Donar

Raamaayand-asan'qs-eipasagrarasasvaada

Not Availble · 2005/08/30

PDF Proofread

Front matter

No text on this page.

No text on this page.

॥ श्रीः॥ रामायणसंक्षेपसर्गरसास्वादः उपोद्धातः । "तामद्भुतां तौ हृदये कुमारी निवेश्य वाणीमृषिभाषितां तदा । समुत्सुकौ तौ सममूषतुर्निशा यथाश्विनौ भार्गवनीतिसंहिताम् ॥" इत्युत्तररामायणे त्रिणवतितम सर्गे रामाश्वमेधयागशालामण्डपसंमिलित- महापरिषदि, श्वोभाविनि रामायणगानप्रारंभे, आत्मनोर्वाचोषिधेयस्य स्वगुरु- प्रणीतकाव्यस्य रात्रौ पुनः पुनः भावनेन स्वगुरुनिबन्धस्य रसघनतया अद्भुतता संस्मृत्य संस्मृत्य आस्वाद्यास्वाद्यानुभूतां कुशलवाम्याम् । श्वःप्रभृति महा- परिषदि रामादीन् स्वानुभूतकाव्यरसाननुभावयितुं समुत्सुकौ तौ रात्रि निन्यतुस्ताम् । 'कृत्स्नं रामायण काव्यं गायेथां परया मुदा। इमानि च फलान्यत्र स्वादूनि विविधानि च। जातानि पर्वतामेषु चाम्बाद्यास्वाद्य DONATED TO TTD CENTRAL LIBRARY 2 । गीयतां ॥' इति कविताशाखारूढस्य गुरोरनुशासनम् । 'आस्वाद्यास्वाद्य' इत्युक्तं न केवलं वन्यस्वादुफलविषयं, किन्तु वाल्मीकेर्बदनारविन्दगलिता- मृतासवसंयुतरामायणरसफलविषयमपि । गिरिरूपा वेदाः पर्वताः। तदने रामायणकविताशाखा । तत्र जातानि रामायणरसफलानि । 'मथोपदेश तत्त्वज्ञौ जगतुस्तौ समाहितौ', 'प्रविश्य तावुभौ सुष्ठु भावं सम्यगगायताम्' इति तयोः कविहृदयज्ञत्वं वर्णितं कविना गुरुणा बालकाण्डचतुर्थे । 'वेदोपहणार्थाय तावग्राहयत प्रभुः' इति वेदार्थविशदीकरणाय तौ गुरुणा रामायणं ग्राहितौ । तेन च रामायणभावाः कविहृदयस्थाः कविनैव ताभ्यामुपदिष्टाः इति संभावयितुं शक्यम् । स्वयं च 'तो मेधाविनौ वेदेषु परिनिष्ठितौ' इति महर्षिणैव श्लाषितौ । वेदवेदाङ्गतदर्थाध्ययनानन्तरं रामायणमध्येषिषाताम् । रामायणसरस्वत्यां तयोरद्भुतत्वानुभवः । 'आश्चर्यमिदमाख्यानं मुनिना संप्रकीर्तितम्' इति रामायणप्रथमश्रोतृमहर्षिपरिषदोऽपि तस्या अद्भुतत्वानुभवः । 'तमद्भुतं बालक' इति कृष्णावतारस्येव रामायणावतारम्याद्भुतत्वं 'तामद्भुतां वाणी' इति वर्णितम् । अद्भुतगायकगीतिमाधुर्येण गीतस्य रामायणस्य माधुर्यं वा स्वत एव रामायणं निरतिशयमधुरं वेति संशयो यदि जायेत स उच्छिद्यते 'अहो गीतस्य माधुर्य श्लोकानां तु विशेषतः' इति ऋषि- परिषदः गीतादपि साहित्यस्य विशेषतो माधुर्यानुभवकथनेन । 'सर्वापूर्वमियं' इति रामकथारंभः पञ्जमसगें। सर्वापूर्वमियं कृत्ला वसुन्धरा आसीत् इत्यारंभगाथोक्तं समुद्रवत् रत्न ज्यां रामायणकृतिमपि स्पृशेत् । सर्वप्रकारै- रद्रुतमिदमादिकाव्यम् । पूर्वसर्गान्तिमश्लोके रामायणकृतिगानं प्रस्तुतम् । 'तां स शुश्राव काकुत्स्थः पूर्वाचार्यविनिर्मिताम् । अपूर्वा पाठ्यजातिञ्च ,गेयेन समलंकृताम्' इत्युत्तरकाण्डे रामस्याप्यस्मिन्काव्येऽपूर्वत्वानुभवः कथ्यते । 'बालाभ्यां राघवः श्रुत्वा कौतुहलपरोऽभवत्' । पूर्वाचार्यविनिर्मिता रामायण कृतिः । 'कृतवाग्द्वारे बंशेऽस्मिन्पूर्वसूरिभिः', इति रधुवंशारंभे, 'इदं गुरुभ्यः .

8 । पूर्वेभ्यो नमोवाक प्रशास्महे' इत्युत्तररामचरितनाटकारमे च निर्दिष्टाः पूर्वसूरयः पूर्वगुरवः एतदुत्तररामायणश्लोकमिर्दिष्टः पूर्वाचार्यवाल्मीकिरेव । 'रिभिः, पूर्वगुरुभ्यः' इत्युभयत्रापि पूजायां बहुवचनम् । अश्वमेधयागपरिषदि 'तथा काव्यविदो अनान्' इति काव्यज्ञाः साहित्यशास्त्रकोधिदा अपि मिलिता इति वर्णितम् । न च तृप्तिं ययुस्सर्वे श्रोतारः। 'पाठ्ये गेये च मधुरं म. मनोहरम्' इति रामायणस्य गानं विना केवलपाठनमात्रेऽपि माधुर्यमनुभक सिद्धम् ।। 'आदि काव्यमिदं राम त्वयि सर्व प्रतिष्ठितम्' इति ब्रमणा उत्तर- काण्डान्ते एतत्काव्यस्याऽऽदिकाव्यमिति नामकरणं कृतम् । एतस्य काव्यस्य रामब्रह्मविद्यात्वमुपपत्तिपूर्वकमनुपदमेव निरूपयिष्यते। यथा भार्गवीबारुणी विद्या परमे व्योम्नि आनन्दमये ब्रह्मणि प्रतिष्ठिता, तथेयं रामायणब्रह्मविद्या कास्न्येन रामब्रह्मणि प्रतिष्ठितेति ध्वन्यते उदाहृतब्रह्मवाचा । 'सन्निबद्धं हि श्लोकानां चतुर्विंशत्सहस्रकम् । उपाख्यानशतं चैव भार्गवेण तपस्विना' इति कुशलवाभ्यां कथितं रामाय । नपस्वी वाल्मीकिर्भार्गवः। प्राचेतसः सः वारुणोऽपि भवति । भार्गवो वारुणो रामायणकविः। तद्विद्याभूतरामायण- विद्या भार्गवीवारुणीविद्या । 'कर्ता काव्यस्य महतः क चासौ मुनिपुङ्गवः' इति पृच्छता रामेणास्य काव्यस्य महाकाव्यत्वं स्पष्ट गदितम् । श्रुतं ते पूर्व- मेतद्धि मया सर्व सुरैस्सह । दिव्यमद्भुतरूपं च सत्यवाक्यमनावृतम्' इति ब्रह्मणा जिह्वायासीनसरस्वतिना सरस्वतीवल्लभेन चतुर्भिरपि मुखैश्चतुरो वेदान् सततमधीयानेन कमलसंभवेन रामायणस्यास्य दिव्यत्वमद्भुतरूपत्वं च सर्वैस्सुरैरनुभूतमित्युक्तम् । 'भगवन् श्रोतृमनसो ऋषयो ब्राझलौकिकाः' इति रामेण रामायणश्रोतृणां ब्राह्मानुभवरसभाक्त्वमुक्तम् । लोकशब्दः अनुभवा- र्थकः । दहरविद्यायां 'ब्रह्मलोक'शब्दस्य 'ब्रह्मैव लोकः' इति स्थपत्यधिकरण- न्यायेन कर्मधारयमाश्रित्यार्थो निरणायि। अनुभूयमानं ब्रह्म ब्रह्मलोकः ।

.4 । ब्रह्मलोकममाः ब्रह्मलोकनिष्ठाः ब्रह्मलोके अभयं प्रतिष्ठां विन्दन्तो ब्रामलौकिकाः 'तामेतां परिभावयन्त्वभिनयैर्विन्यस्तरूपां बुधाः शब्दब्रह्मविदः कवेः परिणतप्रज्ञस्य वाणीमिमाम् ।।' इत्युत्तररामचरितनाटकान्तिमश्लोके भवभूतिः पूर्वोदाहृतं 'तामद्भुतां वाणीमृषिभाषितां' इति श्लोकं स्मरति, स्मारयति चास्मान् । कुशीलवौ कुशलवौ यथा तस्यां निशायामन्वभूतां तथा युष्माभि- रस्यां निशि दृष्टः प्रयोग: अनुभाग्य इति तस्य भावः ॥ 'प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवान् ऋषिः । चकार चरितं कृत्स्नं विचित्रपदमात्मवान् ॥' इति बालकाण्डचतुर्थसर्गारंभे रामायणप्रारंभकाल उक्तः । 'प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते। आजग्मुः ऋषयम्सर्वे राघवं प्रतिनन्दितुम् ॥' इत्युत्तरकाण्डारंभश्लोकः । सर्वाभ्यो दिग्भ्यः सर्वे ऋषयोऽभ्यागच्छन् महर्षीणां सुखावहं उत्खातलोकत्रयकण्टकमभिनन्दितुम् । वाल्मीकि गतः । रामायणकाव्यप्रणयनव्यग्रतैव तत्र कारणमभूदिति संभावनं सांप्रतमेव । 'कोऽन्वस्मिन् सांप्रतं लोके' इति वाल्मीकिप्रश्नः पट्टा- भिषेकानन्तरं तत्सन्निकृष्टकाले कृतः स्यात् । 'रामस्सीतामनुप्राप्य राज्यं पुन- रवाप्तवान्' इति नारदकथितसंक्षेपे एकोननवतितमः श्लोकः । वृत्तकथा तत्र समाप्तिमाप । तत उपरि भविष्यद्वृत्तान्तः सूचितः ‘राजवंशान् शतगुणान् स्थापयिष्यति राघवः । चातुर्वर्ण्य च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ।।' इत्यादिश्लोकैः । कुशलवाभ्यां वेदवेदाङ्गपाठनकाल एव रामायणप्रणयनमपि प्रतिदिवसं किञ्चित्किश्चिदभूदिति भवभूत्यभिप्रायस्सांप्रतमिव । रामेण राज्य प्राप्त, लोकश्च कविराज्यं इदंप्रथमतया प्रविश्य तद्भोक्तुमारेमे । रामस्य राज्य- लाभादपि सीतालाभादपि रामायणकाव्यालाभोऽभ्यर्हित इव ॥ ॥ इत्युपोद्धातः ॥

तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् । नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥१॥ प्रथमं तपस्स्वाध्यायश्लोकरसाननुभवामः । तपःशब्देन स्यग्रन्थम्य प्रारंभणं रस्यं बहुभावगर्भम् । रामब्रह्मतद्गुणचरित्रमहिमादिजिज्ञासा त च प्रारभ्येते । रामब्रह्मानुभावनेन तत्सालोक्यसायुज्यादिफलमापक रामायणम् । 'रामभूतं जगत्सर्व' इति निरन्तरं रामकथारसानुभवस्य रामभूय- पर्यवसानत्वं स्पष्टं गीतं पूर्वभागावसाने उत्तरकाण्डान्ते च । 'कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च' इति गीतागीतरीत्या रामरतिरसजुषां सर्वेषां प्राणिनां 'सवैब्रह्मगुणैर्युक्ते ब्रह्मलोकादनन्तरे' इति वर्णितसान्तानिकलोकेषु नित्यवासोऽभूदित्युक्तम् । ब्रह्ममीमांसाशास्त्रं राममीमांसेत्युक्तं रत्नप्रभाख्य- शक्करब्रह्मसूत्रभाष्यव्याख्याप्रणेतृभिः । 'रामनाम्नि परे धाग्नि कृत्लाम्नाय- समन्वयः' इति तत्र समन्वयाधिकरणनिगमनं कृतम् । 'तपसा ब्रह्म विजिज्ञा- सस्व । तपो ब्रह्मेति' इति भृगुवल्ली ब्रह्मजिज्ञासासाघनत्वेन तपोऽनुशास्ति । 'सतपोऽतप्यत । सतपस्तप्त्वा । आनन्दो ब्रह्मति व्यजानात्' इति तपसः आनन्दब्रह्मानुभवफलपर्यवसायित्वं च निगदितम् । 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन' इति बार्हदारण्यकश्रुत्या तपोवेदानुवचनयोंः ब्रह्मविविदिषावेदनसाधनत्वं श्रावितम् । 'सर्वापेक्षा च यज्ञादिश्रुतेः' इति भगवान् बादरायणः तपोवेदानुवचनयोब्रह्मविद्याङ्गत्व- मसूत्रयत् । विविदिषा – जिज्ञासा। 'कामानशनं तपः । न सर्वथा अन- शनम् । 'न चैकान्तमनश्नतः' (योगोऽस्ति) इति गीता । तप आलोचने । 'तपश्च स्वाध्यायप्रवचने च', 'स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः । तद्धितपस्तद्धि तपः' इति स्वाध्यायप्रक्चनयोस्तपरत्वं श्राव्यते । स्वाध्याय- स्यास्मिन् प्रथमश्लोके शब्दतो निर्दिष्टत्वात् तपश्शब्दस्य प्रवचनग्राहित्व- । मुचितमेव । प्रवचनं च मननाविनाभूतम् । प्रवचनान्मननदाढर्यसिद्धिः । आलोचनरूपधात्वादपि तपसो ,मननप्रवचनवाचक त्वलाभः । अत्र तप- श्शब्देनोपक्रममाणः ऋषिरस्य काव्यस्य रामजिज्ञासात्वं रामब्रह्मशास्त्रत्वं ध्वनयति । 'नारदं गुरुं वाल्मीकिः शिष्यः परिपप्रच्छेति कथनेनास्य शास्त्रस्य राममीमांसाशास्त्रत्वं द्योतितम् । 'तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ।।' इति गीताश्लोकप्रदर्शितन्याय इह भाव्यः । अत्रोक्तः परिप्रश्नः तन्नियतसहचरितप्रणिपातसेवोपलक्षकः । 'कोऽन्वस्मिन्' इत्यारभ्य 'कः कः' इति पुनः पुनः' स्वकीर्तितबहुदुर्लभगुण- विशिष्टपुरुषविशेषजिज्ञासा स्पष्टं प्रकटीकृता ग्रन्थारंभ एव । 'केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रति युक्तः । चक्षुः श्रोत्रं क उ देवो युनक्ति' इति केनोपनिषदारंभ इवात्रापि काव्यारंभः । एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे' इति स्पष्टं कल्याणगुणपूर्णसमानकालिकपुरुषविशेषज्ञाने तीवेच्छा उक्ता वाल्मीकिना । 'अहं वेद्मि महात्मानं रामं सत्यपराक्रमम् । वसिष्ठोऽपि महातेजाः ये चेमे तपसि स्थिताः ॥' इति विश्वामित्रेण सावित्री- मन्त्रद्रष्टा ऋषिणा तपसि स्थितिः राममाहात्म्यवेदने साधनमिति स्पष्टी- कृतम् । तपसि स्थिताः ते रामं विदन्ति महात्मनं' इति हेतुव्याप्तिगर्भ- वचनभङ्गया तपोनिष्ठां विना रामस्य अयनाय नान्यः पन्था विद्यते इत्यव- गमितम् । रामः अय्यते - प्राप्यते अनेनेति रामायणम् । अयोध्याकाण्डारंभे, 'अजानन्निव जिज्ञासुरिदं वचनमब्रवीत् । श्रुत्वैव वचनं यन्मे राघवं पतिमिच्छथ । राजानः संशयो यं मे किमिदं ब्रूत तत्त्वतः । कथं नु मयि धर्मेण पृथिवी- मनुशासति । भवन्तो द्रष्टुमिच्छन्ति युवराजं ममात्मजम् ।।' इति पितुर्दश- रथस्यापि कथश्चिद्रामगुणजिज्ञासया तत्प्रष्टृत्वमुक्तम् । पृष्टा जानपदा जनाः रामगुणानुभवपूर्णाः सर्वे सहैवोचुः । 'बहवो नृप कल्याणाः गुणाः पुत्रस्य सन्ति ते । गुणान् गुणवतो देव देवकल्पस्य धीमतः। प्रियानानन्दनान् । कृत्स्नान् प्रवक्ष्यामोऽद्य तान् शृणु।' इति ते जिज्ञासुर्दशरथाय सम्यक् स्वानुभूतानानन्दनान् सद्गुणान्प्रवक्तुमुपचक्रमिरे ।' प्रियानानन्दनान् कृत्स्नान्' इतीदं आनन्दमयविषये श्रावितं 'तम्य प्रियमेव शिरः', 'एष ह्येवानन्द याति', 'रसं ह्येवायं लब्ध्वानन्दी भवति' इत्य प्रत्यभिज्ञापयति उपबृंयति च । प्रथमसर्गे ऋषिणा रामगु, विस्तरतो वर्णिताः। द्वितीयसर्गे जिज्ञासमानाय रामपित्रे तेऽकथ्यन्त राम- गुणानुभवसम्पन्नस्तत्त्वदर्शिभिः पौरजानपदादिभिः । रामगुणापरोक्षानुभव- वद्भिस्तद्गुणप्रवचनं कृतं शुश्रूषवे जिज्ञासवे दशरथाय । रावणवधार्थं मानुष- भावसंकल्पं कृतवता रामेण सत्यसंकल्पेन स्वस्य परमात्मत्वं विस्मृतप्राय- मभूत् । 'आत्मानं मानुषं मन्ये रामं दशरथात्मजम्' इति सत्यवाचा तेनोक्तं ब्रह्मादिदेवेभ्यः । यदा ते सहस्ताभरणान् विपुलान् भुजान् प्रगृह्य, प्राञ्जलिं स्थितं राघवं 'कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानवतां वरः । उपेक्षसे कथं सीतां पतन्ती हव्यवाहने । त्रयाणां त्वं हि लोकानामादिकर्ता स्वयं प्रभुः। अश्विनौ चापि, ते कर्णौ चन्द्रसूर्यौ च चक्षुषी' इति रामस्य परब्रह्मत्वं प्राबोचन् । देवानां वचनैः स्वमतस्वमानुषत्वबुद्धेर्विचालितः स्वस्य ब्रह्मत्वं स्यात्किमिति संशय्याऽपृच्छदिव । संशयप्रयोज्या मीमांसा। तात्त्विकं स्वस्वरूपं जिज्ञास- मानः 'आत्मानं मानुषं मन्ये रामं दशरथात्मजम् । योऽहं यस्य यतश्चाहं भगवान् तद्रवीतु मे।' इति ब्रह्माणं परिपप्रच्छ । 'प्राञ्जलिं राघवं स्थितं' इति जिज्ञासो राघवस्य प्रष्टुः प्राञ्जलित्वं स्पष्टमुक्तम् ।' इति ब्रुवन्तं काकुत्स्थं ब्रह्माब्रह्मविदां वरः ।' इति प्रश्नप्रतिवक्तृगुरोर्ब्रह्मणः ब्रह्मविदां वरिष्ठत्वमुक्तम् । 'अब्रवीत् शृणु मे राम सत्यं सत्यपराक्रमम्' इति च गुरोः प्रवचनोपक्रमः । 'भवान् नारायणो देवः श्रीमान् चक्रायुधो विभुः' इति प्रथममेव 'न त्वं मनुष्यः, त्वमादिदेवो विश्वयोनिारायणः । न त्वं कदाचिदपि सीतावियुक्तः । श्रीमांस्त्वम् । विष्णोः श्रीरनपायिनी। त्वं तत्त्वतः सीतायुक्त एवाभवः ।

8 त्वनित्यपत्नी सा। किमर्थ तस्या अग्निपरीक्षा' इति राघवं प्राबोधयत् । ब्रह्मकृतरामब्रह्मत्वोपदेशे उपनिषत्च्छाया भूयसी दृश्यते । 'जगत्सर्व शरीरं ते' इत्यत्रान्तर्यामिब्राह्मणानुसारः स्पष्टः । अन्तर्यामिब्राह्मणं शारीरकब्राह्मण- मिति व्यवहियते श्रीसुरेश्वरकृतबृहदारण्यकवार्तिके। बार्हदारण्यके भाष्ये श्रीशङ्करभगवत्पादैः अन्तर्यामिब्राह्मणप्रतिपादितः विश्वान्तर्यामी 'नारायणाख्यः' इति भाषितम् । अत्र ब्रह्मवचने 'भवान्नारायणो देवः इति उपक्रमकृतप्रतिज्ञा समर्थ्यते बहीभिरुपपनिभिः । 'जगत्सर्व शरीरं ते' इति अत्र रामस्य विश्वशरीरत्वोक्तिः तस्य नारायणत्वोपपादिका इति ब्रह्मण आशयः । सौबालान्तर्यामिब्रामणे प्रतिपर्याय 'स ते आत्मा अन्तर्याम्यमृतो दिव्यो देव एको नारायणः' इति पठ्यते । 'भवान् नारायणो देवः' इत्यत्र तच्छ तिप्रत्यभिज्ञापनं स्पष्टम् । सौबालान्तर्यामि- ब्राह्मणैकरस्येन रामायणोपबृंहणानुगुण्येन च श्रीशङ्करभगवत्पादैर्नारायण- समाख्या भाषितेव। शारीरकमीमांसा च स्वनाम्नैव शारीरकब्राह्मणप्रति- पादितविश्वशरीरत्वं शास्त्रप्रतिपाद्यब्रह्मणः प्रख्यापयति । इत्थं च रामस्यौप- निषदपुरुषत्वं शारीरकशास्त्रप्रतिपाद्यत्वं चात्र निर्णीय प्रोच्यते पृच्छते जिज्ञासवे रामाय । सर्वोपनिषद्गवां दोहेन गीतामृतदोग्धा भगवान् रामायण- मपि दोन्धि स्वगीतामृतरूपेण । 'रुद्राणामष्टमो रुद्रः' 'त्वं यज्ञत्त्वं वषट्- कारस्त्वमोङ्कारः परन्तपः', 'प्रभवं निधनं वा ते न विदुः को भवानिति', 'त्वं धारयसि भूतानि वसुधां च सपर्वताम्', 'न तदस्ति त्वया विना' इत्याद्यत्रोक्तं भाव्यम् । कुरुवृद्धो भीष्मश्च देहवियोगकाले स्वसहस्रनामस्तवे इमं ब्रह्मस्तवमनुसरति । 'शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः' इत्यादिकं भाव्यम् ।' 'तस्यैष एव शारीर आत्मा' इति तित्तिरिभिः विश्वशरीर- परमात्मनः आनन्दमयत्वं पठ्यते । जानात्येव रामं वाल्मीकिः । तस्य पर- ब्रह्मत्वं गुरुमुखात् जिज्ञासते निगमसंमितमहाकाव्येतिहासप्रणयनारंभाय । . , 9 रामायणसंक्षेपसर्गरसास्वादः तेन कीर्तिताः दुर्लभाः बहुगुणाः दिव्यस्य परमपुरुषस्यैव भवेयुः । परब्रह्मैव रामत्वेनावतीर्ण इति गुरुमुखादधिजिगमिषति । स्वोद्दिष्टकाव्यनायकस्य मनुष्यस्य पर ब्रह्मत्वमपि स्यान्चेत् स्वकीयकाव्यस्य मोक्षशास्त्रत्वमपि सिद्धयेदिति भावः । 'रमन्ते योगिनोऽनन्ते सत्यानन्दे चिदात्मनि' इति रामनामनिर्वच रामस्य 'सत्यं ज्ञानमनन्तं ब्रह्म', 'आनन्दो ब्रह्म' इत्युपनिषत्प्रतिपाचन, निर्णाययति । 'रामो रमयतां वरः' इति वचनं 'एष ह्येवानन्दयाति' इति श्रुतिमुपवृहयतीव । 'अपि वृक्षाः परिम्लानाः सपुष्पांकुरकोरकाः' इति रामविरहव्यसनकर्शितत्वं वर्णितं द्रुमादीनामपि । 'रसो वै सः, रसं ह्येवायं लब्ध्वानन्दी भवति' । रामरसमेव पेपीयमाना मोदमाना आसन् वृक्षाः । तद्विरहे तद्रसालाभभयादतप्यन्त। ईदृशं रामब्रह्मस्नेहमाविष्कृतवतां तेषां रामेण सह सनातनसान्तानिकलोकप्राप्तिाय्यैवेति रामायणस्य निपुणोपदेशः । 'रामभूतं जगदभूत् रामे राज्य प्रशासति' इति सर्वेषां प्राणिनां राममयत्व- सम्पत्तिरुक्ता । राममयत्वं च ब्रह्ममयत्वम् । अत एवायोध्यकानां सर्वेषां निश्रेयसप्राप्तिरसिद्धयत् । इत्थं रामायणस्य रामब्रह्मविद्याशास्त्रत्वम् । अध्यात्मशास्त्रमिदं रामब्रह्मरसवर्षकम् । 'तपसा ब्रह्म विजिज्ञासस्व' इति ब्रह्म- जिज्ञासाश्रुति, 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन' इति ब्रह्मविविदिषाश्रुतिं च काव्योपक्रमे तपस्स्वाध्यायपदाभ्यां प्रत्यभिज्ञापयन् ऋषिरस्य रामायणस्य रामब्रह्मविद्यात्वं व्यञ्जयतीव । अस्य ब्रह्मजिज्ञासाकाव्यस्य स्वाध्येतृणां ब्रह्ममयत्वसम्पादनेन नित्यलोकेषु ब्रह्मसायुज्यप्राप्तिफलकत्वमस्ति । तपश्शब्द: क्लेशभूयिष्ठनियम- व्रताद्यनुष्ठाने प्रसिद्धः । 'तपः कृच्छादिकर्म च' इति, 'तप:क्लेशसहो दान्तः' इति चामरः । तपसः क्लिष्टत्वं प्रसिद्धम् । 'तपः क वत्से क च तावकं वपुः' इति गौरीमातुर्मेनाया निषेधगीः। एतत्कथानायकाः चक्रवर्तिपुत्राः चत्वारोऽपि यौवने केवलं तपस्विनोऽभवन् । 'यौवने विषयैषिणां वार्धके मुनिवृत्तीनाम्' ।

10 , रामायणसंक्षेपसर्गरसास्वादः इत्युक्तविभागो नैतेषां तपःशीलानां दिव्यपुरुषाणाम् । 'गलितवयसा- मिक्ष्वाकूणामिदं हि कुलव्रतम्' इत्युक्तं वृद्धेक्ष्वाकुधृतमा भयकं व्रतं बाल्य एव चिरमेभिर्महात्मभिधृतम् । 'विद्धि मां ऋषिभिस्तुल्यं केवलं धर्ममास्थितम्' इति रामोक्ते स्वस्य बहुर्षितुल्यत्वं तथ्यमेव । उपमातृनियोगं विनापि राम- शेषत्वैकरतिर्लक्ष्मणः स्वयं यौवने तापसव्रतं परिजगृहे । भरतशत्रुघ्नौ राज्ये वसन्तावपि राज्यं पालयन्तावपि तीनं तापसव्रतमेवान्वतिष्ठताम् । 'तपस्वी नियताहारः शेतेशीते महीतले', 'तपश्चरति धर्मात्मा त्वद्भक्त्या भरतः पुरे' इति भरतस्य तपोनिष्ठा वर्णिता लक्ष्मणेन । सीता च यौवने भर्तारमनुवनं जगाम । अशोकवनिकायां तया चरितं तपः प्रसिद्धम् । सीतारामपुत्रौ वाल्मीकितपोवने जातौ तत्रैव महर्षिणा संवर्धितौ उपनयनादिभिः संस्कृती वेदान् रामायणं चाध्यापितौ महातपस्विनाविति रामेणाऽश्लाध्येताम् । 'इमौ मुनी पार्थिवलक्षणान्वितौ कुशीलवौ चैव महातपस्विनौ' इति रामायणकथा- गानप्रारंभाव्यवहितपूर्वं रामवचनं भाव्यम् । वाल्मीकिनारदवत् रामायणस्य प्रथमाध्येतारौ प्रथमप्रयोक्तारौ बालौ महातपस्विनौ मुनी। रामायणगानस्य प्रथमश्रोतारः प्रथमाभिनन्दिनो महर्षयस्तपस्विनः । तपसा चेदं रामायणं निर्मितं कविना । 'उपस्पृश्योदकं सम्यक मुनिः स्थित्वा कृताञ्जलिः । प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम् ॥', 'तत्सर्वं धर्मवीर्येण यथावत् संप्रपश्यसि ।', 'ततः पश्यति धर्मात्मा तत्सर्वं योगमास्थितः' इति तप- स्तपस्यन्नेव इदं काव्यं निवबन्ध कविः । इत्थमस्मिन् काव्ये तपस्सम्बन्धभूमा । काव्यवस्तुनि काव्यनिर्माण काव्यनायकेषु काव्यप्रवर्तने च बहुधा तपस्संबन्ध- प्राचुर्य व्यज्यते तप इति काव्योपक्रमणेन । 'स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः । तद्धितपस्तद्धि तपः' इति श्रुतिस्मारणेन तपश्शब्दस्य प्रवचनार्थकत्वं विद्योतयिपितन् । अल्पाच्तरत्वात् प्रवचनार्थकस्य तपश्शब्दस्य पूर्वनिपातः । अध्ययनप्रवचननिरताः गुरवः । अत्र न केवलं वेदाध्ययनं, किन्तु शतकोटि- . ।

रामायणसंक्षेपसर्गरसास्वादः 11 । प्रविस्तरस्य ब्रह्मप्रवर्तितस्य देवलोके प्रचारितस्य रामायणस्याध्ययनमपि विवक्षितम् । 'चरितं रघुनाथस्य शतकोटिप्रविस्तरम्' । 'ब्रह्मलोकप्रसिद्धं शत- कोटिप्रविस्तरं रामचरितं' इति श्रीमहेशतीर्थः । 'ब्रह्मणा चोदितं तच्च शत- कोटिप्रविस्तरम् । आहृत्य नारदेनैव वाल्मीकाय निवेदितम् ।' इति मात्म्य वचनमुदाहृतं श्रीगोविन्दराजेन । देवलोकप्रचरितरामायणाध्ययननिरत्त्या राममहिमतत्त्वदर्शित्वम् । तेन च वाल्मीकये तदुपदेष्टुत्वसामर्थ्यञ्च । 'मह५ त्वं समर्थोसि ज्ञातुमेवंविधं नरम्' इति वक्ष्यते । 'अभयं सत्त्वसंशुद्धिः' इति गीताषोडशाध्यायारंभपठितगुणेषु 'स्वाध्यायस्तप आर्जवं' इति स्वाध्यायतपसी सहपठ्यते । तपस्स्वाध्याययोस्साहचर्य श्रुतिस्मृतिप्रसिद्धम्। दैवसम्पन्निवर्तक- धर्ममध्यपठिते ते । दैवसम्पदा ऋद्धिमन्तो गुरवः । 'यज्ञदानतपः कर्म न त्याज्यं कार्यमेव तत् । यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्' इति यज्ञदानतपसां ब्रह्मविद्याङ्गत्वं गीताप्रसिद्धं, यज्ञादि- अतिसूत्रप्रसिद्धं च । शमदमादीनि विद्यासाधनानि विद्यासहकार्यङ्गानि । 'शमदमाद्युपेतः स्यात् तथापि तु तद्विधेस्तदंगतया तेषामप्यवश्यानुष्ठेयत्वात्' इति व्याससूत्रम् । 'क्रियावानेप ब्रह्मविदां वरिष्ठः' इति श्रुतिः । निष्पन्नायां विद्यायां तेषामङ्गत्वमनभ्युपगच्छद्भिरपि तेषां विद्यानिष्ठलक्षणत्वेनावश्यादरणी- यत्वमुच्यते । स्वाध्यायशब्देन श्रोत्रियत्वं, तपश्श्ब्देन ब्रह्मनिष्ठत्वं च ग्रहीतुं शक्यम् । तथा च 'श्रोत्रियं ब्रह्मनिष्ठं' इत्याचार्यलक्षणपूर्तिरुक्ता भवति । 'तपो विद्या च विप्रस्य निःश्रेयसकरावुभौ । तपसा कल्मषं हन्ति विद्यया ज्ञान- मश्नुते' इति मनुः । स्वाध्यायशब्देन विद्योच्यते । 'स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमावसेत् । स्वाध्याययोगसम्पत्त्या गमिष्यति परां गतिम्' इति स्मयते । ज्ञानमयं तपो योगः । नितरां रतो निरतः। तपस्स्वाध्ययोरत्यन्तं रतः । अनेनास्य काव्यस्य शान्तब्रह्मरसानुभावयितृत्वं व्यज्यते । 'देवद्विज- गुरुपाज्ञपूजनं शौचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ।

12 रामायणसंक्षेपसर्गरसास्वादः अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्मय तप उच्यते । मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः । भावसंशुद्धिरित्येत- तपो मानसमुच्यते' । तपश्शब्देन त्रिविधमपि तपो विवक्षितम् । अनादि- सिद्धान् तपोविभागानेव भगवान् गायति । 'उच्यते, उच्यते' इति पूर्व- रुक्तमेव तेनावलम्व्यते । 'वाड्मयं तपः' इत्युक्ताऽनुद्वेगकरवाक्ये दृष्टान्तः उदाहियते श्रीशङ्करभाष्ये 'यथा शान्तो भव वत्स स्वाध्यायं चानुतिष्ठ तथा ते श्रेयो भविष्यति' इति । वेदैस्सम्मितस्य पुराणम्य रामायणम्याभ्यसनमपि वाङ्मयं तपो भवेत् । 'वेदस्साक्षादामायणात्मना आसीत्' इति स्मर्यते । तपःपूर्विका आदिसृष्टिरिति प्रसिद्धम् । 'स तपोऽतप्यत । स तप- स्तप्त्वा । इदं सर्वमसृजत' इति जगत्सृष्टिः तपःपूर्विकेति श्राव्यते । रामायण- रूपादिकाव्यसृष्टिरपि तप:पूर्विकेति व्यज्यते तपश्शब्दारम्भणेन । लोकस्य तपःपरिणत्या रामायणमवतीर्णम् ॥ 'न्यासमेषां तपसामतिरिक्तमाहुः' इति न्यासरूपशरणागतेः सर्व- भयेभ्योऽभयदानरूपमहातत्त्वस्य प्रतिपादक रामायणम् । सकृत्प्रपदनस्पृशा- मभयदाननित्यवतित्वं भगवतो बिस्तरेणोपपाद्यते रामायणेन । तदपि व्यज्यते तपःपदम्यारंभनिवेशनेन । सीतया तप्तस्य पातिव्रत्यतपसोऽत्र प्राधान्येन निरूपणमपि सूच्यते उपक्रमपटिततपःशब्देन । 'पतिशुश्रूषाणान्नार्यास्तपो नान्यद्विधीयते' इत्यनसूयां प्रति सीतावचनं, 'पतित्रतायास्तपसा नूनं दग्धोऽसि मे प्रभो' इति मन्दोदरीविलापवचनं चेह भाव्यम् । 'तपस्स्वाध्यायनिरतं तपस्वी नारदं वाल्मीकिः' इति गुरुशिष्टयो: प्रथमश्लोके सहस्मरणमत्यन्तमुचितम् । 'नारायणं नमस्कृत्य नरं चैव नरोत्तमम्' इति महाभारतारंभे गुरुशिष्यौ सह नमस्फियेते । गुरुशिष्योभया- धीनो विद्याप्रचारः । अद्य शिष्यभूतः श्वो गुरुभवेत् । गुरुशिष्यपरम्परयैव ..

रामायणसंक्षेपसर्गरसास्वादः 13 विद्याप्रचारम्य शाश्वतिकत्वम् । 'देवर्षि प्राह विप्रर्षि वीणापाणिः स्मयन्निव' इति भागवतारंभे उभयोः सहत्वमनुभूतम् । 'सैषा भार्गवी वारुणीविद्या' इति तैत्तिरीये विद्या द्वयोरपि नामभ्यां संज्ञिता । तत्रापि भृगुरिति शिष्य प्रथमम् । वरुण इति गुरुनाम चरमन् । 'पुत्रादिच्छेत्पराजयम्' . वाल्मीकिनारदयोः स्वरूपकथनेन शिष्याचार्याभ्यामेबंभवितव्यमिति द्योतनात् वाक्यगतवन्तुना बस्तुध्वनिः' इति गोविन्दराजेनोक्तं रस्यम् ।। अत्र तपम्वीत्यात्मानं निर्दिशति कविः । अस्ति तत्र भूयः स्वारस्यम् । 'तपस्वी'ति स्वस्य शोच्यत्वरूपदैन्यं विवक्षितम् । 'तपस्वी तापसे शोच्ये' इति वैजयन्ती। 'सोऽहं भगवः शोचामि । तं मा भगवान् शोकस्य पार तारयतु' इति यथा नारदो भगवन्तं सनत्कुमारं स्वन्ददेवं पप्रच्छ, तथा वाल्मीकि स्वस्य शोकदीनत्वं प्रकाशयन् स्वगुरुं नारदं पृच्छति । ब्रह्मज्ञाना- लाभात् अनुपरताशुक् । तज्ज्ञानोपदेशेनैव तस्याः शुचः शान्तिः । 'आत्म- ज्ञानाभिलाषादनुपरतशुचे नारदाय प्रयुक्तं प्राणे सानत्कुमारं विरमति वचनम्' इति भूमाधिकरणसंग्रहश्लोक इह भाव्यः । 'शुगम्य तदनादरणश्रवणात्तदा- द्रवणासूच्यते हि' इति शारीरकसूत्रमपि भाव्यम् । ब्रह्मज्ञानाभिलाषाया- म्तीवत्वे तदलाभप्रयुक्तशोकोऽपि तीवः स्यात् । 'तपस्वी'त्यनेन इत्थमात्म- दैन्यं, आत्मनः शुक् च व्यज्यत इति गोष्ठीपुरं श्रीसौम्यनारायणाचार्यपादाः । 'तपस्विन्'शब्देन भूभविद्यासमाधिय॑ज्यते । इयं रामविद्या अपरा भूमविद्या। 'यत्र नान्यत्पश्यति नान्यद्विजानाति स भूमा' इति भूम विद्याफलम् । 'नैषा पश्यति राक्षम्यः नेमान्युप्पफलद्रुमान् । एकस्थहृदया नूनं राममेवानुपश्यति ।' इति सीतानुभवो भूमविद्याप्रदर्शितानुभवः । 'रामभूतं जगदभूत्' इति सर्वेषां रामतन्मयत्वमुक्तम् । सीताया रामानन्यनिष्ठा रामराज्ये सर्वेषां समानाऽभवत्। 'भूमात्वेव सुखम्' । सुखभूमा रामः । सुखमयी रामचिन्ता। सुख- मयो रामायणानुभवः । 'तथापि शो वस्यात्मानमकृतार्थ इव प्रभो' इति 14 रामायणसंक्षेपसर्गरसास्वादः भागवतारंभे नारदः । व्यासस्य शोको भागवतावतारप्रयोजकोऽभूत् । रामायणं भागवतं च स्कन्दशिष्यनारदानुग्रहप्रवर्तितम् । कुमारर्षयः स्वदत्त- शापेन नृसिंहरामकृष्णावतारप्रयोजकाः । एतत्काव्यद्वयमपि तच्छिष्य- प्रवर्तितम् । तपस्वित्वं शिष्यलक्षणम् । 'कामाऽनशनमेव तपः' इति भामती। 'तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय । प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्' इति श्राव्यते । 'शान्तो दान्त उपरतस्तितिक्षुस्समाहितो भूत्वा' इति विद्यासाधनानि । 'शान्तो दान्तस्तितिक्षुः शरणमुपगतः शास्त्र- विश्वासशाली शिष्यः प्राप्तः परीक्षां कृतविदभिमतं तत्त्वतः शिक्षणीयः ।।' इति सर्वतन्त्रस्वतन्त्रश्रीवेङ्कटनाथाः । तपस्वित्वस्य शिष्यलक्षणत्वात् शिष्यस्य स्वस्य शिष्याधिकारसम्पत्तिः कीर्तनीयैव । न तेनात्मश्लाघादोषसम्भवः । तदकीर्तनेऽनधिकारापतिः । ध्वनिमर्यादया शिष्यस्वरूपमत्र लोकायोपदिश्यते । कथमत्र स्वस्य तपस्वित्वापहवः शक्यः । 'वाग्विदां वरम्' । न केवलं स्वाध्यायरूपवेदतदर्थमात्रवित् , किन्तु लोकचित्तरञ्जकवान्वित्सुश्रेष्ठः । तथा च उत्कृष्टवाण्यनुग्राहकत्वसामर्थ्य द्योत्यते । कविप्रथमपद्धतिरादिकाव्यं रामायणम् । परं कवीनामाधारमिदम् । अस्य प्रवर्तकगुरोर्वाग्विदां वरत्वमपेक्षितमेव । गुरुनिष्ठ मिदम् । अज्ञानखण्ड- कश्च गुरुः । 'दो अवखण्डने । नरसम्बन्धि अज्ञानम् नारं – ज्ञानं, तम्य दाता इत्यप्यर्थो विवक्षितः । 'गुशब्दस्त्वन्धकारे स्यात् रुशव्दस्तन्निरोधकः । अन्धकारनिरोधित्वात् गुरुरित्यभिधीयते ।।' इति निर्वचनश्लोकोक्तगुरुपूर्ति- द्योत्यते । वीणापाणिर्मुनिः । 'पाठये गये च मधुरं तन्त्रीलयसमन्वितम् ।।' इति रामायणश्लोकवर्णनं भाव्यम् । नारदप्रवर्तितं रामायणं तथैव भवेत् । नारदप्रवर्तितम्यास्य गानकुशलाभ्यां कुशलवाभ्यां प्रचारणमुचितमेव । 'परिपप्रच्छ' कः कः इति बहुप्रश्नैः परितो विविधं पप्रच्छ । 'वाल्मीकिः' नाम्नास्य तपोनिष्ठत्वरूपतपस्वित्वं प्रदर्श्यते । अतस्तपोनिठत्वव.चितपस्वि- रामायणसंक्षेपसर्गरसास्वादः 15 विशेषणस्यानवसर इव । 'निश्चलतरतपोविशेषेणास्य वस्मीकवृतौ जातायां प्रचेतसा वरुणेन कृतनिरन्तरवर्षेण प्रादुर्भावोऽभूदिति भृगुपुत्रस्यैवास्य प्रचेतसः पुत्रत्वं वल्मीकापत्यत्वं च संगच्छते' इति श्रीगोविन्दराजः । बहूनाम: मिकास्य जनकत्वाभिमतौ । 'भार्गवेण तपस्विना' इत्युत्तरकाण्डाम्तिमा 'वेदः प्राचेतसादासीत्' इत्यस्य प्राचेतससंज्ञापि प्रसिद्धा । भूमिसुतासीता- चरित्रत्वाद्रामायणम्य तत्कवेर्वसुधाश्रोत्रजत्वमप्युचितमेव । 'सीतेव देवि सहजेन कवीश्वरेण' इति सीतासहजत्वं गीयतेऽस्य । चित्रकूटे 'वाल्मीकि- मभिवादयन्' इति वाल्मीकिशब्दमात्रेण निर्देशः कृतः । 'मुनिपुङ्गवम्' अनेन निदिध्यासनकौशलमुच्यते । राममन्त्रजपनिष्ठो- ऽभूद्वाल्मीकिः । 'मन्त्रविदेवास्मि, नात्मवित्" इति नारदः सनत्कुमारं विज्ञा- पयामास । राममन्त्रसततजप्ता वाल्मीकि: गुरुमुखात् रामगुणचरित्रम हिमादि- विज्ञानेन रामध्याननिष्ठाभाग्यमभिलषति । 2 3 (म.) कोऽन्वस्मिन्सांप्रतं लोके गुणवान् कश्च वीर्यवान् । धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥ 2 चारित्रेण च को युक्तः सर्वभूतेषु को हितः । विद्वान् कः कः समर्थश्च कश्चैकप्रियदर्शनः ॥ आत्मवान् को जितक्रोधो द्युतिमान् कोऽनसूयकः । कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे॥ एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ॥ 'अथ चतुर्विशत्यक्षरगायव्याख्यपरब्रह्मविद्याविलासभूतं रामायणं चतु- विंशतिसहस्रश्लोकैश्चकार' इति वदन्तौ श्रीतीर्थतिलको रामायणस्य परब्रह्म- 5 16 रामायणसंक्षेपसर्गरसास्वादः । विद्यात्वं स्पष्टीकुरुतः । 'कः कः' इति दशकृत्वः पराते प्रष्टा जिज्ञासुना । 'कस्य बिभ्यति देवाश्च' इति चतुर्थश्लोके पठ्यते । 'कः कः' इत्यादिबहु- प्रश्नपदावृत्त्या बुभुत्सायास्तीत्रत्वं द्योत्यते । एतदिच्छाम्यहं श्रीतुं परं कौतूहलं हि मे' इति स्पष्टं स्वजिज्ञासा कीर्तयित्वा स्वकौतूहलस्य काष्ठा- गतत्वमावेदयति । 'क:कः' इति भूयः पृच्छा 'परं कौतूहलं हि मे' इति कौतुहलातिशयोक्तिश्च बुभुत्सितविषयसाश्चर्यरसत्वं व्यञ्जयतः । 'आश्चयों वक्ता आश्चर्यः श्रोता आश्चर्यो लब्धा कुशलवानुशिष्टः' इति कटवल्ली। "आश्चर्यवत्पश्यति कश्चिदेनं आश्चर्यवद्वदति तथैव चान्यः । आश्चर्यवच्चैनमन्यः शृणोति' इति भगवद्गानं जीवात्मविषयेऽपि । 'आश्चर्थमिदमाख्यानं मुनिना संप्रकीर्तितम्' इत्याद्यत्रोक्तं भाव्यम् । 'केनेषितं पतति प्रेषितं मनः केन प्राण: प्रथमः प्रति युक्तः । केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति' इति केनोपनिषदारंभ इवात्रापि 'कःकः' इति प्रश्नवाचकशब्दबहु- त्वम् । 'क:कः' इत्यम्मिन्काव्ये वाल्मीकेर्वाग्द्वारं भवति । 'कः' इति भगवन्नाम । 'एको नैकः सः वः कः किं यत्तत्पदमनुत्तमम्' इति विष्णु- सहस्रनामसु भगवन्नामानि पठितानि । 'कः' इति सर्वनामशब्दो भगवन्नाम । 'ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः' इति गीता । 'तदित्यनभि- सन्धाय फलं यज्ञतपः क्रियाः । दानक्रियाश्च विविधाः क्रियन्ते मोक्षकांक्षिभिः ।।' इति गीताश्लोकम्य भाष्ये “ता:-ब्रह्मप्राप्त्युपायतया ब्रह्मवाचिना तदिति पदेन निर्देश्याः । स वः कः किं यत्तत्पदननुहम इति तच्छन्दो हि ब्रह्मवाची- प्रसिद्धः ।' इति भगवद्रामानुजाः । 'भगवन्नामसहस्र 'यानि नामानि गौणानि विख्यातानि महात्मनः' इति प्रक्रमात् , 'नाम्नां सहस्र'मिति निगमनात् यत्तदादिशब्दानां सर्वनामतया व्यापिनामपि विशेषतः साक्षात्परब्रह्मनामत्व सिद्धमिति भावः' इति तद्भाष्यटीका । 'तदिति ब्रह्माभिज्ञानमुच्चार्य इति श्रीशङ्करभाष्यम् । सर्वनामशब्दानां ब्रह्मणि स्वरसता भूयो भाषिता श्रीशक्कर- रामायणसंक्षेपसर्गरसास्वादः 17 भगवत्पादैः । इत्थं 'कः कः' इति दशकृत्वः भगवद्वाचक शब्द पठनेन कवि प्रथम पद्धति भूत काव्यारंभे मंगलभूयस्त्वं सम्पाद्यते। भगवदवतार- संख्या आद्रियते कः पदावृत्तौ अवतार विशेषवर्णक काव्यारंभे । “बदलने दुर्लभाश्चैव येत्वया कीर्तिता गुणाः” इति शिष्यकीर्तित बहुदुर्ल गुणानामेकाधिकरणत्वमेव प्रष्ट्रबुद्धिस्थम् । यद्यपि प्रश्नानां बहुत्वमापाततः प्रतीयेत, तथापि आदरातिशय एव प्रश्नवीप्सायां कारणम् । न पिछिषित गुणाधिकरणव्यक्तिपृथक्त्वम् । 'महर्षे त्वं समर्थोसि ज्ञातुमेवं विध नरम्' इति शिष्यवचनेनेदं स्पष्टीकृतम् । पृष्टसर्वगुणविशिष्टै नरः कः इति बुभुत्सा स्पष्टीकृता । “एतदिछाम्यहं श्रोतु" मिति अत्रैकवचनेनापि प्रश्नस्यैकत्वं व्यक्तीकृतम् । “एतद्दिव्यपुरुषगुण जातं कस्यास्तीति श्रोतु- महमिछामि" इति तिलकः । केनोपनिषत्प्रश्नानामपि एकाधिकरणत्वमेव प्रष्ट्रभिप्रेतम् । केनोपनिषत्प्रश्नेषु केनेति प्रश्नपदे एव उत्तरमपिगर्भितम् । कं-आनन्द:, 'आनन्दो ब्रह्म' । 'क' इत्युपनिषत्प्रसिद्धं ब्रह्मनाम । के सुखम् । 'कं ब्रह्म खं ब्रह्म' । · आनन्देन ब्रह्मणा इषितं पतति प्रेषितं मनः । “कोह्येवान्यात्कः प्राण्यात्, यदेष आकाश आनन्दो न स्यात्' इत्यानन्दवल्या इदं प्रसिद्धत्वेन श्राव्यते । तथात्रापि 'कः कः' इति प्रश्नः कः कः' इत्येवोत्तरयितुं शकयः । 'भगवान्, भगवान्' इत्युत्तरमप्य- भ्यस्तं भवति सहस्रनामपठित सर्वनामभूतक:पदैरेव। . रामो रामो राम इति जनानाम भवनकथाः' इति रामे अभिषिक्ते रामनाम सततं सानन्दं सर्वे जनाः तन्मया अकीर्तयन् इति गीयते युद्धकाण्डान्ते । 'सततं कीर्तयन्तो माम्। उपक्रमेप्यत्र भगवन्नाम पुनः पुनः कीर्त्यते । दुर्लभा बहवः तद्गुणाश्च कीर्त्यन्ते । पट्टाभिषेकानन्तरं तत्सन्निकृष्टे काले इमा अनुयोगा भवन्ति । 'रामो नाम जनैः श्रुतः' इति सार्व जनीन प्रसिद्धि प्रतिवचनोपक्रम एव वदन् गुरुः स्वसंक्षेपे राम नाम पंच चत्वारिंशद्वारं कीर्तयति । 'नु' इति 18 रामायणसंक्षेपसर्गरसास्वादः . वितर्कद्योतक निपातेन राममीमांसाप्रारंभोद्योत्यते । 'अस्मिन् लोके सांप्रत इति प्रश्नस्य समान काल समान लोकवर्ति पुरुष विषयत्वम् । अम्मिन् लोके को गुणवान्' इति प्रश्नारंभः । सर्वोत्तम गुण विशिष्टः पुरुषोत्तमः कः इति प्रश्नः । सर्वाति शायि गुण विशिष्ट पुरुप विशेषः पृछयते । 'गुणवान् इति मतुपा गुणानां प्रशस्तत्वं, भूमा, नित्ययोगश्च विवक्ष्यन्ते । सर्वमंगलगुण भूमा तत्सतत सम्पन्नः कः इति प्रश्नहृदयम् । 'सच सर्व- गुणोपेतः कौसल्यानन्दवर्धनः','तमेवं गुण सम्पन्नं राम', 'ज्येष्ठं श्रेष्ठ गुणैर्युक्त इत्यादिकं प्रतिवचनं शिप्य बुभुत्सानुसारि । 'बहवो दुर्लभाश्चैव येत्मया कीर्तिताः गुणाः । मुने वक्ष्याम्यहं बुद्धातैर्युक्तः श्रूयतां नरः ॥” इति गुरुप्रतिवचन प्रथम वाक्येनैव दुर्लभ बहुगुण विशिष्ट पुरुष विशेषः पृष्ट इति स्पष्टीक्रियते । 'सर्वभूतेषु को हितः' इति कीर्तितं सर्वभूत सुहृत्त्वं, 'भोक्ता यज्ञतपसां सर्वलोक महेश्वरम् । सुहृदं सर्वभूतानां' ज्ञात्वामां शान्तिमृच्छति ॥” इत्युक्तसर्वलोकमहेश्वरम्यैव वस्तुतः सम्भवेत् । 'कश्ववीर्यवान्' इति कीर्तितं सर्वाति शयित वीर्यवत्त्वं परम पुरुषस्यैव संभवेत् । तादृशं वीर्य भगवदसाधारणषड्गुणेष्वेकम् । “तवानन्त गुणस्यापि षढेव प्रथमे गुणाः” इति स्मयते । गीता भाष्य भूमिकायाञ्च श्रीशंकर भगवत्पादाः, “स च भगवान् ज्ञानेश्वर्य शक्तिबलवीर्यतेजोभिः सदा सम्पन्नः स्वमायया देहवानिव जात इव लोकानुग्रहं कुर्वन् लक्ष्यते । अधर्मेणाभिभूयमाने धर्मे जगतः स्थिति परिपिपालयिषुः स आदिकर्ता नारायणाख्यो विष्णुः भौमस्य ब्रह्मणो ब्राह्मणत्वस्य रक्षणार्थं देवकयां वसुदे- वादंशेन किल संबभूव" इत्यभाषिषत। कृष्णविषये भाषितं तद्राम विषयेपि समानम् । “वीर्यवान्" इत्यादिभिः लोकातिशायिषाड्गुण्य विशिष्टः कः इति पृष्टं भवति । वेदवेद्यः परः पुमानेव किं दशरथात्मजो जात इति वितण जिज्ञास्यते त्रिलोकज्ञ गुरुमुखात् । “वेदवेद्येपरे पुंसि जाते रामायणसंक्षेपसर्गरसास्वादः 19 दशरथात्मने । वेदः प्राचेतसासीत्साक्षाद्रामायणात्मना ॥" मोक्षप्रदे वेदवेद्ये परे पुंसि जाते, परमपुरुष विषय श्रौतब्रह्मविद्यापि रामायण कृति रूपेण प्राचेतसादवतरतीति प्राचेतसस्य वेदसंमित शास्त्र प्रणयन प्रवर्तन भाग्यमस्ति । आसन्नेच तद्भाग्यलाभे लोकोत्तर सर्वातिशायि समस्त का गुण सम्पन्नो भूलोकवतीं पुरुष एव किं मोक्षप्रदः परः पुमान् इत्यादिक जिज्ञास्यते । एतैस्सर्वोत्तमगुणैः पूर्णः कश्चित् मनुष्यलोकवी पुरुषश्रेष्ठो न परमपुरुषादम्यो भवेत् । वेदवेद्य परम पुरुषस्य ये गुणाः श्रूयन्ते, तैः पूर्णो रामः । किं रामः स एव परमः पुमान् इति जिज्ञासोविंचि कित्सा । 'महर्षे त्वं समर्थोसि ज्ञातुमेवं विधं नरम्' इति वाल्मीकि प्रश्नवाक्य निगमनेन अतीन्द्रिय दर्शनवत एव गुरोः तत्प्रश्नप्रतिवचन साम- र्थ्य संभव इति स्पष्टमवगमितम् । नरमात्रस्य तद्गुणानां वा नातीन्द्रियत्वम् । राम तद्गुणानुभवः सर्वजन प्रसिद्धः । परंतु रामस्य परम पुरुषत्वमती- न्द्रियम् । महर्षीणामेव तत्प्रत्यक्षीकरण सामर्थ्यम् । “अजायमानो बहुधा विजायते । तस्यधीराः परिजानन्तियोनिम्” “युवा सुवासाः परि- वीत आगात् । सड श्रेयान्भवति जायमानः । तं धीरासः कवय उन्नयन्ति स्याधियामनसा देवयन्तः" इति भगवदव तार विषय श्रुत्युक्तधीर- स्त्वमिति भावः । धीरो धीशाली । “धीरोमनीषिज्ञः प्राज्ञः । “महर्षे यतः प्रत्यक्षीकृताशेषार्थस्त्वं उक्तगुणवन्तं नरं दिव्यपुरुषं ज्ञातुं समर्थोसि, सर्वलोकप्रसिद्ध सामोसि, तस्मात् त्वत्त एव श्रोतुमिच्छामि" इति तिलकः । नर शब्दः परमात्मनोपि वाचकः । नरति-सद्गति प्रापयति इति नरः परमात्मा । "नरतीतिनरः प्रोक्तः परमात्मा सनातनः इति भारतवचनमुदा- हृतं तीर्थगोविन्दराजाभ्याम् । “तैर्युक्तः श्रूयतां नरः" इति प्रतिवचनो- पक्रमस्थ नरशब्दस्यार्थह्वयमपि ग्रामम् । परमात्मभूतोनरः श्रूयतामिति गुरुहृदयम् । नारदीय संक्षेपेणद्योतितं रामस्य परब्रह्मावताररूपत्वं ब्रह्मणानु- 20 रामायणसंक्षेपलारसास्वादः पुतः पुनराश्रितैरनु- गृहीतेन दिव्य चक्षुषा साक्षात्करिष्यते वाल्मीकिना । ततश्च “स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः । अभितोमानुषे लोके जज्ञे विष्णुर- सनातनः ॥" इत्यादिकं गास्यते । "समस्तकल्याण गुणात्मकोसी स्वशक्तिलेशोद्धत भूतवर्ग:" इति भगवतः समस्त कल्याणगुण सम्पन्नत्यमुक्तं पराशरेण । 'गुणवान्' “गुणशब्दोऽत्र न गुण सामान्यमात्रार्थकः, गुण विशेषोऽत्रविवक्षितः । गुण्यते इति गुणः, अभ्यसनीयः अनुकूलतमत्वेन शीलनीय इत्यर्थः । ईदृशत्वं च सौशील्यम्य गुणान्तरेभ्यम्समधिकम् । इदं च महतोमन्दैम्सह नीरन्ध्र संश्लेष स्वभाववत्वम् । तदेतत् गुह शबरी गोपालादि वृत्तान्तेषु प्रसिद्धम्" इति, “वसी वदान्यो गुणवान् ऋजुः शुचिः मृदुर्दयालुमधुरः स्थिरः समः ।" इति यामुनाचार्यम्तोत्ररत्नइलोकभाष्ये भाषितं श्रीवेंकटनाथैः । अत्र "यद्वा गुण्यते आवयते सन्धीयते इति गुण: सौसील्यम् । "गुणस्त्वावृति शब्दादिज्येन्द्रिया- मुख्यतन्तुषु" इति विश्वः । सुशीलं हि नाम महतो मन्दैम्सह नीरन्ध्रण संश्लेषः । तस्याधिक्यं सौशील्यम् । तद्वान् । सौशील्ये गुण शब्दोऽभियुक्तैः प्रयुक्तः “वशीवदान्यो गुणवान् ऋजुः शुचिः" इति । कोवा सौशील्यवानित्यर्थः । इति श्रीगोविन्दराजव्याख्यारस्या । रामस्य सौशील्यं प्रसिद्धम् । 'परत्वस्य सौलभ्यमाकल्पमाहुः' । सर्वस्मात्परस्येश्वरस्य सौशील्यगुणो जनताचित्तरञ्जकतमः । 'अपिदाशकित- वादित्वमधीयत एके” इति सूत्रयन् बादरायणः, निरतिशय बृहतो ब्रह्मणो निकृष्टवस्तु सामानाधिकरण्यो क्तौ विस्मयं व्यञ्जयति । 'निषादानां नेताकपि कुलपतिः कापि शबरी कुचेलः कुब्जासा व्रज युवतयो माल्शकृदिति । अमीषां निन्नत्वं वृषगिरिपतेरुन्नतिमपि प्रभूतैस्स्रोतोभिः प्रसभमनुकम्म समयसि ॥" इति भगवतः सौशील्यरुपदया गुणानुभवश्लोऽकीत्र गुणरसाकृष्टः “कः कः" इति पुनः पुनरावर्तयतीष रामायणसंक्षेपसर्गरसास्वादः 21 गुणयतीव । परमपुमानेव किं अस्मिन् मानुषे लोके नरो बभूव इति विस्मयरसाविष्कारः । रामावतारे परत्वं रामेणापि विस्मृतप्रायम् । रामत्वमेवाभिमभ्यते तेन । अतोऽत्र रामकथोपोद्धाते सौशील्यस्य पठनमुचितमेव । “निषादराज सौहृद सूचित सौशील्य सागर" रघुवीरगद्योक्तमिह भाव्यम् । सौशील्यसागरत्वं गुणवानिति शब्देन विवक्षितम् । 'कश्ववीर्यवान्' को गुणवान् वीर्यवांश्च । चकारेण पृष्टगुणानामैकाधि- करण्यं स्पष्टीक्रियते । 'वीर्यवा' नित्यत्रापि मतुपा वीर्यस्य काष्ठा अभिप्रेयते । 'नियतात्मा महावीर्य' इति प्रतिवचनारंभे महावीर्यशब्देन वीर्यवानित्यत्र मतुबर्थः प्रकाश्यते । 'इक्ष्वाकुवंशप्रभवः' इति मनुष्यत्वेनावतरणरूप सौलभ्यं प्रतिवचनोपक्रम एव व्यज्यते । “रामोनामजनैः श्रुतः" इत्यनेनापि श्रुतशब्दस्यावधृतत्वार्थकत्वमाश्रित्य रामस्य "रामोरमयतां वरः” इति निर्वचन सिद्धरमयितृत्वोत्कर्षः सर्वैरपि जनैस्साक्षादनुभूत इति व्यञ्जनेन रामस्य सौशील्यं प्रकाश्यते गुरुणा। वीयवा नित्यत्र वीर्यशब्दः इतर भगवद्गुण पञ्चकोपलक्षकः । “वीर्यवान् न च वीर्येण महता स्वेन विस्मितः" इत्ययोध्या काण्डारंभश्लोकेनापि वीयवानित्यत्र निरतिशयमहत्वं मतुबर्थ इति प्रकाश्यते । अस्य वीर्यस्य निरतिशयमहत्वात् अयं महावीर इति भण्यते कविभिः । 'महावीरचरित्र' इति महावीरसंज्ञा रामे पठिता भवभूतिना। 'महावीर चरित्रं' इति श्रीवेंकटनाथीयरधुवीरगद्यस्य संज्ञा । "जय जय महावीर" इति तद्गद्यप्रारंभः । 'रामः शस्त्रभृतांवरः' इति कृष्णेन रामस्य सर्वोत्तमवीरत्वं परिगण्यते । "युद्धकुशलानां मध्ये रामो दाशरथिरखिलराक्षसकुलक्षयकरः परमवीरोऽहमस्मि" इति तत्र मधुसूदनसरस्वती परमवीरत्वं वक्ति । "दिष्टया कृतमिदं कर्म त्वया शस्त्रभृतां वर" इति भगवता महादेवेन 22 रामायणसंक्षेपसगरसास्वा- कृतमभिनन्दनं आदिकाव्यनिबद्धं स्मृतमिव गीतागायकेन भगवता । रामायणगायककुशीलवयोरिव गीतागायकम्य गोपालम्य वाचोविधेयं रामायणम् । “वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे" इति राम राम संवादे रामो जामदग्न्यः । 'वीर्यवान्,' “सत्स्वपि विकारहेतुषु अविकृतत्वं वीर्य " इति श्रीगोविन्दराजः । "येन स्वयमक्षतम्सन् परान् जयति तद्वीर्यम्" इति तिलकः । सर्वथा स्वस्याविक्रियमाणत्वम् । “नियतात्मा महावीर्यः" इति प्रतिवचने पदद्वयसमभिव्याहारेणेदं सूच्यत इव । " 'धर्मज्ञश्च' "रामो विग्रहवान् धर्मः ।" इति मारीचः स्तौति रामं रावणसन्निधौ । "श्रुतिः स्मृतिर्ममैवाज्ञा' इति भगवदाज्ञाः श्रुतिस्मृति विहितधर्माः । "चोदनालक्षणार्थों धर्मः" । कम्य चोदना ? अस्यैव । नूनं स्वाज्ञां स्वयंवेत्ति, यद्यपि धर्मस्य तत्त्वं निहितं गुहायाम् । धर्म नि:संशयं जानाति, अनुतिष्ठति च । स्वाचरणेन धर्मानुष्ठापनं प्रयोजन- चशब्दात् अनुष्ठापनंच समुच्चीयत इव । मवतारस्य । 'कृतज्ञश्च' विध्युलंधने दण्डं पातयेदितिशंकायां, "कथंचिदुपकारेण कृतेनैकेन तुष्यति । न स्मरत्यपकाराणां शतमप्यात्मवत्तया ॥” इति कृतज्ञत्वमनुपदमेव निर्दिश्यते भयशमनाय । सत्यवाक्य:--अयं रामगुणः प्रसिद्धः । 'सत्येन लोकान् जयति दीनान दानेन राघवः' । “चतुर्दशसु वर्षेषु गतेषु नरसत्तम । पुनर्दक्षयसि मां प्राप्त सन्तापोऽयं विमुच्यताम्" ॥ "नवपंचचवर्षाणि वनवासे विहृत्य ते । पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिप ॥” इति रामस्य वाक्यं सत्यापित रामप्रियेण भगवता महादेवेन दशरथं स्वर्गादानाय्य रामम्य तत्पादवन्दनं 23 रामायणसंक्षेपसर्गरसास्वादः दृढवतः- प्रथमतो वनवासव्रतसंकल्पः स्वप्रियतमभरतयाचयापि न विचालायतुमपार्यत । “शिरसा याचतस्तस्य वचनं न कृतं मया" इति शोकेन भृशमतप्यत । अस्य शरणागतरक्षणव्रतमसाधारणम् । "स प्रपन्नाय तवास्मीति च याचते । अभयं सर्वभूतेभ्यो ददाम्येतद्वतं मम" . तद्वाक्यम् । 'सकृत्प्रपदनस्पृशामभयदान नित्यवती" इत्येतद्रतानुवादः । सर्वलोकशरण्यस्येश्वरस्य करुणासागरस्य व्रतमिदम् । चारित्रेण च कोयुक्त:-राम चारित्रं सुप्रसिद्धम् । रामचरित्रमेव लोके चारित्रम् । चारित्रलक्षणं रामचरित्रात् ज्ञेयम् । सर्वभूतेषु को हित:-- अयं रामगुणः हृतबान्धवाभिः क्रन्दन्तीभी राक्षसीभिरपि कीयते । युद्धकाण्डपश्चनवतितमसर्गे "विधवाहतपुत्राश्च क्रोशन्त्यो हृतबान्धवाः । राक्षस्यः सहसंगम्य दुःखार्ताः पर्यदेवयन्" इति वर्णितराक्षसीसमूह परिदेवनोपक्रमे "कथं शूर्पणखा वृद्धा कराला विकृतोदरी । आससाद वने राम कन्दर्पमिवरूपिणम् । सुकुमारं महासत्त्वं सर्वभूतहितेरतम्" ॥ इति तासां वाक्यम् । रामे सर्वेषां पुंसां रतिः । रमस्य सर्वभूतहितेरतिः । सर्वभूतहितत्वमीश्वरलक्षणम् । भूतहितायैवेश्वरप्रवृत्तिस्सर्वापि । 'प्रजानां च हिते रतः' इति प्रतिवचनम् । - विद्वान् कः 'यः सर्वज्ञः सर्ववित्', 'वेदवेदांगतत्त्वज्ञः', सर्व शास्त्रार्थतत्त्वज्ञः', स्मृतिमान् प्रतिभानवान्" इत्यादिकं प्रतिवचनं भाव्यम् । कः समर्थश्च" समर्थ:-अनन्यनिर्वाह्यकार्यनिर्वहणशक्तः" इति तिलकः । 'सर्वज्ञः सर्वशक्तश्चकः' इति प्रष्टरभिप्रायः ॥

. रामायणसंक्षेपसर्गरसास्वादः कश्चैकप्रियदर्शन:----सर्वदा सर्वेषां प्रियदर्शनः । “सोमवत्प्रिय दर्शनः" इति प्रतिवचनम् । चन्द्रो जगदाहाद करः । आह्लादकत्वमेव तस्य स्वरूपम् । “अतीव प्रियदर्शनम्,' 'पुंसां दृष्टिचित्तापहारिणम्" इति विग्रह सौन्दर्यम् । रामशरेणाभिहतो वाली स्वमारकस्य रामस्य प्रियदर्शन- स्वरसे मम्नोऽभूत् । "त्वं नराधिपतेः पुत्रः प्राथेत: प्रियदर्शनः" इति तदुपालंभवचने प्रथमवाक्यम् । "तम्य प्रियमेव शिरः, मोदो दक्षिण: पक्षः, प्रमोद उत्तरः पक्षः;, आनन्द आत्मा, ब्रह्मपुच्छं प्रतिष्ठा" इत्युक्तानन्द- मय परमात्मनः कार्यन प्रियत्वमानन्दत्वच्च । सर्वाङ्गसुन्दरीतिवत् पर- ब्रह्मणि सर्वांशैरपि आनन्दमयत्वानुभवः आनन्दवलीश्रुतेः ।" कश्चैकप्रिय- दर्शनः' इति विग्रहसौन्दर्य विषयत्वं प्रश्नस्य । तत्सौन्दर्यरसानुभवरसमग्नो गुरुः “विपुलांसो महाबाहुः" इत्यारभ्य प्रतिवदति तद्विषये । "आत्मवान् को जितक्रोधः' -आत्मवान्-अजहत्स्वम्वभावः । आत्मा-स्वभावः । स्वभावश्च “समोहं सर्वभूतेषु नमेद्वेप्योम्ति कश्चन" इत्युक्तं समत्वम् । अत एव जितक्रोधः । न क्रोधम्य वशः । किन्तु क्रोधस्तस्य वशे । 'क्रोधमाहारयत्ती' इति कोधापेक्षासमये क्रोधमाहारयेत् । तीब्रोपि कोपः आहार्य एव । समुद्रराज विषये उस्थितस्तीब्रतमः कोप: उत्तरक्षण एव शशाम प्रपदनेन । इदं चास्पदर्शित, "पारावारपयोविशोषणकलापारीणकालानलज्वालाजालविहारहारिविशिखव्यापार- घोरक्रमः । सर्वावस्थ सकृत्प्रपन्नजनता संरक्षणैकवती धर्मो विग्रहवान धर्मविरतिं धन्वी स तन्वीत नः" इति राम विषयश्लोके दशावतार स्तोत्रे वेंकटनाथीये। द्युतिमान्–दीप्तकान्तिमान् । “शोभयन् दण्डकारण्यं दीप्तेन स्वेन तेजसा" इति गीतं भाव्यम् । मरुकान्तारं स्वनीलकान्त्या आप्याययन् अन्वाहमयमिव चकार । “अटवीसम्पदमम्बुवाहयन्तीं" इति गोपाल- रामायणसंक्षेपसर्गरसास्वादः 25 लिविंशत्यां मोपासवर्णनं भाव्यम् । कोऽनसूयक:--'को गुणवान्' इति प्रथमः प्रश्नः । 'कोऽनसूयकः' इति पृच्छयते । असूयाराहित्यं दुर्लभतमम् । • गुणेष्वा५ दोषारोपः असूया । गुणवतामपि असूयाराहित्यं दुर्लभम् । अयं तु परदोषानपि करुणया वात्सल्येन च दोषत्वेन न परिगणयति । “यदि वा रावणः स्वयम्" इति अस्य प्रकृत्या कल्याणबुद्धिः । कृतमपकारशतमपि न स्मरति । अणुमपि गुणं महामेरूकरोति । पर्वताकारमपि दोष परमाणूकरोति । “लीलानिर्जितषण्मुखात् भगवतः श्री जामदग्न्याहते निर्विघ्नप्रतिपन्नशत्रुविजयो वीरस्तु कस्तादृशः" इति महावीरचरित्रे रावणस्य वीर्य श्लाघते रामः । संयुगे जातरोषस्य कस्य देवाश्च विभ्यति इति प्रश्नः । 'को वीर्यवा'निति द्वितीयप्रश्नः । अत्रान्ते तस्य वीर्यस्य अनुकूलानामपि भयावहत्वमुत्प्रेक्ष्यते । नृसिंहस्य देवादीनामपि भोषणत्वं प्रसिद्धम् । "सा नोपेयाय शंकिता" इति लक्ष्मीदेव्यपि बिभायेति वर्णितं शुकेन कतिपयदिवसेभ्यः पूर्वमेवासदृशं घोरं रामरावणयुद्धं वृत्तम् । अचिरवृत्त तत्स्मृत्वा इत्थं प्रश्नमुपसंहरति । 'तपस्वी' इति प्रथमश्लोके स्वस्य तपस्वित्ववर्णनेन दैन्य-शुक्, श्रवण- कौतूहलं आर्तिः, इत्यादीनि इङ्गितैः सूचितानीति घोतितम् । बुभुत्सितज्ञाने स्वस्य त्वरायाः काष्ठागतत्वं प्रश्नवीप्सयापि घोतितम् । एतदहं श्रोतुमिच्छामि । मम शुश्रूषा अतीव तीवा । त्वं महर्षिः । ऋषीणां परमः । सर्व तवापरोक्षम् । महुभुत्सितमेवंविधं नरं ज्ञातुं तवसामर्थ्यमस्ति । नाहं : वेनि नविन समिति र वन' शवयम । समर्थस्त्वम् । वेत्सि त्वम् । -1 26 रामायणसंक्षेपसर्गरसास्वादः कारुणिकश्च त्वम् । करुणामयाः महर्षयः। अहं नव प्रातुः पुत्रः । मम पितेव त्वम् । अहं सद्यो ज्ञातुमिच्छामि, क्षणमात्रविलम्बाऽसहिष्णुः । सर्वोतमनायकविषयकं काव्यं निबन्धुमहं तीवकामः । “नासंवत्सरवासिने प्रज्यात्" इति नियमो न पुत्रविषये आदर्तव्यः । 'अहं' इति स्वस्य नारद भ्रातृ भृगुपुत्रत्वरूपो विशेषो विवक्ष्यते । गुरुरपि 'वक्ष्याम्यहं' इति प्रतिवदन् 'अहं' इति स्वस्य प्रष्ट्रपितृत्वरूपातिशयमपि विवक्षति ॥ ॥ अथ नारदसंक्षेपावतरणिका ॥ 6 (म्) श्रुत्वा चेतत्रिलोकज्ञो वाल्मीकेर्नारदो वचः । श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्पमत्रवीत् ॥ रागमय, उत्कण्ठामयं मधुरं मुधुराक्षरं कोकिलकूजितमिव वाल्मीके- वचो बहुमनुते गुरुः । 'श्रुत्वा चैतत् प्रहृष्टः' , 'संभवे मधुरं वाक्यम् " इतिवत् मधुरमधुरशिष्यप्रश्नश्रवणमात्रेणानन्दितो भवति रामभक्तिमयो गुरुः । "इति संप्रश्नसंहृष्टः विप्राणां रोमहर्षणिः” इति भागवतारंभे शौनकादि- विप्रपृष्टस्य सूतस्य प्रहर्षः प्रदर्शितः । " इत्थं स्म पृष्टः स च बादरायणिः संस्मारितानन्तहृताखिलेन्द्रियः । कृच्छात्पुनर्लब्धघहिदृशिः शनैः प्रत्याह तं भागवतोत्तमोत्तम" इति भागवते, परीक्षित्प्रश्नेन संस्मारिता- नन्त भगवद्गुणापहृतमनाः तद्गुणानन्दानुभवमनः कृछात् शनैः लब्धबहिर्देशिः पुनः भागवतप्रवचनमारेमे शुकः इति वर्णितम् । तद्वदत्रापि उत्कण्ठामय्या शिष्यमधुरवाचा संस्मारितभगवद्गुणरसमग्नो गुरुः आनन्दपारवश्येन सधः क्षिप्रमुपदेशवाक्यानि प्रारब्धुं न शक्नोतीव । 'श्रूयता' मिति पदमात्रमुच्चारयति प्रथमम् । अनन्तरं विलम्बमेव पश्यामः तद्वचःप्रसरे। "प्रतिवक्तुं न चोत्मेहे औत्कण्ठ्या स्मारितेश्वरः” इत्युद्भवविषये उक्तमिह भाव्यम् । ।

रामायणसंक्षेपसर्गरसास्वादः 27 आप्रच्छन्नमथाम्नायः सम्प्रदाय "आमन्त्रणसभाजने । इत्यमरः । "आनन्दनसमाजने' इत्यपि पाठः । 'आमन्त्रण' मिति कचित्पाठः । आप्रच्छन्नमिति त्रीणि स्वागतसंचनादिना विहितस्यानन्दस्य ।" इत्यमर- सुधा व्याख्या । अत्रामन्त्रणशब्दप्रयोगस्यौचित्यं रस्यम् । अमरसिं इमं रामायणश्लोकं सस्मारेव । अत्र आमन्त्र्य सम्प्रदायोपदेशः प्रारभ्य 'प्रहृष्टः' इति हर्षाधिक्येन वाक्योचारणस्य मध्ये विलम्बितत्वं कथ्यते । प्रोपसर्गेण हर्षस्योद्वेलत्वं सूच्यते । हर्षाधिक्येन किञ्चिदुपरुद्धव वाक् । 'वाक्यमब्रवीत्' इत्यनेन पूर्व श्रूयतामिति पदमात्रमुच्चारयामास, न वाक्यमिति व्यज्यते । श्रूयतामिति प्रथमप्रयुक्तं पदं पुनरप्यभ्यस्यते 'श्रूयतां नरः' इति । "मुने वक्ष्याम्यहं बुवा" इति वाक्ये 'बुवा' इत्युक्तया आनन्द संप्लवममत्वात् प्रज्ञाप्रमोषोऽभूदिति व्यज्यते । “मचित्ताः मद्तप्राणाः बोधयन्तः परस्परम्" इति गीतायां भगवद्गुणानुभवानन्द मुर्छासु परस्पर शैत्योपचारादिभिः बोधयन्तः इत्यप्यर्थो वण्यते । मयि ममहृदयत्वात् प्राणव्यापारोपरमरूपगतप्राणत्वे परस्परं समाश्वासयन्त इत्यर्थः । राम गुणानुसन्धानवैचित्र्येण न मे किञ्चित्प्रतिभाति, क्षणात् बुद्धा वक्ष्यामीत्यर्थः । अतो मध्ये वाक्यान्तरमलंकाराय । अन्यथा वाक्यगर्भितमिति वाक्यदोषः स्यात् । अहं वक्ष्यामि अहं भूत्वा वक्ष्यामि, न इदानीं नारदोऽस्मि । रामगुणश्रवणशिथिलितत्वात् । 'रामगुणमन्नोऽयं नदीप्रवाहमम इवावलम्बन- यष्टिमपेक्षते' इति गोविन्दराजीयरसो रस्यः । श्रुत्वा चैतत् ‘एतत् श्रुत्वा' इति वाल्मीकिवचसो रसघनत्वं द्योत्यते । त्रिलोकज्ञः-मनुष्यलोके को गुणवान् इति प्रश्नः । त्रैलोक्यमपि कात्स्न्येन जाननारदो लोकत्रयेऽपि मानुषरामसमो गुणवान् नास्तीति बुझ्यते इति योत्यते । त्रिलोकज्ञः- लोकत्रयं सदा सञ्चरन्नपि वाल्मीकिसदशं प्रष्टारं शिष्य न लेमे इत्यपि द्योत्यते अनेन । "रामगुणस्मरणामृतपानादपूर्वशिष्यलाभाद्वा प्रदृष्टः" इति गोविन्दराजः ।

28 - (म) बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः । मने वक्ष्याम्यहं बुलवा तैर्युक्तः श्रूयतां नरा ॥ . .गुणानां बहुत्व, एकैकस्य सुदुर्लभत्वं च विवक्ष्यते । परत्व- विशिष्टे सौलभ्यस्यात्यन्तदौर्लभ्यम् । कीर्तिताः सानन्दं श्रोतृमनोहारि- तया कीर्तिताः । “सततं कीर्तयन्तो मां" इति गीताश्लोक इव कीर्तन- शब्दस्यार्थो प्रायः। 'स्मरण कीर्तनं विष्णोः',। बुद्ध्वा वक्ष्यामि-अर्य बुद्धवा शब्दरचना इति न्यायः । कीर्तितेषु गुणेष्वेवायं ममः । गुणाधिकरणभूतगुणिपर्यन्तमपि न सद्यो गन्तुं शक्नोति । अतो वदति अहं एतद्बहुगुणाश्रयं वस्तु बुद्ध्वा वक्ष्यामीति । अनन्तरं तद्बुद्धयते। बुद्ध्वा च वक्ति "तैर्युक्तः श्रूयतां नरः" इति । “आनन्दसंप्लवे मग्नो नापश्यदुभय मुने" इति नारदेन स्वस्य ब्रह्मानुभवप्रकारो वर्णितो भागवतारंभे ॥ तस्मात् ॥ अथ संक्षेपारम्भः ॥ 8 (म्) इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः । नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी ॥ बुद्धिमान् नीतिमान् वाम्मी श्रीमान् शत्रुनिबर्हणः । विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ॥ महोरस्को महेष्वासो गूढजत्रुररिन्दमः । आजानुबाहुः सुशिराः सुललाटः सुविक्रमः ॥ समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् । पीनवक्षा विशालाथो लक्ष्मीवान् शुभलक्षणः ॥ 10 11

29
14
गमायणसंक्षेपसर्गरसास्वादः
धर्मज्ञस्सत्यसन्धश्च प्रजानां च हिते रतः ।
यशस्वी झानसम्पन्नः शुचिर्वश्यस्समाधिमान् ॥ 12
प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः ।
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता ॥
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।
वेदवेदाङ्गतचज्ञो धनुर्वेदे च निष्ठितः ॥
सर्वशास्त्रार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान् ।
सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः ॥
15
सर्वदाभिगतस्सद्भिः समुद्र इव सिन्धुभिः ।
आर्यः सर्वसमश्चैव सदैव प्रियदर्शनः ॥
स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः ।
समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ॥
17
विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः ।
कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ॥
18
धनदेन समस्त्यागे सत्ये धर्म इवापरः ।
19
'इक्ष्वाकुवंशप्रभवः'-"पिताहमस्य जगतः माता धाता पितामहः ।
'प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम्" इति रामाद्भगवतो
जगदुत्पद्यते । जन्मादि अस्य यतः इति तल्लक्षणम् । अयमिक्ष्वाकुवंशे
प्रभवतीति अस्य सौलभ्यसौशील्यादिकं प्रथममेवानुभूयते । 'को गुणवान्'
16

80 रामायणसंक्षेपसर्गरसास्वादः इति प्रश्नगतगुणशब्दस्य सौशील्यार्थो गृहीतो गुरुणा । अतः साम्प्रत- मस्मिन् लोके को नु गुणवान् इति प्रथम प्रभस्य उत्तरं दीयते । निरवधिकसौशील्यगुणाधिकरणं वस्तु इक्ष्वाकुवंशे प्रभूतो रामः । कुशिकवंशप्रभवोऽन्यो रामस्तदानीं मानुषे लोके आस्ते जामदग्न्यः । सोऽपि भगवदवतारः । तद्वयावर्तकवंशः प्रथमं कीर्त्यते । “जनकानां कुले कीर्तिमाहरिष्यति मे सुता" इति जनकः । “कर्मणैव हि संसिद्धिमास्थिता जनकादयः" इति जनकः श्लाघ्यते गीतायाम् । जनकात्मजेव रामोऽपि ज्ञान्यग्रेसराध्यात्मशास्त्रप्रवक्तृमहागुरुवंशप्रसूत इति प्रथममेव कीयते । 'इक्ष्वाकुवंशत्रभवः' इति, “इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥” इति गुरुपरम्परामध्यस्थ- प्रसिद्धराजर्षिरिक्ष्वाकुः । रामस्य सीतावत् प्रसिद्धज्ञानिगुरुराजर्षिवंशभवत्वं द्योत्यतेऽनेन । “मनुरिक्ष्वाकवे स्वपुत्रायादिराजायाब्रवीत्" इति शाकर भाष्यम् । “आदिराजायेतीक्ष्वाकोः सूर्यवंशप्रवर्तकत्वेन वैशिष्टयमुच्यते" इति तत्रानन्दगिरिः । आदिकाव्यमिदं आदिराजर्षिवंशप्रभवरामचरित्रम् । इक्ष्वाकुर्मानुषः । मानुषवंशे प्रभूतो मानुषत्वाभिमानो मानुषी तनुमाश्रितो 'यज्जातीयो यादृशो यत्स्वभावम्तजातीयस्तादृशस्तस्वभावः ।' 'इक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम् । महदुत्पन्नमाख्यानं रामायण- मिति श्रुतम् ॥” इति रामायणकथारंभपठितश्लोकः एतदनुसारी । तत्र ग्रन्थो वर्ण्यते । अत्र नायको वर्ण्यते । रामब्रह्मविद्यासंक्षेपारम्भे प्रसिद्धाध्यात्मगुरुनाम कीर्त्यते । 'रामो नाम जनैः श्रुत:'.-नाम्ना रामः । गुणैश्च रामपदयौगिकार्थपोप्कल्यवान् । तिष्ठत्वस्य राम इति संज्ञा, अयमन्वर्थतो रामः, रमयितृत्वादिगुणपूर्णत्वादिति राम नाम व्यपदेशार्हत्वेन सर्वजनावधारितः । “श्रुतः ---अवधृतः । "श्रुतं शास्त्रावधृतयोः” इत्य- म" इति गोविन्दराजः । "रमन्ते योगिनोऽनन्ते सत्यानन्दे " 31 यौगिकं नाम । रामायणसंक्षेपसर्गरसास्वादः चिदात्मनि । इति रामपदेनासौ परं ब्रह्माऽभिधीयते" इत्यगस्त्य संहिता रामनाम्नैव परब्रह्मत्वसिद्धिः । राम इति नाम्ना प्रसिद्धः । तस्येदं रमन्ते योगिनोऽस्मिन् इति तिलकः । सर्वैरपि जनैरस्य रमयितृत्वमनुभूतमित्युक्त्या अस्य सौशील्यं प्रतिष्ठाप्यते । स: रामनाम्ना श्रुतः । वस्तुतस्तु सः रामाभिधानो विष्णुर्नारायणस्साक्षा व्यज्यते । रामाभिधानो हरिरित्युवाच इति गायति कालिदासः पुष्पकविमान- प्रयाणवर्णके त्रयोदशसर्गे । तत्पूर्वमेव ब्रह्मादिभिः, साक्षात् नारायण एव रामनामा मानुष इति प्राकाशि । 'कः' इति प्रश्नस्य इक्ष्वाकुवंशप्रभवो रामः इत्युत्तरं दीयते । प्रथमं प्रश्नवाक्योक्तगुणाश्रयव्यक्तिर्निर्दिश्यते । अनन्तरं तद्गुणादयो वर्ण्यते । नियतात्मा महावीर्यः इति विकारराहित्य- शौर्योक्तया को वीर्यवान् इति प्रश्नवाक्योक्तद्वितीयगुणविवरणं क्रियते । द्युतिमान् प्रभावान् दीप्तः, तेजस्वी । वीर्येण दीप्तः तं तपन्तमिवादित्यमुपपन्नं स्वतेजसा इति श्लोकार्धमुदाहृतं श्रीगोविन्दराजेन । धृतिमान्-एष सेतुर्विधरण एषां लोकानामसंभेदाय इति श्रूयते । अस्य विश्वविधरणवीर्यम् । “द्यौः स चन्द्रार्कनक्षत्रं खं दिशोभूमहोदधिः । वासुदेवस्य वीर्येण विधृतानि महात्मनः ।" इत्येतद्वीर्यं प्रसिद्धम् । "धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः" इति दहराधिकरणसूत्रमेतन्महिमप्रदर्शकम् । वशी वीर्यगुणप्रसरणे क्रोधादिकमाहार्यते । अस्य वीर्येण सर्वमस्य वशे तिष्ठति । वान् इति प्रश्नम्योत्तरदाने इमे वीर्यतत्सम्बन्धिगुणाः प्रस्तूयन्तेऽत्र । सत्यवाक्यो दृढव्रतः चारित्रेण च को युक्तः इति प्रश्नवाक्यस्योत्तरं दीयते, बुद्धिमान्नीतिमान्वाग्मी श्रीमान् शत्रुनिबर्हणः इत्यादिना । बुद्धिमान प्रशस्तधीः । बुद्धेः प्रशस्त्यं नाम शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहापोहार्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥ इति तिलकः । नीतिमान् धर्मज्ञो धर्मानुष्ठाता तदनुष्ठापयिता च । वाग्मी-प्रशस्तवाक । कश्च वीर्य- 38 रामायणसंक्षेपसर्गरतारपाः "अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसन चैव वाङ्मयं तप उच्यते" । सत्यवाक्य एव वाग्मी भवेत् । “यथा स एवार्हति तत्र वक्तुम्” इत्यादिकं तद्वाक्यवर्णनं भाव्यम् । “श्रीमान्-श्रीः, 'ऋचः सामानि यजूंषि सा हि श्रीरमृता सताम्" इत्युक्तश्रौतश्रीर्विवक्षिता ।" इति तिलकः । "श्रीमानितिपदं सर्वत्रान्वययोग्यम् । श्रीमान् रामः श्रीमान् महावीर्यः श्रीमान् वाम्मी श्रीमान् सर्वातिशायितत्तद्गुणकः इति सर्वत्र तात्पर्यार्थः” इति श्रीगोविन्दराजः । शत्रुनिबर्हणः - नियमेन अयशीलत्वात् श्रीमत्त्वोपपत्तिः । नित्ययोगे मतुप । श्रीवत्सवक्षा: मित्यश्रीः' नित्यश्रीत्वानुभवे दिव्यविग्रहशोभायां मज्जति गुरुः । 'कश्चैकप्रियदर्शनः' इति प्रश्नस्य 'नित्यश्रीः कः' इत्यप्यर्थो ग्राह्यः । दिव्य- विग्रहस्य सर्वदा सर्वचित्तहरत्वमपि पृष्टम् । “विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः । महोरस्को महेष्वासो गृढजत्रुररिन्दमः । आजानु- बाहुः सुशिराः सुललाट: सुविक्रमः । समः समविभक्ताङ्गः स्निग्धवर्ण: प्रतापवान् । पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः ॥" श्रीमत्त्वे सति शत्रुनिबर्हण इति वपुर्वर्णनमवतारितं 'लक्ष्मीवान्' 'शुभलक्षणः' इत्युप- संहियते । सामुद्रिकोक्तसर्वशुभलक्षणसम्पन्नः । 'समः समविभक्ताङ्गः' इति समुदायशोभा अवयवशोभा च निर्दिश्यते । सर्वत्र समोयं अस्य वपुरपि समैकान्तम् । 'धर्मज्ञः सत्यवाक्यो दृढवतः विद्वान् कः' इति प्रश्नानामुत्तरं दीयते धर्मज्ञः सत्यसन्धश्च यशस्वी ज्ञानसम्पन्नः वेदवेदाङ्ग- तत्त्वज्ञः सर्वशास्त्रार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान् इति । "चारित्रेण च को युक्तः आत्मवान् को जितक्रोधः' इति पृष्टस्योत्तर दीयते शुचिर्वश्यः समाधिमान्' इति । 'सर्वभूतेषु को हितः' इत्यस्योत्तरं दीयते 'प्रजानां च हिते रतः, रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता, रक्षिता स्वस्य सर्वलोकप्रियः इति । 7 धम्म्य स्वजनस्य रक्षिता, रामायणसंक्षेपसर्गरसास्वादः 33 तत्र पत्न्या कश्चैक प्रियदर्शनः' इत्यस्य सदैवप्रियदर्शनः इति प्रतिवचनम् । "सर्वदाभिगतःसद्भिः समुद्र इव सिन्धुभि:'.-.-"भीमकान्तैनृपगुणैः अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः” इति दिलीपो वर्णितः । समुद्रदृष्टान्त: उपात्तः भीमकान्तोभयाकारसादृश्याय । कथमपि हि पुण्येन भवति" । 'हीरेषाहि ममातुला' इति वदन् । कथं साधूनामनभिगम्यो भवेत् । साधूनां कदापि भीमो न भवेत् । सतीभूतानां सिन्धूनां स्वयमागतानां कथं समुद्रोऽनभिगम्यो भवेत् । "आत्मैवदारः सर्वेषां दारसंग्रहवर्तिनाम्" इति वसिष्ठः । अर्धत्वं निगदति श्रुतिः । पत्नीपूर्ण आत्मैवेति वसिष्ठो वक्ति अयोध्या- काण्डे ॥ "ज्ञानीत्वात्मैव मे मतम्' इति भगवद्गानम् । अस्ति ब्रह्मति चेद्वेद सन्तमेनं ततो विदुरिति सन्तो ब्रह्मविदो ब्रह्मनिष्ठाः । ते अवतीर्ण परमात्मानं साक्षात् दर्शनसंलापादिभिः अनुभवितुं यदाऽऽगच्छन्ति न तेषा- मनभिगम्यो भवेदामः । रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारी रामः अतीव प्रियः साधूनाम् । स्त्रीणां प्रियकान्ते इव तेषां तस्मिन् निरतिशय प्रेम । “यथा नद्यस्यन्दमानास्समुद्रे अस्तं गच्छन्ति नामरूपे विहाय" इति श्रुतिरपीदृशं प्रेम प्रदर्शयितुं नदीसमुद्रदृष्टान्तं वत्रे । धर्मस्य परि- रक्षिता स्वजनन्य च रक्षिता श्रीमान् शत्रुनिवर्हण: इतीमानि रामस्य भगवदव- तारत्वलिंगानि । “धर्मसंस्थापनार्थाय, परित्राणायसाधूनां विनाशाय च दुष्कृतां" इति गीतायामिमान्यनूद्यन्ते । "राघवत्त्वेऽभवत्सीतारुक्मिणी कृष्णजन्मनि। अन्येषु चावतारेषु विष्णोः श्रीरनपायिनी" इति पराशरोक्त- रीत्या अत्र श्रिया सहावतीर्णत्वमपि व्यज्यत इव 'श्रीमान्' इति पदस्य द्वि- रभ्यासेनेत्यवधेयम् । 'सीतायाः शत्रुकर्शनः' इतिवत् 'श्रीमान् शत्रु- निवर्हणः' इति पच्यते । नाऽत्र संशेपे सीताविवाहः कण्ठरवेण कथ्यते । परमात्मनो रामस्य सीता नित्ययुक्ता श्रीरेवेति वक्तुर्भाव इव । .

34 - श्रीमान्-श्रिया नित्यं युक्तः श्रियःपतिः। 'समुद्र इव गाम्भीर्ये'-अक्षोभ्यः कामाद्यान्तरशत्रुभिः । “आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत्" इति गीताश्लोको भाव्यः । 'विष्णुना सदृशो वीर्ये'-अस्य अनन्वये पर्यवसानम् । 'अनन्वयालंकारः' इति तिलकः। 'सोमवत्प्रिय- दर्शन:'-'चन्द्रकान्ताननं राममतीव प्रियदर्शनम्' । कालाग्निसदृशः क्रोधे:- "कुशली यदि काकुत्स्थः किं न सागरमेखलाम् । महीं दहति कोपेन युगान्ताग्निरिवोत्थितः ॥' इति सीतोक्तमन्वर्थितं रामेण सागरशोषण- संरम्भे । 'क्षमया पृथिवीसम:' गंगादिपुण्यनदीपत्नी सहितसागर प्रपदनेन सद्यः क्षान्तः अपराधः । 'धनदेन समस्त्यागे'--"त्यागे सत्यपि धनदेन समः । अनेन अक्षीणकोशत्वं महोदारत्वं चोक्तम्" इति तीर्थः । "त्यागे सत्यपि धनदवदाढ्यः' इति व्याख्यानं तु प्रक्रमविरुद्धम् । न ह्यान्यत्वं कश्चिद्गुणः । त्यागविषये धनदेन. कुबेरेण समः । कुबेरस्य त्यागित्वं "त्यागेन धनदो यथा" इति वक्ष्यमाणवचनतस्सिद्धम् । न च तस्य कुतश्चित् लुब्धत्वं सिद्धम् ।" इति श्री गोविन्दराजः । कुबेरस्यौदार्य न प्रसिद्धम् । यथा त्यागरूपमहागुणे कुबेरसाम्यं सिद्धयेत् तथा रसवदर्थः कश्चिदन्वेष्टव्यः । निधिरक्षकः कोशाधिकारे नियुक्तः कुबेरः । यस्मै यावत् धनं दित्स्यते ईश्वरेण अचिन्तयन्नेव अविचारयन्नेव कोशात् तावत् धनमुद्धृत्य ददाति कोशाध्यक्षाधिकारभाक् धनदः । धनस्वाम्यमीश्वरस्य न निध्यध्यक्षाधिकारिणः । राज्ञां कोशाधिकारी राजामात्याद्याज्ञानुसारेण आज्ञात तावत्तावद्धनानि ददाति राजस्वभूतकोशात् तेभ्यस्तेभ्यः पुरुषेभ्यः । कोशाधिकारिणः कोशपालकस्य का व्यथा स्वहस्तेन प्रभूतधनवितरणे । राजाज्ञया तत्संकल्पेन यत् प्राप्त तेन पुरुषेण; यत् तदाजया तस्य स्वभूतं तदेवाय तदाज्ञया स्वहस्तेन वितरति । वितीर्यमाण धनं नास्य स्व किन्तु राजस्वम् । यथा कोशपाल: स्वनियन्त्रा स्वामिना यावद्धनं यस्मै कस्मैचित् 35 रामायणसंक्षेपसर्गरसास्वादः दातुमाज्ञाप्यते तत्सद्यः तस्मै प्रयच्छति स्वहस्तदत्तधने स्वत्त्वाभिमानरहितः तस्मिन् धने राजाज्ञावशात् गृहीतृस्वत्त्वबुद्धिः प्रभूतधनदानेऽपि धनवियोग- निमित्तक्लेशवियुक्तः तद्वदयं महोदारो भगवान् स्वदीयमानप्रभूतधने स्वत्त्वं नैवाभिमन्यते प्रत्युत तस्मिन् धने अर्थिन एव तत्स्वामित्वबुद्धि • करोति । प्रभूतेन धनेनाहं वियुज्ये इति न लवमात्रमपि व्यथते । त्यागे ईदृशं साम्य विवक्षितं स्यात् निधीशेन धनदेन । 'लभते च ततः कामान् मयैव विहितान् हितान्' इति गीतोक्ततत्त्वमपीह भाव्यम् । “दयाऽन्येषां दु:ख- प्रसहनमनन्योऽसि सकलैः दयालुस्त्वं नातः प्रणमदपराधानविदुषः । क्षमाते रंगेन्दो भवति नतरां नाथ नतमां तवौदार्य यस्मात्तव विभवमर्थिस्व- ममथाः ॥ इति श्री पराशरभट्टार्याणामद्भुतः श्लोकः अस्मिन्नर्थे प्रमाणम् । "लब्धं न मुञ्चति विलक्षमतिर्न भुक्ते धत्ते पुनः पुनरसौ महतीं धनायाम् । निद्रारसं न लभते महतां निधीनां रक्षापिशाच इव सम्प्रति राजराजः" इति संकल्पसूर्योदये लोभः परिहसति धनदं लुब्ध इति । सत्ये धर्म इवापर:- यमो वैवस्वतः । रामोऽपि वैवस्वतः । यमः स्वसंयमनाधिकारात् यथा- पराधं दण्डननिर्बन्धात् सदा च्छिन्दिभिन्दि इत्यपराधिनो नियमेन दण्डयन्नेव वर्तते । भीषणः सः । रामस्तु सदैक प्रियदर्शनः न स्मरत्यपराधानां शतमप्यात्मवसया ।. सत्यगुणमात्रे यमसादृश्यमित्ववधेयम् । अयं सदा सौम्यः । सत्यधर्मनिष्ठोऽपरो विलक्षणो यमः । अपरशब्देन यमात् व्यतिरेकोऽपि व्यज्यते । “यमो वैवस्वतो राजा यस्तवैष हृदि स्थितः । तेन चेदविवादस्ते मा गंगां मा कुरून् गमः ॥ इति श्लोको हृदिस्थ- रामपरमात्मपरतया व्याख्यायते । स च सर्वगुणोपेतः कौसल्यानन्दवर्धन:- दशरथपुत्रत्वकीर्तनात्प्राक् कौसल्या सुप्रजत्वं प्रथमं कीर्तयति । कौसल्यैव चिरं जीवन्ती सर्वानुक्तान् गुणाननुबभूव । सर्वगुणोपेतत्वं तयैव सानन्द- मन्वभावि ।

36 रामायणसंक्षेपसर्गरसास्वादः 19 20 पठ्यते । (म्) तमेवं गुणसम्पन्न रामं सत्यपराक्रमम् ॥ ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथः सुतम् । प्रकृतीनां हिते युक्तं प्रकृति प्रियकाम्यया ॥ यौवराज्येन संयोक्तुमैच्छत् प्रीत्या महीपतिः । 'तमेवं गुणसंपन्न राम'- 'स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः इति सर्वगुणसमाहारः पूर्वमेवोक्त: मात्रानन्दवर्धकत्वेन । अत्र पित्रानन्द- वर्धकत्वेन यौवराज्याभिषेकमनोरथवर्णनावसरे पुनस्तदुच्यते । काष्ठ गते आदरे पौन:पुन्यमलंकृतिः । 'श्रेष्ठगुणैर्युक्तं' इति पुनरप्यस्मिन्नेव श्लोके रामं '.---"राम इत्यभिरामेण वपुषा तस्य चोदितः । नामधेयं गुरुश्चक्रे जगत्प्रथममङ्गलम् ॥” इति रघुवंशे वपुषोऽभिरामता रामनामकरणे प्रेरिकाऽभूदित्युच्यते । जातमात्रे ईदृशाभिरामगुणा विष्कारस्यानवकाशः । गुरुपरम्परायां तृतीयगुरुत्वेन परिगणितेन वसिष्ठेन कृतं रामनाम विश्वरञ्जकगुणसम्पत्त्याप्यन्वर्थीकृतमिति व्यज्यते एवं गुणसम्पन्नं रामं इति समभिव्याहारेण अत्रायोध्याकाण्डकथासंक्षेपः प्रारभ्यते । 'सत्यपराक्रम'-सत्यं कालत्रयेऽपि केनचिदप्यबाध्यम् । अस्य पराक्रमस्य सत्यत्वप्रतिज्ञानेन रावणि युद्ध लक्ष्मणस्य पराक्रमः सत्योऽवन्ध्योऽभवत् । 'ज्येष्ठं श्रेष्ठगुणयुक्तं" केकयराजेन कैकेयीविवाहसमये अन्यथा समयः पूर्वमकारि । तद्विरो- धेनात्र कौसल्यासुताभिषेचनविषये दशरथमनसि स्फुरन्त्यः उपपत्तयः सूच्यन्ते । ज्येष्ठपुत्रम्य राज्ये अभिषचनं न्याय्यम् । वैधं च । न केवलं वयसा ज्येष्ठः किन्तु गुणैरपि स ज्येष्ठः । ज्येष्ठो वस्तुतो गुण श्रेष्ठोऽपि भवति । अयमपरो हेतुरीवराज्याय तद्वरणे । सत्यः अबाध्यः अस्य पराक्रमः । प्रशस्यस्य श्रः रामायणसंक्षेपसर्गरसास्वादः 37 . 'ज्य च', 'द्धस्य च' इति पाणिनिसूत्राण्यत्र कविबुद्धिस्थानि । ज्येष्ठशब्दः वयसा गुणैश्वातिशायनवाची गोबलीवर्दन्यायेनात्र वयोज्येष्ठमात्रं ग्राह्यम् ज्येष्ठ एव श्रेष्ठोऽपि भवति । 'प्रियं' ---- ज्येष्ठपुत्रः गुणश्रेष्ठपुत्रः प्रियतमपुत्रश्च प्रियमिति पदेऽसंकोचन्यायेन निरतिशयप्रियत्वं विवक्ष्यते । अग्र्यप्रायन्यायश्च स्मर्तव्यः । ज्येष्ठ श्रेष्ठपदसमभिव्याहारेण प्रियशब्देन प्रेष्ठो विव "तेषामपि महातेजा रामो रतिकरः पितुः" इति अयोध्याकाण्ड गास्यते । “न च रामं विना देहे तिष्ठेत्तु मम जीवितम्" । श्रेष्ठगुणैर्युक्तं अतोऽपि प्रियम् । “स तु श्रेष्ठगुणैर्युक्तः प्रजानां पार्थिवात्मजः । बहिश्चर इव प्राणः बभूव गुणतः प्रियः ॥” इति वक्ष्यते । सूत्राण्येव गुरुसंक्षेप- वचांसि । 'दशरथः सुतं'.--. 'भूमावनुपमः सूनुः गुणैर्दशरथोपमः' इति, गास्यते ऋषिणा। 'सुतं' इत्यसङ्कोचन्यायेन कृत्स्नायां भूम्यामनुपमसूनुत्वं विवक्ष्यते । कृत्स्नेऽपि लोके अयमेक एव ज्येष्ठसुतशब्दस्यानुत्तम भाजनम् । “प्रकृतीनां हिते युक्तं प्रकृतिप्रियकाम्यया" "यद्यप्येषा मम प्रीतिर्हितमन्यद्विचिन्त्यताम् ।' अन्या मध्यस्थचिन्ता हि विमर्दाभ्यधिकोदयां ।।" इति स्वप्रीतिं पृष्ठतः कृत्वा प्रजाहितं प्रजारुचिं चापृच्छत् नरपतिः । एवं श्रेष्ठगुणैर्युक्तः प्रजानां पार्थिवात्मजः । सम्मतस्त्रिषु लोकेषु', 'तथा सर्वप्रजा' कान्तैः प्रीतिसञ्जननैः पितुः । गुणैर्विरुरुचे रामो दीप्तैस्सूर्य इवांशुभिः 'अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरञ्जते । लोके रामस्य बुबुधे संप्रियत्वं- महात्मनः । आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च” इत्यादिक भाव्यम् । 'अन्यत्प्रेयः अन्यदुत श्रेयः' इत्युपनिषदि धर्मराजः । प्रजाविषये रामः प्रियो हितश्चाऽभवत् । प्रियहितयोस्सङ्गतमत्र । 'प्रकृतिप्रियकाम्यया'- इच्छामो हि महाबाहुं रघुवीरं महाबलम् । गजेन महता यान्तं राम छत्रावृताननम्' इति प्रजानां तीवेच्छा । अयमपरः प्रबलो हेतुः पूर्वसमयो लाडने । युवराजवरेण प्रकृतीनामिच्छानुरोधनिर्बन्धोऽस्ति । प्रकृतिरञ्जकत्व- : ।

38 रामायणसंक्षेपसर्गरसास्वादः 21 मेष हि राजत्वम् । अत्र प्रकृतिशब्दोऽभ्यस्यते तत्प्रियहितयोः प्रधानहेतुत्व- बुद्धया। प्रकृतिशब्देन सचिवा अपि ग्राह्याः। “निश्चित्य सचिवैस्सा युवराजममन्यत' । 'यौवराज्येन युवराजस्य कर्म यौवराज्य, राज्यवहन- भारेण संयोजयितुम् । 'अहं पित्रा नियुक्तोऽस्मि प्रजापालनकर्मणि' इति रामस्तथैवावोचत् । प्रजापालनस्य धुरत्वात् यस्तद्भुरवहने अर्हत्तमः स एवाभिषेचनीयः इत्यपरो हेतुः । “ऐच्छत् प्रीत्या महीपतिः'-स्वप्रीतिश्वरमत: कीय॑ते हेतुत्वेन । प्रीत्या महीपतिरैच्छत् । महीपतिशब्देन मह्यपि तं पतिमकामयतेति व्यज्यते । “लोकपालोपमं नाथमकामयत मेदिनी" इति वक्ष्यमाणमिह भाव्यम् । नारदहृद्गतं विवृणोति कविः शिष्यः। महीपति- रैच्छदित्युक्ते कश्चिदन्यो जनो नैच्छदिति व्यज्यते । सा च मन्थरैका । (मू) तस्याभिषेकसंभारान् दृष्ट्वा भार्याथ कैकयी ॥ पूर्व दत्तवरा देवी वरमेनमयाचत । विवासनं च रामस्य भरतस्याभिषेचनम् ॥ 22 'तस्याभिषेकसभारान् दृष्ट्वा'-अभिषेकसभारान् मन्थरा प्रासादमारुह्य ददर्श । कैकेयी तन्मुखात् तत् शुश्राव केवलम् । न सा ददर्श । मन्थरा- कर्तृकं दर्शनं कैकेय्यामारोप्यतेऽत्र नारदेन मन्थराचक्षुरेव कैकेयीचक्षुर- भूत्तदानीमिति व्यञ्जयितुम् । “रामे वा भरते वाहं विशेष नोपलक्षये” इति स्वसुतनिर्विशेषदर्शनमेव तस्याश्चक्षुषः सहजम् । इदं तात्कालिक मन्थरा- चक्षुषः स्वचक्षुर्भवनमिति व्यज्यते । राजानः चारचक्षुष इत्युच्यते । महिष्यपि तथैव स्यात् । 'भार्याऽथ कैकेयी'--अथशब्दो नानार्थकः । “मङ्गलानन्तरारम्भ- प्रश्नकास्न्येष्वथो अथ ।" अत्र प्रश्नार्थो मङ्गलार्थश्च ग्राह्यौ। कैकेयी भार्या किं इति सानुशयं पृच्छयते । भार्या भर्ना भरणीया। भर्ता च तस्य रामायणसंक्षेपसर्गरसास्वादः 38 । भरणीयः । भार्या-नृशंसा पतिघातिनी बभूव । न्याय्य एव तद्विषये 'इयं भार्या किं' इत्यनुयोगः । अत्रैव रामावतारनिर्वय॑मङ्गलकथायाः उपोद्धातः । अत्रैव पौलस्त्यवधकथाबीजमुपक्षिप्यते । अथशब्देन मङ्गलमपि ध्वनिना निवर्त्यते। 'कैकेयी'-केकयराजस्य पुत्री। तेन च केकयराजेन कृतः समयः कथंचिस्मार्यते । 'पूर्वं दत्तवरा' अनेन दशरथस्य स्त्रैणत्वाप- वादात् त्राणं क्रियते । पुत्राणां जनेः पूर्वमेव विशेषतोऽनिर्दिष्टकामवरद्वय- दानं प्रतिश्रुतम् । पूर्वमित्यस्य पुत्रजनेः पूर्वमित्येवार्थः । दत्तवराऽभूत् । 'देवी' इयमिदानी देवैराविष्टचित्ताऽभवत् । देवग्रहग्रस्तहृदयाऽभवत् । वरमेन- मयाचत ' विवासनं च रामस्य भरतस्याभिषेचन' - द्वौ वरौ परस्पराविना- भूतौ सहैव एको वर इव वृताविति व्यज्यते एकवचनेन । अयुतसिद्धाविमौ तद्याचितवरौ। वरद्वयमध्ये रामप्रत्राजनं प्रथमकर्तव्यत्वेन वृतम् । देवा एवात्र कैकेयीमुखेन वरयाचितारः । रामप्रत्राजनं प्रथमकर्तव्यत्वेन सद्यः कर्तव्यत्वेन च तां वाचयन्ति । अयोध्याकाण्डारंभ एव, “गच्छता मातुलकुलं भरतेन तदाऽनधः । शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ॥" इति प्रथमश्लोकेन सशत्रुघ्नस्य भरतस्य मातुलगृहगमनं कथितम् । यदि भरतः शत्रुघ्नेन सह मातुलकुलं नाऽगमिष्यत् तदा रामविवासनसीता- हरणदशकण्ठवधादिकं नैवाभविष्यत् । वर्तिष्यमाणायाः कृत्स्नायाः अवतारकार्यनिर्वहणकथायाः सिद्ध्यर्थ उपोद्धातो भवति अयोध्याकाण्डारंभ- प्रथमश्लोक इति रसोऽनुभाव्यः । 'विवासन'-क्षौमादिवसनान्यपहाय राजकुमारविरुद्धवल्कलचीरवसनत्वं तापसव्रतत्वं च द्योत्यते विवासनशब्देन । न वने वसनमात्रं, किन्तु चीरवसनवसनव्रतमपि निर्बद्धम् । “भरतस्या- भिषेचनं' राज्याभिषेचने हर्षजनकोत्सवत्वबुद्धिम्तस्याः । “सकलभुवन- भारः स्थापितो वत्समूर्ध्नि" इति तस्य स्वपुत्रशिरसि विश्वभरणभारनिवेशन- मिति सा न विवेदेति व्यज्यते ॥ ।

40 रामायणसंक्षेपसगरसास्वादः व्यज्यते । संयतः (मू ) स सत्यवचनाद्राजा धर्मपाशेन संयतः । विवासयामाम सुतं रामं दशरथः प्रियम् ।। स ' इति कैकेयीमुखात् वरद्वयश्रवणक्षः एव तम्य दुरवस्था ततः श्रुत्वा महाराजः कैकेय्या दारुणं वचः ।" इत्यारभ्यायो- ध्याकाण्डद्वादशसर्गवर्णनमिह भाव्यम् । — सत्यवानात् ' इदमेकमेवा- ऽलमभूत् स्वप्राणस्वप्रीतिप्रजाप्रीत्यादिसर्घत्यागनिश्चये । यद्यपि प्रकृतिरञ्जनात राजा राजा भवति, सत्यवचनव्रतविरोधे तदपि हाम्यते । 'धर्मपाशेन . धर्मशब्दो भगवन्तं वैवस्वतं धर्मराजम पि विवक्षति । पाशशब्द स्य स्वारस्यमस्ति, तस्य तदर्थग्रहणे । · धर्मबन्धेन बद्धोऽम्मि नष्टा च मम चेतना ” इति दशरथनिर्णयश्लोके धर्मबन्धबहुत्वं चेतनानाशश्च सह कीर्तिते । निर्णयोऽन्तः । निर्णयरूपान्तः तम्यान्तः अन्तकश्चमवति संयतः संयमशब्दश्च यमशासने प्रसिद्ध " संयमने त्वनुभृयेत- रेषामारोहावरोही तद्गतिदर्शनात् " इति बादरायणसूत्रमिह भाव्यम् । स सत्यवचनात् त्रासात धर्मबन्धेन बद्धत्वात पियज्येष्ठयुतविवामनं निश्चित्य मृत्युना धर्मबन्धेन ग्रन्त कतिपयदिवसमायुदोष नरकमिवान्यभूत् । यमपाशबद्धः संयमनमेवान्वभूदिव । 'मुतं विवासयामास' राम विवासयामास , प्रियं विवासयामास || - , (मू ) स जगाम वनं वीरः प्रतिज्ञामनुपालयन । पितुर्वचननिर्देशात कैकेय्याः प्रियकारणात् ॥ 24 . -- स जगाम वनं वीरः" सः - प्रियः सुतो रामः । वीरः - न निर्गमे तम्य मनाक विक्रया जाता। सुमुग्यो जगाम । 'प्रतिज्ञामनुपालयन् ' मटणुना सदृशो वीर्ये ' । महावीरोऽयं विष्णुरूपेन स्वेन देवेभ्यः कृतां रामायणसंक्षेपसर्गरसास्वादः 41 -- . . . । 25 प्रतिज्ञामनुप लयन् वनं जगाम । हेतौ शतृप्रत्ययः । पितुर्वचननिर्देशात्,- कैकेय्याः प्रियकारणात् मध्यमणिन्यायेन 'कैकेय्याः' इति पदं , पितृ- वचननिर्देशः कैकेय्याः कृते', 'कैकेय्याः सर्वप्रियकारणात् वनं जण इत्युभयमपि द्योतयति । कैकेयीप्रियकारणं मुख्यमित्यपि द्योत्यते तस्य चर- पठनेन । 'न नूनं मयि कैकेयी कंचिदाशंससे गुणम् । यद्राजानमवोचस्त्वं ममेश्वरतरा सती' इति रामवचनं भाव्यम् ॥ (मू ) तं वजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह । स्नेहाद्विनयसंपन्नः सुमित्रानन्दवर्धनः ॥ भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन् । 'प्रियः' ---"प्रियो हि ज्ञानिनोत्यर्थमहं स च मम प्रियः" इति गीतोक्तप्रकारेण ज्ञानिमा परमात्मा म्वतः प्रियतमः । ज्ञान्यपि तथैव परमात्मनः । परस्परमत्यर्थ वाङमनसागोचरनिरतिशयनिरुपाधिकप्रीतिमन्तौ । भ्रातृत्वं एकपितृपुत्रत्वोपाधिकम् । प्रियत्वं निरुपाधिकं सहज नित्यमिति प्रियशब्दः प्रथमं पठितः। भ्राता - "देशे देशे कलत्राणि देशे देशे च बान्धवाः । तं तु देशं न पश्यामि यत्र भ्राता सहोदरः ॥” इति रामेण सीतापेक्षयापि भ्रातुर्गरीयस्त्वं वक्ष्यते । अत्र सीताया अनुगमनं पश्चाद्वय॑ते । भ्रातुरनुगमनं प्रथमं वर्ण्यते । 'लक्ष्मणः' -एतन्नामैवास्य रामकर्यरूपलक्ष्मीनित्यसम्पन्नत्वं प्रख्यापयति । "लक्ष्म्या अञ्च" इति पामादिगणसूत्रान्मत्वर्थीयेनिप्रत्ययः । अकारश्चान्तादेशः' इति श्री- गोविन्दराजव्याख्या। लक्ष्मीनित्यसम्पन्नत्वं लक्ष्मणशब्दार्थः । 'लक्ष्मी- वान् लक्ष्मणः श्रील: श्रीमान्" इत्यमरः । "चत्वारि लक्ष्मीवतो नामानि" इत्यमरसुधा । 'लक्ष्मणो लक्ष्मिसम्पन्नः बहिः प्राण इवाभवत्" इति अत्र लक्ष्मणनाम्नोऽन्वर्थत्वरसोऽनुभूतो ऋषिणा । “अन्तरिक्षगतः श्रीमान्' इति 42 रामायणसंक्षेपसर्गरसास्वादः विभीषणस्य श्रीमानिति वर्णनेऽयमेव रसोऽनुभूते। न रामसेवारसादधिक रसः । “बाल्यात्प्रभृति सुम्निग्धो लक्ष्मणो लविविधनः" इति शैशवात्यात लक्ष्मणस्य रामरसवर्धितत्वमुक्तम् । रामसेवारतिरमं विना मुहूर्तमपि लक्ष्मणो न जीवेत् । “लक्ष्मणोऽनु जगाम ह" इति ऋवि यो द्योत्यते इति श्रीगोविन्द राजः । "येन येन धाता गच्छति तेन तेन सह गच्छति," 'कामान्त्रीकामनप्य नुसञ्चरन्' इति ज्ञानिनो मुक्ताः ब्रमानुगमनरताः । स्नेहाद्विनयसम्पन्न: रामस्नेहाद्रामवाक्यवद्धः पितृविष ये प्रकटितां युयुत्मा धर्षणमनोरथ च हित्वा तस्मिन्विनयमवललम्बे । अयोध्याकाण्डे एकविंशसर्ग लक्ष्मणकोधा वर्णितः । "हनिप्ये पितरं वृद्धं कैकेय्यासक्तमानसम् । कृपणं चाम्थिरं बालं, वृद्धभावेन गर्हितम् ॥", त्रयोविंशसर्गे "अद्य मेऽस्त्रप्रभावम्य प्रभावः प्रभविष्यनि राज्ञश्चाप्रभुतां कर्तुं प्रभुत्वं च तव प्रभो ।" इत्यादिकं लक्ष्मणवचनं भाव्यम् । रामस्नेहात् तत्सान्त्ववचनगौरवात् , पितृविषये पुनर्विनीतत्वं भेजे । राम- सीताभ्यां सह पितुश्चरणौ ववन्दे वनायाऽऽपृच्छावमरे । "अथ रामश्च मीता च लक्ष्मणश्च कृताञ्जलिः । उपसंगृह्य राजानं चक्रर्दानाः प्रदक्षिणम्" इति श्लोको भाव्यः । 'सुमित्रानन्दवर्धनः' - युमित्राया आनन्दं वर्धयन वनमनुजगाम : सुतम्य वनगमने प्रवृद्धानन्दाऽऽसीत् । अप्रमत्तो रामं सततं पालयेदिनि । रामेण सह गच्छतः अव्यपि अयोध्या, रामसन्निधि विना अयोध्या अटव्येवेति तम्या: मनीषा । दण्डकागमनं रामस्य वनवास:, लक्ष्मणस्य त्वयोध्यावास एवेति रसः । रामं पुरुषोतम, सूर्यम्यापि सूर्य, अग्ने- रग्नि, श्रियः श्रियं, देवतानां च दैवतं च विवेद सुमित्रा । 'तस्य के द्वगुणा- देवि वने वाप्यथवा पुरे' इति कौसल्यामाश्चासयति सा । 'भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन्' पितृनियोग विना स्वयं वात्सल्यादगात् । अयं ५ मा पितः। रामस्य दयिता भार्या अनन्तररलोके वक्ष्यते । सौभ्रात्रानु- नमस्यावतारकृत्यम् ॥ तम्या हर्षः -- 48 26 रामायणसंक्षेपसर्गरसास्वादः (म् ) रामस्य दयिता भायां नित्यं प्राणसमा हिता ॥ जनकस्य कुले जाता देवमायेव निर्मिता । मर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः ॥ संक्षेपे वनानुगमनावसरे एव सीतानिदेंगः क्रियते । तस्याः वन- गमनानन्तरमेवावतारप्रयोजनम्यावकाशोऽभृत् । 'राम य नित्यं दयिता'- अग्निप्रवेशनियोजनावसरेऽपि, विवासनावसरेऽपि नित्यं दयिता । नित्यं प्राण- समा, नित्यं भार्या, हृदि सन्ततं धार्या । बिभर्ते. ऋदन्तो ण्यत् इति ण्यत्' इति गोविन्दरानः । “मनस्वी तद्गतमना नित्यं हृदि समर्पितः" इति बाल- काण्डोक्तं भाव्यम् । विरहे, "अस्या देव्या मनस्तस्मिन् तस्य चास्यां प्रतिष्ठितम् । तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति" इति सुन्दरकाण्डोक्तं च भाव्यम् । एतदवतारे विरहम्य सत्वात् अयं गुणोऽवश्यं कीर्तनीयः । इतरथा विरहस्य प्राणवियोजकत्वप्रसंगो भवेत् । नित्यं प्राणसमा-स्वस्मिन् शरीरत्वबुद्धिः, सीतायां च प्राणत्वबुद्धी रामस्य । “न जीवेयं क्षणमपि विना तामसि- तेक्षणाम्" इति तदुक्तिः । 'नित्यं हिता'-तस्य कोपे जातेपि तं सान्त्वयति सा। "स्मारये त्वां न शिक्षये'' इत्यादिकं भाव्यम् । 'जनकस्य कुले जाता' 'कुलेऽजाता' इत्यपि पदच्छेदोऽभिप्रेतः । अजाता इयं जातेव । “अमानवं जातमजं कुले मनोः' इति माधे रामावतारमधिकृत्य नारदोक्तं भाव्यम् । अत्र वक्ता नारद एव । सीताया ईश्वरीत्वाविरोधाय, 'कुलेऽजाता' इति पदच्छेदमभिप्रेति वक्ता । कुलशब्दो गृहार्थकोपि । “कुलं जनपदे गोत्रे सजातीयगुणेपि च । पवने च तनौ क्लीबं" इत्यमरः । जनकस्य गृहेऽजाता । आविर्भूता । 'देवमायेव निर्मिता'-मायाशब्दोऽत्राद्भुतवाची । "माया त्वेषा मया सृष्टा यन्मां पश्यसि नारद । सर्वभूतगुणैर्युक्त नैवं मां द्रष्टुमर्हसि" इति कृष्णविग्रहस्य मायात्वमुक्तं नारदाय स्वेनैव कृष्णेन । ।

रामायणसंशंपसर्गरसास्वाद: अप्राकृतत्वेपि प्राकृतवदवभासनरूपाश्चर्यशक्तिरम्ति । अन्यथा प्रतिभासन- शक्तयाऽपि मायाशब्दवाच्यत्वम् । अद्भुतत्वादपि तच्छब्दवाच्यत्वम् । ''माया जगन्मोहिनी" । 'देवमाया' - विष्णोराश्चर्यशक्तिरिव स्थिता । "अनेन सौन्दर्य य पराकाष्ठोक्ता" इति गोविन्दराजः । वस्तुतो ज्ञानानन्दमयत्वेनाप्राकृतत्वात् न दशाननविंशतिहम्तैरपि स्पर्शसंभव इति तत्त्वमपि ज्ञाप्यते । 'सवलक्षणसम्मन्ना'-सर्वरूपलक्षणानामियं लक्ष्यभुता । “सा निर्मिता विश्वसृजा प्रयत्नादे कम्थसौन्दर्यदिदृक्ष पेव" इति कुमारसंभव पार्वतीवर्णनमिह भाव्यम् । “नारी गामुत्तमा वथः" यथा रामः पुरुषोत्तमः, तथेयं नारीणामुत्तमा । वधूशब्दः स्नुषार्थकः । “समाः स्नुषा जना वध्वः" इत्यमरः । “वनवासं हि संन्याय वासांस्याभरणानि च । भरिमनुगच्छन्त्यै सीतायै श्वशुरो ददौ" इति वनगमनावसरे स्नुषायै वस्त्राभरण दिदानं ज्ञाप्यते वधूशब्देन ॥ (म् ) मीताप्यनुगता रामं शशिनं रोहिणी यथा । पोरैरनुगतो दूरं पित्रा दशरथेन च । अत्र पूर्वार्धे लांगलपद्धत्यर्थकसीतानाम्ना सीरध्वनम्य देवयजनलांगल- पद्धतावाविर्भूय योनिजत्वादिकं ज्ञाप्यते । “उत्पत्तिपरिपूतायाः किमन्या: पाचनान्तरैः" । "मीतापि राममनुगता' नारीणामुत्तमा, अमूर्य पश्या, दशरथ- चक्रवर्तिस्नुषा सीतापि सर्वदृश्या भर्तारमनुगता। "या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि । तामद्य सीतां पश्यन्ति राजमार्गगता जनाः" इति पौराणां शोचनमवधेयम् । अपिशब्देनेदं व्यज्यते । 'शशिनं रोहिणी यथा' । रोहिणी अकण्टके गगनमार्गे वल्लभं चन्द्रमनुगच्छति, इयं सकण्टके मागे गच्छति। "अग्रतस्ते गमिष्यामि मृद्गन्ती कुशकण्टकान्" इत्यभ्या उक्तिर्भाव्या। पादुकावृत्तिरियम् । पादुकावृसिमियेष सीतेति 28 45 । रामायणसंक्षेपसर्गरसास्वादः पादुकासहस्रप्रदर्शनम् । “अग्रतस्ते गमिष्यामि मृद्गन्ती कुशकण्टकान् । इति सीतापि यद्वृत्तिमियेष प्रणमामि ताम्" इति पादुकासहस्रे । लंकातः पुनरा- गमने पुष्पकेन गगनमार्गे आयाति । "वरिष्ठा सर्वनारीणामेषा च देवता । रोहिणी न विना चन्द्र मुहूर्तमपि दृश्यते" । 'न चास्य मह . लक्ष्मी राज्यनाशोऽपकर्षति । लोककान्तस्य कान्तत्वात् शीतरश्मेरिव क्षपा" इति रामविषये उक्तं सीताविषयेपि तुल्यम् । हृष्टः सुमुखो वनं जगाम रामः । तथैव तत्पत्नी। “पौरैरनुगतो दूरं पित्रा दशरथेन च" भ्राता लक्ष्मणः पत्नी सीता च राममनुजग्मतुः । किमत्र चित्रम् । पौरैश्च रामोऽनुगतः । दूरमनुगतः । दूर-अदूरं इति द्वेधापि पदच्छेद इष्यते। अदूरं पित्रा दशरथेनानुगतः । दूरं पौरैरनुगतः । “यमिच्छेत्पुनरायान्तं नैनं दूरमनु- व्रजेत् । इत्यमात्या महाराजमूचुर्दशरथं वचः," 'तेषां वचस्सर्वगुणोपपन्न प्रस्विन्नगात्रः प्रविषण्णरूपः। निशम्य राजा कृपणः सभार्यो व्यवस्थितस्तं सुतमीक्षमाणः" इति श्लोकौ भाव्यौ ! 'न दूरमनुत्रजेत्' इति दूरानुत्रज्यातो निवृत्तोऽभूत् पिता । यद्यपि सः न्यवर्तत, तथापि तदृष्टिनैव न्यवर्तत । 'राम मेऽनुगता दृष्टि द्यापि निवर्तते । रामं प्रियतमं पुत्रं परं ब्रह्म प्रेष्ठमनु प्रविष्टा दृष्टिः "अनावृत्तिश्शब्दात् अनावृत्तिः शब्दात्" इति वीप्सायुक्त- निषेधवचोरीत्या अनावृताऽभूदिव। ब्रह्म संपन्नाः म च पुनरावर्तन्ते, परमात्मानमेव सदा पश्यन्ति सूरयः। तद्व्यज्यते "रामं मेऽनुगता दृष्टि- रद्यापि न निवर्तते" इति श्लोकेन । “यत्र नान्यत्पश्यति" इति भूमविद्या- श्रुतिरपि भाव्या। 'पित्रा दशरथेन च' इति च शब्देन 'मात्रा' इति समुच्चय इष्यते । “अन्वीक्षमाणो रामस्तु विषण्ण भ्रान्तचेतसं । रानानं मातरं चैव ददर्शानुगतौ पथि" । लक्ष्मणः' सीता च रामाभ्यनुज्ञां संपाद्य तदनुमतौ स्वयमनुजग्मतुः । न तथा पौराः पितरौ वेति व्यज्यते कर्तरिप्रयोगं हित्वा कर्मणि प्रयोगेन ।

46 रामायणसंक्षेपसर्गरसास्वादः । (म्) शृंगिबेरपुरे सूतं गंगाकूले व्यसर्जयत् । गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ॥ 29 सूतत्वेन सुमन्त्रस्यानुगमनं नियोगकृतम् । वनभूमिपर्यन्तं रथेन सारथित्वेनानुगमनं विहितम् । तदनन्तरमनुगमनं याचितं तेन, किन्तु नाभ्यनुज्ञातम् । अनुगन्तुमिच्छन्तं व्यस यत् रामः । 'शृंगिबेरपुरे' "शृंगिणां कृष्णसाराणां बेराणि-कृत्रिम शरीराणि, वञ्चनेन सजातीय- मृगग्रहणार्थानि यस्मिन् तत् शृंगिबेरपुरम्" इति गोविन्दराजः । पुरनामैव वञ्चनावृत्तिद्योतकम् । 'व्यस यत्' इति णिचा अनिच्छतो बलाद्विसर्जन द्योत्यते । “गंगाकूले सूत' । सूतपदं रथमप्युपलक्षयति । ससम्बन्धिकः शब्दः। “निवर्तस्वेत्युवाचैनमेतावद्धि कृतं मया। रथं विहाय पद्भ्यां तु गमिष्यामो महाबनम्" इति गास्यातेऽयोध्याकाण्डे । 'गुहमासाद्य धर्मात्मा' । 'शृंगिबेरपुरे' इति पुरनाम्नैव मृगवंचकत्वं सूचितम् । 'गुह' इति नामापि वश्चनपरत्वद्योतकम् । “गृहति-गोपयति--वञ्चयति परस्वमिति गुहः” इति गोविन्दराजः । गंगाकूले इत्यनेन बहुपुष्पप्रवालवान् सुमहानिङ्गदीपा- दपोप्युपलक्ष्यते, यत्र गुहो वृद्धरमात्यैर्जातिभिश्च परिवृतो राममुपागतः । शृंगिबेरपुरे इंगुदीपादपच्छायायां गुहेन सहितोऽभूत् । "ईगुदीपादपः सोयं शृंगिबेरपुरे पुरा। इत्युत्तररामचरिते भवभूतिः । "गुहमासाद्य धर्मात्मा' निषादाधिपतिं प्रियम्"। "आसाद्य" इत्यत्रापि विधि- वाचिना (आङा) अर्थान्नैरन्ध्रयमुक्त" इति गोविन्दराजोक्तं रस्यम् । “तमार्तः संपरिष्वज्य गुहः” इति संपरिप्वंगपर्यन्त नीरन्ध्रसंश्लेषाभ्यनुज्ञानं व्यज्यते । "आसाद्य' इत्यत्राङा, ततो निषादाधिपतिं दृष्ट्वा दूरादुपस्थितम् । सहसौ- मित्रिणा रामः समागच्छद्गुहेन सः” इत्ययोध्याकाण्ड गास्यमानरीत्या रामो गुहसमीपं सलक्ष्मणो जगामेत्यर्थो प्रायः। जात्या वृत्तेन चात्यन्तनिहीने- रामायणसंक्षेपसर्गरसास्वादः 47 मेत्थं पुरस्करणनीरन्ध्रसंश्लेषादिभिरस्य धर्मात्मत्वं सुतरां प्रकाश्यते इति व्यज्यते 'गुहमासाद्य धर्मात्मा' इति समभिव्याहारेण । “भुजाभ्यां पीनवृत्ताभ्यां पीडयन् वाक्यमब्रवीत्" इति रामकर्तृकपरिष्वंगोऽपि गास्यते । 'निषादाधिपतिं प्रियम्। इत्यनन्तरपठनेन चेदमेव व्यज्यते । “निषादो मृगघाती स्यात्" "निषाद- राजसौहृदसूचितसौंशील्यसागर" इति रघुवीरगये। स्वपादोद्भूतगंगाकूले सौशील्यसागरो रामो निषादराजेन संगतः । “निषादानां नेता कपिकुलपतिः कापि शबरी कुचेल: कुब्जा सा ब्रजयुवतयो माल्यकृदिति । अमीषां निम्नत्वं वृषगिरिपतेरुन्नतिमपि प्रभूतैः स्रोतोभिः प्रसभमनुकम्पे समयसि" इति दया- शतकश्लोको भाव्यः । “रामस्यात्मसमः सखा" इति गास्यमानं स्मार्यते 'प्रिय' मिति । 'निषादजात्यो बलवान् स्थपतिश्चति विश्रुतः" । अयं निषाद- स्थपतिः रामेणात्मसमसखित्वेनाभिमत्य संश्लिष्यते । “एतया निषादस्थपति याजयेत्" इति श्रुतिः निषादस्थपतेर्वेदिकमन्त्रैर्याजनीयत्वं निजगाद । अयं निषादस्थपतिस्तस्कुले जनिष्यते, का हानिस्तद्याजने ॥ (मू ) गुहेन सहितो रामः लक्ष्मणेन च सीतया । ते वनेन वनं गत्वा नदीस्ती. बहूदकाः ।। चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् । रम्यमावसथं कृत्वा रममाणा वने त्रयः । देवगन्धर्वसकाशाः तत्र ते न्यवसन् सुखम् ॥ "सह सौमित्रिणा रामः समागच्छद्गुहेन सः” इति अयोध्याकाण्डे । सीता तत्र न निर्दिष्टा । लक्ष्मणो निर्दिष्टः । तत्र लक्ष्मणपदं सीतामप्युप- लक्षयति । पुंसुहृद्गोष्ठयां सीतायाः न तथा प्राधान्यम् । गंगाकूले इंगुदीपा- दपच्छायायामेतेषां चतुर्णा साहित्य चित्रेषु लेखनीय, हृदये च लेखनीयमिति 30 31 48 रामायणसंक्षेपसर्गरसास्वादः " s- वक्तुराशयो व्यज्यते चतुर्णामपि साहित्यस्यैकश्लोकाः सहपठनेन। अर्घश्लोके एव तचित्रं परिसमाप्तम् । अनन्तरश्लोकारंभे 'ते... "त्रयः' इति गुहात् पृथक् कीर्त्यन्ते इतरे त्रयोऽपि । 'ते वनेन वनं गत्वा नदीस्तीर्खा बहूदकाः' । तेवनं-देवन, "तेव देवने' । क्रीडया रममाणाः गच्छन्ति बनाद्वनम् । बहूदकाः नदी: लीलया तरन्ति । "तेवनं पादचारणम्" । इतः परं पद्भयामेव सुरकार्यनिर्वहणार्थ यात्रा क्रियते । 'ते वनेन वनं गत्वा,' "अवश्यं रक्षणं कार्यमदृष्टे बिजने वने । अग्रतो गच्छ सौमित्रे सीता त्वामनुगच्छतु । पृष्ठतोऽहं गमिष्यामि त्वां च सीतां च पालयन्” इति "अग्रतः प्रययौ रामः सीता मध्ये सुमध्यमा। पृष्ठतस्तु धनुष्पाणि: लक्ष्मणोऽनुजगाम ह" इति च वक्ष्यते। सीतारक्षणार्थ तस्याः मध्ययायित्वम् । तत्सूच्यतेऽनेन । रक्षणप्रयोजनानुरोधेन सीतां मध्यतः कृत्वा गच्छतः । 'ते त्रयः वने रममाणाः' इत्यनन्तरश्लोकेनान्वयस्तेशब्दस्य । अवनेन-- जगद्रक्षणनिमितम् । 'नदीस्तीर्खा बहूदकाः' 'चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात्' । भरद्वाजस्य शासनादित्येतत् 'नदीम्तीर्खा बहूदकाः' इत्यनेनाप्य- न्वेति । “अथासाद्य तु कालिन्दी शीघ्रस्रोतसमापगाम् । 'तत्र यूयं प्लवं कृत्वा तरतांशुमती नदीम्" इति नदीतरणादिकं वनाद्वनगमनं चोपदिश्यते। "एकान्ते पश्य भगवन्नाश्रमस्थानमुत्तमम् । रमेत यत्र वैदेही सुखार्हा जनकात्म- जा" इति वासस्य भरद्वाजमुनिना वरणीयता प्रार्शिता । “यावता चित्रकूटस्य नरः शृंगाण्यवेक्षते । कल्याणानि समाधत्ते न पापे कुरुते मनः ॥” इति चित्र- कुटो वर्ण्यते भरद्वाजेन । वाल्मीकिर्भगवान् तत्र वसति । त्रयाणामेतेषां तत्समीपे वास उचितः एव । रामायणं तत्र प्रणेष्यते । सप्तशृंगं रामा- यणम् । अयोध्याकाण्ड एकः शृंगः। उत्तरकाण्डश्चापरः । “अयं बासो भवेत्तावदत्र सौम्य वसेमहि । इति सीता च रामश्च लक्ष्मणश्च कृताञ्जलिः । अभिगम्याश्रमं सर्वे वाल्मीकिमभिवादयन्" इति गास्यते। भरद्वाजस्य रामायणसंक्षेपसर्गरसास्वादः 49 ८ शासनात्,' मुन्यादिष्टत्वेन चित्रकूटवासे रतिः । वासस्थानवरणे रामरुचिनेयो लक्ष्मणः । भरद्वाजरुचिनेयो रामः । “भरद्वाजशासनपरिगृहीतचित्रकूट- गिरिकटकतटरम्यावसथ अनन्यशासनीय" इति रघुवीरगधे अयं रसः प्रदर्शितः । अनन्यैः परमात्मैकपरैः शासनीयो भवति सर्वेश्वरः । “वासमौपयिक मन्ये तव राम महाबल । नानानगगणोपेतः ...."गम्यतां भवता शैल- श्चित्रकूटः स विश्रुतः । 'चरतस्सीतया सार्थ नन्दिष्यति मनस्तव" इति भरद्वाजशासनम् । इति पन्थानमादिश्य महर्षिः स न्यवर्तत" इति तदा देशो वर्ण्यते । "तेषां स्वस्त्ययनं चैव महर्षिः स चकार ह । प्रस्थितांश्चैव तान्प्रेक्ष्य पिता पुत्रानिवान्वगात्।" पितेव शास्ति भगवान् भरद्वाजः स्थलविशेषे वासं कुरु इति । ताटकाताटकेयायोधनार्थ गमने माता स्वस्त्ययनं चकार । इदानीं खरदूषणदशमुखादियोधनाय गमनावसरे पितेव भरद्वाज- मुनिः स्वस्त्ययनं चकार । माता वा पिता वा तदर्थे वनं गच्छति रामः इति न वेद । भरद्वाजस्तु तद्वेद । मातापितृकर्तव्य मुनिः करोति । "अनुप्राप्य" "कालिन्दीमनुगच्छेतां नदी पश्चान्मुखाश्रिताम् ।" कालिन्दीतीरमनु अगमन् । यामुने वने ते त्रयो रेमिरे। “चेरतुर्यमुनावने" "विहृत्य ते बर्हिणपूगनादिते शुभे वने वानरवारणायुते" इत्यादिकं भाव्यम् । “रममाणा वने त्रयः" ईश्वरमिथुनं तच्छेषो ज्ञानी च रममाणाश्चरन्ति । यामुनवने वृन्दावने कृष्णः शेषश्च रेमाते । न रुक्मिणी तत्र सन्निहिता । अत्र यामुनवने त्रयोपि विजहिरे। "रम्यमावसथं कृत्वा । "लक्ष्मणानय दारूणि दृढानि च वराणि च । कुरुष्वावसथं सौम्य वासे मेऽभिरतं मनः । तस्य तद्वचनं श्रुत्वा सौमित्रिविविधान् द्रुमान् । आजहार ततश्चक्रे पर्णशालामरिन्दमः। इत्यादिकंभाव्यम् । रममाणावने त्रयः "तदा विजद्दुः सुसुखं जितेन्द्रियाः" । तापसव्रतानुरोधेन जितेन्द्रियतया रमणं दम्पत्योरपि । “यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णाक्षयसुखस्येते नार्हतः षोडशी कलाम् ।" वने। “जहौ च दुःख पुरविप्रवासात् ।" "देवगन्धर्व- 50 रामायणसंक्षेपसर्गरसास्वादः संकाशास्तत्र ते न्यवसन् सुखम्।" "आत्मानं मानुषं मन्ये रामं दशरथात्मजम् ।" समाद्वादश तत्रासं राघवस्य निवेशने। भुंजानामानुषान् भोगान्" इत्युक्तरीत्या पुरे मानुषानन्दोऽभूदेतेषाम् । अत्र वने तेषां तदधिको देवगन्धर्वानन्दोऽभू- दिति वैचित्र्यरसो रस्यः । अयं चानन्दः अकामहतानामानन्दः जितेन्द्रियाणा- मानन्दः । वस्तुतः “यतो वाचो निवर्तन्ते । अमाप्य मनसा सह । आनन्द ब्रह्मणो विद्वान् न बिभेति कुतश्चने"ति वर्णित निरतिशयब्रह्मानन्दमाज एव त्रयोपि ॥ मू) चित्रकूटं गते रामे पुत्रशोकातुरस्तदा । राजा दशरथः स्वर्ग जगाम विलपन् सुतम् ॥ 32 षट्पञ्चाशत्सर्गे "सुरम्यमासाद्य तु चित्रकूटम्' इति चित्रकूटप्राप्तिर्वर्णिता: तदनन्तरसर्गादारभ्य सुमन्त्रम्य अयोध्याप्रत्यावृत्तिः दशरथविलापादिकं च वर्ण्यतेऽयोध्याकाण्डे । संक्षेपक्रमस्य रेखानुसारि रामायणम् । राजा दशरथः स्वर्ग जगाम । यद्यपि दशसु दिक्ष्वपि दशरथस्य रथः प्रधावितुं शक्तः अथापि तस्यैकमनोरथावाप्तिभाग्यं नासीदिति व्यज्यते । “अतिक्रान्तमतिक्रान्तमन- वाप्य मनोरथम् । रामे राज्यमनिक्षिप्य पिता मे विनशिष्यति" इति गुहसन्निधौ लक्ष्मणविलापो भाव्यः । विलपन् सुतं स्वर्ग जगाम । प्राणवियोगक्षणपर्यन्तं सुतं विलपन्नेवास । “अन्यावाचो विमुञ्चथ । अमृतस्यैष सेतुः ।" यद्यपि दशरथत्वात् पूर्व स्वर्गमसकृत् जगाम, इदानीं तु सरथो न जगाम नापि स- शरीरो जगाम । किन्तु भग्नमनोरथः सुतं विलपन् जगाम । पुत्रशोकातुर नाय दीर्घायू राजा कदापि व्याधिपीडितोऽभवत् । तीव्रतमासह्यपुत्रशोकातुरः प्राणैर्वियुयुजे । “तस्यादर्शनजः शोकः सुतस्याप्रतिकर्मणः। उच्छोषयति मे प्राणान् वारि स्तोकमिवातपः” इति दशरथदिष्टान्तसर्गश्लोको भाव्यः । तत्सर्गे “राजा दशरथः शोचन् जीवितान्तमुपागमत्" इति श्लोके अस्मिन् संक्षेपश्लोके इव 'राजा दशरथ' इति पठ्यते शिष्येण ।।

51 रामायणसंक्षेपसर्गरसास्वादः (म्) भृते तु तस्मिन् भरतः वसिष्ठप्रमुखैर्द्विजैः । नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः ॥ 33 'राज्यस्य भरणात् भरत इति समाख्या' इति काश्यपेनोक्त शाकुन्ताले : कैकेयीविवाहात्पूर्वमेव, कैकेयीपुत्रस्य राज्याभिषेकः कार्य इति कृतः । पितृदत्तवरादपि तस्य राज्यभारभरणं प्राप्तम् । “मातृदेवो भव, पितृदेवो भव । आचार्यदेवो भव" इति गुरुत्रितयशासनानुवर्तित्वमनुशिष्टं श्रुत्या आचार्यमुखेन । एतच्छु तिक्रमेण अस्य गुरुत्रयनियोगोऽप्यभव- द्राज्याभिषेकविषये । माता पूर्णमनस्कतया सतीव्रोत्कण्ठमनुशशास । सत्यवचोबद्धेन पित्रा तन्नियोगः कृतः । अनन्तरं वसिष्ठप्रमुखैराचारपि नियोजितः । 'वसिष्ठप्रमुखैर्द्विजैनियुज्यमानः' इत्यनेन मातापितृनियोजनमप्युप- लक्ष्यते । गुरुत्रयनियोगोऽप्युलंधितः । बहुविषवाक्योल्लंधनं च। तत्र हेतुः केवलं स्वेच्छामात्रम् । 'नच्छद्राज्य' मित्येक एव हेतुः । “निवर्तयित्वा रामं च तस्याहं दीप्ततेजसः। दासभूतो भविष्यामि सुस्थितेनान्तरात्मना" इति तस्य रामदास्यैकेच्छा महाबलवती। 'नैच्छत् महाबलः' यद्यपि राज्यभारभरणसामर्थ्य महदेवासीत्, बलवती तस्य रामराजदास्येच्छा। “यावन्न राज्ये राज्याहः पितृ- पैतामहे स्थितः । अभिषेकजलक्लिन्नो न मे शान्तिभविष्यति ।" इति तस्य बलवान् मनोरथः । 'दासभूताः स्वतस्सर्वे ह्यात्मानः परमात्मनः' । रामदास्ये निरतिशया रतिर्भरतस्य । भासि रतो भरतः । अत्र भाः रामदास्यलक्ष्मीः । तस्यामेवास्येच्छा । तद्रत्यैव स्वस्य भाः दीप्तिरित्यस्य बुद्धिः । 'राज्यं चाहं च रामस्य धर्मं वक्तुमिहार्हसि" । राज्यं चाहं च रामस्य स्वम् । तत्स्वं कथ- महमपहरेयम् । "कथं दशरथाज्जातो भवेत् राज्यापहारकः” । तस्य राज्य- भरणं घोरं पापमिति निश्चयः ।। (मू ) म जगाम वनं वीरो रामपादप्रसादकः ॥ 34 रामायणसंक्षेपसर्गरसास्वादः राज्ये गुरुभिर्नियुक्तोऽपि वनं जगाम । किमर्थम् । रामपादप्रसाद- नार्थम् । तातपादाः आचार्यपादाः इति वदेयुर्जनः । अयं तु तातपादानां आचार्यपादानां च नियोगमुलंध्य तत्प्रसादमनपेक्ष्य, महारण्यगतं यशस्विनं प्रसादयिष्यन्' इति रीत्या रामपादान् पसादयितुं वनं जगाम । मातृमुखात् दशरथमृतिश्रवणे “यो मे भ्राता पिता बन्धुः यस्य दासोऽस्मि धीमतः । तस्य मां शीघ्रमाख्याहि रामस्याक्लिष्टकर्मणः । पिता हि भवति ज्येष्ठः धर्ममार्यस्य जानतः । तस्य पादौ ग्रहीप्यामि स हीदानी गतिर्मम" इति भरतोक्तं भाव्यम् । 'रामपादप्रसादकः' रामस्य पादयोः पतित्वा शिरसा याचने मनोरथः । “यावन्न चरणौ भ्रातुः पार्थिवव्यंजनान्वितौ । शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति" इति रामपादयोः प्रसादनं संकल्पितम् । "आर्यपादाविमौ मतौ" इति पादुकयोः पादाभिन्नत्वमभिमतम् । तेन च संकल्पम्य न मोघीभवनम् ।। 85 (c ) गत्वा तु स महात्मानं रामं सत्यपराक्रमम् । अयाचन् भ्रातरं राममार्यभावपुरस्कृतः ॥ त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत् । "अहं वेनि महात्मानं रामं सत्यपराक्रमम्” इति विश्वामित्रोक्तरीत्या तपसि स्थिताः महात्मानं रामं सत्यपराक्रमं विदुः । रामभक्तितपसि स्थितो भरतोपि तथैव रामं वेद। " तपश्चरति धर्मात्मा त्वद्भक्त्या भरतः पुरे" इति गास्यते लक्ष्मणमुखेन । 'अयाचत् भ्रातरं रामं राज्याभिषेकांगीकारमयाचत । स एवानेन त्रियमाणो वरः । माता भरताय राज्यदानं रामविवासनं चाऽवृणुत । आयभावपुरस्कृतः पुरस्कृतोत्तमार्यस्वभावः । आर्ये ज्येष्ठे भावो रक्ति: तत्पुरस्कृतः । अस्य भरतस्य रतिरार्ये रामे, आर्यरामभक्ता । नास्य राज्ये रतिः । 'हदभक्तिरिति ज्येष्ठे' इति रघुवंशोक्तं भाव्यम् । 'भ्रातरं त्वयैवाहं भरणीयः ।

रामायणसंक्षेपसर्गरसास्वाद राज्यं चाई व रामस्य भारः तद्भरणीयम् । रामं - रमयतां वरम् । प्रियतमो प्राता भरतः अवश्य रामेण सर्वरमयित्रा रमथितन्यः। 'त्वमेव राजा धर्मज्ञ' इति रामं वचोऽब्रवीत् । 'त्वमेव राजा धर्मज्ञ' इति भरतम्य याम्भावचः। 'त्वमेव राजा' अत्रैवकारोऽन्ययोगव्यवच्छेदकः अयोग च्छेदकब्ध । राजैव त्वं, न त्वं तापसो भवितुमर्हसि । 'स राजा द्विपद। वरः ।' 'त्रयाणामपि लोकानां राज्यमर्हति राघवः' ॥ नाहं राज्यभार वोढुं क्षमः । “दुरावारं त्वदन्न राज्यस्खण्डमिदं महत् । गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्त्रिणः । अनुगन्तुं न शक्तिमें गतिं तव महीपते ॥" 36 (म्) रामोऽपि परमोदारः सुमुखः सुमहायशाः । न चैच्छत्पितुरादेशात् राज्यं रामो महाबलः ॥ रामोऽपि - स्वभावतः सर्वरमयितृत्वशीलोऽपि । परमोदारोऽपि - परो मा अस्मादिति परमः । औदार्ये निःसमाभ्यधिकोऽपि । सुमुखोऽपि- आर्यभरतविषये परमप्रसन्नोऽपि । “न ह्यर्थिनः कार्यवशादुपेताः काकुत्स्थ- वंशे विमुखाः प्रयान्ति" इति रघुवंशोलश्लोक उदाहृतो गोविन्दराजेन । सामान्यार्थिष्वपि न विमुखो भवेत् । सुमहायशाः - अर्थिमनोरथपूरणे अस्य सुमहद्यशः । एवमपि राज्यं न चैच्छत् । तत्र द्वौ हेतू । तत्र प्रथमः पितुरादेशात् इति । पितुश्वरमादेशो मान्यतमः । स चादेशः आत्मानं सत्यप्रतिज्ञं कर्तुं कृतः । पितुर्नियोगपालन, पितृसत्यव्रतपालनं च । अपरब्ध हेतुः महाबल इति । जामदग्न्यजयेनास्य बलं निस्समाभ्यधिकमिति प्रकाशितम् । एनं महाबलं विहाय कोऽन्यो लोकत्रयकष्टकभूतदशकण्ट- कण्ठच्छेदसमर्थः ॥ (५) पादुके चास्य राज्याय न्यासं दत्वा पुनः पुनः । निवर्तयामास ततो भरतं भरताग्रजः ॥ 37 54 रामायणसंक्षेपसर्गरसास्वादः - राज- 1 राज्याय - राज्यं कर्तु, राज्यपरिपाल नाय । राम वने भरतो राज्याय । रामः स्वस्थाने स्वपादुके स्वप्रतिभूत्वेन ददौ राज्याय कर्मनिहाय । राज्यभारनिर्वहणं रामे न्यस्तं भरतेन । रामेण तद्भारो भरत- द्वारा स्वपादुकयोयस्तः । “भ्रात्रा हि मयि स न्यास. निक्षिप्तः सौहृदादयम् । तमिमं पालयिष्यामि राघवागमनं प्रति ।" "आभ्यां राज्ये स्थितो धर्मः पादुकाभ्यां गुरोर्मम ।" "भरताय परं नमोऽस्तु तस्मै प्रथमोदाहरणाय भक्तिभाजाम् । यदुपज्ञमशेषतः पृथिव्यां प्रथितो राघवपादुकाप्रभावः' इत्युक्तरीत्या भरतः पादुकाऽर्चनमार्गदर्याचार्योऽभवत् । भरतोपज्ञं पादुका- पूजनसंप्रदायततिः । पादपूजास्थाने पादुकापूजा क्रियते । “ततो भरताग्रजः भरतं पुनः पुनर्निवर्तयामास ॥" भरतस्याग्रजत्वात् रामस्तं तत्कांक्षित- स्वाभिषेचनमनोरथात् निवर्तयितुं शक्तोऽभूत् । अग्रजपारतन्त्र्यैकस्वरूपत्वात् तन्निवृत्तिः शक्याऽभूत् । "शेष्ये पुरस्ताच्छालायाम्" इति प्रायोपवेशं कर्तु- मैच्छत् ॥ 38 (म् ) स काममनवाप्यैव रामपादावुपस्पृशन् ।। नन्दिग्रामेऽकरोद्राज्यं रामागमनकांक्षया ॥ "यावन्न चरणौ भ्रातुः शिरसा धारयिष्यामि" इत्येकः कामः । "यावन्न राज्ये राज्याहः पितृपैतामहे स्थितः । अभिषेकजलक्लिन्नः न मे शान्तिर्भविष्यति ॥” इत्यपरः । इयं कामस्य काष्ठा । सा नावाप्ता। भ्रातृ- चरणयोः शिरसा धारणकामना त्ववाप्ता । रामपादावुपस्पृशन् - पादतुल्य- त्वेनाभिमतपादुकयोः शिरसि धारणभाग्यं लब्धम् । पादावुपस्पृशन् तदनुग्रहेण राज्यमकरोत् । रामागमनकांक्षया राज्यमकरोत् । रामागमनाशारस एव तस्य प्राणधारकोऽभूत् । 'आशाबन्धः कुसुमसदृशं प्रायशो बगनानां सद्यः पाति प्रणयिहृदयं विप्रयोगे रुणद्धि ।' 'रामागमनमाकांक्षन् भरतो भ्रातृ- रामायणसंक्षेपसर्गरसास्वादः 55 वत्सलः' नन्दिग्रामे - ग्रामे राज्यमकरोत् । न नगरे, न राजधान्याम् । तापसव्रतनियमविरुद्धत्वान्नगरवासस्य । प्रतिनिवृत्तं रामं पुरस्कृत्य तदभिषे- कोत्सवसंरंभपुरस्सरमेव राजधानी प्रविश्येत । भरताश्रमस्य ग्रामस्थत्वमेलो चितम् । रामगिर्याश्रम इव भरताश्रमः । चत्वारोऽपि भ्रातरः आश्रम एवाभवन् । 'नन्दिग्रामेऽकरोद्राज्यं दुःखितो मन्त्रिभिस्सह' इति गास्यत राज्यकरणस्य दुःखमयत्वम् । नन्दिग्रामे दुःखमयी स्थितिः। 'नन्दिग्राम' इति नाममात्रम् । यथा अशोकवनिकानाम । 'शोकग्रामः' इति तत्त्वम् । विपरीतलक्षणा । क्रोशमात्रे त्वयोव्यायाः नन्दिग्रामः । “राज्यमकरोत्” इति परस्मैपदेन स्वस्य तस्मिन् फलत्वनिवृत्तिरवगम्यते" इति गोविन्दराजव्याख्या रस्या । उपस्पृशन् – 'प्रत्यहं सेवमानस्सन्' इति तद्वयाख्या। रामपादौ - "आर्यपादाविमौ मतौ" इति भरतस्य रामपादुकयोः रामपादनिर्विशेषा बहु- मतिः । सा भरतमतिः व्यज्यते 'पादौ' इति निर्देशेन । राजसूयेन इयक्ष- माणो युधिष्ठिरः, “त्वत्पादुके अविरतं परि ये चरन्ति ध्यायन्त्यभद्रशमने सुधियो गृणन्ति । विन्दन्ति ते कमलनाभ भवापवर्गमाशासते यदि त आशिष ईश नान्ये । तद्देवदेव भवतश्चरणारविन्दसेवानुभावमिह पश्यतु लोक एषः" इति श्रीकृष्णपादुकासेवामहिमानमगायत्, भागवतदशमे द्विसप्ततितमाध्याये ॥ (म्) गते तु भरते श्रीमान् सत्यसन्धो जितेन्द्रियः ॥ 39 रामस्तु पुनरालक्ष्य नागरस्य जनस्य च । तत्रागमनमेकायो दण्डकान् प्रविवेश ह ॥ 40 गते तु भरते - भरतस्य चित्रकूटान्निवर्तनं बहुप्रयाससाभ्य- मभवत् । श्रिया सीतया सहितोऽपि रामः भरतगमने सम्पन्ने एव श्रीमा- नभवत् । यस्य भरतस्य क्षणविरहोऽपि रामस्यातिदुस्सहः, तस्य भरतस्य स्व- 56 रामायणासोपसर्गहसास्वावः सकाशात् अपवाहनमेवाकांक्षितन्यमभवत् स्वावतारकार्यनिर्वहणाय। "निधिताति हि मे बुद्धिर्वनवासे दृढव्रता। भरतस्नेहसन्तप्ता बालिशीक्रियते पुनः ।। "कदा न्वहं समेष्यामि भरतेन महात्मना" इति विलपति रामः पञ्चवथ्यां भरतविरहसन्तप्तः । भरतनिर्वन्धस्य दुर्लध्यत्वेऽपि अयोध्या प्रति रामनिवर्तन- मेव शिरसा याचमानस्य भरतस्याऽयोध्यां प्रत्यागमनं स्वकर्तव्यवनवासक्त- स्वकृतराक्षसवधप्रतिज्ञाविरोधित्वात् न तथैकान्लेनेष्टमभूत् । गते तु भरते सत्यसन्धोऽभवत् । स्थिते तु तस्मिन् सन्धायाः शिथिलीभगमभयम् । श्रीमान् -प्रतिज्ञाभंगभयजनितविषादविगमात् उत्पन्नाकान्तिविशेषः । सत्य- सन्धा- भरतनिर्बन्धेनाप्यविचाल्यप्रतिज्ञः । जितेन्द्रिया- 'मातृमरतादि- प्रार्थनाव्याने सत्यपि राज्यभोगलौल्यरहितः' इति श्रीगोविन्दराजः । पुम- रागमन- स्वेन सह पूर्वमागत्य भरतेन सहागतानां पुनरागमनम् । नागरस्य जनस्य पुनरागमनमालोच्य - वनवासप्रतनियमस्य नागर- जनानां भूयस्समागमः विरोधीत्यभिप्रायः । वनवासवतं नागरवनभूय- संमिश्रणेन भज्येत । आरण्यकैस्सह बसतिः समागमश्च तद्रतोचितः । एकाग्रः - बनवसतिः नागरसमागमः इति द्याता भवेत् । वनव्यग्रता नागरव्यग्रता च । ऐकाप्रयेण आरण्यकननसमागम एव वनबासवतानुरोधी स्यात् । वनवासवते एकाग्रः दण्डकान् गन्तुमियेष । 'इह मे भरतो दृष्टो मातरश्च सनागराः । सा च मे स्मृतिरन्वेति तानित्यमनुशोचतः ॥ स्कन्या- वारनिवेशेन तेन तस्य महात्मनः । हयहस्तिकरीषैश्च उपमर्दः कृतो भृशम् ।। तस्मादन्यत्र गच्छामः इति संचिन्त्य राघवः । प्रातिष्ठत सवैदेया लक्ष्मणेन च संगतः ॥ इति काव्ये । 'न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा' इति कारणबहुत्वं दण्डकाप्रवेशे। चशब्देन इत्तरकारणसमुच्चयः । दण्डकान् प्रविवेश ह- 'वनं सभार्यः प्रविवेश राघवः सलक्ष्मणः सूर्य इवाश्रमण्डलम्' इत्ययोध्याकाण्डान्तिमश्लोके महारण्यसवेश उकः । मनायोध्याकाण्ड:

रामायणसंक्षेपसर्गरसास्वादः 57 समाति याति । अत्र काण्डद्वयसन्धिः अरण्यप्रवेशकीर्तनेन । अनन्तरश्लोके 'प्रविश्य तु महारण्यं' इत्यारण्यकाण्डं प्रारभते। काव्ये च इयमेव गुरुरीति- रनुसियते ॥ (म्) प्रविश्य तु महारण्यं रामो राजीवलोचनः । विराध राक्षसं हत्वा शरभंगं ददर्श ह ॥ 11 सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा । प्रविश्य तु महारण्यं इति संक्षेपपदान्येव निवेश्यन्ते काव्ये आरण्य- काण्डारम्मे । 'प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान् । ददर्श रामो दुर्धर्षः तापसाश्रममण्डलम्' इति तत्काण्डप्रारंभः । राजीवलोचन इति विविध- वनपादपदर्शनकौतुहलरसो द्योत्यते । राक्षसवधारंभावकाशलाभजनितहर्षश्च घोत्यते। “दशग्रीवस्तम्बेरमदलनदुर्दान्तहृदये विहारस्वाच्छन्द्यात् विशति खुसिंहे वनभुवम्" इति पादुकासहले वनप्रवेशे हों वर्णितः । अरण्यप्रवेश एवं रामं दृष्ट्वा महर्षयः अभ्यागच्छन् तथा प्रीताः। तथाऽत्यन्तं प्रीताना- मृषीणां सन्दर्शनेन जनितो हर्षोऽपि सूच्यते । काव्ये प्रथमसर्गे ऋषीणा- मुपसर्पणमङ्गलाशासनाभव्यप्रार्थनादिकं वर्णितम् । “मे रामो राजीवलोचनः" इति पिता दशरथ उवाच विश्वामित्रं प्रति ॥ अत्र तपोधनाः 'वयं तव गर्भभूतास्तपोधनाः' इति वदन्ति राम राजीव- लोचनम् । विराधं राक्षसं हत्वा वैश्रवणशापप्रापितराक्षसदेहस्य हननम् । खननेन तस्य राक्षसत्वनाशनं तुम्बुरुरूपगन्धर्वप्रकृतिप्रापणं च कृतम् । "अपि शापादहं पोरां प्रविष्टो राक्षसी तनुम्" इति तेनोक्तम् । दण्डकारण्यप्रवेशे, "कौसल्या सुपजा तात रामस्त्वं विदितो मया" इति तस्य रामविषयप्रीति- प्रचुरोक्तिः विश्वामित्रसुप्रभातश्लोकानुसारिणी। "अहं वेद्मि महात्मानं राम" 58 रामायणसंक्षेपसर्गरसास्वादः इतिवदस्य वचनम् । शरभंगसुतीक्ष्णागस्त्यतद्भातृन्महर्षीन् ददर्श । अगस्त्य- प्रातृदर्शनानन्तरं अगस्याश्रममगमद्रामः । अत्र 'अभ्यर्हितं पूर्व मिति न्याय- मनुसृत्य वस्तुक्रमविपर्ययः । “अगस्त्यमभिगच्छेयमभिवादयितुं मुनिम् । मनोरथो महानेषः हृदि मे परिवर्तते ॥ यदहं तं मुनिवरं शुश्रूषेयमपि स्वयम्" इति कथयन् रामः अगस्त्याश्रममार्ग पप्रच्छ सुतीक्ष्णमुनिम् । "अहमाख्यामि ते वत्स यत्रागस्त्यो महामुनिः” इति तन्मार्गमादिशत् सुतीक्ष्णमुनिः । 'अहमप्येतदेव त्वां वक्तुकामः सलक्ष्मणम् । अगस्त्य- मभिगच्छेति सीतया सह राघव । दिष्टया त्विदानीमर्थेऽस्मिन् स्वयमेव ब्रवीषि माम्' इति सुतीक्ष्णः स्वयमेवागस्त्यदर्शनविषये राममादेष्टुकामोऽभवत् । इदं सर्व व्यज्यतेऽगस्त्यदर्शनस्य सुतीक्ष्णदर्शनानन्तरपठनेन । अगस्त्यभ्रातरं तथा इति संक्षेपे काव्ये च प्रातुर्नाम न निर्दिष्टम् । सुदर्शन इति तन्नामेति गोविन्दराजः । अगस्त्याश्रमगमनमार्गे मध्यमार्ग सन्ध्याकालाभिवर्तनात् तद्भातुराश्रमे निशामनयद्रामः । राव्यां व्यतीतायां विमले सूर्यमण्डले अगस्त्य- भ्रातरमामन्त्र्य अगस्त्याश्रमं जगाम || (म्) अगस्त्यवचनाचैव जग्राहैन्द्रं शरासनम् । खड्गं च परमप्रीतस्तूणी चाक्षयसायकौ ॥ अगस्त्यदर्शनं तद्रातृदर्शनं च कीर्तितम् । अगस्त्यवचनाच्चैव इति अत्र पठनेन मध्यनिर्दिष्टागस्त्यभ्रातृदर्शनं अगस्त्यदर्शनात्पूर्वमेव वृत्तमिति स्पष्टं योतयति । महर्षिपरतन्त्रतायामेव वृद्धसेविनो रामस्यः रुचिः। सर्व तद्वचनादेव कार्यम् । वचनात्प्रवृत्तिः वचनानिवृत्तिः । ऐन्द्रं शरासनं- धनुरिदं वैष्णवम्, यत् जामदग्न्यहस्तात् रामहस्तगतं, रामेण च वरुणहस्ते निक्षिप्तम् । वरुणेन च इन्द्रद्वारा अगस्त्ये निक्षिप्तमिव अगस्त्यानुग्रहपूर्वक रामहस्तं प्रापयितुम् । इन्द्रेणागस्त्ये निक्षिप्तत्वात् ऐन्द्रमिति कथ्यते । खगः 10 12 59 । च ऐन्द्रावेव । 'इदं दिव्यं महचाप हेमरलविभूषितम् । वैष्णवं पुरुष- व्याघ्र निर्मित विश्वकर्मणा ॥' इति काव्ये । 'अनेन धनुषा राम हत्वा संख्ये महासुरान् । आजहार श्रियं दीप्तां पुरा विष्णुर्दिवौकसाम् ।' इति च । रावणस्य वधार्थिभिर्देवैरर्थितो विष्णुर्मानुषत्वेन रामत्वेन जज्ञे । तद्धन् राम- रूपाय तस्मै महदनुग्रहपूर्वकं दीयते । 'अथेन्द्रशत्रु तरसा जघान' इतीन्द्र- शत्र रावणः । इन्द्रो जितस्तेन । इन्द्रादिप्रार्थनयाऽवतारः कृतः । इन्द्रस्य खगादिभिरेव रावणादिवध इष्यते महर्षिणा रामेण च । परमपीती-इद- मपि कारणम् । 'जयाय प्रतिगृह्णीष्व वज्र वज्रधरो यथा' इत्याशी: रामाय प्रायुज्यत ॥ (म्) वसतस्तस्य रामस्य वने वनचरैस्सह । ऋषयोऽभ्यागमन्सर्वे वधायासुररक्षसाम् ॥ 18 स तेषां प्रतिशुश्राव राक्षसानां तथा वने ॥ 'यदा रामः वने वनचरैस्सह अवात्सीत्, तदा सर्वे ऋषयः राम- मभ्यागत्य रावणादिरक्षसां वधं प्रार्थयामासुः ।' इत्येतावदेव कथ्यते । अस्य वृत्तान्तस्य अगस्त्यदर्शनानन्तर्य नात्राभिप्रेयते । शरभंगाश्रमावस्थानसमय एव ऋषयोऽभ्यागमन् । 'शरभंगे दिवं याते मुनिसंघाः समागताः । अभ्यागच्छन्त काकुत्स्थं रामं ज्वलिततेजसम् ॥' इति षष्ठसर्गारंभः। महर्षि- विशेषाणां दर्शनं प्रथमं गीयते संक्षेपे । महर्षिसंघदर्शनं, तत्प्रार्थना, तेभ्यः प्रतिश्रवधानन्तरं कथ्यन्ते । सर्वे ऋषयः - 'वैखानसाः वालखिल्याः संप्रक्षाला मरीचयः । अश्मकुट्टाश्च बहवः पत्राहाराश्च धार्मिकाः ॥ दन्तोलखलिनश्चैव तथैवोन्मज्जकाः परे । गात्रशय्या अशय्याध तथैवाभावकाशकाः ॥ मुनय- स्सलिलाहाराः वायुभक्षास्तथापरे । आकाशनिलयाश्चैव तथा स्थण्डिल- शायिनः ॥ व्रतोपवासिनो दान्ताः तथाईपटवाससः। सजपाश्च तपोनित्या- 60 स्तपोन्विताः । सर्वे ब्रामया श्रिया जुधाः दृढयोगाः समाहिताः। शरभंगा- श्रमे रामममिजम्मुश्च तापसाः ॥ अभिगम्य च धर्मज्ञाः राम धर्मभृतां वरम् । अचुः परमधर्मज्ञमूषिसंघास्समाहिताः ॥ इति काव्योक्ताः विविधा महर्षिसधाः सर्वशब्देन विवक्षिताः । परमधर्म: - शरणागतत्राणम्। 'ततस्त्वां शरणार्थ च शरण्यं समुपस्थिताः । परिपालय नो राम वध्यमानान्निशाचरैः' इति तेषामभयप्रार्थना । राक्षसानां वने- तेषां निवासस्थानमूते बने एवं तेषां वर्ष प्रतिशुश्राव । तथा इति महर्षिकांक्षितं प्रतिजज्ञे ।। (म्) प्रतिज्ञातश्च रामेण वधस्संयति रक्षसाम् । ऋषीणामग्निकल्पानां दण्डकारण्यवासिनाम् ॥ 45 'तथेति प्रतिशुश्राव' इति ऋषिभ्यो राक्षसवधप्रतिज्ञानं स्पष्टमुक्तं पूर्व- श्लोके । “आश्रवसंगरसन्धाः प्रतिश्रवः संश्रवः प्रतिज्ञा च' इति हलायुधः" इति कोशमुदाहृत्य 'यथा ऋषिभिरर्थितः तथा प्रतिजज्ञे' इत्यर्थः इति पूर्व- श्लोकव्याख्या गोविन्दराजस्य । प्रतिपूर्वकश्रुधातोः प्रतिज्ञार्थकत्वं प्रसिद्धम् । पूर्वश्लोकेनास्य श्लोकस्य पुनरुक्तता परिहरणीया । सुपरिहरा च सा । आरण्यकाण्डषष्ठे रक्षोवधप्रतिज्ञानं कृतं मुनिसंघेभ्यः। नवमसर्गे सीतया 'बिना वैरं च रौद्रता नाविष्करणीया' इति विस्तरेण स्मारितम् । 'स्मारये त्वां न शिक्षये', 'विचार्य बुद्धया तु सहानुजेन यद्रोचते तत्कुरु मा चिरेण' इति तस्या निवेदनम् । 'न कथंचन सा कार्या गृहीतधनुषा त्वया । बुद्धिर विना हन्तुं राक्षसान् दण्डकाश्रितान् । अपराधं विना हन्तुं लोकान् वीर न समये' इति तस्याः अनपराधिशक्षसहननानिच्छा निवेदिता तया । ऋषिभ्यः कृतायाः प्रतिज्ञायाः सीतावाक्येन शैथिल्यजनिप्रसंगे, तत्प्रतिज्ञायाः अकम्प- नीयतया दृढता पुनः प्रतिज्ञाता रामेण 'अप्यहं जीवितं जयां त्वां वा सीते सलक्ष्मणाम् । न तु पहिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः' इति। इदं च 61 रामायणशेषतरलास्थान सीतापामारपबलवद्धेतुसंभवेऽपि पुनस्तस्य रक्षोषस्य छतरपविज्ञान- मस्मिन् श्लोके प्रदश्यते । “बिना वैरं च रौद्रता' इति निषेधः सीतया कृतच बहु मान्यते रामेण । इदं च व्यज्यते 'संयति' इति पदेन । समसमीयं यदा राक्षसाः संयन्ति योद्धं, यदा ते आततायित्वेन राममभियान्ति तदा तेषां वधः क्रियते । खरादयः युद्धाय स्वयमाययुः । त एव प्रथमं शस्त्रप्रयोक्तारः। रावणवधप्रतिज्ञायाः निर्वर्तनाय सीतापहरणरूपापराधो निमित्तीकृतो रामेण । तेन च 'विना वैरं च रौद्रता' इति सीतानिषेधवचनानुरोधोऽपि कृतः । ऋषिभ्यः कृतप्रतिज्ञासफलीकरणाय सीताहानमपि समभवत्, सोढं च । 'त्वां वा जयां, न ब्राह्मणेभ्यः संश्रुतां प्रतिज्ञाम्' । 'ब्राह्मणेभ्यः प्रतिश्रुत- प्रतिज्ञानिहाय यदि सीतापहरणहाने मान्तरीयके कामं भवतां ते इति राममतिरिति व्यज्यते "अप्यहं जीवितं जयां त्वां वा सीते सलक्ष्मणाम्।" इति श्लोकेन । 'ऋषीणामग्निकल्पानाम्' अग्निसदृशाः ऋषयः अरण्य- वासिनां रक्षसां दहने समर्था एवेति व्यज्यते अग्निसादृश्यप्रदर्शनेन । 'अरण्यवासिना' मिति पदं रक्षसां ऋषीणामित्युभयत्रान्वेति । अरण्यवासिनां ऋषीणामिति समभिव्याहारेण ऋषीणां दावाग्निसादृश्य व्यज्यते । अरण्यवासिनां रक्षसामिति समभिव्याहारेण च रक्षसां अरण्यवृक्षवत् सुदहत्वं व्यज्यते । 'तपसश्चानुपालनात्' इति सीतोक्तरावणाप्रदाहहेतुरेव ऋषीणां स्वयं राक्षसदहनाऽप्रवृत्तावपि ॥ (म्) तेन तत्रैव वसता जनस्थाननिवासिनी। विरूपिता शूर्पणखा राक्षसी कामरूपिणी ॥ तेन तत्रैव वसता - तेन ऋषिभ्यः दण्डकारण्यवासिराक्षसवधदृढ- प्रतिज्ञात्रा रामेण । तथा दृढप्रतिज्ञानेऽपि सीतास्मारितं स्वोपदिष्टं वैरं विना रौद्रताया अप्रदर्शनरूपधर्ममनुरुन्धानस्तत्रैव पञ्चवट्यामेव उवास । न तु जन- 46 62 रामायणसंक्षेपसर्गरल स्थाननिवासिराक्षसानन्विष्य तान् हन्तुं स्वयं तत्र जगाम । इदं च तत्रैव वसता इत्यनेन व्यज्यते । 'वसतस्तस्य रामस्य' इति अनादरे षष्ठी। राम- मनाहत्य शूर्पणखा सीतामुपरोढुं प्रारभत । सीताविषय एव सा आततायिन्य- भवत् । विरूपिता कामरूपिणी- विरूपणानन्तरं न तदवयववत्ता कामतः सम्पादयितुं शक्या । 'कामरूपिणी' कामभावैकनिरूपणीया काममयी अभवत् । 'समुपेतास्मि भावेन भर्तारं' इति तद्वचः । 'रावणाधरना तत्र राघवं मदनातुरा । अभिपेदे निदाघार्ता व्यालीवम लयद्रुमम्' इति कालिदासः । 'कामातुराणां न भयं न लज्जा'। कामाविष्टत्वाभावे कथं तया स्वकामः कथ्येत । सीतालक्ष्मणसन्निधौ ‘विरूपिता कामरूपिणी,' कर्णनासिकाच्छेदकयोः तयोः तदनन्तरमपि कामभावमय्यभवत् । छेदनाभिभूतापि काममय्येवासीत् । तत एव काममयी सा स्वावयवछेदको तौ वर्णयति सोदररावणसन्निधौ । कर्णनासिका- च्छेदेन न मनागपि तस्याः कामच्छेदोऽभवदिति व्यज्यते । विरूपितत्वेऽपि कामभावैक निरूपणीया शूर्पणखा । 'शूर्पणखा' इति संज्ञयैव तस्याः घोररूपत्वं प्रख्याप्यते। कामिन्यास्तस्याः नखच्छदादिकं कस्य नरस्यानुभाव्यं भवेत् । शूर्पणखा राक्षसी इति निर्देशेन तस्याः कामितपुरुषानानुरूप्यं व्यज्यते, यत् चतुरं वित्रियते कविना शिष्येण 'सुमुख दुर्मुखी राम' इत्यादिश्लोकैः । तेन विरूपिता रामस्य दक्षिणो बाहुः लक्ष्मणः । अतः लक्ष्मणकर्तृकविरूपणं राम- बाहुकृतविरूपणमेवेति गुरोरभिप्रायो व्यज्यते ॥ । । 47 (म्) ततः शूर्पणखा वाक्यादुधुक्तान्सर्वराक्षसान् । खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् ॥ (म्) निजघान रणे रामः तेषां चैव पदानुगान् ।

63 रामायणसंक्षेपसर्गरसास्वादः घने तस्मिनिवसता जनस्थाननिवासिनाम् । रक्षसां निहतान्यासन् सहस्राणि चतुर्दश ॥ 48 शूर्पणखावाक्यमात्रात् सर्वे राक्षसाः रामं यो मुद्युक्ताः। स्वस्थाने एवासीनो रामः जनस्थानादागत्य सर्वेः राक्षसैरभियुक्त इति गुरुः पुनः पुनर्वदति। 'वने तस्मिन् निवसता जनस्थाननिवासिनाम् । रक्षसां निहतान्यासन् सहस्राणि चतुर्दश' इति इदं पुनः स्पष्टीक्रियते । यद्यपि खरवधः चरमवृत्तः, तथापि स एव प्रथमं रामोपरि शरान् प्रचिक्षेप, तदनन्तरं इतरे । 'ततः शरसहस्रेण राममप्रतिमौजसम् । अर्दयित्वा महानादं ननाद समरे खरः । ततस्तं भीमधन्वानं क्रुद्धास्सर्वे निशाचराः। राम नानाविधैः शस्त्रैरभ्यवर्षन्त दुर्जयम्" इति वर्ण्यते कविना । अतः प्रथमं खरः निर्दिश्यते, सैनिकाश्च तत्पदानुगत्वेन चरम निर्दिश्यन्ते । अल्पाल्पेनार्धाधिकमुहूर्तेन चतुर्दशसहस्ररक्षसां हतत्वात् अत्र तद्वधे न क्रमकथननिर्बन्धः इत्यप्यभिसन्धिः स्यात् । शूर्पणखाकामातुरता- मूलः, तदप्रजरावणकामातुरतामूलश्च सर्वराक्षसवधः । शूर्पणखावाक्यात्- 'अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः' इति पृष्ठे, “काम एषः” इति कामस्य पापकर्मकारयितृत्वमुक्तम् । अत्र कामरूपिण्याः कामिन्याः शूर्पणखायाः कामक्रोधमूलकवाक्य श्रवण- मात्रात् किमप्यविचारयन्तः चतुर्दशसहस्रराक्षसाः राममभ्ययुध्यन् वाक्यादुधुक्तान-तस्याः वाक्यमात्रात् उद्युक्तान् । सर्वराक्षसान्–नैकोपि किं तत्त्वं किं न्याय्यमिति विचारयामास ॥ (म्) ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूञ्छितः । सहाय वरयामास मारीचं नाम राक्षसम् ॥ 49 वार्यमाणः सुबहुशो मारीचेन स रावणः ।

64 रामायणपसर्गरवाला नविरोधो वलवता क्षमो रापण तेन ते॥ 50 अनाहत्य तु तद्वाक्यं रावणः कालचोदितः । जगाम सहमारीचस्तस्याश्रमपदं तदा ॥ 51 अकंपनात् चारात् श्रुत्वा क्रोधमूच्छितोऽभवत् । पश्चात् शूर्पणखा- मुखात् सीतासौन्दर्यश्रवणे काममूर्छितोऽभूत् । क्रोधमूर्छितः मारीचं सहायत्वेन वरयामास । मारीचाश्रमस्य प्रथमगमने सहायत्वेन वरणं कृतम्। 'जनस्थानमवध्यं तत्सर्वं युधि निपातितम् । तस्य मे कुरु साचिव्यं तस्य भार्यापहारणे' इति साहाय्यप्रार्थना कृता । मारीचेन वारितः तद्वाक्यमादृत्य तदा निवृत्तः । पुनरपि शूर्पणखामुखात् सीतासौन्दर्यश्रवणे काममूर्छितो भूत्वा पुनर्मारीचाश्रमममिययौ । तं च शरणमगमत्, "आतॊस्मि मम चार्तस्य मवान् हि परमा गतिः” इति स्वस्य कामभृशातत्वं मारीचैकगतिकत्वं अनन्यगतित्वं च ब्रुवन् । तदैव सुबहुशो वारितः प्रतिषिद्धो रावणो मारीचेन । सदैव मारीचवाक्यमनादृत्य "न चेत्करोषि मारीच हन्मि त्वामहमद्य वै । एतत्कार्यमवश्यं मे बलादपि करिष्यसि' इति भर्त्सनेनांग्यकारयत् । “जगाम सहमारीचः" इत्यनिच्छतोऽपि मारीचस्य रावणेच्छया नयनं व्यज्यते गमने सहयोगनिर्देशेन । 'जगाम तस्याश्रमपदं तदा' । (मू) तेन मायाविना दूरमपवाह्य नृपात्मजौ । जहार भार्यां रामस्य गृधं हत्वा जटायुषम् ॥ 52 तेनेति- तन्मायाया आश्चर्यशक्तित्वं न्यज्यते । माया अस्यास्तीति मायावी। अस्त्यर्थे विनिः । यद्यपि अनिर्वचनीया माया अस्तीति वा नास्तीति वा निर्वस्तुमशक्या स्यात् तथापि मारीचस्य माया अस्त्येव । बलवदस्ति । अतोऽयं मायावीति व्यपदिश्यते । अस्य माययैव सीता- रामायणसंक्षेपसर्गरसास्वाद 65 पहरणं तत्प्रयुक्तपौलस्त्यवधादिकं च प्रयोजितम् । "भवन्ति मायाविषु ये न मायिनः” इति भारविः । मायाविषु मायिभिर्भवितव्यम् । रामो मानुषत्वं भावयन् ऋजुबुद्धिर्बभूव । यद्यपि लक्ष्मणस्तन्मायां बुद्धा "तमेवैनमहं मन्थे मारीचे राक्षसं मृगम्" "मायैषा हि न संशयः" इति भातरमब्रवीत, तथापि सीतानिर्बन्धेन रामस्य मृगानुसरणं, तेन च रामस्य दूरमपवाहनं घटितम् । लक्ष्मणस्यापवाहने च मारीचमायैव रामध्वन्यनुकरणेन मैथिलीमयमुत्पाद्य तद्वारा कारणमभवत् । नृपात्मजौ-ताभ्यां दशरथपुत्रत्वरूपनृपात्मजत्वमेवाड भाव्यत । जहार भार्या रामस्य - हरणमात्रमेव तस्य शक्यम् । यद्यपि विहरणार्थे जहार, हरणमात्रस्य सिद्धिः । “विहर मया सह भीरु काननानि" प्रलोभनप्रयत्नः अत्यन्तमोघ एव । मृनं हत्वा जटायुषम् - क्त्वाप्रत्ययेन जटायुक्धस्य सीतापहरणपूर्वभावित्वमुच्यते इव । रामाश्रमादपहृता सीता। गगने धावन्तं रावणरथं गृध्रः प्रतिरुरोध । रावणमहारथं च बभंज । रावणः सह सीतया भुवि पपात । जटायुना योधनकाले सीतामुत्ससर्ज । जटायुपक्षौ छित्वा तदनन्तरं पुनर्जहार । प्रथमकृतोऽपहारो निष्फलोऽभूत् । जटायु- हननानन्तरमेव अपहरणस्य सिद्धिः । इदं सर्व निपुणं व्यज्यते अनन्तरका- लिकत्वद्योतकक्त्वाप्रत्ययेन, जटायुवृत्तान्तस्य पश्चात्पठनेन च । गृध्रहननेन नैकापहरणं शक्यमभवत् । मध्यमणिन्यायेन 'जहार भार्या रामस्य' इति वाक्यस्य पूर्वत्र उत्तरत्र चान्वयो निपुणं घट्यते। पूर्वत्रान्वयेन प्रथमापहरणं उत्तरत्रान्वयेन द्वितीयापहरणं चोक्तं भवति । इदं गुरुनैपुण्यमत्यन्तरस्यम् । यद्यपि नृपात्मजौ मायाविना मारीचेनापवाहितो, रामाश्रमपालो गृध्रो नापवाहितः । यादृच्छिकया निद्रया केवलं क्षणकालमनवहितोऽभवत् गृध्रः ॥ (मू) गृधं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् । राघवः शोकसन्तप्तः विललापाकुलेन्द्रियः ॥ 58 68 - रामायणसंक्षेपसर्गरसास्वादः दहनसंस्कारे सीतासाहचर्यमावश्यकं, तत्सहभावस्य दुर्लभत्वात् रामहृदये सा सन्निहितैवाभवत् । अतस्तत्साहचर्यमपि कथंचित्संपाद्येत उभयशोकहेतु- समुच्चयेन । जटायुनामकीर्तनेन तस्य सुपर्णमातृ विनतासुतत्वं द्योत्यते । "सर्वत्र खल दृश्यन्ते साधवो धर्मचारिणः । शूराः शरण्याः सौमित्रे तिर्यग्योनि- गतेष्वपि" इति रामेणास्य साधुशब्दव्यपदेश्यत्वम् । साधूनां परित्राणं स्वावतारमुख्यप्रयोजनम् । यद्यपि सर्वबन्धेभ्यो मोक्ष्यमाणस्य रामानुग्रहेण ब्रह्म- सम्पन्नस्य जटायुषः शव्यकरणेन न कोपि लाभः, तथापि तत्संस्करणेन संस्कर्तुरेव श्रेयो लाभः तदनुत्तमदाक्षिण्यप्रकाशनेन । 'महर्षिकल्पेन च संस्कृतः' इत्यस्य रामकृतसंस्कारो वर्ण्यते । महर्षिकल्पेन–राजपुत्रत्वेऽपि तापसव्रतेन रामेण, महर्षीणां यः प्रोक्तः संस्कारकल्पः तद्विधिना संस्कृत इत्यर्थद्वयं विवक्षितम् । स्वयं शोकेन दह्यमान एव गृध्रराजदेहं ददाह । जटायुनामावृत्त्या गृध्रपदावृश्या च जटायुषो भाग्यं रामदाक्षिण्यं च विस्मयावह मिति व्यज्यते । सुदीर्घायुषो जटायुषः आयु सीतारामार्थे अन्तं प्राप । सुदीर्घायुषा म्रियमाणेन जटायुषा रामस्य 'आयुष्मन्' इति संबोधनेन दीर्घायुष्यत्वमाशिष्टम् । सीतासंयोगश्वाचिरभावित्वेनाशिष्टः "न च त्वया कार्या जनकस्य सुतां प्रति । वैदेह्या रस्यसे क्षिप्रं हत्वा तं राक्षसे रणे" इति । गृधं जटायुष दग्ध्वा वने सीतां मृगयन् कबन्धं नाम रूपेण विकृतं घोरदर्शनं राक्षस सन्ददर्श ह' । दशशिरा रावणो दिदृश्यते तद्वधाय, शिरोहीनः कबन्धो घोरदर्शनो दृष्टिपथं याति । जटायुषं संस्कृत्य तद्विषये कृतकृत्यतां संपाद्य तद्विषयान्मन आकृष्य सीतान्वेषणे एकाग्रमना अभवदिति व्यज्यते मार्गमाणो वने सीताम् इत्यनन्तरोक्त्या । कृतोदको तावपि पक्षिसत्तमे स्थिरां च बुद्धि प्रणिधाय जग्मतुः । 'प्रवेश्य सीताधिगमे ततो मनः वनं सुरेन्द्राविव विष्णुवासवौ' इति काव्यश्लोकेनेदं व्यक्तीकृतम् । सीतान्वेषण- रूपे कार्ये एतदर्शनस्योपकारकत्वमस्त्येवेति द्योत्यते सीतान्वेषणमध्ये 69 रामायणसंक्षेपसर्गरसास्वादः एतद्दर्शनस्य कथनेन, समित्युपसर्गेण सन्दर्शनत्वकथनेन, 'ह' इत्याश्चर्यद्योतनेन च। कवन्धं नाम- यद्यप्यस्य कबन्धसंज्ञा, नायमेकान्तेन कबन्धः, किन्तु कबन्धसदृशः । अस्य शिरः उरसि क्षितम् । इदं च व्यज्यते कवन्धं नाम रूपेण विकृतम् इत्यनेन । “त्वं तु को वा किमर्थं वा कबन्धसदृशो बने । आस्येनोरसि दीप्तेन भग्नजडो विवेष्टसे” इति लक्ष्मणेन पृच्छयते । कबन्ध- मिव इति च वर्ण्यते । यद्यप्ययमतिघोरदर्शनः अस्य दर्शनं सन्दर्शनमेव ।। (म्) तं निहत्य महाबाहुः ददाह स्वर्गतश्च सः । स चास्य कथयामास शबरी धर्मचारिणीम् ।। 56 श्रमणी धमनिपुणामभिगच्छेति राघवम् । 57 तं निहत्य महाबाहुर्ददाह । मामवटे निक्षिप्य दह इति रामः प्रार्थ्यतेऽनेन । रामदग्धो जटायुर्मोक्षं प्राप । अपरवर्तिनामनुत्तमान् लोकान् प्राप स्वेन रूपेणाभिनिष्पन्नः । अयं कबन्धो रामदग्धः स्वीयं पूर्वदिव्य- स्वर्गिरूपं प्राप्य स्वर्गमगमत् । स्वर्गगमनमात्रमैच्छत् । जटायुस्तु कमपि लोकं न प्रार्थयामास । केवलरामेच्छया अनुत्तममोक्षपदवीमपुनरावर्तिनी संप्राप । महावाहुः- इत्यत्र कबन्धबाहुच्छेत्तृविशेषणं साभिप्रायम् । मे शको बाहुयोजन- मायतौ। प्रादादास्यं च मे कुक्षौ तीक्ष्णदंष्टमकल्पयत् । सोऽहं भुजाभ्यां दीर्घाभ्यां संकृष्यास्मिन्वनेचरान् । सिमद्विपमृगव्याघ्रान् भक्षयामि समन्ततः इति कबन्धः योजनायतसर्वसत्त्वसंग्राहकमहाबाहुः । तस्य बाहुच्छेदः कृतो महाबाहुना रामेण । कबन्धबाबपेक्षयापि अयं महत्तरबाहुः । यद्यपि लक्ष्मण: एकबाहुं चिच्छेद तस्य रामदक्षिणबाहुत्वात् न तस्यात्र पृथक कीर्तनं हन्तृत्वेन । अथवास्मिन्प्रकरणे तस्य प्रथमं भयार्तत्वात् तस्यात्र महा- बाहुत्वकीर्तन न क्रियते । अत्र गुरोर्भावो व्यज्यते कविना स तु माम- 70 रामायणसंक्षेपसर्गरसास्वादः ब्रवीदिन्द्रो यदा रामः सलक्ष्मणः । छेत्स्यते समरे बाहू तदा स्वर्ग गमिष्यसि' इति इन्द्रवचने रामः सलक्ष्मणः इति निर्देशेन। ददाह स्वर्गतश्च स:- रामेण यस्य देहो दह्यते स स्वर्गिदिव्यदेहं प्राप्य स्वर्गतो भवति । स इति पदेन यो दग्धः सः सुगति स्वर्गतिं प्राप्नोत् । कोऽयं रामकरुणा-. महिमेति व्यज्यते । निहत्य ददाह इत्यत्र द्वेधार्थोऽभिप्रेयते । मुखं व्यादाय स्वपितीत्यत्रेव समानकालिकत्वं हननदहनयोः । अस्य बाहुच्छेदेऽपि नाय मृतः। चितायां दह्यमानं कबन्धशरीरं मृत्पिण्डोपमम् इति वर्ण्यते । निहत्येति पदेन बाहुनिहननमात्रं वा ग्राह्यम् । यद्यपि स्वर्ग गच्छता कबन्धेन सुग्रीववृत्तान्तः तत्सख्यकरणं च विस्तरशः कथितं अत्र संक्षेपे शबर्याश्रमगमनमात्रोपदेशकथनेन तस्यैव प्राधान्यमिति व्यज्यते । सुग्रीव- सख्यं स्वप्रयोजनार्थम् । शबर्याश्रमगमनं तु तदिच्छापूरणार्थम् । सीतान्वेषणे क उपकुर्यादिति लक्ष्मणपृष्टः कबन्धः सुग्रीवं प्रास्तावीत् । अपृष्ट एव स्वयं शबर्यभिगमनमुपदिदेश । चरमकथितमिममुपदेशमेव प्रथमं रामोऽन्वतिष्ठत् । अनन्तरमेव सुग्रीवसमीपमगच्छत् । पंपायाः पश्चिमभागे शबर्याश्रमः । प्राग्भागे सुग्रीवस्थानभूतो ऋश्यमूकः । पंपां प्रदक्षिणीकृत्य सुदूरस्थितोऽपि शबर्याश्रमः प्रथमं गम्यते । सीतान्वेषणत्वरावानपि शबर्याश्रममेव प्रथम गच्छति रामस्तस्याश्चिरमनोरथं पूरयितुम् । सीतातोऽपि शबर्यामुत्कर्षबुद्धिः । शबर्याश्रमगमनरूपविलम्बादिकं न गण्यतेऽस्मिन् सीतान्वेषणावसरेऽपि । स च-स्वर्गगमनमार्गमध्यस्थ एव । अस्य-सीतान्वेषणतत्परस्य । शवरी-प्रतिलोमस्त्रियं । जात्या शबरीमिति सर्वे व्याख्यातारः । शबरीमिति जातित एव निर्देशस्तस्याः जातितः अत्यन्तनिकर्षद्योतनेन राघवस्य सौशील्य- काष्ठाभिव्यञ्जनाय । 'निषादानां नेता कपिकुलपतिः कापि शबरी कुचेल: कुब्जा सा ब्रजयुवतयो माल्यकृदिति । अमीषां निन्नत्वं वृषगिरिपतेरुन्नतिमपि प्रभूतैस्स्रोतोभिः प्रसभमनुकम्पे समयसि' । निर्दोष समं ब्रह्म निम्नान् स्वात्मना रामायणसंक्षेपसर्गरसास्वादः समत्वेन भावयित्वा तैस्सह नीरन्ध्र संश्लिष्यति । कश्चित् यक्षः इत्यनिर्दिष्ट- नामकयक्षनिर्देशवत् । धर्मचारिणीं भवतु सा नातितः शबरी किं तेन । सर्वोत्तमधर्मचरणशीला सा। आचार्योपासनं चोत्तमो धर्मः । 'यतः प्रवृत्ति- भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः' इति गीतं भगवता । स्वकर्मणा भगवदर्चनधर्मेण सिद्धिरिति । 'तस्मादात्मज्ञं द्यर्चयेत् भूतिकामः' इति मुण्डकश्रुतिः ब्रह्मज्ञाचार्यार्चनस्य मोक्षरूपभूति- हेतुत्वे प्रसिद्धिं निजगाद । लिङा च तदर्चनां व्यधत्त सिद्धयुपायत्वेन । श्रमणी- सर्वसंगपरित्यागिनी चतुर्थाश्रमवेषधराम् । 'अस्तेयाद्यैः स्वजातेः परिचरणमुखैरप्यधीतैः स्वजातेः सर्वपि प्राप्नुयुस्तां परगतिमिति तु ब्राह्म- गीतादिसिद्धम्' इति तत्त्वमुक्ताकलापोक्तमिह भाव्यम् । अस्तेयाद्याः सर्वसामान्यधर्माः । आचार्यपरिचरणधर्मश्च साधारणः । तस्य सर्वोत्तमधर्मत्वात् सिद्धिसाधने निःसंशयत्वात् तद्धर्मावलम्बिनो निपुणा इति व्यज्यते धर्मनिपुणा- मिति । "सिद्धिर्भवति वा नेति संशयोऽच्युतसेविनाम् । न संशयोऽत्र तद्भक्त- परिचर्यारतात्मनाम्' इति स्मयते । 'इतस्ते दिवमारूढाः यानहं पर्यचारिषम्' 'मुनीनामाश्रमो येषामहं च परिचारिणी' इति शबर्या आचार्यपरिचर्या स्वा- चरितेति कथ्यते । 'अहं चे' ति स्वस्य निहीनता द्योत्यते आचार्यकरुणानिरवधि- कत्वव्यञ्जनाय । 'कच्चित्ते गुरुशुश्रूषा सफला चारुभाषिणि' इति रामेण शबर्याचरितः उत्तमधर्म: निर्दिश्यते । श्रमण्याश्चारुभाषित्वं चिरगुरुपरिचर्या- सिद्धम् । तदाचार्यमुन्याश्रमः शबर्या आश्रम इति व्यपदिश्यते । श्रमण्या वासस्थानमाश्रमः । सैव नियुक्ता गुरुभिः चिरकालानन्तराभ्यागन्तृरामस्य आतिथ्य कर्तुम् । 'रामेण तापसी पृष्टा सा सिद्धा सिद्धसंमता' इति सा रामा- गमनात्पूर्वमेव सिद्धाऽभवदिति स्पष्टमुच्यते । कथं सा सिद्धाऽभवदिति पृष्टे उच्यते-सिद्धसमत्या-आचार्याभिमत्येति । आत्मज्ञार्चनविधायकमुण्डक- अतिरेतेन शबरीवृत्तान्तवर्णनेनोपबृंह्यते । शंबूकः स्वानधिकृततप: स्वयं तेपे ।

72 रामायणसंक्षेपसर्गरसास्वादः अस्यास्तपोधर्मस्तु निरन्तराचार्यपरिचर्या । तस्मादस्यास्तपसो न दोषता ॥ (मू) सोऽभ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः । शवर्या पूजितस्सम्यक् रामो दशरथात्मजः ॥ 57 'सर्वदाऽभिगतस्सद्भिः समुद्र इव सिन्धुभिः' इति अस्य सद्भिस्सदाऽ भिगम्यत्वं भणितम् । अभिगमनमिति पूज्यविषये व्यवह्रियते । सद्भिरप्यभि- गम्यो राम. तां शबरीमभ्यगच्छत् । कबन्धोऽपि 'श्रमणीमभिगच्छ' इत्युवाच । । शत्रुसूदनः सः शबरीमभ्यगच्छत्- शत्रुसूदनोद्योगस्यातित्वरया कर्तव्यत्वनिर्बन्धसद्भावेपि इमां शबरीमभ्यगच्छत् । शबर्यातिथ्यप्रतिग्रहान- न्तरं सीतान्वेषणकार्य व्यग्रोऽभवत् । पूज्यपूजकयोरन्तरं व्यज्यते 'दशरथात्मजः इति पूज्यरामवर्णनेन, शवर्या इति पूजिकाया जात्या निर्देशेन च । संक्षेपे- पीदं मुख्यतया सम्यक् कीर्त्यते । सम्यक- सम्यक्त्वं च पादग्रहण- पाद्याचमनादिसमर्पणेन । 'रामस्य पादौ जग्राह' 'पाद्यमाचमनीयं च सर्व प्रादाद्यथाविधि' 'मया तु विविधं वन्यं संचितं पुरुषर्षभ । तवार्थे पुरुषव्याघ्र पम्पायास्तीरसम्भवम्' इत्यादिवर्णनं भाव्यम् । यद्यपि पूर्वमेवाचार्य- परिचर्यया सा सिद्धि प्राप्ता निर्ग्रन्था मोक्षसिद्धयपेक्षां विनापि केवलं भक्त्या राममपूजयत् आचार्यनियोगेन स्वयं प्रयोजनत्वेन च । इदमपि पूजायाः सम्यक्त्वम् । मोक्षसिद्धप्रतिबन्धकं कलेबरं रामस्य पुरतः अग्नौ प्रक्षिप्य तत्याज । 'अन्तकालेऽपि मामेव स्मरन् त्यक्त्वा कलेबरम्। यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥' इति गीतं भगवता । अस्या विषये 'म्मरन्' इत्यस्य स्थाने पश्यन् इति पठितव्यम् । 'पश्यन्ती' इति वा । रामः- रमयतां श्रेष्ठः ॥

रामायणसंक्षेपसर्गरसास्वादः 73 पम्पातीरे हनुमता संगतो वानरेण ह । हनूमद्वचनाच्चव मुग्रीवेण समागतः ॥ 58 शबर्यानन्दनफलमित्र हनुमत्समागमः । इदं व्यज्यते 'शबर्या पूजितः पम्पातीर एव हनूमता संगतः' इति वर्णनेन । हनुमत्संगतिफलं सुग्रीवसख्यम् । इत्थं चोत्तरोत्तरकल्याणपरम्परागतिरुच्यते । 'राज्याझंशो वने वासः सीता नष्टा हतो द्विजः । ईदृशीयं ममाऽलक्ष्मीर्निर्दहेदपि पावकम्' इति नैराश्यमवलम्बितं पूर्वम् । शबर्यातिथ्यप्रतिग्रहानन्तरं पम्पातीर एव वक्ष्यते रामेण 'प्रणष्टमशुभं तत्तत्कल्याणं समुपस्थितम् । तेन तत्त्वेन हृष्टं ने मनो लक्ष्मण सम्प्रति । हृदये हि नरव्याघ्र शुभमाविर्भविष्यति । तदा- गच्छ गमिष्यावः पम्पां तां प्रियदर्शनाम्' इति । तद्व्यज्यतेऽत्र कल्याण- परम्पराप्राप्त्युसरोत्तरपठनेन। अत्र शबरी शब्दः त्रिः पठ्यते नारदेन । 'एवमुक्तः स धर्मात्मा शबर्या शबरीमिदम् । राघवः प्राह' इतीय रीतिरनु- सियते काव्ये । शबर्या उक्तयोऽपि पूनारूपाः । पम्पातीरे- अनेन पटेन किष्किन्धाकाण्डप्रारंभः सूच्यते । 'ददर्श पम्पा शुभदर्शकाननां अनेकनाना विवपक्षिजालकाम्' इत्यारण्यकाण्डोप- संहारः । 'स तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम्' इति च किष्किन्धा- काण्डारंभः । पम्पातीरवर्णकः प्रथमसर्गः। रामस्य हनुमता संगमः गङ्गा- यमुनयोस्संगम इवेति व्यज्यते संगतशब्देन । शबरी वनमानुषी । अयं वानरः । 'हनूमता' इति हनुमन्नाम्नैव हनूमतः प्रभावो व्यज्यते । ह इति गुरोविस्मयः । हनुमत्समागमानन्तरमेव सर्वाभ्युदयप्राप्तिः । हनुमद्वचनाच्चैव- कबन्धवचनात् हनूमद्वचनाच्च । सर्वकार्येषु इतरवचनादेव रामः प्रवर्तते । अगस्त्यवचनात् ऐन्द्रं शरासनं जग्राह । 'हनूमद्वचनाच्चैव' इत्यत्र चकारेण वाहनस्यापि समुच्चयो द्योत्यते हनूमद्वचनात् हनूमद्वहनात् च । 'ततो महद्वत्म ( 74 रामायणसक्षपसगरसास्वादः सुदूरसंक्रमः क्रमेण गत्वा प्रतिकूलधन्वनम्' इति भृशं सुदूराटनपरिश्रान्तौ राघवौ । हनूमद्रूपवहनलाभो महालाभस्तयोः। हनूमद्वचनाचेति हनूमतोऽ द्भुतभाषणं च सूच्यते । हनूमद्वचने विस्तरतोऽद्भुतशुद्धिसौष्ठवादिगुणाः रामेणैव वर्णिताः ।। सुग्रीवाय च तत्सर्व शंसद्रामो महाबलः । आदितस्तद्यथावृत्तं सीतायाश्च विशेषतः ॥ 59 यद्यपि महाबलत्वेन रावणयुद्धे सहायापेक्षाऽस्य न स्यात्, तथापि सीतान्वेषणाय तत्सहायापेक्षास्त्येवेति व्यज्यते महाबलः इत्यनेन । रामस्य महाबलत्वं नान्वेषणोपयोगि। जन्मन आरभ्य सर्ववृत्तान्तकथनापेक्षया सीतायाः तत् रावणहृतत्वादिकं वृत्तं तदन्वेषणस्यावश्यकर्तव्यतया विशेषेणाकथयदित्युच्यते सीतायाश्च विशेषतः इति ॥ सुग्रीवश्चापि तत्सर्व श्रुत्वा रामस्य वानरः । चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम् ॥ 'वानराणां नराणां च कथमासीत्समागमः इति सीतया साश्चर्य पृच्छयते । 'रामसुग्रीवयोरैक्यं देव्येवं समजायत' इति हनूमता वानरस्य स्वस्य सीतादेव्या आश्चर्यभूतसमागम इव रामसुग्रीवयोरपि समागमोऽभवत् इति एवंशब्देनोच्यते साभिनयम् । सख्यं चात्र अग्निसाक्षिकं भवति । सुग्रीवेण सख्यकरणं कबन्धेन सीतान्वेषणे एकोपायत्वेन कथितम् । भास्करस्य औरसः पुत्रः सुग्रीवः इति तत्सख्यस्यौचित्यं च सूचितम् । मिथोबद्धवैरभ्रात्रोर्मध्ये सुग्रीवस्य सहाथवरणमेव कर्तव्यमिति स्पष्टं कथितं दिव्यज्ञानवता देवसंपन्नेन । 'कुरु राघव सत्येन वयस्य वनचारिणम्' इति तदुपदेशः। सत्येन वयस्य करणं च सख्यस्याऽग्निसाक्षिकत्वेन भवति । अत्राग्निसाक्षिकं रामसुग्रीवसख्य- 60 75 रामायणसंक्षेपसर्गरसास्वादः करणं निर्दिश्यते । रामसहायार्थमेवेन्द्रेण स्वांशत्वेन स्वपुत्रत्वेनोत्पादितस्य वालिनः पूर्वमेव रामशत्रुणा रामसंहार्येण सीतापहारकरावणेनाग्निसाक्षिक सख्यं निर्वर्तितमिति सूच्यते । 'सोहं दृष्टबलस्तुभ्यमिच्छामि हरिपुंगव । त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः । दाराः पुत्राः • पुरं राष्ट्र भोगाच्छादनभोजनम्। सर्वमेवाविभक्तं नो भविष्यति हरीश्वर' इति वालि- गृहीतमुक्तेन रावणेन पावकस्य पुरतः दीर्घसख्यप्रतिज्ञानं प्रार्थितम् । यद्यपि वाली रामसहायार्थमेव ब्रह्मनियोगेन महेन्द्रेण वानरयोनावुत्पादितः रामजनेः पूर्वमेव, यद्यपि वालिने महद्दलं दत्तं तदर्थमेव, अयं स्वधर्षितेन स्वजितेन रावणेन अग्निसाक्षिकं सख्यमकरोत् तत्प्रार्थनक्षण एवेति सविस्मयं वर्ण्यते उत्तरकाण्डपञ्चत्रिंशे अगस्त्येन 'एवमेतत्पुरावृत्तं वालिना रावणः प्रभो । धर्षितश्च कृतश्चापि भ्राता पावकसन्निधौ' इति । स्वधर्षितेन भविष्यता राम- शत्रुणा रामभार्यापहारकेण किमर्थमयमग्निसाक्षिकं सख्यं चकार तं च भ्रातृ- वेन भावयामासेत्यगस्त्यस्य विस्मयः । बालकाण्डसप्तदशे रामसहायार्थ देवैः ऋक्षवानरपुत्रोत्पादनं वर्णितम् । अनन्तरसर्गे रामावतारो वर्णितः। 'बभूव भू- भीमशरीररूपैः समावृता रामसहायहेतोः' इति सप्तदशसर्गोपसंहारः । 'विष्णोः सहायान्बलिनः सृजध्वं कामरूपिणः । सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्र- मान्' इति ब्रह्मणाऽऽदिश्यन्ते देवाः । 'वानरेन्द्र महेन्द्राभमिन्द्रो वालिन- मूर्जितम् । सुग्रीवं जनयामास तपनस्तपतां वरः' इत्येकस्यां वानमिन्द्र- सूर्याभ्यामुत्पादिताधिमौ भ्रातरौ । 'सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् । भ्रातरावुपतस्थुस्ते सर्वे ते हरियूथपाः । तांश्च सर्वान्महाबाहुर्वाली विपुल- विक्रमः । जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान्' इति भविष्यति अपहृत- सीतान्वेषणे रामरावणयुद्धे च रामसहायार्थमेव रामपक्षे प्रधानसहायत्वेनैव वालिने सुमहद्बलादिकं दत्तं महेन्द्रेण । स्वपितृभूतेन्द्रशत्रू रावणः । इन्द्रं नित्वा बबन्ध रावणपुत्रः इन्द्रजित् । स्वपितुः इन्द्रस्य पालनार्थमेव रामः 76 रामायणसंक्षेपसर्गरसास्वादः । अवतारितः रावणवधार्थिभिः । रामसेनाधिपत्यकरणार्थमेव सृष्टस्य तदर्थमेव देवैः अनुगृहीतसुमहद्दलस्य वालिनः प्रतिपक्षिणा सहाग्निसाक्षिकं चिराय सख्यं प्रतिज्ञाय भ्रात्रीकृतो देवशत्रुः । देवद्रोग्धा पितृद्रोग्धा स्वस्वामिभूतरामद्रोग्या स्वसुहृत्तमोऽभवत् । किष्किन्धा प्रान्तभागेष्वेव भृशमुच्चैः क्रन्द ती सीतामप- जहार रावणः । नेदमविदितः स्याद्वालिनः । ऋश्यमूकप्रान्ते रामलक्ष्मणागमना- दिकं तयोः सीतान्वेषणोद्योगादिकं च कथं वाऽविदितं भवेत्। विदन्नपि रावण- पक्षपात्येवासीत् । वानरसेना रामसेना । येन रामसेनाधिपत्याधिकारो निर्वाह्यः स एव रामपरिपन्थी रामशत्रुणा पावकपुरतः बद्धसख्योऽभवत् । सेनानयेन तस्य सद्योवधो न्याय्य एव दण्डः । सेनाधिपत्यानधिकृतोपि दण्डाहः किमुत तदधिकृतः शत्रुपक्षपाती। नानेन युद्धकरणस्य युद्धे पातनस्य वा निर्बन्धः । सर्वलोकप्रसिद्धेन सेनानयेन शीर्षच्छेद्य एव सैनिकाधिकार परित्यज्य ततो भ्रष्टः । इदं व्यञ्जयितुमेव रामावतारसर्गपूर्वसर्गे एव वालिनः महाबलसम्पत्त्या रावणशत्रुणेन्द्रेण स्वपुत्रत्वेन सृष्टत्वं वर्णितम् । देवा मानुष- रूपेण चरन्त्येते महीतले' इति रामप्रतिवचनेन यतस्त्वं देवैः रावणवधार्थ मत्सहायार्थमुत्पादितः त्वदधिकारं कृतघ्नतया अत्यजः अरिपक्षं प्राविशः अहं च त्वरिपतृप्रार्थनया रावणवधार्थ मानुषरूपेण चरामि इति वालिगः सद्योवध्यत्वे हेतुळञ्जितः । वालिनः प्रतिपक्षप्रविष्टत्वादेव कबन्धेन सुग्रीवसख्यमेवोपादिश्यत । सुग्रीवसख्यकरणे 'सीताकपीन्द्रक्षणदाचराणां वामानि नेत्राणि समं स्फुरन्ति' इति श्लोकेन कपीन्द्ररावणयोः सखित्वं रामपक्षविरुद्धत्वं च व्यञ्जितं तयोः सहपठनेन । कपीन्द्रशब्देन इन्द्रपुत्रत्वेऽपि इन्द्रशत्रुणा बद्धसख्यं इति व्यज्यते । स्वस्य स्वभ्रात्रा सुग्रीवेण सह रामकैकयसाम्राज्ये वा कपिराज्य- भोगे वा सहत्वभाग्यं न लब्धमिति व्यज्यते 'युगपद्विहितं तात न मन्ये सुखमावयोः। सौहार्द भ्रातृयुक्तं हि तदिदं तात नान्यथा' इति सुग्रीवं प्रति वालि- वचनेन। स्वस्य स्वपित्रादिदेवैः विश्वस्रष्टा ब्रह्मणा च सीतान्वेषणरावणयुद्धादिषु 77 रामायणसंक्षेपसर्गरसास्वादः च नियमितं रामसहायभूतवानरसेनानायकत्वाधिकार स्वबुद्धिमोहात् परित्यज्य शत्रुपक्षानुकूल्यं च स्वेनावलम्बितमित्यनुतप्य स्वकृतं रामसाहाय्यं स्वपुत्रेणा- गदेन स्वात्मभूतेन, स्वभ्रात्रा सुग्रीवेण च कार्यमित्यनुशशास "राघवस्य च ते कार्य कर्तव्यमविशंकया । स्यादधर्मो ह्यकरणे त्वां च हिंस्याद्विमानितः । एष तारात्मजः श्रीमान् त्वया तुल्यपराक्रमः । रक्षसां तु वधे तेषामग्रतस्ते भविष्यति" इति । "कृष्यमाणं भविष्येण बुद्धिमोहेन मां बलात्" इति वदता स्वस्य स्वनियतरामकर्याधिकाराझंशः आपतितः, रामकैंकर्यार्थमेव स्वेन सह- सृष्टेन स्वभ्रात्रा सुग्रीवेण वैरं कृतं, रामप्रतिपक्षिणा स्वपितृशत्रुणा रावणेना- ग्निसाक्षिकं सख्यं बद्धं, तस्मिन् भ्रातृत्वबुद्धिश्च निवेशिता इति स्वानुतापो- ऽभिव्यञ्जितः । स्यादधर्मो राधवकार्याकरणे इति वदता स्वनियतस्वकार्या- करणे स्ववधरूपदंडपातो न्याय्य एवेति स्वाभिप्रायो व्यञ्जितः । “त्वया ह्यनु- गृहीतेन राज्यं शक्यमुपासितुम् । त्वद्वशे वर्तमानेन तव चित्तानुवृत्तिना । शक्यं दिवं चार्जयितुं वसुधां चापि शासितुम् । त्वत्तोहं वधमाकांक्षन् वार्यमाणोपि तारया । सुग्रीवेण सह भ्रात्रा द्वन्द्वयुद्धमुपागतः" इति, रामप्रतिवचनानन्तरं वालिनोक्तं भाव्यम् । त्वद्वशे वर्तनमेव मम जन्मनियतम् । त्वकिकरभावः त्वदनुग्रहो मया कांक्षणीयः। जन्मनियतमद्धर्मः त्वत्साहाय्यकरणरूपो मया परित्यक्तः । मद्धमभूततद्धर्मे यद्यप्यहं प्रतिबोधितस्तारया मत्पुत्राङ्गद- वाक्यमनुवदन्त्या, पूर्व मया रावणाय दत्तं सख्यप्रतिज्ञोल्लंघनरूपादसत्या- द्विभ्यन् जन्मनियतमपितृनियतकर्मभूतत्वत्सेनानयनं कर्मानुष्ठातुमशनु- वानः त्वदादेशत्वदनुकूलाकरणप्रयुक्तमहापराधस्य स्वामिना त्वया वधरूप- दण्डेनैव शुद्धि प्रामुयामिति जानन् त्वद्वाणनिहतः त्वदर्शनत्वत्कटाक्षादि- कमनुभवन् त्वत्तः सर्वपापेभ्योऽभयं च लब्ध्वा मोक्ष प्राप्तुमिच्छन् सुग्रीवसन्धि- त्वत्सेवाकरणविषयमदाप्ततमतारोपदेशं वचनं परित्यज्य भ्रात्रा द्वन्द्वयुद्धेऽवातरम्। यदि बुद्धिमोहात् मन्नियतधर्म परित्यज्य रावणेन सख्यं पूर्व नाकरिष्यत, तदा 78 रामायणसंक्षेपसर्गरसास्वादः तारोपदेश एव मया अंग्यकरिष्यत । नक्षत्ररूपतारावशो भूत्वा प्रियभार्या- तारावशगो नाऽभवम् । 'न हि तारामतं किञ्चिदन्यथा परिवर्तयेत्' इत्यस्य वचनं ताराद्वयेऽपि सत्यम् । 'इदं महेन्द्रोपमभीमविक्रमप्रसादितस्त्वं क्षम मे नरेश्वर' इति राघवक्षमाप्रार्थने 'महेन्द्रोपम' इति रामस्य पितृतुल्यत्वं द्योतयति । 'तद्भवान् दण्डसंयोगादस्माद्विगतकिल्बिषः । गतः स्वां प्रकृति धा धर्मदृष्टेन वर्मना' इति राघववचनेन वधदण्डेनास्य किल्बिषक्षयः, स्वप्रकृतिभूतस्वशुद्धात्मस्वरूपाविर्भावरूपमोक्षश्च भवतीति स्पष्टीक्रियते । विभीषणविषयाऽभयप्रदानश्लोके, भयनिवृत्तिदान प्रतिज्ञातं "अभयं सर्वभूतेभ्यो ददामि” इति । इन्द्रकुमारार्जुनायाभयप्रदानश्लोके "अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुच." इति शोकनिवृत्तिदानं प्रतिज्ञातम् । अत्रेन्द्रकुमार- वालिविषये "त्यज शोकं च मोहं च भयं च हृदये स्थितम्" इति शोकमोहभये- भ्योऽभयं दत्तम् । सुग्रीवाय किष्किन्धाराज्यं दत्तं, वालिने तु मोक्षसाम्राज्यं दत्तम् । रावणेन निहतो गृध्रराजः रामान्मोक्षसाम्राज्यमलभत । रामेण हतो वाली रामान्मोक्षसिद्धिमलभत । शबरी मोक्षसिद्धिप्रतिबन्धकं शरीरमग्नौ प्रक्षिप्य सिद्धि प्राप रामसन्निधौ रामं पश्यन्त्येव "चक्षुषा तव सौम्येन पूतास्मि रघुनन्दन" इति वदन्ती। वाली स्वसिद्धिप्रतिबन्धकं स्वामिद्रोह- पितृद्रोहादिरूपमहापापं स्वशरीरं च रामेणापनाय्य प्रियदर्शनत्वेन स्वकीर्तितरामदर्शनमनुभवन्नेव रामाभयप्रदानेन परमं निःश्रेयसमवाप । वैष्णव धनु: अगस्त्यमहर्षिद्वारा रामहस्तं प्रापितं प्रथम इन्द्ररामशत्रं रावणमित्रं वालिनं हन्तुं, अनन्तरं रावणं हन्तुं च । (म्) ततो वानरराजेन वैरानुकथनं प्रति । रामायावेदितं सर्व प्रणयाद्दुःखितेन च ॥ 61 रामायणसंक्षेपसर्गरसास्वादः 79 वानरराजो वाली। वानरराजत्वं वालिने रामसाहाय्यार्थमेव दत्तमिति व्यज्यते ऋषिणा वानरराजशब्देन । वानरराजेन वालिना सह वैरवृत्तान्त- मनुकथयेति रामेण पृष्टम् । तत्पश्नं प्रति तत्प्रतिवचनम् । पृष्टवते रामाय- सर्वमावेदितम् । सर्वशब्देन स्वात्यन्तलज्जावहमवाच्य स्वभार्याधर्षणानु- भवादिकमप्यावेदितमिति द्योत्यते । लज्जावहतादृश गोप्यविषयावेदने हेतुद्वयं रामस्य सखित्वं स्वात्यन्तदुःखितत्वं च । रामाय प्रणयिनीरुमाधर्षणावेदने का लज्जा । अत्यन्तं दुःखेनाभिभूतस्य लजोलधनं न चित्रम् । रुमावृत्तान्ता- वेदनाभावे वालिविषये तीवक्रोधो न भवेत् येन वालिवधः प्रतिज्ञायेत । 'भ्रातुर्वर्तसि भार्यायां त्यक्त्वा धर्म सनातनम् । अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः । रुमायां वतसे कामात्स्नुषायां पापकर्मकृत् । तद्व्यतीतस्य ते धर्मात् कामवृत्तस्य वानर । भ्रातृभाविमर्शेऽस्मिन् दण्डोयं प्रतिपादितः । .."औरसी भगिनीं वापि भार्या वाप्यनुजस्य यः। प्रचरेत नरः कामात् तस्य दण्डो वधः स्मृतः ॥' इति रामक्रोधस्य प्रधानं निमित्तं रुमायां वर्तनमिति रामेण कथ्यते । (मू) प्रतिज्ञातं च रामेण तदा वालिवधं प्रति । वालिनश्च बलं तत्र कथयामास वानरः ॥ 62 तदा-रुमावृत्तान्तादिमहापराधश्रवणेऽविलंबेन वालिवधप्रतिज्ञान कृतम् । तत्र-रामेण वालिवधे प्रतिज्ञाते, हन्तव्यं शत्रुवलं ज्ञापनीयमेव ।। (मू) सुग्रीवः शङ्कितश्वासीनित्यं वीर्येण राघवे । राघवप्रत्ययार्थ तु दुन्दुभेः कायमुत्तमम् ॥ 63 दर्शयामास सुग्रीवो महापर्वतसंनिभम् ।

80 रामाषणसंक्षेपसर्गरसास्वाद वालिबलं सुग्रीवस्य प्रत्यक्षानुभूतम् । रामबलं तु केवलं अतम् । अतः सुग्रीवः शंकाग्रस्त आसीत् वालिवीर्याधिकरामवीर्यविषये । नित्यम् इत्यस्य वीप्सापरत्वमात्रमत्रेति चारु प्रदर्शितं गोविन्दराजीये महाभाष्याधुदा- हरणेन । रामदर्शनादारभ्य सालभेदनपर्यन्तं प्रतिक्षणं शंकात्रासावनुभवन्नेबा- सीत् । त्रुटियुगायतेऽस्य सुग्रीवस्य वालित्रस्तस्य । क्षणबहुत्वात् प्रतिक्षणं भयस्यावृत्तेश्च । नित्यशब्दो निपुणं प्रयुक्तः । एतस्मिन्नन्तरे एकैकः क्षणः अस्य शोकभयार्तस्य युगशतमिव भवतीति व्यज्यते नित्यशब्देन । वीर्येण- वीर्यविषये । रामदर्शनात्पूर्व वालिवीर्येण नित्यं शंकित एवासीत् । 'राघवे' इति पर्यन्तं पठित्वा तथार्थोपि ग्राह्यः । 'उद्विग्नः शंकितश्चापि विहरामि महावने' इति सुग्रीवेण कथ्यते । रामदर्शनादनन्तरं राघववीर्यविषये प्रतिक्षणं शंकार्दित एवास्ते । राघवप्रत्ययार्थम् इत्यस्यार्थद्वयम् । राघवस्य वालि- महाबलज्ञापनार्थमिति वा, राघववीर्यविषयस्वात्ययार्थमिति वा । प्रथमोऽर्थस्तिल- कोक्तः । चरमश्च तीर्थगोविन्दराजोक्तः । द्वावप्यर्थी नारदहृदयस्थौ । 'वालिनः पौरुष यत्तत् यच्च वीर्य धृतिश्च या । तन्मयैकमनाः श्रुत्वा विधत्स्व यदनन्तरम्' इत्यारभ्य दुन्दुभिवधं वर्णयित्वा, 'एषोऽस्थिनिचयस्तस्य दुन्दुभेः संप्रकाशते' इति दुन्दुभिकायास्थिकूटं प्रदर्श्य, वालिनं निहतं मन्ये दृष्टवा रामस्य विक्रमं । हतम्य महिषस्यास्थिपादेनैकेन लक्ष्मण । उद्यम्याथ प्रक्षिपेञ्चेत् तरसा द्वे धनुश्शते ॥' इति राघवस्य वालिबलप्रत्ययार्थ स्वस्य राघववीर्यप्रत्ययार्थं च दुन्दुभ्यस्थिकूटं दर्शयामासेति वक्ष्यते। 'कस्मिन् कर्मणि निवृत्ते श्रद्दध्याः वालिनो वधे' इति लक्ष्मणेन पृष्टे दुन्दुभ्यस्थिकूटदूरप्रक्षेपरूपपरीक्षाकांक्षा प्रोक्ता सुग्रीवेण । 'यदि न प्रत्ययोऽस्माकं विक्रमे तव वानर' इति राघव- बचनमपि भाव्यम् । उत्तममित्यस्य, उत्तम राघवप्रत्ययसाधनं-प्रत्यायक- मिति वा, उत्तमं स्वप्रत्ययसाधनमिति वार्थः । महत्तम- उन्नततममिति चार्थः 'राघवस्य वालिमहाबलत्वे विश्वासार्थ उत्तमवलपत्यायनोतमसाधनम् ।' इति .

रामायणसंक्षेपसर्गरसास्वादः 81 तिलकः । उत्तम-उन्नतं च इति गोविन्दराजः । महापर्वतसंनिभं- ऋश्य- मूकपर्वतनिकटेऽपरमहापर्वतमिव स्थितम् ।। 64 (म्) उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्थि महाबलः ॥ पादाङ्गुष्ठेन चिक्षेप संपूर्ण दशयोजनम् । उत्स्मयित्वा-प्रहसन् । 'स्मितपूर्वमथो रामः' इति वक्ष्यते। 'उदार- मीषद्धास्यं कृत्वा' इति तीर्थतिलको । महाबाहुः इत्यनेन बाहुवीर्यनिश्चयेपि पादवीर्यपरीक्षा क्रियते देहवलज्ञानार्थमिति द्योत्यते । महाबलः पादाङ्गुष्ठेन चिक्षेप-अयं महाबलः पादाङ्गुष्ठमात्रेण महाकायदूरविक्षेपमकरोत् । वाली पादेन चिक्षेप, अयं तु पादाङ्गष्ठमात्रेण । मन्दं हसन् चिक्षेप इति लीलया अनायासेन चिक्षेपेति व्यज्यते । पादाङ्गुष्ठेन लीलया इति वक्ष्यते । अस्य सुग्रीवस्य वालिविषयशंकावसरे पादाङ्गुष्ठवलप्रदर्शनेन सुग्रीवस्य प्रत्याय्यते । विभीषणादिरावणपर्यन्तराक्षसादिशंकावसरे 'अमुल्यग्रेण तान् हन्यां' इत्युक्त्वा सुग्रीवप्रत्यायनं क्रियते। 65 (म् ) विभेद च पुनः सालान्सप्लकेन महेषुणा ॥ गिरिं रसातलं चैव जनयन्प्रत्ययं तदा । पुनः परीक्षान्तरनिर्वहणप्रार्थना कृता सुग्रीवेण स्वप्रत्ययार्थम् । 'इमे च विपुलाः सालाः सप्तशाखावलम्बिनः। यत्रैक घटते वाली निष्पत्रयितुमोज- सा। एतदस्या समं वीर्यं मया राम प्रकीर्तितम्' । 'सालमेकं तु निर्भिन्द्या भवेद्वयक्तिबलाबले' इति एकसालनिर्भेदनमेव कांक्षितं बलपरीक्षायै । एकेन महाशरेण सप्त सालान् बहून्यन्यानि च निरभिनत् ॥

82 66 रामायणसंक्षेपसर्गरसास्वादः (म्) ततः प्रीतमनाः तेन विश्वस्तः स महाकपिः ॥ किष्किन्धां रामसहितो जगाम च गुहां तदा । ततो गर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः ॥ 67 O 'अद्य मे विगतः शोकः प्रीतिरद्य परा मम । येन सप्त महासाला गिरिभूमिश्च दारिताः। बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः ॥ इति सुग्रीवेण वक्ष्यते । रामवालिबलाबलविषये रामस्यातिबलत्वप्रत्यायनं लोकस्यापि क्रियतेऽपरोक्षपरीक्षाद्वयेन । प्रत्ययं जनयन्निति लोकस्य रामबलप्रत्ययकरण- मपि सूच्यते । तदा-तत्क्षण एव । पर्वतान्तरवकाशे गुहावदवस्थिता किष्किन्धा । हरिशब्दः सिंहवाच्यपि । गुहायां गर्जत्ययं हरिवरः गुहायां सिंहः स्यात् गर्जेत् च । स्वस्मिन् सिंहत्वबुद्धिरस्य । गुहायां तस्य गजननादः सिंहनाद इवाभवत् । अगर्जत् सुग्रीवः- शोभनशंखोपमा सुग्रीवस्य ग्रीवा । गुहास्थसुग्रीवकण्ठात् शंखघोष इव सिंहनादः । हेम- पिंगल:-'हर्षप्रकर्षेण निवृत्तवैवर्ण्यः स्वर्णवत् पिंगलवर्णः विरराज' इति गोविन्द- राजः ॥ 68 (मू) तेन नादेन महता निर्जगाम हरीश्वरः । अनुमान्य तदा तारां सुग्रीवेण समागतः ।। भ्रातृमहाघोषश्रवण एव हरीश्वरः स्वगृहान्निर्जगाम । हरीश्वरः मुग्रीवो हरिवरः, अयं तु हरीश्वरः। अनुमान्य इति णिचा भर्त्सननिर्बन्धनशम- नादिभिः 'सुग्रीवं न च प्राणैर्विमोक्षया'मी, ति वाग्दानेन च कथंचित् तां अनुमति दापय्य इति भावो व्यज्यते । अनेन प्रियतमया तारया सन्धिरूप- हितमुपदिष्टोपि सुग्रीवेण युद्धार्थसमागममेव रोचयामास, न सन्धिसमागमम् । राघवसहाय एव सुग्रीवो योद्धमागत इति स्पष्टमुक्तं तारया अंगदमुखात् .

83 । रामायणसंक्षेपसर्गरसास्वादः श्रुतमनुवदन्त्या । 'राघवसहायसुग्रीवेण सौहृदान्नान्या गतिरस्ति ते इति तारया अनन्यगतिकत्वं च स्पष्टं प्रतिबोधितम् । "वैरमेतत्समुत्सृज्य तव पार्श्व स तिष्ठतु", "क्षमो हि ते कोसलराजसूनुना न विग्रहः शक्रसमानतेजसा" इति तदुक्ति व्या । उभाभ्यामपि भ्रातृभ्यां रामपक्षे स्थातव्यं, तत्पावस्थाभ्यां, भवितव्यं, रामेण विग्रहो न न्याय्य इति वदन्त्या तया वालिसुग्रीवयोरैक्यं उभयोस्सह रामकैंकर्यनिवर्तनौचित्यं च स्पष्टीकृतम् । स्वप्रियहिततमभार्यापुत्र- प्रार्थनामपि तिरश्चकार वाली, न केवलं स्वपित्रादिसर्वदेवलोकनियोगम् । इन्द्रपुत्रकाकविषये उक्तं 'स पित्रा च परित्यक्तः' इति । अस्य पुत्रस्य रामेण वधमेवाचकांक्षेन्द्रः पिता । भ्रात्रोर्मध्ये सुग्रीव एव सहायत्वेन वरणीयः इति देवानां सिद्धान्त एवावेदितो दिवं गच्छता देवभूतेन कबन्धेन । 'तदवश्यं त्वया कार्य: स सुहृत्सुहृदां वरः। अकृत्वा हि न ते सिद्धिमहं पश्यामि चिन्तयन्' इति तेन सीतापरिमार्गणाय रामस्य सुग्रीवानन्यगतिकत्वमुक्तम् ।। (म्) निजधान च तत्रनं शरेणेकेन राघवः । तत्र-सुग्रीवेण समागते सति, परिहीयमाणे सुग्रीवे आर्तिमापद्य शत्रुभयान्मोक्षणाय, 'प्रेक्षमाणं दिशश्चैव राघवं च मुहुर्मुहुः' इति वर्णयिष्यमाण- रीत्या राघवसाहय्यं भृशमर्थयमाने। शरेण एकेन निजधान- स्वभार्या- पहारिणं रावणं युद्धप्रथमदिने एकेन शरेण जित्वापि तं न निजधान, किन्तु 'गच्छानुजानामीति तं निवर्तयामास । स्वाश्रितस्वमित्रभार्यापहारिणं वालिनं शरेणैकेन सद्यो जघान । स्वसेनाधिकारे इन्द्रादिदेवैर्नियुक्तस्य तदधिकार परित्यज्य ततो भ्रष्टस्य देवस्वपितृशत्रुणा बद्धसख्यस्य सद्यः शीर्षच्छेद एव सेनानयधर्मः। दण्डकस्य राज्ञः दण्ड्यदण्डनाय दण्ड्येन न योधननिर्बन्धः । राघवः इति नाम भ्रातृचतुष्टयसाधारणम् । यद्यपीदानी राजा भरतः, उभावपि राघवौ । राघवशब्देन नृपभरतभ्रातृत्वं व्यज्यते । 'भरतस्य धर्मकृतादेशा वयम्' इति राघवेण वक्ष्यते ॥ - 84 रामायणसंक्षेपसर्गरसास्वादः ततः सुग्रीववचनात् हत्वा वालिनमाहवे ॥ सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् । 69 सुग्रीववचनात् वालिन निजघान । सर्वमन्यवचनात्, अन्यनियोगात् करोति राघवः । न स्वेच्छामात्रेणेति पुनः पुनः कथ्यते । वचनात्प्रवृत्तिरिति राघवानुष्ठानम् । 'वचनं कौशिकस्येति कर्तव्यमविशंकया' इति ताटकावधावसरे उक्तम् । 'अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम्' 'हनुमद्वचनाच्चैव सुग्रीवेण समागतः' इत्यादिकं भाव्यम् । सुग्रीववचनात् वालिनमाहवे हत्वा ततः सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयदित्यन्वयः कार्यः । 'धातोः स्थान इवा- देशं सुग्रीवं सन्यवेशयत्' इति रघुवंशे कालिदासः । वालिस्थाने सुग्रीवः । इतरत्सर्वं वालिराज्यमिव । सैव तारा प्रियतमा महिषी। वालिपल्यः मुग्रीवपत्न्यः । वालिपुत्र एव युवराजः । राज्यांगभूतं राज्यमात्यादिकं पूर्व- वदेव । स्थानिवदादेशः । प्रकृतिप्रत्ययाः आश्लिप्येयुः । प्रकृतिस्थानापन्न- मादेशं च प्रत्ययाः आश्लिष्यन्ति । “भ्रातुरन्तः पुरं सौम्यं प्रविवेश महाबलः" "स्वां च पत्नीमभिप्रेतां तारां चापि समीप्सिताम् । विहरन्तमहोरात्रं कृतार्थ विगतज्वरम्" इति वक्ष्यते । प्रकृतिसुतः आदेशसुतवत् युवराजो भवति । रामेण स्वाभिषेकात्पूर्व स्वाभिषेक इव मित्राभिषेको निरवय॑त । 'अभ्यषिञ्चन्त सुहृदः सहस्राक्षमिवामराः । शास्त्रदृष्टेन विधिना महर्षिविहितेन च । गजो गवाक्षो गवयः शरभो गन्धमादनः । मैन्दश्च द्विविदश्चैव हनूमान् जाम्ब- वान्नलः । अभ्यषिञ्चन्त सुग्रीवं प्रसन्नेन सुगन्धिना । सलिलेन सहस्राक्षं वसवो वासवं यथा' इति सुग्रीवपट्टाभिषेकश्लोकाः भाव्याः । यथास्मिन्नभिषेके सप्तसमुद्रपुण्यनद्यादितीर्थाहराः हरयः तथैव रामाभिषेकेपि । प्रत्यपादयदिति णिचा नगरे । स्वयमप्रविशन्नेव वानरराज्यमन्त्र्यादिभिरकारयदिति द्योत्यते । राज्ये मित्रं निवेश्य स्वयं माल्यवति न्यवसदुजंभितायां प्रावृषि ॥

85 70 रामायणसंक्षेपसर्गरसास्वादः (मू) स च सर्वान् समानीय वानरान् वानरर्षभः ।। दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् । स च इति, 'निवृत्तकार्य सिद्धार्थ प्रमदाभिरतं सदा । क्रीडन्तमिव देवेन्द्र नन्दनेऽप्सरसां गणैः । मन्त्रिषु न्यस्तकार्य च मन्त्रिणामनवेक्षकम् । उत्सन्नराज्यसन्देशं कामवृत्तमवस्थितम् ॥' इति वर्णयिष्यमाणरीत्या रामकार्य सर्व विस्मृतवानपि इति द्योत्यते । हनूमत्प्रतिबोधनात्, 'समानयन्तु ते सैन्य त्वरिताः शासनान्मम ।' 'त्रिपञ्चरात्रादूर्ध्वं यः प्रामुयान्नेह वानरः । तस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा ॥' इति हनुमद्वारा शासनेन समा- निनाय । वानरान् नीलद्वारा समानाय्य सीतायाः पदान्वेषणेच्छया वानरान् सर्वा दिशः प्रस्थापयामास । दिक्षुः- सीतायाः पदान्वेषण- मिच्छन् । 'दिदृशुः अन्वेषिषुः' इति तिलकः । जनकात्मजा-सीता । 'सुतामयोनिजां सीतां दद्यां दाशरथेरिह' इत्युच्यते जनकेन सीताविवाहप्रकरणे। दाशरथेरित्यत्र षष्ठीप्रयोगो रस्यः । पूर्वमपि दाशरथेरेव सीता । सम्प्रदान- चतुर्थीकारकं न यथार्थ भवेत् । लांगलपद्धत्या देवयजनभूमिकर्षणे भूमेः म्वयमुत्थिता भाग्यवशात् जनकेन दृष्टा सुताभिमत्या संवर्धिता आत्मजाभिमति- विषयाऽभूत् । भविष्यत्पित्रे जनकाय यथा केवलं कृपया दर्शनं ददौ तथा मह्यमपि दित्सेदिति हनूमदाद्याशंसा। दिक्षुर्जनकात्मजाम् इत्यत्र जनकात्मजेति पदेनेदं व्यज्यते । 'इहस्थोहं प्रपश्यामि रावणं जानकी तथा' इति सम्पातिवचने 'जानकी' मिति सीताया निर्देशः । 'जनकस्यात्मजां राज्ञः तत्र द्रक्ष्यथ मैथिलीम्' इति च तदुक्ति: । 'सीतादर्शनकांक्षिणः', 'सीतायाः पदमन्वेष्टुम्' इति सीतापदप्रयोगोऽपि, 'सीताकृपयैव अविलंब- सीतादर्शनसंभवः' इति व्यञ्जयति । 'देव्यै च तस्यै जनकात्मजाय इति अशोकवनिकादर्शनपूर्वसर्गान्ते हनुमत्प्रार्थनावचनमवधेयम् -- 86 रामायणसंक्षेपसर्गरसास्वादः (मू) ततो गृध्रस्य वचनात् सम्पातेर्हनुमान्बली ॥ 71 शतयोजनविस्तीर्ण पुप्लुवे लवणार्णवम् । अस्मिश्लोके किष्किन्धासुन्दरकाण्डयोस्सन्धिः । ततः इति, 'ततो रावणनीतायाः' इति सुन्दरकाण्डारंभश्लोकसूचनम् । सम्पातिः सीतापदतत्त्वदर्शी साक्षाद्दष्टा आचार्यः । तद्वचनात् हनु- मान्सीतां ध्यायन् तामन्विप्यन् सागरमुलंघयति । किष्किन्धाकाण्डान्तभवस्य आचार्यसम्पातिवचनस्य हनूमदन्वेषणप्रयोजकस्य सुन्दरकाण्डारंभेऽव्यवधानेन बुद्धौ सन्निधानमिप्यते। 'शतयोजनविस्तीर्ण पुप्लुवे लवणार्णव'मिति सुदीर्घसुन्दर- प्रथमसर्गः । गृध्रस्य वचनात्सम्पातेः यथाऽन्यवचनात्प्रवर्तते रामः तथा तद्दासो हनूमान् सम्पातिवचनात्सागरं लंघयते सीतादर्शनाय । 'चारणा- चरिते पथि' इत्यस्य सीताप्रत्यक्षदर्याचार्यसम्पातिप्रोक्तमार्गेणेत्यप्यर्थः कथञ्चित् ग्राह्यः । 'इहस्थोहं प्रपश्यामि रावणं जानकी तथा' इति सीतां लंकास्थां दृष्ट्वा लंकायामवस्थानमुपदिदेश । 'सम्पातेर्वचनं श्रुत्वा हरयो रावणक्षयम् । हृष्टास्सागरमाजग्मुः सीतादर्शनकाक्षिणः' इति वक्ष्यमाणमिह भाव्यम् । 'भवतां तु समर्थानां न किश्चिदपि दुष्करम् । तदलं कालसंगेन क्रियता बुद्धिनिश्चयः' ति सम्पातिना वानराः प्रोत्साहिताः त्वरिताश्च । गृध्रस्येति पदेन गृध्रराजयोः सम्पातिजटायोमध्ये जटायुः अर्थोपदेशे ममार । 'पुत्रो विश्रवसः साक्षात् भ्राता वैश्रवणस्य च । इत्युक्त्वा दुर्लभान्प्राणान् मुमोच पतगेश्वरः' इति जटायो- रोक्तिः । 'ब्रूहि ब्रूहि इति रामस्य ब्रुवाणस्य कृताञ्जलेः। त्यक्त्वा शरीर गृध्रस्य जग्मुः प्राणा विहायसम्' इति रामस्य करुणयाच्या 'पुत्रो विश्रवसः साक्षात् भ्राता वैश्रवणस्य च । अध्यास्ते नगरी लंकां रावणो नाम राक्षसः । इतो द्वीपे समुद्रस्य सम्पूर्णे शतयोजने । तस्मिन् लंकापुरी रम्या निर्मिता तस्याः 87 रामायणसंक्षेपसर्गरसास्वादः विश्वकर्मणा। तम्यां वसति वैदेही दीना कौशेयवासिनी। रावणान्तःपुरे रुद्धा राक्षसीभिस्समावृता' इति वानरान्प्रति सम्पातिवचने 'पुत्रो विश्रवसः साक्षात् भ्राता वैश्रवणस्य च' इति भ्रातृजटायुचरमार्धवचनमेवानुद्य तदनुक्तस्यावशिष्टस्य पूरणं क्रियते ज्येष्ठभ्रात्रा गृध्रेणेति व्यज्यते । सामान्यगृध्रशब्दप्रयोगादुभयोरपि गृध्रयोर्वचनस्यैकवाक्यत्वं व्यज्यते। 'आचार्य- स्तु ते गतिं वक्ता' इत्युपकोसलविद्यायां आचार्य: अग्निभिरनुपदिश्य परिशेषितं पूरयति । गृध्राणां सुदूरद्रष्टत्वशक्तिः प्रसिद्धा । 'वचनात्सम्पातेः' । अस्त्य- त्रापि महान् रसः वचनसम्पात्योस्समभिव्याहारे। किमर्थं सीतास्थानादि- कथनमात्रेणोपकारः कृतः सम्पातिना। किं तेनाकाशे सम्पत्य सीतां दृष्ट्वा तस्यै रामवृत्तान्तोद्योगादिकमावेद्य तामाश्वासयितुं न शक्यते । शक्यमेव तस्य सम्यग्ज्योम्नि पतितुं लंकां त्वरया गन्तुं सीतां द्रष्टुञ्च । राक्षस्याद्यविज्ञात यथा तथा सीतासमीपं गत्वा तया हनूमत्संभाषणादिकं लंकायां विक्रमणादिकं च सुकरम् । संपातिः स्वयं लंकां प्रतिचारणाचरिते पथि अक्लेशेन पतितुं लंकां प्राप्तुं समर्थोपि इति परिकरांकुरालंकारः । यद्यपि संपतनसमर्थः सम्पाति: गृध्रः सः। संपातिवचनात् लंघयन् सागरं हनूमान् संपातिवचनानुसरणा- कांक्षी । 'न हि कर्मसु सज्जन्ते बुद्धिमन्तो भवद्विधाः' इति संपातिवचनमनु- सरन् ‘न हि धर्मविरुद्धेषु बह्वपायेषु कर्मसु । मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः' इति रावणं प्रति वदति । सज्जन्ते इति शब्दमर्थान्तरे प्रयुक्ते । सम्पातेर्हनुमान्बली, बलवानेव जटायुज्येष्ठः संपातिः । तथापि तदपेक्षया हनूमान् बलवत्तरः । तस्मादपि संपात्यपेक्षया हनूमतो गमनम् । लंकां गन्त्रा रामपक्षस्थेन बलिष्ठतया भाव्यम् । बलीति मत्वर्थीयप्रत्ययेन बलातिशय उच्यते । संपातेहनुमान्बली इति समहारेणान्वयोऽपीप्यते। सागरलंघनं सहजं गृध्रराजस्य सुकरतमं च हनुमदपेक्षया । विहायसा पतने समर्थतरः संपातिः । बलं तु हनुमतोऽधिकम् । 'बुद्ध्यता च मया वीर्यं रावणस्य ।

88 रामायणसंक्षेपसर्गरसास्वादः दुरात्मनः' इत्याद्यस्य वचनमपि भाव्यम् । हनुमान् बली-संपातिवचनश्रवणा- नन्तरमेव जांबवत्संधुक्षणेन हनूमतो बलाधिक्य संपद्यते । इदमपि व्यज्यते बली इति हनुमद्विशेषणेन । 'उत्तिष्ठ हरिशार्दूल लंघयस्व महार्णवम् । परा हि. सर्वभूतानां 'हनुमत्या गतिस्तव । विषण्णा हरयस्सर्वे हनूमन् किमुपेक्षसे । विक्रमस्व महावेगो विष्णुस्त्रीन् विक्रमानिव' इति महर्षीणां शापात् प्रसुप्तं स्ववीर्य स्मार्यते हनूमान् जांबवता वृद्धतमेन । 'बाधसे यत्समाश्रित्य बलमस्मान् प्लवंगम । तदीर्घकालं वेत्तासि नास्माकं शापमोहितः । यदा हि स्मार्यते कीर्तिस्तदा ते वर्धते बलम् । ततः सहजतेघौघमहर्षिवचनौजसा' इत्युत्तरकाण्डे राम प्रत्युच्यतेऽगस्त्येन । प्रसुप्तमभवत् हनुमद्दलं महर्षिशापात् । प्रसुप्तं बलं जाम्बवत्स्मारणेन प्रबोध्य उत्थाप्यते। 'उत्तिष्ठ मूढे किं शेषे' 'उत्तिष्ठ नरशार्दूल' इत्यादाविवात्र ‘उत्तिष्ठ हरिशार्दूल' इति पठ्यत इति रसोऽनुभाव्यः । प्रसुप्तस्य हनुमद्दलस्य जाम्बवता वृद्धतमेन सुप्रभातं पट्यत इति रसः । इदं सर्वे व्यज्यतेऽत्र सम्पातिवचनानन्तरं सागरलंघनात्पूर्वं हनुमान्बली इति पठनेन । 'हनूमान्बली' इत्याभ्यां पदाभ्यां पूर्वकथाप्रस्थावेन जाम्बवता कृतोत्साहत्वं तदुद्भुतनिरवधिकबलवत्वं च द्योत्यते इति श्रीगोविन्दराजः । (मू) तत्र लङ्कां समासाद्य पुरी रावणपालिताम् । ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम् ।। लङ्कां रावणपालितां पुरीं समासाद्य तत्र अशोकवनिकां गतां सीतां ददर्श इत्यन्वयः प्रदर्शितः । तत्र इत्यस्य अणवप्लवने-इति नार्थः । एक- स्मिन्नेवोत्पतने । लकां रावणपालिताम् इति पुनः पुनः पठिष्यते लंका- गमनस्य दुष्करत्वद्योतनाय । समित्युपसर्गेण चतुरंगुलमात्रावकाशमप्य- विहाय कृत्स्नलकायामप्यासादनान्वेषणे व्यज्यते । सर्वां पुरीं प्रथमं सम्यगन्विष्य अनन्तरं वनिकामन्विष्यति । पुरी लंका समासाद्य इति लंकापुरीदेवता- 72 रामायणसंक्षेपसर्गरसास्वादः 89 समासादनमपि ग्राह्यम् । 'अहं हि नगरी लंका स्वयमेव प्लवंगम' इति तया वक्ष्यते । ददर्श सीतां-सीतापदेन तत्कृषयैव ददशैंति व्यज्यते, तस्याः पिने जनकाय स्वयं दृष्टिविषयीभूतत्ववृत्तान्तस्मारणेन । ध्यायन्ती-राममेव ध्यानेनानुपश्यन्ती सीतां ददर्श । ध्यानस्य दर्शनसमानाकारत्वं वेदान्त- प्रसिद्धम् । मातरं सीतां ध्यायन् हनूमान् तस्याः कृपया तां ददर्श । सा च तदा राममेव ध्यानेनानुपश्यन्ती स्थिता । 'नेमान् पुष्पफलद्रुमान् पश्यति नूनं राममेवानुपश्यती' ति वक्ष्यते । अशोकवनिकां गतां ध्यायन्ती- 'अशोकवनिका चेयं दृश्यते या महाद्रुमा' 'वनं नेत्रमनःकान्तं नानाद्रुमलता- युतम्' इति वक्ष्यते । जनमनो नयनाह्लादकाशोकादिपुष्पफलभरितद्रुम- मण्डितां न पश्यति, एकम्थहृदया राममेव ध्यायन्ती । पुरी सर्वा अन्विष्टा, वनिकामात्रमनन्विष्टम् । वनिका-अल्पार्थे अनुकम्पार्थे च कप्रत्ययः । निष्कुट- वृक्षवाटी प्रमदावनम् । 'अशोक शोकापनुद शोकोपहतयेतसम् । त्वन्नामान कुरु क्षिप्रं प्रियासन्दर्शनेन माम्' इति रामाक्रन्दितम् । अशोकवनिकागता दुःखस्यान्तमपश्यन्ती व्यसनपरम्परया निपीड्यमानाऽऽसीत्। अशोकवनिकायां शोकध्यानपरा दीना नित्यं दुःखपरायणाऽभवत् । 73 । (म्) निवेदयित्वाऽभिज्ञानं प्रवृत्तिश्च निवेद्य च ।, समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥ सीतां ददर्श । तस्यै अभिज्ञानं निवेदयित्वा-दत्वा, रामप्रवृत्तिश्च निवेद्य च वैदेहीं समाश्वास्य च, अशोकवनिकागतं तोरण मर्दयामास इत्येकस्या निशाया एकदेशे अतित्वरितं बहूनि कार्याणि हनुमता साधिता- नीति द्योत्यते । अभिज्ञानसमर्पणं, रामप्रवृत्तिनिवेदनं सीतासमाश्वासनं च कृत्स्नं बहुभिस्सर्गवर्ण्यते। आरम्भप्रभृति भूयो भूयः समाश्वासनं क्रियते अभिज्ञानप्रवृत्त्यादिनिवेदनेन । रामप्रवृत्तिनिवेदनं च पुनः पुनः क्रियते ।

90 रामायणसंक्षेपसर्गरसास्वादः .. अभिज्ञाननिवेदनं च भूयो भूयः क्रियते । समाश्वासेन ऐकान्तिकेन भवि- तव्यं, न तस्य डोलारोह उचितः । पञ्चत्रिंशसर्गे, 'हनुमन्तं कपि व्यक्तं मन्यते नान्यथेति सा' इति तस्या विश्वासदाढयस्याकम्पनीयत्वेन जनिः कथिता । कपिरेवायं, न कपिकुहनाधरो रावण इति तदा दाढ विश्वासस्य । अनन्तरं षट्त्रिंशसर्गारंभे, सीताप्रत्ययकारणात् तत्प्रत्ययार्थमानीतमङ्गुलीयकरूपमभि- ज्ञानं तस्यै प्रदर्शयामास । 'समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि' इति तां समाश्वासयामास च । एकोनचत्वारिंशत्सर्गे च, 'क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि। रावणं चैव रामेण निहतं द्रक्ष्यसेऽचिरात्। एवमाश्वास्य वैदेहीं हनुमान्मारुतात्मजः। गमनाय मतिं कृत्वा वैदेही पुनरब्रवीत्' इत्युक्तम् । समाश्चास्य च वैदेहीं इति संक्षेपोक्तकथा चत्वारिंशत्सर्गपर्यन्त- मनुगम्यते । 'त्वां दृष्ट्वा प्रियवक्तारं संप्रहृष्यामि वानर । अर्धसज्जातसस्येव वृष्टिं प्राप्य वसुन्धरा' इति स्वस्याः महान् हर्षः स्ववाचैवोदीरितः अनन्तरसर्गे। त्रिंशसर्गादारभ्य आचत्वारिंशत्सर्गान्तं सीताप्रत्ययोत्पादने, रामप्रवृति- निवेदने च, सीताधैर्योत्पादने च भूयानुद्यमो हनूमतः । 'रक्षोभिस्त्रासिता पूर्व भूयस्त्रास गमिष्यति । ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी । जानाना मां विशालाक्षी रावणं कामरूपिणम्' इत्यादिना कृत्याकृत्यषिचिन्तनं चतुरं कृतं त्रिंशसर्गे। 'राममक्लिष्टकर्माण स्वबन्धुमनुकीर्तयन् । नैनामुद्वेजयिष्यामि तद्वन्धुगतमानसाम् । इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः । शुभानि धर्मयुक्तानि वचनानि समर्पयन् । श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम् । श्रद्धास्यति यथा हीयं तथा सर्वं समादधे' इत्यारंभ एवोक्तं हनुमता। अभिज्ञानं निवेदयित्वा इति न केवलमंगुलीयकसमर्पणं, किन्तु यद्यत् रामदूतत्वप्रत्ययजननाय श्राव्यते सीता हनुमता रामकथासंकीर्तनप्रभृति, तत्सर्वमपि जिघृक्ष्यते, 'विश्वासार्थ तु वैदेहि भर्तुरुक्ता मया गुणाः । अचि- राद्राघवो देवि त्वामितो नयिताऽनधे । एवं विश्वासिता सीता हेतुभिः शोक.

91 । रामायणसंक्षेपसर्गरसास्वादः कर्शिता । उपपन्नैरभिज्ञानदूत तमवगच्छति' इति पञ्चत्रिंशस 'अभिज्ञानरिति बहुवचनप्रयोगात् । गुरुक्ताभिज्ञानशब्द एव प्रयुज्यते शिष्येण । अभि- ज्ञानैरिति बहुवचनान्ततया च प्रयुज्यते । अभिज्ञानमिति संक्षेपश्लोके जातावेकवचनम् । अंगुलीयकसमर्पणस्य प्राधान्यज्ञापनार्थमेकवचनप्रयोगः। निवेदनशब्दश्च समर्पण, ज्ञापनञ्चाभिधत्ते । 'निवेदयित्वा, निवेद्य' इति प्रयोगद्वयस्यापि साधुत्वं समर्थितं श्रीगोविन्दराजैः। द्वयमप्यत्र प्रयुज्यते एकस्मिन्नर्थे । 'यावत्प्रवृत्तिं अणुयां प्रियस्य' इति सीतयोक्ता प्रवृतिर्वार्ता । 'वार्ता प्रवृत्तिवृत्तान्तः' इति अमरः । रामलक्ष्मणयोः कुशलवृत्तान्तः, तयोः सीताप्रत्यानयनोद्योगवृत्तान्तश्च प्रवृत्तिशब्दाभिप्रेतः । रामस्य कुशलं सीताविरहप्रयुक्तां तदुर्मनायमानतां, सीतान्वेषणतत्प्रत्यानयनाद्युद्योगच्च वर्णयन् समाश्वासनं च भूयोभूयः करोति । सम्पूर्णसमाश्वासनमेव मुख्य- मुद्देश्यम् । पूर्वोक्तद्वयस्य तादर्थ्यात् तस्य चरमकीर्तनम् । एतत्त्रितयमपि एकाधिकदशसर्गेषु संमिश्रतया वर्ण्यते । त्रयाणामपि ल्यपा ग्रहणं कृतम् । त्रयमपि तोरणमर्दनात्पूर्वभावीति न तेषां क्रमिकनिर्देशे तावानादरः । त्रयाणां समुच्चयः । मर्दयामास तोरणम् – तोरणं च अशोकवनबहिरम् । तोरणेन वनमपि लक्ष्यते । वनमपि मर्दितम् । तोरणमर्दने च तोरणपरिघ- मादाय प्रतियोधिराक्षसवीराणां मर्दनं च कृतम् । चण्डमारुतेन वनं भज्येत । तत्पुत्रो मारुतिः कथं तत् न भञ्ज्यात् । इदं चौचित्यं प्रदर्शितं ऋषिणा 'ततो मारुतवत्क्रुद्धो मारुतिर्भीमविक्रमः । ऊरुवेगेन महता द्रुमान् क्षेप्तुमथार- भत्' इति वनभंजनसर्गे एकचत्वारिंशे । चण्डमारुतिर्वनं बभंज। 'युयुत्सुरेको बहुभिर्महाबलैः श्रिया ज्वलंस्तोरणमास्थितः कपिः' इति सर्गान्तश्लोकोऽत्र भाव्यः ॥ (मू) पत्र सेनाग्रगान हत्वा सप्तमन्त्रिसुतानपि । शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् ॥

92 रामायणसंक्षेपसर्गरसास्वादः एकरात्रौ अतित्वरितं वृत्तयुद्धानां शत्रुवधानां च वर्णने क्रमानादरेण तेषां यौगपद्यप्रायत्वमिति घोत्यते । प्रथमं किंकराः प्रेषिताः । तेषु हतेषु प्रहस्तपुत्रो जम्बुमाली । 'न वीरसेना गणशोच्यवन्ते' इति श्लोके चरम इन्द्रजिषणे, सेनानां प्रेषणे गणशो नाश एव भवति, न तामिरप्रगस्यावनं सम्पयेत इत्युक्तं रावणेन । इन्द्रजिदेक एव योद्धं जगाम । प्रथमप्रेषितं रावणकिंकराणां अशीतिसहस्रं हतं हनुमता । बहूनां प्रेषणमरोचयमानः प्रहस्तपुत्रमेकं समादिदेश । अयं च रावणभावो व्यज्यते ऋषिणा, 'स राक्षसानां निहतं महङ्कलं निशम्य राजा परिवृत्तलोचनः । समादिदेशा- प्रतिम पराक्रमे प्रहस्तपुत्रं समरे सुदुर्जयम् ।' इति द्विचत्वारिंशसर्गान्ते । तस्मिन् हते नैको मन्त्रिपुत्रः प्रेषणीय इति मन्त्रिपुत्रसप्तकं प्रेषितम् । न सेना प्रेषिता तदा। 'प्रहस्तपुत्रे निहते महाबले अमात्यपुत्रानतिवीर्य- विक्रमान् । 'समादिदेशाशु निशाचरेश्वरः' इति चतुश्चत्वारिंशान्तिमश्लोकेन रावणभावो व्यज्यते। अनन्तरं सेनासहिताः पञ्चसेनाप्रनायकाः प्रेषिताः। पञ्चवीरप्रमुखाः सेनया सह तदा प्रेषिताः। प्रथमप्रेषिताः स्वकिंकराः न सनायकाः । 'हतान् मन्त्रिसुतान् बुद्ध्वा वानरेण महात्मना', 'पंचसेनाग्र- नायकान् सन्दिदेश दशग्रीवः' 'यात सेनाग्रगास्सर्वे महाबलपरिग्रहाः' इति ते सन्दिष्टाः। अत्र संक्षेपश्लोके पश्च सेनाग्रगान् हत्वा इत्युक्तं अनुसृतं कविना । 'सेनाग्रग' शब्दौ रूढियोगश्चेत्युभाबपि ग्राह्यौ वृतकथानुसारेण । सप्तमन्त्रिपुत्रयुद्धात्पूर्व अस्य व्युत्क्रमेण निर्देशेऽस्ति भावविशेषः । प्रथम- सेनातुल्यबहुकिंकरसंघः प्रेषितः, किन्तु अग्रगनायकरहिताः इति प्रथमपूर्व- वृत्तं विरुद्धोद्यमयो(मूलत्वस्फोरणेन कथंचित् व्यज्यते । पञ्चसंख्योपक्रमश्च भावि पञ्चत्वं स्फोरयति । पञ्च वा सप्त वा भवतु वीरयोधसंख्या, दशसहस्री वा भवतु, पञ्चत्वमेव तेषां गतिः । पञ्चानां पञ्चत्वं, सप्तानां च, अशीति- सहस्रस्य च तुल्या वधगतिः । बहुसेना, नायकसहिता महती सेना पञ्च- रामायणसंक्षेपलारसास्वादः 93 सेनाप्रमप्रेषण एवं प्रेषिता । 'स तस्य कृत्वार्थपतेमहाकपिमहद्वयलीकं मनसो महात्मनः। युयुत्सुरेको बहुभिर्महाबलैः श्रिया ज्वलस्तोरणमास्थितः कमिः' इति वनमर्दनोत्तरं तोरणारूढेन स्थितेन एकेन बहुभिर्योधनं तीवकांक्षित- मित्युक्तम् । 'युयुत्सुरेको बहुभिर्महाबलैः' महाबलैरित्यस्य 'बलिष्टै', 'महा- सेनाभिः' इति द्वेषाप्यर्थो ग्राह्यः । एतद्वयतीवाकांक्षा पञ्चसेनाग्रगयुद्धैरपूर्यत । इदमपि सूच्यते तत्प्रथमनिर्देशेन । वीरश्रिया ज्वलन्तमूर्ध्वरेतस जितेन्द्रिय जयश्रीवरिष्यते । पश्चसेनानायकसहितपञ्चसेनाभिस्सह युद्धे सम्पयमानस्य जयस्य सुमहती जाज्वल्यमानता। मन्त्रिसुतेषु हतेषु राजपुत्रोऽक्ष: बलैम्समेतः प्रेषितः । तस्य शौर्य गुरुणा प्रशस्यते । तस्य शौर्य हनुमन्मनोऽ रंजयत् । 'अवैक्षताक्ष बहुमानचक्षुषा' । 'अबालवद्वालदिवाकरप्रभः करोत्ययं कर्म महन्महाबलः । न चास्य सर्वाहवकर्मशोभितः प्रमापणे मे मतिरत्र जायते' इति हनूमतोऽपि तद्वीयरञ्जितचित्तस्य वीरबालहननमतिः प्रथम न्यवार्यत इति व्यज्यते 'शूरमक्ष' मिति । मन्त्रिपुत्रप्रेषणानन्तरं राजपुत्र- प्रेषणस्य सुगमत्वात् अक्षस्य रावणकुमारस्वमभिधानं विनैव व्यंग्यम् । यद्यपि तद्धिंसनाऽरुचिः प्रथमं समजनि, अनन्तरं 'न स्वल्वयं नाभिभवेदुपेक्षितः पराक्रमोह्यस्य रणे विवर्धते । प्रमापणन्त्वेव ममास्य रोचते न वर्धमानोग्निरुपेक्षितु क्षमः ।।' इति तद्वधे तीव्ररुचिरुदपद्यत । अम्बरे विचरन्तं तं, सः मारुततुल्य- विक्रमः समेत्य पादयोदृढं अण्डजेश्वरो महोरगमिच गृहीत्वा सहस्रशः समा- विध्य महीतले वेगात् मुमोच । स च कुमारः 'भमबाहरुकटीशिरोधरः क्षरनसृनिर्मथितास्थिलोचनः प्रभिन्नसन्धिः प्रविकीर्णबन्धनः हतः क्षितौ वायु- सुतेन राक्षसः' इति तस्य निष्पीडनं, तेन मारणं च वर्णितम् । शूरमिति प्रश्रमपदेन, अक्षं च निष्पिष्य इत्यनन्तरसन्दर्भेण च, हनुमतः प्रथमं तस्य वीर्येण विद्धत्वं तस्थ अहन्तत्वबुद्धिजनिः, अनन्तरं तस्य स्वहस्तेनैव सर्पमारं निष्पेषण च चतुरं व्यज्यते । निष्पिष्य-चूर्णीकृत्य इति श्रीगोविन्दराजः । , 94 , रामायणसंक्षेपसर्गरसास्वादः तस्यौलदेहिकक्रियायै अवयवितया, अवयवशो वा देहास्थीन्येवावशिष्टानि । ग्रहण समुपागमत् कथंचित् ग्रहणं, रावणसमीपनयनं रावणेन संवादश्च तीव्रमकांक्ष्यन्त । अयं च महाचार्यः रावणस्याप्युपदेशं कर्तुं चकांक्ष । सीतां प्रत्येवायं दूतत्वेन प्रेषितः सुग्रीवराघवाभ्याम् । रावणविषयेऽयं स्वयं कृत- दूतः । रावणपालितलंकानगरी प्रति गमनाभ्यनुज्ञायां इदमप्यनुमतं स्यादिति मतिः । अनुमतं भवतु बा, मा वा, तदविरुद्धमेवेदम् । 'कार्ये कर्मणि निर्दिष्टे यो बहून्यपि साधयेत् । पूर्वकार्याविरोधेन सकार्य कर्तुमर्हति' इति स्वेनैवोक्तं भाव्यम् । 'कथं नु खल्वद्य भवेत्सुखागतं प्रसह्य युद्धं मम राक्षसैस्सह । तथैव खल्वात्मबलं च सारवत्समानयेन्मां च रणे दशाननः ॥ ततस्समासाद्य रणे दशाननं स मन्त्रिवर्ग सबलप्रमाथिनम् । हृदि स्थितं तस्य मतं बलं च सुखेन मत्वाहमितः पुनर्बजे ॥' इति रावणायोधनपर्यन्तमनोरथः प्रादर्शि । स्वयं रावणस्यानागमनेन इन्द्रजिदभियोग ‘स रोचयामास परैश्च बन्धनं प्रसह्य वीरे- रभिनिग्रहं च । कौतूहलान्मां यदि राक्षसेन्द्रो द्रष्टुं व्यवस्येदिति निश्चितार्थः ॥' इति स्वयमेव रावणदर्शनोपायत्वेन बन्धन रोचयामास । 'ग्रहण समुपागमत्' इत्यनेन तत्पूर्वमिन्द्रजिदस्त्रैरग्रहणं व्यज्यते । 'शराणामन्तरेष्वाशु व्यवर्तत महाकपिः । हरिस्तस्याभिलक्ष्यस्य मोघयन् लक्ष्यसंग्रहम्', 'ततस्तु लक्ष्ये स विहन्यमाने शरेष्वमोघेषु च संपतत्सु' इति तदस्त्राणां लक्ष्यस्पर्शवारण कथितम् । तस्य कपेः शस्त्रावध्यतां समीक्ष्य तं ब्राह्मास्त्रेण निजग्राह । ब्रह्मास्त्रस्यापि न हनूमद्धनने शक्तिः, तद्वन्धनमात्रे काचित् शक्तिः, सा च मुहूर्तमात्रावधिका । ‘स वीर्यमन्त्रस्य कपिर्विचार्य पितामहानुग्रहमात्मनश्च । विमोक्षशक्तिं परिचिन्तयित्वा पितामहाज्ञामनुवर्तते स्म' इति ऋष्युक्तिः 'दर्शने राक्षसेन्द्रस्य दुर्लभे तदिदं मया । वनं राक्षसराजस्य दर्शनार्थ विनाशितम्', 'ग्रहणे चापि रक्षोभिर्महान्मे गुणदर्शनः । राक्षसेन्द्रेण संवादस्ततो गृह्णन्तु मां परे', 'रक्षणार्थं तु देहस्य प्रतियुद्धा मया रणे' 'राजानं द्रष्टु- ..

95 रामायणसंक्षेपसर्गरसास्वादः कामेन मयास्त्रमनुवर्तितम्' इति स्वोक्तयश्च . भाव्याः। 'बबन्धुः शणवल्कैश्च द्रुमचीरैश्च सहतैः' इति राक्षसैबन्धान्तरे कृते, ‘स बद्धस्तेन वल्केन विमुक्तोऽ स्त्रेण वीर्यवान् । अस्त्रबन्धस्स चान्यं हि न बन्धमनुवर्तते' इत्युक्तरीत्या मुहूर्तावधेः पूर्वमेव बन्धात् मोक्षोऽभवत् । 'काममनुवर्ततां हनुमान्स्वबन्धं, नाहं बन्धान्तरप्रयोजनहनुमद्वन्धमनुवर्तेय' इत्यस्त्रस्य भावो व्यज्यते 'न बन्धमनुवर्ततेऽस्त्रबन्धः' इति । वल्कादिबन्धनक्षण एव अस्त्रबन्धः स्वयं मुमुचे । तदनन्तरं अस्त्रबन्धस्यानुवर्तन स्वयमेवान्वभाव्यत हनुमता रावण- दर्शनसंवादादिप्रयोजनोद्देशेन । इदं च समुपागमत् इति समुपोप- सर्गाभ्यां व्यज्यते । 'तस्यैते कथिता ह्याः प्रकाशन्ते महात्मनः' इति श्वेता- श्वतरोपसंहारमन्त्रे कथिताः अकथिताः इत्युभयथापि पदच्छेदो ग्राह्यः । गुरइलोकेन अभिधावृत्त्याऽकथिताः व्यञ्जनात्त्या व्यञ्जिताश्चार्थः व्यक्ता भवन्ति शिष्यस्य ॥ म्) अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद्वरात् । मर्षयन् राक्षसान्वीरो यन्त्रिणस्तान् यदृच्छया ॥ ततो दग्ध्वा पुरी लंकामृते सीतां च मैथिलीम् । रामाय प्रियमाख्यातुं पुनरायान्महाकपिः ॥ 76 .. 75 यन्त्रिणो राक्षसान् वीरो मर्षयन् यन्त्रणं स्वस्यैवानुकूलं अस्त्रबन्धा- न्मोक्षसम्पादनेन । यहच्छया-स्वप्रयत्नं विनैव मोक्षण लभ्यते । पैता- महाद्वरात् मुहूर्तावधिकत्वं लब्धम् । यन्त्रिभिस्तु पूर्वमेवोन्मोचनं सम्पादितं बन्धान्तयन्त्रणेन । तत्रापि हनुमत्प्रयत्न विना शत्रुप्रयत्नेनैवोन्मोचनं निर्वृत्तम् । ब्रह्मास्त्रबन्धान्मोचितोपि राक्षस: शणकादिभिर्बन्धनमन्ववर्तत। तदमर्षयत् । तस्य राक्षसराजदर्शनानुकूलत्वात् अनन्तरं लंकादर्शनानुकूलत्वाच्च । 'ततो दग्ध्वा 96 रामायणसंक्षेपसगरसास्वाद: । .. पुरी लंकामृते सीतां च मैथिली । ततः इत्यस्य 'अनन्तरं' राक्षसैर्यन्त्रणात् इति चार्थः । 'वेष्टयन्ति स्म लांगूलं जीर्णैः कार्पासकैः पटैः' इति दहनार्थ कृतं यन्त्रण च ग्राह्यम् । तैलेन अग्निना संयोजनं च वर्णितम् । 'छित्वा पाशान् समुत्पत्य हन्यामहमिमान्पुनः । किन्तु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशम् । लंका चारयितव्या वै पुनरेव भवेदिति' इत्युक्तं सहनं च सूच्यते । मर्षयन् यन्त्रिणः इति लंकादहनोपकारकयन्त्रणादिकमपि ग्राह्यम् । 'सहस्त्रीबालवृद्धाश्च जग्मुः प्रीता निशाचराः। ‘स भूयः संगतैः क्रूरैः राक्षसैर्हरिसत्तमः। निबद्धः कृतवान्वीरः तत्कालसदृशीं मतिम् ।' इत्युत्तमवीरोपि मर्पयामास । ऋते सीतां च मैथिलीम्-'विनष्टा जानकी नूनं न ह्यदग्धः प्रदृश्यते । लंकायां कश्चिदुद्देशः सर्वा भस्मीकृता पुरी' इति हनुमतः निर्वेदशोकादिकं प्रथममुत्पन्न; 'अथवा चारु सर्वांगी रक्षिता स्वेन तेजसा । न नशिष्यति कल्याणी नाग्निरग्नौ प्रवर्तते । न हि धर्मात्मनस्तस्य भार्याममिततेजसः । स्वचारित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः' इति स्वेनैव शमितम् । 'अपि सा निर्दहेदग्नि न तामग्निः प्रवक्ष्यति' इति च पुनरुवाच । अश्रौषीच चारणानाममृतोपमां वाचम् 'दग्धेयं नगरी सर्वा सहप्राकारतोरणा । जानकी न तु दग्धेति विस्मयोऽद्भुत एव नः' इति । इदं सर्वं सूच्यते ऋते सीतां च मैथिली इति । चारणवाक्य- श्रवणमात्रेणातृप्तः 'प्रत्यक्षतस्तां पुनरेव दृष्ट्वा प्रतिप्रयाणाय मतिं चकार' । प्रथमदर्शनं नालं रामाय सीताक्षेमप्रियमाख्यातुम् । लंकादहनानन्तरं पुनदृष्ट्वा 'दृष्टा सीते' त्याख्यातुं प्रतिययौ । सीतां पुनदृष्ट्वा रामसन्निधिं पुनरायात् । (मू) सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् । न्यवेदयदमेयात्मा दृष्टा सीतेति तवतः ॥ 77 रामायणसंक्षेपसर्गरसास्वादः 97 . महात्मानं रामम्- 'अहं वेद्मि महात्मानं राम' इति महर्षिणा विश्वामित्रेण, 'सर्वलोकशरण्याय राघवाय महात्मने' इति शरणवरीतृ- विभीषणेन चोक्तं सर्वलोकाधिपत्वं निरुपमगांभीर्यकारुण्यादिकं च द्योतितं महात्मविशेषणेन । अभिगमनप्रदक्षिणनमस्कारादिभिः पूज्यो महात्मा, 'महान्-आत्मा' इत्युपनिषद्गम्यः। महात्मानं रामं अमेयात्मा महाकपि- रभ्यगच्छत् । न्यवेदयत् समर्पयामास दृष्टा सीतेति तत्त्ववार्ताम् ।। (म्) ततः सुग्रीवसहितो गत्वा तीरं महोदधेः । समुद्रं क्षोभयामास शरैरादित्यसन्निभैः ॥ 78 सीतादर्शनश्रवणोत्तरक्षण एव लंकाभियोगरावणयुद्धमतिः समजनि । सीतादर्शनवार्ताश्रवणानन्तरक्षणमात्रविलम्बोपि न सह्यते । 'दिष्ट्या स कुशली रामो धर्मात्मा सत्यसंगरः' इति हनुमतोक्ता सीता, 'कुशली यदि काकुत्स्थः किं न सागरमेखलाम् । महीं दहति कोपेन युगान्ता- ग्निरिवोत्थितः' इत्यपृच्छत् । 'न त्वामिहस्थां जानीते रामः कमललोचनः । तेन त्वां नानयत्याशु शचीमिव पुरन्दरः । श्रुत्वैव तु वचो मह्य क्षिप्रमेष्यति राघवः । चमू प्रकर्षन्महती हवृक्षगणसंकुलाम् । विष्टम्भयित्वा बाणौधै- रक्षोभ्यं वरुणालयम् । करिष्यति पुरी लंकां काकुत्स्थः शान्तराक्षसान्' इत्युत्तरितं हनूमता । तच्च निवेदितं रामाय । तथैव क्रियते । सुग्रीव- सहितः। 'सुग्रीव' इति तस्य महती चमूरपि लक्ष्यते । 'ततो वानर- राजेन लक्ष्मणेन च पूजितः । जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम्। एकेन हनुमद्वाहनेन जग्मतुः भ्रातरौ । रामाऽविनाभूतो लक्ष्मणः । तदुभयाविनामूतो हनूमान् । निर्दिष्टेन रामेण लक्ष्मणोपि निर्दिष्टो भवति । महोदधेः इति पदमेव निवेशितं 'प्रतिशिश्ये महोदधे रिति पयोधिपुलिन- प्रतिशयनवर्णने । शराः आदित्यसंनिभाः। सागरशोषणसमर्थाः । बहवः 98 रामायणसंक्षेपसर्गरसास्वादः । आदित्या एव - सागरजलान्तःप्रविष्टाश्चत् सद्यः शुष्येन्महोदधिः। न समुद्रस्य नाशने दृढसंकल्पः । क्षोभणमात्रं संकल्पयामास तन्मात्रमल तस्यौद्धत्यं शमयितुमिति । 'अद्याक्षोभ्यमपि क्रुद्धः क्षोभयिष्यामि सागरम् । महार्णवं क्षोभयिष्ये' इति संक्षेपानुसारि काव्यम् ॥ (मू) दर्शयामास चात्मानं समुद्रस्सरितां पतिः । समुद्रवचनाच्चैव नलं सेतुमकारयत् ॥ 79 भगवदागमनावसर एव प्रत्युद्गमनं कार्य समुद्रराजेन । समुद्धतो नात्मानं दर्शयामास । देवतासहजमदृश्यत्वमवललम्बे । क्रूरक्षोभणानन्तर- मेवात्मानं दर्शयामास । द्वे रूपे समुद्रस्य । प्राकृतसागररूपं बाह्यम् । ततोऽप्यान्तरं देवतारूपं दिव्यम् । दिव्यरूपविशिष्टः आत्मा 'आत्मना' इति निर्दिश्यते । पूर्व प्राकृतं बाह्यरूपमेव दर्शयामास । 'ततो मध्यात्समुद्रस्य सागरः स्वयमुत्थितः । उदयन् हि महाशैलान्मेरोरिव दिवाकरः', 'समुद्रः प्रत्यदृश्यत । स्निग्धवैडूर्यसंकाशः जाम्बूनदविभूषितः' इत्यादिकं भाव्यम् । सागरमध्य एव वसेत् सागराधिष्ठातृदेवता सागरराजः । आत्मा मध्य- कायः । स्वमध्यकायास्वात्मा उत्थितः । समुद्रः आत्मानं दर्शयामास- मुद्रा चाञ्जलिमुद्रा । साञ्जलिरात्मानं दर्शयामास । 'सागरः समुपक्रम्य पूर्वमामन्त्र्य वीर्यवान् । अब्रवीत्प्राञ्जलिर्वाक्यं राघवं शरपाणिनम्' इति काव्ये समुद्रशब्दव्यंग्यार्थो विवृतः । 'समुपक्रम्य, पूर्वमामन्व्य' इत्यनेन पूर्वभाषि- त्वत्तनियमवतो राघवात् पूर्वमेव प्रथम बभाषे अपराधक्षापणायेति व्यञ्जितम् । शरपाणिनं अञ्जलिपाणिरुवाच । 'प्रत्यस्त्रमञ्जलिरसौ तव निग्रहास्त्रे' इत्यादिक भाव्यम् । नाञ्जलिसमा मुद्रा निग्रहसंकल्पस्य सद्योऽपनयने । सरितां पतिः स्वपत्नीसमावृतः आगत्य प्राञ्जलिरब्रवीत् । सपत्नीकः शरणं ययौ । सर्वाः पुण्यनद्यः भर्तारं पर्यवारयन् शरणवरणे। देवतास्ताः । 'देवतानां सरूपा- 99 रामायणसंक्षेपसर्गरसास्वादः भिर्नानारूपाभिरीश्वरः । गङ्गासिन्धुप्रधानाभिरापगाभिस्समावृतः' इत्यादिकं भाव्यम् । 'सरितां पति'रिति प्रयुज्यते, न सरित्पतिरिति अलुगाश्रीयते पत्नीनामविनाभावनियमं द्योतयितुम् । 'सहाधिकारः', 'सहत्वं सर्वकर्मसु' । एकैव पत्नी स्त्री अलं कृपोत्तम्भनाय । सर्वाः पत्न्यः भर्ना सह क्रुद्धं राघवमुप- तस्थिरे। सरित्पतिरित्युक्ते सर्वसरितां साहित्यं नियतं न सिद्धयेत् । पत्न्यश्चमाः जगन्मङ्गलाः पुण्यसरितः । तासां माङ्गल्यहानौ विश्वस्य महती माङ्गल्यहानिस्स्यात् । 'अपां पत्युः शत्रूनसहनमुनेधमनिगडं कृपे काकस्यैकं हितमिति हिनस्ति स्म नयन' इति दयाशतकश्लोकव्याख्यानेऽस्य विस्तरो द्रष्टव्यः । तस्मिन्दग्धे तदा कुक्षौ समुद्रस्सरितां पतिः । राघवं सर्वशास्त्रज्ञमिदं वचनमब्रवीत् । अयं सौम्य नलो नाम तनुजो विश्वकर्मणः। एष सेतुं महोत्साहः करोतु मयि वानरः' इति काव्यश्लोकेषु एतत्संक्षेपश्लोकानुसरणं रस्यम् । सेतुर्विश्वमंगलम् । विश्वकर्मणः पुत्रेण नलेन तन्निर्माण प्रार्थयामास । समुद्र- वचनाच्चैव- न बलात्कारेण, किन्तु तत्पूर्णसंमत्या तद्वचनेनैव । एषः नल: मयि सेतुं करोतु इति समुद्रवचनं काव्ये निबद्धमेव मूलव्यजितम् । नल: सेतुं करोतु इति वचनमेव अणिकर्तासणौ इति सूत्रमनुसृत्य नलं सेतुमकार- यत् इति भवेत् । मूले णिचा निर्दिष्टं अणिनिर्दिश्यते काव्ये । संक्षेपे णिचा निर्देशः ॥ तेन गत्वा पुरी लंका हत्वा रावणमाहवे । रामः सीतामनुप्राप्य परां व्रीडामुपागमत् ।। 80 तेन सेतुना लंकां गत्वा रावणमाहवे इति श्लोकार्थेन निर्देशेन व्यहोमात्रनिर्वृत्तलंकायुद्धस्य नातिचिरत्वं व्यज्यते । लंकायां हनुमयुद्धं पादस्त्रिभिः प्रदर्शितम् । रामरावणयुद्धमेकेन पादेन संक्षिप्तम् । ल्यपा निर्देशश्च सीताप्राप्त्यंगताव्यञ्जनाय । रामः सीताम् इति दम्पत्योरत्र सह 100 रामायणसंक्षेपसर्गरसास्वादः निर्देशो रस्यः । सीतां प्राप्य तदनु परां ब्रीडामुपागमत् । सीता रामेण प्राप्ता । तदनु परा ब्रीडा प्राप्ता । 81 तामुवाच ततो रामः परुषं जनसंसदि । अमृष्यमाणा सा सीता विवेश ज्वलनं सती ॥ वीडया परिवृतोऽभूद्रामः । ब्रीडा च जनापवादभिया। बीडया सीतारामौ अन्तरितौ । तामुत्सायैव सीतासंयोगो लभ्यः । जनापवादाप- नोदनेन वीडोत्सारण संभवेत् । तदपनोदनं च जनप्रत्यायनेन भवेत् । तत्प्रत्यायनं च प्रत्ययिताप्ततमसाक्ष्येण । भगवान् वैश्वानर एव सतीशुद्धौ प्रत्ययिततमः साक्षी । जनसंसदि अमावात्मानं शोधयेति परुषमुक्ता सीता । 'जनसंसदीति लोकप्रत्यायनकांक्षव परुषवदने निमित्तमिति द्योत्यते । 'उपे- क्षसे कथं सीतां पतन्ती हव्यवाहने' इत्युपक्रम्य 'सीता लक्ष्मीर्मवान्विष्णुर्देवः कृष्णः प्रजापतिः । वधार्थ रावणस्येह प्रविष्टो मानुषीं तनुम्' इति ब्रह्मादिदेवैः आर्षेण इतिहासस्तवेन ज्ञापिते, 'विशुद्धभावां निष्पापां प्रतिगृह्णीष्व राघव । न किश्चिदभिधातव्यं अहमाज्ञापयामि ते ॥' इति देवानां मुखेनाग्निनाऽऽज्ञप्ते च 'अवश्यं त्रिषु लोकेषु न सीता पापमर्हति । दीर्घकालोषिता हीयं रावणान्तः पुरे शुभा । बालिशः खलु कामात्मा रामो दशरथात्मजः । इति वक्ष्यन्ति मां सन्तो जानकीमविशोध्य हि । अनन्यहृदयां भक्तां मच्चित्तपरिवर्तिनीम् । अहमप्यवगच्छामि मैथिली जनकात्मजाम् । प्रत्ययार्थं तु लोकानां त्रयाणां सत्यसंश्रयः । उपेक्षे चापि वैदेहीं प्रविशन्ती हुताशनम्' इति रामोक्तमवधेयम् । सा-अग्न्यादीनां शुध्यापादिका । सीता देवयजनसंभवा । 'यज्ञो वै विष्णुः' विष्णुभूमिसंभवा । ज्वलनं विवेश-तत्प्रवेशेन अग्नौ अधिका शुद्धिः तेजश्चा- भवत् । ज्वलननाम अन्वर्थमभवत् । सती सद्विद्याप्रतिपादितसतः पनी । अग्न्यादिसर्वात्मिका अग्निशरीरिका सीता। तदात्मकोऽग्निः। 'यस्याः 101 रामायणसंक्षेपसर्गरसास्वाद अग्निः शरीरं, या अग्नौ तिष्ठन्ती अग्नावन्तरा यमयति' 'अपि सा निर्दहेदग्निन तामग्निःप्रधक्ष्यति' 'नाग्निरग्नौ प्रवर्तते' इति लंकादहने हनुमदुक्तमपि भाव्यम्॥ (म्) ततोऽग्निवचनात् सीतां ज्ञात्वा विगतकल्मषाम् । बभौ रामः संप्रहृष्टः पूजितः सर्वदैवतैः ॥ 82 अग्निवचनं शोधकपरीक्षकवचनम् । प्रत्ययिततमसाक्षिवचनम् । 'अग्निमुखा वै देवाः' । अग्निवचनं सर्वदेववचनम् । कामुकपापिष्ठरावणांकस्पर्श- रूपकल्मषमग्निस्पर्शेन शुध्यति । आकस्मिकस्यास्पृश्यस्पर्शकल्मषस्य विशोध- कोऽग्निस्पर्शः । अग्निवचनं जनसंसदि प्रयुक्तम् श्रोतृलोकप्रत्यायकम् । ज्ञात्वा-अन्तर्भावितणिच् । ज्ञापयित्वा इत्यर्थः । बाह्यस्पर्शदोषापनयनं ज्ञात्वेति चार्थः । बभौ रामः संप्रहृष्टः-अधिकं बभौ रामः; निरतिशयहर्ष- समन्वितोऽभूत् सीतायाः विशुद्धौ लोकस्य विश्वासजननेन । 'समेत्य रामः प्रियया महाबलः सुखं सुखार्होऽनुबभूव राघवः' इति ऋषेस्सर्गान्तश्लोको भाव्यः। 'समेयिवान् उत्तमराजकन्यया । अतीव रामः शुशुभे' इति सीता विवाहानन्तरं बालकाण्डान्तिनदलोके गीतम् । सीतासमन्वयेन अतीव शुशुभे । तत्समन्वयस्य विच्छेदोभूत्। रावणवधानन्तरमपि जनापवादशंकया बिच्छेदः । इदानीं पुनरपि सीतया समेयिवान् अतीव बभौ, प्रहर्षमतुलं लेभे समेत्य रामः प्रियया इत्येतस्मिन्नवसरे सीताप्रतिग्रहे बालकाण्डान्तिमसर्ग- श्लोकदृष्टशोभाप्राप्तिसाम्यं व्यज्यते । बभौ संप्रहृष्टः इति संक्षेपश्लोके च तदेव व्यज्यते । सीतया देव्या शक्त्या समेत्य महाबलोऽभवत् । दैवतं पूजयेयुमनुष्याः । भगवदवताररहस्यप्रकाशवतां सतां दैवतं सीतासमेतं रामं 'नमसी समेता' इत्यपूजयन् । पूजितः सर्वदैवतैः-महेश्वरेण दिष्टय कृतमिदं कर्म त्वया शस्त्रभृतां वर' इति पूजितः 'शस्त्रभृतां वर' इति महेश्वर- कृतं रामश्लाघाचनमनुगीतं कृष्णेन 'रामः शलभृतामह मिति । न पितृ- ।

102 रामायणसंक्षेपसर्गरसास्वाद समानं दैवतं रामबुद्धया। पितैव प्रत्यक्ष दैवतं तस्य । इतरदैवतानि न प्रत्यक्षाणि । 'यतो मूलं नरः पश्येत् प्रादुर्भावमथात्मनः। कथं तस्मिन्न वर्तेत प्रत्यक्षे सति दैवते' इत्युक्तं रामेण मातरं प्रति 'मातृदेवो भव' इति पितुरप्यभ्यर्हित- तरात्वेन मातृदेवताऽनुशिष्टा, ततः पितुर्नियोगं तिरस्कृत्याऽऽयोध्यायामेवोषित- व्यमिति स्वनियोग एवानुसरणीय इति वादिनीं मातरं प्रति । महेश्वरेण महता दैवतेन पित्रा दशरथेन सर्वोत्तमदैवतेन इतरैस्सर्वदैवतैश्चत्यर्थः । न जन- संसन्मात्रं तत्र, सर्वदैवतसंसदपि तत्रासीत् ॥ 83 (म्) कर्मणा तेन महता त्रैलोक्यं सचराचरम् । सदेवर्षिगणं तुष्टं राघवस्थ महात्मनः ।। कर्मणा तेन इति व्यवहितत्वेपि लोकत्रयकंटकभूतरावणवधोपि ग्राह्यः। 'दिष्टया सर्वस्य लोकस्य प्रवृद्ध दारुणं तमः । अपावृत्तं त्वया संख्ये राम- रावण भयम्' इति महेश्वरोक्तं भाव्यम् । रावणवधादपि महत्तरं सीता- प्रतिग्रहकर्म । सीतां विना का प्रतिष्ठा रामस्य । सीतारामावुभावपि दैवतं लोकस्य । तयोः परदेवतात्वं व्यासज्यवृत्ति । सीतासंयोगेनैव कारुण्यादीनां महागुणानां प्रभूतता । रूपिणी करुणेव सा । 'प्रणिपात्तप्रसन्ना हि मैथिली जनकात्मजा' । त्रैलोक्यं सचराचरम्-सदेवर्षिगणम् अत्र समासेन लोकत्रयसमाहारो निर्दिश्यते । राघवस्य महात्मन:-'सर्वलोकशरण्याय राघवाय महात्मने' इति राघवशरणागतिवचनरीतिः । 'शरण्यं शरणं जग्मु- नारायणमनामयं' इति सर्वे देवाः शरणं ययू रावणभयनिवृत्तये बालकाण्डारंभे । 'ते.वयं भवता रक्ष्याः भवद्विषयवासिनः ।' इत्यारण्यकाण्डारंभसर्गे ऋषि- गणाः शरणं जग्मुस्तद्भयनिवृत्तये । देवर्षिगणेभ्यो दत्तमभयमिदानीमेव सम्पूर्ण निर्वर्तितम् । सदेवर्षिगण तुष्टम् इत्यस्यानन्तरं राघवस्य महात्मनः इति निवेशनेव, शरणागतेभ्यस्तेभ्यो दत्तमभयं स्मारयति । तस्यान्ते ।

108 84 रामायणसंक्षेपसर्गरसास्वादः निवेशनेन राघवाय महात्मने इति शरणप्रार्थनाकर्तृविभीषणविषयानन्तर- श्लोकेपि बुद्धिसन्निधानाय ॥ अभिषिच्य च लंकायां राक्षसेन्द्रं विभीषणम् । कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ॥ पूर्वश्लोके सर्वलोकशरण्येन राघवेण महात्मना दत्तस्याभयस्य पूर्ण- निष्पत्तिः तेन च त्रैलोक्यस्य सचराचरस्य तुष्टिश्च वर्णिता । अत्र 'राघवाम महात्मने निवेदयत मां क्षिप्र'मिति शरणागतविभीषणाऽभिषेकसंजाता रामतुष्टिर्वर्ण्यते । सदेवर्षिगणं त्रैलोक्यं तुष्टम् । नाद्यापि रामस्तुष्टः । न केवलं न तुष्ट: किन्तु महता ज्वरेण संज्वरित एवासीत् । तज्ज्वरनिवृत्ति- रत्रोच्यते । लंकायामभिषिच्य-पूर्वं सागरतीरेऽभिषिक्तो लक्ष्मणेन 'समुद्रात् जलमानय । तेन चैनं महात्मानमभिषिञ्च विभीषणम् । राजानं रक्षसां क्षिप्रम्' इति रामादेशमनु । तच्च तदानीं न यथार्थम् । सत्यसंकल्पत्वात् ध्रुवभावि- तयोक्तं तत् । सागरतीरे संकल्पमात्रेणाभिषिच्य इदानीं तत्त्वतोऽभिषिच्य । देवेन्द्रः देवराज्ये इदानीं पुनरभिषिक्त इवाभूत् इन्द्रजिद्रावणादिवशेन । राक्षसेन्द्रम् इति रावणादौ व्यवहारे इन्द्रशब्दः औपचारिकः । राक्षसेश्वरत्व- मेव रावणस्य । विभीषणस्य प्रकृतयः जातितो राक्षसत्वेपि नाऽसुरप्रकृतयः किन्तु देवप्रकृतयः । दैवप्रकृतिराक्षसजातीयानां इन्द्रो विभीषणः । स्वप्रकृतिभूतराक्षसानां तु रञ्जको राजा। कृतकृत्यस्तदा-तदैव कृतकृत्यत्व- बुद्धिः । तदा रामः - तदैव रमणवानभवत् । तत्पूर्व ज्वरपीडित एव । इदानीं विगतज्वरोऽभवत् । शीतजलस्नानं ज्वरनिवृत्त्युपलक्षकम् । विभीषणस्य नापनेन रामस्य ज्वरो न्यवर्तत । 'ज्ञानी त्वात्मैव मे मतम्' इति न्यायेन रामस्यात्मैव विभीषणः । विज्वरः प्रमुमोद ह-न केवलं ज्वरतापनिवृत्तिः किन्तु निरतिशवप्रमोदामुभयः ।।

. 104 रामायणसंक्षेपसर्गरसास्वादः 85 देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान् । अयोध्यां प्रस्थितो रामः पुष्पकेण सुहृवृतः ॥ देवताभ्य इति बहुवचनं कपिञ्जलाधिकरणन्यायेन तिसृषु देवतासु विश्राम्यति । षडधनयनः श्रीमान् महेश्वरः, पितृदेवता-दशरथः, सुरनायकः इन्द्रश्च । तिमृभ्योप्येताभ्यो देवताभ्यो वराः लब्ध्वाः । 'श्री रामो राम रामेति' कीर्तयत्नेव रममाणो महेश्वरः पितरं दशरथं स्वर्गादवतीर्ण विमानस्थं दर्शयामास । महान्तं प्रसादमकरोन्महादेवः । आशिषश्च दत्तस्तेन । महादेवप्रसादाच्च पित्राऽयं समागमः इति रामेणैव सन्दिश्यते भरताय हनुमन्मुखेन । 'भ्रातृभिस्सह राज्यस्थो दीर्घमायुरवाप्नुहि' इत्या- शिषमाशशास पिता । 'सपुत्रां त्वां त्यजामीति यदुक्ता कैकेयी त्वया । स शापः कैकेयीं घोरः सपुत्रां न स्पृशेत् प्रभो' इति पितरं वरं प्रार्थयामास रामः। महाराजः सः 'तथे' ति कृताञ्जलिं राममुवाच । महानयं प्रसादो रामस्य । 'कर्तव्यो न तु वैदेहि मन्युस्त्यागमिमं प्रति । रामेण त्वद्विशुद्धयर्थं कृतमेतद्धितैषिणा' इति सीतासान्त्वनं कृतं मान्येन श्वशुरेण । अयं च महाप्रसादो रामस्य । तदनन्तरमिन्द्रेण 'ब्रूहि यन्मनसेच्छति' इत्युक्तो रामः 'यदि प्रीतिम्समुत्पन्ना मयि सर्वसुरेश्वर । वक्ष्यामि कुरु ते, सत्यं वचनं वदतां वर ॥ मम हेतोः पराक्रान्ताः ये गता यमसादनम् । ते सेवं जीवित प्राप्य समुत्तिष्ठन्तु वानराः' इति वरं प्रार्थयत् । 'समुत्थास्यन्ति हरयः ये हता युधि राक्षसैः । ऋक्षाश्च सहगोपुच्छाः निहताननाहवः । नीरुजो नित्रणा- श्चैव संपन्नबलषौरुषाः। समुत्थास्यन्ति हरयः सुप्ताः निद्राक्षये यथा' इतीन्द्रेण वरदानोक्तौ 'ततः समुत्थितास्सर्वे सुप्त्वेव हरिपुङ्गवाः' इति सर्वेषां समुत्थानमुक्तम्। समुथान पदप्रयोगश्च संकल्पादेवास्य पितरः समुतिष्ठन्ति' इत्यादिच्छन्दोगवचनस्मारकः । समुत्थाप्य च वानरान् इति गुरुणा प्रयुक्तः शब्दः । सुप्तानिव समुत्थाप्य इति गोविन्दराजव्याख्यारस्या । व्यञ्जितोऽयमेव रामायणसंक्षेपसर्गरसास्वादः 105 भावः विवृतः काव्ये 'ततः समुत्थिताः सर्व सुप्त्वेव हरिपुंगवाः' इति । 'देवताभ्यो वरप्राप्त्या, समुत्थाप्य सुहृद्वृतः' । वानराः राक्षसाश्च सुहृदः । 'सुहृदं सर्वभूतानां' इति गीतावचनस्फोरितः भगवत्स्वभावः । पुष्पकेण अयोध्यां प्रस्थितः-कुबेरस्य पुष्पकं रावणतत्परिवारबहनेन' मलिनितं पवित्रीकृतमिदानीं सर्वलोकानामेव पावनस्य ससीतस्य रामस्य तत्सुहृत्परि- वारस्य च वहनेन ॥ भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः । भरतस्यान्तिकं रामो हनूमन्तं व्यसर्जयत् ।। 86 भरतकृतशरणागतिरेकैव नाद्यापि फलवती। महत्कृत्यशेषमवशिष्टभ । कदा कदा इति रामागमनमाकांक्षन्नास्ते नन्दिग्रामे भरतः । देवशरणागत्या पूर्वकृतया चतुर्दशवर्षावधित्वेन विलम्बस्समजनि, शरणागतिद्वयस्य फलयो- नियतविरुद्धत्वात् । चतुर्दशवर्षपूर्त्यनन्तरं न विलम्बलेशोपि सह्येत भरतेन । अयोध्यायां भरतस्य हुताशनप्रवेशो भवेत् । यद्यप्ययोध्यैव गन्तव्या पुष्पकेण मध्ये विलंबं विना; यद्यप्ययोध्यामेव प्रस्थितः, मध्ये भरद्वाजाश्रममगमदित्युच्यते भरद्वाजाश्रमं गत्वा रामः इति । भरद्वाजाश्रम एव प्रथमः ऋप्याश्रमः अयोध्यातो वनप्रस्थाने । सन्निकृष्टश्च स आश्रम: अयोध्यायाः । 'शत्रुहन्तारं महर्षीणां सुखावह' इति महर्षीणां सुखायैव शत्रु- रावणादिहननम् । एकोपि महर्षिरवश्यं संभावनीयः अयोध्याप्राप्तिपूर्वमेव । अगस्त्याद्याश्रमाः विप्रकृष्टाः । किष्किन्धायां कश्चिद्विलम्बः कृतः तारादिसर्व- वानरस्त्रीणामारोहाय । 'स्वदारसहितास्सैवं ह्ययोध्यां यान्तु सीतया' इति वानराः अभिषेकमहोत्सवहर्षभागिनंश्चिकीर्षिता रामेण । वानराः सीतान्वेषणरावणयुद्धार्थ स्वस्त्रीभिर्विरहिताः । तैरपि सपत्नीकैरागन्त- व्यम् । सहसीतं पट्टाऽभिषेकोत्सवः। अकृतदारश्चेत् हनुमद्वत्, एक आयातु। सपनीका एव 106 रामायणसंक्षेपसर्गरसास्वादः 'देवतियङमनुष्येषु नामा भगवान्हरिः । स्त्रीनाम्नी लक्ष्मीमैत्रेय नानयोर्विद्यते परम्' इति भगवान् पराशरः तिर्यक्षु स्त्रीणां लक्ष्मीत्वं ज्ञापयति। 'राघवत्वेऽभवत् सीता' इति च सद्ववचनम् । अत्रपि 'सीता लक्ष्मीर्भवान्विष्णुः' इति ब्रह्मादिदेवैरुक्तम् । वानर्यः आत्मान एव सीतायाः । कथं तदात्मभूतास्तद- भिषेकोत्सवेऽसन्निहिता भवेयुः । सीतापट्टाभिषेको भविष्यतीति रामस्य बुद्धिः । भरद्वाजाश्रमे पुष्पका दवरोहणे रामस्य बहवो भावाः। 'स्त्रीतृतीयं च्युतं राज्यात् धर्मकामं च केवलम् । पदातिं त्यक्तसर्वस्वं पितुर्वचनकारिणम् । सर्वभोगैः परित्यक्तं स्वर्गच्युतमिवामरम् । दृष्ट्वा तु करुणापूर्व ममासीत्समि- तिजय' इति महत्या करुणयाऽऽविष्टोऽभवन्मुनिः । तस्य प्रीतिर्जनयितव्या । 'साम्प्रतं सुसमृद्धार्थ समित्रगणबान्धवम् । समीक्ष्य विजितारिं त्वां मम प्रीति- रनुत्तमा' इत्यनुत्तमा प्रीर्तिजनयितव्या तस्य तदर्शननमस्काराऽऽतिथ्यग्रहणा- दिभिः । वाल्मीक्यन्तेवासी भरद्वाजः । रामायणकाव्यप्रणयनारंभे 'अकर्दममिमं तीर्थ भरद्वाज निशामय' 'शिष्यं चैवाब्रवीद्वाक्यमिदं च मुनि- पुंगवः । पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः । शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा । शिष्यस्तु तस्य अवतो मुनेर्वाक्यमनुत्तमम् । प्रतिजग्राह संहृष्टस्तस्य तुष्टोऽभवद्गुरुः', 'भरद्वाजस्ततः शिष्यो विनीतः श्रुतवान् गुरोः', 'स प्रविश्याश्रमपदं शिष्येण सह धार्मिकः । उपविष्टः कथाश्चान्याश्चकार ध्यान- मास्थितः' इत्यादिश्लोकाः इह भाव्याः ॥ । 'मानिषादे'त्यादिश्लोकोच्चारणावसरे सन्निहितः भरद्वाजः शिष्यः । सच तच्छलोकप्रथमाभिनन्दकः । ब्रह्मा च द्वितीयः । नारदागमे तत्संक्षेप- प्रवचने च सन्निहितः शिष्यः । ब्रह्मागमने 'वृत्तं कथय वीरस्य यथा ते नारदात् श्रुतं' इति तदा देशावसरे ब्रह्मादेशमनुक्रम्य द्वीतीयसर्गान्तं 'कृत्स्नं रामायण काव्यमीदृशैः करवाण्यहम्' इति रामायणनिर्माणसंकल्पने, काव्य.

107 रामायणसंक्षेपसर्गरसास्वादः तृतीयसर्गे रामायणकथायाः धर्मवीर्येणान्वेषणे, संक्षेपतस्तत्कथासंग्रहणे च सन्निहितः शिष्यः । 'प्राप्तराज्यस्य रामस्य वाल्मीकिभगवान् ऋषिः । चकार ललितं कृत्स्नं विचित्रपदमात्मवान्' इति पट्टाभिषेकोत्सवदिनानन्तरमेव रामायणं निर्ममे । नारदागमनं, नदीस्नानं, नदीतीरोद्यानपर्यटनं, मानिषादश्लोक- प्रतिभानम्, तद्व्याहरणं, ब्रह्मागमनं, इत्येतत्सर्वमभिषेकानन्तरवृत्तम् । बहु- दिवसः काव्यं रचितं स्यात् । तत्काले च भरद्वाजः सन्निहितः । अभिषे. काव्यवहितपूर्व शिष्यभरद्वाजा प्रमेऽवरोहणमुचितमेव । 'रावणेन हृता भार्या' इत्यारभ्य, 'समागमश्च त्रिदशैः यथा दत्तश्च ते वरः' इत्यन्तं पञ्चभिः श्लोकैः भरद्वाजेनैव कथासंक्षेपस्यावसरस्समभूत् । पञ्चम्यां पञ्चभिः श्लोकैः काण्डत्रयस्य गुरुनारदसंक्षेपात्पूर्वमयं शिष्यकृतः संक्षेपः । भरतशत्रुघ्नसन्निधौ हनुमत्संक्षेपस्याप्यवसरो भवति । हनुमान् वक्ता। भरतशत्रुघ्नौ श्रोतारौ । अलभ्यलाभस्तयोर्लोकस्य च । अलभ्यः श्रोतृलाभः कल्याणभाषिणो हनूमतः । वेण्युप्रथनेन प्राणत्यागोद्युक्ता सीता 'संश्रवे मधुरं' हनुमत्कीर्तनं शुश्राव । चतुर्दशवर्षपूर्ति दिने शुश्राव हनुमन्मधुरकीर्तनं हुताशनप्रवेशोद्युक्तो भरतः, 'शृणोभ्यहं प्रीतिकरं मम नाथस्य कीर्तनम्" इति । "अहमप्यत्र ते दद्मि वरं शस्त्रभृतां वर' इति वरदानोक आस्ते भरद्वाजः । अयोध्यायाः बहिः मार्ग- मध्ये शृंगिबेरपुरे गुह आस्ते । स च प्रत्यागमनवृतान्तं बोधनीयः । महता वानरराक्षससमूहेन सह तत्रावरोहणं नोचितम् । सीतारामाभ्यां सह गच्छन्तः सुग्रीवविभी पणादयः सर्वे अयोध्याप्राप्तेः पूर्वं भरतादिभिस्सादरं प्रत्युत्थातव्याः । वसतयश्च सज्जीकर्तव्याः । 'प्रत्युद्ययौ ततो रामं महात्मा सचिवैस्सह' इति, 'सूताः स्तुति पुराणज्ञाः सर्वे वैतालिकास्तथा । सर्वे वादित्र- कुशलाः गणिकाश्चापि संघशः' इत्यादिश्लोकैश्च प्रत्युत्थानं वर्ण्यते । 'सिञ्चन्तु पृथिवीं कृत्स्नां हिमशीतेन वारिणा । ततोभ्यवकिरन्त्वन्ये लाजैः पुष्पैश्च सर्वशः । समुच्छितपताकास्तु रथ्याः पुरवरोत्तमे । शोभयन्तु च 108 रामायणसंक्षेपसर्गरसास्वादः वेश्मानि सूर्यस्योदयनं प्रति । सग्दामभिर्मुक्तपुष्पैः सुगन्धैः पञ्चवर्णकैः ॥ इति नगरसर्वरथ्यावेमाद्यलंकारः कार्यः । न स्वस्योपचारं मनुते रामः । स्वेन सहागच्छन्तौ वानरराक्षसराजौ, सैनिकाश्च ईदृशोपचारैम्संभावनीयाः। असंख्येयानां वानराणां तत्प्रियफलादिकं संपादनीयमभ्यवहाराय । मधुर- मधुप्रियाः वानराः । सीतादर्शनरूपप्रियश्रवणसन्तुष्टाः मधुवनं प्रविश्य सुग्रीवाज्ञामप्युल्लंघ्य मधु पपुः । तेषां प्रियं मधु संपादनीयं वृक्षेभ्य एव प्रभूत- मधुम्रवः सम्पादनीयः तत एव वानरपानाय। सहृष्टो धीमान्वरमयाचत । 'अकाले फलिनो वृक्षाः सर्व चापि मधुस्रवाः । फलान्यमृतकल्पानि बहूनि विविधानि च । भवन्तु मार्गे भगवन्नयोध्यां प्रति गच्छतः ॥' इति राम- प्रार्थना । तथेति च भगवता प्रतिज्ञाते पादपाः तत्र स्वर्गपादपसन्निभाः मधु- स्रवाः सर्वतो योजनानि त्रीणि वानराणां गच्छतामभवन् । 'ततः प्रहृष्टाः प्लवगर्षभास्ते बहूनि दिव्यानि फलानि चैव । 'कामादुपाश्नन्ति सहस्रशस्ते मुदान्विताः स्वर्गजितो यथैव' इति वानराणां अद्भुतफलाशनमधुपानजनित- प्रीतिर्वर्णिता । 'सदा फलान्कुसुमितान्वृक्षान्प्राप्य मधुस्रवान् । भरद्वाजप्रसादेन मत्तभ्रमरनादितान् । तस्य चैष वरो दत्तो वासवेन परंतप । ससैन्यस्य तथा- तिथ्यं कृतं सर्वगुणान्वितम्' इति हनुमद्वचनम् । 'संगत्या भरतः श्रीमान् राज्यार्थी चेत् स्वयं भवेत् । प्रशास्तु वसुधां कृत्स्नां अखिलां रघुनन्दनः' इति रामबुद्धिः । भरतस्यांजसो भावः तत्त्वतोऽवगन्तव्यः । भरद्वाजः प्रथम रामविषयभरतभावे शंकावानभवत् । 'पंकदिग्धस्तु भरतः जटिलस्त्वां प्रतीक्षते । पादुके ते पुरस्कृत्य' इति स्मितपूर्वमुवाच रघुश्रेष्ठ ऋषिः । भरतस्य भावशुद्धिस्तस्मात् श्रुता। तदनन्तरं भरतसकाशं प्रेषितो हनूमानपि 'भरतस्येगितानि च तत्त्वेन मुखवणेन दृष्ट्वा व्याभाषणेन च' इति याथातथ्येन तन्मनोभावपरिज्ञाने आदिष्टः । 'भरद्वाजाश्रमं गत्वा रामः भरतस्यान्तिक हनूमन्तं व्यस यत्' इत्यनेन हनूमत्प्रेषणाय भरद्वाजाश्रममगमदित्यपि रामायणसंक्षेपसर्गरसास्वादः 109 व्यज्यते । 'अविघ्नं पुष्ययोगेन श्वो रामं द्रष्टुमर्हसि' इति हनुमद्वचनम् । पूर्वं पुष्ययोगे दशरथमनोरथो विनितः । इदानीं पुष्ययोगः अविघ्नः क्षेमं- करो भवति । पुष्ययोगे निष्क्रान्तः पुष्ययोगे आगन्तुमर्हति । 'सूर्यस्योदयनं प्रति' इति भरतवचनेन रामसूर्यस्य सूर्योदयकाले प्रत्यावृत्त्यौचिलं प्रदर्श्यते । 'पञ्चमीमद्य रजनीमुषित्वा वचनान्मुनेः । भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्यद्यैव राघवम्' इति गुहं प्रति हनुमद्वचनम् । भरद्वाजाभ्यनुज्ञा- पूर्वकं वनवासव्रतं समापनीयम् । अयोध्या च प्रवेष्टव्या । अयोध्यावास्तव्य- भरतसेनातिथ्यं कृतं पूर्वम् । इदानीं लंकाकिष्किन्धावास्तव्यसेनातिथ्य क्रियते । भरद्वाजाश्रमात् भरताश्रमं ससैन्यो ययौ रामः । प्रहर्षाद्भरतमंक- मारोप्य विमानेन तदाश्रमं ययौ। पूर्व चित्रकूटागतं भरतमंके आरोप्य तं बभाषे । वनवासावसाने तथैव अंकमारोपयति भरतशाबं रामसिमः । भरतस्यान्तिकः सामीप्यभाक् रामभक्ते रामदास्ये च हनूमान् । भरतस्य नेदीयांसं तत्सदृशं भक्तं भरतसमीपं प्रेषयामास । तत्सदृशस्यैव तत्समीप- प्रेषणमुचितम् ।। 87 । (मू) पुनराख्यायिका जल्पन सुग्रीवसहितस्तदा । पुष्पकं तत्समारुह्य नन्दिग्रामं ययौ तदा ॥ पुनः शब्देन पूर्वमाख्यायिकाकथनं व्यज्यते । सीतायै पुप्पकेण लंकातः प्रत्यावृत्तिसमये तत्तत्स्थलप्रदर्शनपूर्वकं कथा कथिता । भरतं प्रति हनुमद्विसर्जनावसरे संक्षेपेण कथा कथिता रामेणैव । अत्र पुनः कथा कथ्यते । अत्र भरतकथा कथ्यते । 'तामेवेक्ष्वाकुनाथस्य भरतस्य कथां कुरु' इति रामबुद्धया भरत एवं कथानायकः । भरतकथा रामायणम् । न रामकथा, न सीताकथा। भरतकथां जल्पति बाप्परुद्धकण्ठं महद्वैलब्यगतो रामः । रामजल्मनस्याऽव्यक्तत्वात् तत् न निबद्धमिव काव्ये । 'निस्वनः श्रूयते , 110 रामायणसंक्षेपसर्गरसास्वादः । 88 । भीमः प्रहृष्टानां वनौकसाम्' इति वानरभीमनिस्वने तज्जल्पनं न सुश्रवमिव । नन्दिग्रामः इदानीमेवान्वर्थो भवति । मत्वर्थीयः इनिः अतिशायने । पूर्व दुःखिग्रामः । 'श्रुत्वा तु परमानन्दं अगमत् भरतः' । इदं च नन्दिप्रामपर्द अभ्यस्यतेऽनन्तरश्लोकारंभेऽपि ॥ (म्) नन्दिग्रामे जटां हित्वा भ्रातृभिस्सहितोऽनघः । रामस्सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ॥ 'नन्दिग्रामे भ्रातृभिः सहितः जटां हित्वा' । चत्वारोपि जटाव्रत- धारिणो जटिलाः। 'पूर्व तु भरते स्नाते लक्ष्मणे च महाबले । सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे। विशोधितजटः स्नातः' इति भरतादीनां स्नानानन्तरमेव रामस्सस्नौ । जटाशोधनेपि भरतादिभ्रातृणामेव पूर्वत्वम् । रामस्यैकस्यैव जटाधारित्वत्रतमनुशिष्टम् । भरतादयस्तु स्वेच्छया जटां धारया- मासुः । तदिच्छाधृतं तद्वतम् । भ्रातॄणां जटाशोधनस्य स्वपूर्वमेव संविधाना- भावे रामस्य दोष आपतेत् । भ्रातृजटाविशोधनस्य अनुलंघनीयस्वाज्ञया प्रथमनिर्वर्तनादेव रामस्य अनघत्वसम्पत्तिः । अनघशब्देनेदं व्यज्यते । भ्रातृभिस्तज्जटां हापयित्वा अनन्तरं स्वयं जटां जहाति । भ्रातृभिः जटाहान स्वस्य साहित्यमुच्यते । साहित्यमात्रमुच्यते न यौगपद्यम् । विशोधितजटैः भ्रातृभिस्सहितः जटां हित्वा, 'सीतामनुप्राप्य' सीतालाभ एवाऽलभ्यलाभः । राज्यावाप्तिन तथा प्रधाना। पूर्व राज्यं पित्रा रामाय दत्तम् । भरताय पित्रा पुनर्दत्तं न गृहीतं भरतेन । रामपादुकामेव राज्येऽभ्यषिञ्चद्भरतः । राम- पादुकाराज्यं रामराज्यमेव । 'दत्तं राज्यमिदं तव' इति वदन् भरतः रामस्य राज्यं पुनस्तस्मै दत्तमिति व्यञ्जयति ॥ (म्) प्रहृष्टमुदितो लोकस्तुष्टः पुष्टस्सुधार्मिकः । निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः ॥ 89 ।

रामायणसंक्षेपसर्गरसास्वादः 111 रामस्य राज्यालामे न तस्य तेन हर्षः, यतस्तेन दुर्धर्षः अविक्रियः सदैकस्वरूपो रामः। ऋषिभिस्तुल्यो रामः समदुःखसुखः । रामस्य राज्यप्राप्तौ लोको निरतिशयहर्षसमन्वितोऽभवत् । प्रहृष्टः मुदितः तुष्टः पुष्टः इति भूयोभूयः तत्सन्तोषातिशयः प्रदर्श्यते । आमयरोगदुर्भिक्षादि- भयाद्यभावश्च निषेधविधया कथ्यते । 'वार्ता निरामयः कल्य उल्लासो निर्गतो गदात्' इत्यमरः । अरोग इति रोगात्यन्ताभावकथनमिव । निरामय इति प्राप्तादामयान्निर्गतत्वम् । पुनरुक्तत्वेपि अभ्यासेन प्रतिज्ञानदाढय बोध्यते। दुर्भिक्षाद्भयं-दुर्भिक्षभयम् । न केवलं दुर्भिक्षावर्जितत्वं, किन्तु दुर्भिक्षा- शंकापि न जायते । दशभिः श्लोकैः फलं पठ्यते । फलम्य विस्तरशः कथनमिष्यते । फलस्य संक्षेपोऽनुचितः । काव्ये अत्रोक्तं फलाल्यानं भूय- सानुलियते । 'सर्व मुदितमेवासीत् सर्वो धर्मपरोऽभवत्' इति सर्वमुदितत्वस्य सर्वधार्मिकत्वस्य सहपठनात् गुरो वो व्यज्यते । सर्वे धार्मिकाः परस्परं नोपारुन्धन् । परस्परं मैत्रीमवललम्बिरे । तत्र च कारणमुच्यते 'राममेवानु- पश्यन्तो नाभ्यहिंसन्परस्परम्' इति । सर्वेषां स्वात्यर्थरामप्रियत्वे कथमेक- स्मिन्नपि तज्जने हिंसारुचिरुदियात्। इदमेव कारणमुक्तं प्रह्लादेन 'सर्वभूतात्मके तात जगन्नाथे जगन्मये । परमात्मनि गोविन्दे मित्राऽमित्रकथा कुतः' इति । 'निरामया विशोकाश्व रामे राज्यं प्रशासति' इति काव्ये । आसन् प्रजा धर्मराताः रामे शासति नानृताः', 'सर्व धर्मपरायणाः' इति च काव्ये । 'न न्याधिजं भयं चासीत् रामे राज्यं प्रशासति' इति च । । 90 न पुत्रमरण किश्चित् द्रक्ष्यन्ति पुरुषाः क्वचित् । नार्यश्चाऽविधवा नित्यं भविष्यन्ति पतिव्रताः ॥ 'न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते' । 'न पर्यदेवन्विधवाः' इति काव्ये ॥

112
रामायणसंक्षेपसर्गरसास्वादः
न चाग्निजं भयं किञ्चित् नाप्सु मञ्जन्ति जन्तवः ।
न वातज भयं किश्चित् नापि ज्वरकृतं तथा ॥ 91
न चापि क्षुद्भयं तत्र न तस्करभयं तथा ।
'निर्दस्युरभवल्लोकः नानर्थ: कंचिदस्पृशत्' इति कव्ये ।
नगराणि च राष्ट्राणि धनधान्ययुतानि च ।
नित्यं प्रमुदितास्सर्वे यथा कृतयुगे तथा ॥
92
सर्वेषु नगरेषु च धान्यागाराण्यभवन् । मुहुर्मुहुः उक्त्या सत्यत्वं
गम्यते । संक्षेपे मुहुर्मुहुरुक्तिः च । रामनामोक्ताविव फलकथनेपि भूया-
नादरः ।
93
अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः ।
गवां कोट्ययुतं दत्वा विद्वद्भयो विधिपूर्वकम् ॥
असंख्येयं धनं दत्वा ब्राह्मणेभ्यो महायशाः ।
'यज्ञाद्भवति पर्जन्यः पर्जन्यादन्नसंभवः' यज्ञस्य दक्षिणा प्रधानभूता ।
नादक्षिणं यागमामनन्ति । गोसहस्रं दक्षिणा, सुवर्णं दक्षिणा 'यज्ञो वै विष्णुः' ।
यज्ञो रामः यज्ञं आत्मानं यजते । श्रेष्ठो रामो लोकं यज्ञाचरणधर्म
संग्राहयति ।
ब्रह्मैव लोकः ब्रह्मलोकः । आत्मानमेवाप्नोति । अवताररूपं विहाय
पररूपो भवति । ब्रह्मैव सन् ब्रह्माप्येति ।
.
राजवंशान् शतगुणान् स्थापयिष्यति राघवः ।
चातुर्वण्यं च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ॥
94

113 रामायणसंक्षेपसर्गरसास्वादः धर्मस्य सेतुरयं धर्ममर्यादा परिपालयति । 'एष सेतुर्विधरणे लोका- नामसंभेदाय' । 'स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते पराम्' । 'श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्' 'स्वधर्मे निधनं श्रेयः परधर्मो भयावहः' इति गीतोक्तयः विग्रहवद्धर्मभूतरामाचरितानुरोधिन्यः । नारदोक्तमनुसरति गीता ॥ दशवर्षसहस्राणि दशवर्षशतानि च । रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ॥ 95 'दशवर्षसहस्राणि दशवर्षशतानि च । भ्रातृभिम्सहितः श्रीमान् रामो राज्यमकारयत् ॥' इति काव्ये। 'रामो राज्यमुपासित्वा' इति ईश्वरेण रामेण भनारतं प्रजोपासनमुच्यते । 'तदुपासितव्यम्' इति रामोपासनं विधत्ते श्रुतिः । रामस्तु लोकमाराधयति । 'आराधनाय लोकस्य मुञ्चतो नास्ति मे व्यथा' इत्युत्तर- चरितनाटके। किमिदं नैच्यम् । किमिदं प्रजाप्रेम । ब्रह्मैव लोकः ब्रह्मलोकः । आत्मानमेवामोति । अवताररूपं विहाय पररूपो भवति । ब्रह्मैव सन् ब्रह्माप्येति । 'दशवर्षसहस्राणि दशवर्षशताणि च । कृत्वा वसस्य नियति स्वयमेवात्मना पुरा। सत्वं मनोमयः : पुत्रः पूर्णायुर्मानुषेप्विह ।' इति पितामह- नियोगवचनं पठितमुत्तरकाण्डे चतुरुत्तरशततमे सर्गे । रामपट्टाभिषेकाव्यव- हितोत्तरमयं संक्षेपः कथ्यते नारदेन ॥ इदं पवित्रं पापनं पुण्यं वेद॑श्च समितम् । यः पठेत् रामचरितं सर्वपापैः प्रमुच्यते ॥ 96 रामराज्ये प्रजानां सर्वसौख्यभाकत्वं वर्णितम् । किन्तेनास्माक- मिदानीन्तनानाम् । एतद्रामचरितसंक्षेपपठनेन सर्वपापैः प्रमुच्यन्ते । सर्व- 114 रामायणसंक्षेपसर्गरतारपाय. पापैः प्रमोचने मोक्षसिद्धयेत् । सर्वपापेभ्यो मोक्षणप्रतिज्ञानेन गीतोपसंहारः। एतत्संक्षेपपठितारः ध्रुवं सर्वलोकशरण्यं रामं शरणत्वेनाध्यवस्येयुः । अध्यात्मशास्त्रमिदं नारदमुखगलित प्रचुरां रामब्रह्मभक्ति रामतन्मयतापर्यव- सानामादध्यात् । अध्येतारं रामभूतं कुर्यात् । एतमाख्यानमायुष्यं पठन् रामायणं नरः । सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते ॥ 97 इदमाख्यानं संक्षेपरूपमपि रामप्रापकम् । तत एव रामायणम् । स्वर्गशब्द इह मोक्षार्थकः । तत्रैव तच्छब्दस्य योगाथपौष्कल्यम् । 'नरः' इति नरसामान्यस्यात्र संक्षेपे अधिकारो द्योत्यते । सर्वेषां नराणामेतद्रामायणाध्ये- तृणां मोक्षप्राप्तिस्साधारण्येन नियता । तत्तद्वर्णस्य मोक्षावराणि ऐहिकविशेष- फलानि अनन्तरश्लोके कीर्त्यन्ते ।। । पठन् द्विजो वागृषभत्वमीयात् स्यात् क्षत्रियो भूमिपतित्वमीयात् । वणिक् जनः पण्यफलत्वमीयात् जनश्च शूद्रोऽपि महत्वमीयात् ॥ - 98 पूर्वश्लोके देहादुत्क्रान्त्यनन्तरं मोक्षप्राप्तिरुक्ता । मोक्षे सर्वेषां साम्यम्। न तत्र फलवैषम्यम् । इह लोके तत्तद्वर्णैः प्राप्यं फलमत्र कीर्त्यते । ईयात् इति चतुर्वारं पठ्यते । स्यादिति प्रथमपठितं सर्वत्रानुषञ्जनीयम् । 'अल्लि ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः' इति श्रुत्युक्तरीत्या आनन्दमषराम- रामायणसंक्षेपसर्गरसास्वादः 115 - मयोयं संक्षेपपठितः अस्तीति सद्भिर्व्यपदेश्यो भवेदिति व्यज्यते सर्ववर्णाधि- कारिषु अनुषक्तेन स्यादिति पदेन । द्विजः श्रेष्ठवाक् सम्पन्नो भवति । अध्ययनाध्यापनयजनयाजनाचार्यकरणादिषु वागृषभत्वमुपकुर्यात् । सरस्वती- प्रियपुत्रो नारदो वाग्विदां वरः । तद्ग्रन्थपठनेन वाग्विदां वरत्वं' लभ्यते । वागृषभत्वं प्रथमश्लोकोक्तवाग्विदां वरत्वमेव । इत्थं च उपक्रमोपसंहार- श्लोकयोराभिरूप्यं विद्वद्रस्यम् । संक्षेपपठितृणां सर्वक्षत्रियाणां भूमिपतित्वम्य न मुख्यतः प्राप्तिसंभवः । कथंचिदुपचारेण कियत्कियदल्पं वा भूरि वा लभ्येत । 'स्यादस्ति स्यान्नास्तीति' सप्तभंगीवाक्ये इव स्यादिति कथं- चिदर्थे तिङन्तप्रतिरूपकमव्ययमिति श्रीगोविन्दराजः । पण्यविषये यद्यत्फलं आशास्यते वणिग्भिः तत्फलं सिद्धयेत् । पण्यविषयमनोरथः सफलो भवेत् । पण्य लाभेन पणितं भवेत् । चतुर्थवर्णो महान् भवेत् । ‘महत्वमीयात' इति मांगलिकः उपसंहारः ।। शुभम GITANJALI PRESS, LIMITED., PUDUKKOTTAI.

श्रीः । ॥ शुद्धिपत्रिका ॥ Page Line अशुद्धम् शुद्धम् " अद्भुतता नुभूता रत्नाव्यां सर्व 7 अद्भुततां 8 नुभूतां 19 रत्नयां 8 सर्व 1 जिज्ञासुर्दशरथाय 22 स्वाध्ययोरत्यन्तं 2 B जिज्ञासवे द - 11 12 144 दानरूपमहातत्त्वस्य 13 24 शो स्या 14 स्स्वाध्याययो दानशक्तिरूप शोचस्या गुरुत्वपू श्रोतुं विषयस्याश्चर्य कुशलानुशि ब्रह्माभिधानमुच्चार्य 19 गुरुपू 3 श्रीतुं 6 विषयसाश्चर्य 7 कुशलवानुशि 23 ब्रह्माभिज्ञानमुच्चार्य 8 विशिष्टै नरः 16 " 17 विशिष्टो नरः 18 3. प्रभारंभः प्रभारंभः युक्तं 7 र्युक्त 8 ये मया ये त्वया ii Page Line अशुद्धम् शुद्धम् 18 बुवा तेः 9 बुद्धा तै 16 षढेव 5 भूलोकवतीं पु 6 लोकवतीं 19 षडेव भूलोकवर्तिषु लोकवर्ती दन्यो 7 दम्यौ सड श्रे " " 20 " " 15 स उ श्रे 16 स्याधिय मनसा स्वया धियादेवयन्तः 17 मनीषिज्ञः मनीषीज्ञः 23 र्थह्वय र्थद्वय 2 अर्भितो अर्थितो 4 शोद्धत भूतवर्ग: शोद्धत भूतसर्गः 9 वसी वशी 11 पुतः पुन पुनः पुन 21 माल्शकदिति माल्यकृदिति 23 रुमदया गुणा.... ""श्लोकीत्र रूपदयागुण""श्लोकोऽत्र 15 रमस्य रामस्य 21 प्रष्टर प्रष्टुर 17 प्रदर्शित प्रदर्शित 22 ण्ठ्या स्मा ण्ठ्यात्स्मा 1 संहिता वर्ण्यन्ते 22 प्रशस्त्यं प्राशस्त्यं 8 दारः दाराः " 23 24 26 31 संहिता। 10 वर्ण्यते 33 iii Page Line अशुद्धम् शुद्धम् 33 17 जनन्य 35 जनस्य मित्यव वरणे 37 39 इति तत् 40 44 भूय यो 45 विक्रिया भावायो पुष्पकेण गास्यते त्राभिवि 46 17 मित्वव 24 वरेण 23 इति तस्य 2] विक्रया 16 3 पुष्पकेन 11 गास्यासे 18 त्रापि वि 19 ना (आङा) 20 व्यज्यते। 21 टत्राङा. 8 तदा देशो 10 वर्णिताः 22 भक्ता ना आला व्यज्यते- . त्यत्राङा । तदादेशो 49 50 वर्णिता। 52 भक्तः 53 13 काकुत्स्थ नाभव्य ककुत्स्थ नामय 57 15 66 67 पित्रनाप्त 23 23 पित्रानाप्त भाक् गृध्र 13 आयु भाग्गृध्र 68 आयुः 69 11 परव पराव अत्र “कापी" ति निर्देशः कश्चित 71 1 कश्चित् iv Page Line अशुद्धम् शुद्धम् 72 76 " 77 17 सिद्धप्र 5 विदितः 20 बद्धस धिकार 18 दत्तं सख्य 19 হা श्रतम् 11 सुग्रीवस्य 3 ततो गर्ज 5 रैक्य सिद्धिप्र विदितं बद्धं स धिकारं दत्तसख्य शत्रु श्रुतम् सुग्रीवः ततोऽगर्ज रैक्येन 78 80 - 81 82 83 6 चित्यं च स्प चित्यं स्प " जघान साहाय्य मुलंघ जटाय्वोर्म 86 " " करुणायाच्या। 13 जधान 16 साहय्यं 6 मुलंघ 17 जटायोम 20 करुणायाच्या 12 हलूमत्स .13 सुकरम् 18 प्रयुक्त 22 समहा 4 हनुमत्या 87 " " " हनूमद्वत्स न सुकरम् प्रयुङ्क्ते समाहा हनुमन् या तेजौष प्रस्तावेन 88 8 तेघौध " 14 प्रस्थावेन rage Line अशुद्धम् 91 92 1 ज्ञानदूत 3 गणशोच्यवन्ते ll शोभितः 16 क्षितु 93 शुखम् ज्ञानैर्दूत गणशोप्यवन्ति" शोमिनः क्षितुं राक्षसाम् रामेण मातृदेवो तरत्वेन 97 16 राक्षसान् 102 " 104 लब्धाः 104 106 3 रामेण 4 तरात्वेन 5 लब्ध्वाः 6 रामो राम 3 अत्रपि 22 नदा देशावसरे सर्गान्तं 3 ललितं कृत्स्नं 15 शृणोभ्यह 18 प्रथम 23 रामजल्मन 5 उल्लासो 1 लोका 14. शताणि च वलस्य 1 संक्षेपपठितः राम राम अत्रापि तदादेशावसरे सर्गान्ते चरितं कृत्स्नं शणोम्यहं प्रथम 107 108 109 रामजल्पन उल्लायो 111 113 एषां लोका शतानि च " वासस्य संक्षेपपठिता 115

No text on this page.

No text on this page.

No text on this page.

Raamaayand-asan'qs-eipasagrarasasvaada

Author
Not Availble
Title
Raamaayand-asan'qs-eipasagrarasasvaada
File name
Raamaayand-asan'qs-eipasagrarasasvaada
Text
OCR done
Published
2005/08/30
Publisher
Not Availble
Language
Sanskrit
Pages
124
Library
Donar
Classification
Fiction. Prose Narrative
Keywords
Ramayana Sanshepa Sarga Rasaswadaha
DLI number
495918
Barcode
2990100072993.00
Scanning centre
S.V. Digital Library, Tirupati
Digital publisher
Digital Library Of India
VMLT id
XKYVZ9rTvBb
Download PDF

Raamaayand-asan'qs-eipasagrarasasvaada