Bharatiya Vidya Bhavan Library, Mumbai

Sindhu Kanya

Dr.shrinath · 2012/10

PDF Proofread

Front matter

सिंधु-कन्या
शिक्षा एवं समाज कल्याण मंत्रालय
भारत शासन, नई दिल्ली
द्वारा
प्रदत्त आर्थिक अनुदान
की
सहायता से
प्रकाशित
उपन्यास
लेसक
डॉ. श्रीनाथ श्रीपाद हसूरकर
प्राचार्य
शासकीय महाविद्यालय, नीमच (म.प्र.)

SINDHU - KANYA
BY
Dr. Shrinath Shripad Hasurkar
Principal
Govt. P-G. College, Neemuch (M.P.)
Published with the financial assistance
from the Ministry of
Education and Social Welfare
Govt. of India
New Delhi

उपन्यासमिमं स्वप्रज्ञाचक्षुपा निरीक्षितवद्भिः
पंडितप्रवरैः दयाशंकरवाजपेयिमहोदयः,
तत्साहाय्यकृद्भिस्तच्छिप्योत्तमैः डॉ. संपूर्णा-
नंदशास्त्रिभिश्च "उपकृतोऽस्मि ।
-लेखकः

पित-चरणयोः

वज्ञादपि कठोराणि मृदूनि कुसुमादपि ।
लोकोत्तराणां वेतांसि-
-भवभूतेः

प्रथमः परिच्छेदः 'परतीरवर्तिनस्ते चित्रलिखिता स्तब्धाः पंक्तिबद्धाः समुत्तुङ्गाः सरलवृक्षा", वैदूर्यनोलं तनभोऽगणं.", दिगंतप्रसृता सा आकाशगङ्गा, समीप एव तस्या अवगाहनसमुत्सुकेव मंदं मंदं प्रकाशमाना पांडुररमणीया सा शशांककला, एकांतविधभात् तया समुत्सारितं दुकूलमिव प्रसृतं तद्धवलविरतं शारदमभ्रखंडं"", समीप एव सकौतुकमिव स्मयमाना सा तारका, प्रतिबिंबितनभोवृत्तान्ताऽपरं सर्गमिव दिव्यं स्वोरसि गोपायन्ती दिगन्तवाहिनीयं सिंधुश्च । अहो स्वप्नसुन्दरं नाम दृश्यम् ।' तस्या:"1 (सभ्र -भगम् ).... 'प्रशांतवाहिनी प्रसुप्तेव दृश्यते निराहत्य रामणीयकमेतन्निसर्गश्रियः। (सस्मितम्) अथवा- परितृप्ता नूनमियमाकंठं निपीयाऽऽसर्गोदयाद्विविधं सौदर्य प्रियकरचुंधितयुवतिकपोलारक्ता प्राभातिकी सारुणकान्तिः, समुत्तप्तत्तपनीयभासुरा सा ललाटंतपत्तपनप्रभा, दिवसाचसाने निपत्य पश्चिमांनिधौ परलोक प्रयातं प्रभाकरमनुगच्छन्त्या दिनश्रिय उपरि दिगंगनाभिः प्रक्षिप्ता कुंकुमधूलिरिव रक्तरक्ता सा सांध्य द्युति:.., निरभ्रस्य घनश्यामनीलस्य प्रोपितचन्द्रस्यापि रमणीयस्य गगनस्य सा रुचि:"", 'कामपरिक्षामकामिनीगण्डपांडुरस्य' पोडशकलस्य शशांकस्य रजतदीप्तिः... केव हृद्या प्रकृतिछविरनया न निपोता"" आसर्गोदयात् ?' तारकिता सा कदाचित् 'उग्राऽपि ? 'पद्धविद्युत्परिकराभिः' जलदघटाभिः 'कर्णकटु गर्जतीभिरजनशरप्रतिकर्कश' वर्पतीभिरुपस्थापिता लोमहपिका जलप्रलयस्य शोभाऽप्यनया साक्षात्कृता", चराचरं भस्मसात् का मुद्यतै मर्मदाहकैश्चण्डभास्करकरैरवतारिता प्राणान्तकारिणी योजनशतप्रसृता दावानलद्युतिरपि ।' 'कदाचित् प्रशातं, कदाचित् प्रक्षुब्ध, प्रोपितभर्तृ कावेणीदुर्वलं, कदाचिद्रोधोपरोधिप्रबलप्रवाह, सदैवा- विच्छिन्न प्रवहन्त्याऽनया न जाने कियत्य: नौका:- काश्चित् कीर्तनमुखरभावुकजनकृतसंमर्दाः, काश्चित् हिंसोदग्राऽऽयुधिक- भयंकरा.,काश्चित् पारदेशिकवाणिज्यप्रस्थिता., काश्चिन्महाप्रमाणा:, काश्चित् क्षुद्रकाया विविधवृत्तान्तास्तरणयःस्ववक्षसोढाः । कियत्यश्च ग्रामटिकानां ग्रामाणां नगराणा महानगराणां स्वतीरे शनैः शनैराविर्भवतां, विकसतां चत्रनेमित्रमेण विशीर्णतां च प्राप्नुवतां गाथारवसानकरुणाः साक्षात्कृता.।' । 'ध्र वम् ! अतीतानामिव वर्तमानानामिवानागतानामपि घटनानामियमभिजा । अत एवास्माकं गूढदर्शिभिर्महर्षिभिरियं देवता- मध्ये परिगणिता।' (सोद्वेगम्)... 'किमिव म्लानेव क्लातेव रुद्ध व सहसा परिलक्ष्यत इयम् ?' 'अप्येवं प्रसुप्ताऽनागतां कांचिदुर्घटना भाविनी.... स्वप्नरूपेण..?' " सा "आयुष्मति !- विचिन्तयन्त्येवमनन्यमानसा राजदारिका सहसाऽवुध्यत विचारतंद्राया धीरगंभीरेण स्नेहसिक्तेन वार्द्ध क्यप्रकंप्यमानेन संवोधनस्वरेण । अपश्यच्च स्वपुर एवोपस्थितं क्षीणचन्द्रिकोद्भासितधवलविरलजदं कृशगात्रं किंचिदवनतपूर्वकार्य धौतघवलोत्तरीयाऽवृतोत्तमांग धवलपक्ष्मललोचनं सिंदूररेखा- सिंधु-कन्या भासुरभ्र मध्यं चिरपरिचितं द्विजवरं गङ्गातनयं दृष्ट्या मकौतुकया तां स्नपयन्तम् । "आयुष्मति ! यावच्च वहुमानादुत्यातुं शिलापट्टात् प्रक्रमते तावदशृणोत् पुनरपि तामेव समाहिती वाणीम् । “चिरायिता वत्साऽस्मिन् निर्जने , महानदीरोधसि सायंशोभावलोकन- कौतुकवशादागतेति किचिदुद्विग्नः, पिधाय कपाटे सिंधुमंदिरस्य, स्वयमिहाऽऽगतः । 'मातु:-क्रोड उपविष्टा कन्या चिरायत एवेति' जानदपि हि चितावैक्लव्यमन्वभूदेव स्नेहपरवशमेतन्मम मानसं जराविधुरस्य विप्रस्य। आगतश्च वत्सा विचारतंद्रानिमग्ना दृष्ट्वाऽनिच्छन् जागरयितुं समयं प्रत्यपालयम् । अतिक्रामन्तं च तं पोलोच्याऽन्तेऽवशो वत्सामवोधयम्। (सस्मितं) स्वभावत एव भावुका वत्सा । तत्रापीयं वयोऽवस्था"नवीना । तत: स्वाभावि...." "तात ....! अपीयं माता, सिंधु:, प्राणिनामस्माकमतीतमिव वर्तमानमिव भविप्यदपि जीवितं साक्षात्कर्तु क्षमा ?"- महसाऽपृच्छद्राजकन्या सा। "क्षमैच, वत्से ....! नास्त्यत्र संदेहलेशोऽपि-" प्रत्यवदत् क्षणमेकं विचारमग्नः स द्विजवरः । "अतएव- अस्माकं पुराणादिपु देवतारूपेण कीर्तिता। परन्तु, वत्से ! महान् खलु कालातिपात: मंजातः । तदागच्छ । प्रणम्य देवतां रात्रिविश्रामोत्सुका प्रतिनिवर्तस्व स्वकटकम् । परिचितोऽपि तव निर्भीकन स्वभावेनासामान्येन साहसेन पुरुपदुर्लभेन शस्त्रनैपुण्येन महाराजो दहरः कालेनैतावताप्यप्रत्यागतां स्वां प्रियां ज्येष्ठां दुहितरं वीक्ष्य चिंताम्लानस्त्वां मार्गयितु कदाचिदंगरक्षकानपि समादिशेत् । तदपनुद स्वजनकस्य चिंताभ्रम् ।" वदंश्चैवं परिवर्तितपद: शनैः शनै: क्षीणचंद्रिकाप्रकाशितया पदव्या सिकतिलयां मंदिराभिमुखो बभूव । अनुससार तं राजकन्या निःशब्द, क्षणमेकं निपोय वृक्षांतरालश्या प्रशांतां ज्योत्स्नोज्ज्वलजला विस्तृतां रजतपद्यामिव दिवांकसां भासमानां सिंधुनदी स्निग्धया दृशा । सिधु-कल्या ३ प्राप चाचिरादेव नातिदूरवतिनमन-कपाश्वत्थशाखा- सभारकृतछायतयाऽस्पप्टविशेपं सद्यःकृतधूपार्चनसौरभव्याप्तप्रान्तं पर्णान्तरालप्रविशच्चंद्रिकाचित्रितगोमयलिप्त-परिसर देवालयमेकम् । प्रक्षाल्य पादौ, प्रविश्य गर्भगृहं, सभक्तिभावं ध्यात्वा मंदघृतदीपप्रभाभासुरां स्फाटिकी सुरभिधूपवल्लरीपरिवेष्टिता म्लानसुमनोमालापरिवेष्टितां कुंकुमचिंतललाटपट्टां भक्तजन- मनोहारिणी कल्याणकारिणीमभयदायिनी सिंधुदेवतामूर्ति प्रसन्नमुखी, नमयित्वा तच्चरणारविंदयोः कुसुमकुकुमचर्चितयो मुमाल्यं मस्तकं, आचम्य तच्चरणामृतं, बहिरागत्य, समापृच्छ्य द्विजवरं, परिसर- प्राततिनो महावृक्षस्यैकस्य मूले बद्धमागछन्ती स्वामिनीमवलोक्य भावोत्फुल्लाभ्यां नयनाभ्यां प्रहृष्टं ह्रपारवमुसरं खुरेण दक्षिणेन भूमिमधीरतया खनन्तं स्व सुधाधवलमश्वं यावदारोहति तावद्ददर्शक महाप्रमाणतुरगाधिरूढ व्यूढककटं कौतिकं तदेव स्थानं समुद्दिश्य सरभसमागच्छन्तम् । . अश्वारूढेव, परिज्ञाय तस्मादवलोक्य भर्तृदारिका सहसाऽश्वादवरूढात् विनयावनतात् महाराजाधिराजस्य दहरस्य तदवलोकनेच्छां तीव्रां, सैधवं स्वं कटकमुद्दिश्याचालयदनुगम्यमाना तेनांगरक्षकेण निभाल्यमाना च सकौतुकं मंदिरद्वारस्थितेन तेन द्विजेनानभिजेन तज्जीवनलताविध्वंसिनो भीषणस्य वात्याचक्रस्य प्राप्तप्रायस्य। आक्रम्य चानायासेनैवोच्चावचं गहनवृक्षराजिमध्ययायि- नमीपल्लक्ष्यविशेष तृणाच्छन्न दुरध्वं, प्रापाचिरादेव करतलसमतले विस्तृते भूभागे क्लुप्तं सिंधुराजपटकं क्षीणचंद्रिकोद्भास्यमान- मध्यवति-विशालपटवेश्म नीरवमेकदेशविधातसंघवम् । प्रविश्य च खड्गभीषणप्रहरिपरिरक्षितेन द्वारेणावरूढाऽ- श्वादेकाकिनी धीरगतिर्मद-निशीथगंधवहस्पृश्यमानललितालका पितुः पटवेश्म प्राविशत् ।

अपश्यच्च तंप्रज्वलद्दीपदण्डप्रकाशितविशेषे महार्हास्तरण- संछादितभूतले प्रलंवमानपुष्पमालासुरभिते कक्षे गगननील- कोशेयकाऽवृतायामासन्यां समुपविष्टं महाप्रमाणं वृपस्कन्धं पार्श्ववर्तिप्रदीपप्रभाप्रभासितरजतधवलविरलकेशं श्रांतवलांतमुख मुद्र निद्राऽऽवेगारक्तोच्छूननयनमासनोपविष्टेन धीसचिवेन ब्रह्मदत्तन वाहिनीपतिना वीरभद्रेण सांधिविग्नहिकेण वृद्ध न सुमतिना च सह मंद्रं मंद्रं संलपन्तम् । अवलोक्य तां प्रविशन्ती पुरुषप्रमाणां धीरां मूतिमती. मिवाऽऽत्मविश्वासशक्ति सहसा सस्मितमुखमुद्रेण प्रत्यागतयौवनेनेव प्रवृद्धोत्साहसंपदेव तेन सस्नेहं स्वसमीप एवोपवेशिता च यावन्मध्यरात्रे विचारविनिमयस्य विषयं स्वात्मनैव तर्कयति कौतूहलाऽऽविष्टा तावदशृणोत्तस्य वार्द्ध क्यप्रकंप्यमानामपि राजाधिकारगुर्वी वाणी- 'प्रवेशय तं द्वारपाल !' इति । तादृशस्य अद्राक्षीच्च प्रतीहारेण तस्मिन्न व क्षणे प्रवेशितमेकं प्रौढावस्थं सार्थवाहं संघवं धूलिधूसरितवेपं श्मश्रुलमुखम् । 'कोऽयम्'- इति जिज्ञासामुखरां दृष्टि व्यापारयन्ती च पितुमु खेऽ- शृणोत्तस्य सस्मितं तामेव निमालयतो वाणीं- "निर्विवाद तव वेपपरिवर्तनकौशलं, वार्तायन, निर्विवादम्। तीक्ष्णदृष्टि: कुशाग्रमतिरस्माकं सूर्यदेव्यपि तव यथार्थ स्वरूपं प्रत्यभिज्ञातुं नाशकत्। तत् कः खलु विवदेत तव वेपपरिवर्तननैपुण्यमितः परम्? अयि! अयमस्माकं भद्रमुखो गूढपुरुपः । तवैव त्खनुरोधमनुसरभिरस्माभिः परिज्ञातु वास्तविकी परिस्थिति प्रेपित आसीदतीत आपाढमासे देवलनगरी तुरुष्कप्रांताधिपस्याभिमानिनोऽ- ल्हज्जाजस्याऽऽक्रोशदुःसहां तां विज्ञप्ति विचारयद्भिः । निशामुख एवायमद्य समुपस्थितः । समुत्सुक इव लक्षितो वृत्तांतकथनाय । अस्माभिस्तु समादिष्टः समयप्रतिपालनाय 1"" (सहासं) अस्माभिः पर्यालोचितं-श्रोष्यामस्तावदस्य वार्ता राजनीतिनिपुणया विचक्षणया पितृभारवहनतत्परया पुत्रतुल्यया ज्येष्ठया दुहित्रा सहैव । अस्माकं सिंधु-कन्या परमविश्वासार्हा एते नीरक्षीरविवेकविदग्धा मंत्रिणोऽपि भाग्यवशादय कार्यान्तरेण संप्राप्ताः। तनिवेदय, भद्रमुख, यत्त्वया कृतवेप- परिवर्तनातीतं मासत्रयं सिंधुसरिन्मुखप्रदेशे मूलस्थानवणिग्दूत- छद्मना निवसताऽधिगतं सत्यम्"" अप्यस्ति तस्य म्लेच्छ- प्राताधिपस्य विज्ञप्तौ किंचित् सत्यम् ? कियती भावोदग्राऽऽसीत् तस्य सा विज्ञप्तिः सुशन्दिताऽऽपि ।" "महाराजाधिराज ! स्वामिन आज्ञा शिरसि कृत्वा धृतसाधारणवेषेण देवलनगर्या जनसंकुलासु पण्यवीथिकासु देशदेशान्तरागतेषु विविधभाषाभापिषु सार्थवाहसंघेषु च स्वैरमिव परिभ्रमता, सिंधुसागरतीरवर्तिनीपु सिकतिलासु मत्स्यगंधासु नाविकजनवसतिषु यवनदेशेन सह वाणिज्यसंबंध स्थापयितुमुत्सु- कोत्सुकस्य मूलस्थानवासिनो धनाढ्यस्य सोयात्रिकविशेपस्य दूतमिपेण वारं वारं गच्छता, कणश: क्रमशश्च या वार्ता समधिगता तां स्वामिनश्चरणयोः सादरं निवेदयितु प्रगल्भतेऽयं दासानुदासः ।" "स्वामिन् ! सत्यमेव विगते चैत्रमासे महाप्रमाण- स्तुरुष्काणामेकः पोतो दमिश्कनामधेयो बहुशृङ्गः सिंहलद्वीपाधिपतिना मानवर्मदेवात्मजेन महाराजेनाग्रबोधिना तुरुष्कप्रांताधिपायोपायनी- कृतान् रत्नखचितान् सौवर्णान् बहुमूल्यानलंकारान् तुरुष्कप्रांताय वहन्, मध्ये सिंधुसागरं, साहसिकः कश्चित् सूचिभेद्ये तमसि सहसा समानांतः, हत्वा सर्वानपि यवननाविकान् स्ववशे कृतः, अज्ञातं च स्थल नीतः।" "एवं- मकरांकप्रदेशप्रशासकस्य हारुनसुतस्य मुहम्मदस्य माध्यमेनस्वामिनश्चरणारविंदयोःप्राप्तायांतुरुष्कप्रांताधिपतेविज्ञप्तौ सत्यस्यांशो विद्यते।" "अंश एव ?"- अपृच्छत् सिंधुराजः किंचिदाकुंचित- लोचनः । ६ सिंधु-कन्या . "अंश एव, स्वामिन् !"-प्रत्यवदत् स: गूढ: पुरुपः । "मया हि नाविकसंलापेषु परिलक्षितं यत् तस्य साहसिकस्य चेष्टितस्य मूल उच्छृङ्खला धनलोलुपता नासीत् प्रधान कारणीभूता, अपि तु- केरल- देशीयानां धीवराणां केपांचित् न्याय्या दुर्दमनीयाऽऽत्मसंमानभावना।" केरलदेशीयानां धीवराणामात्मसंमानभावना....?"- अपृच्छद्धीसचिवः कौतूहलाक्रांतः । "आम् !" प्रत्युवाच वातयिनः । "मया हि विज्ञात- सिंहलद्वीपात् प्रस्थितो म्लेच्छानां स पोतो यदाऽपराहसमये पेयजल- संग्रहार्थं केरल राज्यतीरवर्तिन: प्राकृतिकपर्तनस्य मुचिरपुरस्य जलसीमायां प्रविवेश तदा तात्या धीवराणां बाला वालिकाश्च स्वस्वप्लवारूढाः नारिकलादिफलविश्यार्थ तं यथाभ्यास परिववः । आरुह्य च तं मर्कटचापलेन' सहासाः जल्पाका: परिहासमुखरान् यवनान् नाविकान् स्वस्वपण्यश्यार्थमभ्यर्थयामासुः ।" "तदन्यतमा श्यामलका लवंगीलतेव तन्वंगी कर्पटाऽऽवद्ध- प्रोच्छलदुत्तुंगस्तनमंडला हासोत्फुल्लनयनेंदीवरा सुदती धोवरयुवती पूगफलविक्रयार्थ स्वरं भ्रमंती गुणवृक्षकावलंबिना यवनेनैकेन पोतवाहेन प्रौढवयस्केनाऽऽरक्तनयनेन सुहृन्मण्डलमध्यवर्तिनाऽऽहूता, तत्क्रय्यफलपरीक्षणव्याजेनप्रसारितहस्तेन कुचाग्रेसहासं च स्पृष्टा ।" "जानात्येव स्वामी यवनानां नीतिसंपदम् ।" "सा तु तत्तस्य कुचेष्टितमवलोक्य' प्रज्वलितनेत्रा कोपातिरेककंपमानतनुवपुस्तमुच्चैराक्रोष्टमारभत, च तनत्या धोबराः क्षणाभ्यस्तर एव तन समागता विदितवृत्तांतास्तमसा : दुःशब्दःप्रताडयितुम् ।" "स्वसुहृत्समक्षमेवमपमान्यमानमात्मानमनुभूय क्रोधताम्रः प्रस्फुरल्लोहितश्मश्रुस्तीक्ष्णदृष्टिः सोऽपि वहुगा-वाक् सहसोसिप्य परिघातनं समीपस्थं मुखरतमं बलिष्ठं धीवरयुवानमेकं प्रहर्तुमुद्यतो सिंधु-कन्या .. ७ बभूव । दैववशात्त्वाकर्ण्य कोलाहलं तत्राऽऽगतेन कर्णधारेण विधृतहस्तः सः कथमपि व्यरम्यतातिप्रसंगात् । अनुभववृद्ध श्चिर- परिचितः नाविकैश्चापरः कृतककोपमुत्सारितः स धीवरसमुदायोऽपि क्षुब्धो विहाय पोतं तीरवर्तिपु स्वस्वपर्णकुटीरेषु व्यलीयत ।" "व्यराजत च क्षुब्धा शांतिस्तस्मिन् सर्वदा कोलाहलाकुले पर्तने ततः परम् ।" 'अतीतगर्त इव स दुष्प्रसंगोऽन्तरधत्त । परंतु पादपीडितस्य विपधरस्येव मनोगतमाततायिन उपमदितस्य सर्वथाऽनाकलनीयमेव ।' "तेन ह्यन्तर्वलता यवनेनापमानप्रतिचिकीर्पया कदा स्वसुहृद आदावुदासीना अपि साहाय्यदानायानुकूलीकृताः, कदा च सशस्त्राणां तेषां सहयोगेन कज्जलनिभेऽधतमसे निद्रावश्यतां यातेषु पोतकर्णधारादिपु पोतान्निःशब्दमवतीर्य अभागिन्या धीवरतरुण्याः कुटीरं प्रविश्य निद्राजडौ वृद्धौ तत्पितरौ छुरिकाया एकेनैव प्रहारेण व्यापाद्य सहसा प्रवुद्धा भयातिरेकविस्फारितनयना विलुप्तवागवसन्नगात्रा बलादपहृता, पोतस्य भांडारगृहाणामन्तस्तल- वर्तिनामन्यतमेऽत्यन्तमुपेक्षिते विनिगडितहस्तपादं प्रक्षिप्ता.... केनापि नालक्षि।" तस्या "अहो नपुंण्यमत्याचारिण:-" प्राहास्फुटाक्षरं क्रोधारक्ता सूर्यदेवी प्रस्फुरन्नासापुटा। "विधिलिखितवशाद्वा काकतालीयाद्वा- न जाने कस्मात् कारणात्- तस्या एव कालरात्ररंतिमे प्रहरे कर्णधारेण समादिप्टः सः पोतोऽपि कृतपेयजलसंग्रहो विहाय तिमिराच्छन्न प्रसुप्तं तीरं यात्राया अग्रिमं चरणं प्रारभत". वहन्- अजानन्नव- तां हतभाग्यां मूच्छितप्रायां धीवरकन्यकां स्वाभ्यंतरे।" "यदा तु प्रातः प्रबुद्धास्ते कैवर्तास्तं नैशमत्याचार साक्षादकुर्वन् तदाऽनभ्रवज्रपातमैव ते नूनमन्वभवन् । स्वाभिमान- सिंधु-कन्या ८ धनास्त आदी हतबुद्धयः शीघ्रमेव नोधताम्रनयनाः समुपेक्ष्य दैनंदिनं कार्यजातं प्रतिशोधोपायानेव तांस्तान् पर्यालोचयन् । विशेषतो युवानः । प्रहरमानानंतरमेव च ते- सप्तविंशति:- कृतगूढमंत्रणर अनापृच्छ्यैव ग्रामवृद्धान् वसनेस्तस्या निर्गतास्तरणिभेकङ्गिणी नागवदनामग्रमंदिर समारुह्य प्रजवनां पोतं तमनुरार्तुमारभन्त प्रतिहिंसाज्वलनयना पापाणकठोरमुखमुद्राः ।" "नालभन्त तु योग्यमवसरं प्रतीघाताय- प्राप्याऽपि तं पोतं नयनपथे तदहरेव सायंप्रकाशोद्भासितहरितपताव शुकं वातापूरित- पंचशृगं मंदं मंदमुतरस्यां दिशि प्रवसन्तम् ।" "नालभन्त तं देवलपर्तनप्रवेशात् प्राक् । यदा तु ते तं विध्वसितविला नागा अपकारिणमिवाहोरायमनुसरतो देवलजल- सीमायां प्राविशन् नदा ते वेलावतिदासवसतिपु जातिवांधवैः सहाहनिशं निर्धू मं ज्वलन्ती स्वां व्यथां भुजानास्तेष्वकल्पिता साहाय्यसंपदं प्राप्नुवन् । प्रवृद्धसामथ्र्थाश्चापरेद्युरेवास्तं गच्छति दिनकरे विहाय देवलजलसीमां पश्चिमाभिमुखं यवनसागराय कृतप्रस्थानं तं यवनपोतं सुदूरादनुसरन्तः निशीथे प्रोपितनक्षत्रचन्द्र परिपक्वपापफल रसमिब वर्पति गगनक्टाहे शनैः शनैरुपेत्य तं निःशब्दमारुरुहुः । मारिपाद पोते सर्वत्र प्रसृताः सर्वानपि यवननाविकानुच्चाक्चान् कालमहाभुजंगदप्टान् निद्राभिभूतात् पिपासातुराभिः निशिताभिः छुरिकाभिर्वक्षसि विदारयामासुः । वशे कृत्वा च पोतं तं दक्षिणाभिमुखं व्यापारयामासुः" वहतो भांडारगृह उपलब्ध शवं भगिन्या: निर्वसनं हिंस्रमूपकलुचितस्तनमुनगंधि राजतांगुलीयकमात्रप्रत्यभिज्ञातम्"। "साहाय्यकारिणः संधवान् जातिवांधवान् मध्येसागर- मवतार्य गृहगमनाय, स्वयं केरलतीरमुद्दिश्य तमस्विन्यां तस्या कुतप्रस्थानाः शोकमूकास्ते कैवर्ताः सिंधुसागरे वैदूर्यरससंनिभे विलोपमेवाऽऽत्यंतिकमगच्छन् । न हि ते तदनंतरं कस्यचिदपि कुत्राऽपि कदाचिदपि कर्णपथमक्षिपथं वाऽवातरन् ।" सिंधु कन्या ९ "वृत्तांतोऽप्ययं मया देवलतीरप्रकीर्णासु तासु तामु धोवरवसतिपु परिभ्रमता सैधवानां धीवराणां सकाशादेव कणशोऽधिगतः, निवेदितश्च स्वामिचरणयो:-" उपसंजहार शुष्कतालुस गूढः पुरुपः । प्रससार च तस्मिन् कक्षे दुःखभारभुग्ना निःशब्दता" निरोधयन्तीव श्वसनं युगदीर्घा । प्रज्वलद्दीपप्रभाऽपि निस्तेजस्केव वभूव ।" सदागति- श्चागतिकः । प्रवोधयन्निवाऽऽत्मानं कतिपयक्षणानन्तरं महता प्रयासेन दुःखतद्रायास्तस्याः, सिंधुराजः क्षणमेकं दृष्टि चिक्षेप स्वसमीप एवोपविष्टायाः निःशव्दाया दुहितुः स्फटिकोत्कीर्ण इव निश्चले प्रदीपप्रभारंजिते दृढमुद्रितीप्ठपुटे निवातनिष्कंपप्रदीपविनिगडित- नयन आनने । अपारयंश्चावगाहितुं तस्या उद्वेल्लितभावसागरमन्तः- करणं, व्याकुल इव तां कथमपि प्रकृति स्वां धीरगभीरामापादयितुं, प्रेरयामास क्लाते लोचने सांधिविग्रहिकस्य दिशि । विभावयन्निव स्वामिनो मनोगतं स मंद्रस्वरं जगाद- "नास्त्येतादृशस्य निघृणस्यापराधस्य सर्वथा पर्याप्तो दण्डः । तथापि दंडं यावच्छक्यं लंभिता एव ते नराधमास्तैः शूरैः कैवतैः । न च किंचित् कर्तव्यं मानवशक्यमवशिष्यते। तत् सूचयतु स्वामी स्वात्मनोऽसमर्थतां किंचिदपि कर्तुमस्मिन् विषये- तस्य तुरुक- प्रांताधिपस्य विज्ञप्ति तां प्रत्युत्तरयन् ।" "परतु- एतादृशाः पैशाचिका अपराधा यवनरेतैर्व्यापार- निमित्तेन सिंधुसागरे भारतीय च महासागरे लंकाद्वीपपर्यन्तं यथेच्छं परिभ्रमद्भिः भारतवर्षस्य पश्चिमतीरवर्तिपु तेषु तेषु पर्तनेषु क्रयविक्रयार्थ प्रविशद्भिः सकृत् क्रियन्त- इति नाविकेभ्यो मया परिज्ञातम्"- आह स गूढः पुरुषः । सिंधु-कन्या १० इव "स्वामिन् !"- मंद्रस्वरं जगाद धीसचिवः, "भारतीय- रस्माभिरस्याः पुण्यभुवोऽपारश्वर्यख्याति कर्णोपकणिकया श्रुत्वा विदेशेभ्यो- विजित्य दुर्जेयप्रायान् विघ्नान्- समापतन्तोऽत्रत्याया अगाधायाः संपदोऽशं यावच्छवयं व्यापारमिपेण चूपन्तः परकीयाः रोमकसदृशाः सोढा. आरामिविकचविविधकुसुमामोदजड आरामे । असंख्या अत्रैव निवस्तुमिच्छन्तः पारसिकसदृशाः परकीया आत्मसात्कृताः । ववश्च लोभहिला: हूणसदृशा आक्रामका वर्वराः परावर्तिताः। परंतु- सर्वथा विलक्षणा एय एते यवनाः । अननुभूतनाया खल्वेपामहंमन्यता पराभिभविष्णुता दुर्दमनीयता"। तत्, स्वामिन्, सत्येव समय एते प्रतिरोद्धव्याः । अन्यथा- विपाला एते प्रवृद्धसामा महान्तमनर्थमापादयिष्यन्ति ।" "निवेदयतु तातः निखिल मिमं करणदारुणं वृत्तान्तं तस्मै तुरुप्कप्रांताधिपाय"- सहसा जगाद देवलदेवी। "स्पष्टाक्षरं च कथंयतु यद्यदि तद्देशीया नाविका एतादृशेभ्यः पाशवेभ्योऽपराधेभ्यः क्षणादेतस्मादेव न पिरमेयुस्तहि त एतद्देशीयस्य प्राणदंडस्य भागिनो भवेयुस्ास्य सार्थवाहाश्च सिंधुसागरप्रवेशाद्वंचिताः ।" "परंतु. परंतु." प्रारभत समुद्विग्नः सिंधुराजः । "थलमतिविचिकित्सया...। यथाऽऽह तात:- अंकुरा- वस्थायामेवानुत्खातेयं वियमयी प्रवृत्तिः शीघ्रमेव सर्वामप्यस्माकं मातृभुवं निरुच्छ्वासमभिभविष्यति"- दृढं. प्रत्युवाच सिंधुकन्या, निश्चक्राम च वात्यैव तस्मान्मंत्रणाकक्षात् । समर्थयन्निवेमा तस्या भविष्यवाणी- सहसा समुदभवत् कटकद्वारप्रदेशे तीक्ष्णमधुरस्तूर्यध्वनिःब्राह्मकालसंसूचको, विदारयन्निव प्रगाढां भारतीयानामोनिद्रां, प्रबोधयनिवार्यान् स्वकर्तव्य- पालनाया -प्रत्यागताऽप्यपरेधुः राजधानीमालोक्पुरी स्वपित्रा सह, मिधुराजकन्या स्पशनिवेदितं करुणभोपणं तं वृत्तान्तं क्षणमेकमपि विस्मर्तुं न प्राभवत् । सिंधु-कन्या समवयस्काभिः स्मितवदनाभिः सखीभिः सह जल्पत्यपि किमपि किमपि परिहासमधुरं रहसि प्रियंगुलताऽऽच्छादितेऽन्त.पुरा- रामैकदेशवर्तिनि निविडे लताकुजे, सस्नेहै. परमविश्वासास्पदैरनुभव- वृद्ध रुच्चाधिकारिभिः सह विचारयन्त्यपि तानि तानि राज्य कार्याणि राजमत्रालये, विकसद्यौवनेन परिपुष्यद्गात्रेण किंचिदारजमान- लोचनेन प्रस्फुरदहभावाऽऽकर्पकेण योद्धृवेयरमणीयाऽऽकृतिना वंधुना जयसिंहेनाश्वारोहिणा सह विविधां शस्त्रविद्यामभ्यस्यत्यपि नगरी- महाप्राकारवहिर्वतिनि विस्तृते राजसेनानिवेशे, कैशोर्य एव चिरायमाणया कलिकयेव मधुमधुरसमीरेणास्पृष्टया वालिशया तत्प्रतिकृत्येव कौतुकिना विधात्रा स्वैरं निर्मितमा तामेव सर्वथाऽनु- कुर्वत्या तामेव सदाऽनुसरत्या कनिष्ठया भगिन्या परिमलदेव्या परिमलहृद्यया सह क्रीडन्त्यपि स्फटिकवले शिशिरकरशीतलेऽन्तः- पुरांगणे, आन्त.पुरिककार्यकलापसंचालनव्यग्रया विविधकुलाचार- परिपालनव्यापृतयाऽनतिप्रौढयाऽपि रजत घटाविछुरितघनकेशपाशया क्लाम्यन्ने त्रोत्पलया कृशगाच्या जनन्या सह तास्ताः ज्येष्ठापयोचितया प्रौढ्या कुर्वत्यपि परिचारिकाकुलाकुलेऽन्त.पुरे, यथापरिपाटि राज्यकार्यव्यग्रेणाप्यापातशांतेनाप्युत्प्रेक्षमाणेनेव काम- प्यापदमशांतस्वान्तेन धवलतरकेशेन म्लानतरमुखमुद्रेण जनकेन सह स्निग्ध व्यवहरन्त्यपि विशाले तद्विश्रामकक्षे, विमृशन्त्यपि तेन सह तानि तानि कार्याणि मंत्रालये- अविदतीय तस्योत्तेजिता मनोऽवस्था प्रतिक्षणं तस्या एव हतभागिन्या धीवरकन्याया विपयेऽचिन्तयत् । कथाः अचिन्तयच्च तस्यां निशायामनुभवविदग्धेन धीसचिवेन संसूचितां यावची विपदम् । अपृच्छचकदाऽत्मानमपि निष्कारणमेवास्वस्थमुत्तेजितं चानुभवन्ती, यदृच्छयेव प्रासादं गता तस्थ, गतेऽस्त भगवति मरीचिमालिनि, सवहुमानं तेनोपवेशिता चाऽऽसन्द्या सांध्यधूप- सुवासिताभ्यन्तरे वृहत्कः, तं तस्या विषये । सिंधु-कन्या १२ "आयुष्मति !" प्रत्याह स वृद्धः पुरुषप्रमाणाद्वातायनाद् बहिदि विचारमग्नां व्यापारयन्, गगने च पौरस्त्येचिरोदितां तारकामेकामन्यमनस्कतया निध्यायन्, "इयं विपतिरेतेप्वशीति- संवत्सरेप्वैवाऽऽविर्भवन्ती क्रमश उग्नतरीभवन्तौ च मया परिलक्षिता।" "स्मराम्यधुनाऽपि । तदाऽहमप्टवयो वाल एवासम्। प्रजविनीकारूढयंवनैः सिंधुसागरे बलात् प्रविष्टस्तंतुननामक तंतुनदुष्प्रवेश्यजलं पर्तनं भारतवर्पस्य पश्चिमतोरे वर्तमान प्रसह्याऽऽक्रान्तमासीत्तदा । प्राप्य च तत्र साफल्यं प्रवृद्धोत्साहै- स्तदनंतरमेव वज्र वासनामक गुर्जरपर्तनं लुंठितमासीत् । अस्मा देवलपर्तनं च ।" "मन्य-भारतवर्ष दिगन्तविश्रुतसंपदं विजेतुमातुरैर्यवनरेतर- स्माकं पुण्यभूमेः पौरस्त्य: रक्षकोऽयं सिंधुप्रदेश: साफल्यप्राप्ती प्रधानप्रत्यवायत्वेनाऽऽदित एव परिगणितः । अतएव-तेः जलमार्गेणेव स्थलमार्गेणाऽपि वारं वारं समानान्त:"। "श्रुतमेव स्थावत्सया बहुश्रुतया- पंचाशद्वर्षपूर्व तेरस्माकं नगाधिराजपादचुंबिनी राज्यसीमा कथं प्रसह्य पीडिताऽऽ- सोदिति, तवत्यानां शूराणां स्वामिभक्तानां निवासिनो किकानानां प्राणांतिकः प्रतिरोधस्तां तेषां कुचेष्टां कथं विफलामकरोदिति च।" "परन्तु-गुणाः शत्रूणामपि"" श्लाघ्या एव । एतेन वैफल्येन किंचिदप्यन्यूनीभूतोत्साहसंपद्भिस्तैस्तदनंतरमपि पट्टत्वः सीमा अस्माकमुल्लंधितुं चेष्टितम् । सफलीभूतं चान्तेऽस्मद्राज्य- सीमावतिनो मकरांकप्रदेशस्य विजय" । "एयं तर्हि- अर्यनीत्यनुसारमेते यवना अस्माकं प्राकृतिकाः शत्रवः", अवदत् सा राजदारिका। उदगृणाच्च सहसा- "मकरांक- प्रदेशादेव तु अपलायितो विद्रोही कश्चिद्यवनसामंतः समुपजात- जीवितशंकः पंचशतसंख्याकै: स्वसैनिक: सह तातचरणकमलयोः छायायां शरण्यायां निलीन आसीत् कतिपयसंवत्सरपूर्वम्" । सिंधु-कन्या अस्या "आम् !"- प्रत्यवदत् स वृद्धः । “राजधर्ममनुसृत्यैव स्वामी शरणागताय तस्मै यवनसामंतायाऽऽथयमददात् । परंतु- अनभिज्ञोऽ- स्माकमुत्तमानामार्याणां राजनीतिनियमानां" अश्रद्दधानो वा तेपु.. दमिश्काधिपः स्वामिनस्तस्मिन् सद्व्यवहारे कुटिलतामेवाजिघ्रत् । अदर्शयच्च कालुष्यं मनसस्ततःपरम् ।" "सत्यमेव तातो मन्यते- विपदियमस्माकं पुण्यभूमि ग्रसिष्यत इति ?" अपृच्छत् सिंधुराजदुहिता । "अनागतं. केन खलु दृष्टम्?" प्रत्यवदत्स धीरमतिर्वृद्धः । "एकं तु वैशिष्ट्यमस्या विपदोऽभिभवति मम मानसमनेकदा यक्षप्रश्नमिममेव पर्यालोचयत:.... अस्या: सातत्यं.", अविच्छिन्नत्वम् ।... या या खलु विपदोऽस्माकं भारतभुवः क्षितिजेऽतीते काले समुदभवन, वात्या इव च तामपीडयन्"", ता." अलक्षेन्द्रवाहिनीरूपा वा अन्या वा"सर्वा अपि तास्तात्कालिक्य एवासन्" आपातभयंकरा अवसानक्षीणाश्च । न खलु विपदियं तथा । आ समुद्भवात् संततावेगा मयाऽलक्षि इयम् । प्रत्युत प्रतिदिनं वर्द्ध मानाऽऽवेगा । एभिः कतिपयैरेव संवत्सरैरनया महान् भूभागोऽभिभूतः । अनेकानि च राष्ट्राणि स्ववशे कृतानि । अस्या एतत् सातत्यं एतदविच्छिन्न वद्धिष्णुत्वमेव मामुद्वैजयति ।" गदंश्चैवैमेव व्यग्रस्वांतश्चिरमास्त' अधोदृष्ट्या मंददीप- प्रभालोकितमुखमुद्रया राजकन्यया निःशब्दं श्रूयमाणः । एवं साक्षात्कृत्य विहंगमदृष्ट्या यथार्थ स्वरूपं यवन- विपदस्तस्मात् पितृतुल्यात् सचिवोत्तमात्, संभाव्य च तस्याः प्रस्फोटं भारतभूमौ, सिंधुराजकन्यायाः सा अस्वस्थता चिंताकालुष्यमेव परिदधौ । तिरौदधौ चात्यन्तं स्वाभाविक चित्तप्रसादम् । रात्रो, तिरोहितप्रायनशप्रदीपमंदालोकाऽऽलोकिते प्रसर- धूपवल्लरीसुवासिते प्रशांते स्वे शयनकक्षे, शतदलदलकोमलायां सुधाफेनधवलायां सुगंधितप्रच्छादनपटायां शय्यायां विस्तृतायां निप र सिंधु-कन्या निद्रासागरेऽगाधे प्रशमयितुं चिंतादाहं प्रयतमानाऽपि नालभत साफल्यं चिराय। क्षणमेकमपि न साऽन्वशोचदात्मनस्तदृढं मतं यत् समादरयता सिंधुराजेन तुरुप्कप्रांताधिपस्य सः सुशदितोऽपि व्यंग्यकठोरोऽनुरोधोंऽते तिरस्कृत आसीत् । सर्वथा तिरस्करणीय एवासीत् सः। कः खलु- ऋते जीवन्मृतात्- शासकस्तादृश- मनुरोधं स्त्रीकुर्वीत ? प्रताडनाऽपि सा सर्वथा समुचितवाऽऽसीत् । व्यापारार्थमादी स्मितमधुरं, दृढीभूतायां चाऽऽधारभूमी तथा कुत्सितं, व्यवहरन्तस्ते म्लेच्छा यदि नार्हाः प्रताडनस्य- तहि कि संमाननस्य ? 'कि खलु विधास्यति स अल् हज्जाजः, तच्छन्दानुवर्ती तस्य स्वामी च'- अयमेव विचारस्तां तथाऽशांतस्वांतामकरोत् । याममात्रावशिष्टायां तस्यां त्रियामायां मृदुलरल्लकाऽऽ- बतसर्वागं निमीलितनयनारविदं मंदपवासं शिथिलितगात्रं शय्यायां निलीनां तां... निद्रा... दयमानेव"" कथमपि स्वांके समगृहीत । तदंकविश्रांताऽपि सा चिंतामुक्तिमकान्तिकी तु नालभत । अपीड्यत एवास्पष्टैरपि क्षोणैरपि समुद्वेजविचाररसंवद्धप्रायः । समवित्त च सहसासुस्पष्टमात्मानमेकाकिनं प्रशांतवाहिन्याः सिंधुवाहिन्या रोधसि सिकतिले विधाम्यन्तमवलोकयन्तं च निनिमे दीप्तिमस्तंगतस्य दिनकरस्य सर्वत्र विच्छुरितां सर्वा सृष्टि प्रातिभासिकीमिव मनोरमां कुर्वती दिव्याम् । अन्वभवच्च शिशिरं सायंगंधवहं सहसोप्णीभवन्तंदुधदुःसहम् । अपश्यच्च निरुद्धश्वास मित- स्ततोऽवलोकयंतीपश्चिमायामाशायामारक्तमूर्ध्वायां नीलं पौरस्त्यायां च कृष्टं गगनं रक्तरक्तैन भीपणेन वर्णेन सजवमाक्रम्यमाणम् । अद्राक्षीच्च विस्फारितनेवमूर्ध्वमवलोकयन्ती सुरवर्त्मनि गीतपंक्ति- मिव कस्यचिद्दिन्यस्य महाकवेर्डयमानां गृहगमनसमुत्सुका श्वेतखग- पंक्ति दीर्घदीर्घा सहसा भ्रश्यन्तीमधःपतन्ती च सरित: प्रवाहे सिंधु-कन्या निष्प्राणाम् । अवालोकयच्च दुःखजडा समग्रमपि सिंधुनदीप्रवाहं, तत्क्षणपर्यन्तं निर्मलं प्रवहन्तं, सहसोत्तप्ताय प्रवाहमिव रक्तीभवन्तम् । अद्राक्षीच्च विस्मयमूढा तदुभपत्तीरवद्वपंक्ति विराजमानां प्रत्यागत- पतत्रिकोलाहलाकुलितां 'सुसंध्यं सुसंध्यम्'- इति शब्दायमानामिव महावृक्षराज दिगन्त चुविनी महाविषधरश्वासस्पृष्टाम्बि सहसा निधू मं निलिं ज्वलन्तीम् । अशृणोच्च सहसा प्रभंजनजवनानां तुरगसहस्त्राणां खुररवमिवाहकारदुःसह कर्णविदारकम् । प्रयतमानाचाऽऽऋदितु जयसिंहमकस्मादवलोकयामासाऽऽत्मानं स्वे शयनकक्ष एव शय्याया शयितं, प्रस्विद्यत्सर्वागं, कपमानगात्रं, शुष्पन्मुख, समुत्तीर्णं दुःस्वप्नादेकस्मात् । शुश्राव च तत्क्षणमेव राजप्रासादमहाद्वारस्थितेन प्रहर- केणाऽऽहन्यमानाया विशालायाः कांस्थघंटाया ध्वनिलहरी ब्राह्मकालप्रारंभसंसूचिका निःशब्दे वातावरणे प्रसरन्तीम् । उन्निद्रा च ततः प्रभृति, पर्यालोच्य वहु स्वात्मनेव, विनिश्चित्येव किमपि, परित्यज्य शय्यां, परिसमाप्य दैनिक क्रियाकलापं, प्रहरमात्रजीणे दिवसे, कृताश्वारोहवेषाऽनापृच्छ्यव कमपि कन्यान्त.पुरान्निर्गता, प्रासादपरिसरैकदेशवर्तिनः राजकीय- स्याश्वगोप्ठस्य प्रधानेन समापतन्ती तां दृष्टवा सहसा प्रधावितेन ससंभ्रममुपस्थापितमधीरमश्वं स्वमारुह्य काकिनी राजप्रासादा- दुदीच्येन महाद्वारेण निर्गता""आलोकनगरीवहिर्यायिना निर्जनप्रायण गन्तुमारभत मार्गेण । गगनमध्यमध्यारुढेऽप्यचंडकिरणे हैमंतिके चडकिरणे, मंदसमीरलहरीप्रकंप्यमानपर्णसंभारस्य दिशान्तराल- प्रसृतशाखावितानस्य निःशब्दस्य कर्दवस्यैकस्य निविडायां छायायां विराजमानं मृण्मयं गोमयोपलिप्तमुटजमेकम् । बद्वा चतुरगमेकदेशवर्तिनःजरत्पर्णसंभारस्य निवतरोर्मूले तन्निःशब्दमुपससर्प । किचिन्नमितमस्तका, उटजाभ्यन्तरे प्रविष्टा, सिंधु-कन्या प्राप समवलोक्य तच्छून्यं किंचिद्विस्मिता च क्षणमेकं विचार्य ततो निर्गता, उटजदक्षिणवाहिन्याः निविडवृक्षाच्छन्नतया प्रदेशस्याऽपरिलक्ष्यमाण- प्रवाहाया अपि शिशिरतरजलगंधवहगंधवहसंसूच्यमानायाः सिंघोस्तीरम् । ददर्श च तत्र, नातिदूर एव, प्रोन्नततटप्ररुढस्यान कपशाखा- शिखरस्य भूतलचुविजटाजूटस्य 'निप्कूजस्तिमितस्य' निष्कंपदलस्य.. समाधिलीनस्येव औदुंबरस्य महावृक्षस्यैकस्य मूले सुखमुपविष्टं गौरवर्ण पलितजटासंभारं धवलश्मश्रुजाले श्वेतरोमशवक्षसमवदात- परिधान, मूर्तिमिव स्फाटिकी कस्यचिन्महः सत्ययुगीनस्य भासमान, जोवारमानमिव कमपि ब्रह्मलोकवासिनं दिक्षया मातुः सिंघोः परिगृह्य पार्थिव शरीरं भर्त्यलोकेऽवतीणं तद्दर्शने च लीनमानसं, सत्त्वगुणमिवाऽऽथित्य विग्रहं पवित्राया महानद्यास्तीरे विश्राम्यन्तं, महाप्रमाणं तपःकृशकायमतिवृद्ध प्रशांत महपि चिदानंद नदीसंमुखमवलोकयन्तमिव निनिमेपया दृष्ट्याऽधःप्रवहन्तं नृत्यत्सूर्यप्रभ जलप्रवाहम् । क्षणमेकं निरुद्धगतिः, पर्यालोच्य किमपि स्वात्मनैव, शांतमुसमुद्रा, दुहितेय पितरं विचारमग्नं, निःशंकमुपसृत्य तं विनीतस्वरा नामग्राहं प्रणनाम । निशम्यतस्या मंद्रमभिवादन-स्वरं व्यावर्तिताऽननः सहसा प्रस्फुटितस्मितोभासितमुखमुद्रोऽनिमेपाम्या वार्द्ध कधूसरित- कनीनिकाभ्यां धवलपक्ष्मलाभ्यां नयनाभ्यां तां सभाजयनिव स महपिः स्नेहसिक्तेन तपःपरिपूतेनाऽऽशीवंचनेनाभ्यर्चयामास । आदिदेश समीप एवोपवेष्टुम् । व्यावर्तयामास च लोचने नद्यभिमुखं निःशब्दः। कतिपयक्षणानन्तरं च प्रोवाच मंद्रस्वर- "प्राप्तप्राया.... सिंधुकन्ये. घनसंकटघटा पाश्चात्य भारतीये क्षितिजे."। इयं सिंधु-कल्या पुण्यसलिलाऽऽपगा, इयं मूतिमती आर्यसंस्कृतिः, इयं महानदी, यस्याः कलकलेन संमिश्रिता मंत्रद्रष्टृणां कवीना गिर एकदा दिवौकसामपि स्पृहणीया अभवन्, यस्याः रोघमि विकसिता विदग्धानां विवेकिनां विचक्षणानामार्याणांतास्ता महानगर्यो देवनगरीमप्येकदाऽधश्चक्रुः सेयं सिंधुः", अयं प्राचीन: सिंधुप्रदेशो यस्मिन् सस्कृति रार्याणां परमोदारा सर्वमंगला पूर्ण विकासमेव दाऽन्वभवत् सोऽय सिंधुप्रदेशः ...'शीघ्रमेवाननुभूतपूर्वसदृश्या विपद: लक्ष्यीभविष्यति ।" "इयं च विपत् न केवल सिंधुप्रदेशं, न केवलं गुर्जरप्रदेश, न केवलं कश्मीरराज्यं, न केवल पंचनदप्रदेशं मालवदेशं वा, अपि तु समस्तमार्यावर्त समस्तं दक्षिणापथं समस्तं भारतवर्षमेवाऽऽक्रमिष्यति,- आदौ मंदक्रमा, तदनंतरं जवना, सर्वदेवाप्रतिहतप्रसरा।" "न चावलोकयामि विलयमस्या सुदूरे व्यापारयन्नपि ज्ञानचक्षुर्भविष्यत्काले।" "अप्रतिहतप्रसरा भविष्यति विपदियम् । अप्रतिहतप्रसरा, न तथा स्वबलप्रभावाद्यथा(सविषण्णस्मितं) भारतीयानामेव कापौरुप- वशात्""| केचिद्भारतीया अस्या विपदः प्रतीकारे स्वसर्वस्वं होष्यन्ति। परंतु- विरला एव... अंगुन्निगणनीयाः । बहुलास्तु- स्वात्मप्रवंचकमौदासीन्यमुररीकुर्वन्तोऽन्ते विपदोऽस्या भविष्यन्ति । केचित्तु नराधमा धनलोलुपा वा क्षुद्रवैयक्तिकप्रतिशोध- भावनाग्रस्ता वा संकीर्णसांप्रदायिकद्व पभावनाविलोपितविवेकशक्तयो वा विपदोऽस्याः साह रिण एव भविष्यन्ति ।" भक्ष्या "अलमतिजिज्ञासया, वत्से....! ज्ञात्वाऽपि तेषां नामानि स्थानानि च न किमपि कर्तुं शक्ष्यसि तेपां विपये। यद्भावि तद्भाव्येव । न खलु तदभावि भवेत् प्राक्परिकलितमपि ।" "अपि च- विपदियमस्माकं भारतीयानां सनातनधर्म- विरुद्धमाचरतां चिरात् खलु संचितस्य पापसंभारस्य फलमेव । सिंधु-कन्या अस्माभिर्मागलिकेभ्य आदर्शेभ्यः परिघ्रप्टःन्याय्यात् पथः प्रविचलितः क्षुद्राहंकारप्रेरितभौतिकसुखपरायणः स्वकर्तव्यच्युतर्याऽपारा पाप- संपदजिता सेवाधुना अस्या विपदः रूपेण पाकोन्मुखा।" "भोगेनैवास्याः क्षयः।" "एतत्तु मां दहति यदियं विपदस्मान् न केवले स्थूले भौतिके शरीरे दूपयिष्यति, अपि तु चित्तेऽपि मत्यामप्यन्तरात्मन्यपि । प्राय: सर्वेऽपि भारतीया वृद्धास्तथा तरुणा ब्राह्मणास्तथा क्षत्रियाः सधनास्तथा निर्धना वुधास्तथा मूर्खाः नरास्तथा नार्यः पांचनदास्तथा द्राविडा वंगदेशीयास्तथा संघवा:- प्रायः सर्वपि भारतीया, अनया विपदाभिभूताः, स्वधर्म तथा विस्मरिष्यन्ति प्रथा पशुभ्योऽप्यधमतरा भविष्यन्ति ।" " "तथापि- घोरतमायापि तमस्विन्या नक्षत्राणि कतिचनः प्रकाशन्त एव । विधातुविलसितमेतत् । यास्यन्त्येवामरत्वं भारतीय इतिहासे केचिद्भारतीया, अस्या विपदः प्राणान्तिकं प्रतीकारं कुर्वन्तः, केचिदस्या विनाशार्थ प्रयतमानाः, केचिदृढमभिभूतेऽनया विपदा भारतवर्षे सामान्यजनमनोवलोनयनाथं प्रयस्यन्तः।" (सनिःश्वासम्) "एतादृशा एव भारतीयोत्तमा अस्माकं पुण्यभुवो विपद्यस्यामाशास्थानम् । एतादृशा एवाऽऽर्या- स्तृणोकृत्य स्वं जीवितं परचरस्थ प्रतिरोधाय प्रतीकाराम विनाशाय वाऽऽमरणं युद्धयमाना, भगवता 'कर्मण्येवाधिकारस्ते, मा फलेषु कदाचन' इति गोतमुपदेशं स्वाचरणेऽवतारयन्तः, सनातनधर्मास्याऽशास्थानम् ।" "एतादृशानामेव भारतीयानां जीवनगाथा स्वार्थत्याग- भासुरां साक्षात्कृत्य निपीय वा कथासु कविगीतासु साधारणा जना अस्यां विपदि कथमपि स्वात्मानं धारयितुं प्रभविप्यन्ति ।" सिंधु-कन्या "एतादृशानामेवार्ष्याणां पुण्यप्रभावेण भारतभूमिरियं विमोचिता विपदोऽस्या ग्रहणात् पापात् नियतिनिद्दिष्टं स्वं कर्तव्यं कर्तुमन्ते समर्था भविष्यति ।" "दीर्घदीर्घतमाया अपि तमस्विन्या दुःस्वप्नभयंकरायाश्चरमा परिणतिः मागलिक उषःकाल एव ।" "वत्से ! अस्मिन् प्राणसकटे महत् खलु तव कर्तव्यम् । महान् खलु तव कार्यभारः नियतिनिश्चितः । न हि त्वत्सदृश- मात्मिकमोजः शारीरं सामर्थ्य मानसिक वा बलं सर्वसाधारणम् ।" "क्षणेऽस्मिन् किंचिद्विचलिताऽपि शीघ्रमेव प्रकृतिमापन्ना स्वस्थचित्ताकर्तव्यपालनाय संनद्धाभविष्यसीति दृढो मम विश्वासः।" वचश्चैवं चिरमास्त, गंभीरवाक्, त्रिपु कालेषु परिभ्रमन्निव सर्वदर्शी, स महपिः, निश्चलया मूकयाऽविचलितहक् तन्मुखं निभालयन्त्या परस्परविर्मादभावनोल्लोलकल्लोलविलोडितमानसया पर्णातरालप्रविशद्भास्वद्भास्करकरावध्रातमस्तकया सिंधुजलसंस्पर्श- शिशिर- मंदसमीरसंस्पृश्यमानकपोलया सिंधुराजकन्यया श्रूयमाणः । सिंधु-कन्या दितीयः परिच्छेदः विज्ञाय तस्मात् विकालदशिनो, विग्रहवत आत्मन इव भारतवर्पस्य, तपोवृद्धादुपस्थितामपरिलक्ष्यमाणान्तां महतीं विपदं, मानसं सिंधुराजकन्यायाः स्वभावप्रसन्नमपि खेदेनाननुभूत- पूर्वेणाऽऽक्रम्यत । व्यापृताऽपिदिनचर्यायां यथाऽभ्यासं,समागतप्रायायास्तस्या विपद एव विषये प्रतिपलमत्रितयत् । अतीत एव पक्षे, तस्यो सायंवेलायां क्षणमात्रमनुभूताया मातुः सिंधोः म्लाने; रहस्यं तत्सं मुखं प्राकट्यमिवालभत, तस्य च भीपणस्य स्वप्नस्य । महपिणा दृष्टा सा विपत् परचक्रस्य रूपं धृत्वा भारत- भुवमभिभविष्यतीत्येतस्मिस्तु विषयै क्षणमपि न संदिदेह तस्या विचक्षणं मनः । व्यक्तिस्थलकालविशेषान् नामग्राहं सूचयितु- मनुत्सुकेनापि तेन स्वयं तत् पर्याप्तं ध्वनितमासीत् । तच्च परचक्र यावनमित्यपि तत् स्वयमेवावेत् । पादानांतेषु यवनः सर्वेष्वपि पाश्चात्यसीमावतिषु देशेषुकिमिवान्यत् परचक्रं संभाव्योदयमासीत? तच्च यावनं परचक्र तस्या आग्रहं बहु मानयित्वा पिया तथाऽपमानितस्य तुरुप्कप्रांताधिपस्यालहज्जाजस्याज्ञया समुद्भवे- दित्यपि तद्व्यजानात् । सिंधु-कन्या 'एवं तर्हि तस्याः परचक्रविपदः प्रतीकारस्तस्या वैयक्तिक कर्तव्यम् । तस्या वैयक्तिकं विशिष्टं कर्तव्यम् । अत एव- महर्पिणा सा तथा समुद्बोधिताऽऽसीत् । स्वकर्तव्यपालनं तस्याः परमो धर्मः । तत् सा, विधूय मनोग्लानि पराभूय चेतोवैक्लव्यं, स्वधर्माचरणाय संनद्धा भविष्यति-' निश्चिकाय तस्या मतिः । - विनिश्चित्य चैवं सा राजदारिका, महता प्रयत्नेन समुत्सार्य खेदं, पर्यवस्थाप्याऽऽत्मानं, सुविचिन्त्याऽऽत्मनैव भाविकार्यपद्धति- मेकदा, साक्षाद्रष्टुभिय तत्कारिंभ वियन्मध्यमलकुर्वति भगवति भास्वति, मंत्रणाकक्षे पितुः संनिधावुपविश्य तत्तद्विभागीयसचिव- साहाय्येन राज्यकार्याणि पर्यालोचयन्त्यकस्मात् समुपजातस्मृतिरिव सहसाऽपृच्छत्- "तात ! कीदृशी खलु प्रतिक्रियां व्यानक स प्रांतप्रशासकोऽस्माकं तत् प्रत्युत्तरं प्राप्य ?" राजा दहरस्तु दैनंदिनराजकार्यचर्चाव्यापृत, आकर्ण्य तं प्रश्नमाकस्मिकं, अहोरात्रं मनसि विवर्तमानं तं विपयं स्वदुहित्रा शब्दितमनुभूय, क्षणमात्रं विचलितोऽपरस्मिन्न व क्षणे महता प्रयत्नेन पर्यवस्थाप्याऽऽत्मानमाहार्यस्मित्तरेखांकितक्लांतमुखमुद्रः, स्वरेण निरादरेणेव प्रत्युवाच- "न जानीमः, वत्से ! नापि समुत्सुकाः ज्ञातुम् ! किं खल्वार्य चेतः जिज्ञासेत गोभक्षकाणां वसादुर्गधीनि मनोगतानि पापानि?" "तुरुष्कदेशपरिचितस्य वैपांतरनिपुणस्य विश्वसनीयस्य कस्यचिद्गूढपुरुषस्य माध्यमेन तस्याल हज्जाजस्य प्रतिक्रियाया आकलनं कि श्रेयस्करं न स्यात् ?"- सविनयमाह तदुहिता । अतीवाभिमानी खलु सः श्रूयते । तस्मै कदाचिदस्माकं तत् प्रत्युत्तर न्याय्यमपि यथार्थमपि न रोचैत । दिग्विजिगीपुश्चैतदेव निमित्ती- कृत्याऽऽक्रमणायानुज्ञां स्वस्वामिनः प्रार्थयत । तच्छब्दानुवर्ती च तत्स्वामी श्रूयते । एवं चेप्टमानः शलभगति लभेत- इत्यत्र न संशयः" "तथाप्यस्माभिविधूय गौरवभ्रमं बलमदं च तस्य चेप्टितानां विषये सावधानरेव भवितव्यमिति मन्ये ।" २२ सिंधु-कन्या "वादकस्यौच्चस्तमां काप्ठां नूनमेते वयं प्राप्ता, येषां दुहिताऽपि तानेतादृशस्योपदेशस्याहा॑न् मन्यते"- सहासं प्रत्यवदद्वाजा दहरः । "अयि ! अस्माकं तत् परिहासविल्पितं त्वं परमार्थत्वेना- गृह्णीयाः ! सत्यमेव चामन्यथा यद्वयं तस्य म्लेच्छस्य विषय आत्मघात्योदासीन्यमुररीकुर्वाणा आस्महे निष्क्रिया- इति । प्रकटयति नूनमैतद्यत् त्वं,- अस्माकं ज्येष्ठा प्राणेभ्योऽपि प्रियतरा, दुहिताऽपि साकल्येनास्मान् ज्ञातुं न शक्ता एतावत्कालपर्यन्तम्- इति ।" "अयि ! अस्मत्प्रत्युत्तरवाहिनस्तस्योग्रस्य तुरुक- प्रतिनिधेरनुपदमेव व्यवहारेण शरीरेण भापणेन च यवन इव परिलक्ष्यमाणो विश्वसनीयः स्पशोऽस्माभिः सार्थवाहान्यतममिपेण तस्याल् हज्जाजस्य राजधानी प्रेषितः निभृतम् । अतिनिपुणः स चरः । अविज्ञाय कमपि प्रतिकूलं समाचारं तस्मात् एवं निराकुला आस्महे ।" "क्षाम्यतु तातः प्रागल्भ्यं मम"- आह सा राजकन्या:- घोप्टिः । “परंतु समतिक्रांतेऽपि मासद्वयाधिके समयेऽस्माकं पुरुषस्येदं मौनमनिष्टस्यापि कस्यचित् संसूचकं भवेत् । तद्वालबुद्धिर्मम कथयति यत्- समुत्सार्य निष्क्रियत्वमस्माभिः प्रचलतरवलसंपादन. परैर्भवितव्यम् । यदि स तुरुप्कप्रांताधिप: प्राप्याऽप्यस्माकं प्रत्युत्तरं शममेवांगीकरोति सौभाग्यवशात् समुपजातसद्बुद्धिस्त ह्यपि नो हानिः । यदि च विग्रहं विनप्टमतिस्ता पि न क्षतिः ।" "समीचीनमाह भर्तृ - दारिका"-प्राह धीसचिवः । "भवांस्तु- भर्तृदारिकाप्रोक्तं सर्वमेव समीचीनं मन्य- मानोऽस्माभिप्टचरः"- सहसा प्रत्याह सिंधुनरेशः समुत्तेजितः । "प्रबलतरसैनिकचलसंपादनार्थमहोरात्रमस्मान् प्रेरयन्तः सर्वेऽपि भवन्तः नूनं विस्मरन्ति यत्- अस्माभिः वंशपरंपराप्राप्तमप्युद्वर्तन- मेतद्राज्यमस्मद्वशंवदीकर्तु, राज्यस्पास्य दाक्षिणात्य निरंकुशं सिंधु-कन्या २३ प्रशासतस्तांस्तान् सामंतानस्मदधीनान् विधातु, राज्येऽस्मिन् तत्र तत्र निर्धूमं ज्वलतो धार्मिकवैमनस्यवन्हीन् प्रशमयितुं- अद्यावधि- अविगणय्य परिश्रमं सततं प्रयतितम् । विस्मरन्ति यत्- वयमपि चिरात् खलु प्रयत्नेषु सफलीभूतेषु कृतार्था विश्राम क्षणमात्रं वांछाम एव । विस्मरन्ति यत्- अस्माक प्रजा अपि, चिरेण नूनमेकछत्रशासन- विश्रब्धा पारस्परिककलहजालमुक्ता अधुना सुप्रशासनफलानि काक्षंति, न दिग्विजयफलानि ।" "विस्मृत्यैतत् सर्व-यूय काल्पनिकयवनविभीपिकया गूढं पीड्यमानाः प्रवलतरसैनिकवलसंवर्द्धनार्थमेवास्मान् प्रतिपलं नुदथ, विस्मरथ च प्रजानुरंजनमपि शासकस्य कृते तथैवाऽऽवश्यकं यथा तदक्षणम् ।" तं तस्यानपेक्षितं मन क्षोभं साक्षात्कृत्य सर्वेऽपि मंत्रिणो भयस्तब्धा अधोदृष्टयो मौनमेवाऽऽत्यंतिकमुररीचा:-- ऋते राजदारिकायाः। - सा हि विस्मिताऽपि समाकर्ण्य पितुराकस्मिक मुदग्रं वचः, गूढमनुमोदमानाऽपि तस्य प्रजानुरंजनविषयक दृष्टिकोणं, स्तोकमप्य- विचलिता स्वनिश्चयात्, अधोदप्टिः, कतिपयक्षणानन्तरं प्रत्यवदत् प्रशांतवाक्- "कः खलु विवदेत, तात्त, यत् प्रजानुरंजनं राशः प्रथम कर्तव्यमिति ? परंतु विभोपकमेतद्यवनसंकटं न विभीपिकामात्रम्। पश्यतामेव सर्वेषां- विशालः खलु भूभागोऽनेन संकटेनाऽऽक्रांती दुष्प्रसह्यवेगेन । अभिभूतश्च भारतवर्षस्य पौरस्त्यः संपूर्णः सीमा- प्रदेशः । एतदेव साक्षात्कुर्वाणा एते तातमनुरुन्धन्ति स्वस्वक्षुद्री मतिमनुसरन्तः । अपि च, प्रजानुरंजनेन सह नास्ति कोऽपि विरोधो वलसंवर्द्धनस्य । प्रत्युत- वलवतः राजोऽनुरंजनं प्रजानामधिक- मभिनंदनीयं भवति ।" प्रभावित इव दुहितुरनेन प्रशांतेन संवोधनेन राजा दहरः किचित् प्रकृतिमापन्नोऽधोद्दप्टिविचारयन्निव किमपि तूष्णीभाव- मभजत । २४ सिंधु-कन्या सूर्यदेवी तु, आ शंशवात् पितुरेव स्नेहछायायां वृद्धि प्राप्ता, आ वाल्यात् तमेवानुवर्तमाना, मा केशोर्यात् तमेवानुकुर्वाणा, आ यौवनात् तस्यैव राज्यकार्यभार संभजमाना, तस्य मनःप्रकृत्या मुपरिचिता, परिकलय्य तस्य मनोऽवस्यां किंचिदनुकूलीभूतामाश्वस्ता, अवदत् तथैव प्रशांतवाक्- "मन्ये- अस्माभिर्यवनानां वास्तविक मनोगतं ज्ञातुमद्य एवापरः कश्चित् कुशलो गूढ: पुरुपःप्रेपितव्यः । अप्रतिपालयद्भिश्च तत्प्रत्यागमनं, परचत्रसंकटं समासनप्राय विभावयद्भिस्तत्- प्रतीकाराय रणोद्यमोंगीकर्तव्यः। स च प्रतिपक्षस्य बलावले सुविचार्य स्वयमनुप्ठेयः । स्वयमनुप्ठितो हि उद्यमो यथा प्राणान्ति- केप्वपि संकटेपूपकरोति-न तथा परापेक्षः ।" - "उपस्थितेऽपि घोरेपरचमसंकटेऽन्येषां भारतीयानां नृपाणां साहाय्यसंपन्न व प्रार्थनीया ?"- अपृच्छत् तत्पिता सस्मितम् । "नायं ममाभिप्रायः"- प्रत्याह स्मेरवदना राजकन्या "मित्रसंपदि सर्वदेवाभिनंदनीया । परंतु- तातस्य चरणकमलयोः छायायामुपविष्टयैव मयाऽधीतमेतदर्थशास्त्रस्याऽदिमं सूत्र- स्वयं सामर्थ्यसंपन्नस्यैव मित्रसामयंमुपकारकम्- इति ।" "अपि च", क्षणमात्र बिरम्य पुनरवदत् सा देवलदेवी, "अस्माकं मित्रमंपदुपस्थितेऽग्निपरीक्षाकाले कियती साहाय्यकारिणी स्यादित्येतस्मिन् विपये संशेते मम मनः ।" "संशयालु तव मनः", सहसा प्रत्यवदत् तत्पिता। "संशयालु". अनिष्टशंकि च । अत एव- तद्विभावयति यत्- समाकांतेऽप्यस्मा राज्ये पापर्यवनः तल्लुंठितं स्वं स्वातंत्र्यं पुनरपि लन्युमुद्यम न करिष्यति स गांधारनृपतिरस्मत्पक्षपातेन, अस्मत्संकटं स्वसंकटं विभावयन्नपि साहाय्यं न करिष्यति स महाराजाधिराजः कश्मीरनृपश्चंद्रापीडः, गोभक्षकाणां म्लेच्छानां स्वागतार्थमेव सिंधु-कन्या व्याकुलीभविष्यति राष्ट्रकूटराजः इंद्रराजः, औदासीन्यमेवाऽऽत्मघातक- मुररीकरिष्यति दूरदृष्टिरपि स गुर्जराधिपः शीलादित्यः, किंकर्तव्य- मूढतामेवांगीकरिष्यति प्रत्युत्पन्नमतिरपि प्रतीहारनृपतिर्नागावलोकः, अस्मत्पातं स्वाभ्युदयमेव मन्यमानः हपंभारभुग्नौ भविष्यत्युदारचेता अपि परमभट्टारकश्चालुक्य नराधिपो विजयादित्यः, आर्यनृपाणां विपदं द्राविडानां संपदं विभावयन् परमं ममुल्लासमनुभविष्यति चेरराज: पल्लवराजो वाऽनार्यः, राज्यं स्वमतिदूरस्थं निरापदं कल्पयन् काव्यशास्त्रविनोदेनैव कालमतिवाहयिष्यति वंगदेशाधिपः, सौहार्दपरवशो यवनसाहाय्यार्थमेवोद्यतो भविष्यति तथागतशरणोऽपि सिंहलद्वीपाधीशो मानवर्मात्मज इति ।" "नवं, तात! ""नैवं...." प्रारभत तदुहिता । "जयतु जयतु देवः 1 देव! तुरुष्कप्रांतप्रशासकेन देवसंनिधौ संप्रेपितः राजदूतो देवदर्शनं प्रार्थयते प्रासादमहाद्वारे समुपस्थितः । श्रुत्वा देवः प्रमाणम्"- उज्जुघोष सहसा प्रविष्टः प्रधानः प्रतिहारः कनकदंडधरः । सिंधुनरेशस्तु सर्वथाऽनपेक्षितां तां वार्ता निशम्य चकितः, क्षणमेकं स्तब्धो, विचारमग्नः, किंचित्प्रसन्नमुखमुद्रः, निक्षिप्य साभिप्रायां दृष्टि दुहितरि, समादिदेश तं प्रवेशयितुम् । गुरुतरराज्यकार्यव्यग्र इव चिरादुन्नमय्य मुख- अन्यमनस्क इथ-अवलोकयामास उपस्थितं, यावनी पद्धतिमनुसृत्य प्रणतं, तुरुष्कदूतं, पड्भिः समानवयोवेपवृत्तांतरवनमितपूर्वकार्यवनः सुचेलकावृत- वृहद्- रजतस्थालीव्यापृतहस्तः पुरस्कृतम् । गौरव- गंभीरया वाण्या तमाज्ञापयामास समुपवेष्टुम् । शुश्राव तेन विनीतस्वरमधोदृष्टि निगद्यमानं तुरुप्कप्रांतप्रशासकस्य संदेश- विस्मृत्य तं दुर्देविनं पोतप्रसंग पारस्परिकसंवंधान् यथापूर्व स्निग्धान् रक्षितुमभ्यर्थयन्तं, यवननाविकानामाचरणमधिकृत्य तमसकृत् सिंधु-कन्या समाश्वासयन्तम् । स्वीचकार तं कथमप्यपह नुत्यान्तरुद्वेल्लन्तं हर्पसागरं, सुविचार्येवाऽऽत्मनैव साकं किमपि । बहु मनियामास तदुपहृतान् बहुमूल्यानुपहारान् करस्पर्शमात्रेण । प्रतिसंदिदेश तन्मुखेन सुहृद्भावं यावच्चंद्रदिवाकरस्थायिनम् । विसर्जयामास च तं सबहुमानं स्वदेशगमनाय । अवलोकयामास चापसृते तस्मिन् विनयावनतपूर्वकाय- मपराङ मुखं, स्वदुहितरंचित्रलिखितामिव निश्चलमुपविष्टांसावधानां विस्मितां सगर्व क्षणमाअम् । उदतिष्ठच्च समाकये सर्वतः प्रसरन्तं दिवसावसानसंसूचकं तारमधुरं दुंदुभिध्वनि सायंसंध्यावंदनायं सहसा विलुप्तवार्द्ध कभार इच। एवं- क्योऽवस्थाप्रभावाद्वा क्षीणोत्साहसंपद्वशाद्वा वास्तविकात् प्रजानुरंजनानुरागाद्वा- न जाने किमिति- विमुक्त- मात्मानं दुःसहात् समरप्रसंगाद्विचिन्तयती, महताऽऽडंवरेण दैनंदिनेषु प्रशासनकार्येषु साधारणेष्वपि स्वात्मानं व्यापारयत:, प्रत्यहं नियते समये मंत्रणाकक्षे सेवायामुपतिष्ठन्तं धीसचिवं साभिप्राय क्षणमेकं निभालयतोऽपि स्वात्मगौरववशादिव यवनसंकटं तत्कल्पना- मायोद्भूतं विषयीकृत्य मनसि समुद्भवन्तीं तदुपहासप्रवृत्ति महता प्रयासेन प्रतिरुन्धतो, मंत्रणाकक्षे पूजागृह आरामे भोजनकक्षे- सर्वत्रैव- छापयेव तमनुवर्तमानया तत्सुविधोपपादनतत्परया ज्येष्ठया कन्यया सह बालिकयेव राजकारणानभिज्ञया सानुकंप च्यवहतः, प्रसन्नस्य, हासपरिहासमुखरस्य, राज्ञो दहरस्य, साक्षाच्छ त्वाऽपि तुरुकप्रांताधिपस्य मैत्रीसंदेशं, समक्षमवलोक्याऽपि तैन सादरं प्रेषितान् बहुमूल्यानुपहारान् नातिविश्वस्तमानसायाः, स्मारं स्मारं तेन यवनदूतेनापसरणसमये तत्पितरं समुद्दिश्य प्रक्षिप्तं क्षणिकं कुत्सितभावदुर्गधिनं दृष्टिपातमलक्ष्यप्रायमशांतस्वान्ताया, वारं वारं दुःस्वप्नं तं भविष्यत्कथनं च तन्महर्षेः स्मरन्त्या, बहुमूल्यं बलसंवर्द्धनसमय व्यर्थमेवापगच्छन्तं विभावयन्त्या अपि किंचिदपि कर्तुमसमर्धमात्मानं परिकल्पयन्त्याः, प्रकाशं प्रसन्नाया अपि गूढं सिंधु-कन्या २७ - समुद्विग्नहृदयाया राजकन्याया देवलदेव्याः, सुपरिचिततयाऽल्हज्जा- जस्याहंभावदुःसहेन स्वभावेन तन्मैत्रीसंदेशे सर्वथा विश्वसितुमपार- यतो, यथापूर्वं स्वे कर्मणि व्यापृतस्यापि स्वामिनश्चित्तक्षोभमेव तं विचारयतः, एवं क्षीणप्रायायामुत्साहसंपदि स्वामिनः, क इव राज्यमेतत् सुव्यवस्थितं रक्षेत् समुपस्थिते परचक्रसंकट इत्यहोरात्रं चितयतोधीसचिवस्य ब्रह्मदत्तस्य, आंतरिकविद्रोहप्रशमनसंक्षीणोत्साह- सपदः, परचक्रसंरोधवार्तयैव परिश्रांतस्य, समपत्रांतं तत् संकटं साक्षात्कृत्य संजाताऽऽश्वासस्य वृद्धस्य महावलाधिकृतस्य विश्रांति- सुखमिवानुभवतो वीरभद्रस्य च अविदितगतदिवस एव फाल्गुन- मासो व्यरंसीत् । अध्यगच्छच्च चैत्रमासस्य प्रतिपद्येव, प्रातः, नूतनं हायनमभिनंदयितुमिव सोत्साहमधिरोहति पूर्वाचल शिखरं भगवति मरीचिमालिनि, प्राप्तप्रायछछराजवंशनाशानभिज्ञा आनंदभरान्न त्यं- तीरिव नवसंवत्सरमहोत्सवपताकाततीः राजप्रासादशिखरवतिनीः स्पृष्टकमालिगितुमिव मंद मंदं वहति मातरिश्वनि, सिंधुराजकन्या सद्यःप्रवुद्धा निद्रालसलोचना विलुलितालका परित्यज्य शय्यां स्थित्वा वातायनसंमुखमन्तःपुरारामशोभां नयनाभिरामामन्यमनस्कतया लोकमाना पितुः संदेशं मंत्रणाकक्षे तां सत्वरं निमंत्रयमाणम् । अधिगत्य तं सर्वथाऽनपेक्षितं विस्मिता, अमंगलां कांचिद्- घटनां पितुः समक्षं विचारार्थमकस्मादुपस्थितामुत्प्रेक्षमाणा, अशांत- स्वान्ता, कथंचिदनुष्ठितदैहिकक्रिया,ऽकृतवेषपरिवर्तवास्नातव चलिता, अलसालसं स्वस्वकार्येषु प्रवर्तमानेनान्तःपुरिकाजनेनासमये तस्मिन्नवलोक्य भर्तृ दारिकां कुत्रापि सत्वरं गच्छन्ती चकितेन ससंभ्रमं नमस्कृताऽचिरोद्घाटितपुरुपप्रमाण- वातायनप्रविशद्- बालरविकिरणोद्भासितमपि निस्तेजस्कमिव भासमान मंत्रणाकक्षं पितुः प्रविवेश। अवलोकयामास चाऽऽसन्द्यामुपविप्टमकस्माद्धवलतरी- भूतविरलशिरोरुहं सांद्रतरीभूतरेखांकितभालप्रदेशं पितरमधिकतर- सिंधु-कन्या २८ मवनतपूर्वकायमन्यमनस्कतया शुप्कमेव कुसुमगुच्छं कंचित् प्रकंपमानेन हस्तेन परामृशन्तमधोमुखं तदागमनमेव प्रतिपालयन्तं, प्रागेव सेवायामुपस्थितेन महाऽिस्तरणसंच्छादितायां भूमी समुपविष्टेन गंभोरेण धीसचिवेनास्वस्थचित्तैन सेनापतिवरेण्येन सांधिविग्रहिकेण किंचिदूरमुपविप्टेन मलिनवेपेण कृशगात्रेण चत्वारिंशद्वर्षदेशीयेन तुरुष्कदेश्येन सार्थवाहेन चाप्टपूर्वेण केनचित् परिवृतम् । निशम्य तस्या अस्फुटमभिवादनवचः किंचिदुन्नमित- मस्तक:निद्रावशेषाऽऽरक्तनयनःसः निःशब्दं स्वसमीपे तामुपावेशयत् । क्षणमानानन्तरमवोचच्च- "अयस्माकं महेशदत्तः, पितृचरणानां सेवकस्य श्रीदत्तस्य परमविश्वासाऽऽस्पदस्य सुतः, परं विश्वसनीयः । स्वर्गीयः श्रीदत्तः, पितृचरणर्दूरदशि देशीयानामिव परदेशीया- नामपि नृपाणां चेष्टितविषये परं सावधानः, मन्ये त्रिंशद्वर्षपूर्व, यवनसार्थवाहान्यतममिर्पण तुरुष्कदेशं प्रेषितस्तत्रैव निवस्तुम् । तन्माध्यमेन तद्देशीयवार्तालाभः पितृचरणानामुहिप्ट आसीत् । स च तेपामुद्देशः कल्पनातीतं साफल्यमलभत । म्लेच्छानां क्षुद्रतमानामपि गतागतानां विषय एकमात्रं मर्मग्राहि चक्षुरासीदस्य पिता, .."तयोश्च स्वर्ग गतयोरस्माकमयम्"। (सविपण्णस्मितं) पोताप- हरणप्रासंगिकीमत् हज्जाजस्यतां विज्ञप्ति तथा निराकुर्वद्भिरस्माभि- स्तस्य प्रतिक्रियां ज्ञातुं समुत्सुकै तद्रूतानुपदमेव यो विश्वसनीयः स्पशः प्रेपित आसीत्। स अस्यवान्तिके । अयं च प्रहरमात्रा- वशिष्टायामतीतायां रात्री राजधान्यामिहाऽऽगतोऽस्माकं दर्शन- मयाचत । एवं स्वयमकस्मात् तुरुप्कदेशादागतं विज्ञाय परं विस्मितरस्माभिः परित्यज्य शय्यां साक्षात्कृतोऽस्मभ्यं सर्वथाs- नपेक्षितं स्वप्नेऽप्यनुत्प्रेक्षितं वृत्तांतं तद्देशीयानां घटनानामकथयत् । आकर्य तं चकितरस्माभिर्विचारितं- युष्माभिरपि सर्वैः स श्रवणीयो विचारणीयश्च । एतदर्थमेव यूयं सर्वेऽत्राहूताः । तत्- अलं कालातिपातेन...। श्रावय महेशदत्त ! श्रावय सर्वं तव वृत्तांतं पुनरपि सविस्तरं आ प्रारंभात " सिंधु-कन्या २९ "स्वामिन् !"- प्रारभत स धर्षरया म्लेच्छप्रभावात् किंचिदशुद्धया वाण्या- "अतीतेषु कतिपयप्वेव वर्षेप्वहं महत् खलु परिवर्तनं यवनानां जातिधर्मेऽलक्षयम् । असुसूचमेव च स्वामीचरणयोः वारं वारं तेषां सामर्थ्यानुवर्द्ध मानां दिग्विजिगीपां, दिग्विजिगीपा- नुवर्द्ध मानां स- फलतां, सफलतानुवर्द्ध मानाममर्पणशीलताम् ।" "तेपामियममर्पणशीलता तुरुप्कप्रांतप्रशासकपद आरूढस्याल हज्जाजस्य प्रशासनकाले सांप्रतिके चरमा कोटिमारूढेव लक्ष्यते । शृगालेनेव धूर्तेन कालसर्पणेवाऽमर्पणेन व्याघ्रणेव साहसिकेन प्रशासनकुशलेन तेन सामर्थ्यस्याननुभूतपूर्व समुत्कर्ष लंभितास्ते निमित्तमेव क्षुद्रतममप्यभिलपन्ति अनानांताऽऽक्रमणाय"" अपरा- भूतपराभवाय"" अलुठितलुंठनाय ।" "अत एव- यदा स्वामी मकरांकप्रदेशात् पलायिताय साधारणाय तस्मै यवनसामंताय सानुचरं शरणागताय- क्षात्रधर्म- मनुसरन्,- अभयं प्रादात् तदा महान् खलु क्षोभः समुदभवत् तेषां देशे। तं च, कालवशात् किंचिच्छान्तं, पुनरपि तीव्रतरीचकार पोतापहरणप्रसंगः सः । साक्षात् अलहज्जाजोऽपि तं न्यक्कारमेव यावनस्य सामर्थ्यस्य भन्तुमधृष्णोत्, प्रेपितुं च स्वामिनः समीपे स्वं दूतमौद्धत्यपूर्णेन संदेशेन सह""। यदा तु स आध्मातशिरा: स्वामिनः न्याय्यं प्रत्युत्तरं तस्य दूतस्य मुखेन विदांचकार तदा क्रोधताम्र आरभत निरर्गलं प्रलपितुम् । प्रारभत च चेष्टामविच्छिन्नामधिगन्तुं स्वस्वामिन अनुज्ञामेतद्राज्याऽऽक्रमणाय ।" "दमिश्काधिपः, नात्युत्सुकोऽप्येतावद्रे स्थितं प्रवल- मेतद्राज्यमाक्रमितु, प्रादात्तामपारयन् स्वसेवकस्य स्वधर्माभिमानिनः कृतिनोऽनुरोध तिरस्कर्तुम् । "अशनिपातसंनिर्भा तो वार्ता प्रभुचरणोपजीवी दासोऽयं, तदहरेव, स्वामिना मत्समीपे संप्रेषितस्य तस्य गूढस्य पुरुषस्य मुखेन सिंघु-कन्या प्रेषयामास । कथं तु स्वामी तां, समतिकांतेप्वपि मासेप्वेतेषु, नाध्यगच्छत्- एतत्तु न परिकलयितुं पारयति बहु चेष्टमातोऽपि ।" राजकुलदेवतायतननिःसरद्देवतास्तुतिगीततरंगाभिभूय- मानापि विरराज एकछत्रं गहना नि:शब्दता तस्मिन् मंत्रणाकक्षे कतिपयक्षणपर्यन्तम् । अन्तः-प्रविशद्भास्वर-कर समाक्रम्यमाणापि च घना दुश्चिता। "प्राप्य च"- आर्द्रयन् शुष्कमोष्ठपुटमग्र उवाच स कृतकसार्थवाहः, "दमिश्काधिपस्यानुज्ञामारभत स अल्हज्जाजः सिंधुविजयाम सेनासंनाहम् ।" "अहो कपटपाटवं तुरुप्कप्रांताधिपस्य सौहार्दरादेशेना- नृतेनास्मान् वंचयमानस्य"- सहसाऽऽह महावलाधिकृतः । "स्मरन्निवातीतान् वैफल्ये पर्यवसितान् स्वप्रयत्नान्, स, आक्रमणमेतत् सफलोकतु बद्धपरिकरः, संख्यातीतानां धानुष्काणां खाड्गिकानां कौतिकानां सैनिकानां पदातिनामश्विनामौष्ट्रिकाणां युद्धप्रशिक्षणे न मनसि करोति धनव्ययं परिश्रमं वा, यावच्छक्यं परिहन् वृथा व्ययमवसरस्य कृतकमैत्रीसंदेशप्रेपणाजितस्य ।" "साहसमेतदपर्याप्तमिव मन्यमानो, दिगन्तानिय विजिगीपुः, पाश्चात्त्यं कंचिन्नदीबहुलं देशमपि विजेतुमुपक्रमत- इत्यपि मया कर्णोपकणिकया श्रुतम् । लोकवार्त्तया चानया यथार्थयव भाव्यम् । स्थलसेनाया इव हि प्रवलाया नौसेनाया अपि संघटने स व्यापृतचित्त इवावलोकित । असंख्याः किल पोता विशालकाया अनेकशृंगाः पापाणप्रक्षेपिकाभीपणा, अगणिताः किल कोलाः ह्रस्वशरीरास्तीव- गतयस्तस्याऽऽज्ञया निर्मीयमाणाः सुपरोक्ष्यमाणाश्च पारसिकसागर- तीरवर्तिषु तेषु तेषु पर्तनेषु,- श्रुता मया,- प्रशिक्षितैर्दक्ष विकः, साहसिकवलन्मार्गणप्रक्षेपकुशलर्धनुर्धरैः, विषाक्तपृषत्कवृतहस्तै- धनुष्मद्भिरधिष्ठीयमानाः।" सिंधु-कन्या "परंतु- स्वामिन् !"- क्षणमेकं विरम्य पुनरवदत् स स्वामिभक्तो गूढः पुरुषः, “वलवत्तरमप्येतत् सेनावलमल हज्जाजस्य न तथा मां विक्लवयति यथतस्य संचालने पुरुषविशेपं नियुंजानेन तेन प्रदर्शित चातुर्यम् । महासागरविशालस्याऽपि सुघटितस्यास्य बलस्य सचालकत्वेन तेन नियुक्तः पुरुषो योणां सहस्रषु लक्षेपु नूनमद्वितीयः । तस्य साक्षाज्जामाता... महाप्रमाणो वृपस्कंध ऊर्जस्वल उरसिलोऽनुकामीनः सांयुगीनः जित्वर." कासीमसुतो मुहम्मद बलमेतच्छतगुणित-बलं करोति । प्रभंजनस्येव सर्वभंजक- स्यापि दावानलस्येव सर्वदाहकस्यापि प्रलयकल्लोलस्यैव दुप्प्रसह्य- वेगस्याप्यस्य यून' रणचातुर्य न तथा मा विह्वलयति, यथाऽस्य चारित्रम् । तरुणोऽपि विदग्धो, मितभापी, समर्थोऽप्युदारहृदय, ऐश्वर्यसंपन्नोऽपि जितेन्द्रियः, जिष्णुरप्यधष्णु/रोऽयं युवा, प्रसारार्थमिव यावनस्य धर्मस्य नियत्या सर्वतंत्रस्वतंत्रया जगद्रंग- भूमावतारिती, मन्ये, पुरातनस्यास्माकं भारतवर्षस्य दुर्भाग्योदर्को दुर्धरः । वारं वारं विचारयन्नपि न खलु संभावयामि कमपि भारतीय युवानं राजानं. अनेन तुल्यव..." "... केन खलु मार्गेण रौद्रमेतदाक्रमणं संभव ?- अपि भवता ज्ञातं किंचित् ?"- सहसाऽपृच्छदुत्तेजिता सिंधुराजकन्या। "आम् !"- प्रत्याह क्षणमात्रं मूकः सः स्पशः । "ज्ञातं मया राजधान्याः पण्यवीथिपु सैनिकनाविकधनुर्धरयोधृजनसकुलासु यद्विशाला सा यवनसेनाऽतिक्रम्य गांधारप्रदेशं स्ववशवदं भारत- वर्षस्योत्तरपश्चिमदिशि विराजमानस्य नगाधिराजस्य हिमालयस्यो- पत्यकानां मार्गेणाऽस्मान् समाक्रमिप्यतीति निश्चितप्रायम् ।" "परंतु- आक्रमणस्यायं मार्गस्तया गृहीतपूर्वः । अनुभूतश्च पराभवः"- मंद मंदमवोचत् धीसचिवः । "पराजयस्तु तस्या अस्मिन्नपि समये निश्चित:,"- पुनरुज्जीवित इव प्राह सिंधुराजः । "दुर्गमोगांधारप्रदेशः स्वाभिमान- सिंधु-कन्या धनक्षत्रियवहुलः सद्य एव म्लेच्छेन तेन विजित उद्वृत्तो गोभक्षकाणां सेनां सांसर्गिकरुजामिव सर्वान् वाधमानां- कापुरुपदेशवत्-निष्क्रियः सहेत इत्येतदसंभाव्यमेव ।" "अपि च, स्वामिन् !"- अवदत् प्रस्फुटितवाक् महावलाधि- कृतः,"मार्गमेतमनुसृत्य प्रवहन्त्याःरिपुवाहिन्या:प्रथमस्य भीषणतमस्य कल्लोलाघातस्य लक्ष्यीभविष्यति काश्मीरराज्यं, नास्माकं राज्यम् ।" "काश्मीर राज्यं. मित्रराज्यमस्माकम् । गर्विष्ठोऽपि काश्मीरराजश्चंद्रापोडोऽस्माकं सुहृत् । तत् अस्माभिः सत्वरमेव प्रबोधनीयः परचक्रसंकटस्येतस्य विपये"- प्रत्युवाच गंभीरमुद्रः राजा दहरः। "परंतु- यदि रिपोः हिमवन्मार्ग एवाभिप्रेतः" साशंकं जगाद तदुहिता "तहि किमिव प्रयोजनं तस्या विशालायाः नौसेनायाः संघटनस्य ? "निवेदितमेव तन्महेशदत्तनानेन"", पाश्चात्त्यस्य कस्य- चिनदीबहुलस्य देशस्य सांगरमार्गेणाऽऽक्रमणं"- प्रत्युवान तस्याः पिता । "अहो विधेरनुकूलता,- पद्रिपुरनुभूतपूर्व वैफल्यं विस्मृत्य पुनरपि तेन दुर्गमेण हिमवन्मार्गेणयाऽक्रमितुं कुचेष्टते....! अस्मद्- वशंवदेन औदीच्येन सिंधुदेशभागेन रक्षितपाणि: क्रुद्धाऽस्माकं सेना, काश्मीरनृपतेरनुज्ञया हिमवत उपत्यकाप्रदेशेष्वेव रिपुसेनया कृतसंघट्टा, तामचिरादेव निरुद्धगतिका - क्षतविक्षतां कांदिशीकां विदीर्णा नामशेषां नूनं करिष्यति ।" "तद्विधूय भयजाड्यं समुत्तिप्ठत, जागरयत काश्मीर- नरेशं दुर्लभकतनयम् । वोधयत समस्तं भारतीयनृपमंडलम् । वनीत परिकरं रणप्रयत्नाय।" सिंधु-कन्या ३३ "अदृष्टं खलु केन दृष्टम्? कदाचिदियं विपत्तिः, सैधवान् सुपरीक्ष्य समुत्कर्षस्य परमोच्चे शिखरे स्थापयन्ती, संपत्ति- रूपेणैव पर्यवस्येत् ।” वदंश्चैवमुदतिष्ठत् सिंधुराज आवेशप्रस्फुरद्भुजदण्डः रणावेशोच्छ्वसद्वक्षःकपाट आरक्तनयनो, वृद्धो वनराज इव मदोत्कटमतंगजघनघटाऽऽक्रमणोद्यतः प्रस्फुरत्केसर:- ससंभ्रम- मुत्तिष्ठद्भिः मंत्रिभिः सादर दुहित्रा च कौतुकस्मेरयाऽपि चिताम्लान- नयनकमलया विमनस्कयाऽवलोक्यमानः । ...."प्रत्यागततारुण्य इव तात, एतान् दिवसान् समा- शंकितस्य परचक्रस्य प्रतीकाराय प्रतिक्षणं प्रयुनक्ति स्वात्मन उत्साहशक्तिम्"- अचिंतयत् सिंधुराजकन्या एकदा सायंसमये प्रासादाट्टालके सुखं निपण्णा, पश्चिमदिगङ्गणे प्रसृतामस्तंगतदिनकर- प्रभामुत्तप्तकांचनभासुरामनिमिपदृष्ट्याऽवलोक यन्ती.... एकाकिनी। "निपंगिणां कृतपुंखाना, व्यूढकंकटानां पदातिकानां शाक्तीकानां, कौतिकानां सादिनां, मदकलानां युद्ध- प्रशिक्षितानां वारणानां सुतीक्ष्णदन्तानां कुशलहस्तिपकनियंत्रितानां संग्रहणे संघटने प्रशिक्षणेऽहोरात्र व्यापृतः न मनसि करोति परिश्रमखेदं वयोऽवस्थासुलभम् । मूर्त पराक्रममिव सर्वान् स्वोत्साहतेजसा समुद्दीपयन्तं तमवलोक्य स्मारिताऽस्मि वारं वारं तेपामतीतानां दिनानां, येप्वहं नवकिशोरी तं सुधाफेनवलं कृष्ण- तिलकभूपितभालपट्टमश्वकमारुह्य तमनिच्छन्तमपितेपु तेप्वान्तरिको- पद्रवप्रशमनप्रयाणेपु हठादन्वसरमिच्छन्तीव तस्य परिश्रमभारं तस्य चिताभारं संविभज्योपभोक्तुम् ।" "चिरात् खलु तं राजोचितां प्रकृतिमेवमापन पुनरवलोक्य तृप्ति नु मम दृष्टिरनुभवति ।" "न तु मम मतिः । न जाने किमिति परंतुप्रतिक्षणमनुभवति मम प्रेक्षाऽतृप्तिमिव । तातं तांस्तान् भारतीयांन् नृपान् परचत्र- सिंधु-कन्या ३४ निवारणार्थ सवहुमानं जागरयन्तं, सेनावलसंवर्द्धनार्थमनवरतं प्रयतमानं, प्रशिक्षितान् सैनिकान् काश्मीरराज्यसीमावतिषु औदीच्येषु सिंधुराज्यकटकेषु संघट्टयन्तं, नातिदूरदशिनं काश्मीर- नृपमासन्नप्रायस्य यवनाक्रमणस्य विषयेऽसकृत् प्रवोधयन्तं,- समवलोकयन्ती मम धीरनक्षरं कथयतोव मां तं प्रबोधयितुम् । मन्ये- तातो गूढपुरुषेण तेनोपाहतायां वार्तायामेकांतभावेन विश्वसिति । विनिश्चित्याऽत्मनैव- यद्यावनमाक्रमणं हिमवन्मार्गेणैव संभवीति- तदन्यान् मार्गान्, यवनाक्रांतेन मकरांकप्रदेशेन संलग्नां स्वराज्य- सीमामपि, समुपेक्षते । समुपेक्षते च संभावनां तस्या विशालाया नौसेनायाः सिंधुसागरेऽपि प्रयोगस्य । वाह्यसंकटप्रतीकारव्यग्नोऽव- धीरयति संभाव्यमाभ्यंतरविद्रोहसंकटम् । न किंचिद्गणयति सद्योविजितान् विमनस्कान् दाक्षिणात्यान् तांस्तात् सामन्तान् विलुप्तराजाश्रयान् सनातनार्यधर्मविद्वेषिणः श्रमणकसंघान् वा... उपजापसहान् ।" "किं करोमि ? संग्रामसंनाह एवं महतोत्साहेन संलग्नस्य तस्य बुद्धिभेदमपि कतुं नोत्सहते मम हृदयम् । धृष्णोति वा मम मानसम् । तटस्थतया सोडुमपि तस्येममैकान्तिकं प्रतीकारव्यूह नानुमोदते मम मति:... किं करोमि ?" "अथवा- तातमापृच्छ्य, समरसंनाहव्यग्रचित्तेन तेनानुज्ञाता, भ्रामा जयसिंहेन सहिता, प्रस्थायेतः, देवलनगयां प्रणम्य कुलदेवतां मकरसंक्रान्तेः पावनावसरे, तदुर्गपालकेनानुभववृद्धन शीलभद्रेण विचक्षणेन सह मंत्रपित्वा, तत्परामर्शसमृद्धा, ततः राजधानी प्रतिनिवर्तमाना, भ्रातरं वजवाहुं शिविस्थानदुर्गऽनायासमिव साक्षात्कारप्यामि । तेन सह समीक्ष्य विगतघटना विहंगमदृष्ट्या, परीक्ष्य क्षुद्रतमान्यपि संसूचकानि चिह्नानि, समुत्प्रेक्ष्य शत्रोः सुगूठमपि मनोगतं, सुविचार्य कर्तव्यं, सति प्रयोजने- तेन सह राजधानी प्रत्यागता, तातं बोधयितुं प्रयतिष्ये । मद्वचनं संशयविलसित'- मित्युपहसन्नपि तातस्तस्य वचनं नावधीरयेत् । सिंधु-कन्मा महान् खलु तातस्य तस्मिन् विश्वासः । प्रबला च तत्परामर्श तस्याऽऽस्था । अत एव तेन सः शिविस्थानसदृशे, सामरिकदृष्ट्याऽ- तिमहत्त्वशालिनि, दाक्षिणात्यस्योवृत्तस्य सिंधुराज्याई भागस्य मर्मवतिनि, स्थले दुर्गपालकत्वेनाधिकृतः।" विनिश्चित्य चैवमात्मना सह, अपरेधुरेव, प्रात:"", मंत्रणागृह उच्चावचैः सैनिकरधिकारिभिः सह चर्चायां व्यापृतं पितरं देवलदेवीदर्शनानुज्ञामयाचत... अधोदृष्टि: । श्रुत्वा तदनुरोध किंचिद्विस्मितेन, क्षणमात्रानन्तरं 'कुलदेवतानुग्रहं यियाचिपते नूनमियमस्मतकल्याणायेति, समुत्प्रेक्ष्य सहसा स्मेरवदनेन, कौतुकोत्फुल्लवृद्धनयनेन तेनानुज्ञाता, तदहरेव, अपारयतीव तस्या इममुद्यम फल्यमापर्यवसायिनमवलोकयितुं पश्चिमांबुनिधी निमज्जति भगवति प्रभाकरे मंदप्रभे, सितकरकरधवलवेपा महाहरल्लकाऽऽवृतोत्तमांगा, कैशोर्यमतिकामितुं 'बद्धपरिकरेणोद् भिद्यमानश्मश्रुरोमशचिवुकेनाऽऽ रज्यमाननयनकमलेनानतिपुष्टवपुपा विनीतेनापि स्वाभाविकप्रभावातिशयानुल्लंघनीयेन विहाय चांचल्यं कैशोर्यसुलभं गांभीर्यं युवराजपदोचितं प्रतिपत्त प्रयतमानेन शस्त्र- विद्यायां पारं जिगमिपुणा महता कौतूहलेन राज्यकार्येषु तेषु तेषु स्वावधानं ददता महतोत्साहेन रणोद्यमेऽभिरुचि प्रकटयता पितृ- भक्तेनाऽपि ज्येष्ठां भगिनीमेव बहु मानयता तामेव सर्वदाऽनुसरता तस्या एव वचनमनुपालयता क्षात्रतेजोभामुरेण युवराजोचितवेपेण भ्रात्रा जयसिंहेन सिंहशावकेनेव प्रस्फुटबलदुर्धर्षेण सहिता, सशस्त्राङ्गरक्षकानुगम्यमाना, समाक्रम्य कंचिदध्वानं प्रियण स्वतुरङ्गमेण जवनेन, समारुह्य च हंसवदनामग्रमंदिरां शोभनां नौकां राजकीयां कुशलनाविकां. सिंधुवाहिन्या मार्गेण देवलनगरी प्रातिष्ठत । उह्यमाना च सागरसमागमसमुत्सुकयेव क्वचित् प्रवल- वेगया, अन्तःप्रस्फुरद्विविधसंकल्पयेव क्वचिदुत्तरगया, मनोरथ- निमग्नयेव क्वचिनिःशब्दया तया सिंधुसरिता, दोल इव लालनचंचले 'सिंधु-कन्या प्लवे तस्मिन् रात्रौ तारकितायां विश्रब्धं सुप्ता, महति प्रत्यूपे प्रबुद्धा, बहिरागत्य मंदिरादासन्यां सुखमुपविश्यारुणोदयशोमा सूर्योदयसुपमा च निनिमिपया दृष्ट्या लोकमाना, मध्यं गगनस्याध्यारूढेऽपि नातिचंडकिरणे चंडकिरणे कृताधोपशमना, मात्रा सह किमपि किमपि जल्पन्ती' प्राप... अपराह्लकाले, विश्रमितुमिव पश्चिमा- चलकंदरासुप्रविविक्षत्सुपरिश्रोतेषु विषमाश्वाश्वेपु, पश्चिमाशाचुंवि- भास्करकर-संस्पृप्टेन, स्वतेजसेव चकासता,सौवर्णेनदेवलदेवीमंदिर- कलशेन संसूचितसंनिवेशां मंदसागरसमीरदोधूयमानया मंदिर- पताकया तजयन्तीमिव गोभक्षकानतिविस्तृतस्य सिंधुनदीमुखस्य पाश्चात्यै रोसि विराजमानामन्तः-प्रविशद्विविधमहाप्रमाणसाग- रिकपोतव्याकुलाकुलतीरप्रदेशां भारतविख्यातां देवलनगरीम् । कृतस्वागता च सानुचरेण दुर्गपालेन वृद्धन शीलभद्रेणा- नुमाय विशिष्टाऽऽवेशिकागमनं दूरादृष्टेन तदुडुपध्वजस्तंभचंचलेन राजकीयेन ध्वजेनादित एव रोधसि समुपस्थितेन, समारुह्य सादरं समुपस्थापितां शिविका हंसवदनां रजतघंटिकामधुरनिनादिनी भ्रात्रा सह, चचाल कुलदेवतायतनमन कपशिखरं समुद्दिश्य । प्राप च- सस्मितं स्वीकुर्वाणा प्रणामान् परित्यज्य स्वं स्वं कार्य राजमार्गस्य पार्श्वयोरेकनभूतानां सकौतुकमवलोकयतां जयजीवेत्यादिशब्द- मुखराणां नागरिकाणां, समतिक्रम्य नातिदीर्घमपि जनसंमदेवशा- दीर्घदीर्घमिव भासमानं पन्थानं, समारुह्य समुद्रभूतलोकमिता धवलपापाणसोपानतति धोरचपलया गत्या- देवतायतनप्रांगणमति- विशालं सद्य:प्रज्वलितप्रांतवर्तिदीपस्तंभचतुष्कप्रकाशितविशेष कटिप्रमाणया कृष्णशिलाभित्तिकया बद्धपरिसरं सद्य:प्रारब्धेन प्रहण्यमानपदहनिनादगंभोरेण वाद्यमानझरमधुरेण सांध्यपूजा- स्तवगीतेन पावनेनाऽऽरुह्य सायंसमीरसहरी: सर्वत्र घनीभवत्तमोऽ- भिवभूपयेव प्रसरता निनादितम् । प्रक्षालितचरणारविंदा च, प्रविश्य भावुकजनकृतसंमद विशालं सहस्रस्तंभ संबमानकाचदीपभांडभासुरं प्रसरळूपवल्लरी- सिंघु-कन्या सुवासितं कंठसहस्रनिःसरद्-भक्तिगीतमुसरं सभामंडपं, जनसमर्दै निःशब्दं पुरःप्रसरद्भ्यां रजतदंडधराभ्यां सेवकाभ्यामुपदिश्यमान- मार्गा, प्राप सोवणं गर्भगृहद्वारम् । साक्षाच्चकार च बद्धप्रणामांजलिः प्रशांतघृतदीपप्रकाशितां नयनाभिरामा स्त्रीप्रमाणां धवलदुकूलाऽऽ- वृतविग्रहां प्रत्यप्रककुमचचितभालप्रदेशां देवच्छन्दविभूपितवक्षःस्थला प्रसन्नामभयमुद्रां हेमकिरीटिनी हीरककुंडलिनी मूर्ति कुलदेवतायाः स्फाटिको विकसत्सुमनोहारमनोहारिणीम् । तन्मुखकमलरसपाननिरतलोचनचंचरीका ततस्तुतिगीत- लुब्धश्रवणा च भक्तिप्रहण भावातुरेणान्तःकरणेन मातु: सर्वसंकट- शमनमाशीर्वचनमयाचत । न त्वलभत लेशतोऽपि संकेतं जगज्जतन्याः कृपासूचकम- भयप्रदम् । साक्षात्कृत्य सहसा प्रार्थनावैफल्यमनभ्रवचपातदग्धेव विगलितचैतन्येव निष्क्रांतप्ररणेव क्षणमेकं प्रस्तरमूतिरिव जडाऽतिप्ठत् । लोकोत्तरत्वात्तु सत्त्वस्यापरस्मिन्न व क्षणे संनियम्य स्वात्मानं विजित्य नैराश्यं प्रकृतिस्थमिवाऽऽत्मानं दर्शयन्ती, स्मारयंती स्वमानसं महर्षेस्तस्योपदेशस्य निष्कामकर्मप्रतिपादकस्य, समय पुष्पांजलि, परिगृह्य देवताप्रसाद, देवतायतनाद्वहिनिगंता, तदनु- सारिणा तर्दिगित परिज्ञाय समुत्सारितपरिजनैनानुभूय भर्तृ दारिकाया वास्तविकी मनःस्थिति गंभीरेण वृद्ध न देवलदुर्गाधिपेन सह परिसर- प्राकारे तत्र तत्र निर्मितानामासनानां विस्तृतानामन्यतम उपविष्टा, सुचिरमवलोक्यान्यमनस्कतयाऽधःप्रसृताया धवलविरलनशमिहिका- पटलाऽऽच्छन्नाया अस्फुटस्फुरद्दीपपरंपराया:- शशिशुनकोशेयक- प्रावृताया ईपल्लक्ष्यमाणदैदीप्यमानरत्नाभरणाया: सागररोधसि सुखं प्रसुप्ताया अमरावत्या इव- देवलनगर्या रामणीयक, दीर्घ निःश्वस्य, प्रवुद्धव विचारतंद्रायाः, शीलभद्रं, विमनस्कतया पूर्वक्षितिजोदितां ३८ सिंधु-कन्या तारकामेकां क्षीणप्रभां ध्यायन्तं, सर्वं वृत्तान्तं कथयितुमारभत मंद्रेण स्वरेण । आह चान्ते- ".."एवं समुपैश्यान्यान् पर्यायान् आक्रमण- मार्गस्य, सीमाप्रदेश औदीच्य एव वलसर्वस्वं स्वं संघटयतस्तातस्याभि- निवेशं वीक्ष्य दुःशंकयाऽनामिकया वेपत इव मम हृदयम् । यदि नाम रिपुः, शृगाल इव धूर्तः, सहसाऽन्येनैव मार्गेणाऽऽकामेदस्मान् तहि कि वयं....? अपि चितयति भवान् यत् स एतस्य सिंधुसागरस्य मार्गेणाभिभवेदस्मद्देशम् ? अपि नाम शक्यमेतादृशमाक्रमणम् ?" "..."न शक्यं सुनिश्चितं किमपि वक्तुम्"- उवाच दुर्गपालः सचितो, व्यापारयन् क्लाते लोचने नातिदूरवर्तिनोऽपि धनमिहिका- स्तरणाऽऽच्छादिततयाऽलक्ष्यप्रायस्योच्चावनौशृङ्गदंडावलंविदीपभांड- संसूचितसंनिवेशस्य मंदेन लवणेन समीरणेन कदुष्णेन मत्स्यगंधिना व्यक्तस्य सागरस्याऽऽजन्मनः परिचितस्य दिशि । "एतावत्कालपर्यन्तं सीमाप्रहरिणमेतं समुल्लंघ्य न प्रायत्यत केनापि दुःसाहसिकेनेमां पुण्यभूमिमात्रमितुम्"। परंतु अनागतं केन दृष्टम् !" "सामरिकदृष्ट्या च कुतो न शक्यम् ? परमसाहसिको दृढनिश्चयः कल्पनाचतुरः कोऽपि संवद्ध यं नौवलं प्रवलमनेन मार्गेणाऽs- अमितुं शक्नुयात् । सांप्रतिक उदीच्यभिमुखो वेगवान् सागरसमीर- प्रवाहोऽभियानस्यतादृशस्यानुकूल: । अत एव- भर्तृ दारिकामुखेन निशम्य तं गोभक्षक नौकावलसंवर्द्ध नव्यापृतं चिंताकुलोऽस्मि संवृत्तः। परंतु- भर्तृ दारिकव कथयति यत्तस्य वलस्य लक्ष्य कोऽप्यन्यो देशस्तः सद्योविजितोऽसकृदुवृत्त इति ।" "स गूढः पुरुषः एवं कथयति"- शुशोध भर्तृ दारिका । पप्रच्छ च- "यदि नामाघटितं घटेत यदि नाम रिपुः मार्गेणानेनाs- 'अमितुं चेप्टेत तहि अपि भवान् तस्याऽऽक्रमणस्य प्रतिरोधने समर्थः ?" - सिंधु-कन्या , "न"- तत्क्षणमेव प्रत्यवदत् सः । “स्थानमेतत्, प्रथम तावद्देवतायतनस्यास्य प्राचीनतमस्य माहात्म्येन समस्ते पश्चिमभारते प्रसिद्ध, शनैः शनैः सिंहलद्वीपादथवा गङ्गासागरपर्तनेभ्यो गृहीत्वा चंदनादि वहुमूल्यं भारतीयं ऋय्यवस्तुजातमादौ रोमकसाम्राज्य तदनंतरं यवनसाम्राज्यं समुद्दिश्य प्रवसतां पोतानां भारतीयानां म्लेच्छानां वा यवनसागरादर्वाचीनं विश्रांतिस्थान मिति पेयस्वादु- जलसंग्रहणस्थलमिति च ख्याति देशविदेशप्रसृतां प्राप्तम् । भारत- वर्पस्य पाश्चात्त्यमंगमाप्लावयन्त्या मातु. सिंधुनद्या मुखमित्यपि समवद्ध तास्य महत्त्वम् ।" "अधुना तु- तदेव सर्वातिशायि । परंतु- नात्युत्प्रेक्षित- त्वात्तस्य नगरमेतदकृतस्वसंरक्षणोपायमेव वृद्धिमेतावती प्राप्तम् । नहि कोऽपि प्राकारः कुंडलयत्येतत् । न वा परिखाजलप्रवाहः । क्षुद्रमपि संकटमैतया दिशाऽनुत्प्रेक्षयद्भिः सिंधुराजरेतावत्कालपर्यन्तं रक्षणायास्य न सैनिकबलं पर्याप्तमत्र नियुक्तम् । न वा नौवलम् । वाणिज्यसुविधामेव मनसि कुर्वद्भिः श्रेष्ठिभिरापणा अपि स्वीया आमुखसंमुखीना एव क्लृप्ताः। किं बहुना, समृद्धमेतन्नगरं- सुपक्वं रसालफलमिव ध्वाक्षविच्छिन्न-रिपोः प्रथमेनैव प्रहारेण विशीर्णता यास्य." "अपि नाम भवता परिलक्षिता एषु मासेपु काश्चिद- साधारणाश्चेष्टाः म्लेच्छानामस्मिन् पर्तने"- अपृच्छत् सहसा राजदारिका। - "नव तावत्", प्रत्यवदर्दुर्गपालः । "प्रत्युत- मासैरेभिर्य- वनानां, स्वभावत एव रोखतानां- सार्थवाहानां नाविकानां वा- व्यवहारे सुखदमैव परिवर्तनमस्माभिरनुभूत... स्नेहसिक्तं शालीनं च....! अहो ! अदृष्टपूर्वा विशाला वाणिज्यपोता यवनानां, सिंधु- सागरादेतत्पर्तनदिशा समापतन्ती मध्यसमुद्रं तिष्ठन्तोऽस्माकं पतनकर्मचारिमिः निवेदिता अतीत एवाहनि । श्रूयते नाम यद्वंग- सिंधु-कन्या पर्तनानि समुद्दिश्य प्रवसन्तस्ते स्वादुजलसंग्रहणार्थमत्र विश्रांता इति ।" "भर्तृ दारिके !"- उपसंजहार स वृद्धः स्वामिभक्तः । "यद्यपि नगरमेतदरक्षितप्रायं वणिक्प्रधानं च तथाप्यैतत् सुनिश्चितं यदेतस्य निवासिनो देव्याः परमभक्ताः स्फुटितायां परचक्रविपदि सर्वस्वं स्वं तृणीकरिष्यन्ति तीर्थस्थानस्यतस्य प्राचीनस्य रक्षणार्थ गोभक्षकाणां स्पर्शदोपात्। (दीर्घ निःश्वस्य) अयमेवास्माकं श्रेष्ठः संरक्षणोपायः सांप्रतिकः ।" सिंधुराजकन्या तु समाकर्ष्यानुभवगरिप्ळं वस्तुनिष्ठं निवेदनं दुर्गपालस्य चिंताग्नस्ताऽधीरा साक्षात्क वज्रबाहुं, समुत्सुका तेन सह तात्कालिकान् संरक्षणोपायान् विचारयितुं, निराकृत्य शीलभद्रस्य सादरमनुरोधं यापयितुं तत्र निशां, तस्मिन्नेव क्षणे ततः प्रस्थातुं कृतनिश्चया, प्रणता कुलदेवतायाश्चरणारविंदयोरनभिज्ञा 'पश्चिममेतद्भगवतीदर्शनमेतस्या' इति मनसिकृत्य कटु स्मयमानाया नियत्याः, उन्निद्रेण गंभीरेण भ्रात्राऽनुगम्यमाना, ततो निर्गता, जनशून्येन प्रसुप्तप्रायेण राजमार्गेण प्रतिन्यवर्तत स्वां नौकां सिंधु- रोधसि विश्रांताम् । आपृच्छ्य च विनम्रमनुगच्छतः, रात्रिविश्रामार्थं सकृद- नुरुध्य मूकोभूतान्, सचितान् दुर्गपालादीन् राजपुरुषान् प्रधानान्- प्रातिप्ठत स्वं ज्येष्ठं भ्रातरं द्रष्टुम् । . उह्यमानाच प्रवाहातोपगामिन्या मंथरयाचिताभारभुग्नयेव तरण्या, विश्रांताऽपि शय्यायां विनिद्रा, विमनस्कतया प्रेक्षमाणा नौमंदिरवातायनाद्वहिरीपल्लक्ष्या मूका निश्चला घनीभूतनंश- तिमिरभित्तीरिव पादपपंक्तीः, यामेंतिम त्रियामायाः, प्रातःसमीर- चुंब्यमानतप्तलुलितालकललाटपट्टा मुकुलितनयनोत्पला निद्रांक- निलीना- तुलयितुमिव प्रतापं स्वं तस्या ज्येष्ठधातुः प्रतापेन सह - सिंधु-कन्या अवलोक्य तन्महाद्वारं पिहितकपाटं पुरःसमुपसृतैरङ्गरक्षक- रनुप्रवसद्भिरसकृत्प्रहतायां लंवमानायां घंटायां, चिरात् खलूपद्वार- वर्तिनो गवाक्षस्य समीप आविर्भूतः, निरीक्ष्य सुचिरं प्रत्यभिज्ञाय साक्षाद्राजकन्यां स्वयमागतां ससंभ्रमः दुर्गरक्षकर्महता प्रयासेन प्रोद्घाटितेन महाद्वारेण दुर्गान्तःप्रविष्टा, समवलोक्य मंदे दीपप्रकाशे चिंताम्लानाः मुखाकृतीः मुकुलितहस्तं तदभिवंदनार्थमुपस्थिताना दुर्गाधिकारिणामुच्चावचानामनवलोक्य च तेषां मध्ये भ्रातरं तस्याः स्वागतार्थं समुपस्थितं विस्मिता दुश्चिताग्रस्ता तदनामयमपृच्छत् । विज्ञाय च तेभ्योऽघोवदनेभ्यस्तं दुविज्ञेयव्याधिग्रस्तं, तस्मिन्नेव क्षणे चचाल तं द्रष्टुं जयसिंहेन सह । सिघु-काया तृतीयः परिच्छेदः उपदिश्यमानमार्गा च सहायकेन दुर्गाध्यक्षेण, समतिक्रम्या- ऽऽभ्यंतरं विस्तीर्ण चतुष्कोणं प्रांगणं शिलाखचितमश्वगोष्ठनिबद्धो- भयपावं शस्त्रागारं च सशस्त्रप्रहरिपरिरक्ष्यमाणं, विवेश प्रासादं भ्रातुः, निपिद्ध्य च द्वाररक्षकं तदागमननिवेदनोद्यतं, सेवकेन केनचिनिःशब्देन प्रशितेन पथा तस्य विश्रामकक्षमुपससार । कृतप्रवेशा च मंदप्रकाशे पिहितवातायनकपाटे नि:शब्दे निवाते तस्मिन्, समवलोकयामास तं स्फाटिक्यां महार्हधवलचीनांशुका- वृतायामासन्द्यां 'श्रांतमुपविष्टमुनिद्रयाऽऽरक्तया तप्तयेव दृष्ट्या - निमिपया ध्यायन्तं प्रज्वलद्दीपज्योतिरारक्तगौरवर्ण प्ररूढश्मश्रुजालं क्षामम् । सस्नेहं तदभिवादनवचः श्रुत्वा तस्मिन् नि:स्वने विशाले कक्षे सहसा गुंजत्" चकितचकितं व्यावतिताननं तेजोविहीनाभ्यां क्षणमेकमशक्नुवयामिव तांप्रत्यभिज्ञातुं क्षणमायानन्तरं प्रत्यभिज्ञाय तो प्रत्यागतचेतनाम्यामिव हर्षविस्फारिताभ्यां लोचनाभ्यां तां पिबन्तं, झटिति समुत्थाय प्रसार्य वाहू स्वागताय पुर आगच्छन्तं तं हस्ते गृहीत्वा तस्यामेवाऽसन्द्यां सबहुमानमुपावेशयत् । अपृच्छच्च कुशलमजानतीव किंचिदपि । ४४ सिंधु-कन्या स तु- अविश्वसन्निव स्वां दृष्टि- तस्याः कमलदलकोमलं करं वचकठोरे स्वकरपुटे दृढं दधानः, समाकर्ण्य तस्याः कुशलप्रश्न मूकः, कतिपयक्षणानन्तरमस्फुटाक्षरमवदत्- "कुशलं.। शरीरस्य ! "न तु मनसः""" अतीतेन मासेन- न जाने किमिति- मम मानस- मननुभूतपूर्वसदृशयोत्तेजनया निष्कारणया भीत्या निराधारया खिन्नतया प्रतिक्षणमाक्रम्यमाणं कृतेऽपि भागीरथे प्रयत्ने स्वाभाविक प्रसादं कथंचिदप्यलभमानं जीवितं मम दुर्वहं करोति निरामयोऽपि, तेषु तेषु कार्येषु यथापूर्वं व्यग्रोऽपि, न खल्वनुभवामि जिजीविषां लेशतोऽपि विशेषतो दिनात्यये । ""यथा यथा ह्यत्ययमुपैति दिनस्तथा तथा वर्तते मम उत्तेजना ज्वलयन्तीव ममान्तःकरणं, मम भौतिः निरुच्छ्वासमुपमर्दयन्तीव मम हृदयम् । युगदीर्घोs- त्यति मम निमेपोऽनिमिपः नैशः । एकाकिनः, शून्येऽस्मिन् विश्राम (?) कक्षे ध्यायत एतद्दीपज्योतिः निरद्देश्य, प्रसुप्ते वा दुर्गे परिभ्रमतः निष्कारणं, दिजने वा जनपदे संचरतः निष्प्रयोजनं, मम निशा- कालनिशेव- अनंता नु विभाति । निशम्य क्षुद्रतममपि ध्वनि, समवलोक्य साधारणामपि छायां, सहसा भयेनानामिकेनाऽऽक्रम्य- माणस्य मम- ब्राह्मणस्याऽपि क्षात्रबलदुर्घर्पस्य-वजवाहोरियमवस्था (मया लोकापवादपरिजिहीर्षया यावच्छवयं गोपायिताऽपि), मन्ये, मद्भालदर्शिनामधिकारिणां-किंबहुना साधारणानां सैनिकानामपि- दृक्पथमवतीर्णव । दृप्टा हि मयाग्नेकदा तेऽशांतस्वांता गाहितुमिच ममान्तःकरणे जिज्ञासातीव्रया स्वदृष्ट्या प्रयतमानाः, परिहृत्य ममावधानम् "। शरीरेण सर्वथा कुशली- भिषग्वर्यमपि कमपि न साक्षात्कर्तुमुत्सहे"! (सहासम्) अथवा- भिपग्वर्याः सर्वविध- चिकित्सापारङ्गता अनाहूता एव अत्र अव समुपस्थिताः । तनास्ति चिंताकारणं किमपीतःपरम्। मन्य- निदानमपि कृतं स्यादेतावता कालेन भिषग्वर्याधेः ! , ""अपि ज्ञातुमर्हति.. आतुरस्तत् ?" "कृतं निदानम्"। विचारितमौषधम्"। निर्धारितं च पथ्यं" सहासमवदत् तस्य स्वसा, गूढ चिंताग्रस्ताऽपि तस्य तामवस्था सिंधु-कन्या ४५ विज्ञाय प्रकटं प्रयतमानाऽऽत्मानं निश्चितं दर्शयितुम् । “परंतु- तदोपधं तत्पथ्यमातुरस्यार्धाङ्गिन्या 'सुखदुःखयोरद्वैतया' स्वात्मजेन वाऽग्रजेन दत्तमेव प्रभावं स्वं निरतिशयं दर्शयतीति साक्षात् स्ववैद्ययोरभिमतम् । तत्... श्व एव रुग्णोऽस्माभिः सहाऽऽलोक- नगरी प्रस्थास्यते, लप्स्यते चाऽऽरोग्यमनन्यसदृशं कतिपयै- रेवाहोभिः।" "परंतु"-प्रारभत तद्भ्राता। "अनुल्लंघनीया भिषग्वर्याणामाज्ञा"- सस्मित दृढस्वरमाह राजदारिका। "अस्तु तावदेवम्"" । परंतु त्वमेवं"" अकस्मात् कथ- मागता"- पप्रच्छ राजकुमारः। आकर्ण्य तं प्रश्नं पुनरुद्भूतानिष्टाशंकाघ्राच्छन्नमुखचंद्रा देवलदेवी क्षणमेकं विचार्य स्वात्मनैव विनिश्चित्य च तं सर्वमपि कायतुं- ऋते दुःस्वप्नान्महः भविष्यत्कथनाच्च- समग्रं तं वृत्तांत तस्मै न्यवेदयत् सावधानाय विलुप्तस्मिताय व्यग्राय चिंतामग्नाय । विरतायां च तस्यां विन्यस्य स्वचिताभारं बलवतो: स्कंधयोः संजातोच्छ्वासायां, व्यावयं दृष्टि तस्या वदनकमलात, निवघ्नन् तां चिंताजड इव स्थिरे प्रदीपज्योतिपि, प्रत्युवाच शनैः शनैः राजकुमार:- "अल्हज्जाजसदृशोऽहंमन्योऽधिकारी" न्याय्यमपि ताहा प्रत्युत्तरं स्वीकुर्यादिनतेन मस्तकेनेति नूनमपेक्षवाऽऽसीनिराधारा. इच्छामातृका । हृदि संगोपयद्भिस्तां,जानभिरपि तस्य स्वभावकुटिलं व्यवहारं तस्य सौहार्दसंदेशे निमील्य विवेकलोचनं विश्वसद्भिश्चा- स्माभिः मूल्यवान् सलु कालो विनाशितः। दैववशात् प्राप्याऽपि तत्कुचेष्टितप्राक्कल्पना, तेन गूढपुरुषेण सूचितायामेव राज्यसोमाया- सिंधु-कन्या मुदीच्यां बलं स्वं यावच्छक्यं संघटयद्भिरस्माभिः संवादूरदर्शिता प्रकटीकृता । स्वामिभक्तस्यापि स्वकार्यनिष्णातस्यापि हि तस्य पण्यचीथिकास्वन्येषु वा सार्वजनिक स्थानेषु कणशो वात्तीं शत्रुपक्षस्य संगृह्णतस्तग्निवेदने काऽपि श्रुटि: संभवत्येव ।" ".."अपि च- सिंधुसागरमार्गेण नैतावत्कालपर्यन्तं कोऽपि सिंधुराज्यमाक्रमितुमचेप्टत इति भाविन्यपि काले न तथा कर्तु कोऽप्युत्सहेत- इति तकः कुतर्क एव । यदि नाम तर्कोऽयं कुतर्कतया परिणमेत तर्हि किं नामास्माकं सा सागरसीमाऽनुत्प्रेक्षितं तदाक्रमणं प्रतिरोध्दं समर्था भवेत् ? यथाऽह शीलभद्रः- देवलनगर्याः प्रजा गोभक्षकाणां स्पर्शदोपादक्षितुं प्राचीनं तत् तीर्थस्थानं नूनं जीवितं स्वं तृणीकरिष्यति । करोतु नाम । परंतु तत्तस्या जीवितं, भावोदप्रमपि निर्वलं, महता संनहनेन कपटेन चाऽऽपामत: शनोः हिंसाग्नौ शलभगति प्राप्नुयादित्यत्र न संशयः ।" "..."अथवा- रिपुरस्माकं राज्येन संलग्नं तदधीतं मकरांक- प्रदेशमेव मूलाधारं परिकल्पयन् नैऋत्या दिशा नाक्रामेदित्यत्र कि प्रमाणम्..? चिरात् खलु तदधीने तस्मिन् प्रदेशे स अल्हज्जाजो गोपायित्वा स्वसंकल्पं महान्तं खलु सेनासन्नाह कर्तुमहत्येव । तस्य प्रदेशस्य प्रशासक इममवसरं प्रत्यपकारचिकीर्षया बह व मन्येत । मर्पा इव इमे यवना अनुभूतचरं क्षुदतममप्यपकारं न विस्मरन्ति । एवं सति- का नामास्माकं संरक्षणयोजना? नास्त्यकोऽपि कृत्रिमोऽ- कृतिमो. वा बलवान् प्रत्यवायस्तस्मिन् योजनशतव्यापिनि सीमाप्रदेशे य उद्वेलं रिपुसेनासागरं निरुध्यात्, दद्याच्चास्मभ्यं सेनाव्यूह- प्रतिरचनार्यमवमरं क्षुदतमम् ।" "पाश्चात्यं सीमाप्रदेशं समुल्लंध्याऽपि रिपुरस्मान् समाक्रमितुं शक्नोति नाम । अविज्ञातप्राय तस्मिन् मरुप्रदेश आदित एव सनिघापिता औ'ट्री: सेनाः स अस्मान् अभिभवितुं नोपयोक्ष्यत्ति- इत्या कि प्रमाणम् ? तथा सति किं नामास्माकं प्रत्युत्तरम् ? न तावद्गजसेनाः।" सिंघु-कन्या सा कारिण: काकसदृशाः सामन्ताश्च काकचतुराः प्राप्य वाह्याक्रमण- सदृशमवसरं निःसंशयं प्रयतिप्यन्ते पुनर्लन्धुं स्वं स्वातंत्र्यम् ।" "न केवलाः सामन्ता एव । अपि तु- साधारणा अपि जना मोदिष्यन्त एतादृशमवसरं लब्ध्वा । भौगोलिकाद्वा कारणाद् व्यावसायिकाद्वा एते दाक्षिणात्याः सैंधवा हि स्वात्मानमुदीच्येभ्यो भिन्नमेव मन्यमाना मया दृष्टाः । प्रायो बौद्धधर्मानुरागिण एते सनातनधर्मानुयायिन उदीच्यान् परकीयानिव जुगुप्सन्ते । अस्माकं ब्राह्मणकुलं सिंहासनाधिरूढं न वहु मन्यन्ते । स्वधर्मविरोघि च तन्मन्यमानाः प्रतीक्षन्ते तद्विनिपातम् ।" "दृढ़ विश्वसिमि यत्- साक्षात्कृत्य तातस्य शौर्यमिव चित्तौदार्यम्- अनुभूय विविधान् लाभान् प्रवलाया प्रभुसत्तायाः, सर्वेऽप्यतेऽधिकारिण: सामन्ता बौद्धधर्मानुयायिनश्च सामान्याःजना:- क्रमश:- एकोभावमभूतपूर्वमधिगमिष्यन्ति । परंतु- तदर्थ दीर्घ- कालिकी शांतिः नितांतमपेक्षिता । च- परचक्रवार्तव विलयमात्यंतियां गमिष्यति । का कथा साक्षादाक्रमणस्य ?" "वर्तमानायां त्ववस्थायां सिंधुसागरमार्गेण मकरांकप्रदेश- मार्गेण वा दाक्षिणात्ये कस्मिश्चिदपि प्रदेशे विजिगीपया पदं न्यस्यन्ती यवनवाहिनी विपकृमिसंहतिरिव रोगमुक्तं दुर्बलं शरीरं- समग्रमपि सिंधुराज्यं- कांदिशीकं चेप्टमानानामेवास्माकं सर्वेषां- ग्रसिप्यतेऽ- प्रतिहतगतीत्यत्र न संशयलेशोऽपि ।" 'अनुमोदमानेव तन्मतमनुससार तदुक्ति प्रगाढा नीरवता कतिपयक्षणपर्यन्तम्। "..."महान् खलु विश्वासस्तातस्य"- दीर्घ निःश्वास्याऽऽह देवलदेवी सस्नेहं परामृशन्ती बिलुलितालकमंकगतं मस्तकं जय- सिंहस्य, शृण्वत एव तत्संभाषणं निद्रावश्यतां गतस्य, “यत् परचत्र- संकटस्यतस्य वास्तविक स्वरूपं साक्षात्कृत्य सर्वेपि भारतीया: नृपा अस्माकं साहाय्याय संनद्धा भविप्यन्तीति ।" सिंघु-कन्या "किं बहुना- यथा यथाऽहं विचारयामि तथा तथा सर्वा अपि सीमा आक्रमणीया एव विभावयामि-ऋते पौरस्त्यायाः।" "उदीचीनायाश्च। रिपुहि पार्णीकृत्य सद्योविजित- मुद्वृत्तं गांधारमदृशं दुर्गमं प्रदेश हिमवदुपत्यकासदृशेन मार्गेणाऽऽ- क्रामेदिति न विश्वसितुमुत्सहे" अनुभूतो हि स मार्गः रिपुणा"- सोढश्च पराभवो भीषणः।" ....किमिति खलु तात:- जानन्नपि सर्वमेतत्- समुपेक्ष्य इमे सीमे सीमाया उदीचीनाया एव संरक्षणाय बलमेकत्रकरोति- न जाने।" "सिंधुसागरमार्गेण वा मकरांकप्रदेशमार्गेण वा रिपोराक्रमणं परिकल्पयन् अहं तावत्... एक बलवत्तममाभ्यन्तरं दौर्बल्यस्थानं मनसिकृत्य यथा विषादमनुभवामि न तथाऽन्यत् किमपि ।" "समुत्सार्य पुरातनं रायकुलं दोपदिग्धं पितामहेन प्रात:- स्मरणीयेन दृढं प्रस्थापितेऽस्मत्कुले सिंधुराजसिंहासने तस्य कुलस्य ये केचनावशेषा आसन् ते सर्वेऽपि निःसृता उदीच्याद्भागादस्मिन् दाक्षिणात्ये भागे नूनमादित एव वद्धमूलान् तांस्तान् सामंतान् शरणीचक्रुः । तेऽपि मध्यवर्तिनी सत्ता बलवत्तरीभवन्तीमसहमानास्ते- भ्योऽभयं ददुः । पितामहस्यातुलनीयन शौर्येण विजितास्तस्य विलक्षणेन चातुर्येण प्रभावितास्ते तदाधिपत्यं महतः कालादनन्तरं स्वीचरित्यन्यदेतत् । तदपि तात्कालिकमेव । तस्मिन् हि स्वर्लोकं गते ते सर्वेऽप्यकस्मादुद्वृत्ता यथाऽस्मद्राजकुलसत्तां निरादृत्य यथेच्छा- चारिणो वभूवुस्तत् सर्वं तव विदितमेव ।" "महता प्रयासेनाब्ददशकसंततेन पुनरपि स्ववशंवदीकृता- स्तातेन ते दाक्षिणात्याः सामंताः समुपस्थिते परचक्रसदृशे प्राणसंकटे कियत् साहाय्यं दास्यन्तीत्येतत् संदेहास्पदमेव.""। अत्यल्पमिदमुच्यते- निरूढदुर्गपालसदृशा वौद्धधर्माभिमानिन उच्चावचा अस्माकमधि- सिंधु-कन्या ४८ सा कारिणः काकसदृशाः सामन्ताश्च काकचतुराः प्राप्य वाह्याक्रमण- सदृशमवसरं निःसंशयं प्रयतिष्यन्ते पुनलब्धं स्वं स्वातंत्र्यम् ।" "न केवलाः सामन्ता एव । अपि तु-साधारणा अपि जना मोदिप्यन्त एतादृशमवसरं लब्ध्वा । भौगोलिकाद्वा कारणाद् व्यावसायिकाद्वा एते दाक्षिणात्याः सैंधवा हि स्वात्मानमुदीच्येभ्यो भिन्नमेव मन्यमाना मया दृष्टा: । प्रायो बौद्धधर्मानुरागिण एते सनातनधर्मानुयायिन उदीच्यान् परकीयानिव जुगुप्सन्ते । अस्माकं ब्राह्मणकुलं सिंहासनाधिरूढं न बहु मन्यन्ते । स्वधर्मविरोधि च तन्मन्यमानाः प्रतीक्षन्ते तद्विनिपातम् ।" "दृढं विश्वसिमि यत्- साक्षात्कृत्य तातस्य शौर्यमिव चित्तौदार्यम्- अनुभूय विविधान् लाभान् प्रवलाया प्रभुसत्तायाः, सर्वेऽप्यतेऽधिकारिणः सामन्ता वौद्धधर्मानुयायिनश्च सामान्याःजना:- क्रमश:- एकीभावमभूतपूर्वमधिगमिष्यन्ति । परंतु- तदर्थं दीर्घ- कालिकी शांतिः नितांतमपेक्षिता। च- परचक्रवातयैव विलयमात्यंतिक गमिष्यति । का कथा साक्षादाक्रमणस्य ?" "वर्तमानायां त्ववस्थायां सिंधुसागरमार्गेण मकरांकप्रदेश- मार्गेण वा दाक्षिणात्ये कस्मिश्चिदपि प्रदेशे विजिगीपया पदं न्यस्यन्ती यवनवाहिनी विपकृमिसंहतिरिव रोगमुक्तं दुर्वलं शरीरं- समग्रमपि सिंधुराज्यं- कांदिशीकं चेप्टमानानामेवास्माकं सर्वेषां- ग्रसिप्यतेऽ- प्रतिहतगतीत्यत्र न संशयलेशोऽपि ।" अनुमोदमानेव तन्मतमनुससार तदुक्ति प्रगाढा नीरवता कतिपयक्षणपर्यन्तम् । ..."महान् खलु विश्वासस्तातस्य"- दी निःश्वास्याऽऽह देवलदेवी, सस्नेहं परामृशन्तो विलुलितालकमंकगतं मस्तकं जय- सिंहस्य, शृण्वत एव तत्संभाषणं निद्रावश्यतां गतस्य, "यत् परचक्र- संकटस्यतस्य वास्तविक स्वरूपं साक्षात्कृत्य सर्वेऽपि भारतीयाः नृपा अस्माकं साहाय्याय संनद्धा भविष्यन्तीति ।" सिंधु-कन्या "अंधविश्वासोऽयं. अंधविश्वास:"- प्रत्याह राजकुमारो वज्रवाहुः । "भारतीया राजानः क्षुद्रस्वार्थांधा नैव साक्षात्करिष्यन्ति वास्तविक स्वरूपमस्याऽऽक्रमणस्य । संकीर्णदृप्टयः नव द्रक्ष्यन्ति यदेते यवना भारतवर्पमस्माकं विजेतुं व्याकुलाः लब्ध्वा क्षुद्रतममपि चंचुप्रवेशावरारं महान्तं देशमिममशिष्यन्तीति ।" "अचकथत् स गूढः पुरुषः" राजदारिकाऽवदत्, स्मृत्वेव सहसा विस्मृतप्रायमन्यतमं विशेष, “यदभियानमेतत् सफलीकर्तु बद्धपरिकरेण तेनाल् हज्जाजेन पुरुषविशेषः कश्चित् तत्संचालनाय नियुक्तः योद्धृणां सहस्रषु लक्षेप्वद्वितीयः महाप्रमाणो वृपस्कंध ऊर्जस्वलः उरसिलः सांयुगीनोऽनुकामीनः जित्वरस्तरुणोऽपि विदग्धः जिष्णुरप्यधृष्णुः समर्थोऽप्युदारहृदयः जितेन्द्रियो मुहम्मदः कासीम- सुतः। वज्र! समभावयत् स स्पशस्तं युवानं यवनं योद्धार भारतवर्पस्य साक्षादुर्भाग्योदर्कमवतीर्णम् । अघोषयच्च- न स पर्यकल्पयत् कमपि भारतीयं राजानं राजपुत्रं वा तत्तुल्यबलमिति ।" "..."न काश्मीरराजपुत्रं ललितादित्यं मुक्तापीडमपि ?"- सस्मितमपृच्छद्वजवाहुः। ..... न मम भ्रातरं वज्रबलं वज्रवाहुमपि"- प्रत्यवदद्राज- कुमारी । समापयन्तीव तां चर्चामुदतिप्ठत् । अगदच्च- "तद्वन ! सुनिश्चितमेतत्- श्व एव इतः कृतप्रस्थाना वयं राजधान्यां साक्षात्कृत्य तातं तं प्रबोधयितुं प्रयतिप्यामह- इति । ततःपरं तु- सर्व भाग्यायत्तम् ।" "आम् !” स्वीचकार तद्भ्राता, आह्वयत परमविश्वासा- स्पदं परिचारकमेकमाज्ञापयामास तं राजदारिका तद्विश्रामकक्ष नातिदूरवर्तिनं नेतुं, व्यानक चेच्छां कनिष्ठं भ्रातरं जयसिंह निद्रा- निमग्नं स्वसमीप एव शाययितुम् । सिंधु-कन्या राजदारिकाप्यभिज्ञा तस्य भ्रातृवात्सल्यस्य स्मेरवदना, तत एकाकिन्येव प्रस्थिता, परिचारकेणोपदिश्यमानमार्गा, समतिक्रम्य निर्जनान् विशालान् कक्षान्, प्रविश्य तदर्थमादित एव परिकल्पितं मंदप्रकाश पिहितकपाटवातायनं महाऽिस्तरणसंशदितभूतलं विधामकक्ष, निक्षिप्याऽऽत्मानं शय्यायां कमलदलकोमलायां कंबलावृत- काया निराहारैव मुकुलितश्रांतलोचना प्रायतत विस्मतुं चिताभारं निमज्ज्य निद्रापारावारेऽगाधे । . प्रायतत । अलभत च साफल्यमांशिकं चिरात् । न तु चिराय। सहसा हि प्रबोधिता केनाप्यस्पष्टेन ध्वनिना, भयेनानाम- केनाऽऽक्रांता, शुष्करसना, शिथिलावयवा, समनुभूय कंचिदुहूं दं तस्मिन्नेव कक्षे समुपस्थितं, तस्या एच शय्यायाः समीपे विचरन्तं किंचिदुद्घाटितपक्ष्मललोचना, निपतितैव शय्यायां, दृष्टि विनिद्रां तीक्ष्णाम भितो व्यापारयामासाऽव्यावर्तितमुखारविंदा । अवलोकया- मास च नातिदूर एव कक्षकोण एकस्मिन् मंदतरनेशप्रदीपप्रकाशे विमुखं स्थितामीपल्लक्ष्यविशेषांकृष्णां वामनांकुन्जां वृद्धामनावृतप्रायां कृशामाकृतिमेकां नागदंतावलंविनां तदुकूलानां परीक्षणे नु व्यापृतकृशहस्ताम् । विस्मिता च यावत् प्रयतते तां प्रत्यभिज्ञातुं तावदद्राक्षीत्तां ततश्चलन्ती हस्तेन वार्द्ध कप्रकंपमानेन तद्वस्त्रांचल- कदेशं कथमप्यवकृत्तं सावधानतया वहन्तीं चलदोष्ठी संभापमाणामिव स्वात्मनवानाक्षिप्य दृष्टि तद्दिशि शनैः शनैः कक्षद्वारमुपसर्पन्ती- मतिक्रम्य च देहली ऋमशोऽदृश्यतां यान्ती ध्वांते धनतरे बाह्य । सहसा च विनिश्चित्यात्मनैव किमपि निर्भीका समुत्याय परित्यज्य शय्यां निर्गता विधामकक्षादसाहाय्या एवाऽऽरभत तामनुसतु- दूरान्निःशब्दम् । यथा यथा च साऽऽकृतिः समतिक्रम्य कक्षान्तराणि निर्जनानि निःसृत्य प्रासादात् समुल्लंध्य प्रांगणं- सिंघु-कन्या अनभिज्ञा तस्या अनुसरन्त्या- दुर्गस्य तस्य प्राकाराऽऽभ्यंतरवर्ति खंडितप्रायमेकं वेश्म समुपसर्तुमारभत तथा तथाऽवर्द्धत तस्या राजदारिकाया आश्चर्यम् । श्रुतं हि तया कर्णोपकणिकयाऽऽसीद्यत् तद्वेश्म नामशेषाणां रायकुलीनानां राज्ञां भूतपूर्वमावासस्थानं- सांप्रतं पैशाचिकमुदवसितमिति हीयते सर्वैः दिवाऽपि । एवं चकितचकितमनुगच्छन्त्यामेव तस्यां सा कुब्जाऽऽकृतिः, सर्वव्यापिनः नैशस्य तिमिरस्य मूर्तिरिव कयाचिदुर्भावनयाऽवतीर्णा, प्राविशत् तस्मिन् वेश्मनि निष्कपाटेन शवमुखेनैव सदाव्यात्तेन द्वारेणकेन । निगीर्णेव चाऽऽभ्यन्तरिकेणाधतमसेनादृश्यतामयात् । तदवलोक्य राजकन्याऽपि, विस्मयवशादसमर्थात्मानं सरोद्ध, निभृतं प्रविष्टा तस्मिन् जीर्णे निविडांधकारे पूतिगंधिनि वेश्मनि, यावद्विचिंतयति- 'केन खलु मार्गेण गता भवेत् साऽऽकृतिः' इति तावदवलोकयामास वामतस्तस्याः प्रस्खलत्पदं समापतन्तं पीतपीतं प्रकाशं क्षीणं कस्यचित् प्रदीपस्य । समाकृष्यमाणेव तेन च- अवशा- तद्दिशि पदान्य स्थिराणि मंद मंदं निक्षेप्तुमारभत । ददर्श चात्मानं कतिपयक्षणानंतरमेवैकस्मिन्निविडतयांऽधका- रस्यापरिज्ञेयपरिमाणे निर्वात उग्रगंधिनि विवर्णविशीर्ण भित्तिके कक्षे प्रविष्टं, समवलोकयन्तं चानिमिषया भयविस्फारितया दृशा तेन प्रकाशेनोद्भास्यमानां तामाकृति कस्याश्चिद्वृद्धाया असमतले भूतले मृद्दीपिकाभिमुखमुपविष्टां पुरतः सैदूर्या रेखया रक्तरक्तया कल्पितस्य वर्तुलस्यैकस्यान्तःस्थापितानां पुत्तलिकानामंगुलिपरिमाणानां कुंकुम- चर्चितानामक्षतानिचितानां पण्णां मध्यादेकां गृहीत्वा हस्ते तां विश्रामकक्षादवकृत्याऽऽनीतं दुकूलांचलैकदेशं परिधापयन्तीं विदन्तं हसन्तीमस्फुटाक्षरं किमपि गदन्तीम् । सिंधु-कन्या ५२ शुश्रूपया तीव्रया पदं न्यस्यन्ती चाग्ने, नागदंतावलंवि मृण्मयं किमपि भिक्षाभाडं- अजानत्येव- सहसा स्कंधसंघट्टनेनं भूमावपातयत् । अपश्यच्च तत्स्फोटध्वनिना क्षुद्रेणापि नीरवे तस्मिन् कक्षे विस्पष्टेन विचलिता, क्षणमेकमुन्नमय्य दुर्बलां कंपमानां ग्रीवामितस्ततः साशंकां दृष्टि क्षिपन्ती, क्षणेऽन्यस्मिन्नेव प्रत्यभिज्ञाय तां प्रकृतिमापन्नां, समाधानेनेवाप्रत्याशितेनाऽपूरितां, “हृष्टां, वृद्धयाऽपि तीक्ष्णया दृष्ट्यानिमिषया बघ्नतीमिव , भिन्दतीमिव छिन्दतीमिव कृन्ततीमिवाश्नतीमिच ताम् । गदन्ती चाशृणोत्- ".""स्वागतम् ! स्वागतम् राज- दारिकायाः ! स्वागत परमप्रतापिनः छछमहाराजस्य पौत्र्याः ! "स्वागतं सामंतचक्रचुंबितचरणकमलस्यं राज्ञो दहरस्य पुत्र्याः ! स्वागतम् ।" . "अवलोकयतु सिंधुराजदारिका लोमहर्षकमनुष्ठानमेतत् मया राजदारिकाकुलस्य कल्याणमात्यंतिक हीः ही हो... कल्याणमात्यंतिकमभिकांक्षन्त्या . महता प्रयासेन कृतं - - समाप्ति चाविकलां नीतम् ।" "मया हि" मया हि छछराजवंशमनन्तां शांति प्रापयितुं बद्धपरिकरया '""न गणितं शील.." न गणितं जीवित्तम्। न मनसि कृता यातनाः । ""न मनसि कृता दुश्चेष्टाः । अपि तु-सवं परित्यज्य प्रस्थितया कामरूपं कामप्रदमेकाकिन्याऽनुसरन्त्या वाममागिणोऽ- चधूतान् पूरयन्त्या तेयां कामना जुगुप्सिता अपि"" रहस्यं तंत्रशास्त्र- स्याधिगतं, व्यापारितं च तत् तव कुलं,- राजदारिके ! तव कुल- शांतिमनंतां प्रापयितुम् ।" "किमवलोकयसि मुखं व्यादाय, राजदारिके! +- "न प्रत्यभिजानासि माम्?". सिंधु कन्या "मूढे ! ""अहं ""अहं ..."राज्ञः साहसिकस्य दुहिता"। ""आम् । तस्यैव दुर्दैविनः साहसिकस्य दुहिता,- यं, बालकमिवाति- विश्वस्तं, तव पितामहः, स्वामिभक्त: सेवकः, धर्मप्राणो ब्राह्मणः, परलोकं प्राहिणोन्महता चातुर्येण । अध्यगच्छत्तस्य राज्यम् । अलभ- मानश्च संतोपं तावताऽपि तस्य- स्वस्वामिनः,- पत्नी विधवां,- स्वां भूतपूर्वा स्वामिनी, मम विमातरं क्षत्रियां उदवहत् ।" "अस्मांश्च सर्वान्, मां किशोरी, मम मातरं रुग्णां, मम भ्रातरं वालं, सर्वानपि राज्यादस्मानिपकासयत्।" "तस्यैव दुहिताऽहं, रायकुलस्यावशिष्टा संततिरेकला।" "मम माता तपस्विनी, मम भ्राता वराकः, वहो: कालाद प्रागेवान्तं प्रापितो सर्वेपामपि कष्टानां परमदयालुनांऽतकेन ।" "एतावत्कालपर्यन्तमहमेवैकाकिनी प्राणान् कथमपि धारयन्ती स्थिता । ... आहूयमानाऽपि महाकालेनासकृत्तस्य सस्नेह- मामंत्रणमवधीरयमेव । अनिखाय खलु तस्य नराधमस्य वंशवृक्ष, येन मामकीनस्तथा खनित आसीत्, स्वर्गेऽपि गन्तुं नाभिललाप मम हृदयम् ।" "दिष्ट्या पूर्ति गतप्राया मम सा प्रतिज्ञा- या मया खलु तस्यां विजयदशम्याः सायंसंध्यायां शाययित्वा चिरनिद्रावशीभूतं भ्रातरं स्वं श्मशानभूमौ प्रतिनिवर्तमानया "एकाकिन्या समारुह्म मदकलां हस्तिनी महताऽऽडम्वरेण नगरसीमोल्लंघनार्थ राजमार्गेण गच्छन्तं सिंधुराज- तव पितरं दहरं दहनदाहकदर्शनं (-त्वमपि विराजमानाऽऽसीः, अभव्य, तत्समीप एव", बाला. कौतु- कोत्फुल्लनयना) दृष्ट्वाऽकस्मात् प्रतिजिघांसोदग्रया कृताऽऽसीत् ।" ."प्रणक्ष्यति हि तव कुलम् । नामैव तव कुलस्या- वशेक्ष्यति- 'अधन्ये ! भारतीयेषु राजकुलेषु तुच्छतममिति स्वामिद्रोहोत्यापितं प्रजाद्रोहनिपातितमिति ।" सिंधु-कन्या ...प्रक्ष्यति तव कुल"- पुनः पुनरवदत् सा जरती । "अयं ते पिता परमप्रतापी सिंधुराज:"-प्राह सांऽगुल्याऽवेगप्रकंप- मानया स्पृशन्ती पुतलिकामेकाम् । "इयं ते माता" अखंडसौभाग्य- मंडिता महाराज्ञी। अयं ते ज्येष्ठो म्राता" वज्रवपुर्वनवाहुः । ..."अयं कनिष्ठः जयशोलः जयसिंहः । "इयं त्वम् । .."इयं च तव कनिष्ठा भगिनिका । सर्वेऽपि यूयं मम मारण- क्रियाभिभूतास्तथाऽन्तं जीवितस्य गमिष्यथ यया स्मृता अपि भोपयध्वं स्वामिद्रोहिण: नराधमान् आ कल्पान्तम् !" "तद्गच्छ! दुर्मुखे, गच्छ ! कथय पितरं पितुरपराधस्य प्रायश्चित्तं स्वेन जीवितेन कर्तुम् । कथय मातरं कालदष्टं पतिमनुगन्तुम् !" "दक्षमन्या त्वं, कार्यकुशलंमन्यस्तव भ्राता वज्रबाहुः" न कोऽपिन कोऽपि विधिलिखितं प्रमाष्टुं शक्ष्यति ।" "अपेहि । जाल्मे अपेहि इतः ।" वराकी राजदारिका तु, तस्मिन्निशीथे, तस्मिन् भग्नप्राये वेश्मनि हप्ट्वा तं भीषणं मारणप्रयोग भयाक्रांता, श्रुत्वा तं सर्वथाऽ- श्रुतपूर्व वृत्तान्तं करुणदारुणं विस्मिता, समाकर्ण्य तमाकोशं हतबुद्धिः, बहिर्नुद्यमानेव तविपदिग्धैरिव मर्मभेदकः शब्दः, बहिष्क्रियमाणेव कयाऽप्यदृश्ययाऽमंगलया शक्त्याऽवशाऽपारयन्ती तत्र स्थातुं क्षणमात्र- मपि ततःपर, अजानत्येव ततो व्यपवृत्ता, नावेदात्मानं प्रसारितहस्तं कथमपि तस्माज्जीर्णवेश्मनः निर्गतं, प्रस्खलत्पदं भ्रातुःप्रासादमुपसृतं, भ्रांतमस्तकं स्वशयनकक्षे कथमपि प्रविष्टं, निष्प्राणं शय्यायां पतितं, दुःस्वप्नबहुलयाऽशांतया निद्रया च कवलीकृतम् । प्रबोधिता चान्याविहायोदयाचलं नभोगणं प्रविशत्सु विपमाश्वतुरगेषु प्रातःस्नानसुरभिशीतलतनुना बंधुना जयसिंहेन सस्नेहं संस्पृश्य भाल उत्तप्ते, सहसोऽत्थिता, सभयमवलोक्याभितो दृष्ट्वा च विस्मितं भ्रातरं स्वसमीप एवाऽऽश्वस्ता, कथमपि सिंधु-कन्या परिसमापितदैनिककृत्या, निर्जगाम, तुरगारुढा, भ्रात्रा जयसिंहेन वववाहुना च महाप्रमाणतुरगाधिरूढेन सहिता, अङ्गरक्षकरनुगम्य- माना, तस्माच्छिविस्थानदुर्गाग्निक्षिप्यका दृष्टि भीतां नातिदूरवर्तिनो मध्याह्नसमयेऽपि तमसेव केनचिदानांतस्य तस्य जीर्णवेश्मनो दिशि । दृष्ट्वा च तस्य द्वारे विनष्टकपाट एकत्रभूतान् कांश्चित् सैनिकान्, ज्ञात्वा समाचारं परिचारकेभ्योऽनुगच्छद्भ्यः निधनस्य कस्याश्चित् तत्र बहोः कालान्निवसन्त्या अज्ञातफुलनामधेयाया जरत्या उद्भ्रांताया आकस्मिकस्य- क्षणमात्रं स्तब्धाऽन्यस्मिन्न व क्षणे विचार्य किमपि"" अनुदत तुरगम् । आरभत च राजधानी समुद्दिश्य मार्गमाक्रमित गंभीर- मुखमुद्रा। अत्तीते निशीथे, तस्मिन् जीर्णवेश्मनि, तपा जरत्या निगदितं तं कुलदूषकं वृत्तान्तं वारं वारं पर्यालोचयन्ती, ललाटंतपस्य तपनस्य तापस्य, प्रतीपवाहिनः कदुष्णस्य गंधवहस्य संनासस्यास्तंगतं दिनपतिमनुगच्छन्त्या दिनधियश्चरणकमलांकितस्यवाऽऽरक्तस्य पश्चिमदिगंगणस्य मनोहारिणः सौदर्यस्य, विलोकयितुमिव तदध्यव- सायं पश्चिमक्षितिज आविर्भूतस्य मृगलांछनस्य क्षीणक्षीणस्य रामणीयकस्यानभिज्ञा, खिन्नमानसा, समाशंकितस्य परचक्रस्य विषय एव विचारयता वज्रबाहुना कैशोर्यात् सुलभोल्लासेनापि समवलोक्य भगिन्याः ज्येप्ठभ्रातुश्च चिंताकलुषितां मुखमुद्रां गभीरवर्तनेन जयसिंहेन च सहिता-न्यवर्तत राजधानी प्रहरमात्रक्षीणायां निशायाम् । प्रविश्य च तामनेकपुरुषोन्नतेनार्द्ध पिहितकपाटेन सशस्त्र- सैनिकाकुलाकुलेन महाद्वारेण, आक्रामन्ती विस्तृतमपि जनसंमर्दवंशात् संकीर्णमिव भासमान, - जनसंमदितमपि नि:शब्दप्रायं, प्रज्वालित- रथ्याप्रदीपपंक्त्युज्वलितमपिध्वांतेनेव केनचिदभिभूतमुभयपार्श्ववर्ति- विविधऋयवस्तुमनोरम-निपधापरंपरोद्भासितमपि निरानंदमिव भासमानं राजमार्ग, चिंताजडेनापि समवलोक्य तो साक्षादाजदारिकां सिंधु-कन्या राजकुमारेण वज्रवाहुना युवरोजेन जयसिंहेन च सहितां सशस्त्रैरङ्ग- रक्षकरनुगतां समापतन्तीं ससंभ्रमं दत्तप्रसरा पौरजनसंमर्दैन, 'कि नाम दुर्घटितं स्यादेतया कालकलया, यद्वशात् स्वभावेनवाऽऽमोद- प्रिया नगरीय निरुच्छ्वासेव संजाता परिलक्ष्यत ?' इति विस्मय- माना, 'अपि नाम तात, आदित एव वार्द्ध कवलांतस्तत्राप्येषु मासेषु सेनासनहनश्रांतोऽकस्माद्रोगेण केनचिदाक्रांतः स्यादिति दुश्चितया पीड्यमानाऽऽतुरा सत्वरमभ्यपतत् प्रासादमहाद्वारं फलकपाणिभि- मितः नैस्त्रिशिकः परिरक्ष्यमाणमन्तःप्रविष्टानां मंत्रिणां रथैः मुशोभितं प्रज्वलद्दीपदंडाऽऽलोकितम् । अवरुह्य चाश्वात्, सचितं दृष्ट्वा तां प्रत्यागतां चकितं समाश्वस्त ससंभ्रममुपसृतं प्रणतिनम्र सोविदल्लप्रमुखमपृच्छत्- 'कुत्र महाराजाधिराज' इति । तेन समुपदिश्यमानमार्गाऽकृतवेपपरिवर्तव भ्रातृभ्यां सह मंत्रणाकक्षमुपासरत् । अपश्यच्च तय प्रविष्टा पितरमनिरद्दष्टमपि चिरप्टमिव शांतमपि समुत्तेजितमिव समुपस्थितैः मंत्रिभिः सह चर्चाव्यामृतमपि विमनस्कमिव भासमान, वार्द्ध केनाधिकतरमिव. समानांतम् । हठात् स्मारिता च तस्य पुत्तलकस्य पुरुपवेपस्य तयोन्मत्तया जरत्या निद्दिष्टस्य क्षणमेकमन्वभवत् चैतन्यं स्वं विलीयमानमिव । पातरमिव प्रणतिवचस्तस्याः श्रुत्वा सहसोग्नमितमस्तके- नायलोक्य तां प्रत्यागतां प्रहृप्टेन निरीक्ष्य तया सह समुपस्थितं राजकुमारं वजयाहुं शिविस्थानदुर्गपालकं किंचिद्विस्मितेन तेन स्वसंनिधौ समुपवेशिता निःशब्देन" निःशब्दव" पृच्छामुखरया दृष्ट्या तस्य मुसमवालोक्यत् । सिंधुराजस्तु-विज्ञाय तन्मनोगतं- स्वयं किंचिदपि वक्तु- मनिच्छुक इव दृष्ट्यवधीसचिवं समादिशत् । सिंधु-कन्या "भर्तृ दारिके ! घनतरीभूता संकटघटा व्यतीतेषु पोडश- प्रहरेपु"- प्राह शीलभद्रः । “अस्माकं परमविश्वसनीयः स गूढो दूतः, साक्षात्कृत्य स्वामिचरणावितो यवनदेशाय पुनः प्रस्थितो देवल- नगर्यामेव सिंधुसागरतीरे निर्जने कैश्चित् हतः निशीथेऽस्माकं नौसैनिकः प्रातरुपलब्धः । अस्माभिश्च समाचारः संसूचयन् शत्रोमहतीमौष्ट्री सेनामस्मद्राज्यस्य पाश्चात्त्यसीमासंलग्ने यवन- प्रदेश उपस्थितामवसरमनुकूलं सीमोल्लंघनाय प्रतीक्षमाणानाम् । "तदनागतप्रतिविधित्सया स्वामिचरणः सायंकाल एव तदाक्रमण- प्रतिरोधक्षमा औष्ट्री सेना संप्रेषिता महत्या त्वरया।" "मया खलु देवलदुर्गाधिपेन सह विमृशन्त्याऽलक्षि यदस्माकं सागरसीमाऽपि, नितांतमरक्षिता, रक्षणीयेति । तत्तस्यामपि सीमायां पर्याप्त वलं..." प्रारभत राजकन्या । "परंतु- सागरं योजनसहस्त्राविशालं समुल्लंघ्य रिपुः समाक्रमितुं नवोत्सहेत ! एतादृशमात्मघाति धाष्ट्यं स नैव कदापि चकार ! स गूढो दूतोऽपि दृढं विशश्वास यदाक्रमणं स्थलमार्गेणव संकल्पितमिति । प्रदीर्घ सागरसीमाप्रदेशेऽस्माकं चारचक्षुरपि न ददर्श कुत्रापि रिपुनौसेनासंतिमेतावत्कालपर्यन्तम् । तन्निराधार- स्तवाऽयमाग्रहः"- सिंधुराजः सहसाऽऽक्षिपत् । "परंतु-तात !" प्रत्युवाच राजकुमारो वज्रबाहुः । "एतत्तु भवता सुलक्षितमेव यदतीतेष्वाक्रमणेप्विवास्मिन्नाक्रमणे बलमेव केवलं न प्रयुनक्ति रिपुः अपि तु शृगालचातुर्यमपि । कृतकमैत्रीसंदेश- प्रेपणेन स यथाऽस्मान् निष्कपटहृदयान् तदाऽवंचयत तथा सांप्रतमपि संभवनीयस्याऽक्रमणमार्गस्य विषये न वंचयितुं चेप्टत- इत्यत्र कि प्रमाणम् ? ""यदि नाम सः सिंधुसागरमार्गेणाऽऽक्रामेत् सहसा तर्हि सेनाऽस्माकं, सुदूरेपूदीच्यपु- संप्रति पाश्चात्त्येष्वपि- सीमाप्रदेशेषु नियुक्ता, पाणौँ प्रसह्य समाक्रांता, न लभेतावसरमात्मरक्षणाय । कि पुनः प्रतिरोधाय? विलयं चायेतात्यंतिक- पश्यतामेवास्माकं सिंधु-कन्या सर्वेषां दिग्भ्रांतानाम् । नितांतमरक्षितां सागरसीमां समुल्लंघ्य सिंधुभूमावयतीर्णः रिपुः सद्य एव भवता वशंवदोकृतमशांतस्वांत- गुपजापक्षमं दाक्षिणात्यं भागं तथाऽऽकामेत् यथा राजयक्ष्मा दुर्वलं शरीरम् ।" "अलमलं तावदुश्चितया !" अपारयनिवाधिकतरं श्रोतुं सहसा जगाद राजा दहरः । “वीरभद्र ! प्रेप्य पर्याप्तं धानुकवलं दंशितं सिंधुसरिन्मुखप्रदेशरक्षणाय स्यापयित्वा च तद्गूढं सागरतीर- प्रसृतेषु कांतारेवानमणस्य (नितरामसंभाव्यस्य) प्रतिरोधायापनय तामेतयोः ।" गदन्न वमुदतिष्ठत् सांध्यभोजनाय । विधृत्य च राजकुमारं वज्रवाई वाहुदंदै निरगच्छन्मंत्रणाकक्षात् स्वदुहिनाऽ- नुगम्यमानः श्रांतः। राजकन्या तु, प्रक्षाल्य हस्तपादमनुष्ठाय वेपपरिवर्तमुप-- भुज्य नाम पिया धाया च सह स्वापाय दुरापाय विश्रामकक्षं स्वं प्रतिनिवृत्ता, कमलदलकोमलायां सुधाधवलपच्छदायां - सुमनोरजो- वासितायां शय्यायां निपत्य चिरं प्रयतमानाऽपि न शशाक विस्म चिंतामरं निमज्ज्य निद्रासागरेऽतिगहने । '- प्रत्युत-आरभतानिच्छन्त्यपि द्रष्टुं-मुकुलित-नयनेंदीवरव- व्यतीतं घटनाचक्रम्" रजनीमुसे तस्मिन् प्रशांते मातुः सिंघो: रोघसि निश्चित- मुपविष्टायाम्तस्यास्तत् तन्चेतोविपादस्येव संवेदनं, ततः कटक प्रतिनिवृतायास्तस्यास्तत् पोतापहरणप्रसंगस्य वास्तविकस्वरूप- पर्याकलनं, तातस्यानिच्छतोपि तदाग्रहवशात् तत् कठोरप्रत्त्युत्तर- मंप्रेषणं, राजधानी प्रतिनिवृत्तायास्तस्या बशांतस्वांताया धोसचिवेन राह तत् संभाषणं, तेन विहंगमहप्ट्या वणितां यावनी विपत्ति विचारयन्त्यास्तदुःस्वप्नदर्शनं, समुद्विग्नमानसायास्तस्यास्त्रिकाल- दमिनो महपश्चिदानंदस्याध्यमे तद्गमनं, विशाय तस्माद्भाविनी सिंधु कन्ग विपदं स्वकर्तव्यकरणाय बद्धपरिकरायास्तस्याः सेनासनहनार्थ स्वपितुस्तत् प्रेरणं, तस्य तद्विचित्रं शैथिल्यं, कथमपि कार्यप्रवृत्ते तस्मिन् कृतकमैत्रीसंदेशहारिणस्तस्य यवनदूतस्य तत् समुपस्थानं, तम्मिन् गजनिमीलिकया विश्वसतस्तातस्य पुनस्तत् शिथिलीभवनं, एवं विनष्टे बहुमूल्य समये देवेनेव समुपजातदयेन संप्रेषितस्य तस्य गूढस्य चरस्य तातसेवायामागमनं, निशम्य तस्माद्वास्तविकी परिस्थिति प्रबुद्धस्य तातस्याऽऽक्रमणप्रतिरोधाय तत् परिकरबंधनं, सेनासनहनव्यग्रस्यापि तस्याभिनिविष्टामिव कार्यप्रणालिमवलोक्य सचितायास्तस्या देवलदेवीदर्शनार्थ तन्नगर्या गमनं, तत्र निष्फल देवीसंस्तवनं, तदुर्गपालेन सह मंत्रणं, ततः राजधानी प्रत्यागच्छन्त्या- स्तस्या भ्रातुः शिविस्थानदुर्गे तद्गमनं, तत्र चाभिभूतेनेव केनचित् प्रेतेनाकारणोतेजितेन तेन सह तत् संभापणं, घोरे निशीथे सहसा प्रवुद्धायास्तस्यास्तद्-विश्रामकक्षं प्रविष्टायाः कंकालप्रायाया जरत्याः कस्याश्चित् तदवलोकनं, जिज्ञासया तदनुगमनं, श्रवणं च तत् स्वकुल- कलंकस्याश्रुतपूर्वस्य तस्या मुखात्, अपरेद्यु:- अथवा तदहरेव- ततः प्रस्थितायास्तस्यास्तज्जरतीनिधनवाश्रिवणं, परचक्रवार्तया केवलया समुत्तेजितामालोकनगरी प्रत्यागतायास्तस्याः पाश्चात्त्यसीमावर्तिपु रिपुसाम्राज्यप्रदेशेषु तत्सेनासनहनवार्ताश्रवणं, तातस्यानिच्छतोऽपि वजवाहोस्तर्कवलं निवारयितुमसमर्थस्य सिंधुसागरसोमासंरक्षणाय धानुष्कबलनियोजनं सर्वमप्यतीतघटनाचक्रं तत्स्मृतिदीप: त्रमशो दर्शयितुमारभत । आरभत च तन्मन: दृढं विश्वसितुं यत्- "न्यायनिष्ठुरा नियतिस्तां तस्याः पितरं तस्या भ्रातरं तस्याः कुलं राज्यं राष्ट्र" सर्वमेव फलोन्मुखप्राक्तन- पापकर्मविपाकोपनतेऽतिगंभीरे विपत्- सागरे निमज्जयितुं बद्धपरिकरा" केनापि... कथमपि.... अप्रति- रोद्ध्या । एतद्यावनं परचक्रं तु निमित्तमात्र निमित्तमात्रमिति ।" विचारयन्ती किमपि किमप्येवमेव शनैः शनैः निद्राया अंकेलीयत । सिंधु-कन्या ऐसत च- आत्मानमेकाकिन पुनरप्येकवार तस्मिन्न व सिंधुतीरे तस्यैव प्रोन्नततटप्ररूढस्याघ्र कषशाखाशिखरस्य भूतलचुंबि- जटाजूटस्य 'निष्कूजस्तिमितस्य' औदुंवरस्य महावृक्षस्य मूले तथैवोपविष्टं गौरवर्ण पलितजटाभारं धवलश्मधुजालं श्वेतरोमशवक्ष- समवदातपरिधानमतिवृद्धं महपि चिदानंदं संकेतितपूर्वाया विपदो विषयेऽधिकतरं कथयितुं वारं वारं विनीतस्वरमनुरुन्धतं.", महर्षि तं धीरप्रशांतमपि परमकारुणिकमपि 'वत्से ! अलमतिजिज्ञासया'- इति तामसनिवारयन्तमपि, अन्ते-जुगुप्सित्वेव तस्यादुराग्रहिणः स्वभावात् सहसा कठोरमुद्रं, जिज्ञाससे भाविनीमापदं प्रति- चिकीर्षया ? तत् जानोहि तां सविस्तरम्"", अथवा- साक्षात्कुरु तस्याः प्रयमं भीषणं वचप्रहारमेव, बधानात्मनो दृप्टिमेकानां मम दृष्ट्या, अवलोकय चानवलोकनीयमिति युवन्तं, स्वात्मानं चाऽवशमिवोनमय्य जिज्ञासातुरां स्वां दृष्टि, निखानयन्तं तां तस्य तपस्विनस्तेजोऽतिरेकपिंगलायां दृष्ट्याम् । अन्वभूच्च सहसामानं कार्पासपुत्तलकमिवादृश्यया कयाचिदुप्प्रसह्यया शक्त्याऽनायासमेव भूतलादुत्त्याप्यमानं, प्रोपित- चंद्रे निरभ्रे बृहत्तरनक्षग्रसचिते गगनांगणे समुत्क्षिप्यमाणं, वेगेन महता विलुलितालकं प्रवहद्वस्त्रांचलं रजतरेखायमाणसिंधुसरित्- प्रवाहानुसारिणा सुरवम॑वमना दक्षिणदिशं नीयमानं, धार्यमाणं च स्थिरं कतिपयक्षणपर्यन्तं गगनेऽधः परिदृश्यमानप्रसुप्तदेवलनगरी- दीपमालाशोभायलोकनव्यापृतनयनम् । अवेच्च स्वात्मानं- सिंधुसागरवेलाप्रदेशं समुद्दिश्य शनैः शनरुपसर्पन्तं, नैशेंधतमसे दिङ मंडलव्यापिनि फेनिलभासुरकल्लोल- संसूचितस्य मंद्रगर्जनध्वनिध्वनितस्य सपृषत्पृपदश्वव्यंजितस्य सागर- स्योपरि भ्रमन्तं, देदीप्यमानं देवलदेवीमंदिरशिखरवतिनं प्रदीपं क्षणमात्र सादरं ध्यायन्तं, द्वितीय एव क्षणेऽजनमिव वर्षन्त्या दक्षिणदिशो गर्भगह्वराग्निगच्छतस्तमःखंडाननुकुर्वतः निःशब्दं सिंधु- सरिदामुखप्रदेशमुपसर्पतः पोतान् विविधप्रकारान् विस्मय- विधु-कम्पा विस्फारिताक्ष पश्यन्तं, तीरमुपसृतेभ्यस्तेभ्यः निःशब्द निःसरत: रोधसि च सिकतिलेऽवतरतः कृष्णकवचाऽऽवृतकायान् दुर्लक्ष्यविशेषान् कांश्चित् कौतिकान् कांश्चिद्याप्टीकान् कांश्चिच्छाक्तीकान् कांश्चिद्धानुष्कान्-तमसः सर्वव्यापिनःप्रचलान् अवयवानिव, सागरान्तस्तले मातुमपारयतो वडवानलधूमस्य पुजानिव बहिनिर्गच्छतः- प्राणिजातप्राणापहरणेच्छया सागरतलादुद्गतान् हालाहलवंशजानिव-संख्यातीतान् आयुधिकान्-ऐकाधिपत्यप्रस्थापने- च्छयाऽऽर्यावर्त प्रसह्याऽऽक्रमितुंवद्धपरिकरस्य दुरितस्यांशावतारानिव- भयविनिमेपमवलोकयन्तं, कौतूहलेन तीव्रणावशं, शनैः शनैः निःशब्दमधोवतरन्तं, प्रयतमानं तेषां शस्त्राजीवानां वास्तविक स्वरूपं ज्ञातु, श्रूयमाणं तेषां संलापं मंद्रस्वरम् । समवित्त स्वात्मानं क्षणार्द्ध एव परिज्ञाय तेषां स्वरूपं भमेन घोरेण समागम्यमाणं चेप्टमानं च प्राणपणेन." उच्चैः... अलक्षयच्च सहसा प्रबुद्धाऽऽत्मानं विश्रामकक्षे स्वे कमल- दलकोमलायां सुधाधवलप्रच्छदायां सुमनोरजोवासितायां शय्यायां पतितं, प्रस्फुटत्स्वेदविदुक्लिन्नगात्रं, शुष्यत्ताल्वस्फुटाक्षरं चेष्टमानमा- भोप्टुं 'यवनाः! यवना:...!' इति । नाशकत्तु चिराय पर्यवस्थापयितुमात्मानम् । वहोः कालादनन्तरं प्रकृति स्वां कथंचिदापन्नाऽपि नापारयत् लेशतोऽपि विस्मर्तु तं दुःस्वप्नम् । समुत्थाय प्रातः, नित्यकर्मणि पुत्तलिकावद्व्यापृताया अपि... 'अपि नाम सः किंचिदनिष्टमसुसूचत्.? आहोस्वित्- आसीत् सः संतप्तकल्पनाशक्तेस्तस्या दुविलसितमेव केवलं --- इति प्रतिक्षणमात्मनैव वितर्कयन्त्यास्तस्याः क्षणोऽक्षणः प्रहर इव व्यत्येतुमारभत, प्रहरश्च शांतिहरो दिवस इव.. दीर्घदीर्घः । सिंधु-कन्या

कवंचित् परिसमापितदनिककृत्या शयननिपतिता म्लाना,
विपादेनाननुभूतपूर्वसदृशेन समाक्रांता, 'दुःस्वप्नः स भ्रात्रे वनवाहवे
निवेदनीयो न वेति' विनिश्चेतुमसमर्था च सहसाऽबुद्ध्यत
वेत्रधारिणी, सविनयमुपसृत्य शयनं तदीयं मंद्रस्वरं निवेदयन्ती-
'जयतु जयतु भर्तृ दारिका"। भर्तृ दारिके ! महाराजाधिराजस्त्वा-
मेतस्मिन्नेव क्षणे द्रष्टुं कामयत' इति ।
-
ऐक्षत च- स्वात्मानं शयनादुत्यितं मंत्रणाकक्षं पितुः
समुद्दिश्य पदानि निक्षिपन्तं तंद्रितम् ।
सिए-कपा

चतुर्थ : परिच्छेदः "सिंधुसरिन्मुखप्रदेशरक्षणायाद्य प्रातरेव कटकात् संप्रेषितस्य धानुष्कवलस्य प्रमुखोऽयं बलाहको, मार्ग एव मिलिताद्देवलदुर्गपाल- दूतादस्मात् रामशरणादधिगत्य कल्पांतभयंकरं समाचारमेक क्षणमात्रं किंकर्तव्यविमूढोऽपरस्मिन्न व क्षणे समादिश्य वलं स्वं प्रभंजन- वेगेनोपसतु देवलनगरी सरिन्मार्गेण, स्वयं स्वामिचरणयोरुपस्थितो यथोचितनिर्देशग्रहणार्थ"-प्रारभत धीसचिवः निवेदयितुं श्रांततरस्ता, प्रविश्य मंत्रणाकक्षमुपविश्य पितुः समीपं विलोक्य क्षणमात्रं पितुः वार्द्ध केनाधिकतरमेव समाक्रांतस्यापराधवीधेनेव भुग्नस्य वलितमाननं जिज्ञासामुखरया दृष्ट्या तदभिमुखीभूताम् । समाकयेव च शब्दान् 'कल्पांतभयंकरं समाचारमेक'- मलीयतात्यन्तं तस्या सा तंद्रा । वोधिता नामातींद्रियया कयाचिच्छक्त्या साप्रागेव निवेदनात्- सुस्पष्टमबुद्ध्यत स्वरूपम् । अबुद्ध्यत तस्य दुःस्वप्नस्य वास्तविकमर्थम् । सहसा धीरहृदया चाऽऽरभत- एकाग्रेण मनसा धीसचिवस्य तनिवेदनं श्रोतुम् । "सः समाचारः स्वामिचरणः श्रुतः, प्रमितश्च मंत्रिपरिषदा राजकुमारेण वज्रवाहुना भवत्या- सर्वैरपि- श्रवणीयो विचारणीय- श्चेति । अत एव- वत्सा राजकुमारो मंत्रिणश्च- सर्व इमे त्वरया महत्याऽयाहूताः।" तस्य समाचारस्य सिंधु-कन्या "तनिवेदय रामशरण ! समाचारं तम् ।" "आक्रांताऽस्माकं देवलनगरी पापै"- राह सः क्षामवदनी मार्गधूलिधूसरितसर्वाङ्गः श्रांतो दूतः । "सविस्तरं कथय"- नुनोद ब्रह्मदत्तः । "अतीते निशीथेऽऽवसिते तमस्विन्यास्तमोबहुलाया अस्माकं दुर्गाधिपः शीलभद्र,- आदित एवाशांतस्वांतः, निद्रामलभ- भानः, शयने लुठन्, क्षणमात्रं तंद्रित:- सहसाऽजागः" श्रुत्वेव कस्याश्चिदुत्तेजितमस्फुटमाकोशम् । विस्फारिताक्षं शयनकक्षे सर्वतोऽ- वलोक्यानवलोक्य कमप्यभितो विस्मयमान आकृष्यमाण इव केनापि समुत्थाय शनैः शनैः सागरसंग शयनकक्षवातायनमुपसृत्याधः- प्रसृतस्य नैशेऽधतमसे दिङ मंडलन्यापिनि फेनिलभासुरकल्लोल- संचितस्य मंद्रं मंद्रं गर्जतः सागरस्य दिशि दृष्टि क्षिपन् विमनस्का सहसाऽक्षिलक्ष्यीचकार दक्षिणदिशो गर्भगह्वरान्निर्गच्छतस्तमःखंडान् विडंक्यतः निःशब्द सिंधुसरिन्मुखप्रदेशमुपसर्पतः प्रवातोत्फुल्लकृष्ण- शृङ्गान् पोतान् ।" - "अश्रद्दधानश्च स्वदृष्टि यावत् सावहितं पश्यति पुनस्तावदपश्यत् तान् सवेगं देवलपर्तनतीरभागमुपरुन्धतः ।। उपरोधकेभ्यश्च तेभ्यः निःशब्दं निःसरतः, रोघसि च सिकतिले दीर्घदीर्घ विधवाकपालशून्य शून्येऽवतरतः, कृष्णवस्त्रान्, दुर्लक्ष्य- विशेषान् संख्यातीतान् सैनिकान् ।" "तत्क्षणे च- विदितवेद्यो वीतसंशयो, . विस्मितोऽ- प्यनाकुलितः, सावधानः, प्रत्युत्पन्नमति स्वां सर्वयाऽनुसरन्, संकट- घोषिकां प्रचंडां कांस्यघंटां लंबमानां वादयितुमारभत- सरभर्स प्रांगणे निर्गत्य। "नीरवे तस्मिन् नैशे वातावरमे प्रसह्य .प्रसरन्तं दिछ - मंडलानुनादिनमभुतपूर्व श्रुत्वा तं पंदारवं सहसा प्रवुद्धा दुर्गरक्षकाः- सिघु-कन्या आक्रामका निद्राऽऽरक्तनयना एव- अनावृतप्रायकाया एव- आविरभवन् प्राकारप्राङ्गणे, दुर्गपालसूचित्तया दिशा प्रेरितदृशोऽवालोकयन् रिपुसैनिकान् सागरतीरेऽवतरतः, धैर्येण च महताऽऽरभन्त प्रलय- मेघजलवर्षाघनां पापाणवर्षां मर्मभेदिकाम् ।" "आकर्ण्य घंटारवमनपेक्षितं चकिताः, साक्षात्कृत्य निजगूढावतरणप्रयासवैफल्यं विचलितास्त्वरमाणा आयुधिकास्तावत्कालपर्यन्तमसंघट्टिता, अनुभूय सहसा तां पापाणवर्षां व्याकुलाः, कृष्णपिपीलिका इव पीडिताः, सागररोधसीतस्ततः पलायितुमारभन्त । विजयगर्जनां च कतु प्राकारभित्तिभ्योऽधोऽव- लोकयन्तः पापाणवर्षका दुर्गसैनिका.।" "क्षणिकेन तेन विजयेन किंचिदप्यनुत्तेजितो दुर्गपालस्तु प्राकारशिखरानिरीक्षमाणोऽनिमिषया तीक्ष्णया दृष्ट्या दक्षिण- 'दिगन्तादनवरतं समापतदरिवलं विचारमग्न, आहूय मां समीपवतिनं, जगाद- 'रामशरण ! दुष्प्रसह्य खल्वेतद्रिपुवलम् । अपर्याप्तं चाऽस्माकीनं प्रतिरोद्ध मेतत् । तन्निर्गत्यास्मिन्नेव क्षणे देवतायतन- गर्भगृहवर्तिना गूढमार्गेण प्रतिष्ठस्व राजधान्य, निवेद्य च स्वामि- चरणयोः सर्वमिमं वृत्तांतमनुरुध्यस्व सेनासाहाय्यं मनोजवेन प्रेपयितुम्'- इति ।" "शिरसि कृत्वा तदादेशं, गूढं निर्गतस्तस्माद्दुर्गात्, प्रवसन् सततं, समुपस्थित: स्वामिचरणयोः समक्षं, न्यवेदयं तत्सदेशम्। श्रुत्वा देवः प्रमाणम् ।" विरत एवमभिधाय तस्मिन् दूते प्रससार कतिपयक्षणान् तस्मिन् मंत्रणाकक्षे चिंताधना नीरवता । उत्सारयन्निव तां प्रयासेन महता प्राह स्वगतमिव 'महाबलाधिकृतः "कालेनैतावताऽस्माकं धानुष्कबलं देवलनगरीपरिरक्षणे व्यापृतमपि स्यात् ।" "अपि चिंतयति भवान् तत् पर्याप्तम् ?"- अपृच्छत्तीव्र- स्वरा राजदारिका । . ६६ "सिंधु-कन्या "सिंधुसागरविसिंधुसरिन्मार्गपरिरक्षिकाया: नौसेनाया एको भागस्तुरगवलस्य चांशः प्रेषयितुं शक्यः"-प्रत्यवदत् सः । "समुपेक्ष्यान्याः सर्वाः सीमा, आकृष्य सर्वाः सेनास्ताभ्यो विनियोजन तासां दाक्षिणात्यायामेव सीमायां तु न श्रेयस्करम्"- आह सांधिविग्रहिकः । "कूटयुद्धप्रशिक्षितया पदातिसेनया नौसेनया च सह भ्राता बच्चो यद्यस्मिन्नेव क्षणे देवलनगर्याः परिरक्षणाय प्रतिष्ठेत:" तहि स पर्तनाभ्यन्तरे प्रविष्टानपि यवनान् निष्कासयेत्, प्रयत्नांश्च तेषां सिंधुमुखप्रवेशाय दृढं प्रतिरुन्ध्यात्"-प्राह राजदारिका ! - "जयतु जयतु"देवः"- सहसा प्रविश्य निवेदयामास प्रतिहारः । “एप दूतः शिविस्थानदुर्गादुपस्थितो देवदर्शनं सद्यः प्रार्थयते । श्रुत्वा देवः प्रमाणम् ।" क्षणमेकमवलोक्य राजकुमार वजवाहुं विमनस्केन राज्ञाऽनुमोदितश्च प्रवेशयामास स्थूलकायमेकं घमंजलक्लिन्नाश्ववारवेपं प्रौढवयसं पुरुपम् । "जयतु जयतु देवः"- प्रणम्य स्वामिनं मुकुलितहस्त: निवेदयितुमारभत सगूढपुरुषः। "सविनयं विज्ञापयति स्वामिचरणयोः शिविस्थानदुर्गस्योपपालो यत् राज्यस्य पाश्चात्यसीमास्पशिपु यवन- प्रदेशेवादित एव कृतसंनाहा रिपोः ओष्ट्री सेनाऽचिसमाना नूनं लक्ष्यते । स्वामिप्रेपिता औष्ट्री सेना गजसेना च तत्प्रतिरोधोय सुनियोजितव । एतत्त्वपरं चितास्थानं यदधिगम्य कर्णोपकणिकयो परचक्रवात्तमितद्देशीयाः सामंता ग्रामप्रधानाश्च बहवः, स्वामिनः प्रतापे तावत्कालपर्यन्तं किंचिदपि विपरीतं चेष्टितुमसमर्था स्वशिर्रास्युनमयन्त इव स्पषौविश्वासार्हः सूचितास्तदनुयायिनः सामान्याश्च जनाः । विशेषतोऽस्मिन् शिविस्थाने । आदित एव मौल्यवशादवशंवदाः स्वामिनोऽप्रत्याः- सामान्याः जनाः सद्योमृतायाः कस्याश्चिज्जरत्या उन्मत्तप्रायाया . निधनं . निमित्तीकृत्यानर्गलं सिंधु-सन्या किमपि किमपि प्रलपन्तः न लक्षयन्ति स्वकुशलं, न चित्ते कुर्वन्ति स्वामिनश्चित्तौदार्य, न विगणयन्ति स्वामिन: प्रतापम् । उत्तेजिता इव उद्बत्ता इव निरंकुशा इव विचरन्ति शस्त्रहस्ताः। नितान्तम- शांतेयमांतरिकी परिस्थितिः निवेदिता स्वामिचरणयोरिति ।" "वज्रस्य तूपस्थितिः शिविस्थानप्रदेश एवाभीष्टतरा"- सहसा प्राह राजा दहरः । “स हि तत्र स्थितः न केवलं पाश्चात्यां सीमां रक्षेदपि तु निरंकुशायमानान् तान् क्षुद्रान् सामंतान् ग्रामणी- व्र वान् साधारणांश्च जनानियंत्रणे कठोरे स्थापयेत् । स्वभावत एव राजद्रोहिणस्ते नराधमा अस्यां संकटवेलायां प्रतिशोधावेशांधा विलुप्तविवेकास्तथा नाम आचरेयुर्यथा राज्यमिदं शतशः स्वतोविदीर्ण शत्रो सर्वभक्षकस्य भक्ष्यतामनायासेनैवोपेयात् । तद्वज्ज ! प्रतिष्ठस्व शीघ्रमेव...'। देवलनगरीपरिरक्षार्थ च, सेनापते ! , कूट- युद्धनिपुणां पदातिसेना- यथाऽऽह वत्सा- अद्यैव प्रेषयतु भवान् । प्रतिरोधार्थ च यवनानां सरिन्मुखेनान्तःप्रविविक्षूणां शाक्तीकवाहिनी नौवाहिनीम्।' शीघ्रमेव वयं स्वसुहृदामन्येषां भारतीयानां नृपाणां सेनाभिः साहाय्यार्थमागताभिरुपोद्वलितसामर्थ्याः प्रबलतरां सेनां तत्र प्रेषयितुं समर्थाः स्याम ।" वदंश्चैवमुदतिष्ठत् विश्रामार्थ किलाशांतस्वांतः । राजदारिकायास्तु मानसं, निशम्य पितुर्व्यवस्थामनाश्वस्त- मपि प्राप्तायां परिस्थिती कामयन्यो समीचीनतरां सूचयितुमसमर्थ, स्तब्ध, शिविदुर्गायैकलमेव प्रस्थितं सस्मितमपि चिंताम्लाननयनं सपरिहासमापृच्छमानमपि तदनुज्ञां लोचनाभ्यां संगृह्णन्तमिव तस्या भगिनिकाया बाल्यसख्याः मूर्तिमपुनदर्शनाऽऽशंकया भ्रातरं वज़बाहुं प्रणम्योदासीनं, ततो तस्मिन् निर्गत -एकाकिनमिवाऽऽत्मानमनुभव. दुश्चितयाऽऽक्रम्यत । 'सा च तस्या'दुश्चिता, युगदीर्घ इव शनैः शनैरन्तमुपयाते तस्मिन् दिवसे, पाश्चात्त्यसागरें' निमग्ने दिनकरे तत्समवेदनव सिंधु-कन्या " -1 । ... ।

निष्प्रभे, धनतरीवभूव । मंत्रणाकक्षेः हि सद्योविकसितकुसुममाला- सुवासिताभ्यंतरेपि रत्नदीपभाभासितेऽपि निस्तेजस्क इव भासमाने, पितुः संनिधौ समुपविश्यान्यमनस्कतया तस्य मंत्रणां मंत्रिभिस्तैस्तैः सह शृण्वती. सा. सहसाऽक्षिलक्ष्योचकार द्वारपालेन ससंभ्रम- मन्तःप्रवेशितं परिम्लानं दीर्घदीर्घ श्वसन्तं रक्तारतवस्नमश्वसा- दिनमेकम् । अनुमाय च तं देवलदुर्गाधिकारिष्वन्यतमं दुर्वार्ताहरं सावधाना कर्णागतपंचप्राणेव श्रोतुमारभत !:. "विनष्टाः स्मः" स्वामिन् ! विनष्टाः स्मः" प्रारभत निवेदयितुं स दूतो भावातिरेकास्फुटाक्षरः । निहतः पापरस्मार्क दुर्गपालः । विजितो दुर्गः । दूपितो देवालयः । खंडितो देवीविग्रहः । पादानांतश्च समस्तो देवलनिगमः।" "अहो अत्याहितम्"-उज्जगार धीसचित्रः । "सविस्तरं निवेदय !"- आज्ञापयामास राजा दहर:::: .....यदा खलु पापाणवर्पयातीप्रया समुद्विग्ना आक्रामकाः सागरतीरे कांदिशीका इतस्ततः पलायितुमारभन्त तदा विरली- भवति निशांतध्वांत ईपल्लक्ष्यविशेपो महाकायः पोतः एकः सागर- मध्यवर्तिनः निश्चलाविशालानीसमूहादग्रे -सृत्वा - वेगेन " “महता तोरमुपससार । सांनिध्यमात्रेण च तस्य शांतोद्वेगाः- शतगुणित- साहसा इव- ते यवनाः पापाणवर्षा धैर्येण महता सहमानाः, स्वस्व- नर्माण व्यापृताः, : केचिनौसमूहात्तस्मादवतीर्योपतीरमागच्छद्भ्य उडुपेभ्योऽसंख्येभ्यः शस्त्रास्थसंभारान् रोघस्यवतारयितुं, केचिद्दुर्ग- द्वारविदारकान् तीक्ष्णलोहकोलमुखान् प्रवलान् दारुखंडान्-पोतेभ्यः रोधस्यवत्तारितान्- दुर्गद्वारसमीपे नेतुं, केचित् प्रलंबाः रज्जुनिर्मिताः निःश्रयणी:- प्लवस्तीर आनीता:- प्राकारमभितः सर्वासु दिक्षु स्थापयितुं, वहवश्च वर्मिता अप्रतिहतगतयः, - पापाणवर्षया फलकपाणयः स्त्रिशिकाः नगरी- एतावत्या कालकलया. विनिद्रा भयजडा- समुद्दिश्य तस्तैर्गिरुपसर्तुमारभन्त ।" सिधु-कन्या रक्षकान्, निशितशरवषिणो धनुर्धरान्, तिरस्कृत्य मृत्युभयं शनै: शानरप्रतिहतगति समुपसर्पतः रिपुसैनिकान् शक्तिभिर्विकलांगान् कुर्वतः शाक्तोकान्, समुल्लंध्य मृतशरीराणि प्राकारभित्तिमारोढुं प्रवृत्तान् यवनान् कुंतश्छिन्दतः कौंतिकान्, आरुह्य महता प्रयासेन प्राकारभित्ति पदमन्तः स्थापयितुं प्रयतमानान् म्लेच्छान् खड्गः कृन्ततः नैस्त्रिशिकान् प्रोत्साहयितुं प्रारभतानवरतम् ।" "..."सहसाऽनामिकया कयाचिदाशंकयासमाकृष्टचित्तश्च".. उपरि निरभ्रे नीले गगने सगर्व चलन्ती वालभास्करकरप्रोद्भासितां सिंदूरवर्णा प्रोतुङ्गध्वजदंडमंडनायमानां देवीपताकां क्षणमेकम- पश्यत् ।" ".-'अपश्यच्च तामनवरत पतद्भिः दुःसहवेगर्मुष्टिप्रमाणः पापाणखंडैः निशितकोणेरसंख्यः लक्ष्योक्रियमाणाम् ।" " 'अध:पतितायामत्यां सर्वेषां देवलवासिनामधःपतेन्नूनं धैर्यम्'- इति विदन्, 'कुतः खलु वर्षेयं पापा' इति दृष्टि तीक्ष्णामघः सागरतीरेऽसंख्ययवनसैनिकदुर्लक्ष्य प्रायसिकते व्यापारयन्, अद्राक्षीत् तमेव महाकाय पोतम्- अधुना वालभास्करकरप्रोद्भासितहरित- पताकं- तीरमुपगतं, तन्निगडिताया एकस्या अश्मप्रक्षेपिकायाः समीपे लोहमूर्तिवदविचलं तिष्ठन्तं तच्चालकांश्च त्रिचतुरान् दक्षान् नाविकसैनिकान् दर्शयित्वाऽसकृत् तामेव देवीपताकां पाषाणवाय निरंतराय समादिशन्तं महाप्रमाणं वलशालिनं च कंचित् योद्धारम् ।" 'अयमेवास्या दुश्चेष्टायाः परिकल्पका- इति विनिश्चित्य च यावत् समीपतिनं धनुर्धरं तं लक्ष्यीकर्तुमादिशति, तावदक्षि- लक्ष्यीचकार तां देवीपताकां पापाणाघातभग्नात् ध्वजदंडात् महसाधःशमानां विदोर्णपट्टवस्त्राम् ।" "तन्मात्रव्यग्रचित्तश्च सहसाऽशृणोत् पाष्णिसमुद्भूतं रणगर्जनं विपरीततया भागधेयस्य सर्वथा समुपेक्षितामुदीची प्राकार- सियु-कन्या 1 "अवलोकयंस्तान् दृष्ट्याऽनिमेषया, प्राकाराग्ने दृढमव- स्थितोऽस्माकं दुर्गपालश्च यावद्विचितयति- 'सुनिश्चितमाक्रमण- व्यूह प्रत्यक्षेऽवतारयन् द्विपन्, समुपरुद्ध्य तीरं, नगरमाकमितुं बद्धपरिकर इव लक्ष्यते । कदाचिद्विजित्य नगरी, निक्रिन्यीकृत्य दुर्गसैन्यं सः निष्कंटकेन सिंधुमरिन्मार्गेणान्तःप्रवेशयितुं स्वसेना ईहते."। अत एव"" तास्तस्य भीमकाया नौका: समूहान्निश्चलात पृथग्भूत्वा प्राच्यां दिशि सरन्त्य इव लक्ष्यन्ते। परंतु"" परंतु" काश्चिन्नौकाः प्रतीच्यामपि दिशि प्रवसन्त्य इव दृश्यन्ते । तत् किं खलु संकल्पितं स्यात् तेन'- इति, तावदनुवभूवानभ्रवज्रपात पतन्ती मर्मभेदिनी पापाणवृष्टिम् ।" "कुतः खल्वियम्- इति चकित- चक्तिं सर्वतो दृष्टि व्यापारयन् चाऽद्राक्षीत् त... सागरमध्यतिनि नौकासमूहे दृढं खचिताभ्योऽश्मप्रक्षेपिकाभ्यो दुर्गमेव केवलं समुद्दिश्य मुसलधारं समापतन्तीम् ।" '"अशृणोत् तत्क्षणमेव, चमफलकेन संरक्ष्यमाण:, नौकास्थितानां तीरवर्तिनां नगरीमुपसर्पतां दुर्गं । परिवेष्टयतां संख्यातीतानां यवनसैनिकाना कंठेभ्य: सहसोद्गत न्यकृत्य सागर- गर्जनं तिरस्कृत्य प्रभंजनतर्जनं प्रसह्य दिक्षु सर्वासु प्रसरन्तं रणधोपं..." 'अल्लाहो अकबर"! अल्लाहो अकवर !' इति ।" "अपश्यच्च तत्क्षणमैव, । तीरवतिन: नगरीसमीप- वतिनश्चाऽऽक्रामकान् समुद्यतखड्गमुत्क्षिप्तभल्लं समुद्धृतशक्ति- कमाक्रामतो दुष्प्रसह्य न वेगेन, नौस्थितांश्च कृत'खान् धनुर्धरान वर्षतस्तीक्ष्मान् शरान् ।” " 'समारब्धं नूनं शत्रुणाऽऽक्रमणम्'- इति विचित्य च सः सहसा समुत्तेजितो- 'मायया पुरुरूप इव'- रक्षास्थानेषु प्राकार- परिक्लुप्तेषु बहुषु युगपदिवोपस्याय, दारुणदृपद्धपिणो हप्तान् सिंधु-कन्या रक्षकान्, निशितशरवषिणो धनुर्धरान्, तिरस्कृत्य मृत्युभयं शनै: शनैरप्रतिहतगति समुपसर्पतः रिपुसैनिकान् शक्तिभिर्विकलांगान कुर्वतः शाक्तीकान्, समुल्लध्य मृतशरीराणि प्राकारभित्तिमारोहूँ प्रवृत्तान् यवनान् कुंतैश्छिन्दतः कौंतिकान्, आरुह्य महता प्रयासेन प्राकारभित्ति पदमन्तः स्थापयितुं प्रयतमानान् म्लेच्छान् खड्गः कृन्ततः नस्थिशिकान् प्रोत्साहयितुं प्रारभतानवरतम् ।" “सहसाऽनामिकया कयाचिदाशंकयासमाकृष्टचित्तश्च... उपरि निरभ्रे नीले गगने सगर्व चलन्ती वालभास्करकरप्रोद्भासितां सिंदूरवर्णा प्रोतुङ्गध्वजदंडमंडनायमानां देवोपताको क्षणमेकम- --- प्रश्यत् ।" "..."अपश्यच्च तामनवरत पतद्भिः दुःसहवेगर्मुष्टिप्रमाणेः पापाणखंडः निशितकोणरसंख्यः लक्ष्योक्रियमाणाम् ।" " 'अधःपतितायामस्यां सर्वेषां देवलवासिनामधःपतेन्नूनं धैर्यम्'- इति विदन्, 'कुतः खलु वर्षेयं पापा' इति दृष्टि तीक्ष्णामधः सागरतीरेऽसंख्ययवनसैनिकदुर्लक्ष्यप्रायसिकते व्यापारयन्, अद्राक्षीत् -तमेव महाकायं पोतम्- अधुना बालभास्करकरप्रोद्भासितहरित- पताकं- तीरमुपगतं, तन्निगडिताया एकस्या अश्मप्रक्षेपिकायाः समीपे तोहमूर्तिवदविचलं तिष्ठन्तं तच्चालकांश्च त्रिचतुरान् दक्षान् 'नाविकसैनिकान् दर्शयित्वाऽसकृत् तामेव देवीपताका पाषाणवायै निरंतराय समादिशन्तं महाप्रमाणं वलशालिनं च कंचित् योद्धारम् ।" 'अयमेवास्या दुश्चेष्टायाः परिकल्पक'- इति विनिश्चित्य च यावत् समीपवतिनं धनुर्धरं तं लक्ष्योकर्तुमादिशति, तावदक्षि- लक्ष्यीचकार तां देवीपताकां पापाणाघातभग्नात् ध्वजदंडात् सहसाध:नं शमानां विदीर्णपट्टवस्त्राम् ।" "तन्मात्रव्यग्रचित्तश्च सहसाऽशृणोत् पाणिसमुद्भूतं रणगर्जनं विपरीततया भागधेयस्य सर्वथा समुपेक्षितामुदीची प्राकार- सिंधु-कन्या भित्ति निःश्रेणोभिः निःशब्दमारुह्य मंदिरप्रांगण अकस्मादाविर्भूतानां संनद्धानामासिकांनामसंख्यानां शत्रुसैनिकानाम् ।" "तत्क्षण एव साक्षात्कृत्य संकटमकल्पितोपनतमीपदप्य- विचलित: सहसाऽऽकृष्य समीपवतिनो मम हस्तात् खड्गमारक्त- लोचनोऽग्रे ससार । एकाक्येव च प्रारभत योद्ध, संख्यया प्रतिक्षणं परिवर्द्धमानः शत्रुसनिकैः सह ।" "प्रवृत्त एव चाकस्मादशृणोद्देवलदेवीमंदिराभ्यंतरप्रदेशा- दाविर्भवन्तं जयघोषमुभयलोकविरुद्धमाचरता केनापि भारतीयेनाधमेन प्रदर्शितं गुह्य प्रवेशमार्गमात्रम्योद्गच्छता, गर्भगृह एव खड्गाघाते- नैकेनैव मारयित्वा भयजडं विस्फारिताक्षं देवीपूजकम्, अश्राव्यरप- शब्दस्तिरस्कृत्य तीक्ष्ण: शस्त्रप्रहार: खंडयित्वा देवीविग्रहं चूर्णयित्वा काचदीपभाडानि सदर्पमुपहसतां, सगवं च पदं मंदिरप्राङ्गणे न्यस्यता म्लेच्छानाम् ।" "विदित्वा चाऽऽत्मानं पराजितं, रणाङ्गण एव प्राणान् विस्रप्टुं कृतनिश्चयो मां दृष्टिक्षेपेणैकमात्रेण निःशब्देनाऽपि भावमुखरेण ततो निर्गन्तुं निवेदयितुं च तस्यान्तिमं प्रणामं स्वामि- चरणयोः समादिदेश ।" "अनिच्छुकोऽपि तं तत्र खड्गमात्रद्वितीयं हातुं योध्दुम- संख्यः रिपुसनिकः सह " अहं तस्य तं चरममादेशमुपेक्षितुमपारयन् ततोमासरम् । प्रयस्यंश्चात्मानं म्लेच्छसैनिकानामन्यतममिव प्रदर्शयितुं शनैः शनैश्च प्राकारप्राङ्गणाग्निष्क्रमितुं- कतिपयक्षणानंतर- मेव- अद्राक्षं तं युगपत्पातितैर्यवनखड्गः कृतांतदंष्ट्रासंनिभैः शतशः शकलीकृतम् !". सहसा समानांतेवामाय हृदयेषु श्रोतृणां वहिरुत्प्लवमानेन शोकेन शब्दातीतेन निस्तेजस्का बभूव रत्नदीपप्रभा- निश्चला-- स्वयं धूयमाणेव तं दारुणं वृत्तांतम् ।। सिंधु-कन्या "अहं तु वराक:"- विरम्य क्षणमात्र पुनरारभत सः स्यामिभक्तः पुरुष उच्छुकतालुः, "संयम्य कथमप्यात्मानं, तावता कालेन विदीर्णमहाकपाटेन शवमुखेनेव व्यात्तेन महाद्वारेणानवरत- मन्तःप्रविशभियंवनसैनिकः सोत्साहर्दीनदीनशब्दमुखरमंदिरमेवोद्य- तायुधमुपसर्पद्भिरपरिलक्षितः, प्रविश्य दुर्गपालनिवासं शून्यशून्य तच्छयनकक्षाभ्यंतरवतिना गुप्तेन मार्गेण प्रस्थितः, समाक्रम्य योजनदीर्घमुनगंधिनं तमस्विनं विषमं पंथानं नगरात् सुदूरे क्षेत्र एकस्मिन् पचेलिमसस्यसंपन्ने निर्गतः, निरन्तरं प्रवसन्, स्वामि- चरणयोरुपस्थितो यथाऽऽदेशम् ।" t..."रिपोः प्रथमोऽयं पदप्रक्षेपोऽस्माभिःप्राणानपि तृणीकृत्य प्रतिक्षेप्यः"- प्रयासेन महता पर्यवस्थाप्यात्मानमाह सिंधुराजकन्या, दीपशिखायां विनिगडिताऽऽरक्तदृष्टि: । "चातुर्येण महताऽस्माकं चारचक्षूपि बंचयित्वा, निश्चयेन वचढेन सेनासनहनं सर्वागीणं कृत्वा, कौशल्येनाद्वितीयेन स्वं वलं सिंधुसागरवेलायामयतार्य... रिपुणाऽस्माकं मर्मस्थाने तीर्थस्थाने योऽयं तीव्रः प्रहारः कृतः, स यदि शीघ्रमेव रिपुं समूलमुत्खाय क्षिप्त्वा च तमगाघे सिंधुसागरे न प्रतितस्तहि स- यथाऽह वज्रः- पश्यतामेवास्माकं सर्वेषां मुखं व्यादाय समस्तं राज्यमाक्रमिष्यति ।" "देवलपर्तनं हि तडिद्वेगेनैवं विजित्य यवनेन न केवल- भस्मद्रराज्यस्य दुर्वलतमं स्थान... अपि तु श्रद्धापरवशस्यास्माकं प्रजाजनस्य धैर्यमपि दूपयितुं चेप्ट्यते ।" 'आदित एवास्मद्राजवंशं कुत्सितया दृष्ट्याऽवलोकयन्तो दाक्षिणात्याः संघवा, देवलदेवी विग्रहखंडनं देवप्रकोपसूचकं मन्यमाना, भवनमा यिष्यन्ति स्वशिरांसि रिपुमंमुखं.":. क्षुद्राणि तृणानीव झंझावाताभिमुखम् ।" "अत्यल्पमिदमुक्तम् । समस्ते सिंधुदेशे पूज्यमानायाः, मेघवानी राजवंशानां रक्षिकात्वेन समयादतिप्राचीनाद्विख्याताया सिकन्या ७३ देवलदेव्या भंजनमिदं राजभक्तानपि सैधवान् नूनं क्लीवयिष्यति ।" "सागरमार्गेण च", प्राह धीसचिवः, "निष्प्रतिरोध समापतद्भिरायुधिकस्तुरगः शस्त्रास्त्रश्चानवरतमुपचीयमानबलो यवनः शीघ्रमेवाजय्यो भविष्यति ।" "अस्माभिः संप्रेषिता कूटयुद्धनिष्णाता सेनाएतावता कालेन विज्ञाय देवलनगरीं रिपुणा पादाक्रांतां मार्गक्रमणाद्विरता, तात, भवतः समयोचितमादेशं प्रतीक्षमाणा भवेत् । अतः सा त्वरितमेवाधिकसैनिकबलोपवृंहितसामर्थ्या कुशलतरसंचालकसंचालिता भवता गूढः भूमार्गः देवलनगरीवर्तिषु प्रासादेषु गृहेप्वापणेषु निभृत- मुद्गन्तुमकस्माच्चाऽऽक्रमितु विद्युद्वेगेन यवनसैनिकान् नगरे दुर्गे तीरे च तत्र तत्र वर्तमानान् विश्रब्धान् विजयोन्मत्तान् समादेश्या इति मम मतम् ।" "अनभ्रवज्रपातसंनिभेन प्रथमेन शत्रोः प्रहारेण भयजाड्यं लंभिता अपि देवलनगरीवासिनो देवीविग्रहखंडनमत्याचारिणां विज्ञाय समुत्तेजिता, अवलोक्यासंख्यान् वांधवसैनिकान् न: सशस्त्रान् धरणीमातुरुदरादाविर्भूतान् पुनःप्रादुर्भूतधैर्या, अस्मान् सहायिप्यन्त- इत्यत्र न संशयलेशोऽपि"- जगाद राजदारिका । परंतु- 'वामे विधौ नहि फलन्त्यभिवांछितानि'- इत्यत्र न संशयलेशोऽपि । यदा हि सिंधुराजेनाविलंबं प्रेषितरभ्यासादननिपुणरासिकः परिवघितसामा सेना, प्राप्य स्वामिन आदेशं, समाक्रम्याध्वानं सजवं, समुपगत्य गूढं देवलनगर्याः परिसरवर्तीनि सस्यबहुलानि क्षेत्राणि, भूमार्गः सुगूढः वणिक्श्रेष्ठानामावासेपु सार्थवाहाना भांडारगृहेषु सामान्यनागरिकाणां गृहेषु च नशेऽधतमसे नि:शब्दं प्रादुरभवत्- तदा, भूमिमुद्भिद्य प्रकटितामिव तामवलोक्य महान् खल्वासीन्नागरिकाणां विस्मयः, प्रत्यभिज्ञाय तां सैधवसेनामाततायि- सिघु-कन्या शासनार्थमागतां तेषां हर्पः । संप्राप्य तन्माध्यमेन सिंधुराजस्य साहाय्यदानार्थमनुरोधं तेषां समुत्साहः । परिहरन्तश्च कालातिपातं ते तस्यामेव कालतमस्विन्यां ज्ञात्वा नगरमभितस्तेषु तेषु चत्वरेषु तासु तासु पण्यवीथिकास्वधिकृतान् यवनसैनिकगुल्मान् तंद्रालसान्- सहसा तान् आचक्रमुः। विदधुश्चासावधानान् तान्- कांश्चिदुत्सारित- तनुत्रान् दूरीकृतशिरस्त्राणान् निःशस्त्रान् सिंधुसलिलसंस्पर्श- शीतलस्य नैशसमीरस्य स्पर्शसुखं मुद्रितनयनमनुभवतः, कांश्चित् स्मारं स्मारं वियुक्तं कौटुंविकं परिजनं निःशब्दं खिद्यतः, कांश्चिद- सकृत् परिगणय्य मनस्येव सौवर्णमुद्राराशि लुंटितं नगरवेष्ठि- नामावासेषु हृष्यतः, कांश्चिद्वारं वारमाक्रमणचातुर्य विलक्षणं स्वसेनापतेः सुहृद्गोष्ठीषु प्रशंसतः, कांश्चिन्मूर्तिपूजकानां- खंडितायामपि मूर्ती निष्क्रियत्वमुररीकुर्वतां- भीरुत्वं परिशीलयतः, कांश्चिद्भीपणं समरप्रसंगं नातिचिरादेवावश्यंभाविनं परिकल्पयतः, कांश्चिद्संख्येष्वपि भीषणेषु भाविसमरप्रसंगेषु सुनिश्चितं विजयं स्वपक्षस्यवोच्च: प्रतिपादयतो- गतप्राणान् । इयान तीव्रः खल्वासीत् तेषां प्रहारोऽनपेक्षितश्च यदसंख्याः किल ययनसैनिका, अनभिज्ञा एव प्रत्याक्रामकाणामम्रियन्त । कतिपयेप्येव च क्षणेषु देवलनगरीवासिन आक्रामकेभ्यो मुक्तिमलभन्त। """अलभन्त मुक्तिम् । परंतु तात्कालिकीम् । तिरस्कृत्य दुर्गपालप्रासादवासं सुखकरं, सिंधुसागरतीर- वतिनि प्रवलपयोनिधिपवनदोलायमाने पोत एव स्वकीय क्लृप्त- वसतेवनसेनापतेः संख्यातीतानां च तत्सैनिकानां सिंधुसरिन्मुख- प्रदेशविश्रांतास्यगणितासु नौकासु निवसतां, हि, ते किचिदत्यपकतु नाशकन्। दुर्दैवोपहतमतयश्चाचितयन्त एवोपायान् कष्टसाध्यान् तेषां विनाशस्य, प्राप्तेन क्षणिकेन विजयेनैव धन्यंमन्या, दाहं दाहं मृत- सिधु-काया ७५ यवनदेहान् बृहतीपु चितासु होलिकोत्सवमिव मानयितुमारभन्त । यवनसेनापतिस्तु"" अधिगत्य स्वपोतरक्षकेभ्यः प्रत्याक्रमण- वार्तामपेक्षितामप्यनपेक्षितविधां किंचिदप्यनुत्तेजितः सावधानोऽ- नभिज्ञः प्रत्याक्रामकस्य सैधवसैन्यस्य वास्तविकसामर्थ्यस्य विनिश्चित्य प्राप्तायां परिस्थिती चातुर्यमेव शौर्यापेक्षयाधिकं श्रेयस्करमिति", सहसाऽऽज्ञापयामास नौवलं स्वकीयं तीरादपसर्तुम् । मध्यसागरं नीत्वा च तत्, संप्रधार्य किमप्यात्मनैव, विबभाज तद्विधा । आदिदेश च तत् प्रत्येक सद्य:प्रतिशोधभावनोदग्रयाऽपि संयमितया तीक्ष्णयाऽपि प्रशातया वाण्या समुपसर्तु प्राच्यं पाश्चात्त्यं च सागरतीरप्रदेश रिपुनगर्या योजनमात्रदूरवर्तिनं, समवतारयितुं तत्र नैस्त्रिशिकवलं पादातं, ग्रहीतु शत्रुबलमवलोक्य सिंधुसरिन्मुखप्रदेशात् क्वाऽपि विलीनान् यवनपोतान् समुत्प्रेक्ष्य तान् पलायितान् विजयोल्लासमग्न शत्रुस्थानमेकमात्रमवशिष्टं देवलदुर्गमुत्साहेन विवेकशून्येन प्रतिरुन्धत् पाणिग्राहं, समाक्रमितुं तदुःसहेन वेगेन, कतितुं च तद्भयचकित विषादजडं विलुप्तधैर्य. निरपवादम् । यथा वाहिनीपतिस्तथा वाहिनी । सा हि स इव प्रत्या- क्रमणेनाऽऽकस्मिकेनेपदप्यविचालिता, समवलोक्य स्वजातिबांधवान् सहस्रशः हन्यमानान् स्तोकमप्यनिविण्णा, तीक्ष्णप्रतिशोधभावना- मात्रप्रेर्यमाणा, यंत्रचालितेव, घोरे तस्मिन् नैशे तमसि तस्याऽऽदेशान् पालयामासाक्षरशः। आरभत च सैधवसेना समनुभवितुं विषदिग्धं परिणाम- मात्मन आक्रमणस्यासर्वकषस्य । अयाच्चाचिरादेव दिष्टान्तमात्यंतिक विरलीभवति नैशे तमसि दृष्ट्वाऽसंख्यान वमितान् खड्गोदग्रान् यवन- सैनिकान् प्राच्या प्रतीच्याश्च गर्भगह्वराभ्यामिव सहसाss- विर्भवतो विस्मिता, समनुभूय तेषां दुष्प्रसहमाक्रमणवेगं कतिपयैप्वेव क्षणेपुप्रद्रावप्रवृत्ता, देवलदुर्गस्थितेन यवनसंन्येन प्रवृद्धोत्साहेनोद्घाट्य महाद्वार समाक्रांता, साक्षात्कृत्याऽऽत्मानं सर्वतः निरुद्धप्रसरं विगलितधैर्या, भयकांदिशीका । विधु-कन्या ७६ । आरभत च तदनंतरं निष्प्रतिरोधाऽकुतोभया यवनसेना विजयोन्मत्ता तत्पतिना निःशब्दमनुज्ञाता- विचार्येव किमपि स्वात्म; नव- देवलनगरीनिवासिनो विलुप्तोल्लासान् भयजडान् तत्र तत्र निलोनान् तथा हन्तुमन्विष्यान्विष्य यथाऽचिरादेव तनगरं जंघयो- विदारितानां बालकानां छिन्नमस्तकानां युवकानां वक्षसि हिसितानां प्रौढानां कंठे छुरित्वा मारितानां वृद्धाना स्तनयो: लूनानां युवतीनां जधने विदीर्णानां नारोणां क्षतेभ्यः प्राणांतकारिभ्योजस्र प्रवहता रुधिरप्रवाहेणाऽऽप्लावितं, निरंतरं निःसरता मेदसा पिच्छिल, कुगंधि : पूर्वाचलाधिरुद कोपेनेवाऽरक्तं भगवन्तं सहस्रकिरणं ममुपेक्ष्य नितिपोः पिशाचाधिपस्य रंगस्थललोलां भीपणामधारयत् । प्रहरमात्रानन्तरं च- लुंठितप्रासादैरुच्चहंसद्भिरपशब्द- मुखरैराक्रामकः पथ्यवीथिषु प्रासादेष्वट्टालिकास्वावासेपु देवतायतनेषु तत्र तत्र प्रज्वालिनियूं मैः प्रस्फुरत्स्फुलिंगैः ज्वलनस्तीव्रज्वालैः लेलिह्यमानं स्वातंत्र्यमेधस्थंडिलशोभाम् । ".."स्वामिन् ! भस्मसात्-कृतं निदाघचंडभास्करकर- प्रद्धिनैः प्रचंडैस्तैः ज्वलनैः समस्तं तद्देवलनगरमधुना योजनदीर्घ विकीर्णकीकसं लोटन्नरमुंडं प्रकीर्णास्थिपंजरं महाश्मशानमिव भयंकरं लक्ष्यत"- आह गुप्तचरोऽन्यः प्रवृद्धश्मश्रुः क्षामवदन आरक्तनयनः, कथमपि तस्मान्नगरान्निर्गतः, कप्टेन महताऽतिक्रम्य दीर्घदीर्घतममप्य- ध्वानं राजधान्यामागतः, स्वामिसंमुखं च समुपस्थितः, श्रावयन् पितुः समीपे मूर्तिवनिश्चलमवस्थितां राजकन्यामधोमुखमुपविष्टान् किंकर्तव्यविमूढान् राजमंत्रिणश्च- अपरेधुरेव सायंकाले । "एतत्तु मां व्यस्मापयदत्यंतं यत्- समवलोक्य देवलनगरौं नामशेषीभूतां सिद्धसाध्य इव तत्क्षण एव नियंत्रितस्ववलः प्राप्ते- नानेनाभूतपूर्वेण विजयनेपदप्यविस्मितः स यवनसेनानीः स्थापयित्वा देवलदुर्ग उद्ध्वस्तप्राये प्रधानं स्वं कटककार्यालयं, प्रहरमात्रमप्य- विधाम्यन्,- प्रचंडतरं धनराशि विजेतुं बद्धपरिकरोऽक्षदेवी इव सिंधु-कन्या शारिपट्ट परिणायोद्यतः- सागरमध्यादविच्छिन्नं समापतद्भ्यो महाकायेभ्यः पोतेभ्योऽसंख्यान् पारसीकान् तुरङ्गमान् संख्यातीतान् सनद्धान् खड्धारिण: पिनद्धान् कौंतिकान् कृतहस्तान् धानुष्कान् सागररोधसि निष्कंटकेऽवतारयितुं, प्लवांश्चातिहढान् प्रक्षेपिका- वाहिनस्तीव्रगतीन् सहस्रशस्तरिभ्योऽवतार्यमाणान् सिंधुसरिन्मुख- प्रदेशे विशाल आयोजयितुं- स्वशक्ती: लीलयव प्रेरयामास ।" "पश्यत एव च ममाधन्यस्याऽऽरुह्य दूरवर्तिनमेकं महावृक्षं, स योजनदीर्घ: सिंधुसागरतीरप्रदेश: सिकतिलः स्वस्वकार्यमग्नर्यवन- सैनिकराकुलाकुलः, लब्ध्वा चिराद्भूस्पर्श हृष्टानां रेचितोत्सुका- नामश्वानां ह पारनिनादितः, स्कंधावार इव भातुमारभत, विस्तृतं सिंधुसरिन्मुखं च सपंभिरुपतीरं जवनैरुडुपैः कुशलनाविकसंचालितः संमदितं सैनिकपत्तनमिव ।" "..'कुष्ठव्रण इवाऽऽपाततुच्छोऽपि विपाकभयंकरोऽयं रिपुसैन्यसंनयः, सत्येव समयेऽचिकित्सितः, समनं भारतवर्षमात्रमेत नूनम्"- आह धीसचिवः चितितः। "निरापदेन सागरेण रक्षितपाणिभागो, यवनदेशेभ्योऽ- नवरतं समापतभिरनुकूलैः सामयिकवातप्रवाहैः सजवमुपतीरं प्रापितैर्भीमकायः पोतः सततमुपोद्वलितसामर्थ्य: रिपुरयं न जय्यः सुहृत्साहाय्यं विना । यदि नाम चेरराजो बलभीशो वा शिलादित्यः स्वाभिमानीन्द्रराजो वा राष्ट्रकूटवंश्यः समाकस्मिाकमावाहनं साक्षात्कृत्य विपदोऽस्या वास्तविक स्वरूपं राष्ट्रभक्तिप्रेरितो विजित्य संकीर्णा स्वार्थपरायणतां स्वं नौकावलं प्रवलमस्माकं साहाय्यार्थ प्रेपयेत् तहि व्यापायं तत् सिंधुसागरे यवनसागरे वा वयं रिपुं पाष्णिपीडं पीडयन्त, उदीच्यायाः सीमाया आहृतः दक्षिणाशाभिमुखं दुःसहवेगं प्रसरभिः स्वपदातिवलरभिभवन्तः,- संधवसैन्यसागरस्य सिंधुसागरस्य च मध्ये निप्पीडयन्तः,- तं शीघ्रमेव नामशेपीकर्तुं समर्था भवेम"- प्राह महाबलाधिकृतः ।। सिंधु-कन्या "सुप्छु भणितं भवता"- जगाद सकाकु राजदारिका। "कति नाम मासा व्यतीता ""भारतवर्षीयान् तांस्तान् नृपान् राष्ट्रसंकटस्यैतस्य प्रतीकारायाहूय?" "चत्वारः" प्रत्युवाचास्फुटाक्षरं सांधिविग्रहिकः । "कियद्भिर्भारतवर्षीय पैः बहु मानयित्वाऽस्माकमावाहनं स्वं स्वं बलमतिप्रबलं प्रतिरोधाय परचक्रस्य संप्रेषितमस्मत्- संनिधौ ?"- अपृच्छत्तीवस्वरा राजकन्या । "नकेनापि"- प्रतिजगाद धोसचिवः, परिहरन् व्यथितां दृष्टि स्वामिनः । "एवं सत्यप्याशासे भवान् यत्- अस्माकं साहाय्यार्थ ते बलं स्वं प्रेपियिष्यन्तीति ?"- अपृच्छत् सा । अगदच्च सर्वान् निरुत्तरान् दृष्ट्वा- "अप्रियं खल्वेतत् । परंतु वास्तविक पर्याकलनं वस्तुस्थितेः। ते काश्मीरनृपतेश्चंद्रापीडान कोऽपि भारतीयः राजा साहाय्याथं सेना: स्वीयाः समर्पयिष्यति । एवं कृते ते खलु सहजवैरिणामन्येषां भारतीयानां नृपाणामाक्रमण- माकस्मिकं प्रतिरोद्धमसमर्थमात्मानमुत्प्रेक्षन्ते । नोत्सहन्ते तु क्षीणदृष्टयः साक्षात्कतुं यत् पादाक्रांते तु समस्ते भारतवर्षे परकीय- रेतैराक्रामक: नावशिष्यत् ते, नावशिष्येरन् च तेपी 'सहजा वैरिणः।" "अतोऽस्माभिः खपुष्पहृद्या साहाय्यसंपदमविगणयद्भिरेव प्रतीकारव्यूही विरचनीयः । विरचनीयश्चातिशीघ्रमेव ।" "रिपुहि- अनप्रवज्रपातनिमस्य सफलस्यतस्य साहस- पूर्णस्याऽऽक्रमणस्याधिकतमं फलमुपबुभुक्षः, प्राचीनतमस्य देवस्थानस्य तादृशेन विनिपावेनावसनगाश्याः संधवप्रणाया विपण्णाया मनो- सिंधु-कन्या वस्थाया अधिकतममुपयोगं चिकीर्षुः, प्रतीकारक्षमाणि बलानि सीमाया उदीच्याया आनेतुं पर्याप्त समयमस्मभ्यं दातुमनिच्छुश्च- यदहरेव बलानि स्वीयान्यभिक्रमक्षमाणि पर्यालोचयेत्- नदहरेव प्रतिष्ठेत नूनमुत्तराभिमुखः।" "तत्- कस्मिन् खलु सामरिकदृष्ट्याऽस्मदुपयोगिनि स्थाने कृतोऽस्माकं सेनासंघातसेतुः रिपुसेनासागरमतिक्रम्य देवलसीमाः शीघ्रमेवोवेल्लन्तं द्विवान् मासान् प्रतिरोद्ध, समर्थः नु मन्यते महाबलाधिकृतः ?" स्यात् ?- कथं "किमिति द्विवानेव मासान् ?"- समपृच्छवृद्धः सुमतिः । "अतीतेपु हि तेषु- वर्षाकालिकप्रभंजनवातक्षोभिते सिंधु- सागरे दुरुत्तार्येऽशांतपाणि: रिपु. समुद्वेल्लितसिंधुसरिज्जलप्रवाहा- प्लावितेऽस्मत्प्रदेशे वलानि स्वानि यथाभीष्टं व्यापारयितुमपारयन् नितांतमपरिचितेनाऽऽसारेण विचालितोऽस्माकं यथा जय्यः स्यान्न तथा एतेषु नैदाघेषु शारदेषु वा मासेषु ।" "समीचीनं भणति भर्तृ दारिका"- जगाद वीरभद्रः । : "समयस्य महत्त्वमेतत् संयात्रानिपुणजातीयेनाऽपि रिपुणाऽ- नाकलितं स्यादिति तु मन्तुं नोत्सहते मम मानसम्"- अवोचत् राजकन्या । “मन्ये- उपसिंधुतीरं वेगेन प्रवहतां वर्षाप्राक्कालिकानों सागरिकवातानामधिकतममुपयोगं कर्तुं बद्धपरिकरेणैव तेन समयोऽ- यमाक्रमणाय पूर्ण: स्यात् । एवं च सति- अर्थादापद्यते यत् स वर्षाकालिकानां संकटानामपि नितांतमभिज्ञः स्यात्- कृतनिश्चय- श्चाऽऽऋमितु सिंधुदेशस्याधिकतमं भागं प्राक् वर्षारंभात् ।" "तत्-कि खलु मन्यते महाबलाधिकृतः स्थानं योग्यतमें शत्रोः प्रतीकाराय दीर्घकालिकाय?" द क सिंघु-कन्या 1. सिंधुसरितः पश्चिमतोरान्नातिदूरवर्ती निरूढो दुर्गो- पद्वान्- स्थलदुर्गोऽपि पार्वतीयदुर्गवत् दुराक्रमणीयो- योग्यतमः प्रतिरोधाय प्रवलाय मम प्रतिभाति"- प्राह महाबलाधिकृतः । "परंतु- स दुर्गः सद्य एव स्वामिना वशंवदीकृतानां तातिरज्ज्यच्चेतसां दाक्षिणात्यानां सैंधवानां प्रदेशे वर्तते । अतस्तत्र संपाद्य सेनासंघातमवरुद्ध्य सिंधुप्रवाहं नौकावलेन, रिपुं प्रतिरोद्धं, प्रयतमानानामस्माकं कृते स्थानिकानां प्रजाजनानां साहाय्यं दुरापाद्यं स्यात्'- आक्षिपत् सांधिविग्रहिकः । "एतस्मिस्तु संकटे वयं रिपुणा सुपरीक्ष्य दौर्बल्यस्थानान्य- स्माकं समाक्रम्य च सहसा सिंधुसागरमार्गणापरीक्षितपूर्वेण निरुत्तारं मज्जिता आदित एव ।" "तत्- अवधीर्य तद्वैपरीत्यं स्थानिकमस्माभिः प्रतिरोधाय स्थानं सामरिकदृष्ट्याऽनुकूलतमं विनिश्चेयं राज्यस्य . दक्षिणतम एव भागे" आह राजदारिका । "मन्ये- निरूढे दुर्ग संहता प्रबलाऽस्माकं पदिकसेना सिंधु- सरित्प्रवाह एकप्रकृतया नौसेनया पाश्चात्य मरुप्रायप्रदेशे कुशलया औष्ट्र या सेनया रक्ष्यमाणपार्वद्वया-रिपुं प्रतिरोद्धं समर्थाः स्यात्"- अवदत् धीसचिवः । "एवमेतत्"- अन्वमोदत राजकन्या। "अपि च- देवलनगरी कूटयुद्धेन पुनरपि विजेतुमितो गताया अस्माकं सेनायाः प्रोत्साहनार्थ तया सह- तात!- भवता स्वीकृत्यास्मदनुरोघं संप्रेपितः कुमारः जयसिंहः- किशोरोऽपि युवेव सुप्ठु जानन् स्वकर्तव्यं-तस्मिन्नेव निरूढे दुर्ग आस्ते, परीक्षमाणः रिपुसेनाचेष्टितानि चारदृष्ट्या ।" सिंधु-कन्या ८१ "तं सिंहमिव निर्भीक प्रियदर्शनं साक्षायुवराजं स्वमध्ये सागरदीपस्तंभमिवाविचलितं तिष्ठन्तमवलोक्य प्रतिरोधसंचालनाय विलीनमनोमालिन्याऽविलुप्तधैर्या तत्रत्या जनता बौद्धधर्मानुरक्ताऽपि परिकर बध्नीयानूनं विजित्य पापान् हिंस्रान् यवनान् निक्षेप्तुं तान् बुभुक्षोः सिंधुसागरस्य विकरालासु उल्लोलकल्लोलदंष्ट्रासु- तत् तस्मिन्नेव प्रदेशेऽस्मा-" "अपि नाम... जयो बालः.." अद्याप्यनुद्भिन्नश्मश्रुः" उत्साहातिरेकेण प्रगल्भमानोऽपि अस्माभिरनुभवविदग्धेरनुमोदनीयः निक्षेप्तुमात्मानं प्राणसंकट एतादृशे ?"- आक्षिपत् सहसा राजा दहरः। "अथ कि-" प्रत्यवदत् तदुहिता,क्षणमास्तब्धा। "मर्पयतु तात औद्धत्यं मम । परंतु-महती विपदेषा मां मुखरयति ।- एतादृशेष्वेव प्राणसंकटेषु परीक्ष्यते सत्त्वं राजपदमलंकुर्वतामलंचिकी- खूणां च । एतादृशेष्वेव प्राणसंकटेषु धैर्यमक्षुण्ण प्रदर्शयतः पुरुषोत्तमान् शिरसा वहति पासुलपादा जनता । चरणेन च मृनाति-प्रहाय तत् क्वाऽपि विलिलीषमाणान् पुरुषव वान्" । "तत्-पर्याप्ताः सेनाः निरूढदुर्गप्रदेशे संघट्टयतु भवान् परिहरन् कालातिपातं-महाबलाधिकृत !"- सत्वरमाह धीसचिवः, परिहरनिवाधिकतरं शब्दसंघर्षम् । विज्ञायैव च तस्य संकेतं सा मंत्रिपरिपद् प्रणम्य स्वामिनं चिताम्लानं मंत्रणागृहान्निर्गता तत्क्षणमेव स्वे स्वे कार्ये व्यापारया- मास सर्वाः शक्तीः कृतसंकल्पा प्रतिरोद्धं मूर्तिभंजक म्लेच्छं सिंधुसागर- समीप एव । समाकृष्याऽयुधिकवलानि बहुसंख्यकान्युदीच्यायाः पाश्चात्त्यायाश्च सीमायाः, नियोजयितुं तानि निरूढदुर्गप्रदेश आरभत वाहिनीपतिः । नौसेनापतिः एकत्रकतुं नातिप्रबलं नाविकबल- मुपरोधाय सिंधुसरिन्मार्गस्य । सांधिविग्रहिकश्च पुनः प्रेषयितु सिंधु-कन्या दूतान् तासु तासु राजसभासु आवाहनसंदेशः गह।- न त्वलभत पर्याप्त समयमत्यावश्यक स्वस्वकार्यसिद्ध्यै । - पंचभिरेवाहोभिः हि ते, सार्य मंत्रणाका संमिल्य नृपसमक्षं स्वं स्वं कार्यभारमनुष्ठितं सविस्तरं निगदन्तः, जनकसंनिधौ समुप- विप्टया देवलदेव्या सहाऽनुष्ठेय कार्यजातं विमृशन्तः, देवलनगरा- दुत्तरागाभिमुखं चिचलिपोः शत्रोः प्रतिरोधोपायान् तांस्तान् आहोपुरुपिकया चर्चयन्तः, सहसालोकन्त सोविदल्लेन वृद्धन ससंभ्रम- मन्तःप्रवेश्यमानं, सिंधुराजेन 'स्वामिभक्तोऽयम्'- इति विशिष्य निरूढप्रदेशीयेषु ग्रामेषु महता विश्वासेनाधिकृतं गोपवरेण्यमुग्रसेनमा- रक्तनयनं शुप्यन्मुखं दीर्घदीर्घ श्वसन्तं विदीर्णवस्त्रमपभ्रष्टोप्णीषम् । यावच्चानुमिन्वन्ति सहसा स्तब्धाः- 'नूनमनेनानिप्ट- मंदेशहारिणा भाव्यम्' इति तावत् स आत्मानमावेगेन महताऽक्षिपत् स्वामिनश्चरणयोः, व्यलपच्चास्फुटाक्षरं- "स्वामिन्, विनाशिता वयं राजद्रोहिभिः कापुरुष: विनाशिताः।" घीसचिवेन च वार्थचित् पर्यवस्थापितात्मना सविस्तरं कथयितुं कथनीयमाजप्तश्चिराग्नु समारभत निवेदयितुं 'स्तंभित- बाप्पवृत्तिना कंठेन ।' "स्वामिन् ! यत्क्षणमेव दुर्वार्ता पापिनां देवलपर्तनाss- ऋमणस्य निरूढप्रदेशमुपागमत- तत्क्षणमेव सा साधारणानां जनानां व्याप्तुं मस्तिप्कानि विचलयितुं मानसानि समुत्तेजयितुं च हृदयान्यार- भत । स्वामिना सद्य एव बलाद्वशंवदीकृताः, स्वातंत्र्यस्य स्वस्य पूर्वकालिकस्य निःशब्दं स्मरन्तः, ते, वार्ता तां निशम्यादी विस्मितास्तत उदासीना- अचिरादेवोपदिष्टा इव केनापि दुरात्मना- समुपक्रियमाणमिवाऽऽत्मानमेतया : विपदा समुत्प्रेक्षितुमारभन्त । निःशब्दा अपि मुखाकारानुमेयभावा औत्सुक्येन महता प्रतीक्षितुं च नवीनतमं पटनावृत्तान्तं देवलगरात् । अधन्याश्च-प्राप्योदन्तं देवल- दुर्गरक्षकाणां शौर्यस्याद्वितीयस्य न तथा जहपुर्यथाऽऽकर्ण्य वृत्तान्तं मिघु-कन्या ५३ म्लेच्छानां देवलमंदिरध्वजस्तंभखंडनस्य। अधिगत्य समाचार देवलवासिनां तस्य नेशस्य प्रत्याक्रमणस्य न तथाऽभिननंदुः साहसं स्वदेशबांधवानां यथा क्रौर्यमाक्रामकाणाम् आततायिनां विजित्य पुनरपि नगरी तां भस्मसात्कुर्वताम् । आरभन्त च मूढाः सोत्साह रहसि वर्णयितुं सातिशयोक्ति बलसंनाहं रिपोः ।" "आतुराः लब्धं विलुप्तं स्वातंत्र्यं पुनरपि, तद्देशीया अदूर- दृष्टयः स्थायुका गोपाः, राजविपदि संपदमात्मनः कल्पयन्तः, साधारणानां जनानामशांतामेतां मनःस्थिति निभृतमुत्तेजयामासुः ।" "क्षुद्राश्च सामंताः परस्परं समिल्य भाविकार्यपद्धति विचारयितुमुद्युक्ता बभूवुः ।" "न शेकुस्तु निरूढदुर्गे प्रकाशस्तंभस्येव विराजमानस्य सुदर्शनस्य प्रियवादिनः किशोरस्याप्यप्रत्याख्येयविशेषस्य युवराजस्य जयसिंहस्य प्रभावेण समाक्रांताः प्रकटं किंचिदप्यपकतुं स्वामिनः ।" "यदहरेव तु युवराजः, प्राप्यानुल्लंघनीयमादेशं स्वामिनः प्रजविर्ताहृतं, पश्चिमसागरे निमज्जति भगवति सवितरि, कति- पयैरभिन्नहृदयः समानवयोभिरङ्गरक्षकः परिवृतः, पाषाणदुर्गात् तस्मात, मंत्रयितुं भ्रात्रा वज्रबाहुना सह, शिविस्थानदुर्ग प्रातिष्ठत, विनयावनतेनापि विस्मयमूकेन दुर्गरक्षकबलेनाभिवंदितः, निरूढग्राम- रथ्यायां च कृतसंमर्दैन जनसामान्येन स्तब्धेन चकितचकितमव- लोकितः-- तदहरेव, ते, विधूय विवेकमवधीर्य स्वामिभयं तिरस्कृत्य राजप्रतिनिधि प्रकटमेवोद्वेल्लयितुं स्वामिद्रोहभावनां जनसामान्य- मनसि प्रारभन्त निर्भयाः।" . समाकण्यैतत् सर्वथाऽनपेक्षितं वृतं चकिता राजदारिका, सहसाऽऽहत्य दृष्टिं वातायनात् पुरुषप्रमाणाद्वहिदृश्ये निश्चले पारिभद्रशिखरे' निगडितां, तां जनकस्य समीपोपविष्टस्य मुखे विलुलितधवलालके वलितभालप्रदेशे क्षणमेकं निबंबन्ध । सिंधु-कन्या अवलोक्य च तदधिकमेवाश्रीकं विदितवेद्या, परस्परविमदि- भावनाऊलोडितमानसा नि:शब्दा तामन्यस्मिन्नेव क्षणे ततो विनिवर्त्य,- द्रप्टुमसमर्थव मंत्रिपरिषल्लोचनानि सेवावृत्तिमूकान्यप्युप- हासमुखराणि, निस्तेजस्का भूमो व्यापारयामास । "अलभन्त च साफल्यं कल्पनातीतं हतभागा" जगाद उग्रसेनोनभिज्ञ एव क्षणिकस्य तस्य दृष्टिक्षेपस्य । "आविर्भाविता इव हि केनाऽपि दुरात्मनाऽलौकिकसामर्थ्य- भाजा प्रेतात्मना कुटिलमतिना द्विवा: खलु श्रमणास्ताम्रवर्णाः पिंगलाक्षा महाप्रमाणा- अदृष्टपूर्वाः नूनं मया तस्मिन् प्रदेशे- अकस्मात्तस्मिन्नेवावसरे जनसामान्ये सुव्यक्तमुत्तेजिते विचरितुमार- भंन्त । प्राक्कथयितुं चावश्यंभाविनं विनिपातं स्वामिनो वंशस्य । समुपजातशंकेन मया प्रसह्य बंदीकृता अपि राजद्रोहापरान, राहसोवेल्लितस्य बौद्धप्रजाजनकोपसागरस्य भयेनाचिरादेव विमो- चितास्ते- शतगुणितसाहसा- ज्वलन्नयनमवलोकयतामेवास्माकं राजपुरुषाणां- समुपाक्रमन्त घोपयितुमनेकाब्दशतदीर्घ पारदारयं बौद्धधर्मात् परिभ्रष्टाया अस्या भूमेनियतिनिर्दिष्टमिति ।" "विज्ञाय पराकमणवार्तामादौ समुदासीनास्ततः कौतूहला- स्विताः, ततः प्रतिपक्षिप्रशंसापराःनिरूढप्रदेशीया जनाः,-घोपणया:- नयाऽपहृतविवेका इव,- प्राक्रमन्त विचारयितुं वेतसवृत्तिरेवावसरे:- स्मिन् श्रेयस्करी'- इति ।" "तस्मिन्नेवावसरे प्रदेशे तस्मिन् सहसा प्रसरंभिर - योद्गमस्थानः प्रकुपित्तपारसोकप्रतिशोधप्रचंडतां सातिशयोक्ति वर्णयद्भिर्देवलनगरनरमेधवृत्तांतैः लोमहर्षकैः परिलोपितधैर्या- वशेपाश्च- ऐकमत्येनादृष्टपूर्वेण वव : कापुरुषपथं, निश्चिक्युः प्रेपयितुं प्रतिनिधिमंडलं सेवायां देवलपर्तनादुत्तराशाभिमुखं प्रचिचलिपोरपारस्य यवनसेनासागरस्याधिपस्याभयदानयाचनाय, पातयामासुश्च कुलानि स्वानि रौरवे नरके तथाऽनुष्ठाय ।। सिंधु-कन्या "जह्रथुश्च शीघ्रमेवाधिगत्याभयदानवार्ता मुखारविर्देभ्यः पापेभ्यः प्रतिनिधीनामवलिह्य चरणरजांसि गोभक्षकाणामाततायिनां कृतकृत्यंमन्यानां, प्रदयेवालौकिक शौर्य प्रतिनिवृत्तानां, प्राप्येव चतुःसमुद्रवलयांकितपृथ्वीपतिपद संतुष्टानाम् ।" "उत्तारिता इव भाग्येनानुकंपिनाऽतलात् संकटसागरात्, संस्थापिता इव नियत्या परमैश्वर्योच्चशिखरे चाऽऽरभन्त"." उन्मत्ता इवोच्चैविहसित, प्रमत्ता इव रथ्यासु नतितु, समुद्घांता इव परस्परमालिगितुम् ।" "परां कोटिमारुरोह तेषामधमानां विस्मयो विज्ञाय प्रतिनिधिय वाणां मुखेभ्योऽपूर्व शत्रुसेनासभारं संघट्टितसिंधु-मुख-प्रदेशे, कौतुकमधिगत्याद्वितीयं रणकौशलं, आश्चर्य श्रुत्वा लोकविलक्षणं प्रभावशालित्वं, समादरश्चाऽऽकाऽसामान्य सौजन्यशालिनं व्यवहारं तस्याधिपस्य ।" "प्रावर्तन्त चाहमहमिकया केचिद्देवलपर्तनमार्ग मार्जयितुं,- केचिग्निरूढनगरीराजपथमलंक . तोरणविचित्र:- केचिद्राजपयोभयपार्श्ववतिगृहपंक्ती सुशोभयितुं वंदनमालाभिः शोभनाभिः,- केचित् स्वागतपद्यानि विरचयितुं,- केचित् जयघोषणा- वाक्यानि स्तुतिचटुलानि कल्पयितुं, आतुराः", कापुरुषाः", स्वागतं कर्तुंगोभक्षकाणाम् ।" "अशक्नुवंश्च तेषां क्षुद्रं वर्तनं द्रष्टुमधिकतरं... अहं. कतिपयैः स्वसमानवृत्तांतै: राजपुरुषैः सह ततः निरगच्छं विहाय निरूढदुर्ग एकं स्वामिभक्तं सेवकमविज्ञातप्रायं साक्षाद्रष्टुं घटनाक्रम भाविनं, निःसृत्य च निभृतं तस्मात् स्थानात्-सत्येवावसरे- निवेदयितुं तं स्वामिचरणयोः।" उक्त्वा चेत्यं विरराम स:- संक्रमितक्रोधभर इव किंचित् प्रशांत:। सिघु-कन्या न कोऽपि शशाक कतिपयक्षणिकामपि युगदीर्धामिव भासमानां निःशब्दतां खेदजडां भङ गत्वा किमपि वक्तुं समयोचितम् । अपारयनिव सोढुमधिकतरंभारंतस्याः निरुच्छ्वासयन्त्या अन्ते... जगाद स्वगतमिवास्फुटाक्षरं, परिहरन् दृष्टि शून्यशून्या राज्ञः, दुर्विज्ञेयभावां च भूतलनिगडितां राजदारिकायाः,- सांधिविग्रहिक:- "लप्स्यन्ते मूढा अनुरूपं फलमदूरदर्शिताया अचिरादेव। अभयदानं गोभक्षक: प्रदत्तं श्रद्दधते"। बहु मन्यन्ते च भाग्यानि स्वानि । लप्स्यन्ते मूढाः पापाः फलमनुरूपम् ।" न तु कोपि दधर्ष तस्य मतमनुमोदितुम् । तच्च कियदुराणामात्रानुप्राणितमासीत्तत्- अन्येधुरेव- प्रकटीबभूव । सिंधुराजवंशभाग्य इव सूर्यप्रस्ताचलशिखरमुपगच्छति सति हि चिंताम्लानमुखारविंदाया अपि, पितुईष्टिमपराधभावजडां परिहरन्त्या अपि, भाविनं प्रतीकारव्यूह महाबलाधिकृतेन सह चित्तनैकाग्रेण विमृशन्त्याः राजदारिकायाः संलापमन्यमनस्कतया ऋण्वतो, मंत्रणाकक्षे सद्य एव प्रज्वालितस्य सासंदीपस्य ज्योतिपि निवातस्थिरे निवद्धदृप्टे: सिंधुराजस्य सेवायामुपास्थाप्यत साधारण- वेपः पांसुलपादः संधवो वृद्धः कश्चित्- अश्रद्दधानेन तत्कार्यगौरवं, संदिहानेन तत्सदाशयत्वं, प्रधानेन द्वारपालेन । आज्ञापितश्च तं दृष्ट्वा चकितचकितेन सांधिविग्रहितण स्वकार्यनिवेदनाय, स्वात्मानं निरूढदुर्गात् सद्य आगतं स्पशं प्रकटया- मास । निवेदयामास च स्खलदक्षरं- "स्वामिन् ! अदृष्टपूर्वसदृशं कापट्यं शवोरदृष्टपूर्वसदृशम् ! देवलपत्तनेऽनुष्ठितेन नरमेधेन भीपयित्वाऽस्मान् स अधुना स्नेहवलेन वशीकतुं प्रयतते । लभते च साफल्यम् ।" सिंधु-कन्या" आदिष्टश्च धोसचिवेन सविस्तरं निवेदयितुं प्रोवाच- "साक्षात्क... स्वामिचरणौ निरूंढनगर्याः निभृतमपसृते गोपवरेण्य उग्रसेनेऽहं, क्षणमात्रमवस्थातुमनिच्छन्नपि तेषां पापानां निरूढवासिना मध्ये, कार्यगौरवाद्गोपित्वाऽऽत्मनो भावनाः, कृतकस्मितोज्ज्वलाननस्तदन्यतम इव, तैः सह सोत्साहं किमपि किमपि सलपन्, स्वैरमितस्ततो विचरन्, नातिचिरादेवाऽऽत्मानं, श्रुत्वा समाचारमागमनस्य विजेतुः नगरसीमासमीपे सोत्साहं तत्स्वागताय प्रचलितः जयघोष मुखरैविविधमहाहोपायनसनाथहस्तधम्म घोप- वाचालमुखः गंभीरमुखमुद्रैरपि परिलक्ष्यमाणांतरिकसमुल्लासभरेस्तैः श्रमणकर्नीयमानः पापैः सह नगरसीमामुपसर्पन्तमवालोकयम् ।" "अपश्यं च नातिचिरादेव नगरीबहिर्वतिनि विशाले भूप्रदेशे दक्षिणदिग्गव्हरात् धूलिधूसरितात् सजवमवतरन्तं, पश्चिमां- बुनिधावतले निमज्ज्य विलयमात्यंतिक 'जिगमिपोरिव क्षीणप्रभस्य प्रभाकरस्य किरणरालोकितमप्यसंख्यपारसीकखुरोद्धृतरजःरजसानु- दुर्लक्ष्यविशेष, दिगन्तत्रयस्पशिनं, विदारयन्तमिव नभस्तलं ह्र पारवैः खुरनिनादैः करालकरवालखणत्कारः, सांद्र, प्रलयंकरघनाधनघन- मंडल विहाय विहायसं भूमी समुपसर्पत् विडंबयन्तं, सेनासागरम् ।" "दुष्प्रसहेन वेगेन प्रतिक्षणं समीपतरमागच्छन्तं तं वीक्ष्य विस्मिताः निरूढनगरीनिवासिनः सहसा निरुद्धगतय: निःशब्दाः, कतिपयान् क्षणान्, व्यात्तमुखा विस्फारिताक्षा: प्रस्फुटतप्रस्वेदा मूर्तिवत् तस्थुः । विसस्मरु: जयघोपान् । प्रचेलुश्च स्वागतायाऽऽ- कामकाणां स्खलत्पदाः", पुरतः सोत्साहं चलद्भिः दीप्तमुखमुद्र- रुद्वेल्लदुत्साहैस्तैः श्रमणक: नुद्यमानाः।" "न त्वधिजग्मुस्तदवसरम् ।" "प्रतिरुद्ध इव केनचिद्वलवता, हि, स अपारः सेना- सागरोऽकस्मात्, पश्यतामेवास्माकं विस्मयमूढानां, विरराम समुप- सर्पणात्, बभाज च निश्चलतामन्तःसंयमितप्रचंडशक्तिभंगुराम् ।" सिंघु-कन्या 55 "यंत्रचालित इव च- पण्णामश्वसादिनां वर्मितानामेक: समूहस्तस्मान्निश्चलात् सैन्यसागरात् पृथग्भूत्वाऽग्ने ससार । अवरुरोध च मध्येमार्गमेव स्वागताय प्रत्युद्गच्छतः निरूढनगरीनिवासिनः । कोतूहलवशात् ममीपतरमुपसृतोऽहमशृणवं तन्नेतुरुग्रगंधस्याऽऽरक्त- नयनस्य बर्बरस्यासंस्कृतां तीक्ष्णां संबोधनवाचम् । अन्वमिनवं तस्या अभिप्रायमननुकूलम् । अजानां तस्या अर्थ तैः श्रमणकः (म्लेच्छ- भाषापंडित:- अहो आश्चर्यम्) अनूदितायाः संधवभाषायाम् । अपश्यं च तस्याः प्रतिक्रिया कापुरुषाणां मम बांधवानां मुखचंद्रेषु ।" "विज्ञाय हिं तस्य सादिनो मुखात्- 'यत् प्रतापी तेषां सेनानीरभयप्रतिश्रुति स्वां सर्वथा मानयन्नपि- नामृष्यत् संस्पर्श- लेशमपि मूर्तिपूजकानां पापानां, समाज्ञापयत्तानवरो मात्मनः परिजनांश्चात्मनः स्वस्वगृहाणि प्राप्तप्रायायां निशायां, समादिशच्च त्वरितं समर्पणं निरूढदुर्गस्य तदधिकारिभ्य:- सहसा निःश्रीकास्ते दधुरकालराहुग्रासश्रियम् ।" "न तु दधृपुः किंचिदपि प्रतिवक्तुम् ।" "भीता मूकाः कुंठितमानसा. आज्ञा एव ता:"" फ्रोतदासा इव स्वशिरसि चक्रुः ।" "स्खलत्पदं गृहाणि प्रतिनिवर्तमानानां, ब्यावर्त्य मुखानि मुहुर्मुहुः दक्षिणक्षितिजं यावत् प्रसृतं, निरुद्धप्रसरं, विवत्सया स्कंधा- वारप्रकल्पनव्यग्रं, शनैः शनैः गगनतलानिश्चंद्रात् प्रोपितनक्षमा- निःशब्दं वपंतांऽधकारेणापूर्यमाणं, प्रज्वालितालातसहस्रप्रकाशित- विस्तारं तं संन्यसागरमवलोकयतामेवास्माकं- यवनानामाय- सतनुवाऽवृत्तानां कौंतिकानां प्रजविघोटका रूढानामेकं दलं सहसा निश्चक्राम कटकात् तस्मात् । आक्रामच्चापरिचितमपि मार्ग निरूढदुर्गगामिनं प्रभंजनवेगेन, व्यलीयत प्रतिक्षणं घनीभवति नशघकारे।" सिंधु-बग्ण ९ "भस्मसात्कृत्वा सर्वामुत्साहसंपदं महाश्मशानादिव प्रतिनिवृत्ताः, लोकविलक्षणं यवनसेनापतिचरित्रमेवाविरतं चितयन्तः,- स्वामिना लत्ताप्रहारेण सत्कृता इव ग्रामसिंहाः,- स्वेषु स्वेषु स्खलित- स्वागततोरणेषु प्रभ्रष्टपताकेषु निवासेषु विनप्टाः, नशेऽधकारे तमपारं यवनसेनापारावारमेव प्रतिपलं स्मृतिचक्षुषा विनिद्रेणाव- लोकयन्तो, भाविस्वजीवनविषय एव दारुण संदिहानाः, निरूढनगरी- निवासिनस्तां क्षणदामन्तःप्रकुपितज्वालामुखिशिखरनिवासिन इव, प्रलयवातोद्वेल्लितपयोनिधिवेलानिवासिन इव, अधन्या, अक्षणदामेव, अतिवाहयामासुर्युगदीर्घाम् ।" "न प्रापुश्च- अन्येधुरपि,- विलीनेऽपि घने नशेधकारे स्वपरिजन. काल्पनिकविभीषक: संकट: सह.- शमम् । नावापुः, समवलोक्याऽपि निभृतं हनुमन्मंदिरपरिसरैकदेशवतिनोऽभ्रंकपशाखा- विस्तरस्याश्वत्थस्य शिखरात् प्रसरदिनकरकरोद्भासितधूमलपट- बाससहस यवनपटक सुदूरदक्षिणदिगन्तविश्रांतमात्ममात्रव्यापृतं, शमथम् । अपि तु- निरुद्धनि:श्वासा एव कंठगतप्राणा एवाऽऽरभन्त दिवसं तमतिवाहयितु- स्वस्वगृहनिलोना: निष्क्रियाः संतप्यमानाः निदाघांतप्रचंडेन चंडकिरणेन प्रकुपितेनेव साक्षात्कृत्य तेपामार्य- व बाणां तत् कापौरुषं चंडतरसंतापेन ।" "यथा यथा वियन्मध्यमुपससार विवस्वान् विप्रकृतवानर- विरूपस्तथा तथाऽवर्द्धत एव तेषां संतापः परां च कोटिमारुरोह प्रहर- मायावशिष्टे तस्मिन्निरभ्रे दुदिने विज्ञाय विहारात् समापतितस्यैकस्य श्रमणस्य मुखाद्वार्ता यत्- तस्य धर्मबांधवा, आकर्ण्य वार्ता जलकप्टस्य भीषणस्य यवनस्कंधावारे समुद्भूतस्यानुकंपया महत्या गताः साक्षात्कतु तदध्यक्षं विज्ञापयितुं च तमुपभोगार्थ जलस्य नगरीमध्यवतिन्यकमात्रे कूपेऽवशिष्टस्य ।" । "तत्क्षणं हि ते समुत्प्रेक्षांचक्रिरे यत्- त आक्रामका, मरुस्थलनिवासिनः, जीवनं जीवनादपि बहुमानयन्तः, प्रदेशेऽपरिचिते सिंधु-काया तृष्णामरणविभीपिकया भीषिताः, नि:संशयमेव स्वीकरिष्यन्ति तमनुरोधम् । आक्रमिष्यन्ति तेषां नगरम् । अभिग्रहीष्यन्ति तेषा- मेकमात्रमुदपानम् । निरोत्स्यन्ति तान् तदुपयोगात् । उपायनी- करिष्यन्ति च तानवशान् शरीरशोषप्रज्वलद्गात्रान् समुच्छुकमुखान कालाय व्यातविकरालमुखकंदराय।" "प्रतिपालयामासुः नयनागतप्राणा यमदूतस्येव श्रमण- प्रमुखस्य तस्य यवनस्कंधावारं गतस्य प्रत्यागमनम् । अनुममुः निशामुखे प्रत्यागतस्य तस्य क्लातां मुखमुद्रामवलोक्य विनाशकालं प्रत्यासन्नम् । न च विशश्वसुः स्वकर्णान् श्रुत्वा नगरचत्वरे तरुमूले विश्रांतस्य तस्य मुखारविंदाद्यत् तृषार्तसैनिकसहस्रक्लेशक्लिप्टोऽपि स यवनसेनापतिः निरूढनगरीवासिभ्यः प्रदत्तमभयवचनं- स्वान प्राणान् पणीकृत्यापिं बहु मानयितुं कृतनिश्चयः- न केवलं तस्यानुरोधं तिरश्चकार, अपि तु- उपरुरोध क्षुद्रतममपि सैनिकं स्वं नगरी- गमनात् । आज्ञापयामास चासंख्यान् स्वयोद्धृन् प्रार्थयितुं जगनियन्तारं परमेश्वरं जलकष्टनिवारणाय ।" " 'यदा तु'- प्राह स श्रमणः सगद्गदं 'अस्तं गच्छति दिनकरेश्वलोक्येव तस्य परंतपस्य यवनसेनाध्यक्षस्य चित्तौदार्य म्लानप्रभे, अहं, दिगन्तविस्तृते तस्मिन् सुव्यवस्थिते स्कंधावारे पुरः पटगृहाणां बद्धपंक्तीन, स्वं-नेतारमनुसृत्य निःशस्नमपनीततनुत्रमना- वृतमस्तकं याचकभावेन जानुभिः भूमौ सिकतिलायामनास्तृतायां तप्तायां नतान् जगपितरं प्रार्थयमानान् प्रसार्य हस्तान् करुणकरुण- मुच्चैः स्वर, समवालोकयं, तान् संख्यातीतान् यवनसैनिकान् तदा 'सत्यं ब्रवीमि-न प्राभवमहमात्मानमपि तथाकरणानिवारयितुम् । चिरात् खलूपरतेषु प्रार्थनायास्तस्या अदृष्टपूर्वसदृश्यास्तेपु जित्वरेषु वीरेषु स्वस्वकार्येषु शांतेन चित्तन प्रवृत्तेषुः अहं- भुग्नः लघुता- भारेण-."निभृतं ततोऽपासरम् । अविदन्नेव च समतिक्रम्य घनांधकारं पन्यानं प्रत्यागच्छं विस्मयमूढः' ।" सिघु-कम्पा "निरूढनगरीनिवासिनस्तु समाकर्ण्य तं वृत्तांतं सर्वथाs- नपेक्षितमादौ संशयालवः, शनैः शनैः समुपजातविश्वासा, आश्वस्ताः, प्रत्यागतप्राणमिवाऽऽत्मानं मन्यमानाः, स्वागताय प्रत्युद्गच्छत्तस्तान तथा सेवकमुखेन व्यावर्तयतः यवनसेनापतेस्तादृशं महाशयत्वमनुभूय चकिता, 'अपि नाम सः सत्संकल्पोऽपि,-म्रियमाणेष्वसंख्येषु सैनिकेषु तुरगेषु च पारसीकेपु,-प्रदत्तस्याभयवचनस्य पालन एवमेव दृढः स्यादिति चितयाऽन्तर्दह्यमानाः, किंकर्तव्यविमूढाः, शन: शनैः गृहाणि स्वानि प्रदीपशून्यानि निःशब्दानि, प्रेतात्मान इव स्थानानि पापानि, विविशुः ।" "उपविष्टाःनिपतिताः शयिताश्च तत्कोणेषु-प्रारभन्ताति- वाहयितुं तां निशां क्लांताः विनिद्राः।" "न चालक्षयन् चिंताजडमानसाश्चिरं- प्रहरमात्रजीर्णाया- मेव तमस्विन्या समुद्भूतं, शनैः शनैः प्रवलतरीभवन्तमचिरादेव प्रभंजनवेगेन वहन्तं, समीरणं, तत्साहचर्यमिव कतुं बद्धपरिकरं, विस्पष्टं श्रूयमाणं, गंभीरं जलदध्वनि, तत्पथप्रदर्शनायेवासद्विलसन्तं तीव्र पीतपीतं तडित्प्रकाशं च ।" "सहसा प्रबोधिताश्च चितातंद्रायाः स्वप्नेऽप्यप्रत्याशितेन, मनोरथेष्वप्यनुत्प्रेक्षितेन, कल्पनाया अप्यविषयेण, गंधैन मृदः प्रथमवर्षाजलबिंदुपरिचुबिताया उछ्वसितहृदयाया, आकृष्टा इव केनाऽपि मेघस्तनितमिषेण प्रोच्चारितेन मंत्रेण, समाहूता इव केनापि शिशिरसमीरप्रापितेन मूकेनाऽमंत्रणेन, प्रेरिता इव केनापि विद्युत्- प्रकाशपातितेन विलक्षणेन प्रभावेण, झटिति परित्यज्य शयनानि विहाय चाऽऽसनानि समुत्थिता, विद्युद्वेगेन गृहेम्यः निर्गताः, रथ्यासु मार्गेषु चत्वरेषु मंदिरप्राङ्गणेषु तत्र तत्र कृतसंमर्दा, उन्नमय्य मुखानि हर्षोज्वलानि प्रसवधर्मजलानि, प्रारभन्त निध्यातुं गगनवितानं विस्फारितया दंशा- बालास्तथा वृद्धाः, किशोरास्तथा प्रौढाः, सधनास्तथा निर्धनाः, पुरुषास्तथा महिलाः ।" सिंधु-कन्या " "आरभन्त निर्यातुमपरस्मिन्नेव ' क्षणे- निरुरुत्सयेव श्वस्तनस्य दिनकरकरप्रसरस्याऽद्य प्रविन: पृपदश्वप्रवाहान समनुसृत्य तडिद्दीपप्रकाश्यमानमध्वानं गगनरणाङ्गणे महता- टोपेनाभियातो, धनधूलिधनधूसरछायान्, विविधाकारान्, कांश्चित् पुनरुद्भूतपतवान् यथेच्छं समुत्पततो महीधरान विडंबयतः, कांश्चित भूकंपनिपतितात्युनतहऱ्यावीथीरनुकुर्वतः, कांश्चित् भ्रमन्मत्तमहिष- पंक्तिशोभामपहरतोऽनवलोक्य चिरसहयायिनीबंलाकावलीरासमंतात् गंभीरस्तनितमिपेण ता असकृदाह्वयतः, जलदान् जलजडान ।" "अन्वभवन् तृष्णाविलगितोष्ठपुटा:- सतृष्माश्चातका इव- कदुष्णान् धूलिकणवासितान पृयुलान् वर्षोंदविदून प्रोन्नमितान्यान- नानि सावेगं ताडयतः।" "नाजानन् होतिरेकनिश्चला मीलितनयनास्तान्- शीघ्रमेव- विदार्येव गगनवितानमनवरतं निपतन्तीनां, स्फोटयित्वेव जलदपटलोदरं मुसलधारं वर्षन्तीनां, विरहान्तसमुद्भूतेनाऽऽवेगेनेव ललाटे कपोले स्कंधे वक्षःस्थले सरभसं लगन्तीनां, हणेव महता निदाघतपनसंतापितां धरां कुल्यांगुलीभिर्भावावेशचंचलाभिरितस्ततः सर्वत्र स्पृशन्तीनां, समुत्साहेनेव महता धूलिधूसरितान् पादपान् प्रासादान् देवालयान् स्नपयन्तीनां, जलधाराणां 'ऐरावतशुंडादंड- चंडाना' रूपै परिवर्तितान् ।” "सत्यं ब्रवीमि, स्वामिन् ! तस्यां निशायां यमासारमयं भवच्चरणसेवकोऽन्वभवत् स नूनं शब्दातीतः "स्वानुभवमात्रगम्यः।" "जलपूरितनयनमवलोकयतामेवास्माकं सर्वेषां- विद्युत्- प्रदीपशिखोज्ज्वलिताभिरुदधाराभिः धारामयमिवान्तरिक्ष, क्रमशः पीनत्वमधिगच्छन्तीभिः कुल्याभिः जलमिव धरणीतलं चाजायत ।" "संन्यस्य स्थलकालव्यक्तिविवेक, विस्मृत्य कार्याकार्यविचारं, मूर्तिवग्निश्चलमवस्याय जानुदघ्ने जले निदाघांतवस्निानसुखं मिधु-कन्या मुद्रितलोचनमनुभवतां, शिशिरसमीरसंस्पर्शरोमांचितगात्राणां, गंभोरस्तनिततर्पितश्रोत्राणां, निरूढनगरीनिवासिनां निशा सा 'अविदितगतयामा एव' व्यरंसीत् ।" "आविरासीच्च- अश्रुतपदक्षेपा सद्यःस्नातोज्ज्वलमेदिनी- मुखावलोकनेच्छातुरा हर्षोत्फुल्लखगगणकलरवाभिनंद्यमाना प्राच्यां निरभ्रायामिद्रनोलनीलायां रम्या उपाऽऽरक्ताभा ।" "अवलोक्य च तां- संज्ञामिव पुनरापन्नास्त- एकात्मान इव- युगपदेव निःशब्दं परस्परं पप्रच्छु:- 'अपि नाम. सा. असामयिकी वृष्टि:.... साऽनपेक्षिता वर्षा".. परमप्रतापिनो वचना- नुपालिनस्तस्य यवनसेनाध्यक्षस्य करुणकरुणायास्तस्याः सायं- प्रार्थनायाः फलं भवेत् ?" "प्रत्युत्तरयितुमिव तेषां तां पृच्छां विधिना विचित्रविधिना संप्रेपितस्तेपां श्रमणानामन्यतमः स्मयमानो धम्मघोषमुखरस्त्वरित- गमन आजगाम तत्र कटकान् यवनानाम् । आह सकाकु- 'प्रत्यक्षीकृतं भवद्भिः संशयात्मभिर्याथायंमस्मत्कथनस्य ? अनुभूतं नियत्या अतयंगत्या यवनपक्षपातित्वम् ? आक्रांते तेषां महासागरविशाले कटके जलदौभिक्ष्यणातितीव्रण, समाहूतेव तेषां प्रार्थनयाऽकालवयं, तेषां जलकप्ट निवारयन्ती, दृढं व्यंजयति विधातुस्तदनुकूलत्वम् । "स्थान एव च तत् । यदि हि विधाता परमप्रतापिना, क्रुधि निर्दयसंहारकाणां, क्षांती परमदयालूनां, तिरस्कृत्य परिणामान् प्रदत्तं वचनं वहु मानयतां पारसीकानां पक्षपाती न स्यात्तहि किं परचक्रपीडितान् प्रजाजनान् नपुंसकवविहाय 'य: पलायते स जीवति'- नीतिमिमानुसरतां, शृगालचतुराणां, मनस्यन्यद्वचस्यन्यत् परिपालयतां न: चंद्रसूर्यवंशोद्भवानां राज्ञां पक्षपाती स्यात् ? ""तत् परित्यज्य मनस्यवशिष्टं संशयलेशं शिरसि कुरत नियत्याः सर्वकल्याणकारिण्या आदेशम् । विश्वस्ता भवत यत्- यवनानामाधि- पत्यमस्या भूमेः कल्याणायैव भविष्यति- इति । परिकरं च बघ्नीत सिंधु-कन्या : तेषां साहाय्यकरणार्थम् । स्वाभिमानिनस्ते- यदि भवतां घनिष्ठ संपर्क न वांछन्ति तापि न कापि हानिः। परिपालयन्तोऽपि मर्यादाः स्वोया यूयं तेषां साहाय्यं कर्तुमर्हत । अनयव रोत्या यूयं यावच्छक्य, प्रत्युपकतुं तान् यवनान् जीवनप्रदान् प्रभविष्यथ- विशेषतस्तेपाम- ग्रण्यं निर्दोपं गंभीरस्वभावं विक्रांतम् !" "निरूदनगरीनिवासिनस्त्वादित एव भीरुस्वभावास्तत्रापि रामवलोक्य जित्वरं ते महान्तमदृष्टपूर्वसदृशं सेनासागरं भयाक्रांता- स्तत्रापि प्रत्यक्षीकृतेन तन्नायकस्य महाशयत्वेन प्रभावितास्तत्रापि- (निदाघांतनितांतसंभाव्यामपि) तां धना जलवृष्टि मूढतयाऽक्रामक- जलकष्टनिवारणायैव नियत्या विशिष्य कारिता . मन्यमानास्तद्- भाषणमन्वमोदन्त विधूयं सारासारविवेकम् ।" “आरभन्त चाऽहमहमिकयाऽदृष्टपूर्वया प्रस्तावयितुं विविधा योजना गोभक्षकेभ्यो देवीविग्रहभंजकेभ्यः पापेभ्यः परेभ्यः साहाय्यदानस्य ।" "अपारयश्चतेपो ता कदाशयतामधिकतरंसाक्षात्कर्तुमहं... गगनमध्यमारोहति चंडकिरणे दिनकरे तत". एकाको मिर्पण केनचिदपासरम् । अलक्षितश्च केनापि, शनैः शनैाहीतरेत्तरदिक्, प्रवसन् संतप्तः, स्वामिनः रोवायामुपातिष्ठम् ।" "श्रुत्वा देवः प्रमाणम् ।" एवं विनिवेद्य मौनमभजत स वृद्धः सेंधवः स्पशः । मायं च निशादोपज्योतिः, मंत्रणाकक्षे निवाते निरुद्धश्वास इव स्थिर ज्वलदशक्नुवदिवावलोकयितुं. परिभवम्लानानि मुखानि श्रोतृणां देवोपहतानाम् । "". सिंधु-कन्या पंचमः परिच्छेदः "..."परित्यज्याऽऽत्मविघातकमेतनिष्क्रियत्वं यदि वयं निरोधु यवनसेनासागरं विद्युत्प्रसरं शीघ्रमेव किंचिन कुर्याम तर्हि मः समुल्लंघ्य सर्वाः सीमाः निमज्ज्य सर्वाण्यपि रक्षास्थानकानि- पश्यतामेवास्माकं विस्मयविस्फारितलोचनानां निरुद्धश्वासानामव- सन्नगात्राणां- राजधानीमेतां पक्षाभ्यन्तर एव निरोत्स्यति"- प्राह तीक्ष्णस्वरं सिंधुराजकन्या ज्वलन्नयनाऽपरेयुः प्रातरेव विचार- विनिमयार्थ मंत्रणागृहे समुपस्थितान् मंत्रिणोऽधोमुखान् चिंताव्यग्रान् । "आदौ तावद्- दक्षंमन्या अपि वयं यवनानां वास्तविक कपटकुटिलमाक्रमणव्यूहं चारचक्षुभिः सर्वदर्शननिपुणः प्राक्कलयितुं समर्थानाभवाम । तैः साभिप्रायं प्रसारितासु लोकवार्तासु निमील्य विवेकने विश्वसन्तः, पारंपरीयेणोदीच्य व मार्गेण तेपामाक्रमणं परिकल्पयन्तो, मार्गान्तराणां विचारणे परीक्षणे तत्प्रतिरोधक्षमता- परिवर्द्धने चाऽऽत्मविघातकमौदासीन्यमेवाभजाम ।" "ततः समानांते तैः सिंधुराज्ये सर्वथाऽनुत्प्रेक्षितेन सागर- मार्गेण वयं विस्मयमूढा बहुमूल्यान् क्षणान् निष्फले विचारविनिमयेऽ- क्षयाम । अपश्याम चाऽस्माकं प्राचीनतमं राजकुलदेवतातीर्थस्थानं देवलनगरं लुण्ठ्यमानं दह्यमानं च पापात्मभिराततायिभिः ।" सिंधु-कन्या "कि न प्रयतितमस्माभिः ""कूटयुद्धनिपुणाभिरस्माकं सेनाभिः .."गूढं प्रविश्य देवलनगर्या भूमार्गः ""राहसाऽऽक्रमितुं विनाशयितुं चाकुतोभयां रिपुसेनाम्"- अवदत् समुत्तेजित इव वाहिनीपतिः । "प्रयतितम् ! परंतु न संतुलितमतिमनागतविधात्रीमनु- मृत्य" प्रत्युवाच राजदारिका । "यदि हि वयं लब्धेन तात्कालिकेन विजयेनाभ्रांता: रिपुसेनाया अधिकतरमंशं सागरमार्गेण नशेऽधकारे सजवं विलीयमानं प्रत्याक्रमणतत्परं समुत्प्रेक्ष्य तत्प्रतीकाराय संनद्धा अभविष्याम- तर्हि न तादृशस्य नरमेधस्य पशवोऽभविष्याम ।" "अपि नाम मन्यते भर्तृधारिका- तथा दक्षा अपि वयं- तस्यां निशायां सागरेण गहनेनोपरुद्धपार्णय:, रिपुहस्ते निपतितेन देवलदुर्गणावरुद्धनिर्गममार्गाः प्राच्याः प्रतीच्याश्च दिश आक्रामतः रिपुसेनासागरस्य दुष्प्रसहान् उल्लोलकल्लोलान् चिरं प्रतिरोधं ममर्था अभविष्याम इति ?"- अपृच्छत् श्रांतस्वरोधीसचिवः । "एतत्तु मन्येऽहं" प्रत्यवदत् सा दृढेन स्वरेण, "यत्- असमर्था अपि, शतश: खंडिता अपि निशितखड्गसहस्त्रः, वयं, पृष्ठेषु भारतीयस्येतिहासस्य स्वर्णाक्षरः संस्तुता एवाभविष्याम- इति ।" "देवलनगरस्य विजयेनास्मद्राजकुलदेव्या विग्रहस्य खंडनेन च पयनैः न केवलं पर्तनमधिगतमेकं निकटतमं तद्देशस्य कृते- सर्व- विधसुविधोपपन्न पर्तनम्- अपि तु प्रदत्तो मर्मघ्नः प्रहारः सार्वजनीने श्रद्धेयत्वेऽस्मद्राजकुलस्य ।" "श्रुता एवास्माभिश्चारथवः जनसाधारणे निष्प्रतिरोध भ्रमन्त्यो वार्ता अज्ञेयोद्गमस्थानाः प्राक्कथयन्त्यो विनिपातमस्माकं यवनानां चाऽऽधिपत्यमवश्यंभाविनं. न केवलमस्माकं राज्ये.... अपि तु समस्ते भारते वर्षे । (सखेदम्) अस्माकं कुलदेवताया विग्रहस्ये खंडनेन ता विश्वसनीयतामेव दुर्जयामधिजग्मुः।" सिंधु-कन्या "अत एव-मया देवलनगरस्य पुनविजिगीपया कुलदेवतायाः पुनः प्रतितिष्ठापयिषया प्रस्तुतमासीत् प्रतिरोधनं म्लेच्छानां पर्तन- ममीपतमवर्तिनः निरूढदुर्गस्य परिसरे, विनाशनं च तेषां समापतिते नातिदूरवर्तिनि वर्षाकाले विकटवर्षाविभ्रांतानाम् ।" "परंतु- तदपि न वयं कार्यरूपेण परिणमयितु शेकिम- यवनानां दूरदृप्टेर्वशात्- अस्माकं च..." उक्त्या चेत्यं क्षणमात्रं व्यरमत् सा प्रयतमानेवाऽऽत्मानं संयन्तुम् । "किं नानुभवति भर्तृ दारिका यत्-नियतिरप्यतवर्यगतिरादित एव तावत् प्रतिकूलेवास्माकम् ?- सहसाह धीसचिवः, लब्ध्वेव चिराद्वांछितमवसरं प्रतिरोधु वार्ताप्रवाहमधिक्षेपगर्तस्खलनादुः- सहात् । “कथमिवान्यथा समुपपद्येत सा नितांतमनपेक्षिताऽसामयिकी घनवृष्टि:... या खलु न केवलं यवनानां जलकष्टं भीषणतमं व्यलोपयत्, अपि तु प्रास्थापयत्तान् जनसामान्यदृष्टी नियतिनिद्दिष्टान् दुविजेयान् विजेतृन् भारतवर्षस्य ?" "काकतालीयन्यायेन घटितामपि घटनां भवत्सदृशा याथार्थ्यदर्शिनः नियतिप्रेरितां मन्यन्त-- इत्यहो विस्मयः ।" प्रत्यवद- द्राजदारिका । "अथवा स्यान्नाम नियतिप्रेरिता एव । क इव विस्मयस्तत्र ? ..कि नाधीतमस्माभिरावाल्यात्- पुरुषानुगामिनी भाग्यलक्ष्मीरिति?" "स्वीकुर्महे- वयं निष्क्रिया अदक्षा बालिशा अलसाः- कादाचित्केन विजयेन धन्यंमन्या लघुवृत्तयः । स्वीकुर्महे- भाविन इतिहासकाराः, नितांतं समुपेक्ष्यास्माकं यत्नान् सैधवराज्यस्यास्या- राजकताकर्दमेऽवसीदतः पुनरुत्थापनार्य कृतान्, कज्जलाक्षररस्मान् अधिक्षप्स्यन्ति । स्वीकुमंह- एतावन्तो वयं कापुरुषा यत् प्राचीनाया वंशपरंपरया पूजिताया अस्मत्कुलदेवताया विग्रहस्य खंडनमप्यस्मान् सिंधु-काम्या १८ नाए कत् समुद्वेजयितुम् । स्वीकुर्मह अस्मान् नियतिनवानुग्रहीष्यति- पुरुषव वा हि वयम्"। स्वीकुर्महे सर्वमपि""। आह्वयामहे च सर्वान् निरर्थकादस्मादात्मप्रतर्दनात् उपरमाय,"- सहसाऽऽह सिंधुराज: शुप्यतस्वरः । "चिंतनाय च भाविनः प्रतीकारव्यूहस्य । यथाऽह वरसा- सुविचार्य ऋतुवृत्तिमनुसरन् स्वाक्रमणयोजनां विनिश्चितपूर्वा, स यवनसेनानीः, प्रागेव वर्षारंभात यावच्छक्यां सिंधुभूमि विजेतुं कृतनिश्चयः, निरूढप्रदेशात् शीघ्रमेव- सिंधुसरिद्रक्षितदक्षिणपार्श्व:- प्रचलेदुत्तरस्यां दिशि- इत्यत्र न संदेहः । एवं प्रचलितः सः शिविवृक्ष- संकुले शिविस्थानकाननेऽनेकयोजनविस्तृतेऽतिगहनेऽस्माभिः मुप्रतिरोधः । अश्वारोहाश्च तत्सनिका, उदीच्यायाः पाश्चात्यायाश्च सीमायाः सद्य एवं प्रत्यानीतः कूटयुद्धनिपुणरसंख्येपु शिबिवृक्षेषु दिगन्तप्रसृतशाखावितानेष्वादित एव सुगोपितरस्माकं सैनिकस्तम- स्विन्यां सूचिभेद्यतम स्विन्यामवरुह्य निःशब्दं वृक्षेभ्यःसहसा समाकांता भयविमूढा लीलयव विनाश्याः।" "कथं मन्यतेऽस्माकं धीसचिवः ?" क्षणमेकं विरम्यापृच्छत् सिंधुराजः, निक्षिप्य जिज्ञासामुखरां दृष्टि स्वदुहितुर्नत आनने, समवलोक्य च तामंगुल्या महा: स्वासनप्रच्छदे किमपि लिखन्ती... मूकाम् । "मृप्यतु महाराजः" प्रत्यवदत् विनीतस्वरं ब्रह्मदत्तः । "परंतु- यदि नाम स यवनसेनानीः शृगालचतुरः कल्पनानिपुणां स्वां सहजबुद्धि राष्ट्रद्रोहिणो वा कस्मचिभारतीयस्योपदेशमनुवर्तमान- स्तर्कयित्वा संभाव्यं फूटमात्रामगं तत्परिजिहीर्षया तं संनिकृष्टमपि सावाधं मार्ग वर्जयेत् समुपगच्छेच्च शिविदुर्ग विप्रकृप्टेनापि निराबाधेन मरुस्थलमार्गेण" तहि अस्माकं सिंधुमान् रिपुसेनया इत्यं पाणिगृहीतः- प्रहरमात्रेणेव पराजितः स्यात् । सर्वतः निरुद्ध- प्रसराश्चास्माकं शिविकानने निलीनाः कूटयुद्धनिपुणाः सैनिकाः सिंघु-कन्या कालभक्ष्या: प्रज्ज्वलद्दावाग्निकुंडलिते कांतारेऽवरुद्धा मृगा इव भयविस्फारितेक्षणाः।" "यदि नाम वयं- दुरुत्प्रेक्ष्यं स्वामिन आक्रमणव्यूहमनु- सरन्त:- शिविकांतारेऽस्माकं पदाति गृहयेम कतितुं रिपुकांतारं रात्री विश्रब्धं विश्रांतं, कुर्याम च सिंधुमन्तं दुर्ग बलवद्धानुष्कपृतनापरि- रक्षितम्"- आह सोत्साहं वाहिनीपतिः, "तहि संभाव्यामसंभाव्यां वा यां कामप्याक्रमणविधां शत्रोः विफलीकतु समर्था भवेम ।" "वाढम् ! वाढम् !"- प्रत्यवदत् सिंधुराजः, समुत्तारित इव महतः संकटात्, विस्फारितवक्षःकपाट: 1 "तनिश्चितोऽयं प्रतीकारव्यूहः । कार्यरूपेण च परिणमनीयो वनसमवाहुना वन- बाहुनव । शिविदेशाधिकृतः स हि व्यूहमिमं यावता कौशल्येनानु; तिष्ठेन्न तच्छतांशेनापि कोऽप्यन्यः । तन्निवेदयतु भवान्, सुमते, स्वयं गत्वा सिंधुमन्तं दुर्ग, इमं व्यूह रहसि वज्रवाहवे। प्रेपयतु च भवान्,, वीरभद्र, अतीत एवाहनि प्रत्यागतान् पदातीन् शिबिप्रदेशमवि- लंबमेव ।" "दृढं खलु विश्वसिमो वंज्रबाहुरस्माकं लब्ध्वा चिर- प्रतीक्षितमवसरमेतं तुल्यबलस्यामित्रस्य . मानमर्दनाय नितांत प्रहृष्टस्तथा विक्रांतमाचरेत् यथा तस्य नाम भारतीयस्येतिहासस्य पृष्ठेषु स्वर्णाक्षरः संस्तुतं भवेत् ।" वदंश्चैवं स्वासनादुदतिष्ठत् पूर्वाहिकानुष्ठानाय परिहरन् दृष्टि कौतुकोत्फुल्लां दुहितुः । निरगच्छच्च मंत्रणाकक्षात् प्रत्यागत- यौवन इव वृद्धो वनराजो दोडतः । परंतु-चिरात् खलु प्रयुद्धमेतत्तस्य तेजःनृपोचितं तस्मिन्नेव दिनेऽस्तं गते तदपकप द्रष्टुमनिच्छुक इव भगवति सवितरि, सहसा मांद्यमभजत्, समवलोक्य स्वपुरत आनीतं प्रधानदीवारिकेण मंदेश- वाहकं सिंधुमदुर्गाधिपेन संप्रेषितम् । सिंधु-कग्या ।

"अपि . कुशलं .. तव स्वामिनः ?--संयम्य कथमपि स्वस्वरमपृच्छत् तं सिंधुराजः, संविद्य वातायनसमीप उपविष्टाया दुहितुश्चितोद्भवमाकस्मिकम् । . "कुशलं शरीरेण-" प्रत्यवदत् स दूतः 1 समादिष्टश्च महाराजेन सविस्तरं निवेदयितुमुवाच- "राजधान्याअपरेयुरेव प्रत्यागतं, धूलिधूसरितमपि, पूर्ववदेव सहजप्रसन्नमुखमुद्रं, पूर्ववदेव धीरगंभीरया गत्या दुर्गमार्गमात्रामन्तं निगृह्य मनोभावं पूर्ववदेवांगीकुर्वाणं सस्मितमभिवादनानि सर्वेषां, सिंधुमदुर्गपतिमवलोक्य, दुर्गमार्ग कृतसंमर्दानां, सावेशं मिथः किमपि किमपि चर्चता, साटोपमसिधेनुकाः स्वा असकृत् स्पृशतां समुद्धताना ग्रामप्रमुखाणां भूतपूर्वाणां सामंतानां तदनुयायिनां च स आवेशः, स. आटोप:, स दर्पः, काऽपि व्यलीयत- भुजंगानामिव प्राणहरो गर्वः दृष्ट्वा भुजंगभुजम् ।" "शिविग्रामचत्वरे प्रामचैत्यस्य समीपे स्वरमिव निरुध्य स्वमश्वं पूर्ववदेव सहजयात्मीयतयाऽऽपृच्छ्यमानं कुशलं पांसुल- पादानामपि सैधवानां, निर्भीक स्मितवादिनं च तं दृष्ट्वा ते, दिनकर दृष्ट्वा उलूका इव, विलुप्तधैर्याः लोपमात्यंतिक जग्मुः।" "अपारयन्तश्च स्वयं तं साक्षात्क्तुं सविनयं सदर्प वा, प्रेषयामासुः निशि तस्यामेव तत्सेवायां लब्धप्रतिष्ठान्, सज्जनानपि कातरस्वभावान्, निष्कलंक - चरितानपि परप्रत्ययनेययुद्धीन्, धनदारादिकमेवात्मसंमानादधिकतरं मानयतः, निशम्यासकृद्देवल- पर्तनदाहवृत्तांतात् अतिशयोक्तिपूर्णान् भयात्रांतान्, राष्ट्राभिमानिनः परंतपस्य सिंधुमदुर्गाधिपस्य सेवायां कापुरुपोचितं निवेदनं कर्तुमनुत्सुकानपि साशंकानपि विश्वस्य तस्योदारहृदयतायां ताहा कुचेष्टितं कर्तुमुचतान्, कतिपयान् ग्रामप्रमुखान् ।" सिंधु-कन्या। .

"इत्यं समुपदिश्याऽपि नागरिकान् कर्तव्यविपर्य समाश्वासं लेशतोऽपि क्षणमात्रमप्यननुभवतः, सुविचार्याऽऽत्मनव स्पशान् प्रत्ययानि शिविप्रदेशे सर्वत्र जनसामान्यमनोभावजिज्ञासया व्यापारयतः, प्रतिप्रहरं तैरानीयमानान् वृत्तांतान् श्रृण्वतोऽनुपलभ्य सुविज्ञातान् राजद्रोहिणस्तेषां चिरपरिचितेषु निलयेषु सचितं तान् सर्वत्र गवेषयतः, नातिदूराया दाक्षिणात्यसीमाया असकृत् समापतद्भ्यो वार्ताहरेभ्योऽधिगत्य यवनसेनासागरप्रसरवार्तामधिकाधिकं समुद्विज- मानस्य, पाश्चात्त्यसीमायां प्रतिदिन घनतरीभवत्याः शत्रुसेनायाश्चेष्टितानि सूक्ष्मेक्षिकयाऽवलोकयतः प्रतिपक्षप्रतिरोध- प्रभविष्णु सामर्थ्य दुर्गस्य प्रतिपलं प्रवर्द्धयतोऽपि कृतकृत्यता लेशतोऽप्यननुभवतोऽशांतस्वांतस्य मम स्वामिनो द्वित्रा दिवसा युगा इवं दीर्घदीर्धा व्यतीयुः।" "इयं तस्याशांतिः, भर्त !, परां कोटिमध्यगच्छत् चतुर्थेऽहनि, यदा खलु सः सायंसमये प्राकारशिखरवतिनं निरीक्षणस्तंभमारूढः, समुत्तप्तसायंसमीरसहरीवितुलितचिकुरः, निःशब्दः,एककः कदाचिदधः प्रसृतं निर्जीवमिव नीरसं निर्जनमिव स्तब्धं शिविग्रामं पश्यन्, कदाचित पश्चिमांबुनिधो निमज्ज्य परलोकं यातं दिनकरमनुगताया दिनधिपश्चितादीप्तिमिव सर्वतः प्रसृतामारक्तां सायंप्रभामवलोकयन्, कदाचिदिदृक्षयेव म्लेच्छसेनासागरस्य दुष्प्रसहप्रसरस्याऽऽकुंचित आरवते नयने दाक्षिणात्य क्षितिजे तिमिरमलिने निखनन्- अपश्यदेकमश्वसादिनं धूलिधूसरितांगं, प्रपलायमानमिव कस्मादपि प्राणसंकटात् पापाद्दक्षिणाशानिलीनात्, समारुह्य जवन फेनिलमुखं घोटकमतिवेगेन समुपसर्पन्तं सिन्धुमदुर्गम् ।" "प्रत्यभ्यजानात् सूक्ष्मेक्षिकया निरीक्ष्य परमविश्वासार्हाणां स्वदूतानामन्यतमम् । आदिशन् स्वपरिचारकं तं दुर्गाभ्यंतरं प्रवेशयितुं समुपस्थापयितुं च समक्षं तत्क्षणमेव । अशृणोच्च तस्माद्दीर्घदीर्घ श्वसतो वज्रपातसंनिभं समाचारं निरूढवासिना कापुरुपोचितस्य व्यवहारस्य, वृत्तांतं च तस्या असामयिक्या घनवृष्ट्याः।" सिंधु-कन्या - १०३ "अधोवदनाः स्खलद्गतयो मुकुलितहस्तास्ते यदा मम स्वामिनः, रात्रि-भोजनानन्तरं शयनकक्ष आसंद्यां विश्राम्यत, आत्मनैव सह किमपि किमपि चिंतयतो, म्लानमुखमुद्रस्य सेवायामुपतस्थुः दौवारिकमनुसरन्तरस्तदा-महाराज !- क्षुद्रोऽयं सेवकस्तत्रैवासीत् साक्षात्कतुं संसारनाटकस्याविचाररमणीयस्य रोमांचकरं दृश्यमेकम्, अनुभवितुं च जीवितस्यास्य सौवर्ण क्षणमेकम् ।" "कथं खलु ते क्षुद्राः मैधवा वारंवारं नुद्यमाना अपि मम स्वामिना- अवलोक्य तान् सहमा निगूहिताऽऽकारेण पूर्ववदेव स्मितवादिना,- निवेदनाय स्वमनोगतस्य नाशकन समुच्चारयितुं शब्दमपि कदर्थनायाः, कथं खलु ते महता प्रयासेन प्रस्फुटितवाचः, क्षितितलनिखात नयना अंते प्रकटीचक्रुः स्वामाशंकां सर्व-व्यापिनो विनाशस्य प्राप्तायां परचक्रापदि, कथं खलु ते व्यानञ्जुः कातरस्वरा इच्छां शिविस्थानवासिनामात्मसमर्पणस्याऽऽततायिनां दुष्प्रसहवेगानां पुरस्तात्, कथं खलु मम स्वामी, कक्षकदेशप्रज्वलद्रत्नप्रदीपो- भासितमुखारविंदः, श्रुत्वा तां कापुरुषोचितामभ्यर्थनां सहसा क्रुद्धः, प्रस्फुरन्नाडीकलंकितभालपट्टः, क्षणमेकं मूर्तिवदवस्थितः, प्रयत्नेन महता नियम्याऽऽत्मानं, स्नेहाणाऽपि सुलक्ष्यदायेन मंद्रेणापि गंभीरेण तान्-पितेव पुत्रान् कर्तव्यपथाविचलत:-प्रावोधयत्, कथं खलु ते, समनुभूयाऽऽत्मन इच्छायाः क्षुद्रतामादित एव वीडिताः, साक्षात्कृत्य तस्य क्षणिकमप्यविस्मरणीयं कोपप्रकाशं भयाक्रांता, विज्ञाय यावनस्य संकटस्य वास्तविकं कारणं, निशम्य तस्य यथार्थ स्वरूपं, समवगम्य तस्याप्रत्याख्यातस्य दुरुदकं भारतमातुः प्राणघातक तस्मान् भावोद्रेकवशादुत्थायाऽऽसंद्याः कक्षाभ्यंतर एव सावेगानि पदानि क्षिपत:लज्जाभारभुग्नाः, भूम्या निगीर्णमेव वात्यया समुद्भूतमेव दिवा विलोपितमेवाऽऽत्मनं कामयमानाः, कप्टेन महता समुच्चार्यानुतापाक्षराणि कानिचिदस्फुटास्फुटानि- ततोऽपसृता, दुर्गानिःसृताः, · नैशेऽधतमसे दिवाभीता इवालीयन्त-, तन्नूनं चतुवंदनेनापि चतुरवदनेन यथार्थतो वर्णयितुमशक्यम् !" १०२ सिंधु-कन्या , - मानस्य, "इत्यं समुपदिश्याऽपि नागरिकान् कर्तव्यविषये समाश्वासं लेशतोऽपि क्षणमात्रमप्यननुभवतः, सुविचार्याऽत्मनैव स्मशान प्रत्ययानि शिविप्रदेशे सर्वत्र जनसामान्यमनोभावजिज्ञासया व्यापारयतः, प्रतिप्रहरं तैरानीयमानान् वृत्तांतान् श्रृण्वतोऽनुपलभ्य मुविज्ञातान् राजद्रोहिणस्तेषां चिरपरिचितेषु निलयेषु सचितं तान मर्वत्र गवेषयतः, नातिदूराया दाक्षिणात्यसीमाया असकृत् समापतद्भ्यो वार्ताहरेभ्योऽधिगत्य यवनसेनासागरप्रसरवार्तामधिकाधिकं समुद्विज- पाश्चात्त्यसीमायां प्रतिदिन घनतरीभवत्याः शत्रुसेनायाश्चेष्टितानि सूक्ष्मेक्षिकयाऽवलोकयतः प्रतिपक्षप्रतिरोध- प्रभविष्णु सामर्थ्य दुर्गस्य प्रतिपलं प्रवर्द्धयतोऽपि कृतकृत्यतां लेशतोऽप्यननुभवतोऽशांतस्वांतस्य मम स्वामिनो द्वित्रा दिवसा युगा इव दीर्घदीर्धा व्यतीयुः ।" "इयं तस्याशांतिः, भत !, परां कोटिमध्यगच्छत् चतुर्थेऽहनि, यदा खलु स: सायंसमये प्राकारशिखरबतिनं निरीक्षणस्तंभमारूढः, समुत्तप्तसायंसमीरलहरीविलुलितचिकुरः, निःशब्दः,एककः,कदाचिदधः प्रसृतं निर्जीवमिव नीरसं निर्जनमिव स्तब्धं शिविग्रामं पश्यन्, कदाचित पपिचमाबुनिधो निमज्ज्य परलोकं यातं दिनकरमनुगताया दिनश्रियश्चितादीप्तिमिव सवंतःप्रसृतामारक्तां सायंप्रभामवलोकयन, कदाचिद्दिदृक्षयेव म्लेच्छसेनासागरस्य दुष्प्रसहप्रसरस्याऽकुंचित आरखते नयने दाक्षिणात्ये क्षितिजे तिमिरमलिने निखनन्- अपश्यदेकमश्वसांदिनं धूलिधूसरितांगं, प्रपलायमानमिव कस्मादपि प्राणसंकटात् पापाद्दक्षिणाशानिलीनात्, समारुह्य जवन फेनिल मुखं घोटकमतिदेगेन समुपसर्पन्तं सिन्धुमदुर्गम् ।" "प्रत्यभ्यजानात् सूक्ष्मेक्षिकया निरीक्ष्य परमविश्वासार्हाणां स्वदूतानामन्यतमम् । आदिशन् स्वपरिचारकं तं दुर्गाभ्यंतरं प्रवेशयितुं समुपस्थापयितुं च समक्ष सत्क्षणमेव । अशृणोच्च तस्माद्दीघंदीघं श्वसतो वचपातसंनिभ समाचारं निरूढवासिनां कापुरुपोचितस्य व्यवहारस्य, वृत्तांतं च तस्या असामयिक्या धनवृष्ट्याः।" सिंधु-कन्या यन्न "दूरदर्शी हि मम स्वामी, भर्त: !, निशम्य तां वार्ता तत्क्षणमेव समुत्प्रेक्षत केवलं विप्लावितदेवलपर्तनः सिंधुसरित्प्रतीपप्रवाहः स यवनसेनासागर, एवं निमज्ज्य निरुढं दुर्गमग्रे सरन, नातिचिरादेव तस्य दुर्गं सामरिकदृष्टयाऽतिमहत्वपूर्ण- मुपरोत्स्यति. अपि तु देवलदेवीविग्रहखडनेन विशीर्णान्यगणितानि संधवमनांसि तस्या अकल्पिताया वृष्टयाः प्रभावेण तथा दुर्बलानि भविष्यन्ति यथा तानि यवनप्रतिरोधकल्पनामपि वोढु समर्थानि न भविष्यन्ति ।" "विसृज्य तं विथामार्थ, चिरं विचारमग्नः, निश्चित्याऽऽ- मनव 'तातचरणाः संकटवेलायामस्यां स्वयं साक्षातकरणीया' इति, निशीथे धनतिमिरे कतिपयरगरक्षकैः सह दुर्गानिःसतुं प्रवृत्त. एवाकस्माद्विदांचकार पाश्चात्त्यायाः सीमाया: सत्वरमागतं, तद्दर्शनातुरमेकं सैनिकं वार्ताहरं। समादिदेश . च तं सेवायां समुपस्थापयितुम् ।" "यदातुमः, भर्तः! तस्मादारक्तनयनात्प्रस्वेदकलिन्नपात् श्मश्रुल मुखात् शुश्राव चिरं प्रतीक्षितां दुर्वार्ता यत्- 'यवनानां मरुस्थलरणनिपुणाऽगणिता औष्ट्री सेना, पाश्चात्त्यसीमाप्रदेशे तत्कालपर्यन्तं निश्चलमवस्थिता, व्यतीत एव मायंकाले, लब्ध्वेव , चिरप्रतीक्षितं कंचित् संकेतं, सहसा विभज्याऽत्मानं द्वयोर्दलयोः,. उत्तरस्यां चाऽऽशायां प्रस्थिता, सजवं विलीयमाना. प्रतिक्षणं धनीभवति तिमिरे व्यलोकि दूरेक्षिकया गतागतानि समवलोकयद्भिः रिपुसेनायाः संधर्वः सेनाप्रहरिभिरिति-, तदैव विलीनविकल्प: परित्यज्य भर्त चरणदर्शनाभिलाषमतितीव्र, भी प्रदत्तस्य पाश्चात्यसीमारक्षणकर्तव्यस्यकमात्रस्य पालनार्थ बद्धपरिकरो, 'दक्षिणस्याः सीमायाः प्रतिपलं समुपसर्पतो यावनस्य बलस्य - प्रतिरोधार्थमुपायान् समीचीनान् प्रयोक्ष्यत्येव तात' इति ममापवास्याऽऽत्मनं, स, विन्यस्य दुर्गरक्षणभारमुपदुर्गपाले दुर्गात् । किंचिदपावृतमहाद्वाराग्निःमृतः, - व्यूढकंकटः कौतिकरश्वारोहिभिः सिंधु-कन्या सैनिकरनुगम्यमानः, समाक्रम्योत्तराभिमुखं शिविग्राममध्ययायिनमपि जनशून्यं पिहितकपाटगृहपंक्तिनिवडोभयपावं नीरवमर्दमृतमिव भासमानं मंदप्रकाशं पंथानं, प्रविवेश स्तब्धमपि प्रस्फुरद्रणोत्साह स्वकटकम् ।" " "दक्षः सेनाधिकारिभिः स्वकर्तव्यपालनतत्परैः सह संमंत्र्य च, स्वां बलिष्ठां सेनां गृहीत्वा, कटकपरिरक्षणभारं विन्यस्य कतिपर्यषु गुल्मेषु, प्रहरमात्रावशिष्टायां तस्यां तमस्विन्या पश्चिमायां दिशि प्राचलत् ।" "अहं त्वधन्यः स्वामिना- न जाने किमिति विचार्य - तव दुर्ग,तत्प्रत्यागमनं प्रतिपालयितुमाज्ञप्तस्तमनुसतुं न प्राभवम् ।" "परंतु- तेन सह भ्रमित्वा योजनणतप्रसृतेषु, दिवा समुत्तप्तेपु, रात्री हिमशीतलेपु, .कदाचित् संततोद्भवद्वात्याचक्रो- धूतसिकतांधकारितेपु, "अन्यदा' प्रखरदिनकरदुर्दर्शषु, निर्जलेषु, मरुमयप्रदेशेष्वनवरतमाहुतीकृत्यासंख्यान उष्ट्रान् तदारूढांश्च कौति- कान् धानुष्कान् आसिकान् विकरालकालमुखकंदरायां, सप्ताहानन्तरं प्रत्यागतानां थांतानां हताशानां तदंगरक्षकाणामन्यतमान्मयाऽज्ञायि यत्-सः,कटकात् .. प्रस्थितः,- अनवरतं प्रवसन्,- तर्कयित्वा संभाव्यमुत्तरतो दक्षिणतो वां रिपुसेनाऽऽक्रमणं, प्रातरेव, दलमेकं स्वसेनाया उत्तर दिशं प्राहिणोत्'। अन्यच्च स्वयं गृहीत्वा दक्षिणा प्रातिष्ठत । प्रतिकूलत्वात्तु भागधेयस्य नकदाप्यलभतावसरं पर्याप्त रिपुसेनया सह योद्धम् । सा हि, शृगालसेनेव नितांतधूर्ता, सर्वतः प्रसृतायाः स्वख्याते: सर्वथा विपरीतं वर्तमाना, संधवी सेनां तदा तदा प्रजहार, निशीय वा ब्राह्मे वा मुहूर्त, विलोपितदिङ मंडलं परिभ्रमति वात्याचक्रे वा प्रखरतापं तपति वा तपने 'दुःसहे, यदा यदा सा, निष्फलानुसारखेदक्लाता हताशा श्रांता, विश्रमितुं विल प्रावर्तत ।' "आदित एवं मरुयुद्ध नात्यभ्यस्तायास्तत्रापीदृशेनाननु- भूतपूर्वसदृशेन प्रच्छन्नेनाऽऽक्रमणेनाविच्छिन्नेन प्रस्ताया अस्माकं विधु-कन्या १०५ प्रदातुं प्राभवताम् । किंचिच्छुएकोऽपि किंचिद्घर्घरोऽपि पूर्ववदेव मेघस्तनितगंभीरश्च स्वरः । "मूर्तिमान् आर्यप्रताप इवावमानितः, अन्तर्गुढया वैरप्रतिनियियातयिषयोदनः, स्वामी मम, प्रविश्य सिंधुमदुर्ग, तदुःखेन दुःखितमिव निश्चेष्टं, विधामकक्षं स्वं न्यवर्तत ।" "सुचिरं विचार्य च किमपि स्वात्मनैव, मामाहूय रहसि यावत् संदेष्टुं किंचिदारभते निविवेदयिपयेव महाराजचरणकमल- योस्तावदशृणोत् अतिजवेन दुर्ग समापततां कतिपयानां तुरंगमाणां खुरध्वनि, तमनु च महाद्वारं मुष्टिभिः प्रताडयतां केषांचित् संधवानां तारस्वरमाह्वानशब्दम् । विरम्य च संदेशकथनात् सहसा समादिशत् ममुद्घाट्योपद्वारं दुर्गाभ्यन्तरं प्रवेशयितुमुपस्थापयितुं च तत्समक्ष तान् ।" "प्रत्यभिज्ञाय च क्षणमात्रानन्तरं पुरत आनीतान समुच्छ्वसद्वक्षःफपाटान् प्रवहधर्मजलामुखानावेगप्रकंपमानगात्रान् तान् नातिदुरेऽवस्थिताच्छिविकाननसीमावर्तिनः निरीक्षणस्तंभात ममापतितान् स्वसैनिकान् निःशब्दमुखरया दृशव विहाय कर्तव्यस्थलं तथाऽऽगमनस्य प्रयोजनमपृच्छत् ।" "अत्याहितं, स्वामिन् ! अत्याहितम्- अवोचत् सहसा तेषां नायकोऽस्फुटाक्षरम् ।" "आदिप्टश्च मम स्वामिना स्थिरया दृष्ट्या सविस्तर- निवेदनार्थ प्राह 'भर्तः ! आरुह्य यथाऽऽदेशं निरीक्षणस्तंभं सावधानया दृष्ट्या चतुर्दिशं निपुणं ध्यायद्भिरस्माभिः सद्य एव खलु दृष्टा दाक्षिणात्यात् क्षितिजात् सजवं समुपसर्पन्ती यवनसेना। आदी तावद्वयं तां क्षितिजे तस्मिन् घनीभूतामंधकाररेखामेवाचितयाम, ततः सुदूरप्रसृतां सिकतिलां वात्यां, ततश्चासामयिकी घनघनपंक्तिम् । सुनिपुणमवलोकयन्तस्तु क्षणमात्रानन्तरमेव तां याथार्थ्यनाऽऽकलयितुं सिंधु-कग्या सेनाया, भर्तः, यावन्त उष्ट्रा औष्ट्रिकाश्च सैनिकाः पिपासया दिग्भ्रांत्या च कथिताः कालवश्यतां ययुः न खलु तावन्तः रिपुसेनया वीरोचितं युध्यमानाः । यवनसेनाया अपि हानिः नूनं वभूव । परन्तु-न तावती यावती अस्मत्सेनायाः । सा प्रत्युत- आजन्मनः क्षुपिपासादिमन- दुःखसहनक्षमा, मरुयुद्धे परमकुशला, सुविचितितं युद्धकल्पमनुवर्तमाना, मूल्यमत्यल्पं प्रदाय साफल्यं कल्पनातीतमध्यगच्छत् 'स्वकार्यस्य संसिद्धौ"। "एकस्मिन्नेव हि सप्ताहे सिंधुमद्दुर्गकटकप्रस्थितम्य प्रवलस्य सैधवबलस्य, तस्मिन् मरुयुद्धविडबनाकर्दमे निमग्नस्य, यवनसैनिकशृगालैरहोरात्रं लुच्यमानस्य, सामर्थ्य, आशायामुत्तरस्यां सवेगं प्रसरतो म्लेच्छसेनासागरस्य प्रतिरोधक्षम- पश्यत एव मम स्वामिनः-क्षयमात्यंतिकमयात् ।" "अयाच्चादर्शनमात्यंतिक सा यवनसेना.... कृतकृत्या ।" "धन्वनि समुत्तप्ते गलितामिव, दुरालोके नैदाघे विहायसि समुत्पतितामिव, . परिस्पंदति मरीचिकाजले निमग्नामिव, ती रिपुसेनामदर्शनमात्यंतिकं गतां विभाव्य क्षणमात्रं विस्मितो मम स्वामी, क्षणेऽन्यस्मिन्नेव क्षीणक्षीणां स्वां पृतनामवलोक्य साक्षाच्चकार रिपोर्वास्तविक संकल्पं, विवेद तं सफलमनोरथं, समनुवभूवाऽऽत्मानं पराजितं, प्रत्यावर्तयामास च बलं- बलावशेपं. वा- संधवं - सिंधुमदुर्गमुद्दिश्य निविण्णः ।" "यदा खलु मम स्वामी, परिहरन्निव सामान्यजनदर्शनं,, निशामुखे तस्मिन् तमोबहुले निरुद्धनिःश्वास इव निर्वाते, सिंधुमदुर्ग प्रत्यावर्तत तदा- मत्यं ब्रवीमि भर्त:- अहं तं प्रत्यभिज्ञातुमपि न प्राभवम् । सिकतिलरुक्षकेशे मलिनभालपट्टे प्रवृद्धश्मश्रुणि समुत्तप्तलोहताम्र शुष्कदशनच्छदे मुखे यथापूर्व- अधिकतरमेव वा- प्रदीप्यमाने पिंगलतारके लोचन एवाऽरक्ते तस्य वास्तविक परिचयं सिंधु-कन्या, प्रदातुं प्राभवताम् । किंचिच्छुष्कोऽपि किंचिद्घर्घरोऽपि पूर्ववदेव मेघस्तनितगंभीरश्च स्वरः । "मूर्तिमान् आर्यप्रताप इवावमानितः, अन्तर्गृढया वैरप्रतिनियियातयिपयोदग्नः, स्वामी मम, प्रविश्य सिंघुमदुर्ग, तदुःखेन दुःखितमिव निश्चेष्टं, विधामकक्षं स्वं न्यवर्तत ।" "सुचिरं विचार्य च किमपि स्वात्मनैव, मामाहूय रहसि यावत् संदेष्टुं किंचिदारभते निविवेदयिपयेव महाराजचरणकमल- योस्तावदशृणोत् अतिजवेन दुर्ग समापततां कतिपयानां तुरंगमाणां खुरध्वनि, तमनु च महाद्वारं मुष्टिभिः प्रताडयता केषांचित् संधवानां तारस्वरमाह्वानशब्दम् । विरम्य च संदेशकथनात् सहसा समादिशत् ममुद्घाट्योपद्वारं दुर्गाभ्यन्तरं प्रवेशयितुमुपस्थापयितुं च तत्समक्षं नान् ।" "प्रत्यभिज्ञाय च क्षणमात्रानन्तरं पुरत आनीतान समुच्छ्वसद्वक्षःकपाटान् प्रवहधर्मजलामुखानावेगप्रकंपमानगावान तान् नातिदूरेऽवस्थिताच्छिविकाननसीमावर्तिनः निरीक्षणस्तंभात् ममापतितान् स्वसैनिकान् निःशब्दमुखरया दृशव विहाय कर्तव्यस्थलं तथाऽऽगमनस्य प्रयोजनमपृच्छत् ।" "अत्याहितं, स्वामिन् ! .... अत्याहितम्- अवोचत् सहसा . तेपां नायकोऽस्फुटाक्षरम् ।" "आदिष्टश्च मम स्वामिना स्थिरया दृष्ट्या सविस्तर- निवेदनार्थ प्राह 'भर्तः ! आरुह्य यथाऽदेशं निरीक्षणस्तंभं सावधानया दृष्ट्या चतुर्दिशं निपुणं ध्यायद्भिरस्माभिः सद्य एव खलु दृष्टा दाक्षिणात्यात् क्षितिजात् सजवं समुपसर्पन्ती यवनसेना। आदौ तावद्वयं तां क्षितिजे तस्मिन् धनीभूतामंधकाररेखामेवाचितयाम, ततः सुदूरप्रसृतां सिकतिलां वात्यां, ततश्चासामयिकी घनघनपंक्तिम् । सुनिपुणमवलोकयन्तस्तु क्षणमात्रानन्तरमेव तां याथार्थ्यनाऽऽकलयितुं सिंधु-कम्या प्राभवाम । अवाच्या दिशो गह्वरादजस्रधारं समापतन्ती, स्थूलतां प्रतिक्षणं वर्द्धमानामधिगच्छन्तीं सांद्रां तां म्लेच्छसेनामवलोक्य विस्मिता वयं क्षणमा किंकर्तव्यविमूढा एवातिष्ठाम । संप्राप्तायाश्च विपदो यथार्थ स्वरूपं स्वामिचरणयोः स्वयं निवेदनीयमिति विनिश्चित्य, निरीक्षण-स्तंभमारं गुल्मे विन्यस्य, त्वरया महत्याऽय...' आगताः आगताः - सहसा समुदभवत् तुमुलः कोलाहलःप्राकार- शिखरवर्तिनां, निनिमेपमवाचीनं दिगन्तमवलोकयतां, दुर्गरक्षकाणां मुखात् निमज्जयन् तस्य निवेदनम् ।" "समाकर्ण्य त मम स्वामी, भर्तः!, वनराज इव समुत्तेजितः, सहसा निर्गत्य विधामकक्षात्, तीव्रयाऽपि धोरया गत्या समागम्य प्रांगणं सैनिकबहुल समारुह्य च निरीक्षणस्तंभं चिक्षेप दृष्टि तीव्रां रक्षण केनचिदावेगचंचलयांऽगुल्या विनिद्दिश्यमानेऽवाचीने क्षितिजे ।" - "तमनु च अहम् ।" "मादौ तावत् -- अहं - भतः - शपे मम जीवितेन, किचिदपि द्रष्टुं न प्राभवम् । दिगंतव्यापिनि वियच्चुंविनि पाताल- स्पशिनि निस्तरंगे सांद्रेऽधकारसांगरे निमग्नमिव मुद्रितलोचनमिव विलीननयनज्योतिषमिवाऽऽत्मानमकल्पयम् ।. क्षणमात्रानंतरं तु - स्वामिनोऽनुसरंन दृष्टिपथं दक्षिणे क्षितिजे निखनन् स्वदृष्टिमवालोक- यमन्वभवं वा सांद्रतरमंधतमसपिंडं वेगेन महताऽविभवन्तं, जवेन कल्पनातीतेन सर्वतः प्रसरन्त, रयेण तीव्रणाधःप्रसृतामदृश्यविशेषां भयेन दुःसहेनाऽवृत्याऽऽत्मानं कज्जलकृष्णेन विपिनवस्त्रैण निश्चेष्टं भूमौ निपतितामिव भूमि च्छादयन्तम् । अवलोकयत एवं मम व्यातमुखं - स पिंड: समीपतरं समीपतमं समुपससार । सहसा दक्षिणीकृत्य च निःस्तब्धं सिंधुमदुर्ग ‘तद्वामपरिसरवतिनं च निश्चेष्टं भयाद्विगतसंज्ञमिव शिविग्राम यंत्रचालित क्षितिजमुदीच्यं यावत् प्रससार ।" सिंघु-कन्या इव १०६ "अजानां च तं 'यवनसेनासागर' इति क्षणमात्रानन्तरं सर्वतः प्रसरता तीव्रण प्रस्वेदगंधेन, सुस्पष्ट श्रूयमाणेनासंख्यखुरनिनादेन, कदाचित्केन, च तारतरेणाविस्पप्टेन यावनेनाऽज्ञाशब्देनासंस्कृते- नोत्तारितो विकल्पकात् ।" "दुराशाकदर्यमानहृदयश्च - ज्ञातुं तस्येयत्ता-चतुर्दिशं नयने विस्फारिते व्यापारयन् सिंधुमदुर्ग दिगन्तप्रसृतेनानंतेन तेन सेनासिंधुनाऽवरुद्धमेव साक्षादकरवम् ।" "प्राणावरोधनमेतदुश्छेद्यमिति साक्षात्कृत्य च गलित- धैर्यावशेषः, शुप्यन्मुखो, याचमान इव मार्गनिर्देश, भिक्षमाण इव धैर्यसंपदं, मूकयाऽपि प्रार्थनामुखरया दृष्ट्या करुणया स्वामिनो मुखमवालोकयम् ।" "अपश्यं च तस्मिन्"लोकविलक्षणं कंचिद्भावोद्रेकम् ।" "तिमिरवशान्नातिविस्पप्टमपितारकितेगगने विस्पष्टाकारं, नशमंदसमीरपरिमुव्यमानचिकुरं, निनिमेषया दृष्ट्या तोलयदिव रिपुसेनासामर्थ्य, किंचिद्विगलितौष्ठपुटं, हसदिव समाधानेनाधिगत्य तत् स्वसामर्थ्य तुल्यं, तत् मुखं अहं भर्त..... जन्मनि जन्मान्तरे वा न विस्मरिप्यामि ।". "अनुभूयेव मम क्षुद्रस्य निःशब्दां प्रार्थनां स व्यावर्त्य तत् किंचित्क्षणमेकं मां निदध्यौ निःशब्दयाऽपि भावमुखरया प्रसन्नोद्दामया दृष्ट्या । संक्रमयन्निवाऽऽत्मनरुद्वेल्लधैर्यमल्पप्राणे मयि, स्मयमानो, मां स्कंधेऽवनमिते पस्पर्श क्षणमात्रम् । समादिश्य च सैनिकप्रहरिणः सावधानतया निरीक्षितुं रिपुवलस्य चेप्टितानि क्षुदतमान्यपि, मंत्रणाकक्षं त्यवर्तत सेनाधिकारिभिः सह विचार- विनिमयार्थम् ।" सिंधु-कन्या "आस्त च चिरंतत्र नानाविधानवरोधप्रतिरोधोपायान् तैः साकं पर्यालोक्यन् । कांस्तावदुपायान् ते निश्चिक्युस्तदहं ज्ञातुं न प्राभवम् । अवालोकयंस्तु चिरादेकं सद्यः प्रबोधितं सावधान संदेशवाहनप्रशिक्षितं नीलवर्ण पारावतं समुत्पात्यमानं मंत्रणाकक्ष- वातायनात्, प्रस्थितं च सजवमुदीच्यां दिशि निःशब्द, निगीर्यमाणं च सर्वतः प्रसृतेनास्माकं दुर्भाग्येनेव मलीमसेन नैशेन घ्वांतेन ।" "न कोऽपि पारावतः संदेशवाहकः संप्राप्त इह" - प्राह सुमतिः। "नूनमवरोधकः शरेण विद्धः जीवितस्यान्तं संप्राप्तो भवेत्" उवाच धीसचिवः। "अहितश्च - पठित्वा तत्पक्षतिनिगूढं संदेशं - परिचितो दुर्गान्तर्वतिनां दयनीययाऽवस्थया" - मंदं मंदं जगाद सिंधुनरेशः । –“स तु पाश्चात्यसीमावतिन्या औष्ट्र याः सेनायाःप्रमुखेन ततः प्रागेव तद्विषये संसूचित आसीत्"- शुष्कस्वरमवदत् राजदारिका। "अनंतयुगदीर्घदीर्घा सा निशा शनैः शनैः परिणति- मधिगन्तुमारभत । अस्माकं च सर्वेषामेव दुर्गसैनिकानामवधानं- खेदाद्वा नैराश्याद्वा वपरीत्याद्वा भागधेयस्य - शैथिल्यम् । यदि हि दिगंतप्रसृतं कज्जलाभ - जलमिव कस्यचिदमंगलस्य सागरस्य- म्लेच्छानां बलं, परित्यज्य निश्चेष्टतां भ्रांतिजनिकां, समाक्रमितुं सिंधुमदुर्ग स्तोकमप्यारप्स्यत तर्हि स्खलनमेतादृशमस्माकं कदापि नापटिप्यत । परंतु - शत्रोः निश्चेप्टतास्मासु निश्चेष्टतामजनयत् । सा जडताम् । सा च तंद्राम् ।" "सा चाभज्यत सहसा तमःपटले सूचिभेद्ये सहसा समुद्गतेन कर्कशेन भयचीत्कारेणान्यतमस्य दुर्गरक्षकाणाम् ।" १० सिंधु-कन्या "अस्मद्भांतिश्च दर्शनेनासंस्यानां कृष्णकवचावृतकायानां खड्गपाणीनां यवनसैनिकानां, प्राकारान्तर्वतिनः जीर्णवेश्मनः कस्यचिदुद्भ्रांतयाज्ञातकुलनामधेयया सद्य एव मृतया कयाचिज्जर- त्योपितपूर्वस्य विनप्टकपाटाद्वारादनवरतं वहिनिर्गच्छता, दुर्गाभ्यन्तरे मर्वतः प्रसरताम् ।" "तत्क्षण एव हि वयं विविदिम-सा खलु निश्चेष्टता रिपोः रणचातुरी एवाऽऽसीत् । प्रवंच्यास्मान् तेन खत्वेतादृशो दुर्गान्तर्यायी भूमार्गोऽनुसृत आसीत्, यद्विपये वृद्धतमोऽपि दुर्गरक्षक आस्माकीनः लेशमानमपि नाजानात् । कथं नु सः तमवेत् - एतत्तु न कोऽपि तयितुं प्राभवत् ।" शून्यशून्यया दृष्ट्या महार्हास्तरणकल्पनों ध्यायन्ती राजदारिका तस्य निवेदनमेकाग्रेण मनसा शृण्वत्यपि मूकव तस्थौ । "न चालभतावरारम्"-उवाच स दूतः । "यावद्धि वयं सर्वे दुर्गरक्षकाः, सहसा एवं प्रबोधिताः, कथमपि पर्यवस्थाप्याऽऽत्मानं, शस्त्राणि स्वानि ग्रहीतुमुपक्रम कुर्महे - तावत्ते यवनसैनिका, विच- लिता इव गुह्यस्फोटेनासामयिकेन, त्यक्त्वा निःशब्दप्रसरणयोजना- मुत्क्षिप्तकरवालाः "अल्लाहो अकबर""अल्लाहो अकबर' इति रंणगर्जनां कुर्वाणाः, विद्युद्वेगेनास्मान् आचक्रमिरे अंधकारपुंजा इव महसा समित्याः।" "अहं तु-मत:-ततः प्रवृत्ते तुमुले युद्ध-आततायिनां पाप- स्पर्शान्मातृभूमि मोचयितुं यथाशक्ति प्रयतमानोऽपि, आदित एव नातिरामाश्वस्तो दुर्गसामर्थ्यविपये, यस्मिन्नेव क्षणे हतभागिनी विजयलक्ष्मी दुर्दात: रिपुसनिकरपहियमाणामिव समकल्पयं." तस्मिन्नेव क्षणे ततः पलायियिपयेवापासरं, निभृतं प्रविश्य च मंत्रणाकक्ष, स्वामिनं युद्धसंचालनव्यापृतं स्तोकमप्यनुत्तेजितं दुर्गा- त्तस्मात् तत्क्षण एव भूमार्गणान्यतमेन निर्गन्तुं व्यज्ञापयम् ।" सिघु-कन्या - "प्रतिक्षणं निकटतरं सर्पति संग्रामकोलाहले, दोद्धतेन सिंहनादेन करुणेन क्रंदनेन घोरेण विस्फारेण चोपवृहिते, से तावदादी ममानुरोधवच एव नाशृणोत् । दृष्टि निक्षिप्यान्यमनस्का मद्दिशिं पूर्ववदेव संचालने युद्धस्य व्यापृतोऽभवत् ।" "यदा त्वहं ममानुरोधं त्वरातीव्रण स्वरेण पुनरुदचारयं तदा स, अविश्वसन्निव, क्षणमेकं मां तीव्रया दृष्ट्याऽवालोकयत् । विलोपितसंदेहश्च क्षणमात्रानन्तरं मम दृष्ट्या भावकरुणया-अवाक्- क्रोधताम्रः-ज्वलत्कनीनिकयेवाऽऽरक्तारक्तया दृशा दहनिव-मा चिरमिव निदध्यौ। अपेक्षितोद्गमामपि अनपेक्षितावेगां तां तस्य प्रतिक्रियां साक्षात्कृत्य विगलित इव विचूर्णित इव विदग्ध इव विच्छिन्न इव विदित इव-सत्यं ब्रवीमि भर्त:-संकल्पो मम साफल्यं स्तोकमपि नालप्स्यत यदि नाम तत्र तावत्या कालकलया आगताः, अहमिव पराजयं निश्चितप्रायं मन्वाना, अहमिव स्वामिनः कल्याण- माशंसमाना, अहमिव तं ततः निर्गमयितुमातुराः, परंतु मत्तुल्यं साहसं कर्तुमपार्यन्तः, सेनाप्रमुखाः, समुपलभ्य तमप्रत्याशितमवसर सहसा वज्रदृढमेकमत्यमापना, एकेन स्वरेण न तमन्वमोदिष्यन्त, न च तस्य संभाव्यान् शुभान परिणामान् सावेगमसूचयिष्यन्त ।" "इत्थं: सर्वैरस्माभिः सादरं सानुनय सावेशं सत्वरं सशपथं प्रार्थ्यमानोऽपि स्वामी चिरात् खल्वभ्यर्थना. ममाऽन्वमोदत । असहमानस्तु कल्पनामपि ततः निर्गमनस्यकलस्य समपसरणं भूमिमार्गेण सर्वैः सैंधवैः दुर्गरक्षकः सहितस्यैवाऽऽत्मनः स्वीचकार ।" "प्रत्यागतप्राणा इव सर्वे वयं, सहर्ष तस्याऽऽग्रहमंगीकृत्य, समाहृत्य यावच्छक्यं दुर्गसैनिकान् शरीरेणाक्षतान् ' निकटस्थितान् कतिपयेप्वेव निमिषेषु, समाश्वास्य तं एतावन्त एंव योद्धारोऽवशिष्टा वैरप्रतिनिर्यातनार्थमिति, विहाय रिपुसैनिकान् विनाऽऽयासमिव लन्धेन विजयेन प्रहप्टान् दुर्ग तत्र तत्र सोन्मादं भ्रमितुं, स्वामिना सह, भूमार्गेणान्यतमेनातिगूढेन ततः निरंगच्छाम । अतिक्रम्य च तं सिंधु-कन्या योजनद्वयमाप्रदीर्घमपि तमोबहुलतया विपमतया दुर्गमतया निरुच्छ्वासतयाऽनंतमिव भासमानं, चिरात् खलु, औत्तरस्यकस्य भग्नप्रायस्य देवतायतनस्य भांडारगृह उदगच्छाम ।" "निर्गताश्च शून्यशून्याद्देवतायतनाद्दिवाभीताधिष्ठितात् यात् सर्वतो दृष्टि शंकातुरां व्यापारयन्तोऽनवलोक्य किचिदपि चिन्हें दक्षिणे क्षितिजे यवनसेनायाः निर्भयं श्वसन्तोऽवलोक्य गगनमध्यात् परिघ्रप्टं, भाग्यमिवाभिशप्तस्य कस्यचिदधीश्वरस्य, पश्चिमांनिधौ निपतन्तं भास्करविवं विस्मयमनुभवन्तः, निरीक्ष्यान्योन्यमाश्यानलोहितधारालिप्तसर्वांगं प्रवृद्धश्मश्रुनाला- वृतमुसमारयतनयनमपरिचितमिव भासमानं चकितचकिताः, स्वामिने किंचिग्निवेदयाम:- तावदशृण्म तस्यास्मन्मध्यवर्तिनोऽपि विदूरस्थस्यैव भासमानस्य, निनिमेषया दृष्ट्या दक्षिणं क्षितिजमेव ध्यायतः, लोकान्तरादिवाऽऽगच्छन्ती दुर्विज्ञेयभावाममानुपीमिव भासमानां वाणी नातिस्फुटां- 'अयं बनवाहुस्तातपादानां पुरतो धावित्वा एवात्मन इमं कलंकमुपस्थास्यति;" नान्यथा समगंकल्पा अनुगच्छन्तु ते माम्, "ये च न ते...।" .... .... तो खलु "अपश्यं च तं, कलंफाक्षराणि तान्यनुच्चार्य, विकारशून्यं मुसं व्यावत्यं, मां संवोधयन्तं- 'त्वमितो गत्वा प्रणामं ममापश्चिम तातपादेभ्यः... निवेदय,... अनामयं च भिषग्वर्येभ्य-' इति, पराष्ट्र मुरारीभूप च सहसाऽऽशायामुत्तरस्यां प्रस्थितं, क्षणमात्रानन्तरं मानुगम्पमानं सर्वरपि वीरः प्रमशो वितीयमानं प्रतिक्षणं घनीभवति निशामुपयांते।" "प्रस्थितश्च ततः कयमप्यहमधन्यो, द्विवारकं प्रवंचकेन हतदेवेन प्रतिबंधित: स्यामिनोऽनुगमनाभर्तुश्चरणकमलयोदशनाया- गुप्टानाय प स्वामिनः नियोगस्य,- एफलः,- बलवत्तया मागधेयस्य गारल्यमापगष्टम् ।" मिपुःशामा

"न खलु लभते मम मानसं शाति क्षणिकामपि विरहितस्य
स्वामिना।"
"तदनुजानातु मां भर्ता कृतकार्यमनुष्ठितनियोगं
प्रतिनिवतितुमितः, मृगयितुं स्वामिनं, समनुसतुं च तमापातादस्य
शरीरहतकस्य।"
व वंश्चेत्थं, प्रणम्य सिंधुराज शिरसाऽवनितल-चुविना,
सहसा ततः निर्जगाम।
प्रससार च तस्मिन् कक्षे पापाणजडा निःस्तब्धता।
"कुत्र नु खलु गतो भवेद्राजकुमारः"" स्वाभिमानधनः"
स्वगतमिवाऽऽहास्फुटाक्षरं सांधिविग्रहिकः, कथमपि भंजयन् ताम् ।
"बुधिलप्रदेशम्" इति तर्कये"- प्रत्युवाचाधोदृष्टि:
धीसचिवः।
न तु शुश्राव लेशमात्रमपि तयोः संभाषणस्य देवलदेवी..."
पुनः पुनरवलोकयन्ती भ्रातरं वज्रबाहुं, शिविदुर्गाय एकलमेव
प्रस्थितं, सस्मितमपि चिंताम्लानलोचनं, सपरिहासमापृच्छमानमपि
तदनुज्ञां लोचनाभ्यां संगृह्णन्तमिव तस्या मूर्तिमपुनदर्शनाशंकया"
स्मृतिचापा।
....
."किमिति वज्रः नियत्या यत्किचित्कारिण्या प्रवंचितः
नावाऽऽगतः? .""अत्र हि स: सैधवस्य निखिलस्य राज्यस्य
समग्रेण बलेन तदाज्ञानुवर्तिना संग्रामे निर्णायके प्रयुक्तेन यथा
स्वपराजयनिर्यातने साफल्यमलप्स्यत, न तथाऽन्यत्र क्वाऽपि ।"
.."नूनमभिमानधनो, मस्युद्धेऽमित्रेण शृगालचतुरेण तथा
विप्रलब्धः, सिंधुमदुर्गसदृशस्य च सामरिकदृष्ट्याऽतिमहत्त्वशालिनः
सिंधु-कन्या

स्थानस्य परिरक्षणे तथा विफलीभूतोऽस्मत्सांमुख्यं तावत् परिहरति यावज्जित्वा रिपुं यशोराशिमात्मनः सुधाफेनधवलं पुनर्न कुरुते ।" - -"आ बाल्यादेव स तादृशः । (सविषण्णस्मितं) पुराखलु, सर्वैरप्यस्माभिः सह मृगयार्थमित: प्रस्थितः, शिविवनप्रदेशे 'वन्यप्राणिभयंकरे' दिवाऽपि धनांधकारे प्रविष्टेप्वस्मासु, कैशोर्य- सुलभचांचल्यवशात् काननपदपथानातिविप्रकृप्टे तरुगुल्मके कस्मिश्चित् समुपसर्पिततुरग एकलस्तनिलोनेन हिंस्रण खंडितनिद्रेण अनि श्वापदेन केनचित् सहसा समानांतः, क्षणमात्रं विमूढोऽपि क्षणेऽन्यस्मिन्नेव प्रकृतिमापनः, सिंहशावक इव प्रत्याक्रमणोद्यतः, प्रक्षिप्तभल्लोऽपराद्धप्रहारः, निमेपमात्रे दैववशात्तत्राऽऽगतेन केनाऽपि सैनिकेन कृतपुंखेन विद्धात्तस्मात् श्वापदाद्रक्षितो, ब्रीडाऽरक्तमुख- कमलः, प्रस्फुरदधरोष्ठः, साश्रुनयनेंदीवरः, सर्वेपामेपास्माकं राजधानी प्रत्यागतानां दर्शनं सप्ताहपर्यन्तं तथा परिजहार मात्रा वारंवार सस्नेहं संबोधितस्तातेन कृतकरोषेण 'किमिति, रे त्वयाऽस्माकं राजकुमारस्य लक्ष्येऽनाहूतेन धृष्टेन वाणो व्यापारित' इति निर्भर्त्य तं सैनिक साहाय्यकारिणं, "एते सेवका उत्साहातिरेकवशात् कदाचि- देवमेव मर्यादाः स्था अतिवर्तन्ते, तत् स्वामिना विशालहृदयेन क्षतव्या एत' इति सगांभीर्यमिव प्रबोधितः, मया च ज्ञातसर्ववृत्तांतयाऽपि नितांतमनभिज्ञ मिवाऽऽत्मानं प्रदर्शयन्त्या, तद्वैमनस्यवशादाहत- मिवाऽऽत्मानं प्रकटयन्त्या, सप्पणिपातमसकृत् सख्यार्थमनुरुद्धस्तथा प्रकृति स्वां प्रसन्नां समपद्यत - यथा स्मृतिपयं समायातं तत् सर्वमपि विस्माययत्यधुनाऽपि चेतः ।" -"कुत्र नु खलु गतो भवेत् स:?" - बलादाकृष्य चेतः वाल्यकालिकोनां घटनानां स्मृतिपथेषु रमणीयेषु चापल्येन प्रधावत्, चितयामास राजदारिकाऽन्यद्युः, - एकला, समुपविष्टा लतामंडपेंऽतः- पुरारामेश्वलोकमाना विमनस्कतयाऽन्तःपुरोरामपुष्पंवाटिकासु विकसिताम् पश्चिमाचलचुविसहस्रकरकरसंस्पृश्यमानान पुष्पगुच्छन् मंदसमीरतरंगान्दोलितान् । सिंधु-कन्या "नूनं युधिलप्रदेशम् । सिंधुमदुर्गादपसृतस्य क्षीणसाहाय्य- संपद आगमनमत्र साग्रहं परिहरतस्तस्य तत्र गमनमेव समुपपद्यते । गत्वा तत्र, संवोध्य बुधिलान्, जागरयित्वा तान् स्वकर्तव्यविषये, स नूनं निरुरुत्सत आक्रामकान् तेषां साहाय्येन । स्वभावत एव स्वामिभक्ता बुधिलाः निशम्य तस्योद्बोधनं साक्षात्कृत्य स्वकर्तव्यं संकटेऽस्मिन् तस्याऽह्वानकमत्येन स्वीकुर्यः, प्राणांश्च समराग्नी जुहुयुरित्यय न संशयः ।" . "स तु तेपामग्रणीः काकः काकवुद्धिः सहकार्य तत्र कियत् कुर्यादित्यत्र । अतिचपलमतिः, 'नूनमयमविश्वसनीय' इति तातेन पदादेकदा दूरीकृतोऽपि चरणनिपतितो दयाहृदयेन पुनः पदे स्वीये संस्थापितः सः संकटेऽस्मिन् संस्मरन् तातस्योपकारान् प्रत्युपकुर्यादथवा प्रत्यपकुर्यात् पादस्पृट इव नागः प्राप्यावसरं वरनिर्यातनातुरं इत्यत्र । स्वार्थसाधनमात्रदक्षाऽतिचतुरा तस्य काणस्य सा दृष्टि- रविश्वासभावनामेव नूनं जनयति, समुत्पादयति च धारणां हृदि यत् सः समुपस्थितेऽवसरे पितरावपि स्वौ साधनाय स्वार्थस्य वलीकतुं न विमृशेत् । ""सा तस्य वामनाऽपि चपला मूर्तिः, स स्त्रण इव कोमलोऽपि जुगुप्सकः स्वरः, तत् कृत्रिमं स्मितपूर्वभापित्वं -सर्वमेव तस्य - दुःशंकां स्फारयति नितांतमपरिचितस्याप्यन्यस्य हृदि । अतएव सः-न जाने कदा-'काक' इत्यन्वयंको संज्ञां केनापि लंभितः न पारयते तामुग्मितुमद्यापि । वुधिलसदृशाः सज्जनाः सैघवास्तत्सदृशं नरशृगालमग्रणीत्वेन इत्येव नामाऽऽश्चर्यास्पदम् । अथवा-वंशपरंपरागत-इत्येव मनसि कुर्वाणा भ्रातृघातिनमपि क्षुद्रातिशायिनमपि तं पदात् तस्य भ्रंशयितुं नोत्सहन्ते ।" कथं सहन्त "अपि नाम वो वनसंकल्पः कर्तव्यबोधन स्वेन साधीयसा तं संकटसमयेऽस्मिन् कर्तव्यकरणाय प्रेरयितुं समर्थो भवेत् ? ""अपि नाम. सिंधु-कन्या .... "जयतु जयतु भर्तृदारिका" सहसा कर्णपथमापति- तेनाऽऽदरमंद्रेण संवोधनवचसाऽकस्मात् अग्रुट्यत तस्याश्चिताभरजडा विचारशृङ्खला । अपश्यत् सा स्वपुरतो विनयावनतं प्रधानं प्रतीहारम् । अन्वजानाच्च तं स्वनियोगस्यानुष्ठानात् भृकुटिभंगे- नानतिस्पप्टेनऽन्यमनस्कैव । "जयतु जयतु भर्तृ दारिका" - समुपजाताऽऽश्वास इव पुनरवदत् स राजपुरुषः । “महाराजाधिराजो मंत्रणागृहे विराजमानो बुधिलप्रदेशात् समुपस्थितं वार्तायनं कंचिद्दर्शनप्रदानेन बहु मानयन संदेशगौरववशाभर्तृदारिकाया अपि समुपस्थिति तनाविलंबमेव कांक्षति ।" राजकन्या तु समाकर्ण्य बुधिलप्रदेशनामोल्लेखमात्रं सहसा सावधाना जिज्ञासातुरा झटिति समुत्थिता,निशामुखतिमिरात्रांतेनापि परिचयात् सुपरिलक्ष्यण मागंणातिक्रम्य निद्राभरालसपुप्पलोचनमाराम प्राविशन्मंत्रणागृहं पुरःसमुपसर्पता प्रतीहारेण समुपदिश्यमानमार्गा, अपश्यद्यथापूर्वमासंधामुपविष्टमपि ययापूर्व प्रज्वलद्दीपज्योतिः- प्रकाश्यमानमपि यथापूर्व विनयावनतया मंत्रिपरिषदा परिवेष्टि- तमप्यलक्षितपूर्वेण केनचिदुत्साहातिशयेनान्यमिव भासमान, विधूत- वादकभारमिवप्रोनततरमिव बलवत्तरमिव प्रज्वलितप्रतापपावकमिव भासमानं स्वजनकम् । अशृणोच्च कृतप्रवेशव महतोत्साहेन तामेव संबोधयन्ती हर्पकातरां तस्य वाणीम् । "एहि ! एहि ! शृणु स्वन्नातुः कुशलवृत्तम् । • यथास्माभि- रत्प्रेक्षितमासीत् तथैव सर्व परिणतम् । अभिमानधनः, पराजय- फलंकमपरामप्यास्मान् द्रष्टुमनिच्छन्, वत्सः वुधिलप्रदेशमेव गतः । """अथवा - शृणु सर्व वृत्तान्तमस्य भद्रमुखस्य यशपालस्य वार्ताहरस्य मुसादेव।" "यया विनिवेदितं स्वामिचरणयो: संपेण",- समाकर्णयत् सा नातिदूर एवोत्यितोपविष्टस्य बद्धांजलिपुटस्य तस्य दूतस्य सिंधु-कन्या विनयमंद्रां वाणी पितुः समीपे समुपविष्टा सावधाना, "संदिश्य तथाऽऽणायामुत्तरस्यां धीरगंभीरया गत्या प्रस्थितं राजकुमारं-स्फुलिंगाः पावकमिव, प्रतिशब्दाः शब्दमिव, संमुग्धा संमोहकमिव-निरपवादं निर्विवादं नि.संदेहमनुसरन्तो वयं सर्वे, समुपजातदयेन देवेन समयात् पूर्वमिव प्रसारितेन ध्वांतवस्त्रेणाऽलक्ष्यप्रायविशेषाः, परिहरन्तः क्षुद्रानपि जानपदाच मार्गान्, समतिकामन्तः शून्य शून्यानि निदाघचंड- चंडकिरणोत्तापितानि क्षेत्राणि, अध्यवसायिनः संकल्पनेवाविचलेन ध्र वनक्षत्रेणेव तेन समुपदिश्यमानमार्गा, अनवरतं प्रवसन्तः, रथचनेमिक्रमेणोदयाचलं ततो वियन्मध्यमन्ते च पश्चिमाचलशिखरे निपतन्तं सहस्रकिरण यवनविजयसंतापसंतप्तमिव दुःसहमगणयन्तो, विचारमग्नाः, क्षुत्पिपासादिदेहदुःखमवधीरयन्त, अते, बुधिलप्रदेश प्राविशाम ।" "अस्ति नून स्निग्धानां जनानामिव प्रदेशानामपि कश्चिद्- विशेपः । यतो हि कृतप्रवेशा एव तस्मिन् वयमन्वभवाम शैथिल्यं शरीरस्य विषण्णत्वं मानसस्य कुंठितत्वमात्मनः स्वयमेव लुम्वत्, स्फूतिमत्त्वं सोत्साहत्वं निष्प्रतिरोधशक्तिमत्वं च तत्स्थाने प्रादुर्भवत् । विधूय पराजयग्लानिमन्तःकरणमस्माकं विनप्टलब्धसामर्थ्यमिवाऽऽरभत चितयितुं तांस्तान् वैरनिर्यातनोपायान् । प्राक्रमत परित्यज्य पृथ्वीतलमस्माकं दृष्टिदृप्टी: स्नेहिजनानां गवेषयितुम् । अनुकूलत्वाच्च नियतेरविन्दत सांत्वनामचिरादेव परित्यज्य विषयान्तराण्यस्मास्वेव कौतूहलात केंद्रितासु, क्षणमा प्रत्यभिज्ञातुमसमर्थास्विव निनिमेपासु, प्रत्यभिज्ञायाऽऽश्चर्यातिरेकविस्फारितासु, विलोक्यास्माकं दयन दशां सानुकंपासु, संख्यातीतासु दृष्टिपु प्रदेशसीमावर्तिन्येव ग्राम एकस्मिन् समवेतानां समुपस्थितायां परचक्रापदि कर्तव्याकर्तव्ये विमृशतां प्रमुखानां बुधिलानाम् ।" "आश्यानलोहितधारालोहितसर्वांगान्, प्रवृद्धश्मश्रुजालाs- वृतक्षामयदनान्, पांसुलवेपानारक्तलोचनानुच्छुप्कोष्ठपुटान, समनुभूय तीमा वेदना: लोकान्तरादिव प्रत्यागतानः व्यावृत्तमुखमवलोकयत्स्वेव सिंधु-कन्या सर्वेषु श्रोतृपु, तेपामग्रणीः, काकः, सभामंचात् प्रोन्नतात् दृष्ट्वाऽस्मान् क्षणमात्रं विस्मितः, क्षणमात्र स्तब्धः, झटिति पर्यवस्थाप्येवाऽऽत्मानं, महता संरंभेणाग्रे समुपासरत् । प्रणम्य सविनयमस्मत्स्वामिनं, नं, विनयनम्रः, सभामंचमनयत् । समुपावेशयत् साग्रहम् । सत्कृत्य च तमतिथिसत्कारेण (-समुपावेशितेषु यथायोग्यं सर्वेवस्मासु व्यपनीत- श्रमेपु-) पृच्छामुखरदृष्टये तस्मै ससंकोचमिव मंद्रेण स्वरेण सभाप्रयोजनं न्यवेदयत्।" "श्रुत्वैव तस्य तनिवेदनं, मुखमस्मत्स्वामिनस्त्यक्त्वा स्वजनसमागमसौख्यछटामचिरोदितां, सहसा बोधताम्रमभवत् । चक्षुश्च हित्वा क्षणिकं प्रसादं कलुपम् । शपे महाराजाधिराजस्य चरणकमलाभ्यां - साक्षात्कृतो मयाऽसकृत् स्वामिनः त्रोधोद्रेक एभिवः । आशुशुक्षणिरिव स्वभावेनैव दुष्प्रधयॊ हि सः । परंतु - तस्मिन् सायंकाले तस्मिन् सभामंचे समुपविष्टस्य, समादरेणेवाऽऽवृत्य मुखविलं संकोचेनेव विनियुज्य दृष्टि स्वामन्यत्र मंद्रेण स्वरेण किंचिनिवेदयतः काकस्य नैकट्यात् सहसा सतिरस्कारमपसृतोत्त- मांगस्य, तस्य मादृशः कोपोद्भवो मया - निनिमिपलोचनं तमेव ध्यायता - समवलोकितः न तादृशः कदापि ततः पूर्वम् ।" "अनुभूयेव तं काकचतुरः काकोऽपि, सहसा विरतवचनः, परिजिहोपुरिव तस्य चपेटां, झटिति ततोऽपससार । संस्मृत्येव च सहसा कार्यान्तरमत्यावश्यक सभामंचात् ससंभ्रममवतरितुं प्रानामत । साफल्यं तु नालभत - बद्ध इव समुभिद्येव घरातलमुद्गच्छता, विदीर्येव गगनवितानं प्रवर्पता, दिङ मंडलादिव निरुच्छ्वासं समापतता, प्रलयघनघटास्तनितगभीरेण, मानसानीव श्रोतृणां प्रज्वलयता स्वामिनो वचसा । मंयवद्ध भुजंग इव कुंठितगतिः, किंकर्तव्यविमूढः, समुच्छुकमुख, आवृत्य कुंठामाहार्येण स्मितेन कथमपि, व्यावृत्य पदान्यस्थिराणि, स्वामिनोऽभिमुखो यदा तु परिलक्षयांचकार तं समां संबोधयन्तं तदा पुनरुपजाताऽऽश्वास इव प्रत्यागतप्राण इव तत्रैव सिधु-कन्या समुपविष्ट आरभत सादरमिव मनोयोगपूर्वकमिव श्रोतुं स्वामिनो मम संवोधनवचः।" "क्षणमात्रानन्तरमेवावधानं मम प्रसह्येव समाकृष्यत स्वामिनः स्वरेणाश्रुतपूर्वसदृशेन । मनांसि सर्वेषां जयता भाववलेन, हृदयानि सभासदां समुन्नयता विलक्षणप्रभावेण, बुद्धीर्बुधिलानां स्ववशीकुर्वता तर्कसामर्थ्येन, क्षण एकस्मिन् आवाहनस्वरितेनापर- स्मिन् अनुनयमंद्रेण, क्षण एकस्मिन् यवनधिक्कारकर्कशेनापरस्मिन् स्वजनदोर्जन्यकातरेण, क्षण एकस्मिन् समुत्तुंगशिखरनिपतज्जा- हवीप्रवाहजवनेनापरस्मिन् वेतस्वद्वाहिवाहिनीमंदेन तस्य तेन भाषणेन न केवलोऽहमेव, अपि तु सर्वे तत्रत्या बुधिला मोहिता इव तस्य संबोधनं श्रोतुमारभन्त ।" "परित्यक्तविपयांतराणि तमेवैकलं, तस्मिन् सभामंचे समुपविष्ट, समुत्तप्तकांचनभासुरमुखप्रभमावेगातिशयप्रज्वलन्नेत्र- मावेशातिरेकसमुच्छ्वसद्वक्ष.कपाटं ध्यातुं च लोचनान्यस्माकम् ।" "यथा यथा च सः, प्रदर्श्य यवनानां तानि तानि दुश्चेप्टि- तानि भारतभूमौ वाणिज्याथं प्रवसतां, प्रकटीकृत्य वास्तविक रूपमद्यतनस्य यावनस्यात्याचारस्य, स्पप्टीकृत्याऽऽकामकाणां प्रच्छन्नं मनोरथं, विविच्य कारणपरंपरां तेपां साफल्यस्याद्यावधिपर्यंतस्य, संधवानां, अथवा भारतीयनां सर्वेपा, कर्तव्यं प्राप्तायां विपमपरिस्थिती व्याख्यातुं, कर्तव्यपालनाविचलितेषु तेष्ववश्यंभाविनी: श्वस्तनाः प्राणांतकारिणीः विपदः प्राक्कथयितुं, समुद्बोधयितुं च स्वबांधवान् स्वकर्तव्यकरणाय प्रावर्तत, तथा तथाऽनिर्वर्णनीयः कोऽपि भावा- तिशयः संसदं तामावेप्टुमिव समुत्तजयतुिमिव समुत्तंभयितुमिव निरुच्छ्वासयितुमिव प्राक्रमत ।" "तदभिभूता च सा नाजानात् संवोधनविरतमपि तम् ।" सिंघु-कन्या "क्षणमात्रं व्यराजत तस्यां - स्पृश्येवाऽऽस्वाद्येव श्राव्यव सांद्रा शांतिः।" "व्यलीयत चापरस्मिन्नेव क्षणऽकस्मादुद्भवता, कौतूहला- दिव गगनांगणे प्रविशन्तं नक्षत्रगणं परिस्पृशता, यवनाभिवुभूपयेव चतुर्दिक प्रसरता, तुमुलेन जयजयकारेण बुधिलानाम् । उन्नमय्य दक्षिणभुजान जयमुद्घोषयन्तस्तु ते यदा समवलोकयन् स्वं प्रमुखं काकं सहसा समुत्तिष्ठन्तं, गत्याऽधीरया राजकुमारमुपसर्पन्तं निःसंकोचंच तत्पादयोः प्रणिपतन्तं तदा तेपां स जयघोपो विदार- यितुमिव गगनवितानं कंपयितुमिव भूमंडलं खंडयितुमिव दिक्चक्रवालं प्रायतत ।" "यदा तु संनियम्य महता प्रयासेन स्वजनानामुत्साहाति- शयमतिक्रम्य सर्वा मर्यादा उत्प्लवन्तं, स काकः, परिमृज्य नयनाश्रूणि, भावकातरेण स्वरेण प्रतिज्ञातुमामरणं यवनप्रतिरोधमुपाक्रमत तदाऽवततार तस्यां निशामुखतिमिरदुर्लक्ष्यविशेपायां जनसभायां प्रस्फुरदुत्साहमराऽपि विपद्बोधगंभीरा निःशब्दाऽपि मुखराऽन्यविधैव शांतिः।" "प्रवलं खलु वलं सत्संकल्पस्य ।" "शृण्वतामेव ह्यस्माकं सर्वेपांसामान्यजनानां, युधिलप्रमुखाः सर्व ऐकमत्येन राजकुमारमेव यवनप्रतिरोधयोजनायाः परिकल्पने- धिचक्रुः ।"" जग्मुश्च स्वं स्वं ग्रामं प्रोद्बोधयितुं स्वान् वांधवान् महरमात्रक्षीणायां तस्यां तमस्विन्याम् ।" "सभामंचादवतीर्य, सादरं पुरः सरता काकेनोपदिश्यमानं प्रज्वलद्दीपदंडप्रकाश्यमानं मार्गमनुसृत्य नातिदूरवतिनं स्थलदुर्गनिभं निलयं कंचित् समुद्दिश्य विशिथमिपया पदानि नातिधीराणि क्षिपन्तं श्रांत क्लांतं राजकुमारमवलोक्यान्यान्यैः सेवकः सह तमनुगन्तुं प्रवृत्तः सिंधु-कन्या १२१ सिंधुमत उपदुर्गपालो मां रहसि मंद्रस्वरमवोचत् - 'भद्रमुख ! एवं स्वामिना समुद्बोधिताः स्वभावत एव राजभक्ता एते बुधिला आ भरणं यवनसेनासागरं प्रतिरोत्स्यन्तीत्यत्र न संशयः । काकोऽपि तान् न ततो व्यपवर्तयितुं प्रभविष्यति । स्वभावभीरोस्तस्य न तावत् सामर्थ्यम् । तत्त्वं गृहीत्वा कंचित् प्रभंजनरयं हयमितः सद्य एव प्रतिष्ठस्व । गत्वा च राजधानी राजाधिराजाय कुशलं स्वामिनः निवेदय । पुत्रादपि प्रियतरस्य तस्य, तथा संदिश्य सिंधुदुर्गादपसृतस्य, समाचारं कमप्यलब्ध्वा नूनं स अतीव चितित: स्यात् । लब्ध्वाऽत्रत्यमुदन्तं भर्ता यदुचितं तत् करिष्यत्येव । तत् प्रतिष्ठस्व- स्मिन्नेव क्षण' - इति ।" "स्वामिसांनिध्यात् क्षणमात्रमपि दूरीभवितुमनुत्सुकोऽप्यहं, समनुभूय कार्यगौरवं, नियोगं तमवधीरयितुमसमर्थः, निपीय क्षणमात्रमनिमेपाभ्यां लोचनाभ्यां मूर्ति स्वामिनः पराङ-मुखीं निलये तस्मिन् महाद्वारेणापावृतेन प्रविशन्तीं दीपप्रभोद्भासितप्रोन्नत- चिकुरिलमस्तकां, गृहीत्वाऽश्वशालायास्तत्रत्यायास्तुरंगममेकं ततः प्राचलम् । अतिक्रम्य च दीर्घमपि तामिस्रदुर्लक्ष्यविशेषमपि नितांतमपरिचितमपि मागं - महाराजाधिराजस्य सेवायामुप- स्थितोऽस्मि।" "समुपस्थितश्चिरप्रतीक्षितोऽवसर: पापानां पराजयस्य", सोत्साहमवदत् सिंधुराजः । "राजभक्तानां वीराणां बुधिलानां साहाय्येनाऽऽयुष्मता प्रतिरुद्धा, युद्धे च व्यापारितास्ते गोभक्षका- स्तरणीभिरसंख्याभिः सिंघोः पाश्चात्त्यं तीरं प्रापितयाऽस्मत्सेनयाऽऽ- क्रांतपार्णयः,समरमुखयोर्युगपत् तृणपीडं योद्धमपारयन्तः, कतिपयेप्वेव प्रहरेप, विकरालकालदंष्ट्राचर्वणीयतां नूनमासादयेयुः ।" "अप्रयुक्तपूर्वाखल्वियं प्रत्याक्रमणयोजना। निश्चितसाफल्या च। तन्महाबलाधिकृत ! प्रतिष्ठतां भवान् श्व एव ब्राह्मे मुहूर्त इतो गृहीत्वा पृतनाः कावचिकानां शाक्तोकानां नैस्त्रिशिकानां १२२ सिंधु-कन्या कृतहस्तानां च धानुष्काणाम् । उपसर्पतु भवान् - अनवरतमाक्रम्य पंथानं सिंधोः पौरस्त्यं तीरम् । गूढं यापयित्वा च दिनावशेषं तत्रत्ये विपिने निविडे समवतीर्णे मूर्तिमति दौर्भाग्य इव म्लेच्छानामाततायिना नशेधकारे, नौसेनाध्यक्षेणास्माकं निःशब्दमुपस्थापिताभिरसंख्याभिः नौकाभिस्तीर्खा नदीप्रवाहं, मातृहृदयमिवाऽऽशंकितं निःस्पंदं, पुरःसृत्योदीच्यन गहनवृक्षराजिसमाच्छन्नेनोपतीरेण पथा, यवनान्, अदत्त्वैव तेभ्यः क्षणिकमपि पूर्वाभासं, पाणी विद्युवेगेनाभ्यासादयतु । दृष्ट्वाऽऽकस्मिकं संद्रावं यवनसैनिकेष्वनुमाय भवदभ्यवस्कंदन चतुरो वज्रबाहुः शतगुणित-वेगमात्रामेत् यवनान्, निरपवादमुज्जासनं च लंभयेदित्यत्र न संदेहलवः । वयमपि, श्व एव, प्रहरमात्रशेऽहनि, मांगलिके मुहूर्त, कृतप्रस्थाना इतः, भवतां साहाय्यायं तत्रोपस्थास्याम एवापरेयुः।" "यदि नाम, भर्ता, भद्रमुखस्यवास्य माध्यमेन व्यूहमस्माकं प्रत्याक्रमणप्रवृत्ताय राजकुमाराय निवेदयेत्तहि - किं तस्योत्साहः सहस्रगुणितः न स्यात् ?" -- मंद्रस्वरमपृच्छन्महाबलाधिकृतः । "यदि नाम भवान् एवं मन्यते .... तहि सिंधुराजः। "अनापृच्छ्य तं"एवं." तातसेवायामुपदुर्गपालेन . प्रेपित वार्ताहरं विज्ञायः सः संक्रुध्यन्नूनम्-" आक्षिपत्तदुहिता, विजानती भ्रातुरात्मनोऽभिमानधनं स्वभावम् । "तर्हिस उपदुर्गपाल एव संसूचनीयोऽस्मद्व्यूहविपये। आदित एव संसूचितः राजकुमारस्तस्य सुहृद्वा यथाऽऽक्रमणस्य समुपस्थिते योग्य क्षणे -शातने समर्थः स्यान्न तथा नितांतमनभिज्ञ:" प्राह धीसचिवः। "वादम् ! ."तहि वयं सिंधुमदुर्गस्योपपालमेव सूचयिष्यामः भद्रमुख ! त्वं"कुछ न खलु गतः सः ?" - अनुपलभ्य मंत्रणाकक्षे तं संदेशहरं विस्मितोमृच्छद्राजा दहरः । सिंधु-कन्या प्रारभत "नूनं विनिवेद्य संदेशं कृतकृत्यमात्मानं विभावयन् विश्रामार्थमितो गतो भवेत्"-अतर्कयत् सांघिविग्रहिकः । "विनैवानुज्ञामस्माकम् ?" - अगदत् सत्रोधं सिंधुनरेशः । यदा तु सः, निक्षिप्याऽरक्तां दृष्टि मूकेप्वधोमुखेषु मंत्रिपु, समाहूय तारस्वरेण प्रधानं दौवारिकं, तमुद्धतं वार्ताहर तस्मिन्नेव क्षणे तत्समक्षमुपस्थापयितुमादिशत्, व्यजानाच्च तस्मात् यत् सः विनिवेद्य संदेशं, समवलोक्य भर्तारं सैनिकमंत्रणाव्यापृतं, कक्षानिर्गत, आरुह्याऽऽत्मनोऽश्वं प्रस्वेदक्लिनांगं फेनिलमुखं विस्फारिताक्षं - अकृतविश्राम एव - उपोपित एव - प्रासादानिर्गतः, पौरस्त्यनगरद्वारयायिना राजमार्गेण प्रस्थितस्तेनावलोकित इति, - तदा विस्मितः क्षणमा मौनमभजत । "नूनमनुष्ठाय नियोगं "लघूभूतभारः""स्वामिनो वियोगम- धिकतरं सोढुमसमर्थो बुधिलप्रदेशाय प्रस्थितः" - तर्कयामास धोसचिवः। "यदि समाज्ञापयति भर्ता "अहं संप्रेष्य प्रभंजनवेगानश्व- सादिनः"तं...." आरभत महावलाधिकृतः । "गच्छतु स्वामिसमीपं"-सहसाऽगदद्राजदारिका । "भावा- कुलितस्वांतः "अतिक्रांतसमुदाचारोऽपि "क्षन्तव्यस्तातेन ।" "भवतु नाम । "तन्महाबलाधिकृत ! भवान् श्वो, ब्राह्म एव मुहूर्ते, प्रतिष्ठतामितः। अमात्यवरेण्य ! भवानपि- श्वस्त्यस्या- स्माकमभिनिर्याणस्य संनाहं कुरुताम् ।" वदंश्चैवमुदतिष्ठद्राजा, स्मारितः सहसा समयातीतस्य सायंसंध्यावंदनस्य निःस्वनेन तीक्ष्णमधुरेण नैशप्रथमप्रहरावसान- संसूचकेन तूर्याणां श्रुतिपयमुपगतेन । १२४ सिंधु-कन्या तमनु सर्वेऽमात्याः - आपृच्छ्य च तं स्वस्वकर्तव्यकरणाय ततोऽपासरन व्यग्रचित्ता:। राजदारिका तु - विश्रामकक्षं स्वं प्रतिनिवृत्ता- अनाहत्य रात्रिभोजननिमंत्रणं पुरुषप्रमाणेऽपावृतकपाटे वातायने समुपविष्टा, विमनस्कया दृष्ट्या बहिर्लोकमाना, समाकर्पोऽपि भद्रमुखात् भद्रं तं समाचारमनाश्वस्तचित्ता, विश्वसत्यपि तस्य प्रामाणिकत्वे तस्य शुभे परिणामे संदिहाना, सुपरिचिताऽपि भ्रातुः निरपवादया लोकप्रियतया काकस्य काकचतुरस्य साहाय्यविषये साशंका, प्रयत्याऽपि साफल्यं नाप समाधातुं चेतः पित्रा संकल्पितस्य प्रत्याक्रमणव्यूहस्य विचारणे। अवशेव च वारं वारमच्छत् भ्रातरं - अगत्वा बुधिलप्रदेश राजधानीमेव शिविदुर्गात् प्रत्यागतम् । शनैः शनैः, सहाऽमया जरितुमारभत तस्या धृतिः, सहांधता- मिस्त्रेण चराचरव्यापिना वद्धितुं तस्या वैक्लव्यं, राह नशदीपप्रभया मांद्यं भोक्तुं तस्या जिगीपा च । सहसा च साविन्दतात्मानम् उद्वेलेन घनेन नैराश्येनेव प्रगाढेनांधकारेणाऽऽवृतम् । 'कथं नाम सत्यपि पर्याप्ते स्नेहे सहसा निर्वाणं प्राप्तोऽयं नशदीप ?' इति विस्मयमाना सविपादं यावदवतीर्य वातायनासनात् पदान्यस्थिराणि क्षिपति विस्फारितलोचना कक्षद्वारं पिहितकपाट समुद्दिश्य, तावदनपेक्षितं शुश्राव मंद्रमपि सर्वतः प्रसृतायां शांत्यां तारमिव भासमानं कपाटोद्घाटनध्वनिम्। ददर्श समुद्घाटिताद्- द्वाराबहिरेव देहल्यां मूर्तिवदवस्थितं पाश्ववर्तिनशदीपप्रभोद्भासित- चिकुरकलापं व्याकुलया दृष्ट्यानिमिपया कक्षान्तस्तामेव गवेपमाणं, सुदर्शनं, भातुर्ववाहोरात्मजं पंचवर्षीयम् । उपससार सहसा तं प्रनप्टोपलब्धावष्टंभेव समुच्छ्वसितहृदया । धृत्वा च तं स्कंधे प्रतिनिवृत्ता कक्षे दीपं नशं पुनः प्रज्वालयामास । सिंधु-काया ....अमात्वाऽन्तःकरण शनैः शनैःप्रसरन्त्यां निश्चेतनायामिव निष्प्रभायां दीप- प्रभायां निाय बदनं वालकस्येपद्वलितभालप्रदेशमुच्छ्वसनासापुटं निनिमेषाभ्यामारक्ताभ्यां लोचनाभ्यां तामेव ध्यायत् विदितवेद्या, वक्षसि धृत्वा पर्यकमनयत्, शाययित्वा च तं कमलदलकोमले के चतुर्थीचंद्रकलानिभमुत्तप्त तस्य ललाटं मंदं मंदं परामृशन्ती नवकिसलयमृदुलेन करतलेन""तं स्वापयितुमचेप्टत । शनैः शनैः कुमारः, मातुरंकादपि सविशेपे पितृस्वसुरुत्संगेऽ- भयमिव लंभित: नियत्या दयाहृदयया सर्वेभ्यः संकटेभ्यो, मुद्रित- क्लांतनयनः, निद्राया अधीनो बभूव । प्राप च त्राणं प्राणानिवोप- मर्दयन्त्याः, हृदयमिव निप्पीडयन्त्या, अनामिकायाः दुश्चितायाः । न तु तस्य पितृस्वसा। प्रत्युत - यथा यथा सा मंददीपप्रभालोकितमंकविश्रब्धं मीलितनयनं- दलनिलीनमधुपद्वयमिव कमलं-वदनं तस्य कुमारस्याऽऽ- रभत ध्यातुं श्रांताभ्यामपि विनिद्राभ्यामीपज्ज्वलद्भ्यां नेत्राभ्यां तथा तथाऽवर्द्धत एव तस्या अवसादः । स्मारिता चाधिकतरमेव भ्रातुर्ववाहोः, एकाकिन एव प्राणपणेन प्रयतमानस्य परचक्रसंकटं निवारयितुं, निमीलितश्रांत- नयनेंदीवरा, सहसा ददर्श इव - तं प्रज्वलदलातज्योतिरुद्भास्यमानं, प्रवहरुधिरकिल्नमलिनपरिधान, कृत्तदक्षिणभुजं, वामेन भुजेनैव पंचपैर्यवनसैनिकः सह युध्यमानमेकलें, सहसा पृष्ठत उपसृतेन काल- कुटिलेन श्मश्रुलमुखेन म्लेच्छेन केनचिन्मस्तके विलुलितशिरोरुहे खड्गेन कृतांतहसितभीषणेन प्रहण्यमानं, कुत्तमस्तकं, क्षणमेकं दोलायमानं, निश्चेतनं चाऽन्ते भूमौ निपतन्तम् । विद्युत्स्पृष्टा इव च तत्क्षणं प्रबुद्धा, निःस्पंदहृदयाऽशृणोत् तत्क्षणमेव सहसोदितं, विदीयं ,तमःपटलं सांद्रं सर्वतःप्रसृतं, करुण- भीषणं, शून्याः कस्याश्चित् अन्तःपुरारामे प्रविष्टायाः रोदनध्वनिम् । - सिंधु-कन्या विदन्तविहसितविरावमिव च.पैशाचिकं कस्याश्चिज्जरत्या दुष्टायाः। . मूच्छिता च तत्क्षणं, अक्षया दीर्घतरं वोढुं भारं दुःखस्य, नावेत् - युगकल्पायास्तस्याः कालरात्रैरवसानं, बाझे मुहूर्ते बुधिल- प्रदेशं समुद्दिश्य कटकात् प्रचलितायाः सेनायाः नेतृत्वं कुर्वाणस्य महाबलाधिकृतस्य लब्ध्वा भर्तुरनुज्ञा राजप्रासादान्निर्गमनं, लंभयितुमिव तां संज्ञां मंदं मंदं वहतः नातिशीतलस्य शुद्धान्त क्रीडासरोज- सरोजसंसर्गसुरभितस्य समीरणस्य संसर्ग, दशां सूर्यकुमार्या द्रष्टुमनिच्छुकस्यापि नियतिनिर्दिष्टं कर्तव्यमवहेलयितुमपारयत इव भगवतः सूर्यस्य पूर्वाचलाधिरोहणं, सांत्वयितुमिव तां राजगृहदेव- तायतनात् शनैः शनैः समुपसर्पतः जगदीशमाहात्म्यस्तवनस्य मंद्रमधुरं ध्वनि, सहसा प्रबुद्धस्यावलोक्य तां मुद्रितनयनां तन्निद्राभंग- परिजिहीर्षया निःशब्दं तदकात् समुत्थितस्य कुमारस्य कक्षान्निर्गमनं, सुखशयनच्छार्थमागताया अवलोक्य तामनुत्थितां किंचिद्विस्मिताया अपि तद्विभांतिसुखं भक्तुमपारयन्त्याः प्रियसख्याः कक्षद्वारादेवाप- सर्पणं, दुःखभारजडस्येव विपमाश्वस्य, चिरान्नु गगनमध्य आरोहणं, अनवेक्ष्य यथाभ्यासं प्रातःपूजाकाले प्रियां दुहितरं दुर्मनायमानस्य, समधिगत्य नितांतमनपेक्षितांदुर्वार्ता महावलाधिकृतसंप्रेपितगृतमुखात् चिंतामस्तस्य महाराजस्य च तद्विश्रामकक्ष आगमनम् । लंमिता च संज्ञां धर्मविंदुसंश्लिष्टविलुलितालके प्रोन्मृप्ट- कुंकुमतिलकारक्ते विरलाभ्ररेखांकितस्य सांध्यरागरंजितस्य शशांकखंडस्य शोभाया अपहारके ललाटे सस्नेहं परिस्पृशता, चैतन्यमिव स्वं संक्रमयता करतलेन स्नेहमृदुलेनापि खड्गमुष्टि- व्रणरेण पितुः, समुन्मीलितनयनेंदीवरा, क्षणमात्र निर्धारयितुं स्थलकालव्यक्तिविशेषमक्षमा, समवलोक्य जनस्यातिपरिचित- मप्यन्यदिव भासमान, वलितं, चिंताम्लान, क्लातलोचनं, निःश्रीक- माननं धवलतरशिरोरुहं सहसा मोहसागरादुन्मग्ना, हठात् समुत्थिता सिंघु-कन्या १२७ पप्रच्छ च शयनात्, तत्क्षणमेव कृतनिश्चयाऽपह्नोतुं रात्रिवृत्तांतमाहार्यस्मित- मधुरवदनकमलाऊत्मानं प्रमादादतिनिद्रितं प्रकटयामास । महावलाधिकृतस्याऽभिप्रयाणस्य विषये समुत्सुकेव प्रश्नम् । "तविषय एव, वत्से !, त्वया सह मंत्रयितुमागतोऽस्मि"- प्रत्युवाच तत्पिता श्रांतेन स्वरेण । "सद्य एवेहाऽऽगतात् तस्य दूतात् ज्ञातं मया यद्यथाऽऽदेशमद्य प्रातः सोत्साहमितः प्रस्थितस्य यथासमयं सिंधुतीरं प्राप्तस्य वीरभद्रस्य प्रगतिः स्वप्नेऽप्यकल्पितेन प्रत्यवायेनैकेनावरुद्धति ।" "कीदृशेन नाम ?" अपृच्छत् तदुहिता । "संकल्पितमासीदतीत एवाहनि यदस्माकं पृतना, समुपसृत्य सिंधो; पौरस्त्यं तीरं, यापयित्वा दिनावशेपं तत्रत्ये निविडे विपिने, तीर्खा सरित्पात्रमवतीर्णे प्रगाढ़ेऽधकारेऽस्माकं नौसेनाध्यक्षेण मूफेन गूढं समुपस्थापिताभिरसंख्याभिः नौकाभिः, पुरःसृत्योदीच्येनोपतीरेण पथा, रिपुवलं सहसा पाष्णौं अभ्यासादयिप्यति - इति ।" "यथासंकल्पमस्माकं सेना पौरस्त्यं तीरं सिंधोः यदा प्राप तदा गूढं स्थापयित्वा तामुपकूलेऽरण्ये वीरभद्रः प्रेषयामास गूढान् पुरुपान् बोधयितुं नौसेनाध्यक्षमपेक्षितस्य साहाय्यस्य विपये। विस्मितश्च विज्ञाय तेभ्यः प्रत्यागतेभ्यः नद्यास्तीरवतिनं नौसेनाकटकं शून्यशून्यं, स्वयं जगाम तदध्यक्षस्य निवासं तं साक्षात्कर्तुम् । समुपलभ्य तमपि निर्मनुष्यं चकितचकित: परीक्षयामास नदीपात्रमनेकयोजनपर्यन्तं गगनचुंबीनि शिखराणि महावृक्षाणामारूढस्तीक्ष्णभिः स्वः सैनिकः । विज्ञाय च तेभ्यस्तन्मृतमिव निःस्तब्धं, शप्तमिव निरुडुपं, सविषमिव निर्जीवं नानाविधदुःशंकाकुलः, किंकर्तव्यविमूढः, प्रार्थयितुं निर्देशं दूतं तमिह प्राहिणोत् ।" सिंधु-कन्या "तत् - किमिव कर्तुमुचितं स्यात् समुपस्थितेऽस्मिन् प्रत्यवाये?... विना नौसाहाय्येन दुरुत्तरा सा तटिनी। "विना चास्मत्सेनासाहाय्येन दुर्जेया वत्सस्य कृते सा रिपुवाहिनी । अपि च - कुत्र नु गता भवेदस्माकं नौसेना प्रदेशेषूपतोरेयु दावानलमिव वेगेन प्रसरच्छत्रुबलं समुपेक्ष्य ?..." कथं नु मन्यते वत्सा?" "मन्ये - सिंधुसागरादन्तः प्रवेष्टुं समीहमानाया यवन- नौसेनायाः प्रतिरोधायास्माकं नौसेनाध्यक्षेण स्वं बलं सिंधुसरिन्मुख- मुद्दिश्य संप्रेषितं भवेत्"- प्रत्यवदत् राजदारिका, दुराशंकाकुलाऽपि श्रुत्वा मितुर्वृत्तांतं, समपढ्वाना स्वां प्रतिक्रियाम् । "मूकसदृशश्चतुरः सेनानी: समग्रमेव वलमेकस्मिन्नेव कर्मणि व्यापारयेत्- इत्येतत् ममासंभवमिव प्रतिभाति"- प्रत्यवदन्नरेशः । "अनुपलभ्येऽप्युत्तारसाधने महाबलाधिकृतः नैस्त्रिशिकान् प्रासिकान् वाऽस्मत्सैनिकान् निविडस्य ध्वातस्याऽऽवरणे सिंधुप्रवाह तरितुं किमिति नादिदेश...? तावांस्तु प्रत्युत्पन्नमतिः सः..." अपृच्छत् राजकन्या। "अहो ! विस्मृतं मया"- सहसाऽगदद्राजा । “अतीते सायंकालेऽनुपलभ्योत्तारसाधनं चिंताग्रस्ते वीरभद्रे स्वात्मनंद किंचिद्- विचारयति सति केचन कौंतिका अस्माकं, युद्धोत्साहातिशयवशाद- नपेक्ष्यैव तस्यानुज्ञा, तरितुं नाम सरितं स्वात्मनैव तज्जलप्रवाहेs- वातरन् । तस्मिन्नेव क्षणे केचन निशिता: शराः, कृतांतकटाक्षा इव, परतीरप्रदेशान्निक्षिप्ताः, तानभितोऽवपन । न्यवतयंश्च तान् दैवस्यानुकूल्यात् अक्षतान् तत्क्षणमेव सावधानान् ।" "अहो! अत्याहितम् ! "एतत्तु स्पष्टमय बननि, यत् समग्रमेव परतीरं सिंधोः न केवलं रिपुणा पादायतमान स्वम्मदा- क्रमणप्रतिरोधाम सज्जितमपि- इति"- मुविधादमवावरदेवी । सिंघु-कन्या "जयतु, जयतु देव:! ..."देव! महाबलाधिकृतेन संप्रेषितोऽ- श्वारोह एकः, केनचित् पुरुपेण सह महाद्वारे समुपस्थितो, भवद्दर्शनं कांक्षते"- सहसा प्रविश्याऽऽह दौवारिकः । सिंधुराजस्तु- समधिगत्यमा वार्तामीपद्विस्मितः, किंचिद्- विचार्याऽऽत्मनैव, समादिशत्तं तत्क्षणमेव समुपस्थापयितुम् । अपश्यदेकं परिश्रांतं क्षामवदनं क्लिन्नशुष्कपरिधानभकालवृद्धं सैनिकं कक्षान्तः- प्रवेश्यमानम् । प्रवृत्त एव चादेष्टुं तं संदेशकथनाय- अद्राक्षीतं निःसारमिव निःसहायमिव निश्चेतनमिव भूमौ निपतन्तम् । अशृणोच्च पुरः सत्वरं प्रधावितेन दौवारिकेण जलसिंचनादिना पुनलंभितं संज्ञां, प्रयत्नेन च महता समुपवेशितमाबद्धकंपमानांजलिपुटमारक्तारक्तया विभ्रांतयेवोद्धान्ततारकया दृशा एकदा तमन्यदा राजदारिकांपश्यन्तं, मंद्रघर्घरं चैवं वदन्तं.... "दष्ट: कालसर्पण.... मम स्वामी..! भर्तः....! दष्टः" इति । श्रुत्वैव तां वार्तामशनिपातनिभों चित्तं नराधिपस्य, आदित एव चिंताभ्रमलिनं, कालुष्यमात्यंतिकमध्यगच्छत् । निक्षिप्य क्षणमेकं दृष्टि स्वदुहितरि, समवलोक्य च तामपेक्षितदुर्वार्तामिवाचकितां, शून्यशून्यया दृष्ट्या भूमौ अवलोक- मानां, सहसाऽसाहाय्यमिवाऽऽत्मानमनुभवन, शुष्केण स्वरेण तं सर्व स्ववृत्तांतं सविस्तरं निवेदयितुमादिदेश । "सभास्थलात् परावृत्तो मम स्वामी, प्रविश्य तस्य पापस्य काकस्य निलयंस्थलदुर्गसंनिभमनभिज्ञस्तस्य दुर्जनस्योभयलोकविरुद्धस्य संकल्पस्य, श्रद्दधान-स्तस्य वचने, समपनेतुमध्वपरिश्रमं यदा तत्प्रदशिते विनामकक्षे सर्वविघसुखसुविधोपपन्ने पदं न्यधात् तदान केनाऽप्युत्प्रेक्षित- मासीद्यत् स कक्षात्तस्माप्न पुननिर्गमिष्यतीति ।" परंतु- यत्किचित्- कारिणी नूनं नियतिः । यतो हि- कमलदलकोमले विविधसुमनोवासिते सिंघु-कन्या सुधाधवलप्रच्छादने तमत्ये पर्यके यथैव सः स्वांगानि वेदनया विशीर्यमाणानीव भज्यमानानीव गल्यमानानोवाक्षिपत्, नयने च स्वे समुत्तप्ते श्रांत आरक्ते न्यमीलयत्- तथंव- न जाने कियतः कालात् प्रभृति तस्य वपुपि कृतनिभृतनिवासो-दृढबद्धमूलः प्रत्यहमधिकाधिक प्रवर्द्धमानः ज्वरः सहसा प्रकोपमात्यंतिकमलभत । उन्मत्तमिव मानसं तस्य भ्रमितुमारभत । वाक् चासंवदं प्रलपितु"- प्रारभत सः दूतः । "दुर्गपतिस्तु काको यदा वार्तामिमां स्वसेवकमुखारविंदाद- लभत तदा व्यग्र इव परित्यज्य कार्यान्तराणि, सह शिविदुर्गस्योप- दुर्गपालेन, ससंभ्रमं स्वामिनो मम पयंकमुपासरत् । अवलोक्य तस्य, जलनिष्कासितस्य मौनस्यैव, तापातिशयवशात् शयनेऽतिवल्गतोऽवस्था व्याकुल इव तत्क्षणं वैद्यं स्वविश्वासास्पदमाह्वयत । आदिदेश च तं रुग्णं प्रकृति स्वामतिशीघ्रमापादयितुम् ।" "प्रहरमात्रानंतरमेव स्वामिनः स संताप: न्यूनतामभजत । तमनु च स भ्रमः, सः प्रलापः। ओपधिप्रभावेणेव स वश्यतामति- प्रगाढाया: निद्राया अगच्छत् ।" "नावेच्च चक्रनेमिक्रमेण क्षयमुपयान्तीं तां रजनी, समवतीणां वर्द्धमानामुषःप्रभा, पूर्वाचलं तदश्च गगनमध्यमारोहन्तं दिनमणि, तज्जीवितावसानदिदृक्षया तीव्रयां सत्वरमुपसर्पन्तीमिव तमी, कृतांतदूतमिवाकस्मादुपस्थितं मंत्रणाकक्षे गूढचरमेकं, तत्र ससंभ्रममेवभूतेभ्यो बुधिलप्रमुखेभ्योऽवलोक्य स्वामिनं पूर्ववदेव निर्योधं सचितेभ्यो यवनसेनाऽगमनवार्ता निवेदयन्तं त्वरातुरेण स्वरेण, निरीक्ष्य सर्वान् समुपस्थितान विस्मयमूढान मुकान सहसा पुरःसृत्य यवनसेनाप्रतिरोधनेतृत्वसंकल्पं दृढस्वरेणोद्घोपयन्तं कार्क, साशंकमप्युपायान्तराभावात् समाश्रित्य मौनं संकल्पं तदीयमनुमोदमानं स्वं परमविश्वासाहं सुहृदं शिविदुर्गापपालम्, उत्साहेनादृष्टपूर्वेणाभि- प्रयाणसंनाहे प्रवृत्तं विविधाश्वासनमुखरमतिप्रगल्भायमानं बुधिल- प्रमुखप्रमुखं, मूर्त सिंधुराज्यदुर्भाग्यमिव दिवोऽवतरद् अविच्छिन्नधारं सिंधु-कन्या १३ वर्षन्तमिव सिंधुराज्यभाग्यश्रिय: शोका(प्रवाहं सर्वतः प्रसरत कज्जलाभं नशं ध्वांतं, समनुपलभ्य राजपुत्रमग्रेसरं मंदीभूतोत्साह नीरवं प्रस्थितं बुधिलसैन्यम् ।" "मां च, सिंधुमत उपदुर्गपालेन स्वयं रहसि समादिष्टं ततः प्रयाणात् प्राक्, समुपेक्ष्य काकस्याऽऽज्ञां केनचिन्मिषेण तस्मिन्नेव कक्षे मंदतरदीपप्रकाशिताभ्यंतरे निवति तत्पयंकसमीपेऽवस्थाय तज्जागरण प्रतीक्षमाणं, कथमपि कालमतिवाहयन्तम् ।" "यथा तथा-भर्तः। -जरितुमारभत सा तमी तथा तथाऽधिकतर एव मंदोऽभवत् कक्षदीपप्रकाश:"अधिकतर एव निर्वात:... T:"उष्णश्च स कक्षः।" "आकस्मिकेनानिवर्णनीयेनानामकेन भयेन दुष्प्रसहेण समाक्रांतो, विलुप्तविवेको, - मृष्यतु भर्ता,- परित्यज्य स्वामिनं शनैः शनैः जागतं, समुपेक्ष्य मां समीपतरवर्तिनं किंचिदुन्मीलितया विस्मयजडया रक्तया मंत्रमोहितयेव दृशा कक्षकोणेऽवशमिव कमप्यवलोकमानं तथैवैकाकिनं, बहिनिरगच्छम् - अन्वेष्टुं कंचित् सहचरम् ।" "विस्मितश्चानुपलभ्य एकमपि सैनिक परिचारकं वा विशालेषु मंदप्रकाशेषु समपेक्षमाणेष्विव कांचिदुष्टां घटनां निःस्तब्धेषु कक्षांतरेषु, बहिनिर्गत्य, समारुह्याट्टालक, यावन्नाति- दूरावस्थिताया अंधकाराऽऽच्छन्नायाः निर्जीवाया इव ग्रामटिकाया दिशि दृष्टिं विस्फारितां भयातुरां क्षिपामि तावदशृणवं निभृतमुपसत् प्रयतमानानामपि स्थान एकस्मिननपेक्षिते सहसा प्रस्खलितानां केषांचिदुपानध्वनि प्रासादाभ्यन्तर एव ।" "यावच्च तान् पादचारिणो दुर्गसेवकान् मत्वा समाश्वस्त- स्तद्दिशि पदान्यातुराणि क्षिपामि, तावत् तदन्यतमस्य - शिरसि सिंधु-कन्या १३२ केनचित् प्रलंबेन दोपभांडेन ज्योतिविहीनेन तमोनिगीर्णतया दुर्लक्ष्यणाऽऽहतस्य - पीडाविह्वलमपशब्दम् ।" "श्रुत्वैव तं, सहसा, जडतामभजत मम शरीरं, नि:स्पंदतां मम हृदयं, निनिमेषतां च दृक् ।" "स हि केनचिद्यवनेन प्रोच्चारित आसीत् ।" "श्रुत्वव तं, - भोपणतां संकटस्य क्षणा ममाधन्यस्य मंदा मतिः समूलग्राहं जग्राह । नुनोद च मां धावितुं निःशब्दं स्वामिनः शय्याकक्षं समुद्दिश्य ।" "वपरीत्याद्वा देवस्य, तिमिराच्छन्नत्वाद्वा परिसरस्य, नवीनत्वाद्वा स्थानस्य, न्याकुलितत्वाद्वा चित्तस्य - न जाने कस्मात् कारणात् - कक्षनिवर्तनमार्गमेव व्यस्मरम् । अविदं च कक्षमभीष्टं. युगानीव व्यतीत्य कप्टमयानीतस्ततोऽध इव मोहित इव उन्मत्त इवान्वेषणे मार्गस्य ।" - - "प्रविविक्षुरेवान्तः सहसाऽपश्यं पुरः कक्षे स्वामिनं - पर्यकात्यितं प्रज्वलदलातज्योतिरुद्भास्यमान-प्रवद्रुधिरक्लिन्नमलि- नपरिधानं-(सावेग) कृत्तदक्षिणमुजं वामेनैव भुजेन पंचपर्यवनसैनिक: सह युद्ध्यमानं - एकाकिनं - (सक्रोध) सहसा पृष्ठत उपसृतेन कालकुटिलेन श्मश्रुलमुखेन म्लेच्छेन केनचिन्मस्तके विलुलितशिरोरुहे खड्गेन कृतांतहसितभीषणेन प्रहण्यमानं - (सविपाद) कृत्तमस्तकं - क्षणमेकं दोलायमानं- निश्चेतनं च - अन्ते भूमौ निपतन्तम् ।" "भीषणेन तेन दृश्यनक्षणमात्रमवसनगामः किंकर्तव्यविमूढः, कृत्यमेतदुधिलप्रमुखाय कथमपि निवेदनीयमेव ।" स खलुस खलु किमपि प्रतिविधास्यतीति दुराशया कदयमानोपगतेषु बुधिल- संन्येषु निशीथिन्यां तस्यां स्थलदुर्गे तस्मिन् निष्प्रतिरोधः प्रवेशो सिंधु-कन्या ." - यवनसैनिकानां यत् खलु व्यानक तत् स्वतःस्पष्टमपि सत्यमाकलयितु- मसमर्थस्ततः निभृतमपसृतः, निबिडत्वाद्वा तमस, आकुलाकुलत्वाद्वा दुर्गान्तःपरिसरस्य संततमन्तःप्रविशद्भिरसंख्येयैर्यवनसैनिकैविजयो- न्माददुःसहैः, अवशिष्टत्वाद्वाजीवनहतकस्यास्य, कथमपितस्माद्दुर्गा- निष्क्रांतः, सूचिभेद्ये तस्मिन् तमसि गृहीत्वा बुधिलसेनाभिनिर्याणदिशां - अभिनिविष्टस्तयैव दुराशयाऽधावम् ।" "व्यरमं च सहसा - समतिक्रम्य न जाने कियन्तमध्वानं दृष्ट्वा पुरतः नातिविस्तीर्णे प्रस्फुटत्प्राभातिकप्रभाप्रोद्भासितविशेषे समभूमिके निवृक्षे प्रदेश कस्मिंश्चित् एकत्रभूतं, भूमाववनतमुखमु- पविष्टं, महान्तमपि निःशब्द, संन्यस्तशस्त्रं, सैनिकानां संदोहम् ।" "गुल्मान्तहितश्च यावदवलोकयामि कौतूहलविस्फारित- लोचनस्तावदपश्यं प्रातःसमीरप्रोद्धूयमानहरित्पताकाया अधः संदोहाभिमुखं निःशब्दं, लोहमूर्तिवदविचलं तिष्ठन्तं, महाप्रमाणं, बलशालिन, मूर्तिमन्तमिव पराक्रम, कंचिद्यवनयोद्वारम् ।" "अपश्यं चालयित्वेव लांगूलं तं प्रसादयितुं पुरः समुपसर्पन्तं, विनयावनतपूर्वकायं, मंद्रस्वरं किमपि तं विज्ञापयन्तं, लब्ध्वा तस्य निःशब्दामनुज्ञां सहसा होत्फुल्ल, संमुखीभूय सैनिकसंदोहस्य सापेगं किमपि वदन्तं, बुधिलप्रमुखं काकम् ।" "अपश्यं च, भर्तः।""एफ युधिलग्रामण्यं शनैः शनैरुत्तिष्ठन्तं, निष्प्राणमिव तं यवनयोद्धारमुपसर्पन्तं, निश्चेतनमिव तच्चरणयोः स्वां खड्गलतां संन्यस्यन्तम् ।"

"अनेन काकेन पापेन, साक्षान्मातृभूमेविपदं स्वसंपदीकर्तु बद्धपरिकरण, यवनसाहाय्यार्थं कृतनिश्चयेन, सिंधुराजपददुराशा- कदर्थ्यमानहृदयनाकस्मादुपस्थितं मम स्वामिनं साक्षात्कृत्य भीतभीते- नापि समवलोक्य तस्य रुग्णामवस्थां प्रवृद्धोत्साहेन, उभयलोकवि- रुद्धमाचरितुं कृतसंकल्पेन, व्यतीते निशामुखे, नूनं व्यपसारितं सर्व बुधिलवलमाक्रमणमिपेण तस्मात् स्थलदुर्गात्, घातितो मम स्वामी ज्वरतंद्रितः निभृतं प्रवेशितैर्यवनसैनिकः, उपायनीकृतश्च दुष्प्रध? यमनभिज्ञो वस्तुस्थितेः प्रवंचितो बुधिलसैन्यसंदोहः कथमपि रिपो:'- इति विचारयन्, 'कुत्र खलु स्वामिनः प्राणप्रियास्ते सहयोद्धारः, ये तं शिविदुर्गात् किरणाः सहस्रकिरणमिवेहान्वगच्छन्' इति जिज्ञासातुरां दृष्टिमितस्ततो व्यापारयन्, अनवलोक्य तान् नरश्रेष्ठान् तासु मृण्मयमानवपंक्तिपु 'नूनं तेऽपि विनाशिता अनेन नुशंसेन' इत्यात्मनैव संप्रघारयन्, साक्षात्कृत्य विकरालतां संकटस्य सहसा स्थैर्य चित्तस्याऽऽपन्नः 'दुर्वातयं भर्त्रे निवेदनीयैव पणीकृत्यापि स्वप्राणान्' इति विनिश्चित्य, ततो निभृतमपसृत्य, गुल्मान्तहित एव मार्जार इव समुद्दिश्य सिंधुतीरं प्राच्यभिमुखमनवरतमधावम् । अनुकूलत्वाञ्च दैवहतकस्यालक्षित एव केनाप्यवाप्नवं भयानांतमिवजनिश्चेतनमिव निस्तरंगं सिंधुसरित्प्रवाहम् ।" "उत्तितीपुंश्च तं तत्क्षण एव यावच्छांते नयने व्यापार- यामीतस्ततोऽस्मन्नाविकदिदृक्षया तावदवालोकयं जलप्रवाहमध्यगतं निःशब्द सजवं दक्षिणतः समुपसर्पन्तं विपकीटविसरमिव भीपणदर्शन- मगणितानां कोलानां समुदायम् । अपारयंश्च तं यायार्थ्येन परिज्ञातुं यावज्जिज्ञासातुरे लोचने तत्र यध्नामि परिचायकलिप्सया तावद- द्राक्षमश्राध्यणानुल्लंघनीयेन मंग्रेणेव केनचिद्गूढेन संचाल्यमानं तं सहसा वामतो वलन्तं, वलित्वा पाश्चात्त्यतीरमुपसर्पन्तं, उपसृत्य च सहसा उद्वमन्तमसंस्थान धानुष्कान् यवनान् ।" "दृष्ट्वैव च - 'पापैराग्रामविजित्य सिंधुभूमेः पाश्चात्य- मदमकृतार्थमात्मानं मन्यमानरघुना सैघवप्रत्याक्रमणप्रतिरुरत्सया, सिंधु-कन्या सरित्तीरमेतदुपरुध्यत'- इति परिकलय्य समुत्तेजितो, 'भर्ता कथमपि सूचनीय एव' इति कृतनिश्चयः, 'कुत्र नु गतं संधवं नाविकं वलमिति विस्मयमानमानसः, सहसा ततोऽपसृतः, निविडगुल्मान्तहिततया दुर्लक्ष्यव्यक्तिः, समतिक्रम्यातिजवेन योजनदीर्घमध्वानमुदीचीन, समवलोक्य नदीकूलं निर्जन, प्रविश्य जलप्रवाहमतिनिभृतं, जलान्तमग्न एवात्यतरं स्रोतः स्रोतस्विन्याः।" "प्राप्य च पौरस्त्यं कूलं, क्लिन्नवेप एव, धावन् कुपथेन केनचित् प्राग्यायिना राजधानी समुद्दिश्य, मार्गेऽरण्यरक्षकस्य कस्यचिदृष्टिपथे काकतालीयं पतितः, तेन सत्वरं भर्तुः महावलाधि- कृतस्य कटकं नातिदूरावस्थितं नीतः, तेन च निशम्य सर्व वृत्तांतं समुद्विग्नेन सहानेनाश्वारोहेण तत्क्षणमेवेह प्रेषित:" भर्तुचरणयोः सर्वमुदन्तं निवेदयितुं प्राभवम् ।.... अनुष्ठातुं च स्वं कर्तव्यम् ।" "परंतु - अंशत एव । पापस्य तस्य काकस्य हि प्राणान् यावन हरिष्यामि तावदननुष्ठितकर्तव्यमेवात्मानं गणयिप्यामि । कालसर्पण दष्टस्य, प्रवद्रुधिरक्लिन्नमलिनपरिधानस्य, कृत्तदक्षिण- भुजस्य, वामेनैव भुजेन पंचपराततायिभिः सह युध्यमानस्य, निःशब्द पृष्ठत उपसृतेन श्मश्रुलमुखेन म्लेच्छेन केनचिन्मस्तके विलुलित- शिरोरुहे खड्गेन हतस्य, कृत्तमस्तकस्य, क्षणभेक दोलायमानस्य, निश्चेतनं चांइते भूमौ निपतितः, स्वामिनस्तदृश्य, दहन्ममान्त- मर्माणि, नुदति मां – शोभनमशोभनं वा मार्गमनुसृत्य - योग्यमयोग्य वोपायमवलंब्य - विहितमविहितं वा साधनमुररीकृत्य - हन्तुं तं नराधम पापाधर्म""मातृभूमिकलंकम् ।" "अभिदधत एवेत्त्यं तस्य कर्कशस्वरस्य सनिकस्य जज्वलतुः सहसाऽक्षिणी प्रतिहिंसाभाविनी। न तु शेकतुर्विलोपयितुमंशतोऽपि नैराश्यतिमिरं निरुच्छ्वासं निरुंधत् निःस्तब्धं दहरं राज्ञो दहरस्य तदुहितुर्वा । १३६ सिंधु-कन्या पाठः परिचन्द "मां बालिशमेव मन्यमानस्तातः न मम वचसि मनः कुरुते । त्वं तु न" प्राह राजकुमारः जयसिंहः, समुपविष्टश्चंदनपर्यके सुधाधवलप्रच्छदै भगिन्याः, क्लात्वार्द्धमुद्रितलोचनं शयिताया, घरमाणश्च तस्या उत्तप्तमारक्तं कमलदलकोमलं करं करेण । "मन्ये - रणनीतिनपुण्यं प्रतिपक्षिणः अस्माभिरेकदापि न सम्यक् परिकलितम् । यथापूर्व स्थलमार्गणवाक्रमणं तस्य समुत्प्रेक्षमाणः, सप्रयोजनं तेन संचारितेषु साधारणजनप्रवादेषु चारचढूंपि निमील्य विश्वसद्भिः, समुपैक्षितः सिंधुसागरः।" "समाक्रांतायां तेन सिंधुभूमौ तन्मार्गेण तत्तुल्यवेगं प्रत्या- क्रमणं कर्तुमपारयािदाय मुखविलं प्रत्यक्षीकृतस्तस्य दुष्प्रसह उदीचीनःप्रसरः।" "नेतावदेव । अपि तु - कापुरुषवत् चेप्टमानरुपायनी- कृतस्तस्मै निरूढो दुर्गः। "तत्पुरुषकारमुग्धयेव भाग्यश्रियायोजितया तया- सामयिकवर्षया सुदूरं प्रसारितं स्वं प्रभावं सम्यक् परिलक्षयताऽपि सिंधु-कन्या तस्मिन्नेवैकस्मिन् नातिविश्वसता, भ्रातुर्मे वज्रवाहोर्वजपराश्रमं पृष्ठ जानता, तेन, तत्सामर्थ्यचिक्षिणिपया यद्रणनीतिकौशलं प्रदर्शितं तन्नूनं कौतुकास्पदम् । स्वयं मम भ्राता, रणनीतिचतुरोऽपि, नावेत् तस्य मनोगतम्, विप्रलब्धस्तस्य मरुसीमाया अतिक्रमणेन कृतकेन, समुपेक्ष्य दाक्षिणात्यां, तस्या एव रक्षणे स्वं वलं प्रायुनक् क्षीणे च तस्मिन् -- साक्षादकरोत् स्वां त्रुटिम् ।" "एतत्तु पर्याकलयितुमद्यावधि नाशकं यत् कथं खलु रिपुः, परिवेष्ट्य सिंधुमदुर्ग तस्यां कालरात्रौ हिंस्रश्वापदिवाऽऽचित्रसुः निश्चलमवस्थितः, सहसा दुर्गान्तर्यायिनं नष्टप्रायं गुप्तं तं मार्गमध्यगच्छत् ।" "आर्यो वा तत्प्रतिरोधाक्षमस्ततो गूढं निःसृतो जानन्नपि विश्वासान, चरित्रं काकस्याप्रबुद्ध इव तस्य प्रदेशमध्यगच्छत् ।" "गतो वा तस्यैव प्रासादे यवनाक्रमणवेलायामेव तीव्रण ज्वरेणाक्रांतोऽभवत्।" "नूनं (सविषण्णस्मितं) प्रतिपक्षिणः रणनीतिनैपुण्य- मिवास्मद्भागधेयस्य कपटनैपुण्यमपि प्रशंसनीयमेव ।" "अस्मद्देशबांधवानां कार्पण्यमपि ।" "देवलनगरदाहदग्धमनोबलः निरूढप्रदेशोयर्जन:, रिपुबल- मवनमितमस्तकं बहु मानयद्भिः, कपटहतं स्वं राजपुत्रमधिगम्या:- प्यनुत्तेजितः, परिगलितोत्साहैर्यवनपारदास्यं नियतिलिखित- मनुल्लंघनीयमिति निरपवादं स्वीकुर्वाणधिलः, काकचतुरस्य काकस्य प्रलोभनेन प्रतारितः, परित्यज्य सपदि वंशपरंपरागतां सिंधुराज्यसेवां निमेषमात्र एव गोभक्षकाणामाधिपत्यमुररीकुर्वद्भिः, सिंधुमांतरं निरुच्छ्वासां कुर्वद्भिरस्माकं नौसैनिक: न मनसि कृता क्षणमात्रम- प्यहलौकिकी दुप्कीति: पारलौकिको वा दुर्गतिः ।" १३८ सिंधु-कन्या, "यदि हि नाम एकमपि का मूकं वा यवनपक्षे वयमवेत्स्याम, तर्हि वशीकृत्य तं राज्यप्रलोभनेन समस्तमेव यावनं वलं पश्यतामेव सर्वेपामदूरदर्शिनां भारतीयनृपाणां नाशयितु- मशक्ष्याम ।" "किं गतानुशोचनेन ?.... अशक्याऽऽशंसनेन वा ?"- अस्फुटमवदद्राजदारिकाऽवलोकमानाऽर्होन्मीलिताभ्यां संतप्ताभ्या- मारक्ताभ्यां लोचनाभ्यां भ्रातु: रत्नदीपज्योतिनिगडितपक्ष्मलनयनं विलुलितकुटिलकुंतलसंस्पृष्टभालप्रदेशमुच्छ्वसितनासापुटमुद्गच्छच्छ्- मश्रुमनोहरं निमीलितोष्ठपल्लवमारक्तगौरं वदनकमलम् । "न किमपि" - प्रत्याह तद्माता । "न किमपि - यदि नाम वयं नाशयित्वाऽप्यद्ध स्वराज्यस्य"मार""मारयित्वाऽपि प्राणाधिकं भ्रातरं नावभोत्स्यामहे स्वाः त्रुटी: ।" "न भवेन्नाम यवनपक्षे - कश्चित् काको भूको वा । धर्म- प्रसाराभिनिविप्टे तस्मिन् तत्संभवोऽसंभाव्य एव । अस्मत्पक्ष्याणां काकानां मूकानां वा परिशोधनं तु संभाव्यमेव ।" "संभाव्यं तु तत्तुल्यरणनीतिनैपुण्यप्रकाशनम् ।" "अपि नाम - त्वया काचित् परिकल्पिताऽभिनवा रण- नीति:" - विस्मृत्य शिरोरुजमपृच्छत् सकौतूहलमिव तद्भगिनिका । "आम् !" प्रत्यवदद्राजकुमारः। "यदि नाम- वयं..."सः प्रारभत । - ""चिरंजीवतु युवराजः" - सहसा प्रविश्य वेत्रधारिण्यु- वाच । -"युवराज! महाराज्ञी समाज्ञापयति यद्वत्सः सुदर्शनः अनभवनपातानभिज्ञोऽपि - सर्वव्यापिना शोकेन धनेन विचलित- स्वांतो विमनायते । तत्वत्सेन स विनोदयितव्य इति ।" सिंधु-कन्या "यथाऽऽज्ञापयति नाम अंबा" - प्रत्युवाच राजकुमारः। आह च स्वभगिनी - "पर्यवस्थाप्य सुदर्शनमहमनुपदमेव प्रत्यागतस्तुभ्यं मत्परिकल्पितां रणनीति सविस्तरं व्याख्यास्यामि । विचारयिष्यामि च त्वया सह तद्गुणदोपान् ।" उक्त्वेत्थं प्रस्थितं, धीरगंभीरैश्चरणक्षेपनमयन्निव धरित्री शयनकक्षानिर्गच्छन्तं, वयःसंघो वर्तमानमपि सुपरिलक्ष्य- प्रभावातिशयं, यौवनानारूढमपि व्यक्तप्रतापविशेष, अनतिक्रांत- कशोर्यमप्यारक्तनयनं, कृशमध्यमाजानुभुजं भ्रातरं स्वं कनिष्ठ निनिमेषमवलोकयन्त्याः शयितायाएव समुदभून्मनसि राजदारिकायाः- "अहो प्रभावो दुर्दैवप्रहारस्य ! अद्यावधि कैशोर्योचितं स्वछंदं व्यवहरन्""अयं जयो"वचपातक्षणादेव पूर्णविकसितयौवन इव प्रत्यनीकप्रतीकारप्रभविष्णुरिवाऽऽचरति ।" "तातश्च वार्द्धकातिभारसमाक्रांत इव, दुर्वहकर्तव्य- भारमुग्न इव, परिलुप्तप्रतिचिकीर्ष इव ।" "किं बहुना ? अहमपि - न जाने केन - आदित एवं बोधितकल्पाऽपि निशम्य मे भ्रातुः घातवार्ता पर्यवस्थापयितुमात्मानं न प्रभवामि । अतीतमेव निष्क्रियं निरन्तरं स्मराम्यवशेव । भूतमेव त्रुटिपूर्णमविच्छिन्नमनुशोचाभ्यसहायेव।" "विना तेन बाल्यमित्रेण सुखदुःखसहभुजाऽऽत्मानमेकाकिन- मिवानुभवामि । विरहितं तेन वज़पराक्रमेणासमर्थमिवास्य यवन- संकटस्य प्रतीकारे राज्यमेतदाकलयामि ।" "वृद्धः - निर्वापितो दहन इव - स्मृतिमात्रशेषप्रतापोऽ- यमेकलस्तातः, किशोरोऽपरिपक्वप्रेक्षोऽयं जयः, अतिवयसोऽभिनव- विधमाक्रमणं यवनस्य याथार्थ्येन परिप्रैक्षितुमसमर्था गतानुगतिका सिंघु-कन्या एते मंत्रिणः - कथमिवैतेऽभ्यमित्रीय जैवं, प्रलयवातमिव दुष्प्रसहवेग, प्रतिक्षणोपचीयमानप्रभावं, यं कमप्युपायमवलंब्य राहुमिव चंद्रबिंवं राज्यमेतत् प्रतिकलं असमानं, यवनयुवानं प्रतिरोर्बु मध्येसमुद्रं च निक्षेप्तुं समर्था भवेयुः?" "यदि नाम वचः कालेनाकालिकेन नानसिप्यत तहि सः परचक्रमेतत् प्रत्यावर्तयितुमक्षमिप्यत । कथं खलु सः काकस्य काक- स्वभावं सम्यग्जानन्नप्यजानन्निव तस्यैव प्रदेशं साहाय्याभिलाषयाs- गच्छत् ? कथं वा सदैव नीरजः निलयं तस्य प्राप्त एव ज्वरोन्मादेन दुःसहेन समानांतोऽभवत् ?" "अपि नाम - एतत् तस्याः "तस्याः"जरत्या अस्मद्- वंशोन्मूलनकृतप्रतिज्ञाया मारणक्रियाविजूंभितम् ? . अथवा-यथाऽह भागधेयस्यास्माकं कपटकुटिलं विलसितम् ? भाहोस्विवियमपि ?" जयः "द्वयमपि ।" "यदि नाम - द्वयमपि तहि क इव राजवंशमेत रक्षितुं सक्षमो भवेत् ? को वाऽस्माकं सैंधवानां ललाटे लिखितं पारदास्यं प्रतिरोद्धम् ?" "न कोऽपि । न कोऽपि।" विचितयन्ती चैवं विकलस्वांता तंद्रिता क्रमशः निद्रांकेs- लोयत । न त्वलभत मुक्तिमात्यंतिको तर्कवितर्काऽऽवर्तात् । अर्ध- निद्रिता यथापूर्वमन्वभवदेव खेदम् । आरभत च शनैः शनैरात्मानमनुभवितुं--प्रोन्नतसिंधुतट- प्ररूढस्यानकषशाखाशिखरस्य भूतलविजटाजूटस्य 'निप्कूजस्ति- मितस्य' निष्कंपदलस्य समाघिलीनस्येव औदुंबरस्य महावृक्षस्य मूले सिंधु-कन्या १४१ समुपविष्टस्य तपःकृशकायस्यातिवृद्धस्य महश्चिदानंदस्य चरण- योतं, शृण्वन्तं तस्य मंद्रां धोरां गिरं - सिंधुकन्ये ! अस्या अपि घोरतरा विपदभिभविष्यति त्वाम् "असहायतरमात्मानमनुभविष्यसि ..."दीनतरां दशां प्राप्स्यसि नातिचिरादेव । मा, अंब !, विचल क्षणमेकमपि स्वकर्तव्यपथात् । मा जहिह्यात्मतेजः हुत्वाऽपि प्राणान् प्रयतस्व निरोद्ध मिमामापदम् । इयं ते सत्त्वपरीक्षा । उत्तीर्ण- वास्यां... अमरत्व यास्यसि अमरत्वं यास्यसि' इति, प्रक्षालयन्तं च तस्य चरणारविंदमजस्यं परिवहन्तीभिरुष्णाभिः - धावमानाभिरि- वान्तःकरणविपादं प्रगाढं - अश्रुधाराभिः । - प्रबोधिता च सहसा तस्यास्तंद्रायाः केनचिदुष्णस्पर्शन - समवेदात्मानं तस्मिन्नेव मंदालोके नि:शब्दे निर्जने शयनकक्षे तस्मिन्नेव सुधाधवलप्रच्छदे चंदनपर्य के पूर्ववदेव शयितं, यलेदयन्तं शिरोधान- मजस्र प्रवहन्तीभिरश्रुधाराभिः, परंतु विलीनावंसादं, व्यपगतविपाद, संक्रमिताऽऽत्मवलमिव स्वप्नदृप्टेन महापुरुपेण सुखदुःखयोः लाभा- लाभयोः जयपराजययोः समदशितामापन्नं, प्राप्तापदश्चाऽऽमरणप्रती- काराय कृतप्रतिज्ञम् । -- अहो पावनः प्रभावः पुण्यात्मनाम् ! स्वप्ने दृष्टस्यापि हि तस्य महर्षेः सामर्थ्यातिशयोपकृतेव सिंधुकन्याऽरभत तत्क्षणादेव व्यवहमभिनिविष्टेवैकमात्रेण यवनप्रतीकारसंकल्पेन ध्र वध्र वेण, निर्मुक्ता संतापादुपतापाच्च प्राक्रमतोद्धर्तु विषादपंकादतलात् स्वं वृद्धं जनक, समुत्तारयितु कुंठासागरादतिगभीरात् तन्मंत्रिमंडलं, पुनरुज्जीवयितुं च प्रजाजनमनोवलं निर्वाणभूयिष्ठम् । अहो प्रगाढः प्रतापो वज़संकल्पानाम् ! अर्धोन्मीलितसुमसमाया अपि हि तस्याः राजदारिकायाः संततोद्यमेन प्रभाविता: सर्वे सैधवा उच्चावचाः सधना: निधनाः सिंधु-कन्या - सबलाः निवला विजित्य भाग्यवादं परित्यज्य च कांदिशीकभावमा- ततायिनः संरोद्ध मध्येसागरं च निक्षेप्तुं परिकर वबन्धुः अहो दुरुत्खेयः परिणामः संस्काराणाम् ! तिरस्कृत्य पारंपरिकप्रतिरोधपद्धति भ्रात्रा जयसिंहेनाल्प- वयसाऽपि विचक्षणमनसा परिकल्पितां सविस्तरं प्रतिपादिता चाभिनवां रणनीति सुविचार्यागीकुर्वत्या मंत्रिपरिषद्यसकृत् तामेव सयुक्ति पुरस्कुर्वत्या तया प्रभाविता अपि हि सिंधुनरेशस्य वयोवृद्धाः सेनान्यः न शेकुः स्वीकर्तुं यत् तेपां परंपरागता युद्धविद्या नूतनाया अपरिचिताया यवनानामाक्रमणविधायाः प्रतीकाराय न समर्था स्यात्, द्विवभारतीयनृपपृतनोपबृंहितसामर्थ्याऽपि तेषां सेना देवलदेवीविग्रह- खंडन - निरूढसिंधुमदुर्गादिपतन राजपुत्रवज्रवाहुनिधनादि- विपरीतघटनाक्रमक्षितमनोबला संततपरिवर्धमानसामर्थ्यामविच्छिन्न- विजयमालिकामत्तां म्लेच्छसेनां सांमुखीने समरप्रसंगे पणीकृत्य प्राणान् विजेतुं न प्रक्रमेत, प्रक्रांताऽपि संप्रवृत्ते तुमुले रणे चपलाचपल- यवनवनायुजसंपीडितया गजपृतनयाऽपयान्त्याऽवस्कंदिता दुर्गति- मात्यंतिकी लभेत, अतोऽभिनवयवनप्रसरणमभिनवेनवाभिपेणनेन प्रतिरोद्धव्यं परिहृत्य सांमुखीनानां युद्धानामवसरान्, संधवं वलमा- सिंधुसागरात् शिविप्रदेशपर्यन्तं प्रसृताया यवनसेनाया दौर्बल्यस्थानेष्वेव तेपु तेषु - समुपलभ्य योग्यान संधीन् - प्रयोक्तव्यम्, अतिवाह्य च समयमेवमपरिचितवपर्तुवर्षाकुंठितायाः निरुद्धतया सागरमार्गस्य प्रलयवीचिसमवोचितांडवनृत्यैरुपरुद्धबलोपसरांया विविधरोगा- प्रांतायाः संत्रस्तायास्तस्याः पन्नगपिपीलिकान्यायेन विनाशने व्यापार- यितव्यम् - इति । यदा तु प्रयत्याऽप्यसंकृत् न शशाक राजेदारिका पितरं तत्सेनाध्यक्षांश्च ग्राहयितुं साहसिकोमनीकनीति तदा. खिन्नापि सा 'वृद्धान् छंदानुरोधेन' इति विचित्य, समय पर्यालोच्य, स्वं सैदमपनुत्य, क्षुब्धं भ्रातरं सामवचनयुक्तियुक्तः पर्यवस्थाप्य, पारंपरीणयव रौत्या सिंधु-कन्या. ४३ प्रतिपक्षिप्रतिरोधाय कृतसंकल्पा, तदुद्देश्येन सर्वां स्वां शक्ति प्रयोक्तुं प्रारभत । अलभत च साफल्यं कल्पनातीतम् । यत्र यत्र हि सा हिमधवलतुरगाधिरुढा - विद्युल्लतेव स्फूर्जण - भ्रात्राऽनुगता, द्रढयितुं प्रजाजनमनोवलं जगाम तत्र तत्र तत्तेजःप्रज्वालिता इव संधवा उत्साहं निरपवादं परचक्रनिवारणे बबंधुः । विशेषत: सैनिकाः। राजकुलदेवताविग्रहखंडनखंडितधैर्याः पराजयपरंपरापरास्तप्रायपराक्रमा मूर्तिमतः प्रतापस्यैव राजकुमारस्य वनवाहोस्तादृशेन निपूदनेन निपूदितोत्साहाः सर्वतःप्रसरदतिशयोक्त- प्रतिपक्षपराक्रमवृत्तांतावसन्नावष्टंभाः प्रवयसि राजनि जराजीणेषु सेनाध्यक्षेषु च विश्वसितुमपारयन्तोऽनेतृकमिवाऽऽत्मानं भावयन्तस्ते हि यदाऽऽततायिशासनाय शरीरं धृत्वाऽवतीर्णा साक्षाद्देवलदेवीमिव, विग्रहवती विग्रहस्फूर्तिमिव, तां, तेषु तेषु कटकेष्वविगणय्य परिश्रम- महर्निशं भ्रमन्ती, पादातिकान् रथिकान् धानुष्कान् नैस्त्रिशिकान् कौंतिकान् शाक्तीकान् पारश्वधिकान् प्रासिकान् याप्टीकान् - उच्चावचान् सर्वानेवाऽऽयुधिकान् स्वोत्साहसंपदाऽक्षय्ययाऽपूर- यन्तीमिव साक्षाच्चक्रुस्तदा पुनरुज्जीवितसामर्थ्यमिव पुनरुप- लब्धनायकमिवात्मानमनुभवन्तस्तस्यां तद्भ्रातरि च परं विश्वसन्तो, विस्मृत्यातीतं पराभवमलिनं, समरसंनाहे महतोत्साहेन मनश्चक्रुः। एवमपूर्वमेकीभावमापद्य स्वे स्वे कर्तव्ये प्रवृत्तान् तान् दृष्ट्वा समाश्वस्ता राजदारिका, संनिकृष्टनियुद्धनिपुणबलमभि- कांक्षमाणा, समयमेव केवलं संनहनपर्याप्तं वेधसमयाचत । आरभत च क्रमशोऽनुभवितुंतां याचनां तेनापूर्यमाणामिव । प्रतिप्रहरं हिसमापतन्तः,पौरस्त्ये सिंधुतीरेतेपुतेषु निरीक्षण- स्थानेष्वभ्रंकपशाखिशाखाशिखरेप्वत्युन्नतेष्वधित्यकाप्रदेशेषु नियुक्ताः, पाश्चात्यतीरवर्तिनः प्रत्यर्थिनश्चेप्टा अनिशं निरीक्षमाणा अपसर्पाः सिंधु-कन्या प्राकमन्त तस्य निवेदयितुमप्रत्याशितां वार्तामपारस्य यवनसेना- सागरस्य गतिरोधस्य । तत्कालपर्यन्तं दुनिवार्यया गत्योदीच्यभिमुखमनवरतं सर्पन्तं म्लेच्छवलसागरमभिव्याप्य शिविप्रदेशं कुंठितप्रसरमिवादी स्थिरता- मापन्नं ततश्चांशतः प्रतिनिवृत्य सिंधुमदुर्गमभिलक्ष्येव पुनर्दक्षिणा- भिमुखं प्रस्थितं चारचक्षुभिरुपलभ्य, प्रकल्प्य च तं ग्रसित्वार्धमेव सिंधुराज्यस्य कृतकृत्यंमन्यमानमधिकानाकांक्षिणं- परं खलु जहर्ष सिंधुनरेशः । स हि समुत्प्रेक्षत तं समाकर्ण्य तस्य सेनासनहनस्य प्रचंडस्य वात्ता सहसा विलुप्तधैर्यम् । आरभत च प्रत्याक्रमण- वलिंगतानि कल्पनावल्गूनि । अनुभववृद्धास्तत्सेनाध्यक्षास्तदुराशादामभिरनिगडिता अपि न दधृपुस्तस्य मनोराज्यं मनोरमं खंडयितुम् । भेजुश्च मौनमुद्रा सर्वार्थद्योतिकाम् । न तु राजदारिका । तभ्राता था। तो हि सर्वथाऽनुत्प्रेक्षितया द्विपच्चेष्टया किंचिच्चकितावपि क्षणमात्रमपि न चिंतयामासतुर्यत् योजनशतदीर्घदीर्घमत्ययवहुलं मार्ग तथाऽक्रम्य सिंधुसरिन्मुखप्रदेशे पदं तथा निधाय सैंधवमानश्रद्धास्थानं देवलदेवीविग्रहं तथा विभज्य सामाधुपायचतुष्टयप्रयोगेण चतुरेण रिपुराज्यस्य पश्चिममई तथा विजित्य परिवृढवलो यवन आकर्ण्य रिपो: सेनासनहनवार्तामेव केवलां विगलितधर्योऽकस्मादात्मसंरक्षण- मात्राऽऽतुरः संजात इति । अपि तु दृढं विशश्वसतुर्यत् सः समूलधातं स्वरिपुं जिघांसुः सुदूरप्रसृतस्य स्ववलस्य पुनर्घटने, सामरिकदृष्ट्या महत्त्वशालिपु स्थानेषु तस्य विनियोजने च व्याप्त इति । प्रतिपाद- यामासतुश्च तथा मंनिपरिपदि विस्पष्टाक्षरम् । अचिरादेव च प्रापतुः पर्याप्तानि प्रमाणानि स्वतकंपरिपोष- याणि निरोक्षणनियुक्तेभ्योऽवारवतिभ्यो गूढपुरुपेभ्यस्तेषु तेषु सिंधु-कम्पा १४५ पारवर्तिषु स्थानेषु यवनसेनासंघट्टमतिदृढं सूचयद्भ्यः । प्राप्य च तान्यधिकतरमेव रणोद्योगरतौ कथमपि प्राक्कलयितुं रिपोः संकल्पितं तरव्यूहमचेप्टतामनवरतम् । त्वलभतां साफल्यमण्वपि,- दुस्तार्यतया नदीपात्रस्य भयजडस्येव निस्तरङ्गस्यापि कृतपुंखयवन- धनुर्धरोपरुद्धपरतीरस्य । न इदं च वैफल्यं तयोर्मनसि व्यग्नतामेव प्रतिक्षणं घोर- तरामजनयत् । 'अपारबलोऽपि यवनः पौरस्त्यं योजनशताधिकदीर्घ सिंधु- नदीतीरं ममस्तं युगपदेवाऽऽक्रमितुमसमर्थः नूनं सामरिकदृष्ट्याति- महत्त्वशालिनमेव प्रदेशमुपरोत्स्यति । स च प्रदेशः शिविप्रदेशनिकट- तमाद्राजधानीप्रदेशादन्यो भवितुमेव नार्हति । तत्रैव हि समूलघातं प्रहृत्य, निहत्य च राजकुलं, स सिंधुराज्यस्यावशिष्टमद्धं जेतुं चेप्टेत'- इति तर्कयन्तावपि हि तो श्रुतिपथमनवरतमागच्छन्तीभिः, कदाचित 'यवनसेनानीः शिविप्रदेशात् प्रतिनिवृत्तः निरूढदुर्गे परिकल्पितनिवासः संतीर्य नदीपात्रं पौरस्त्यं सिंधुदेशमुपरुरुत्सुरिव महान्तं सेनासंनाहं कुवल्लक्ष्यत' इति सूचयन्तीभिः, कदाचित् "सिंधुसरिन्मुखेन पौरस्त्य- मपि सिंधुदेशं प्रविविक्षुरिव यवनो देवलपर्तनरोधसिं प्रवलां नौसेना- मेकत्र कुर्वन् दृश्यत' इति निवेदयन्तीभिः, कदाचित् 'महती खलु यवनसेना, समुल्लंघ्य मरुप्रदेशं सिंधुदेशप्रविष्टा, सिंधुमदुर्गपरिसरे क्लुप्तकटका रणोत्सुकेव परिदृश्यत'- इति निगदन्तीभिर्वार्ताभिः विचलितो- विस्मृत्य स्वां तर्कप्रणालीं- नातिचिरादेव व्याकुलाविव बभूवतुः। एवंप्रायया व्याकुलतया व्यतीते लोहपाद इव युगदीर्घदीर्घ मासे- एकदा, प्रहरमात्रप्रौढेऽपि नैदाघतापदुःसहे निर्वात पूर्वाण, सह मंत्रिपरिपदा मंत्रणागृहे विचारयति तास्ताः प्रतीकारयोजनाः संक्षीणोत्साहसंपदि सिंधुभूभृति, ..."अपि नाम शृगालचतुरो यवनः सिंघु-कन्या संततेन कृतकेनाऽऽचिक्रमाप्रदर्शनेनास्माकं सैनिकानां नागरिकाणां- सर्वपामेव सैंधवानां धर्यसंपदं दिधाविपति? धावित्वा च तां नि:शेपं संततप्रतीक्षामावश्रांतान विनायासमेव जिगीपति ? यदि नाम "एवं .."तहि किमिति वयमेव गूढं संतीर्य नदीपात्रं तमेव नडिडेगेन नाऽऽक्रमेमहि ? "परंतु" तत्पर्याप्तं नौवलं कुतो लभेमहि ?' इत्यादि किमपि किमपि स्वात्मनैव तर्कयन्त्यां राजदारिकायां- सहसा प्रविश्य प्रधानो दौवारिक एक साधारणवृत्तांतं प्रौढं सेंधवमविलंबमेव दर्शनमशिकांक्षन्तं भूभृते न्यवेदयत् । क्षणमात्र विचार्य तेनानुज्ञातश्च प्रावेशयदनुपदमेवाऽऽगतं धूलिधूसरितवेपमातुरातुरया दृष्ट्या प्रस्फुरन्त्या ओष्ठमुद्रया च स्फुटपरिलक्ष्यमाणावगं दीर्घदीर्घ श्वसन्तं फेनिलोप्ठप्रांतं सैंधवं दूतं कंचित् । प्रविष्टमानश्च सः असहमान इव क्षणमात्रमपि विलंब- कथंचिन्नमितमस्तक आरभत ससंभ्रममस्फुटाक्षरं ..."देव ! .."अत्याहितम् ! ..."अत्याहितम् ! ..."प्रवृत्तः खलु यवनो विहाय निरुद्धदुर्गपरिसरमुत्तरितुं नदीपात्रम् ! ."अयवा-समुत्तीर्ण-एतावत्या कालकलया तीर आस्माकीने कृतसेनासंनाहश्चलितुं राजधानी समुद्दिश्य'- इति वक्तुम् । समादिष्टश्च देवेन सहसोत्तेजितेन सविस्तरनिवेदनायावदत् कथमपि संनियम्याऽऽत्मानं, 'मर्पयतु देवः! मया खल्वावेशवशात् समुल्लंघयता मर्यादाः सदाचारस्य महत् खल्वपराद्धम् । ""देव ! अयं खलु देवस्य दासो देवेन पौरस्त्ये सिंधुतीरे प्रतियोजना प्रति- पक्षिकुचेष्टितनिरीक्षणाय नियुक्तानां सैनिकगूढपुरुषाणामन्यतमः । अतीते निशामुखे, यवनपददलितायाः सिंधुभुवः निःश्वास इव मंद मंदं प्रवहति कदुणे सायंसमीरे, यदा तावदह नियमानुसारं चिर- परिचितमौदुंबरं वृक्षमारुह्य निरीक्षणकार्य आत्मानं व्यापारयं तदा क्षणमानमपि न समभावयं पतितप्रायं विपत्महारम् । अतीततुल्यां सिंघु-काया तामपि तमस्विनी विभावयन्, परतीरप्रदेशनिखातनयन:, कदाचिद्दे- वलपर्तनप्रतिवद्धानां स्वजनानां, कदाचित् यवनेन तत्रानुष्ठिताना- मत्याचाराणां विषये चिंतयन्, कदाचित् 'कुत्र खलु प्रहरेदयं यवनः शलभायमान' इति विचारयन्, कदाचित् 'किमिति नास्माभिरेव प्रदर्य पुरुपकारं स एवाऽऽक्रमणीय' इति तर्कयन्, शनैः शन- मर्पयतु देव:- तंद्रितलोचन एवाभवम् । सहसा च व्यपगततंद्रः- न जाने कस्यचिदस्वाभाविकस्य ध्वनेर्वशात्, अनुकूलत्वाद्वाऽस्मद्भागधेयस्य- अनतिस्पष्टयाऽप्यनपवार्यया दुःशंकया कयाचिन्नुद्यमानः, सावधानः, निश्चलः, निरुद्धश्वास, उपक्रममकरवं सहस्राक्ष इव नातिदूरमप्यंधत- मसाऽवृततया दुर्लक्ष्यविशेषं परतीरप्रदेशमधःप्रसृतं च निस्तरंगं यवनसंस्पर्शवशात् कलुषितमिव कृष्णं नदीपात्रमवलोकयितुं, सहस्रश्रव इव श्रोतुं क्षुद्रतममपि स्वनम् ।" "कृतोपक्रम एव च साक्षादकरवं- पारादवारं निभृतमुप- सर्पन्तमविच्छिन्नं कृष्णवस्त्रावगुंठितयवनसैनिकसहितानां कृष्णवर्णतया लुप्तप्रायाणामिव धनांधकारे दुर्लक्ष्याणां महाप्रमाणानां नारकीयाणां विपकृमीणामिव कोलानामोघम् ।" "अघमपिण्यास्तरंगिण्या अतलस्पृशस्तलात् प्रसह्य समुत्थितं युगसंचितं दुःसहानां पापानां समूहमिव तं वीक्ष्य क्षणमात्रं विस्मयमूढः, क्षणेऽन्यस्मिन्नेव प्रकृतिमापन्नः, 'रिपोरवारेऽवतरणात् प्रागेव इतः निभृतमपसरणं, कथमपि राजधान्यां देवचरणौ साक्षात्कृत्य तयोरेतत्कूटाक्रमणनिवेदनं च श्रेयस्करमिति कृतनिश्चयो, वृक्षात्तस्मात् निःशब्दमवातरम् । अनवरतमाक्रम्य देवसेवायामुपातिप्ठम् ।" च मार्ग समाकर्ण्य समाचारमिमं राजा दहरस्तन्मंत्रिणस्तत्सेनान्यः स्वयं राजदारिकाऽपि नियतिशापाद्वा व्याकुलत्वाद्वा चेतसोऽ- धिकतरप्रतीक्षासहस्य- न जाने कस्मात् कारणात्- तत्क्षणमेव सिंघु-कन्या १४० तस्मिन् वाला इव परं विशश्वसुः, नानुबभूवुः लेशतोऽप्यावश्यकता तवृत्तांतसत्यापनस्य । संप्रधार्य च यवनं दक्षिणत एवाऽऽक्रममाणम- विलंवमेवाभिनिर्याणमैकमत्येन निश्चिक्युः । अभिनिविष्ट इव च तेन निश्चयेन विपादजाड्यं समूलं प्रविलापयता, राजा दहरस्तत्रैवोपस्थितान् चतुरङ्गसेनाध्यक्षान् स्वानि स्वानि सेनाङ्गानि तत्तत्कटकेभ्य: रामाक्रप्टु विरचयितुं युद्धशास्त्रानुसारं यवनव्यूहभेदक्षमसेनारूपेण समुपस्थापयितुं च निरूढप्रदेशाभिमुखे राजपथेऽविलंवमेव- आदिदेश । आज्ञापयामास च - अपगतेपु तेपु वीरोचितमभिवंद्याऽऽ- देशानुष्ठानाय, सांधिविग्रहिकं वृद्धं सुमति राजधान्या बहिरेव क्लुप्तकटकं काश्मीरपृतनाया अध्यक्षं सत्वरं सूचयितुं सबहुमान- माह्वातुं च साहाय्यदानाय, निर्गते तस्मिन् प्रणम्य गृहमंत्रिणं सडिडिमनादमुद्घोषयितुं राजधान्यां विजयाभियानवार्ता, दौवारिक च प्रस्थानलग्ननिर्धारणाय राजपुरोहितमामंत्रयितुम् । आघ्राय मदगंधं प्रतीपपचनोपनतं सहसा संक्रुद्धं धनराजमिव निशम्य यवनाक्रमणसमाचारं समुत्तेजितं, वृद्धमप्यावेशवशात् तरुणमपि तिरस्कुर्वन्तं तं समवलोक्य समुपजातप्रत्यया, कटकान् सत्वरं प्रत्यागतं भ्रातरं पितुनियोगान् तांस्तान् सोत्साहमनुतिष्ठन्तं दृष्ट्वा संजाततोपा, राजदारिका तु मुहूर्तमात्रानन्तरं ततः प्रस्थिताऽन्तःपुरायाऽऽ- योजनेच्छया लोहाभिसारस्य यदा मार्ग एवाभियानचर्चामुखरपरिजना- कुलाकुलेऽपश्यत् परिचारिकया कयाचित् सादरमुपदिश्यमानमार्ग, धौतधवलवाससं, भस्मचचितललाटपट्ट, वयसा नातिवृद्धमपि चिताभरेणेवावनमितोतमांग, ग्राह्मतेजोभासुरमपि निस्तेजममिव भासमान, निलिप्तचेतसमपि व्याकुलमानसमिव दृश्यमानं राजकुल- पुरोहितमनुत्सुकानीव पदानि क्षिपन्तं मंगणागृहमुद्दिश्य - तदा बलात् स्मारिता युगान्तर इव दृष्टस्य महश्चिदानंदस्य सहसा म्लानस्वान्ता, मिधु-कन्या १४९ हठात्समुपजातानिष्टाऽऽशंका, क्षणमेकं विचार्य किमपि स्वात्मनेव, चरणस्पर्शव्याजेन भूदेवं तं मार्ग एवारुणत् । कार्यान्तरमिपेण प्रेष्य च प्रेयां मार्गोपदेशिकामन्यत्र, तेन सह मंत्रणागृहाय नाम चलिता, मार्ग एव, स्वरमिव, विजययात्राप्रस्थान- लग्नमपृच्छच्छोभनम् । विज्ञाय च तस्मादस्फुटस्वरान केवलं तदत्यंताभावं प्रत्युत राजप्राणघातकग्रहयोगं प्रबलमागामिशुक्ल- तृतीयापर्यन्तं सहसा म्लानमुखकमलाऽपि स्खलितपदक्षेपाऽपि महता प्रयासेन संनियम्याऽऽत्मानं, मंद्रेणापि दृढेन स्वरेण वर्णयामास प्राप्तप्रायां परचत्रापदं संक्षेपतः, प्रार्थयामास तं मारकग्रहयोगं कस्याप्यन्यस्य समीपेऽप्रथयित्वा तद्दिवसावसानात् पूर्वमेव प्रस्थानसमयं उपदेष्टु, व्यावर्तयामास च पदानि स्वानि समुद्दिश्याऽन्तःपुरं पुनः" अंगीकृते तेन परिकलितकार्यगौरवेण तथाऽनुष्ठातुं कथमपि । एवं कृत्वा विपरीतग्रहयोगमात्ममात्रविदितं, संवृत्याऽऽत्मनो विपादं प्रगाढं स्मितेनाऽऽहार्येण, गूहित्वा खेदं घनं कृतकेनोत्साहेन, विजययात्राप्रस्थानसंवद्धानां तेषां तेषां कार्याणां करणेऽतिव्यापृत- मिवाऽऽत्मानं प्रदर्शयितुमारभत सा । अलभत च साफल्यं कल्पना- तीतम् । उत्साहेनापारेणान्यानपि प्रोत्सायन्ती, विश्वासेनागार्धन शंकितानपि समापूरयन्ती, धैर्येण वज्रदृढेनाधीरानपि द्रढयन्ती, मूर्तिमती स्फूतिमिव सर्वत्र दिव्येन तेजसा दीप्यन्ती, सौदामिनीमिव सर्वत्र विलसन्तीं तां दृष्ट्वा - न तस्याः पिता, न माता, न भ्राता क्षणमेकमप्यशकन अनुमातुं विपादमतलस्पृशं तस्या हृदन्तस्तले प्रसृतम् । किं पुनरितरे जना:? दुःखं वै संविभाज्य भुक्तं शतभाजितं भवति । असंविभाज्य सहस्रगुणितम् । यदि हि वराकी सूर्यकुमारी वाल्यसखेनाभिन्नहृदयेन वच- बाहुना सहावश्यंभाविनो विपत्प्रहारस्य तस्याऽशंकां हृदय- सिंधु-कन्या मिवोत्पीडयन्ती मानसमिवोपमर्दयन्ती प्राणानिवोपरुन्धन्तीं संभोक्तुम- शक्ष्यत् - तर्हि तस्याः कुसुमकोमलं मानसमेवं मंत्रमुग्धमिवागतिक संमोहितमिव किंकर्तव्यविमूढं नाभविष्यत् । अपि तु - प्राप्तायामपि विषमपरिस्थिती कमपि नाम समुत्तारोपायं कचिदप्यचिन्तयिष्यत् । अपहृते तु तस्मिन् कृतांतेन कुटिलेन सहभोक्वन्तराभावात् साऽऽशंका प्रतिक्षणं लक्षकृत्वो वर्धमानाऽचिरादेवाचिच्छदत् तस्या मति, व्यपाहरत् तस्याः शक्तिम्, अकरोच्च तां पुत्तलिकामिव सूत्रधारेण निघणेन केनचिन्नय॑मानामवशाम् । सिघु-कन्या सप्तमः परिच्छेदः अवशैव च सा - अलक्षयत् ज्ञात्वाऽभिनिर्याणलग्नं राजकुल- पुरोहितेन प्रहरमात्रावशिष्टे तस्मिन्नेव दिवसे सुनिश्चितं सहसा प्रवृद्धं, मर्यादाः सर्वा उत्पीडयन्तं, समापूर्य राजप्रासादं बहि: नगरे सर्वत्र प्रसरन्तम्, उच्चावचान् सधनान् निर्धनान् यूनो वृद्धान् सवलान निर्बलान् सर्वानेव सैंधवान् समुत्तंभयन्तमुत्साहमपारम् । अवशैव च सा - अलक्षयत् स्वात्मानं स्वस्वसारं स्वभ्रातरं च प्रस्थानाय संनद्धं पिनद्धं शस्त्रधरं प्रासादप्रांगणेऽन्तःपुरनिर्गमनं सिंधुराजस्य प्रतिपालयन्तम् । अवशैव च सा - अलक्षयत् गत्या धीरोद्धतयाऽन्तःपुरा- निर्गच्छन्तं, पुर:प्रधावद्भिः जयावलोकयाऽऽदिघोपमुखरैः सौविदल्लै- रूपदिश्यमानमार्ग, व्यूढवांकटं, धृतशिरस्त्रं, खड्गभीषणहस्तं, वनराजमिव दधिगंधगजताऽऽक्रमणोद्यतं दुप्प्रसहं, पुरोहितकृतमंगल- तिलकोद्भासितललाटफलकं, बद्धरणकंकणभीपणदक्षिणभुजदंडं, नीराजनादीपकदीप्तमिव प्रखरतरराजतेजोभासुरं, नमयन्तमिव महीतलं यवनसंस्पर्शदूपितं, प्रासादप्रांगणेऽवतरन्तं, सौभाग्यतिलका- लंकृतभालया कुलदेवताचरणकमलरजोविभूपितभ्रूमध्यया कृतमहार्ह- वेपया विविधरत्नाभरणभूषितांगलतिकया मंगलगीतमुखरपरिचारिका- सिधु-कन्या १५२ जनानुगम्यमानया विलासयात्राप्रस्थितयेव विलसस्मितमधुरतर- मुखमंडलया निपतद्वचप्रहारानभिज्ञया निराकुलया महाराज्याऽ- नुगम्यमानं, सर्वतः प्रवर्षतपुष्पवर्पा धनां सस्मितं स्वोकुर्वन्तं, समुत्थाप्य शुंडादंडं विचित्रवर्णविरचनामनोरमं प्रणम्य भर्तारं समादरेणेव भूमावुपविष्टां महार्हपरिस्तोमाऽवृतकज्जलकृष्णकलेवरां सौवर्ण- शीर्षण्याऽऽवृतमस्तकां मंगलतिलकभूषितावग्रहां वर्मितकृतहस्तहस्ति- पकनियम्यमानां कल्याणलक्षणां धेनुकामारोहन्तं, आरुह्य च शनैः शनैःप्रासादमहाद्वाराभिमुखं गच्छन्तं,समानवयोवेपवृत्तांतां वशामन्या मारुढया महाराश्याऽनुगम्यमानं, किंचिदूनविशेषांकरिणींसमारूढेनाई त्मना स्वस्वस्रा स्वभ्रात्रा चानुसिध्यमानं, प्रासादमहाद्वारानिगच्छन्तं, वहिःसंकुलितनिबिडनागरिकसहस्रोत्यितां गगनवितानमिव विदार- यन्तीं दिक्चकवालमिव कंपयन्तीं जयघोषणां समुन्नमय्य दक्षिणभुजं बहु मानयन्तं, जनसहस्राकुलाकुलेनोभयपाश्ववतिहय॑वातायनपतत्- पुष्पपरागरंजितेन राजपथेन प्रशस्तेन प्रस्थितं, पाश्ववर्तिनः जयघोप- मुखरानागरिकसंमर्दादकस्मान्मध्येमार्गमुपस्थितया दूरादीपलक्ष्य- विशेषया कृष्णया वामनया कुब्जया वृद्धयाऽनावृतप्रायया कंकानपया जरत्या कयाचित् सावेशं सकंपं तारस्वरमायन्योनार्ग, चकितचकितं तामवलोकयन्तं, बलादपसारितायां तस्यां पुरःप्रावित- नंगररक्षकः पुनः प्रचलितं, किंचिद्विमनस्कं, इनः शनैः राहयानी- प्राकारमहाद्वारं दाक्षिणात्यमुपगच्छन्तम्, वादित एव दत्र समुस्यितेन वमितेनातिधवलघोटकारूढेन कृतांतहाउभीषन -दिकोष - बद्दग- दुर्धर्षण महाबलाधिकृतेन सादर मुश्मयामिदनानं, स्वीकृत्य तदभिवादनं महाद्वाराग्निसरन्न, वहिन्द प्रासयन्- या क्षितिज - प्रसृताया अभिक्रमोत्सुकानामसंस्थानां न्यानां पताामिः पवनोबृता- भिर्यवनं तब्रयन्त्या इव मदालटानां दारमानां मुंडाभिरनवलं बेल्लन्तीभिः ग्रसितुं प्रयतमानामा इद दिद्यच्चपलानां तुरगा। हपारवः निर्भत्संयन्त्या इस युद्धस्टानां शामिकानां पारम्वनि शक्तिहेतिकानां याप्टोकानां नाभिकानां देयन्तिका दिन पादातिकानां प्रतिफलनामारमन्त्रोदोदितस्तस्लंगयुधः सिंघु-कन्या इव, समवलोक्य प्राकारमहाद्वारानिःसरन्तं तं; सिंहनादेन : प्रचंडेन दिग्गजान बाधमानाया इवानीकिन्या:स्वीकृत्य नेतृत्वं दक्षिणाभिमुखेन मार्गेण प्रस्थितम् । यथा यथा तु सा क्रमशः शीघ्रतरां गतिमंगीकुर्वताऽसंख्य- पादाहतोत्थितधूलिधनघटाभिः दिक्चक्रवालमिवाऽच्छादयता, गात- वितानमकालवर्षाघनमेदुरितमिव मार्तडमंडलमसमयास्तंगतमिव. सर्ग- मेकमहाभूतमयमिव कुर्वता, तुमुलेन कोलाहलेन, कर्णरंध्राणीव दिग्गजानां विदारयता, दुर्वहेण भारेण भूमंडलमिव कंपयता, स्वेन वलेन सहाने सतु प्राक्रमत - तथा तथा तस्याः सा संमोहावस्था.- छिन्नमूलेव धूम्या - स्वयमेव क्षेतुमारभत । प्रबोध्यमानेव च तामस्याः निद्रायाः · केनचित् - प्रावर्तत सा शनैः शनैरनुभवितुमावश्यकता निःशब्दस्य संघट्टितस्य · तीव्रतर- वेगस्याभिषेणनस्य। - अनुभूय तु तां यावदाज्ञापयति हस्तिपकं स्वमुपसारयितुं वशां वशां सेनामुखेऽभिक्रममाणस्य धूसरिततया धूम्राह्वस्य दुर्लक्ष्य- प्रायस्यापि प्रस्फुरत्पताकासंसूच्यमानावस्थानस्य पितु: समीपे - तावदवलोकयामास पाष्णितःप्रभंजनवेगेनाऽऽगच्छता फेनिलघोटका- रूढानां धूलिधूसरितसर्वांगानां प्रिस्वेदक्लिन्नवेषाणामारक्तनयनानां शुष्यन्मुखानां, सैधवानां. केषांचित् संहति प्रसह्य कृत्वा मार्गमनी- किनीमध्यात् सिंधुराज। समुपसर्पन्ती, क्षणमात्रानन्तरं च राजछेत्र- धारिणी करिणी मार्गाक्रमणाद्विरमन्तीम् । 'किं न खलु सहसा समापतितं स्यात्' - इति चिंतया समुद्विग्ना समुपसारितधेनुका चाऽविंदत वात व्यग्रान्महाबलाधि- कृतात् समुपसृष्टात् यदिशाला खलु यवनसेना, शिविप्रदेशकटकात् प्रस्थिताऽद्य गगनमध्यादुखःभरेणेव , निपतिते दिनकरे- सिंधु-कन्या - 1 अंगणेयरुडुपः नदीप्रवाहं तर्तुमुद्यता, तीरनिरीक्षकः सैंधवस्तै: परिलक्षितेति । यावच्च सा सहसाऽनुमिमीते 'यदयमेव नूनं. मुख्यः प्रहारो यवनस्य, अत्रैव विजित्यास्मान् खलु स आचिकंसतेः समीपस्यां राजधानी, अतोऽव सः प्रतिरोद्धव्यः परिवर्त्य सर्वामपि सेना दक्षिणाभिमुखामिति', अनुमाय चवं प्रवर्तते तातं तथाऽनुरोधु- तावदशृणोत् तं निश्चयकर्कशया वाण्याऽऽज्ञापयन्तमश्वसादिबहुलां कश्मीरसेनां स्वसैन्यमध्यात् पृथग्भूय उदीच्यभिमुखं तत्क्षण एवं अजितुं, निरुध्य च यवनसेनां तोर एव नद्यास्तां विनाशयितुम् ।। अपश्यच्चावशेव तं पुनः प्रतिष्ठमानं पितृपतिदिगभिमुखम् । एवं निमेपमात्र विचिन्त्य, विनिश्चित्याऽऽत्मनवोदीच्यं यवनाक्रमणं गौणं, संप्रेष्य च कश्मीरसंन्यं तत्प्रतिरोधाय यथापूर्व प्रचलितोऽपि सिंधुराज आरभताचिरादेवानुभवितुं संदेहवृश्चिकदंशान मर्मदाहकान् - "शिविप्रदेशनिवेशात् प्रस्थितमुत्तरितुं नदीप्रवाहं प्रयतमानं यवनस्येदं सैन्यं न प्रधानमित्य कि नाम विनिगमकम् ? किं च - निरूढदुर्गपरिसरात प्रचलितं पौरस्त्ये नदीतीरे कृतपदं न गोणमित्यत्र ?..."वंचयित्वाऽस्मान् कृतकेनाभिनिर्याणन दाक्षिणात्ये- नापसायं चैवं नः राजधानीपरिसरात् निष्प्रतिरोधमेव कि विजिगीपते राजधानी यवनः ?..." अत्याहितम् ! तथा सति त्वह, रिपोरा- क्रमणव्यूह वास्तविक प्राक्कलयितुं लेशतोऽप्यसमथों विभक्तबल: स्वमूलस्थानादात्मनव निष्कासितः, सामरिकदृष्ट्या सर्वथा प्रतिकूले स्थाने यवनेनाऽऽक्रांतः, पंकमग्न- किंकर्तव्यविमूढ - वृकवृंदलुंच्यमान- गजराज इव सर्वेषां हास्यास्पदं भविष्यामि !.... किं नु खलु करि- प्यामि-इति। साधु खलूक्तं - 'संशयात्मा विनश्यति' - इति । विनिश्चेतुमपारयन् हि राजा दहरः, सहसा संक्षीणोत्साह- भरोऽचिरादेवापारयतीव तस्य मनोदौर्बल्यं साक्षात्कर्तुं पश्चिमां- सिंधु-कत्या बुनिधौ निमज्ज्यादर्शनं याते सहस्रकिरणे, मार्गपतितस्य दुर्भाग्य स्वमनुशोचन्त्याः सिंधुराज्यश्रियः निरंतराभिरथुधाराभिरापूरितस्यैव नैदाघेऽपि काले पयोबहुलस्य प्राक्कलयित्वेव भाविनी विपदं जल- पक्षिभिः परित्यक्तस्य निश्चलस्य विशालस्य, विदीर्णस्य भारतभुवः हृदयस्येव, कस्यचित् सरसो दक्षिणे तीरे रात्रिविधामाथं किल बलं स्वमादिदेश । यावच्च तदवलोकयति विमनस्को धेनुकारुढ एव दावानलवत् सर्वत्र प्रसृतामुदीचीनाक्रमणवार्ता निशम्य विस्मितं पाणिप्रहारभीत्या व्याकुलं कथंचिदपि संनिवेशमुपगच्छत् तावद्ददर्श तमोदुर्लक्ष्यविशेषादक्षिणक्षितिजात् सरभसमुपयान्तं तिमिरखंड- मिवैकं जंगमतामुपगतं वर्मितानां कौंतिकानामश्वसादिनां समूहम् शुधाव च तन्मुख्यात् सत्वरमुपसृतादवनतादन्यतमवचपातसंनिभा वार्ता यत् - व्यतीत एवाहनि, प्रकटयितुमिव तदुश्चेष्टित मुद- याचलमारोहति भगवति विवस्वति, संख्यातीता: नैस्त्रिशिका यवन- सैनिकास्तदश्वाश्च पारसीका, अतलस्पृश: सागरतलादुत्थितः सविपजलजंतुकलेवरैरिवासंख्यः कृष्णवर्णः प्लवैः सिंधुसागरात् नदी- मुखं प्रवेशितास्तस्याः पौरस्त्ये तीरेऽवतारिता, अविलंबमेव संनह्योदीच्यभिमुखं प्रस्थिताश्च देवलपर्तनपरिसरस्थितैश्चारैः संसूचिता इति । -- निशम्य वार्तामिमां समुपसृत्य पितुः समीप उदीच्यस्य यावनस्याऽऽक्रमणस्य विषयेऽभिप्रायं स्वं निवेदयितुं प्रवृत्तकल्पा राज- दारिकापि विस्मयविमूढेवाभवत्, अभजच्च निष्क्रियतामात्म- घातिकामसहमानाऽपि - मौनमेव । का पुनः कथा दुर्बलचित्तस्य कृतांतदृष्टस्य तत्पितुः? स तु - भ्रांतचित्त इव गलितगात्र इव विलुप्तधैर्य इव अक्षमः किंचिदपि विनिश्चेतुं - कूर्म इवावगूरण- भीतः, जरन्मृग इवाऽखेटकपरिवेष्ट्यमानः, अतिक्या विशीर्णपक्षतिः कपोत इव व्याधत्रस्तः, संहत्य सर्वाण्यंगानि, असहाय इव यवन- प्रहारमेवानपेक्षितदिशं प्रतीक्षितुमारभत । सिधु-कन्या - - न केवल: सिंधुराजः । अपि तु सकला एव तस्य योद्धारः । न केवला योद्धारः । अपि तु संकटानभिज्ञा गजा अपि, तुरगा अपि सर्व - एव कृतांतमुखगर्तप्रविष्टमिवात्मानं - निरुच्छासं, भयेन ब्रह्मांडव्यापिना निप्पीडितसारमिवाऽऽत्मानमसारं भावयन्तोऽगतिकाः संत्रासेन सर्वकपेण व्याकुलतां परामनुभवितुमारभन्त । अयं स तेषां संत्रासः, प्रहरमात्रजीर्णायां तस्यां तमिस्रायां, राहसा प्रवृत्तंर्गगनादिवाध:पतितानां भूतलादिवोत्थितानां दिक्चत्र- वालादिव समागतानां व्यूढकंकटानां कौंतिकानां यवनानामश्वसादिनां तडिच्चपलराक्रमणः, स्वल्पकालिकरपि तीव्रसंवेगः, कदाचिदुदीच्यः, कदाचिद्दाक्षिणात्यः, क्षुद्ररपि व्याकुलत्वान्मनसो भ्रांतत्वात् संविदो विषण्णत्वाच्चेतसोऽरंतुदैः, प्रतिकलं वर्धमानः, कोटोमेतावती समपद्यत यद्वराकास्ते शुप्यन्मुखाः ज्वलनयनाः स्विन्नगावाः, स्कंधावारकदेशे शृखलितानां तंद्रितानामनुभूय सहसा कुंतक्षतीः मर्मभेदिनीरुत्तेजितानां समुत्खायाऽलानानि सर्वृहितं स्वरं धावमानानां व्याकुलानां स्वगजानामेव तीक्ष्णः रदनविदीर्यमाणाः पादमद्यमानाः शुंडादंडेरुत्क्षिप्यमाणा, असंख्यानां स्यंदनानां युगंधरेभ्यो विमोच्य कटके तत्र तत्र विश्रामार्थ संनिधापितानां प्राक्कलयित्वेव भाविनी विपदमादित एवाशांतानामनुभूयाकस्मादद्धि- शिखहतीः क्षुभितानां श्रुटित्वा बंधनानि सहेपमुत्पुच्छमाकुलाकुलं प्रधावतां रथ्यानां पादस्ताड्यमाना:, स्थाने स्थानेऽभ्युच्चितानां कृतांतहकोपरिवाकस्मादापतितरग्निमुखरजिह्मगैः दीपितानां सधूम- मुद्यत्स्फुलिंगं प्रज्वलतां घासोच्चयानांप्रकाशे क्षणदृप्टैः लोहकवचा- वृतसागरसिततुगाधिरूढः निःशब्दयंवनैः सह योद्धु प्रयतमाना अपि क्षणमात्रानन्तरं दिगन्तव्यापिनि सूचिभेद्य तमसि विलीनेषु तेषु शून्य एव शरसंघानं कुंतक्षेपमसिप्रहारं कुर्वन्तमात्मानमुपलभ्य कुंठिताः, निवेशे तत्र तत्र भूमो लुठतः करुणकरुणं दतः लोहितलोहितदेहान् क्षतविक्षतान सहयोधान समवलोक्य निराशा, विधातारमक्षणदायाः क्षणदायास्तस्या अवसानमेव केवलं याचितुमारभन्त । सिधु-सन्या १५७ अशक्नुवन्निव तेषां वराकाणां याचनां तां दीनामव- धोरयितुमधिकतर, विधाता तमस्विनी तां तमी कथमपि निरास्यत् । प्रावेशयच्च पूर्वदिगंगणे भगवन्तं विवस्वन्तमनिच्छन्तमपि साक्षात्कर्तु सिंधुराजमारणं विधिविधानमुल्लंघयितुमसमर्थ, सांद्रेण रजःपटलेनान्त- रिक्षव्यापकेनान्तर्धायाऽऽत्मानं वियन्मार्गमाक्रमितुं प्रवृत्तम् । १५९ सिधु-कम्मी अष्टमः परिच्छेदः 3 दुर्दमनीया खलु प्राणिना जिजीविषा ।, - अधकारेण सह हि शनै शनरक्षयत् संधवाना सैनिकाना सत्रास । प्रभया सह च प्रभाकरस्य प्रावर्द्धत प्रत्यय । स्मार स्मार नेशो यातना. सक्रुद्धा, आरक्तनयना , क्षणिकमपि विश्रांतिसुखमव- धीरयन्तस्ते समारुह्य पोटकान् प्रजविनो मार्गयितुमभ्यासादनकुशलान् यवनसैनिकान दिक्षु सर्वासु प्रतस्थिरे । येतिरेच प्राणान पणीकृत्य प्रहरपर्यन्तम् । न पुनर्लेभिरे साफल्य स्वल्पमपि । प्रत्याववृतिरे च स्व कटक निराशा, क्षणमेक विभावयन्तो नैशी समुद्भातचित्तमात्रनिर्मिता , क्षणमन्य च निश्चिन्वन्तस्तासा याथार्थ्य समवलोक्य काटकभूमी सर्वत्र विकीर्णान् क्षतविक्षतान् कुणपान्, सर्वत्राऽऽकुलाकुल भ्रमत लोहितक्लिजप्रो हपमाणान तुरगमान्, चिक्षालयिषया नु क्षताना कासाराभस्यवतीर्णान् मुद्रितनेत्रान् गजान्, भस्मावशेषाश्च पासोच्च्यान् अशक्नुवन्त समाकलयितु परिपथि- मनोगत विस्मयमानमानसा । यातना अत्यल्पमिदमुक्तम् । नानुभववृद्ध सिंघुराज न तस्य प्रयया महाबलाधिकृत न ज्यायान् धीसचिवो वा का कथा सिंधु-कन्या १५९, किशोरस्य जयसिंहस्य - राजदारिकव केवला शशाक प्रारंभत एव समाकलयितुं दुह दहृद्गतम् । सा हि - निशामुखे सहसा प्रवृत्तद्विषत आक्रमणश्च किताऽपि, पर्यवस्थाप्यात्मानं तेषां प्रतिरोधाय बद्धपरिकराऽपि, समारुह्य कर्क विद्युल्लतेव सर्वत्र भ्रमंत्यपि, नैराश्यगर्ते निपततः स्वसैनिकान् समुद्धरन्त्यपि - स्मरन्ती सततं वजणानुभूतचराणि रिपोस्तानि मरुदेशचेष्टितानि क्षणमेकमपि न समदिग्ध यत् 'द्विपत एतानि समाक्रमणानि संधवमनोबलचिक्षिणिषामात्रप्रेरितानि, तस्य मुख्यः प्रहारः - स तु - श्व एव भविष्यति' - इति । अत एव - सा निशाचरानिव निशया सहादर्शनमात्यंतिकं गतान्, मार्गयित्वाऽप्यसकृत् पुनरलब्धान् यवनसैनिकान् समाकर्ण्य न लेशतोऽपि व्यस्मयत । अपि तु - श्रांताऽपि, तिरस्कृत्य विश्रांतिसुखं, प्रतिक्षणं प्रत्यासीदतः परिपंथिप्रहारस्य प्रखरतमप्रभावस्य प्रतिरोधाय पृतनां स्वां संनद्धां कर्तु तेनैवाभिनिवेशेन प्राक्रमत । अलभत तु साफल्यमांशिकमेव । अतीतायां रजन्यां निमेषमात्रमपि निमिषितुं नयनेऽसमर्थः, श्रमातुरो, दिवंगतस्य पुत्रकल्पस्य वजबाहोरेव वारं वारं स्मरन्, खिन्नस्तस्याः पिता राजा दहरः, सर्वथाऽननुभूतसदृशेन नैशेन द्विपद आक्रमणेन विस्मितो महाबलाधिकृतो वाऽवसानमेव कूटाक्रमणानां महत् सौभाग्यं मन्यमानः नैव मनस्यकरोत् तस्याः साग्रहमनुरोधम् । किं पुनः क्षतविक्षताः छिन्नखड्गा हतयाःक्लांता विथमितुं प्रवृत्ताः सैनिकाः? ते हि तस्यास्तामवधारणां दुराशंका- मात्रोद्भूताममन्यन्त । असकृन्नुता एव च तया क्षणमात्रमपि क्षांतिमपरित्यजन्त्या युवराजेन जयसिंहेन सिंहशावकेनेव कैशोऽपि रिपुमर्दनेन धोसचिवेन च श्रांतेनापि सावधानेन विमनस्कतयव रणसंनहने प्रावतंत। - इयं सा तेषां विमनस्कता क्षणमात्र एव व्यलीयतात्यंतं- समवलोकयितुमिव भाविनं तेषां संग्राममभूतपूर्वसदृशं गगनस्य सिधु-कन्या मध्यमध्यारोहति, जागरयितुमिव तान् तंद्राया आत्मघातिन्याः करैः स्वैः निशितशरखरैः ललाटंतपति भगवति मरीचिमालिनि, सूचयितु- मिव तान् द्विषत्संपातं तडित्तीन. प्रतीपं वहति सवेगं सोमणि मातरिश्वनि - समवलोक्य सहसा धूलिधूसरिते वियदंगणेऽन्तकदिशोऽ- नवरतं समापतत, उपर्येव स्कंधावारस्यकत्रभवतः, विस्तार्य पक्षान् कृतांतकटाक्षकृष्णान् कदाचिन्मंदं संडीयमानान् कदाचित् सवेगम- वडीयमानान् क्षणमात्रानन्तरमेव पुनरुड्डीयमानान् नैकदाऽपि भूमाव- वतरतो गृध्रान्, - आघ्राय सहसा सर्वतः प्रसरन्तमज्ञातप्रभवमुद- ग्रमभिभवन्तमिवोद्वमयन्तमिव वसामांसासृक्पूतिगंध, - निरीक्ष्य च सहसा सुदूरे दक्षिणक्षितिजेऽकस्मादुदितां पूर्वापरदिगंतप्रसृतां सांद्रां धूलिघटाम् । उदैच्च तत्स्थानेऽनिवर्णनीया काऽपि मनोदशा - समाकर्ण्य समुतुंगमहील्हाधिरूढेभ्यश्चतुर्दिगवलोकनव्यामृतेभ्यः सैनिकेभ्य आवेशतीनां पोपणां 'आगतः......"आगत' इति । 'आगतः........... आगतः' आरभन्त एकस्वरमाक्रोष्टुं ते सैनिकाः स्वं स्वं गजं तुरगं रथमभियियासवः, स्वं स्वं खड्गं शरासनं कुंतं परश्वधं तोमरं मुद्गरं परिघं परिजिघृक्षवः, स्वं स्वं कवचं परिधित्सव नाकुलाकुलाः। "आगत" "आगतः' आरभन्त एकस्वरं बृंहितुं तेपां वारणाः समुत्तेजिताः । 'आगतः "आगतः आरभन्त एकस्वरं हषितुं तेषां तुरंगमाचंचलाः। 'आगतः..."आगतः' आरभन्त एकस्वरं विरावितुं परि- डीयमाना गृध्रा गृघ्नवः । 'भागतः..."मागतः आरभन्त एकस्वरं जल्पितुं दश दिशः क्षुभिताः । सिंधु-कन्या ।

प्रबलतमा नूनं प्राणिनां जिजीविपा। ये हि योद्धारोऽसकृत् प्रेरिता एव राजदारिकया राजकुमारेण धीसचिवेन वा समरसनहने स्वात्मानं प्रायुंजत कथंचित्ते रामवलोक्य सुदूरे दक्षिणक्षितिजे दृग्गोचरीभवन्ती प्रतिक्षणं च सांद्रतरीभवन्ती पंक्तिमसंख्यानां यमदूतानामिव यवनसैनिकानां, शक्त्याऽतिमानुष्या कयाचिच्चालिता इव विद्युद्वेगेन प्रतीकारकर्मणि प्रावर्तन्त । प्रवृत्तानेव तु तानभ्याजघान दुष्प्रसहेन वेगेन – 'अल्लाहो अकबर' इति रणगर्जनयाऽतुलया दश दिशो विदारयन्ती, युगपन्नि- पतत्तुरगखुराघातैर्भूतलमिवाऽऽपातालं खनन्ती, योजनदीर्घा परिलक्ष्यमाणान्ता, समुत्पतद्रजोघटाऽऽवृता, युगान्तवातक्षुभित- महासागरोमिभीपणा, समुद्यतदिनकरकरद्योतितकुंतदुर्धर्षासांद्रा सेना- अतिजवनपारसीका रूढानां लोहकवचाऽऽवृतसर्वांगाणां लौहशिरस्त्र- बातमस्तकानां दुर्लक्ष्यविशेषाणां तेजोभंगायाऽऽर्यावर्तस्याहंयुतयाऽ नार्याणां धृतानामसंख्यानां विग्रहाणामिवोदग्राणामवमर्दनाय भारतीयानां प्रकटीभूतानां तत्पातकानामिव युगसंचितानां दुःसहा- नामेकयंत्रचालितानामिवैकजीवाधिष्ठितानामिवैकमंत्रस्फोरितानामिव युगपत् समुपसरता यवनानामसंख्यानाम् । चितयन्त्यामेव च संनद्धायां सशस्त्रायां सन्यैकदेशावस्थितां करिणी जनन्या सहारुह्य निनिमेषं निरुच्छ्वासमवलोकयंत्यां तस्यां सिंधुकन्यायां - 'एतत् तत् म्लेच्छवलं, यद्वदनमिव राहोः, भारतभूमंडलं. जिगरिपति, पुण्यभूमौ . चाऽऽसर्गप्रारंभात् प्रचलितमार्यधर्म विनाश्य स्वं धर्म स्थापयितुमिच्छति-1":" अहो. संश्लिष्टताऽस्याः सेनायाः ! प्रलयोमिरिव क्षुभितस्य महासागरस्य सूच्यग्रमात्रमप्यनिभिन्ना पुरः सरतीयम् ! अहो नियमवद्धताऽस्याः ! दैत्येन केनचिदेकमात्रेण प्रेर्यमाणेवेयं युगपदेवं समुपसरति ! न खलु सेनेयम् । इयं तु दधुमार्यसंस्कृत्युपवनं निष्प्रतिबंधमने सरन्ती नारकदहनहेतिः! अहो भिन्नताऽस्याः !'न गजयोधिनोऽस्यां, न. १६२. सिंधु-कन्मा: - .... ? ... .... रथिनः नापि पदातिनः। 'अश्वसादिन एव 'केवलाः। असंख्या अश्वसादिनः । दिगन्तप्रसृताः पंक्तिबद्धो अश्वसादिनः । न गजढक्काः । न पटहा: । न तूंर्या: । न दुंदुभा अस्याम् । एक एव रंणघोषः - 'अल्लाहो अकवर ! अल्लाहो अकबर' इति । नोच्चावचभेदः । न हि दृश्यते दिगन्तव्यापिन्यामस्या- मेकमपि छत्रम् ! ...तत् किमनुकामीनः सः मुहम्मदः.. कासीमसुतः" 'सांयुगीनः' .... 'जित्वरः' नास्ति एतया सह अशक्यमेतत् ! स हि - आसिंधुभूस्पर्शात् प्रतिक्षणं स्वसेनयासह वर्तमानोऽस्मिन् अवसरे निधाय सेनायाः संचालनधुरं कस्मिश्चित् सेनापतो स्वयं कस्मिंश्चित् सर्वविधंसुविधोपपन्न स्थाने विश्राम्यदित्यशक्यमेव ! तत् कि प्रवंचनार्थमस्माकं सेनायाः भ्रातृभावसंवर्द्धनार्थं वा स्वसेनाया अन्यतमसैनिक इव निविशेष एवाभियाति सः? एवमेतत् । एवमेतत् ! ... (सविषाद) परंतु - यद्येवमेतत् - कथं तहि तांतस्तं प्रत्यभिज्ञातुं प्रभवेत् ! महती खल्वमिलापा तातस्य - तमेवाभ्यमित्रीणं साधिक्षेपमाह्वातुं शाययितुं च चिरनिद्रा रणांगणे खड्गप्रहारेणकेनैव । दृढं हि स विश्वसिति - लंभित एव तस्मिन् आलभं दुर्दान्ताऽपि तस्य सेना क्षणमात्र एव प्रद्रावप्रवृत्ताऽनायासेनैव निषूदनीया स्यादिति ।.. अप्रत्यभिज्ञाय तु तं कृमिव लक्ष्यीकुर्यात् तातः प्रत्याक्रमणस्य ? कमिव...' इति – तडिद्वेगेन पुरःप्रधावमानां चीत्कारकर्कशां सिंधुनरेशधेनुकामनुसरभिरुत्थाप्योत्याप्य शुंडादंडान् सभल्लान् कर्णपीडं वृंहद्भिः पुच्छदंडान्, चालयभिरनपेक्ष्यवाऽऽधोरणानां प्रोत्साहन रिपुकंदनाय प्रवृत्तरसंख्यारणयुगपत् प्रत्याक्रांता च क्षणमेकं स्खलिता विमूढा संत्रस्ता - महोमिरिव दृपद्वता रोधसा प्रतिरुद्धा - तेनैव वेगेन परिवृत्य न्यवर्तत । निवर्तमाना च सरभसं पुरःसरन्तीभिः स्वतुरगयक्तिमिरेव निविडाभिः संघट्टिता व्याकुलता परां समपद्यत । अक्षोभ्यतयां दुष्प्रंतिरोध्यतया च दिगन्त विश्रुतां तामेवं व्याकुलितों प्रतिरुद्धां च वीक्ष्य संधवसेनाऽननुभूतपूर्वसदृशेनोत्साहेन, शौर्य शतगुणितमिव साहसं सहस्रगुणितमिव कुर्वता, सहसापूरिता, सिंघु-कन्या -- सिंहनादं कर्णविदारकं कुर्वाणा, तां यवनसेनां, समाकण्यं तीनेण स्वरेण केनचित् कुतश्चित् प्रदत्तां कांचिदाज्ञां व्यावर्त्य मुखं पलायमानां, आ योजनमन्वसरत् । तिरोहितायां च तस्यां दिगन्तप्रसृतेषु सांद्रेष रजःपटलेषु, परावर्तितपरचक्रमिव कृतकृत्यमिव विजयिनमिवात्मानं मन्यमाना, जयजयकारेण तुमुलेन हरिदश्वाश्वानपि विचलितान् कुर्वाणा, स्कंधावारं स्वं न्यवतंत । आरभत च विजयोत्सवम् । सुलभभावनोद्रेका हि वयं भारतीयाः । निरीक्ष्य म्लेच्छसेनाया विद्रवं नितांतमनपेक्षितं हृष्टाऽपि, विलोक्य तां दिगन्तप्रनप्टां सोत्साहाऽपि क्षणमप्यक्षममाणा विश्वसितुं तामपुनरावर्तनाय प्रपलायितां परित्यज्य च विजिगीषामात्मसंरक्षण- व्यापृतां राजदारिका, रुधिरस्नातेन देदीप्यमानमुखारविंदेन राजकुमारेण पितृव्यसमेन धीसचिवेन च सह विहसन्नयनेन, भृशं प्रायतत, प्रतिक्षणं स्मरन्ती सिंधुसागरतीरे यवनसेनयाऽभिनीतचरस्य पलायननाटकस्य, सावेगमनुरोधुं न केवलं सिंधुनरेशमाहोपुरुपिका- मुखरं तन्महाबलाधिकृतं वा विजयोन्मत्तमपि तु समस्तमेव सैंधवं सैन्यं नापव्येतुममूल्यं समयं विजयोल्लासे - अपि त्वनुधावितुं तत्क्षण एव प्रपलायितां यवनसेनां, विनाशयितुं च तामेवं व्याकुलिताम- विलंबमेव । प्रयतमानव चापश्यत्-न केवले दक्षिणेऽपि तूदीच्येऽपि न केवल उदीच्येऽपि तु पश्चिमेऽपि क्षितिजे - पूर्ववदेव सहसा दृग्गोचरीभवन्ती, प्रतिक्षणं च सांद्रतरीभवन्ती, लेशतोऽप्यन्यूनीभूताऽऽवेशां, प्रत्युत प्रतिहिंसाभावनोदग्रतरां पंक्तिमसंख्यानां कृतांतमुखादिव प्रत्यागताना समरांगणादिव सुप्तोत्थितानां यवनसैनिकानाम् । अपश्यंश्च सर्वे सैनिकाः सैंधवाः। न तु पूर्ववत् प्रावर्तन्त विद्युवेगेन स्वे स्वे कर्मणि । अपश्यन्नेव व्यात्तमुखं निनिमेषं निःस्पंदं विस्मयमूढा अश्रद्दधानाः स्वदृष्टीः । सिंधु-कन्या यदि हि राजकुमारः, सहसा साक्षात्कृत्य प्राणसंकटं विनिश्चितमेवमुच्छुकमुसं विस्फारितनयनमवलोकन एव यापिते काले, पर्यवस्थाप्याऽत्मानं निमेषमात्र, आविष्ट इव साक्षाद्रणचंड्या, समारुह्याऽजानेयं समीपतमवर्तिनं, समुत्क्षिप्य कुंतं स्वं, प्रतिरुरु- त्याने नाधाविष्यत्तहिं तत् समस्तमेव सैंधवं वलं, प्रतिक्षणं तडिवेगेन समुपसर्पन्त्या दुर्भद्यया यवनसेनयाऽसमन्तादवरलं, पृष्ठतस्तडागेनापारेण निरुद्धं, विस्मयस्तिमितमेव, यथावस्थितमेव, निष्प्रतिरोधमेव, दलितं, मदितं, पिष्टं, मांसकोकसवसासृक्सर एवाभविष्यभीषणम् । अवलोक्य तु युवराज, सिंहशावकमिव दृष्ट्वा गजयूथं संयुद्धमेकलमेवाभिक्रममाणं, तन्मोहमुक्तमिव प्रत्यागतप्राणमिव प्रस्फुटितचैतन्यमिव निमेषमात्र एव समरायोद्यतमद्धवृत्ताकारेण समुपसर्पत्या द्विपत्सेनायाः प्रतिचिकीर्पया तथैव प्रत्यधावत् । प्रावर्तत च पणीकृत्य प्राणान् तां भेत्तुं, भित्त्वा वलयितुं, चलयित्वा दलयितुमश्ववारकान् यवनान् । उद्देशेनानेन च प्रायतत प्रयोक्तुं स्वं द्विरदबलम् । न त्वलभत साफल्यम्। मवनसेना हि, प्रारंभिकेनानुभवेन विदग्धतरा, स्वयमेव प्रावर्तत विद्युवेगेन वलयितुं स्वस्तुरगैः वलयित्वा च खंडयितुं तीव: मर्मभेदक: कुंतक्षेपराक्रमणोद्यतान सैंधवान् गजान् - एककशः । . अलभत च साफल्यं कल्पनातीतम्। चपलतरा हि यवनानां प्रशिक्षिताः पारसीका: ~प्रयत- मानानामेवाकुलाकुलं बहिनिर्गन्तुं तेपां गजानां - पाठीना इव सिंधु-कल्या जलपतितान् मांसपिंडान् - तान् परिव: । कृतांतकटाक्षा इव कुंतक्षेपाश्च तान् विभिदुः। भिद्यमानाश्च सैधवा द्विरदा, वेदनया तीव्रया व्याकुलाः, सहसा परावृत्ताः, क्रोधोन्मत्तं चीत्कुर्वन्तः, पलायमानाः, स्वानुगामिनः रथान अजस्रान बभञ्जः । रथिकान ममर्दुः । तुरगान भाययामासुः । पदातिनश्च पिपिपुः । एवं स्वैरेव गजरकस्मादाक्रांताः सैंधवाः स्यंदनारोहा अश्ववाराः पादातिकाश्च व्याकुला, विस्मृत्य द्विपत्प्रतीकारमात्म- रक्षाय केवलाय व्याकुला, दिग्भ्रांता इव किंकर्तव्यविमूढा इव, कृष्णपिपीलिका इव समुत्ताप्यमानपिठरस्था, - इतस्ततो दधातुः । बभूवुश्च लक्ष्यमनायासमेव निविरोधमन्तःप्रविशतामतिचपले: प्रासंस्तडिन्निभैः खड्गैः कृतांतकटाक्षानिव वर्षतां, निःशब्दानां, यमदूतानामिव सहस्रशः धृत्वा पार्थिवान् देहान् समवतीर्णानां यवनसैनिकानाम् । द्वपणैरसंख्यरश्ववाररावृतामपि, निरंतरं क्षिप्यमाणैः प्रासः क्षतविक्षतकलेवरामपि किंचिदप्यविचलितामुक्षिप्योत्क्षिप्य कुंत निशिताग्रं शुंडाग्रघृतं प्रतिक्षणं प्रत्याक्रममाणां वशामारूढा, समुत्पत- द्रुधिरधारार्द्रतनुत्रा, प्रक्षिप्तयवनकुंतच्यावितशिरस्त्रा, विलुलिता- लकपाशा, दुर्गेवाऽसुराणां कुंतप्रक्षेपमर्मभेदकैविद्युच्चपलैर्यवनानां संहारे व्यापृता, राजदारिका च, लंभितेवावधानं नैराश्येन पश्चिमाचले हठाद्विनिपात्याऽऽत्मानं विचूर्णयितुमिव प्रवृत्तेन सहस्रकिरणेन म्लानः स्वकरैः संस्पृश्य, ददर्श, एवं प्रयाते प्रतिक्षणभयंकरतरे प्रहरे, दिगन्तप्रसृते तस्मिन् समरांगणे समुत्पतत्पांसुपटलधूसरितेऽपि प्रसरत्सायंसंध्यारागोद्भासितविशेषे समुच्चरत्करुणकंदननिनादिते सर्वत्र निश्चेष्टं पतितान् संख्यातीतान् स्वपदिकान्, वेदनातिशयन लोठमानान् स्वरथिकान्, निगूह्याऽऽत्मानं विकीर्णेषु भग्नरथावशेषेषु क्षेप्तुं यदृच्छालब्धान् प्रासान् अश्ववारेषु रिपोः प्रयतमानान् सिंघु-कन्या विनष्टशरासनान् स्वधानुष्कान्, तत्र तत्र निपतितान् क्षतजक्लिन्नान्. महाप्रमाणानपूपानिव घृतवहुलान् कन्याददेवभोगाय नियत्यां यत्किचित्कारिण्या कल्पितान् द्विरदकलेवरान् । ददर्श सहसाऽसंख्यान् लेशतोऽप्यक्षतशरीरान् रणांगणे सद्य:प्रविष्टानिव सोत्साहान्, यवनान् अश्ववारान्, समादिष्टान् तीव्रण स्वरेण केनचित्, दुःसहवेगं समुपसर्पतः पितरं पूर्ववदेव वशारूढं पूर्ववदेव निर्भयं पूर्ववदेव युद्धयमानं परंतु गल्लक्षतप्रवहत्- क्षतजक्लिन्नकवचं परिभ्रष्टशीर्पण्यं विनष्टपताके च्युतछत्रं, परिवेष्टय- तश्चैकाकिनं तं निष्प्रतिरोधम् । ददर्श सहसा पंचशताधिकान् वर्मितान् उदग्रान् तुरगारोहान् समुद्धृतकुंतान्, निदिष्टान् तेनैव तीव्रण स्वरेण, सपदि प्रचलितान्, रणांगणप्रांतेऽवस्थितां धेनुकारूढां निनिमेपं दष्टाधरं प्रकंपितगात्रमव- लोकमानां पतिप्राणसंकटं प्रतिक्षणं घनतरीभवत् व्याकुला प्रभ्रष्ट- शिरोंऽशुको प्रस्वेदधाराऽमृष्टसौभाग्यतिलकां पुत्तलिकापाय- परिचारिकापरिवृतां मातरं समुद्दिश्य । ददर्श सहसाऽवलोक्य समुपसर्पतस्तान् यमदूतान् शुद्धान्त- परिचारिकागणात् समुत्थितमार्तमाकोशमाकर्ण्य प्रक्षुब्धं, सिंहमिव सिंहीपरिरक्षणामोद्यतं गजन्तं, समुद्यतभल्ल, विभिद्यः निबिडमपि द्विषत्तुरगवलयं साहाय्यार्थ प्रचलितं, अकस्मादापतितैरग्निमुखैः रिपुमागंणेः प्रज्वालितं स्वं बुथमनुभूय चकितायाः क्षणमात्र विमूढाया अविलंबमेव कासारं पार्श्ववतिनं समुंद्दिश्य प्रधावितायाः प्रविश्याऽमसि शमयित्वाऽऽस्तरणं बहिरागतायाः सक्ष्वेडं सशुंडोत्क्षेपं तमेव स्वामिन्य- घिष्ठितं रणांगणभागमुद्दिश्य प्रचलितायाः, सहसा निपतिताभ्यां केनापि कृतहस्तेन यवनेन व्यापारिताभ्यां विपाक्ताभ्यां मार्गणाभ्यामीपिकयोविद्धाया, अंधाया, वेदनाविह्वलाया:, करुणकरुणं चीत्कुर्वत्या, अवलोकयितुं तत्पीडामक्षमेणेव, सहसा पुरः समुपसृतेन, महाप्रमाणकृष्णतुरगाधिरूढेन बलिप्ठेनोर्जस्वलेनोरसिलेनाऽऽजानु- सिंधु-कन्या वाहुना केनवित् लोहकवचाऽऽवृतसर्वागतया नातिलक्ष्यविशेपेणाप्य- प्रत्याख्येयप्रभावेणाभ्यमित्रीणेनोरसि निखातेन दीर्घदीर्पण कुंतेन वेदनानकदंष्ट्राया विमोचिताया, भूमौ पतन्त्याः स्ववशाया उत्पत्याश्व- मेकं झटित्यधिरोहन्तं, पुरः प्रचलन्तं, दृष्ट्वा स्वामिनं वशाया उत्पतन्तं विभिद्य द्विपद्वलयं प्रसह्याग्ने सरन्तं तमनुयान्तं पृष्ठतः प्रक्षिप्तेन भल्लेन केनचिदपसारितशिरस्त्रं पावतः प्रहतेन करवालेन केनचिद्विदारितमस्तकं पुष्पमिव वृताल्लूनमश्वात् सहसा निपतन्तं महाबलाधिकृतं वीरभद्रं वालसखमभिन्नहृदयमप्यपरिलक्षयन्तं, निरीक्ष्य तमेवमप्रतिहतगति क्षणमात्रं विस्मयस्तब्धेनेव कौतुकनिश्चलेने- वापरस्मिन्नेव क्षणे पुरःसारिततुरगेण तेनैवाश्ववारेण - सैनिक- परिवृतेनाप्येकाकिनेव भासमानेन - मध्यमार्गमेव प्रतिरुरुत्स्यमानं. अप्रतिरुद्धगति - प्रत्युत समुक्षिप्य कौक्षेयकं वामेन हस्तेन तमेव प्रहर्तुं प्रवर्तमानं, समवलोक्येव कामपि स्वतुरगखलोनावलग्नां चकितं, अपराद्धप्रहारं, निमेपान्तर एवाश्वसादिना तेन लेशतोऽ- प्यविचलितेन समुत्क्षिप्य कृतांतकटाक्षकुटिलं खड्गं ग्रीवायामाहतं, विमस्तकं, विमस्तकमेव क्षणमात्र तुरगे यथापूर्व प्रधावमानेऽ- वस्थितं, समुद्वेल्लद्रुधिरप्रवाहं धृतकौक्षेयकमेव च तस्मात् रणभूमी निपतन्तं पितरम् ! ददर्श साक्षात्कृत्य सिंधुराजनिहननं सहसा स्तंभित इव निरुद्धनिःश्वास इव निर्वाते भरतभूदुर्भाग्येनेव मूर्तिमताऽवतमसाऽक्रांते समरांगणे तस्मिन् सहसा निनादितां वृद्धस्य धीसचिवस्य ब्रह्मदत्तस्य प्रत्युत्पन्नमतेराज्ञामावेगकर्कशां निशम्य झटिति परिवृत्य मुखं वेगेन तीव्रण पलायमानां समरांगणात् संतमसाच्छन्नतया दुर्लक्ष्यविशेषाद्- वसामांसासृपिच्छलात् स्वां वशाम् । ददर्श"पृष्ठत एव वेगेनानुसरतः, निविडतया तमसोई लक्ष्यप्रायान्, निःशब्दान् – अवयवानिव चरावरव्यापिनस्तमिस्रस्य सिंधु-कन्या सहसा सचेप्टान -पुंजानिव शोकस्याऽचिसयाऽनुधावतः कतिपयान् गजान् । ददर्श च "व्यावृत्तमुखा प्रतिक्षणं दूरीभवत्, यवनजयघोप- निनादितं, सद्य:प्रज्वालितासंख्ययवनालातोद्भासितं, विकटं नितिपोः प्रेताधिपस्य रंगस्थलमिव भीषणं, रणस्थल - रक्षणाय मातृभूमेः हुतप्राणस्य वृद्धस्य स्वजनकस्य वसामांसासृक्कर्दमे निमग्नेन मस्तकेन, नृत्यत्सपलसैनिकपादपीड्यमानेन कबंधेन च भूषितम् । सिधु-कन्या नवमः परिच्छेदः दिगन्तव्यापिना नभःस्पृशा तमसाऽऽवृतेन, भूगर्भमध्य- यायिनैव दुर्लक्ष्यविशेषेण, मार्गेण सवेगमुह्यमाना, बधिरेवांधेव, नावेद सा चिरायाऽऽत्मानं पुत्तलिकावत् निश्चलमुपविष्ट, निनिमेपया दृशा शून्यशून्यया पुर अवलोकयन्तं, निशीथसमीरोद्भूयमानविमुक्तकेशपाशं हास्तिकं वा निःशब्दमनुगच्छत् । तमेव भीषणं घटनाक्रम पुनः पुनः घटमानमिव प्रतिक्षण- मपश्यत् । . विलुप्तचेतनेवान्वभवन तु पितृप्रमापणशोकम् । अविदितयापितयामैव चाद्राक्षीद, लंभितेव संज्ञाभासं दृक्पथेऽवतीर्णेन प्रतिक्षणं समीपतरमिवोपसर्पता सधूमं ज्वलता क्षीणेन केनचिदलातेन, स्वात्मानं, कैशोर्ये कदाचिन्मृगयाप्रसंगेन तातेन सह दृष्टचरं, अंधकाराऽवृततया दावानलदग्यापावृतखंडितप्राकारतया जर्जरितमहाद्वारतया नीरवतया निर्जनतयाऽश्रीकतया मृतमिव प्रेतदेशीयमिव पैशाचमिव भासमानं, स्थलदुर्ग रौरवाभिघं वैगेनो- पसरन्तं, तन्महाद्वारे निष्कपाटे प्रेतमुख इव सदा व्यात्तेऽवतरन्तं वशायाः, प्रविशन्तमाभ्यन्तरे प्रांगणे विरूढशुष्कतृणाच्छन्नविस्तरे सिंघु-कन्या न्यतुरगत्याननिबद्धोभयपावं, अनुपविशन्त स्वीकृत्य पुरतरतः प्रांतस्य धोऽचिवत्व निःशब्दानभ्यर्थना प्रांगदेशासात्सुन्नत- शिखरस्यौनमय्य शिरांति निःशब्दमवलोक्यत इव रिपुचेष्टितानि प्रर तशाखामरस्य प्रसार्य भुजानभपमिव ददतः शरणागतेन्यो, मंदनिगोयसमीरप्रकंप्यमानपर्णसंभारस्व सहशोकेन प्रचलदोष्ठपुटल्यैव प्राचीनस्याश्वत्यस्य महास्कंधस्येव मूले - सहानुजेनापनीततनुत्रेण निप्पभेणारक्तनयनेन, कनीयस्या भगिन्या 'सततरुदितोच्छू- ननयनया', मात्रा विगलितकेशपाशया प्रमृष्टत्तोमान्यतिलकया प्रघ्रप्टशिरों शुकया विनफ्टवेयकया वेदनातिशयवशादवज्ञपात्मनः परिचारिकया कयाचिहत्ते धृत्वा नीयमानया, नीरवंश्चाधोमुखैः रक्तरंजितकवचरनावृतमस्तकरुच्चावरधिकारिभिश्चावशिष्टः। समुपविश्य च निःशब्दं प्रतीक्षमाणं किमपि । अपश्यच्च, व्यतीत एवं प्रहरार्द्ध, एकमवसादं यवनवेपं वस्त्रावगुंठितं किमपि निधिमिव महाहं वामेन हस्तेनोद्वहन्तं, महाद्वारेणान्तः प्रविशन्तं, समवलोक्य भर्तृ परिवारं भूतलोपविष्ट मसंघ्रममश्वादवरोहन्तं, सह तेन वस्तुना धोसचिव - अपेक्षमाणमिव तदागमनं प्रतिक्षणं दृष्ट्वा तमागतं झटिति-समुत्थितं - प्रत्युपसरन्तं, ददतं महताऽदरेण तस्मै तद्वस्तु, घोसचिवं गृहीत्वा तव ससंमानं प्रत्यागच्छन्तं, युवराजंजयसिहंसमुपसरन्तं, निवेदयन्तमिव तस्मै किमपि मंद्रेण स्वरेण, समर्पयन्तं तस्मै तद्वस्तु व्यपनीय तवावरणं, भ्रातरं यंत्रचालितमिव निःसंशं तद स्वीकुर्वाणं, क्षणमेकं निरीक्ष्य तनिनि- मेपया दृशा ददतं तत् तस्यै, स्वात्मानं तत् स्वीकुर्वन्तं प्रसारिताभ्यां यंत्रचालिताभ्यां कराभ्यां, लोकमानं च भावशून्यया दृशा । अलोकत च सहसा तस्मिन् नितान्तमनपेक्षितमेकदेशज्वल- दलातप्रकाशितवामभागं ,पिलुलितपीतधवलविरलालकमाश्यान- गल्लक्षतं क्षतजारक्तश्मश्रु विवक्षयेव संदिदक्षयवार्डोन्मीलितोष्ठपुटं सिंधु-कन्या १७१ विच्छिन्नकंठनालमर्द्धमीलिताभ्यां स्थिराभ्यां नयनाभ्यां प्रतिलोक- मानमिव - पितुर्मुखम् । निमज्जितेव प्रसह्य शोकसागरे गभीरतमे तेन - नितान्त- मनभिज्ञा सहसा निष्कंपदलस्य परिहर्तुमिव तस्या भावतंद्राया भंग निश्चलस्याश्वत्थस्य, मंदतरीभूतगतेः सदागतेः, सर्वथाऽपारयन्ती- नामिव साक्षात्कर्तुं तस्या दयनीयामवस्था नभोंगणादपसरन्तीनां तारकाणां, नितान्तमक्षमतया द्रष्टुं तच्छोकमधोमुखं नि:शब्दमुप- विष्टानां राजपुरुषाणामुच्चावचानां - निरुद्धनिःश्वासा तत्- बाल्ये सकौतुकं कैशोर्ये साभिमानं यौवने सानुक्रोश दृष्टचरं, विलोक्य तस्यास्तास्ता बाल्यक्रीडाः कदाचित् हर्षोत्फुल्लं, समवलोक्य जित्वा राज्यकंटकान तांस्तान् दाक्षिणात्यान् सामंतववान् प्रत्यागतां स्वां सेनां कदाचिदभिमानदीप्तं, समनुभूय भयानका परचक्रघटां तडिद्वेगं समापतन्तीं चिंताम्लानं - घ्यायन्ती नावेत् प्रांगणकोणं समुद्दिश्य प्रतिष्ठमानं धीसचिवं ब्रह्मदत्तं, तदिगितानुसारं तमनुगच्छन्तं स्वं भ्रातरं, समुत्थाय सहसाऽनाहूतमेव तमनुसरन्ती स्वां मातरं, समाकृष्यमाणमिव तया स्वेन गौरवेण तां निःशब्दमनुयान्तं च राजपुरुपगणम् । . लंभितेव संज्ञाभासं घीसचिवस्य मंद्रेण शोकशुष्केण धीर- गंभीरेण स्वरेण, तत् पुनरर्पयदनुजाय पुरःसमुपस्थिताय मुंडितमस्तकाय परिहितोद्गमनीयायानुपानद्धपादाय । अपश्यच्च तत् – मुंड्यमानं केनचिन्मुंडकेन, स्नप्यमानं कदुष्णेन जलेन, अलंक्रियमाणं ललाटफलके केशरसुरभिणा लोहितचंदनेन, समापूर्यमाणं मुखबिले तुलसीदलेन भ्रात्रा, स्वीक्रियमाणं पुरःसमुपसृतया धौतमुक्तकेशपाशया सिंदूररेखांकित- सीमंतया सद्य:पुनःकृतसौभाग्यतिलकभूपितभालपट्टया कज्जलाक्त- नयनया धृतकुंडलया ललंतिकोद्भास्यमानपयोधरमंडलया परिहित- दुकूलया मेखलाबद्धमध्यया जनन्या, सादरमुह्यमानं च तया १७२ सिंधु-कन्या

प्रांगणेकदेशपरिकल्पिता महती चितां समुद्दिश्य धीरगंभोरया गत्या
प्रचलन्त्या।
हस्ते धृत्वा समुत्थापिता च परिचारिकया कयाचित् शनै:
शनैः, यंत्रचालितेव, अन्वगच्छदपश्यच्च तद्वक्षसि सुमनोमाला-
विभूपिते कृत्वा चितां तामधिरोहनी, सस्नेहं क्रोडे कृत्वा तत्
चितामध्ये समुपविशन्ती, समुन्नमय्य च दक्षिणं हस्तं प्रणामान परितः
कृतसंमर्दानां परिजनानां सैनिकानामधिकारिणां स्वीकुर्वन्तीं स्वजननी
दैदीप्यमानमुखीम् ।
पश्यन्त्या एव च समुटेंकयितुमिव तदृश्यं स्वहृत्पटले
निनिमेष- युवराजः, साष्टांगं प्रणिपत्य पितरौ हव्यवाहनमारुह्य
स्वर्ग जिगमियू, प्राज्वालयच्चिताग्नि शास्त्रोक्तं विधिमनुसृत्य ।
-
समुत्सुक इव तो प्रापयितुं दिव्यं लोकं, क्षणमात्रानन्तरमेव,
प्रजज्वाल चिताग्निः ।
तजयन्निव यवनान् शिखाभिरसंख्याभिः, लिखनिव
सुरवर्त्मनि पुण्यकृत्यानि सिंधुराजस्य स्फुलिंगाभिः आववार
तावचिपटलेनिधूमः, ददाह च पश्यतामेव सर्वेषां मुकुलितहस्तानाम् ।
ददाह च राजदारिकायास्तंद्रावरणं सांद्रम् ।
अवरुद्ध इव तेन तावत्कालपर्यन्तं, सहसा तदन्तः उदियाय
प्रगाढः शोकः।
कन्या हि पितुः प्रियतरा। तत्रापि ज्येष्ठा। पिता च
कन्यायाः। तत्राऽप्यसहायः।
स च शोको मनस्विन्याः, निर्धूममन्तवलन्, बहिश्चरां
चैतनामिव तां बहुमन्यमानमुदारचेतसं तातं, महता प्रयत्नेन
सिधु-कन्या

विजित्याऽऽभ्यन्तरानहितान स्ववशंवदीकृत्य पैतृकं राज्यं प्रजाहित- चिकीर्पयाऽनवरतं प्रयतमानं, तथा विप्रलभ्य सप्रयोजनं प्रसारिताभिः मिथ्यावार्ताभिराक्रम्य छद्मना, विदीयं जनमनोबलं तत्कुलदेवता- विग्रहभंजनेन, निहत्य कपटपूर्वकं तत्पुत्रतुल्यं वज्रवाहुं वज्रपराक्रम, वशीकृत्य तद्विद्वेषिण दाक्षिणात्यं सामंतगणं तेन तेन प्रलोभनेन, रणक्षेत्र तथा हतवतो द्विपत आत्यंतिके द्वषे परिणनाम । प्रेरयामास च तां, साक्षीकृत्य ज्वालान्तर्धापितो पितरौ, प्रतिज्ञातुं द्विपदुन्मूलनमात्यंतिकम् । अभिभूता इव तत्प्रतिज्ञाप्रतापेन दुःसहेन, ज्वालास्तस्य चिताग्नेरचिरादेवाशमन् । आविरभवंश्च समाजयितुं वनसंकल्पां सिंधुकन्यां प्राच्यंगणे त्विपः काश्यपेः । जजागरुः पिप्पलशाखाविरचितनीडनिलीना विहंगमाः। न तु रुरुवुः - शोकाकुला इव । प्रसस्त्रुः पूर्वाचल- मनिच्छयेवाधिरोहत: प्रभाकरस्य प्रभाः । न त्वालोकयामासुः जगतीतलमपहृतप्रभा इव । अथ, विहायारुणाचलं गगनांगणं कथमपि प्रविशति भगवति सवितरि, धीसचिवो ब्रह्मदत्तः, समुपसृत्य राजदारिका पाषाणखंड एकस्मिन् निश्चलमुपविष्टां मंद्रस्वरं न्यवेदयत् - 'भर्तृ दारिके ! अपसरता रणांगणादतीते निशीथे मयाऽनुमाय भवदनुज्ञां त्रयः स्पशा यवनवेपधरा, विजयोन्मादेन नृत्यत्सु द्विपत्सैनिकपु, प्रत्यर्थिनः संकल्पजिज्ञासया तत्रैव विसष्टा आसन् । तेषां मध्यादेकोऽपसृत्य निभृतं द्विपत्स्कंधावारात् केनापि मिषेण, समारुह्य घोटकं स्थान एकस्मिन् मया गूढं संनिधापितं, सद्य एवेहाऽऽगतो । भवद्दर्शनं याचते । तमनुग्रहीतुमर्हति भवती।" स्वीकृत्य तदनुरोधं समुत्थिताऽनुसृत्य तं निर्जने भग्नप्राये तृणवहुले कक्ष एकस्मिन् सह भ्राया कृतप्रवेशाऽपश्यदेकं घृतनिर्धन- सिंधु-कन्या १७४ सैंधवग्रामीणवेपं पुरुपं धूलिधूसरितवेपम्, अध्यगच्छच्च - तस्मात् रामधिगतेनाभूतपूर्वसदृशेन विजयेन लेशतोऽप्यनाध्मातं यवनसेनापति- मनुमत्य स्वसैनिकान् समुल्लसितुं यथेच्छमानिशं, प्रातरेव, सिंधु- राजधानीविजिगीषया प्रस्थानाय कृतनिश्चयम् । "एवं तर्हि, तात !" प्राह राजदारिका वृद्धं घीसचिवं - "प्रत्यूपे कृतप्रस्थानः स - एतावत्या कालकलयातिप्रांतानेकयोजनोऽ- पराल एव - अनुपस्थिते कस्मिंश्चित् महति प्रत्यवाय - राजधानी- मस्माकमुपरोत्स्यति । शक्ष्यति च तां कदाचित् सिंधुराज- पतनस्याप्यनभिज्ञां - अभिज्ञामपि भयातुरां- अनातुरामपि स्वरक्षाs- समर्था -- प्रहरमात्रेणेव विजेतुम् ।" यवनस्य "मृष्यतु भर्तृ दारिका" प्राह ब्रह्मदत्तः । "मया खलु व्यतीतेऽर्द्धरात्रे समरभूमेरपसरता एव प्रेपित एकोऽश्ववारः राजधानी वज्रपातसमाचारसुसूचयिपंया । तत् राजधानी प्रस्थानात् पूर्वमेव, विजित्य शोकावेगं, संयम्यात्मानं, स्वात्मरक्षार्थ संनद्धा भवेदित्यत्र न संदेहः । स तु -कियत्कालपर्यन्तं साऽऽत्मानं रक्षितुं समर्था भवेदित्यत्र।" .... मपि प्रतिरे "आम् !"-प्रत्याह राजदारिका । "ततः (सविषण्णस्मितं) सोत्साहं साडंवरं प्रस्थितैः पराजयमेवंविधमनुत्प्रेक्षमाणैरस्माभिः गुल्मा एव कतिपया:नगरीपरिरक्षणायं तत्र संनिधापिताः । ते च यवनस्या- विच्छिन्नविजयपरंपरापरिबृंहितप्रतापस्य प्रचंडवेगमाक्रमणं दिनमेक- शक्ष्यन्ति - इत्यत्र मे संदेहः । अथवा - किं वृथा चिंतया?.... मद्भावि तद्भविष्यत्येव । अस्माभिस्तु प्राप्तस्य गतिश्चितनीया |" यवनोऽस्मान् राजधानीप्रपलायितान मन्यमानोऽ- स्मान् जिघृक्षः, राजधानी वा विजित्य सेंधवानां मनोवलमधिकतरं जिघांसुः - अकृत्वा खलूत्तरसिंधुविजयसंकल्पं - राजधानीमेव प्रति- रुरुत्सति - इत्यही उच्छ्वासावकाशः ! कदाचित् समासन्नात् भारतीयाद्वर्षर्तोः -विभ्यत् - तत्पूर्वमेव विजिते दाक्षिणात्य प्रदेश सिंधु-कन्या आधिपत्यं स्वं दृढतरोतु कृतनिश्चयोऽस्मद्राजधानीमेव स्वं प्रधान स्कंधावारं चिकीपति सः ।.... कथं वा मन्यते तातः ?"- साऽपृच्छत् । "भर्तुः राजधानी स्वं प्रधानं स्कंधावारं चिकीर्षति यवनः"" न वा इति तु संदिग्धम् । सामरिकहप्टया हि तस्या अवस्थितिः नातिवांछनीया"-प्रत्याह ब्रह्मदत्तः । “परंतु - निपुणं तकितं भर्तृ दारिकया यत् सः प्रावृपः प्रारंभात् प्रागेव प्राप्तस्य परिरक्षणे व्यापृतो भवेदिति । साधारणोऽपि सेनानीः सद्योविजिते परप्रदेशे- नभ्यस्तप्राकृतिकबाधोपगमात् प्रागेव स्वमाधिपत्यं दृढतरीकर्तु प्रवर्तत ।" .... "साधारणोऽपि च सेनानीः परविजितं स्वं प्रदेशं समुपगतायामभ्यस्तप्राकृतिकवाधायां पारदास्यान्मोचयितुं प्रवर्तेत परविजितं स्वं प्रदेशं" - सोल्लुण्ठमाह राजपुत्रः । "परंतु "" तदथं पर्याप्ता सेना रणसामग्री च आ..."प्रार- भत घीसचिवः । "भवानपि, तात !, वीरभद्र इव परंतुवादमाश्रयितुं प्रवृत्त- इत्यही सौभाग्यं गोभक्षकस्य" सहसा प्रत्यवदत् राजपुत्रः । “अनेनंव वादेन किंपुरुपीकृतरस्माभिरुपायनीकृतः संघवस्य राज्यस्य पाश्चात्त्योः । तस्य च -अधिपः।" "अदत्वाऽणीयांसमपि कादाचित्कमप्यवकाशं तादृशाय परन्तुवादाय""वयं""सिंह !"तातसंमतां परंपरागतो पद्धतिमाश्रित्य यवनं प्रतिरोधू प्रयतिप्यामहे । वासयिष्यामहे च भवत्कल्पितामभिनवां पद्धतिमवलंब्य तं तत्पादाक्रांतेऽस्मत्प्रदेशे ।""तात !"-आह राजकन्या "परस्परोपकारिण्यो खल्विमे पद्धती । विज्ञाय यवनं राजधानी समुद्दिश्य प्रचलितं वयमद्य निशामुख एवेतः प्रस्थास्यामहे पुरातन- मुदीचीनमस्मत्कुलमूलावासं ब्राह्मणावासम् । विधाय च तं दुरा- क्रमणीयदुर्गपरिरक्षितमस्माकं प्रधानं स्कंधावारं- यदि नाम नियतिः . सिंधु-कन्या कारयित्वा प्रतिवापिकी वर्षा रिपुं प्रतिरोत्स्यतीतः प्रचलनात् - वयं नंनाहयिष्यामहे नवीनं बलम् । ..." राज्यस्योदीचीनायाः सीमायाः प्रत्याहृतयुद्धनिपुणैः सैनिकयुद्धकलायां सद्योदीक्षितैरपि सोत्साह- शभक्तः नवीनस्तरुणैश्च संघट्टितं तदुष्प्रधर्ष भविष्यतीत्यत्र न संशयः।" -- इतः "अवशिष्टमिहत्यं बलमस्माकमस्माभिः सह वर्द्धयिष्यत्येव तस्य सामर्यम्"-आह धीसचिवः । प्रचलितं "अवशिष्टमिहत्यं बलमस्माकं नाऽस्माभिः सह ... इत: प्रचलिष्यति" प्रत्याह दृढस्वरं सा । “अपि तु - विभज्यात्मानं क्षुद्रेषु गणेप्वेतस्मिन्नेव दाक्षिणात्ये प्रदेशेतत्र तत्र समुद्व जयन्द्रिपुं." अस्मान् उपकरिष्यति । कथं नु मन्यते वत्सः ?" "संख्यया क्षुद्रा अपि प्रतिहिंसाभावनया दुष्प्रर्पा अस्माकं सैनिका: कृतवेपपरिवर्ताः निगृहिताऽऽयुधाः, प्रदेशेऽस्मिन् वर्षाजल- प्लाविते, मरुसंभवस्य यवनस्य कृते दुःसंचारेऽपि परिचिततया स्वकृते सुसंचारे, यथेच्छं भ्रमन्तो, यथावसरं यवनगुल्मान् आफामन्तो, यथावकाशं तत्खाद्यादिसामग्री विनाशयन्तो, यथायोगं तत्सैनिक- सामग्री लुञ्चन्तो यवनं तथा जर्जरयिष्यन्ति नूनमेभिश्चतुभिर्मासः यथा उत्थिते देवे स उदीच्याः प्रस्थितायाः नवीनायाः प्रति- जिघांसोदनाया अस्मत्सेनाया विनायासमेव जय्यो भविष्यति"- प्रत्यवदत् जयसिंहः। प्रत्यग्रपितृशोकसंतप्तहृदययोरपिसहसा साक्षात्कृत्याऽऽत्मानं नियुक्तं नियत्या रणनीतिनिर्धारणधुरायां किंचिदुत्तेजितयोः, प्रत्या- क्रमणयोजनास्तास्ताः परिकल्पयतोस्तयोः," तत्तदनुभवविदग्धस्यापि परिचिततया दाक्षिणात्यानां संधवानां स्वभावेन परिकल्प्यमानकूट- युद्धसाफल्यविषये साशंकस्यापि नानाविधान् नवीनान् उपायान् पितृहन्तारमुन्मूलयितुं चितयतोःस्वामिपुत्रयोरुत्साहं भक्तुमनिच्छुकस्य, सिंधु-कन्या १७७ संकल्पस्तयोः स्वां सहमति सादरं संसूचयतः, साक्षात्कृत्य तयो - तिवास्तविकीमपि सत्यानुकूल्ये विधेः परिणामकरी साहसिकी रणचातुरीं विस्मितस्यासाक्षात्कृत्यैव स्वतनुजयोस्तादृशं समरनीति- नेपुण्यं दिवंगतं वृद्धं स्वं स्वामिनमनुशोचतो वृद्धस्य ब्रह्मदत्तस्य च युगदीर्घोऽपि स दिवसोऽविदितगतयाम एव व्यरंसीत् । .... तेन सह च तेपांप्रतीक्षाकालोऽपि । अस्तं गते हि संताप्याऽप्या दिवसं यवनसेनासागरं स्वकरैः प्रचंडतापैरसंतुष्टे, गगनांगणादपगन्तुमनिच्छुकेऽपि विधिविधानं तिरस्कर्तुमक्षमे स्वात्मसंतापतापित इवाऽऽरक्तमंडले दिनकरे, प्रवहति सिंधुराज्यलक्ष्म्याः स्मारं स्मारं स्वपतिनिधनं दूयमानमानसायाः नि:श्वास इव सोमणि मातरिश्वनि, प्रत्यागतेषु दिगन्तेभ्यः नैदाघतापसंतप्तेषु किंचिद्व्यात्तचंचूपुटेपु दीर्घदीर्घ श्वसत्सु मनसि कृत्वेव दारुणं शोकमध उपविष्टानां सैंधवानां नि:शब्दमेव स्वं स्वं कुलायमश्वत्यपर्णसंभारनिलीनं प्रविशत्सु विहगेपु, समुदितायामारक्तै पश्चिमदिगंगणे प्रतिपच्चंद्ररेखायां, समुपातिष्ठत् तेषां पुरतः रजस्व- लश्मश्रुलवदनोऽनवरतप्रवासश्रांत आरक्तलोचन एकोऽश्ववारकः । असुसूचच्च यवनसेनां तदहरेव प्रातः राजधानीविजिगीषया प्रस्थिताम् । . श्रुत्वैव तां वार्तामसहिष्णुः कालापव्ययस्य राजकन्या वनसंकल्पा सह भ्रात्रा निरगच्छत् तस्मात् कक्षात् । अशादाभ्यंतरे प्रांगण आसमन्ताद्भस्मप्रायायाश्चितायाः समुपविष्टान् समवलोक्य तामुत्थितान् निःशब्दमवनमय्य मुखं तदाज्ञामपेक्षमाणान् सैनिकान् तदधिकारिणश्च संकल्पितं स्वं रणव्यूहम् । समाश्वासयत् तस्तै: प्रोत्साहनपरैर्वचनस्तान् स्वामिवंशाकुराणां प्रियदर्शनानां प्रियंवदानां प्रियंकराणां सहभावसौभाग्यं सहसा भ्रश्यदनुभूय खिन्नान् । प्रावर्तयच्च तान् स्वस्वकर्मणि। १७८ सिंधु-कन्या दशमः परिच्छेदः प्रातिष्ठत चास्तंगतायां शशिकलायां प्रहरार्द्धजीर्णायां तमस्चिन्यांतस्मात् स्थलदुर्गात्, सास्त्रं स्पृष्ट्वा शुंडादंडे शिथिले स्वधेनु- कामभिज्ञामिव स्वस्वामिनीप्रयाणस्य शोकाविष्टां प्रस्त्रवनेत्रां निश्चला, नि:शब्दमारुह्य सेवायां समुपस्थापितं जवनमश्वमेकमनुगम्यमानाऽऽ- जानेयाधिरुढेन पित्रस्थिकलशसनाथदक्षिणभुजेन वमितेन भ्राता जयसिंहेन, गंभीरमुखमुद्रण विचारमग्नेन पितृव्यतुल्यन वृद्धेन घीसचिवेन, तुरगाधिरुढश्च कतिपयैरंगरक्षकः । स्वीकृत्य चांधकारवहुलतया बहिःप्रदेशस्येपल्लक्ष्यविशेषाणां निनिमेपया दृष्ट्यान्तः समुटेंकयतामिव स्वस्वामिकुलांकुराणां मूर्तीरपुनदर्शनाशंकया सैनिकानां प्रणती:, खेदविव्हलाऽपि कृत्रिम- गांभीर्योदारदर्शना, प्राक्रमताशऋमितुं कुपथमुदीचीनं, पुरःप्रधावता सैनिकेनालातसनाथहस्तेनोपदिश्यमानमार्गा । निबिडतया तमसो दुर्लक्ष्यप्रायेण मंदप्रकाशेनोल्मुफेनकलेन कथंचित् प्रकाश्यमानेन निम्नोन्नतेन क्वचिदृपद्वहुलेन क्वचित् पांसुलेन क्वचिदन्तःप्रवहन्निझरमध्ययायिनाऽऽर्द्रशीतलेन क्वचिच्छक- रिलेन क्वचिदुभयपार्श्ववतिनिप्पणनिश्चलद्रुमोपरुद्धन संकीर्णन क्वचिदूपरतया प्रदेशस्य निस्तृपेन विस्तृतेन क्वचित् संत्रासितोन्निद्रोत्- सिंधु-कग्णा पतत्पतगरवनिनादितेन क्वचित् क्षुभितपरिभ्रमदौलूकदुर्गमेन दुरध्वन तेनानवरतं प्रवसन्ती, कदाचित् यवनसंकल्पितस्याऽऽक्रमणस्य तास्ता विधास्तकंयन्ती, कदाचित् तत्प्रतिरोधस्य तांस्तान् प्रकारान् पर्या- लोचयन्ती, कदाचित् क्षुद्रस्वार्थसिसाधयिषया गोभक्षकदासतामुररी- कुर्वद्भ्यो मूकादिभ्यः युद्ध यंती, कदाचित् कपटेन धातितं भ्रातरं वववाहुं समरफलाकोविदमनुशोचन्ती, कदाचिद्विगतसायंतनं पितृवधप्रसंगं स्मृतिचक्षुपा पुनः पुनरवलोकयन्ती, कदाचित् प्रालेतनं सहमरणं मातुः स्मरन्ती, कदाचिनिःशब्दमनुगच्छतः प्रौढिमसामयिकी सहसा संप्राप्तस्य गंभीरस्य भ्रातुः सिंहस्य द्विपदुन्मूलन विधामभिनवां विचारयन्ती, कदाचिदनुभवविदग्धस्य पितृव्यकल्पस्य धीसचिवस्य मौनकारणमनुमिन्वती, कदाचित्तावत्या कालकलया यवनेन निरुच्छ्वा- समुपरुद्धाया राजधान्याः स्वसंरक्षणक्षमतांसंशयाना, कदाचिद्विलोक्य स्वस्वामिवंशांकुरान् वज्रदाहावशिष्टान् साहाय्याभिलापया चिरात् खल्वागतान् समुद्भवित्री ब्राह्मणावासवासिनां प्रतिक्रियामुत्प्रेक्षमाणा च त्रिभिदिनः जाग्रत्यपि विनिद्रा, सा तमस्विनीमेव तां शनैः शन- रक्षाययत""न तु चितांतामेकपदी वा। प्रबोधितेव च विचारतंद्रायाः निःशब्दमुपसृतेन श्रांतेनापि सावधानेनाहर्मुखं समासन्नप्रायं संसूचयता मंद्रस्वरेण धीसचिवेन, सहसा सावधाना, व्यलोकयद् दिदृक्षयेव तत्प्रगते: प्राध्यंगणे हरिद- श्वरथं सरभसं प्रवेशयन्तं गरुडाग्रजम् । तर्कयित्वा च दिवाप्रवास- मनिप्टकरं, निरचिनोदा दिवसावसानं विश्रामं तस्या एव एकपद्या: नातिरेऽभ्रंकपमहावृक्षपंक्तिपरिवेष्टिते स्थले शाद्वले विरुढवीरुद्- दुर्लक्ष्ये । अवलोक्य च तत्रंकत्रभूतान सैनिकान् तदश्वांश्च तत्र तत्र विश्रां- तान्, समनुष्ठाय दैहिकोः क्रियाः स्वयमपि, नियुज्य कतिपयान् सैनिकान् समारुह्य वृक्षशिखराण्युच्चतमानि निरीक्षितुं गतागतानि कादाचित्का- नामपि पांथानां, भ्रातुः समीप एव मृदुलहरिततृणकल्पितायां शय्यायां विश्रांता, निद्रांकेऽलीयताचिरादेव । जागरिता च, व्यतीतेपु क्षणकल्पेषु प्रहरेषु, लोकान्तरादिव समापतभिमंद्रःस्नेहसिक्तैः शब्दय॑लोकयत् प्रमीलालसलोचना-रजनी १८० सिंधु-कन्या जुपुक्षयेव तत्प्रवासस्य प्रत्यथिपापदृष्टे: शोघ्रमेव प्रतिनिवृत्य स्वतिमिरवाससा तामाच्छादयन्ती, प्रतिक्षणपरिस्पंदिभिरसंख्यः नक्षयनयनस्तां मातरमिव साकूतं पश्यन्ती, पूर्णाभयदित्सयेव तां मंदपवनहस्तेन स्पृशन्ती - स्वसमीपोपविष्टं, पुनः प्रविवत्सया संनद्ध, निनिमेपाभ्यां लोचनाभ्यां तामेव लोचमानं भ्रातरं जयसिहं- नातिदूर एव महतो वृक्षस्य मूल आटविकमेकमदृष्टचरं किमप्यादि- शन्तं मंद्रस्वरेण धीसचिवम् - एकदेशे प्रज्वलताऽलातेनेपत्प्रकाशितान निःशब्द संनतश्चाश्ववारान् । क्षणमायानन्तरं च प्रबुद्धा सावधाना, परिसमाप्य दैहिकीः क्रिया, आरुह्य घोटक, प्रारभत पुनराक्रमितुं तमेव विपथम् । एवं निगृह्याऽऽत्मानं तामिस्त्रैणाऽऽवरणेन प्रतिनिशं प्रवसता, परिजिहीर्पया द्विषदृप्टेरादिवसं गहने कांतारे मार्गपतिते विश्राम्यता, शुद्रा अपि ग्रामटिकाः साभिप्रायं परिवर्जयता, कादाचित्कानपि यादृच्छिकानप्याऽरण्यकानपि पांथान साशंकमवलोक्यता, प्रतियोजनं विप्रकृप्टतरमिवाऽत्मानं यवनग्राहग्रहात् परिकल्पयतां तेषां सप्ताह एमाः युगदीर्घ इचात्यत् । उपैच्च तान् चिंतावृक: नितांतमनपेक्षितः । अनधिगम्य हि लेशतोऽपि यातों यवनप्रतिरदायाः राजधान्याः, प्रतिदिनं समीपतरमुपरापंतामपि ब्राह्मणावासप्रदेशमभयप्रदं तेषां चेतः शनैः शनरग्रस्यताऽऽशंकाया..."अधिकाधिकमेव च पर्यभूयत सेदेन । विशेषतः राजदारिकायाः । रणनीतिनिर्देशं नितान्त- निष्ठुरं शिरसि कृत्वा राजधानी स्वां - राज्यस्य मूर्तिमती प्रतिष्ठा - अनारमनीनामिय परित्यज्य ( - स्यानाम प्रयसतमप्रतिरोध- संनिनस्सया-) सुदूरमुदीचीनममयस्थानमुपसपंन्त्यास्तस्याः कुसुम- मृदुलं मानरां, सापराधमिव फुपणमिष शुष्टमियाऽऽत्मानं विभावयत् - मान: मनस्ता तपा म्लापयितुमारमत यया धीरगंभीरो धीसचिवोऽपि, सियु-कन्या परिलक्ष्य तस्या मनस्तापं चिंताक्रांतः, संवर्द्धयितुं तस्या उत्साहसंपदं, परित्यज्य मितभापितां, तांस्तान् संकल्पान् प्रत्याक्रमणस्य महतोत्साहन चर्चयितुं युवराजेन सह प्राक्रमत सत्येवाऽवसरे, न त्वलभत वांछित परिणामम् । निःशस्त्रं युवानं .... एवं व्यतीतेपु दीर्घदीर्घषु दशसु दिवसेषु, आ अहर्मुखं रंहसा महता प्रवहता प्रावृषेण्येन पवमानेन स्नेहावेगादिव प्रकंप्यमानानां वृक्षाणामधस्तात् विधांताननवरतप्रवासखिन्नान् विताम्लानान् यंत्रचालितानिव कथमपिप्रवासार्थ संनद्धप्रायान स्वसैनिकान् विमनस्क- मवलोकमाना पाषाणशिलाखंडोपविष्टा राजदारिका सहसाऽपश्यदेकं निरीक्षकसैनिकं धृत्वा स्कंधेनैकमपरिचितं क्षामश्मथुलमुखं धूलि- धूसरितजर्जरितपरिधान धीसचिवमुपयान्तं .."धीसचिवं विरम्य कार्यान्तरान्निक्षिप्य दृष्टि तद्दिशि मंद्रेण स्वरेण पृच्छन्तं तमागन्तुकं किमपि, आगन्तुकं निर्जीवनेव स्वरेण प्रत्युत्तरन्तं, धीसचिवं सहसा म्लानतरमुखमुद्रं गृहीत्वा तं हस्तेन तामुपसरन्तं, गदन्तं च गंभीरेणापि किंचित्प्रकंपमानेन स्वरेण - 'भर्तृ दारिके ! तस्मिन् निशामुखे यवनसेनायां मया सप्रयोजनं मेलितानां स्वसैनिकामयमन्यतमः, सद्य एव संप्राप्तः, निवेदयति यद्राजधान्यस्माकं, प्रतिकूलतया प्रारब्धस्य प्रत्यार्थिनः प्रतिरोधेऽक्षमा, संप्रति तत्पददल्यमाना निष्प्राणेव प्राणिति, "यवनश्च विलोड्य तामनुपलभ्य च तद्विपवंशांकुरान् क्रुद्धस्तस्मिन्नेव प्रदेशे कुत्राऽपि मूढं निलोनान् भवत उत्प्रेक्षमाणो, भवद्विभन्सया प्रबलया प्रेर्यमाणः, सैनिकान् सर्वत्र भवद्गवेषणाय व्यापारयति, श्रुत्वा भर्तृदारिका प्रमाणम् ।" राजदारिका तु समाकर्ण्य राजधानीपतनसमाचारं खिन्नाऽपि मन्यमानाऽऽत्मानं दुराशाजालनिर्मुक्तं, समुत्सुकाऽपि श्रोतुं सर्वं वृत्तान्तं सविस्तरं प्रतिशुशुत्सोदग्रा, तत्क्षणमेव निरचिनोन् ततः प्रस्थानं सह तेन वार्ताहरेण । १८२ सिंधु-कन्या प्रोप्य चाऽनिशमपरेधुरधित्यकाप्ररूढस्यैकस्य महावृक्षस्य विशालशाखासंभारस्याधस्तात् क्लृप्तविधमा समादिश्य सैनिक- मन्यतममारुह्याघ्रलिहं तच्छिखरं निरीक्षितुं दक्षिणं क्षितिजं निवेदयितुं च तत्क्षणमेव क्षुद्रमप्याश्वं दृग्गोचरीभवत्, सह भ्रात्रा घीसचिवेन चैकस्मिन् आयते शिलापट्टे समुपविष्टा, तं संदेशहरमानाययत् । समादिशच्च तं स्ववृत्तान्तं सविस्तरं निवेदयितुम् । सोऽपि, पूर्ववदेव क्षामश्मश्रुलमुखोऽपि धूलिधूसरितजर्जरित- वसनोऽपि बहोः कालादनन्तरं प्राप्तेन पर्याप्तेन भोजनेन प्रत्याग- मितप्राण इव किंचित्स्फुरदेहदीपदीप्तिः व्यजिज्ञपत् "भर्तृ दारिके ! सुसूचयिषया यवनप्रस्थानस्य निभृतमपत्रांते मम वयस्य, अहं भारहारछद्मना सह पृष्ठ्येनकेन राजधानीमुद्दिश्य प्रचलितां सेनां गोभक्षकाणामनुगन्तुमुपक्रममकुर्वम् । अनभिज्ञोऽपि यवनसेनायाः सैनिकस्य दैनंदिनस्य जीवनस्य च शीघ्रमेव पयंलक्षयमन्वभवं वाऽनुत्साहमिवानवरतं पुरः सरन्तीप्वपि दिगन्तदीर्घासु यवनाश्वा- रोहपरंपरासु ।" "अशक्नुवंश्च नियन्तुं जिज्ञासावेगं स्वैरमिव सहप्रवसन्तं भारिणमन्यं तत्कारणमपृच्छम् । अवेदं च तस्माद्यत् - आक्रामका खल्वतीते सायंकाले लब्धेन विजयेनोत्फुल्लाः सैंधवं राज्यं समस्तं विजितमेव मन्यमानाः रणांगणे तत्र तत्र विकीर्णा सिंधुराजपरिवार- स्यापारी संपदं लुण्ठित्वाऽप्यतृप्ता दिनानि कतिचित्तवव व्युष्य प्रदेशं तत्रत्यं लुण्ठितुमच्छन् । न्यवेदयंश्च स्वामिच्छां सानुनयं स्वप्रमुखाय । स तु - लेशतोऽप्यनाध्मातः प्राप्तेन साफल्येन - कृत- संकल्पोऽदत्वा प्रत्यथिने स्वल्पतममप्युच्छ्वासावकाशं राजधानी- मुपरोर्बु तदहरेव, न केवलं तदनुरोधं प्रत्याख्यात्, अपि तु समादिशत् निक्षेप्तुं लुष्टितां द्विषत्संपदं सैनिके कोपागारे राजकीये । सुपरिचितास्तस्य न्यायनिष्ठुरेण समुदितेऽवसरे कृतांतकटोरेण स्वभावेन नाशकस्तेऽधीरयितुं तदादेश, नाशकरंतु पुनरुद्दीपयितु- मा देशश्रवणसमकालमेव नितिकल्पमुत्साहमरमिति ।" सिंघु-कन्या "स च तेषां निरुत्साहः, निशाततयाऽनुशासनकुठारस्य सुनिगृहितोऽप्यन्तर्गुढघनव्यथः नातिचिरादेव नितांतमनपेक्षितया प्राकृतिकया बाधयकया क्षोभे पर्यणम्यत । उदयगिरिशिखरमारुढ एव हि भगवान् सहस्रकिरणः प्रतिजिघांसया 'दुर्दमनीयया लक्ष- गुणितैरिव किरणस्तान् तथा तापयितुं प्राक्रमतान्येधुर्यथा ते आ जन्मनो मरुस्थलतापपरिचिता अपि गगनमग्निबाणवपुकमिव दिङ् मंडलमग्न्यस्त्रप्रक्षेपकमिव भूतलमंगारचितमिवोत्प्रेक्षितुमारभन्त- अनुभवितुं चाऽऽत्मानमसमर्थ करधृतान् कुंतान पृष्ठबद्धान् लोह- फलकान परिहितान् वारवाणान् वोढम् ।" "स च तेषां संताप: प्राक्कलयित्वेव तपनतापमभूतपूर्व- सदृशमंतरिक्षादा प्रत्यूपादेवापसृतेन पवनेन परां काष्ठां समपद्यत । प्रस्वेदक्लिन्नसर्वांगा फेनिलमुखास्तदश्वा अचिरादेव प्रतिक्षणप्रवर्द्ध- मानपिपासाकुला व्यात्तमुखा अचिरादेव भूमौ पतितुमारभन्त । ताननु तत्सादाः । आहुता इव च नियत्या ज्वलद्भकुंडे प्रकंपमान- हस्तपादाः लुठन्तः क्षणमात्रानन्तरं शोषितजीवनरसाः निष्प्राणा अन्तं यातनानां नारकीयाणां यातुम् ।" "उत्तप्तस्थालप्रधावत्क्षुद्रकीटकवत् प्रतिक्षणं प्राणान् परित्यजतः स्वबांधवान् वीक्ष्य सर्व एव यवनसैनिकास्तदधिकारिणश्च प्राणान्तकेन भयेनाऽऽक्रांता: निमेपाभ्यंतर एव नूनं प्राणान् स्वान् परिजिहीर्षया वेदनानां - सुखमत्यक्ष्यन् यदि हि तेषां सेनानीः स्तोकमप्यविचलितः ईपदप्यश्रांत: लेशतोऽप्यखिन्नो दृढतरसंकल्पो बलवत्तरतितिक्ष उन्नततरमस्तकस्तेभ्यो मानसिकं बलं स्वं न प्रादास्यत् ....."अहो ऊर्जस्विता तस्याभ्यमित्रीणस्य ! एकाकी एव दिगंतप्रसृतं तदाश्विकं बलं स्वीयेन संकल्पवलेन केवलेन समाकर्षन् क्षणमात्रमपि नाखिद्यत । निर्मित इवाभौतिकेन केनचित् तत्त्वेन मुहूर्त- मात्रमपि नास्खलत् स्वध्येयात् ।" सिंधु-कन्या .... "का कथा तद्देशीयानां स्वधर्मप्रसारेच्छया तृणीकृत्य प्राणान् समुल्लंध्य महासागरान् विदेशेषु तेन सह प्रवसतां सैनिकानाम् ! क्षुद्रस्वार्थसिसाधयिपांधितधियो विनष्टोभयलोकास्तत्क्रीता अस्माकं सैनिकाः काकादयस्तन्मुख्या अपि, पूर्वेद्युतनसमरसमयेऽभ्यासादन- शंकया दूर एवावस्यापिताः, प्राप्ते च विजये सहप्रस्थानायानुमोदिता यवनसेनापतिना, संमोहिता इव तद्व्यक्तिमत्वेन, विनैव प्रतिवाद, तमन्वगच्छन् ।" "समवलोक्य स्वसुहृदं भगवन्तं दिनकरं विफलप्रयासं तत्साहाय्यचिकीर्पयेवाकस्मादाविरभवत् पश्चिमक्षितिजाद् भगवान् प्रभंजनः प्रभंजकवेगः ।" "तमनु च मदकला मतंगजा इव महान्तो धूसरा धूलिपटला ...असमय अवसानं गमयन्तो दिवसं, प्रसह्य समाच्छादयन्तश्चराचरं नीरंध्रण क्षोदकंवलेन, वलादभिभवन्तो दृष्टिपथं, हठात् कारयन्तः श्वासरोधम् ।" "निष्पिपीडयिपयेव च समस्तं तद्यावनं वलं पर्यवेप्टयन्त ।" "तदनुगतेन दिगंतप्रसृतेनाभ्रंकपेण चक्रवातेन घोरगजितेन प्रतिरुद्धं स्वं बलं वीक्ष्य स यवनसेनानीरपि, निरुद्धय क्षणमात्रम- प्यस्खलितां स्वां गति, विचार्य क्षणमात्र, विनिश्चत्य स्वयमेव, संरावेऽपि तस्मिन् रौद्रे श्राव्येण तीव्रण स्वरेण किमप्यादिशत् ।" "अहो संचलननैपुण्यं प्रत्यर्थिबलस्य ! श्रांतमपि भ्रांतमपि क्लांतमपि तत् श्रुत्वैव तं तस्यादेशं - एकप्राणमिव - एकचित्तमिव - निमिपमात्र एव व्यरमत् मार्गाक्रमणादुपाविशच्च प्रतिपालयितुं प्राकृतिकप्रकोपप्रशमम् ।" "एवं - मुखं मुद्रितनयनमवनमथ्य, हस्तपादं संकोच्य, स्वं स्वं तुरगं समानवृत्तं स्वसमीप एवावस्थाप्य, तितिक्षयागाधया:- सिंधु-कन्या "स च तेषां निरुत्साहः, निशाततयाऽनुशासनकुठारस्य सुनिगृहितोऽप्यन्तर्गुढघनव्यथः नातिचिरादेव नितांतमनपेक्षितया प्राकृतिकया बाधयकया क्षोभे पर्यणम्यत । उदयगिरिशिखरमारुढ एव हि भगवान् सहस्रकिरण: प्रतिजिघांसया दुर्दमनीयया लक्ष- गुणितैरिव किरणस्तान् तथा तापयितुं प्राक्रमतान्यधुर्यथा ते आ जन्मनो मरुस्थलतापपरिचिता अपि गगनमग्निवाणवपुकमिव दिङ मंडलमग्न्यस्त्रप्रक्षेपकमिव भूतलमंगारचितमिवोत्प्रेक्षितुमारभन्त- अनुभवितुं चाऽऽत्मानमसमर्थ करधृतान् कुंतान् पृष्ठबद्धान् लोह- फलकान् परिहितान् वारबाणान् वोढुम् ।" "स च तेषां संताप: प्राक्कलयित्वेव तपनतापमभूतपूर्व- सदृशमंतरिक्षादा प्रत्यूषादेवापसृतेन पवनेन परां फाष्ठां समपद्यत । प्रस्वेदक्लिन्नसागा फेनिलमुखास्तदश्वा अचिरादेव प्रतिक्षणप्रवर्द्ध- मानपिपासाकुला व्यात्तमुखा अचिरादेव भूमौ पतितुमारभन्त । ताननु तत्सादाः । आहुता इव च नियत्या ज्वलद्भकुंडे प्रकंपमान- हस्तपादाः लुठन्तः क्षणमात्रानन्तरं शोषितजीवनरसाः निष्प्राणा अन्तं यातनानां नारकीयाणां यातुम् ।" "उत्तप्तस्थालप्रधावत्क्षुद्रकोटकवत् प्रतिक्षणं प्राणान् परित्यजतः स्ववांधवान् वीक्ष्य सर्व एव यवनसैनिकास्तदधिकारिणश्च प्राणान्तकेन भयेनाऽऽक्रांता: निमेषाभ्यंतर एव नूनं प्राणान् स्वान्- परिजिहीर्षया वेदनानां - सुखमत्यक्ष्यन् यदि हि तेषां सेनानी: स्तोकमप्यविचलित: ईपदप्यश्रांतः लेशतोऽप्यखिन्नो दृढतरसंकल्पो बलवत्तरतितिक्ष उन्नततरमस्तकस्तेभ्यो मानसिकं बलं स्वं न - प्रादास्यत् ।" ":"अहो ऊर्जस्विता तस्याभ्यमित्रीणस्य ! एकाकी एव दिगंतप्रसृतं तदाश्विकं बलं स्वीयेन संकल्पवलेन केवलेन समाकर्षन् क्षणमात्रमपि नाखिद्यत । निर्मित इवाभौतिकेन केनचित् तत्त्वेन मुहूर्त- मात्रमपि नास्खलत् स्वध्येयात् ।" सिंधु-कन्या तस्मिन् जलबहुलं शाद्वलतीरप्रदेशं - बीजमिव भाविनः जलप्ला- वनस्य वापिकस्य - पुरोयायिना मूकेन निर्दिष्टं - समाससाद ।" ...."अहो दौरात्म्यं पापस्य". सहसा जगाद धोसचिवः । "क्लुप्त्वा च तत्र प्रदीर्घ विश्रामं - अपरेयुः – अस्तंगते दिवाकरेऽनुदितेऽनिच्छावशादिव निशाकरे, ततः प्राचलत् । प्रोष्य च सवेगमन्तमुपगच्छति प्रदोष, एकस्मिन् गहनाटवीप्रदेशे न्यलीयत ।" सिंधु-कन्या वसानमुपद्रवस्याऽऽधिदैविकस्य प्रतीक्षमाणस्य तस्य कल्पकल्पः कथमप्यन्तमियाय स दिवसः। तमनु संप्राप्ता च निशा । चक्रनेमि- क्रमेण तामन्वागतो दिवसोऽपरः।" "न तु नैसर्गिकः सः क्षोभः आक्रामकसत्त्वपरीचिक्षिपयेव दुर्दमनीयया प्रेर्यमाणः।" """"श्रांत इव त्ववसादमायात् परिणते तस्मिन्नप्यहनि । क्लांत इव व्यरमत् वहनात् गंधवहः। वैफल्यजडा इव न्यपतन भूमी धूलिपटलाः । प्रसन्नमिवावलोक्य यवनस्य धैर्यमपारं निर्मलम- भवदन्तरिक्षम् । दिदृक्षयेव तत्कुशलस्य गगनांगणेऽवातरत् नक्षत्रमंडलम् । अनुतापकोमल इव मंद मंदं वातुमारभत निशामुख- समीरणः । "संकल्प इव धीरस्य, व्यपगत इव प्रत्यवाये, सहसोदतिष्ठत् स यवनसेनाध्यक्षः। उन्नततरमस्तको विशालतरवक्षःकपाटश्च पूर्व- वदेव तीव्रण स्वरेण किमप्यादिशत् ।" "आदेशसमकालमेव' च. सहाऽऽश्वेन समुत्थितं तस्य बलमेकचित्तमिव- व्यपनीय तनुत्रमनावृत्य मस्तकं याचकभावेन' जानुभ्यां भूमौ गतं. हस्तो प्रसार्य - तमनु - जगत्पितरं बहु मन्तु- मारभत गद्गदस्वरं ""कृतज्ञम् ।" "निशम्या तस्य तां प्रार्थनामेकस्वरामेकाऽऽरोहाऽवरोहां, निरीक्ष्य तस्य तदाश्वमप्यवनतमुखं निश्चलं नीरवम् -- अहमपि कौतुकाविष्टोऽभवम् । का पुनर्वार्ता मूकादेर्देशद्रोहिवृंदस्य ?" "समाप्य प्रार्थनामुत्थितं, प्रवृद्धधर्यमिव च स्वं नायकमनु- सरत, तत्, यथापूर्वमारभत प्रवासम् । आक्रम्य च योजनानि कतिपयानि, दूरेमार्गमवस्थितं दुरापमेकं सरोवरं - निदाघांतेऽपि सिंधु-कन्या तस्मिन् जलबहुलं शाद्वलतीरप्रदेशं - बीजमिव भाविनः जलप्ला- वनस्य वार्षिकस्य - पुरोयायिना मूकेन निर्दिष्टं - समाससाद ।" ...."अहो दौरात्म्यं पापस्य".""सहसा जगाद घोसचिवः । "क्लुप्त्वा च तत्र प्रदीर्घ विश्रामं - अपरेधु: - अस्तंगते दिवाकरेऽनुदितेऽनिच्छावशादिव निशाकरे, ततः प्राचलत् । प्रोज्य च सवेगमन्तमुपगच्छति प्रदोप, एकस्मिन् गहनाटवीप्रदेशे न्यलीयत ।" सिंधु-कम्या एकादशः परिच्छेदः "किमधुना चिकीर्पति विपन् - इति विस्मयमान एवाहम- पश्यं पंचाशदधिकान् यवनान् स्वस्वतुरगेभ्योऽवतरतः, समुत्सृज्य प्रासान् छुरिकाः स्वीकुर्वतः, नरापसदेन मूकेनोपदिश्यमानं दुरध्व- मनुसरतः, नातिदूरेष्टवीमध्यवर्तिनि खंडितप्राय देवतायतन एकस्मिन् प्रविशतः, क्रमशोऽदर्शनं च गच्छतः।" " "न त्वधृष्णवं ताननुगन्तुं रहस्यभेदभिया।" - "तर्कवितर्ककर्दमे निमज्जनोन्मज्जनेऽनुभवन्नेव च साक्षाद- करवं, व्यतीते प्रहरमात्रे, तद्विपद्वलं, प्राप्येव प्रत्याशितं कमपि गूढं संकेतं, सहसा प्रचलत्, निःशब्दमने सरत्, अटव्याः निर्गच्छत्, निराशंकमिव समुपसर्पच्च सद्यो दृष्टिपथेऽवतीर्णस्य, तिमिराऽऽवृततया दुर्लक्ष्यप्रायविशेपस्य, समासन्नं वनप्रहारं समुत्प्रेक्ष्य भयविमूढस्येव स्तब्धस्य, दिवंगतं स्वामिनमनुशोचन्त्या राज्यश्रिया परित्यक्तस्येव निःश्रीकस्य, समाकर्ण्य परप्रसरणवात्ती भयाकुलै गरिकरुभितस्यैव निर्जनस्य, यियाचिपयैव देव्याः साहाय्यसंपदः नभःस्पृशः, राजधानीमहाप्राकारस्य दक्षिणं द्वारं-उरसि कर्तुमिव तत् - व्यात्तम् ।" १८८ सिधु-कन्या "पश्यत्येव च मयि हतभाग्येऽपारयति विश्वसितुं स्वदृष्टिं- प्राविशत् तदन्तः । समुल्लंघ्य च द्वारमार्ग एव दृषन्मय इतस्तत: निपतितान् निःशस्त्रान् निष्कवचान् रक्त रक्तान् शवान् द्वाररक्षकाणां सैनिकानामारभत स्वागतमिव कर्तु मध्येमागं सह तैः पंचाशदधिकः सैनिकरुपस्थितस्य होत्फुल्लमुखमुद्रस्य मूकस्य नि.शब्दान् निर्देशाननुसृत्य प्रसतुं प्राकारान्तःप्रसृतासु रथ्योपरथ्यासु, प्रहर्तु समाकर्ण्य तमनपेक्षितं शब्दं निःशस्त्रमेव बहिरागतानवलोक्य साक्षाद्यमदूतानिव तान् विस्मयमूढान् भयेन कांदिशीकान् नागरिकान्, समुपसर्तुं च मंदयाऽपि दुष्प्रतिरोध्यया गत्या राजधानी- केंद्रवतिनं राजप्रासादम् ।" "सहसा चान्वभवदन्तरिक्षादिव पतन्ती वृहद्दपवृष्टिम् । 'कुतः खल्वियम्' इति विस्मयमानं चोर्ध्वदृष्टि यावदवलोकयत्य- भ्रंलिहस्य प्राकारस्य शिखरेऽभिवृष्य पापाणान् जुधुक्षया पलायमानान् नगररक्षकान् तावदशृणोत् तमेव तीव्र स्वरं किमप्यादिशन्तम् । सत्प्रेरितं च श्रवणसमकालमेवाऽऽत्मानं व्यभजदनेफेषु गणेषु ।" परंतु सवेग- - "तेषां मध्यात् - केचन निर्गत्य दक्षिणात् महाद्वारा- दारुह्याऽऽश्वं द्वाराण्यन्यानि समुद्दिश्य प्रधावित्तुमारभन्त, केचन वर्मिताः लोहफलकहस्ताः प्रासिकाः पुरः प्रसृतेन दुर्दे विनः जीवितेनेव शून्यशून्येन राजमार्गेण लक्ष्यीकृत्य राजप्रासादं स्वस्वतुरगान् प्रेरयितुं. केचन व्यूढकंकटाः सारिकाः पदिका एव- उपरथ्यासु प्रसर्तु, समुपस्थिते क्षुद्रेऽपि प्रतिरोधे सामंतिकेषु गृहेषु प्रसह्य प्रवैष्टुं, स्वगृहरिरक्षिषयाऽग्रे सरत: निःशस्त्रप्रायान् पुरुषान्, गृहकोणेषु निलीनान् पित्तप्रतिपातनं भयविस्फारितेक्षणमवलोकयत- स्तदात्मजान्, अनुनिनीपया पुरः सावेगं समुपसर्पतः सप्रणाम- मनुरुन्धत: साश्रुनयनकमलान् तद्दारान् प्रहन्तुं लुण्ठितुं च यथेच्छं तत्संपदः।" सिंधु-कन्या "एवं यवनैः परमकुटिलैः निर्दयैः मर्मस्थानेषु तेषु तेषु युगपत् समाक्रम्यमाणा सा महानगरी - नारीव काचित् विषकीटक- गणरसंख्येपु तेषु तेषु सुकोमलेष्ववयवेषु युगपत् संदश्यमाना - वेदना- व्याकुला हृदयविदारकैश्चीत्कारैः करुणकरुणविलापैश्च निन्दितुमिव स्वानि भाग्यान्यारभत ।" "शृण्वन्नेव च तत् परिदेवन सहसाऽपश्यं हर्म्यमालिकाव्य- वधापितोद्गमस्थलं, प्रस्फुटितादिव हृदयाद्राजधान्याः समुद्गच्छन्तम- भ्रलिहज्वालाजिव्हं निर्धूमं धूमकेतुं भणन्तमिव किंचिच्चटचटामिषेण । प्रयतमान एव च निर्धारयितु तदुत्पत्तिमूलमशृणवमुद्गारमेकस्य नागरिकस्य सहसा गृहान्निर्गत्य क्षणमात्रं दृष्टिमुन्नमय्य ज्वलनं तमवलोक्य पलायमानस्य - 'अहो! दग्धः दग्धः राजकुलपुरोहितस्य प्रासाद' - इति ।" .... ..."राजकुलपुरोहितस्य प्रासादः ? किं नामापराद्ध स्यात् तातेन पापानां गोभक्षकाणाम् ?" - उज्जगाद राजकुमार उच्छुकस्वरः। "तत्त्वहं कर्णोपकणिकयैवाजानामन्येद्युः" - प्रत्यवदत् स वार्ताहर । "यदा खल्वाततायिनः निहत्य राजप्रासादमहाद्वार- रक्षकान्, प्रविश्याऽऽभ्यन्तरे प्रांगणेऽकुतोभया यथेच्छं विचरन्तस्तेषु तेषु विशालेषु कक्षेषु विनाशयन्तस्तानि तानि दुर्लभानि भित्तिचित्राणि दहन्त: लेखाभांडाराणि सहेलमपहरन्तो वहुमूल्यानि क्षौमाणि लुण्ठन्तो दुर्लभानि रत्ताभरणानि शुद्धान्तति राजकुलदेवतामंदिरमुपसत्र- स्तदाऽवलोकयामासुस्तत्र देवताचरणारविंदयोः समीपे निश्चलमव- स्थितमाराध्यदेवतामुखकमलनिवद्धनयनं जपस्फुरदोष्ठमुद्रं राजकुल- पुरोहितम् विजयोन्मत्ताश्चोचविहसन्तस्तदवमीमांसिपया दुर्दमनीयया प्रेर्यमाणा अपशब्दमुखराः निटिप्ठिवुस्तदिष्टदेवताविग्रह ताडयामासुश्च तं पादः।" सिंधु-कन्या ...."अत्याहितम्" "..."उज्जगाद राजदारिका । "विप्रवरेण्यस्तु तादृशं परिभवमाराध्य देवताया असहमान: कोपातिरेकवेपमानः ज्वलन्नयन उपविष्ट एव जग्राह सहमा समीपति सौवर्ण नीराजनाभांडं, प्रजहार च तेनाऽऽततायिनमेकम् ।" "लेशतोऽप्यक्षतमप्येवमपमानितं स्वसहयोद्धारमवेक्ष्य त्रोध- प्रचंडास्ते नराधमाः निरर्गलं प्रलपन्तः क्षणान्तर एवं तं द्विजवरं हस्तेन चकर्षः, पादेन ताडयामासुः, प्रासेन वक्षसि निरावरणे चस्नुः, खड्गेन ग्रीवां चिछिदुः, रक्तरक्तं तन्मस्तकं पादेन मंदिरप्रांगणे चिक्षिपुः । तावताऽप्यशांतकोपाश्च बहिरागता मूकानुजीविना केनचित् पापेन विनिद्दिष्टं तत्प्रासादमन्तनिलीनपरिवारं देहुः ।" "प्रज्वालिता इव तेन प्रचंडेन ज्वलनेनान्येऽपि ज्वलना: नगर्या तत्र तत्राचिरादेवाऽऽविर्वभूवुः। वेष्टयामासुश्च तां - पलाय- मानानामेव कांदिशीकानां पौराणाम् ।" "एतादृशस्तु निघुणोऽत्याचारः म्लेच्छेनानुष्ठित आसीद्दे- वलनगर्यामेव, नान्यत्र ।.... तत् किं नामापकृतं स्यात् वराक्या राजधान्या तस्य यत् स दानव इव''इत्यं""तां भस्मावशेषां कर्तु परिकरमबध्नात् ?"-सखेदमाह घीसचिवः । "बहु नामापकृतं तया तस्य । प्रतिगृहं गवेषितयाऽपि तया न समर्पितः राजकुमारः, नोपायनीकृता राजदारिका तस्य । न वा संसूचिता तयोः संभाव्याऽवस्थितिः", प्रत्युवाच स वार्तायनः । "यदा त्वन्विप्याऽपि प्रतिगेहं नालभत विपक्षवंशांकुरान- वशिष्टान् तदा स यवनसेनानी: आनयाऽनुल्लंघनीयया यरीरमत् स्वं वलं नागरिकप्रपीडनात् । समादिशच्च तद्गवेपयितुं तान आस- मन्तिके जानपदेप्रदेशे।" सिघु-कन्मा "प्रहरमात्रान्तरं च, तत्, निक्षिप्यार्धमृतां नगरी तां हस्तेषु कतिपयानां सैनिकगणानां, निर्गत्य चतुर्यो महाद्वारेभ्य, आरभत प्रसतु चतुर्दिक्षु ग्रामीणेषु प्रदेशेषु मार्गयितुमत्रभवतः।" "न त्वशकत् तथाऽनुष्ठातुम् । अपरेधुरेव हि - देवलपर्तनात् सरभसं समापतिताद्वार्तायनादधिगम्य समाचारं सिंधुप्रदेशान्त:- प्रविविक्षया सवेगं सागरं नंदापतापतप्तमतिकामतः, समुद्दिश्य सिंधुभुवं यावनेभ्यो देशेभ्य: प्लवमानान् सैनिकपोतान कोलानिव विनायासमेव पुरःसारयतः, सागर उत्ताने तत्र तत्रावस्थाय प्रसार्य चाऽऽनायं यथेच्छ कालं यापयता कैवर्तानां कोलान् सावहेलमिवानव- रतसमुद्भवत्समुत्तुंगफेनिलकल्लोलशिखरेपु दिदृक्षयव दिगन्तलक्ष्याणां जलदानां जलभारमंथराणां गगनमध्यमारोढुं प्रयतमानेपूद्वहतो, यवनसेनानुचिकीर्षयेव, बृहदाकाराणां, विधुदुन्मेपमिषेण सावलेपं पश्यतां, रसितछद्मना साधिक्षेप तर्जयतां बलाहकानां सेनयाऽपारया सह भारतभुवमुपरोढुं प्रवृत्तस्य, प्रावृषेण्यस्य प्रभंजनस्य प्रादुर्भावस्य सावधानेन -- संभाव्य भारतीयों प्रावृपमासन्नप्रायां विचारमग्नेन - संप्रधार्य स्वात्मनैव – 'दुरुत्तायंतया महासागरस्य प्रावृटप्रक्षोभितस्य विरतेषु मातृभुव इहाऽऽगमनादस्माकं पोतेषु सैनिकसंकुलेषु रणसामग्री- भारमंथरेषु, निजदेशमार्गमवरुद्धमाकलय्याशीतस्वान्तेषु निजसामhमानसहायेषु, जलप्लाविततयाऽस्य प्रदेशस्य सर्वस्य स्थानवद्ध- मिवाऽऽत्मानमनुभूयास्वस्थचितवननुभूतचराऽऽसारसंत्रासितेष्वस्माकं सनिकेषु च - एते कापटिकाः संधवा, आजन्मनः परिचिता जलद- कालेन, स्तोकमप्यनुद्विग्ना, योजनशतविस्तृतेऽस्मिन् प्रदेशे तत्र तत्र विकीर्णा अस्माकं पृतनाः नियतमुद्वेजयिष्यन्ति । • तन्मन्ये संयम्योदीचीनस्य भागस्य विजिगीपां स्वाधिपत्यमेव विजिते दक्षिणे भागे दृढतरीकुर्वता मया, भाविन आक्रमणस्य योजनां परिकल्पयता, प्रतिपालयितव्य एव वर्षान्त इति मनसि स्थिरीकृतवताऽपि, समीप एव बद्धांजलिपुटमवनमितपूर्वकायमघोनयनं संतिष्ठतां मूकादीनां सचितमिव संमति पृच्छता - अनुभूय तादृशमप्रत्याशितं दुर्लभ वहुमानं संभ्रान्तानां गर्वोत्फुल्लानां तेषां 'सत्येव प्रतिपक्ष सिंधु-कन्या पराजयदिग्भ्रांतेऽराजकतामापन्नेऽवशिष्ट: प्रदेशः स्वामिनः कृते विनायासमेव जय्यो वर्षाकालेऽपि' इति प्रतिपादक मतमाकर्ण्य लेशतोऽपि स्वनिश्चयादविचलितेन - तदध्यक्षेण-समादिष्टं प्रत्यागतं विभज्याऽऽत्मानं तासु तासु वाहिनीषु यथादेशं निरूढस्वस्तिमदादि- दुर्गाणि विजिते प्रदेशे तत्र तत्र विद्यमानानि सामरिकदृष्ट्या महत्त्व- पूर्णानि च स्थानानि समुद्दिश्य प्रचलितुमारभत सगम् ।" "अहमप्यधन्यो दृष्टादर्शनीयः ध्रुताश्रोतव्यः परिलुप्त- जिजीविषोऽपि स्वामिन आदेशमवज्ञातुमसमर्थ, एतन्कुसमाचार- निविवेदिपया प्रेर्यमाणः, संरंभे तस्मिन् निभृतं ततः प्रस्थितो, भिक्षुकछद्मना प्रवसन्, यवनचभूनामपकर्पणानिर्विघ्नयात्रः, स्वामि- सेवायामुपस्थितोऽस्मि ।" - विनिवेद्य चैवं धर्धरस्वर उच्छुप्कतालुः क्लांतलोचनो मौनमभजत । तत्कथा करुणकरुणां निरुद्धगति शृण्वन् सदागतिरपि तच्छोकभारभुग्न इव मंद मंदं गन्तुमारभत । भगवान् प्रभाकरश्च निशम्य तं वृत्तान्तं स्मारित इव प्राक्तनस्य स्वप्रयल- नष्फल्यस्य निष्प्रभः, अवजुधुक्षयवाऽऽत्मनः सत्वरं यातुमस्ताचलम् । अमाय सैंधवहृदयेष्वसंख्येषु बहिरुत्प्लवमानेन नैराश्ये- नेवावतमसेन सांध्येन शनैः शनैः समाक्रम्यमाणं भूमंडलमवेक्ष्याथ राजदारिका शोकसागरादतलादात्मानं कथंचिदुदधरत्, प्रावर्तयद- नागतचितायां, विचित्य च यवनभयं शरत्कालपर्यन्तं विप्रकृष्टं निरचिनोत् तत्रव यापयित्वा प्राप्तकल्पां यामिनी पुनरारब्धं यात्रामपरेयुः समाक्रमितुं चाम्बानमुदीचीनं तत ऊर्ध्वमहानिश ब्राह्मणावासं समुद्दिश्य । एवं सुनिगूह्यान्तःक्षोभं धीरगंभीरया मुखमुद्रया तत्तत्कर्मणि प्रवृत्ता तु यदा पर्यवस्थाप्य स्वानुयायिदलं नशविधामाय स्वात्मान- सिंधु-कन्या मपि तृणशय्यायां स्वापाय किलापातयत् तदा पतितमात्रैवाऽऽ- रभतात्मानं पुनरपि शोकसागरेऽगाधे निमज्जन्तमनुभवितुम् । दृढं प्रयतमानाऽपि नाशकत् व्यावर्तयितुं स्वस्मृतिचक्षुरा- बाल्यात् परिचितायाः राजधान्यास्तेषां तेषां प्रियस्थलानां पुनदर्शनात्, स्वं कल्पनानेत्रं वा तद्विध्वंसस्यावलोकनात् "" विशेषत: राज- तत्रापि राजकुलदेवतायतनस्य तत्रापि तद्विराजि- तस्येष्टदेवताविग्रहस्य। .... ... प्रासादस्य अलक्षयदात्मानं ध्यायन्तं - अवलोकयन्तमिव साक्षात् - तं विप्रवरेण्यं राजकुलपुरोहितमाशेशयात् परिचितं, वाल्याद्वहुमानितं, कैशोर्यात् संमानितं, धौतधवलवाससं, भरमचर्चितललाटपटें, वयसाऽनतिवृद्धमपि चिंताभरेणेवावनमितोत्तमांग, ब्राह्मतेजोभासुरमपि निस्तेजस्कमिव भासमान, निरासक्तचेतसमपि व्याकुलमिव दृश्यमान- मनुत्सुकानीव पदानि क्षिपन्तं मंत्रणागृहं समुद्दिश्यावलोक्य तां स्खलितपदक्षेपं, मंद्रया गिरा राजप्राणघातकग्रहयोगं तस्य निवेदयन्तं, शृण्वन्तं तदनुरोधं साग्रहमधोनयनमनिच्छयेव स्वीकुर्वन्तं तदाग्रहमने सरन्तं राजदिक्षया, प्रस्थानसमये बहु मानयित्वा राजानं मंगल- तिलकेनाऽऽभ्यन्तरराजप्रासादप्रांगणकदेशे मूर्तिवदवस्थितं, निनिमेषया भावतीव्रया दृशा हुत्फलके चित्रयन्तमिव प्रस्थितं राजपरिवार- मपुनदर्शनाशंकया, राजकुलदेवताचरणारविंदसांनिध्यात् पापैः कलिदानवैरपकृष्यमाणं, ताड्यमानं, वक्षसि विदीर्यमाणं, ग्रीवायां छिद्यमानम् ।

.. रुदत्येव च सहसाऽन्वभवत् मस्तके विलुलितनिःस्नेहमक्ष- वेशपाशे स्नेहेनापारेण 'मुहुर्मुहुः परामृशन्तमतिपरिचितं कमपि करतलम् । उन्मील्य च नयने सततरुदितोच्छून आरक्त आसमन्ताद- व्यापारयन्ती ददर्श समीप एव समुपविष्टमेकदेशज्वलदलात- प्रकाश्यमानविलुलितपीतधवलविरलालकमाश्यानगल्लक्षतं रक्तश्मधुजालमसृग्लोहितकवचमर्द्धमीलिताभ्यां सात्राभ्यांवलांताभ्यां लोचनाभ्यां तामेव प्रतिलोकमानं, परिचितमप्यपरिचितमिय भासमानं पितरम् । क्षतजा- तस्य च यावच्च प्रेरयते समन्तादृशं विस्फारितेक्षणां विस्मयते चावलोक्य समीप एव निद्रितं भ्रातरं नातिदूर एव शयितं च धीसचिवं स्तोकमप्यविचलितं तावदशृणोत् पितुः खेदधर्धरां वाचं- 'मा विभोहि तात ! ..... मा विभीहि । अहं खलु तव तातः । तब हतभाग्यः पिता । त्वयैव सह, तात, एतावत्कालपर्यन्तमवर्ते जयसमीपवर्तिनः तस्यास्थिकलशस्य माध्यमेन । वर्तिप्ये .... इतः परमपि । विसृप्टेऽपि तस्मिन् जयन कस्यांचित् सरिति यवनसंस्पर्शादूपितायाम् । वतिष्य एव । "" त्वं हि मम ज्येष्ठमपत्यम् । ज्येष्ठः पुन । " अतःपरं, दिवंगते हि बजे वीरभद्रे मयि च त्वमेव लेकमात्रमालंयनं जयस्य समस्तस्य वा सिंधुराज्यस्य । तनियम्य शोकावेगं विजित्य नैराश्यभाव वधान परिकरं पापानामुच्छेदनाय". मातृभुवः रक्षणाय । मा विरम प्रयत्नेभ्यः । एकं तु संरक्ष व्ययी- कृत्याऽपि प्राणान् ..." स्वशीलम् । गृहाण तात ! रत्नमेतत् । तब जनन्या दत्तमेतत् । • एतद्धि चूर्णितमवलीढं च सद्य एव पारं सर्वासां विपदा युवां प्रापयितुं क्षमम् । परंतु " एतच्छस्त्रं युवाभ्यां शोलरक्षणायव 'ग्रहीतव्यम् । सति शीले सुरक्षितेऽस्माकं मान्यकाः, सिंह्य इव शृगालाद, संख्यातीतानपि रिपून हिंसितुं समर्था इति हि पोपति भारतीय इतिहासः । तन्मा वृथा फुरु साक्ष्यमैतिहासिकम् । मा विरम प्रयत्नेभ्यः । सफलीभयिप्यन्ति न वा तव प्रयत्ना-एतत्तु विमोचितावपि पाथियदेबंधनात् न समर्थो प्रागद्रष्टुमावाम् । नापि खिए-करया मपि तृणशय्यायां स्वापाय किलापातयत् तदा पतितमात्रैवाऽ- रभतात्मानं पुनरपि शोकसागरेऽगाधे निमज्जन्तमनुभवितुम् । दृढं प्रयतमानाऽपि नाशकत् व्यावर्तयितुं स्वस्मृतिचक्षुरा- बाल्यात् परिचितायाः राजधान्यास्तेषां तेषां प्रियस्थलानां पुनर्दर्शनात्, स्वं कल्पनानेत्रं वा तद्विध्वंसस्यावलोकनात् "" विशेषतः राज- तत्रापि राजकुलदेवतायतनस्य तत्रापि तद्विराजि- तस्यष्टदेवताविग्रहस्य । प्रासादस्य अलक्षयदात्मानं घ्यायन्तं - अवलोकयन्तमिव साक्षात् - तं विप्रवरेण्यं राजकुलपुरोहितमाशेशवात् परिचितं, वाल्याद्वहुमानितं, कैशोर्यात् संमानितं, धौतधवलवाससं, भस्मचितललाटपटें, वयसाऽनतिवृद्धमपि चिंताभरेणेवावनमितोत्तमांगं, ब्राह्मतेजोभासुरमपि निस्तेजस्कमिव भासमानं, निरासक्तचेतसमपि व्याकुलमिव दृश्यमान- मनुत्सुकानीव पदानि क्षिपन्तं मंगणागृहं समुद्दिश्यावलोक्य तां स्खलितपदक्षेपं, मंद्रया गिरा राजप्राणघातकग्रहयोगं तस्यै निवेदयन्तं, शृण्वन्तं तदनुरोधं साग्रहमघोनयनमनिच्छयेव स्वीकुर्वन्तं तदाग्रहमने सरन्तं राजदिदृक्षया, प्रस्थानसमये बहु मानयित्वा राजानं मंगल- तिलकेनाऽऽभ्यन्तरराजप्रासादप्रांगणेकदेशे मूर्तिवदवस्थितं, निनिमेषया भावतीव्रया दृशा हुत्फलके चित्रयन्तमिव प्रस्थितं राजपरिवार- मपुनर्दर्शनाशंकया, राजकुलदेवताचरणारविंदसांनिध्यात् पापैः कलिदानवैरपकृष्यमाणं, ताड्यमानं, वक्षसि विदीर्यमाणं, ग्रीवायां छिद्यमानम् । अन्वभवत् स्फोटयित्वा धैर्यवंधमुद्वेल्लितस्य शोकपूरस्या- ग्रदूतानिव कतिपयान् आग्नेयानिव समुत्तप्तान लौहितानिवांधकरान् अश्रुर्विदून सवेगमाविर्भवतोऽन्तनिमीलितयोः पक्ष्मपुटयोः । आरभत च निःशब्दं रोदितुम् । सिधु-कन्या रुदत्येव च सहसाऽन्वभवत् मस्तके विलुलितनिःस्नेहमक्ष- वेशपाशे स्नेहेनापारेण मुहुर्मुहुः परामृशन्तमतिपरिचितं कमपि करतलम् । उन्मील्य च नयने सततरुदितोच्छून आरक्त आसमन्ताद्- व्यापारयन्ती ददर्श समीप एव समुपविष्टमेकदेशज्वलदलात- प्रकाश्यमानविलुलितपीतधवलविरलालकमाश्यानगल्लक्षतं क्षतजा- रक्तश्मश्रुजालमसृग्लोहितकवचमद्धमीलिताभ्यां सालाभ्यां क्लांताभ्यां लोचनाभ्यां तामेव प्रतिलोकमानं, परिचितमप्यपरिचितमिव भासमान पितरम् । .... "" तस्य" ज्येष्ठःपुत्र। ... यावच्च प्रेरयते समन्तादृशं विस्फारितेक्षणां विस्मयते चावलोक्य समीप एव निद्रितं भ्रातरं नातिदूर एव शयितं च धीसचिवं स्तोकमप्यविचलितं तावदशृणोत् पितुः खेदधर्धरां वाचं - 'मा विभोहि तात! ...." मा विभीहि । अहं खलु तव तातः । तव हतभाग्यः पिता । त्वयैव सह, तात, एतावत्कालपर्यन्तमवर्ते जयसमीपवर्तिनः तस्यास्थिकलशस्य माध्यमेन । वतिष्ये च - इतः परमपि । विसृप्टेऽपि तस्मिन् जयेन कस्यांचित् सरिति यवनसंस्पर्शादूपितायाम् । वतिष्य एव । ..." त्वं हि मम ज्येष्ठमपत्यम् । • अतःपरं, दिवंगते हि वन वीरभन्ने मयि च त्वमेव त्वेकमात्रमा वनं जयस्य समस्तस्य वा सिंधुराज्यस्य । तन्नियम्य शोकावेगं विजित्य नैराश्यभावं बधान परिकरं पापानामुच्छेदनाय" मातृभुवः रक्षणाय । मा विरम प्रयत्नेभ्यः । एकं तु संरक्ष व्ययी- हत्याऽपि प्राणान् ... स्वशीलम् । गृहाण तात ! रत्नमेतत् । तब जनन्या दत्तमेतत् । एतद्धि चूर्णितमवलीढं च सद्य एव पारं सर्वसां विपदा युवां प्रापयितुं क्षमम् । परंतु " एतच्छस्त्रं युवाभ्यां शोलरक्षणायव ग्रहीतव्यम् । सति शोले सुरक्षितेऽस्माकं कन्यकाः, सिंह्य इव शृगालान्, संख्यातीतानपि रिपून हिसितुं समर्था इति हि घोषति भारतीय इतिहासः । तन्मा वृथा कुरु साक्ष्यमैतिहासिकम् । मा विरम प्रयत्नेभ्यः । सफलीभविष्यन्ति न वा तव प्रयत्ना- एतत्तु विमोचितावपि पायिवदेहबंधनात् न सगर्थी माग्द्रष्टुमावाम् । नापि सिघु-करया व्याकुलौ तदर्थम् । यथाऽऽहाऽसकृदस्माकं राजकुलपुरोहितः 'कर्मण्येव' नूनं मानवस्याधिकारः । कर्मण्येव, तात !" अद्राक्षीच्च निनिमेपैक्षणा गदन्तमेवेत्यं परामृशन्तमेव मस्तके सस्नेहं तं विरलता . पारदृश्यतामुपयान्तम् । क्षणमात्रं निःस्पंदमवस्थितायाः सहसा समुत्थिताया व्यापार्य नयने विस्फारिते समन्तादवलोक्य सर्वान् पूर्ववदेव गाढ- प्रसुप्तानश्रद्दधानायाः स्वपितुराविर्भावे यदा तु तस्या दृष्टिरितस्ततो भ्रमन्ती स्वोपधानसमीप विराजमानस्य मंदेऽन्यलातप्रकाशे प्रस्फुरत- स्तस्य रत्नस्योपरि पपात तदा निमेषार्द्ध एव व्यलीयत तस्याः संशयः। उदियाय च तत्स्थाने प्रगाढो विश्वासः । तमनु दृढः संकल्पश्च । प्रसार्यपदप्यकंपमानं हस्तं सा जग्राह तद्रत्नं सूचयदिव किमपि निमेपोन्मेषः स्वकिरणानाम् । पीत्वा च तद्भावतीव्रया दृष्ट्या क्षणमात्रमगृहत चोलाभ्यन्तरे। आरभत च विनिद्रा विचारमग्ना प्रतिपालयितुमहरागमम् । पिपृच्छिपयेव च तीव्रया नैशस्योदंतस्य प्रेर्यमाणे प्राच्यंगणेऽ- वतीर्णे भगवति विपांपतो, प्राक्रमत धीरगंभीरा दृढवद्धौष्ठपल्लवा स्वसैनिकः सहाऽऽक्रमितुमुदीचीनं मार्गम् । प्रवसन्ती चाहोरात्रं, विश्रमयन्ती स्वदलमापतित एवा- परिहार्ये कारणे, मार्गपतितानां ग्रामटिकानां ग्रामाणां चाध्यक्षर्दुर्गाणां रक्षकैः पत्तनानां पौरैः परमस्वामिभक्तः समाकर्ण्य स्वनृपविशंसन- समाचारं चिंताग्रस्तैरपि यवनप्रतीकारार्थ बद्धपरिकरैः समवलोक्य राजवंशांकुरान सुकोमलानित्थमनाथानिव सह पितुरस्थिकलशेन प्रवसतो दुःखितैः स्वसाहाय्यमादेहपातं प्रतिजानभिः साश्रु नमस्क्रियमाणा, प्रोष्य, पक्षेण युगकल्पेन, निरीक्ष्य प्रत्यहं तस्याः प्रवासं निरन्तरं दीर्घतरं विगताहंकार इव पश्चिमांबुनिधौ निमज्ज्या- दर्शनं याति भगवति सप्ताश्वे, सूचयितुमिव तद्गृहनगरप्रवेशवाती सिंघु-कन्या दिग्वधूभ्यो मंदं मंदं वहति सायंसमीरे, द्रप्टुमिव तस्याः पैतृका प्रवेशमभयप्रदमवतरति गगनांगणे नक्षत्रमंडले,-प्राप, श्यामायम पौरस्त्ये क्षितिजे दूरात् परिलक्ष्यमाणं सांध्यरागोद्भासितलोहि प्राकारपरिवृतमभ्रंलिहसिंधुराजपताकासुशोभितध्वजस्तंभ विज्ञ कर्णोपकणिकया तदागमनवार्तामपावृतात् सिंहद्वारात संततं निःसर मतिक्रम्य शावलं परिसरं पुरःसरतां पौराणां पंक्तिव्याजेन ग्रही स्वस्वामिनोऽस्थिकलशं परिश्रांताद्राजकुमारहस्तात् भुजं स्वं दीर्घद प्रसारयन्तमतिप्राचीनं कुलसंकथास्वसकृदाकणितमपि सकृदेव बार काले निमित्तेन केनचिदृष्टपूर्व ब्राह्मणावासम् । तामनु च - वशंवद इव तदनुचर, प्रावृट्कालो धूलिधूसनि दिक्चऋवालेन प्रवलेन प्रभंजनेन प्रोद्घोषितप्रवेशो मदकलम निभमेघमेदुरितांबरः प्रचंडघनगर्जननिनादितदिङमंडलः संख्यविद्युल्लतासिलतादुर्धर्षः समुत्सुक इव बृंहयितुं तस्या सामर्थ्यम प्रचर सिषु-कन्या दादशः परिच्छेदः "गतो विलयं प्रावृट्काल"-आरभत चिंतयितुं राजदारिका, समुपविष्टा कृष्णशिलासने राजध्वजस्तंभमूलनिर्मिते, ध्यायन्ती क्षण- मानं श्रांतया इशाऽस्तं जिगमिपोविभावसोः करस्पर्शन दीपितां निरभंद्रनील नीलगगनप्रसृतामसितसागरपरिवृतकनकगिरिशृगतति- मनुकुर्वाणां जलदमालां, समवलोकयन्ती क्षणमात्रं पूर्वदिगंता- दाविर्भवन्ती त्वरया महत्या नोडानि स्वानि समुद्दिश्योत्पतन्तीमपर- दिगन्तेऽदर्शनं क्रमशो गच्छन्ती पतत्रिपंक्ति, पश्यन्ती क्षणमात्रं सुदूरादिगन्तप्रसृताच्छाद्वलात् प्रदेशादुद्गच्छन्तीं निर्वाततया परिसरस्यपदप्यविचलन्तीं धूमरेखां कांचित् क्षीणक्षीणाम् - एकला। . "बहु नाम तेनोपकृतमकारणमित्रेण । चतुभिरेभिर्मासर- हनिशं मुसलधारं वर्षता, स्थलानि मरुमयान्यनूपानि पुरुपगभीराणि पल्वलानि हृदगंभीराणि सरांस्यतलस्पर्शानि कुर्वता, विविधाः सरितो विदीर्य तीराणि क्वचिट्टपन्मयानि क्वचिदुत्तुंगानि क्वचिद्वनराजि- संकुलान्युपवर्तनान्युपतीराणि योजनविस्तृतान्यापूरयितुं स्वैराविलः फेनिलः जलौघः प्रेरयता, तेन तथा नामाभिभावितं रिपुवलं यथा - औष्ट्रकमिव पूरनिमग्नं - भयजडं प्राणसंधारणमेव बहु मन्यमानं नूनं समयमिमं दिवास्वप्नैः स्वमरुदेशीयैरयापयत् ।" १९८ सिधु-कन्या .... चेतसि । कैः खलु लोपितास्ते? समुपजातशंकैयवनः? आहोस्वित् मूकादिभिरस्मद्देशयबांधवरेव?" ...."घातं तेषां साक्षात्कृत्य यावान् दुःखितोऽभवज्जयः न तावान् स्वप्रयत्नानां नष्फल्यमनुभूय ।" अहो मनस्विता जयस्य ! एतावताऽपि नष्फल्येनाविच- लितः, अतिविशालेऽस्मिन राज्ये तत्र तत्र विकीर्णबलस्य प्रबलतरस्य प्रत्यर्थिन: प्रतीकारः पक्षाहतानां न्यूनबलानामस्माकं कृत एवंप्रकारक एव शक्य' - इति पूर्ववदेव, दृढं मन्यमानः, 'सह शरदा नूनमाचिक्रसेत उदोचीनमद्धं सिंधुराज्यस्य यवन' इत्युत्प्रेक्षमाणः, जिज्ञासया प्राचिकलयिषया यवनाक्रमणसंकल्पानां पुनः संप्रेष्य कृतकश्रमणकान् दक्षिणे प्रदेशे, विज्ञाय तदन्यतमस्य प्रत्यागतस्य मुखाद्यत् - 'यवनः प्रलयंकरेण निरंतरेणाऽऽसारेण प्रवाहितसमरसामग्नीभरो विनाशि- ताश्वो मातृदेशात् प्रस्थितान् सैनिकपोतान् महाप्रमाणान् प्रति- पालयन्, संप्राप्ते हेमन्त एव, प्रतिष्ठासत उत्तरदिग्विजयाय' इति प्रवृद्धोत्साहः, निक्षिप्यावत्यं प्रतिरक्षाभार मयि, 'अस्मत्प्रतीकारः, समुद्यतेषु त्रिचतुरेष्वपि भारतीयेषु नृपेषु साहाय्यमस्माकं कर्तुं स्वचमूभिः पराकातं दक्षिणं भाग सिंधुराज्यस्य-समुल्लंघ्य पौरस्त्यां सीमां - समाक्रमितुं समादिप्टाभिः, अधिकतर एवाभीप्सितप्रद' इति विश्वस्य, व्यतीत एव मासे निरगच्छदितः सह कतिपयरंगरक्षक- रश्वसादः स्वयं द्रष्टुं विज्ञापयितुं च गुर्जराधिपं शीलादित्यं, राष्ट्रकूटवंश्यमिंद्रराजं, उज्जयिनीश्वरं नागावलोकं प्रतीहारकुलीनं, मानमुदयपुरस्वामिनं, चालुक्यनृपं च विजयादित्यं साहाय्यदानाय ।" ...."अपि नाम सेत्स्यति तस्य प्रयास: ? त्यक्ष्यति किमोदासीन्यमात्मविघातकं वलभीशः ? कार्पण्यं दृष्टिकोण- स्येंद्रराजः ? उपेक्षाभावमान्तरिकविद्रोहदमनमात्रव्यापृतचित्तः नागावलोकः? मनोदौर्बल्यं मानः ? शांतिमंत्रजापं सर्वविनाशक समस्तभुवनाश्रय - श्रीपृथ्वीवल्लभ परमभट्टारकादि- भिरुपाधिभिमंडितात्मा विजयादित्यः?" , सत्याश्रय - २०० सिंघु-कन्या .... "नोत्सहते मम मतिरेवं मन्तुम् । (सात) प्रायत्यत खलु तातेनापि दुराशयाऽनयवाऽऽयास्यमानेन । न कोऽपि भारतीय: नृपो वुद्ध्वा परचक्रसंकटस्य वास्तविक स्वरूपं प्राहिणोत् स्वं वलं संवदंयितुं तातस्य सामय॑म् - ऋते कश्मीराधिपात् । ते च - अधुना - दिवं गते ताते, निगीणे सिंधुराज्याढे यवनवाहसेन, सहसा साक्षात्कृत्य स्वकर्तव्यं अकस्मादनुमायावश्यंभाविनी विपदमवि- नाशिते म्लेच्छाजगरे, विजित्य पारस्परिककलहभावनामुररीकृत्य- कीमावं भविष्यन्ति संनद्धा भारतभुवो रक्षणायेति नूनं दिवास्वप्नम् । किया स्यानाम - समवलोक्यापरिपक्ववयसं विनप्टपितृछाय- मनाथमिव स्वसंसदि समुपस्थितं प्रार्थयितुं साहाय्यं तेषां हृदयपरिवर्तः ।" ...."अथवा यद्भावि तद्भविष्यत्येव । किमेभिर्दुश्चिता- यासः ? एकमेव तु याचेऽनुग्रहं नियत्याः । जयो मम पोन प्रत्यागच्छतु समीपे विलुप्तवज्जसमवपावलंवाया विनप्टपितृसंरक्षणाया मानसमेभिदिनः विना जयेन व्याकुलतामत्यधिकामनुभवत् क्षणमात्रमपि एकलमवस्थातुं नोत्सहते।" मम मम (निवद्धय दृष्टिमेकानां पाश्चात्य क्षितिजे तावत्या कालकलयांधतमसाच्छन्न अचिरोदिते एकस्मिन् नक्षत्रे) "अथवा- 'सर्वथा देवताः स्वस्तिकरिष्यति ।' मया खलु तासु पर विश्वसत्या कर्तव्यकरणगाप्रबुध्याऽहनिशं प्रयतितव्यं यवनप्रतीकाराय ।" "दिष्ट्या प्रजाजना: सर्व एवास्योदीचीनस्य प्रदेशस्य श्रदालयः राजवंशेऽनुरक्तास्ताते प्राणान्तपयंतं प्रतीकाराय परचनस्य कृतशपथा इव मया परिलक्षिताः। प्रदेशेऽस्मिन् यवनस्य प्रविष्टिः प्रगतिश्च न विना यासं भविष्यति - दक्षिण इय । सामरिकदृष्ट्या सुजम्मो बहुरूपरामः स्थलदुर्गोऽपि प्रतिरोधायावश्यंभाविनः म्लेच्छा- क्रमणस्य, धुत्वैव स्वस्वामिप्रमापणसमाचारं यद्धपरिकरो- वर्षत एव सिंधु-मन्या २०१ मुसलधारं देवस्य,- प्रवृहत एव प्रभंजनवेगस्य मरुत्वत: प्रावृपेण्यस्य तर्जयत एव वज्रनिर्घोपैः पुरंदरस्य, कटिदघ्ने वर्षाजले दिगन्तप्रसृतेऽ- वस्थाय श्राम्यद्भिः रक्षकः निखातपरिखः, क्लिन्नपरिधानः सैनिकः परिवद्धितप्राकारः, जलप्राय प्रदेश आसमन्तिके पर्यटद्भिर्दुर्गाधि- कारिभिरवचितैः रणकलायां दीक्षितर्मनस्विभिर्युवभिः समुपबृंहित- सामर्थ्यः संप्रति गोभक्षकाणां भक्षणायाऽऽतुर इव लक्ष्यते । दालिम- सदृशः क्रीडादुर्गोऽपि समुच्छेद्य योजनविस्तीर्णानि दालिमोपवनानि निर्माय परिखावलयं निरुरुत्सति द्विपद्वलं प्रयुज्य समुपस्थितेऽवसरे पर्यंतपर्वतनिदरेषु दुर्लक्ष्येषु कंटकारिकाच्छादितमुखेषु निलोनान कृतांतस्वांशावतारानिव निर्दयान् धानुष्कान् ।" "योद्धारोऽस्म महादुर्गस्य यादृशा युयुत्सवो मया दृष्टाः न . तादृशा आलोकदुर्गस्यापि । प्रतिक्षणं स्वसामर्थ्यसंवर्धन एव संलग्ना, दिवानिशं प्रतीकारचितन एव दत्तचित्ता असत्याऽऽक्रमण आततायिनः - स्वयमेव तमाचिकंसन्ते संक्रान्ते दिवाकरे मकर- राश्याम् । पौरा अप्यस्य ब्राह्मणावासस्य यथा स्निग्धा अस्मासु मयाऽनुभूताः न तथा देवलपर्तनस्यापि । अवलोक्यास्मान् विपद्वात्या- विनाशितपितृछत्रानशरणानिव समापततस्तस्मिन् समवेदनया प्रत्युद्गतानीव तेपां हृदयानि नाद्यापि वांछन्ति नूनं प्रतिगन्तुम् ।" "सह जयेन तस्मिन् प्रभात इतो नातिदूरवर्तिन्यां • पावन- सलिलायां तस्यां : नद्यां निमज्जयितुमस्थीनि पित्रोः गतानां तेषां मनसि समुत्पन्ना सहवेदना वर्द्धत एव नूनमहरहः। कौटुंबिकः स्नेहपाशैः संबद्धमिवाऽऽत्मानं पूज्येन पितामहेन राजवंशप्रस्थापफेन सह मन्वानाः स्निह्यन्त्यस्मासु निरपेक्षम् । सुखदुःखान्यस्माकं सह भुञ्जते । दुःखानि त्वात्मनो गोपायन्त्वस्मभ्यः। विप्रबहुला: शांत- स्वभावाः निरीहाः न वांछन्ति-किमप्यस्मत्सकाशात् ।" "तस्मिन् दिनान्ते..युद्धचिताभारम्लानया-मया किंचिद-- भिव्ययता पैतृकगेहदिदृक्षां कर्णोपकणिकया-श्रुत्वा कथमपरेयुरेवास्तं-- निशामुखे. T २०२ सिंधु-कन्या.

'गच्छेति सदितरि तंबृद्धाः 'सस्मितानना 'अनाहूता एव समुपतस्थुः, बहु बहु च विज्ञापयामासुः संमानयितुं भूतपूर्वमावासं पितामहस्य सकृदवलोकनेन, कथं स्वीकृत्य तदनुरोधमितः प्रस्थितान् पादचारेणव राजपथेनाने सरतः प्रणामान नागरिकाणां स्वीकुर्वतोऽस्मान् सोत्साह 'कापथस्थितमपि मृण्मयमपि यत्नसंरक्षितमिव लक्ष्यमाणं गोमयो- पलिप्तकुड्यं तन्निन्युः, प्रवेश्य चास्मान् विस्मितान् तदभ्यन्तरे कथं वर्णयामासुः प्रस्फुरत्प्रातिभप्रकाशास्तत्र व्यतीतं, शैशवं वाल्यं च पितामहस्यानाथस्य ततो निर्गमनं च तस्य वालस्यापि प्रस्फुरन्महत्वा- कांक्षाऽशांतस्वभावस्य समुद्दिश्य राजधानी शुश्रूपोः रायकुलभूपणं नृपं साहसिक, संकीर्णे सद्यः प्रज्वालितमृद्दीपिकादीपिते, तत्प्रांगणेऽ- कथाः धृण्वतोऽस्मान् कथं स्नपयामासुश्च 'दुग्धकुल्याभिरिव' स्निग्धाभिई प्टिभिः तव सर्व स्मृतमधुनाऽपि "(सहसा सवैलक्ष्य) का खल्वासीत् सा वृद्धा कृष्णा कुब्जा कृशा मध्ये तेषाम् ?- सा हि न: न जाने कियत: कालात् - वृद्धयापि तीक्ष्णया दृष्ट्या वन्धुं भेत्तुं छेत्तुं प्राण. पणेन यसन्तीव सहसा मयाऽलक्ष्यत । क्षणमानानन्तरं निगडय्य स्वप्टिं विपमयों मम दृष्ट्या चकितचकितया कुत्सितं विदन्तं हसन्ती..."अकस्माच्चादर्शनमात्यंतिकं गच्छन्ती।" वस्थाय तास्ताः खलु .... .... वामना .... ? अहो "कुत्र नु मया सा पूर्व दृष्टाऽऽसीत् ? ..." कुम नु स्मृतम् ! .... परंतु "जयतु भर्तृ दारिकी"- सहसा श्रुतिपथं समापतितेन धीर- गंभीरेण स्वरेणाभज्यत तस्या विचारतद्रा । भलोवत च सा, ध्यावर्तितमुखारविंदा पाश्वत एव राहैकेन मदेशहरेण प्रवासपरिधतिन समुपस्थितं सुदूरप्रज्यसदुरमुकप्रकार्यमानाऽऽकृतिरेख क्लातयाऽपि स्नेहसिक्तया दृशा तामनिमेषमवलोकयन्तं घोसचिव ब्रह्मदत्तम् । समुत्याय झटिति सादरं समुपावेशितं तस्मिन्नेव पदासने पृष्टं च सिंधु-कन्या' कार्यगौरवं भावमुखरया दृष्ट्याऽशृणोत् गदन्तं - "चिंताम्लाना भर्तृ दारिकाऽनधिगत्य कुशलवार्ता स्वभ्रातुः दिनैरेभिः प्रोपितस्य समाश्वसिष्यति निशम्य सद्य एवागतस्यास्य भद्रमुखस्य माध्यमेन प्रेषितं संदेश - यत् - सर्वथा कुशली सः, दृष्ट्वा यथासंकल्पं गुर्जराधीश्वरं शीलादित्यमादित्यप्रताप, विज्ञाप्य तं साहाय्यदानाय, तेन सवहुमानं समाश्वासितः, साक्षात्कर्तुमुज्जयिनीशं जयशीलं कृतप्रस्थान, आशंसते कुशल मिहत्यानां, प्रार्थयते च - - लेशतोऽपि तद्विपयेऽनुद्विजमानः सर्वैः परचक्रप्रतीकार एव सर्वथा दत्तचित्त - व्यमिति ।" "अहो प्रागल्भ्यम् ! नूनमतिवया इव संदिशति ।" - सस्मितमवदद्राजदारिका । "आम् !" प्रत्युवाच स्मेरवदनः स वृद्धः । "चतुर इव च । भर्तृ दारिकाया एव विशिष्य कुशलमाशंसमानो भर्तृ दारिकामेव प्रार्थयमानः प्रागल्भ्यापवादं परिजिहीर्घः .... सर्वेषामिहत्यानां कुशल- माशंसते । सर्वाश्च प्रार्थयते।" वदन्नेवेत्यमुदतिष्ठदनु राजदारिकां स्मयमानवदनकमला समवलोक्य प्रहरजीणां तारकितां निशां रात्रिभोजनाय समुत्थिता- मन्वसरच्च तां शनैः शनैः प्रस्थिताम् । परंतु प्रसादोऽयं चित्तस्य राजदारिकाया अचिरादेव व्यलीयत दुश्चिताः घनैरप्रत्याशितैः । अनतित्रांत एव सप्ताहे समरोद्यमव्याकुलाकुले हि समापतत् तस्या, उपविश्य विश्रामक सावधानं विचारयन्त्या उदीचीनात् सामरिकदृष्ट्याऽत्यधिकमहत्व- शालिनो मूलस्थानात् सद्यःप्राप्तान समरसंनाहसमाचारान्, सेवायां... एकः साधारणवैश्यवेषः प्रौढः पुरुषः। विनिवेद्य च तस्य धीसचिव- मात्रद्वितीयायै स्वात्मानं स्पशं देवलपर्तनाद्वाणिज्यमिषेण निभृतं निर्गत्य पराधिकृतं प्रदेशं कथमपि समाक्रम्य सीमारेखां महता २०४ सिंधु-कन्या चातुर्येण समुल्लंघ्य समुपस्थितं, अकथयविस्पष्टाक्षरं पलथीभूत एव सामुद्रिके प्रावृषेण्ये पवने यवनदेशेभ्य: प्रस्थितेभ्य: जवेन तीव्रण संतीय महासागरं देवलपत्तने समुपस्थितेभ्यो महाकायेभ्यः सैनिकपोतेभ्यो दिवानिशमवतरतां सिकतिले विस्तीर्ण सिंधुसरिदा- मुखकूलप्रदेशे निर्मिते स्कंधावारे व्युष्य द्वित्रीणि दिनानि तत उदीच्यभिमुखमुपतीरेण मार्गण प्रसरतामश्वसादबहुलानां यवन- सैनिकानां वार्ताम् । "अत्याहितम् !" - सविपादचितयद्ब्रह्मदत्तः । "पुनर- प्येकवारं विप्रलब्धाः स्मः कृतकस्पशसमाचारेण संप्राप्ते हेमंतर्ती एव प्रतिष्ठासत उत्तरदिग्विजयायेति' सूचयता। 'द्वपणः - " अथवा "अहो क्षिप्रकारिता यवनानां" सविरमयमाह राजदारिका । "आदित एव सज्जीकृत्य संनिधापिता, नूतनोद्दामविजिगीपादुःसहा अश्ववारबहुलाः सेनास्त: - प्रशममुपयात एव महासागरे-स्वदेशात् प्रेपिताः संवर्द्धयितुं तेपामिहत्यं वलम् ।" "उपकूलेन मार्गेणोदीच्यभिमुखमेवं नीयमानास्ते वाध्यन्ते तैस्तैरुपद्रवः प्रकटरप्रकट ?"-अपृच्छद्धीसचिवः । "नेपदपि" - सखेदमाह स गूढः पुरुषः । “चतुभिरेभिर्मासैः म्लेच्छेन हि तथाऽनवरतं प्रयतितं यथा दाक्षिणात्या अस्मद्वांधवा: सर्वत्र विचरतां श्रमणकानां मुखारविदेभ्योऽराकृदाकर्ण्य विधिविधान- घोपं देवोपनतस्वीकारोद्यता, अणीयसीमपि क्षति यवनात् स्वसंपदः स्वमानस्य स्यकलत्रादिकस्य चाननुभूय परं समाश्वस्ताः, प्रत्यक्षीकृत्य तस्य सर्वधर्मसमानभावं चकिता, दृष्ट्वा तस्य लुलुण्ठिपया क्षुद्रयाऽपि प्रवृत्तमात्रानां स्वसैनिकानां दंडधारणे तत्परतां विस्मिताः - कि बहुना -तहास्य एव स्वकुशलमधिकतरं मन्यमानाः, न केवलं तमुपद्रोतुं नोत्सहन्ते, अपि तु - अनुसृत्याधमान मूकादीन् प्रवर्तन्ते तस्याभीष्टकरणाय।" सिंघु-कन्या २०५ - 4... 'उपजापार्थमितः प्रेपिता अस्माकं स्पशा अनुत्तमा अपि - दक्षिणे प्रदेशे ... पके-निमग्ना:, पथिका इव लोपमात्यं- तिकं ययुः - इति नातःपरं विस्मयकारकम्' - अचिंतयद्राजकन्या सखेदम् । "पाश्चात्त्येनोपकूलेन मार्गेण नीयन्त उदीच्यभिमुखं सद्योऽवतारिताः सेनास्तेन"उत पौरस्त्येन ?" - अपृच्छब्रह्मदत्तः । "द्वाभ्यामपि" - प्रत्यवदत् सः स्पशः । - "विजितायां राजधान्यां, सिंधुसरितः पारापारप्रभुर्यवनः किमिति द्वावपि मार्गों नोपयुज्यात् ?" आक्षिपद्राजदारिका । "सुष्ठुक्तं भर्तृ दारिकया" - स्वीचकार धोसचिवः । "शीघ्रमेव" - अगदत् सा सचितं, व्यपगते प्रणम्य तस्मिन् गूढपुरुषे, “यवनसेनाः प्रत्यग्नजिगीपादुर्धर्षा अभिभवितुमस्मत्पृतनाः पराभवस्मृतिम्लानाः प्रवेक्ष्यन्ति प्रदेश उदोचीने । तन्मन्य. आह्वातव्यः जयोऽस्माभिराव संप्रेष्य दूतम् । स हि यथा शक्ष्यति प्रतिरोधू प्राथपृतनाप्रगतिमुपसीममेव"न तथा कोऽपि ।" "परंतु - युवराजेनाविज्ञापितो वलभीश उज्जयिनीनृपो वा न सेनाः स्वा: प्रेपयिष्यत्यस्मत्साहाय्यार्थ" सखेदमवदत् ब्रह्मदत्त: "विज्ञापितः प्रेषयिष्यति इत्यय कि प्रमाणम् ?" आक्षिपद्राजकन्या। "न, किमपि" - प्रत्याह घोसचिवः । "तथापि - मित्र- संपदर्जनाथं प्रस्थितो युवराज एवं त्याजयितव्यः सद्यः प्रारब्धां चेष्टां, प्रत्याह्वातव्यश्च भयातुररस्माभिरिति तावत् " नाहं । कदाचित् प्रियदर्शनः प्रियंवदः लभेताऽपि साफल्यं स्वे प्रयासे । प्रबलंबलेन ... २०६ सिंधु-कन्या केनापि भारतीयेन नृपेण पीडितदक्षिणपार्वा यवनसेना न तथा प्रभविष्यत्यभिभवितुमस्मान् यथा सर्वदिनिराशंका।" "यथेच्छति तातः" जगाद राजकन्या। परंतु-आशापिशाचिकाया अस्या मुक्तिमलभत धीसचिवोऽपि तदहरेव । अस्तंगते हि भगवति सवितरि, निविण्ण इव साक्षात्कृत्य तद्दिवास्वप्नं, अवतमसाच्छन्न आरामे पर्यटन्, स्वात्मनैव किमपि विचारयन् स वृद्धः राजपुरुषोऽपश्यदेकं प्रवासपरिम्लानं प्रवृद्धश्म- श्रुजालं निर्धनकृपीवलवेपं पुरुपं दौवारिकेन परिजातकार्यगौरवेणा नीयमानम् । अशृणोच्च तस्मात् प्रकटीकृतस्वयथार्थरूपात् स्पशाद- नपेक्षितं समाचारं विधूय वर्षाजाड्यमादित एवाऽऽक्रमणेसंनद्धाया आक्रम्य योजनशतविस्तीण मरुदेशं मातृदेशात् समुपस्थिताभिः पृतनाभिः' समुपोद्वलितसामर्थ्यार्या बलातिरेकोसिक्तायाः शिवि- प्रदेशकटकानिर्गत्या - सिंधुसरितः पाश्चात्त्ये तीरे क्लृप्तसंनिवेशाया उत्तितीर्पया दिगन्तप्रसृतस्यागाधस्य सरितप्रवाहस्य नौकावलं मूकेनाऽऽ- योज्यमानमातुरातुरं प्रतीक्षमाणाया यवनसेनायाः । 'समूलधातं जिघांसुरस्मान् सेनां नः दक्षिणदिशः समुपसर्पन्तीभिः स्वचमूभिरायोधने योजयित्वा तामेवं पार्वतः सहसाऽवस्कन्तुं प्रसह्य च हिंसित्तुमिच्छति । .... विफलयितुं तस्याभ्यासादनं युवराजस्यात्र समुपस्थितिः नितान्तम- भीष्टा। स हि समरांगणयोर्दयोरपि - सुरासुरसंग्रामे सुरेंद्र इव युगपदेव.विलसन् यथा : स्वोदाहरणेनास्मद्भटान् प्रोत्साहयितुं शक्ष्यति न तथाऽन्यः कोऽपि" - इति मंत्रयित्वा च भर्तृ दारिकया सह प्रहरमात्रखंडितायां तस्यामेव रजन्यां विश्वसनीयमेकं प्रत्युत्पन्नमति दूतं मौखिकेन-संदेशेन सह व्यसृजत् उज्जयिन्य । .... यवनः सिंधु-कन्या- २०७ त्रयोदशः परिच्छेदः युवराजमिमिलिषेयं तयोश्चितायां पर्यणम्यतापरेधुरेव मध्यमलंकुर्वति विवस्वति परीक्ष्य समरसंनाहं सिष्णासया समुत्तिष्ठतोः सेवायां सरभसं प्रवेशितेन समुच्छ्वसद्वक्षःकपाटेनाश्वसादेनकेन, विनिवेद्याऽऽत्मानं गुर्जरराजधान्यां युवराजेन नियुक्तयोश्चारयोरन्यतरं, स्वस्वामिनः प्रस्थानस्यानुपदमेव गुर्जराधिपसेवायां संप्राप्तस्य महाप्रमाणः श्मश्रुलमुखैयूंढकंकटरारक्तलोचनरहंमन्य रिवाs- रक्तगौरैः यवनरश्ववारस्तीक्ष्णदृष्टिभिः पंचशताधिकरनुत्रियमाणस्य यवमवाहिनीपतिसंप्रेषितस्य दूतविशेषस्य स्वयं राज्ञा शीलादित्येन रहसि साक्षात्कृतस्य वार्ता संसूचयता। ..."अत्याहितम् !" सविपादमवदत् घीसचिवः । "समुत्प्रेक्ष्याऽस्माकं प्रयत्नं नूनं विफलयितुं तं समीहते चतुरो यवनः । प्रवञ्च्य संघवी जनतां स्वकीयेन सर्वधर्मसमभावेन कृतकेन चेप्टतेऽधुना विप्रलन्धुं भारतीयान् नृपान् भ्रातृभावप्रदर्शनेन । 'अपि स सेत्स्यति प्रतिप्रयलेऽस्मिन् ? अथवा बिडालधूर्तस्य तस्य मनोगतं नियतमेव वेत्स्यन्ति शीलादित्यादयः प्रबुद्धा भारतीया राजानः। करिष्यन्ति च शस्त्रपरिग्रहं - सत्येव समये - समुद्धरणाय शल्यस्य भारतमातुः शरोरे......." "कियन्तोऽश्ववारा इतस्तातेन संप्रेपिता जयेन सह ?". सहसाऽपृच्छद्राजकन्या। - .... .... - २०८ ... .... " .... .... "कियन्तः अश्ववाराः संप्रेषिताः? मन्य-पंच- विशदनधिकाः । .... किमिति पृच्छति भवती?.." अपि अपि मन्यते भवती ?" "विपरीते दैवे किमिव नानाय ?.... कियान् धूर्त:"" कियान कूटाक्रमणनिपुणो यवनोऽयं - प्रत्यक्षीकृतमेवैतदस्माभिस्तस्य तस्मिन् कृतकसौहार्दसंदेशे निमील्याक्षिणी विश्वसद्भिस्तेन सप्रयोजनं प्रसारिता: लोकवार्ता अवलंब्य सिंधुसागरसीमापरिरक्षण औदासीन्य- मात्मविघातकमुररीकुर्वद्भिः । विजिते प्रदेशे सुस्थितमात्मानं समीक्षमाणोऽवशिष्टमद्धं यावच्छ्क्यं शीघ्रमेव विजेतुं समुत्सुक जयमेवैकाकिनमल्पवयसमपि दुर्घपं जनप्रियं तस्मिन् प्रत्यवायं मन्यमानः कामपि .... राक्षसी ... नीति नावलंबेत- इत्यत्र किं प्रमाणम् ? वनस्य मे वृत्तांतः किं तातेन ...."अत्याहितम् !" - सविपादमाह स वृद्धः, प्रयतमानो गृहितुं प्रकपं सहसा समुद्भूय हृत्पदेशे प्रसरन्तमिव पाणिपादे । "एतस्मिन्नेव क्षणे प्रेपयामि प्रवलं बलमश्वसादिनां पणोकृत्याऽपि प्राणान् युवराजं संरक्षितुं वद्धपरिकरम् ।" वदन्नेव चेत्थं किमपि किमपि निरगच्छत् कक्षादनपेक्षमाणो भर्तृ दारिकाया विमनस्कायाः स्वीकृतिम् । एवं निर्दयन देवेन तज्जिहसिपया क्रूरया स्वयं कर्णे जपिताया इवामंगलाया आशंकायाः हृत्कर्तेन्या उच्चारणादपि विभ्यतो:, हृत्कंपं स्वं परस्परतः जुगुप्सितुमन्यान्येषु कार्येपु ध्यापृतमिवात्मानं दर्शयतोस्तयोस्तन्मात्रविदितचिताभारजड: स सप्ताहो युगदीर्घ इव शनैः शनैः व्यरंसीत् । निमज्जयितुं तो घोरतरेऽवसादे विधिना प्रेपित इव च समुपातिष्ठदेकस्मिन् प्रभाते, व्यतीते भौमवासरे संप्रेषितानामश्व- चाराणामन्यतमेन घोटके स्व उदुह्यानीतः, शस्त्रप्रहारविलूनदक्षिण- : सिंधु-कन्या २०९ कूर्परोऽपि ज्वरातिरेकारक्तमुखमुद्रोऽपि सावधान एकस्तुरगारोहः । च कथमपि, राजदारिकया विदितवेद्ययेव सहसा निश्चलतामुपेतया निनिमेपया दृशैव समादिष्टः, घर्घरस्वरमारभत प्रणम्य वक्तुम् । "यदि नाम युवराजः संयम्य यौवनसुलभामवहेलना- प्रवृत्ति (धीसचिवमुद्दिश्य) समनुसृत्यायभवतामुपदेशं प्रस्थानसमय आत्मना सह प्रबलं बलमंगरक्षकाणामितोऽनेष्यहि शत्रुरेवं तमभिभवितु नाशक्ष्यत् । संप्रति तु - भाग्यमेव "अपि कुशलं युवराजस्य ?" - तीक्ष्णस्वरमपृच्छवृद्धो ब्रह्मदत्तः, समवलोक्यापांगदृष्ट्या मुखमुद्रां राजदारिकायाः सहसा विवर्णाम् । "आम्" - प्रत्यवदत् स वृद्धः । "तहि निवेदय सविस्तरम्" - आदिशद्धीसचिवः । "यदा खलु युवराजो गुर्जराधीश्वरेण शीलादित्येन स्वसंसदि सबहुमानं समाश्वासितोऽन्यभारतीयनृपतिदर्शनार्थ विसृष्टस्तदा स लेशतोऽपि न समदिग्ध तत्सदाशयतायाम् । प्रत्युत - प्रथम प्रयत्न सफलं शुभशंसिनं मन्वानः समुवेल्लदुत्साहपूरः प्रातिष्ठत तदहरेव उज्जयिन्यै" - प्रारभत स सैनिकः । "रिपुदमनस्तु, (धीसचिवमुद्दिश्य) श्रीमता तदंगरक्षक- नायकत्वेन संप्रेपितोऽनुभवविदग्धोऽप्रत्याशितसुलभमानुकूल्यं गुर्जरेश्व- रस्यावलोक्य किंचित् शंकित:, 'युवराजस्येयमाज्ञा' इति कृत्वा द्वौ स्पशो परमचतुरौ तस्यां राजधान्यां निभृतं नियुज्यैव ततः प्राचलत् ।" "अचिरादेव तु व्यस्मरत् स्वा दुःशंका, स्वामिन उत्साहभरेण प्रभावितस्तेन सह तास्ता भव्या भाव्याः प्रत्याक्रमण- योजनाश्चर्चयन् ।" सिंधु-कन्या "अत एव यदा तृतीयेऽहनि समवलोक्यास्तंगतप्रायं दिनकर मार्गपतितस्य कस्यचिद्गहनस्य वनस्य प्रांते शाहले क्लृप्तस्कंधावारं व्यपनीय क्षुधां पटवेश्मनि विश्राम्यन्तं स्वामिनमामंत्र्य सः प्रविश्य पटकुटी स्वां शय्यायामात्मानमपातयदारभत च चिंतयितुं किमपि किमपि - तदा निराशंकतया मनसः श्रांततया च वपुपः कतिपयेप्वेव क्षणेषु निद्रासागरेऽतले किशोर इव न्यमज्जत् ।" "कथं खलु स अबुध्यत, गृहीत्वा वा खड्गं स्वामिनः पटवेश्म प्राविशदेतत्तु नाहमजानां, जानामि, (दीर्घ नि:श्वस्य) ज्ञास्यामि वा कदाचिदपि । यदा त्वहं सहसा समुद्भतेन कोलाहले- नाजागरं, सहसुप्तान् सैनिकान् समुत्तिष्ठत, आयुधानि यानि कानि गृह्णत:, निप्कंकटमेव च बहिनिर्गच्छतोऽपश्यं, "किमिव समापतितं स्याद्' - इति विचारयन्नेव च निस्त्रिंशपाणिः स्वामिनः स्कंधावार- गध्यवर्तिनं पटवासमुद्दिश्याधावं - तदाऽद्राक्षं तं शताधिकर्वमितः पादचारिभिः संतमसाच्छन्नतया परिसरस्यांधकारखंडैरिव परिलक्ष्य- माणः सशस्त्रर्यवनसैनिकः परिवेष्टितम् ।" "यावच्च चिंतयामि कमप्युपायं निर्भेतुं तद्विपद्वलयं प्रवेष्टुं च स्वामिनः शय्याकक्षं कथमपि तावदद्राक्षं तमेव सहसा बहिरागतं विकोषया रक्तारक्तया कालीकटाक्षभीपणयाऽसिलतयाऽऽ- ततायिनः, समवलोक्य तं सभयमपसर्पतः, खंडयन्तं, निष्कवचेन करयालकरालेन रिपुदमनेन युद्ध यमानेन संरक्ष्यमाणपाणिभागं, शनैः शनैः समुद्दिश्याश्वबंधनस्थानं प्रचलन्तं, प्रविश्य तत् समारटकं प्रजविनमश्वं - आहूयास्मान् वषनिर्घोपगंभीरेण स्वरेणानुसत्मवि- संवमेव - कांताराय प्रतिष्ठमानं, झटित्यारुह्य तुरगान्तरं तमनुगंतुं प्रवृत्तं, सहसा पार्श्ववतिना केनापि यवनाधमेन प्रक्षिप्तेन प्रासेन विदीर्णपाश्चं, विलूनं चंदनवृक्षमिव निपतन्तं, रिपुदमनमजानन्तमप- रस्मिन्नेव च क्षणे गहने वने प्रविश्यादर्शनं यान्तम् "क्षणमेकं निक्षिप्य दृष्टि भूमितलनिपतिते स्वनायके, समीक्ष्य च तं प्रमोतं, सहयोद्धृभिरन्यैः साकमरण्ये प्रवेष्टुं प्रवृत्त एव सिंधु कन्या सहसाऽन्वभवं विद्युन्मयमिव निशितनिस्त्रिशप्रहारं (समवलोक्य स्वं दक्षिणं भुजम्) अस्मिन् कुतोऽपि निपतन्तम् । वेदनापरिजिहीपयेव तत्क्षण एव संजया परित्यक्तः नावेदात्मानं तुरगानिपतन्तम् । यदा तु तां पुनरध्यगच्छम् अद्राक्षं तदाऽऽत्मानं ज्वलद्दक्षिणकूपरं, संतप्त- शरीरं, तृड्ड्याकुलं, मध्यं गगनस्याध्यारुढेन प्रबोधयितुमिव मां प्रयत- मानेन दिनकरेण विस्पष्टं प्रकाश्यमा रितस्तः विकीर्णः, समीपो- पविष्टः निश्चलमहाकाय| राप्तजनरिव सनाथानां यवनसैनिकानां शवैः सह भूमौ पतितम् ।" "नावालोकयं कमपि द्विपादं शरीरिणमासमन्तात् । महता कप्टेन समुत्थाय, पिपासाऽपनिनीषयैव केवलया प्रेर्यमाणोऽतीत एव मध्याह्न मार्गपतितां ग्रामटिकां समुद्दिश्य पदानि कतिपयानि क्षिपन्, सहसाऽद्राक्षं नियत्यैव चिरान्नूनं दयाया मद्दिशि संप्रेष्यमाणमश्व- वारदलमेकम् आस्माकम् । सरभसं समीपमुपगतेन तन्नायकेन प्रत्यभिज्ञातस्तुरगे स्वे समारोप्य सत्वरं नातिदूरक्लुप्तं कटकं नीतस्तत्र बलाध्यक्षेण स्वयं पृष्टः, निवेदितनिवेदनीयः, संप्रधार्या- त्मनैव सह किमपि तत्क्षणमेव कोतारे स्वयमपि प्रवेष्टुं कृतनिश्चयेन तेन सहानेन भद्रमुखेन प्रेपितो, भर्तृ दारिकायाः सेवाया- मुपस्थितोऽहम् ।" "नूनं सेनजित् कांतारे तस्मिन् अन्विष्य पराजेष्यते तद्यवनदलम् आनेष्यते च युवराज" स्वगतमिवाऽऽहाधोमुखो धीसचिवोऽपगते तस्मिन् सैनिके । राजदारिका त्वनभिज्ञेव तस्य सैनिकस्यापगत्याः सदिच्छाया वा तस्य पितृव्यतुल्यस्य वृद्धस्य, चितासागरेऽतले निमग्ना, चित्रलिखितेव चिरमास्ताघोदृष्टि: । समुत्तार्य इव चाऽऽत्मानं महता प्रयासेन, दोघं निःश्वस्य समुत्थिता, निरगच्छच्छनैः शनै- मंत्रणाकक्षादसमर्था मीलयितुं खेदविह्वलां स्वां दृशमपराधबोध- व्याकुलया वृद्धया हशा ब्रह्मदत्तस्य । .. २१२ सिंधु-कन्या .... क्षण- अयं स तयोः खेदः, प्रतिस्किरन्निव तन्मर्माणि, दहनिव तद्हृदयं, लुचन्निव तज्जिजीविषां पिशाच इव दारुणः मेकमपि तो नाजहात्। अश्लथत्वणुमात्रं चतुर्थेऽहनि वियन्मध्य महता कष्टेनाss- रोहति सवितरि सेवायामुपस्थितेन सेनजित्सैनिकान्यतमेन निवेदितं - गहने कांतारप्रदेशे सर्वत्र विकीर्णानां यवनसैनिकशवानामेव शृगालादिभिर्जग्धप्रायाणामुपलभं - निर्गत्य कांतारमुखात प्राच्याद्- वामीकृत्यारण्यमुदीच्यभिमुखमवशिष्ट: सैधवैः सैनिकैः सह वेगेन प्रसृतस्य, कतिपयर्यवनरश्वारोहैरनुसृतस्य युवराजस्य समाचार वनेचरेभ्यो लब्धं - स्वनायकनिश्चयं च सहैव स्वामिना गृहाऽऽ. गमनस्य निशम्य। यथा यया त्वारभन्त दिनान्यत्यतुमेकैकशस्तथा तथाऽवर्द्धत पुनरपि स तयोः खेदः। प्रतिदिनं सीमासमीपमुपसर्पतां समुपसृत्य सांद्रतरीभवतां सांद्रतरीभूय तितेजयिपया नु स्वायुधानां सीमांत- वर्तिनमविजितं प्रदेशमुत्पीडयतां यवनबलानां प्रलयपयोदानामिव विवर्षाव्याकुलानामन्तःसंघट्टमानविषभराणां श्रुत्वा समाचारान प्रधानात् स्कंधावारात् पृतनाः शस्त्रसंपन्नाः प्रतिवासरं प्रेपयतोः, प्रेय ताः स्वयमपि तेषु तेषु सीमाप्रदेशेषु परिभ्रमतोः, परिभ्रम्य मनोवलं तत्रत्याया जनतायाः परिवर्द्धयतोस्तयोर्मानसमप्रत्ययमिवाभ- त्मनि संदिहानमिव स्वक्षमतायां प्रतिक्षणमागमनमेव युवराजस्य प्रत्यपालयत् । निष्फलमेव। न हि प्रार्थयमानानामप्यसंख्यानां संघवानां प्रत्यागच्छत् प्रियदर्शनो युवराजः । आगच्छत्तु तडिद्वेगेन कुसमाचारः समुल्लंघ्य दाक्षिणात्यां पाश्चात्त्यामुदीच्यां च सीमां युगपदेव पुरः प्रचलितानां विभिद्य रोघांस्यन्तः प्रविशतां प्रलयसागरांभसामिव दुष्प्रधर्षाणां भोषणगर्जनानां यवनसेनानाम् । सिंघु-कन्या २१३ उररीकृत्य वज्रसंकल्पं तत्प्रतिरोधस्य ताः प्रत्युद्गतयो- स्तत्क्षण एवाऽऽरुह्य तुरगौ दुर्गानिर्गतयोरनवरतं प्रोष्यावधीर्य परि- श्रमातिरेक न्यक्कृत्य बाधाजातमविगणय्य दिवानिशं तासु तासु रणधुरासु युगपदिव प्रादुर्भवतोरनुपयुज्य हास्तिकमश्ववलमेव समवलं प्रतिरोधाय प्रत्यथिपृतनानां सर्वत्र प्रयुञ्जतोस्तत्र तत्र प्रवृत्तानि तीवाणि प्रत्यास्कंदनानि स्वशौर्यप्रदर्शनेन तीव्रतरीकुवंतोस्तयोरुदा- हरणं समवलोक्य समुत्तंभितात्मवलाः संघवसेनाः विस्मृत्य ज्येष्ठ- कनिष्ठभाव तिरस्कृत्य वर्गभेदं निष्कृत्य परिणामविचारं तथाऽऽरभत प्रतिरोधु यवनसेना यथा ता अपि दिगंतप्रसृतशौर्यगाथा अनुभूया- ननुभूतचरं प्रतीकारं विस्मिता बभूवुः । विस्मार्य विस्मयं द्विगुणितेन वेगेनाऽऽचक्रमुः । अवलोक्य तमपि निष्फलं किंकर्तव्यमौढ्यं च - अन्ते भेजुः । न तु तत्प्रमुखः । स त्यनुभूय वच्चदुर्भेद्यं प्रतिरोधं हृष्टः, प्रत्यर्थिप्रदेश- पदक्षेपादारभ्यासकृत् श्रुतकीर्त्याः रणांगणे तस्मिन् सकृदवलोकिताया विलूनपितृछायाया भ्रातृवियोजिताया वृद्धसचिवमानसहायायाः कन्यायाः स्वारातेस्तादृशं संन्यसंचालनचातुर्य युद्धकलानं पुण्यं च दृष्ट्वा चकितः, लांगूलचालनचतुराणामवलोक्य स्वबांधवानां पराक्रममीपदप्यहृष्टानामह्रीणानां साक्षात्कृत्य स्वकार्पण्यं प्रत्युत संतप्तानां मूकादीनामपभाषणदुर्गधां भाषां श्रुत्वां समुद्विग्नस्तत्- परामर्शानवधीर्य सेनानां संचालनभारं स्वयं जग्राह । आरभत च महता कौतूहलेन प्रयोक्तुं तांस्तान् स्वमात्र- कल्पितान् व्यूहान, परीक्षितुं च तस्याः सिंधुकन्यायाः शौर्य रणरंगे। आदौ तावत् स समादिदेश स्वां सेनामुदीच्यायां सीमा- रेखायां द्विपद्बलेन सह युद्ध यमानां शीशांसितुमागमणम् । प्रेषयामास २१४ सिंधु-कन्या च संवद्धयितुं तत्सामर्थ्यमन्या एव पृतनाः पारेसिंधु प्रकल्पितात् प्रमुखतमात् स्कंधावारात् । आज्ञापयामास च स्वे सेने पाश्चात्य- दाक्षिणात्यसीमारेखयोर्वर्तमाने श्लथयितुं स्वं स्वमाक्रमणम् – ईपदप्य- न्यूनीकृत्य स्वं सामर्थ्यम् । राजदारिका त्वजानती स्वपरिपन्थिन इममतिचतुरं व्यूह, यदा विवेद समाचारं सैनिकतेभ्य उदीच्यायाः प्रत्याथिसेनायास्ती- व्रतरस्याऽऽक्रमणस्य, पाश्चात्त्यायाः दाक्षिणात्यायाश्च तस्याः पलथनस्य तदा वराकी तर्कयन्ती तं तयैव दिशाऽक्रमणोद्यतं परिमितवला समाचकर्पानेकाः पृतनाः पाश्चात्त्याया दाक्षिणा- त्यायाश्च सेनाया .." आज्ञापयामास च ताः संवद्धयितुं प्रतिरोध- वलमुदीच्यायाः। .. .... अथ व्यतीते पक्ष एकस्मिन्, समवलोक्य चारचक्षुभिश्चातुर्य स्वं सफलीभूतं, गूढं निदिदेश स यवनसेनापतिः स्वां पाश्चात्त्या दाक्षिणात्यां च सेनामाक्रमितुं रिपुवलं द्विगुणेन रंहसा, परिवर्द्धयामास तच्छक्ति रणांगणे सद्योऽयतारिताभिरनीकिनीभिः, स्वीचकार च नेतृत्वं स्वयं दाक्षिणात्यायाः रणशिरसि । आदित एवातुलबला, समनुभूय प्रबलतम प्रतिरोध कुंठिताऽपि स्वनायकस्य नैपुण्ये परं श्रद्दधाना, समवलोक्य स्वं सामर्थ्य परिवद्धितं प्रत्यग्राभिरनीकिनीभिः शतगुणितोत्साहा, साक्षात्कृत्य स्वमग्रण्यं रणाग्रे समुपस्थितमाचि–सातुरा - पाश्चात्त्या यवनसेना च - तथाऽऽऋमितुमारभत यथा क्षीणतरवला सैधवसेना प्राणान् पणी- कृत्याऽपि न तां प्रतिरोधुमक्षमत । दिगन्तप्रसृताभिरतिनिबिडांभिर्गहनाभिः समुल्लसत्खड्ग- कांतारभोपणाभिः समुल्लसत्प्रासदुष्प्रधोभिः द्विषदश्ववारपंक्तिभिः, निमज्जयितुं रोधोपरोधान् प्रोवेल्लितस्य प्रक्षुभितस्य महासागरस्यो- सिंघु-कन्या मिभिरिव दुष्प्रसहाभिः, निरन्तरं विदीयमाणा, सूच्यग्रमात्रमपि स्थानात् स्वादव्यावर्तमाना, विचतुरैरेव दिवसः नामशेषतां चायात् । प्रावततं च यवनसेना निष्प्रतिवंधा, जलराशिरिव खंडित- वेलामूलः सगर्जनं प्रधावितुमुद्दिश्य ब्राह्मणावासं विनाशयन्ती जानपदं प्रदेशं भयनिश्चेष्टम् । परिववार दुर्ग बहुरूपमन्येधुरेवास्तं गच्छति विज्ञाय विधिलिखितं खिन्न इव निष्प्रभे प्रभाकरे । क्षणमात्रमपि चाविश्रम्य प्रारभताऽऽक्रमितुं तमष्टाभिरपि दिशाभिः । संख्यया शस्त्रसंपदा चाऽतुलवला दुनिवार्या यवनसेना क्व .... क्व च जानपदैः प्रयत्याहनिशं समुपवृंहितसामोऽपि मूलत एव सुजय्यः स्थलदुर्गों बहुरूपसदृशः ! अनतिजीर्णायामेव तस्यां तमस्विन्या स, विदीर्ण. महाद्वारकपाट: निहताशेपरक्षको दग्धाश्वशालो द्विपत्पादस्पर्शणा- भ्रश्यत ।... दालिमदुर्गोऽप्यपरेधुरेव गगनमध्यमध्यारुढे भगवति सह- स्रकिरणे । तत्पर्यन्तपर्वतनिदरेषु गूढमवस्थिताः शूराः संधवा धानुष्कास्तु-श्रुत्वाऽप्याडवरं गगनभेदकं स्वस्वस्थानेप प्रत्यपचिकीर्पया प्रवलया तयैव निलीनाः - निशामुखे मूकबांधवरुपदिष्टमागैर्यवन- सैनिकः निभृतमानीतैः निर्दरमुखेपु निःशब्दं विरचितः सहसा प्रज्वलितः काष्ठः सघूमस्तोमं ज्वलद्भिः निरुद्धश्वासनालयः, अलब्ध्वैवावसरं स्तोकमपि प्रदर्शयितुं स्वशौर्य, अकाल एव कालकवलिता बभूवुः । .... - यदा तु राजदारिका, स्वयमुदीचीने समरमुखे कुर्वाणा नेतृत्वं सेनाया अवधीर्य हानिमाक्रमणं द्विषतः प्रतिरोधैं दिवानिशं प्रयतमानाया, अविन्दत समाचारमनभ्रवज्ञपातनिभं विनाशस्य स्वसेनाया दाक्षिणात्ये रणरंगे, पराजयस्य दुर्गस्य बहुरूपस्य, पतनस्य दालिमदुर्गस्य, प्रसरणस्य च रिपुवलस्य ब्राह्मणावासदुर्ग समुद्दिश्य तदा क्षणमात्र विस्मयमूढाऽपरस्मिन्नेव क्षणे समुत्तंभितस्वान्ता, संप्रधार्य स्वात्मनैव, विनिश्चित्य मनस्येव सविषादं 'प्रतिरोधोऽतः परं सर्व- व्यापिनो यवनसेनासागरस्य ब्राह्मणावासदुर्गाश्रयेणैव संभवी ... आ देहपातं आ जयागमनं वेति', विन्यस्य समरमुखप्रतिरोधनभारं कतिपयेषु गणेषु साक्षात्कृत्य निर्दिष्टकार्यगौरवं प्रहृष्टेषु, तदनुज्ञाता, सिंधु-कन्या साश्रुनयनाभरभत द्रातुं महता वेगेन सह बलेन स्वेन पराजय- विषण्णेनापढ्त्य स्वचेष्टितान्यंघतमसावरणेन सर्वतः प्रसृतेन, संदिश्य च दूतमुखेन धीसचिवं पाश्चात्त्ये समरांगणे युद्ध यमानं तथैव कर्तुम् । आक्रम्य च दिगन्तप्रसृतं जानपदं प्रदेशं, समाकर्ण्य परचक्र- मवतीर्णकल्पं भयमूढ, कतिपयैरेव दिवसः प्रतिन्यवर्तत निशामुख एकस्मिन्, सर्वतः प्रसरति घनेऽवतमसे, परिजिहीर्पयेव तदवलोक- नस्यानवतीर्णे गगनांगणे नक्षत्रमंडले, ब्राह्मणावासदुर्ग पराजयम्लान- माया प्रलयं प्रतिरोधु गोभक्षकान् कृतसंकल्पम् । तामनु चापरेधुरेव धीसचिवो ब्रह्मदत्तः क्षामतरशरीरो धवलतररमथुरारक्ततरलोचनः - सहावशिष्टया पराभवनिविण्णया निःशब्दयाऽधोदशा स्वसेनया। . सिंधु-कन्या २१७ चतुर्दशः परिच्छेदः घ्यात्वा- . "अत्याहितं ... भर्तृ'दारिके ! अत्याहितग" - अभज्यत विचारतंद्रा रोदजडा राजदारिपाया- यथानियम प्रदोपकाले गत्या नगरदेवताया आयतनं, स्तुत्या तो विविधर्भावाः स्तोमः, निमेपं तन्मुसकमलमलब्ध्या तत्प्रसादचिह्न किमपि विपण्णायाः, निःश्वस्य दीर्घ गर्भगृहाद्वहिरागतायाः, प्रासादं निवतितुमनिच्छुकाया, उपविश्य वातायने पुरुषप्रमाणे सभागृहस्य पहिरंधतमसमलीमसं यवनभयविवर्णमिव नक्षत्रहीनमपहृतमुक्ताभरणमिव दक्षिणाशामुखं निनिमेपया चिंताक्लातया दृशा विमनस्कं ध्यायन्या, - कुतोऽपि श्रुतिपथं सहसा समापतितः भयकातरः शब्दैः। अलोकत च सा किंचिद्व्यावृत्य मुर्ख - समीपोपस्थिता. मेकदेशप्रज्वलन्मंददीपप्रकाशितभंगुरकेशपाशरेसामनतिस्पप्रमुखमुद्रा- मपि समुच्छ्वसत्स्तनमंडलानुमेयभावोद्रेको प्रासादपरिचारिकामेका, समुपलभ्य स्वामिनीमीपदप्यनुत्तेजितया प्रश्नमुखरया स्थिरया दृशा तामेवावलोकयन्ती व्याहताऽऽवेगो, कथमपि संनियम्यात्मानं प्रवर्धाजलि निःशब्दं याचमानामनुज्ञा किंचिनिवेदयितुम् । अन्वमनुत च तां दर्शव। सिंधु-कन्या.

"जयतु जयतु भर्तृदारिका" - प्रारभत सा प्रेष्या, मंद्रेणाऽपि प्रस्फुटदावेशेन स्वरेण । “महत् खलु कष्टं समापतितम् ! ""प्रदह्यतेऽस्माकं घान्यकोशः।" .... "केन ?"- अपृच्छत् तीक्ष्णेन स्वरेण राजकन्या । "अनि तोद्गमकारणेन प्रचंडेन ज्वलनेन ! उपलभ्य समाचारमिमं सत्वरं प्रधावितेभ्यः सैनिकरक्षकेभ्यः श्रीमान् धीसचिवः, शस्त्रागारेऽकस्मात् त्रुटितानां धनुर्गुणानामसंख्यानां निरीक्षणे व्यापृतः, परित्यज्य प्रस्तुतं कायं, सह रक्षकः पुरुषः सेवकश्च प्रशमनाय हुतभुजः प्रस्थितोऽभवत्या अपि तत्रोपस्थितिं प्रार्थयते।" "निवेदय सविस्तर" - समादिशन्निर्गत्य मंदिरात प्रचलिता राजदारिका याप्ययानेन धान्यागारं प्रधानतमं समुद्दिश्य । "यथा श्रुतं मयेहाऽऽगच्छन्त्या मुखेभ्यः नागरिकाणां, समवलोक्य प्रदीप्तं कोशं गृहं स्वं स्वं सत्वरमागतानां, गृहीत्वा च यानि कान्यपि जलपात्राणि तमेव समुद्दिश्य पुनःप्रधावमानानांमाकुला- कुलाना" - प्रारभत सहोपविष्टा सा दासी, "यदा खलु प्रधानः कोशपाल, आ दिवसं वितीर्य धान्यं पाचकेभ्यः सैनिकेभ्यो, भांडार सायंकाले पिधातुं प्रावर्तत तदा स्मरन् स्वामिन्याः निर्देशं सर्वेषु कक्षेषु स्वयं संचर्य तान् निरक्षत। अनधिगत्य च स्तोकमपि संशय- कारणं तदपिदधात् । अतो यदा सः स्वं गृहं निवृत्तमात्रोऽविदत सरभसमागतानेशरक्षकपुरुषान्मतमाद्वार्ता धूमस्तोमस्य कज्जल- कृष्णस्याविच्छिन्नमूलं भांडारगृहस्यान्तर्भागात् समुद्गच्छतस्तदाऽ श्रद्दधान एव तद्वचस्यधावत । विगतसंदेहश्व निरीक्ष्य तं स्वयं, प्रेर्यमाण एकत्रभूतजनसमुदायन यावत् प्रयतते समुद्घाटयितुं प्रधान द्वार, विस्मयतेऽनूभूय तदन्तर्निगडितमिद दुरुघाट्यं, प्रवर्तते च तद्विदारयितुं सत्वरमानीतानां कुठाराणामाघातस्तावदवलोकया- मासासंख्यान धूमकल्लोलान् वंशजानिवाऽऽदिमस्य धमस्तोमस्यान्तः सिंधु-कन्या २१९ सहसा समुद्गच्छतः । पर्यालोच्य च विपदो गांभीर्य - द्वारविदारण- व्यापृत एव - असुसूचत् तत्रभवन्तं धीसचिवम् । स च समाचार- श्रवणसमकालमेव शस्त्रागारात प्रस्थित: .... स्वामि..." "कष्टम् ! कष्टम् !" उज्जगार राजदारिका सहसा, दृष्टिपथमकस्मादवतीर्णस्य, प्रचंडाभिः प्रखराभिः भापयिषयेव जनसागरस्याऽऽचिक्रसमानस्य सहोदधाराभिः प्रकंपमानाभिः ज्वाला- भिरवलीढस्य, जतुनिर्मितस्येव निष्प्रतिबंधं ज्वलतो, धान्यागारस्य दृश्यन भीपणेनाप्याकर्षकेणाऽऽकृष्टचित्ता। निरुद्धप्रसरा निबिडेन निश्चलेन नि:सहेन जनसंदोहेन दहननिगडितनयनेन, हठात् स्मारिता चान्यस्य दहनस्य पितरौ तस्याः स्वर्ग नीतवतो, यावन्निःश्वस्य दीर्घमादिशति शिबिकावाहिनोऽग्ने प्रचलितुं, तावदवलोकयामासातिवयसमिव गलितगात्रमधोनयन- मीषद्दग्धोत्तरासंगं धीसचिवं, तामेव समुद्दिश्य शनैः शनैरुपसर्पन्तम् । अवबुद्ध्य तदिगितं परावृत्तः शिविकावाहिभिः प्रासादं प्रापिता, सह तेन मंत्रणाकक्षं प्रविष्टाऽवस्थाय वातायनसंमुखं विहायसि विस्तृतं दाहप्रकाशं निनिमेष लोकमाना चापृच्छत्तमासंद्या निर्जीव- मिवोपविष्टं - "अप्येतत् प्रत्यथिचेष्टितम् ?" "नाहं जानामि" - मंद मंदं प्रत्यवदत् स वृद्धः।" दुर्भद्यत्वं दुर्गरक्षाव्यूहस्य दुरासाद्यत्वं च कोशस्य मनसि कुर्वाणो नोत्सहे मन्तुमेतत् तच्चेष्टितम् । ..'कुतस्त_स्योद्गम' मयमानःन लभेऽन्यत् किमपि समाधानम् ।" "स्यातहि मूकबांधवानामास्माकीनानामेवान्यतमस्य" स्वगतमिवाह राजदारिका । - "नेतच्छक्यं" - प्रत्युवाच स वृद्धः । "कुतः ?" २२० सिंघु-कन्या "मया खलु कपटप्रहारमनुभूतचरमादित एव निरुरुत्सुनाऽ- बाऽऽगतेनैव नागरिकाः सर्वे चारचक्षुभिः सुनिपुणं परीक्षिताः प्रेषिताश्च येन केनापि व्यपदेशेन तेषां मध्यादविश्वसनीया एभिश्चतु- भिर्मासैः । नास्ति नूनं महादुर्गेऽस्मिन् पौर एकोऽपि यः स्वामिन्या घातं स्वप्नेऽपि संकल्पयेत् ।" "शृण्वत्येव तद्वचनं हठादस्मरद्राजदारिका तां जरतीं कृष्णां वामनां कृशामनावृतप्रायां विषमय्येव दृष्ट्या भेत्तुं प्रयतमानां तो तस्मिन्निशामुखे पैतृकगेहप्रांगणे सस्मितं तास्ताः कथाः प्रतिवैशिना- माकर्णयन्ती, न त्ववदत् किमपि । "परंत्वविदित्वा कारणमुद्गमस्य "" कथं खल्वेता दुश्चेष्टाः प्रतिरोध्याः ?" - प्रकटमवदत् सा । न किमपि प्रत्यवदत्धीसचिवः कुंठितमति: । "कियान खलु धान्यराशिः प्रनष्ट अस्मिन् निशामुखे"- पप्रच्छ सा। .... "पण्मासपर्याप्तः" - प्रत्युवाच ब्रह्मदत्तः । "तर्हि .... महादुर्गेऽस्मिन् अन्यत्र विद्यमाना उपकोशा एवाधुनाऽस्माकमवष्टंभाः" - सखेदमवदत् सा। "उपकोशा एव ।" "तृतीयोऽयं विपत्प्रहार एषु पंचसु दिनेषु"-स्वगतमिवाह राजदारिका । "प्रथमे प्रहारे पंचशताधिका अश्वा अस्माकमकस्मात् पंचत्वं गताः। केन रोगेण सहसा समाक्रांता वराकास्तन्नाद्यापि विनिश्चेतुमस्माकमश्वपालाः समर्थाः । द्वितीये प्रहारे शस्त्रागारे सुरक्षितानामपि सहस्त्राधिकानां धनुषां गुणाः कृत्ता - अस्माभि- रुपलब्धाः । केन क... कतितास्तन्नाद्यापि ज्ञातुमस्माकं स्पशाः सिंधु-कन्या २२१ ...

शक्ता: । तृतोये त्वस्मिन् जीवनाधारः प्रधानो धान्यकोश एव - समवलोकयतामस्माकं - भस्मीभूतः ।" "मन्ये नागरिका अप्रत्या दैवहतकानामस्माकमयाऽऽ गमनमेव सर्वेषां संकटानामेतेषां मूल कारण मन्वाना अस्मदपसरणमेव गूढं कांक्षितु प्रवृत्ता भविष्यन्त्यचिरादेव" - सविपादं साऽवदत् । ...."न स्वप्नेऽपि" - प्रत्याह सावेशं ब्रह्मदत्तः । "आदित एव स्वामिन्या सह पारिवारिकरिव प्रवलबंधनैर्वद्धमात्मान विभाव- यन्तस्तत्रापि भवत्या मृदुवचसा विजितस्वांता अनत्या सर्व एव नागरिका, भवतीमनवरतं प्रताडयन्तीभिविपद्भिः समुद्विग्ना अपि येन केनापि प्रकारेण भवत्या दुःखं न्यूनीकर्तुं समुत्सुका अपि, साक्षात्कृत्याऽऽत्मनोऽसामर्थ्य व्याकुला अपि, न गणयन्ति क्लेशम- भूतपूर्वसैनिकसंमर्दसंभूतं, न मनसि कुर्वन्त्यवश्यंभाविनं जनधनक्षयं, तिरस्कुर्वन्ति यवनभयम् ।" "भवत्या एव कुशलं कांक्षन्तोऽहनिशं याचन्ति जगदीश्वरं प्रत्यागमनं युवराजस्य ।" "जयतु जयतु ... भर्तृदारिका" - प्रविश्याऽऽह मंद्रस्वरं द्वारपालिका । "एकः कोऽपि पुरुषो दुर्गमहाद्वारे समुपस्थितः, निरीक्ष्याभिज्ञानं तत्रभवता सेनजिता प्रदत्तं द्वाररक्षकैरन्तःप्रवेशितो, भर्तृ दारिकाया दर्शनं कामयमानो द्वारि समुपस्थितः ।" "अहो ! सेनजिता प्रहितादूतादस्मान्नूनं जयस्योदन्तं लप्स्यामह" इति विचित्य किचिद्विकसितमुखकमलया च स्वामिन्याऽनुज्ञाता प्रावेशयदेकं पांसुलवेपं प्रौढवयसं पुरुषम् । "जयतु जयतु राजदारिका" सकौतूहलमिव तां लोकमानः सोऽवददसंस्कृतया वाण्या। "अहमस्मि यौधेयः । व्यव- सायन ग्रामतक्षः । अतीते पक्षेऽस्माकं ग्राम आनिशं क्लुप्तस्कंधावारेण .... - .... २२२ सिंधु-कन्या केनचित् सैनान्या सहैतया मुद्रया संदेशेन च 'रक्तपिपासुभिगंधर- नुगम्यमानः राजहंस: लिप्सयेव साहाय्यस्यान्येषां कलहंसानां कुंकुमाद्रिमद्देशं समुद्दिश्य डयित' इति भवत्याः संनिधौ प्रेपितः।" "किमिति जयः, समुत्सायं दुराशामन्येपो भारतीयानां नृपाणां साहाय्यस्य, न प्रतिनिवर्तते स्वं राज्यम् ?" आह सविपादं राजकन्याऽपगते तस्मिन् संदेशहरे । 'कदाचिद्युवराजस्य प्रत्यागमनमार्गः निरुतो भवेत् म्लेच्छ:" तर्कयामास धीसचिवः । - - "संभवत्येतत् ।" - "जयतु जयतु भर्तृदारिका" पुनः प्रविश्याह ससंकोचं द्वारपालिका । "एपः प्रधानस्य धान्यकोशस्य पालः नगररक्षाधिकृतेन सह प्रतीहारभूमी समुपस्थितो भर्तृ दारिकाया दर्शनं कांक्षति ।" "प्रवेशय तम्" - अन्वजानाद्राजकन्या समुपविशन्ती स्वासने। "मृप्यता भर्तृदारिका" - प्रणम्याऽऽह सखेदं कोशपालो धूमलोप्णीश आरक्तलोचनः । "वह्वन्विप्याऽपि मया नाधिगतः सूच्यग्रमायोऽपि संफेत उपद्रवकारिणः नराधमस्य । "" एप'नगर- रक्षाधिकृतस्तु रिपुदमनो वांछति निघेदयितुं स्वयं किमपि ।" "श्रुतं मया कर्णोपकणिकया" यद्धांजलिराहान्यतरः राजपुरुपः । "एका कापि जरती कृष्णा वामना निष्प्रयोजनमेय घ्रमन्ती परिसरे कोशस्याधा सायंतनेऽयतमसे कैश्चिद्रक्षकप्टा । पृष्टा च प्रयोजनमानोशमुसरा ज्वलनयना महता कप्टेन तस्ततः नि:सारिता।" सिंधु-कन्मा

"स्यात् काचित् मुखंपचा"- स्वगतमिवाऽऽह वृद्धो
ब्रह्मदत्तः।
"अहमपि श्रीमानिवाऽऽदी समचिन्तयं", प्रत्याह स अधि-
कारी । “यदा त्वशृणवं - सा तस्मिन्निशामुखेऽश्वशालायाः समीप
एवाटन्ती कैश्चिदश्वपालकदृष्टाऽऽसीत्, तदपरेधुरेव च सांद्रीभवति
सांध्येऽवतमसे शस्त्रागारस्याऽऽसमंतात्तदा समुपजातशंको मृगयितुं
तां नगररक्षकबलमयुनजम् ।"
"अपि प्राप्नोत् तत् साफल्यम् ?" अपृच्छद्धीसचिवस्तीर्णन
स्वरेण ।
"म" - प्रत्याह स नगररक्षाधिकृतः । "निपुणमन्विष्याऽपि
न तत् प्राप्नोत् साफल्यम् । अवेदं तु तन्माध्यमेन यत् सा जरती
दुर्गवसतेः पुरातने भागेऽसकृद्दृश्यते - विशेषतः स्वामिन्याः पैतृका-
वासमभितस्तत्राप्यस्तंगतप्राय दिनकर - इति ।"
"स्यात् काचिनागरिकी दुर्दै विनी" - प्राह ब्रह्मदत्तः ।
"न खलु नागरिकी" - प्रत्यवदत् स राजपुरुषः । "श्रुतं
खलु मया यदेषु चतुएं मासेष्वेव साऽत्र नागरिकदृष्टेति ।"
"स्यातहि काचित् दाक्षिणात्या" प्रारभत ब्रह्मदत्तः-
"यवनैः संवासिता विनाशितप्रियजना छत्रछायायो भर्तृ दारिकाया
जीवनहतकमवशिष्टं याप व्यरमत च मध्येवाक्यमेवावलोक्य
स्वामिनी विवर्णमुखमुद्रा सहसा समुत्थाय मंत्रणाकक्षात् प्रवृत्तां
निर्गन्तुम् । अपजगाम च विस्मितोऽस्वस्थोऽन्तहितायां तस्यां प्रासादात्
सहान्याभ्यां राजपुरुषाभ्याम् । भ्यवर्तत च स्वं गृहं संकल्पयन्नात्मनैव
किमपि ।
न त्वलभतावसरं चेष्टितुं यथाऽसंकल्पम् ।
२२४
सिंधु-कन्या

पंचदशः परिच्छेदः - अपरेयुरेव ह्यचिरोदिते भगवति दिनकरे प्रारभन्त समापतितुमेककश: सर्वाभ्य आशाभ्यः सैनिका दूताः समुत्तेजिता:, सूचयितुं च प्रतिप्रहरं - समीपतरं समुपसर्पणं दिगन्तप्रसृतस्यातिनि- विडस्य समुल्लसत्कुंतकांतारकंटकितस्य, सस्यसंपन्नानि योजनदीर्घाणि क्षेत्राणि कृषीवल शून्यानि पश्यतामेव भयमुकानां पतत्रिणां- विनाशयतः गृहनिलीनपरिवारा ग्रामटिकाः नगरीश्च विध्वंसयतः, प्रलयक्षुभितपयोनिधिपयोराशेरिव दुष्प्रसहवेगस्य यवनबलस्य । प्रावर्तयन्त च राजदारिकां धीसचिवं नगररक्षाधिकृतमुच्चावचमधि- फारिगणं - कि बहुना ~संपूर्णमेव महादुर्गमात्मरक्षार्थमुपायान् विविधान् प्रयोक्तुम् । प्रागेव च मध्याह्नात् स महादुर्गः, कूर्म इवाऽत्मरिरक्षिपयाs- न्तर्धापितरावांगः, पिहितसर्वद्वारवातायन: प्रारभत प्रतिपालयितुं द्विपवलम् । अलोकत च तत् समरस्योतिमस्य प्रारंभ द्रष्टुमनुत्सुके दुर्जेययवनसेनापतिन्यवकृतप्रतापे दिनकरेऽसमय एष निमज्जयितु- मात्मानं पश्चिमपयोनिधो गगनमध्यादवतीर्णे, 'अस्मन्मुखकमलान्य- हनि सान ध्यायन्त्या अपि सिंधुराजकन्याया मूका प्रार्थनाऽस्माभिः सिघु-कन्या २२५ नापूर्यत प्रत्यावर्त्य तस्या एकमात्रमवष्टंभं भ्रातरम्' इति साक्षात्कृत्य निविण्णानामाशावधूनां मंडले मालिन्यमुपगते, 'देशद्रोहिणां मूकादीनां संस्पर्शन दूपितोऽहं कथमिव ब्रह्मदत्तसदृशान् देशभक्तान स्पृशेयम्' - इति लज्जित इवागतिकतामुपगते सदागतो, चतुर्दिगंतेषु प्रलयपयोद- पंक्तिरेखेव युगपदाविर्भवत्, सैंधवानामन्तिमस्य तस्य प्रतीकारस्थानस्य जिगरिषया दुर्दमनीयया प्रतिक्षणं समुपसर्पत्, """ 'अल्लाहो अकबर ! 'अल्लाहो अकबर !' इति रणगर्जनैर्गगनवितानमिव विदारयत्, तीव्र : खुराधातैः धरातलमिव खनत्, दुःसहेन स्वभारेण भूमंडलमिव चालयत्, तीवण प्रस्वेदगंधेन गंधवहमिव श्लथीकुर्वत्, अनवरत- निपतदश्वफेनमालाभिः महीतलं धवलीकुर्वत् । .... अभवच्च संनद्धः प्रतिरोधं तस्याऽऽदिमंप्रवलतममाघातम् । व्यर्थमेव । नियंत्रितमिव हि केनाऽपि दुष्प्रसहप्रभावेण मंत्रेण - दुर्गात् किंचिद्र एव सहसा व्यरमत् तत् । अभजच्च कादाचित्कह पारव- भंगुरां क्वाचित्ककरवालखणत्कारबधुरां निःशब्दताम् । "किमिव विरतम् एतत् ?" '- मंद्रस्वरमपृच्छत् सैधव- सैनिकानामन्यतमः, प्राकारशिरसि राजदारिकाया अनतिंदूर एवा- वस्थायाधःप्रसृतं दिगंतविस्तृतं रिपुबलवलयं, रोधोपरुद्धं 'मलीमसं जलमिव लवणोदस्य, ध्यायताम् । . .... "नूनं कुंठितम् अवलोक्यास्मदुर्गस्य दुर्भद्यता संप्रधारयति स्वात्मनवाऽऽक्रमणव्यूह" प्रत्यवदत् तस्य सुहृत् । "न कुंठितमेतत् । न वा नवव्यूहसंकल्पनव्यग्रम्":- अचिंतयद्राजदारिका प्रत्यर्थिवलनिगडितनयना सविपण्णस्मितं श्रुत्वा स्वसनिकसंलापं तमस्पष्टप्रायम् - । अनेके. खलु दुर्गा एतादृशा For-कन्या -, अनेन दिग्विजयिना विजिताः । व्यूहाश्चास्य आक्रमणस्यादित एव सुनिश्चिताः।" ... "कुन नु खल्वस्याध्यक्षः ? नाहमवलोकयामि दिगंतव्या- पारितलोचनोऽपि स्तोकमपि चिह्न तस्य । अवलोकयामि पंक्तीरेवासंख्या अश्ववाराणां धृतशीर्पण्यानां व्यूढकंकटानां समुद्धृत- कुंतानां दुर्गनिवद्धलोचनानाम् । किं नैतनीयते रणशिरःसु स्वनायकेन ?" व्यस्मयत मंद्रस्वरमन्यः सैनिकः । - "प्रतिक्षणं नीयते" अचिंतयद्राजकन्या । "एतास्वेव तुरंगिणां पंक्तिपु चियलिखितास्विव निश्चलासु वर्तते स कुत्रचित् - दुर्लक्ष्यविशेषः - नास्माकीन इन समुद्धृतध्वजादिसुलक्ष्यव्यक्तिः ।" "मन्ये - क्षेणितुमस्माकं धृति प्रतीक्षया दीर्घदीर्घया यवनः " इत्यमेवाऽदिवसान्तं स्वसेनाबलप्रदर्शनमात्रव्यामृतः, परिश्रांतेष्व- स्मासु, निशि, सर्वतःप्रसृतांधतमसगूढचेष्ट: सहसाऽऽचिकंसते" . मंद्रस्वरमाह तां धीसचिवः समीप एव तस्या अवस्थाय लोकमानो द्विपद्वलम् । "समीचीनं भगति तातः", प्रत्युवाच सा । "तदस्माभिरपि संभावनां सद्योभाविन आक्रमणस्यानवधीरयद्भिरस्माकं पृतना एककशो विश्रामयितथ्या, येन ता अस्य नैशस्याऽक्रमणस्य प्रतिरोधेऽस्मत्संकल्पितेन प्रकारेण सर्वथा समर्था भवेयुः।" "यथाऽदिशति भवती" - अभणत् ब्रह्मदत्तः। आहूय च प्रधान सेनाध्यक्ष, प्राकारस्यापरे भागे निरीक्षमाणं प्रतिरक्षाव्यवस्था, तथा. समादिशत् । एवं क्षणमेकमप्यचलित्वा प्राकारशिरस: निनिमेषमवलोक- यतोद्विपद्वलचेष्टितं राजदारिकाधीसचिवयोः, प्राकारे तत्र तन सिघु-काया. २२७ नापूर्यत प्रत्यावर्त्य तस्या एकमात्रमवष्टंभं भ्रातरम्' इति साक्षात्कृत्य निविण्णानामाशावधूनां मंडले मालिन्यमुपगते, 'देशद्रोहिणां मूकादीनां संस्पर्शन दूपितोऽहं कथमिव ब्रह्मदत्तसदृशान् देशभक्तान स्पृशेयम्' - इति लज्जित इवागतिकतामुपगते सदागतो, चतुदिगंतेषु प्रलयपयोद- पंक्तिरेखेव युगपदाविर्भवत्, सेंधवानामन्तिमस्य तस्य प्रतीकारस्थानस्य जिगरिपया दुर्दमनीयया प्रतिक्षणं समुपसर्पत्, “. 'अल्लाहो अकबर ! अल्लाहो अकबर !' इति रणगर्जनैर्गगनवितानमिव विदारयत्, तीनं : खुराघातः धरातलमिव खनत्, दुःसहेन स्वभारेण भूमंडलमिव चालयत्, तीव्रण प्रस्वेदगंधेन गंधवहमिव श्लथीकुर्वत्, अनवरत- निपतदश्वफेनमालाभिः महीतलं धवलीकुर्वत् । अभवच्च संनद्धः प्रतिरोधू तस्याऽऽदिमंप्रवलतममाघातम् । व्यर्थमेव। नियंत्रितमिव हि केनाऽपि दुष्प्रसहप्रभावेण मंत्रण - दुर्गात किंचिद्र एव सहसा व्यरमत् तत् । अभजच्च कादाचित्कह पारव- भंगुरां क्वाचित्ककरवालखणत्कारबंधुरां निःशब्दताम् । .... "किमिव विरतम् एतत् ?' '- मंद्रस्वरमपृच्छत् संधव- सैनिकानामन्यतमः, प्राकारशिरसि राजदारिकाया अनतिंदूर एवा- वस्थायाधःप्रसृतं दिगंतविस्तृतं रिपुबलवलयं, रोधोपरुद्धं 'मलीमसं जलमिव लवणोदस्य, ध्यायताम् । "नूनं कुंठितम् अवलोक्यास्मदुर्गस्य दुर्भेद्यतां संप्रधारयति स्वात्मनवाऽऽक्रमणव्यूह" प्रत्यवदत् तस्य सुहृत् । "न कुंठितमेतत् ।। न वा नवव्यूहसंकल्पनव्यग्रम्"-- अचितयद्राजदारिका प्रत्यथिबलनिगडितनयना सविपण्णस्मितं श्रुत्वा स्वसैनिकसंलापं तमस्पष्टप्रायम् । । अनेके खलु' दुर्गा एतादृशा सिंघु-कन्या २२५ अनेन दिग्विजयिना विजिताः । व्यूहाश्चास्य आक्रमणस्यादित एव सुनिश्चिताः।" .... "कुत्र नु खल्वस्याध्यक्ष: ? नाहमवलोकयामि दिगंतव्या- पारितलोचनोऽपि स्तोकमपि चिह्न तस्य । अवलोकयामि पंक्तीरेवासंख्या अश्ववाराणां धृतशोपण्यानां व्यूढकंकटानां समुद्धृत- कुंतानां दुर्गनिवद्धलोचनानाम् । कि नैतनीयते रणशिरःसु स्वनायकेन ?" व्यस्मयत मंद्रस्वरमन्यः सैनिकः । "प्रतिक्षणं नीयते" अचिंतयद्राजकन्या । "एतास्वेव तुरंगिणां पंक्तिपु चित्रलिखितास्विव निश्चलासु वर्तते स कुत्रचित् - दुर्लक्ष्यविशेषः - नास्माकीन इन समुद्धृतध्वजादिसुलक्ष्यव्यक्तिः ।" "मन्ये - क्षेणितुमस्माकं धृति प्रतीक्षया दीर्घदीर्घया यवनः .."इत्थमेवाऽऽदिवसान्तं स्वसेनावलप्रदर्शनमाग्रव्यापृतः, परिश्रांतेष्व- स्मासु, निशि, सर्वतःप्रसृतांधतमसगूढचेष्ट: सहसाऽचिकंसते" मंद्रस्वरमाह तां धीसचिवः समीप एव तस्या अवस्थाय लोकमानो द्विपद्यलम् । "समीचीन भणति तातः", प्रत्युवाच सा । "तदस्माभिरपि संभावनां सद्योभाविन आक्रमणस्यानवधीरयभिरस्माकं पृतना एककशो विधामयितध्या, येन ता अस्य नशस्याऽऽक्रमणस्य प्रतिरोधेऽस्मत्संकल्पितेन प्रकारेण सर्वथा समर्या भवेयुः।" "यथाऽदिशति भवती" - अभपत् ब्रह्मदत्तः। आहूय च प्रधान सेनाध्यक्ष, प्राकारस्यापरे भागे निरीक्षमाणे प्रतिरक्षाव्यवस्था, तथा समादिशत् । एवं क्षणमेकमप्यचलित्वा प्राकारशिरसः निनिमेपगवलोक- यतोद्विपद्वलचेष्टितं राजदारिकाधीसचिवयोः, प्राकारे तत्र तत्र सिंधु-काया २२७ यथादेशं संस्थापितास्तास्ताः पृतना एककशः निभृतमपकृष्य नवीनी- कृत्य ताः क्षुत्पिपासापनोदनादिभिः पुनः प्राकारसंरक्षणे योजयतः नेशप्रतीकारसामग्रीरायोजयतः प्रधानस्य सेनाध्यक्षस्य, साक्षात्कृत्य गांभीर्य परिस्थितेः निःशब्दानां पणीकृत्य प्राणान् दुर्गपरिरक्षणाय कृतनिश्चयानां सैनिकानां च स वासरो युगदीर्घ इव व्यतीयाय । आरभत प्रसतु शनैः शनैः, पापसंघात इव देशद्रोहिणां संधवानां काकादीनां, नेशोऽधकारो, विलोपयन् दिक्चत्रवालं, विलालयन् गगनं, स्थापयामास चाचिरादेव स्वमाधिपत्यं सर्वत्र । यदा तु वासर इव निशाऽपि सा प्राक्रमत क्षणशो व्यत्येतुं दीर्घदीर्घा, प्राविशच्चान्तिमे प्रहरे. तदा प्रधान: सेनाध्यक्षः समुपा- सरत् चियलिखितामिव स्तब्धां, पुर.प्रसृते तमःसागरे निमग्नलोचनां राजदारिकाम् । प्रारभत इव च किंचित्रिवेदयितुम् । तत्क्षण एव निपिद्धः स्वामिन्या, तर्जन्या समादिप्टोs वलोकयितुं पुरतः .. अद्राक्षीत् "" अन्वभवद्वा ... मसीसागरमहा- कल्लोलमिव नि:शब्दं दुर्गमुपसर्पन्तम् । प्रवृत्त एव च प्रष्टुं किमपि, तत्स्वरूपमजानात् नभ.पटलं विदीयं सहसा श्रुतिपथे समापतितेन हेपारवेण । निभृतमपसृत्य ततः, संदिश्य तत्र तत्र नियुक्तान् उप- प्रधानान्, प्रतिपालयन् योग्यमवसरं, तस्थौ, प्राक्तननिर्देशं स्वामिन्या अनुसरन् " दुर्गमूलनिगडितनयनः। विनिश्चित्य चानुकूलतममवसरं समुपस्थितं सहसा ताडया- मास रणपटहम् । नीरवे नशे गगने तथाऽकस्मादुद्भूतं, निमेषमात्र सर्वतः प्रसृतं तं गंभीरध्वनि समाकर्ण्य विस्मिता यवनसैनिका यावत् पारयन्ति परिकलयितुं तवनितमभिप्रायं तावत् तेऽन्वभवन स्वात्मनः मस्तकेषु हस्तेषु जंघासु पादेषु तुरगाणां शिरःसु निगालेषु प्रोथेषु लांगूलेषु सहसाऽनवरतधारं निपततीरंधकारवशाददृश्यरूपास्तप्ततैलधाराः । २२८ सिंधु-कन्या व्यूढकंकटत्वान्न तथा स्वयमन्वभवन् तद्दाहं यथा तेपामश्वाः । ते तु - अकल्पितपतिताभिररुतुदाभिस्ताभिः दग्धत्वचो, वेदनातिशयव- शादुन्मादा, विस्मृत्यानुशासनमा कैशोर्यादधीतं, तीव्रया दुर्शयसंकट- परिजिहीर्पयेव केवलया नुद्यमानाः, परावृत्य मुखानि ततः पलायितुं प्रायतन्त । असमर्थाश्च तथा कर्तुमतिसांद्राभिस्तुरगपंक्तिभिः समान- वृत्तांताभिरुपरुद्धपार्णयः हिंस्र केशाकेशि कलहं तीव्रह पारवं परस्परजिघत्सव इव । .... प्रारमन्त .... शासितुमिव तान् पलायनमार्गमथाइरभत प्रज्वलदलात- वृष्टिः प्राकारशिरस: भीषणा लोमसंहर्पणा धूमला। प्रावर्तत च प्रज्वलयितुं तान् वराकान् केसरेपु निगालेषु लांगूलेषु च तैलाद्रिपु च। गंडानामुपरि पिटकान् संवृत्ताननुभूय तेषां व्याकुलता परां काष्ठां समपद्यत। यवनसैनिकानां च, संभ्रान्तानामपि तावत्कालपर्यन्त- मक्षतानां, नियमन एवाश्वानां व्यापूतानाम् । अकस्माद्धि त आत्मा- नमपश्यन् प्रखरज्वाल ज्वलदभिरुत्पतद्भिरधःपतद्भिर्मुखानि भयातिरेकविस्फारितनयनानि समुत्क्षिपद्भिः खुरैः समुत्यापितरन्योन्यं ताडयद्भिर्वेदनातिशयकर्कशैः हपारवैर्गगनवितानं विदारयद्भिः प्रशमयितुं सर्वांगदाहविदारक दहनं भूमी लोटितुमिच्छभिरलब्ध्वा तावन्तमवकाशमधिकतरमेव क्षुभ्यद्भिस्तुरंगमः परिचितरप्यवशंवदः संमर्दे तस्मिन् अधःपात्यमानं खुरदंल्यमानं पादेस्ताड्यमानं दंष्ट्रा- मिदंश्यमानम् । अधावंश्च परावर्तितमुखा, समुत्तारिता इव विपत्सागरा- दाज्ञया कयाचित्तस्मिन्नप्याकुलाकुले कोलाहले चिरात् खलु श्रुतिपथे समापतितया तीव्रयापीपदप्यनुत्तेजितयाऽमृतधारा इव वर्षन्त्या, विरम्य निमेषमाय एव प्राकारारोहणदुःसाहसादनारब्धात्, परित्यज्य प्राणप्रियानपि स्वतुरंगमान् पीडातिरेकोन्मत्तान् तत्रैव । ताननु च लब्धावसराः प्रदाधशेपास्तुरंगमाः। सिंधु-कन्या २२९ अचिरादेव चाकुर्वन् तां धारिणी प्राकारकुंडलिनी प्रदग्ध- प्रमीततुरगतुरगसादिशवमात्रधारिणीम् । राजदारिका तु, निभृतं निरीक्ष्य प्राकारशिखरादप्रत्याशितं साफ़ल्यं कपटपटुप्रतीकारस्य तुप्टाऽपि स्मृत्वा तत्कल्पकस्य भ्रातुः प्रोपितस्य रणरणकखिद्यमानमानसा, साक्षात्कृत्य प्रत्यथिन: प्रथम प्रहारमेवं विफल समाश्वस्ताऽपि 'निष्फलप्रहारोऽपि यवनो वैफल्ये- नानेनाहताश प्रत्युत संधुक्षितजिगीषोऽचिरादेवाऽऽक्रमेत सहाऽपारेण बलेन प्रयुंजीत च स्वयमपि कपटकुटिलमाक्रमणव्यूहम्' - इति विचित्याकृतकृत्यमन्या देवलपर्तनरोधस्यापानलब्धन विजयन मत्ताया अनवहितायाः सैधवसेनायाः परिणति स्मारं स्मारं सावधाना, संधुक्ष्य सैनिकानां परिपंथिप्रद्रावप्रहृष्टानामुत्साहं यथोचितेन साधुवादेन, समादिश्य दुगपालं निरीक्षितुं द्विपच्चेष्टित प्रतिक्षणं प्रबोधयितुं च तामुपलभ्यैव किंचिदपि दुश्चिह्न " न्यवर्तत विश्रामकक्षं कथं- चिदपनीतक्षुधा । परिश्रांताऽऽरक्तलोचना । अविन्दत च निद्रासुखं निर्व्यवधानम् । अननुभूतपूर्वसदृशेनाश्रुतचरेण - किं बहुनाऽकल्पितप्रकारेण तेन शत्रोः नशेन प्रतीकारेण विस्मिता किंकर्तव्यविमूढा विलोना- हंभावा यवनसेनाऽहर्मुखादारभ्य तच्छेपपर्यन्तं हतावशिष्टानां तुरगाणां दग्धावशिष्टानां तुरगिणां च शुथूपायां, दिनकरेऽल्पोदिते भाविकार्य- पद्धतिविचारणायां गगनमध्यमध्याख्ढे सुदूरदिगन्तव्यापिस्कंधावार- प्रकल्पनायां च व्यापृताऽदृश्यतां याते प्रभाकरे निमज्ज्य, पश्चिमां- बुनिधी निद्रावशं याता - एव हि व्यलोक्यत दुर्गपालेन । सर्वतःप्रसृतसंतमसावृता च निद्रिता गाढम्'ा निशम् । अनुत्तीर्णेव विस्मयसागरादसमर्थव पुनरुज्जीययितुमुत्साह मृतप्रायं, भीतव दुर्गात्, सा नापरेारपि दधर्ष समुपसतुं तां दुर्ग- प्राकारभितिम् । योपयांमास च कतिपयानि दिनानि परित्यज्येय तद्विजयसंकल्पं.- विस्मृत्येय तदस्तित्वम् । सिंधु कन्या- यथा यथा च व्यतीयुर्वासरा उपद्रवशून्यास्तथा तया वभूवुः सैनिकाः राजदारिकाया आंतुरा विनिर्गत्य दुर्गात समात्रमितुं द्विपद्- वलम् । अप्रत्याशितेन विजयेन धन्यंमन्याः, स्वां स्वां शौर्यगाथां परस्परं थावयन्तः, संभ्रममाकुलाकुलं यवनसैनिकानां साट्टहासमति- वर्णयतां, शौर्य दिगन्तविख्यातं तेपामवमानयन्तस्ते स्वप्रमुखमुखेना- सशनिवेदयामासुः स्वामिन्यै स्वाभिलपितम् । न त्वधिजग्मुस्तस्या अनुज्ञाम् । दृढं हि सा विशश्वास यत् संतीयं योजनशतदीर्घ महासागर सर्वथाऽपरिचिते प्रदेशे कृतपदं, विजित्याधिकतमं भागं तस्य दुष्प्रसहेन वेगेन दृढवद्धमूलमतिवाहितापरिचितप्रावृट्कालं, मातृभूमेः सद्योऽ- धिगतबलरुपबंहितबलं, यवनवलं, कल्पनातीतया प्रतीकारविधया विस्मितमपि न त्यजेत् स्वसंकल्पं विजयस्यैकमात्रावशिष्टस्य द्विपत्प्रतीकारस्थानस्य । आरभेत च पुनः नातिचिरादेव स्वं प्रयत्न तीव्रतरम् । "यदि नाम जयः परिद्धितवल: सेनया प्रदत्तयोदीच्य- र्भारतीयनृपः .... सन्यमेतद्यावनं प्रभंजनवेगस्तडिन्निभंराक्रमणः पाणी पाश्वंयोश्चाहनिशं पीडयेत् तहयेव सैनिकानामास्माकीनानां साहसमेतदनुमोदनीयं भवेत्" - साऽवदत् । "समीचीनं वदति भर्तृ दारिकां" - मंद्रस्वरमाह धोसचिवः । "वस्तुत एवमेव संकल्पितमासीद्युवराजेनेतः प्रस्थानात् प्राक् ।" "परंतु - अर्धमेव परिणतं - संकल्पस्य" - स्वगतमिवाह राजकन्या। "अधिगता काचिद्वात जयस्य ?" अपृच्छच्च धोराचिवम् । "न" - प्रत्यवदत् से वृद्धोऽधोदृष्टिः । "दुरधिगमा चौं- सत्यस्मिन् महाजगर इव भयंकरे यवनयले कुंडलीकृत्यम दुर्ग निरुच्छ्वास प्रसृते" - प्रोवाचे सा। शिघु-कामा "निशम्य वृत्तान्तमत्रत्यं कदाचिधुवराजोऽवष्टंभयितुम- स्माकं मनोवलं प्रेषयेदपि कमपि समाचारं विहंगममाध्यममवलंव्य"- अस्फुटमाह सेनाध्यक्षः। स्मारितश्च सहसा तस्य दूतपारापतस्य, राजकुमारेण वज्रबाहुना परिवेष्टितमवलोक्य स्वदुर्ग यवनबलेन तस्मिन् निशीथे प्रेषितस्य, वृद्धो ब्रह्मदत्तोऽक्षिपत् खिन्नां दृष्टि स्वामिन्या दृशि । व्यावर्तयामास च तां क्षणाभ्यन्तर एवावलोक्य तो नितांतवलान्ताम् । "जयतु जयतु "भर्तृ दारिका।" प्रविश्याऽऽह द्वारपालिका। "निरीक्षणस्तंभादहनिशं प्रतिप्रहरं प्रतिक्षणं गतागतानि द्विपतः निरीक्षमाणानां गृध्रदृष्टीनां सैनिकप्रहरिणामन्यतमः निवेदयितुं किंचिद्भर्तृ दारिकाया दर्शनमविलंबमेव कांक्षति ।" 'प्रवेशय तं" - समादिशद्राजकन्या । .... "दृश्यते स्वामिनि ! पाणिभागः पाश्चात्यो द्विपत्- सेनाया व्यापृत इव समानयने दिगन्तादसंख्यानां यंत्राणां"-न्यवेदयद्- वद्धांजलिः कृतप्रवेश एव सः । श्रुत्वैव तं समाचार, 'उद्यतो नूनं यवनः पुनः प्रहर्तुम्' इति संचित्य तत्क्षण एव सावधाना, धीसचिवेन सेनाप्रमुखेन च सह विनिर्गता मंत्रणाकक्षात्, समारुरोह दुर्गचत्वरमध्यवर्तिनमभ्रंकपशिखरं निरीक्षणस्तंभम् । व्यापारयामास लोचने सैनिकप्रहरिभिविनिर्दिश्य- मानायां दिशायाम् । अवलोकयामास वियन्मध्यादनवगलितेन प्रदर्श- यितुं परिपन्थिप्रयलं प्रखरतरप्रभेण प्रभाकरेण प्रकाश्यमानं पापिण- भागं पाश्चात्त्याया यवनसेनायाः। ददर्श च दीर्घदीर्घाः पंक्तीः विप्रकर्षात् पिपीलिकामात्राणामिव भासमानानां यवनानां कानिचित् यंत्राणीव समाकर्षताम् । २३२ सिंघु-कन्या जगाद च "अश्मप्रक्षेपकानि यंत्राणि नूनमेतानि" क्षणमात्रानन्तरम् । "आक्रमणोद्यता अपि, प्रतीकारसंनद्धेषु सत्सु दुर्ग- सैनिकेषु समुपसर्तुमनुत्सुकाः, नूनमेते समीहन्ते कृत्वोपलवर्षा घोरा- मुपरोधुमस्मान् गृहाभ्यन्तरेषु ततश्चाऽऽक्रमितुम् ।" "सुप्ठु खलु तर्कितं भर्तृ दारिकया" - प्राह धीसचिवः । "एवं तहि" - जगाद राजकन्या सेनाप्रमुखं - "व्याख्याय व्यूहमिमं द्विपतः सर्वेभ्यः सैनिकेभ्य "" आदिशतु भवान् तान् प्रवृत्तायामुपलवर्षायां गृहितुमात्मानं प्राकारशिरस्येव तत्र क्लुप्तेपु वर्षात्राणेषु स्थानेषु "" अभिवीक्षितुं यवनबलं व्यधुं च तत् समीपागतं सायकसंदोहेन ।" यवनः स्वमाक्रमणमनवसित एव दिनकरे प्रारप्स्यते" - स्वगतमिवागदद्ब्रह्मदत्तः । तत्र "मन्ये, "यथाऽऽह तातः" प्रत्यवदद्राजदारिका । "अनुभूय तादृशीं तप्ततैलवर्षां स नूनं न घृष्णुयादाक्रमितुमस्मान् घनतिमिर .... इतः परम् ।" "अपरं च", उवाच सा प्रस्थानोद्यतं सेनाध्यक्षम् । "आदि- शतु भवान् प्राकारस्यान्येषु भागेपु नियुक्तान् सैनिकानवधीयं दृपद्- वर्षामिहत्यामवस्याय गूढं स्वे स्वे नियते स्थले प्रतिकर्तुमनपेक्षितं द्विपदाक्रमणं तीव्रया नाराचवर्षया ।" समाकृप्यावधानमस्माकमस्मिन् भाग आम मिष्यति भागानपरानेव दुर्गस्य द्वेषणः ?" अपृच्छच्चकितः सेनाध्यक्षः। - "शृगालचतुरः प्रयतिप्यते येन केनाप्युपायेन जेतुमेतदन्तिम नःप्रतीकारस्थानम्" - अवदद्राजकन्या। सिघु-कम्या २३३ अवितथीकतु तद्वचनं समुत्सुक इवाचिरादेवाऽऽरभतारि: प्रभंजनवेगामन्तर्धापितगगनवितानामुपलवाम् । अनवसितायामेव च तस्यां प्राक्रमत शनैः शनैरुपसर्तु दुर्ग निर्मनुष्यमिव निष्प्रतिरोधम् । .... .... "कथं ! परित्यज्य वाहनमभ्यस्तमा जन्मनः पादातिकमेव बलं प्रयुक्ते परिपन्थी ?" - साश्चर्यमाह धीसचिवा लोकमानः शनैः शनैरुपसर्पत् सैन्य गवाक्षात् । "मन्ये, तस्याऽऽश्वं दग्धावशिष्टं ..." नोत्सहते पदमेक- मपि प्रक्षेप्तुं समुद्दिश्य दुर्ग" - प्रत्यवदद्राजकन्या । विनिश्चित्य च विपक्षिवलं पर्याप्तं संनिकृष्टं समादिशत् स्वं धानुष्कबलं व्यङ्घ तत् । अवधीर्य निरंतरामुपलवमिकस्मात् समुद्भूतां, समुपेक्ष्या- गानि वमितानि तत्तत्संधिस्थानेषु नितांतमरक्षितेषु लक्ष्यमाणां, प्राकारभित्त्यन्तहिततया तदुद्गमस्याप्रतिविधेयां, नाराचवर्षामनुभूय पदाता यवनसैनिकास्तु - पश्यतोरेव राजकन्याधीसचिवयोः आरभन्त वेदितुं दयनोयामवस्थां स्वदेशबांधवानामश्वारोहाणां "" द्रातुं च कांदिशीकाः। "मन्ये", जगाद राजदारिकाऽवलोक्य तदपयानं सोच्छ्वा- साऽपि, "आक्रमणेऽस्मिन् यवनस्य न तादृशोऽभिनिवेशो यादृश आदिमे। सैनिका एते तेन पंचसहस्रानधिका एव रणरंगेऽ- वतारिताः । न च पुषिताः समादिश्यान्याः पृतना आक्रमितुमपरान् भागान् दुर्गस्य । आक्रामका एते सैनिका अपि रणे भंग निष्प्रतिरोधं स्वीकुर्वाणा इव दृश्यन्ते । "" न खल्वेतत् पूर्व श्रुतमनुभूतं वा । ... तत किमिव नामाभिमतं स्याद्यवनस्य ?" .... "क्षेणनं तितिक्षाया अस्माक" - शनैः शनैरवदत् विचार- मग्नो धीसचिवः। २३४ सिंधु-कन्या घोडशः परिच्छेदः अयं तयोविषाद:, 'अनिभिन्नो गभीरत्वादन्तर्गुढघनव्यथः', प्रावर्द्धत एव प्रतिदिनम् । प्रतिदिनमेव हि प्रारभतारिः समाक्रमितुं तांस्तान् भागान् दुर्गस्य, "" युद्ध्वा च कंचित् कालं व्यपवर्तितुं रणांगणात् ....परिहरन् स्वहानि यावच्छक्यम् । साधारणा दुर्गसैनिका, दैनिकान् तान् विजयान प्रारंभे बहुमन्यमाना अपि, अचिरादेवानुमाय प्रत्यथिनोऽभिप्राय, समीक्ष्य संक्षयं रणसामग्र्याः प्रतिदिनं व्याकुला बभूवुः । आतुराश्च निर्गत्य सहसा दुर्गादुष्प्रसहवेगमाक्रमितुं रिपुवलं, प्रापयितुं तत् - स्वात्मानमेव वा शलभगति समरदावानले । नागरिकाश्च पाषाणवर्षासदृशानि कष्टानि सर्वाणि सधैर्य सहमाना अपि संक्षेपणं खाद्यसामग्र्याः प्रत्यहं लोकमाना अपि, राजकन्या- स्नेहवशादाक्रोशशब्दमेकमप्यत वाणा अचिरादेव, वितयं परिणाम युद्धस्यावश्यंभाविनं, खिन्नाः । "प्रतिदिनं क्षयति मार्गणभाण्डारमस्माकम् । पूरयितुं च तदसमर्था वयं सर्वतः निरुच्छ्वासमुपरुद्धाः । अस्माकं धान्यसंग्रहोऽपि, पुण्योपचय इवाकर्मठस्य, ह्रसति निरन्तरम् । कियन्ति खलु दिनानि सहेत वराको भारमुदरभरणस्य सर्वेषां सैनिकानां नागरिकाणां शरणागतानां च ? निरवशेष क्षीणे च तस्मिन् क्षुधाक्लांताः कथमिव समर्था भवेम प्रतिरो माक्रमणानि द्विषतः? चेष्टितानि वा तस्य २३६ सिंधु-कन्या समवलोक्यास्माकं दुर्बलं प्रतिरोधमनुमाय च नो दयनीयामवस्यां प्रबुद्धोत्साहस्य दुर्गप्रवेशाय बद्धपरिफरस्याऽऽन्वाहिकानि ? नूनम् एवमेव यदि नाम वयं प्रतिदिनं द्विपत आक्रमणान्युपद्रवमात्र- कारीणि प्रतिरुन्धानास्तावन्मात्रेण संतुष्टाश्च कालमितः परं यापयम ताचिरादेव भवेम तस्य कृते - विनैव खड्गोत्क्षेपं जय्याः ।" अप्य- "हि कि यावदस्माकं सैनिका अक्षीणसामर्थ्या युयुत्सवश्च तावनिर्गत्य निभृतं दुर्गाद्दुष्प्रसहवेगमाक्रमितव्योऽराति:? स्माकं सैनिकाः पराजेतुं तं शक्ष्यन्ति ? अपरिमितवलः सः क्व, क्व चाऽस्माकं पणीकृत्य प्राणान् युद्ध्यमाना अपि संख्यया:- त्यल्पा योद्धारः?" .... .... .... "अपि वयं, तडितप्रहारं प्रहरन्त:, प्रभंजनवेगेनाने सरन्तः, निभिद्य रिपुसेनां दुर्गमभित: कृतकुंडलनां शक्ष्यामो बहिर्गन्तुम् । शक्ष्यामः कदाचित् । परंतु वहिः .... कुत्र .... गन्तुम् ? यवनेन पादाक्रांतेऽस्मिन् राज्ये को नाम प्रसहेत दातुं नः शरणम् ? किन शक्ष्यामः बहिः .... अस्माद्राज्यादेव बहिः . गन्तुम् ? परंतु " को नाम भारतीयः नृपः उत्सहेत ?" .... .... .... .... -सविषादचितपद्राजकन्या, निपतिता पर्यके, परिथांता, लोकमाना च निद्रावशादर्धमीलिताभ्यां नयनाभ्यां वलांताभ्यां रत्नदीपं विश्रामकक्षकदेशे निष्कंप ज्वलन्तं, शनैः शनैः जीर्णतामुपयाते निशामुखे, व्यपगते चिताभारभुग्ने धीसचिवे, कृत्वा दैनिकी मंत्रणां, व्यतीत एवंप्रायेणोदन्तेनैकस्मिन् पक्षे । "अथवा किमिति न वहिनिर्गत्य, दिशामुदी- चीनां परिगृह्य, सोमावतिनि कश्मीरराज्ये प्रविश्य, हिमवदुपत्यकासु जय एव न मार्गणीय:?"- सस्मितमचिन्तयत् सा तंद्रापरवशमानसा। "न यवनः नूनं षिष्यति सद्य एवाऽक्रमितुं तद्राज्यमपि ! सिंघु-कन्या .... अथवा जयः २३७ .... तात: अहं "" सर्व एव वयं लब्धाश्वासा अनवरतं प्रयत्य जागरयिष्यामस्तांस्तान् भारतीयान् नृपान् । सह च महत्या सेनयाऽऽ- ऋमिष्यामः सिंधुराज्यम् । मोचयिष्यामश्चैतद्यवनतुंडात् । "" कियान् खलु हृष्टः स्याज्जयो """ मृत्युमुखादिव विनिर्गतौ समवलोक्याऽऽवाम् । कियता चोत्साहेन ..."। विचिन्तयन्ती चैवमेव किमपि किमपि निद्रांकेऽलीयत । हृष्यत्स्वांता .... लीनैव च ददर्श इव वेत्रवती ससंभ्रमं तस्याः शयनकक्षे प्रविशन्ती निवेदयन्तीं च तस्य किमपि, स्वात्मानं च सहसा समुत्तिष्ठन्तं शय्याया, विस्मृत्य सर्व खेदं तामनु धावन्तं आरोहन्तं निरीक्षणस्तंभसोपानावलिं, प्रविशन्तं निरीक्षणकक्षमाकुलाकुलं हर्षमूकेन साश्रुनयनेन धीसचिवेनाऽऽवेशमुखरेण सेनाध्यक्षेण निरीक्षक- सैनिकश्चावधीर्य योग्यायोग्यविवेकमुच्चैर्हसद्भिराहोपुरुपिकावाचालः, व्यापारयन्तं लोचने सर्वः युगपदेव तर्जनीभिविनिर्दिश्यमानायां दिशायां, समवलोकयन्तं क्षितिज उदीचीने प्रतिक्षणं स्पष्टतरीभवदन्य- मपारं वलं, पश्यन्तं कुंडलीकृत्य दुर्ग सर्वतः प्रसृतं निश्चितं यवनसेना- सागरं सहसा व्याकुलीभवन्तं, लोकमानं जिज्ञासयेवाऽऽतुरातुरया धौसचिवस्याऽननं प्रस्फुरदधरोष्ठं, अनुभवन्तं सरभसमागताया हर्षातिरेकविह्वलाया विलुलितकेशपाशाया संमदातिशयरोमांचित- गायाः प्रमोदोत्सेकवेपमानदेहलताया भगिन्याः कनीयस्या मुखकमलं प्रवहदानंदाश्रुक्लिन्नं तस्या उरसि समुच्छ्वसदुरोजकुड्मले लगत् संबोधयच्च तामस्फुटाक्षरम 'अंब!.... अंब इति । प्रसह्य च प्रबोधिताऽरु तुदेन केनचित् स्पर्शन भुजलतायां, ददर्श स्वात्मानं सत्यमेवानुभवन्तं 'अंब! ..."अंब..' इति तामस्फुटाक्षरं संवोधयत्, तस्या उरसि समुच्छ्वसदुरोजकुड्मले लगत्, अश्रुक्लिप्नं मुखकमलं भगिन्या: कनीयस्या भयोत्सेकवेपमानदेहलताया भीत्यति- शयरोमांचितगाभ्या विलुलितकेशपाशाया खेदातिरेकविह्वलायाः सिंधु-कन्या . .... - लोकमानं चाऽनमितं तयोरेवोपरि, क्षीणतररत्नदीपप्रभाप्रकाशित- वामभाग, कृष्णवर्ण, खल्वाटप्रायमुच्छूननाडीकलंकितललाटगाकुंचित- धूलतमेकाग्रया तीक्ष्णया मर्माणोन दहन्त्यांऽगानीव तस्या दशन्त्या रोमाणीव तस्या उत्पाटयन्त्या आरक्तया पिंगलतारकया दृशा तामेव निरीक्षमाणं हृस्वनासं प्रस्फुरप्नासापुटमुत्फुल्लकपोलं विवृतमुखबिल- मीपल्लक्ष्यपोतदन्तं " तुण्डं काकस्य ! असमर्था च लोकितुं तत् क्षणमात्रमप्यधिकतरं, व्यावर्तया- मास ततो दृष्टिम् । प्रेरयामास च तां - निपतितव शयने - शयन- कक्षमभितः । अवलोकयामास तं संकुलं महाप्रमाणः लोहशीर्षण्यैयूंढ- कांकटः रक्ताऽऽरक्तकृपाणः निःशब्दैः निश्चलेरेकानया दृष्ट्या तामेव सकौतूहलमिव सादरमिव ध्यायद्भिरुनगंधेरंशावतारैरिव कृतांतस्य सैनिकर्यवनः। निमिमेष च तां तदक्षण एव विलीनयितुं तत्दुःस्वप्नम् । "जयतु जयतु भर्तृदारिका !"- शुश्राव च क्षणान्तर एवानुमाय तत्प्रयासमुपहसतः कद्वदस्य तस्य नराधमस्यास्वरं स्वरम् । .... "मृप्यतु भर्तृदारिका । परंतु नायं स्वप्नः। सत्यमेव राजकन्या आरभत स शठः । व्यरमच्च सहसा नुभूय चपेटप्रहारं ती कपोले, अवलोक्य च तस्मिन्नेव क्षणे दूरीकुर्वती भगिनी, समुतिष्ठन्ती शयनात्, प्रधावन्तीं च समुद्दिश्य नातिदूर एव कक्षकोणे तिमिराच्छन्नप्राय आसनायामेकस्यां विराजमानां विकोशा खडालताम्। "अहो ! "" पुरुपायते चिरंटीयम् !" परामृशन् पीडाविह्वलं स्वं कपोलमवलोकयंश्च हिंस्त्रया लोलुभया दृशा तां, सहसा पुरः समुपसृतः सैनिकलवद्भिवितर्ता विफलप्रयत्नां समुच्छ्वसतस्तन- मंडलां ज्वलनयनामारक्तमुखमुद्रां, जगाद स एवमपध्वस्तः । सिंयु-कन्या २२९ "यदि हि यवनः सः प्रत्यवायः नाभविष्यत्तहि ..." अहं इमां "" पांसुला ......." पुनरारभत स दुर्मुखः। अग्ने सरंश्च सहसा व्यरमत् दृष्टकतमं यवनसैनिकं तमुद्दिश्येव चलितम् । "नयत इमाम् !" - आदिदेशास्फुटाक्षरं सः, कथमपि संनियम्याऽऽत्मानं, दृणनिव तां विपाक्तया दृष्ट्या । "इमां च" क्षणमात्र व्यावर्त्य तां "नग्निकाम् । नयत । अर्पयत च महाप्रतापिन ऊर्जस्विनः श्रीमुहम्मदस्य सेवा ..." .... ... .... अन्यथा- .... "वनीत वनीत एतयोः (सहासं) नलिनीनाभ- निभं भुजयुगलं निगडाभ्यो" - ससंभ्रममाह स नीचः समवलोक्य देवलदेव्या दक्षिणं हस्तं निभृतं समुपसर्पन्तं तच्चोलं समुद्दिश्य । "निगूहतानयोः कनकाभे देहलतिके कृष्णाभ्यामाभ्यामाप्रपदीनाभ्यां कंचुकाभ्याम् । पिधत्त लोचनान्येतयोः कृष्णपट्टिकाभ्यामाभ्याम् । पूरयत चानयोर्मुखबिले वस्त्राभ्याम् । मध्यमार्गमेवैते सहसाऽऽक्रुश्य विफलीकरिष्यतोऽस्माकं सफल मिममभियानम् । जानीथ यूयमधन्याः पितामहमनयोः परमस्वामिभक्तं छछम् ।" तस्यैवेमे वंशजे । स्वभावपारंगते खल्विमे विश्वासघातकलायाम् । • एवम् प्रतिष्ठामहे तावदधुना । • (अभितो विलोक्य) कुत्र खलु सा जरती? याऽस्मान् गुप्तेन भूमार्गेणाऽऽनीतवतोह ? (साश्चर्यम्) अपि सा विलीना... परिकलय्य ब्राह्म मुहूर्त समासन्नप्रायम् ? (कुंठितमतिरिव किंचिद्विचार्य) विनैव तया प्रतिनिवर्तितुम् !" .... एवम् । .... .... सा सा वृद्धा .... भवतु । शक्ष्यामः उक्त्वा चैवं . निरगच्छत्तस्मात् कक्षात् । अतिक्रम्य च कानिचित् कक्षान्त राणि मंदप्रकाशानि शून्यशून्यानि कांचित् सोपाना- मलिमवरोढुमारभत । प्रविश्य च तमोबहुलं भूगृहमेकमुदघाटयत्तदेक- देशति गूढं द्वारमेकम् । सिंधु-कन्या २४० .... प्रविष्टश्च तदन्तः प्राक्रमताक्रमितुं योजनदीर्घमुनगंधि विषमं भूमागं वहिर्यायिनं विकर्पन् सशस्त्रसैनिकपरिवृतां निगडितभुजयुगलां कृष्णवस्त्रावगुंठितां पूरितमुखां, भगिन्या समानवृत्तान्तयाऽनुगम्यमानां, पिहितनेत्रकमलतयाऽनभिज्ञां कक्षान्तरे निपतितस्य परश्वधप्रहारछिन्नग्रीवस्य रुधिरक्लिन्नस्य धीसचिवस्य शवस्य। सिंधु-कन्या २४१ सप्तदशः परिच्छेदः कुसुमकोमलतया ललनास्वभावस्याऽनूभूय सर्वथाऽनपेक्षितं विपत्प्रहारं प्रथमे क्षणे सन्नाया अपि तेजस्वितया प्रकृतेरन्यस्मिन्नेव सापराध नराधमं दंडयितु प्रवृत्ताया, वैपरीत्याद्भागधेयस्य विफल- प्रयासाया अपि महासत्त्वतयाऽऽत्मन ईपदप्यविहस्तायाः, कलयित्वाऽऽ- त्मानं रिपुणा निगृहीतमात्मरक्षाविरताया अपि प्रत्यर्थिप्रतीकार- निश्चयादणुमात्रमप्यविचलितायाः, क्षालयित्वेव स्मृतिमाप्तजनस्य दिवंगतस्य माजित्वेव विचारणां द्विपत्कपटव्यूहस्य सफलीभूतस्य मनःपटलादनागचितायामेव समाहितप्रेक्षाया, 'धू? द्वेपण: नूनं प्रयोक्ष्यते नौ विजेतुं महादुर्ग श्व एव' इति सम्यक् जानत्या, 'विलोक्याऽऽवां यक्षेणेव केनचिदुष्टेन रिपुहस्तसमर्पितौ विस्मयमूढः सेनाध्यक्षोंगीकृत्य विजयं रिपोः महादुर्ग तस्मै समर्पयिष्यति' इति तर्कयन्त्या अपि, 'किं करिष्यति तदा तातो ब्रह्मदत्त'- इति विनिश्चेतु- मपारयन्त्याः, "किं निश्चेष्यति यवनो विजितेऽन्तिम एतस्मिन् प्रतीकारस्थाने ?.... प्रवर्तेत कच्चिदुराचारेण कलंकयितुमात्मनो दिगन्तप्रसृता कोर्तिम् ? न खलु प्रवर्तेत । श्रुतो हि स मया धीरोदारसत्त्वस्तथैव स्वात्मनः प्रभवति यथाऽन्यस्य ! प्रवृत्तेऽपि का चिंता? विद्यत एव मम समीपे मम शस्त्रममोघं तातेन प्रदत्तम् । तेनाहं शीलनिधिमावयोः रक्षितुं प्रभवेयमेव' इति विचितयन्त्या, . .... सिंधु-कन्या ..." 'लब्धसाहाय्यो जय आक्रामेत् कदाचियवनं, जित्वा च तं मोचयेनौ तबंधनादिति तु दुराशामात्रम्... आक्रामितोऽपि हि यवनः- ममुद्भूतायामेव क्षीणायामपि स्वपराजयसंभावनायां- नूनमपहरिष्य- त्यावयोः प्राणान् । तत् पर्यवस्थाप्याऽऽत्मानं, मया, रक्षन्त्या शीलनिधि प्रतिनिमेषं, द्विपनिगडनिगडितयाऽपि आ प्रलयं तथा प्रयतनीयं यथा भ्राता मम वराक.... एकाक्येव परचक्रप्रतीकाराय प्रयतमान उपकृतः स्यात् । शरणीकरणीयश्च यमुनाभ्राता समुपस्थित एव शीलसंकट 'इति निर्धारयन्त्या, विचारव्यामृततया दीर्घदीर्घमपि निम्नोनतमपि विपजंतुबहुलमपि नितिमपि भूमार्ग विमनस्कतयैवाऽऽामन्त्या, अंघकारसागर इव चलन्त्यास्तस्या राजदारिकाया मानसं सहसा समाकृष्यत एकया शीतलया प्रोच्छ्व- सदूर्वाकुरवासवासितया निशांतसमीरला, असूच्यत च सामीप्यं वहिनिर्गमद्वारस्य । तत्क्षण एव सावधानं च तद्विनिवृत्याऽनागचिताया, आरभताऽऽगतमेवैकाग्रतया ग्रहीतुं निवेदयितुं च तत् सविस्तरं स्वस्वामिन्यै । आरभत निवेदयितुं- भूमार्गमुखद्वारसमुपसर्पणं, कतिपय- सोपानाऽऽरोहणं, कस्मिश्चिदृपन्मयभूतले प्रसरघूपधूपायिते गर्भगृह इव कस्यचिद्देवालयस्य भासमाने कक्षे प्रवेशनं, अनुसरद्यवनसैनिको- पानन्निनादितात्तस्मादनुदिततया प्रभाकरस्यावतमसाच्छन्ने प्रचलन्मंद- शोतलसमीरवीजिते समुत्पतत्पतविपत्रनिनादितगगनांगणे सिकतिले समतले भूप्रदेशे निःसरणं, समर्पयितुं शत्रोरनघं निधिं स्वसेनापते- एचरणयोरुत्सुकोत्सुकोत्सुकर्नातिदूरावस्थितात् प्राकारात् संभवनीयं निरीक्षणं परिहर्तुमातुरैर्वा त्वरितगमनैर्यवनसैनिकर्नुद्यमानायाः शीघ्रतरं मार्गाऽऽक्रमणं, आदी नातिस्पष्टं ततश्च प्रतिपदक्षेपं विस्पष्टं श्रुतिपथमवतरद्भिस्तुरङ्गमाणां सुप्तोत्यितानां हपारवैः नासाविपयतामुपगच्छद्भिस्तेषां मलमूत्रदेहगंधश्च संनिवेशस्य द्विपत्स्कंधावारस्य समीपे समुपसर्पणं, सहसा तद- सिंधु-बाच्या व्यज्यमान- २४३ सह वंधक: वरोधनं, कैश्चित् खड्गभीषणः जागरणाऽऽरक्तलोचनैः श्मधुलाऽऽ- ताम्रमुखैमहाप्रमाणव्यूं ढकङ्कटैर्यवनैः स्कंधावाररक्षाधिकृतरिव संलप्याग्रसरेण मूकेन सह दूरे कृत्वाऽऽप्रपदीनमवगुंठनं तत्परीक्षणम्, आश्चर्यस्तिमितनयनर्भटिति तत्प्रवेशानुमोदनं, पुरश्चलनं, समतिक्रम्य क्रोशदीर्घमध्वानं श्रूयमाणम्लेच्छसंलाप- संसूच्यमानसैनिकपटकुटीरपंक्तिवद्धोभयपावं सहसा यथानिर्देशं प्रवासाद्विरमणम्, अनुवृत्य कांचिदाज्ञां म्लेच्छस्य कुतोऽप्यानीताया- मासन्यां सह भगिन्या समुपवेशनं,- प्रतीक्षणं च निरुद्धश्वास- मुच्छुकमुखं परीक्षाक्षणस्य । अथाऽऽरुरोह भगवान् मित्र उदयाद्रिशिखरं, समादिष्ट इव विधात्रा साक्षात्कर्तुं परीक्षाक्षणं तस्या, एवं प्रतिपालयन्त्या आगमनं यवनसेनापतेः, संवत्सरात् प्राक् सांयात्रिकस्य कस्यचिदपहरणं निमित्तीकृत्य हठात् समुद्भूतस्य कृत्वाऽभूतपूर्व संनाहं समुल्लंघ्य सिंधुसागरसीमां सहसा सिंधुदेशे प्रविष्टस्य विजित्य दुर्गान् वशीकृत्य जनपदान् पराजित्य संधववीरान् दुष्प्रसहवेगं रामस्तं देशमभिभूत- वतोऽतिमां प्रतीकारज्वालामपि शमयितुं प्रवृत्तस्याऽऽक्रमणप्रलयपयो- घनस्य प्रचंडस्य प्राणभूतस्य, वयसाऽनधिकस्यापि चातुर्येणाप्रतिमेन बलेनाद्वितीयेनोत्साहेनापारेणानन्यादृशवलाध्यक्षपदेऽभिषिक्तस्य,दिगंत- विख्यातस्य। आरभत चाचिरादेव सानुकंपमिव सस्नेहमिव पराम्रष्टुं तां सुखदैः करैः। प्राक्रमत वातुं सदागतिः कथयितुमिव तामसाहाय्यां भ्रातुस्तस्या दिवंगतस्य वजवाहोः संदेशं कमपि त्वरितगतिः । विनिवेदयितुमिव च तस्यै निविण्णाय मनोगतं तज्जन्मभूमेः रवितुं कश्चिविहंगमः निलीन: नातिदूरवर्तिनः कस्यचिन्महावृक्षस्य शाखासंभारे। २४४ सिंधु-कन्या सहसाऽन्वभवत् सा तमेवारुतुदं स्पर्श स्वपाश्यें। अशृणोच्च पापस्य कायस्य शब्दमाकुलाकुलं समादिशन्तं तां समुत्थातुम् । अवधीयं तद्वच आसीनंव यथापूर्व, समाकर्णयत् कांचित् म्लेच्छोदीरितामप्यम्लेच्छितामविदिताभिप्रायामपि स्पष्टप्रभावा- मनतिक्रमणीयामप्यनुद्धतां स्तनितगंभीरां वाचम् । समवेच्च स्वात्मानं स्नान्तमिवानारमीयेऽप्यनाविले मर्म- पारगेऽप्यममध्ने प्रसरेऽपि प्रशांते कस्यचिदृक्प्रवाहे । तामेव वाचमनुसृत्य केनापि दूरीकृतावगुंठनाऽपनीतनयन- पट्टिका चाऽपश्यत् स्वपुरतः स्थितमभिभूततया शक्तेः सूर्यप्रकाशेन राहसा तद्विषयतामुपगतेनानतिस्पप्टविशेषमपि सुलक्ष्यपुरुषाधिक- प्रमाणं, स्पृशन्तमिवाभिमानोन्नतेनानुपहितशिरस्प्रेण मंदसमीरदोधूय- मानभंगुरचिकुरकलापेन मस्तकेन गगनवितानं, कर्णान्तपिथांत- निर्मललोचनमारक्तगौरवर्णमतिविशालभालफलकमाकुंचितधनपूलतं दीर्घसरलनासमावद्धारक्तोष्ठपुटमीपदुन्नतचिबुकं सुकोमलश्मश्रुल- कपोलं वृपस्वधं लोहकवचपिनद्धविशालयक्षःकपाटमाजानुबाहुं कृशमध्यं श्राणाऽऽवृतदीर्घजंघमेकं सुलक्षणं सुरूपं तरुणं म्लेच्छम् । अश्रद्दधानेव च तस्य तत्त्वे,"" न्यमज्जयत्- प्रायतत वा निमज्जयितुं- स्वां तीयां मर्मग्राहिका दृशं तद्दशि । क्षणमात्रानन्तरं हि सापातयत्ताम्- असमर्थव सोढुं कमप्यतिशयं तस्या, अर्धनिमीलितत्वात् लोचनाभ्यां पक्ष्मलाभ्यां नातिसुलक्ष्याया अप्यप्रत्याख्येयविशेषाया, आनीलाक्षिकूटकायाः, स्वभावोदग्नतारकायास्त्रलोक्यमिवाभिभवंत्या, अलौकिकत्वमिवाs- त्मनः प्रकाशयन्त्या, आत्मविश्वासमिवापारमुद्वमन्त्याः, स्वशक्त्यति- सिंधु-कन्या २४५ शयप्रसादमिव समुदगिरन्त्या, गभीराया, दुरवगाह्यायाः, प्रसन्नायाः, निनिमेपं सकौतूहलमिव सानुकंपमिव सादरमिव तामेव ध्यायन्त्याः । आरभत च"" अवशेपाऽऽत्मनः समनुभवितुमात्मानं मुकुमारकुमारिकाऽनधिकविशेपम् । अशृणोच्च चिरादिव तामेव स्तनितगंभीरां वाचं समादिशन्तीमिव काकम् । अपश्यद्- अपांगविलोकनेन तं नराधमं नात्युत्सुकमिव पालयितु तदादेशं, सहसा समुपजातकपं तदृष्टिक्षेपमात्रेण, प्रवृत्तं तन्नियोगमनुष्ठातुं, शुष्कस्वरं च वदन्तं तामुद्दिश्य... "उदारधीः सेनानीरस्माकं समाज्ञापयति- त्वत्तुल्या वीरा"" रमणी न तेन स्वे देशे वीरवहुले विजितेप्वसंख्येषु देशेषु वा दृष्टचरा । (अस्फुटाक्षरं)... स आदिशति- यदि नाम तस्य मातृभूमिस्त्वत्तुल्या- मेकामपि कन्यका जनयितुं प्राभविष्यत्तर्हि सा स्वात्मानं धन्यममंस्यत । (सविलक्षस्मितं) शास्ति च- स त्वामद्य एव स्वमातृभुवः परमोच्चस्य स्वनामधन्यस्य धर्मगुरोश्चरणयोः संनिधौ प्रेषयिष्यति- अवलोवायन्तु सर्वे तद्देशबांधवा अनुपमं स्त्रीरत्नं. कृपणेऽस्मिन् देशे सिंधुनद्या रोधसि विकसितमिति ।" विरत एव तस्मिन् किंचिदुन्नमितदृष्टिः प्रायतत किंचिन्नि- वेदयितुमिव । न तु शशाक"" असमर्था विजेतुं साध्वसम् । तस्थौ च यथापूर्वं मूर्तिरिव निश्चला हतभाग्या । ददर्श तमधोदृष्टिरेव.... प्रतीक्ष्येव तस्याः कामपि प्रतिक्रियां मुहूर्तमानं... विरज्य इवानधिगत्य तां" सनिश्वासं तद्विमुखी- भवन्तम् । आदिशन्तं च सहसा तेक्षणं निरतिशयमुपेतया वाण्या किमपि । २४६ सिंधु-कन्या शुश्राव तमभित: कृतसंमर्दानामपि विनयान्वितानां तदा- देशश्रवणसमकालमेव परिवर्तितमुखानां दुर्गध्वजस्तंभविनिगडित- लोचनानां समुक्षिप्तप्रासादानामसंख्यानां यवनसैनिकानां कंठेभ्यो गगनवितानविदिदरिपयेव दुष्प्रसहया सहसा नि.सरन्तं 'अल्लाहो अकबर ! अल्लाहो अकवर ।' इति जयनि?पम् अलोकत, स्वयमपि व्यावर्तितनयना, विहायोदयाचलं गगनांगणे कृतप्रवेशस्य भास्करस्य करैरुद्भास्यमानान्, स्वदुर्गध्वज- स्तंभस्याधस्तात् कृतसंघट्टान, निनिमेपं सांगुलि निर्देशं तस्या एव दिशि लोकमानान्, विस्मयमूढानिव निश्चलान्, सेनापतिप्रमुखान् स्वसैनिकान् नागरिकांश्चासंख्यान् । अलोचत कतिपयक्षणानन्तरमेव तान् राजध्वजमवतारयत- स्ततस्तंभात् अवतरतः प्राकारशिरराः, समुद्घाटयतो दुर्गमहाद्वार, समुपसरतश्च तद्दिश्यवाघोमुसान् पदातान् निःशब्दान् निःशस्त्रान् । आरभताऽऽशासितुं, विजानत्यपि तवंध्यत्वं तलेऽन्ततमे स्वहृदः, 'अपि नाम - एते, निगूह्याभिप्रायं स्वमनेन शरणाऽऽगमन- प्रदर्शनेन, समीपतममागताः, सहसोत्कृष्टधुरिकास्तृणोकृत्य प्राणान् दुप्पसहवेगमाक्रमिप्यन्त्येतान् संख्ययाऽत्यधिकानप्यनवहितान्, 'तृण- सारा इम' इति सोपहासमवलोकयतो यवनसैनिकान् । ..."मोश्य" ।' यस्खलच्च सहसाऽऽशाबंधादुद्वेजितेव कयाप्यन्तस्तलमिव तहृदो विलोडयन्त्या प्रखरया दृशा निनिमेपया। 'कुतः सल्वियम्' इति किंचिच्चकिता च यावव्यापारयति स्वां - सहजमिव दिशि यवनसेनापतेस्तावदाकर्णयामास तं तन्मुसविनिगडितलोचनं स्मेरवदनं तस्मिन्नेव क्षणे समादिशन्तं किमपि स्वसैनिकान् तयव स्तनितगंभीरया किंचिदप्यनुत्तेजितया वाचा । ददर्श च तान् यंत्रचालितानिव सहसा समुद्धृतकुंतान् शताधिकान् निःशब्दं परिवृण्वतस्तां सह भगिन्या दस्यामेवाऽऽसंद्यां सिधु-कन्या - .... २४० भग्नस्य " तथैवोपविष्टाम् । अवशिष्टांश्च - विभज्यात्मानं भागेष्वनेकेषु सहस्राधिकपदातेपु सहसा प्रतिगच्छतः सैंधवान् दुर्गवासिनः निष्प्राण- मिवाऽऽगच्छतः कुंडलयतश्च तान् निष्प्रतिरोधम् । सैंधवस्य स्वाभिमानस्यावशिष्टानंशान् तान् स्वदेशयांधवान् गोभक्षकेभ्य आत्मानं समर्पयितुं शनैः शनैः समुपसरतः निराशया दृष्ट्याऽवलोकयन्त्यास्तस्या मनसि समुदभवत् सहसा प्रश्न: - कुत्र नु तातो ब्रह्मदत्त इति । अशृणोत् तस्मिन्नेव क्षणे तदेवाभिधानं समुच्चारितं यवनसेनापतिसमीपतिना केनचित् सैनिकेनाधिकारिणा जिज्ञासयेव कयाचित् काकमवलोकयता। अपश्यच्च काकमपराधबोधभुग्नमिव तं स्वस्वामिनीसंरक्षणप्रयास एव कृत्तकंठ- मभिनयन सूचयन्तम् । अधिगत्य तमन्तिममप्याशातंतुं विच्छिन्नं दैवहतकेन, साक्षा- स्कृत्याऽऽत्मानं सर्वथा पराजितं पणेनानुभूय स्वमेलनमसंभवं जयेन, मंदभाग्या सा राजकन्या तथा न्यमज्जदतले नैराश्यसागरे यथा नाशकत् तदनंतरं वेत्तुं - म्लानमुखानां क्षामाणां दीनानामंशाव- ताराणामिव पराभवस्य स्वसैनिकानां यवनसेनापतिसमीपे समुपसर्पणं, तत्समक्षं जानुभ्यां भूमौ गमनं, यवनसेनाध्यक्षस्य तेभ्यः निःशब्दं प्राणदानं, तेषां यवनसैनिकबंदीकरणं, ततोऽपनयन, विजयमत्तानां यवनसैनिकानां दुर्गमुद्दिश्य सजयघोषं ततः प्रस्थानं, मृतस्य इव व्यात्तमहाद्वारमुखे तस्य प्रवेशनं, तस्याधिग्रहणं, निक्षिप्यकां गूढभावां दृष्टि तन्मुखारविंदे समवलोक्य तां स्फटिकमूर्तिमिव निश्चलमुपविष्टां तां किंचिद्वक्तुमिव प्रवृत्तस्य विचिन्त्येव किमपि सहसा संयम्येव स्वात्मानं क्षणमात्रानन्तरं दीर्घमिव नि:श्वस्य व्यावर्त्य दृष्टिमन्यत्र धीरगंभीरयाऽपि मंदयेव गत्या यवनसेनापतेस्ततोऽपसरणं, अनुसृत्येव तदादेशं तत्संमुखमुपस्थितस्य विनयावनतस्य संघवस्य कस्यचिद- भ्यर्थनानुसारं समुत्थानं, विनिगडितमणिबंधाया एव ततः प्रचलनम्, अतिक्रम्य नातिदीर्घ पंथानं यवनस्कंधावारमध्ययायिनमेकस्मिन् नातिविशालेऽपि सर्वविधसुविधोपपने सावधानरुदप्रैः सखड्गर्यवन- २४८ सिंधु कन्या सैनिकः सर्वतः परिवेष्टिते पटगृहे प्रवेशनं, पातनं चाऽऽत्मन एकस्यां सुधाधवलप्रच्छदायां शय्यायाम् । शय्यायां तथा निपतितायाः, निमोल्य नेत्रे संतप्ते तस्मान्नै- राश्यादतलादात्मानं समुद्धर्तुमनवरतं प्रयतमानाया, भगिन्या अपि विपदि घोरायां तामेवावलंवमानाया, अनभिज्ञाया, विचारवात्या- चक्रेण दोधूयमानं कथंचित् स्थिरीकृत्याऽस्मानं प्राप्तायां परिस्थिती कर्तव्यं स्वं विनिश्चेतुं प्रयस्यन्त्या एव तस्याः निराहाराया "" अन्तं दुरन्तमियाय स दिवसः । अनुशोच्य मुहुर्मुहुः यत्किचनकारित्वं विधातुनि इव पश्चिमांनिधौ स्वात्मानं न्यपातयद् भगवान् दिनकरः । असंमाय तद्हदि बहिरुद्वेल्लितः शोक इव सिंधुभूम्याः परिकलय्य भाविनं वियोगमात्यंतिकं विकलायाः, प्राक्रमताऽऽक्रमितुं चराचरं पनांधकारः । निपतिता अश्रुविंदव इव दिनश्रियो, गगनांगणे काशितु- मारभन्त ताराः । आलोकयितुं च दिगन्तप्रसृतं यवनस्कंधावारमसंख्या अलाताः सिंधुविजयोल्लासलोला इव प्रखराः । सिंघु-कन्या २४९ अष्टादशः परिच्छेदः उपातिष्ठच्च तस्याः समक्षं साक्षाद्यमदूत इव एकः सैनिकः करवालकरालः कज्जलकृष्णकायो महाप्रमाणो व्यूढककट आरक्त- लोचनो भंगुरकेशः स्थूलाधरोष्ठः । अगदत्तामसंस्कृतायां म्लेच्छ- भाषायां किंचिद्घर्घराक्षरम् । अवलोक्य च शयननिपतितां ताम- वधीरयन्तीमिव तद्वचः निगडशृंखलयाऽकर्पत् । दैवोपहता राजदारिका स्वनुभूय तं कप्टकरं कपं हस्त- योर्भग्नतंद्रा, किंचिदुनिमितम्लानमुखकमला, समवलोक्य तं यवनं सारमिव प्रादुर्भूतं सर्वतः प्रसृतस्य घनांधकारस्य, विज्ञाय च स्वप्रस्थान- कालं समुपस्थितं, यंत्रचालितेवोदतिष्ठत् शय्यायाः। गृहीत्वा च हस्तेन शृखलाजडेन हस्तं भगिन्याः संरक्षणार्थमिव स्वसमीपमुप- सृताया, आरभतानुगन्तुं विलुलितकेशपाशोच्छुकवदना निःशब्दा विभ्रांतकल्पा । अनुसृत्य तदिगं, प्रवेशद्वार एव तस्य पटगृहस्याऽऽदित एव संनिधापितमेकं कृष्णवणं पारसीकं सह भगिन्याऽऽरुरोह । निःससार च स्कंधावारादनभिज्ञा कुंडलीकृत्य तां सहचलितानां शस्त्रभीपणानां यवनतुरगारोहाणाम,- अनभिज्ञाऽभितः कृतसंमर्दानां तामेवैकाग्रया दृष्ट्या पश्यताम्,- अनभिज्ञा दूरेऽवस्थाय तामेव निनिमेषमवलोकयत एकाकिनः निश्चलस्य यवनसेनाध्यक्षस्य, अनभिज्ञा दीर्घदीर्घस्य सिंधुभू- २५० सिंधु-कन्या प्रज्वलदलातप्रकाश्यमानस्य नि:श्वासस्येव मंदगतेः सदागते:-अनभिज्ञा च निश्चेतनवत् निपतितस्य तिमिरपटलेन सांद्रेणाऽऽवृतस्य ब्राह्मणावासस्य पैतामहस्य । आरभत चानभिज्ञैव वृद्धाया एकस्याः संघव्या दास्या, आरुह्याश्वमेकतमं यवनस्कंधावारात् तयैव सह नि:सृताया, अनुकंपयाऽतितोत्रया छाययेव तामनुसरन्त्या, आश्वासयितुमिव तां स्वसाहचर्यसंसूचनेनोत्सुकोत्सुकाया अपि खेदजडां तंद्रा तस्या भंतुमपारयन्त्यास्तत्सेवायां जीवितमवशिष्टं व्ययोकतुं यवनसेना- ध्यक्षेणानुरुद्धेन विचार्य किंचिदनुमताया, आक्रमितुमचिरादेव निम्नोन्नतं शून्यशून्यमंधकारावृतमुह्ममानैकमात्रालातप्रकाश्यमान कदध्वम् । उदग्रैर्वलिप्ठः समुद्धतैर्यवनस्तैरश्ववारैः परिवृत्य प्रसह्य नीयमाना, पुरःसरदुल्मुकदीप्यमानकृष्णावगुंठना सा-, पुरुरूपेणासुरेण सामर्थेनापनीयमानायाः कमलाया, धृतानेकविग्रहेणानार्येण परा- क्रमेणापह्रियमाणाया आर्यसंस्कृत्याः, परिगृहीतवहुवपुषा पापसंचयेन भारतीयानामपनीयमानाया भारतभाग्यलक्ष्म्याश्च शोभामनुकुर्वाणा-, व्यलोक्यत निःस्पंदैः गगनांगणे कृतसंमः नक्षत्ररेव, अन्वशोच्यत मार्गपतितानां महीरुहाणां पर्णसंभारेषु निलोन: समवलोक्यालात- प्रकाशं निशम्य च तुरगरवं खंडितनिद्रः संत्रस्तं विरुवििवहंगमरेव, अन्वकम्प्यत दुःखभारजडेनेव मंद मंदं वहता मरुता एव"" आनिशम् । अथ, द्रष्टुं तदपहरणं सिंधुकन्याया अनिच्छुकाऽपि विधिनिद्दिष्टं स्वं कर्तव्यमुपेक्षितुमसमर्था म्लानप्रभा उपाऽऽविर्वभूव प्राच्यंगणे । पुरतश्च राजदारिकाया, मार्गपतितस्य नात्युन्नतस्य कस्यचित् शिखरिण: शिखरमारूढाया, आ उदीचीनाद् दिगन्ताद् दाक्षिणं दिगन्तं यावत् प्रवद्राजतप्रवाहा धौतधवलपरिधानपट्टिकेव भारतमातुः शोभमाना, प्रशांतपावनसलिला महानदी सिंधुः । . सिंधु-कन्या २५१ अवलोक्येव तां, तस्याः शोकावेगो, विभिद्य धनं नैराश्यभरं तदवरोधक, सहसा पुस्फोट । साक्षात्कृत्येव प्रथमतो वास्तविक स्वरूपं विपदस्तस्या हृदयमाकोष्टुमारभत नोतुं च तामुत्संग एव सिंधुमातुर्वत्सलाया: परमसहनायाः प्राणान् स्वान् विस्रष्टुम् । असमर्थ इवावधीरयितुं तदनुरोधमधिकतरं, तस्या यामो भुज, आतुर इव पूरयितुं तस्येप्सितं, - सत्यामेव तत्प्रज्ञायामन्तद्वंद्व- व्याकुलायामवधारणासमर्थायां,- प्राक्रमत निगडबद्धोऽपि कथमपि प्रवेष्टुं तच्चोलान्तः निष्क्रष्टुं च तदन्तगूढममोघं साधनं मुक्तेः । व्यरमत्तु सहसाऽवरुद्धस्तत्प्रज्ञया तस्मिन्नेव क्षणे दाक्ष्यमुपेतया- 'त्यक्तेषु प्राणेषु मातुरस्या उत्संगे प्राप्स्यथ: नूनं युवां मुक्तिमेतद्- वियोगदुःखात् । कथं तु प्रभविष्यथ उपकतुं तं वराकं भ्रातरं जयसिंह- मेकाकिनमेव प्रयतमानं प्रतिरोधुमेतेषां पापानां म्लेच्छानामा- क्रमणम् ? अकृत्वैव च तस्य साहाय्यमामरणमितो मुक्तेऽपि शांति- मात्यंतिकी किमवाप्स्यथ' इति पृच्छन्त्या, असमर्थश्च प्रतिवक्तुं किमपि । पर्यवस्थापितेत्यं प्रगल्भया प्रज्ञया नीरक्षीरविवेकनिपुणया सा सिंधुकन्या प्रारभत शनैः शनैरवाचीनेन मार्गेणोपसतुं महानदी- कूलम् । प्राप्य च तदवततार तुरङ्गमात् । नमस्कृत्य मातरमारुरोह निगडितभुजद्वयैव तत्र संनिधापितां सशस्त्रनौसैनिकपरिरक्ष्यमाणा- मेकङ्गिणीमग्रमंदिरामेकां नौकाम् । च द्वितीयं पादमंतिमयात्रायाः। प्रारभत परिकलय्य मातुस्तत्सान्निध्यमंतिम, सा खल्वियेप भोक्तुं प्रत्येकं तत्क्षणं निषद्य नौकाकूपकस्याधस्तात् । निबद्ध्य च दृष्टि- मनिमेषां पावने प्रतिक्षणमनोरम आ बाल्यात् परिचिते तस्या जल- विग्रहे । न त्वविंदतानुज्ञां नौसैनिकप्रमुखस्य, समनुसृत्य स्वसेना- पतेरादेशं परिहत्य सैधवजनसामान्यसंपर्क तां निभृतमेव सिंधुसागरं प्रवेशयितुमातुरस्य । २५२ सिंधु-कन्या प्राक्रमत चातो वराकी, समुपविश्याऽऽसंद्यामग्रमंदिर- वातायनस्यकमात्रस्य कृष्णसुचेलकाऽऽच्छादितस्य समीपेऽवस्थितायां, प्रशमयितुं स्वां तीत्रां पिपासामावद्ध्य दृष्टि भावतीनां सरितप्रवाहे किचिन्मात्रलक्ष्ये। विहायोदयाचलं गगनाङ्गणे कृतपदक्षेपस्य दिनकरस्य करस्तोरवर्तिमहावृक्षपर्णसंभारान्तरालनिपतद्भिः सस्नेहमिव संस्पृश्यमानायाः, प्रातःपवनांदोलितशिखरैः कूजत्पतत्रिकुलनिनादितैः कूलद्रुमः नमयित्वेव शिरांसि भक्त्यतिरेकेण स्तूयमानायाश्चिक्षा- लयिपया तीव्रयांऽगानां चेतसां च पयःप्रविष्टः, प्रक्षाल्य बाह्यमा- भ्यन्तरं च मालिन्यं प्रसादं परममुपेतः, कटिदध्ने जलेऽवस्थाय मुकुलीकृत्य करद्वयं परमपावनानि विविधानि सूक्तानि पठद्धि- द्विजवरैराकुलितकूलप्रदेशायाः, मध्यं गगनस्यालंकुणिन चंडतरप्रभेण प्रभाकरेणोद्भास्यमानविशालपात्रायाः, रजतपट्टिकाया विशालाया दीर्घदीर्घाया अवतारा) पुष्पकस्य विश्वकर्मणा विश्वकर्मणा भूमौ निर्मितायाः शोभामपहरन्त्याः, 'निष्कूजस्तिमितेः' निष्कंपदलैविचार- मग्नरिव महीरहैराबद्धोभयप्रतीराया, अस्ताचलशिखरे निपतितस्य चक्रनेमिक्रमेण मंदतापस्य तपनस्याऽऽरक्तैः करैरारक्तप्रवाहाया, जलबिभरिपया नातिदूराभ्यो ग्रामटिकाभ्य आगताभिविविधवेष- भूपाभिः परिहासमुखराभिमवधूभिः संमदितावताराया महानद्या- स्तस्या दर्शनेनाविच्छिन्नेन स्वान्तमपुनदर्शनाशंकातुरं परितर्पयन्त्या- स्तस्या अविदितगतयाम एव व्यतीयाय वासरः। उदियाय च घनतमिस्रा तमिस्रा । अथांधतमसाच्छन्नतया दुर्लक्ष्यप्रायतदीप्रदेशाया अपि संमिल्य प्रियसखीभिस्तारकाभिः सह तत्प्रतिबिंवमाध्यमेन हृष्यन्ती- भिरिवानवरतं नृत्यंतीभिरुर्मीभिरेव केवलाभिः संसूच्यमानाया अपि सिंधुसरितो दिदृक्षां यन्तुमपारयन्त्यास्तस्याः समीपमुपासरत् सा सैधवी वृद्धा दासी । न्यवेदयदनुज्ञां समवलोक्य तस्या अवस्था सिघु-कन्या २५३ किंचिद्रवितान्तःकरणस्य नौकाध्यक्षस्य तस्य यवनस्यातिवाहयितुं यामिनीमुपविश्य यथाभिलापं गुणवृक्षकस्याधस्तात् । अनयबहिः । उपावेशयत्ता भगिन्या सहितां तदभिलषिते स्थाने । उपस्थाप्य च तदग्ने पचेलिमानि कदलीफलानि पक्वानि खर्जू रीफलानि जलं च महानद्याः । व्यजिज्ञपत् सास्रतां सह भगिन्या पूरयितुं दैहिकीरा- कांक्षाः स्वाश्चिरात् खलु समुपेक्षिताः । राजदारिका तु समवलोक्य तां समुपस्थितां तत्परिचरणार्थ तस्यां कारानौकायां किंचिच्चकिता, समीक्ष्य तामपरिचितामपि विश्वसनीयाऽऽकृति किंचित्समाश्वस्ता, समुपलभ्य मातुः सिंधुसरितः सांनिध्यसुखं (भंगुरमपि) तन्माध्यमेनोपकृतमिवाऽऽत्मानं तया मन्यमाना, स्वीचकार तदभ्यर्थनाम् । बह्वमानयत् तत्प्रणयं कतिपय- ग्रासभक्षणेनाऽऽबंदीभवनान्निराहाराप्यबुभुक्षिता । अपिवच्च चिरतृपितेव पयो मातुः । उपलभ्य तद्यथापूर्वमेव मधुरं शीतलं च" परं व्यस्मयत । अश्रद्दधानेवोपलंभे रसज्ञायाः स्वरसज्ञायास्तत् पुनः पुनराचचाम । विलीनभ्रांतिरिव च."" अन्ते'. चिरं तूष्णींभावमभजत" निवद्धशून्यदृष्टिः पाने सिंधुमातुः प्रशांते । 'अहो ! ..."यथापूर्वमेव मधुरं शीतलं च पयोऽस्या', आरभत च चिंतयितुं खिन्ना। खल्वेतत् कटु संजातं, ... संतप्तं वा... दूप्यमाणमपि निरंतरमा संवत्सरात् पापानां गोभक्षकाणां संसर्गेण !' 'तत् किं न जानाति माता विपत्तिमेतां भयानका.... दूपयन्तीं तस्या अपत्यानां मनांसि, भ्रंशयन्ती चरित्राणि, समुन्मूल- यन्ती जीवनानि ? ""नानुभवति वा वास्तविक रूपं यवनसैहिकेयस्य भारतचंद्र जिग्नसिपोः?' २५४ सिंधु-कन्या 'कथं नु खल्वेतच्छक्यम् ? ... देवतात्मा हि माता सर्वज्ञा... त्रिकालज्ञेति संस्तुता। तत् किं... जानत्मपि विपत्तिमनुभवन्त्यपि तदुर्वास्तविक स्वरूपं.... नानुकंपते स्वार्भकान् ? " नानुशोचति तर्भाग्यम् ? ताटस्थ्यमेव भजते- अनुभवन्तु नामते फलानि स्वदुष्कृतानां संचितानां विपाकोन्मुखानामिति ?' 'एवमेवैतत् ।"" एवमेव"" ।' 'न केवलेयं सिंधुमाता, अपि त्वियं भारतभूः" जननी नः सर्वेपामपि नितांतमुदासीनव । यदीयं हवं नाभविष्यत् तहि मम कपटबंदीकरणवेलायां ध्रुवमियमकंपिष्यत । काकसदृशानां नराधमानां भारेण भग्ना चाभविष्यत् । न केवलयं सिंधुमाता न केवलेयं भारतभूर्वा... अपि त्वयं समीर:... अयमाकाशः..." अयं तारागणः सर्वे तटस्थाः प्रेक्षका एवास्य करुणभीषणरूपकस्य ।' 'न केवला एत एव... अपि तु मानवा अपि भारतीया अप्येते.. सैधवा अप्यते । कथमन्यथाऽसंपृक्ता इवानया विपदा'' एते निराकुला इव वर्तेरन् ?' 'निशम्याऽऽदी कृतांतदारुणानां म्लेच्छानामाक्रमणस्य समाचारं भीता अपि समाकर्ण्य तेपां देवलपर्तनदाहस्य देवलदेवी- विग्रहखंडनस्य वात्ती भय मूढा अपि, श्रुत्वा तेपा - तत् प्रमुखस्य वा पूर्णाभयप्रदानस्य शरणागतेभ्यो वृत्तांत समुपजाताऽऽश्वासाः, प्रत्यक्षी- कृत्य तस्य परधर्मसहिष्णुतां चकिताः, साक्षात्कृत्य तस्य परपीड- ननिवृत्तिशीलतां विस्मिता हि एते पारदास्यदूषणं भूपणमिव वहन्ती, गोभक्षकाणामाधिपत्यं स्वसौभाग्यफलमिव मन्यमानाः न मनसि कुर्वन्ति विचारं क्षणिकमपि संकल्पं दुर्बलमपि पारतंत्र्योन्मूल- नाय । अपि तु यापयन्ति स्वानि स्वान्यायूंपि तटस्था इद । 'अवस्थायाऽस्याः जले कटिदघ्नेपवित्राणि सूक्तानि पठन्तो भूदेवाः - नूनं स्वर्देवा इवाविचलिता एव - दृष्टा मयास्तीते प्रभाते । 'सिंघु-कन्या .... - जलविभरिपया चास्याः पयस्यवतीर्णा ग्रामयुवतयः परिहासमुखराः नितांतं निराकुला एव सायंसमये। (सहसा समुत्क्षिप्य दृष्टिं निबद्ध य च तां सरितः पाश्चात्त्ये तीरेऽस्पष्टं दृश्यमाने, विदूरतयांऽगुष्ठमात्र- परिमाण इव भासमाने, प्रस्फुरदरुणरागोपहतनैशदीपस्तंभसंसूच्यमान- संनिवेशे बुधिलदुर्गे) दृश्यते चास्मिन् क्षणेऽयं, साक्षात्कृत्याऽपि वज्ञस्य मम कपटघातमीपदप्यभग्नहृदयः पापाणहृदयो बुधिलानां परमस्वामिभक्तानां स्थलदुर्ग:।' 'यदि हि नामैते मम देशबांधवाः, पारतंत्र्यदुःखेनाऽसह्यवेदनं पीड्यमानाः, स्वातंत्र्यमपहृतं यवननक्रेण पुनरप्यधिगन्तुं बद्धपरिकरा अभविष्यन् तर्हि (सविषण्णस्मितं) ते स्वदेशाद्वलानीयमानायाः स्वभगिन्या विमोचनार्थ- योजनशतदीर्घदीर्धेऽस्मिन् मार्गे- असंख्यान् प्रयत्नानकरिष्यन् ।... कियन्तः खल्वासन् ते यवनतुरगारोहा ये मां ब्राह्मणावासात् सिंधुनदीतीरमनयन् ।! .... कियन्तो वा एत एव नौसैनिका मां सिंधुमुख आगमनं नः प्रतिपालयन्तं सामुद्रं पोतं प्रापयितुं नियुक्ताः। 'यदि हि नाम" मम वज्जो जयो वा..." प्रसारायाऽयं- धर्मस्य बद्धपरिकरो, गृहीत्वा प्रचंडां सेना, समुल्लंघ्य सागरान्, एतेपायवनानामेव मातृभूमिमानमिप्यत्, विजित्य चता, प्रातिप्यत... अपहर्तु तेपा प्रमुखस्य कन्यकामेव- विजयपताकामेव- स्वदेशाय... कि यवना एतेऽसहिप्यन्त तत् ?' 'न स्वप्नेऽपि ।' ... 'तत किं. क्षीणवीर्या मम देशवांधवाः ? अल्पप्राणाः? "स्वाभिमानशून्याः ?.... यद्येवं. तहि व्यर्थमेव नूनमगणित: संधवसैनिकः प्रतिरोधुं यवनपदक्षेपं सिंधुसागररोघसि प्रयतितम् । निष्प्रयोजनेव दत्ता रणकुंडे पूर्णाहुतिः देवलपर्तनस्य । व्यर्थमेव नूनं वण विनाशयितुं यवनसन्यं मरुदेशे प्रयस्तम् । निष्प्रयोजनम् एव सिंधु-कम्या दत्त आत्मबलिवुधिलदुर्गे। व्यर्थमेव नूनं कृतसैन्यसंघट्टरस्माभिर्यवन- संन्यं तस्मिन् रणागणे प्रतिरुद्धम् । निष्प्रयोजन एव विसृप्टो देहस्तातेन तस्मिन् निशामुखे । तातसदृशेन च ब्रह्मदत्तेन । व्यर्थमेव........। विचितयन्ती चैवमादि किमपि किमपि विपणन मनसा, नावेवराकी स्वात्मानं स्वभगिनिकां च समवलोक्याहरागमं स्वयं तत्राऽऽगतेन नौसेनाध्यक्षेण कक्षान्तर्नायितं, तत्राऽऽसनायां कस्यां- चिदुपवेशितं, मध्यं गगनस्याध्यारुढे दिनकरे दास्या तया भोजितम- स्वस्थामिव शायितं शय्यायां, समवलोकयन्तं च शून्यशून्यया घशा वातायनजवनिकामवतरदिनकरकरैः प्रकाश्यमानामवतरिते तस्मिन् पश्चिमांनिधौ - असमर्थ इव साक्षात्कतुं सिंधुकन्यायाः प्रवजनं मातृभूमेः पुनर्घनीभूतकृष्णवर्णाम् । प्राबोद्ध्यत च हठाद्विचारतंद्राया खेदजडायाः सावेगमिव कक्ष कृतप्रवेशया तया वृद्धया दास्या सस्नेहं स्पृष्ट्वा विलुलितालके भालप्रदेशे मुहुर्मुहुः कातरेण स्वरेणाऽभ्यर्थयन्त्या तामभ्यर्णदेवलदेवी- गिरिदर्शनाय । राजकन्या त्वाकर्ण्य तदभ्यर्थनामनुभूय पोतं सिंधुमुख- प्रविशत्सागरकल्लोलदोल्यमानमवघ्राय ती धीवरजालगंधं मंद- पवनोह्यमानं निशम्य कोलाहलं यवनदेशादागतेभ्यो मध्येसरित्प्रवाह विश्राम्यद्भ्योऽनेक गिभ्यो महाकायेभ्यः पोतेभ्यः- जलचरेभ्य इबाजस्रभ्योऽशितुं सायंसमोरं पात्रतलादुत्यितेभ्यस्तास्ताः रण- सामग्रीस्वतारयतां म्लेच्छनाविकानां सहसा विलीनतंद्राऽसमर्था संयन्तुमिच्छा दर्शनस्य पश्चिमस्य पावनस्य संघवतीर्थस्थानस्य नगरस्य च स्वातंत्र्यदेवतारिरक्षिषया समरयज्ञकुंडे हुतात्मनः अधावत् सह भगिन्या वातायनस्य समीपे। अपसार्य च सतिरस्कार तिरस्करिणीमक्षिपदृष्टिमातुरां वहिः । सिंधु-कन्या अपश्यच्च- न खलपात्तमृदुलशाद्वलपरिधानं धृतधवल- पापाणसोपानततियज्ञोपवीतं, द्विजोत्तममिवानन्यादृशं सिंधुसागर- रोधसि सुखमुपविष्टमार्याणां परमपूजनीयं देवलगिरि, न वाऽभ्रंकप- कलशशिखरं, मंदसागरसमीरदोधूयमानया पताकया तर्जयन्तमिव गोभक्षकान्, प्रसरत्सायंपूजापटहध्वनिनिनादितदशदिशं देवलदेवी- देवालयम् - अपि तु - विदग्धपुनरुद्भिन्नविवर्णतृणाच्छन्नं विकीर्ण- मलिनपाषाणखंडसंसूच्यमानविनप्टाऽऽरोहणमार्ग मृदुच्चयं, विखंडित- मस्तकं च नीरवं निःसरदसंख्यदिवाभीताऽभद्रदर्शनं शिलोत्सेधं महान्तम् । अपश्यच्च तत्समीप एव नात्युन्नतमपि नातिविशाल- मप्यनलंकृतमप्यप्रत्याख्येयप्रभावातिशयं सुधाधवलितभित्तिकं समुत्तुंग- हरित्पताकासुशोभित निःसरत्कर्णकर्कशसायंप्रार्थनास्वरप्रकंपित- दिङ मंडलमाराधनास्थानं म्लेच्छानाम् । असमर्थेव च द्रष्टुं तद्हृदयविदारक दृश्य, तस्मिन्नेव क्षणे व्यावर्तयामास स्वां दृष्टि ततः। व्यापारयामास च तां रोधसि पाश्चात्त्ये महानद्याः प्रसृतायां देवलनगर्याम् । न त्वशकद्रष्टुं ताम् । अद्राक्षीत् तु तस्याः समुत्तुंगानामट्टालिकानां स्थाने धूमधूमलानां महतां शिलाखंडानां दग्धावशिष्टानां महाद्वाराणां चोच्छ्यान् समुद्भूततृणांकुरान्, असंख्यदीपदीपितानां लंबमानकुसुममाला- सुशोभिताना प्रसरळूपवल्लरीसुवासितानां विक्रयताटककुंडल- लंबनकेयूरादिमंडनमनोरमाणां पण्यवीथिकानां स्थाने प्रदीर्घास्तृण- निमिता मलमूत्रगंधास्तुरगशाला, दिगंतप्रसृतानां नागरिकाऽऽवास- पंक्तीनां नानाप्रकारकाणां विविधवृत्तान्तानां स्थाने सैनिकविश्रांति- शाला मृण्मया एकप्रकारकाः । असमर्थेव च द्रष्टुं तदप्यरुतुदं दृश्यं, तस्मिन्नेव क्षण आजहार स्वां दृष्टि ततः । अयुंक्त च तां प्रतिक्षणं समीपतरं समुपसर्पति सिंधुसागरतीरे सिकतिलेऽवलोकयितुं सायंसमये २५८ सिंधु-कन्या पितुरुत्संग. इव तत्र तत्र विश्राम्यतः पौरान्, विहरती: पुरंध्रीः, क्रीडतश्च बालकान् । अपश्यत्तु तत्स्थानेऽगणितान् सैनिकान् यवनदेशात् सद्य आगतान्, प्रतिपालयतश्च प्रचलनाऽदेशान स्वाधिकारिणाम् । नितांतमपरिचितमिव भासमानं तदृश्य, समवलोक्य तस्या अवस्थां करुणाईचेतसा विधावा जुघुक्षयेवांधकारपटलेन सरभसमाव्रियमाणं, विस्मयमूढया विस्फारितया दृशा निनिमेपं लोकमाना च नावेनौसैनिकाध्यक्षं निःशब्दमुपस्थितमापातकठोरेण स्वरेण समादिशन्तं तस्याः समीप एवावस्थाय वातायनाद्वहिर्लोक- मानां वृद्धां दासीं किमपि, तां दीर्घ निःश्वस्य तदभिमुखीभवन्ती- मात्मानं च तद्गृहीतवामभुजं कृष्णवस्त्रेणाऽऽप्रपदीनेनाऽऽवृतसर्वांगं विनिगडितमणिबंधं कक्षात्तस्मात् सह भगिन्या बहिर्नीयमानमर्यमाणं निःशब्दमेकस्मिन् विशाले महार्हास्तरणाऽऽच्छादितदार्वतले मंद- प्रकाशे निर्वातायने राजतधूपपात्रसमुद्गच्छधूपपल्लरीसुवासिताss- भ्यंतरे सोवर्णपानपावभूषिते पर्यकट्यालंकृतमध्यभागे कक्ष एकस्य समीप एवावस्थितस्य महाकायस्य कृष्णवर्णस्यानेकधवलशृ'गिणो - महामत्स्यस्यैव विलक्षणस्य तलात् पयोनिधेरुत्थितस्य भयानकस्य सामुद्रिकस्य पोतस्य निःश्रेण्या नोककदेश आदित एवोत्यापितया नौसैनिकरुपविश्यमानं चैकस्यां पर्यकसमीपवर्तिन्यामासनायाम् । चिरादिव चाजागस्तस्यास्तंद्रायाः खेदजडाया, आकर्ण्य सहसा समुद्भूतं नीरवे तस्मिन् नैशे समये दशदिक्षु प्रसरन्तं तीक्षणं स्वरं कस्यचित् म्लेच्छस्याऽऽदिशन्तमिव किंचिदनुभूय कक्ष दोलायमानं पुर इव सरन्तं, निशम्य कमपि सरभसं प्रविश्य कक्ष निधाय, कंपमानं हस्तं तत्स्कंधे कथयन्तं - भर्तृ दारिके ! प्रस्थितः पोतः .... प्रस्थितः इति । स्पृप्टेव च विद्युल्लतयाव्याकुलातत्क्षणमेव सहभगिन्या वहिः कक्षादधावत् । अतिष्ठच्च धृत्वाऽपनीतनिगडेन दक्षिणेन भुजेनान्यतमें सिंघु-कन्या २५९ समीपस्थं शृंगस्तंभमनभिज्ञा तमसाऽऽवृततयाऽलक्ष्यप्रायस्य नातिदूर- वर्तिनो यवनसैनिकस्य खड्गधरस्य समवलोक्य तां तथा कक्षाग्निः सरन्तीं धावन्ती च सहसा सावधानस्यानुसतुमिव तां प्रवृत्तस्य विलोक्य तां तथा निश्चलतामुपेता विरतस्य निनिमेपया तु दृष्ट्या चेष्टास्तस्याः निशब्दं निरीक्षमाणस्य, समालिखन्तीव स्वमनःपटले दृक्तूलिकया दृश्यं प्राणेभ्योऽपि प्रियतराया भारतभूमेघनांधकारा- च्छन्नायाः प्रज्वलभि. कतिपयर्यवनस्कंधावारदीपैः संसूच्यमान- निवेशाया: परिजिहीर्पयेव स्पर्शस्य तस्याः पराक्रमणप्रतिरोधे निष्फल- प्रयासायाः प्रतिक्षणं दूरतरमपसरन्त्याः। अन्वभवच्च शोकमपारं समुद्वेलन्तं मनसि कन्यकाया अवशाया बलादपह्रियमाणायास्तज्जनन्या उत्संगात् । अजानाद्धि सा ध्रुवं यल्लब्ध्वाऽपि साफल्यं (असंभवप्रायं) जीवितहतकस्य प्रयोगेन परचक्रप्रतिरोधने "" सा नैव शक्ष्यति द्रष्टुं स्वां मातृभूमि पुनः ... मातृभूमि दिगन्तविश्रुतकीति प्राचीनतम- संस्कृतिजन्मभूमिमुपदेशभूमि सनातनस्याऽर्यधर्मस्योत्पत्तिभूमि बौद्ध- जैनसदृशानां प्राणिमात्रहितैषिणां धर्माणां " भूमि नयनालादिनी हिमवकिरीटिनी गंगायमुनाद्युत्तरासंगिनी सिंधुब्रह्मपुत्रकेयूरशोभिनी नर्मदामेखलिनी सरित्पतिप्रक्षाल्यमानचरणकमलिनी प्रतिकृतिमिव पृथिव्याः कनीयसीम् । .... 'क्षमस्व .... मात:! क्षमस्व कन्यकामेतामन्यतमा स्वां हतभागधेयाम्' आरभत च प्रार्थयितुं निःशब्दं ताम् । 'एतया हि त्वयि प्राणाधिक स्निह्यन्त्या प्रयतितं रक्षणाय तव पावित्र्यस्य । न तु सफलीभूतं ... वपरीत्याद्वा भागधेयस्य दौर्बल्याद्वा प्रयत्नस्य न जाने। इयं तव कन्यका, मातः ..! "" विनष्टपितृछाया प्रध्रप्टभ्रात्रवलंवाऽसहाया - कमलिनीव समुत्पाटिता प्रक्षिप्ता च कूलंकपे सरित्प्रवाहे गंधगजेन-दूरीकृताऽशरणशरण्यात् त्वदुत्संगाग्नि- क्षिप्यते घटनाप्रवाहे विपविपमे कालेन ।' .... .... २६० सिंधु-कन्या 'त्वत्सांनिध्यादेवं विप्रकृष्टा तव दुहितेयं दुर्बला न शक्ष्यतीतः परं संवर्द्धयितुं स्वं मन:सामथ्यं त्वत्पयःपानेन • सामर्थ्यमावश्यकतरमितः परम् । तदनुगृहाण संधुक्ष्य तदसकृत् संप्रेष्य स्वाशिपः निःशब्दाः। विना ताः न नूनं प्रभविष्यामि, मातः, पूरयितुमात्मनश्चरमा कामनाम् । " जानासि, मातः, सर्वसाक्षिणी त्वं ..... न किमप्यहं किंचित् कामये । जानासि त्वमा संवत्सरात ज्वलता गृहदाहेनानेन दग्धाः सर्वा अपि मम कामनाः। किंचिदपि कामये। पितेव मातेव भ्रातेव पितृव्य ..." इव होतुमिदं जीवितं रणयज्ञकुंडे विनशनायास्या यवनरक्षोविभीपिकाया, देवितुं मम जीवितं परिभवाय नियत्या अद्यावधि निरपवादं मां परिभवन्त्या अस्यां द्यूतक्रीडायाम्।' कामये तु .... .... .... .... .... 'अनुगृहाण घ, मातः, समुपस्थाय मनसि कन्यकायास्तेऽ- स्यास्त्वत्तोऽपह्रियमाणायाः, समुपस्थायास्याश्चेतस्यग्निपरीक्षणवेलायां देहावसानवेलायाम् । तवैव प्रभावेण लप्स्ये (- यदि नाम लप्स्ये-) सौख्यमेतदन्तिमे क्षणे । न मम प्रार्थनावलेन । मम ह्यधन्यायाः प्राथितं सर्व विपरीतमेव संपद्यते।' 'अक्क ! अनुगृहाण संरक्ष्य मम जयं मम किशोर- वयसं जपमसहायमेव प्रयतमानं मोचयितुं त्वामेतस्माद्यवनना- असनात् । नास्ति कोऽपि तस्याऽऽत्मीयस्त्वां विना ।..... 'नास्ति कोऽपि संरक्षकः । विचिन्तयन्ती चैवमेव किमपि शोकविह्वलं, स्फटिकमूर्तिरिव निश्चला, नावेत् प्रतिक्षणं वेगेनापसरत् मातृभूमितीरं संतमसेन कज्जलकृष्णेन घनघनेन दृक्पथात् प्रसह्य तिरोधाप्यमानमात्मानं च निविडम्वांतनिखातनयनं समीपतरमुपसृतया सासलोचनया पृद्धया तया दास्या ततः शनैः शनैरपनीयमानं, नीत्वा पर्य केऽन्यतरे सुधा- घवलप्रच्छदे समुपवेशितं, चिरादिव च तंद्रयांऽके स्वे शायितम् । सिंधु-कन्या एकोनविशः परिच्छेदः .... जागरिता चान्येशुरदर्शनं गते दिनकरे निमज्ज्य पश्चिमे सायंरागलोहिते विदीर्णसर्वमहाहृदयरक्तरवत इव समुद्र, महासत्त्वतया विजित्य शोकभरं किंचित् प्रकृतिमापन्ना, मनसि कृत्वाऽवशिष्टं कार्य संपाद्यं शरीरहतकेन, स्वीकारयामास फलाहारं स्नेहमुखरया दास्या समुपस्थापितं स्वभगिन्या, स्वीचकार स्वयमपि, समुपाविशच्चापनीत- कृष्णवस्त्रावगुंठना तया सह -समवतीर्णे नभोमंडलात्तमसि घने समीपे तस्यैव शृगस्तंभस्यावलोकयन्ती लोलतरंगं नृत्यत्प्रतिबिंबिततारकं दिगन्तविस्तृतं सिंधुसागरं चितयन्ती च कदाचित् सागरे तस्मिन्नेवादर्शनमात्यंतिक गताया नौकायाः, नयंत्याः शवं निर्वसनं विशोणं हिंसमूपकलुंचितस्तनमुनगंधि तस्याः केरलकवर्ततरुण्याः, कदाचित् सागरे तस्मिन्नेवाकस्मादाविर्भूतानां नि:शब्दं सिंधुसरिदा- मुखप्रदेशमुपसर्पतां विविधप्रकाराणामसंख्यानां महाकायानां पोतानां यावनानाम् आ निशान्तम् । आरभत च यापयितुमहोरात्रमेवमेव ... तटस्थेन मनसा पर्यालोचयन्ती सांवत्सरिक घटनाप्रवाहं भोपणम् । क्षणमात्रमपि नान्वशोचन्तं निर्णयं यवनानुरोधप्रत्याख्या- पकम् । २६२ सिंधु-कन्या वह्वमानयत्तु यवनसेनापतेस्तस्य कौशलं विमलभ्य तान् सप्रयोजनं प्रसारिताभिः किंवदन्तीभिः निभुतं संनाहयतोऽजन बलमाचिसया रिपुराज्यस्य तत्कालपर्यन्तं केनाप्यनुल्लंधितयाऽत एव सर्वथा समुपेक्षितया सागरसीमया, रणनीतिचातुर्य जित्वाऽपि सिंधुसरिदामुखप्रदेशं समनुभूय दुष्प्रसहवेगं प्रत्याक्रमणं रिपुवलस्य निभृतं देवलनगर्यामाविर्भूतस्य भयकांदिशीकमिव सागरमार्गेण कृतकमपसरतः, सहसा चाक्रम्य शतगुणितवेगं परिवृत्य निरुच्छ्वासं तन्निरपवादं विमृनत: ...- कूटनीतिनैपुण्यं च भारतीयस्वभावं सम्यक् परिकलयतो, भस्मसात् कृत्वा देवलपर्तनं कपटमवलंब्य तं प्रतिरोधु प्रवृत्तं संधवमात्रमानसं भयाक्रांतं कुर्वतः, प्राप्त मात्र एवावसरे शरणागतान् निरूढप्रदेशादिवासिनोऽभयमुदारेण मनसा ददतो, विजितजनपदलुंठनप्रवृत्तान् स्वसैनिकान् स्वामिभक्तानपि वीरानपि सप्रयोजनं सामान्यजनसमक्षं दण्डयतः,प्रभंजनवेगेन सर्वतः प्रसरन्ती- मजेयत्वख्यातिमात्मनस्तस्तरुपाय: परिवर्द्धयतः, क्षुद्रवैयक्तिकस्वार्थ- सिपाधयिषया साहाय्यकरणाय स्वयमेवाऽऽगतान् घोरं देशद्रोहपात- कमवधीर्य स्वनृपतेरेव दौर्बल्यस्थलान्यहमहमिक या समुद्घाटयतः काकमूकादीन् नराधमान् प्रकाशं संमानयतोऽपि विज्ञाय तेषां विश्वास- घातप्रवणं चारित्र्यं नकदापि तेषु विश्वसतः, स्ववलमेव दुष्प्रसह- बलमदत्वाऽवसरं प्रत्यर्थिवलाय हतोत्साहाय स्तोकमपि पर्यवस्था- पयितुमात्मानमनवरतं तदनुधावने योजयतः, प्रत्यहं दीर्घतरीभवतः समरसामग्र्यापूर्तिमार्गान् सततमुपद्रवेभ्यो यत्नपूर्वकं रक्षतः, निश्चित्य प्रतीकारस्याऽधारस्तंभान् तन्नाशायैव स्वसैन्यं व्यापारयतः, सुविचार्य वाधा अवश्यंभाविनी भारतीये वर्षौ सर्वथापरिचितेऽ- नागतानामेव तासां प्रतीकारेश्वधानं ददतः, प्रवृत्तायां प्रावृपि स्वल्पमप्यवकाशमदत्वा शैथिल्याय विजिते प्रदेश सामान्यजनकल्याण- विधायिनीस्तत्सुखदायिनीस्तास्ता व्यवस्थाः कुवंतः, समवलोक्य वर्षाकालं समतिक्रांतं पुनरपि द्विगुणितेनोत्साहेनावशिष्टस्य द्विपद्- राज्यस्य विजयाय परिकरं वघ्नतश्चारचक्षुपाश्वलोक्य जयसिंह - सिंहमिव दुर्जेयं - प्रेप्सया मित्रसंपदस्तत्तभारतीयनृपाणां संसत्सु सिंघु-कन्या २६३ स्वयमुपस्थातुं प्रचलितं कौटिल्यनानुपमेन तमनवहितं परकीय एव राज्ये बंदीकर्तुं यस्यतः, संसिद्धि तत्रालब्ध्वा विद्युच्चपलं तं स्वराज्याट्विप्रकृष्टतरेषु राज्येषु वलाद्गमयतो, विनप्टपरिवाराम- साहाय्यतामकांतिकीमापादितां तां निरुद्ध य दुर्गे हिस्य तच्छक्ति- संचयं निरंतरराक्रमणैरन्ते कपटेन वंदीकुर्वतः - एवं च विख्यातं सिंधुराज्यं संवत्सरेण केनव स्ववशीकुर्वतः । अतोलयच्च तत् स्वपक्षस्यार्भकमात्रोचितेन निश्छलत्वेन तमोगणमात्रसमुद्भवेन पारंपरिकरणव्यापारानुगमनेनात्ममात्र- विघातकेन कूटनीतिवैमुख्येन च । "यदि हि नाम तातो, यवनानुरोधप्रत्याख्यानसमकालमेव, समुत्प्रेक्ष्यावश्यंभाविनमाक्रमणं, स्ववलसनहने दत्तचित्तोऽभविष्यत् . कपटपूर्णे तस्य सौहार्दसदेशे क्षणमात्रमप्यविश्वस्य स्वसामर्थ्यपरिवर्द्धने च व्यापृतमनस्को " यदि नाम तात "अथवा किमिति तातमुपालभे? तेन खलु राज्या- भ्यन्तरिकशांतिप्रस्थापनसंक्षीणोत्साहसंपदा वाद्धके न्यस्तपदा यथा समीचीनं परिकल्पितं तथवानुष्ठितम् तातेन वीरभद्रेण वाऽतिक्रांतप्रौढावस्थेन प्रतीकारस्याऽऽक्रमणस्य च नूतना विधा: प्राक्कलयितुमसमर्थचेतसा । तातेन सुमतिना स्थाविरवशान्मंदीभूत- गूढचरनेत्रज्योतिषा दमिश्काधिपतेरल्हज्जाजपक्षपातित्वं हज्जाजस्य वा धर्मविजयातुरत्वं साक्षात्कर्तुमशक्तेन ।" .. .... अल .... "नूनं सर्व एतेऽनुभवविदग्धा अपि जरया विदग्धोत्साहा. वलंबाः नासन् प्रकृत्यैव समर्थाः प्रतिरोर्बु स्वभावत एवाक्राम- काणां तत्रापि भारतवर्पसदृशीं स्वर्णभूमि लुण्ठितुमुत्सुकानां, तत्रापि स्वधर्मप्रसारोत्साहाभिनिविप्टानां, तत्रापि प्रियदर्शनमादर्शचरितं वनसंकल्पं रणचतुरं युवांसमधिगत्य नायकत्वेन शतगुणितावेशानां यवनानामानमणम् । २६४ सिंधु-कन्या , यवनदेशान्महेशदत्तेन संप्रेपितस्य तस्य दूतस्य मध्य एव विलयः ? सिंधुमदुर्गेऽदृष्टपूर्वेण गूढद्वारेण यवनसैनिकानां तस्मिन्निशामुखेप्रवेशः? काकस्वभावं काककुटिलं सुप्ठु जानतोऽपि वज्रस्य, विवेकशून्य- स्याकस्येव, तस्मिन्नेव विश्वासन्यासः ? तनिलय एव प्रथमरात्र एव तीव्रः ज्वरग्रहः? रणांगणे तातस्य, चिरात् प्रज्वलितशौर्य- ज्योतिर्दुर्धर्पस्य, भीष्मभीष्मस्य, यवनसेनापतिमेव साक्षात् प्रहर्तु समुत्क्षिप्ताऽऽयुधस्य, सहसा चकितस्येव, भीतस्येव, प्रहारापराधः अन्यभारतीयनृपसाहाय्यमृगमरीचिकाऽयास्यमानस्वांतस्य विहायाऽऽवां, तन्मात्रावलंबे, दुर्ग एव, स्वराज्यादपसरः ? .... प्रसरो यवनश्छलेन बंदीकर्तुमीहितस्य सिंधुराज्याद्रतरवर्तिनि काश्मीर- राज्य?" उपसदश्च दुर्गे निःसर्तु ततः कृतनिश्चयायां मयि नितांतमज्ञातेन भूमार्गेण द्विपत्सैनिकानां तस्मिन्नेव निशामुखे ?" ? जयस्य, .... "अहो ! तामेव शक्ति कार्यप्रवृत्तां नूनं व्यानक, तस्मिन्नपराले .... सिंधुसरितस्तीर, औदुंवरस्य महावृक्षस्याधस्ता- दुपविष्टो महर्पिश्चिदानंदो विज्ञाय मे मनोगतम् ।" .. .. "परंतु "" परंतु एतदपि तु स मां विस्पष्टाक्षर- मुपादिशत् - 'अस्मिन् प्राणसंकटे मातृभूमेः महत्ते कर्तव्यम् ! महान् खलु ते भारः प्राक्तननिर्धारित' इति ।" भारः ? "अपि नामानुष्ठितं मया स्वं कर्तव्यम् ? व्यूढो मया स प्रयतितमेव मया यावच्छक्यमाक्रमणं यवनानां प्रतिरोधुम् । .... न । न । अवशिष्टमेव मम कर्तव्यम् । वाह्य एव मया स भार इत:परमपि वाह्य आप्राणोत्सर्गात् ।" .... "कथं नाम अहमेवं वियोजिता स्ववांधवेभ्यः, स्वमातृ- भूमेरपकृष्टा, निक्षिप्ता शत्रुदेशेऽवलाऽसाहाय्या, कर्तव्यं स्वमनुप्ठातुं प्रभवेयम् ? भारं वा वोढुम् ? योजनशतविप्रकृप्टे भारतवर्षे .... २६६ सिंधु-कन्या भासमाना प्रबोधयितुं भारतीयान् नृपानात्मविनाशिन्या औदासीन्यतंद्राया अनवरतं प्रयतमानमेकाकिनं भ्रातरं सिंह वोपकर्तुम् ?" चितयन्ती चवमेव किमपि किमपि, समुच्छलत्सागरतरंग- निखातनयना - रत्नाकरदुहितव कश्चित् सामुद्ररसुरैरपह्रियमाणा - सा नावेत् पोतं तमनेक,गिणमविच्छिन्नगतिकं समुपेक्ष्य सिंधुसागरसीमावति तेजपतनं तथैव पुरःसरन्तं, तृतीयेऽहनि परिभ्रष्टे वियन्मध्यातपने प्रखरतरताप सिंधुसागरान्निष्कामन्तं, प्रविशन्तं तेनैव रंहसा यवनसागरमपारमुद्यल्लोलकल्लोलं, समुपसर्पन्तमपरेवुविनं किमप्यज्ञातप्रायं क्षुद्रमेकं पर्तनं, गृहीत्वा ततः पेयजलभांडारं प्रचलन्तं पारसायोपसागराय, व्यतीत्य च तस्मिन् सप्ताहमेकमननु- कूलतया पवनस्य मंदगती प्रवासे -प्रविशन्तं, धूलिधूसरितनभोमध्यात् कप्टेनेव महताऽधःप्रचलिते हरिदश्वरथे, संतापमरेण भस्मसात्कर्तुमिव चराचरं विश्वं प्रवृत्ते प्रखरतमतापे तपने, खेदजनितजाड्य इवावाति वाते- नानादेशागतसांयात्रिकपोतसंघट्टितमुखं भारतवर्षात् सद्य:- प्राप्तानां चंदनकर्पूरलवंगनालिकेरहस्तिदंतादिबहुमूल्यपण्यवस्तु- वाहकानामजस्रानां वणिकपोतानामुपतीरं कर्पण आदिनारंभात् प्रवतितानामसंख्यानामनावृतप्रायाणामुच्छ्वसद्वक्षःकपाटानां स्वेद- क्लिन्नकज्जलवर्णवपुपामारक्तोच्छूननयनानां भारवाहाना दासेराणां कोलाहलेन तीनण निनादितं कलुषसलिलं विश्वविख्यातं यावनं महापर्तनं बसराभिधानम् । अवुद्ध यत त्वचिरादेव तस्या विचारतंद्रायास्तया वृद्धया दास्या निःशब्दं तत्समीपमुपसृतयोपस्थापयन्त्या चाधोदृष्टि तत्संमुखं तदेव कज्जलकृष्णमाप्रपदीनं तिरोधानम् । सिंघु-कन्या २६७ विशः परिच्छेदः ... साक्षात्कृत्य यामायाः (सागरयात्रायाः, न तु विदेश- यात्रायाः, कुतः पुनः जीवनयात्राया) अन्तमुपगतं सा, सहसा वहिता, चोलान्तगूढमवस्थापितमनुभूय स्वममोघं शस्त्रं समुपजाता- श्वासा यावत् परिदधति तदवगुंठनं परिधापयति च स्वभगिन्या तादशृणोत् कतिपयान् म्लेच्छभापायां किमपि संलपत: खणत्खड्गान् समुदतवर्तनानुपानद्धपादान् कक्षं तस्याः साधिक्षेप- मुपसर्पतः, प्रविष्टानां च तेषां द्वार एव विरतगतीनाम् अन्यतमं तयोः समीप आगच्छन्तं, विनिगडयन्तं तयोर्मणिबंधयुगले लोहशृखलया, समादिश्य च किमपि तां वृद्धां दासी पुन: प्रतिष्ठमानम् । - - अन्वभवदात्मानं - स्कंधे गृहीत्वा सानुकंप तया सेविकया कक्षानीयमान, भगिन्या छाययेव सर्वदाऽनुवर्तमानयाऽनुपदमेवानुगम्य- मानं, पोतप्रांतस्थापितया कयाचिद्दाा पद्यया सिकतिले समुत्तप्ते तीरप्रदेशेऽवतार्यमाणं, तीरावस्थितराच्छन्नलोचनतयाऽदृश्यरपि निःशब्दरपि प्रस्वेदगंधेन तोव्रण संसूच्यमानरसंख्यर्लेच्छः सकौतूहलं निरीक्ष्यमाणं, पदानि सहस्रानधिकानि सकते चाल्यमानं, छायाया- मतिविरलायां कस्यचिविटपस्य क्षीणक्षीणस्यादित एवोपवेशितस्य २६८ सिधु-कन्या क्रमेलकस्य पृष्ठभागे परिकल्पितायां शिबिकायामिव कस्यांचिन्मृदुल- विस्तृताऽऽसनायां सह भगिन्या सेविकया च स्थाप्यमानं, श्रुत्वैवाऽऽ- देशं समुत्यितेन तत्क्षणमेव प्रचलितेन तेन क्रमेलकेन च समुह्यमानं केनचित् सुपथा। अन्वभवत्तमेकाहमपि पन्थानं दीर्घदीर्घ पीड्यमाना तोद्रया पिपासयाऽसन्नराजत गारजलपानेनाप्यनपनेयया "" समुप- विष्टा शिविकायां तस्या, वस्त्रण महाhणापारदर्शकेन सर्वतः परिवृत्य निवारिताऽऽतपायामप्युत्तप्तनिर्वाताऽऽभ्यन्तरायाम् । अन्वभवच्च, व्यतीते युगदीर्घ इव प्रहरद्वये, संतापं हठान्यूनी- भवन्तं सह प्रतापेन तपनस्य । यावतु वहु मानयति शीतलत्वं सायंसमीरस्य मंदमंदस्य क्लांतलोचना तावदेवारभत समनुभवितुं तत् प्रसह्य परिणममानं हिमशैत्ये। इत्यं दिवा प्रखरतमदिवाकरकरर्दहमानं रात्रौ च हैमेनेव पवनेन बधिरोक्रियमाणं तं विदेशं स्वदेशेनानतिविपमतापमानेन सह तोलयन्ती, सर्वर्तुसुखदस्य च तस्यासकृत् स्मरन्ती, सा, विनिद्रवोपोषि- तव, समुपविष्टव तस्यामनवरतप्रधावत्क्रमेलकदोल्यमानायां शिनिकायाम्, अतिवायामास तां निशां, क्षणमेकमप्यलोकमाना समुत्क्षिप्य यवनिकां दिगन्तप्रसृतं समतलं सिकतिलं यवनभूप्रदेश, निःशब्दमिव संलपन्तमघ इवावतरितेनस्यूलतरतारेणेन्द्रनीलनीलतरेण नभःप्रदेशेन । - आरभत चाऽऽकर्णयितुमा प्रत्यूपादेव चरमररवमसंख्याना- मुष्ट्रवाहनानामिव (भासमानानाम्), अभिमुखमागत्य दूरदूरतरं गच्छता, समुपसृत्य वा विविधर्जानपदर्गिः सह इव प्रचलतां दुर्गेयसंलापशब्दमगणितानां पदिकानां यावनानां सह स्वः स्वः क्रमेलक सिंधु-कन्या २६९ खरा विविधपण्ययस्तुभारभुग्नपृष्ठ: वृतोऽप्यागतानामानुग्रामिकाणां सहचलतां - कोलाहलं चासंख्यातानां पौराणां प्रागेवोदयाच्चंडकरस्य समुत्थाय कार्याणि स्वानि स्वानि सत्वरं चिकीपंतां, श्रमशः परिवर्द्धमानम् । अनुमातुं च स्वात्मानं प्रतिक्षणं समीपतरमुपसर्पन्तं क्स्य- चिन्महानगरस्य । अचिरादेव च सापर्यलक्षयद्दलमात्मनोऽवरुद्धं केनचिन्नगर- रक्षकवलेनेव परीक्षमाणेन गतागतानि प्रवासिनां, तत्प्रमुखमिव कमपि समुपसृत्य तत्समेलकं साधिक्षेपमादिशन्तं परिचिक्षिपया तीव्रया तच्छिविकावरणापनयनाथ, निशम्य तुल्याधिक्षेपवचनं तद्दलप्रमुखस्य सहसा विरमन्तं स्वजिज्ञासाया, अपसरन्तं चाऽनुमोद्या- स्फुटाक्षरं तत्प्रवेशम् । अन्वभवच्चानुपदमेवाऽऽत्मानं - नीयमानं केनचित् क्रेतृजन- कोलाहलसंसूच्यमानाऽऽपणिकनिवद्धोभयपाउँन, विविधभारवाहक: खरैराकुलाकुलेन, रणक्षुद्रघंटिकाव्यज्यमानप्रचलनरुष्ट्रः संघट्टितेन, साटोपमिव वल्गद्भिः हपारवमुखरस्तुरंगमः निगालनिवद्धकांस्य- किंकिणीवेयकमुखरितदशदिशैः कृतसंमर्दैन, विक्रयाणि वस्तून्य- नवरतमुद्घोपयतां विक्रयिकाणां कर्कश: स्वरनिनादितेन, पार्श्ववति- प्रासादपरंपरयेव निवारितप्राभातिकदुःसहाऽऽतपेन, कुत्रचित् सौगंधिकाऽऽपणनिःसरत्सुगंधलहरीभिः सुरभिणाऽन्यत्रापक्वपलाल- पूतिगंधिना, सद्यः प्रोक्षितेनेव शीतलेन योजनदीघेणेव राजपथेनैकेन प्रवेश्यमानं केनचिदुत्तुंगेन विशालेन महाद्वारेणांगरक्षकरक्षितेनैकस्मिन् प्रच्छायशीतले सर्वतः प्रसरदगुरुधूपधूपिताऽऽभ्यन्तरे नीरवे प्रांगण इव कस्यचिन्महाप्रासादस्य अवतार्यमाणं क्रमेलकादुपवेशितात् तत्पार्श्वस्पशिनिःश्रेण्या समुपसृतया बलिष्ठया कयाचिद्रक्षिकया गृहीत्वा हस्ते - नीयमानं सह भगिन्या वृद्धया दास्या च ततोऽ- तिमसृणया तुषारया पाषाणखचितया निःशब्दया पदव्या कयाचित् - - २७० सिंधु-कन्या प्रवेश्यमानं कस्मिश्चिन्नातिदूरतिनि कक्षे - समुपवेश्यमानमासंधों कस्यांचिन्नवनीतकोमलायां - मुच्यमानं हस्तनिगडाद् - अनुमोद्यमानं चापनेतुमवगुंठनम् । तिरस्कृततिरस्करिणी चाद्राक्षीत् स्वात्मानं सह भगिन्यो- पविष्टमेकस्यां राजतसिंहपादायामासनायामेकस्मिन् विशाले महाह- लोमशास्तरणाच्छादितभूतले निर्वातायने तिरस्करिणीतिरोहितगवाक्षे लंबमानसुमनोमालाभूपितहरित भित्तिके मंदप्रकाशे शीतले कक्षे, संमुखीनमेकस्या कज्जलकृष्णवर्णाया अपि वलिष्ठाया अपि कथमपि कोमलहृदयाया इव भासमानाया भंगुरालकाया ह्रस्वनासिकायाः स्थूलाधरोष्ठाया अन्तःपुररक्षिकाया यवन्याः सविस्मयमिव सकौतूहलमिव सानुकंपमिव तामेव निनिमेपमवलोकयन्त्याः । 'व्यतिपजति पदार्थानान्तरः कोऽपि हेतु: ।' कथमिव ह्यन्यथा दृष्ट्वंव तां सहसा देवलदेव्या मनसि सौहार्दस्यैव भावना समुत्पन्ना? योजनसहस्रदूरे भारतवर्षे सनातनधर्मानुयायिनि विख्याते राजवंशे जाता, आजन्मन एव पित्रा पुअनिर्विशेपं लालिता पालिता शिक्षिता, आ शैशवादेवात्युच्चैः संस्कारैः संस्कृता, विविधकला- पारंगता, प्रियदर्शना सा सिंधुकन्या क्व, क्व च तस्मिन् मरुपाये देशे म्लेच्छधर्मानुगेऽतिसाधारणेऽज्ञाते वंशे जाता, आ जन्मन एच नियत्या:- पहृत्य पितृजायां दुस्तायें दुर्जननऋभयंकरे संसारसागरे प्रक्षिप्ता, आ शैशवादेव साधारणैरपि संस्कारैः सहेतुकमिवोपेक्षिता कलानभिज्ञा कुदर्शना सा यवनकन्या? आन्तरात् कस्मादपि हेतोर्वा नियतिवशादवा काकताली- यादवा - सा राजदारिका प्रथमदृष्टिपात एव परमस्निह्यत्तस्यां यवनदास्याम् । सा च तस्याम् । इयं सा स्नेहभावना न केवलं तस्यास्तद्भगिन्या वा तस्या पृक्षाया दास्या वा जीवितं तस्मिन् वैभवातिशयमंडितेऽपि वस्तुतः सिंघु-कन्या २७१ कारागृहानधिकविशेषेऽन्तःपुरे दमिश्काधिपतेः सुसह्यमकरोदपि तु - तदभ्यंतरे तासां द्विपदाभ्यंतरिकभेदजिज्ञासया निर्वाधं प्रचारमपि । - विशेषतो देवलदेव्याः । नातिचिरादेव हि सा विस्मृतस्व- जनवियोगदुःखेव विश्वविख्यातयवनसभ्यतापरमोत्कर्षदर्शनसंभ्रांतेव तारुण्यवशादेवोपनतवैभवातिशयोपभोगाऽऽतुरातुरेव साहाय्येन तस्या यवनकन्यायाः - प्रावर्तत तस्मिन् पुरसदृशेऽन्त.पुरे यथेच्छं विस्फारितलोचनं प्रशंसामुखरं भ्रमितुम् (अर्थात् परिहरन्ती दर्शनं साक्षाद्यवनाधिपतेः), जेतुमन्तःकरणानि कृतकनम्रताप्रदर्शनेन तत्रत्यानां रमणीनां प्रौढानामपि बालिशस्वभावानामन्वेष्टुं च निभृतं तन्मध्याव कामपि म्लेच्छामपि समानशीलव्यसनां बुद्धिमतों रमणी सौहार्दसूत्रविभन्सया। तस्या हि मानसमवलोक्य जीवनक्रम तत्रत्यानां सुंदरीणा- मैन्द्रियकसुखोपभोगार्थमेव बलात् तत्राऽहतानामपि परिहत्य पुरुषान्तरदर्शनं तत्र स्थापितानामपि निषिद्धवहिःप्रसराणामपि लेशमात्रममप्युनुद्विग्नानां प्रत्युत विषयसुखोपभोगमात्रेण धन्यंमन्य- मानानां, परमखिद्यत, परं व्यस्मयत । आरभत च चितयितुं तासा- मवस्थां दर्शनीयानां कोमलकलकंठानां पक्षिणीनां तत्तद्वनेभ्यः प्रसह्याऽऽनीतानां स्थापितानां सौवर्णपंजरेषु विस्मृतस्वपूर्ववृत्तान्ता- नामवस्थया समां . निकृष्टां च भारतीयानां राज्ञामन्तःपुरेपु वर्तमानानां, नातिस्वतंत्राणामपि संमानभाजां, भारतीयरमणीनाम- मवस्थायाः। अलभत च चिरात् खलु परिचयं यादृच्छिकमिवैकस्याः प्रौढाया रमण्यास्तदन्यतमाया अप्यनन्यादृशायाः सुशिक्षिताया: कुलीनायाः प्रचलितेऽर्थकारणे चित्तं ददानाया अन्तःपुरपरिचारि- कामाध्यमेन च गतागतानि यवनाधिपस्याहनिशं परंतु निभृतं परीक्षमाणायाः। २७२ सिंधु-कन्या .... सा .... प्राक्रमत च शनैः शनैः परिवर्द्धयितुं तं स्नेहे निरतिशये । तयव सहाऽधिकतर भागं वासरस्य यापयन्ती, स्वदेशसंबंधिनीभिः कथाभिविविधप्रदेशवर्णनहृद्याभिस्तद्देशविषयकपृच्छाभिः स्वाभाविक- कौतूहलमात्रप्रेरिताभिरिव प्रासंगिकीभिस्तुलनाभिश्च स्वदेशवैशि- प्ट्यानां तद्देशवैशिष्ट्यविचारप्रसंगेषु तया पराजितेव स्वीकुर्वत्य- निच्छापूर्वकमिव तद्देशवैशिष्ट्यानां श्रेष्ठत्वं कतिपयरेव दिवसस्तस्या विश्वासपात्रमभवत् । अध्यगच्छच्च तन्मुखादेव क्रमशो वास्तविक ज्ञानं स्वभावस्य यवनाधिपस्य, सद्य एवाधिपत्यं यवनसाम्राज्यस्य प्राप्नुवतः, कतिपय- मासपूर्वमेव प्रमीतस्य तुरुष्कप्रांताधिपस्माल् हज्जाजस्य द्वेषणस्य, स्वपूर्ववतिनो यवनेश्वरान्नितरां विलक्षणस्यातिकोपनस्याहंभावदुर्वि-. दग्धस्याविमृश्यकारिणः, स्वद्वेपणेनाल्हज्जाजेन दिग्विजयार्थ भारतवर्षे प्रेषितं सेनाध्यक्षं तरुणमपि दिगन्तविश्रुतं मुहम्मदं कासीमसुतं, तदाज्ञावशंवदमपि स्वर्णभूमेर्मूर्तिपूजकानामधिकाधिक भागं तदाधिपत्य स्थापयन्तमपि, न बहु मानयतः, प्रत्युत तस्मानिभृतं विभ्यतः, स्वयं गेहेशूरस्य । इत्थं कणशो विज्ञाय वास्तविक चारित्रं दिगन्तप्रसृत- साम्राज्यस्य यवनाधिपस्यज्ञातज्ञातव्या, 'भारतीयानामिव सर्वसहाना- मेतेपां निसर्गत एवासहानां यवनानामप्याधिपत्ये नियत्या निष्ठु- रोपहासप्रवणया एतादृशाः नियोज्यन्त' इति विस्मितस्वांता, 'यवनाधिपस्यास्य सद्योऽधिगतसाम्राज्यस्य सविधे न सन्ति बहवः रणचतुरा अभ्यमित्रीणा ऊर्जस्वला जैनाः सेनान्यः .. येऽपसृते मुहम्मदे भारतभुवः, तत्कार्य (वस्तुतस्तन्मात्रकार्य) कर्तुं समर्था भवेयुरिति समुपजातविश्वासा, 'तत् कथं स, विप्रलभ्य इममविवेकिन यवनाधिपं, माध्यमेनास्यैव ततोऽपसारणीय' इति शनैः शनैः संकल्पयितुमारभत । सिंधु-कन्या २७३ एकविशः परिचन्दः स चायं संकल्पस्तस्या अचिरादेव पर्यणम्यत वचकठोरे निश्चये समाचारस्तस्या एव रमण्याः, समुत्प्रेक्ष्य स्वसखों बुद्धिमती स्वभ्रातृवृत्तान्तविवित्साऽऽतुरांतैस्तर्माध्यमैर्भारतविजयाभियानोदन्तान यवनाधिपस्य संसदोऽवचिन्वत्या मुखात् प्रत्यहं लभमानः । ते हि प्रत्यहमधिकाधिकमेव विवव : शोचनीयामवस्था समाकर्ण्य स्वभगिन्यो: प्राणाधिकयो: कपटेन बंदीकरणस्य छद्मना च ततोऽपनयनस्य वृत्तान्तं विस्मयमूढस्य, सर्वतः सहसा प्रसृतः स्वभगिनी- विषयकैः कुत्सितर्जनापवादः सहेतुकं तच्छु तिपथं प्राप्यमाणदंदह्य- मानस्य, :दिगन्तविख्यातस्य छछकुलस्य गौरवलक्ष्मीः राज्यलक्ष्मीश्च, मयाऽधन्येनानवहितेन स्वहस्ताभ्यां यवनहस्तेपु समर्पिते साहसिकेन' इति मत्वा परं खिद्यमानस्य, 'यदि ह्यहं, संनियम्य वालिशामाशां नृपान्तरसाहाय्यलाभस्य, मानयित्वा ज्येष्ठाया भगिन्याः सुविचारितं परामर्श कनिष्ठायाश्च कातरमनुरोधं, ते मत्तः न व्ययोजयिष्यं तहि समुपस्थित एव ब्राह्मणावासदुर्गपातसमये, ते पणीकृत्याऽपि प्राणान् यवननक्रदंष्ट्राभ्यो दूरदूरतरं नेतुं समर्थोऽभविष्यम्' इति विचार्याहनिशं क्लिश्यतः, स्मारं स्मारं मुखकमल ज्येष्ठाया भगिन्याः प्रस्थानसमयेऽपुनदर्शनाशंकया विस्फारिताभ्यामप्यमंगलाशंकया निरुद्धवाष्पाभ्यां तं ध्यायत्, कनिष्ठायाश्चासुरक्षाभयविह्वलाया सिंधु-कन्या .... .... २७४ अनवरतप्रवहदश्रुधाराक्लिन्नं, व्याकुलतां परामनुभवतः, 'इत्यं देवेन कृतांतरेणोत्खातयोरंतिमयो: प्रेमांकुरयोरेतावत्कालपर्यन्तं कथमप्यव- शिष्टयोः किमिव ममाघन्यस्यैकाकिनः प्रयोजनं पैतृकेण राज्येन पुनर्लब्धेनापि' - इति सहसा निर्वेदमुपेत्य विरज्य च तत्क्षण एव नृपान्तरसाहाय्यलिप्सायाः स्वे राज्ये पुनःकृतप्रवेशस्य, 'मत्सर्वस्वाप- हर्ताऽपकर्ता च भारतमातुरयं यवनसेनाध्यक्षो मुहम्मदः प्राक् प्राणोत्सर्गात् प्राणदंडेन योजनीय एव' इति विनिश्चित्य तिरस्कृत्य प्राणभयं तमेव केवलं विजितसमस्तसिंधुराज्यं प्रवृद्धबलं सततमनु- सरतस्तमेव केवलं - विधूय स्थलकालविवेकं - प्रहरतः, तिरस्कृत्य प्रयासवैफल्यं स्वोद्यमात् क्षणमेकमप्यविरमतः, प्रयासेप्वेवंविधेपु सततं क्षीयमाणवलस्य, विलोक्य तदवस्थां द्रवितान्तःकरणरपि यवनसेनाप्रमुखावकृपाभीतभीतः सैधवर्नागरिक: जानपदैश्च लेशतोऽ- प्यनुपक्रियमाणस्य, प्रतिदिनं विपन्नतरामवस्थामापद्यमानस्य, तस्या भ्रातुः जयसिंहस्य । ...."अत्याहितम् ।" प्रारभत सा चितयितुम् । ".."एवं हि विलुप्त विवेकं प्रयतमानोऽस्मदपहर्तृ शासनाथ जयः क्षोभांऽधोऽ- चिरादेव नूनं पतिष्यति हस्तयोस्तस्य यवनस्य । अलक्षंद्र इव वीर- प्रशंसकः स यवनः स्वसमामवयस्कं तं हस्तपतितमपि वहु मानयिप्य- तीत्यत्र न संशयः । स तु बहु मानयित्वाऽप्यवशंवदीभवन्तं तं समवलोक्य किं करिप्यतीत्यत्र । धीरगंभीरोऽपि प्रकृत्या, साक्षात्कृत्य स्वानुनयवैफल्यं सहसा क्रुद्धस्तं नूनं प्रा "" । दप्टो वा कर्णे कर्णेजपः काकादिभिर्नराधमः ..' । तत् तत्पूर्वमेव यवनोऽयं ततोऽपसारणीयः । अपसारिते हि तस्मिन् ... किंचियूनीभूतशोकावेगो जय आकर्ण्य कर्णोपकणिकयाऽऽवयोरक्षतकुलगौरवयोरेवात्ययस्य वार्तामुन्नत- मस्तक: नवीनतया वयसो दुष्प्रतिरोधतया च कालप्रभावस्य (सविषण्णस्मितं) विस्मृत्य नः सर्वान् कालवशंगतान्, विलोक्य चानुकूलतरां परिस्थिति समुत्पन्नां, भारतमातरं यवननक्रदंष्ट्राया सिंधु-कन्या २७५ ....

एफविशः परिचन्दः स चायं संकल्पस्तस्या अचिरादेव पर्यणम्यत वनकठोरे निश्चये समाचारस्तस्या एव रमण्याः, समुत्प्रेक्ष्य स्वसखों बुद्धिमतीं स्वभ्रातृवृत्तान्तविवित्साऽऽतुरांतैस्तैर्माध्यमै रतविजयाभियानोदन्तान यवनाधिपस्य संसदोऽवचिन्वत्या मुखात् प्रत्यहं लभमानः । ते हि प्रत्यहमधिकाधिकमेव विवव : शोचनीयामवस्था समाकर्ण्य स्वभगिन्योः प्राणाधिकयो: कपटेन बंदीकरणस्य छद्मना च ततोऽपनयनस्य वृत्तान्तं विस्मयमृढस्य, सर्वतः सहसा प्रसृतैः स्वभगिनी- विषयकैः कुत्सितर्जनापवादः सहेतुकं तच्छ्रतिपथं प्राप्यमाणदंदह्य- मानस्य, दिगन्तविख्यातस्य छछकुलस्य गौरवलक्ष्मीः राज्यलक्ष्मीश्च, मयाऽधन्येनानवहितेन स्वहस्ताभ्यां यवनहस्तेषु समर्पिते साहसिकेन' इति मत्वा परं खिद्यमानस्य, 'यदि ह्यहं, संनियम्य बालिशामाशां नृपान्तरसाहाय्यलाभस्य, मानयित्वा ज्येष्ठाया भगिन्याः सुविचारितं परामर्श कनिष्ठायाश्च कातरमनुरोध, ते मत्तः न व्ययोजयिष्यं तहि समुपस्थित एव ब्राह्मणावासदुर्गपातसमये, ते पणीकृत्याऽपि प्राणान् यवननक्रदंष्ट्राभ्यो दूरदूरतरं नेतुं समर्थोऽभविष्यम्' इति विचार्याहर्निशं क्लिश्यतः, स्मारं स्मारं मुखकमलं ज्येष्ठाया भगिन्या: प्रस्थानसमयेशुनदर्शनाशंकया विस्फारिताभ्यामप्यमंगलाशंकया निरुद्धबाप्पाभ्यां तं ध्यायत्, कनिष्ठायाश्चासुरक्षाभयविह्वलाया सिंधु कन्या .... २७४ अनवरतप्रवहदश्रुधाराक्लिग्नं, व्याकुलतां परामनुभवतः, 'इत्थं देवेन कृतांतरेणोत्खातयोरंतिमयोः प्रेमांकुरयोरेतावत्कालपर्यन्तं कथमप्यव- शिष्टयोः किमिव ममाघन्यस्यैकाकिनः प्रयोजनं पैतृकेण राज्येन पुनर्लब्धेनापि' - इति सहसा निवेदमुपेत्य विरज्य च तत्क्षण एव नृपान्तरसाहाय्यलिप्सायाः स्वे राज्ये पुनःकृतप्रवेशस्य, 'मत्सर्वस्वाप- हर्ताऽपकर्ता च भारतमातुरयं यवनसेनाध्यक्षो मुहम्मदः प्राक् प्राणोत्सर्गात् प्राणदंडेन योजनीय एव' इति विनिश्चित्य तिरस्कृत्य प्राणभयं तमेव केवलं विजितसमस्तसिंधुराज्यं प्रवृद्धवलं सततमनु- सरतस्तमेव केवलं - विधूय स्थलकालविवेकं - प्रहरतः, तिरस्कृत्य प्रयासवैफल्यं स्वोद्यमात् क्षणमेकमप्यविरमतः, प्रयासेष्वेवंविधेपु सततं क्षीयमाणवलस्य, विलोक्य तदवस्थां द्रवितान्तःकरणरपि यवनसेनाप्रमुखावकृपाभीतभीतैः सैधवर्नागरिक: जानपदैश्च लेशतोऽ- प्यनुपनियमाणस्य, प्रतिदिनं विपन्नतरामवस्थामापद्यमानस्य, तस्या भ्रातुः जयसिंहस्य । ...."अत्याहितम् ।" प्रारभत सा चिंतयितुम् । ".."एवं हि विलुप्तविवेकं प्रयतमानोऽस्मदपहर्तृ शासनाथ जयः लोभाऽधोऽ- चिरादेव नूनं पतिष्यति हस्तयोस्तस्य यवनस्य । अलक्षंद्र इव वीर- प्रशंसकः स यवनः स्वसमामवयस्कं तं हस्तपतितमपि वहु मानयिप्य- तीत्यत्र न संशयः । स तु बहु मानयित्वाऽप्यवशंवदीभवन्तं तं समवलोक्य कि करिप्यतीत्यत्र । धीरगंभीरोऽपि प्रकृत्या, साक्षात्कृत्य स्वानुनयवैफल्यं सहसा क्रुद्धस्तं नूनं प्रा ..." । दप्टो वा कर्णे कर्णेजप: काकादिभिर्नराधमः .." । तत् तत्पूर्वमेव यवनोऽयं ततोऽपसारणीयः । अपसारिते हि तस्मिन् .... किंचिन्यूनीभूतशोकावेगो जय आकर्ण्य कर्णोपकणिकयाऽऽवयोरक्षतकुल गौरवयोरेवात्ययस्य वार्तामुन्नत- नवीनतया वयसो दुष्प्रतिरोधतया च कालप्रभावस्य (सविषण्णस्मितं) विस्मृत्य नः सर्वान् कालवशंगतान्, विलोक्य चानुकूलतरां परिस्थिति समुत्पन्नां, भारतमातरं यवननदंष्ट्राया सिंधु-कन्या मस्तक: .... २७५ मोचयितुं प्रवृत्तः नूनं साफल्यं लभेत । तद्यवनोऽयमपसारणीयोऽयं कमपि चतुरमुपायमवलंब्य ।" चितयित्वा चवमात्मनैव सह संप्रधाउँव किमपि, दीर्घ निःश्वस्य, तदनुकूलानि पदानि निक्षेप्तुमारभत । नातिचिरादेव चैकदा, निवेदयितुमिवापरदिगंगनाये स्वबलिदानसंकल्पमश्रुतपूर्वसदृशं सिंधुकन्यायास्तदंगणं ससंभ्रमं प्रवि- शति भगवति सवितरि, समासन्नप्रायमवलोक्य सिंधुराजदारिका- जीवनरूपकस्यान्तिममकं खिन्नायाः प्रकृतेनिःश्वास इव मंद मंदं वहति कदुष्णे सायंसमीरे, विज्ञाय संकल्पितं स्वानन्यादृशपुत्रकापसरणं दुःखातुराया जगन्नियन्तारं करुणकरुणमाह्वयन्त्या यवनभुवो भावनावेगतीक्ष्णतीक्ष्णे प्रार्थनास्वर इव सर्वतः प्रसरति प्रमुखतमस्य यवनप्रार्थनामंदिरस्य शिखरात् सायंप्रार्थनाऽऽवाहनस्वरे तीव्रतीव्र, - समरयज्ञकुंडे स्वात्माहुतिदानार्थं प्रवृत्ता, सद्यःस्नाता, परिवेष्टित- नौलदुकूलव्यज्यमानस्वर्णाभदेहलतिका विमुक्तकज्जलकृष्ण- भंगुरकेशपाशस्पृश्यमाननितंबा, भ्रमरकपरिचुंब्यमानललाटचंद्रकला, निराभरणाऽप्रतिमलावण्या, यवनाधिपस्यान्तःपुरप्रवेशमार्गे- यदृच्छयेव किंचित्प्रस्फुटितकुसुमावचयलोभवशाच्चिरायमाणा नाम - यथासमयं मार्गेण तेनान्तःपुरप्रचलिताय, पुरःप्रघावमानः राजतदीपदंडहस्तैः क्लीवैः स्त्रीवेपरन्तःपुरपरिचारकैः समुपदिश्य- मानमार्गाय धवलमहाहवेपाय दमिश्काधीश्वराय प्रादर्शयदात्मानं साध्वसाक्रांतमपि तदवलोकनकौतूहलपारवश्यात्ततोऽपगन्तु- मसमर्थमिव, संकोचवशान्मार्गकोणेऽन्यतमेऽवतमसपूर्णे विलीलीप- माणमपि विस्मयविस्फारिताभ्यां लोचनाभ्यां तं घ्यायन्तमिव, किंचिदवगलितस्तनावरणानभिज्ञमिव । - प्राद्रवदन्यस्मिन्नेव क्षणेऽवलोक्य तमुपरम्य मार्गाक्रमणात्ता- मेवाऽऽरक्ताभ्यामधंमीलिताभ्यां सत्तामदालसाभ्यां सविस्मयं ध्यायन्तं २७६ सिंघु-कन्या त्रस्तेव प्रियका प्रियदर्शना लुब्धकदृष्टाऽनभिज्ञा नाम स्कंधात् सहसा स्खलितस्य दुकूलप्रांतस्यापावृण्वतः कनकशिलानिर्भ पृष्ठभार्गक्देशम् । प्रत्यपालयत् स्वकक्षपार्श्ववर्तिनि प्रांगणे संतमसाच्छन्ने समुपविष्टा दापंद्यामासन्धामेकस्यां ग्रह जालस्यवं प्रक्षिप्तस्य। अवेच्च नातिचिरादेव तं ययाऽऽपेक्षम् । - व्यतीतप्रायायामेव हि घट्यां सा तथैवोपविष्टाऽपश्यत् परिश्रांतमिवान्विष्य तामन्तःपुरकक्षेष्वसंख्येपु स्वेदबिंदुकलंकितभाल- पट्ट, समुपजाताऽऽश्वासमिवावलोक्य तां तत्रोपविष्टां सहसा स्मेरवदनं, सुलक्ष्यविपमधवलरदनं, कृष्णवर्णमपि कृशकायमपि जुगुप्स्यरूपमपि विविधमंडनमंडितं, कौतूहलविस्फारिताभ्यां स्मयमानाभ्यां साकूताभ्यां कज्जलाक्ताभ्यां लोचनाभ्यामनुभव- चतुराभ्यां तां निनिमेपं ध्यायन्तं, परिचारकप्रमुखं स्वपुरतः समुपस्थितम् । - अशृणोतं घर्घरमंथरस्वरं गदन्तं 'जयतु जयतु सिंधुराजदारिका ! वर्धतेऽत्रभवती दुरापेनाऽप्सरोदुर्लभेन दुष्प्रधर्ष- पराक्रमप्रचंडस्य निखिलनराधिपपरिचुंबितचरणकमलस्य यवना- घोश्वरस्य प्रसादेन । तदुत्तिष्ठत्वत्रभवती । वहु मानयतु स्वभाग्योदयमस्मिन्नेव क्षणे । 'अनुगच्छतु माम् । (विनमय्याधिक- मेव, पूर्वकायम्) करोतु च अस्माकमपि दासानुदासानां क्षुद्रं भाग्योदयमनुपदमेव' - इति । .... अद्राक्षीत्तं यथापूर्व विनम्रमपि सस्मितमपि सहसा कठोरी- ततःप्रचलितं तदनुसरणं च प्रतीक्षमाणम् । .... .... भूतनयनं अन्वसरत् तत्क्षणमेव मृगादनेवाऽऽक्रमणोद्यता - साव- धानापि स्वात्मानमश्रद्दधानमिव तादृशे भाग्योत्कर्पे, बहु मन्यमानमपि सिंधु-कन्या २७७ कृपाप्रसादं दैविकं साध्वसवशादपारयन्तमिव पुरःसर्तु तद्ग्रहणाय प्रदर्शयन्ती स्खलत्पदक्षेपेव "" तं तदवस्थैव । .... अपश्यच्च - समतिक्रम्य नातिदीर्घमपि सप्रयोजनमभिमुख- मागच्छन्तीभिः साभिप्रायं तामवलोकयन्तीभिः सकुत्सं हसन्तीभिः म्लेच्छभापायामस्फुटाक्षरं किमपि किमप्यन्योन्यं कथयन्तीभिरन्त:- पुरपरिचारिकाभिराकुलाकुलतया दीर्घदीर्घमिव भासमानं मार्ग, एकस्मिन् निश्चलसनिस्त्रिशमहाप्रमाणांगरक्षकरक्षितप्रवेशद्वारेऽ- तिविशाले चतुष्कोणप्रज्वलत्सौवर्णदीपदंडप्रकाशिताऽऽभ्यन्तरे महार्हविचित्ररोमशास्तरणाच्छन्नभूतले सर्वतः प्रसरच्चंदनधूपवासिते कक्षे कृतप्रवेशा, विस्तृते हिमधवलप्रच्छादने उपबर्हद्वय विभूषिते विविधविकचकुसुममालामंडितराजतपादे पर्यके समुपविष्टं पार्श्ववर्ति- नीभ्यां नवीने वयसि वर्तमानाम्यां रमणीयदर्शनाभ्यां चामरग्राहिणीभ्यां मंदं मंदमुपवीज्यमानमर्धविकसितप्रसूनयलयभूपितमणिबंधन दक्षिणेन हस्तेनासकृदामृशन्तं मृदुलश्मश्रुपाशं धवलवेषं प्रवेशद्वार- निखातनयनं दमिश्काधिपं मनसाऽऽतुरातुरेण प्रतीक्षमाणमागमनं तस्याः। मनसि धृत्वा च चरणकमलयुगलं कुलदेव्या""अवानमत् । अतिष्ठच्च भीत्या संहरन्तीवांगानि कुसुमकोमलानि, भावाकुलतया दशन्तीव पक्वविवाधरोष्ठं, लज्जयाऽऽवृण्वतीव स्तन- मंडलमसकृत् "" अघोदृष्टिः । - अशृणोच्च क्षणमात्रानन्तरमेव तं पर्यंकात् सहसा समुत्थितं प्रसार्य भुजौ भावावेगकंपमानौ तामुपसर्पन्तं गदन्तं च घर्घराक्षरं - 'स्वागतम् ! " स्वागतम् ! सिंधुराजकन्यायाः! मृप्यतु राजदुहिताs- मर्पणीयमपराधमस्य जनस्य भवतीमेतावत्कालपर्यन्तमुपेक्षमाणस्य । दुर्दैवमत्रापराध्यत्यस्य भवत्या दासस्य । दुर्दैवमेव । कथमिवान्यथाऽ वधीयं भवाशीमलौकिकलावण्यखनीमन्यासु क्षुद्ररूपासूपभोगनीरसासु सिंधु-कन्या २७८ अथवा ललनासु रमणमस्याधन्यस्योपपद्येत ? अहो ! अविज्ञाय समीप- वाहिनोमपि मधुमधुरसलिलनिर्झरिणी कंटकान् चवित्वैव तृषां शमयितुं प्रयतमान उष्ट्र इव नूनमुपहसनीयोऽस्मि संवृत्तः । ... अथवा तथा बहु मानयिष्यामि भवतीम् असकृदाघ्राय नितंवविव_विनं पुंजीभूतममातिमिरमिव कृष्णं सुगंधिनं मृदुलं घनमिमं केशपाशमवमानप्रतिचिकीर्पयेवोद्दामं, मुहुर्मुहुः परिचुंब्य प्रतिपच्चंद्रनिभमिमं ललाटं रतिक्रीडाप्रस्वेदविदुतारकित, वारं वारं निपीय मधुमधुरतरमिमधरोष्ठं कृतककोपप्रस्फुरन्तं मानयिष्यामि भवती सौदर्यरसपानेन यथा विस्मृत्योपहासं संसारोऽयं 'सौंदर्यरसिक एतादृशः नास्माभिरशि .." द्रक्ष्यते वा' - इति मामेव (सावेगमुपसर्पन).." तत्तपय एतत् स्वागताय तव समुच्छ्वसद्वक्षःस्थलं संघट्टनेत स्ववक्षो।" तथा बहु बहु मन्यत ! -- अक्षमा च श्रोतुमधिकतरं सा .... अविरतवचन एवं प्रसार्य बाहू प्रतिशब्दं समुपसर्पति तस्मिन् तदंगप्रत्यंगनिखातनयने क्रोधताम्र वदनकमलं लज्जातिशयाऽऽरक्तमित्यपढ्वाना, तीव्रया घृणयाऽध कृतां दृशं साध्वसजडामिति गृहमाना, सहसा जानुभ्यां भूमौ जगाम । प्रसार्य च नलिनीनालनिभौ भुजी, शोकावेगादिव प्रकंपमानाभ्यामोष्ठाभ्यां किंचिदस्फुटाक्षरं निवेदयितुमिवाऽऽरभत । दमिश्काधिपस्तु. सर्वथाऽनपेक्षितामनगुभूतपूर्वसदृशीं तस्यास्तां प्रतिक्रियामवलोक्य परं विस्मितः, सहसा निरुद्धोपसर्पो, हठात् खंडिताभिलापः, क्षणमात्रं किंकर्तव्यविमूढोऽन्यस्मिन्नेव तु कक्षकोणेपु निभृतमवस्थितानां कृतकविनयावनमितपूर्वकायानामप्य- पांगभिस्तावेव सकौतूहलमवलोकयन्तीनामन्तःपुरदासीनां समक्षं गौरवमात्मनोऽक्षुण्णं रक्षितुं कृतनिश्चयः, क्रोधमात्मनः कृतक- गांभीर्यणाऽऽवृण्वानो, जिज्ञासयेय तदभिप्रायस्य, तदनुपदमेव सिंधु-कन्या नि:शब्दमागत्य तत्पृष्ठतं उपस्थितां विस्मयस्तिमितया दृशा घटना- क्रम सर्व तं सर्वथाऽनुत्प्रेक्षितं लोकमानां तहासी प्रश्नमुखरया हशा क्षणमात्रमपश्यत् । अशृणोच्च तां, कतिपयक्षणानन्तरं, भूमी तथैवोपविष्टाया- स्तथैवाघोदृष्ट्या विगलितबाहुलतायाः स्वामिन्या विलूनकमल- संनिभस्याऽननस्य समीप आनमितवदनां, श्रुत्वा तदभ्यर्थनां क्षणमात्रं विस्मयस्तब्धामाकर्ण्य तत्संबोधनं मंद्रस्वरमपि तीक्ष्णभावमुन्नमित- पूर्वकायां, क्षणमात्रं निश्चलमवस्थाय विचार्य किमपि स्वात्मनैव क्षणेऽन्यस्मिन्नेव मुकुलीकृत्य हस्तौ वार्धकाद्वा भयाद्वा कंपमानौ शुष्कस्वरं निवेदयन्ती "अवघ्रातं स्वमंगकुसुमं कलंकितं .... स्वामिनोऽनहम् - इति भाग्यानि स्वानि निन्दति राजदारिका" - इति । ... ..."अवघ्रातं ....दिव्यमपि कुसुमं "नाहमस्मत्स्वीकारस्य - गंभीरस्वरं प्रत्यवदत् स दमिश्काधिपः, " परामृशन् स्वं श्मश्रुपाशं, समुच्छिप्टमुपभोगाय समर्पयता यवनसेनाध्यक्षेण मुहम्मदेन सेवक- जनसमक्षमपमानितमात्मानं मत्दा क्रुद्धोऽपि कृताऽऽकारगृहनः । अपृच्छच्च सकुत्सं - "परंतु "" कुत्र खल्वस्याः सः पतिः ? न खल्वस्माभिः, प्रतिसप्ताहमागच्छता सैनिकदूतानां मुखेभ्योऽ- स्माकं सिंधुविजयस्य प्रगतिवात सावधानं शृण्वद्भिः नाम तस्य एकदापि श्रुतम् ! (सहासम्) अपि सः लुंठित्वैवास्याः कोमलांग्याः कौमार्य ... क्षीणवीर्यः .... नरकं गतः? • अदर्शनं याऽऽत्यंतिक श्रुत्वैव यवनसेनाया दुप्पसहं प्रतापं भयेन स्फुटितहृदयः ?" "अनूढाऽद्यापि राजकन्या" - मंद्रस्वरं प्रत्युवाच सा दासी। क्षतभगा च? कथमेतत् ?. (कुत्सितं विहस्य) " आः ज्ञातम् ! वृपस्यन्त्याऽनयाः यौवनातिपातम- "अनूढा? ... २८० सिंधु-कन्या .... सहन्त्या वंचयित्वा बांधवान् यौनं सुखं केनापि दास्याः पुत्रेण सह स्यादुपभुक्तम् ! (सक्रोधं) कुत्र खल्वस्याः रमणः ?" पुनरपृच्छत् स यवनाधीश्वरः। , "कौमार्य स्वं नैव लुंठयन्ति आर्यकन्या-"स्तीक्ष्णस्वरं प्रत्यवदत् सा वृद्धाऽक्षमा सोढुं तस्य तुच्छां पृच्छाम् । "कथं तर्हि ....?" "लुंठितं तेन पापेन वलात्" - सावेगमिवाऽऽह सा सेविका । "न शशाक रक्षितुं तत् "" आत्मनोऽमूल्यं धनं इयमसाहाय्या निपतिता द्विषतः हस्तयोः ।" ... .... .... "लुंठितं बलात् ? अस्माकं हस्तयोनिपतितायाः? केन कालदप्टेन कृतमेतदुःसाहसम् ? कथं च गोपायितमस्माकं सेनाध्यक्षात् "लुंठितं भवतः सेनाध्यक्षेणव अस्या एव"अस्या भगिन्या गौर्या अपि एकस्यामेव निशायाम् स्कंधावारात् भयत्सेवार्थ संप्रेषणात् प्राक् ....." श्रावयन्ती सर्वान् तीक्ष्णस्वरमवोचत् सा दासी। आकर्ण्य तद्वचः न केवलो दमिश्काधिपः, न केवल- स्तत्सेविकाजनः, न केवलोद्वाःस्थः रक्षकगणःसहस्रकर्णःलक्षाक्षः""अपि तु- समीपवर्तिनः प्रांगणारामान्मंदं मंदं प्रविशन् निशासमीरणोऽपि.... कोणचतुष्टयप्रज्वलद्दीपप्रकाशस्तोमोऽपि विस्मयजड इवाभवत् । निरुद्ध गतिः सदागतिः कालः । प्रससार च विशाले तस्मिन् कक्षे युगदीर्घा विस्मयजडा नि:स्तब्धता। सिंधु-कन्या २८१

"आः
....
.
दास्याः पुत्रेण भोजयता स्वोच्छिष्टं
एवमपमानितोऽस्मि ! आः ....
'शुन्याः पुनः विगते एव संवत्सरे
नरके पतित्वा न्याय्याद्दण्डादास्माकीनात् तथा प्रपलायितं तमल
हज्जाजं स्वश्वसुरमुपकर्तुमुत्सुकोऽस्मानेवं क्षेप्तुमीहते ! .... रे ... रे
क्लीव ! प्रहिणु क्षणेऽस्मिन्नेव तस्य यवनापसदस्य समीप आज्ञां
'स्वामी तमोष्ट्रचर्मकोपपिनद्धं सद्यो दिदृक्षते कार्येण गुरुतरेण' इति ।
उपस्थापय च इमां
इमा समक्षमस्माकं
प्रत्यागत एव
तस्मिन् यवनजातिकलंके नराधमे । अवलोकयतु नाम इयं
कोदृशी खलु गतिर्भवत्यस्मानुपहसितुं प्रयतमानस्य" विदारयन्
तां निःस्तब्धतामादिदेश स यवनाधिप: क्रोधताम्रो फेनिलमुखः ।
....
....
....
असमर्थश्च स्थातुं
प्रभंजनवेगेन।
तत्र क्षणमपि
निर्जगाम ततः
२८२
सिंधु-कन्या

दाविशः परिच्छेदः राजदारिका तु, सिद्धहस्ता नटीवाभिनयकाले तस्मिन् क्षणमात्रमप्यविचलिता, 'पूर्वमनुपदिष्टयाऽपि प्रारंभे विस्मितयाऽ- प्यपरस्मिन्नेव क्षणे परिकलय्य मम मनोगतं तत्पूरणाय बद्धपरिकरयाऽ- नया वृद्धया दास्या स्वेन कथाछलेन कृतकाभिनयेन च तस्य नराधमस्य समक्षं भृशमुपोद्वलिताऽस्मि' इति संतुष्टाऽपि, संसिद्धप्रायं स्वमुद्दिष्टं मन्वानाऽप्यभिज्ञा कक्षे तस्मिन् निष्प्रतिबंधं प्रविश्य तामेव परिवृण्वतीनां सकुतूहलं त एवावलोकयन्तीनां तयोरेव विषये परस्पर मंद्रस्वरं किमपि किमपि निवेदयन्तीनां त एव लक्ष्यीकृत्य कुत्सितं हसन्तीनामन्तःपुरपरिचारिकाणामसमर्थेव दर्शयितुं ता दुर्लभयवना- धोश्वरकृपातिशयवंचितं नियत्या यत्किचित्कारिण्या स्वमाननं सत्तुच्छसेवकोपभोगकलंकितं "" आवृणोत्तत् स्वदुकूलाचलेन । निरगच्छच्च तस्माद्रंगमंचादनुसरन्ती विज्ञाय तदभिप्राय पुरः प्रस्थितां स्वां दासीमातुरातुरेव निगुहितुमात्मानमाप्रलयं कस्मिपिचदसूर्यपश्ये पातालगंभीरे विले । प्रविश्य च स्वे कक्ष मारभत यापयितुं प्रतीक्षाकालं, पुत्तलिकेव केनचिच्चाल्यमाना कथंचिदनुतिष्ठन्ती दैहिकानि कार्याणि, सिधु-कन्या क्षणमेकमपि कक्षं स्वमत्यजन्ती, निरपवादं परिहरन्ती दर्शनं सर्वासामेवान्तःपुररमणीनां येन केनापि मिपेणावलोकयितुं तां संभायितुं सह तयोत्सुकोत्सुकानां, निषेधन्तो स्वसेवकाया भगिनि- कायाश्य बहिर्गमनं कादाचित्कमपि, छलं स्वमननुशोचन्ती निमेप- मात्रमपि, वांछन्ती तत्साफल्यमहनिशं, सावधाना, निरनुक्रोशा । उपालभत चान्तं तस्य पक्षानधिकस्यापि युगदीर्घस्येव भासमानस्यकस्मिन्निशामुख, उपरुद्धनिःश्वास इव निर्वाते, तत्तापतप्त इव सोष्मणि, भयादिव विरतविहंगमविरुतेऽसंमाय हृदि यवनराज्य- लक्ष्म्या बहिः प्रवहता शोकेनेवावतमसेन कलुपिते, - प्रविश्य कक्षं निःशब्द तत्पुरतः समुपस्थिताया, मंदप्रकाशतया कक्षाभ्यन्तरस्यानति- लक्ष्यविशेपे शोकक्षाम इव निःश्रीके तदानने कज्जलकृष्ण स्वे लोचने साभिप्राय निगडयन्त्यास्तांवूलरसरक्तदंतुरदंतपंक्ती निर्लज्ज विवृण्वत्या, अनिवद्धप्रणामांजलि एव दिदृक्षां परमप्रतापिनो दमिश्काधिपस्य निवेदयन्त्या, अन्तःपुरपरिचारिकायाः कस्या- श्चिन्माध्यमेन । प्रातिष्ठत च पुनरप्येकवारं यवनाधीश्वरकक्षं तमेव समुद्दिश्य, तदनुपदमेव, केवलया वृद्धया दास्याऽनुगम्यमाना, समुत्सुका ज्ञातुं परिणामं स्वकपटप्रयोगस्य, साक्षात्कुर्वाणाऽन्तं स्वजीवनयात्राया दुःखबहुलाया आसन्नकल्पं, सावधाना, प्रशांतस्वान्ता, कृताऽऽ- कारगृहना। ददर्श च, कृतप्रवेशा तस्मिनपरिवर्तित विविधरमणीयवस्तु- विन्यासेऽपि कथमप्यनभिनंदनीयतामप्रत्याख्येयामापन्ने कक्षे, पूर्ववदेव पर्यके समुपविष्टमपि पूर्ववदेवोपवीज्यमानमपि पूर्ववदेव श्मश्रुपाशं स्वमामृशन्तमपि पूर्ववदेव धवलवेपमपि कथमपि वृद्धतरमिव क्षीण- तरमिव दुर्वलतरमिव भासमानं, कक्षकोणेऽन्यतमे निपतिते पुरुषाधि- कप्रमाणे कस्मिश्चिदामाताऽभ्यन्तर औप्ट्रचर्मकोप निखातनयनं, स्वं देषणम् । २८४ सिंधु-कन्या अनुमिन्वत्येव च ज्ञातप्रायमपि पदार्थ कोपान्त:स्थितं सर्वतः प्रसरताऽतितीव्रण पूतिगंधेन, सरभसमिव समुपसर्पता तस्याः समुच्छ्वसन्नासापुटमशृणोत् तं, समवलोक्य तां समुपस्थितां सहसा पर्यकात्यितमपरस्मिन्नेव क्षणे विचार्यव किमपि पुनः पर्यके समुपविष्टं, दोद्धतेन स्वरेण तां संबोधयन्तमन्यस्मिन्नेव च क्षणे समादिशन्तं किमपि कक्षकोणावस्थितमधोमुखं सेवकमेकम् । अपश्यत् तं किंकरं लोहशृंखलानिगडितरिच भूमिनिसा- तैरिव मंदमंदैः पर्दस्तं कोपमुपसर्पन्तं विदारयन्तं च तं निशितधारया छुरिकया। अद्राक्षीच्च क्षणमात्रानन्तरं चर्मचक्षुषा निनिमेषेण - असंमायव बहिनिःसरन्तमाध्मातमिवोच्छूनसर्वावयवं, क्लिन्नमिव साईपललं, रक्तमिव केनचिद्रंजनेन नारकेण कुवर्ण, कृतावासमसंख्यः सूक्ष्मः कृमिभिरतितीव्रविस्त्रगंधं मुद्रितनयनं कायं पपनसेनाध्यक्षस्य । तदन्तः स्मृतिचक्षुपा च तं गौरवर्णमतिविशालभालफलक कर्णान्तविधान्तलोचनं दीर्घसरलनासमावद्धारक्तीप्ठपुटमीपदुन्नत- चिबुकं सुकोमलश्मश्रुलकपोल - एकवारं दृष्टमपि समुटुंकितमिव सुस्पष्टमन्तह दये। सहसा उच्चर्हसितुं मत्तेवोन्मत्तव ग्रहगृहीतेव भूताविष्टवाभिभूतेवापारेण हर्षेण समाक्रांतेवागाघेन दुःखेन 'सास्रलोचनाऽऽताम्रमुखारविंदा । आरमत च अविरम्यव चातिहसना विनि 'यासकृयवनाधीश्वरं तर्जन्याऽऽवेगप्रकंपमानया कथयितुं कथमपि किमपि किमप्यस्पप्टाक्षर पाश्ववतिनी स्वदासीं विदन्तं सकुत्सं हसन्तीम् । सिधु-कन्या २८५ दमिश्काधिपस्तु समवलोक्य तां लेशतोऽप्यप्रभावितां तदादेशप्रभावप्रदर्शनेन विगलितदर्पः, निरीक्ष्य तां तथा विहसन्ती विस्मितो, विलोक्य तां तथा विनिद्दिश्य तं किमपि कथयन्ती स्वदासीं कौतूहलाविष्टः, व्यावर्त्य दृष्टी: भूमी निपतिताच्छ्वादुचर्हसन्त्याः राजदारिकायाश्च प्रवहदश्रुक्लिन्नकपोलान्मुखारविंदात्, तस्मिन्नेव ता: निवघ्नन्तीनामन्तःपुरपरिचारिकाणां समक्षमुपहसितमिवाऽऽ- स्मानं मन्यमानः, क्रुद्धः, स्वरेण तीक्ष्णेनापृच्छत् तां वृद्धां दासीं- "किमित्येवं हसति निर्लज्जेयम् ?" "रे रे यवन ! न त्वं वस्तुतोऽधीश्वरो यवनानाम् अपि तु मूर्खाणाम् इति हसति त्वां स्वामिनी मम" - कथंचित् समुत्तार्याऽऽ- त्मानमपि दुष्प्रसहात् हास्यप्रवाहात् प्रत्यवदत् सा । "शृणु रे!" - प्राह सा - "स्वामिन्या ममातिचतुरया, प्रथम एव दृष्टिपाते तव यथार्थ स्वरूपं परिकलयन्त्या, त्वत्सद्दशस्य कापुरुषस्य सामर्थ्यकमूलं स्वामिभक्तमिममनन्यसदृशं सेवकोतम त्वत्तोऽपहर्तुकामया, मिथ्यैव कथितमासीत् - 'लुण्ठितं मम मद्भगिन्याश्च कौमार्यमनेनेह संप्रेषणात् प्रागिति । "किं मिथ्येव ?" - अश्रद्दधान इव स्वकर्णी दमिश्काधिप आहास्फुटस्वरम् । मिथ्येव ! त्वया तु मूढेनाविचार्यकार्य- कारिणाऽस्या अपरिचिताया अपि शत्रुपक्षीयाया अपि वचसि तस्मिन् सहसा विश्वसता " सहसाऽयं शूरः सेवकः प्राणात्ययं लंभितः !" .... "आम् ! "कपटिनी !"उज्जगार स यवनाधिपो ज्वलन्नेत्रः । "अरे" आह सा वृद्धा समुपेक्ष्य तस्य क्रोधोद्गारं, "नायं प्राणात्ययं लंभितोऽपि तु समस्तस्य यवनसाम्राज्यस्यावश्यंभावी २५६ सिंधु-कन्या भाग्योत्कर्ष एव । स्वर्ग गते हि तुरुष्कप्रांताधिपे यवनसाम्राज्य- परिवर्द्धनवद्धपरिकरे म्लेच्छधर्माभिमानिनि विमृश्यकारिणि तस्मिनल्हज्जाजेऽयमेकल एवावशिष्ट आसीदाधारो यवनसाम्राज्य- लक्ष्म्याः । कियान सवलश्चासोदयमाधारः !... अनतिवयसमन- तिवयसमपि युद्धकलाकोविदं, युद्धकलाकोविदमपि सामोपायकुशलं सामोपायकुशलमपि भेदप्रयोगसिद्धहस्तं, भेदप्रयोगसिद्धहस्तमपि भेदसाधनावशं, यवनधर्मप्राणमपीतरधर्मसहनं, इतरधर्मसहनमपि यवनधर्मप्रसारकलक्ष्यमभ्यमित्रमूर्जस्वलं जैत्रं "" इमं स्वतनयमनन्या- दृशमवलंव्य हि यवनसाम्राज्यलक्ष्मी: संपूर्णामिमां वसुंधरा स्वदासीकर्तु प्रवृत्ताऽऽसीत् । त्वया तु तद्दौर्भाग्यवशात् तत्पतिपदे बलादात्मानं प्रतिष्ठापयता स आधारो हठादपहतो विश्वस्या- पवादेऽस्या युवत्या "" द्विपत्कन्याया बलादिहाऽऽनीतायाः ।" .... "विलपतु माताऽस्याः शोकेन" जगादास्फुटाक्षरं स यवनः। "बहु खलूपकृतं त्वया !" तीवस्वरमुज्जुघोप सा दासी। "बहूपकृतम् । ... न खल्वस्माकं वंदिनीनामेव । न खल्वस्माकं युवराजस्यैव । अपि त्वस्माकं भारतभुवः । विनाशिते हि अस्मिन् दुर्धर्षे दुर्जेये वीरोत्तम आक्रामके ..." हाः हाः हाः विनाशिते स्वयं स्वामिना सा नूनं लप्स्यते समयं साहसं सामर्थ्य केवलाय स्वरक्षणायापि तु विजितस्य स्वैकदेशस्य विमोचनायाऽपि । च... .... न "हताशे !" प्राह फेनिलमुखो दमिश्काधिपः । "अरे ! यत् खलु सुदुष्करं कार्यमस्माकं राजकुमारो वचवाहुमहाराजो दहरोऽस्माकमसंख्या: सैनिकाः न कर्तु शेकुस्तत् त्वया झटिति कृतम् । नूनं यथाऽयं त्वया निरपराधं प्राणदंडेन दंडितो वीरवर इतिहासेजरामरं स्थानं सिंधु-कन्या २८७ दमिश्काधिपस्तु समवलोक्य तां लेशतोऽप्यप्रभावितां तदादेशप्रभावप्रदर्शनेन विगलितदर्पः, निरीक्ष्य तां तथा विहसन्ती विस्मितो, विलोक्य तां तथा विनिद्दिश्य तं किमपि कथयन्तीं स्वदासीं कौतूहलाविष्टः, व्यावर्त्य दृष्टीः भूमौ निपतिताच्छ्वादुच्चैहसन्त्याः राजदारिकायाश्च प्रवहदश्रुक्लिनकपोलान्मुखारविंदात, तस्मिन्नेव ता: निवघ्नन्तीनामन्तःपुरपरिचारिकाणां समक्षमुपहसितमिवाऽऽ. त्मानं मन्यमानः, क्रुद्धः, स्वरेण तीक्ष्णेनापृच्छत् तां वृद्धां दासीं- "किमित्येवं हसति निर्लज्जेयम् ?" "रे रे यवन ! न त्वं वस्तुतोऽधीश्वरो यवनानाम् .... अपि तु मूर्खाणाम् इति हसति त्वां स्वामिनी मम" - कथंचित् समुत्तार्याऽऽ- त्मानमपि दुष्प्रसहात् हास्यप्रवाहात् प्रत्यवदत् सा । "शृणु रे !" - प्राह सा - "स्वामिन्या ममातिचतुरया, प्रथम एव दृष्टिपाते तव यथार्थ स्वरूपं परिकलयन्त्या, त्वत्सदृशस्य कापुरुपस्य सामर्थ्य कमूलं स्वामिभक्तमिममनन्यसदृशं सेवकोत्तम त्वत्तोऽपहर्तुकामया, मिथ्यैव कथितमासीत् - 'लुण्ठितं मम मद्भगिन्याश्च कौमार्यमनेनेह संप्रेषणात् प्रागिति । "किं मिथ्यैव ?" - अश्रद्दधान इव स्वकर्णी दमिश्काधिप आहास्फुटस्वरम् । मिथ्येव ! त्वया तु मूढेनाविचार्यकार्य- कारिणाऽस्या अपरिचिताया अपि शत्रुपक्षीयाया अपि वचसि तस्मिन् सहसा विश्वसता सहसाऽयं शूरः सेवकः प्राणात्ययं लंभितः !" "आम् ! "कपटिनी !" उज्जगार स यवनाधिपो ज्वलन्नेत्रः । "अरे" आह सा वृद्धा समुपेक्ष्य तस्य क्रोधोद्गारं, "नायं प्राणात्ययं लंभितोऽपि तु समस्तस्य यवनसाम्राज्यस्यावश्यंभावी २०६ सिंधु-कन्या भाग्योत्कर्ष एव । स्वर्ग गते हि तुरुष्कप्रांताधिपे यवनसाम्राज्य- परिवर्द्धनवद्धपरिकरे म्लेच्छधर्माभिमानिनि विमृश्यकारिणि तस्मिनल्हज्जाजेऽयमेकल एवावशिष्ट आसीदाधारो यवनसाम्राज्य- लक्ष्म्याः । कियान सबलश्चासोदयमाधारः ..... अनतिवयसमन- तिवयसमपि युद्धकलाकोविदं, युद्धकलाकोविदमपि सामोपायकुशलं सामोपायकुशलमपि भेदप्रयोगसिद्धहस्तं, भेदप्रयोगसिद्धहस्तमपि भेदसाधनावशं, यवनधर्मप्राणमपोतरधर्मसहनं, इतरधर्मसहनमपि यवनधर्मप्रसारकलक्ष्यमभ्यमित्रमूर्जस्वलं जै... इमं स्वतनयमनन्या- दृशमवलंब्य हि यवनसाम्राज्यलक्ष्मीः संपूर्णामिमां वसुंधरा स्वदासीकर्तुं प्रवृत्ताऽऽसीत् । त्वया तुं तद्दौर्भाग्यवशात् तत्पतिपदे बलादात्मानं प्रतिष्ठापयता स आधारो हठादपहृतो ... विश्वस्या- द्विपत्कन्याया बलादिहाऽऽनीतायाः।" पवादेऽस्या युवत्या "विलपतु माताऽस्याः शोकेन" जगादास्फुटाक्षरं स यवनः। "बहु खलूपकृतं त्वया !" तीव्रस्वरमुज्जुपोप सा दासी। "वहूपकृतम् । "" न सल्वस्माकं वंदिनीनामेव । न खल्बस्मार्क युवराजस्यैव । 'अपि त्वस्माकं भारतभुवः । विनाशिते हि अस्मिन् दुर्धर्षे दुर्जेये वीरोत्तम आक्रामके हाः हाः हाः विनाशिते स्वयं स्वामिना सा नूनं लप्स्यते समयं साहसं सामध्यं केवलाय स्वरक्षणायापि तु विजितस्य स्वैकदेशस्य विमोचनायाऽपि । .... च " न " "हताशे !" प्राह फेनिलमुखो दमिश्काधिपः । "अरे ! यत् खलु सुदुष्करं कार्यमस्माकं राजकुमारो वचबाहुमहाराजो दहरोऽस्माकमसंख्याः सैनिकाः न कर्तु शेकुस्तत् त्वया झटिति कृतम् । नूनं यथाऽयं त्वया निरपराध प्राणदंडेन दंडितो वीरवर इतिहासेजरामरं स्थानं सिंधु-कन्या २८७ प्राप्स्यत्यसामान्यः सेनाध्यक्षोऽसाधारण: स्वामिभक्तः सेवक इति इयं वा मम स्वामिनी लोकविलक्षणाऽर्थनीतिप्रयोगकुशला सिंधुकन्या स्वमातृभूमिरक्षणार्थ प्राणाधिकचारित्र्यापवादमपि साधनत्वेन प्रयुजाना वीरबालेति ...' तथा त्वमपि "" त्वमपि (उच्चविहस्य) नियत्या यत्किचित्कारिण्या बलादस्य यवनसाम्राज्वस्याधीश्वरपदे समारोपितो मूर्खः न केवलो मूर्योऽपि तु चतुरंमन्यः, न केवलश्चतु- रंमन्योऽपि तु जाल्मः क्षुद्रो यवनः शासकवव इति ।" "अपनयत ..... अपनयत रे वाचाटामिमां कद्वदां दास्याः पुत्रीमितः" सहसाऽक्रोशत् कोपातिरेकवेपमानो विस्फारिताक्षो दमिश्काधिप: सहसोत्याय पर्यंकात् । "प्रक्षिपत चापहृत्यास्या वासांसि ..." तस्मिन् तस्मिन् वृश्चिकबहुले निर्वाते भूकक्षे । मर्तु एवमेव मुखरमुखम् ।" .... "इमां रूपयौवनसंपन्त्रां सिंधुराजकन्यां ... इमामतिचतुर्रा वीरबाला इमामद्वितीयामार्यकन्यां तथा सबहुमानं नरक प्रापयिष्यामो यथा स्मृतोऽप्यस्या अत्यय: रोमाणि सर्वेषामञ्च- पिप्यति । अनया खलु कौमार्यलुंठनस्य कृतकमपवादं निर्लज्ज प्रसारयन्त्याऽस्माकं श्रेष्ठः सेनानीरस्मद्भ्य: छलेनापहृतः तत् तत् (सावेश) श्वः प्रभात एव अस्माकं प्रासादस्य पुरस्तात् • महाचत्वरे पश्यतामस्माकमसंख्यानां पौराणां शताधिका चलिष्ठा यवनदासा मदोन्मत्ता अस्या एतद्भगिनिकायाश्च अलुंठितं कौमार्य लुंठिष्यन्ति यथा विदीर्णभगे रुधिर- क्लिग्नजघे शुष्कमुख एवं इमे नरकं यास्यतः" वदंश्चैव निरगच्छत् तस्मात् कक्षात् . " ज्वलन्नयनस्त्वरितगमनोऽधोमुखः नितरामसमर्थो दर्शयितुं मुखं स्वं हतप्रभं कक्षान्तःकृतसंघट्टाभ्यो विस्फारितनयनाभ्यश्चिअलिखिताभ्य इव निश्चलाभ्य आन्त:- पुरिकाभ्योऽधिकतरम् । .... यथा .... .... - सिंधु-कन्या राजदारिका तु, परिकलय्य स्वं व्यूहं सर्वथा सफलीभूतं संजाततोपा, साक्षात्कृत्य तं क्रोधस्फोटं द्वेषणस्याधिकतरमेव तुष्टा, निशम्य तं दंडघोषं तस्येपदप्यविचलिता, सहसाऽऽत्मानं कृतकृत्यं मन्यमाना - पथिकीव विहाय पथिकशाला कंचित्कालं कृतनिवासां समाक्रमणाय पथः पुनरुद्यता, तटस्थेवोदासीनेवासंपृक्तेव, शांतेन चित्तेन तस्य तन्निर्गमनं, वृद्धायाः स्वदास्या क्षणमात्रं तच्चरण- योताया: क्षणमात्रं निनिमेपाभ्यां धवलपक्ष्मलाभ्यामपि तेजस्विभ्यां कार्यसंपादनहर्पोत्पुल्लाभ्यां निर्भयाभ्यां लोचनाभ्यां तामेव ध्यायन्त्या महाप्रमाणः कज्जलकृष्णरन्तःपुररक्षकैस्ततोऽपनयनं, आत्मनश्च द्वंद्वातीतस्येव पुर आगतायाः निमेपमात्रमवलोक्य तां विचारमग्नया दृशा प्रचलिताया अन्तःपुररक्षिकायास्तस्या यवननवयौवनाया अनुगमनं च नावेत् लेशतोऽपि । कुतप्रवेशा च परिचितेऽप्यपरिचित इव भासमाने स्वे कक्षे, किंचिद्वक्तुमिव तत्समीपमागतायां, परिकलय्य इवासामथ्यं स्वं प्रकटीकरणे मनोभावनानां क्षणमामानन्तरं दीघं नि:श्वस्य निपीय च तां भावातुरया दृशाऽनिमेपया ततोऽपसृतायां तस्यां यवन्यां, समुपा- सरत्, पर्यकप्रांते समुपविश्य तस्या एवाऽऽगमनं प्रतीक्षमाणां, चित्रलिखितामिव मंत्रमोहितामिव निश्चलमवस्थितां, म्लानामप्य- प्रत्यास्येयरामणीयका विकसनोन्मुखां कुंदकलिकामिवाकाललूनां, समवलोक्य तां सकुशलं प्रत्यागतां हृप्टाभ्यां 'किमतः परं' इति पृच्छामुखराभ्यां नयनाभ्यां पक्ष्मलाभ्यां तामेव निनिमेष लोकमानां, स्वभगिनिकाम् । परामृश्य च तां लुलितालके निःस्नेहे मस्तके आश्वासमिव ददता सांत्वनामिव संक्रामयता किंचिदप्यविकंपमानेन हस्तेन, सस्मितवदनकमला, स्वैरमिव सविलासमिव समुपसृत्य द्वारं कक्षस्य, दृढं तदप्यदधात् । उपविश्य तस्याः समीपे स्वचोलान्तनिगूढं रत्न शनैः शनैरकपत् । अचूर्णयत् तत् प्रहारस्तीन रेकस्य मद्यचपकस्य सौवर्णस्य । समगृह्णात् तच्चूणं स्वे करतले कुसुमदलकोमले । सिंधु-कन्या २८९ .... .... अवलोक्य तत् क्षणमात्रमविचलितया दृष्ट्या 'सस्मितं प्रथमं स्वयमलेट् । अलेयच्च तदनंतरं स्वभगिन्याऽनुमितानुमततत्- संकल्पयेव तदिच्छानुवतिन्या । अशेत च शनैः शनैः पर्यके, निर्मले निधायोपधाने मस्तकं, वक्षःसमीपे च कृत्वा संमुखीनं मुखं भगिन्या ""अनुपदमेव तत्समीप- मेव शयितायाः। .. आरभत च प्रशांत न चित्तेन प्रतीक्षितुं प्रभावं रत्न- चूर्णस्यावलीढस्य, मीलयन्ती स्वदृष्टि स्नेहमयीं दृष्ट्या भगिन्यास्तामेव निनिमेषं ध्यायन्त्या, विस्मरन्ती विनायासमेव तं काराकक्षं कक्षकदेशे निष्कप प्रज्वलन्तं सावधानमिवावलोकयितुं तन्महाप्रयाणं - तं निगादीपं वहि.प्रसृतं विस्तृतं यवनराजप्रासादं योजनशतविशालं च साम्राज्यं म्लेच्छस्य, स्मरन्ती च तातं तस्मिन्निशीथे तस्यां तृणशय्यायां निपतितायाः स्मारं स्मार राजकुलपुरोहितं पापर्यवनस्तथा निर्दयं निहतं निःशब्दं रुदत्तास्तस्याः समीपे सहसा प्रादुर्भूतमेकदेशज्वल- दलातप्रकाश्यमानविलुलितपीतधवलविरलालकमाश्यानगल्लक्षतं क्षत- जारक्तश्मथुजालमसृग्लोहितकवचं करतलेन खड्गसंघट्टकठोरेणापि स्नेहमृदुलेन तां परामृशन्तं खेदघर्घरया वाचा तां स्वकर्तव्यकरणाय प्रेरयन्तं ददानं च तद्रत्न प्रकंपमानेन हस्तेन । "तातेन दत्तमासीत् तत् परिमले !" सस्मितं मन्थर- मकथयत् सा । "औषध सर्वासामेव व्याधीनां निरसनं सर्वसामेव विपदाम् । पारं नेष्यति खलु तदावां सर्वासामेव यातनानाम् ।" "मा, तात ! चितय - आवामेव निगडबंधादेवं मुच्यावह - इति आवयोः सा वृद्धा सेविकाऽपि, मोचिता देहहतकस्य पाशात् कालकूटनिभेन तेन विषेणाहनिशं तयाऽन्तर्वस्त्रान्तनिगूढेन, नूनमनुपदमेवानुसरिष्यत्यावां प्रस्थित इतः .. अपुनरावर्तनाय ।" २९० सिंधु-कन्या ... "एतत् खलु शस्त्रं शोलस्यावयोः, प्रतीकाराय कृतार्थयोः।" तातेन दत्तमासीत् परिरक्षणाय द्विपतो यावच्छक्यं प्रयत्य .... "प्रयतितं यावच्छवयं प्रतीकाराय द्विषतः सफलीभूतं च । अन्तमात्यंतिकं लंभिते तेषामनन्यादृशे सेनाध्यक्ष जत्रे, यवनानां भारतमातुरवस्कंदनं नूनं दौर्वल्यं परमुपेष्यति । प्रदास्यति च जयायावसरं प्रवलाय प्रत्याक्रमणाय ।" .... म .... ... "कि मन्यसे - तं वोरमन्तमात्यंतिकं लंभयितुं प्रयुक्तो मया स उपायः निंद्य आसीत् ? गर्दा आसीत? राक्षसोभिर- प्यप्रयुक्तपूर्वः ? अपेहि वाले ! नास्ति कोऽप्युपायः निंद्यः राजनीती गर्यो वा । अपरं च - कमिवान्यमुपायं अनियं. अगा निःशस्त्राऽहं निर्वलाऽनायाऽवसरे तस्मिन् प्रयोक्तुमासं समर्था ? मयाऽपि स निधो गहित उपाय आदित एव सुविचार्य नासीत् संकल्पितः । "कौमार्यमावयोः लुंठितुं प्रवृत्तः स जाल्मो यवनाधीश एव विचारं तस्य मनसि ममोदभावयत् ! उपादिशच्चा- जानने। मां प्रयोक्तुं तं रक्षणाय स्वशीलस्य समूलोन्मूलनाय चालक्षेन्द्रादपि प्रबलतरस्याऽऽकामकस्य भारतभुवः !" .... "किमिति चालयसि स्वशिरः वक्षसि मम लग्नं... परिमले? कि न विश्वसिपि मद्वचने ? भवतु नाम सः संकल्पितपूर्वः । परंतु - यदि नामान्यः कोऽपि शोभन उपायस्तच्छतांशेनाप्यभोप्ट- फलप्रदस्तस्यां वेलायामुपलभ्योऽभविष्यत् "" तर्हि शपे जीवितेन स मया तस्मिन्नेव क्षणे तत्रैव परित्यक्तोऽभविष्यत् ।" .... तव .... .... "ममापि तात ! ..." श्रांतस्वरमवदत् सा, सेदभरा- दनभिज्ञव स्वभगिन्या अपुनरुन्मीलनाय मीलितलोचनायाः, "ममापि क्लिश्यत्येवान्तरात्मा, सफलप्रयोगाया अपि, प्रतिक्षणं स्मृत्वा तं आरक्तगौरवर्णमतिविशालभालफलकं कर्णान्तविश्रान्तलोचनं घन- .... सियु-करण २९१ ... भ्रू लतं दीर्घसरलनासमारक्तोष्ठपुटमाजानुबाहु महाप्रमाणं मुरूप तरुणं कुवर्णेऽतितीव्रविस्रगंध आध्माते सार्दै कृमिल एकस्मिन् उच्छूने पललपिडे हठात् परिणमितं तामानीलाक्षिकूटका स्वभावोद- ग्रतारकां त्रैलोक्यमिवाभिभवन्तीमलौकिकत्वमिवाऽऽत्मनःप्रकाशयन्ती- मात्मविश्वास मिवापारं प्रख्यापयन्ती दृष्टि चिरनिद्रयाऽसमय एव निमीलितां, तां स्तनितगंभीरां स्मृतामपि रोमांचकरी वाचमकाल एव बलान्मुद्रिताम् ।" "सत्यं ब्रवीमि"ते""परिमले !.... सत्यं ब्रवीमि । नासी. दन्यः कोऽप्युपायः।" "का हि .... सति पर्याये तादृशं पौरुषपुप्पं परदेशीयमपि पादतलेन दलयेत् ?" .... .... "परिमले ! (सलज्ज) यदि हि नाम स युवा नियत्या भारतवर्पेऽस्माकं समुद्भावितोऽभविष्यत् .... तर्हि किं ?" (सहसाऽवलोक्य) "परिमले ! परिमले ! पेक्ष्यैव मां - एकलैव -निमील्य लोचने प्रतितिष्ठाससे ? प्रतीक्षस्व, जाल्मे ! ममापि सहप्रस्थानम् ।" कथं समु. "अहमपि" (श्रांतस्वरं) "त्वमिवाऽऽतुरा द्रष्टुं तातम् ! "" कियान् खलु स्नेहस्तस्य ममोपरि ।" वदति सदा 'त्रयो मम सुताः" एका च सुता' इति । अत एव तु तेन ..." आ वाल्यादहं सुतनिविशेष संवद्धिता शिक्षिता प्रयुक्ता च प्रशासनकर्मणि । वदति सः 'अस्माक- मेतत् सिंधुराज्यं, मया कथंचिदुत्तारितमन्तःकलहादेकलेन, वज्रहढोऽयं वज्रः सूर्यसमश्चायं सूर्यः - द्वाविमौ मम सुतौ - तथा बलवत्तरी- करिष्यतः यथा जये, सुदीक्षिते आभ्यां यथासमयं संक्रामितं, नूनं भारतवर्षस्य निखिलस्य नेतृत्वं कर्तुं समर्थ भविष्यति ।" - २९२ सिंधु-कन्या .... एकलामेव त्वामागतां दृष्ट्वा "एवं हि स्नेहशीलः सः किं न भविष्यति दुर्मनाः ?" .... .... .... ...."अहमपि" (निमील्य किंचिन्नयने)" त्वमिवातुरा द्रष्टुं मातरम् ।... अधिक: नूनं स्नेहस्तस्यास्तवोपरि । भवतु नाम । वदति सदा 'इयं सूर्या ... पितरं स्वं सर्वात्मनाऽनुकरोति । .... मम त्वेकव दुहिता । इयं परिमला। अहमिव कोमलहृदया । अहमिवाऽज्ञापालनतत्परा । ममेवास्या जीवनं मुयोग्यहस्त- समर्पितमेव सुखीभविष्यति' । (क्षीणं विहस्य) • अयि ! न जानासि तस्या अप्रकटान् प्रयत्नान् समर्पयितुं त्वां, गौरीमेव, सुयोग्यहस्तयोः । • वदति - तातेन सपरिहासं पृष्टा - 'सूर्या तु सुयोग्यं वरं स्वयमेवापहृत्याऽऽनेष्यति' इति ।" ...- (मंद्रस्वर) ....“शप मम जीवितैन ... परिमले ! त्वं कमपि कथयिष्यसीति । परंतु-पुरुपाधिकप्रमाण आरक्तगौरवर्णोऽ- तिविशालभालफलकः कर्णान्तविधान्तलोचनो दीर्घसरलनास आरक्तोष्ठमुद्रो दीर्घभुजदंडः, निर्माय इव महता मनोयोगेन विधिनाऽत्र संसारे संप्रेपिनः कार्यविशेषाय, अभिज्ञ इव ' तस्य कार्य विशेपस्य, लोकविलक्षणत्वमात्मनः प्रख्यापयन्- गूढभावया दृशा, ऊर्जस्वलोऽनुकामीनः, कोऽपि युवा नरनिविशेष संवद्धितयाऽपि नार्या किमपहर्तुं शक्यते ?. इप्यते वा ?..." श्रेष्ठतरो वजवाहोरपि ?" "चकिताऽसि कि निशम्यैतत् ... परिमले ? तातेन सुतनिर्विशेष संवदिताया अपि शिक्षिताया अपि मम हृदयं तु स्त्रीहृदयमेव । तत् किं न कामयेत पुरुपं कमप्यतादृशं ... यस्मिन् समप्यं स्वं सर्व भारं निःशंकं मोदेत ? भ्राता मम वज्रयाहुरेव मम हृदयस्यमा स्वाभाविकी कामनां, मया सर्वेभ्यः निगूहितामपि, सम्यग्जानाति । परिहासप्रसंगेनेव चंकान्ते तं राजपुत्रं मिघु-कन्या .... .... .... किम् ? ... ... कश्मीरस्य किं तस्याभिधानम् ? अहो स्मृतम् । ललितादित्यं मुक्तापीडं "" असकृदुल्लिखति । परंतु सत्यं ब्रवीमि ते । .... (सस्मितं) रमणीमिव रमणीयदर्शनं कोमलांगीमिव सुकोमलं .... तं मनो मम न क्षणमेकमपि कांक्षति । ... एकमेव पुरुपं अपेक्षानुरूपं "" समुपलभे। महाप्रमाणं स्तनितगभीरस्वर प्रियदर्शनमपि दुरभिभवनीयम् । एकमेव पुरुषम् । (स्वगत- मिवास्फुटास्फुट) परंतु - स तु "" नः विप ।" ... "दिष्ट्या न जानाति वज्रो विडंबनामिमाम् । मम मम बाल्यसखः ।" भ्राता .... (सावेगं) "आतुरा खल्वहमपि त्वमिव द्रष्टुं तम् । इयमागताऽस्मि "" अनुपदमेव ।" उच्चारयन्ती चैवंविधानि कान्यप्यस्पष्टान्यक्षराणि अवशा ""मस्तकं स्वमुद्ग्रीवमुपधाने शनैः शनैर्यधात् । अस्थात् तथा मुहूर्तमात्रम् । उदतिष्ठत् हठात् शय्यायाः कंपमानेनोत्तमागेन । अवालोकयदासमन्ताद्विस्फारिताभ्यां ज्वलद्भ्यामिव रक्ताभ्यां लोचनाभ्याम् अनभिज्ञा मंदप्रकाशस्य विद्धृतनि:श्वासस्येव नि:स्तब्धस्य तस्य काराकक्षस्य""शरीरस्य च निश्चेतनस्य भगिन्याः स्त्रसमीप एव निपतितस्य । .. आरभत च सहसा प्रफुल्लवदनकमला विहसन्नयनेंदीवराऽ- स्फुटं जल्पितुं- "कथं कथं महाबलाधिकृतः स्वयं तातो वृद्धो ब्रह्मदत्तोऽयं वज्रः सर्व एवागताः? अस्मिन् सिंधु- रोधसि ? ... मदर्थम् ? .... इयं चपला परिमलाऽपि अत्रैव ? कथं खलु ज्ञातं युप्माभिः तात ! .... अपुनरावर्तनायेतः प्रस्थिताऽम्यहं . मातरमिमां सिंधु प्रेक्ष्येव .... अनुज्ञातैवानया स्वर्लोकमारोक्ष्यामीति ? ..."अनेन स्मेरवदनेन वज्रण कथितं स्यात् । म .... २९४ सिंधु-कन्या .... अनया वा परिमलया । अथवा - सुविदितमेव युप्माकं - कियान् ममानुरागो जनन्यामस्याम् !" (वाप्पगद्गदं) "माता नः सर्वपामियम् । .... त्रिकालज्ञा! ""आर्यसंस्कृतिमूतिमती । भारतवर्षस्य जीवनवाहिनी जीवनदायिनीयं महानदी । अस्याः कलकलेन संमिश्रिता कवीनामुत्स्फुरिता गिर एकदा दिवौकसामपि स्पृहणीया अभवन् । अस्याः रोधसि विकसिताऽऽर्यसंस्कृतिः परमोदारा परमोदात्ता सर्वमंगला पूर्ण विकासमेकदाऽन्वभवत् । अनापृच्छ्येमा वाथं खल्वहं सुरलोक- मप्यारोढुं समर्था ?" (सकृतककोपम्) "किमिति नुदति तातो मामितश्चलितुं दिशालयायाविलंबमेव ? नाहं वांछाम्युज्झितुं कोडं जनन्या अस्या इयच्छीघ्रम् ! .... किं ब्रवीति तात: ? जननी ते दिवि सर्वानस्मान् प्रतीक्षते मनसाऽधीरेणेति ? भवतु तावत् । इयं चलामि । परंतु - आपृच्छ्येमां जनन्या अपि जननीम् ।" (सविस्मयम्) "कथं निशम्यैव ममेतःप्रस्थानसंकल्पं खिन्ना संजातेयम् ?" (सानुरोधम्) "अयि अंव ! मा कुरु मनः खेदमलीमसम् । नाहं गमिष्यामि त्वामुज्झित्वा ।" (सानुरोधम्) "तात ! गच्छतु भवान् अनया परिमलयंव सह ! .."प्रियतरयाऽनया हि पुनमिलित्वा संजाताश्वासा जननी मम विनाऽपि मया न तथा दुर्मनायेत ययेयं (सकृतककोप) सर्व- जनन्यपि मय्येव विशेषाग्रहा!" ... "अक्क ! संतुष्टासि संप्रति ?"संतुष्टा?"आरोहय तर्हि मां कोडं स्वम् । श्रांताऽस्मि चिरात् । (सखेदं) प्रयतितं मया, मातः सिंधुकन्या २९५ रमणीयायाः शशांककलाया, एकांतविधभात् तया समुत्सारितस्य दुकूलस्येव प्रसृतस्य धवलविरलस्य शारदस्याघ्रखंडस्य, समीप एव सकौतुकमिव स्मयमानायास्तारकाया, अनभिज्ञा सर्गस्येव दिव्यस्य स्वे प्रवाहे प्रशांते प्रतिबिवितस्य । ..."न खलु प्रसुप्ता। अपि तु व्यापृता व्यापृता नूनमनन्य- मानसा स्वापने स्वकन्यायाश्चिरजागरिताया:"चिरथांतायाः"" चिरात् खलु तदंकनिलीनायाः । सिन्धु कन्या २९७ प्रयतितं त्वां मोक्तुं यवननग्रहात् । न तु सफलीभूतम् । प्रयतितं यावच्छक्यम् । सर्वजनसमक्षं कौमार्यभंगछयापि कुत्सितं प्रयुक्तं निर्लज्जयेव । ..." त्वमेव कथय, अंब ! अपि कयाऽपि कृतमेतादृशं दुःसाहसमार्यकन्यया? (सनिर्वेदम् ) कृतं दु साहसम् । न त्यधिगतं साफल्यम् ।" "कि ब्रवीपि, अक्क ? .... सफलीभविष्यति मम प्रयत्नः? कदा भविष्यति, मातः ?... क्षीणं पापराशी भारतीयानामेपां भोगेन विविधानां दु.खानां पारदास्यम्य ? नंमल्यं लंभितेपु पश्चात्तापेनपा चित्तेपु ? ... किं वदसि ? उद्भावयिष्यति तदा दृष्टान्तोऽ- स्माकमसंख्यान् महेशदत्तान् शीलभद्रान् वववाहून दहरान् जयसिंहान् देवलदेवीश्च ! मोचयिष्यति च तन्माध्यमेन न त्वामेव केवलामपि तु समस्तामपि भारतभुवम् ?” .... "अहो, कृतार्थाऽस्मि संवृत्ता (सकृतककोपम्) "अपेहि ! एवं श्रांतामपि कन्यां स्वां न स्वापयसि ? (साग्रह).." ""स्वापय""मा.... स्वे..."अंके स्वा ।" .... निधाय च पुनः स्वं मस्तकं शनैः शनैरुपधाने न्यमीलयत् "" संतृप्तेव नयनकमले स्वेऽस्फुटं वदन्तो .... 'एवं""एवं मम ...." "" अव"" निरवाच्च सहसा तस्य कक्षस्यैकदेशे निष्कंपंज्वलनिशादीप: •प्रशामित इव निशांतमंदपवमानेन दक्षेण संगोपितुमुपद्र- वेभ्यश्चिरनिद्रां सिंधुकन्यायाः । ... .... ""अवहच्च पारेयवनसागरं योजनसहस्रदरं सिंधुः चित्रलिखितैरिव निःस्तव्यरुत्तुंगः सरलवृक्षः निबद्धकूलाऽनभिज्ञा वैदूर्यनीलस्य नभोऽगणस्य दिगन्तप्रसृताया आकांशगंगायास्तत्समीप एव तदवगाहनसमुत्सुकाया इव मंद मंदं प्रकाशमानायाः पांडुर- सिंधु-कन्या रमणीयायाः शशांककलाया, एकांतविश्रंभात् तया समुत्सारितस्य दुकूलस्येव प्रसृतस्य धवलविरलस्य शारदस्याभ्रखंडस्य, समीप एव सकौतुकमिव स्मयमानायास्तारकाया, अनभिज्ञा सर्गस्यैव दिव्यस्य स्वे प्रवाहे प्रशांते प्रतिविवितस्य । ..."न खलु प्रसुप्ता। अपि तु व्यापृता""व्यापृता नूनमनन्य- मानसा स्वापने स्वकन्यायाश्चिरजागरिताया:"चिरश्रांतायाः... चिरात् खलु तदंकनिलीनायाः । सिन्धु-कन्या २९७ शुद्धि-पत्रम् पृष्ठम् पंक्तिः अशुद्धम् शुद्धम् १ प्रकाशमानां प्रकाशमाना पाश्चात्य पाश्चात्त्य २३ १ २९ २० ३२ २० ११ ५ ७ १३ -स्योच- -स्योच्च- समुत्सुक समुत्सुकैः योधू योध -च्चावनौशृग -च्चावचनौशृग- -मशिष्यन्तीत ।" -मशिप्यन्तीति ।" प्रतीक्षमाणानाम् । प्रतीक्षमाणाम् । योजनसहस्त्राविशालं योजनसहस्रविशालं -मेकाकिन मेकाकिनं -प्येकवार -प्येकवारं -संचितस्य सूचितस्य मूर्तिभंजकं मूर्तिभंजक देवलगरात् देवलनगरात योद्धम् सैधवी सैधवी कदाचिरकेन कादाचित्केन ६१ १ ६५ १२ ८२ २२ २६ १०५ २१ योद्धम् १०५ २२ १०९ ३ १२ पादस्पृट पादस्पृष्ट पृष्ठम् पंक्तिः अशुद्धम् सुद्धम् १२० १९ भारतीयनां १२१ १ श्राव्यव भारतीयानां श्राव्येव क्षणे- निलये १२१ क्षण- २ १३ १२२ निये ४ -मश्क्ष्याम -मशक्ष्याम १७९ ५ भ्राता भ्राया १८३ २० ५ -त्तव -तद्वलमभि- सुविचाय स्वस्वस्थानेप -तव -तबलमेभि- सुविचार्य स्वस्वस्थानेषु २२ २१६ १४ २२ श्च २१९ २३२ २३५ २४० ૨૪૬ ३ -श्व ग्या -प्टक- -अवशेषा -दुर्वा- ग्रा दृष्ट्वंक -अयशा- ३ २५५ ३. -वा- २५५ २६२ २७७ २७९ २८० २ -चन्तं -भार्गक- संघट्टनेत -चत्तं -भागक- संघट्टनेन २६ -5नया: ऽनपा २८८ ५ -साम्राज्यस्य --साम्राज्यस्य

Sindhu Kanya

Author
Dr.shrinath
Title
Sindhu Kanya
File name
Sindhu Kanya
Text
OCR done
Citation
1982
Published
2012/10
Publisher
Nimach.,shrinath Shripad Shaskiya Mahavidhalaya
Language
Sanskrit
Pages
315
Library
Bharatiya Vidya Bhavan Library, Mumbai
DLI number
313545
Barcode
99999990322222.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
VMLT id
X8lrSRniL6o
Download PDF

Sindhu Kanya