Sringeri Sharada Peetham
Nirnaya Sindhu
Front matter
July 1925. THE CHOWKHAMBA SANSKRIT SERIES; ACOLLEOTION OF RARE & EXTRAORDINARYSANSKRIT WORKS. NO. 331. कमलाकरभट्टविरचितो- निर्णयसिन्धुः ............... Aruardinnta Aat xxv of 18671. Rishte RExermind.) कृष्णंभट्टकृतव्याख्यासहितः । श्रीधर्माधिकारिपाठशालायां प्रधानाध्यापकंन श्रीयुत पं० व्याकरणोपाध्याय नेने-इत्युपाख्यगोपालशास्त्रिणा तदीयगुरुवर म०म० पं० पर्वतीयनित्यानन्द- पन्तप्रदर्शितरीतिमनुसृत्य संशोधितो टिप्पण्या परिष्कृतश्च । NIRNAYA SINDHU; of Kamalakara Bhatta With Commentary of Krishnam Bhatta. Edited With Nutes by Vyakaranopadhyaya Gopala shastri Nene. FASCICULUS XIII-२३. PUBLISHED I SOLD BY THE SECRETARY CHOWKHAMBA SANSKRIT SERIES OFFICE, BENARES. AGENTS: PANDITA JYESHTHARAMA MUKUNDAJI, BOMBAY: OTTU HARRASSOWITZ, LEIPZIG: GERMANY. Printed by Jai Krishna Das Gupta, at the Vidya Vilas Press, Benares. 1925. . ---- memor ... ...... पूजाविधिनिरूपणम् । १२० । यक्षकर्दम इत्येष सर्वदेवमनोहरः। कर्पूरमगुरुश्चैव कस्तुरी चन्दनं तथा ॥ कङ्कोलं च भवेदेभिः पञ्चभिर्यक्षकर्दमः । यस्तु- दारिद्रयं पद्मकं कुर्यादस्वास्थ्य रक्तचन्दनम् । उशीरं विप्रविभ्रंशमन्ये कुर्युरुपद्रवम् ।। इति निषेधः, स केवळपरः चन्दनागुरुकर्पूरकुङ्कुमोशीरपद्मकैः । अनुलिप्तो हरिभत्त्या वरान्भोगान्प्रयच्छति ॥ इति आमेये मिलितानां विधानात् । स्कान्दे- चन्दनागुरुकर्पूरपङ्क गन्धमिहोच्यते । चन्दनागुरुकर्पूरचोर कुकुमरोचना ॥ जटामांसी कपियुता शक्तिगन्धाष्टकं मतम् । घोरः कचोरः। चन्दनागुरुहीबेरकुष्टकुङ्कुमसेव्यकाः । जटामांसी मुरमिति विष्णोर्गन्धाष्टकं मतम् ।। चन्दनागुरुकर्पुरतमालजलकुङ्कुमम् । कु(१)सीत कोष्टसंयुक्तं शैवगन्धाष्टकं मतम् ॥ शिवाचनचन्द्रिकायां- हीबेरं चन्दनं कुष्टमगुरुं कुङ्कुम मुरम् । सेव्यकं च जटामांसी वैष्णवं तदुदीरितम् ।। जलकाश्मीरकुष्टैस्तु रक्तचन्दनचन्दनम् । तमालामुरुकरैः शाम्भवं चाष्टगन्धकम् ।। चन्दनागुरुकपूरैः केसरै रोचनान्वितैः । सशिल्लकजटामांसीसटीभिः शक्तिसम्भवम् । (१) 'कुसीतं कोणसंयुक्त' स्व. - १२०२ सटीकनिर्णयसिन्धुनृतीयपरिच्छेदपूर्वार्द्ध- स्कान्दे- यो ददाति हरेनिय तुलसीकाष्ठचन्दनम् । युगानि वसते स्वर्गे हनन्तानि नरोत्तमः ।। तुलसीदललग्नेन चन्दनेन जनार्दनम् । विले(१)पयेत्तु यो नियं लभते चिन्तितं फलम् ॥ गणपतिकल्पे शङ्खपात्रस्थितं गन्धं मन्त्रैर्दद्यात्कनिष्ठया । इति । अथ पुष्पम्- शुद्धकाञ्चनपुष्पाणि रत्नमुक्ताफलान्यपि । सर्वाणि तुलसीपत्रकलां नार्हन्ति षोडशीम् ।। उत्तमं तुलसीपुष्पं मध्यमं तुलसीदलम् । अधर्म तुलसीपत्रं काष्ठचूर्ण ततोऽधमम् ॥ तुलसीमजरीमालां विष्णवे यो निवेदयेत् । शालग्रामशिला येन पूजिता तुलसीदलैः ॥ स पारिजातमालाभिः पूज्यते सुरसद्मनि । श्यामापि तुलसी विष्णोः प्रिया गौरी विशेषतः ॥ तुलस्यौ पङ्कजे जासौ केतक्यौ करवीरको । शस्तानि दश पुष्पाणि तथा रक्तोत्पलानि च ॥ उत्पलानि च नीलानि कहारकुसुमानि च । मालतीकुन्दमन्दारनन्दावादिकान्यपि ॥ पुष्पाध्यायादिग्रन्थान्तरे विस्तरः । अथ धूपः- शङ्करस्याथवा विष्णोघृतयुक्तं च गुग्गुलम् । दद्याद्भत्या नरो यस्तु सर्वपापैः स (२)मुच्यते ॥ हारीत:- रुहिकाक्षकणं दारुः सिहक सागुरुं सितम् । शङ्ख जातीफलं श्रीगः प्रिया धूपा हरेरिमे ॥ (१) 'विलेपयति यो ङ० (२) 'प्रमुच्यते -
- पूजाविधिनिरूपणम् ।
रुहिका मांसी,
कणो गुग्गुलभेदः, दारुः देवदारुः, सिह
तुरुष्कं, सितः कर्परः, शङ्ख नखं, श्रीगश्चन्दनम् ।
विना मृगमदं धूपे जीवजातं विवर्जयेत् ।
महिषाख्यं गुग्गुलं च आज्ययुक्तं सशर्करम् ॥
धूपं ददाति राजेन्द्र नरसिंहाय भक्तिमान् ।
कृष्णागुरुसमुत्थेन धूपेन श्रीधरालयम् ।।
धूपयेद्वैष्णवो यस्तु स मुक्तो नरकार्णवात् ।
भविष्ये-
अगुरुं चन्दनं मुस्ता सिहकं वृषणं तथा ।
समभागं तु कर्तव्यं धूपोऽयममृताहयः ।।
श्रीखण्डग्रन्थिसहितमगुरुं सिहकं तथा ।
मुस्ता तथेन्दुर्भूतेश शर्करा च दहेत्त्यहम् ।।
कृष्णागुरु सिहकं च बालवं वृषण तथा ।
चन्दनं तगरं मुस्ता प्रबोधः शर्करान्वितः ।।
कर्परं चन्दन कुष्टमुशीर सिहकं तथा ।
ग्रन्थिकं वृषणं भीम कुकुम गृञ्जनं तथा ॥
हरीतकी तथोशीरं यक्षधूप उदाहृतः ।
वृषणं सिहकं बिल्वं श्रीखण्डमगुरुं तथा ।
करं च तथा मुस्ता शर्करा सत्वचा द्विज ।
इत्येष विजयो धूपः स्वयं देवेन निर्मितः ।।
मधु मुस्ता घृतं गन्धो गुग्गुल्वगुरुशैलजम् ।
सरलं सिद्धसिद्धार्थी दशाङ्गो धूप. उच्यते ।।
मदनरत्ने-
त्रिभागकुष्टो द्विगुणो गुडश्च लाक्षात्रयं पञ्च नखस्य भागाः।
हरीतकी सर्जरसश्च मांसी भागैकमेकं त्वथ शैलजस्य ॥
घृतस्य चत्वारि पुरस्य चैकं धूपो दशाङ्गः कथितो मुनीन्द्रैः।
गन्धो मुस्ता, पुरो गुग्गुलुः ।
- . १२० सटीकनिर्णयसिन्धुतृतीयपदपूर्वाद्ध- कन्द्रिकायां- धूपस्य व्यननेनैव धूपेनाङ्गविधूफ्ने । नीराजनेषु सर्वेषु विष्णोर्नामानि कीर्तयेत् ॥ मारसिंह- घृतेन वाध तान दीप प्रज्वालयेन्नरः । तिलोद्भवं तैलम् । स्मृत्यर्थसारे- नैवेद्यार्थ पृथक् पाष्टे स्नाता पत्नी पचेत्तथा । वैश्वदेवार्थमन्यस्मिन्न्यजनानि पृथक् पृथक् ॥ इति । दरिद्रश्चेत्स्व भोज्यं यत्तदीशाय निवेदयेत् । अनिवेद्य हरे भुञ्जन्सप्त जन्मानि नारकी ।। पाने हविः शाल्योदनं दिव्यमाज्ययुक्तं सशर्करम् नैवेद्यं देवदेवाय यावकं पायसं तथा ॥ यावद्भक्ष्यं भवेत्पुंसस्तावद्देयं जनार्दने । नैवेद्यवस्त्वलाभे तु तोयान्यपि निवेदयेत् ॥ सारे- (१)मंण्डले चतुरस्र तु पात्रं संस्थाप्य यत्नतः। अस्रमन्त्रण संप्रोक्ष्य चक्रमुद्राभिरक्षितम् ।। धेनुमुद्रां प्रदाथ गन्धपुष्पैः प्रपूज्य च । देवे पुष्पाञ्जलिं दत्वा मन्त्रमतमुदीरयेत् ॥ हेमपात्रस्थितं दिव्यं परमानं सुसंस्कृतम् । पञ्चधा षड्रमोपेतं गृहाणेमं मुसिद्धये ॥ इति । वैदिकमन्त्राभावेऽयं बोध्यः । प्रक्षिप्य तुलसी पोक्ष्य वामाङ्गुष्ठेन संस्पृशेत् ।। अत्र ग्रासमुद्रा दक्षिणेन कार्या । अथवा- ग्रासमुद्रां वामदोष्णा विकचोत्पलसनिभाम् ।.. .. प्रदर्शयन् दक्षिणेन प्राणादीनां च दर्शयेत् ॥ इति । (१) 'मण्डपे ख.
-- 3 पूजाविधितिरुपमा रह पुनराचमनं दद्यात्करोद्वर्तनमेव च । गाण्ड्रषिक जलं दत्त्वा दद्यादाचमनं ततः र विष्वक्सेनोद्धवाकरसनकाधाः' शुकादयः ।। श्रीकृष्णस्य प्रसादोऽयं सर्वे गृह्णन्तु वैष्णवा] बादरायणचण्डीशनन्दि मङ्गिस्टादयः । सदाशिवप्रसादोऽयं सर्वे गृह्णन्तु शाम्भवाः । इति । सकपरं च ताम्बूलं दद्यान्नीराजनं तथा । चन्द्रिकायां- लवङ्गजातीककोलचूर्ण क्रमुकखादिरम् । कर्पूरसहितं पत्रं ताम्बूलं च समर्पयेत् ।। ताम्बूलीपत्राणि च वतानि देयानि, श्वेतपत्रं च चूर्ण च क्रमुकस्य फलानि च । नारिकेलफलोपेतं मातुलिङ्गसमायुतम् ।। एलाकङ्कोलकर्मुिखवासं प्रचक्षते । इति वचनात् । अशक्तं प्रति महापिप्पलपवाणि क्रंमुकस्य फलानि च । शुक्तिक्षारेण संयुक्तं ताम्बूलमिति कीर्तितम् ॥ इति वचनात् । संख्यामाह भरद्वाजः- क्रमुकस्य फलान्यष्टावनुच्छिष्टानि सन्ति च । पत्राणि नागवल्ल्याश्च द्विगुणं शुक्तिचूर्णकम् ॥ कपुरसहितं. पत्तत्ताम्बूलमिति भाषितम् । सुपूगं सप्तपत्रं च चूर्णेन च समान्वितम् । अदचा द्विजदेवेभ्यस्ताम्बूलं वर्जयेद् बुधः ।। एकपूगं मुखारोगं द्विपूर्ण निष्फलं भवेत् । अतिश्रेष्ठं त्रिपूगं च अधिकं नैव दुष्यति ।। अस्यालाभे यथालब्धं पत्र क्रमुकचूर्णकम् । ताम्बूलं भावयेच्छुदं यत्तन्नयनकरलभम् ।। अथवा- १२०६ सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वाई- स्कान्दे- ताम्बूलं दक्षिणा चैत्र फलं नीराजनं तथा । मन्त्रपुष्पाञ्जलिस्तोत्रच्छत्रचामरवाहनम् ॥ महानीराजनं श्रीमन्मङ्गलेशाय कल्पयेत् । कपरेण तु यः कुर्याद्भक्त्या केशवमूर्द्धनि ।। आरार्तिकं मुनिश्रेष्ठ प्रविशेद्विष्णुमव्ययम् । उत्थायोत्थाय कर्तव्यं प्रणाम दण्डवद् भुवि ।। न देवं पृष्ठतः कृत्वा प्रणाम कचिदाचरेत् । वरमुत्थाय कर्तव्यं न वृथा भ्रमणं चरेत् ॥ दक्षिणे भागे नमस्कारः कार्य:, अग्रे पृष्ठे वामभागे समीपे गर्भमन्दिरे । जपहोमनमस्कारान्न कुर्वीत कदाचन ॥ इति निषेधात् । (१)शिवे तु पुरतोऽपि- शंभोः पशुपतेरग्रे दण्डवत्पतितो भुवि । पतन्ति पातकाः सर्वे नोत्तिष्ठन्ति कदाचन ॥ इति वचनात् । वाराहे- वस्त्रमावृतदेहस्तु यो नरः प्रणमेत माम् । सदा स जायते मूर्खः सप्तजन्मनि भामिनि ।। अन्तरीयान्यद्वस्त्रमिह धर्तव्यं योग्यत्वात् । नमस्कारण चैकन अष्टाङ्गेन हरिं स्मरेत् । मूर्याभिवन्दनं कुर्यादुत्थायोत्थाय दण्डवत् ॥ प्रदक्षिणं न कुर्वीत पुरतः पृष्ठदर्शनात् ॥ नमस्कारानन्तरं प्रादक्षिण्यं विनैव नमस्कारान्तर कार्यमित्य- र्थः । “न वृथा भ्रमणं चरेत्" इतिषचनाच्च । अष्टाङ्गो वा कार्यः । दोभ्या पद्भ्यां च जानुभ्यामुरसा शिरसा तथा । मनसा. वचसा भक्त्या प्रणामोऽष्टाङ्ग ईरितः ॥ (१) 'शिवेऽपि' घ ङ०
पूजाविधिनिरूपणम् ।
ग्रन्थान्तरे-
उरसा शिरसा दृष्टया मनसापि धिया तथा ।
पदयां कराभ्यां वाचा च प्रणामोऽष्टाङ्ग ईरितः ॥
पद्भ्यां कराभ्यां शिरसा पञ्चाङ्गा प्रणतिः स्मृता ।
(१)यद्वा-
शिरो हस्तौ च जान च चिबुकं बाहुकद्वयम् ।
पञ्चाङ्गस्तु नमस्कारो विद्वद्भिः समुदाहृतः ।।
भविष्य
जानुभ्यां चैव पाणिभ्यां शिरसा च विचक्षणः ।
कृत्वा प्रणामं देवेशे सर्वान्कामानवाप्नुयात् ।।
असम्भवे (२)केवलाभ्यां कराभ्यां कार्यः ।
एकहस्तनमस्कारं एका चैव प्रदाक्षणा ।।
अकालदर्शनं चैत्र हन्ति पुण्यं पुराकृतम् ॥
इति चन्द्रिकाधृतवचनात् । चन्द्रिकायां--
ततः प्रदाक्षिणं कुर्यादाम जयजयस्वनैः ।
चक्रवद् भ्रामयेदङ्ग पृष्ठतोऽङ्गं न दर्शयेत् ।।
नारदीये-
पदान्तरे पदं न्यस्यन् हस्तौ चलनवर्जितौ ।
स्तुतिर्वाचि हृदि ध्यानं चतुरङ्गप्रदक्षिणम् ।।
स्कान्दे-
प्रदक्षिणं प्रकुर्वीत शतमष्टोत्तरं सदा ।
तिस्रः सर्वेषु देवेषु सूर्य सप्त प्रकीर्तिताः ॥
विष्णौ चत्वारि वा त्रीणि दुर्गाया एकमेव हि ।
प्रदक्षिणात्रयं कुर्याच्छिवस्यायतने नरः ॥
एकां चण्ड्यां रवौ सप्त तिस्रः कुर्याद्विनायके ।
'एका चैव प्रदक्षिणा' इति अपराधान्तर्गतं तु देवीभिन्नपरम् ।
(१) 'यद्वा नास्ति घ० ०
(२) 'असंम्भवे मुकुलिताभ्यां कराभ्यां' घ ङ.
१२०८ सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वार्द्ध- परिशिष्टे तु-- . .. एकां विनायके कुर्यात सूर्ये त्रीणि शंकरे। चत्वारि केशवे कुर्यात्सप्ताश्वत्थे प्रदक्षिणाः ॥ इति । पौरुषसूक्तं जपस्तावादि चोक्तम् । पारिजाते- जानुभ्यां धरणी गत्वा मूर्धा हरिमथो (१)वदेत् तत्र मन्त्र:- भगवन्देवदेवश पुरुषोऽसि सनातनः । क्षमस्व पुण्डरीकाक्ष भक्तस्य तु विशेषतः ॥ ज्ञानतोऽज्ञानतो वापि कृतं न्यूनाधिकं मया । तत्सर्व पूर्णमेवास्तु त्वत्प्रसादाजनार्दन ।। ततः- मा(४) मकीनं च सकलं हरये तुभ्यमये । इति संकल्पात्मकं स्वात्मार्पणम् , (४)मामकीनं च सकलं हरये सम्पगर्पयेत् ॥ इति वचनात् । ॐतत्सदिति संप्रोक्तो मन्त्रः स्वात्मसमर्पणे । ततः सजलं शंखं नीराजयेत् , शङ्खमध्यस्थितं तोयं भ्रामितं केशवोपरि । अङ्गलग्नमनुष्याणां ब्रह्महत्याऽयुतं दहेत् ।। इति लिङ्गात् । एतद्वचनादेव शिरआधगमोक्षणमपि हस्तेन कार्यम् । हस्तेन प्रोक्षणं कृत्वा हयाकोटिविनाशनम् । इति वचनाद । भ्रामथित्वा हरे नि मन्दिरं शंखवारिणा । प्रोक्षयेद्वैष्णवो यस्तु नाऽशुभं तद्गृहे वसेत् ॥ इति । गृहप्रोक्षणमपि हस्तेनैव, दृष्टन्यायात् । नारदीये-- उदकं चन्दनं चक्रं शंखं चं तुलसीदलम् । (१) 'वहेतू' घ० ० (४) मामदीय' ०० है
पूजाविधिनिरूपणम् । १२०९
घण्टा पुरुषसूक्तं च ताम्रपात्रम(१)थाष्टमम् ।।
शालग्रामशिला चैव नवभिस्तीर्थमुच्यते ।
अथ तीर्थग्रहणं चन्द्रिकायाम्-
विष्णोः पादोदकं पीत्वा कोटिजन्माघनाशनम् ।
तदेवाष्टगुणं पापं भूमौ बिन्दुनिपातनात् ॥
तच पात्रेणैव कार्यम् ,
यः पादसलिलं विष्णोः करेण पिबते यदि ।
स मूढो नरकं याति यावदिन्द्राश्चतुर्दश ।।
इति भविष्ये करस्य निषेधात् ।
शालग्रामशिलातोयं पिबेद्यः सकरेण तु ।
अज्ञानादैन्दवं प्रोक्तं ज्ञानादब्द समाचरेत् ॥
श्रीविष्णोः पादसलिलं करे कृत्वा मुखे क्षिपत् ।
अदचा पिवते यो वै रौरवे नरके वसेत् ॥
इत्यत्र तु मुखे क्षेपणं न तु पानमिति न तद्विरोधः । एवं
धारयेन्मूनि वालिश्याब्रह्महा स निगद्यते ।
इति वचनं तु चन्द्रिकायां विकृतम्-
शालिग्रामशिलातोयमपत्विा यस्तु मस्तके ।
प्रक्षेपणं प्रकुर्वीत ब्रह्महा स निगद्यते ॥ इति ।
तत्र मन्त्र:-
देवदेव जगन्नाथ शङ्खचक्रगदाधर ।
देहि विष्णो ममानुज्ञा तव तीर्थनषेवणे ॥
तत्र वैदिको मन्त्रः-तदस्य प्रियमभि पाथो अस्यां नरो यत्र
देवयुवो मदन्ति । उरुक्रमस्य स हि बन्धुरित्था विष्णोः पदे परमे
मध्व उत्सः ॥ अथ पौराणो मन्त्र:-
अकालमृत्युहरणं सर्वव्याधिविनाशनम् ।
विष्णोः पादोदकं पीत्वा शिरसा धारयाम्यहम् ।।
(१) 'मथाष्टकम्' ख०॥
१२१० सटीकनिर्णयसिन्धुनृतीयपरिच्छेदपूर्वार्द्ध- माश्नीयालोक्षयेदेहं पुत्रमित्रपरिग्रहम् । कृत्वा पादोदकं शङ्ख वैष्णवानां महात्मनाम् ॥ तुलसीमिश्रितं दद्यात् पिबेन्मोऽभिवन्दयेत् । आयसे च तथा कांस्ये काष्ठेऽलाबुमये तथा ।। उद्धृत्य - पादसलिलमघतुल्यं विनिर्दिशेत् । विष्णोः पादोदकं पीत्वा पश्चादशुचिशङ्कया।। आचमेद्यो हपो मोहाद्ब्रह्महा स निगद्यते । विष्णुपादोदकात्पूर्व विषपादोदकं पिबेत् ॥ विरुद्धमाचरेंन्मोहाड्रह्महा स निगद्यते । तत्र मन्त्र:- पृथिव्यां यानि तीर्थानि तानि तिष्ठन्ति सागरे । ससागराणि तीर्थानि पदे विमस्य दक्षिणे ॥ इति । पादोदकं च निर्माल्यं नैवेद्यं च विशेषतः । तत्र मन्त्र:- नैवेद्यं शिरसा नत्वा श्लोकमेतमुदीरयेत् । यस्योच्छिष्टं हि वाच्छन्ति ब्रह्माद्या ऋषयोऽमलाः ।। सिद्धाद्याश्च हरेस्तस्य क्यमुच्छिष्टभोजिनः । चन्द्रिकायाम् अपराधसहस्राणि क्रियन्तेऽहर्निशं मया । दासोऽयमिति मां मत्वा क्षमस्व परमेश्वर ॥ इमं मन्त्रं समुच्चार्य प्रणमद्दण्डवद् भुवि । अपराधसहस्रं तु क्षमते. सर्वगो हरिः ।। विष्णुधर्म- धूपं चारार्तिकं पश्येत्कराभ्यां तत्प्रपद्य च । एतच्च आत्मानं शंखं सपुष्पमभ्यय॑ घण्टा चाभ्ययं धूपारा- तिकार्चनं कार्यम् । वचनान्यन्यत्र बोध्यानि । वाराहे- धूपात्तिं च तथा दीपं कराभ्यां यैनमस्कृतम् । सप्तजन्मार्जितं पापं तत्क्षणादेव नश्यति ॥
- - पूजनऽपराधनिरूपणम् । १२११ पदार्थादर्शे- एकाहपूजाविहतौ कुर्याद् द्विगुणमर्चनम् । त्रिरात्रे तु महापूजा संप्रोक्षणमतः परम् ॥ संप्रोक्षणं तु देवस्य देवमुद्वास्य पूर्ववत् । पञ्च पञ्च क्रमेणैव स्नापयित्वा मृदम्भसा ।। गवां रसैश्च संस्नाप्य दर्भतोयैर्विशोध्य च । मोक्षयेत्सोक्षणीतोयैर्मूलेनाष्टोत्तरं शतम् ।। ततो मूलेन मूर्धादिपीठान्तं संस्पृशेदपि । तत्वन्यासं लिपिन्यासं मन्त्रन्यासं च विन्यसेत् ।। प्राणप्रतिष्ठामन्त्रेण प्रतिष्ठापनमाचरेत् । पूजां च महतीं कुर्यात् स्वतन्त्रोक्तां यथाविधि । पूजाहीनादिषु प्रायः सम्प्रोक्षणविधिः स्मृतः ॥ शालग्रामादौ न प्राणप्रतिष्ठा किन्तुः महापूजैवेति स्मर्तव्यम् । विष्णुरहस्ये- इति विष्णवर्चन ये तु प्रकुर्वन्ति नरा भुवि । ते यान्तिः शाश्वतं विष्णोरनन्तं परमं पदम् ।। विष्णु:- देवार्चनपरो विप्रो वित्तार्थी वत्सरत्रयम् । सबै देवलको नाम हव्यकव्ये निगर्हितः। अथ द्वात्रिंशत्पूजापराधा वाराहे- भुक्त्वा तु परकीयान्नं तत्परस्तनिवर्तकः । प्रथमश्चापराधोऽयं सर्वविघ्नाय वै भवेत अभुक्त्वा दन्तकाष्ठं तु यस्तु मामुपसर्पति । अपराधो द्वितीयोऽयं धर्मविघ्नाय कल्प्यते ॥ कृत्वा मैथुनसंयोगं यस्तु मां स्पृशते नरः । तृतीयमपराधं तं कल्पयामि वसुन्धरे ।। स्पृष्ट्वा रजस्वला नारीमस्माकं यः प्रपद्यते । - मलागाशि नमरे॥ - १२ सटीकनि विवेदपूर्वाद्ध- स्पृष्ट्वा तु मृतकं चैव असत्कारकृतं तु वै ।-airs पञ्चमं चापानमामि वसुनीganry स्पृष्ट्वा तुE:अस्तु वाचायोस्पृशहि माशी षष्ठं तमपण जशपमि वसुंधरा APF ममार्चमस्याकाले तु सुशै स्मरEि सप्तमं वापरानुनि प्रमिसुधरें। ममैवार्चनकालानु यात्वसत्य समापन irzine नवमं चापागम क्षमामिवन्धो FINE अविधानेन स्पृश्य मामेव प्रतिपकने #IFIEFE दशमश्चापराषोऽया मन:चाहियकारक TIE सक्रोधो यः स्पृयोद्धानं चित्तं कृत्वा चलाचल मचा एकादशं चापरावं न क्षमामि वसुन्धर अकर्मण्यानि पुषयानि यस्तु सामुपकल्पयेत् । द्वादशं चापराधं तं न क्षमामि वसुन्धरे ।।- यस्तु रक्तन क्त्रेण कौसुम्मेनोपगच्छति । त्रयोदशं वापरायन.क्षमामि वसुन्धरेना . अन्धकारे च मां देवि यः स्पृशेत्तु कदाचन । चतुर्दशं चापराधं न क्षमामि वमुन्धरे । यस्तु कृष्णेन वस्त्रेण मम कर्माणि कास्येत्त पश्चदशं चापराधं न समामि वसुंधरे ॥ अधौतेन च वस्त्रेण यस्तु मामुपसर्पति । षोडशं चापराधं तं न क्षमामि वसुंधरें ।। स्वयमन्नं च यो दद्यादज्ञाताय च माधवम् । सप्तदशापसधैं तं न क्षमामि वसुन्धरे ।। यस्तु मात्स्यानि मासानि भक्षयित्वोपप्तपैति । अष्टादशापराधं तं न क्षमामि चमुन्धरे । जालपादं भक्षयित्वा यस्तु मा प्रतिषचं ते । एकोनविंशापराध न. क्षमामि वमुन्धरे ।
एंजमेकशीअहिली मी RISE PAT
दी:स्पृष्ट्वानुबो देकि प्रमाकर्याप्रिनिगाणाg
विंशतिं चापराधं तं न क्षमामि वसुन्धरे ।
श्मशान यस्तुवै माया मामेव प्रतिपद्यते sini
एकत्रिंशावरातम क्षमामि वसुंधरे
पिण्याकवित्वातच मामेवाभिमच्छति ।
द्वाविंशं चापरात नक्षमामिविसुन्धरी
यस्तु वासहभांसानि भक्षयित्वोपप्तर्षति
अपरा अयोविंशं नः क्षमामि वसुन्धरे ।
सुरां पीत्वा च यो मर्त्यः कदाचिदुपसर्पति
अपराध चतुर्विशन क्षमामि वसुंधरे ।
कुसुम्भशाको भक्षनिस्वा वस्तु मामुपसर्पति
अपराध पश्चशिं न क्षमामि वसुन्धरे।
परप्रावरणेनैव यस्तु मामुपसर्पति ।
षटाविंशापराधं तं न क्षमामि वसुन्धरे ।
अजीर्णन समाविष्टों यस्तु मामुपसर्पति ।
त्रिंशकं चापराध त नक्षमामि वसुन्धरे।।
गन्धपुष्पाण्यदत्वा तु यस्तु धूपं प्रयच्छति
एकत्रिंश चापराध न क्षमामि वसुंधरे ।
विना तूर्यादिघोषण द्वारस्योद्धाटनं मम ।
महापराधं जानीयाद् द्वात्रिंश ते मम प्रिये ॥
एषु प्रत्येक प्रायश्चित् तत्रैवं ।
संवत्सरस्य मध्ये च तीर्थे :सूकरके मम ।।
कृतोपवासस्तु नसे मङ्गाया-शुद्धिमाप्नुयात
मथुरायां तथा चैव सांपराधः शुचिर्भवत् ।
स्कान्दे-
जागरेद दारात्रौ पठेद्यस्तुलसीस्तवम्
द्वात्रिंशदपराधांश्च क्षमते तस्य केशक ॥
- १२१४ सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वाई- पुराणोक्तस्तुलसीस्तवो व्रतरत्नादौ बोध्यः । प्रकारान्तरण कृष्णभट्टीये- तिर्यपुण्ड्रंधरो भूत्वा यः कुर्यादेवतार्चनम् । याचितैः पत्रपुष्पाचैर्यः करोति ममार्चनम् ॥ अप्रक्षालितपादो यः प्रविशेन्मम मन्दिरम् । ।' मम दृष्टेरभिमुखं ताम्बूलं चर्षयेच यः । कौसुम्भशाकं मयों का भक्षयेन्मम सेवकः । उरुबूकपलाशस्थैः पुष्पैः कुर्यान्ममार्चनम् ॥ ममार्चामासुरे काले यः करोति विमूढधीः । अवैष्णवस्य पकानं यो मयों विनिवेदयेत् ॥ अवैष्णवेषु पश्यत्सु मत्पूजां विदधाति यः। दिनान्तरितपकानं यो मह्यं विनिवेदयेत् ।। नीलीरञ्जितवस्त्रं च यो मह्यं विनिवेदयेत् । नवप्रक्षालितं वस्त्रं जीर्ण वा विनिवेदयेत् ॥ अमौनी धर्मलिप्ताङ्गो मत्पूजां विदधाति यः । वातमूत्रनिरोधेन मत्पूजां विदधाति यः ॥ नखोदकेन स्नपनं कुरुते यश्च मानवः । कृत्वा वातमनाचम्य तथा प्राकृत्य कम्बलम् ॥ पीठासनोपविष्टो वा पूजयेद्वा निरासनः । मृन्मयं धूपदहनं दीपं यः कुरुतेऽर्चने ॥ मत्पूजको(१)न कुरुते तन्तुंपूजां च दामिनीम् । मत्पूजकः शिवद्वेषी शिवभक्तश्च मां द्विषेत् ।। भृताष्टम्योर्न कुरुते नक्तं न हरिवासरम् । परस्य परिधानं च परिधायांचयात च ॥ अपूजयित्वा विघ्नेशमसम्भाव्य कपालिकम् । कुद्धो यत्कर्म कुरुते त्रिकालार्चनविघ्नवत् ॥ अन्धकारे स्पृशन्मां यः सम्भाष्य च रजस्वलाम् । (१) कोतत्कुरुते' ख० " पूजनेऽपराधनिरूपणम् । वामहस्ते च मां कृत्वां स्नापपेचदि मूढधीः । महापराधानानीहि द्वात्रिंशन्न क्षमामि तात् । अन्ये चागस्तिनोक्ताः- यानी पादुकैर्वापि गमनं भगवद्गृहे । देवोत्सवाद्यसेवा च अप्रणामस्तदग्रंतः ।। उच्छिष्टे चैव चाशीचे भगवद्वन्दनादिकम् । एकहस्तपणामश्च तत्पुरस्तात्पदक्षिणम् ॥ पादप्रसारण चाग्रे तथा पर्यङ्कबन्धनम् । शमवातक्षणं(?) चैव मिथ्याभाषणमेव च ।। उचैर्भाषितजल्पो वा रोदनादिग्रहः ग्रहः । अग्रहानुग्रहौ चैव स्त्रीषु च क्रूरभाषणम् ।। कम्बलावरणं चैव परानन्दा परस्तुतिः । अश्लीलभाषणं चैव अधोवायुविमोक्षणम् ॥ शक्तौ गौणोपचारस्तु अनिवदितभक्षणम् । बत्तत्कालोद्भवानां च फलादीनामनर्पणम् ॥ विनियुक्तावशिष्टस्य प्रदानं व्यअनादिकम् । पृष्ठीकृत्यासनं चैव परेषामभिवादनम् ॥ गुरौ मौनं निजस्तोत्रं देवतानिन्दनं तथा । अपराधास्तथा विष्णोत्रिंशत्परिकीर्तिताः ॥ अथापराधशतं गारुडे- नारद उवाच- कस्य कस्यापराधस्य किं फलं का गतिश्च भो। प्रत्येकमपराधस्य प्रायश्चित्तिश्च का भवेत् ।। अशक्तश्च जडो वापि कथं शुद्धो बदख मे। ब्रह्मोवाच- स्नानहीनस्तु यो मर्त्यः कृत्वा वै देवतार्चनम् । रौरवं नरकं याति यावदाभूतसंप्लवम् ।। -- 214 HV.. १२१६ सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वार्द्ध- तस्यापचितिमन्विच्छन् जपेदष्टाक्षरं मनुम् । अयुतं सर्वपापघ्नं ततः शुद्धो भवेन्नर निःशङ्कं देवतागारं प्रवेशं च करोति यः असिपत्रक्ने घोरे प्रतयाब्रह्मणो दिनम् ।। पञ्चरात्रोपत्रासेन पञ्चगव्येन शुद्धथतिः। अप्रक्षालितपादश्च प्रविशेदेवतालयम् ॥ विष्ठाकृमिर्भवेत्पापी सप्त(१)जन्मनु मानवः । देवस्यानम्रशिरसा गच्छेदभिमुखं नरः ।। कुम्भीपाके महाघोरे पतसाचन्द्रतारकम् । गोमयालिप्तदेशे तु हरेः पूजां करोति यः ॥ सुतप्तवालुके घोरे नरके पतति ध्रुवम् । त्रिरावृत्य स पापात्मा गीतां शुद्धयति निश्चयः ।। धूपहीनां च यः कुर्यात्पूजा विष्णोर्महात्मनः । तुषाग्नौ नाम नरके यावदिन्द्राश्चतुर्दश ।। दशाङ्गं गुग्गुलं दत्वा स पापी शुद्ध्यति ध्रुवम् । घण्टानादाविहीनां च देवताची करोति यः ।। कोलाहले महाघोरे नरके पंतति ध्रुवम् । वेदपारायणं कृत्वा स पुमान शुद्धिमाप्नुयात् ।। मुखफूत्कृत्य वह्नौ तु धूपधूमं करोति यः । महातमासि नरके पतत्यालोक(२)संक्षयम् ।। दीपमाला हरेः कृत्वा स च शुद्धिमवाप्नुयात् । स्तोत्रपाठं विना तूष्णीं यो निर्माल्यं विसर्जयेत् ॥ निरुच्छ्वासे च नरके यावदिन्द्रपदं पतेत् । सहस्रनामपठनाच्छाद याति यतत्रतः ॥ अग्रोदकं त्रिवारं न वरेण शोधयेद्यदि । कालभक्षे महाघोरे पतयेव नराधमः ।। (१) 'शतजन्मस्तु' ख० (२) 'संक्षय स्खला ....
पूजनेऽपराधनिरूपणम् १२.१७
ग्रीष्मे पानीयदानेन स पृतो जायते नर
स्वच्छायाग्रोदकाद्यस्तु कुर्यादेवाभिषेचनम् ।।
: तप्तपदं नाम नरकं याति मानवः ।
स सुवर्णाभिषेकेण हरेः शुद्धिमवाप्नुयात् ।।
अनाच्छाधोदकुम्भस्य मुखे अग्रोदकाहृतम् ।
करोति मौढ्यात्पच्येत कालसूत्रादिषु द्विजः ।।
पवमानाभिषेकेण पवित्रो जायते नरः ।
अभक्ष्यभक्षणं यस्तु कुर्याद्वेदविगहितम् ।।
भयानके महाघोरे वासमाप्नोति मानवः ।
एकादश्युपवासे च तुलसीभक्षणाच्छत्रिः ।।
अमक्ष्याणि च शाकानि तथैवान्नानि नारद ।
यो यो निवेदयविष्णौं महारौरवमेति सः ।
पराक च व्रत कृत्वा शुद्धिं प्राप्नोति मानवः ।
कक्षश्मश्रुनखस्पृष्टहस्ताद्देवाङ्गस्पर्शने ॥
अष्टभौमे महाघोरे वसत्याध्रुवमण्डलम् ।
अस्यवामस्य सूक्तस्य जपाच्छुद्धिमवाप्नुयात् ।।
अन्यावशिष्टवस्त्रस्य देवतायाः समर्पणात् ।
मुघोरं नाम नरकं प्रयात्यामनुकल्पकम् ॥
होनवस्त्रार्चना यस्तु करोति परमात्मनः ।
अनिघोरं च नरकं प्रयात्याभूतसंप्लवम् ।।
शीताचे वस्त्रदानेन पूतो भवति मानवः ।
योऽ! तु कुरुते विष्णोर्नीलवस्त्रेण मानवः ।।
कालरात्रि महाघोर नरकं याति दारुणम् ।
रात्रिमूक्ताच्चकै हुत्वा शुद्धो भवति मानवः ।।
अधीतवस्त्रं यों विष्णोः समर्पयति मानवः ।
शूकरं नाम नरकं प्रयात्यालस्यदूषितः ।।
अतोदेवाश्चरुं हुत्वा पायसं शुद्धिमाप्नुयात् ।
निषिद्धानेन नैवेद्यं यः करोति नराधमः ॥
१२१८ सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वाई- मलभोज महाघोरं नरके याति दारुणम् । नखश्मश्रुविना यस्तु: दरिद्रो भुवि जायते ॥ द्वादश्यां भोजयित्वा तु ब्राह्मणान् शुद्धिमाप्नुयात् । अष्टाक्षरोपदेशस्तु यस्य कस्प गुरोर्न हि ।। तादृशः पूजयित्वा तु विष्णुं वेदैकनायकम् । करालं नरकं याति यत्र दुःखानि भूरिशः ।। सच्छास्त्रश्रवणादेव शुद्धिमानोति निश्चितम् । शूद्राहृतैश्च कुसुमैर्विष्णोः पूजां-करोति यः ।। कीटदं नाम नरकं नानादुःखालयं व्रजेत् पवित्रं तेत्यचा हुत्वा स्नात्वा नयां शुचिर्भवेत् ॥ शूद्राहृतं न दुष्टं स्यात्सिद्धस्थाने महोत्सवे । शूद्राहृतं न दुष्टं तु शुद्रस्य हरिपूजने ।। धौतपुष्पैः सपर्यो तु यः कुर्याच्छाङ्गधन्वनः । स चण्डनरकं याति पश्चाद्वैश्यो भवेन्नरः ।। दधिक्राव्णऋचा विष्णु दना कृत्वा शुचिर्भवत् । अन्यावशिष्टपर्युष्टग्लानपुष्पैर्हरिं यजेत् ।। पद्मापद्मावतीभीमनरकान् याति दारुणान् । अतोदेवा-इदं विष्णुः-पौरुषं क्रमशो हुनेत् ।। आज्यं पयः पायसं च क्रमाच्छुद्धो भवेन्नरः । छिन्नभिन्नातिरक्तानां पुष्पाणां तु समर्पणात् ।। बहुसूचीमहासूचीसंज्ञान् याति च मानवः । पञ्चामृताभिषेकेण महानदजलाप्लुतः ॥ पयसा स्नापनाद्विष्णोः पश्चाच्छुदो भवेन्नरः । स्वाङ्गभूगलितानां च नित्तानां समर्पणात् ।। अतिवातं महावातं चक्रवातं प्रयाति सः। अन्नधेनोः स्वर्णधेनोर्मधुधेनोश्च दानतः ।। शुद्धं सुखमवाप्नोति परत्र च परां गतिम् । वस्त्रपुडादर्कपुटादेरण्डादिपुटात्तथा ॥
पूजनेऽपराधनिरूपणम् । १२१९
आहृतैः पुष्पपत्रायः पूजा विष्णों करोति यः
अतितापं महातासमतिशीतं प्रयाति सः ।।
निर्गन्धपुष्पैः पूजा [ ] मुकुन्दस्य करोति यः।
तथा पूयवहं नाम नरकं ब्रजति धुवम् ।।
वासहीनो भवेद् भूमौ पापुष्पार्पणाच्छुचिः
तुलसीरहितः पुष्पैर्योऽर्चयेदच्युतं हरिम।।
तामसं नारकं याति पुनरुत्थानवर्जितम् ।
कार्तिक्यां तुलसीपत्रैः संपूज्य च शुचिर्भवत् ।।
लोकवार्त्ता वदन्विष्णोर्निर्माल्यं यस्तु लङ्घयेत् ।
चण्डकोलाहलं नाम नरकं याति दारुणम् ।।
पारायणांत पावमान्याः शुद्धतामेति मानवः ।
अपक्षाल्य च पुष्पाणि विष्णोः पूजां करोति यः ।।
कृमिभक्षमहाघोरं नरकं वाधिगच्छति ।
मन्दधीर्जायते भूमौ गोग्रासाच्छुध्यते नरः ।।
प्रक्षाल्य तुलसी विष्णोः सपर्या च करोति यः ।
सर्वसौरुषहर नाम नरकं प्राप्य दु:खितः ।।
आवाहनाद्विषण्मुद्रांविनाह्यों करोति या
देहयोगवियोगात्य नरके वासमाप्नुयात् ।।
पुष्पाञ्जलि मन्त्रस्नाइत्वावद्धिसवाप्नुयात् ।
अग्निज्वालं प्रयासाशु तथैवैरण्डदीपतः ॥
पिष्टामलकदीपस्य प्रदानाच्छुद्धिमाप्नुयात् ।
पञ्चसंस्कारहीनस्तु नरकं याति. दारुणम् ॥
गङ्गावगाहनाद्वापि भारतस्य च कीर्तनात् ।
स नरः शुद्धिमाप्नोति नान्यथा शुद्धितामियात् ।।
शुन्यदीपे विलुप्ते. तु पूजां कर्तुं यदीच्छति ।
तैलयन्त्रं महाघोर गत्वा तत्र निपीड्यते।।
शङ्कराद्यैः समत्वेन विष्णोरी करोति यः ।
स चान्धतमसो नाम्नो नरकानधिगच्छति ।।
१२२ सटीकनिर्णयसिन्धुतृतीयपरिच्छद पूर्वार्द्ध- सेमान्य पितृभिश्चैव संमकालं हरि ब्रजेत् । दुःखोकाट नाम नरकं याति ब्रह्मार्पण नहर शुत्का भामवतं शाल श्रुद्धिमान जायते मरा पद्माक्षतुलसीमालाहीनकपड़ो वसेर शाल्मलीनरकंयाति लिबद्धो भवन कार्तिक्या पत्रमालाभिः सुसंपूज्युः शुचिर्मत् ।। उत्तरीयपरित्यागाच्छायाही(१)ने पतसयान मियो भवेद् भूमौ द्रोग्धोदवा शुचिर्भवेत् ।। अपवित्रकरो यस्तु विष्णोरची करोति या 1 नरके पूयनोणाख्ये भुक्त्वा दुःखान्यनेकशः ।। व्याधी भूत्वा मुपापीयानरकाने(२)कविंशतिः 1 :अकच्छः पृष्ठकच्छो वा देवताची करोति यः ।। रेतसो भाजनं याति उपजग्धी भवेन्नरः । अश्वस्थमेवनाच्छुद्धस्तुलसीचन्दनादपि।। पाषण्डिनां च संसर्गः यः करोति दुराग्रहात : सप्तशीलाल नाम नस्क यातिदारुणम् का बहुमूत्रो भवेद् भूमौ सत्संगयां विशुद्धयति ।। अनभ्यस्य च सच्छास्त्रं योदु शास्त्रं समयसेत् । अङ्गारराशिभवन नरक यति दारुणम् ।। स भूप्रदक्षिणां कृत्वा शुद्धिमाप्नोति निश्चितम् ।। नरस्तुतीनां श्रवण यः करोति नराधमः। नदी वैतरणी याति पूज्यस्तुत्या विशुद्धयति । यः करोति विमूढात्मा नरस्तुत्या तु जीवनम् । मुसलोलूखलं नाम नरक चाधिगच्छति ॥ नित्यं स पश्चिमे यामे विष्णुस्तुत्या विशुध्यति । पूज्य स्तुतिपरित्यागं यः कुर्यान्मनुजाधमः ।। (१) 'हीनेष्वतत्पयम्' ख० (२) 'नेव विन्दति ख०
--
-पूजनारी निकोपा २१
पूतिमासादनं माम चरक सोधिमंच्छति
मुखरोग्री मा भवति भारतश्रवणाच्छुचि .
विष्णोनिन्दा गुगनिनद श्रुत्वैव मनुजाधमा
नरकं चान्ध(१)तामिस्र मुक्त्वा युगशतत्रयम्।
कपिलागोसहस्रं च दया शुद्धिमवाप्नुयात्
अथका विष्णुमाहात्म्यं श्रुत्वा शुद्धिमवाप्नुयात् ।।
सत्पुंसनिन्दाश्रवणं सच्छास्त्रस्थापि नारंदा
यः करोति. विमूढात्मा महारौरवमेति सा॥
सच्छिन्नोष्ठो भवेद् भूमौ भूमिदानेन शुध्यति ।
देवा समये बालान लालयन्मनुजांधमः ।।
इक्षुमन्त्रे महाघोरे पीड्यते यमकिङ्करैः।
श्रुत्वा च शास्त्रसंदर्भ बालिशो नाभिपूज्यते ।।
देवालये पताकानां दानाच्छुद्धयत्ति मानवः ।
व्यासङ्गाइवताचीयो कृतायो ममुजेन वै ॥
आस्फालयन्ति ते याम्या शुरपाय शिलातले
पुस्तकस्थ प्रदानम तेस्मोक्षापात्यमुच्यते ।
नखादिमलिनाना च देवागार विसर्जन
विष्ठाकूपि पतस्याशु त मलभोजन
चक्रकारों भवेद भूमी गम्धदानेन शुद्धयति ।।
आज्याभिधारहीनस्य नैवेधस्य समर्पणे ।
स तु हालाहलं माम नस्कं याति दारुणम् ।
स चापि शुद्धिमाप्नोति शतंब्राह्मणभोजनात् ।।
आलस्याद्देवपूजाया तूष्णी क्रीडति वा विभो ।
यः कसोति विमूढात्मा चक्रे भेदानिपीड्यते ।।
मलं बचा देवपूजों यश्वाचरति मूढधीः ।
तैलकूष पातयन्ति तं पापं यमकिङ्कराः ।।
(१) 'तामित्रं पतेदु युग' स्त्रक
सटीकानि जगपालिकेदपूर्वाई- अजीबोजनेयमहादेवसमाचो नीg स पापात्या विधीTEY देवस्य पूलासमयोचिदिन्यामिनसतari प्रत्युत्थान्ताकुल-जमातत्यायला महवं सहलादेव तो सुनिनची निहलानपरि साधतान बनाया MNTE कामासाशुद्धायांतिलाशानिमा शबानो मनुजीकि मोति झरेक्याम् । नानादुखाई नाम नरक याति दारूणाम पश्चाद्यालो भवेद् भूमो मृहदानाद्विशद्धयति ।। शृण्वन् पौराणिकीं गायां कृत्वा नास्थलचर्वणम् । स याति नरकं घोरं दहिभोजनसंज्ञकम् । गुरोः समानरूढः सन् पुराण या गुणोति च । तप्तशलासनं नाम नरकं सावि दारुणम् ॥ गुरोः पर्यङ्कदाचन शुद्धिसाप्तोत्यसंशयमू। अश्रद्धया नरः श्रुत्वा पुराण, पापनाशनम् संमोहनं महाघोरं नरकं याति दु:खदम् । गत्वाऽपस्मारसेगान्यः पुनरेवाभिजायते ॥ दिनापनयन लोकवार्तया गृहचिन्तया । कुर्वनिरयमाप्नोति तमशोणहदं नरः॥ नमस्कारान्परं विष्णोः कृत्वा धूलिविधूननम् । तप्तधूलिनदं नाम नरकं चाधिगच्छति ॥ आरूढवृषभाशुद्धो युगबद्धषद्वयः । ताभ्यां वृषाभ्यां नियमात्किंचिद दूरं बजेद् ध्रुवम् ।। तेन शुद्धिमवाप्नोति नरकाद्वा कथश्चन । आर्द्रवरूधरों युस्तु कुर्वन्वै देवतार्चनम् ॥ अङ्गारवृष्टिपतनं नरकं प्रतिपद्यते । यतीनां वस्त्रदानेन मृदा स्नानेन शुन्यति में
maisn ERA
एकावादिनमायभुतहासिकसि
कृमिराशि :मिबाशुमावदा भूत्रसंपला
शुद्धिमानोल्या नानालोमत्यां कृष्णसंविधान
दीक्षितो देवपूजायां भूलोधुनमाको
आयसा कण्डकास्ती पान नस्ककूटशाल्पाली
पुंमुक्तमपवित्वा तु देवपूजा करतेति
बदनान्तविन्यस्तसुषत्तप्तमयोगड़ी।
आदावन्ते च साहस्त्रनामपाठविधजनात् ।।
तैलपूर्णकटाहेषु सन्तप्तेषु तु मानवः ।
निक्षिप्तोऽप्यात्मनो जिह्वां यमाज्ञाकारिभिर्भटैः ।।
अहुत्वा वाप्यदत्वा वा भोजनं कुरुते नरः।
महोक्षमूत्रपूर्णायां वाप्यां वैक्षिप्यते नरः ।।
बृहदारण्यक जप्त्वा चतुर्भिर्मुच्यते नरः ।
पुण्यकालोक्तातिशयसपर्यो यस्तु मुश्चति ॥
क्षारोदं नामः नरकं नरो यात्ति सुदारुणम् ।
तत्र शस्तैर्विशरणाडो नमस्काविशुद्धयति
अनिवोदितमस्त्रयशवंचक्रगदांभूती
(भुनक्तीति शेषगा)
षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ॥
चान्द्रायणत्रयं कृत्वा शुद्धिमाप्नोति मानवः ।
अन्यदेवार्पितं चान यो भुङ्क्ते ज्ञानदुर्बलः ॥
(धू(१)म्रपाने महाघोरे आकल्पान्तमधो(२)मुखम् ।
विष्णुस्थानविहीने तु ग्रामवासी नराधमः ।।)
जन्तुपङ्के महाघोरे क्षिप्तः क्रन्दति विस्तरम् ।
स पङ्गुर्जायते भूमौ गङ्गासागरसंगमे ॥
(१) धनुश्चिन्हान्तर्गतं नास्ति घ० ० ।
(२) इतोऽने 'चान्द्रायणत्रय पाठोऽधिकाख
१२२४ सटीकनिर्णयसिन्ततीयपरिच्छेदपूर्वार्दै-
स्नातः शुद्धिमवाप्नोति कायाः श्रवणेन चा:
सत्संगमविहीने च ग्रामवासी नराधमः ।।
शस्त्रावर्षे पतेद्धौरें शुद्धा स्वातीर्थसेक्या ।
मुतेषु नामधेयानि विष्णोरन्यस्य नामतः ॥
आहान कुरुते. यस्तु तैलकुम्भं पतेद् ध्रुवम् ।
सकाम पूजितो येन देवदेवो जनार्दनः ।।
निवृत्तिमार्गे सरतः शुद्धिमेति न चान्यथा ।
देवोपकरणैर्यस्तु गृहयात्रा निवर्तयेत् ॥
महापेषे महाघोरे मुसलैः पीड्यते भृशम्
पक्षियोनिमवाप्नोति देवालंकरणाच्छुचिः ।।
शयानो मिथुनीमोगादेवागारे नराधमः ।
शरतल्पे महाघोरे प्राजापत्येन शुध्यति ।
विना शङ्ख महाविष्णोराभिषेकं करोति यः ।
निरन:नरकं गत्वा स्वमांस खादते नम्॥
शङ्खन पयसा देवं स्नाप्य शुद्धिमवाप्नुयात् ।
विष्णोरभिमुखं पादप्रसारं कुरुते नरः ।।
तं पापं पाणिदेशे तु छिद्रं कुर्वन्ति सत्वरम् ।
सेतुं गत्वा समुद्रस्य गङ्गासागरसंगमे ।।
स्नात्वा शुद्धिमवाप्नोति नान्यथा तु कथञ्चन ।
अवृन्दावनगेहे च निवसन्मानुषाधमः ॥
सर्वानेतान्महारानरकाने(१)कविंशतिः ।
व्रतभ्रष्टो महापापं महारौरवमेति-सा ॥
व्याघ्रयोनिमवाप्नोति बन्दिमोक्षाच शुध्यति ।
तुलामकरमेषे. तु प्रातःस्नानविवर्जनात्..॥
पैशाची योनिमाप्नोति यावदाभूतसंप्लवम् ।
श्रुत्वा सच्छास्त्रमाहात्म्यं शुद्धिमाप्नोति मानवः ।
(१) 'नेव विन्दति' ख।
पूजनेऽपराधनिरूपणम् । १२२५ अविभक्तानां पृधग्देवपूजामाह प्रयोगपारिजाते साश्वलायन:--: पृथगप्येकपाकानां ब्रह्मयज्ञो द्विजातिनाम् । अग्निहोत्रं सुरार्चा च संध्या नित्यं भवेत्पृथक् ।। तत्रैव विष्णुधर्म- *शालग्रामशिलां वापि चक्राङ्कितशिलां तथा । ब्राह्मणः पूजयोन्नित्यं क्षत्रियादिर्न पूजयेत् ।। इदं स्पर्शसहितपूजाविषयम् । शूद्रो वाऽनुपनीतो वा स्त्रियो वा पतितोऽपि वा। केशवं पा शिवं वापि स्पृष्ट्वा नरकमश्नुते ॥ ब्रामण्यपि हरं विष्णुं न स्पृशेच्छेय इच्छती । सनाथा मृतनाथा वा तस्या नास्तीह निष्कृतिः ।। स्त्रीणामनुपनीतानां शुद्राणां च जनेश्वर । स्पर्शने नाधिकारोऽस्ति विष्णोर्वा शङ्करस्य च ।। इति स्कान्दात् । स्पर्शरहिता तु तयोभिवत्येव, शालग्रामं न स्पृशेत्तु हीनवों वसुंधरे । पूजान्ते देवदेवस्य मुखवस्त्रार्पणं न हि । डाकिनी योनिमासाद्य तिष्ठत्याभूतसंप्लवम् ।। देवस्य दर्पणं दत्त्वा सद्यः पूतो भवेन्नरः । ब्रह्मपारंपरं स्तोत्रं पूजान्ते न पठेद्यदि ॥ न गृह्णाति स्वयं तस्य पूजां चैव तु वार्षिकीम् । इत्येतत्कथितं सर्वमपराधफलं मुने । प्रायश्चित्तं मया तेषां विस्तरेण च वर्णितम् ।। इति । *शालग्राममिति । शालग्रामो न विक्रेतव्यः । तथाच स्कान्दे- शालग्रामशिलायास्तु मूल्यं यः कुरुते नरः। विक्रेता चानुमन्ता च यः परीक्षानुमोदकः ॥ १५४ १२२६ सटीकनिर्णयसिन्धुनृतीयपरिच्छेदपूर्वार्द्ध- स्त्रीशद्रकरसंस्पर्शी वज्रस्पाधिको मतः ॥ मोहाद्यः संस्पृशेच्छूद्रो योषिद्वापि कदाचन । स्वपते नरके घोरे यावदाभूतसंप्लवम् ।। यदि भक्तिर्भवेत्तस्य स्त्रीणां वापि वसुंधरे । दूरादेवास्पृशन्पूजां कारयेत्सुसमाहितः ॥ इति वाराहोक्त। (१)शालग्रामशिलामात्रे निर्बन्धी न प्रतिमादौ, सर्ववर्णस्तु संपूज्याः प्रतिमाः सर्वदेवताः। लिङ्गान्यपि तु पूज्यानि मणिभिः(२)कल्पितानि च ॥ इति तत्रैवोक्त। चत्वारो ब्राह्मणैः पूज्यास्त्रयो राजन्यजातिभिः । वैश्यैवेव संपूज्यौ तथैकः शूद्रजातिभिः ॥ इति स्कान्दात् । अन्ये तु दीक्षितविषयत्वेन व्यवस्था- माहुः । विष्णुधर्म- तयोरसंभवेऽर्चा वै सा चेह नवधा स्मृता। रत्नजा हेमजा चैव राजती ताम्रजा तथा । सर्वे ते नरकं यान्ति यावदाभूतसंप्लवम् ।। इति । स्त्रीशूद्रयोः स्पर्शपूजावत् साक्षात्शालग्रामपूजा निषिद्धा । ब्राह्मणक्षत्रवैश्याश्च त्रयाणां मुनिसत्तम । अधिकारः स्मृतः सद्भिः बालग्रामशिलार्चने ।। दीक्षायुक्तैस्तथा शूद्वैर्मद्यपानविवर्जितः । कर्त्तव्यं ब्राह्मणद्वारा शालग्रामशिलार्चनम् ॥ इति पद्यात् । पाने- द्वारकाशैलसंभूतं यस्तोयं पिवते कलौ । पापानि तस्य नश्यन्ति शतजन्मार्जितान्यपि ॥ (१) 'शालग्राममात्रनिषेधो न क. (२) 'कल्पितास्तथा' क० पूजनेऽपराधनिरूपणम् । १२२७ रौतिक्यर्चा तथा लौही शैलजा दुमजा तथा । अधमाधमा च विज्ञेया मृन्मयी प्रतिमा च या ।। एषां फलानि तत्रैव ज्ञेयानि। ( ना(२)ा गृह रमजा मूर्तिश्चतुरङ्गुलतोऽधिका । न वितस्त्यधिका धातुसंभवा श्रेय इच्छता ॥ एवंलक्षणसंपन्ना पारंपर्यक्रमागता । उत्तमा सा तु विज्ञेया गुरुदत्तापि तत्समा ॥) तत्रैव पाने शालग्रामं प्रक्रम्य- तत्राप्यामलकीतुल्या पूज्या सूक्ष्मैव या भवेत् । यथा यथा शिला सूक्ष्मा तथा स्यात्तु महत्फलम् ।। तथा- यवमानं तु गतः स्याद्यवाधं लिङ्गमुच्यते । शिवनाभिरिति ख्यातस्त्रिषु लोकेषु दुर्लभः ॥ धृते शिरसि पीते च सर्वास्तुष्यन्ति देवताः । प्रायश्चित्तं हि पापानां क(१)लौ पादोदकं हरेः ॥ इति । शिलैव शैलं, स्वार्थेऽण् । द्वारकाशिलापूजायाः पृथकरणस्थले पतत्, शालग्रामसहपूजने तस्यार्थतः सिद्धत्वात् । कौमें- यो मोहादथ बालिश्यादकृत्वा देवतार्चनम् । भुङ्क्ते स याति नरकान् सूकरेंष्वेव जायते ॥ दानाध्ययनदेवा जपहोमव्रतादिकम् । न कुर्याच्छाददिवसे प्राग्विषाणां विसर्जनात् ।। इति । तनियवर्ज, श्राद्धाहि तु समभ्यर्य नृवराहं जनार्दनम् । इति विष्णुधर्मात् । पूजयित्वा शिवं भक्त्या पितृश्राद्धं प्रकल्पयेत् । (१) सान्तर्गतं नास्ति'क० (२) कुलपादोदकं' घ..
१२२८ सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वार्द्ध- तत्रैव- शालग्राममयी मुद्रा संस्थिता यत्र कुत्रचित् । वाराणस्था यवाधिक्यं समन्ताद्योजनत्रयम् ॥ : यो मृतस्तत्समीपे तु मृतो वा ीयतेऽन्तिकम् । सवै मोक्षमवानोति सत्यं सत्पं न चान्यथा ॥ तत्रैव-- चक्राङ्कमिथुनं पूज्यं नैक चकाङ्कमर्चयेत् । चक्राङ्कमिथुनात्सा शालग्राम प्रपूजयेत् ॥ तत्रैव वाराहे- म्लेच्छदेशे शुचौ वापि चक्राको यत्र तिष्ठति । यो(१)जनानां तथा त्रीणि मम क्षेत्रं वसुंधरे ।। तत्रैव शालग्राम प्रक्रम्य-- क्रयक्रीता परिज्ञेया मध्यमा याचिताऽधमा ।। प्रयोगपारिजाते वाराहे-- एवंलक्षणसंपन्ना पारंपर्यक्रमागता। उत्तमा सा तु विज्ञेया गुरुदत्तापि तत्समा ।। “अथ पार्थिव पूजा नन्दिपुराणे-- आयुष्मान्बलवान्श्रीमान्पुत्रवान्धनवान्मुखी। वरमिष्टं लभेल्लिङ्गं पार्थिवं यः संमर्चयेत् ॥ तस्मात्तु पार्थिव लिङ्ग ज्ञेयं सर्वार्थसाधकम् ॥ तत्रैव-- *गोभूहिरण्यवस्त्रादिबलिपुष्पनिवेदने । इति लैङ्गात् । श्राद्धादि विष्णुशिवेतरपूजा न कार्येति केचि. त् । पूजा च भूतशुद्ध्यादिपाणप्रतिष्ठादिकं कृत्वैव कार्या । तद्वि- स्तरोऽन्यत्र बोध्यः । *गोभूः इति । मृदाहरणादिसप्तसु मन्त्रा अनुपदं बोध्याः । (१) 'योजनानि' क० -- -- १२२९ पार्थिव पूजानिरूपणम् । ज्ञेयो नमः शिवायेति मन्त्रः सर्वार्थसाधकः ॥ सर्वमन्त्राधिकश्वायमोङ्काराद्यः षडक्षरः। भविष्ये- पूर्तयोऽष्टौ शिवस्यैताः पूर्वादिक्रमयोगतः । आग्नेरधन्ताः प्रपूज्यास्तु वेद्यां लिङ्गे शिवं यजेत् ॥ अत्र-'न प्राचीमग्रतः शंभोः' इति रुद्रयामले निषे- धात् नान्तरालं प्राची, किन्तु *प्रसिद्धव । तिथितत्त्वे देवीपुराणे- *मृदाहरणसंघ प्रतिष्ठाह्वानमेव च । लपनं पूजनं चैव विसर्जनमतः परम् ॥ हरो महेश्वरश्चैव शूलपाणिः पिनाकधृक् । शिवः पशुपतिश्चैव महादेव इति क्रमः ॥ अन्योपचारेषु च पञ्चाक्षरः षडक्षरो वा मन्त्र इयर्थः, नाममन्त्री वा बोध्यः । न प्राचीमिति । देवाग्रे स्वस्य वाप्यग्रे प्राची प्रोक्ता गुरुक्रमैः । इत्यपि द्रष्टव्यम् । तथाच प्राचीमग्रतः कृत्वा. संमुखीकृत्य शम्भो पूनां न कुर्यात् । प्रसिद्धैवेति । प्राच्यैशान्यादिक्रपेण वामावर्तन, 'आग्नेय्यन्ताः इत्युक्तेः । केचित्तु उदीचीमग्रतः कृत्वा उदीच्यभिमुखीभूयोति । तस्मादन्तरालमेव प्राचीमाहुः । तन्न बहु- संमतम् । अदिति । 'हराय नमः' इति मृदमाहृत्य संशोध्य तस्यां शुचि जलं मक्षिप्य 'ॐ महेश्वराय नमः' इति संघट्टनं कृत्वा तेन पिण्डेन लिङ्गं कुर्यात् । तञ्चाशीतिरक्तिकारुपादक्षादधिकपरिः माणमङ्गुष्ठादधिकोच्चं च । ततः ॐशूलपाणये नमः शिवह मुम तिष्ठितो भव' इति प्रतिष्ठाप्य ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतारं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् । पद्मासीनं समन्तात्स्तुतममरगणैाघ्रकृति वसानं :- a १९३० सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वार्द्ध- स्कान्दे- शुष्काण्यपि च पत्राणि श्रीवृक्षस्य निवेदयेत् । तत्रैव भविष्ये- धत्तूरकैश्च यो लिङ्गं सकृत्पूजयते नरः। स गोलक्षफलं प्राप्य शिवलोके महीयते ।। योगिनीतन्त्रे- शिवागारे झल्लकं च सूर्यागारे च शङ्खकम् । दुर्गागारे वंशवाद्यं म(२)धूरी न च वादयेत् ।। श्राद्धहेमाद्रौ स्कान्दे- स्पृष्ट्वा रुद्रस्य निर्माल्यं सवा(३)सा आप्लुतः शुचिः। प्रयोगपारिजाते क्रियासारे- मध्यमानामिकामध्ये घुष्पं संगृह्य पूजयेत् । अङ्गुष्ठतर्जन्यग्राभ्यां निर्माल्यमपनोदयेत् ।। विश्वाचं विश्ववन्धं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ इति ध्यात्वा "पिनाकधृते नमः शिवहागच्छ' इत्यावाह्य प(१). वाक्षरेण पाद्याचिमनीयानि दवा 'पशुपतये नमः' इति शुद्धो- दकेन संस्नाप्य आचमनीयवस्नाचमनीययज्ञोपवीतगन्धपुष्पधूपदी- पनैवेद्याचमनीयफल ताम्बूलदक्षिणानीराजनपदक्षिणानमस्कारान् 'ॐनमः शिवाय' इति मन्त्रेण कुर्यात् । ततोऽष्टमूर्तिपूजां कुर्यात् । सा चेत्थम्-अशि(२)वाय क्षितिमूर्तये नमः' यथास्थितमाच्याम् , ॐभवाय जलमूर्तये नमः' इत्यैशाभ्यो, रुद्रायानिमूर्तये नमः इन्युत्तरस्या, ॐउग्राय वायुमूर्तये नमः' इति वायव्यां, भीमाया- काशमूर्तये नमः' इति प्राच्यां, 'ॐपशुपतये यजमानमूर्तये नम:' इति नैऋत्यां, 'ॐमहादेवाय सोममूर्तये नमः' इति दक्षिणस्या, (१) 'मधुरी को (२) 'वाससा ख०.ग (३) नमः शिवाय' इत्यनेनेत्यर्थः (४) ॐशर्वाय क्षितिपतये घड़ा ।
... पार्थिवपूजानिरूपणम् ।
अपनीतं च निर्माल्यं चण्डेशाय निवेदयेत् ।
अशून्यमस्तकं लिङ्ग सदा कुर्वीत पूजकः ।।
शूलपाणी लैङ्गे--
घरं प्राणपरित्यागः शिरसो वापि कर्तनम् ।
न चैवापूज्य भुञ्जीत शिवलिङ्गे महेश्वरम् ।।
सूतके मृतके चैव न त्याज्यं शिवपूजनम् ॥
तिथितत्त्वे लैङ्गे-
विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया ।
पूजितोपि महादेवो न स्यात्तस्य फलप्रदः॥
तस्मान्मृदापि कर्तव्यं ललाटे वै त्रिपुण्ड्रकम् ॥
रुद्राक्षधारणे विशेषः शिवहरस्ये-
एकत्रः शिवः साक्षाद्ब्रह्महत्यां व्यपोहति ।
अवध्यत्वं प्रतिस्रोतो वह्निस्तम्भं करोति च ॥
द्विवको हरगौरी स्याद्गोवधायघनाशकृत् ।
त्रिवको ह्यग्निजन्माऽथ पापराशिं प्रणाशयेत् ।।
'ॐईशानाय सूर्यमूर्चये नमः' इत्याग्नेय्याम् । तत....स्तोत्रादिना
स्तुत्वा त्रिः पुष्पाञ्जलिं समर्प्य नत्वा क्षमस्वेति संमार्थ्य ॐ महादे-
वाय नमः' इति विसर्जयेदिति । शिवपूजायां विशेष:-
आपः क्षीरं कुशाग्राणि दध्यक्षतमधुतण्डुलाः ।
सिताश्च सर्षपाश्चैव अयोऽष्टाङ्गः प्रकीर्तितः ॥
जलकाश्मीरकुष्टस्तु रक्तचन्दनचन्दनैः ।
तमालागुरुकपूरैः शांभवं चाष्टगन्धकम् ।।
तुलसीबिस्वनिर्गुण्डीजम्बूराम्रवणं तथा ।
पञ्चबिल्वमिति प्रोक्तमर्चयेदिन्दुशेखरम् ॥
गुग्गुलं घृतसंयुक्त शिवे धूपं निवेदयेत् ।
दधित्थं घृतसंयुक्तं दहेद्विल्वमथापि वा ॥ .
१२३२ सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वार्द्ध- चतुर्वक स्वयं ब्रह्मा नरहत्यां व्यपोहति । पञ्चवक्त्रस्तु कालाग्निरगम्याभक्ष्यपापनुत् ॥ षड्वस्तु गुहो ज्ञेयो भ्रूणहत्यादि नाशयेत् । सप्तवस्त्वनन्तः स्यात्स्वर्णस्तेधादिपापहृत् ।। विनायकोऽष्टवक्रः स्यात्सर्वानृतविनाशकृत् । भैरवो नववस्तुं शिवसायुज्यकारक: दशवक्रः स्मृतो विष्णुर्भूतप्रेतभयापहः । एकादशमुखो रुद्रो नानायज्ञफलप्रदः ॥ द्वादशास्थस्तथादित्यः सर्वरोगनिबर्हणः । त्रयोदशमुखः कामः सर्वकामफलप्रदः ॥ .. चतुर्दशास्यः श्रीकण्ठो वंशोडारकरः परः ॥ इति । दीपादिकं प्रागुक्तं प्रतिष्ठायामिति । प्रतिष्ठा च स्मृत्यन्तरे प्रक्षाल्य गन्धतोयेन पञ्चगव्येन चोपरि । शिवाम्भसापि प्रक्षाल्य श्रीरुद्रेणाभिषेचयेत् ।। रुद्राक्षाणां प्रतिष्ठेयमेवं चैदिकसंमता । अथवा वैदिकमते प्रतिष्ठा नैक विद्यते ॥ नारदीये- शिवप्रदक्षिणे मर्त्यः सोमसूत्रं न लङ्घयेत् । प्रदक्षिणाप्रकारस्तु-- वृष चण्डवृषं चैव सोममूत्रं पुनर्वषम् । चण्डं च सोमसूत्रं च पुनश्चण्डं पुनर्वृषम् ।। सोमसूत्रप्रमाणं यथा-- प्रासादविस्तारसमानसूत्रं सोमस्य सूत्रं दिशि सोमसूत्रम् । सूत्रादहिर्लङ्घनतो न दोषः स्यादोष आभ्यन्तरलाइनेन ॥ लिङ्गावधिकं यावत् पासादभित्ति सोमस्य दिशिः उत्तरस्यां दिशि सूत्रं सोमस्य सूत्रं सन्न लवयेत् । तदने तल्लइने न दोष इत्यर्थः।
पार्थिव पूजामिरूपणम् । १२३३ तथा- विना मन्त्रेण यो धत्ते रुद्राक्षं भुवि मानवः । स याति नरकान्घोरान्यावदिन्द्राश्चतुर्दश ।। पञ्चामृतं पञ्चगव्यं स्लानकाले प्रयोजयेत् । रुद्राक्षस्य प्रतिष्ठायां मन्त्रं पञ्चाक्षरं तथा । यम्बकादिकमन्त्रं च तथा तत्र प्रयोजयेत् ॥ यद्वा ॐ अघोर ॐ हैं अघोरतर ॐ हौं हां नमस्ते रुद्ररूपाय हैं स्वाहा' अनेनाभिमन्त्र्य धारयेत् । तथा- अष्टोत्तरशतं कार्या चतुःपञ्चाशदेव वा । सप्तविंशतिमाना वा ततो हीनाधमाः स्मृताः ।। प्रजापत्तिः- मोक्षार्थी पश्चविंशत्या धनार्थी त्रिंशता जपेत् । पुष्ट्यर्थी पञ्चविंशत्या पश्चदश्याभिचारिके ॥ सप्तविंशतिरुद्राक्षमालया देहसंस्थया । यत्करोति नरः पुण्यं सर्व कोटिगुणं भवेत् ।। यो ददाति द्विजेभ्यश्च रुद्राक्षं भुवि सन्मुखम् । तस्य प्रीतो भवेद्रुद्रः स्व(१)पदं च प्रयच्छत्ति ॥ इति । पदार्थादर्श बोपदेवः रुद्राक्षान्कण्ठदेशे दशनपरिमितान्मस्तके विंशती षट् षट् कर्णप्रदेशे करयुगलकृते बादश द्वादशैव । बाहोरिन्दोः कलाभिर्नयनयुगकृते एकमेकं शिखायां वक्षस्यष्टाधिकं यः कलयति शतकं स स्वयं नीलकण्ठः ।। हेमाद्रौ शिवधर्म- स्लानं पल शतं ज्ञेयमभ्यङ्गः पञ्चविंशतिः । पलानां हे सहस्रे तु महालानं प्रकीर्तितम् ।। पञ्चविंशत्पलं लिङ्ग अभ्यङ्गं कारयेदथ । (१) 'स्वपदे' ग.
। १२३४ सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वाद्ध- शिवस्य सर्पिषा लानं प्रोक्तं पलशतेन च ।। तावता मधुना चैव दना चैव ततः पुनः । तावतैव च क्षीरेण गव्येनैव भवेत्ततः ॥ भूयः सार्धसहस्रेण पलानामैक्षवेण च । रसेन कारयेलानं भक्त्या चोष्णाम्बुना ततः ।। विष्ण्वादौ तु स्कान्दे--- क्षीराद्दशगुणं दना घृतेनैव दशोत्तरम् । घृताद्दशगुणं क्षौद्रं क्षौद्राचैक्षवजं तथा । ब्राह्मे-- देवानां प्रतिमा यत्र घृताभ्यक्षमा भवेत् । पलानि तत्र देयानि श्रद्धया पञ्चविंशतिः ।। इदं क्रोडीकृताभिप्रायेण । तत्रैव संग्रहे- विष्वक्सेनाय दातव्यं नैवेद्यस्य शतांशकम् । पादोदकं प्रसादं च लिङ्गे चण्डेश्वराय तु ॥ पञ्चायतनसंनिवेशमाह बोपदेवः पदार्थादर्शश्च- शंभो मध्यगते हरीनहरभूदेव्यो हरौ शंकरे- भास्येनागसुतारवौ हरगणेशाजाम्बिकाः स्थापिताः । देव्यां विष्णुहरेभवक्त्ररवयो लम्बोदरेजेश्वरे- नाम्बाः शंकरभागतोऽतिसुखदा व्यस्तास्तु हानिप्रदाः ॥ शंकरभागतः ईशानकोणादारभ्य प्रदक्षिणमित्यर्थ: *अत्र दिवस्वरूपमुक्तं प्रयोगपारिजाते मन्त्रशास्त्रे- देवस्य मुखमारभ्य दिशं प्राची प्रकल्पयेत् । तदादि:परिवाराणामङ्गाद्यावरणस्थितिः ।। *अत्रेति । प्रश्चायतनसन्निवेशे इत्यर्थः । यत्रैव भानुस्तु वियत्युदैति प्राचीति तां वेदविदो वदन्ति । इत्युक्ता प्राचीन ग्राह्येत्यभिप्रायः । अत्र वदन्ति-इयं प्राची तान्त्रिकपूजायामेव न वैदिकपूजायां, तस्यां तु प्रसिद्धैव आवरणा- D - पश्चायातनदेवतासान्निवेशनिरूपणम् । १२३५ तत्र क्रमः पाद्मे- अरविर्विनायकश्चण्डी ईशो विष्णुस्तु पञ्चमः । अनुक्रमेण पूज्यन्ते व्युत्क्रमे तु महद्भयम् ॥ धभावात् । पञ्चायतनसंनिवेशेऽपि प्रसिद्धैव प्राची नतु पूज्यपूजक. मध्यरूपेति । *रविरिति पौराणः प्रकारः । तान्त्रिकस्तु पञ्चानां मध्ये मुख्यस्यावाहनादिनमस्कारान्तं पूजाकाण्डं समाप्य अन्यस्ये- त्येवं कण्डानुसमयः । मुख्ये पुष्पाञ्जलिं दचा गणेशाद्यर्चनं भवेत् । गणेश एव मुख्यश्चेत्तत्र सूर्यक्रमाद्भवेत् ॥ इति क्रमाभिधानात् । मुख्य प्रधानदेवतायां पुष्पाञ्जल्यन्तपूजा- काण्डं समाप्य पदार्थानुसमयेन गणेशादीनर्च येदित्यर्थः । शार- दातिलकटीकायां पुष्पाअत्यन्तरमादौ विधीयते इत्युक्तम् । अत्र पक्षान्तरे मुख्यत्वोक्त्या देवतान्तरस्याङ्गत्वं लभ्यते । एवञ्चाङ्गप्र- धानपूजयोरेककालीन सिद्ध्यति । तथाच सर्वेषामावाहनं ततः स्थापनमिति पदार्थानुसमय एव । ततः मुख्ये मध्ये पुष्पाजल्यन्तां पूजां कृत्वाऽङ्गदेवतापूजा कार्येति । एतत्पक्षद्वयमपि तान्त्रिकपूजाया- मेव तत्रैवोक्तत्वात् । वैदिकपूजायां स्थापनक्रम एव । गणाौं (तु)समभ्यर्य शैवो विष्णुं प्रपूजयेत् । अर्चयेच्च शिवं पश्चाच्छिवमादौ तु वैष्णवः । ततो विष्णुं ततो दुर्गामेवं स्यादर्चनक्रिया ॥ अत्र गणेशार्कयोः क्रमे न तात्पर्य, किन्तु तावपूजयित्वा प्रधानं न पूज्यमित्यत्र । आदौ न सर्वादौ किन्तु विष्ण्यादौ। पौ- राणोऽयं क्रमः। आगमोक्तस्तु योगिनीतन्त्र-- गणेशमूर्यत्रिष्ण्वीशदुर्गा आवाह्य पूजयेत् । इति । अत एव विष्णुशिवगणेशमूर्यदुर्गाभ्यो नम इत्यादि श्लिष्ट- मन्त्र एव विष्णुपञ्चायतने वाजपेययाजिभिरुक्तः । सूर्यातिरिक्त- पञ्चायतनपूजापि आदौ सूर्यपूजां कृत्वैव कार्या, १२३६ सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वार्द्ध- तथा- पूज्यपूजकयोर्मध्ये प्राची प्रोक्ता विचक्षणैः ।। अथ केशवादिमूर्तयः । बोपदेवः-- केविगोवादापुहपेप्रजाच्युकृममात्रिना। वाऽधोन्हसानिश्रीपा शाचगे वि गपे चपे । अत्र फेविगवित्याद्यैः केशव विष्ण्वादिचतुर्विंशतिमू. तयोऽभिधीयन्ते । शात् शङ्खात् चगे चक्रगदे ज्ञेये इत्यर्थः । शिष्टे भुजे पद्मं त्वर्थनः सिद्धम् । अत्र दक्षि- (१)णोकरक्रमेण ज्ञेयम्, 'दक्षि(१)णोकरक्रमात्' इति हेमाद्रौ वचनात् तेन हेमाद्रिणा संवादः। विश. ब्देन विपरीतं गचे इत्यर्थः । अत्रापि (२)शादित्यनुवृ. त्तिः । शङ्खागदाचक्रे इत्यर्थः । गपे इत्यत्रापि शादनु- वर्तते । शङ्खागदापझे इत्यर्थः। विपरीते पद्मगदे इत्य- प्रापि शङ्खाज्ज्ञेये । चपे चक्रपझे। शङ्खचक्रपझे इत्य- र्थः । वि इति अत्रापि, पद्मचक्रे इत्यर्थः । तेन(३)चगे इत्य- ष्टौ मूर्तयः । गपे इत्यष्टौ मूर्तयः । चपे इत्यत्र च । अत्र *मूलं हेमाद्रौ ज्ञेयम् । प्रातःसध्यावसाने तु नित्यं सूर्य समर्चयेत् । इति वचनात्, अपूज्य प्रथमं सूर्यमपरान् यः प्रपूजयेत् । न तद्भूतकृतं पाद्यं संप्रतीक्षान्ति देवताः ॥ इति ब्राह्माच्च । *मूल मिति । शंखचक्रगदालतः केशवः सूर्यसपभः । (इतः युक्तः) (१) 'दक्षिणाधः क' ख० (२) 'अत्रापि शब्दादनु' ख० (३) 'तेन च गदे ख०
केशवादिमूर्तिनिरूपणम् ।
१२३७
कजकम्बुचक्रगदायुतो विष्णू रविप्रभः ।।
गदाजशंखचक्रेतो गोविन्दो भास्करद्युतिः।
वामनोऽरिगदापद्मशंखेतो रविसुप्रभः ॥
दामोदरः शंखगदाचक्रपद्मार्कसपभः ।
पद्मशंखगदाचक्री सूर्याभः पुरुषोत्तमः ॥
सारिपनः शंखगदो हृषीकेशोऽर्कसमभः ।
उद्यदर्कनिभोपेन्द्रो गदाचक्राजशंखयुक् ।।
प्रद्युम्नो रविभः शंखगदाजारिधरो विभोः ।
जनार्दनश्चक्रशेखगदाजेतो रविषभः ।।
सूर्याभोऽच्युतनामाजचक्रशंखगदायुधः ।
उद्यदर्कनिभः कृष्णो गदापमारिशंखभृत् ॥
सशंखाब्जगदाचक्रः मूर्याभो मधुमूदनः ।
माधवश्चक्रशंखाजगदेतो रविसुप्रभः ॥
त्रिविक्रमो गदाचक्रशंखपमो रविप्रभः ।
नारायणः साजगदाचक्रशंखो रविप्रभः ।।
शंखचक्रे पद्मगदे वासुदेवो रविद्युतिः ।
रविप्रभो गदाशंखचक्राब्जेतो ह्यधोक्षजः ।।
नृसिंहः सूर्यभः पद्मगदाशंखादिसंयुतः ।
सारिप गदाशंखो हरिः प्रयोद्रविप्रभः ॥
शंखाजारिगदासूर्यप्रभः संकर्षणो विभुः ।
अनिरुद्धो गदाशंखपद्मचक्री रविप्रमः॥
श्रीधरोऽरिगदाशंखप तोऽर्कसमद्युतिः ।
पद्मनाभः साब्जचक्रगदाशंखोऽजमनिमः ॥ इति ।
श्रीक्रमेणापि यथा खिकेदानचीमाढगनाविधिमत्रिढंजीवजनी-
हथिपणादासद्याखीवृधीप्रानिटींतिपुंटादौनृदंथाच्युचिंजोपटींहानि-
अठाकु ॥ अस्याः शंखचक्रगदापद्मानि भवतो धार्याणि । तेषां क्र.
मेण अआइईसंज्ञाः । एवं शंखस्य कखगघेति चत्वारो वर्णाः संज्ञाः।
.
१२३८ सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वार्द्ध- अथ बौधायनसूत्रं त्रैविक्रमीं चानुसृत्य लिङ्गार्चा- प्रतिष्ठोच्यते-'यजमानः पूर्वोक्तकाले पूर्वेयुः दशद्वाद- शषोडशान्यतरहस्तं मण्डपं कृत्वाऽऽग्नेये हस्तमात्रं चतु. रत्रं कुण्डं स्थण्डिलं वा पूर्वतो हस्तमात्रां वेदी नैर्ऋते वा(१)स्तुमण्डपं मध्ये वेदी तदुपरि सर्वतोभद्रं कृत्वा प्राणानायम्घास्यां मूर्ती लिङ्ग(२) वा देवस्य सान्निध्य- सिद्धयर्थं दीर्घायुर्लक्ष्मीसर्वकामसमृद्ध्यक्षय्यसुखकामो. ऽमुकमूर्तिप्रतिष्टां करिष्ये इति सङ्कल्प्य गणेशपूजन- पुण्याहवाचनमातृकापूजननान्दीश्राद्धानि कृत्वाचार्य च. तुर ऋत्विजश्च वृत्वा वस्त्रायैः पूजयेत् । अथाचार्यों य. दन्न संस्थितमिति सर्षपान् विकीर्यापोहिष्ठेति कुशोद- केन भृमि प्रोक्ष्य देवा आयान्तु, यातुधाना अपयान्तु, विष्णो देवयजनं रक्षखेति भूमौ प्रादेशं कृत्वाऽस्मत्कृत- तुलापद्धतिमार्गेण मण्डपप्रतिष्ठां कृत्वाऽकृत्वा धा पूर्व रात्रौ हिरण्योपधानं देवं पञ्चगव्यहिरण्ययवदूर्वाश्वत्थ- पलाशपर्णान्युदकुम्भे प्रक्षिप्य ताभिरद्भिरापोहिष्ठेति तिमृर्भािहरण्यवर्णा इति चतमृभिः पवमानःसुवर्जन इ. चक्रस्य चछजझेति । गदायाः टठडढेति । पयस्य तथदधेति । एवञ्च खिके इयादौ प्रथमैः कचटतैः प्रथमः शंखः, द्वितीयः खछठथैः द्विती- यं चक्रं, तृतीयैः गजडदैः तृतीया गदा, चतुर्थैः घझढधै श्चतुर्थ पद्म मिति च ऊर्ध्वं दक्षिणकरक्रमेण विन्यासात्केशवादिमूर्तयः । अथार्थ:-खिके खं शंखः संज्ञात्वात् , खश्चक्रं द्वितीयत्वात् , ईर्गदा संज्ञात्वात् , शिष्टं पद्ममर्थलभ्यम् , केशवः । दानः दः पमं संज्ञा- स्वाद , दः गद। तृतीयत्वात् , आ चक्रं संज्ञात्वात् , शिष्टः शंखः, नारायणः एवं क्रमेण चीमा इत्यादेरर्थः कार्यः । (१) 'मण्डलमध्ये ख० मण्डलं मध्ये' का (२) 'लिलेवा' नास्ति ख०..
प्रतिष्ठानिरूपणम् । १२३९ त्यनुवाकेनाभिषिच्य व्याहृतिभिरिदंविष्णुरिति फलय- चदूर्वाः सम(१)नमस्ते रुद्रमन्यव इति रुद्रे ततो रक्षो- हणमिति हस्ते कङ्कणं बद्धा वाससाच्छाद्य अवतेहेड उदुत्तममिति जलेऽधिवासयेत् । इदं बौधायनोक्तम् । ततश्चललिङ्ग अर्चायां वा अत्राग्नि प्रतिष्ठाप्य गो. क्षीरे नीवारचलं कृत्वा विष्णुश्चेत् कृसरमपि श्रपयित्वा. ऽऽज्यभागान्ते . पलाशोदुम्बराश्वत्थशम्यपामार्गसमि- द्भिः आज्येन चरुणा तिलैर्वा प्रत्येकमष्टाविंशतिमष्ठौ वा. ऽऽहुतीर्लोकपालमूर्तिपतिभ्यो हुत्वा स्थाप्य देवमन्त्रेण पू. वक्तिसमित्तिलनैवारचर्वाज्यैरष्टसहस्रमष्टशतमष्टाविंश- तिं वा हुत्वा 'अग्निर्यजुर्भिः' इत्यनुवाकेन दशाहु- तीर्जुहुयात् । प्रतिद्रव्यहोमानते देवं पादनाभिशिरस्सु स्पृशेत् । आज्यहोमे चोत्तरतः मजलकम्भे मंणानान. येत् । तेषां मन्त्रा:-इन्द्रायेन्दो इ वीमूर्तेः, अघोरेभ्य इति तत्पतेः, शर्वस्य हीत्यग्नेः, अग्निं दूतमित्यग्निमूर्तेः, न(१)म पशुपतये चेति पशुपतेः, यमाय सोमा असि हि वीरिति यजमानमूर्तेः, स्तुहि श्रुत तत्पता . ग्रस्य, असुन्वन्तं नितेः, आकृष्णेन सूर्यमूर्तेः, यो रुद्रो अग्नौ इति तत्पते रुद्रस्थ, इमं मे वरुणस्थ, शं. नो देवी जलमूर्नेः, नमो भवायेति भवस्य, आनो नि. युद्भिरिति वायोः, वात आ वातु वायुमूर्तेः, तमी शानं तत्पतेरीशानस्य, आप्यायस्वेति कुबेरस्थ, वयं. सोमेति सोममूर्तेः, तत्पुरुषाय महादेवस्य, अभिवा ईशानस्य, आदित्यनस्येत्याकाशस्थ, नम उग्राय चेति तत्पतेभीमस्य । ततो देवस्य पादौ स्पृशेत् । एवं द्वितीये (१) 'नमस्ते रुद्रमन्यव इति रुद्रे ततो' नास्ति ख.ग. (१) 'नमः शिवाय' क०।
- १२४० सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वाई- हुत्वा नाभि, तृतीये मध्यं, चतुर्थे उरः, पश्च मे शिरः स्पृष्ट्वा प्रतिपर्यायं संपातजलेन देवमभिषिश्वेत । ततः स्वि- टकृदादिहोमशेषं समाप्याची शोधयेत् । स्थिरलिङ्गार्चा- दौ तु नेदानीमग्निस्थापनहोमादि कार्यम् । ततो देवं नत्वा- स्वागतं देवदेवेश विश्वरूप नमोऽस्तु ते । शुद्धेऽपि त्वद्धिष्ठाने शुद्धिं कुर्मः सहस्व ताम् ।। इति संप्रार्थ्य 'उत्तिष्ठ ब्रह्मणस्पते' इति सत्विगुत्थाप्य पूर्वमकृतेऽग्न्युत्तारणे अधुना वा कार्यम् 'अग्निःसप्तिम्' इति सूक्तमग्निपदहीनं पठित्वा तत्सहितं पुनः पठेत् । एवमष्टसहस्रमष्टशतमष्टाविंशति वा पठन् जलं पात- येत् । ततोऽची द्वादशवारं मृदा जलेन च प्रक्षाल्य मन्त्रवत्पश्चगव्यं कृत्वा 'पयः पृथिव्याम् ' 'आवोराजा. नम्' इति च संस्लाय 'आप्यायस्व' 'दधिक्राण' 'तेजोसि' 'मधुवाता' 'आपं गौः' इति पश्चामृतैः संस्लाप्य लिङ्ग चेत् 'नमस्ते रुद्र मन्यवे' इत्यष्टाभिः संस्नाप्य घृते. नाभ्यज्योर्तिनेनोद्वयोष्णोदकेन प्रक्षाल्य गन्धं दत्त्वा संपातोदकेनाभिषिच्य सपल्लवैश्चतुर्भिः कुम्भैः 'आपो- हिष्ठा' इति त्रिभिः 'आकलशेषु' इति च प्रत्येकं, 'समु. द्रज्येष्टा' इति चतुर्भिः 'आकलशेषु' इति च मिलितः संलाप्यौदुम्बरादिपीठेऽर्चामुपवेश्य परितोऽष्टदिक्षु सज- लकुम्भान्संस्थाप्य तेषु गन्धपुष्पदूर्वाः क्षिप्त्वा आये सप्तमृदः, द्वितीये पुष्करपर्णशमीविकतारमन्तकत्वचा पल्लवाच, तृतीयादिषु सप्तधान्यं पञ्चरत्नफलपुष्पाणि कुशदूर्वागोरोचनसम्पातोदकगन्धफलसर्वोषधीः क्षि- प्त्वा क्रमेण 'आपोहिष्ठा' इति तिस्मृभिः 'हिरण्यवर्णा: इति चतसृभिः पवमानानुवाकेन चाभिषिच्यैककुम्भे प्रतिष्ठानिरूपणम् । १२४१ शमीपलाशवटखदिरबिल्वाश्वत्थधिकङ्कतपनसाम्रशिरी- षोदुम्बराणां पल्लवान् कषायांश्च क्षिप्त्वा 'अश्वत्थेव:' इत्यभिषिच्य पञ्चरत्नोदकेन 'हिरण्यवर्णाः' इति संस्लाप्य --- "हरण्यगर्भः' सी' 'आपो ह यत्! 'यश्चिदापो' इत्यष्टौ पिष्टदीपान द. वा सुवर्णशलाकया तैजसपात्रस्थं मधु घृतं च गृही- स्वा 'चित्रं देवानां' 'तेजोसि' इति मन्त्राभ्यां ॐ नमोभगवते तुभ्यं शि(१)वाय हरये नमः। हिरण्यरेतसे विष्णो विश्वरूपाय ते नमः ॥ इति च दक्षिणसव्ये देवनेत्रे मन्त्रावृत्त्या लिखेत् । 'अञ्जन्ति त्वा' इत्यनेन मधुना वाऽङ्क्त्वा 'देवस्य त्वा सवितुः प्र(२)सवे० इन्द्रस्येन्द्रियेणानज्मि' इति मध्वा. ज्यशर्कराभिरङ्क्त्वा तेनैवाञ्जनेन पुनरञ्जयेत् । स्थिर- लिने तु स्वर्णमुच्या गन्धेन । 'ॐ नमो भगवते रुद्राय हिरण्यरेतसे पराय परमात्मने विश्वरूपायोमाप्रियाय नमः' इत्यञ्जनादिनाऽञ्जयेत् । ततः आदर्शभक्ष्यादि दर्श. येत् । ततः कर्ता आचार्याय गाऋत्विरभ्यश्च दक्षिणां दद्यात् । अथाचार्यः प्रत्युचमादौ प्रणवं वदन् पुरुषसूक्ते- न स्तुत्वा वंशपात्रे पंचवर्णीदनेन देवस्य नीराजनं का- रयित्वा रुद्राय चतुष्पथादौ दद्यात् । मन्त्रस्तु-ॐ न- मो रुद्राय सर्वभूताधिपतये दीप्तशूलधरायोमादयिताय विश्वाधिपतये रुद्राय वै नमो नमः शिवमगर्हितं कर्मा- स्तु स्वाहा' इति । अश्वत्थपणे भूतेभ्यो नम इति । के- चिदेतद्रात्रौ स्थिरप्रतिष्ठायामिच्छन्ति । अशाचार्यः सर्वतोभद्रे देवानातान । मो. (१) हराय हरये' क० (२) प्रसवे० इन्द्रस्यन्द्रियेणानज्मि' नास्ति। १५६ , मण्डलादुत्तरतः स्वास्तिके मञ्चकं तदुपरि शय्यां कृत्वा १२४२ सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वार्द्ध- माणम् , पूर्वादिदिक्षु इन्द्रादिलोकपालान् , ईशानेन्द्रा- धन्तरालेषु वसन् रुद्रान् आदित्यान् अश्विनौ विश्वान्दे- वान् पितृन् स्कन्दवृषौ, ब्रह्मेशानाद्यन्तरालेषु दक्षं वि. ष्णुं दुर्गा स्वधाकारं मृत्युरोगान् समुद्रान् सरितः म- रुतः गणाधिपं चेति । मध्ये एव पृथिवीं मेहं संस्थाप्य देवं चावाद्य प्रागादि वज्र शक्ति दण्डं खड्गं पाशम् अङ्कुशं गदां शूलं, तहाये गौतमं भरद्वाजं विश्वामि- नं कश्यपं जमदग्निं वसिष्ठम् अत्रिम् अरुन्धती च, त. हाये नवग्रहान् , तद्वाह्ये ऐन्द्रीं कौमारी ब्राह्मींचा- राहीं चामुण्डां वैष्णवी माहेश्वरी वैनायकीमित्येताः नामभिरावाह्य सम्पूज्य अर्चायां देवं तन्मन्त्रेणावाद्य मण्डलमध्येऽची 'सुप्रतिष्ठो भव' इति निवेश्य संपूज्य वहौ मण्डलदेवतानां नामाभिस्तिलाज्येन दशदशाहुती- टुत्वा पुष्पाञ्जलिं समय 'नमो महत्' इति देवं नत्वा 'उत्तिष्ठ' इति देवमुत्थाप्य मङ्गलघोषैः शय्यायां देवमा- रोप्य पुरुषसुक्तोत्तरनारायणाभ्यां स्तुत्वा देवे न्यास कुर्यात् । तद्यथा-पुरुषात्मने नमः, प्राणात्मने०, प्रकृति- तत्त्वाय०, बुद्धितत्त्वाय,अहंकारतत्त्वाय, मनस्तत्वाय. इति सर्वाङ्गे । प्रकृतितत्वाय०, बुद्धितत्त्वाघ० हृदि । श. ब्दतत्वाय. शिरसि । स्पर्शतत्त्वाय. त्वचि। रूपत- स्वाय. हृदि । एवं हृद्येव रसगन्ध श्रोत्रत्वक्चक्षुर्जि- ह्वाघ्राणवाक्पाणिपादपायूपस्थपृथिव्यतेजोवायवाकाश- सत्वरजस्तमोदेहतत्त्वानि विन्यसेत् । ततः पुरुषसूक्तस्या- यमुरद्वयं करयोः, तदुत्तरं जान्वोः, तदुत्तरं कन्योः, 'तं यज्ञम्' इति तिस्रः नाभिहत्कण्ठेषु, 'तस्मादश्वा' इति इयं बाह्रोः, 'ब्राह्मणोस्य' इति इयं नासयोः, 'नाभ्या' इति व्यमणो, अन्त्यां शिरसि । केचित्तत्वन्यासमन्य- प्रतिष्ठानिरूपणम् । १२४३ --- था आहुः। पुरुषप्रकृतिमहदहंकारतत्त्वानि, शब्दस्पर्श रूपरसगन्धतन्मात्राणि, आकाशवायुतेजोऽपृथिवीश्री. त्रत्वक्चक्षुरसनाघ्राणवाक्पाणिपादपायुपस्थमनस्तत्त्वा नीति । केचिदेतानि स्थिरलिङ्गादावेवेच्छन्ति । ततः 'सुखशायी भव' इति शय्यायां देवं खापयित्वा मण्ड- लशय्ययोरन्तराले न गन्तव्यमिति प्रैषं दत्त्वा स्विष्टकृ- दादिहोमशेषं समाप्य मण्डलदेवताभ्यो नामभिः पाय. सेन चरुणा वा बलीन्दद्यात्, नीवारचरुशेषेण दिग्व- लिम् । नेदं स्थिरप्रतिष्ठायान् । स्थिरलिङ्गार्चादौ त्वयं विशेष:-'अग्निस्थापनहोमवयं सर्व पूर्ववत्कृत्वा इदा. नीमग्निस्थापनं कृत्वा पूर्वोक्तहोमं कुर्यात् । नात्र नैवारश्चरः। विष्णुश्चेत्पूर्वोक्तहोंमं कृत्वा पुरुषसूक्तेन प्रत्यूचभाज्यं हुत्वा 'इदं विष्णुः' इति पादौ स्पृष्ट्वा पुनस्ता एव हुत्वा 'विष्णोर्नुकम्' इति नाभिं (१)स्पृष्ट्वा पुनस्ता एव हुत्वा 'अतो देवा' इति शिरः स्पृष्ट्वा पुनस्ता एव हुत्वा पुरुषसूक्तेन सर्वाङ्गं स्पृशेत् । स्थिरलिङ्ग चदग्निस्था- पनादि पूर्वोक्तसमिदाज्यतिलाहुती त्या 'या त इषुः' इत्यनुवाकान्तेन 'द्रापे' 'सहस्राणि' इत्यनुवाकाभ्यां च प्रत्युचमाज्यं हुत्वा 'सर्गे वै रुद्र' इति मुलं स्पृशेत् । पुनस्ता एव हुत्वा 'कटुद्राय' इति मध्यम् , पुनस्ता एव हुत्वा 'नमो हिरण्यवाह' इत्यग्रम् , पुनस्ता एव हुत्वा सर्वरुद्रेण सर्वाङ्गं स्पृशेत् । ततो 'धामन्त' इति पूर्णाहुति जुहुयान्न वा । एवमधिवासनं कृत्वा परे युः सद्यो वा पीठिका स्नापयित्वा महीमूषु' इत्याबाह्य अदितिौं।' इति स्तुत्वा ही नमः' इति संपूज्य तेनैव पूर्णाहुति हुत्वा 'उत्तिष्ठ ब्रह्मणस्पते' इति देवमुत्थाप्य पुष्पा- - १२४४ सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वार्दै- चलिं दत्त्वा पुरुषसूक्तेन स्तुत्वा 'उदुत्यम्' इत्युत्थाप्य 'कनिक्रदत्' इति सूक्तेन विष्णुं 'सद्योजातम्' इति प. श्वानुवाकौर्लङ्गं गृहं प्रवेश्य पीठिकायाम् इन्द्रादिनाम- भिरष्टरत्नानि क्षिप्त्वा सप्तधान्य(१)रूप्यवृषमनःशि- लाः क्षिप्त्वा पायसेन संलिप्य प्रणवेनाङ्गन्यास कृत्वा सुवर्णशलाकामन्तरितां कृत्वा सुलग्ने ॐ प्रतितिष्ठ प- रमेश्वर' इत्युक्त्वा 'अतो देवा' इति विष्णु रुद्रेण च लि- झं स्थापयेत् । ततः प्राणप्रतिष्ठा । चलार्चादौ त्वधिवासनान्ते परेद्युः 'उत्तिष्ठ ब्रह्मण स्पत्ते' इति देवमुत्थाप्य पुरुषसूक्तोत्तरनारायणाभ्यां स्तुत्वा धृते ब्रीहिचलं कृत्वा तद्देवतामन्त्रेण दशाहुती- हुँत्वा नामभिर्जुहुयात् । अग्नये स्वाहा, सोमाय स्वाहा, धन्वन्तरये स्वाहा, कुढे स्वाहा, अनुमत्यै स्वाहा, प्रजा- पतये स्वाहा, परमेष्ठिने स्वाहा, ब्रह्मणे स्वाहा, अग्नये स्वाहा, सोमाय स्वाहा, अग्नयेऽन्नादाय स्वाहा, अग्नयेऽ- नपतये स्वाहा, प्रजापतये स्वाहा, विश्वभ्यो देवेभ्यः स्वाहा, सर्वेभ्यो देवेभ्यः स्वाहा, भूर्भुवःस्वः स्वाहा, अग्नये स्विष्टकृते इति । ततः 'सप्त ते अग्ने' 'पुनस्त्वा' इत्वाभ्यां पूर्णाहुतिः । तत आचार्यों 'या ओषधीः' इति पुष्पफलसर्वोषधीः समर्प्य संपातोदकं (२)ताम्रपाने आ- दाय देवमन्त्रेण शतवारमभिमन्य तेनैवाभिषिञ्चेत् । ततः 'उत्तिष्ठ' इति देवमुत्थाप्य 'विश्वतश्चक्षुः' इत्यु पस्थाय देवं ध्यात्वा जपेत् । ब्रह्मणे नमः । एवं विष्णवे. रुद्रायः इन्द्रादीन् अष्टौ वसुभ्यो रुद्रेभ्य आदित्य- भ्योऽश्विभ्यां मरुद्भ्यः कुबेराय गङ्गादिमहानदीभ्योऽ- ग्रीषोमाभ्यामिन्द्राग्निभ्यां द्यावापृथिवीभ्यां धन्वन्तरये (१) 'वृष' नास्ति का। (२) 'ताम्रपा नास्तिक।
सर्वेशाय विश्वेभ्योदेवेभ्यो ब्रह्मणे नम इति । ततः सं. पातोदकेन यजमानमभिषिच्य देवं ध्यात्वा 'ॐप्रतितिष्ठ परमेश्वर' इति पुष्पाञ्जलिं निवेद्य सच्चिदानन्दं ब्रह्मैव भक्तानुग्रहाय गृहीतविग्रहं करचरणाद्यवयविनं शङ्ख- चक्राचायुधवन्तं निजवाहनाद्युपेतं निजहृत्कमलेऽव- स्थितं सर्वलोकसाक्षिणमणीयांसं 'परमेष्ट्यासि परमां श्रियं गमय' इति.मन्त्रेण पुष्पाञ्जलावागतं विभाव्या; ऽर्चायां विन्यस्य प्राणप्रतिष्ठां कुर्यात् । यथा-अस्य श्रीप्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुरुद्रा ऋषयः, ऋग्यजुःसामानि छन्दांसि, क्रियामयवपुःप्रा- णाख्या देवता, आं बीजम् , को शक्तिः, प्राणप्रतिष्ठायां विनियोगः । तत ऋष्यादीन् क्रमेण शिरोमुखहृदयगुह्य- पादेषु विन्यस्य ॐ कं खं गं घं डं अं पृथिव्यप्तेजोवारवा- काशात्मने आं हृदयाय नमः । ॐ चं छं जं झंअं इंश- ब्दस्पर्शरूपरसगन्धात्मने ई शिरसे स्वाहा । ॐ दं] डं ढं णं उं श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणात्मने ऊं शिखायै व- षट् । ॐ तं थे दं धं नं एं वाक्पाणिपादपायूपस्थात्मने ऐं कवचाय हुम् । ॐ पं फं बं भं मं ओं वचनादानवि: हरणोत्सर्गानन्दात्मने औं नेत्रत्रयाय वौषट् । ॐ यं रं लं वं शं षं सं हं ळं क्षं अं मनोबुद्ध्यहंकारचित्तात्मने अः अस्त्राय फट् । एवम् आत्मनि देवे च कृत्वा देवं स्पृष्ट्वा जपत्-ॐ आं ह्रीं को अं यं रं लं वं शं षं संह सः देवस्य प्राणा इह प्राणा: । ॐ आं ह्रीं को अं यं रं लं वशं षं सं हं सः देवस्य जीव इह स्थितः । ॐ आं ह्रीं क्रों अं यं रं लं वं शं षं सं हं सः देवस्य सर्वेन्द्रिया- णि । ॐ आं ह्रीं क्रों यं रं लं वं शं षं सं हं सः देव- स्य वाङ्मनश्चक्षुःश्रोत्रघ्राणप्राणा इहागत्य स्वस्तये सुखेन सुचिरं तिष्ठन्तु स्वाहेतिः । ततोऽर्चा हृद्यङ्गुष्ठं द- १२४६ सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वाई- स्वा जपेत्- अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च । अस्यै देवत्वमर्चायै मामहेति च कच्चन ॥ इति । ततः प्रणवन संरुध्य संजीवं ध्यात्वा 'ध्रुवा द्यौः' इति तृचं जप्त्वा कर्णे गायत्री देवमन्त्रं च जप्त्वा पुरु- असक्तेनोपस्थाय पादनाभिशिरःसु स्पृष्ट्वा 'इहैवैधि' इति निर्जपेत् । ततः कर्ता- स्वागतं देवदेवेश मद्भाग्यात्त्वमिहागतः । प्राकृत त्वमदृष्ट्वा मां बालवत्परिपालय ॥ धर्मार्थकामसिध्यर्थ स्थिरो भव शुभाय नः । सांनिध्यं तु सदा देव स्वार्चायां परिकल्पय ।। यावच्चन्द्रावनीसूर्यास्तिष्ठन्त्यप्रतिघातिनः । तावत्वयाऽत्र देवेश स्थेयं भक्तानुकम्पया ॥ भगवन् देवदेवेश त्वं पिता सर्वदहिनाम् । येन रूपेण भगवंस्त्वया व्याप्तं चराचरम् ॥ तेन रूपेण देवेश स्वार्चायां सन्निधो भव । इति नभेत् । एतदन्तं सर्वदेवानां समानम् । देवम- त्रश्च मूलमन्त्रों वैदिको वा ग्राह्यः । अथाचार्यः कर्ता वा लिङ्गमची वा ॐ भूः पुरुष मावाहयामि, ॐ भुवः पुरुषमावाहयामि, ॐ सुवः पुरु- षमावाहयामि, ॐ भूर्भुवःसुवः पुरुषमावाहयामीत्यावा- य प्रणवेनासनं दत्त्वा तेनैव दूर्वाश्यामाकविष्णुकान्ता- पद्ममिश्रं पाद्यम्, 'इमा आपः शिवतमाः (१)पूताः पूत- तमा मेध्या मेध्यतमा अमृता अमृतरसाः पांद्यास्ता जु- षतां प्रतिगृह्यतां प्रतिगृह्णातु भगवान् महाविष्णुर्विष्ण- वे नमः' इति पाद्यम् , "भगवान् महादेवो रूद्राय नम:' (१) 'पूता' नास्तिक ।
१२४७ - प्रतिष्ठानिरूपणम् । इति लिङ्गे, (२)एवं देवतान्तरेषूह्यम् । 'हमा आपः आ- चमनीयास्ता जुषताम्' (२)इति एलालवङ्गकङ्कोलकर्पर- मिश्रमाचमनीयम् , आपः क्षीरकुशाग्नश्चाक्षतैर्यवतण्डुलैः यवैः सिद्धार्थकैश्चैव अा इत्ययम् । ततो वेदमन्त्रैः संस्नाप्य 'इदं विष्णुः' इति विष्णौ 'नमो अस्तु नील- ग्रीवाय' इति लिने प्रतिसरं विस्रस्य (३)वस्त्रं यज्ञोपवी- तं च दत्वा- इमे गन्धाः शुभा दिव्याः सर्वगन्धैरलंकृताः। पूता ब्रह्मपवित्रेण पूताः सूर्यस्य रामभिः ।। इति गन्धम् , 'इमे माल्याः शुभा दिव्याः सर्वमाल्यैरलंकृताः। पूता०'इत्यादिमाल्यम् , 'इमे पुष्पा: शुभा०'इत्यादि पुष्पम् , वनस्पतिरसोद्भतो (४)गन्धाढ्यो गन्ध उत्तमः । आधेयः(५) सर्वदेवानां धूपोयं प्रतिगृह्यताम् ॥ प्रतिगृह्णात्वित्यादि धूपम् , ज्योतिः शुक्रं च तेजश्च देवानां सततं प्रियः । (६)प्रज्योतिः सर्वभूतानां दीपोयं प्रतिगृह्यताम् ॥ इति दीपं दत्त्वा विष्णौ संकर्षणवासुदेवप्रद्युम्नानि. रुद्धपुरुषोत्तमाधोक्षजसिंहाच्युतजनार्दनोपेन्द्रहरिश्रीकृ- ष्णेतिद्वादशनामाभिः केशवादिद्वादशनामभिर्वा पुष्पा- णि समर्प्य तैरेव तर्पणं कृत्वा (७)पायसगुडौदनचित्रौद- (१) एवं देवतान्तरेपूह्यम्' नास्ति:क० ख०। (२) 'इत्याचमनीयम् , अा' ग०। (३) 'वस्त्रं यज्ञोपवीतं च दत्वा' नास्ति ख०। (४) 'गन्धाल्यो धूप उत्तमः' ग० ख०। (५) 'आघ्राणः' क०। (६)'प्रभाकर' क० । (७), पायसघृतप्लुतपूर्णशरावगुडौदनहरिद्रौदनचित्रौदनानि क०। , १२४८ सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वार्द्ध- नानि 'पवित्रं ते विततम्' इति (२)निवेद्य संकषर्णादिपू. धोक्तनामभिर्वादश कृसराहुती त्वा तेनैव शाङ्गिणे० श्रियै० सरस्वत्यै० विष्णवे० इति हुत्वा 'विष्णोर्नुकं वी- पाणि 'तदस्थ प्रियमभिपाथो' 'प्रतद्विष्णुस्तवते वीर्यण' 'परोमात्रया तन्वा वृधान: 'विचक्रमे पृथिवीमेष एता' 'त्रिदेवः पृथिवीमेष एताम्' (२)इति जुहुयात् । पुनःया. दशनामभिर्जुहुयात् । लिङ्ग तु दीपान्तं कृत्वा भवाय देवाय. शर्वाय. ईशानाय० पशुपतये रुद्राय० उग्राय०. भीमाय० महते देवाय नमः इति पुष्पाणि दत्त्वा तैरेव तर्पणं कृत्वा 'प. वित्रं ते' इति पायस गुडौदनं च निवेद्य पूर्वोक्तनाम- भिः कृसरं हुत्वा 'भवस्य देवस्य पत्न्यै स्वाहा' इत्याद्य- ष्टाभिर्गुडौदन हुत्वा 'भवस्य देवस्य सुताय स्वाहा' इ- स्थाथैहरिद्रौदन हुत्वा 'व्यम्बकं यजामहे' 'मानोमहा- न्तमुत मानो.' 'मानस्तोके तनये.' 'आरात्ते गोघ्नमुत पूरुषघ्ने' 'विकिरिदविलोहित०' 'सहस्राणि सहस्रशो' इति (३)द्वादश, एतैर्तुत्वा "शिवाय शंकराय सहमा- नाय शितिकण्ठाय कपर्दिने ताम्राय अरुणाय अपगुर- माणाय हिरण्यवाहवे सस्पिजराय बभ्लुशाय हिरण्या- य' इति च जुहुयात् । ततः स्विष्टकृदादिहोमशेषं स- माप्य पूर्वोक्तसर्वहविभिर्विष्णवे लिङ्गाय वा बलिं द- (१) 'निवेद्य कृसरमाज्यमिदं जुहुयात्-वासुदेवाय स्वाहा, संकर्ष. णाय स्वाहा, प्रद्युम्नाय स्वाहा, अनिरुद्धाय शान्त्यैः श्रियै० सरस्वत्यै० पुष्ट्यैः विष्णवे०' का (२) 'इति द्वादशनामभिश्चामुष्मै स्वाहेति जुहुयात्' क० खः। (३) सहस्राणीत्यनुवाकस्य दशर्चत्वेनात्र दशभिरित्येवापेक्षित- मिति भाति । अत्र द्वादशपदं सर्वत्र दृश्यते । तत्र सदसत्सद्भिर्विचार- णीय।
पुनःप्रतिष्ठानिरूपणम् । - धात् । मन्त्रस्तु- स्वामेकमाद्यं पुरुषं पुरातनं नारायणं विश्वमुजं यजामहे । स्वमेव यज्ञो विहितो.विधेय. स्त्वमात्मनात्मन् प्रतिगृह्णीष्व हव्यम् ॥ इति । लिङ्गे तु नारायणपदे रुद्रं शिवमिति वदेत् । ततोऽ. श्वत्थपणे 'भूर्भुवःस्वरोम्' इति हुतशेष निधा(१)प. प्रद. क्षिणीकृत्य विश्वभुजे आत्मने परमात्मने नमः इति न(२)त्वा आचार्याय शतं तदर्ध तर्ध द्वादश तिन ए- का वा गां दत्त्वा ऋत्विग्भ्योऽपि दक्षिणां दत्त्वा शत द्वादश वा ब्राह्मणान् भोज़येदिति संक्षेपः। प्रासादमा. वे नूतने तु मात्स्योक्तजलाशयप्रतिष्ठाविधिमेव कुर्यात् । गोरुत्तारणपात्रीप्रक्षेपादि तु न भवति द्वारलोपात् । वारुणहोमस्थाने वास्तुहोमः । अन्यत्तद्रदेव । इति भट्टकमलाकरकृती लिङ्गा प्रतिष्ठाविधिः ॥ अथ पुनःप्रतिष्ठा । तामधिकृत्य हयशीर्षपञ्चरात्रे चाण्डालमद्यसंस्पर्शदूषिता वह्निनाऽथवा । अपुण्यजनसंस्पृष्टा विपक्षतजदूषिता ।। संस्कार्येति शेषः । पदार्थादर्श ब्राह्मे- खण्डिते स्फुटिते दग्धे भ्रष्ट मानविर्जिते । यागहीने पशुस्पृष्ट पतिते दुष्टभूमिषु ॥ अन्यमन्त्रार्चिते चैव पतितस्पर्शदूषिते । दशस्वेतेषु नो चक्रुः सन्निधानं दिवौकसः ॥ यागः पूजा । पशुर्गर्दभादिः । पञ्चरात्रे- खण्डिता स्फुटिता दग्धा यस्मादर्चा भयावहा । तस्मात्समुद्धरत्तां तु पूर्वोक्तविधिना नरः ।। (१) निधायाग्निना सह प्रद' क० । (२) 'नत्वाऽङ्गुलीयकुण्डलद्वयवस्त्रयुग्मेनाचार्य पूजयित्वाऽऽचायार्यक०। - - १५७ - १२५० सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वार्द्ध- *अर्चाभङ्गादावुपवासः कार्यः, न राज्ञो विप्लवेऽश्नीयात्सुरा विप्लवे तथा । इति विष्णुधर्मोक्तः। सिद्धान्तशेखरे- चौरचण्डालपतितश्वोदक्यास्पर्शने सति । श(१)वाशुपहतौ चैव प्रतिष्ठा पुनराचरेत् ॥ पञ्चरात्रे- अङ्गादङ्गादिसंधाने प्रतिष्ठा पुनराचरेत् । जला(२)धिवासरहितां नेत्रोन्मीलनवर्जिताम् ॥ शुद्धिविवेके विष्णुः-'द्रव्यवत्कृतशौचानां देवता- र्धानां भूयः प्रतिष्ठापनेन शुद्धिः' इति । अर्चाः प्रतिमाः तद्रव्यस्य तानादेरुक्तंशौचं कृत्वा पुनःप्रतिष्ठां कुर्यादि- त्यर्थः । स्मृत्यर्थसारेऽप्येवम् । तविधियाँधायनसूत्रे-पूर्वप्रतिष्ठितस्याबुद्धिपूर्वमेकरा- नंदिरात्रमेकमासं द्विमासं वाऽर्चनादिविच्छेदे शुद्ररजस्व- लागुपस्पर्शने पूर्वोक्त काले पुण्याहं वाचयित्वा युग्मान्ब्रा- ह्मणान्मोजयित्वा निशायां जलाधिवासं कृत्वा इवोभू- ते कलशपूर्णेन पश्चगव्येन तत्तन्मन्त्रैः स्लापयित्वाऽन्यं कलशं शुद्धोदकेनापूर्य तस्मिन्नवरत्नानि प्रक्षिप्य तं क- लशं तत्तद्गायच्याष्टसहस्रमष्टशतमष्टाविंशतिवारं चाs. भिमन्य तेनोदकेन देवं लापयेत्ततः शुद्धोदकेन लापये- *अ भङ्गादाविति । अग्निदग्धे तु दम्भोलिपतने देवमन्दिरे । पुनःप्रतिष्ठा कर्तव्या आर्ते च निस्वनेऽपि वा ॥ संमोक्षणविधानेन कुर्यादेवमतन्द्रितः । स्थानसंचलने वापि शवसूतकिसंस्पृशे ॥ (१) 'शवाद्युपहते' ग० । (२) 'जलाधिवासविहितनेत्रो' ख० गः।
जीर्णोद्धारनिरूपणम् । १२५१ दष्टसहस्रमष्टशतमष्टाविंशति वा पुरुषसूक्तेन मूलमन्त्रे. ण च । ततः पुष्पाणि दत्त्वा यथासंभवमर्चयित्वा गुडौदा नं निवेदयेत्' इति । बुद्धिपूर्व तु विच्छेदे पूर्वोक्तां प्रति. ष्टां पुनः कुर्यात् पूर्वोक्तविष्णुवचनात् । इदं मलमासशु. क्रास्तादावपि कार्यमिति मदनरत्ने हेमाद्रौ च । देवार्चा- प्रासादभेदने तु शूलपाणौ काश्यपः-'वापीकूपारामसे. तुसभातडागवप्रदेवतायतनभेदने प्रायश्चित्तं चतस्र आ- ज्याहुतीर्जुहुयात्-'इदं विष्णुः' 'मानस्तोके' 'विष्णों: कर्माणि' 'पादोऽस्य इति, यां देवतामुत्सादयति तस्यै देवतायै ब्राह्मणान्भोजयेत्' इति । शङ्खलिखितौ-'प्रति- मारामकूपसंक्रमध्वजसेतुनिपातभङ्गेषु तत्समुत्थानं प्रति- संस्कारोऽष्टशतं च निपातितानाम्' इति । समुत्थानं प्रतिक्रिया। प्रतिसंस्कारः पुनः प्रतिष्ठा । अष्टशतं पणा दण्डश्चेत्यर्थः। अथ जीर्णोद्धारः। सच लिङ्गादौ दग्धे भग्ने चलिते या कार्यः । अयं चानादिसिद्धप्रतिष्ठितलिङ्गादौ भङ्गा- दिदुष्टेऽपि न कार्यः, तत्र तु महाभिषेकं कुर्यादिति त्रि- विक्रमः । कर्ताऽमुकदेवस्य जीर्णोद्धारं करिष्ये(२)इत्यु- चण्डालपुल्कसोदक्यापतितायभिमर्शने । विण्मूत्रस्पर्शने वापि खरोष्ट्राभिमवेशने ॥ सन्ततार्चनलोपेऽपि अङ्गारस्पर्शनेऽपि वा। एवमायेषु जातेषु तदा संमोक्षयेद् गुरुः ॥ संप्रोक्षणविधाने तु न कालनियमस्तथा । पुण्याई वाचयित्वा च ब्राह्मणैरुपचारयेत् ।। इत्याद्यन्यत्र विस्तरः। (१) 'करिष्ये इति संकल्प्य पुण्याहं. कला १२५९ सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वार्दू- क्त्वा पुण्याहं वाचयित्वा ना(१)न्दीश्राद्धान्तं कृत्वा आ- चार्यमृत्विजश्च वृत्वा पीठे(२)मण्डलदेवता आवाह्य लिने ॐ व्यापकेश्वर हृदयाय नमः, ॐ व्यापकेश्वर शिरसे स्वाहा, इत्येवं षडङ्गं कृत्वा देवतान्तरे मूलम- न्त्रेण षडङ्ग कृत्वा(३)अर्चयेत् । अघोरमन्त्रम् अष्टोत्तर- शतं जप्त्वाऽग्निं प्रतिष्ठाप्पाघोरेण घृतसर्षपैः सहस्रं हुत्वा इन्द्रादिभ्यो नाम्ना बलिं दत्त्वा जीर्णदेवं प्रणवेन संपूज्य सा(४)ज्यतिलैब्रह्मादिमण्डलदेवतानां होम पूर्वो- तं कृत्वा देवं प्रार्थयेत्- जीर्णभग्नमि(५)दं देव सर्वदोषाघहं नृणाम् । अस्थोद्धारे कृते शान्तिः शास्त्रेऽस्मिन्कथिता त्वया ॥ जीर्णोद्धारविधानं च नृपराष्ट्रहितावहम् । तदधस्तिष्ठतां देव प्रहरामि तवाज्ञया ॥ इति । ततः क्षीराज्यमधुदूर्वाभिः समिद्भिश्चाष्टोत्तरसहस्रम् अष्टोत्तरशतं वा देवमन्त्रेण हुत्वाऽङ्गानां दशांशेन लिङ्गचालनार्थ सहस्रं शतं वा पायसेन हुत्वा लिङ्गं प्रा- र्थयेत- 'लिङ्गरूपं समागत्य येनेदं समाधिष्ठितम् । यायास्त्वं संमितं स्थानं संत्यज्यैव शिवाज्ञया ॥ अत्र स्थाने च या विद्या सर्वविद्येश्वरैर्युता। शिवेन सह संतिष्ठ' इति मन्त्रितजलेनाभिषिच्य विसर्जयेत् । ततोऽस्त्रम- त्रितेन खनित्रेण खात्वा लिङ्गमादाय नद्यादौ वामदेवेन लिङ्गं, प्रणवेन मूर्ति क्षिपेत् । दारुजं तु मधुनाऽभ्यज्या- (१) 'नान्दीश्राद्धान्तं कृत्वा नास्ति क० । (२) 'पीठे मण्डलदेवता आवाह्य' नास्ति क०। (३) 'अर्चयेत् । अघोरमन्त्रमष्टोत्तरशतं जप्त्वा' नास्ति ख०। (४) 'साज्यतिलैः' नास्ति. खं०। (५) 'मिदं चैव खः । - ? तुलसीग्रहणानिरूपणम् १२५३ घोरेण दहेत् । हेमरत्नादिमयं तु दग्धं चलितं वा पुन- स्तत्रैव स्थापयेत् । ततः शान्त्यै अघोरेण तिलैः सहस्रं हुत्वा प्रार्थयेत्- भगवन्भूतभव्येश लोकनाथ जगत्पते । जीर्णलिङ्गसमुद्धारः कृतस्तवाज्ञया मया ॥ अग्निना दारुजं दग्धं क्षिप्तं शैलादिकं जले । प्रायश्चित्ताय देवेश अघोरास्त्रेण तर्पितम् ॥ ज्ञानतोऽज्ञानतो वापि यथोक्तं न कृतं यदि । तत्सर्व पूर्णमेवास्तु त्वत्प्रसादान्महेश्वर ।। ततो यजमानः प्रार्थयत-- गोविप्रशिल्पिभूतानामाचार्यस्य च यज्वनः । शान्तिर्भवतु देवेश अच्छिद्रं जायतामिदम् ॥ मूतों तु विशेष:--- त्वत्प्रसादेन निर्विघ्नं देहं निर्माययत्यसौ । वासं कुरु सुरश्रेष्ठ तावत्वं चाल्पके गृहे ।। पसन्क्लेशं सहित्वेह मूर्ति वै तव पूर्ववत् ।। यावत्कारयते भक्तः कुरु तस्य च वाञ्छितम् ॥ इति । ततो नवां मूर्ति लिङ्गं वा कृत्वोक्तविधिना स्थाप- येत् । मूलं त्वग्निपुराणे स्पष्टम् । इति जीर्णोद्धारः॥ अथ तुलसीग्रहणम् । देवयाज्ञिककृतं स्मृतिसारे- वैधृतौ च व्यतीपाते भौमभार्गवभानुषु । पर्वद्वये च संक्रान्तौ द्वादश्यां मृतकद्धये ॥ तुलसी ये विचिन्वन्ति ते च्छिन्दन्ति हरेः शिरः ॥ विष्णुधर्मोत्तरे- रविवारं विना दूर्वा तुलसी द्वादशीं विना । जीवितस्याविनाशाय प्रविचिन्वीत धर्मवित् ॥ । - १२५४ सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वार्द्ध- तथा-- संक्रान्तावर्कपक्षान्ते द्वादश्यां निशि सन्ध्ययोः । यैश्छिन्नं तुलसीपत्रं तैश्छिन्नं हरिमस्तकम् ।। पाझे- द्वादश्यां तुलसीपत्रं धात्रीपत्रं च कार्तिके। लुनाति स नरो गच्छेनिरयानतिगर्हितान् ।। रुद्रयामले- द्वादश्यां च दिवा स्वापस्तुलस्यवचयस्तथा । विष्णोश्चैव दिवा लानं वर्जनीयं सदा बुधैः ॥ विष्णुधर्मे- न च्छिन्द्यात्तुलसी विप्रो बादश्यां वैष्णवः कचित् । देवार्थे तुलसीच्छेदो होमार्थे समिधां तथा ॥ हन्दुक्षये न दुष्यत गवार्थे तु तृणस्य च ॥ ग्रहणमन्त्रस्तु पाने- तुलस्यभृतजन्मासि सदा त्वं केशवप्रिये । केशवार्थ विचिन्वामि वरदा भव शोभने ॥ इति । पारिजाते दक्षः समित्पुष्पकुशादानां द्वितीयः प्रहरो मतः । अथ पुष्पादेः पर्युषितत्वम् । भार्गवार्चने भविष्ये प्रहरं तिष्ठते जाती करवीरमहर्निशम् । तुलस्यां बिल्वपत्रेषु सर्वेषु जलजेषु च ।। न पर्युषितदोषोऽस्ति मालाकारगृहेऽपि च ॥ बृहन्नारदीये-- बज्य पर्युषितं पुष्पं वज्यं पर्युषितं जलम् । न वज्यं तुलसीपत्रं न बज्य जाहवीजलम् ।। तत्रैव पाने- तुलसी पर्युषिता नैव बिल्वं तु त्रिदिनावधि। : प . पञ्चदिनाच्याज्यं शेषं पर्युषितं विदुः ॥. - - पुष्यादेः पर्युषितत्वनिरूपणम् । स्कान्दे- पालाशं दिनमेकं तु पङ्कजं च दिनत्रयम् । पञ्चाहं बिल्वपत्रं च दशाहं तुलसीदलम् ।। पदार्थादर्श बोपदेवस्त्वन्यथाह- बिल्वापामार्गजातीतुलसिशमिशताकेतकीभृङ्गदूर्वा- मन्दाम्भोजाहिदर्भामुनितिलत(१)सरब्रह्मकारमल्लयः। चम्पारधारातिकुम्भीदमनमरुबका बिल्वतोऽहानि शस्ता. स्त्रिंशत्यकार्यरीशोदधिनिधिवसुभूभूयमा भूय एवम् ॥ अस्यार्थः-शता शतावरी । मन्दः मन्दारः । अहि- नागकेशरः । मुनिरगस्त्यः । अश्वारातिः करवीरः । कुम्भी पाटलेति कैदेवनिघण्टुः । अरयः षट् । ईशा ए- कादश । उद्धयश्चत्वारः। निधयो नव | वसवोऽष्टौ। भूः एकः । यमौ हौ। बिल्वमारभ्याऽहिपर्यन्तं गणयि. त्वा दर्भमारभ्य पुनस्त्रिंशदादि गणयेदित्यर्थः । एतदि. नोत्तरं पर्युषितानीत्यर्थः । टोडरानन्दे स्कान्दे दमनमु- पक्रम्य- तस्य माला भगवतः परमप्रीतिकारिणी। शुष्का पर्युषिता वापि न दुष्टा भवति कचित् ॥ तिथितत्त्वे मात्स्ये-- बिल्वपत्रं च माध्यं च तमालामलकीदले । कलारं तुलसी चैव पमं च मुनिपुष्पकम् ॥ एतत्पर्युषितं न स्यात्कुशाश्च कलिकास्तथा ॥ स्मृतिसारावल्याम्- जलजानां च सर्वेषां पत्राणामहतस्य च । कुशपुष्पस्थ रजतसुवर्णकृतयोरपि ।। न पर्युषितदोषोऽस्ति तीर्थतोयस्य चैव हि । मुकुलैर्चियेद्देवं (२)पङ्कजैर्जलजैर्विना । (१) 'तगर' ख० (२) 'चम्पकैर्ज कर - १२५६ सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वार्द्ध- अथ शिवनिर्माल्यनिर्णयः । सिद्धान्तशेखरे- *धराहिरण्यगोरस्नताम्ररौप्यांशुकादिकान् । विहाय शेषं निर्माल्यं चण्डे शाय निवेदयेत् ।। अन्यदन्नादि पानीयं ताम्बूलं गन्धपुष्पकम् । दयाच्चण्डाय निर्माल्यं शिवभुक्तं तु सर्वशः॥ आचार्य शिवचण्डानामाज्ञाभङ्गे तु लक्षकम् । धनस्य भक्षणे तेषां पादोनं लक्षमीरितम् ।। निर्माल्ये भक्षिते लक्षपादतः शुडिरीरिता । दानं च भक्षणसम तदर्धं तदुपेक्षणे ।। अकामाक्षणे यदा निर्माल्यस्य जपेत्सुधीः । ब्रह्मपञ्चक(१)साहस्रं धर्मेण सहितं ततः ।। कामतो भक्षणे दीक्षा प्रायश्चित्तं न चान्यतः । निर्माल्पलङ्घनघोरं प्रजपेदयुतं ततः ॥ स्पर्शश्च लनसमो विक्रयो भक्षणेन च ॥ स्मृत्यर्थसारेपि-शैवसौरनिर्माल्ये नैवेद्यभक्षणे चा- न्द्रम् , अभ्यासे द्विगुणम् , मत्याभ्यासे (२)प्रतपनम् , अन्यनिर्माल्येऽप्यनापद्येवम्' इति । इदं च ज्योतिर्लि- - *धरेति । निर्माल्यं यो हि भक्त्या च शिरसा धारयिष्यति । अशुचिभिन्नमर्यादो नरः पापसमन्वितः ।। नरके पच्यते घोर तिर्यग्योनौ च संभवेत् ॥ इतिनिर्माल्यधारणनिषेधात् । यत्तु---- ब्रह्महाऽपि शुचिर्भूत्वा निर्माल्यं यस्तु धारयेत् । तस्य पापं महच्छीघ्रं नाशयिष्ये महावते ॥ इति स्कान्दं, तत्तु अशुचिना न ग्राह्यं, किन्तु स्नानादिना शुचिनेति स्मार्ताः । अपनीतं तन्न ग्राह्य मिति श्रीदत्तः। शिवदी- (१) 'साहस्रमर्धेन सहितं' क. (२) 'पतनम्' क० ख०
शिवनिर्माल्पनिरूपणम् ।
१२५७
गाद्यतिरिक्तविषयम् । तथाच पुरुषार्धप्रबोधे भविष्ये-
ज्योतिर्लिङ्गं विना लिङ्गं यः पूजयति सत्तमः ।
तस्य नैवेद्यनिर्माल्यभक्षणात्तप्तकृच्छ्रकम् ॥
शालग्रामोद्भवे लिङ्गेश्याणलिङ्ग स्वयंभुवि ।
रसलिङ्गे तथा च (१)सुरसिद्धप्रतिष्ठिते ।
हृदये चन्द्रकान्ते च स्वर्णरौप्यादिनिर्मिते ॥
शिवदीक्षावता भक्केनेदं भक्ष्यमितीर्यते ॥
तथा-
बाणलिङ्गे स्वयंभूते चन्द्रकान्ते हृदि स्थिते ।
चान्द्रायणसमं ज्ञेयं शंभोनैवेद्यमक्षणम् ॥ .
लिङ्गे स्वयंभुवे बाणे रत्नजे रसनिर्मिते।
सिद्धप्रतिष्ठिते चैव न चण्डाधिकृतिर्भवेत् ।।
यत्र चण्डाधिकारोऽस्ति तद्भोक्तव्यं न मानवैः ।
चण्डाधिकारो नो यत्र भोक्तव्यं तत्र भक्तितः ॥ ...
त्रैविक्रम्याम्--
बाणलिङ्गे च लोहे च सिद्धलिङ्गे स्वयंभुवि ।
प्रतिमासु च सर्वासु न चण्डोऽधिकृतो भवेत् ।।
क्षाहीनैन ग्राह्यमित्येके । ज्योतिर्लिङ्गाद्यतिरिक्तस्य न ग्राह्यमिति
शिष्टाः । *बाणलिङ्गे इति । बाणलिङ्गलक्षणं यथा-
पक्कजम्बूफलाकारं कुक्कुटाण्डसमाकृतिम् ।
भुक्तिमुक्तिप्रदं चैव वाणलिङ्गमुदाहृतम् ॥
सदा सन्निहितस्तत्र शिवः सर्वार्थसाधकः ।
कृतप्रतिष्ठं तल्लिङ्गं बाणाख्येनासुरेण च ।।
चिपिटे पूजिते तस्मिन् गृहभङ्गो भवेद् ध्रुवम् ।
एकपार्थक्षते धेनुपुत्रदारधनक्षयः॥
(१) 'सुप्रसिद्ध' ख०
*
१५८
१२५८ सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वार्द्ध- अत्र-- ब्रह्महापि शुचिर्भूत्वा निर्माल्यं यस्तु धारयेत् । तस्य पापं महच्छीघ्रं नाशयिष्ये महाव्रते ॥ इति स्कान्दादशुचिना न ग्राह्यं शिवनिर्माल्यं, कि- न्तु लात्वेति स्माताः । अनुपनीतेन न ग्राह्यमिति श्री- दत्तः । शिवदीक्षाहीनैन ग्राह्यमिति शैवाः। तिथित- वे हेमाद्रौ परिशिष्टे- अग्राह्यं शिवनैवेद्यं पत्रं पुष्पं फलं जलम् । शालग्रामशिलासङ्गात्सर्व याति पवित्रताम् ॥ शिरसि स्फुटिते बाणे व्याधिर्मरणमेव च । अर्घ्यं स्यात्कापिलं लिङ्ग मुनीनां मोक्षकाशिणाम् ॥ तीक्ष्णाग्रं वक्रशीर्ष च ध्यत्रं लिङ्गं च वर्जयेत् । पृजितव्यं गृहस्थेन वर्णेन भ्रमरोपमम् ॥ *अग्राह्यमिति । स्वयं नोपभुज्यादियर्थः, दत्त्वा नैवेद्यवस्त्रादि नाददीत कदाचन । त्यक्तं यच्छित्रमुद्दिश्य तदानेन न तत्फलम् ॥ इति भविष्याच। अथ व्रतोपयुक्तकृच्छादीनि । तत्र प्राजापत्यमाह याज्ञवल्क्य:- एकभक्तेन नक्तेन तथैवायाचितेन च । उपवासेन चैवायं पादकृच्छ्रः प्रकीर्तितः ।। यथाकथञ्चित्विगुणः प्राजापत्योऽयमुच्यते ॥ दिवैव मध्याह्नकाले सकृद्भोजनम् एकभक्तं, सूर्यास्तपयान- स्तरमेव सकृद्भोजनं नक्तं, दिवा रात्रौ वा भृत्यादिभ्योऽप्यया- चितस्य भोजनमयाचितम् । दिवैवेति केचित् । अहोरात्रमभोजनमु- पवास: । अयं पादकृच्छः । अत्र ग्राससंख्यायां पराशरः- सायं तु द्वादश ग्रासाः प्रातः पञ्चदश स्मृताः । चतुर्विशतिरायाच्याः परं निरशनं स्मृतम् ॥
कृच्छादिवतलक्षणनिरूपणम् । १२५९ . , अथवा आपस्तम्ब: सायं द्वाविंशतिसाः प्रातः पञ्चदश स्मृताः । चतुर्विंशतिरायाच्या परे निरशनास्त्रयः ।। कुक्कुटाण्डपमाणो वा यथा वाऽऽस्यं विशेत्सुखम् । वात्या विकल्पः । आपस्तम्बस्तु व्यवस्थया पादकृच्छमाह- व्यहं निरशनं पादः पादश्चायाचितं व्यहम् । सायं व्यहं तथा पादः प्रातः पादस्तथा व्यहम् ।। प्रातः पादं चरेच्छुद्रः, सायं वैश्यस्य दापयेत् । अयाचितं तु राजन्ये, त्रिरात्रं ब्राह्मणे स्मृतम् ॥ इति । प्रातःपाद एकभक्तवयं, सायंपादो नक्तत्रयम् , अयाचित- मयाचितत्रय, त्रिरात्रमुपवासत्रयम् । अयाचितत्रयानन्तरमुपवास: त्रयमर्द्धकृच्छ्रः। नतत्रयं विना पादत्रयं पादोनकृच्छा, सायंपातर्विनाऽर्द्ध स्यात् पादोनं नक्तवर्जितम् । इति आपस्तम्बोक्तेः । अथवा सायं प्रातस्तथैकं च दिनद्वयमयाचितम् । दिनद्वयं च नाश्नीयात्कृच्छा तद्विधीयते ॥ इत्यापस्तम्बेनैवोक्तोऽर्द्धकृच्छ्रः प्रकृतमनुसरामः । अयं पादव जापत्यः । यथाकथञ्चिदित्युक्तेः स्थानवृद्ध्या एकः । स च- म्यहं सायं व्यहं प्रातस्यहमद्यादयाचितम् । ज्यहं परं च नाश्नीयात्याजापत्यं चरन् द्विजः ।। इति मनूक्तेः। तेषां प्रातिलोम्येन स्वस्थानद्ध्या द्वितीयः, स च "प्रातिलोम्यं चरेयुः" इति वसिष्ठांक्तः, उपवासत्रयं कृत्वा कुरूंचायाचितत्रयम् । नक्तत्रयादे(१)कभक्तत्रयं स्यात्प्रातिलोम्यकम् ॥ (१) 'देकभक्तवतं' घ० छ ।
१२६० सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वार्दै- इति वचनात् । दण्डकलितवदात्या तृतीयः । स च- व्यहं प्रातरहर्नक्तमहरेकमयाचितम् । अहः पराकं तत्रैकमेवं चतुरही परौ । इति वसिष्ठोक्तः । पराक उपवासः । अयमेव शिशुकृच्छा, अनुग्रहार्थं विप्राणां मनुधर्मभृतां वरः । बालवृद्धातुरेष्वेवं शिशुकृच्छमुदाहरत् ॥ इति तेनैचोक्तः। प्रोक्तपक्षत्रयेऽन्यतमपक्ष ज(१)पहोमवर्ज कुदिति चतुर्थी, तस्माच्छूद्रं समासाद्य सदा धर्मपथे स्थितम् । प्रायश्चित्तं प्रदातव्यं जपहोमविवर्जितम् ॥ इत्यङ्गिरोवचनात् । अशको एकां धेनुं दद्यात् । तदभावे निष्कं दद्यात्, गवामभावे निष्कं स्यात्तद पादमेव वा । इत्युक्तेः । देशकालोचितं गोमूल्यं दद्यात्, माजापत्यक्रियाऽशक्तौ धेनुं दद्याद्विजोत्तमः । घेनोरभावे दातव्यं तुल्यं मुल्यं न संशयः ।। इत्युक्तेः । यद्यपि “धेनुः स्यान्नवसूतिका" (अ०को०२-९-७१) इत्युक्तं, तथापि धेनुदानाशक्तौ गोमा दद्यात् बहुस्मृतिषु गोपद- स्याप्युपादानान । विप्रभोजनं वा कार्यम् । तत्संख्यानियमो म- हार्णवे चतुर्विंशतिमते- कृच्छ्रे पश्चातिकृछे त्रिगुणमहरहात्रिंशदेवं तृतीये चत्वारिंशञ्च तसे त्रिगुणनगुणिता विंशतिः स्यात्पराके। कृच्छे सन्तापनाख्ये भवति षडधिका विंशतिः, सैव हीना द्वाभ्यां चान्द्रायणे स्यात्तपसि कुशबलो भोजयेद्विप्रमुख्यान । इति । अस्यार्थ:-अहरह. इत्यस्य प्रत्येकं सम्बन्धात् कच्छे अहरहः पञ्च ब्राह्मणान भोजयेत् । ते(२) च षष्टिर्भवन्ति । अतिकृच्छे (१) 'तपहोम' घ० ङ०॥ (२) तेन घ० । - कृच्छादिवतलक्षणनिरूपणम् । १२६१ प्रत्यहं पञ्चदश, द्वादशादिने मिलित्वा ह्य(१)शीतिशतं विप्रा भवन्ति । कृच्छातिकृच्छ प्रत्यहं त्रिंशत्, मिलित्वा षष्ट्युत्तरं त्रिशतम् । असमृद्ध(२)धान्ये नु त्रिगुणिता द्वादशेति मिलिताः षट्त्रिंशत् । तप्तकच्छे प्रत्यहं चत्वारिंशत् यहसाध्येऽशीतिः, चतुरहसाध्ये पं. ष्ट्यधिकं शतम् , द्वादशाहसाध्ये अशीत्यधिकं शतचतुष्टयम् । परा के प्रसहं षष्टिः, विंशत्यधिकं सप्तशतम् । सान्तपने प्रत्यहं षट्वि- शतिः । चान्द्रायणे प्रसहं चतुर्विंशतिः, तत्र मासो यदि त्रिंश- दिनः तदा ७२० विंशत्यधिकसप्तशतं विप्रा भवन्ति । अधिक- न्यूनदिनके तु सं(३)कलनमुह्यम् । स्वल्पधान्यस्तु कृच्छे द्वादशैव ब्राह्मणान् भोजयेत् "विप्रा द्वादश वा भोज्या:" इति चतुर्विंशतिम- तात् । अतिकृच्छमाह मनुः- एकैकग्रासमश्नीयात् व्यहानि त्रीणि पूर्ववत् । ध्यहं चोपवसेदन्त्यमातिकृच्छं चरन् द्विजः ॥ त्रीणि व्यहानि नव दिनानि पूर्ववत् एकभक्तादिकाले तनि- यमवान् इत्यर्थः । अशक्तौ धेनुत्रयं देयं, पराकतप्तातिकृच्छ्रे तिस्रस्तिस्रस्तु गास्तथा । इति चतुर्विशतिमतात् । तदशक्तौ निष्कगोमूल्यादि प्राग्वत् । एवमग्रेऽपि । अथवा याज्ञवल्क्य:- अयमेवातिकृच्छः स्यात् पाणिपूरानभोजना। अयमेव पूर्वोक्तप्राजापत्यधर्मक एव । परन्तु एकभक्तादिदि- नेषु प्रतिपूरणमात्रमन्नं भुञ्जीत न तु द्वाविंशत्यादिग्रासानिति । अत्र येषु दिनेषु भोजनं तेषु पाणिपूरमा(४)त्रमन्नं विधेयम् । एव- चोपवासदिने न पाणिपूरानभोजनपाप्तिः। अशक्ती घेनुद्वयं देयं, प्राजापत्ये तु गामेकामतिकृच्छ्रे द्वयं स्मृतम् । इति षट्त्रिंशन्मतात् । एवमग्रेऽपि । अनयोश्चातिकृच्छ्रयोः पापा- (१) 'साशीति' घ० ० । (२) 'धान्यस्य' घ००। (३) 'संख्यासंक' घ००। (४) मात्र' नास्ति घ० छ।
१२६२ सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वार्डे-
पेक्षः शत्यपेक्षो वा विकल्प:(१)। अतिकृच्छ्रपादादिव्यवस्था च
प्राजापत्यवत् । कुच्छ्रातिकृच्छ्रमाह गौतमः-अब्भक्षस्तृतीया
स कृच्छातिकृच्छ इति । द्वादशरात्रमुदकेनैव वर्त्तनं न त्वन्ने
नेत्यर्थः। अशक्तौ तिस्रो धेनवो देयाः, माजॉपत्यत्रयस्थाने
कृच्छ्रांतिकृच्छविधानात् । तदभावे निष्कत्रयं सार्द्धनिष्कः
पादोननिष्को वा देयः। अथवा यमः-
एकैकं पिण्डमश्नीयात्म्यहं कल्ये त्र्यहं निशि ।
अयाचितं व्यहं पिण्डं वायुभक्षस्थ्यहं परम् ॥
अतिकृच्छं चरेदेतत्पवित्रं पापनाशनम् ।
चतुर्विशतिरात्रं तु नियतात्मा जितेन्द्रियः ॥
कुच्छ्रातिकृच्छ कुर्वीत एकस्थाने द्विजोत्तमः ।
कल्ये प्रातः एकभक्ताकाले इति यावत् । एकस्थाने पूर्वो-
क्तद्वादशाहसाध्यातिकृ(२)च्छद्रयेनैकः कृच्छातिकृच्छ इत्यर्थः ।
अथवा याज्ञवल्क्य:-
कृच्छातिकृच्छ्रः पयसा दिवसानेकविंशतिम् ।
यमेन चतुर्विशत्यहःसाध्ये कृच्छातिकृच्छ्रे भोजनदिनेष्वेकै.
कग्रासमात्रविधानात् दुग्धभक्षणेऽपि पत्रपुटकादिभि सपरिमाणं
कृत्वैव एकग्रासपर्याप्तं दुग्धमश्नीयात् । अशक्तौ तु-"सायं तु
(३)द्वादश ग्रांसाः" इति प्राससंख्याया भोजनदिनेषु तावदुग्धं
पीत्वा प्राजापत्यः कार्यः । तप्तकृच्छमाह याज्ञवल्क्य:-
तप्तक्षीरघृताम्बूनामेकैकं प्रत्यहं पिबेत् ।
एकरात्रोपवासश्च तप्तकृच्छ उदाहृतः ॥
अयं चतुरहसाध्यः । तप्तक्षीर घृताम्बुभिः समस्तैः एकैकदिने
वृत्तिः, तत एकोपवास इत्यर्थे तु यहसाध्यः । अथवा मनु:-
(१) 'सान्तपने प्रत्यहं षड्विंशतिः' अधिकं ख०।
(२) 'कृच्छ्रनये' घ० ० ।
(३) 'द्वादशनासी' घ० ०।
कृच्छादिवतलक्षणनिरूपणम् । १२६३ -- तसकृच्छं चरन् विमो जलक्षीरघृतानिलान् । प्रति व्यहं पिबेदुष्णान्सकृत्स्नायी समाहितः ।। जलादिपरिमाणमाह पराशर:- अपां पिबेत्तु त्रिपलं द्विपलं तु पयः पिबेत् । पलमेकं पिबेत्सर्पि(स्त्रि(१)रात्रं चोष्णमारुतम् ॥ अपां त्रिपलं त्रिरात्रं पिवेदित्यादि प्रतिवाक्यं त्रिरात्रमित्यस्य सम्बन्धः । त्रिरात्रमुष्णोदकस्प बाष्पं पिबेदित्यर्थः । अथ परा- शरः षट्पलं तु पिवेदम्भः त्रिपलं तु पयः पिवेत् । पलमेकं पिबेत्सपि)स्तप्तकच्छं विधीयते ॥ जलादिकं चेहोष्णमेव । अशक्ती व्यहसाध्ये निष्कार्द्ध चतुर. हःसाध्ये एका धेनुः द्वादशाहसाध्ये तिस्रो गावः, पराकतप्तातिकृच्छे तिस्रस्तिस्रस्तु गास्तथा । इत्युक्तेः । सान्तपनमाह याज्ञवल्क्य:- गोमुत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । प्राश्यापरेऽहथुपवसेत्कृच्छं सान्तपनं चरन् ।। मिलितगोमूत्रादिषद्कमेव पीत्वा परेऽवयुपवसेत् । अयं दिन- द्वयसाध्यः । अयमेव ब्रह्मकूर्चः । तत्र पराशरोको विधिः कार्यः । गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । निर्दिष्टं पञ्चगव्यं तु पवित्रं कायशोधनम् ।। गायत्र्यादाय गोमूत्रं गन्धद्वारेति गोमयम् । आप्यायस्वेति च क्षीरं दधिक्राणेति वै दधि ॥ तेजोसि शुक्रमित्याज्यं देवस्य त्वा कुशोदकम् । सप्तपत्रास्तु ये दर्भा अच्छिन्नाग्राः शुकत्विषः । एतैरुद्धृत्य होतव्यं पञ्चगव्यं यथाविधि । इरावती इदंविष्णुर्मानस्तोके च शंवती ॥ (१) कंसान्तर्गतं नास्ति ख० ।
१२६४ सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वार्द्ध- एताभिश्चैव होतव्यं हुतशेष पिबेद् द्विजः । प्रणवेन समालोड्य प्रणवेनाभिमन्त्र्य च ।। प्रणवेन समुद्धृत्य पिवेत्तत्मणवेन तु । यत्त्वगस्थिगतं पापं देहे तिष्ठति मामके ।। प्राशनात्पश्चगव्यस्य दहत्यनिरिवेन्धनम् । मध्यमेन पलाशस्य पनपत्रेण वा पिबेत् ।। स्वर्णपात्रेण ताम्रेण ब्रह्मतीर्थेन वा पुनः ॥ इति । पूर्वेधुरुपोष्य परेधुरुक्तरीत्या ब्रह्मकूर्च इति विज्ञानेश्व- । अथवा जाबाल:-- : गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकैकं प्रसहं पीत्वा स्वहोरात्रमभोजनम् ।। इदं सप्ताहसाध्यम् । यतिसान्तपनमाह (शङ्खः(१)- एतदेव व्यहाभ्यस्तं यतिसान्तपनं स्मृतम् । एतत् पञ्चगव्यं दिने आहारान्तरं विना पिवेदित्यर्थः । महा- सान्तपनमाह) याज्ञवल्क्य:-- पृथक्सान्तपनद्रव्यैः षडहः सोपवासकः । सप्ताहेन तु कृच्छोयं महासान्तपनः स्मृतः॥ गोमूत्रगोमयक्षीराणि दाघृतकुशोदकानि सान्तपनद्रव्याणि एकैकदिने आहारान्तरं विना एकैकं पिवेत्सप्तमदिने उपवासः । ध्यई पिबेत्तु गोमूत्रं व्यहं वै गोमयं पिबेत् । त्र्यहं दधि व्यहं सर्पिः ज्यहं क्षीरं ततः शुचिः ॥ महासान्तपनं ह्येतत्सर्वपापप्रणाशनम् ॥ अयं पञ्चदशाहसाध्यः । जाबाल:- षण्णामेकैकमेतेषां त्रिरात्रमुपयोजयेत् । ज्यहं चोपवसेदन्त्यं महासान्तपनं विदुः ॥ (१) कंसान्तर्गतं नास्ति ख०। . अथवा यमः-- - कृच्छादिवतलक्षणनिरूपणम् । १२६५ पण्णां पूर्वोक्तगोमूत्रादीनाम् । अयमेकविंशतिरात्रसाध्यः । अशक्तौ सप्ताहसाध्यसान्तपनस्य सार्द्धमाजापत्यस्थाने विहितत्वा- देका धनुनिष्काई च देयम् । पराकतप्तातिकच्छस्थाने कृच्छत्रयं न्यसेत् । सान्तपनस्य चाध्यमशक्तौ व्रतमाचरेत् ।। इति षट्त्रिंशन्मतात् । दिनदयसाध्ये सान्तपने निष्कार्दै, दि- नत्रयसाध्ये यतिसांतपने तु एका धेनुं दद्यात् । एकविंशतिदिन- साध्ये महासांतपने तिस्रो धेनवोऽर्धनिष्कं च देयं, पञ्चदशदि- नसाध्ये तु धेनुद्वयं निष्कार्दै च देयं, सप्ताहसाध्ये तु एका धेनुः निष्काश्च देयः षडुपवासतुल्यप्राजापत्ये धेनोरुक्कत्वात् सान्त- पनस्य चाध्यमित्यस्य सप्ताहसाध्यपरत्वाच्च । पराकमाह याज्ञ. वल्क्य:- द्वादशाहोपवासेन पराकः परिकीर्तितः। अशक्तौ कृच्छ्रत्रयं पराकतप्तकृच्छ्राणां स्थाने कृच्छत्रयं न्यसेत् ।। तिस्रो धेनव इति यावत् । यावत्रतमाह शंख:--- गोपुरीषाद्यवान्नं च मासं नित्यं समाहितः । व्रतं तु यावकं कुर्यात्सर्वपापापनुत्तये ।। गोर्भक्षणार्थं यवान्दत्त्वा तदनन्तरं गोमयमध्यनिःसृतस्तैर्यवैः पकैः एकभक्तनकानि कुर्वन मासं नयेत् । गोमत्रपकैस्तु तैर्गोमूत्र यावकं भवति, आतृप्तेश्वारयित्वा गां गोधूमान् यवमिश्रितान् । गोपयोज्यांश्च संगृह्य पचद्गोमूत्रयावकम् ।। इति योगियाज्ञवल्क्यात् । अशक्ती यावकवते पञ्च धे. नवः षड्डुपवासात्मकपाजापत्यषट्स्थानत्वात् । प्रसहं यावकभोजने- ऽपि तस्यात्यन्तक्लेशसाधनत्वेनोपवासतुल्यत्वात् । गोमूत्रयावक- ते तु क्लेशाधिक्यात षड् धेनवः । मासमेकनासमात्रदुग्धेन व- .
द १२६६ सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वाई- नं पयोव्रतम् ॥ ६)लस्मिन् व्रते येन द्रव्येण शरीरवर्तनं ततस्य तेन व्यपदेशात् । अत एव मार्कण्डेयः पत्रैमता पत्रकृच्छः पुष्पैस्तस्कृत उच्यते । मूलकुच्छ स्मृतो मूलैस्तोयल्छो जलेन तु । इति । पयोव्रतेऽवातस्य पञ्च धेनवः पयमाने लेशाभावेऽपि पय- सा एकनासघातपर्याप्ततयोपवासल्यत्वात् । चान्द्रायणमाह या. ज्ञबल्क्य:- तिथिवृद्ध्या चरेत् पिण्डान् शुक्ले शिख्यण्डसमितान् । एक हासयेत्कृष्पणे पिण्डं चान्द्रायणं चरन् । इन्दुक्षये न भुनीत एष चान्द्रायणे विधिः । निखी मयूरः। तिथिवृद्ध्या (२)शुक्ले शुक्लपक्षे तिथिवृद्ध्या प्रतिपदादितिथिक्रमेणैकैकं पिण्डं प्रतिपदि एक द्वितीयायां द्वाविति क्रमेण पूर्णिमायां पञ्चदश चरेत् भक्षयेत् । तदा कृष्णे एकैक. तिथिवृद्ध्या प्रतिपदि चतुर्दश द्वितीयायां त्रयोदशेत्येवं क्रमेण ए- कैक चतुर्दशीपर्यन्तं ह्रासयेत् । इन्दुक्षये अमावास्यायां न भुञ्जीत । एतद्यवमध्यं नाम. चान्द्रायणम् । अथ पौर्णमास्यां पञ्चदश ग्रा- सान् भुक्त्वा एकैकत्यागेन प्रतिपत्मभृति चतुर्दशीपर्यन्तं ग्रासमश्नी. यात् । अमावास्यायामुपोष्य एकैकझ्या पूर्णिमायां पञ्चदशग्रा- जान भक्षयेत् । एतत्पिपीलिकामध्यं नाम चान्द्रायणम् । हास- द्धभ्यां चन्द्रस्य अयन चरणमिव चरणं यंत्र कर्मणीति व्युत्प. तेः। (३)एतच्च चान्द्रमाससाध्यम् । तत्र हासंघद्धी निश्चित्य' पि- ग्डेषु ते कल्पनीये । तत्र चन्द्रोदयकालीना तिथिगाथा । तत्र प्रासा मयूराण्डप्रमाणा: । ग्रासग्रहणकालश्चन्द्रोदयः । वैधत्वाच्च नि. शीथेऽपि तद्भक्षणम् । चन्द्रोदयानन्तरं प्रायः द्विषष्टिघटीव्यवधाने चन्द्रोदय इति । दिवापि ते परीक्ष्यैव ग्रासानां भक्षणम् । माणा- होत्राधिकारिणामत्रैव तत्करणम् । तथाहि, यदा पश्च पिण्डा- (१) 'यस्मिन् ख० । (२) 'शुक्ले' नास्ति घ ङ०। (३) 'एतच चान्द्रायणसाभ्यम् घ० ० कृच्छादिवतलक्षणनिरूपणम् । स्तदा माणायेति प्रथमम् , अपानाति द्वितीय, व्यानायेति तृती- यम् , उदानायेति चतुर्थ, समानायेति पञ्चमम् । यदा चत्वार- स्तदा द्वाभ्यां प्रथमम् । यदा त्रयस्तदा द्वाभ्यां पूर्वो। यदा द्वौ तदा त्रिभिः प्रथमं द्वाभ्यामुत्तरम् । एकं तु सर्वैः । इतिकर्तव्यताविस्तरो महार्णवादौ द्रष्टव्यः । अशक्तावष्टौ गावो देयाः, अष्टौ चान्द्रायणे देवाः प्रयाम्नायविधौ सदा । इति चतुर्विंशतिमतात् । यवमध्यपिपीलिकामध्यचान्द्रायणयो- गौतमायुक्तमकारवतोरष्टौ गावः, खल्पप्रकारयुक्तयोस्तयोस्तु त्रयः । पाजापत्ये तु गामेकामतिकुच्छवयं स्मृतम् । चान्द्रायणे. पराके.च तिस्रस्ता दक्षिणास्तथा ।। इति पराशराक्तः । समृद्धस्य पञ्च “पश्च वापि प्रकीर्तिता" इति पाठान्तराव । अथवा याज्ञवल्क्यः-- यथाकथञ्चित्पिण्डानां चत्वारिंशच्छतद्वयम् । मासेनैवोपभुञ्जीत चान्द्रायणमथापरम् ॥ प्रसहमष्टौ ग्रासान भक्षयेत् । तत्रापि दिन एवाष्टौ, अथवा नक्तं चतुरो दिने बतुरः, अथवा एकस्मिन्दिने चतुरः अपरस्मि- न्द्वादश, अथवा एकरात्रमुपोष्यापरस्मिन षोडश, अथवा. दिनद्वय- मुपोष्य तृतीयदिने चतुर्विंशतिः, इत्यादि शत्या प्रकाराणां मध्ये यथाकथञ्चित् पिण्डान् चत्वारिंशदधिकशतद्वयं भक्षयेत् , 'तिस्रोऽ. शीती: समाहितः' इति वचनाच्च । उपक्रमस्तु शुक्लकृष्णान्यतर- प्रतिपदोरेव । मासश्च सावनः, अन्यथा चान्द्रमासे हासादिवशेन तथा भक्षणासम्भवाच्च । एवञ्च नैरन्तर्येणानेकैतच्चान्द्रायणानुष्ठाने कदाचिद्वितीयंचान्द्रायणादि द्वितीयादौ भवति । अयं चापरो वि- शेषः-पूर्वचान्द्रायणे तिथिनियतग्रासनियमवशात् (१)पूर्वपक्रान्त. मेकादश्याद्युपवासादि प्रतिनिधिद्वारा कार्यम् , अत्र तु स्वयमेव कार्य, तिथिनियमेन (२)ग्रासनियमाभावात् । अस्यैव च यति- चान्द्रायणादिसंज्ञा । (१) 'पूर्वप्रकारान्त' ख०। (२) 'प्राप्तनियमा' घ० ङ०।।" - १२६८ सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वार्द्ध- *पञ्चायतनपूजायां तन्त्रेण च निवेदितमित्यर्थः । शिवपुराणे- ये वीरभद्र(१)शपिताः शिवभक्तिपराङ्मुखाः । शंभोरन्यत्र देवेषु ये भक्ता ये न दीक्षिताः ।। तेषामनहमीशस्य तत्प्रसादचतुष्टयम् । अष्टावष्टौ समश्नीयात् पिण्डान् मध्यंदिने स्थिते । नियतात्मा हविष्यस्य यतिचान्द्रायणं चरन् ।। चतुरः भातरश्नीयात पिण्डान् विप्रः समाहितः । चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं चरन् । इति मनुक्त। त्रीस्त्रीन् पिण्डान समश्नीयानियतात्मा दृढव्रतः। इविष्यान्नस्य वै मासमृषिचाद्रायणं स्मृतम् ।। इति यमाक्तमृषिचान्द्रायणम् । यतिचान्द्रायणायशक्तौ तिस्रो गावो देयाः पूर्वोक्तवचनात् । अथ मासोपवासव्रतम् । तच्च प्राक् कार्तिके प्रपश्चितम् । तद- शक्ती अष्टौ गावः, तदशक्तौ पञ्च, षड्डुपवासतुल्यप्राजापत्यमत्या- म्नायगोपञ्चकेन मासनिर्वाहात् । एवं सोमायनादिप्रत्याम्नाया: स्वयमूहाः । भत्र प्राजापत्यादेरितिकर्तव्यताऽन्यतोऽवगन्तव्या। तत्र स्वातन्त्र्येण कुरुक्षेत्रप्रतिग्रहादिपापनित्यर्थं क्रियमाणे वपन- मावश्यकं न तु व्रतभङ्गनिहत्त्यर्थ, दिनत्रयं न भुञ्जीत मुण्डनं शिरसोऽथवा । इति विकल्पन्यायात् । प्रकृतमनुसरामः । पञ्चायतनेति । अत एवं. 'विष्णुशिवमू- र्यमणेशदुर्गाभ्यो नमः' इति श्लिष्टमन्त्र एवोक्तः । शिवनामपूजाया- मिति केचित् । (१)'शमिता:' ख०
कृष्यादिनिरूपणम्
।। १२२९
काशीखण्डे-
जलस्य धारणं मूर्ध्नि विश्वेशलानजन्मनः।
एष जालन्धरो बन्धः सम(१)स्तसुरवल्लभः ॥
तथा-
लापयित्वा विधानेन यो लिङ्गलपनोदकम् ।
त्रिः पिधेत्रिविधं पापं तस्येहाशु विनश्यति ।
लिङ्गलपनवाभिर्यः कुर्यान्मून्यभिषेचनम् ।
गङ्गालानफलं तस्य जायतेऽत्र विपाप्मनः ।।
इदं पूर्ववाक्यवशाद्विश्वेश्वरविषयमिति केचित् ।
काशीस्थपुराणप्रसिद्धसलिङ्गविषयं, काशीखण्डे रने-
श्वराख्याने तथैव दर्शनादित्यन्ये ।
अथ कृषिः । राजमार्तण्डः-
ऋक्षेषूत्तरपौष्णवैष्णवमघामूलानुराधाश्विनी-
प्राजापत्यकरविदैवतगुरुपालेयपादेषु च ।
निर्दोषैर्वृषभैहलैश्च सुमनोमालाभिरभ्यर्चितै-
देवा क्षेत्रपतेबलिं हलधरः क्षेत्रं ततः कर्षयेत् ।।
प्राजेशश्रवणोत्तरादितिमघामार्तण्डतिष्याश्विनी
पौष्णानुष्णमरीचयः शतभिषक् खाती विशाखा तथा।
जीवाकेंन्दुसितेन्दुनन्दनदिने लग्ने च.सौम्योदये -
सस्यानां वपने तथैव लवने शस्तास्तथा रोपणे ॥
चण्डेश्वर:-
हस्तचित्रादितिस्वातीरेवत्यां श्रवणत्रये।
स्थिरलग्ने गुरोर्वारे बीजं धार्य ज्ञशुक्रयोः ॥
'ॐधनदाय सर्वलोकहिताय देहि मे धान्यं स्वाहा।
लेखपित्वा इमं मन्त्रं धान्यागारे निधापयेत् ॥
सस्यवृद्धि परां कुर्यात्पूजितं प्रतिपूजयेत् ।
दक्षिणदिङ्मुखगमनं गमनमभिनवासुः नारीषु ॥
.. .-14 २७० सटीकनिर्णयसिन्धुनृतीयपरिच्छेदपूर्वार्द्ध- व्ययमपि सस्यधनानां न बुधा बुधवासरे कुर्युः। शनिवारे च नो कार्यों धनधान्यव्ययो बुधैः । अथ वस्त्रम् । श्रीपतिः रोहिणीषु करपञ्चकेऽविभे व्युत्तरासु च पुनर्वसुखये। रेवतीषु वसुदैवते च मे नव्यवस्त्रपरिधानमिष्यते ॥ जीर्ण रवौ सततमम्बुभिरामिन्दो भौमे शुचे बुधदिने तु भवेद्धनाय । ज्ञानाय मन्त्रिणि भृगौ प्रियसंगमाय मन्दे मलाय च नवाम्बरधारणं स्थात् ।। रोहिणीगुरुपुनर्वसत्तरे या विभर्तिः नववस्त्रभूषणे । सा न योषिदवलम्बते पति स्लानमाचरति वारुणेपि या।। अथालंकारवलयादि। दैवज्ञवल्लभः नासत्यपूषवसुभिः करपश्चकेन मार्तण्डभौमगुरुदानवमन्त्रिवारे मुक्तासुवर्णमणिविद्रुमशङ्खदन्त- रक्ताम्बराणि विधृतानि भवन्ति सिद्ध्यै ॥ ज्योतिर्निबन्धे- हस्तानुराधमृगपूषधनिष्ठयुक्तः चिनोत्तरासु च पुनर्वसुरोहिणीषु । लग्ने स्थिरे रविमुन्दुजजीवचारे हेमादिधारणविधिः कथितो नराणाम् ।। तत्रैव श्रीपतिः पोष्णाश्विनीवसुकरादिषु पञ्चकेषु कौसुम्भहेममणिविद्रुमकाचशङ्खाः । नार्या धृताः सुतसुखार्थकरा भवन्ति ब्रामोत्तरादितिगुरुष्वसुखाय भर्तुः ।।
कृष्यादिनिरूपणम् १२७१ तत्रैव- शङ्खादिवररत्नानि पुष्पादित्युत्तरासु च । रोहिण्यां नैव गृह्णींत भर्तुर्जीवितकाङ्किणी ।। अथ सूचीकर्म- वासवादितिमत्वाष्ट्रमैत्रचन्द्राश्विनीषु च । सूचीकर्म तनुत्राणमेभिक्षः प्रशस्यते ।। अंथ शय्या- हस्तादितिब्रह्मगुरूत्तराणि पौष्णाश्विमूलेन्दुभचित्रभानि. वारेषु जीवेन्दुसितेन्दुजानां श(१)य्यासनारम्भणमुत्तमं स्यात् ।। अथ शस्त्रधारणम्- पुष्ये चादितिचित्रपद्मतनये शकोत्तरा रेवती- स्वातीवाजिविशाखमित्रसहिते भानौ गुरौ भार्गवे । कुम्भ कीटगृहे वृषे मृगपती चेन्दो शुभैर्वीक्षिते सन्नाह शरखड्गकुन्तछुरिकाधार्या नृपाणां हिता अथ स्वामिसेवा । चण्डेश्वर:- रोहिण्युत्तरपौष्णेषु वसुबारुणयोरपि । सेवेत स्वामिनं भृत्यः शुभवारोदये तथा ॥ ज्योतिर्निबन्धे- दासीदासादिभृत्यानां कुर्यात्संग्रहणं(२)बुधे । स्थिरलग्ने शुभष्टे मन्दवारे विशेषतः ॥ अथ गजाश्वदोलाः । स एवं- पौष्णप्रजेशादितिभयानि हस्तादिषट्क श्रवणोत्तराणि । दोलादिमातङ्गतुरङ्गमाणा- मारोहणेऽभीष्टफलप्रदानि ।। (१) शय्यासमारम्भण' क ख : (२) बुधैः ग०। .
१२७२ सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वार्द्ध- अथ नृत्यम् हस्तः पुष्यो वासवं रोहिणी च :: ज्येष्ठा पौष्णं वारुणं चोत्तराश्व पूर्वाचायः कीर्तितश्चक्रवर्ती ऋत्यारम्भे शोभनोऽयं भवर्गः ॥ अथ राजदर्शनम् । श्रीपतिः मृगाश्विपुष्यश्रवणश्रविष्ठाहस्तध्रुवत्वाष्ट्रभपूषभानि । मैत्रेण युक्तानि नरेश्वराणां विलोकने भानि शुभप्रदानि॥ अथ क्रयविक्रयो- भाद्रद्वयत्रिदशमन्त्रिदिवाकरेषु मूलानिलोत्तरतुरङ्गमरेवतीषु । सारङ्गपाणिरजनीकरमैत्रभेषु लाभः सदैव भवति क्रयविक्रयाभ्याम् ।। वस्त्रे तु- चित्रा शतभिषा स्वाती रेवती चाश्विनी शुभा। श्रवणश्च तथा प्रोक्ता वस्त्राणां क्रयणे शुभाः ॥ अर्थ सेतुः-- स्वातीयुक्त मन्दुवारे वृषलग्ने शुभे दिने । सेतूना बन्धन काय धुवभ चार्कजीवयोः । अथ पशुकृत्य । श्रीपति चिनोत्तरावैष्णवरोहिणीष्ठ चतुर्दशीदर्शदिनाष्टमीषु । स्थानमधेशं गमनं विद्ध्यात् पुमान् पशूनां न कदाचिदेव ।। चण्डेश्वर:- हस्तमूलविशाखासु रेवत्या श्रवणे तथा । मैत्रे च वारुणे श्रेष्ठं पशुक्रयणमुच्यते ।। पूर्वाञयामृतमयूखहुताशनेषु इन्द्राग्निवाजिवसुवारणशंकरेछु ।
कृष्यादिनिरूपणम् । १२७३
एतेषु गोमहिषदन्तितुरङ्गमादि-
नाना(२)प्रकारपशुजातिगतिः प्रशस्ता ॥
अथ गजदन्तच्छेदः । ज्योतिर्निषन्धे--
स्वाष्ट्र वैष्णव अश्विन्यामादित्ये वसुदैवते ।
दन्तिनां शुभदं कर्म पुष्ये हस्ते च क(२)तनम् ॥
अथ निक्षेप:-
भरणी त्रीणि पूर्वाणि आश्लेषा मघा तथा ।
चित्रा ज्येष्ठा विशाखा च मूलं मृगपुनर्वसू ।
एभिर्दत्तं प्रयुक्तं च यद्यनिक्षिप्यते धनम् ।
पृष्ठतो धावमानस्य ध(३)निनो नोपपद्यते ॥
अथ ऋणमोक्षः। श्रीधर:-
वागीशमन्ददिवसांशकलग्नयुक्त
रिक्तासु मन्ददिवसे कुलिकोदये च ।
मैत्रवितीयपदमैत्रमुहूर्तयुक्त
राश्युगमे च ऋणमोक्षमुशन्ति सन्तः ॥
अथ राजमुद्रा-
मृदुध्रुवक्षिपचरेषु भेषु योगे प्रशस्ते शनिचन्द्रवर्जम् ।
बारे तिथौ पूर्णजयाह्वये च मुद्राप्रतिष्ठा शुभदा हिराज्ञाम् ।।
अथ नौः । चण्डेश्वरः-
पौष्णाश्विनीतुरगवारुणमित्रचित्रा-
शीतोष्णरशिमवसवोऽनलवन्त्यमूनि ।
वारे च जीवभृगुनन्दनके प्रशस्ते
नौकादिसंघटनवाहनमेष्ठ कुर्यात् ॥
अथ भोगः-
गुरुभरविभानुराधाविधातृपौष्णाविरोहिणीषु स्यात् ।
स्वात्युत्तरासु कुर्याच्छयनासनभोगभोगादि ।
(१) 'नानाकुमारपशु' ख० (२) 'कीर्तितं' क.
(३) 'निर्धनो' ख० ग.
१२७४ सटीक निर्णयसिन्धुतृतीयपरिच्छेदपूर्वाई- अथ श्मश्रुकर्म । श्रीपतिः- पुष्ये पौष्णे चाश्चिनीष्वैन्दवे च शाके हस्तायें त्रिके भेप्यदित्याम् । क्षौरं कार्य वैष्णवादित्रये च मुक्त्वा भौमादित्यपातङ्गिवारान् ॥ न लातभुक्तोत्कटभूषिताना- मभ्यक्तयात्रासमरोत्सुकानाम् । चौरं विदध्याग्निशि संध्ययोवा जिजीविषूणां नवमे न चाहि ॥ त्रिस्थलीसेतो वृद्धगाय:- रव्यारसौरवारेषु रात्रौ पाते व्रताहनि । श्राद्धाहःप्रतिपद्रिक्ताभद्राः क्षौरेषु वर्जयेत् ॥ गाय:- षष्ठयमापूर्णिमापातचतुर्दश्यष्टमी तथा । आसु सन्निहितं पापं त्रिषु तैले भगे क्षुरे ।। राजमार्तण्ड:- देवकार्ये पितुः श्राद्धे रवेशपरिक्षये । क्षौरकर्म न कुर्वीत जन्ममासे च जन्मभे॥ बृहस्पतिः- राजकार्थे नियुक्तानां नराणां भूपजीविनाम् । श्मश्रुलोमनखच्छेदे नास्ति कालविशोधनम् ॥ अक्षौरं नैमित्तिक कार्य निषेधे सत्यपि धुवम् । पित्रादिमृतिदीक्षासु प्रायश्चित्ते च तीर्थके ॥ केचित्तूत्तरार्धमन्यथा पठन्ति । तथा अक्षौरं नैमित्तिकमिति । अत्र 'निषेधे सत्यपि'इत्युपादानात् प्रायश्चित्ततीर्थयो रात्रावपि क्षौरम् । मृतिनिमिचं तुः दिन एक कृष्यादिनिरूपणम् । मुण्डनस्य निषेधेऽपि कर्तनं तु विधीयते । इति । नारदः- नृपविप्राज्ञया यज्ञे मरणे बन्धमोक्षणे । उदाहेऽखिलवारः तिथिषु क्षौरमिष्टदुम् ।। भारते-- प्राङ्मुखः श्मश्रुकर्माणि कारयीत समाहितः। उदङ्मुखोऽथवा भूत्वा तथायुर्विन्दते महत् ।। अपराक उदङ्मुखः प्राङ्मुखो वा वपनं कारयेत्सुधीः । केशश्मश्रुलोमनखान्युदक्संस्थानि वापयेत् ।। दक्षिणं कर्णमारभ्य धर्मार्थ पापसंक्षये । शिखाधे नवसंस्कारे शिखाद्यन्तं शिरो वपेत् ।। यतीनां तु विशेषो निगमे-- कक्षोपस्थशिखावर्जमृतुसन्धिषु वापयेत् । इति । अन्येऽपि विधिप्रतिषेधाः प्रागुक्ताः । अथेन्धनसंग्रहः- ब्रह्मानिलार्कमघमूलत्रिपूर्वरौद्र- पौष्णानुराधगुरुविष्णुविशाखयुक्ते । श्वस्तनी वपनक्रिया'इत्युक्तेः। *दक्षिणं कर्णमिति। तीर्थ- श्राद्धे वक्ष्यामः । निषिद्धदिने क्षौरे कृते पुनस्तदोषशान्त्यर्थं विहि- तकाले कार्यमित्याह गर्ग:- निषिद्धेषु च कालेषु क्षौर(१)कार्य यदा भवेत् । तदोषशान्तये क्षिप्रं कुर्यात्तच्च शुभे दिने ॥ इति । आननॊऽहिच्छत्रः पाटलिपुत्रोदि(२)तिदिन: श्रीशः । सौरे स्मरणादेषां दोषा नश्यन्ति निःशेषाः ॥ इति । (१) 'क्षौरकर्म यदा' घ० ० । (२) 'दिनिर्दितिः श्रीशः' घ० ० ।
१२७६ सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वाद्ध- धारे कुजार्कभृगुनन्दनसोमजानां श्रेष्ठन्धनस्य करणं भवति प्रशस्तम् । अथ नवान्नम् । श्रीपतिः- रेवतीश्रुतिपुनर्वसुहस्तब्राह्मतः पृथगपि द्वितये च । व्युत्तरेषु गदितं पृथुकानां प्राशनं नवनवान्नविधानम् ।। अथ नव भोजनपात्रम् । ज्योतिर्निबन्धे- भोज्यपात्रं सुधासिन्धौ घटयेवा समाहरेत् ।। तत्रान्नप्राशनप्रोक्त काले भोजनमाचरेत् ॥ अथ मवपर्णफलादिभक्षणम् । चण्डेश्वर:- मूलाश्विमैत्रकरतिष्यहरीन्द्रभेषु पौष्णोत्तरैन्दवपुनर्वसुवासवेषु । धारेषु भूमितनयार्कजवारवर्ज ताम्बूलनुतन फलाद्यशनं हिताय । अथ होमे आहुतिपातः । ज्योतिष- *तरणिविट्टगुभास्करिचन्द्रमा: कुजसुरेज्यविधुतुदकेतवः । रविभतो दिनभं गणयेत्क्रमात प्रतिखगं त्रितयं त्रितयं न्यसेत् ॥ दिनकरातिमाकुजकेतवो हुतभुजे न शुभास्त्वितरे शुभाः । अतरणीति । एवं वहिवासोऽपि बोध्यः । सैका तिथिर्वारयुता कृताप्ता शेष गुगेभ्रे भुवि व(१)दिवाप्तः । सौख्याय होमे शशियुग्मशेषे प्राणार्थनाशो दिवि भूतले च ।। इति (8) 'वहिवप्रः' घ० ० ।
कृष्यादिनिरूपणम् । १२७७.
दहनचक्रमिदं विलोक्यता
हवनकर्मणि सर्वसमृद्धये ॥
अत्र शान्तिरक्ता विष्णुधर्मे-
क्रूरग्रहमुखे चैव संजाते हवने शुभे ।
शान्ति विधाय गां दद्याद्राह्मणाय कुटुम्बिने ।
आयसी प्रतियां कृत्वा निक्षिपेत्तामधोमुखीम् ।
गोमूत्रमधुगन्धायैरर्चितां प्रतिमां ततः ॥
वस्थां निधाय संपूज्य तत्र होमो विधीयते ॥
अत्रापवादः क्रि(१)यासारे-
नित्ये नैमित्तिके दुर्गाहोमादौ न विचारयेत् ।
अथ ज्वरादौ फलम् । श्रीपतिः-
स्वात्याश्लेषारौद्रपूर्वासु शाके
रोगोत्पत्तिर्जायते यस्य पुंसः ।
तटैषज्यव्यापृतो निष्प्रयत्न:
स्यादुदुग्धाब्धेलब्धज(२)न्मापि वैद्यः ॥
व्याध्युत्पत्तिर्यस्य पौष्णे स(३)मैत्रे
प्राणत्राणं जायते तस्य कृच्छात् ।
वैश्वे सौम्ये रोगमुक्तिस्तु मासा.
द्विशत्या स्यावासराणां मघासु ॥
पक्षास्ते वासवे सदिदैवे
मूलाश्विन्योरग्निधिष्ण्ये नवाहात् ।
याम्ये त्वाष्ट्र वैष्णवे वारुणेच
नैरुज्यं स्यान्नूनमेकादशाहात् ॥
आहिर्बुध्न्ये तिष्यसंज्ञे यमाख्ये
प्राजापत्यादित्ययोः सप्तरात्रात् ।
रोगान्मुक्तिर्जायते मानवानां
निःसंदिग्धं जल्पितं गर्गमुख्यैः ॥
(१) 'क्रियासागरें ख० (२) 'जन्मादिवैद्यः' क० (३) 'समित्रे' क.
१२७८ सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वाद्ध ज्योतिष- एकाहो निधनं दशाहमनलाद्वाणा वियपर्वता: सप्ताङ्का विलयश्च मासयुगुलं मासो मृतिः पक्षक: दो मासावथ विंशतिर्दश निशाः पक्षान्तपक्षा नवा मासौ पक्षदशान्तपक्षककुभा पीडादिनान्यश्विाद ॥ दैवज्ञः- उरगवरुणरौद्रा वासवेन्द्र त्रिपूर्वा यमदहनविशाखा: पापचारेण युक्ताः । तिथिषु नवमिषष्ठी द्वादशी वा चतुर्थी भवति मरणयोगो रोगिणां कालहेतुः ।। अत्र (२)शान्ति:-कुम्भे हैमी नक्षत्रदेवतामतिमा सम्पूज्य द्वादशदलेषु संकर्षणादिद्वादशमूर्तीदशादि- त्यान् वा सम्पूज्य दूर्वासमित्तिलक्षीराज्यैर्गायच्या तद्दे- चतायै अष्टोत्तरशतं हुत्या दुध्योदनं बलिं दत्वाऽचा- र्याय गां प्रतिमांच दत्त्वा विमान् भोजयेदिति सक्षपः। विशेषस्तु व्रतहेमाद्रौ पदार्थादर्शे च ज्ञेयः । अथ भेषजम् । चण्डेश्वर:- मूलानुराधमृगतिष्यपुनर्वसौ च पोष्णाश्विनीश्रवणशुक्रकरत्रये च । वारेषु वा(२)क्पतिदिनेषु सितेन्दुशस्ते भैषज्यभक्षणममीषु हितं नराणाम् ।। अथारोग्यस्नानम् । श्रीपतिः- इन्दोारे भार्गवे च ध्रुवेष्ठ सादित्यस्वातियुक्तेषु भेषु । पि(३)व्ये चान्ते वापि कुर्यात्कदाचि- (१)'शान्तिः' नास्ति क० (२) 'वाक्पतिसितेन्दुदिने प्रशस्तं भैष' क० (३) च्येक - - कृष्यादिनिरूपणम् । १२७९ नैव स्नानं रोगनिर्मुक्तजन्तुः ।। चरे विलग्ने रविभौमवारे रिक्त तिथौ स्याहुले च पक्षे । धिष्ण्ये चरे रोगनिपीडितानां स्नानं नराणां निरुजत्वकारि ॥ अथ दन्तधावनम् । पृथ्वीचन्द्रोदये विष्णुः- प्रतिपद्दर्शषष्ठीषु चतुर्दश्यष्टमीष्ठ च । नवम्यां भानुवारे च दन्तकाष्ठं विवर्जयेत् ॥ नारद:- चतुर्दश्यष्टमीपौर्णमासीसंक्रमणेषु च । नन्दासु च नवम्यां च दन्तकाष्ठं विवर्जयेत् ॥ श्राडे यज्ञे च नियमे तथा प्रोषितभर्तृका। व्यतीपाते च संक्रान्त्यां नन्दाभूताष्टपर्वसु ॥ तैलं क्षौरं रतिं मांसं दन्तकाष्ठं च वर्जयेत् ॥ वसिष्ठः- शन्यर्क शुक्रवारेषु कुजाहे व्रतवासरे। जन्माहे श्राद्धदिवसे दन्तकाष्ठं विवर्जयेत् ॥ हेमाद्रौ स्कान्दे- अभ्यङ्गे जलधिस्नाने दन्तधावनमैथुने । जाते च निधने चैव तत्कालव्यापिनी तिथिः । संवतः- रवी विवाह आशौचे वर्जयेद्दन्तधावनम् ।। व्यासः *अलाभे दन्तकाष्ठानांनिषिद्धायां तथातिथौ। *अलाभे दन्तकाष्ठानामिति । तृणपणैः सदा कुर्यादमामेकादशीं विना । इति वाक्यसारोक्तवचनाद् 'अपां द्वादश'इत्यादि एकाद- १२८० सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वार्दै- अपां बादशगण्डूर्विदध्यादन्तधावनम् ।। अथामलकस्नानम् । व्यासः- श्रीकामः सर्वदा स्नानं कुर्वीतामलकैनरः । सप्तमी नवी चैव पर्वकालं विवर्जयेत् ॥ चन्द्रसूर्योपरागे च स्नानमामलकैस्त्यजत् ।। क्रतु:- षष्ठी च सप्तमी चैव नवमी च त्रयोदशी। संक्रान्तौ रविवारे च स्नानमामलकैस्त्यजेत् ।। यसु- नवमी दशमी चैव तृतीया च त्रयोदशी। प्रतिपदादशी कृष्णा स्नानं तासु विवर्जयेत् ।। दर्श स्नानं न कुर्वीत मातापित्रोःसुजीवतोः । पुत्रः कुर्वन्निराचष्टे पित्रोन्नतिजीविते ॥ इति कण्वयमायैः स्नानमात्रं निषिद्धं, तद्भोगार्थ- स्नानपरं न नित्यनैमित्तिकपरमिति हेमाद्रिः । अथ तैलस्नाननिषेधः । कात्यायन:- पक्षादौ च रवी षष्ठ्यां रिक्तायांच तथा तिथौ। तैलेनाभ्यज्यमानस्तु चतुर्भिः परिहीयते ॥ गर्ग:- पञ्चदश्यां चतुर्दश्थामष्टम्यां र(१)विसंक्रमे । द्वादश्यां सप्तमीषष्ठयोस्तैलस्पर्श विवर्जयेत् ।। न च कुर्यात्तृतीयायां त्रयोदश्यां तिथौ तथा । शाश्वती गतिमन्विच्छन् दशम्घामपि पण्डितः॥ शीविषयमिति केचित् । तन्न, “पत्रैर्वा शोषयेन्मुखम् इति वच. नान्तरात् । (१) 'रविवासरें' का कृष्यादिनिरूपणम् । तत्रैवायुर्वेदे- षष्ठयां दिनक्षयेऽष्टम्यामेकादश्यां च पर्वसु । छाया च चतुर्दश्यां पञ्चम्यां प्रतिपत्तियौ । व्रते श्राद्धदिने जन्मत्रितये श्रवणार्द्रयोः । ज्येष्ठोत्तराफाल्गुनीषु व्यतीपाते च वैधृतौ ॥ विष्टियोगे च संक्रान्तौ मन्वादिषु युगादिषु । नाभ्यङ्गं तत्र बालानां वृद्धानां तु न दोषकृत् ।। इति । व्यवहारतश्वे- संक्रान्तिभद्राव्यतिपातवैधृति. षष्टयष्टमीपर्वसु नार्कभूसुते । लाने द्वितीया दशमी च गर्हिताः ष(१)ष्ठयाधमाद्या रदधावनेऽधमाः ।। अस्यापवादमाह तत्रैव प्रचेताः- सार्षपं गन्धतैलं च यतैलं पुष्पवाप्तितम् । अन्यद्रव्ययुतं तैलं न दुष्यति कदाचन ।। आयुर्वेदे--- निषिद्धतिथिवारर्भग्रहणेष्वपि रात्रिषु । -किश्चिद्गोघृतयुक्तं वा विप्रपादरजोन्वितम् ॥ भानौ दूर्वान्वितं भौमे भूयुक्तं पुष्पयुग्गुरौ । सर्वेषां सर्वदा तैलमभ्यङ्गेषु न दुष्यति । मङ्गलेऽवयदोषः, माङ्गल्यं विद्यते लानं वृद्धिपोत्सवेषु च। स्नेह(२)पानसमायुक्तं मध्याह्वात् प्राक्तदिष्यते ॥ इति मदनपारिजाते कात्यायनोक्तेः । हेमाद्रौ बृहन्मनु:- तैलाभ्यङ्गो नार्कचारे न भौमे नो सक्रान्ती वैधृती विष्टिषष्ठ्योः । पर्वस्वष्टम्यां च नेष्टः स इष्टः प्रोक्तान्मुक्त्वा वासरे सूर्यसूनोः ॥ (१) षष्ठयादिमाद्या' क० ख०। (२)समान'ख०। १६१
-
१२८२ सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वा-
तिललाननिषेधस्तु षट्त्रिंशन्मते-
तथा ससम्यमावास्थासंक्रान्तिग्रहजन्मसु।
धनपुत्रकलत्रार्थी तिलपिष्टं न संस्पृशेत् ॥
अथ गृहारम्भः । ज्योतिर्निबन्धे बादरायण:---
वैशाखे फाल्गुने पौषे श्रावणे मार्गशीर्षके ।
सूत्रारम्भः शिलान्यासः स्तम्भारम्भः प्रशस्यते ॥
नारद:-
सौम्यफाल्गुनवैशाखमाघश्रावणकार्तिकाः।
मासाः स्युर्गृहनिर्माणे पुत्रारोग्यधनप्रदाः ॥
अत्र वृषसिंहवृश्चिकाः वैशाखश्रावणकार्तिकाः से
राज्ञेया इति कालादर्शः। तत्रैव कारणतन्त्रे-
स्थिरमासे स्थिरे राशौ स्थिरेंऽशे नववेश्मनाम् ।
कुर्वीत स्थापनं शङ्को स्तम्भस्थापनमेव वा ।।
कार्तिकनिषेधस्तुलापरः,
कुम्भे(१)मासेपि सर्वेषां मन्दिराणामुपक्रमम् ।
महर्षयः प्रशंसन्ति धान्यागारं विहाय च ।
निषेधो धान्यगृहपरः।
पाक भोजनशालादौ मार्गशीर्षश्च फाल्गुनः।
रथ्यागेहमठादौ च सहस्थः शुचिरेव तु ॥
पौषाषाढनिषेधस्तु प्रधानगृहपरः,
न प्रधानगृहारम्भं कुर्यात्पौषे शुचावपि ।
इति तत्रैवोक्तेः । ज्योतिस्तत्त्वे-
पूर्वापरास्यं तु नभोऽन्त्यपौषे
याम्योत्तरास्पं सहसि द्वितीये ।
कार्य गृहं जीयुधक्षगार्के
नीचास्तगी जीवसितौ च हित्वा ।।
(१). 'मानेऽपि ।
कृष्यादिनिरूपणम् । १२६॥ रनमालायाम्- कर्कनकहरिकुम्भगतेऽके पूर्वपश्चिममुखानि गृहाणि । तौलिमेषवृषवृश्चिकयाते दक्षिणोत्तरमुखानि वदन्ति ।। दैवज्ञवल्लभ:- शोक(१)धान्यं पञ्चतां नि:पशुत्वं स्वाप नैःस्वं संगरं भृत्यनाशम् । स्वं श्रीप्राप्तिं वह्विभीतिं च लक्ष्मी कुर्युश्चैत्राद्या गृहारम्भकाले ॥ गर्ग:- युत्तरामृगरोहिण्यां पुष्ये मैत्रे करत्रये । धनिष्ठादितये पौष्णे गृहारम्भः प्रशस्यते ॥ रोहिण्यां श्रवणत्रयेऽदितियुगे हस्तत्रये मूलके रेवत्युत्तरफल्गुनीपुरगभे मैत्रोत्तराषाढयोः । शस्तं वास्तु कुजार्कवर्जितदिने गोकुम्भसिंह मुखे कन्यायां मिथुने नभाशुचिसहोराधोजके फाल्गुने । कालादर्श सनत्कुमारः आदित्यभौमवर्जे तु सर्वे धाराशुभप्रदाः। वास्तुशास्त्र- मार्गशीर्ष तथा पौषे वैशाखे श्रावणे तथा । फाल्गुने च कृतं वेश्म सर्वसंपत्प्रदं भवेत् ।। कार्तिक माघमासे च चैत्रे ज्येष्ठे तथाश्चिने । मास्याषा भाद्रपदे न कुर्यात्सर्वथा गृहम् ॥ द्वितीया च तृतीया च पञ्चमी सप्तमो तथा । त्रयोदशी च दशमी पूर्णा चैकादशी तथा । वेश्मारम्भे शुभाय स्युर्विशेषाच्छुक्लपक्षगाः ॥ (१) 'रनं धान्यं' इति कालादर्श पाठः ।
१२८४ सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्धा-
व्यवहारसारे-
शिलान्यासः प्रकर्तव्यो गृहाणां श्रवणे मृगे।
पौष्णे हस्ते च रोहिण्यां पुष्याश्विन्युत्तरात्रये ॥
वास्तुपदीपे-
अधोमुखैर्विदधीत खातं शिलास्तथैवोर्वमुखैश्च पट्टम् ।
तिर्यमुखैारकपाटपानं गृहप्रवेशो मृदुभिर्धवैश्च ॥
-
लानं च पाकं शयनं च भोज्यंगजालयं वाजिगृहं धनस्य ।
देवस्य पूर्वादिदिशि क्रमेण मध्ये सभा भूपनिवेशनाय ॥
शिल्पशास्त्रे-
कन्यासिंहे तुलायां भुजगपतिमुखं शम्भुकोणेऽग्निखातं
वायव्ये स्यात्तदास्यं स्वलिधनमकरे ईशखातं वदन्ति ।
कुम्भे मीने च मेषे नितिदिशि मुखं खातवायव्यकोणे
चाग्नेः कोणे मुखं वै वृषमिथुनगते कर्कटे रक्षखातम् ॥
तत्वचिन्तामणौ-
यत्र दैध्य गृहादीनां द्वात्रिंशद्धस्ततोऽधिकम् ।
न तत्र चिन्तयेद्धीमान् गुणानायव्ययादिकान् ।।
राजमार्तण्डः--
आयव्ययौ मासशुहिं तृणागारे न चिन्तयेत्
शिलान्यासादि नो कुर्यात्तथागारे पुरातने ।।
व्यवहारतत्वे-
निषिद्धेष्वपि कालेषु स्वानुकूले शुभे दिने ।
तृणकाष्ठगृहारम्भे मासदोषो न विद्यते ।
चण्डेश्वर:-
पूर्णादि त्वष्टमी यावत्पूर्वास्यं वर्जयेद् गृहम् ।
उत्तरास्यं न कुर्वीत नवम्यादिचतुर्दशीम् ॥
अमावास्याष्टमी यावत्पश्चिमास्यं विवर्जयेत् ।
नवम्यादौ तथा याम्यं यावत्कृष्णचतुर्दशीम् ॥
- . - कृष्यादिनिरूपणम् । १२८५ ध्रुवं १(१)ष्ट्वाथवा स्मृत्वा कर्तव्यं वास्तुरोपणम् । सायाहवर्यदिवसे रात्रौ त्यक्त्वा महानिशम् वराहा दक्षिणपूर्वे कोणे कृत्वा पूजां शिलां न्यसेत्प्रथमाम् । शेषाः प्रदक्षिणेन स्तम्भाश्चैवं समुत्थाप्याः ॥ कालादर्श वास्तुशास्त्रं- खाते चैव शिलान्यासे(२)वृषचक्रं प्रशस्यते । तच्चोक्तं शान्तिरत्ने- चतुर्हस्तप्रमाणं तु खात्वा गर्ने समन्ततः । कुम्भोदकैः सेचयेयुः शान्तिपाठपुरःसरम् ॥ तत ईशानदिग्भागे साक्षतं रत्नपञ्चकम् । साज्यं कुम्भं स्थिरं मुक्त्वा वास्तुपूजनपूर्वकम् ।। कुम्भापरि शिलान्यासः कर्तव्यस्तदनन्तरम् ॥ अथ गृहप्रवेशः । बृहस्पति:- नन्दायां दक्षिणवारं भद्रायां पश्चिमेन तु । जयायामुत्सरदारं पूर्णायां पूर्वतो विशेत् ।। वसिष्ठः- कृत्वा शुक्रं पृष्ठतो वामतोऽक विप्रान्पूज्यानग्रतः पूर्णकुम्भम् । हय रम्यं तोरणस्रग्वितानैः स्त्रीभिः स्रग्धी गीतवाद्यैर्विशेच ॥ व्यवहारतत्त्वे- सौम्यायने श्रावणमार्गपौषे जन्मक्षलग्रोपचयोदयेंऽशे। (१) 'दृष्टा तथा स्मृत्वा' क०। (२) वृषचक्रं धर्मान्धौ-नेष्टानि सप्त सूर्यादिष्टान्येकावशाष्टमात । दश शिष्टानि नेष्टानि चक्रे स्युर्वृषवास्तुनि ॥ यद्वा तुर्यात्पञ्चदशानयो- विशतिसंख्यकात् । वेदाब्धिपञ्च नेष्टानि गृहारंभप्रवेशयोः इति वास्तु चक्रम।
१२८६ सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वार्द्ध- वाम गतेऽके गृहवास्तुपूजां कृत्वा विशेशम भकूटशुद्धम् ॥ वास्तुशास्त्रे- लग्नात्प्रागादितो दिक्षु द्वौ द्वौ राशी नियोजयेत् । एकमेकं न्यसेत्कोणे मू(१)यं वमिं विचिन्तयेत् ।। वसिष्ठः- चन्द्रजार्यसितवासरेषु च श्रीकर सुतमहार्थलाभदम् । सूर्यमूनुदिवसे स्थिरप्रदं किन्तु चौरभयमत्र निर्दिशेत् ॥ रत्नकोशे- पुष्ये धनिष्ठामृगवारुणेषु स्वायंभुवः त्रिषु चोत्तरासु। अक्षीणचन्द्रे शुभदो नृपस्य तिथावरिक्त च गृहप्रवेशः ॥ नारदः- प्रवेशो मध्यमो ज्ञेयः सौम्यकार्तिकमासयोः। माघफाल्गुनवैशाखज्येष्ठमासेषु शोभनः ॥ अकपाटमलाच्छन्नमदत्तषलिभोजनम् । गृहं न प्रविशेद्धीमानापदामाकरो हि त(२)त् ॥ ज्येष्ठः क्षुद्रगृहपरः । वृद्धगार्य:- भानोश्च भौमस्य विहाय बारी शूलादियोगानशुभानवापि । रिक्ता तिथिश्चापि मृदुधुवः सौम्यायने च प्रविशेद्धृहाणि ॥ रत्नमालायाम-- स्वाष्ट्रमित्रशशिपू(३)षदैवतान्यामनन्ति मुनयो मृदून्यथ । (१) 'सूर्य वामे विचारयेत्' ख०! (२) 'यत्' क०। (३) 'पुष्यदेवता' क० ।
- कलिवयनिरूपणम् । १२८७ मैत्रगे हरति भूषणाम्बरांद्गीतमङ्गल विधानमेषु च ॥ रोहिण्युत्तरात्रयं च ध्रुवाणि । प्रवेशश्च पास्तुपूजा कृत्वा कार्य:- जीर्णोद्धारे तथोद्याने तथा गृहनिवेशने । नवप्रासादभवने प्रासादपरिवर्तने ॥ द्वाराभिवर्तने तद्वत्प्रासादेषु गृहेषु च । वास्तू(१)पशमनं कुर्यात्पूर्वमेव विचक्षणः ।। इति मात्स्योक्तेः । तत्रैव- कृत्वाग्रतो बिजवरानथ पूर्णकुम्भं ध्यक्षताम्रदलपुष्पफलोपशोभम् । दत्त्वा हिरण्यवसनानि तथा द्विजेभ्यो माङ्गल्यशान्तिनिलयं स्वगृहं विशेच्च ।। गृह्योक्तहोमविधिना बलिकर्म कुर्यात् प्रासादवास्तुशमने च विधिर्य उक्तः। संतयेद्विजबरानथ भक्ष्यभोज्यैः शुक्लाम्बरः स्वभवनं प्रविशत्सुरूपम् ॥ अथ कलियानि बृहन्नारदीये- समुद्रयातुः स्वीकारः कमण्डलुविधारणम् । विजानामसवर्णासु कन्यासूपयमस्तथा । यस्तु कार्तयुगो धर्मो न कर्तव्यः कलौ युगे । पापप्रयुक्ताश्च सदा कलौ नार्यो नरास्तथा ॥ इत्यादित्यपुराणवचनेन यद्यपि कृतयुगसंबन्धि धर्मसामा. न्यं निषिद्धं तथापि सर्वस्य तस्य निषेद्धमशक्यत्वाद्विशेषानाह-*स. मुद्रति । यद्यपि समुद्रयानं न विहितं तथापि बौधायनेन "समु. द्रयानं ब्राह्मस्य न्यासापहरणम्" इत्यादिना तत्कर्तुः प्रायश्चित्तं विहि- तं, तदपि कलौ कर्तव्यमेवेति तत्करणानन्तरं तब्यवहारो निषिद्धयते, (१) 'वास्तुप्रसवनं' क०॥
१२८८ सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वार्द्ध- देवराव सुतोत्पत्तिमधुपर्के *पशोर्वधः । *मांसदानं तथा श्राद्धे*वानप्रस्थाश्रमस्तथा ।। दत्ताक्षताया: कन्यायाः पुनर्दानं परस्य च । *दीर्घकालं ब्रह्मचर्य नरमेधाश्वमेधको ।। द्विजस्याब्धौ तु नौयातुः शोधितस्यापि संग्रहः । इत्यग्रिमवचनाच । एतच्च प्रायश्चित्तं रागप्राप्त समुद्रयान ए- व । शंखोद्धारादितीर्थ यात्राविधिनान्तरीयकं समुद्रयानमतो दो- षाभावान प्रायश्चित्तमित्यन्यत्र विस्तरः । अत्र क्रत्वर्थमात्रनिषधे. पि न क्षतिः पुरुषार्थनिषेधान्तरसत्वात् । *पशारिति । महोतं वा महाजं वा श्रोत्रियायोपकल्पयेत् । इति अजादिसंग्रहार्थं पशुपदम् । *मांसदानमिति श्राद्धस- म्बन्धि(१)क्रत्वर्थपुरुषार्थत्वं निषिध्यत, यथा वेदिबर्हिधर्माणां प्रधा- 'नसम्बन्धिमात्रांशे विधिः, न तु तादथ्यांशेऽपि, मानाभावात् , - तद्वत् (२)एतेन- शौचं च पात्रशुद्धिश्च श्रद्धा च परमा यदि । अनन्तप्तिकृच्छ्राद्धमेतत्खलु न चामिषम् । इति पुरुषार्थमामिषदानं निषिध्यते, न तु क्रत्वर्थं विधिस्पृष्टे निषेधानवकाशादियपहसितम् । श्राद्ध इति उपलक्षणार्थ, तेनो- (३)पयाचितकादावपि निषेधः । *वानप्रस्थति। मुतविन्यस्तपत्नीकस्तया वाऽनुगतो वनम् ॥ वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत् ॥(या०प्मृ०३-४५) इति विहितः । वानप्रस्थों बुभूषुरिति शेषः । *दीर्घकाल- मिति । “अष्टचत्वारिंशद्वणि वेदब्रह्मचर्यम्" इति श्रुतिवि- हितम् , यदि चात्यन्तिको वासो रोचेत स्वगुरोः कुले। युक्तः परिचरेदेनमाशरीरविमोक्षणात् ॥ (१) 'क्रत्वर्थ पुरुषार्थ च' ख०। (२) 'पतेन' नास्ति घ० ०। (३) 'सेनोपयाचितकारादिनिषेधः' घ०७०।
कलिवयनिरूपणम् । १२८९ . - *महाप्रस्थानगमनं *गोमेघश्च तथा मखः । इमान्धमान्कलियुगे वानाहुमनीषिणः ॥ कमण्डलुः 'सोदकं चकमण्डलुम्' इत्युक्त, मृन्म- आचार्य तु खलु प्रेते गुरुपुत्रे गुणान्विते । गुरुदारे सपिण्डे वा गुरुववृत्तिमाचरेत् ।। एतेष्वविद्यमानेषु स्थानासनविहारवान् । प्रयुक्षानोऽग्निशुश्रूषां सादयेद्देहमात्मनः ।। इति विहितं नैष्ठिकं च । स्थानमङ्गुष्टाग्रादिना नियतमर्याव- स्थानम् , आसनं नियमोपवेशनं, विहारो भ्रमणम् , एतैस्तपोवि- शेषो लक्ष्यते । नव्यास्तु दीर्घकालमिति कालापवादमात्रम् । अ- न्यथा दीर्घ ब्रह्मचर्यमित्येव ब्रूयात् । तेन श्रौतमेव निषिध्पते न नै- ठिकम् । तेन द्राविडानां नैष्ठिकाचारोऽपि संगच्छते इत्याहुः । नर- मेधति। "ब्रह्मणे ब्राह्मणमालगते” इति “तरति ब्रह्महत्यां योऽ. श्वमेधेन यजते" इति विहितौ । *महाप्रस्थानेति । यो जीवितुं न शक्नोति महाव्याध्युपपीडितः । सोऽन्युदकमहायात्रां कुर्वन् वा न प्रदुष्यति ॥ इति विहितमाशरीरपातमुत्तरदिग्गमनम् । *गोमेधश्चेति । "मैत्रावरुणीं गां वशामनुवन्ध्यामालभेत" इति विहितो यागभेदः । चकारात् राजसूयग्रहः, न कलौ क्रियते अश्वमेधो वाप्यथ गोसवः । नरमेधोऽक्षता नारी देवरात् पुत्रसन्ततिः ।। गर्हितं सप्तकं ह्येतद्राजमुयः कमण्डलुः । इति हेमाद्रौ गारुडाहा । राजसूयश्च "राजा राजसूयेन यजेत" इति विहितः । *कमण्डलुमित्युक्त इति । इदमुप. लक्षणम्, दाक्षायणी ब्रह्मसूत्री वेणुमान् स कमण्डलुः । इत्युक्तस्योपलक्षणम् । तथाच स्नातकस्य इत्युक्तः "अथ . १६२ - १२९. सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वार्द्ध- यो वा दत्ता ऊढा, अऊढायाः पुनरुवाहं ज्येष्ठांशंकगोवघं तथा। कलौ पञ्च न कुर्थात भ्रातृजायां कमण्डलुम् ॥ इति हेमाद्री वचनात् । ऊहाया:- पुरा पुरुषसंयोगान्मृते देयेति केचन । इत्यादिभिर्विवाद्यतोक्ता । हेमाद्री ब्राले- गोत्रान्मातुः सपिण्डाच्च विवाहो गोवधस्तथा। नराश्वमेधी मद्यं च कलो वज्य द्विजातिभिः ।। गोत्रागोबजायाः पितृष्वसुः, मातृसपिण्डान्मातु- लात्तत्कन्याया विवाहः कलौ न कार्यः। तेन यानि तविधायकानि, तानि *युगान्तरविषयाणि । तथा च कमण्डलुचर्यामुपदिशन्ति" इति बौधायनोक्ततिकव्यताकः काष्ठम- यो मृन्मयो वेत्यर्थः । तेन मृन्मयो वेति वाकारः सङ्गच्छते । न च कमण्डलुधारणं वानप्रस्थाश्रमे इति मतं सम्यक् , तस्य पृथगु. पादानात् । ननु दत्तापदं कुनो न वाग्दत्तापरमित्यत आह-*ऊढाया इति । *ज्येष्ठांशामिति । ज्येष्ठस्य विंश उद्धारः सर्वव्याच्च यद्वरम् । (म० स्मृ.९-११२) इति विहितम् । ॐगोषधमिति । मधुपर्के इति शेषः । *भ्रातृजायामिति । जायामिति शेषः। पश्चेति न परिसंख्या, वाक्यान्तरदर्शनात् । एतद्वाक्योपात्तत्त्वोपाधिना च पञ्चत्तम् । *आदिभिरिति । आदिना ऋतावदृष्टे कन्यैव पुनर्देयेति केचन । इसादिपरिग्रहः । ननु पैतृष्वसेयीमातुलकन्ययोर्विवाहे "a- सां जहुः" इत्यादिश्रुतिः प्रमाणं, श्रुतेः स्मृत्यपेक्षया पावल्यादित्यत आह-*तेनेति । *युगान्तरेति । न चैताग एव अर्जुनादीनां कथं मातुलकन्यापरिणय इति वाच्यं "विहितान्यपि कर्माणि" कलिवयनिरूपणम् । व्यास:- तृतीयां मातृतः कन्यां तृतीयां पितृतस्तथा शुल्केन चोद्वहिष्यन्ति विप्राः पापविमोहिताः ॥ इति कलौ तन्निन्दामाह । मातृतस्तृतीयां मातुलक- न्यामित्यर्थः । उक्तं चैतत्प्राक् । *मद्यं स्त्रीभ्यश्च सुरामा- चामम्' इत्यादिना विहितमपि चय॑म् । इति अग्रिमवाक्यात् । मद्यमिति । मुरापैष्टीनां चाय निषेधो न विषयीकरोति, मुरामधयोर्भेदात् मुरा वै मलमन्नानां पाप्मा च मलमुच्यते । तस्माद्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् ।। इति मनुना द्विजातिसामान्ये तनिषेधाच । न च माध्वी- कादिकं, माधूकमैक्षवं सैरं तालं खार्जूरपानसम् । मधूत्थं चैव मावीकं मैरेयं नारिकेरजम् ॥ अमेध्यानि दशैतानि मद्यानि ब्राह्मणस्य तु ।। इति विष्णुना सामान्यत एव तनिषेधात् , "नित्यं मद्य ब्रा- मणो वर्जयेत्" इति निषेधान्तराच; किन्तु कामादपि हि राजन्यो वैश्यो वापि कथश्चन । मधमेव सुरां पीत्वा न दोषं प्रतिपद्यते । इति बृहद्याज्ञवल्क्येन राजन्यवैश्ययोरभ्यनुज्ञातं मद्य नि- विध्यते । एवं त्रैवर्णिकादिपुरस्कारेण वामागमादौ विहितं विना- यकशान्त्यादौ च क्षत्रियादेरुक्तं मद्यं निषिध्यते । नन्वेतावता नि. षेधस्य प्राप्तिपूर्वकत्वोपपचौ कथं "स्त्रीभ्यश्च मुरामाचामम्" इति सङ्गच्छते, मधे मुरालक्षणायां मानाभावात् ? शृणु, मधमपीड सु- राशब्देन ग्रहीतुं शक्यते, गौडी-पैष्टी-फालीभेदेन तस्यास्त्रिविध- स्वात् । विहितमिति । आश्वलायनगृह्ये "अपरेधुरन्वष्टक्यम्" इत्यत्र विहितमित्यर्थः।
- १२९२ सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वार्द्ध- हेमाद्रौ आदित्यपुराणे- *विधवायाः प्रजोत्पत्तौ देवरस्य नियोजनम् । ओदनापद्रवं माहुराचामं हि मनीषिणः । विधवाया इति । अत्र- विहितान्यपि क(१)र्माणि धर्मलोपभयाद् बुधैः । समापने निवृत्तानि साध्वभावात्कलौ युगे ।। इति प्रकृतम् । समापने जन्मेजयाश्वमेधसमाप्तौ निवृत्तानि नि- वर्तितानि । तेन द्रोणादीनां वधे कथं पाण्डवादीनां कलिमध्ये दोषो नास्तीति न शक्यम् । इदं च "देवराच्च सुतोत्पतिः" इति च वाग्दानानन्तरं मृते पत्यो देवरपर, यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः । तामनेन विधानेन निजो विन्देत देवरः॥ अनेन विधानेन धृताभ्यङ्गादिनियमवनियोजन विधानेन । यथाविध्यभिगम्या शुक्लवस्त्रां शुचित्रताम् । मिथो भजेतामसवात्सकृत्सकहताहतौ ॥ इति मनुना, अपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया । सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋतावियात् ।। इति याज्ञवल्क्येन च तदनुज्ञानात्, न तु विवाहानन्तरं वि- धवायां, नान्यस्मिन्विधवा नारी नियोक्तव्या द्विजातिभिः । इति मनुना वि(२)वाहानन्तरं विधवानियोजननिषेधात् । न. चैव भारते कथं सयवत्यां कनिष्ठभ्रातृभार्यायां विधवायां व्या- सो नियुक्त इति वाच्यम् , तत्र 'धनेनोपतोष्य कश्चन ब्राह्मणो नि. योज्यः' इति भीष्मानुज्ञया सत्यवत्याःतथा(३)करणेन निषेधगतान्य- (१) 'कार्याणि' खः। २) 'विवाहानन्तरं विधवानियोजन' नास्ति घ० उ०। (३) 'तथा' नास्ति ख०। .
कलियनिरूपणम्। १२९३ *बालायाः क्षतयोन्यास्तु वरेणान्येन संस्कृतिः ॥ .. पदस्य ब्राह्मणेतरान्यपरत्वात् । अन्यथा ब्रह्मक्षत्रियदेवक्षत्रियभेदो न स्यात् । महाप्रभावतया दोषकल्पनाविरहेणान्यपदस्य यथाश्रु- तार्थत्वाद्वा । देवराच्चकारादनुज्ञातसपिण्डसगोत्रयोरपि ग्रहः । *बा- लाया इति 'दत्ताक्षनाया:' इसेतत्समानार्थम् । वस्तुतस्तु ननु इदं वाक्यद्वयं कथं सङ्गच्छते, "नान्यस्मिन् विधवा नारी" इति मनुना सर्वदा तनिषधात् । मन्वर्थविपरीता तु स्मृतिः सापि विनश्यति । इति अङ्गिरोवाक्याव , नापि देवरनियोजनं तदर्थः "देवरा: च्च सुतोत्पत्तिः" इत्यनेन पौनरुत्त्यापत्तेः, नापि वाग्दत्ताविषयक तदानी क्षतयोनित्वशङ्काया अभावात् ; इति चेत् ? न, दत्तामपि हरेत्पूर्वाच्छ्याँश्चेवर आव्रजेत् । इति सप्तपद्युपक्रमणात्माग् यदन्यस्मै दानमुक्तं तद्विषयकत्वात् । मनु पराशरेण "कलाचनुष्ठेयान्धर्मान वक्ष्यामि" इति प्रतिज्ञाय नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ ।। पश्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥ इति वचनाद वाग्दत्तायाः कलौ पसन्तरमस्तीति (१)कथं द. चापहारः कलिवयं इति चेत् ? (२)कलो दत्तापहारो न कार्यः, वाग्दानानन्तरतन्मरणे पराशरवचनात्तस्याः परान्तरेण विवा. हः कार्य, कन्यायां शुल्कदत्तायां म्रियेत यदि शुल्कदः । देवराय प्रदातव्या यदि कन्याऽनुमन्यते ॥ इत्युक्तवाक्ये कन्याया अनुमतौ पुरुषान्तराय दानलाभात् । इयांस्तु विशेषः-कन्यानुमतावपि देवराय सा न विवाह्या नियोग- साम्यात् , 'देवराच्च सुतोत्पत्तिः' इति सामान्यतो निषेधात् । एवं (१) 'कथं वाग्दत्ता स्व० । (२) 'कलौ दत्तापहारो न कार्यः' नास्ति स्म। nafipment-name- HAMARAan- १२९४ सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वार्ट- कन्यानामसवर्णानां विधाहश्च द्विजन्मभिः। *आततापिद्विजारयाणां धर्मयुद्धेन हिंसनम् ॥ सगोत्रसपिण्डयोरपि न विवाह्येति । कन्यानामिति । तिस्रो वर्णानुपूज्र्येण द्वे तथैका यथाक्रमम् । ब्राह्मणक्षत्रियविशां भार्याः स्वा शूद्रजन्मनः ॥ इति याज्ञवल्क्येन विहितः । अत्र- असवर्णासु कन्यासु विवाहश्च द्विजातिभिः ।। इति स्मृसन्तरं 'द्विजानामसवर्णासु' इति प्रागुक्तं चैकार्थ बोध्यम् । *आततायीति। गुरुंचा बालबद्धं वा ब्राह्मणं वा बहुश्रुतम् । आततापिनमायान्तं हन्यादेवाविचारयन् ॥ इति विहितं सन्मुखमकूटशस्त्रेण मारणम् । एतेन "जाततायि- बघे दोषोऽन्यत्र गोब्राह्मणेभ्यः" इति सौमन्तवं व्याख्यातं, तस्य फलिपरत्वात् । एवं सति यत् श्रीरामेण रावणं इत्वा दश जारूप्या(१)श्वमेधाः कृता इनि रामायणं तत् आततायिवधे युगान्तरे सपरिहारो दोष इत्येतदर्थम् । वस्तुतस्तु “गुरुं वा बालबद्धं पा ब्राह्मणं चा" इत्यादिवाशब्दस्वारस्यात्कैमुत्यन्यायेन ब्राह्मणभिन्न आततायी वध्य इत्यत्रैव तात्पर्यम् । इदमपि स्वधोधताततायि. विषयम् , उद्यम्य शस्त्रमायान्तं भ्रूणमप्याततायिनम् । निहत्य भूणहा न स्यादहत्वा भ्रूणहा भवेत् ॥ इति गालववचनात् । स्वाध्यापिनां कुले जातं न हन्यादाततायिनम् । तं हत्वा भ्रूणहा स स्यादहत्वाऽभ्रूणहा भवेत् ।। इति बृहस्पतिवचनम् आततायिनमुत्कृष्टं व्रतस्वाध्यायसंयुतम् । यो न हन्याद्वधप्राप्तं सोऽश्वमेधफलं लभेत् ।।
3 कलिवज्यनिरूपणम् । १२९५ द्विजस्याब्धौ तु नौयातुः शोधितस्यापि संग्रहः । सत्रदीक्षा च सर्वेषां कमण्डलुविधारणम् ।। *महाप्रस्थानगमनं *गोसंज्ञसिश्च गोस। सौत्रामण्यामपि सुराग्रहणस्य च संग्रहः ॥ *अग्निहोत्रहव(१)न्याश्च लेहो लीढापरिग्रहः । वृत्तस्वाध्यायसा(२)पेक्ष्यमघसंकोचनं तथा ॥ *प्रायश्चित्तविधानं च विप्राणां मरणान्तिकम् । संसर्गदोषस्तेयान्यमहापातकनिष्कृतिः ॥ इति च स्ववधानुद्यताततायिपरमिति । एवञ्च स्ववोधत- ब्राह्मणभिन्नाततायिवधः कलौ न कार्य इत्याशयेन द्विजानामिति पदम् । ॐ सत्रेति । आसनोपायचोदिते "सप्तदशावराश्चतुर्दश- परमाः सत्रमासीरन्” इति विहिता सत्रदीक्षा, सत्राधिकार इति यावत् । *महाप्रस्थानम् आशरीरपातमुत्तरदिग्गमनम् । यो जीवितुं न शक्रोति महाव्याध्युपपीडितः । सोऽग्न्युदकमहायात्रां कुर्वन वा न प्रदुष्यति ॥ इति विहिता महायात्रा । *गोसंज्ञप्तिरिति । गोसवनि- षेधार्थम् । *अग्निहोत्रेति । अग्निहोत्रं हूयते यया वैकङ्कतसुचा सोऽग्निहोत्रहवणी तस्या अग्निहोत्रहोमानन्तरं हुत्वाऽवशिष्टपाशनार्थ जिया लेहः कथञ्चिल्लीढायाः पुनर्ग्रहोऽग्निहोत्रसाधनत्वम् । *प्रायश्चित्तेति । कामकृते महापापादौ । न तस्य निष्कृतिदृष्टा भृग्वाग्निपतनाहते । इत्यादिना विहितस्य विधानमुपदेशः। मतिपूर्वमनिर्देश्य प्राणान्तिकमिनि स्थितिः । इति मनुवाक्यं त्वेतद्युगपरम् । अत्र मरणान्तिकं विदधातुः जातिवमायश्चित्तं सूच्यते । तच्च मतिपूर्वनिर्देश एवं अन्यापदेशेन (१) 'हवण्याच' क०। (२) 'साक्षेपमघ' का १२९६ सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वार्द्ध- *संसर्गदोषः तत्संसर्गी च पञ्चमः' इत्युक्तः । स्तेयं च तदन्यानि महापातकानि ब्रह्महत्यासुरापगु- रुतल्पानि त्रीणि, तेषां कामकृतानां मरणान्तिकं प्राय: श्चित्तं विप्राणां कलौ नेत्यर्थः । मरणान्तिके हि जातिव. धनिमित्तं द्वादशाब्दद्विगुणं ब्रह्मनधनिमित्तं च द्विगुणं भ. वति तत् 'चतुर्थे नास्ति निष्कृतिः' इति निषिद्धम् । न चाममहत्याविधिना तद्भाधः, तेन यात्महत्यानिमित्त. पृष्ठं प्रति निर्देशे तदनन्तरं पृच्छकेन तथाचरणे तु न दोष इत्ये- वदथै मतिपूर्वमित्युक्तम् । अत्र पाठान्तरं-संसर्गदोषस्तत्संसर्गी च पञ्चमः इत्युक्तः । स्तेयं च तदन्यानि महापातकानि ब्रह्महतन-- मुरापानगुरुतल्पगमनानि श्रीणि महापापानि, वेषां कामकृतानां विप्राणां प्रायश्चित्तं मरणान्तिकं कलौ नेत्यर्थः । मरणान्तिके हि जातिवधनिमित्त द्वादशाबदं द्विगुणं ब्रह्मवधनिमिषं च द्विगुणं भवति । तत् 'चतुर्थे नास्ति निष्कृतिः' इति निषिद्धम् । न चात्म. हत्याविधिना तद्वाधः । तेन हि आत्महत्यानिमित्तस्यैव, बाधो न जातिवधनिमित्तस्य । संसर्गिणस्तु कामतोऽपि तस्यैवोक्तन मर णान्तिक, नापि स्तेये, तत्र राज्ञो वधकर्तृत्वात् । तेन तयोमरणा- न्तिकाभावात्तयोरेव निष्कृतिनान्येषां त्रयाणाम् । युगान्तरे (१)तु कलौ निषेधवलादेव प्रवृत्तिः । एतद्विप्रपरं न क्षत्रियादेः । तदुक्तं 'विप्राणां मरणान्तिकम्' इति । विशेषस्त्वस्मत्कृते प्रायश्चित्तरत्ने द्रष्टव्यः । अथैतन्याख्यायते-ननु 'प्रायश्चित्तविधान च' इत्यनेन 'संसर्ग- दोषस्तेयान्य' इत्यस्य पौनरुत्यम् , इतरत्र मरणान्तिकाभावा. •दित्यत्रैकदेशिमतमाह-*समर्गेति । विधानं करणं क्रियमाणं प्रायश्चित्तमिति यावत् । तच्च महापापनि कृतिरित्येकं वाक्यम् । आत्महत्याविधिना- (१) 'तु' नास्ति घ० ०।
कलिवज्यनिरूपणम् । १२९७ स्यैव बाधो न जातिवनिमित्स(१)स्य भिन्नविषय- त्वात् । संसर्गिणस्तु कामतोपिश्वतस्यैवोक्तेन मरणा- न्तिकम् । नापि स्तेये त() राज्ञो वधकर्तृत्वात् । तेन तयोमरणान्तिकाभावात् तयोरेव निष्कृतिर्नान्येषां प्रयाणाम् । #युगान्तरे तु कलौ निषेधव(३)लात्प्रवृ. त्तिः । एतविपरं #न क्षत्रियादेः । तदुक्तम् 'विप्राणां मरणान्तिकम्' इति । *विशेषोऽस्मत्कृते प्रायश्चित्तरने ज्ञेयः। यः कामतो नरः कुर्यान्महापापं कयश्वन । न तस्य निष्कृतिदृष्टा भृग्वनिपतनाहते ॥ इसात्महननविधिना। संसर्गदोषस्तेययोः पयुदासबीजमाह- संसर्गिणस्त्विति । व्रतस्यैवेति । यो येन पतितेनैषां संसर्ग याति मानवः । स तस्यैव व्रतं कुर्यात्तत्संसर्गविशुद्धये ॥ इति मनूक्तः । राज्ञ इति । ब्राह्मणस्वर्णहारी तु राझे मुसलमर्पयेत् । स्त्रकर्म ख्यापयंस्तेन इतो मुक्तोऽथवा शुचिः ॥ इति पाक्षिकमुक्त्यभिधानात् आत्महननाकरणाच । ननु मतिपूर्वमनिर्देश्यं माणान्तिकमिति स्थितिः। इति मनुनापि मरणान्तिकं निषिद्धमिति युगान्तरेऽपि न दु. करमेवेत्यत्राह-*युगान्तरे स्विति । एकमूलकल्पनालाघवेन मानवस्थापि कलिपरत्वादिति भावः । *न क्षत्रियादेरिति । तयाच क्षत्रियादेमरणान्तिकं प्रायश्चित्तं क(४)लौ भवतीति भावः । ननु एतन्मते प्रायश्चित्तविधानं चेत्यस्य वैयर्थं दुर्वारमित्यत्राह- विशेषवेति । संसर्गदोषश्चेति वाक्यं पृथगेवेत्यभिप्राय: । त. (१) 'निमित्तस्याभिन्न ख०। (२) 'तेन का (३) बलादेव' क०। (४) 'कलौ' मास्ति घ००० १२९८ सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वाः- *वरातिथिपितृभ्यश्च पशूपाकरणक्रिया। *दत्तौरसेतरेषां तु पुत्रत्वेन परिग्रहः ।। सवर्णान्याङ्गनादुष्टैः संसर्गः शोधितैरपि । अयोनौ संग्रहे वृत्ते परित्यागो गुरुस्त्रियः॥ परोद्देशात्मसंत्याग उद्दिष्टस्यापि वजनम् । प्रतिमाभ्यर्चनार्थाय संकल्पश्च सधर्मकः ॥ चांग्रे स्पष्टम् । वस्तुतस्तु विधेः प्राथमिकादस्माद्वितीये द्विगुणं भवेत् । तृतीये त्रिगुणं प्रोक्तं चतुर्थे नास्ति निष्कृतिः । इत्यत्र विधिपदवशात्प्रथममहापापानन्तरं प्रायश्चित्तं कृत्वा यदि द्वितीयं पापं क्रियते तदा तद्विगुणं प्रायश्चित्तं कार्य, तदुत्तरं महापापे तु तत्रिगुणमिति, “प्रतिनिमित्तं नैमित्तिकावृत्तिः" इति न्यायोज्जीवनेनाभिधाय चतुर्थे महापापे प्रायश्चित्तनिषेधः, नतु प्रकृते अकृतप्रायश्चित्तस्य कथनिचातुर्विध्ये तत्प्रवृत्तिरिति । अत्र 'च. तुर्थे नास्ति निष्कृतिः' इसेव विधायकम् । अतो न वाक्य भेद इत्ये. के । एतच्च व्रत एव प्रवर्तते न मरणान्तिके, बाधात् । एवञ्च तत्र द्वैगु(१)ण्यादिविध्यन्तरमावश्यकमिति परे । *वरेति । वरस्य प्रा- जापत्यः । अतिथेः “आनावैष्णव" इति पशुयागविधिः । वाध्रीणसस्य मांसेन तृप्तिादशवार्षिकी ॥ इत्यादिपित्र्यपशुविधिः । अत्र श्राद्ध पशुयागाभावेन तद्धर्मा- नतिदेशादुपाकरणाप्राप्तेः पशूपाकरणशब्देन तत्मकृतिक पितृभ्यो मांसपरिवेषणं ल(२)क्ष्यते । एवञ्च "मधुपर्के पशोध!" "मांसदा- नं तथा श्राद्धे" इति च गतार्थम् , एकमूलकल्पनालांघवात् । ए. वञ्च 'यस्तु प्राणिवधं कृत्वा' इत्यादि बृहत्पाराशरमपि कलिप- रमेव । * दत्तेति । औरसो धर्मपत्रीजस्तत्समः पुत्रिकासुतः । । (१) त्रैगुण्याद' घ० ० (२) 'लक्ष्यते' नास्ति घ० ङ० . कलिवयनिरूपणम् । अस्थिसंचयनादूर्ध्वमङ्गस्पर्शनमेव च । *शामित्रं चैव विप्राणांसोमविक्रयणं तथा ।। षड्भक्तानशने चान्नहरणं हीनकर्मणः ॥ माधवीये पृथ्वीचन्द्रोदये च- *शुद्रेषु दासगोपालकुलमित्रासीरिणाम् । भोज्यानता गृहस्थस्य तीर्थसेवातिदूरतः ।। *शिष्यस्य गुरुदारेषु गुरुववृत्तिशीलता। आपत्तिजारयाणाम*श्वस्तनिकता तथा ॥ *प्र(१)जार्थं तु विजारयाणां प्रजारणिपरिग्रहः । इत्यादिद्वादशविधः पुत्रो विहितः तत्रौरसदत्तकव्यावर्त्तनाय दत्तौरसेतरेषामिति । शामित्रमिति । 'आलभेत' इति विधिप्रा. सं यज्ञे पशुपारणम् । *सोमेति । “गवा क्रीणाति" इति विधि. प्रशसिद्धं सोमविक्रयणम् । *शुद्रेष्विति । शूद्रेषु दासगोपालकुलमित्रासीरिणः । भोज्याना नापितश्चैव यश्चात्मानं निवेदयेत् ॥ इति विहितम् । न(२)चेदं स्नातकप्रकरणत्वात्तेषामेवेति वा. कथम् "उत्तरेषां चैतदविरोधि"इति गौतमेन गृहस्थादीनामपि त- इतिदेशात् । अतश्च गृहस्थपदं नाहिताग्निपरं मानाभावात् । दासा- दिपदं च नापितकुम्भकारयोरुपलक्षणम् , अन्यथाऽनौचित्याप- । तीर्थसेवेति । तीर्थयात्रेति पाठान्तरम् । 'दूरतस्तीर्थमासे- ऽयम्'इत्युक्तं तीर्थ सेवनम् । *शिष्यस्यति। गुरुवत्प्रतिपूज्याश्च सवर्णा गुरुयोषितः । इत्युक्ता पादस्पर्शादिका । *अश्वस्तनिकतेति । व्यहैहिको वापि भवेदश्वस्तनिक एवं वा। इति विहिता । *प्रजार्थ विति । कचिच्छ।खायां जातक- Tam-r' To 13)-+ १३०० सटीकनिर्णयसिन्धुतृतीयपरिच्छेदपूर्वार्द्ध- *ब्राह्मणानां प्रवासित्वं मुखाग्निधमनक्रिया ॥ *बलात्कारादिदुष्टस्त्रीसंग्रहो विधिचोदितः। यतेश्च सर्ववर्णेषु भिक्षाचर्याविधानतः ॥ नवोदके दशाहं च दक्षिणा गुरुचोदिता । ब्राह्मणादिषु शुद्रस्य पचनादिक्रियापि च ॥ *भृग्वग्निपतनैश्चैव वृद्धादिम(१)रणं तथा । अगोतृप्तिशिष्ठे पयसि शिष्टैराचमनक्रिया ॥ पितापुत्रविरोधेषु साक्षिणां दण्डकल्पनम् । यते सायंगृहत्वं च सूरिभिस्तत्वदर्शिभिः ॥ एतानि लोकगुप्त्यर्थं कलेरादौ महात्मभिः । निवर्तितानि विद्वद्भिर्व्यवस्थापूर्वकं बुधैः॥ महोमे प्रजाजीवनार्थमरणिपरिग्रहो विहितः । ब्राह्मणानामिति । प्रवासित्वं वृथा सदा प्रवासशीलत्वम्, एवञ्च प्रवसेत्कार्यवान् विप्रो न वृथैव चिरं वसेत् । इति कलिपरमेव । *बलात्कारोति । बलात्समथ्य भुक्ता चेद्दधमानेन चेतसा । प्राजापत्येन शुद्धिः स्यात्तत्तस्याः पावनं स्मृतम् ॥ इति संवर्तायुक्तप्राजापत्यादिना संग्रहः । यद्वा, म्लेच्छादि- भिर्भुक्ताया अभुक्ताया अप्यतिचि(२)रकालं भुक्ततदीयानादिना के- बलतत्तादात्म्यापनायाश्च संग्रहः । परन्तु एतादृशविषये तासां ता- शपुंसां च प्रायश्चित्तं कार्य न तु सं(३)ग्रह इति संग्रहपदोपादा- नम् । *भृग्वनीति। वृद्धः शौचस्मृतेलुप्तः प्रत्याख्यातभिषक्रियः। आत्मानं घातयेधस्तु भृग्वग्न्यनशनाम्बुभिः ॥ इति विहितः । णिजाविवक्षया हन्यादित्यर्थः। अंगवि. ति । गोतृप्त्यधिक जले 'शुचि गोतृप्तिकृत्तोयम्' इति विहितम् । (१)भरणे' ख० (२) चिरतरकंजल' घ ङ (३) संग्रह इति' नास्ति घ००