Canegie Mellon Univeristy
Ganapatyathavarshisha
Front matter
(see
ஸஹாபஹா ஸல- வாரின்
யதே
ஸவ விவாதம்
அ
ومعلی)
G ME
/
en
2
Ca 3/அய ஸவ வி
ஈவி
6Yญม
-ய
ஸோடய ஸவர்தர 2 பாடிய
உவாடய ஸவ-4 2.77,7
7- ஸவ-காரவாணி ஸாயய ஸாய
ட நா நீ 3 எதே. தெளம்
ந.மணவதயே ஹ
//ஹா
630 ததேவதேனோ
A
1
பெ
2
at
Ketett
Mountamanimum AUDAOUDARuniaupadQUnARUD runmanumundounloo munoun mumAnup
RASHRESwammission
Uplinsaninpury
॥ अथ गणपत्यथर्वशीर्षप्रारंभः॥
मूल्य २० पैसे.
निर्णय सागर
बुक प्रकाशन
मुंबई २
numaourouplinarue
andomorumoro TomorronoronouTOONOMOUNOwronounorumoromoUnow tumor OnOTOnly only
2
गण.
अथ.
॥१॥
श्रीगणेशाय नमः॥ ॥ ॐ भद्रं कर्णेभिः ॥१॥
स्वस्ति न इंद्रो० ॥ १ ॥ अथ गणेशाथर्वशीर्ष
व्याख्यास्यामः ॥ ॐ नमस्ते गणपतये॥ त्वमेव
प्रत्यक्षं तत्त्वमसि ॥ त्वमेव केवलं कर्तासि ॥
त्वमेव केवलं धर्तासि ॥ त्वमेव केवलं हर्तासि ॥
त्वमेव सर्वं खल्विदं ब्रह्मासि ॥ त्वं साक्षादात्मासि
नित्यं ॥१॥ ऋतं वच्मि ॥ सत्यं वच्मि ॥२॥
अव त्वं मां ॥ अव वक्तारं ॥ अव श्रोतारं ॥ अव
दातारं ॥ अव धातारं ॥ अवानूचानमव शिष्यं ॥
अव पश्चात्तात् ॥ अव पुरस्तात् ॥ अवोत्तरात्तात् ॥
अव दक्षिणात्तात् ॥ अव चोर्ध्वात्तात् ॥ अवाधरा-
॥१॥
त्तात् ॥ सर्वतो मां पाहि पाहि समंतात् ॥३॥ त्वं वामयस्त्वं चिन्मयः ॥ त्वमानंदमयस्त्वं ब्रह्ममयः । त्वं सच्चिदानंदाद्वितीयोसि ॥ त्वं प्रत्यक्षं ब्रह्मासि त्वं ज्ञानमयो विज्ञानमयोऽसि ॥४॥ सर्वं जगदिदं त्वत्तो जायते ॥ सर्वं जगदिदं त्वत्तस्तिष्ठति ॥ सर्व जगदिदं त्वयि लयमेष्यति ॥ सर्वं जगदिदं त्वयि प्रत्येति ॥ त्वं भूमिरापोनलोनिऽलो नभः ॥ त्वं चत्वारि वाक्पदानि ॥५॥ त्वं गुणत्रयातीतः॥ त्वं देहत्रयातीतः ॥ त्वं कालत्रयातीतः ॥ त्वं मूलाधार- स्थितोऽसि नित्यं ॥ त्वं शक्तित्रयात्मकः ॥ त्वां योगिनो ध्यायन्ति नित्यं ॥ त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्व-
गण.
अथ.
॥२॥
मिंद्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं ब्रह्म-
भूर्भुवःस्वरोम् ॥ ६ ॥ गणादिं पूर्वमुच्चार्य वर्णादि
तदनंतरम् ॥ अनुस्वारः परतरः ॥ अर्धेदुलसितं ॥
तारेण रुद्धं ॥ एतत्तव मनुस्वरूपं ॥ गकारः पूर्व-
रूपं ॥ अकारो मध्यमरूपं ॥ अनुस्वारश्चांत्यरूपं ॥
बिंदुरुत्तररूपं ॥ नादः संधानं ॥ सहिता संधिः॥
सैषा गणेशविद्या ॥ गणक ऋषिः ॥ निचद्गायत्री
छंदः॥गणपतिर्देवता॥ॐ गं गणपतये नमः॥७॥
एकदंताय विद्महे वक्रतुंडाय धीमहि ॥ तन्नो दंती
प्रचोदयात् ॥ ८॥ एकदंतं चतुर्हस्तं पाशमंकुश-
धारिणम् ॥ रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ॥
॥२॥
रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम् ॥ रक्तगंधानु- लिप्तांगं रक्तपुष्पैः सुपूजितम् ॥ भक्तानुकंपिनं देवं जगत्कारणमच्युतम् ॥ आविर्भूतं च सृष्टयादौ प्रकृतेः पुरुषात्परम् ॥ एवं ध्यायति यो नित्यं स योगी योगि- नांवरः ॥९॥ नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्ते अस्तु लंबोदरायैकदंताय विघ्न- नाशिने शिवसुताय श्रीवरदमूर्तये नमः ॥ १० ॥ एतदथर्वशीर्ष योधीऽते ॥ स ब्रह्मभूयाय कल्पते ॥ स सर्वतः मुखमेधते ॥ स सर्वविघ्नैर्न बाध्यते ॥ स पंचमहापापात्प्रमुच्यते ॥ सायमधीयानो दिवसकृतं पापं नाशयति ॥ प्रातरधीयानो रात्रिकृतं पापं नाशse
गण.
अथ.
॥३॥
यति ॥ सायंप्रातः प्रयुंजानोऽपापो भवति ॥ सर्व-
त्राधीयानोऽपविघ्नो भवति ॥ धर्मार्थकाममोक्षं च
विंदति ॥ इदमथर्वशीर्षमशिष्याय न देयं ॥ यो यदि
मोहाद्दास्यति ॥ स पापीयान् भवति ॥ सहस्रावर्त-
नात् ॥ यं यं काममधीते ॥ तं तमनेन साधयेत् ॥११॥
अनेन गणपतिमभिषिंचति ॥ स वाग्मी भवति ॥
चतुर्थ्यामनश्नन् जपति ॥ स विद्यावान्भवति ॥
इत्यथर्वणवाक्यं ॥ ब्रह्माद्याचरणं विद्यात् ॥न बिभेति
कदाचनेति ॥ १२॥ यो दूर्वांकुरैर्यजति ॥ स वैश्रवणो-
पमो भवति ॥ यो लाजैर्यजति स यशोवान्भवति ॥
स मेधावान्भवति ॥ यो मोदकसहस्रेण यजति स
॥३॥
वांछितफलमवाप्नोति ॥ यः साज्यसमिद्भिर्यजति स सर्व लभते स सर्व लभते ॥ अष्टौ ब्राह्मणान् सम्य- ग्ग्राहयित्वा ॥ सूर्यवर्चस्वी भवति ॥ सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जप्त्वा सिद्धमंत्रो भवति ॥ महा- विघ्नात्प्रमुच्यते ॥ महादोषात्प्रमुच्यते ॥ महापापा- त्प्रमुच्यते ॥ स सर्वविद्भवति स सर्वविद्भवति ॥ य एवं वेद ॥ इत्युपनिषत् ॥ १३ ॥ स ह नाववतु ॥ स ह नौ भुनक्तु । सह वीर्य करवावहै । तेजस्विना- वधीतमस्तु मा विद्विषावहै ॥ भद्रं कर्णेभिः० ॥१॥ स्वस्ति न इंद्रो० ॥१॥ ॐशांतिः शांतिः शांतिः॥ इति गणपत्यथर्वशीर्ष समाप्तम् ॥
000000000000000
॥ इति गणपत्यथर्वशीर्ष समाप्तम् ॥
शकाब्दाः १८८८ सनाब्दाः १९६६
मुद्रक-प्रकाशक
-
लक्ष्मीबाई नारायण चौधरी,
निर्णयसागर प्रेस, २६-२८ डॉ. एम्. बी. वेलकर स्ट्रीट, मुंबई २.