानत्रितय- विषयकज्ञानयोः ; तादृशानन्दतारतम्यस्य, 'सर्वं ह पश्यः पर- यति' इत्यादिश्रुत्युक्तसर्वज्ञत्वेन समानेषु मुक्तेष्वसम्भवात् ।। नापि स्वरूपकृतं; तद्धि-मधुरमधुरतररसयोरिव परस्परास- मानाधिकरणवैजात्यवत्त्वं, तादृशवैजात्यस्य मुक्तस्वरूपानन्दे- प्वप्रामाणिकत्वात् ॥ यदपि-तादृशवैजात्यसाधनायोक्त-प्रकृता बन्धनिवृत्तिः- स्वसजातीयबन्ध निवृत्त्याश्रयप्रतियोगिकतारतम्यवनिष्ठा , ब- धनिवृत्तित्वात्, निगलबन्धनिवृत्तिवत्-इति । तदपि न- तारतम्यस्य गुणगतवैजात्यरूपस्य बन्धनिवृत्त्याश्रयात्मनिष्ठ- स्वाभावात्, तदवृत्तिधर्मस्यैतत्प्रतियोगितारतम्यशब्देनाभि- धाने मुक्तानन्तयोरेकजातीयत्वेऽपि स्वस्वमात्रविषयकधीविष- यत्वमादायार्थान्तरात् । न च-गुणगुणिनोरभेदाङ्गीकाराद्गु.. णगतवैजात्यस्य आत्मनिष्ठत्वमिति-वाच्यम्; स्वरूपातिरिक्त- तादृशवैजात्यस्यापसिद्धान्तपराहतत्वेन भवद्भिरङ्गीकर्तृम- शक्यत्वात् । न च-जीवस्वरूपानन्दानामनादितारतम्यस्व- भावत्वमिति-वाच्यम्; जीवस्वरूपाणां तारतम्यस्वरूपत्वे भेदमात्रे पर्यवसानेन परिभाषामात्रापत्तेः, पूर्वोक्तभोगसाम्या- विघातात् । साधनतारतम्यात्साध्यतारतम्यमित्यपि न सत्; धूमालोकादिलिङ्गकपरामर्शरूपसाधनतारम्येऽप्यनुमितो तार- तम्यादर्शनेन व्यभिचारात्, मोक्षसाधनज्ञाने तारतम्यासिद्धे- श्च अक्षण्वन्तइत्यादिश्रुतेस्सर्वसाक्षात्कर्तृत्वेन समान्तरराहि- त्यपरत्वादक्षण्वन्तःकर्णवन्त इत्याभ्यां सर्वसाक्षात्कर्तृ चक्षुष्म- त्त्वस्य तादृशश्रोत्रवत्त्वस्य च बोधनात्, प्रशंसायां मतुप्प्रत्य- यात्; 'कीर्तिमानसमो राजा निस्समास्तत्र पण्डिताः' इत्यादौ ८० ] ईश्वरपरिच्छेदः समाराध्यत्वं, सर्वकर्मफलोत्पादकसङ्कल्पवत्त्वरूपं सर्वफलप्र- दत्वं, सर्वद्रव्यपतनप्रतिबन्धकसङ्कल्पवत्त्वरूपसर्वाधारत्वं च- तल्लक्षणम् । न च-ईश्वरस्य विभुत्वे 'अनुप्रविश्य नामरूपे व्याकरवाणि' इत्यादिश्रुत्युक्तमनुप्रवेशादिकं नोपपद्यत इति- वाच्यम्; विलक्षणसंयोगस्यैवानुप्रवेशशब्दार्थत्वात् । न च- भगवन्निरूपितस्वत्वस्य सर्वत्र सिद्धत्वे अग्नये स्वाहेत्यादाव- ग्निपदस्याग्न्यन्तर्यामिपरत्वानुपपत्तिः, हविनिष्ठस्वत्वरूपफ- लावच्छिन्नस्वस्वत्वध्वंसानुकूल व्यापारस्यैव स्वाहापदार्थत्वा- तत्र स्वत्वरूपफलेऽन्तर्यामिनिरूपितत्वासम्भवादिति-वाच्य- म्; तत्र विशेषणीभूताग्निनिरूपितत्वस्यैव स्वत्वरूपफलेऽन्व- याङ्गीकारात् । न चैवमपि-भगवते गां ददाति, आत्मानं समर्पयतीत्यादिव्यवहारानुपपत्तिरिति-वाच्यम्; तत्र स्वत्व- प्रकारतानिरूपितविशेष्यत्वरूपफलावच्छिन्नस्वस्वत्वध्वंसानुकू- लव्यापारस्यैव ददात्यर्थत्वात् भगवन्निरूपितस्वत्वस्य सर्वत्र सिद्धत्वेऽपि सर्वेषां तज्ज्ञानाभावेन तत्प्रकारकज्ञानीयविशेष्य- ताया: फलत्वाविरोधात् । अत एव भगवति सर्वोत्कर्षस्य सिद्धत्वेऽपि भगवान् जयत्वित्यादिप्रयोगः । उत्कर्षनिष्ठप्रका- रतानिरूपितविशेष्यताया एव तत्र जिघात्वर्थतया तस्या असि- द्धत्वेन लोडणेच्छाविषयत्वस्य तत्रान्वयाबाधात् । न च-सर्व- कर्मसमाराध्यत्वं भगवतो न सम्भवति अन्येषामेवान्यभक्ता- राध्यत्वादिति-वाच्यम् ; "येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयाऽन्विताः । तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥" इत्यादिभिरन्यदेवताभक्ताराध्यत्वस्यापि भगवत्यभिधानात् ।। तत्र गौरवितप्रीतिहेतुव्यापाररूपयजिधात्वर्थतावच्छेदकप्रीति- रूपफले द्वितीयान्तार्थमढत्तित्वान्वयात् क्षणध्वंसि क्रियायाः सिद्धान्तसिद्धाञ्जनम् [ ८१ कालान्तरभाविस्वर्गादिजनकत्वासम्भवेन द्वारस्य वक्तव्यत्वे अत्यन्तापरिदृष्टापूर्वस्य द्वारत्वापेक्षया ‘स एवैनं भूतिं गमयति', 'तृप्त एवैनमिन्द्रः प्रजया पशुभिस्तर्पयति' इत्यादिश्रुत्युक्तदेव- ताप्रसादस्यैव द्वारता युक्तत्वेन निरुक्तसर्वफलप्रदत्वं भगवत उपपन्नम् । न च-तत्रेन्द्रादिप्रीतेरेव द्वारत्वं श्रूयते न भगवत्प्री- तेरिति-वाच्यम्; आराधितेन्द्रादिनाशे कल्पान्तरे फलोत्पादा- नुपपत्त्या तन्द्रादिपदस्य तदन्तर्यामिपरत्वावश्यकत्वात् । उपपादितं चेदं फलमतउपपत्तेरित्यत्र भाष्ये। निरुक्तसर्वा- धारत्वं च ‘एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विवृतौ तिष्ठतः' इत्यादिश्रुतिसिद्धम् । 'पाथसि पीते तृष्णा शाम्यति' इत्यादाविव सतिसप्तम्या जन्यजनकभावलाभात् जगदुपादानत्वमपि तल्लक्षणम् । भाव्यवस्थाविशेषवतः प्राग-> वस्थायोगित्वमुपादानत्वम् । स्वावच्छेदककालानवच्छिन्नत्व- स्वपूर्वत्वस्वसामानाधिकरण्यैतत्त्रितयसम्बन्धेन तद्धर्मविशिष्ट- धर्मवत्त्वं तद्धर्मावच्छिन्न प्रत्युपादानत्वमिति फलितम् । मृत्पिण्डे निरुक्तसम्बन्धत्रयेण घटत्वावस्थाविशिष्टपिण्डत्वाव- स्थासत्त्वाद्घटत्वावच्छिन्न प्रति पिण्डत्वावच्छिन्नस्योपादा- नत्वोपपत्तिः ; घटत्वावच्छिन्न प्रति द्रव्यत्वावच्छिन्नस्योपादा- नतावारणाय प्रथमसम्बन्धनिवेशः, घटत्वावस्थाध्वंसविशिष्ट- स्यापि तदवच्छिन्न प्रत्युपादानत्ववारणाय स्वपूर्वत्वनिवेशः । घटाव्यवहितपूर्वतन्त्वादेस्तदुपादानतावारणाय सामानाधिक- रण्यनिवेशः । अन्यथा सिद्धिनिरूपकतानवच्छेदकत्वस्यापिनिवे- शाच न घटत्वावस्थापूर्वकालीनवायुसंयोगादिविशिष्टस्य तद- वच्छिन्न प्रत्युपादानत्वापत्तिः । न चैवं-द्रव्यत्वाद्यवच्छिन्नस्य घटत्वाद्यवच्छिन्न प्रत्यन्यथासिद्धत्वादेव वारणे प्रथमसम्ब- ईश्वरपरिच्छेदः Pearn T Ipota पनिवेगवैयर्थ्यमिति- नाच्यम्।अन्यथासिद्धत्तास्यैकस्याभावेन अन्यथामिद्धिनिरूपकतावच्छेदकत्वेन प्रामाणिकानां व्यव- अरविषया ये ये धर्मास्तत्तद्व्यक्तित्वावच्छिन्नभेदकूटवत्त्वस्य वेश्यतया विशेषणान्तरावार्याणामेव भेदकूटनिवेशेन वार- पाहोकारात् । सामानाधिकरण्यशरीरे च स्वाश्रयापृथक्सि- दिसम्बन्धावच्छिन्ना स्वापृथक्सिद्धिसम्बन्धावच्छिन्ना चाधि- कगणना अपृथक्सि द्धिसम्बन्धावच्छिन्नाधिकरणतात्वेन प्रवे- दया । 'बालोऽपि यः प्रजानाति तं देवाः स्थविरं विदुः,' काठिन्यवान्यो विति' इत्यादिभि: स्वाश्रयापृथक्सिद्धेरपि निनियामकत्वस्य सिद्धत्वात्तदवच्छिन्नाधिकरणताप्रसिद्धः ।। व च-मुक्ष्मचिदचिद्विशिष्टस्य ब्रह्मणः स्थूलचिदचिद्विशिष्ट व प्रत्युगादानत्वमुपपन्नम् ॥ उक्तसम्बन्धत्रयेण स्थूलत्ववि- सिष्टममत्वस्य तत्र सत्त्वात्, तादात्म्येन स्थूलविशिष्ट प्रति उन सम्बन्धेन सूक्ष्मविशिष्टब्रह्मणः कारणत्वात्, तादात्म्यस- म्बन्धावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकार- पताश्रयत्वं चोपादानलक्षणं बोध्यं; उपादानोपादेययोरभे- दान तदनन्यत्वमारम्भणशब्दादिभ्य इत्यधिकरणोपपत्तिः ।। अयैवं ----न विलक्षणत्वादस्य तथात्वं च शब्दादित्यादिना बिल नणयोरुपादानोपादेयभावासम्भवमाशङ्कय, दृश्यतेत्वि- न्यादिना तत्सम्भवसिद्धान्तकरणं नोपपद्यते, अभिन्नयोरेवोपा- द्वानोपादेयभावे केनापि रूपेण वैलक्षण्याप्रसक्तेः-इति चेन्न । विशिष्टयोरुपादानोपादेयभावाङ्गीकारेऽपि विशेषणांशं प्रति विगेवांगस्याप्युपादानताया अभिमतत्वात्तन्निर्वाहायाविलक्ष- पाचोर स्युपादान पादेयभावस्य व्यवस्थापनीयत्वात्, अवस्था प्रति व्यस्योपादानतानिर्वाहायोपादानत्वलक्षणस्य तादात्म्या- सिद्धान्तसिद्धाञ्जनम्. [ ८३ . + पृथक्सिद्ध्यन्यतरसम्बन्धावच्छिन्नकार्यताघटितस्य परिष्कर्तव्य - तया विशेषणांशनिष्ठापृथसिद्धिसम्बन्धावच्छिन्नकार्यतानिरू- पितकारणत्वस्य विशेष्यांशे सत्त्वेन तत्रोपादानत्वव्यवस्थाप- नस्यावश्यकत्वात्, अन्यथोपादानत्वलक्षणातिव्याप्त र्दुरित्वा- त् । अत एव विशेषणांशं प्रति विशष्यांशस्योपादानत्वपरा यतोवेत्यादिश्रुतिरुपपन्ना ; तत्र भूतानीत्यस्य तच्छरीरकपर- मात्मपरत्वे बहुवचनस्थ प्रत्यक्षविषयार्थकेदमर्थान्वयस्य 'यत्प्र- यन्त्यभिसंविशन्ति' इत्यस्य च अस्वारस्यापत्तेः । क्वचिद्वि- शिष्टं प्रति विशिष्टस्योपादानत्वमुच्यते-यथा 'सदेव सोम्येद- मग्र आसीत्', 'आकाशाद्वायुः'-इत्यादौ, तत्राकाशशरीरकाद्वा- युशरीरक उत्पन्न इत्यार्थात् । तदभिध्यानादेव तु तल्लिङ्गा- -इत्यनेनाकाशादिशब्दस्य विशिष्टपरताप्रतिपादनात् पञ्च- म्यन्ताकाशादिपदानां विशिष्टपरत्वे प्रथमान्तानामपि तेषां तत्परत्वावश्यकत्वात् । छान्दोग्यश्रुतौ 'तत्तेज ऐक्षत', 'ता आप ऐक्षन्त' इत्यादीक्षणरूपलिङ्गात्तेजोऽपशब्दयोविशिष्टपरत्वा- वश्यकतया तदनुरोधेन 'अग्नेरापः, अद्भथः पृथिवी' इत्यत्र- अप्पदपर्यन्तं विशिष्टपरतायास्स्वीकारेऽपि पृथिवीपदस्य वि- शेषणमात्रपरत्वमेव । ततश्च 'पृथिव्या ओषधयः, ओषधीभ्यो- ऽन्नं, अन्नात्पुरुषः' इति च विशेषणानामेवोबादानोपादेयभा- वपरम् । अत एवानन्दमयाधिकरणे ‘स वा एष पुरुषोऽन्नर- समयः' इत्यत्र-पुरुषपदस्य शरीरपरतया व्याख्यानं सङ्गच्छते; अन्यथा पुरुषपदस्यापि विशिष्टपरत्वे विकारार्थकमयट्प्रत्यया- नुपपत्तेः, उत्तरत्र 'तस्यैष एवं शारीर आत्मा' इति प्रतिपा- दनात्सर्वान्तरात्मत्वोपपादनायास्य प्रकरणस्य प्रवृत्तत्वेन तद्वि- रोधापत्तेश्च । विशेषणांशं प्रति विशेष्यांशस्योपादानत्वाभि- on ८४ ] ईश्वरपरिछेदः प्रायेणैव श्रुतिप्रक्रियायां 'यत्र हि द्वैतमिव भवति' इत्यादिश्र - त्यर्थविचारे भाष्यम्- ‘कृत्स्नस्य जगतो ब्रह्मकार्यतया तदन्तर्यामिकतया च तदात्मकत्वेनैक्यात्तत्प्रत्यनीकनानात्वं प्रतिषिध्यते ॥" ---इति ॥ अत्र जगत इति विशेषणमात्रपरं, विशिष्टपरत्वे तदन्तर्या- मिकतयेत्यत्रान्वयानुपपत्तेः । न च-जगत इत्यस्य विशिष्ट- परत्वेऽपि तदन्तर्यामिकतयेत्यस्य विशेषणांशेऽन्वयाद्विशेषण- मात्रपरस्य जगत इति पदान्तरस्याध्याहारेणतत्रान्वयसम्भवा- द्वा नानुपपत्तिरिति-वाच्यम् ; अस्य वाक्यस्य विशिष्टोपादा- नतापरत्वे ब्रह्मकार्यतयेत्यत्र ब्रह्मपदस्य सूक्ष्मविशिष्टपरत्वाव- श्यकत्वेन तदन्तर्यामिकतयेति तच्छब्देन विशिष्ट परामर्श बा धात्, स्थितिदशायां सूक्ष्मावस्थानाशेन सूक्ष्मशरीरकस्यान्त- र्यामित्वासम्भवात्, विशिष्टस्य प्रक्रान्ततास्थले विशे- प्यमात्रस्य तच्छब्देन परामर्शायोगात् ; अन्यथा तत्त्वमसी- त्यादौ परमते लक्षणाभिधानासङ्गत्यापत्तेः । न च-सन्मूला- इत्यत्र सच्छब्दस्य विशिष्टपरत्वेऽपि सदायतना इत्यत्र सच्छ- ब्दस्य श्रुतप्रकाशिकोक्तरीत्याविशेष्यमात्रपरत्वात् विशिष्टस्य- प्रक्रान्तत्वेऽप्यैतदात्म्यमित्यत्र विशेष्यमात्रस्यैतच्छब्देन परा- मर्शवत्प्रकृतेऽपि विशेष्यमात्रस्य तच्छब्देन परामर्शस्सम्भव- तीति-वाच्यम् ; क्लिष्टकल्पनापत्तेः । यदि च-सर्वं खल्विदं ब्रह्म तज्जलानीति शान्त उपासी- तेत्यत्र विशिष्टोपादानत्वतात्पर्यानुरोधेन ब्रह्मपदस्य विशिष्टप- रत्वे तत्पदस्यापि विशिष्टपरत्वं वाच्यम् ; तच्च न सम्भवति ; विशिष्टस्य जननेऽन्वयसम्भवेऽप्यनन्तपदार्थस्थितावन्वयासम्भ- -- -- -- सिद्धान्तसिद्धाञ्जनम्. [ ८५ वात्, सकृदुच्चरित इति न्यायविरोधेनैकस्य तच्छब्दस्योभय- बोधकत्वासम्भवात् । अतो ब्रह्मपदस्य तत्पदस्य च विशेष्य- परत्वमेव वक्तव्यम् ; विशिष्टस्य कारणत्वेविशेष्यस्यापि तदन- पायेन जननेऽपि तदन्वयाविरोधात् । तथा च प्रकृतेऽपि ताह- शश्रुत्यनुसारेण ब्रह्मपदस्य तच्छब्दस्य च विशेष्यपरत्वान्नानु- पपक्तिरितिविभाव्यते ; तदाऽपि-विशेषणांशं प्रति विशेष्य- स्योपादानत्वपरतयाऽपि तद्भाष्यस्य व्यासायॆाख्यातत्वात्त- दपि भाष्यटीकोभयाभिमतम् ।। तत्रेयं टीका- "यद्वा-कृत्स्नस्य जगत इति निष्कर्षकशब्दः, ब्रह्मशब्दो- विशेष्यमात्रपरः, ब्रह्मकार्यतया तदन्तर्यामिकतया च जगत्तदात्मकं; तदात्मकत्वं नाम जगतस्तत्प्रकारैकस्व- भावतया प्रागवस्थानाभावात्तदन्तर्गतत्वं तेन प्रकारेणै- क्यं, न तु स्वरूपैक्यं; विशिष्टान्तर्भाव ऐक्यमित्यर्थः। इति। 'दृश्यते तु' इति सूत्रे भावप्रकाशिका च- "अत्र केचित्-कारणकोटौ विशेष्यभूतस्त ब्रह्मणःकार्यकोटौ विशेषणभूतेष्वचेतनेष्वप्युपादानत्वमुपपादनीयम्, अन्यथा त- स्य सर्वोपादानत्वासिद्धेः । अत एव श्र तप्रकाशिकायां 'यद्वा जगत इति निष्कर्षकश्शब्दः, ब्रह्मशब्दो विशेष्यमात्रपरः' इत्या- दिना कार्यकोटौ विशेषणभूतस्य जगतः कारणकोटौ विशेष्य- भूतं ब्रह्म प्रत्युपादेयत्वशरीरत्वे स्तः-इत्याचार्यः प्रतिपादितम्।- ततश्च सालक्षण्याभावादुपादानत्वं न सम्भवतीत्याक्षेपस्य अचेतनांशे चेतनत्वानुवृत्तिरस्तीति परिहारासम्भवादेतत्सूत्रो- क्तन्यायेन विलक्षणयोरप्युपादानोपादेयभावोऽस्तीत्येवं परि- हर्तव्यम् --- इति वदन्ति ॥" --इति ॥ - ८६ ] ईश्वरपरिच्छेदः तथा च-न विलक्षणत्वादित्यादिकं विशेषणविशेष्ययोरुपा- दानोपादेयभावपरं, आरम्भणाधिकरणं च-विशिष्टयोरुपादा- नोपादेयभावपरम्; चमसवदविशेषादिति च-विशेषणांशयोरे- वोपादानोपादेयभावपरमिति न परस्परं विरोधः; चमसव- दित्यत्र "विकारजननीमज्ञामष्टरूपामजां ध्र वाम्" इत्यादि- श्रुत्यनुरोधेन ब्रह्मशरीरभूतायाअजाया उपादानत्वस्योक्तत्वात् ।। नन्वेवं-'ईक्षते शब्दं' 'आकाशस्तल्लिङ्गात्' इत्याद्यधिक- रणानुत्थितिः ; विशेषणभूतप्रकृत्याकाशादीनामेवोपादानत्व- परतया 'सदेवसोम्येदमग्र आसीत्' 'सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते' इत्यादिश्रु तेरुपपत्तेस्सदाकाशा- दिपदानां ब्रह्मपरताव्यवस्थापनस्यानावश्यकत्वात्; सच्छब्द- स्य परमात्मशरीरभूतप्रधानपरत्वाङ्गीकारेण तत्र विशेष्ये ईक्षणाद्यन्वयासम्भवेऽपि विशेषणे तदन्वयसम्भवात्; ब्रह्मपर- तापक्षेऽपि विशेषणद्वारैव परिणामस्य वक्तव्यत्वात् ।। न च- सदादिपदस्य परमात्मशरीरभूतप्रधानपरत्वे लक्षणा स्यादि- ति-वाच्यम्;सूक्ष्मचिदचिद्विशिष्टब्रह्मपरत्वेऽपि लक्षणाया अव- र्जनीयत्वात्, शतदूषण्यां सच्छब्दस्य विशिष्टपरत्वे लक्षणा दोष इत्याशङ्कय; सर्वशब्दलक्षणापक्षादस्यैवोपादेयतमत्वाभि- धानात् । एवं चाकाशादेवेत्यत्र न रूढित्यागोऽपि, तद्वाक्ये ईक्षणादेरश्रवणेन परमात्मशरीरत्वेन बोधनावश्यकत्वात्, ब्रह्मपरतापक्षे रूढित्यागस्य दुस्त्यजत्वात्, अर्थविरोधेन अपशू- द्राधिकरणसूत्रोक्तं शूद्रशब्दरूढित्यागमुपजीव्यात्रापि रूढि वि- हाय आसमन्तात्काशत इत्यादियोगार्थस्य भाष्येऽङ्गीकारात् । यद्यप्याकाशाधिकरणटीकायामाकाशपदस्याकाशशरीरकत्वप- रत्वाङ्गीकारेण रूढयपरित्याग उक्तः । तथाऽपिवैश्वानराधिक- - ८८ ] ईश्वरपरिच्छेदः तु पूर्वावस्थाविशिष्टद्रव्यस्योत्तरास्थाविशिष्टद्रव्यं प्रत्युपादान- त्वं; द्रव्यस्य नित्यतयोपादेयस्वासम्भवात् । तथा महत्त्वादिरू- पावस्थाविशिष्टद्रव्यं प्रति प्रकृतित्वरूपावस्थाविशिष्टद्रवस्यो- पादानत्वासम्भवात् सुतरामुत्तरावस्थाविशिष्टद्रव्यशरीरकब्रह्म प्रति पूर्वावस्थाविशिष्टद्रव्यशरीरकब्रह्मण उपादानत्वं सम्भ- वति-- इति चेत् ॥ मैवम् । सिद्धान्ते कालसंयुक्तत्वरूपकाल- सम्बन्धित्वस्य द्रव्यमात्रनिष्ठत्वेनावस्थासाधारण्याभावेना- द्रव्ये कालसम्बन्धित्वव्यवहारस्य गौणत्वादाद्यक्षणसम्बन्धरू- पोत्पत्तेः पूर्वकालवृत्तित्वरूपकारणत्वस्य च द्रव्य एव सम्भ- वादुत्तरावस्थां प्रति पूर्वावस्थायाः कारणत्वमित्यस्यापि उत्त- रावस्थाविशिष्टद्रव्य निरूपित पूर्वावस्थाविशिष्टद्रव्यगतकार- णतायामेव पर्यवसानात् । अद्रव्यस्यापि कालसम्बन्धित्वस्वी- कारे पूर्वमसत्या एवावस्थाया उत्पत्तिस्वीकारापत्त्या असत्का- र्यवादस्य दुर्वारत्वात् । स्ववृत्तिध्वंसप्रतियोगिक्षणावृत्तित्वस्व- वृत्तित्वोभयसम्बन्धेन क्षणविष्टत्वं हि असत्कार्यवादविषयः ; अवस्थायाः कालसम्बन्धित्वे च उक्तोभयसम्बन्धेन क्षणविशि- ष्टत्वस्यावस्थायामक्षतत्वात्तदापत्तिर्दुर्वारा । तथा च 'कथम- सतस्सज्जायेत' इति श्रुतिविरोधः । असत इति पष्ठयन्तं, स- दिति भावप्रधानं ; पूर्वं कालासम्बन्धिनः कालसम्बन्धित्वं न सम्भवतीत्युक्तासत्कार्यवादनि रासोऽभिप्रेतः । आद्यक्षणसम्ब- न्धरूपोत्पत्तिशरीरे च घटत्वाद्यवच्छिन्ननिरूपिताधिकरणतैव निवेश्या ; तेन द्रव्यस्वरूपस्य नित्यतया स्वाधिकरणध्वंसान- धिकरणक्षणाप्रसिद्ध्या स्वपदेन द्रव्योपादानासम्भवेऽपि न क्षति: । स्वसमभिव्याहृतपदार्थतावच्छेदकधर्मावच्छिन्ननिरूपि ताधिकरणतावत्क्षणध्वंसानधिकरणक्षणसम्बन्धस्यैवोत्पत्तिप- सिद्धान्तसिद्धाञ्जनम्. [ ८६ घट घटत्वा- अत्र य- दार्थत्वात् ; घट उत्पद्यत इत्यादौ घटत्वावच्छिन्ननिरूपिता- धिकरणतावत्क्षणध्वंसानधिकरणक्षणसम्बन्धी इति बोधात् ।। यद्यपि-स्वसमभिव्याहृतपदार्थतावच्छेदकेत्यनेन देरुपादानेऽपि तदवच्छिन्ननिरूपिताधिकरणतावत्क्षणध्वं- सानधिकरणक्षणाप्रसिद्धिरस्त्येव ; घटादे: प्रवाहानादि- तया सर्वस्यापि क्षणस्य यत्किञ्चिद्घटाधिकरणत्वेन तादृश- क्षणध्वंसाधिकरणत्वात् । तथाऽपि-सिद्धान्ते घटत्वस्य प्रति- व्यक्तिभिन्नतया उत्पत्त्यन्वयितावच्छेदकं यद्घटत्वं तदवच्छि- नाधिकरणक्षणस्य पूर्वमभावादेव प्रसिद्धिसम्भवः । त्किञ्चिद्धर्ममनिवेश्य स्वसमभिव्याहृतपदार्थतावच्छेदकधर्मस्यै- व विशिष्य निवेशाच आत्मा जायते मृज्जायत इत्यादिर्न व्यवहारः, आत्मत्वाद्यवच्छिन्नाधिकरणक्षणध्वंसानधिकरण- क्षणाप्रसिद्धः । एवं च-स्थूलसूक्ष्मशरीरकस्य ब्रह्मणः कार्य- कारण भावोपपत्तिः ; स्थूल रूपस्य निरुक्तजनिबटकत्वसम्भ- बात् । तथा च तदनन्यत्वाधिकरणे भाष्यम्- "संस्थानस्यासत उत्पत्तावसत्कार्यवादप्रसङ्ग इति चेदस- कार्यवादिनोऽप्युत्पत्तेरनुत्पत्तिमत्त्वे सत्कार्यवादप्रसङ्गः, उत्पत्तिमत्त्वे चानवस्था ; अस्माकं त्ववस्थानां पृथक्प्र- तिपत्तिकार्ययोगानहत्वादवस्थावत एवोत्पत्त्यादिकं सर्व- मिति निर द्यम् ।।" ---इति ॥ न च-उक्तरीत्या अवस्थायाः कालसम्बन्धित्वाभावेन पूर्वोत्त- रावस्थद्रव्ययोरेवोपादानोपादेयभावसिद्धावपि तच्छरीरकब- ह्मणस्तदसिद्धितादवस्थ्यमिति-वाच्यम् ; एवमप्युपादानोपा- ९० ] ईश्वरपरिच्छेदः देयशरीरतया ब्रह्मण उपादानोपादेयशब्दयोब्रह्मरि मुख्यत्वोपपत्तेः । अत एव शतदूषण्यां-विशिष्टस्योपा दानत्वे प्राप्ताप्राप्तविवेकेन विशेषणयोरेवोणादानोपादे यभावपर्यवसानमित्याशङ्कय, विशेष्यस्याप्युपादानादिशब्द वाच्यत्वप्रतिक्षेपस्त्वशक्य इति समाहितम् ॥ न च-अवस्थाया उत्पत्तिमत्त्वानङ्गीकारे उपादानलक्ष णे अपृथसिद्धिसम्बन्धावच्छिन्नकार्यतानिवेशनस्य व्यर्थतय ब्रह्मणो विशेषणांशं प्रति करणत्वाभावेन 'न विलक्षणत्वात् इत्यधिकरणस्यानुत्थितिरिति-वाच्यम्; यतो वेत्यादिश्रुत्युक्ता या विशेषणांशनिरूपितकारणताया निर्वाहार्थमेवापृथसिद्धि सम्बन्धावच्छिन्नकार्यतानिवेशावश्यकतयोक्ताधिकरणसङ्गतेः। इदं तु बोध्यम् ॥ सूक्ष्मचिदचिद्विशिष्टस्य ब्रह्मण- स्थूल चिदचिद्विशिष्टं प्रति कारणत्वं नास्तीत्यस्य कोऽर्थः ? स्थूल चिदचिद्विशिष्टस्य कार्यत्वाभावात्तन्निरूपितोपादानत्वं सूक्ष्म- चिदचिद्वशिष्टस्य न सम्भवतीति ; अथवा तस्य कार्यत्वेऽपि तं प्रत्येतस्योपादानत्वमप्रामाणिकमिति ? आद्येऽपि-स्थूलचिदचिद्विशिष्टस्य निषेध्यभूतं कार्यत्व- मुत्पत्तिमत्त्वरूपं वा, प्रागभावप्रतियोगित्वरूपं वा ? नाद्यः । विशिष्टाधिकरणताघटितोत्पत्तिमत्त्वस्य पूर्वमेवोपपादनात् । न च-स्ववृत्तिध्वंसप्रतियोगिक्षणावृत्तित्वरूपस्वपूर्वक्षणावृत्ति- त्वस्ववृत्तित्वोभयसम्बन्धेन क्षणविशिष्टत्वरूपोत्पत्तिमत्त्वमेव कार्यताप्रयोजकं, तच्च न स्थूलविशिष्टब्रह्मणि विशेष्यीभूतब्रह्म- णः पूर्वक्षणवृत्तित्वेन विशिष्टे तस्मिन् तदभावासम्भवादिति वाच्यम्; शुद्धवह्नित्वावच्छिन्नाभावप्रतियोगितावच्छेदकता- ;

सिद्धान्तसिद्धाञ्जनम् या महानसीयत्वविशिष्टवह्नित्वापर्याप्तत्ववच्छुद्धब्रह्मपर्य यतायास्स्थूलविशिष्टापर्याप्ततया पूर्वक्षण निरूपितवृत्ति पर्याप्तिसम्बन्धावच्छिन्नाभावस्य तत्र सम्भवेन निरुक्तोत्र मत्त्वसम्भवात् ।। न द्वितीयः । घटत्वावस्था भविष्यति, भविष्यतीति द्विविधव्यवहारनिर्वाहाय एकस्यैव प्रागभा घटत्वावस्थापर्याप्ता तद्विशिष्टपर्याप्ता च प्रतियोगिता द्वि स्वीक्रियते । तथा स्थूलावस्था भविष्यति. स्थूलशरीरकं भविष्यतीति द्विविधव्यवहारनिर्वाहाय प्रागभावनिरूप तियोगिताद्वयस्वीकारस्यावश्यकत्वात्, इच्छाविषयत्वस्य गभावप्रतियोगित्वव्याप्यतया बहुस्यामितीच्छानुरोधेन । रीरकब्रह्मणस्तदावश्यकत्वाच्च ।। नापि द्वितीयकल्पो युक्तः । स्थूलविशिष्टस्य कार्यत्वे त्म्येन तत्सम्बन्धिनि पूर्वकालावच्छेदेन तादात्म्येन सम्बई रूपोपादानत्वस्य सूक्ष्मविशिष्टे ब्रह्मणि सर्वसिद्धत्वेन कैरप्यपलपितुमशक्यत्वात् ॥ न च-तादात्म्येन का णनिरूपितपूर्वकालावच्छिन्नतादात्म्यावच्छिन्नसम्बन्धित नोपादानतारूपं, किं त्वनन्यथासिद्धत्वघटितं; तथा च विशिष्टं प्रति सूक्ष्मविशिष्टस्यान्यथासिद्धत्वान्नोपादानत्व न्यथा स्थूलविशिष्टाकाशादिकं प्रति सूक्ष्मविशिष्टस्य तर दानताप्रसङ्गादिति-वाच्यम्; अन्यथा सिद्धत्वस्यानुगत प्रसक्तस्यैकस्य दुर्वचत्वेन यत्र यत्र प्रामाणिकानां न । त्वव्यवहारस्तत्तद्भदकूटवत्त्वस्यैवानन्यथासिद्धत्वरूपतर वा इमानि भूतानि जायन्ते' 'यद्भूतयोनि परिपश्यन्ति 'सदेव सोम्येदमग्न आसीत्' इत्यादिश्रुतिभिस्सूक्ष्मविशि 3 ६२ ] ईश्वरपरिछेदः ण: स्थूलविशिष्ट प्रति कारणत्वस्यैव व्यवहृतत्वेन तद्भद- स्यपादानताशरीरे अनिवेशात्, आकाशादेश तादृशव्यवहारा भावेन अन्यथासिद्धताया एव युक्तत्वात्तभेदस्योपादानतागर्भे प्रवेश्यत्वात् । एतेनावस्थानां कालसम्बन्धित्वस्य कार्यकारण- भावस्य च सत्त्वेऽपि न क्षतिः, आवस्थानां कार्यकारणभावे- ऽपि तद्विशिष्टयोरपि तथात्वस्य दुरपह्नवत्वात् । ब्रह्मण उपा- दानत्वे निर्विकारत्वश्रुतिविरोधपरिहारः प्रागेव प्रतिपादितः । निरुक्तोपादानत्वं च "प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्, इत्याधिकरणे एकविज्ञानेन सर्वविज्ञानप्रतिज्ञादिभिस्सूत्रकारै- रेव स्थापितम् । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञा च 'येनाश्रु- तं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातं स्यात्' 'यथा सोम्यै- केन मृत्पिण्डेन सर्वं मृण्मयं विज्ञतं स्यात्' इति श्रुतिसिद्धा ।। श्रुतेश्चायमर्थ:-'आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विज्ञातं भवति' इति मैत्रायणीयश्रुत्यनुसारादुपादानप्रक- रणानुगुण्याच्च श्रुतेन मतेन विज्ञातेनेत्यध्याहारात्, येन श्रुते- नाश्रुतं श्रुतं भवति, येन मतेनामतं मतं भवति, येन विज्ञाते- नाविज्ञातं विज्ञातं भवतीत्यर्थः । श्रुतेन येनेति तृतीयार्थोऽभेदः श्रुतपदार्थे शाब्दबोधविशेषविषयेऽन्वेति; उक्तश्रुत्यनुरोधादेवेदं सर्वमित्यप्यध्याह्वार्यम्; परिदृश्यमानस्थूलचिदचिच्छरीरकमि- तितदर्थः। अश्रुतमित्यस्य स्थूलरूपावच्छिन्नशाब्दबोधीयविषयता- शून्यमित्यर्थः। तस्य सर्वपदार्थेऽन्वयात् स्थूलावस्थावच्छिन्नशा- ब्दज्ञानीयविषयताशून्याभिन्न प्रत्यक्षविषयस्थूलचिदचिच्छरी- रकं ब्रह्म शाब्दबोधीयविषयताविशिष्टजगन्निमित्ताभिन्नसूक्ष्म- चिदचिद्वैशिष्ट्यावच्छिन्नशाब्दबोधीयविषताश्रयो भवतीति वाक्यार्थः । अश्रुतं श्रु तमित्यस्य स्थूलशरीरकत्वेनाथ तं सू- सिद्धान्तसिद्धाञ्जनम्. [ ६ क्ष्मशरीरकत्वेन श्रु तमित्यर्थात् । पूर्वमश्र तमिदानीं श्रुतमिति तु नार्थः; विशिष्टवैशिष्टयावगाहिबोधे विधेये उद्देश्यतावच्छे- दकसमानकालीनत्वभाननियमस्य तिलकी कर्म' कुर्वीतेत्यादा- विवौत्सर्गिकत्वेन तद्वाधापत्तेः । तादृश नियमभङ्गभयादेव हि 'वर्षे जपन्निदं स्तोत्रमपुत्रः पुत्रवान् भवेत्' इत्यादावपुत्रपदं पुत्रविरोधिपुत्रेच्छापरं, नञः असुर इत्यादाविव विरोध्यर्थक- त्वात्, सति पुत्रे तदिच्छाया असम्भवेन तद्विरोधित्वोपपत्तेः । एवं च स्थूलसूक्ष्मचिदचिद्विशिष्टब्रह्मरूपकार्यकारणयोरेभेदला- भात् 'उत तमादेशमप्राक्ष्यः' इत्यादेशपदेन कारणत्वघटितनि- मित्तत्वलाभेन कार्याभिन्नत्वे सति कारणत्वरूपमुपादानत्वमु- क्तं भवति । न च-उक्तप्रतिज्ञाया अभेदमात्रलाभार्थत्वे येन सर्वमिदं भवतीत्यनेनैव कार्य का रणयोपभेदलाभात् अश्रुतं श्रुतमित्यादीनां वैयर्थ्यमिति-वाच्यम्; कार्याभिन्नत्वे सति कारणत्वरूपोपादानत्वस्य तावन्मात्रेण बोधनेऽपि सूक्ष्मचिद- चिद्र पकारणतावच्छेदकावच्छिन्नविषयतानवच्छेदकत्वरूपका- रणतावच्छेदकभेदस्य कार्यतावच्छेदके बोधनायाश्रुतमित्यादी- नां सार्थकत्वात् । तद्बोधश्च कार्यकारणयोरत्यन्ताभेदे कारक- व्यापारवैयर्थ्यमिति नैयायिकाशङ्कापरिहाराय; कारणताव- च्छेदक कार्यतावच्छेदकयोरुक्तपारिभाषिकभेदबोधने च कार्य- तावच्छेदकविशिष्टस्य पूर्वमभावे तन्निष्पत्तये कारकव्यापार- सार्थक्यमिति समाधानसूचनात् । तयोवस्तिवभेदस्तु श्रु त्या बोधयितुमशक्यः, सूक्ष्मस्थूलचिदचिद्र पयोस्तयोरवस्थाभेदेऽपि स्वरूपैक्येन भेदाभावात्, आत्मनि खल्वर इत्यादिमैत्रायणीय- श्रु तावपि सप्तम्याः दाने कर्णसम इत्यादाविवाभेदार्थकत्वात्पू- र्वोक्तार्थ एव पर्यवसानम् । एकविज्ञानेन सर्व विज्ञानं प्रतिज्ञा- ६४ ] ईश्वरपरिच्छेदः . .. तमित्यादिभाष्यस्याप्येकपदस्य सूक्ष्मचिददिच्छरीरकब्रह्मपर तया, सर्वपदस्य स्थूलसर्वशरीरकपर तया, तृतीयाया अभेदा र्थकतया च सूक्ष्मचिदच्चिच्छरीरकब्रह्मज्ञानाभिन्नस्थूलचिदचि च्छरीरकत्वोपलक्षितब्रह्मज्ञानं प्रतिज्ञातमित्यर्थः । तथा : स्वावच्छिन्नाभिन्नवृत्तित्वस्वावच्छिन्नाविषयकप्रतीतिविषयत वच्छेदकत्वस्वावच्छिन्ननिरूपितकारणतावच्छेदकत्वैतत्त्रितयः म्बन्धेन धर्मविशिष्टधर्मवत्त्वं एकविज्ञानेन सर्वविज्ञानप्रतिज्ञार्थ येनेत्यस्यादेशपदार्थनिमित्तकारणत्वस्यापि तद्घटकत्वात् मृत्पिण्डादिदृष्टान्ते उक्तत्रितयसम्बन्धे घटत्वविशिष्टमृत्पिण्डत्व मादायोक्तप्रतिज्ञानिर्वाहः, दार्शन्ति के चेयं प्रतिज्ञा स्थूलस शरीरकत्वविशिष्टसूक्ष्मशरीरकत्वमादायोपपादनीया। सा: सर्वस्य कार्यत्वमन्तरा न निर्वहतीति वियदादेः कार्यत्वोपपा दकतयाप्रतिज्ञाहानिरव्यतिरेकादित्य दिकमुपपन्नम्। वियदादे कार्यत्वानङ्गीकारे प्रतिज्ञाया अनिर्वाहात् । न च-नित्यविभ त्यादीनां अकार्यत्वेऽपि प्रतिज्ञायाअहानिवदाकाशस्याप्यकार्य त्वेऽपि प्रतिज्ञाया अहानि: प्रसज्यत इति वाच्यम्; येनाश्रु श्रु तमित्यादाथ तादिशब्दानां नित्यविभूत्यादिव्यतिरिक्तपर स्वादुत्तरत्र सदेव सोम्येदमग्र आसीदितीदंकारगोचरस्यैव के गतस्सन्मात्रतापत्तिप्रतिपादनात् ।। एवं-स्वज्ञानातिरिक्तसर्वद्रव्यशरीरकत्वमपि तल्लक्षणं, शरीर पदप्रवृत्तिनिमित्तभूतं तल्लक्षणं च; तनिष्ठज्ञानावच्छिन्नान योगिताकापृथसिद्धिसम्बन्धनिरूपितद्रव्यत्वसमानाधिकरण तियोगित्वं तं प्रति शरीरत्वम् । एतज्जीवस्येदं शरीरमित्य दौ ज्ञानावच्छिन्नानुयोगिताकापृथविसद्धिसम्बन्धनिरूपितद्रव्य सिद्धान्तसिद्धाञ्जनम् त त्वसमानाधिकरणप्रयियोगित्वावच्छिन्न शरीरपदार्थः कदेशज्ञानावच्छिन्नानुयोगितायां षष्ठयन्तार्थस्यैतज्जीववृत्तिर स्यान्वयात् ज्ञानावच्छिन्न तज्जीवनिष्ठानुयोगिताकापृथक्सि निरूपितद्रव्यत्वसमानाधिकरणप्रतियोगित्वावच्छिन्नमिदमि बोधः ॥ यस्यात्मा शरीरं, यस्य पृथिवी शरीरमित्यादाव बोध ऊह्यः । ईश्वरस्य तज्ज्ञानं शरीरंः चैत्रस्य तज्ज्ञानं श रमित्यादिव्यवहारवारणायानुयोगितायां ज्ञानावच्छिन्नत्वर परिमाणमेतस्य शरीरमित्यादिव्यवहारवारणाय प्रतियोगि द्रव्यत्वसमानाधिकरण्यस्य प्रवेशः । श्रीभाष्योक्तलक्षणत्रय लितमिदमेव शरीरपदप्रवृत्तिनिमित्तं; यथाश्रुते लक्षणत्रय प्रवृत्तिमित्तत्वे शरीरशब्दस्य शक्तित्रयापत्त्या नानार्थकत्वाप अन्यतमस्य प्रवृत्तिनिमित्तत्वे चाधेयत्व विधेयत्वशेषत्वानि रीरशब्दप्रवृत्तिनिमित्तानीति भाष्यविरोधात् ॥ उक्त न्यायसिद्धाञ्जने- "अत्रेदंचतुर्थमपि भाष्यकाराभिप्रेतं लक्षणमुच्यते । य चेतनस्य यदवस्थमपृथक्सिद्धविशेषणं द्रव्यं तत्तस्य श मित्याधेयत्वविधेयत्वशेषत्वान्यपृथक्सिद्धरेव अवान्तर दा इह विवक्षिताः ॥" -इति तथा च-स्वज्ञानातिरिक्तद्रव्यात्वव्यापकप्रतियोगिताकापृथवि द्धिसम्बन्धनिरूपितज्ञानावच्छिन्नानुयोगिताश्रयत्वं लक्षणं लितं, सर्वशरीरकत्वादेव तत्तद्वाचिपदेन ब्रह्मणस्सामानाधि रण्योपपत्त्या 'सर्वं खल्विदं ब्रह्म', 'सदेव सोम्येदमग्र आसी 'तत्त्वमसि' इत्यादिसामानाधिकरण्यनिर्वाहः । शरीरवा शब्दानां शरीरिणि शक्तेर्भाष्यादिसिद्धत्वात् ।।

ईश्वरपरिच्छेदः अत्र वदन्ति- सर्व खल्विदं ब्रह्म त्यादौ सर्वपदस्य तच्छरीरकत्वावचि न शक्त्यङ्गीकारापेक्षया सर्वपदार्थस्य ब्रह्मण्यपृथसिद्धिसम्म नान्वयाङ्गीकार एव युक्तः ; अभेदापृथ क्सिद्ध्यन्यतरसमा चावच्छिन्नप्रकारताकवोधजनकत्वस्यैव समानाधिकरण्यरू तथा अपृथसिद्धिसम्बन्धेनान्वयेऽपि सामानाधिकरण्यनिव हात । एवं च नीलादिपदानां गुणमात्रवाचकत्वेऽपि न क्ष पृथक्सिद्धि सम्बन्धमादायैव नीलो घट इत्यादिसामानाधिः प्योपपत्तेः । एवं तत्त्वमसीत्यत्र त्वंपदस्य श्वेतकेतुमात्रप वपि न क्षतिः ; तत्पदार्थस्य ब्रह्मणस्तत्रापृथक्सिद्धिसम्म न्धेनान्वयसम्भवात्, सर्वं खल्विदं ब्रह्म त्यत्र सर्वपदस्य तच्च गरकपरमात्मपरत्वे इदंपदार्थस्य प्रत्यक्षविषयस्य तदेकदेशेर वस्मिन्नन्वयस्य वक्तव्यत्वेन व्युत्पत्तिविरोधात् । संयोगावच्छि भक्रियारूपगमनपदार्थंकदेशसंयोगे गुणाभेदान्वयतात्पर्येण गर नं गुण इत्यादिव्यवहारवारणायाभेदसम्बन्धावच्छिन्नप्रकार सानिरूपित विशेष्यतासम्बन्धेन शाब्दबोधं प्रति पदजन्योपस्थि नेविशेप्यतासम्बन्धन हेतुत्वात् । एवं तत्त्वमसीत्यादौ त्वंपर न्य श्वेतकेतुशरीरकपरमात्मपरत्वे श्वेतकेतुपदस्य श्वेतकेतुम अपरत्वे सम्बोधनस्थल सिद्धस्य युष्मच्छब्दसम्बोध्यवाचकपर बोरसमानार्थकत्वनियमस्य व्याधातः। न च-चैत्र त्वत्पिर न्यादौ युष्मच्छब्दस्य सम्बन्धिनि लाक्षणिकत्वेन तत्र व्यकि चारात्तादृश नियम एवासिद्ध इति-वाच्यम्; समासस्थले तार गनियमाभावेऽपि व्यासस्थले तादृशनियमे बाधकविरहात् तत्र सम्बोध्यवाचकश्वेतकेतुपदस्यापि तच्छरीरकपरमात्मपर व प्रकृतवाक्यजन्यशाब्दबोधाश्रयत्वेनेच्छाविषयरूपविभक्त्य Mum सिद्धान्तसिद्धाञ्जनम् [ ६७ र्थस्य प्रकृत्यर्थे परमात्मन्यन्वयो न सम्भवति; वक्तुरुद्दालकस्य सर्वज्ञं परमात्मानं प्रति बुबोधयिषाविरहात्, भगवांस्त्वमेव तद्ब्रवीत्विति प्रष्टारं श्वेतकेतुं प्रत्येव बुवोधयिषोत्पत्तेः । पर- मात्मन एव प्रष्टुत्वे प्रश्न प्रति जिज्ञासायास्तां प्रति चाज्ञा- नस्य कारणतया परमात्मनोऽज्ञत्वमवर्जनीयं स्यात् । श्वेतके- तुपदस्य तच्छरीरकपरमात्मपरत्वे तदेकदेशश्वेतकेतौ विभ- क्त्यर्थान्वयस्तु न सम्भवति , विभक्त्यर्थसम्बोध्यत्व निष्ठप्रका- रतानिरूपितविशेष्यतासम्बन्धेन शाब्दबोधं प्रति प्रकृतिजन्यो- पस्थितेविशेष्यतासम्बन्धेन हेतुत्वात् । अन्यथा पुत्रीं प्रति त्व- त्पतिस्सुन्दर इति वक्तव्ये जामातस्त्वं सुन्दरोऽसीतिवाक्यप्र- योगापत्तेः ; पुत्रीपतिरूपजामातृपदार्थैक देशपुत्र्यां तदन्वयस- म्भवात् । एवं प्रतर्दन विद्यायां 'त्रिशीर्षाणं त्वाष्ट्रमहनमरुन्मु- खान् यतीन् सालावृकेभ्यः प्रायच्छम्' इत्यारभ्य, 'प्राणोऽस्मि प्रज्ञात्मा, तं मामायुरमृतमित्युपास्व' इत्यस्यास्मच्छब्दार्थेन्द्र- जीवविशेष्यकापृथक्सिद्धिसम्बन्धावच्छिन्नप्राणपदार्थपरमात्म- प्रकारताकोपासनस्य विधानपरत्वाङ्गीकारान्नानुपपत्तिः ; अ- न्यथा मामित्यस्य तच्छरीरकपरमात्मपरत्वे त्वाष्ट्रमहन मि- त्यादावध्याहृतस्याहंपदस्य जीवपरत्वावश्यकतया वैरूप्याप- तेः । शरीरवाचकानां शरीरिपर्यन्तत्वमित्यादिभाष्यस्य श- रीरिविशेष्यकबोधजनकत्व मित्यर्थाङ्गीकारात् शरीरशरीरि- भावरूपापृथविसद्धेस्संसर्गत्वेऽपि न विरोधः ; अन्विताभिधा- नपक्षे भाष्यकृतां निर्भरस्य वक्ष्यमाणत्वेन संसर्गाशेऽपि शक्ति- रस्तीत्यभिप्रायाद्वा ।। - इति ॥ वस्तुतस्तु-इतरपदार्थाभेदान्वयबोधे विभक्त्यसम्बोध्यत्वादि- ६८ ] नित्यविभूतिपरिच्छेदः बोधे च मुख्य विशेष्यतासम्बन्धेन पदजन्योपस्थितेहेतुत्वमि त्रापृथक्सिद्धिसम्बन्धावच्छिन्नप्रकारताभिन्नत्वस्य मुख्यत्व त्वात्सर्वं खल्विदं ब्रह्म त्यादौ सर्वपदस्य तच्छरीरकपरत्वे. इदंपदार्थस्य तदेकदेशे तत्त्वमसि श्वेतकेतावित्यत्र त्वंपद विशिष्टपरत्वेऽपि तदेकदेशे सम्बोध्यत्वस्य चान्वयो न हि द्धः । एवं-राज्ञःपुरुष इत्यादौ यथा स्वत्वस्य संसर्गत्वापेक्ष षष्ठयास्तत्र शक्तिस्वीकारे लाघवं । यथा च जानातीत्यादा श्रयत्वस्य संसर्गत्वापेक्षया आख्यातार्थतापक्षे लाघवं, तथ त्राप्यपृथक्सिद्धेस्संसर्गत्वापेक्षया प्रकारत्वे लाघवं सम्भवर्त शरीरवाचकानां शरीरिणि शक्तिरेव युक्तेति गुरुसामानाधिकरण्यवादे प्रपश्चितम् ॥ इत्यनन्तार्यकृतौ सिद्धान्तसिद्धाञ्जने ईश्वरपरिच्छेदस्तृतीयः ॥ अथनित्यविभूतिनिरूप्यते ॥ रजोरहितत्वे सति तमोरहितत्वे सति वा सत्त्ववः स्वयंप्रकाशत्वे सति सत्त्ववत्त्वं वा, चेतनधर्मभूतज्ञानान्ट सति स्वयं प्रकाशत्वं; धर्मभूतज्ञानान्यत्वे सति पराक्त्वं तल्लक्षणम् । लक्षणत्रयेऽति प्रकृतिवारणाय सत्यन्तं, जीवा वारणायविशेप्यम्; चतुर्थलक्षणे जीवेश्वरधर्मभूतज्ञानवारण सत्यन्तं, कालवारणाय विशेष्यम् । व्यावृत्तिः पञ्चमेऽप्यूह्य न्यायसिद्धाञ्जने तु-निश्शेषाविद्यानिवृत्तिदेश विजातीया त्वमपि तल्लक्षणमुक्तम् । निश्शेषाविद्याध्वंसोत्पत्ति प्रत्या सिद्धान्तसिद्धाञ्जनम्. तासम्बन्धेनावच्छेदकीभूतो यो देशस्तदवृत्तिद्रव्यविभाजकोपा- धिमद्भिन्नत्वे सति द्रव्यत्वं नित्यविभूतिलक्षणमिति तदर्थः । न च-तादृशदेशवृत्तिद्रव्यविभाजकोपाधिमत्वमेव लक्षणं युक्तं, द्रव्यविभाजकोपाधिनिवेशाच्च न भगवद्विग्रहादावव्याप्तिरित्य- भावद्वयनिवेशो व्यर्थ इति-वाच्यम् । तदवृत्तिद्रव्यविभाजको- पाधिशून्यत्वघटितलक्षणे तवृत्तिद्रव्यविभाजकोपाधिमत्त्वस्या- निविष्टत्वेन वैयर्थ्याभावात्, प्रकृतित्वकालत्वाद्युपाधिपञ्चकवि- षयकमेकं ज्ञानं तद्व्यक्तित्वेन निवेश्य तादृशज्ञानव्यक्त्यव- च्छिन्नावच्छेदकताकभेदनिवेशवैयर्थ्यशङ्काया एवाप्रसक्तेश्च । न च-रजोरहितत्वं तमोरहितत्वं च नित्यविभूतावसिद्धमिति तद्घटितलक्षणयोरव्याप्तिरिति-वाच्यम्; 'आदित्यवर्णं तमसः परस्तात्', 'ते ह नाकं महिमानस्सचन्ते', 'क्षयन्तमस्य रजसः पराके' इत्यादिभिस्तयोस्सिद्धेः ; तमस इत्यस्य तमोगुणवि शिष्टपरतया परस्तादित्यस्य भिन्नदेशवृत्तित्वपरतया आदि- त्यवर्णे भगवद्विग्रहे तमोगुणवद्भिन्नवृत्तित्वबोधनेन तदधिकर- णीभूतनित्यविभूतेस्तमोगुणवद्भिन्नत्वस्यावश्यकत्वात् । न च ब्रह्मस्वरूपस्य तमोगुणवद्भिन्नत्वपरा उक्तश्रुतिः, आदित्यव- गमित्यस्य स्वप्रकाशमित्यर्थादिति-वाच्यम्; तथा सत्यादि- यवर्ण मित्यस्यास्वारस्यापत्तेः, अस्तातिप्रत्ययस्य वृत्तित्वपर- तया तादृशगुणवभिन्नत्वमात्रबोधासम्भवाच्च ।। पद्यपि-"दिक्छब्देभ्यस्सप्तमीपञ्चमीप्रथमाभ्यो दिग्देश- कालेष्वस्तातिः" इत्यस्तातिप्रत्ययस्य प्रथमान्तादपि वधानसत्त्वान्निरर्थकत्वमावश्यकमेव पुरस्ताद्वसतिः रस्तादागतः पुरस्ताद्रमणीय इति तदुदाहरणात् 'स वाधस्तात्स उपरिष्टात्स पश्चात्सपुरस्तात्स दक्षिणतस्स १०० ] नित्यविभूतिपरिच्छेदः उत्तरतस्स एवेदं सर्वम्' इति भूमविद्यायां स एवेद सर्वमि- त्युपसंहारानुरोधेन स एवाधस्तादित्यादेरधोदेशस्स एवेत्यर्था- ङ्गीकारावश्यकत्वात् । तथा च प्रकृतेऽपि तमसः परत्वं ब्रह्म- ण एव बुध्यते । तथाऽपि-अधश्शब्दस्यार्थान्तरेऽनुशासन- प्रयोगयोस्सत्त्वेऽप्यन्तिरापेक्षया आनन्तर्यरूपार्थेः स्वारस्यव- दस्तातिप्रत्ययान्तस्य. किञ्चिद्देशवृत्तित्वपरत्व एव स्वारस्यात्, गवादिशब्दस्यानेकार्थत्वेऽपि बाधकविरहे सास्नवद्व्यक्तेः परि- त्यागादर्शनात्तमसः परस्तादित्यस्य तद्देशवृत्तित्वपरत्वमेव युक्तम् । एवं क्षयन्तमस्येत्यादेः रजोगुणवभिन्न देशे वसन्तमि- त्यर्थ: । न च-जापकोपाख्याने मुक्तप्राप्यस्थानस्य ,द्वाभ्यां मुक्तं, त्रिभिर्मुक्तम्' इति गुणत्रयविरहबोधनात्तत्र सत्त्ववत्त्व- मपि न सम्भवतीति-वाच्यम्; "शुद्धसत्त्वमयं दिव्यमक्षरं ब्रह्मणः पदम् । अथातो ब्रह्मणो लोक: शुद्धसत्त्वस्सनातनः ।।" इत्यादि पाद्मपुराणवचनैस्तादृशलोके सत्त्व सिद्धौ उक्तवचनस्य त्रित्वावच्छिन्नावच्छेदकताकभेदपरतया घटवति घटपटोभय- त्वावच्छिन्नावच्छेदकताकभेदवदविरोधात्, 'स्वसत्ताभासक सत्त्वं गुणसत्वाद्विलक्षणम्' इति प्रधानगतसत्त्वस्य विजाती- यत्वेन तद्वद्भेदस्याबाधाच्च ।। यत्तु-'तदक्षरे परमे व्योम' इत्यक्षरशब्दप्रयोगात्, 'आदि- त्यवर्ण तमसः परस्तात् इति तमःपरत्वोक्त्या चाव्यक्ततमसो- रन्तरालेऽधीतः प्रकृतिपरिणामविशेष एव मुक्तानामीश्वरस्य च भोगस्थानतया ओम्नायते; शुद्धसत्त्वव्यपदेशस्य च रजस्त- मसोरभिभूतत योपपत्तेरतिरिक्ताप्राकृतस्थानकल्पने गौरवात् ।

सिद्धान्तसिद्धाञ्जनम्. [ १०१ स्वा- तत्रापि पृथिव्यादिभेदाभ्युपगमेन प्राकृतत्वज्ञानाच, अन्यथा तत्त्वसङ्खचाधिक्यप्रसङ्गात्; 'तं षड्विंशकमित्याहुस्सप्तविंश- मथापरे' इति श्रुत्या कालस्यान्तर्भावानन्तर्भावाभिप्रायेणं षड्विंशत्वसप्तविंशत्वयोः प्रतिपादनेन नित्यविभूतेरतिरिक्तत्वे तादृशश्रुतिविरोधात् । एवं 'सदेव सोम्येदमग्र आसीत्', 'आ- त्मा वा इदमेक एवाग्र आसीन्नान्य त्किञ्चन मिषत्', 'नाहो न रात्रिन नभो न भूमि सीत्तमो ज्योतिरभून्न चान्यत्' इत्या- दि श्रुतिविरोधश्च; तत्रैकपदस्य समानकालीनविभिन्नव्यवहा- रजनकजन्यधर्माभावरूपनामरूपविभागाभावपरत्वात्, प्रयोज्यव्यवहारप्रयोजकत्वकालिकविशेषणत्वैतदुभयसम्बन्धेन जन्यधर्मविशिष्टजन्यधर्माभावस्यैकपदनिष्कृष्टार्थत्वात् । मह- त्वादिविशिष्टप्रकृतिगतसततपरिणामरूपाविशदावस्थामादा- यासम्भववारणाय कालिकसम्बन्धनिवेशः ; चित्त्वाचित्त्वादि वारणाय जन्यत्वनिवेशः; अभावश्च स्वाश्रयापृथक्सिद्धिसम्ब- न्धावच्छिन्नप्रतियोगिताको ग्राह्यः, तेन सम्बन्धान्त रावच्छि- नतादृशधर्माभावस्येदानीमपि सत्त्वेऽपि न क्षतिः, 'नित्यविभू- तेरतिरिक्तद्रव्यात्मिकायास्तद्दशायाममि सत्त्वे च तद्गतानन्त- धर्माणामुक्तसम्बन्वेन प्रलयकालेऽपि ब्रह्मगि सत्त्वेनैकत्वव्या- घातात् । लीलाविभूत्यपेक्षयानित्यविभूतेस्त्रिगुणत्वेन तत्सत्ता- दशायां लीलाविभूत्यभावादेकत्वव्यवहारसमर्थनस्थ मन्दत्वा- त् । वियदादेरेकैकस्याकार्यत्वे प्रतिज्ञाहानिमुद्भावयतासूत्र- कृतां तादृशानेकतत्त्वात्मिकाया अतिरिक्ताया नित्यविभूतेस्स- त्त्वे तत्र प्रतिज्ञाहानेरवारणस्यानुचितत्वात् । एवं-'एतस्मा- दात्मनस्सर्वे लोकास्सर्वे देवास्सर्वाणि भूतानि व्युञ्चरन्ति' इति श्रुतेस्सर्वलोकोत्पत्तिप्रतिपादिकाया विरोधश्च । तस्मात्प्रकृतेः १०२ ] नित्यविभूतिपरिछेदः .. रक्षरत्वावस्थापन्नाया एव नित्यविभूतिरूपेण परिणाम: 'तदेकमव्यक्तमनन्तरूपं विश्व पुराणं तमसः परस्तात्' इत्या- दावव्यक्तशब्दोऽपि तद्धेतुभूताक्षरपर एव, तमसः परस्तादि- त्युक्तेरतो न विरोध:-इति यादवप्रकाशमतम् ॥ तन्न--,अपुनर्भवाय कोशं भिनत्ति', 'कोशं भित्वा शीर्षकपालं भिनत्ति' इत्युपक्रम्य, 'पृथिवीं भिनत्यापो भिन्नत्त्यव्यक्तमक्षरं भिनत्ति मृत्यु भिनत्ति' इति सुबालश्रुत्या ब्रह्माण्डतदावरणा- द्वहिभूतस्य तल्लोकस्य अक्षरभेदनानन्तरं प्राप्यत्वेनाभिहित- स्याक्षरात्मकत्वासम्भवात्, शीर्षकपालं भिनत्तीत्यभिधाय पृथिव्यादिभेदनस्याभिहितत्वेन शरीरानुप्रविष्टानामेव पृथि- व्यादीनामव्यक्ताक्षरतमसां च भेदनं तत्राभिधीयते; नावरण- रूपाणामिति वक्तुमशक्यत्वात् । पाद्मपुराणोत्तरखण्डे- "त्रिपाद्व्याप्तिः परं धाम पादोऽस्येहाभवत्पुनः । त्रिपाद्विभूतिनित्या स्यादनित्यं पादमैश्वरम् ।। नित्यं तद् पमीशस्य परं धाम्नि स्थितं शिवम् । अमृतं शाश्वतं दिव्यं सदा यौवनमास्थितम् ॥ इत्यारभ्य, सप्तावरणावेष्टिताण्डकटाहादिवृत्तान्तं प्रकृत्यादि- स्वरूपं च विस्तरशोऽभिधाय ; "प्रधानपरमव्योम्नोरन्तरे विरजा नदी । वेदाङ्गस्वेदजनिततोयविस्राविता नदी॥ तस्याः पारे परव्योम्नि त्रिपाद्भतिस्सनातनी। अमृतं शाश्वतं नित्यमनन्तं परमं पदम् ।। शुद्धसत्त्वमयं दिव्यमक्षरं ब्रह्मणः पदम् । अनेककोटिसाहस्राग्निवचं ध्रुवमव्ययम् ।।

सिद्धान्तसिद्धाञ्जनम् [ १०३ - सर्ववेदमयं शुभ्र सर्गप्रलयवर्जितम् ।। इत्यादिना वैकुण्ठलोकस्य नित्यत्वप्रकृत्युत्तीर्णत्वयोरभिधानेन तस्य प्रकृतिपरिणामत्वासम्भवात् । ‘एको ह वै नारायण आसीन्न ब्रह्मा नेशानः' इति श्रुत्या, 'पुरा कल्पापाये स्वकृत- मुदरीकृत्य विकृतम्' इत्यादौ च प्रलये भगवद्देहस्य साक्षात् स्थित्युक्त्या नित्यविग्रहावश्यकत्वेन तद्गताकुञ्चनप्रसारणा- दिजन्यधर्मद्वयमादाय निरुक्तैकत्वानुपपत्तिवारणाय शुद्धसत्त्वा- वृत्तिविभिन्नव्यवहारजनकानेकधर्माभावस्यैवैकत्वरूपत्वावश्य- कतया एकमेवेत्यादिश्रुतेरविरोधात्, बहुस्यामित्युत्तरवाक्यग- तबहुत्वविरोध्येकत्वस्यैव तत्र विवक्षितत्वात्, नित्यविभूतौ- बहुत्वस्य सर्वदा सिद्धत्वेन इच्छाविषयत्वासम्भवेन प्रकृतिग- तबहुत्वस्यैवेच्छाविषयताया वक्तव्यत्वेनैकत्वस्यापि तत्प्रति- कोटिभूतस्य प्रकृतिगतधर्ममादायैव वक्त मुचितत्वात् ॥ न- च-नित्यविभूतिमादाय बहुशरीरकत्वस्य सर्वदा सत्त्वे इच्छा- विषयत्वानुपपत्त्या तद्दशायां तदपि नास्तीति निश्चीयत इति वाच्यम्; तेजोऽप्सृष्टयनन्तरमपि 'बह्वयः स्याम प्रजायेमहि' इति सङ्कल्पस्य श्रुतिसिद्धत्वेन स्रक्ष्यमाणगतबहुत्वस्यैवेच्छा विषयताया आवश्यकत्वेन नित्यविभूतिसत्त्वेऽप्यविरोधात् । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाया अपि न विरोधः, यथा सो- म्यैकेन मृत्पिण्डेनेति दृष्टान्ते सर्वं मृण्मयमित्यनेन यथैकमृत्पि- ण्डकार्याणामेव ग्रहण, तथा ब्रह्मकार्याणामेव तत्र ग्रहणेऽपि नित्यत्वेन सिद्धायाः नित्यविभूते रग्रहणे तद्विरोधाप्रसक्त्या सूत्रकारैस्तच्छङ्कापरिहारयोरकरणोपपत्तेः ।। महाभारते- "अभयं चानिमित्तं च न च क्लेशभयावृतम् । द्वाभ्यां मुक्त विभिभुक्तमष्टाभिस्त्रिभिरेव च ।।

--
anupam.w.agar
नित्यविभूतिपरिछेदः
प्रवर्ष महानन्दं विशोकं विगतक्लमम् ।
जयं परमं स्थानं निराशास्ते च तादृशाः ॥
काल स पचते तत्र न कालस्तत्र वै प्रभुः ।
अरण्यपर्वणि---
"योगनिद्धा महात्मानस्तमोमोहविवर्जिताः ।
तन गत्वा पुनर्नेमं लोकमायान्ति भारत ।।
म्यानमेतन्महाराज ध्रुवमक्षरमव्ययम् ॥"-
इद अभिवहया नित्यविभूतेस्सूत्रकारैरेव प्रपञ्चितत्वेन तत्र
मनस्यपगमस्य वक्तुमशक्यत्वात् ॥
अबब--...नैयायिकमतनिरासावसरे "रूपादिमत्त्वाच्च विपर्यय
"उभयथा च दोषात्” इत्याभ्यां सूत्राभ्यां परमा
गाना रूपादिमत्त्वे अनित्यत्वप्रसङ्गस्य तदभावे च द्वयणुकाद
कारण गुणपूर्वकगुणानुत्पत्त्या जगतो नीरूपत्वापादनरूपदूषण
को अभिधानासङ्गतिः; नित्यविभूतेर्भगवद्विग्रहस्य च नित्य
नवगमे रूपस्यानित्यत्वव्याप्यताभङ्गात् । एवं-"प्रियशि
सवाद्यप्राप्तिरूपचयापचयौ हि भेदे” इति सूत्रस्य चासङ्गलि
नत्र ब्रह्मणः शिर:पक्षपुच्छाद्यवयव भेदवत्त्वे उपचयापचययो
सपादनान्नित्य विग्रहसत्त्वे च तत्र शिरःपक्षादिसत्त्वेऽप्युपच
मापचययोरभावेन सावयवत्वस्योपचयापचयव्याप्यत्वाभावे
किरपादनासम्भवात्--इति चेन्न ॥ स्वमते रूपादिमत्त्व
पानित्यत्वव्याप्यताविरहेऽपि तन्मते तद्व्याप्यत्वाविघाते
मम्मतसिद्धार्थमादाय तन्मते दूषणाभिधानस्योपपत्ते;, “न ।
भवादप्यविरोधो विकारादिभ्यः' इति सूत्रे आत्मनस्स्वरे

सिद्धान्तसिद्धाञ्जनम् [ १०५ ते सङ्कोचविकासरूपावस्थाविरहेऽपि जैनमतसिद्धार्थमादाय तन्मते दूषणाभिधानदर्शनात् ; प्रियशिरस्त्वाद्यप्राप्तिरित्यत्र च न कालभेदेन वृद्धिहासपरावुपचयापचयशब्दौ, किं तु प्रको- ष्ठाड्गुल्योरिव कालभेदानपेक्षपीनत्वकृशत्वरूपोपचयापचयप- राविति सावयवत्वस्य तादृशोपचयापचयव्याप्यत्वे व्यभिचार- विरहाद्ब्रह्मणस्सावयवत्वे प्रदेशभेदेन स्थूलत्वकृशत्वयोरेवा- पादनस्याभिमतत्वात्, अस्थूलमनण्विति श्रुतिविरोधेन तवेष्टा- पत्त्यसम्भवात् । स्पष्ट चेदं टीकायां । तथा च-अप्राकृतलोक- स्सूत्रकृदनुमत एव । अक्षरशब्दस्वारस्यादपि न तल्लोकस्य प्रकृतिपरिणामरूपत्वं; न क्षरतीत्यक्षरमिति योगार्थस्य नित्य- विभूतौ सम्भवात्, लोकत्वरूपावस्थाविशिष्टस्यापि प्रलयादौ नाशाभावेन नाशप्रतियोगितापर्याप्तयनधिकरणत्वस्य तादृश- लोकत्वविशिष्टे सत्त्वेनाक्षरशब्दस्य तत्रैव स्वारस्यात्, "अ- क्षरमम्बरान्तधृतेः' इत्यत्र योगमादायैवाक्षरशब्दस्य ब्रह्मप- रताव्यवस्थापनात्तद्वदिहापि सम्भवात्, परमेव्योमन्निति सम- भिव्याहारस्य प्रकृतिपरिणामपरत्वे बाधकस्य सत्त्वाच्च ।। न च नित्यविभूते रतिरिक्तत्वे सप्तविंशमथापर इत्युक्ततत्त्वसङ्ख- याविरोधः, नित्यविभूतेरनङ्गीकारेऽपि गुणक्रियादिकमादाय तत्त्वसङ्खयाविरोधस्य जागरूकत्वात्, द्रव्याणामेव परिगण- नमित्यङ्गीकारेऽपि धर्मभूतज्ञानस्य द्रव्यस्याधिकस्य सत्त्वेन तद्विरोधस्य दुष्परिहरत्वात् । न च जीवस्य धर्मभूतज्ञानवि- शिष्टत्वेन तत्त्वपङ्की निवेशाद्विशेष्याणामेव परिगणनाद्धर्मभू तज्ञानस्य विशेषणत्वान्न सङ्घयाविरोध इति-वाच्यम्; तथा सति नित्यविभूतेरपीश्वरविशेषणतयैव प्रवेशेन तद्विरो- धाभावात् ॥

aliMD-12-
-
नित्यविभूतिपरिच्छेदः
नाच विभूति नानन्दात्मिका, 'ज्ञानानन्दमया लोकाः'
प्रादि प्रमाणात् । रहस्याम्नाये किमात्मिका भगवतो व्य
नि भावद्विग्रहस्य प्रकारे पृष्टे-'यावदात्मको भगवांस्तदान
का अक्ति' ; 'किमात्मको भगवान्' 'ज्ञानात्मको भगः
नवन्यामको बलात्मक ऐश्वर्यात्मक' इत्याद्युत्तरदर्शनेन दिर
नजलविनहरूपस्य शुद्धसत्त्वद्रव्यस्य ज्ञानात्मकत्व सिद्धेश्च ।
अब आर-~-उक्तरहस्याम्नायानुरोधाद्विग्रहस्य ज्ञानात
नवम्वीकारे घागुण्यरूपत्वमपि दुर्वार; तस्मिन्नेव शा
पाठान, इष्टापत्तौ च चेतनत्वप्रसङ्गात् । न च-तत्रापी
अगित-बाच्यम्, जीवेश्वरविकल्पबाधात्, षाड्गुण्यात्मक
कोरबारित्वे त्र ज्ञानात्मकत्वेऽपि तथास्त्रस्य दुरित्व
नखिमषिभूतिरिव नित्यविभूतिरपि जडैव, निश्शेषांविर
नवृत्तिव निरवधि कज्ञानविकासस्थानतया ज्ञानत्वोपच
सति युक्तम् । विफलं च नित्यविभूतेस्स्वयंप्रकाशत्वकल्प
त्यमुक्त वराणां सर्वविषयकसाक्षात्कारसत्त्वेन तेषां ते
नद्रानान, बद्धानां च शास्त्रादिजन्यपरोक्षज्ञानेन तभानात्
न चं-जावस्वरूपस्यापि स्वप्रकाशत्वं न स्यात्,
वमभूत जाननैव भानोपपत्तेरिति-वाच्यम् ; सुषुप्तचवस्था
अनन् । बिरहेऽप्यात्मनो भासमानतया स्वप्रकाशताया
के निपनि भूतेक्वापि ज्ञानान्तरविगमदशायां भाना
बन्द जनस्यायुतत्वान् । एवं नित्यविभूतेरनन्तानां गो
नाप नादादीनां ज्ञानपरिणामत्वाभ्युपगमे अल्पीयसां ल
माविमा स्थानां तेषां ज्ञानपरिणामत्वस्य के मुतिकन्याये
तु जयतया योगाचार मतनिराकरणानुपपत्तिः : तत
समानाकारणार्थं प्रवृत्तस्य यत्र ज्ञानत्वं तत्र स्वभिन्ना
तस्या
४.40

MANTPURaprade-1
Sai
म
lan
नित्यविभूतिपरिछेदः
निकत्वात् ; अन्यथा धर्मभूतज्ञानेनैव सर्वकार्योत्पत्तावा-
नम्य व्यर्थतया तस्याप्यप्रसिद्धिप्रसङ्गात्; आत्मनि व्य
नवारणाय प्रमाणजन्य ज्ञानत्वं यत्र तत्र स्वभिन्नार्थवि-
न्
वमिन्यादिव्याग्निस्वीकारेण नित्यविभूतौ व्यभिचाराप्रस
* उक्तमुत्रविरोधविरहात्, प्रमाणतदाभासान्यतरजन्यज्ञा-
मिष्टमाध्यव्यापकत्वस्य बाधितत्वरूपोपाधौ सत्त्वेन
नन्यस्यापि न विरोधः ।।
-इत्याहुः ।।
४१: न: बोपनिषत्प्रतिपाद्यानि पञ्च महाभूतानि एकादशे-
पोडशतत्त्वात्मिका ।।
इति
गमुक्ताफलस्य श्रीयादवाद्रिनिवासरसिकस्य
श्रीमदनन्तार्यवर्यस्य कृतिषु
सिद्धान्तसिद्धाञ्जने
नि-विभूतिपरिच्छेदो यावत्सम्पादितः ।।
।। श्रीः ॥
+
ople r
21 Paneer mone
49
--
+mgermanentary
के

-- पुट ११ १६ १६ २३ २८ ७ ३५ ३७ WW ३६ सिद्धान्त सिद्धाञ्जनस्य शोधनिका पंक्ति अशुद्धम् २० वाहाय हिाय न्वयसम्भ न्वयासम्भ माकर मानाधिकर म्नात् म्नानात् यार्णा याणां २२ मैकादशः मैकादशः ६ तदध्वंस तद्ध्वंस ६ कीलीन कालीन १३ प्रकृतिभावेन : प्रकृतिविकृति भावेन ? १३ विशिष्टान्यत्वस विशिष्टाभावस? ११ प्रदि प्रति १८ श्चर श्वर तुहिन किरणानां तुहिनकणानां ? १६ तमश्शरीर तमसशरीर अपशव्द अपशब्द सम्बन्धेना सम्बन्धेन २० पादन पादान ११ प्यति वर्वात १२ प्रोक्षण अप्रोक्षण? कशादि काशादि १० गनमा ग्रमा ५ पाद पर पादन पर यत्रार्थ यत्नार्थ ३ ताश ताहश ह जहाति जहातिः ५ प्रयोगास प्रयोगरा ६ ४६ ४४ पंक्ति ON * N S हाय विलक्ष २३ fare A :- २५ wim IMAGE ftin-p4 News THI Rar TAaralia RA अशुद्धम् शुद्धम् 'साधारण कारणता कान्यत्वस्यैव निवेशादीश्वर कृते श्च' इत्यधिकम् मुद्रितम् रणतयैव रणकारणतयैव ब्रह्म कारिणी कारणी हायाविलक्ष नन्तपदा ननपदा धनाव धनानाव देयस्वास देयत्वास द्रव द्रव्य दानव सम्भ दानत्वं न सम्भ विष्टत्वं विशिष्टत्वं रणध्वंसा रणक्षणध्वसा स्यपादान स्योपादान सम्बन्धे सम्बन्धेन विभक्त्यस विभक्त्यर्थस न्धाव धातिरिक्तसम्बधाव निवेश निवेशे मन्मत तन्मत स्स्वतेते स्स्वमते धम्र्मा धा विभूतेरजड विभूतेर्जड एबमेवान्याअप्यशुद्धयो विशोध्याः । १५ openxegar 1A MAY क Satrina 147 ह 30 DAN - ... Aspiranab APassementencemen---...------ सिद्धान्तसिद्धाञ्जनम् [ १०७ विषयकत्वमिति व्याप्तिप्रतिपादनपरस्य "नाभाव उपलब्धेः" इति सूत्रस्य, यत्र स्वभिन्नार्थविषयकत्वाभावः तत्र ज्ञानत्वा- भाव इति व्यतिरेकव्याप्तिप्रतिपादनपरस्य"न भावोऽनुपलब्धे:' इति सूत्रस्य चासङ्गतिः ; नित्यविभूतौ ज्ञानत्वसत्त्वेऽपि स्व- भिन्नार्थविषयकत्वाभावेन व्याप्तिद्वयेऽपि व्यभिचारात् । जाग- रितप्रत्ययः स्वाभिन्नार्थशून्यः, ज्ञानत्वात्, स्वाप्नज्ञानवत्- इत्यनुमाने बाधितत्वादिदोषजन्यत्वरूपोपाधिप्रतिपादनपरस्य "वैधचि न स्वप्नादिवत्' इत्यस्य चासङ्गतिः ; नित्यवि- भूत्यात्मकज्ञाने स्वभिन्नार्थशून्यत्वसत्त्वेऽपि बाधितत्वादेरभा- वेन साध्यव्यापकताभङ्गात् । एवं नित्यविभूते रजडत्व एव प्रथ- मसूत्रटीकास्वारस्यम् । तथा च-'संविनाम काचिनिराश्रया निविषया वा अत्यन्तानुपलब्धेर्न सम्भवति' इति भाष्यप्रतीक- मुपादाय टीका-- "ननु कथं विषयाश्रयशून्यज्ञानाभावः, स्वरूपज्ञानं विषया- श्रयशून्यं त्वन्मते । उच्यते । स्थविष्ठमिदं चोद्यं, किं त्वया ज्ञातुरेव ज्ञानशब्दवाच्यस्याजडत्वनित्यत्वा दिकं विषया- श्रयशून्यत्वं नित्यत्वादिकं च साध्यते, तत्सिद्धसाधनम् । यदि ज्ञातृव्यतिरिक्तस्य ज्ञानस्य, तहि ज्ञातृव्यतिरिक्त विषयाश्रयरहितं ज्ञानं शून्यमिति ब्रूमः, ज्ञातृज्ञेयतदवच्छि नज्ञानस्वरूपव्यतिरिक्त ज्ञानमनुपलम्भनिरस्तम् ।' इति। तस्मानित्यविभूति डैव ।। -इति वदन्ति ॥ परे तु-नित्यविभूतिरजब; उक्तरहस्याम्नायाद्यनुरोधात्, शक्तवाद्यात्मकत्वादिवत् ज्ञानात्मकत्वस्य मुख्यत्वे बाधकवि- रहात्, ‘स्वसत्ताभासक सत्त्वं गुणसत्त्वाद्विलक्षणम्' इत्युपवृ- हणानुरोधाच्च, उक्तरीत्या प्रमाणसिद्धे स्वप्रकाशत्वे तद्वैयर्थ्यस्या- ܘ सिद्धान्तसिद्धाञ्जनम्. [ ८७ रणटीकायामग्निपदस्य 'शब्दादिभ्योऽन्तः प्रतिष्ठानाच नेति चेन्न तथा दृष्टयुपदेशादसम्भवात्पुरुषमपि चैनमधीयते" सा- क्षादप्यविरोधं जैमिनिः" इति सूत्रद्वयानुरोधेन अग्निशरीरक- परताया अग्रनयनरूपगुणविशिष्टपरतायाश्च स्वीकारे रूढ्यर्थ- योगार्थप्रकारकवैश्वानरविद्ययोर्भेदापत्तिरित्याशङ्कय चिदचि- दसाधारणलिङ्गवत्मु वाक्येषु चिदचिद्वाचिपदानां तच्छरीर- कपरत्वं तादृश लिङ्गरहितेषु च योगार्थपरत्वमिति व्यवस्थाक- रणादाकाशवाक्ये तादृशलिङ्गाभावेन योगार्थस्यैव युक्तत्वेन आकाशाधिकरणोक्तरूढयपरित्यागे व्यासार्याणां निर्भराभावा त् । उक्त च न्यायसिद्धाञ्जने- "परविद्यासु जीवोक्तिनिरुक्त्यादेः पराश्रया । तल्लिङ्गानन्यथासिद्धौ तद्विशिष्टावलम्बिनी ।।" तथा च-आकाशादिपदानां योगेन ब्रह्मपरत्वव्यवस्थापनमफल- म्-इति चेन्न । आदेशशब्दोदितप्रशासितृत्व-सत्यसङ्कल्पत्व- तेजःप्रभृतिस्रष्ट त्व-नानरूपव्याकर्तृत्वादीनांबहूनांविशेषणेऽन्व- याङ्गोकारस्यायुक्ततेत्यभिप्रायेणेक्षत्यधिकरणस्य प्रवृत्तेः; सच्छ- ब्दस्य प्रधानपरत्वे गतिसामान्यन्यायविरोधाच्च । एवमाकाश- शब्दस्य रूढिस्वीकारे ज्यायस्त्वपरायणत्वादीनामन्वयानुपप- तेः परमात्मापृथक्सिद्धाकाशपरतां स्वीकृत्य विशेषगे तदन्व- याङ्गीकारे च रूढित्यागस्यावर्जनीयत्वात् योगार्थपरत्वमेव युक्तं ; अन्यथा सर्वकारणत्वानुपपत्तेश्च । तथा च-विशेषणां- शयोः पपस्परमुपादानोपादेयभावेऽपि न विरोधगन्धः ।। ननु-सिद्धान्तेऽतिरिक्तावयव्यनभ्युपगमेन द्रव्यस्वरूपस्य नित्यतयाऽवस्थानामेवोत्पत्तिमत्त्वेन अवस्थां प्रति तदाश्रयद्र- व्यस्योपादानत्वं, पूर्वावस्थायाश्चासमवायित्वमित्येतदुचितं; न

ईश्वरपरिच्छेदः
कीर्तिपाण्डित्याभ्यां सदृशान्तरराहित्यस्येव तादृशसाक्षार
र्तृत्वेन सदृशान्तरनिषेधबोधनस्य युक्तत्वात्, सैषानन्दस्ये
दिश्र तेरपि शते पञ्चाशन्न्यायेन मुक्तानन्दे सर्वानन्दान्तर
परत्वेन तारतम्यपरत्वाभावात् । तच्छुतावानन्दपदं अनुक
स्वेन ज्ञायमानविषयपरं, न तु तादृशज्ञानपरं; तथा ।
ताशज्ञानस्य पुरुषभेदेन भिन्नतया मानुषानन्दे मनुष्यगत
सम्बन्धित्वोत्कीर्तनासङ्गतेः 'ते ये शतं मानुषा आनन्द
एक:' इत्यस्य मनुष्यानन्दशतसजातीय एको मनुष्यगन्ध
नन्द इत्यर्थाङ्गीकारे स्वानन्दपदं तादृशज्ञानपरमेव । सम्
विषयकत्वेन साजात्यस्य विवक्षितत्वेन मानुशतज्ञानवि
विषयकत्वस्य मनुष्यगन्धर्वगतकज्ञाने लाभात्तादृशमनुष्य
गतविभिन्न विषयकशतज्ञानविषयविषयकत्वस्य च देवग
ज्ञाने लाभान्नानुपपत्तिः; मुक्तानां सर्वविशेष्यकानुकूलत्वप्रव
कसाक्षात्कारवत्तया मानुषशतज्ञानविषयविषयकत्वस्य
ध्यगन्धर्वादिगतशतज्ञानविषयविषयकत्वस्य च सत्त्वात
पर्याय श्रोत्रियस्य चाकामहतस्य इत्यस्योपपत्तिरित्य
विस्तरः ॥
इत्यनन्तार्यकृतौ सिद्धान्तसिद्धाञ्जने
जीवनिरूपणं नाम द्वितीयः परिच्छेदः ॥
।
अथेश्वरो निरूप्यते ॥
विभुत्वे सति चेतनत्वं तल्लक्षणम् । जीववारणाय
न्तं, कालवारणाय विशेष्यम् । प्रमेयत्वव्यापक त्वनि
कत्वरूपं सर्वस्वामित्वं, सर्व कर्मजन्यप्रीत्याश्रयत्वरूपं सः

जीवपरिच्छेदः [ ६३ तिष्ठन्' इत्यादेराधाराधेयभावप्रतिपादकस्य भेदप्रतिपादकत्वे- नोपन्यासासङ्गत्यापत्तेः । एकत्वस्य सङ्खयारूपतया आत्म- स्वरूपत्वासम्भवाच-इति ॥ मैवम् । प्रत्यक्त्वैकत्वयोरात्म- स्वरूपातिरिक्तत्वेऽपि तन्मात्रप्रकारकत्वस्य स्वरूपात्मकानुभवे अभ्युपगमेन विरोधाभावात् । अनतिरिक्ततापक्षेऽपि न दोषः, अभेदेऽप्याधाराधेयभावोपगमात् ।। न चोक्तसूत्रविरोध: 'य आदित्यमन्तरो यमयति', य आत्मानमन्तरो यमयति' इति नियाम्यनियामकभावोक्त्या तत्सहिताधाराधेयभावस्य भेद- व्याप्यत्वेऽपि शुद्धांधाराधेयभावस्य अभेदेऽपि सम्भवात् । एवमनुकुलत्वस्यापि तत्र प्रकारतया भानमनुमतम् ; अहमर्थः प्रत्यक्त्वेनानुकूलत्वेनैकत्वेन च स्वतो भातीति श्रुतप्रकाशि- कायामभिधानात् । अत एव सुखमहमस्वाप्समिति प्रत्यभि- ज्ञोपपत्तिः ; अन्यथा सुषुप्तिकाले आत्मगतानुकूलत्वस्य अननु- भूतत्वे तत्प्रतिसन्धानासम्भवात्, तद्दशायां धर्मभूतज्ञानस्या- त्यन्तसङ्कुचितत्वेन तेनानुकूलत्वस्य दुमेहत्वात् ।। न च-- स्तोकं पचतीत्यादौ पाकस्य स्तोकत्वमिव सुखमहमस्वाप्समि-. ति प्रतीतौ स्वापस्यैव सुखरूपत्वं भासते, न त्वात्मनः ; तथा च स्वगतानुकूलत्वस्य आत्मग्राह्यत्वेऽपि स्वापगतानुकूलत्वस्य तेन ग्रहणासम्भवात्प्रतिसन्धानानुपपत्तिः तदवस्थैवेति-वाच्यम् । ज्ञानसामान्याभावरूपस्यात्मगतस्वापस्याधिकरणस्वरूपत्वेन तद्गतानुकूल्यस्यात्मगतानुकूल्यादनतिरिक्तत्वात् ।। ननु-सुखमहमस्वाप्समिति ज्ञानस्य प्रत्यभिज्ञानरूपत्वं न सम्भवति ; पूर्वाननुभूतयोरीतिकालस्वापयोरपि तत्र भानात्, प्रत्यभिज्ञायामसन्निकृष्टार्थस्य पूर्वानुभूतस्यैव भाननियमात् ।। अथ-स्वापकालांशेऽनुमितिरूपमेकं ज्ञानं, सुखविशिष्टात्मांशे च प्रत्यभिज्ञारूपमपरं ज्ञानमिति ज्ञानद्वयात्मकमेव सुखमहमस्वा- जड़परिच्छेदः [ ५५ न स्सर्वसिद्धत्वात्, तत्र सत्त्वस्य कालसम्बन्धित्वरूपत्वात् । च-तादृशप्रत्यक्षे सत्ताजातिरेव विषय इति-वाच्यम्; सामान्य सदित्यादिप्रत्यक्षानुपपत्तेः । न च-तादृशप्रतीतौ सामानाधि- करण्यसम्बन्धेन सत्ताया भानमति-वाच्यम्; घटस्सन्, सामा- न्यं सदिति-प्रतीत्योरविलक्षणाकारतया क्वचित्समवायेन सत्ताया विषयत्वं; क्वचित्सामानाधिकरण्येन तस्या विषयत्व- मिति कल्पनाया अनुपपन्नत्वात् । कालसम्बन्धस्यैव सत्त्वरू- पत्वे चोभयत्रैकाकारतानिर्वाहः ।। मीमांसकैस्तु कालस्य सर्व- ज्ञानविषत्वमुक्तम्- 'न सोऽस्ति प्रत्ययो लोके यत्र कालो न भासते ।।" इति।। तत्र प्रत्यक्ष स्वाधिकरणक्षणावच्छिन्नमेव स्वविषयमवगाहत इत्युत्सर्गः । अत एव धारावाहिज्ञानस्थले तत्तत्क्षण विशिष्टघटा- देर्भानात् द्वितीयादिज्ञानानामप्यज्ञातज्ञापकत्वात्प्रामाण्यमिति मीमांसकाः ।। परत्वापरत्वे च बहुकालसंयुक्तत्वाल्पकाल संयुक्तत्वरूपे, न तु गुणान्तरमिति वक्ष्यते ।। दिग्द्रव्यं तु नातिरिक्तं, तत्तन्मूर्तात्मकोपाध्यवच्छिन्नाकशा- दिभिस्तत्तन्मूतैरेव वा प्राच्यादिव्यवहारनिर्वाहात् । चैत्रादि- निष्ठोदयगिरिसंयुक्तसंयोगापेक्षया अल्पतरोदयगिरिसंयुक्तसंयो- गवन्मूर्ती चैत्रस्य प्राची, चैत्रनिष्ठोदयगिरिसंयुक्तसंयोगापेक्षया अधिकतरोदयगिरिसंयुक्तसंयोगवन्मूर्तं चैत्रस्य प्रतीची ; एवं सुमेरुसंयुक्तसंयोगाल्पत्वभूयस्त्वाभ्यामुदीचीत्वदक्षिणात्वे बोध्ये न च-'पद्भयां भूमिर्दिशश्नोत्रात्' इति दिशः पृथवसृष्टे:, 'दिशःश्रोत्रम्' इति पृथग्लयस्य च श्रुतिसिद्धत्वादाकाशाद्यति- रिक्त कार्यभूतं दिग्द्रव्यमभ्युपगन्तव्यमिति-वाच्यम् ; तथा

Siddantha Sidda Gnanam

Author
Anantha Charya. M
Title
Siddantha Sidda Gnanam
File name
Siddantha Sidda Gnanam
Text
OCR done
Citation
1916
Publisher
Sri Kesava Prapanna Sastry, Srirangam
Language
Sanskrit
Pages
112
Library
Svclrc
Classification
Vedanta
DLI number
368460
Barcode
5010010002992.00
Scanning centre
RMSC, IIIT-H
Digital publisher
UDL TTD TIRUPATI
VMLT id
X85HesI4dGS
Download PDF

Siddantha Sidda Gnanam