Banasthali University

The Yogadarashana

Patanjali · 2009/10

PDF Proofread

Front matter

No text on this page.

THE
7OGADARS'ANA
OF
PATANJALI
with the commentaries
BHÂVÂGANESHÎYÂ AND NAGÔJÎBHATTİYÂ.
EDITED
BY
LA DEVA GANGADHAR BÂKRE.
ni
Second Edition.
PUBLISHED
BY
PÂNDURANG JAWAJÎ,
-
PROPRIETOR OF THE NIRNAYA-SAGAR' PRESS,
BOMBAY.
1927

[ All rights reserved by the publisher. )
ya-sagana
PUBLISHER: - Pandurang Jawaji, ab the Nirnaya-sagar
PRINTER :-Ramchandra Yesu Shedge, 26-28, Kolbbat Lane, Bombay..
Pass,

भगवत्पतञ्जलिकृतं
योगदर्शनम् ।
भावागणेशीय-नागोजीभट्टीयवृत्तिसहितम् ।
इदंच
बाके इत्युपाहगंगाधरभट्टसुतेन महादेवशर्मणा
संशोधितम् ।
(द्वितीयावृत्तिः।)
तच्च
मुम्बयां
निर्णयसागराधिपेन पाण्डुरङ्ग जावजी इत्यनेन खीयेऽङ्कनालये
मुद्रयित्वा प्रकाशितम् ।
शके १८४९, सन १९२७.
मूल्यं १४ आणकाः।

No text on this page.

निवेदनम् ।। . :श्री ६ गुरुचरणारविन्दाभ्यां नमः। अथ भगवत्पतञ्जलिकृतं योगदर्शनं व्याख्याद्वययुतं मुद्रयित्वा प्रकाश्यते। पड्दर्शन्या काणादन्यायदर्शनयोरिव कर्मब्रह्ममीमांसयोरिव च सांख्ययोगदर्शनयोरपि दृश्यते परस्य पूर्वमाश्रित्य प्रवृत्तत्वम् । तथाहि-यथा न्यायदर्शने, कणादेन व्यवस्थापितान्पदार्थानाश्रित्यानु- मानं व्युत्पादितं, ब्रह्ममीमांसायां च कर्ममीमांसकव्युत्पादितान्येव शाव्दन्यायतत्वानि समाश्रित्य ब्रह्म मीमांसितम् , एवमत्रापि योगद- र्शने सांख्योक्तामेव प्रक्रियामाश्रित्य योगोऽनुशिष्टः । अत एव च भगवता पाराशर्येण 'एतेन योगः प्रत्युक्तः' (२।१।३) इति सांख्य- स्मृतिनिरसनेनैव योगस्मृतिरपि निरस्तेत्युक्तम् । नच यदि महर्षिणा योगो निरस्तः किमस्माकं तदर्शनदर्शनेनेति वाच्यम् । महर्पिणा योगै- रभ्युपगतं जगतोऽचेतनोपादानकत्वपुरुषनानात्वादिकमेव श्रुतिविरोधा- निरस्यते नतु यमनियमाद्यगोपेतस्य समाधिसंज्ञकस्य तस्य तवान्तर- फलविभूति-परमफलकैवल्यसाधनत्वमपि निरस्यते । अयमस्य दर्शना- न्तरेभ्यो विशेषो यदत्राभिहितानां संयमफलभूतानामलौकिकसिद्धीना- मस्मिन्नेव देहेऽनुभवः । अलौकिकत्वं चासां सिद्धीनां लौकिकोपाया- साध्यत्वात् लौकिकोपायसाध्यानामप्यलौकिकोपायसाध्यत्वाच्च योध्यम् । तत्र चास्य शास्त्रस्य प्रामाण्यं सर्वसंप्रतिपन्नम् । अस्येदं व्याख्याद्वयं पं. काशीशेपव्यंकटाचलशास्त्रिभिः खसंग्रहस्थं मुद्रणार्थं निर्णयसागरमुद्रालयाधिपतिसात्कृतम् । तत्र भावागणेशकृत- टीकापुस्तकमान्ध्रलिपावस्ति नागेशकृतटीका च महाराष्ट्रलिप्याम् । तत्र आन्ध्रलिपिस्थं पुस्तकं महाराष्ट्रलिप्यां कारितम् । मम चान्ध्रलिपेर- परिचयात् तत्प्रतिविम्बमेव सर्वथालम्बनमभूत् । एतच्च पुस्तकद्वयमपि अशुद्धिबहुलं कोशान्तररहितं च । तथापि नागेशेन भावागणेशीय-

२
g
दीपिकाया एव प्रपञ्चः कृत इति बहुषु स्थलेषु एको
कोशत्वमगात् । कतिपयेषु स्थानेषु छायाख्यां नागेशेन प्रायो
कानुसारेण लिखितां वृत्तिं वाचस्पत्यसहितं भाष्यं च दृष्ट्वा यथामति
पयशोधयम् । तेन श्रीयोगेश्वरः प्रीणीतात् इति शिवम् ।
m
१
बाक्रे इत्युपाहो गंगाधरभट्टसूनुर्महादेवशर्मा ।

योगसूत्रस्थविषयाणामनुक्रमणिका । १ २ . ३ ... ~ सू. समाधिपादः१ कर्तव्यार्थप्रतिज्ञा योगलक्षणम् चित्तस्य खरूपमवस्थाश्च [ना..] योगकाले पुरुषस्यस्वरूपे- णावस्थानम् व्युत्थानकाले पुरुष- स्यवृत्तिसारूप्यम् पुरुषे वृत्तिसारूप्यस्य विस्तरेणोपपादनम् चित्पुरुषयोः परस्पर प्रतिविम्बश्व । (ना..) वृत्तिमेदाः प्रमाणवृत्तीनां लक्षणम् प्रमालक्षणम् विपर्ययलक्षणम् विकल्पलक्षणम् अस्यैव परमते आहा- यज्ञानवम् निद्रालक्षणम् । स्मृतिलक्षणम् ११ अभ्यासवैराग्ययोः चित्तवृत्तिनिरोधो- पायलम् १२ अभ्यासलक्षणम् .१३ तहार्योपायः १४ अपरवैराग्यम् .१५ पृ. अस्य चततो भूमयः परवैराग्यम् १६ १२ १ संप्रज्ञातयोगः १७ १३ २ असंप्रज्ञातः १८ १५ भवप्रत्ययः (असंप्र- ज्ञातभेदः) १९ १६ उपायप्रत्ययः ... २०-२२ ३ ईश्वरलक्षणम् २३ १८ ईश्वरे प्रमाणम् २४ १९ ४ तदैश्वर्यस्य नित्यखम् २५ २० ईश्वरप्रणिधानम् ... २६-२७ ततो जीवसाक्षात्कारो- ऽन्तरायनिवृत्तिव २८ २१ योगान्तरायाः ... २९-३० २१ अन्तरायनिरासे उपा- यान्तरम् २२ ६ चित्तस्य विभुलम् (ना..) ७ योगस्थितिनिवन्धनानि ३२-३८ २३ ८ । एतान्येव परिकर्माणि परिकर्मनिष्पत्तिलक्ष- णम् संप्रज्ञातसमाधेः फलं ९ ग्रहीत्रादिसमापत्तयः ४० २६ १० सवितको समापत्तिः ४१ २७ निर्विती ४२ २८ सविचारा निर्विचारा ११ च समापत्तिः ४३ २९ ११ समापत्तीनां सूक्ष्मवि- ११ पयकत्वं च प्रकृ- १२ तिपर्यन्तम् ४४ ३० ८ ९ ... १ ...

२ पृ. ४ ४५३ १ ४७ ४७ : ४८ ४७ ४९ ४८ ४९ संप्रज्ञातसामान्यलक्ष- हेयहेतुः .... ५७ णम् ३० | दृश्यपदार्थः १८ निर्विचारसमापत्तेः विकाराणामपि दृश्य- फलम् ४६ ३० लम् १९ उक्तसमांपत्तीनामृत- द्रष्टेपदार्थः २० ४६ भरासंज्ञा ... ३६ द्रष्टरि प्रमाणम् योगजन्यप्रेज्ञायाः ‘प्र- एकमोक्षेऽपि प्रकृत्या- 'ज्ञान्तरतो विशेषः दिस्थितिः २२ संप्रज्ञातपरंपरायाः फ- द्रष्टदृश्ययोजन्माख्यः ३२ संयोग एव दुःख- असंप्रज्ञातफलम् .. २३ हेतुः ३३ ४८ ताशसंयोगस्यापि हे- तुरविंद्या २४ साधनपादः २ हानम् २५ ४९ व्युत्थितचित्तस्य यो- हानोपायो विवेक- गोपायः १ ३५ ख्यातिः २६ तस्य योगोत्पादने द्वा- तज्जन्या प्रज्ञा सप्तधा २७ ४९ रम् २ ३६ विवेकख्यात्युपायाः २८ क्लेशाः २९ ५० ३ क्लेशानामविद्यामूलवम् ३० ५१ अविद्यालक्षणम् ५ ३७ । त एवासंकुचिता म- अस्मितालक्षणम् हानतम् ३१ ५१ रागलक्षणम् नियमाः ३९ द्वेषलक्षणम् ... यमनियमेषु विघ्ननिव- ३९ अभिनिवेशलक्षणम् त्युपायाः ... ३३-३४ ५२ क्लेशतनूकरणस्य फलम् यमनियमनिष्पत्तिसू- १० तनूकृतानां हानोपायः चिकाः सिद्धयः ३५-४५ ११ क्लेशानां कर्माशयद्वारा आसनमू ४६-४८ ५५ दुःखहेतुलम् १२ .., ४९-५३ ५५ कर्माशयफलेऽपि क्ले- प्रत्याहारः ५४-५५ ५८ शानां हेतुलम् १३ विपाकानां हादपरि- विभूतिपादः३ तापफलखम् १४ ४३ | धारणा १ ६० १५ ४३ | ध्यानम्. २ ६० १६ ४४ | समाधिः, ३ ६० ३६ | योगस्याष्टाङ्गानि ३७ | यमाः س س سه سد س ६ ३२ ८ ९ mr m" ४० ४० .., ४६-४८ ४१ प्राणायामः सुखस्यापि दुःखलम् । हेयम् . . w w w .."

३ . . C ... س س س س س ६१ / स्थैर्यम् " . ८ २ ७४ सू. पृ. सू. पृ. धारणादित्रयस्य संयम सूक्ष्मव्यवहितविप्रकृष्ट- इति पारिभाषिकी ज्ञानम् २४ संज्ञा ६१ भुवनज्ञानम् ७१ संयमस्य. योगाङ्गता नक्षत्रमण्डलज्ञानम्. .२६ ७१ द्वारम् ५ ६१ ध्रुवगतिज्ञानम् २७ ७२ संयमानुष्टाने विशेषः ६ ६१ कायव्यूहज्ञानम् २८ ७२ संयमस्य संप्रज्ञातं प्र- क्षुत्पिपासानिवृत्तिः २९ -७२ त्यन्तरगतम् ३० असंप्रज्ञाते सिद्धदर्शनम् ३१ “वहिरंगलम् ... ६२ प्रातिभज्ञानम् ७२ योगरूपसमाध्यवस्था- चित्तसाक्षात्कारः -३३ ७३ यां विशेपः ९ ६२ | आत्मसाक्षात्कारः निरोधस्यापि संस्का. तत्फलं पट् सिद्धयः रजनकत्वम् ६३ ताः समाधावुपसर्गाः योगाङ्गसमाध्यवस्था- परकायप्रवेशः यां विशेषः ११-१२ ६३ / जलकण्टकादिष्वसंगः ३८ भूतेन्द्रियाणां धर्मल. शरीरप्रज्वलनम् क्षणावस्थाख्या: दिव्यश्रोत्रादि परिणामाः १३ ६३ / आकाशगमनम् ४१ बौद्धनिरासाय धर्मा- महाविदेहसिद्धिः ४२ तिरिकर्मिसाधन १४ ६५ भूतानां वशीकारः... कुर्वदूपनिरासाय एक- अणिमादिसिद्धयः ४४-४५ स्थानेकपरिणामव- इन्द्रियजयः ४६ मनोजविवादि ८१ स्वसाधनम् १५ ६६ सर्वाधिष्ठातृत्वं सर्वज्ञ- संयमसिद्धिरूपा विभूतयः ८१ अतीतानागतज्ञानम् १६ ४९ ८२ सर्वप्राणिस्तज्ञानम् संगस्मयाकरणोपदेशः ८२ स्फोटनिरूपणम् विवेकजज्ञानम् ५१-५३ ८२ पूर्वजातिज्ञानम् कैवल्यप्राप्तेः सिध्धन- १८ ६९ पेक्षखम्... ५४ परचित्तज्ञानम् १९ भन्तर्धानम्... २० ६९ मरणकालज्ञानम् कैवल्यपादः ४ २१ अवन्ध्ययनलम् ... २२ जन्मादयः पञ्च सिद्धि- बलम् ७१ हेतवः ४० . .. ८ ८ ८० ४७ त्वं च ६६ / कैवल्यम् १७ ... ८४ ७० १ m ... ४ देहादेर्जात्यन्तरपरि- णामः प्रकृतेः प्रवृत्तिस्वाभा- व्यम्: निर्माणचित्तानि तेषु एकस्यैव प्रवर्तकलम् समाधिसिद्धस्यैव चि. तस्य मोक्षयोग्य- खम् अनेकजन्मव्यवहिता- दपि कर्मणो वास- नाभिव्यक्तिः वासनानां प्रवाहाना- दिखम् वासनानां शक्यसमु- च्छेदत्वम् कार्याणां स्वरूपतो नि. त्यत्वम् कार्यमानस्य त्रिगुणा- त्मकत्वम् सू. पृ. सू. पृ. कार्ये एकत्वव्यवहारः २ ८६ परिणामैकखात्... १४ ९३ विज्ञानवादनिरासः १५' ९३ दृष्टिसृष्टिवादनिरासः १६ ९४ चित्तस्य वस्तुग्रहणे ८८ नियामकम् १७ चित्तपुरुषभेदपरीक्षा १८-२४ विवेकज्ञानजः प्रथमो मोक्षः २५ ९९ मोक्षद्वयेऽपि संप्रज्ञातो हेतुः २६-२७ ९९ १ ८९ संस्काराणां चित्तेन स. होच्छेदः १० ९० २८ १०० धर्ममेघः समाधिः २९ १०० ११ ३० १०१ तृतीयः परमो मोक्षः ३१-३२ १०१ १२ ९२ क्रमशब्दार्थः ३३ १०२ वस्तु प्रतिक्षणं परिण- १३ ९२ मते कैवल्यस्वरूपम् ३४ १०३ ९१ / द्वितीयो मोक्षः इति योगसूत्रस्थविषयानुक्रमणिका ।

श्रीगुरुभ्यो नमः ॥
भावागणेशीय-नागोजीभट्टीयवृत्तिसहितं
पातञ्जलयोगसूत्रम् ।
।
समाधिपादः १
भावागणेशीया वृत्तिः।
नानोपाधिपु योऽशकाननलवत्संयोज्य मायावला.
धात्येको वहुलात्मतामत इयं स्वाभाविकी यस्य नो ।
तांश्चान्ते निजमायया विरचितान्स्वांशानुपाधीनहो
संहृत्याद्वय एव तिष्ठति पुनस्तस्मै परस्मै नमः॥१॥
मन्दधीसुखवोधाय सारार्थस्पष्टभापिणीम् ।
भावागणेशः कुरुते योगसूत्रेषु दीपिकाम् ॥ २ ॥
भाप्ये परीक्षितो योऽर्थो वार्तिके गुरुभिः खयम् ।
संक्षिप्तः सिद्धवत्सोऽस्यां युक्तिपूक्ताधिका क्वचित् ॥ ३ ॥
मृत्युप्रोका नचिकेतोऽथ लब्ध्वा विद्यामेतां योगविधि च कृत्स्नम् । ब्रह्मप्राप्तो
विरजोऽभूद्विमृत्युरन्योऽप्येवं यो विदध्यात्ममेव' इत्यादिश्रुतिपु मुमुक्षूणां
योगविधिरनुष्ठानाथं ज्ञेयतयावगम्यते । अतो योगविधिमुपदिदिक्षुर्भगवान्पत.
अलिः शिप्यावधानाय तच्छास्त्रारम्भं प्रतिजानीते-
अथ योगानुशासनम् ॥१॥
अथशब्दोऽन्न उच्चारणमात्रेण मगलरूपोऽधिकारवाचकः । न प्रश्नानन्तर्याद्य-
र्थकः।शाव्दी साकाङ्क्षा शब्देनैव प्रपूर्यत इति न्यायेन शब्दानुपस्थितार्थानन्तर्या-
र्थकत्वानौचित्यात् । शिष्यप्रश्नगुर्वाज्ञालोकानुकम्पादीनामविशेपेण शास्त्ररचना-
प्रयोजकतया कस्यानन्तये तात्पर्यमित्यवधारयितुमशक्यत्वात् । हिरण्यगर्भादिना
शिष्टस्य शासनमनुशासनं शास्त्रम् । शास्यते अनेनेति व्युत्पत्तेः । तथाच
हिरण्यगर्भादिगुरूपदिष्टस्य योगस्य शास्त्रमधिकृतम् । आख्धमित्यर्थः ॥१॥
नागोजीभट्टीया वृत्तिः।
अथ योगानुशासनम् । अथशब्दः खरूपेण मजलं दध्यादिवत् , अधिका-
रद्योतकश्च । योगोऽनुशिष्यते विविच्य वोध्यतेऽनेनेति योगानुशासनं शास्त्रमधिकृतं
बोद्धव्यमित्यर्थः । हिरण्यगर्भायुपदिष्टस्यैव योगस्य विविच्य वोधनमति बोध्यम् ॥१॥

૨ पातञ्जलयोगसूत्रम् । [ समाधिपादः। उपदिष्टं योगं लक्षयति सूत्राभ्याम्- योगश्चित्तवृत्तिनिरोधः ॥२॥ चित्तस्यान्तःकरणस्य वक्ष्यमाणा या वृत्तयः तासां निरोधो निवर्तनं योग इत्यर्थः । इदं च चित्ते निवर्तनं जीवनयोनियतवदतीन्द्रियः प्रयत्न विशेपश्चित्त- निग्रहरूपो वृत्तिविलयहेतुर्न तु वृत्यभाव एव, वक्ष्यमाणसंस्कारजनकत्वस्या- नुपपत्तेः, अभावस्य संस्कारजनकत्वेऽतिप्रसङ्गादिति । अत्र सर्ववृत्तिनिरोधा. वचनेन संप्रज्ञातयोगोऽपि संगृहीतः। योगो हि द्विविधः। संप्रज्ञातोऽसंप्रज्ञातश्च । अनायो ध्येयातिरिक्तवृत्तिनिरोधः । अन्त्यस्तु सर्ववृत्तिनिरोधः । वृत्तिनिरोधस्तूभ- यसाधारण इति ॥ २॥ योगलक्षणमाह-योगश्चित्तवृत्तिनिरोधः। चित्तस्यान्तःकरणस्य वक्ष्यमाणा या वृत्तयस्तासां निरोधो निवर्तनं योग इत्यर्थः । वृत्तिनिवर्तनं च जीवनयोनियत्नव- दतीन्द्रियो यत्नविशेपश्चित्तनिग्रहरूपो वृत्तिविलयहेतुः, चित्तस्य वृत्तिसंस्कारशेपा- वस्था वा । सा चावस्था तारतम्यविशिष्टसंस्कारपरिणामधारा नतु वृत्त्यभाव एव । अभावस्याधिकरणावस्थाविशेपरूपत्वाद्वक्ष्यमाणसंस्कारजनकत्वानुपपत्तेः । अभावस्य संस्कारजनकत्वेऽतिप्रसमात् । संस्कारवृद्धि विनानुदिनं योगस्य कालवृद्धी नियामकान्तरासंभवात् । अत्र सर्ववृत्तिनिरोधावचनात्संप्रज्ञातयोगोऽपि संगृहीतः । द्विविधो योगः संप्रज्ञातोऽसंग्रज्ञातश्च । तत्र यो ध्येयातिरिक्तवृत्तिनिरोधः स च विपयान्तरसंचाराख्यप्रतिवन्धकनिवृत्तिरूपतया विषयान्तरवासनाभिभवद्वारा धर्म- विशेषद्वारा च ध्येयसाक्षात्कारहेतुः । चित्तं हि खत एव सर्वार्थग्रहणक्षमं विभु च । तमसावरणादेव तु न सर्वदा सर्व गृह्णाति । अतस्तमोवर्धकानां विषयान्तरवा- सनापापादीनां क्षये [ योगतो वृत्तिः ] खयमेव ध्येयं वस्तु साक्षाक्रियते चित्तेनेति सिद्धान्तः । अन्त्यः सर्ववृत्तिनिरोधः । अत्रेदं बोध्यम् । क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुद्धमिति पञ्च चित्तस्यावस्थाविशेषाः । तत्र क्षिप्तं रजस उद्रेकादयन्तमस्थिर शब्दानुरागि च । यथा दैत्यदानवादीनाम् । मूढं तमःसमुद्रेकात्कृत्याकृत्यविचार- शून्यं क्रोधादियुतं निद्रादिमदधर्माद्यनुरागि च । यथा रक्षःपिशाचादीनाम् । विक्षिप्त सत्त्वोद्रेकाद्दुःखसाधनपरिहारेण सुखसाधनेष्वेव प्रवृत्तम् । यथा देवानाम् । चित्तं हि रजसा प्रवृत्तिशीलं, तमसा परापकारनिरतं, सत्त्वेन सुखमयं भवति । आसु तिसूपु विद्यमानोऽपि यत्किंचिचित्तवृत्तिनिरोधो न योगपक्षे तत्प्रतिद्वन्द्विविक्षेपोप- सर्जनत्वात् । एकाग्रत्वं ध्येयातिरिक्तवृत्तिनिरोधः । तत्र हि सति कूटस्थनित्यचित्स्व- रूपस्य हृदयदेशेऽन्तःकरणावच्छेदेनाभिव्यक्तस्य साक्षात्कारो भवति । साक्षात्कारे चाविद्योच्छेदात्तन्मूलक्लेशक्षयो भवति । अस्यामवस्थायां संप्रज्ञातयोगः । अत्र रज- स्तमोमयवृत्तेः सर्वथा निरोधः । सात्विकी त्वात्मविपयास्त्येव । अस्य च ध्येयवस्तु-. पुरुपतत्त्वसाक्षात्कारद्वारा क्लेशाधुच्छेदकत्वेन मोक्षहेतुता । निरुद्धं निरुद्धसकलवृत्ति संस्कारमात्रशेपम् । अत्र सर्ववृत्तिनिरोधेऽसंग्रज्ञातः । अस्य चाखिलवृत्तिसंस्कारदा- हद्वारा प्रारब्धस्याप्यतिक्रमेण मोक्षहेतुतेति वक्ष्यामः । तदुक्तं-. - भावागणेशीय-नागोजीमट्टीयवृत्ती । - -- 'एकाग्रता चेदाह्यादी निरोधच्चिदात्मनि । क्षिप्तादित्रिभुवस्त्यागाकस्य मोक्षोऽत्र दूरतः' इति ॥ यदाहि तमो रजोगुणमपि विजिल त्रिगुणात्मकेपि चित्ते प्रधानं सत्त्वमावृणोति तदा रजस्तमःसमुत्सारणेऽशक्तत्वात्तमसा स्थगितं चित्तमधर्मावैराग्याद्युपगच्छति । एवं सर्वत्रेच्छाप्रतिघातरूपमनैश्वर्य चोपगच्छति । विपर्ययज्ञानात्मकमज्ञानं निद्रारूपं चोपगच्छति । इदं मूढम् । यदा हि खन्यूनाभ्यां परस्परसमाभ्यां रजस्तमोभ्यां संसृष्टं सत्त्वं तदाऽणिमाद्यैश्वर्यशब्दादिविपयप्रियं भवति । इदं क्षिप्तमाद्यम् । यदा हि क्षीणतमस्करजसानुविद्धसत्त्वकं तदा धर्मज्ञानवैराग्यैश्वर्योपगं भवति । इदं विक्षिप्तम् । यदा तु लेशतोऽपि रजस्तमोमलरहितसत्त्वकं चित्तं तयोरपगमे संसारहे- तुत्वादिदोपदर्शनानिरुद्धवाद्यवृत्तिकं स्वरूपप्रतिष्टं खाभाविकप्रसादादियुतं तदा सत्त्व- पुरुपान्यताख्यातिरूपविवेकोपगं तन्मात्रवृत्तिकं भवति । एतदेवैकाग्रमित्युच्यते। अस्यैव परा काष्टा धर्ममेघसमाधिः, यत्र चित्तस्य ध्यानमात्रप्रियता भवति । यदा तु-चिच्छक्त्यपेक्षया विवेकख्याती सत्त्वगुणात्मकत्वेनाधमत्वं गृह्णाति चिच्छक्तिः पुरुपाख्याऽपरिणामित्वात् बुद्धिवत्कियाराहित्येन विपयदेशे गमनरू- पप्रतिसंक्रमरहिता विपयसारहिता च बुद्ध्या स्ववृत्तिद्वारा दर्शितविपया मुखदुःख- मोहात्मकत्वरूपाशुद्धिरहिता अनन्ता च, विवेकख्यातिस्तु सत्त्वगुणकार्यापि परिणामिनी दीपशिखावद्विषयेषु संचरणात्प्रतिसंक्रमवती जडा सुखदुःखाद्यशुद्धि- मती परिच्छिन्नत्वादन्तवती, सुखमपि विवेकिनो दुःखवद्धेयमेवेति तस्यामपि विरज्यते चित्तं तदा सर्ववृत्तिनिरोध इति बोध्यम् । इदं निरुद्धम् ॥ २ ॥ नन्वेवं व्युत्थानकालीने यलिंचिद्वृत्तिनिरोधेऽतिव्याप्तिः । किंच वृत्तिविपयक- बोधस्वरूप एव पुरुषः कामाग्निवदिति योगसांख्ययोः सिद्धान्तः, अतो वृत्तिवि- लये तदनुभवरूपः पुरुषोऽपि नश्येत् काष्टापायेऽग्निवत् , ततश्च योगकाले का पुरुषार्थ इत्यपेक्षायामिदं सूनं प्रवर्तते- तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ ३ ॥ तदेत्यनेन निरोधविशेप एवासंप्रज्ञाताख्यः परामृश्यते । योग्यतावलात् । संप्रज्ञाते स्वरूपावस्थानाभावस्योत्तरसूत्रे वक्ष्यमाणत्वात् । तदा सर्ववृत्तिनिरोध- काले द्रष्टुः दृष्टिस्वरूपस्य पुरुपस्य स्वरूपे निर्विपयचिन्मात्ररूपे भवस्थानं भवति । स्वतो धर्मतो वा न नाशशक्षास्तीत्यर्थः । तदुक्तं वासिष्टे-~~"असंभवति सर्वत्र दिग्भूमाकाशरूपिणा(?)।प्रकाश्ये यादृशं रूपं प्रकाशस्यामलं भवेत् ।। अहं त्वं ज- गदित्यादौ प्रशान्ते दृश्यसंभ्रमे। स्यात्तादृशी केवलता स्थिते दृष्टर्यवीक्षणे" इति । इदानी च वृत्यभावात्तदनुगतदुःखभोगनिवृत्तिः पुरुपार्थः । तदा द्रष्टुः स्वरूपा- वस्थितिहेतुचित्तवृत्तितिरोधो योगलक्षणम् । तच्च न व्युत्थानकालीनस्यास्तीति नातिव्याप्तिरिति भावः । संप्रज्ञातत्य असंप्रज्ञातद्वारा खरूपावस्थितिहेतुत्वमुप- पादनीयम् ॥३॥ २ पा० यो० पातञ्जलयोगसूत्रम् । [ समाधिपादः १ नन्वेवं व्युत्थानकालीने यत्किंचिद्वृत्तिनिरोधेऽतिव्याप्तिः । किंच वृत्तिविषयक- वोधस्वरूप एव पुरुष इति वृत्तिविलये तदनुभवरूपः पुरुपोऽपि नश्येत् , काष्ठा- पायेऽनिवदित्यत आह-तदा द्रष्टुः स्वरूपेऽवस्थानम् । तदेत्यनेन योग्य- ताबलात् सर्ववृत्तिनिरोधरूपोऽसंप्रज्ञातः परामृश्यते । संप्रज्ञाते तदभावस्यो- त्तरसूत्रारूढत्वात् । तदा सर्ववृत्तिनिरोधे द्रष्टुः ज्ञानखंरूपस्य स्वरूपे निर्वि- षयचिन्मात्ररूपत्वे अवस्थानं भवतीत्यर्थः । जपापाये स्फटिकस्यैव वृत्त्यपाये पुरुषस्य वृत्तिप्रतिविम्वशून्यस्य खरूपेऽवस्थानमिति भावः । एवंच तदा वृत्त्यभावा-. त्तदनुगतदुःखादिभोगनिवृत्तिः पुरुषार्थः । पुरुषस्यैतदेव स्वरूप न वुद्धिवृत्तिविषय- वोधः । तस्यौपाधिकत्वात् । तत्रोपाधिनिवृत्तावप्युपहितानिवृत्तिरिति न तन्नाशप्र- । एवंच द्रष्टुरात्यन्तिकखरूपावस्थितिहेतुश्चित्तवृत्तिनिरोधो योगलक्षणम् । क्लेशकर्मादिपरिपन्थिचित्तवृत्तिनिरोधो वा । तच्च न व्युत्थानकालिकनिरोध इति न तत्रातिव्याप्तिः। संप्रज्ञातस्य चासंप्रज्ञातद्वारा स्वरूपावस्थितिहेतुत्वम् । प्रलयकाली- नस्य समग्रसुपुप्तिकालीनस्य च निरोधस्य व्यावृत्तये आत्यन्तिकेति । स्वरूपावस्थानं चौपाधिकरूपनिवृत्तिपूर्वकः स्वरूपाप्रच्यवः । तन्निवृत्तिश्चोपाधिनिवृत्त्येति दिक् ॥३॥ योगकालेऽनर्थनिवृत्ति प्रदय - कूटस्थ नित्यस्याप्ययोगकाले तद्विपर्ययं दर्शयति- वृत्तिसारूप्यमितरत्र ॥४॥ इतरत्र वृत्तिकाले वृत्तिसादृश्यं द्रष्टुर्भवतीत्यर्थः । वृत्तीनां सुखदुःखमोहात्म- कघटाद्याकारतया चैतन्यमपि तत्प्रतिविम्बवशात्तद्रूपमिव भवति । यथा जपा- लौहित्येन स्फटिकोऽपि लोहित इव भवति तद्वत् । इदमेव द्रष्टुर्वृत्तिसारूप्यं विपयोपरक्तवृत्तिग्रहणम् । तदा सुखदुःखभोगरूपोऽनर्थोऽपीति भावः । 'आदानस्य ग्रहणवादभ्यवहरणस्य च भोगत्वात्' इति वार्तिके चैतद्गुरुचरणैः प्रसाधितं प्रपञ्चितं च, अन्न सूत्राभ्यामेतसिद्धम् । वृत्तिकाल एव पुरुषस्य दुःखभोगरूपः संसारो वृत्तिवियोगे च तन्निवृत्तिरूपं कैवल्यमतो वृत्तयो निरोद्धव्या इति । इदं च योगस्यापातफलमुक्तम् । मुख्यफलं तु संप्रज्ञातयोगस्य ध्येयसाक्षात्कारः। असंप्रज्ञातयोगस्य च तत्त्वज्ञानसाधारणाखिलज्ञानवासनाक्षयेण प्रारब्धमप्यति- क्रम्याशु मोचन मिति वार्तिककृद्भिः प्रपञ्चितम् ॥ ४ ॥ इदानीमसंप्रज्ञातव्यतिरिक्ते व्युत्थानकाले चिच्छतेस्तादृशखरूपाया अपि औ- पाधिकमनर्थयोगं दर्शयति योगे. लोकानां प्रवृत्तये-वृत्तिसारूप्यमितरत्र । इतरत्र योगाभावकाले समानमेकं रूपं यस्य स सरूपस्तस्य भावः सारूप्यं वृत्तिमिः सारूप्यमित्यर्थः । व्युत्थाने हि . विम्वप्रतिविम्वरूपयोवुद्धिवृत्तिपुरुषवृत्त्योः सारूप्यम् । वृत्तयोऽपि दीपशिखा इव द्रव्यरूपा भङ्गुराश्चित्तस्य परिणामाः । नचाप- रिणामिनः पुरुषस्य वृत्तिः, दर्शितविषयत्वात् । वुध्या निवेदितविषयत्वं हि तत्वं, निवेदनं च स्ववृत्त्यारूढविपंयस्य प्रतिविम्वरूपेण चितावाधानम् । एवंच ते प्रतिविम्बा एव तस्य वृत्तयः । तदुक्तं भाष्ये-'व्युत्थाने याश्चित्तवृत्तयः तदवि- ":

भावागणेशीय-नागोजीभट्टीयवृत्ती । शिष्टयत्तिः पुरुपः' इति । प्रतिविम्वोऽपि न स्फटिकवत् किंत्वनिमान एव । एतद्यढ- त्तिसारूप्यमेव वृत्त्याकारताल्यं तदेवास्थार्थोपरक्तवृत्तिभानं तस्य चाकारोऽयं घट इत्यादिरूप एवं नतु वृत्तिबोधस्य पृथगाकारोऽस्ति । घटमहं जानामीत्यादि तु बुद्धेरेवाकारान्तरमिति कश्चित् । ज्ञानस्य खप्रकाशत्वादेवममिलाप इत्यन्ये । वृत्त्य- मिन्नैकरूपता चित्तेन सह द्रष्टुरिति भावः । बुद्धिपुरुपयोः संनिधानादभेदग्रहण तामिरेव वृत्तिमिः पुरुपोऽपि वृत्तिमानिवाकर्तापि कर्तवाभोक्तापि भोक्तेव दुःखादि- मानिव विवेकख्यातिरहितोऽपि तत्सहित इव विवेकाख्यात्या प्रकाशते । भोक्त- त्वभोग्यतालक्षणसंबन्धवानाद्यविद्यानिमित्तकः प्रतिनियतयोरेव बुद्धिपुरुपयोः ख- खामिभावोऽनादिरेव । यथा ह्ययस्कान्तः खस्मिन्नेवायःसंनिधीकरणात् शल्यनि- एकपकतयोपकारी स्वामिनः खं भवति भोगसाधनत्वादेवं चित्तमयःसदृशाविषय- जातस्य स्वस्मिन्संनिधीकरणात् दृश्यत्वमुपकारं जनयन् पुरुषस्य खं, भोगसाधन- त्वात् । यद्यपि भोग्यभोक्तभावो न प्रलये तथापि स्वभुक्तवृत्तिवासनावत्त्वादिकमेव बुद्धौ पुरुषस्य खत्वं, चित्तस्य कार्यत्वेपि वीजावस्थया नित्यत्वादनादित्वाक्षतिः । तत्सारूप्यमेव चितेर्दुःखभोगः । प्रतिविम्वरूपदुःखहानमेव मोक्षः । ये त्वात्मनि मनःसंयोगात्सुखाद्युत्पत्तिरिति वदन्ति तेपां कारणद्वयकल्पनागौरवम् । आत्मनि विषयनिष्टसुखाद्याकारवृत्तिखीकारे परिणामित्वापत्तिश्च । वुद्धावर्थविषयकत्वमर्थाका- रतैव बुद्धिपरिणामविशेपरूपा नतु तत्प्रतिविम्बः, खप्नादौ विपयाभावेन तत्प्रति- विम्बासंभवात् । पुरुपे तु सा परिणामरूपा न संभवतीति प्रतिविम्वरूपैव । वृत्ती- नामेव च प्रतिविम्बार्पणसामर्थ्यमिति न संस्कारशेपाया बुद्धरसंग्रज्ञाते प्रतिविम्वनं, उक्तस्वखामिभावस्यैव प्रतिविम्बे नियामकत्वान्न परबुद्धिवृत्तेः परस्य भानम् । 'यथा संलक्ष्यते रक्तः केवलस्फटिको जनैः । रअकाद्युपधानेन तद्वत्परमपूरुपः' इति स्मृतेश्च प्रतिविम्बस्वीकार इति दिक् । एवं बुद्धावपि चित्प्रतिविम्ब आवश्यकः । अन्यथा कर्तृकर्मविरोधेन चैतन्यभानानुपपत्तिरिति ध्येयम् । उभयत्रोभयाकारबुद्धिपरिणाम एव प्रतिविम्ब इति दिक् ॥ ४ ॥ ननु कियत्प्रकाराः कीदृश्यो वा वृत्तयो निरोद्धव्या इत्याकाहायामाह- वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः॥५॥ वक्ष्यमाणाः पत्नप्रकारा एव वृत्तयो निरोद्धव्याः । तासां निरोधेनैव रागद्वे- पादिवृत्तीनां स्वयमनुदयात् । ताश्च वृत्तयः क्लिष्टरूपा वा भवन्तु, अक्लिष्टरूपा वा भवन्तु, सर्वा एव निरोद्धव्या इत्यर्थः । क्लिष्टास्तामस्योऽक्लिष्टाः सात्विक्यो राजस्यश्च । क्लिष्टाक्लिष्टमिश्रवृत्तेरंशाभ्यां तामसीसात्विक्योरेवान्तर्भावः । 'रजो- मिश्रमिति स्मृतेः॥५॥ वृत्तीनामियत्तामाह-वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः । वृत्तिसमुदाय- रूपोऽवयवी पश्चप्रकारावयवक इत्यर्थः । ते च वृत्तिसमुदायाः चैत्रमैत्रादिचित्तमे- दादहव इति बहुवचनम् । धर्माधर्मवृद्धिरूपलेशफलिकाः क्लिष्टाः । सत्त्वपुत्पान्यwas पातञ्जलयोगसूत्रम् । [ समाधिपादः १ ६ - तारूपविवेकज्ञानसाधनविषयाः ख्यातिसंज्ञा अक्लिष्टाः । तत्र क्लिष्टानामक्लिष्टाभिनि- रोधोऽक्लिष्टानां च परवैराग्येणेति वोध्यम् । तत्र क्लिष्टान्तर्वर्तिन्योऽप्यक्लिष्टाः क्लिष्टा- भिरनभिभूताः स्वसंस्कारपरिपाकक्रमेण क्लिष्टा अभिभंवन्तीति अक्लिष्टा एव भवन्ती- ति मिश्राणां नाधिक्यम् । वृत्तिमिः संस्काराः संस्कारैश्च वृत्तय इत्येवं वृत्तिसंस्कार- चक्रमावर्तते आ निरोधयोगात् । निरोधावस्थं च चित्तं दग्धाखिलसंस्कारं प्रलयं याति । कृत्यादिलक्षणवृत्तीनां चैतन्निरोधेनैव निरोध इत्याशयेन पञ्चेत्युक्तम् । आसां वृत्तित्वं चैतैरेव व्यापारैश्चित्तस्य जीवनात् इति दिक् ॥ ५ ॥ कास्ताः पञ्चप्रकारा वृत्तय इत्यपेक्षायामाह- प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥६॥ सुगमम् ॥ ६॥ तान्पञ्चप्रकारान्दर्शयति-प्रमाणविपर्ययविकल्पनिद्रास्मृतयः । स्प- ष्टम् ॥ ६॥ प्रमाणाद्याः पञ्चवृत्तीः क्रमेण पञ्चभिः सूत्रैर्लक्षयति- प्रत्यक्षानुमानागमाः प्रमाणानि ॥७॥ अनधिगततत्त्वबोधः प्रमा, तत्करणं प्रमाणमिति प्रमाणसामान्यलक्षणं प्रसि- द्वत्वादुपेक्ष्यैव विभागः कृतः । तत्रेन्द्रियद्वारा स्वतो वा मनःसंनिकर्पाजायते याऽनधिगतार्थनिश्चयरूपा. वृत्तिः सा प्रत्यक्षं प्रमाणम् । निश्चयत्वं च संशय- मिन्नज्ञानत्वम् । अतो नेच्छाकृत्वादिष्वतिव्याप्तिः । इच्छादिषु संनिकर्पस्य हेतुत्वे प्रमाणाभावात् । अस्य च प्रमाणस्य फलं प्रमा पौरुषेयो बोधः । वृत्तिद्वारैव हि तदारुढोऽर्थश्चितौ प्रतिबिम्बते । यद्यपि पुरुषस्वरूपो बोधो नित्यस्तथापि तत्तद्विषयाविष्टत्वेन तस्य फलत्वं पुरुषाश्रितत्वं च घटते । विषयता च प्रतिबिम्ब- स्वरूपेति । एवमेवानुमानाद्यखिलवृत्तीनां पौरुषेयो बोध एव प्रयोजन पुरुषार्थ- मेव करणव्यापारात्, राजार्थं भृत्यव्यापारवत् । व्याप्यादिवृत्तिजन्या वृत्तिरनु- मानं प्रमाणम् । योग्यशब्दजन्या वृत्तिश्च शब्दप्रमाणमिति । एतेष्वेव प्रमाणेपु परोक्तानामुपमानैतिहादीनां प्रवेशः । अन्न प्रमानादिविभागे वार्तिककारिकाः- "प्रमाता चेतनः शुद्धः प्रमाणं वृत्तिरेव च । प्रमाऽर्थीकारवृत्तीनां चेतनप्रतिवि. म्बनम् ॥ प्रतिबिम्बितवृत्तीनां विषयो मेय उच्यते । वृत्तयः साक्षिभास्याः स्युः करणस्यानपेक्षणात् ॥ साक्षाद्दर्शनरूपं च साक्षित्वं सांख्यसूचितम् । अविका- रेण द्रष्तृत्वं साक्षित्वं चापरे जगुः" ॥ ७ ॥ तासां क्रमेण लक्षणान्याह-प्रत्यक्षानुमानागमाः प्रमाणानि । अनधि- गततत्त्ववोधः प्रमा, तत्करणं प्रमाणमिति प्रमाणसामान्यलक्षणम् । अवि- संवादि ज्ञानं वा प्रमा । तत्रेन्द्रियद्वारा स्वतो वा मनःसंनिकर्षात् जायते यो विशेषतः पदार्थनिश्चयः तत्करणं वृत्तिः प्रत्यक्षं प्रमाणम् । तत्रेन्द्रियद्वारा निर्गतस्य चित्तस्येन्द्रियसाहित्येनैवार्थाकारः परिणामश्चित्तस्य शङ्खपैत्याद्याकारतायां नयनादि- भावागणेशीय-नागोजीभट्टीयवृत्ती । ७ गतपित्ताद्यन्वयदर्शनात् । अतएव रूपादिवृत्तिषु चक्षुरादीनां करणत्वमुच्यते । वृत्तिश्च-'अनन्ता रश्मयस्तस्य प्रभावत्यः स्थिता हृदि' इति स्मृतेः प्रभावद् द्रव्य- मेव । निश्चयत्वं च संशयमिन्नज्ञानत्वं तेन नेच्छाकृत्यादिष्वतिव्याप्तिः । खतो वेत्स- नेन विवेकख्यातिरपि लक्षिता । 'इन्द्रियप्रणालिकया चित्तवृत्त्याकारस्य वाह्यवस्त्वा- कारोपरागात् वाह्यार्थगोचरं सामान्यधर्मविशेषधर्मतादात्म्यापन्नस्याप्यर्थस्य सामा- न्यधर्मोपसर्जनकविशेषरूपेण भानम्' इति भाष्यकृतः । तत्रापीन्द्रियप्रणालिकये- त्युपलक्षणम् । अनेनानुमित्यादिषु चित्तवृत्त्याकारेणैव साकारता वृत्तः सामान्यवि- षयकत्वं च दर्शितम् । तदवच्छिन्ने एव व्याप्तिग्रहात् ॥ स्वप्नध्यानादौ चित्तवृत्ति- घटाकारस्यैवानुभूयमानत्वात् तत्रापि चित्तवृत्तेर्घटाद्याकारतयानुभवात् चित्ते वासनारूपेण सर्वद्रव्यसत्तास्ति । ते हि वृत्तिसाभत्र्या स्थूलाकारास्तस्यां भासन्त इति दिक् । प्रमाणफलमविशिष्टः पौरुषेयश्चित्तवृत्तिवोध इति भाष्यम् । वृत्तिरूपक- रणस्य चित्तवृत्तिसमानाकारः पुरुषरूपो वोधः । तत्र हेतुगर्भविशेषणमविशिष्ट इति । चित्तवृत्तिसारूप्यापन्न इत्यर्थः ॥ यद्यपि स नित्यस्तथापि तत्तदाकारवैशि- ट्येन फलत्वं पुरुषाश्रितत्वं चेति बोध्यम् । राजार्थे भृत्यव्यापारवत् पुरुषार्थमेव करणव्यापारात्तद्वोधस्यैव फलत्वं युक्तम् । वृत्तिश्च प्रदीपशिखावबुद्धेरग्रभागः । येन चित्तस्यैकाग्रताव्यवहारः । एकमग्रे विषयतया यस्य तद्भावो ह्येकाग्रता ॥ अयं घट इत्याकार एव वृत्तेर्वोधः । घटमहं जानामीति बुद्धवृत्त्यन्तरं, चैतन्यस्य स्वप्रकाशत- याऽस्यैवामिलापो वा । केचिट्ठद्धौ प्रतिविम्ब एव पुरुषस्य वृत्तिस्तदेव वृत्त्याकार- तामापन्नं वोधफलमिति । तन्न । प्रतिविम्बस्य बुद्धिपरिणामरूपतया तुच्छत्वेनार्थ- भानरूपत्वानुपपत्तः । किंच परस्परप्रतिविम्बः स्मृतिसिद्धः । किंच जानामीत्येवं बुद्धिवृत्तौ भासमानं प्रतिविम्वचैतन्यं न खज्ञेयं संभवति कर्तृकर्मविरोधात् । अतस्तस्या विम्वचैतन्ये भानमावश्यकमिति दिक् ॥ लिङ्गजन्या वृत्तिः सामान्यविषयाऽनुमानम् । आप्तेन तत्त्वदर्शनकारुण्यकरणपा- टवरूपाप्तिमता स्वयं दृष्टस्य श्रुतस्यानुमितस्य वार्थस्य खचित्तवृत्तिज्ञानसदृशज्ञानवि- पयतया परचित्ते समर्पयितुमुपदिश्यते यः शब्दस्तजन्या तदर्थविपया वृत्तिरागमः ।। यत्र वक्ताऽदृष्टश्रुतानुमितार्थत्वेनाश्रद्धेयः स आगमोऽप्रमाणम् । अन्यस्तु प्रमाणम् । मन्वाद्युक्तार्थानामपि तन्मूलवेदवक्ता ईश्वरो दृष्टानुमितार्थ एवेति तेऽपि प्रमाण- मेव । वृत्तयस्तु साक्षिभास्याः करणानपेक्षणात् । साक्षाद्दर्शनरूपमेव पुरुषस्य साक्षित्वम् । तदुक्तम्- 'प्रमाता चेतनः : शुद्धः प्रमाणं वृत्तिरेव च । प्रमाऽर्थाकार- वृत्तीनां चेतने प्रतिविम्वनम् ॥ प्रतिविम्वितवृत्तीनां विपयो मेय उच्यते ॥ वृत्तयः साक्षिभास्याः स्युः करणस्यानपेक्षणात् ॥ साक्षाद्दर्शनरूपं च साक्षित्वं सांख्यसूचि- तम्' इति ॥ सुखादिमत्यो हि वृत्तयः रूपादिमत्यो भार्या इव पुरुषस्य भोग्या इत्युच्यन्ते ॥ ७॥ विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ ८॥ विपर्यय इति लक्ष्यनिर्देशः । मिथ्याज्ञानमिति लक्षणम् । मिथ्येत्यस्य विवरण- - पातञ्जलयोगसूत्रम् । [समाधिपादः १ मतद्रूपप्रतिष्ठमिति । न तद्रूपो. न स्वसमानाकारो यो विषयस्तद्विशेष्यकमित्यर्थः । भ्रमस्थले च ज्ञानाकारस्यैव विपये समारोपः । "विप्र पृथ्व्यादि चित्तस्थं न वहिष्ठं कदाचन । स्वमभ्रममदायेपु सवरेवानुभूयते” इति स्मृतेः ॥ खेमादिपु चित्तमेव प्रतीयते न बहिष्टमित्यर्थः । संशयस्यापि विपर्ययेऽन्त- मीवः । अतद्रूपप्रतिष्ठत्ववचनादन्यथाख्यातिरत्र दर्शने सिद्धा न तुः सांख्याना- मिवाविवेकमात्रम् ॥ ८॥ विपर्ययं लक्षयति-विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् । विपर्यय इति लक्ष्यम् । मिथ्याज्ञानमिति लक्षणम् । मिथ्येयस्य विवरणमतद्रूपप्रतिष्ठमिति, भासमानरूपाभाववद्विशेष्यकमित्यर्थः । यद्वाऽतद्रूपप्रतिष्ठमित्यस्य बुद्धिविषयाका- रसमानाकारविषयप्रतिष्ठं नेत्यर्थः । भ्रमस्थले बुद्धिवृत्त्याकारस्यैव विषये आरोप इति सिद्धान्तात् । अतः संशयोऽपि मिथ्याज्ञानमेव । मिथ्यात्वेन तज्ज्ञाने वाध्यत्वमप्यभिप्रेतम् । अतएव वक्ष्यमाणविकल्पस्य न विपर्ययत्वम् । नेदं रंजतमिति ज्ञानोत्तरमिदं रजतमिति ज्ञानव्यवहारयोरभावः, शशशृङ्गामिति ज्ञानव्यवहारौ वाधज्ञानकालोत्तरमपीति विशेषात् । वस्तुतत्त्वविषयज्ञानेन प्रमाणे- नाप्रमाणवाधनं दृष्टम् , एकचन्द्रज्ञानेनेव द्विचन्द्रज्ञानस्य । मिथ्याज्ञाने च दोपः कारणम् । सा चाविद्येति वक्ष्यते । भ्रमस्थले बुद्धिरूपचित्तवृत्त्याकारस्यैव विपये आरोपः । 'विप्र पृथ्व्यादि चित्तस्थं न बहिष्ठं कदाचन । स्वप्नभ्रममदायेषु सर्वेरेवा- नुभूयते' इति स्मृतेः ॥ अतद्रूपप्रतिष्ठमितिवचनादन्यथाख्यातिरत्र दर्शन इति । वैशेपिकमतादयं विशेपः--तेपां वाह्यरजतारोपः, अस्माकं त्वान्तरस्येति । अत- एव प्राग्दृष्टमिदानीं नास्तीति स्वरूपतो वाधानुभवः । केचित्तु-वस्तुतस्तु अतद्रूपप्र- तिष्टत्वं तद्रूपप्रकारकत्वाभाव इति असंसर्गाविशिष्टं ज्ञानं भ्रम इति मतेऽपि सूत्रं सुयोजमिति । विपर्यय एवाविद्यास्मितारागद्वेपामिनिवेशरूपपञ्चपर्वाऽविद्या रागादीनामविद्यानुगतत्वादविद्यापर्यायत्वं विपर्ययत्वं च । एपामेव तमोमोहमहामो- हतामिस्रान्धतामिति संज्ञा इति दिक् ॥ ८ ॥ शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥९॥ शब्दश्च ज्ञानं च अनुपातिनी यस्य स तथाः । तथाच बाधावाधकाला- विशेपेण तदुभयजनकोऽर्थशून्यप्रत्ययो विकल्प इत्यर्थः । विपर्ययश्च चाधोत्तरं न खविपयेपु शब्दज्ञाने जनयति । प्रमाणवृत्तिश्चार्थवतीति तयोर्ध्यावृत्तिः । अस्योदाहरणानि-राहोः शिरः पुरुपस्य चैतन्यम् । एवं 'एप वन्ध्यासुतो याति खपुप्पकृतशेखरः। मृगतृष्णाम्भसि मातः शशधनुर्धरः।' इत्यादीनि । वाधो- त्तरमपि हि तादृशज्ञानैः शब्दज्ञानरूपो व्यवहारः क्रियत इति । वैशेपिकैश्चैता- न्याहार्यज्ञानान्युच्यन्ते ॥ ९ ॥ विकल्पं लक्षयति-शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः । शब्दवि- .

भावागणेशीय नागोजीमट्टीयवृत्ती । १ . पयकज्ञानमनुपतति तजन्यो वृत्तिविशेप इत्यर्थः । अनेन विशेपदर्शनकालेऽपि व्यवहारानिवृत्तेविपर्ययाद्भेद उक्तः । वस्तुशून्योऽर्थशून्यः । तेन प्रमाणवृत्तेर्भेद उक्तः । यंथा चैतन्यपुरुषयोरभेदेन . भेदस्य वस्तुतस्तत्राभावाच्चैतन्यं पुरुषस्य स्वरूपमिति शब्दज्ञानोत्तरं चैत्रस्य गौरित्यादाविव मेदमूलसंसर्गविपया वृत्तिः । यद्वा विवेकि- नामपि शब्दप्रयोगज्ञानयोर्जनकस्तदारोपो विकल्पः । [भेद एव च व्यपदेशशब्दे- नोच्यते विशिष्टोऽपदेशो व्यवहारो यस्मादिति व्युत्पत्तेः । ] राहोः शिरो वन्ध्यासुत इत्यादि चोदाहरणम् । .. •(?) यथा वाणस्तिष्ठतीति । अत्र हि गतिनिवृत्तिः प्रतीयते । तत्राभावो नाम (न) कश्चिदर्थस्तस्माद्गतिनिवृत्तिः कल्पिता । तस्या अपि भावरूपत्वं तत्रापि पूर्वापरीभाव इति कल्पनापरम्परा । पूर्वापरीभूतकर्मक्षणप्रचयस्यै. वैकंफलावच्छिन्नस्य धात्वर्थत्वादिति दिक् । अन्यरेतान्याहार्यज्ञानानीत्युच्यन्ते ॥ ९ ॥ अभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥१०॥ प्रकृतत्वादुक्तवृत्तीनां योऽभावोऽनुत्पादः तस्य प्रत्ययः कारणं तमः तदा- लम्बना तद्विपयिणी तमःप्रचुरचित्तविपयिणीति यावत् , एवंभूता वृत्तिर्नि- देत्यर्थः । जाग्रत्स्वप्नस्य (स्थ )वृत्युपरमे चित्तस्य स्वगतसुखादिविपयिणी नि- दाख्या वृत्तिरनुमीयते । सुखमहमस्वाप्सं दुःखमहमस्वाप्सं गाढं मूढोऽहम- स्वाप्समित्येवं सात्विकादिनिद्रोत्थितानां त्रिविधस्सरणादतोऽपि निद्रा वृत्तिरिति । शुद्धतार्किकास्तु इमामपि वृत्तिं स्वप्नमध्ये प्रवेशयन्ति । सुपुप्त्यवस्थां तु ज्ञान- शून्यस्वरूपां ज्ञानकारणाभावादेवेच्छन्ति । अस्माभिरपि सर्ववृत्तिशून्याप्यवस्था स्वीक्रियत एव । तस्यां च गाढं तमो दोप इप्यते । "सत्त्वाजागरणं विद्यादजसा स्वापमादिशेत् । प्रस्थापनं तु तमसा तुरीयं त्रिपु संततम्" इति स्मृतेः । इन्द्रियाद्युत्पत्तेः प्रागेव हिरण्यगर्भस्य ज्ञानोत्पत्त्या न ज्ञानसामान्ये त्वानोयो- गादीनां हेतुत्वलप्तिसंभवो येन ज्ञानकारणाभावादेव सावस्थोपपायेतेति ॥१०॥ निद्रां लक्षयति---अभावप्रत्ययालम्बना वृत्तिनिद्रा । प्रकृतत्वादुक्तानां वृत्तीनामभावस्य प्रत्ययः कारणं बुद्ध्यावरकं तमः तदालम्वना स्खपिमीलाकारा आवरकतमोविपया च तदाच्छादितचित्तगतसुखादिविषया वृत्तिः सा निद्रे- त्यर्थः । पुनर्वृत्तिपदं निद्राया वृत्तित्वे वहूनां विप्रतिपत्तेस्तद्दााय । 'जाग्रत्स्वप्नः सुपुप्तं च गुणतो बुद्धिवृत्तयः' इति स्मृतेश्च । तदुद्भूततमआच्छादितबुद्धिसत्त्वस्य वाह्यवृत्त्यभावात् तद्गुणसुखादीन्यवबुध्यमानः पुरुषोऽन्तःसंज्ञ उच्यते । नच वृत्त्य- भाव एवास्तु, सुखमहमखाप्सं प्रसन्नं मे मनः, दुःखमहमखाप्समकर्मण्यं मे मनो यतो भ्रमत्यनवस्थितम् , मूढोऽहमखाप्सं गुरूणि मे गात्राणि अलसमिव मे चित्तमिति सुप्तोत्थितस्य स्मरणानुभवात् । अनुभवाभावे हि कथं स्मृतिः स्यात् । तदन्यतमग्रहणे नियामकं त्वदृष्टाद्येवेति बोध्यम् । अतएव 'त्रिपु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत्' इति श्रुत्या तत्रापि भोग्यमुक्तम् । यत्तु 'न तद्विभक्तमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्' इति श्रुत्या सुषुप्ते ज्ञानसा- मान्याभाववचनं तत्समग्रसुपुप्तिपरं, यत्रायमनुभवः 'सुखमहमखाप्सं न किंचि- पातञ्जलयोगसूत्रम्। [ समाधिपादः १ दवेदिषम्' इति । 'मुग्धेऽर्धसंपत्तिरिति वेदान्तसूत्राच तत्र 'सुखम्' इत्यस्य वृत्त्युत्थ- दुःखरहितमित्यर्थः । यत्तु सुषुप्तौ तमः साक्षिभास्यमेवेति । तन्न । साक्षिणोऽपरि- णामित्वेन संस्कारस्मृत्योरसंभवात् । एषा चैकाग्रतुल्यापि तामसत्वाद्योगपरिपन्थि- नीति । यत्तु त्वक्ष्मनोयोगरूपकारणाभावात्सुषुप्तौ ज्ञानसामान्याभाव इति । तन्न । इन्द्रियाद्युत्पत्तेः प्रागेव हिरण्यगर्भस्य ज्ञानोत्पत्त्यां ज्ञानसामान्ये तस्य हेतुत्वाभा. वात् । गाढतमोरूपदोषेण सर्ववृत्त्यभावस्यास्माभिरप्यङ्गीकारात् ॥ १० ॥ अनुभूतविषयासंप्रमोषः स्मृतिः॥११॥ भूतौ पूर्वमनुभूतौ यो विषयौ वृत्तितदारूढार्थों तयोर्नास्ति संप्रमोपः स्तेयमपहारो यस्मात्प्रत्ययात्स प्रत्ययः स्मृतिरित्यर्थः । प्रमुष्टतत्ताके शब्दजन्यपदार्थोपस्थित्यादौ स्मृतिव्यवहाराभावात्, स पटः स घट इत्यादिप्रत्यय एव स्मृतिशब्दवाच्य इत्या- • शयः । तत्र स इति पूर्वोपस्थितिरपि भासत एवेति । अत्र प्रत्यभिज्ञाव्यावृत्तये संस्कारमात्रजन्यत्वं विवक्षणीयम् । प्रमुष्टतत्ताकं स्मरणं त्वनुभवमध्ये प्रवेशनी यम् । अनेन सूत्रेण मुख्यस्मृतिरेव लक्षिता । प्रमाणेत्यादिवृत्तिविभागसूत्रे तु संस्कारमात्रजन्यगुणत्वेन प्रमुष्टतत्ताकमपि तज्ज्ञानं स्मृतिशब्देन गृहीतमिति न विभागन्यूनता । निरोद्धच्या वृत्तयो व्याख्याताः ॥ ११ ॥ स्मृतिं लक्षयति-अनुभूतविषयासंप्रमोषः स्मृतिः । अनुभूतविष- यादधिकस्य संप्रमोषः स्तेयं परिग्रहो यत्र नास्ति सा वृत्तिः स्मृतिरित्यर्थः । अनुभूतविषयादनधिकविषयेति यावत् । एवं चानुभवसमानविषया प्रायः, कदा- चिन्यूनविषया, सर्वथा नाधिकविषयेति तात्पर्यम् । तत्र घटमहं जानामीत्यनु- व्यवसायरूपानुभवस्य विषय-वृत्तिरूपज्ञानोभयविषयकत्वात् , संस्कारस्य तादृशस्यैव जननात् तदुभयविषयैव स्मृतिरिति भाष्ये स्पष्टम् । अयं घट इति पूर्वानुभ- वतस्तत्समानविषयकस्य स घट इत्येव स्मरणस्यानुभवात् । व्यवसायतः संस्कारसत्त्वेऽपि तजन्यस्य भाष्यकृता स्मृतित्वानभ्युपगमात् । प्रमुष्टतत्ताकस्य शब्दजन्यपदार्थोपस्थित्यादिरूपस्य स्मरामीत्य(न)नुभवेनानुभवमध्ये एव प्रवेश इति कश्चित् ॥ अस्मदुक्तव्याख्याने तु तस्यापि स्मृतित्वे न दोषः ॥ वस्तुतो व्यवसा- योऽपि उभयाकारनिर्भास उभयोरपि चितिप्रतिविम्बनादिति बोध्यम् । अतएव घटमहं जानामीति ज्ञानविशेष्यकोऽनुभवः । स घट इति ग्राह्यविषयविशेष्यक स्मरणम् । पूर्वानुभूततत्तेव तत्तावृत्तेविषयविषयकसंस्कारजनकत्वात्स्वविषयकसंस्का- रजनकतेति भाष्याशयः । तत्रानधिगतार्थविषयोऽनुभवः । वृत्त्यन्तरगोचरार्थ- विपया स्मृतिरिति मेदः । नच स्वप्ने देशकालान्तरानुभूतस्य पित्रादेर्देशकालान्तरसं- वद्धतया स्मरणेन तत्रापि संप्रमोषोऽस्त्येवेति चेत् । न । कल्पितस्मर्तव्यविषयत्वेन तस्य विपर्ययात्मकत्वात् । प्रमाणाभासे प्रमाणव्यवहारवत् स्मृत्याभासत्वेन स्मृति- व्यवहारोऽन्येषाम् । यदाप्यनुभूतार्थमात्रविषयः स्वप्नस्तदापि प्रत्यक्षायमाणत्वेन भानादितरस्मृतिवैलक्षण्येन विपर्ययतैव तस्येति बोध्यम् । ईदृशस्मृतित्वमेवाभ्युपेत्य -

भावागणेशीय-नागोजीभट्टीयवृत्ती ।
११
-
खप्नरूपा स्मृति वितस्मर्तव्येत्युक्तम् । भावितत्वेन सूचितः स्मर्तव्योऽर्थो यये-
त्यर्थः ॥ अयमप्युत्सर्ग इति द्रष्टव्यम् । आसां च वृत्तीनां सुखदुःखमोहात्मकत्वा-
क्लेशरूपतया एता निरोद्धव्या इति दिक् ॥ ११॥
इतः परं निरोधोपाय उच्यते--
अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १२ ॥
वक्ष्यमाणाभ्यासवैराग्ये ताभ्यां मिलिताभ्यां चित्तवृत्तिनिरोधो भवतीत्यर्थः ।
तत्र चित्तनद्या वैराग्येण विपयमार्गगं वृत्तिस्रोतः प्रतिवध्यते । विवेकदर्शना-
भ्यासेन च विवेकमार्गगं वृत्तिस्रोत उद्वाह्यते । आभ्यां व्यापाराभ्यां निरोधाख्ये.
कैवल्याब्धौ चित्तनदी विलीयते । इत्युभयाधीनो वृत्तिनिरोधः ॥ १२ ॥
अथासां निरोधे उपायमाह-अभ्यासवैराग्याभ्यां तन्निरोधः । वक्ष्य-
माणलक्षणाभ्यासवैराग्याभ्यां तनिरोध इत्यर्थः । तत्र चित्तनद्या विपयमार्गगं
वृत्तिस्रोतः विपयदोपदर्शनजेन वैराग्येण प्रतिवध्यते । विवेकदर्शनाभ्यासेन च
विवेकमार्गगं वृत्तिस्रोत उद्वाह्यते । तेन च ध्येयाकारवृत्तिप्रवाहस्य बलवत्त्वं
दाऱ्या 'चेति उभयाधीनश्चित्तवृत्तिनिरोधः ॥ आभ्यां विनिवृत्तवाह्यामिनिवेशानां
चित्तवृत्तीनामन्तर्मुखतया खकारणे चित्ते शक्तिरूपतयाऽवस्थाने सति निरोधाख्ये
कैवल्याब्धौ चित्तनदी विलीयत इति दिक् ॥ १२ ॥
अभ्यासवैराग्ये क्रमेण लक्षयति सूत्रवर्गण-
तत्र स्थितौ यत्नोऽभ्यासः ॥ १३ ॥
तत्र तयोर्मध्ये स्थितौ विवेकपर्यन्तं चित्तस्थैर्यार्थ प्रयत्नो वक्ष्यमाणानां
श्रद्धावीर्यस्मृतिप्रज्ञारूपसाधनानां पुनःपुनरनुष्ठानमभ्यास इत्यर्थः ॥ १३ ॥
अभ्यासं लक्षयति-तत्र स्थितौ यत्नोऽभ्यासः । तत्र तयोर्मध्ये राजस-
तामसवृत्तिरहितस्य सात्त्विकमात्रवृत्त्येकाग्रता स्थितिस्तत्र तनिमित्तं तत्संपादनेच्छया
तत्साधनविपयानुष्टाने या यत्नधारा सोऽभ्यास इत्यर्थः ॥ १३ ॥
अनुष्ठानाय अभ्यासस्य दायमपि लक्षयति-
सतुदीर्घकालनैरन्तर्यसत्काराऽऽसेवितोदभूमिः॥१४॥
स तु अभ्यासो दीर्घकालेन सेवितो नैरन्तर्येणाव्यवधानेन च सेवितस्तपो-
ब्रह्मचर्यादिरूपैः सत्कारैश्च सेवितो दृढभूमिर्भवति । व्युत्थानसंस्कारेणानभि-
भूतां स्थिति जनयतीत्यर्थः ॥ १४ ॥
तस्यैव व्युत्थानसंस्कारेण अनादिनाऽप्रतिवन्धाय विशेषमाह-स तु दीर्घ-
कालनैरन्तर्यसत्काराऽऽसेवितो दृढभूमिः । सः अभ्यासो दीर्घकालेन
सेवितो नैरन्तर्येण सेवितो ब्रह्मचर्येण श्रद्धातपआदिमिः सत्कारैश्च सेवितो दृढभूमि-
युत्थानसंस्कारानमिभूतो भवतीत्यर्थः ॥ १४ ॥

. १२ पातञ्जलयोगसूत्रम् । [ समाधिपादः १ योगहेतुवैराग्ययोर्मध्ये प्रथममपरवैराग्यं लक्षयति- दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा- वैराग्यम् ॥१५॥ अपरवैराग्यं तावञ्चतुर्विधम्-यतमानसंज्ञा, व्यतिरेकसंज्ञा, एकेन्द्रियसंज्ञा, वशीकारसंज्ञा चेति । तत्र दृष्टेष्वैहिकेषु विपयेपु, आनुश्राविकेषु अनुश्रवाख्य- वेदोक्तेषु विषयेषु स्वर्गादिषु, वितृष्णस्य आद्यवैराग्यत्रययुक्तस्य चित्तस्य जाय. माना या वशीकारसंज्ञा सा योगहेतुवैराग्यमपरमित्यर्थः । वैराग्यान्तरस्य परतया वक्ष्यमाणत्वात् । अयं भावः । यतमानादिवैराग्ये सत्यपि वशीकारं विना विष- यसांनिध्ये योगभ्रंशो भवति । अत आद्यवैराग्यनयाभ्यासादुत्पद्यमाना वशी- कारसंज्ञैव योगहेतुरिति । वैराग्यचतुष्टयं तन्नान्तरे प्रोक्तं तद्यथा-"ज्ञानपूर्वक- वैराग्यसाधनानां दोषदर्शनादीनामनुष्ठानं यतमानसंज्ञात्वेन परिभापिता वितृष्णा • प्रथमा भूमिका । जितान्येतानीन्द्रियाणि, एतानि च जेतव्यानीति व्यतिरेकावधा- रणयोग्यता द्वितीया भूमिका । बाह्येन्द्रिय विषयेषु रूपादिषु रागद्वेषादिक्षये सति, एकस्मिन्नेव मनसि मानादिविषयकरागद्वेषाद्यपसारणं तृतीया भूमिका । प्रकृष्टविप- यसांनिध्येऽपि रागादिवासनानुद्वोधश्चतुर्थी भूमिका वशीकारसंज्ञा वितृष्णेति॥१५॥ तत्रादावपरवैराग्यमाह-दृष्टानुश्रविकविषय वितृष्णस्य वशीकारसंज्ञा- वैराग्यम् । अपरवैराग्यं तावच्चतुर्विधम् । यतमानसंज्ञा व्यतिरेकसंज्ञा एकेन्द्रियसंज्ञा वशीकारसंज्ञा च ॥ तत्र वैराग्यसाधनानामर्जनरक्षणक्षयहिंसाद्यनन्तदोपदर्शनादीनां ज्ञानपूर्वमनुष्टानमाद्यम् । 'विरक्तिर्दोपदर्शनात्' इति स्मृतेः ॥ जितान्येतानीन्द्रि- याणि एतानि जेतव्यानीति व्यतिरेकावधारणं द्वितीयम् । वाह्येन्द्रियविषयेषु राग- द्वेषादिक्षये सति एकस्मिन्नेव मनसि मानापमानादिविषयकरागद्वेषाद्यपसारणं तृती- यम् एतत्रितयाभ्यासेन. हि विषयसंयोगेऽपि दोषदर्शनमप्रतिवद्धं जायते 'वैराग्याद्दोपदर्शनम्' इति स्मृतेः ॥ चतुर्थलक्षणमिदं सूत्रम् । . दृष्टेप्वैहिकेषु ख्यन्नपानैश्वर्यादिषु आनुश्रविकेषु वेदप्रतिपादितेषु वर्गकरणलीनत्वप्रकृतिलीनत्वा- णिमाद्यष्टैश्वर्यादिषु वितृष्णस्य संनिहि(ता(?) तेषु रूपादिपु मा)नापमानादिषु चाक्षुब्धस्याऽऽद्यवैराग्यत्रययुक्तस्य चित्तस्य या वशीकारसंज्ञा प्रकृष्टविपयसान्निध्येऽपि तेषूपेक्षावुद्धिर्ममैवैते वश्या नाहमेपामिति च या बुद्धिस्तत्संज्ञकं वैराग्यमित्यर्थः । नतु रागाभावमानं विषयासानिध्येन रागाभावे विरक्तत्वापत्तेः । आद्यवैराग्यत्रयवतोऽपि विषयसानिध्ये योगभ्रंशो भवतीति चतुर्थवैराग्यमेव योगहेतुरिति भावः ॥ १५ ॥ परवैराग्यं लक्षयति- तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ १६ ॥ तदिति वैराग्यं परामृश्यते । पुरुपख्यातेरात्मद्वयान्यतरसाक्षात्काराद्धेतोरुत्प-र द्यमानं सकलगुणेष्वात्मोपकरणेषु वैतृष्ण्यमलंबुद्धिः परं श्रेष्ठं वैराग्यमित्यर्थः । पूर्वसूत्रे विषयदोपदर्शनजं विपयेष्वेव वैराग्यमुक्तम् , नतु ज्ञाने तत्साधने च । तदानीं च ज्ञानेऽपि विनाशित्वादिदोपदर्शनसाम्येऽपि नालंबुद्धिरूपं वैराग्यं भावागणेशीय-नागोजीभट्टीयवृत्ती । १३ संभवति, भविद्यानिवृत्त्याख्यप्रयोजनवत्त्वात् । अत्र सूत्रे ज्ञानेनाविद्यानिवृत्त्यादौ सिद्धे तेनैव दोपदर्शनेनात्मतत्वदृष्ट्या च ज्ञानसाधनेप्वात्मतृप्तस्योपेक्षोच्यत इति वैराग्ययोर्भेदः । एतस्मिन्नेव च वैराग्ये सति कैवल्यनियमो, न पूर्ववैराग्य इत्य- तोऽस्य परत्वम् ॥ १६ ॥ तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् । उक्तवैराग्यवतो दृढतरगुणपुरुपवि- वेकज्ञानाद्धर्ममेघसमाधिरूपाद्धेतोरुत्पद्यमानं सकलगुणेष्वात्मोपकरणेपु गुणरूपायां सत्वपुरुषान्यताख्यातौ च यद्वैतृष्ण्यं चित्तस्य ज्ञानप्रसादावस्थानिष्पन्नात्मज्ञानता- रूपा तत्परमुत्कृष्टं वैराग्यमित्यर्थः । (पूर्व) विषयेष्विव ज्ञानेऽपि विनाशित्वादिदोषदर्श- नसत्त्वेऽपि अविद्यानिवृत्त्याख्यप्रयोजनवशेन तत्र नालंबुद्धिरूपं वैराग्यम् । सम्य-. ग्ज्ञानेनाविद्यानिवृत्तौ च तेनैव दोपदर्शनेन तत्राप्युपेक्षारूपं वैराग्यमिति भावः । यदुत्तरं निर्विपयज्ञानप्रसादमात्ररूपोऽसंप्रज्ञातः समाधिरिति तात्पर्यम् । अस्मिन्नेव वैराग्ये सति ऐहिककैवल्यनियमः ॥ १६ ॥ योगस्य प्रकृष्टं साधनं निर्दिष्टम् । इदानीं योगस्यावान्तरविभाग उच्यते सूत्रैः- वितर्कविचारानन्दास्मितानुगमात्संप्रज्ञातः ॥ १७ ॥ साक्षात्कारविशेपरूपैर्वितर्कादिभिरनुगमाद्धेतोः सम्यक्प्रज्ञावत्त्वेन संप्रज्ञात- नामा योगो भवति चतुर्विध इत्यर्थः । एकस्मिन्नेव चतुर्भुजादिव्यष्टिसमष्टिसंघा- तरूपालम्बने चतुर्विधः संप्रज्ञातः क्रमेण भवति । तत्र भूतेन्द्रिययोरश्रुतामता- शेषविशेपसाक्षात्कारे वितर्कपरिभापा । तेन च फलेनोपहितश्चित्तवृत्तिनिरोधो वितर्कानुगत उच्यते । तथा तत्रैवालम्बने कारणत्वेनानुगता ये प्रकृतिमहदहङ्कार- तन्मात्ररूपा भूतेन्द्रिययोः सूक्ष्माद्यर्थास्तद्गताशेपविशेपसाक्षात्कारे विचारसंज्ञा । तेन च फलेनोपहितश्चित्तवृत्तिनिरोधो विचारानुगतः । तथा तत्रैवालम्बने यश्च. तुर्विंशतितत्वानुगतः सुखरूपः पुरुषार्थोऽस्ति, तद्गताशेपविशेपसाक्षात्कारे आन- न्दसंज्ञा । तेन च फलेनोपहितश्चित्तवृत्तिनिरोध आनन्दानुगतः । यद्यपि दुःखमो- हादिधर्मजातं त्रिगुणात्मकं सकलवस्तुप्वस्ति तथापि सुखरागेणैव संसारादात्मनो बन्धाच्च तदेव मुख्यतो द्रष्टव्यम् । यथा तत्र दोपदर्शनेन योगजसिद्धिष्वपि वैराग्यं स्यादित्याशयेनानन्दमाने योग उपदिष्टः । तथा तत्रैवालम्वने जीवेश्वररूपं यत्पुरुपद्वयमस्ति तदन्यतरत्याशेपविशेषसाक्षात्कारे अस्मितासंज्ञा । तेन च फले- नोपहितश्चित्तवृत्तिनिरोधोऽस्मितानुगत इति । आसु च संप्रज्ञातभूमिकासु उत्स- र्गतः क्रमोऽप्यस्ति । स्थूलादिक्रमेणैव परमसूक्ष्मपर्यन्तं चित्तसमाधानसंभवात् । यस्य स्वीश्वरानुग्रहवशादादावेवोत्तमभूमिकालाभो भवति तस्य पूर्वपूर्वभूमिपु योगो नापेक्ष्यत इति संप्रज्ञातवरूपं विभागश्चोक्तः ॥ १७ ॥ . अथ संप्रज्ञातविभागमाह-वितर्कविचारानन्दामितानुगमात्संप्रज्ञा- । साक्षात्कारविशेषरूपैर्वितर्कादिमिरनुगमात् उपधानात्संप्रज्ञातश्चतुर्विधः । सम्यक् संशयविपर्ययराहित्येन प्रज्ञायते प्रकर्षेण ज्ञायते भाव्यखरूपं येन स संप्रज्ञा- -- तः १४ पातञ्जलयोगसूत्रम् । [समाधिपादः १ तसमाधिः भावनाविशेषः । स सवितर्कः सविचारः सानन्दः सास्मितश्च । भावना च भाव्यस्य विषयान्तरपरिहारेण चेतसि पुनःपुनर्निवेशनम् । वितर्कादीनां क्रमेण निरोधस्यापि क्रमः । उच्चारोहे क्रमिकसोपानपरंपरावत् । खतो निरोधे क्रमा- भावात् । वितर्कादिक्रम औत्सर्गिकः । एकदा चित्तस्य परमसूक्ष्मे प्रवेशस्य प्राय- शोऽसंभवात् । 'स्थूले विनिर्जितं चित्तं ततः सूक्ष्मं शनैर्नयेत्' इति स्मृतेः । किंच स्थूलादिविषये रागे उत्तरोत्तरभूमौ चित्तसमाधानासंभवः । अतः स्थूलादिसाक्षा- त्कारेण तत्र तत्र दोषदृष्ट्योत्तरोत्तरभूम्यारोहः । यदि तु कस्यचिदीश्वरप्रसादादादावे- वोत्तरभूम्यारोहो भवति तेन पूर्वभूमिकाभ्यासस्तत्सिद्धिकामनां विना न कार्यः । एतच भूमिकाचतुष्टयमेकस्मिन्नेवालम्बने कर्तव्यम् । अन्यथा पूर्वपूर्वोपासनात्याग- दोषापत्तेः, चित्तचाञ्चल्यदोषापत्तेश्च । तथाहि-यद्विराट्शरीरं चतुर्भुजादिकं वा खशरीरं वा पुरुषेश्वरसहितं जडचतुर्विंशतितत्त्वैः प्रकृत्या पुरुषेण च षड्विंशति- तत्वसंघातं समष्टिव्यष्ट्यात्मकमालम्बनमधिकृत्य प्रथमं भावना प्रवर्तते तदालम्बनं, तत्रालम्बने स्थूलयोर्महाभूतेन्द्रिययोर्विद्यमानानामशेषविशेषाणामतीतानागतवर्त- मानव्यवहितविप्रकृष्टानां गुणदोषाणामदृष्टाश्रुतामतानामपि पूर्वापरानुसंधानेन शब्दा- थोल्लेखेन च भावनया यः साक्षात्कारः स वितर्क इत्युच्यते । तेन फलेनोप- हितश्चित्तवृत्तिनिरोधो वितर्कानुगत इत्युच्यते । तत्रादृष्टाश्रुतामतानां पूर्व चिन्त- नासंभवेऽपि योगवलेनैवोत्तरोत्तरं तेषां साक्षात्कारो भवति । तस्यैव पुनः सवितर्क- निर्वितर्काख्यौ भेदो वक्ष्यति । वितर्के विपरीततर्कणं शब्दार्थज्ञानविकल्परूपमित्यग्रे स्फुटम् । अत्र स्थूलसाक्षात्कारे तप्तायःपिण्डवदेकीभावेन पुरुषपर्यन्तानां भान- मुत्तरे च पूर्वपूर्वहानिरिति भाष्ये स्पष्टम् । जपादिजन्यात् ध्रुवादीनां चतुर्भु- जादिसाक्षात्काराच्चायं विलक्षणः । तेषां हि तपोध्यानादितुष्टः परमेश्वरः स्वयं शरीरं निर्माय पुरः प्रकटीभूय वागादिव्यवहारं चक्रे । योगिनस्तु योगवलेन वैकु- ण्ठश्वेतद्वीपादिस्थमेव तच्छरीरमन्यत्रस्थिताः पश्यन्ति, तद्गतं बाह्याभ्यन्तरगुणदोपा- दिकमतीतादिरूपं पश्यन्तीति विशेषः । ततस्तत्रैवालम्बने दोषज्ञानेन स्थूलाकारदृष्टिं त्यक्त्वा कारणत्वेनानुगता ये तन्मात्राहंकारप्रकृतिरूपा भूतेन्द्रिययोः सूक्ष्मा अर्था- स्तेषु क्रमेण धारणादित्रयेण यस्तद्गताशेषविशेषसाक्षात्कारः स विचारः, विशेषण चरणं सूक्ष्मवस्तुपर्यन्तं यत्रेत्यर्थात्तदुपहितो विचारानुगतः । अस्य सविंचारनिर्वि- चाररूपौ भेदौ वक्ष्यति । नच स्थूलालम्वने कथं सूक्ष्मदृष्टियथार्था । सर्वेषां पति- शतितत्त्वकार्यतया कार्यकारणयोश्चाभेदेन पड्विंशतितत्त्वरूपत्वात् । तत्रापि कार्य- -रूपताऽस्थिरा कारणरूपतैव च सत्या । नचैवमप्यदृष्टस्य कथं भावना, श्रुत- मतप्रकारतयैव सामान्यतो भावनासंभवात् । अश्रुतामतविषयस्य च योगजधर्मव- लेनैव साक्षात्कार एवं सर्वत्र बोध्यम् । ततस्तत्रैवालम्बने तामपि दृष्टिं दोषदर्शनेन त्यक्त्वा चतुर्विंशतितत्त्वानुगतसुखरूपपुरुषार्थे धारणादित्रयेण पूर्ववदशेषविशेषतः सुखाकारः स आनन्द: ज्ञानज्ञेययोरभेदोपचारात् तदुपहितः सानन्दः । यद्यपि सुखवद्दुःखमोहावपि सर्वत्र तथापि सुखरागेणैव संसारादात्मदर्शनप्रतिवन्धाच तदेव मुख्यतोऽशेषविशेषतो योगेन द्रष्टव्यम् । यथा तत्र दोषदर्शनेन दुःखदृष्ट्या .

भावागणेशीव-नागोजीभट्टीयवृत्ती । १५ योगजसिद्धिष्वपि वैराग्यं स्यादित्याशयेनानन्दमात्रे योगोपदेश इति बोध्यम् । तत आनन्दपर्यन्तं दोषदर्शनेन विरज्य तत्रैवालम्बने जीवेश्वररूपं यत्पुरुषद्वयमस्ति तदन्यतरस्य कूटस्थचिन्मात्ररूपस्य जडेभ्यो विवेकेन य आत्माकारः साक्षात्कारः सोऽस्मिता, देहादिभिन्नोऽस्मीसेतावन्मात्राकारत्वादस्मीत्येतावन्मात्राकारत्वाद्वा । इतः परं ज्ञातव्याभावादेषा चरमभूमिका । अत्रास्मिताशब्देन विविक्तचेतनाकार- मात्रतोपलक्ष्यते। तेनादीनभावेन(?)य ऐश्वरश्चेतनतत्वसाक्षात्कारस्तस्यापि संग्रहः । तदनुगतोऽस्मितानुगतः । अस्यैव परा काष्टा धर्ममेघसमाधिरित्युच्यते । यस्योदये ज्ञानेऽप्यलंप्रत्ययरूपपरवैराग्यं जायते । तत्र पूर्व जीवात्मविषयास्मिता । तत- स्ततोऽपि सूक्ष्मा परमात्मविषया । जीवस्वरूपज्ञानं हि प्रत्यक्षं तत्रैव परिच्छि- नकूटस्थत्वादिज्ञानस्यैव तत्साक्षात्कारत्वात् । अयमेव सत्वपुरुषान्यताख्यातिश- ब्देनोच्यते। पारमेश्वरयोगस्तु कौमें उक्तः-'यत्र पश्यति चात्मानं नित्यानन्दं निरञ्जनम् । मामेकं स महायोगो भाषितः पारमेश्वरः । यत्र साक्षात्प्रपश्यन्ति विमुक्ता विश्वमीश्वरम्' इति । कारणरूपेण विभुत्वेन च सर्वत्रानुगमादस्मिताया अचेतनघटाद्यालम्बनेष्वपि संभव इति दिक् । चत्वारोऽप्येते सालम्वनाः सवीजा इति चोच्यन्ते ध्येयरूपालम्बनयोगाद्वृत्तिवीजसंस्कारोऽन्तत(?)श्चेति ध्येयम् ॥ १७ ॥ असंप्रज्ञातस्वरूपमुच्यते- विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ १८ ॥ तत्त्वज्ञानलक्षणयापि वृत्त्या विरम्यतामिति प्रत्ययः, ज्ञानेऽप्यलंबुद्धिः पर- वैराग्यम् । तदभ्यासात्पौनःपुन्याजायते यः संस्कारमानावशेषो वृत्तिनिरोधः स संप्रज्ञातादन्योऽसंप्रज्ञात इत्यर्थः । संस्कारमात्रशेप इत्यनेन मोक्षकालीननिरोध- व्यावृत्तिः । असंप्रज्ञाते व्युत्थानार्थ वृत्तिसंस्कारमानं तिष्ठति न तु वृत्तिः । मोक्षे तु चित्तस्यात्यन्तविलयात्संस्कारोऽपि न तिष्ठतीति विशेषः ॥ १८ ॥ असंप्रज्ञातमाह-विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः। तत्व- ज्ञानलक्षणवृत्तेरपि विरामोऽस्तु इति 'नेतिनेति' इत्युदीरितो यः प्रत्ययो ज्ञानेऽप्यलं- बुद्ध्यात्मा परवैराग्यरूपस्तस्याभ्यासात्पौनःपुन्याजायते यः संस्कारमात्रावशेषो वृत्तिनिरोधः स संप्रज्ञातादन्योऽसंप्रज्ञात इत्यर्थः । संस्कारमात्रशेष इत्यनेन मोक्ष- कालिकनिरोधव्यावृत्तिः । असंप्रज्ञाते हि संस्कारमानं चित्तं तिष्ठति नतु वृत्तिः । मोक्षे तु चित्तस्यात्यन्तं विलयात्संस्कारोऽपि न तिष्ठतीति विशेषः । विरामप्रत्यया- भ्यासेन पूर्वसंस्कारनाशेऽपि तज्जन्यसंस्कारस्य शेषः । तज्जन्या वृत्तिस्तु नाग्रे । तत्र चित्तस्य संस्कारमात्रयुक्तस्य योगयन्त्रितस्यावस्थानम् । सुपुप्तौ तु लय इति विशेषः । सर्वसंगविवर्जितत्वेन निःशेषक्लेशराहित्येन च समर्थशोधनं योगसिद्धान्तः । ततस्तत्पदार्थशोधनपूर्वकं वाक्यार्थनिष्ठता वेदान्तशास्त्रगम्या । तच्छोधनोपयुक्तत्व- मात्रेणानेकत्ववादो जीवानामानन्दरूपत्वाभावश्चात्रोक्तो नतु वास्तव इत्यविरोधः । असंप्रज्ञातयोगवतः प्रारब्धवशाध्युत्थानेऽपि वृत्त्यभाव एव वृत्तिजनकसंस्काराणां नाशादिति दिक् ॥ १८ ॥ ३ पा० यो० पातञ्जलयोगसूत्रम्। [समाधिपादः १ असंप्रज्ञातं द्विधा विभजते सूत्राभ्याम्- भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ १९ ॥ विदेहानां प्रकृतिलयानां च असंग्रज्ञातो भवप्रत्ययसंज्ञको भवति । भवो जन्मैव प्रत्ययः कारणं यस्येति व्युत्पत्तेरित्यर्थः । देहनरपेक्ष्येणैव बुद्धिवृत्तिमन्तः सिद्धा विदेहा इति विभूतिपादे भाप्यकारैरुक्तम् । ते च महदादयो देवाः, तेपा न साधनानुष्ठानम् ॥ १९ ॥ स च द्विधा भवप्रत्यय उपायप्रत्ययश्च । तत्राद्यं लक्षयति-भवप्रत्ययो विदेहप्रकृतिलयानाम् । विदेहाच प्रकृतिलयाश्चेति द्वन्द्वः । तत्र विदेहाः स्थूलदेहनिरपेक्षेण लिङ्गदेहेनाखिलव्यवहारक्षमा हिरण्यगर्भादयः । ते हि भूतेन्द्रि- यतन्मात्राहकारमहतामन्यतमदात्मत्वेन प्रतिपद्य तदुपासनया तद्वासितान्तःकरणाः पिण्डपातानन्तरं तदन्यतमे लीनाः संस्कारमात्रशेषमनसः स्थूलदेहरहिता अव- त्तिकत्वात्कैवल्यमिवानुभवन्ति, प्राप्तावधयस्तु पुनः संसारे विशन्ति । यथा वर्षा- तिपाते मृद्रूपा मण्डूकाः पुनर्वर्षासेकेन मण्डूकदेहमनुभवन्ति तद्वत् । ते हि दैनंदि- नप्रलये कदाचिच्च सर्गकालेऽपि स्वसंस्कारमात्रोपगतेन चित्तेन संस्कारशेषेण निरोधावस्थेन कैवल्यपदमिव प्राप्नुवन्तः प्राप्तेऽवधौ व्युत्थानकाले देवभावप्रापकसं- स्कारेण तद्भावं प्राप्य तत्फलमैश्वर्यादिकं ततो भुक्त्वा मुच्यन्ते । 'दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः । भौतिकाश्च शतं पूर्ण सहस्रं त्वाभिमानिकाः ॥ वौद्धा दश- सहस्राणि तिष्ठन्ति विगतज्वराः' इत्युक्तेः । तेपां च एतद्देहपातानन्तरं स्वखा- धिकारावसरे प्रादुर्भावरूपजन्ममात्रकारणकत्वाद्भवप्रत्ययः । भवो जन्म प्रत्ययः कारणं यस्येत्यर्थात् । प्रकृतिलयाश्च प्रकृत्युपासनया तच्छवलेश्वरोपासनया वा ब्रह्माण्डं मित्त्वा महत्तत्वपर्यन्तावरणान्यतीत्य प्रकृत्यावरणं गताः तदुपासनया तद्वासनावासितान्तःकरणाः पिण्डपातानन्तरं तत्र लीनास्तेऽपि साधनानुष्टानं विनैव तत्राविर्भावरूपाजन्मत एव तथाविधा भवन्ति । 'पूर्ण शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः' । इत्यवघिसमाप्तौ पुनः देवादिसंसारे विशन्ति । ततो मुच्यन्ते प्राग्वत् । तत्स्थास्तु विवेकख्यातेरभावात्साधिकारचेतसः कैवल्यपदमिवा- नुभवन्ति स्थूलदेहवृत्तिसजातीयवृत्त्यभावात् । अत एवेन्द्रियाद्युपासकानामिन्द्रि- याद्यमिमानिसूर्यादिप्राप्तेः फलत्वेन श्रवणम् । अयं चैषां विदेहेभ्यो विशेषः- तेपामल्पमैश्वर्य मलिनश्च विपयः । एते च तेपामपीशाः स्वसंकल्पमात्रेण निर्म- लसत्वविषयभोगा ईश्वरकोटय इत्युच्यन्ते । प्रलये प्रकृतिलीनत्वात्स्वतन्त्रा न गृह्यन्ते तस्य पुरुषार्थत्वात् । एवंच ते संसारप्राप्तिहेतुतया हेया इति भावः ॥ भवप्रत्यय इति पदं तन्त्रेण पष्ठीतत्पुरुषार्थकमपीति बोध्यम् ॥ १९ ॥ श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ २०॥ इदानीं मुख्यमुपायप्रत्ययमाह-श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इत- १ प्रकृतिलयस्य ।

भावागणेशीय-नागोजीभट्टीयवृत्ती । . रेषाम् । इतरेषां प्रकृतिलयान्तातिरिक्तानां श्रद्धाद्युपायजन्य एवासंप्रज्ञातो न जन्ममानादित्यर्थः । श्रद्धा आस्तिक्यवुद्ध्या विवेकख्यातियोगोत्कण्ठा । सा प्रति- वन्धसहस्राण्यपि तिरस्कृत्य भोगसंगाद्योगिनं रक्षति समर्था मातेव । तन्मूलक विवेकार्थिनो वीर्य तद्विषया धारणा । वीर्याच्च स्मृतिर्ध्यानम् । ध्यानाच्च समाधि- येयसाक्षात्कारफलकः । ततो ध्येयसाक्षात्काररूपः संप्रज्ञातो भवति । स एवं तत्त्वसाक्षात्कारो धर्ममेघसमाध्यवस्थां परां काष्ठामागतो रजस्तमसोरुन्मूलनेन प्रव- र्धमानो विषयावद्यदर्शी समस्तविषयपरित्यागरूपपरवैराग्यद्वारा असंप्रज्ञातस्योपायः । स हि स्वरूपप्रतिष्ठो निरालम्वन इति दिक् । संप्रज्ञातस्य तु भवप्रत्ययविशेपो न संभवतीति धारणाध्यानसमाधीनां संप्रज्ञातयोगस्यान्तरङ्गत्वेन तेषां निष्पत्तौ तत्रैव जन्मनि संप्रज्ञातावश्यंभावादिति बोध्यम् ॥ २० ॥ (अधिमानोपायानां) तीव्रसंवेगानामासन्नः ॥२१॥ अधिमात्रत्वं अतिप्रमाणत्वम् । अतिशयितत्वमिति यावत् । संवेगश्वानुष्ठाने श्रेष्ध्य(शैघ्य)मविच्छेदश्च । तीव्रसंवेगेन अधिमानसाधनवतामासन्नः विलम्ब- रहितः, योगो भवतीत्यर्थः ॥ २१ ॥ ते योगिनस्त्रयः । मृदूपायाः मध्योपायाः अधिमानोपायाश्च । उपायाः श्रद्धा- दयः । तेषां मृदुलादि प्राम्भवीयादृष्टवशात् । अघिमात्रलमतिशयितत्वम् । तेऽत्र प्रत्येकं त्रिधा मृदुसंवेगमध्यसंवेगतीवसंवेगाः । संवेग उपायानुष्टाने शैघ्यम् । तस्यापि मृदुत्वादि प्राम्भवीयादृष्टादेव । तत्राधिमात्रोपायाः क्षिप्रसिद्धिभाजः तेषां क्षिप्रतरत्वे हेतुं दर्शयति -तीव्रसंवेगानामासन्नः । अधिमानोपायानामि. त्यादिः, समाधिलाभस्तत्फललाभश्चेति शेषः । 'विनिष्पन्नसमाधिस्तु मुक्तिं तत्रैव जन्मनि' इति स्मृतेः ॥ २१ ॥ आसन्नतायामपि तरतमत्वरूपविशेपहेतुमाह- मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥ २२ ॥ मृदुरवमल्पता । मध्यत्वं प्रसिद्धम् । अधिमानत्वं च व्याख्यातम् । तानि तानि विशेषणतया भाष्ये व्याख्यातानि । तथा च संवेगविशेषणस्य तीव्रत्वस्य मृदुत्वादिनैविध्येन ततोऽप्यासन्नादपि विशेष आसन्नतरासन्नतमरूपो योगो भवतीत्यर्थः ॥ २२ ॥ तत्रापि विशेषमाह-मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः। मृदुतीवो मध्यतीव्रः अधिमानतीन इति शैघ्यं विधा । एवं च मृदुतीव्रसंवेगस्यासन्नस्ततो मध्यतीव्रसंवेगस्यासन्नतरः ततोऽप्यधिमात्रसंवेगस्यासन्नतम इत्यर्थः । ततोऽपीयपि. शब्द आगामिसूत्रस्थसाधनापेक्षया आसन्नतमसमाध्यादिलाभे ॥ २२ ॥ योगस्यासन्नतमत्वे किमिदमेव साधनमुताऽन्यदप्यस्तीत्याकाङ्क्षायामाह- ईश्वरप्रणिधानाद्वा ॥ २३ ॥ वक्ष्यमाणलक्षणो य ईश्वरः परमात्मा परब्रह्मादिशब्दवाच्यो नि[रुपा?रव]धि- कैश्वर्योपलक्षितश्चिन्मात्रः पुरुपविशेषस्तत्प्रणिधानात् 'तज्जपस्तदर्थभावनम्' इति ।

- १८ पातञ्जलयोगसूत्रम् । [समाधिपादः १ वक्ष्यमाणात्तद्विषयकधारणाध्यानसमाधित्रयतुल्यादप्यासन्नतमो योगस्तत्कालं च भवतीश्वरानुग्रहादित्यर्थः । तथा च पूर्वसूत्रोक्तमासन्नतमयोगसाधनं जीवात्म- योगिपरमिति ॥ २३ ॥ गुप्तं सुखदोपायान्तरमाह-ईश्वरप्रणिधानाद्वा । पूर्वसूत्रस्थं विशेष इत्य- नुवर्तते । वक्ष्यमाणलक्षणेश्वरस्य परब्रह्मादिशब्दवाच्यस्यौपाधिकैश्वर्योपलक्षितस्य चिन्मात्रपुरुषविशेषस्य प्रणिधानं 'तज्जपस्तदर्थभावनम्' इति वक्ष्यमाणं तद्विषयक- धारणाध्यानसमाधित्रयादल्पादपि आसन्नतमो योगस्तत्फलं च भवति । पूर्व हि संप्रज्ञातो जीवात्मसाधारण उक्तः । तत्र जीवात्मविषयसंप्रज्ञातादुक्तोपायेनैवासंप्र- ज्ञातस्यासन्नतमता । परमात्मसंप्रज्ञातात् तं विनापि स आसन्नतम इति भावः । अतएव श्रुत्यादिषु प्रायेण परब्रह्मज्ञानमेव मोक्षहेतुत्वेनोपदिश्यते । तस्मादयं मुख्यो मार्ग इति तत्वम् । किंच ब्रह्मात्मना चिन्तनरूपप्रेमलक्षणया भक्त्याभिमुख ईश्वरोऽस्य मोक्षो भवत्वित्यभिध्यायति । एवंच तस्याव्याहतेच्छवात्तद्रूपादभिध्या- नादस्य मोक्ष आसन्नतम इति तात्पर्यम् ॥ २३ ॥ ईश्वरं लक्षयति- क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः॥२४॥ क्लेशा अविद्यास्मितारागद्वेषाभिनिवेशा द्वितीयपादे व्याख्येयाः । कर्म धर्मा- धौं । विपाकाः कर्मफलानि जन्मायुर्भोगाः । आशयो ज्ञानादिवासनाः । एतैः कालत्रयेऽप्यपरामृष्टः पुरुषविशेप ईश्वर इत्यर्थः । यद्यपि जीवा अपि क्केशादिशून्या एव केशादेरन्तःकरणधर्मत्वात् । तथापि स्वामित्वसंबन्धेनैव क्केशाद्यभावस्य विवक्षितत्वाज्जीवव्यावृत्तिः । जीवा हि क्लेशादिफलयोः सुखदुःखयोर्भोक्तृत्वात्क्ले- शादिस्वामिन इति ॥ २४ ॥ अथ जीवव्यावृत्तमीश्वरखरूपमाह-क्लेशकर्मविपाकाशयैरपरामृष्टः पु- रुषविशेष ईश्वरः । अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः । कर्म धर्मा- धर्मों । विपाकाः कर्मफलानि जन्मायुर्भोगाः । आशयस्तदनुगुणं संसारसामा- न्यम् । एतैः कालत्रयेऽप्यपरामृष्टः पुरुषविशेष ईश्वर इत्यर्थः । जीवन्मुक्तप्रकृति- लीनादिव्यावृत्तये कालत्रयेऽपीति परामर्शशून्यत्वार्थकापरामृष्टपदलब्धम् । यद्यपि जीवा अपि क्लेशादिशून्या एव तेषामन्तःकरणधर्मवात् , तथापि खाश्रयखा- मित्वसंवन्धेनैव क्लेशाद्यभावस्य विवक्षणान्न दोषः । जीवा हि तत्फलदुःखादिभो- कृत्वात् क्लेशाद्याश्रयचित्तवामिनः । तदुक्तम्-स हि तत्फलभोक्तेति । यथा यो- पु वर्तमानौ जयपराजयौ स्वामिनि व्यपदिश्यते इति च भाष्ये । ईश्वरत्वं चास्ये- च्छामात्रेण सकलजगदुद्धरणक्षमलम् । तच्च ज्ञानक्रियासामर्थ्यातिशयसंपत्तिं विना न, सा चापहतरजस्तमोमलविशुद्धसत्वोपादानं विनेत्यालोच्य स्वयमेव सत्वमयं प्रधानमुपादत्ते । एतावतैव प्रधानप्रेरकतास्य यत् लोकोद्धरणेच्छया तदङ्गीकारः । उपाददानोऽपि नास्मदादिवत्तत्त्वमविद्वान् भवति । नहि नटो रामलमारोप्य तास्ताश्चेष्टा दर्शयन् भ्रान्तो भवति । एवंचेदमाहार्यमस्य रूपम् । वाधकालीने- ।

भावागणेशीय-नागोजीभट्टीयवृत्ती । १९ च्छाजन्यं ज्ञानमाहार्यम् । नचेच्छया सत्वोपादानं तेनचेच्छेत्यन्योन्याश्रयः, अना- दिलात् । पूर्वकल्पसंहारकाले पूर्णे मया सत्वप्रकर्ष उपादेय इति प्रणिधानपूर्वक तत्संहारे, ईश्वरसत्त्वे प्रधानसामान्यमुपागतेऽपि तदवधौ पूर्ण प्रणिधानवशात्पुनस्त- दुपादत्ते इत्यनादित्वेन शाश्वतिकवान्न दोषः । एवं संहारकाले तमउपादाने इति बोध्यम् । तत्र प्रकृतेर्दै शक्ती साहजिके सृष्टिशक्तिर्लयशक्तिश्चेति । तत्रेश्वरेण सत्खपरिग्रहे सृष्टिशक्तरुद्वोधः । तमःपरिग्रहे लयशक्तरुद्वोधः । तमःपरिग्रहे च योगनिद्रेत्युच्यते । तत्तच्छत्तयुद्वोधे खनादिवासनासहकारेण तत्तत्पुरुषभोगार्थ तथा तथा प्रधानं परिणमते इति न वैषम्यनैघृण्ये ईश्वरस्य प्रसज्यते इति बोध्यम् । नन्वीदृशे तस्मिन् किं मानमिति चेच्छ्रुतिस्मृत्यादिशास्त्रमिति गृहाण । तत्कर्तृकमन्त्रा- युर्वेदादौ अर्थाव्यभिचारनिश्चयात् प्रामाण्यस्य इष्टत्वेनान्यत्रापि तत्कर्तृके तत्व- रूपबोधकेऽपि तनिश्चयात् । नच तस्यान्यकर्तृकत्वं संभवति । ओषधीनां तत्संयो. गानां चान्वयव्यतिरेकयोरन्यस्य सहस्रेणापि पुरुषायुषैरशक्यत्वात् । नचागमादन्व- यव्यतिरेको ताभ्यां चागम इति तत्संतानयोरनादिलान्न दोषः, महाप्रलये तयोर्वि- च्छेदात् । विसंदृशपरिणामक्षीरेक्षुरसादेर्दधिगुडादिरूपात्परिणामात्पूर्व सदृशप- रिणामताया दर्शनेन महदादिरूपविसदृशपरिणामवतः प्रधानस्य कदाचित्सदृशपरि- णामावश्यकत्वेन साम्यावस्थारूपसदृशपरिणामस्यैव महाप्रलयत्वात् । तस्मादीश्व- खुद्धिसत्त्वप्रकर्षादेव वेद इति सिद्धम् । तस्य तत्त्वं वेदकारणात् वेदेन तथा वोधनाच, शास्त्रं तदेव वोधयति सदैवेश्वरः सदैव मुक्त एकश्चेति । अतस्त- दैश्वर्य तज्ज्ञानं च साम्यातिशयनिर्मुक्तम् । अन्येषां त्वौपचारिकमैश्वर्यमिति दिक् ॥ २४ ॥ निषेधमुखेन लक्षणमुक्त्वा विधिमुखेनापि तदाह- तत्र निरतिशयं सर्वज्ञबीजम् ॥ २५ ॥ सर्वज्ञत्वानुमापकं यज्ज्ञानस्य सातिशयत्वं तत्तत्रेश्वरे निरतिशयं विश्रान्त- मित्यर्थः । तथा च निरतिशयज्ञान ईश्वर इति लक्षणम् । अत्रेदमनुमानम् । ज्ञानं क्वचित्प्राप्तकाष्ठं सातिशयत्वात् , परिमाणवदिति ॥ २५ ॥ तत्र मानान्तरमाह-तत्र निरतिशयं सार्वश्यवीजम् । सर्वज्ञत्वस्यानु- मापकं यज्ज्ञानस्य सातिशयसमयमितो वहुज्ञानवानित्येवं तत्तत्रेश्वरे निरतिशय विश्रान्तमित्यर्थः । ज्ञानं च कचित्प्राप्तकाष्ठं सातिशयत्वात् परिमाणवदित्यनुमानम् । अत्र श्रुतिरनुकूलस्तर्कः । तस्य शिवेश्वरविष्ण्वादिविशेषसंज्ञावत्त्वं सर्वज्ञत्वतृप्तिचैत- न्यस्वातन्त्र्यालुप्तशकित्वानन्तशक्तिवरूपषडङ्गवत्त्वं ज्ञानवैराग्यैश्वर्यतपःसत्यक्षमाधु- तिस्रष्टुत्वात्मवोधाधिष्ठातृत्वरूपदशाव्ययत्वं च श्रुत्लादितोऽवसेयम् । नन्वेवं नित्य- तृप्तस्य स्वार्थतृष्णासंभवात् अप्रयोजना कथं प्रवृत्तिः । प्राणिकरुणया तत्प्रवृत्त्या नित्यत्वाद्वा न दोष इति चेत् । दुःखबहुललोकसर्जनानुपपत्तिरेवेति चेन्न। ज्ञानधर्मो- पदेशेन पुरुषकैवल्याय करुणया प्राण्यनुग्रहाय तदुपपत्तेः । भोगविवेकख्यातिरूपको- - २० पांतञ्जलयोगसूत्रम् । [समाधिपादः १ र्यकरणेन चरितार्थचित्तनिवृत्तौ हि कैवल्यं भवति । अतस्तदुपयोगिवैराग्यनिप्पत्तये दुःखवहुललोकसर्जनोपपत्तिरपि, उपपादितरीत्या शङ्कानुदयाचेति दिक् ॥ २५ ॥ तस्यैश्वर्यं नित्यमिति प्रतिपादयति- (स एष) पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ २६ ॥ स एप ईश्वरः पूर्वेपां हिरण्यगर्भादीनामपि गुरुरन्तर्यामिविधया ज्ञानचक्षुः- प्रदः । कालानवच्छिन्नत्वान्नित्यत्वा...भवतीत्यर्थः । तथा च श्रुतिः "जन्म- निरोधं प्रवदन्ति यस्य ब्रह्मवादिनो हि प्रवदन्ति नित्य"मिति । जन्मनिरोधं जन्माभावं ईश्वरस्य च जीववदेव...सति(?)श्चिन्मानस्यैश्वर्यवानुपाधिरस्ति । 'कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः' इति स्मृतेः । ईश्वरस्याशेपविशेपास्तु वेदान्तशास्त्रे परीक्षिताः ॥२६॥ तत्र ब्रह्मादिभ्यो विशेषमाह-स एष पूर्वेषामपि गुरुः कालेनानव- च्छेदात् । स एष ईश्वरः पूर्वेषां पूर्वसर्गोत्पन्नानामपि ब्रह्मविष्णुहरादीनामपि गुरुः स्रष्टाऽन्तर्यामिविधया वेदादिद्वारा ज्ञानचक्षुःप्रदश्च कालानवच्छिन्नत्वात्तेषां कालेन शतवर्षादिनावच्छेदादिति भावः । 'यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै' इति श्रुतेरिति भावः । अस्य च निमित्तकारणवान्न प्रकृतिस्वातं- "यक्षतिः । घटे कुलालवत् दण्डादीनां कारणत्वेपि तद्वदेवास्य खतन्त्रलमपि । अत्रेश्वरस्य सर्वपितृत्ववचनात्सर्वान्तर्यामित्वेन रूपेण गुरुत्वेन जीवानामपि आत्मे- श्वर इति वेदान्तवाक्यार्थोऽपि सूचितः । यो हि यस्याधिष्ठाता स तस्यात्मेति दृष्टम् । यथा सूर्यश्चक्षुषः । यथा वा जीवो देहस्य तेनाविभागलक्षणोऽमेद एव 'अविभागो वचनात्' इति सूत्रेण वेदान्तेऽप्युक्तः । एतन्मूलक एव जीवब्रह्मणोरं- शाशिभावव्यवहार इति दिक् । एतत्सर्गादौ स सिद्धस्तथा क्रान्तसर्गादावप्याग- मात्स सिद्ध इति ॥ २६ ॥ तस्य वाचकः प्रणवः ॥२७॥ तस्य ईश्वरस्य प्रणवो मुख्यं नामेत्यर्थः । "अदृष्टविग्रहो देवो भावग्राह्यो मनोमयः । तस्योङ्कारः स्मृतो नाम तेनाहूतः प्रसीदति” इति स्मृतेः ॥ २७ ॥ तत्प्रणिधानाय तन्मन्त्रमाह-तस्य वाचकः प्रणवः। तस्येश्वरस्य । एवंचे- श्वरः प्रणववाच्यः । वाच्यवाचकभावश्च स्वाभाविकः ईश्वरस्यैतत्सूत्ररूपसंकेतात् । ननु यदि स्वाभाविकः संवन्धः शब्दार्थयोः संकेतेन व्यज्यते ततो यत्र नास्ति न तन व्यज्येत । नवविद्यमानो घटो दीपेन व्यज्यते । तस्मात्संकेत एव वाच- कत्वं, संकेतकृतमिति तु राहोः शिर इतिवदिति चेन्न जनकत्वादेरपीश्वरसंकेत- रूपत्वापत्तेः । सर्वेषु च शब्देषु सर्वार्थसंवन्धोऽस्त्येवेति नोक्तदोपः । संकेतस्त्वीश्व- रस्य स्थितमेव संवन्धं बोधयति । पितापुत्रसंवन्धस्यायमस्य पितेति संकेतेन बोधवत् । एवं चेदं सूत्रं ईश्वरसंकेतरूपम् । अन्यथास्य तत्वमपि भज्येत । एवंच यत्रार्थे ईश्वरसंकेतः स तस्य वाच्यः । अन्यस्तु लक्ष्यादिरिति विवेकः । संकेतश्चा- । ( भावागणेशीय-नागोजीभट्टीयवृत्ती । ध्यासरूप इति तृतीये भाष्यद्वक्ष्यति । अध्यासश्चैश्वरो योऽयं शब्दः सोऽयमर्थ इत्याकार एव । अस्यायमर्थ इति तु विकल्पः । एवं च तद्विपयस्तन्मूलं चावि- भागरूपतादात्म्यमेव शक्तिरिति बोध्यम् । प्रलये शब्दानां प्रधानसाम्ये जातेऽपि संस्कारवशात्सर्गान्तरे पूर्ववच्छक्तियुक्तानामेवाविर्भावः । पूर्वसंकेतानुसारेण च भगवता संकेतः क्रियते । व्यवहारपरंपराया नित्यतया च नित्यः शब्दार्थसंवन्ध इति आगामिनो योगिनः प्रतिजानते इति भाष्यकृतः ॥ २७ ॥ प्रणिधानं लक्षयति- तजपस्तदर्थभावनम् ॥ २८ ॥ प्रणवस्य जपः प्रणवार्थस्य ब्रह्मणश्चिन्तनं धारणाध्यानसमाधिरूपं प्रणि- धानमिति शेपः । 'जपश्च प्रणवं नित्यं ब्रह्मविष्णुशिवात्मकम् । कोटिसूर्यसमं तेजो ध्यायेदात्मनि निर्मलम्' इत्यादिस्मृतिभ्यः प्रणवजपस्य प्राथमिकध्यानाङ्ग- त्वमिति । ब्रह्मविष्णुशिवात्मकं ब्रह्मादीनामप्यन्तर्यामि । तेजश्चैतन्यम् ॥ २८ ॥ अथ तत्प्रणिधानमाह-तजपस्तदर्थभावनम् । तस्य प्रणवस्य जपस्तेने सहाचिन्त्यैश्वर्ययुक्तस्य तदर्थस्य परमात्मनः श्रद्धाद्यैर्भावनं ध्यानम् । वाच्यवाचक- भावं ज्ञात्वा क्रियमाणं सर्वार्थदमुपासनम् । [सर्वार्थाश्चित्तैकाम्यादयः ] प्रणवे ब्रह्मवि- ष्ण्वादिध्यानमपि तदन्तर्यामिचैतन्याभिप्रायेण ॥ २८ ॥ ईश्वरयोगस्य साङ्ख्ययोगापेक्षयातिश्रेष्टत्वप्रतिपादनार्थमुत्कर्षमाह- ततः प्रत्यक्चेतनाधिगमोऽन्तरायाभावश्च ॥ २९ ॥ तत ईश्वरप्रणिधानात् प्रत्यक्चैतन्यस्य जीवस्य साक्षात्कारोऽपि भवति । च- शब्द . आसन्नतमयोगसमुच्चये । तथा योगान्तरायाणां योगविनानां निवृत्तिश्च भवतीत्यर्थः ॥ २९॥ अस्योत्कर्षमाह-ततः प्रत्यक्चेतनाधिगमोऽन्तरायाभावश्च । तत ईश्वरप्रणिधानात् , प्रतीपं विपरीतमञ्चति विजानाति स चासौ चेतनश्चेति प्रत्यक्चे- तनो जीवस्तदधिगमस्तत्साक्षात्कारः । नचेश्वरविपयात्प्रणिधानात्कथं जीवसाक्षा- त्कारः ? सादृश्यात् । यथैकशास्त्राभ्यासः सदृशार्थशास्त्रान्तरज्ञानजनकः । यथेश्वरः शुद्धः प्रसन्नः केवलोऽनुपसर्गस्तथा वुद्धः प्रतिसंवेद्यपि जीव इति । अन्तरायाणां योगविघ्नानां व्याध्यादीनां निवृत्तिश्च भवतीत्येवमुत्कर्षोऽस्येति भावः ॥ २९ ॥ अन्तरायानाह- व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनाल- व्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽ- न्तरायाः॥३०॥ अतो व्याध्यादयश्चित्तविक्षेपका अतो योगान्तराया इत्यर्थः । तत्र व्याधिः २२ पातञ्जलयोगसूत्रम् । [समाधिपादः १ धातुरसकरणानां वैषम्यम् । धातवो वातपित्तकफाः, रसा आहारपरिणामाः, करणानि त्वक्चक्षुरादीनि एषां वैषम्यं स्वभावप्रच्यवः । स्त्यानमकर्मण्यता । योगानुष्ठानाक्षमत्वमिति यावत् । संशयो गुरुशास्त्रोक्तसाधनेषूभयकोटिकं ज्ञानम् । प्रमादोऽनवधानम् । आलस्यं कायचित्तयोर्गुरुत्वादप्रवृत्तिः । अविरतिर्विपया- मिलापः । भ्रान्तिदर्शनं गुर्वादिप्रमितार्थविपरीतनिश्चयः । अलब्धभूमिकत्वं वक्ष्यमाणानां योगभूमीनां साधनानुष्ठानेऽप्यलाभः । अनवस्थितत्वं योगभूमि- लाभेऽपि योगभ्रंश इति ॥ ३० ॥ तानन्तरायानाह-व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिद- र्शनालन्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः। रज- स्तमोजन्या एते नव चित्तविक्षेपकत्वाद्योगान्तरायाः । चित्तस्यं विक्षेपोऽनेक- वृत्तित्वम् । व्याधिर्वातपित्तश्लेष्मणां वैषम्यजन्यः । स्त्यानं योगानुष्ठानाक्षमत्वम् । संशयः शास्त्रोक्तसाधनेषूभयकोटिस्पृरज्ञानम् । प्रमादः शमादिभावनाभावः । आलस्य कायचित्तयोर्गुरुत्वादप्रवृत्तिः । अविरतिर्विषयाभिलाषः । भ्रान्तिदर्शनं शास्त्रोक्तार्थविपरीतनिश्चयः । अलब्धभूमिकत्वं वक्ष्यमाणयोगभूमीनां साधनानु- ष्ठानेऽप्यलाभः । अनवस्थितत्वं योगभूमिलामेऽपि योगभ्रंशः ॥ ३० ॥ व्याध्यादिभ्यश्चान्येऽप्यन्तराया भवन्तीत्याह- दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसह- भुवः ॥ ३१॥ दुःखं स्वतो द्वेष्यम् । दौर्मनस्यं चित्तचाञ्चल्यम् । अङ्गमेजयत्वमङ्गकम्पः । श्वासो देहान्तायोरधिकप्रवेशः । प्रश्वासो देहाद्वायोरधिकनिर्गमः । एते विक्षेप- सहभुवो व्याध्यादिव्यवधानेनैव जायन्त इत्यर्थः । अथवा दुःखादयो वृत्तिचा- अल्यरूपविक्षेपोद्भवा इत्यर्थः ॥ ३१ ॥ अन्यानप्यन्तरायानाह-दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा वि- क्षेपसहभुवः। दुःखं खतो द्वेष्यम् । दौर्मनस्यं चित्तचाञ्चल्यम् । अङ्गमेजयत्वं अङ्गकम्पः । श्वासो वाह्यवायोरन्तःप्रवेशः । प्रश्वासः आन्तरवायोर्वहिर्निर्गमः। एते चित्तचाञ्चल्यरूपविक्षेपसहभुवः तज्जन्या इत्यर्थः ॥ ३१ ॥ सूत्रद्वयोक्ता अन्तराया ईश्वरप्रणिधाननिरस्या इति मुख्यकल्पाभिप्रायेणैवो. कम् । तदसंभवे तु यत्र कुत्रचिदैकाग्र्येणाप्येते बलवदभ्यासतो निरसनीया भवन्तीत्याह- तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः॥ ३२॥ तेपामन्तरायाणां प्रतिषेधार्थमन्ततो यत्र कुत्रचिदप्येकस्मिन्नर्थे अभ्यासः कार्य इत्यर्थः ॥ ३२॥ ईश्वरप्रणिधानवतस्त्वेते खत एव न भवन्तीत्युक्तम् । तदभाववतस्तु वलवद- भ्यासनिरसनीया - एत. इत्याह-तत्प्रतिषेधार्थमेकतत्वाभ्यासः । तेषाम- भावागणेशीय-नागोजीभट्टीयवृत्ती । २३ । न्तरायाणां प्रतिषेधार्थमन्ततो यत्र कुत्रचिदप्येकार्थेऽभ्यासः कार्यः । तेन चोदितायामेकाग्रतायां विक्षेपाः प्रशममुपयान्ति । एकाग्रतोपदेशादेव चित्तमे- षामक्षणिकं स्थिरमनुभूतस्मृतिदर्शनाच्च स्वकृतकर्मोपभोगाच्च । यदहमद्राक्षं तत्स्पृशामि यच्चास्त्राक्षं तत्पश्यामीति प्रत्यमिज्ञानाच्च, अहंप्रत्ययगोचरश्चित्तमेव । एकाग्रतोपदेशादेव नाणु किंतु विभु, योगिनां सर्वावच्छेदेनेकदाखिलसा- क्षात्काराच्च, अयोगिनामपि दीर्घशष्कुलीभक्षणादौ अनेकेन्द्रियवृत्त्यनुभवाच । नच तेषां योगजधर्म एव प्रत्यासत्तिः, संयोगादिलौकिकप्रत्यासत्त्यैवोपपत्तौ तत्कल्पने गौरवादन्योन्यव्यमिचाराच, तद्वारणाय साक्षात्कारेप्ववान्तरजातिकल्पने गौरवम् । अतएव न मध्यमपरिमाणं प्रलये विनाशेनादृष्टाधारतानुपपत्तेः । अतो विभु । तस्य च सर्वार्थग्रहणसमर्थस्य तमआख्यावरणभङ्ग एव योगेन क्रियते । सुपुप्तौ तमसो वृत्तिप्रतिवन्धकवसिद्धेः । विभोरपि गतिश्रुतिरात्मन इव प्राणेन्द्रियाद्युपाधिनोपपन्ना । कार्यकारणरूपेणान्तःकरणद्वैविध्येन कार्यान्तः करणस्य खतोऽपि गतिसंभवाच्च । विभोरपि प्रधानस्य (2) कार्यरूपत्वदर्शनात् । तदुक्तं भाष्ये-एकमनेकार्थमवस्थितं च चित्तमिति । विशोकावेति सूत्रे वुद्धिसत्त्वं भास्वरमाकाशकल्पमिति चोक्तम् ॥ ३२ ॥ योगसाधनगतो विशेप उक्तः । इदानी स्थितिसाधने श्रद्धावीर्याधुपाया- भ्यासे वशीकारद्वारेणाप्रतिवन्धहेतूनाह सूत्रैः- मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविष- याणां भावनातश्चित्तप्रसादनम् ॥ ३३ ॥ प्रसादनं स्थितिनिवन्धनमिति तृतीयसूत्रस्थेनान्वयः । अन्यथा तत्र सूने वाशब्दवैयर्थ्यात् । निबन्धनत्वं च स्थितिहेतुश्रद्धाद्यप्रतिवन्धद्वारा स्थित्यभ्रंशहे- तुत्वं भाप्ये व्याख्यातत्वात् । सुखादिशब्दाश्च धर्मधर्म्यभेदात्सुखितादिवाचिनः । तथा सुखितदुःखितधार्मिकपापशीलेपु यथोक्तक्रमं मैत्र्यादीनामुत्पादाच्चित्तस्य प्रसादनं स्थितिनिवन्धनं भवति । रागद्वेपपापादिमलापसारणेन चित्तवशीकारात् सूत्रे वक्ष्यमाणादित्यर्थः । मैत्री सौहार्दम् । करुणा निरुपाधिः परदुःखप्रहा- णेच्छा । मुदिता प्रीतिः । उपेक्षा औदासीन्यमिति ॥ ३३ ॥ इदानीं श्रद्धावीर्यादिरूपोपायाभ्यासे स्थितिसाधने वशीकारद्वारेणाप्रतिवन्धहेतूनाह- मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविपयाणां भावनात- श्चित्तप्रसादनम् । प्रसादनं स्थितिनिवन्धनम् । निवन्धनत्वं च स्थितिहेतुश्र- द्धाद्यप्रतिवन्धद्वारा स्थित्यभ्रंशहेतुत्वम् । सुखादिशब्दाश्च सुखितादिवाचिनः । तेषु क्रमेण मैत्र्यादीनामुत्पादनाभ्यासात्प्रसन्नं चित्तमेकाग्रं स्थितिपदं लभते इत्यर्थः । मैत्री सौहार्दम् । करुणा निरुपाधिः परदुःखप्रहाणेच्छा । मुदिता प्रीतिः । उपेक्षा औदासीन्यम् । एपां च परिकर्मेति संज्ञा । एकाग्रताहेतुश्चित्तसंस्कारः परिकर्म । स २४ पातञ्जलयोगसूत्रम् । [ समाधिपादः १ च विषयकालुष्यराहित्यरूपश्चित्तप्रसादः । रागद्वेषासूयामपंपापादिमलापसारण- द्वारा एते तद्धेतवः ॥ ३३ ॥ प्रसादनस्य साधनान्तरमाह- प्रच्छदनविधारणाभ्यां वा प्राणस्य ॥ ३४ ॥ प्राणस्य प्रच्छर्दनं वमनं, रेचन मिति यावत् । विधारणं कुम्भकम् । तच्चार्था- त्पूरकानन्तरं, रेचकोत्तरं पूरकं विना विधारणासंभवात् । प्राणायामतयास्य भाप्ये प्रोक्तत्वाच्च । तथा च एतद्द्वयात्पूरणगर्भादपि चित्तप्रसादनं कुर्यादित्यर्थः । अथवा प्रच्छर्दनं रेचकं विधारणं तु पूरकम् । वसिष्ठसंहितायां नाडीशुद्ध्यर्थ रेचकपूरक- मानस्यापि प्राणायामस्योक्तत्वादिति ॥ ३३ ॥ प्रसादस्य साधनान्तरमाह-प्रच्छर्दन विधारणाभ्यां वा प्राणस्य। प्राणस्य प्रच्छर्दनं वमनं रेचनम् । विधारणं कुम्भकम् । एतच्च पूरकोपलक्षणम् । एतद्वा चित्तप्रसादस्य कारणम् । वाशब्दो वक्ष्यमाणापेक्षया विकल्पे । मैत्र्यादि- भावनायाः सर्वैः सह समुच्चयादिति मिश्राः । “इन्द्रियाणां वलं प्राणास्तेपां यत्नेन निग्रहात् । विक्षेपहेतवोऽक्षाणां दह्यन्ते दोषराशयः" इति स्मृतिः । यद्वा प्रच्छर्द- नविधारणे रेचकपूरको तावन्मात्रप्राणायामस्यापि नाडीशुद्ध्यर्थं वसिष्ठसंहितादा- उक्तत्वात् ॥ ३४ ॥ प्रसादनापेक्षया स्थितिनिबन्धनान्तरमाह- विषयवतीवा प्रवृत्तिरुत्पन्ना मनसःस्थितिनिवन्धिनी३५ विपया गन्धादयो दिव्याः पञ्च विपयत्वेनास्याः सन्तीति विषयवती प्रवृत्तिः प्रकृष्टा साक्षात्काररूपा वृत्तिः योगशास्त्रोक्तप्रकारेण नासाग्रादौ चित्तधारणाद- ल्पकालेनैव जायते । नासाग्रे दिव्यगन्धसंविदित्यादिभाष्यवचनात् । सा वा प्रवृत्तिरुत्पन्ना मनसो विषयान्तरेपु विवेकपर्यन्तेपु स्थितिनिवन्धिनी भवति । शास्त्रोक्तार्थैकदेशे साक्षात्कारेणार्थान्तरेऽपि संशयादिनिरसनतः श्रद्धावीर्याद्य- प्रतिबन्धादित्यर्थः ॥ ३५॥ उपायान्तरमाह स्थितौ-विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थि- तिनिवन्धिनी । मनसो नासिकाग्रजिह्वाग्रतालुजिह्वामध्यजिह्वामूलेपु योगशास्त्रो. क्तप्रकारेण धारणात् क्रमेण तन्मात्ररूपदिव्यगन्धदिव्यरसदिव्यरूपदिव्यस्पर्शदि- व्यशब्दविपया या प्रवृत्तिः प्रकृष्टा साक्षात्काररूपा वृत्तिः संविदुत्पद्यते । ता उत्पन्ना वृत्तयश्चित्तस्यैकाग्रताकारणानीत्यर्थः । एवं चन्द्रादित्यग्रहमणिप्रदीपमणि- रत्नादिवृत्तयोऽपि । शास्त्रोक्ताथैकदेशसाक्षात्कारेणार्थान्तरेऽपि संशयादित्यागेन श्रद्धावीर्याद्यप्रतिवद्धं भवतीत्याशयः ॥ ३५ ॥ स्थितिनिवन्धनान्तरमाह- विशोका वा ज्योतिष्मती ॥३६॥ अन्तःकरणस्य पुरुषस्य वा योगजसाक्षात्काररूपा वृत्तिज्योतिष्मतीत्युच्यते।

भावागणेशीय-नागोजीभट्टीयवृत्ती । २५ सा यतः शोकनाशकत्वाद्विशोका । अतश्चाञ्चल्यहेतुशोकनिवृत्त्या सा वा प्रवृत्ति- मनसः स्थितिनिवन्धिनीत्यर्थः । ननु आत्मसाक्षात्कारे पुनश्चित्तस्थितिः किमर्थ- मपेक्ष्यत इति चेत् । असंप्रज्ञातहेतुपरवैराग्योत्पादनायेत्यवेहि । तथा साक्षा- स्काराभ्यासं विना मिथ्याज्ञानवासनानुन्मूलनेन तदुन्मूलनार्थ परमात्मनि चित्तसमाधानार्थ चेति ॥ ३६ ॥ उपायान्तरमाह-विशोका वा ज्योतिष्मती । विगतशोका प्रकाशरूपा च प्रवृत्तिर्मनसः स्थैर्यहेतुरित्यर्थः । सा चान्तःकरणस्य पुरुपस्य वा योगजसाक्षात्कार- रूपा वृत्तिः। तयोश्च विधूतरजस्तमोमलतया सत्त्वमयत्वेन सुखमयत्वाद्विशोकलम् । प्रकाशमयत्वाज्योतिष्मतीत्वम् । सा च चाञ्चल्यहेतुशोकनाशकत्वात्तत्स्थैर्यकरी । नन्वात्मसाक्षात्कारे पुनश्चित्तस्थितेः क उपयोग इति चेत् । असंप्रज्ञातहेतुपरवै- राग्यायेति गृहाण । तथा साक्षात्काराभ्यासं विना मिथ्याज्ञानवासनानुन्मूलनेन सदुन्मूलनार्थ परमात्मनि चित्तसमाधानार्थ च ॥ ३६ ॥ स्थितिनिवन्धनान्तरमाह- वीतरागविषयं वा चित्तम् ॥ ३७॥ वीतरागं यत्सनकादिचित्तं तद्विपयकं वा योगिचित्तं दृढस्थितये भवती- त्यर्थः ॥३७ ॥ उपायान्तरमाह-वीतरागविपयं वा चित्तम् । वीतरागं सनकादिचित्तं तद्विपयध्यानात् ध्यातृचित्तमपि तद्वत् स्थिरस्खभावं भवति । यथा कामुंकचिन्तया चित्तं कामुकं भवतीत्यर्थः ॥ ३७ ॥ स्थितिनिवन्धनान्तरमाह- स्वप्ननिद्राज्ञानालम्बनं वा ॥ ३८॥ स्वमरूपं ज्ञानं स्वप्मज्ञानं पूर्वोक्तनिद्रारूपं च ज्ञानमेतयोरन्यतरस्य चिन्तकं वा चित्तं स्थितिनिबन्धनं भवति । प्रपञ्चज्ञाने स्वप्नदृष्ट्या, संसारिपु सुपुप्तदृष्ट्या च चित्तस्य दृढस्थितिर्भवतीत्यर्थः । तथा चोक्तम्-'दीर्घस्वप्तमिमं विद्धि दीवं वा चित्तविभ्रमम् । दीर्घ वापि मनोराज्यं संसार रघुनन्दने'त्यादि 'ब्रह्माद्यं स्थाव- रान्तं च प्रसुप्तं यस्य मायया । तस्य विष्णोः प्रसादेन यदि कश्चित्प्रमुच्यते ॥ चराचरं लय इव प्रसुप्तमिह पश्यताम् । किं मृषाव्यवहारेपु न विरक्तं भवे. न्मनः' इत्यादि चेति ॥ ३८ ॥ उपायान्तरमाह-स्वप्ननिद्राज्ञानालम्बनं वा । यदा जाग्रज्ज्ञाने खप्नज्ञा- नदृष्टिः क्रियते भङ्गुरविषयकत्वात्तदा ततो विरक्तं चित्तं स्थिरं भवति । तथा जाग्रत्पुरुपज्ञानेपु सुपुप्तिज्ञानदृष्टिः क्रियते खरूपावरणसाम्यात्तदा तद्विरक्त चित्तं स्थिरं भवतीत्यर्थः ॥ ३८॥ - २६ पातञ्जलयोगसूत्रम् । [समाधिपादः १ - यथाभिमतध्यानाद्वा ॥३९॥ कि बहुना यदेवाभिमतं हृदि हरिहरमूर्त्यादिकं तदेवादी ध्यायेत् । तस्मा- दपि ध्यानान्नियतस्थितिकं भवतीत्यर्थः । प्रसादमारभ्यैतानि स्थितिनिबन्धनानि चित्तसंस्काररूपत्वाच्छास्ने परिकर्मशब्देन परिभाषितानि 'परिकर्म प्रसाधनम् इति कोशादिति ॥ ३९ ॥ उपायान्तरमाह-यथाभिमतध्यानाद्वा । यदेवाभिमतं हरिहरमूर्त्यादि तदेव ध्यायेत् । तत्र लब्धस्थितिपदमन्यत्रापि स्थिरं भवतीत्यर्थः । प्रसादमार- भ्यैतदन्तानां परिकर्मसंज्ञा शास्त्रे । एषामनुष्टाने ऐच्छिको विकल्पः ॥ ३९ ॥ परिकर्मनिष्पत्तेः फलरूपं लक्षणमाह- परमाणुपरममहत्त्वान्तोऽस्य वशीकारः॥४०॥ अस्य परिकर्मितस्य चेतसः परमाणुमारभ्य परममहत्पर्यन्तेष्वर्थेषु वशी- कारो धारणायामप्रतीघातः केनाप्यप्रतिबन्ध इति यावत् । भवतीति शेषः । परमं महत्त्वमेषामिति परममहत्त्वाः पुरुषाः । तदेवमभ्यासवैराग्यादिकं परिकर्मान्तं योगस्यान्तरङ्गसाधनमुक्तम् । योगद्वितयं चावान्तरभेदैरुक्तम् ॥ ४० ॥ चित्तस्थैर्यगमकपरिकर्मनिष्पत्तेः फलमाह-परमाणुपरममहत्त्वान्तोऽस्य वशीकारः। तत्संज्ञकमस्य वैराग्यमित्यर्थः । तद्युक्तं न पुनः परिकर्माभ्यासमपे- ) क्षते । तदेवमभ्यासवैराग्यादिकं परिकर्मान्तं योगस्यान्तरङ्गसाधनमुक्तम् । योगद्वयं चावान्तरभेदैरुक्तम् ॥ ४० ॥ इतः परं योगयोमुख्यफलं पादसमाप्तिपर्यन्तं वक्तव्यम् । तत्रादौ संप्रज्ञातस्य फलमुच्यते सूत्रः- क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थ- तदञ्जनता समापत्तिः॥४१॥ क्षीणवृत्तनिरुद्धध्येयातिरिक्तवृत्तेर्निप्पन्नसंप्रज्ञातयोगस्येति यावत् । एतच्च हेतुगर्भविशेपणम् । समापत्तिरिति च साक्षात्कारपरिभाषा । तथाच यतश्चित्तं स्वत एव सर्वार्थग्रहणसमर्थ विषयान्तरव्यासङ्गदोपादेव तत्प्रतिवद्धमतो वृत्त्य- न्तरनिरोधरूपे प्रतिवन्धापगमे सति ग्रहीत्रादिपु ध्येयेपु समापत्तिः साक्षा- त्काररूपवृत्तिः चित्तस्य स्वत एव भवति । सा च तत्स्थतदअनतारूपा तेपु ग्रहीत्रादिपु स्थितस्य चित्तस्याशेपविशेपैः सम्यक्तदाकारतारूपेत्यर्थः । अंत्र दृष्टान्तः-अभिजातस्येव मणेरिति । यथाऽभिजातस्य स्वभावतो . निर्मलस्य मणेाह्यमलापगमे सन्निकृष्टवस्त्वाकारता तद्वदित्यर्थः । अत्र ग्रहीता पुरुपसामा- न्यम् । ग्रहणं च गृह्यतेऽनेनेति व्युत्पत्त्या करणसामान्यं त्रयोदशविधम् । ग्राह्यं च स्थूलसूक्ष्मसूक्ष्मतररूपेण त्रिविधम् । पञ्चभूतपञ्चतन्मात्रप्रकृतिरूपम् । अतो भावागणेशीय-नागोजीभट्टीयवृत्ती । २७ ग्रहीत्रादित्रैविध्येन योगस्य विपयः सर्ववस्तु संगृहीतमिति सामान्यतः समाप- तिरुता । तत्र ग्रहीतृसमापत्तौ स्थूलसूक्ष्मविपयकत्वरूपविशेपाभावात् सा एक- विधैव । ग्राह्यग्रहणसमापत्त्योस्तु विशेषसत्त्वात्तयोविंशेपौ त्रिभिः सूत्रैर्वक्तव्यौ । स्थूलं कार्य सूक्ष्मं च तत्कारणम् । अतः स्थूलं तन्मात्रकार्याणि भूतानि अह- झारकार्याणीन्द्रियाणि । प्रकृतिपर्यन्तं चान्यत्सर्वं सूक्ष्मम् । तद्विपये च स्थूल. सूक्ष्मसमापत्ती प्रत्येकं वक्ष्यमाणरीत्या हि द्विविधे भवतः ॥ ४५ ॥ अथ संप्रज्ञातफलमाह-क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदक्षनतासमापत्तिः । क्षीणवृत्तनिरुद्धध्येयातिरिक्तवृत्तः निष्पन्नसंप्र- ज्ञातयोगस्येति यावत् । हेतुगर्भ चैतत् । समापत्तिरिति साक्षात्कारसंज्ञा । स्वत एव सर्वार्थग्रहणसमर्थस्य विषयान्तरव्यासङ्गदोपल्पं तत्तद्हणे प्रतिवन्धकवृत्त्यन्तर- निरोधेन तदपगमेन तदपगमे सति ग्रहीत्रादियु ध्येयेपु समापत्तिः साक्षात्काररूपा वृत्तिः स्वत एव भवति । सा च तत्स्थतदञ्जनताल्पा तेयु ग्रहीत्रादिपु स्थितस्य चित्तस्याशेपविशेपैः सम्यक्तदाकारतारूपेत्यर्थः । तत्र दृष्टान्तोऽभिजातस्य मणेरिति । यथाभिजातस्य स्वभावतो निर्मलस्य स्फटिकादेः बाह्यमलापकर्प सन्निकृष्टवस्त्रा- कारता तद्वत् । अत्र ग्रहीता पुरुषसामान्यम् । ग्रहणं त्रयोदशविधं करणम् । ग्राह्यं च स्थूलसूक्ष्मसूक्ष्मतररूपेण त्रिविधं पञ्चमहाभूतपञ्चतन्मात्रप्रकृतिरूपम् । अनेन योगविपयः सर्वोऽपि संगृहीतः । तत्र ग्रहीतृसमापत्तौ स्थूलसूक्ष्मविषयक- लरूपविशेपाभावः सा एकविधैवास्मिताल्पा । ग्राह्यग्रहणसमापत्ती तु स्थूलसूक्ष्म- विपयलात्सविशेपे । तत्र स्थूलं तन्मात्रकार्याणि भूतानि अहंकारकार्याणि च । तदितरत्प्रकृतिपर्यन्तं सूक्ष्मम् ॥ ४१ ॥ तासु चतसूपु समापत्तिपु मध्ये स्थूलसमापत्तेः सवितर्कनिर्वितर्काख्यौ विशेषी क्रमेण दर्शयत्याद्यसूत्रद्वयेन- तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः॥४२॥ तृतीयसूने सूक्ष्मसमापत्तेर्वक्ष्यमाणतया आद्यसूत्रयोः स्थूलविषयत्वं परिशेपा- ल्लभ्यते । तत्र समापत्तिसामान्ये गौरिति शब्दो गौरित्यर्थो गौरिति ज्ञानमित्या- दिरूपैः शब्दार्थज्ञानानां ये विकल्पा अभेदभ्रमाः, तद्युत्का गवादिस्थूलसमा- पत्तिः विपरीततर्कयोगात्सवितर्कसंज्ञेत्यर्थः । अत एव तत्कालीनयोग एव सविकल्प इत्यप्युच्यते । विकल्पसंकल्पसंकीर्णत्वात् । एतद्विकल्पशून्य एव च निर्विकल्पकयोग इति । एतेन यदाधुनिका आहुः -यत्किचिद्धर्मपुरस्कारेणैव प्रवर्तमानो योगः सविकल्पकः, . निर्धर्मकश्च निर्विकल्पक इति तदप्रामाणिक- स्वाटुपेक्षणीयम् । अत्र च शब्दाद्यभेदविकल्प आरोपसामान्योपलक्षकम् । एव- मुत्तरसूत्रेऽपि ॥ ४२ ॥ ४ पा० यो० २८ पातञ्जलयोगसूत्रम् । [ समाधिपादः १ तत्र स्थूलसमापत्तेः सवितर्कनिर्वितर्काख्यो विशेषावाह-तत्र शब्दार्थज्ञान- विकल्पैः संकीर्णा सवितर्का समापत्तिः । सूक्ष्मविपयायास्तृतीयसूत्रे वक्ष्य- माणतयाऽत्रसूत्रे स्थूलविषयाग्रहणम् । तत्र गौरितिशब्दो गौरित्यर्थी गौरिति ज्ञान- मित्यविभागरूपा ये शब्दार्थज्ञानविकल्पा अभेदभ्रमास्तद्युक्ता गवादिस्थूलसमापत्ति- विपरीततर्कणयोगात्सवितर्कसंज्ञेयर्थः । अतएव स योगः सविकल्प इत्युच्यते । लोकेऽपीदृशं ज्ञानं ... सविकल्पकमुच्या एतद्विकल्पशून्यश्च निर्विकल्पकयोग इति । वस्तुत उदात्तत्वादिधमैः शब्दस्य जडत्वमूर्तलादिभिरर्थस्य प्रकाशमूर्तिविर- हादिभिर्ज्ञानस्य परस्परस्माद्भेद एव । शब्दाद्यभेदविकल्प आरोपसामान्योप- । लक्षकः ॥ ४२ ॥ स्मृतिपरिशुद्धौ वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥४३॥ पूर्वसूत्रे यो विकल्प उक्तस्तत्र शब्दसङ्केतस्मृतिरेव वीजम् । श्रवणमनननिदि- ध्यासनेहि समापत्तिर्जायते । तत्र श्रवणं संकेतस्सरणकार्यम् । सङ्केतश्च शब्दार्थ- योर्विकल्पिताभेदमात्र इत्यतः सङ्केतस्मृतिजन्ये शान्दवोधेऽपि तयोरभेद उपनीतत्वाद्भासते । ततश्च श्रवणकार्य मनने निदिध्यासने प्राथमिकसाक्षात्कारे च भासते । उपनयसाम्यात् । यदा तु ध्येयावेशवशात्तस्या विकल्परूपायाः सङ्केत- स्मृतेः परिशुद्धिरपगमो भवति समापत्तिश्च स्वरूपशून्येव जायमाना भवति तदा शब्दज्ञानयोरस्फुरणेनाभेदारोपासंभवात् अर्थमात्र निर्भासा ध्येयार्थमात्रा- वगाहिनी विकल्पशून्या स्थूलसमापत्तिनिर्वितर्कसंज्ञेत्यर्थः । इयं समापत्तिः परं प्रत्यक्षमुच्यते अविद्यालेशेनाप्यसंपर्कात् । पूर्वसूत्रोक्ता च समापत्तिरपरं प्रत्य- क्षमविद्यालेशसत्त्वादिति ॥ ४३ ॥ स्थूलसमापत्तेर्द्वितीयं भेदमाह-स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनि- र्भासा निर्वितर्का। पूर्वसूत्रोक्तविकल्पे संकेतग्राह्यशक्तिस्मृतिरेव वीजम् । श्रवणम- नननिदिध्यासनैर्हि समापत्तिजायते । तत्र श्रवणं शक्तिस्मृतिकार्य शक्तिश्च शब्दार्थ- योवृत्त्येश्वरकल्पिताभेदकल्पिताभेदाध्यवसायरूपसंकेतग्राह्योऽभेद एवेति तर्जन्ये शाब्दवोधेऽपि तयोरभेद उपनीतवाद्भासते । ततः श्रवणकार्ये मनने निदिध्यासनरूपे प्रथमसाक्षात्कारे च भासते । उपनयसाम्यात् । यदा ध्येयावेशवशाच्छत्तिस्मृतेः परिशुद्धिरपगमो भवति तजन्यश्रुतानुमितसाक्षात्काराणामपि विकल्परूपाणां परिशु- द्धिरपगमः तदा समापत्तिः स्वरूपशून्येव भवति । शब्दज्ञानास्फुरणेनामेदारोपासंभ- वात् । तदा स्वरूपमात्रनिर्भासाऽविकल्पितरूपा परिच्छिन्ना ध्येयार्थमात्रावगाहिनी स्थूलसमापत्तिनिर्वितर्कसंज्ञेत्यर्थः । इयं समापत्तिः - परं प्रत्यक्षमुच्यते, अविद्याले- शेनाप्यसंपर्कात् । पूर्वा चापरं प्रत्यक्षमविद्यालेशसत्त्वात् । स चार्थः क इत्यत्रोकं भाष्ये महत्त्वसमानाधिकरणैकलविपयैकवुद्धिविपयोऽणुप्रचयविशेषरूपावयवी.. घटा-:

भावागणेशीय-नागोजीभट्टीयवृत्ती ।
२९
दिरूपः । अणुशब्देन तन्मात्राणि परमाणवश्च । तत्र च रूपरसादिपरमाणूनां नैरन्तर्येण
संकलिततयावस्थानम् । सच तेभ्यो नात्यन्तभिन्नः, गवाश्ववद्धर्मधार्मभावानुपपत्तेः ।
नात्यन्तमभिन्नः, धर्मिवदेव तदनुपपत्तेः । तस्मात्ततो भिन्नोऽभिन्नश्च । सच तदनुभ-
वतद्यवहाराभ्यां विप्रतिपन्नं प्रत्यनुमेयः । कारणाभेदादेव तदाकारो धर्मान्तरस्य
कपालादेरुदये च तिरोभवन्नष्ट इति व्यवह्रियमाणः अणुसाध्यक्रियाभिन्नतदसाध्य-
मंधूदकादिधारणलक्षणक्रियावान् , स्पर्शवान् , महत्त्ववान् , एकलवान् , किंचिदपेक्ष-
याणुखवांश्चेति ॥ ४३ ॥
-
स्थूलविपये समापत्तिद्वैविध्यं प्रदर्य सूक्ष्मेऽपि विषये तस्या द्वैविध्यमति-
दिशति-
एतयैव सविचारा निर्विचारा सूक्ष्मविषया
व्याख्याता ॥४४॥
एतयैव सवितर्कनिर्वितर्करूपया स्थूलविपयकसमापत्या सूक्ष्मविपयापि सवि-
चारनिर्विचाररूपा समापत्तिद्वयी व्याख्याता । अन्योपरागानुपरागसाम्येनेत्यर्थः ।
अत्र हि विकल्पतच्छून्यत्वयोर्नातिदेशः, स्थूलविषयिण्यां निर्वितर्काख्यपूर्वभूमि-
कायां त्यक्तस्य यथोक्तविकल्पस्य सूक्ष्मविपयिण्यामुत्तरभूमिकायामसंभवादिति ।
तन्न स्थूलरूपं यत्कार्य तदुपरागेण सूक्ष्मे समापत्तिः सविचारा कार्यकारण-
विचारघटितत्वात् । तदुत्तरोत्पद्यमाना च केवलसूक्ष्मविपयिणी निर्विचारेति
विभागः ॥४४॥
· उक्तं द्वैविध्यं सूक्ष्मविषयसमापत्तावतिदिशति-एतयैव सविचारा निर्वि-
चारा सूक्ष्मविषया व्याख्याता । एतयैव सवितर्कनिर्वितर्करूपया स्थूलविषयया
समापत्त्या सूक्ष्मविषयापि सविचारनिर्विचाररूपा समापत्तिद्वयी व्याख्याता । अन्यो-
परागानुपरागसाम्येनेत्यर्थः । अत्र विकल्पतच्छून्यत्खयोर्नातिदेशः स्थूलविषयायां नि-
वितर्काख्यपूर्वभूमिकायां त्यक्तस्य विकल्पस्य सूक्ष्मविषयोत्तरभूमिकायामसंभवादिति ।
तदुक्तं भाष्ये 'एवमुभ्योरेतयोनिर्वितर्कया विकल्पहानिर्व्याख्याता' इति । तत्र
स्थूलरूपं यत्कार्य तदुपरागेण सूक्ष्मे समापत्तिः सविचारा, कार्यकारणविचारघ-
टितत्वात् । तस्यां हि स्थूलकार्यघटादिवैशिष्ट्यं तत्र चाणूनामुपर्यधोदेशावच्छिन्नत्वं
पार्थिवपरमाणो गन्धतन्मात्रप्रधानपञ्चतन्मात्रानुगमः । आप्ये गन्धतन्मात्रभिन्न-
रसतन्मात्रप्रधानचतुरनुगमः
तैजसे तद्वयरहितरूपतन्मात्रप्रधानन्यनुगमः,
वायवीये स्पर्शशब्दतन्मात्रानुगमः । नाभसे शब्दतन्मात्रानुगमस्तद्विशिष्टा बुद्धि-
रुपजायते । एवं च तत्तत्परमाणुस्तत्तन्मात्रप्रचयात्मा, तन्मात्रमपि गन्धाद्यणुप्रचया-
त्मकमिति बोध्यम् । तदुत्तरोत्पद्यमाना च केवलसूक्ष्मविषया निर्विचारेति विभागः ।
यद्यपि तन्मात्रादिसूक्ष्ममपि सर्वधर्मात्मकं तद्वच तथापि साक्षात्काराभ्यासेना-
तीतानागतवर्तमानसकलतद्धर्मापगम इति दिक् ॥ ४४ ॥

३० पातञ्जलयोगसूत्रम् । [समाधिपादः १ ननु सूक्ष्मो विषयः कियत्पर्यन्त इत्यपेक्षायामाह- सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ ४५ ॥ तन्मात्रा- - सूक्ष्मश्चासौ विषयश्चेति सूक्ष्म विषयः । अलिङ्गाख्यप्रकृतिपर्यन्तम् । न तु, पुरुषः सूक्ष्म इत्यर्थः । अतोऽत्र सूक्ष्मत्वं तत्त्वान्तरप्रकृतित्वम् । न च जलादि- चतुष्टयेऽतिव्याप्तिः, भूतानामुत्तरोत्तरभूतेप्वाधारकारणमात्रत्वात् । णामेव भूतोपादानत्वात् । अन्यथाष्टप्रकृतिसिद्धान्तविरोधादिति ॥ ४५ ॥ सूक्ष्मो विषयः कियत्पर्यन्त इत्याकाङ्क्षायामाह-सूक्ष्मविषयत्वं चालिङ्गप- र्यवसानम् । न क्वापि लयं गच्छतीयलिङ्गं प्रधानं तत्पर्यन्तं सूक्ष्मो विषयः इत्यर्थः । तत्त्वान्तरप्रकृतित्वमत्र सूक्ष्मत्वं विवक्षितमित्यर्थः । नच जलादिभूतच टयेऽतिव्याप्तिः भूतानामुत्तरोत्तरभूतेपु आधारकारणमात्रत्वात्तन्मात्राणामेव भूतोपादानत्वात् । अन्यथाष्टप्रकृतित्वसिद्धान्तविरोधः स्यात् । पुरुषस्तु न परिणा- मिकारणं किंत्वधिष्ठानकारणं तेषां संसर्गे निमित्तकारणं चेति न तस्येशसौम्य- मिति भावः ॥ ४५ ॥ वितर्कविचारसूत्रेण पूर्व संप्रज्ञातस्यावान्तरविभाग एव कृतः, नतु संप्र- ज्ञातसामान्यं लक्षितमतो यथोक्तसमापत्त्याख्यकार्यमुखेन सवीजपरिभाषापूर्वक संप्रज्ञातसामान्यलक्षणमाह- ता एव सबीजः समाधिः॥४६॥ ता एव ग्रहीतृग्रहणग्राह्येषु समापत्तय एव सबीजः समाधिः संप्रज्ञातयोग: इत्यर्थः । समापत्तिरूपसाक्षात्कारहेतुत्वाद् योगस्य समापत्तित्वं कार्यकारणा- भेदेनोक्तम् । आनन्दस्य बुद्धिधर्मत्वेनानन्दसमापत्तेर्ग्रहणसमापत्तावेव प्रवेशः । समापत्तीनां दुःखनिवृत्तिवीजसंस्कारहेतुत्वात् तदेतोवृत्तिनिरोधरूपस्य योगस्यापि सवीजत्वम् । समाधिशब्दश्वाङ्गाङ्गिनोरभेदेन योगे प्रयुक्तः ॥ ४६ ॥ इदानीं यथोक्तसमापत्त्याख्यकार्यमुखेन सवीजपरिभाषापूर्वकं संप्रज्ञातसामा-. न्यलक्षणमाह-ता एव सवीजः समाधिः । ता एव ग्राह्यग्रहणग्रहीतृपु समा. पत्तय एव सवीजः समाधिः संप्रज्ञातयोग इत्यर्थः । समापत्तिरूपसाक्षात्कारहेतु- त्वाद् योगस्य समापत्तित्वं कार्यकारणाभेदात् । आनन्दस्य बुद्धिधर्मत्वेनानन्द- समापत्तेर्ग्रहणसमापत्तावेव प्रवेशः, समापत्तीनां दुखःनिवृत्तिवीजसंस्कारहेतुत्वात् , तद्धेतोः वृत्तिनिरोधरूपयोगस्यापि सवीजत्वम् । समाधिशब्दश्चाङ्गाङ्गिनोरभेदेन योगे' प्रयुक्त इति दिक् ॥ ४६॥ उक्तासु समापत्तिपु निर्विचारकाष्टायाः कंचनोत्कर्पमाह- निर्विचारवैशारोऽध्यात्मप्रसादः॥ ४७ ।। ध्येयगताशेपविशेपप्रतिविम्वोद्राहिणी. निश्चलैकाग्रता चित्तस्य वैशारद्यम् । .

"भावागणेशीय-नागोजीमट्टीयवृत्ती । ३१ निर्विचारसमापत्तेरेव वैशारये सति अध्यात्मप्रसादो भवति । आत्मनि बुद्धौ वर्तत इत्यध्यात्मम् । तादृशप्रसादो नैर्मल्यं भवति । येन प्रसादेन पुरुषादिसा- क्षात्कारस्तद्योग विनापि भवतीत्यर्थः ॥ ४७ ॥ उक्तासु समापत्तिषु इतरासां निर्विचारफलकलान्निर्विचारायाः फलमाह- निर्विचारवैशारद्येऽध्यात्मप्रसादः । ध्येयगताशेपविशेषग्राहिणी निश्चलै- काग्रता चित्तस्य वैशारद्यम् । निर्विचारसमापत्त्या एव वैशारद्ये सति अध्यात्म आत्मनि बुद्धौ प्रसादो भवति येन पुरुपादिसाक्षात्कारस्तद्योग विनापि भव- तीत्यर्थः ॥४७॥ पूर्वोक्त सबीजयोगे जायमानायाः समापत्याख्यप्रज्ञाया अन्वर्था तान्त्रिकी संज्ञामाह- ऋतम्भरा तत्र प्रज्ञा ॥४८॥ तत्र सबीजयोगे जायमाना प्रज्ञा समापन्याख्या ऋतम्भरसंज्ञा भवति । ऋतस्य सत्यस्यैव भरणात् विपयत्वेन धारणादित्यर्थः । सवितर्कप्रज्ञायाश्च विक- ल्पसत्वेऽपि ऋतम्भरजातीयत्वेन संग्रहः । अथवा ततः किं तत्राह । ऋतम्भरा तत्र प्रज्ञा । तत्राध्यात्मप्रसादे जायमाना आत्मसाक्षात्काररूपा प्रज्ञा ऋत- म्भरेत्यर्थः ॥४८॥ तदेवाह-ऋतम्भरा तत्र प्रज्ञा । ऋतं सत्यं कूटस्थनित्यं पुरुपं विभर्ति तादृशी तत्संज्ञा प्रज्ञा साक्षात्कारस्तन प्रसादे सति भवतीत्यर्थः । तदुक्तम्-'आग- मेनानुमानेन ध्यानाभ्यासरसेन च । त्रिधा प्रकल्पयन् प्रज्ञा लभते योगमुत्तमम्' इति । पूर्वार्धन श्रवणमनननिदिध्यासनान्युक्तानि ॥ ४८ ॥ ननु आगमानुमानाभ्यामेव प्रमाणाभ्यामर्थतत्वं गृह्यतामलं तदुत्तरं योगे- नेत्याशङ्कायामाह- श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥४९॥ सा तु योगसामान्यजा प्रज्ञा श्रवणमननाभ्यामतिरिक्तविपया विशेपार्थ- त्वात् । विशेपविपयत्वादित्यर्थः । शब्दानुमाने हि सामान्यमानविपयके भवतः सामान्यपुरस्कारेणैव संकेतग्रहात् , व्याप्तिग्रहाच्च । न तु संकेतग्राह्यानवच्छेदक- विशेषग्राहके । योगजप्रज्ञा तु तद्वाहिकेति । अतोऽनधिगताधिगन्तृत्वाद्योगजप्र- ज्ञायाः प्रामाण्यम् । ननु पुरुपे विशेषाभावात्तत्प्रज्ञा किंविशेषग्रहणेन सफला स्यादितिचेन्न । अन्ततः स्वस्वोपाधिप्रतिविम्बानामेवातीतानागतवर्तमानानां भोगरूपाणां मुक्तामुक्तसकलपुरुषेप्वन्योन्यं विशेषत्वादिति ॥ ४९ ॥ नन्वागमानुमानाभ्यामर्थतत्त्वनिर्णयेऽलं तदुत्तरयोगेनेत्यत . आह-श्रुतानु- मानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् । शब्दानुमाने हि सामान्यविषये तद्विपयातिरिक्तविषया च योगजप्रज्ञा विशेषविपयवादित्यर्थः । लौकिकप्रत्यक्षमपि न सूक्ष्मव्यवहितविप्रकृष्टविषयमित्यपि वोध्यम् । योगजज्ञानं तु सकलविशेषग्राहक-

३२
पातञ्जलयोगसूत्रम् ।
[ समाधिपादः १
परया
मिति अनधिगतार्थगन्तृवात्तस्य प्रामाण्यम् । ननु पुरुषे विशेपाभावात्तत्प्रज्ञा
केन विशेषेण सफला स्यादिति चेन, अन्ततः खस्खोपाधिप्रतिविम्वानामेवाती-
तानागतवर्तमानानां भोगरूपाणां मुक्तामुक्तसकलपुरुषेष्वन्योन्यं विशेपत्वादिति
वोध्यम् ॥ ४९ ॥
ननु तथापि प्रज्ञोत्पत्तिपर्यन्तं संप्रज्ञातयोगापेक्षा प्रज्ञोत्पत्त्यनन्तरं संप्रज्ञात-
परंपरया किं फलमित्याकाङ्क्षायामाह-
तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥५०॥
तज्जः एकाग्रसाक्षात्कारधारारूपया समाधिप्रज्ञया जनितः संस्कारोऽन्येपां
व्युत्थानसंस्काराणां प्रतिवन्धी स्मृत्याख्यकार्यविरोधीत्यर्थः । तथा च समाधिपरं-
समाधिप्रज्ञासंस्कारदाढ्यन व्युत्थानसंस्काराशयस्याभिभवः क्रमेण
भवति । ततश्च दुःखहेतुव्युत्थानसंस्कारामिभवरूपे प्रज्ञाकृत्ये समाप्ते प्रज्ञायाम-
प्यलंबुद्ध्या सर्ववृत्तिनिरोधरूपोऽसंप्रज्ञातः स भविष्यतीति संप्रज्ञातपरम्परायाः
फलमिति भावः । मोक्षान्यथानुपपत्त्यैवाविद्यासंस्कारस्य विद्यासंस्कारदाढ्यन
नाशः सिध्यति । अविद्यासंस्कारातिरिक्तानां च संस्काराणां चित्तनाशेनैव नाशो
न तु संस्कारान्तरस्य तन्नाशकत्वं कल्प्यते, गौरवात् । संस्काराणां विरोधिसं-
स्काराभिभावकत्वं तु लोके बहुधा सिद्धमतः संस्कारप्रतिवन्धीत्येव सूत्रितं न
तु तन्नाशक इति ॥ ५० ॥
अथ संप्रज्ञातपरंपरायाः फलमाह-तज्जः संस्कारोऽन्यसंस्कारप्रति-
वन्धी । तजः एकाग्रसाक्षात्कारधारारूपया संप्रज्ञातप्रज्ञया जनितः संस्कारो-
ऽन्येषां व्युत्थानसंस्काराणां प्रतिवन्धी तज्जन्यवृत्त्याख्यकार्यविरोधीत्यर्थः । अत्र
संप्रज्ञातपरंपरया समाधिप्रज्ञासंस्कारदायेन दुःखहेतुव्युत्थानसंस्काराभिभवः,
तस्य धर्ममेघसमाधिना परिसमाप्तिः । स च सिद्धिकामनात्यागेन निरन्तरोत्प-
नात्सत्त्वपुरुषान्यताख्यातिप्रवाहात्सवासनाविद्यासंस्कारनिवृत्तौ तस्यामपि ख्याती
प्रयोजनाभावेन दुःखात्मिकायामलंप्रत्ययरूपवैराग्ये सति जायते इति ज्ञेयम् ।
यदुत्तरमसंप्रज्ञातोदयः सर्वज्ञतादिजनकं प्रकृष्टं धर्म मेहति वर्पतीति व्युत्पत्तेः ।
अस्यामवस्थायां जीवन्मुक्त उच्यते, ततः प्राक् सत्यां कामनायां भूतेन्द्रियप्रकृति-
जयोत्थः खेच्छाभोगश्च भवति । मोक्षान्यथानुपपत्त्यैवाविद्यासंस्काराणां विद्यासंस्का-
रदायेन नाशः । अविद्यासंस्कारातिरिक्तसंस्काराणां च चित्तनाशेनैव नाशः । कस्य-
चित्तु सर्वज्ञवादिजनकधर्ममेघाभावेपि ज्ञानादविद्यानिवृत्तौ उत्तरक्लेशाभावात्कर्मविपा-
काभावेऽपि प्रारब्धकर्मभोगहेतुवासनानामनुच्छेदेन प्रारब्धकर्मभोगानन्तरं देहपाते
कैवल्यं भवतीति ज्ञेयम् । यत्तु योगस्याशेषपापनाशकत्वं श्रूयते तत्तु ज्ञानप्रतिव-
न्धकाशेपपापनाशपरम् । यत्तु तज्जन्यज्ञानस्य सर्वकर्मनाशकत्वं तत्प्रारब्धातिरिक्त-
सर्वकर्मनाशपरम् । ज्ञानेन प्रारब्धनाशे जीवन्मुक्तिप्रतिपादकश्रुतिविरोधश्च स्यात्तस्य
सर्वकर्मनाशकत्वमविद्यादिक्लेशसहकार्युच्छेदेन खविपाकानारम्भकत्वं, प्रारब्धकर्म-
भोगे तु वासनैव तद्धेतुसहकारिणीति बोध्यम् ॥ ५० ॥

- भावागणेशीय-नागोजीभट्टीयवृत्ती । क्षीणवृत्तेरमिजातस्येत्यादिसूत्रैः संप्रज्ञातस्य फलं प्रपञ्चितस् । असंप्रज्ञातस्य फलमुच्यते- तस्यापि निरोधे सर्वनिरोधान्नि-जः समाधिः॥५१॥ पूर्वपूर्वासंप्रज्ञाते तावत्प्रज्ञैव निरुध्यते, प्रज्ञासंस्कारस्य तानवमात्रम् । एवं. क्रमेण तस्यापि प्रज्ञाकृतसंस्कारस्याप्यसंप्रज्ञातपरम्परया निरोधे अत्यन्ताभि- भवे जायमाने चरमासंप्रज्ञातव्यक्तिनिवाजयोगस्य परा काष्ठा भवति । अपुन- रुत्यानेत्यर्थः । सैव च महानिद्रा परमो मोह इति गीयते । अयं च योगेन स्वेच्छया मोक्षः श्रुतिपूक्तो वहूनाम् । तदानीं च पुरुषार्थसमाप्त्या चित्तस्यात्य- न्तलयात्तदाश्रितानां दग्धसंस्कारभावा (?) नां नाश इति । सर्वनिरोधादिति निर्वाजत्वे हेतुरुक्तः, यतः प्रज्ञा तत्संस्कारश्चात्यन्तं विलापितावतो दुःखवीजैः संस्कारादिभिः शून्यत्वान्निर्बीज इति । पूर्वपूर्वासंग्रज्ञातेषु तु निजिजातीयतया निर्वीजत्वव्यवहारः । अत्र सर्ववृत्तिनिरोधस्य संप्रज्ञातकृताखिलसंस्कारोन्मूलक- त्ववचनात्तस्य संस्कारजनकावं सिद्ध्यति । क्रमेणैव ह्यसंप्रज्ञातपरम्परया चरमासं- प्रज्ञाते निःशेषतः संप्रज्ञातसंस्कारदाहो वक्तव्यः । तत्र पूर्वपूर्वा संप्रज्ञातानां विनष्टतया संस्कारातिरिक्तं द्वारं न संभवति । तथा उत्तरोत्तरामंप्रज्ञातेपु काल- वृद्यापि पूर्वपूर्वसंप्रज्ञातानां संस्कारजनकत्वं सिध्यति । संस्कारवृष्यैव काल- प्रद्यौचित्यादिति । ननु ज्ञानेन प्रारब्धातिरिक्ताखिलकर्मक्षये प्रारब्धस्य भोगेन - समात्या कर्माभावादेवापुनर्जन्मरूपो मोक्षो भविष्यति किमर्यमसंप्रज्ञातेना- खिलसंस्कारोन्मूलनमपेक्ष्यत इति चेत् । प्रारब्धस्यातिक्रमणाज्झटिति मोक्षार्थ- मित्यवेहि । भोगवासनारूपस्य हि सहकारिण उच्छेदे सति प्रारब्धमपि कर्मफलाक्षम भवतीति दिक् ॥ ५ ॥ इति श्रीभावागणेशभट्टकृतायां योगदीपिकाया पातञ्जलवृत्ती समाधिपादः प्रथमः ॥१॥ ननु व्युत्थानसंस्कारामिभवेऽपि प्रज्ञासंस्कारामिभवाभावात्तत्प्रवाहानिवृत्तौ तत्रैव जन्मनि शीघ्रं मोक्षो न स्यादत आह-तस्यापि निरोधे सवेनिरोधा- निर्वीजः समाधिः । परवैराग्येण स्वसंस्कारद्वारा प्रज्ञाकृतसंस्काराणां प्रज्ञायाश्च निरोधे कारणाभावेन कार्यानुत्पादान्निवीजः समाधिर्भवतीत्यर्थः । तत्र पूर्वपूर्वासं- प्रज्ञातसंस्कारस्याप्युत्तरोत्तरासंप्रज्ञातेनात्यन्तामिभवे जायमाने चरमासंप्रज्ञातो नि:- जकाष्टा भवति । उत्तरोत्तरासंप्रज्ञातेयु कालवृध्या पूर्वपूर्वासंप्रज्ञातानां संस्कारजनकत्वं सिध्यति संस्कारवृद्ध्यैव कालवृद्ध्यौचित्यात् । स च यथा यथातिशीयते तथातथा तत्त्वज्ञानपर्यन्ताखिलसंस्कारान् संप्रज्ञातयोगजांस्तनूकरोति । एवं पूर्वपूर्वसंस्कार- सहकृतचरमासंप्रज्ञातेन निःशेपतः प्रज्ञातत्संस्कारदाहः । ततः प्रारब्धमपि कर्म न स्वविपाकसमर्थ, सहकारिणां दग्धत्वात् । प्राम्भवीयभोगसंस्कारा हि तत्स- ३४ पातञ्जलयोगसूत्रम्। [समाधिपादः १ हकारिणः । ततः पुरुपार्थसमाप्त्या चरिताधिकारं चित्तमसमाप्तभोगकेनैव प्रारब्धक- मणा निरोधसंस्कारैश्च सह स्वकारणेऽत्यन्तं लीयते । इयमेव चित्तस्य महानिद्रा पुरुषस्य कैवल्यमात्यन्तिको दुःखात्मकाखिलदृश्यवियोगः, तदुक्तं-'मनसोभ्युदयो नाशो मनोनाशो महोदय' इति । ननु ज्ञानेनैव प्रारब्धभोगोत्तरं मोक्षसिद्धौ किमनेन योगेनेतिचेन्न, प्रारब्धस्याप्यतिक्रमेण झटिति मोक्षार्थत्वात् । अत्र वदन्ति विवेकसाक्षात्काररूपं ज्ञानं सांख्यपदवाच्यं, सर्वासर्वचित्तवृत्तिनिरोधरूपो द्विविधो योगश्चोभयमपि व्यापारभेदात्स्वातन्त्र्येण मोक्षकारणमत्र शास्त्रे विवक्षितम् । तत्र केवलज्ञानेन मोक्षे जनयितव्येऽभिमाननिवर्तकात्मसाक्षात्कारपर्यन्त एव संप्रज्ञातो- ऽपेक्ष्यते नतु वृत्त्यन्तरवासनाक्षयाद्यर्थ संप्रज्ञातपरंपरापि । प्रारब्धसमाप्तौ तु सत्यां सर्ववासनानां चित्तेन सह नाशात् । अन्ये तु तमेव विदित्वेति श्रुतेः कस्य- चित्वल्पयोगेनापि ज्ञानं, एतदन्तयोगेन तु भवत्येव ज्ञानमित्याशयः । 'यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते' इति गीतावाक्ये सम्यक्ख्यातं संख्या तत्त्वसा- क्षात्कारस्तदुपायै!वलीवर्दन्यायेन श्रवणमनननिदिध्यासनरूपैर्यज्ज्ञानं प्राप्यते तद् योगैरपि प्राप्यते(?) इति न तद्विरोध इत्याहुः ॥ ५१ ॥ ॥ श्रीनागोजीभट्टीयायां पातालवृत्तौ समाधिपादः प्रथमः॥

द्वितीयः साधनपादः। . - । समाहितचित्तस्योत्तमाधिकारिणो योगारोहयोग्यस्याभ्यासवैराग्याभ्यामेव क्रि- यायोगनिरपेक्षाभ्यां योगनिप्पत्तिः पूर्वपाते प्रतिपादिता । इदानी व्युस्थितचित्तो बहिर्मुखोऽपि यथा योगयुक्तः स्यात्तानि साधनान्युच्यन्ते तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः॥१॥ तपोऽत्र चित्तप्रसादाविरोधिशास्त्रोक्तोपवासादिकम् । स्वाध्यायः प्रणवजपो मोक्षशास्त्राध्ययनं वा । ईश्वरप्रणिधानं परमेश्वरे सर्वकर्मार्पणम् । नतु प्रथमपा- दोतं, तस्योत्तमाधिकारिणं प्रत्येवोक्तत्वात् । अर्पणं च कौम प्रोक्तम्-'नाहं कर्ता सर्वमेतद्ब्रह्मैव कुरुते तथा । एतद्ब्रह्मार्पणं प्रोक्तमृपिभिस्तत्त्वदर्शिमि'रिति । एतानि तपआदीनि क्रियारूपो योगो योगसाधनत्वादित्यर्थः । यद्यपि वक्ष्यमाणा यम- नियमासनादयः सर्वेऽपि क्रियायोगास्तथापि तेभ्यः समाहृत्य प्रकृष्टं साधनत्रयं मध्यमाधिकारिणं प्रत्युपदिष्टमन्ततः केवलेनतेनापि तीव्रतरेण योगो भवतीति सूचयितुम् ॥ १ ॥ योगाधिकारिणत्रिविधा मन्दमध्यमोत्तमाः क्रमेणारुरुक्षुयुञानयोगारूढरूपाः। तत्रोत्तमा ये पूर्वजन्मानुष्ठितवहिरङ्गक्रियायोगसाधनतया तनरपेक्ष्येणैव योगारूढरूपा यथा जडभरतादयस्तेषामभ्यासवैराग्याभ्यामेव योगनिष्पत्तिः पूर्वपादे प्रतिपा- दिता । 'आरूढयोगवृक्षाणां ज्ञानत्यागों परौ मतौ । शिशुपालः सिद्धिमाप स्मर- णाभ्यासगौरवात्' इतिगारुडाच । त्यागोत्र प्रकृतवाद्योगान्तरायस्य वाह्यकर्मणः क्रियायोगरूपस्य । योगारूढश्च-'यदा हि नेन्द्रियार्थेपु न कर्मखनुपज्जते । सर्व- संकल्पसंन्यासी योगारूढस्तदोच्यते' इति गीतायां लक्षितः । तत्राभ्यासश्चित्तस्य निश्चलेकाग्रताधारारूपस्थितौ ध्येयावहिर्गच्छतश्चित्तस्य पुनःपुनरानयने यत्नः । वैराग्यं च तत्रतत्रालंबुद्धिरूपोपेक्षेसायुक्तम् । इदानीं व्युत्थितचित्तस्य मध्यमाधिकारिणो वानप्रस्थादेः क्रियायोगरूपं साधन- माह-तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः। तपश्चित्तप्रसादावि- रोधिशास्त्रोक्तोपवासादिकम् , खाध्यायः प्रणवादिजपः मोक्षशास्त्राध्ययनं वा, ईश्व- रप्रणिधानमत्र परमेश्वरे सर्वकर्मार्पणं तत्फलन्यासश्च । अर्पणं च--'नाहं कर्ता सर्व- मेतद्ब्रह्मैव कुरुते तथा । एतद्ब्रह्मार्पणं प्रोक्तमृषिभिस्तत्त्वदर्शिभि' रिति कौमें उक्तम् । कर्मफलन्यासश्च सर्वकर्मफलानामीश्वरो भोक्तेति चिन्तनम् । यदेव जीवान् कर्मफ- लानि भोजयन्परमेश्वरः प्रीणाति स एवेश्वरस्य तत्फलभोगः । अथार्थिभ्यो धनानि यच्छन् दाता तद्धनभोक्ता । यद्यप्यस्य नित्यानन्दभोगो नित्य एव तथापि जीवानां कर्मफलप्रदानाभिव्यक्तत्वेनैश्वर्यानुगतानन्दोत्पत्तिरौपचारिकी । यद्वा 'कामतोऽका- मतो वापि यत्करोमि शुभाशुभम् । तत्सर्वं खयि संन्यस्तं सत्प्रयुक्तः करोम्यहम्' इत्यर्पणम् । फलन्यासश्च फलमनभिसंधाय कर्मकरणम् । एते क्रियारूपा योगा- । ।

३६ पातञ्जलयोगसूत्रम् । [साधनपादः २ योगसाधनत्वादिति भावः । यद्यपि वक्ष्यमाणा यमादयोऽपि क्रियायोगा एव तथापि तेभ्यः समुद्धृत्य प्रकृष्टं साधनत्रयं मध्यमाधिकारिणं युञ्जानं प्रति उपदिष्टमेतैरपि तीव्रतरोगो भवतीति सूचयितुम् । मध्यमाधिकारिणा अभ्यासवैराग्यादिकं यथा- शक्त्यनुष्ठेयम् ॥ १॥ तपआदीनां योगोत्पादने द्वारमाह- समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥२॥ स क्रियायोगः योगहेतुसमाधिं चित्तैकाग्र्यमुत्पादयति वक्ष्यमाणांश्च क्लेशा- न्योगप्रतिवन्धकान्प्रकर्षेण तनूकरोति सत्वशुद्ध्यादिद्वारेणेत्यर्थः । तनुत्वं च विवेकख्यातिप्रतिबन्धकतावच्छेदकस्योत्कटत्वस्याभावः ॥ २ ॥ एषां योगोत्पादने द्वारमाह-समाधिभावनार्थः क्लेशतनूकरणार्थश्च । स क्रियायोगः समाधेर्योगहेतुचित्तैकाग्र्यस्योत्पादकः, वक्ष्यमाणक्लेशानां योगप्रति- वन्धकानां संवशुद्धिद्वारेण तनूकरणार्थश्चेत्यर्थः । तनुत्वं च विवेकख्यातिप्रति- वन्धकतावच्छेदकोत्कटवस्याभावः । एवंच प्रतिवन्धकाभावाद्विवेकख्यात्यात्मकप्र- संख्यानोदये ते क्लेशा दग्धवीजवद्वन्ध्या भवन्ति । वन्ध्येषु च तेषु समाप्ताधि- कारं चित्तं विलीयत इति दिक् । तत्र क्रियायोगस्य क्लेशतानवं दृष्टादृष्टद्वारा फलमभिमानरागद्वेषादिप्रावल्ये क्रियायोगासंभव एव, संभवे वाङ्गविकल इति खनिष्पत्तये स क्लेशतानवं करोति । एवं क्रियायोगेन चित्तशुद्धौ अधर्माख्यकारण- तानवादविद्यादेरपि तानवं भवति । एवं योगोऽपि क्रियायोगस्य दृष्टादृष्टद्वारा फलम् । तत्र सत्त्वशुद्धिरदृष्टद्वारम् । दृष्टं तु चित्तनियमनम् । एवं क्रियायोगेन क्लेशतानवे सति अन्तरा क्लेशैरप्रतिवद्धो विवेकख्यातिप्रवाहः साक्षात्कारपर्यवसायी भवति । ततस्तेन साक्षात्कारेणाग्निना दग्धवीजकल्पाः क्लेशाः प्ररोहसमर्था न भवन्ति । एषा जीवन्मुक्तिः । ततः प्रारब्धसमाप्तौ चित्तेन सह दग्धवीजकल्पा अनागता- वस्थाः सूक्ष्मक्लेशाः तत्कारणे लीयन्ते । ततः कारणाभावात्पुनर्जन्माभाव इति परममुक्तिः । नच ज्ञानाच्चित्ते विद्यमान एव क्लेशानां नाशोऽस्तु किं दाहकल्प- नयेति वाच्यम् । कार्यानागतावस्थाया एव कारणशक्तित्वेन शक्तेश्च यावद्व्यभावि- तया अग्न्यादिनिष्ठदाहादिशक्तेदृष्टवात् चित्ते विद्यमाने तन्नाशासंभवेन दाहक- ल्पनात् । एष एवार्थोऽग्रिमसूत्रेपु स्फुटः ॥ २ ॥ इतः परं क्लेशाः कियन्तो वा तनूकरणस्य वा किं फलमित्यादिकं महा- प्रघट्टकेन प्रदर्शयितुमुपक्रमते- अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः॥३॥ अविद्यादयः पञ्च क्लेशत्वेन परिभापिताः । क्लेशाख्यदुःखनिदानवादित्यर्थः ॥३॥ अथ क्लेशानाह-अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः । एते . भावागणेशीय-नागोजीभट्टीयवृत्ती । ३७ - पञ्च क्लेशाख्यदुःखनिदानवाल्लेशा इत्यर्थः । ते हि चेतसि वर्तमानाः संसारधर्माध- मकर्ममयं गुणपरिणाम द्रढयन्ति । कर्ममिः क्लेशाः क्लेशैश्च कर्माणीत्यनवस्था तु वीजाकुरवदनादिलान्न दोपाय ॥ ३ ॥ अविद्यादयोऽग्रे लक्षणीयाः । अदौ तु स्थूलसूक्ष्माणां सर्वेपामेव क्लेशानां ज्ञाननाश्यत्वं वक्ष्यमाणमुपपादयितुमविद्यामूलकत्वमन्यक्केशानामाह- अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥४॥ उत्तरेपामसितादीनां प्रसुप्तादिचतुर्विधानामप्यविद्या क्षेत्रं प्रसवभूमिरित्य- न्वयः । यद्यप्यविद्यापञ्चकस्यान्तःकरणमेव प्रसवभूमिस्तथाप्यविनाभावरूपेणो- पादानसाधर्म्यणात्र निमित्तकारणस्यपि प्रसवभूमित्वं गौणम् , यदेव हि वस्तु अहं- ममेत्यविद्याविषयो भवति तत्रैव रागादिकं भवतीति । अत्र प्रसुप्तिजनान्यदग्ध- याऽव्यक्तावस्थयाऽवस्थानम् । ज्ञानाग्निदग्धानां हि कदाप्यनुत्पादाप्रसवभूम्य- संभवः । तनुत्वं तु पूर्वसूत्रे व्याख्यातम् । विच्छिन्नत्वं च अल्पप्रतिवन्धव- शाध्यक्षकसत्वेऽप्यन्तरान्तरानभिव्यझिरतः सुपुतितोऽस्य भेदः, व्यञ्जकविलम्बेन द्वित्रिजन्मादिबहुकालव्याह्यानभिव्यक्तरेव प्रसुप्तित्वात् , प्रशन्देन प्रकर्पला- भात् । तदारब्धं चाभिव्यक्तत्वमुदारत्वमिति ॥ ४ ॥ अथ सर्वेषां क्लेशानां ज्ञाननाश्यलमुपपादयितुमविद्यामूलकलमन्यक्लेशाना- माह-अविद्याक्षेत्रमुत्तरेपां प्रसुप्ततनुविच्छिन्नोदाराणाम् । उत्तरेपाम- स्मितादीनां प्रसुप्तादिभेदेन चतुर्विधानामप्यविद्या क्षेत्रं प्रसवभूमिरित्यर्थः ॥ यद्य- प्यन्तःकरणमेव सर्वेषां प्रसवभूमिः, तथाप्यविनाभावरूपेण तत्संश्लिष्टलरूपेण चोपादानसाधर्म्यणात्रनिमित्तकारणस्यापि प्रसवभूमित्वं गौणम् । यदेव हि अहंम- मेलविद्याविपयो भवति तत्रैव रागादिकं भवति । तत्र प्रसुप्तिमा॑नाम्यदग्धया अव्यक्तावस्थया कार्योन्मुखतारूपयाऽवस्थानम् । यथा विदेहप्रकृतिलयानाम् । विवे- कख्यातिरूपज्ञानाग्निदग्धानां न कदापि कार्योन्मुखता इति सा पञ्चमी अवस्था । तनुत्वं द्वितीयसूने व्याख्यातम् ॥ विच्छिन्नलमल्पप्रतिवन्धवशायजकसत्वेऽप्यन्त- रान्तरानमिव्यक्तिरतः प्रसुप्तितोऽस्य भेदः । व्यञ्जकविलम्बेन तज्जन्मपर्यन्तबहुकाल. च्याप्यनमिव्यक्तरेव प्रसुप्तिलात्, प्रशब्देन प्रकर्यलाभात् । विच्छिन्नत्वं यथा रागकाले द्वेपस्य द्वेषकाले रागस्य क्रोधसमाविष्टेन मिष्टान्नस्यापि त्यागात् । यथा वा विषयान्तररागेण विषयान्तररागः । स हि तदा प्रसुप्तस्तनुर्विच्छिन्नश्च । प्रतिपक्ष- भावनाऽप्रतिवन्धकत्वं च तनुलम् । उदारत्वं विपये लव्धवृत्तित्वाख्यममिव्यक्त त्वम् । प्रसुप्तास्तत्त्वलीनानां तन्ववस्थाश्च योगिनाम् । विच्छिन्नोदाररूपाश्च क्लेशा विषयसङ्गिनामिति संग्रहः ॥ ४ ॥ अविद्यादीपञ्च क्रमेण पञ्चभिः सूत्रैर्लक्षयति, अनित्याशुचिदुःखानात्मसु नित्यशुचिमुखा- त्मख्यातिरविद्या ॥५॥ यथासंख्यमनित्यादिचतुप्के नित्यादिचतुष्कबुद्धिर विद्येत्यर्थः । इदं घोपलक्ष.

३८ पातञ्जलेयोगसूत्रम् । [साधनपादः २ णम् । नित्यादिचतुष्टयेऽनित्यादिचतुष्टयबुद्धिः, पापादौ पुण्यादिबुद्धिरपि विव- क्षिता । तासामपि संसारहेत्वविद्यात्वात् । शुक्तिरजताद्यविद्यानां तु संसारा- हेतुत्वान्नान [गणना] सूत्रोक्ताविद्यास्वप्यनात्मन्यात्मवुद्धिरेव संसारस्य मूलका- रणमुत्तरसूत्रे वक्ष्यमाणत्वात् । “अनात्मन्यात्मबुद्धिर्या अस्त्रे स्वमिति या मतिः । अविद्यातरुसंभूतिबीजमेतविधा स्थित"मिति स्मृतेः । अन्यास्त्वविद्यास्तच्छेपत- यैव संसारहेतव इति । तत्रा नित्ये नित्यबुद्धिर्यथा ध्रुवा पृथिवी, अमृता देवाः, इत्याद्याः । अशुचौ शुचिबुद्धिश्च शरीरं पवित्रमित्यादि । तथा दुःखप्रचुरत्वा- दुःखे जगति सुखबुद्धिः सुखप्रचुरबुद्धिस्तृतीयाऽविद्या । तथा अनात्मनि चतु- विंशतितत्त्वे आत्मबुद्धिश्चतुर्थी ॥ ५ तत्राविद्यालक्षणमाह-अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखा- मख्यातिरविद्या । यथासंख्यमनित्यादिचतुष्के नित्यादिचतुष्कवुद्धि[श्चतुर्धर्मा- वच्छिन्ने नित्यवादिचतुर्धर्मावच्छिन्नत्वबुद्धिश्चा] विद्येत्यर्थः। उपलक्षणं चैतत् । नित्या- दिचतुष्टयेऽनित्यादिचतुष्टयबुद्धिः पापादौ पुण्यादिवुद्धिरप्येवं तासामपि संसारहेत्व- विद्यात्वात् । शुक्तिरजताद्यविद्यानां तु तदहेतुत्वान्नात्र गणना । सूत्रोक्ताविद्यास्वपि अनात्मन्यात्मबुद्धिरेव संसारवीजम् । अत्रात्मशब्द आत्मीयपरोऽपि तेनाना- त्मीये आत्मीयवुद्धिरपि संगृहीता । 'अनात्मन्यात्मबुद्धिर्याऽखे स्वीयमिति या मतिः । अविद्यातरुसंभूतिबीजमेतद्विधा स्थितम्' इति स्मृतेः । अन्यास्त्वविद्यास्त- च्छेषतयैव संसारहेतवः । तत्रानित्ये नित्यबुद्धिर्यथा ध्रुवा पृथिवी अमृता देवा इत्यादि । तत्रैषां नित्यत्वामृतत्वे मन्यमानास्तद्भावाय तत्तदुपासनां सोमपानादि चाचरन्ति । द्वितीयाऽशुचौ शरीरे शुचिवुद्धिः 'स्थानाबीजादुपष्टम्भानिस्यन्दान्निधना- दपि । कायमाघेयशौचत्वात्पण्डिता ह्यशुचिं विदुः ।' स्थानं मात्रुदरम् । उपष्टम्भो- ऽशितपीतादिरसभावः । निष्यन्दः स्वेदः । निधनं मरणं, मृतशरीरस्पर्शे स्नानाद्युक्तेः । कामिनीनामङ्गरागादिभिः सुगन्धितेव मृजलादिमिराधेयशौचम् । कान्तादिमुखे चन्द्रत्वादिबुद्धिरप्येवम् । एवमपुण्ये हिंसादौ पुण्यप्रत्ययः । अर्जनादिदुःखबहुल- तयाऽनर्थे धनादावर्थप्रत्ययोऽपि जुगुप्सितत्वेनाशुचित्वात् । सुखस्यापि दुःखतया वक्ष्यमाणत्वात्तन्मये जगति सुखवुद्धिः । अनेन सुखरूपमीश्वरस्य पुरुषमात्रस्य सिद्धम् । तथानात्मनि चतुर्विंशतितत्त्वात्मके आत्मत्ववुद्धिरात्मीयत्वबुद्धिश्चतुर्थी । एवं च विद्याविरोधि विपरीतज्ञानमविद्येत्युक्तम् ॥ ५ ॥ हग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥ ६॥ हरद्रष्टा । दृश्यतेऽनयेति दर्शनं बुद्धिः । प्रलयादौ फलोपधानं नास्तीति शक्तिपदम् । दृक्शक्तेर्दर्शनशक्तेश्चैकात्मतेव धर्मतश्च रूपतश्चात्यन्तमेकाकारबुद्धिर- स्मिता । अहङ्कार इत्यर्थः । अविद्यातश्चास्मिताया अयं भेदो यहुड्यादौ सामा- न्यतोऽहंबुद्धिर्भेदाभेदसहिष्णुरुदेत्यत्यन्ताभेदाग्रहणात् सैवाविद्या । अस्मिता तु स्वतो धर्मतश्च तयोरखण्डत्वभ्रमरूपेति ॥ ६ ॥ . १ अखण्डत्वमत्यन्तमेकाकारत्वम् ।

भावागणेशीय-नागोजीभट्टीयवृत्ती । ३९ अस्मितामाह-दृग्दर्शनशक्त्योरेकात्मतेवास्मिता । दृक् द्रष्टा पुरुपः, दृश्यतेऽनेनेति दर्शनं बुद्धिः । प्रलयादौ फलोपधानाभावाच्छक्तिपदम् । अनयोरे- कात्मतेव धर्मतः स्वरूपतश्चात्यन्तमेकाकारा बुद्धिरस्मिता अहंकार इत्यर्थः । अविद्या तु वुद्ध्यादौ सामान्यतो मेदाभेदसहिष्णुः, अत्यन्तामेदाग्रहणात् । तिर- स्कृतमेदा सैवास्मितेति बोध्यम् । वस्तुतः परिणामिलापरिणामित्वादिधर्मेस्तयोर्भेद एव । अस्मितायां सत्यामेव भोगो भवति । तत्र भोग्यशक्तिर्बुद्धिरशुद्धाऽनुदासीना जडा च, भोक्तशतिः पुरुषः सदा शुद्धः उदासीनश्चैतन्यरूपश्चेति ॥ ६॥ सुखानुशयी रागः ॥७॥ सुखतत्साधनमात्रविषयकः केशो राग इत्यर्थः । मात्रपदादविद्यादिव्यावृत्तिः। क्लेशपदाजीवन्मुक्तादीच्छाव्यावृत्तिः ॥ ७ ॥ तनास्मितापूर्वकलादागादीनां तदनन्तरं ताल्लँक्षयति-सुखानुशयी रागः । सुखे तत्साधने वा तत्त्वेन गृहीते तृष्णारूपः क्लेशो राग इत्यर्थः । क्लेशपदाच जीव- न्मुक्तादीच्छाव्यावृत्तिः ॥ ७ ॥ दुःखानुशयी द्वेषः॥८॥ सर्व पूर्ववत् ॥ ८॥ दुःखानुशयी द्वेषः । दुःखे तत्साधने तत्त्वेन गृहीते यः क्रोधः स द्वेष इत्यर्थः ॥ ८॥ स्वरसवाही विदुषोऽपि तथा रूढोऽभिनिवेशः॥ ९ ॥ स्वस्य रसेन संस्कारेणैव वहतीति स्वरसवाही । अपिशब्दसमुच्चितमविद्वांसं तथेति तच्छब्दः परामृशति । रूढः प्रसिद्धः । तथाच यथाऽविदुपः तथा विदु- पोऽपि स्वरसवाहित्वहेतुना यजातीयो यत्केशो भयाख्यः प्रसिद्धोऽस्ति सोऽमि- निवेश इत्यर्थः । विदुपामपि मरणनासकृतं भयमस्तीति भाग्यकृतोक्तम् । पूर्व- पूर्वजन्मसु मरणकाले यस्त्रासो जातो 'मा न भूवं भूयासम्' इत्युत्कण्ठारूपो भय- नामा तजनितसंस्कारमात्रादविदुपामिवात्मविदामपि स जायते, न तत्रावि- द्यादिकं कारणमिति । एतज्जातीयं च भयसामान्यममिनिवेशशब्देन परिभापि- तमिति भावः ॥९॥ अभिनिवेशमाह-स्वरसवाही विदुषोऽपि तथा रूढोऽभिनिवेशः। स्वस्य रसेन संस्कारेणैव वहतीति स्वरसवाही । अपिशब्दसमुच्चितस्तथाशब्दो- ऽविद्वांसं परामृशति । रूढः प्रसिद्धः । एवं च विद्वदविदुषोः स्वरसवाहिलहेतुना यजातीयः क्लेशो भयाख्यः प्रसिद्धोऽस्ति सोऽमिनिवेशः इत्यर्थः । सर्वस्य चेय- मिच्छा दृश्यते माभून्मे मृति व्यासमिति । स च जन्मान्तरेऽनुभूतमरणनासस्य तबासस्मरणजन्यभयेनामिनिवेशाख्येन हि इयमिच्छा । सचायं दुःखजनकबाक्लेशः यथाचायं जातमात्रस्य. क्रिम्यादेस्तथा श्रुतानुमानाभ्यां ज्ञातसंसारकैवल्यतत्त्वस्य । - ५ पा.यो. r ४० पातञ्जलयोगसूत्रम् । [साधनपादः २ - - किं फलमित्याकाङ्क्षायामाह- विदुषोऽपि मरणत्रासरूपोऽभिनिवेश इत्यर्थः । एतजातीयं च भयसामान्यमभिनिवे- शशब्देनोच्यते । ननु पञ्चमी क्लेशावस्था दग्धवीजभावावस्था • कुतो नोक्नेति चेन्न। पुरुषप्रयत्नसाध्यहानिका झुक्ता, नचैषा तथा । चित्तलये तेनैव सह तासां नाशात् । 'ते प्रतिप्रसवहेयाः ‘सूक्ष्मा' इति तु भाष्यमेव न सूत्रमिति वाचस्पतिवरसः । प्रतिप्रसवश्चित्तलयः ॥ ९ ॥ क्रियायोगः क्लेशतनूकरणार्थ इत्युक्तम् । तत्र क्लेशा व्याख्याताः । इदानीं तनूकरणस्य फलमाह-- ते प्रतिप्रसवहेयाः सूक्ष्माः ॥१०॥ केशानामेव संसारनिदानत्वं प्रपञ्चयिष्यते । अतस्ते क्लेशा 'अनागतावस्था वक्ष्यमाणज्ञानाग्निना दग्धवीजवत्कार्याक्षमीकृताः प्रतिप्रसवेन चित्तस्य प्रलये- नात्यन्तिकेन हेया धर्मिनाशेनोच्छेद्या इत्यर्थः । ननु दुग्धतीजकल्पस्यानर्थहेतुत्वा- संभवात्तन्नाशो न पुरुषार्थ इति चेत्तथाप्यस्य सूत्रस्य [न] स्वरूपाख्यानमात्रत्वं संभवति । वस्तुतस्तु केशत्वावच्छेदेनैव दुःखनिदानतया :क्लेशसामान्याभावत्वे- नैव पुरुषार्थतेति ॥ १०॥ ननु भवत्वेवं, तनूकरणस्य तु ध्यानहेयास्तवृत्तयः॥११॥ तेपां क्लेशानां या वृत्तयः स्थूला अभिव्यक्तावस्थास्ताः प्रथमं क्रियायोगेन तनूकृताः सत्यः ध्यानेनात्मसाक्षात्काररूपप्रवाहरूपेण हातव्याः प्रतिबद्धोत्पत्तिकाः कर्तव्या इति यावत् । अभिव्यक्तिप्रतिबन्धतः क्लेशवासनानुत्पत्या प्राचीनवा- सनानां च क्षयात्त एवानागतावस्थाः क्लेशाः दग्धवीजतुल्या भवन्तीत्यर्थः क्लेशानां बीज़शक्तिदाहश्च वासनाख्यसहकार्युच्छेदनं यथा धान्यादौ बीजशक्ति- दाहो रसाख्यसहकार्युच्छेदनमिति । तथा च क्रियायोगाल्लेशानां तनूकरणं विवेकाभ्यासप्रतिवन्धाक्षमत्वं भवति । ततश्च निर्विघ्नविवेकख्यातिप्रवाहनिष्पत्त्या निःशेपतोऽविद्यावासनोच्छेदो भवति । ततश्च दग्धवीजकल्पा अनागतावस्थाः क्केशाश्चित्तेन सह लीयन्त इति सिद्धम् ॥ ११ ॥ तनूकृतानां हानोपायमाह सूत्रकृत्-ध्यानहेयास्तवृत्तयः । तेषां क्लेशानां या वृत्तयः स्थूला अभिव्यक्तावस्थास्ताः प्रथमं क्रियायोगेन तनूकृतास्ता ध्यानेना- त्मसाक्षात्कारप्रवाहेण हातव्याः प्रतिवद्धोत्पत्तिकाः दग्धवीजकल्पाः कार्याः । अभिव्यक्तिरूपोत्पत्तिप्रतिवन्धाचाग्रे न वासनोत्पत्तिः । क्लेशानां बीजशक्तिदाहश्च वासनाख्यसहकार्युच्छेदनम् । यथा धान्यादौ वीजशक्तिदाहो रसाख्यसहकार्युच्छे- दनम् । एवं च क्रियायोगात् क्लेशानां तनूकरणं विवेकाभ्यासप्रतिवन्धाक्षमखम् । ततो निर्विघ्नविवेकख्यातिप्रवाहनिप्पत्त्या निःशेषतोऽविद्यावासनोच्छेदे दग्धवीज- कल्पा अनागतावस्थाः' क्लेशांश्चित्तेन सह लीयन्त इति सिद्धम् ॥ ११ ॥ ।

भावागणेशीय नागोजीभट्टीयवृत्ती । - इदानीं-केशाः किमर्थ हेया इत्याकाङ्क्षायां क्लेशानां येन द्वारेण दुःखनिदानत्वं तबारमाह- क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ १२ ॥ दृष्टादृष्टजन्मनी वर्तमानभविष्यती । वेदनं भोगः । कर्माशयो. धर्माधर्मों। तथाच दृष्टादृष्टजन्मभोग्यो धर्माधर्मप्रचयः केशमूलकस्तत्कार्यमित्यर्थः । "रागद्वेषादयो दोषाः सर्वे भ्रान्तिनिवन्धनाः । कार्यों ह्यस्य भवेदोपः पुण्यापु- प्यमितिश्रुतेः । तदशादेव सर्वेषां सर्वदेहसमुद्भवः" इति कौर्मादिभ्य इति भावः॥ १२ ॥ । - अथ क्लेशानां दुःखनिदानत्वे द्वारमाह-क्लेशमूलः कर्माशयो दृष्टादृष्टज- न्मवेदनीयः । दृष्टादृष्टजन्मनी वर्तमानभविष्यती, वेदनं भोगः, कर्माशयो धर्मा- धर्मों । एवं च.वर्तमानभाविजन्मभोग्यो धर्माधर्मप्रचयः क्लेशमूलः क्लेशकार्यमि- त्यर्थः । 'रागद्वेपादयो दोषाः सर्वे भ्रान्तिनिवन्धनाः । कार्यो ह्यस्य भवेद्दोषः पुण्या- पुण्यमिति श्रुतेः । तद्वशादेव सर्वेषां सर्वदेहसमुद्भवः' इति कौर्मात् । तत्रोत्कटौ धर्माधर्मों च वर्तमानजन्मभोग्यौ ॥ १२ ॥ न केवलं कर्माशयेप्वेव केशाः कारणमपि तु तत्फलेप्वपीत्याह- सति मूले तद्विपाको जात्यायु गाः॥ १३ ॥ धर्माधर्ममूले केशे सत्येव धर्माधर्मयोर्विपाकः फलं जात्यायु गरूपं भवति । तत्र जातिर्जन्म । आयुर्जीवनकालः । भोगश्चात्र सुखदुःखमोहात्मकशब्दादिव- त्तिरित्यर्थः । अत्र विपाको विपाकारम्भः, भाप्यकारैर्व्याख्यातत्वात् । अतो निःशेपाऽविद्याक्षयेऽपि जीवन्मुक्तानां प्रारब्धभोग उपपद्यते । अत्र प्रमाणं च वार्तिके द्रष्टव्यम् ॥ १३ ॥ अथ क्लेशकारणकमेव तत्फलमाह-सति मूले तद्विपाको जात्यायु- भोगाः । धर्माधर्ममूले क्लेशे सत्येव तयोर्विपाकः फलं जात्यायुर्भोगरूपं भवति । तंत्र जातिर्जन्म,, आयुर्जीवनकालः, भोगः सुखदुःखमोहात्मकशब्दादिवृत्तिः । अत्र भोगो मुख्यं फलम् । तन्नान्तरीयके च जन्मायुषी । क्लेशस्य सत्ता च प्रसं- ख्यानदग्धवीजभावेनैव । अत्र विपाको. विपाकारम्भः । अतो निःशेषाविद्याक्षयेऽपि जीवन्मुक्तानां प्रारब्धभोग उपपद्यते । अत्रेदं वोध्यम् । (१) एकं कर्म नैकस्य जन्मनः कारणम् । एकस्मिन्नपि जन्मनि विचित्रविचित्रसुखदुःखानुभवात् । अनादिकालाने- कजन्मार्जितासंख्येयकर्मणां मध्ये एकजन्मोपभुक्तैकैककर्मणोऽवशिष्टकर्मणां फल- दाने विनिगमनाविरहाच । सत्प्रतिपक्षन्यायेन सर्वेषां फलदानप्रतिवन्धे कर्मानुष्ठा- नेऽनाश्वासापत्तेश्च । (२) नाप्येकमनेकस्य । एकस्यैवानेकजन्मनिमित्तत्वेऽन्येपां विपा- ककालाभावेन तद्वैफल्ये तदननुष्टानापत्तेः । उक्तदोपाच्च । (३) नाप्यनेक कर्मानेक- न्मकारणम् । अयोगिनामनेकजन्मनां युगपदसंभवेन क्रमेणैव वाच्यतया तत्त- जन्मसु क्रियमाणकर्मणां विपाककालाभावेन तत्र तत्र कर्माननुष्ठानापत्तेः। (४)तस्मा- ।

४२ पातञ्जलयोगसूत्रम् । [साधनपादः २ जन्ममरणान्तरे कृतकर्मसमूहो विचित्रफलद उद्भूतत्वादिभिः क्रमेण फलदो मरणेन कार्यारम्भाभिमुख्यं नीतः युगपदेकलोलीभावापन्न एकं जन्म करोति, तेनैव कर्मणा तत्र लब्धायुप्को भोगवांश्चेति स त्रिविपाकः; एवमेषः अदृष्टजन्मवेदनीयः कर्माशयः । एकजन्मावच्छिन्नक्लेशकर्मविपाकानुभवजाः स्मृतिहेतुसंस्काररूपा वास- नास्तु अनादयोऽनेकजन्मपूर्विकाः । अतएव मनुष्यस्तिर्यग्योनिमापनस्तजातीयोचि- तभोजने प्रवर्तते । स कर्माशयो द्विविधः । आरब्धफलोऽनारब्धफलश्च । तत्रार- ब्धफल उक्त एकजन्मावच्छिन्नः । अनारब्धफलोऽपि त्रिविधः शुक्लः कृष्णः शुक्लकृष्णश्च । परपीडारहिततपःखाध्यायादिराद्यः स उदित एवान्ययोर्द्वयोर्नाशक इति तस्यैका गतिरनारब्धफलस्य । किंचित्तु कृष्णं कर्म यज्ञान्तर्गतपशुहिंसादिजन्यं पापम् । अनारब्धफलमपि प्रधानकर्मविपाकेन सहात्मफलदम् । एतदेव प्रधान- कर्मण्यावापगमनम् । एतदन्तर्गतपशुहिंसादि च प्रधानाङ्गत्वेन विधानात् तदुप- कारकं, न हिंस्यादिति निषेधात्पापजनकं च ॥ एतदेव यज्ञादि कृष्णशुक्लम् । किंचि- त्वनारब्धफलमारब्धविपाककर्मणाऽभिभूतं चिरमवतिष्ठते यावत्तदमिव्यञ्जकका- लागमनम् । दृष्टजन्मवेदनीयस्तु एकविपाकारम्भी भोगहेतुवात् । द्विविपाकारम्भी वा भोगायुर्हेतुखात् । एवं कर्मगतिश्चित्रा दुर्विज्ञाना चेति भाष्ये स्पष्टम् ॥ १३ ॥ उक्ताभ्यां कर्मतद्विपाकाभ्यां द्वाराभ्यां केशानां मुख्यं फलमनर्थमाह- ते हादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥ १४ ।। ते विपाकाः सर्व एव समुच्चितसुखदुःखफलकाः समुच्चितपुण्यापुण्यहेतुत्वा- दित्यर्थः । सुखदुःखयोश्च फलं पुरुषस्य भोग इति प्रसिद्धत्वान्नोक्तम् । तदित्थ- मनर्थहेतुत्वात्क्लेशास्तनूकरणादिक्रमेण हेया इति प्रघट्टकार्थः ॥ १४ ॥ अथैतेषां सर्वेषां त्याज्यतामूलं विपाकानां फलमाह-ते ह्रादपरिताप- फलाः पुण्यापुण्यहेतुत्वात् । ते जन्मायुर्भोगाः समुचितपुण्यापुण्यहेतुक- वात्समुच्चितसुखदुःखफलका इत्यर्थः । एवं पुण्यहेतुकाः सुखफला अपुण्यहेतुकाश्च दुःखफला इति । ननु सुखदुःखानन्तरभावी तदनुभवात्मा भोग इति कथं भोग- फलसमेतयोरिति चेन्न । भोगविषयतामात्रेण तत्फलत्वात् । यद्वा कर्मकरणव्यु- त्पत्त्या भोगशब्देन विपया इन्द्रियाण्येव तत्र, अत्र च सुखदुःखशब्दौ तद्भोगपरौ । तदित्थमनर्थहेतुलात्क्लेशाः तनूकरणादिक्रमेण हेया इति प्रघट्टकार्थः ॥ १४ ॥ नन्वेवं यथा दुःखनिदानत्वेन केशा हेयास्तथा सुखनिदानत्वेनोपादेया अपि स्युस्तत्राह- परिणामतापसंस्कारदुःखैर्गुणवृत्त्यविरोधाच दुःखमेव सर्व विवेकिनः ॥ १५ ॥ परिणामश्च तापश्च संस्कारश्च तज्जन्यानि दुःखानि । तैः संवन्धात्तत्कारण- स्वादिति यावत् । तथा गुणानां सत्वरजस्तमसां या वृत्तयः सुखदुःखमोहास्ता- भावागणेशीय-नागोजीभट्टीयवृत्ती । ४३ . सामेककालानवस्थानरूपविरोधाभावाञ्च सर्व प्रकृतितत्कार्यसुखादिकं विवेकिनः सुखदुःखतत्त्वसाक्षात्कारिणो दुःखमेव मतम् , दुःखकारणत्वदुःखसंमिन्नत्वाभ्या- मित्यर्थः । तथाच सुखरागापेक्षया दुःखद्वेपस्य बलवत्त्वात्सुखापेक्षया दुःखमा- चुर्याच्च सुखमपि दुःखयोगाद्धेयमिति भावः । तत्र परिणामदुःखं यथा सुखभो- गकाले सुखे रागो हिंसादिकं च तन्नान्तरीयकं भवति । ताभ्यां चादृष्टादिद्वा- रोत्तरकाले दुःखमिति । तापदुःखं च दुःखकालेऽप्यनुतापादिभिर्दुःखान्तरम् । संस्कारदुःखं तु सुखदुःखसंस्कारात्तत्साधनेपु प्रवृत्तिनिवृत्याद्युत्थं दुःखमिति गुणवृत्त्यविरोधात्सुखकालेऽपि सूक्ष्मं दुःखमनुमेयं, सर्वकार्याणां त्रिगुणात्म- कत्वादिति ॥ १५॥ ननु दुःखनिदानत्वेन हेयखवत्सुखनिदानत्वेनोपादेयत्वमपि स्यादत आह- परिणामतापसंस्कारदुःखैर्गुणवृत्त्यविरोधाच सर्वमेव दुःखं विवे- किनः। परिणामश्च तापश्च संस्कारश्च तजन्यानि दुःखानि तैः संवन्धात् तत्का णत्वात् , तथा गुणानां सत्वरजस्तमसां या वृत्तयः सुखदुःखमोहास्तासामेककाला- नवस्थानरूपविरोधाभावाच सर्व प्रकृतिस्तत्कार्यसुखादिकं च विवेकिनः सुखदुःख- तत्त्वसाक्षात्कारवतो दुःखमेव मतम् । दुःखकारणत्वदुःखसंमिन्नत्वाभ्यामित्यर्थः । तथाच सुखरागापेक्षया दुःखद्वेषस्य बलवत्त्वात्सुखापेक्षया दुःखस्य प्राचुर्याच सुखमपि दुःखयोगाद्धेयमिति भावः । तत्र परिणामदुःखं यथा सुखभोगकाले सुखे रागस्तत्प्रतिघातके द्वेषः । विना प्राणिवधमुपभोगाभावेन हिंसादिकं च तन्नान्तरीयकं भवति । ताभ्यां चादृष्टादिद्वारोत्तरकाले दुःखमिति । अतएव विषयसुखमविद्या विपर्या- सलक्षणेति वृद्धाः । नच विषयतृष्णव दुःखं भोगेन तृप्तौ तन्निवृत्तिरेव सुखमिति तस्या रागानुविद्धत्वाद्यभावेन न परिणामदुःखतेति वाच्यम् । तृष्णाक्षयस्य सुखत्वेऽपि भोगाभ्यासस्य तदनुपायत्वात् । तेन तृष्णावृद्धेरेव दर्शनात् । तस्याश्च दुःखरूपत्वात् किंच तृष्णाक्षयसुखस्यापि वुद्धिधर्मत्वेन त्रिगुणत्वाद्दुःखरूपतया हेयत्वमेवेति जंगीपव्य- व्याधसंवादेन भाष्ये दर्शितं तृतीयपादे। तापदुःखं च सुखकालेऽन्यदीयाधिकसुखं दृष्ट्वा तापजं दुःखम् । तस्य द्वेषानुविद्धत्वाद्वेषजः कर्माशयः । तथा सुखसाधनप्रार्थनया कंचिदनुगृह्णाति कंचित्पीडयति । तत्र परानुग्रहपीडाभ्यां धर्माधर्मोपचयो भवती- सेषा तापदुःखता । संस्कारदुःखं च सुखानुभवात्संस्कारातिशयेन तत्त्मरणं ततत्तदु- पपादके रागस्तदुपघातके द्वेपः, ताभ्यां कर्माणि तेभ्यो विपाकास्ततस्तदनुभवस्ततो वासनेति । तदिदमनादिदुःखस्रोतो योगिनमेव क्लिन्नाति निर्मलचित्तत्वात् । यथोर्णा- तन्तुरक्ष्णि न्यस्तो दुःखयति नान्यगात्रेषु । इतरं पृथग्जनं खकर्मोपहतमुपात्तं दुःखं त्यजतं त्यक्तं त्यक्तमुपाददानमनादिवासनाविचित्रया चित्तवृत्तिरूपयाऽविद्यया हातव्येऽहंकारममकारौ कुर्वाणं सर्वे तापा उपतिष्टन्ते । योगी वनादिदुःखोपहतः सर्वदुःखनाशकसम्यग्दर्शनमेव शरणीकरोति । गुणवृत्त्यविरोधाचेति । गुणाः सत्त्वरजस्तमांसि बुद्धिरूपेण परिणताः परस्परानुग्राहकस्वभावतयाऽविरुद्धात्रिगुणा- मेव सर्वा वृत्तिं जनयन्ति । उपादानकारणस्य त्रितयात्मकत्वात्कारणामेदाच कार्यस्य । तेन सुखवृत्तिकालेऽपि सूक्ष्म दुःखमनुसंधेयम्, क्षिप्रपरिणामितया ।

पातञ्जलयोगसूत्रम् । [साधनपादः २ चित्तस्यात्यन्तास्थिरत्वाच । तद्वृत्तेरपि दुःखमयत्वं च । स्थूलसुखा सूक्ष्मदुःखा सुख- वृत्तिरित्युच्यते । स्थूलदुःखा सूक्ष्मसुखा च दुःखवृत्तिः..। न संकरः । स्थूलानां स्थूलैः सह विरोधेऽपि सूक्ष्मैः सहाविरोध एवं.। उपादानकारणेनाप्यत्यन्ताभेदा- भावाद्बुद्धेः सुखमित्यादिव्यपदेशस्यापि न हानिः । सामान्यरूपेणामेदः स्थूलात्मना च भेद इत्यवगन्तव्यम् । अस्य च महतो दुःखस्य मूलमविद्या । विवेकसाक्षात्का- राच्च तन्निवृत्तौ तन्मूलक्लेशान्तराणां निवृत्तिः । ततः कारणाभावाद्धर्माद्यनुत्पत्तिः। अनारब्धफलैश्च संचितकर्मभिः क्लेशाख्यसहकार्युच्छेदात्फलानुत्पादः । आरब्ध- फलकर्मणां च भोगादेव नाशे सति देहपाते कारणाभावादपुनर्जन्म । तदेव च दुःखनिवृत्तिरूपो मोक्ष इति दिक् । तदेतच्छास्त्रं चतुर्वृहं, हेयं, हेयहेतुः, हानं, हानोपाय इति । दुःखं हेयम् । दुःखहेतुरविद्या । दुःखात्यन्तनिवृत्तिः हानम् । विवे- कसाक्षात्कारो हानोपायः । उपकरणसंग्रहाय सर्वत्र व्यूहपदं राश्यर्थकम् ॥ १५ ॥ तदेवमत्र पादे व्युत्थितचित्तस्य योगसाधनं क्रियायोगमुक्त्वा तत्फलप्रसङ्गेन क्लेशास्तद्धानप्रकारस्तेपां हेयत्वाय दुःखनिदानत्वं दुःखत्वं च प्रतिपादितम् । इदानीं संक्षेपेणोक्तं समस्तशास्त्रार्थमतिविस्तरतः प्रतिपादयिप्यति शास्त्रसमाप्ति- पर्यन्तैः सूत्रैः । तदादौ योगफलं परमपुरुषार्थमाह--- हेयं दुःखमनागतम् ॥१६॥ अतीतं स्वयमेव गतं, वर्तमानं च बहुकालसाध्यसाधनानुष्ठानात्मागेव तृतीयक्षणे नश्यति । अतः परिशेपादनागतावस्थमेव दुःखं योगादिमिय- मित्यर्थः ॥ १६ ॥ तत्रादौ हेयमाह-हेयं दुःखमनागतम् । अतीत खयमेव नष्टम् । वर्त- मानं वहुकालसाध्यसाधनानुष्ठानात्प्रागेव तृतीयक्षणे नश्यति । परिशेषादनाग- तावस्थमेव दुःखं योगेन हेयमित्यर्थः ॥ १६ ॥ हेतूच्छेदे पुरुषव्यापाराद्धेयहेतुं प्रदर्शयति- द्रष्टदृश्ययोः संयोगो हेयहेतुः॥१७॥ सुखदुःखमोहात्मकाखिलदृश्याकारत्वेनाखिलदृश्यरूपया बुद्ध्या द्रष्टुः पुरु- पस्य जन्माख्यः संयोगविशेपो दुःखहेतुरित्यर्थः ॥ १७ ॥ हेतूच्छेदे पुरुषव्यापाराद्धेयहेतुमाह-द्रष्टदृश्ययोः संयोगो हेयहेतुः । सुखमोहदुःखात्मकाखिलदृश्याकारत्वेनाखिल दृश्यरूपया बुद्ध्या तादृशवुद्धिप्रतिवि- म्वत्वेन द्रष्टुः पुरुषस्य यः संयोगो भोग्यभोक्तृत्वनियामको जन्माख्यः स दुःख- हेतुरित्यर्थः । दृश्यं हि अयस्कान्तमणिः स्वसंनिधिमात्रेण लोहमिव पुरुषमाकर्षति । पुरुपायात्यन्ताभेदेनात्मानं दर्शयति । तावतैव तद्रूपानुभवविषयतां चापद्यते । इद- मेव च तस्य दृश्यत्वम् , पुरुषस्य द्रष्टुत्वं च भोग्यभोकृत्वं च तत्वामित्वं च । स च संयोगोऽनादिनिमित्ताविद्याप्रभवतयाऽनादिः । क्लेशकर्मतद्वासनासंतानोऽप्यनादिः । प्रतिसर्गावस्थायां सहान्तःकरणेन प्रधानसाम्यमुपगतोऽपि सर्गादौ पुनः कालव- - - । भावागणेशीय-नागोजीभट्टीयवृत्ती । ४५ शादेव ताहगेव भवति । वर्षात्यये मृद्भावमुपगतो मण्डूको यथा वृष्टी पुनर्मण्डूक- भावमापद्यते तद्वत् । अयं हि संयोगश्चित्तस्यैव दुःखहेतुस्तस्मिंस्तु दुःखिते तदा- कारानुरोधी दुःखित इवेति दिक् ॥ १७ ॥ दृष्टदृश्यसंयोगः सूत्रैर्लक्षणीयस्तत्रादौ दृश्यस्वरूपं लक्षयति- प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगाप- वर्गार्थ दृश्यम् ॥१८॥ प्रलये प्रकाशादिकार्याभावाच्छीलपदम् । अत्र प्रकाशो बुद्धिवृत्त्यादिरूपा- लोकः । क्रिया प्रयत्नचेष्टादिः । स्थितिश्च प्रकाशक्रिययोः प्रतिवन्धः । एतत्रय- शीलं यच्छास्त्रप्रसिद्धं सत्वादिगुणत्रयं तदृश्यं पुरुपभोग्यत्वेन दृश्यशब्दवाच्यम्। तस्य प्रकाशादिरूपतायां हेतुगर्भ विशेपणं भूतेन्द्रियात्मकमिति । स्थूलसू. क्ष्माणां भूतानां कारणं तेन स्थितिशीलत्वं लब्धम् । स्थूलसूक्ष्माणामिन्द्रियाणां च कारणम् । तेन प्रकाशक्रियाशीलत्वं लब्धम् । तत्र स्थूलेपु दशेन्द्रियेषु हेतु- स्वाक्रियाशीलत्वम् । सूक्ष्मेषु चान्तःकरणरूपेन्द्रियेषु हेतुत्वात्प्रकाशशीलत्वम् । इति गुणानां स्वरूपसत्ता । [तत्प्रवृत्तः] प्रयोजनमाह भोगापवर्गार्थमिति । पुरु पस्य भोगापवर्गावेवार्थों यस्य तथेत्यर्थः ॥१८॥ • तत्र दृश्यपदार्थमाह-प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भो. गापवर्गार्थ दृश्यम् । प्रलये प्रकाशादिकार्याभावाच्छीलपदम् । तत्र प्रकाशो बुद्धिवृत्त्यादिरूपालोकस्तच्छीलं सत्वम् । क्रिया प्रयत्नचेष्टादिस्तच्छील रजः । स्थितिः प्रकाशक्रिययोः प्रतिवन्धस्तच्छीलं तमः । ते गुणाः परस्परोपरक्ता इतरेतराश्रयेण कार्यमारभन्ते । तत्र विचित्कार्ये जननीये एकस्य प्राधान्यमपरयोः सहकारि- लम् । यथा दिव्यशरीरे जनयितव्ये सत्त्वं प्रधानं, मानुषे रजः, तिर्यक्शरीरे. तमः । ते च पुरुषस्य भोगापवर्गार्थ संनिघिमात्रोपकारकतया प्रवर्तन्ते । तदाह-भूतेन्द्रियात्मकमिति । तत्र स्थूलसूक्ष्मभूतकारणत्वेन स्थितिशीलत्वं, स्थूलदशेन्द्रियहेतुत्वाक्रियाशीलत्वं, अन्तःकरणरूपसूक्ष्मेन्द्रियहेतुखात्प्रकाशशील- खम् । तत्प्रवृत्तः प्रयोजनमाह-भोगापवर्गार्थमिति । तत्र सुखदुःखरूपाया बुद्धेः पुरुषेणाविभागापन्नतयावधारणं भोगः । भोक्तुः खरूपावधारणमपवर्ग इति भाष्यम् । तावेतौ भोगापवर्गों बुद्धिकृतौ बुद्धावेव वर्तमानौ योद्धगतजयपराजयो राजनीव पुरुषे व्यपदिश्यते । वन्धमोक्षावप्येवमिति च भाष्यम् ॥ १८ ॥ 'नन्वेवं कारणरूपस्य सत्वादिगुणत्रयस्यैव दृश्यत्वं प्राप्तं न विकाराणामित्यतो गुणपर्वविधया कार्यकारणाभेदस्तानपि संगृह्णातीत्याह- 'विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥ १९ ॥ सत्वादिगुणात्मको वंशः, तस्य विशेपादीनि पर्वाणि पन्नशाखाङ्कुरवीजवद- भेदात् नात्यन्तं मिन्नानीत्यर्थः । तत्र विशेपाः पोडश विकारा एकादशेन्द्रियप- पातञ्जलयोगसूत्रम् । [साधनपादः २ ञ्चमहाभूतरूपाः । अविशेषाश्च पञ्चतन्मात्राहकाररूपाः पद । लिङ्गमानं मह- त्तत्त्वम् , अलिङ्गं च साम्यावस्थितिः ॥ १९॥ दृश्यानां गुणानां स्वरूपभेदमाह-विशेषाविशेषलिङ्गमात्रालिङ्गानि गुण- पर्वाणि । सत्त्वादिगुणात्मकस्य वृक्षस्य पत्रशाखाङ्कुरबीजवदवस्थाभेदादेतानि पर्वाणि नात्यन्तं मिन्नानीत्यर्थः । तत्र विशेषाः एकादशेन्द्रियपञ्चमहाभूतरूपाः षोडशविकाराः शान्तघोरमूढलक्षणविशेषवत्त्वात् । तद्राहित्याच्च पञ्चतन्मात्राहंका- ररूपाः षडविशेषाः । शब्दस्पर्शरूपरसगन्धास्तन्मात्राणि एकद्वित्रिचतुःपञ्चलक्ष- णानि । आत्मना पूर्वेण शब्देन च द्विलक्षणं स्पर्शतन्मात्रमेवमुत्तरोत्तराणि आत्मना पूर्वाभ्यां पूर्वैश्च त्रिचतुःपञ्चलक्षणानीति बोध्यम् । सकलपुरुषार्थस्य शब्दादिभो- गसत्त्वपुरुषान्यताख्यातिरूपस्य गमकत्वेन महत्तत्त्वं लिङ्गमात्रम् । क्वापि लयाग- मनादलिङ्गं प्रधानम् । तच्च गुणानां साम्यावस्थारूपम् । तच पुरुषार्थक्रिया- क्षमत्वरूपसत्ताभावादसत्, कार्यजनकलरूपसत्तावत्त्वात्सदिति चोच्यते । न सत् नासदिति चोच्यते ताभ्यां च । पुरुषार्थहेतुत्वासंभवात्सा नित्या । यदि सा भोगा- दिरूपपुरुषार्थहेतुः स्यात्तदा साम्यावस्थात्वमेव भज्येत । एवं च तस्याः पुरुषार्थका- रणत्वाज्ञानान्न सा खतः पुरुषार्थहेतुरतो नित्या। महदाद्यवस्थास्तु पुरुषार्थहेतुत्वाद- नित्याः । तदुत्पत्तिलयव्यवहारेणैव गुणानां तयवहारो नतु खतो गुणानामुत्पत्तिर्लयो वास्ति । यथा धननाशाद्देवदत्तस्य नष्टत्वव्यवहारः ॥ १९ ॥ सूत्राभ्यां दृश्यशब्दार्थो व्याख्यातः । द्रष्टशब्दार्थो व्याख्यायते- द्रष्टा इशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ २० ॥ दृशिमात्रो ज्ञानमात्ररूपः द्रष्टशब्दार्थः । तत्र प्रमाणमाह शेषेण, स च शुद्धोऽपीति । निर्विकारोऽपि प्रत्ययानुपश्यः । प्रत्ययं बौद्धं वृत्तिजातं तद- नुकारीव सन्पश्यति । वृत्तेः स्वेनैव ग्रहणे कर्मकर्तृविरोधाद्वृत्तिप्रवाहकल्पने चानवस्थानादृत्तिसाक्षितया पुरुपः सिद्ध्यतीत्यर्थः । निर्विकारस्याप्यर्थग्रहणमनु- शब्देनोपपादितम् । वृत्तेयर्थग्रहणमर्थाकारतारूपो विकारः स्वप्नादौ सिद्ध एवास्ति । अतस्तदृष्टान्तेन पुरुषस्यापि वृत्तिग्रहणं वृत्याकारता वाच्या वृत्तिप्रतिविम्बरूपा वृत्त्यनुकारितेति ॥ २० ॥ अथ द्रष्टुपदार्थमाह-द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः । दृशिमात्रो ज्ञानमात्ररूपः । एतेन ज्ञानधर्मकत्वं निरस्तम् । स बुद्धेः प्रतिसंवेदी तदविभागापन्न इति यावत् । अविभाग एव च प्रतिविम्व इत्युच्यते । स च तया नात्यन्तममिन्नः । कदाचिदेव तत्तद्विषयाकारताधारणेन तस्याः परिणामिनीत्वात् । संप्रज्ञातव्युत्थानयोः सदा ज्ञातविषयत्वेनापरिणामित्वात्पुरुषस्य । परिणामी तु न सदर ज्ञातविषयो यथा श्रोत्रादिः। किंच बुद्धिः परार्था क्लेशकर्मवासनाविषयेन्द्रियादिभिः सह पुरुपार्थकारिलात् , शय्यादिवत् । पुरुषस्तु नैवमिति नात्यन्ताभेदः । नात्यन्तमिन्नो व्युत्थानदशायां यतः शुद्धोऽप्यपरिणाम्यपि प्रत्ययं वौद्धं प्रत्ययं वृत्तिजातमनुकुर्वन्निव . साच भावागणेशीय-नागोजीभट्टीयवृत्ती । ४७ । पश्यति विषयजातमित्यर्थः । तमनुकुर्वन्नतदात्मापि तदात्मक इव भाति । तदुक्तं-'प्राप्तचैतन्यामेदाया बुद्धिवृत्तेरनुकारणम् । तदविशिष्टः स आख्यायत' इति भाष्ये । वृत्तेः खेनैव ग्रहणे कर्तृकर्मविरोधः, वृत्तिप्रवाहकल्पने चानवस्थाऽतस्तत्साक्षी तदविभागमापन्नः पुरुषः सिध्यति । वृत्तेरर्थग्रहणं ह्याकारतारूपो विकारः । तदृष्टान्तेन पुरुषस्यापि वृत्तिग्रहणं वृत्त्याकारतैव । सा चोक्तप्रतिविम्वरूपा वृत्त्यनु- कारितैवेति दिक् ॥ २० ॥ द्रष्टरि प्रमाणान्तरमाह- तदर्थ एव दृश्यस्यात्मा ॥ २१ ॥ तस्य द्रष्टुरर्थः प्रयोजनं भोगापवर्गावेव प्रयोजनं यस्य स तदर्थः । तथाच. द्रष्टुभॊगापवर्गप्रयोजनकमेव दृश्यस्यात्मा स्वरूपं कार्यकारणात्मकं गुणत्रयं न. स्वार्थमित्यर्थः । तथा च-गुणाः परार्थाः, संहत्यकारित्वात् , शय्यादिवदित्यनु- मानेन प्रकृत्यादिभ्योऽतिरिक्तस्य द्रष्टुः सिद्धिरिति भावः । संहत्यकारित्वं स्वकार्ये सहकारिसापेक्षत्वम् ॥ २१ ॥ अथ संयोगाङ्गदृश्यस्य द्रष्ट्रर्थत्वमाह-तदर्थ एव दृश्यस्यात्मा । तस्य द्रष्टुरर्थः । प्रयोजनं भोगापवर्गावेव प्रयोजनं यस्य स तदर्थः । द्रष्ट गापवर्गफलकं दृश्यस्यात्मा- स्वरूपं कार्यकारणात्मकं गुणत्रयं न खार्थमित्यर्थः । यतो दृश्यमेव पुरुषस्य भोग्यम् । यतो रूपशब्दादयो विषयाः सुखदुःखात्मतयानुकूलयितारः प्रतिकूलयितारश्च । अनुकूलनीयादिश्चेतनः पुरुष एव । न खात्मा कर्तृकर्मविरोधात् । किं च यतो दृश्यस्वरूपं यावत्पुरुषार्थमनुवर्तते तन्निवृत्तौ च निवर्ततेऽतो न स्वार्थम् । तदनेन गुणाः परार्थाः संहत्यकारिखाच्छय्यादिवदित्यनुमानं प्रकृत्याद्यतिरिक्तपुरुषे मानमपि दर्शितम् । संहत्यकारित्वं खकार्ये सहकारिसापेक्षत्वम् ॥ २१ ॥ ननु पुरुपार्थमेव चेत्प्रकृत्यादिकं तर्हि पुरुषस्य मुक्तौ तत्सर्वं नश्येत्, स्थिति- हेतोः पुरुपार्थस्याभावादिति । तत्राह-- कृतार्थ प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥२२॥ कृतार्थ समाप्तपुरुषार्थमेकं कचिन्मुक्तरूपं प्रति गुणादिकं प्रयोजनाकरणा- द्राज्ञो राज्यवन्नष्टमप्यर्थक्रियाकारित्वरूपसत्ताशून्यमपि सर्वथा न नष्टम् । कस्मा- स्कृतार्थेऽन्यपुरुपे च तस्य साधारणत्वादित्यर्थः । तथा च पुरुपान्तराणामथैः प्रकृत्यादिस्थितिरिति भावः ॥ २२ ॥ नन्वेवं पुरुषस्य भोगापवर्गसमाप्तौ निष्प्रयोजनत्वाद्विरतव्यापारं स्यात् । स्थितिहेतोः पुरुषस्यार्थस्याभावात् । नश्यतैव वा । एवंच संसारोच्छेदः स्यादत आह-कृतार्थ प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् । क्वचित्कृतार्थ समाप्तपुरुषार्थ प्रति गुणादिकं प्रयोजनाकरणात नष्टमपि अर्थक्रियाकारित्वरूपसत्ताशून्य-

४८
पातञ्जलयोगसूत्रम् ।
[साधनपादः २
मपि न नष्टं तदन्योऽकृतार्थस्तत्साधारणत्वादित्यर्थः । एवं च पुरुषान्तराणामर्थे
प्रकृत्यादिस्थितिः प्रवृत्तिश्चेति.भावः । प्रधानस्यैकत्वं पुरुषस्यानेकत्वं च 'अजामे-
का लोहितशुक्लकृष्णां वह्वीः प्रजाः सृजमानां सरूपाः । अजो टेको जुषमाणोऽनुशेते
जहात्येना भुक्तभोगामजोऽन्यः' इति श्रुतिराह । एकत्वश्रुतयश्च देशकालविभागा-
भावेन गौणाविभागरूपत्वपरा इति दिक् ॥ २२ ॥
अन्न सूत्रेषु पुरुषबहुत्वं सिद्धम् । द्रष्टदृश्ये व्याख्याते तयोः कीदृशः. संयोगो
हेयहेतुस्तदुच्यते।
खखामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः॥ २३ ॥
प्रलये भोग्यभोक्तृभावाभावाच्छक्तिग्रहणम् । स्वस्वामिशक्तिकयोर्भाग्यभोक्त-
त्वयोग्ययोद्देश्यद्रष्ट्रोः स्वरूपोपलब्धी विषयभोगात्मदर्शने तयोर्हेतुर्यः संयोग
विशेषो जन्माख्यः स एव पूर्वसूत्रे द्रष्टदृश्यसंयोगशब्दार्थः । इष्टदृश्यसंयो-
गसामान्यस्य सार्वकालिकत्वेन हेयाहेतुत्वाद्वक्ष्यमाणज्ञाननिवत्वासंभवाच्चेति
भावः ॥ २३ ॥
अत्र तयोः संयोगमाह-स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः
संयोगः । प्रलये भोग्यभोक्तृत्वाभावाच्छतिग्रहणम् । खं भोग्य, खामी भोक्ता ।
खरूपयोः दृश्यपुरुषस्वरूपयोः उपलब्धिर्विषयभोगात्मदर्शनरूपाः तस्या हेतुर्यः
खखबुद्धिजन्माख्यः स एव जातोऽहमित्यादिवुद्धिविषयत्वरूपः संयोग इत्यर्थः ।।
संयोगसामान्यस्य सार्वकालिकत्वेन हेयाहेतुत्वाद्वक्ष्यमाणज्ञाननिवर्सत्वासंभवाचेति
भावः । सम्यग्दर्शनाद्भोगकारणाविद्यानाशे भोगाभावरूपो बन्धाभाव एव मोक्षः ।
अत आत्मदर्शनमपि संयोगहेतुकमेवेति दिक् ॥ २३ ॥
-
-
द्रष्टदृश्यसंयोगस्यापि कारणं दर्शयति,
तस्य हेतुरविद्या ॥ २४ ॥
तस्य जन्माख्यस्य द्रष्टदृश्यसंयोगस्याविद्या मूलकारणमित्यर्थः। अविद्याशब्देना-
त्रानात्मन्यात्मबुद्धिरूपमिथ्याज्ञानवासना ग्राह्या । तस्या एव जन्मप्राक्काले संभ-
वाद्भाष्यकृतोक्तत्वाच्च ॥ २४ ॥
तस्य संयोगस्य कारणमाह-तस्य हेतुरविद्या । तस्य जन्माख्यस्य द्रष्टदृश्य-
संयोगस्याविद्या मूलकारणमित्यर्थः । अविद्याशब्देनात्रानात्मन्यात्मवुद्धिरूपमिथ्याज्ञा-
नवासना तस्या एव जन्मप्राकाले संभवात् । सर्गान्तरीयाविद्यायाः खाश्रयचित्तेन
सह प्रधाने निरुद्धायाः प्रधाने स्थिता या वासना तद्वासितं च प्रधानं पुनः सर्गादौ.
अविद्याविशिष्टमेव चित्तं तत्पुरुषसंयोगि. सृजति । एवं पूर्वपूर्वसर्गेष्वित्यनादितास्याः
अविद्यावासनासत्त्वादेव च प्रलये न मुक्तिः । यदा तु विवेकख्यातिधर्ममेघसमाधि-
रूपां निष्ठां प्राप्ता तदा दग्धवीजतुल्यसवासनचित्तनिवृत्त्या स्वरूपमात्रेण पुरुषस्थिति-
N
रूपो मोक्षः ॥ २४ ॥

भावागणेशीय-नागोजीभट्टीयवृत्ती । ४९ । तदेवं हेयहेतुरूपं व्यूहद्वयं प्रतिपादितं, हानव्यूह इदानीमुच्यते-- तदभावात्संयोगाभावो हानं तदृशेः कैवल्यम् ।। २५ ।। तस्याश्चाविद्याया अत्यन्तोच्छेदाजन्माख्यसंयोगात्यन्तनिवृत्तिानं दुःखात्य- (न्तोच्छेदरूपो मोक्षः कार्यकारणाभेदात्तदेव च दृशेः चैतन्यस्य कैवल्यमित्य- प्युच्यते । तद्वितीयासङ्गरूपत्वादित्यर्थः ॥ २५ ॥ हेयहेतुरूपं व्यूहद्वयं प्रतिपादितम् । इदानी हानमाह-तदभावात्संयोगा- भावो हानं तदृशेः कैवल्यम् । तस्या अविद्याया अभावात्सवासनाया दाहात् जन्माख्यसंयोगस्यात्यन्तनिवृत्तिानमात्यन्तिकदुःखोपरमरूपो मोक्षः। कार्यकारणा- भेदात् । तदेव दृशेश्चैतन्यस्य कैवल्यमसंगतेत्यर्थः । ननु पुरुषस्य नित्यनिर्दुःखलात्कथं दुःखहानिः पुरुषार्थ इति चेन्न । भोग्यवरूपखवसंवन्धेनैव दुःखहानस्य पुरुषार्थलात् । यद्यपि भोगोऽपि साक्षात्काररूपो नित्य एव तथापि घटाकाशवदनित्यता । दुःख- भोगस्य दुःखवृत्त्यविभागापन्नत्वेनावधृतचित्खरूपत्वादिति दिक् ॥ २५ ॥ इतः परं हानोपायन्यूह चतुर्थस्यापि कियत्पर्यन्तं प्रपन्यते- विवेकख्यातिरविप्लवा हानोपायः ॥ २६ ॥ मिथ्याज्ञानवासनयाऽन्तराभिभवो विप्लवस्तद्ग्रहितो विवेकतः पुरुषसाक्षात्कारो मोक्षोपायः सवासनाविद्योन्मूलनद्वारेत्यर्थः । नन्वेवं ज्ञानादेव मोक्ष इति वच- नादसंप्रज्ञातयोगवैफल्यमिति चेन्न । ज्ञानद्वारतया ज्ञानमध्य एवासंप्रज्ञातान्त- र्भाव इत्याशयादिति ॥ २६ ॥ अथ हानोपायमाह-विवेकख्यातिरविप्लवा हानोपायः। मिथ्याज्ञानवा- सनयान्तराभिभवो विप्लवस्तद्रहिता विवेकख्यातिः प्रकृतिविवेकतः पुरुषसाक्षात्कारो मोक्षोपायः सवासनाविद्योन्मूलनद्वारेत्यर्थः । नन्वेवं ज्ञानादेव मोक्षश्रुतेरसंप्रज्ञातो निष्फल इति चेन्न, ज्ञानद्वारतया ज्ञानमध्ये तदन्तर्भाव इत्याशयात् ॥ २६ ॥ विवेकख्यातेरविप्लवाख्यनिष्ठाया लक्षणमाह- तस्य ससधा प्रान्तभूमिः प्रज्ञा ॥ २७ ॥ तस्य विवेकख्यातिरूपस्य हानोपायस्य प्रान्तभूमिकारूपिणी प्रज्ञा योगजसा: क्षात्काररूपिणी सप्तप्रकारा भवति । तद्यथा हेयं दुःखं मया परिज्ञातमतः न मेन किमपि ज्ञातव्यमवशिप्यते इत्येका प्रज्ञा जायते । तथा विवेकख्यातिरूपो हानोपायो मया निष्पादितो नास्य निप्पाद्यमवशिष्यते । तत्फलानुभवादिति 'द्वितीया । तथा हेयहेतवोऽविद्याकामकर्मादयो समाशेपतः क्षीणाः । न तेषां लेतव्यमवशिष्यत इति तृतीया । तथा दुःखहानरूपं मोक्षाख्यफलं तद्गोचरासं- प्रज्ञातयोगेन साक्षात्कृतं न पुरुषार्थस्यापि ज्ञातव्यमवशिष्यत इति चतुर्थी प्रज्ञा । तदेतत्स्वस्य कृत्यसमाल्यनुभवरूपं प्रज्ञाचतुष्टयमुक्तम् । भावि 'विदेहकैवल्यका- लीनावस्थानुभवरूपं चान्यप्रज्ञात्रयं यथा-समाप्तभोगापवर्गा मे बुद्धिर्भवि- - ५० पातञ्जलयोगसूत्रम् । [साधनपादः २ प्यतीत्येवमाकारा प्रथमा । तथाबुद्धिरूपेण परिणताः सत्त्वादयो गुणाः स्वका- रणे लयमेष्यन्तीत्येवमाकारा द्वितीया । तथाप्रलीनानां तेषां न पुनर्बुद्धिरूपेण परिणामो भविष्यतीत्येवमाकारा तृतीयेत्येवं सप्तप्रकारोऽनुभवो यस्य विदुषो जायते तस्य ज्ञाननिष्ठा सद्योमुक्तिदा ज्ञातव्येत्यर्थः ॥ २७ ॥ विवेकख्यातेरविप्लवाख्यनिष्ठायाः फलमाह-तस्य सप्तधा प्रान्तभूमिः प्रज्ञा । तस्य विवेकख्यातिरूपहानोपायस्य प्रान्तभूमिकारूपिणी प्रज्ञा योगजसा- क्षात्काररूपिणी सप्तप्रकारा भवति । तद्यथा हेयं दुःखं मया परिज्ञातं न मे ज्ञातव्यमवशिष्यत इत्येका प्रज्ञा । विवेकख्यातिरूपो हानोपायो निष्पादितो न निष्पा- द्यमवशिष्यते तत्फलानुभवादिति द्वितीया। हेयहेतवोऽविद्याकामकर्मादयोऽशेषतः क्षीणा न किंचित्क्षेतव्यमवशिष्यत इति तृतीया । तथा दुःखहानरूपमोक्षाख्यफलं तद्गोचरासंप्रज्ञातयोगेन साक्षात्कृतं न पुरुषार्थस्यापि ज्ञातव्यमवशिष्यत इति चतुर्थी । तदेतत्वस्य कृत्यसमाप्त्यनुभवरूपं प्रज्ञाचतुष्टयं प्रयत्नसाध्यतया कार्या विमुक्तिरित्यु- च्यते । विदेहकैवल्यकालिकावस्थानुभवरूपं चान्यत्प्रज्ञात्रयं यथा-समाप्तभोगापवर्गा मे वुद्धिर्भविष्यतीति प्रथमा, वुद्धिरूपेण परिणताः सखादयः स्वकारणे लयमेष्य- न्तीति द्वितीया, लयं गच्छन्तीति वा द्वितीया; प्रलीनानां च तेषां बुद्धिरूपः परिणामो न भविष्यतीति तृतीया । एवं सप्तप्रकारानुभववतो ज्ञाननिष्ठा सद्योमुक्ति- देत्यवगन्तव्यम् । एवमुत्तमस्य केवलं ज्ञानमेव साधनं यथा सनकादीनां, मध्यमस्य ज्ञानकर्मणी समुचिते यथा हिरण्यगर्भादीनामिति विष्णुपुराणादौ स्पष्टम् ॥ २७ ॥ अतः परं विवेकख्यात्युपायप्रतिपादकं सूत्रजातं प्रवर्तते-- योगाङ्गानुष्टानादशुद्धिक्षये ज्ञानदीप्तिरावि- वेकख्यातेः॥२८॥ योगाङ्गान्यष्टौ वक्ष्यमाणानि तेषामनुष्ठानात्पापक्षये सति ज्ञानस्य पृथि- व्यादितत्वविषयकस्य दीप्तिर्वृद्धिर्भवति, प्रकृतिपुरुषविवेकसाक्षात्कारं याव- दित्यर्थः ॥ २८ ॥ अथारुरुक्षोर्मन्दाधिकारिणो धारणादिरूपोऽभ्यासो यमनियमादिरूपक्रियायोगश्च यथाक्रममनुष्ठेयत्वेनोपदिशन् आदौ यमाद्यनुष्ठानमिति दर्शयन् विवेकख्यात्युपायं दर्शयन्नाह-योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः । योगाद्वान्यष्टौ वक्ष्यमाणानि तेषामनुष्ठानात्पापक्षये सति ज्ञानस्य पृथिव्यादितत्वविष- यकस्य दीप्तिः वृद्धिः प्रकृतिपुरुषविवेकसाक्षात्कारपर्यन्ता भवतीत्यर्थः ॥ २८ ॥ कानि तानि योगाङ्गानीत्यपेक्षायामाह- यमनियमासनप्राणायामप्रत्याहारधारणाध्यान- समाधयोऽष्टावङ्गानि ॥२९॥ सुगमम् ॥ २९॥ - भावागणेशीय-नागोजीभट्टीयवृत्ती । ५१ । तत्र योगामान्याह-यमनियमासनप्राणायामप्रत्याहारधारणाध्यान- समाधयोऽष्टौ योगाङ्गानि । एतानि ज्ञानस्येव योगस्यापि साधनतया योगा- गानि ॥ २९ ॥ । एतानि च ज्ञानस्येव योगस्यापि साधनतया योगाङ्गानीति यमादीन्सूत्रैः क्रमेण लक्षयति- तत्राहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥ ३०॥ तत्र तेषु यमादिपु मध्ये हिंसादयः पञ्च यमा इत्यर्थः । तत्र अहिंसा प्राणि- नामद्रोहः । सत्यं वाड्मनसयोर्यथार्थता । अस्तेयं परस्वानादानम् । ब्रह्मचर्यमष्ट- विधमैथुननिवृत्तिः । “स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभापणम् । संकल्पोऽध्य- वसायश्च क्रियानितिरेव च । एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः" इत्यष्टवि- धमैथुनस्य लक्षणमुक्तम् । अपरिग्रहश्च हिंसाद्यसंख्यदोपदर्शनतः पदार्थानामस्त्री- कार इति ॥३०॥ तत्र यमं लक्षयति-अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः। तत्रा- हिंसा प्राणिनामद्रोहः । शौचाचमनादावपरिहार्यहिंसायां तु न दोपः । सलं वाडानस- • योर्यथार्थता । अस्तेयं परखानादानम् । ब्रह्मचर्यमष्टविधमैथुनत्यागः। 'स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् । संकल्पोऽध्यवसायश्च क्रियानिवृतिरेव चे'त्यष्टविधम् । अपरिग्रहश्च हिंसाद्यसंख्यदोपदर्शनात्पदार्थानामस्वीकरणम् ॥ ३० ॥ यमेववान्तरविशेपनिमित्तमुत्कर्पमाह- जातिदेशकालसमयानवच्छिन्नाःसार्वभौमा महाव्रतम्॥ ३१॥ जातिः मनुष्यब्राह्मणादिः । देशस्तीर्थादिः । कालश्चतुर्दश्यादिः । समयो युद्धादिः। एतैरनव.-उन्नाः मनुष्यान्न हनिप्ये, तीर्थे न हनिप्ये, चतुर्दश्यां न हनिप्ये, युद्धातिरिक्ते न हनिप्ये इत्यादिविशेपैरनियमिता अत एव सार्वभौमाः सर्वजात्यादिसाधारणास्तेऽहिंसादयो यमा महाव्रता इत्युच्यन्ते । अन्वर्था चेयं संज्ञा ॥ ३१ ॥ यमानामुत्कर्षमाह-जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् । जातिर्मनुष्यत्वादिः, देशस्तीर्थादिः, कालश्चतुर्दश्यादिः, समयो युद्धादिः, ) एतैरनवच्छिन्नाः मनुष्यान् न हनिष्ये तीर्थे न हनिष्ये चतुर्दश्यां न हनिष्ये युद्धा- तिरिक्ते न हनिष्ये इत्येवंविशेषैरनियमिता अतएव सार्वभौमाः सर्वविषयेषु विदिताः सर्वजातिदेशकालादिसाधारणास्तेऽहिंसादयो महाव्रतमित्युच्यन्ते । अन्वर्था चेयं संज्ञा ॥३१॥ । - BICI 17757 ६ पा० यो 181.45 P27Y ५२ पातञ्जलयोगसूत्रम् । [साधनपादः २ यमान्व्याख्याय नियमान्व्याचष्टे- शौचसंतोषतपःखाध्यायेश्वरप्रणिधानानि नियमाः॥३२॥ शौचं मृजलादिना बाह्यं, पञ्चगव्यादिभोजनेन चाभ्यन्तरम् । एतदुभयं शारीरम् । मानसं तु रागद्वेपादिमलक्षालनम् । संतोपः संनिहितोपकरणादधि- कानुपादित्सा । तपश्चान्द्रायणादि । स्वाध्यायो मोक्षशास्त्राध्ययनं प्रणवजपो वा। ईश्वरप्रणिधानं परमगुरौ परमेश्वरे सर्वकर्मार्पणम् । एतानि नियमा इत्यर्थः । अर्पणं चोक्तं कौमें-"नाहं कर्ता सर्वमेतद्ब्रह्मैव कुरुते तथा। एतद्ब्रह्मार्पणं प्रोक्तं मुनिभिस्तत्त्वदर्शिभिः" इत्यादि ॥ ३२ ॥ नियमानाह-शौचसंतोषतपास्वाध्यायेश्वरप्रणिधानानि नियमाः । शौचं मृजलादिना वाह्यं पञ्चगव्यादिभोजनेन च । आभ्यन्तरं रागद्वेषादिमलक्षाल- नम् । संतोपः संनिहितोपकरणादधिकस्यानुपादित्सा । तपश्चान्द्रायणादि, क्षुत्तुषे शीतोष्णे स्थानासनरूपद्वन्द्वसहनं, इजितेनापि स्वाभिप्रायाप्रकाशनरूपकाष्टमौनमव- चनरूपाकारमौनादि । स्वाध्यायो मोक्षशास्त्राध्ययनम् । ईश्वरप्रणिधानं परमेश्वरे सर्व- कार्पणं तत्पूजनादि च ॥ ३२ ॥ उक्तेपु. यमनियमेपु विघ्ननिवृत्युपायमाह- वितर्कबाधने प्रतिपक्षभावनम् ॥ ३३ ॥ वक्ष्यमाणवितकर्यमादिवाधने क्रियमाणे वक्ष्यमाणं प्रतिपक्षभावनं कार्य- मित्यर्थः ॥ ३३ ॥ एतेषु यमनियमेप्वभ्यस्यमानेषु प्राप्तविघ्नानां निवृत्त्युपायमाह-वितर्कवाधने प्रतिपक्षभावनम् । वक्ष्यमाणैर्वितर्यमादीनां वाधने क्रियमाणे वक्ष्यमाणप्रतिपक्ष- भावनं कार्यमित्यर्थः ॥ ३३ ॥ ये ते वितर्का यच्च तेपां प्रतिपक्षचिन्तनं तद्द्यमाह- वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोह- पूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानान्तफला इति प्रतिपक्षभावनम् ॥३४॥ : यमनियमविपरीता हिंसादयो दश वितर्कशब्देन तन्त्रे परिभाषिताः । ते च कृता वा कारिता वा साधुसाध्वित्यनुमोदिता वा स्युः । तथा लोभोत्थाः क्रोधोत्था मोहोत्था वा स्युः । तथा मृदवो मध्या अतिप्रमाणा वा स्युः ।। सर्व एव दुःखाज्ञानानन्तफला इत्येवं वितर्कप्रतिपक्षरूपदुःखज्ञानानन्तफल- त्वस्य चिन्तनं कुर्यादित्यर्थः । दुःखं चाज्ञानं च ते एवानन्ते फले येपामिति विग्रहः ॥ ३४॥ - भावागणेशीय-नागोजीभट्टीयवृत्ती । ५३ - तदेवाह-वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोह- पूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभाव- नम् । अहिंसादिविपरीता हिंसादयो दश वितर्का इति परिभाषितास्ते खयं कृता अन्येन कारिताः साधुसाध्वियनुमोदिता इति त्रिविधास्ते पुनर्लोभक्रोधमोहपूर्वकत्वेन त्रिविधाः लोभादयः पुनस्त्रिविधा मृदवो मध्या अतिप्रमाणा इति सर्व एते दुःखं विपर्ययज्ञानरूपमज्ञानं च संसारमूलकारणं फलं येषां ते इति प्रतिपक्षभावनया तेषां परिहारः कार्य इत्यर्थः ॥ ३४ ॥ | यमनियमनिष्पत्तिसूचिकानां सिद्धीनां सूत्राण्यतः परं प्रवर्तन्ते- अहिंसाप्रतिष्ठायां तत्संनिधौ वैरत्यागः ॥ ३५॥ अहिंसास्थैर्ये सति तत्संनिधिस्थानां मार्जारमूपकादीनामन्योन्यवैरत्यागो भवति ॥ ३५॥ अथ यमादिनिष्पत्तिसूचिकाः सिद्धीराह-अहिंसाप्रतिष्ठायां तत्संनिधौ वैरत्यागः। अहिंसास्थैर्ये सति तत्संनिधिस्थानां मार्जारमूषकादीनामप्यन्योन्यं वैरत्याग इत्यर्थः ॥ ३५॥ सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥३६॥ सत्यस्थैर्ये सति तद्वचनमात्रेणान्येषां धर्मादिक्रियावत्त्वं तत्फलस्वर्गादि- मत्त्वं च भवति ॥ ३६॥ सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ ३६ ॥ अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥ ३७॥ अस्तेयस्थैर्ये तस्मै स्वयमेव सर्वरनान्युपतिष्टन्ते ॥ ३७ ॥ अस्तेयस्थैर्ये तद्वचनमात्रेण सर्वदिग्भ्यः सर्वरत्नान्युपतिष्ठन्ते ॥ ३७ ॥ ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ ३८ ॥ ब्रह्मचर्यस्थैर्ये सति वीर्यलाभः सामर्थ्यविशेषो भवति । येन स्वयं ज्ञानक्रि- याशक्तिमान्भूत्वा परेषु पुरुषः क्षमत इत्यर्थः ॥ ३८ ॥ ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः । वयंज्ञानक्रियाशक्तिरूपसामर्थ्यवान् भूत्वा- ऽन्येषामपि तदादधाति ॥ ३८ ॥ अपरिग्रहस्थैर्ये जन्मकथन्तासंबोधः ॥ ३९ ॥ अपूर्वेण देहेन्द्रियादिसंघातेन ज्ञानहेतुः संयोगो जन्म, तस्य कथन्ता च किं- प्रकारता तयोः संवोधः साक्षात्कारो जातिसरणं भवति ॥ ३९ ॥ अपरिग्रहस्थैर्य जन्मकथन्तासंवोधः । पूर्वापरजातिस्मरो भवती- त्यर्थः॥ ३९ ॥ .

५४
पातञ्जलयोगसूत्रम् ।
[साधनपादः २
यमसिद्धय उक्ताः। नियमसिद्धय उच्यन्ते-
शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः ॥४०॥
शौचस्थैर्यात्स्वाङ्गे जुगुप्सा कुत्साऽशुचिदोषदर्शनरूपा भवति । अतएव परैर-
संसर्गोऽपि भवति ॥ ४० ॥
नियमसिद्धीराह-शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः । खाझे जुगुप्सा
मृजलादिभिः शोधयतोऽपि कायशुद्ध्यदर्शनात् । अतएव परकायेष्वपि तादृशवदशी
तैरसंसृष्टो भवति ॥ ४० ॥
बहिःशौचस्थैर्यसिद्धिमुक्त्वाऽन्तःशौचसिद्धिमाह-
सत्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्य-
त्वानि च ॥४१॥
चित्तमलक्षालनरूपाच्छौचात्सत्वशुद्धिः सत्वोद्रेकः । ततः सौमनस्यं स्वाभा-
विकी प्रीतिः । ततः प्रीतचित्तस्याविक्षेपादैकाग्र्यम् । तत इन्द्रियजयस्ततश्चात्म-
साक्षात्कारयोग्यत्वमित्यर्थः ॥ ४१ ॥
अन्तःशौचसिद्धिमाह-सत्वशुद्धिसौमनस्यैकाय्येन्द्रियजयात्मदर्शन-
योग्यत्वानि च । भवन्तीति शेषः । चित्तमलक्षालनरूपाच्छौचात्सत्वशुद्धिः
सलगुणोद्रेकस्ततः सौमनस्यं सर्वत्र प्रीतिः, ततः प्रीतचित्तस्याविक्षेपादेकाय्यं, तत
इन्द्रियजयस्तत आत्मसाक्षात्कारयोग्यता ॥४१॥
संतोषादनुत्तमसुखलाभः ॥४२॥
संतोपस्य तृष्णाक्षयस्य स्थैर्यादनुत्तमस्य विषयसुखापेक्षया प्रकृष्टस्य सुखस्य
लाभो भवति ॥ ४२ ॥
संतोषादनुत्तमसुखलाभः । सुपुप्ताविवेत्यर्थः ॥ ४२ ॥
कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः॥४३॥
तपःस्थैर्यात्कायेन्द्रिययोः सिद्धिरशुद्धिक्षयद्वारा भवति । अशुद्धिः पापं तमो-
गुणाश्च । कायसिद्धिरणिमाद्या, इन्द्रियसिद्धिः दूराच्छ्रवणाद्या । एता विभूतिपादे
व्याख्यास्यन्ते ॥ ४३ ॥
कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः । तपःस्थैर्ये पापतमोगुणरूपाशुद्धि-
क्षयात्कायसिद्धिरणिमादिरूपा इन्द्रियसिद्धिर्दूराच्छ्रवणाद्या भवन्तीत्यर्थः ॥ ४३ ॥
खाध्यायादिष्टदेवतासंप्रयोगः॥४४ ॥
स्वाध्यायस्थैर्यादिष्टदेवतानां संप्रयोगो दर्शनं भवति ॥ ४४ ॥

भावागणेशीय-नागोजीभट्टीयवृत्ती ।
५५
।
-
-
समाधिसिद्धिरीश्वरप्रणिधानात् ॥४५॥
ईश्वरप्रणिधानस्थैर्यात्समाधिसिद्धिर्योगनिष्पत्तिर्भवतीत्यर्थः ॥ ४५ ॥
समाधिसिद्धिरीश्वरप्रणिधानात् । समाधिसिद्धिर्योगसिद्धिः इतरकारणे-
भ्योऽस्यान्तरङ्गत्वं सूचयति ॥ ४५ ॥
यमनियमाः सिद्धिभिः सहोक्ताः । आसनमुच्यते-
स्थिरसुखमासनम् ॥ ४६ ॥
आस्यतेऽनेन प्रकारेणेति व्युत्पत्तरित्यर्थः । आसनगतविशेपाश्च हठयोगग्र-
न्थेभ्यो ज्ञेयाः । गुरुभिश्च वार्तिकेऽपि कियन्तः प्रदर्शिताः॥ ४६ ॥
आसनमाह-स्थिरसुखमासनम् । यदेव स्थिरं सुखकरं च तदेवासनं
कार्यमित्यर्थः ॥ ४६॥
आसनस्थैर्यस्योपायमाह-
प्रयत्नशैथिल्याऽनन्तसमापत्तिभ्याम् ॥४७॥
प्रयत्नशैथिल्यं बहुलायासनिवृत्तिः । अनन्तसमापत्तिश्च पृथिवीधारिणि स्थिर-
तरे शेपनागे चित्तस्य धारणं ताभ्यामासनं निप्पद्यते इत्यर्थः ॥ ४७ ॥
तत्स्थैर्योपायमाह-प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् । प्रयत्नशैथिल्यं
बहुलायासनिवृत्तिः । अनन्ते पृथ्वीधारिणि शेषे समापत्तिश्चित्तस्य धारणा ताभ्यामा-
सनं सिध्यतीत्यर्थः ॥ ४७ ॥
आसनादपि सिद्धिमाह-
ततो द्वन्द्वानभिघातः॥४८॥
तत आसनस्थैर्याहून्दैः शीतोष्णादिमिरनभिघातश्चित्तालम्बनं (1) भवती-
त्यर्थः ॥४८॥
आसनसिद्धेः फलमाह-ततो द्वन्द्वानभिघातः । तत आसनस्थैर्यात् ।
द्वन्द्वं शीतोष्णादि ॥४८॥
क्रमप्राप्त प्राणायाम लक्षयति-
तस्मिन्सति श्वासप्रश्वासयोगतिविच्छेदः
प्राणायामः॥४९॥
तस्मिन्नासने सति श्वासप्रश्वासयोः शास्त्रोक्तरीत्या स्वाभाविकगतिविच्छेदः
प्राणायाम इति वक्ष्यमाणचतुर्विधप्राणायामस्य सामान्यलक्षणम् । तत्रासन-
स्याङ्गत्वलाभाय सत्यन्तम् । श्वासप्रश्वासौ नासापुटेन वायोः प्रवेशनिर्गमौ लोक-
प्रसिद्धौ तत्काले या स्वाभाविकी गतिस्तव्यतिपेध इत्यर्थः । अतो न श्वासप्रश्वास-
योर्गत्यनुपपत्तिदोपः ॥ ४९ ॥

५६ पातञ्जलयोगसूत्रम् । [साधनपादः २ अथ प्राणायाममाह-तस्सिन्सति श्वासप्रश्वासयोगतिविच्छेदः प्राणायामः । तस्मिन्नासने सति नासापुटेन खाभाविको यो वायोः प्रवेशनिर्गमौ तत्काले या गतिस्तद्विच्छेद इत्यर्थः ॥ ४९ ॥ प्राणायामस्यावान्तरभेदानाह- बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्यावृत्तिभिः परिदृष्टो दीर्घसूक्ष्मः॥५०॥ स च प्राणायामो वाह्यवृत्तिराभ्यन्तरवृत्तिस्तम्भवृत्तिरिति त्रिविधो रेचक- पूरककुम्भकभेदात् । सोऽपि त्रिविधः प्राणायामो यदा देशकालसंख्याभिः परिदृष्टो निर्णीतो नियमितो भवति तदाऽभ्यासवशात्क्रमेण दीर्घसूक्ष्मसंज्ञको भवतीति वाक्यार्थः । एतावद्देशेन चा एतावत्कालेन वा एतावन्मानासंख्यामिर्वा परिच्छिन्नो मया रेचकादिः कर्तव्य इत्येवमवधारित इति परिदृष्टान्तविशेप- णार्थः । तत्र नासाग्रात्प्रादेशद्वादशाङ्गुलहस्तादिपरिमितो बाह्यदेशो रेचकस्य विपयः शक्त्यनुसारात् । स च इपीकातूलक्रियया निश्चयः । ....... कुम्भकस्य च पूरकदेश एव विषयस्त्रयाणां सहानुष्टाने पूरकानन्तरमेव कुम्भकस्मरणात् । स तु तूलक्रिययोक्तस्य स्पर्शस्य वानुपलब्ध्या निश्चय इति । क्षणानामियत्तया अवच्छिन्नस्तु रेचकादिः कालदृष्ट उच्यते संख्यापरिदृष्टश्च । यथा-"निमेपोन्मेपणे मात्राकालो लघ्वक्षरं तथा । प्राणायामस्य संज्ञार्थ स्मृतौ द्वादशमात्रिका" इति मार्कण्डेयायुक्तमात्राप्रमाणं ताभिर्द्वादशादिभिर्मानासंख्याभिः परिच्छिन्नो रेचकादिरिति । दीर्घसूक्ष्म इति चान्वर्था संज्ञा दीर्घश्वासौ सूक्ष्मश्चेति व्युत्पत्तेः । देशाद्यन्यतमनियमेन हि प्रत्यहमभ्यस्यमानः फ्रमेण कालवृद्ध्या दीर्घकालव्यापि- लेन दीर्घ उच्यते, वायुसंचारस्यातिसूक्ष्मतया सूक्ष्म इति ॥ ५० ॥ तस्यावान्तरभेदानाह-बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः । स प्राणायामो बाह्यवृत्तिराभ्यन्तरवृत्तिस्तम्भवृत्तिरिति त्रिधा रेचकपूरककुम्भकभेदात् । प्राणिनां दक्षिणा नाडी पिङ्गला नाम सूर्यदै- वत्या पितृयोनिः । वामा इडाख्या चन्द्रदेवत्या देवयोनिः । तयोर्मध्ये सुषुम्ना ब्रह्म- दैवत्या, तत्र वामनासापुटेनान्तर्वायोस्त्यागो रेचकः । दक्षिणेन वाह्यपूरणं पूरकः । पूरितस्य निगृह्याविमोकः कुम्भकः । याज्ञवल्क्येन पूरककुम्भकरेचक इति क्रम उक्तः । स त्रिविधो देशकालसंख्यामिः परिदृष्टो निर्णीतो भवति । तदभ्यासवशा- दीर्घसूक्ष्मसंज्ञको भवतीत्यर्थः । तत्र रेचकस्य देशो नासिकाद्वहिः प्रादेशः द्वादशा- मुलहस्तादिपरिमितः शक्त्यनुसारात् । स चेषीकातूलादिक्रियया निश्चयः । पूरकस्य चांपादतलमस्तकमाभ्यन्तरो देशः स च पिपीलिकास्पर्शसदृशस्पर्शेन निश्चयः । कुम्भकस्य च पूरकदेश एव विषयः। पूरकानन्तरं तच्छ्रवणात् । स तूलक्रियया उक्तस्पर्शस्य वानुपलब्ध्या निश्चयः । कालावधृतो यथा । एतावत्काले रेचक एताव: क्षणव्यापी पूरक एतावत्कालव्यापी कुम्भक इत्यङ्गीकृतकालैरवधृतः । द्वादशरूपमा- प भावागणेशीय-नागोजीभट्टीयवृत्ती । ५७ त्रासंख्यायाः एकैव संख्या विष्वपि मार्कण्डेयोक्ता । मात्रा निमेपोन्मेपपरिच्छिन्नः कालः, खजानुमण्डलं त्रिः परामृश्य छोटिकावच्छिन्नकालो मात्रेयन्ये । निमेपक्रि- यावच्छिन्नकालस्य चतुर्थो भागः क्षण इति च । उक्तछोटिकावच्छिन्नः काल एव श्वासप्रश्वासक्रियावच्छिन्नः काल इति च । वसिष्ठेन पूरके षोडश मात्राः कुम्भके चितुःषष्टिमात्राः रेचके द्वात्रिंशन्मात्रा उक्ताः । योगियाज्ञवल्क्येन त्रिष्वपि द्वाद- शमात्रः कनीयान, त्रिष्वपि चतुर्विशतिमात्रो मध्यमः, त्रिष्वपि पत्रिंशन्मात्रा- कालपरिच्छिन्न उत्तम इत्युक्तम् । दीर्घसूक्ष्म इति देशाद्यन्यतमनियमेन प्रत्यहम- भ्यस्यमानः क्रमेण कालवृद्ध्या दीर्घकालव्याप्तिखाद्दीर्घः, वायुसंचारस्यातिसूक्ष्म- तया सूक्ष्मश्च भवतीति बोध्यम् । स च जपध्यानं विना क्रियमाणोऽगर्भ इत्यु- च्यते । तत्सहितश्च सगर्भ इति । तत्रेश्वरगीतायां सव्याहृतिका सप्रणवा गायत्री सशिरस्का त्रिर्जप्या इत्युक्तम् त्रिपु एकैकवारमित्यर्थः ॥ प्रणवो जप्य इत्यन्यत्र । तत्र पूरकादिक्रमेण नामिहृदयललाटेयु ब्रह्मविष्णुशिवानां ध्यानमुक्तं क्वचित् । क्वचित् परब्रह्मण एव ॥ ५० ॥ केवलकुम्भकरूपं प्राणायामस्य चतुर्थ विशेपमाह- वाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ।। ५१ ।। वाह्याभ्यन्तरविषयको बाह्याभ्यन्तरवृत्ती पूर्वसूत्रोक्तौ रेचकपूरको तयोराक्षेपी अतिक्रमी तावतिक्रम्य स्वयमेव केवलो जायत इति यावत् । स पूर्वसूत्रोक्त- रेचकपूरकादित्रयापेक्षया चतुर्थः प्राणायाम इत्यर्थः । तदुक्तं वासिष्टसंहिता- याम्-'प्रस्वेदं जनयेद्यस्तु प्राणायामो हि सोऽधमः । मध्यमः कम्पनात्प्रोक्त उत्थाने चोत्तमो भवेत् ।। पूर्व पूर्व प्रकुर्वीत यावदुत्तमसंभवः । निश्वासोच्छ्वा- सकौ देहे स्वाभाविकगुणावुभौ ॥ तथापि नश्यतस्तेन प्राणायामोत्तमेन हि । तयोर्नाशसमर्थः स्यात्कर्तुं केवलकुम्भकम् ॥ रेचकं पूरकं त्यक्त्वा सुखं यद्वायु- धारणम् । प्राणायामोऽयमित्युक्तः स वै केवलकुम्भकः ॥ सहितं केवलं वापि कुम्भकं नित्यमभ्यसेत् । यावत्केवलसिद्धिः स्यात्तावत्सहितमभ्यसेत् ॥ केवले कुम्भके सिद्ध रेचकपूरकवर्जिते । न तस्य दुर्लभं किंचित्रिपु लोकेषु विद्यते' इति ॥५१॥ केवलकुम्भकरूपं चतुर्थ मेदमाह-वाह्याभ्यन्तरविपयाक्षेपी चतुर्थः । वाह्याभ्यन्तरविषयौ उक्तौ रेचकपूरको तयोराक्षेपी तावतिक्रम्य जायमानः केवलकुम्भकरूपश्चतुर्थ इत्यर्थः । तदुक्तं वासिष्ठसंहितायां-'प्रखेदं जनयेद्यस्तु प्राणायामो हि सोऽधमः कम्पकः प्रोक्त उत्थाने चोत्तमो भवेत् ॥ पूर्वपूर्व प्रकुर्वीत यावदुत्तरसंभवः । निश्वासोच्छ्वासको देहे खाभाविकगुणावुभौ ॥ तथापि नश्यतस्तेन प्राणायामोत्तमेन तौ । तयोर्ना समर्थः स्यात् कर्तुं केवलकुम्भकम् ॥ रेचकं पूरकं त्यक्त्वा सुखं यद्वायुधारणम् । प्राणाया- मोऽयमित्युक्तः स च केवलकुम्भकः । सहितं केवलं वापि कुम्भकं नित्यमभ्य- म अथ - मध्यमः

पातञ्जलयोगसूत्रम् । [साधनपादः २
सेत्' । तपो न परं प्राणायामात् , ततो विशुद्धिर्मलादीनां दीप्तिश्च ज्ञानस्येति
भाष्यम् ॥ ५१॥
योगद्वारभूतां प्राणायामस्य स्थितिसिद्धिमाह द्वाभ्याम्--
ततः क्षीयते प्रकाशावरणम् ॥ ५२।।
ततः प्राणायामस्थैर्याप्रकाशस्य विवेकज्ञानस्यावारकं कर्मादृष्टरूपं. क्षीयत
इत्यर्थः ॥ ५२ ॥
तदेवाह-ततः क्षीयते प्रकाशावरणम् । विवेकज्ञानावारकं कर्म प्राणा-
यामस्थैर्यात् क्षीयत इत्यर्थः ॥ ५२ ॥
धारणासु च योग्यता मनसः॥५३॥
प्राणायामस्थैर्यादेव मनसो वक्ष्यमाणधारणासु क्षमता भवति । प्राणाधीन-
तया मनोव्यापारस्य प्राणस्थैर्येणैव मनःस्थैर्यादित्यर्थः । अतएव वासिष्ठादौ मनः-
क्षोभेण प्राणक्षोभवत् प्राणक्षोभेणापि मनःक्षोभ उक्तः ॥ ५३ ॥
फलान्तरमाह-धारणासु च योग्यता मनसः । प्राणायामस्थैर्यादेव
मनसो वक्ष्यमाणासु धारणासु क्षमता भवति । प्राणाधीनखान्मनोव्यापारस्य
प्राणस्थैर्येणैव मनःस्थैर्यादित्यर्थः । अतएव वासिष्ठादौ मनःप्राणयोः परस्परक्षो-५
भकतोक्ता ॥ ५३ ॥
क्रमागतं प्रत्याहारं लक्षयति-
खविषयासंप्रयोगे चित्तखरूपानुकार इवेन्द्रियाणां
प्रत्याहारः॥५४॥
इन्द्रियाणां स्वस्वविषयासंनिकर्षकाले ध्यानादौ या चित्ताकारता भवति सा.
प्रत्याहार इति फलद्वारकं लक्षणम् । अजितेन्द्रियाणां तु ध्यानादिकाले चित्तमे-
वेन्द्रियानुकारि भवति । तदानीमपि रूपादिष्विन्द्रियश्चित्ताकर्पणादिति ॥ ५४॥
-
: प्रत्याहारमाह-स्वविषयासंप्रयोगे चित्तखरूपानुकार इवेन्द्रियाणां
प्रत्याहारः । इन्द्रियाणां खस्वविषयासंनिकर्षकाले ध्यानादौ या चित्ताकाराका-
रतेव स प्रत्याहार इति फलद्वारकं लक्षणम् । प्राणायामादिभिः स्थिरं चित्तं शब्दा-
दिभिर्विषयैर्न संप्रयुज्यते । तदसंप्रयोगाच्चक्षुरादीन्यपि न संप्रयुज्यन्त इत्ययमि-
न्द्रियाणां चित्तखरूपानुकारः । नतु यत्तत्वे चित्तमभिनिवेश्यते' तत्रेन्द्रियाणामनु-
कारस्तस्य तदविपयखादेतदर्थमिवेत्युक्तम् । एवं च सचित्तेन्द्रियाणां निरोधः
प्रत्याहार इति फलितम् । अजितेन्द्रियाणां तु ध्यानादिकाले चित्तमेवेन्द्रियानुकारि
तदानीमपि रूपादिष्विन्द्रियश्चित्ताकर्षणादिति दिक् ॥ ५४ ॥

भाषागीर-नागोजीमट्टीयाली ।
पोगे व्यापारनामेन -
ततः परमा वदयनेन्द्रियाणाम || ... ।
गरः पदिनिमा पो मार गिर
पनि ॥",
इति श्रीनावागणेशमहानायां गोगटीपिकायां पाताल माना
साधनपादोशनीयः ॥२॥
~नः पग्मा यानेन्द्रियाणाम
IT
माल परगनलो मी | Firm "
लम यानि भागमामा मामाः ।
रोप पुनधियानरजमार मसाला,
मी जनाविम् ॥ ५५ ।।
इति श्रीनागोजीमट्टीयायां पानालगमगनी
द्वितीयः पादः ॥२॥

तृतीयो विभूतिपादः।
योगस्य बहिरङ्गान्येव पञ्च पूर्वपादे व्याख्यातानि। अन्तरगन्त्रयं तु सिद्धिभिः
सहातिबहुलतया पृथक्पादेन व्याख्यायते-
देशबन्धश्चित्तस्य धारणा ॥१॥
यत्र हृत्पुण्डरीकादिरूपे देशे ध्येयं चिन्तनीयं तत्र देशे चित्तस्य बन्ध ऐकाय्यं
धारणेत्यर्थः ॥ १ ॥
सोऽयं योगो यमनियमाभ्यां प्राप्तबीजो भवति । आसनप्राणायामाभ्यामङ्कुरितः
प्रत्याहारेण कुसुमित इत्येतत्पञ्चकं वहिरङ्गम् । धारणादित्रयेण च फलतीति तदन्तर-
गसाधनम् । तत्र धारणामाह-देशवन्धश्चित्तस्य धारणा । यत्र हृत्पुण्डरीका-
दिदेशे ध्येयं चिन्तनीयं तत्र देशे चित्तस्य वन्ध एकाग्रत्वं धारणेत्यर्थः । 'हृत्पुण्डरीके
नाभ्यां वा मूर्ध्नि पर्वतमस्तके । एवमादिप्रदेशेषु धारणा चित्तवन्धनम्' इत्युक्तेः ।
एवं नासाग्रजिह्वाग्रताल्वादयोऽपि । ननु मूर्त्यादिनिदेशो घटतां, सत्वपुरुषान्य-
तायोगे शुद्धब्रह्मयोगे वा न देशः संभवति, ध्येयस्यापरिच्छिन्नलादिति चेन्न ।
खस्खोपाधिदेशस्यैव तद्देशलादित्याह । मूर्त्यादिध्यानेन चित्तस्यैकाग्र्ये एव तद्ध्या-
नमिति तदुपायतयैषा धारणोक्तेत्यन्ये । तत्र धारणा द्वादशप्राणायामकालपरिच्छि-
नेति ईश्वरगीतायाम् ॥ १॥
क्रमागतं ध्यानं लक्षयति-
तत्र प्रत्ययैकतानता ध्यानम् ॥ २॥
तत्र देशे चतुर्भुजादिध्येयाकारवृत्तिप्रवाहो ध्यानमित्यर्थः ॥ २ ॥
ध्यानमाह-तत्र प्रत्ययैकतानता ध्यानम् । तत्र देशे चतुर्भुजादिध्येया-
कारवृत्तिप्रवाहो वृत्त्यन्तराव्यवहितो ध्यानमित्यर्थः । बुद्धिवृत्तौ वा तद्विवेक-
तश्चैतन्यचिन्तनम् । कारणोपाधावीश्वरचिन्तनमिति । द्वादशधारणाकालं च
ध्यानम् ॥ २॥
समाधि लक्षयति-
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव
समाधिः ॥३॥
मात्रपदस्य विवरणं स्वरूपशून्यमिवेति । स्वरूपपदं च तदादीनामन्येपामप्यु-
पलक्षणम् । इवशब्देन चाग्रहणमानं शून्यसाधर्म्य विवक्षितम् । स्वरूपतो ।
ध्यानस्य सत्त्वात् । तथा च तदेव ध्यानं तदा ध्येयार्थमात्रग्राहि भवति न तु
ध्यातृध्यानध्येयादिविभागं गृह्णाति तदा समाधिरुच्यत इत्यर्थः । तद्विभागग्रहण-
काले च ध्यानमिति ध्यानसमाध्योर्मेंदः ॥३॥

1- भावागणेशीय-नागोजीभट्टीयवृत्ती । - समाधिमाह-तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः । मात्रपदविवरणं च खरूपशून्यमिवेति । खरूपेति ध्यात्रादीनामप्युपलक्षणम् , इव- शब्देनाग्रहणरूपं शून्यसाधर्म्य विवक्षितम् । खरूपतो ध्यानसत्त्वात् । तथाच तदेव ध्यानं यदा ध्येयावेशवशात् ध्यानध्यातृदृष्टिशून्यं ध्येयमात्राकारं भवति ध्येयमानं गृह्णाति तदा समाधिरित्यर्थः । तद्ग्रहकाले तु ध्यानमिति ध्यानसमाध्यो- भैदः । अतएवात्सन्ताभ्यर्हितादिविपयेन्द्रियसंनिकर्पे ध्यानभङ्गो भवति न समा- धेरिति स्मर्यते । अयं समाधिर्वृत्त्यन्तरनिरोधद्वारैव साक्षात्कारहेतुरिति बोध्यम् ॥३॥ .. धारणादित्रयस्य परिभापासूत्रम्- तत्रयमेकत्र संयमः॥४॥ तद्धारणादित्रयम् , एकबैकविपये क्रियमाणं संयम इत्युच्यत इत्यर्थः । संयमसिद्धयोऽग्रे वक्ष्यन्ते ॥ ४ ॥ एतत्रयस्य तान्त्रिकी संज्ञामाह-तत्रयमेकत्र संयमः। एकत्र विपये क्रिय- माणमेतत्रयं संयम इत्युच्यत इत्यर्थः ॥ ४ ॥ इदानीं संयमस्य योगाङ्गताप्रयोजकं द्वारमाह- तजयात्प्रज्ञालोकः ॥५॥ तस्य संयमस्य जयः स्थैर्य तस्मात्प्रज्ञायाः आलोकः दीप्तिः वृद्धिः क्रमेण • भवतीत्यर्थः ॥ ५॥ तस्य योगाङ्गतायां द्वारमाह-तज्जयात्प्रज्ञालोकः । तस्य संयमस्य जया- स्थैर्यात् समाधिप्रज्ञाया आलोकः दीप्तिः । दीप्तिः प्रत्ययान्तरानभिभूताया निर्मले प्रवाहेऽवस्थानं भवतीत्यर्थः ॥५॥ संयमस्यानुष्ठाने विशेपमाह- तस्य भूमिषु विनियोगः ॥ ६ ॥ तस्य संयमस्य स्थूलादिपूर्वपूर्वभूमिकाजयानन्तरं सूक्ष्मादिपूत्तरोत्तरभूमिकासु नियोजनं योगिना कार्यमित्यर्थः ॥ ६ ॥ संयमानुष्ठाने विशेपमाह-तस्य भूमिपु विनियोगः । स्थूलादिपूर्वपूर्वभूमि- काजयानन्तरं सूक्ष्मासूत्तरोत्तरभूमिकासु नियोजनं योगिना कार्यमित्यर्थः । यथा सभूपणसायुधचतुर्भुजमूर्तिसमाधौ सिद्धे आयुधपरित्यागेन तस्यापि सिद्धौ भूपणर- हिते ततः सोऽहमिति ततोऽहमिति ॥ ६ ॥ योगाङ्गानि व्याख्यातानि तेप्वावश्यकत्वानावश्यकत्वविवेकार्थमन्तरङ्गवहिर- विभागमाह द्वाभ्याम् त्रयमन्तरङ्गं पूर्वेभ्यः ॥७॥ पूर्वेभ्यः पूर्वपादोक्तपञ्चाङ्गेभ्यः सकाशादेतत्पादोक्तं धारणात्रयं योगस्य संप्र- ज्ञातस्यान्तरङ्गं भवति । उत्तरसूत्रादुन्न संप्रज्ञाताख्यविशेषलाभः ॥ ७॥ . .

६२ पातञ्जलयोगसूत्रम् । [विभूतिपादः ३ - एवं त्रयाणामत्यावश्यकत्वं प्रतिपादयति-त्रयमन्तरङ्गं पूर्वेभ्यः । पूर्वेभ्यो यमादिपञ्चभ्यः संप्रज्ञातसमाधेरिति शेपः ॥ ७ ॥ तदपि बहिरङ्गं निर्वाजस्य ॥ ८॥ निर्वीजयोगस्यासंप्रज्ञातस्य तदपि त्रयं बहिरङ्गमेव भवति । विवेकख्यातिपर- वैराग्यद्वारा परम्परयैव तद्धेतुत्वेन जन्मान्तरीयेणापि तत्रयेणासंग्रज्ञातसंभवा- दित्यर्थः ॥ ८॥ तदपि बहिरङ्ग निर्वीजस्य । तदपि त्रयं निर्बीजस्यासंप्रज्ञातस्य बहिरङ्गमे- वेत्यर्थः । विवेकख्यातिपरवैराग्यद्वारा परम्परयैव तद्धेतुत्वेन जन्मान्तरीयेणापि त्रयेणासंप्रज्ञातसंभवादित्यर्थ इति कश्चित् । साध्यसमानविषयत्वेन हि संप्रज्ञातं प्रत्यन्तरगत्वम् । अस्य निर्वीजतया तत्त्वमप्यत्र नास्ति । तेषु चिरनिरुद्धेषु परवै- राग्यानन्तरमुत्पादाच । तदुक्तं भाष्ये 'तदभावे भावात्' इत्यन्ये ॥ ८ ॥ ज्ञानोपायप्रसंगेन योगाङ्गानि विस्तरतः प्रोक्तानि । इदानीमङ्गभूतस्य समा- धेरङ्गिनोश्च योगयोः स्वरूपभेदावधारणाय तदवस्थासु विशेषा वक्तव्याः । तावतैव तयोरङ्गाङ्गिनोः प्रयोजनमपि प्रतिपादितं भविष्यति । तत्रादावङ्गसमा- ध्यवस्थातोऽङ्गियोगयोरवस्थायां विशेषमाह- व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरो- धक्षणचित्तान्वयो निरोधपरिणामः ॥९॥ व्युत्थानं निरोधश्च योगद्वयसाधारणमेवात्र ग्राह्यम् । केवलस्थासंप्रज्ञातस्य ग्रहणे संप्रज्ञातकालीनपरिणामाकथनान्यूनतापत्तेरिति । अभिभवप्रादुर्भावौ च हासवृद्धी । तथाच व्युत्थानसंस्कारस्य हासो वृत्तिनिरोधसंस्कारस्य वृद्धिनिरो- धकालीनः परिणामः । स च निरोधक्षणेप्वेकस्मिन्नेव स्थिरे चित्ते इत्यतश्चित्त- स्थैर्यप्रतिपादनाय चित्तपदम् । निरोधस्य प्रतिक्षणमेतादृशपरिणामलाभाय निरोधक्षणेत्युक्तम् ॥ ९॥ अथासंप्रज्ञातस्य किं कार्य तत्र च तस्य कीदृशः परिणामस्तत्राह-व्युत्था- ननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरो- धपरिणामः । संप्रज्ञातोऽप्यत्र व्युत्थानम् । तत्र व्युत्थानकालिकसंस्काररूपेण तत्र चित्तस्य परिणामः । सर्वक्षणेषु च निरोधलक्षणस्य तत्वरूपस्यैव चित्तस्य तत्रान्वय इत्यर्थः ॥ ९ ॥ ननु वृत्तीनामेव स्मृतिहेतुतया संस्कारजनकत्वं सिद्धं निरोधस्य तु संकारज- नकत्वे किं प्रमाणं तत्राह- तस्य प्रशान्तवाहिता संस्कारात् ॥१०॥ तस्य निरोधस्य प्रशान्तवाहिता निश्चलप्रवाहः स्वसंस्कारादेव भवतीत्यर्थः ।

भावागणेशीय-नागोजीभट्टीयवृत्ती । - निरोधसंस्कारवृद्धरेवोत्तरोत्तरासंप्रज्ञातव्यक्तीनामधिकाधिककालं प्रशान्तवाहि- त्वं युक्तमिति भावः ॥ १० ॥ ननु वृत्तीनां स्मृत्यन्यथानुपपत्त्या संस्कारजनकत्वेऽपि निरोधस्य संस्कारजन- कत्वे न मानमत आह-तस्य प्रशान्तवाहिता संस्कारात् । तस्य निरो- " धस्य प्रशान्तवाहिता व्युत्थानसंस्काररहितचिरकालवाहिता खसंस्कारपाटवादेव भवतीत्यर्थः । संस्कारवृद्ध्यैवोत्तरोत्तरासंप्रज्ञातव्यक्तीनामधिककालतेति भावः ॥ १० ॥ अगसमाधेरवस्थायां विशेषमाह- सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः॥ ११॥ सर्वार्थता विक्षिप्तता तस्याः प्रतिक्षणं क्षयम्तिरोभावो भवति । एकाग्रता- याश्वाविर्भावो भवति । अयं समाधिकालीनश्चित्तपरिणाम इत्यर्थः ॥११॥ अगभूतसमाधेरवस्थायां विशेषमाह-सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः । सर्वार्थता विक्षिप्तता तस्याः प्रतिक्षणं क्षयः तिरोभावः एकाग्रतायाश्चाविर्भावो भवति । अयं समाधिकालीनचित्तपरिणाम इत्यर्थः ॥ ११ ॥ अगसमाधेरेवोत्तरपरिणामानन्तरकालीनं परिणामान्तरमाह- ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्त- स्यैकाग्रतापरिणामः ॥१२॥ ततः सर्वार्थताया निःशेषतः क्षये सति शान्तोदितो विनष्टोत्पन्नौ तुल्यप्रत्य- यावेकाकारप्रत्ययौ चित्तस्यैकाग्रताकालीनः परिणामो भवति । सजातीयैकैकः प्रत्ययो नश्यत्यन्योन्यश्चोत्पद्यत इत्यर्थः । पूर्वधर्मापाये धर्मान्तरोत्पत्तरेव परि- णामत्वादिति भावः ॥ १२ ॥ तदुत्तरकालं तस्यैव परिणामान्तरमाह-ततः पुनः शान्तोदितौ तुल्य- प्रत्ययो चित्तस्यैकाग्रतापरिणामः। ततः सर्वार्थताया निःशेषतः क्षये सति शान्तोदितौ विनष्टोत्पनी तुल्यप्रत्ययौ एकाकारप्रत्ययौ चित्तस्यैकाग्रताकालिकः परिणाम इत्यर्थः । सजातीय एको नश्यति अपर उत्पद्यते इत्येवंरूपतेत्यर्थः । पूर्वधर्मापाये धर्मान्तरोत्पत्तिरेव परिणाम इति भावः ॥ १२ ॥ इदानीं परिणामत्रयसंयमादित्यागामिसूत्रोपोद्घातसंगत्या सर्ववस्तुपु वैरा- ग्याग्निप्रज्वलनाय चित्तवदेवाखिलप्रपञ्चेऽप्यतिदेशेनैव परिणामान्च्याचष्टे- एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः॥१३॥ एतेन चित्तस्य परिणामेन भूतेष्विन्द्रियेषु च धर्मेर्लक्षणैरवस्थामिश्च परिणामा ७ पा० यो. - ६४ पातञ्जलयोगसूत्रम् । [विभूतिपादः ३ व्याख्याताः । एतदन्यतमैः परिणामैः शून्य क्षणमपि न किंचिजडवस्त्ववतिष्ठत इत्यर्थः । परिणामश्चान्यथात्वम् । तत्र धर्मिणो धर्मैः परिणामो यथा मृद्धर्मिणः पिण्डरूपधर्मापाये घटधर्मोत्पत्तिः । धर्माणां च लक्षणपरिणामो यथा पिण्डस्य वर्तमानलक्षणापायेऽतीतलक्षणोत्पत्तिः, घटस्य चानागतलक्षणापाये वर्तमान- लक्षणोत्पत्तिः । अनागतवर्तमानातीतावस्थासु च तात्रिकी लक्षणपरिभाषा । लक्षणानां चावस्थापरिणामो यथा-वर्तमानलक्षण एव घटः प्रतिक्षणं नवपुरा- णाद्यवस्थाभिरन्यत्वमेति । यद्यपि सर्व एव परिणामः परमार्थतो धर्मिण एव धर्मादीनां तत्त्वतो धर्मिस्वरूपत्वात्तथापि व्यावहारिकावान्तररूपैरीदृशोऽपि विभाग उच्यत इति ॥ १३ ॥ - सर्वत्र वैराग्यातिशयाय चित्तवदेव प्रतिक्षणपरिणामित्वं वस्तुमात्रेऽतिदिशति- एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः । अना- गतवर्तमानातीतावस्थासु लक्षणेति तान्त्रिकी, संज्ञा । तत्र चित्तस्य व्युत्थानतिरो- धानाभ्यां धर्माभ्यां परिणामः तद्धर्माभिभवापरधर्मप्रादुर्भावरूपः, धर्मयोश्चानागतं लक्षणं त्यक्त्वा वर्तमानलक्षणः यत्र स्वरूपाभिव्यक्तिः, ततो वर्तमानलक्षणं त्यक्त्वा- तीतलक्षणः खरूपामिभवरूपः । एकैकावस्थायामपि इतरे द्वे स्त एव सत्कार्य- वादाभ्युपगमात् । धर्मत्वं त्रिष्वप्यनुस्यूतमेव । एवं पुनःपुनर्निरोधजातीयः पुनः- पुनर्ग्युत्थानजातीयः अतीतव्यक्तेः पुनरनुद्भवात् । धर्माणां वर्तमानलक्षणानां वलवत्त्वावलवत्त्वे अवस्था, तस्याः प्रतिक्षणं तारतम्यं परिणामः । यथा निरोध- संस्कारेपु वलवत्सु दुवैला व्युत्थानसंस्काराः । क्षणमपि परिणामशून्यं न चित्तं गुणानां स्वभावतः प्रवृत्तिशीलत्वात् । एतयैव रीत्या पदार्थमात्रे परिणामा वेदि- तव्या इत्यतिदेशः । तत्र धर्मिणो धर्मैः परिणामो यथा--मृदो धर्मिणः पिण्डरूप- धर्मापाये घटरूपधर्माभिव्यक्तिः । तेषां च लक्षणैः परिणामा यथा-घटस्याना- गतलक्षणापाये वर्तमानलक्षणाविर्भावः । एवोत्पत्तिः । वर्तमानलक्षणापायेऽतीत- लक्षणाविर्भावः एष एव नाशः । लक्षणानां चावस्थाभिः परिणामो यथा- वर्तमानलक्षण एव घटः प्रतिक्षणं नवपुराणपरिणामं वृद्धिह्रासाद्यवस्थाभिरन्यथात्वं याति । एवमिन्द्रियाणामपि तत्तद्रनाद्यालोचनं धर्मपरिणामः । तेषां च वर्तमान- त्वादिः लक्षणपरिणामः । वर्तमानलक्षणस्य रत्नाद्यालोचनस्य स्फुटखास्फुटत्वादि- रवस्थापरिणामः । इदं च धर्मिणो धर्मलक्षणावस्थानां च काल्पनिकं भेदमाश्रि- त्योक्तम् । परमार्थतस्तु सर्व एव परिणामो धर्मिण एव धर्मलक्षणावस्थानां धर्मिमात्रखरूपत्वात, धर्मादिपरिणामद्वारा च धर्मिपरिणामस्यैव प्रपञ्चनात् । तत्र धर्मिणस्त्रिविधेऽपि परिणामे संस्थानान्यथात्वमेव न द्रव्यान्यथात्वं स्वर्णकटकादिवत् धर्मधर्मिणोरत्यन्तभेदोऽत्यन्ताभेदश्च नेति तात्पर्यम् । सचायं धर्मी न पुरुषवत्कूट- स्थोऽर्थक्रियाकारिणो रूपस्य नाशात् । नाप्यत्यन्तं तुच्छः कदाचिदर्थक्रियादर्शनात् । एवं च परिणामित्वेन पुरुषाद्भिद्यते । मृत्पिण्डाद्यवस्थासु चातीतानागतानां घटा- दीनां सत्वमेव, सर्वदा धर्मत्वानपायस्य भाष्योक्तः । खकारणे. लयेन सौपम्याद- - भावागणेशीय-नागोजीभट्टीयवृत्ती । तीतानागतलक्षणयोरनुपलब्धिः । असत उत्पत्त्यसंभवेन सतश्च सर्वथानाशासंभवे- नैष एव मार्गो ज्यायान् । अनुभवादपि धर्मधर्मिणोरभेदो धर्माणां च परस्परं व्यावृत्तिः । नात्यन्तामेदे धर्मधर्मिभाव एव घटव्यक्ताविव । नाप्यत्यन्तभेदः अश्व- पुरुषयोरिव । वर्तमानादिलक्षणानां चाविर्भावतिरोभावरूपविरुद्धधर्मसंसर्गादसंकरः परस्परम् । आविर्भावतिरोभावस्तु तत्स्वरूप एव नातिरिक्त इति नानवस्था । अव- स्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणाम इति दिक् ॥ १३ ॥ ननु धर्मातिरिक्तो धर्मी अप्रामाणिको यस्य धर्मादिः परिणामः स्यादिति बौद्धाशङ्कायां धर्मेभ्यो विवेकतो धर्मिणं साधयति- शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ १४ ॥ अतीतवर्तमानानागतधर्मेष्वनुपाती वर्तमानरूपेणानुगतो यः स धर्मीत्यर्थः । वर्तमानत्वावर्तमानत्ववैधय॒ण धर्मी धर्मेभ्योऽन्य इति भावः। सर्वेऽपि हि धर्मा धार्मणो वर्तमानावस्थायामेवाव्यक्ता अपि भवन्ति ॥ १४ ॥ ननु धर्मातिरिक्तो धर्मी न प्रामाणिकः यस्य धर्मादिः परिणामः स्यादिति वौद्ध- निरासाय धर्मातिरिक्तं धर्मिणं साधयति-शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी । अतीतवर्तमानानागतेषु धर्मेष्वनुपाती वर्तमानरूपेणानुगतो यः स धर्मी- त्यर्थः । धर्माश्च धर्मिणो द्रव्यस्य मृदादेस्तत्तत्कार्ययोग्यतावच्छिन्ना चूर्णपिण्डघटा- दिजननशक्तिरेव । तेषां तत्राव्यक्तत्वेन भाव इति यावत् । उदकाहरणादीनामा- कस्मिकलवारणाय योग्यतावच्छिन्नेति । ततश्च तान्यपि स्वकारणादेव प्राप्तानीति तद्वांश्च धर्मी, कार्यभेददर्शनं च तत्सद्भावे तद्भेदे च प्रमाणम् । वर्तमानश्च पिण्डा- दिधर्मः शान्तोदितमृचूर्णमृद्धटाभ्यां मिन्नः, अन्यथा तयोरपि खकार्यकारिख- प्रसङ्गः । अव्यक्तावस्थायां कारणरूपधर्मिमात्ररूपत्वान्न मेदप्रतीतिः । अनागता- वस्थायां तु वर्तमानावस्थैव प्रमाणं, असत उत्पादाभावात् । तत्रानागतावस्थाऽन- न्तरा वर्तमानावस्था, ततोऽनन्तरातीतावस्था, ततोऽनन्तरावस्था तु न, अनुपलब्धेः । उपादानकारणेषु सर्वकार्याणां सत्त्वेऽपि देशकालाकारनिमित्तकलान्न सर्वदा सर्व- माविर्भवति । देशः केशरस्य काश्मीरमेव । कालः शालीनां वर्षेव । आकारो मनुष्यस्य मानुष्येवेति । अन्यथा जलभूमिरूपोपादानकारणस्य सर्वशक्तिरूपलात्सर्व सर्वदा सर्वस्मिन्सर्वत आविर्भवेत् । एवमपुण्यवान सुखं न भुङ्क्ते तस्मिन् पुण्यनि- मित्ताभावात् । यः सर्वेष्वनुगतः सामान्य विशेषात्मा स धर्मी, सामान्यं धर्मिरूपं विशेषा धर्मास्तदुभयात्मकः । यदि च धर्मी न स्यात् अन्यविज्ञानकृतस्यान्यो भोक्ता न स्यात्स्मरणोच्छेदश्च प्रत्यभिज्ञा च न स्यात् , धर्माणामनवरतपरिणामि- त्वेन स्थैर्याभावात् । एप काल्पनिको धर्मधर्मिभावः । परमार्थतस्तु अलिङ्गप्रधानमेव सर्वत्र धर्मीति उत्तरसूत्रे भाष्ये ध्वनितम् ॥ १४ ॥ नन्वस्तु धर्मेभ्योऽन्यो धर्मी तथाप्येकस्य धर्मिण एक एव परिणामोऽस्तु ६६ पातञ्जलयोगसूत्रम् । [विभूतिपादः ३ एकस्यानेकपरिणामाङ्गीकारे सहकारिकल्पनागौरवेण कुर्वद्रूपतयैव वस्तुसिद्धेरिति बौद्धस्याशङ्कान्तरमपाकरोत्येकस्य धर्मिणो वक्ष्यमाणपरिणामत्रयोपपत्तये- क्रमान्यत्वं परिणामान्यत्वे हेतुः॥ १५ ॥ एकस्य वस्तुनः परिणामनानात्वे क्रमभेदो हेतुर्लिङ्गमित्यर्थः । क्रमभेदश्च यथा-मृद्धर्मी प्रथमं चूर्णभावं हित्वा पिण्डभावं प्राप्त इत्येकः क्रमः । ततश्च पिण्डभावं हित्वा कपालभावं प्राप्त इत्यपरः क्रमः । इत्येवमादयो मृदः परिणा- मक्रमभेदाः, सर्वत्र च मृन्मृदित्यनुगतप्रत्ययान्मृद एकत्वमिति ॥ १५ ॥ नन्वस्तु धर्मेभ्योऽन्यो धर्मी तथाप्येकस्य धर्मिण एक एव परिणामोऽस्तु एक. स्यानेकपरिणामाङ्गीकारे सहकारिकल्पनागौरवादित्यत आह-क्रमान्यत्वं परि- णामान्यत्वे हेतुः । एकस्य वस्तुनः परिणामनानात्वे क्रमभेदो हेतुर्लिङ्गमि- त्यर्थः । क्रमभेदश्च यथा मृद्धर्मी प्रथमं चूर्णभावं हित्वा पिण्डभावं प्राप्त इत्येकः क्रमः ततः पिण्डभावं हिला घटभावं प्राप्त इत्यपरः ततस्तं हित्वा कपालभावं प्राप्तः ततस्तं हित्वा कणभावं प्राप्त इति मृदः परिणामक्रमभेदाः । एकत्र परस्यान्यत्र पूर्ववात् । सर्वत्र च मृदित्यनुगतप्रत्ययान्मृद एकत्वं सहकारिभेदाच तेपां नाक- स्मिकत्वमिति भावः । एवमनागतवर्तमानातीतत्वलक्षणानामपि क्रमोऽनुभूयते । एवमवस्थापरिणामक्रमोऽनुभूयते वाल्ययौवनवार्धकानाम् । एवं चित्तस्य द्वये धमाः प्रत्यक्षा अनुमानशब्दगम्याश्च । तत्र प्राणादयः पञ्च प्रत्यक्षाः । अप्रत्यक्षास्तु सप्त यथा निरोधसंस्काराः कालवृद्ध्यानुमेयाः आगमज्ञेयाश्च । पुण्यापुण्ये आगमज्ञेये सुखदुःखाभ्यामनुमानेन । संस्काराः स्मृत्यानुमीयन्ते । एवं त्रिगुणत्वाच्चित्तस्य गुणानां चलवृत्तित्वाच्च प्रतिक्षणं परिणामोऽनुमीयते । जीवनं प्राणधारणं प्रयत्नभेदः श्वासप्रश्वासाभ्यामनुमीयते । तत्तदिन्द्रियैः संयोगात्तस्य चेष्टानुमीयते । चेष्टा च तत्र वृत्तिद्वारिका। शक्तिः कार्याणां सूक्ष्मावस्था स्थूलकार्यानुभवादनुमीयते इति दिक् ॥ १५॥ इतः परं पादसमाप्तिपर्यन्तं संयमसिद्धिरूपा विभूतय उच्यन्ते- परिणामत्रयसंयमादतीतानागतज्ञानम् ॥ १६ ॥ अस्य धर्मिणोऽयं धर्मपरिणामस्तस्य चायं लक्षणपरिणामो लक्षणस्य चायं नवपुराणाद्यवस्थापरिणाम इत्येवमनुक्षणं यत्र कुत्रचिदर्थे संयमात्साक्षात्कारे सति तदितरार्थानामपि धर्मादिपरिणामेष्वतीतानागतज्ञानं संकल्पमात्रेण प्रणिधा- नलेशादेव भवतीत्यर्थः । यद्यपि संयमस्य साक्षात्कारपर्यन्ततात्र नोक्ता तथापि संस्कारसाक्षात्करणादित्यागामिसूत्रात्सूत्रान्तरेप्वपि सा लभ्यते । अन्यवि- पयकसंयमादप्यन्यविपयकसाक्षात्कारश्च शास्त्रप्रामाण्यादवसेयः, यागात्स्वर्ग। इवेति । संयमेन स्वविपयकसाक्षात्कारस्तु नात्र संयमसिद्धिपु मध्ये पठ्यते, क्षीणवृत्तेरभिजातस्येव मणेरित्यादिप्रथमपादे संप्रज्ञातफलत्वेनैव तस्योक्तत्वात् ॥ १६॥ ।

भावागणेशीय-नागोजीभट्टीयवृत्ती । ६७ अस्य संयमस्य विषयांस्तदशीकारसूचिका विभूतीश्चाह-परिणामत्रयसंय- .मादतीतानागतज्ञानम् । उक्तस्य धर्मलक्षणावस्थापरिणामत्रयस्य कुनचिदर्थे संयमात् ध्यानधारणासमाधिभिः साक्षात्कारात्तदितरार्थानामपि धर्मादिपरिणामेष्वपि अतीतानागतज्ञानं संकल्पमात्रेण प्रणिधानलेशादेव भवतीत्यर्थः । यद्यप्यत्र संय- मस्य साक्षात्कारपर्यन्तता नोक्ता तथापि संस्कारसाक्षात्करणादित्यागामिसूत्रात्सू- त्रान्तरेष्वपि सा लभ्यते । अन्यविषयकसंयमादन्यविषयकसाक्षात्कारश्च शास्त्र- प्रामाण्याद्यागात्स्वर्ग इव । संयमेन खविषयविषयकसाक्षात्कारस्तु न त- सिद्ध्यन्तःपाती क्षीणवृत्तेरभिजातस्यैवेत्यादिना प्रथमपादे संप्रज्ञातफलत्वेनै- वोक्तवात् ॥ १६ ॥ संयमान्तरस्य सिञ्चन्तरमाह- शब्दार्थप्रत्ययानामितरेतराध्यासात्संकरस्तत्प्रवि- भागसंयमात्सर्वभूतरुतज्ञानम् ॥१७॥ गौरित्यादिः शब्दो गौरित्यादिरों गौरित्यादिः प्रत्ययः । तेपामन्योन्यमेका- कारत्वाध्यासात्संकरो विवेकाग्रहणं भवति । वस्तुतस्तु वैधात्तेपां भेदोऽस्ति । अतस्तेपां प्रविभागे भेदे संयमात्साक्षात्कृते सति सर्वभूतानां रुतानि शब्दाः स्वरूपतोऽर्थतश्च ज्ञायन्ते । अयं काकादिः शब्देनेममर्थ कथयतीत्येवमित्यर्थः । अस्मदादीनां च शब्दादित्रयभेदसाक्षात्कारे सत्यपि तस्य साक्षात्कारस्य संय- मजन्यत्वाभावान्न सर्वभूतरुतज्ञानं भवति ॥ १७ ॥ संयमान्तरविषयसिद्धीराह-शब्दार्थप्रत्ययानामितरेतराध्यासात्संकर- स्तत्पविभागसंयमात्सर्वभूतरुतज्ञानम् । ननु शब्दः श्रोत्रग्राह्य आकाश- निष्ठोऽर्थस्तु घटादिश्चक्षुर्लाह्यो भूस्थो ज्ञानं चान्तःकरणवृत्तिरूपं तन्निष्टमिति मेदस्या- त्यन्तिकलात् कथमितरेतराव्यास इति चेन्न, त्रयाणामप्यन्तःकरणपरिणामरूपत्वेन तत्संभवात् । तथाहि-कण्ठाद्यष्टस्थानकवागिन्द्रियाभिहतोदानवायोः परिणामवि- शेषध्वनिरूपवर्णा हि श्रोत्रविषयाः, तेपां न वाचकत्वम् । ते किं प्रत्येकं वाचका उत मिलिताः । नाद्यः । एकस्मादर्थप्रतीत्यनुत्पत्तेः । उत्पत्ती द्वितीयादिवर्णानां वैय- र्थ्यप्रसङ्गः । नान्यः । यौगपद्यासंभवात् । नच पूर्वपूर्ववर्णानुभवाहितसंस्कारसाचि- व्येन पूर्वपूर्वस्मरणविशिष्टोत्तरोत्तरप्रत्यक्षात्मकानुपूर्वीविशिष्टपदज्ञानम् । आनुपूर्व्याः क्षणघटितत्वेनातीन्द्रियघटिततया ज्ञानाविपयत्वात् । तस्मात्प्रत्येकवर्णरूपनादान् गृहीत्वा पश्चाज्जायमानैकत्वविषयवुद्धिनिर्ग्राह्यं बौद्धं गौरित्येतदेकं पदं वाचकं वाच्यम् । तदुक्तं भाष्ये—'नादानुसंहारवुद्धिनिर्ग्राह्यम्' इति । यद्वा नादानामनुसं- हारो ग्रहणं तज्जन्यबुद्धिनिर्ग्राह्यमित्यर्थः । ननु तवापि गकारौकारविसर्जनीया गोत्व- वाचका इति व्यवहारानुपपत्तिरिति चेन्न । जपाकुसुमादिसंनिधानेन स्फटिकस्य रक्तत्वादिवदभिव्यञ्जकध्वनिरूषितस्यैव प्रतीतेः । आन्तरोऽन्तःकरणपरिणामो व्यापकः स्फोट एक एव । तत्तत्स्थानादौ वाय्वमिधातेन वैखरीरूपो वर्णो ध्वनिरूप इति एकैकोऽपि स पदात्मा सर्वामिधानशक्तिप्रचितश्च । नचैवं ततोऽपि वोधप्रसङ्गः, ६८ पातञ्जलयोगसूत्रम् । [विभूतिपादः.३ सहकारिवर्णान्तराभावात् । सहकारिवर्णान्तरसंवन्धेन च गोगणगौरनगरइत्येवं नाना- त्वमिवापन्नो भवति स स्फोटः । तत्र च पूर्वो वर्णो गकार उत्तरेणौकारेण गणादिभ्यो व्यावर्त्य उत्तरश्चौकारः (पूर्वगकारेण) शोचिरादिभ्यो व्यावर्त्य विशेषे गोत्ववाचके गोपदस्फोटेऽवस्थापितोऽनुसंहारबुद्ध्या तदाकारत्वेन गृहीतः स्फोट इति हेतोर्वहवो वर्णाः क्रमानुरोधिनोऽर्थसंकेतेनावच्छिन्ना इत्यन्त एते सर्वाभिधानशक्तिमन्तः गका- रौकारविसर्जनीया अर्थबोधका इति लौकिकानां भ्रमात् । प्रत्येकं गकारादिपु तत्तादा- त्म्येन वाचकत्वभ्रमात् । तत्त्वतस्तु गौरित्यायेकं पदमिति एकवुद्धिविषयत्वादेकं पदम् औपाधिकभागवत्त्वेपि परमार्थतोऽभागमत एव भागक्रमरहितमत एव वर्णविलक्षणं विलक्षगप्रयत्नजन्यतत्तवनिसमूहव्यङ्ग्यं बुद्धितत्त्वाश्रयं पूर्वपूर्ववर्णज्ञानजन्यसंस्कार- सहकृतान्यवर्णज्ञानजन्यसंस्कारसंस्कृतचित्तग्राह्यं वाचकम् । नन्वेवमीदृशं चेत् तादृशं कुतो नोपलभ्यते कदाचित् स्फटिकस्य स्वच्छस्योपलम्भवदितिचेन । परप्र- तिपिपादयिषयोच्चार्यमाणवर्णैरुच्चारयितृभिः श्रूयमाणैश्च श्रोतृभिः क्रियमाणो योऽय- मनादिवाग्व्यवहारस्तत्तद्वर्णनिवन्धनस्तजन्ययाऽनादिवासितलोकबुद्ध्या वर्णरूषितप- दावगाहिन्यैव सकलवृद्धसंवादेन तस्य संप्रत्ययात् । उपाधि विना तस्य कथमपि अनभिव्यक्तेन तस्य वर्णानालिङ्गितः प्रत्यय इति तत्त्वम् । तादृशे एव प्रतीते संके- तग्रहात्, एतावतां वर्णानामेवंजातीयक्रमवान् एकवुद्धिविषयोऽस्यार्थकस्य वाचक इति संकेतग्रहभ्रमो लौकिकानाम् । तैर्गकारादीनामपि तद्भागतया तत्तादात्म्येन तेष्वपि वाचकत्वारोपात् । इदमेवाभिप्रेत्य एषामर्थसंकेतेनावच्छिन्नानामङ्गीकृतक- माणां बुद्धिनिर्ग्राह्यमेकं पदं वाचकमिति भाप्ये उक्तम् । वस्तुतः संकेतग्रहस्तथाप्र- तीते आन्तर एव स्फोटे । ननु यदि अस्यार्थस्यायं वाचक इति संकेतस्तदा पर- स्पराध्यासः कथमितिचेन्न । पदपदार्थयोरितरेतराध्यासरूपो योऽयं शब्दः सोऽय- मर्थो योऽयमर्थः स शब्द इत्येव संकेतग्रहात् । एवमाकारसंकेते कदाचिद्भेदमा- रोप्य राहोः शिर इतिवत्षष्ठीप्रयोगात् । एतेन तेषां गृहीतसंकेतानां तयञ्जकत्वम- गृहीतसंकेतानां वेत्यादिविकल्पनमपास्तम् । अगृहीतसंकेतैरपि तस्य व्यञ्जनात् । व्यक्तादपि वोधो न संकेतग्रहाभावादित्यन्यत् । अतएवागृहीतार्थकेऽपि इदं पदमि- त्यनुभवो जायत एव । अर्थस्त्वान्तरो निरूपित एव । अतएवैते शब्दार्थप्रत्यया इतरेतराध्यासात्संकीर्णाः गौरितिप्रत्ययो गौरित्यर्थो गौरितिशब्द इति य एषां प्रवि- भागज्ञः स सर्वभूतरुतज्ञः । एतेनास्माकं शब्दार्थज्ञानभेदसाक्षात्कारेऽपि तस्य संय- मजन्यत्वाभावान्न सर्वभूतरुतज्ञानमित्यपास्तम् । सूत्रभाष्यविरोधात् । वस्तुतस्तु कल्पितपदविभागमेकमखण्डवाक्यमेव वाचकम् । यथा पदावयवत्वकल्पनाकल्पित- तादात्म्येन वर्णानां पदार्थवाचकत्वमेवं पदानामप्यस्ति वाक्यार्थवाचकत्वम् । अतएव वृक्ष इत्युक्तेऽस्तीति गम्यते । लोको हि पदार्थमस्त्यर्थेन मेलयित्वा वाक्यार्थ करोतीति । तेन पदार्थमात्रस्याव्यभिचारात् । लोकत एव हि पदानामर्थावधार- णम् । तथा पचतीत्युक्ते तदन्वययोग्यसर्वकारकाक्षेपः । चैत्रोऽग्निना स्थाल्यां तण्डुलानिति प्रयोगस्तु नियमार्थः । नच पदस्य वाक्यार्थशक्तिमत्त्वे तन्मात्रात्तदर्था- बसायः स्यादिति वाच्यम् । वाक्यादेव प्रतीतेः लौकिकानां वर्णप्विव तद्रूमः ।

भावागणेशीय-नागोजीभट्टीयवृत्ती ।
इमानि पदानि अस्य वाक्यार्थस्य योधकानीत्युक्तप्रायवात् । नन्वेवं पदैकदेशप्रत्य-
• यप्रकृत्यादीनां तत्तदर्थे व्याकरणं कृतं विरुध्येतेति चेन्न । वाक्यात्पदान्यपोद्धल्य
वाक्यार्थाच्च तत्तदर्थमपोद्धृत्य तत्तदंशे च तत्तदर्थवत्त्वं प्रकल्प्यान्वाख्यानलाथ-
वाय प्रकृतिप्रत्ययादिविभागकल्पनया व्याकरणारम्भात् । अन्वाख्यानाभावे घटो
भवति तिष्टति, अश्वस्त्वमश्वो याति, अजापयः पिवाजापयः शत्रूनिति
नामाख्यातसारूप्यानामत्वेन वा ज्ञातं क्रियार्थक कारकार्थक नेति कथं वा
ज्ञायेत कथं वान्यान्प्रति तत्तदर्थकत्वेन व्याक्रियेत चेति दिक् । एवमनादिसंकेता-
पादितः संकरोऽध्यासजन्यः । एवं च संकेतोपाधिकः संकरो वास्तवस्तु विभाग
एव । यथा श्वेत इति पूर्वापरीभूतावयवसाध्यरूपक्रियार्थः शब्दः श्वेतः प्रासाद इति
कारकार्थः शब्दः । अभिहितत्वाच्च कारकविभक्तरभावः क्रियाकारकात्मा व
तदर्थः । तदर्थविषयश्च प्रत्यय इत्यस्ति विभागो निरुपाधिकः तत्प्रविभागसंयमा-
द्योगी सर्वभूतानां पशुपक्षिमृगादीनां यानि रुतानि तत्रापीदं पदं अयमर्थोऽयं
प्रत्यय इति ज्ञानवान् भवति । तदिह मनुष्यवचनवाच्यप्रत्ययेषु कृतः संयम-
सत्समानजातीयेषु तेष्वपि कृत इति तेषां शव्दमेदमर्थमेदं प्रत्ययं च योगी
जानातीति सिद्धमिति दिक् ॥ १७ ॥
संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥१८॥
कारसंयमेनेति सूत्रस्यादौ पूरणीयम् । संस्कारश्च द्विविधः । ज्ञानरागा-
दिवासना धर्माधर्मों च । तेषु पूर्वजन्मसंस्कारेषु संयमात्साक्षात्कृतेषु पूर्वज-
न्मज्ञानं जातिस्मरता भवतीत्यर्थः॥ १८॥
सिध्यन्तरमाह-संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् । संस्कारसं-
यमेत्यादि । संस्कारो द्विविधः । ज्ञानरागादिवासनारूपो धर्माधर्मरूपश्च । पूर्वजन्मभवे
ह्येतस्मिन् द्विविधेऽप्रत्यक्षेऽपि श्रुतानुमानाभ्यां ज्ञात्वा संयमेन साक्षात्कृते पूर्वजाति-
ज्ञानं जातिस्मरता भवतीत्यर्थः । एवं परकीयसंस्कारसाक्षात्करणात्परजातिज्ञानमपि
भवतीति बोध्यम् ॥ १८॥
प्रत्ययस्य परचित्तज्ञानम् ॥ १९॥
प्रत्ययस्य रागादिमत्याः स्वीयचित्तवृत्तेः संयमेनाश्रयादिरूपैरशेपविशेपैः
साक्षात्करणात्परस्य चित्तमपि संकल्पमात्रेणैव ज्ञायत इत्यर्थः ॥ १९ ॥
प्रत्ययस्य परचित्तज्ञानम् । प्रत्ययस्य रागादिमत्याः स्वीयचित्तवृत्तेः संयमे-
नाश्रयादिरूपैरशेपविशेषैः साक्षात्करणात् परस्य चित्तमपि संकल्पमात्रेणैव ज्ञायत
इत्यर्थः
कायरूपसंयमात्तद्वाद्यशक्तिस्तम्भे चक्षुम्प्र-
काशाऽसंप्रयोगेऽन्तर्धानम् ॥ २० ॥
स्वशरीरस्य रूपं संयमात्कारणाद्यशेषविशेषैः साक्षात्कृते सति संकल्पमात्रेण
:॥ १९॥

पातञ्जलयोगसूत्रम् । • [विभूतिपादः ३ स्वकीयरूपस्य दृश्यताशाक्तिं परचक्षुःसंयोगयोग्यतां स्तन्नाति प्रतिवनाति । ततश्चक्षुःकिरणैरसंयोगेऽन्तर्धानं योगिन उत्पद्यते । दिवान्धेनेव केनाप्यसो न दृश्यत इत्यर्थः । एतेन शब्दाद्यन्तर्धानमुक्तम् ॥ २० ॥ कायरूपसंयमात्तद्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासंप्रयोगेऽन्तर्धा नम् । खशरीरस्य रूपे संयमात् कारणाद्यशेपविशेषैः साक्षात्कृते सति संकल्पमा- त्रेण स्वीयरूपस्य दृश्यताशक्तिं परचक्षुर्योग्यतां स्तन्नाति प्रतिवध्नाति तस्मिंश्च सति चक्षुःकिरणैरसंयोगेऽन्तर्धानं भवतीत्यर्थः । केनाप्यसौं न दृश्यत इति भावः ॥ २० ॥ सोपक्रम निरुपक्रमं च कर्म तत्संयमादप- रान्तज्ञानमरिष्टेभ्यो वा ॥ २१ ॥ सोपक्रम तीव्रवेगेन फलदातृ । निरुपक्रमं मन्दवेगेन फलदातृ । एवंभूतं यत्कर्मार्थात्प्रारब्धफलकमायुष्करं तत्साक्षात्कारेणैवायुर्निर्णयौचित्यात्, तत्र संय- मात्तदन्यतररूपेण तत्साक्षात्कारे सति अपरान्तस्य पश्चिमस्य मरणस्य ज्ञानं भवति । शीघ्रविलम्बान्यतरविशेषेणेति शेषः । आरब्धफलकस्यायुष्करकर्मणो हि तीव्रगतः फलदातृतया साक्षात्कारे सति आयुहाँसो ज्ञायते, इतरथा वैपरीत्यं ज्ञायत इति योगिभिरवधानार्थं मरणकालो ज्ञातव्य इत्याशयेन । प्रसंगान्मरणज्ञानस्योपायान्तरमाह-अरिष्टेभ्यो वेति । अरिष्टानि वसिष्ठसंहिता- मार्कण्डेयपुराणादिषूक्तानि ॥ २१ ॥ सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा। सोपक्रमं तीव्रवेगेन फलदातृ, निरुपक्रमं मन्दवेगेन फलदातृ, एवंभूतं यत्प्रवृत्त- फलकमायुष्करं कर्म तत्साक्षात्कारेणैवायुनिर्णयौचित्यात् , तत्र संयमात्तदन्यत- ररूपेण साक्षात्कारे सति अपरान्तस्य मरणस्य कालज्ञानं भवतीत्यर्थः । तत्र तीव्रवे- गत्वेऽल्पकालता। मन्दवेगत्वे विलम्बः । अरिष्टेभ्यो वा । अरिष्टानि मार्कण्डेयपु- राणायुक्तानि यथा पिहितकर्णस्यान्तर्घोपाश्रवणं नेत्रेऽवष्टब्धे ज्योतिरदर्शनमि- त्यादीनि ॥२१॥ दिनमाससंवत्सराः ॥ दिनमाससंवत्सरादिभेदैर्मृत्युचिह्नानि । तेभ्यो वा लिङ्गेभ्यो मरणज्ञानं भव- तीत्यर्थः ॥ २१ ॥ मैत्र्यादिषु बलानि ॥२२॥ मैत्र्यादिषु संयमान्मैयादितत्त्वसाक्षात्कारपर्यन्ताद्वलानि अवन्ध्यानि वीर्याणि भवन्ति । परेषु मैन्याद्यर्थ प्रयत्नो निष्फलो न भवतीति यावत् । आदि- शब्देन करुणामुदितयोः प्रथमपादोक्तयोर्ग्रहणम् ॥ २२ ॥ मैत्र्यादिषु वलानि । सुखितेषु मैत्री दुःखितेपु करुणा पुण्यशीलेपु मुदिता १ इदं सूत्रमधिकमत्रैव दृश्यते । ( भावागणेशीय-नागोजीभट्टीयवृत्ती। ७१ आसु तत्तत्वसाक्षात्कारपर्यन्तसंयमात् वलानि अवन्ध्यानि वीर्याणि भवन्ति परेषु मैत्र्याद्यर्थ प्रयत्नो विफलो न भवतीत्यर्थः ॥ २२ ॥ बलेषु हस्तिबलादीनि ॥ २३ ॥ हस्त्यादिवलेषु संयमात्तत्त्वसाक्षात्कारपर्यन्ताद्धस्त्यादिवलानि भवन्ति । आदिशब्देन गरुडवाय्वादिग्रहणम् ॥ २३ ॥ वलेषु हस्तिवलादीनि । हस्त्यादिवलेषु तत्त्वसाक्षात्कारपर्यन्तात्संयमाद्ध- स्त्यादिवलं भवति । आदिना गरुडवाय्वादिग्रहणम् ॥ २३ ॥ प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहि- तविप्रकृष्टज्ञानम् ॥ २४ ॥ ज्योतिष्मती नाम बुद्धिपुरुपान्यतरसाक्षात्काररूपिणी मनसः प्रवृत्तिः प्रथम- पादे प्रोक्ता तस्या य आलोकस्तत्कालीनो यः सत्वप्रकाशस्तं योगी सूक्ष्माद्यर्थेषु विन्यस्य तद्गोचरक्षणप्रणिधानमात्रं कृत्वा तं तमर्थ साक्षात्करोतीत्यर्थः । व्यव- हितमावृतं विप्रकृष्टं दूरदेशस्थम् । अत्र चक्षुासवदालोकन्यासमात्रवचनात्तेयु संयमापेक्षा नास्ति । परम्परया बुद्ध्यादिविषयकसंयमसाध्यत्वेनैव त्वस्या विभूतेः संयमसिद्धिमध्ये पठनमिति ॥ २४ ॥ प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् । ज्योतिष्मती नाम बुद्धिपुरुषान्यतरसाक्षात्काररूपा मनसः प्रवृत्तिराद्यपादे उक्ता । आलोकस्तत्कालिको यः सत्त्वप्रकाशस्तं योगी सूक्ष्माद्यर्थेषु सूक्ष्मव्यवहितविप्रकृष्टेषु विन्यस्य तद्गोचरक्षणप्रणिधानेनापि तमर्थ साक्षात्करोतीत्यर्थः । चक्षुासवदालो- कन्यासमात्रवचनात्तेषु संयमापेक्षाभावः । परंपरया बुद्ध्यादिविषयकसंयमसाध्यत्वेन चास्या विभूतेस्तत्सिद्धिमध्ये पठनमिति बोध्यम् ॥ २४ ॥ भुवनज्ञानं सूर्ये संयमात् ॥ २५॥ सूर्यमण्डले संयमात्तद्गताशेषसाक्षात्कारे सत्यशेषविशेषतश्चतुर्दशभुवन- ज्ञानम् ॥ २५॥ भुवनज्ञानं सूर्ये संयमात् । सूर्यमण्डले संयमात् तद्गताशेपविशेषसाक्षात्का- रेऽशेषतश्चतुर्दशविशेषभुवनज्ञानं भवतीत्यर्थः । एतत्संयमोपयोगो नानाविधलोकग- तीदृष्ट्वात्यन्तवैराग्यायेति बोध्यम् ॥ २५ ॥ चन्द्रे ताराव्यूहज्ञानम् ॥ २६ ॥ चन्द्रमण्डले संयमादशेषविशेषसाक्षात्कारपर्यन्तात्ताराव्यूहस्य नक्षत्रमण्ड- लस्य तथा ज्ञानं भवति ॥ २६ ॥ चन्द्रे ताराव्यूहज्ञानम् । चन्द्रमण्डले संयमेन तद्गताशेषविशेषसाक्षात्कारे ताराव्यूहस्य नक्षत्रमण्डलस्य तथा ज्ञानं भवति ॥ २६ ॥ तस्या य ७२ पातञ्जलयोगसूत्रम् । [विभूतिपादः ३ ध्रुवे तद्गतिज्ञानम् ॥२७॥ ध्रुवे तथा संयमात्ताराणां गतिमशेषविशेषतो जानाति ॥ २७ ॥ ध्रुवे तद्गतिज्ञानम् । ध्रुवे संयमात्ताराणां गतिमशेषविशेषतो जानाति ॥२७॥ नाभिचक्रे कायव्यूहज्ञानम् ॥२८॥ कदलीकन्दवदादावुत्पन्नं नाभिकन्दरूपं चक्रं शरीरमध्यवर्ति । यतः शाखा- पल्लवादिवच्छिरःपादादिकमवयवजातमूर्ध्वाधःपर्धेिष्वाविर्भवति । तस्मिन्नाभि- चक्रे संयमात्साक्षात्कृते कायस्थं पदार्थव्यूह वातपित्तत्वगसृगादिरूपं साक्षा- क्रियते ॥ २८॥ नाभिचक्रे कायव्यूहज्ञानम् । कदलीकन्दवदादावुत्पन्नं नामिकन्दरूपं नाभिचक्रं शरीरमध्यवर्ति यतः शाखापल्लवादिवत् शिरःपादादिकमवयवजातमू- वा॑धःपार्श्वेष्वाविर्भवति, तस्मिन्नाभिचक्रे संयमात्साक्षात्कृते सति कायस्थं व्यूह पदार्थजातं वातपित्तत्वगसृगादिरूपं साक्षात्करोतीत्यर्थः ॥ २८ ॥ कण्ठकूपे क्षुत्पिपासानिवृत्तिः॥ २९॥ कूपाकारं कण्ठच्छिद्रं हृदयपर्यन्तं तिष्ठति । तस्मिन् संयमादशेषविशेषतः साक्षात्कृते सति क्षुत्पिपासे न वाधेते ॥ २९ ॥ कण्ठकूपे क्षुत्पिपासानिवृत्तिः । कूपाकारं कण्ठच्छिद्रं हृदयपर्यन्तं तिष्ठति तत्र संयमात्क्षुत्पिपासे न वाधेते ॥ २९ ॥ कूर्मनाड्यां स्थैर्यम् ॥ ३०॥ कुण्डलीसर्पवदवस्थिततया कूर्माकारं हृदयपुण्डरीकाख्यं नाडीचक्रम् । तत्र संयमाद्यथोक्ताञ्चित्तस्थैर्य भवति ॥ ३०॥ कूर्मनाड्यां स्थैर्यम् । सर्पकुण्डलिवदवस्थिततया कूर्माकारा हृदयपुण्डरीके नाडी तत्र संयमाच्चित्तस्य स्थैर्य भवति ॥ ३० ॥ मूर्धज्योतिषि सिद्धदर्शनम् ॥३१॥ मूर्धज्योतिषि शिरःकपालान्तश्छिद्रस्थे भौतिकज्योतिपि संयमाद्यथोक्ताद् द्यावापृथिव्योरन्तरचारिणः सिद्धा दृश्यन्ते ॥ ३१ ॥ मूर्धज्योतिषि सिद्धदर्शनम् । मूर्धज्योतिषि शिरःकपालान्तश्छिद्रगत- सुषुम्नानाडीस्थे भौतिकज्योतिषि संयमाद्यथोक्ताद द्यावापृथिव्योरन्तरचारिसिद्धदर्शनं भवति ॥ ३१ ॥ प्रातिभावा सर्वम् ॥ ३२॥ प्रातिभं स्वप्रतिभोत्थमनौपदेशिकं ज्ञानं, विवेकजस्य वक्ष्यमाणसाश्यस्य पूर्वरूपं यथा 'सूर्योदयस्य प्रभा पूर्वरूपं तद्वत् । तच वक्ष्यमाणलक्षणं, तत्र क्रमाजायत इति भाष्यकृतोक्तम् । तस्मात्प्रातिभावा सर्व पूर्वोक्तमतीतानाग- भावागणेशीय-नागोजीभट्टीयवृत्ती । ७३ तादि सिद्धदर्शनपर्यन्तमन्यद्वा जिज्ञासितं योगी जानाति । पूर्वोक्तासंयमात्संय- मान्तराणि विनापीत्यर्थः ॥ ३२ ॥ प्रातिभाद्वा सर्वम् । प्रातिभं स्वप्रतिभोत्थमनौपदेशिकं ज्ञानं विवेकजस्य वक्ष्य- माणसावश्यस्य पूर्वरूपं यथा सूर्योदयस्य पूर्वरूपं प्रभा तद्वत् । तच्च वक्ष्यमाणं क्र- 'माजायते । ततः प्रातिभावा सर्व पूर्वोक्तमतीतानागतादिसिद्धदर्शनपर्यन्तमन्यद्वा जिज्ञासितं योगी जानाति संयमान्तराणि विनापीत्यर्थः ॥ ३२ ॥ संयमस्य क्षुद्रसिद्धय उक्ताः । इदानीमात्मसाक्षात्काररूपां संयमस्य मुख्य- सिद्धिं वक्तुमादौ तत्संयमहेतोश्चित्तसाक्षात्कारस्य कारणं संयममाह- हृदये चित्तसंवित् ॥ ३३ ॥ हृदयाकाशे चित्तभूमौ संयमात्साक्षात्कारपर्यन्ताहुद्धिसाक्षात्कारो भवती- - त्यर्थः ॥ ३३ ॥ - अथात्मसाक्षात्काररूपां संयमस्य मुख्यसिद्धिं वक्तुमादौ तत्संयमहेतोश्चित्तसा- क्षात्कारस्य कारणं संयममाह-हृदये चित्तसंवित् । हृदयाकाशे ब्रह्मपुराख्ये दहराख्यं तद्धि चित्तस्य वेश्म गृहं स्थानं तत्र साक्षात्कारपर्यन्तसंयमात्सकलवृत्ति- विशिष्टचित्तसाक्षात्कारो भवतीत्यर्थः ॥ ३३ ॥ चित्ते ज्ञाते चित्ताद्विवेकेनात्मसाक्षात्कारो भवतीत्यौत्सर्गिकक्रममनुसृत्याह- सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः :प्रत्ययाविशेषो भोगः परार्थत्वात्स्वार्थसंयमात्पुरुषज्ञानम् ॥ ३४ ॥ सत्वपुरुपयोर्बुद्धिपुरुपयोरत्यन्तविधर्मिणोरपि प्रत्ययाविशेपः प्रत्ययाविवेको भोगशब्दार्थः । तयोः प्रत्यययोर्मध्ये परात्प्रत्ययाद्विवेकेन स्वार्थे पौरुषेये प्रत्यये संयमात्साक्षात्कारपर्यन्ताद्धेतोः स्वयमेव पूर्णत्वाद्यशेपविशेपैः पुरुपसाक्षात्कारो भवति । तादृशसंयमाभावेऽपीत्यर्थः । बुद्धेः प्रत्ययः शब्दाद्याकारा सुखाद्या- त्मिका वृत्तिः । पुरुपस्य प्रत्ययश्च तदवच्छिन्नचैतन्यम् । तत्र चैकैकमात्रमेकैकस्य गौणो भोगः । स च 'चिदवसानो भोगः' इति सांख्यसूत्रे योगभाप्ये च सिद्धः। अनेन सूत्रेण तप्तायःपिण्डवदविविक्तं तदुभयमेव भोग इति लोकव्यवहारेणो- क्तम् । लोकैर्हि शब्दादिग्रहीता अहं सुखीत्याद्यभिमानपूर्वकसुखाद्यनुभव एक भोगतया व्यवहियते । अतोऽयं सुखभोग इति भोगमध्ये चैतन्यस्य विवेक्तव्य- तयात्र सूत्रेऽपि भोगोऽपि लक्षितः । आत्मतत्वज्ञानार्थिभिश्चायमेव संयमः सततं कर्तव्य इति ॥ ३४ ॥ चित्ते च ज्ञाते ततो विवेकेनात्मसाक्षात्कारो भवतीत्यौत्सर्गिकक्रममाश्रित्याह- सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात्स्वार्थ- संयमात्पुरुषज्ञानम् । सत्त्वं हि खप्रकाशरूपमिति स्वच्छं तच स्वाविनाभूते अपि रजस्तमसी अभिभूय विवेकख्यातिरूपेण परिणमते तत्तथापरिणताद्बुद्धिसत्त्वादपि ।

७४ पातञ्जलयोगसूत्रम् ।। [विभूतिपादः ३ यदि चैतन्यं शुद्धं ततो विभक्तं ततः किं वक्तव्यं जडखभावाभ्यां रजस्तमोभ्या- मिति सूचयितुं सूत्रे सत्त्वेत्युक्तम् । तयोः सत्त्वपुरुषयोर्बुद्धिचैतन्ययोः. परिणामि- वापरिणामित्वरूपविरुद्धधर्माध्यासादयन्तासंकीर्णयोरपि योऽनाद्यविद्यावासनावशा- प्रत्ययाविशेषः प्रत्ययद्वयाविवेकोऽभेदभ्रमो वा स भोगः । शान्तघोरमूढप्रत्यय- रूपवुद्धिवृत्तिप्रत्ययधर्मशान्तत्वादीनां परस्परप्रतिविम्वाचैतन्येऽध्यारोप इति यावत् यतः सा पुरुषाय दर्शितविषया, स्वतस्तस्याः परिणामित्वेन विषयग्रहणाभावात् । तत्र बुद्धिः वृत्तिरूपा परार्थत्वादस्योतः (१) परार्थात् तस्माद्भिन्ने विवेकेन स्वार्थे पुरुष- रूपप्रत्यये यः साक्षात्कारपर्यन्तः संयमस्तस्माद्धेतोः स्वयमेव पूर्णत्वकूटस्थत्वाद्यशेषवि- शेषैः साक्षात्कारो भवतीत्यर्थः । अत्र परार्थत्वं परस्य भोगापवर्गसाधनत्वं, स्वार्थत्वं तु परार्थत्वाभाव एव खस्य भोगापवर्गसाधनत्वम् । अत्र भोगः खात्मकविषयानुभव एवेति केचित् । ननु पुरुषविषयः साक्षात्कारश्चेत्स तस्य विषय इति साक्षात्कारा- न्तरमायातं, बुद्धिसत्त्वात्मना तु प्रत्ययेन जडत्वान्न खविवेकेन पुरुषज्ञानं भवतीत्य- नवस्था, स्वखरूपत्वे कथं तस्य संयमफलत्वं प्रागेव सिद्धत्वादिति चेन्न । घटाकाश- वच्छब्दादिवृत्त्यवच्छिन्नचैतन्यभागस्य वृत्तिविवेकेन साक्षात्कारस्य परिपूर्णत्वादिरूपै- रखिलप्रपञ्चविवेकेन तत्साक्षात्कारस्य तत्फलत्वात् , बुद्धिसत्वगतपुरुषप्रतिविम्बाल- म्वनोऽयं पुरुषात्मकः प्रत्यय इत्यदोषाच । निष्ठत्वस्य स्वरूपस्थित्यैव । तथाच श्रुतिः --'विज्ञातारमरे केन विजानीयात्' इति । बुद्धेः प्रत्ययः शब्दादिसुखाद्याकारा वृत्तिः, पुरुषप्रत्ययश्च स्वरूपः वुद्ध्यवच्छिन्नचैतन्यमिति केचित् ।। तत्त्वज्ञानार्थिनां चायमेव संयमो मुख्यः । तत्रास्य संयमस्य पुरुषज्ञानात्मरूपविभूतयः ।। ३४ ॥ स्वार्थप्रत्ययसंयमेनात्मसाक्षात्कारे जाते तचिह्नानि वक्ष्यमाणलक्षणस्य विवे. कजज्ञानस्य पूर्वरूपाणि प्रातिभाद्याः सिद्धयो भवन्ति । ताश्च पौरुषैकाग्रपरिप- थित्वेनासंप्रज्ञातयोगे विघ्नभूता इति प्रतिपादयितुमादौ ताः प्रदर्शयति- ततः प्रातिभश्रावणवेदनादर्शाखादवार्ता जायन्ते ॥ ३५॥ ततः पुरुषसाक्षात्कारान्मनआदीनां प्रातिभादिसंज्ञाः पसिद्धयः सामर्थ्यवि- शेपरूपा भवन्तीत्यर्थः । तत्रोपदेशादिकं विनापि सूक्ष्मव्यवहितादिषु मनसो यथार्थज्ञानसामर्थ्य प्रातिभमित्युच्यते । श्रोत्रस्य तादृशं सामर्थ्यं श्रावणम् । त्वचस्तादृशं सामर्थ्य वेदनम् । चक्षुप आदर्शः । रसनाया आस्वादम् । घ्राणस्य वार्तेति ॥ ३५॥ फलं तावद्दर्शयति-ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जा- यन्ते । तत उक्तसंयमात् प्रातिभादिसंज्ञाः षट् सिद्धयो भवन्तीत्यर्थः । दृष्टकारणं विनैवाकस्साब्यवहितविप्रकृष्टातीतानागतसूक्ष्मार्थेषु यथार्थज्ञानसामर्थ्य तजन्यं ज्ञानं प्रातिभं मनसः सिद्धिः । तथा व्यवहितादिश्रवणसामर्थ्य श्रोत्रस्य सिद्धिः । त्वचस्तादृशं सामर्थ्य वेदनं, चक्षुष आदर्शः, रसनाया आस्वादः, घ्राणस्य बातेति ॥३५॥ प्रतिभा भावागणेशीय-नागोजीभट्टीयवृत्ती। -- . - । एतासूपेक्षां कृत्वा समाधिरेवासंप्रज्ञातार्थ कार्य इति प्रतिपादयितुमाह- ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥ ३६॥ ते प्रातिभाद्याः समाधौ विनरूपा व्युत्थाने व्युस्थितचित्तानामेव सिद्धयः पुरुषार्थाः ॥ ३६॥ एतास्तूपेक्षणीया योगिन इलाह-ते समाधावुपसर्गा व्युत्थाने सिद्धयः। स्पष्टम् ॥ ३६॥ तदेवं ज्ञानादिरूपाः संयमसिद्धीः प्रदर्य क्रियारूपा अपि संयमसिद्धीराह सूत्रजातन- वन्धकारणशैथिल्यात्प्रचारसंवेदनाच चित्तस्य परशरीरावेशः ॥ ३७॥ चञ्चलस्वभावस्यापि मनसो धर्माधर्मवशादेव शरीरे बन्धो ज्ञानहेतुसंयोग- स्थैर्य भवति । तस्य बन्धकारणस्य कर्मण इत्यर्थः । शैथिल्यं दृढवन्धनाक्षमता- रूपतानवं तसाच्चित्तस्य प्रचारसंवेदनमनया नाडया एवंप्रकारेण चित्तं शरीरे प्रविशति निर्गच्छतीत्येवंरूपं योगजधर्माज्जायते । ततस्ताभ्यां योगिनां पर- शरीरावेशरूपा सिद्धिर्भवति । एवंच स्वशरीराल्लिङ्गशरीरं निस्सार्य परशरीरे प्रवेश्यत इत्यर्थः ॥ ३७॥ अथ क्रियारूपाः संयमसिद्धीराह-वन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः । चञ्चलस्वभावस्य मनसो धर्माधर्मवशाच्छरीरे वन्धो ज्ञानहेतुसंयोगस्थैर्य तत्कारणस्य कर्मणः शैथिल्यं दृढवन्धनाक्षमतारूपं तानवं तस्माचित्तस्य प्रचारसंवेदनमनया नाड्या एवंप्रकारेण चित्तं शरीरे प्रविशति इत्येवंरूपं योगजधर्माजायते । तस्साच योगी स्वशरीराञ्चित्तं निःसार्य परशरीरे प्रवेशयतीत्येषा परशरीरावेशरूपा सिद्धिरित्यर्थः । इन्द्रियाणि च चित्तमनुप्रविशन्ति यथा मधुकरराजं मक्षिकावरपतन्तमनूत्पतन्ति निविशमानं च निविशन्ति । एवं च लिङ्गदेहस्य परशरीरेऽनुप्रवेश इति फलितम् ॥ ३७ ॥ योगशास्त्रोक्तसंयमविशेपजस्योदानजयस्य सिद्धिमाह- उदानजयाजलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥ ३८॥ रसायुध्यनयनादूर्ध्वगतिप्रदत्वाञ्चोर्ध्वसंचारी प्राणस्यावान्तरभेद उदान उच्यते। संयमविशेषेण तस्य जयात्स्वायत्ततायां सत्यां जलादिपु संचरतोऽपि तेप्वसङ्गो विकारहेतुसंयोगशून्यता भवति । तथा अर्चिरादिमार्गेण ब्रह्मलोकगम- नाय ब्रह्मरन्ध्र मिरवा लिङ्गशरीरस्य वहिनिःसरणं च स्वेच्छया भवतीत्यर्थः॥३८॥ सिध्यन्तरमाह-उदानजयाजलपङ्ककण्टकादिवसङ्ग उत्क्रान्तिश्च । रसाधूलनयनादूर्ध्वगतिप्रदलाचोर्ध्वसंचारी प्राणावान्तरभेद उदानः संयमविशेषेण ८ पा० यो पातञ्जलयोगसूत्रम् । [विभूतिपादः ३ । तस्य जये स्वायत्ततायां जलादिपु संचरतोऽपि तेप्वसङ्गो विकारहेतुसंयोगशून्यता भवति । तथाचिरादिमार्गेण ब्रह्मलोकगमनाय ब्रह्मरन्ध्र भित्त्वा लिङ्गदेहस्य वहिनिः- सरणं खेच्छया भवतीत्यर्थः । तत्र प्राणो मुखनासिकागतिरा नासिकायादाहृदयमव- स्थितः । मूत्रपुरीषगर्भादीनामपसरणहेतुरपान आ नाभेरापादतलवृत्तिः । उदान- स्तूक्तलक्षण आ नासिकाग्रादाशिरोवृत्तिः । व्यापी व्यान इति ॥ ३८ ॥ समानजयात्प्रज्वलनम् ॥ ३९॥ समं सर्वनाडीपु रसानां संचारणात्समानः प्राणभेदस्तस्य संयमविशेपेण स्वाय- त्ततायां सत्यां तत्प्रज्वलितेन शरीराग्निना शरीरस्य प्रज्वलनं दाहो भवति सती- देहस्येवेत्यर्थः ॥ ३९ ॥ समानजयात्प्रज्वलनम् । प्रज्वलनं शारीरतेजस उत्तेजनेन शरीरस्य दहनं सतीदेहस्येव ॥ ३९ ॥ श्रोत्राकाशयोः संवन्धसंयमादिव्यं श्रोत्रम् ॥ ४०॥ श्रोत्रस्याहङ्कारिकत्वेऽप्याकाशसंसृष्टाहङ्कारकार्यतया श्रोत्राकाशयोराधारा- धेयभावः संबन्धोऽस्ति । तस्य संयमात्साक्षात्कारे सति दिव्यं श्रोत्रं जायते । येन व्यवहितविप्रकृष्टसूक्ष्मशब्दा ग्राह्या भवन्तीत्यर्थः । उपलक्षणं चैतत् । त्वग्वातयोश्चक्षुस्तेजसो रसनोदकयोोणपृथिव्योः संबन्धसंयमाद्दिव्यत्वगादी- त्यपि बोध्यम् ॥ ४० ॥ श्रोत्राकाशयोः संबन्धसंयमाद्दिव्यं श्रोत्रम् । आहंकारिकस्यापि श्रोत्रे- न्द्रियस्य कर्णशष्कुल्यवच्छिन्नं नभ आधारः । तदुपकारापकाराभ्यां श्रोत्रस्य तद्द- र्शनात् । एवमाहंकारिकाणामेव घ्राणरसनलक्चक्षुपां पृथ्वीजलवायुतेजांसि भूतान्य- धिष्ठानानि । एवं तत्तद्राह्यगुणाधिष्ठानानि च तानि द्रव्याणि । यथा शब्दानामा- काशं गन्धस्य पृथ्वी रसस्य जलं स्पर्शस्य वायुः रूपस्य तेज इति । खाश्रयवृत्तित- गुणसामानाधिकरण्यादेव तत्तद्गुणसहकारेण बाह्यपृथिव्यादिशब्दग्रहणरूपकार्य कु- वैन्ति । तत्राहंकारिक श्रोत्रमयस्तुल्यमयस्कान्तमणितुल्येन वक्तृवक्रसमुत्पत्तिमता वक्रस्थेन शब्देनाकृष्टं खवृत्तिपरंपरया वक्तृवक्रमागतं शब्दं गृह्णाति । अतएव तत्त- दिग्देशवर्तित्वेन शब्दप्रतीतिः सर्वानुभवसिद्धोपपन्ना । एवं श्रोत्राधिष्ठानत्वं शब्दगु- णत्वं चाकाशलक्षणम् । एवमनावरणमपि तल्लक्षणम् । अन्यथा मूर्तेरन्योन्यसंपीडितैः सर्वैः सर्वमावृतं स्यात् । नच मूर्तद्रव्याभावादेवानावरणं, अभावस्यानङ्गीकारात् तस्यापि भावाश्रितत्वाच्च । नापि पुरुषकृतं तत् । तस्यापरिणामितयावच्छेदकला- भावात् । तस्माच्छब्दतन्मात्रस्य परिणामविशेपो नभ अनावरणकृत् । दिगपि तत्त- दुपाधिविशिष्टं नभ एव । अनावरणस्य सर्वत्र दर्शनान्नभसो विभुत्वम् । तादृशस्य। श्रोत्राकाशयोः संवन्धस्य संयमात्साक्षात्कारे सति तस्य व्यवहितविप्रकृष्टसूक्ष्म- शब्दग्रहणयोग्यतारूपं दिव्यत्वं भवतीत्यर्थः । उपलक्षणं चैतत् त्वग्वातयोश्चक्षुस्ते- जसो रसनजलयोर्घाणपृथ्व्योः संवन्धसंयमाद्दिव्यं त्वगादीत्यपि वोध्यम् ॥ ४० ॥ ..

७७ भावागणेशीय-नागोजीभट्टीयवृत्ती । कायाकाशयोः संवन्धसंयमाल्लघुतूलसमा- पत्तेश्चाकाशगमनम् ॥ ४१ ॥ यत्र कायस्तत्राकाशमिति व्याप्तिरूपसंवन्धोऽस्ति । अवकाशं विना शरीराव- स्थानासंभवात्। तस्मिन् संबन्धे संयमात्साक्षात्कारपर्यन्तादाकाशगमनं संभवति। लघुतूलादिपु समापत्तेः संयमजलघुत्वसाक्षात्कारादपि भवतीत्यर्थः ॥ ४ ॥ कायाकाशयोः संवन्धसंयमाल्लघुतूलसमापत्तेश्चाकाशगमनम् । यत्र कायस्तत्राकाशमिति व्याप्तिरूपः संवन्धोऽस्ति अवकाशं विना शरीरावस्थाना- संभवात् । तत्र संवन्धे पूर्णसंयमस्याकाशगमनं भवति । किंच लघुतूलादिपु परमा- णुपर्यन्तेपु संयमजयालघुत्वसाक्षात्कारे वा तत् । जलादौ पन्यां विहरणमूर्णना- भितन्तुमात्रे विहारादिकं त्वार्थम् ॥ ४१ ॥ वहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रका- शावरणक्षयः ॥ ४२ ॥ योगशास्त्रोक्तसंयमविशेपाद्वक्ष्यमाणाद्वहिरकल्पिता वृत्तिर्महाविदेहाख्या सिद्धिर्भवति । ततश्च प्रकाशावरणस्य बुद्धिसत्वावरकस्य रजस्तमआदेः क्षयो भवति । तेषां क्षये च निरावरणं योगिनश्चित्तं स्वेच्छया विहरति जानाति चेत्यर्थः । शरीरप्रतिष्ठस्यैव मनसो बहिर्व्यवहितेपु वृत्तिः कल्पितेत्युच्यते । यातु शरीरनैरपेक्ष्येण तत्त्यागेन बहिर्वृत्तिः सा खल्वकल्पिता महाविदेहोच्यते इति ॥ ४२ ॥ वहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः। योग- शास्त्रोक्तसंयमविशेषाद्वक्ष्यमाणाद्वहिरकल्पिता वृत्तिर्महाविदेहाख्या सिद्धिस्तस्यां सत्यां प्रकाशावरणस्य वुद्धिसखावरकस्य रजस्तमआदेः क्षयो भवति तत्क्षये च निरावरणं योगिचित्तं खेच्छया विहरति जानाति चेत्यर्थः । शरीरप्रतिष्ठस्यैव मनसो वहिर्व्यवहितादिपु वृत्तिः कल्पिता । या शरीरनैरपेक्ष्येण वहिर्व्यवहितादिपु वृत्तिः साऽकल्पिता महाविदेहेत्युच्यते । पूर्वया चोत्तरा साधनीया । तया च रजस्तमो- मूलकसर्वक्लेशकर्मविपाकक्षयः परशरीरावेशश्च सिध्यति ॥ ४२ ॥ तदेवं परिणामत्रयसंयमादित्यारभ्योच्चावचविपयसंयमानां ज्ञानकर्मरूपाः सिद्धयस्तत्तत्कामेभ्य उपदिष्टाः । इदानी वितर्कविचारेत्यादिसूत्रैश्च शास्त्रे मुख्यतः प्रकृतेपु ग्रहीतृग्रहणग्राह्येपु ये संयमास्तेपां सिद्धयो वक्तव्याः । तत्र ग्रहीतृग्रहण- यो ह्यनिरूप्यत्वादादौ ग्राह्यसंयमस्य सिद्धिमाह- स्थूलखरूपसूक्ष्मान्वयार्थवत्त्वसंय- माद्भूतजयः ॥४३॥ स्थूलं च स्वरूपं च सूक्ष्मं चान्वयश्चार्थवत्त्वं च स्थूलस्वरूपसूक्ष्मान्वयार्थव- स्वानि पञ्च भूतानुगतत्वाद्भूतानां रूपाणीत्युच्यन्ते । तेषु संयमात्साक्षात्कारपर्य- ७८ पातञ्जलयोगसूत्रम् । [विभूतिपादः ३ न्तात्तत्तद्रूपैर्भूतानां जयो वशीकारः स्वेच्छानुविधायित्वं योगिनो भवतीत्यर्थः । तत्प्रत्यक्षेऽपि शब्दादिभिराकारादिभिश्च विशिष्टोऽवयवी स्थूलशब्देनोच्यते । आकारादयश्च धर्माः पृथिव्यादिक्रमेण शास्त्रे परिपठिताः । यथा “आकारो गौरवं रौक्ष्यं वरणं स्थैर्य मेव च । वृत्तिभैदः क्षमा कार्य काठिन्यं सर्वभोग्यता । स्नेहः सौम्यं प्रभा शौक्ल्यं मार्दवं गौरवं च यत् । शैत्यं रक्षा पवित्रत्वं संधानं चौदका गुणाः । ऊर्बभाक्पाचकं दग्ट पावकं लघु भास्वरम् । प्रध्वस्यो- जस्वि वै तेजः पूर्वाभ्यां भिन्नलक्षणम् । तिर्यग्यानं पवित्रत्वमाक्षेपो नोदनं बलम् । चलमच्छायता (रौक्ष्यं ) वायोर्धर्माः पृथग्विधाः । सर्वतोगतिरव्यूहोऽविष्ट- म्भश्चेति ते त्रयः । आकाशधर्मा व्याख्याताः पूर्वपूर्वविलक्षणाः" इति । आका- रोऽवयवसंस्थानं । वृत्तिः सर्वभूताधारता ! भेदो विदारणम् । क्षमा सहिष्णुता । धारणसामर्थ्यमिति यावत् । रक्षा आवरणादिना रक्षकत्वम् । आक्षेपः पात- नम् । अच्छायता छायाशून्यत्वम् । सर्वतोगतिः व्यापकःवम् । अव्यूहः सर्वप- दार्थानां प्रविरलीकरणम् । अविष्टम्भोऽवकाश इति भूतानां स्थूलरूपं व्याख्या- तम् । स्वरूपाख्यं रूपं तु पृथिवीत्वजलत्वादिसामान्यपञ्चकम् । तन्मात्राणि सूक्ष्मरूपम् । प्रकृत्याख्यं गुणत्रयं वान्वयाख्यं रूपं सर्वकार्येष्वनुगतत्वात् । अर्थवत्त्वं च भूतगतं सुखदुःखादिपुरुषार्थजातमिति ॥ ४३ ॥ अथ ग्राह्यसंयमजां सिद्धिमाह-स्थूलस्वरूपसूक्ष्मान्वयार्थवत्वसंयमा- द्भूतजयः । स्थूलं च स्वरूपं च सूक्ष्मं चान्वयश्चार्थवत्त्वं चेति पञ्च भूतानुगतत्वात भूतानां रूपाणीत्युच्यन्ते तेषु संयमात्साक्षात्कारपर्यन्तात् तत्तद्रूपैर्भूतानां जयो वशीकारः खेच्छानुविधायित्वं योगिनो भवतीत्यर्थः । तत्र शब्दादिमिराकारादि- मिश्च धमैर्विशिष्टोऽवयवी स्थूलशब्देनोच्यते । षड्जगान्धारादयः शब्दाः शीतो- ष्णादयः स्पर्शाः नीलपीतादयो रूपाणि कषायमधुरादयो रसाः सुरभ्यादयो गन्धाः । एते हि नामरूपकायेंः परस्परस्माद्भिद्यन्त इति विशेषाः । ते पञ्चापि पृथिव्यां गन्धवर्ज च चत्वारो जले गन्धरसवर्ज त्रयस्तेजसि गन्धरसरूपवर्ज द्वौ वायौ शब्द एक आकाशे । आकारादयश्च भूम्यादिक्रमेण पठिताः शास्त्रे । “आकारो गौरवं रौक्ष्यं वरणं स्थैर्यमेव च । वृत्तिर्भेदः क्षमा कार्य काठिन्यं सर्वभोग्यता ॥" आकारोऽवयवसंस्थानविशेषः, वृत्तिः सर्वभूताधारता, भेदो विदारणम् , क्षमा धारण- सामर्थ्यम् । "स्नेहः सौक्ष्म्यं प्रभा शौक्ल्यं मार्दवं गौरवं च यत् । शैत्यं रक्षा पवित्रत्वं संधानं चौदका गुणाः ॥" रक्षा आवरणादिना रक्षकत्वम् । “ऊर्ध्वभाक् पाचकं दग्धू पावकं लघु भाखरम् । प्रध्वंस्योजस्वि वै तेजः पूर्वाभ्यां भिन्नलक्षणम् ॥ तिर्यग्यानं पवित्रलमाक्षेपो नोदनं वलम् । चलमच्छायता रोक्ष्यं वायोर्धर्माः पृथग्विधाः ॥" आक्षेपः पातनं, छायाशून्यसमच्छायता । “सर्वतोगतिरव्यूहोऽविष्टंभश्चेति ते त्रयः । आकाशधर्मा व्याख्याताः पूर्वपूर्वविलक्षणाः ॥” सर्वतोगतिः व्यापकत्वम् , अव्यूहः सर्वपदार्थानां प्रविरलीकरणम् । अविष्टम्भोऽवकाशः । एतत्स्थूलरूपं भूतानाम् । खरूपाख्यं रूपं तु सांसिद्धिककाठिन्यसमानाधिकरणं भूमित्वम् । स्नेहसमानाधिकरणं जलत्वम् । उष्णतासमानाधिकरणं तेजस्त्वम् । वहन क्रियासमानाधिकरणं वायु- भावागणेशीय-नागोजीभट्टीयवृत्ती । खम् । व्यापकत्वसमानाधिकरणं शब्दवत्त्वमेवंरूपम् । समानाधिकरणधर्मा एव भूमिलादय इत्यन्ये । धर्मधर्मिणोरमेदविवक्षायां तु स्नेहो जलमिति भाष्ये प्रयु- तम् । नन्वेतेऽपि भूतधर्मा एवेति कथमेते खरूपमिति चेत् । एतत्समु- दायरूपं द्रव्यं स्वरूपमिति गृहाण । तथाहि सामान्यविशेपसमुदायो द्रव्यम् । 'नच तदाश्रयो द्रव्यं नतु त एव समुदिता इति वाच्यम् । तदाश्रयद्रव्यवादिनापि तत्समुदायस्यावश्यमङ्गीकार्यवात् । अन्यथा तदाधारतेंव तत्र न स्यात् एवंचाव- श्यकलात्स एव द्रव्यमस्तु । न चैवं वनादेरपि द्रव्यत्वापत्तिः । अयुतसिद्धावयववि- शेषानुगतसमुदायस्यैव द्रव्यलात् सच वृक्षः शरीरं परमाणुरियादि । अयुतसिद्धा अपृथसिद्धा निरन्तरा इत्यर्थः । वनादिरूपसमूहस्तु युतसिद्धावयवः पृथसिद्धाः सान्तरा अवयवा यस्य तादृशः। स द्विविधः। मेदेन विवक्षितोऽमेदेन विवक्षितश्च । यथा आम्राणां वनं ब्राह्मणानां संघः पटस्य शुक्ल इति च चैत्रस्य हस्त इति च । अभेदानुगतो यथा । आम्रा वनं ब्राह्मणाः संघः पटः शुक्ल इति च तन्तवः पटा इति च । स पुनर्द्विविधः । प्रत्यस्तमितभेदावयवानुगतो यथा-शरीरं वृक्षो यूथं वन- मिति । कश्चिच्छब्दोपात्तमेदावयवानुगतः । यथा-उभये देवमनुष्याः । समूहस्यैको भागो देवा द्वितीयो भागो मनुप्यास्ताभ्यामेवामिधीयते समूहः । गुरुवमपि प्रत्येकावयवगतगुरुवानां समूह एव प्रतीयत इति न तदाश्रयतयापि अतिरिकद्र- व्यसिद्धिः । दशसु पापाणेपु प्रत्येकापेक्षयाधिकगुरुत्वप्रतीतिवत् । तदुक्तम् 'अयुत- सिद्धावयवविशेषानुगतः समूहो द्रव्यमिति पतञ्जलिः । एतत्स्वरूपमुच्यते' इति भाष्ये । सूक्ष्म रूपं तन्मात्राणि । एपामेकः परमाणुरूप एव परिणामः । परमाणुरपि शब्दादिविशेपात्मायुतसिद्धावयवविशेपानुगतः । परमाणुवदेव ततोऽपि वा सूक्ष्माणि तन्मात्राणि । प्रकृयाख्यगुणत्रयं चान्वयाख्यं रूपं सर्वकार्यानुगतत्वात् । अर्थवत्त्वं तु भूतगतं सुखदुःखादि पुरुषार्थजातं सर्वत्र गुणान्वयात् गुणानां चैवखभावात् । तजये सति वत्सानुसारिण्य इव गावोऽस्य संकल्पानुविधायिन्यो भूतप्रकृतयो भवन्तीति दिक् ॥ ४३ ॥ भूतजयस्य फलमाह- ततोऽणिमादिप्रादुर्भावः कायसंपत्त- धर्मानभिघातश्च ॥४४॥ ततो भूतजयादणिमादिप्रादुर्भावादिरूपं सिन्दित्रयं भवतीत्यर्थः । तत्राणि- माद्यष्टसिद्धयः मर्यन्ते । 'अणिमा महिमा मूर्तेर्लघिमा प्राप्तिरिन्द्रियैः । प्राकाम्यं श्रुतदृष्टेषु शक्तिः प्रेरणमीशिता । गुणेप्वसङ्गो वशिता यत्कामस्तदवस्यतीति' । मूर्तेः शरीरस्य अणिमा अणुत्वम् । महिमा योजनादिव्याप्तित्वम् । लधिमा तूला- दिवल्लघुत्वम् । भूमिष्ट एवाङ्गुल्यग्रेण चन्द्रमसं स्पृशतीत्यादि सामर्थ्यमिन्द्रियैः प्राप्तिरित्युच्यते । श्रुतदृष्टेषु प्राकाम्यमिच्छानभिघातः, यथा भूमौ जलेप्विव निमजतीत्यादि । ईशिता तु भूतभौतिकानां सर्वेषां शरीरवत्संकल्पमात्रेण प्रेर- णम् । वशिता च गुणानां भूतभौतिकानां वश्यत्वम् । सत्यसंकल्पत्वं तु यस्का- - ८० पातञ्जलयोगसूत्रम् । [विभूतिपादः ३ मस्तदवस्यतीत्यनेनोक्तम् । अवस्यति प्राप्नोतीत्यर्थः । अत्र च सूत्रे प्राकाम्यं विहाय सप्तैव सिद्धयोऽणिमादीत्यनेन गृहीताः। प्राकाम्यं तु तद्धर्मानभिवातश- ब्देन गृहीतमिति विशेपः ॥ ४४ ॥ भूतानां संकल्पानुविधायकत्वे सति या सिद्धयस्ता आह-ततोऽणिमादि- प्रादुर्भावः कायसंपत्तद्धर्मानभिघातश्च । ततो भूतजयादणिमादिप्रादुर्भा- वादिरूपं सिद्धित्रयं भवतीत्यर्थः । अणिमा शरीरस्याणुत्वम् । महिमा योजनादिव्या- पित्वम् । गरिमा गुरुत्वम् । लघिमा तूलादिवल्लघुत्वम् । प्राप्तिः भूमिष्ठ एवाङ्गुष्ठाग्रेण चन्द्रं स्पृशतीत्यादिरूपमिन्द्रियाणां सामर्थ्यम् । प्राकाम्यं श्रुतदृष्टेष्विच्छानमिघातः यथा भूमौ जलेप्विव निमज़तीत्यादि । ईशित्वं सर्वेषां भूतभौतिकानां शरीरवत्सं- कल्पमात्रेण प्रेरणम् । वशित्वं भूतभौतिकानां गुणानां वश्यत्वम् । सत्यसंकल्पता च । यथा विषमप्यमृतत्वेन संकल्प्य भोजयजीवयतीत्यष्टावणिमादयः । सत्यसंक- ल्पोऽपि चन्द्रमसमादित्यं न करोति ईश्वरेच्छानुविधानात् ईश्वरसंकल्पविरुद्धसंक- ल्याकरणात् । तथासति तत्प्रद्वेषेण सिद्धितश्च्यवेरन । सूत्रेऽणिमादिपदेन प्राकाम्या. तिरिक्तानां ग्रहणम् । तस्य तद्धर्मानभिघातपदेन ग्रहणात् । यथा विरोधकृताभि- घाताभावः । यथा शिलामप्यनुप्रविशति जलं न क्लेदयति तं नाग्निदहति न वायुश्चालयति, अनावरणेऽप्याकाशे आवृतशरीरो भवति, सिद्धानामप्यदृश्यो भवति ॥ ४४ ॥ प्रसिद्धत्वात्सिद्विद्वयं व्याख्याय संपदं स्वयं विवृणोति- रूपलावण्य(बल)वज्रसंहननत्वानि कायसंपत् ॥ ४५॥ वज्रवदृढः संघातो यस्येति वज्रसंहननः । शेपं स्पष्टम् ॥ ४५ ॥ कायसंपदमाह-रूपलावण्यवलवज्रसंहननत्वानि कायसंपत् । वज्र- वट्टढावयवसंघातः ॥४५॥ ग्राह्यसंयमस्य सिद्धय उक्ताः । ग्रहणसंयमस्य सिद्धीराह द्वाभ्याम् । ग्रहणखरूपास्मितान्वयार्थवत्त्वसंयमा- दिन्द्रियजयः॥४६॥ ग्रहणादिपञ्चसु इन्द्रियरूपेषु संयमात्साक्षात्कारपर्यन्ताद्रूपैरिन्द्रियाणि जि- तानि भवन्तीत्यर्थः । ग्रहणं निश्चयाभिमानसंकल्पदर्शनश्रवणाद्या वृत्तयः । स्वरूपं तु एकादशेन्द्रियाणि । अस्मिता च तदुपलक्षितौ बुझ्यहङ्कारौ । अन्वयार्थवत्त्वे च भूतजयसूत्रे व्याख्याते । अस्मितादीनां चेन्द्रियरूपवत्त्वमिन्द्रियकारणतया तद- नुगमादिति ॥ ४६॥ ग्रहणसंयमसिद्धिमाह-ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रि- यजयः । ग्रहणं निश्चयामिमानसंकल्पदर्शनश्रवणाद्या वृत्तयः । स्वरूपमेकादशेन्द्रि- 7 भावागणेशीय-नागोजीभट्टीयवृत्ती । ८१ । याणि । अस्मितापदेनान तदुपलक्षितौ बुध्यहंकारौ । अन्वयार्थवत्त्वे च भूतजयसूत्रे व्याख्याते । एषु पञ्चसु संयमदाात्तत्तद्रूपेन्द्रियजय इत्यर्थः । अस्मितादीनामि- न्द्रियत्वं चेन्द्रियकारणतया तत्कार्यतया च तदनुगमात् ॥ ४६ ॥ इन्द्रियजयात्सिद्धीराह- ततो मनोजवित्वं विकरणभावः प्रधा- नजयश्च ॥४७॥ मनोजवित्वं मनोवच्छीव्रतरा देहगतिः । विकरणभाव इन्द्रियाणां विकी- र्णता । स्थूलदेहनैरपेक्ष्येण सर्वत्र वृत्तिलाभ इति यावत् । प्रधानजयश्च प्रकृतेः स्वेच्छया परिणामनम् । एतास्तिस्त्र इन्द्रियजयाजवन्तीत्यर्थः । एताश्च सिद्धयो मधुप्रतीका इति मधुमत्य इति चोच्यन्ते ॥ ४७ ॥ इन्द्रियजयासिद्धीराह-मनोजवित्वं विकरणभावः प्रधानजयश्च । मनोजवित्वं मनोवच्छीघ्रतरा देहगतिः विकरणभावः विकीर्णतेन्द्रियाणां स्थूलदेह- नैरपेक्ष्येण सर्वत्र वृत्तिलाभ इति यावत् । प्रधानजयः प्रकृतेः स्वेच्छया परिणामन- मेतास्तिस्रः सिद्धय इन्द्रियजयावन्तीत्यर्थः । एता एव मधुप्रतीका इति मधुमत्य इति चोच्यन्ते ॥ ४७ ॥ ग्राह्यग्रहणयोः सिद्विरुक्ता । ग्रहीतृग्रहणसंयमस्य सिद्धिमाह द्वाभ्याम्- सत्वपुरुषान्यताख्यातिमात्रस्य सर्वभा- वाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥४८॥ मात्रशब्देन संयमरूपता ख्यातेर्लभ्यते । तथाच सत्वपुरुपान्यतासंयमस्य साक्षात्कारपर्यन्तस्य सर्वेत्यादिसिद्धिद्वयं फलमिति शेषः । सत्त्वपुरुपान्यता च बुद्धिपुरुपयोर्विवेकः । सर्वभावाधिष्ठातृत्वं प्रकृतिपुरुपविकाराणां स्वेच्छया प्रेरयितृत्वं सर्वज्ञातृत्वं च विशिष्य सर्वार्थसाक्षात्करणम् । इदं च सिद्धिद्वर्य विशोकेत्युच्यते ॥ १८॥ अथ ग्रहीतृसंयमसिद्धिमाह-सत्वपुरुपान्यताख्यातिमात्रस्य सर्वभा- वाधिष्ठातृत्वं सर्वज्ञातृत्वं च । तन्मात्रस्य तन्मात्रप्रतिष्ठस्य संयमस्य तत्सा- क्षात्कारपर्यन्तस्य फलद्वयमित्यर्थः । सर्वभावाधिष्ठातृत्वमीश्वरवत् प्रकृतिपुरुषविका- राणां खेच्छया प्रेरयितृत्वं सर्वज्ञातृत्वं च विशिष्य सर्वार्थसाक्षात्करणं च । इदं सिद्धिद्वयं विशोकेत्युच्यते ॥ ४८ ॥ सर्वसिद्धिमूर्धन्यं विवेकसंयमस्य परवैराग्यद्वारकं मोक्षाख्यं सिद्ध्यन्तरमाह- तद्वैराग्यादपि दोषवीजक्षये कैवल्यम् ॥४९॥ अपिशब्दः कैवल्यमित्यन्तेनान्वेति । तथाच । विवेकख्यातिनिष्टात एव विवे- कख्याती तसिद्धौ च वैराग्ये सति असंप्रज्ञातयोगनिष्पत्त्या दुःखदोपस्य वीजा- नामखिलवासनाकर्मणामुच्छेदे पुरुपस्य (कैवल्यम्) आत्यन्तिकः प्रकृतिवि- ८२ पातंजलयोगसूत्रम् । [विभूतिपादः ३ योगो भवतीत्यर्थः । यस्य चासंग्रजातानिप्पत्त्या प्रारब्धं कर्म नोच्छिद्यते तस्यापि प्रारब्धसमायनन्तरमुत्पद्यमानमोक्ष एव यथोक्तसंयमसिद्धिरिति ॥ ४९ ॥ विवेकसाक्षात्कारस्यैव परवैराग्यद्वारा मोक्षाख्यां मुख्यसिद्धिमाह-तद्वैरा- ग्यादपि दोपवीजक्षये कैवल्यम् । अपिशब्दः कैवल्यमित्यनेनान्वेति । एवं च विवेकख्यातिनिष्टात एव विवेकख्यातितः क्लेशकर्मरूपाणां संसारबीजानाम- खिलवासनानामात्मज्ञानेन निःशेषतः क्षये दग्धवीजकल्पत्वे सति तत्रापि वैरा- ग्यात् पुरुषस्य कैवल्यमाल्यन्तिकः प्रकृतिवियोग इत्यर्थः । यस्याप्यसंप्रज्ञातानि- प्पत्त्या प्रारब्धकर्म नोच्छिद्यते तस्यापि प्रारब्धभोगानन्तरमुत्पद्यमानमोक्ष एव संयमसिद्धिरिति वोध्यम् ॥ ४९ ॥ उक्तस्यात्मसंयमिनः कैवल्याख्यसिद्ध्यर्थं न केवलं सर्वज्ञादिसिद्विपु वैराग्य- मेवापेक्ष्यते, अपित्वन्यदपीत्याह- स्थान्युपनिमन्त्रणे संगस्सयाकरणं पुनर- निष्टप्रसङ्गात् ॥५०॥ स्थानिनः स्वर्गादिलोकाधिकारिणो देवा इन्द्रादयस्तेपां स्वर्गादिलोकनय- नाय योगिनो निमन्त्रणे सति तत्र संगस्मययोरकरणं कैवल्योपायः । अन्यथा- संगमयाभ्यां पुनःसंसारहेतुत्वमिति ॥ ५० ॥ एवं च सार्वयादिरागोऽपि कैवल्यसियन्तराय इति दर्शितं तदेवाह-स्थान्यु- 4 पनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् । स्थानिनः स्वर्गादिलोका- धिकारिण इन्द्रादयः तेषां खर्गादिलोकनयनाय तत्रलभोगाय च निमन्त्रणे सति तत्र संङ्गस्मययोरकरणं कैवल्योपायः । अन्यथा सङ्गेन तथैव स्मयेन पुनः संसार- रूपानिष्टप्रसङ्ग इत्यर्थः ॥ ५० ॥ सर्वज्ञेऽपि वैराग्यान्मोक्ष इत्युक्तम् । यदि च तत्र रागो न गच्छति वासना- प्रावल्यादिदोपात्तद्रागनिवृत्तये पूर्ववत्सर्वज्ञतासाधकं संयमान्तरमप्याह- क्षणतत्कमयोः संयमाद्विवेकजं ज्ञानम् ॥५१॥ पूर्वोक्तात्सत्वपुरुपान्यताप्रत्ययरूपाद्विवेकाज्जायमानं सर्वशं विवेकजं ज्ञानं सर्व- वस्तूनामशेप विशेपैर्विविच्य साक्षात्करणमिति यावत् । क्षणतत्क्रमयोः संयमादपि साक्षात्कारपर्यन्ताद्भवतीत्यर्थः । प्रतिक्षणं सर्वं वस्तु परिणमते । अतः क्षणेपु तत्तत्क्रमेपु संयमेन साक्षात्कृतेषु सत्सु सर्ववस्तूनां परिणामतत्तत्कमयोरपि ज्ञानात्सर्ववस्तूनां विवेकजज्ञानं भवतीत्याशयः ॥ ५१ ॥ विवेकजज्ञाने उपायान्तरमाह-क्षणतत्कमयोः संयमाद्विवेकजं ज्ञानम् । सर्वतोऽपकृष्टः कालः क्षणः । पूर्वापरभागविकलकालकलेति यावत् । परमाणुश्चलितो यावता समयेन स्वपरिमितं देशमतिक्रामति स समयः। तत्प्रवाहाविच्छेदस्तु क्रमः । यत्तु पूर्वस्मादुत्तरस्य भाविनो यदानन्तर्य स क्रम इति, तत्रानन्तर्यमनन्तर इति १ सङ्गः प्रीतिः । मयः देवानां प्रार्थनेनात्मनि कृतार्थताभिमानः । - भावागणेशीय-नागोजीभट्टीयवृत्ती। ८३ - घुद्धिविपयत्वमेव । नत्वानन्तर्यमेव वाह्यं किंचिद्वस्तु तत्रास्ति । अतोऽयं विक- ल्पात्मा व्यवहारः । एवं क्षणसमाहारो मुहूर्ताहोरात्रादय इत्यप्येवमेव । अयुग- पद्भावित्वात् क्षणानां समाहारस्य वास्तवस्यासंभवात् । किंतु बुद्धिमानविपयः समाहारः । तदुक्तं भाष्ये 'वुद्धिसमाहारो मुहूर्ताहोरात्रादयः । स खल्वयं कालो वस्तुशून्योऽपि बुद्धिनिर्माणः शाब्दज्ञानानुपाती लौकिकानां वस्तुभूत इवावभासते। क्षणस्तु वस्तुपतितः' इति । नच क्षणोप्युत्तरसंयोगावच्छिन्ना क्रियास्तु त्रयाणामपि स्थिरत्वेन क्षणव्यवहारानालम्बनत्वात् । यदि विशिष्टमतिरिक्तमित्युच्यते तर्हि सिद्धं क्षणेनातिरिक्तेन । तयोः क्षणतत्कमयोः साक्षात्कारपर्यन्तात्संयमाद्विवेकजं ज्ञानम् । सर्ववस्तूनामशेपविशेपैर्विविच्य साक्षात्करणरूपं सार्वज्यं भवतीत्यर्थः । प्रतिक्षणं हि सर्व वस्तु परिणमतेऽतः क्षणतत्कमयोः साक्षात्कारः सर्ववस्तूनां सर्वपरिणामतत्तत्क- मयोरपि ज्ञानात्सर्वतो विवेकेन पुरुपप्रत्ययो भवतीत्याशयः ॥ ५१ ॥ विवेकजज्ञानस्यैकमुदाहरणमाह- जातिलक्षणदेशैरन्यतानवच्छेदात्तुल्ययो- स्ततः प्रतिपत्तिः ॥५२॥ तुल्ययोस्तुल्यजातिलक्षणदेशयोर्वस्तुनोर्जात्यादिमिरन्यतानवच्छेदा दावधार- णासंभवात् ततः क्षणतत्क्रमसंयमादेव प्रतिपत्तिर्भेदसाक्षात्कारो भवतीत्यर्थः । भेदो हि कचिजात्या गृह्यते । यथा गोमहिपयोः । कचिच लक्षणैरवस्थादिमि- यथा वालवृद्धयोः । क्वचिद्देशेन । यथा पूर्वोत्तरस्थितवस्तुनोः । यदा तु पूर्वदेश स्थितमामलकं विषयान्तरासक्तस्य योगिन उत्तरदेशे केनाप्यानीयते उत्तरदे- शस्थं च समानमामलकान्तरं पूर्वदेशे नीयते तदा तयोरामलकयोः सजातीय- त्वात्सलक्षणत्वात्कालभेदेन समानदेशत्वाञ्च जात्यादित्रयेण भेदग्रहो न संभ- वति। पूर्वमिदं मत्पूर्वदेशस्थमामलकमिदं चोत्तरदेशस्थमित्येवंरूपम् । अत आम- लकयोस्तत्तद्देशसंबन्धक्षणानां संयमेन साक्षात्करणात्त देनैवामलकयोर्भेदसि- विरिति । एतच्च क्षणसंयमाद्विवेकप्रतिपत्तेरुदाहरणम् । क्षणक्रमसंयमा- द्विवेकप्रतिपत्तेस्तु यथा त्रिक्षणमात्रेण ज्येष्टकनिष्टयोज्येप्टकनिष्टताविवेक- ज्ञानं क्षणक्रमसाक्षात्कारं विना न भवतीत्यतः क्षणक्रमसंयमस्तन कारण- मिति ॥ ५२ ॥ तादृशज्ञानस्यैकमुदाहरणमाह--जातिलक्षणदेशैरन्यतानवच्छेदात्तुल्य- योस्ततः प्रतिपत्तिः । तुल्ययोः तुल्यजातिलक्षणदेशयोः वस्तुनोर्जात्यादिभि- रन्यताया भेदस्यानवच्छेदादवधारणासंभवात् क्षणतत्क्रमसंयमादेव प्रतिपत्तिर्भेद- साक्षात्कारो भवतीत्यर्थः । मेदो हि क्वचिज्जात्या गृह्यते, यथा गोमहिपयोः । कचिच लक्षणैरवस्थादिमिः यथा वालवृद्धयोः यथा वा कालाक्षरक्ताक्षयोः । क्वचिद्देशेन, यथा पूर्वोत्तरस्थितामलकयोः । यदातु पूर्वमामलकं विषयान्तरासक्तस्य योगिन उत्तरदेशे केनचिन्नीयते उत्तरदेशस्थं च पूर्वदेशे तदा तयोः साजात्यात्सलक्षणत्वा- - पातञ्जलयोगसूत्रम् । [विभूतिपादः ३ कालभेदेन समानदेशत्वाच जात्यादिनयेण भेदग्रहो न संभवति । पूर्व मत्पूर्वदे- शस्थमामलकमिदमिदं चोत्तरदेशस्थमित्येवंरूपः । अत आमलकयोस्तद्देशसंवन्धक्ष- णानां संयमेन साक्षात्करणात् तद्भेदेनैवोक्तभेदग्रहसिद्धिरामलकयोः, एवं परमाणू- नामपि तत्तद्देशसंवन्धक्षणसाक्षात्कारेणैव परस्परं भेदज्ञानम् । इदमुपलक्षणम् । क्वचिद्यवधिरपि भेदकारणम्, यथा कुशपुष्करद्वीपयोः । क्वचित्संस्थानं, यथा विशुद्धावयवकुत्सितावयवयोः । मुक्तात्मनामपि भूतचरमदेहसंवन्धेन योगिनो भेदं पश्यन्ति । एतेन नित्यद्रव्यवृत्तयोऽनन्ता विशेपास्तेषां परस्परं भेदका इत्यपा- स्तम् । तेपां परस्परं भेदकस्यान्वेषणेऽनवस्थापत्तेः । स्वत एव भेदे नित्यद्रव्याणा- मेव स्वतः सोऽस्तु किं तेन । भेदकस्योपपादितत्वाच्च । प्रधानस्योक्तभेदकाभावान पृथक्त्वमिति वार्षगण्यः । एतत्क्षणसंयमाद्विवेकप्रतिपत्तेरुदाहरणम् । तत्क्रमसंयमा- द्विवेकप्रतिपत्तेस्तु यथा, द्विवक्षणमात्रेण ज्येष्ठकनिष्ठयोज्येष्ठकनिष्ठताविवेकज्ञानं क्षणक्रमसाक्षात्कारं विना नेति क्षणक्रमसंयमस्तत्र कारणमिति दिक् ॥ ५२ ॥ विवेकजज्ञानस्यैकमुदाहरणं प्रदर्शितम् । इदानीं सहेतुकं विवेकजज्ञानस्य मोक्षोपयोगमाह-- तारकं सर्वविषयं सर्वथाविषयक्रमं चेति विवेकजं ज्ञानम् ॥ ५३ ।। इतिशब्दो हेत्वर्थे । यतो विवेकजं ज्ञानं सर्वविषयादिरूपम् , अतः सर्वत्र - वैराग्येण दोषदर्शनादिना च द्वारेण संसारतारकं भवतीत्यर्थः । सर्वेत्यादि विशे- पणत्रयस्य सर्ववस्तूनामशेषविशेपत एकदा विपयत्वमित्यर्थः । विवेकजज्ञानस्येदं लक्षणमभिप्रेतम् । तेन सत्त्वपुरुषान्यताख्यातिजन्यसर्वज्ञताया अपि संग्रहात्त- संयमसूत्रे सापि विवेकजज्ञानशब्देन भाष्यकारैरक्तेति ॥ ५३ ॥ इदानीं सहेतुकविवेकजज्ञानस्य मोक्षोपयोगमाह-तारकं सर्व विषयं सर्व- थाविषयक्रमं चेति विवेकजं ज्ञानम् । इतिर्हेतौ । यतो विवेकजं ज्ञानं सर्वविष- यादिरूपमतः सर्वत्र दोपदर्शनमूलकवैराग्यद्वारा संसारतारकं भवतीत्यर्थः । सर्वेत्या- दिविशेषणत्रयस्य सर्ववस्तूनां सर्वथाशेषविशेषतः अक्रममेकक्षणोपारूढं सर्वमेकदा विषय इत्यर्थः । विवेकजज्ञानस्येदं लक्षणमप्यभिप्रेतम् ॥ ५३ ॥ तदेवमतिविस्तरेण संयमसिद्धयोऽतीतानागतज्ञानाद्या विवेकजज्ञानान्ता ज्ञान- क्रियैश्वर्यरूपाः प्रदर्शिताः। तत्र किमेतासां सिद्धीनामुत्तरमेव मोक्ष आहोस्वि- देतन्यतिरेकेणापीति जिज्ञासायामाह- सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ॥५४॥ बुद्धिसत्वस्य पुरुषेण सह समाना वक्ष्यमाणरूपा शुद्धिर्यदा भवति तदैव मोक्षो भवति । न तत्र सियाद्यपेक्षेत्यर्थः । निरभिमानत्वं पुरुपस्यात्र शुद्धिी- प्यकृतोक्ता । तथाच यथा साक्षी निरभिमान एवं चेञ्चित्तं निरभिमानं भवति विवेकनिष्टया तदा प्राप्तसिद्धेऽप्राप्तसिद्धाऽवश्यमेव मोक्षो भवति । निश्व- भावागणेशीय-नागोजीभट्टीयवृत्ती । यार्थाद्यपेक्षेति(1)। नन्वष्टाङ्ग-योगेऽभ्यस्यमाने सिद्धिरवश्यं भविष्यत्येवेति चेन्न । सिद्धिवैराग्ये सिन्दिप्रतिवन्धकपापे च सति सिद्ध्यनुत्पादसंभवादिति ॥ ५४ ।। इति श्रीभावागणेशभकृतायां पातञ्जलवृत्तौ योगदीपिकायां विभूतिपादस्तृतीयः॥ - ननु किमुक्तं सर्वसिद्ध्युत्तरमेव मोक्ष उत तयतिरेकेणापीति शङ्कायामाह- सत्त्वपुरुपयोः शुद्धिसाम्ये कैवल्यम् । बुद्धिसत्त्वस्य पुरुषेण सह शुद्धिसाम्य- मिव भवति तदा कैवल्यमित्यर्थः । पुरुपस्योपचरितामिमानत्यागेनोपचरितभोगा- भावः शुद्धिः । एवं चित्तमपि यदा निरभिमानं भवति तदा तत्सत्त्वपुरुपान्यता- ख्यातिमात्राधिकारं ज्ञानादज्ञाननिवृत्त्या दग्धक्लेशबीजं भवति तदा तत्पुरुषेण शुद्धिसाम्यामिपन्नं भवति तदा प्राप्तसिद्धेरप्राप्तसिद्धर्वा अवश्यं मोक्षो भवतीत्यर्थः । ननु योगमभ्यस्यतः सिद्धिरवश्यं भविष्यत्येवेतिचेन सिद्धि प्रति वैराग्यस्य प्रतिव- न्धकत्वेन तदनुत्पादात् । तत्प्रतिवन्धकपापात्तदनुत्पत्तिरियपि कश्चित् ॥ ५४ ॥ इति श्रीपातअलवृत्तौ तृतीयः पादः ।

चतुर्थः कैवल्यपादः। हानोपायं तड्यूहत्रयं चातिविस्तरतः पादत्रयेणोक्तम् । हानं तु स्वरूपतः संक्षेपेणोक्तम् । इदानी हानव्यूहस्याशेषविशेषप्रतिपादनाय चतुर्थः पाद आर.) भ्यते । तत्रादौ कैवल्याहं चित्तं निर्धारयितुमितरसिद्धयपेक्षया यथोक्तसमाधिसि- ढेरुत्कपं च प्रतिपादयितुं पञ्चप्रकारां सिद्धिमाह- जन्मौषधिमन्नतपःसमाधिजाः सिद्धयः॥१॥ देवादीनामणिमादिसिद्धयो जन्ममात्रजा इत्येवं पञ्चप्रकाराः सिद्धयो भव- न्तीत्यर्थः । पञ्चप्रकारसिद्धिसाधारण्यलाभार्थं पूर्वपादप्रतिपादिता अस्मिन्नेव प्रसंगे कियद्भिः सिद्धिप्रकारसूत्रैः प्रतिपाद्यन्ते ॥ १ ॥ इतरसिद्ध्यपेक्षया समाधिसिद्धेरुत्कर्ष प्रतिपादयितुं पञ्चप्रकारां सिद्धिमाह- जन्मौपधिमन्त्रतपासमाधिजाः सिद्धयः । देवादीनामणिमादिसिद्धयो जन्ममात्रजाः । असुरभवनेषु रसायनजास्ता ओषधिजाः । यथा मनुष्यः कुतश्चि- निमित्तादसुरभवनं प्राप्तस्तत्कन्यादत्तरसायनाधुपयुज्याजरामरत्वं प्राप्नोति इहैव वा कश्चित्तदुपयोगेन । मन्त्रजा आकाशगमनाणिमादिलब्धिः । तपसा संकल्पसिद्धिः । समाधिजास्तु पूर्व व्याख्याताः ॥ १ ॥ जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥ २॥ देहेन्द्रियकारणसात्विकाद्यवयवोपचयाद्भवति । यथा नन्दीश्वरस्य ब्राह्मण- देहेन्द्रिययोर्देवसंबन्धिदेहेन्द्रियरूपता दैवप्रकृत्यनुप्रवेशादित्यर्थः । जात्यन्तरपदं च महिमाद्यखिलसिद्ध्युपलक्षणं प्रकृत्यापूरश्वापगमस्याप्युपलक्षकः । तेनाणिमादि- सिद्धिप्रकारोऽप्युक्त इति ॥२॥ ननु यदा मनुष्यादिशरीरेणैव देवभावं प्राप्नोति सिद्ध्या यदा वाणिमादिसिद्धयः प्रादुर्भवन्ति तदा किं संकल्पयोगजधर्माभ्यामतिरिक्तं कारणमपेक्षते न वेति संशये सत्याह-जात्यन्तरपरिणामः प्रकृत्यापूरात् । मनुष्यादिशरीरस्य देवादिजात्यन्तररूपः परिणामः सत्वादिविशेपरूपाणां देवादिशरीरारम्भयोग्यानामा- पूरणादेव भवति । तत्र च पूरणेऽधर्मादिप्रतिवन्धनिवृत्तिद्वारा योगिसंकल्पयोगजध- र्मादिकं निमित्तमात्रम् । जात्यन्तरपदं च महिमाद्युपलक्षकमपि । प्रकृत्यापूरोऽपग- मस्याप्युपलक्षकः । तेनाणिमादिसिद्धिप्रकारोऽप्युक्तः । अत एव वामनादेस्तदापूर एव शरीरवृद्धिरगस्त्यपीयमानसमुद्रस्य च तदपसरणादेवाल्पत्वमुपपन्नम् । कायव्यू- हादिकं तु देहान्तरादिप्रकृतीनां पृथगेवारम्भकसंयोगादिति बोध्यम् । एवं हिरण्य- गर्भादीनां जगत्सृष्टयाद्यपि प्रकृत्यापूरादिति बोध्यम् । प्रकृत्यापूरणमत्र जीवान्तराणां । खखोपाधिसंयोगस्याप्युपलक्षणं येन योगी जीवान्तरसंयोगेन गजतुरगादीनि निर्मा- यैश्वर्य भुङ्क्ते । तत्र समाधिसिद्धावयं विशेषः, यत्तत्संस्कृतमेव चित्तमात्मसाक्षा- कारद्वारा मोक्षहेतुर्नान्यसिद्धिसंस्कृतमिति । प्रह्लादादीनां भक्तिजा सिद्धिस्तपः- भावागणेशीय-नागोजीभट्टीयवृत्ती । सिद्धिमध्य एवं प्रविष्टा 'अक्षयः परमो धर्मों भक्तिलेशेन जायते' इति स्मृतेस्तपो- न्तराद्भक्तिरधिकेति बोध्यम् ॥ २ ॥ ननु योगजादिधर्मंयोगिसंकल्पैश्च बलात्प्रकृतय आकृप्यन्त इति प्रकृति- स्वातच्यसिद्धान्तक्षतिः। ततश्चेश्वरसंकल्पकृती विना सर्गादौ प्रकृतिप्रवृत्त्यनुपपत्त्या ईश्वरस्य वैषम्य धुण्याद्यापत्तिस्तत्राह निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ॥३॥ धर्मादिरूपं निमित्तकारणं प्रकृतीनां महदादिकारणानां प्रयोजकं प्रवर्तकं न भवति । स्वत एव प्रवृत्तिस्वाभाव्यात् । किंतु ततो निमित्तकारणाद्वरणभङ्गः प्रवृत्तिविशेषप्रतिबन्धकाधर्मादिनिवृत्तिमात्रं भवति । क्षेत्रिकवत् । यथा कृपी- वलो जलपूर्णाक्षेत्राजलं क्षेत्रान्तरे निनीपुरालवालभङ्गमानं करोति जलं तु गतिस्वाभाव्यात्स्वयमेव गच्छति तद्वदित्यर्थः । अचेतनं चेतनाधिष्ठितमेव प्रवर्तते इति नियमस्वस्माभिर्नेप्यते, परमेश्वरस्य वैपम्यनघण्यापत्तरिति भावः ॥३॥ ननु योगजधमैर्योगिसंकल्पैश्च वलात्प्रकृल्याकर्षणे प्रकृतिखातन्त्र्यसिद्धान्तहानिरत आह-निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् । > धर्मादिरूपं निमित्तकारणं प्रकृतीनां महदादिकारणानां प्रयोजकं प्रवर्तकं न भवति खत एव प्रवृत्तिखाभाव्यात् तेपामपि प्रकृतिकार्यवाच । ततो निमित्तकारणाद्वर- णस्य तत्तत्प्रतिवन्धकाधर्मादेर्भङ्गो निवृत्तिमात्रं भवति । ततः प्रकृतयः स्वयमेव तं तं विकारमारभन्ते क्षेत्रिकवत् । यथा कृषीवलो जलपूर्णात् क्षेत्राज्जलं क्षेत्रान्तरे निनीपुरालवालभङ्गमानं करोति जलं तु गतिखाभाव्यात्खयमेव गच्छति तद्वत् । पुरुषार्थोद्देशेनेश्वरस्तु प्रवर्तकः सोऽपि तदुद्देशमात्रेणैव, तथोद्देश्यतामात्रेण च पुरु- षार्थः प्रवर्तक इत्युच्यते । वैषम्यनैपण्यप्रसङ्गस्तु प्रथमपादे निवारितः । अचेतनं चेतनाधिष्ठितमेव प्रवर्तत इति नियमस्तु नेश्वरस्य वैषम्यनैघृण्यापत्तरिति केचित् । नच पुरुपभोगोद्देश्या प्रवृत्ति डायाः प्रकृतेः कथं ? पुरुषभोगो मया संपाद्य इत्यध्य- वसायो हि तदुद्देश्यता, जडायाश्च तदनुपपत्तिः सत्वे जडत्वव्याघात इति वाच्यम् । अनुलोमप्रतिलोमलक्षणपरिणामद्वये सहजं शक्तिद्वयमस्ति प्रकृतेस्तदेव पुरुषार्थक- तव्यतोच्यते । भोगसमाप्तौ च तस्य क्षये न पुनः सा प्रवर्तते । तस्य च शक्तिद्वयस्य विवेकसाक्षात्कारेण विदेहकैवल्यमेव नाश इति भोजराजः ॥ ३ ॥ कायन्यूहदशायां किमेकमेव चित्तमुतानेकमपि भवतीति संशये निर्णयसूत्रे- निर्माणचित्तान्यस्मितामात्रात् ॥ ४॥ सिद्धौ संकल्पेन निर्मितानि चित्तानि निर्माणचित्तान्युच्यन्ते । तानि बहूनि निर्माणदेहसमसंख्यान्यपि भवन्ति । तेषां कारणमाह अस्मितामात्रादिति। मनःकारणादहङ्कारादित्यर्थः ॥ ४॥ - ९ पा० यो० पातञ्जलयोगसूत्रम् । ८८ [ कैवल्यपादः ४ । यदा योगी कायव्यूहं करोति तदा तावच्छरीरसंवद्धानि चित्तानि किं नाना उतैकमिति संशय आह-निर्माणचित्तान्यस्मितामात्रात् । अस्मितामात्रम- हंकारस्तस्मात्सिद्धेन संकल्पेन निर्मितानि चित्तानि निर्माणचित्तानि तानि देहसमसं- ख्यानि भवन्ति । अहंकारकारणकानीत्यर्थः । अन्यथैकचित्तेन विरुद्धानां भोगसमा- ध्यादीनां नानादेहेष्वेकदा संभवो न स्यात् ॥ ४ ॥ अनेकनिर्माणे विशेषमाह- प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥५॥ तेषामनेकेषां निर्माणचित्तानां प्रवृत्तिभेदे प्रतिनियतव्यापारे प्रयोजक- मेकं निर्मातृचित्तसेव भवति । निर्मातृचित्तसंकल्पेनैव तेषामखिलव्यापार इत्यर्थः ॥ ५॥ तत्र विशेषमाह-प्रवृत्तिभेदे प्रयोजक चित्तमेकमनेकेषाम् । तेषामने- केषां निर्माणचित्तानां प्रवृत्तिभेदे प्रतिनियतव्यापारे प्रयोजकमेकं चित्तं निर्मिमीते महाराज इव दशाधिकरणमेकं तादृशदशाधिकरणमपरम् । ततस्तेषां प्रवृत्तिभेद इति भाष्यसंमतः पन्थाः । केचित्तु निर्मातृचित्तमेव तेषां सर्वेषां प्रवृत्तिकारणं निर्मातृचि- त्तसंकल्पेनैव तेषामखिलव्यापारादित्याहुः ॥ ५ ॥ तदेवमुक्तेषु पञ्चसु सिद्धचित्तेषु मध्ये मोक्षयोग्यं चित्तमवधारयति- तत्र ध्यानजमनाशयम् ॥६॥ तेषु चित्तेषु मध्ये ध्यानजं ध्यानेन समाधिना संस्कृतमेव चित्तमनाशयं निर्वासनं भवति । न मन्त्रादिसंस्कृतमित्यर्थः । समाधिनैव योगद्वयद्वाराखि- लवासनोन्मूलनसंभवादिति ॥ ६ ॥ तत्र पञ्चसु सिद्धिषु मोक्षयोग्यं चित्तमवधारयति-तत्र ध्यानजमनाशयम् । तेषु सिद्धचित्तेषु मध्ये ध्यान ध्यानेन समाधिना संस्कृतमेव चित्तमनाशयं निर्वा- सनं भवति । न मन्त्रादिसंस्कृतमित्यर्थः । समाधिनैव योगद्वयद्वाराखिलवासनोन्मूलन- संभवात् ॥ ६ ॥ इतश्च ध्यानचित्तमेव मोक्षयोग्यमित्याह- कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ॥७॥ योगिनः समाधिसिद्धस्य निष्पन्नयोगस्य क्षीणक्लेशस्य कायादिव्यापाररूपं कर्माशुक्लाकृष्णं पुण्यपापाहेतुर्भवति । क्लेशमूलः कर्माशय इत्युक्तत्वात् । इत- रेपां त्वयोगिनां जन्मादिसिद्धानामपि यथासंभवं कर्म त्रिविधं भवति । शुक्ल- कृष्णयोः प्रत्येकसमुच्चयाभ्यामित्यर्थः । तत्राशुक्लाकृष्णं जीवन्मुक्तानां कर्म। पुण्यापुण्याहेतुत्वात् । शुक्लं निर्मलं कर्म अन्तर्यागजपादि हिंसादिदोपासंभिन्न- वादित्यर्थः । कृष्णं मलिनं कर्म अपेयपानादि । शुक्लकृष्णं च मिश्रितं कर्म वहि- गयुद्धादि पशुहिंसादिपापसाङ्कर्यादिति ॥ ७ ॥ - .. भावागणेशीय-नागोजीभट्टीयवृत्ती। ८९ -- अतस्तदेव मोक्षयोग्यमित्याह-कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरे- षाम् । योगिनः समाधिसिद्धस्य निष्पन्नयोगस्य क्षीणक्लेशस्य कायादिव्यापाररूपं कर्माशुक्लाकृष्णं पुण्यपापाहेतुरित्युक्तं भवति क्लेशमूलः कर्माशय इत्युक्तेः । इतरे- लामयोगिनां जन्मादिसिद्धानामपि त्रिविधं कर्म भवति । शुक्लं कृष्णं शुक्लकृष्णं चेत्येवमित्यर्थः । तत्र शुक्लं कर्मान्तर्यागजपादि हिंसादिदोषासंनिहितत्वात् । कृष्णं मलिनं कर्म (अपेयपानादि) शुक्लकृष्णं च वहिर्यागयुद्धादि खकर्म पशुहिंसादिपाप- साङ्कर्यात् । वहिःसाधनसाध्यं सर्वमप्येवमेव । एवं संन्यासिनां क्वचिदपि वहि:- साधनसाध्ये कर्मणि अप्रवृत्तानां कृष्णस्याभाव एव योगानुष्ठानसाध्यस्य फलस्येश्वरे समर्पणान्न शुक्लमपीत्यवधेयम् ॥ ७ ॥ ननु तिष्ठत्वयोगिनां कर्म । तथापि भोगवासनानभिव्यक्त्यादिना कदाचि- न्मोक्षः स्यादिति किमर्थं नियमेन ध्यानजस्यानाशयचित्तस्यापेक्षेत्यत आह- ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वा- सनानाम् ॥८॥ ततस्त्रिविधात्कर्मणो भोगवासनानामभिव्यक्तिर्भवति । अतः कर्मणि सति वासनाभिव्यक्त्यभावो न घटते । नन्वेवं मानुष्यप्रापककर्मणापि पश्वादिभोग- वासनाभिव्यक्त्या तृणपत्रादिभोजनादौ प्रवृत्त्यापत्तिस्तत्राह-तद्विपाकानुगुणा- नामेवेति । स्वविपाकहेतुवासनानामेव कर्मतोऽभिव्यक्तिर्भवति न सर्वासा- मित्यर्थः ॥८॥ नन्वयोगिनां कर्मसत्त्वेऽपि भोगवासनानभिव्यक्त्या कदाचिन्मोक्षः स्यादेवेति का ध्यानस्यापेक्षेत्यत आह-ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वास- नानाम् । ततत्रिविधात्कर्मणो भोगवासनानामभिव्यक्तिर्भवत्येवेति न तेषां मोक्षः संभवति । नन्वेवं मानुष्यप्रापककर्मणापि पश्वादिभोगवासनामिव्यक्त्या तृणभोज- नेऽपि प्रवृत्तिः स्यादत आह तद्विपाकानुगुणानामेवेति । स्वविपाकहेतुवासनानामेव कर्मतोऽभिव्यक्तिर्न सर्वासामित्यर्थः ॥ ८ ॥ ननु यस्य कर्मणो विपाकानुगुणा वासना बहुजन्मादिव्यवहिता तस्य तदभि- व्यञ्जकत्वं न घटते । संनिहितवासनां परित्यज्य व्यवहितवासनाभिव्यक्त्यनौचि- त्यात्तत्राह- जातिदेशकालव्यवहितानामप्यानन्तर्य स्मृतिसं- स्कारयोरेकरूपत्वात् ॥ ९॥ जात्यादिभिर्जन्मादिभिर्व्यवहितानामपि वासनानामानन्तर्यमव्यवहितवत्कार्य- कारित्वं कल्प्यते । स्मृतिसंस्कारयोरेकरूपत्वात् । न हि जातमात्रस्य स्तन- पानादीष्टसाधनतादि स्मृतिस्तत्समानाकारवासनां विनोत्पद्यत इत्यर्थः ॥ ९ ॥ ननु यस्य कर्मणो विपाकानुगुणवासना बहुजन्मादिव्यवहितास्तस्य तदमि- । - ९० पातञ्जलयोगसूत्रम् । [ कैवल्यपादः ४ व्यञ्जकत्वं न घटते सन्निहितवासनां परित्यज्य व्यवहितवासनाया अभिव्यक्त्यनौ- चित्यात् तत्राह-जातिदेशकालव्यवहितानामप्यानन्तर्य स्मृतिसं- स्कारयोरेकरूपत्वात् । जाति जन्म । जन्मशतेन दूरदेशतया कल्पशतेन वा व्यवहितानामपि वासनानामानन्तर्यमव्यवहितवत्कार्यकारित्वं कल्प्यते । तदमि- व्यक्तिनिमित्तकर्मणस्ता उपादायैव स्वफलारम्भामिमुखत्वात् । किंच स्मृतिसंस्का' रयोरेकत्वात् । नहि जातमात्रस्य स्तनपानादीष्टसाधनतादिस्मृतिस्तत्समानाकारवासनां विनोत्पद्यत इत्यर्थः । देशव्यवधानमवच्छेदकतया बोध्यम् ॥ ९ ॥ नन्वेवं सकलजन्मार्थमेव वासनाङ्गीकारेऽनवस्थापत्तिरित्याशङ्कां प्रामाणिक- त्वेनापाकरोति- तासामनादित्वं चाशिषो नित्यत्वात् ॥१०॥ तासां वासनानां प्रवाहरूपेणानादित्वम् । कुतः। आशिपो नित्यत्वात् । मा न भूवं भूयासमिति स्वविषयकप्रार्थनायाः जातमात्रस्यापि सर्वप्राणिनो नियत- त्वादित्यर्थः । इयं हि भवनात्मा प्रार्थना मरणदुःखस्मृत्यैव युक्ता । न चेह जन्मनि मरणदुःखमनुभूतम् । नापि जातमात्रेणानुमितं श्रुतं वा । तस्मात्पूर्व- जन्मानुभवोत्था मरणदुःखवासनानुमीयत इति ॥ १० ॥ ननु सकलजन्मार्थ वासनाङ्गीकारेऽनवस्थापत्तिरत आह-तासामनादित्वं चाशिषो नित्यत्वात् । तासां वासनानां प्रवाहरूपेणानादित्वम् कुतः । आशिषो. नित्यत्वात् । मा न भूवं भूयासमिति खविषयकप्रार्थनाया जातमात्रस्यापि सर्वप्राणिनो नियतखादित्यर्थः । इयं हि भवनात्मा प्रार्थना द्वेषानुषक्तमरणदुःखस्मृत्यैव । नचेह जन्मनि मरणदुःखमनुभूतं नाप्यनुमितं श्रुतं वा, तस्मात्पूर्वजन्मानुभवोत्था मरण- वासनानुमीयत इति । दृश्यते हि मातुरङ्कात्प्रस्खलन् कम्पमानो वालस्तदुरःसूत्र- मतिगाढमालम्वमानः वालस्यायमीदृशः कम्पो भयजन्यः ईदृशकम्पवादस्मदादि: कम्पवत् । तद्भयं च दुःखद्वेषस्मृतिनिमित्तकं भयत्वादस्मदादिभयवत् । अयं भय- जनकः स्खलनादिरनेन दुःखजनकत्वेन ज्ञातः भयजनकत्वात् मद्वत् । इयं स्मृतिः पूर्वानुभवनिवन्धना स्मृतित्वात् मत्स्मृतिवत् , इत्यनुमानम् । एवं स्मितादिष्वनुमि- तहर्षादयोऽपि प्राग्भववासनाहेतवः । एतेन स्वाभाविकमिदमित्यपास्तम् । अस्मदा- दीनामपि भयस्य तथाखापत्तेः । पद्मसंकोचविकासावपि न स्वाभाविको सूर्यकरसंप- र्कस्य विकास प्रति स्थितिस्थापकाख्यसंस्कारस्य संकोचं प्रति कारणत्वात् । तच्चित्तं मनोरूपं नाणु दीर्घशष्कुलीभक्षणादौ युगपज्ज्ञानपञ्चकोत्पत्तिदर्शनात् । नचाननुभू- यमानक्रमस्य कल्पनायां प्रमाणभस्ति । तस्मात् घटप्रासाददीपकल्पसंकोचविकास- शालि चित्तं शरीरपरिमाणं, देहप्रदेशवर्तिकार्यदर्शनेन । तद्वहिस्तत्सत्वे मानाभा- वात् । मूपकहस्तिदेहयोस्त्वस्य संकोचविकासा उपपद्यते । एवं च आतिवाहिकश-4 रीरसंगेन पूर्वदेहत्यागदेहान्तरसंयोगोपपत्त्या संसारोऽपि युक्तः । अतएवाङ्गुष्ठमात्रं पुरुपं निश्चकर्ष यमो वलादित्यप्युपपन्नमिति केचित् । तन्न । मध्यमपरिमाणत्वे प्रलये नाशापत्तावदृष्टाद्याधारतानुपपत्तेः । तस्मादहंकारस्य गगनमण्डलवत् व्यापि- भावागणेशीय नागोजीभट्टीयवृत्ती । -- त्वेन तत्कार्यचेतसोऽपि विभुत्वमेव । अतएव भाष्ये उक्त-वृत्तिरेवास्य. विभुनः संकोचविकासशालिनीत्याचार्यः' इति । एवं चानन्तवासनाधारखमुपपद्यते । पूर्व सूत्रोक्तवासनानां देशव्यवधानं. चोपपन्नम् । अन मिश्राः । अनाश्रयस्य देहान्तर- संचाराभावे कथमातिवाहिकमाश्रयेत् । तदर्थमपि देहान्तरकल्पनेऽनवस्थाः । नेचास्य निष्कर्षोऽपि संभवति । अनिष्कर्षे चेतसाऽसंबन्धात् तस्याध्यक्षगोचरला- भावेन तत्र मानाभावश्च । उक्तागमोऽपि पुरुषस्य निष्कर्षमाह । नहि चित्तं सूक्ष्म- शरीरं वा पुरुषः । किंतु शक्तिरपरिणामिनी । नचास्या निष्कर्षों मुख्यः संभवतीति गौणो व्याख्येयः । एवं च चितेः चित्तस्य वा तत्र वृत्त्यभाव एव निष्कर्षः । गम- नमपि देशान्तरावच्छेदेन वृत्तिलाभ एव । इन्द्रियाण्यप्यहंकारकार्यत्वात् चित्तसं- वन्धान्येव । प्राणादयस्तु तस्यैव वृत्तिविशेषास्तत्संवन्धा एव । एतेन सप्तदशको गण इत्यादेरपि नानुपपत्तिः । एषामपि तत्तद्देशावच्छेदेन संवन्ध एव गमनम् । पाशवद्धनयनादिकं त्वर्थवाद इत्याहुः । तदुक्तं-'चित्ताकाशं चिदाकाशमाकाशं च. · तृतीयकम् । द्वाभ्यां शून्यतमं विद्धि चिदाकाशं वरानने' ॥ इति । उपपा- दितं चैतत्प्रागपि । वृत्तिस्त्वस्य धर्माधर्मादिनिमित्तकत्वात्संकोचविकासशालिनीति दिक् ॥ १० ॥ इदानीं मोक्षोपपत्तयेऽनाघसंख्यानामपि वासनानामुच्छेद उपपाद्यते- हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावः॥११॥ अखिलवासनानां हेतुरविद्या । यं च पुरुपार्थमुद्दिश्य धर्माद्युत्पद्यते स एव वासनानामपि फलम् , कर्मवासनयोरन्योन्यसहकारित्वात् । वासनानामा- यस्तु मनः, आलम्बनं च वासनाभिव्यञ्जकं कामिनीदर्शनादि । सर्वासां वासना- नामेहेत्वादिभिः संगृहीतत्वाध्याप्तत्वादेपामभावेऽत्यन्तोच्छेदे विदेहमुक्तिस- मये तदभावस्तदविनाभूतानां वासनानामत्यन्तोच्छेदो भवतीत्यर्थः । तथाच वासनानामनादित्वेऽपि मोक्ष उपपन्न इति ॥ ११ ॥ अथ मोक्षोपपत्तयेऽनाद्यसंख्यानामपि वासनानामुच्छेद उपपाद्यते-हेतुफ- लाश्रयालम्वनैः संगृहीतत्वादेपामभावे तदभावः । हेतुरखिलवासनानां पञ्चपर्वाविद्या । फलं तु यमुद्दिश्य धर्माधर्मादि वर्तमानावस्थं भवति स पुरुषार्थः । स एव वासनानामपि फलं कर्मवासनयोरन्योन्यसहकारित्वात् । आश्रयस्तु वास. नानां मनः। आलम्वनं च तासां वासनाभिव्यजक कामिनीदर्शनादि । सर्वासां वासनानां एतैर्हेत्वादिमिः संगृहीतत्वाव्याप्तत्वात् एषामभावेऽत्यन्तोच्छेदे विदेहमु- 'क्तिसमये तदभावस्तदविनाभूतवासनानामपि अत्यन्तोच्छेदो भवतीत्यर्थः । एवं च वासनानामनादित्वेऽपि मोक्ष उपपन्नः । नयनादित्वमनुच्छेदहेतुः । अनागतत्वे व्यमिचारात् । चैतन्यस्य तु विनाशकारणाभावान्न नाशो नत्वनादित्वादिति भावः ॥ ११ ॥ .

९२ पातञ्जलयोगसूत्रम् । [ कैवल्यपादः ४ - - तदेवं चित्तं मोक्षयोग्यं चित्तं तदितरचित्तस्य वन्धप्रकारो वासनोच्छेदसंभव- श्वोक्तः । इतः परं मोक्षकारणविवेकज्ञानाख्यस्य सम्यग्ज्ञानस्य विपयो लक्षणा- दिकं चातिविस्तरेण प्रतिपादनीयं विशेपदर्शन आत्मभावनाविनिवृत्तिरित्यन्तैः सूत्रैः । ननु द्वितीयपाद एव तत्सर्वमुक्तमिति चेत्सत्यम् । तथापि तेपामेवार्थानां तर्केणात्र परीक्षार्थमनुक्तपूरणार्थ च पुनरारम्भः । तत्रादौ विकाराणां स्वरूपं.) परीक्ष्यते- अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ॥ १२ ॥ अतीतमनागतं च विकारजातं तदानीमपि वर्तमानावस्थायामिव स्वरूपतो- ऽस्ति । अभिव्यक्ततयैवासत्त्वात् । एतदेव वेदान्तसूत्रेणाप्युक्तम् । 'असद्व्यपदे- शादिति चेन्न धर्मान्तरेण वाक्यशेपात्' (२।१।१७) इति । अत्र युक्तिमाह । धर्माणामध्यभेदादिति । अनागतवर्तमानातीतरूपावस्थात्रयमध्वशब्देनोच्यते, आसु कार्याणामनुक्षणं संचारात् । तत्र ते धर्माणां कार्याणामवस्थाभेदा अनुभू- यमानानां कार्याणां स्वरूपतो नित्यत्वं विना नोपपद्यन्ते । नहि धर्मिण्यसत्यती तत्वादिधर्मः स्थातुमुत्सहते । अतः कार्य नित्यमिति ॥ १२ ॥ नन्वसतः संभवाभावेन सतीनां द्रव्यत्वेन वासनानां कथमुच्छेदः सतो विना- शाभावादत आह–अतीतानागतं स्वरूपतोऽस्त्यध्वमेदाद्धर्माणाम् । भविष्यदभिव्यक्तिकमनागतमनुभूताभिव्यक्तिकमतीतम् । एतदुभयावस्थायामपि विकारजातं खव्यापारोपारूढत्वरूपवर्तमानावस्थायामिव खरूपतोऽस्ति अमिव्यक्तत- यैवासत्त्वम् । तत्र हेतुमाह । धर्माणामध्वभेदात् । अनागतवर्तमानातीतरूपावस्था- त्रयमध्वशब्दवाच्यमासु कार्याणामनुक्षणं संचारात् । तत्र ते धर्माणां कार्याणा- मवस्थाभेदा अनुभूयमानाः कार्याणां स्वरूपतः सत्त्वमनुमापयन्ति । नहि धर्मिणि असति अतीतत्वादिधर्मः स्थातुमुत्सहते । अभिव्यक्तिरपि सूक्ष्मरूपेण विद्यमानैव तदभिव्यक्तितो नातिरिक्तति नानवस्था ॥ १२ ॥ कार्यस्वरूपं परीक्ष्य सदसत्त्ववैधय॑ण तद्विवेकतः कारणं परीक्ष्यते- ते व्यक्तसूक्ष्मा गुणात्मानः ॥ १३ ॥ ते कार्यरूपा धर्मा अभिव्यक्ता अनभिव्यक्ता वा भवन्तु सर्व एव सर्वदेव गुणात्मानस्तत्वतः सत्वादिगुणत्रयस्वरूपा भवन्ति । 'वाचारम्भणं विकारो नाम- धेयं मृत्तिकेत्येव सत्यम्' इति श्रुतेः । 'गुणानां परमं रूपं न दृष्टिपथमृच्छति । यत्तु दृष्टिपथं प्राप्तं तन्मायेव सुतुच्छकम्' इति भाष्यकारावस्तवाक्यादिभ्यश्वे. त्यर्थः । अयं भावः । रूप्यते अवगम्यते अनेन रूपेणेति रूपमुच्यते । अतः कार्य कारणं चेति कार्यस्यैव रूपद्वयम् । तत्र कार्यरूपताऽद्यन्तयोर्न तिष्ठति कार्यरूपेणानवगमात् । कारणरूपता तु कालत्रयेऽप्यव्यभिचारिणी । सर्वदैव कारणरूपेणावगमात् । अतः कार्यरूपापेक्षया कारणरूपमेव पारमार्थिकं रूपं कार्याणामिति । अत्र कार्यस्यात्यन्तमसत्वं न विवक्षितम् । पूर्वसूत्रे कार्यनित्यता.

भावागणेशीय-नागोजीभट्टीयवृत्ती । - ९३ : धर्मा व्यक्ता वचनादिति । एतेन मायामानं जगदिति श्रुतिस्मृतिप्रवादोऽपि व्याख्यातः । मिथ्यारचनाहेतौ व्यामोहकशक्तावेव मायाशब्दप्रयोगादिति ॥ १३ ॥ अथ कार्याणां मूलकारणमाह-ते व्यक्तसूक्ष्मा गुणात्मानः । ते कार्यरूपा अभिव्यक्ताः सूक्ष्माः अनभिव्यक्ता वा भवन्तु सर्वे सर्वदा गुणात्मानः सखादिगुणत्रयरूपा भवन्ति । 'वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमिति श्रुतेः । 'गुणानां परमं रूपं न दृष्टिपथमृच्छति । यत्तु दृष्टिपथं प्राप्तं तन्मायेव सुतुच्छक मिति वाक्याच्च । मायेव नतु माया सा हि झटिति नश्यति तद्वदिमे विकाराः, प्रकृतिस्तु तद्वैधात्परमार्थरूपेति तदर्थः ॥ नन्वेकस्मात्प्रधानात्कथं कार्यवैचित्र्यमिति चेत्तदाहितानादिक्लेशवशानुगताद्वैचित्र्यादिति गृहाण । सर्वोऽपि दृश्यपदार्थों गुणानां संस्थानभेदवान् परिणामः, वस्तुतो गुणरूप एव । एवंच कार्यकारणात्मकं कार्यस्य रूपद्वयं कार्यरूपताद्यन्तयोर्नास्ति कारणरूपता तु सर्वदा । अतस्तत्कार्याणां पारमार्थिक रूपम् । एतेन मायामानं जगदिति प्रवादोऽपि व्याख्यातः । आद्यन्तयोरनुपलभ्यमानत्वेन मिथ्यारचनाहेतौ व्यामोहकशक्तावेव मायापदप्रयोगादिति दिक् ॥ १३ ॥ ननु यदि सर्वे विकारास्तत्वतोऽनेकगुणमात्रास्तहि कथमेकं शब्दतन्मानमेकं चक्षुरित्यादिर्लोकशास्त्रयोर्व्यवहार इति । तत्राह- परिणामैकत्वाद्वस्तुतत्त्वम् ॥ १४ ॥ परिणामैकत्वाद्वस्तूनां तत्त्वमेकत्वम् । तथाच परमार्थतो नानात्वेऽपि व्याव- हारिकपरिणामरूपेणैकत्वमित्यर्थः ॥ १४ ॥ ननु सर्वेषामनेकगुणरूपत्वे कथमेकं शब्दतन्मात्रमेकं चक्षुरित्यादि व्यवहारोऽत. आह-परिणामैकत्वाद्वस्तुतत्त्वम् । परिणामैकत्वाद्वस्तूनां तत्त्वमेकत्वं पर- मार्थतो नानात्वमेव त्रिगुणात्मकत्वात् । परिणामैकत्वमेकजातीयपरिणाम इत्यर्थः । तेन तन्मात्रादीनां प्रत्येकमनेकव्यक्किमिः कृतेऽपि न क्षतिः । तत्र सत्वप्राधान्येन करणरूपः परिणामः । तमःप्राधान्येन विषयरूपः परिणामः । यत्तु विज्ञानवादी दृश्योऽर्थो न विज्ञानाद्भिन्नस्तेन सहैवोपलम्भात् यद्य येनद् नियमतः सहोपलभ्यते तत्तेनाभिन्नं यथैकस्माचन्द्राद्भिन्नश्चन्द्रः। तेन वेदनाच्च । यद्येन वेद्यते तत्ततो न मिद्यते यथा ज्ञानं, एवमभेदे सिद्धे योऽयं भिन्नवत्प्रतिभासः स विकल्पज्ञानपरिकल्पितः स्वप्न- वदिति प्रधानकल्पना व्यर्थेति वदन्ति तन्न, प्रत्यभिज्ञानविरोधापत्तेः ॥ १४ ॥ कार्यकारणे विवेकेन परीक्ष्येदानीं यद्वौद्धा आहुः-कार्यकारणरूपं सर्वम- सत् चित्तमात्रकल्पितं स्वमवदिति तन्निषेधमुखेनैव चित्ततदर्थयोविवेकः परी- क्ष्यते सूत्रैः- वस्तुसाम्ये चित्तभेदात्तयोविभक्तः पन्थाः ॥ १५ ॥ एकस्मिन्नेव विषये चित्तान्तरवियोगेन चित्तान्तरालम्बनतादर्शनाचयोश्चित्ता-

पातञ्जलयोगसूत्रम् । . [ कैवल्यपादः ४
J
.
थयोविभक्तः पन्थाः स्वरूपोन्नयनमार्गः । एकानेकत्वरूपविरुद्धधर्मद्वयमित्यर्थः ।
वस्तुसाम्यं तु प्रत्यभिज्ञासिद्धम् । क्षणिकविज्ञानमेव च परेषां चित्तमित्यतश्चित्त-
भेदेनैव विज्ञानभेदोऽर्थेषु सिद्ध इति न स्वमतुल्यत्वम् ॥ १५ ॥
किंच-वस्तुसाम्ये चित्तभेदात्तयोविभक्तः पन्थाः। वस्तुसाम्ये
वस्त्वेकत्वे । चित्तमत्र ज्ञानं तद्भेदात्तयोर्वस्तुज्ञानयोर्विभक्तः पन्थाः खरूपभेदो-
नायको मार्ग इत्यर्थः । एकस्यैव घटस्य वहुज्ञानालम्बनत्वं दृश्यते । यथैकस्यामेव
कान्तायां कान्तस्य सुखज्ञानं सपत्नीनां दुःखज्ञानं चैत्रस्य तामविन्दतो मूढज्ञानम् ।
प्रमातॄणां परस्परप्रतिसंधानवशाच्च वस्त्वभेदः [खायेति?] सादृश्यप्रत्ययाभावाच ।
अन्यज्ञानपरिकल्पितायामन्यस्य चित्तोपरागायोगाच्च । अतो नैकचित्तपरिकल्पिता
नाप्यनेकचित्तपरिकल्पिता ज्ञानभेदेन भेदापत्तः । एतेन सर्व चित्तमात्रपरिक-
ल्पितमसत्, स्वप्नवदिति वादोऽपि परास्तः । अस्माकं तु त्रिगुणत्वादेकसुखादि-
भेदमिन्नविज्ञानहेतुत्वमुपपद्यते । धर्मादिकारणसापेक्षत्वान्न सर्वेषां सर्वरूपेण ज्ञानम् ।
धर्मापेक्षं सत्वं रजःसहितं सुखज्ञानं जनयति । अधर्मापेक्षं तमःसहितं रजो दुःख-
ज्ञानम् । वलवदधर्मापेक्षं रजःसहितं तमो मूढविज्ञानम् । विद्यापेक्षं विगलितरजस्त-
मस्क(स)त्वं माध्यस्थ्यज्ञानमिति ॥ १५ ॥
विज्ञानवादं निरस्य दृष्टिसृष्टिवादं निरस्यति-
नचैकचित्ततनं वस्तु तत्प्रमाणकं तदा किं
स्यात् ॥१६॥
नाप्येकचित्ततन्त्रमेकविज्ञानसमनियतं वस्तु दृश्यपदार्थों यतस्तदा तर्हि तत्प्र-
माणकं तच्चित्तसिद्धं किं वस्तु स्यात् । किमपि न स्यात् । चित्तापायेऽपि स्वरूपे
नैव तिष्ठेत् । चित्तनाशकल्पने प्रमाणाभावात् । प्रत्युत प्रत्यभिज्ञया स्थैर्यस्यैव
सिद्धरित्यर्थः ॥ १६ ॥
केचित्तु अस्त्वर्थो ज्ञानादतिरिक्तः परंतु ज्ञानेनैव भास्यत्वात् ज्ञानसमय एवास्ति
नान्यदा मानाभावात् । एवंच सुखादिवद्भोग्यत्वात् ज्ञानसहभूरेवार्थ इति वदन्ति
एष एव दृष्टिसृष्टिवादतं निरस्यति-नचैकचित्ततन्त्रं वस्तु तत्प्रमाणकं
तदा किं स्यात् । तत्प्रमाणकमपि विज्ञानप्रमाणकं तन्नि स्यमपि नैकविज्ञानस-
मनियतमिति च । तदा किं स्यादित्यस्य यदा यद्वस्तुमाहिचित्तं व्यग्रतया तद्वस्तुनि
न वर्तते यदा च निरोधमापन्नमित्यादि तदा तद्वस्तु किं स्यात् न स्यादेवेत्यर्थः ।
ज्ञाननाशान्नष्टमेव स्यात् । एवंसति पुनस्तस्य ज्ञानविषयता न स्यात् । दृश्यते तु
ज्ञानविषयता, नच पुनरुत्पद्यते उत्पादकसामर्थ्याभावात् । नियतकारणान्वयव्यति-
रेकानुविधायि हि कार्यम् । नच ज्ञानकारणं तत् , उपभुज्यमानाशामोदकस्यापि रस- ।
वीर्यविपाकादिप्रसङ्गात् । ज्ञानेन सह स्वकारणैरुत्पत्त्यननुभवाच्च, प्रत्यभिज्ञायाः स्थैर्य-
सिद्धेश्च । तस्मात्खतन्त्रोर्थः सर्वपुरुषसाधारणः स्वतन्त्राणि च चित्तानि प्रतिपुरुष
प्रवर्तन्ते, तयोः संवन्धादुपलब्धिः पुरुषस्य भोग इति ॥ १६ ॥

भावागणेशीय-नागोजीभट्टीयवृत्ती । ९५ . नन्वेवं चित्ततदर्थयोभिन्नत्वे कदाचिदेव कंचिदेव चित्तेन गृह्यत इत्यत्र किं नियामकमित्याकाङ्क्षायामाह- तदुपरागापेक्षित्वाचित्तस्य वस्तु ज्ञाताज्ञातम् ॥ १७॥ ( चित्तस्य कालभेदेन वस्तु ज्ञातमज्ञातं च भवति । कुत्तः । अर्थाकारताख्योप- रोगरूपज्ञानसापेक्षत्वादर्थज्ञातत्वाज्ञातत्वयोरित्यर्थः । नचोपरागशब्दस्य संनि- कर्प एवार्थः कथं नेप्यत इति वाच्यम् । संनि....."संवन्धसापेक्षार्थज्ञानतया वक्ष्यमाणस्य चित्तपुरुपवैयर्थ्यस्यानुपपत्तेश्चेति ॥ १७ ॥ ननु चित्ततदर्थयोर्भिन्नत्वे कदाचिदेव कंचिदेव चित्तेन गृह्यत इत्यत्र नियामक- माह-तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् । तद् विषयस्तस्यो- परागो नामाकारसमर्पणयोग्यस्तत्संवन्धस्तत्सापेक्षखाचित्तस्य विपयो ज्ञातश्चाज्ञातश्च भवतीत्यर्थः । येन च विषयेणोपरक्तं चित्तं स विपयो ज्ञातस्ततोऽन्येऽज्ञाताः । वृत्तौ खाकारसमर्पणमेव विषयस्य ज्ञातत्वम् । इन्द्रियप्रणाडिकया विपयोपरक्तचित्तवृत्त्य- विभागापन्ना चितिशकिरर्थमनुभवति नवर्थे किंचित्प्राकट्यादिकमाधत्ते । यद्यपि सर्वगता चितिश्चितं चाहंकारिकमिन्द्रियं च तेनास्ति विषयस्य संवन्धः सर्वदा तथापि यत्र शरीरे वृत्तिमचित्तादि तेनैव विषयाणां संवन्धः । तदुक्तं भाष्ये 'अयस्कान्तमणिकल्पा विषयाः' अयस्कल्पं चित्तममिसंवध्योपरञ्जयन्तीति मिश्राः । वस्तुतो ज्ञाताज्ञातरूपत्वाच परिणामि चित्तम् ॥ १७ ॥ चित्तार्थयोर्भेदं परीक्ष्य चित्तपुरुपयोरपि भेदं परीक्षते- सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणा- मित्वात् ॥ १८॥ चित्तस्याओं ज्ञाताज्ञातरूप इत्युक्तम् । ये तु पुरुपार्थाश्चित्तवृत्तयस्ते सदा ज्ञाता एव भवन्ति । अनेन वैधhण चित्तपुरुपयोर्भेद इति भावः । सदा ज्ञातत्वे हेतुमाह तत्प्रभोरित्यादि । तत्प्रभोर्वृत्तिभोक्तुः पुरुपस्य पूर्वसूत्रोक्तोपरा- गादिलक्षणाशेपपरिणामशून्यत्वात् । यदि सत्यपि विपये पुरुषः कदाचिदे- वार्थाकारः स्यात् कदाचिन्नेत्येवं चित्तवत्परिणामी स्यात् तदैवं चित्तवत्सोऽपि ज्ञाताज्ञातविपयकः स्यात् । नत्वेवम् । तस्मादपरिणामित्वाद्धेतोः सदा ज्ञातवि- पयत्वम् । अविभागलक्षणप्रतिविम्बश्व संबन्धो न परिणामो नापि वृत्तौ सत्यां तत्प्रतिविम्बे विलम्ब इत्यर्थः । यदि च वृत्तीनामज्ञातत्वं स्यात्तर्हि जानामि न वेत्यादिसंशयापत्तिरिति ॥ १८ ॥ चित्तार्थयोर्भेदं परीक्ष्य चित्तपुरुपयोरपि भेदमाह-सदा ज्ञाताश्चित्तवृत्तय- । स्तत्प्रभोः पुरुपस्यापरिणामित्वात् । चित्तस्यार्थो ज्ञाताज्ञातरूप इत्युक्तम् । ये तु पुरुपस्यार्थाश्चित्तवृत्तयस्ते सदा ज्ञाता एव भवन्ति । अनेन वैधhण चितपु- रुषयोर्भेदः । यतस्तत्प्रभोवृत्तिभोक्तुः पुरुषस्य पूर्वसूत्रोक्तोपरागादिलक्षणाशेपपरिणा- मशून्यत्वात् । यदि सत्यपि विषये पुरुषः कदाचिदेवाकारः स्यात्तदा चित्तवत्स- . ..

पातञ्जलयोगसूत्रम् । [ कैवल्यपादः ४ रिणामी स्यात् । एवं सोऽपि ज्ञाताज्ञातविपयः स्यात्, नत्वेवं तस्मादपरिणामित्वा. खेतोः सदा ज्ञातविषयत्वम् । अविभागलक्षणप्रतिविम्बश्च संवन्धो न परिणामः। नापि वृत्तौ सत्यां तत्र विलम्वः अनादिवासनामूलत्वात् । अतएव जानामि नवा इच्छामि नवेति न संशयः ॥ १८॥ ननु वृत्तय एव स्वप्रकाशाः कल्प्यन्ते कृतं पुरुपेणेत्याशङ्कय निराकरोति- न तत्स्वाभासं दृश्यत्वात् ॥ १९ ॥ तच्चित्तवृत्तिरूपं न स्वाभासं न स्वप्रकाशं भवति । आकाशं स्वप्रतिष्ठमिति- वत् स्वगोचरप्रकाशं विनैव प्रकाशव्यवहारा(?)जानामीच्छामीत्यादिरूपैश्यतया- नुभवादित्यर्थः ॥ १९॥ ननु वृत्तय एव सन्तु खप्रकाशाः अग्निवत् किं वृत्तिज्ञात्रा पुरुषेणेति वैनाशि- काशङ्कायामाह-न तत्स्वाभासं दृश्यत्वात् । तच्चित्तवृत्तिरूपं न खाभासं न खप्रकाशं स्वगोचरप्रकाशं विना न प्रकाशव्यवहारक्षमम् । कुतः । दृश्यत्वात् परिणामितया नीलादिवत् । अनुभवव्याप्यं हि दृश्यं, यच्चानुभवव्याप्यं न तत्वा- भासं, स्वात्मनि वृत्तिविरोधात् । नहि तदेव क्रियाकर्म कर्ता च । पुरुषस्तु नानुभव- कर्म । अतो न तस्य खयंप्रकाशताविरोधः । अपराधीनप्रकाशता ह्यस्य स्वयं प्रकाशता नानुभवकर्मतेति मिश्राः । यत्तु मामहं जानामीत्यादौ पुरुपस्यानुभवव्याप्य- तानुभूयते सा त्वनाद्यविद्यावासनावशाच्चित्तप्रतिविम्वितस्यैवेति वोध्यम् । चित्ता- विभक्तत्वेन गृहीतस्य वृत्त्यविभागेन गृहीतविषयेति तत्वम् । या सत्त्वगता चिच्छ- क्तिस्तदभिव्यक्तिरेव प्रतिविम्वनम् । चिच्छक्तिद्वयं चात्र मते । एका नित्योदिता अपराभिव्यङ्ग्या । इयमेवान्तरङ्गत्वात्पुरुषस्य भोग्येति भोजराजः । एवं शब्दा- दिवजानामीच्छामीत्यादिरूपैदृश्यत्वेनानुभवान स्वाभासत्वमिति भावः । अग्निरपि ज्ञानादेव प्रकाशते इति दृष्टान्तासिद्धिः । किंचाग्नेः प्रकाशोऽपि क्रियारूप इति तस्यापरेणैव का करणेन च भाव्यम् । किंच यथा स्वात्मप्रतिष्ठमाकाशमित्यस्याप्र- तिष्टमित्येवार्थः एवं स्वाभासमित्यस्याग्राह्यमित्येवार्थः स्यात् । स चायुक्तः, स्वचि- त्तव्यापाराग्रहणेऽमुकाय क्रुद्धोऽहं भीतोऽहमित्याद्यमिलापानापत्तेः । ते च स्वाश्रयेण चित्तेन खविषयेण च सह प्रत्यात्ममनुभूयमानाः चित्तस्याग्राह्यतां विघटयन्तीति वोध्यम् ॥ १९॥ नन्वेवं सति स्वज्ञेयत्वमेव स्वाभासत्वं वक्तव्यं तत्राह- एकसमये चोभयानवधारणम् ॥ २० ॥ यदा वृत्तिरुत्पद्यते न तदात्मानं ग्रहीतुं शक्नोति साक्षात्कारे विषयस्य हेतुत्वा- दित्यर्थः । नचोत्पद्य द्वितीयक्षणे स्वं गृह्णीयादिति वाच्यम् । शब्दबुद्धिकर्मणां विरम्यव्यापाराभावेन द्विरर्थग्राहकत्वासंभवात् ॥ २० ॥ नन्वेवं खज्ञेयत्वमेव स्वाभासत्वमत आह-एकसमये चोभयानवधार- णम् । यदा वृत्तिरुत्पद्यते न तदात्मानं ग्रहीतुं शक्नोति साक्षात्कारे विषयस्य हेतु- भावागणेशीय-नागोजीभट्टीयवृत्ती । । . खादित्यर्थः । नचोत्पद्य द्वितीयक्षणे खं गृह्णाति । शब्दबुद्धिकर्मणां विरम्यव्यापाराभा- वेन द्विरर्थग्राहकलासंभवात् । कर्तृकर्मविरोधश्वोक्त एव ॥ २० ॥ ननु तथापि वृत्त्यन्तरैर्वृत्तयो ग्राह्यास्तत्राह- चित्तान्तरग्राह्ये वुद्धिबुद्धरतिप्रसङ्ग स्मृतिसंकरश्च॥२१॥ यदि वृत्तिश्चित्तान्तरेण वृत्त्यन्तरेण ग्राह्या स्यात्तदा बुद्धिबुद्धवृत्तिवृत्तीनाम- तिप्रसङ्गोऽनवस्था । तथा स्मृतिसंकरः। अयं घट इति वृत्तिदशायां घटतज्ज्ञान- ज्ञानाद्यनन्तवृत्त्य(नुभवे)ज्ञानधारापि मर्यंत । नत्वेवं सर्यते । तस्माद्वृत्त्यन्त- रेण वृत्तिर्गृह्यत इति स्वीकर्तुमशक्यमित्यर्थः । अनन्तवृत्तिकल्पनापेक्षया सकल- त्तिगोचरनित्यविवेकचैतन्यकल्पने लाघवमिति भावः ॥ २१ ॥ ननु वृत्त्यन्तरैर्वृत्तयो ग्राह्यास्तत्राह-चित्तान्तरग्राह्ये बुद्धिवुद्धरतिप्र- सङ्गः स्मृतिसंकरश्च । यदि वृत्तिश्चित्तान्तरेण गृह्येत तदा वुद्धिबुद्धेश्चित्तवृत्ती- नामतिप्रसङ्गोऽनवस्था । अगृहीताया बुद्धेः बुद्धिग्रहणासामर्थ्यात् । अतथात्वे खाद्याया अपि तादृश्या एव विपयग्राहकत्वं स्यादिति व्यर्था तत्कल्पना स्यात् । स्वयमप्र- काशमानाया इतरप्रकाशासामर्थ्यमिति चेत्तुल्यम् । स्मृतिसंकरश्च । यावतीनां बुद्धि- वृत्तीनामनुभवस्तावतीनां धारापि घटघटज्ञानात्स्मर्येत । नत्वेवं स्मर्यते । तस्मादृ- त्यन्तरैर्वृत्तिग्रहो न युक्तः । किंचानन्तवृत्तिकल्पनापेक्षया नित्यविवेकचैतन्यकल्पने लाघवमिति बोध्यम् । 'येपि साङ्ख्ययोगादयः स्वप्रकाशं ज्ञानमिति वदन्ति ते स्वश- ब्देन तत्स्वामिनं पुरुपं भोक्तारं गृह्णन्ति' इति भाष्यम् ॥ २१ ॥ ननु भवन्मतेऽप्यपरिणामिनः कथम(स्य वृत्तिदर्शनं तत्राह)- चितेरप्रतिसंक्रमायास्तदाकारापत्तौ खबुद्धि- संवेदनम् ॥ २२॥ अप्रतिसंचाराया अपि चितेः पुरुषस्य स्वीयबुद्धिवृत्तिदर्शनं बुद्धिवृत्त्याकाराप- त्त्यैव भवतीत्यर्थः । वृत्त्याकारतापत्तिश्च वृत्तिप्रतिविम्वितत्वं तस्य नित्यम् ॥२२॥ अथ स्वमते वृत्तिभानमुपपादयति-चितेरप्रतिसंक्रमायास्तदाकारा- पत्तौ स्वबुद्धिसंवेदनम् । अप्रतिसंक्रमाया अपरिणामिन्या अतएवाप्रतिवि- म्बिताया अपि चितिशक्तेः परिणाम्यर्थरूपा या बुद्धिवृत्तिस्तया विवेकाग्रहात् तदा- कारापत्ताविव जातायां स्खीयबुद्धिवृत्तिदर्शनं भवतीत्यर्थः । यदा प्रतिसंक्रमः संचा- रस्तद्रहिताया अपि बुद्धितद्वृत्तिमिविवेकाग्रहाद्बुद्धिवृत्तिसंचारेण संचरमाणाया इव विषयाकारवृत्त्यनाकाराया अपि तदाकारताया इवापत्तौ तद्दर्शनमित्यर्थः । तदुक्तं भाष्ये-'अपरिणामिनी हि भोक्तृशक्तिरप्रतिसंक्रमा च परिणामिन्यर्थे प्रतिसंक्रामति प्रतिसंक्रान्तेव तद्वृत्तिमनुपतति तस्याश्च प्राप्तचैतन्योपग्रहस्वरूपाया बुद्धिवृत्तरनुकार- मानतया बुद्धिवृत्त्यविशिष्टा हि ज्ञानवृत्तिरित्याख्यायते' इति । तथाच श्रुतिः---- ९८ पातञ्जलयोगसूत्रम् । [ कैवल्यपादः ४ . . 'न पातालं नच विवरं गिरीणां नैवान्धकार कुक्षयो नोदधीनाम् । गुहा यस्यां निहितं ब्रह्म शाश्वतं बुद्धिवृत्तिमविशिष्टां. कवयो वेदयन्ते' इति । अविशिष्टां विवेकाग्रहात् चितेरविशिष्टाम् । तस्यामेव गुहायां तत् गुह्यं ब्रह्म तदपनये तु स्वयमनावरणम- नुपसर्ग प्रद्योतते चरमदेहस्य भगवत इति मिश्राः ॥ २२ ॥ ननूत्पद्यतां कूटस्थस्यापि स्वबुद्धिज्ञानं प्रतिविम्वरूपसंवन्धाच्छब्दादिभानमा त्मभानं च कथं स्यात् ? साक्षात्प्रतिविम्वाङ्गीकारे शब्दादीनामज्ञानसत्तानुपपत्तेः, स्वस्मिन् साक्षात्स्वप्रतिविम्वासंभवाच्च ( इत्यत आह)- द्रष्टदृश्योपरक्तं चित्तं सर्वार्थम् ॥ २३ ॥ चित्तमेव पुरुपस्य सर्वार्थ ग्रहीतृग्रहणग्राह्यरूपाखिलदृश्याधारभूतम्' । न चित्तातिरिक्तं पुरुषस्य दृश्यमिति । यतो द्रष्टुंदृश्याभ्यामुप(रक्ता बुद्धिवृ)त्तिः साक्षादृश्या। तदारुढतया तु द्रष्टशब्दादिश्च दृश्यो भवतीति क्षणिकविज्ञानमेव चित्तमिति बौद्धमते चित्तातिरिक्त आत्मा प्रसाधितः ॥ २३ ॥ अथ चित्तातिरिक्तं (द्रष्टारं) प्रत्यक्षेणापि साधयति-द्रष्टदृश्योपरक्तं चित्तं सर्वार्थम् । सर्वार्थे प्रमाणीभूतमित्यर्थः । यथा नीलाद्यनुरक्तं चित्तं तमर्थ प्रत्यक्षेण स्थापयति, एवं द्रष्ट्रच्छायापनं चित्तं द्रष्टारमपि प्रत्यक्षेण स्थापयतीत्यर्थः । अत- एव नीलमहं वेमीत्यनुभवः । अहमिति प्रत्ययो हि चैतन्योपरक्तचित्तविषयः । एवं यद्यपि ज्ञाता प्रत्यक्षविषयस्तथापि न विविच्य यथा जले चन्द्रविम्वम् । तदुक्तं भाष्ये -'मनो हि मन्तव्यार्थेनोपरक्तं स्वयं च विषयत्वात् विषयिणा पुरुपेणात्मीयवृत्ति- द्वाराभिसंवद्धं द्रष्टदृश्योपरक्तं विषयविषयिनिर्भासं चेतनाचेतनखरूपापन्नं विषयात्म- कमपि अविषयात्मकमिवाचेतनमपि चेतनमिव स्फटिकमणिकल्पं सलमयत्वात्सर्वा- र्थमित्युच्यते । तदनेन चित्तसारूप्येण भ्रान्ताः केचित्तदेव चेतनमित्याहुरिति' । ननु समाधावालम्बनभाव आत्मनः कथमितिचेदन भाप्यं-'प्रतिविम्बीभूतस्य चित्त- त्तिद्वारा ज्ञेयत्वात्' मलिनेऽपि जलादौ अत्यन्तनिर्मलरवेः प्रतिविम्ववत्पुरुषादनिर्म- लेऽपि चित्ते पुरुषस्य प्रतिविम्बखीकाराददोषः । हृदयावच्छिन्नचित्ते तदवच्छिन्न- चैतन्यस्याविभागेनाविभक्तिरेव प्रतिविम्वितलम् । तदवच्छेदेन तथाभिव्यक्तस्य च चित्तवैधर्येण ज्ञानम् ॥ २३ ॥ इदानी वृत्यतिरिक्तस्थिरचित्ताभ्युपगन्तॄणामा' .."दर्शयति- तदसंख्येयवासनाभिश्चित्रमपि परार्थ संहत्यका- रित्वात् ॥ २४॥ यद्यपि द्रष्टदृश्यदर्शनगोचरायखिलवासनाभिश्चिन्नमिव चित्तं तिष्ठति ? अत- श्चित्तातिरिक्तपदा.... .....र्थत्वं संभवति । तथाप्येतत्परार्थ मन्तव्यम् । संहत्यकारित्वादित्यर्थः । अयं हेतुः प्रागेव व्याख्यातः ॥ २४ ॥ चित्तातिरिक्तात्मसद्भावे हेत्वन्तरमाह-तदसंख्येयवासनाभिश्चित्रमपि ....

भावागणेशीय-नागोजीभट्टीयवृत्ती। ९९ ...... - परार्थ संहत्यकारित्वात् । असंख्येयामिः कर्मवासनाभिः क्लेशवासनामिश्चि- जीकृतमिव चित्तम् । एवं च तासां चित्ताश्रयतया चित्तस्य भोक्तृत्वं योग्यम् । एवं च सर्व चित्तार्थमेव स्यात्तथापि तादृशमपि चित्तं परार्थमेव । परस्य नित्योदासी- नस्य पुरुषस्य भोगार्थमेव न स्वार्थ, संहत्यकारिखात् गृहादिवत् । संहत्यकारित्वं चेतरसाहित्येनार्थक्रियाकारित्वमिति प्रागेव व्याख्यातम् । सवरजस्तमसां चात्र सहकारिता । एवं च भोक्ता तद्गुणासंश्लिष्टः सिध्यति ॥ २४ ॥ तदेवसतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् (१२)इत्यादिसूत्र चित्तपुरुपयोश्च विवेकतः सत्वं परीक्षितम् । इदानीमेतज्ज्ञानादाचं मोक्षमादौ प्रतिपादयति- विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः ॥ २५ ॥ मातृमानमेयात्मकस्याखिलप्रपञ्चस्य तप्तायःपिण्डवदेकीभावापन्नस्यापि यथोक्त- प्रकारैरन्योन्यविशेपदर्शिनो विवेकदर्शिनश्चित्तस्य या पूर्वस्थिताऽऽस्मभावभावना स्वसत्ताजिज्ञासा किंवरूपोऽहमासं, किंस्वरूपो वा तिष्ठामि किंस्वरूपो चा भविष्यामीत्याद्याकारा तस्याः शोकाधनन्तानर्थहेतोर्विनिवृत्तिर्भवतीत्यर्थः । स्वर्गनरकमोक्षादिभिर्विचित्ररूपता चित्तादेरेव भवति न तु सदैकरूपचिन्मा- त्रस्य ममेत्यवधारणे सति नैवात्मभावे चिन्तोदेतीति भावः । तथाच श्रुतिः "तं ह वाव न तपति किमहं साधु नाकरवं किमहं पापमकरवं" इत्यादिरिति ॥२५॥ अथ मोक्षं प्रतिपादयति-विशेपदर्शिन आत्मभावभावनाविनि- वृत्तिः । मातृमानमेयात्मकस्याखिलप्रपञ्चस्य तप्तायःपिण्डवदेकीभावापन्नस्यापि यथोक्तप्रकाररन्योन्यविशेपदर्शिनो विवेकदर्शिनश्चित्तस्य या पूर्वस्थिता आत्मभाव- भावना स्वसत्ताजिज्ञासा किंखरूपोऽहमासं किंखरूपो भवामीयाकारा तस्याः शोकाद्य- नन्तानर्थहेतोनिवृत्तिर्भवतीत्यर्थः । इयमपि भावना कस्यचिदेव पुण्यभागिनोऽनुष्टिता- 'टायोगैकदेशस्यैव भवति । अन्यस्य तु कर्मफले मोक्षे च नास्तिकतादृष्ट्याऽरुचि- रेव तत्र भवति । तस्य च मोक्षमार्गश्रवणेन रोमहर्पाश्रुपाताभ्यामनुष्ठिताङ्गयोगे- कदेशत्वमनुमेयम् । विवेकदर्शिनस्तु स्वर्गनरकादिमिर्विचित्ररूपता चित्तस्यैव नतु सदैकरूपचिन्मात्रस्य मम, अंविद्यया हि' अहं चित्तधर्मः परामृष्टः, तदपगमे तु शुद्ध एवाहमिति जानतो नैवात्मभावभावनोचितेति भावः ॥ २५ ॥ आद्यस्तु मोक्षो ज्ञानेनेति पञ्चशिखाचार्यैरपि ज्ञानोत्पत्तिमात्रेणैवैको मोक्ष उक्तः । तस्य विशेपदर्शनलक्षणस्य वक्ष्यमाणमुक्तेश्च कारणं संप्रज्ञातयोगमाह- तदा विवेकनिन्नं कैवल्यप्राग्भारं चित्तम् ॥ २६ ॥ तदा विशेपदर्शनावस्थायामात्मभावभावनाविनिवृत्त्या. विक्षेपशून्यं चित्तं कैवल्यप्राग्भारं कैवल्याभिमुखं सद्विवेकनिम्नं स्वभावादेव विवेकमार्गसंचारि -विवेकनिष्टं भवतीत्यर्थः ॥ २६ ॥ .: तदवस्थायां कीदृशं चित्तं तदाह-तदा विवेकनिम्नं कैवल्यप्राग्भारं १० पा० यो० १०० पातञ्जलयोगसूत्रम् । [ कैवल्यपादः ४ चित्तम् । तदा विशेषदर्शनावस्थायामात्मभावभावनाविनिवृत्त्या विक्षेपशून्यं चित्तं कैवल्यप्राग्भारं कैवल्याभिमुखं सत् विवेकनिम्नं खभावादेव विवेकनिम्नं विवे- कमार्गसंचारि विवेकनिष्ठं भवतीत्यर्थः ॥ २६ ॥ ननु विशेषदर्शिनः संप्रज्ञातेन किं प्रयोजनमित्याकाङ्क्षायां सूत्रमिदं प्रवर्तते- तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ २७ ।। कोमलकण्टकन्यायेन विशेपदर्शने जातेऽपि विशेषदर्शनावसरे प्रत्ययान्तराणि मिथ्याज्ञानरूपाणि जायन्ते । कुतः । संस्कारेभ्यः । अनादिकालसंचितस्य दृढतर- संस्कारस्य चित्तस्वाभाव्यात् ॥ २७ ॥ नन्वेवं विशेषदर्शिनः संप्रज्ञातेन न प्रयोजनमत आह-तच्छिद्रेषु प्रत्य- यान्तराणि संस्कारेभ्यः। कोमलकण्टकन्यायेन विशेषदर्शने जातेऽपि तदवसरे तदन्तरालेषु अहंममेत्यादिप्रत्ययान्तराणि मिथ्याज्ञानरूपाणि जायन्ते क्षीयमाणे- भ्योऽपि प्राग्भवीयसंस्कारेभ्यस्तदर्थ संप्रज्ञात आवश्यक इति भावः ॥ २७ ॥ सति चित्ते तदुन्मूलनमशक्यं तत्राह- हानमेषां क्लेशवदुक्तम् ॥ २८ ॥ तेषां संस्काराणां हानं तु पूर्वाचायः क्लेशानामिवोक्तम् । यथानागताः क्लेशाः ज्ञानाग्निना दह्यन्त एवं तेषामत्यन्तोच्छेदस्तञ्चित्तेन सहैवेति ॥ २८ ॥ नन्वनादिकालसंचितस्य दृढतरसंस्कारस्य कथमुन्मूलनमत आह-हानमेषां क्लेशवदुक्तम् । यथा परिपक्वविज्ञाने दग्धवीजसदृशाः क्लेशा विवेकच्छिद्रसमु- त्पन्ना अपि न संस्कारान्तरं जनयन्ति तथा तेनैव दग्धवीजभावं प्रापिता व्युत्था- नसंस्कारा न अन्तरान्तरा प्रत्ययं जनयन्ति । एवं विवेकसंस्कारा निरोधसंस्कारैर्नि- रोद्धव्याः । परवैराग्यलक्षणज्ञानसंस्कारास्तु चित्तेन सह लीयन्त इति दिक् ॥ २८ ॥ संप्रज्ञातपरम्परयापि यथा प्रत्ययान्तराणि तच्छिद्रेषु नोत्पद्यन्ते तदाह द्वाभ्याम्- प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेधर्ममेघः समाधिः॥२९॥ प्रसंख्यानं विवेकसाक्षात्कारस्तत्रापि योऽकुसीदो वाधुपिकवत्सर्वभावाधिष्ठा- तृत्वादिरूपां सिद्धिं न प्रार्थयते तस्य योगविताभावेन सर्वथा निरन्तरं विवेकख्यात्युदयाद्धर्ममेघनानी संप्रज्ञातस्य पराकाष्ठा भवतीत्यर्थः । उत्तम योगजधर्म मेहति वर्पतीति धर्ममेघः ॥ २९ ॥ व्युत्थाननिरोधोपायं विवेकज्ञानमुक्त्वा तन्निरोधोपायमाह-प्रसंख्यानेऽप्य- कुसीदस्य सर्वथा विवेकख्यातेधर्ममेघः समाधिः । प्रसंख्यानं विवेक- साक्षात्कारस्तत्रापि योऽकुसीदः वाधुषिकवत्सर्वभावाधिष्ठातृत्वरूपां सिद्धिं न प्रार्थ- 7 भावागणशीय-नागोजीभट्टीयवृत्ती । १०१ - यते तदा तस्य योगविन्नाभावेन सर्वथा निरन्तरविवेकख्यातेरेवोदयः संस्कार- बीजक्षयाच न प्रत्ययान्तराणि तदा धर्ममेघनानी संप्रज्ञातस्य पराकाष्ठा भवती- त्यर्थः । उत्तमं योगजधर्म मेहति वर्षतीति धर्ममेघः ॥ २९ ॥ ततः किमित्यत आह- ततः क्लेशकर्मनिवृत्तिः ॥ ३०॥ ततो धर्ममेघसमाधेहेंतोईष्टद्वारा केशकर्मणां निवृत्तिहो भवति । केश- कर्मणी कदापि नोत्पद्यते इत्यर्थः । केशा अविद्यादयः पञ्च, कर्म अदृष्टम् । एत- सूत्रोक्तो ज्ञाननिष्पत्तिकार्यों द्वितीयो मोक्षः पञ्चशिखाचारप्युक्तः । द्वितीयो रागसंक्षयादिति । रागः क्लेशसामान्योपलक्षकः ॥ ३० ॥ तत्फलमाह-ततः क्लेशकर्मनिवृत्तिः। ततो धर्ममेघात्समाधेहेतोः क्लेशाना- मविद्यादीनां पञ्चानां कर्मणः अदृष्टस्य निवृत्तिर्दाहो भवति । क्लेशकमणी कदापि नोत्पद्येते इत्यर्थः । अस्यामवस्थायां जीवन्मुक्त उच्यते । कारणाभावेन पुनर्जन्मा- दर्शनादिति बोध्यम् ॥ ३० ॥ उक्तस्य जीवन्मुक्तस्य तृतीयं परममोक्षमुपपत्त्या सहाह सूत्राभ्याम् - तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ञ- यमल्पम् ॥ ३१ ॥ तदा जीवन्मुक्तावस्थायां सर्वयोः क्लेशकर्मणोानावरकमलयोरपगमनहे- तुना ज्ञानस्य सत्वप्रकाशस्यानन्त्याद्विभुत्वाध्यापकत्वाज्ञयं तत्प्रकाश्यमल्पं तदपेक्षया भवति । यदि हि पञ्चविंशतितत्त्वातिरिक्तमन्यदपि वस्तु तिष्ठेत्तदा तदपि प्रकाश्येत । ज्ञेयस्यैव त्वल्पतयाऽल्पं प्रकाश्यते नतु स्वत्याल्पतये- त्यर्थः : ॥ ३१ ॥ धर्ममेघे सति यादृशं चित्तं तदाह-तदा सर्वावरणमलापेतस्य ज्ञान- स्यानन्त्याउनेयमल्पम् । आवरणं रजस्तमसी । मलाः क्लेशकर्माणि तैः सर्वप्र- काररपेतस्य विमुक्तस्य ज्ञानस्य चित्तसवस्यानन्त्याज्ज्ञेयमल्पं भवतीत्यर्थः । पूर्व हि तमसामिभूतं सत्वं क्वचिदेव रज उद्घाट्य प्रवर्तितं ग्रहणसमर्थ भवति । सर्वमलापगमे हि सर्वस्य युगपदशेपविशेपतो ज्ञातत्वात्सर्वतो विरक्तं चित्तं विवेकसाक्षात्कारेऽपि किंबहुनात्मसाक्षात्कारेऽपि विरक्तं भवतीति भावः । इदमेव ज्ञेयस्याल्पत्वं यद्वैरा- ग्यविपयत्वं, तस्मिंश्च सर्वचित्तवृत्तिनिरोध इति तत्त्वम् । तदवस्थेनापि देहाबारम्भ इदमपि सत्यं स्यात्-अन्धो मणिमविध्यत् तमनगुलिरपथदग्रीवस्तं कण्ठे धृतवांस्त- मजिह्वोऽस्तौदिति ॥ ३१॥ किमित्यत आह- ततः कृतार्थानां परिणामक्रमसमाप्तिगुणानाम् ॥३२॥ ततो ज्ञानस्यानन्त्यात्परवैराग्येण कृतार्थानां समाप्तपुरुपार्थानां गुणानां । ततः १०२ पातञ्जलयोगसूत्रम् । [ कैवल्यपादः ४ सत्वादीनां प्रकृत्याख्यानां परिणामक्रमः समाप्यते । पुरुषाणां भोगौपयिकः परिणामः पुनर्न भवतीत्यर्थः । क्रमश्चाविरला धारेत्युत्तरसूत्रे वक्ष्यते । अन सार्वयानन्तरं मुक्तिरिति राजमार्गाभिप्रायेणैवोक्तं नत्वयं नियमः । अनीश्वरस्या- सर्वज्ञस्याप्यभिमाननिवृत्त्यैव कैवल्यस्य भाष्यकृता व्याख्यातत्वात्तृतीयपादान्त्य- सूत्र इति ॥ ३२॥ ततः किं तत्राह-ततः कृतार्थानां परिणामक्रमसमातिर्गुणानाम् । ततः परवैराग्यानन्तरं कृतार्थानां समाप्ततत्पुरुषार्थानां गुणानां सत्वादीनां प्रकृ. त्याख्यानां तत्पुरुष प्रति परिणामक्रमः समाप्यते । कृतार्थपुरुपभोगौपयिकः परि- णामः पुनर्न भवतीत्यर्थः । क्रमश्चोत्तरसूत्रे वक्ष्यते । अत्र सार्वश्यानन्तरं मुक्तिर- वश्यं भवत्येवेत्यभिप्रायेणोक्तं नत्वयं नियमः । अनीश्वरस्यासर्वज्ञस्यापि अभिमा- ननिवृत्त्यैव कैवल्यस्य भाष्यकृता तृतीयपादान्त्यसूत्रे उक्तत्वादिति दिक् ॥ ३२ ॥ ननु परिणामसमाप्तिरिति वक्तव्ये क्रमशब्दः परिणामानां प्रतिक्षणमुत्पादवि- नाशकथनेन वैराग्योत्पादनाय प्रयुक्तः स चायमर्थः कथं क्रमशब्दालभ्यते ? क्रमशब्दस्य पौर्वापर्यमानवाचित्वादित्याशयेन क्रमशब्दार्थमाह- क्षणप्रतियोगी परिणामापरान्तनिहिः क्रमः ॥ ३३ ॥ क्षणप्रतियोगी क्षणस्यावसरस्य विरोधी क्षणेनाप्यनन्तरित इति यावत् । एवं. रूपोऽत्र क्रमो विवक्षितो नतु पौर्वापर्यमात्रमिति विशेष्यदलार्थः । परिणामश्च पूर्वधर्मापाये धर्मान्तरोत्पत्तिरित्युक्तम् । ईदृशक्रमे प्रसाणं दर्शयति-परि- णामापरान्तनिर्ग्राह्य इति । वस्त्रादिरूपस्य परिणामस्य पूर्वान्तापेक्षयाऽपरान्तेन चरमावस्थयाऽनवच्छिन्नपरिणामधारानुमीयत इत्यर्थः । वस्त्रादेहि दृश्यमाना विनश्यदवस्थाऽवयवापचयादिपरम्परयैवानुभूयते । तस्मिंश्वापचयोपचयादिरूप- परिणामे कालविशेपहेतुताया दुर्वचत्वेन, लाधवात् क्षणत्वेनैव हेतुतावधार्यते। अतः सुवर्णाद्यखिलवस्तुष्वपि वस्त्रादिदृष्टान्तेन प्रतिक्षणमनवच्छिन्ना परिणाम- धारानुमीयत इत्यस्मिन्सूत्रे भाष्यकृता सृष्ट्यादिप्रवाहस्यात्यन्तोच्छेदो नास्तीति सिद्धान्तितम् । तथाच विष्णुपुराणमपि-"अनादिर्भगवान्कालो नान्तोऽस्य द्विज विद्यते । अव्युच्छिन्नास्ततस्त्वेते सर्गस्थित्यन्तसंयमाः” इति ॥ ३३ ॥ ननु परिणामसमाप्तिरिति वक्तव्ये क्रमशब्दः परिणामानां प्रतिक्षणमुत्पादविना- शकथनेन वैराग्योत्पादनाय प्रयुक्तः स चायमर्थः कथं क्रमशब्दालभ्यते तस्य पौर्वापर्यमात्रवाचित्वादत आह-क्षणप्रतियोगी परिणामापरान्तनिर्माह्यः क्रमः। क्षणप्रतियोगी क्षणः प्रतियोगी प्रतिसंवन्धी यस्य सः क्षणप्रचयाश्रयः स एवात्र क्रमो विवक्षितो न तु पौर्वापर्यमात्रमित्यर्थः । परिणामश्च पूर्वधर्मापाये धर्मा- न्तरोत्पत्तिः । ईदृशक्रमे प्रमाणमाह-परिणामापरान्तनिर्ग्राह्यः वस्त्रादिरूपपरिणाम- स्यापरान्तेन चरमावस्थयाऽनवच्छिन्नपरिणामधाराजुमीयत इत्यर्थः । वस्त्रादेर्हि दृश्यमाना विनश्यदवस्थाऽवयवापचयपरम्परयैवानुभूयते । वृक्षादेरुपचयोऽप्येवम् । तस्मिंश्चोपचयापचयादिरूपे परिणामे कालविशेषहेतुताया दुर्वचत्वेन लाघवारक्षण- भावागणेशीय-नागोजीभट्टीयवृत्ती । १०३ . त्वेनैव हेतुतावधार्यते । अतः सुवर्णाद्यखिलवस्तुप्वपि वस्त्रादिदृष्टान्तेन प्रतिक्षणम: नवच्छिन्ना परिणामधाराऽनुमीयते । प्रधानकार्यगतः परिणामक्रम एव प्रधानस्यापि नतु खतस्तस्य सोऽस्ति । परिणममानेऽपि तस्मिन् विघाताभावाच्च तस्य नित्य- खम् । अतएव परिणामिनिसं तत् । कूटस्थनित्यस्तु पुरुषस्तेपु बद्धेषु चित्ताव्यति- रेकाभिमानात्तत्परिणामे परिणामाध्यासः । मुक्तेपु तु न सोऽपि । अत्र भाप्यकृता सृष्ट्यादिप्रवाहस्यात्यन्तोच्छेदो नास्ति अनन्तलाज्जीवानामिति सिद्धान्तितम् । विष्णुपुराणेऽपि 'अनादिर्भगवान्कालो नान्तोऽस्य द्विज विद्यते । अव्युच्छिन्नास्त- तस्त्वेते सर्गस्थित्यन्तसंयमाः' इति ॥ ३३ ॥ कैवल्यस्वरूपमाह- - पुरुपार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं खरूप- प्रतिष्ठा वा चितिशक्तिरिति ॥ ३४ ॥ कृतकर्तव्यतया पुरुषार्थशून्यानां गुणानां पुरुपोपकरणानां लिङ्गशरीरात्मकानां यः प्रतिग्रलवः स्वकारणेऽत्यन्तविलयः स प्रकृतेः कैवल्यम् । या तु धर्माभेदा- ञ्चितिशक्तिस्वरूपिणी स्वरूपप्रतिष्टा बुद्धिसत्त्वोपाधिकरूपशून्यत्वरूपा जपापाये स्फटिकस्वरूपप्रतिष्टावत् , सा पुरुपस्य कैवल्यमित्यर्थः । परस्परवियोगे हि प्रकृ. तिपुल्पयोरपि केवलता एकाकिता भवति । इतिशब्दः शास्त्रसमाप्तौ ॥ ३४ ॥ वृत्तिदीपोऽयमुद्रास्य वृत्त्यन्तरतमोपहः । यथार्थयोगसूत्रार्थदृष्टयेऽस्तु सदा सताम् ।। इति श्रीमत्परमहंसपरिव्राजकविज्ञानाचार्यशिप्याय्यभावागणेशभकृतायां पातालवृत्तौ कैवल्यपादश्चतुर्थः समाप्तः । कैवल्यखरूपमाह-पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति । अत्र गुणशब्देन बुद्धिरूपतया परिणताः सलादय उत्ताः । कैवल्यमेकाकिता । साचान्योन्यमविभक्कानामन्योन्यवियोगरूप- तया गुणपुरुपयोरेव भवति । तत्र विवेकख्यात्या परवैराग्येण पुरुषार्थशून्यानां गुणानां पुरुपोपकरणवासनासहितानामात्यन्तिकः प्रतिप्रसवः प्रधाने लयस्तस्मात्पु- रुपादत्यन्तवियोगस्तदेतद्यत्किंचित्पुरुपं प्रति प्रधानस्य कैवल्यम् । पुरुषस्य तु वरू- पप्रतिष्टा, सदा प्रतिविम्वरूपेणोपाधिना वियुक्ता चितिशक्तिरूपा तत्कैवल्यमित्यर्थः । वाशब्दो व्यवस्थितविकल्पे । एवं हि पुरुपस्यात्यन्तिकदुःखभोगनिवृत्तिरूपपरमपुरु- पार्थपर्यवसानं भवति ॥ ये तु परमात्मनि जीवात्मलयो मोक्ष इति वदन्ति तन्म- तेऽपि समुद्रे नदीनामिव ब्रह्मणि जीवानामुपाघिलयेनाविभाग एव लयशब्दार्थ इति न विरोधः । येऽप्यात्मनि अपविशेषगुणोच्छेदो मोक्ष इति वदन्ति वैशेपिकाः तदपि नास्माकं विरुद्धम्, उपाधिविशेषगुणानामेवोपाधिमत्युपचारेण तटुच्छेदस्या- १०४ पातञ्जलयोगसूत्रम् । [ कैवल्यपादः ४ प्युपचारात् । आत्यन्तिकी दुःखनिवृत्तिर्मोक्ष इति नैयायिकाः । तत्र भोग्यभोक्त. भावसंबन्धेन दुःखनिवृत्तिः पुरुषार्थो न समवायेनेत्येतावान्विशेषः । वस्तुतो वैशे- षिकमतवदेव तेनाविरोधः । यदपि नित्यानन्दावाप्तिर्मोक्ष इति तदपि निर्दुःखतारू- पानन्दावाप्तिपरत्वे (न) किंचिद्विरुद्धम् । विद्वान्हर्षशोको जहातीत्यादि तु वैषयिक- हर्षपरम् । ये तु वास्तवमात्मनः कर्तृत्वं भोत्कृत्वमनुसंधातृत्वं मन्यन्ते तेषां तद्रूपेण परिणामित्वापत्त्याऽनित्यत्वप्रसङ्गः । यदवस्थस्य सुखानुभवितृत्वं न तदवस्थस्य दुःखानुभवितृत्वम् । अवस्थाभेदाङ्गीकारे चावस्थावतोऽपि नानात्वापत्त्यैकत्वभङ्गः । तस्माद्बुद्धियोगे यदात्मनोऽधिष्टातृत्वं चिच्छायाग्रहणसामर्थ्य बुद्धिसत्त्वस्य तद्हण- सामर्थ्य [च चितेः ?] तेन बुद्धयः कर्तृत्वाध्यवसायस्तेनैवाऽत्मनोऽपि तथाभासो न वास्तवं कर्तृत्वादीत्यास्थेयम् । मोक्षदशायां तु ग्राह्यग्राहकलक्षणव्यवहाराभावात्ख- रूपेणैवावतिष्ठते नात्मग्राहकत्वेन । स्वरूपं ह्यहमिति गृह्येत । नतु तदा तथा ग्रहीतुं शक्यम् । अहंताया अभावात् । निर्विकल्पकं तु स्वरूपप्रतिष्ठापर्यवसाय्येवेति दिक् ॥ ननु ज्ञानवरूप एव तवात्मा ज्ञानं खसंवेद्यमेवेति नियमभङ्ग इति चेन्न, वृत्ति- रूपज्ञानविषय एवैतादृशनियमात् । यदपि नैयायिकाः जडे आत्मनि मनःसंयो- गादिना ज्ञानोत्पत्तिमङ्गीकुर्वन्ति तेषां [विरोधसमाधौ ] इतरव्यावृत्तं किमात्मत्वम् । नित्यत्वव्यापकत्वजातिमत्त्वानामाकाशमनआदिवृत्तित्वेन तव्यावर्तकत्वाभावात् । तस्मात्तदा जडेभ्यो व्यावृत्तये चिद्रूपताऽवश्यं स्वीकार्या । येऽप्यहंप्रत्यये आत्मनः कर्तृत्वं कर्मत्वं च वदन्ति तेऽपि कर्तृत्वकरणत्वयोरिव कर्मकर्तृत्वयोरपि विरोधेन निरस्ताः । तस्माचेतनोऽधिष्टातेत्येव युक्तम् । केचित्तु कर्तृत्वमेवात्मनः । तथाहि विषयसान्निध्ये या ज्ञानलक्षणा क्रिया समुत्पन्ना तस्या विषयसंवित्तिः फलं, तस्यां च फलरूपायां संवित्तौ ज्ञानं क्रियास्वरूपं प्रकाशरूपतया प्रतिभासते । विषयश्च ग्राह्यतया आत्माग्राहकत्वेन घटमहं जानामीत्येवंप्रकारेण तस्याः समुत्पत्तेः । अतः कर्तृत्वं भोक्तृत्वं चात्मनो रूपमिति वदन्ति । तेऽपि नैयायिकवदेव निरसनीया इति शिवम् ॥ ३४ ॥ इति श्रीपातञ्जलयोगसूत्रवृत्ती नागोजिभट्टीयायां कैवल्यपादश्चतुर्थः। विचार्य बहुतन्त्राणि योगसूत्रेषु या कृता । वृत्तिस्तया प्रीयतां मे भगवान्स फणीश्वरः ॥ । ॥ समाप्त पातञ्जलयोगदर्शनम् ॥

श्रीः योगसूत्रानुक्रमणिका। पा. सू. पा. सू. ४ १ वोधः ... ३ ३ अ.. एतेन भूतेन्द्रियेषु धर्मलक्षणा- अतीतानागतं खरूपतोऽस्त्य- वस्थापरिणामा व्याख्याताः ३ १३ ध्वभेदाधर्माणाम् १२ क. अथ योगानुशासनम् १ कण्ठकूपे क्षुत्पिपासानिवृत्तिः ३ २९ अनित्याशुचिदुःखानात्मसु नि कर्माशुक्ल कृष्णं योगिन स्त्रिवि- त्यशुचिसुखात्मख्यातिरविद्या २ धमितरेपाम् अनुभूतविपयासंप्रमोपः स्मृतिः १ ११ क्रमान्यत्वं परिणामान्यत्वे हे- अपरिग्रहस्थैर्ये जन्मकथंतासं- ३ १५ २ ३९) कायरूपसंयमात्तबाह्यशक्ति- अभावप्रत्ययालम्बनावृत्तिनिद्रा १ १० स्तम्मे चक्षुःप्रकाशासंप्र- अभ्यासपैराग्याभ्यां तनिरोधः १ १२ योगेऽन्तर्धानम् २१ अविद्यास्मितारागद्वेषाभिनिवे- कायाकाशयोः संवन्धसंयमा- शाः क्लेशाः २ लघुतूलसमापत्तेश्चाकाश- अविद्याक्षेत्रमुत्तरेपां प्रसुप्तत- गमनम् ... ३ ४१ नुविच्छिन्नोदाराणाम् २ ४ | कायेन्द्रियसिद्धिरशुद्धिक्षयात्त- अस्तेयप्रतिष्टायां सर्वरत्नोप- पसः २ ४३ स्थानम् . २ ३७ | कूर्मनाज्यां स्थैर्यम् ... ३ ३० अहिंसाप्रतिष्ठायां तत्सन्निधौ कृतार्थ प्रति नष्टमप्यनष्टं तद- वैरत्यागः न्यसाधारणखात् २ २२ ई. क्लेशकर्मविपाकाशयैरपरामृष्टः ईश्वरप्रणिधानाद्वा ... १ २३ पुरुषविशेप ईश्वरः २४ उ. क्लेशमूलः कर्माशयो दृष्टादृष्ट- उदानजयाज्जलपङ्ककण्टकादि- जन्मवेदनीयः २ १२ ध्वसन उत्क्रान्तिश्च ३ ३८ ग. ऋ. ग्रहणखरूपास्मितान्वयार्थव- ऋतंभरा तत्र प्रज्ञा १ ४८ स्वसंयमादिन्द्रियजयः... ३ ४६ च. एकसमये चोभयानवधारणम् ४ २० | चन्द्रे ताराव्यूहज्ञानम् ३ २६ एतयैव सविचारा निर्विचारा चित्तान्तरग्राह्ये बुद्धिबुद्धरति- च सूक्ष्म विषया व्याख्याता १ ४४ प्रसङ्गः स्मृतिसंकरच २१ ܩܢ ...

२ योगसूत्रानुक्रमणिका । ३ ४४) ... ४ ४७ ९ ... ४ ६ ४ , पा. सू. पा. सू. चितेरप्रतिसङ्क्रमायास्तदाका ततः क्षीयते प्रकाशावरणम् २ रापत्तौ स्वबुद्धिसंवेदनम् ४ २२ ततोऽणिमादिप्रादुर्भावः काय- सम्पत्तद्धर्मानभिघातच जन्मौषधिमन्त्रतपःसमाधि- ततो द्वन्द्वानभिघातः २ जाः सिद्धयः ततो मनोजवित्वं विकरण- १ जातिदेशकालव्यवहितानाम- . भाव: प्रधानजयश्च ३ प्यानन्तर्य स्मृतिसंस्कार- तत्परं . पुरुषख्यातेर्गुणवैतृ- योरेकरूपलात्... एण्यम् १ १६ जातिदेशकालसमयानवच्छि- तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः १ ३२ नाः सार्वभौमा महाव्रतम् २ ३१ | तन्त्र प्रत्ययकतानता ध्यानम् ३ २ जातिलक्षणदेशैरन्यतानवच्छे तत्र स्थितो. यत्नोऽभ्यासः १ १३ दात्तुल्ययोस्ततः प्रतिपत्तिः ३ ५२ तत्र ध्यानजमनाशयम् जात्यन्तरपरिणामः प्रकृत्या तत्र निरतिशयं सर्वज्ञवीजम् १ २५ पूरात २ | तत्र शब्दार्थज्ञान विकल्पैः सं- त. कीर्णा सवितर्का समा- तच्छिद्रेषु प्रत्ययान्तराणि सं. पत्तिः १ स्कारेभ्यः २७ तंत्राहिंसांसत्यास्तेयब्रह्मचर्या- तज्जपस्तदर्थभावनम् । २८ परिग्रहा यमाः... ३०, तज्जयात्प्रज्ञालोकः । तदर्थ एवं दृश्यस्यात्मा २१ तज्जः संस्कारोऽन्यसंस्कार- तदपि वहिरङ्ग निर्वीजस्य प्रतिवन्धी तदभावात्संयोगाभावो हानं. ततः कृतार्थानां परिणामक- तदृशेः कैवल्यम् २ २५ मसमाप्तिर्गुणानाम् ३२ तदसंख्येयवासनाभिश्चित्रम- ततः क्लेशकर्मनिवृत्तिः पि परार्थ संहत्यकारित्वात् ४ २४ ततः परमावश्यतेन्द्रियाणाम् २ ५५ तदा द्रष्टुः स्वरूपेऽवस्थानम् १ ततः पुनः शान्तोदितौ तुल्य. तदा विवेकनिनं कैवल्यप्रा- प्रत्ययौ चित्तस्यैकाग्रताप- ग्भारं चित्तम् २६ रिणामः १२ तदा सर्वावरणमलापेतस्य ततः प्रत्यक्चेतनाधिगमोऽप्य- ज्ञानस्यानन्त्याज्ज्ञेयमल्पम् ४ न्तरायाभावश्च ... २९ तदुपरागपेक्षिवादस्य वस्तु ततः प्रातिभश्रावणवेदनाद- खादवार्ता जायन्ते... ३ ३ ३५ ज्ञाताज्ञातम् ततस्तद्विपाकानुगुणानामेवा- तदेवार्थमात्र निर्भासं स्वरूप- भिव्यकिर्वासनानाम् शून्यमिव समाधिः ... ४ १ MY २ U ܩܢ ४ ३ ४ ... ३ ३१ १ १७ ४ ३ MY योगसूत्रानुक्रमणिका । Com ८ स्मिता ... aw १ १ २ १ ... ४ ... पा. सू. पा. सू. तद्वैराग्यादपि दोषवीजक्षये दुःखदौमनस्यानमेजयत्वश्वा- कैवल्यम् ... ३ ४९ सप्रश्वासा विक्षेपसहभुवः १ ३१ लपाखाध्यायेश्वरप्रणिधानानि दुःखानुशंयी द्वेषः २ क्रियायोगः १/ दृग्दर्शनशक्त्योरेकात्मतेवा- तस्मिन्सति श्वासप्रश्वासंयो- ६ गतिविच्छेदः प्राणायामः २ ४९ दृष्टानुश्रविकविषय वितृष्णस्य तस्य प्रशान्तवाहिता संस्का- वशीकारसंज्ञा वैराग्यम् १ १५ रात् १० देशवन्धश्चित्तस्य धारणा तस्य भूमिघु विनियोगः ३ ६ ध. तस्य वाचकः प्रणवः २७ धारणासु च योग्यता मनसः २ तस्य सप्तधा प्रान्तभूमिः प्रज्ञा २ २७ | ध्यानहेयास्तद्वृतयः ११ तस्य हेतुरविद्या २४ | ध्रुवे तद्गतिज्ञानम् ३ २७ तस्यापि निरोधे संवनिरोधा- निर्वाजः समाधिः ५१ | नचैकचित्ततन्त्रं वस्तु तत्प्र- ता एव सबीजः समाधिः ... १ माणकं तदा किं स्यात् ४ १६ तारकं सर्वविपयं सर्वथाविप- न तत्वाभांसं दृश्यखात् १९ - यमक्रमं चेति विवेकज- नामिचक्रे कायव्यूहज्ञानम्... ३ २८ ज्ञानम् ५३ | निमित्तमप्रयोजकं प्रकृतीनां तासामनादित्वं चांशिपो नि- वरणभेदस्तु ततः क्षेत्रिक- वत् ३ त्यलात्.. तीव्रसंवेगानामासन्नः निर्माणचित्तान्यस्मितामात्रात् ४ २१ निर्विचारवैशारोऽध्यात्मप्र- ते प्रतिप्रसवहेयाः सूक्ष्माः २ १० ते हादपरितापफलाः पुण्या- सादः पुण्यहेतुत्वांत् १४ ते व्यक्तसूक्ष्मा गुणात्मानः ४ परमाणुपरममहत्त्वान्तोऽस्य १३ ते समाधावुपसर्गा व्युत्थाने वशीकारः १ ४० सिद्धयः परिणामतापसंस्कारदुःखैर्गुण- वृत्तिविरोधाच दुःखमेव त्रयमन्तरङ्गं पूर्वेभ्यः ३ सर्व विवेकिनः २ त्रयमेकत्र संयमः ३ परिणामत्रयसंयमादतीताना- द. गतज्ञानम् ३ १६ द्रष्टा दृशिमात्रः शुद्धोऽपि प्र- परिणामैकत्वाद्वस्तुतत्त्वम् १४ त्ययानुपश्यः २ २० पुरुषार्थशून्यानां गुणानां प्र- द्रष्टदृश्ययोः संयोगो हेयहेतुः २ तिप्रसवः कैवल्यं स्वरूपप्र- द्रष्टदृश्योपरक्तं चित्तं सर्वार्थम् ४ २३ तिष्ठा वा चितिशक्तिरिति ४ ३४ ४ ... ४ ... १ १ ४७ . ... २ १५ ... ४ ... .

४ योगसूत्रानुक्रमणिका २ ... ... १ ३ ur १ ३ ४७ . २ १ २ ... पा. सू. पा. सू. प्रकाशक्रियास्थितिशीलं भूते- न्द्रियात्मकं भोगापवर्गार्थ मूर्धज्योतिषि सिद्धदर्शनम् ... ३ ३१ दृश्यम् १८ मृदुमध्याधिमात्रखात्ततोऽपि प्रच्छर्दन विधारणाभ्यां वा प्रा- विशेषः .. १ णस्य ३४ मैत्रीकरुणामुदितोपेक्षाणां सु- प्रत्ययस्य परचित्तज्ञानम् १९ खदुःखपुण्यापुण्यविषया- प्रमाणविपर्ययविकल्पनिद्रा- णां भावनातश्चित्तप्रसाद- स्मृतयः नम् ३३ प्रयत्नशैथिल्यानन्तसमापत्ति- मैत्र्यादिषु बलानि ... २२ भ्याम् २ प्रवृत्तिभेदे प्रयोजकं चित्तमे- यथाभिमतध्यानाद्वा ३९ कमनेकेषाम् ५ यमनियमासनप्राणायामप्र- प्रकृत्यालोकन्यासात्सूक्ष्मव्य- त्याहारधारणाध्यानसमा- वहितविप्रकृष्टज्ञानम् ३ २४ धयोऽष्टावङ्गानि २९ प्रसंख्यानेऽप्यकुसीदस्य सर्व- योगश्चित्तवृत्तिनिरोधः था विवेकख्यातिधर्ममेघः योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञा- समाधिः २९ नदीप्तिराविवेकख्यातेः... २ प्रातिभाद्वा सर्वम् ३ ३२ / रूपलावण्यबलवज्रसंहननवा- वन नि कायसंपत् .. वन्धकारणशैथिल्यात्प्रचारसं- व. वेदनाच चित्तस्य परशरी- वस्तुसाम्ये चित्तभेदात्तयोर्वि- रावेशः. ३ ३७ भक्तः पन्थाः १५. ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः २ ३८ वितर्कवाधने प्रतिपक्षभावन- बलेषु हस्तिबलादीनि ३ २३ म् २ ३३ बहिरकल्पिता वृत्तिर्महाविदेहा वितर्कविचारानन्दास्मितारू- ततः प्रकाशावरणक्षयः ३ ४२ पानुगमात्संप्रज्ञातः १ १७ वाह्याभ्यन्तरस्तम्भवृत्तिर्देश- वितर्का हिंसादयः कृतकारि- कालसंख्याभिः परिदृष्टो तानुमोदिता लोभक्रोध- दीर्घसूक्ष्मः मोहपूर्वका मृदुमध्याधि- बाह्याभ्यन्तरविषयाक्षेपी च- माना दुःखाज्ञानानन्तफ- तुर्थः २ ५१ ला इति प्रतिपक्षभावनम् २ ३४ विपर्ययो मिथ्याज्ञानमतद्रूप- भवप्रत्ययो विदेहप्रकृतिलया- प्रतिष्ठम् नाम् १९ | विरामप्रत्ययाभ्यासपूर्वः सं- भुवनज्ञानं सूर्ये संयमात् ३ २५ स्कारशेषोऽन्यः... १८ ... २ ... १ १ योगसूत्रानुक्रमणिका । ६ पा. सू. पा. ... १ ४ २ ३ ४० १३ १ ... १ विवेकख्यातिरविप्लवा हानो. श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापू- पायः बैंक इतरेपाम् ... २० र विशेषदर्शिन आत्मभावभाव श्रुतानुमानप्रज्ञाभ्यामन्यविप- नाविनिवृत्तिः या विशेषार्थलात् १ ४९ विशेपाविशेषलिङ्गमात्रालिङ्गा- श्रोत्राकाशयोः संवन्धसंयमा- नि गुणपर्वाणि १९ दिव्यं श्रोत्रम् विशोका वा ज्योतिष्मती १ ३६ विपयवती वा प्रवृत्तिरुत्पन्ना स एप पूर्वेषामपि गुरुः काले- मनसः स्थितिनिवन्धिनी १ नानवच्छेदात् १ २६ वीतरागविषयं वा चित्तम् ... १ ३७ सति मूले तद्विपाको जात्या- वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः १ युभॊगाः वृत्तिसारूप्यमितरत्र ४ | सतु दीर्घकालनैरन्तर्यसत्का- थाधिस्त्यानसंशयप्रमादाल- रासेवितो दृढभूमिः १ १४ स्याविरतिभ्रान्तिदर्शनाल- सत्यप्रतिष्ठायां कियाफलाश्र- ब्धभूमिकलानवस्थितत्वा- यत्वम् २ ३५ नि चित्तविक्षेपास्तेऽन्तरा सत्त्वपुरुषयोरत्यन्तासङ्कीर्ण- या: ३० योः प्रत्ययाविशेपो भोगः गुत्थाननिरोधसंस्कारयोर- परार्थत्वात्स्वार्थसंयमात्पु- (भिभवप्रादुर्भावौ निरोध- रुपज्ञानम् ३ ३४ क्षणचित्तान्वयो निरोधप सत्त्वपुरुषयोः शुद्धिसाम्ये कै- रिणामः... वल्यम् ... ३ ५४ सत्त्वपुरुषान्यताख्यातिमात्र- शब्दज्ञानानुपाती वस्तुशून्यो स्य सर्वभावाधिष्ठातृत्वं स- विकल्पः वैज्ञातृत्वं च १ ९ ३ ४८ शब्दार्थप्रत्ययानामितरेतरा- सत्त्वशुद्धौ सौमनस्यैकाय्येन्द्रि- ध्यासात्संकरस्तत्प्रविभा- यजयात्मदर्शनयोग्यत्वा- गसंयमात्सर्वभूतरुतज्ञान- २ ४१ मू १७ सदाज्ञाताश्चित्तवृत्तयस्तत्प्रभोः शान्तोदिताव्यपदेश्यधर्मानु पुरुषस्यापरिणामात् १८ पाती धर्मी १४ समाधिभावनार्थः क्लेशतनूक- शौचसंतोषतपःखाध्यायेश्वर- रणार्थश्व २ २ प्रणिधानानि नियमाः २ ३९ / समाधिसिद्धिरीश्वरप्रणिधानात् २ चात्स्वागजुगुप्सा परैरसंस- समानजयाज्वलनम् न २ ४० ] संतोषादनुत्तमः सुखलाभः २ ४२ ... ३ ९ . ... नि च ३ ...४ ow ... ...

६ योगसूत्रानुक्रमणिका । पा. ३ २ २ -० ३ संस्कारसाक्षात्करणात्पूर्वजा- खविषयासंप्रयोगे चित्तस्य तिज्ञानम् १८ .खरूपानुकार इवेन्द्रियाणां सर्वार्थतैकाग्रतयोः क्षयोदयौ प्रत्याहारः चित्तस्य समाधिपरिणामः ३ ११ स्वस्वामिशक्त्योः खरूपोपल- सुखानुशयी रागः ... २ ब्धिहेतुः संयोगः सूक्ष्मविषयत्वं चालिङ्गपर्यव- स्वाध्यायादिष्टदेवतासंप्रयोगः २ सानम् ४५ ह. सोपक्रम निरुपक्रमं च कर्म हानमेषां क्लेशवदुक्तम् तत्संयमादपरान्तज्ञानम- हृदये चिंत्तसंवित्.. रिष्टेभ्यो वा हेतुफलाश्रयालम्वनैः संगृही- स्थान्युपनिमन्त्रणे सगस्मया- तत्वादेषामभावे.तदभाव: ४ .. करणं पुनरनिष्टप्रसङ्गात् ३ ५० हेयं दुःखमनागतम् स्थिरसुखमासनम् । २ ४६ स्थूलखरूपसूक्ष्मान्वयार्थव- त्वसंयमाद्भूतजयः क्षणतत्कमयोः संयमाद्विवेक- स्मृतिपरिशुद्धौ खरूपशून्ये- वार्थमात्रनिर्भासा निर्वित- क्षणप्रतियोगी परिणामापरा- को न्तनिर्माह्यः क्रमः :.... ४३ खप्ननिद्राज्ञानालम्बनं वा ... ३० क्षीणवृत्तेरभिजातस्येव मणे- खरसवाही विदुषोऽपि तथा- हीतृग्रहणग्राह्येषु तत्स्थत- रूढोऽभिनिवेशः दजनतासमापत्तिः २ ... जं ज्ञानम् ३ १ १ २ ९ १ 053 ". समाप्ता योगसूत्रानुक्रमणिकाः।

No text on this page.

The Yogadarashana

Author
Patanjali
Title
The Yogadarashana
File name
The Yogadarashana
Text
OCR done
Citation
1927
Published
2009/10
Publisher
Bombay, Nirnaya - Sagar Press
Language
Sanskrit
Pages
122
Library
Banasthali University
Keywords
Yoga
DLI number
322272
Barcode
99999990243401.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
VMLT id
XfiPQd8sqBr
Download PDF

The Yogadarashana