Sri Sringeri Sharada Peetham

Chitramimamsa Of Appadikshita

Pt. Sivadatta · 2004/10/20

PDF Proofread

Front matter

KÂVYAMÂLÂ. 38.
sofagele
THE
CHITRAMÎMÂMSA
OF
APPADÎKSHITA.
AND THE
CHITRAMÎMÂMSA-KHANDANA
OP
JAGANNATH PANDIT.
EDITED BY
PANDIT SIVADATTA.
AND
KÂSÎNÂTH PANDURANG PARAB.
PRINTED AND PUBLISHED
BY
TUKARAM JAVAJI
PROPRIETOR or "JAVAJI DADAJI'S NIRNAYA-SAGARA" PRESS.
BOMBAY
1893.
Price 15 Aquas.

2--2 काव्यमाला ३८. श्रीमदप्पदीक्षितप्रणीता चित्रमीमांसा पण्डितराजजगन्नाथविरचितं चित्रमीमांसाखण्डनं च । जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसाददारक- केदारनाथकृपाङ्गीकृतशोधनकर्मणा शिवदत्तशर्मणा, मुम्बापुरवासिपरबोपाह्वपाण्डुरङ्गात्मजकाशीनाथ- शर्मणा च संशोधितम् । . मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतम् । १८९३ (अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरयन्त्रालयाधि- पतेरेवाधिकारः।) मूल्यं १५ आणकाः।

काव्यमाला। श्रीमदप्पदीक्षितप्रणीता चित्रमीमांसा । - अभिवन्य चन्द्रग्रेखरमाद्यं गौरीसखं परं ज्योतिः । वितनोमि विपुलविपयां विशदार्थामर्थचित्रमीमांसाम् ।। त्रिविधं तावत्काव्यम् । ध्वनि-गुणीभूतव्यङ्गय-चित्रभेदात् । यत्र वाच्यातिशायि व्यङ्गयं स ध्वनिः । यथा- 'स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः । बलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः ॥' अत्र तपस्यन्त्या देव्या देहोपरि निपततां प्रथमवृष्टिबिन्दूनां क्रियास्वभाव- वर्णनेन देव्याः समाध्युचितावस्थानाभिव्यक्तिद्वारा चिरनिदाघतप्तदेहोपरि नि- पतनेन सुखपारवश्यसंभ्रमहेतौ प्रथमवृष्टावप्यविहता समाध्यवस्था व्यज्यते । तथा हि। 'नासाग्रन्यस्तनयनः संवृतास्यः सुनिश्चलः । ध्यायीत मनसा देवमुरो विष्टभ्य चाग्रतः ॥' इति समाधिमतामवस्थानमाहुः । तत्र पक्ष्मसु स्थिता इत्यनेन नासाग्र- न्यस्तनयनतारूपमर्धनिमीलनं व्यज्यते । सर्वथोन्मीलने पक्ष्मणामूर्ध्वायत्वेन सर्वथा निमीलने तेषामधोगत्वेन च तेषु जलबिन्दूनां स्थित्यसंभवात् । प- क्ष्मभ्यश्चयुतानां तेषामास्याप्रवेशेनाधरोष्ठे निपत्य ततश्युतिकथनेन संवृता- स्यत्वं व्यज्यते । ततश्युतानां तेषां स्तनोत्सेधनिपतनादिवर्णनेन तूरोवि- ष्टम्भः । अलसवदवनतावस्थाने हि स्तनयोरन्तः संकुचिताकारतया तदुत्से- धयोस्तेषां पतनं न स्यात् । कथंचित्तयोः पतित्वा वलित्रयं प्राप्तानामपि वलीषु तिर्यगेव गमनं स्यात् , न नाभिदेशप्राप्तिः । नाभौ च संवृताया प्रवेशो न स्यात् । पक्ष्माधरादिपतनक्रमकथनेन च निश्चलत्वं व्यज्यते । मुखादि- or काव्यमाला । - चलने सति पक्ष्मपतितानां तेषामधरपयोधरादिक्रमेण पतनीसंभवात् । किं चैभिरेव विशेषणैर्देव्या लोकोत्तरं सौन्दर्यमंभिव्यज्यते । स्थिता इत्यनेन पक्ष्म- णीमविरलतायाः क्षणमित्यनेन तेषां मसृणतायाः पक्ष्मपतनशिथिलवेगैरुदबि- न्दुभिस्ताडनोक्त्याधरस्यातिसौकुमार्यस्य पक्ष्माधरपंतनादिभिः शिथिलवेगानां तेषां स्तनोत्सेधे चूर्णीभाववर्णनेन तयोरतिकाठिन्यस्य, उरोविष्टम्भेऽपि ब- लीषु तेषां स्खलनोक्त्या बलीनां विस्पष्टतायाः सर्वबिन्दूनां नाभावेव प्रवेशकथ- नेन नाभेरतिगभीरतायाश्चाभिव्यञ्जनात् । एवं च वाच्यातिशायि व्यङ्गयम- त्रेति ध्वनेरुदाहरणमिदम् । यथा वा- 'निःशेषच्युतचन्दनं स्तनतटं निर्मुष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमा वापी स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥' अत्र वापी स्नातुं गतासि न तु तत्सकाशमिति वाक्यार्थे स्थिते तत्स- काशमेव रन्तुं गतासीत्यधमपदेन प्राधान्येन व्यज्यते । तथा हि। अधमत्व- मपकृष्टत्वं तच्च जात्या कर्मणा वा भवति । तत्र जात्यापकर्ष नोत्तमना- यिका नायकस्य वदति । नापि स्वापराधपर्यवसायिदूतीसंभोगादिहीनक- 'तिरिक्तेन कर्मणा । तादृशं च दूतीसंभोगात्प्राचीनं सर्व सोढमेवेति नो- द्धाटनार्हम् । अन्यथा स्वयं दूतीसंप्रेषणानुपपत्तेः । तदनन्तरं च स्वप्रेषित- दूतीसंभोगरूपमेव स्वयं संनिहितचिढ़ातुं शक्यं हीनकर्म संभवतीति त- त्पर्यवसायिनाधमपदेन तस्यान्तिकमेव रन्तुं गतासीति व्यज्यते । निःशेष- च्युतचन्दनं स्तनतटमित्यादीनि वाक्यानि संभोगचिह्नोद्धाटनेन तत्र साहा- यकमाचरन्ति । कथम् । निःशेषच्युतचन्दनं स्तनतटमित्यत्र तावद्वामी स्ना- तुमितो गतासीति वाच्यार्थमुपादयितुमिहोत्तरीकर्ष(ष)णेन चन्दनच्यु- तिरित्यन्यथासिद्धिपरिहाराय निःशेषविशेषणं कृतम् । ततश्चन्दनच्युतेः १. 'अपि व्यज्यते' क-घ. २. 'पतनातिशिथिल' क-घ; 'पतनादिना शिथिल' ख. ३. “हि दूतीसंप्रेषणादि' ख-ग. ४. 'स्वयं' क-घ-पुस्तकयो स्ति; 'स्वसंनिहित' ख. ५. 'इवोत्तरीयकर्षणेन' क; 'इवोत्तरीयापकर्षणेन' घ.

चित्रमीमांसा । स्नानसाधारण्यव्यावर्तनेन संभोगचिह्नोद्धाटनाय तटग्रहणम् । स्नाने हि स- र्वत्र चन्दनच्युतिः स्यात् , तव तु स्तनयोस्तंटे उपरिभाग एव दृश्यते, इय- माश्लेषकृतैवेति । तथा निर्मुष्टरागोऽधर इत्यत्र ताम्बूलग्रहणविलम्बाला- चीनरागस्य किंचिन्मृष्टतेत्यन्यथासिद्धिपरिहाराय निदृष्टराग इति रागस्य. निःशेषमृष्टतोक्ता । पुनः स्नानसाधारण्यव्यावर्तनेन संभोगचिह्नोद्घाटनाया- धर इति विशिष्य ग्रहणम् । उत्तरोष्ठे सरागेऽधरोष्ठमात्रस्य निर्मुष्टरागता चुम्बनकृतैवेति । नेत्रे मनञ्जने इत्यत्र प्रातर्दत्तमञ्जनं कालविलम्बेन किं- चिविलुप्तमित्यन्यथासिद्धिपरिहाराय दूरमित्युक्तम् । दूरमत्यर्थमित्यापात- तोऽर्थः । कालतः स्नानेन वा सर्वतोऽञ्जनलोपः स्यात्, तव तु लोचनयोः क्वचित्प्रान्त एवानञ्जनत्वमिदं चुम्बनकृतमेवेति । पुलकिता तन्वी तवेयं तनुरित्यत्रापाततस्तन्वीति सहजतानवकीर्तनेन पुलकितेति स्नानचिह्नोप- न्यासः । पुलकितापि तन्वी वर्तत इति हृदिस्थितोऽन्वयः । तेन च स्नानेन पुलकिता तनुः किंचिदुच्छसिता भवति, इयं तु न तथेति रतिक्लेशजनिता- वेव तानवपुलकोद्गमाविति मर्मोद्धाटनम् । एवमेभिर्वाक्यरुपस्कृतेनाधमपदेन तस्यान्तिकमेव रन्तुं गतासीति व्यज्यमाने प्राग्वाच्यार्थतादशायां वापी स्नातुं गतासीत्येतदनुगुणार्थतयान्वितं मिथ्यावादिनीति संबोधनमपि व्य- फ्यानुगुण एवार्थे पर्यवस्यति । ततश्च न्यग्भावितवाच्यमस्यापि व्यङ्गयं वाच्यातिशायीति इदमपि ध्वनेरुदाहरणम् । यत्र व्यङ्गयं वाच्यानतिशायि तद्गुणीभूतव्यङ्गयम् । यथा- 'गच्छाम्यच्युत दर्शनेन भवतः की तृप्तिरुत्पद्यते किं त्वेवं विजनस्थयोहतजनः संभावयत्यन्यथा । इत्यामन्त्रणभङ्गिसूचितवृथावस्थानखेदालसा- माश्लिप्यन्पुलकोत्कराश्चिततनुं गोपी हरिः पातु वः ॥' अत्र गच्छाम्यच्युतेत्याद्यामन्त्रणेन त्वया रन्तुमेतावत्करलं स्थितं तन्न १. 'सर्वच्युतिः' ख-ग. २. 'निष्टतोक्ता' ख. ३. मिथ्यावादिनीन्यादि' क. ४. 'वाच्यादतिशायीति' ख.

४ काव्यमाला॥ - लब्धमिति व्यङ्ग्यम् । तत्तु इत्यामन्त्रणभङ्गिसूचितवृथावस्थानखेदालतामि- त्येतद्वाच्यस्य सिद्धिं करोतीति तदङ्गत्वान्न वाच्यातिशायि । अतो गुणी- भूतव्यङ्गयमिदम् । यथा वा- 'प्रहरविरतौ मध्ये वाह्नस्ततोऽपि परेऽथवा किमुत सकले याते वाहि प्रिय स्वमिहैष्यसि । इति दिनशतप्राप्यं देशं प्रियस्य यियासतो हरति गमनं. बालालापैः सबाष्पगलज्जलैः ।।' अत्र सकलमहः परमावधिः । ततः परं प्राणान्धारयितुं न शक्नोमीति व्यङ्गयं प्रियगमननिवारणरूपस्य वाच्यस्य सिद्धि करोतीति तदङ्गत्वाद्वा- च्यानतिशायि । अत इदमपि गुणीभूतव्यङ्गयम् । यदव्यङ्गन्यमपि चारु तच्चित्रम् । तत्रिविधम्-शब्दचित्रमर्थचित्रमुभयचित्रमिति । शब्दचित्रं यथा- 'नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् । मृदुलतान्तलतान्तमलोकयत्स सुरभि सुरभि सुमनोभरैः ॥ अर्थचित्रं यथा-- 'सच्छिन्नमूलः क्षतजेन रेणुस्तस्योपरिष्टात्पवनावधूतः । अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितो धूम इवाबभासे ।।' उभयचित्रं यथा- 'वराहः कल्याणं वितरतु स वः कल्पविरमे विनिर्धन्वन्नौदन्वतमुदकमुर्वीमुदवहत् । खुराघातत्रुट्यत्कुलशिखरिकूटप्रविलुठ- च्छिलाकोटिस्फोटस्फुटघटितमङ्गल्यपटहः ॥' . तदेवं त्रिविधे ध्वनिगुणीभूतव्यङ्गययोरन्यत्रास्माभिः प्रपञ्चः कृतः श- ब्दचित्रस्य प्रायोनीरसत्वान्नात्यन्तं तदाद्रियन्ते कवयः, न वा तत्र विचारणी- यमतीवोपलभ्यत इति शब्दचित्रांशमपहायार्थचित्रमीमांसा प्रसन्न विस्तीर्णा प्रस्तूयते। १. 'उभयत्र' का - चित्रमीमासा। : चिन्त्येऽत्र चित्रवर्गे प्रदर्ययोलक्ष्यलक्षणयोः । प्राचीनानामेव श्लोकाः प्रायेण लिख्यन्ते ॥ इति चित्रमीमांसायां ग्रन्थरम्भप्रकरणम् । उपमैका शैलूषी संप्राप्ता चित्रभूमिकाभेदान् । रञ्जयति काव्यरङ्गे नृत्यन्ती तद्विदां चेतः ।। चन्द्र इव मुखमिति सादृश्यवर्णनं तावदुपमा। सैवोक्तिभङ्गीभेदेना- नेकालंकारभावं भजते । तथा हि । 'चन्द्र इव मुखं मुखमिव चन्द्रः' इत्यु- पमेयोपमा । 'मुखं मुखमिव' इत्यन्वयः । 'मुखमिव चन्द्रः' इति प्रती- पम् । 'चन्द्रं दृष्ट्वा मुखं स्मरामि' इति स्मरणम् । 'मुखमेव चन्द्रः' इति रूपकम् । 'मुखचन्द्रेण तापः शाम्यति' इति परिणामः । 'किमिदं मुख- मुताहो चन्द्रः' इति संदेहः । 'चन्द्र इति चकोरास्त्वन्मुखमनुधावन्ति' इति भ्रान्तिमान् । 'चन्द्र इति चकोराः कमलमिति चञ्चरीकास्त्वन्मुखे - ज्यन्ति' इत्युल्लेखः । 'चन्द्रोऽयं न मुखम्' इत्यपहवः । 'नूनं चन्द्रः' इत्यु- त्प्रेक्षा । 'चन्द्रोऽयम्' इत्यतिशयोक्तिः । 'मुखेन चन्द्रकमले निर्जिते' इति तुल्ययोगिता । 'निशि चन्द्रस्त्वन्मुखं च हृप्यति' इति दीपकम् । 'त्वन्मुग्व एवाहं रज्यामि चन्द्र एंव चकोरो रज्यते' इति प्रतिवस्तूपमा । 'दिवि चन्द्रो भुवि त्वन्मुखम्' इति दृष्टान्तः । 'मुखं चन्द्रश्रियं विभर्ति' इति निदर्शना । 'निष्कलङ्कं मुखं चन्द्रादतिरिच्यते' इति व्यतिरेकः । 'त्वन्मु- खेन समं चन्द्रो निशासु हृप्यति' इति सहोक्तिः । 'मुख नेत्राङ्करुचिरं स्मितज्योत्स्नोपशोभितम्' इति समासोक्तिः । 'अब्जेन सदृशं वक्रं हरिणा- हितसंक्तिना' इति श्लेपः । मुखस्य पुरतश्चन्द्रो निष्प्रभः' इत्यप्रस्तुतप्रशंसा। एवमुक्तानेकालंकारविवर्तवतीयमुपमा । तदिदं चित्रं विश्वं ब्रह्मज्ञानादिवोपमाज्ञानात् ।। ज्ञातं भवतीत्यादौ निरूप्यते निखिलभेदसहिता सा ।। १. 'अनुरज्यन्ति' क. २. 'एव हि' क. ३. 'शक्तिना' ख-ग..

काव्यमाला । अस्यास्तावदेवं लक्षणमाहुः उपमानोपमेयत्वयोग्ययोरर्थयोर्द्वयोः । हृद्यं साधर्म्यमुपमेत्युच्यते काव्यवेदिभिः ॥ कविसमयप्रसिद्ध्यनुरोधेनोपमानोपमेयत्वयोग्ययोरेव साधर्म्यमुपमा । न- त्वतथाभूतयोः । अत एव 'कुमुदमिव मुखं प्रसन्नम्' इत्यादि नोपमा। तथा- भूतयोरपि वस्तुत्वद्रव्यत्वादिकृतमहृद्यं साधर्म्य न तथा । किंतु हृद्यमेव कान्तिमत्त्वादिकम् । सर्वोऽपि ह्यलंकारः कवितमयप्रसिध्यनुरोधेन हृद्य- तया काव्यशोभाकर एवालंकारतां भजते । अतः 'गोसदृशो गवयः' इति नोपमा । 'गौर्वाहीकः' इति न रूपकम् । 'स्थाणुर्वा पुरुषो वा' इति न संदेहः । 'इदं रजतम्' इति न भ्रान्तिमान् । 'नायं सर्पः' इति नापडुतिः । 'पीनो देवदत्तो दिवा न भुते' इति न पर्यायोक्तम् । 'पर्वतो वह्निमान्' इति नानुमानम् । 'स देवदत्तः' इति न सरणम् । 'तस्थस्थमिपां तांतंतामः' इति न यथासंख्यम् । 'पुत्रेण सहागतः पिता' इति न सहोक्तिः । तेन विना गतः' इति न विनोक्तिः । 'श्वेतो धावति' इति न श्लेषः । इत्याय- हनीयम् । अत्रेदं विचार्यते-द्वयोरिति विशेषणमिह किमर्थम् । स्वस्य खेनैव साधर्म्यवर्णनात्मकस्यानन्वयस्य व्युदासार्थमिति चेत्, एवमप्युपमान- स्योपमेयत्वकल्पनात्मके प्रतीपे द्वयोः पर्यायेणोपमेयत्वकल्पनात्मिकायामुप- मेयोपमायां चातिव्याप्तिः । तयोः सादृश्यवर्णनसत्त्वादुपमात्वेन संग्राह्यत्वे तथैवानन्वयोऽपि संग्राह्यः स्यादिति व्यर्थ द्वयोरिति पदम् । एतेन 'साधर्म्य- मुपमा भेदे-' इति काव्यप्रकाशिकोक्त(काशोक्त)लक्षणेऽनन्वयव्युदासाय कृतं भेदग्रहणमपि प्रत्युक्तम् । नहि संभवत्साधर्म्यवर्णन एवोपमात्त्वम् । येन स्वस्य स्वेन साधासंभवादनन्वयस्य व्यक्च्छेद्यत्वमितरयोः संग्राह्यत्वं न स्यात् । तथात्वे 'हंसीव धवला कीर्तिः स्वर्गङ्गामवगाहते' इत्यादी क- विकल्पितसाधोपमाया अनुपमात्वप्रसङ्गात् । किं च सत्यामप्युपमानोप- मेयत्वयोग्यतायां सत्यपि हृद्यत्वे लिङ्गवचनभेदादिदुष्टायामुपमायां 'हंसीव १. 'उपमानोपमेयत्व' ख-ग-घ. २. 'काव्यप्राकाशिकोक्त' घ. ३. 'इन्यादेः' क.

चित्रमीमांसा। धवलश्चन्द्रः सरांसीवामलं नभः' इत्यादि रूपायामतिव्याप्तिः । उदाहरिष्य- माणे चोपमाध्वनावतिव्याप्तिः । न हि सौऽप्यलंकारः । अलंकार्यत्वात् ब्राह्मणश्रमणन्यायेन तत्रालंकारविनिव्यपदेश इति सिद्धान्तात् । यदि च दुष्टादुष्टालंकार्यालंकारसाधारणोपमासामान्यलक्षणमिति नोक्तातिव्या- प्तिस्तदोपमानोपमेयत्वयोग्ययोरिति हृद्यमिति च व्यर्थम् । कविसमयप्रसि- ध्यभावादिदुष्टोपमाया अपि संग्राह्यत्वात् । यत्तु विद्यानाथेन लक्षणमुक्तम्- 'स्वतःसिद्धेन भिन्नेन संमतेन च धर्मतः । साम्यमन्येन वर्ण्यस्य वाच्यं चेदेकदोपमा ॥' इति । अत्र स्वतःसिद्धेनेत्युत्प्रेक्षाव्यावृत्तिः । तत्रोपमानस्य कविकल्पितत्वेन लोकसिद्धत्वाभावात् । भिन्नेनेत्यनन्वयव्यावृत्तिः । संमतेनेति सर्वविधदुष्टो- पमाव्यावृत्तिः । कविससयप्रसिच्यभावेन लिङ्गवचनभेदादिना वा यद्यदसं- मतं तस्य सर्वस्यापि संमतपदेन व्यावर्तनात् । धर्मत इति श्लेषव्यावृत्तिः । श्लेपे हि 'सकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिव ।' इत्यादौ श- ब्दसाम्यमात्रमिवशब्देनोच्यते न गुणक्रियारूपधर्मसाम्यम् । अन्येन वर्ण्य- स्येत्यनेन प्रतीपव्यावृत्तिः । तत्र वयेन प्रकृतेन सँहाप्रकृतस्य सादृश्यवर्ण नात् । एकदेत्यनेनोपमेयोपमाव्यावृत्तिः । वाच्यमित्यनेन व्यङ्गयोपमाव्या- वृत्तिः' इति । तत्रोत्प्रेक्षाव्यावृत्तये स्वतःसिद्धेनेत्युक्तमयुक्तम् । उत्प्रेक्षा- यामिवकारस्य विषयविषयिणोस्तादात्म्यादिसंभावनावाचकत्वेन तत्र साम्य- स्यावाच्यतया तत एव तव्यावृत्तेः । उक्तं हि चक्रवर्तिना- 'यदायमुपमानांशो लोकतः सिद्धिमृच्छति । तदोपमैव येनेवशब्दः साधर्म्यसूचकः ॥ यदा पुनरयं लोकादसिद्धः कविकल्पितः । तदोत्प्रेक्षैव येनेवशब्दः संभावनापरः ॥ इति । दृष्टं च लोके संभावनापरत्वमिवशब्दस्य । 'दूरे तिष्ठन्देवदत्त इव भाति' इति । कथं च स्वतःसिद्धेनेत्यनेनोत्प्रेक्षाव्यावृत्तिः । १. 'ध्वनित्व' ख; 'ध्वनित्वेन' ग. २. 'इति' ख-ग-पुस्तकयो स्ति. ३. 'सिद्धित्वा' क; 'प्रसिद्धत्वा' ग. ४. 'अन्यस्य सादृश्य' ख-ग.. - काव्यमाला । न नित्यमस्मिन्परिपूर्णतेति त्यक्त्वा नभः क्षोणितलावतीर्णः । आनन्दयन्निन्दुरिव स्वधाम्ना विभाति लोके नवकाकतीन्द्रः ॥'. इति तदीयोत्प्रेक्षोदाहरण एवोपमानस्य स्वतःसिद्धत्वात् । इन्दुः क्षो- णितलावतीर्णत्वाकारेण कविकल्पित इति चेत्तर्हि, 'चन्द्रबिम्बादिव विषं चन्दनादिय चानलः । परुषा वागितो वक्रादित्यसंभावितोपमा ॥' इत्युक्तायामसंभावितोपमायामव्याप्तिः । विषानलयोः, स्वतःसिद्धत्वेऽपि चन्द्रचन्दनप्रभवत्वेन कविकल्पितत्वात् । 'उभौ यदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् । तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥' इति कविकल्पितोपमानायामुपमायां सर्वथैवाव्याप्तिः । भिन्नेनेत्यनन्वय- व्यावृत्यर्थमुपात्तमप्ययुक्तम् । 'अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् । एको हि दोषो गुणसंनिपाते निमजतीन्दोः किरणेष्विवाङ्कः ॥' इत्यस्यामुपपादकोपमायामव्याप्तेः । तत्रोपमेयदोषैगुणसामान्यान्तर्गतानामुं- पमानानां दोषगुणविशेषाणां कलङ्ककिरणानां तद्भिन्नत्वाभावात् । अथो- पमेयतावच्छेदकभिन्नोपमानतावच्छेदकावच्छिन्नत्वमुपमानस्य तद्भिन्नत्वमेत- दपि न युक्तम् । 'अनवरतकनकवितरणघृतजललवकरतरङ्गितार्थिततेः । भणितिरिव मतिर्मतिरिव चेष्टा चेष्टेव कीर्तिरतिविमला ।' इति रशनोपमायामव्याप्तेः । मतित्वाद्युपमानतावच्छेदकानामुपमेयताव- च्छेदकभिन्नत्वाभावात् । उपमेयोपमायामुपमानतावच्छेदकयोर्द्वयोरपि त- द्भिन्नत्वाभावेनोक्तविशेषणेनैव तव्यावृत्तिसिद्ध्या एकदेत्यस्य वैयर्थ्यापत्तेश्च । 'रजोभिः स्यन्दनोद्भूतैर्गजैश्च घनसंनिभैः । भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम् ॥' २. "वतीर्णत्वेन' का 'वतीर्णत्वात्' ख. ३. 'इत्युक्तरूपायां' ख-ग. * 'गुणदोष' क. ५. 'उपात्तानां' क.६. 'भिन्ने उप' ख. ७. 'वच्छेदकधर्मावच्छिन्नत्यं क, चित्रमीमांसा। इत्युममेयोपमाप्रकरणोदाहरिष्यमाणपरस्परोपमायामव्याप्तेश्च । अथ स्यो. पमेयतावच्छेदकभिन्नधर्मावच्छिन्नत्वमुपमानस्य तद्भिन्नत्वमिति विवक्षितमि- दमपि न सम्यक् । 'उपाददे तस्य सहस्ररश्मिस्त्वष्ट्रा नवं निर्मितमातपत्रम् । से तढुकूलादविदूरमौलिर्बभौ पैतद्गङ्ग इवोत्तमाले ॥' 'द्वारं द्वारमटन्भिक्षुः शिक्षत्येवं न याचते । अदत्त्वा मादृशो मा भूर्दत्त्वा त्वं त्वादृशो भव ॥' इत्याद्यभिन्नधर्मिकोपमास्वव्याप्तेश्च । तत्र परमेश्वरत्वादेः स्वोपमेयताव- च्छेदकस्यैवोपमानतावच्छेदकत्वात् । श्लेपव्यावृत्त्यर्थ धर्मत इति विशेषण- मप्ययुक्तम् । तत्र न शब्दसाम्यमात्रमिवेनोच्यते किं तु गुणसाम्यमपीति तेदव्यावृत्तेः । ननु पुरे सकलकलत्वं कलकलशब्दसाहित्यं सुधांशुबिम्बे कलासाकल्यमिति, नैकोऽनुगतो गुणो लभ्यते । मैवम् । श्लेपभित्तिका- भेदाध्यवसायमूलया भैदेऽभेद इत्येवंरूपयातिशयोक्त्या धर्मसाधारण्यला- भात् । नापमानोपमेययोरेनुगत्या धर्मस्य मुख्यसाधारण्य एवोपमालंकारः । 'पाण्ड्योऽयमंसार्पितलम्बहारः क्लृप्ताङ्गरागो नवचन्दनेन । आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्विराजः ॥' इत्यादौ हरिचन्दनवालातपहारनिर्झरादीनां बिम्बप्रतिविम्वभावेन निर्दि- प्टानामपि साधारणधर्मत्वाङ्गीकारात् । ननु सकलकलमित्यादावपि गुण- साम्यं चेदुपमैव स्यादिति चेत्, शब्दसाम्यमानं चेदपि किमित्युपमा न स्यात् । नहि शब्दान्यगुणादिसाम्यमेवोपमाप्रयोजकं न शब्दसाम्य- मिति कुलधर्मः । 'यथा प्रह्लादनांच्चन्द्रः प्रतापात्तपनो यथा । तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ॥' १. 'इत्यनेन' ख-ग. २. 'अतद्दुकलादवि' ख-ग. ३. 'वहन्गाङ्गमित्र प्रवाहम्' क; 'पतद्गा ख-ग. ४. द्वारमित्यादिपूर्वाध क-घ-पुस्तकयो स्ति. ५. न तवयावृत्तिः' क-घ. ६. श्रेषनिमित्तक' क-ध. ७. 'ऽभेदो भेदः' ख. ८. 'पमेयानुगत्या' क. 'अनुगतधर्मस्य' न. १०. 'ननु' ख-ग-पुस्तकयो स्वि. ११. 'चेत्तदपि' घ. ११ काव्यमाला। १० इत्यत्रानुगतार्थनामरूपशब्दसाम्येऽप्युपमादर्शनात् । किं तु श्लेषस्यालं- • 'कारान्तरविविक्तविषयाभावेन निर्रवकाशतया बलवत्त्वेनालंकारान्तरबाधक- त्वदिपमाप्रतिभानेऽपि तत्प्रतिभोत्पत्तिहेतुः श्लेष एव नोपमेति मङ्खकादि- भिरभ्युपेयते । ततश्च यथा शब्दसाम्यमाश्रित्योपमाप्रतिभाने तबाधकत्वं श्लेषस्य तथा-श्लेषभित्तिकाभेदाध्यवसायलब्धाभेदगुणसान्यमात्रमाश्रित्त्यो- पमाप्रतिभानेऽपि तद्वक्तुं शक्यमिति तदनुरोधेन न तत्र गुणसाम्यपरि- त्यागः । यत्तु रुद्रटेन—सकलकलमित्यादावुपमां समर्थयमानेन, 'स्फुटमर्थालंकारावेतावुपमासमुच्चयौ किं तु | आश्रित्य शब्दमानं सामान्यमिहापि संभवतः ॥' इति शब्दसाम्यमात्रमिहोक्तम्, तदन्ततः शब्दसाम्यमात्रमाश्रित्याप्यु- पमा समर्थयितुं शक्येति भावेन, न त्वभेदाध्यवसायेनापि गुणसाम्यं न सं- भवतीति भावेन श्लिष्टविशेषणेष्वप्यभेदाध्यवसायेनैक्यस्यालंकारान्तरेषु स- वैरपि समाश्रयणात् । तस्माद्धर्मत इत्यनेन न श्लेषो व्यावर्तयितुं शक्यते । वस्तुतस्तु सकलकलमित्यादावुपमैवेति व्यर्थ धर्मत इति विशेषणम् । अलं- कारान्तविविक्तस्तु श्लेषस्य विषयस्तत्प्रकरणे दर्शयिष्यते । किं च विवि- क्तविषयाभावेनालंकारान्तरबाधकत्वमिति वाचोयुक्तिरप्ययुक्ता । विषय- सद्भावमात्रेण निरवकाशत्वहानेविविक्तविषयानपेक्षणात् । नह्ययमलंकार- गोचरो लोकन्यायो यद्विविक्तविषयो वक्तव्य इति । अरन्ध्ररत्नानां सुवर्ण- विविक्तविषयाभावेऽपि सुवर्णाश्रितानामेव चारुताहेतुत्वेनालंकारान्तरत्वव्य- वस्थितेः । अप्यथा निरवकाशैररन्ध्रप्रत्युप्तरत्नैः सावकाशस्य तदाश्रयसु- वर्णस्यालंकारता बाध्येत । नाप्ययं वाक्यवित्संमतः शास्त्रीयन्यायः पदे जु- होतीत्यादीनामिवोत्तरार्धे जुहोतीत्यादीनामाहननीयशास्त्रादिविविक्तविष- याभावेऽपि सविषयत्वमात्रेण प्रतिष्ठितत्वात् । नाप्यसाधारण्येनैतच्छास्त्र- न्यायः । सोक्त्यादीनामतिशयोक्त्यादिविविक्तविषयाभावेऽपि तदबाधे- १. 'इत्यर्थानुगतार्थ' ख-ग. २. 'मझुकादि' क-ख-ग. ३. 'निमित्तिक' क-घ. ४, 'न तदनुरोधेन तत्र' क-घ. ५. 'शक्यत इति' क. ६. 'श्लेषविषयः' ख-ग. FAwran wrivirthwinpiniye...

चित्रमीमांसा। ११ नालंकारान्तरत्वव्यवहारादविरोध इहाप्यविशिष्टः । तस्मादत्रोपमाप्रतिभो; त्पत्तिहेतुः श्लेषालंकार इत्ययुक्तम् । प्रत्युतोपमैवात्र श्लेषप्रतिभोत्पत्तिहेतुः । नहि पुरवर्णनप्रकरणे सकलकलमिति. तद्विशेषणपदस्य सुधांशुबिम्बमिवे- त्युपमाया अनिबन्धने कलासाकल्यलक्षणार्थान्तरप्रतिभा संभवति । प्रतीप- व्यावृत्त्यर्थमन्येन वर्ण्यस्य साम्यमित्युक्तं तत्रान्येनेत्ययुक्तम् । अनेनेत्यस्य भिन्नविशेषणेन पौनरुक्त्यात् । किं च वात्प्रकृतादन्येनाप्रकृतेनेति यद्यर्थस्तदा 'इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु । रजांसि समरोत्थानि तच्छोणितनदीप्विव ।' इति समुच्चितोपमायामव्याप्तिः । तत्र समराङ्गत्वेन रजसां शोणितेपु पतनस्यापि वर्ण्यत्वात् । यदि तु स्वयं वयेनावन वा कुतश्चिद्वादन्ये- नेत्यर्थः । तदाप्युत्कृष्टगुणत्वादुपमानभावमप्यसहमानस्योपमानत्वकल्पनरू- पे प्रतीतेऽतिव्याप्तिः । यथा- 'अहमेव गुरुः सुदारुणानामिति हालाहल तात मा म दृप्यः । ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम् ॥' अत्र हि वर्णानां दुर्जनवचसां हालाहलेनातिप्रकृष्टदोपत्वादुपमानभा- वमप्यसहमानेन साम्यनिवन्धनं प्रतीपम् । अत्र वर्ण्यस्येत्यप्ययुक्तम् । 'त्व- कीर्तेः पुरतो भाति ज्योत्स्ना ध्वान्तमलीमसा' इत्यप्रस्तुतप्रशंसासंकीर्णोपमा- यामव्याप्तेः । तत्र कीर्तरेव वर्ण्यत्वेन ज्योत्स्नाया अवर्ण्यत्वात् । अपि च 'अन्येन वर्ण्यस्य साम्यं वाच्यम्' इति कोऽर्थः । किमन्यप्रतियोगिकत्वेन वर्ण्यगतं साम्यं वाच्यमिति, किं वा यथाकथंचिद्वावर्योभयनिरूपित साम्यं वाच्यम् । अथवा वा नुपयोगिकत्वेन साम्यं वाच्यमिति । आये 'सरसिजमिदमाननं च तस्याः सममिति चेतसि संमदं विधत्ते' इत्युभयवि- श्रान्तसादृश्योपमायामव्याप्तिः । द्वितीये प्रसिद्धप्रतीपेऽप्यतिव्याप्तिस्तद- वस्था । एवं तृतीये वर्ण्यस्य साम्यमित्येतावता विवक्षितार्थलाभादन्येनेत्यस्य . १. 'प्रतिमाहतुः ख-ग. २. उत्तामगुत्ताग' क-घ. ३.'मा स्म तात' क-ध.

१२ काव्यमाला। वैयर्थ्यम् । उपमेयोपमाव्यावृत्त्यर्थमेकदेति विशेषणमप्ययुक्तम् । तेन ‘ख- मिव जलं जलमिव खं" इत्यादौ पर्यायेण प्रवृत्तायामुपमेयोपमायामतिव्या- प्तिनिरासेऽपि 'तद्वल्गुना युगपदुन्मिषितेन ताव- त्सद्यः परस्परतुलामधिरोहतां द्वे । प्रस्पन्दमानपरुषेतरतारमन्त- श्चक्षुस्तव प्रचलितभ्रमरं च पद्मम् ॥' इति युगपत्प्रवृत्तायां तस्यामतिव्याप्त्यनिरासात् । अपि चैवम् , 'ज्योत्स्नेव नयनानन्दः सुरेव मदकारणम् । प्रभुतेव समाकृष्टसर्वलोका नितम्बिनी ॥' इति भिन्नसाधारणधर्मायां मालोपमायामव्याप्तिः । तत्रानेकदा साम्य- प्रतिपादनात् । न च बहूपमामेलनमेव मालोपमा नैका, तासु च प्रत्येक लक्षणमस्त्येवेति वाच्यम् । तथा सत्युपमेयोपमाप्युपमाप्रतीपमेलनमेवेति तघ्यावृत्त्यथै विशेषणान्तरकरणायोगात् । संसृष्टिसंकरात्पृथग्ग्रन्थकृतां ले- खनमुभयत्रापि तुल्यम् । एवमुपमेयोपमाप्रकरणे उदाहरिप्यमाणायां 'रजोभिः स्यन्दनोद्भूतैः' इति परस्परोपमायामव्याप्तिः। व्यङ्गयोपमाव्यावृ- त्त्यर्थ वाच्यमित्युक्तमप्ययुक्तम् । 'न पद्मं मुखमेवेदं न भृङ्गौ चक्षुषी इमे । इति विस्पष्टसादृश्यात्तत्त्वाख्यानोपमैव सा ॥' इत्युक्तरूंपायां तत्त्वाख्यानोपमायां साम्यस्यावाच्यत्वेनाव्याप्त्यापत्तेः । 'त्वदाननमधीराक्षमाविर्दशनदीधिति । भ्रमद्धृङ्गमिवालक्ष्यकेसरं भाति पङ्कजम् ॥' इत्यादौ विशिष्टोपमाद्याक्षिप्तविशेषणाद्युपम्पयामव्याप्त्यापत्तेश्च । 'शस्त्री श्यामा' इत्यादिवाचकलुप्तोपमायां 'चन्द्रसुहृन्मुखम्' इत्यादिसाम्यलक्षकप- दवढुपमायां चाव्याप्त्यापत्तेश्च । किं च वाच्यमित्यत्र विधेयतया वाच्यतो- च्यते अनुवाद्यतया वा । आधे .

चित्रमीमांसा । १३ . 1 •'स कर्षन्महतीं सेनां पूर्वसागरगामिनीम् । बभौ हरजटाभ्रष्टां गङ्गामिव भगीरथः ॥' इत्यादावेवेदं लक्षणं स्यात् । 'स सयौ प्रथमं प्राची तुल्यः प्राचीनबर्हिषा । अहितारनिलोडूतस्तजयन्निव केतुभिः ।।' इत्यादौ न स्यात् । द्वितीये यत्र व्यत्रिकालंकारे साम्यस्य निषेधायानु- वाद्यता 'मुखेन निष्कलङ्केन न समस्तव चन्द्रमाः' इत्यादौ, तत्रापीदं लक्षणं स्यात् । न च निषेधाप्रतियोगित्वेन वाच्यमिति विशेषणीयम् । 'असिमात्रसहायोऽपि प्रभूतारिपराभवे । नैवान्यतुच्छजनवत्सगर्वोऽयं महाद्युतिः ॥ इति व्यतिरेके तथाप्यतिव्याप्तेः । न च निषेधप्रतियोगिकोट्यननुप्रविष्टतया वाच्यमिति विशेषणीयम् । 'वृथा चरसि किं भृङ्ग तत्र तत्र वनान्तरे । मालत्याः सदृशीं क्वापि भ्रमन्नपि न लप्स्यसे ।' इत्युपमानलुप्तायामव्याप्तेः । तत्र सदृशलाभनिपेधे साम्यस्यापि प्रति- योगिकोटिनिविष्टत्वात् । तस्माद्विद्यानाथोक्तलक्षणमप्ययुक्तम् । यत्तु सरस्वतीकण्ठाभरणोक्तं लक्षणम्- 'प्रसिद्धेनुरोधेन यः परस्परमर्थयोः । भूयोऽवयवसामान्ययोगः सेहोपमा मता ॥' इति । तदपि गुणक्रियादीनां परस्परसादृश्यवर्णनात्मिकायाम्- 'सस रश्वक्षुण्णानामेलानामुत्पतिष्णवः । तुल्यगन्धिषु मत्तेभकटेपु फलरेणवः ॥' इत्याधुपमायामव्याप्तम् । 'उद्गर्भहणतरुणीरमणोपमर्द- भग्नोन्नतस्तननिवेशनिभं हिमांशोः । wwwmasome kamahendra More Meeteenthoriters nikhaniviane १. 'महावृतिः' क. २. 'अपि व्याप्तेः' ग.

१४ काव्यमाला । . विम्बं कठोरबिसकाण्डकडारमेत- द्विष्णोः पदं प्रथममग्रकरैय॑नक्ति ॥ 'सद्यो मुण्डितमत्तहूणचिबुकप्रस्पर्धि नारङ्गकम्' इत्यादौ प्रसिद्धिरहि- 'तोपमानायां कल्पितोपमायां चाव्याप्तम् । यत्त्वलंकारसर्वस्वकृतोक्तम्-- "उपमानोपमेययोः साधर्म्य भेदाभेदतु- ल्यत्वे वोपमा । साधम्र्ये त्रयः प्रकाराः । भेदप्राधान्यं दीपकतुल्ययोगिता- दृष्टान्तप्रतिवस्तूपमासहोक्तिव्यतिरेकादिषु । अभेदप्राधान्यं रूपकपरिणाम- भ्रान्तिमदुल्लेखादिषु । द्वयोस्तुल्यत्वं यथा स्यामुपमायाम् । अत्र ह्युपमानो- पमेयासाधारणरूपाभ्यां भेदः साधारणधर्मेणाभेदश्चेति द्वयोरपि तुल्यतैव” इति तदप्युपमानोपमेयातिव्याप्त्यादिदुष्टमिति स्पष्टमेव । तस्मादुर्वचमस्या लक्षणमिति । अत्रोच्यते-- 'व्यापार उपमानाख्यो भवेद्यदि विवक्षितः । क्रियानिष्पत्तिपर्यन्तमुपमालंकृतिस्तु सा ॥' उपमानव्यापार उपमितिक्रियानिष्पादको व्यापारः सादृश्यवर्णना। सोऽयमुपमितिक्रियानिष्पत्तिपर्यन्तं विवक्षिता चेदुपमालंकार इत्यर्थः । तथा च व्यतिरेके नातिव्याप्तिः । तत्र सादृश्यवर्णनासत्त्वेऽपि 'मुखेन निष्कल- ड्रेन' इत्यादौ साक्षात्तस्यैव निषेधेन, 'नैवान्यतुच्छजनवत्' इत्यादौ तत्त्र- योजकधर्मनिषेधेनं चोपमितिक्रियाया अनिष्पत्तेः । नाप्यनन्वयेऽति- व्याप्तिः । तत्रापि स्वेन स्वस्य सादृश्यस्य सदृशान्तरव्यवच्छेदे रुद्ररोदन- वपोत्खननाद्यर्थवादेऽसदर्थस्य निन्दास्तुत्योरिव द्वारमात्रतया वर्ण्यमानत्वे- नोपमितिक्रियाया अनिष्पत्तेः । अन्यथा स्वस्य स्त्रेनोपमितिक्रियानिष्पत्तौ सदृशान्तरव्यवच्छेदेऽपि सर्वथानुपमत्वद्योतनं फलं न स्यात् । आहुश्च तस्य तदेव फलं भामहादयः- 'यत्र तेनैव तस्य स्यादुपमानोपमेयता । असादृश्यविवक्षातो वदन्ति तमनन्वयम् ॥' इति । अत एव वर्ण्यमानमपि स्वस्य स्वस्मिन्साधये नान्वेतीत्मनन्वयपदव्यु- चित्रमीनाता। १५ . . पचिमलंकारसर्वस्वकारादयो वदन्ति । ततश्च यथाम्भसि कतकरजःसंयो. जनेन रजोन्तरव्यवच्छेदे सति कतकरजसोऽपि विलयनात्सर्वथानाविलमम्भः सिध्यति तथा 'रामरावणयोर्युद्धं रामरावणयोरिव' इत्यादौ स्वेन सादृश्य- वर्णनया सदृशान्तरव्यवच्छेदे सति वस्तुतः स्वेनाप्युपमाया असंभवादनु-. पमं रामरावणयोयुद्धमित्यत्रैव कविसंरम्भ इत्युपमितिक्रियाया अनिष्पत्ते- निन्वयेऽतिव्याप्तिशङ्कावकाशः । एवं प्रतीपेऽपि यत्रोपमित्यनिष्पत्तिः, 'आकर्णय सरोजाक्षि वचनीयमिदं भुवि । शशाङ्कस्तव वक्रेण पामरैरुपमीयते ॥' इत्यादौ नै तत्रातिव्याप्तिशङ्का । उपमितिक्रियानिष्पत्तिविरहात् । 'गर्वमसंवाह्यमिमं लोचनयुगलेन किं वहसि भद्रे । सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि ।' इत्यादि प्रतीपमुपमेयोपमा चेत्युभयमपि संग्राह्यमेवेति न तयापनं लक्षणस्य दोषः । तथा युदाहृतं प्रतीपं तावदुपमाविशेष एव । सादृश्य- वर्णनस्य प्रकृतविषयत्व इवाप्रकृतविषयत्वेऽपि स्मृतिरूपकसंदेहभ्रान्त्य- नेकधाग्रहणापह्नवसंभावनासंभवद्वस्तुसंबन्धनिबन्धननिर्दिष्टसमर्थनादीनामिवा- लंकारान्तरत्वायोगात् । अन्यथा तेपामपि प्रकृतविषयत्व एव स्मरणरूपकसंदे- हभ्रान्तिमदुल्लेखापढ्त्युत्प्रेक्षानिदर्शनार्थान्तरन्यासायलंकारत्वम् । अप्रकृतवि- षयत्वेऽपि चानलंकारत्वमिति कल्पनाप्रसङ्गात् । स्मृत्यादयश्च प्रकृतविषया इवाप्रकृतविषया अप्यलंकारभूतास्तत्र तत्रोदाहरिप्यन्ते । न चोपमायांमयं नियमो यदप्रकृतेन प्रकृतसादृश्यवर्णनात्मनैव तया भाव्यमिति । समुच्चयो- पमायुदाहरणेषु प्रकृतयोरेवाप्रकृतयोरेव वा सादृश्यवर्णनस्याप्युपमात्वाङ्गी- कारात् । तद्वत्प्रकृतेनाप्रकृतस्य सादृश्यवर्णनमप्युपमैवेति युक्तम् । एवं चो- पमेयोपमापि प्रकृताप्रकृतविषयोपमाद्वयरूपतया नालंकारान्तरतां भजते । अन्यथा तत्प्रकरणोदाहरिष्यमाणपरस्परोपमाया अप्यलंकारान्तरत्वप्रसङ्गात्। परस्परभ्रमनिबन्धनादिष्वप्यलंकारान्तरतापत्तेश्च । न चानन्वयप्रतोपोपमे- १. 'नातिव्याप्ति' ख-ग. २. 'प्रकृताप्रकृतविषयले' क.

. 6 १६ काव्यमाला । ग्रोपरगसु, सादृश्यवर्णनस्य पृथनिरूपणस्य चाविशिष्टत्वेनानन्वयस्पानुपमा- त्वमितरयोरुपमात्वं च वक्तुमयुक्तमिति वाच्यम् । यत्रोपर्मितिक्रियानिप्प- तिस्तत्रोपमाशब्दप्रवृत्तिनिमित्तसद्भावेन, यत्र तदनिष्पत्तिस्तत्र तदभावेन च वैषम्यस्य स्फुटत्वात् । इममेव विशेषमभिप्रेत्य काव्यप्रकाशिकादिलक्षणे- प्वननन्वयव्युदासार्थमेव यत्नः कृतो नोपमेयोपमादिव्युदासार्थम् । उपमेयो- पमादेरुपमान्तर्गतत्वेऽपि व्यङ्गयादिकृतवैचित्र्यविशेषेण पृथग्गणनं न विरु- ध्यते । रूपकपरिणामवत् । 'उभौ यदि व्योम्नि पृथक्प्रवाहौ' इत्यादी लक्षणाभावो न दोषः । यदि तथाभूतौ प्रवाहौ स्यातां तद्युपमीयेत । न च तो संभवतः । तस्मान्न केनाप्युपमीयत इत्युपमापरपर्यायोऽयमित्यनिप्प- त्तावप्युपमात्वस्वीकारे तत्रोपमाशब्दस्य पारिभाषिकत्वापत्तेः । किंतु तत्रा- तिशयोक्तिविशेषोऽलंकारः । अत एव काव्यप्रकाशिकायां 'प्रस्तुतस्य यद- न्वत्वं यद्यर्थोक्तौ च कल्पनम्' इत्यतिशयोक्तिषु परिगणय्य यद्यक्तिो कल्पनस्य 'राकायामकलङ्कं चेदमृतांशोभवेद्वपुः । तस्या मुखं तदा साम्यपराभवमवाप्नुयात् ॥' इत्युदाहृतम् । 'पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् । ततोऽनुकुर्याद्विशदस्य तस्य ताम्रौष्ठपर्यस्तरुचः स्मितस्य ॥' इति तु कविकल्पितोपमानाया उत्पाद्योपमेति व्यवहृताया उदाहर- णम् । तत्र यद्युत्पाद्यस्योपमानस्य संभावितोमा तेनोपमितिनिष्पत्तेलक्षणम- स्त्येवेति नाव्याप्तिः । न चैवं 'चन्द्रबिम्बादिव विषं' इत्यसंभावितोपमाया-- मव्याप्तिः । तत्रासंभावितेनैवोपमानेनोपमितिक्रियानिष्पत्तेः । कविना वि- वक्षितत्वेन विवक्षानुसार्युपमितिक्रियानिष्पत्तिसैद्भावात् । नहि 'वस्तुसद - निवन्धनोपमिनिक्रियानिष्पत्तिरुपमा' इति लक्षणमुच्यते किं तु कविविवक्षा- निवन्धना । अत एव श्लोके विवक्षित इति विशेषणमर्थवत् । अन्यथा १. 'इत्यत्र' ग-घ. २. संभवात' क.

चित्रमीमांसा १७ 'चन्द्र इव मुखम्' इत्यादावपि लक्षणं न स्यात् । चन्द्रग्रतकान्त्यतिशयस्य. वस्तुतो मुखेऽभावेन विवक्षानुसरणं विना गत्यभावात् । 'चन्द्रधवला कीर्तिः' इत्यादौ च सर्वथैव लक्षणं न स्यात् । कीर्ती धावल्यस्य लेशतोऽप्यभावात् । न चैवमनन्वयेऽपि कविविवक्षया स्वस्य स्वेनोपमितिक्रियानिष्पत्तिः संभ- वतीति वाच्यम् । सर्वथैवानुपमत्वद्योतने कविसंरम्भे सन्ति तथा विवक्षानुद- यात् । 'वृथा चरसि किं भृङ्ग' इत्यादौ सादृश्याधिकरणस्यानुपलम्भोक्त्यो- पलभ्यमानेषु सादृश्यनिषेधपर्यवसानेऽप्यनुपलभ्यमानगतसादृश्याभ्यनुज्ञाना- त्तत्रोपमितिक्रियानिष्पत्तिरस्तीति नाव्याप्तिः । अत एव तस्य विशिष्यानु- पादानादुपमानलुप्तता । एवम् 'निरूप्यमाणं कविना सादृश्यं स्वात्मनो न चेत् । प्रतिषेधमुपादाय पर्यवस्यति सोपमा ॥' इत्यपि लक्षणमनुसंधेयम् । उपमितिक्रियानिष्पत्तिमत्सादृश्यवर्णनमुपमा । स्वनिषेधापर्यवसायि सादृश्यवर्णनमुपमा । इति द्विविधमप्येतदुपमासामान्यलक्षणम् । अलंकारभूतोपमालक्षणं त्वे- तदेवादुष्टाव्यङ्गयत्वविशेपितम् । विशिष्टोपमादिस्थले विशेषणाद्युपमानां वाच्यभूतविशिष्टोपमादिसियङ्गत्वात् । वाच्यसिध्यङ्गरूपगुणीभूतव्यङ्गयत- यैव तासां नालंकारतेति न तद्व्यापनं दोपः । 'न पद्मं मुखमेवेदं' इत्यादौ नोपमालंकारः । किं तु प्रतिषेधाक्षिप्तप्रसक्तितया भ्रान्तिमान् , तदुपपादक- तयोपमा चेत्युभयं व्यङ्ग्यम् । तथापि भ्रान्तिमदादिकमपि साधर्म्यमूलत्वमा- त्रेणोपमामध्ये परिगणयला दण्डिना तत्त्वाख्यानोपमेत्येतादृशव्यवहारः कृतः परमिति न तत्राप्यव्याप्तिपि इति दिक् । सा चेयमुपमा द्विविधा पूर्णा लुप्ता च । उपमानोपमेयसाधारणधर्मोपमावाचकानां चतुर्णामुपादाने पूर्णा तेषामेकस्य द्वयोस्त्रयाणां वा लोपे सति लुप्ता । १. 'सिद्ध्यर्थत्वात् क.

. म १८ काव्यमाला । - पूर्णायां क्वचित्साधारणधर्मस्यानुगामितया निर्देशः । क्वचिद्वस्तुपति- वस्तुभावेन । क्वचिद्विम्बप्रतिबिम्बभावेन । क्वचिच्छेषेण । क्वचिदुपचारेण । कंचित्समासान्तराश्रयेण । क्वचिदेषां यथासंभवं मिश्रणेन । लुप्तायां तु नैवं भेदाः । तस्यां साधारणधर्मस्यानुगामित्वनियमात् । किं तु प्रकारान्तरेण भेदा वक्ष्यन्ते । तन्नु पूर्णायां धर्मस्यानुगामिता यथा- 'वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ औत्पत्तिकस्तु शब्दस्यार्थेन संबन्ध इति वागर्थयोनित्यसंबन्धित्वं प्रसि- द्धम्। उमामहेश्वरयोरप्यनयोन पृथग्भावः चन्द्रचन्द्रिकयोरिवेति तत्प्रसिद्धम्। तथा च नित्यसंबन्धित्वरूपोऽत्र साधारणधर्मोऽनुगामितया निर्दिष्टः । यद्यप्युमामहेश्वरयोर्वागर्थवन्नित्यसंबन्धित्ववर्णनेन तेयोनिरतिशयपरस्परप्रे- मशालित्वं महामहिमत्वमित्यादि व्यज्यते तथापि न ध्वनिगुणीभूतव्य- झ्यव्यवहारः । न खलु व्यङ्ग्यसंस्पर्शप्रतिभासादेवात्र चारुताप्रतीतिः, किं तु वाच्यवैचित्र्यप्रतिभासादपीति प्रायस्तत्र संभवद्रसादिरूपं व्यङ्गयमलं- फारान्तरं चागणयित्वैव तत्तदलंकारा उदाह्रियन्ते । एकस्यैव धर्मस्य संबन्धिभेदेन द्विरुपादानं वस्तुप्रतिवस्तुभावः । स तु शुद्धो न संभवति । किं तु विशेषणतया विशेष्यतया वा सर्वत्र बिम्बप्र- तिविम्बभावकरम्बितः । वस्तुतो भिन्नयोधर्मयोः परस्परसादृश्यादभिन्नत- याध्यवसितयोर्द्विरुपादानं बिम्बप्रतिबिम्बभावः। तत्र वस्तुप्रतिवस्तुभावस्य वि- शेषणता यथा- 'यान्त्या मुहुर्वलितकंधरमाननं त- दावृत्तवृन्तशतपत्रनिभं वहन्त्या। दिग्धोऽमृतेन च विषेण च पक्षालाक्ष्या • गाढं निखात इव मे हृदये कटाक्षः ॥' अत्र बिम्बप्रतिबिम्बभावेन निर्दिष्टयोः कंधरावृन्तयोर्वलितावृत्तश- १. 'श्रयणेन' का २. 'तयोरतिशय ख-घ. - चित्रमीमांसा। १९ - शब्दाभ्यामेक एंव धर्मो विशेषणतया निर्दिष्टः । विशेष्यता यथा- 'सा तेन जगृहे साध्वी हठात्साध्वसकम्पिता । वानरेणातिलोलेन वाताधूते वल्लरी ॥' अत्र साध्वसवातयोर्बिम्बप्रतिबिम्बभावापन्नयोः कम्पिताधूतशब्दाभ्यामेक एव धर्मो विशेप्यतया निर्दिष्टः । शुद्धबिम्बप्रतिबिम्बभावो यथा---'पा- ण्ड्योऽयमंसार्पितलम्बहारः' इत्यादि । अत्र हरिचन्दनबालातपौ हार- निर्झरौ च विम्बप्रतिविम्वभावेन निर्दिष्टौ । श्लेषो यथा- 'नरसिंह महीपाल समस्तोऽपि रिपुस्तव । पारावारसमानत्वं दधाति स्वपदच्युतः ॥' उपचारो यथा-- 'उद्भवन्तमुदिताचिषं ततो भानुमन्तमिव हेमभूभृतः । पङ्कजैरिव कुमारमीक्षणैर्विस्मयेन विकचैः पपुर्जनाः ॥' अव विकासः पुष्पधर्म उपमेयेषु वीक्षणेखूपचरितः । समासभेदाश्र- यणं यथा- 'तया विवृद्धाननचन्द्रकान्त्या प्रफुल्लचक्षुःकुमुदः कुमार्या । प्रसन्नचेतःसलिलः शिवोऽभूत्संसृज्यमानः शरदेव लोकः ॥' अत्र विवृद्धाननचन्द्रकान्त्येति विशेषणं देव्यां शरदि च समासभेदेन • प्रवर्तते । मिश्रणेप्वनुगामित्वबिम्बप्रतिबिम्बभावयोर्मिश्रणं यथा- 'भीमकान्तैर्नृपगुणैः स बभूवोपजीविनाम् । अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः ।।' अत्राधृष्यत्वमभिगम्यत्वं च नृपगुणानां यादोरत्नानां च बिम्बप्रतिबि- म्बभावमपेक्ष्य लब्धात्मकं साधारणो धर्मः।अनुगामित्व-श्लेषयोर्मिश्रणं यथा- 'गते तव भ्रातरि वत्स पश्चतां चिराय नश्चान्द्रमसं कुलं महत् । अदृष्टसंतानतया न शोभते वनं हरेः प्रामथनादिवोदधेः ॥' अत्र संतानशब्द श्लेषमपेक्ष्य लब्धात्मकं शोभारहितत्वं संधारणो धर्मः। अनुगामित्वोपचारयोमिश्रणं यथा-- १. 'प्रसन्न' कं-ध. २. 'साधारणधर्मः' ख-ग.. HTTARRIrnwwwmutnAmar २० काव्यमाला। 'तडिदुज्ज्वलहेतिमुत्तरः कुरुराजध्वजिनीं विलोकयन् । प्रिययेव भिया सकम्पयी परिरेभे धृतधर्मपाथसा ॥' • अत्र सकम्पत्वानुगामिधर्मापेक्षया लब्धचारुभावं परिरम्भकर्तृत्वं भी- त्यामुपचरितम् । अनुगामित्वसमासभेदाश्रयणयोर्मिश्रणं यथा- 'श्येनपक्षपरिधूसरालकाः सांध्यमेघरुधिरावाससः । अङ्गना इव रजस्वला दिशो नो बभूवुरवलोकनक्षमाः ॥'. अत्र श्येनपक्षपरिधूसरेत्यादिविशेषणयोः समांसभेदाश्रयणेन साधारण्य- मपेक्ष्यानवलोकनक्षमत्वमनुगामिधर्मश्चारुतातिशयं पुष्णाति । वस्तुप्रतिव- स्तुभावबिम्बप्रतिबिम्बभावयोर्मिश्रणं यथा- 'लिङ्गैर्मुदः संभृतविक्रियास्ते ह्रदाः प्रसन्ना इव गूढनकाः । वैदर्भमामन्त्र्य ययुस्तदीयां प्रत्यर्प्य पूजामुपदाछलेन ।' अत्र बिम्बप्रतिबिम्बभावापन्नयोः क्रोधनक्रयोः संवृतगूढशब्दाभ्यामेक एव धर्म उक्त इति बिम्बप्रतिबिम्बभाववस्तुप्रतिवस्तुभावः । संतोषर्चिहप्र- सादयोर्बिम्बप्रतिबिम्बभावश्च । श्लेषबिम्बप्रतिबिम्बभावयोर्मिश्रणं यथा- 'पार्थनाशमुदिता नृपात्मजा बाप्पमूहुरविनीतमन्यवः । आतपक्वथितपाथसो बहिः शीतगर्भसलिला इव ह्रदा ॥' अत्र बाष्पशब्दे श्लेषस्य नृपात्मजबदविशेषणानां बिम्बप्रतिबिम्बभाव- मपेक्ष्य चारुता । उपचारबिम्बप्रतिबिम्बभावयोमिश्रणं यथा- 'सा किलाश्वासिता चण्डी भी तत्संश्रुतौ वरौ । उद्ववामेन्द्रसिक्ता भूबिलमग्नाविवोरगौ ॥' अत्राश्वासितेन्द्रसिक्तेत्यनयोर्वरोरगाणां च बिम्बप्रतिविम्बभावमपेक्ष्यो- द्वमनमुपमानोपमेययोर्द्वयोरप्युपचरितम् । मुख्यार्थत्य द्वयोरप्यसंभवात् । मुख्यार्थे तस्य ग्राम्यत्वाच । तदाहुः- 'निष्ठचूतोगीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्तु(त्र) ग्राम्यकक्षां विगाहते ॥' इति । . १'शब्देन' क. २. 'यदाहुः क.

चित्रमीमांसा। २१ -- एवमन्यदपि द्वयोमिश्रणमूह्यम् । अनुगामित्वबिम्बप्रतिबिम्बभावसमा- सभेदाश्रयणानां मिश्रणं यथा- 'नृपं तमावर्तमनोज्ञनाभिः सा व्यत्यगादन्यवधू वित्री । महीधरं मार्गवशादुपेतं स्रोतोवहा सागरगामिनीव ॥' अत्र व्यत्यगादित्यनुगामिधर्मः । अन्यवधू वित्री सागरगामिनीत्यनयो- बिम्बप्रतिबिम्बभावः । आवर्तमनोज्ञनाभिरित्यत्र समासभेदाश्रयणमित्येतेषां मिश्रणम् । अनुगामित्वश्लेषोपचाराणां मिश्रणं यथा- 'असौ मरुच्चुम्बितचारुकेसरः प्रसन्नताराधिपमण्डलाग्रणीः । वियुक्तरामातुरदृष्टिवीक्षितो वसन्तकालो हनुमानिवागतः ॥' अत्रातुरदृष्टिवीक्षित इत्यादावनुगामिता । रामादिशब्दश्लेषः । चुम्बित- शब्दस्य वसन्तपक्षे उपचारः । इत्येतेषां मिश्रणम् । एवमन्येऽपि मिश्रणो- दाहरणभेदाः स्वयमेव द्रष्टव्याः । बिम्बप्रतिबिम्बभावोदाहरणेषु कश्चिद्वि- शेषः । क्वचित्प्रसिद्धसाधर्म्यतया प्रतीयमानसाधर्म्ययोबिम्बप्रतिबिम्बभावः । यथा-'पाण्ड्योऽयमंसार्पितलम्बहारः' इत्यादौ । क्वचिदप्रसिद्धसाधर्म्य- तया येनकेनचित्प्रकारेणोपात्तसाधारणधर्मयोर्बिम्बप्रतिबिम्बभावः । यथा- 'तया विवृद्धाननचन्द्रकान्त्या' इत्यादौ । अत्र हि शरदपर्णयोः स्वतोऽप्र- सिद्धसाधर्म्ययोर्विवृद्धाननेत्यादिना समासभेदाश्रयणेनोपात्तसाधारणधर्मयो- रेव बिम्बप्रतिबिम्बभावः । यथाकथंचित्साधर्म्यप्रतीति विना बिम्बप्रति- बिम्बभावो न संभवत्येव । 'यथा त्वं गुणवॉल्लोके तथा ते निर्गुणो रिपुः । इतीदमुपमानं तु विपरीतमिति स्मृतम् ॥' इत्युक्तरूपाया विपरीतोपमायाः कथं निर्वाहः । तत्र हि सगुणत्वनिर्गु- णत्वयोर्नोपात्तेन न वा प्रतीयमानेन धर्मेण साधर्म्यप्रतीतिरस्ति । नैष दोषः । तत्राप्यात्यन्तिकत्वस्वाभाविकत्वादिधर्मेण प्रतीयमानेन तयोः साधर्म्यप्र- तीतेः । अन्यथा यथाशब्दोदितस्य सादृश्यस्य सर्वथा निरालम्बलत्वप्रस- ङ्गात् । एवं पूर्णाया दिगुदाहृता । १. 'मिश्रणभेदोदाहरणाः' ख-घ काव्यमाला। २२ लुप्ताष्टविधा-वाचकलुप्ता, धर्मलुप्ता, उपमानलुप्ता, वाचकोपमान- लुप्ता, धर्मोपमानलुप्ता, धर्मवाचकलुप्ता, वाचकोपमेयलुप्ता, धर्मोपमानवाच- कलुप्ता चेति । क्रमेणोदाहरणानि-- 'कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम् । प्रवेहि मां किंकरमष्टमूर्तेः कुम्भोदरं नाम निकुम्भतुल्यम् ॥' अत्र कैलासगौरमित्यत्र वाचकलोपः । निकुम्भतुल्यमित्यत्र धर्मलोपः । वाचकलोपः सर्वत्र समासविधायकशास्त्रकृतः । धर्मलोपस्वैच्छिकः । प्र- भावादिना निकुम्भतुल्यमित्यपि वक्तुं शक्यत्वात् । 'यच्चोराणामस्य च समागमो यच्च तैर्वधोऽस्य कृतः । उपनतमेतदकस्मादासीबत काकतालीयम् ॥' इत्यत्र काकतालशब्दौ वृत्तिविपये काकतालसमवेतक्रियावर्तिनी । तेन काकागमनमिव तालपतनमिव काकतालमिति 'इवार्थे समासाच्च तद्विषयात्' इति ज्ञापकात्सुप्सुपेति समासः। उभयत्रोपमेयं क्रमेण देवदत्तागमनं द- स्यूपनिपातश्च । तेन देवदत्तदस्युसमागमः काकतालसमागमसदृश इति फ- लति । ततः काकतालमिव काकतालीयमिति द्वितीये इवार्थे 'समासाच्च तद्विषयात्' इति छप्रत्ययः । ततश्च पतता तालफलेन यथा काकस्य वध एवमुपनिपतितैर्दस्युभिर्देवदत्तस्य वध इत्यर्थः । यदाह भगवान्भाप्यकारः- 'एवं तर्हि द्वाविमावौँ काकागमनमिव तालपतनमिव काकतालं काकताल- मिव काकतालीयम्' इति । तच्च विवृतं कैयटेन- "तत्र काकागमनं देवदत्तागमनस्योपमानम् । तालपतनं दस्यूपनिपा- तस्य । तालेन तु यः काकस्य वधः स देवदत्तस्य दस्युना वधस्योपमान- मिति । अकस्मादुपनतत्वं च समानो धर्मः । तदाह वृत्तिकार:--'तेन काकतालीयं नामाकस्सादुपनतं चित्रीकरणमुच्यते ।' इति । ततश्चात्र का- कागमनतालपत्नसमागमनरूपस्य पतत्तालकृतकाकवधरूपस्य चोपमानस्या- नुपादानात् । प्रत्ययार्थोपमायामुपमानलोपः । समासार्थोपमायां - वाच कोप- मानलोपः । अत्रैव, 'किमिति बमो वयमिदम्' इति तृतीयपादपाठे प्रत्यया- ----- चित्रमीमांसा। २३ ma- र्थोपमायां धर्मोपमानलोपः । समासार्थोपमायां धर्मोपमानवाचकलोपः । अत्र धर्मलोपमात्रमैच्छिकम् । 'यं त्वं पालयसे धर्म वृत्त्या च नियमेन च । स वै राघवशार्दूल धर्मस्त्वामभिरक्षतु ॥' अत्र राघवः शार्दूल इवेत्यर्थे 'उपमितं व्याघ्रदिभिः सामान्याप्रयोगे' इति समासे धर्मवाचकयोर्लोपः । अत्र वाचकलोपवद्धर्मलोपोऽपि शास्त्रीयः । सामान्यप्रयोग एवैतत्समासानुशासनात् । धर्मवाचकलुप्तायां धर्मलोपस्यै- च्छिकत्वमपि संभवति । यथा- 'नृणां यं सेवमानानां संसारोऽप्यपवर्गति । तं जगत्यभजन्मर्त्यश्चञ्चा चन्द्रकलाधरम् ॥ अत्रापवर्ग इवाचरतीत्यर्थेऽपवर्गतीत्यत्राचारार्थस्य क्विपो लोपाद्वाचकव- द्धर्मस्यापि लोपः । चञ्चेत्यत्र चञ्चा तृणपुरुष इवेत्यसिन्नर्थे 'इवे प्रतिकृतौ' इति विहितस्य कनो 'लुम्मनुष्ये' इति लुब्विधानाद्वाचकलोपो धर्मलोपश्च । अस्य श्लोकस्य 'यद्भक्तानां सुखमयः संसारोऽप्यपवर्गति । तं शंभुमभजन्मर्त्यश्चञ्चैवात्महिताकृतेः ॥' इति पाठे नोभयत्रापि धर्मस्य श्रवणमपि संभवति । 'रूपयौवनलावण्यस्पृहणीयतराकृतिः। पुरतो हरिणाक्षीणामेष पुष्पायुधीयति ॥ अत्र वाचकोपमेययोर्लोपः । रूपयौवनेत्यादिस्वविशेषणसामर्थ्यात्स्वा- त्मानं पुप्पायुधमिवाचरतीत्यस्यार्थस्य गम्यमानत्वात् खात्मन उपमेयस्य लोपः कवेरैच्छिकः । न चैप इत्युपमेयस्योपादानमस्तीति शङ्कयम् । तस्य कर्मविभक्त्यभावेन पुष्पायुधीयतीत्यत्रोपमेयासमर्पकत्वात् । अत्रैव हरिण- स्याक्षिणी इवायते अक्षिणी आसामित्यस्मिन्नर्थेऽनुशिष्टे हरिणाक्षीणामिति पदे धर्मोपमानवाचकानां लोपः । सर्वोऽप्ययं 'सप्तम्युपमानपूर्वपदस्य' इ- त्यादिशास्त्रकृत एव लोपः। त्रिलोपे धर्मलोपस्त्वैच्छिकोऽपि संभवति । यथा- २४ काव्यमाला। “यच्चोराणामस्य च' इति श्लोकस्य द्वितीयपाठे समासार्थोपमायाम् । एवं लुप्ताया अष्टौ विधाः प्रदर्शिताः । ' काव्यप्रकाशिकाकारादिभिस्तु पूर्णायाः पड्विधाः लुप्तायास्तु धर्मलुप्ता- दिष्ववान्तरभेदेन कैश्चिदेकोनविंशतिरन्यैर्विशतिविधाः प्रदर्शिताः । तत्रायं विभागः-पूर्णा तावद्विविधा श्रौती आर्थी च । सादृश्यमात्रवाचकयथे- वादिशब्दवती श्रौती । सादृश्यविशिष्टधर्मिपर्याप्ततुल्यसदृशसंकाशादिशब्द- वती आर्थी । द्विविधापि वाक्ये समासे तद्धिते . चेत्येवं पढ़िधा पूर्णा । धर्मलुप्तापि पूर्णावदेव विभागवती । किं तु श्रौती तद्धितेन संभवतीत्येवं पञ्चविधा । वाचकलुप्ता कर्मकर्तृणमुलोः कर्माधिकरणक्यचोः क्यङि णिनी समासे चेत्येवं सप्तविधा । उपमानलुप्ता वाक्यसमासयोद्विविधा । धर्मवा- चकलुप्ता क्विप्समासयोर्द्विविधा । धर्मोपमानलुप्ता वाक्यसमासयोद्विविधा । उपमेयवाचकलुप्ता क्यचि एकविधा । धर्मवाचकोपमानलुप्ता समास एवै- कविधेति । यदाहुः- - 'पूर्णा लुप्ता च सा द्वेधा श्रोत्यार्थी चेति ते पुनः । द्विविधे प्रथमा वाक्ये समासे तद्धिते भवेत् ।। तद्वल्लुप्तापि धर्मस्य लोपे श्रौती न तद्धिते । इवादिलोपे द्विविधे णमुलि क्यचि च क्यङि । तथा णिनौ समासे च सप्तधा परिकीर्तिता । उपमानस्य लोपे तु द्विधा वाक्यसमासयोः । इवादिधर्मलोपेऽपि द्विविधा विप्समासयोः । धर्मोपमानयोर्लोपे वाक्यगा च समासगा ॥ इवादेरुपमेयस्य द्वयोर्लोपे भवेत्क्यचि, इवादिधर्मोपमानलोपे त्वेषा समासगा ॥ इति ॥ अत्रोदाहरणानि तन्मतरीत्या संगृह्यासाभिलिख्यन्ते- 'यस्याज्ञा शिरसोह्यते सुमनसां वृन्दैर्यथा मालिका बद्धा मुञ्चति यः पशूनिव जनान्यस्याभ्रवद्वैभवम् ।। १. 'लुप्तायां' क-घू. २. “पर्यन्त' क. ३. 'तु' ख. - -MARATHI चित्रमीमांसा। २५ हृद्यं शेवधिना समं हृदि भजन्त्यानन्दसारोपमं यं धन्याः शशिवत्प्रसन्नवपुषे तस्मै नमः शंभवे ।' अत्र षड्डिधापि पूर्णा दर्शिता। तत्र प्रश्नमवाक्ये वाक्यगा श्रौती । द्विती- यवाक्ये समासगा श्रौती । 'इवेन नित्यसमासो विभत्त्यलोपः पूर्वपदप्रकृ- तिवरत्वं च' इति वार्तिककृद्वचनेन पशूनिवेत्यस्य समासपदत्वात् । तृतीयवाक्ये तद्धितगा श्रौती। अभ्रवदिति षष्ठीसमर्थाद्वतः 'तत्र तस्येव' इति सूत्रेणेवार्थे विहितत्वात् । 'हृद्यं शेवधिना समं हृदि भजन्ति' इत्यत्र वाक्यगा आर्थी । आनन्दसारोपमं इत्यत्र समासगा आर्थी । हृद्यमिति विशेषणमत्राप्यपेक्ष्यते । अन्यथा धर्मलुप्तैव स्यान्न पूर्णा । शशिवदित्यत्र तद्धितगा आर्थी । तत्रत्यवतेः 'तेन तुल्यं क्रिया चेद्वतिः' इति तुल्यार्थे विहितत्वात् । 'मूर्तिर्यथा नवसुधा बलभिन्मणीव कण्ठप्रभा सुसदृशश्च जटास्तडिद्भिः। शङ्खाक्षि काञ्चननिभं पदमजदेश्य यस्यैष मेऽस्तु हृदि दैवतसार्वभौमः ।।' अत्र पञ्चविधापि धर्मलुप्ता दर्शिता । तत्र मूर्तिर्यथा नवसुधेति वाक्यगा । बलभिन्मणीव कण्ठप्रभेति समासगा श्रौती । उभयत्रापि भातीत्यादिक्रि- याप्रयोगे सैव साधारणो धर्म इति धर्मलुप्ता न भवेत् , अतस्तदप्रयोगः । श्रौती तु धर्मलुप्ता तद्धिते न संभवति । षष्ठीसमर्थात्सप्तमीसमर्थाद्वा इवार्थे विहितस्य वर्धर्मोपादानं विनान्वयसौकर्याभावात् । न च वाच्यं 'इवे प्रतिकृतौ' इत्यधिकारे इवार्भे विहितस्य तद्धितस्य धर्मोपादानं विना नैरा- कायमस्ति । 'कुशाग्रीया बुद्धिः' 'शैलेयं दधि' 'पौण्डरीकं मुखम्' इति दर्शनात् । अतस्तत्र श्रौती धर्मलुप्ता तद्धित उदाहर्तुं शक्यत इति 'इवे प्रतिकृतौ' इत्यधिकारे विहितप्रत्ययानां तुल्यार्थे एव विधानात् । अन्यथा तेषां सादृश्यविशिष्टधर्मिपर्यन्तत्वाभावेन कुशाग्रीया बुद्धिरित्याद्युपमेयसा- मानाधिकरण्यासंभवात्सादृश्यविधानमपि सदृशे पर्यवस्यति. सामानाधि- २६ काव्यमाला। करण्यदर्शनादिति सूत्रे इवग्रहणं न विरुध्यते । सुसदृशश्चेत्यादि वा- क्यत्रये क्रमेणार्थी, वाक्यगा समासगा तद्धितगा च । अजदेश्यमित्यत्रेप- दसमाप्तौ विहितोऽपि देश्यप्रत्ययः सादृश्ये प्रयुज्यते सोऽपि सामानाधि- करण्यात्सदृशपर्यवसायी । ननु सदृशादिशब्दप्रयोगे सादृश्यविशिष्टध- मिपर्यन्तत्वादा ति युक्तम् सादृश्यादिशब्दप्रयोगे कथम् । किं श्रौती उतार्थी । यथा- 'परस्पराक्षिसादृश्यमदूरोज्झितवमसु । मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिपु ।' इत्यादौ श्रौत्येवेति ब्रूमः । तत्र तद्धितप्रकृत्या धर्मिपर्यन्ताभिधानेऽपि प्रधानप्रत्ययाभिहितस्य सादृश्यस्यैव वाक्यार्थान्वयित्वात् । 'यं पश्यन्दीप दर्श सपदि मनसिजः कीटनाशं स नष्टः स्वान्ते योऽन्तःपुरीयत्यतिभजनकृतस्तं कुमारीयति द्राक् । मूलस्तम्भायते यस्त्रिभुवनभवने कोकिलालापिनी यं वामाङ्गे कल्पवल्ली श्रयति कुवलयश्यामला तं भजामि ॥' अत्र सप्तविधापि वाचकलुप्ता दर्शिता । तत्र दीपमिव पश्यन्नित्यर्थे दीपदर्शमिति कर्मणमुलि, कीट इव नष्ट इत्यर्थे कीटनाशं नष्ट इति क- र्तृणमुलि, वान्तेऽन्तःपुर इवाचरतीत्यर्थेऽन्तःपुरीयतीत्यधिकरणक्यचि, कुमारं स्कन्दमिवाचरतीति कर्मक्यचि, त्रिभुवनस्योत्पत्ती मूलस्तम्भ इवा- चरतीत्यर्थे मूलस्तम्भायत इति कर्तृक्यङि, कोकिल इवालपतीत्यर्थे कोकि- लालापिनीति णिनौ, कुवलयमिव श्यामलेत्यर्थे कुवलयश्यामलेति समासे च क्रमेण वाचकलुप्ता द्रष्टव्या । 'पूजनं पुररिपोस्तनोतु मे चित्तमन्यदपहाय चापलम् । . यत्समं प्रियहितं न दृश्यते येन नापि सदृशं निशम्यते ।।' अत्र यत्सममिति समासे येन सदृशमिति वाक्ये चोपमानलुप्ता द्वि- विधापि दर्शिता । 'वृथा मम भ्रमत्यहो मनः स्थिते महेश्वरे श्रुतोऽस्ति तेन किं समः स्मृतोऽथवास्ति तत्समः ।

चित्रमीमांसा। २७. षडङ्यत्वदः सदा तदङ्ग्रिपङ्कजद्वये चकोरकीयतु स्थिरं तदानने शशिप्रभे ॥' अत्रावशिष्टाः षड्डिधा अपि लुप्ता प्रदर्शिताः । तत्र द्वितीयपादे वा. क्यसमासयोधमोंपमानलुप्ता द्विविधा, तृतीयपादे विप्समासयोधर्मवाचक- लुप्ता द्विविधा, चकोरकीयत्विति वाचकोपमेयलुप्ता, शशिप्रभ इति धर्मो- पमानवाचकलुप्ता च क्रमेण द्रष्टव्या । एवमयं पूर्णालुप्ताविभागो वाक्यसमासप्रत्ययविशेषगोचरतया शब्दशास्त्र- व्युत्पत्तिकौशलप्रदर्शनमात्रप्रयोजनो नातीवालंकारशास्त्रे व्युत्पाद्यतामहति । न वा लुप्तानामयं सामस्त्येन विभागः । तथाहि-धर्मलुप्ता वाक्यसमासत- द्धितेषु दर्शिता द्विर्भावेऽपि दृश्यते-'पटुपटुर्देवदत्तः' इति । अत्र हि 'प्रकारे गुणवचनस्य' इति सादृश्ये द्विर्भावविधानात् । पटुसदृश इत्यर्थः । यो हि शास्त्रादिष्वपटुरेव पटुवदभिनयति स उच्यते पटुपटुरिति । न ता- वदियं वाक्ये धर्मलुप्ता । 'कर्मधारयवदुत्तरेषु' इति समाससद्भावविधानेनै- कपद्यसिद्धेः । अत एव न समासेऽपि धर्मलुप्तेयम् । वाचकलुप्ता णिनि विनों कैश्चित्षड्विधा दर्शिता । णिनिना सहापरैः सप्तविधा । विप्तैद्धितयो- रपि दृश्यते- 'यद्भक्तानां सुखमयः संसारोऽप्यपवर्गति । तं शंभुमभजन्मर्त्यश्चञ्चैव स्वहिताकृतेः ॥' इति विवृतमेतदधस्तात् । वाक्यसमासयोरुपमानलुप्तापि दर्शिता । 'उ. पनतमेतदकस्मादासीहत काकतालीयम्' इति तद्धितेऽपि दृश्यते । वाच- कोपमानलुप्ता स्वरूपत एव नोदाहृता । सापि काकतालीयमिति प्रकृतिभूते समासे दृश्यते । धर्मोपमानलुप्तापि तद्धिते काकतालीयमित्यत्र दृश्यते । धर्मवाचकलुप्ता विप्समासोरिव तद्धितेऽपि दृश्यते । 'तं जगत्यभजन्म- य॑श्चञ्चा चन्द्रकलाधरम्' इति हि प्रागुदाहृतम् । तस्माल्लुप्ताविभागे दि- ड्मात्रप्रदर्शनमेवेदं प्राचां न तु सामस्त्येन विभागः । ये चान्ये काव्यालो- १. 'अत्रावशिष्टा पड्विधापि लुप्ता प्रदर्शिता' क-घ. २. 'विनापि' ख. ३: 'लु- प्तक्विप' क. -- - Manmansmittari IR......

. काव्यमाला। 6 - nh कादिषूपमायां प्रकारभेदा दर्शितास्ते सर्वे तेष्वेव द्रष्टव्याः । दर्शिताश्चे- हापि लेशतो लक्षणविचारप्रस्तावे । रूपकप्रकरणे चास्याः प्रकारभेदा- कांश्चित्प्रदर्शयिष्यामः । पुनश्चयमुपमा संक्षेपतस्त्रिधा-क्वचित्स्ववैचित्र्यमात्रविश्रान्ता यथा- 'स च्छिन्नमूलः क्षतजेन रेणुः' इत्यादौ । क्वचिदुस्तार्थोपपादनपरा यथा- 'अनन्तरत्नप्रभवस्य' इत्यादौ । यथा वा- 'विश्रब्धघातदोषः खवधाय खलस्य वीरकोपकरः । वनतरुभङ्गध्वनिरिव हरिनिद्रातस्करः करिणः ॥' क्वचिद्व्यङ्गयप्रधाना सा व्यङ्ग्यस्य वस्त्वलंकाररसरूपतया त्रैविध्यात्रि- विधा । तत्र वस्तुध्वनिर्यथा- 'दर्पान्धगन्धगजकुम्भकपाटकूट- संक्रान्तिनिघ्नघनशोणितशोणरोचिः । वीरैर्व्यलोकि युधि कोपकषायकान्तिः कालीकटाक्ष इव यस्य करे कृपाणः ।।' अत्र कृपाणस्य कुपितकालीकटाक्षसादृश्यवर्णनेन सकलरिपुबलक्षयः क्षणादेव करिष्यत इति वस्तु व्यज्यते । अलंकारध्वनिर्यथा- 'यशसि तव विकसिते नृप हिमकरकिरणच्छटाधवले । भ्रमर इव पुण्डरीके विराजते विष्णुपदमेतत् ॥' अत्रोपमालंकारेण यशसः पुण्डरीकवद्वैपुलस्य, गगनस्य च भ्रमरवदल्प- त्वस्य प्रतीतेराश्रयायिणोरनानुरूप्यलक्षणोऽधिकालंकारो व्यज्यते । रस- ध्वनिः 'वागर्थाविव' इत्यादावुदाहृतः । क्वचिदेकत्रैव त्रिविधोऽपि ध्वनिर्दृश्यते यथा- 'पश्यात्र नलिनीपत्ते बलाका परिदृश्यते। हरिन्मणिमये पात्रे शुक्तिकेव प्रतिष्ठिता ॥' M monwitSTHyundeaminwood १. 'पश्याद्य' कृ-घ.

चित्रमीमांसा। २९ किमावयोः संकेतस्थानं भविष्यतीति प्रष्टुमनसो जनसमक्षमपृच्छ्रतश्च प्रच्छन्नकामुकस्याभिप्रायमिङ्गितेन विदितवत्या विदग्धायाः संकेतस्थान- सूचनार्थमिदं वचनम् । अत्र पद्मपत्रस्थितबलाकाया मरकतपात्रप्रतिष्ठित- शुक्तिकासादृश्यवर्णनेन तस्यास्तद्वन्निश्चलत्वप्रतीतेराश्वस्तत्वं व्यज्यते तेन. तत्प्रदेशस्य निर्जनत्वं व्यज्यते इति वस्तुध्वनिः । ततश्च तदेव संकेतस्थान- मावयोरिति प्रकाशनात्संलक्षितसूक्ष्मार्थप्रकाशनरूपसूक्ष्मालंकारध्वनिः । एवं तदभिप्रायानुरूपवर्णनात्परस्परं रतिभावो व्यज्यते इति रसध्वनिश्च । 'ननु रसादिध्वनिरसंलक्ष्यक्रम इति प्रसिद्धिः कथमत्र तस्यानुरणनेन व्यङ्ग्यतोच्यते । मैवम् । यत्र विभावाभावादिवशादाशु भाविनी रसाभि- व्यक्तिस्तत्रासंलक्ष्यक्रमता । अन्यत्र तु रसादिध्वनिरपि संलक्ष्यक्रम एव । तदुक्तमभिनवगुप्तपादाचार्यैः--'यद्यपि रसभावादिरों ध्वन्यमान एव न वाच्यः कदाचिदपि तथापि न सर्वोऽसंलक्ष्यक्रमस्य विषयः' इति । अत एव ध्वनिकारोऽपि- “एवं वादिनि देवर्षों पार्थे पितुरधोमुखी । लीलाकमलपत्राणि गणयामास पार्वती ॥' इत्यत्र लजाख्यं संचारिभावमनुरणनव्यङ्गयमुदाजहार । अथोपमाव्यङ्ग्यप्रसङ्गादुपमाध्वनयः प्रदर्श्यन्ते । तत्र शब्दशक्तिमू- लोपमाध्वनिर्यथा-- 'किरति प्रकरं गवां प्रकामं सुमनःस्वच्छतरं निधौ कलानाम् । कतिचित्कलयन्ति यत्प्रबोधं कतिचिन्नेति स तत्स्वभाव एव ।' एकस्माद्गुरोविद्यां शिक्षमाणानां केचिप्रगल्भन्ते नान्य इति विशेषो बोधकस्य गुरोस्तेषु तेषु बोधनविशेषकृतो न भवति किं तु तत्स्वभावकृत इत्यस्मिन्नर्थे प्रकृतेऽप्रकृतार्थस्योपमानत्वकल्पनयात्रैवमुपमा व्यज्यते यथा चन्द्रे किरणानां प्रकरमविशेषेण सर्वपुष्पेषु विकिरति कानिचिद्विकसन्ति नान्यानीत्येष विशेषस्तत्तत्पुष्पस्वभावकृत एव न तु चन्द्रस्य किरणवि- tainmsan- १. 'प्रसिद्धः ख. २. 'रूप' ग.

काव्यमाला। किरणविशेषकृतः । एवं गुरौ सर्वशिष्येष्वविशेषेण वाङ्मयं विकिरति तेषु बोधाबोधविशेषोऽपि तत्तत्स्वभावकृत एवेत्यत्र श्लिष्टानां गोसुमनः- कलनिधिशब्दानां वागादिपर्यायपरिवृत्त्यसहिष्णुत्वाच्छब्दशक्तिमूलानुर- णनरूपध्वनिः। अर्थशक्तिमूलो वस्तुनोपमाध्वनिर्यथा- 'वाहि वात यतः कान्ता तां स्पृष्टा मामपि स्पृश। त्वयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागमः ॥ अत्रार्थशक्त्या चन्द्रे दृष्टिसमागम इत्यनेन चन्द्रे सीतामुखसादृश्यं व्य- ज्यते । अलंकारेणोपमाध्वनिर्यथा- 'यैदृष्टोऽसि तदा ललाटपतितप्रासप्रहारो युधि स्फीतासृक्त्रुतिपाटलीकृतपुरोभागः परान्दारयन् । येषां दुःसहकामदेहदहनप्रोद्भूतनेत्रानल- ज्वालालीभरभासुरे पुररिपावस्तं गतं कौतुकम् ॥' अत्रान्यत्कार्य प्रकुर्वतोऽशक्यान्यवस्तुकरणात्मको विशेषालंकारः । उकरूपं त्वां पश्यतो यथोक्तविशेषणविशिष्टपुररिपुदर्शनमासीदिति निब- न्धनात्करणस्य क्रिया सामान्यात्मनो दर्शनेऽपि सद्भावाद्यद्यप्ययमों न वाच्यस्तथापि तस्मिन्कौतुकास्तमयवर्णनाद्यङ्गयः । तेन तदा त्वं तथाभूतः पुररिपुरिव स्थितोऽसीत्युपमा व्यज्यते । एवमुपमादिगुदाहृता । अथोपमादोषाश्चिन्त्यन्ते-न्यूनत्वमधिकत्वं लिङ्गभेदो वचनभेदोऽसा- दृश्यमसंभव इत्यस्याः षड् दोषानाहुः । तत्रोपमेयादुपमानस्यापकृष्टत्वं न्यूनत्वम् । उत्कृष्टत्वमाधिक्यम् । द्वयमपि जात्या प्रमाणेन धर्मतो वेति प्रत्येकं त्रिविधम् । तत्र जातिप्रमाणगतन्यूनत्वाधिक्ये यथा- 'चण्डालैरिव युष्माभिः साहसं परमं कृतम् ।' 'वहिस्फुलिङ्ग इव भानुरयं चकास्ति ।' 'अयं पद्मासनासीनश्चक्रवाको विराजते । युगादौ भगवान्वेधा विनिर्मित्सुरिव प्रजाः ॥'

चित्रमीमांसा। ३१. . - 'पातालमिव नाभिस्ते पर्वताविव च स्तनौ । वेणीदण्डः पुनरयं कालिन्दीपातसंनिभः ॥' अत्र चण्डालादिभिरुपमानैः प्रस्तुतोऽर्थोऽत्यन्तमेव कदर्थित इत्यनुचि-. तार्थतायाभिमे न्यूनत्वाधिक्ये पर्यवस्यतः । धर्मतो न्यूनत्वाधिक्ये तु हीना- धिकपदत्वरूपौ दोषौ । यथा- 'स मुनिर्लाञ्छितो मौज्या कृष्णाजिनपटं वहन् । व्यरानन्नीलजीमूतभागाश्लिष्ट इवांशुमान् ॥' 'स पीतवासाः प्रगृहीतशाझे मनोज्ञभीमं वपुराप कृष्णः । शतहदेन्द्रायुधवान्निशायां संसृज्यमानः शशिनेव मेघः ॥' अत्राद्य उपमानस्य मौञ्जीप्रतिबिम्बस्तडिल्लक्षणधर्मो न निबद्ध इति न्यूनत्वम् । द्वितीये उपमेयस्य शङ्खादेरनिर्देशेन शशिनो ग्रहणमतिरि- च्यत इत्याधिक्यम् । लिङ्गवचनभेदो यथा- 'भाग्याभावात्करस्थोऽपि चिन्तारत्नमिव च्युतः । सक्तवो भक्षिता देव शुद्धाः कुलवधूरिव ।।' इमौ प्रक्रमभङ्गान्तर्भूतौ । कथं च्युतत्वादिरत्र साधारणधर्मो भवितुं नार्हति । उपमानोपमेययोर्मध्ये यत्र लिङ्गवचनसारूप्यं तत्रैवास्य समन्वये- नोभयान्वयाभावात् । तथा चोपात्तविशेषणविशिष्टस्यैवोपमानत्वमुपमेयत्वं वा भवेत् । प्रतीयमानेन तु धर्मान्तरेणोपमानिर्वाह्या स्यात् । ततश्चोपमानोप- मेययोः कस्यचित्सविशेषणत्वमन्यस्य नेत्येवं विशेषणप्रक्रमभङ्गरूपता । केचित्तु कालपुरुषलोडर्थादिभेदमपि दोषमाहुः । यथा--- 'तस्यापनोदाय कलप्रवृत्तावुपस्थितायामपि नियंपेक्षः । त्यक्ष्यामि वैदेहसुतां पुरस्तात्समुद्रनेमिं पितुराज्ञयेव ।' अत्र समुद्रानेमिमत्यजमित्यन्वेति न तु त्यक्ष्यामीति । पुरुषभेदो यथा- 'शरीरमात्रेण नरेन्द्र तिष्ठन्नाभासि तीर्थप्रतिपादिद्धिः । आरण्यकोपात्तफलप्रसूतिः स्तम्वेन नीवार इवावशिष्टः ॥'. निवारे आभातीत्यन्वेति न त्वाभासीति ।

काव्यमाला। विध्यादिभेदो यथा- 'आशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवतः पितेव ॥' भवन्तमलभतेत्यन्वेति न तु लभस्वेत्याशीः । असादृश्यासंभवावुपमाया- मनुचितार्थतायां पर्यवस्यतः । असादृश्यं यथा-- . 'प्रश्नामि काव्यशशिनं विततार्थरश्मिम्' काव्यस्य शशिना सादृश्यमप्रसिद्धम् । यद्यर्थानां रश्मीनां च सादृश्यं प्रसिद्धं स्यात्तदा तदीयबिम्बप्रतिबिम्बभावेन काव्यशशिनोः सादृश्यमप्र- सिद्धमप्योनीयेत न च तदप्यस्ति । यथा वा- 'एष विन्ध्याचलः सान्द्रकुञ्जोल्लसितनिर्झरः । भालेक्षणस्फुरद्वह्निशिखाटोप इवेश्वरः ॥' असंभवो यथा- निपेतुरास्यादिव तस्य दीप्ताः शरा धनुर्मण्डलमध्यभाजः । जाज्वल्यमाना इव वारिधारा दिनार्धभाजः परिवेषिणोऽर्कात् ।। ज्वलन्त्योऽम्बुधाराः सूर्यमण्डलान्निष्पतन्त्यो न संभवन्तीत्यसंभवः । केचिदुपमानाप्रसिद्धिं पृथग्दोषमाहुः । यथा- 'बाष्पदिग्धेक्षणं वक्र तरुण्याः परिदृश्यते । तुषारसिक्तच्छदनं तरङ्गिण्या इवोत्पलम् ॥' अत्र बाष्पदिग्धेक्षणं तुषारसिक्तच्छदनमित्यनयोर्बिम्बप्रतिबिम्बमावेन सादृश्यसंभवेऽप्युत्पलस्य मुखं प्रत्युपमानत्वाप्रसिद्धिरेव दोषः । अथैषां दोषाणां यथासंभवमपवादाः प्रदान्ते-कविसमयसंमतेषु जात्या प्रमाणेन च न्यूनत्वाधिक्येन दोषौ । यथा- 'तवाननसमश्चन्द्रश्चन्द्रतुल्यं त्वदाननम् । ध्यणुकं मध्यसदृशं मध्यं व्यणुकसंनिभम् ॥' . १. 'काव्यशशिनोः' ग. २. आनीयते' ख. ३. 'सान्द्रः कुञ्जोच्चलित' क-ख. ४. "निष्पेतुः क-ख.

. चित्रमीमांसा। अत्र कविसमयप्रसिद्धेन किंचिदनौचित्यम् । उपमेयोपमानगताधिक- धर्मोपादानस्यैकैकंधर्मकानेकोपमार्थत्वेन वा ‘साधारणधर्मवत्तासंपादनार्थत्वेन वा धर्मिस्वरूपविशेषलाभार्थत्वेन वा विधान्तरेण वा प्रस्तुतकार्यान्तरार्थत्वे धर्मतो न्यूनत्वाधिक्ये न दोषौ । यथा- 'क्षीरोदवेलेव सफेनपुञ्जा पर्याप्तचन्द्रेव शरत्रियामा । नवं नवं क्षौमनिवासिनी सा भूयो बभौ दर्पणमादधाना ॥' इत्यत्रोपमेयगनाधिकविशेषणोपादानस्यैकैकविशेषणकानेकोपमानार्थ- त्वान् । 'क्षीरोदवेला च सफेनपुञ्जा पर्याप्तचन्द्रा च शरत्रियामा । अनुव्यधात्क्षौमनिवासिनी तामच्छप्रभं दर्पणमादधानाम् ॥ इत्यस्यैव श्लोकस्य पाठे उपमानगतानेकधर्मोपादानमेकैकधर्मकोपमाद्व- यार्थमित्युपमानस्य धर्मत आधिक्यान्न दोषः । 'इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः । क्षणमात्रमृषिस्तस्थौ सुप्तमीन इव हृदः ॥' अत्र विज्ञापितविशेषणं ध्यानस्तिमितलोचन इति साधारणधर्मवत्तासं- पादनार्थमिति न्यूनत्वं न दोषः । 'ज्यानिनादमभिगृह्णती तयोः प्रादुरास बहुलक्षपाछविः । ताडका चलकपालकुण्डला कालिकेव निविडा बलाकिनी ॥' अत्र निबिडेति विशेषणं कालिकायां बहुलक्षपाछविरिति साधारण- धर्मवत्तासंपादनार्थमित्याधिक्यं न दोषः । 'अतिथिं नाम काकुत्स्थात्पुत्रमाप कुमुद्वती। पश्चिमाद्यामिनीयामात्प्रसादमिव चेतना ॥' अत्रांतिथिं नामेति विशेषणं धर्मिस्वरूपविशेषलाभार्थमित्याधिक्यं न दोषः। 'रसान्तराण्येकरसं यथा दिव्यं पयोऽश्नुते । देशे देशे गुणेष्वेवमवस्थास्त्वमविक्रियः ॥' १. 'नवक्षौम क-घ. २. 'आधिक्यं' ग. ३. 'काले घ. .

काव्यमाला। - - अत्र दिव्यमिति विशेषणं धर्मिविशेषलाभार्थमित्यधिकत्वं न दोषः । एवं प्रकृतकासंघटनचमत्कारादिकार्यान्तरत्वेऽपि द्रष्टव्यम् । एवं च प्रस्तुतकार्यान्तरोपयोगरहितानां बिम्बप्रतिबिम्बभावेऽपि न सा- धारणधर्मतैकप्रयोजनतया संभाव्यमानानामुपमेयोपमानविशेषणानां प्रतिवि- शेषणानिर्देश एव न्यूनत्वमधिकत्वं च दोषः । कार्यान्तरार्थानामप्यनुगामितया विशेषणनिर्देशेन वा साधारणीकरणे त्वधिको गुणः । यथा-'ज्यानिनादमभिगृह्णती-' इति श्लोके ज्यानिना- दमभिगृह्णतीत्युपमेयविशेषणं ताडका स्वयमेव जिघांसया प्रादुर्भूयं प्रथम- मभिद्रुतवती रामेण हतेति स्त्रीवधानौचित्यपरिहारार्थत्वेऽप्युपमानसाधा- रणम् । कालिकायामपि गर्जितशालिन्यामतिशयोक्त्या तद्विशेषणानुवृत्तेः । तथा-'नृपं तमावर्त-' इति श्लोके 'अन्यवधूभवित्री' इत्यस्य व्यतिक्रम- णार्थत्वेऽपि सागरगामिनीति तत्प्रतिविशेषणनिर्देशः कृतः । यत्र लिङ्गवचनभेदेऽपि सामान्याभिधायिपदं स्वरूपभेदं नापद्यते स तत्र न दोषः । उभयानुगतिक्षमत्वात् । यथा--'भीमकान्तैर्नृपगुणैः । 'तद्वेषोऽसदृशोऽन्याभिः स्त्रीभिर्मधुरताभृतः । दधते स्म परां शोभां तदीया विभ्रमा इव ॥' सामान्याभिधायिपदस्य खरूपभेदापत्तावपि लिङ्गवचनभेदो महाकवि- प्रयोगेषु दृश्यते । 'द्वेष्योऽपि संमतः शिष्टस्तस्यार्तस्य यथौषधम् । त्याज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता ॥' 'प्रवृद्धो हीयते चन्द्रः समुद्रोऽपि तथाविधः । स तु तत्समवृद्धिश्च न चाभूत्ताविव क्षयी ।' इत्यादौ । कालादिभेदे तु भूयास्युदाहरणानि । “एतादृशीषु लोकसि- द्धत्वाल्लिङ्गादिभेदो न दोषः' इति वामनः । एवं गुणदोषव्यवस्थायां सह- दयहृदयमेव प्रमाणम् । उक्तं हि दण्डिना- १. 'तत्र तत्र द्रष्टव्यम्' क. .

चित्रमीमांसा। ३६ . 'न लिङ्गवचने भिन्ने न हीनाधिकते अपि । उपमादूषणायालं यत्रोद्वेगो न धीमताम् ॥. स्त्रीव गच्छति षण्ढोऽयं वक्त्येषा स्त्री पुमानिव । प्राणा इव प्रियोऽयं मे विद्याधनमिवार्जिता ॥ भवानिव महीपाल देवराजो विराजते । अलमंशुमतः कक्षामारोढुं तेजसा नृपः ॥' इत्येवमादि सौभाग्यं न जहात्येव जातुचित् । अस्ति च क्वचिदुद्वेगः प्रयोगे वाग्विदां यथा ॥ हंसीव धवलश्चन्द्रः सरांसीवामलं नभः । भर्तृभक्तो भटः श्वेव खद्योतो भाति भानुवत् ॥ ईदृशं वय॑ते सद्भिः कारणं तत्र चिन्त्यताम् ।' इति । कविसमयप्रसिद्धौ सत्यामसादृश्यं न दोषः । यथा-'चन्द्रधवला कीर्तिः' इत्यादौ । उपमेयगतासंभावितत्वविवक्षायामुपमानस्यासंभवो न दोषाय । यथा-'चन्द्रबिम्बादिव विषम्' इत्यादौ । श्लिष्टसाधारणधर्मा- यामन्यत्रापि सहृदयहृदयाह्लादिन्यां कल्पितोपमानायामुपमायामप्रसिद्धत्वं न दोषः । यथा- 'कविमतिरिव बहुलोहा सुवटितचक्रा प्रभातवेलेव । हरमूर्तिरिव हसन्ती भाति विधूमानलोपेता ॥' 'सद्यो मुण्डितमत्तहूणचिवुकप्रस्पर्द्धि नारङ्गकम्' इत्यादौ । एवमन्येऽपि दोषापवादप्रकारा विद्वद्भिश्चिन्तनीयाः ॥ इति चित्रमीमांसायामुषमाप्रकरणम् । अथोपमेयोपमा निरूप्यते- उपमानोपमेयत्वं द्वयोः पर्यायतो यदि । उपमेयोपमा सा स्याद्विविधैषा प्रकीर्तिता ॥ यदि द्वयोर्यद्वय॑ते सोपमेयोपमेत्युच्यते तदा तुल्ययोगिताझामति- व्याप्तिः । तत्र- १. 'अप्रसिद्धं' का 'अप्रसिद्धिः' ग.

३६ काव्यमाला। 'जनस्य तस्मिन्समये विगाढे बभूवतुद्वौँ सविशेषकान्तौ । तापापनोदक्षमपादसेवौ से चोदयस्थो नृपतिः शशी च ॥ इति द्वयोर्नृपशशिनोयुगपदेकधर्मान्वयवर्णनात् । अतः पर्यायेणेत्युक्तम् तथापि- 'तस्य द्विपानां मदवारिसेकात्खुराभिघाताच तुरङ्गमाणाम् । रेणुः प्रपेदे पथि पङ्कभावं पङ्कोऽपि रेणुत्वमियाय भूयः ॥' इत्यत्रातिव्याप्तिः । तत्र रेणुपङ्कयोः पर्यायेण पङ्करेणुभाववर्णनात् । आ उपमानोपमेयत्वमित्युक्तम् । द्वयोर्यदुपमानोपमेयत्वं वर्ण्यते सोपमेयोपर्मेत्यु क्तेऽपि- 'व्युष्टं प्रमाणं च वियोगवेदनाविदूननारीकमभूत्सम तदा' इत्यु भयविश्रान्तसादृश्यायामुपमायामतिव्याप्तिः। न च तत्रोभयोरपि सादृश्याश्र यत्वरूपस्योपमेयत्वस्यैव प्रतिपादनमस्ति न सादृश्यप्रतियोगित्वरूपस्योप मानत्वस्यातो नातिव्याप्तिरिति वाच्यम् । मुखतः प्रतिपादनाभावेऽपि तयो परस्परमुपमानत्वस्यार्थात्प्रतीतेः । न ह्युपमानोपमेयत्वं यंत्र वाच्यमिति ल. क्षणे विवक्षितम् । व्यङ्गयोपमेयोपमासंग्रहाभावप्रसङ्गात् । अतः पर्यायेणे- त्युक्तम् । एवमपि----'भणितिरिव मतिर्मतिरिव चेष्टा' इत्यादिरसनोप- मायां मतिचेष्टयोः पर्यायभेदेनोपमानत्वस्योपमेयत्वस्य च सत्त्वेनातिव्याप्ति- परिहारायैकस्मिन्पर्याये यं प्रत्युपमानत्वं तं प्रत्येव पर्यायान्तरे उपमेयत्वं विवक्षणीयम् । द्विविधैषेत्युक्तम् । द्वैविध्यं धर्मस्य साधारण्यवस्तुप्रतिवस्तुभावाभ्याम् । 'सुगन्धि नयनानन्दि मदिरामदपाटलम् । अम्भोजमिव ते वकं त्वद्वऋमिव पङ्कज़म् ॥' 'सच्छायाम्भोजवदनाः सच्छायवदनाम्बुजाः । वाप्योऽङ्गना इवाभान्ति यत्र वाप्य इवाङ्गनाः ॥' इति क्रमेणोदाहरणे। अत्रेदं विचार्यते । लक्षणस्य 'त्वद्वल्गुना युगपदुन्मिपितेन तावत्' इति १. 'वियोगवह्निना' क. २. 'तत्र' ख.

चित्रमीमांसा। प्रागुदाहृतायां युगपदुपमेयोपमायामव्याप्तिः। न चेयमुपमेयोपमा न भ- वति, किं तूभयविश्रान्तोपमामात्रमिति शङ्कनीयम् । परस्परतुलामित्यनेन द्वयोरपि प्रतियोगित्वस्यापि प्रतिपाद्यमानतया उपमेयोपमेत्यवयवार्थस्याधि- शिष्टत्वात् । अर्थादपि सिध्यतः परस्परप्रतियोगित्वस्य मुखतः प्रतिपादनेन, तृतीयसदृशव्यवच्छेदरूपफललाभाच्च । च 'रजोभिः स्यन्दनोद्भूतैः' इति प्रागुदाहृतायां परस्परोपमायामतिव्याप्तिः । न च तत्राप्युपमेयोपमा । तृतीयसदृशव्यवच्छेदाप्रतीतेः । द्विविधैषा प्रकीर्तितेति विभागासामञ्जस्य- प्रसङ्गाचं । न ह्यत्र धर्मस्य साधारण्यं वस्तुप्रतिवस्तुभावो वास्ति । गग- नस्य भूतलेन सादृश्ये रजोव्याप्तत्वं साधारणधर्मः । भूतलस्य गगनेन सा- दृश्ये गजानां मेघानां च बिम्बप्रतिबिम्बभाव इत्यत्यन्तविलक्षणत्वात् । अत एवात्र तृतीयसब्रह्मचारिव्यवच्छेदरूपं फलमपि न सिध्यति । एकध- मश्रियेण परस्परसाम्ये वर्ण्यमाने ह्यनयोरस्मिन्विषये तृतीयः सब्रह्मचारी नास्तीति फलति । कस्यचित्केनचित्सादृश्ये वर्णिते तस्याप्यन्येन सादृश्य- मर्थसिद्धमपि मुखतो वर्ण्यमानं तृतीयसदृशव्यवच्छेदार्थ भवतीति हि त- त्फलकत्वे बीजम् । न चैतद्धर्मसाधारण्य इव धर्मभेदेऽपि लभ्यते । रजोभिर्ग- गनस्य भूतलसादृश्यवर्णनेन भूतलस्य मेवाकारैर्गजैगगनसादृश्यस्यार्थतः सिं- ध्यभावात् । अपि च- 'पितासमाराधनतत्परेण पुत्रेण पुत्री स यथैव तेन । पुत्रस्तथैवाधिकवत्सलेन स तेन पित्रा पितृमान्बभूव ॥' इति व्यत्यस्तधर्मिबिम्बप्रतिबिम्बकोपमायामतिव्याप्तिः । अत्र हि पुत्रः पिता चेल्युभावुपमेयोपमानभूतौ धर्मिणौ । तयोस्तावेव व्यत्यासेन पितृमत्व पुत्रित्वमिति साधारणधर्मकोटिप्रविष्टतयोपात्तौ । तयोश्च विम्बप्रतिविम्ब- रूपसाधारण्यापादको धर्मो मतुविनिप्रत्ययोपात्तं प्राशस्त्यम् । प्रशंसायां ह्यत्र तौ प्रत्ययौ पित्रा पितृमानिति संबन्धमात्रस्यौवक्तव्यत्वात् । एवं च १. 'साधर्मे' क. २. 'अव्यक्तावात' क.

काव्यमाला। पुत्रस्य पितुश्च प्रशस्तपितृमत्वं प्रशस्तपुत्रवत्वं च बिम्बप्रतिबिम्बकरम्तेिन वस्तुप्रतिवस्तुभावेन साधारणधर्म इति लभ्यते । तयोश्च पितापुत्रयोः प्रा- शस्त्यप्रतिपादके अधिकवत्सलेन समाराधनतत्परेणेति च विशेषणे । त- तश्च धर्म्युपमायां यः पिता पुत्रस्योपमानं स एव तस्य तदुपपादके बिम्ब- प्रतिबिम्बनिर्देशे उपमेय इति लक्षणस्य वर्तनं तावत्स्पष्टम् । न चेयमुपमे- योपमा । पुत्रपित्रोधर्मिणोरुपमायां प्रशस्तपितृमत्वं प्रशस्तपुत्रवत्वं च वस्तु- प्रतिवस्तुभावेन बिम्बप्रतिबिम्बभावकरम्बितेन साधारणो धर्मः। पितापुत्रयोस्तु धर्मकोटिनिविष्टयोर्वात्सल्यभक्त्यतिशयकृतं प्राशस्त्यमनुगतसाधारणधर्म इति पूर्वोदाहरणसारूप्यात्समुच्चयोपमया पुत्रोऽपि पितृभक्त्या प्रशस्त: पितापि पुत्रवात्सल्येन प्रशस्त इत्यर्थलाभेऽपि तृतीयसब्रह्मचारिव्यवच्छेदालाभाच। न चात्र इवशब्दद्वयादियुक्तपर्यायद्वयाभावात्पर्यायविशेषणेनैवातिव्याप्तिनि- रासः स्यादिति वाच्यम् । वाच्यकक्षायां पुत्रपित्रोरुपमा व्यङ्ग्यकक्षायां पि- तापुत्रयोरिति पर्यायद्वयसत्त्वात् । न हि पर्यायद्वयस्यापि वाच्यत्वमत्र विव- क्षितम् । येनेवशब्दद्वययुक्तपर्यायद्वयाभावादतिव्याप्तिनिरस्येत । तथा सति हि व्यङ्गयोपमेयोपमासाधारण्यं न स्यादित्युक्तम् । न चात्र धर्मिणोरेवोपमा धर्मयोस्तु उपमानोपमेयसाधारण्यार्थमभेद एव प्रतीयते नोपमेति वाच्यम्- 'नलिन्या इव तन्वङ्गयास्तस्याः पद्ममिवाननम् । मया मधुकरेणेव पायं पायमतृप्यत॥' इत्यादौ बिम्बप्रतिबिम्बभावापन्नयोस्तन्वीनलिन्यादिकयोरुपमाया अपि दर्शनेन धर्मयोः सादृश्येन साधारणीकरणस्याप्युपमाप्रयोजकत्वात् । त- स्मात्तत्रातिव्याप्तिशङ्का दुर्वारा । अतोऽनुपपन्नमेवेदं लक्षणं लक्ष्यते । अत्र ब्रूम:- अन्योन्येनोपमा बोध्या व्यक्त्या वृत्त्यन्तरेण वा । एकूधर्माश्रया या स्यात्सोपमेयोपमा मता ॥ अन्योन्येनेति विशेषणान्न रशनोपमायामतिव्याप्तिः । व्यक्या वृत्त्य- १. 'बिम्बप्रतिबिम्बभाव' ख-ग. २. 'साधारण्ये' ख, ग, ३. 'उपपादके' क. - चित्रमीमांसा। ३९ न्तरेण वा बोध्येति विशेषणाच्च नोभयविश्रान्तसादृश्योपमायामतिव्याप्तिः । . परस्परप्रतिक्षेपकविकल्पार्थेन वाकारेण हि या परस्परप्रतियोंगिकत्वविशिष्टो- पमा तद्विषयवृत्त्यन्तरनिरपेक्षव्यक्ति बोध्या तद्विषयव्यक्ति निरपेक्षवृत्त्य- न्तरबोध्या वा भवति सोपमेयोपमेति पर्यवस्यति । ततश्चोभयविश्रान्त- सादृश्योपमायामन्योन्यप्रतियोगिकत्वांशे व्यक्तिः सादृश्यरूपोपमांशे वृत्त्य- न्तरमिति तयोः करम्बितत्वान्नातिव्याप्तिशङ्का । सामान्यलक्षणसिद्ध्यर्थ च व्यक्तिवृत्त्यन्तरयोरन्यान्यत्वेन क्रोडीकृतयोर्ग्रहणम् । एवं हि 'तया गृहीतं नु मृगाङ्गनाभ्यः' इत्यत्र वृत्त्यन्तरापेक्षव्यक्तिबोध्यायामनलंकारभूतायां व्य- क्तिनिरपेक्षवृत्त्यन्तरबोध्यायामलंकारभूतायां चोपमायां लक्षणमनुगतं भव- ति । यद्यपि व्यङ्गयायामप्युपमेयोपमायां शब्दस्य सहकारित्वेन तद्गतश- क्रप्यपेक्षितत्वात् 'खमिव जलं जलमिव खम्' इत्यादौ वाच्याया- मपि गम्यसाधारणधर्मायां तस्यां धर्माशे व्यक्तेरपेक्षितत्वात्परस्परनैरपेक्ष्य- मसंभवि, तथाप्यन्योन्यप्रतियोगिकत्वविशिष्टसादृश्यविषयवृत्त्यन्तरनिरपेक्ष- कत्वं व्यक्तेः तद्विषयव्यक्तिनिरपेक्षत्वं वृत्त्यन्तरस्य चास्त्येव । इदमेव च व्यक्तिपदानपेक्षयालंकारूपाया विशेषलक्षणमपि । तत्र व्यक्तिपदपरित्यागे वृत्त्यन्तरमात्रबोध्येत्येतद्विशेषणं पर्यवस्यति । ततश्चोभयविश्रान्तसादृश्योप: माव्यावृत्तिः । न च तस्यामेकस्यैवोपमानत्वं न तु द्वयोरित्यन्योन्यपदेनैव व्यावृत्ताविदं व्यर्थमिति वाच्यम् । प्राकरणिकाप्राकरणिकयोः सादृश्यवर्ण- नेऽप्राकरणिकस्यैवोपमानत्वलाभेऽप्युभयोरपि प्राकरणिकत्वे विनिगमनावि- रहेण परस्परोपमानत्वप्रतीतेः । एवं धर्माश्रयविशेषणात् 'रजोभिः स्यन्दनो- त्कीर्णैः' इति परस्परोपमायां नातिव्याप्तिः। उक्तविशेषणबलादेव 'पिता समाराधनतत्परेण' इत्युपमायामपि नातिव्याप्तिः । उभयत्राप्युपमेययोभिन्न- धर्माश्रयत्वात् । एकधर्माश्रयेत्यस्य चायमर्थः । कस्यचिदन्येनोपमायां यो धर्मः साधारणो वस्तुप्रतिवस्तुभावापन्नो वा स एवान्यस्य तेनोपमायामपीति । न त्वनुगामिधर्माश्रयेत्यर्थः । बिम्बप्रतिविम्वगर्भवस्तुप्रतिवस्तुभावनिर्देशे तद- भावादिति दिक् । इदं तूपमेयोपमात्वप्रयोजकं लक्षणम् । अनुगतानतिप्रसक्तलक्षणं तु- १. 'तत्र' क.

काव्यमाला। 'सदृशस्य तृतीयस्य व्यवच्छेदाय यद्भवेत् । अन्योन्येनोपमेयत्वं सोपमेयोपमा मता ॥ इति द्रष्टव्यम् । अत्रान्योन्येनेति विशेषणं अहमेव गुरुः सुदारुणानाम्' इति 'प्रतीपविशेषव्यावृत्त्यर्थम् । अथोदाहरणानि । तत्र धर्मस्य साधारण्ये यथा- 'खमिव जलं जलमिव खं हंसश्चन्द्र इव हंस इव चन्द्रः । कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ॥' इयं प्रतीयमानसाधारणधर्मा । वाच्यसाधारणधर्मा यथा-'सुगन्धि नयनानन्दि' इत्यादि । यथा वा- - 'गिरिरिव गजराजोऽयं गजराज इवोच्चकैर्विभाति गिरिः। निर्झर इव मदधारा मदधारेवास्य निर्झरः स्रवति ॥' अत्रोपमेयोपमाद्वयस्य परस्परानुगृहीतत्वेन विच्छित्तिविशेषोऽधिकः । वस्तुप्रतिवस्तुभावो यथा—'सच्छायाम्भोजवदना' इत्यादि । इदं वस्तुप्रतिवस्तुभावस्य बिम्बप्रतिबिम्बविशेषणत्वे उदाहरणम् । त- द्विशेष्यत्वे यथा- 'वक्रं पद्ममिवैतस्या नेत्रं भृङ्गमनोहरम् । पद्मं वक्रमिवाभाति मृगलोचनभूषितम् ॥' एतानि पर्यायोपमेयोपमोदाहरणानि । युगपदुपमेयोपमोदाहरणं तु- 'तद्वल्गुना युगपदुन्मिषितेन' इत्यादि । तत्रापि यथासंभवं पूर्वोक्ता भेदा उन्नेयाः ॥ इत्युपमेयोपमाप्रकरणम् । m द अथानन्वयः- एकस्यैवोपमानोपमेयत्वेऽनन्दयो मतः। एवकारबलादेकस्यामेवोपमितिक्रियायामिति गम्यते । तेनोपमेयोप- मायां रसनोपमायां च नातिव्याप्तिः । उदाहरणम्-'गगनं गगनाकारं १. 'चित्रमीमांसायां' क.

चित्रमीमांसा । ४१ सागरः सागरोपमः' । अयं प्रतीयमानधर्मः । निर्दिष्टधर्मो यथा- 'न केवलं भाति नितान्तकान्तिनितम्बिनी सैव नितम्बिनीव । यावद्विलासायुधलास्यवासास्ते तद्विलासा इव तद्विलासाः ।।' ननु- 'पितुर्नियोगाद्वनवीसमेवं निस्तीर्य रामः प्रतिपन्नराज्यः । धर्मार्थकामेषु समां प्रपेदे यथा तथैवावरजेषु वृत्तिम् ।।' इत्यन्नैकस्यैव• रघुपतेरुपमानत्वमुपमेयत्वं च । न च तत्रानन्वयः । स- मुच्चयोपमया तस्य धर्मार्थकामेष्वनुजेषु च समवृत्तिमात्रस्यैव प्रतिपाद्यतया सदृशान्तरव्यवच्छेदे तात्पर्याभावात् । तथा 'त्यक्ष्यामि वैदेहसुतां पुरस्ता- त्समुद्रनेमिं पितुराज्ञयेव' इत्यत्राप्यस्ति स्वस्यैवोपमानत्वमुपमेयत्वं च । त- त्रापि नानन्वयः । पितृनियोगात्क्षितित्याग इवापवादात्सीतात्यागे च सह- शान्तरप्रसक्त्यभावेन तयवच्छेदस्य फलत्वायोगाच्च । एवम्- 'उपाददे तस्य सहस्ररश्मिस्त्वष्ट्रा नवं निर्मितमातपत्रम् । स तङ्कूलादविदूरमौलिर्बभौ पतद्गङ्ग इवोत्तमाङ्गे ॥' इत्यादावप्येकस्यैवोपमानोपमेयभावः स्पष्टः । न चैतेषु क्वचिद्धर्मादिषु वृत्तेरवरजेषु वृत्तेश्चोपमानोपमेयभावः । अन्यत्र क्षितित्यागस्य सीतात्यागस्य • चापरत्र गङ्गापतनस्य दुकूलसंनिधानस्य च । न तु क्वचिदप्येकस्यैव ध- मिण उपमानोपमेयभावः । विशिष्टान्वयिनोऽपि विशेष्यबाधे विशेषणसं- क्रमौचित्यादिति वाच्यम् । यथा धर्मार्थकामेषु समवृत्ति प्रपेदे तथा- वरजेष्वित्यादिप्रकारेणैकस्यैवोपमानोपमेयभावे निबद्धेऽपि तस्य विशेष- णसंक्रान्तिकल्पने 'पाण्ड्योऽयमंसार्पितलम्बहारः' इत्यादीनामपि हारनिर्झरा- दीनामेवोपमानोपमेयभावः स्यादिति बिम्बप्रतिबिम्बोदाहरणमात्रविलोपप्र- सङ्गात् । 'रामरावणयोयुद्धम्' इत्यादावभेदेऽप्युपमानोपमेयभावमभ्युपग- च्छतामलंकारिकारिकाणां विशेष्यबाधस्यापरिहरणीयत्वाच । तम्मादत्र 'सविशेषणे हि' इति न्यायोपन्यासो वाक्यमीमांसकानां शोभते नालं- १. 'सविशेषणे हि विधिनिषेधौ सति विशेष्ये बाधे विशेषणमुपसंक्रामत इति'.

४२ 20 काव्यमाला। - कारमीमांसकानाम् । वाक्यमीमांसका ह्यभेदे उपमानोपमेयभावनिर्देश एव नास्तीति मन्यमाना 'रामरावणयोयुद्धम्' इत्यादावद्यतनस्य पूर्वेयुस्तनं युद्ध- मुंपमानम् । एतत्कल्पगगनस्य कल्पान्तरगगनमुपमानमित्यादि कल्पयन्ति । तस्मादलंकारिकमते एतेष्वेकस्यैवोपमानोपमेयभाव इति लक्षणमतिव्याप्त- . मिति चेत् । अत्र ब्रूमः- 'स्वस्य स्खेनोपमा या स्यादनुगाम्येकधार्मिका । अन्वर्थनामधेयोऽयमनन्वय इतीरितः ॥' खस्य स्वेनेति विशेषणादुपमेयोपमायां रसनोपमायां च नातिव्याप्तिः । अनुगाम्येकर्मिकेति विशेषणादुदाहृतोपमाविशेषेषु नातिव्याप्तिः । यद्यपि तेप्वपि समां वृत्तिं प्रपेदे इत्याचंशेऽनुगामिधर्मप्रवेशः । तथाप्येको न भवति । धर्मार्थकामावरजादिबिम्बप्रतिबिम्बभावकरम्बितत्वात् । अत ए- वैकग्रहणमप्यर्थवत् । अन्वर्थनामधेय इति तु न लक्षणान्तर्गतम् । किं स्वेन स्वस्योपमाप्यनुगाम्येकधर्मा चेदेवानन्वयो नान्यथेत्यत्रोपपत्तिमात्रप- रम् । धबैंक्ये हि स्वस्य खेनोपमा नान्वेतीत्यनन्वय इत्यन्वथै नाम भवति । अनन्वय्यर्थनिबन्धनवशाच्चानुपमत्वद्योतनफलपर्यन्तं धावेत् । धर्मभेदे तु एक- धर्मावच्छिन्नेन खेनैव धर्मान्तरावच्छिन्नस्य स्वस्योपमान्वेतीति न तत्रा- न्वर्थ नाम, न वानन्वय्यर्थनिबन्धनाधीनानुपमत्वफललाभः । इदमनन्वयत्व- प्रयोजक लक्षणम् । लक्षणमात्रं तु 'यत्र तेनैव तस्य स्यात्' इति भाम- होक्तमनुसंधेयम् । 'उभौ यदि व्योम्नि पृथक्प्रवाहो' इत्यतिशयोक्तिविशे- षेऽनुपमत्वद्योतनफलसाम्यकल्पनावत्यतिव्याप्तिनिरासाय तेनैव तस्येति वि- शेषणम् । अयमनन्वयो व्यङ्गयोऽप्यस्ति । यथा- 'अद्य या मम गोविन्द जाता त्वयि गृहागते । कालेनैषा भवेत्प्रीतिस्तवैवागमनात्पुनः ॥' अत्र गृहागतं श्रीकृष्णं प्रति विदुरवाक्ये इयं त्वदागमनप्रभवा प्रीति- बहुकालव्यवहितेन पुनरपि त्वदागमनेनैव भवेत् नान्येनेत्युक्तिभङ्गया त्व- .

. चित्रमीमांसा। दागमनप्रभवप्रीतः सैव सदृशी न त्वितरप्रभवेति व्यज्यते. । एतादृशया- वृत्त्यर्थमनन्वयालंकारलक्षणेऽव्यङ्गयत्वविशेषणं पूर्ववद्रष्टव्यम् ॥ इत्यनन्वयप्रकरणम् । अथ स्मरणालंकारः- स्मृतिः सादृश्यमूला या वस्वन्तरसमाश्रया.। स्मरणालंकृतिः सा स्यादव्यङ्गयखविशेषिता ।। . यथा-- 'अपि तुरगसमीपादुत्पतन्तं मयूर न स रुचिरकलापं बाणलक्षीचकार । सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः॥' यथा वा- 'दिव्यानामपि कृतविस्मयां पुरस्ता- दम्भस्तः स्फुरदरविन्दचारुहस्ताम् । उद्वीक्ष्य श्रियमिव कांचिदुत्तरन्ती- मस्मार्षीजलनिधिमन्थनस्य शौरिः॥' एकत्र सदृशदर्शनात्तत्सदृशधर्मिका स्मृतिः । इतरत्र सदृशदर्शनात्त- त्सदृशलक्ष्मीसंबन्धिनो जलनिधिमन्थनस्य स्मृतिः । उभयत्रापि सादृश्यमू- लकवस्त्वन्तरस्मृतित्वमविशिष्टम् । अत एव सदृशासशसाधारण्यार्थतया लक्षणे वस्त्वन्तरग्रहणमर्थवत् । 'सौमित्रे ननु सेव्यतां तरुतलं चण्डांशुरुज्जृम्भते चण्डांशोर्निशि.का कथा रघुपते चन्द्रोऽयमुन्मीलति । वत्सैतद्विदितं कथं नु भवता धत्ते कुरङ्गं यतः क्वासि प्रेयसि हा कुरङ्गनयने चन्द्रानने जानकि. ॥" अत्र श्रुतकुरङ्गसंबन्धिनस्तन्नयनस्य स्मरणात्तत्सदृशसीतानयनस्मृति- स्तत्संबन्धिसीतास्मृतिश्चेति । किं त्वेषा व्यङ्गया, अलंकार्यभूता च । त- द्वयावृत्त्यर्थमव्यङ्गयत्वविशेषणम् । .

oC काव्यमाला । . 'अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधय- स्तानेतानपि बिभ्रती किमपि न क्लान्तासि तुभ्यं नमः । आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुव- स्तावद्विभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥' स्तूयमानभूसंबन्धिनो भूभृद्भुजस्य स्मृतिर्न ‘सादृश्यमूलेति नात्र स्मर- णालंकारः । किं तु स्मृतेः संचारिभावस्य भूभृद्विषयरतिभावाङ्गत्वात्प्रेयो- ऽलंकारः। 'स तथेति प्रतिज्ञाय विसृज्य कथमप्युमाम् । ऋषीज्योतिर्मयान्सप्त सस्मार स्मरशासनः ॥' अत्र चिन्तामूला स्मृतिः। विच्छित्तिविशेषाभावान्न कश्चिदलंकारः । ए- तदुभयव्यावृत्त्यर्थ सादृश्यमूलेति विशेषणम् । एवमेते भेदाभेदसाधारण- साधर्म्यमूला अलंकाराः प्रदर्शिताः ।। इति स्मरणालंकारप्रकरणम् । अथाभेदप्रधानेषु प्रथमं रूपकं निरूप्यते-- आरोपविषयस्य स्यादतिरोहितरूपिणः । उपरञ्जकमारोप्यमाणं तद्रूपकं मतम् ॥ अत्रारोपविषयस्येत्यनेनोत्प्रेक्षातिशयोक्त्योर्ध्यावृत्तिः । तत्र मुखादेरारो- पविषयत्वाभावात् । अतिरोहितरूपिण इत्यनेन ससंदेहभ्रान्तिमदपद्भुतीनां व्यावृत्तिः । तेषु संदेहभ्रान्त्यपह्नवैर्विषयस्य तिरोधानात् । उपरञ्जकमि- त्यनेन समासोक्तिपरिणामव्यावृत्तिः । तयोहि नोपरञ्जकत्वं विषयेष्वतादू- प्यापादकत्वलक्षणम् । समासोक्तौ व्यवहारमात्रसमारोपेण तादृप्यप्रतीतेरे- वाभावात् । परिणामे आरोप्यमाणस्यैव विषयताद्रूप्यापत्त्या विषयस्यारो- प्यमाणताद्रूप्यापत्त्यभावादित्याहुः ॥ अत्रेदं विचार्यते । आरोपाध्यवसाययोः कीदृशं भेदमभिसंधायारोप- विषयस्येत्यनेनोप्रेक्षाव्यावृत्तिरुच्यते । यदि विषयविषयिणोरभिहितयोरभे- दप्रतिपत्तिरारोपः । विषयूनिगरणेन विषयिणस्तदभेदप्रतिपत्तिरध्यवसाय - चित्रमीमांसा। इति भेदमभिसंधाय, तदोत्प्रेक्षारोपमूलैव स्यात् । तत्र 'नूनं मुखं चन्दः'. इति विषयस्य मुखस्याप्यभिधानेन तन्निगरणाभावात् । ततश्च तत्रातिव्या- प्तिरनिवारितैव स्यात् । ताद्रूप्यप्रतिपत्तिरारोपस्तदभेदप्रतिपत्तिरध्यवसाय इति तयोर्भेदः । 'मुखं चन्द्रः' इत्यादिरूपके चन्द्रस्य यद्रूपं चन्द्रत्वं तेन रूपवत्तामात्रं मुखस्य प्रतीत्यते । न तु प्रसिद्धचन्द्राभेदः । 'मुखविषयायां चन्द्रः' इत्याद्यतिशयोक्तौ तु तदभेद एव प्रतीयते इति चेत् । न । वैपरी- त्यस्यापि वक्तुं शक्यत्वात् । न च वाच्यम् । 'इन्दोरपि मृगाक्षीणां मुखेन्दुरतिरिच्यते । निर्जरैः पीयमानोऽपि यः कदाचिन्न हीयते ।' इति मुखचन्द्रस्य प्रसिद्धचन्द्राध्यतिरेकवर्णनं तदभेदप्रतिपत्तौ न संभव- तीति रूपके ताद्रूप्यप्रतिपत्तिरेवेति । तथा सति हि 'सुधावद्धग्रासैरुपवनचकोरैरनुसृतां किरज्योत्स्नामच्छां लवलिफलपाकप्रणयिनीम् । उपप्राकाराग्रं प्रहिणु नयने तर्कय मना- गनाकाशे कोऽयं गलितहरिणः शीतकिरणः ॥' 'अपरः पाकशासनः' इत्याद्यतिशयोक्तौ 'अपर इव पाकशासनः' इत्या- युत्प्रेक्षायां च रूपकवदेव प्रसिद्धचन्द्राद्यभेदप्रतिपत्त्यभावेन ताद्रूप्यप्रति- पत्तिरेव स्यादिति तयोर्लक्षणस्यातिव्याप्तिरनेनानिवारिता स्यात् । अथ तत्र प्रसिद्धचन्द्राद्यभेदप्रतिपत्त्यभावेऽप्युपात्तकल्पितापरचन्द्राद्यभेदप्रतिपत्तिः.सं- भवतीति चेत् । रूपकेऽप्येवं वक्तुं शक्यमित्यसंभव एव लक्षणस्य स्यात् । किं चातिरोहितरूपिण इत्यनेन ससंदेहभ्रान्तिमतोरतिव्याप्तिवारणेऽपि ना- पहवेऽतिव्याप्तिवारणम् । 'नेदं मुखं किं तु चन्द्रः' इत्यत्र मुखे मुखत्वा- भावारोपस्य चन्द्रत्वारोपस्य चाहार्यत्वेन विषयतिरोधायकत्वाभावात् । आ- हार्यारोपस्यापि तिरोधायकत्वे रूपकेऽपि लक्षणस्यासंभवः स्यात् । उत्प्रे- क्षाया अप्याहार्यसंभावनारूपाया अतिरोहितरूपिण इत्यनेनैव व्यावृत्तिसि- द्धावारोपविषयस्येति विशेषणस्य वैयर्थ्य च स्यात् । अतिशयोक्तौ विष- यस्य निगीर्णस्य तिरोहितत्वेन तस्मा अप्यनेनैव व्यावृत्तिः । अपि च ।

. News- ४६ काव्यमाला। 'त्वत्पादनखरत्नानां यदलक्तकमार्जनम् । इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः ॥' इति निदर्शनायामतिव्याप्तिः । तत्रोपमेयवाक्यार्थे उपमानवाक्यार्थता- • द्रूप्यारोपसद्भावात् । यदि चारोपविषयस्य पदार्थस्येति विशेषणम् । तथा- प्यलक्तककृतत्वत्पादनखमार्जनं श्रीखण्डलेपकृतविधुपाण्डुरीकरणमिति नि- दर्शनायामतिव्याप्तिः । 'अनिदण्डो हरेरुर्ध्वमुत्क्षिप्तो बलिनिग्रहे । विधिविष्टरपद्मस्य नालदण्डो मुदेऽस्तु वः ॥' इति रूपकेऽव्याप्तिश्च । यत्तु सरखतीकण्ठाभरणोक्तं लक्षणम्- 'यदोपमानशब्दानां गौणवृत्तिव्यपाश्रयात् । उपमेये भवेद्वृत्तिस्तदा तद्रूपकं विदुः ॥' इति । तदप्यतिशयोक्तावतिव्याप्तम् । 'मुखं चन्द्रः' इति रूपके चन्द्रशब्दस्य मुखे गौणसारोप्यलक्षणा । चन्द्र इत्यतिशयोक्तौ साध्यवसानलक्षणेत्यालं- कारिकसिद्धान्तात् । वस्तुतस्त्वतिशयोक्तावेव लक्षणा न तु रूपके इति शक्यं व्यवस्थापयितुम् । तथा हि । अतिशयोक्तौ विषयाभिधायिमुखादि- पदाप्रयोगाच्चन्द्रादिपदेनैव तत्प्रत्यायनं कार्यमिति तस्य तत्र लक्षणावश्य- मास्थेया। रूपके विषयविषयिणोः स्वस्ववाचकाभिहितयोरभेदप्रतिपत्तिः संसर्गमर्यादयैव संभवतीति किमर्थ तत्र लक्षणा । अशक्या च तत्र लक्ष- णाभ्युपगन्तुम् । कथम् । मुखं चन्द्र इत्यत्र लक्षणया मुखे प्रवर्तमानं चन्द्रत्वं केन निमिर्तेन प्रवर्तेत । मुखत्वेन वा, मुखासाधारणकान्तिविशेषेण वा, च- न्द्रत्वेन वा, चन्द्रासाधारणकान्तिविशेषेण वा, मुखचन्द्रोभयानुगतकान्तिसा- मान्येन वा, मुखगतचन्द्रसादृश्येन वा । नाद्यः। मुखपदेन पौनरुकत्यापत्तेः। मुखत्वस्य शक्यासंबन्धित्वेन तेन निमित्तेन लक्षणायोगाच्च । अत एव न द्वितीयः । न तृतीयचतुर्थौ । मुखावृत्तिधर्मयोस्तत्र प्रवृत्तिनिमित्तत्वायो- गात् । न पञ्चमः । कान्तिमान्मुखचन्द्र इत्यत्र कान्तिमत्पदेन पौनरुक्त्या- पत्तेः । नापि षष्ठः । सादृश्यस्य शब्दप्रतिपाद्यत्वेनाव्यङ्गयत्वेन रूपकस्यो- १. 'मुखगतासाधारण ख-ग, • चित्रमीमांसा। पमागृथग्भावानुपपत्तेः । अभेदप्रधानं रूपकमिति सिद्धान्तविरोधाच्च । त-. स्माद्रूपके स्वखपदाभिहितयोर्विषयविषयिणोरभेदप्रतिपत्तिः संसर्गमर्यादयेत्येव वक्तव्यमिति लक्षणस्यासंभवोऽपि दोषः । यदा तु 'वक्रेन्दौ तव सत्ययं यं- दपरः शीतांशुरुज्जृम्भते' । 'द्वौ चन्द्रौ जगतो राजन्स दिवि त्वं महीतले' इत्यादौ विषयस्य प्रसिद्धचन्द्राभेदप्रतिपत्तिर्न संभवतीति कथंचिदिन्द्वादि- पदस्य विषये लक्षणा कल्प्यते । तथापि कान्तिमान्मुखचन्द्र इत्यादौ का- ठकाध्यापकादिवत्संसर्गमर्यादयैवाभेदप्रतिपत्तिसंभवेनातिक्लिष्टलक्षणाश्रयणा- योगात्तत्राव्याप्तिर्वज्रलेपायते । अपि च । 'सेतुः शैलैस्त्वया बद्धः पूर्व जेतुं दशाननम् । कं जेतुमद्य बध्नासि यशश्चन्द्रोपलैः प्रभो ॥ 'चिराद्यत्कौतुकाविष्टं कल्पवृक्षमुदीक्षितुम् । तन्मे सफलमद्यासीन्नेत्रं त्वय्यवलोकिते ॥ इत्यादौ व्यङ्गयरूपके चाव्याप्तिः । अत्र ह्याचे वर्ण्य प्रभुं प्रति रावण- वधाय त्वया सेतुर्बद्ध इति निर्दिश्यमानेन वस्तुना त्वमेव राम इति रूपकं व्यज्यते । न च तत्र विषये गौणं रामपदमस्ति । द्वितीये त्वामवलोकयता मम नेत्रेण चिरकाङ्कितं कल्पवृक्षावलोकनं लब्धमिति प्रतीयमानेन विशे- पालंकारेण त्वमेव कल्पवृक्ष इति रूपकं व्यज्यते । तत्र कल्पवृक्षपदं प्रसि- द्धकल्पवृक्षपरमेव न विषयलक्षकमिति स्पष्टम् । 'ततः कुमुदनाथेन कामिनीगण्डपाण्डुना । नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता ॥' इति शुद्धसारोपलक्षणामूलकरूपके चाव्याप्तिः । तत्र ह्यानन्दहेतुत्वा- दानन्दत्वरूपणं न त्वौपम्यात् । यत्त्वायुघृतमित्यादौ विच्छित्तिविशेषाद- र्शनाच्छुद्धसारोपलक्षणास्थले न कश्चिदलंकार इति । तदयुक्तम् । गौर्वा- हीक इत्यादौ विच्छित्तिविशेषादर्शनेन गौणसारोपलक्षणास्थलेऽप्यलंकार- त्वाभावप्रसङ्गात् । क्वचिद्वैचित्र्यादर्शनेऽप्यन्यत्र वैचित्र्यवति स्थलेऽलंकार- त्वमिहापि वक्तुं युक्तम् । 'नेत्रानन्देन चन्द्रेण' । - काव्यमाला। 'आयुर्दानमहोत्सवस्य, विनतक्षोणीभृतां मूर्तिमान् विश्वासो, नयनोत्सनो मृगदृशां, कीर्तेः प्रकाशः परः । आनन्दः कलिताकृतिः सुमनसां, वीरश्रियो जीवितं धर्मस्यैष निकेतनं, विजयते वीरः कलिङ्गेश्वरः ।।' इत्यादौ शुद्धसारोपलक्षणास्थलेऽपि वैचित्र्यदर्शनात् । यदि तु हेतुमता सह हेतोरभिधानमभेदतो हेतुरितिमन्ताराश्रयेण तत्र हेत्वलंकारो न रूप. कमित्यभ्युपगम्येत । तदा 'आरोपविषयस्य स्यात्' इति पूर्वोदाहृतलक्षणस्य तत्राव्याप्तिः । एवम्-'उपमैव तिरोभूतभेदा रूपकमुच्यते ।' 'तद्रूपंकम- भेदो य उपमानोपमेययोः' इत्यादिलक्षणेष्वप्यतिव्याप्त्यादिदोषा यथासंभ- वमुन्नेयाः । अत्र वदामः- 'बिम्बाविशिष्टे निर्दिष्टे विषये यद्यनिद्रुते । उपरञ्जकतामेति विषयी रूपकं तदा ॥' बिम्बाविशिष्ट इति विशेषणात् 'त्वत्पादनखरत्नानाम्' इति निदर्श- नायां नातिव्याप्तिः । तत्र हि चन्द्रो यथा स्वतः शुभ्रत्वादनासञ्जनीयवा- वल्यस्तथा नखाः स्वतोऽरुणत्वादनासञ्जनीयारुण्या इति सादृश्येन नखानां चन्द्रस्य च बिम्बप्रतिबिम्बभावः । अलक्तकचन्दनयोरन्यत्र स्ववर्णासञ्जक- त्वेन । ततश्च तत्र बिम्बभावान्ननखालक्तकविशिष्टे एव रञ्जने तत्प्रतिवि- म्बभूतचन्द्रचन्दनविशिष्टपाण्डरीकरणमुपरञ्जकम् । एवमन्यत्रापि 'अर. ण्यरुदितं कृतम्' इत्यादिताद्रूप्यारोपवन्निदर्शनोदाहरणे सर्वत्र बिम्बभावा- पन्नवस्तुविशिष्ट एवोपमेये तत्प्रतिबिम्बविशिष्टमुपमानमुपरजकमिति न क्वाप्यतिव्याप्तिः । रूपके तु न क्वचिदपि बिम्बप्रतिबिम्बभावापन्नधर्मवि- शिष्टतया विषयविषयिणोरुपादानम् । सावयवरूपकेऽपि विशेप्यरूपणात्- थगेवावयवेषु रूपणं न त्ववयवविशिष्टरूपेण विशेष्ये । 'अनिदण्डो हरे- सूर्ध्वम्' इत्यत्राप्यझिदण्डनालदण्डयोर्न बिम्बप्रतिबिम्बविशिष्टता । तयोः प्रतीयमानेन श्यामलत्वविधातृविष्टरकमलश्लिष्टत्वाद्यनुगामिधर्मणैवोपमानो- पमेयभावात् । किं तु विधातृविष्टरकमलश्लिष्टत्वरूपसाधारणधर्मवत्तासंपा- दनार्थ विशेषणविशिष्टतामात्रमुपमेयस्य ।

चित्रमीमांसा । ४९ . निर्दिष्ट इति विशेषणान्न निगीणविषयायामतिशयोक्त्यामतिव्याप्तिः ।. व्यङ्गयरूपकोदाहरणेषु विषयिवाचकाप्रयोगसंभवेऽपि विषयनिर्देशः सार्व- त्रिक इति न तत्राव्याप्तिः। 'नेत्रानन्देन' इत्यादौ हेत्वलंकार इति मंते विषय इत्यनेनोपमेय इत्येतदर्थकेन तव्यावृत्तिः । तत्रापि रूपकमित्येकावली-. कारादिमते विषयपदं धर्मिमात्रपरं स्पष्टार्थम् । अनिहते निषेधास्पृष्ट इति विशेषणादपद्भुतौ नातिव्याप्तिः। उपरञ्जकतामाहार्यताद्रूप्यनिश्चयगोचरतामेतीत्यनेन ससंदेहोत्प्रेक्षासमा- सोक्तिपरिणामभ्रान्तिमत्स्वतिव्याप्तिनिरासः । ससंदेहोरेक्षयोनिश्चयस्यैवा- भावात् । समासोक्तौ परिणामे च तस्य ताद्रूप्यागोचरत्वात् । समासोक्तौ व्यवहारमात्रसमारोपात् । परिणामे आरोप्यमाणस्यैव विषयतादूप्यगोचर- त्वात् । भ्रान्तिमति सतः कल्पितस्य वा प्रवृत्त्यादिपर्यन्तस्य स्वारसिकस्यैव निबन्धने तस्यानाहार्यत्वात् । अव्यङ्गयविशेषणाच्चैतदेवालंकारभूतस्य रूपकस्य लक्षणमिति सर्व सु- स्थम् । तच्च रूपकं त्रिविधम्-निरवयवं सावयवं परम्परितं च । निरवयवं केवलं माला चेति द्विविधम् । सावयवं समस्तवस्तुविषयमेकदेशविवर्ति चेति द्विविधम् । परम्परितं श्लिष्टाश्लिष्टशब्दनिबन्धनत्वेन द्विविधं सत्केवलं माला चेति द्वैविध्याच्चतुर्विधम् । एवमष्टविधो रूपकालंकारः । तत्र केवलं निर- वयवं यथा- 'कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु य- सखी कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति यत् । अनिद्रं यच्चान्तः स्वपिति तदहो वेव्यभिनवां प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम् ॥' मालानिरवयवं यथा- 'सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्पोद्गमः कान्तेः कार्मणकर्म नर्मवचसामुल्लासनावासभूः । - १. 'नर्मरहसांक-ख-ग.

काव्यमाला। Hom- - विद्या वक्रगिरां विधेरनवधिप्रावीण्यसाक्षाक्रिया प्राणाः पञ्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया ।।' समस्तवस्तुविषयं सावयवं यथा. 'ज्योत्स्नाभस्मच्छुरणधवला बिभ्रती तारकास्थी- नन्तर्धानव्यसनरसिका रात्रिकापालिफीयम् । द्वीपाद्वीपं भ्रमति दधती चन्द्रमुद्राकपाले न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्य च्छलेन ।' एकदेशविवर्ति सावयवं यथा- 'प्रौढमौक्तिकरुचः पयोमुचां बिन्दवः कुटजपुष्पबन्धवः । विद्युतां नभसि नाट्यमण्डपे कुर्वते स्म कुसुमाञ्जलिश्रियम् ।' अत्र नभसो नाट्यमण्डपत्वेन रूपणाद्विद्युतामर्थान्नर्तकीत्वं गम्यते । इ- त्येकदेशे रूपकस्य विशेषणवाच्यतया वर्तनादिदमेकदेशविवति । श्लिष्टशब्दनिबन्धनं केवलपरम्परितं यथा- 'अलौकिकमहालोक प्रकाशितजगत्रयः । स्तूयते देव सद्वंशमुक्तारत्नं न कैर्भवान् ॥' अत्र त्वमेव मुक्तारत्नमित्यारोपणपूर्वकः सद्वंश उत्तमान्वय एवं सद्वंश उत्कृष्टवेणुरित्यारोप इति रूपकद्वयमपि संभूतपरम्परमिति परम्परितम् । वंशे श्लिष्टशब्दनिबन्धनं च । तदेव मालापरम्परितं यथा- 'विद्वन्मानसहंस वैरिकमलासंकोचदीप्तद्युते दुर्गामार्गणनीललोहित समित्स्वीकारवैश्वानर । सत्यप्रीतिनिधानदक्ष विजयप्राग्भाव भीम प्रभो साम्राज्यं वरवीर वत्सरशतं वैरिश्चमुच्चैः क्रियाः ॥'' अश्लिष्टशब्दनिबन्धनं केवलं परम्परितं यथा- 'निरवधि च निराश्रयं च यस्य स्थितमनिवतितकौतुकप्रपञ्चम् । मथममिह भवान्स कूर्मनाथो जयति चतुर्दशलोकवल्लिकन्दः ॥' Paradin-19 १. 'बाणाः पञ्चशिलीमुखस्य' य.

चित्रमीमांसा। तदेव मालापरम्परितं यथा- 'पर्यको राजलक्ष्म्या हरितमणिमयः पौरुषाब्धेस्तरङ्गः संग्रामत्रासताम्यन्मुरलपतियशोहंसलीलाम्बुवाहः । भग्नप्रत्यर्थिवंशोल्बणविजयकरिस्त्यानदानाम्बुपट्टः खड्गक्ष्मासौविदल्लः समिति विजयते मालवाखण्डलस्य ॥' इदं वैधयेणापि दृश्यते । तत्केवलं यथा- 'आवृण्वतो लोचनमार्गमाजौ रजोऽन्धकारस्य विजृम्भितस्य । शस्त्रक्षताश्वद्विपवीरजन्मा बालारुणोऽभूद्रुधिरप्रवाहः ।।' मालारूपकं यथा- 'सौजन्याम्बुमरुस्थली सुजनतालेख्यधुभित्तिर्गुण- ज्योत्स्नाकृष्णचतुर्दशी सुरलतायोगश्वपुच्छच्छटा । यैरेषापि दुराशया कलियुगे राजावली सेविता तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम् ॥' एवमष्टौ भेदा रूपकालंकारस्य प्राचीनैः प्रदर्शिताः। एवं भेदा उप- माया अपि वक्तुं शक्याः। एकत्र प्रदर्शितेन प्रकारेण संभवस्थलेऽन्यत्राप्यु- नेतुं शक्या इति न प्रदर्शिताः । तथा हि । 'वागर्थाविव संपृक्तौ' इत्यादौ केवलनिरवयवोपमा । 'ज्योत्स्नेव नयनानन्दः' इत्यादी मालानिरवयवोपमा । 'ततः प्रतस्थे कौबेरी भास्वानिव रघुर्दिशम् । शरैरुपैरिवोदीच्यानुद्धरिष्यत्रसानिव ॥' इत्यत्र समस्तवस्तुविपयसावयवोपमा । 'नेत्ररिवोत्पलैः पद्मर्मुखैरिव सरःश्रियः । पदे पदे विभान्ति स चक्रवाकैः स्तनैरिव ॥ इत्यत्रैकदेशविवर्तिनी । 'अत्यन्तरागिणमपि निपीतवसुसंचयम् । गणिकेवापरदिशा पूषाणं निरकासयत् ॥' इत्यत्राप्येकदेशविवर्तिनी । पूर्वत्र विशेषणोपमायां विशेप्योपमा गम्यते, उत्तरत्र विशेष्योपमया विशेषणोपमेति भेदः।

५२ काव्यमाला। . 'दूरादयश्चक्रनिभस्य तन्वी तमालतालीवनराजिनीला । आभाति वेला लवणाम्बुराशेर्धारानिबद्धव कलङ्करेखा ॥' इत्यत्राश्लिष्टशब्दनिबन्धनकेवलमरम्परितोपमा । अत्र ह्यम्बुराशेरयश्चक्रे- णोपमा । तद्धाराश्लिष्टकलङ्करेखया वेलाया उपमा चेति द्वयमपि संजातपर- म्परम् । यथा वा- 'अस्त्रज्वालावलीढप्रतिबलजलधेरन्तरौर्वायमाणे सेनानाथे स्थितेऽस्मिन्मम पितरि गुरौ सर्वधन्वीश्वराणाम् । कर्णालं संभ्रमेण ब्रज कृप समरं मुञ्च हार्दिक्य शङ्का ताते चापद्वितीये वहति रणधुरां को भयस्यावकाशः ॥' अत्र द्रोणस्यौर्वेणोपमा प्रतिबलजलघेरित्यत्रोपमायाः साधिकेत्युपमाद्वय- मपि संजातपरम्परम् । एवं 'राजहंसायते राजा विदुषामेष मानसे' इत्यत्र श्लिष्टशब्दनिबन्धनकेवलपरम्परितोपमा। उभयत्रापि मालापरम्परितमनयैव रीत्योन्नेयम् । 'रेणुध्वान्तस्य रक्तौषो बालधर्मकरायते' इति वैधhण रूप- कुवदुपमेति सर्व समानम् । अयं तु विशेषः । समस्तवस्तुविषयं रूपकं न विशिष्टरूपकं भवति । विषयविषयिणोर्बिम्बप्रतिबिम्बधर्मविशिष्टयोस्ताद्रूप्यारोपे निदर्शनाया ए- वावतरणात् । सावयवोपमा तु विशिष्टोपमां गमयति । ततः प्रतस्थे को- बेरी भास्वानिव' इत्यत्र शरैरुदीच्यानुद्धर्तुमुत्तरां दिशं प्रस्थितस्य रघोर्वि- शिष्टस्य किरणै रसाशोषयितुमुत्तरां दिशं प्रस्थितेन विशिष्टेन रविणा साधर्म्यस्य फलितार्थतया लाभात् । एवं च कचिदुपमयान्यत्रोपमाया गम्यत्वं चतुर्धा पर्यवस्यति । क्वचिद्विशेषणोप्रमया विशेष्योपमायाः । 'विश्वजित्सर्वपृष्ठोऽतिरात्रः' इत्यत्र पृष्ठगतसर्वताविधिनेव तद्विशेष्यपृष्ठविधेः। क्वचिद्विशेष्योपृमया विशेषणोपमायाः। वैकृतप्रधानविधिनेव प्राकृततदङ्ग- कलापविधेः । उभयमप्येकदेशविवर्तित्वेनोदाहृतम् । क्वचिदवयवोपमया विशिष्टोपमाया गम्यत्वम् । अङ्गप्रधानगोचरप्रत्येकविधिकलापनेव सर्वा. ङ्गविशिष्टप्रधानगोचरप्रयोगविधः । तत्तु समस्तवस्तुविषयोपमोदाहरणे चित्रमीमासा । - दर्शिलम् । एकवाक्यतायामवयवोपमया विशिष्टोपमाया गम्यत्वे इदमुदा-. हरणम् । वाक्यभेदेनापि दृश्यते- 'हस्त इव भूतिमलिनो यथा यथा लङ्घयति खलः सुजनम् । दर्पणमिव तं कुरुते तथा तथा निर्मलच्छायम् ॥' अत्रावयवोपमा । यथा भूतिमलिनो हस्तो दर्पणमधिकमधिकं घर्षयन्नु- त्तरोत्तरं निर्मलीकुरुते । तथा खलः सुजनमधिकं घर्षयन्नुत्तरोत्तरं निर्मल- मेव कुरुते इति विशिष्टोपमा गम्यते । क्वचिद्विशिष्टोपमया तदवयवो- पमानां गम्यत्वम् । विशिष्टविधिनेव विशेषणविशेष्यविधीनाम् । यथा- 'त्वदाननमधीराक्षमाविर्दशनदीधिति । भ्रमद्धृङ्गमिवालक्ष्यकेसरं भाति पङ्कजम् ॥' अत्र विशिष्टेन विशिष्टस्योपमया तदवयवभूतानां भृङ्गलोचनानां केसर- नखदीधितीनां पङ्कजाननयोश्चोपमानोपमेयभावो गम्यते । एवमसंख्या उ- पमाविकल्पाः । तथा- 'किसलयकरैलतानां करकमलैः कामिनां मनो जयति । नलिनीनां कमलमुखैमुखेन्दुभिर्योषितां मदनः ॥' इत्येवमाद्या रसनारूपकाद्या रूपकविकल्पा अप्यसंख्याः । उक्तं हि काव्यालोके-- 'अपर्यन्तो विकल्पानां रूपकोपमयोर्यतः । दिङ्मात्रं दर्शितं धीरैरैनुक्तमनुमीयताम् ॥' इति । इति रूपकप्रकरणम् । अथ परिणामः- 'आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः' इति तल्लक्षणमुक्तम् । तत्र शङ्कयते । 'यामि मनोवाक्कायैः शरणं करुणात्मकं जगन्नाथ ।। जन्मजरामरणार्णवतरणतरण्यं तवाभियुगम् ॥' wideMAHIEinstep Mmment १. 'जगन्नाथम्' ख-ग.

काव्यमाला। - - निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः । धारानिपातैः सह किं नु वान्तश्चन्द्रोऽयमित्यार्ततरं रैरासे ॥' 'एतान्यवन्तीश्वरपारिजातजातानि तारापतिपाण्डुराणि । संप्रत्यहं पश्यत दिग्वधूनां यशःप्रसूनान्यवतंसयामि ॥' इति श्लोकेष्वारोप्यमाणानां तरण्यनयनप्रसूनानां तरणनिरीक्षणावतंस- नरूपप्रकृतकार्योपयोगे सत्यप्युक्तलक्षणकृतालंकारसर्वस्वकारेणैव रूपक- मङ्गीकृतम् । 'आत्मानं रथिनं विद्धिं शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ इत्यादि श्रुतावारोप्यमाणानां रथिरथादीनां 'सोऽध्वनः पारमाप्नोति त- द्विष्णोः परमं पदम्' इति वक्ष्यमाणाध्वपारगमनरूपप्रकृतकार्योपयोगे सत्यपि भगवता बादरायणेन 'नानुमानिकमप्येकेषामिति चेत् न शरीर- रूपकविन्यस्तगृहीतेर्दर्शयति च' इति शारीरकसूत्रे रूपकमङ्गीकृतम् । अ- तस्तेषु लक्षणस्यातिव्याप्तिः । एवम्- 'भिन्नेषु रत्नकिरणैः किरणेष्विहेन्दो- रुच्चावचैरुपगतेषु सहस्रसंख्याम् । दोषापि नूनमहिमांशुरसौ किलेति व्याकोशकोकनदतां दधते नलिन्यः ॥' इति भ्रान्तिमति, 'विकसदमरनारीनेत्रनीलाजषण्डा- न्यधिवसति सदा यः संयमाधःकृतानि । न तु रुचिरकलापे वर्तते यो मयूरे वितरतु स कुमारो ब्रह्मचर्यश्रियं वः ॥' इत्यपद्भुतौ, 'उरोभुवा कुम्भयुगेन जृम्भितं नवोपहारेण वयःकृतेन किम् । त्रपीसरिदुर्गमपि प्रतीर्य सा नलस्य तन्वी हृदयं विवेश यत् ॥' १. 'ररास' क-ग. २. 'संप्रत्यहं पश्य तडिद्वधूनाम्' ख; 'संप्रत्यहं यस्य तडिद्वधूनाम्' ग; संप्रत्यहं 'यस्य हरिद्वधूनाम्' घ. ३. 'खण्डानि' क-घ.

चित्रमीमांसा । ५५ इत्यतिशयोक्ती, 'चक्रभ्रमणकरत्वात्कुदृष्टिभिर्दूरवर्ण्यमानत्वात् । श्रुत्यन्तखेलनत्वान्मशक त्वामेव माधवं मन्ये ॥' इत्यनुमाने चातिव्याप्तिः । भ्रान्तिमत्यहिमांशोर्विकासे, अपद्रुतावमर- नारीनेत्राणां ब्रह्मचर्यवितरणे, अतिशयोक्ती कुम्भयुगस्य सरित्तरणे, अनु- माने माधवस्य चक्रे भ्रमणे च प्रकृतकार्योपयोगित्वात् । अपहृतौ तं यथा यथोपासते तथैव भवतीति तत्क्रतुन्यायेन संयमाधःकृतामरनारीनेत्राधिष्ठा- नस्य ब्रह्मचर्यवितरणोपयोगित्वम् । 'सुहृदालापेनैव प्रणश्यति स्थास्नुरान्तरः क्लेशः । कान्तामुखचन्द्रेण हि शाम्यति रुचिरेण विरहजस्तापः ॥' इति दृष्टान्तसंकीर्णपरिणामे चाव्याप्तिः । अत्रारोप्यमाणस्योपमानकोट्य- न्तर्गताप्रकृतकार्योपयोगित्वादिति । अत्राहुः । आरोप्यमाणस्य प्रकृतात्मनोपयोगित्वे परिणाम इति ल- क्षणार्थः । न चैवं सत्युदाहृतरूपकादिष्वतिव्याप्तिः । तेष्वारोप्यमाणानां तरण्यनयनप्रसूनसूर्यादीनां वात्मनैव तरणनिरीक्षणावतंसनकमलविकासना- दिकार्योपयोगित्वसंभवेन तदर्थमनियुगविद्युद्यशश्चन्द्रादिप्रंकृतात्मतापत्त्यन- पेक्षणात् न चोक्तलक्षणस्य परिणामेऽसंभवः । यत्रारोप्यमाणं किंचित्का- र्योपयोगित्वेन निबध्यमानं स्वतस्तस्य तदुपयोगित्वासंभवात्मकृतात्मता- पत्तिमपेक्षते तत्रैव परिणामाङ्गीकारात् । यथा 'प्रसन्नेन दृगजेन वीक्षते मदिरेक्षणा' इति । अत्र त्वजस्य वीक्षणोपयोगित्वं निब- ध्यते । मयूरव्यंसकादिसमासेनोत्तरपदार्थप्राधान्यात् । न चोपमितिस- मासाश्रयणेन पूर्वपदार्थप्राधान्यादृश एव तदुपयोगित्वं निबध्यत इत्य- स्त्विति वाच्यम् । प्रसन्नेनेति सामान्यधर्मप्रयोगात् । 'उपमितं व्याघ्रा- दिभिः सह सामान्याप्रयोगे' इति तदप्रयोग एवोपमितसमासानुशासनात् । अन्जस्य च वीक्षणोपयोगित्वं न स्वात्मना संभवति । अतः प्रकृतहगात्म- १. 'चक्रभ्रमणे प्रकृतकार्योंपयोगित्वात्' ख-ग-घ. २. 'प्रकृतात्मतापरिणत्यनपे- क्षणात्' ख.

काव्यमाला। ५६ तापत्त्यपेक्षणात्परिमाणालंकारः । नन्वेवं 'यामि मनोवाकायैः' इत्यादिष्वपि तरादिशब्दलक्षितजन्मनाशाद्युपयोगित्वं तरण्यादीनामप्रियुगाद्यात्मनैवेति तेष्वपि परिणामप्रसङ्गः । मैवम् । यस्य कार्यवाचिपदप्रथमप्रतीततन्मुख्या- र्थनिवर्तनसामर्थ्य तदात्मनोपयोगित्वस्य ग्राह्यत्वात् । तरण्यादिपदमुख्यार्थ- निवर्तनसामर्थ्यस्य च तरण्यादिष्वेव व्यवस्थितत्कत् । तस्मादुदाहृतेषु रूप- कमेव । तेषु च नातिव्याप्तिरिति । नन्वेवमुक्तातिव्याप्तिपरिहारेऽपि- 'सोऽपूर्वो रसनाविपर्ययविधिस्तत्कर्णयोश्चापलं दृष्टिः सा मदविस्मृतस्वपरदिकिं भूयसोक्तेन वा । सर्व विस्मृतवानसि भ्रमर हे यद्वारणोऽद्याप्यसा- वन्तः शून्यकरोऽपि सेव्यत इति भ्रातः क एष ग्रहः ॥ इत्यप्रस्तुतप्रशंसायामतिव्याप्तिः । तत्राप्रकृतवारणरसनाविपर्ययादीनां प्रकृतदुष्प्रभुरसनाविपर्ययाद्यात्मतयैव तत्सेवात्यागलक्षणकार्योपयोगित्वात् । न हि यथा वारणस्य कर्णचापलं भ्रमरस्य तत्सेवात्यागे हेतुः, यथा तस्य रसनाविपर्ययः शून्यकरता च तत्र हेतुः । मदः प्रत्युत तत्सेवायामेव हेतु- रिति तस्य तत्त्यागहेतुत्वं दुरापास्तम् । एवमपि यत्तेषां त्यागहेतुत्वं नि: बध्यते तद्वारणादीनामप्रकृतानां दुष्प्रभुप्रभृतितादात्म्यापत्त्यैव निर्वाह्य- मिति । 'सुहृदालापेनैव' इत्यत्रोदाहृतपरिणामेऽव्याप्तिश्च तदवस्था । तत्र चन्द्रवन्मुखस्याप्यप्रकृतत्वेन प्रकृतात्मनोपयोगित्वाभावात् । उच्यते । प्र- कृतात्मनेत्यत्र प्रकृतशब्दो विषयमात्रपर इति नोदाहृतपरिणामाव्याप्तिः । उपयोगित्वं च प्रकृतागमकार्य प्रति विवक्षितम् । अप्रस्तुतप्रशंसोदाहरणे प्रकृतदुष्प्रभुसेवात्यागगमकवारणसेवात्यागं प्रत्युपयोगित्वमिति न तत्रा- तिव्याप्तिः । एवं च- 'आरोप्यमाणमारोपविषयात्मतया स्थितम् । प्रकृतस्योपयोगि स्यात्परिणाम उदाहृतः ॥' - १. 'यत्कार्यवाचिपदं प्रथमं प्रतीतं तन्मुख्यार्थनिवर्तनसामर्थ्यरूपस्य' ग; 'का- र्यवाचिपदप्रथमप्रतीततन्मुख्यार्थ' घ. २. 'निषेव्यत इति' ख. ३. परिणामाव्याप्तिश्च' ख.

चित्रमीमांसा। ५७ इति विद्यानाथलक्षणं प्रकृतस्येति पदस्य प्रकृतगमकस्येति व्याख्यानेन. परिष्करणीयम् ॥ अयं च परिणामो द्विविधः । सामानाधिकरण्यवैयधिकरण्याभ्याम् । सामानाधिकरण्येन यथा- 'तीत्वा भूतेशमौलिस्रजममरधुनीमात्मनासौ तृतीय- स्तस्मै सौमित्रिमैत्रीमयमुपकृतवानातरं नाविकाय । व्यामग्रावस्त नीभिः शबरयुवतिभिः कौतुकोदञ्चदक्षं कृच्छादन्वीयमानः क्षणमचलमथो चित्रकूटं प्रतस्थे ।' अत्रारोप्यमाण आतरो विषयभूतसौमित्रिमैत्रीरूपतापत्त्या गुहोपकारल- क्षणकार्योपयोगीति परिणामः । उभयोविभक्त्यैक्यात्सामानाधिकरण्यम् । वैयधिकरण्येन यथा- 'पुन्नागजालकैहीरान्काञ्चीः केयूरदामभिः । कर्णिकाः कर्णिकारैश्च विहर्तुं विदधुर्वने ॥' अत्रारोप्यमाणा हारादयो विषयभूतपुन्नागजालकादिरूपतयैव वनक्री: डोपयोगिन इति परिणामः । विभक्तिभेदाद्वैयधिकरण्यम् । इदं च वैयधिकरण्यं रूपकेऽपि संभवति । यथा- 'तारानायकशेखराय जगदाधाराय धाराधर- च्छायाधारककन्धराय गिरिजासङ्गैकशृङ्गारिणे । नद्या शेखरिणे दृशा तिलकिने नारायणेनास्त्रिणे नागैः कङ्कणिने नगेन गृहिणे नाथाय सेयं नतिः ॥' अत्र नदीदृशोर्विषययोर्विभक्तिरारोप्यमाणयोः शेखरतिलकयोर्नास्ति । D यथा वा- 'द्विर्भावः पुष्पकेतोविबुधविटापेनां पौनरुक्त्यं विकल्प- • श्चिन्तारत्नस्य वीप्सा तपनतनुभुवो वासवस्य द्विरुक्तिः । . १ 'आरोपविषय' ख, काव्यमाला॥ : द्वैतं देवस्य दैत्याधिपमथनकलाकेलिकारस्य कुर्व- नानन्दं कोविदानां जगति विजयते श्रीनृसिंहक्षितीन्द्रः ॥' अत्र विषयस्य राज्ञो विषयिणां पुष्पकेतुप्रभृतीनां च विभक्तिभेदः । अर्थ परिणामस्य व्यङ्ग्यतायां किमुदाहरणम् । 'नरसिंह धरानाथ के वयं तव वर्णने । अपि राजानमाक्रम्य यशो यस्य विजृम्भते ॥' इति विद्याधरेणोदाहृतम् । अत्र राजपदेन चन्द्रे विषय निर्दिष्टे तत्रा- रोप्यमाणस्य नृपस्याक्रमणरूपकार्योपयोगिनः प्रतीतेः परिणामो व्यज्यत इति, तदयुक्तम् । अत्र ह्यारोप्यमाणस्य नृपस्य नृपात्मनैवाक्रमणोपयोगो न चन्द्रात्मना । विद्याधरेणापि विषयिणः स्वरूपेण कार्यानुपयोगे तदुपयो- गाय विषयिणे विषयात्मना परिणत्यपेक्षायामेव परिणामोऽङ्गीकृतः । यदाह- 'तं परिणाम द्विविधं कथयन्त्यारोप्यमाणविषयतया । परिणमति यत्र विषयः प्रस्तुतकार्योपयोगाय ॥' विद्यानाथेन तूदाहृतम्- 'एष शाम्यति वस्तापो राजपादनिषेवया । कण्टकद्रुममूलेषु वासस्तं शमयेत्कथम् ॥' इति । नास्त्यत्र प्रागुक्तदोषानुषङ्गः । नृपचरणसेवायां प्रस्तुतायामारोप्यमा- णायाः चन्द्रचरणसेवायाः नृपचरणसेवात्मतयैव तापशान्तिहेतुत्वात् । तापशब्दस्य सौरतापसाधारण्येऽपि प्रकृते राज्यभ्रंशजनिततापस्यैव वि- वक्षितत्वात् । तन्निवर्तने चन्द्रकिरणसेवायाः स्वतोऽसामर्थ्यात् । तथापि प्राचीनानां मत एवैतदुदाहरणम् । ते हि 'राजपादनिषेवया' इत्यस्य प्र- करणनियन्त्रितत्वादप्रकृतायां चन्द्रकिरणसेवायां शब्दशक्तिमूलो व्यञ्जना- व्यापार इति मन्यन्ते । वस्तुतस्त्वप्रकृतेऽप्यर्थे शब्दानामभिधैव व्यापार इत्यस्माभिः श्लेषप्रकरणे व्यवस्थापयिष्यमाणत्वात् , इहापि राजपादनिषे- का A १. 'कलिकालस्य' ग. २. 'श्रीनृसिंहः ख-ग.३. 'विषयिणे' इति ग-पुस्तके नास्ति.

चित्रमीमांसा। ५९ . - वया' इत्यत्र चंन्द्रकिरणसेवायामप्यभिधैव व्यापारः । अतः प्रस्तुताप्र-. स्तुतद्वयताद्रूप्यप्रतीतेः श्लेषभित्तिकातिशयोक्त्यादिष्विव संसर्गविधयैवं ला- भात्तस्य प्रकृतकार्योपयोगितायास्तृतीयाया लाभाच्च न क्वापि व्यञ्जनाव्या- पारापेक्षेति नेदं परिणामध्वनेरुदाहरणम् । इदं च दूषणं पूर्वोदाहरणेऽपि तुल्यम् । इदं तूदाहरणम्- 'चिराद्विषहसे तापं चित्त चिन्तां परित्यज । नन्वस्ति शीतलः शौरेः पादाजनखचन्द्रमाः ॥' अत्र चिरतापात प्रति हरिपादाजनखचन्द्रसद्भावप्रदर्शनेन तमेव निषे- वस्व, तन्निषेवणादयं तापः शान्तिमेष्यतीति परिणामो व्यज्यते । एवं रू- पकवैलक्षण्येन परिणामो निरूपितः । तत्र रूपके प्रकृतमप्रकृतरूपापन्नं भवति, परिणामे त्वप्रकृतं प्रकृतरूपापन्नं भवतीति वैलक्षण्ये स्थिते यत्त. दुपजीव्यचक्रवर्तिनान्यथैव तयोर्वैलक्षण्यं वर्णितम् । मुखचन्द्र इति रूपके मुखं महारजतरूपेण पटवदारोप्यमाणचन्द्ररूपेण स्थगितस्वरूपं भवति । 'मुखचन्द्रेण तापः शाम्यति' इति परिणामे तु मुखमनाच्छादितस्वरूपमेव भवति । चन्द्रस्य मुखात्मनैव विरहतापशान्तिहेतुत्वादिति । उक्तं च- 'विषय्याकारमारोप्य विषयस्थगनं यथा । रूपकत्वं तदा तत्र रञ्जनेन समन्वयः ॥' 'यदा तु विषयो रूपात्वस्मादप्रच्युतो भवेत् । उपयुक्त्यै तदाकारः परिणामस्तदा मतः ॥' इति । अत्रेदं विचारणीयम् । रूपके विषयस्य स्थगनं न तावत्तिरोहितरूप- त्वम् । रजतभ्रमेण शुक्तिस्वरूपस्येवाहार्यारोपेण विषयस्य तिरोधानासं- भवात् । शारीरके च ‘य एवासौ तपति तमुद्गीथमुपासीत' इत्यत्रोद्गीथ- स्यादित्यदृष्टिविषयत्वाङ्गीकारे 'रजतदृष्टिविषयशुक्तिस्वरूपमिवोद्गीथक्रिया- स्वरूपं तिरोधीयेतेत्याशङ्कयाहार्यदृष्टेरतिरोधायकत्वस्योक्तत्वात् । नापि विषय्युपसर्जनत्वम् । परिणामेऽपि तुल्यत्वात् । उभयत्राप्युत्तरपदार्थप्रधा- नस्य मयूरव्यंसकादिसमासस्याविशेषात् । अत एव विषयिविशेषितत्वं स्थ- - .

६० काव्यमाला। 4 .गनमित्यपि निरस्तम् । विषयिणो विशेष्यत्वात् । तस्मात्स्थगनास्थगनवे- लक्षयेवचो निरालम्बनमिति विषयात्मनोपयोगेनैव परिणामस्य रूपकाद्वै- लक्षण्यं समर्थनीयमित्यलं विस्तरेण ।। इति परिणामप्रकरणम् । अथ संसंदेहः- साम्यादप्रकृतार्थस्य या धीरनवधारणा । प्रकृतार्थाश्रया तज्ज्ञैः ससंदेहः स इयते । त्रिविधश्चायं ससंदेहः। शुद्धो निश्चयगर्भो निश्चयान्तश्च । क्रमेण यथा- 'आनीय द्विषतां धनानि विपिने राजन्यचूडामणे तेष्वालोक्य विनिर्मलं हिमकलाखण्डं करण्डं पुनः । किं वाद्यं किमु पेषणं किमु धनं कि क्षेपणीयायुधं किं वा दैवतमित्यनिश्चितधियो मन्दाः पुलिन्दा जनाः ॥' 'अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं सर्वाः प्रसरति दिशो नैव नियतम् । कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरं समालोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाः ॥' 'किं तावत्सरसि सरोजमेतदारा- दाहोस्विन्मुखमवभासते तरुण्याः । संशय्य क्षणमिति निश्चिकाय कश्चि- द्विब्बोकैकसहवासिनां परोक्षः ॥' इति वदन्ति । अत्रेदं विचारणीयम् । साम्यादिति किमन्नाद्धेतोचमती- तिवत्फलत्वेन हेतुत्वविवक्षया पञ्चमी, उत खतो हेतुत्वविवक्षया । आ- घेऽप्रकृतसाम्याभिव्यक्तिफलकत्वमर्थः स्यात् । तथा सति 'आनीय द्वि- षताम्' इत्याद्युदाहरणेऽव्याप्तिः । न हि तत्र हिमकरण्डस्य वान्यादिमाह- श्याभिव्यक्ती कविसंरम्भः । किं तु द्विषत्पुरमीदृशीमवस्थामापमिति १. 'संदेहः' क-ग-घ, २. "हिमजलाखण्ड' ग.

चित्रमीमांसा। ६१ . राज्ञः प्रतापातिशयाभिव्यक्तौ । द्वितीये साम्यादित्यनेन किमेकमेवाप्रकृत-. साम्यं यावत्संदेहकोयुच्छित्तिहेतुत्वेन विवक्षितम्, उतैकमनेकं वेत्यनि- यमः । आये 'अयं मार्तण्डः किम्' इत्यायुदाहरणेऽव्याप्तिः । न हि तत्र 'किं लक्ष्मीरूवशी वेयं रम्भा वा मेनकाथ वा' इत्यत्र लक्ष्मीत्यादिविक- ल्पेष्वतिशयितसौन्दर्यसाम्मवदेकमेव साम्यमिह मार्तण्डत्वादिविकल्पेषु हेतुः, किं तु प्रतापेन दुनिरीक्षत्वसाम्यं मार्तण्डत्वविकल्पे, दुराधर्षत्वसाम्यं कृ- शानुत्वविकल्पे, क्षणेन सकलंसंहर्तृत्वसाम्यं कृतान्तविकल्पे च हेतुः । द्वि- तीये 'इह नमय शिरः कलिङ्गवद्वा समरमुखे करहाटवद्धनुर्वा' इति वि- कल्फालंकारेऽतिव्याप्तिः । अत्र दिग्विजयप्रवृत्तेन बलवता राज्ञा समरे प्रसक्ते यथा कलिङ्गनृ. पति:- 'समकान्तो बलवता काङ्खन्नभ्रंशिनीं श्रियम् । श्रयेत वैतसी वृत्ती न भौजङ्गी कदाचन ।' इति नीतिमनुसृत्यासंदिग्धं निजराज्यलक्ष्मीभ्रंशपरिहारकामः शिरो न- मितवान्, तथा वा शिरो नमय, यथा करहाटनृपतिः 'जयेन लभ्यते ल- क्ष्मीमरणेन सुराङ्गना' इति नीतिमनुसृत्य युद्धकामो धनुर्नमितवान् तथा वा धनुर्नमयेति समयोचिताप्तोपदेशे तद्राजचरितदृष्टान्तप्रापितानवस्थिता- र्थधीसत्वात् । न च तत्र श्लोके तादृग्धीनिबन्धनं नास्तीति नातिव्याप्ति- रिति वाच्यम् । तन्निवन्धनस्यापि लक्षणान्तर्गतविवक्षायाम्- 'जीवनग्रहणे नम्रा गृहीत्वा पुनरुंन्नताः । किं कनिष्ठाः किमु ज्येष्ठा वटीयन्त्रस्य दुर्जनाः ॥' इत्यादिषु संदेहविषयनिवन्धनगम्यससंदेहालंकारेप्वव्याप्तिप्रसङ्गात् । उ- त्प्रेक्षायां वाच्यगम्यभेदवदिहाफि द्विविधोदाहरणदर्शनेन वाच्यगम्यभेदेन द्वैविध्यस्याङ्गीकर्तव्यत्वात् । अपि चानवधारणेति किमुच्यते । अनिश्चयात्मकत्वमिति चेत् । तथा HIMRAYAN १. 'महर्टकल्व' ख. २. 'परिहातुकामः' क. ३..'उद्धताः' क.

१ ६२ काव्यमाला। सनि 'वालेन्दुवक्राण्य विकाशभावात्' इत्यादावुदाहरिष्यमाणायामप्रकृतसा. म्यनिमित्ततत्तादात्म्यसंभावनारूपायामुत्प्रेक्षायामतिव्याप्तिः। विरोधेन पर- स्परप्रतिक्षेपकतया निबद्धानेककोट्यवगाहित्वं विवक्षितमिति चेत् । तथापि 'अङ्कं केऽपि शशङ्किरे' इत्यादावुदाहरिष्यमाणायामपङतावतिव्याप्तिः । संदेहविकल्पयोर्वाकारादिनेव तत्रापि तत्तन्मतत्वोपन्यासेन परस्परप्रति- क्षेपसिद्धेः । 'अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदा शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं स विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥' इति संसदेहोदाहरणे चाव्याप्तिः । तत्र चन्द्रादीनां संदेहधर्मिणामेवा- नेकत्वम् । प्रकारस्तु सर्वत्र वर्णनीयवनितास्रष्टुत्वमेकमेवेत्यनेककोटिक- त्वाभावात् । न च साम्यनिमित्तत्वाभावान्न तत्र ससंदेहः । 'इतो गता सा क गता न जाने गृहं गता मे हृदयं गता वा' इति संदेहो न संग्राह्य इति वाच्यम् । वर्णनीयनायिकायाः कान्त्या चन्द्रसाम्यं सौरभसौकुमार्याभ्यां पुप्पसाम्यं च निमित्तीकृत्य किमस्यां कान्तिनिधानभूतश्चन्द्रः स्वकान्तिसं- पदा स्वष्टा, उत पुष्पमासः स्वकीयपुष्पसंपदेति संदेहनिबन्धनात् 'शृ- नारैकरसः स्वयं नु मदनः' इत्यंशस्य शृङ्गारविभ्रमबाहुल्यमात्रपर्यवसा- यित्वेन किंचित्साम्यनिमित्तत्वाभावेऽपि चन्द्रवसन्तर्मिकांशयोस्तन्निमित्त- त्वानिवारणात् । एवं च प्रकृतार्थाश्रयेत्येतदप्ययुक्तम् । उदाहृतसंदेहस्य वर्णनीयना- यिकानाश्रयत्वेनाव्याप्तिरिति चेत् । अत्र ब्रूमः । 'बुद्धिः सर्वात्मनान्योन्याक्षेपिनानार्थसंश्रया । सादृश्यमूला वार्थस्पृक्संदेहालंकृतिर्मता ॥ १. 'संभावनाया उत्कटकोटिसंदेहरूपत्वात् । विरुद्धानेककोट्यवगाहिलं तदिति चेत् । तथापि मुखचन्द्र इति रूपकेऽतिव्याप्तिः' इत्यधिकं ख-पुस्तके.

चित्रमीमांसा । यद्यप्यन्योन्यप्रतिक्षेपकविरुद्धनानार्थावलम्बनत्वं विकल्पस्याप्यस्ति । त-. थापि तदर्थानां सर्वात्मना परस्परप्रतिक्षेपकत्वं नास्ति किं तु पक्षे तत्प्रा- प्तिमनिरुध्य स्वप्राप्तिपक्ष एव वपरिपन्थिप्राप्तिप्रतिक्षेपकत्वम् । न हि 'बी- हिभिर्यवैर्वा यष्टव्यम्' इति विकल्पोद्देशे ब्रीहयो यवान् यवाश्च ब्रीही- • न्सर्वात्मना यागात्प्रतिक्षिपन्ति । तथा सति शास्त्रस्यास्या निर्णायकत्वेना- ननुष्ठापकत्वेन चाप्रामाण्यप्रसङ्गात् । किं तु स्वखानुष्ठानपक्ष एव । अत एव 'व्रीहिभिर्यवैर्वा यष्टव्यम्' इति संदेहेन पृष्टवन्तं प्रति 'बीहिभिर्यवैर्वा यष्टव्यम्' इति प्रश्नसमाकारमेव वाक्यं निर्णायकं प्रश्नमूलसंदेहनिवर्तक- मनुष्ठापकं च दृश्यते । प्रश्नवाक्ये वाकारः सर्वात्मना पक्षान्तरप्रतिक्षे- पार्थः । उत्तरवाक्ये पक्षे तत्प्रतिक्षेपार्थ इति विशेषसद्भावात् । एवं विक- ल्पालंकारोदाहरणेऽपि द्विविधस्यापि नीतिशास्त्रस्य प्रामाण्यात्तदुपदिष्टफले- च्छानुसारेणोभयमपि पक्षेऽनुष्ठातुं युक्तमिति शिरोधनुर्नमनयोर्न सर्वात्मना परस्परप्रतिक्षेपकत्वमिति विकल्पालंकारे नातिव्याप्तिः । अपह्नवोदाहरणे सर्वात्मना परस्परप्रतिक्षेपसत्वेऽपि वाकारार्थस्पर्शाभावान्नातिव्याप्तिः । तत्र हि केचिदन्य इति मतान्तरत्वोपन्यासेन पक्षाणां परस्परप्रतिक्षेपलाभः । न तु वाकारार्थस्पर्शोऽस्ति । उत्प्रेक्षायामपि नातिव्याप्तिः । तत्र ह्युत्कटको- टिके संशयकोट्योः समबलत्वाभावेन वाकारार्थस्पर्शाभावात् । 'अस्याः सर्ग- विधौ' इत्युदाहरणे परस्परप्रतिक्षेपकनानाकोटिसमाश्रयत्वाभावेऽपि तथाभूत- नानाधर्मिरूपार्थसमाश्रयत्वसत्त्वान्नाव्याप्तिरिति सर्वमवदातम् । संदेहालंकारध्वनिर्यथामत्कुलकूटस्थवक्षःस्थलाचार्यकृते वरदराजवसन्तो- त्सवे- 'कांचित्काञ्चनगौराङ्गी वीक्ष्य साक्षादिव श्रियम् । वरदः संशयापन्नो वक्षःस्थलमवैक्षत ॥' अत्र संशयस्य शब्दोपात्तत्वेऽपि तावन्मात्रस्यानलंकारत्वात् । तदलंकारताप्रयोजकस्य वक्षःस्थले स्थितैव लक्ष्मीस्ततोऽवतीर्य- पुरत- स्तिष्ठतीत्येवं संशयाकारस्य वक्षःस्थलमवैक्षतेत्यनेन व्यङ्गयत्वात्संदेहालं- कारध्वनिरत्रेति । यथा-- - ६ काव्यमाला। 'दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः । वीक्ष्य बिम्बमनु विम्बमात्मनः कानि कान्यपि चकार लजया ॥' इत्यत्र कानि कान्यपीति सामान्यतो निर्दिष्टानुभावविशेषप्रतीत्यर्थल- ज्जाशब्दप्रयोगेऽपि तस्याः स्वविभावानुभावाभ्यां रसानुगुणाभिव्यक्तिरूपो ध्वनिः । यद्यपि 'संशयापन्नः' इत्यनेन लक्ष्म्याः न्युरो दृष्टायाश्च मध्ये कस्या रूपमधिकमिति संशयाविष्ट इति वा, निःसमाधिकरूपवत्त्वाभिमानिनी लक्ष्मीः पुरत एनां दृष्ट्वा कथं वर्तत इति संशयापन्न इति,वा, इयं च व- क्षसि कुत्र निवेशनीयेति संशयापन्न इति वा, बहवः संशयाकारा वक्षः- स्थलमवेक्षतेत्यनेन व्यङ्गयाः संभवन्ति, तथापि सर्वेषामपि संदेहानां साह- श्यमूलत्वाव्यतिरेकमूलसंदेहस्याप्यत्र संभवेऽपि कथंचित्सादृश्यमूलत्वात्सं- देहालंकारध्वन्युदाहरणत्वमिति युक्तमेव ।। इति संदेहालंकारप्रकरणम् । - अथ भ्रान्तिमान्- कविसंमतसादृश्याद्विषये पिहितात्मनि । आरोप्यमाणानुभवो यत्र स भ्रान्तिमान्मतः ॥ पिहितात्मनीत्यनेनारोप्यमाणानुभवस्य स्वारसिकं कविप्रतिभया क- ल्पनं विवक्षितम् । तस्यैव विषयपिधानसामर्थ्यात् । अतो रूपकादौ ना- तिव्याप्तिः । उदाहरणम्- 'कपाले मार्जारः पय इति करांल्लेढि शशिन- स्तरुच्छिद्रप्रोतान्बिसमिति करी संकलयति । रतान्ते तल्पस्थान्हरति वनिताप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो विभ्रमयति ।।' अत्र लेहनादिप्रवृत्तिपर्यन्ततोक्तः स्वारसिक एव विभ्रमः कविप्रतिभया चन्द्रिकोत्कर्षद्योतनाय निवद्धः । १. 'इयं वक्षस' ख. २. 'प्रभावित्तः' ग.

चित्रमीमांसा । ६५ des क्वचिद्धान्तेरुत्तरोत्तरं पल्लवेन चमत्कारः- 'बल्लाल क्षोणिपाल त्वदहितनगरे संचरन्ती किराती कीर्णान्यादाय रत्नान्युरुतरखदिराङ्गारशङ्काकुलाङ्गी । कृत्वा श्रीखण्डखण्डं तदुपरि मुकुलीभूतनेत्रा धमन्ती श्वासामोदानुधावन्मधुकरनिकरैर्धूमशङ्कां करोति ॥' क्वचिद्भिन्नकर्तृकोत्तरोत्तरभ्रान्तिनिबन्धनेन चमत्कारः । 'शिञ्जानैमञ्जरीतिस्तनकलशयुगं चुम्बितं चञ्चरीकै- स्तत्रासोल्लासलीलाः किसलयमनसा पाणयः कीरदष्टाः । तल्लोपायालपन्त्यः पिकनिनदधिया ताडिताः काकलोकै- रित्थं चोलेन्द्रसिंह त्वदरिमृगदृशां नाप्यरण्यं शरण्यम् ॥' क्वचिदन्योन्यविषयभ्रान्तिनिबन्धनेन । यथा- 'पलाशकुसुमभ्रान्त्या शुकतुण्डे पतत्यलिः । सोऽपि जम्बूफलभ्रान्त्या तमलिं धर्तुमिच्छति ॥' 'विस्फूर्तिमत्यां की” ते विधिवैकुण्ठशंकराः । आरोढुं शयितुं वस्तुमाकाङ्क्षन्ति महीतले ।' इत्यत्र भ्रान्तिमदलंकारो व्यङ्गयः । सादृश्यान्यमूलौ संदेहविभ्रमौ ससंदेहभ्रान्तिमदलंकारप्रयोजको न भ- वतः । यथा- 'अमुप्य धीरस्य जयाय साहसी शरासनज्यां विशिखैः सनाथयन् । निमज्जयामास यशांसि संशये स्मरस्त्रिलोकीविजयार्जितान्यपि ॥' 'दामोदरकराघातचूर्णिताशेषवक्षसा । दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम् ॥' आये दुर्जयविजयोद्योगसाहसप्रयुक्तः कीर्तिभ्रंशसंदेहः । द्वितीये गा- ढमर्मप्रहारकृतचन्द्रविभ्रम इति । इति भ्रान्तिमत्प्रकरणम् । १. 'जल्लाल' ग. २ 'शङ्कां करोति' ग. ३. 'श्वासामोदानुयातैः' ग-घ; 'श्वासामो- दप्रसक्ते मधुकरनिकरे' ङ. ४. मुष्टिप्रहार' ग.

काव्यमाला। 6 • अथोल्लेखालंकारः- निमित्तभेदादेकस्य वस्तुनो यदनेकधा । उल्लेखनमनेकेन तमुल्लेखं प्रचक्षते ।। यत्र नानाविधधर्मयोग्येकं वस्तु तत्तद्धर्मयोगरूपनिमित्तभेदादनेकेन ग्र- हीत्रानेकधोल्लिख्यते स उल्लेखः । 'कीर्तिगङ्गाहिमक्ष्माभृदोजःसूर्योदयाचलः । शत्रुसेनाब्धिमन्थाद्रिगुणरत्नैकरोहणः ॥' इति मालारूपके एकस्य राज्ञो यशस्वित्वादिधर्मयोगरूपनिमित्तभेदात्तुषा- त्वाद्यनेकप्रकारेणोल्लेखनमस्तीति तत्रातिव्याप्तिनिरासायानेकेत्युक्तम् । तत्र गृहीतृभेदनिवन्धनं न भवत्यनेकधोल्लेखनमिति नातिव्याप्तिः । 'विद्याविक्रमसौन्दर्यतपसां निधिमागतम् । पश्यन्ति विबुधाः शूराः स्त्रियो वृद्धाश्च कौतुकात् ॥' इत्यत्रैकस्य वर्ण्यस्य विद्याद्यनेकधर्मयोगरूपनिमित्तभेदादनेकेन ग्रहीत्रो- ल्लेखनमस्तीति तत्रातिव्याप्तिवारणायानेकधेत्युक्तम् । तत्र कौतुकात्रू त्वरू- .पालोकनमात्रनिबन्धनं नानेकधोल्लेखनमिति तद्व्यावृत्तिः । 'शिञ्जानैर्मञ्जरीति स्तनकलशयुगं चुम्बितं चञ्चरीकैः' इत्युदाहृतायामनेककर्तृकभ्रान्तिपरम्प- रायां स्तनादीनां मञ्जरीसादृश्यादिनिमित्तभेदादनेकेन चञ्चरीकादिना मञ्ज- रीत्वाद्यनेकप्रकारेणोल्लेखनमस्तीति तत्रातिव्याप्तिवारणायैकस्य वस्तुन इ- त्युक्तम् । 'कीर्ती विस्फूर्तिमत्यां ते मृडालक्षीरशङ्किनः । द्वयेऽपि नागास्तन्वन्ति जिह्वान्तोल्लेखनं मुहुः ॥' इति भ्रान्तिमदुदाहरणे एकस्या एव कीतरनेकेन कुञ्जरभुजंगरूपेण ग्रहीत्रा मृणालक्षीररूपत्वाचनेकप्रकारेणोल्लेखनमस्तीति तत्रातिव्याप्तिनिरा- साय निमित्तभेदादित्युक्तम् । तत्र कीर्तिगतं धावल्यमेकमुल्लेखद्वयेऽपि नि- मित्तम् । यद्यपि गजभुजंगानां स्वस्वप्रियाहारलोभरूपनिमित्तभेदोऽप्यस्ति, तथापि निमित्तभेदादित्यनेनैकनिमित्तविरहो विवक्षित इति तद्वयावृत्तिः । तस्य संग्राह्यत्वे निमित्तभेदादिति स्वरूपकथनमात्रम् । एवमपि यदि- amwamanane चित्रमीमांसा ७ 'कान्त्या चन्द्रं विदुः केचित्सौरभेणाम्बुजं परे । वक्त्रं तव वयं ब्रूमस्तपसैक्यं गतं द्वयम् ॥' इत्यपह्नवोदाहरणविशेषेऽतिव्याप्तिः शङ्कया, तदानीमनेकधोल्लेखनं नि- षेधास्पृष्टत्वेन विशेषणीयम् । तत्राद्योल्लेखनद्वयं परमतत्वोपन्याससामर्थ्या- द्म्यमाननिषेधमिति नातिव्याप्तिः । 'स्त्रीभिः कामोऽर्थिभिः स्वर्दुः कालः शत्रुभिरैक्षि सः ।' अत्र चानेकधाल्लेखने रुच्यर्थित्वभयादिकं यथायोगं प्रयोजकम् । रु- चिरभिरतिः । अर्थित्वं लिप्सा । द्विविधश्चायमुल्लेखः । शुद्धोऽलंकारान्त- रसंकीर्णश्च । तत्र शुद्धो यथा- 'गजत्रातेति वृद्धाभिः श्रीकान्त इति यौवतैः । यथास्थितश्च बालाभिदृष्टः शौरिः सकौतुकम् ॥' अत्र यस्तथा भीतं भक्तं गजं त्वरया त्रायते म सोऽयमादिपुरुष इति वृद्धाभिः संसाराद्भीत्या तदभयार्थिनीभिः कृष्णः पुरः प्रविशन् दृष्टः, य- स्तथा चञ्चलत्वेन प्रसिद्धाया लक्ष्म्या अपि कामोपचारवैदग्ध्येन नित्यवल्लभः सोऽयं दिव्ययुवेति युवतीभिः सोत्कण्ठाभिदृष्टः, बालाभिर्बालस्वभावाद्यथा- स्थितरूपवेषयुक्तो दृष्ट इति सर्वत्र वस्तुसता नानारूपेणोल्लेखादयं शुद्धः । यथा वा हर्षचरिते श्रीकण्ठजनपदवर्णने- 'यस्तपोवनमिति मुनिभिः, कामायतनमिति वेश्याभिः, संगीतशालेति लासकैः, यमनगरमिति शत्रुभिः, चिन्तामणिरित्यर्थिभिः, वीरक्षेत्रमिति शस्त्रोपजीविभिः, गुरुकुलमिति विद्यार्थिभिः, गन्धर्वनगरमिति गायकैः, वि- श्वकर्ममन्दिरमिति विज्ञानिभिः, लाभभूमिरिति वैदेहकैः, धूर्तस्थानमिति वन्दिभिः, साधुसमागम इति सद्भिः, वज्रपञ्जरमिति शरणागतैः, विटगो- ष्ठीति विदग्धैः, सुकृतपरिणाम इति पथिकैः, असुरविवरमिति वाहिकैः, १. 'स्त्रीभिः कामः' इत्यारभ्य 'आर्थित्वं लिप्सा' इत्यन्तः पाठः क-पुस्तके नास्ति. २. “चिन्तामणिभूमिः' इति हर्षचरिते. ३ 'वणिग्भिः' ग. ४ 'असुविवरमिति वातिकैः इति हर्षचरिते. वातिकैविवरव्यसनिभिरिति तत्र टीकायाम्.

- ६८ काव्यमाला। शक्याश्रम इति • शमिभिः, अप्सरःपुरमिति कामिभिः, महोत्सवसमाज इति चारणैः, वसुधारेति च विप्रैरगृह्यत ।' अत्र तपोवनादिभूयिष्ठत्वात्तपोवनाद्युल्लेखः शुद्धः । अत्रैव यमनगरत्वा- द्युल्लेखः संकीर्णः । तत्र यदि यमनगरत्वादीनामुपरञ्जकतामात्रेणान्वयस्तदा रूपकसंकरः । यदि ताद्रूप्यानुभावगोचरतया, तदा भ्रान्तिमत्संकरः । अयं चोल्लेखो वर्ण्यगुणोत्कर्षख्यापनायाचेतनकर्तृकोऽपि निबध्यते । यथा तत्रैव हर्षवर्णने- 'निःस्नेह इति धनैः, अनाश्रयणीय इति दोषः, निग्रहरुचिरितीन्द्रियैः, दुरुपसर्प इति कलिना, नीरस इति व्यसनैः, भीरुरित्ययशसा, दुर्ग्रह- चित्तवृत्तिरिति चित्तभुवा, स्त्रीपर इति सरस्वत्या, षण्ड इति परकलत्रैः, काष्ठामुनिरिति यतिभिः, धूर्त इति वेश्याभिः, विनय इति सुहृद्भिः, कर्म- कर इति विप्रैः, असहाय इति शत्रुयोधैः, एकमप्यनेकधा गृह्यमाणम्' इति । भ्रान्तिमदलंकारादयोऽप्येवमचेतनकर्तृका निबध्यन्ते- 'भिन्नेषु रत्नकिरणैः किरणेष्विहेन्दो- रुच्चावचैरुपगतेषु सहस्रसंख्याम् । दोषापि नूनमहिमांशुरसौ किलेति व्याकोशकोकनदतां दधते नलिन्यः ॥' इत्यादौ । 'मधुलुब्धा मधुकरास्तृषिताश्च चकोरकाः। सुगन्धि कान्तिसंपन्नमनुधावन्ति ते मुखम् ॥' इत्यत्रोल्लेखो व्यङ्गयः । 'विद्याविक्रमसौन्दर्य' इति श्लोके विद्यादीनां स्वरूपावलोकनकौतुकमात्रे निमित्ततया यदि न विश्रान्तिः, किं तु विद्व- त्ताद्युल्लेखवदवलोकनकौतुकनिमित्ततायां पर्यवसानं तदा तत्राप्युल्लेखनगता- नेकधात्वविच्छित्तिविशेषस्य गम्यत्वादुल्लेखालंकारो गम्यः । 'परिव्राटकामुकशुनामेकस्यामेव योषिति । कुणपः कामिनी भक्ष्यमिति तिस्रो विकल्पनाः॥' इत्यत्राप्युल्लेख इष्यत इति लक्षणस्य नातिव्याप्तिः । १. 'दुर्गाहचित्तवृत्तिः' ख. २. 'शण्ठः' इति हर्षचरिते. शण्ठः प्रजननाक्षम इति टीका. ३. 'विनेयः' क. .

चित्रमीमांसा। ६९ अथापर उल्लेखप्रकारः - 'गृहीतृभेदाभावेऽपि विषयाश्रयभेदतः । एकस्यानेकधोल्लेखमप्युल्लेखं प्रचक्षते ॥' तत्र विषयभेदादनेकधोल्लेखः शुद्धः संकीर्णश्च । शुद्धो यथा- 'अकृशं कुचयोः कृशं वलग्ने विपुलं चक्षुषि ,विस्तृतं नितम्बे । अधरेऽरुणमाविरस्तु चित्ते करुणाशालिकपालिभागधेयम् ॥' 'गुरुर्वचसि, पृथुरुरसि, विशालो मनसि, जनकस्तपसि, सुमित्रस्ते- जसि, सुमन्त्रो रहसि, बुधः सदसि, अर्जुनो यशसि, भीष्मो धनुषि' इ- त्यादौ श्लेषसंकीर्णः । 'हंसमयीव गतिषु, परपुष्टमयीवालापे, चक्रवाकमयीव पतिप्रेमणि, प्राविण्मयीव पयोधरोन्नतौ, कमलमयीव कोशसंग्रहेषु, कुसुममयीव फल- दानेषु' इत्याद्युत्प्रेक्षासंकीर्णः । पयोधरोन्नतावित्यादौ विषयांशे श्लेषसंकी- र्णश्च । 'युधिष्ठिरः सत्यवचसि' इत्यादौ रूपकसंकीर्णः । 'युधिष्ठिरसमः सत्यवचसि' इत्यादावुपमासंकीर्ण इत्याद्युन्नेयम् । अधिकरणभेदेनानेकधोल्लेखो यथा-- 'वर्धिष्णोरुपरि क्षणं रविरभूच्छत्रं बलिध्वंसिनो रत्नं मूर्ध्नि ललाटसीम्नि तिलकं कर्णान्तिके कुण्डलम् । अंसे चक्रमुरःस्थले मणिवरो नाभौ सरोजासनो यस्याङ्ग्रौ कटकस्त्रिविक्रमगतेः पायादपायात्स वः ।।' अत्र रूपकसंकीर्णः । भगवल्ललाटमध्यकर्णान्तादितत्तदवयवाभिमुख- स्थितग्रहीतृभेदनिमित्तोल्लेखसंकीर्णश्च । एकस्यैव द्रष्टुर्ललाटमध्ये कर्णान्तिके च रविदर्शनासंभवात् । 'यस्य वह्निमयो हृदयेषु, जलमयो लोचनपुरेषु, मारुतमयः श्वसितेषु, क्षमामयोऽङ्गेषु, आकाशमयः 'शून्यतासु, पञ्चमहाभूतमयो मूर्त इवादृश्यत निहतप्रतिसामन्तान्तःपुरेषु प्रतापः ।' अत्र वहिजलादिशब्दगृहीततापबाष्पादिरूपाणां प्रतापकार्याणां प्रतापस्य चाभेदकथनं हेत्वलंकार इति तत्संकरः । मतान्तरे रूपकसंकरः । - .

काव्यमाला। . 'कस्तूरीतिलकन्ति भालफलके, देव्या मुखाम्भोरुहे रोलम्बन्ति, तमाललोलमुकुलोत्तंसन्ति मौलिं प्रति । याः कर्णे विकचोत्पलन्ति, कुचयोरंशे च कालागुरु- स्थास्यन्ति, प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः ॥' अत्रोपमासंकीर्णः । केचित्तु तत्तदधिकरणौचित्यात्कस्तूरीतिलकादि- तादात्म्यसंभावनायामुपमार्थे विहितोऽपि क्विबुत्प्रेक्षायां पर्यवस्यतीत्युपमो- पक्रमोत्प्रेक्षेयमित्याहुः । तत्मते उत्प्रेक्षासंकीर्णः । एवमलंकारान्तरसंकरो- ऽप्युन्नेयः। इत्युल्लेखप्रकरणम् । - - अथापढुतिः- प्रकृतस्य निषेधेन यदन्यत्वप्रकल्पनम् । साम्यादपङतिर्वाक्यभेदाभेदवती द्विधा । अन्यत्वकल्पनमात्रं रूपके, विषयनिषेधमात्रं 'नाहं दूती वरतनोरङ्ग- तापोऽतिभास्वरः' इत्याक्षेपे, उभयमपि साम्यविशेषणरहितम् । 'न पञ्च- विशिखः कामः किं त्वपञ्चशिलीमुखः' इत्यतिशयोक्तौ चातिव्याप्तमिति विशिष्टोपादानम् । न चैवं 'न पद्मं मुखमेवेदम्' इति तत्त्वाख्यानोपमायां विषये पद्मत्वनिषेधस्य मुखत्वप्रकल्पनस्य च सत्त्वादतिव्याप्तिः । प्रकल्पन- पदस्यारोपपरत्वात् । 'निषिध्य विषयं साम्यादन्यारोपः' इति क्त्वाप्रत्य- येन लक्षणं नोक्तम् । वक्ष्यमाणोदाहरणे आरोपपूर्वकापह्नवेऽतिव्याप्ति- प्रसङ्गात् । इयं च साक्षान्निषेधकनादिप्रयोगे परपक्षत्वाद्युपन्यासे निषेधसाम- र्थ्याद्गम्यत्वे च वाक्यभेदेन प्रवर्तते । विषयासत्यत्वप्रतिपादकच्छद्मनिभक- पटव्याजादिशब्दप्रयोगे विषयासत्यत्वपर्यवसायिरूपवपुर्नामभङ्गयादिशब्द- प्रयोगे च तदभेदेन । अत्र वाक्यभेदेऽपह्नवपूर्वक, आरोप आरोपपूर्वकापह्नवश्चेति द्वैविध्यम् ।

चित्रमीमांसा। ७१ क्रमेणोदाहरणानि- 'अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये कलङ्को नैवायं विलसति शशाङ्कस्य वपुषि । अमुष्येयं मन्ये विगलदमृतस्यन्दशिशिरे रतिश्रान्वा शेते रजनिरमणी गाढमुरसि ॥' यथा वा- - 'नेदं नभोमण्डलमम्बुराशिर्नेमाश्च तारा नवफेनपुञ्जाः । 'नायं शशी कुण्डलितः फणीन्द्रो नायं कलङ्कः शयितो मुरारिः॥' पूर्वत्र निरवयवापह्नुतिरत्र सावयवेति भेदः । 'अङ्कं केऽपि शशङ्किरे जलनिधेः पङ्क परे मेनिरे सारङ्ग कतिचिच्च संजगदिरे भूच्छायमैच्छन्परे । इन्दौ यद्दलितेन्द्रनीलशकलश्यामं दरीदृश्यते तत्सान्द्रं निशि पीतमन्धतमसं कुक्षिस्थमाचक्ष्महे ।।' इत्यत्राप्यपह्नवपूर्वक आरोपः । अपह्नवस्तु परपक्षोपन्यासादर्थसिद्धः । 'विकसदमरनारीनेत्रनीलाजपण्डा- न्यधिवसति सदा यः संयमाधःकृतानि । न तु रुचिरकलापे वर्तते यो मयूरे वितरतु स कुमारो ब्रह्मचर्यश्रियं वः ॥' अत्रारोपपूर्वकोऽपहवः शाब्दः । 'मन्थानभूमिधरमूलशिलासहस्र- संघट्टनबणकिणः स्फुरतीन्दुमध्ये । छाया मृगः शशक इत्यपि पामराणां लोके गतानुगतिकः प्रथितः प्रवादः ॥' अत्राप्यारोपपूर्वकोऽपह्नवः । स च पामरवचनोपन्यासादर्थसिद्धः । ए- तानि वाक्यभेदेनोदाहरणानि । एकवाक्यतायां तु- 'बत सखि कियदेतत्पश्य वैरं स्मरस्य प्रियविरहकृशेऽस्मिन्कामिलोके तथा हि . १. 'खण्डानि' ख-ग.

७२ काव्यमाला। F उपवमसहकारोद्भासिभृङ्गच्छलेन प्रतिविशिखमनेनोट्टङ्कितं कालकूटम् ॥ 'अमुष्मिँल्लावण्यामृतसरसि नूनं मृगदृशः स्मरः शर्वप्लुष्टः पृथुजघनभारे निपतितः । यदङ्गाङ्गाराणां प्रशमपिशुना नाभिकुहरे शिखा धूमस्येयं परिणमति रोमावलिवपुः ॥' पूर्वत्र न सभृङ्गाणि सहकाराणि, अपि तु सकालकूमः शरा इत्यस- त्यत्वाभिधायिच्छलशब्दवशात्प्रतीयते । उत्तरत्र नेयं रोमावलिः किं तु धू- मशिखेत्यसत्वपर्यवसायिवपुःशब्दबलात्प्रतीयते । केचित्तु सादृश्यव्यक्तयेऽपह्नववदपवाय सादृश्यमप्यपढ्त्यलंकारं व- दन्ति । यथाहुः- 'सादृश्यव्यक्तये यत्रापह्नवोऽसावपहुतिः । अपह्नवाय सादृश्यं यत्रास्त्येषाप्यपद्भुतिः ॥' इति । उदाहरन्ति च- 'आकृष्यादावमन्दग्रहमलकचयं वक्रमासज्य वक्रे कण्ठे लग्नः सुकण्ठ' प्रसरति कुचयोर्दत्तगाढाङ्गसङ्गः । बद्धासक्तिनितम्बे पतति चरणयोर्यः स तादृक्प्रियो मे बाले लज्जा निरस्ता न हि न हि सरले चोलकः किं त्रपाकृत् ॥' अत्र वीक्षितं प्रियमपद्दुत्य चोलकत्वारोपः । तदर्थं च प्राक् प्रियचो- लसदृशधर्मोपन्यासः । अत्रेदमपहुतिकथनं व्याजोक्त्यलंकारं पृथगनङ्गी- कुर्वतासुद्भटादीनां मतमनुसृत्य । ये तु उद्भिन्नवस्तुनिगूहनं व्याजोक्तिरिति व्याजोक्त्यलंकारं पृथगिच्छन्ति तेषामिहापि व्याजोक्तिरेव नापह्नुतिरिति रुचकादयः । दण्डी त्वपहुतेः साधर्म्यमूलत्वनियममनादृत्य 'किंचिदपढ्त्य कस्यचित्प्रदर्शनमात्रमपहृतिः' इति लक्षयित्नोदाजहार- 'अपह्नुतिरपमुत्य किंचिदन्यार्थसूचनम् । न पञ्चेषुः स्मरस्तस्य सहस्र पत्रिणामिति ॥ १. 'पृथुजघनभागे क. २. 'सादृश्यनियममनादृत्य' ग-घ, ३. 'सहखं विशिखाः . - पुन: ख. A चित्रमीमांसा। चन्दनं चन्द्रिका गन्धो गन्धवाहश्च दक्षिणः ।. स्वयमग्निमयी सृष्टिः शीता किल परान्प्रति ॥ अमृतस्यन्दिकिरणश्चन्द्रमा मम नो मतः । अन्य एवायमात्मा विषनिष्यन्ददीधितिः ।।' साधर्म्यमूला त्वपढतिरिति तेन व्याहृता । 'त्वदालेख्ये कौतुहलतरलतन्वीविरचिते विधायैका चक्र रचयति सुपर्णासुतमपि । अथ विद्यत्पाणिस्त्वरितमपमृज्यैतदपरा करे पौष्पं चापं मकरमुपरिष्टाच्च लिखति ।।' इत्यादावपळुतिध्वनिरुदाहर्तव्यः । अत्र हि चक्रसुपर्णलेखनेन नायं सा- धारणः पुरुषः किं तु पुण्डरीकाक्ष इति कयाचिद्वयञ्जितम् । अन्यया तु तस्याप्येतादृशं रूपं न संभवतीत्याशयेन नायं पुण्डरीकाक्षोऽपि किं तु मन्मथ इति तदुभयमुन्मृज्य पुष्पसायकमकरध्वजलेखनेन व्यञ्जितम् ॥ इत्यपहुतिप्रकरणम् । अथोत्प्रेक्षालंकारः- यत्रान्यधर्मसंबन्धादन्यत्वेनोपतर्कितम् । प्रकृतं हि भवेत्याज्ञास्तामुत्प्रेक्षां प्रचक्षते ॥ यथा- 'बालेन्दुवक्राण्यविकाशभावाद्वभुः पलाशान्यतिलोहितानि । सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥ अत्र प्रकृतानि पलाशकुसुमान्यप्रकृतनखक्षतधर्मवक्रत्वलौहित्यसंबन्धा- न्नखक्षतत्वेनोपकल्पितानि । तर्कः संभावनामात्रं न त्ववधारणम् । तदी- यधर्मो हि तत्तादात्म्यसंभावनामात्रहेतुर्न व्याप्तिपक्षधर्मतावल्लिङ्गवदवधारण- हेतुः । न चात्रेवशब्दस्य सादृश्यपरत्वमित्युपमाशङ्का कार्या । उपमाया यत्र क्वचित्स्थितैरपि नखक्षतैः सह वक्तुं शक्यतया वसन्तनायकसमागत- वनस्थलीसंबन्धित्वविशेषणकल्पनानपेक्षत्वात् । पलाशमुकुलानां नखक्षत- १. 'सादृश्यपर्यवसानत्वं' ख. .

काव्यमाला। ताशत्म्यसंभावनायामेव तथाविधविशेषणस्योपयुक्तत्वात् । एवमन्यत्रापि यत्र यंत्राप्रकृततादात्म्यसंभावनोपयुक्तविशेषणकल्पना तत्र सर्वत्राप्युत्प्रे- क्षावगन्तव्या। यथा- 'उवाह या तनुलता भृङ्गालीरोमवल्लरीम् । पश्चाद्विमुक्तां वैमल्याद्विम्बितामिव वेणिकाम् ॥' उपमा यत्र क्वचित्स्थितयापि वेणिकया वक्तुं शक्येति तत्रानुपयुक्ता, वैमल्यात्पुरोभागप्रतिबिम्बितत्वरूपविशेषणकल्पना तादात्म्यसंभावनार्था । यत्र तु संभावनोपयुक्तविशेषणकल्पनारहितमुपमानं निबध्यते तत्र पर- मिवशब्दः सादृश्यपर इत्युपमालंकारः । अमुमेव विभागमभिप्रेत्य चक्रव- तिनोक्तम् 'यदायमुपमानांशो लोकतः सिद्धिमृच्छति' इत्यादि । दण्डिना- पीवशब्दस्योत्प्रेक्षाव्यञ्जकत्वमुक्तम् । 'मन्ये, शङ्के, ध्रुवं, प्रायो, नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः॥' इति । अत्रादिशब्देन तर्कयामि, संभावयामि, जाने, उत्प्रेक्षे, स्यात्, इत्येव- मादीनां संग्रहः । अत्र च 'कस्तूरिकामृगाणामण्डाद्गन्धगुणमखिलमादाय । यदि पुनरहं विधिः स्यां खलजिह्वायां निवेशयिष्यामि ॥' 'यद्यनुष्णो भवेद्वह्निर्यद्यशीतं भवेजलम् । मन्ये दृढव्रतो रामस्तदा स्यादप्यसत्यवाक् ।।' इत्यादिष्वतिव्याप्तिवारणाय धर्मसंबन्धादित्युक्तम् । तेषु हि 'यद्यर्थोक्तौ च कल्पनम्' इत्यतिशयोक्त्यलंकारविषयेषु, 'संभावनं यदीत्थं स्यादित्यू- होऽन्यस्य सिद्धये' इति संभावनालंकारविषयेषु वा निनिमित्तमेव तथा त- थोपतर्कणम् । तथापि- 'सर्वातिशायिसौन्दर्य शङ्के सत्यवतो मुखम् । येन सा मृगशावाक्षी सावित्री तरलीकृता ।' इत्यादिष्वतिव्याप्तिः स्यादिति तद्वारणायान्यधर्मसंबन्धादित्युक्तम् । - .

चित्रमीमांसा । तत्र सावित्रीहृदयतरलीभावकारकत्वादिना स्वधर्मेणैव वितर्कणमिति ना- तिव्याप्तिः। 'विरक्तसंध्यापरुषं पुरस्ताद्यतो रजः पार्थिवमुन्जिहीते शङ्के हनूमत्कथितप्रवृत्तिः प्रत्युद्तो मां भरतः ससैन्यः ॥' इत्यत्रातिव्याप्तिवारणायान्यत्वेनेति विशेषणम् । तत्र ससैन्ये प्रत्युद्ग- न्तर्यन्यत्रापि दृष्टस्यागेरजोगमनस्य संबन्धेन निमित्तेन भरतः प्रत्युद्गतत्वेन वस्तुसद्रूपेणैवोपतर्फितो न त्वन्यत्वेनेति नातिव्याप्तिः । 'नरसिंहमहीपाल विदुस्त्वां मकरध्वजम् । मार्गणास्तव संजाताः कथं सुमनसोऽन्यथा ॥ इत्यत्रातिव्याप्तिवारणायोपतर्कितमित्युक्तम् । तत्रानुमानालंकारविषये सुमनोमार्गणत्वेन मन्मथत्वव्याप्तिलिङ्गेन राज्ञि मन्मथत्वमवधृतं न संभाव- नामात्रम् । 'इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिगीणामिव प्रम्लानारुणिमेव विद्रुमलता श्यामेव हेमप्रभा । कार्कश्यं कलया च कोकिलवधूकण्ठेष्विव प्रस्तुतं सीतायाः पुरतश्च हन्त शिखिनां बर्हाः सगीं इव ॥' इत्यत्रातिव्याप्तिवारणाय प्रकृतमित्युक्तम् । तत्र निरतिशयसौन्दर्यसी- तावदनादिसंनिधानेन तद्वदनायुपमानेष्वपि निकर्षापादकेन प्रशस्तोपमा- नेष्विन्द्वादिष्वप्रकृतेष्वञ्जनलेपादिनिकर्षसंभावना क्रियत इति नातिव्याप्तिः। नन्वेवमपि- 'अस्मद्विक्रमचेष्टितानि निखिलत्रैलोक्यहेलाजय- प्रवीभूतसुरासुराणि भवतो भूमेः सुता शृण्वती । पत्यौ द्वेषकषायितेन मनसा स्निग्ना मयि स्थास्यति स्त्रीणां प्रेम यदुत्तरोत्तरगुणग्रामस्पृहाचञ्चलम् ॥" इत्यत्र चाञ्चल्यसहचरितत्वेनान्यत्र दृष्टस्त्रीत्वस्य संबन्धेन निमित्तेने व. स्तुतः प्रत्येकस्थिरचित्ता देवी सीता चञ्चलत्वेनोपतर्किता ।..न च तत्रो- - -- ७६ काव्यमाला। प्रेक्षालंकारः । रावणकृततदीप्सितसंघटनानुकूलविचारमात्रस्य निबद्धत्वेन विच्छित्तिविशेषाभावात् । न चान्यधर्मसंबन्धादित्यत्र धर्म उपमायामिव सहृदयहृदयाह्लादी विवक्षितः, न तु साधारणधर्ममात्रम् । तथा च नोक्ताति- व्याप्तिः । स्त्रीत्वादेश्चाञ्चल्यादिसंभावनामात्रप्रयोजकत्वेऽपि सहृदयहृदया- ह्रादिसाधारणधर्माभावेनोपमालंकारप्रयोजकत्वाभावादिति वाच्यम् । तथा सति 'स्तनाभिरामस्तबकां नूनं सीतेति वल्लरीम् । संभावयन्रघुपतिर्धावति म दिदृक्षया ।' इत्यत्रातिव्याप्तेरवारणात् । न चाहार्यत्वं तर्कविशेषणम् । इह त्वना- हार्या संभावनेति वाच्यम् । तथा सति 'शङ्के हनूमत्कथितप्रवृत्तिः' इति संभावनाया अप्यनाहार्यत्वेन तव्यावृत्त्यर्थस्यान्यत्वेनेत्यस्य वैयर्थ्यप्रसङ्गा- दिति चेत् , मैवम् । अन्यत्वेनेत्यस्यान्यत्वेनावगतपरतया तस्यैवाहार्यत्ववि- शेषणपर्यवसायित्वात् । ननु तथापि नैतल्लक्षणम् , अव्याप्तेः । तथा हि । यत्र स्वमात्रधर्माद- न्यमात्रधर्माद्वा किंचिदुप्रेक्ष्यते तत्रान्यधर्मसंबन्धादिति लक्षणांशाभावाद- व्याप्तिः । यथा- 'अङ्गुलीभिरिव केशसंचयं संनियम्य तिमिरं मरीचिभिः । कुङ्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥' 'भूयस्तराणि यदमूनि तमस्विनीषु ज्योत्स्त्रीषु च प्रविरलानि ततः प्रतीमः । संध्यानलेन भृशमम्बरमूषिकाया- मावर्तितैरुडभिरेव कृतोऽयमिन्दुः ॥ इत्यत्राद्योदाहरणेऽङ्गुलीसदृशीभिर्मरीचिभिः केशसंचयसदृशस्य तिमि- रस्य ग्रहणात्स्वमात्रधर्मादेव शशिनश्चुम्बनमुत्प्रेक्षितम् । द्वितीये ताराविर- लत्वाविरलत्वरूपेणान्यमात्रधर्मेण चन्द्रस्य संध्यानलमध्यगाम्बरमूपिकावर्ति- ततारानिकरनिमित्तत्वमुत्प्रेक्षितम् । किं च हेतुफलधर्मस्वरूपोत्प्रेक्षास्वन्य- त्वेनेति लक्षणांशाभावाव्याप्तिः । यथा- - चित्रमीमांसा । ७७ muwee- 'सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमूळम् ।। अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ॥' इति हेतूत्प्रेक्षोदाहरणे नूपुरगतेन दुःखिसाधारणेन मौनित्वेन निमि- तेन नूपुरे तद्धेतुभूतदुःखमेव धर्मतयोत्प्रेक्ष्यते, न तु दुःखितादात्म्यम् ,' दुःखशब्दस्योपरि तुमुवाद्यश्रवणात् । एवम्- 'चोलस्य यद्धीतिपलायितस्य भालत्वचं कण्टकिनो वनान्ताः । अद्यापि किं वानुभविष्यतीति व्यपाटयन्द्रष्टुमिवाक्षराणि ॥' इति फलोत्प्रेक्षोदाहरणे द्रुमगतेन ललाटाक्षरदर्शनप्रवृत्तपुरुषसाधारणेन ललाटपाटनेन निमित्तेन द्रुमाणां तत्फलं ललाटाक्षरदर्शनमुद्देश्यमिति ध- मतयोत्प्रेक्ष्यते न तु ललाटाक्षरदर्शनप्रवृत्तधर्मितादात्म्यम्, द्रष्टुमित्यस्य धर्मिपर्यन्तत्वाभावात् । तथा- 'पिनष्टीव तरङ्गाप्रैः समुद्रः फेनचन्दनम् । तदादाय करैरिन्दुलिम्पतीव दिगङ्गनाः ॥' इति धर्मस्वरूपोत्प्रेक्षोदाहरणे समुद्रस्य चन्दनघर्षणशिलाप्रान्तस्था- नाये तटे हस्तस्थानीयतरङ्गाग्रैः फेनचन्दनपेषकत्वेन शशाङ्कस्य करैर्दिग- ङ्गनादिधवलीकरणेन च प्रतीयमानेन निमित्तेन तत्कर्तृकं पेषणलेपनमा- त्रमुत्प्रेक्ष्यते, न तु तयोः पेपणलेपनकर्तृतादात्म्यम् । पिनष्टि लिम्पतीत्या- ख्यातयोः कर्तृवाचकत्वेऽपि 'भावप्रधानमाख्यातम्' इति न्यायेन कर्तुः प्र- धानभूतक्रियोपसर्जनस्यान्यत्रान्वयासंभवात् । अत एव 'लिम्पतीव तमो- ऽङ्गानि वर्षतीवाञ्जनं नभः' इत्युत्प्रेक्षामुदाहृतवता दण्डिनोक्तोदाहरणयो- रिवशब्दश्रवणाल्लेपनवर्षणकर्तृभ्यां तमोनभसोरुपमामाशङ्कय 'कर्ता यापमानं स्यान्न्यग्भूतोऽसौ क्रियापदे । स्वक्रियासाधने व्यश्री नालमन्यध्यपेक्षितुम् ॥' इति दृपितम् । 'वृत्तानुपूर्व च न चातिदीर्वे जके शुभे सृष्टवतस्तदीये । शेपाङ्गनिर्माणविधौ विधातुलीवण्य उत्पाद्य इवास यत्नः ॥'

काव्यमाला। • इत्यत्र निरतिशयलावण्यशालिजङ्घासृष्ट्यनुमितेन .निःशेषलावण्यकोश- व्ययेन निमित्तेन विधातुः शेषाङ्गनिर्माणोपयुक्तलावण्योत्पादने यत्नमात्रमु- प्रेक्ष्यते, न तु तथाभूतयत्नवत्तादात्म्यमिति स्पष्टमेव । अपि चाप्रकृतधर्मिकोप्रेक्षायां प्रकृतमित्यंशाभावादव्याप्तिः । यथा--- 'हृतसारमिवेन्ठुमण्डलं दमयन्तीवदनाय वेधसा । कृतमध्यबिलं विलोक्यते धृतगम्भीरखनीखनीलिम ।' अत्र कृतमध्यबिलमिति पदार्थहेतुककाव्यलिङ्गापेक्षयातिशयोलत्या . कृ- तमध्यरन्ध्राकाशनैल्यत्वेनाध्यवसितो यः कलङ्कस्तद्वत्त्वेन निमित्तेन कल- काध्यवसितधृतमध्यरन्ध्राकाशनैल्यत्वनिमित्तोलेक्षितं कृतमध्यबिलत्वेन नि- मित्तेन वा चन्द्रमण्डलं दमयन्तीवदननिर्माणाय हृतसारत्वेनोत्प्रेक्षितम्, न तु प्रकृतं दमयन्तीवदनमेवोक्तप्रकाराहृतैन्दवसारांशनिर्मितत्वेनोत्प्रेक्षितम् । 'य- हालेन्दुकलोच्चयादुपचितैः सारैरिवोत्पादितं तत्पश्येयमनङ्गमङ्गलगृहं भूयो- ऽपि तस्या मुखम्।' इत्यत्रेव तथाशब्दान्वयाभावात्। ननु यथा शब्दतोऽन्वया- लाभेऽपि ब्राह्मणशतं भोज्यतामित्यत्र प्रधानमतिलङ्घयोपसर्जने क्रियान्वयपर्य- वसानम्, संख्याया भोजनान्वयायोग्यत्वात्, तथेहापि प्रधानमिन्दुमण्डल- मतिलच्योपसर्जने दमयन्तीवदने इन्दुमण्डलाहृतसारांशनिर्मितत्वोत्प्रेक्षापर्य- वसानं स्यात् , अप्रकृतस्यावर्णनीयत्वादिति चेत् , न । अप्रकृतवर्णनस्याप्य- प्रस्तुतप्रशंसारूपेण प्रकृतातिशयाधानार्थतयान्वेतुं योग्यत्वात् । न च वाच्यं 'इन्दुर्लिप्त इव' इत्यप्रस्तुतप्रशंसोदाहरणान्तर इवात्रापि संभावनामात्रमेव नोत्प्रेक्षेति । तत्र सहृदयहृदयाह्लादिनिमित्ताभावनोत्प्रेक्षासामग्रीपरिपूर्त्यभा- वादुत्प्रेक्षाया असंभवेऽप्यत्र तत्संभवादप्रस्तुतप्रशंसया संकरोपपत्तेः । त- स्मादव्याप्तत्वान्नेदं लक्षणं युक्तमिति चेत् । अत्र ब्रूमः । न तावत् 'हृतसारम्' इत्यादावव्याप्तिः । प्रकृतशब्दस्य विषयत्वभिमतमात्रपरत्वात् । - चैवं 'इन्दुर्लिप्त इव' इत्यादावतिव्याप्तिः । तत्र सीतावदनसंनिधाने वस्तुतोऽन्यधर्मत्वे सत्यपीन्दुगताञ्जनलिप्तत्वसंभाव- १. 'नैल्यत्वोत्प्रेक्षितम्' ख. F चित्रमीमांसा। नायामन्यधर्मत्वस्याप्रयोजकत्वात् , धर्मस्य सहृदयहृदयाह्लादिनो विवक्षि- तत्वाद्वा । अन्यत्वेनेत्यस्यान्येन प्रकारेणेत्यर्थ इति न हेतुफलधर्मस्वरूपोरे- क्षास्वव्याप्तिः। यत्र धर्मिणि धर्म्यन्तरं तादात्म्येनोत्प्रेक्ष्यते तत्र धर्म्यन्त- रमन्यः प्रकारः । यत्र तु कश्चिद्धर्म एव किंचित्प्रति हेतुतया फलतया स्वरूपेण चोत्प्रेक्ष्यते तत्र स एव धर्मोऽन्यः प्रकार इति सर्वत्राप्यनुगतेः । यद्वा हेतुफलधर्मस्वरूपोत्प्रेक्षोदाहरणेप्वपि तादात्म्येनैवोत्प्रेक्षा । तथा हि । 'सैपा स्थली यत्र विचिन्वता त्वाम्', 'चोलस्य यद्भीतिपलायितस्य' इत्या- दिहेतुफलोत्प्रेक्षोदाहरणयोस्तावद्विश्लेषदुःखललाटाक्षरदर्शनादिधर्मो हेतु- तया फलतया वा नोत्प्रेक्ष्यते । किं तु नूपुरयुगादिधर्मिकं यन्निश्चलत्वकण्टक- संश्लेषादिनिमित्तकं मौनव्यापाटनादिकं तदेव दुःखहेतुकमौनललाटाक्षरदर्श- नार्थव्यापाटनादितादात्म्येनोत्प्रेक्ष्यते । अवश्यं च द्विविधस्यापि मौनादेस्तादा- त्म्येनाध्यवसाय आम्थेयः । अन्यथा निश्चलत्वादिहेतुके स्वाभाविकमौनादौ दुःखादेहेतुत्वादिनोत्प्रेक्षणमसमञ्जसं स्यात् । अङ्गीकृतश्च 'सैषा स्थली' इत्यादी दुःखादिर्धर्म एव मौनादिहेतुतया नूपुरादिगतत्वेनोत्प्रेक्ष्यत इति वदताप्यलंकारसर्वस्वकृता द्विविधस्य मौनादेरभेदाध्यवसायः । 'हेतूत्रे- क्षायां यस्य प्रकृतसंबन्धिनो धर्मस्य हेतुरुत्प्रेक्ष्यते स धर्मोऽध्यवसायव- शादभिन्न उत्प्रेक्षानिमित्तत्वेनाश्रीयते' इत्यादितद्वचनात् । आवश्यकं चा- न्यत्रापि क्वचित्क्वचिद्धेतूत्प्रेक्षोदाहरणे निमित्तांशे तादात्म्याध्यवसायाश्र- यणम् । यथा- 'उन्मेपं यो मम न सहते जातिवैरी निशाया- मिन्दोरिन्दीवरदलदृशा तस्य सौन्दर्यदर्पः । नीतः शान्ति प्रसभमनया वकान्त्येति हर्षा- लग्ना मन्ये ललिततनु ते पादयोः पद्मलक्ष्मीः ॥' अत्र हेतुतया हर्पोत्प्रेक्षां प्रति तत्फलत्वाभिमतं पादयोः पद्मलक्ष्म्या लगनं निमित्तं वाच्यम्, तच्च सर्वथैवासिद्धम् । अतस्तत्र पादयोर्यः स्वा- ८० काव्यमाला। . भाविकशोभासंबन्धः स एव पद्मलक्ष्मीलग्नत्वेनाध्यवसितो निमित्तमिति समर्थनीयम् । एवं निमित्तांशे तादात्म्याध्यवसानावश्यंभावे तत्रैवोत्प्रेक्षा- विश्रान्तिरस्तु । न च तत्र निमित्तान्तरमन्वेष्यं स्यादिति वाच्यम् । निश्च- लत्वहेतुकमौनस्य दुःखहेतुमौनत्वेनोत्प्रेक्षायां चरणारविन्दविश्लेषकालभवत्वं निमित्तं कण्टकसंश्लेषहेतुकव्यापाटनस्य ललाटलिपिदर्शनार्थव्यापाटनत्वेनो- त्प्रेक्षायां महाराजोऽप्येवं कष्टमनुभवति, इतः परमपि कियदनुभाव्यमने- नेति जिज्ञासोत्थापकपलायनकालभवत्वमित्यादेः स्पष्टत्वात् । अयमेव पक्षो दण्डिनोऽभिमतः । यदाह- 'अन्यथैव स्थिता वृत्तिश्चेतनस्येतरस्य वा । अन्यथोत्प्रेक्ष्यते यत्र तामुत्प्रेक्षां प्रचक्षते ॥ मध्यंदिनार्कसंतप्तः सरसी गाहते गजः । मन्ये मार्तण्डगृह्याणि पद्मान्युद्धर्तुमुद्यतः ॥ स्नातुं पातुं बिसान्यत्तुं करिणो जलगाहनम् । तद्वैरनिष्क्रयायेति कविनोत्प्रेक्ष्य वर्ण्यते ॥' इति । अत्र संतापनिवृत्त्यर्थत्वेनान्यथैव स्थिता करिणश्चेतनस्य जलगाहनरूपा वृत्तिरन्यथा तद्वैरनिष्क्रयार्थजलावगाहनत्वेनोत्प्रेक्ष्यत इति स्वकृतलक्षणानु- सारेणैव योजितम् । काव्यप्रकाशिकाकारस्याप्ययमेव पक्षोऽभिमतः । तेन हि 'संभावनम- थोत्प्रेक्षा प्रकृतस्य संमेन यत्' इत्युपमानोपमेयस्य तादात्म्यसंभावनमुत्प्रे- क्षालक्षणमभिधाय 'उन्मेषं यो मम न सहते' इति तत्रोदाहरणं कृतम् । ततश्च स्वकृतलक्षणानुरोधेन स्वाभाविकी पादशोभैव स्ववैरिजयप्रभवहर्षल- नपद्मलक्ष्मीत्वेनोत्प्रेक्ष्यत इत्यभिमतमिति स्फुटमेव । तथा 'पिनष्टीव तरङ्गाग्रैः' इत्यादिधर्मस्वरूपोत्प्रेक्षोदाहरणेष्वपि प्रेरणा- दिरेव पेषणादिरूपत्वेनोप्रेक्ष्यते । न च प्रेरणादेविषयस्यानुपादानं दोषः । अतिशयोक्ताविव तदुपपत्तेः । उत्प्रेक्षाया अध्यवसायगर्भतया तत्र विषय- निगरणस्योचितत्वाच्च । न च प्रेरणादेविषयत्वेन निमित्तत्वाभावे निमित्ता- १. 'परेण ख.

. - चित्रमीमांसा । न्तरमन्वेष्यं स्यादिति वाच्यम् । प्रेरणस्य पेषणरूपतयोत्प्रेक्षायां प्रान्तगुत- फेनचन्दनपुञ्जीभवनं निमित्तम् । करव्यापनस्य दिगङ्गनालेपनत्वेनोक्षायां तद्धवलीकरणं निमित्तमिति निमित्तान्तरस्य जागरूकत्वात् । 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नमः' इत्यादौ व्यापनादि लेपनादि- रूपतया संभावितमिति वदता काव्यप्रकाशिकाकारेणापि धर्मस्वरूपोले- क्षोदाहरणेषु तादात्म्योत्प्रेक्षणपक्ष एवाश्रितः । एवं 'चुम्बतीन रजनीमुखं शशी' इत्यादावपि रजन्या वदनत्वेनाध्यव- सितं यदारम्भाख्यं मुखं तस्य शशिनश्च संबन्धश्चुम्बनत्वेनोप्रेक्ष्यते । 'वृत्तानुपूर्वे च' इत्यत्रायत्नपूर्वके शेषाङ्गनिर्माणे यत्नः पूर्वकत्वतादात्म्यो- प्रेक्षेत्यागृह्यम् । अन्यधर्मोऽनुगामितयैव न विवक्षितः, किं तूपमायां साधारणधर्म इव बिम्बप्रतिबिम्बभावादिभिः सर्वैरपि प्रकारैर्विवक्षितः । तथा च यथा- 'आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् । सुजातपुष्पस्तवकावनम्रा संचारिणी पल्लविता लतेव ।। इत्यत्र बिम्बप्रतिबिम्बभावकृताभेदाध्यवसायेन । 'तारुण्यकुञ्जरारूढां विलासकमलाकुलाम् । मूर्तामिव मनोजस्य त्रैलोक्यविजयश्रियम् ॥' इत्यत्र समासभेदाश्रयणकृताभेदाध्यवसायेन च धर्मस्य प्रकृताप्रकृतसा- धारण्यादन्यधर्मसंबन्धः । तथा-'अङ्गुलीभिरिव' इत्यत्रान्वयभेदकृता- भेदाध्यवसायेन धर्मस्य प्रकृताप्रकृतसाधारण्यादन्यधर्मसंबन्धः सुसंपाद इति न तत्राव्याप्तिः । नापि 'भूयस्तराणि' इत्यत्राव्याप्तिः । तत्रोपात्त- धर्माक्षिप्तधर्मान्तरसंबन्धस्य निमित्तत्वात् । तत्र हि चन्द्ररूपविषयगतसं- ध्यानलमध्यगाम्बरमूषिकावर्तिततारानिकरनिर्मितत्वोत्प्रेक्षायां तारागतेन त- त्तद्रात्रिषु विरलत्वाविरलत्वरूपणोपात्तधर्मेण निमित्तेन धर्मस्य चन्द्रगतस्य तद्विरलत्वाविरलत्वानुविधायिवृद्धिहासशालित्वस्याक्षेपः । १. 'पल्लविनी' ख. . ११ ८२ काव्यमाला। C अयं चापरोऽपि विशेषः । अन्यधर्मसंबन्धादित्यन्यपदार्थों धर्म्युप्रे- क्षासु विषय्येव, धर्मोत्प्रेक्षासु तु विषयिणो धर्मस्याश्रयः । एवं स्थिते य- त्रानुपात्तो निमित्तभूतो धर्मस्तत्र सर्वत्रापि यो धर्मोऽन्यपदार्थस्य विष- यस्य च संवन्धितया संभावनापदवीमारोहति तथाभूतोऽन्वेष्यः । तत्र 'वर्षतीवाञ्जनं नभः' इत्यत्र नभोगतत्वेन वर्षणक्रियोप्रेक्षापक्षे नभसो भू- पर्यन्तगामिनीलिमव्याप्तत्वमञ्जनवर्षकसाधारणनिमित्तम् । तमसो व्यापने नभःकर्तृकाञ्जनवर्षणक्रियात्वोत्प्रेक्षेति पक्षे तु सकलवस्तुसान्द्रमलिनीकर. णादि । एवं 'वेलेव रागसागरस्य' इत्यादौ संक्षोभकारित्वादि गम्यं नि- मित्तमूहनीयम् । यत्र तु निमित्ततया धर्मस्योपादने सत्यपि तत्संबन्धो विषयस्यान्यपदार्थस्य वाञ्जसा न प्रतीयते, तत्र क्वचिन्निमित्तभूतधर्माद- न्यस्य कस्यचिद्धर्मस्य तत्ताद्रूप्यसंपादनेन तत्संबन्धः समर्थनीयः । कचि- द्विषयस्य चान्यपदार्थस्य वा तद्धर्माश्रयतादूप्यसंपादनेन, क्वचिन्मिलितेन तेनोभयेन, क्वचिदुपात्तधर्मकृतधर्मान्तराक्षेपेण । तत्र धर्मान्तरस्य निमित्त- ताद्रूप्यसंपादनमुपमायां धर्मस्य संपादनमिव बिम्बप्रतिबिम्बमावादिभिः प्रकारैस्ते प्रदर्शिताः। एवं विषयस्यान्यपदार्थस्य वा धर्माश्रयात्ताद्रूप्यसंपादनं श्लेषादि- भङ्गया । तत्र विषयस्य श्लेषेण धर्माश्रयताद्रूप्यसंपादनं यथा- 'अस्यां मुनीनामपि मोहमूहे भृगुर्महान्यत्कुचशैलशीली । नानारदाह्रादि मुखं श्रितोरुासो महाभा रतसर्गयोग्यः ॥' १. 'गाढनीलिम' ख. २. नैषधे सप्तमे सर्गे दमयन्तीवर्णनमिदम् ; तत्र अस्यामिति । अहं अस्यां व्यासादिमुनीनामपि मोहं आहे तर्कयामि । मुनयोऽप्येतामाश्रित्य तिष्ठन्तीति । अथ च जितेन्द्रियाणामप्यस्यां विषये मोहं मदनविकारं तर्कयामि तेऽप्यनया मोहिता इत्यर्थः । य- स्मात् महान् अतितापसो भृगुः कुचशैलशीली कुचपर्वतसेवी । मुनीनां पर्वताश्रयत्वात् । पर्व- तबुद्ध्या स्तनावाश्रयति । अथ च कामपीडितत्वादयुच्चावेतत्कुचौ गृहीतुमिच्छति । अथ च भृगुस्तटः पर्वताश्रयेण वर्तते कुचयोः पार्श्वभागस्तटतुल्य इत्यर्थः । शीलमेव शैलं कुचयोः शैलं स्वभावं शीलयति अभ्यस्यति परमद्यापि कुचस्वभावो नायातीत्यर्थः । मदनपीडित- त्वादेतन्मुखं नारदमानन्दयतीत्यर्थः । मुखं नानाविधैत्रिंशत्संख्याकै रदैर्दन्तैरानन्दयत्य- तिसुन्दरमित्यर्थः । महाभारतस्य सर्ग निर्माणे योग्यः समर्थो व्यासः श्रितावूरू येनैवंविधः ।

चित्रमीमांसा । अत्र भृग्वादिमुनिरूपविषयगतदमयन्तीगोचरमोहोत्प्रेक्षायां यदेव ,त- त्कुचपरिशीलनादि निमित्तं न तद्विषयगतं किं तु तटादिगतम् । तस्य भृग्वादिशब्दश्लेषेण विषयगततानिर्वाहः । अपहत्या यथा- 'किंशुकव्यपदेशेन तरुमारुह्य सर्वतः । दग्धां दग्धामरण्यानीं पश्यतीव विभावसुः ॥' अत्र दावानलरूपविषयगतदग्धादग्धवनप्रदेशदर्शनक्रियोत्प्रेक्षायां तरु- समारोहणं निमितम् । तदपि न विषयगतं किं तु किंशुकपुष्पगतम् । तत्रापि यद्यपि मुख्य समारोहणं नास्ति तथापि तदीयं तरुसमाश्रयणमेव तदारोहणत्वेनाध्यवसितम्, ततश्च तत्रापहृत्या विषयस्य किंशुकपुष्पतादू- प्यसंपादनेन धर्मसंबन्धनिर्वाहः । अन्यपदार्थस्य श्लेषेण धर्माश्रयताद्रूप्यसंपादनं यथा- 'अस्या दोहदशालिन्या मुखमापाण्डुरप्रभम् । सत्यं राजेति मन्येऽद्य य वं भोक्तुमिच्छति ॥' अत्र मुखस्य चन्द्रत्वोत्प्रेक्षायां भुवं भोक्तुमभिलाषो निमित्तम् , तद्विष- यगतमपि नान्यपदार्थभूतचन्द्रगतम् । अतस्तत्र राजशब्दश्लेषेण चन्द्रस्य धर्माश्रयताद्रूप्यसंपादनेन धर्मस्य तदीयतानिर्वाहः । धर्मान्तरस्य निमित्तधर्मतादूप्यसंपादनं विषयस्य तद्धर्माश्रयताद्रूप्यसंपा- दनं चेत्युभयमेलनं यथा- 'आकृष्टिवेगविवलद्भुजगेन्द्रभोग- निर्मोकपट्टपरिवेष्टनयाम्बुराशेः । मन्थव्यथाव्युपशमार्थमिवाशु यस्य मन्दाकिनी चिरमचेष्टत पादमूले ॥' कदलीस्तम्भच्छायाबुद्ध्या एतदूरू आश्रित्य तिष्ठति । अथ च कामपीडितत्वादेतदुरूसमा- लिङ्गय वर्तत इत्यर्थः । महती भा दीप्तिर्यस्य । रतं सुरतं तस्य सर्गो निर्माणं तत्र योग्य- स्ततः कर्मधारय इति वा । एवंविधो व्यासो विस्तारः श्रितावूरू येन । अतिविशालावूरू इति भावः ।।' इति टीका, १.. राजा चन्द्रो नृपश्च. २. भुवं गर्भिण्यभिलषितां मृदं पृथिवीं च.

काव्यमाला। . अत्र मन्दाकिनीरूपविषयगतपयोधिमन्थव्यथाव्युपशमरूपफलोत्प्रेक्षायां यन्निमित्तं चरणमूले वेष्टनं तत्तादात्म्यसंपादनं पर्यन्तवेष्टनस्य श्लेषेण विष- यस्य यत्ताद्रूप्यसंपादनमपहुत्या वेति मिलितेनोभयेन विषयस्यान्यधर्मसंब- न्धनिर्वाहः । उपात्तधर्मेण धर्मान्तराक्षेपस्तु दर्शित एव । तस्मादन्यधर्मसं- बन्धादित्येतदपि सर्वोत्प्रेक्षानुगतमिति न क्वाप्यव्याप्तमिति सर्व समञ्जसम् । अलंकारसर्वस्वकृतेत्थमस्य विभागः प्रदर्शितः । वाच्या प्रतीयमाना चेति तावदुत्प्रेक्षा द्विविधा । इवादिप्रयोगे वाच्या, तैदप्रयोगे प्रतीय- माना । तत्र वाच्या जातिगुणक्रियाद्रव्याणामप्रकृतानामध्यवसेयत्वेन चतु- विधा । तेषां च प्रत्येकं भावाभावाभिमानरूपतया द्वैविध्येनाष्टविधा । तेषु निमित्तगुणक्रियारूपत्वेन षोडशभेदाः । निमित्तस्य पुनरुपादानानुपादा- नाम्यां द्वात्रिंशत्प्रकाराः । तेषु पुनः प्रत्येकं स्वरूपहेतुफलोत्प्रेक्षारूपत्वेन षण्णवतिर्भेदाः । तत्र द्रव्यस्य स्वरूपोप्रेक्षणमेवेति हेतुफलोत्प्रेक्षास्ततोऽपि विपातनीयाः । ततः षोडशभेदा न्यूनाः । जात्यादीनामपि हेतुफलोत्प्रे- क्षयोनिमित्तस्यानुपादानं न संभवति ततश्चतुविंशतिर्भेदा न्यूनाः । तथा च स्वरूपोत्प्रेक्षावैकल्येन द्वात्रिंशद्भेदा, हेतुफलोत्प्रेक्षे प्रत्येकं द्वादशभेदे, इति षट्पञ्चाशद्भेदा वाच्योत्प्रेक्षा । प्रतीयमानोत्प्रेक्षायामप्येवमेव गणना। तत्र स्वरूपोत्प्रेक्षायामपि निमित्तानुपादानं न संभवतीति भेदः । ततश्च तत्र खरूपोप्रेक्षा षोडशभेदा, हेतुफलोत्प्रेक्षे पूर्ववद्वादशभेदे इति चत्वारिंश- द्भदा गम्योत्प्रेक्षा । एवमेव मिलित्वा षण्णवतिभेदोत्प्रेक्षेति । विद्यानाथेन पुनद्रव्यस्य हेतुफलोत्प्रेक्षणमप्यङ्गीकृत्यानुपात्तनिमित्तेषु ग- म्यस्य निमित्तस्य गुणक्रियारूपत्वेन भेदगणनर्मजातपुत्रनामकरणकल्पं न चारुत्वावहमिति तदनादृत्यान्यथा विभागो दर्शितः । वाच्यायां स्वरूपो- सेक्षा चतुर्विशतिभेदा, अनुपात्तनिमित्तायां गुणक्रियारूपभेदगणनाभावेन भेदाष्टकहासात् । हेतुफलोत्प्रेक्षे प्रत्येकं षोडशविधे । द्रव्योत्प्रेक्षागोच- राणां भावाभावाभिमानेन गुणक्रियानिमित्तत्वेन चतुणी भेदानामाधि- क्यात् । एवं षट्पञ्चाशद्भेदा वाच्योत्प्रेक्षा । प्रतीयमानायां पुनः स्वरूपो- चित्रमीमांसा। - - प्रेक्षापि षोडशप्रकारा । तत्र निमित्तानुपादानासंभवेन तन्निबन्धनभेदाष्टक- हासात् । ततश्चाष्टचत्वारिंशद्भेदा प्रतीयमानोत्प्रेक्षा । एवं मिलित्वा च- तुरुत्तरशतभेदोतोक्षेति । अथोदाहरणानि दिङ्मात्रेण प्रदर्श्यन्ते । उपात्तगुणनिमित्तजातिभाव- स्वरूपोत्प्रेक्षा यथा- 'स वः पायादिन्दुर्नवबिसलताकोटिकुटिलः सरारेयों मूर्ध्नि ज्वलनकपिशे भाति निहितः । स्रवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा कपालेनोन्मुक्तः स्फटिकधवलेनाङ्कुर इव ॥' अत्राङ्कुरशब्दस्य जातिशब्दत्वाज्जातिरुत्प्रेक्ष्यते । उपात्तः कौटिल्यगुणो निमित्तम् । एवमुपात्तक्रियानिमित्तापि जातिभावस्वरूपोप्रेक्षोदाहर्तव्या । उपात्तक्रियानिमित्तगुणभावस्वरूपोत्प्रेक्षा यथा--- 'निवेशितं यावकरागदीप्तये लग्नं तदीयाधरसीम्नि सिक्यकम् । रराज तत्रैव निवस्तुमुत्सुकं मधूनि निषूय सुधासधर्मिणि ॥' अत्रौत्सुक्यं गुण उत्प्रेक्ष्यते । उपात्ता लगनक्रिया निमित्तम् । एव- मुपात्तगुणनिमित्तापि गुणभावस्वरूपोत्प्रेक्षोदाहर्तव्या। उपात्तगुणनिमित्त- क्रियाभावस्वरूपोत्प्रेक्षा यथा- 'अथ सांध्यसान्द्रकिरणारुणितं हरिहेतिदूति मिथुनं पततोः । पृथगुत्पपात विरहार्तिगलवृदयस्नुतामृगनुलिप्तमिव ॥' अत्र रुधिरानुलेपनक्रियोत्प्रेक्ष्यते । उपात्त आरुण्यगुणो निमित्तम् । एवमुपात्तक्रियानिमित्तापि क्रियाभावस्वरूपोत्प्रेसोदाहर्तव्या । उपात्तक्रिया- निमित्तद्रव्यभावस्वरूपोत्प्रेक्षा यथा- 'एकैकमुद्गतगुणं च्युतदूषणं च हित्वान्यमन्यमुपगम्य परित्यजन्ती । एतां जगाद जगदर्चितपादपद्मा पद्मामिवाच्युतभुजान्तरविच्युतां सा ॥'

F - - ८६ काव्यमाला। अत्र पद्माया एकतया द्रव्यत्वाद्रव्यमुत्प्रेक्ष्यते । उपात्ता उपगम्यपरि- त्यन क्रिया निमित्तम् । एवमुपात्तगुणनिमित्तद्रव्यभावस्वरूपोत्प्रेक्षोदाह- र्तव्या । एवं भावाभिमानेषु जात्यादिषूपात्तनिमित्ता अष्टौ भेदाः संपन्नाः । अनुपात्तनिमित्तजातभावस्वरूपोत्प्रेक्षा यथा-- 'वर्षातपानावरणं चिराय काष्ठौघमालम्ब्य समुक्षितेषु । बालेषु ताराकवकेष्विवैकं विकस्वरीभूतमवैमि चन्द्रम् ॥ अत्र कैवकजातिरुत्प्रेक्ष्यते । अनुपात्तो धावल्यवर्तुलत्वादिर्गुणो नि- मित्तम् । अनुपात्तनिमित्तगुणभावस्वरूपोत्प्रेक्षा यथा- 'अयमाभाति राजेन्द्रो विजिताखिलशात्रवः । अनुजीविषु सर्वेषु प्रसाद इव मूर्तिमान् ॥' अत्र प्रसादो गुण उत्प्रेक्ष्यते । अनुपात्तो बहुप्रदत्वसुखनिषेव्यत्वादि- निमित्तम् । अनुपात्तनिमित्तक्रियाभावोत्प्रेक्षा यथा- 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नमः । असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ॥' अत्र क्रियोत्प्रेक्ष्यते । अनुपात्तं व्यापनादि निमित्तम् । अनुपात्तनि- मित्तद्रव्यभावोत्प्रेक्षा यथा- 'देहस्था दर्पणे यस्य पश्यति प्रतिमामुमा । अन्यार्धाभ्यामिवोत्पन्नमर्धनारीश्वरान्तरम् ॥' अत्रार्धान्तरोत्पन्नार्धनारीश्वरान्तरद्रव्यमुत्प्रेक्ष्यते । प्रतिबिम्बव्यत्यस्ता गस्त्रीपुरुषाकारशालित्वमनुपात्तं निमित्तम् । अर्धनारीश्वरान्तरोत्प्रेक्षाया- मपि वस्तुतोऽर्धनारीश्वरस्मैकत्वाव्योत्प्रेक्षात्वमविरुद्धम् । यथा वा- 'विललास जलाशयोदरे वचन द्यौरनुबिम्बितेव या । परिखा कपटस्फुटस्फुरत्प्रतिबिम्बानवलम्बिताम्बुनि ॥ अत्र देवपुरीद्रव्यमुत्प्रेक्ष्यते । सौभाग्यातिशयः कुण्डिनपुरीगतोऽनुपात्तो निमित्तम् । एवं चतुर्विधानुपात्तनिमित्तोदाहृता । अस्यां निमित्तस्य गुण- १. 'नैकेषु ताराकलिकेषु' क. २. 'कलिकात्वजातिः' क. Amateriainint!

- - चित्रमीमांसा । ८७ क्रियारूपभेदमालोच्याष्टविधत्वमूहनीयम् । एवं जात्याद्युत्प्रेक्षा भावाभिमा- नवत्यः पोडश संपन्नाः। अथ वा विद्यानाथोक्तप्रकारेणानुपात्तनिमित्तगुणक्रियाभेदो न चिन्त- नीयः । अनुपात्ते निमित्ते तव्यवस्थाया असंभवात् । यथा-'विललास ज- लाशयोदरे' इत्यत्र निरतिशयसौभाग्यवत्त्वं गुणो निमित्तमित्यपि वक्तुं शक्यम् । निरतिशयसौभाग्यभागित्वं क्रियानिमित्तमित्यपि । अतो द्वाद- शैव भेदाः । अथाभावाभिमानवत्यः स्वरूपोत्प्रेक्षाः । उंपात्तगुणनिमित्तजातिगुणक्रियाणामभावोत्प्रेक्षा यथा- 'अकुङ्कुमक्षोदमिवाङ्गमेतदयावकारुण्यमिवाधरं ते । अनञ्जनोल्लेखमिवासियुग्मं स्वाभाविकैरेव गुणैरुदीक्षे ॥' अत्र कुङ्कुमरजोयावकरागाञ्जनोल्लेखनरूपाणां जातिगुणक्रियाणामभावा उत्प्रेक्ष्यन्ते । उपात्ताः स्वाभाविकगौरारुणनीलवर्णा निमित्तम् । एतासु क्रियानिमित्तमप्युदाहार्यम् । उपात्तक्रियानिमित्तद्रव्याभावोत्प्रेक्षा यथा- 'भुवि त्वन्मुखमालोक्य पूर्णचन्द्रमिवोदितम् । अचन्द्रामिव पश्यापि दिवं शोभाविवर्जनात् ॥' अत्र चन्द्रस्य द्रव्यस्याभाव उत्प्रेक्ष्यते । उपात्ता वर्जनक्रिया निमित्तम् । एवमुपात्तगुणनिमित्तापि द्रव्याभावोत्प्रेक्षोदाहार्या । एतावेव श्लोको 'इदं विशालाक्षि विभावयामि' 'पदवीममृतान्धसाम्' इति चतुर्थपादयोः पाठे- ऽनुपात्तनिमित्तजात्याद्यभावोत्प्रेक्षोदाहरणे । एवमभावाभिमानवत्योऽपि स्व- रूपोत्प्रेक्षाः पूर्वोक्तरीत्या षोडश द्वादश वेति द्वात्रिंशञ्चतुर्विशतिर्वा स्व- रूपोत्प्रेक्षाभेदाः प्रदर्शितप्रायाः । एतासु विषयिणः क्वचित्तादात्म्येनाध्यवसायः । यथा-'स वः पा- यादिन्दुः' इत्यत्र । क्वचित्तु संसर्गितया यथा--'निवेशितं यावकराग- दीप्तये' इत्यत्रौत्सुक्यस्येत्ययमपि भेदो बोद्धव्यः । अथ हेतूत्प्रेक्षा । उपात्तगुणनिमित्ता जातिहेतूत्प्रेक्षा यथा- 'तनुरेणशावकदृशस्तनीयसी शनकैरवाप शरकाण्डपाण्डुताम् । उदरान्तरस्थितिमुपेयुषो हरेः करपाञ्चजन्यकिरणैरिवोद्गतैः ॥'

काव्यमाला । . - - अत्र किरणजातिः पाण्डिमानं प्रति हेतुत्वेनोत्प्रेक्ष्यते । स एव पा- ण्डिमा निमित्तम् । एवं क्रियानिमित्तापि जातिहेतृत्प्रेक्षोहनीया । क्रियानि- मित्ता गुणहेतूत्प्रेक्षा यथा- 'बहतो बहुशैवलक्षतां धृतरुद्राक्षमधुव्रतं खगः । स नलस्य करं ययौ पुनः सरसः कोकनदभ्रमादिव ॥' अत्र नलकरप्राप्तिक्रियां प्रति कोकनदभ्रमो हेतुत्वेनोत्प्रेक्ष्यते । सैव प्राप्तिक्रिया निमित्तम् । उत्तरत्रापि हेतूत्प्रेक्षायां सर्वत्र फलमेव निमि- त्तम् । एवं गुणनिमित्तापि गुणहेतूत्प्रेक्षा द्रष्टव्या । गुणनिमित्ता क्रियाहे- तूत्प्रेक्षा यथा- 'विवस्वता नायिषतेव मिश्राः खगोसहस्रेण समं जनानाम् । गावोऽपि नेत्रापरनामधेयास्तेनेदमान्ध्यं खलु नान्धकारैः ॥ अत्रान्ध्यगुणं प्रति नयनक्रिया हेतुत्वेनोत्प्रेक्ष्यते । एवं क्रियानिमित्तापि क्रियाहेतूप्रेक्षोदाहार्या । क्रियानिमित्ता द्रव्यहेतूप्रेक्षा यथा- 'हृदयं परिपूतमेव नित्यं विदुषस्तस्य विशुद्धकर्मभानः । विपदापगयेव विश्वमूर्तेः प्रवहन्त्या वसतोऽन्तरभिपद्मात् ॥' अत्र पवनक्रियां प्रति गङ्गाद्रव्यं हेतुत्वेनोत्प्रेक्ष्यते । एवं गुणनिमि- त्तापि हेतूत्प्रेक्षोदाहार्या । इत्थं भावाभिमानवत्यो हेतूत्प्रेक्षा उदाहिताः । अथाभावाभिमानवत्यः । 'रात्रौ रवेर्दिवा चेन्दोरभावादिव स प्रभुः । भूमौ प्रतापयशसी सृष्टवान्सततोत्थिते ॥' 'तस्मिन्नस्तंगते भानौ विधुस्तस्य पदे कियान् । इत्यनादरतो नूनं मीलत्यम्बुरुहाकरः ॥ 'वीणावादनसंरम्भाच्चकम्पे दक्षिणः स्तनः । अदृष्ट्वेवेतरं तस्यास्तम्भाभोगतिरोहितम् ॥ अत्राद्यश्लोके रविचन्द्रयोर्जातिद्रव्ययोरभावौ हेतुत्वेनोत्प्रेक्ष्येते । द्वि- तीयतृतीयश्लोकयोरादरदर्शनयोर्गुणक्रिययोरभावौ । सृष्टिमीलनकम्पक्रि- १. 'दधतो' क. १. 'सततोदिते' ख. २. 'तस्यास्तुम्ब्याभोग' ख.

चित्रमीमांसा । ८९ यास्तु निमित्तानि । एवं गुणनिमित्ता अप्यभावहेतूत्प्रेक्षा उदाहर्याः । एवं षोडशभेदा हेतूत्प्रेक्षा दर्शिता । अथ फलोत्प्रेक्षाः- 'सौधेषु यत्र मुखभासु मृगेक्षणानां ज्योत्स्नापहासचतुरासु विसृत्वरीषु । .. चन्द्रस्तदर्थमिव रात्रिषु बभ्रमीति कुर्वन्करप्रसरणान्यधिजालवर्गम् ॥ 'तव निर्वर्ण्य यद्वण स्वर्ण वर्णाय तादृशे । त्वत्कोशगेहान्निर्गम्य तीर्थेषु वसति ध्रुवम् ॥' 'रंथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम् । उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् ॥' 'दुग्धार्णवसहस्राय कैलासाचलकोटये । नूनं प्रतापरुद्रेण यशो दिक्षु प्रसारितम् ॥' एषु श्लोकेषु क्रमेण मुखप्रभागौरवर्णपरिवर्तनदुग्धार्णवकैलासरूपा जातिगुणक्रियाद्रव्याणि फलत्वेनोत्प्रेक्ष्यन्ते । भ्रमणतीर्थवासप्रस्थानप्रसारण- क्रिया निमित्तानि । एवं गुणनिमित्ता अप्युदाहार्याः । अभावाभिमानवत्यः फलोत्प्रेक्षा यथा- 'त्वदाननेन सादृश्यं प्राप्तुकामो निशाकरः । कलङ्कपङ्काभावाय नूनं मज्जति सागरे ।' 'अरण्यवासाज्जितवान्धवासु मृगीष्ववैरार्थमिवाशरण्याः । कलिन्ददेशेश्वर वैरिनार्यः पराङ्मुखा लोचनविभ्रमेषु ।' 'हेमाद्रिकुलेषु विहारभाजः स्निग्धाङ्गनाकल्पितचन्द्रकान् । श्रीवीररुद्रस्य यशोविलासान्गायन्त्यसंस्प्रष्टुमिवान्धकारम् ।।' 'वीररुद्रनरेन्द्रस्य जयप्रस्थानसंभवम् । रजःपिहितदिग्गोलं निराकाशमिवोत्थितम् ॥' १. विणकृतविक्रमाङ्कदेवचरिते महाकाव्ये पद्यमेतत्. १२ काव्यमाला। 'एषु श्लोकेषु पङ्कवैरस्पर्शनाकाशानामभावाः फलत्वेनोप्रेक्ष्यन्ते । तेषु पराङ्मुखत्वमेको गुणः । अन्याः क्रियाः। इत्थं गुणक्रियानिमित्तभेदा उ- दाहार्याः । एवं फलोत्प्रेक्षाः षोड़श दर्शिताः । इति वाच्योप्रेक्षावर्गः । अथ गम्योत्प्रेक्षा दिङ्मात्रेणोदाहियते- 'नभसि.महसां ध्वान्तध्वाङ्क्षप्रमापणपत्रिणा- मिह विहरणैः श्येनंपातां रवेरवलोकयन् । शशविशसनत्रासादाशामगाच्चरमां शशी तदधिगमनात्तारापारावतैरुदडीयत ॥' अत्र सूर्येण विसृष्टानां ध्वान्तकाकप्रमापणश्येनरूपाणां किरणानां वि- हरणेन निमित्तेन सूर्यस्य श्येनपातवती मृगयाविहारक्रियोत्प्रेक्ष्यत इति कि- यास्वरूपोत्प्रेक्षा तावदेका । तस्माच्छशिनस्त्रासः तस्य दिगन्तरगमनं प्रति हेतुत्वेनोत्प्रेक्ष्यत इति हेतूत्प्रेक्षान्या। ततस्तदधिगमस्तारापारावतानां गु- ग्धत्वेनाध्यवसितः तत्तत्स्थानेऽस्फुरणं प्रति हेतुत्वेनोत्प्रेक्ष्यत इत्यपरा च हेतूप्रेक्षा । सर्वाश्चैता गम्याः । इवाद्यभावात् । एवमन्या अपि स्वयमेव बोध्याः । नूनमादिशब्दविरहेण पूर्वोक्तप्रकाराणामुन्नेतुं शक्यत्वात् । प्रा. गुदाहृतानामेव श्लोकानां नूनमादिशब्दाविधानेन गम्योत्प्रेक्षोदाहरणत्वसं. भवाच गम्योत्प्रेक्षाः पृथक्साकल्येन नोदाहृतः । इदं तु चिन्त्यते । गम्योत्प्रेक्षासु जातिद्रव्यस्वरूपोत्प्रेक्षे संभवतो न- वेति । संभवत इति पक्षे- 'रुचयोऽस्तमितस्य भास्वतः स्खलिता यत्र निराश्रयाः खलु । अनुसायमभुर्विलेपनापणकाश्मीरजपण्यवीथयः ॥' 'परिखावलयच्छलेन या न परेषां ग्रहणस्य गोचरः । फणिभाषितभाष्यफक्किका विषमा कुण्डलनामवापिता ॥' इत्यादिनोदाहरणेन भाव्यम् । अभिमतं च तथा केपांचित् । अलं- कारसर्वस्वकारस्य तु न संभवत इति पक्षः । एतदभिप्रायेणैव तेनोक्तं ग- १. 'निरालयाः' ख.

चित्रमीमांसा। ९१ योत्प्रेक्षाविभागे 'प्रायश्चात्र स्वरूपोत्प्रेक्षा न संभवति' इति । कस्ली- योस्तस्य । पक्षेऽलंकारः । रूपकमेव । अत एव- 'पीयूषप्रसृतिर्न वा मखभुजां दा तमोलूतये स्वर्गङ्गाविमनस्ककोकवदनस्रस्ता मृडालीलता । द्विर्भावः सरकार्मुकस्य किमपि प्राणेश्वरी सागसा- माशातन्तुरुदञ्चति प्रतिपदि प्रालेयभानोस्तनुः ॥' इत्यत्र मालारूपकमुदाहरता 'स्वर्गङ्गा विमनस्का' इत्यादिष्वपि रूपक- मेवोररीकृतम् । तस्माज्जातिद्रव्योत्प्रेक्षे परिहत्यैव गम्योत्प्रेक्षावर्गः परि- गणनीयः। इदं चान्यद्बोद्धव्यम् । धर्म्युत्प्रेक्षासु विषयिविषयानुगतो धर्मो धर्मोत्प्रे- क्षासु विषयाश्रयविषयानुगतो धर्मश्च निमित्तम् । तेन 'उवाह या तनुलता' इत्यादौ वैमल्यं निमित्तमित्यादिपक्षो न युक्तः । तस्य तादात्म्यसंभावनो- पयुक्तप्रतिबिम्बघटकस्य तनुधर्मस्य विषयधर्मत्वाभावात् । 'यत्रान्यधर्मसं- बन्धात्' इत्यादिलक्षणं वदद्भिः सर्वैरपि विषयधर्मस्यैव निमित्तत्वस्य व्यवहृ- तत्वादित्यलमतिविस्तरेण । अत्र ब्रूमः- 'विषयिण उत्प्रेक्षायां जातिगुणाद्यात्मना विभागविधा । यादर्शि नैव शोभा तयोपमायामिवोपमेयस्य ॥ तदभावेऽलंकाराः संभवमात्रेण न विभागम् । अर्हन्तीतरथास्या विषयोऽप्येवं विभक्तव्यः ॥ धर्मस्यापि विभागो गुणक्रियात्मा न चारुताहेतुः । उपमायामिव सोऽपि न्यूनस्तदभावयोरसंकलनात् ॥ मनसि सन्तमिव प्रियमीक्षितुं नयनयोः स्पृहयान्तरुपेतयोः । ग्रहणशक्तिरभूदिदमीययोरपि न संमुखवास्तुनि वस्तुनि ॥ वतंसनीलाम्बुरुहेण किं दृशां विलोकमाने विमनीवभूवतुः । अपि श्रुती दर्शनसक्तचेतसां न तेन ते शुश्रुवतुर्मगीदृशाम् ॥ इत्यादिषु पश्यामो गुणक्रियाभावयोरपि व्यक्तम् । उज्वलभावनिबन्धनमुत्प्रेक्षायां निमित्तत्वम् ।।

काव्यमाला। ९२ •अत्र ह्याचे उदाहरणे नयनयोहृदयगतप्रियवीक्षणायान्तःप्रविष्टत्वो- त्प्रेक्षणायां बाह्यवस्तुग्रहणशक्त्यभावो निमित्तम् । द्वितीये श्रोत्रेन्द्रियगत- विलोकनैकाग्रत्वोत्प्रेक्षायां श्रवणक्रियाभावो निमित्तम् । एवम्- 'वीरासनैर्ध्यानयुषामृषीणाममी समध्यासितवेदिमध्याः । निवातनिष्कम्पतया विभान्ति योगाधिरूढा इव शाखिनोऽपि ॥' इत्यादीन्यभावनिमित्तत्वे भूयास्युदाहरणानि । 'अपि च समुच्चयभेदः परिगणनीयो निमित्तेए । भावौ भावाभावी समुच्चितावपि निमित्ततां भजतः ॥' 'अवैमि हंसावलयो वलक्षास्त्वत्कीर्तिमूर्तेश्चपलाः पुलाकाः । उड्डीय युक्तं पतिताः स्रवन्तीवेशन्तपूरं परितः प्लवन्ते ॥' 'उड्डपरिषदः किं नार्हन्ती निशः किमनौचिती पतिरिह न यदृष्टस्ताभ्यां गणेयरुचां गणः । स्फुटमुडुपतेराश्मं वक्षः स्फुरन्मलिनात्मन- श्छविमदनयोर्विच्छेदेऽपि द्रुतं बत न द्रुतम् ॥' 'एवमादिषु बहीषु निहोतुं केन शक्यते । समुच्चितनिमित्तत्वमुत्प्रेक्षासु निरीक्षितम् ॥' आये उदाहरणे हंसावलीनां कीर्तिपुलाकत्वोत्प्रेक्षायां धावल्यगुणो जलोपरि प्लवनक्रिया चेत्युभयं निमित्तम् । द्वितीये उडुपतिवक्षसोऽश्मवि- कारत्वोत्प्रेक्षायामश्मच्छविरूपो भावो द्रुतत्वाभावश्चेत्युभयं निमित्तम् । किं च- 'उत्प्रेक्षायां निमित्तत्वं यज्जातिद्रव्ययोरपि । तेनापि विकलां विघ्नो निमित्तगणनामिमाम् ॥' 'द्रोणः स तत्र वितरिप्यति भाग्यलभ्य- सौभाग्यकामणमयीमुपदां गिरिस्ते । तबीपदीप इव दीप्तिभिरोषधीनां चूडामिलज्जलदकज्जलदर्शनीयः ।। १. वेशन्तमल्पशरः, तत्पूरयित्वेति णमुल्. MERMeriaemonweronmentaHINACTORIES HINMEIN चित्रमीमांसा। ९३ अत्र द्रोणाचलस्य दीपत्वोत्प्रेक्षायां तत्प्ररूढौषधिवृक्षदीपस्योपरि स्थित जलदकज्जलं च निमित्तमिति जातेनिमित्तत्वं दृष्टम् । 'निशासु मूर्ध्नि स्फुरता यत्सौधो राजतीन्दुना । श्रीकण्ठो भक्तरक्षाथै संनिधानं भजन्निव ॥' इत्यत्र बाणासुरसौधस्य शिवरूपोत्प्रेक्षायां मूर्ध्नि स्फुरन्निन्दुनिमित्तम् । एवम्-'भास्वतालंकारेण, श्वेतरोचिषा स्मितेन, लोहितेनाधरेण, सौम्येन दर्शनेन, गुरुणा नितम्बेन, सितेन हारेण, शनैश्चरेण पादेन, विकचेन लो- चनोत्पलेन, त्रिभुवनविजयकेतुना रूपेण, ग्रहमयीव' इत्यत्र वासवदत्तायाः सकलग्रहमयत्वोत्प्रेक्षायां श्लेषेण तत्तगहरूपापन्नालंकारादयो निमित्तमिति जातिक्रियागुणानां समुच्चितानां निमित्तत्वं दृष्टम् । न चोदाहृतेषु दीप्त्या- दिसंबन्धो निमित्तं स च सर्वो गुण एवेति वाच्यम् । तथा सति 'ईदृक्षां क्षामतां गतौ' इत्यादावपि गमनादिक्रियासंबन्ध एव निमित्तमिति क्रियाया एव निमित्तत्वप्रसङ्गात् । न च तथापि 'भास्वतालंकारेण' इत्यादौ श्लेषण सूर्यरूपताद्यापन्ना अलंकारादयो निमित्तं न त्वविशिष्टा जातिव्यं वेति वाच्यम् । तथासति 'कपालेनोन्मुक्तः स्फटिकधवलेनाङ्कुर इव' इत्यादा- वपि कपालोन्मुक्ताङ्कुरत्वादिविशिष्टमेवोत्प्रेक्षणीयं न त्वविशिष्टं जात्यादि- कमिति विषयिणोऽपि जात्यादिरूपेण विभागस्यासामञ्जस्य प्रसङ्गात् । तस्माद्विषयिण इव निमित्तस्यापि जात्यादिरूपेण चतुर्विधतया पुनः प्रत्येक भावाभावाभ्यामष्टविधतया च विभागः कर्तव्य इति न्यून एवायं विभागः । किं च यद्धेतृत्प्रेक्षायामनुपादानं निमित्तस्य क्वापि न संभव इति प्रतिश्रुतं तदपि नो चारु । 'मन्ना सुधायां किमु तन्मुखेन्दोर्लग्ना स्थिता तत्कुचयोः किमन्तः । चिरेण तन्मध्यममुञ्चतास्य दृष्टिः क्रशीयः स्खलनाद्भिया नु ।' 'इह हेतावुत्प्रेक्ष्ये मज्जनलंगने निमित्तमनुपात्तम् । तत्कार्य दृष्टिगतं चिरेण यन्मुखकुचत्यजनम् ॥' स्यादेतत् । इह मज्जमलगनोत्प्रेक्षयोश्चिरेण मुखकुचत्यागावनुपात्तौ १. 'वृक्षदीप्तय उपरि' क-ख. २. 'गुणानां समुच्चितत्वं दृष्टम्' ग.

९४ काव्यमाला। निमित्ते, तयोश्च न मजनलगने हेतुत्वयोग्ये इति । सत्यम् । तथापि हेतू. त्प्रेक्षैव । न हि हेतूभवनक्षमस्योत्प्रेक्षेव हेतृत्प्रेक्षा, किं तु हेतुत्वेनोत्प्रेक्षा । यथा-'सैषा स्थली यत्र विचिन्वता त्वाम्' इत्यत्र । अत्र हि पञ्चमी हेतु- त्वप्रतिपादिका । तथा- 'कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ । अपश्यन्ताविवान्योन्यमीक्षां क्षामतां गतौ ॥' इत्यत्र क्षामतागमनं प्रति परस्परादर्शनस्य हेतुत्वोत्प्रेक्षायां शतृप्रत्ययो हेतुत्वप्रतिपादकः। 'मदनतापभरेण विदीर्य नो यदुदपाति हृदा दमनस्वसुः । निबिडपीनकुचद्वययन्त्रणा तमपराधमधात्प्रतिबनती ॥' इत्यत्र हृदयस्य मदनतापेन स्फुटितत्वोत्पतनाभावे कुचद्वययन्त्रणाया हेतुत्वोत्प्रेक्षायामुत्पतनप्रतिबन्धकत्वपरः प्रतिबनतीशब्दः फलतोऽनुत्पतन- हेतुत्वप्रतिपादकः । एतादृशेषु च फलस्य निमित्तस्योपादानं नियतमेव । अन्यथा पञ्चम्यादीनामन्वयसंघटनाभावात् । यत्र हेतुत्वप्रतिपादकः शब्दो नास्ति तत्र हेतुभवनक्षमस्यापि स्वरूपोत्प्रेक्षैव । अत एवालंकारसर्वस्वकृता- 'प्राप्याभिषेकमेतस्मिन्प्रतितिष्ठासति द्विषाम् । चकम्पे लोक्यमानार्थभयविह्वलितेव भूः ॥' इत्यत्र विह्वलितत्वस्योत्प्रेक्ष्यस्य हेतुत्वप्रतिपादकशब्दरहितस्य कम्प प्रति हेतुभवनक्षमत्वेऽपि वरूपोत्प्रेक्षोदाहृतेति चेत् । मैवम् । एवं हि- 'स्मरसि मर मेखलागुणैरुत गोत्रस्खलितेषु बन्धनम् । च्युतकेसरदूषितेक्षणान्यवतंसोत्पलताडनानि च ॥' इत्यत्र हेतृत्प्रेक्षा लक्ष्या न स्यात् । स्मरणगतहेतुत्वप्रतिपादकशब्दाभा- वात् । न चेष्टापत्तिः । 'कृतवानसि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् । किमकारणमेव दर्शनं विलपन्त्यौ रयते न दीयते ॥' १. 'वा' क. . .

चित्रमीमांसा । ९५ AM इत्युक्त्यनन्तरं प्रवृत्तस्यास्य श्लोकस्य, अथ वा मत्पूर्वकृतापराधस्मरणे- नैव दर्शनं न दीयते किमिति हेतूत्प्रेक्षापरत्व एव सामञ्जस्यात् । यदि तु हेतुत्वप्रतिपादकशब्दाभावेऽपि पूर्वापरानुगुण्येनापि हेतूत्प्रेक्षा भवेत् तहीं- हापि तृतीयोत्प्रेक्षासमभिव्याहारात्तस्यां चिरेण मध्यत्यजने शब्दोपात्ते स्व- लनभयस्यैवाद्योत्प्रेक्षयोरपि निमित्ततया गम्यमाने चिरान्मुखकुचत्यजने म- जनस्य लगनस्य च हेतुत्वेनोत्प्रेक्षणमित्येव युक्तम् । यत्रापि हि फले फ- लत्वप्रतिष्पदकशब्दस्तत्राप्यौचित्येन फलोत्प्रेक्षामनधीर्य हेतूत्प्रेक्षाङ्गीकार्या दृश्यते । यथा- 'हृत्तस्य यन्मन्त्रयते रहस्त्वां तब्यक्तमामन्त्रयते मुखं यत् । तद्वैरिपुष्पायुधमित्रचन्द्रसख्यौचिती सा खलु तन्मुखस्य ॥' अत्र हि हृदयकृतरहस्यमन्त्रणोद्भेदनप्रत्यवमर्शकेन तच्छब्देन सख्यौचि- तीशब्दस्य कर्मार्थकष्यजन्तस्य सामानाधिकरण्याच्छब्दतो रहस्योद्भेदनस्य मुखगतहृदयवैरिमन्मथसुहृच्चन्द्रसख्यकार्यत्वं प्रतीयते । तथापि तत्र स- ख्यस्य रहस्योद्भेदनं प्रति हेतुत्वेनैवोत्प्रेक्षा, न तु रहस्योद्भेदनस्य सख्य- फलत्वेन । रहस्योद्भेदनं फलमुद्दिश्य सख्यं कृतमित्युत्प्रेक्षाया असामञ्ज- स्यात् । हेतुत्वमात्रेण हेतूत्प्रेक्षाया इव तदुद्देशं विना कार्यत्वमात्रेण फलो- त्प्रेक्षाया अनिर्वाहात् । एवं यत्र हेतौ हेतुत्वप्रतिपादकः शब्दस्तत्रापि क्वचिदौचित्येन हेतूत्प्रेक्षामवधीर्य फलोत्प्रेक्षाङ्गीकार्या दृश्यते । यथा- 'स्मराशुगीभूय विदर्भसुभ्रूवक्षो यदक्षोभि खलु प्रसूनैः । स्रनं सृजन्त्या तदशोभि तेषु यत्रैकया सूचिशिखां निखाय ॥' अत्र निखनने पूर्वकालत्वरूपकारणत्वप्रतिपादकक्त्वाप्रत्ययसद्भावेऽपि न तद्वैरशोधनं प्रति हेतुत्वेनोत्प्रेक्ष्यं किं तु वैरशोधनार्थ निखननमिति वै- रशोधनमेव फलत्वेनोत्प्रेक्ष्यम् । सिद्धासिद्धयोरपि सिद्धस्योत्प्रेक्षणीयत्वात् । इह तदुद्देशोत्प्रेक्षणसंभवाच्च । यथा वा- . १. 'इत्युक्त्वानन्तरम्' क.

काव्यमाला। 'अस्यैव सर्गाय भवत्करस्य सरोजसृष्टिर्मम हस्तलेखः । इत्याह धाता हरिणेक्षणायां किं हस्तलेखीकृतया तयास्याम् ।।' अत्र हस्तलेखीकृतया सरोजसृष्ट्येति करणविभक्तिसद्भावेऽपि न सा विधातृकर्तृकसरोजसृष्टिगतहस्तलेखत्वप्रकाशनं प्रति हेतुत्वेनोत्प्रेक्ष्यते, किं तु तत्प्रकाशनार्थ सरोजसृष्टिहस्तलेखकरणमिति तत्प्रकाशनमेव फलत्वेनो- प्रेक्ष्यम् । किं बहुना यत्र हेतुत्वप्रतिपादकः शब्दस्तस्यैव फलत्वमौचि- त्येन क्वचिदङ्गीकार्य दृश्यते । यथा- 'स्तनावालोक्य तन्वङ्गयाः शिरः कम्पयते युवा । तयोरन्तरनिर्मग्नां दृष्टिमुत्पाटयन्निव ॥' अत्र शतुर्हेतौ विधानेऽपि फलस्याप्युद्देश्यतया कथंचिद्धेतुत्वमित्युप- पाद्य फलोत्प्रेक्षाङ्गीकरणीया । एवं च फलत्वादिप्रतिपादनमप्यनादृत्य हेतूप्रेक्षादिकमौचित्येनाङ्गीकार्य तदा किमु वक्तव्यं विरोधिशब्दाभावे औचित्यानुशरणं कार्यमिति । एवमनया दिशान्यत्रापि निमित्तानुपादानं संभवदूहनीयम् । अपि च- 'यथोपात्तनिमित्तत्वमनुपात्तनिमित्तता । प्रत्येकं वर्तते तद्वत्समुच्चित्यापि दृश्यते ॥' यथा- ARRIVAL 'मुनिद्रुमः कोरकितोऽसितातिर्वनेऽमुनामन्यत सिंहिकासुतः । तमिस्रपक्षत्रुटिकूटभक्षितं कलाकलापं किल वैधवं वमन् ॥' अत्र कोरकनिर्गमनविशिष्टस्य मुनिद्रुमस्य विधुकलाकलापवमनविशिष्ट- राहुरूपत्वे उत्प्रेक्ष्यमाणे विशिष्योत्प्रक्षानिमित्तमसितवर्णत्वमुपात्तम्, वि- शेषणोत्प्रक्षानिमित्तं तु कोरकविधुकलासाधादिरूपं नोपात्तम् । यथा वा- 'त्वत्प्राङ्गणे सुन्दर पाण्ड्यदेव मतङ्गजाः शृङ्खलिनो विभान्ति । आवासदानादरिभूपतीनामाशान्तशैला इव सापराधाः ॥' अत्र विशेषणभूतसापराधत्वोत्प्रेक्षानिमित्तं शृङ्खलितत्वमुपात्तम्, विशे- प्यशैलरूपत्वोप्रेक्षानिमित्तमौन्नत्यादिकं नोपात्तम् । यथा वा- १. हस्तलेखो नाम रुचिरवर्णलेखसिद्धयै पूर्वमभ्यासदाक्य तदभ्यसनम्, ww चित्रमीमांसा । M 'अजस्रभूमीतटकुट्टनोत्थितैरुपास्यमानं चरणेषु रेणुभिः । रयप्रकर्षाध्ययनार्थमागतैर्जनस्य चेतोभिरिवाणिमाङ्कितैः ॥' अत्र विशेष्यभूतचेतोरूपत्वोत्प्रेक्षायामूणिमाङ्कितैरिति निमित्तमुपात्तम् । अध्ययनार्थमागतैरिति तद्विशेषणोत्प्रेक्षायामपि चरणोपासनारूपं निमित्तमु- पात्तम् । रयप्रकर्पत्यध्ययनविशेषणे निमित्तं चेतसां ,वर्णनीयादश्वादपकृ- ष्टरयत्वं नोपात्तम् । एवमन्यत्रापि निमित्तोपादानानुपादानसमुच्चये उदाहर्त- व्यम् । तस्मान्यून: सतृणाम्यवहारश्चायं विभागः । अतोऽत्र विषयिणो जात्यादिरूपेणाष्टधाविभागम्, धर्मस्य गुणक्रियारूपेण विभागं चापहाय वि- भागान्तरलम्या यावन्तो भेदास्तावन्त एव चमत्कारिणः । स्वरूपहेतुफलोत्प्रेक्षासु तु विधान्तरेणाप्यवान्तरभेदाः संभवन्ति । यथा- स्वरूपोत्प्रेक्षा द्विविधा, अविशिष्टोत्प्रेक्षा विशिष्टोत्प्रेक्षा च । यत्र विष- यिणो विशेषणमुपात्तमपि नोत्प्रेक्षणीयमवगम्यते तद्विषयरूपस्य तन्निमित्त- रूपस्य वा विषयविशेषणस्याभावात् किं तु तद्विशेषणं विषयिणि विधान्त- रेणोपयुज्यते साविशिष्टोत्प्रेक्षा । यत्र तु विषयिणो विशेषणमप्युत्प्रेक्षणी- यमवगम्यते तद्विषयरूपस्य तन्निमित्तरूपस्य वा विषयविशेषणस्योपादा- नात्सा विशिष्टोत्प्रेक्षा। तत्राद्या यथा- 'रतेगृहीतानुनयेन कामं प्रत्यर्पितवाङ्गमिवेश्वरेण । काकुत्स्थमालोकयतां नृपाणां मनो बभूवेन्दुमतीनिराशम् ॥ अत्र मदनरूपत्वोत्प्रेक्षायां मदनाकृतिशालित्वमस्ति निमित्तम् । अत- स्तावदुप्रेक्षणीयमवगम्यते तत्प्रत्यर्पणं रत्यनुनयप्रसन्नेन परमेश्वरेण कृत- मिति विशेषणांशस्तु नोत्प्रेक्षणीयोऽवगम्यते । तदंशे विषयस्य वाच्यस्य गम्यस्य वा निमित्तस्य वालाभात् । किं तु परमेश्वरदग्धस्य मदनदेहस्या- सुरदग्धस्य कचदेहस्य शुक्र इव न कश्चिदन्यः प्रत्यर्पणं कर्तुं शक्नोतीति विषयिणि प्रत्यर्पणोपपादकतया तद्विशेषणमुपयुज्यते इत्यविशिष्टोत्प्रेक्षेयम् । विशिष्टोत्प्रेक्षायां 'मुनिद्रुमः कोरकितोऽसितद्युतिः' 'त्वत्प्राङ्गणे सुन्दर पाण्ड्यदेव' इत्याद्युदाहरणे विषयोपादानाद्विषयिविशेषणस्योत्प्रेक्षतावग- १३ काव्यमाला। म्यते । द्वितीये निमित्तोपादानाद्धेतुफलोत्प्रेक्षे त्वसिद्धयोः सिद्धयोर्वा हेतु- फलभावनोत्प्रेक्षणीयतया प्रत्येक द्विविधे । 'सैषा स्थली यत्र विचिन्वता त्वाम्' 'चोलस्य यद्भीतिपलायितस्य' इत्यादिषु नूपुरकण्टकिद्रुमादावसिद्ध- योविश्लेषदुःखललाटलिपिदर्शनादिकयोर्हेतुफलाभावेनोत्प्रेक्षणीयता । 'आलोहिबतलावेतौ क्षितौ विक्षेपणादिव । वर्णयेम कथं तन्व्याः पादौ पल्लवकोमलौ ।' 'पूर विधुर्वर्धयितुं पयोधेः शङ्केयमेणाङ्कमणि कियन्ति । पयांसि दोग्धि प्रियविप्रयोगात्सशोककोकीनयने कियन्ति ॥' इत्यादिषु पादचन्द्रादौ स्वतःसिद्धयोरेव विक्षेपपयोवर्धनादिकयोर्हेतुफला- भावनोत्प्रेक्षणीयता । प्रकारान्तरेणापि कतिचिदस्या भेदान्समासोक्ति- प्रकरणे दर्शयिष्यामः । यत्तु सर्वस्वकृता वैचित्र्यान्तरमस्या दर्शितम् । एषा क्वचिद्धर्मविषये श्लिष्टा, क्वचिच्छलादिशब्देन सापहवा, क्वचित्पदार्थान्वयवेलायां सादृश्या- भिधानादुपमाक्रान्ताप्युपमावाक्यार्थतात्पर्यसामर्थ्यादमिमातृव्यापारौचित्यक्र- मेणोत्प्रेक्षायां पर्यवस्यतीत्युपमोपक्रमा चेति । तत्र धर्मविषये श्लिष्टत्वं किमित्युपन्यस्तम् । किं धर्मस्य निमित्तानुगामितयेव श्लेषेणापि निर्वाह्यत इति, किं वा धर्माशेषु शुद्धतेव श्लेषणालंकृतापि दृश्यत इति । आये उपमायां साधारणधर्मस्यानुगामित्वादयो यावन्तो भेदाः साधारण्यनिर्वाह- कास्ते सर्वेऽप्युत्प्रेक्षायां धर्मस्य निमित्ततानिर्वाहकाः संभवन्तीति न्यूनो विभागः । तथा हि 'बालेन्दुवक्राण्यविकाशभावात्' इत्यादौ तावदनुगामित्वं स्पष्टम् । तथा- 'व्यराजत सखे तन्व्या वकं वलितकन्धरम् । लावण्यौघजलावृत्तनालदण्डमिग़म्बुजम् ॥' इत्यत्र वस्तुप्रतिवस्तुभावः । बिम्बप्रतिबिम्बभावादयस्तु प्रागेवोदाहृताः । द्वितीये निमित्तांशेन श्लेषेण वालंकारान्तरेणाप्यलंकृतता दृश्यते इति - १. 'अभिमन्त' ख-ग.

चित्रमीमांसा। न्यूनो विभागः । तथा हि 'अङ्गुलीभिरिव केशसंचयम्' इति निमित्तांशे उपमालंकारः स्पष्टः । 'उदरं परिमाति मुष्टिना कुतुकी कोऽपि दमस्वसुः किल । धृततच्चतुरङ्गुलीव यद्वलिभिर्भाति सहेमकाञ्चिभिः ।। इत्यत्रोत्प्रेक्षा । अत्र दमयन्त्युदरस्य केनचित्कुतुकिना परिमीयमाणत्वो- त्प्रेक्षायां काञ्चीसहितासु वलीषु तदीयाङ्गुलित्वोत्प्रेक्षालब्धमुदरगतं तदी- याङ्गुलिचतुष्टयधारशं निमित्तम् । 'अजस्रमारोहसि दूरदीर्घा संकल्पसोपानततिं तदीयाम् । श्वासान्स वर्षत्यधिकं पुनर्यध्यानादिव त्वन्मयतामवाप्य ॥' इत्यत्रासंगतिः । यतोऽत्र नलस्य दमयन्तीरूपतावाप्त्युत्प्रेक्षायां दमय- न्तीकर्तृकेण सोपानारोहणेन नलस्य श्वासवर्षणं निमित्तम् । 'प्रतीपभूपैरिव किं ततो भिया विरुद्धधर्मैरपि भेत्तृतोज्झिता । अमित्रजिन्मित्रजिदोजसा स यद्विचारहवचारगप्यवर्तत ।' इत्यत्र विरोधाभासः । अत्र हि विरुद्धधर्मगतस्याश्रयभेदकत्वत्यागोत्प्रे- क्षायां विरुद्धतयावभासमानधर्माणां नले सहवासो निमित्तम् । 'ध्रुवमधीतवतीयमधीरतां दयितदूतपतद्गतिवेगतः । धृतिविरोधकरी व्यणुकोदरी तदुदितः स हि यो यदनन्तरः ।।' इत्यत्रार्थान्तरन्यासः। यद्यप्यत्र दमयन्तीगतस्य चापलस्य नलदूतहंसप- क्षवेगो हेतुत्वेनोत्प्रेक्ष्यते, तथापि तत्रोत्प्रेक्षायामध्ययनफलमात्रं न निमित्तं किं त्वन्यवेगात्कथमन्यत्र चापलमिति शङ्कावारणाय निबद्धेन 'तदुदितः स हि यो यदनन्तरः' इत्यर्थान्तरन्यासेनोपस्कृतम् । एवम्- 'गौरीव पत्या सुभगा कदाचित्कर्तेयमप्यर्धतनूसमस्याम् । इतीव मध्ये विदधे विधाला रोमावलीमेचकसूत्रमस्याम् ॥' इत्यत्र निमित्तांशे रूपकमित्याचूहनीयम् । तस्मादुभयथापि तत्र श्लि- ष्टत्वमात्रकीर्तनं न्यूनमितरेषामप्युपलक्षणं द्रष्टव्यम् । १. 'उपेत्य' ख.

१०० काव्यमाला। - - यत्तु सापह्नवत्वे- 'गतासु तीरं तिमिघट्टनेन ससंभ्रमं पौरविलासिनीषु । यत्रोल्लसत्केनलवच्छलेन मुक्ताट्टहासेव विभाति शिप्रा ॥ इति खरूपोत्प्रेक्षायामुदाहृतं तदपि हेतुफलोत्प्रेक्षयोरपि सापह्नवत्वे उपलक्षणं बोद्धव्यम्। तत्र सापह्नवहेतूोक्षायाम्- 'मुग्धः स मोहात्सुभगात्तदेहाददद्भवद्भूरचनायं चापम् । भ्रूभङ्गजेयस्तव यन्मनोभूरनेन रूपेण यदा तदासीत् ॥', अत्र मदनगते मुग्धशब्दवाच्यत्वे वस्तुतोऽहेतोः सौन्दर्यस्य हेतुत्वमप- हुत्य नलभूरचनाय स्वचापादानप्रयुक्तस्य मौढ्यस्य हेतुत्वमुत्प्रेक्षितम् । सा- पह्नवफलोत्प्रेक्षा यथा- 'रवितप्तो गजः पद्मांस्तद्गृह्यान्बाधितुं ध्रुवम् । सरो विशति न स्नातुं गजस्नानं हि निष्फलम् ॥' अत्र गजस्य सरःप्रवेशं प्रति वस्तुतः फलस्य स्नानस्य फलत्वमपमुत्य पद्मबाधनमत्र फलत्वेनोत्प्रेक्षितम् । न च स्वरूपोत्प्रेक्षाया वास्तवविषय- खरूपापह्नव एव विच्छित्तिविशोषो न तु फलोत्प्रेक्षयोः प्रसिद्धहेतुफला- पह्नव इत्यस्ति । प्रत्युतोदाहृतयोर्हेतुफलोत्प्रेक्षयोः सिद्धहेतुफलापह्नवोऽपि सहेतुकः न तूदाहृतविषयः स्वरूपापह्नववन्निर्हेतुक इत्यत्रैव चमत्कारातिश- यसत्त्वात् । तस्मादिमे अपि सापह्नवोत्प्रेक्षे इत्युपलक्षणतैव युक्ता । अन्य- दत्र विचारणीयं समासोक्तिप्रकरणे विचारयिष्यते । यत्तु 'कस्तूरीतिलकन्ति भालफलके' इत्यादावुपक्रान्ता उपमा औचि- त्यादुत्प्रेक्षायां पर्यवस्यतीत्युक्तं तत्र भालादिस्थानविशेषसंबन्धस्य कस्तूरी- तिलकादितादात्म्यमात्रे औचित्यं चेत् रूपके पर्यवसानं स्यादिति तस्य तादात्म्यसंभावनायामौचित्यमुपगम्योत्प्रेक्षायां पर्यवसानं वाच्यम्। तथा च- 'रक्षन्तु त्वामसितजलजैरञ्जलिः पादमूले मीना नाभीसरसि हृदये कौस्तुभाख्या मुरारेः । १. 'मारवाणा मुरारेः' ग.

चित्रमीमांसा । हाराः कण्ठे हरिमणिमया वक्रपझे द्विरेफाः पिच्छाचूडाश्चिकुरनिकरे घोषयोषित्कटाक्षाः ॥' इत्यादौ रूपकप्रतीतिस्थलेऽप्युत्प्रेक्षोपगन्तव्या । तथा- 'पतत्रिणा तद्रुचिरेण वञ्चितं श्रियः प्रयान्त्याः प्रविहाय पत्वलम् । चलत्पदाम्भोरुहनूपुरोपमा चुकूज कूले कलहंसमण्डली ॥' 'लोकाश्रयो मण्डपमादिसृष्टिब्रह्माण्डमाभात्यनुकायमस्य ।' 'अथाजिनाषाढधरः प्रगल्भवाग्ज्वलन्निव ब्रह्ममयेन तेजसा । विवेश कश्चिजटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमो यथा ॥' इत्यादावुपमाप्रतीतिस्थले यथोत्प्रेक्षायां पर्यवसानम् । एवम्- 'वरणः कनकस्य मानिनी दिवमङ्कादमरादिरागताम् । धनरत्नकवाटपक्षतिः परिरभ्यानुनयन्नुवास याम् ॥' 'वधाकृतं यत्तनयैः पितृभ्यः श्रद्धापवित्रं तिलमिश्रमम्भः । चन्द्रं पितृस्थानतयोपवस्थे तदङ्गरोचिःखचिता सुधैव ॥' इत्यादिरूपकप्रतीतिस्थलेऽपि तस्यां पर्यवसानमुपगन्तव्यम् । तादात्म्यसं- भावनोपयुक्तविशेषणनिबन्धरूपन्यायसाम्यात् । एवम्- 'पूणेन्दोः परिपोषकान्तवपुषः स्फारप्रभाभासुरं नेदं मण्डलमभ्युपैति गगनाभोगाजिगीषोर्जगत् । कामस्योच्छ्रितमातपत्रमधुना पाण्डुप्रदोषश्रिया मानोन्नद्धजनाभिमानदलनोद्योगैकहेवाकिनः ॥' इत्यपगुत्युदाहरणे इत्यपि द्रष्टव्यम् । अधिकं निदर्शनालंकारप्रकरणे चिन्तयिष्यते । ननु गम्योत्प्रेक्षाया अलैंकारतया परिगणनमयुक्तम् । तस्या अलंकार- ध्वनित्वात् । उच्यते । विषयविषयिनिमित्तेषूपात्तेषु केवलमिवादिवाचका- १. सर्वेषु पुस्तकेषु श्लोकार्ध एव दृश्यते. २. 'प्रविशेषकान्तवपुषः' ग. ३. 'मानो- नाहजना' ख. ४. 'हेतोgवम्' क. ५. ख-पुस्तकेऽत्रैव 'इत्युत्प्रेक्षाप्रकरणम् । समा- प्तश्चायं समुपलभ्यमानो ग्रन्थः' इति ग्रन्थसमाप्तिः कृता. ग-पुस्तके तु 'अप्य चि- त्रमीमांसा' अयं समाप्तिश्लोकोऽत्र विलिख्य पुनरग्रे अधिकमित्यादि लिखितमस्ति. ६. केवल इवादि' ग.

१०२ काव्यमाला। . प्रयोगमात्रेण यत्रोत्प्रेक्षावगम्यते सात्यन्तं स्फुटत्वाद्वाच्यायमानत्वादलंकार- तामेवासादयतीति । यथोदाहृतम् । यत्रोत्प्रेक्षणीयस्य विषयिणोऽप्यनुपा- दानं निबद्धेन वस्तुनालंकारेण वा . गम्योत्प्रेक्षा गूढा तत्रैवोत्प्रेक्षाध्वनिः । यथा- 'वीररुदभटान्दृष्ट्वा जयलक्ष्म्यावृतान्रणे । कर्षन्त्यरिवधूकेशान्कानने कण्टकिद्रुमाः ॥' अत्र वस्तुना कचग्रहणरूपेण जयश्रीसमालिङ्गितभटदर्शनोद्दीप्रितमन्मथा इवेत्युप्रेक्षा ध्वन्यते । 'वेलामतिक्रम्य पृथुर्मुखेन्दोरालोकपीयूषरसेन तस्याः । नलस्य रागाम्बुनिधौ विवृद्धे तुङ्गौ कुचावाश्रयति स्म दृष्टिः ॥' अत्रैकदेशविवतिरूपके मन्जनभयादिवेत्युत्प्रेक्षावगम्यते । एवमन्यत्रा- प्युदाहार्यम् । इत्युत्प्रेक्षाप्रकरणम् । अथातिशयोक्तिः तस्यास्तावत्- विषयस्यानुपादानाद्विषय्युपनिबध्यते । यत्र सातिशयोक्तिः स्यात्कविप्रौढोक्तिजीविता ॥ इति लक्षणमुक्त्वा चातुर्विध्यं वर्णयन्ति । भेदेऽभेदः, अभेदे भेदः, संबन्धेऽसंबन्धः, असंबन्धे संबन्ध इति । एतेषामुदाहरणानि-- 'कमलमनम्भसि कमले कुवलयमेतानि कनकलतिकायाम् । सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥' 'अन्येयं रूपसंपत्तिरन्या वैदग्ध्यधोरणी । नैषा कमलपत्राक्षी सृष्टिः साधारणी विधेः ।।' 'अस्याः सर्गविधौ प्रजापतिरभूञ्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । १. 'अस्याः, क. २. 'कुवलयमेतापि' ग. - चित्रमीमांसा । १०३ वेदाभ्यासजडः कथं स विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥' 'दाहोऽम्भःप्रसूतिपचः प्रचयवान्बाष्पः प्रणालोचितः श्वासाः प्रेजितदीप्तदीपकलिकाः पाण्डिम्नि मग्नं वपुः । किं चान्यत्कथयामि रात्रिमखिलां त्वन्मार्गवातायने हस्तच्छत्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिवर्तते ॥' अत्र कमलादीनां मुखादिभेदेऽप्यभेदः । रूपादीनां लोकसिद्धरूपाद्य- भेदेऽपि भेदः । रूपस्य पुराणप्रजापतिसृष्टिसंबन्धेऽप्यसंबन्धः । विरहादी- नामम्भःप्रसूतिपचत्वाद्यसंबन्धेऽपि संबन्धश्च क्रमेण निबद्धः। अत्रेदं वि- चार्यते । विषयस्यानुपादानादित्यत्र किमनुपादानं सर्वथैव विषयस्य प्रति- पादकाभावः, तद्वाचकाभावो वा । आद्ये 'कमलमनम्भसि' इत्यादावपि ल- क्षणं न स्यात् । कमलादिशब्दानां लक्षणया विषयभूतमुखादिप्रतिपादक- त्वात् । द्वितीये 'चुम्बतीव रजेनीमुखं शशी' इत्यादिषु मुखशब्दादिश्लेष- मूलातिशयोक्तावव्याप्तिः । विषयिवाचकातिरिक्तविषयप्रतिपादकाभावो विवक्षित इति चेत्, तथापि 'उन्मीलितानि नेत्राणि पद्मानीवोदिते रवौ' इत्यादावुन्मीलितशब्दवाच्यलक्ष्यार्थाध्यवसायरूपातिशयोक्तावतिव्याप्तिः । तत्रोन्मीलितशब्दस्य विषयीभूतविकाशलक्षकतया तद्वाचकातिरिक्तस्यैव विषयप्रतिपादकत्वात् । विषयिप्रतिपादकातिरिक्तविषयप्रतिपादकाभाववि- वक्षायामपि- 'पल्लवतः कल्पतरोरेष विशेषः करस्य ते वीर । भूषयति कर्णमेकः परस्तु कण तिरस्कुरुते ॥' इत्यत्र कर्णशब्द श्लेषमूलातिशयोक्तावव्याप्तिः । तत्र विषयविषयिणोः पृथकर्णपदोपादानाद्विषयप्रतिपादकविलक्षणविषयप्रतिपादकाभावो वा वि- वक्षित इति चेत्, तथापि- 'उरोभुवा कुम्भयुगेन जृम्भितं नवोपहारेण वयस्कृतेन किम् । त्रपासरिदुर्गमपि प्रतीर्य सा नलस्य तन्वी हृदयं विवेश यत् ।' - m- है १०४ काव्यमाला। • इत्यत्र कुचद्वये कुम्भयुगाभेदाध्यवसायरूपातिशयोक्तावव्याप्तिः । त- चोरःप्रभवत्वाकारेण विषयप्रतिपादकस्य विषयिप्रतिपादकविलक्षणस्य स- भावात् । ननु विषयिप्रतिपादकविलक्षणस्य विषयतावच्छेदकप्रकारेण वि- षयप्रतिपादकस्याभावो विवक्षितः, उरःप्रभवत्वं तु न पयोधरयोर्विषय- तावच्छेदकमनेकसाधारणत्वादिति चेत्, एवमर्पि- 'ध्वान्तस्य वामोरु विचारणायां वैशेषिकं चारु मतं मतं मे । औलूकमाहुः खलु दर्शनं यत्क्षमं तमस्तन्त्वनिरूपणाय ।। इत्यादावुलूकदर्शनमिति वैशेषिकमते पक्षिविशेषदृष्ट्यभेदाध्यवसायरू- पातिशयोक्तावव्याप्तिौरा । तत्र वैशेषिकमतमिति विषयतावच्छेदकप्र- कारेण विषयप्रतिपादकस्य संभवात् । अपि चैवम् 'रामरावणयोर्युद्धम्' इत्यनन्वयालंकारे चातिव्याप्तिः। तत्र विषयप्रतिपादकविलक्षणविषयप्र- तिपादकाभावात् । ननु यत्र कश्चिदभेदेनाध्यवसीयते स विषयः, यस्तु तथाध्यवसीयते स विषयीति विषयविषयिभावोऽत्र विवक्षित इति नोक्ता- तिव्याप्तिरिति चेत्, एवमपि 'विद्वन्मानसहंस' इत्यादिश्लिष्टरूपकेऽतिव्या- प्तिर्दुर्वारा । रूपके तादूप्यारोपमात्रम्, अतिशयोक्तावभेदाध्यवसाय इति कल्पना तु रूपकविचारलक्षण एव निरस्ता । सारूप्यनिबन्धनसमासोक्त्यु- दाहरणेषु चातिव्याप्तिः। 'अप्यर्धचित्रमीमांसा न मुदे कस्य मांसला । अनूरुरिव धर्माशोरर्धेन्दुरिव धूर्जटेः ॥' समाप्तश्चायं समुपलभ्यमानो ग्रन्थः। प १. क-पुस्तके 'इति चेत्' इति नास्ति. २. 'निरीक्षणायाम्' क. ३. 'दुर्वारा । तत्र' इति क-पुस्तके नास्ति. ४. 'सद्भावात्' क. ५. 'अप्रस्तुतप्रशंसोदाहरणेषु' ग.

काव्यमाला। पण्डितराजश्रीजगन्नाथविरचित चित्रमीमांसाखण्डनम् । नागेशकृतमर्मप्रकाशादुद्धृतया टिप्पण्या सहितम् । , नाम नाम घनश्याम धाम तामरसेक्षणम् । पण्डितेन्द्रो जगन्नाथशर्मा निर्माति कौतुकम् ॥ रसगङ्गाधरे चित्रमीमांसाया मयोदिताः । ये दोषास्तेऽत्र संक्षिप्य कथ्यन्ते विदुषां मुदे ॥ सूक्ष्मं विभाव्य मयका समुदीरिताना- मप्पय्यदीक्षितकृताविह दूषणानाम् । निर्मत्सरो यदि समुद्धरणं विदध्या- दस्याहमुज्ज्वलमतेश्चरणौ वहामि ॥ यत्त्वादिभागे चित्रमीमांसायामप्पयदीक्षितैः निःशेषच्युतचन्दनं स्तन- तटम्' इति पद्यं ध्वन्युदाहरणप्रसङ्गे व्याख्यातम्-'उत्तरीयकर्षणेन च- न्दनच्युतिरित्यन्यथासिद्धिपरिहाराय निःशेषग्रहणम् । ततश्चन्दनच्युतेः स्नानसाधारण्यव्यावर्तनेन संभोगचिसोद्धाटनाय तटग्रहणम् । स्नाने हि स- व्याख्यातमिति व्याख्यानमेवाह-उत्तरीयेत्याद्याचरन्तीत्यन्तेन । इत्यादी- त्यादिना प्रातर्दत्तम अनं कालविलम्बेन किंचिद्विलुप्तमित्यन्यथासिद्धिपरिहाराय दूरमिति । अत्यर्थमित्यापाततोऽर्थः । एतेन कालान्यथासिद्धिनिराशः । पुनः स्नानसाधारण्यव्यावर्ज- (त)नेन संभोगचिह्नोद्धाटनाय दुरे प्रान्त इति हृदयस्थितोऽर्थः । कालतः स्नानेन सर्व- १. 'मया'.

२ काव्यमाला। र्वत्र चन्दनच्युतिः स्यात् , तव तु स्तनयोस्तट उपरिभाग एव दृश्यते इयमारलेषकृतैव । तथा निर्मुष्टरागोऽधर इत्यत्र ताम्बूलग्रहणविलम्बात्प्रा- चीनरागस्य किंचिन्मृष्टतेत्यन्यथासिद्धिपरिहाराय निदृष्ट इति रागस्य निःशेपमृष्टतोक्ता । पुनः स्नानसाधारण्यव्यावर्तनेन संभोगचिसोद्धाटनाया- धर इति विशिष्य ग्रहणम् । उत्तरोठे सरागेऽकरोष्ठमात्रस्य निर्मुष्टरागता चुम्बनकृतैव' इत्यादिना 'इदमपि ध्वनेरुदाहरणम्' इत्यन्तेन संदर्भेण त- टादिघटिता वाक्यार्थाः ‘स्नानव्यावृत्तिद्वारा संभोगाङ्गानामा.श्लेपचुम्बनादीनां प्रतिपादनेन प्रधानव्यङ्गयव्यञ्जने साहायकमाचरन्ति' इति, तदेतदालं- कारिकाणामतितमां हृदयारंतुदतया नालंकारमीमांसकेन वक्तुं युक्तम् । एवं च तटादिघटितानां वाक्यार्थानां मुख्यार्थवापीस्नानपक्षे बाधितत्वाद्वि- रोधिलक्षणया वापी स्नातुं न गतासि किं तु तदन्तिकमिति प्रतिपत्तौ वि- गलितव्यञ्जनाव्यापारेण यथा-'अहो पूर्ण सरो यत्र लुठन्तः स्नान्ति मा. नवाः' इत्यत्र लुठन्त इत्यस्य विशेषणस्य मुख्येऽर्थेऽनुपपत्त्या विरुद्धोऽर्थो भासमानोऽपि न व्यङ्गयः, एवमिहापि स्यात् । अपि च यथाकथंचिदङ्गीकुरु वात्र व्यञ्जनाव्यापार तथापि न तवेष्ट- सिद्धिः । वाच्यानां निःशेषच्युतचन्दनस्तनतटत्वादीनामधमत्वस्य च त्व- दुक्तरीत्या प्रकारान्तरेणानुपपद्यमानतया दूतीसंभोगमात्रनिप्पाद्यत्वेन गु- णीभूतव्यङ्गयत्वप्रसङ्गात् । किं चैवं सति “भम धम्मिअ वीसत्थ-' इ- त्यादौ लिङ्गजलिङ्गिज्ञानरूपेणानुमानेन व्यक्तिं गतार्थयतो व्यक्तिविवेक- कृतो मतं प्रत्याचक्षाणा व्यभिचारित्वेनासिद्धत्वेन च संदिह्यमानादपि तोऽञ्जनलोप: स्यात्तव तु लोचनयोः क्वचित्प्रान्त एवान जनत्वमिदं चुम्बनकृतमेवेत्यादि परिग्रहः । वाक्यार्थाः प्रधानवाक्यार्थाः । प्रधानव्यङ्गय संभोगः । यथाकथंचि- दिति । अर्थापत्तिप्रमाणस्यातिरिक्तस्याभावादिति भावः । अत्र रमणे । संभोग- मात्रेति । तदन्येन वाच्यसिद्धेरेवाभावादिति भावः। भमेति । 'भ्रम धार्मिक वि- श्रब्धः स शुनकोऽद्य मारितस्तेन । गोदानदीकच्छनिकुअवासिना दृप्तसिंहेन॥'कुसुमावच- १. 'भम धम्मिअ वीसत्थो सो सुणओ अज मालिदो तेण। गोलाणइकच्छ कुडवा- सिना दरिअसीहेण ॥'. । Shrinthimity EISENIMARATHI चित्रमीमांसाखण्डनम् । ३ लिङ्गाध्यञ्जनमभ्युपगच्छन्तः सर्वेऽपि ध्वनिमार्गप्रवर्तकास्तव प्रतिकूलाः स्युः । अन्यच्च येनोदाहृतं पद्यमायुष्मता व्याख्यातम्, तस्यापि विशेषणानामसाधा- रण्यमननुमतमेव । तथा च तेनैवोक्तं पञ्चमोल्लासशेषे–'निःशेषेत्यादौ ग- मकतया यानि चन्दनच्यवनादीन्युपात्तानि तानि कारणान्तरतोऽपि भ- वन्ति । यतश्चात्रैव स्नानकार्यत्वेनोपात्तानीति नोपभोग एव प्रतिबद्धानी- त्यनैकान्तिकानि' इति । एवं च त्व(त)दुक्तिविरोधः स्फुट एव । त- स्माद्वाच्यार्थसाधारण्यमेवोचितमतिविदग्धनायिकानिरूपितानां विशेषणानाम् । तथा हि-अयि बान्धवजनस्याज्ञातपीडागमे स्वार्थपरायणे स्नानकालाति- क्रमभयवशेन नदीमदीयप्रिययोरन्तिकमगत्वैव वापी स्नातुमितो ममान्ति- काद्गतासि न पुनस्तस्य परवेदनानभिज्ञतया दुःखदातृत्वेनाधमस्यान्तिकम् । यतो निःशेपच्युतचन्दनं स्तनयोस्तटमेव नोरःस्थलम् । वापीगतबहुलयुवज- नत्रपापारवश्यादंशद्वयलग्नाग्रस्वस्तिकीकृतभुजलतायुगलेन तटस्यैवोन्नततया मुहुरामर्शात् । एवं त्वरया सम्यगक्षालनेनोत्तरोष्ठो न निदृष्टरागोऽधरस्तु तदपेक्षया गण्डूषजलरदनशोधनाङ्गुल्यादीनामधिकसंमर्दमावहतीति तथा । किं च सम्यगक्षालनेन नेत्रे जलमात्रसंसर्गादूरमुपरिभाग एवानञ्जने । शीतवशात्तानवाच्च तव तनुः पुलकितेति । एवं तस्या विदग्धाया गूढता- त्पर्योक्तिरुचिता । अन्यथा वैदग्ध्यभङ्गापत्तेः । एवं साधारणेषु वाक्यार्थेषु मुख्यार्थे बाधाभावात्तात्पर्यार्थस्य झटित्यना- कलनात्कुतोऽत्र लक्षणावकाशोऽनन्तरं च वाच्यार्थप्रतिपत्तेर्वक्तृबोद्धव्यना- यार्थे कुछ धार्मिकभ्रमणेन खण्डितसंकेतायास्तनिवारणोक्तिरियम् । अत्र वाच्येन भीरु- स्वभावस्य गृहे श्वनिवृत्त्या भ्रमणेन निकुञ्ज सिंहोपलब्ध्या भ्रमणनिषेधो व्यङ्ग्यः । ग्रन्थ- विरोधमाह-अन्यच्च येनेत्यादि । गमकतयेति । संभागेत्यादिः । अत्रैव नि:शे- घेत्यादावेव । प्रतिबद्धानि जन्यतया न तत्रैव संबद्धानि । अनैकान्तिकानि सा- धारणानि । कथं तर्हि तस्य व्यङ्ग्यत्वं सकाशाद्युक्तमाह-तस्माद्वाच्यार्थति । वापी- स्नाननेत्यर्थः । निरूपितेति । बोधितेत्यर्थः । गमे इत्यन्तव्याख्या स्वार्थति । अन्तिक- मित्यत्र गतासीत्यनुषगः । एवं त्रपापारवश्यात् । तथा निर्मुष्टरागः । तन्वीत्यस्यार्थ- माह-तानवाञ्चेति । कृशत्वाच्चेत्यर्थः । उपसंहरति-एवमिति । उक्तप्रकारेत्यर्थः । मुख्यार्थे वापीस्नाने । अनन्तरमिति । वाच्यार्थप्रतिपत्तेरनन्तरं चेत्यर्थः । वक्री 40 काव्यमाला। यकादीनां वैशिष्ट्यप्रतिपत्तौ सत्यामधमपदेन स्वप्रवृत्तिप्रयोजको दुःखदातृ- त्वरूपो धर्मः साधारणात्मा प्राग्वाच्यार्थदशायामपराधान्तरनिमित्तकदुःख- दातृत्वरूपेण स्थितो व्यञ्जनाव्यापारेण दूतीसंभोगनिमित्तकदुःखदातृत्वाका- रेण पर्यवस्यतीत्यालंकारिकसिद्धान्तनिष्कर्षः । एतेन 'अधमत्वमप्रकृष्टत्वं तच्च जात्या कर्मणा वा भवति । तत्र जात्यापकर्ष नोत्तमनायिका नाय- कस्य वक्ति । नापि वापराधपर्यवसायिदूतीसंभोगादिहीनकर्मातिरिक्तेन क- मणा । तादृशं च दूतीसंप्रेषणात्प्राचीनं सोढमेवेति नोद्धाटनाहमितीतर- व्यावृत्या संभोगरूपमेव पर्यवस्यति' इति यदुक्तम्, तदपि निरस्तम् । विदग्धोत्तमनायिकायाः सखीसमक्षं तदुपभोगरूपस्य स्वनायकापराधस्य स्फुटं प्रकाशयितुमतितमामनौचित्येन प्राचीनानामेव सोढानामप्यपराधाना- मसह्यतया दूतीं प्रति प्रतिपादयिषितत्वात् । यथैव हि- 'औणिदं दोब्बलं चिन्ता अलसन्तणं सणीससिअम् । मह मन्दमाअणीए केरं सहि तुह वि परभवइ ।' इत्यादावौन्निद्यादीनि वाच्यभूतस्वक्लेशनिमित्तकसखीक्लेशसाधारणान्येव बो- द्धव्यवैशिष्ट्यवशात्तत्कामुकोपभोगजनितौन्निद्यादिषु पर्यवस्यन्ति । न चात्र वाच्यार्थव्यावर्तकं किंचिद्विशेपणमपेक्षन्ते सहृदयाः, एवमिहापि । अथ तदन्तिकगमनस्य लक्षणावेद्यत्वेऽपि रमणमात्रस्य लक्ष्यशक्तिमूलध्वननवेद्य- त्वमव्याहतमेवेति चेत् , नैवम् । 'अधमत्वं जात्या कर्मान्तरेण वा नोत्तम- - विदग्धोत्तमनायिका । बोद्धव्या दुःशीला दृती । नायकस्तादृशः । आदिना काकादि- परिग्रहः । अधमपदेनेति । बोधित इति शेषः । स्वेति । अधमपदप्रवृत्तिनिमित्तमि- त्यर्थः । साधारणेति । तादृशकर्मान्तरसाधारणेत्यर्थः । स्वापराधेति । स्वं नायिका। दूतीसंभोगादिरूपं यद्धीनकर्मेत्यर्थः । एतेनेत्यस्यार्थमाह-विदग्धेति । तदुपभोगेति । दत्युपभोगेत्यर्थः । अतितमामत्यन्तम् । प्राचीति । दृतीसंप्रेषणादित्यादिः । अन्यथा वैदग्धादिभङ्गापत्तिः । औणिद्दमिति । 'औनिय दौर्बल्यं चिन्तालसत्वं सनिःश्वसितम् मम मन्दभागिन्याः कृते सखि त्वामपि परिभवति ॥' कृतकामुकसंभोगां दूतीं प्रत्यु- पभोगचिहस्तं ज्ञातवत्या नायिकाया इयमुक्तिः । साधारणानि । रोगादितोऽपि तत्संभ- १. 'स्वप्रवृत्तिनिमित्तप्रयोजकः' इति.

चित्रमीमांसाखण्डनम् । द . नायिका नायकस्य वक्ति' इत्यादिना संदर्भण रमणस्यापि भवनैव श्रुता- र्थापत्तिवेद्यतायाः स्फुटं वचनात् । एतेन काव्यप्रकाशटीकाकृतामुक्तयः परास्ताः । विशेषणसाधारण्यपरस्य स्वमूलग्रन्थस्यैव तैरनाकलनात् । बाधा- भावेन लक्षणाया दुरापास्तत्वात् । यत्तु- 'प्रहरविरती मध्ये वाहस्ततोऽपि परेण वा किमुत सकले याते वादि प्रिय त्वमिहै यसि । इति दिनशतप्राप्यं देशं प्रियम्य यियासनी हरति गमनं बालालापैः सबाप्पगलजदः ॥' इत्यत्र 'सकलमहः परमावधिस्ततः परं प्राणान्धारयितुं न शक्नोमीति व्यङ्गय प्रियगमननिवारणरूपवाच्यसिद्ध्यङ्गम्' इति मध्यमकाव्योदाहृतिप्र- सङ्गे निगदितम्, तच्चिन्त्यम् । सबाप्पगलजलानां 'प्रहरविरती' इत्या- द्यालापानामेव प्रियगमननिवारणरूपवाच्यसियङ्गव्यङ्ग्यतया व्यङ्गयस्य गु- णीभावाभावात् । आलापैरिति तृतीयया प्रकृत्यर्थम्य हरणक्रियाकरण- तायाः स्फुटं प्रतीतेः । न च व्यङ्गयस्यापि वाच्यसियङ्गतात्र संभवःति तथोक्तमिति वाच्यम् । 'निःशेषच्युतचन्दनम्' इत्यादानप्यधमत्वरूपवाच्य- सिद्ध्यङ्गताया दूतीसंभोगादी संभवाद्गुणीभूतव्यङ्गत्वापत्तेः । अम्नु वा ततः परं प्राणान्धारयितुं न शक्नोमीति वाच्यसिद्ध्य तया गुणीभावस्तथापि नायकादेविभावस्य बाप्पादेरनुभावस्य चित्तावेगा देश्च संचारिणः संयोगा- दभिव्यज्यमानेन विप्रलम्भेन ध्वनित्वं को निवारयेत् । वात् । यथावनायिकायास्तद्वियोगतः।प्रहरविरताविति । हे प्रिय,तलं कि प्रहरममाप्ती दिनमध्ये याते वा मध्याहादपि परेण हतीयाहरण यातेन वा मदिन गने वह मत्समीप उत निश्चयेनैध्यस्यागमिष्यसि । इत्येवं प्रकारेण । आलापेऽस्थानमः । अग्रे स्पटम् । शतशब्दोऽनियतसंख्यावाची । एवमुक्तच्यवच्छेद । व्यङ्गयस्य शमी-यन्तस्य । ननु विनिगमनाविरहोऽत आह-आलापैरिति । प्रकृत्यर्थस्य ताशालापस्य । अ- पिरुक्तसमुच्चये । ननु सबाष्पगलजलतदुक्तालापानां गमनात्तचिरकालावस्थितिनिवार- कतयाप्युपपत्तेर्व्यङ्गयसहितानामेव गमननिवारणसामर्थमन आद... अस्तु वनि आन्तरालिकव्ययमादायैव ध्वनिगुणीभतादिव्य याव्याहारस्यापमानतया विन ।

६ काव्यमाला। यदप्युभयचित्रप्रस्ताव उदाजद्रुः 'वराहः कल्याणं वितरतु स वः कल्पविरमे विनिर्धन्वन्नौदन्वतमुदकमूर्तीमुदवहत् । खुराघातत्रुट्यत्कुलशिखरिकूटप्रविलुठ- च्छिलाकोटिस्फोटस्फुटघटितमङ्गल्यपटहः ॥' एतच्च पद्यं दोषाविलत्वादनुदाहायमेव । तथा हि--प्रथमेऽर्धे वाक्यदू- यस्यापि समाप्तेर्नैराकाङ्यादुत्तरार्धगतविशेषणे , समाप्तपुनरात्तत्वम् । नि- वृत्त उद्वाहे मङ्गल्यपटहवादनप्रतिपत्तेरपस्थपदत्वम् । ऊर्चवहननिप्पत्ती च भूम्यूर्ध्वगानां कुलशिखरिणां कूटेषु कथंकारमधःस्थस्य भगवतो वरा- हस्य खुराघात इति व्याहतार्थत्वम् । एकार्थेऽनेकक्रियत्वेन यत्पदाध्या- हारेण चासंष्ठुलत्वं चेति । अन्येऽप्येवंजातीयका बहवोऽत्र दोपाः । न ह्यवरं काव्यमिति दोपसहस्रग्रस्तमुदाहियते । तस्य काव्यतव नेत्यालंका- रिकसिद्धान्तात् । अयमपि कवेः सहृदयस्य च महान्दोपो यत्पुनरिद- मेव पद्यं पूर्वोत्तरार्धव्यत्यासेन न पद्यान्तरतामापितम् । एवमप्येकार्धगते- नानेकक्रियत्वेन यत्पदाध्याहारेण चासंप्ठुलत्वाच्चमत्कारापकर्पः स्थित एव । इति श्रीभमटारकपेरुमहात्मजेन पण्डितराजापराभिधानेन जगन्नाथभटेन निर्मित चित्रमीमांसाखण्डने ग्रन्यारम्भप्रकरणदोपाः । - अथोपमाप्रकरणदोषाः- यत्तु 'मुखस्य पुरतश्चन्द्रो निष्प्रभः' इति वाक्यमुपमाया विपुलालंकार- वर्तितां प्रतिपादयद्भिः प्रायुज्यत, तद्व्याकरणाविमर्शनिबन्धनम् । पुरत इति नगरवाचिनः पुरशब्दात्तसिलि मुखस्य नगरादित्यर्थस्यासंगत्यापत्तेः । न हि पूर्ववाचकः पुरशब्दः क्वापि श्रूयते । पूर्वशब्दात्तु 'पूर्वाधरावराणामसि ध्वनित्व को निवारयेत्' इति चिन्त्यम् । अन्यथा 'ग्रामतरुणम्' इत्यादिगुणीभूतव्य- थीयप्रकाशायुक्तोदाहरणानामप्यसंपत्त्यापत्ती व्याकुली स्यात् । तत्रापि व्यायसंकेतभान वाच्यमुखमालिन्यातिशयरूपानुभावमुखेनैव विप्रलम्भाभासपोपणं न केवलेन संकेतभङ्गेन । तस्याकर्तव्यत्वबुद्ध्यापि संभवादिति बोध्यम् । तसिलीति । इदं चिन्त्यम् । तदप्राप्तेः AAM ... ७ चित्रमीमांसाखण्डनम् । पुरधवश्चैषाम्' इत्यसौ पुरादेशे च पुर इति भाव्यम् । न तु पुरत इति । अत एव 'अमुं पुरः पश्यसि देवदारुम्' इति प्रायुक्त महाकविः । एव- मेव च- 'रूपयौवनलावण्यस्पृहणीयतराकृतिः । पुरतो हरिणाक्षीणामेष पुष्पायुधीयति ॥ इति वाचकोपमेयलुप्तोदाहरणमपि सैनिर्मितमपशब्दकलुषितमेव । तथा चा वैयाकरणा:-'पैत्या पुरतः परतः,' 'आत्मीयं चरणं दधाति पुरतः', 'पुरतः सुदती समागतं माम्' इत्यादयः सर्वेऽपि व्याकरणाज्ञानमूला अ- पशब्दाः' इति । यदपि चोपमालक्षणसिद्धान्तः–'उपमितिक्रियानिष्पत्तिमत्सादृश्यव- नमदुष्टमव्यङ्ग्यमुपमालंकारः', 'स्वनिषेधापर्यवसायि सादृश्यवर्णनं वा त- थाभूतं तथा' इति लक्षणद्वयं तैरेव निर्मितम्, तदसत् । वर्णनस्य विल- क्षणशब्दात्मकस्य, विलक्षणज्ञानात्मकस्य वा शब्दवाच्यताविरहेणोपमाया वाच्यालंकारता न स्यात् । तस्य सर्वथैवाव्यङ्गयत्वादव्यङ्गयत्वविशेषणवैय- र्थ्याच्च । अथ यदि वर्णनविषयीभूतं तादृशसादृश्यमुपमेत्युच्यते तदा यथा गौस्तथा गवय इत्यत्रोपमालंकारापत्तेः । एवं 'कालोपसर्जने च तुल्यम्' इत्यादावपि । अशिष्यत्वादिना प्रधानप्रत्ययार्थवचनसादृश्यस्य तत्रापि आद्यादित्वात्तलावित्युचितम् । महाकविः कालिदासः । तैः अप्पयदीक्षितैः । इदं चिन्त्यम् । पुरत इति निपाताङ्गीकारात् । अत एव 'इयं च तेऽन्या पुरतो विडम्बना' इति कालिदासः, ‘पश्यामि तामित इतः पुरतश्च पश्चात्' इति भवभूतिश्च संगच्छते। इति केचित् ॥ अन्ये तु-दक्षिणोत्तराभ्यामतसुच्' इत्यत्र तसुचैव पुंवद्भावेन सिद्धेऽतसु- विधानमन्यस्मादपीति ज्ञापनाय । तेन पचाद्यजन्तात्पुरशब्दात्तस्मिन्निष्टसिद्धिः- इत्याहुः ॥ वस्तुतस्तु-'पुर अग्रगमने' इति चौरादिकाणिजभावे इगुपधलक्षणे के सार्वत्रिकस्त सिः ।' इति बोध्यम् । षैयाकरण इति । प्राश्च इत्यादिः । विलक्षणशब्देति । शब्दस्य वाच्यत्वमते नायं दोषोऽत आह-विलक्षणज्ञानेति । अव्यङ्ग्यत्वात् व्यङ्ग्यत्वाभावात् । तादृशेति । अदुष्टाव्यङ्ग्याद्यविशेषणद्वयान्यतरेत्यर्थः ।, इत्यादावपीति । उपमालंकारापत्तिरिन्यस्यानुपङ्गः। आदिग्राह्यं चिन्त्यम् । तत्रापि १. 'पत्या पुरतः सरता'.

००० ८ काव्यमाला। M प्रतिमादनात् । न चात्र वचनभेदस्य दोषस्य सत्त्वाददुष्टत्वविशेषणेनैव वारणं भविष्यतीति वाच्यम् । एतद्वाक्योपप्लुतवाक्यान्तरप्रतिपादित(कै)को- पमेयके सादृश्ये तथाप्यतिप्रसङ्गात् । न चात्रोपमितिक्रियानिष्पत्तावपि न सादृश्यवर्णनम्, विषयस्याचमत्कारित्वात् , चमत्कारिविषयककविव्यापा- रस्यैव वर्णनपदार्थत्वादिति वाच्यम् । एवं हि चमत्कारित्वस्य लक्षणे- ऽवश्यं निवेश्यत्वेनोपमितिक्रियानिष्पत्तिविशेषणस्य वैयर्थ्यात् । नह्यनिष्प- नमापाततः प्रतीयमानं सादृश्यं चमत्कृतिमाधते । एवं द्वितीगलक्षणे नि- षेधापर्यवसायित्वं निरर्थकम् । व्यतिरेके 'तवाननस्य तुलनां दधातु जलजं कथम्' इत्यादौ कमलादिसादृश्यनिषेधस्य, अन]न्वये च सर्वथा साह- श्यनिषेधस्य चमत्कारितया तत्प्रतिपत्तये प्रतियोगिविधया सादृश्यनिरूप- णमित्यलंकारिकैरभिधानात् । किं च- 'स्तनाभोगे पतन्भाति कपोलात्कुटिलोऽलकः । शशाङ्कबिम्बतो मेरौ लम्बमान इवोरगः ॥' इत्यादौ मुख्यवाक्यार्थत्वेनानलंकारभूतायामुपमायामतिव्याप्तिः। उपमिति- क्रियानिष्पत्तिमत्सादृश्यवर्णनस्य [अदुष्टाव्यङ्गयत्वस्य च] अत्रापि सत्त्वात् । नात्राभेदप्रधानोत्प्रेक्षा शक्या वक्तुम् । कल्पितोपमाया निर्विषयत्वा- पत्तेः । न चेयमुपमा लक्ष्यैवेति वाच्यम् । ध्वन्यमानोपमानिवारणप्रया- सस्य वैयर्थ्यापत्तेः। कालोपसर्जनयोरपि । अत्र 'कालोपसर्जने च तुल्यम्' इत्यत्र । द्विवचनोपादानादिति भावः । एतदर्थमेव द्वितीयदोषोक्तिः । उपप्लुतेति । कल्पितेत्यर्थः । प्रधानप्रत्ययार्थवच- नवत्काल इत्यादीति भावः । तदाह-एकोपमेयेति । अत्रेति । यथागौरित्यादावि. त्यर्थः । व्यतिरेक इति । तवाननस्येत्यादावित्यर्थः । कमलादिसादृश्यति । कम लादिनिष्टसादृश्येत्यर्थः । ननु वर्णनपदस्य चमत्कारजनकज्ञानविषयाभूतानुयोगिकल्वार्थ 'तात्पर्यग्राहकमिदम्, न तु लक्षणशरीरपदकमिति चेत्, तत्राह-किं चेति । वाक्या र्थत्वेनेति । तथा च न वाक्यार्थोपस्कारकत्वमिति भावः । तदाह-अनलमिति १. 'प्रतिपत्तिपादितैक'.

९ क चित्रमीमांसाखण्डनम् । 'व्यापार उपमानाख्यो भवेद्यदि विवक्षितः । क्रियानिष्पत्तिपर्यन्तमुपमालंकृतिस्तु सा ॥' इति स्वकृतसूत्रेऽलंकारभूतोपमाया एव, लक्ष्यत्वेनाभिधानस्य, अलंका- रभूतोपमालक्षणत्वे तदेवादुष्टाव्यङ्ग्यत्वविशेषितमिति तत्रैव पुनरभिधानस्य चासंपत्त्यापत्तेश्च । नात्रोपभानोपमेयसादृश्यादुपमास्वरूपादस्ति कश्चिदति- रिक्तो वाक्यार्थः, येनोपमा तमलंकुर्यात् । अपि च लक्षणे सादृश्यविशेषणं निरर्थकम् । 'उपमितिक्रियानिष्पत्तिमद्वर्णनमुपमा' इत्येतावतैव स्वाभी- ष्टार्थलाभात् । अन्यच्चाव्यङ्गयत्वविशेषणमयुक्तम् । नहि व्यङ्गयत्वालंका- रत्वयोरस्ति कश्चिद्विरोधः । प्राधान्येन व्यङ्ग्यतायां तु प्रधानत्वालंकार- त्वयोर्विरोधादलंकारत्वलक्षणं तत्र मा प्रसाङ्गीदित्युपस्कारकत्वेन पुनर्विशे- पणीयम्, न त्वव्यङ्गयत्वेन । 'अद्वितीयं रुचात्मानं मत्वा किं चन्द्र हृष्यसि । भूमण्डलमिदं मूढ केन वा विनिभालितम् ॥' इत्यत्र कस्यचिद्विदेशस्थस्य किरणैरात्मानं तापयन्तं चन्द्रं प्रति वाक्ये अस्ति मम प्रियायाः कदापि बहिरनिर्गतायाः अत एव त्वयाप्यदृष्टाया आननं त्वत्सदृशमिति व्यङ्गयायामुपमायां मूढपदध्वन्यमानचन्द्रविषयव- कृगतासूयालंकारभूतायामव्याप्तेः । विशिष्टोपमादिस्थले च विशेषणाद्युप- मानां वाच्यसिद्ध्यङ्गतया गुणीभूतव्यङ्गयत्वम् , सिद्धार्थस्योपस्करणाभा- वात्तु नालंकारतेति मम न काप्यसंगतिः ।। यदपि काव्यप्रकाशोत्तोपमाभेदाधिकभेदकथनप्रस्तावेऽभिहितम्-"ध- मलुप्ता वाक्यसमासतद्धितेषु दर्शिता । द्विर्भावेऽपि दृश्यते । 'पटुपटुर्देव- नन्वलंकरोतीति योगबोधितोपस्कारकत्वस्यालंकारसामान्यस्वरूपत्वेन विशेषलक्षणेषु तद- निवेशेऽपि क्षत्यभाव इत्यत आह-अपि चेति । अत एव चित्रभूतोपमालक्षणं त्विति तै!क्तम् । पूर्ववदस्यापि तात्पर्यग्राहकत्वादिदमपि चिन्त्यम् । अव्यङ्गयत्वं च तल्लक्षणे प्राधान्येनाव्यङ्गयत्वं बोध्यमिति दिक् । विनिभालितमिति । विशेषेण दृष्टमित्यर्थः । अत्रेति । व्यङ्ग यायामित्यत्रास्यान्वयः । व्यङ्ग्यायामुपमायामिति । अत्रोपमान- स्योपमेयत्वकल्पनात्मकप्रतीपस्यैव व्यङ्गयत्वम् । मूढपदस्वारस्यात् । चमत्कारातिश- १० काव्यमाला। दत्तः' इत्यत्र 'प्रकारे गुणवचनस्य' इति सादृश्ये द्विर्भावविधानात्" इति, तत्तुच्छम् । अत्र चोपमावाचकस्याप्यनुपादानाद्वाचकधर्मलुप्तायामेतदाधि- क्यमुद्भावयितुमुचितम् । न तु धर्मलुप्तायाम् । धर्ममात्रलुप्तायाश्चान्तर्भावात्पृथगुपादानमसंगतमेव स्यात् । न चात्र द्विर्भावस्यैव वाचकस्य सत्त्वान्नास्ति तस्य लोपः, अपि तु धर्ममात्रस्येति वक्तुं शक्यम् । द्विर्भावस्य सादृश्यवाचकत्वोक्तेर्भाष्यकैयटादिविरुद्धत्वात् । त- दुक्तम्-'प्रकारे गुणवचनस्य' इति सूत्रे सिद्धं त्विति प्रतीकमादाय कै- यटेन 'द्विर्वचनस्य प्रकृतिः स्थानी इति तदर्थो विशिष्यते न तु प्रकारः । तत्र सर्वस्य गुणवचनत्वाद्वयभिचाराभावात् । तद्रहणाद्गुणवचनो यः शब्दो नितिस्तस्य सादृश्ये द्योत्ये द्वे भवत इति सूत्रार्थः' इति । एवं च द्विर्भा- वपदस्य सादृश्युयोतकत्वमेव न वाचकत्वम्, अतो वाचकलोपोऽप्यत्रास्तीति वाचकधर्मलुप्ताया उदाहरणमेतत्, न धर्मलुप्तायाः । यदि तु द्योतकोऽपि वाचकपदेनात्र विवक्षित इत्याग्रहः, तदा तुभ्यतु भवान् । यच्चान्यदभ्यधीयत तस्मिन्नेव प्रसङ्गे- "नृणां यं सेवमानानां संसारोऽप्यपवर्गति । तं जगत्यभजन्मर्त्यश्चञ्चा चन्द्रकलाधरम् ॥ अत्र विप्कनोलौंपे प्रत्येकं वाचकधर्मलोप उभयत्रापि" इति, तदरम- णीयमेव । चञ्चेत्यत्र कनो वाचकस्य 'लुम्मनुष्ये' इति शास्त्रेण लोपेऽपि तं चन्द्रकलाधरमभजन्निति चन्द्रकलाधरभजनराहित्यरूपस्य चञ्चाचन्द्रसाधार- णस्य धर्मस्योक्तत्वात्कथं तावद्धर्मलोपः । न चोपमेयमर्त्यविशेषणतयोपा- याच । किं हृष्यसीत्येतत्स्वारस्याञ्चेति केचित् । अत्र चेति । चो ह्यर्थे । सूत्रार्थ इति । द्विर्भावस्य सादृश्यद्योतकत्वेऽपि शक्तत्वरूपवाचकत्वाभावाद्वाचकलोप इति तव हृदयम् । तत्तु इवादेर्योतकतानये चन्द्र इव मुखमित्यत्र, चन्द्रसुहृन्मुखमित्यत्र च वाचकलुप्ताव्यवहाराभावाय सादृश्यतद्विशिष्टान्यतरबोधकामावस्यैव वाचकलुप्ताव्यव- हारप्रयोजकत्वस्य वाच्यत्वेन द्योतकस्यापि बोधकत्वानपायेन नास्ति वाचकलोप इति त- दाशयादबोधमूलकमिति चिन्त्यमिदम् । यच्चान्यदिति । वक्ष्यमाणमन्यच्चेत्यर्थः । किलोपे तथोक्तेयुक्तत्वेऽपि कन्लोपेऽयुक्तत्वमित्याह-कन इति । तामुपपादयति- चित्रमीमांसाखण्डनम् । त्तस्य चन्द्रकलाधरभजनराहि त्यस्य सादृश्योपसर्जने चञ्चायामनन्वयान्न सा- दृश्यमिति वाच्यम् । 'यद्भक्तानां सुखमयः संसारोऽप्यपवर्गति । तं शंभुमभजन्मर्त्यश्चञ्चैवात्महिताकृतेः ॥' इति पाठे धर्मश्रवणमप्युभयत्रापि संभवति' इति खोक्तेरसंगत्यापत्तेः । इहाप्युपमेयसंसारविशेषणतयोपात्तस्य सुखमयत्वस्य सादृश्योपसर्जनेऽपव- र्गेऽन्वयाभावात्कथंकारं धर्मस्य साधारण्यम् । उपमेयगतत्वेनोपमानगतत्वेन वा उपात्तस्य धर्मस्य शाब्दे उभयान्वये स- त्यपि वस्तुत उभयनिष्ठताज्ञानमेव साधारणतया नियामकमिति चेत्, च- न्द्रकलाधरभजनराहित्येऽपि दीयतामेवमेव दृष्टिः । यदि चोपमेयतावच्छेद- कतयैव चन्द्रकलाधरभजनराहित्यं मम विवक्षितम् , साधारणधर्मश्च स्वात्म- हिताकरणरूपः स चात्र लुप्त एवेति शपथेन स्वाभिप्रायः प्रकाश्यते तदा निवारितोऽयं दोषः । तुष्यतु भवान् । यच्चापि "सेयमुपमा संक्षेपतस्त्रिधा-क्वचित्खवैचित्र्यमात्रविश्रान्ता । यथा--'स च्छिन्नमूलः क्षतजेन रेणुः' इत्यादौ । क्वचिदुक्तार्थोपपादनपरा। यथा-'अनन्तरत्नप्रभवस्य' इत्यादौ" इति तैरेव द्रविडशिरोमणिभिरम्य- धीयत । तदप्यहृद्यमेव । 'देवतुल्यैनरैर्भाति स देशः सुमनोहरः' इत्यादी वाच्यभूतवस्तूपस्कारिकाया देवोपमाया अक्रोडीकरणात् । नद्यत्र स्ववै- चिच्यमात्रे विश्रान्तिरस्ति । गुणानां प्रधानसान्निध्ये स्वातन्त्र्यायोगात् । नापि व्यङ्गयोपकारकत्वमेवालंकाराणामिति नियमोऽस्ति । अलंकारभूतो- पमा स्ववैचित्र्यमात्रविश्रान्ताया उपमाया असंग्रहे को नाम ध्वन्यमाना- यास्तस्या निरासायाव्यङ्गयत्वविशेषणदानदुराग्रहः। असंग्रहे तु तत्रैवालं- कारभूतोपमालक्षणस्यातिव्याप्तिरिति प्रागेवावेदनात् । अहो महदेवेदमन्या- इहापीति । कथंकारं कथं कृत्वा । पाठान्तरवादी स्वाशयमाह-उपमेयेति । एव- मेवेति । एवं च तुल्यतेति भावः । प्रकारान्तरेण स्वाशयमाह-यदि वेति । सरे- १. 'साधारणतानियामकम्'. २. आधुनिकपुस्तकेषु तु 'पुनश्चयम्' इत्युपलभ्यते.

१२ काव्यमाला। य्यम्-यदलक्षणीयायाश्च स्ववैचित्र्यमात्रविश्रान्ताया उपमायाः संग्रहः लक्षणीयायाश्च प्रागुक्तासूयालंकारभूताया असंग्रह इति । प्राचां तूपमासा- मान्यं लक्षयतां ध्वन्यमानाया इव वाच्याया अपि स्ववैचित्र्यमात्रविश्रा- न्तायाः संग्रहो नानुचितः । न तु स्वस्य यत्नेन ध्वन्यमानोपमां निरस्य कण्ठरवेणालंकारभूतोपमालक्षकस्य । यदि च प्रबन्धव्यङ्गयोपस्कारकत्वे- नेयं संगृह्यत इत्युच्यते, तदा 'स्ववैचित्र्यमात्रविश्रान्ता' इति स्वोक्तिविरुद्धा स्यात् । 'अनन्तरत्नप्रभवस्य' इत्यत्र गुणसमूहसमानाधिकरणे एको दोषो दोषत्वेन न स्फुरतीत्यस्यार्थस्य पूर्वार्धप्रतिपादितार्थसमर्थनात्मकस्य सामा- न्यात्मकस्य विशेषरूपोदाहरणप्रदर्शनमन्तरेण सम्यगनाकलनादिन्दुकिरण- समानाधिकरणेऽङ्के उदाहृतः, न तूपमानतया निर्दिष्टः। सामान्याद्विशेपस्य भे- दाभावेनोपमितिक्रियाया अनिप्पत्त्या उपमालंकृतेरत्रानवतारादुदाहरणालं- कारोऽयमतिरिक्तः । यथा 'इको यणचि' इति वाक्यार्थस्य सामान्यात्मनो विज्ञानायोकारे यकारो दध्युदकेकारस्येवेति वाक्यान्तरेण तद्विशेष उदा- ह्रियते, तद्वदत्रापीति । विशेषस्तूदाहरणालंकारप्रकरणे रसगङ्गाधरादवसेयः । वेति । अप्पयदीक्षितैरेवेत्यर्थः । स्वस्येति । तवेत्यर्थः । नानुचित इत्यस्यानुषङ्गः । इयं स्ववैचित्र्यमात्रविश्रान्ता। विरुद्धा स्यादिति । वस्तुतस्तु-उपमासामान्यलक्षण- स्यापि प्रकृतत्वेनोपमासामान्यस्यैवायं विभागः । उपमानोपमेयतावच्छेदकयोभैदाञ्चास्त्ये- वोपमितिनिष्पत्तिः । अत एव 'सेयमुपमा' इत्येवोक्तम् । नत्वलंकार इति । 'नयने शि- शिरीकरोतु मे शरदिन्दुप्रतिमं मुखं तव' इत्यत्र तूक्तार्थोपपादनपरैव मुखकर्तृकनयनकर्मक- शिशिरीकरणस्यैव कव्युक्तस्येन्दूपमयैवोपपत्तेः । उक्तार्थोपपादनेत्यस्य चोक्तार्थस्योपपाद- नम् , उक्तार्थे वोपपादनमित्यर्थद्वयम् । विनिगमनाविरहात् । इति न दोष इति चिन्त्य- मिदमिति बोध्यम् ॥ उक्तार्थोपपादनपरोपमायास्तदुक्तमुदाहरणं दूषयति-अनन्तेति । 'अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् । एको हि दोषो गुणसंनिपाते निमजतीन्दोः किरणेष्विवाङ्कः ॥' इत्यत्रेत्यर्थः । स्फुरतीत्यस्यार्थस्य तृतीयचरणप्रतिपा- द्यस्य। तत्त्वेनानिर्दिष्टत्वे हेतुमाह-सामान्येति । अनवतारादिति । अग्रे तथा चेति शेषः । अलंकारोऽयमतिरिक्त इति । 'अदत्वा मादृशो मा भूद्दत्वा लं त्वादृशो भव' इत्यभिन्नधर्मिकोपमायामुपमानतावच्छेदकोपमेयतावच्छेदकभेदेनोपमितिक्रिया निष्पत्ते- रुपमालंकारव्यवहारस्य च सर्वसंमतत्वेन तद्वदिहापि सामान्यधर्मविशेषधर्मयोस्तयोर्भदन १. 'सामान्यरूपस्य'. २. 'करणेऽसुके'.

चित्रमीमांसाखण्डनम् । १३ , यत्तु 'लुप्तायां बिम्बप्रतिबिम्बादयो नैवं भेदाः । तस्यां साधारणधर्म- स्यानुगामितानियमात्' इत्युक्तम् , तन्न । 'मलय इव जगति पाण्डुर्वल्मीकसमो नृपोऽम्बिकातनयः । जम्बूनदीव कुन्ती गान्धारी सा हलाहलेव सरित् ॥' इत्यत्रानुगामिधर्मस्याप्रत्ययाच्चन्दनानां पाण्डवानाम्, सर्पाणां दुर्योध- नादीनां च बिम्बप्रतिबिम्बमावस्यैवोपमानिर्वाहकत्वात् । न च श्रौतोपादान- मन्तरेण नास्ति बिम्बप्रतिविम्बभाव इति वाच्यम् । आर्थबिम्बप्रतिबिम्बने तद- नपेक्षणात् । अत एवाप्रस्तुतप्रशंसायां वाच्यव्यङ्ग्यवाक्यावयवानां बि- म्बनमप्रत्यूहम् ॥ इति श्रीभभट्टारकपेरुभट्टात्मजेन पण्डितराजापराभिधानेन जगन्नाथभट्टेन निर्मिते चित्रमीमांसाखण्डने उपमाप्रकरणदोषाः । अथोपमेयोपमाप्रकरणदोषाः- यत्तु प्राचीनलक्षणमव्यायतिव्याप्त्यादिभिर्दूषयित्वा 'अन्योन्येनोपमा बोध्या व्यक्त्या वृत्त्यन्तरेण वा। एकधर्माश्रया या स्यात्सोपमेयोपमा मता ॥' इति स्वयं लक्षणं निरमीयत । अस्यार्थः सपदकृत्यः संक्षेपेण तदुक्त- रीत्या सहृदयानां सौकर्यायोच्यते--अन्योन्येनेति । अन्योन्यप्रतियोगिक- त्वविशिष्टा व्यक्त्या व्यञ्जनाव्यापारेण वृत्त्यन्तरेण शक्त्या वा बोध्या वेद्या, एकधर्माश्रया एकधर्मप्रयोज्या या उपमा सा उपमेयोपमा मतेत्यन्वयः । अन्योन्येनेति विशेषणादिदं तच्च सममित्युभयविश्रान्तोपमाया निरासः। तनिष्पत्तेः संभवादुदाहरणालंकारो मास्त्वतिरिक्त इति तदाशयात् । चिन्त्यमेतत् । 'उद- कोदकारे दधीकारस्य यः' इति पाठः ॥ प्राचीनेति । 'उपमानोपमेयत्वं द्वयोः पर्यायतो यदि । उपमेयोपमा सा स्यादिवि- धैषा प्रकीर्तिता ॥' इत्यर्थः । अव्याप्तीति । 'तद्वल्गुना युगपदुन्मिषितेन तावत्' इत्य- त्राव्याप्तिः । 'रजोभिः स्यन्दनोद्धतैः' इत्यत्रातिव्याप्तिरिति भावः । तृतीयार्थः प्रतियोगि- त्वमित्याशयेनाह-अन्योन्यप्रतीति । लक्षणाया असंभवादाह-शक्त्येति । इवा- दिसत्त्वे इति भावः । विधान्तेति । उभयत्र पर्यवसिता न श्रौती तस्यामित्यर्थः । श- १४ काव्यमाला। अत्रान्योन्यप्रतियोगिकत्वस्य व्यञ्जनव्यापारगम्यत्वेनोपमायाश्च शक्तिवेद्यत- या परस्परनिरपेक्षेणैकेन व्यापारेणान्योन्यप्रतियोगिकत्वविशिष्टायास्तस्या अबोधनात् । परस्परनैरपेक्ष्यस्य लक्षणे वाकारेणाभिधानात् । एकधर्माश्र- येति विशेषणात् 'जोभिः स्यन्दनोद्भूतैर्गजैश्च धनसंनिभैः । भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम् ॥' इत्यत्र परस्परोपमायां नातिव्याप्तिः । तत्रोपमाप्रयोजकधर्मैक्याभावात् । भूतलोपमानिकायां प्रयोजकस्य रजसामनुगामिधर्मस्य, नभस्तलोपमानि- कायां प्रयोजकस्य घनसदृशगजानां विम्बप्रतिबिम्बभावापन्नधर्मस्य च भे. दात् । व्यक्त्येति च विशेषणं व्यङ्गयोपमेयोपमासंग्रहार्थमितीदमुपमेयोप- मात्वप्रयोजकं लक्षणमिति, तन्न । 'अहं लतायाः सदृशीत्यखवै गौराङ्गि खेदं न कदापि यायाः । गवेषणेनालमिहापरेषामेषापि तुल्या नितरां भवत्याः ॥' अत्र 'षष्टयन्तात्सदृशादयः शब्दाः सादृश्यप्रतियोगिवचनाः' इत्युक्त- तयान्योन्यप्रतियोगिकत्वविशिष्टाया उपमायास्तनुत्वादिरूपैकधर्माश्रयाया वृत्त्यन्तरेण शक्त्या बोधनादुपमेयोपमात्वापत्तेः । न चात्रान्योन्यप्र- क्तीति । सप्तपदे(?)त्यादिः । ननु मिथो निरपेक्षत्वं न निविष्टमत आह-परस्प- रेति । अन्यथा पक्षान्तरकथनासंगतेरिति भावः । रजसामिति । प्रयोजकीभूतरजो- भिन्नानुगामिधर्मस्येत्यर्थः । समानविभक्तिकत्वस्येव समानवचनत्वस्याभेदान्वये न तन्त्रत्व- मिति भावः । एवमग्रेऽपि । घनगजयो देन साधारणत्वं कथमत आह---बिम्बेति। प्रयोजकमिति । अनुगतानतिप्रसक्तलक्षणमात्रं तु–'सदृशस्य तृतीयस्य व्यवच्छेदाय ययोः । अन्योन्येनोपमेयत्वमुपमेयोपमा मता ॥ इति द्रष्टव्यम् । अत्रान्योन्येनेति वि- शेषणम् 'अहमेव गुरुः सुदारुणानाम्' इति प्रतीपविशेषव्यावृत्यर्थमिति भावः । अह- मिति। लतानुयोगिकसादृश्याश्रयावह मित्यर्थः। अखर्व महान्तम् । एपापीति । त्वदनु- योगिकसादृश्यप्रतियोगिकेत्यर्थः । अत्रेत्यस्य इतीत्यादिः । तनुत्वेत्यस्य अनुपात्तेत्यादिः । १. 'व्यअनाव्यापारमात्रवेधत्वेन'. २. 'शक्तिबोध्यतया'. ३. रसगङ्गाधरे त्वत्र 'रजो- भिरिव द्यौर्घनसंनिभैगजेश्च द्यौरिव भरिति कस्यचित्पदस्थार्थे परस्परोपमायां नाति- व्याप्तिः' इति पाठः. ४. 'तव तावदस्ति' इति रसगङ्गाधरे पाठः.

चित्रमीमासाखण्डनम् । १५ तियोगिकत्वमुपमायां न प्रतीयते । लतादिसंबन्धिसादृश्याश्रयत्वस्यैवास्म- पदार्थेऽन्वयादिति वाच्यम् । 'मुखस्य सदृशश्चन्द्रश्चन्द्रस्य सदृशं मुखम्' इत्युपमेयोपमायामव्याप्तेः। नहि 'अहं लतायाः सदृशीत्यखर्वम्' इत्यत्रोप- मेयोपमा भवितुमर्हति । गर्वमात्रनिरासपरत्वेनोत्तरार्धगतोपमायास्तृतीयस- दृशव्यवच्छेदाप्रतिपत्तेः । अत एव अन्यान्यपि तव सदृशानि सन्त्येव तेषां गवेषणेन किं फलमित्येतदर्थकं गवेषणेनेत्युत्तरार्ध संगच्छते । 'तृतीयस- ब्रह्मचारिव्यवच्छेदो ह्युपमेयोपमाजीवितम्' इत्यालंकारिकसिद्धान्तात् । अ- न्यथा रेजोभिः स्यन्दनोद्भूतैः' इति प्रागुक्तपरस्परोपमावारणप्रयासवैफल्य- प्रसङ्गात् । न च तृतीयसदृशव्यवच्छेदफलकत्वमुपमाविशेषणमिति वा- च्यम् । विशेषणान्तरवैयर्थ्यांपत्तेः । तद्विशेषणव्यावर्त्यानामाधुनिकविशेषणे- नैव वारणात् । अन्योन्यप्रतियोगिकत्वविशिष्टोपमैकवृत्तिमात्रवेद्येत्यप्ययु- क्तमेव । 'खमिव जलं जलमिव खम्, हंसश्चन्द्र इव हंस इव चन्द्रः' इ- त्यादौ खजलयोश्चन्द्रहंसयोश्च सादृश्यान्वये प्रतियोगित्वस्य संसर्गत्वेन वृ- . लतादीति । लताद्यनुयोगिकसादृश्यप्रतियोगिकत्वस्यैवेत्यर्थः । एतेन सादृश्यव्यवच्छेदः । सादृश्यादिपदानां धर्मिबोधकत्वात् । एवं च सादृश्यस्य तत्रान्वये इयम्, न तु तत्रेति भावः । मुखस्येति । अत्रापि सदृशपदसत्त्वेन तत्तुल्ययोगक्षेमत्वादिति भावः । नन्वेवं तथा दु- र्वचमिति यथतत्संग्रहस्तथाह-लताया इति । अस्यापि संग्रह इष्ट एवेत्यतिव्याप्तिांत आह-नन्त्यमिति (2)। ननु तन्मानपरत्व एव किं बीजमत आह-अत एवेति। तत्परत्वेन तस्याः साफल्यादेवेत्यर्थः । उत्तरार्ध तदेकदेशः । अन्यथा तुर्यचरणेनैवेष्टार्थ- लाभे मध्ये एतत्कथनानर्थक्यं स्पष्टमेवेति भावः । नन्वेवमपि तृतीयसदृशव्यवच्छेदप्रती- तावेवैयमित्यत्र किं विनिगमकमत आह-तृतीयेति । सब्रह्मेति । सदृशेत्यर्थः । ए. वमग्रेऽपि बोध्यम् । 'सिद्धान्तः' इति पाठः । 'सिद्धान्तात्' इत्यपपाठः । अन्यथा तस्य तजीवितत्वानङ्गीकारे । वाच्यमिति । 'अहं लतायाः' इत्यत्राति[व्याप्ति]वारणाये- दानी वक्तव्यमित्यर्थः । विशेषणान्तरेति । अन्योन्येनेत्यादीत्यर्थः । नन्वेवं कथमुक्त- दोषनिरासोऽत आह-तद्विशेषणेति । विशेषणान्तरेत्यर्थः । तदुक्तमन्यहूषयति- अन्योन्येनेति । प्रतियोगित्वस्येति । अनुयोगित्वविशिष्टेत्यादिः । ननु तस्य वृत्ति- १. 'उत्तरार्धमपि'. २. 'भुवस्तलभिव व्योम कुर्वन्व्योमेव भूतलम्' इत्यत्राप्युपमेयो- पमात्वनिवारणप्रासवैयापत्तेः' इति रसगङ्गाधरे पाठः. ३. 'प्रतियोगिकत्वस्य.'

१६ काव्यमाला । त्यविषयत्वात् । 'वृत्तिवेद्यानां पदार्थानां संसर्गो वृत्त्यवेद्यः' इति तात्पर्य- वृत्तिमनङ्गीकुर्वाणैर्वाक्यविद्भिरभ्युपगमात् । अन्यथा प्रकारतापत्तेः ॥ इति श्रीभटभट्टारकपेरुभट्टात्मजेन पण्डितराजापरभिधानेन जगन्नाथभट्टेन निर्मिते चित्रमीमांसाखण्डने उपमेयोपमाप्रकरणदोषाः । -- यच्च- है अथानन्वयः -"अयमनन्वयो व्यङ्गयोऽप्यस्ति 'अद्य या मम गोविन्द जाता त्वयि गृहागते । कालेनैपा भवेत्प्रीतिस्तवैवागमनात्पुनः ॥' अत्र गृहागतं श्रीकृष्णं प्रति विदुरवाक्यम् । 'इयं त्वदागमनप्रभवा प्रीतिर्बहुकालव्यवहितेन पुनरपि त्वदागमनेनैव भवेन्नान्येन' इत्युक्तिभङ्गया 'त्वदागमनप्रभवप्रीतेः सैव सदृशी, नत्वितरप्रभवा' इति व्यज्यते” इत्य- भिहितम्, तन्न । 'अमुप्यास्त्वदागमनप्रभवायाः प्रीतेारान्तरत्वदागमन- प्रभवा प्रीतिः सदृशी' इति प्रत्ययस्य सर्वजनसिद्धतया श्रीकृष्णागमनजन्य- प्रीतिसामान्यावयवयोर्द्वयोः प्रीतिव्यक्त्योः सादृश्यस्याबाधाद्योगार्थाभावेना- नन्वय एव नायं भवितुमर्हति, 'स्वस्सिन्स्वसादृश्यस्यान्वयाभावादनन्वयः' इत्युपमाप्रकरणे स्वयमेवाभिधानात् । उपमेयस्य प्रीतिव्यक्तिविशेपस्य सह- शान्तरव्यवच्छेदे बाधात्तादृशप्रीतिसामान्यस्यावयविनो निरूपमतया प्रती- यमानस्यानुपमेयत्वेन फलवैयधिकरण्यप्रसङ्गाच ॥ न चात्र 'श्रीकृष्णागमन- प्रीतिसामान्यावयविनः स्वेन सादृश्यं मध्ये प्रतीयते' इति शपथः कर्तु- मुचितः । सहृदयत्वभङ्गप्रसङ्गात् । प्रयोजनविरहाच्च ॥ श्रीकृष्णागमन- विषयत्वं कुतो नेत्याह-वृत्तीति । उक्तग्रन्थस्यैकवृत्तिमात्रवेद्यत्वे न तात्पर्य किं तु वृ- त्तिद्वयवेद्यत्वाभावे । यद्वा तज्जन्यप्रतीतो यथाकथंचिद्भासमानत्वमेव तन्मात्रवेद्यत्वम् । अस्ति च 'खमिव जलम्' इत्यादौ । नास्ति च तत्रेति तन्निरास इत्याशयेनादोषाश्चिन्त्य मिदम् ॥ अमुप्या इति । यत इत्यादिः । व्यक्त्योदितभेदेनेति शेषः । योगार्थति । अनन्त्रयपदयोगार्थेत्यर्थः । ननु रूढमेवानन्वयपदमभिमतमत आह-स्वस्मिन्निति । व्यवच्छेदे बाधादिति । तस्य व्यवच्छेदकरणेऽसामर्थ्यादित्यर्थः । कालान्तरस्थप्री- तिव्यक्तिविशेषस्य सदृशस्य सत्त्वादिति भावः । तादृशेति । श्रीकृष्णागमनजन्येत्यर्थः ।

चित्रमीमांसाखण्डनम् । १७ प्रभवप्रीतिसामान्यस्य निरुपमत्वसिद्धिरेव प्रयोजनम् इति चेत् न । एतत्कालावच्छिन्नकालान्तरावच्छिन्नतादृशप्रीतिव्यक्त्योरवयवयोरुपमामोप- मेयभावेनैवावयविनि तत्सिद्धेः । यथा--- 'एतावति प्रपञ्चे सुन्दरमहिलासहस्रभरितेऽपि । अनुहरति सुझण तस्या वामा दक्षिणार्धस्य ॥' इत्यादाववयवयोर्वामार्धदक्षिणार्धयोः, सादृश्येनावयविनः कान्तारूपस्या- नुपमत्वं प्रतीयते । एवमिहापि ॥ नहि तत्रापि निरुपमत्वप्रतीत्यावय- विनः स्वेन सादृश्यप्रत्ययोऽन्तरा कल्प्यते--इति वाच्यम् । निरुपमत्व- प्रतीतेरनन्वयनैयत्यविरहात् । अन्यथा 'गगनपुष्पमिवास्य वचः सखे' इ- त्यादिकल्पितोपमायामपि निरुपमत्वप्रत्ययेनानन्वयकल्पनापत्तेरिति न किं- चिदेतत् ॥ 'रत्नाकरोक्तस्यैवानन्वयप्रकारविशेषस्यात्र व्यङ्गयता' इत्यपि वक्तुमयु- क्तमेव । तस्य रसगङ्गाधरेऽस्माभिनिरस्तत्वात् । प्रकृतेऽवाच्यत्वात् । स्व- यमनन्वयप्रकरणे तस्यानुक्तत्वाच्च । इदं पुनरनन्वयध्वनेरुदाहरणं मदीये गङ्गास्तवे- 'नगेभ्यो यान्तीनां कथय तटिनीनां कतमया पुराणां संहर्तुः सुरधुनि कपर्दोऽधिरुरुहे। कया वा श्रीभर्तुः पदमितरयाक्षालि सलिलै- स्तुलालेशो यस्यां तव जननि दीयेत कविभिः ।।' अत्रेतरयेत्येतन्माहात्म्यात् 'त्वयि तु तव तुला दीयेतैव' इत्यनन्वयो निरुपमत्वपर्यवसायी व्यज्यते । यथा वा- 'भुवनत्रितयेऽपि मानवैः परिपूर्णे विबुधैश्च दानवैः । न भविष्यति नास्ति नाभवत्क्षितिप त्वत्तुलनाधरोऽपरः॥' महिला स्त्री । दक्षिणार्धस्येति कर्मणः शेषत्वविवक्षायां षष्ठी । अत्रोपमेयं समुदिता नायिका ॥ ननुक्तरीत्या न व्यञ्जकत्वम्, किं तु रत्नाकरोक्तरीत्येति नोक्तदोषोऽत आह- रत्नेति । तस्य प्रकारस्य प्रकृतेऽवाच्यत्वात् । ननु त्वया दूषितोऽपि न मया दूषितः, तत्राह-स्वयमिति । 'अन्यथा-अलंकारध्वनविषयापहारः स्यात्' इति रत्नाकरोक्तिं m ३ काव्यमाला। अत्राप्यपरशब्दमहिम्ना 'त्वं तु त्वत्तुलनाधरो वर्तसे' इति व्यज्यते । तस्याभावे त्वसमालंकार एवेति रसगङ्गाधरे व्यक्तमुपपादितमस्माभिः ॥ इति श्रीभट्टभट्टारकपेरुभट्टात्मजेन पण्डितराजापराभिधानेन जगन्नाथभट्टेन निर्मिते चित्रमीमांसाखण्डनेऽनन्वयप्रकरणम् । - . अथ स्मरणालंकारप्रकरणम् । यत्तु- "स्मृतिः सादृश्यमूला या वस्त्वन्तरसमाश्रया । स्मरणालंकृतिः सा स्यादव्यङ्गयत्वविशेषिता ॥ यथा- 'अपि तुरगसमीपादुत्पतन्तं मयूर न स रुचिरकलापं बाणलक्षीचकार । सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः॥' यथा वा- 'दिव्यानामपि कृतविस्मयां पुरस्ता- दम्भस्तः स्फुरदरविन्दचारुहस्ताम् । उद्वीक्ष्य श्रियमिव कांचिदुत्तरन्ती- मस्सार्षीजलनिधिमन्थनस्य शौरिः॥' एकत्र सदृशदर्शनात्तत्सदृशकर्मिका स्मृतिः, अपरत्र सदृशदर्शनात्त- सदृशलक्ष्मीसंबन्धिनो जलनिधिमन्थनस्य स्मृतिः । उभयत्रापि सादृश्यमूल- खण्डयितुमाह-इदं पुनरिति । नगेभ्यः पर्वतेभ्यः । कपर्दो जटाजूट: । अपीति । रघुवंशे दशरथमृगयावर्णनम् । स दशरथः । सादृश्यबोधकं केशपाशस्य विशेषणद्वयम् । दिव्यानामिति । माघे जलक्रीडावर्णनम् । अम्भस्तो जलात् । मन्थनस्यति 'अधीगर्थ-' इति कर्मणि शेषे षष्ठी ॥ लक्ष्यद्वये बीजमाह-एकत्रेति । आद्य इत्यर्थः । इत(अप)रत्र अन्त्ये । सहशेति । लक्ष्मीसदृशनायिकेत्यर्थः । लक्षणं संगमयति- उभयत्रेति । तथा च द्वितीयलक्ष्यसंग्रह एव 'वस्त्वन्तरसमाश्रया' इति विशेषणफलमि- १. 'इतरत्र' चित्रमीमांसा-रसगङ्गाधरयोः पाठः. - चित्रमीमांसाखण्डनम् । १९ कवस्त्वन्तरस्मृतित्वमविशिष्टम् । अत एव-सदृशासदृशसाधारण्यार्थतया लक्षणे वस्त्वन्तरग्रहणमर्थवत् । 'सौमित्रे ननु सेव्यतां तरुतलं चण्डांशुरुज्जृम्भते चण्डांशोनिशि का कथा रघुपते चन्द्रोऽयमुन्मीलति । वत्सैतद्विदितं कथं नु भवता धत्ते कुरङ्गं यतः क्कासि प्रेयसि हा कुरङ्गनयने चन्द्रानने जानकि ॥' अत्र श्रुतकुरङ्गसंबन्धिनस्तन्नयनस्य स्मरणात्तत्सदृशसीतानयनस्मृति- श्चेति । कित्वेषा व्यङ्गयाँ अलंकार्यभूता च । तव्यावृत्त्यर्थमव्यङ्गयत्व- विशेषणम् । 'अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधय- स्तानेतानपि बिभ्रती किमपि न क्लान्तासि तुभ्यं नमः। आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुव- स्तावद्विभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥' अत्र स्तूयमानभूसंबन्धिनो भूभृतः स्मृतिर्न सादृश्यमूलेति नात्र स्मरणमलंकारः, किंतु स्मृतेः संचारिभावस्य भूभृद्विषयकरतिभावाङ्गत्वा- प्रेयोऽलंकारः। एतव्यावृत्त्यर्थ लक्षणे सादृश्यमूला' इति विशेषणम्" इत्याहुः ॥ तदेतत्सर्वमरमणीयम् । यत्तावदुच्यते--"सदृशासदृशयोः केश- पाशजलनिधिमन्थनयोः संग्रहाय लक्षणे वस्त्वन्तरग्रहणमर्थवत्" इति, तत्र 'सादृश्यमूला स्मृतिः स्मरणालंकारः' इत्येतावतैव केशपाशस्मरणस्येव त्याह-अत एवेति । द्वितीयस्य लक्ष्यत्वादेवेत्यर्थः । सदृशासदृशेति । स्मृतेः सदृशासदृशान्यतरविषयकत्वलाभार्थतयेत्यर्थः ॥ अव्यङ्गयत्वविशेषणफलमाह-सौमित्रे इति । हनुमन्नाटके सीतावियोगे श्रीरामचन्द्रस्य लक्ष्मणं प्रत्युक्तिरियम् । ननु निश्चयेन । चण्डांशुः सूर्यः ॥ तन्नयनेति । कुरङ्गनयनेत्यर्थः । तत्सदृशेति नयनविशेषणम् । इति 'भूता च' इत्यने योज्यः । एषा सीतास्मृतिः। अलंकारसामान्यलक्षणमपि नास्ती- त्याह-अलमिति । सीतास्मृतेः प्राधान्यादिति भावः ॥ अत्युच्चा इति । भुवं प्रत्यु- क्तिरियम् । प्रस्तौमि करोमि । इमां भुवम् ॥ न सादृश्येति । किं तु 'एकसं- बन्धि-' इति रीत्येति भावः ॥ रतिभावेति । कविनिष्ठेत्यादिः ॥ अरमणीयमिति। वक्ष्यमाणदोषादिति भावः ॥ तमेव दाक्यानूद्याह-यत्तावदिति । तत्र उच्यमाने तस्मिन् । ब्रूम इति शेषः । तदाह-सादृश्येति । एवमग्रेऽपि। केशेति । तस्य सह- २० काव्यमाला । जलनिधिमन्थनस्मरणस्यापि संग्रहाद्वस्त्वन्तरसमाश्रयत्वविशेषणमनर्थकम् । एकत्र सादृश्यदर्शनोद्बुद्धसंस्कारजन्यत्वेन, अपरत्र च सादृश्यदर्शनोबुद्धसं- स्कारजलक्ष्मीस्मरणोद्बुद्धसंस्कारजन्यत्वेन च, सादृश्यमूलकत्वस्याविशेषात् । नहि 'सादृश्यमूला' इत्युक्ते 'सदृशविषया' इति लभ्यते । येन जलनिधि- स्मृतेरसंग्रहः स्यात् ॥ * ॥ यदपि-"सौमित्रे ननु सेव्यताम्-' इ- त्यत्र स्मृतिर्व्यङ्गयालंकार्यभूता च । तव्यावृत्त्यर्थमव्यङ्गयत्वविशेषणम्-" इत्युक्तम्, तत्र नेयं स्मृतिरलंकार्यभूता, किं तु जानक्यालम्बनो निशास- मयोद्दीपितः संतापादिनानुभावित उन्मादेन च संचारिणा परितोपितो विप्रलम्भः प्रधानत्वेनालंकार्यः, तस्य स्मृतिरुत्कर्षहेतुत्वादलंकार एव, अतो नितरां तव्यावृत्त्यर्थमव्यङ्गयत्वविशेषणमनुचितम् । नहि व्यङ्गयत्वालंकार- त्वयोर्विरोध इति वक्तुं शक्यम्, नित्यव्यङ्गयानां रसभावादीनां पराङ्गता- यामलंकारत्वाभ्युपगमात् । प्रधानव्यङ्गयव्यावृत्त्यर्थं पुनरुपस्कारकत्वं सर्वे- प्वलंकारलक्षणेषु देयमिति प्रागेवावेदितम् । यदप्युक्तम्-"अत्युच्चाः परितः स्फुरन्ति-' इत्यत्र स्मृतेः संचा- रिभावस्य भूभृद्विषयकरतिभावाङ्गत्वात्प्रेयोलंकारत्वम्' इति । तत्र हि भावस्य भावाद्यङ्गतायां प्रेयोलंकारत्वम् । न ह्यत्र स्मृतिर्भावः, तस्याः स्म- रतिना वाचकेनाभिधानात् । नहि वाच्यस्य व्यभिचारिणो भावत्वं वक्तुं युक्तम् । 'व्यभिचार्यञ्जितो भावः' इति सिद्धान्तस्य भङ्गापत्तेः । तथा शत्वेन दृष्टान्तत्वमिति भावः । स्यादिति । इतीति शेषः । सादृश्यपदस्य नियमसंबन्धि- कतया संबन्ध्याकाङ्क्षायामुपस्थितस्मर्यमाणस्यैवान्वयापत्तिः । न हि 'जनकत्वमूला पूज्यते' इत्युक्ते पुत्रजनकत्वेन भार्या पूज्यते । अतो 'वस्त्वन्तरसमाश्रया' इत्यावश्यकमिति चि- न्त्यमिदम् ॥ नेयं स्मृतिरलंकार्यभूतेति । अत्र स्मृतेः 'हा क्वासि' इत्यादिपदगम्य- त्वेन विवहनप्रवृत्तराजानुगम्यमानभृत्यवत् । 'शठेन विधिना निद्रादरिद्रीकृतः' इत्यादी शठादिपदगम्यासूया बुद्धा, तस्या एव प्राधान्यादलंकार्यत्वम् । अनुपस्कारकत्वाश्य विप्र- लम्भस्यैव तत्त्वाचेति चिन्त्यम् ॥ विप्रलम्भः श्रीरामचन्द्र निष्ठः । नितरामित्य स्थानी- चित्येऽन्वयः । तदाशयं खण्डयति-नहीति ॥ नित्येति । सर्वथेत्यर्थः । कदाप्यवा- च्यलक्ष्येति यावत् । नन्वेवं प्राधान्येऽप्यलंकारत्वापत्तिरत आह-प्रधानेति । सर्वेषु चित्रमीमांसाखण्डनम् । चोक्तं सर्वस्वकता-"प्रेयोलंकारस्य तु सादृश्यव्यतिरिक्तनिमित्तोत्थापिता स्मृतिविषयः । तत्रापि विभावाद्यागूरितत्वे । यथा--'अहो कोपेऽपि कान्तं मुखम्' इति, नतु स्वशब्दनिवेद्यत्वे । यथा- 'अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन निवृत्तखेदः । रहस्त्वदुत्सङ्गनिषक्तमूर्धा स्मरामि वानीरगृहेषु सुप्तम् ॥' इत्यादौ" इति ॥ ननु- 'भावाङ्गीभूतभावत्वं न प्रेयोलंकारत्वम्, अपि तु-भावाद्यङ्गीभूतसंचारित्वमात्रम् । तथा च प्रकृते स्मरणस्य स्व- शब्दनिवेद्यत्वेन भावत्वविरहेऽपि संचारित्वानपायात्प्रेयोलंकारत्वमविरुद्ध- मेव-' इति चेत् । एवं तर्हि 'इतरागीभूतस्थायित्वमात्रं रसालंकार- त्वम्, नतु व्यज्यमानत्वविशिष्टम्' इत्यस्यापि सुवचत्वात् । एवं च 'चराचरोभयाकारजगत्कारणविग्रहम् । कल्पान्तकालसंक्रुद्धं हरं सर्वहरं नुमः ॥ इत्यत्र क्रोधस्य स्वशब्दनिवेद्यत्वेऽपि देवताविषयकरतिभावाङ्गीभूतस्था- यित्वानपायाद्रसालंकारः स्यात् । न च इष्टापत्तिः । अपसिद्धान्तात् । तस्माद्-व्यज्यमानस्यैवै संचारिणो भावाद्यङ्गतायां प्रेयोलंकारत्वम्- इति नात्र स्मृतिमादाय प्रेयोलंकारत्वं वाच्यम् । किं तु भूविषयकरतेः पूर्वार्धव्यङ्गयाया उत्तरार्धगतभूभृद्विषयकरतिभावाङ्गत्वाद्युक्ता प्रेयोलंकारता। उक्तं च मम्मटभट्टै:-'अत्र भूविषयो रत्याख्यो भावो राजविषयकरति- A- न त्वत्रैव । तथा चालंकारसामान्यलक्षणप्राप्तत्वात्तस्य नातिप्रसङ्ग इति भावः ॥ सिद्धा- न्तेति । मम्मटभट्टादीनामिति शेषः । तदन्थमाह-प्रेयोलमित्यादि इतीत्यन्तेन । तत्रापि तदुक्तस्यापि, न स्मृतिष्वपि । आगूरितत्वे आविष्कृतत्वे। अत्रेति । पुष्पकेण लङ्कातोऽयोध्यां गच्छतः श्रीरामस्य सीतां प्रत्युक्तिरियं रघुवंशे। अनुगोदं गोदासमीपे ॥ वानीरोति । तृणधान्येत्यर्थः । सुप्तं स्वापः । इष्टापत्ति परिहरति- एवं चेति । तथा सुवचत्वे चेत्यर्थः । स्वशब्दस्येति क्रुद्धमितीत्यर्थः ॥ रतिभावेति । कविनि- छेत्यादिः । स्मृतिमादायेत्युक्तिफलमाह-किं त्विति । एवं च प्रेयोलंकारस्य सत्त्वेऽपि १. 'तन्न । भावस्य हि' इति रसगङ्गाधरपाठः. २. 'व्यज्यमानस्यैव स्थायिनः पराङ्गत्वे यथा रसालंकारत्वम्, एवं व्यज्यमानस्यैव सं' इति रसगङ्गाधरपाठः.

२२ काव्यमाला। भावस्य' इति ॥ अपि च महदिदमाश्चर्यम् । यत्स्वेनैव निर्मितः कुवलया. नन्दाख्यः संदर्भोऽपि विस्मृतः । उक्तं च तत्र शेषभागे-'विभावानुभावा- भ्यामभिव्यञ्जितो निर्वेदादिः स यत्रापरस्याङ्गं स प्रेयोलंकारः' इति । इति श्रीभट्टभट्टारकपेरुभहात्मजेन पण्डितराजापराभिधानेन जगन्नाथभटेन निर्मिते चित्रमीमांसाखण्डने स्मरणालंकारप्रकरणम् । अथ रूपकप्रकरणम् । यत्तु- "बिम्बाविशिष्टे निर्दिष्टे विषये यद्यनिनुते । उपरञ्जकतामेति विषयी रूपकं तदा ॥ अत्र 'बिम्बाविशिष्टे' इति विशेषणात् 'त्वत्पादनखरत्नानां यदलक्तकमार्जनम् । इदं श्रीखण्डलेपेन पाण्डरीकरणं विधोः ॥' इति निदर्शनाया निरासः, तत्र विषयस्य मार्जनस्यालक्तकादिरूपवि- म्वविशिष्टत्वात् । 'निर्दिष्टे' इति विशेषणान्निगीर्णविषयायां 'कमलमन- म्भसि कमले च कुवलये तानि कनकलतिकायाम्'. इत्याद्यतिशयोक्तौ नातिव्याप्तिः । अनिद्रुते निषेधास्पृष्टे इति विशेषणादपद्भुतो नातिव्याप्तिः । 'उपरञ्जकतामाहार्यताप्यनिश्चयगोचरतामेति' इत्यनेन ससंदेहोत्प्रेक्षयो- निश्चयस्यैवाभावात् । समासोक्तो व्यवहारमात्रसमारोपात् । परिणामे चा- रोप्यमाणस्यैव विषयताद्रूप्यनिश्चयगोचरत्वात् । भ्रान्तिमति सतः कल्पि- त्वत्कृतं तदुपपादनं चित्रमीमांसास्थमयुक्तमिति भावः । भावस्येति । अङ्गमिति शेषः । स्वेनैव अप्पदीक्षितेनैव । तत्र कुवलयानन्दे । निर्वेदादित्रयस्त्रिंशत् । अपरस्य भावादेः ॥ बिम्बेति ॥ अयं भावः- यथा शुभ्रलादनास अनीयधावल्यः, तथा नखाः स्वतोऽरुणत्वादनास अनीयारुणा इति सादृश्येन नखानां चन्द्रस्य च बिम्बप्र- तिबिम्बभावः । अलक्तकचन्दनयोरन्यत्र स्ववर्णासजकत्वेन सः । तथा च विम्बप्रतिबिम्ब- भावो यत्र नखालक्तकविशिष्ट एव र अने तत्प्रतिबिम्बभतचन्द्रचन्द नविशिष्टं पाण्डुरीकरण- मुपरजकम्-इति ॥ निर्दिष्ट इति । उच्चारित इत्यर्थः । तत्र येन यस्य व्यावृत्तिस्त- १. 'इति रसगङ्गाधरान्तर्गतचित्रमीमांसाखण्डनसंग्रहे स्मरणालंकारप्रकरणम्' इत्या. दर्शस्थपाठः, -यथा चन्द्रः स्वतः चित्रमीमांसाखण्डनम् । २३ तस्य वा प्रवृत्त्यादिपर्यन्तिकस्वारसिकभ्रमस्यैव निबन्धनेन तस्यानाहार्य- त्वात्" इत्याहुः ॥ तन्न, 'त्वत्पादनखरत्नानाम्' इत्यादिनिदर्शनाव्यावृ- त्यर्थ बिम्बाविशिष्टत्वं विषयविशेषणं तावदयुक्तमेव । तत्र वाक्यार्थरूप- कस्य वक्ष्यमाणत्वेन लक्ष्यत्वात् । यदि च 'मुखं चन्द्रः' इत्यादिरूपका- न्तर इवात्रापि वस्तुविशेषे वस्त्वन्तरतादात्म्यारोपे सत्यपि नेदं रूपकम् । अपि तु निदर्शना-इत्यागृह्यते । तदा 'मुखं चन्द्रः' इत्यपि निदर्शना- इत्युच्यताम् । निरस्यतां च रूपकम् ॥ किं च-'इन्दुशोभां वहत्या- स्यम्-' इत्यादिपदार्थनिदर्शनायां कथमन्यस्यान्यः शोभा वोढुं समर्थ इति संबन्धस्यानुपपन्नत्वात्तच्छोभासदृशी शोभा लक्ष्यमाणा चन्द्रशोभया विष- यिस्था निगीर्णेति साध्यवसानलक्षणामूलत्वं तावन्निर्विवादम् । वाक्यार्थनि- दर्शनायां तु विषयविषयिणोरुपादानेऽप्यार्थ एवारोपो न शाब्दः । यथा- 'त्वत्पादनखरत्नानि यो रञ्जयति यावकैः । इन्दं चन्दनलेपेन पाण्डुरीकुरुते हि सः ॥' इत्यत्र । इह त्वत्पादनखरत्नकर्मकं यावककरणकं रञ्जनम्, इन्दुक- मकचन्दनलेपकरणकपाण्डरीकरणभिन्नमित्यारोपस्य व्यङ्गयत्वाद्भवति नि- दर्शना । 'त्वत्पादनखरत्नानाम्' इत्यत्र तु विषयविषयिणोः प्रथ[मान्त- शब्दोपात्तयोरभेदसंसर्गेण बोधाच्छाब्द एवारोपो नार्थ इति रूपकमेव युक्तम्, न निदर्शना । रूपके बिम्बप्रतिबिम्बभावो नास्तीति तु भ्रान्ति- मात्रम्, 'ययोरिवादिशब्दप्रयोगे उपमा, तयोरेकत्रात्यारोपे रूपकम्' इति नियमादत्र यदि रूपकं नाङ्गीकुरुषे, मैवाङ्गीकुरु तर्हि तत्रेवयथादेः प्र- योगे उपमामपि । एवम् 'त्वयि कोपो महीपाल सुधांशाविव पावकः।' इत्यादौ स्वकल्पितेन विशिष्टेन धर्मिणा सादृश्यस्य प्रत्ययादुपमां ब्रूषे, ब्रूहि तर्हि तत्रैवेवस्य निरासे 'त्वयि कोपो महीपाल सुधांशौ हव्यवाहनः ।' क्रमेणाह-ससमिति ॥ अगोचरत्वे क्रमेण हेतू आह–समेति । अत्र त्वत्पादेत्यत्र २४ काव्यमाला। इत्यादौ रूपकमपि, तथा 'कुङ्कुमद्रवलिप्ताङ्गः कषायवसनो यतिः । कोमलातपबालाभ्रसंध्याकाल इवाबभौ ॥' इत्यत्र 'संध्याकालो न संशयः' इति कृते रूपकं भवितुं युक्तम् । 'त्वयि कोपः-' इत्यत्र कल्पितं रूपकम्, इह तु न तथेति विशेषः ॥ न च-एवमादौ प्रतीयमानोत्प्रेक्षा--इति वाच्यम्, निश्चीयमानत्वेनाभे- दस्य भानात् ॥ किंच-आलंकारिकसंमतोऽयं रूपके बिम्बप्रतिबिम्बभावः। उक्तं हि विमर्शिन्याम्- 'कंदर्पद्विपकर्णकम्बुमलिनैर्दानाम्बुभिः क्षालितं संलग्नाञ्जनपुञ्जकालिमकलं गण्डोपधानं रतेः । व्योमानोकहपुष्पगुच्छमलिभिः संछाद्यमानोदरं पश्यैतच्छशिनः सुधासरुचिरं बिम्बं कलङ्काङ्कितम् ॥ अत्र कलङ्कस्य दानाम्ब्वादिभिः प्रतिबिम्बनम्, लाञ्छितत्वाङ्कितयोः शुद्धसामान्यरूपत्वम्-इति ॥ तथा 'निर्दिष्टे शब्देनाभिहिते' इत्यस्य 'येन केनचिद्रूपेण शब्देनाभिहिते' इत्यर्थः, आहोस्वित्---'उपमेयताव- च्छेदकरूपेण शब्देनाभिहिते' इत्यर्थः । आये- 'सुन्दरं कमलं भाति लतायामिदमद्भुतम् ।' इत्यत्रातिशयोक्तावतिप्रसङ्गः, सुन्दरपदेन सुन्दरत्वेन रूपेणेदंपदेन वाननस्य प्रतिपादनात् । न च-अत्र सुन्दरपदार्थस्यारोप्यमाणकमला- न्वय एव, न तु वदनरूपविषयान्वयः-इति वाच्यम्, कमलपदेन कमल- ताद्रूप्येणाननस्यैव लक्षणयोपस्थापनात्तत्रैव सुन्दरादिपदार्थान्वयो युक्तः, कंदति । सर्वत्र षष्ठीतत्पुरुषः । कम्वुः शङ्खः । कलं रमणीयम् । 'अनौकहः कुट: शालः' ॥ शुद्धसामान्येति । अनयोर्वस्तुप्रतिवस्तुभावापन्नत्वा दिदं चिन्त्यम् ॥ द्वितीयविशेषणं दूषयति-तथेति । आहोस्वित् अथवा । इत्यत्र रूपकातिशयो- क्तिविषये । अन्वय एवेति । तत एव चमत्कारात्सांनिध्याच्चेति भावः । रूपकातिश- योक्ति ध्वनयितुमाह-कमलेति । तत्रैव आनन एव । न त्विति । “पदार्थः पदा- चित्रमीमांसाखण्डमम् । २५. न तु विशेषणीभूते कमले ॥ अथ 'तादृशं विषयमुद्दिश्य विषयिताद्रूप्यं यत्र विधीयते' इत्यपि लक्षणवाक्यार्थः । प्रकृते च सुन्दरत्वाववच्छिन्नमु- द्दिश्य कमलताद्रूप्यस्याविधानान्नातिवसङ्गः-इति चेत्, न 'मुखचन्द्रस्तु सुन्दरः' इत्यादिरूपके समासं गतयोविषयविषयिणोः पृथग्विभक्तिमन्तरे- णोद्देश्यविधेयभावाबोधादव्याप्त्यापत्तेः ॥ द्वितीये तु–'अनिद्भुत-' इति विशेषणवैयर्थ्यम्, अपहृतावुपमेयतावच्छेदकस्य निषिध्यमानतया तेन रू- पेण विषयस्या निर्दिष्टत्वादेव लक्षणस्याप्रसक्तेः । निश्चयगताहार्यत्वविशेष- णवैयर्थं च, भ्रान्तिमति दोषविशेषेण प्रतिषिध्यमानतया नास्त्युपमेयता- वच्छेदकस्पर्शः, इति तावतैव वारणात् ॥ यच्चाप्युक्तम्-'अव्यङ्गयत्वविशेषणाच्चेदमेवालंकारभूतस्य रूपकस्य ल- क्षणम्-' इति । तदपि निरस्तप्रायम् । न हि व्यङ्गयत्वालंकारत्वयोर्विरो- र्थेन-' इति न्यायादिति भावः । तादृशं येनकेनचिद्रूपेण शब्देनाभिहितम् । इत्यपि उद्देश्यविधेयभावघटितोऽपि ॥ अविधानादिति । तादृशमाननमुद्दिश्य भानक्रियाया एव विधेयत्वादिति भावः । यद्वा सुन्दरत्वादेः कमलत्वादिविशिष्टे विशेषणत्वमेवोद्देश्यता- वच्छेदकत्वम् । इयांस्तु विशेष:- यदतिशयोक्तावुपमेयधर्मस्योद्देश्यतावच्छेदकत्वाभाव एव, रूपके त्वनियमः, इतीति भावः ॥ अत एवाह-मुखचन्द्रस्त्विति । पृथगिति । उद्देश्यविधेयभावेन बोधे भिन्नविभक्तिजन्योपस्थितेस्तन्त्रत्वात् । तथा च व्यस्ते तथा प्रतीतिः, न समस्ते, इत्यत्राव्याप्तिरिति भावः । ननूपमेयतावच्छेदकरूपेण शब्देनाभिहिते इति तदर्थेन न प्रागुक्तदोषोऽत आह-द्वितीये त्विति । अपद्रुतौ 'नायं सुधांशुः किं तर्हि व्योमगङ्गासरोरुहम्' इत्यत्र । अनिर्दिष्टत्वादेवेति । अत्र निषेधप्रतियोगिवि- धया निर्दिष्टत्वादिदं चिन्त्यम् । न च तथा निर्दिष्टत्वेऽपि पुरस्काराभावः, तहि तावत्पर्यन्त- विवक्षाबोधनार्थमेवानिद्भुत इति विशेषणसाफल्यादिति बोध्यम् । तावतैव उक्तार्थकनिर्दिष्ट इति विशेषणेनैव । इदं चिन्त्यम्--आहार्यत्वविशेषणस्य निर्दिष्ट इति विशेषणलब्धार्थकथ- नतात्पर्यकत्वात् । अतिशयोक्तौ लक्षणामाहात्म्याज्ज्ञायमानज्ञानस्यानाहार्यस्यैव जायमानत्वेन तावतैव वारणात् । शक्यतावच्छेदकलक्ष्यतावच्छेदकयोर्भानमिति त्वल्लिखितमतान्तरेऽपि युगपदेवोभयोर्भानेन बाधस्यैवानुपस्थितत्वान्न तद्बुद्धेराहार्यत्वम् । किं च चन्द्रवृत्तिगुणवत्त्व- लक्ष्यतावच्छेदकस्य चन्द्रत्वस्य च मिथोविरोधाभावेन न बाधप्रतिसंधानम् । मुखत्वेन मुखं लक्ष्यत इति त्वश्रद्धेयमेव । रूपके तु बाधस्य स्फुटमुपस्थितत्वेन साक्षायञ्जनया वा जाय- माना ताप्यप्रतिपत्तिराहायवेति दीक्षिताशय इति दिक् ॥ इमेव प्रागुक्तं रूपकल- ।

२६ काव्यमाला । " धोऽस्ति, प्रधानव्यङ्गयरूपकवारणाय पुनरुपस्कारत्वं विशेषणमुचितमित्यस- कृदावेदनात् । अनलंकारत्वस्य तुल्यतया प्रधानव्यङ्गयरूपकस्येव प्रधान- वाच्यरूपकस्यापि वारणीयतया तद्वारकविशेषणाभावेन तत्रातिप्रसङ्गाच ।। रूपकलक्षणं तु रसगङ्गाधरादवगन्तव्यम् ॥ इति चित्रमीमांसाखण्डने रूपकप्रकरणम् । अथ परिणामः । यच्च वैयधिकरण्येन परिणामे दीक्षितेनोदाहृतम्- 'तारानायकशेखराय जगदाधाराय धाराधर- च्छायाधारककंधराय गिरिजासङ्गैकशृङ्गारिणे । नद्या शेखरिणे हशा तिलकिने नारायणेनास्त्रिणे नागैः कङ्कणिने नगेन गृहिणे नाथाय सेयं नतिः ॥' यथा वा- 'द्विर्भावः पुष्पकेतोर्विबुधविटपिनां पौनरुक्त्यं विकल्प- श्चिन्तारत्नस्य वीप्सा तपनतनुभुवो वासवस्य द्विरुक्तिः । द्वैतं देवस्य दैत्याधिपमथनकलाकेलिकारस्य कुर्व- न्नानन्दं कोविदानां जगति विजयते श्रीनृसिंहक्षितीन्द्रः ॥' इति ॥ अत्र चिन्त्यते--'तारानायकशेखराय-' इति पद्ये तावत् गि- रिजासङ्गैकशृङ्गारिणि भगवति भवे नतिः प्रक्रान्ता । शृङ्गारिता च शे- खरादीनि भूषणान्यपेक्षते इति नद्या आरोप्यमाणशेखररूपतयैवोपयोगो न स्वरूपेण । एवं च दृशोऽपि तिलकरूपतयेति रूपकमेव शुद्धं भवितुमर्हति ।। ननु-'परिणामे विषयाभिन्नतया विषयिणोऽवस्थानम्' इति भवतैवोक्तम् । क्षणमेव । नन्वेवं कथमतिप्रसङ्गनिरासोऽत आह–प्रधानेति । नन्वेवमपि विनिगमना- विरहात्तथोक्तिरत आह-अनलमिति । मन्मते तु तेनैवोभयोारणमिति भावः ॥ इति रूपकप्रकरणम् ॥ अथ परिणामः ॥ तारेति । चन्द्रशेखरायेत्यर्थः। धाराधरेति । नीलग्रीवाये- त्यर्थः । नद्या गङ्गया। दृशा भालचक्षुषा । नगेन कैलासेन ॥ कोविदानां पण्डितानाम् ॥ शुद्धं रूपकामिश्रम् ॥ एवमिति । परे तु-“मीनवती नयनाभ्याम्' चित्रमीमांसाखण्डनम् । तदत्र नद्यादेविषयस्य तृतीययाभेदः प्रतिपाद्यमानो विषयिणि शेखरादौ भासत इति कथं नाम रूपकं स्यात्-इति चेत् 'मीनवती नयनाभ्यां करचरणास्यैः प्रफुल्लकमलवती । शैवालिनी च केशैः सरसेयं सुन्दरीसरसी॥' इत्यत्र व्यधिकरणरूपके सुन्दाँ सरसीतादात्म्यस्य मीनकमलशैवाल- गतैर्नयनकरादिकेशाभेदैर्मनागप्यसमर्थनात् । प्रत्युत-नयनकरादिकेशग- तैर्मीमकमलशैवालाभेदैश्च समर्थनाद्यथा स्वनिष्ठाभेदे प्रतियोगित्वं तृती- यार्थः, एवं 'नद्या शेखरिणे दृशा तिलकिने-' इत्यत्रापीति क विष- यिणि विषयप्रतियोगिकाभेदपर्यवसानम् ॥ यदि पुनरारोप्यमाणे यथा कथंचिद्विषयाभेदप्रत्ययमात्रात्परिणामतोच्यते, तदा 'प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम्' इति त्वदुदाहृतरूपकस्य परिणामतापत्तेः । 'प्रेम- लतिकाम्' इति समासे प्रेम्णो विषयस्य लतिकायामारोप्यमाणायामभेदेन विशेषणत्वात् । विस्तृतिश्च रसगङ्गाधरादवसेया ॥ 'द्विर्भावः पुष्पकेतो:-' इति पद्येऽपि-कोविदानन्दजननजगदुत्कर्षों राज्ञो नृसिंहस्य कथ्यते । तत्र कोविदानन्दजनकत्वं राज्ञ आरोप्यमाणद्वितीयमन्मथादिताद्रूप्येण यथा संभवति, न तथा केवलेन स्वरूपेण । तथा हि-अहो नयनानामस्मदी- यानां साफल्यं यदयमपरो मन्मथोऽस्माभिरालोक्यत इति मन्यमानानां तेषां नयनानामानन्दस्तावत्पुष्पकेतुनैवोत्पाद्यते न राज्ञा । एवम्-अपरोऽयं क- ल्पतरुः, द्वितीयश्चिन्तामणिः कर्णश्च, तथा वासवो भूगतोऽयमन्यो दारिद्य- इत्यत्र सुन्द- सरसीतादात्म्यरूपं रूपकं मुख्यवाक्यार्थः । तत्र च मीनवत्त्वादिः साधा. रणो धर्मः । तस्य च सुन्दर्यामभावात्माप्तबाधबुद्धिस्थगनाय 'नयनाभ्यां मीनवती' इति सु- न्दरीविशेषणम् । सरस्यां मीनवत्त्वं प्रसिद्धमेव । एवं च सुन्दा मीनवत्त्वसंपादनरूपप्रकृ- तकार्योपयोगिता मीनानां नयनात्मतापत्त्यैवेति तदंशे परिणाम एवेति नयनप्रतियोगिका- भेदवन्मीनवतीति बोध इति दिक् । 'पादाम्बुजं भवतु नो विजयाय मञ्ज' इत्यादौ रूपकोप- मयोः संदेह एवं' इति प्राहुः ॥ कथ्यते इति । शत्रन्तलडन्ताभ्यामिति भावः । तत्र द्वयोर्मध्ये । 'द्विर्भावः पुष्पकेतोः-' इत्यस्यार्थमाह-द्वितीयमन्मथेति । “विबुध-' इति वाक्यार्थमाह-अपरोऽयं कल्पतरुरिति। एवं च बहुवचनं कल्पभेदाभिप्रायेण । 'विकल्पश्चिन्तारत्नस्य' इत्यस्यार्थमाह-द्वितीयश्चिन्तामणिरिति । द्वितीय इत्यस्या- प्रेऽप्यनुषङ्गो बोध्यः । 'तपन-' इत्यादेरर्थमाह-कर्ण इति।भूगत इत्यनेन प्रतिद्धन्द्राव्य- .

२८ काव्यमाला। - मस्माकमपहरिप्यति । हरिः खल्वयं संसारं नः परिहरिप्यतीत्यभिमाना- ज्जायमानस्तेषामानन्दोऽप्यारोप्यमाणैः कल्पवृक्षादिभिरेवेति न विषयात्मना विषयिण उपयोगः, अपि तु स्वात्मनैवेति कुत्रास्ति परिणामः । अत एवेदं पद्यं रूपकप्रकरणे विमर्शिनीकारादिभिरालंकारिकैरुदाहृतमिति तद्न्थ- विरोधश्च ॥ यच्च विद्याधरोक्तं परिणामध्वन्युदाहरणमनूद्य दृषितम् । तथाहि- "नरसिंह धरानाथ के वयं तव वर्णने । अपि राजानमाक्रम्य यशो यस्य विजृम्भते ॥' अत्र राजपदेन चन्द्रे विषये निर्दिष्टे तत्रारोप्यमाणस्य नृपस्याक्रमण- रूपकार्योपयोगिनः प्रतीतेः परिणामो व्यज्यते-' इति ॥ तदयुक्तम् । तत्र ह्यारोप्यमाणस्य नृपस्य नृपात्मनैवाक्रमणोपयोगः, न चन्द्रात्मना" इति । तदसत् । अत्र विजृम्भणं नाम न केवलं प्रागल्भ्यमानं कवेरभिप्रेतम्, येन यशःकर्तृकाक्रमणे नृपस्य नृपात्मनैव कर्मतारूप उपयोगः स्यात् । अपि तु निरतिशयनैर्मल्यगुणवत्तायां स्वसमानजातीयद्वितीयराहित्यप्रयुक्तः प्रौढिविशेषः । आक्रमणं न्यग्भाव एव । एवं चैवंविधे विजृम्भणे चन्द्रक- मकमाक्रमणमुपयुज्यते, न तु नृपकर्मकमिति विपयितया व्यज्यमानस्यापि नृपस्य चन्द्रात्मनैवाक्रमणोपयोग इति रमणीयमेव विद्याधरेणोक्तं परिणा- मव्यङ्गयतायामुदाहरणम् ॥ तिरेकः सूचितः। 'द्वैतं देवस्य' इत्याद्यर्थमाह- हरिरिति । दुषितमित्यस्य 'चन्द्रा- त्मनेति' इत्यन्तेनान्वयः । अत्र प्रागुक्तपद्ये । गुणवत्तायां तपसाधारणधर्मे । एवं च विजृम्भणाक्रमणयोरुक्तरूपत्वे च ॥ रमणीयमेवेति । अत्रेदं चिन्त्यम्---"राज- शब्दस्यानेकार्थत्वात् , विजृम्भतेश्च प्रागल्भ्यतदुक्ताभियपरत्वात् , प्रकरणादेश्च शक्ति- संकोचकस्याभावात् , तत्रेण शक्त्यैव तुल्यतयार्थद्वयोपस्थिती 'सर्वदोमाधवः पातु' इति व- च्वेष एवायम् , न परिणामः । क वा नृपस्य व्यज्यमानतेति प्रकृतनरसिंहराजोत्कर्षस्य च- न्द्रकर्मकाक्रमणेनेवेतरनृपाक्रमणेनापि सूपपादत्वात् । नच द्वयोरपि राजपदार्थयोरितरक्रि- यान्वये राजानाविति द्विवचनं स्यादिति वाच्यम्, 'न ब्राह्मणं हन्यात्' इतिवदुपपत्तेः । समाहरिद्वन्द्वविषयेऽप्येक शेषस्य कश्चिद्वैयाकरणैरङ्गीकाराच्च। अस्तु वारोपः, तथापि नृपस्यै- वारोप्यमाणत्वम्, चन्द्रस्यैव विषयत्वमित्यत्र नियामकाभावः । अत्रैव च दीक्षिततात्पर्यम् ।

चित्रमीमांसाखण्डनम् । २९ - १ यद्यपि परोक्ति दूषयित्वा स्वयं परिणामव्यङ्ग्यतायामुक्तम्- "चिराद्विषहसे तापं चित्त चिन्तां परित्यज । नन्वस्ति शीतलं शौरेः पादाब्जनखचन्द्रमाः ।।' अत्र चिरतापात प्रति हरिपादनखचन्द्रसद्भावप्रदर्शनेन 'तमेव निषे- वस्व, तन्निषेवणादयं तापस्खव शान्तिमेष्यति' इति परिणामो व्यज्यते" इति ॥ तत्तुच्छमेव । 'आरोप्यमाणस्य विषयात्मकत्वेन प्रकृतकार्योपयोगे परिणामः' इति स्वयमेवोक्तम् । तत्र प्रकृतकार्योपयोगमात्रं न परिणामश- रीरम्, अपि तु विषयिगतायाः प्रकृतकार्योपयोगिताया अवच्छेदकीभूत- विषयताद्रूप्यम् । अत एव रूपकप्रकारविशेषत्वमस्यान्यैरालंकारिकैः स्वयं च तत्र तत्राभिहितम् । एवं चात्र नखचन्द्रसद्भावप्रदर्शनेन 'तनिषेवणा- दयं ते तापः शान्तिमेष्यति' इति प्रकृतोपयोगिताया व्यङ्गयत्वेऽपि तदव- च्छेदकीभूतस्य विषयिणि विषयताद्रूप्यरूपस्य परिणामस्य वाक्यवाच्यत्वा- च्छक्यसंसर्गत्वाद्वा सर्वथैव न व्यङ्ग्यत्वं वक्तुमुचितम् । विद्याधरोक्तोदाह- रणे तु नियन्त्रिताया अभिधाया विषयचन्द्राभेदवेदनाक्षमतया शब्दशक्तिमू- लानुसरणस्य नास्त्युपयोगः॥ इति चित्रमीमांसाखण्डने परिणामप्रकरणम् । अथ ससंदेहः । यत्तु- 'अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । अपि च प्रागल्भ्यस्यापि विजृम्भत्यर्थत्वेन प्रकृतकार्योपयोगिना नृपत्वेनापि नृपस्य संभ- वति । अत एव विद्याधरेणापि 'विषयिणः स्वरूपेण प्रकृतकार्यानुपयोगित्वे तदुपयोगाय विषयिणो विषयात्मनोपरिगत्यपेक्षायामेव परिणामः' इत्युक्तम् । यदाह-'तं परिणाम द्विविधं कथयन्त्यारोप्यमाणविषयतया । परिणमति यत्र विषयी प्रस्तुतकार्योपयोगाय ॥' इति । ननु 'तात्पर्यविषयीभूतप्रकृतकार्यानुपयोगित्वमस्त्येव-' इति चेत्, तस्यैव तात्पर्यविषयत्वे मानं विभावय-" इति ॥ परोक्ति विद्यानाथोक्तिम् । स्वयमेव अप्यदीक्षितेनैव ॥ चिरतापात 'चित्तम्' इति शेषः ॥ वैयाकरणमतेनाह-वाक्येति । नैयायिकमते- नाह-शक्येति ॥ इति परिणामप्रकरणम् ॥ अस्या इति । विक्रमोर्वशीये उर्वशीवर्णनमिदम् । मासो वसन्तः। वनिता- काव्यमाला। maine वेदाभ्यासमडः कथं सविषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥' अत्र चन्द्रादीनां संदेहधर्मिणामेवानेकत्वम् । प्रकारस्तु वर्णनीयवनिता- स्त्रष्टुत्वमेकमेवेत्यनेककोटित्वाभावात् -विरोधेन परस्परप्रतिक्षेपकतया निब- द्धानेककोट्यवगाहित्वरूपस्य संशयलक्षणस्याव्याप्तिमाहुः ॥ तन्न । अत्र हि 'अस्याः सर्गविधौ यः प्रजापतिरभूत , स किं नु चन्द्रः, किं नु मदनः, किं वा नु वसन्तः' इति संशयः प्रजापतिधर्मिकश्चन्द्रत्वादिनानाकोटिक एवेति कुत्राव्याप्तिः । न च–अत्र चन्द्रादिधर्मिकः संशयो युक्तो वक्तुम् । एवं च प्रजापतेः प्रथमोद्देशे न स्यात् । दोपदानाय वाक्यान्तरकल्पनेन तथा कव्यभिप्रायवर्णनानौचित्यात् ।। यदपि प्राचां लक्षणम् 'साम्यादप्रकृतार्थस्य या धीरनवधारणा । [प्रकृतार्थाश्रया तज्ज्ञैः ससंदेहः स इप्यते ॥' इति महता प्रबन्धेन त एव दूपितवन्तः ।। तदपि न । साम्यनिमि- त्तान्निश्चयसंभावनान्यतरभिन्ना या धीः इति तदर्थकरणे दोषाभावात् । निश्चयत्वं तु संशयाघटितमेव निर्वक्तव्यम् ॥ यदपि च संशयध्वन्युदाहरणप्रसङ्गे- 'कांचित्काञ्चनगौराङ्गी वीक्ष्य साक्षादिव स्वयम् । वरदः संशयाविष्टो वक्षःस्थलमवक्षत ॥' इत्यस्मत्कुलकूटस्थवक्षःस्थलाचार्यकृतवरदराजवसन्तोत्सवान्तर्गत पद्ये सं- - REAKEReautanki स्त्रष्ट्रत्वं प्रजापतिशब्दबोध्यम् । अभावादित्यव्याप्ती हेतु । संशयलक्षणमाह-विरो- धेनेति । हि यतः । अस्या उर्वश्याः । तदुपपादनं खण्डयति-न चात्रेति । एवं चेति । चो ह्यर्थे । यत एवं सतीत्यर्थः । विधेयस्य पाश्चात्यमिति नियमादिति भावः । त एव अप्यदीक्षिता एव ॥ अनवधारणेत्यस्य तात्पर्यार्थमाह-निश्चये. ति ॥ नन्वेवमन्योन्याश्रयापत्तिरित्यत आह-निश्चयत्वं विति ॥ कांचि- दिति । इदं च पद्यमप्पदीक्षितमूलपुरुपवक्षःस्थलाचार्यकृतवरदराजवसन्तोत्सवस्थम् । वरदः काञ्चीदेवता विष्णुः । तदिति । संशयेत्यर्थः । तत्र सामान्यज्ञाने । अ- चित्रमीमांसाखण्डनम् । ३१ शयस्य स्वशब्दोपात्तत्वेऽपि तावन्मात्रस्यानलंकारत्वात्तदलंकारताप्रयोजकस्य 'वक्षःस्थले स्थितैव लक्ष्मीस्ततोऽवतीर्य किं पुरस्तिष्ठति' इत्येव संशयाकार- स्य 'वक्षःस्थलमवैक्षत' इत्यनेन व्यङ्गयत्वात्संदेहालंकृतिध्वनिरत्रेति ॥ यथा- 'दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः । वीक्ष्य बिम्बमनुबिम्बमात्मनः कानि कान्यपि चकार लज्जया ॥' इत्यत्र, 'कानि कान्यपि इति सामान्यतो निर्दिष्टानुभावविशेषप्रतीत्यर्थं लज्जाशब्दप्रयोगेऽपि तस्याः स्वभावानुभावाभ्यां रसानुगुणाभिव्यक्तिरूपो ध्वनिः-" इत्याहुः ॥ तदेतद्धनितत्त्वज्ञैरुपहसनीयम् । तथाहि-'संशया- विष्टः' इत्यत्र संशयपदेनै कस्मिन्पदार्थे विरुद्धनानापदार्थसंबन्धावगाहिज्ञानं साक्षादेव निवेद्यते । तत्र कोऽसौ विरुद्धो नानार्थ इति विशेषाकाझ्या व. क्षःस्थलावेक्षणेन 'वक्षःस्थलस्थैव लक्ष्मीस्ततोऽवतीर्य किं पुरस्तिष्ठति' इत्या- दिरों व्यञ्जनव्यापारेण बोध्यमानः शक्त्या संशयशब्दनिवेदितज्ञानविशे- पणीभूतेन सामान्यार्थेन साकमभेदेन पर्यवस्यति । एवं च संशयमात्रस्य शक्त्या बोधनात् विक्षःस्थलस्थितैव' इत्यादिविषयविभागस्यापि विरुद्धना- नार्थत्वेन सामान्याकारेणावलीढतया तयैव कवलीकरणाद्वाच्यार्थसंशयपर्य: वसायकत्वाच्च न कस्यापि ध्वनिव्यपदेशहेतुत्वमुचितम् । सर्वथा वाच्यवृ- त्यचुम्बितस्यैव तथात्वमिति ध्वनिमार्गप्रदर्शकैः सिद्धान्तितत्वात् । तथा च द्वितीयोड्योते- 'शब्दार्थशक्त्याक्षिप्तोऽपि व्यङ्गयोऽर्थः कविना पुनः । यत्राविष्क्रियते स्वोक्त्या सान्यैवालंकृतिध्वनेः ।।' वेक्षणेनेति । व्यञ्जनार्थवृत्तिरपीति भावः। संशयमात्रस्येति सर्वस्य संशयस्य । अर्थत्वेन सामेति । एतद्रूपसामान्याकारणेत्यर्थः । अवलीढेति बोध्यतयेत्यर्थः । तयैव शक्त्यैव । कवलीति । बोधनादित्यर्थः । नन्वेवमपि विशेषरूपेण व्यङ्गथ- त्वमेवात आह-वाच्यार्थति । विशेषसंशयस्येत्यादिः । तदाह-कस्यापीति । १. 'संशयपदार्थस्य' इत्यादर्शपाठः.

३२ काव्यमाला । . - इति सूत्रयित्वा 'संकेतकालमनसं विटं ज्ञात्वा विदग्धया । ल(ह)सन्नेत्रार्पिताकूलं लीलापमं निमीलितम् ॥' अत्र 'संकेतकालमनसं विटं ज्ञात्वा लीलापमं निमीलितम्' इति वदता कविना लीलाप निमीलनस्य प्रदोषाभिव्यञ्जकत्वं स्वोक्त्यैव निवेदितमिति ध्वनिमार्गादयमपर एव गुणीभूतव्यङ्गन्यस्य मार्गः । यथा वा- 'अम्बा शेतेऽत्र वृद्धा परिणतवयसामग्रणीरत्र तातो निःशेषागारकर्मश्रमशिथिलतनुः कुम्भदासी तथात्र । अस्मिन्पापाहमेका कतिपयदिवसप्रोषितप्राणनाथा पान्थायेत्थं तरुण्या कथितमवसरव्याहृतिव्याजपूर्वम् ॥' 'अत्र निःशङ्कं रन्तुमायाहि' इत्यर्थश्चरणत्रयव्यङ्गयोऽप्यवसरव्याहृते- ाजत्वं ब्रुवता कविना स्फुटं स्वोक्त्या निवेदित इत्ययमपि न ध्वनेर्मार्गः" इत्याहुरानन्दवर्धनाचार्याः । एवं चैवंविधेषु विषयेषु व्यञ्जकत्वस्य व्यङ्गयस्य वा मनागुक्तिसंस्पर्शमात्रेण ध्वनित्वं निराकुर्वाणाः ''कांचित्काञ्चनगौरा- ङ्गीम्' इति पद्ये शब्दाभिहितव्यङ्गये ध्वनित्वं कथमिव स्वीकुर्वीरन् । एतेन 'दर्पणे च परिभोगदर्शिनीम्-' इति प्रागुक्तपद्ये लज्जाध्वनित्वं य- दभ्यधीयत, तदप्यपास्तमिति दिक् ॥ इति चित्रमीमांसाखण्डने संशयालंकृतिः । विशेषस्यापीत्यर्थः । सर्वथा केनापि प्रकारेण । तथात्वं ध्वनित्वम् । संकेतेति । को वावयो रतिकालस्तत्संकेतमित्यत्र (?) दत्तचित्तमित्यर्थः । हसदिति क्रियाविशेष- णम् । इति वदतेति । क्त्वान्तवाक्यविशिष्टं वदतेत्यर्थः । अन्यथा क्त्वान्तवाक्येनैवा- र्थात्तदभिव्यञ्जकत्वे सिद्धे क्तान्तवाक्यानर्थक्यं स्पष्टमेव। तदाह-स्वोक्त्यैवेति । क्त्वा- न्तवाक्येनेत्यर्थः । अत्र गृहप्रदेशविशेषे । एवमग्रेऽपि । कुम्भेति पान्थसंबोधनमिति क- श्चित् । तन्नामिका दासीत्यन्यः । जलाद्याहरणार्थ दासी, न क्रीडादासीति तत्त्वम् । वियो- गात्यापात्वम् । कतिपयेत्यनेन द्रुतमागमनाभावः सूचितः । अवसरे समय उक्तेाजपूर्व- मित्यर्थः । पूर्वोदाहरणाशयेनाह-व्यञ्जकेति । द्वितीयाशयेनाह-व्यङ्गयेति ॥

चित्रमीमांसाखण्डनम् । ३३ अथ भ्रान्तिमान् । यच्च- 'कविसंमतसादृश्याद्विषये पिहितात्मनि । 'आरोप्यमाणानुभवो यत्र स भ्रान्तिमान्मतः ॥ इति लक्षणं तैरुक्तम्, लन । 'कविसंमतसादृश्यप्रयोज्यो विषय आरो- प्यमाणो यत्र वाक्संदर्भे स भ्रान्तिमान्' इति भ्रान्तिमतो लक्षणं विहाय रूपकव्यावृत्त्यर्थ 'पिहितात्मनि' इत्युच्यते, न चैतद्युक्तम् । न हि रूपक- " वाक्य आरोप्यमाणस्यानुभवो वर्ण्यते, किं तु तस्माज्जायते । न च-अ- त्रानुभवान्तं भ्रान्तेर्लक्षणम्, अग्रिमं च भ्रान्तिमतः । तत्र भ्रान्तिलक्षणे रूप- कातिव्याप्तिवारणाय 'विषये पिहितात्मनि' इति विशेषणम् इति वा- च्यम् । अनुभवत्वघटितस्य भ्रान्तिलक्षणस्यानुभूयमानाभेदात्मके रूपके क- थमप्यवृत्तेः ॥ यदि च-रूपकपदं रूपकबुद्धिपरमिति ग्रन्थसामञ्जस्य विधीयते, तदा विषयतावच्छेदकानवगाहिनि 'मरकतमणिमेदिनीधरो वा तरुणतरस्तरुरेव वा तमालः । रघुपतिमवलोक्य तत्र दूरादृषिनिकरैरिति संशयः प्रपेदे ॥' इति संशयेऽतिप्रसङ्गः । 'कमलमिति चञ्चरीकाः, चन्द्र इति चकोरा- स्त्वन्मुखमनुधावन्ति' इति भ्रान्तिसमुदायात्मके उल्लेखेऽतिव्याप्तेश्च ॥ अत्र भ्रान्त्या संकीर्ण उल्लेख इति चेत् , न तावतोल्लेखांशातिव्याप्तिर्न दोषः । नहि दुग्धभागजलभागानां व्यामिश्रणमस्तीति दुग्धलक्षणं जलांशातिव्या- उच्यत इति । अयं भावः-तद्विशेषणेनारोप्यमाणानुभवस्य स्वारसिकस्य कविप्रति- भया कल्पनं विवक्षितम् , तस्यैव विषयपिधानसामर्थ्यात्-इति ॥ अग्रिमं चेति । यत्रेत्यायुक्तमित्यर्थः ॥ तत्रेति । तद्वाक्यजानुभवस्य तत्रापि सत्त्वादिति भावः ॥ ननु नाम(१) संशयेऽतिप्रसङ्गः, विषयस्यैवेति प्रतिपादनादत आह-कमलमिति । अत एव वक्ष्यति-'भ्रान्त्या संकीर्ण' इति । अतिव्याप्तेश्चेति । उल्लेखत्वभ्रान्तित्वयोरत्र संकी- र्णत्वं बाधकाभावाद्भूतत्वमूर्तत्वयोरिव । 'नरैरगतिप्रद' इत्यत्रोल्लेखत्वस्य 'कनक इव' इत्यत्र भ्रान्तित्वस्य सावकाशत्वादिति कश्चित् । 'वनितति वदन्त्येतां लोकाः' इति त्वदु- दाहृतापगुतिसंकीर्णोल्लेखे उपमेये तावच्छेदकनिषेधसामानाधिकरण्येनोत्थाप्यापह्नुतिलक्षणा- तिव्याप्तिस्तवाप्यस्ति । एवं तत्तदलंकारसंकीर्णे तत्तदसंकरलक्षणस्य सा दुर्वारेति चिन्त्य- ३४ काव्यमाला। - . -. प्तिकं कर्तुं युक्तम् । एकत्वविवक्षायाः स्वयमनुद्गारात् । तथा चास्मत्कृत- लक्षण एव पर्यवसानम् ॥ यदपि च भिन्नकर्तृकोत्तरोत्तरभ्रान्तावुदाहरणं दत्तम्- 'शिञ्जानैर्मञ्जरीति स्तनकलंशयुगं चुम्बितं चञ्चरीकै- स्तत्रासोल्लासलीलाः किसलयमनसा पाणयः कीरदष्टाः । तल्लोपायालंपन्त्यः पिकनिनदधिया ताडिताः काकलोकै- रित्थं चोलेन्द्रसिंह त्वदरिमृगदृशां नाप्यरण्यं शरण्यम् ।। इति ॥ अत्र विचार्यते-स्तनकलशयुगे हि न तावन्मञ्जरीसादृश्यं कविसमयसिद्धम्, येन तन्मूला चञ्चरीकाणां भ्रान्तिरुपनिबध्येत । 'दोषा. न्तरमूला तु सा नालंकारः' इत्यनुपदमेवोक्तम् ॥ अपि च-धर्मिणि कलशरूपकानुवादेन मञ्जरीभ्रान्तिरूपमलंकारान्तरमुपनिबध्यमानमुद्वेजक- मेव सहृदयानाम् । 'नहि सादृश्यमूलैकालंकारावच्छिन्ने सादृश्यमूलमलं- कारान्तरं शोभते । यथा-मुखकमलं तव चन्द्रवत्प्रतीमः' इति प्रागेवा- वेदनात् ॥ प्रत्युत-कलशरूपकेण मञ्जरीसादृश्यतिरस्काराच्च । तथा 'तत्रासोल्लासलीलाः किसलयमनसा पाणयः कीरदष्टाः' इत्यत्र विधेया- विमर्शाद्विधेयान्तरमाकाङ्क्षितम् । कीरैर्दष्टा इति तु भाव्यम् । जाता इत्य- ध्याहारेऽपि विवक्षितस्याविधेयत्वम् , अविवक्षितं च विधेयत्वं प्रसज्येत । एवम्-'तल्लोपायालपन्त्यः पिकनिनदधिया ताडिताः काकलोकैः' इत्यत्र न तावपिकनिनदास्ताडनयोग्याः काकानाम्, येन तद्धिया आलपन्त्यस्तै- स्ताड्येरन् । नापि पिकनिनदभ्रम आलपन्तीषु संभवति, संभवन्वा न सा- मिदमित्यपरे ॥ तावदादौ । उपेति । वयेतेत्यर्थः ॥ ननु यथाकथंचित्सादृश्यमप्यस्ती- त्यत आह-अपि चेति । धर्मिणि स्तनरूपे । मुखकमलमिति रूपकम् ॥ अभ्युपे- त्याह-प्रत्युतेति । एवमाद्ये दोषमुक्त्वा द्वितीये दोषमाह-तत्रासोल्लेति ।भ्रमरभ- यजनकजातचेष्टा इत्यर्थः ॥ विधेयाविमर्शादिति । विधेयस्याकथनादित्यर्थः । उद्दे- श्यकोटिप्रविष्टं सर्वमिति भावः । पाणी उद्दिश्य विशिष्टस्य कीरकर्तृकदष्टत्वस्य विधेयत्वे को दोष इति चिन्त्यमिदम् ॥ पिवेति । इष्टत्वस्येत्यर्थः ॥ तृतीयं तमाह-एवमिति । तल्लोपाय कीरदूरीकरणाय । तावदादौ । दोषमूलः संभवतीत्याह-संभवन्वेति । १. 'पर्यवसानमित्यन्तः पाठो रसगङ्गाधरेऽस्मिन्प्रकरणे नोपलभ्यते. २.' 'यच्चापि' रसग०.३. 'तत्र' रसग०.

चित्रमीमांसाखण्डनम् । दृश्यमूलः । 'पिकनिकरधिया' इति तु भाव्यम् ।। अथ-तदालापेषु पिक- निनदबुद्धेरपि तासु पिकबुद्धयुत्पादनद्वारा संभवत्येव ताडनोपयोग इन्ति प्र- योज्यत्वार्थकतृतीयया पिकनिनदधीप्रयोज्यकाककर्तृकताडनकर्मत्वमालप- न्तीनां सुप्रतिपादमेव-इति चेत् । मैवम् । तथा प्रतीतेरसिद्धः । 'चौर- बुद्ध्या हतः साधुः' इत्यादौ चोरबुद्धिहननयोः सामानाधिकरण्येन हेतु- हेतुमद्भावगमकत्वव्युत्पत्तेः ॥ एवम्-'दन्तिबुझ्या हतः शूरैर्वराहो वनगो- चरः ।।' इत्यत्रापि विशेष्यतया वराहवृत्तेर्दन्तिबुद्धेवराहवृत्तिहननहेतुभा- वावगमः । त्वदुक्तरीत्या 'दन्तबुध्या' इति तु कृते बोधकदर्थ नैव ॥ किंच-पिकानां कूजितादिशब्दैरेव शब्दो वर्ण्यते, न तु निनदादिशब्दैः। सिंहदुन्दुभ्यादिशब्दप्रयोगयोग्यैः । तथा—प्रथमद्वितीयचरणस्थयोः स्तन- पाण्योर्यथाकथंचियवहितमपि जातान्वयमपि त्वदरिमृगशाम्' इत्येतत्ष- ष्ठयन्तमन्वेतुं शक्नुयात्, न तु तृतीयचरणस्थे 'तल्लोपायालपन्त्यः' इत्य- स्मिन्विशेषणे विशेष्यभावेनेति तासां ताटस्थ्यमेव स्यात् । विभक्तिविपरि- णामेऽपि क्रमभङ्गासंष्ठुलत्वाभ्यां स्थितमेवेति पद्यमव्युत्पन्ननिर्मितमेवेदम् ॥ दीसितैस्तु भ्रान्त्यलंकारांशमादायोदाहृतमिति न तेषां तथा दोषः ॥ इति चित्रमीमांसाखण्डने भ्रान्त्यलंकारः । - अथोल्लेखः । यत्तु तैरेवाभिहितम्-"एवमपि यदि- 'कान्त्या चन्द्रं विदुः केचित्सौरभेणाम्बुजं परे । वक्रं तव वयं ब्रूमस्तपसैक्यं गतं द्वयम् ॥ इत्यपह्नवोदाहरणविशेषेऽतिव्याप्तिः शङ्कया ॥ तदानीमनेकधोल्लेखनं नि- शब्दप्रयोगेति । शब्द प्रयोगेत्यर्थः । आसत्त्याकाङ्क्षयोः स्वारसिकयोरभावादाह-य- थाकथंचिदिति । जातान्वयेति । 'नाप्यरण्यं शरण्यम्' इति संनिहितेनेति भावः । न त्विति । विभिन्नविभक्तित्वात्स्वस्मिन्स्वभेदाभावाचेति भावः । ननु विभक्तिविपरिणा- मेनाभेदान्वयः सुलभोऽत आह-विभक्तीति । प्रक्रमेति । नन्वेवं दीक्षितैः कुथमु- १ 'भ्रान्तिमदलंकारः' इति भवेत् .

३६ ३ काव्यमाला। क षेधास्पृष्टत्वेन विशेषणीयम् । तत्राद्योल्लेखनद्वयं परमतत्वोपन्याससामर्थ्या- गुम्यमाननिषेधमिति नातिव्याप्तिः-" इति तन्न, "द्विविधश्चायमुल्लेखः शुद्धोऽलंकारान्तरसंकीर्णश्च" इत्युक्त्वा "श्रीकण्ठजनपदवर्णने-'यस्तपोव- नमिति मुनिभिरगृह्यत' इत्यादौ शुद्धः, “यमनगरमिति शत्रुभिः, वज्रपञ्ज- रमिति शरणागतैः, इत्यादौ भ्रान्तिरूपकादिसंकीर्णः” इति स्वयमेवोक्त- त्वादिहाप्यपद्भुत्या संकीर्ण उल्लेख इत्यस्य सुवचत्वात् ॥ यदि चैवंविधाप- हुतिवारणाय निषेधास्पष्टत्वं विशेषणमुच्यते, तदा 'कपाले मार्जारः पय इति करांल्लेढि शशिन- स्तरुच्छिद्रप्रोतान्विसमिति करी संकलयति । रतान्ते तल्पस्था हरति वनिताप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो विभ्रमयति ॥' इति त्वदुदाहृतभ्रान्तावतिव्याप्तिः कथं नाम वार्येत, मार्जाराद्यनेकग्रही- तृकानेकधोल्लेखनस्य तत्रापि सत्त्वात् । स्वस्यप्रियाहारलिप्सारूपनिमित्तभे- दाच । तस्मात्संकीर्णनिवारंणाय यत्नोऽनर्थक एवेति ॥ इति चित्रमीमांसाखण्डन उल्लेखप्रकरणम् । दाहृतमत आह-दीक्षितैरिति ॥ एवमपि उक्तविशेषणदानेऽपि । गम्येति । बहु- व्रीहिः ॥ श्रीकण्ठेति । शुद्धस्यैकमुदाहरणं सोपपादनमुक्त्वान्यदाह हर्षचरिते। इत्यादौ 'यस्तपोवनम्' इत्यादि गद्ये । अगृह्यतेत्यस्य सर्वत्र संबन्धः । यच्छब्दार्थः श्रीकण्ठजन- पदः । शुद्ध इति । तत्र तपोवनादिभूमिनिष्ठत्वादिति भावः । यमनगरत्वादीनां ताद्रूप्या- नुभवगोचरतयान्वये आह-भ्रान्तीति । यदि तेषामुपरञ्जकतामात्रेणान्वयः, तदाह- रूपकेति । एवंविधेति । विलक्षणेत्यर्थः। त्वदुदेति । त्वया प्रथम मुख्यत्वेनोदाहृते- त्यर्थः । तादृशभ्रान्तिविशेषस्यापि वारणावश्यकत्वात् । अन्यथा संकीर्ण तत्कथमादावुदा- हृतम् । तद्विविक्तविषयस्यैवादावुदाहर्तुमौचित्यात् । अन्यथालंकारभेदो न स्यादिति भावः ॥ 1. 'निमित्तभेदादेकस्य वस्तुनो यदनेकधा । उल्लेखनमनेकेन तमुल्लेखं प्रचक्षते ॥' इत्यु- लेखलक्षणे 'अनेकधा' इति विशेषणदानेऽपीत्यर्थ: स्यात्.

चित्रमीमांसाखण्डनम् । अथापगुतिप्रकरणम् । यत्तु-अपहुतिध्वनावुक्तम् - 'त्वदालेख्ये कौतूहलतरलतन्वीविरचिते विधायैका चक्रं रचयति सुपर्णीसुतमपि । अपि स्विद्यत्पाणिस्त्वरितमपमृज्यैतदपरा करे पौष्पं चापं मकरमुपरिष्ठाच्च लिखति ॥' इत्यादरवपहृतिध्वनिरुदाहर्तव्यः । अत्र हि चक्कसुपर्णलेखनेन नायं सा- चारणः पुरुषः, किंतु पुण्डरीकाक्षः इति कयाचियञ्जितम् । अन्यथा तु, तस्याप्येतादृशं न संभवतीत्याशयेन 'नायं पुण्डरीकाक्षः, अपि तु मन्मथः' इति तदुभयमपमृज्य पुष्पसायकमकरध्वजलेखनेन व्यञ्जितम्" इति । तदेतदापातरमणीयम् । यत्तावदुच्यते-'चक्रसुपर्णलेखनेन नायं प्राधा- रणः पुरुषः, किंतु पुण्डरीकाक्षः-इति कयाचियञ्जितम्' इति । तत्रापगु- तेह्रौ भागौ---उपमेयनिषेधः, 'उपमानारोपश्च, इति । तयोस्तावदुपमाना- रोपभागः 'पुण्डरीकाक्षोऽयम्' इत्याकास्श्चक्रसुपर्णलेखनेन व्यङ्गं शक्यः, चक्रसुपर्णयोस्तत्संबन्धित्वात् । नतु-'नायं साधारणः पुरुषः' इत्युपमेय- निषेधभागोऽपि, व्यञ्जकस्यारोपमात्रव्यञ्जनेन चरितार्थतया सामर्थ्याभावात् । नाप्यनुभवसिद्धः सः, येन तव्यञ्जनायोपायो गवेष्येत । नापि गवेष्यमाणोऽपि तब्यञ्जनोपायः शब्दोऽर्थो वा उपलभ्यते, येनानुभवकलहः स्यात् । नच- अनेकधेति । पयस्त्वादीत्यर्थः । उपसंहरति-तस्मादिति । स्वदालेख्य इति । त्वत्प्रतिकृतिभूतचित्र इत्यर्थः । नायकं प्रति स्वसख्युक्तिः । एका तन्वी सखी । चक्र सुदर्शनम् । सुपर्णीसुतं गरुडम् । अपि अथ । क्वचित्तथैव पाठः । अथ मार्जनयोग्य- त्वाय हेतुगर्भ विशेषणम्-स्विद्यत्पाणिरिति । अपरा तत्सखी । तस्यापि पुण्डरी- काक्षस्यापि । इत्याशयेन तथा लेखनेन । इति व्यञ्जितमित्यन्वयः । तदुभयं चक्र- सुपर्णद्वयम् ॥ तत्रेति । उच्यत इति शेषः । एवमग्रेऽपि भागो व्यॉ शक्य इत्यनुषज्यते । व्यञ्जकेति । चक्रसुपर्णलेखनस्येत्यर्थः । ननु कथं तदनुभवोऽत आह-नापीति ।

काव्यमाला। ३८ साधारणपुरुषमन्तरेण पुण्डरीकाक्षतादात्म्यारोपो दुर्घट इति सोऽपि व्यज्यत इति वाच्यम्, रूपकोच्छेदापत्तेः ।। इति चित्रमीमांसाखण्डनेऽपह्नुतिप्रकरणम् । लभ्यत इति । प्रकृतपद्य इति शेषः । दुर्घट इति । तज्ज्ञानस्य तत्र प्रतिबन्धकत्वा- दिति भावः । सोऽपि निषेधभागोऽपि । अन्यथानुपपत्त्येति भावः ॥ इति रसगङ्गाधरमर्मप्रकाशोद्धृतटिप्पण्यामपटुतिप्रकरणम् ॥ समाप्तोऽयं ग्रन्थः। १. एतत्प्रणेतुः पण्डितराजजगन्नाथस्य विषये यद्वक्तव्यं तत्सर्व रसगङ्गाधरभूमिकायां महामहोपाध्यायपण्डितवरदुर्गाप्रसादैर्वणितमिति तत एवावसेयम्. एतद्वन्यादर्शपुस्तकं तु जयपुरराजगुरुश्रीलक्ष्मीदत्तमनुश्रीयुतश्रीदत्तशर्मभिः काव्यमालार्थे संवत् १७०९ (निस्तशतक १६५२) लिखितं १७ पत्रात्मकं दत्तमिति तेऽतीव धन्यवादाही.. .२. एतद्वन्यप्रणेतुर्नागेशभट्टस्य विषयेऽपि वक्तव्यं रसगङ्गाधरभूमिकायामेव महामहो- पाध्यायैर्वणितमिति तत एवावसेयम्. टिप्पण्यादर्शपुस्तकं तु नोपलब्धम्, किंतु मूलग्र- न्योपयोग्यशोऽस्माभिरेव मैथिलवर्यश्रीयुतसुन्दरशर्मसाहाय्येनोद्धृत्य प्रकाशितः.

Chitramimamsa Of Appadikshita

Author
Pt. Sivadatta
Other authors
Kasinath Pandurang Parab
Title
Chitramimamsa Of Appadikshita
File name
Chitramimamsa Of Appadikshita
Text
OCR done
Citation
1893
Published
2004/10/20
Publisher
Tukaram Javaji
Language
Sanskrit
Pages
144
Library
Sri Sringeri Sharada Peetham
Classification
Religions Of The Indian Subcontinent
DLI number
383631
Barcode
1990030051897.00
Scanning centre
Sringeri Sharada Peetham
Digital publisher
Sri Sringeri Sharada Peetham
Rights
Not Available
VMLT id
XQkNvGP5Ego
Download PDF

Chitramimamsa Of Appadikshita