Bharti Bhawan Library Allahabad
Shrikavimallbhattaharivallabhageetam
Front matter
2800
श्रीकविमल्लभट्टहरिवल्लभगीतम्
देवीस्तोत्रम्।
No text on this page.
अथ श्रीकविमल्लभहरिवल्लभगीतम् देवीस्तोत्रम् श्रीमदेकलिङ्गो जयति । विमलललिततमगलवलयमहमहितस्फुटकेवि । प्रतिभामृतकादम्बिनी जय जय भारति देवि ॥ १ ॥ सततविनतिततिकृतिनिरतशतधृतिशितिगलशौरि । भगवति तव पदपङ्कजं भवतु मुदे मम गौरि ॥२॥ अटवीसमटनसंघटितबहुविधफलसुमैकौरि । शबरीरूपनिरूपिते जय जय भगवति गौरि ॥३॥ शिथिलीकृतसमरावसरहरिणाधिपमुखंदौरि । महिषविपुलगलविदलिनी जय जय भगवति गौरि ॥ ४ ॥ सकलचराचरसंसरणबहुविधपोषेणधौरि । आगमनिगमसतत्त्वमयि जय जय भगवति गौरि ॥६॥ अवलोकनसंमुखदयितलोचनमानसचौरि । अभयदानबहुमानवति जय जय भगवति गौरि ॥ ६ ॥ अधरयुगोदरदितिजधृतिसमयस्मारितसौरि । शिखरिसुते मुनिजननुते जय जय भगवति गौरि ॥ ७ ॥ अभिमुखससुखकृताभिनयनटदशेषसुरपौरि । वीटीरसशोणाधरे जय जय भगवति गौरि ॥ ८॥ द्वारदेशसंततनदद्विविधतारतरतौरि । कुङ्कुमतिलकधरालिके जय जय भगवति गौरि ॥९॥ १ केवी नामकः कश्चित्सुरभिपुष्पविशेषः. २ शिवः. ३ कुरीनाम तृणधान्यभेदस्तस्या इदं कौरं स्त्री चेत्कौरी. ४ दोरो रज्जुस्तस्य संहतिौरी वल्गेति यावत्. ५ धुरा भार- स्तस्या इयं ईः शोभा धौरी:. ६ सौरिः शनिस्तस्य ई: सौरी:. ७ तूरं वाद्यम् तस्य इदं तौरं स्त्री तोरी तूरपटलीत्यर्थः.
देवीस्तोत्रम् । अरुणनयनतलतरलरुचिरञ्जितकपोलपालि । ललितधवलरदवलयिनी जय जय भगवति कालि ॥ १० ॥ वलयितनिखिलसखीसविधवादितमृदुकरतालि। मधुरमधुरपदगायनी जय जय भगवति कालि॥ ११ ॥ अतनुदशनवसनारुणिमलजितनवीनभण्डैि । आकुञ्चितमेचककचे जय जय भगवति चण्डि ॥ १२ ॥ मुकुलायितलोचनकरं सकलैस्त्वमेव देवि । यदा यदा विपदुपगता तदा तदा समसेवि ॥ १३ ॥ हस्तकमलसंस्थितललितनिर्मलतरमुकुरसुवृत्तबिम्बबिम्बितवक्त्रकले मन्दमारुतकम्पितपीतनूतनविशालचीनपटकोटिदृष्टपाटलवपुस्तले। गौरतलगण्डयुग्ममध्यमण्डलसततचर्वितसरसनागनामकलतादले जय जय कम्बुगले विनिहतसर्वखले हृतनिजभक्तैकले देवि गिरिशाबले १४ कुन्दनलालतनूभुवा वैरिशिरोभल्लेन । एषा कुलदेवीस्तुतिर्गीता कविमल्लेन ॥ १५ ॥ रङ्गे मल्लवरात्कुतोप्यधिगता व्यायामविद्या पुरा पश्चाच्चारुविशिक्षिता चिरतरं गीतेरपि प्रक्रिया । शास्त्रार्थ गुरवोऽनु कीर्तिगुरवस्तेते चिरं संश्रिता रच्यन्तेऽद्य तु संततं जयपुरे काव्यानि कामं मया ॥ १॥ जयपुरि पुराणवसतौ गणगौरीगोपुरोत्तरश्रेणीम् । कौन्दनिरधिवसति कविहरिवल्लभनामविख्यातः ॥ २ ॥ एतानि प्रकटीकृतानि सहसा काव्यानि नव्यानि त- द्भीतिः काचिदशुद्धिजा बहुविधं मां बाधते यद्यपि । चिन्ता नाम परन्तु काचन भृशं चित्ते न मे जायते कुर्वन्ति प्रणयान्ममोपरि कृपां दिष्ट्या यतः पण्डिताः ॥ ३ ॥ १ भण्डी मञ्जिष्ठा. २ वक्त्रस्य कला देशो वक्तप्रान्त इत्यर्थः. ३ कलि: क्लेशः. ४ समासान्तशास्त्रस्य अनित्यत्वादप्रत्ययो न कृत इति.
श्रीकविमल्लभट्टहरिवल्लभरचिताः
शृङ्गारलहर्यः।
F
No text on this page.
अथ श्रीकविमल्लभट्टहरिवल्लभरचिताः शृङ्गारलहर्यः श्रीहरिर्जयतितराम् । यस्त्यक्तागारकार्या व्रजनिखिलवधूः प्राग्गृहीत्वैव चक्रे किञ्चिद्वंशस्य खण्डं दधदंथ तु पुनः क्षेपणी सोऽधुनैषः । वय॑त्यस्मासु धूर्तः कथमिति यमुनानावि भीत्यालपन्तीः पश्यन् काश्चिद्विदग्धाश्चिरमवतु युवा देवकीनन्दनो वः ॥ १ ॥ चेयूयमभ्येथे यथास्थिता नो तदाह्वयाम्यत्र तटस्थितान्नृन् । एवं भिया यो यमुनाम्बुनग्ना ब्रजस्त्रियोऽह्वास्त हरिः स पायात् ॥ २॥ यदर्शनार्थमद्याऽपि मच्चक्षुर्यतते भृशम् । पातु वो मोहिनीरूपं शौरेस्तद्रुद्रवाञ्छितम् ॥ ३ ॥ हारूढनवीनवारललनानेत्रोद्गमं घूर्णय- शृङ्गाराचरणप्रगल्भसुदृशामालस्यमुच्चूर्णयन् । वस्तुव्यागृतपण्यवीथिवणिजां संपादनं पूर्णयन् यूनामस्तु मुदे प्रदोषसमयः कामागमं तूर्णयन् ॥ ४ ॥ कालिन्द्याः परिरूढपङ्कज इव स्वच्छप्रवाहो महान् नागानामिव भूतिभूषितवपुर्विभाजितानां गणः । रन्ध्राविष्टकलानिधिप्रभ इव न्यग्रोधभूमण्डलो नक्षत्रावृत एष भाति नितरां नाकप्रदेशो निशि ॥ ५ ॥ १ किञ्चिद्वंशखण्डग्रहानन्तरम्. २ लम्बतरो नावौहको वंशादिदण्डः क्षेपणी. ३ आचरिष्यति. ४ यूनः कृष्णस्य अभिप्रायज्ञाः. ५ इण् गतावित्यस्य मध्यमपुरुषवहुवच- नम्. ६ समुद्रमन्थने पीयूषकुम्भं देवानेव पाययितुं भगवता विष्णुना मोहिनीरूपं धृतं शिवश्च तां कामयतेस्मेति पुरातनं वृत्तम्. ७ सुवसनापरिधानभूषणायोजनरूपं. ८ तत्त. द्वस्त्रादिकं क्रेयं वस्तु. ९ कुमाई. इ. प्र. १० आकाशप्रदेशः.
शृङ्गारलहर्यः । रजतस्तबकशबलिता रात्रिवधूट्या विनीलशाटीव । उदितसकलतारेयं गगनतटी शोभते विमला ॥ ६ ॥ संभोगार्थमुपेतस्य भर्तुश्चन्द्रस्य संगमात् । राव्यङ्गना पुलंकिता तारकाकपटेन किम् ॥ ७ ॥ विदितगगनजन्म प्रौढजाग्रत्प्रकाशं क्षितिविलसितकान्तिक्रान्तसंसारचक्रम् । धृतकपटहिमत्वं शुभ्रभावैकभाव्यं जयति किमपि तेजः शार्वरोद्दयोतरूपम् ॥ ८ ॥ शिशिरकिरणाख्योऽयं वृत्तो बृहत्तरहीरकः प्रतिदिनकलाहानिव्याजात्सुरैर्दिवि खण्डितः । विविधशकलस्तोमस्तस्योच्छलच्छविमण्डितः स्फुरति पतितो विष्वक् चञ्चद्दयुतिग्रहकैतवात् ॥ ९॥ नित्यं लाञ्छनदम्भतः शिवशिरःशृङ्गारकोऽयं शशी संभोगामृतदायिनीमुरसियद्रात्रिं बिभत्ति स्त्रियम् । तन्मन्येऽनुकरोति कौतुकवशात्तामर्धनारीश्वर- प्रख्याताद्भुतसाहचर्यसुषमा यूनोर्हि या संमता ॥ १० ॥ प्रतिभान्ति समिद्धतारका दिवि यात्यस्तगिरि दिवाकरे । किमु सूच्छलिताः सुरापगाविमलाम्भोविलसत्कणा इव ॥ ११ ॥ सोममण्डलमिदं समुदीतं काचकोशंसदृशत्वमुपैति । लाञ्छनं स्फुरति किञ्च यदस्मिन्कज्जलोपमितिमेति हि तच्च ॥ १२ ॥ पातुं वारि वनस्थलीषु वदनं न्यक्कुर्वते रौहिर्षी वक्त्रं दर्पणविभ्रमाद्विद्धते नीचैः क्षितौ बालकाः । मुग्धा भ्राम्यति दीपिका शमयितुं कान्तेन विस्मायिताँ यस्मिन् व्योमतलं गते विलसितः सोऽयं कलानां निधिः ॥ १३ ॥ १ विचित्रायाः स्त्रिया विचित्र एव पुलकः. २ अमृतोपाधिकं चन्द्रे हिमत्वं. ३ चन्द्ररूपं. ४ सुषमा परमा शोभा. ५ लाल्टेण इ. प्र. ६ मृगाः. ७ अत्र तव दृश्यमानो दीप- श्वेत्स शमयितव्य इति.
शृङ्गारलहर्यः । E ये निर्वेष्ट तेक्षिताः कशिपर्वस्ते भान्ति संवेष्टिता निर्णीतं किल चन्द्रकान्तमणिभिः शैले हिमं प्रस्तुतम् । दृष्ट्वा स्वां प्रतिमां त्रसन्ति सहसा दस्युभ्रमान्मानवा यस्मिन् व्योमतलं गते विलसितः सोऽयं कलानां निधिः ॥ १४ ॥ कासारस्य तटोपरिस्थितबकैर्मात्स्यं शनैर्वश्यते भित्ति न श्रयते जनः सुतसुधागात्रप्रसङ्गभ्रमात् । दूराद्भाति तरङ्गिणी तटपरिच्छिन्नप्रमाणोज्झिता यस्मिन् व्योमतलं गते विलसितः सोऽयं कलानां निधिः ॥ १५ ॥ किं कुन्दानां परागः प्रसरणतरलो वायुनास्तीर्यतेऽयं चेष्टन्ते विष्वगेते किमुत नवनवाः पल्लवाः कैरवाणाम् । किं वैष क्षीरिवृक्षैः क्षतजनितरसः क्षिप्यतेऽन्योन्यमेवं मालाकाराङ्गनाँभिर्विपिनभुवि चिरं चिन्त्यते चन्द्रिकेयम् ॥ १६ ॥ नौकावच्छिबिकादिकं क्वचिदपि च्छाया च शैवालव- निर्गच्छज्जनता तरद्वदुपलच्छेदाश्च शम्बूकवत् । ऊर्मिक्षिप्ततटस्थकोकनदवद्वेश्माग्रभूदीपका यस्यां सा तटिनीव भात्यनुपथं द्योतोका कौमुदी ॥ १७ ॥ स्नेहो यामवलम्ब्य वृद्धिमयते यस्याः परं जायते संसर्गेण विदग्धता ज्ञपयते याऽनङ्गमप्यञ्जसा । विष्वक्प्रोज्ज्वलमालयं च कुरुते विद्योततेऽहर्निशं तेजोऽक्ष्णोर्मुहुरीक्षिता वितं ते सा दीपिकैवाऽपरा ॥ १८ ॥ १ अन्यवस्त्रोपदेहाः. २ तूलास्तरणानि. ३ चन्द्रकान्तस्रवे हिमस्रवधीरिति भावः ४ शफरसमूहम्. ५ तदा नद्या महान् पूरो दृश्यते. ६ राजादनमुखैः. ७ पितृ- हादागताभिर्नवाभिः. आक्षिप्तौपम्योऽत्र श्लिष्टपदोऽनुक्तहेतुकश्च तथा । अर्थाऽलङ्कारोऽस्ति व्यतिरेकाख्यो मम श्लोके ॥१॥ ८ शिबिकोपलक्षितरथादिकम्. ९ तरन्ती इव. १० प्रकाश एवोदकं यत्र. ११ तैलादिकं प्रणयश्च. १२ विदाहविशिष्टता चातुरी च. १३ अस्फुटं वस्तु कामं च.१४ गृहस्थानां गृहे स्त्रियैवौज्ज्वल्यम् शोभा.१५ लौकिकी दीपिका मुहुरीक्षिता नेत्रे निस्तेजसी करोतीति प्र.
शृङ्गारलहर्यः । यस्या हेमन्तरात्रिः समुचितसमयो व्यक्तिरेको च मात्रा सौत्म्यं शृङ्गारवृत्तिर्धवलपटलसत्तल्पसेवाऽनुपानम् । वोढुं लोक: प्रगल्भः परिचरणभृति मन्मथातङ्कशान्त्यै यूनां दिव्यौषधी सा प्रतिभवनमियं ब्रह्मणा स्त्रीति सृष्टा ॥ १९ ॥ क्लिद्यत्केरिपत्रपीतपरमस्फीताङ्गकान्त्युज्ज्वला चञ्चच्चञ्चललोचना स्तनभरव्यानम्रकम्रोदेरा । चातुर्यप्रचुरोक्तितर्षितयुवस्वान्ता सदाऽलङ्कृता कस्येयं गृहदेवता विहरते स्वच्छन्दमत्रागता ॥ २० ॥ नेयं मुग्धवपुः स्थिता नववधूः किन्त्वस्ति काचिल्लता नो चण्डाकिमेतदस्ति विपुलं किन्त्वालवालं महत् । किञ्चैतान्यपि न मितानि विकसत्पुष्पाणि किंवIतो नैतच्चञ्चति पाणिपादमभितः किंतु स्फुरन्ति च्छदाः ॥ २१ ॥ काँश्चिद्दर्शनतो हि काँश्चन वृथा संलापमात्रादथो काँश्चित्कार्यनिदेशतः सकृदपि स्मृत्यैव काँश्चित्पुनः । काँश्चित्संनिहितस्थितेरपि पुनः काँश्चित्तु मन्दस्मिता- त्प्रीणन्त्यजदृशः परन्तु विरलान् धन्यान्दृढीलिङ्गनैः ॥ २२ ॥ नीलाब्जाढ्यां सकलधरणिं कुर्वती दृष्टिपातै- बन्धभ्रष्टैस्तिमिरवितति प्रेक्षयन्ती च केशैः । शैलद्वन्द्वं वियति सहसा संसृजन्ती स्तनाभ्यां मन्दं मन्दं पुरत इह मे केयमायाति धन्याँ ॥ २३ ॥ १ उचितत्वमन्योपद्रवाकरणेन शनैः शनैस्तयाधिहरणेन च. २ सा नखशिखशोभिनी एकैव पाणिगृहीती. ३ पथ्यं. ४ आरामविहरणादिका. ५ प्रतीकारस्य वाग्भटे चतुष्पदिकोक्तेरत्र लोको गृहवर्तिजन एकविधः पादः. ६ संहिताकारेण प्रथमेन चतुर्मु- खेन जगदेकवैद्येन. ७ केशरपत्रवत् कुङ्कुमपत्रवत्पीतं. ८ कनं सुन्दरं. ९ गृहस्य देवतेव देवतेति मध्यमपदलोपी समासः. १० लहंगा इ. प्र. स्त्रीवस्त्रं तदिह महावैपुल्यर- मणीयं भवति. ११ अस्य विकसदित्यत्रान्वयः. १२ इदमेकमेव मुख्यं सत्यं प्रणयप्रका- शकं. १३ अत्र धरण्यादीनां कर्मणां दृष्टिपातादिभिः करणैरभेदः. १४ हृदयद्राविणी. 13 शृङ्गारलहर्यः । रागं वीक्ष्य विपक्षचोलफलितं हस्ताग्रयोर्मे नवं स्तब्धोष्ठं वदनं विवर्त्य सहसा यान्त्या शनैर्मूकया । आः कस्या असि वल्लभस्त्वमधुना का नाम कान्ता च ते हा हा हृत्फलके व्यलेखि किमिदं दृग्लेखिनीतस्तया ॥२४ । आदौ हन्त विलोकिताऽपि बहुशो ज्ञाता च या सर्वथा नीत्वा किञ्च दिनान्तराणि कतिचिद्या विस्मृतासीदपि । तस्या एव विलक्षणां पुनरहो श्रुत्वाऽथ कांचित्कथां चेतस्तां परिचेतुमिच्छति चिरं जात्वप्यदृष्टॉमिव ॥ २५ ॥ दूरादनितले मम स्वशिरसश्छायां विधत्ते मुहु- नानाधा मुरलौ च गायति भृशं मन्नामगीतीः पथि । कुळे याहि दृशेति वक्ति गदितुं नाहं च शक्ता हिया नित्यं मामिति बाधते सखि हरिः कुर्यां कृति कामहम् ॥ २६ । प्राणेशं स्नापयन्ती परपुरुषकृतक्ष्वेडितप्रेरिताक्षि- व्यावृत्तिध्वस्तहस्तस्थितकलशपतत्तोयधारावधाना । हारावन्योन्यरुद्धावथ दयित तयोः शोधनेऽस्मीति काचि- च्चित्तं हन्त त्वदीयं सपदि कुह रुषां तेन पृष्टेत्थमूचे ॥ २७ । पूर्वं यद्यपि सेविता चिरतरं पश्चात्वचित् प्रस्थिता किञ्च प्राप्तवती द्रुतं कतिपये कालान्तरे कामिनी । नेत्राणां च तथापि तत्क्षणमहो संभोगलीलाकृते प्रेमाढ्ये वितनोति भर्तृहृदये साऽभूतपूर्वोत्सवम् ॥ २८ ॥ करमुकुरधृतेः किं संभृतौ ते कपोला- विति हि गदति लोकस्त्वां तु वृत्ताननेति । प्रियसखि शुणु किञ्चित्संभृतौ मे कपोला- विति हि गदति लोको मां च लम्बाननेति ॥ २९ ॥ १ नवत्वात्फलनसंभावना. २ मद्रूपा. ३ रूक्षं पश्यन्त्यास्तस्या दृशावेव ले. ४ असं- वाम्. ५ तादृगुत्कण्ठामाहात्म्यमेतत्. ६ नमःसूचनाय. ७ वर्णनपराः. ८ चातुर्य क्ष्यं. ९ खस्यापि श्वेडितश्रुतेः. १० सख्योः कयोश्चिदुन्नीतप्रश्ना सूक्तिरियम्.
७० शृङ्गारलहर्यः । अग्रे सञ्चरितुं प्रियस्य यदसावेकाकिनी नेहते वक्तुं रात्रिकथां सखीभिरुदिता मेरा च गुघ्नाति यत् । किंचित्रस्यति सर्वतश्च निलये यच्छङ्कितेवात्मभू- रित्युद्योग्यपि तत्पुनः स शिथिलः किं बालमैत्रीभिया ॥३०॥ कामोन्नृत्तप्रणयविकले चित्रपट्टावृताङ्गी दोर्ध्या किं त्वां न वदसि मयीत्यभ्युदीर्योपगूढे । यद्यप्यासीत्सकलमपि तत्सुभ्र चित्रं विभग्नं गाढं त्वासील्लिखितमहहो मानसे तत्क्षणं हि ॥ ३१ ॥ तारुण्यं हर्म्यवासो विषयरसिकता काव्यपाठश्रुतिश्च प्रागल्भ्यं वापतेयं हृदि सहजसुखं मित्रकेलिश्च गानम् । निःसापत्न्यं प्रभुत्वं किमु गणनकृतेरानुकूल्यं यथेष्टं हे कान्ते हा विनात्वां सकलमिति मया व्यर्थमेव प्रतीतम्॥३२॥ आचित्रिताः पङ्किलरङ्गपत्र्याँ भान्त्यङ्ग्रिहस्ताङ्गुलयस्तरुण्याः । बालार्कतापच्छुरितानि फुल्लपङ्केरुहीयाणि यथा दलानि ॥ ३३ ॥ संश्लिष्टचोलौ कनकाङ्गदाढ्यौ नानाविभूषांचितचारुचूडौ । सालक्तको रत्नमयाङ्गुलीयौ कान्ते करौ यौवनकंदलौ ते ॥ ३४ ।। सुगाढकूर्पासकरश्मिकृष्टौ वक्षोरुहौ प्रौढनितम्बिनीनाम् । शृङ्गारसिन्धौ तरणाय मन्ये धात्रा निबद्धे इव तुङ्गतुम्बे ॥ ३५ ॥ स्त्रीणां वयोरूपपटुत्ववस्त्रभूषाविलासोक्तिगतादि सर्वम् पुंसां परप्रीतय एव बोद्ध्यं भोग्यं हि भोक्तुर्विदधाति तृप्तिम् ॥३६॥ सीमन्तिनीनां पुरुषायितेषु प्रालम्बिकालोलसराधन्ते । प्रसूनबाणस्य सलीलवेल्लद्दोलासमालम्बिगुणोपमानम् ॥ ३७ ॥ वध्वाः प्रियप्रत्तरदक्षतानां चकास्ति चक्रं विमले कपोले नवोदितं मण्डलमम्बुवाहे पीयूषरश्मेरिव शारदीये ॥ ३८ ॥ १ गुध रोषे. २ कामः. ३ परिचयकृतिपरोऽपि. ४ एतेन नायिकाया मौग्ध्यावशेषः स्तोको वर्णितः.५ मयीत्यस्य विशेषणमिदं. ६ विचित्रं वृत्तं हृदये सदा तिष्ठति. ७ मॅ- हदी. ८ देशभेदाद्भूषणानां नानात्वम्. ९ तुम्बाया इमे फले. १० हारविशेषः.
शृङ्गारलहर्यः। युवजननयनजवनयविनयनकुशला कशेव परिलसति । अलकलता मृदुलानिलविवलनललिता विलासिन्याः ॥ ३९ ॥ पश्यन्ती विनिमेषं दयिताभिमुखं वधूश्चिरं दूरात् । मन्ये कटाक्षपथतः शनैः शनैस्तं समाह्वयति ॥ ४० ॥ प्रियनिकटे गुरुजनगा गायन्ती ह्रीप्रकम्पमानाङ्गी । आन्दोलन्तीव ललत्यानन्दान्दोलने बाला ॥ ४१ ॥ आरूढयौवनायाः सुसंहता रोमराजिरुल्लसति । पदशृङ्खलेव गलिता मानसमग्नस्य कामनागस्य ॥ ४२ ॥ मैक्तुं गता समभवं जाता सखि हन्त मग्नैव । हन्त यदि न सममवयं सुनिश्चयं तर्हि सममवयम् ॥ ४३ ॥ चञ्चलविलोचनायास्तदुदञ्चितमञ्चलं मुदेवोऽस्तु । यत् कतिचन शुचिचरिताँल्लोचयते चन्द्रचूडयुगम् ॥ ४४ ॥ रत्युन्मुखौ युवानौ प्रस्वेदव्याप्तविग्रहौ लसतः । पूजारम्भे विहितस्नानाविव मदनदेवस्य ॥ ४५ ॥ को दोषः केतक्या हतकाया ईदृशी हि विख्यातिः यदियं हित्वात्मीयं परस्य चित्तं धिनोतीति ॥ ४६ ॥ अरुचिकर खलु न किमपि तरुणीसम्बन्धि यद्भवत्येव । तत्र सतीवरदानं मदनकृपां वा ब्रुवे हेतुम् ॥ ४७ ॥ प्रपतन्त्यो नीचैरिव धाराः शृङ्गारवारियन्त्रस्य । भान्ति वधूट्या जूटीबंन्धच्छुटिताः कचश्रेण्यः ॥ ४८ ॥ उँच्चैर्निशि चन्द्रमसं नीचैः पद्मं दिवा विलोकयता। तस्या हठादपि मया कथं नु विस्मयतां वदनम् ॥ ४९ ॥ १ एतेन नायिकायाः प्रियविषयकं निर्निमेष सुचिरं निरीक्षणं संभावितम्. २ देशाचारोऽयम्. ३ सरसमाभाणकमेतत्. ४ सनखक्षतौ स्तनौ. ५ स्नानं प्राक् पूजाया अवश्यम्. ६ परोपकारी केतक इ. प्र. ७ तद्वरदानतत्कृपामन्तरादुर्घटमिदं न संभवति. ८ कृष्णवरूपः शृङ्गारः स्थितमिदं शास्त्रे. ९ केशवेशो जूटीबन्धः.१० उपमा- मिलिता स्मृतिरत्रालङ्कारः.
शृङ्गारलहर्यः । अञ्जनमाञ्जि वधूभिर्युवदृग्दोषप्रशान्तये स्वाक्ष्णोः । प्रत्युत शतगुणितं तद्दोषं तत्र प्रसञ्जयांचक्रे ॥ ५० ॥ अधरद्वयमुद्घटितं शुक्तिपुटद्वयमिवाजनयनायाः । रेखा किंच रदानां सरीव परिलसति मुक्तानाम् ॥ ११ ॥ मालाकारसुताया वपुषि विलासा यदापि नो सन्ति । सन्त्येव तथापि करे मालानां नॅपपथे क्रयाय धृतेः ॥ ५२ ॥ स किमपि वक्तादिह यो व्याख्यानं दातुमाख्यातः । पैरदाराः संगम्या उत्कृष्टः परपदार्थश्चेत् ॥ १३ ॥ रत्नेषु यथा रोचिर्यथा च गन्धः प्रसूनेषु । आस्वादो भोज्येषु स्त्रीणां गात्रेषु लावण्यम् ॥ १४ ॥ निजनिधनसमय एव प्रदृश्यते या परैरनावरणा । सीमन्तिनी सुचरितां कृपाणिका किल विडम्बयति ॥ ५५ ॥ रूपद्रव्यविलुण्ठनभयादिवामूः पुरो यूनाम् । त्वरितं प्रयान्ति संवृतवदनकुचाद्यखिलविग्रहा बालाः ॥ १६ ॥ यत् परिधत्ते युवतिः सकलेष्वङ्गेषु भूषणश्रेणिम् । जाने तज्षकेतोः कोऽपि भटः प्रहरणानि बध्नाति ॥ ६७ ।। वक्षोजयोः पुरस्तादन्वक्षं किल नितम्बयोरुभयोः । सत्यपि पुरुपीनत्वे सातु कृशाङ्गयेव चित्रमिदम् ॥ १८ ॥ स्वरमियं पथि यान्ती मुग्धा तरुणिमवलेपदुर्ललिता । अन्यन्मुष्टिमितं द्राक् संप्रति वर्धिष्यमाणेव ॥ १९ ॥ श्रीमान् पुरु प्रसिद्धो नारीणामथ नृणां च नगरस्य । अद्य परस्परमास्ते परं विचित्रः स्वयंवरावसरः ॥ ६० ॥ प्राणप्रियासमागमविषयकसंवेशनक्रियाहरणम् । जागरणमपि ह हरहर शृणुत विरहिणां रिपूभूतम् ॥ ६१ ॥ १ सौन्दर्येण अत्यन्तहगावर्जकत्वात्. २ लडी इ. प्र. ३ नृपपथो हि तासां विलास- शिक्षणशाला. ४ इत्येतद्वक्तुर्मतम्. ५ स्फुटाङ्गी. ६ कामस्य. ७ लक्षणासमन्वयात्. स्पष्टमिदं विशेषणार्थज्ञानात्. ९ नगरोत्सववर्णन मिदम्.
७३ शृङ्गारलहर्यः । विरहावसानकाले दम्पत्यो रोदनं मिथो मिलतोः । भाति हृदयकालुष्यप्रक्षालनमिव जलैरक्ष्णोः ॥ ६२ ॥ यदपेक्षया न बिभ्यति पतिव्रताः पतिषु संनिमीलत्सु । प्रत्यक्षादग्नेरपि विरहाग्निं तदति दुःसहं मन्ये ॥ ६३॥ अोरुकं युवत्याः पाणिप्रतिहन्यमानमभियान्त्याः । समधिक्षिपतीव पदौ सेवितुमुपयान्ति लोकचित्तानि ॥ ६४ ॥ लावण्यकोशगृहतां दधतौ कामस्य तन्वि कुचौ । मुद्रां चूचुककपटादमुना विहितां किमु श्रयतः ॥ ६५ ॥ एषोऽस्ति कमलमुखि तव चरणाङ्गुष्ठः समुन्नतो यावान् । चित्तस्य सपदि कथयति समुन्नति तावतीमेव ॥ ६६ ॥ मानिनि षट्पदमाला चम्पकमुकुले स्थिति न पुष्णाति । त्वदलकमिषेण सेयं कथं कपोलेऽस्ति तत्तुल्ये ॥ ६७ ॥ समयेऽस्मिन् रन्तुमहं न समर्थास्मीति काऽपि बोधयति । आगच्छामि सखि क्षणमिह तिष्ठेति प्रियं वचसा ॥ ६८ ॥ प्रत्यपकृति ग्रहीष्ये समुपेष्यति यदि स वञ्चकस्तस्मात् । अथ रममाणे दयिते हरिणाक्षी तस्य विमरति ॥ ६९ ॥ वदनपद्मनवीनतरस्फुरदरदलन्मुकुलायितलोचने । उपवनं कुरु नूपुरझञ्झणैः सितगरुन्निनदैर्मुखरीकृतम् ॥ ७० ॥ पश्यतः पुरुविकासितनेत्रं नायकस्य पुरतो नववामा । संप्रवेष्टुमिव चेतसि शीघ्रं संकुचत्यतितरां सकलाङ्गैः ॥ ७१ ॥ सुन्दरी बहुसमञ्जसमाञ्जीदञ्जनं नयनयोर्मुकुराग्रे । चित्रमाशुतरमेव च पर्युन्मीलिते बत दृशौ मम जाते ॥ ७२ ॥ १ कालधर्म प्राप्तेषु. २ यस्य घाघरा इ. प्र. ३ प्रायो युवतीनामुपविष्टानां चरणाङ्गुष्टो विलासदादिव उन्नतो भवति. ४ गुरुमानम्.५ प्रसिद्ध मिदं लोके. ६ नाहमेकाकिनीति भावः. ७ मुधाभाषणरूपापराधी. ८ आनन्दाधिक्यात्. ९ रूपकैंसशब्दैः. १० दुष्प्रवेशे हृदि. ११ यथाविधीत्यर्थः. १२ तनिरीक्षणानन्दार्थ स्थिरे इत्यर्थः.
७४ शृङ्गारलहर्यः। असतीजननेत्राणां केयं नाम चमत्कृतिः । अपाङ्गा अपि यासां यच्चाचल्यन्ते निरन्तरम् ॥ ७३ ॥ कपोलौ कमलाक्षीणां रुचिरौ गौरकान्तिभिः । अधीनीकृतये यूनां कार्मणौ दर्पणाविव ॥ ७४ ॥ कामं हृदि व्यञ्जयतोः पुंसां नेत्रप्रदीपयोः । कुतूयुग्ममिवालोकहेतुः कान्ताकुचद्वयम् ॥ ७९ ॥ उन्नता या स्तनद्वन्द्वान्नता च त्रपयैकया। चतुष्टयेऽध्वनां लक्ष्या दुर्लक्ष्याप्यहह त्रिके ॥ ७६ ॥ नकारोक्त्या क्वचित् काले नृन् प्रीणन्ति यया स्त्रियः । आश्चर्य हा क्वचित्काले दहन्त्यपि तयैव च ॥ ७७ ॥ मुखावगुण्ठनपटीमध्यप्रेतिलोचनाः । लक्ष्यन्ते स्मरसर्वस्वं रक्षन्त्य इव योषितः ॥ ७८ ॥ करेणुशुण्डापूर्वार्द्धपीवरोरुमनोरमाम् । लीलालसं चलन्ती तां दृष्ट्वाऽहर्मंचलोऽभवम् ॥ ७९ ॥ विभान्ति विभ्रमास्ते ते युवतीनां गाश्रयाः । तरङ्गाः परिरिङ्गन्तो लावण्याम्बुनिधेरिव ॥ ८ ॥ मरुदेतीति पतिना व्याहृता मुग्धिका रते । अन्यभ्रान्त्यानु रुरुधे संभोगोत्कं तमाशु सा ॥ ८१ ॥ एषा समन्ताद्गगनान्तराले विद्योतते हन्त शतबदाली । वियोगिनां प्राणसमुत्क्रमार्थं रतिप्रभोर्दन्तविभीषिकेव॑ ।। ८२ ॥ धरणिगगने नामू कौचित् पृथू किल जम्पती न घनकृतसूर्याच्छादोऽयं पराऽनवलोकनम् । १ अपगतानि अङ्गानि येषां ते दृक्प्रान्ताश्च. २ वशीकरणाय मन्त्रितौ. ३ स्तनाभ्यां उन्नता त्रपया नता अध्वचतुष्टये लक्ष्या त्रिके मध्यदेशे दुःखेन लक्ष्या इति विचित्रः सरसः क्रमः. ४ स्वीकरणार्थज्ञानात्. ५ सत्यैकार्थज्ञानात्. ६ तद्विलासनिरीक्षणार्थमिति भावः. ७ तेन कामे कीशत्वं रूपितं ज्ञेयम्.
७ शृङ्गारलहर्यः । वहति न जलं चैतद्वीर्य तयोन्यवते रता- विदमपि न वानस्पत्यं संततिव्रजसंभवः ॥ (३ ॥ झङ्कारैर्मक्षिकाणां बधिरितगगनैः पूरयन् स्थानगर्भ सौभिक्ष्यं दैन्यवद्भयो भृतनिभृतसुखं सूचयन् मानुषेभ्यः । आरामक्ष्मोप्तबीजप्रथमविकसनंभालयन्मालिकेभ्यो वर्षाकालोऽभ्युपेतः सरणिषु चलतां पान्थयूनां विपन्थी॥८४ ॥ द्विजाधिराजो विजहाति जायां ध्वान्तापरासक्तविहारबुद्धिम् । कुलानुकूलवततत्परा नराः परानुरक्तां रहयन्ति योषितम् ॥८५॥ तारा मध्यच्छितायाः स्रज इव मणयः प्रच्यवन्ते समन्ता- देकीभूयोपरिष्टाच्चितमिव तिमिरं व्योम्नि नैल्यं चकास्ति । आशानामन्तरालं मुकुरतलमिव स्वच्छभावं च धत्ते कश्चिन्माणिक्यवारां प्रवह इव ततिं याति सान्द्रः प्रकाशः ८६ उद्योगिभ्यः प्रबोधं कृतविविधविधि कारयन्निविलम्बं पान्थेभ्यो गोपुरेष्वप्रतिहतगमनं बोधयन् राजधान्याः । सौभाग्यं भूमिभर्तुः सकलविषयगं सूचयन्नागरेभ्यः प्रातस्त्यस्तोपघोषः प्रचुरचिररयः सर्वतः श्रूयतेऽयम् ॥ ७ ॥ यस्मिन् कर्मणि जीवनिर्गमभयं कार्य न केनाऽपि तत् तस्मात्कुक्कुट किं वृथैव तनुषे प्राभातिकं पैशुनम् । साशकं दयितोपगृहनसुखं स्तोकं भजन्त्यः स्त्रियो यन्नैवं विविधप्रकारकृतिभिस्त्वां घातयिष्यन्त्यमूः ॥ ८ ॥ दूरे गच्छति सत्वरं कथमपि प्रोद्दामभीत्याकुला हृत्वा तारकमौक्तिकानि सहसा रात्रीत्यसौ चौरिका । सर्व संप्रति मानवा इति चिरं कोलाहलोन्निद्रिता ज्ञाप्यन्ते किमु कुक्कुटैः पथि पथि प्रत्येकगेहं मिथः ॥ ८९ ॥ १ वनस्पतीनां वृक्षाणां समूहो वानस्पत्यम्. २ अङ्कुरीभवनम्. ३ प्रतिकूल:. ४ मध्ये बुटितायाः. ५ सूर्योदयसंध्यारूपः. ६ खत एव तासां रात्र्यपायज्ञानं तस्मात्, ANOMAAVARKirine शृङ्गारलहयः। याः पूर्व कठिनखभावनियमप्रारब्धमानाकुलाः कान्तैश्चाथ बलात्कृतेरनुमति नीत्वोपगूढाश्चिरम् । पश्चाद्धन्त शनैः शनैः स्वविरहं तैर्लम्भिताः सांप्रतं तत्कण्ठाहतपाणिसंभ्रममतेर्मुह्यन्त्यमूस्ताः स्त्रियः ॥ ९० ॥ श्रुतियुगलमकस्माच्छ्रोतुमीषत्प्रवृत्तं सकलमपि च दृष्टी वीक्षितुं वस्तुजाते । अथ च विविधगन्धो नासया भ्रातुमीषे निखिलकरणमित्थं सावधानं बभूव ॥ ९१ ॥ विलसति सकलाशाहासपिण्डेऽर्कबिम्बे त्यजति निबिडनिद्रां जीवलोके विशोके । रमयति खगवर्ग गन्धवाहप्रवाहे सपदि दिवसलक्ष्मीः सर्वतः प्रादुरासीत् ॥ ९२ ॥ उद्याने नवमुग्धमालिकशिशुः प्रोत्फुल्लपुष्पव्रजा- नालोक्य क्षणदावसानपवनस्पर्शेन संबोधितः । आश्चर्य स्खलिताः कथं नु निखिला एता दिवस्तारका एतां भ्रान्तिमसौ जहाति सहसा संघ्राय तत्सौरभम् ॥ ९३॥ मन्दं मन्दं दिशि सुरपतेरेष कस्य प्रकाशः प्राप्तो भूयान्नयनसरणिं चञ्चति व्याप्य विश्वम् । आ विज्ञातं कथमपि मया सांप्रतं पूर्वशैल- प्रौढाटव्यां तिमिरयवसं दाहमेतीति बुद्ध्या ॥ ९४ ॥ प्रत्यासन्ने भगवति रवौ स्वागतं पुष्कराणि प्रष्टुं स्नेहादिव किमधुना वक्त्रमुद्घाटयन्ति । सद्यः प्राप्ते विधिबलवशालोषितेऽपि स्वबन्धौ मित्रे वाऽपि प्रणयविवृतं कैर्मुखं न क्रियेत ॥ ९४ ॥ १ तेषां खकण्ठेषु आदृताः सञ्जिता ये पाणयस्तेषां संभ्रममतिरिदानीमपि जाने तत्तादवस्थ्यमेवेति तस्याः. २ इथेः कर्मणि लिट्, ३ प्रभातो जात इति भावः. ४ रात्रौ ताराः प्रातः पुष्पाणि इति स्थिते इदम्. ५ प्रातवर्णनम्. ६ सूर्योऽपि मित्रपदवाच्यः, ७७ शृङ्गारलयः । पूर्वं मूर्तितमात्रमेव भवनं नेक्ष्यं यथाप्यन्तिके सौधेनैव विलेपनेन तदनु प्रद्योतितं सर्वतः । किञ्चित्प्रत्यवभासमानमुषसि प्राङ्मन्दमन्दं पुनः पद्माक्षेऽभ्युदिते तथेदमखिलं स्पष्टं जगज्जायते ॥ ९६ ॥ नाथे नूतनसंगमार्थमुदिते रागेण गाढादरं प्रत्युन्नीय चुचुम्बिषत्यपि मुखं प्राङ्मन्दमन्दं करात् । दूरे तिष्ठति मुग्धिकेव सहसाऽविस्पष्टरूपा यँती सैषा पश्य पलायतेऽतितरला छाया पुरस्तान्नृणाम् ॥ ९७ ॥ जालीरन्ध्रपथोदितार्ककिरणान् कान्ते मुहुः पश्यति प्रासादस्य रताधिकोदयसुखातृप्ता प्रगल्भाङ्गना । वातोड्डायितविस्फुरज्जवनिकाव्यक्तं किमु प्रेक्ष्यते मुक्ताविद्रुममालिकावलयितं स्तौतीति चित्रं मुधा ॥ ९८ ॥ छायावद्भदसीम्नि मीनकमठास्तिष्ठन्ति सर्वे मिथो गावः स्वप्रतिबिम्बितक्षितितले स्थातुं वहन्ति स्पृहाम् । सांनिध्येऽपि च पाकसुन्दरफलं मुञ्चन्ति नीडोद्भवा प्रात्वा पुष्पसुगन्धमप्यलिगणा गन्तुं न वाञ्छन्त्यहो ॥१९॥ गायन्नव्यवधूप्रमत्तरसिको भ्राम्यच्चमूमण्डलो हस्त्यश्वोष्ट्रगतागतो नियमितागच्छत्प्रवृत्तिक्रमः । तोपध्वाननिबोधितक्षितिपतिप्रत्यागतिप्रस्थिति- र्नानाधाकथितश्रुतोक्तिनिचयः कोप्येष मेलोत्सवः ॥ १० ॥ वर्णाकाराचरणकरणैः काकसंघप्रविष्टो यद्यप्यास्ते परभृतशिशुर्जातमेतावता किम् । १ निर्मितमात्रम्. २ सुधा कळी इ. प्र. गृहलेपः, ३ सूर्ये. ४ गच्छन्ती. ५ स्वभावो- क्तावुत्प्रेक्षासौ। JESTACHATARNATAKA ७८ शृङ्गारलयः । यस्मिन् काले श्रुतिसुखकरं पञ्चमस्यानुकूलं क्वाणं कूजिष्यति स सहसा भावि किञ्चित्तंदानीम् ॥ १०१॥ आहन्ति निभृतनिभृतं द्रुतमपसरति त्रसन्गूढम् । अयि मोषकोऽस्ति किमयं नहि नहि सखि मूषकः कोऽपि १०२ नाना प्रसादनानि क्रियमाणानि प्रियेण बालायाः । तत्सरसताकृते खलु भासन्ते दोहदानीव ॥ १०३ ॥ इति श्रीकविमल्लभट्टहरिवल्लभकृतिषु शृङ्गारलहर्यः । १ भेदज्ञानम्. २ छेकापह्नुतिनिदर्शनमिदम्.
Hakha
THAHIDrinku
श्रीकविमल्लभहरिवल्लभवर्णिता
दशकुमारदशा।
No text on this page.
अथ श्रीकविमल्लभहरिवल्लभवर्णिता दशकुमारदशा। श्रीहरिविजयतेतमाम् । स्तोत्रैरिन्द्रं स्वमन्योगिरिवरधरणे कारयन्तं तितिक्षां देवेश प्रत्युतेदं प्रचुरमुपकृतं कोपका त्वयाऽद्य । यत्तैस्तैर्याः प्रकारैरपि न हि मिलिता हन्त गोपाङ्गनास्ता- स्तिष्ठन्त्यभ्यर्णमेता इति समुपहसन्रक्षतु श्रीपतिर्वः ॥ १ ॥ विश्राणयन्तु प्रचुरां श्रियं वः श्रीभर्तुरङ्योर्नखकान्तयस्ताः । या नूनमङ्गुष्ठपुनःप्रनिर्यत्रिस्रोतसो विभ्रममावहन्ति ॥ २ ॥ अनूद्यते मल्लकवीश्वरेण विप्रेण पूर्व हरिवल्लभेन । कुमारकाणां चरितं दशानां कौतूहलादेव निबध्य पद्यैः ॥ ३ ॥ पुरी पुरीणां निकषः परासां रत्नाकरश्रीस्ततपण्यरत्नैः । अस्ति स्म काचिन्मगधाख्यदेशवतंसिता पुष्पपुरीति नाम्ना ॥ ४ ॥ तत्राश्वमातङ्गझषाकुलस्य भटावलीचञ्चलदीर्घवीचेः । यद्वाहुदण्डौ सकलारिलोकपाथोनिधेर्मन्दरितौ प्रमाथे ॥ ५ ॥ शक्राटवीसंनटदप्सरोभिजेंगीयमानैर्निजसद्यशोभिः । विशोभितः कुन्दसुधांशुकाशकर्पूरनीहारपयःसखैयः ॥ ६ ॥ प्रदीयमानाध्वरदक्षिणौघसंत्रातविद्यावदनेकविप्रः । अर्कप्रतापो नृपतिः समस्तभूभोगभाग्योऽजनि राजहंसः ॥ ७ ॥ कन्दर्पसौन्दर्यविमर्दिकान्तेस्तस्य प्रिया सा वसुमत्यभिख्या। लीलावतीशेखरदिव्यरत्नं राज्ञी मनीषैकनिधी रराज ॥ ८ ॥ १ अर्थाशेन.
CENTRAuraumarianmixMilimacist दशकुमारदशा। तस्याः कबर्येव मिलिन्दमाला प्रेयान् सुधांशुर्वदनं जिताजम् । जयध्वजः सस्त्रिझषोऽक्षियुग्मं श्वासः सुयोधो मलयानिलश्च ॥९॥ अध्वन्यहृद्भेदनमण्डलानः स विद्रुमश्चाप्यधरोष्ठबिम्बः । लावण्यपूर्णा विलसत्स्वरूपो जयिष्णुशङ्खो मृदुला शिरोधिः॥ १० ॥ कोकाकृती पूर्णघटावुरोजौ बाहू समज्ये च बिसवतत्यौ । क्रीडावतंसाम्बुजकुङ्मलोऽथ नाभिः सनाभिघुनदीभ्रमस्य ॥ ११ ॥ जैत्रः शताङ्गो जघनं घनं च रम्भे जयस्तम्भसमे तथोरू। पदद्वयं छत्रसहस्रपत्रं शेषाङ्गकाण्यस्त्रितपुष्पकाणि ॥ १२ ॥ यदा स्मरोऽदाहि महेश्वरेण संरभ्य लालाटदृशोऽनलेन । समस्तवस्तूनि तदाऽस्य नूनमाश्रित्य यां पर्यणमन्भियेति ॥ १३ ॥ यथानुकूलं किल पुष्पपुर्याः पुष्पेषुणा श्रीमगधेश्वरेण । अनन्तभोगैः परिलालिता या समन्वभावीव मही प्रकामम् ॥ १४ ॥ पत्युर्विशांतस्य च धर्मपालः पद्मोद्भवोऽन्यः सितवर्मकश्च । इत्यभ्यवर्तन्त बुधा अमात्या मौलास्त्रयः शासनसंविधेयाः ॥ १५ ॥ अन्त्यस्य तेषां सुमतिश्च सत्यवर्मेति पुत्रौ सचिवस्य जातौ । त्रयः सुमन्त्रश्च सुमित्रकामपालौ तु पूर्वस्य सुता बभूवुः ॥ १६ ॥ मध्यस्य पुत्रावपि सुश्रुतश्च रत्नोद्भवश्चेति बभूवतुद्वौं । सर्वे त एते वयसः क्रमेण बभूवुरात्मज्ञवराः कुमाराः ॥ १७ ॥ एतेषु धर्मी बहु सत्यवर्मा बुद्धा वृथात्वं जगतोऽखिलस्य । देशान्तरं तत्तदशेषतीर्थयात्राभिलाषाकुलितो जगाम ॥ १८ ॥ सुदुर्विनीतोपि स कामपाल उल्लङ्घय पित्रग्रजशासनानि । वैरं विबभ्राम भुवं समग्रां वाराङ्गनाषिनटादिमित्रैः ॥ १९ ॥ वाणिज्यलाभज्ञतया व्यधासीद्रत्नोद्भवः संतरणं पयोधेः । शिष्टाः परे मन्त्रिसुता अतिष्ठस्तातेषु यातेषु दिवं यथादि ॥ २० ॥ ततः कदाचिन्नृपराजहंसो दृप्तं रिपुं मालवदेशनाथम् । तं मानसारं बलभारनम्रीकृताहिराजोऽभिजगाम योद्धुम् ॥२१॥ १ मण्डलामः खड्गः. २ षिगा धूर्तविशेषाः.
दशकुमारदशा।
८३
नासीरगम्भीरनदन्मृदङ्गझाङ्कारघोषान्हठभिन्नकर्णान् ।
मुहुर्मुहुर्दूतकरं निशम्य दिशां करीन्द्रा बलवद्व्यघूर्णन् ॥ २२ ॥
स मालवेशोपि शरीरयुक्त इवाहवः संमुखतामवाप्य ।
इतो द्रुतं सज्जितसर्वसैन्यः प्रतिप्रहर्तुं तरसा ससार ॥ २३ ॥
तयोर्द्वयोः पाणिभिरायुधैश्च मिथःसमुन्माथितयोधयूथम् ।
क्ष्वेडारवाध्मातदिगन्तरालं भयंकरं भूर्यजनिष्ट जन्यम् ॥ २४ ॥
नव्यप्रियाणां वरणोपयातदिव्याङ्गनान्तधिपटायितानि ।
रजांसि रेजुर्गगने शताङ्गतुरङ्गसंक्षुण्णधरोद्भवानि ॥ २५ ॥
आस्कन्दने मालवभूमिपालं कृत्वा वंशे स्वस्य पुनः कृपालुः ।
स राजहंसो विततार तस्मै विनिर्जितं तस्य समस्तराज्यम् ॥ २६ ॥
नित्यं महेशार्चनसक्तबुद्धेरपुत्रिणो जात्वथ तस्य कान्ता ।
लभस्व कल्पद्रुफलं नृपेण प्रातः शुभं स्वप्नमिमं लुलोके ॥ २७ ॥
तदादि तां वीक्ष्य गृहीतगर्भा राजाप्युपाहूतसुहृत्क्षितीशः ।
आत्मीयसंपत्तिमनोरथाहं चकार सीमन्तमहं महिष्याः ॥२८॥
अथैकदा पीठगतं सभायां दौवारिकस्तं निविवेद नत्वा ।
देव त्वदीयेक्षणजातकामो द्वारे यतिः कश्चन तिष्ठतीति ॥ २९ ॥
निजाज्ञया तेन सनीडनीतं संप्रत्यभिज्ञातनिगूढदौत्यम् ।
विसृज्य सर्वान्सचिवान्वितस्तं निगद्यतामित्यगदन्नरेन्द्रः ॥ ३० ॥
सोऽब्रूत लब्ध्वैकवधां महा_तुष्टान्मृडान्मालवराङ्गदां सः ।
उत्साहशाली सपदि प्रहर्तुं जितो भवन्तं पुनरभ्युपैति ॥ ३१ ॥
श्रुत्वेत्यमात्या द्रुतमेव भूपं योद्धं रिपुर्दैवसहाय एति ।
श्रेयान् रणस्तेन समं न तस्माद्दुर्गाश्रयः कार्य इति न्यशासुः ॥३२॥
तथापि दुर्दर्शतरोत्यमर्षावेशोत्तरङ्गायितसर्वगात्रः ।
आसीद्रुतं वीर्यविशेषशोभी प्रहर्तुकामो मगधाधिनाथः ॥ ३३ ॥
पुरुप्रदृप्यत्पृतनाभिपृक्तः शिवप्रदत्तोत्तमशक्तिसारः ।
स मालवेशो बत मागधीयमक्लेशमेव प्रविवेश देशम् ॥ ३४ ॥
८४ दशकुमारदशा। प्रहित्य विन्ध्याद्रिवनेषु मन्त्रिसान्त्वैर्वरोधान्विरलप्रगुप्तान् । अरुद्ध निर्गत्य सुतीव्रगत्या प्रत्यर्थिनं द्राङ्नृपराजहंसः ॥ ३५ ॥ कुतूहलोपागतखेचराणामाश्चर्यकारिण्यथ जायमाने । तां मानसारः समरे स्वशक्तिं पुरः समुद्दिश्य रिपुं समास्थत् ॥३६॥ वरानुभावात्परमेश्वरीयादमूमुहत्सूदितसूतमात्रा । तीक्ष्णैः कलम्बैः शकलीकृतापि धराधिपं स्यन्दनयोधिनं सा ॥ ३७ ॥ शीघ्रं समादाय ततः शताङ्गं यदृच्छयानाहतसर्वगात्राः । निष्प्रग्रहास्तन्महिषीशरण्यमरण्यमेवाविविशुस्तुरङ्गाः ॥ ३८ ॥ बली समस्तं मगधेश्वरस्य जयान्वितो मालवलोकपालः । देशं समाक्रम्य चिरस्य शस्यपराक्रमः पुष्पपुरी शशास ॥ ३९ ॥ भर्तुविचित्तस्य गदाभिघाताददर्शनं सर्वबलक्षयं च । वनं द्विषा युद्धजिताः पलाय्य प्राप्ता जजल्पुर्महिषीममात्याः ॥४०॥ उपागता मोहदशां नितान्तं कथंचन प्राप्य बत प्रबोधम् । चितानलान्तः स्वकलेवरस्य सद्यः प्रपातं समियेष राज्ञी ॥४१॥ दैवज्ञदृष्टस्य धरैकभर्तुर्हताखिलारेरुदरस्थितस्य । उक्त्या सुतस्यापदनिश्चयाच्च नरेशितुस्तां सचिवा न्यषैत्सुः ॥ ४२ ॥ अथैकदा सा विजने निशीथे शोकाकुला क्वापि गलं कुचन्ती। संबोध्य भूपं दयितो भवान्मे जन्मान्तरेऽप्यस्त्विति पर्यदीव्यत् ।। ४३ तत्रैव दूरात्किल नातिदूरे प्रोत्तीर्णमूर्हो मगधेश्वरः सः । आकर्ण्य राश्याः करुणान्विलापान्क्षरच्छिरोऽस्त्रः समजूहवत्ताम् ॥४४॥ ससंभ्रमं शब्ददिशाऽभिगम्य राज्ञी चिरात्स्वामिनमीक्षमाणा । धरण्यधीशं सचिवान्समस्तानाकार्य संदर्शयति स्म हर्षात् ॥ ४५ ॥ प्रशंसितादृष्टविचित्रचेष्टो व्यचष्ट तान्क्षोणिपतिः क्रमेण । साष्टाङ्गपातं विहितप्रणामान्दुरन्तमात्मीयमुदन्तजातम् ॥ ४६ ॥ निवेशनीतस्य भृतव्रणस्य पत्युतॄणां संपदनित्यतोक्त्या । आश्वासनं चक्रुरमात्यलोका रामादिवृत्तानि निदर्शयन्तः ॥ ४७ ॥ १ मूच्छितस्य.
दशकुमारदशा। राजा तपःसिद्धसमस्तकामं मुनि ततः कञ्चन वामदेवम् । प्राप्तातिथेयः समुपेत्य जातु राज्याभिलाषी प्रणमन्बभाषे ॥ ४८ ॥ मां मालवो दैवबलेन जित्वा निषेवते हन्त मदीयराज्यम् । कृत्वा तपो दुस्तपमप्यहं तद्भवत्कृपातो तमरि क्षणिष्ये ॥ ४९ ॥ श्यता शरीरं तपसा कृतं ते राज्ञी प्रसोता तनयं रिपुघ्नम् । कालं प्रतीक्षस्व च माकुलोभूर्मुनिः क्षितीशं निरदिक्षदित्थम् ॥ १०॥ एतन्नै मिथ्येति तदैव वाण्या व्याहार्यनीचैर्गगनं चरन्त्या । प्रसन्नचेता अपि भूविनेता मुनेरतिष्ठद्वचनं वलम्ब्य ॥ ५१ ॥ अथ स्फुरन्मेदुरितोदराग्रा सुखोपयाते प्रसवाहकाले । समुल्लसन्तं शुभलक्षणोधैः राज्ञी सुतं सा वसुमत्यसूत ॥ १२ ॥ तं ब्रह्मतेजःपरिभूतवेधसा पुरोधसा कारितजन्मसंस्क्रियम् । वाल्योचितैराभरणैविराजितं नाम्ना नृपो व्याहृत राजवाहनम् ॥ १३ ॥ अभूत्तदैव प्रमतिश्च सौमतः सौमन्त्रिरासीदथ मित्रगुप्तकः । जनिं तथा सौश्रुतिराप विश्रुतः पुत्रान्विता इत्यपि मन्त्रिणोऽभवन् ॥ ५४॥ अथो कदाचित्स्फुटराजचिह्नमेकेन सर्वाक्षिकृतप्रसादम् । कञ्चित्कुमारं सुमसौकुमारं तपस्विनाख्यायि समर्प्य राज्ञे ॥ ५५ ॥ समित्कृतेऽरण्यगतेन राजन्काप्यैक्षि दीना रुदती मया स्त्री। किं कारणं रोदिषि निर्जनेऽत्र पृष्टेति मृष्ट्वा नयनाम्बु साऽख्यत् ॥५६॥ तनूजदारैः सह पुष्पपुर्यां प्रहारवर्मा मिथिलानरेन्द्रः । मित्रस्य राज्ञो मगधेश्वरस्य कलत्रसीमन्तदिदृक्षयाऽगात् ॥ १७ ॥ आराधनप्रीणितकालकण्ठं परापतन्तं सहसैव योद्धम् । प्रत्यग्रहीन्मालवमेदिनीशं प्राग्विद्विषं खं मगधाधिनाथः ॥ ५८ ॥ साहाय्यकं संविदधत्समीके सख्युर्हतप्रायसमग्रसैन्यः । प्रहारवर्मा जयिनाऽहितेन कृपाविसृष्टः स्वपुरं जगाम ॥ ५९॥ नृपस्ततोऽरण्यपथेन गच्छन्पुलिन्दसेनाभिमुखो जनित्वा । कृच्छ्रादमात्यैः परिरक्षितान्तःपुरः प्रवेगेन पलायितोऽभूत् ॥ ६० ॥ १ चक्षेरादेशरूपम्.
दशकुमारदशा। धात्रीत्वतो राजतनूजयुग्ममहं मदीया च सुता दधत्यौ । प्रधावमानं तमनुप्रयातुं नोच्छूनपादौ भवतः स्म शक्ते ॥ ६१ ॥ ग्रावावटे व्याघ्रभयात्पतन्त्याः करान्ममैकः स्खलितः कुमारः । कस्यापि दैवात्सविधस्थितस्य क्रोडे निलिल्ये कपिलाशवस्य ॥ ६२ । प्रक्ष्वेडनस्तं कुणपं कृषन्तं शार्दूलमालभ्य शिताग्रफालैः । हा हन्त कण्ठान्तरलम्बिचापा उपानयन्क्कापि शिशुं किराताः ॥६३। अप्राप्तपुत्रीं दृषदाहताङ्गीमावेश्य मां वेश्मनि मेषपालः । वन्योपचारैरखिलप्ररूढव्रणां कृपाक्रान्तमना अकार्षीत् ॥ ६४ ॥ तस्यैव भूयोप्यथ भूमिभर्तुः खस्था समीपे व्रजितुं लषामि । प्रवञ्चिता किं च सहायतोऽहं तथापि यास्यामि यथातथैव ॥ ६५ अहं यती तामवलोक्य राज॑स्त्वन्मित्रपुत्रस्य गवेषणाय । विपन्निमित्तं कलयन्विषादं मेनात्मजामन्दिरमेकमापम् ॥ ६६ ॥ खड्नेन भूरुद्धपदं शरैर्वा दुलम्बितं कुक्कुरबालदष्टम् । एनं हतं धुर्युपहार्य देव्या लप्स्यामहे सर्वजयस्य सिद्धिम् ॥ ६७ ॥ मिथो ब्रुवाणानिति तत्र भिल्लान्समभ्युपेत्याहमुवाच वाचम् । वृद्धस्य मे विस्मृतमार्ग एकः शिशुर्वनेऽस्मिन् किमदर्शि भद्रैः ॥६८ ते दारकं दर्शितदीर्घदैन्यं दृढप्रमाणा द्रुतमेव मेऽदुः । स्वीकृत्य तं प्रात्तहिमोपचारमानीतवानस्मि भवत्समीपे ॥ ६९ ॥ राजाऽपि मित्रव्यसनैकहेतुं शोकं जहत्तत्सुतलोकनेन । आहूय हर्षादुपहारवर्मनाम्ना तमात्मौरसवत्पुपोष ॥ ७० ॥ स्नानाय तीर्थं सुकृतैककाले गच्छन्नृपः पक्कणमार्गपार्थात् । संबिभ्रती कंचन डिम्भमङ्के वीक्ष्य स्त्रियं कौतुकतोऽन्वयुत ॥ ७१ न संभवत्यर्भक एष वासु त्वद्वंशजः मापसदृक्षलक्ष्मा । कस्येक्षणानन्दकरः प्रचक्ष्व निघ्नोऽभवत्केन च हेतुना ते ॥ ७२ ॥ निषादचम्वापहृतस्य पूर्व पथाऽमुनैव व्रजतः स्वराष्ट्रम् । प्रोचे स्वभा भरणाय दत्तं तं बालकं सा मिथिलेश्वरस्य ॥ ७३ ॥ १ उपमातृभावेन. २ बाले.
दशकुमारदशा। सान्त्वेन दानेन च तोषिताया आदाय तस्याः सुहृदोन्यपुत्रम् । नृपोऽभिधानादपहारवर्मेत्याभाषमाणो ददिवान्महिष्यै ॥ ७४ ॥ द्विजातिरेको मुनिवामदेवशिष्याग्रणीर्जात्वपि सोमदेवः । शिशुं पुरस्तात्पृथिवीधवस्य निधाय कंचित्कथयाम्बभूव ।। ७५ ॥ कृत्वाप्लवं लचितरामतीर्थः प्रयानहं काननवीथिमध्ये । संप्राप्तनेत्राग्रसृतिं सबाला व्याजह्रिवान्कांचिदहं महेलाम् ॥ ७६ ॥ एकाकिनी माणवकं बतामुं समुद्वहन्ती स्थविरे विभीस्त्वम् । कस्मात्प्रयासेन विभीषणायामस्यामटव्यां परिबम्भ्रमीषि ॥ ७७ ॥ साऽख्यन्मुने कश्चिदिहास्ति कालाभिधो महान्दूरतरोन्तरीपः । तत्र न्यवात्सीबहुवित्त एकः श्रेष्ठो विशां जातिषु कालगुप्तः ॥ ७८ ॥ तन्नन्दिनीं चन्द्रमुखीं सुवृत्तां वाणिज्यहेतोः समभिप्रयातः । उपायत प्रेक्षितसद्गुणश्री रत्नोद्भवो मागधमन्त्रिसूनुः ॥ ७९ ॥ तरुण्यथो तातविशेषमानसमर्चितस्वीयधवा सुवृत्ता । कालक्रमात्संविहितप्रपीनवक्षोजनीलाग्रमलब्ध गर्भम् ॥ ८० ॥ रत्नोद्भवः सोदरसंदिदृक्षावशात्कथंचिच्छशुरं प्रसान्त्व्य । आरूढनौकः सह चञ्चलाक्ष्या तामञ्जसा पुष्पपुरीं प्रतस्थे ॥ ८१ ॥ नावि ब्रुडन्त्यां पयसां निधौ तां धात्री कराभ्यां दधती सगर्भाम् । समभ्यगां तीरभुवं प्रलम्बं यदृच्छयैकं फलकं वलम्ब्य ॥ ८२ ॥ मध्येसमुद्रं समभून्निमग्नः कुतोप्युपायादथवाप तीरम् । रत्नोद्भवो मित्रवृतस्तदानीं चेतामि वै किंचन नाहमेतत् ॥ ८३ ॥ क्लेशस्य काष्ठां परमां गतास्मिन्वने सुवृत्ताऽद्य सुतं प्रसूय । एकान्तभीता पुरगामिमार्गमन्वेषितुं मां द्रुतमादिदेश ॥ ८४ ॥ तस्याः समीपे प्रसवाकुलाङ्गचाः शिशुं विहायानुचितं प्रयाणम् । इतीव तं संकसुका दधाना स्तनंधयं विष्वगिह भ्रमामि ॥ ८५ ॥ १ परिणीतवान्. २ चलप्रकृतिः.
दशकुमारदशा।
अत्रान्तरे दृष्टवनद्विपा सा शीघ्रं प्रदुद्राव
निपात्य
बालम्।
वल्लया उपस्तम्बमहं प्रविश्य परीक्षमाणश्चिरमध्यतिष्ठम् ॥ ८६ ॥
क्षीबः करीन्द्रः पतितं पृथिव्यां शिशुं छद्ग्रासमिवोपगृह्य ।
अभिव्रजत्केसरिवीक्षणेन भीतो निचिक्षेप दिवोन्तराले ॥ ८७ ॥
बलीमुखः प्रांशुमहीरुहस्थः फलस्य बुद्ध्या चिरजीवितं तम् ।
आदाय दो• च्यवमानमभ्रायमुञ्चत स्वान्तिककाण्डमूले ॥ ८८ ॥
कीशः क्षणात्वापि ततश्चुकूर्दे सेहे विषादं निखिलं कुमारः ।
निहत्य नागं प्रययौ मृगेन्द्रः स्फुटोऽभवं गुल्मतलादहं च ॥ ८९ ॥
अपश्यतान्विष्य चिरेण धात्री मयोपनीतं द्रुमतोऽवतार्य ।
गृहाण राजस्त्वमिमं शिशुं तं शिष्टिर्वरीवर्ति गुरोरपीयम् ॥ ९ ॥
कथं स रत्नोद्भव आप जन्म ध्यायन्निति क्षमापतिरद्भुतात्मा ।
विषादसंतोषकरं तमुक्त्वा पुष्पोद्भवं प्रादित सुश्रुताय ॥ ९१ ॥
अन्येयुरेकं पृथुकं गृहीत्वा राज्ञी प्रपन्नां निजसंनिधानम् ।
संपृष्टवान् प्रेमपरिप्लुताक्ष एषोस्ति कुत्रत्य इति क्षितीशः ॥ ९२ ॥
जगाद सा भूमिप कापि दिव्या निशीथमध्ये पृथुलेक्षणैका।
सुनिर्भरं सद्मनि निद्रिताया ममाविरासीत्सहसा पुरस्तात् ॥ ९३ ॥
संगृह्णती बालकमंसदेशे प्रबोध्य संबोधकनिस्वनैः सा ।
ललाटसंलग्नकराञ्जलीकं कृतप्रणामेति समब्रवीन्माम् ॥ ९४ ॥
यक्षीं तवामात्यसुतस्य कामपालस्य कान्तां मणिभद्रपुत्रीम् ।
तारावली नाम पदोपचर्याविधायिनी देवि मनुष्व मां त्वम् ॥ ९५ ॥
त्वदीयसूनोरिह भाविसर्ववसुन्धराधर्तुरनल्पकीर्तेः ।
सेवाकृते यक्षपतेनियोगादानीतवत्यस्मि शिशुं स्वमेनम् ॥ ९६ ॥
ततो मया विस्मितया नितान्तमादाय मुग्धेन्दुमुखं किशोरम् ।
विसर्जिता सत्कृतिहृष्टचित्ता साऽलक्ष्यतां तत्क्षणमेव लेभे ॥ ९७ ॥
शोचन्निजामात्यसुतस्य यक्षपुत्र्या समं संगमनं क्षितीशः ।
नाम्नार्थपालं पृथुकं तमुक्त्वा ददे सुमित्राय पुरःस्थिताय ॥ ९८ ॥
दशकुमारदशा। ८९ जात्वेकदा कश्चन वामदेवशिष्यो द्वितीयस्तपसाऽद्वितीयः । एकं कुमारं परिभूतमारं कुतोप्युपानीय नृपं न्यगादीत् ॥ ९९ ॥ तीर्थप्रसङ्गेन पुरा विभोऽहं कावेर्युपान्तेष्ववतिष्ठमानः । आरोग्य पोतं रुदती निजाङ्के विलोक्य काञ्चिज्जरतीमवोचम् ॥१०॥ पाकोऽस्ति कस्यायमभीष्टपाकस्त्वं नाम कार्पण्यविडम्बिता का। किमर्थमायातवती वनेऽस्मिन्किञ्चानुतापस्य किमस्ति बीजम् ॥ १०१॥ स्वशोकशङ्कद्धरणक्षमं व परिप्लवाक्षी समवेक्ष्य सा माम् । नेत्रोदकं संजहती कराभ्यां समभ्यधाद्विप्रतिसारहेतुम् ॥ १०२ ॥ एकः कनीयान्नृपराजहंसामात्यस्य सूनुः सितवर्मनाम्नः । तीर्थानि पश्यन्नखिलानि सत्यवर्मा द्विजो नीवृतमेनमायात् ॥ १०३ ॥ काल्याह्वयायां स निजाङ्गनायामनाप्तपुत्रो भगिनीं तदीयाम् । गौरीं सुगौरी ललनामुदुह्य तस्यामपत्यं समपद्यतैकम् ॥ १०४ ॥ असूयया सा भृशमेककाले मयोपमात्रा सहितं शिशुं तम् । काली समानीय कुतोऽपि दम्भादस्यां तटिन्यां न्यमिनोजवेन॥१०५॥ तत्रान्तिके संवहतो द्रुमस्य कस्यापि शाखासु निवेश्य बालम् । नितान्तकष्टेन ममातरन्त्याः पदं ददंशाऽसितदंदशूकः ॥ १०६ ॥ यदृच्छया हन्त ममाश्रयोऽयं वृक्षः सदेशेऽत्र तट समभ्येत् । गरान्मृतायां मयि चेह कोऽमुं शिशुं प्रपातेति विचिन्तयामि ॥१०७॥ उक्त्वेति तस्या लघु मूर्छिताया हर्तुं विषं मन्त्रवशादनीशः । नयन्निकुञ्जादहमौषधीं स्राग्व्यलोकयं तां परिमुक्तजीवाम् ॥ १०८ ॥ तत्रैव दग्ध्वाऽनलतस्ततस्तां शोकप्रवेगाधिकदूनचित्तः । भूमौ लुठन्तं मृदुहारिगात्रं कारुण्यपात्रं दधिवांश्च डिम्भम् ॥ १०९॥ भवान्हि पाता निजमन्त्रिनप्तुर्मयेति निर्धार्य धराधिनाथ । अजानतेतज्जनकाग्रहारं तवोपकण्ठे समनायि सोऽयम् ॥ ११० ॥ १ विप्रतिसारश्चिन्ता. ।
MAR अथ श्रीकविमल्लभट्टहरिवल्लभरचितानि मुक्तकसूक्तानि ॥ श्रीहरिर्जयतितराम् ॥ प्राप्ता सुन्दरि साम वेद तनुताचेतोहरे सर्वथा लोके केशव सामवेदतनुतां बिभ्रत्त्वमेव श्रुतः । सामानीत्ययि कथ्यतेऽद्य कमले नो वेद्मि धूर्त त्वया काऽमानीति रमानिरुद्धवचनः सिद्धिं क्रियान्मध्वरिः ॥ १॥ त्वां लब्ध्वा किल किंचितं शठ मया नानाङ्गनालम्पटं मां लब्ध्वा किलकिञ्चितं हि चतुरे बाढं त्वया संचितम् । केलिं त्वं तु करोषि हन्त विधे नो षट्पदं मू_हं कुर्वन् सिन्धुसुतां प्रहृष्टवदनामेवं हरिः पातु वः ॥ २॥ संजातोऽस्यधुना तु हन्त नितरां त्वं कार्कली-लालसः क्रीडायामलसोऽस्मि कस्य नितरां काकस्य वग्धि प्रिये । वाचो मे घटनाभिरिष्ट कुरुषे व्यर्थाः कुतस्वं सदा नाभिर्नो घटवन्ममेति विजितश्रीः श्रीपतिः स्ताच्छ्रिये ॥ ३ ॥ देवि त्वं द्विपदा दधासि न रुचिं युक्ताऽष्टभिः पाणिभिः शोभे कुंजरदाम्यहं न दधती बाह्वष्टकं भोः कथम् । कस्माद्धैमवति ब्रवीष्यपरथा नन्वस्मि युक्ता रथैः कुर्यान्मे गिरिशः शमित्यगभुवा वक्रोक्तिविस्मेरितः ॥ ४ ॥ १ दशसु भावेष्वेकतमोऽयं स्त्रीणां भावविशेषस्तल्लक्षणादिकं सर्व नाट्यशास्त्रे प्रति- पादितमतस्तत एवावगन्तव्यम्. २ काकलीति कले सूक्ष्मे तत्र लालसा यस्य. ३ क- ल्पनाभिः.४ द्वौ पदौ यस्याः. ५ अन्यथा.
Arjurationpati. ९४ मुक्तकसूक्तानि । अत्रालोकय चण्डिके हरिरयं मन्दोदरी सेवते स्थाणो रावणयोषिदत्र हरिणा जुष्टा व संवीक्ष्यते । बाढं चापले-तां दधास्ययि धनुर्वल्लीं दधानाऽधुना दृष्टाऽहं कथमित्युमापरिजितः शर्वोऽनुकूलोस्तु नः ॥ ५॥ नित्यं हन्त निषेवसे बहुतरां त्वं मातुलानी विभो नो मे कश्चन मातुलोऽस्ति दयिते सेवेय यत्तस्त्रियम् । आः प्रोक्तो विजयाकृतेऽसि कुमते नो त्वद्वयस्यामपि हीतां संविदधच्छिवामिति भृशं प्रीतान् भवो वः क्रियात्॥६॥ अब्रायत उत्तमाङ्गचिकुरेष्वेषा मम स्वर्णदी सत्यं शीर्षकचेषु भूरि पयसां भारायते सा तव । मैवं गच्छति हारतां पशुपते चक्रत्वमेवैति हा पार्वत्येति पराकृतः पुररिपुः प्रीतिं परां वः क्रियात् ॥ ७ ॥ हेमाङ्गी कुरु शैलराजतनये सद्यः प्रसादं मयि प्रोत्तिष्ठाऽपसर त्वयि प्रकुरुते का वा प्रसादं शठे। अज्ञानाऽसि विलासिनि त्वमधिकं वाक्ये मया व्याहृते नास्म्यज्ञेति तु सत्यमेव शिवयेत्युक्तः शिवो नम्यते ॥ ८॥ प्राप्ता कातरता त्वया ननु यदा शुम्भाबभूवाहवः काले तत्र मया न काऽपि तरता प्राप्ता ततो माशुचः । तथ्यं तर्हि तु सावंसं गत उमे नाहं तदा साधुभिः संजातोऽहमसंगतोऽवतु शिवामेवं हसन् वः शिवः ॥ ९ ॥ अद्य त्वं मदनागमेन मुदितः शूलिन् समालक्ष्यसे नूनं जातुचिदप्यहं न मुदितः कान्ते तवाऽनागमात् । प्रद्युम्नात्तु तथाऽसि भोः प्रचुरतो द्युम्नान्न चाऽपि प्रिये जिह्मोतया परिहासयन्निति शिवां शर्वोऽस्तु हर्षाय वः॥१०॥ १.सिंहः. २ चपल एव चापलस्तद्धर्म. ३ परिजितो ह्यनुकूल: शीघ्रं भवति. ४. भङ्गाम्. ५ तस्या भङ्गाया एव कृते. ६ अपां हार इवाचरति. ७ शुचं मा कुरु. ८ भयम्. ९ वक्रोक्त्या. १० हासको ह्यपेक्षितो हर्षायेत्यानुकूल्यम्.
मुक्तकसूक्तानि । देवि त्वं सहजेऽपि हा परमदारुण्याऽसि नर्मक्रमे नो मेऽन्यस्य मदेन काप्यरुणता संजायते जातुचित् । विद्वेषं कुरुषेऽयि हन्त विदधे वेषं विदः कस्य वा पार्वत्येति पदे पदे परिजितः प्लुष्याद्धरः किल्बिषम् ॥ ११ ॥ सर्वेषां युषदां गिरीन्द्रतनये त्वं सूपकारिण्यऽसि द्रष्टाऽहं शठ कुर्वती वद कदा सूपं सुधाधायिनाम् । मुग्धे गोपनकारिणीत्यभिहिता नेष्टो गवां मे पनः पार्वत्येति हृतोत्तरः पशुपतिः श्रेयांसि पुष्णातु वः ॥ १२ ॥ वर्गङ्गां शिरसा श्रयामि सततं संपश्य शैलात्मजे न स्वर्गं न च गां त्वदीयशिरसि प्रेक्षेऽधुना धूर्जटे। न व्याहारमहं त्वया कुटिलया कुर्वे नवं भोजनं सार्धं हन्त मया प्रकुर्विति शिवाप्रोक्तः शिवः पातु नः ॥१३॥ अम्भोजाक्षि निरीक्षसे त्वमधुना हन्ताऽपरागा भृशं नागश्चैकमपि स्मरामि कतरद्रूषे द्वितीयं पुनः । अत्रास्ते गिरि वक्रता तु सुतरां सर्वत्र वक्राह्यगा इत्थं भूधरनन्दिनीविहसितः शम्भुः शुभायाऽस्तु वः ॥१४॥ बाढं दारकलालसः स्मररिपो त्वं लक्ष्यसे सांप्रतं नूनं नास्म्यलसः कदाऽपि ललने स्त्रीणां कलासु त्वहम् । कर्तुं त्वं कुशलोऽसि भूरि पदविच्छेदं पदव्याश्छिदं कर्तुं नास्मि पटुः शिवां विहसयन्नित्थं हरः पातु वः ॥ १५ ॥ त्वत्कारुण्यकदम्बकाजगदिदं जीवत्यशेषं विभो नाऽरुण्येन जगत्कदाचिदपि मे जीवत् प्रिये कल्प्यते । वाक्यं नाथ तवोर्मिमहहुविधं पानीयकं वीचिम- नोवाक्यं भवतीत्युमां परिगर्दैख्यक्षः समक्षोऽस्तु वः ॥ १६ ॥ १ यस्य दाल इति लौकिकं नाम. २ पनः स्तवः. ३ अनुत्तरः सर्वे करोतीति तात्प र्यम्. ४ वि-आ-उपसृष्टो हरतिर्वचनार्थकः. ५ अपगतो रागः प्रेमा यस्याः. ६ वाचि ७ दारके पुत्रे लालसा यस्य.८ ग्रन्थविशेषेषु. ९ द्वयक्षानां त्र्यक्षस्य समक्षता व्यपेक्षितैव मुक्तकसूक्तानि । कान्ते मन्थरगामिनी मम पुरो हंसीव संशोभसे हन्म्यग्रे तव कं न्वहं पशुपते मामेनमालोकय । कृत्वा मय्यनुकम्पनं प्रियतमे निर्मुच्यतां मत्सरः किं मे त्वत्सरसेति पर्वतभुवा प्रोक्तः शिवोऽस्तु श्रिये ॥१७॥ संजाताऽश्रु-तरङ्गसंहतिरवा गनेर्थ्ययाऽस्यद्य किं नो कश्चित्तव रङ्गसंहतिरवैः शंभो ममार्थः श्रुतैः । न क्रोधः क्रियतां तयैव सुमनोनेद्या झषोऽधः कृतो मानिन्येत्युमया कर्थितवचाः क्षेमार्थमीशोऽस्तु नः ॥ १८ ॥ यः क्लुप्तां हरिवल्लभेन कवनोत्तीर्णेन गौरीशयो- रेतां भक्तिभृतं पठिष्यति मुहुर्वक्रोक्तिपद्यावलीम् । सद्यः स्यात्सुकृती कृती स वचसां चातुर्यधुर्यः परं सम्यक्प्राप्तसुखाप्तनिश्चलमनोवृत्तिप्रवृत्तिस्तथा ॥ १९ ॥ तं प्रत्येकनितम्बिनि श्रितनिजप्रत्यग्रमायाकृति श्रीकृष्णं नु विलोक्य षोडशसहस्रान्तःपुरस्यान्तरे। आत्मीये नवकोटिसंमितवधूवर्गे सदा वर्तते यः प्रत्येकपुरन्ध्रि भैरवतया रुद्राय तस्मै नमः ॥ २० ॥ तमहं प्रभावमतुलं लोकातीतं नमामि गिरिशस्य । येनाऽजीवत्पुनरपि शरीरमप्यन्तरा मदनः ॥ २१ ॥ अलिस्फूर्जत्केशं विविधभृतवेशं व्रजविभुं स्त्रगुदद्हृद्देशं धृतसुरनिदेशं यदुसुतम् । उदन्वत्कन्येशं शयनमतशेष किमपरै- हृषीकेशं भक्त्या चिदुदयविशेषं भज मुहुः ॥ २२ ॥ १ अश्रूणां तरङ्गसंहते रवोस्ति यस्याः. २ सुमनसां देवानां नद्या गङ्गया. ३ पुण्यशाली ४ नवकोव्यस्तु चामुण्डास्तावद्रूपाणि शङ्करः । कृतवाँस्ताश्च भजते पतिरूपेण भैरव इति प्राचीनं तन्त्रपद्यमनुसृत्य भगवतो महेशस्य स्तुतिरूपोयमुत्प्रेक्षालङ्कृतः श्लोकः.
मुक्तकसूक्तानि। ९७ अशेषविधयकतानुभवकर्तुकामे सदा नितान्ततरनिश्चले मधुभिदः श्रियश्चाक्षिणी । शुभानि तनुतां मम स्वबहुसत्वशक्तेमिथः पराभिगमरक्षणं विदधती इवाऽनारतम् ॥ २३ ॥ रङ्गस्य बहिः सहसा पुरा न्ययुध्यत गजेन यः साकम् । नमति मुहुः कविमल्लः कस्मैचन दिव्यमल्लाय ॥ २४ ॥ बद्धाञ्जलिस्तुवद्भक्तसदिच्छाजालदोहनः । मुदेऽस्तु दिव्यरूपो नः स कश्चिद्वालमोहनः ॥ २५ ॥ श्रीराधाकरकमलयुगधारितनववनमाल । मन्दहासनन्दितवदन जय जय नटवरलाल ॥ २६ ॥ विजयप्रिय विजयं कुरु सफलय संचिन्तितानि सकलानि । पश्य पुरतः प्रपन्नं पारं प्रापय च दुःखानाम् ॥ २७ ॥ नारायण निखिलाभिनुत निजजननिचितविनोद । मिष मां प्रेमदृशाऽनिशं भुजचन्दनविक्षोद ॥ २८ ॥ नामये तव पदाजयोः शिरः क्षामये भृशमनौचितीगिरः । कामये स्वकविताप्रकाशनं मामये कुरु कृपैकभाजनम् ॥ २९ ॥ श्रद्धासदासमधिकार्चनसुप्रसन्न- वाग्देवतावरवितीर्णवरप्रसादाः । श्रीमन्मदीयगुरवोऽत्र सुजीवजीव- जीवातवः सुकृतशास्त्रदृशो जयन्ति ॥ ३० ॥ एकस्य वस्त्रमसितं च परस्य पीतं वर्णः सितस्तदितरोऽथ हलं तथाऽर्रम् । शस्त्रं करे च मुदमुत्तंपनात्मजायाः पुत्रौ विचित्रचरितौ किल वासुदेवौ ॥ ३१ ॥ १ सर्वथा. २ यस्य दावा इ. प्र. ३ परस्मिनभिगमः सङ्गः तद्रक्षणं. ४ मनुष्यस्य हस्तिना समं नियुद्धे जयो दिव्यतामेव काञ्चित्पुष्णाति. ५ पूर्णतासाधनः. ६ भुजयो- द्रवितचन्दनस्य विक्षोदो यस्य. ७ क्षामं क्षान्ति व्याचष्टे इति सिद्धिः, ८ अरं चक्रं. ९ कृष्णस्य तपनात्मजाया मुदू परस्यामुदू।
९८ मुक्तकसूक्तानि । नटयन्तमहिं मूर्ध्नि नटन्तमहिमूर्धनि । गङ्गेशं यमुनेशं वा कञ्चिद्देवं भजामहे ॥ ३२ ॥ काकली गण्डभृङ्गाणां भक्तैर्वाधियोह्यते । यच्छुण्डादण्डनटने स वोऽवतु गजाननः ॥ ३३ ॥ अशेषविविधार्थोघं वाऽभिन्नं हि करोति या । प्रधानशक्ति तां देवीं श्रीमती भारती श्रये ॥ ३४ ॥ क आश्रयः कवित्वस्य शारदाशरणं महत् । माहात्म्यमम्बिकायाश्च तृणं तत्तु मरुद्वशम् ॥ ३५ ॥ आरोहावसरे सुचारुगमनप्रख्यातिजाँतस्मयो- द्रेकं हंसमदभ्रसिञ्जनरवव्याजेन मञ्जीरयोः । उच्चैः श्रावयतो मुहुर्मुहुरलं यौ सिंहनादानिव श्रेयस्तौ कविसंहतेर्वितनुतां श्रीशारदायाः पदौ ॥ ३६ ॥ मातर्मणिमयमाले मयि मूर्खे महति मुक्तमदे । कविताकरणकलां कुरु कमलासनकन्यके कामम् ॥ ३७ ॥ अपि त्रैलोक्यमाता या श्रूयते मेनकात्मजा । अपि काली च या गौरी देवी कामपि तां भजे ॥ ३८ ॥ मञ्जीराभाधवलिततनुश्रीजितेशानवाह- स्यांसे शत्रोर्महिषवपुषः क्रोधदत्तो ययाङ्गिः । उक्षारूढेत्यमरनिकरैस्तत्प्रभृत्येव यस्या नामख्यातिस्त्रिजगति कृता साम्बिका वोऽस्तु सिद्धयै ॥३९॥ एकस्मै कस्मैचन निखिलजगद्भवतमःप्रतीपाय । दशशतवर्तीर्दधते नमांसि मम सन्तु दिवसदीपाय ॥ ४० ॥ १ हरिहरान्यतरम्. २ खया वाचकतया अभिनं. ३ यत्र देव्याः कृपा तत्रैव कवित्वं इति कृपैव गरीयसी तस्याः. ४ स्मयोऽवलेपः. ५ कमलासनो विधिस्तस्य कन्या ब्राह्मी ब्रह्मणोऽपत्यं स्त्रीति निर्वचनमपि. ६ वृषभ.
मुक्तकसूक्तानि । ९९ भोः प्रथमं सर्वेषां श्रीहनुमन्तं नमस्कुरुत । संचारकाः प्रसाद्याः कृत्यज्ञैः प्रायशः काले ॥ ४१ ॥ आस्ते कश्चरितानि शक्तिसहितो मायाविनां वेदितुं सेवन्ते न हि यानि जातु सरणिं संभावनाया अपि । कंसक्षोणिभुजा पुरा विरचिता नाना प्रबन्धाः परं- त्वासन्नन्धदृशो हि रक्षकहताः कृष्णावतारक्षणे ॥ ४२ ॥ सहस्रबाहुः खलु सावरोधः क्रीडन् यदा मेकलजाप्रवाहम् । मुमोच रुद्धा सहसा तदाग्रे तेरुस्तरां तीरतसँस्तरण्यैः ॥ ४३ ॥ वनद्विपैः शोणतटाद्विदीर्णात् पूरेऽम्भसां वाजितुं प्रवृत्ते । जलावृताँस्तान् सरिति क्रमेण तेरुस्तरां तीरतसँस्तरण्यः ॥ ४४ ॥ यदाङ्गराजः खलु जामदग्न्यतः संग्रामविद्यां छलतः पपाठ सः । तत्तस्य बुद्धा पुनराह देशिकः काले न विद्या सफलीभविष्यति ॥४५॥ लङ्काधिपाज्ञाबलतः प्रदीपिते नक्तंचरैः पुच्छमुखे हनूमतः । तपःप्रतापाजनकात्मजन्मनो हुताशनश्चनपङ्कशीतलः ॥ ४६ ॥ चन्द्रोपलाचितविशङ्कटगर्भचुल्ही- शीर्षस्थपात्रपरिवर्तनजातपातम् । साश्चर्यमीक्षितमभीरनवीनवध्वा हैयङ्गवीनमनले कठिनं बभूव ॥ ४७ ॥ गृह्णीयां परकामिनी कथमहं दुष्यन्तवाणीमिमां श्रुत्वा प्राप शकुन्तला मलिनतामास्ये यदा चिन्तया । दूनान्तर्नितरां तदा सकरुणं चक्रन्द सा गौतमी हा कष्टं किमकाण्ड एव तमसा तारापतिप्रैस्यते ॥ ४८॥ १ तस्मात्स्वामिनं तत्कृते सदैव ते संततं बोधयन्ति. २ समस्येयम्. ३ मेकलजा नर्मदा अतिशयेन ब्रजितुम्. ४ भारतप्रसिद्धः सूतपुत्रः कर्णो दुर्योधनमित्रम् तदेतत्स- र्वकथा भारते विस्तरतो द्रष्टव्या. ५ समस्येयम्. ६ समस्येयम्. ७ विशाल: मध्यो यस्याः सा. ८ दुष्यन्तगृहे शकुन्तलां प्रेषयितुं गौतम्यपि प्राप्तास्ति दृश्यमत्र शाकुन्तलं दृश्य गौतमीवर्जे गता इति. ९ समस्येयम्. ९ १०० मुक्तकसूक्तानि । स्थित्वा स्तोकदिनानि पुष्करतटे गत्यां कृतायां पुरः किञ्चिन्निर्जरनिम्नगापरिसरो दूरे यदा तस्थिवान् । यात्री कोऽपि मनोहतः प्रलपनं चक्रे तदानीमिदं हा कष्टं किमकाण्ड एव तमसा तारापतिम्रस्यते ॥ ४९ ॥ आरामेऽथ दवीयसि क्वचिदपि प्राप्ता वियुक्तेन्दुना स्वच्छन्द विहरेति भर्तृभणिता स्वास्थ्याय तौरा यदा । एनां तत्र च मूच्छितां पिकॅरवैदृष्ट्वा वयस्याऽक्रुश- द्धाकष्टं किमकाण्ड एव तमसा तारापतिर॑स्यते ॥ १०॥ कालेनाद्य हि भूयसाऽभिलषितः पूर्णांशमानो महान् निस्सीम प्रसृतेषु रश्मिषु सुधा सर्वाऽद्य हि व्यापिनी । प्रोद्गाढा सुचिरं निजाद्य हि तथा योषित्प्रसत्यै स्थिति- ही कष्टं किमकाण्ड एव तमसा तारापतिर॑स्यते ॥५१॥ अत्युत्कण्ठितचेतसां व्रजवने गोपाङ्गनानां यदा साकं श्रीयदुनन्दनेन सुचिरं होलोत्सवो जातवान् । धूलिफ्रेमपथेऽभितः प्रस॒मरा पैष्टातकी साऽब्रज- चित्रं नैव घना नवा ग्रहविधिर्भानुन मध्यन्दिने ॥ १२ ॥ भूयाँस्तत्तदुपायकल्पनमृते सिद्धः स्वतः संस्तव- श्चित्ते हन्त गतागतैरपि पुनः कश्चिन्न केषां भ्रमः । प्रायः सर्वसमक्षमेव च मिथो नानाविधा व्याहृति- यस्यास्ते प्रतिवेशिनी प्रियतमा मन्ये सधन्यो जनः ॥ ५३॥ आरामेऽत्र वसन्तशालिनि सदा नूनं सखि त्वत्कृते मालाकारसुतेन वञ्चितदृशं तातं विधाय च्छलात् । आनीतानि निकुञ्जमध्यभवने यान्यालि तानि स्फुटं दृष्ट्वा पक्कफलानि मे मृदुमनो मोहं समापद्यते ॥ १४ ॥ १ हतमनोरथः. २ शकुन्तलामुखरूपितश्चन्द्रः. ३ बृहस्पतेः स्त्री. ४ कामोद्दीपकैः. ५ चन्द्रोपरागः पूर्णिमायामेव भवति तदा चन्द्रः षोडशकलादीप्त एवेत्यर्थः. ६ रात्रि- रूपस्त्रीप्रसादाय. ७ समस्येयं. ८ समस्येयं. ९ इयमपि समस्या तत्र त्वमेनेन संगतव- तीति मया ज्ञातमिति मोहप्राप्त्युक्तेः प्रतीयते.
HAND मुक्तकसूक्तानि । १०१ यथाऽसद्भातॄणां सपदि बहुपद्यानि कृपया भवद्भिनीतानि श्रममपि विधाय प्रकटताम् । तथैवास्सत्पद्यान्यपि कुरुत सद्भावमुदिरा वने वा हर्म्य वा समकरनिपातो हिमकरः ॥ ५५ ॥ श्रयन्ते सांप्रतं कामवनी श्रीगोकुलेन्दः । विरागिणोऽपि कान्दन्दूिरात्परिहरन्ति च ॥ १६ ॥ कं सारातिं निरीक्ष्यैव मोदन्ते दितिजाः परम् । कमलं स्फोटयत्यर्कः पति का स्त्री प्रणिन्दति ॥ ५७ ॥ एकाऽकिनी स्त्री ज्योत्स्नायां रे को जीर्णज्वरे जयी । का पालिका स्मशानस्य खिन्नः कामयते च क ॥ १८ ॥ सगुणा तिन्तिडी केन प्रदरात् कोऽमिनी भवेत् । के सरी गदिता वैद्यैः कान्ताङ्गे किल किं चितम् ॥ ५९॥ कि नरत्वं विजयते कुतो गन्धश्च जायते । साधु यातेति जल्पन्ति पथि कान्राजमानुषाः ॥ ६० ॥ धिकृतः कुहै को नूनं को मलोम्बरैलिम्पकः । क के मार्गति धानुष्कः 'शं काऽकस्माद्रुणद्धि च ॥ ६१ ॥ कृशानुरेतसः काली दण्डिनाऽख्यायि का पुरा । गलन्ति काँ जलं नाल्या स्त्रीणां कण्ठे ललन्ति काः ॥ ६२ ॥ कुशलतरैकग्राह्यं नानागतिमत् पराऽनुरोधहरम् । शास्त्रं शस्त्रं च समं केवलमाकारतो भिन्नम् ॥ ६३ ॥ १ मुदिरो मेघः. २ समस्या सौन्दर्यलहरीश्लोकपादोयम्. ३ एतन्नाम्ना प्रसिद्धाः. ४ पूर्व जयपुरस्थितश्रीगोकुलचन्द्रमसो देवाः.५ दुःखिनी.६ रेकोऽपि जीर्णज्वरमपह- न्ति स्पष्टं वैद्यके. ७ जलम. ८ तिन्तिडी चिश्चाद्रुमः तिन्तिडीकस्तु डाँसर्या इ. प्र. ९ रोगिणी. १० कृतमालस्य केसराः सरा इ. वैद्याः. ११ कुः पृथ्वी. १२ पिशुनो दुष्टः. १३ अम्बरं वस्त्रं. १४ पक्षिविशेषः स बाणोपयोगार्थ हन्यते तैः. १५ शुभम्. १६ दश- कुमारचरिताभिधा तस्या मया सारग्रन्थोप्येकः संक्षिप्तः सहस्रसंख्यात्मको निर्मितोस्ति पुनरनुवादरीत्या विधित्सितस्तत्तस्यैकः सर्गस्त्वत्र पुस्तके मुद्रित इति ध्येयम्. १७झारीतिप्र. १८ हारविशेषो ललन्तिका. १९ एषा व्यतिरेकविच्छित्तिः. २० आखरादाकाराच्च.
१०२ मुक्तकसूक्तानि । निःशेषतापसोढुर्गुर्वाश्रयतोऽधितिष्ठतः सुचिरम् । छात्रस्य च्छत्रस्य च केवलमाकारतो भेदः ॥ ६४ ॥ व्रजतां वर्त्मनि नितरां प्रकुर्वतो बहुविधं सौख्यम् पात्रस्य च पत्रस्य च केवलमाकारतो भेदः ॥ ६५ ॥ पीवरपादस्य बृहत्कटकस्य च दन्तकान्तरूपस्य । आकारमात्रगम्यं नगस्य नागस्य पार्थक्यम् ॥ ६६ ॥ आनकदुन्दुभिशब्दं नर्तनसमये प्रहृष्यतः श्रुत्वा । मातुलमर्दनकर्तुहरेर्हरस्यास्ति भेद इनीं ॥ ६७ ॥ येषामप्स्वेव बलं सर्वत्रैवास्ति येषां तु । ते ग्राहाः क्व च तेऽपि ग्रहाश्च कुह जीवधर्तारः ॥ ६८ ॥ 'सिन्दूरदिग्धपिण्डौ गजौ प्रपश्यत मिथोऽभियुञ्जानौ । दन्तादन्तिकयेव प्रोद्भिन्नक्षतजलाञ्छनावेतौ ॥ १९ ॥ एष प्रतिनागोऽपि प्रत्यभियान्तं द्विपं दुरीक्ष्य परम् । पूर्णाभोगी कर्णौ पक्षीकृत्येव सूड्डयते ॥ ७० ॥ आधोरणमुक्तानां धूमौघे प्रसृमरेऽग्निबाणानाम् । एते संभ्राम्यन्तो गजा दधत्त्यभ्रमातङ्गम् ॥ ७१ ॥ कुपितोऽग्रे वलितमुखीं वडवां हेषावधीरितान्यरयाम् । मुहुशः शुण्डोत्क्षेपाद्धावति संतर्जयन्निवायमिभः ॥ ७२ ॥ प्रथमफलितपिकवल्लभपक्कफलानां निचूषणावसरे । अनुभूयते मया तु प्रसूस्तनक्षीरपानसुखम् ॥ ७३ ॥ मलयभवान् कुर्वाणान्गन्धेनान्यद्रुमानपि स्वसमान् । सृजता विधिना सृष्टा आम्रा अपि तादृशा न कथम् ॥ ७४ ॥ १ विद्यागुरोराश्रयात् गुरुश्चासावाश्रयश्च तस्माच्च व्यतिरेकोऽत्र. २ वाहनस्य. ३ प- वंतपक्षे पादाः प्रत्यन्तपर्वताः. ४ पर्वतपक्षे कटकं तन्मध्यः. ५ दन्तकाः दन्तकास्तु बहिस्तिर्यक्प्रदेशानिर्गता गिरेः ते अन्ते यस्यैवंरूपं यस्येति गिरिपक्षेऽर्थः. ६ वासुदेवो वाद्यविशेषौ च तच्छब्दम्. ७ शिवपक्षे मातुलो धत्तूरः. ८ इखरेण कामेन च. ९ जयपु- रमहाराजगजयुद्धवर्णनमिदं पद्यचतुष्टयेन. १० परिणमन्तौ. ११ दुःखेन ईक्षित्वा. १२ अत्रभावे ण्यप्रत्ययः, १३ पिकवल्लभ आम्रः, १४ प्रसिद्धमिदं सर्वत्र.
मुक्तकसूक्तानि । १०३ पिबतां करसंवाहनविनिस्सृतं सान्द्रमाम्ररसम् । तरुणीगण्डोष्ठयुगं भवति पुरस्तादनादृतं प्रायः ॥ ७९ ॥ अस्याः संभृतनिर्मलाऽधिकरसे श्रीदीर्घिकायास्तले खैरं चारुतरं तरन्ति शतशः पश्याग्रतः पेशलाः । किञ्चैताँस्तरणक्रियावगतये तीराद्रुतं पातिता- न्मोहप्राप्त्यपरिस्फुरत्पदगतीन् संतारयन्त्यर्भकान् ॥ ७६ ॥ अस्मिन् भाषणमेघपुष्पभरिते पारुष्यनक्रोज्झिते व्युत्पत्त्याख्यशिलां प्रसार्य परिषद्वेशन्ततीरस्थले । गीनिर्णेजकयोषयाऽखिलवचोवासॉसि संख्यावता- माश्चर्य विरहय्य मौल्यमधुना नेक्तुं स्थिर स्थीयते ॥ ७७ ॥ मध्ये मध्ये विकचकुसुमाच्छादिताच्छाच्छगुच्छा सौरभ्येण प्रसरणवता दत्तसद्हृत्प्रसादा । गुम्फ नीता दृढगुणगणैः केनचिन्मालिकेन काचिद्विष्वङ्मधुकरकुलव्याकुला भाति माला ॥ ७८ ॥ तैस्तैर्दूरात्परगुपहृतैर्या दुमैः प्रावृतासी- त्प्रापत्प्राज्यान्मधुररसतः सातिरेकाँश्च सेकान् । पर्यप्रीणात्सुरुचिरफलैर्याऽखिलान् सांप्रतं सा शुष्यत्येषा शिव शिव विना मालिकं पुष्पवाटी ॥ ७९ ॥ दुर्गाप्रसादे विरते पञ्चनिर्वाहिताऽधुना । द्रौपदीत्वमियं नूनं श्रयते काव्यमालिका ॥ ८ ॥ १ रूपकातिशयोक्त्या कस्याश्चित्सभाया इदं वर्णनम् तत्र वाप्यारोपेणोक्ति: सभादे- निगरणं रसो जलमुच्चतरणं वक्तुं प्रवर्तनं च तीरातू निगीर्णात्सामीप्यातूच पदगतिः सुप्तिङन्तपदप्रकारश्चरणव्यापारश्च तारयन्ति शुद्धं वादयन्ति च. २ इदमपि पूर्व- वत् अत्र मेघपुष्पं जलं परिषद्वेशन्तः सभारूपं सरः. ३ एतेन तस्यां सभायां गी:- कृपया सर्वे वचांसि शुद्धानि गदन्तीति ध्वनितम्. ४ इदं श्लोकषट्कं काव्यमालाख्य- मासिकपुस्तकवर्णनपरं तत्र प्राग्वे रूपकातिशयोक्तिमये पद्ये. ५ तत्तन्मैथिलसुन्द- रशर्मादिभिः पञ्चभिः प्रकाशिता.
१०४ मुक्तकसूक्तानि । एतेषु वर्वृतत्सु ज्येष्ठोषाढीयतापदिवसेषु । हा खीकृतबहुसुमना मालाकार व यातोऽसि ॥ ८१ ॥ पूर्वं परस्सहस्राः पतीः परिदर्श्य परसवर्णानाम् । नैकमपि स्वसवर्ण दर्शयसे किमिति हाऽधुना विद्वन् ॥ ८२॥ इयं साऽमरवल्लीव काव्यमालाऽधुना मता । च्युतमूलाऽपि पतिता यत्र कुत्र प्ररोहति ॥ ८३ ॥ सामर्थ्य प्रथमं निरूप्य मनुजः साहाय्यमाप्वा दृढं कृत्वा चाऽपि विचारणं सुमतिमान्विघ्नं निहत्य क्रमात् । उत्साहं प्रतिरोप्य चात्मनि भृशं कुर्वीत कार्योचितं सूद्योगं पुनरेनमाप्स्यति फलं सद्यो विलम्बेन वा ॥ ८४ ॥ लोकेऽपि स्फुटमेतदस्ति बहुधा यत्सावधानोऽधुना नो गन्तास्मि विवञ्चनं चिरमिति प्रत्येककृत्यं वचः । तेनैवाप्यनुमीयते न किमिदं यत्सावधाने कृते चित्तै नैव भवेत्प्रतारणविधिः सद्धेतुसाक्षात्स्थितेः ॥ ८५ ॥ यन्मन्त्रोऽप्युपदिश्यतेऽथ गुरुणा कश्चिद्धि मध्येक्षपं यच्चैकान्तगृहे विचारकरणं स्वैरं तथा जायते । चित्तैकाग्र्यकृतेऽस्ति केवलमिदं तत्सर्वमित्यादिकं स्थैर्य याति फलन्ति चेतसि नृणामुद्योगिनां सिद्धयः ॥ ८६॥ सार्धं कुत्सितमनसा न साधुना दुष्टवृत्तिरेष्टव्या । कालान्तरे स एव त्रपानतस्त्यक्ष्यति द्वेषम् ॥ ८७ ॥ विद्यानामुदयस्य सर्वभुवनश्रेयस्करैः सांप्रतं श्रीलैस्ताम्रमुखैः प्रभूतविधया संदर्शितस्याऽभितः । प्राबल्यं कथयेय हन्त किमहं प्रत्यक्षमेवेक्ष्यतां नीचानां किल नित्ययुक्तमपि यन्नीचत्वमेति क्षयम् ॥ ८८ ॥ १ ग्रीष्मे हि दुर्गाप्रसादो विषूचिकया सहसाक्रान्तः. २ ङ् ञ् ण् इत्यादीनां. ३ स्वतुल्यं. ४ सदधिकारलाभातू.
मुक्तकसूक्तानि । युक्तितः कार्यकरणे महान्तः सन्ति सद्गुणाः । जायते सेवितं युक्त्या विषमप्यमृताऽधिकम् ॥ ८९ ॥ प्रागेव प्रतिकुर्वन्ति भाविनीविपदो बुधाः । अवसीदन्ति मन्दास्तु विपद्धिः प्रतिताडिताः ॥ ९० ॥ सति प्रसङ्गे दम्यस्य स्तुतियुक्ता महत्कृता । विजयं दर्शयन्त्याशु भटा राजाभिनन्दिताः ॥ ९१ ॥ ज्ञानीयं हि सजातीयं पानीयं हृदयं तथा । चलितं न भवेत्स्तब्धं स्तब्धं न चलितं पुनः ॥ ९२ ॥ इदं हि लक्षणं लक्ष्यं रमणीयस्य वस्तुनः । स्मृतमप्यपरं सर्व विस्सारयति यद्धठात् ॥ ९३ ॥ नोत्तरीयान्न ताम्बूलान्न वित्तान्न च भूषणात् । न तथा नन्दति कविर्यथेतरकविस्तुतेः ॥ ९४ ॥ गीभिः स्तुतिप्रधानाभिः प्रसीदति कविभृशम् । सन्ति गीःसंश्रयादेव सर्वकार्याण्यमुष्य यत् ॥ ९५ ॥ नित्यः शब्दार्थसंबन्ध इति यः शास्त्रनिश्चयः । कवीनामेव कृतयो विचित्रास्तस्य साक्षिकाः ॥ ९६ ॥ नित्यं स्वापेन ममतामोचिताऽशेषवस्तुना । अहह प्राणिनः किञ्चिन्न नोऽस्तीति न जानते ॥ ९७ ॥ अविद्या नाम नागीयं सूयते सकलं जगत् । सर्वं चात्ति स्फुटं पारं गतान्द्वितांस्त्यजत्यपि ॥ ९ ॥ सदवसरेऽन्येषां यः समुदद्रुमुखायते यतो नियतम् । सज्जनदुर्जनलोकः सदृशः प्रोक्तो मयाऽन्योन्यम् ॥ ९९ ॥ १ विषस्य गुणा निघण्टौ-तदेव युक्तियुक्तं तु प्राणदायि रसायनमिति नाना सन्ति. २ शिष्यस्य. ३ ज्ञेयं. ४ ममतया त्याजितानि अशेषधनादिवस्तूनि येन. ५ नोऽस्माकं किंचिन्नास्तीति न जानते. ६ स स सर्वः प्रकृतिप्रपञ्चोऽयमविद्यैव. ७ मुत्सहिताश्रुमुखा- यितः सज्जनः सम्यगुदसुमुखायितो दुर्जनः.
२७ मुक्तकसूक्तानि । । उपकारकोपकारी नित्यं नेत्रप्रसादकारी च । धीरहितः सज्जन इव विनम्यते दुर्जनोऽपि मया ॥ १०० ॥ विदुषो नात्मनि कार्यः कदाचिदप्युपरतः समुत्साहः । क्ष्मां प्रागकृक्षदखिलां कर्णः प्रोत्सह्य धृतचक्राम् ॥ १०१ ॥ अन्यव्याकुलतायां सर्वेषां कौतुकं महद्भवति । आपत्तौ प्रतिकूलं प्रभवत्यनुकूलमपि बहुधा ॥ १०२ ॥ न विमुञ्चति कश्चिदपि प्रज्ञावानुत्तमानि वस्तूनि । मकरालयतलकर्दमगुप्ता अपि किमिह दुर्लभा मुक्ताः ॥ १०३ ॥ भवति रजःसंवलितं क्षणमप्यपार्जितं सदहाय । प्रतिमितसमस्तभावं मुकुरतलं सदृशमस्ति हृदयस्य ॥ १०४ ॥ वृक्षः करोत्यपेक्षां मालाकारस्य सिञ्चतस्तावत् । यावद्विभृते मूलं रसों रसैरस्य न स्वगतम् ॥ १०५ ॥ वास्तविकमजहरिणयोर्बलं विशिष्टं न वर्तते किमपि । गर्वेण शृङ्गचेष्टा पुनरपि या सा नरत्त्वमाहात्म्यात् ॥ १०६ ॥ श्रीवत्सलाञ्छन त्वं केनचिदेवं सलीलमपि लपितः । लाञ्छनरहितायामपि सलाञ्छनत्वं हरे श्रियां तनुषे ॥ १०७ ॥ किं कर्तव्यत्वपथे तत्तदुपप्लवतमोवृतस्य तव । भवतु गती रिपुमस्तकनिपतद्वज्राग्निसंप्रकाशेन ॥ १०८ ॥ वक्षोमुखशीर्षादिषु सकलेष्वङ्गेषु भान्ति पलितानि । स्थविराणां तरुणिम्नः परिदग्धस्येव भसितानि ॥ १०९ ॥ स्याद्रष्टवत्तु चित्रं द्रष्टा स्याचित्रवत्किच । स्तुतिरियमेव प्रचुरा चित्रस्य प्राज्ञलिखितस्य ॥ ११० ॥ लभते कृतनिर्णयार्थतः परिवृतिं स भवेत्कथं प्रियः । विपदि प्रियतां च याति यः कृतवैरोऽपि कथं स वैरकृत् ॥ १११ ॥ १ उपकारे कोपकारी नेतॄणां अप्रसादकारी धिया रहितश्च दुर्जनस्तद्भिनो यथोक्तः सजनः. २ इयं भारतीया कथा. ३ समुद्र. ४ अप्रोञ्छितं. ५ पृथ्वी. ६ पुल्लिङ्गवाचिनौ शब्दावुच्यते तन्माहात्म्यादुचितं तुच्छमप्येततू. ७ श्रीवत्-सलाञ्छन-श्रीवत्स लाञ्छन- इति च्छेदः. ८ विघ्न. ९ वैपरीत्यम्.
मुक्तकसूक्तानि । १०७ त्रातुं यज्ञं कुशिकमुनिभूरप्ययाचीटू द्वौ यत्कैकेयी वरयुगकृते कान्तमसारयत्नाक् । यच्च क्रव्यात्समुचितरतेस्ताडकाया नृराँग- स्तद्भाग्यानां विलसितमिदं रामभद्रस्य सर्वम् ११२ ॥ कौरव्याः शतमुत्तरोत्तरमहाशौर्यप्रचण्डाः व ते तेऽपि द्यूतजिताश्च पञ्च तनयाः पाण्डोः क्व दीना वने । सत्यप्येवमभूजयस्तु समितौ कुन्तीसुतानां हि यः सोऽयं स्वीकृतपक्षपातमहिर्मों लोकोत्तरः श्रीपतेः ॥ ११३ ॥ अवर्षता तोयमुचा तटाकतटाग्ररूढस्य महीरुहस्य । एतावदेव क्रियते स्म वाह्यां विकर्तुमैषीति यदस्य शोभाम् ॥ ११४ ॥ पठन्नपाहारि वृथा कुमारो युष्माभिरिभ्यैः किमिदं कृतं हा । न हृद्यतामेति कदाप्यकालभ्रष्टः शलाहुँहि पुनः स्वपाके ॥ ११५ ॥ अस्तक्ष्माभृद्गहनदहन त्वं विना कारणं खं निन्दोदन्तं स्पृहयसि कथं मूढ दग्ध्वाऽद्य घासान् । दीनॉस्त्वेताञ्झटिति सहसा स्यन्दनोद्वाहखिन्नाः प्राप्ता एते शशधरहयाः खादितुं बद्धतृष्णाः ॥ ११६ ॥ दत्ते दुःखमसौ सदा बहुविधं केनाप्युपायेन मां पापात्मा स रुषेति मूढ कुरुषे कस्माद्वथा चिन्तनम् । तत्तदुश्चरितैर्हि रौरवगताः कालान्तरे केवलं नन्वेतत्सदृशाः पुनर्झटिति नः ख्यास्यन्ति मार्ग स्मृतेः ॥११७॥ खामी दासजनं वदेदिति वयोवृद्धं कदाचिद्वचो भोक्तृत्वं कति यापिता नु भवता वर्षाश्च मासोऽथवा । उद्यम्येति करौ तदा प्रतिवदेद्धृत्यः स वृद्धः प्रभु सेवायै भवतां ससर्ज नियतिः पूर्व प्रभोः सेवकम् ॥ ११८ ॥ १ रामलक्ष्मणौ. २ राक्षसः. ३ रामायणीयो विषयोयं तत्रैव दृश्यः. ४ निर्वाहरूपो महिमा. ५ काचिद्वायम्. ६ अपक्कं फलम्. ७ अन्योक्तिरेषा. ८ तदाख्यो नरकविशेषः ९ स्मृता भविष्यन्ति. १० कस्याश्चिल्लोकवार्तायाः पद्यमिदं.
१०८ मुक्तकसूक्तानि । एका क्ष्माभृति कीटिका चलति सेत्यन्धेन दिग्दर्शिता भूत्वोच्चैर्बधिरेण चाऽपि विपुलः शब्दस्त्विति स्वीकृतम् । दण्डं दोषणि पङ्गुना कृतवता यामेति किञ्चोत्थितं कोप्यस्मान् प्रतरिष्यतीति सहसा नग्नेन भीतं ततः ॥ ११९ ॥ तत्तजन्मविहारभूमिविलसत्संचारणामर्षणै- श्चञ्चन्मित्रविचित्रचाटुचरितध्यानैश्चमत्कारिभिः । फुल्लाम्भोरुहकेसराद्भुतरसास्वादैरलं चिन्तितः कादम्बार्भक सांप्रतं परवशात्प्राप्तोऽसि यत्पञ्जरम् ॥ १२० ॥ प्रीतिर्दीर्घतरा त्वयीति कथनं वाराङ्गनोक्त्या समं प्राप्योऽसीति पुनर्विमृष्य वचनं सौभाग्यदर्पोद्धुरम् । इत्युक्तं प्रसभं श्रितोऽसि कुलटाधार्श्वप्रधानं हि त- कान्तैवं मम मूकतैव सपदि प्रश्नोत्तरे तावके ॥ १२१ ॥ आकाशे निशि भाति काचिदनलक्रीडा पटुप्रोज्झिता खर्जूरीव पिशङ्गसुन्दरफला नीचैः शिखाशालिनी । अत्यन्तप्रसृतश्च भाति सुचिरं धूमस्तदीयोऽभितो भ्राम्यत्तोयधरस्य राशिरिव किं श्यावां छविं संदधत् ॥१२२॥ नीचे मिमिवातनोति जलधेधूनाति वारीव च ग्राव्णः प्रोत्खनतीव शत्रुवनितागर्भान्भिनत्तीव च । अभ्रं पातयतीव दिग्गजभयं वक्तीव च प्रायशः कश्चित्संप्रति मेघनादसदृशस्तोप॑ध्वनिः श्रूयते ॥ १२३ ॥ सिद्धिमद्विविधमन्त्रवेदिने सर्वनास्तिकमनुष्यखेदिने । दिव्यभेषजगदौघभेदिने स्युर्नमांसि मम सामवेदिने ॥ १२४ ॥ मज्जिह्वा तु भृशं जाता भवत्स्तोत्रभरैर्नता । मदर्थे लेखिनीमात्रभारोऽपि न भवत्करे ॥ १२५ ॥ १ इयमपि तादृक्काचिद्विचित्रा मन्दबुद्धिसंबन्धिनी वातैव. २ एष दम्पत्योरालाप:. ३ यस्या लोके हवाई इति सुप्रसिद्धं नाम, ४ दुर्गस्थतोपध्वनिरेतादृश एव. ५ कस्मै- चित्काशीनिवासिने ब्राह्मणाय पठितसामवेदाय.
मुक्तकसूक्तानि । गुरवः पितरौ हि केवलं सुहृदो वाप्यथ साधवः क्रमात् । षडमी मुदमुद्वहन्ति तामिह शिष्यस्य तु वीक्ष्य योग्यताम् ॥ १२६ ॥ विशालवीणाकपटेन भारती निबध्य युग्मं पृथुतुम्बिकायाः । अद्यापि नैतस्य ततार पारं शब्दोदधेस्तत्र नरस्य का कथा ॥ १२७ ॥ येषां सन्त्युदयाः पुरेष्वथ च ये पीठोत्सवं भुञ्जते पृथ्वीं बिभ्रति नीतितः किल समुद्रान्तां जयाढ्याश्च ये । पूर्णाः सैन्धवकुञ्जरैश्च दधते तामृद्धिवृद्धयुन्नति राजन् भान्ति भिषङ्जृपा वयमिमे ते मण्डलीरक्षकाः ॥१२८॥ अप्यप्रयोजका एते श्लोका विख्यापिता मया । विस्मरेद्गणनाकाले स्वान्दुष्टानपि को बुधः ॥ १२९ ॥ श्लोकॅनिर्माणदम्भाब्यो वर्णविन्यासलीलया । शिक्षितः कोप्ययं यत्नाच्छन्दोऽभ्यासविधिर्मया ॥ १३०॥ इति श्रीकविमल्लभट्टहरिवल्लभकृतिषु मुक्तकसूक्तानि पूर्णानि ।। १ अन्यानपेक्षां. २ अत्र वैद्यपक्षीयोर्थस्तत्तदोषधश्लिष्टनामज्ञानात्कार्यः प्रकृतेनात्यु- पयुक्तः. ३ चमत्काराप्रयोजका इत्यर्थः. ४ एतेन विद्वद्भिर्ममावद्याः क्षम्या इति द्योत्सते.
L
A5.
B5