Central Library, Bits- Pilani

परमार्थसारम

T. Gand-apatishaastrind-aa · 2005/06/13

PDF Proofread

Front matter

Birla Central Library
PILANI (Jaip'ır Stato)
Class No.- S.181.4:
B468 PT
Accassion No :-/65 46
Book No:-
REQUEST
IT IS EARNESTLY DESIRED THAT THE
BOOK BE HANDLED WITH CARE AND BE
NOT MARKED, UNDERLINED OR DISFIGUR
ED IN ANY OTHER WAY. CTHERWISE IT
WILL HAVE TO BE REPLACED OR PAID
FÖR BY THE BORROWER IN THE INTEREST
OF THE LIBRARY
LIBRARIAN

No text on this page.

No text on this page.

TRUVANDRUM SANSKRIT SERIES
NO VIT.
श्रीभगवदादिशेषप्रणीतं
परमार्थसारम् ।
TIE
PARAMA ETILA SARA
(1.
BEAGARED ADISESHA
acikli ile camweizurjun
RÂSIA VANANDA
Edited with Notes
EY
T...GANAPATI SÂSTRI
Owator of the Departir... l'ur l'ha pointin.ion of Sanskrit manuoripher
TIXDIUM.
PUBLISHED W33 THE AUTHTY OF THE GOVERNMENT OF
HIS HIGHNES3 THE YA AJAH CF TRAVANCORE
1
TRIVANDRUM:
MATED AT TOC TRAVANCORE GOVERNMENT PRZH
1911.
(All Rights Reserved.)

No text on this page.

॥ श्रीः॥
अनन्तशयनसंस्कृतग्रन्थावलिः ।
ग्रन्थाङ्कः १२.
परमार्थसारं
श्रीभगवदादिशेषप्रणीत
श्रीराघवानन्दविरचितविवरणसमेतं
संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण
त. गणपतिशास्त्रिणा
संशोधितम् ।
तच्च
अनन्तशयने
महामहिमश्रीमूलकरामवर्मकुलशेखरमहाराजशासनेन
राजकीयमुद्रणयन्त्रालये
मुद्रयित्वा प्रकाशितम् ।
कोळम्बाब्दाः १०८६, ऊस्ताब्दाः १९१९.

No text on this page.

PREFACE. Paramarthasara clearly sets forth within the compass of 85 Arya-metres the fundamental essence of the Advaita School of philosophy in the form of instruction from a Guru to a disciple.. The concluding stanza of the work :- "वेदान्तशास्त्रमखिलं विलोक्य शेषस्तु जग(दा? त) आधारः । आर्यापञ्चाशील्या बबन्ध परमार्थसारमिदम् ॥" and the commentator's explanation of the same :- "TENT: जगतामाधारभूतः शेषः अनन्तस्तुन यः कोऽपि विपश्चिद्" ascribe the authorship of this work to God Adi Sesha. The author of the commentary is a sage Raghavananda, disciple of Krishnapanda. A com. mentary known as Krishnapadi of Sri Bhagavata is written by Raghavânanda. The edition of this work is based on two manuscripts, one of them with the commentary almost correct belongs to the Palace Library and the other, without commentary, was obtained from the "Manalikkara Matham”, near Padmanabhapuram A second manuscript of the commentary also was received from Mr. Rangopadhyâya of Kallidakuricbi. But this manuscript was 80 full of omissions and interpolations that it appeared like a different work altogether and was not, therefore, considered in connection with this edition. Trivandrum, T, GANAPATI SÂSTRÎ.

No text on this page.

निवेदना। अद्वैतपरमार्थस्य सारोऽस्मिन् परमार्थसारे पञ्चाशीत्यार्याभिः शिष्योपदेशम जया सम्यक् प्रकाश्यते । 'वेदान्तशास्त्रमखिलं विलोक्य शेषस्तु जगदाधारः । आर्यापञ्चाशीत्या बबन्ध परमार्थसारमिदम् ॥ इति ग्रन्थान्तिमपद्याद्, 'जगदाधारः जगतामाधारभूतः शेषः अनन्तस्तु, न यःकोऽपि विपश्चिद्' इति व्याख्यातृविवरणाचास्य प्रणेता भगवान् आदिशेष इति प्रतीयते । विवरणकारस्तु कृष्णानन्दशिष्यो राघवानन्दमुनिः । कृष्णपदी नाम काचिच्छ्रीभागवतव्याख्या- प्येनेन प्रणीता। एतन्मुद्रणाधारभूती द्वावाद । तत्रैकः शुद्धप्रायेण विवरणेनानुगतो राजकी- यग्रन्थशालीयः, अपरस्तु व्याख्यारहितो 'मणलिक्कर'मठादानीतः । अन्योऽपि कश्चिद् विवरणस्यादर्शः 'श्रीरङ्गोपाध्याय'सकाशादासादितः । स तु बहुत्र वाक्यजालत्यागप्र- क्षेपवत्तया शुद्धिरहिततया च ग्रन्थान्तरमिव दृष्टः संशोधनार्थे नोपात्तः । अनन्तशयनम् . त. गणपतिशास्त्री.

No text on this page.

॥ श्रीः॥ श्रीभगवदादिशेषप्रणीतं परमार्थसारम् । श्रीराघवानन्दविरचितेन विवरणेन समेतम् । अमीषोमात्मनानाबुधधरमखिलव्याप्तमास्याङ्ग्रिदोष्णां साहौर्युक्तमन्तःकृतसुरनिवहं स्वप्रभोद्भासिताशम् । नेत्ररकेंन्दुरूपैलिसितमनलोग्राननं चित्रवर्ण भूषाकोटिप्रदीप्तावयवमवतु वो विश्वरूपं मुरारेः ॥ १ ॥ विघ्नपांसुमवधूय वायुवद्भक्तहृद्गगनदीप्तिदायिनम् । विप्फुरत्कलभवक्रविग्रहं विश्वनाथमनिशं भजामहे ॥२॥ अमलकमलमध्ये सन्निविष्टाङ्गयष्टिः करजलरुहराजत्पुस्तकाक्षालिमाला । अखिलनिगमसारः सर्वभूतान्तरस्था भवतु भवभयानां भेदनी भारती नः ॥ ३ ॥ श्रीमच्छाङ्करमार्गमध्यवसतिः शाखाशतालकृतः संसारार्कगभस्तितप्ततनुभिः संसेविताङ्घिर्जनैः । कृष्णानन्दमहीरुहोऽमृतरसापूर्णैरपूर्वैः फलै- श्चित्रां प्रीतिमुपासकेषु जनयन् जीयान्महीमण्डले ॥ ४ ॥ अशेषोपनिषत्सिद्धवस्तुतत्त्वानुगामिनी । राघवानन्दमुनिना शेषार्येह विमृश्यते ॥ ५ ॥ परमार्थसारसंज्ञं ग्रन्थं चिकीर्षुराचार्यस्तस्याविघ्नपरिसमाप्तिप्रचयगमनाभ्यां परमार्थसार शिष्टाचारपरिपालनाय च विशिष्टेष्टदेवताप्रणामलक्षणं मङ्गलं मूलतः सम्पादयन्नर्थत आरम्भापेक्षितं विषयप्रयोजनसम्बन्धाधिकारिलक्षणमनुबन्धचतुष्टयमाविष्करोति परं परस्याः प्रकृतेरनादि- मेकं निविष्टं बहुधा गुहासु । सर्वालयं सर्वचराचरस्थं त्वामेव विष्णुं शरणं प्रपद्ये ॥ १ ॥ त्वां नित्यापरोक्षमात्मानमेव विष्णु सदानन्दचिद्धनं परमात्मानं शरणं प्रपद्ये निजधामत्वेन विमृशामि । विष्णोरस्मदितरात्मत्वेऽनीश्वरत्वान्नाश्रयणीय- त्वमित्यत उच्यते परस्याः प्रधानाया जगन्मूलकारणभूतायाः प्रकृतेर्माया- शक्तेः परं प्रधानं तस्या अपि स्वतोऽसत्या अस्फुरद्रूपायाश्च सत्तास्फूर्तिप्रदत्वेन प्रेरकं, न खलु शक्तिमतोऽन्यत्र शक्तिः सती स्फूर्तिमती वा स्याद् , अन्यथा स्वा- तन्त्र्येण शक्तिमत्त्वमेव हीयेतेति नामान्तराद् भगवदुक्तिः प्रसज्येत । सदानन्द- चिदेकरसत्वेऽपि स्वमायाशक्तिमाश्रित्य महदाद्यवन्यन्ततत्त्वग्रामतत्कार्यसमष्टि- व्यष्टिदेहतद्धर्मविशेषसर्वस्वात्मना सदा प्रकाशमानमित्यर्थः , यथाहुः- सदा सृष्टिविनोदाय सदा स्थितिसुखासिने । सदा त्रिभुवनाहारतृप्ताय भवते नमः" || इति । तदेवं सर्वेश्वरत्वेन विष्णोराश्रयणीयत्वं साधितम् । प्रकृतेः परत्वे हेतुः अनादिमिति । नित्यसिद्धमित्यर्थः । नन्वनादित्वं प्रकृतेरप्यस्ति, सादित्वे मूल- प्रकृतित्वासिद्धेः " अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपा (श्वेता-४.५) इति श्रुतेश्च । अतः कथं तत्परत्वमित्यत उक्तम् - एकमिति । स्व- तन्त्रमित्यर्थः । प्रकृतेरनादित्वेऽप्यचेतनत्वान्न स्वातन्त्र्यं, भगवतस्तु चेतनत्वात् स्वातन्त्र्यमिति सिद्धोऽतिशयः । श्रुतिश्च "अव्यक्तात् पुरुषः परः । पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः" (कठ-३-११) इति । यद्वा अनादित्वे हेतुः एकमिति । अद्वितीयमित्यर्थः । स्वव्यतिरिक्तस्य कस्यापि वस्तुनोऽभावादस्य स्वतःसिद्धसत्तास्फूर्तिमत्त्वमास्थेयम् । ततश्चानादित्वं सिध्यतीत्याशयः । श्रुतिश्च " अथ नित्यो देव एको नारायणः (नारा. २) इति । ननु जीवानां बहु- स्वात् तत्स्वरूपस्यास्यैकत्वं न घटत इत्यत उक्तं बहुधा गुहासु निविष्टमिति ।

३ विवरणसमेतम् । गुहावद्.दुर्विज्ञेयस्वरूपा सदसदादिप्रकारेणानिर्वाच्या माया गुहा, तस्याः सत्त्वा- द्यवयवभेदेन बहुवचनम् , निमित्ते सप्तमी, गुहासु स्वमायाशक्तिनिमित्तमेकमपि बहुधा निविष्टम् अनन्तजीवात्मना भासमानमित्यर्थः । श्रुतिश्च "इन्द्रो मा- याभिः पुरुरूप ईयत" (बृ. २-५-१९) इति । एवं चेदुपाधीनां मायानां पृथ- क्सत्त्वान्नैकत्वमित्यत उक्तं सर्वालयमिति । सर्वस्यालयं सत्तास्फूर्तिप्रदमुपादान- मित्यर्थः । मायातत्कार्यप्रपञ्चावस्थितिहेतुत्वात् परस्य न ततोऽन्यत्वं कस्यापि स- म्भवतीत्यर्थः । सर्वालयत्वे हेतुः सर्वचराचरस्थमिति । सर्वेषु चरेष्वचरेषु च देहेषु स्थितम् अध्यक्षत्वेनानुप्रविष्टमित्यर्थः । त्वामेव विष्णुमिति जीवब्रह्मैक्यं वेदान्तानां विषयोऽस्य विषयो दर्शितम् । तच्चाज्ञातं विषयः, ज्ञातं सत् प्रयोजनं भवत्यखण्डानन्दानुभवात्मकत्वादिति विषयनिर्देशात् प्रयोजनमपि निर्दिष्टम् । ततस्तदनुभवकामोऽत्राधिकारीति च सूचितम् । एवम(A)द्विषयनिर्देशादेवास्या- नेन ग्रन्थेन प्रतिपाद्यप्रतिपादकभावलक्षणः सम्बन्धश्च प्रकटीकृत इति ज्ञेयम् ॥१॥ नन्वात्मैव चेद् विष्णुः, कुतः सर्वे · अहं ब्रह्मास्मीति न पश्यन्ति, कुतो वा 'मनुष्योऽस्मी'त्यन्यथात्मानं पश्यन्तीति चेत् , तद्विचाराभावादित्याह-- आत्माम्बुराशौ निखिलोऽपि लोको मनोऽपि नाचामति नेक्षते च । आश्चर्यमेतन्मृगतृष्णिकाभे भवाम्बुराशौ रमते मृषैव ॥ २॥ निखिलोऽपि लोको जीववर्गः आत्माम्बुराशौ परमात्मामृताधौ म- नोऽपि नियमेन तत्स्वरूपोऽपि तद् नाचामति न किञ्चिदप्यनुभवति नेक्षते न जिज्ञासते च, प्रत्युत मृगतृष्णिकाभे (तद् !) मिथ्याभूतेऽनात्मनि च भवाम्बु- राशौ संसारहेतुभूते देहादौ मृषैव प्रान्त्यैव रमते आत्मबुद्धिं करोति चेति यद् एतदाश्चर्यम् । अघटितत्वेऽपि भासमानत्वान्मायामात्रमित्यर्थः । अनेन विष्णोनि- जरूपतिरोधानेन रूपान्तरप्रकाशने या शक्तिः, सा मायात्र प्रकृतिरित्युपादेष्टं भ- वति । पूर्वश्लोकेन पुरुषस्वरूपं चोपदिष्टम् । तेन प्रकृतिपुरुषतत्त्वजिज्ञासेहारभ्यत इति चिकीर्षितं च प्रतिज्ञातं भवति ॥ २ ॥ -- ४ परमार्थसारं कथं पुनरात्मजिज्ञासोदियात् , केन कस्य सकाशात् कथं वात्मा जिज्ञास्य इत्यपेक्षायां तदुत्तरत्वेन ग्रन्थमवतारयति गर्भगृहवाससम्भवजन्मजरामरणविप्रयोगाब्धौ । जगदालोक्य निमग्नं प्राह गुरुं प्राञ्जलिः शिष्यः ॥३॥ जगद् आत्मानमन्यं च जीवलोकं गर्भगृहवाससम्भवजन्मजरामरण- विप्रयोगाब्धौ गर्भ एव गृहं गर्भगृहं तत्र वासस्य सम्भवः प्राप्तिः, विप्रयोगः कलत्रपुत्रवित्तादीष्टवियोगः, गर्भगृहवाससम्भवश्व जन्म च जरा च मरणं च विप्र- योगश्च गर्भगृहवाससम्भवजन्मजरामरणविप्रयोगाः, त एवाब्धिर्दुःखसमुद्रः तस्मिन् निमग्नमालोक्य तस्मादुत्तितीर्घः कश्चित् पुमान् शिष्यः तत्त्वजिज्ञासुः गुरुं "त- द्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्" (मुण्ड. १-२. १२) इति श्रुतेः "उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः” (गीता. ४-३४) इति स्मृतेश्च तत्त्वज्ञं पुरुषप्रवरमुपेत्य प्राञ्जलिः बद्धाञ्जलिः माह । अयमर्थः प्राचीनानेकजन्मविहितयज्ञदानतपोलक्षणसत्कर्मकदम्बकपरिशोधितान्तःकरणः सा. झाधीतसकलवेदवेदान्तः श्रुतव्याकरणश्च सहस्रेषु कश्चित् पुमान् वेदान्तवाक्यार्था- पातज्ञानयोगाद् आत्मैव नित्यं वस्तु ततोऽन्यत् सर्वमनित्यम् , अतः सुखवत् प्रतीयमानोऽयं पुत्रवित्तकलत्रादिसंसारो वस्तुतो दुःखमेवेति निश्चित्य ततो विरागं गत्वा सांसारिके सुखफलमात्मतत्त्वज्ञानमेव काङ्क्षमाणस्तच्छेषत्वेन श्रुतशमदमा- दिसाधनसम्पन्नो भूत्वात्मतत्त्वसाक्षाद्बोधवन्तं जीवन्मुक्तं गुरुवरं यथाविध्युपगम्य बद्धाञ्जलि: पप्रच्छेति ॥ ३ ॥ किंलक्षणेन गुरुणा भाव्यमित्यपेक्षां प्रतिक्षिपन् प्रश्नप्रकारमाह 'त्वमिति . चतुर्भिः श्लोकैः त्वं साङ्गवेदवेत्ता भेत्ता संशयगणस्य ऋतवक्ता । संसारार्णवतरणप्रश्नं पृच्छाम्यहं भगवन् ! ॥४॥ "उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति" || हे भगवन् ! त्वं साङ्गवेदवेत्ता अङ्गानि शिक्षाव्याकरणनिरुक्तच्छन्दोज्योतिषामय- नकल्पाः, वेदाः ऋग्यजुःसामाथवाख्याः, अझैः षड्भिः सहिताः साङ्गाः, तेषां वेत्ता , विवरणसमेतम् । ५ अध्येता । संशयगणस्य वेदार्थविषयस्य भेत्ता तदर्थनिश्चयज्ञानवान् । तत्रापि वि. शेषमाह - ऋतवक्ता ऋतस्य अशेषवेदान्तार्थभूतस्य भगवद्ब्रह्मादिशब्दलक्ष्यस्या- मतत्त्वस्य वक्तोपदेष्टा । स्वयं ज्ञातेत्येव न परम् , अन्येषां तत्प्रकशाकश्च । अत- स्त्वामहं संसारार्णवतरणप्रश्नं संसार एव योऽर्णवो दुम्तरत्वादिसाम्यात् तस्य तरणे निमित्ते तत्तरणार्थ प्रश्नं प्रष्टव्यमर्थ पृच्छामि ॥ ४ ॥ प्रष्टव्यमस्ति चेत् पृच्छेत्यत्राह दीर्धेऽस्मिन् संसारे संसरतः कस्य केन सम्बन्धः । कर्म शुभाशुभफलदमनुभवति(नु)गतागतैरिह कः॥५॥ कर्मगुणजालबद्धो जीवः संसरति कोशकार इव । मोहान्धकारगहनात् तस्य कथं बन्धनान्मोक्षः ॥ ६ ॥ गुणपुरुषविभागझे धर्माधर्मों न बन्धको भवतः । इति गदितपूर्ववाक्यैः प्रकृति पुरुषं च मे ब्रूहि ॥७॥ इति गदितपूर्ववाक्यैः उक्तप्रश्नवाक्यैः पृष्टप्रष्टव्याथैः सह । तान्येवाह- दीर्धे अनादौ । संसारस्य सादित्वे मुक्तानां पुनर्बन्धप्रसङ्गादनादित्वमेव द्रष्टव्य. मित्याशयः । अस्मिन् गर्भाधिवासादिदुःखरूपे संसारे संसरतः कस्य केन हेतुना संसारेण सम्बन्धः । स्वाभाविकत्वे संसारम्याग्न्यौप्ण्यादिवदनिवृत्तेः सहेतु- कत्वमास्थेयम् । स चेत् सत्यो हेतुहे तुमतः संसारस्यापि तर्हि सत्यतेत्यनिर्मोक्षः । असत्यश्चेत् खपुप्पादिवत् कार्यकारणत्वं न घटेतेत्याशयः। सोऽयं क्षेत्रविषयःप्रश्नः। इह लोकत्रये शुभाशुभफलदं कर्म गतागतैः इतो लोकान्तरं तत इमं लो- कमित्येवं गमनागमनैः कोऽनुभवति । पुरुषस्तावन्न संसरति, तस्य व्याप्तत्वेन नि- रञ्जनत्वेन च लोकालोकान्तरप्राप्तेः कर्मतत्फलसम्बन्धस्य चासम्भवात् , नापि प्र- कृतिः, तस्या अचेतनत्वेन सुतरां तदसंभवादित्यर्थः । प्रकृतिव्यामोहितः पुरुषो जीवाख्यः संसरतीत्यत्राह "कर्मगुणजालबद्धो जीवः संसरति कोशकार इव" । क इत्यनुषज्यते । यत्तच्छब्दावध्याहार्यो । कोशकारः ऊर्णनाभिः । तत्र गुणास्तन्तव इह सत्त्वादयः । जालम् आनाय इह सङ्घः । कर्म तन्तुप्रसरणादि इह शुभाशु- भात्मकम् । कोशकार इव कर्मगुणजालबद्धः कर्माणि च गुणाश्च तेषां जालानि कर्मगुणजालानि तैर्बद्धो देहसम्बन्धं प्रापितः । यः संसरति गर्भवासादिदुःखम- - , ६ परमार्थसारं नुभवति स जीवः कः किं परः पुरुष एव, किं वा तदन्यः कश्चित् । आधे मायो- तीर्णत्वान्न तव्यामोहितः स्याद् , द्वितीये "द्यावाभूमी जनयन् देव एकः" (श्वे. ३- ३) इत्याद्या श्रुतिर्बाध्येतेत्यर्थः । सोऽयं क्षेत्रज्ञविषयः प्रश्नः । परस्यैव स्वमायया कथञ्चिजीवभावमभ्युपेत्याह - मोहान्धकारगहनात् मोहोऽविद्या स एवान्धकार- स्तमः तेन हेतुना गहनात् दुरुच्छेदाद् बन्धनात् कर्मगुणबन्धात् कथं केनोपायेन केन वो प्रकारेण तस्य मोक्षः। प्रकृतिपुरुषविभागज्ञानेन पुंसः कैवल्यलाभो मोक्ष इत्यत्राह - गुणपुरुषविभागज्ञे धर्माधर्मों कथं बन्धको न भवत इति । क्षेत्रक्षे. त्रज्ञतत्त्वज्ञानफलविषयः प्रश्नः । सर्वस्यास्य 'इति गदिते'ति सम्बन्धः । अत्र प्रकृति पुरुषं च मे बहीति प्रधानं वाक्यं, परमपुरुषतच्छक्तिविषयत्वाद् वाक्यान्तराणि तच्छेषभूतान्येवेति विभागः ॥ ५॥ ६ ॥ ७ ॥ उत्तरमुत्थापयति इत्याधारो भगवान् पृष्टः शिष्येण तं स होवाच । विदुषामप्यतिगहनं वक्तव्यमिदं शृणु तथापि त्वम्॥८॥ इति एवं शिष्येण पृष्टो भगवान् आधारोऽनन्तः स गुरुः तमुवाच ह किल । कथं हे शिप्य! इदं त्वया पृष्टं वक्तव्यं वस्तु विदुषामप्यतिगहनं दुर्वि- ज्ञेयम् । तथापि वक्ष्यामि । शृणु तच्छ्रवणें सावधानो भव ॥ ८ ॥ परिहारमारभते- सत्यमिव जगदसत्यं मूलप्रकृतेरिदं कृतं येन । तं प्रणिपत्योपेन्द्रं वक्ष्ये परमार्थसारमिदम् ॥९॥ इदं परमार्थतयेव भासमानं सत आत्मनोऽत्यन्तासतः शशविषाणादेव जन्मविनाशाभावात् तदुभयाश्रयत्वेन सदसदद्विलक्षणम् अत एव असत्यं महदा. धवन्यन्तं जगद् येन मूलप्रकृतेः स्वमायाशक्तेर्हेतोः सत्यमिव कृतं सृष्टं, तमु- पेन्द्र विष्णुं प्रणिपत्य भक्तिश्रद्धापुरस्सरं नत्वा इदं विद्वदनुभवसिद्धं परमार्थसा- रम् उपनिषदर्थतत्त्वं वक्ष्ये वक्ष्यामि ॥९॥ "प्रकृति पुरुषं च मे ब्रूही"ति प्रश्नोत्तरं तावत् संगृह्णाति अव्यक्तादण्डमभूदण्डाद् ब्रह्मा ततः प्रजासर्गः। मायामयी प्रवृत्तिः संह्रियत इयं पुनः क्रमशः॥१०॥ --- विवरणसमेतम् । ७ अव्यक्तात् परमपुरुषेक्षिताद् महदादिक्रमेण अण्डं ब्राह्मम् अभूत् । अ- ण्डात् पुरुषानुप्रविष्टाद् ब्रह्माभूत् । ततः ब्रह्मणः प्रजासर्गः प्रजानां चराच- राणां सर्गो जन्माभूत् । एवम् इयं मायामयी मायोपाधिका पुंसः पुनः प्रवृत्तिः कार्यसृष्टिः क्रमशः संहियते सगृह्योपदिश्यते सद्भिः "नारायणः परोऽव्यक्तादण्डमव्यक्तसम्भवम् । अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी" ॥ इति । न चात्र स्वतन्त्रादव्यक्तादण्डोत्पत्तिरभिप्रेता "सत्यमिव जगदसत्यं मूलप्र- कृतेरिदं कृतं येने"ति परमेश्वरस्यैव स्वमायाशक्त्या विश्वात्मना विवर्तितत्वोक्तेः, "तस्माद्वा एतस्मादात्मन आकांशः सम्भूतः' (ते. २-१-१) इति श्रुतेश्च । एवं विश्वनिदानं प्रकृतिः पुरुषश्चेति तयोः स्वरूपं सामान्येनोपदिष्टम् ॥ १० । अथ पुरुषस्य मायातत्कार्यानुप्रवेशवशेनान्तर्यामित्वेन जीवत्वेन चावस्थि- तस्य स्वरूपं निरूप्यते । तत्र ‘मायामयोऽपी'ति द्वादशार्याभिर्जीवस्य तत्त्वं प्रका- श्यते । यत् तावत् पृष्टं 'दीर्धेऽस्मिन् संसार संसरतः कस्य केन सम्बन्ध' इति, तत्राह मायामयोऽप्यचेता गुणकरणगणः करोति कर्माणि । तदधिष्ठाता देही स चेतनोऽपि न करोति किञ्चिदपि॥११ पूर्वोत्तरार्धयोः साम्यादार्याविशेषोऽयम् । गुणकरणगणः कार्यकरणस- बातो मायामयः मायाशक्त्यालिङ्गितस्य परमेश्वरस्य विवर्तः सः अचेतनोऽपि कर्माणि शुभाशुभमिश्ररूपाणि करोति । यस्तु तदधिष्ठाता तस्याश्रयभूतो देही जीवः, स चेतनोऽपि किश्चिदपि कर्म न करोति चिदेकरसत्वेन स्वरूपचलना- त्मनः कर्मणस्तस्मिन्नसम्भवात् ॥ ११ ॥ नन्वचेतनत्वात् स्वतो निश्चेष्टस्य कार्यकरणसङ्घातस्य कथं चेतनसान्नि- ध्यादेव प्रवृत्तिरित्यत्राह यद्वदचेतनमपि सन्निकटस्थे भ्रामके भ्रमात लोहम् । तद्वत् करणसमूहश्चेष्टति चिदधिष्ठिते देहे ॥१२॥ भ्रामके अयस्कान्तमणौ निकटस्थे अचेतनं स्वतो निश्चेष्टमपि लोहं भ्रमति चेष्टते यद्वत् , तद्वद् देहे चिदधिष्ठिते चेतनेन 'अहं मनुष्य' इत्यादिप्र- - परमार्थसारं - कारेण स्वीकृते करणसमूहः कार्यकरणसङ्घातः चेष्टति चेष्टते । वृत्तभङ्गभयात परस्मैपदम् ॥ १२॥ मा भवतु कर्मसु साक्षात्कर्तृत्वमात्मनः, हेतुकर्तृत्वं स्यात् , तेन विना बु- ध्यादीनामप्रवृत्तरित्यत्राह यहत् सवितर्युदिते करोति कर्माणि जीवलोकोऽयम् । न च तानि करोति रविन कारयति तद्वदात्मापि ॥१३॥ यद्वदयं जीवलोकः सवितर्युदिते कर्माणि स्वस्वाभिमतानि करोति तथापि रविस्तानि न करोति न कारयति च, तद्वद् आत्मनि देहं प्रविष्ट एव गुणकरणगणः कर्माणि करोति । एवमपि आत्मा तानि न करोति न कारयति च । तदुक्तं भगवता- "नवद्वारे पुरे देही नैव कुर्वन्न कारयन् । न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः" ॥ (गी. ५-१३) इति । "कर्मेन्द्रियाणि खलु पञ्च तथापराणि बुद्धीन्द्रियाणि मनआदिचतुष्टयं च । प्राणादिपञ्चकमथो वियदादिकं च कामश्च कर्म च तमः पुनरष्टमी पू:' ।। इत्युक्तलक्षणं पुर्यष्टकमात्मनः संसारसम्बन्धे हेतुः । स च मायामयत्वादवास्तवो- ऽनादिश्च प्रवाहतः । तेन तत्त्वबोधान्निवर्तत इति श्लोकत्रयार्थः ॥ १३ ॥ अथ "कर्म शुभाशुभफलदमनुभवति गतागरिह क” इति प्रश्नोत्तर- माह मनसोऽहङ्कारविमूच्छितस्य चैतन्यबोधितस्येह । पुरुषाभिमानसुखदुःखभावना भवति मूढस्य ॥ १४ ॥ इह मायाकार्येषु मध्ये मनसो मूहस्याचेतनस्यापि चैतन्यबोधितस्य स्वतादात्म्यं गतेनात्मचैतन्येन प्रकाशितस्य अत एव अहङ्कारविमूच्छितस्य अहंप्रत्ययास्पदीभृतस्य पुरुषाभिमानसुखदुःखभावना भवति । 'पुरुषोऽहं' 'दुःख्यहं' 'सुख्यहमित्यभिमानो भवतीत्यर्थः ॥ १४ ॥ ततः किमित्यत आह-- - विवरणसमेतम् । कर्ता भोक्ता द्रष्टास्मि कर्मणामुत्तमादीनाम् । इति तत् स्वभावविमलोऽभिमन्यते सर्वगोऽप्यात्मा। यस्माच्चैतन्यानुप्रविष्टस्य मनसः पुरुषत्वाद्यभिमानः, तस्मात् स्वभाव- विमलः सर्वगोऽपि च आत्मा द्रष्टा प्रमाता अस्मि, उत्तमादीनां वैदिकादीनां कर्मणां कर्तास्मि, तत्फलानां भोक्तास्मीति च अभिमन्यते । सर्वगतम्य विषय- विशेषद्रष्टुत्वं क्रमद्रष्तृत्वं, स्वभावविमलस्य कर्मकर्तृत्वं तत्फलभोक्तृत्वं च न सङ्गच्छते । तथापि पुर्यष्टकतादात्म्याध्यासादात्मनि तत् सर्वमध्यारोपयती- त्यर्थः ॥ १५ ॥ तद्वारेण स्थूलदेहसम्बन्धात् सुरनरनारकत्वं च यातीत्याह - नानाविधवर्णानां वर्ण धत्ते यथामलः स्फटिकः। तद्वदुपाधेर्गुणभावितस्य भावं विभुर्धत्ते॥१६॥ यथा लोके अमलः स्फटिकमणिः स्वसन्निहितानां नानाविधवर्णानां बन्धूकादीनां वर्ण धत्ते रक्तः स्फटिक इत्यादि, तद्वद् विभुः आत्मापि गुणभावि- तस्य प्रकृत्या प्रकाशितस्य देहादिलक्षणस्य उपाधेर्भावं देवत्वमनुष्यत्वादिकं धत्ते स्वीकरोति ॥ १६ ॥ सर्वव्याप्तोऽप्युपाधिवशाद देहादेहान्तरं लोकालोकान्तरं च यातीत्याह-- गच्छति गच्छति सलिले दिनकरबिम्बं स्थिते स्थितिं याति । अन्तःकरणे गच्छति गच्छत्यात्मापि तद्वदिह ॥ १७ ॥ इह लोके सलिलप्रतिबिम्बितं दिनकरविम्बं सलिले गच्छति सति गच्छतीव, स्थिते स्थिति यातीव, तद्वद् आत्मापि अन्तःकरणप्रतिबिम्वितः अन्तःकरणे गच्छति सति गच्छतीव स्थिते स्थिति यातीवेत्यर्थः ॥१७॥ अदृश्योऽपि दृश्यत्वं च तत्सम्बन्धाद् यातीत्याह राहुरदृश्योऽपि यथा शशिबिम्बस्थः प्रकाशते जगति । सर्वगतोऽपि तथात्मा बुद्धिस्थो दृश्यतामेति ॥ १८ ॥ -- -- १ परमार्थसारं (यथा .राहुरदृश्योऽपि शशिबिम्बस्थ:) प्रकाशते दृश्यो भवति, तथा सर्वगतोऽपि बुद्धिस्थ आत्मा अदृश्योऽपि दृश्यतामेति अहंप्रत्ययवि- षयो भवतीत्यर्थः । तदुक्तं श्रीभगवत्पादैः “न तावदयमेकान्तेनाविषयोऽस्मत्प्र- त्ययविषयत्वाद्" इति ॥ १८ ॥ यदि प्रमातृत्वं कर्तृत्वं भोक्तृत्वं चात्मन औपाधिकं, किं तर्हि निजं रूप- मित्यत्राह सर्वगतं निरुपममद्वैतं तच्चेतसा गम्यम् । यद् बुद्धिगतं ब्रह्मोपलभ्यते शिष्य ! बोध्यं तत् ॥१९॥ यद् बुद्धिगतं तत् ततो हेतोः चेतसा अस्मत्प्रत्ययेन गम्यं च ब्रह्म आत्मस्वरूपम् उपलभ्यते, तत् सर्वगतं देशकालवस्त्वनवच्छिन्नं निरुपमं परगा- नन्दस्वरूपम् अद्वैतं सजातीयविजातीयस्वगतभेदशून्यं चिदेकरसं बोध्यम् ॥१९॥ नात्र बुद्धिशब्देनान्तःकरणमानं विवक्षितं. किन्तु सूक्ष्मं शरीरमित्याश- येनाह - बुद्धिमनोहङ्कारास्तन्मात्रेन्द्रियगणाश्च भूतगणः । संसारसर्गपरिरक्षणक्षमा प्राकृताः हेयाः ॥२०॥ बुद्धिमहत्तत्त्वम् , मनोऽन्तःकरणं, अहङ्कारोऽहन्तत्त्वम् । तन्मात्राणि शब्द- स्पर्शरूपरसगन्धाः, इन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि पञ्च ज्ञानेन्द्रियाणि, वा- क्पाणिपादपायूपस्थाः पञ्च कर्मेन्द्रियाणि च । तन्मात्रगणा इन्द्रियगणाश्च तन्मा- वेन्द्रियगणाः । भूतानि व्योमवायुतेजोजलावनयः, तेषां गणो भूतगणः । त एते प्राकृताः प्रकृतिसम्भूताः संसारसर्गपरिरक्षणक्षमाः संसारस्य सर्गे उत्पादने परिरक्षणे च क्षमाः शक्ताः, आत्मनः संसारोपाधिभूता इत्यर्थः । अत एव मुमुक्षुभिर्हयाः अनात्मत्वेन परित्याज्याः । एवं प्रकृतिपुरुषौ महदाद्यवन्य- न्तानि तत्कार्याणि चेति पञ्चविंशतितत्त्वान्यत्र दर्शितानि । 'प्राकृता' इत्यनेन 'अव्यक्तादण्डमभूदि'त्यत्र महदादिक्रमेणेत्यावेदितं भवति ॥ २० ॥ आत्मनः संसारस्यौपाधिकत्वेन फलितमर्थमाह - - * अस्या आर्यायाः प्राग ‘आदर्श मलरहिते यद्वद् रूपं विचिन्वते लोकाः । आलोकयति अशात्मा विशुद्धबुद्धौ स्वमात्मानम् ' इति काचिदार्या पठ्यते ख. पुस्तके.

, विवरणसमेतम् । धर्माधर्मों सुखदुःखकल्पना स्वर्गनरकवासश्च । उत्पत्तिनिधनवर्णाश्रमा न सन्तीह परमार्थे ॥२१॥ इह आत्मनि परमार्थे वस्तुविचारे क्रियमाणे धर्माधर्मादयो न सन्तीत्य- न्वयः, औपाधिकस्य स्फटिकलौहित्यादिवद्वास्तवत्वायोगात् । धर्माधर्मो शुभाशुभ- कर्मसंस्कारौ । सुखदुःखयोस्तत्फलयोः कल्पनानुभूतिः सुखदुःखकल्पना । तदर्थ स्वर्गनरकयोर्वासः स्वर्गनरकवासः । धर्माधर्मोद्भवस्थानभृतेऽस्मिन् लोके उत्प- त्तिनिधनवर्णाश्रमाः उत्पत्तिश्च निधनं च वर्णश्चाश्रमश्च तथोक्ताः ॥२१॥ नन्वसतां कथं भानमित्यत्राह मृगतृष्णायामुदकं शुक्ती रजतं भुजङ्गमो रज्ज्वाम् । तैमिरिकचन्द्रयुगवद्धान्तं निखिलं जगद्रूपम् ॥ २२ ॥ यथा मृगतृष्णायां मरुभूमिस्थमध्याह्नार्कमरीचिमण्डल उदकं, शुक्तौ रजतं, रज्ज्वां भुजङ्गम इत्येतत् । तैमिरिकचन्द्रयुगवत् । तिमिरं चक्षुर्दोषः, तेन सम्भूतं तैमिरिकं, चन्द्रस्य युगं चन्द्रयुगं, तैमिरिकं च तचन्द्रयुगं च तैमिरिकच- न्द्रयुगं, तद्वद् भ्रान्तं भ्रममात्रेण सिद्धं, न वस्तुभूतं, सत्त्वे बाधानुपपत्तरसत्त्वे प्रत्यक्षप्रतीत्यनुपपत्तेः सदसत्त्वे द्वयोरप्यनुपपत्तेश्च सदसन्यामनिर्वाच्यत्वान्मिथ्या- भूतं, तथा निखिलं जगद्रूपं भ्रान्तमात्माविद्यावशात् तत्रैवाध्यस्तमित्यर्थः । मिथ्या- र्थ तीतेरप्रसिद्धिपरिहारायानेकदृष्टान्तोपादानम् । तथा च प्रयोगः विवादपदं मिथ्या दृश्यत्वाद् विभक्तत्वादनात्मत्वाच्च मृगतृष्णिकोदकादिवदिति । किं पुनरिदं मिथ्यात्वं नाम । अधिष्ठानतत्त्वज्ञानबाध्यत्वमिति प्रतीमः । किमेतदनुमानं स्व- स्यापि मिथ्यात्वं साधयेत् , किं वा न । नो चेत् , तत्रैव दृश्यत्वादीनां व्यभि- चारः । साधयति चेत् , स्वव्याघातकता । सत्यम् । आत्मघातकमेवैतदागमवत् । सोऽपि "नेह नानास्ति किञ्चन" (बृ. ४-४-१९) इति ब्रह्माण सर्वद्वैतप्रतिषेधं कुर्वन् द्वैतान्तर्भूतत्वादात्मानमपि प्रतिषेधति । एवं तदनुग्राहकतर्करूपमिदमनुमा- नमपीति सन्तोष्टव्यम् । न च स्वव्याघातकत्वं लोके क्वाप्यदृष्टमिति वाच्यम् , एधोनाशके ज्वलने स्वनाशकत्वदर्शनात् । एवमपि मिथ्यार्थस्य कथं तत्त्वावेदक- त्वमिति चेत् , को नाम वक्ति वादी मिथ्याभूतं वस्तु तत्त्वावेदकमिति । तत्त्वं ह्यस्माकमात्मैव, स. च स्वप्रकाश इति कथं मिथ्याभूता आगमादय- स्तत्त्वं बोधयेयुः । किं तहींह तैः । इत्थं मिथ्याभूताया अविद्याया इतोऽपनयनमा- - १२ परमार्थसारं त्रम् । तच्च मिथ्यात्वेऽपि सम्भवति स्वामसिंहादिवत् । यथा स्वप्ने दृष्टः सिंहादि- मिथ्याभूतोऽपि मिथ्याभूतं स्वाप्पप्रपञ्चं समूलमपनयति, तथागमादिमिथ्याभूतोऽपि मिथ्याभूतं जाग्रदादि द्वैतमपनयतीति किन्नाभ्युपगम्यते । किञ्चान्यद् मिथ्यार्थस्य तत्त्वावेदकत्वमपि दृश्यते, दर्पणगतमुखप्रतिबिम्बादेस्तात्त्विकमुखसंस्थानादिप्रका- शकत्वात् , स्वामकामिन्यादेः सम्पत्प्राप्त्यादिबोधकत्वाच्च । यथाहुः स्वप्नाध्या- यविदः "यदा कर्मसु काम्येषु स्त्रियं स्वमेषु पश्यति । समृद्धिं तत्र जानीयाद्” (छा०. ५.२-९) । इति । एवं प्रतिमादौ विष्ण्वादिदृष्टिरपि तत्तत्त्ववोधोपायत्वेन मिथ्यात्वेऽपि सर्वैरभ्युप- गम्यते । तस्मात् प्रपञ्चमिथ्यात्वानुमाने न दोषः कश्चिद् । विपक्षे बन्धस्य सत्यत्वे- नानिक्षिप्रसङ्गो बाधः । ननु दृश्यत्वमात्मन्यस्ति, अस्मत्प्रत्ययविषयत्वोक्तेरिति चेद् , न, तत्य बुद्धिसम्बन्धोपाधिकत्वेनावास्तवत्वात् , केवलस्यात्मनोऽहंप्रत्ययवि- षयत्वाभावाच्च । स हि चित्प्रकाशावेशवशेन बुद्ध्यादिकम् 'अहं सुखी दुःखी'त्या- दिरूपेण भासयति । तत् कथमहंप्रत्ययः प्रत्यगात्मानं प्रकाशयेत् । ननु केवल- स्याप्यात्मनः शास्त्रीयदृशा दृश्यत्वमस्ति, अन्यथा तत्र शास्त्रवैयादिति चेद् , उक्तोत्तरत्वाद् , आत्मतत्त्वाज्ञानापनयनमात्रमागमज्ञानं करोति, न पुनरात्मानं प्रका- शयति तस्य स्वप्रकाशत्वादिति । श्रुतिश्च “अदृश्यो न हि दृश्यत" इति । तदेवं प्राकृतिकपुर्यष्टकावच्छिन्नश्चेतनः संसरति, तस्य चायं संसारो मायीयत्वा- मिथ्यैवेति प्रतीचः स्वरूपमुपदिष्टम् ॥ २२ ॥ यत् पुनः पृष्टं “कोशकार इव कर्मगुणजालबद्धो यः संसरति स जीवः क" इति, तत् परिहरन् “यद्वद् दिनकर" इति चतुर्दशार्याभिः परस्वरूपं निरूपयति- यद्वदिनकर एको विभाति सलिलाशयेषु सर्वेषु । तद्वत् सकलोपाधिष्ववस्थितो भाति परमात्मा ॥२३॥ यद्वत् सर्वेषु जलाशयषु अवस्थितो दिनकर एक एव विभाति अने- कधा भाति, तद्वत् सकलोपाधिषु सकलेतँपाधिषु कार्यकरणसङ्घातेप्ववस्थितः परमात्मैक एवानेकधा भाति । श्रुतिश्च -- “एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा" (श्वे०. ६.११) इति । स्मृतिश्च -- , विवरणसमेतम् । १३ * "एक एव तु भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवद् " || इति ॥२३॥ यदैवं परमात्मैव जीवात्मा, तदा 'मनुष्योऽहमि'ति बुद्धिन्तिरेवेत्याह - खमिव घटादिष्वन्तर्बहिःस्थितं ब्रह्म सर्वपिण्डेषु । देहेऽहमित्यनात्मनि बुद्धिः संसारबन्धाय ॥ २४ ॥ घटादिषु खमाकाशमिव ब्रह्म सर्वपिण्डेषु सर्वेषु पिण्डेषु देहेप्वन्तर्बहिश्च स्थितं व्याप्तम् उपाधिपरिच्छिन्नतया तदपरिच्छिन्नतया च तत्र तत्र वर्तमानम् "एवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव" (बृ०. ४.५-१३) इति श्रुतेः । अतः अनात्मनि देहेऽहमिति बुद्धिः संसारबन्धाय, संसारबन्ध- हेतु न्तिरेवेत्यर्थः ॥ २४ ॥ कथं पुनरात्मा प्रतिपत्तव्य इत्यत्राह सर्वविकल्पनहीनः शुद्धो बुद्धोऽजरामरः शान्तः । अमलः सकृद्विभातश्चेतन आत्मा खवव्यापी ॥२५॥ चेतनः दृश्यत्वेन घटादिवदचेतनाद् देहाद. व्यतिरिक्तो जीवः आत्मा परमात्मैवेत्यन्वयः । तत्साधनार्थानि विशेषणानि । सर्वविकल्पनहीनः सर्वैर्वि- कल्पनैः अस्ति वा नास्ति वायं, नित्योऽनित्यो वा, एकोऽनेको वेत्याद्यैः संशयै- विहीनः सर्वसंशयसाक्षित्वात् । ननु तथात्वं देहम्याप्यम्ति प्रत्यक्षत्वादिति स एवात्मा स्याद , नेत्याह शुद्ध इति । विण्मूत्रभाजन(त्वात् ) त्वङ्मांसपिण्डात्मकत्वा- चाशुद्धस्य देहस्य नात्मत्वमित्यर्थः । तथापि प्राण एवात्मा स्यात् तम्य निर्लेप- त्वेन शुद्धत्वादित्यत उक्तं बुद्ध इति । बोधशक्तिहीनत्वात् प्राणम्य बाह्यवायुवद- नात्मत्वमित्यर्थः । एवं चेन्मन एवात्मा स्यादित्यत उक्तम् अजरामर इति । सुषुप्त्यादावभावेन मनसो नश्वरत्वान्नात्मत्वमित्यर्थः । तर्हि बुद्धिसन्तान एवात्मा स्यात् तम्याविच्छिन्नप्रवाहत्वादित्यत उक्तं शान्त इति । बुद्धिसन्तानस्य ज न्मादिविकारवत्त्वादात्मनश्च सर्वविकारद्रष्टुत्वेन निर्विकारत्वान्नात्मत्वमित्यर्थः । तर्हि नित्यसिद्धं शून्यमेवात्मा स्यादित्यत उक्तम् अमल इति । शून्यस्य संवृतिलक्षणेन मलेनावृतत्वात् सर्वावरणसाक्षित्वेनात्मन्यविद्यादिमलावरणासम्भवाच्चानात्मत्वमि- अयं श्लोको ब्रह्मविन्दौ दृश्यते. , - १४ परमार्थसारं . . त्यर्थः । तथापि बुद्ध्यादिनवगुणविशिष्टोऽहंप्रत्ययगम्यो जडद्रव्यविशेष एवात्मा स्यादित्यत उक्तं सकृद्विभात इति । नित्योदितानस्तमितप्रकाशरूप इत्यर्थः, "तमेव भान्तमनु भाति सर्वम् " (मु०. २.२-१०) इति श्रुतेः । एवम्भूतत्वेऽपि क्षेत्रज्ञा- न्तरात् क्षेत्रेभ्यश्च भिन्नः पुरुष आत्मा स्यादित्यत उक्तं खवद्यापीति । सर्वदेश- कालवस्त्वनुगतस्वरूप इत्यर्थः । अणुपरिमाणत्वे जीवस्य सकृदेव सर्वावयवगतवेद- नानुसन्धानं न घटेत, परिच्छिन्नत्वे मनआदिवज्जड़त्वं च प्रसज्येत, मध्यमपरि- माणत्वे घटादिवद् दृश्यत्वमनित्यत्वं च स्याद् । अतोऽस्य परिशेषात् परममहत्त्वं सिध्यतीत्याशयः । जीवः परमात्मैव निर्विकल्पत्वादियोगित्वाद् विपर्ययेण घटवदि- त्यनुमानमिह प्रयुक्तम् । न चात्राद्वैतवादिनो दृष्टान्तासिद्धिः 'परसिद्धेन परो बो- धनीय' इति न्यायाद् व्यावहारिकस्य द्वैतस्याङ्गीकृतत्वाच्च । वस्तुगत्या वादिप्रतिवा- दिभेदादिकमपि नास्तीति कः कं प्रति किं साधयेद् दूषयेद्वा । तथा च श्रुतिः “यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति, यत्र वा अस्य सर्वमात्मैवाभूत् तत् केन कं पश्येद्” (बृ०. २-४-१४) इति । ये पुनर्जीवादात्मान्यः कश्चित् पर एव नास्तीति साध्यधर्मस्याप्रसिद्धि मन्यन्ते, तेषामपि सामान्यतः सिद्ध एवासौ, नो चेत् तन्निषेधानुपपत्तेः । यथाहुः "लब्धरूपे कचित् किश्चित् तादृगेव निषिध्यते । विधानमन्तरेणातो न निषेधम्य सम्भवः इति । विपर्ययेऽन्यतरस्यानात्मत्वापत्तिर्बाधः । आत्मनोऽन्यश्वासावात्मा चेति हि विरुद्धम् । तदेवं 'ब्रह्मैवाहमस्मी'त्यात्मा प्रतिपत्तव्यः "तत्त्वमसि" (छा०६-८-७) "अहं ब्रह्मास्मि' इत्यादिमहावाक्यप्रमाण(स्वार)स्याद् दर्शिततर्करूपानुमानाच्चेति सिद्धम् ॥ २५॥ स्यादेतत् ‘सर्वगतं निरुपममद्वैतमिति यदात्मनः सजातीयविजातीयस्वग- तभेदशून्यत्वमुक्तम् । तत्र स्वगतभेदः सजातीयभेदश्च यद्यपि श्रुतियुक्तिभ्यामा- शङ्कच निरस्ती एकः परमात्मैवाप्सु प्रतिविम्बितार्कवदनेकधोपाधिभेदेन भासत इत्युपपादितत्वात् , तथापि विजातीयभेदो जागर्ति समष्टिव्यष्टिदेहात्मन उपाधेः पृथक् सत्त्वादिति । तत्राह ---- रसफाणितशर्करिकागुळखण्डा विकृतयो यथैवेक्षोः । तद्वदवस्थाभेदाः परमात्मन्येव बहुरूपाः ॥ २६ ॥ " ॥

विवरणसमेतम् । १५ विज्ञानान्तर्यामिप्राणविराड्देहजातिपिण्डान्ताः। व्यवहारास्तस्यात्मन्येतेऽवस्थाविशेषाः स्युः ॥ २७ ॥ प्राथमिकं मधुरद्रवरूपं रसः, पाकपिच्छिलं तत् फाणितं, शर्करिका पञ्च- धारारूपं, गुळः पाकातिशयपिण्डीभूतरूपं, खण्डास्तच्छकलानि, रसश्च फाणितं च शरिका च गुळश्च खण्डाश्च रसफाणितशर्करिकागुळखण्डाः । ते यथेक्षो- विकृतय एक इक्षुरस एव, तद्वत् परमात्मनि एकस्मिन्नेव बहुरूपा अन्योन्यं विलक्षणाकारा अवस्थादा रूपविशेषा भवन्ति । के ते । विज्ञानान्तर्यामिप्रा- णविराड्देहजातिपिण्डान्ताः विशिष्टं सर्वोपरिष्टाद् वर्तमानं मूलप्रकृतेः परं चि- दचिद्भेदमप्राप्तं ज्ञानं चैतन्य विज्ञानं ब्रह्म विज्ञानमानन्दं ब्रह्म" (बृ० ३-९-२८) इति श्रुतेः । (अन्तर्यामी पृथिव्यादियमायता) "अन्तर्याम्यमृत" (बृ० ३-७-३) इति श्रुतेः । प्राणस्त्रिगुणात्मिकायां सत्त्वगुणप्रधानायां जडायां स्वमायाशक्त्यां प्रति- बिम्बितं तज्जीवरूपं, "प्राणस्तु प्रणवे जीवे जीविते परमात्मनि । इन्द्रिये वायुभेदे च बलान्तर्यामिणोरपि" ॥ इति स्मिरणात् । तावेत चिदचिदात्मना विवर्त्तमानम्य विज्ञानस्व चित्कोटिगतौ "द्वा सुपर्णा सयुजा सखाये” (श्वे० ४-६)ति श्रुतिप्रसिद्धौ भेदौ । विराड्देहः सम- ष्टिशरीरं पञ्चीकृतपृथिवीकार्यत्वात् पृथिवीवदबादिमाया-तैस्तत्त्वैर्दशगुणोत्तरवृद्धरावृतं मनआदिषोडशविकारोपेतं पञ्चाशत्कोटियोजनविस्तीर्ण ब्रह्माण्डम् । जातिपिण्डाः देवत्वमनुष्यत्वपशुत्वपक्षित्वसरीसृपत्वस्थावरत्वादिजातिभेदयुक्ता व्यष्टिदेहाः । ए- तावचित्कोटिगतौ विज्ञानस्य भेदौ । ननु चैतन्यं कथं चेत्यात्मना विवर्तेत । नन्वचेतना रज्जुः कथं चेतनसर्पतया विवर्त्तते । रज्जुतत्त्वाज्ञानाचेत् , तर्हि चैतन्य- मपि तदज्ञानाचेत्यात्मना विवर्त्तताम् । ननु मायापि चेत्यान्तर्भूता, तत् कथं सर्व चेत्यं मायया चेतनेऽध्यस्तं भवेदिति चेद्, न, मायासम्बन्धोऽप्यस्य मायया, तस्या अपि चेत्यान्तर्भूतत्वमित्युररीकरणात् । न चात्रात्माश्रयता दोषः, “न हि मायायामघटितं किञ्चिदि"ति न्यायात् । यथाहु:- "दुर्घटत्वमविद्याया भूषणं न तु दूपणम्" । इति । तस्मान्मायासम्बन्धस्यापि तत्कार्यसम्बन्धस्येव मायैव हेतुः । तदुक्तमाचार्यः- 'द्वारं तमोऽन्वयमपेक्ष्य दृशा हि दृश्यं सङ्गच्छते सकलमत्र न वो विवादः । + वैजयन्त्याम्, .

१६ परमार्थसार -- मोहोऽपि दृश्यवपुरत्र च संवदध्वे तम्मात् तदन्वयनिमित्तमपीह मोहः" ॥ इति । तस्मात् समष्टिव्यष्टिस्थूलसूक्ष्मदेहतत्कारणान्यचेतनान्यपि चेतनस्यैवाघटि- तघटनापटीयसो रूपाणि । तथा च श्रीवैष्णवे "ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः । त(दे)वार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम्" || इति । अनुगृहीतं च भगवता "यच्चापि सर्वभूतानां बीजं तदहमर्जुन! । न तदस्ति विना यत् स्यान्मया भूतं चराचरम्” (गी० १०-३९)॥ इति । चिद्विवर्त्तश्चेत्यमित्यत्र सद्भिर्युक्तिश्चोपदिश्यते- "प्रागिवार्थोऽप्रकाशः स्यात् प्रकाशात्मतया विना । न च प्रकाशो भिन्नः स्यादात्मार्थस्य प्रकाशता" ॥ इति । अन्तशब्दः स्वरूपवाची, "अन्तोऽस्त्र्यवसिते मृत्यौ स्वभावे निश्चयेऽ- न्तिके" इति । अत्र रसस्थानीयं विज्ञानं, फाणितस्थानीयोऽन्तर्यामी शर्करिकास्थानीयः प्राणः, गुळस्थानीयो विराड्देहः । तत्खण्डस्थानीया जातिपि- ण्डाः । विज्ञानं चान्तर्यामी च प्राणश्च विराड्देहश्च जातिपिण्डाश्च तथा, तदन्ताः तत्स्वरूपाः । हन्त तर्हि परमात्मनो महान् स्वगतो भेदः प्राप्तः, न च तदोपनिष- दानामिष्टम् “एकम् " "एव" "अद्वितीयमि" (छा० ६-२-१) ति पदत्रयेण श्रुतौ त्रिविधस्य भेदस्य बाधितत्वाद् , इतग्था मृदादिवद् विकारित्वापत्तेश्चेत्यत्राह एते विज्ञानादिरूपाः तस्य चिन्मात्राकारम्यापरस्य आत्मन्यवस्थाविशेषाः चि. दचिद्भेदाः चिद्भेदा अचिद्भेदाश्च व्यवहाराः व्यवहारोऽभिज्ञाभिवदनम् उपादा- नमर्थक्रियेति चतुर्विधः, तद्भेदमात्रसिद्धभेदाः, न स्वरूपभेदवन्तः । “वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्” (छा० ६-१-४) इति, "अजायमानो ब- हुधा विजायत" इति च श्रुत्यायमर्थ आविष्कृतः । एका विज्ञानावस्थैव वस्तुसती मायोत्तीर्णरूपत्वाद् रज्ज्ववस्थावद् , (रसा ?) अवस्थान्तराणि मायाकार्यत्वादव- स्तून्येवेत्यर्थः । श्रुतिश्च ----- "कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः । कार्यकारणतां हित्वा पूर्णबोधोऽवशिष्यते" ॥ इति ॥२६॥२७॥ * वैजयन्तीवचनादिति शेषः, विवरणसमेतम् । .१७ . ननु चिदचिद्भेदस्य तदवान्तरभेदस्य च मिथ्यात्वेऽर्थक्रियाकारित्वं न स- अच्छते । न खलु मृगतृष्णिकोदकमानेन तुष्यति कश्चिदित्यत्राह - रज्वां नास्ति भुजङ्गः सर्पभयं भवति हेतुना केन । तद्वद् द्वैतविकल्पभ्रान्तिरविद्या न सत्यमिदम् ॥ २८ ॥ 'अयं सर्प' इति भ्रान्त्यधिष्ठानभूतायां रज्ज्वां भुजङ्गो नास्ति, नायं सर्प इत्युत्तरकालं बाधितत्वाद् , भुजङ्गोत्पत्तिहेतोस्तनाभावाच्च । तत् केन हेतुना सर्पभयं सर्पाद् भयं भ्रान्तस्य भवति, यदि मिथ्यावस्तुनः कार्यकरत्वं न भवेत् । मृगतृष्णिकोदकान्तेरपि प्रथमत आह्लादकरत्वमस्ति । एवं शुक्तिरूप्यभ्रान्त्यादे- रपि द्रष्टव्यम् । अतो यद्वद् रज्जुसर्पभ्रान्तिरविद्यै (विनित्यै ?)व, तद्वद् द्वैतविकल्प- भ्रान्तिः । द्वैतविकल्पो द्वैतावभासः, सा चासौ भ्रान्तिश्च । द्वैतं च तद्विकल्पो प्रान्तिश्च अविद्या अद्वितीयात्माज्ञानविजृम्भितैव, तथापि कार्यकर्ती च भवतीति शेषः । तदुक्तमाचार्यैः- "सत्त्वे न भ्रान्तिबाधौ स्तां नासत्त्वे ख्यातिबाधकौ । सदसञ्यामनिर्वाच्याविद्या वेद्यैः सविभ्रमा" ।। इति । ततः किमित्यत उक्तं - न सत्यमिदमिति । यतोऽविद्यामयम् , अत इदं द्वैतं न सत्यम् । असत्यमपि सत्यवद्भासत एव केवलम् । तस्मानाद्वितीयता- हानिः ॥२८॥ केयमविद्या नाम, कस्य कस्मिन् वासावित्यत्राह - एतत्तदन्धकारं यदनात्मन्यात्मता भ्रान्त्या। न विदन्ति वासुदेवं सर्वात्मानं नरा मूढाः ॥ २९ ॥ तदेतदन्धकारम् अविद्या यदनात्मनि देहादौ आत्मता भ्रान्त्या उप- लक्षिता । अत एव मूढा आत्मतत्त्वजिज्ञासाशून्या नराः सर्वात्मानं सर्वस्य चरा- चरस्यात्मानं स्वरूपभूतं द्रष्टारं च वासुदेवं सर्वात्मत्वेन न विदन्तीति । सदा. नन्दचिद्धनस्यात्मनः स्वरूपतिरस्करणेनासम्भावितानेकस्वरूपान्तरप्रकाशनशक्ति- रविद्येति, प्रकृतिरिति, मायेति, प्रधानमिति, अक्षरमिति, शून्यमिति चाभिधीयत इत्यर्थः ॥ २९ ॥ १. 'जनाः' इति ख. पाठः, -- परमार्थसारं किं तर्हि वासुदेवादन्ये तदज्ञानमोहिता नराः सन्तीति, नेत्याह- प्राणाद्यनन्तभेदैरात्मानं संवितत्य जालमिव । संहरति वासुदेवः स्वविभूत्याक्रीडमान इव ॥ ३० ॥ प्राणोऽन्तर्यामी । आदिपदाद् ब्रह्मादिस्थावरान्ता जीवाः समष्टिव्यष्टिदेहाश्च गृह्यन्ते । वासुदेवः चिदेकरसं ब्रह्म स्वविभूत्या स्वयानन्यगामिन्या विभूत्या स्वातन्त्र्यशक्त्या मायया आक्रीडमान इव "लोकवत्तु लीलाकैवल्यम्” (ब्र० सू० २-१-३३) इति श्रीमच्छारीरकसूत्रोक्तरीत्या स्वाराज्यसमृद्धिमन्तो नरेन्द्रा यथा स्वविभूत्या क्रीडन्ति, तद्वदात्मनात्मन्येव विहर्तुकाम इव प्राणाद्यनन्तभेदैः प्राणा- बैरनन्तै दैभिन्नाकारैः आत्मानं जालमिव जालकारः संवितत्य सम्यग् विततं व्याप्तं कृत्वा पुनः स्वयमेवात्मविद्यया म्वाविद्यां विधूयात्मन्येव सर्व संहरति । तदुक्तमाचार्यः "अज्ञानि ब्रह्म बुद्धीरनुसरति ततः स्थावरं जङ्गमं च म्वाज्ञानादेव भूत्वा क्वचिददगतितो मुक्तमन्यत्र बद्धम् । तच्चाज्ञानं विनष्टं स्थितमथ च तदेवांशभेदोपपत्ते- रेवं सर्वव्यवस्था परमपुरुषगा जाघटीतीति केचित्" । इति ॥ ३०॥ आत्मानं संवितत्य संहरतीत्युक्तम् । तत्र कदा केनात्मना कथं सृजति संहरति चेत्यत्राह - त्रिभिरेव विश्वतैजसप्राज्ञैस्तैरादिमध्यनिधनाख्यैः। जाग्रत्स्वप्नसुषुप्तैर्धमभूतैश्छादितं तुर्यम् ॥ ३१ ॥ आदिमध्यनिधनाख्यैः सृष्टिस्थितिसंहारावस्थाख्यैः त्रिभिर्जाग्रत्स्वप्न- सुषुप्तैः जाग्रदादीनाश्रित्य विश्वतैजसप्राज्ञाख्यैस्त्रिभी रूपैरात्मानं संवितत्य संहर- तीति पूर्वेण सम्बन्धः । नन्वनन्तचिद्रूपे भगवति भासमाने कथं जायदादयः का- लास्तद्गता विश्वसृष्ट्यादयस्तदभिमानिनो विश्वादयश्च भासेरन्नित्यत उक्तं भ्रमभूतैः मिथ्याभूतैरपि तैरेव तुर्य भगवतो निजं धामच्छादितमिति । स्वमायाशक्त्या- त्मीयं धाम तिरस्कृत्य जाग्रदाद्यवस्थाश्रयणेन वासुदेवो विश्वादिरूपी विश्वसृष्ट्या- दिकं करोतीत्यर्थः । भ्रमभूतैरिति जाग्रदादीनां मिथ्याभूतत्वान्न वस्तुतस्तैस्तुर्य तिरस्कृतं, राहुणेवादित्यः । तत्तिरस्कारे साधकाभावेन स्वासिद्धिप्रसङ्गादिति ।

१९ विवरणसमेतम् । तदुक्तं तत्त्वविद्भिः "अनेन च जगतास्य भगवतः प्रकाशात्मकं रूपं न कदाचित् तिरोधीयते । एतत्प्रकाशनेन प्रतिष्ठां लब्ध्वा प्रकाशमानमिदं जगदात्मनः प्राण- भूतं प्रकाशं कथं निरोढुं शक्नुयात् । कथं च तन्निरुद्धं xxx न प्रकाशेते"ति । तत्र जाग्रन्नामात्मनोऽज्ञानोपहितस्यान्तर्बहिष्करणतद्विषयज्ञानक्रियातत्फलव्यवहारेण प्रतिभाससमयः । जाग्रत्प्रपञ्चः सर्वप्रमातृसाधारणो भवति व्यावहारिकसत्ताक- त्वात् । तद्रष्टात्मा विश्वसंज्ञो भवति । बहिष्करणतद्विषयज्ञानादीनि निद्रामुद्रां वहन्त्या स्वाविद्ययैवान्तःकरण उपसंहृत्य तद्वासनासहस्रवासितान्तःकरणतद्विषय- ज्ञानक्रियाफलमात्राकारेणात्मनः प्रतिभाससमयः स्वप्नः । स्वामप्रपञ्चस्त्वेकैकप्रमा- तृसाधारणो भवति प्रतीतिमात्रसत्ताकत्वाजाग्रत्कालीनरज्जुभुजङ्गादिवत् सुखादि- वदन्ति ? नितर)स्थत्वाच्च । तमुष्टात्मा तैजसः । अन्तःकरणतद्विपयज्ञानादिकमपि प्रौढया निद्रया तन्मूलाज्ञान उपसंहृत्य जाग्रत्स्वप्नभ्रमसंस्कारसद्धीचीनस्वाविद्या- मात्रशेषविवर्त्तत्वेनात्मनोऽवस्थानसमयः सुषुप्तम् । सौषुप्तज्ञानं च साक्षिमात्रसंवेद्य- विग्रहत्वादान्तरीयत्वाच्चैकैकनिष्ठमेव, न प्रमातृसाधारणम् । तद्रष्टात्मा प्राज्ञः । स्वाविद्यामपि स्वसंविदापास्य सदानन्दचिन्मात्राकारेणात्मनोऽवस्थानसमयस्तुर्यम् । तदप्यात्मानुभवरूपत्वात् सर्वान्तरत्वाच्चैकैकप्रमातृगतं भवेत् । तद्रष्टात्मा तुरीय उच्यते ॥ ३१॥ तदेवं वासुदेवः स्वयमेवात्ममायात्मानमजानन्निवात्मनि कञ्चित् कालम- नन्तचेत्यचेतनप्रपञ्चात्मना तन्नियामकेश्वरात्मना च क्रीडति । स एव पुनरात्मविद्य- यात्माविद्यामपोह्यात्मानं पश्यतीत्याह मोहयतीवात्मानं स्वमायया द्वैतरूपया देवः । उपलभते स्वयमेवं गुहागतं पुरुषमात्मानम् ॥ ३२ ॥ एवम् उक्तप्रकारेण देवः स्वप्रकाशचिदात्मा भगवान् द्वैतरूपया स्वमा- ययात्मानं स्वयं मोहयतीव, स्वयमेव च पुनः गुहागतं मायातिरस्कृतम् आ- स्मानं पुरुषं परमात्मानम् उपलभते ॥ ३२ ॥ वासुदेवः स्वमायया विधं सृजति पश्यति चेत्युक्तम् । तत्र कुत्र सृजति पश्यति चेत्यत्राह ज्वलनाद् धूमोद्गतिभिर्विविधाकृतिरम्बरे गथा भाति । तहद् विष्णो सृष्टिः स्वमायया द्वैतविस्तरा भाति ॥३३॥ - . परमार्थसार यथा ज्वलनाद् अमेः धूमोद्गतिभिः अम्बरे विविधाकृतिः श्वेतत्वक- ष्णत्वादिरूपा भाति, तद्वत् स्वमायया विष्णौ द्वैतविस्तरा द्वैतविस्ताररूपा सृष्टिः सृज्यत इति कार्यपरम्परा भाति । विश्वाश्रयत्वेऽपि तदसंस्पर्शेऽम्बरधूम- दृष्टान्तः ॥३३॥ स्यादेतत् जाग्रदादिद्रष्टात्मा परमेश्वर इति न युक्तं, तस्य सात्त्विकत्वराज- सत्वतामसत्वभेदात् परस्य मायोत्तीर्णत्वेन सात्त्विकत्वाधसम्भवाच्चेति । तत्राह - शान्त इव मनसि शान्ते दृष्टे दृष्ट इव मूढ इव मूढे । व्यवहारस्थो न पुनः परमार्थत ईश्वरो भवति ॥ ३४ ॥ व्यवहारस्थो जीवभावं गत ईश्वरो मनसि शान्ते सात्त्विके शान्तः सात्त्विक इव भवति, हृष्टे राजसे दृष्टो राजस इव, मूढे तामसे मूढः तामस इव, न पुनः परमार्थतः, गुणानां दृश्यत्वेन हक्सम्बन्धासम्भवादित्यर्थः ॥ ३४ ॥ ननु सुखदुःखमोहानामनुभवितुरात्मनस्तत्कारणैर्गुणैः सम्बन्धेन भाव्य- मित्यत्राह- जलधरधूमोद्गतिभिर्मलिनीक्रियते यथा न गगनतलम् । तद्वत् प्रकृतिविकारैरपरामृष्टः परः पुरुषः ॥३५॥ यथा जलघरधूमोद्गतिभिः जलधरधूमयोरुद्गतिभिरुदयैः गगनतलं न मलिनीक्रियते असङ्गस्वभावत्वात् , तद्वत् प्रकृतिविकारैः सुखदुःखमोहैस्तत्र प्रतीयमानैरपि अपरामृष्टः पुरुषो जीवभावं गतः परः परमात्मा, निरञ्जनत्वादि- त्यर्थः ॥ ३५॥ ननु सर्वक्षेत्रेष्वेक एव चेत् क्षेत्रज्ञस्तर्येकस्मिन्नज्ञेऽन्येऽप्यज्ञाः स्युः, एक- स्मिन् दुःखिनि सर्वेऽपि दुःखिनः स्युरित्यत्राह एकाम॑न्नपि च घटे धूमादिमलावृते शेषाः। न भवन्ति मलोपेता यद्वज्जीवोऽपि तद्वदिह ॥ ३६॥ इहैकस्मिन् घटे घटाकाशे धूमादिमलाहतेऽपि शेषाश्च मलोपेता न भवन्ति यवत् तद् एकस्मिन् जीवेऽज्ञानाद्यावृतेऽप्यपरो जीवोऽनावृतो भवती- त्यर्थः ॥ ३६॥ १. 'मृष्टोऽमल: पु' इति ख. पाठः. २. 'स्मिन् घटगगने धू' इति ख. पाठः,

विवरणसमेतम् ।
२१
एवं जीवग(जे? तौ) धर्माधर्मों (क! व्यव)हरता गुरुणा परमात्मापि वि-
तत्य निरूपितः । अथ गुणपुरुषविभागज्ञे धर्माधर्मों कथं बन्धको न भवत इति
प्रभो दशभिः 'देहेन्द्रियेष्वि'त्यादिभिरार्याभिः परिहियते.
देहेन्द्रियेषु नियताः कर्म गुणाः कुर्वते स्वभोगार्थम् ।
नाहं कर्त्ता न ममेति जानतः कर्म नैव बनाति ॥ ३७॥
देहेन्द्रियेषु देहश्चेन्द्रियाणि च तेषु नियता व्याप्ता गुणाः कार्यकरण-
सङ्घातात्मना परिणता प्रकृतिः स्वभोगार्थ कर्म कुर्वते, नाहं कर्ता ततो विल-
क्षणाकारत्वात् , न च मम तद्भोग्यफलं भवति इति जानतो जानानान् कर्म
नैव बध्नाति देहान्तरेण योजयति । येयमात्मनः कार्यकरणसङ्घातात्मिका जडा
प्रकृतिस्तदनुप्रवेशाद्वा प्राप्तस्वातन्त्र्या, सैव यत्किञ्चिदैहिकमामुत्रिकं वा फलमि-
च्छन्ती शुभमशुभं वा कर्म करोति । तेनेह परत्र वा तत्फलमपि सैवानुभवति ।
आत्मा तु तत्तादात्म्याध्यासात् कर्तेव भोक्तेव च भासते "ध्यायतीव लोलायतीव"
(बृ० ४-३-७) इति श्रुतेः । अत एवं जानतः पुंसो न कर्मतत्फलसम्बन्ध
इत्यर्थः ॥ ३७॥
ननु देहसम्बन्धस्य कर्मानमित्तत्वेऽन्योन्याश्रयः देहे सति कर्म तस्मिन्
सति देह इति । तत्राह-
अन्यशरीरेण कृतं कर्म भवेद् येन देह उत्पन्नः ।
तदवश्यं भोक्तव्यं भोगादेव क्षयोऽस्य निर्दिष्टः ॥ ३८ ॥
येन देह उत्पन्नः, तत् कर्म अन्यशरीरेण ततः प्राचीनेन कृतं भवेत्
तदारम्भकं कर्म ततः प्राचीनेन देहेन, एवं तत्तत् कर्मेति नान्योन्याश्रयः । न
चात्रानवस्थादोषः, संसारम्यानादित्वेन मूलक्षयकरत्वाभावात् । तदुक्तं भट्टपादैः
"मूलक्षयकरी प्राहुरनवस्थां हि दूषणम्"
इति । ननु प्राचीनदेहकृतस्य कर्मणः फलमनेन देहेन भुज्यत इति कुतो निर्णी-
तमित्यत्राह - तत् शुभमशुभं वा कर्म अवश्यं भोक्तव्यं, यतः अस्य भोगादेव
क्षयो निर्दिष्टः शास्त्रेषु-
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ।
अवश्यमनुभोक्तव्यं कृतं कर्म शुभाशुभम् ॥
इति ॥ ३८॥

२९ परमार्थसारं एवं चेद् विद्वद्भिरपि प्राचीनं कर्मोपभोक्तव्यामित्यनिर्मोक्षः । तत्राह- प्राग्ज्ञानोत्पत्ति चितं यत् कर्म ज्ञानाशखिशिखालीढम् । बीजमिव दहनदग्धं जन्मसमर्थं न तद् भवति ॥ ३९ ॥ प्राग्ज्ञानोत्पत्ति ज्ञानोत्पत्तेः पूर्व यत् कर्म चितम् अनुष्ठितं तद् यतो ज्ञानशिखिशिखालीढं तन्मूलाज्ञानसंहारद्वारेण संहृतम् , अतो जन्मसमर्थ पुन- जन्मसम्पादने शक्तं न भवति दहनदग्धं बीजमिव । तदुक्तं भगवता "ज्ञानाग्निः सर्वकर्माणि भम्मसात् कुरुतेऽर्जुन !" (गी० ४-३७) इति ॥ ३९ ॥ तथापि ज्ञानोदयादूर्ध्वमादेहपातं क्रियमाणं कर्म विदुषो देहान्तरमुत्पादय- तीत्यत्राह - ज्ञानोत्पत्तेरुवं क्रियमाणं कर्म यत् तदपि नाम । नाश्लिष्यति कर्तारं पुष्करपत्रं यथा वारि ॥ ४० ॥ यद् ज्ञानोत्पत्तेरूर्ध्वम् आदेहपातं क्रियमाणं कर्म, तदपि कर्तारं न श्लिष्यति न स्पृशति, यथा पुष्करपत्रं पद्मपत्रं तत्स्थं वारि न श्लिष्यति तथे- त्यर्थः । श्रुतिश्च “ यथा पुष्करपलाश आपो न लिप्यन्ते एवमेवंविदि पापं कर्म न लिप्यत" (छा० ४-१४-३) इति । संसारदुःखजनकत्वाविशेषाच्छुतौ पाप- शब्देन शुभाशुभं कर्म गृहीतम् ॥ ४० ॥ कुतो न लिप्यति, कर्तृत्वाभिमानाभावादित्याह - वाग्देहमानसैरिह कर्मचयः क्रियत इति बुधाः प्राहुः । एकोऽपि नाहमेषां कर्ता तत्कर्मणां नास्मि ॥४१॥ कर्मफलबीजनाशाज्जन्मविनाशो न चात्र सन्देहः । बुदैवमपगततमाः सवितेवाभाति भारूपः ॥ ४२ ॥ इह देहिषु मध्ये बुधा वाग्देहमानसैः कर्मचयः क्रियत इति पाहुः । न च अहम् एषां मध्य एकः, तत्कर्मणां कर्तापि नास्मि । कर्मफलबीजना- शात् कर्मफलम्य बीजं कर्तृत्वं तस्य नाशादभावाद् जन्मविनाशः पुनर्जन्माभावः । १. 'ज्ञानप्राप्तेरू' इति ख. पाठः. २. 'तेव विभाति' इति ख. पाठः.

, विवरणसमेतम् । २५ अत्र च न सन्देहः । एवं बुद्धवा सवितेवापगततमा अपगतमोहः पुमान् भारूपो नित्योदितानस्तमितप्रकाशात्मा आभाति सर्वोपरिष्टात् प्रकाशते॥४१॥॥४२॥ किं ज्ञानोदयसमकालमेव कर्माणि नश्यन्ति, किं वा कालान्तर इति, तदैवेत्याह- यद्वदिषीकातूलं पवनोडूतं हि दश दिशो याति ब्रह्मणि तत्त्वज्ञानात् तथैव कर्माणि तत्त्वविदः॥ ४३ ॥ इर्षाका काशस्तस्यां परिणतायां स्थितं तूलम् इषीकातूलम् । तत् पवनोद्- धूतं दश दिशो याति यवत् , तथा तत्त्वविदः कर्माणि तत्त्वज्ञानादेव ब्रह्मणि यान्ति लीयन्ते ॥ ४५ ॥ किं तर्हि विदुषो देहः सद्यः पतति, किं वा कालान्तरे । आद्ये पक्षे तत्त्व- ज्ञस्य गुरोरभावाद् ब्रह्मविद्यासम्प्रदायविच्छेदः, द्वितीये विदुषोऽपि देहाभिमाना- दनर्थप्राप्तिरित्याशङ्कायां प्रारब्धकर्मवशात् कञ्चित् कालं तदेहस्तिष्ठति तदारम्भ- कस्य कर्मणस्तत्त्वज्ञानेनाविनष्टत्वात् तद्विनाश उपजीव्यविरोधप्रसङ्गाद् मुक्तेषुवत् प्रारब्धफलस्य कर्मणः फलभोगेन विना क्षयायोगाच्च । तथापि नास्य प्राग्वद् देहाद्यात्मभ्रान्तिः स्याद् ब्रह्मभावं गतत्वादित्याह क्षीरादुद्दतमाज्यं क्षिप्तं यद्वन्न पूर्ववत् तस्मिन् । प्रकृतिगुणेभ्यस्तद्वत् पृथक्कृतश्चेतनो नात्मा ॥ ४४ ॥ क्षीरादुद्धृतमाज्यं तस्मिन् पुनः क्षिप्तं पूर्ववत् क्षीरवद् न भवति यद्वत् तद्वत् प्रकृतिगुणेभ्यः प्रकृतेर्गुणेभ्यः कार्येभ्यो देहादिभ्यः पृथकृतः श्रुतियुक्ति- भ्यामन्यत्वेन निश्चितः चेतनो जीव आत्मा परमात्मा सन् पुनः प्रकृतिगुणेषु कर्मशेषात् स्थितोऽपि पूर्ववन्न भवति, देहाद्यात्मभ्रान्ति न यातीत्यर्थः ॥ ४४ ॥ परमात्मभावं गतश्चेतनः कथं भवतीत्यत्राह - गुणमयमायागहनं निधूय यथा तमः सहस्रांशुः । बाह्याभ्यन्तरचारी सैन्धवघनवद् भवेत् पुरुषः ॥ ४५ ॥ यथा सहस्रांशुः सूर्यः तमो निधुनोति, तथा पुरुपो विद्वान् गुणमय- मायागहनं कार्यकरणसङ्घातरूपं मायासंज्ञं गहनं तमो निधूय निःशेष संहृत्या- नात्मत्वेन परित्यज्य बाह्याभ्यन्तरचारी देहाद्यवच्छिन्नत्वेऽपि तदनवच्छिन्नत्वेन १. 'भवति गु' इति ख. पाठः परमार्थसार वर्तमानः सैन्धवघनवत् चिदेकरस एव भवेत् । अन्तर्बहिश्च लवणमेव हि तत्।. एवमात्माप्यन्तर्बहिश्च चिदेकरूप एवावतिष्ठत इत्यर्थः । श्रुतिश्च - "तद्यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एव एवं वा अरेऽयमात्मानन्तरोऽबायः कृत्लः प्रज्ञानघन एव" (बृ. ४-५-१३) इति॥ ४५ ॥ यद्यात्मा मायातकार्येभ्योऽन्यः, तर्हि तेषां ततः पृथक्सत्त्वादद्वितीय- वहानिरित्यत्राह- यहदेहोऽवयवा मृदेव तस्या विकारजातानि । तहत् स्थावरजङ्गममद्वैतं द्वैतवद् भाति ॥ ४६॥ यद्वद् अवयवाः शिरःपाणिपादादयो देहः एव, न ततः पृथक् सन्ति, तथापि देहस्तेभ्योऽन्यः, अन्यथा तस्यावयवित्वायोगात् । यद्वच्च मृदेव तस्या विकारजातानि घटशरावमृदङ्गादीनि, न ततोऽन्यानि, तथापि तेभ्यो मृदन्यैव, नो चेत् कारणत्वानुपपत्तेः । तद्वत् स्थावरं जङ्गमं च जगद् अद्वैतं सदानन्दचि- देकरसं ब्रह्मैव सद् द्वैतवत् ततोऽन्यदिव भाति अन्यत्वेन भासत एव केवलं, वस्तुतस्तु तदेव । तथापि जगतोऽन्यदेव तद् , अन्यथा मूलकारणत्वानुपपत्तेः । श्रुतिश्च- "विश्वं नारायणं देवमक्षरं परमं पदम् । विश्वतः परमं नित्यं विश्वं नारायणं हरिम् ॥” (महानारायणं ११-१) इति । तेन नाद्वितीयताहानिशङ्कापीत्यर्थः । 'कोशकार इव कर्मगुणजालबद्धो यः संसरति स जीवः क' इति यस्त्वम्पदाविषयप्रश्नः, यश्च 'प्रकृतिं पुरुषं च मे ब्रूही'ति तत्पदार्थविषयः, यश्च 'गुणपुरुषविभागज्ञे धर्माधर्मों कथं बन्धको न भवत' इति फलविषयः एवमे(षामे)कचत्वारिंशदार्या भवन्ति ॥ ४६ ॥ यद् दिनकर एको विभाति सलिलाशयेषु सर्वेषु । तद्वत्सकलोपाधि- प्ववस्थितो भाति परमात्मा" इति यत् पूर्वमुक्तं, तदेवानुवदन् वाक्यार्थभूतं जी- वपरैक्यं तावदाह- एकस्मात् क्षेत्रज्ञान बहवः क्षेत्रज्ञजातयो जाताः। लोहगतादिव दहनात् समन्ततो विष्फुलिङ्गगणाः॥१७॥ लोहगताद् दहनात् समन्ततो विष्फुलिङ्गगणा इवैकस्मात् क्षेत्रज्ञाद् बहवः सुरनरपशुपक्षिजलजन्तुसरीसृपस्थावरभेदेन, तत्राप्येकैकत्र बहुधा भेदेन " " विवरणसमेतम् । २.५ , चतुरमीतिलक्षसङ्ख्याः क्षेत्रझजातयो जाताः । यथोक्तं श्रुत्या "* यथामविस्फु- लिशा व्युचरन्ति एवमेवैतस्मादात्मन एत आत्मानो व्युच्चरन्ति" (बृ. २-१-२०) इति । क्षेत्रज्ञजातिभेदाश्च सद्भिरुपदिश्यन्ते- "त्रिदशा मनुजाश्चैव जलजा विहगा मृगाः । सरीसृपाः स्थावराश्च सप्तैते जन्महेतवः ॥ त्रिदशाः षोडशलक्षाणि नवलक्षाणि मानुषाः । दशभिर्दशभिश्चैव जलजा विहगा मृगाः ।। सरीसृपा एकादशाष्टादश स्थावराः स्मृताः इति । सर्वक्षेत्रेष्ववस्थिता ये क्षेत्रज्ञाः, त एकः परमात्मापरपर्यायः प्रधानः क्षेत्रज्ञ एवेति जीवपरैक्यलक्षणो वाक्यार्थोऽनेन श्लोकेन दर्शितः ॥ ४७ ।। एवं चेत् कुत एषां बन्धः, कुतो वा तन्निवृत्तिरित्यत्राह - ते गुणसङ्गमदोषाद् बद्धा इव धान्यजातयः स्वतुषैः। जन्म लभन्ते तावद् यावन्न ज्ञानवह्निना दग्धाः॥४८॥ सन्त्रेण वावृत्त्या वात्रेवशब्द उभयत्र संबध्यते । क्षेत्रज्ञाः स्वतो मुक्ता अपि गुणसङ्गमदोषाद् गुणाः क्षेत्राणि तैः सङ्गमाद् दोषाद् बद्धा इव न परमार्थतो बद्धाः औपाधिकस्य स्फटिकलौहित्यादिवत् पारमार्थिकत्वानुपपत्तेः, “विमुक्तश्च वि- मुच्यत" (कठ० २-५-१) इति श्रुतेश्च । धान्यजातयः स्वतुपैरिव । बन्ध- हेतोः क्षेत्रस्य स्वोद्भवत्वे तत्त्वतस्तदसंस्पृष्टत्वे तत्त्वविचारेण (परं) हर्तुं शक्यत्वेऽने- कत्वे च दृष्टान्तः । एवञ्च यावद् ज्ञानामिना जीवेश्वरैक्यसाक्षाज्ज्ञानाग्निना नेद्धाः संहृतक्षेत्राभिमानाः, तावद् जन्म लभन्ते । धान्यजातयोऽपि यावद्वह्निदाहं पुन- जन्म लभन्ते ॥ ४८॥ ननु ज्ञानमज्ञानस्यैव निवर्तकम् । तत् कथं बन्धस्यानेन निवृत्तिरित्या- शकच तस्याज्ञानमयत्वमाह त्रिगुणा चैतन्यात्मनि सर्वगतेऽवस्थितेऽखिलाधारे । कुरुते सृष्टिमविद्या सर्वत्र स्पृश्यते तया नात्मा ॥ ४९ ॥ त्रिगुणा त्रयः सत्त्वरजस्तमोलक्षणा गुणा अवयवा यस्याः सा अविद्या चैतन्यात्मनि बोधस्वरूप आत्मनि सर्वत्र सर्वदा सृष्टिं मृज्यत इति सृष्टिं क्षेत्र- 'यथानेः क्षुद्रा विस्फुलिझा व्युच्चरन्ति एवमेवास्मादात्मन; सर्वे प्राणाः ... व्युच्चरान्त' । मुद्रितोपनिषत्लाठः,

२६
परमार्थसारं
लक्षणानि कार्याणि कुरुते । इहाविद्याया भगवतः स्वरूपाच्छादनशक्तिस्तमः,
रूपान्तरसम्पादनशक्ती रजः, तत्प्रकाशनशक्तिः सत्त्वमिति भेदः । यथाहुः
"सत्त्वं ज्ञानं रजः कर्म तमोऽज्ञानमिहोच्यते" ।
इति । किं देहादिपरिच्छिन्न आत्मनि सृजति, नेत्याह - सर्वगत इति । देहादेर-
नुत्पन्नत्वात् तदनवच्छिन्न इत्यर्थः । तथापि किं क्षणिकविज्ञानसन्तानरूपे, नेत्या-
ह- अवस्थित इति । स्थिरस्वभाव इत्यर्थः । आत्मनः क्षणिकविज्ञानरूपत्वे पूर्वा-
नुभूतार्थस्मरणानुपपत्तेः स्थिरत्वमास्थेयमित्याशयः । श्रुतिश्च "आकाशवत् सर्व-
गतश्च नित्य" इति । तत्रैव सृजतीत्यत्र हेतुः- अखिलाधार इति । अखिल-
स्याधारे द्रष्टरीत्यर्थः । तदुक्तं भगवता
"यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।
क्षेत्र क्षेत्री तथा कृत्स्नं प्रकाशयति भारत!" ॥ (गी. १३-३३)
इति । ननु प्रकाशात्मनि भगवति कथमप्रकाशात्मिकाविद्या सम्भवतीत्यत उक्तं
तयात्मा न स्पृश्यत इति । यथा राहुः सवितरि प्रकाशमानोऽपि तं न स्पृशति,
तथाविद्याप्यात्मनि प्रकाशमानापि तं न स्पृशतीत्यर्थः । तदुक्तं बृहद्वार्तिके
"अविद्यास्येत्यविद्यायामेवासित्वा प्रकल्पते ।
ब्रह्मद्वारा त्वविद्येयं न कथञ्चन युज्यते" ॥
इति ॥४९॥
अविद्यया न स्पृश्यते चेत् कथं सकार्यायास्तस्यास्तस्मिन् प्रतीतिरित्याश-
योक्तमर्थ दृष्टान्तेन साधयति
रज्ज्वां भुजङ्गहेतुः प्रभवविनाशौ यथा न स्तः ।
जगदुत्पत्तिविनाशौ न च कारणमस्ति तद्वदिह ॥५०॥
यथा रज्ज्वां भुजङ्गहेतुः तस्य प्रभवविनाशौ च न स्तः, तदिह
आत्मनि जगदुत्पत्तिविनाशौ न स्तः, न च तत्कारणमस्ति । अयमर्थः - यथा
रज्जुन्यतिरेकेण तत्र सर्पस्य तत्कारणस्य चाभावेऽपि सर्पभ्रान्तिः, एवमात्मव्यतिरे-
केण जगतस्तत्कारणस्य चाभावेऽपि तस्मिन् जगद्ब्रान्तिरिति ॥ ५० ॥
ततः फलितमर्थमाह -
जन्मविनाशनगमनागममलसम्बन्धवर्जितो नित्यम् ।
आकाश इव घटादिषु सर्वात्मा सर्वदोपेतः॥५१॥

- विवरणसमेतम् । सर्वात्मा सर्वेषामात्मा नित्यं जन्मविनाशनगमनागममलसम्बन्धव- र्जितः जन्मविनाशौ गमनागमने मलानि चाविद्यादीनि तैः सम्बन्धेन वर्जितो हीनः, तथापि घटादिषु आकाश इव सर्वदा सर्वत्र उपेतो व्याप्त इति ॥५१॥ तर्हि बन्धमोक्षार्थः प्रयासोऽनर्थक इत्यत्राह कर्म शुभाशुभफलसुखदुः खैर्योगो भवत्युपाधीनाम् । तत्संसर्गाद् बन्धस्तस्करसङ्गादतस्करवत् ॥ ५२॥ यदुपाधीनां कर्म, यश्च शुभाशुभजनितैः सुखदुःखैः संबन्धः, तत् कर्म स बन्धश्च तत्संसर्गाद् उपाधिभिः सह तादात्म्याध्यासादात्मनो भवति, तस्करस- जादतस्करवद् यथा अतस्करस्य तस्करसङ्गाचौर्य बन्धश्च भवेत् , तथेत्यर्थः ॥ १२ ॥ उपाधीनेवाविष्कुर्वन्नुक्तमर्थ विशदयति देहगुणकरणगोचरसङ्गात् पुरुषस्य यावदिह भावः। तावन्मायापाशैः संसारे बद्ध इव भाति ॥ ५३ ॥ देहशब्देन तदात्मना परिणतान्यव्यक्तमहदहङ्कृतिभूतान्युच्यन्ते, गुणा बुद्धिसुखदुःखेच्छाप्रयत्नादयः, करणानीन्द्रियाणि, गोचरा ज्ञेयाः कार्याश्च शब्दा- दयो विषयाः, तैः सङ्गात् पुरुषस्य यावदिह भाव आत्मत्वाभिमानः, तावन्मा. यापाशैः संसारे गर्भाधिवासादिदुःखे बद्ध इव रुद्ध इव भाति । 'देहगुणकरण- गोचरे'ति क्षेत्रस्वरूपमुक्तम् । यथाह भगवान् - "महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च । इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः । एतत् क्षेत्रं समासेन सविकारमुदाहृतम्" ॥ (गी.१३.५, ६) इति । "इन्द्रियेभ्यः परा ह्या अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ।। महतः परमव्यक्तम्” (क० १-३-१०, ११) इति श्रुत्या चैतदेव गृहीतम् ॥ ५३ ॥ बन्धस्वरूपमाह - २८. परमार्थसार मातृपितृपुत्रवान्धवधनभोगविभागसम्मूढः । जन्मजरामरणमये चक्र इव भ्राम्यते जन्तुः ॥ ५४ ॥ जन्तुः जीवो जन्मजरामरणमये संसारे चक्र इव कुलालचके तत्स्थः पिपीलिकादिरिव भ्राम्यते भ्राम्यति । कथम्भूतः मातृपितृपुत्रबान्धवधनभोग- विभागसंमूढः माता पिता च पुत्रश्च बान्धवाश्च धनं च भुज्यन्त इति भोगाश्च- न्दनवनितादयश्च तेषां विभागः पृथक् पृथगवभासः ममेयं माता अयं मे पिता अयं पुत्र इमे बान्धवा इदं धनाममे भोगा इत्यादिरूपः, तेन संमूढो भ्रान्तः॥ ५४॥ कुतो हेतोम्यतीति, कर्मवशादित्याह लोकव्यवहारकृतां य इहाविद्यामुपासते मूढाः। ते जननमरणधर्माणोऽन्धं तम एत्य खिद्यन्ते ॥ ५५ ॥ लोक्यत इति लोकः कार्यकरणसङ्घातः तत्रस्थो व्यवहार आत्मत्वाभिमानः तेन कृतान् अविद्यां कर्म य उपासते कुर्वन्ति, ते मूढाः पुनरपि अन्धं तमः अविद्यामय देहान्तरमभ्येत्य जननमरणधर्माणो जननमरणादिधर्माश्रयाः खि- धन्ते दुःखमनुभवन्ति । श्रुतिश्च अन्धं तमः प्रविशन्ति येऽविद्यामुपासत" (बृ०४-४-१०) इति ॥ ५५ ॥ कुतः सम्भूतेयमप्रकाशात्मिका माया प्रकाशात्मनि भगवतीति, स्वस्मादे- वेत्याह- हिमफेनबुहुदा इव जलस्य धूमो यथा वह्वेः। तद्वत् स्वभावभूता मायैषा कीर्तिता विष्णोः॥५६ ॥ एषा संसारहेतुः माया विष्णोः सर्वात्मनः स्वभावभूता स्वोऽसा- धारणो भावः सत्ता स्वभावः, तस्मात् सम्भूता निसर्गसिद्धा सद्भिः कीर्तिता "मि थ्याज्ञाननिमित्तः 'सत्यानृते मिथुनीकृत्याहमिदं ममेदमिति नैसर्गिकोऽयं लोक- व्यवहार" इति । जलस्य हिमफेनबुख़ुदा इव, यथा वढेधूमः तद्वच्च । निर्म- लद्रवामकाजलात् कठिनं श्वेतवर्ण च हिमादि यथोत्पद्यते, यथा च प्रकाशवपुषो वहरप्रकाशरूपो धूमः, तथा प्रकाशात्मनः परमेश्वरादप्रकाशरूपिणी मायोदेति । नो खलु निवर्येन तमसा विना प्रकाशस्य प्रकाशता सिध्यतीति । यद्वा स्वमाया- १. वृत्तभभयादयं तङ् स्यात् . २. श्रीशङ्करभगवत्पादः.

- विवरणसमेलम् । . २९ शक्तिमवलम्ब्य परमेश्वरो महदादिक्रमेमाण्डं, तदन्तश्चतुर्दशभुवनानि, तत्र चारा- चरशरीराणि च सृष्ट्वा तत्र तत्रान्तर्यामित्वेन जीवत्वेन च प्रविश्य विश्वनियमन स्वनियमानतिक्रमेण सुखदुःखानुभवं च किमुद्दिश्य करोतीत्यत्राह ---हिमेति । यथा जलाद्धिमफेनादयस्तथा तथा परिणमनस्वभावत्वादेव जायन्ते न प्रयोजनवि- शेषानिमित्ताद् , यथा च वढेधूमः, तथा कार्यकारणात्मिका माया परमेश्वरात् स्वत एवाविर्भवति, न किमपि प्रयोजनमुद्दिश्य, तस्याप्तकामत्वेन कस्मिंश्चिदिच्छास- म्भमादित्यर्थः । श्रुतिश्च " भोगार्थ सृष्टिरित्यन्ये क्रीडार्थमिति चापरे । देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा" ॥ (गौ० का ० १-९) इति । अस्मिन् पक्षे मायाशब्देन तन्मयी विश्वसृष्ट्यादिका विभोः प्रवृत्तिर्गृह्यते ॥१६॥ एवं बन्धस्याविद्यकत्वेन विद्यापोद्यत्वं साधितम् । अथ विद्योदयोपायं तस्याः स्वरूपं तत्फलभूताया जीवन्मुक्तेः स्वरूपं च क्रमेणैकोनविंशत्यार्याभिरुप- दिश्यते । सत्रोपायं तावदाह - एवं द्वैतविकल्पां भ्रमस्वरूपां विमोहनी मायाम् । उत्सृज्य सकलनिष्कलमद्वैतं भावयेद् ब्रह्म ॥५७ ॥ एवम् उक्तप्रकारेण द्वैतविकल्पां द्वैतं विकल्पयति भासयतीति द्वैतवि- कल्पा ताम् अद्वैते द्वैतत्वस्यासम्भावितत्वाद् । भ्रमस्वरूपाम् अथापि बिमोहनी सं- सारभयजनयित्रीम् । मायां देहाद्यात्मबुद्धिम् उत्सृज्य सकलनिष्कलं सकलमथापि निष्कलं च नामरूपप्रपञ्चात्मना मायया भासमानत्वेऽपि सदानन्दचिदाकारेणैवा- वस्थितत्वाद् , यथा सर्पदण्डाद्यात्मनाविद्यया भासमानत्वेऽपि रज्जुः स्वेन रज्ज्वात्म- नैव वर्तते, तद्वत् । एवम्भूतत्वाद् अद्वैतं सजातीयविजातीयस्वगतभेदशून्यं च ब्रह्म भावयेद् आत्मतयोपासीत ॥ ५७ ॥ तंत्फलमाह यद्वत् सलिले सलिलं क्षीरे क्षीरं समीरणे वायुः । तद्ब्रह्मणि विमले भावनया तन्मयस्वमुपयाति॥५८॥ यद्वत् सलिले महति क्षिप्तं कलशादिगतं सलिलं तन्मयं भवति, यद्वय प्रभूते क्षीरे क्षिप्तमल्पं क्षीरं तन्मयं भवति, यद्वञ्च समीरणे बाझे प्रविष्टश्चामरा- . परमार्थसार दिसम्भूतो वायुः तन्मयो भवति, तद्वद् विमले निष्प्रपञ्चे ब्रह्मणि भावनया- स्मतयोपास्त्या तन्मयत्वं पुमान् उपयाति ॥ ५८॥ ततः किमित्यत आह इत्थं द्वैतसमूहे भावनया ब्रह्मभूयमुपयाते। को मोहः कः शोकः सर्व ब्रह्मावलोकयतः ॥ ५९ ॥ इत्थं भावनया द्वैतसमूहे ब्रह्मभूयम् अद्वितीयब्रह्ममयत्वम् उपयाते द्वैत- अमप्रवाहे नष्टे सति सर्व ब्रह्मावलोकयतो ब्रह्मणोऽन्यत् किमप्यपश्यतो विदुषः को मोहः देहाद्यात्मभ्रमः, कश्च शोकः न कोऽपि । यथोक्तं श्रुत्या "तत्र को मोहः कः शोक एकत्वमनुपश्यतः" (ई० ७) इति ॥ ५९ ॥ नन्वात्माभिव्यक्तिनिमित्तस्य बुद्ध्यादेविलये कथमसौ प्रकाशेतेत्यत्राह विगतोपाधिः स्फटिकः स्वप्रभया भाति निर्मलो यहत् । चिद्दीपः स्वप्रभया तथा विभातीह निरुपाधिः॥ ६०॥ यद्वनिर्मलः स्वच्छः स्फटिको विगतोपाधिः विगतसमुद्गाद्युपाधिः स्व- प्रभया स्वया प्रभया सितभास्वरा कारेण भाति स्फुरति, तथा चिद्दीपोऽपि नि- रुपाधिः स्वप्रभया स्वरूपसंविदा विभाति । एतदुक्तं भवति-यथोपाधिमन्त- रेणापि स्फटिकमणिर्भासते भासनस्वभावत्वाद् , एवं बुद्ध्याधुपाधिमन्तरेणाप्यात्मा भासेत स्वप्रकाशाकारित्वादिति ॥ ६० ॥ आत्मन उपाधिवशाद् भानमङ्गीकृत्यैतदुक्तम् । वस्तुतस्तु कचिदपि नास्या- न्यतो भानम् , अपि तु स्वत एव निरञ्जनत्वेनान्यसम्बन्धासम्भवाद् व्याप्तत्वेनैक- त्रावस्थानासम्भवाचिदेकरसत्वाच्चेत्याह गुणकरणगणशरीरप्राणैस्तन्मात्रजातिसुखदुःखैः। अपरामृष्टो व्यापी चिद्रूपोऽयं सदा विमलः ॥ ६१॥ अयम् आत्मा सदा गुणकरणगणशरीरमाणैः गुणाः सत्त्वादयः करण- गण इन्द्रियगणः शरीरं पिण्डं प्राणोऽन्तर्वायुः तैः । तन्मात्रजातिमुखदुःखैः त- न्मात्राणि शब्दादीनि जातयो मनुष्यत्वाद्याः सुखं शुभकर्मफलं दुःखम् अशुभक- १. 'भूतसंहांतशरीरतन्मा' इति ख. पाठः -- - विवरणसमेतम् । र्मफलं तैश्च अपरामृष्टः । अभिव्यापीत्युक्तलक्षणस्याप्याकाशस्य मनोगम्यत्वमि- त्यत उक्तं चिद्रूप इति ॥ ६१॥ देहसम्बन्धाभावानास्य दर्शनादिक्रियाकर्तृत्वमपीत्याह - द्रष्टा श्रोता घाता स्पर्शायता रसयिता ग्रहीता च । देही देहेन्द्रियधीविवर्जितः स्यान्न कर्तासौ ॥ १२ ॥ असौ आत्मा देही देहसंबन्धं प्राप्तो द्रष्टा श्रोता घ्राता स्पर्शयिता र- सयिता ग्रहीता च भवति । अतो देहेन्द्रियधीविवर्जितः सन् न कर्ता दर्श- नादिक्रियां प्रति कर्ता न स्यात् । ग्रहीता मन्तेति मनोव्यापारोक्तिः । स्पर्शयितेति स्वार्थे णिच् । एवं रसयितापि । स्प्रष्टेत्यर्थः । तथा च श्रुतिः "अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः” (श्वे० ३.१९) इति ॥ २॥ मायामुत्सृज्य ब्रह्म भावयेदियुक्तम् । तत् केन प्रकारेणेत्यपेक्षां प्रति. क्षिपति- एको नैकत्रावस्थितोऽहमैश्वर्ययोगतो व्याप्तः । आकाशवदाखिलमिदं न कश्चिदप्यत्र सन्देहः ॥ ६३ ॥ आत्मैवेदं सर्व निष्कलसकलं यदेव भावयति । मोहगहनाद् विमुक्तस्तदैव परमेश्वरीभूतः ॥ ६४ ॥ इदं दृश्यजातं सर्वम् आत्मैव तत्सत्तास्फूर्तिव्यतिरिक्तसत्तास्फूर्तिरहितत्वाद् "यदिदं दृश्यते किश्चिद्दर्शनात् तन्न भिद्यते । दर्शनं द्रष्टुतो नान्यद्रष्टैव हि ततो जगद्" । इति स्मरणाद् , “आत्मैवेदं सर्वम् " (छा० ७-२५-२) इति श्रुतेश्च । अतः अहमै- श्वर्ययोगतोऽस्मात् सर्वात्मत्वविभूतिमत्त्वाद् एकोऽद्वितीयः परमस्वतन्त्रो वा । नैकत्र देशे काले वस्तुनि वा अवस्थितः, किन्तु व्याप्तः । किं व्यामोति, अखि- लमिदं द्वैतजातं सर्वस्मिन् देशे काले वस्तुनि चावस्थितः आकाशवत् । तस्य वारवाद्यात्मताभावाद् वस्तुपरिच्छेदेऽपि कालदेशपरिच्छेदो व्यवहारावस्थायां ना- - ॥ १ परमार्थसार स्तीति दृष्टान्तता। न खलपमेयोपमानयोः सर्वात्मना सारश्यमिच्छन्ति सन्तः। अस्मिन्नर्थे कश्चिदपि सन्देहो नास्ति इत्येवं निष्कलसकलं निष्प्रपत्रत्वेऽपि सप्रपञ्चं ब्रह्म यदा भावयति स्वात्मतयोपास्ते, तदा तस्मिन्नेव काले मोहगहनाद अविद्याबन्धाद् विमुक्तः परमेश्वरीभूतः परमेश्वरस्वात्मसाक्षाद्बोधं ग(तः) "ब्रह्म वेद ब्रह्मैव भवति" (मु० ३-२-९) इति श्रुतेः । तदैवेति ब्रह्मोपासनस्य तत्सा- क्षाद्बोधजनने न ज(न्मान्तरापे)क्षेति सूचितम् । स्यादेतद् । “आत्मैवेदं सर्वम् ' इत्ययुक्तं, तत्र वादिनां बहुधा विप्रतिपत्तिदर्शनात् । तथाहि --केचित् पृथिव्या- दिभूतचतुष्टयकार्य चैतन्यगुणाश्रितं शरीरमेवात्मेति कार्यत्वं तस्य मन्यन्ते । तत्रा- स्य सर्वात्मताया दत्त एव जलाञ्जलिः, कार्यस्य कार्यान्तरेषु कारणेषु चाननुग- मात् । केचित् प्राण एवात्मेति । तत्रापि सा न स्याद् , इन्द्रियाणामन्योन्य- स्मिन्नर्थान्तरेषु चाननुगतेः । अन्येऽणुपरिमाणं देहपरिमाणं वा प्रकाशद्रव्यमात्मेति । तेष्वपि सा न स्यात् , अणुप्रमाणस्य सर्षपादेमध्यमपरिमाणस्य घटादेश्च सर्वात्म- त्वादर्शनात् । केचित् पुनः सर्वतो व्याप्तं क्षणिकत्वलक्षणं विज्ञानमात्मेति । तत्रापि सा न स्यात् , विज्ञानानामन्योन्यस्मिन् व्याप्त्यभावात् । अपरे शून्यमात्मेति मे- निरे । तेषां पक्षे व्यापक आत्मा व्याप्यं विश्वं व्यापनं क्रिया तत् त्रिकं द्रष्टवर्श- नादिकं च नास्तीति न सर्वात्मताप्रसङ्गोऽपि । अपरे तु पृथिव्यादिवत् बुयादि- गुणवान्नित्यो विभुः प्रतिशरीरं भिन्नः परमेश्वरादन्यस्तत्परतन्त्रोऽहंप्रत्ययगम्यो ज- डद्रव्यविशेष आत्मेत्यास्थिषत । तेषां तस्य परमेश्वरे क्षेत्रज्ञान्तरेषु क्षेत्रेषु च व्या- प्त्यभावात् सर्वात्मत्वं नोररीकुर्वन्ति । एवं परमात्मप्रेरिता प्रकृतिः परमाणवो वा विश्वोपादानमिति मतेऽपि नात्मनस्सर्वात्मता स्यात् , निमित्तभूतानां कुविन्दकुला- लादीनां पटकुटादिष्वनुगमादर्शनात् । ये पुनर्ब्रह्मपरिणामत्वं विश्वस्याश्रयन्ते, तेषां ब्रह्मणः सर्वात्मत्वेऽपि तदंशो जीव इति नात्मनः सर्वात्मता स्यात् । औपनिषदा- प्रयाणामपि ब्रह्मात्माधिष्ठितमायाविवर्तत्वं विश्वस्य येऽभ्युपगच्छन्ति, तेषामपि प्र- कृतेरेव सर्वात्मता, न पुरुषस्य, कारणस्यैव कार्यानुगमनियमात् , नो वा तस्या अपि पुंसस्तत्स्वरूपत्वाभावात् । तस्माद् 'आत्मैवेदं सर्वमि'त्ययुक्तमुक्तमिति । नैष दोषः, स्वमायाशक्त्यनुप्रविष्टस्य ब्रह्मात्मन एव भोक्तृ-भोग्य-भोग(यित्रा त्र- या)त्मकप्रपञ्चात्मना विवर्तितत्वोक्तेः ‘रसफाणितशर्करिके' (२६)त्यत्र । अत एव 'ज- माघस्य यतः' (अ० सू • १-१-२) इति जगत्कारणत्वं ब्रह्मणो लक्षणत्वेन सूत्रित- विवरणसमेतम् । बान् भगवान् पाराशर्यः । 'यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति येत् प्रयन्त्यभिसंविशन्ति तद् विजिज्ञासस्व तद् ब्रह्म' (ते. ३-१) इति भगवती श्रुतिरप्याह । 'अहं सर्वस्य प्रभवा मत्तः सर्व प्रवर्तते' (गी० १०-८) इत्यच्युतेन चोपदिष्टम् , - 'अहं कृत्वस्य जगतः प्रभवः प्रलयस्तथा । 'मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय!' (गी० ७.६,७) इत्यन्यत्र, 'प्रकृति स्वामवष्टभ्य विसृजामि पुनः पुनः । भूतग्राममिमं कृत्स्नम् ' (गी० ९८) इति च । तस्माद् यथा क्षणिकस्य यागस्य स्वर्गसाधनत्येन श्रुतौ श्रुतम्यापि न कालान्तरदेशान्तरदेहान्तरोपभोग्यफलसाधनत्वं साक्षात् सम्भवतीति श्रुत्यर्थापत्त्या अपूर्वस्य द्वारत्वं कल्प्यते, एवमिहापि चिदेकरसविग्रहस्य भगवतो- ऽनन्तचेत्यचेतनप्रपञ्चत्वात्मनावस्थानं श्रूयमाणं मायया विना न सङ्गच्छत इति जगदुदयादा निमित्तत्वमेव मायाया, उपादानत्वं तु तदधिष्ठातुरीश्वरस्यैवेति स्वी- क्रियते । यथोक्तमाचार्यः 'चित्रायागः पशुफल इति श्रूयमाणोऽपि चित्रा- पूर्वद्वारं पशुफलतयाक्षिप्यते तत्र तद्वत् । चैतन्यात्मा जगदुदयकृच्छ्रयतेऽत्रापि पश्चा- न्मायादीनां भवति जगति द्वारभावः फलेऽस्मिन् ॥ इति । तथा च प्रयोगः--विमतं चेतनोपादानं भवितुमर्हति कार्यत्वात् स्वप्नप्र. पञ्चवद् इति । न च घटपटादौ व्यभिचरितो हेतुः, तेषां पक्षान्तर्भूतत्वात् । विपक्षे जगतः कार्यताहानिर्बाधः अचेतनस्य प्रधानपरमाण्वादेः स्वात्मन्यपि किञ्चिद् ज्ञातुं कर्तुं चासमर्थत्वेन जगदुत्पादकत्वायोगात् । तस्मादात्मनः सार्वात्म्ये नास्मत्पक्षे विरोधगन्धोऽपीत्यभिप्रायः ॥ ६३ ॥ ६४ ।। एवं भगवतः सर्वात्मत्वे सिद्धे फलितमर्थमाह. यद्यत् सिद्धान्तागमतर्केषु प्रब्रुवन्ति रागान्धाः । अनुमोदामस्तत्तत् तेषां सर्वात्मवादधिया ॥६५॥ स्वसिद्धान्तादन्येऽत्र सिद्धान्ताः प्रामाणिकत्वेनाभ्युपगतानि कर्ममीमांसक- सेश्वरनिरीश्वरसाङ्ख्यनैयायिकवैशेषिकशून्यविज्ञानक्षणिकवादिक्षपणकस्वभाववादिम- परमार्थसारं - तानि । आगमाः वेदान्तलक्षणस्वागमव्यतिरिक्ताः कर्मकाण्डश्रुतिशैववैष्णवशाक्तसौ- राद्यागमाः प्रत्यक्षानुमानागम्यस्य प्रवृत्तिनिवृत्तिलक्षणस्य धर्मस्य सगुणस्य निर्गुणस्य च ब्रह्मणस्तदनुष्ठानज्ञानफलस्य तदधिकारिणां तत्स्थानां च प्रकाशका अनादिसि- द्धा ग्रन्थाः । तत्तसिद्धान्तागमोपदिष्टास्तदर्थसाधनार्था अनुमानार्थापत्तिरूपास्त- भैः । व्याप्याद् व्यापकप्रसञ्जनं हि तर्क उच्यते अनमित्वे निघूमत्वं स्यादिति । तच्चानुमानार्थापत्त्योस्तुल्यम् । अमिना व्याप्तोऽयं धूम इति हि धूमसत्तयामिसत्ता महीधरेऽनुमीयते, भोजनव्याप्तं पीनत्वमिति च दिवा भोजनविहीनदेवदत्तपीनत्वेन रात्रिभोजनं निश्चीयते इति । तस्मात् तर्कशब्देनोभयोरपि ग्रहणम् । यद्यत् सि- द्धान्तागमतर्केषु सिद्धान्ताश्चागमाश्च तर्काश्च तेषु रागान्धाः स्वपक्षरागेणान्धाः स्वदोषनिरीक्षणे च मूढाः प्रब्रुवन्ति परपक्षदूषणं स्वपक्षसाधनं च कुर्वन्तो मुख्य- त्वेनोपदिशन्ति, तत्तद् अिनुमोदामः सत्यमेवोक्तमायुष्मतेति तुप्यामः, न विवादं कुर्मः। कुतः, तेषां सर्वात्मवादधिया सर्वात्मा भगवानेव एतैः कर्मेश्वरपुरुषप्रधान- परमाणुशून्यविज्ञानसन्तानक्षणिकस्वलक्षणार्थसर्वानैकान्तिकस्वभावशब्दैः ब्रह्मविष्णु- रुद्रमहेश्वरसदाशिववासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धसरस्वतीपद्मवासिनीपार्वतीभास्करा- दिशब्दैश्च गृह्यत इति निश्चित्येत्यर्थः । तदेतदभिप्रेत्य श्रीगौडपादाचार्योक्तिः 'ख्याप्यमानामजातिं तैरनुमोदामहे वयम् । विवदामो न तैः सार्धमविवादं निबोधत' ॥ इति । श्रीभगवत्पादोक्तिश्च- 'वेदान्तैश्चाध्यात्मिकशास्त्रैश्च पुराणैः शास्त्रैश्चान्यैः सात्त्वततन्त्रैश्च यभीशम् । दृष्ट्वाथान्तश्चेतसि बुद्ध्वा विविशुर्य तं संसारध्वान्तविनाशं हरिमीडे' || इति ॥१५॥ ननु कर्ममीमांसकादयः शैवादयश्चैनं भगवबुद्ध्या न पश्यन्ति, किन्तु कर्मकामार्थादिबुद्ध्यैव । तत् कथं तेषां तत्तत्फलप्राप्तिदृश्यते श्रूयते चेत्यत्राह - सर्वाकारो भगवानुपास्यते येन येन भावेन । तं तं भावं भूत्वा चिन्तामणिवत् समभ्येति ॥ ६६ ॥ + अनुदात्तत्त्वलक्षणस्यात्मनेपदस्यानित्यत्वादत्र परस्मैपदम् ।

- । विवरणसमेतम् । सर्वाकारो हि भगवान् सर्वात्मत्वात् । अतोऽसौ येन येन भावेन आकारेण तैस्तैः उपास्यते तं तं भावम् आकारं चिन्तामणिवद भूत्वा सम- भ्येति प्रामोति स्वतो निराकारत्वादित्यर्थः । श्रुतिश्च 'तं यथा यथोपासते तदेव भवति' इति । श्रीभगवद्वाक्यं च 'ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्' (गी० ४-११) इति ॥१६॥ उक्तमुपसंहरति- नारायणमात्मानं ज्ञात्वा सर्गस्थितिप्रलयहेतुम् । सर्वज्ञः सर्वगतः सर्वः सर्वेश्वरो भवति ॥ ६७ ॥ सर्गस्थितिप्रलयहेतुं विश्वस्येति शेषः। न स्थितिमात्रहेतुं सर्वेश्वरं नारायण- मात्मानं ज्ञात्वा आदरनैरन्तर्याभ्यां चिरमुपास्य सर्वो जनः न ब्राह्मणः परिवाडित्या- दिनियमः, यः कोऽपि देवतागुरुभक्तिमान् , सर्वेश्वरो भवति नारायणमात्मत्वेन साक्षात्करोतीत्यर्थः । कोऽयं सर्वेश्वरो नामेत्यत उक्तं सर्वज्ञः सर्वगत इति ॥१७॥ तत्साक्षात्करणेन किमित्यत आह आत्मज्ञस्तरति शुचं यस्माद् विद्वान् बिभेति न कुतश्चित् । मृत्योरपि मरणभयं न भवत्यन्यत् कुतस्तस्य ॥ ६८ ॥ आत्मज्ञः शुचं सर्वदुःखं तरति । कुतः यस्माद् विद्वान् भगवन्तमात्मत्वेन पश्यन् पुमान् कुतश्चिन्न बिभेति । तदपि कथं, तस्य मरणभयमपि न भवति अन्यद् भयं कुतः । तत्र हेतुर्मृत्योरिति स्वयं मृत्युरूपस्येत्यर्थः । श्रुतिश्च 'तरति शोकमात्मविद् ' (छा.७-१-३) इति । एतदुक्तं भवति- कालसकाशाद्धि सर्वेषां मरणभयं भवति, अयं तु परकालात्मा भगवानेव, तन्नास्य मरणभयप्राप्तिः, अन्यद् भयं तु दूरत इति ॥१८॥ किं पुनरत्र प्रकृतिपुरुषयोः स्वरूपमुक्तं भवतीत्यत्राह- क्षयवृद्धिवध्यघातकबन्धनमोक्षैर्विवर्जितं नित्यम् । परमार्थतत्त्वमेतद् यदतोऽन्यत् तदनृतं सर्वम् ॥ ६९॥ -- , १.धविमो' इति ख. पाठः. २. 'प्रकृतिपुरुषगुणविभागमिदम्' इति ख. पाठः.

परमार्थसारं
क्षयवृद्धी वध्यघातको बन्धनमोक्षौ क्षयवृद्धिवध्यघातकषन्धनमोक्षाः तैः
नित्यं विवर्जितं यद् एतत् परमार्थतत्त्वं पुरुषतत्त्वम् , अतोऽन्यत् क्षयवृ-
ध्यादिमद् यत् , तत् सर्वमनृतं प्रकृतितत्त्वम् ॥ ६९ ॥
एवं तयोः स्वरूपं संक्षिप्य तद्विभागज्ञानफलमाह -
एवं प्रकृति पुरुषं विज्ञाय निरस्तकल्पनाजालः।
आत्मारामः प्रशमं समास्थितः केवलीभवति ॥ ७॥
एवम् उक्तप्रकारेण प्रकृति पुरुषं च विज्ञाय विवेकतो ज्ञात्वा निरस्त-
कल्पनाजालः सन्त्यक्तद्वैतभ्रान्तिप्रवाह आत्मारामः आत्मैवारामः क्रीडास्थानम-
स्येति तथा अखण्डानन्दानुभवरूपं स्वात्मानमेवेक्षमाणः प्रशमं समास्थितः तत्रैव
लीनचेताः केवलीभवति कैवल्यं लभत इत्यर्थः । 'तथा विद्वान्नामरूपाद्विमुक्तः'
(मु० ३-२-८) इति श्रुतेः ॥ ७० ॥
एवं पुंसि मुक्ते तद्देहेन्द्रियप्राणबुद्धयः किं तदैव नश्यन्ति किं वा कश्चित्
कालं प्रतीक्षन्त इत्याकाङ्क्षायां द्वितीयं पक्षं पक्षीकृत्याह -
नलकदलिवेणुवाणा नश्यन्ति यथा स्वपुष्पमासाद्य ।
तद्वत् स्वभावभूताः स्वभावतां प्राप्य नश्यन्ति ॥७१ ॥
'कदलिवेण्विति मात्रामङ्गभयाद्रस्वः । नलो बृहत्तृणविशेषः कदली रम्भा
वेणुर्मस्करः बाणः शरः नलश्च कदली च वेणुश्च बाणश्च नलकदलिवेणुवाणाः
ते यथा स्वपुष्पं स्वस्वकार्यम् आसाद्य जनयित्वा नश्यन्ति, यावन्न जनयन्ति
तावन्न नश्यन्ति, तद्वत् स्वभावभूताः स्वभावात् प्रकृतेः सम्भूता देहादयः स्व-
भावतां स्वेषां सम्बन्धिनो भावा विकाराः फलानि तेषां भावः स्वभावता तां
प्राप्य स्वस्वकार्य कृत्वा नश्यन्ति, न सद्यो नश्यन्ति प्रारब्धकर्मवशात् कश्चित्
कालं स्थित्वा सुखदुःखमोहलक्षणं स्वकार्यमापाद्यैव नश्यन्तीत्यर्थः । तथा च
श्रुतिः 'आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति' (बृ. ४-४-६) इति,
'तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये' (छा० ६-१४-२) इति,
तद्यथाहिनिलयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेते' (बृ. ४-
४.७) इति च ॥ ७१॥

विवरणसमेतम् । देहादिलक्षणां प्रकृतिमनात्मतया परित्यज्य कैवल्यं गतः पुमान् किरूपः स्यादित्यत्राह- भिन्नेऽज्ञानग्रन्थौ छिन्ने संशयगणे 'शुभाशुभे क्षीणे । दग्धे च जन्मबीजे परमात्मानं हरिं याति ॥७२ ॥ अज्ञानग्रन्थौ आत्माज्ञानेन कृते ग्रन्थौ देहाद्यात्माभिमाने भिन्ने प्रकृतिपु. रुषविभागज्ञानेन नष्टे । अत एव संशयगणे छिन्ने देहादिव्यतिरिक्तः कश्चिदात्मा. स्ति किं वा नास्ति, अस्ति चेदपि स किमीशोऽनीशो वा, एको नैको वा, ईश्वरश्चे- दपि स किं सर्वदेहिनामन्तर्वर्तते किं वा कैलासगिरिशिखरे किं वा क्षीराब्ध्यादौ किं वा पश्चिमायां दिशि वसति किं वा दक्षिणस्यामथवोत्तरस्यामाहोस्वित् प्राच्या- मुतोपरिष्टादथवाधस्तादित्यादयः संशयाः 'आत्मस्थमात्मानमजं न दृष्ट्वा भ्रमन्ति मूढा गिरिगह्वरेषु । पश्चादुदग्दक्षिणतः पुरस्तादधःस्विदासीदुपरिस्विदासीद्' । इति श्रुत्यैव प्रकाशिताः, तेषां गणे छिन्ने आत्मतत्त्वसाक्षाज्ञानेन बाधिते । (शुभे) शुभाशुभे कर्मणि च क्षीणे आत्माज्ञानलक्षणस्वकारणविनाशेन विलीने । अत एव जन्मबीजे पुनर्जन्मनो बीजभूतेऽर्थे दग्धेऽभावं गते सति हरिं याति । कोऽसौ हरिरित्यत उक्तं परमात्मानमिति 'आत्मा वा इदमेक एवाग्र आसीन्नान्यत् किञ्च- न मिषत् स ईक्षत' (ऐ० १-१) इत्यादिश्रुतिप्रसिद्धः परमात्मेत्यर्थः । श्रुतिश्च- 'भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तरिमन् दृष्टे परावरे' (मु० २-२.८) इति । कैवल्यं गतो जीवः पर एव भवतीति श्लोकार्थः ॥ ७२ ॥ किमस्मान्मानुषाद देहाद् देहान्तरं प्राप्य मुच्यते, किं वानेनैव देहेन, अने- नापि किमिहैव मुच्यते, किं वा देशान्तरं गत्वेत्यत्राह - मोक्षस्य नैव किश्चिद्धामास्ति न चापि गमनमन्यत्र । अज्ञानमयग्रन्थे दो यस्तं विदुर्मोक्षम् ॥ ७३ ॥ मोक्षस्य सम्बन्धि तदुद्भवहेतुभूतं धाम शरीरम् अस्मादन्यत् किश्चिन्- वास्ति नाप्यन्यत्र गमनं 'तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत् तथर्षीणां * मात्रात्याधिक्यान्नाय पाठः स्यात्, किन्तु 'शुभाशुभे' इत्यस्य स्थाने 'शुभे'इत्येव पाठः स्यात् । 'संशयशुभाशुभे क्षीणे' इति ख. पाठस्त्वनर्थकः, -- १८. परमार्थसारं तथा मनुष्याणाम् ' (बृ० १-४-१०) इति श्रुतेः । उक्तेऽर्थे हेतुत्वेन मोक्षस्वरूप- माह - अज्ञानमयग्रन्थेरज्ञानरूपस्य बन्धहेतोर्यो भेदः संहाररूपः तं मोक्षं विदुः स च तत्त्वज्ञानमेव स्वसिद्धावपेक्षते, न देहान्तरं देशान्तरं वेत्यर्थः । अनेनास्मा- दन्ये मोक्षपक्षा आक्षिप्ताः । कथं, यत्तावन्मरणं मोक्ष इति चार्वाकमतं, तन्मरणस्य स्वविनाशरूपत्वेनापुमर्थत्वादप्रत्यक्षत्वेनानिश्चिताकारत्वाच्चायुक्तम् । यत्पुनः क्षप- णकाः सततोर्ध्वगमनं मोक्षमिच्छन्तीति, तदप्ययुक्तम् । सतताधोगतिवत् प्रयासा. त्मकत्वेनास्यापुरुषार्थत्वात् । विशुद्धविज्ञानसन्तानोदयो मोक्ष इति यद्विज्ञानवादि- मतं, तन्मोक्षसाधनानुष्ठातुर्विषयोपरक्तविज्ञानसन्तानस्य नष्टत्वादकृताभ्यागमकृतवि- प्रणाशदोषेण विषयोपरागाभावे विज्ञानस्य भेदकाभावेन सन्तानरूपत्वासिद्धेश्चायु- क्तम् । सर्वशून्यतालाभो मोक्ष इति यन्माध्यमिकमतं, तत्र शून्यस्य स्वप्रकाशत्वे सत्त्वप्रसङ्गादस्वप्रकाशत्वे साधकाभावेनासिद्धत्वाच्चानुपपन्नम् । बुद्ध्यादिनवगुणप्र- हाणेनात्मनोऽवस्थानं मुक्तिरिति यत्तर्कमतं, तच्च पाषाणादिवदात्मनो जडताप्राप्ति. रूपत्वान्मोक्षे परमेश्वरवदिच्छाज्ञानक्रियावत्त्वापत्तेश्चानादरणीयम् । यत् प्रकृतिपुरुष- विवेकात्मा मोक्ष इति निरीश्वरसाङ्ख्यमतं, तच मोक्षे प्रकृत्यदर्शनेन ततो विवेकस्य दुस्सम्पादत्वात् तदर्शने बन्धप्राप्तेश्वाविचारसुन्दरमेव । यत्तु पुनस्सेश्वरसाङ्ख्यमतं क्षेत्रज्ञस्य परमपुरुषसायुज्यं मोक्ष इति, तदप्यचारु, प्रागनीश्वरस्येदानीं तद्भावे मोक्षस्य कादाचित्कत्वेन नित्यपुरुषार्थत्वासिद्धेरकृताभ्यागमकृतविप्रणाशदोषस्य प- रिहर्तुमशक्यत्वाच्च । आत्मनः स्वरूपावस्थानं मोक्ष इति यत्कर्ममीमांसकमतं, त- चात्मनः प्राक्स्वरूपावस्थाने नाधुनात्र किञ्चित्कर्तव्यं सिद्धत्वाद् , अनवस्थाने स्व- रू(पत्या ! पा) सिद्धिरिति दूष्यमेव । यत्तु पुनः पाशुपताः परमशिवसाम्यावाप्तिर्मु- क्तिरित्याहुः, तत्र साम्यं नाम किमिति वाच्यम् । सर्वज्ञानक्रियाशक्तिमत्त्वं चेत्, न, सर्वात्मत्वाभावे सर्वज्ञानक्रियाशक्तिमत्त्वासिद्धेः, तद्भावे च मुक्तानां परमशिव. ताप्राप्त्या तत्साम्यवचनानुपपत्तेः । अथाणवमायीयकार्ममलविहीनत्वं तत्साम्यमि- त्युच्येत, तदप्यसत् ज्ञातृत्वस्वभावत्वेन निर्भेदत्वेन निर्मुक्तबन्धनत्वेन विना मल. त्रयविधुरताया असिद्धेः, उक्तलक्षणत्वे च परमेश्वराद् भेदासिद्धेश्च । विपर्यये परस्य विपरीताकारताप्रसङ्गः । यत्पुनः सात्त्वता वासुदेवादिचतुयूहात्मनो हरेः सालोक्यसामीप्यसारूप्यसायुज्यस्वलक्षणो मोक्ष इत्याचक्षते, . तत् सालोक्या- दीनां प्रागसत्त्वेऽधुना सत्त्वायोगात् प्राक्सत्त्वे तत्सिद्ध्यर्थस्य प्रयासस्यानर्थकत्वात विवरणसमेतम् । भेददर्शनमयत्वेन सभयत्वाच्चानुपादेयमेव । अतो ब्रह्मात्मैक्यसाक्षाज्ञानेन तदज्ञा. नोपशान्तिरेव मोक्षः । तथा च भगवद्वचनम् "अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः । (गी. ५.१५) ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ (गी० ५-१६) तहृद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः । गच्छन्त्यपुनरावृत्तिं ज्ञाननिषूतकल्मषाः । " (गी० ५-१७) इति । तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान् सनत्कुमारः' (छा० ७.२६-२) इति चोपनिषदा अविद्यास्तमय एव मोक्ष इति साक्षादुपदिष्टम् । तथा च प्रयोगः-विमतमात्मतत्त्वज्ञाननिवर्त्य तदज्ञानविलसितत्वात् स्वामजाद्वद् इति । का पुनरियमविद्यानिवृतिर्नाम, या मुक्तिरित्युच्यते । सा तावन्न सती आत्म- वनित्यत्वापत्तेः, नाप्यसती ज्ञानस्य निष्फलत्वापतेः, नापि सदसती सत्त्वासत्त्वयोः परस्परबाध्यबाधकत्वेनाविवादमेकत्र वर्तनानुपपत्तेः, नापि सदसद्विलक्षणा अविद्या- यास्तथात्वाद् भावाभावयोरैकरूप्यायोगाच्च, नापि चतुष्कोटिविनिर्मुक्तरूपा, शू- न्यस्यैव तल्लक्षणत्वादिति चेद् , न, सत्प्रतियोगिनोऽसत एव शून्यशब्दार्थत्वात् स- दसद्विलक्षणाविद्याप्रतियोगिनस्तन्निवृत्तेः पञ्चमप्रकारत्वेन शून्यस्वलक्षणत्वाभावाच्च । अतः सच्चासच सदसच्च सदसद्विलक्षणं चेति यचतुर्विधं रूपं, तद्विलक्षणं किञ्चना- विद्यानिवृत्ते रूपमाश्रीयताम् । किञ्च मिथ्यावस्तुनो निवृत्तिर्न तदधिष्ठाना याथात- थ्येन वीक्ष्यमाणादन्यद् वस्तुतोऽस्ति तस्यैव तन्निषेधे परिशिष्यमाणत्वात् । अतो ब्रह्म विद्याप्रतिबिम्बितं स्वाध्यस्तायाः स्वकार्याया अविद्याया निवर्तकम् । तत्स्वरू- पमेवाविद्यानिवृत्तिरिति सिद्धम् ॥ ७३ ।। ननु प्रकृतेः पुरुषस्यात्यन्तविलक्षणाकारत्वे सकार्यायास्तस्यास्ततः पृथक्- सत्त्वादद्वितीयताहानिरित्यत्राह बुदैवमसत्यमिदं विष्णोर्मायात्मकं जगद्रूपम् । विगतद्वन्द्वोपाधिकभोगासङ्गो भवेच्छान्तः॥ ७४॥ एवं 'सत्यमिव जगदसत्यम्' (श्लो. ९) इत्यादिनेहोक्तप्रकारेण माया- त्मकं मायामयम् इदं जगद् विष्णोरेव तदधिष्ठातुः असत्यं रूपं बुद्ध्वा ४ परमार्थसारं - सनिदानं देहदैहिकप्रपञ्चमन्वयव्यतिरेकाभावपरिहारेणात्मन्येवाध्यस्तं निश्चित्य वि- गतद्वन्द्वोपाधिकभोगासङ्गः विगतो द्वन्द्वोपाधिको देहादिनिमित्तो भोग आ समन्तात् सङ्गो यस्य स तथा आत्मन्यध्यस्तत्वात् तद्व्यतिरेकेण विश्वं नास्तीति देहादिसङ्गमपास्यात्मन्येव सक्तो भूत्वा शान्तः तत्रैव लीनमानसो भवेत् ॥ ७४ ॥ एवं मुक्तस्याविद्यासंस्कारात् कञ्चित् कालं देहे जीवत्यपि नानर्थप्राप्तिरि- त्याह 'बुट्टा विभक्तां प्रकृति पुरुषः संसारमध्यगो भवति । निर्मुक्तः सर्वकर्मभिरम्बुजपत्रं यथा सलिलैः ॥ ७५॥ प्रकृति देहादिरूपिणीं विगक्ताम् आत्मनोऽत्यन्तविलक्षणां बुद्ध्वा अ- नात्मतया त्यक्ता पुरुषः परमात्मभावं गतः संसारमध्यगः देहीवावभासमानोऽपि सर्वकर्मभिर्निर्मुक्तो भवति अम्बुजपत्रं सलिलैरिव । तथा च पाराशय सूत्रं 'तदधिगम उत्तरपूर्वाघयोर श्लेषविनाशौ तद्व्यपदेशात् ' (ब) सू ० ४-१-१३) इतिः ॥ ७५॥ एवं जीवन्मुक्तिमुक्त्वा मुक्तस्याशरीरपातं वर्तनप्रकारमाह 'अनन्निति चतुर्भिः श्लोकः अनन् यद्वा तद्वा संवीतो येनकेनचिच्छान्तः । यंत्रक्कचन च शायी विमुच्यते सर्वभूतात्मा ॥ ७६ ॥ सर्वभूतात्मा भगवदात्मतां गतः शान्तः संयमी यद्वा तद्वा श्रेष्ठमश्रेष्ठं वान्नम् अनन् येनकेनचित् काषायेण मलिनेन वा वसनेन संवीतः संवेष्टितः यत्रकचन च शय्यायां भूमौ वा प्रासादोपरि रथ्यामध्ये वा शायी विमुच्यते मुंक्तिसुखमनुभवति ॥ ७६ ॥ यत्किञ्चन शुभमशुभं वा कर्म कुर्वन्न लिप्यते चेत्याह- हयमेधसहस्राण्यप्यथ कुरुते ब्रह्मघातलक्षाणि । परमार्थविन्न पुण्यैर्न च पापैः स्पृश्यते विमलः ॥७७ ॥ - - * अत्र तृतीयपादें च त्रयोदशमात्रा दृश्यन्ते.

४ १ विवरणसमेतम् । परमार्थविद् यतो विमलः विगताविद्यादिमलः, अतो हयमेधसहस्राणि कुरुते यदि अथवा ब्रह्मघातलक्षाणि, तथापि न पुण्यैः स्पृश्यते, न च पापैः ॥ ७७॥ कि- मदकोपहर्षमत्सरविषादभयपरुषवय॑वाग्बुद्धिः । निःस्तोत्रवषट्कारो जडवद्विचरेदगाधमतिः॥७८॥ अगाधमतिः अगाधमतलस्पर्शमनन्तानन्दरूपं ब्रह्म, तस्मिन् मतिरात्म- बुद्धिः (यस्य सः)। जडवदित्युपलक्षणं, जडोन्मत्तपिशाचवद् विचरेत् । तदुक्तं बृहद्वार्तिके-- 'बुद्धतत्त्वस्य लोकोऽयं जडोन्मत्तपिशाचवत् । बुद्धतत्त्वश्च लोकानां जडोन्मत्तपिशाचवत् ।।' इति । कथंभूतः मदकोपहर्षमत्सरविषादभयपरुपवर्जी । मदो विद्वत्त्ववतित्वाद्य- भिमानः, कोपः शत्रुविषयो मानसोऽसहनव्यापारः, हर्षः इष्टलाभहेतुर्मानस उल्लासः, मत्सरः परवृद्ध्यसहिष्णुता, विषादोऽभिमतार्थालाभादनभिमतार्थप्राप्तेर्वा दैन्यं, भयं राजलोकवेदेभ्यो भीतिः, परुषं पारुष्यं नैष्ठुर्य, मदश्च कोपश्च हर्षश्च मत्स- रश्च विषादश्च भयं च परुषं च मदकोपहर्षमत्सरविषादभयपरुषाणि तानि वर्जयितुं शीलमस्येति तथोक्तः । अवाग्बुद्धिः प्रणवे तदर्थे ब्रह्मात्मनि च पर्यवसितवाङ्- मनोवृत्तिसर्वस्वः । निःस्तोत्रवषट्कारः स्तोत्रं कस्यचित् केनचिद् गुणोत्कर्ष- प्रशंसनं, वषट्कारो यजनं, निर्गतौ स्तोत्रवषट्कारौ यस्मात्स तथा ॥ ७८ ॥ तवृत्त्युपदेशमुपसंहरति- उत्पत्तिनाशवर्जितमेवं परमार्थमुपलभ्य । कृतकृत्यसफलजन्मा सर्वगतस्तिष्ठति यथेष्टम् ॥७९॥ एवम् 'अव्यक्तादण्डमभूदि'(१०)त्याद्युक्तक्रमेण परमार्थ प्रकृतेः परं पुरु- षस्य स्वरूपम् उपलभ्य 'उपोपसर्गस्सामीप्ये तत् प्रतीचि समाप्यते' इति न्याया- दात्मत्वेन साक्षात्कृत्य कृतकृत्यश्चरितार्थः अतएव सफलजन्मा सर्वगतः अन्त- बहिष्ठो यथेष्टं तिष्ठति सुखं जीवतीत्यर्थः ॥ ७९ ॥ -- ४२ परमार्थसारं देहे पतिते तस्य स्थितिः कथं कुत्र कथं, वा तदेहः पतेदिति जिज्ञासायां विदेहमुक्तिमाह -- 'व्यापिनमिति चतुर्भिः श्लोकैः व्यापिनमभिन्नमित्थं सर्वात्मानं विधूतनानात्वम् । निरुपमपरमानन्दं यो वेद स तन्मयो भवति॥८०॥ व्यापिनं परममहान्तम् 'अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत् । अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तन्मृत्युमुखात्प्रमुच्यते' (कठो-१-३-१५) इति श्रुतिः । विधूतनानात्वं विधूतं नानात्वं भिन्नत्वं येन तमद्वितीयं 'सदे सोम्येदमग्र आसीदेकमेवाद्वितीयम्' (छा० ६.२-१) इति श्रुतेः। निरुपमपर- मानन्दं निरुपमः परमो निरतिशयश्च य आनन्दस्तम् ‘आनन्दो ब्रह्मेति व्यजानात् । एषोऽस्य परम आनन्दः । एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' (बृ. ४-३-३२) इति श्रुतेः । सर्वात्मानं वासुदेवम् इत्थं व्याप्त्यादिमन्तम् अमिन्नं वे. दितुः स्वस्माद् वेद्यतया भेदमप्राप्तं यो वेद स्वात्मत्वेन साक्षात्करोति 'अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम् ' (बृ. १-४-१०) इति भेदेनेक्षणस्य श्रुत्या प्रतिषिद्धत्वाद् ‘एष त आत्मामृत' इत्य- भेदेनेक्षणस्यामृतत्वफलतया विहितत्वाच्च । स तन्मयः सर्वभूतात्मा वासुदेव एव देहे स्थिते पतितेऽपि भवतीत्यर्थः । ननु सर्वात्मनि वासुदेवे कथं श्रुतयः प्रवर्त- न्ताम् । स हि सर्वबुद्धीन्द्रियाध्यक्षत्वात् सर्वात्मोच्यते। अतश्च मनसा स्मर्तु वाचा वक्तुं चाशक्यस्वरूपः स्यात् । न खलु प्रदीपेन प्रकाशितो घटः प्रदीपं प्रकाशयितुं प्रगल्भते । एवमात्मना प्रबोधितं मनो वचो वा नात्मानं बोधयितुं शक्नोति । श्रुतिश्च ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' (तै० २-४-१) इति । ननु मुख्यगौणभेदेन द्विविधा शब्दस्यार्थे प्रवृत्तिः । तत्र मुख्या रूढिवृत्तिर्योग- वृत्तिश्चेति द्विविधा । तयोवृद्धव्यवहारनिमित्तेन सङ्केतेन यश्शब्दो यमर्थमभिधत्ते, तस्य तस्मिन् प्रवृत्तिलॊके रूढिरुच्यते, यथा गवादिशब्दस्य गोत्वादौ । यस्तु पुनरवयवव्युत्पादनेन स्वार्थे शब्दो वर्तते, तस्य तस्मिन् प्रवृत्तियोगवृत्तिः, यथा पङ्क- जादिशब्दस्य तामरसादौ । एवमौपचारिकी वृत्तिरपि द्विविधा गौणी लाक्षणिकी चेति । तयोर्मुख्यार्थगुणयोगेनार्थान्तरे शब्दस्य वृत्तिर्गौणी, यथा क्रौर्यशौर्यादिमु- ख्यार्थगुणयोगेन सिंहशब्दस्यार्थान्तरे प्रवृत्तिः सिंहो देवदत्त इति । या तु पुनर्मु- विवरणसमेतम् । ख्यार्थसम्बन्धादर्थान्तरे शब्दस्य वृत्तिः सा लक्षणा । अनयोश्चोभयोवृत्त्योर्मुख्यार्थ- बाधः प्रयोजनान्तरं च साधारणं कारणं भवति, 'मुख्ये सम्भवत्यमुख्यकल्पना न न्याय्येति 'प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तत' इति च न्यायात् । सा च लक्षणा त्रिविधा जहल्लक्षणा अजहल्लक्षणा जहदजहल्लक्षणा चेति । तत्र स्वार्थ सर्वात्मना परित्यज्यार्थान्तरं यत्र शब्दो लक्षयति, यथा गङ्गायां घोषः प्रतिवसती- त्यत्र गङ्गाशब्दस्तीरं, तत्र जहल्लक्षणा । यत्र पुनः स्वार्थमपरित्यज्यैव तत्सम्बन्ध्य- र्थान्तरं शब्दो लक्षयति, यथा कुन्ताः प्रविशन्तीति कुन्तिनः पुंसः, तत्राजहल्ल- क्षणा । यत्र पुनः स्वार्थात् किञ्चित् परित्यज्य किञ्चिद्रूपं शब्दो लक्षयति, यथा सोऽयं देवदत्त इत्यत्र तदेतद्देशकालवैशिष्टयप्रहाणेन देवदत्तमात्रं सोऽयमिति शब्दौ लक्षयतः, तत्र जहदजहल्लक्षणा । एवं त्रिविधासु वृत्तिषु यद्यपि मुख्या गौ- णी च वृत्तिर्ब्रह्मणि शब्दस्य न सम्भवति जातिगुणक्रियारहितत्वाद् ब्रह्मणः, तथापि कथञ्चिल्लाक्षणिकी वृत्तिस्तस्मिन् सम्भवत्येव, या जहदजहल्लक्षणेत्युच्यते । कथं, अ. बाध्यं वस्तु हि लोके सत्यशब्दार्थः । तच्चाकाशादौ व्यावहारिकमात्मनि पारमा- र्थिकम् । तेनाकाशादिविशिष्टं प्रत्यक्चैतन्यं सत्यशब्दस्य वाच्योऽर्थः । तथाच 'सत्यं ज्ञानमनन्तं ब्रह्मेति वाक्ये सत्यशब्दस्य* वाच्याकाशादिरूपप्रहाणेन प्रत्यङ्- मात्रं लक्षयति । एवं ज्ञानशब्दस्य प्रकाशनशक्तिमानर्थः । तथात्वं च घटाद्या- कारायां बुद्धिवृत्तौ व्यवहारतोऽस्ति परमार्थतश्च प्रतीचि । तेन बुद्धिवृत्तिविशेष- विशिष्टं प्रत्यक्चैतन्यं ज्ञानशब्दस्य मुख्योऽर्थः । तत्र बुद्धिवृत्त्यंशं परि- त्यज्य प्रत्यक्चैतन्यमानं ज्ञानशब्दो लक्षयति । तथा शुभकर्मोपस्थापितविषयोप- भोगजन्या सर्वतः काार्थ्यजननी कापि बुद्धिवृत्तिर्व्यवहारतः परमार्थतः प्रत्यगा- त्मा चानन्दः । तथाच तद्विशिष्टेऽर्थे आनन्दशब्दो मुख्यवृत्त्या वर्तते ‘विज्ञानमा- नन्दं ब्रह्मे'त्यत्र । आनन्दशब्दस्तेन बुद्धिवृत्तिरूपं स्वार्थीशं त्यक्ता तद्दष्टरूपं स्वार्थीशं लक्षयति । एवमनन्तशब्दस्यापरिच्छिन्नं वस्तु मुख्योऽर्थः। कालस्य च व्यवहारे न देशकालपरिच्छेदः कालस्य कालान्तराभावात् तदव्याप्तदेशाभावाच्च । ब्रह्म चाप- रिच्छिन्नं भवति तत्त्वतः कालदेशादेः परिच्छेदहेतोस्तदृश्यत्वेन तत्परिच्छेदक- स्वायोगात् । अतः कालाद्यनुगतं ब्रह्मानन्तशब्दस्य मुख्योऽर्थः । तेन कालादिकं परित्यज्यानन्तशब्दो ब्रह्मणि लक्षणया वर्तत इति । न चैवंविधाया लक्षणाया लोके- ऽप्रसिद्धिः, प्रकृष्टप्रकाशश्चन्द्रः' पृथुबुनोदराकारो घट' इत्यादिवाक्येषु प्रसिद्धत्वात्। सत्यशब्दः स्ववाच्याकाशादि' इति पाठः सम्यक् । ,

परमार्थसारं
तत्र हि अस्मिन् ज्योतिर्मण्डले कश्चन्द्रः एषु मृद्विकारेषु को घट इति च प्रश्नोत्तर-
त्वात् प्रकृष्टप्रकाशशब्दाभ्यां पृथुबुध्नोदराकारशब्दाभ्यां च स्ववाच्यांशप्रकृष्टत्वप्र-
काशत्वजातिप्रहाणेन पृथुत्वबुध्नोदराकारत्वधर्मप्रहाणेन च प्रकृष्टप्रकाशामिका एका
चन्द्रव्यक्तिः पृथुबुध्नोदराकारका घटव्यक्तिश्च लक्ष्यते, अन्यथाम्रान् पृष्टः कोविदा-
रानाहेतिवदसङ्गतिप्रसङ्गात् । एवमिहापि 'ब्रह्मविदामोति परमिति ब्रह्म किंलक्षण-
मित्यपेक्षायां प्रवृत्तत्वात् सत्यादिपदानां ब्रह्मण्येव वृत्तिः । सोऽयं वेदान्तगतावान्त-
रवाक्येषु तत्त्वंपदार्थशोधनपरेषु न्यायः । तत्त्वमस्यादिमहावाक्येषु सोऽयं देवदत्त
इति वाक्यवत् प्रवृत्तिः । तत्र हि तच्छब्दस्य तद्देशकालविशिष्टो देवदत्तो मुख्यार्थः
इदंशब्दस्यैतद्देशकालविशिष्टः । न च तत्परिग्रहे एकत्वबोधनं शक्यं तदेतद्दे-
शकालादीनामन्योन्यैक्याभावाद् । अत उभयत्र तदेतद्देशकालवैशिष्टयप्रहाणेन
देवदत्तमानं लक्षणया स्वीकृत्यैक्यं बोध्यते स एवायमिति । तथा तत्त्व-
म्पदयोः सर्वज्ञत्वादिगुणविशिष्ट ईश्वरः किञ्चिज्ज्ञत्वादिगुणविशिष्टो जीवश्च वा-
च्योऽर्थः । न च सर्वज्ञत्वादिविशिष्टस्य किञ्चिज्ज्ञत्वादिविशिष्टेनैक्यं घटते विरो-
धात् । अतस्तच्छब्देन सर्वज्ञत्वादिप्रहाणेनाद्वितीयचिन्मानं त्वंशब्देन किञ्चिज्ज्ञ-
त्वादिप्रहाणेनापरोक्षचिन्मानं च लक्षयित्वैक्यं बोध्यते तत्त्वमसीति । तस्माद् ब्रह्म-
णि वेदान्तानां प्रवृत्तौ नानुपपन्नं किश्चिदिति चेत् । न । लोके प्रमाणान्तरावगतस्य
तीरादिशब्दान्तरवाच्यस्य चार्थस्य लक्ष्यत्वदर्शनाद् ब्रह्मणस्तथात्वानभ्युपगमाच
लक्ष्यत्वासिद्धेः इति यत् कैश्चिदुच्यते, तदसारं, सिद्धत्वमात्रं लक्षणाप्रयोजकं न
प्रमाणसिद्धत्वं केवलव्यतिरेकाभावात् । न खलु सिद्धत्वे सत्यपि प्रमाणसिद्धत्वाभा-
वापराधेन कचिल्लक्षणाभावो दृष्टः । ब्रह्म चिदेकरसत्वात् स्वतःसिद्धमिति किमिह
प्रमाणतः सिद्ध्यभावेन हीयते । न च शब्दान्तरवाच्यत्वाभावे लक्ष्यनिर्देशासिद्धिः,
अवाच्यस्योप्यर्थम्य लक्ष्यत्वदर्शनात् । 'इक्षुर्मधुरो' 'गुडो मधुरः' 'क्षीरं मधुरमि'-
त्यादौ हीक्ष्वादिपदैर्मधुररसविशेषो लक्ष्यते, न च तस्य शब्दान्तरवाच्यत्वमस्तीति।
यथाहुर्भट्टपादाः
"इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् ।
तथापि न तदाख्यातुं सरस्वत्यापि शक्यते" ॥
इति । तथापि सत्यादिपदैः किं लक्ष्यमिति मया पृष्टे किमायुप्मतोच्यते, यः प्रष्टा
भवान् , यश्च प्रतिवक्ताहं, ये चान्ये देहिनः, तेषां सर्वेषां यद् देहाधनवच्छिन्नं रूपं
तदेवेति । एतच्च रूपमिक्षुक्षीरादिरसविशेषवत् स्वानुभवगम्यमेव, नेदमित्थमिति
वक्तुं केनापि शक्यत इति न तदनुदीरणे दोषः कश्चित् , नापि स्वसिद्धत्वात् प्रष्ट-
व्यमेतदित्यलं बहुप्रलापेन ॥ ८० ॥

विवरणसमेतम् । ४५ कुत्र कथं विद्वद्देहः पततीत्यस्योत्तरमाह---- --- तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन् देहम्। ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः॥८१॥ हतशोक एवं जीवन्नेव मुक्तः पुमान् यतो ज्ञानसमकालमुक्तः ज्ञानोद- यकाल एव पिण्डमण्डे अण्डं तत्कारणभूतायां भुवि तां तत्कारणेष्वप्सु अपो- ऽप्यासां कारणे ज्योतिषि तत् तत्कारणे वायौ वायुं व्योग्नि तत् तामसाहन्तत्त्वे एकादशेन्द्रियाणि तदधिष्ठातृदेवताश्च राजसे सात्विके चाहन्तत्त्वे त्रिविधमहन्तत्त्वं महत्तत्त्वे महत्तत्त्वं चाव्यक्ते तत् पुंसि तदधिष्ठातरि पुरुषं च स्वे महिम्नि परमपु. रुष इत्येवं सृष्टिविलोमक्रमेण स्वे धामनि संहृतदेहदैहिकप्रपञ्चोऽतो गङ्गादौ तीर्थे श्वपचगृहे कस्यचिन्नीचस्य गृहे वा नष्टस्मृतिः प्रबुद्धो वा देहं परित्यजनपि कैवल्यं याति । यथाहुः- "यत्र यत्र मृतो ज्ञानी येन वा केन मृत्युना । यथा सर्वगतं ब्रह्म तत्र तत्र लयं गतः ।।" इति ॥ ८१॥ ननु ‘सितासिते सरितौ यत्र सङ्गते तत्राप्लुतासो दिवमुत्पतन्ति' इति श्रुति प्रसिद्धेः 'तीर्थे श्वपचगृहे वे'ति (कथं) साम्यवचनमित्यत्राह -- पुण्याय तीर्थसेवा निरयाय श्वपचसदननिधनगतिः। पुण्यापुण्यकलङ्कस्पर्शाभावे तु किं तेन ॥ ८२ ॥ तीर्थसेवा तत्र स्नानपानादिकं तत्रैव मृतिश्च पुण्याय भवति न साक्षा- न्मोक्षाय 'तमेव विदित्वाति मृत्युमेति' 'तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते' इति श्रुतेरात्माज्ञानमूलस्य बन्धस्य तज्ज्ञानेन विना निवृ- त्यनुपपत्तेः, अन्यथा कर्मसाध्यत्वेन मोक्षस्यानित्यत्वापत्तेश्च । श्वपचसदननि- धनगतिः नीचसदने विनाशप्राप्तिः निरयाय नरकपातफलस्य पापस्योदयाय । सत्यमेवमेतत् । किमतो भवतीत्यत्राह - पुण्यापुण्यकलङ्कस्पर्शाभावे तु अपुण्यं पापं पुण्यं चापुण्यं च पुण्यापुण्ये स एव कलङ्कः पुण्यापुण्यकलङ्कः तेन स्पर्शाभावे तु तेन तदुभयहेतुना किं, न किञ्चिदपि फलमस्तीत्यर्थः ॥ ८२ ॥ एवमपि देहपातसमये नष्टस्मृतेस्तत्त्वविदोऽपि न मुक्तिः ४६ परमार्थसारं "ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् । यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥” (गी० ८-१३) इति भगवद्वचनात् , प्रत्युताधोगतिरेव स्यात् "ऊर्ध्व गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥” (गी० १४-१८) "अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । तमस्येतानि जायन्ते प्रवृद्धे कुरुनन्दन! ॥” (गी० १४-१३) इति च भगवद्वचनादिति चेत् तत्राह वृक्षापाच्च्युतपादो यद्वदनिच्छन्नरः क्षितौ पतति । तहद् गुणपुरुषज्ञोऽनिच्छन्नपि केवलीभवति ॥ ८३॥ वृक्षाग्राद् वृक्षारूढः कश्चित् तदग्राद् दैवात् च्युतपादोनिच्छन्नपि क्षितौ पतति यद्वत् , तद्वद् गुणपुरुषज्ञः प्रकृतिपुरुषतत्त्वज्ञः उभयोः स्वरूपविवेकेन देहादिरूपिण्याः प्रकृतेः पुरुषमात्मानं पृथकृत्य प्रागेव विसृष्टदेहोऽनिच्छन् देहपा- तक्षणे ब्रह्मभूयं गमिष्यामीति सङ्कल्पमकुर्वन्नपि केवलीभवति ब्रह्मण्येव लीयत इत्यर्थः । 'ओमित्येकाक्षरमि'त्यादिभगवद्वाक्यानि मुमुक्षुविषयाणि, ‘स मद्भावं याती'त्यादिवाक्यशेषान्न मुमूर्षुविषयाणीत्याशयः ॥ ८३ ॥ एवं निष्कामस्य ब्रह्मोपासनस्य फलं सद्योमुक्तिरुक्ता । अथ सकामस्यापि तदुपासनस्य क्रमेण मुक्तिफलत्वमवश्यानुष्ठेयत्वसाधनार्थमाह ‘परमार्थेति त्रिभिः श्लोकैः परमार्थमार्गसाधनमारभ्याप्राप्य योगमपि नाम । सुरलोकभोगभोगी मुदितम मना मोदते सुचिरम् ॥ ८४॥ परमार्थो ब्रह्म तस्य सम्बन्धी मार्गस्तत्प्राप्त्युपाय उपासनं परमार्थमार्गः, तस्य साधनमनुष्ठानम् आरभ्यापि योग तदैक्यसाक्षाद्बोधम् अप्राप्य मृतः सुर- लोकभोगभोगी सुरादीनामिन्द्रादीनां लोकेषु ये भोगा विशिष्टाः कामास्तेषां भोगी अनुभवी स मुदितमनाः सुचिरं मोदते नाम सदा प्रसिद्धमित्यर्थः ॥८॥ किं तत्तल्लोकाधिपतय एनं प्रति कुर्वन्तीत्यत्राह -- - विवरणसमेतम् । . विषयेषु सार्वभौमः सर्वजनैः पूज्यते यथा राजा। भुवनेषु सर्वदेवैर्योगभ्रष्टस्तथा पूज्यः ॥ ८५॥ यथा सार्वभौमो राजा विषयेषु तेषु तेषु देशेषु सर्वजनैः पूज्यते, तथा योगभ्रष्टो भुवनेषु सर्वदेवैः पूज्यः ॥ ८५॥ उपासनजन्ये महितैर्भोगैः पुण्ये क्षीणे सति किमसौ करोतीत्यत्राह महता कालेन महान् मानुष्यं प्राप्य योगमभ्यस्य । प्राप्नोति दिव्यममृतं यत् तत् परमं पदं विष्णोः॥८६॥ महता द्विपरार्धपर्यन्तेन कालेन ब्रह्मलोकपर्यन्तं गत्वा पुनश्च मानुष्यं प्राप्य महान् विशिष्टो ब्राह्मणो भूत्वा योगं ब्रह्मोपासनं प्राचीनसंस्कारवशाद् अभ्यस्य यद् दिव्यं दिवि भवं सूर्यमण्डलमध्यस्थं स्वप्रकाशचिद्रूपं वा 'येन सूर्यस्तपति तेजसेद्ध' (तै. ब्रा) इति श्रुतेः, "यदादित्यगतं तेजो जगद् भासयतेऽखिलम् । यच्चन्द्रमसि यच्चानौ तत् तेजो विद्धि मामकम् ॥" (गी० १५-१२) इति भगवद्व वनाच्च । अमृतम् अनश्वरं नित्योदितानस्तमितरूपम् अथवामृतवदास्वाद्यममृतं सदानन्दघनं परमं सर्वोत्कृष्टं प्रकृतेः सकार्यप्रवाहाया अधिष्ठानभूतं निषेधावधिभूतं च विष्णोः सर्वात्मनः सर्वेश्वरस्य च परमपुरुषस्य पद्यते गम्यते ज्ञायते च मुमुक्षुभिरिति पदं स्वरूपम् , तत् पामोति स्वात्मतया साक्षात्करोति, मुच्यत इत्यर्थः । तथा च श्रीभगवद्गीतायाम्-- "अयतिः श्रद्धयोपेतो योगाचलितमानसः । अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण! गच्छति ॥ कचिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति । अप्रतिष्ठो महाबाहो ! विमूढो ब्रह्मणः पार्थ ।। एतं मे संशयं कृष्ण! च्छेत्तुर्महस्यशेषतः । त्वदन्यः संशयस्यास्यच्छेत्ता न ह्युपपद्यते" । (गी० ६-३७,३८,३९) इत्यर्जुनेन पृष्टे भगवताभिहितं. "पार्थ! नैवेह नामुत्र विनाशस्तस्य विद्यते । १ परमार्थसारं न हि कल्याणकृत् कश्चिद् दुर्गतिं तात! गच्छति ॥ प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ अथवा योगिनामेव कुले भवति धीमताम् । एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् । यतते च ततो भूयः संसिद्धौ कुरुनन्दन! ॥ पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः । जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः । अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥" (गी० ६.४०,४१,४२,४३,४४,४५) इति ॥ ८६ ॥ अथ मुख्यप्रमाणमूलत्वान्नित्यमुक्तेन भगवताऽनन्तेन रचितत्वान्महिततम- विषयत्वात् कैवल्यफलत्वान्मनोज्ञवृत्तत्वात् परिमितग्रन्थत्वाच्चेदं शास्त्रं तत्त्वजिज्ञासु- भिरभ्यसनयिमिति प्रतिपादयन् ग्रन्थ(नाम) चापदिशन्नुपसंहरति- वेदान्तशास्त्रमाखिलं विलोक्य शेषस्तु जग(दा? तआ)धारः। आपञ्चाशीत्या बबन्ध परमार्थसारमिदम् ॥ ८७॥ इति परमार्थसारं समाप्तम् ॥ तुरवधारणे । जगदाधारो जगतामाधारभूतः शेषः अनन्तस्तु न यः कोऽपि विपश्चित् , सोऽपि वेदान्तशास्त्रं वेदान्त एव यच्छास्त्रं प्रत्यक्षानुमानाद्यन- भिगम्याभिमतार्थप्रकाशनपरं वाक्यकदम्बकं तद् अखिलं सर्वशाखागतं विलोक्य "सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषाद" (ब्र सू . ३-३-१) इति सूत्रोक्तरीत्या सर्वेषां वेदान्तानां ब्रह्मात्मप्रतिपादकत्वं निश्चित्य तान् सम्यग्विचार्य आर्यापञ्चाशीत्या "लक्ष्मैतत्सप्त गणा गोपेता भवति नेह विषमे जः । षष्ठोऽयं नलघू वा प्रथमेऽर्धे नियतमार्यायाः ॥ .

विवरणसमेतम् । षष्ठे द्वितीयलाद् न्ले परके मुखलाच सयतिपदनियमः । चरमेऽधै पञ्चमके तस्मादिह भवति षष्ठो ला॥" इत्युक्तलक्षणो मात्रावृत्तविशेष आर्या, आर्यावृत्तश्लोकानां पञ्चाशीत्या अशीतिश्च पञ्च च पञ्चाशीतिः । * ततश्चतसृभिर्विदेहमुक्तिरुक्ता, ततस्तिसृभिः क्रममुक्तिः, एवं चतुरशीतिः । इयं चान्तिमार्येति पञ्चाशीतिरार्या भवन्तीति (। तया परमार्थसार- मिदं बबन्ध) ॥ ८७॥ परमार्थसारविवरणमेतद् गोविन्दचन्द्रचन्द्रिकया । संहृतसंसृतितापात् सम्भूतं राघवानन्दात् ।। योऽसौ भाति चराचरात्मकजगद्रूपेण भूत्या स्वया यश्चानन्तसुखैकतानविमलस्वात्मप्रबोधः स्वराट् । यत्स्वाराज्यममेयमागमगिरः संलक्षयन्त्यक्षया- स्तस्मै विश्वहृदि स्थिताय महते पुंसे नमस्कुर्महे ॥ इति श्रीराघवानन्दविरचितं परमार्थसारविवरणं समाप्तम् ॥ +48 तत इति । अतः प्राक् 'तत्र प्रथमयार्यया प्रन्थोऽवतारितः, तत्तश्चतसृभिः प्रश्नप्रकार उक्तः, तत एकोनचत्वारिंशता तदुत्तरं, ततो दशभिजीबपरैक्यबन्धाविद्यकत्वादि कथितम् । ततो वियो. दयोपाय-विधास्वरूप-तत्फलजीवन्मुकीनो स्वरूपम् एकोनविंशत्या प्रतिपादितम् अथ चतसृमि. मुक्तस्याशरीरपातं वर्तनप्रकारोऽभिहितः' इत्यर्थकं पदकदम्बकमपेक्षित भाति.

Ready for sale. *THET (Stuti) 'ly II. II. Svati Sul Râma Vain. Mal sajab 1 0 0 0 2 0 Trivandrum Sanskrit Series. Nc. 1 - &qn (Vjükaiana) by Deva uuth l'urnshahaw of Kiislı lilar,uhan uni. 100 No. 2.-- Bilinadiga14171-314 Tuesitrat by Krishnalicsukanmuni. No. 3 Fer+922: (Kary') ly Vinani Bhatta Bana. 04.0 No. 4-fazilaria: (havia) loy Null ntla Dil sluita. 2 0 0 No. 5 -- Izítilihi: (Alanhurad) by Malm Bhatta with com niary. 2 12 0 No. 6 -- Tazzifi: (Vyaharana) 13 Sunrade là. 2 0 0 No 7-799711 H cdâuta, Salâ nendia saris Vaiti. 2 40 No. 8 -- yaxy77 (data: a) bs Tavi larun Blūpa. 100 No 9- ſae94 95 Narlerà ia ly Viûpi kshavátha with com cuta s ot linjů lzdialaiti.. 080 No. 10 - atascia Ileslalshalo) ly debuutha. 0 SO No. 11- Qgaratun (All :). J Bioshlar. Varma with colul (utally I Sivarama. % 0 No. 12-TARGETA (Vedânt) by Bhaguo ' Âdi-osha wi h the commentary of Raylarânarda. O 80

No text on this page.

DATE OF ISSUE
This book arust be ruturned
within 3, 7, 14 duys of its issue. A
fine of ONE ANNA per day will
be charged if the book is ovordus.
* 7 Mavic
EST

15 -
ass to..S.18/4
Book NoR
Vol.
beno: BHAGWal@.R.E.S Footti
tle..PARA.M.A.R.THA.S.A.LA
acc. No./6546
गीतामा

परमार्थसारम

Author
Gand-apatishaastrind-aa T.
Title
Paramaarthasaaram
File name
परमार्थसारम
Text
OCR done
Citation
1911
Published
2005/06/13
Publisher
The Travancore Government Press
Language
Sanskrit
Pages
64
Library
Central Library, Bits- Pilani
Classification
GENERALITIES
Keywords
Aatmaa
DLI number
477476
Barcode
99999990177854.00
Scanning centre
C-DAC, Noida
Digital publisher
Digital Library of India
Rights
Copyright Permitted
VMLT id
XtcZxIqA25w
Download PDF

परमार्थसारम