Sringeri Sharada Peetham
Adhya Sasara
Front matter
श्रीजगद्गुरुसुवर्णोत्सवाभिनन्दनोपहारः
श्री:
। अध्याससारः।
[जगद्गुरुश्रीजयेन्द्रसरस्वत्युपन्यास इति ख्यात:
प्रवक्ता
भारतराष्ट्रपतिसम्मानित:
पं. रा. मुत्तुकृष्णशास्त्री
अध्यक्षः श्रीजगद्गुरुविद्यास्थानम्, जम्बुकेश्वरम्
[पण्डितराजानां, वे. सुब्रह्मण्यशास्त्रिणां
स्मारकनिक्षेपप्रकल्पितः]]
प्रकाशक:
कार्यदर्शी
संस्कृतविद्यासमिति
१६, ईस्ट माडवीथी, मयिलापूर,
मदरास्-६०० ००४.
JAGADGURU SUVARNOTSAVABHINANDANOPAHARA
ADHYASASARA
Bv
Pandit R. MUTHUKRISHNA SASTRY
(Recipient of Presidential Award)
Principal,
Sri Jagadguru Vidyasthanam, Tiruvapaikkoil
[Panditaraja V. SUBRAHMANYA SASTRY
Memorial]
Published by
G. SITARAMAN, F.C.A
Secretary
THE SAMSKRITA EDUCATION SOCIETY
16, East Mada Street,
MYLAPORE, MADRAS-600 004.
Jagadguru Sri Jayendra Sarasvati Lecture
Endowed in Memory of
Panditaraja V. Subrahmanya Sastrigal
13- 8 - 84
The Samskrit Education Society
16, East Mada Street,
Madras - 600 004.
Printed at
Anantbeshwara Print Packs,
Mylapore, Madras-600 004.
Phone : 7570 5
INTRODUCTION [Adhyasa Bhashya Sara by Brahmasri R. Muthukrishna Sastrigal Principal, Jagadguru Vidyasthanam, Thiruvanaikkoil.] >> I deem it a privilege and an honour to write this introduction to the Monograph on “Adhyasa Bashya Sara" by Brahmasri R. Muthukrishna Sastrigal, Principal, Jagadguru Vidyasthanam, Thiruvanaikkoil. This is the second publication of our Society after the release of Maharshi Patanjali's Yoga Sutra edited by Brahmasri Sivarama Dikshithar, Retired Principal of the Madras Sapskrit College. We are planning to publish more treatises some of which are at present in rare manuscript forms. In keeping with the exposition of Sri Gaudapada and true to vedic traditions, Adi Sankara's Bashya on the Upanishads restore the Mahavakyas to their prestinc glory. The present paper examines the role of the super-imposition of worldly phenomena on the Brahman. Examining the Sutra (afat ) "All this is truly Brahman”. Sankara proclaimed that the Jeeva in all manifestations is no other than Brahman (natia 779T:). The seeker of Brahmagnana has only to get rid of the ego and the mental aberra- 2 tions arising therefrom. The Geethacharya proclaimed and that through Gnana alone that one gets freedom from misery, birth, rebirth and fear. (ज्ञानादेव प्रमुच्यते) Shri Krishna also proclaimed that a Mahathma who sees Vasudeva everywhere and in everything, is very rare indeed (स महात्मा सुदुर्लभः) 9 In the Vishnu Sahasranamam' we have the sloka that “Vishnu alone is Great Being" who enjoys everying in the Universe. (Thì facut * $T) adumbrates in the last portion that He is only the one (aca) Truth and the Sole Atma in all beings. (arafaa VATSAT) The mind, intellect and senses of a living being tend to go outward and get lost in the forest of the impermanent and changing This is Adhyasa, the superimposition referred to variously as Avidya, Prakrithi and Maya. This hides the Self Sun from the view of the Brahman. Sadhana helps one in the evolution and sublimation of the aggregate of the mind, body and senses and help to turn one's view inward in order to realise Brahman in him. However, in rare cases, great souls are born to whom intermediate steps are unnecessary. In most other cases, the release is in due course #gfaa: “Kramamukthihi”. Ordinary conceptions and comparisons cannot avail one in his quest for the real. The word “Pramana" is not found in the Upanishads. As pointed out by the renowned Chicf of the Atomic Set-up in India, Rajah Ramanna, modern scientific theories 3 are approaching close to the Advaithic teachings preached millenia ago. Nuclear Physics to-day and advanced Mathematics with the acknowledged theory of relativity have obliterated the old distinctions of mind and matter, An ordinary wooden table is thought of as a combination of atomic vibrations combined to appear as a table. Our Rishis referred to "Sphurana"-vibration as the original activisor. own The approach of Adi Sankara, an Avatharapurusha, was not only direct but also clear and precise. In his bhashya on Isavasya Upanishad explaining the second line advising one pot covet wealth, he says not only covet others wealth but also your wealth. Refering to this Shri Vinobabhave says “Sankar is the earliest Socialist” who has shown the way for a Ram Rajya. According to Mahathma Gandhi, if all sacred literature of India is lost and this Upanishad alone remains then that will be enough to continue our traditions and culture, It is not surprising that, excepting rare exceptions, modern philosophers have not been able to understand in depth the message of the Upanishads. Renunciation is the first step as pointed out in the Gita (त्यागादेव प्रमुच्यते) and as on the Taitiriopanishad. (CARTA acd#17T:) To one who has realised, there is no need to ask any question. He is eternal, beyond time and space and there is no room for doubts. He knows the eternal Truth.
this essay.
Brahmasri Muthukrishna Sastrigal has rendered great
service to the students of Advaita Philosophy by writing
This publication commemorates the Golden
Jubilee Celebration of His Holiness Jagadguru Sri Jayendra
Sarasvathi Swami's completion of His 50th year,
जे.
श. पहाचि राम:
(C. R. Pattabhi Raman)
President, Samskrita Education Society
श्रीः श्री महात्रिपुरसुन्दरीसमेत श्रीचन्द्रमौळीश्वराय नमः प्रास्ताविकम् विदितच रमेवैतदिति मन्यामहे यदष्टाविंशतिरब्देः पूर्वं श्रीकाञ्चीकामकोटिपीठाधीशानां श्रीमच्चन्द्रशेखरेन्द्रसरस्वतीस्वा- मिपादानां आत्मारामानां जगद्गुरूणां सान्निध्ये समारब्धा संस्कृतसमितिस्यिं सामान्यत: इतराणि शास्त्राणि, विशिष्य पाणिनीयं शास्त्रं गीर्वाणवाणी द्वारवाधिजिगांसमानानां जनानां कृते भाषाप्रसारणं शास्त्रग्रन्थानां प्रकाशनं चादृत्य अमरभारत्या महतीमेव सेवामातनोतीति । स्वलक्ष्यपरिपूत्यें समित्या समादृतेषु कार्यकलापेषु श्री- मज्जयेन्द्रसरस्वतीस्वामिपादानां जगद्गुरूणां जन्मःमहोत्सवा- भिनन्दनात्मकवाङ्मुखमपि भजतेऽन्तर्भावम् । ऐषमश्च पण्डितराजानां न्यायवेदान्तशास्त्रपारदृश्वनां राष्ट्र- पतिसंमानभाजां शास्त्ररत्नाकराणां ख्यातितत्त्वसमीक्षादिग्रन्थ- ग्रथनबहुलीकृतसमज्ञानाम् वेपत्तुर् सुब्रह्मण्य शास्त्रिमहाभागानां स्मृतिरपि सन्दर्भेऽस्मिन् आनुषङ्गिकतां भजतामिति शास्त्रिवर्याणां तनूजाभ्यामावेदितम् । तदपि स्थाने ।
"2 वटतरोर्मूले अनुभवन्नात्मनात्मानं कैलासवासी परमेश्वरो विजयते यदालम्बितं मौनं वृद्धानां छात्राणां व्याख्यानतां प्रति- पद्यमानं मनोगतध्वान्तध्वंसनेन निरतिशयमानन्दं लम्भयामासेति गाथा विदितैव । परमयं वृत्तान्तः युगान्तरवृत्तः । स एव कैलास- वासी सांप्रतं, कलौ युगे जनतां निःश्रेयसपथात्प्रभ्रष्टां क्षणिकवि- षयसुखास्वादनतत्परां शनैः शनैः पतन्तीं विलोक्य द्रुतचेताः परित्यज्य दक्षिणां मूर्ति सीमातिलंधिना दाक्षिण्येन चोदितः जगत्कल्याण विधायिनी शाङ्करी मूर्तिमासाद्यं एतद्देश विसृत्वरी- मज्ञानमूर्छा व्यपनोतुं दुर्मतविध्वंसनपूर्वक मतानि षट् अमृताय- मानानि प्रचारयामास । षण्णामेतेषां मतानां दिगन्तव्याप्त्युद्देशेन देशे कोणे कोणे अद्वैततत्त्वप्रचारणप्रयोजनानि कतिचित् पीठानि च प्रत्यतिष्ठिपत् । भूनाभिस्थानीयायां शक्तिपीठमूध- न्यायां काञ्च्यां कम्पातीरनिवासिनी श्रीकामेश्वरी अनुदिनं पूजयन् ब्रह्मानन्दरसास्वादतत्परः कालमत्यवादिति संप्रदाय- विदां ज्ञातचर एवायमपि विषयः । तदाप्रभृति प्राप्तस्थितौ गुरुपरम्परायां एकोनसप्ततितमाः श्रीजयेन्द्रसरस्वती समाख्या: ख्यायन्ते । तेषां जन्मर्भसंदर्भसमायो- जितं वाङ्मुखमपि तदाख्ययैव प्रथते । यतिपतय एते आद्यशङ्कराचार्यतुल्यं कन्याकुमारीतः बदरों यावत् रामेश्वरान्नैपालप्रदेशं यावत् स्वकीयया विजययात्रया पावितवन्तः, तत्रतत्र देवमन्दिरप्रतिष्ठाकुम्भाभिषेकादिकं, वेद- शास्त्राध्यापनपाठशालाप्रतिष्ठापनं, कदाचित् वेदशास्त्रागमज्ञानां पारस्परिक मेलनम्, अग्निहोत्रिणां परस्परसंगमम् मायोजयन्तः, w तत्तद्विषयविचक्षणानां विचारधारामुद्दीपयन्तः, ज्ञानानुगुणपारि- तोषिकविश्राणनं कुर्वन्तः, परिपोषणविहीनानां वृद्धानां गवां रक्षकराहित्येनावसीदतां वयोवृद्धानां धारणपोषणाभ्यां तेषां सत्ताप्रतिष्ठापकशालादिव्यवस्थया च, तत्रतत्र शिष्यचतुष्टयसहि- तस्य आद्यशङ्कराचार्यस्य मूर्तिप्रतिष्ठापनम्, राज्यशासकतुल्य दीनानां विकलानां च जनानामुपकारकाणि पोषणस्थानानि च निर्मापयन्तः कामपि पारे वाचां सेवामातन्वते । आद्यश्रीशङ्करा- चार्याणां चिढेषु शिरोरत्नायमान कालटीक्षेत्रे ललामभूतं भगवत्पादकीर्तिस्तम्भायमानं चिह्नं च आचार्याणां एषां जगदुप- कृतिचर्यायाः अन्यन्निदर्शनम् । अस्मिन्वर्षे निरुक्तकार्यक्रमप्रणाल्यां वाङ्मुखप्रसारणे उभय- मीमांसाशास्त्रनिष्णातैः भारतराष्ट्रपतिपुरस्कारभाजैः श्रीजम्बु- केश्वरक्षेत्रस्थ जगद्गुरुपिद्यालयाध्यक्षः श्रीमुद्दुकृष्णशास्त्रिभिः सारोपन्यासचतुरैः प्रणीत: उपन्यासः 'अध्यास भाष्यसाराख्यः' स्थितिमलब्धेति सन्तोषास्पदम् । ललितपदगुम्फितस्यापि विषयतः अर्थतश्च अधिरिव अतलस्पर्शिगाम्भीर्यं भाष्यं वाङ्मुखपरार्ध- स्यापि क्षोदक्षममिति नेयमत्युक्तिः स्यात् । महदेव धैर्यमपेक्षितं जीवात्मन: परमात्माव्यतिरिक्ततां स्थापयितुम् । तथैव पञ्चभिरिन्द्रियैः उपलभ्यमानत्वेन 'सत्या- जगतीयम्' इति प्रतीति, मिथ्या, स्वस्वरूपानवबोधजन्येति बोध- यितुं महत्सात्विकं साहसमपेक्षितम् ।
4 तादृशसात्विकसाहसपूर्णानाम् आद्यशङ्कराणां विशिष्य भूमिकास्थानगतस्याऽध्यासभाष्यस्य वस्तुतो दुर्मतिभिरिष्यमाण- मपि खण्डनं तद्भाष्याशयानवबोधविजृम्भित एवेति सम्य निभा- लयन्तु वेदान्ततत्त्वजिज्ञासवः । अस्यैवांशस्य विशदीकरणार्थं श्रीमतां शास्त्रिणां विषयविवेचनपूर्वकं वाङ्मुखमायोजितम् । सन्तो विज्ञाप्यन्ते यदेतेषां 'अध्यासभाष्यसारम्' अवहितेन मनसा शृण्वन्तु आध्यात्मिकं सुखं चानुभवन्त्विति । विद्वद्भिः शास्त्रिभिः पूर्वैर्व्याख्यातोप्यस्फुटः स्थितः अध्यासः सांप्रतं व्यक्तिं कथवा प्रतिपद्यताम् ॥ रक्ताक्षकर्कटक श्रविष्ठा इत्थं विदुषांवशंवदः पी. वी. शिवरामदीक्षितः (अध्यक्षचरः, मद्रपुरी संस्कृत महाविद्यालय: अध्यक्षः, परामर्शविभागः, संस्कृतविद्यासमिति:) 12-8-1984
No text on this page.
Po ॥ श्रीः ॥ me अध्यासभाष्यसारः सूत्रकारं मुनि व्यासं भाष्यकारं च शङ्करम् । नमामि पद्मपादादीनन्यानद्वैतिनो गुरुन् ।। १ ।। मुत्तुकृष्णाभिधो विद्वान् प्रसादेन जगद्गुरोः । सारमध्यासभाष्यस्य संगृह्णाति यथामति ।। २ ।। जगद्गुरुपूज्यश्रीजयेन्द्रसरस्वत्युपन्यासाख्यया दिवंगतपण्डि- तराजसुब्रह्मण्यशास्त्रिवर्यस्मारकोपन्यासः प्रतिहायनं श्रीजगद्गुरु- जयेन्द्रसरस्वती श्रीपादानां जयन्तीमहोत्सवकाले प्रचालनीय इति मद्रपुरीसंस्कृतविद्यासमित्या व्यवस्थापितमस्ति । तत्रायं प्राथ- कोमिपन्यासः । ब्रह्मसूत्रभाष्ये च अध्यासविचार एव प्राथमिकः इत्यानुरूप्यादयं विषयः अद्य उपन्यासाय स्वीकृतः । दिवंगताः पण्डितप्रवरा वे - सुब्रह्मण्यशास्त्रिणः न्यायवेदान्त- वागीशा इत्यादिबहुबिस्दभाजः, विमर्शकुशलाः न्याये वेदान्ते च नानाविधग्रन्थविरचनेन लब्धप्रतिष्ठाः सरसवाग्विलासाश्चेति विदितमिदं विदुषाम् । महनीयानां तेषामनुसन्धानपूर्वकं विषयोऽयं प्रस्तूयते ।
2 इह खलु प्राणिमात्रेप्सितसुखदुःखप्राप्तिपरिहारोपायप्रदर्श- नाय प्रवृत्ता उपनिषदपरपर्यायाः सर्वे वेदान्ता इति विपश्चिद- पश्चिमानां निश्चयः। अतिगह्वराणां तेषां तात्पर्य निर्णेतुं परम- कारुणिको भगवान् बादरायणो महर्षिस्सूत्रात्मकं ब्रह्ममीमांसा- शास्त्रं प्रणिनाय । शशाङ्कशेखरावतारभूतश्रीमच्छङ्कराचार्य- प्रभृतिभिर्बहुभिराचार्यैः अस्य भाष्याणि प्रणीतानीत्येतदेवास्य महिमानमावेदयति । तस्येदमादिमं सूत्रं “अथातो ब्रह्मजिज्ञासे'ति । अस्यायं निष्कृष्टोऽर्थः । साधनचतुष्टयसंपत्त्यनन्तरं साधनचतुष्टयस्य संभवाद्धेतोः मोक्षसाधनीभूतप्रत्यगभिन्नब्रह्मज्ञानाय वेदान्तविचार कर्तव्य इति । अध्यासभाष्यसारांशमात्रनिरूपणव्यग्राणामस्माक भामतीविवरणप्रस्थानयोरन्यतरदेवाश्रयणीयमिति वा भाष्यवाक्य. योजनायां वा न नैर्भर्यमित्यादित एव निवेद्यते । अध्यासस्सूत्रसूचितः H उक्तशास्त्रारम्भसूत्र विवरणाय प्रवृत्ता आचार्यभगवत्पादाः आदौ " युष्मदस्मत्प्रत्ययगोचरयोः” इत्यादिना “सर्वे वेदान्ता आरभ्यन्ते" इत्यन्तेन भाष्यप्रबन्धेनाध्यासस्वरूपं संभवदाक्षेपनि- राकरणपूर्वकं लक्षणप्रमाणप्रयोजनादिभिविस्तरेणोपवर्णयन्ति । पदार्थविधया वाक्यार्थविधया वा अध्यासस्य सूत्रासंस्पृष्टत्वादध्यास- भाष्यमिदमसंगतमिति केचिन्मन्यन्ते । नैतत्साधु । सूत्रसूचितोय. मध्यास उपोद्धातरूपेणावश्यं प्रसाधनीय इति प्रत्यपादि भाष्य- टीकातद्विवरणादिग्रन्थेषु । तथाहि-"ब्रह्मजिज्ञासे"ति पदात् 3 ब्रह्मज्ञानं प्रतीयते । ज्ञानस्य च स्वतः पुरुषार्थत्वाभावान्मोक्षमाधनं तदित्यपि लब्धम्। कीदृशं ब्रह्मज्ञानं मोक्षसाधन मिति विमृश्यमाने ब्रह्मशब्दनिर्वचनसामर्थ्यात्, “मृत्योस्समृत्युमाप्नोति य इह नानेव पश्यति" इत्यादि श्रुतिभिः भेदस्य निन्दितत्वात् 'ब्रह्मैवेदं सर्वम्' इत्यादिश्रुतिमहिम्ना च प्रत्यगभिन्नब्रह्मज्ञानमिति निर्णीयते । न चात्मनः कर्तृत्वभोक्तृत्वादीनां सत्यत्वे तद्रहितेन ब्रह्मणा अभेदस्सं- भवतीति सूत्रकारेणैव तेषामध्यस्तत्वं (मिथ्यात्वं) सूचितम् । अपि च “ विद्वान्नामरूपाद्विमुक्तः' इत्यादिश्रुत्या “अस्या- नर्थहेतोः प्रहाणायात्मैकत्वविद्याप्रतिपत्तये' इति भाष्येण च कर्तृत्वाद्यनर्थनिवर्तकमात्मैकत्वविज्ञानमित्यवगम्यते । ज्ञानमात्रा- निवर्त्यस्य मिथ्यात्वमेव दृष्टं लोके शुक्तिरजतादौ । शास्त्रस्य विषयप्रयोजने प्रदर्शयता आरम्भसूत्रेण सूचितमेवाध्यासं बहुधा विमृशत्यादौ भाष्यकार इति न किमप्यसंगतम् । अतः कर्तृत्वादीनां स्वाभाविकत्वशङ्का तत्परिहारश्च ननु कथं ब्रह्मणः प्रत्यगभेदः ? "अहं कर्ता, भोक्ता, मनुष्य" इत्यादिप्रत्यक्षेणात्मनः कर्तृत्वादीनां स्वाभाविकत्वाव- गमात् । न च “अहं ब्रह्मास्मि, तत्त्वमसि" इत्यादिश्रुतिभिः जीवब्रह्मणोरभेदबोधनात्तद्विरुद्धार्थावबोधकं "अहं कर्ता" इत्यादि- प्रत्यक्षं भ्रम एवेति वाच्यम् । प्रत्यक्षस्य ज्येष्ठत्वेनोपजीव्यत्वेन च प्राबल्यात् तदनुरोधेन श्रुतिरेव कथंचिदन्यथा नेया । भत्र प्रत्यक्षस्य ज्येष्ठत्वं नाम वेदवाक्यजन्यशाब्दबोधात्पूर्वं वेदवाक्य- विषयकश्रावणप्रत्यक्षस्योत्पन्नत्वम् । तादृशवाक्यप्रत्यक्षमन्तरा शाब्दबोधस्यानुदयात् प्रत्यक्षस्योपजीव्यत्वं चेति ।
4 - नैतद्युक्तं, ज्येष्ठत्वं न प्राबल्ये हेतुः । "इदं रजतं' इति प्रथमोत्पन्नमपि ज्ञानं पश्चात्तनेन “ इय शुक्तिः” इति ज्ञानेन बाध्यते । एवमागमज्ञानस्योपजीव्यं यत् व्यावहारिकं प्रत्यक्ष, न तदागमेन बाध्यते। यत् बाध्यते प्रत्यक्षस्थ पारमार्थिकत्वं न तदुपजीव्यम् । किञ्च प्रत्यक्ष तथ्यमपि भवति वितथमपि । अतिबृहति चन्द्रमण्डले "प्रादेशिकश्चन्द्र" इति जायमानं प्रत्यक्षं, अत्युच्च- गिरिशृङ्गगतविपुलतरुषु 'दूर्वाग्रसन्निभा इमे वृक्षाः' इति जायमान च प्रत्यक्षं कथं प्रामाण्यमश्नुवीत । अत: पूतिकूष्माण्डायमान प्रत्यक्षम्, न तदनुरोधेन श्रुतिरन्यथा नेतुं शक्येति कर्तृत्वादीनां मिथ्यात्वमेव । उक्तं च वातिके "मात्मा कादिरूपश्चेन्माकांक्षीस्त हिमुक्ततामिति । अपि च कर्तृत्वादिबन्धस्य ज्ञाननिवर्त्यत्वश्रावणादपि तस्य मिथ्यात्वमवसीयते । “ न हि सत्यं क्वचिनिवर्तते, निवर्त्यमानं वा ज्ञानेने" त्यभिहितं सिद्धान्तबिन्दौ । ननु “सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहति" इत्यादिस्मृत्या सेतुदर्शनात्मक ज्ञानस्य सत्य- पापनिवर्तकत्वावगमान्न ज्ञाननिवयं मिथ्या" इति नियम इति चेन्न । 'ज्ञानमात्रनिव] मिथ्या' इति नियमोपगमात् । स्मृत्युक्तनाना- विधनियमोपेतैः श्रद्धालुभिश्च कृतमेव सेतुदर्शनं पापं नाशयति, न केवलदर्शनमात्रम् । नियमादिरहितकेवलदर्शनमात्रं चेत्पापं निवर्तयेत्तदा तत्र वसन्तो धीवरादयोपि पापविहीनाः स्युः। अतो ज्ञानमात्रनिवयं मिथ्येति नियमस्य न क्वापि व्यभिचारः ।
5 किञ्च सत्यश्चेत्, ज्ञानेन न निवर्तेत, यथा आत्मा । स्मृतौ पापनिवृत्तेरभिहितत्वात् पापं न सत्यमित्यपि सुवचम् । अत एव "पापादिकं सत्यमुच्छिद्यत एव परमत" इत्युक्तं न्यायरत्नावल्याम् । अध्यासलक्षणम् । "स्मृतिरूप: परत्र पूर्वदृष्टावभासः" इत्यध्यासलक्षणमुक्तं भाष्ये । “अध्यासो नाम अतस्मिन् तबुद्धिरित्यवोचाम" इत्यस्य संग्रहेण विवरणमपि भाष्य एव पश्चात् दृश्यते । प्रथमलक्षणे "परत्न अवभास" इत्यनेन परत्न परावभास इत्यात्सिद्धयति । “पूर्वदृष्ट” इत्यध्यासकारणप्रदर्शनाय । "स्मृतिरूप" इत्यति- व्याप्तिनिराकरणाय । "इदं रजत" मित्यादिभ्रमस्थले लक्षणमिदं संगमनीयम् । अध्यासो द्विविधः, अर्थाध्यासो ज्ञानाध्यास इति । भावरूपमज्ञानं सादृश्यादिसहकारिसहितमनिर्वचनीयरजताकारेण तज्ज्ञानाकारेण च परिणमत इति सिद्धान्तः । लक्षणमिदमुभ- याध्याससाधारणम् । तत्रार्थाध्यासे अवभास इति पद अवभास्यत इत्यवभासः इति व्युत्पत्त्या रजताद्यर्थपरम् । परत्र - स्वात्यन्ता- भाववति अधिष्ठाने अवभास्यमानो रजताद्यर्थ इति यावत् । ज्ञानाध्यासपक्षे अवभासत इति भावव्युत्पत्त्या ज्ञानपरोऽवभास- इदं रजतमित्यादिभ्रमस्थले वस्तुतो रजताभाववत्य- धिष्ठाने अनिर्वचनीयरजतसंसर्गस्य रजतभानस्य च सद्भावाल्ल- क्षणसमन्वयो बोध्यः । शब्द:। अन्यथाख्यातिवादिनो नैय्यायिकाः स्मर्यमाणदेशान्तरस्थ- रजतमेवातावभासते, नानिर्वचनीयं रजतमुत्पद्यते, सामग्यभावा- 6 दिति वदन्ति । तन्निराकरणाय "स्मृतिरूप" इति विशेषणम् । स्मर्यत इति स्मृतिः, - स्मर्यमाणः पदार्थः, तस्य रूपमिव रूपमस्येति स्मृतिरूपः, स्मर्यमाणसदृश इत्यर्थः । सादृश्योक्त्या स्मर्यमाणा- दध्यस्तस्य भेदान्नेयमन्यथाख्यातिरिति भावः अध्यस्ते स्मर्यमाणसादृश्यमुपपादयितुं - पूर्वदृष्टेति । दृष्टमित्यस्य दर्शन- पूर्वानुभवात्संस्कारद्वारा अवभास्यत इति यावत् । न चैवं संस्कारजन्यत्वादारोपस्य स्मृतित्वापत्तिरिति वाच्यम् । दोषसंप्रयोगादिकारणान्तरस्याप्यध्यासेऽपेक्षितत्वात् स्मृतेः संस्कारमात्रजन्यत्वादुभयो(लक्षण्यात् । अत्र संप्रयोगशब्दे- नाधिष्ठानसामान्यज्ञानमेव विवक्षितम्, नत्विन्द्रियसंप्रयोगः । अहंकाराध्यासे तस्याभावात् । मनुभव इत्यर्थः । ज्ञानाध्यासे - स्मृतिरूपइत्यस्य स्मृतिसदृश इत्यर्थः, तथा च स्मृतिसदृशः परत्र पूर्वदर्शनादवभास इति लक्षणं निष्पन्नम् । अध्यासं प्रति संस्कारद्वारा भ्रमप्रमासाधारणः पूर्वानुभव एव कारणं, न तु पूर्वप्रमा । तथा सति आत्मानात्मनोः चिदहं- कारयोः तादात्म्यप्रमायाः कदाप्यसंभवादहंकाराध्यासो न स्यात्, अनुभवमानं कारणमित्युक्त्या क्वचित्पूर्वप्रमा, इदं रजतमित्यादौ, क्वचित्पूर्वभ्रमः अहंकाराध्यासादौ । पुनश्च प्रकारान्तरेणाध्यासो द्विविधः, सादिरनादिरिति । अहंकाराद्यध्यासा सादिः, अविद्याध्यास अनादिः । सिद्धान्ते षट्सु अनादिषु अविद्याया अन्यतमत्वेन गणानात् ।
7 - उक्तंच- जीवो ईशो विशुद्धा चित् तथा जीवेशयोभिदा । अविद्या तच्चितोर्योगः षडस्माकमनादयः।। इति । आत्मानात्मनोः परस्पराध्यासाक्षेपरिहारौ ननुआत्मन्यनात्माध्यासो न संभवति, सदा भासमानस्य, सामान्यविशेषशून्यस्य,सादृश्यरहितस्य च आत्मन अध्यासाधिष्ठान- त्वासंभवात् । नाप्यनात्मन्यात्माध्यासः, अनात्मनस्सिद्धान्ते. मिथ्यात्वोपगमात् । 'तरति शोकमात्मवित्' इत्यादिश्रुतयः अनात्मनो मिथ्यात्वं सूचयन्ति । "अतोन्यदात" इत्यादयस्तु साक्षादेव मिथ्यात्वं प्रतिपादयन्ति । आत्मानात्मनोरुभयोरप्यध्यासे शून्यवादप्रसंगाच्च, इति चेन्न । आत्मन्यनादिभावरूपाज्ञानाध्यासेन इतरानात्मवस्तुसिद्धौ सादृ- श्यादिसामग्रीसंपत्या तत्रानात्मनि आत्मन: संसर्गमानाध्यासः, नात्मनः स्वरूपेण, तस्य सत्यत्वात् । अतो न शून्यवादप्रसङ्गः। अज्ञानाध्यासस्यानादित्वान्न तन कारणप्रश्नोऽवतरति । अध्यासक्रम एवमुपवर्णितः पूर्वाचार्यै:-"अज्ञानाध्यास- विशिष्टचैतन्येऽहंकाराध्यासः । तद्विशिष्टे कामसङ्कल्पादौना- महंकारधर्माणामिन्द्रियधर्माणां च काणत्वबधिरत्वक्लीबत्वादीना- मध्यासः। इन्द्रियाणां तु परोक्षत्वान्नापरोक्षधर्म्यध्यास इति 8 सिद्धान्तः । तद्विशिष्टे च स्थूलदेहाध्यासः धर्मपुरस्कारेणैव- अहंमनुष्य इत्याद्याकारः, न तु स्वरूपतः “अहंदेह" इति । तथा प्रतीत्यभावात् । तद्विशिष्टे च स्थौल्यादीनां देहधर्मणामध्यासः । तद्विशिष्टे बाह्यानां पुत्रभार्यादीनां साकल्यवैकल्यादिधर्माध्यासः । एवं चैतन्यस्यापि अहंकारादिषु देहपर्यन्तेषु अध्यासः संसर्गतः ॥ इति (सिद्धान्तबिन्दुः) अध्यासे वादिविप्रतिपत्तिः "परत्न परावभास" इत्यध्यासलक्षणे वादिनां विप्रतिपत्त्य- भावेऽपि अधिष्ठानारोप्यस्वरूपे अस्ति विप्रतिपत्तिः। "इदं रजत" मित्यादिविभ्रमस्थले ख्यात्यपरपर्यायं भानं कीदृशस्य पदार्थस्येति विवदन्ते शास्त्रकाराः । तत्र पञ्च ख्यातयः प्रसिद्धाः। 1) आत्म- ख्यातिः, 2) असत्ख्यातिः, 3) अख्यातिः, 4] अन्यथाख्यातिः, 5) अनिर्वचनीयख्यातिरिति । तत्रात्मख्यातिरसद्ख्यातिश्च बौद्धानाम् । अख्यातिः प्राभाकरमीमांसकानाम् । अन्यथाख्यातिनैय्यायिकानाम् । अनिर्वचनीयख्यातिरद्वैतिनाम् ।। 1) बौद्धकदेशिनां, आत्मा ज्ञानस्वरूपः, ज्ञानाकारं रजत- मप्यान्तरम् । तस्य बहिरवभास इतीयमेवात्मख्यातिः । 2) शुक्त्यादौ अत्यन्तासतो रजतादे नमसद्ख्यातिः ।
9 3) शुक्त्यंशे अनुभवः, रजतांशे स्मरणं इति ज्ञानद्वयमेव, परन्तु शुक्तिरजतयो: अनुभवस्मरणयोश्च वस्तुतो विद्यमानो यो भेदः तस्य दोषवशादग्रहणाद् इदं रजतं इति भ्रमः । इयमेवाख्यातिः। 4) देशान्तरस्थस्य रजतस्यैव स्मर्यमाणस्य शुक्तावारोपात् इदं रजतमिति भ्रम इत्यन्यथाख्यातिः । 5) अज्ञानवशात् शुक्तावेवानिर्वचनीयं रजतमुत्पद्यते इतीय- मनिर्वचनीयख्यातिः । वा अनिर्वचनीयख्यातिरेव युक्तेति निरूपयितुमन इतरख्याति- स्वरूपाणि संग्रहेण निर्दिष्टानि । बहिः स्पष्टं भासमानस्यान्तरत्वा- संभवान्नात्मख्यातिर्युक्ता। असतो भानासंभवान्नासद्ख्यातिरपि । पुरतो भासमानस्य रजतस्य देशान्तरस्थात्वासंभवान्नाख्यातिरन्य- थाख्यातिर्वा घटते । रजतस्यासत्वे भानासंभवात्सत्वे "नेदं रजत" मितिबाधायोगात्सत्वेनासत्वेन वक्तुमशक्यमनिर्वचनीयमेव रजतमिति युक्तम् । शुक्तिरजतस्य मिथ्यात्वं लौकिका. अपि जानन्ति कि बहुयुक्तिप्रदर्शनेनेति वक्तुं "शुक्तिका हि रजतवदवभासते" “एक- चन्द्रस्सद्वितीयवत्" इति लोकोक्तिद्धयमुदाजहार भगवान् भाष्य- कारः। तत्र प्रथमा आत्मन्यनात्माध्यास, द्वितीया एकस्यैव ब्रह्मणो जीवेश्वरभेदभ्रमं, चिदात्मनोऽभिन्नानां जीवानां परस्परभेदविभ्रमं च द्रढयति ।
10 अध्यासे प्रमाणानि अध्यासे साक्षिप्रत्यक्षं अनुमानमर्थापत्तिश्चेति प्रमाणत्रय- मुपन्यस्तं भाष्य इति प्रतीयते । तत्र प्रत्यक्षं प्रसिद्धम् । अनुमान- प्रयोगस्त्वित्थं - देवदत्तः अध्यासवान् - व्यवहारवत्वात्, व्यतिरेकेण घटवत् इति । अध्यासं विना कस्यापि व्यवहारस्यानुपपत्तेः व्यवहारानुपपत्त्या अध्यासकल्पनेत्यर्थापत्तिरपि "ब्राह्मणो यजेत" इत्यादि वेदवाक्यमपि लौकिकं भ्रममनुवदति । सर्वोऽपि व्यवहारः अध्यासनिमित्तः । लौकिक:, कर्मशास्त्रीयः, ज्ञानशास्त्रीयश्चेति व्यवहार स्त्रिधा विभक्तुं शक्यते । गच्छामि, पश्यामि, काणः, स्थूल इत्यादि: प्राणिमात्र- साधारणो व्यवहारो लौकिकः । "ज्योतिष्टोमेन स्वर्गकामो यजेत" इत्यादिः कर्मशास्त्र- निमित्तः कर्मानुष्ठानादिः कमशास्त्रीयः । "श्रोतव्यो मन्तव्यः' इत्याद्युपनिषद्वाक्याधीनः वेदान्त- विचारादि: ज्ञानशास्त्रीयः । सर्वोप्ययं व्यवहारः, तत्साधनानि प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चाविद्यावत्पुरुषाश्रयाण्येव । तथा हि - प्रमाणप्रवृत्ति मन्तरा तत्फलीभूतव्यवहारो नोपपद्यते । प्रमाणप्रवृत्तिश्च प्रमातृत्वाधीना। असङ्गस्य चात्मनः प्रमातृत्वमध्यासमन्तरा न संभवति । अध्यासस्य च निमित्तमविद्या । तदेवमविद्या- वद्विषयाश्रयो व्यवहार इति सिद्धम् । - 11 भवतु पृथग्जनानामविद्यामूलको व्यवहारः, आगमोपपत्ति- प्रतिपन्नप्रत्यगात्मतत्त्वानां व्युत्पन्नानामपि पुंसां व्यवहारः कथम- विद्यामूलक: स्यादिति शङ्कां निराकर्तुं “पश्वादिभिश्चाविशेषात्" इति सुप्रसिद्धं भाष्यवाक्यं प्रवृत्तम् । स्वयमेव भाष्यकारा: सूत्रात्मकमिदं भाष्यं निपुणतरमुपपादयन्ति । तस्यायं सारांशः एवं प्रदर्शितो भामत्याम् । "विदन्तु नाम आगमोपपत्तिभ्यां देहेन्द्रियादिभ्यो भिन्न- मात्मानं; प्रमाणप्रमेयव्यवहारे तु प्राणभृन्मानधर्मत्वं नाति- वर्तन्ते । यादृशो हि पशुशकुन्तादीनामविप्रतिपन्नमुग्धभावानां व्यवहारस्तादृशो व्युत्पन्नानामपि पुंसां दृश्यते । तेन तत्सामान्या- तेषामपि व्यवहारसमये अविद्यावत्वमनुमेयम्" इति । ननु लौकिको व्यवहारो भवतु यथा तथा वा? वैदिक- कर्मानुष्ठानं तु आत्मनः परलोकसंबन्धं वेदार्थावधारणं चान्तरा न सेत्स्यतीति कथमविद्यावत्पुरुषकर्तृकम् ? " विद्वान् यजेत" इति हि वदन्ति, इति चेन्न । अत्राविद्याशब्देन वेदान्तवेद्यस्याशनाया- द्यतीतस्यापेतब्रह्मक्षत्रादिभेदस्यासंसारिणः आत्मनो याथात्म्यज्ञान- राहित्यं विवक्षितम् । अत्युत्तमकर्मठानामपि नास्तीदृशमात्म- तत्त्वज्ञानमिति तेप्यविद्यावन्त एव । ईदृशमात्मतत्त्वज्ञानं कर्मसु न केवलं नोपयुज्यते, परंतु तन्त्र प्रवृत्तिमपि निरुणद्धि । एवं वेदान्ता अपि अविद्यावत्पुरुषविषया एव । प्रमातृप्रमेय- शिष्याचार्यांदिविभागं विना वेदान्तार्थानवगमात्तप्यविद्यावद्विषया एव । किन्तु वेदान्ता यथावदधीताः अविद्या उन्मूलयन्ति । इतराणि . तु शास्त्राणि पुरुषमविद्यासागरे मज्जयन्तीति विशेषः ।।
12 ततस्तत्त- अध्यासः सर्वानर्थभूलः । ईदृशाध्यासमूलाः सर्वा भपि प्रवृत्तयः प्रायेणानर्थानेवोत्पाद- यन्ति । ब्राह्मणः, गृहस्थः इति वर्णाश्रमाध्यासेन ब्राह्मणं गृहस्थं च निमित्तीकृत्य विहितानि तत्तत्कर्माणि करोति । कर्मानुरूपाणि फलानि लभते । कर्मफलं सर्वमपि क्षयिष्णुत्वा- त्सातिशयत्वाच्च दुःखमेव । अत एव भगवान् वासुदेवो गीतासु "ये हि संस्पर्शजा भोगा दुःखयोनय एव ते" इति निरधारयत् । लोकेपि देहेन्द्रियादिधर्माध्यासमूलमेवासकृच्छोचतीति प्रत्य- क्षसिद्धम् । “स्थूलोऽहम्” इति देहगतस्थौल्यमात्मन्यध्यारोप्य सदा शोचति, स्थौल्यपरिहाराय भिषग्प्रवरं चान्वेषते । कृशोऽहमिति कार्यम् । एवमेव “मूकः, काण" इतीन्द्रिय धर्माध्यासेनापि । अपर: . एवं सर्वलोकप्रत्यक्षोऽयमध्यासः बीजाङ्कुरवदनादिः आत्मतत्त्वज्ञानमन्तरा अशक्योऽच्छेदः, स्वाभाविक: अनिर्वचनीय- श्चेति सिद्धम् । "अस्यानर्थहेतोः प्रहाणाय आत्मैकविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते" इति परमपावनं भाष्यमनुस्मरन्तो वेदान्त- विचारोत्सुकानामस्माकं निखिलमप्यध्यासं समूलघातमुपहन्तु वेदान्त इति प्रार्थयामहे । उपन्यासः संग्रहेण द्राविड्या बुधसंसदि । लिखितस्यास्य सारस्य कृतः श्रीगुरुतुष्टये ।। माम्