Bharti Bhawan Library Allahabad
Mimansa Paribhasha
Front matter
Artista
mistoagaan
पर्वतीय-नित्यानन्दपन्तेन लघुटिप्पण्या
STATI
MIMANSA PARIBHASHA,
BY
Sri Krishna Yajva.
Edited with his own Notes by
Parvatiya Nityananda Panta.
Published and Sold by 77. D. Gupta & Sons,
PROPRIETORS,
TaE CHOWKHAMBA SANSKRIT SERIES OFFICE,
BenanIS CITY.
Printed by Jai Krishna Das Gupta,
at the Vidya Vilas Press,
BINARES.
1915.
Registered According to Ac XXV. of 1867.
No text on this page.
No text on this page.
शुद्धिपत्रम् ।
पृष्ठाः पत्यका
উহা
तेनव
দুই অঙ্খা বিন
थाश्व साक्षाद्यागशरी-
रनिर्वर्तकत्वं तद्वारा
इति अन्धोऽधिकोऽपे-
क्ष्यते
यो
१२
१५
१
६
या
तत्कर्म
२९
सर्वेषां संमार्ग सर्वेषां संमार्ग
३६
१४
No text on this page.
श्रीगणेशाय नमः ॥ मीमांसापरिभाषा। सूर्यनारायणं वन्दे देवी त्रिपुरसुन्दरीम् । गुरूनाधिगतार्थीश्च निरन्तरमहं भजे ॥१॥ बालानां शास्त्र सिद्धार्थलेशबोधाय धीमताम् । मामासापरिभाषेयं क्रियते कृष्णयज्वना ॥२॥ इह खलु महर्षिणा जौमिनिना द्वादशलक्षण्यां पूर्वमीमामायां धर्माधीवेवानुष्ठानोपयोगितया विचारितौ । तत्र बेदबोधितष्टसाधनसाको* धर्माः । *धर्माधर्मयोर्लक्षणे इष्टसाधनत्वानिष्टसाधनत्वमा त्रोक्तो अन्नभक्षणविषभक्षणादौ अतिव्याप्तिः । वेदबोधित- त्वमाचोक्तौ स्वर्गनरकादावतिव्याप्तिः । धर्मलक्षणे वेदवि- हितत्वोपावानेऽपि अग्नीषोमीयवपायांहुताय दीक्षितान- मश्नीयात्" इत्याद्यभ्यनुज्ञाविषये दीक्षितानाशनादौ अति- व्याप्तिः। एवमधर्मलक्षणे वेदनिषिद्धत्वरूपे स्वीक्रियमाणे "अतिरात्रे षोडशिनं न गृह्णाति" इति निषिद्ध षोडशिग्रहणे अतिव्याप्तिः । इसाधनत्वनिवेशे तुम दोषः। नदी मीमांसापरिभाषा। . .0 यथा यागादिः । वेदबाधितानिष्टसाधनताकोऽधर्मः। यथा कलाभक्षणादिः। तयोश्च वेदः, स्मृतिः, आ- चारश्च प्रमाणम् । तत्र वेदः स्वतन्त्रं प्रमाणम्, इतरौ तु वेदमूलकतया । तत्र वेदो द्विविधः-मन्त्ररूपो ब्राह्मणरूपश्चेति । तत्र प्रयोगकालीनाथस्मरणहेतुतया मन्त्राणामुपयोग इति वक्ष्यते । प्रयोगोऽनुष्ठानं तत्- कालीनेत्यर्थः । विधायकं वाक्यं ब्राह्मणम् । तच्छे. क्षितान्नमश्नीयात्" इत्यनेन दीक्षितानाशनस्थानिष्टसाध- भने बोधि 'अश्नीयात् इत्याधभ्यनुज्ञाविधिना दो- पाभावमात्रस्यैव बोधनेन इष्टसाधनत्वानाक्षेपात्- रागप्राप्तपसाधनताकस्थापि दीक्षितानाशनविवाहानृत- वदनादेः वेदबोधितष्टसाधनताकत्वाभावात् । श्येनादस्तु वेदबाधितेष्टसाधनताकत्वात् धर्मत्वमेव । तत्फलस्थ चैरिमरणानुकूलशनधातादिरूपाहिंसात्मकस्याभिचार-- स्यैव तु अधर्मत्वम् । तस्यैव "न हिंस्यात्" इत्यनेन अनिष्टसाधनत्वबोधनात् । अतएवं तामसधर्मेषु इये- नादेरुपादानं सङ्गच्छते । एवं 'नातिराने' इति वाक्येन षोडशिग्रहणस्य अनिष्टसाधनत्वं न बोध्यते किन्तु त- द्विनाऽपि इतराङ्गैः क्रतोः पूर्णत्वमेव । अतएव कष्टात्मके तस्मिन् पुरुषनिवृत्तिरुपपद्यते । तत्र प्रवृत्त्यर्थ च ग्रहण- विधिना फलाधिक्याक्षेपः । अतः फलाधिक्यकामस्य तत्र प्रवृत्तिरिति दिक्।
मीमांसापरिभाषा। षोऽर्थवादः । तस्य विधेयप्राशस्त्यप्रतीतिजननद्वारा विधिवाक्यैकवाक्यतया प्रामाण्यमिति वक्ष्यते । तच्चानेकविधम् कर्मोत्पत्तिवाक्यम, गुणवा- क्यम, फलवाक्य, फलाय गुणवाक्यम्, स. गुणकर्मोत्पत्तिवाक्यमित्यादिभेदात् । तत्र येन वाक्येन-'इदं कर्म कर्तव्यम्' इति बोध्यते तत् कर्मोत्पत्तिवाक्यम् । यथा-"अग्निहोत्रं जुहोति" इति । अत्रामिहोत्रहोमः कर्चव्यतया विधी- यते इति कर्मोत्पत्तिवाक्यमिदम् । चिहिते कर्माणि तदङ्गतया द्रव्यदेवतादिविषा- यकं वाक्यं गुणवाक्यम् । यथा-"दना जुहुयाद" इति । अत्र होममुद्दिश्याङ्गतया दधि विधीयते इति गुणवाक्यगिदम् । कङ्गितया विहितत्वमेव दध्या. देर्गुणत्वम् । अत्र होमस्योद्देश्यत्वं नाम मानान्तर- माप्तले सति विधेयान्वयितया निर्देश्यत्वम् । तस्यैव मानान्तरमाप्तस्य पुनः कथ्यमानरूपत्वम् अनुवाद्यतः म, दध्यादिगुणान्वयितया प्राधान्यश्च । दध्यादेर्मा- नान्तरामाप्तत्वादत्रैव विधेयत्वम्, होमसाधनत्वाच होमापेक्षया गुणत्वम्, पुरुषणानुष्ठीयमानत्वाच्चो- पादेयत्वञ्च । अत्र मानान्तरमासत्वं मानान्तरजा-
मीमांसापरिभाषा।
तत्वम्, अमाप्तलञ्चाज्ञातत्वमिति बोध्यम् ।
उत्पन्नस्य कर्मणः फलाकाङ्काया कलसम्बन्ध
बोधको विधिः फलविधिः । यथा “अग्निहोत्रं जुहुयात
स्वर्गकाम" इति।
अत्र 'यः स्वगै कामयते स सवसाचनवेना-
मिहोत्रनामकं होम भारत-कुर्यात्' इति आग्नहो-
अवाक्यापनस्य कर्मणः फलसम्बन्धी बोध्यतइति
फलवाक्यमिद।
मास कम्माश्रित्य फलाय गुणविधौ फलाय गु-
गवाक्यम् । यथा “ध्नेन्द्रियकामस्य जुहुयाद"
इति। अनामिहोत्रवाक्योत्पर्म होममाश्रित्येन्द्रियफलाप
दधिरूपो गुणो विधीयते-'होमाश्रितेन दना इन्द्रि-
यरूपं फलं भावयेत्' इति । होमाश्रितेन होमकारकी-
त्यर्थः । अयमेव गुणफलविधि: गुणकामविधिरि-
तिच उच्यते।
द्रव्यदेवतादिगुणविविष्टकर्मविधायकं वाक्यं स.
गुणकोवपत्तिवाक्यम् । यथा-"सोमेन यजेत्" इति!
अत्र सोमलताविशिष्टो यागो विधीयते । विशिष्यनि-
धावपि विशेषणस्य अद्विषिः।
कचित कर्मोत्पत्तिवाक्यमेव फलसम्बन्धबोधक.
मीमांसापरिभाषा। मपि भवाते । यथा-"उद्भिदा यजेत पशुकाम" इति। अत्रोद्भिनामको यागो वाक्यान्तराविहित एव पशु- कामस्य पशुफलाय विधीयत इत्येकमेवेदं वाक्यं फ- लसाधनयागनिधायकम् । मधानविधिरेवाङ्गविधिभिरेकवाक्यतया महावा- যনাথ মুনু শাজাহাজ আলমাখ- कस्ताव प्रयोगविधिरित्युच्यते। यथा-"अग्निहो जुहु. याद स्वर्गकाम" इति । अत्र 'अमिहोत्रहोमेन स्वर्ग भा. वयेत्' इत्यर्थः प्रतीयते । भावयेत्-उत्पादयेत् इति या- वत् । अन कथमनेन होमेन स्वर्ग कुर्थाद' इति कथ. म्भावाकाङ्क्षा जायते । यथा 'कुठारेण द्वैधीभावं कु. र्थ्यात्' इत्युक्त भवत्याकाडा'कथमनेन द्वैधीभावं कुर्य्याद इति । तत्रोद्यमननिपलनादिसहायेन इति गम्यते । तद. दत्रापि"अभिप्रणयति अग्निधु समिध आदधाति" इसाद्यङ्गविधिविहितप्रणयनसमिदाधानायतनशोधनादि- काङ्गकलापजनितोपकारसहितेन अग्निहोत्रहोमेन स्वर्ग कुर्यात् इति प्रकरणकारिपतेन होमवाक्येन स्वर्गाय साङ्गाग्निहोत्रप्रयोगो विधीयते इत्येतादृशः प्रयोग- विधिः । अङ्गजातमेवेत्थम्भाव इति, इतिकर्तव्यता झाते च उच्यते । अत्राग्निहोत्रहोमः प्रधानं प्रणयना- मीमांसापरिभाषा। दिकं सर्वम् अङ्गम् । नन्विदमनुपपन्नम् । आशुतरविनाशिनां क. मेणा कालान्तरमाविस्वर्गादिफलमानत्वानुपपत्ते- रिति चेन्मैवम् । विहितानपिद्धकर्मणां तत्तद्वाक्यैस्त- तत्फलसाधनत्वेऽवगते आशुतरविनाशिनां कर्मणां कालान्तरभाविफलसाचनत्वोपपत्यर्थम् अन्तरा पुण्यपा- परूपम् अपूर्व कल्प्यते । ततश्च यागादरपूर्वद्वारा स्वर्गसा- नत्वं, न साक्षात् । तदेव फलापूर्वम् । तत्करणत्वञ्च माच्यादीच्याङ्गविशिष्टस्य प्रधानस्य भवति, न प्रधा- नमात्रस्य । प्रधानमात्रादेव फलापूर्वजनने फलस्यापि तत एव सिद्धेरङ्गानामानर्थक्यापत्तेः । ननु साङ्गविशिष्टस्य प्रधानस्यापूर्वजनकत्वमु- तमू सवाशुतरवनाशिनः प्रधानस्याङ्गसाहित्या- भावान्न सम्भवतीति चेन्न । प्रधानकर्मणः स्वरूपेणा- साहिसामावेऽपि उत्पत्यपूर्वद्वारा साहित्यसम्भवा- र । प्रधानस्य सर्वाङ्गसाहित्यसिद्ध्यर्थे मधानकर्म- परमापूर्वयोर्मध्ये प्रधानमात्रजन्यम् उत्पत्तिनामकं कि- श्चिदपूर्वमस्तीत्यङ्गीकारात् । एवमङ्गानामपि परस्पर- साहितानामेन प्रधानोपकारकत्वात्तेषां स्वरूपेण साहि- स्याभावात् तत्तदुखत्यपूर्वद्वारा साहित्य बोध्यम् ।
मीमांसापरिभाषा। " अङ्गानां प्रधानोपकारकत्वं नाम प्रधानस्य फलापू- वजननसामोन्मुखीकरणमेव । दर्शपूर्णमासयोस्तु विशेषः । “यदानेयोऽष्टाकपालोऽमावास्यायाश्च पौर्ण- मास्याचाच्युतो भवति" इत्याग्नेययागो विहितः, "ताभ्यामेतमग्नीषोमीयमेकादशकपालं पूर्णमासे पाय- च्छद इत्यानीपोमीयथागो विहिता, "उपांशुपाजा- न्तरा यजति" इति उपांशुधागः "ताचतामनीषोमावा- ज्यस्यैव नावुपांशु पौर्णमास्यां यज" इति वाक्यात पौर्णमास्यां विहितः । एतानि पौर्णमास्यां प्रधानानि । एपामाग्नेयाग्नीषोमीयोपांशुयागानां तत्तद्वाक्याव- गतपौर्णमासीकालसम्बन्ध निमितीकृत्य “य एवं विद्वान् पौर्णमासी यजते" इति विद्वाक्ये पौणमासी- पदेन एकवचनान्तन समुदायरूपेणानुबादः । तेन वेदे यत्र यत्र पौर्णमासीशब्दः तत्र तत्राग्नेयादिसमुदायो- पस्थितिः। ननु “यदाग्नेय" इति वाक्ये यागवाचकपदस्या- श्रवणात् कथं यागविधायकत्वमिति चन्मदम् । अग्नि- देवता अस्य पुरोडाशस्थ इत्यर्थे विहितदेवतातद्धितान्त आग्नेयशब्दः । सस्य पुरोडाशपदसामानाधिकरण्याद द्रव्यदेवतासम्बन्धोऽवगतः । स यागमन्तरा न स- द मीमांसापरिभाषा म्भवात, द्रव्यदेवतासम्बन्धस्य यागादन्यत्र क्रियाया- मसम्भवात, यागक्रियायामेव सम्बन्धो वाच्यः । देवतोद्देशेन द्रव्यत्यागस्य गागरूपत्वाङ्गीकारात् अतः श्रुतद्रव्यदेवतासम्बन्धानुमितो यागो यजतेति कल्पितेन पदेन विधीयते--अग्निदेवत्वपुरोडाशद्रव्य- कामावास्यादिकालकर्तव्यपागेन इष्ट भावयदिति । एवं यत्र यत्र द्रव्यदेवतासम्बन्धमा श्रूयते, "सौर्य- चरुं निपेत्" इत्यादौ, तत्र सूर्यदेवनादिसम्बन्धानु- मितो यागो विधीयत इति न कश्चिद्दोषः। नन्पांशुयागवाक्ये यजे: श्रमणेऽपि विधि- त्ययलिङगदेरभावाद कथं विधायकत्वमिति चन्म- वम् । यजतीत्यस्य यजेनेति बिपरिणामेन विधाय- कत्वसम्भवात् । एवं "ब्रीहीन मोक्षति" "समियो यजति" इसादाबपि विपरिणामो घोध्यः। कोचितु यजतीसस्य पञ्चमलकारत्वाङ्गीकाराव विधायकत्वसम्भव इसाहुः । सथा- ऐन्द्रं दध्यमावास्यायाम, ऐन्द्र पयोऽमावा- स्यायाम"इसिवाक्यविहितौ सानाय्ययागौ,"यदाग्नेय" इतिवाक्यविहिताग्नेयश्चामावास्यायां प्रधानानि* । * इमानि च प्रधानानि तैत्तिरीयेषु हिरण्यकेश्यादी- मीमांसापरिभाषा। एषां त्रयाणां “य एवं विद्वानमावास्यां यजते" इति वाक्ये अमावास्यामिति नाम्ना द्वितीय कवचनान्तेन समुदायरूपेणानुवादः । तेन वेदे यत्र दर्शशब्दोऽमावा- नां सोमेनेहवतामनुष्यानि बोध्यानि । सोमेनानिष्ट. वतां तेषां तु उकसानाय्ययागयोः स्थाने ऐन्द्राग्नपुरो- डाशयाग एवानुष्ठेयः । उपांशुधागो हिरण्यकेश्यादीनां नास्त्येव । अत एव विष्णुपाश्वतरेयिणो ऽन्नीयो- मीयं पौर्णमास्यां वैष्णवममावास्थायामेषामेके कान नैषामशुपांभूनाम् इति श्रौतसूत्रे आश्वलायनेन हि- रण्यकेश्यादीनुदिश्य एके' इति प्रयुक्षानेन तेषामु- पांशुयागामायः स्पष्टमेनोक्तः । तैत्तिरीयेषु बौधायना- नान्तु पौर्णमाले ऽग्नीषोमीयपुरोडाशयागानुष्ठानं ना. स्ति । अतएव दशमाध्याये ऽष्टमपादे ऽन्तिमा-(१८) धिकरणे पौर्णमासे ऽग्नीषोमयागाभावे "उपांशुयाजमा न्तरा यजति' इति वाक्येन उभयोः पुरोडाशयोरन्तराले विहित उपांशुयागः कथमनुष्यः स्यादित्याशयान्त- रालस्याग्नेययागोपलक्षकत्वमङ्कीकृत्य तत्र तदनुष्ठा- नमिति सिद्धान्तितम् । कात्यायनाश्वलायनादीनां तु आग्नेया, उपांशुयागः, अग्नीषोमीयः पुरोडाश इति त्रिकं पौर्णमास्याम-आग्नेयः, उपांशुयागः, पेन्द्रामश्चेति त्रिक चामावास्यायाम् । ततश्च कात्यायनादिसम्प्रदायमेव दृष्टा उपांशुयागाभावो दर्श कथं स्यादिति भ्रमो न का. र्य इति दिक् ।
१० मीमांसापरिभाषा। स्याशब्दोवा श्रुतस्तत्र यागसमुदायोपस्थितिः त्रिकस्य त्रिकस्थामावास्यापौर्णमासीशब्दाभ्यां समुदायरूपेण विद्वाक्पेऽनुवादस्य प्रयोजनन्तु "दर्यापूर्णमासाभ्यां स्वर्गकामो यजेत"इत्यादौ द्विवचनोपपत्तिः । अन्यथा घण्णामाग्नेयादियागानां बहुत्वाद्दर्शपूर्णमासैरिति बहु- वचनं स्यात् । मानान्तरेण माप्तार्थस्य पुनःश्रवण- मनुवादः। तथा फलबदाग्नेयादिसन्निधौ आम्नातानि प्रयाजाज्य- भागानुयाजादीने पण्णां यागानामङ्गभूतानि । एवं स्थिते "दर्शपूर्णमासाभ्यां स्वर्गकामो यजे. त" इत्यस्यायमर्थः--दर्शपूर्णमासाभ्यां समुदायाभ्यां परस्परसहिताभ्यां स्वर्गापूर्व कुर्यादिति । तत्र कथं- कालयवचिनोः समुदाययो: परस्परसाहित्यमित्या- कासायां स्वरूपेण साहित्यामावेऽपि त्रिकात्रिकादेकै- कमपूर्व जायते सहारा द्वयोः समुदाययोः सा- हित्यमुच्यते । एकैकस्य त्रिकस्यापि त्रिका- पूर्वजनकत्वं कथमित्याकाङ्क्षायां प्रयाजाजुयाजा- दिपूर्वोत्तराङ्गकलापविशिष्टस्य एकैकस्य त्रिकस्य स- मुदायापूर्वजनकत्वमुच्यते । एकैकत्रिकस्य सर्वाङ्ग- साहित्य स्वरूपेण न सम्भवतीति विभिांगसीपयुत्प- BANAANTERVAN मीमांसापरिभाषा ११ क्यपूर्वाणि जायन्ते तद्वारा सर्वाङ्गसाहित्यम् । अङ्गा- नामपि प्रयाजादीनां स्वरूपेण प्रधानसाहिसाभावात् तत्तदुत्पत्त्यपूर्वद्वारा साहित्यं वाच्यम, सथा च प्रधान- जन्योलपत्यपूर्वाणां प्रयादिजन्योत्पश्यपूर्व साहित्य यदस्ति तदेव प्रधानानामङ्गविशिष्ठत्वरूपं साङ्गत्वम् । एवञ्च पौर्णमास्यामानेयादिजन्यैत्रिभिरपूर्वैः प्रयाजा- दिजन्योत्पश्यपूर्वसचिवैः समुदायापूर्वमेकं जन्यते, तथा दर्शेऽपि आग्नेयेन्द्रद्वयजन्यस्त्रिभिरपूरङ्गोत्पत्य. पूर्वसचिवरेकं त्रिकापूर्व जन्यते, ताभ्यान्त्रिकापूर्वा- भ्याम् आनेयाधुत्पत्यपूर्वत्रितयजन्याभ्यां फलजनकी- भूत पहापूर्व फलापूर्वनामकं जन्यते, ततश्च फलमिति । तथा च सर्वाङ्गोपकृताभ्यां दर्शपूर्णमासाभ्यामपूर्वद्वारा स्वर्ग कुर्यादिति फलापूर्वनिष्पत्तये साङ्गप्रधानकर्त- व्यताबोधको विधिः प्रयोगविधिरिति सिद्धम् ॥ पुनरपि विधिस्त्रिविधः । अपूर्वविधिः निय- मविधिः, परिसक्याविधिश्चेति । तत्र यो विधिर- सन्ताप्राप्समर्थ प्रापयति सोऽपूर्वविधिः । यथा द- पूिर्णमासप्रकरणे "त्रीहीन मोक्षात" इति । एतद्विध्य- भाचे दर्शपौर्णमासीयव्रीहिषु मोक्षणं कथमपि न प्रा- मोति । एतद्विधिसचे तु तत्सम्बन्धित्रीहिषु प्रोक्षणं १२ मीमांसापरिभाषा। प्राप्नोत्येव इति अत्यन्ताप्राप्तमोक्षणमापकत्वादयमपू- विधिः॥ यश्च पक्षे प्राप्तमर्थ नियमयति स नियमाविधिः। यथा तत्रैव "त्रीहीनवहन्ति" इति । एतद्विध्यभावे द. पौर्णमासिकेषु ब्रीहिपूत्पत्तिवाक्याबगतपुरोडामोप- योगितण्डुलनिष्पत्यनुकूलबैतुष्य कार्याय अबहनन- चन कदाचिन्नखविदलनमपि प्राप्नुयात् इति तस्मिन् पक्षेऽवहननस्य प्राप्तेरभावात् कान्यिथोपपरच- इनस्य पाक्षिकी प्राप्तिः स्यात् । सातत्वस्मिन् विधी अबहननेनैव चैतुष्पं कामिति नियमे सति विदलनं सर्वात्मना निवर्चत इति नियमविधिरयम् । नच वैतुण्यस्य नखविदलनेनापि सम्भवात् अब- इनननियमो व्यर्थः प्रयोजनाभावादिति वाच्यम् । अ वघातनव बैतुष्यकरणे किश्चिददृष्टं जन्यते इति नि यमादृष्टाङ्गीकारात् । नियमेन दृष्टकार्यालाभेडाप अदृष्टस्योत्पत्तेः । तचापूर्व यागोत्पत्यपूर्वद्वारा फला- ऽपूर्वे उपयुज्यते, तेन नियमापूर्वाभावे फलापूर्वमेव नोत्पद्यते इति कल्पनानियमापूर्वस्य न चैयर्थ्यम् । एवं सोमादिनियमेऽपि बोध्यम् । द्वयोः समुचित्य प्रासावितरनितिफलको वि- मीमांसापरिभाषा। धि: परिसङ्ख्याविधिः । यथा चयनप्रकरणे "इ- मामगृभ्णन् रशनामृतस्प(१) इत्यश्वाभिधानीमादत्ते" इत्यश्वरशनाग्रहणाङ्गत्वेन मन्त्रविधिः । एतद्विध्यभावे हि रशनाग्रहणप्रकाशको मन्त्री रशनाऽऽदानप्रका- शनसामर्थ्यरूपात लिङ्गात् अवरशनाSSदाने इव गर्द- भरशनाऽऽदानेऽपि नियमेन प्राप्नुयात् । ससस्मिन् विधौ अनेन मन्त्रेण अश्चरशनामेवाददीत न तु गर्द- भरशनाम, सा तु तूष्णीमेव ग्राह्येति गर्दभरशनायां मन्त्रनित्तिर्भवतीति द्वयोः समुचित्य प्राप्तावितरनि. वृत्तिफलकत्वादयं परिसङ्ख्याविधिः । एवं “पञ्च पञ्च. नखा भक्ष्या" इत्यादावाप वोध्यम् । पूर्व दर्शपूर्णमासाङ्गतं प्रयाजादीनामुक्तम् । तत्राङ्गत्वबोधकममाणानि श्रुतिलिङ्गवाक्यप्रक- रणस्थानसमाख्याभेदेन षट् । तत्र "दना जुहुया- " इत्यत्राग्निहोत्रवाक्यप्राप्त होमं जुहुयादिखनेनोद्दि- श्य तत्करणलेन तृतीयाश्रुसा(२) दधि विधीयते (१) अस्तस्य यज्ञस्य पूर्व आयुषि यज्ञारम्भे इमां रशनाम् अगृभ्णन् गृहीतवन्त इति मन्त्रार्थः । हग्रहोर्भश्छन्दसीति हस्य भः । पूर्व आयुषीत्युत्तरस्थस्य पूर्वत्रानुषङ्गः । (२) अङ्गत्वघटककारकत्वस्य साक्षाद्वोधक प्रमाण श्रुतिः इति तल्लक्षणं द्रष्टव्यम् ।
मीमांसापरिभाषा। इति श्रुत्या दनोऽङ्गत्वम् । लिङ्गं नाम सामर्थ्यम् । तच द्विविधम्-अर्थगतं भाब्दगतञ्चेति । आद्यं यथा-"स्वेणाबद्यति" इत्य- वदानसामान्य शेषत्वावगमेऽपि स्वस्य सामर्थ्यरूपात लिङ्गात् आज्यसान्नाय्यादिद्रवद्रव्यस्थावदानविशेषाङ्ग- त्वम् । स्वेण पुरोडाशाद्यवदानस्य क मशक्यत्वात् । शब्दगतं तु लिङ्गम् अर्थप्रकाशनसामर्थ्यम् । यथा- "अग्नये त्वा जुष्टं निर्यपामि" इति मन्त्रस्य निर्वापप्रका- शनसामर्थ्यरूपात् लिङ्गान्निापाङ्गत्वम् | यस्य मन्त्र- स्य यतप्रकाशनसामर्थ्य तस्य तदङ्गत्वम् । पदान्तरसमभिव्याहारो चाक्यम् । यथा-"इषे त्वे- ति छिनत्ति" इति । अत्र छेदनाङ्गत्वेन "इपे त्वा" इति मन्त्रो वाक्येन विधीयते । यद्वा "अग्नये जुष्टम" इत्यत्रैव अग्नये जुष्टमियादिपदानां निर्वपामीत्यनेनै- कवाक्यतापनत्वान्निर्वापाङ्गत्वम् । प्रकरणं नाम परस्पराकाला । यथा-"दर्शपूर्णमा- साभ्यां स्वर्गकामो यजेन" इति। अत्र दर्शपूर्णमासाभ्यां स्वर्गापूर्वकर्यादित्युक्त भवत्याकाङ्क्षा कथमाभ्यां स्व- गांपूर्व कर्तव्यमिति । तथा फलबदाग्नेयादिसन्निधौ “समिधो यजति" "तनूनपातं यजात" "आज्यभागो मीमांसापरिभाषा। यजति" इत्यादिभिः प्रयाजादयः फलहिताः श्रुताः, तेषां स्ववाक्येषु फलाश्रवणात् भवति प्रयोजनाकाङ्क्षा किमेतेषां प्रयोजनमिति । ततश्च प्रयाजादीनां प्रयो- जनाकाङ्क्षायां दर्शपौर्णमासयोः कथम्भावाकाङ्कायां परस्पराकाङ्कालक्षणेन प्रकरणेन प्रयाजादीनां स. र्वेषां दर्शपौर्णमासाङ्गत्वं निश्चीयते । स्थानं नाम सन्निधिः । यथा सान्नाय्यपात्रस- निधौ "शुन्धवम्" इति मन्त्रस्य पाठाद सन्निधानात् सानाय्यपात्रमोक्षणाङ्गत्वम् । समाख्या संज्ञा । यथा अश्चर्युकाण्डपतिपादिते कर्मजाते आवर्यवसमाख्यावशात् अध्वर्योः कर्तृ. स्तनाङ्गत्वम् । तथा “ऐन्द्राग्नमेकादशकपालं निपेत्म. जाकाम:" इसादिषु काम्येष्टिसमाख्यातेषु ऐन्द्राग्नादि- योगेषु काम्येष्टियाज्यानुवाक्याकाण्डममाख्यावशाव "उभा वामिन्द्राग्नी" इत्यादीनां याज्यानुवाक्यात्वेन विनियोगः । विनियोगो नाम अङ्गलेनान्वयः । श्रुखादीनामेकत्र समावेशे पूर्वपूर्वस्थ प्राबल्यम्, उत्तरोत्तरस्य दौर्बल्यम् । यथा-"कदा चन स्तरीरसि* (१) “शुन्धध्वं दैव्याय कर्मणे देवयज्यायै" इति मन्त्रस्वरूपम् । *नेन्द्र सश्चसीत्यतः नकारमपकृष्य मीमांसापरिभाषा। इत्यैन्या गार्हपत्यमुपतिष्ठते"इसग्निहोत्रप्रकरणे श्रूयते तत्र मन्त्रस्य इन्द्रप्रकाशनसामर्थ्यरूपात लिङ्गात् इन्द्रो पस्थानाङ्गत्वे प्राप्ते, ऐन्या इति तृतीयाश्रुखा गार्हपत्य- मिति द्वितीयाथुत्या च गार्हपत्योपस्थानाङ्गत्वेन वि. धानात् लैङ्गिक इन्द्रोपस्थाने विनियोगो बाध्यते श्रुतिहि स्वतो विनियोजिका । लिङ्गन्त्विन्द्रमकाशन- सामर्थ्य मालोच्य 'ऐन्येन्द्रमुपतिष्ठत' इति श्रुतिकल्पना. द्वारा विनियोजकमिति वाच्यम् । तच्चात्र नसम्भवति । यत्र श्रुतिविनियोगो नास्ति'अग्नये जुष्टं निर्वपा- मि” इसादौ, तत्र मन्त्रस्य निर्वाषप्रकाशनसामर्थ्यमा- लोच्य 'अनेन मन्त्रेण निर्धापं कुर्यात् इतिश्रुतिकल्प- नाद्वारा लिङ्ग विनियोजकं भवसेव । श्रुतिकल्पनाम- तिबन्धकाभावात् । तथा"स्योनन्ते सदनं कृणोमि "तस्मिन् सीद" इ. त्यत्र तस्मिन्निति तच्छब्दस्य पूर्वचाक्यार्थसापेक्षतया ए- कवाक्यत्त्वभाना वाक्यममाणेन द्वयोरेकमन्त्रत्वं भा- ति, लिङ्गेन भिन्नमन्त्रत्वं भाति । आद्यस्थ सदनप्र- काशनसामाव, "तस्मिन् सीद" इसस्य सादनम- काशकत्वात् । तत्र वाक्यापेक्षया लिङ्गस्य मावल्यात "हे इन्द्र कदाचिदीप स्तरीः हिंसका नासि"इत्यर्थी बोध्यः।
मीमांसापरिभाषा। वाक्यं बाधित्वा लिङ्गेन "स्योनन्ते" इत्यस्य सद. नागतम् "तस्मिन् सीद" इत्यस्य सादनाङ्गत्व- मिति निर्णयः। "स्योनं त इत्यस्य"तस्मिन् सीद" इत्यनेनैकवाक्यत्व- बलात् यथाकथञ्चित् सादनसामर्थ्यरूपं लिङ्गं कल्प. यित्वा 'अनेन विशिष्टमन्त्रेण सादनं कुर्याद'इतिश्रुतिः कल्पनीया। सदनप्रकाशनरूपप्रत्यक्षलिङ्गेन कल्पितया "स्योनं त इत्यनेन सदनं कुर्याद"इतिश्रुत्या "स्योनन्त" इत्यस्य शीघ्र सदने विनियोगे सति तेनव मन्त्रस्य नै- राकासयान पाक्यप्रमाणाद लिङ्गं कल्पयित्वा श्रुति- कल्पना प्रतिबध्यते विलम्बितत्वादिति लिङ्गेन वाक्यस्य बाधः । एव वाक्येन भकरणस्य, प्रकरणात क्रमस्य, क्रमात्समाख्याया बायो बदितव्यः । तथा श्रुत्या बाक्यादेरपि बाधः । तदेवमनताबोधकप्रमाणानि श्रुखादीनि निरूपितानि । तचाङ्गत्वं शेषत्व-पारायमिति पावत। परो- देशेन प्रकृतिपाप्यत्वं पारार्यम् । प्रयाजादी- *परोहेशेन प्रवृत्तस्य या कृतिस्तद्वयाप्यत्वम् । तच्च न कृतिलाध्यत्वम् । देशकालपुरुषादावव्याप्तेः । अतएव- १८ मीर्मासापरिभाषा। नां दर्श पूर्णमासोद्देशेन प्रवृत्तपुरुपकृतिव्याप्यत्वात् लक्षणसङ्गतिः । दर्शादेः प्रयाजााद्देशेन प्रवृत्तक- तिविषयवाभावामातिव्याप्तिः । केवलप्रयाजानुदि- श्य कस्यचिदपि पुरुषस्याप्रवृत्तेः । तान्यङ्गानि द्विविधानि सन्निपत्योपकारका- णि, आरादुपकारकाणीति चेति । यान्यङ्गााने सा- क्षात्परम्परया वा प्रधानयागशरीरं निष्पाद्य तद्- द्वारा तदुत्पत्त्यपूर्वोपयोगीनि तानि सन्निपत्योपकार- काणि। यथा-व्रीह्यादिद्रव्याणि, तत्संयुक्तावहननमोक्ष- णादीनि, अग्न्यादिदेवतातत्संयुक्तयाज्यानुवाक्याव- चनादीनि च । अत्र मोक्षणादेवीहिगतातिशयद्वारा, अवहननादेस्तुपविमोकादिरूपदृष्टद्वारा, बाह्यादीनां पिष्टद्वारा पुरोडाशनिष्पादकत्वं, तद्वारा यागशरीर. तदुत्पत्त्यपूर्वहेतुलञ्च । याज्यानुवाक्यादेदेवतासंस्का- रद्वारा तदुत्पत्त्यपूर्वोपयोगित्वञ्च । यागस्य देवतोद्दे- शेन व्यसागरूपत्वात् । द्रव्यदेवते हि यागस्वरूपमिति सिद्धान्ताच । एतान्यत्र सामवायिकानीत्युच्यन्ते । कृतिसमवायित्वविषयत्वादिरूपमपि न । किन्तु तादृश- कृती कारकत्वेन विहितत्वम् । तेन न कुत्राप्यव्यापत्या- दिशकाते भादीपिकायां विस्तरः ।
मीमांसापरिभाषा। आत्मसमवेता पूर्वजनकान्यारादुपकारकाणि । यथा-अयाजाज्यभागानुयाजादीनि । एतानि द्रव्य- गतं देवतागतं वा संस्कारं न जनयन्ति, किन्वात्म- गतम् अदृष्टं जनयनित इत्यारादुपकारकाणि । तत्र सामान्यतः कर्म द्विविधम्-अर्थकर्म, गुणकर्म चति । तत्रात्मगतापूर्वजनकं कर्म अर्थक- ने । यथा-अग्निहोत्रदर्शपूर्णमासमयाजादिकम् । गुणकर्म संस्कारजनकम् । तच्च द्विविधम्- उपयुक्तसंस्कारकम, उपयोक्ष्यमाणसंस्कारकञ्च । तत्र उपयुक्तसंस्कारकं पतिपत्तिकर्म । उपयुक्तस्य आकीर्णकरस्य द्रव्यस्य विहितदेशे प्रक्षेपः प्रति- पत्तिरिति लक्षणात् । यथा इडाभक्षणकृष्णविषा- णापासनचतुरवत्तहोमादिकम् । नन्विडाभक्षणस्य प्रधानयागोपयुक्ताकीर्णकरपु- रोडाशद्रव्यप्रक्षेपात्मकत्वाद प्रतिपत्तित्वं युक्तम्, होमस्य तु यागोपयुक्तद्रव्यसंस्कारकत्वाभावात् कथं प्रतिपत्तित्वम, होमस्य यागसमानकालीनत्वेन हो- मसंस्कार्यस्य चतुरवत्तादेरुपयुक्तत्वाभावादिति चेद। अत्राहु-उपयुक्तसंस्कारमात्रै प्रतिपत्तिः, न तु प्रधानयागोपयुक्तत्वम् । तथा सति पशोर्विशसना- २० मीमांसापरिभाषा। , नन्तरं वपाहृदयायुद्धरणकालकर्तव्यलोहितमाकृन्नि- रसनस्य प्रतिपत्तित्वाभावप्रसङ्गाव-यागोपयुक्तद्रव्य- प्रक्षेपरूपत्वाभावात् । तथा कृष्णविषाणामासनस्यापि प्रतिपत्तित्वं न स्याव, यागाङ्गभूतकण्डूयनोपयुक्तत्वेऽपि थागोपयुक्तत्वाभावात् । अतो यत्र कचनोपयोगमा विवक्षितम् । यत्र कचिदुपयोगस्त्वत्राप्यस्ति, वपाहु- दयाशुद्धरणेनोपयुक्तस्य पशोः सम्बन्धिनः शक्लो- हितस्य आकीर्णकरस्य प्रतिपत्त्यपेक्षवाद । एवं यथाकथश्चिदुपयोगो होमस्थलेऽप्यस्ति । सथाहि, प्रतिपत्तिनिधा-प्रधानोत्तरकाला, प्र. धानसमकाला, प्रधानपूर्वकाला चेति । तत्र-आद्या- इडाभक्षणादिका । द्वितीया होमादिका । तथाहि-दर्श- पूर्णमासपकरणे श्रूयते-"सकृदुपस्तृणाति"द्विहविषो- ऽवति" "सकुदभिधारयशि "चतुरवत्तजुहोति"। तत्र चतुरवत्तवाक्ये होमानुवादेन चतुरखत्तद्रव्यं तत्सा- धनत्वेन न विधीयते, होमस्यामाप्तत्वेनानुवादासम्भवा- तू । नच यदाग्नेयवाक्याद्धोमप्राप्तिः, तद्वाक्यस्य यागविधायकत्वात् । नच यागहोमयोरभेद इति वाच्यम् । देवतोद्देशेन द्रव्यत्यागस्य घागशः ब्दार्थत्वात्, प्रक्षेपविशिष्टस्य यागस्थ होमशब्दा.
मीमांसापरिभाषा। र्थत्वात् । तत्राग्नेय चोदनया यागस्य प्राप्तत्वेऽपि प्रक्षेपस्य शक्त्याऽप्राप्तत्वेनानुवादासम्भवात् । किन्तूप- स्तरणद्विरवदानाभिधारणवाक्यैः प्राप्तं चतुरवत्तमु- दिश्य तत्संस्कारत्वेन प्रक्षेपो जुहोतीत्यनेन विधीयते । स च संस्कारः मतिपत्तिरूप एव । “अग्नये जुष्टमभिधारयामि" इत्यादिनिर्देशैर्यागाङ्गभूताग्न्या- दिदेवतार्थतया यथाकश्चिदुपयुक्तस्य पुरोडाशस्य प्र. तिपत्त्यपेक्षया तदवयवयवदानकर्मकमक्षेपस्य मति. पत्तिकर्मत्वौचित्यात् । च संस्कारः प्रधानसमकाल: । होमो हि "वपट्कृते जुहोति" इतिविधानात्-वषट्कारो- तरक्षणे अवर्युकर्तव्यः । यागोऽपि तस्मि- नेव क्षणे यागस्य स्मरणार्थेन वपट्कारेण स्मारित: सन् यजमानेनानुष्ठेय इति तयोर्योगपद्यसम्भवात् । तदिदं सर्चमदानाधिकरणबार्तिके स्थितम् (पू० मी० अ० ३। पा० ४। अधि० १४ सू०३७) प्रधानपूर्वकाला प्रतिपत्तिः यथा-"शकृत्संपविध्य- ति" "लोहितं निरस्यति" इति शकृत्सं(म)धनलोहित- निरसने । इदमाप पशावनालम्भात् लोहितशकृतो. रकर्मत्वामित्यधिकरणे(पू०मी०अ०४ पा०१ अधि०१२ मु०२७) स्थितम् ।
२२ मीमांसापरिभाषा। उपयोक्ष्यमाणसंस्कारोऽप्यनेकविधः-साक्षाद्वि- नियुक्तसंस्कार, साक्षाद्विनियुक्तस्य यदुपकारकं सत्संस्कारः, विनियोक्ष्यमाणसंस्कारश्चीत । तत्र आयो यथा-"नीहीनवहन्ति" इत्यादिः "वीहिभिर्यजेत" इ. त्यादिवाक्यविनियुक्तवीहीणामवहननसंस्कारः। द्विती- यो यथा-"वत्समालभेत" इति।दोहाङ्गत्वेन साक्षाद वि. नियुक्तस्य गोद्रव्यस्य उपकारको यो वत्सः तत्संस्कार- कमिदमालम्भनम् । तृतीयो यथा-"तप्ते पयसि दध्यानयति" इति । अत्र “सा वैश्वदेव्यामिक्षा" इति वाक्येन तच्छब्देन निर्दिश्य वैश्वदेवयागाङ्गत्वेन वि. नियोक्ष्यमाणं यत्पयस्तत्संस्कारकत्वात् विनियोक्ष्य- माणसंस्कारकं दध्यानयनम् । पशुपुरोडाशयागस्तू. पयुक्तोपयोक्ष्यमाणदेवतासंस्कारार्थः, त्यागांशे अ. दृष्टार्थश्च । अत्र तत्संस्काग्निीषोमदेवताया वपायागे उपयुक्तार्थत्वात,हृदयाद्यङ्गयागेषु उपयोक्ष्यमाणत्वाच । स्विष्टकृद्यागो द्रव्यांशे देवतांशे चोपयुक्तसंस्कारा- थी, त्यागांशे अदृष्टार्थश्च । सूक्तवाकसाधनकं प्रहरण- मपि तथैव । उत्तमप्रयाजो यक्ष्यमाणदेवतासंस्कार- स्वाचदशे उपयोक्ष्यमाणसंस्कारः, इतरांशे अदृष्टार्थः । हृदयादिहविर्यागात्पूर्व क्रियमाणो वसाहोमोऽपि मीमांसापरिभाषा। वसांशे प्रतिपत्चिरितरांशे अदृष्टार्थ इत्याधूद्यम् । केचित्तु-उपयोक्ष्यमाणसंस्कारभिन्नसंस्कारकर्मत्वं प्रतिपत्तिकर्मत्वम् । चतुरवत्तद्रव्यस्य होमेन भस्मीभू. तस्य होमे उपयोक्ष्यमाणत्वाभावात् तद्भिन्नत्वं होमे- ऽस्तीति लक्षणसङ्गतिरित्याहुः । अत्रायं विशेषः-अर्थकर्मणि द्रव्यापेक्षया कर्मणः प्राधान्यम्, कर्मणि द्रव्यस्य गुणत्वम् । यथा अग्निहोत्रादौ दध्यादेर्गुणत्वम् । गुणकर्मणि द्रव्यस्य प्राधान्यं, द्रव्ये च कर्मणो गुणत्वम् । बी. हीन प्रोक्षति अवहन्तीत्यादौ द्वितीयया वीहीणां क्रि- यासाध्यत्वप्रतीतेः क्रियापेक्षया द्रव्यस्य प्राधान्य प्रोक्षणादिक्रियायास्तदपेक्षया गुणत्वमिति । पुनरपि गुणकर्म चतुर्विधम्-उत्पत्त्याप्तिविक- तिसंस्कृतिभेदात् । तत्रोत्पत्तिसंस्कारो यथा-"अग्नीना- दधीत इति । मन्त्रविशेषैः सम्भारेषु निधापिता अप्याह- बनीयादय उत्पद्यन्त इत्याहवनीयाद्युत्पत्तिहेतुभूतसं. स्कारजनकत्वान् आधानस्य उत्पत्तिसंस्कारत्वम् । आ- लिसंस्कारो यथा-"स्वाध्यायोऽध्येतव्य"इति । अध्यय. नेन स्वाध्याय आप्यत इत्याप्तिमस्कारोऽयम् । विकृ- तिर्यथा-"ब्रीहीन अवहन्ति" इति वीहिगतवतुष्यरूप- मीमांसापरिभाषा। विकृतिजनकत्वादवहननं विकृतिसंस्कारकम् । संस्कृ- सिर्यथा "व्रीहीनप्रोक्षति" इति । अत्रापानमध्ययनश्च खतन्त्रं गुणकर्म न तु क्रत्वङ्गम् । प्रोक्षणादिकं सर्च क्रत्वहं गुणकर्मोत ध्येयम् ॥ अर्थकर्म त्रिविधभू-नियनैमित्तिककाम्यभेदात् । तत्र-'यावजीवमग्निहोत्रं जुहोति" "सायं जुहोति" "प्रातर्जुहोति"इति जीवता पुरुपण सायंप्रातःकालयो- नियमेन कर्तव्यतया अवगतमग्निहोत्रादिकं निखम् । "अग्नये पथिकृते पुरोडाशमष्टाकपालं निपेत्" इति दर्शपूर्णमासातिपत्तिनिमित्तकपथिकृदिष्टयादिक नैमित्तिकम् । नित्यनमित्तिकयोरकरणे प्रत्यवाय एव, कृते फलं नास्तीति केचित् । अन्ये तु दुरितनित्तिः फलमस्ति- नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् । इत्यादिवाक्यः प्रत्यवायनिवृत्तेः फलत्वेन श्रूय- माणखाल । नचैवं तयोराप काम्यत्वापाचः फलववाद- ति वाच्यम् । फलकामनापूर्वकानुष्ठानाभावा- तत्तद्विधिवाक्ये फलकाममुद्दिश्य तदर्थफल- HOMARVARD मीमांसापरिभाषा। २५ , साधनत्वेन विधानाभावाच काम्यत्त्रानुपपत्तेः। काम्यमपि कर्म त्रिविधमू-केवलम् ऐहिकफल- कम, आमुष्मिकफलकम्, ऐहिकामुष्मिकफलकञ्चेति । तत्राद्यं यथा-कारीर्यादि । तत् तत्समयत्तिशुष्यत्स- स्यसजीवनहेतुष्टिकामिना क्रियते, न कालान्तरमा- विष्टिकामेन, जन्मान्तरीयष्टिकामेन वा। केवलामुष्मिकफलकं यथा-स्वर्गाद्यर्थदर्शपूर्णमा. सादिकम् । स्वर्गस्य इहलोकभोग्यवाभावात् । ऐहिकामुष्मिकसाधारणफलकं यथा--"वायव्यं श्वेतमालभेत भूतिकामः" इति भूसादिफलकमियन्यत्र विस्तरः। ननु दर्शपूर्णमासादिकर्मणां ब्रीह्यादिद्रव्याणाश्च असक्षलेन लौकिकत्वात् कथं वेदस्यालौकिकार्थ- बोधकत्वामिति चेन्न । कर्मणां प्रत्यक्षत्वेऽपि तेषां स्वर्गादिफलसाधनत्वमपसक्षमिति 'तत्फलमाध- नतया तत् कर्म कर्तव्यम्' इत्येवं फलसाधनतया कर्म- कर्तव्यताबोधकस्य वेदस्यालौकिकार्थवोधकत्वात् । एवं ब्रीह्यादीनां *यागादिक्रियासाधनत्वं न प्रत्यक्षवे- * फलसाधनापूर्वसाधनत्वाकारविशिष्टयागादिक्रि- यासाधनत्वमित्यर्थः। Histers २६ मीमांसापरिभाषा! यमिति तद्धोधकस्यापि वेदवाक्यस्यालौकिकार्थबोधक- त्वमिति न दोषः। इदानीं विधिवाक्यस्य विधायकत्वप्रकार कथ्यते । तत्र "स्वर्गकामो यजेत" इत्यत्र यजिघालोपरित- ने तप्रत्यये धर्मद्रयमस्ति-आख्यातत्वं लिइवं चेति । सत्र आख्यातत्वं सर्चलकारसाधारण तदन- च्छेदेन लिङ्प्रत्ययः पुरुषमीत्तरूपाम आर्थभाव- नां प्रतिपादयति । सा चार्थभावना कि, केन, क- थमिति अंशत्रयविशिष्टा । तथाहि-यजेत इत्यत्र प्रथम प्रययेन 'भावयेद' इति प्रतीयते । सुबन्ताभिहितानां सर्वेषां कारकाणां तिङन्तार्थक्रियान्वयनियमे सति तिङन्तार्थस्य प्राधान्यात् । तत्र च प्रकृत्यर्थापेक्षया प्रसयार्थस्य प्राधान्यात प्रथमं प्रत्ययार्थभावनाया उपस्थितियुक्ता । ततः करोति-समानार्थकभाव यतेः सकर्मकत्वात् 'किम्भावयेन्द्'इनि कम्पकाङ्कायां भिन्न- पदोपात्तोऽपि स्त्रों भाव्यत्त्वेनान्वेति । भाव्यत्वेन कर्मः वेनेसर्थः । साध्यत्वेनेति यावत् । न तु समानपदोपा- तोऽपि धास्त्रों भाव्यत्वेनान्वेति । दुखात्मकस्य यागस्य ईप्सिततमत्वरूपकर्मत्वायोग्यत्वात् । स्वर्गस्य वानन्दात्मकत्येन ईप्सिततमतया कर्मलेनान्वययो- मीमांसापरिभाषा। ग्यत्वात् । ततश्च 'स्वर्ग भावयेद्' इति बोधो भवति । लत: 'केन' इति करणाकाङ्क्षायां समानपदोपात्तो यागः करणत्वेनान्वेति-'यागेन स्वर्ग कुर्याद्' इति । ततः कथं यागेन स्वर्ग कुर्याद्' इति कथम्भावाकाङ्क्षायाम्-अ. अन्यन्याधानावहननादिजन्यदृष्टोपकारेण प्रयाजादिज- नितादृष्टोपकारसहितेन यागेन स्वर्ग कुर्यादिति अग्न्य- न्वाधानमयाजादिकमङ्गजातम् इतिकर्तव्यतावेना- इन्वेति । कथम्भावाकाङ्कापूरकत्वमितिकर्तव्यतात्व- म् । यथा-'ओदनकामा पचेत्' इत्पत्र लिङा भाव- ना प्रतीयते, किं भावयेदित्याकाङ्क्षायाम् ओदनो भाव्यत्वेनान्वेति, केनेत्याकालायां पाकेनेति लभ्य- ते, कथमिसाकाङ्क्षायां तृणफूत्कारसहितेनेति । त. तश्च तृणफूत्काराद्युपकृतेन पाकेन (तेजासंयोगेन) ओदनम्भावयदिति वाक्यार्थः सम्पद्यते तद्वेदेऽपि बोध्यम् । स एव लिमखयो लिवारच्छेदेन शब्द- भावनां प्रेरणाख्यामभिधत्ते । लोकेऽपि “गामानय' इसाचार्यवाक्यश्रवणानन्तरम् 'अयमाचार्यों माङ्गवा- नयने प्रेरयति' इतिप्रेरणाख्यव्यापारं ज्ञात्वैव शिष्यो गवानयने प्रवर्तत इत्यन्वयव्यतिरेकाभ्यां प्रेरणाज्ञानं २८ मीमांसापरिभाषा। मत्तिकारणम् । प्रेरणाज्ञानस्य चान्वयव्यतिरेका- भ्यां लिङादिश्रवणजन्यत्वावधारणात् लिङादेः प्रे- रणायां शक्तिलों के गृह्यते इति वेदेऽपि तत्रैव श- क्तिकल्पनौचिसात् । इयांस्तु विशेष:-लोके गवानय- नादिप्रवृत्त्यनुकूलः प्रेरणाख्यो व्यापार प्रयोक्तृपुरुप- गताभिप्रायविशेषः, वेदे तु प्रयोक्तृपुरुषाभावात लि- डादिशब्दनिष्ट एव स इत्यङ्गीक्रियते । अत एव शब्द- निष्ठच्यापारत्वाच्छाब्दी भावनेत्युच्यते, यागहोमा- दिविषयक प्रवृत्तिहेतुत्वात् प्रवर्त्तना प्रेरणेति चोच्यते । सैषा शाब्दभावनाऽपि अंशत्रयविशिष्टा । तत्र पुरुषप्रवृत्तिरूपाऽऽर्थभावना भाध्यत्वेनान्वेति । अध्य- यनावगतालिङादिकं करणत्वेनान्वेति । अर्थवादन- तिपाद्यप्राशस्त्यज्ञानमितिकर्त्तव्यतात्वेनान्वेति । तत्र "साङ्गवेदाध्येतारोऽधीतव्याकरणनिगमनिरुक्तादिवशा- द व्युत्पत्तिमन्तः पुरुषा अध्ययनगृहीतस्वाध्याय- गतलिडादिभिः प्राशस्त्यज्ञानसचिौर्यागाद्यर्थं स्वकर्त- व्यत्वेन बुद्धा यागादीननुतिष्ठेयुः" इति शाब्द- भावनाबोधः । अनुतिष्ठेयुः, अनुष्ठानं कुयुरियर्थः । अनुष्ठानं प्रत्तिः । तेन पुरुषप्रत्तेः शब्दभावनाभा- व्यत्वमक्षतम् । ।
मीमांसापरिभाषा। इयश्च शाब्दभावना ज्योतिष्टोमादिप्रातिस्विक- वाक्येषु स्वरूपेण प्रतीयमानाऽपि कर्त्तव्यत्वेन न प्रवी- यते आर्थभावनाया एव तेषु कर्तव्यत्वावगमात, किन्तु "स्वाध्यायो ऽध्येतव्य" इति वाक्ये एवं कर्तव्यस्लेन प्रतीयते । न चात्रार्थभावनाया एव विधेयत्वमिति वा- च्यम् । “स्वाध्यायोऽध्येतव्यः" इतिवाक्यस्थार्थभा. बनाया एवं सकलविधिवाक्यस्थ शब्दभावनारूपत्वात् । तथाहि-अधिपूर्वकाद"इङ्क अध्ययने"इति धातोः कर्मणि तव्यप्रत्ययो विहितः । कर्म च स्वाध्याय: प्रधानम्, तत्संस्कारकमध्ययनं गुणकर्म।बीहिसंस्का- रकमोक्षणादिवत् । अध्ययनजनितग्रहणसंस्कारविशिष्ट- स्वाध्यायस्य प्रयोजनाकाङ्कायां स्वाध्यायगलततल्लि- अदिविशिष्टवाक्यसामर्यलभ्यं यद् अनुष्ठानौपयिक- यागादिरूपार्थज्ञानं तदेव-दृष्टवाद, तत्कर्मानुष्ठान- द्वारा स्वर्गादिरूपालौकिकशेयःसाधनत्वाच्च प्रयो- जनम् । कर्मावबोधं बिना कम्मानुष्टानायोगात् । न वष्ट प्रयोजनम् । दृष्टफले सम्भवत्यदृष्टफलकल्पनाऽ- तथाच स्वाध्यायविधिनैव स्वाध्याय- गतविधिवाक्यगतलिङनादिप्रतिपादिताः सर्वाः सा- ब्दभावनाः अंशत्रयविशिष्टाः कर्तव्यत्वेन विधीय- योगात् ।
३० मीमांसापरिभाषा। न्ते । साङ्गवेदाध्ययनेन व्युत्पन्नाः पुरुषाः अध्यय- नगृहीतस्वाध्यायगतलिङादिभिरर्थवादावगतपाशस्त्य- रूपाङ्गसचिवैः फलबद्यागादिकर्तव्यतां बुद्धा या- गादीननुतिष्ठेयुरिति । अनुतिष्ठेयुः, प्रतिं कुर्युरित्य- थः । तत्र पुरुषपत्तेर्भाव्यत्वेनान्वयात, अध्यय. नावगतलिङादेः करणतेनान्वयात् , प्राशस्त्यज्ञानस्ये- तिकर्तव्यतात्वेनान्वयात् शब्दभावनाया अपि अंश- त्रयवैशिष्ट्यम् अर्थभावनाया इवेष्टम् । तत्र समीहितस्वर्गादिभाव्यकत्वभानमपि वि- धिवशादेव । प्रवर्तनापरो विधिः यागादेः पुरुषार्धा- ऽसाधनले तत्र पुरुषं अवतयितुं न शक्नोतीति स्व- भाव्यपुरुषमत्तिविषयस्य यागादेः पुरुषाभिलषित स्वर्गादिसाधनत्वमापादयति* । अन्यथा स्वस्थ भव. तनात्वमेव न स्यात् । प्रवृत्तिहेतुच्यापारस्यैव भवर्त- नात्वात् । लडादिस्थले तु प्रवर्तनात्मकविधेरभावा- दार्थभावनायाः पुरुषार्थभाव्यत्वनियमो नास्ति । भावना नाम भवितुः प्रयोजकव्यापारत्वम् । *अनेन इष्टसाधनत्यस्य न विध्यर्थत्वं किन्तु प्रव- तनाया एवेति ध्वनितम् । इदं च परमलघुमञ्जूषाटिप्प- ज्यां स्पष्टीकृतमिति तत्रैव द्रष्टव्यम् । EveNARISHARE मीमांसापरिभाषा। ३१ तत्रार्थभावनायां भवितुर्जायमानस्य स्वर्गादेः प्रयोज- कव्यापारत्वात् लक्षणसङ्गतिः । शाब्दभावनायामपि पुरुषप्रवृत्तिरूपस्य भवितुः प्रयोजकव्यापारवाद लक्षणसङ्गतिः । ननु “ज्योतिष्टोमेन स्वर्गकामो यजेश"इसत्र या- गेन स्वर्ग भावयदित्यर्थवर्णने ज्योतिष्टोमपदस्य कथम- वय: ?-इति चेन। भावनाकरणत्वेनाभिमतयाग- नामवेनान्वयात्-'ज्योतिष्टोमनामकेन यागेन' इति । कथं तमामत्वमिति चेन्न । ज्योतिराख्यात्रिसदा- दिस्तोमा अस्मिन् सन्तीति व्युत्पच्या यागनामत्वा- त् । यागस्य त्रिदादिस्तोमसम्बन्धः केनावगम्यते ? इति चेन्न । “त्रित, पञ्चदशः, सप्तदशः स्तोमा" इति वाक्यान्तरेण एतच्छब्दार्थस्य तत्सम्बन्धावगमा- व । एवं शास्त्रोक्तैस्तत्प्रख्यादिभिहेतुभिस्तत्र तत्र नामत्व बोध्यम् । शास्त्रे हि-तत्मख्य-तापदेश-यौगिक-वाक्य- भेदैश्चतुर्भिनमित्वं प्रतिपादितम् । तथाहि-"अग्नि- होत्रं जुहोति"इत्यत्र अग्निहोत्रशब्देन अग्निदेवतारूपो गुणो न विधीयते, "अग्निोतिज्योतिरग्निः क्याहोते सायं जुहोति" इतिवाक्यविहितेन मन्त्रेण दे.
मीमांसापरिभाषा। बतायाः पाप्तत्वात् । किन्तु अग्रिमख्यापकम् (अग्नि- प्रापक) यच्छास्त्रान्तरम्-"अग्निम्पोतियोतिराग्न" इत्यादिकम, तेन प्राप्तमग्निसम्बन्ध निमित्तीकृत्य अ. नये होत्रं होमोऽस्पिन्निति बहुव्रीहिणा अग्निहोत्रपदस्य होमनामधेयत्वम् । न च होमस्य प्रत्ययवाच्या- र्थभावनायां करणत्वात् तन्नामत्वे “अग्निहोत्रेण" इति तृतीया स्यात् "ज्योतिष्टोमेन इतिवदिति वा- च्यम् । द्वितीयाया एव लक्षणया करणार्थकत्वात् । 'नासाधितं करणम्' इति न्यायेन असाधितस्य करण- वायोगात् अर्थात् प्राप्तहोमगतसाध्यत्वानुरादक- त्वेन वा द्वितीयोपपत्तेः-इति तदाख्यन्यायादत्र- नामधेयत्वम् । तथा---"श्येनेनाभिचरन्यजेन" इत्यत्र येनपदं यागनामधेयम्, न तु यागाङ्गत्वेन पेनपक्षि- रूपगुणविधिः । “यथा ह वै श्येनो निपसादत्ते एवमेवायं द्विषन्तं भातृव्यं निपत्यादत्ते यमभिचरति श्येनेन" इत्युपमानोपमेयव्यपदेशानुपपत्तिप्रसङ्गात् । 'श्येनपक्षी यथा पक्ष्यन्तरं निपसादत्ते एवमयमपि श्येननामका कमविशेषो भ्रातृव्यं शत्तुं निपत्या- दत्ते' इति व्यपदेशः कर्मनामत्वपक्षे एन युज्यते । EMARIMARATI मीमांसापरिभाषा। यागाङ्गतया श्येनपक्षिविधौ तु स्वस्य स्खेनैवोपमानोप- मेयभावः स्यात् । स चायुक्तः । तस्माच्छयेनतुल्यता- व्यपदेशाच्छयेनपदं कर्मनामधेयम् । ततश्व 'अभि. चरन् शत्रुधकामः पेननामकेन यागेन अभिचार भावये' इति वाक्यार्थः । नन्वेवमप्यभिचारस्यापि वेदोक्तत्वात् आभि. चारिके कर्मण्यास्तिकानामपि प्रतिः स्यादिति चेन्न । वेदोक्तोऽप्यभिचारो वेदविहितो न भवति फलत्वात । 'फलं न विधेयं किन्तु फलमुद्दिश्य त- साधनत्वेन कमैव विधेयम्' इति सिद्धान्तात् । अतो- ऽभिचारस्याविहितत्वेन प्रत्यवायजनकत्वम् । एवमू"उद्भिदायजेत पशुकाम" इत्यत्र पशुरूपफला- य विधितिसतस्य यागस्य उद्भित्पदनामधेयम्, न तु य- थाकथञ्चिव प्राप्तयागमुदिश्य तदङ्गतयोद्भिद्रूपगुण- विधिः । दध्यादिवदुद्भिन्नामकस्य गुणस्याप्रसिद्धत्वा- त् । यागे तु 'उद्भिद्यते फलमनेन' इति योग- सम्भवाद्यागनामस्त्रम् । ननु उद्भिद्यते भूमिरनेन' इतियोगवशेन खान- नादावप्युद्भिदः प्रयोगसम्भवात् खनित्रादिगुणविधिः किन्न स्यादिति चेन । एतादृशस्थले गुणविधिःकापि मीमांसापरिभाषा। वक्तुं न शक्यते । विरुद्धत्रिकद्वयसमावेशाख्यदोप- भसङ्गाव। तथाहि-"उद्भिदा यजेत पशुकाम" इत्यत्र माना- न्तरेणामाप्तस्य यागस्यानुवादासम्भवात् पशुकर्मकभा- बनायां करणवेन यागोविधेय:-'यागेन पशून भावये- दू' इति । ततश्च यागस्य विधेयत्वम्,फलं प्रति शेषतयाभ- तीयमानत्वाद् गुणत्वम्, 'शेषतया, अङ्गतयेत्यर्थः फल- सिद्ध्यर्थं पुंसाऽनुष्ठीयमानत्वात उपादेयत्वमिति विधे- यत्वगुणत्वोपादेयत्वात्मकमेकं त्रिकं यागे अस्ति । तथा यागोद्देशेनोद्भिद्गुणविधौ विधित्सितगुणापे- क्षया माधान्यम्, उद्देश्यत्वम्, अनुवाचत्वञ्चेति द्वितीयं विकम् । तदेतत् त्रिकद्वयं परस्परविरुद्धम् एकस्मिन् यागे प्रसज्येत, अतो न गुणविधिः । न च "सोमेन यजेत"इयत्र विरुद्धत्रिकं विनैव सोमशब्दस्य सोमवति यागे लक्षणामङ्गीकृस, 'सोमवता यागनेष्टं भावयेद' इति सोमविशिष्टयागविधानाद यथा सोमरूपगुणविधिः, तद्वद् उद्भित्पदस्यापि मत्वर्थ लक्षण- याऽत्रोद्भिद्गुणविशिष्टयागविधिः स्यादिति वाच्य- म् । सोमादौ गसन्तराभावान्मत्वर्थलक्षणया विशिष्ट- विध्यङ्गीकाराद् । उद्भिदादौ नामस्वेन गतिसम्भवा- मीमांसापरिभाषा। द्विशिष्टविध्यङ्गीकारायोगात् । तस्माद्योगवादु. द्भिदादीनां नामत्वम् । तथा-"चित्रया यजेत पशुकाम" इत्यत्र चित्रा- पदं माजापखनामधेयम् । “दधि मधु घृतमापो धाना- मण्डलास्तसंस्ष्टं प्राजापत्यमू" इत्यत्र "तत्संस्कृष्टं मा- जापत्यम्" इति सामानाधिकरण्याद यो दध्यादिद्रव्य- षट्कस्य प्रजापतिदेवतासम्बन्धः श्रुतः तेनानुमितो यागो विधीयते । विहितस्य यागस्य फलाकाङ्क्षायां "चित्रया यजेत" इति बाक्यं फलसम्बन्धविधायकम् । तत्र फलार्थत्वेन पुनर्विधिरिति तस्य प्राजापखयागस्य दध्यादिविचित्रद्रव्यकत्वाद चित्रापदं कर्मनामधेयम्, न तु "अग्नीषोमीयं पशुपालभेत" इतिवाक्यप्राप्तं पशुयागं 'यजेत' इसन्ध चित्रत्वस्त्रीत्वरूपगुणयविधानम् । मा. नान्तरप्राप्तं कर्मोद्दिश्य तत्रानेकगुणविधाने वाक्यभे- दात् । तदुक्तम्- 'प्राप्ते कम्मणि नानेको विधातुं शक्यते गुणः । इति । मानान्तरामाप्तकर्मणि खनेकदेवताऽष्टाकपालपु- रोडाशामावास्यापौर्णमास्यायनेकगुणविशिष्टो द्रव्यदे- वत्तासम्बन्धेनानुमितो यागो विधीयते इति सिद्धा- न्त: । तदुक्तम्- Ramanand AIRASNEATHMAREFSAKCIAAMRAPHikne hindee ३ मामांसापरिभाषा। 'अमाप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः । इति । अथ-यथा “पशुना यजेत"इसत्र मानान्तरमाप्तया- गमुद्दिश्य तदङ्गतया 'पशुना' इत्येकपदोपात्तानां पशुद्र- व्यतद्गतलिङ्गसङ्ख्यानां त्रयाणां वाक्यभेदं विनैव वि. धिरङ्गीकृतः, तद्वदत्रापेकपदोपात्तचित्रत्वस्त्रीत्ववि- शेषितपशुद्रव्यकारकस्य विधानान वाक्यभेदः । अत एव तत्र विधेयस्य पशोरुपादेयत्वात् तद्वतमेकल्न यज्ञाङ्गतया विवक्षितमियेकेनैव पशुना यष्टव्यम्, "ग्रहं सम्माष्टि"इत्यत्र उद्देश्यमनत्वादेकत्वमविवक्षित- मिति सिद्धान्त पवादः । कथम् ? | "ग्रहं समाष्टि" इत्यत्र 'ग्रहम्' इति द्वितीयया अहस्यक्तिततमत्वेनोद्देश्यत्वात् प्रयोजनवत्वाच माधान्यं गम्यते, संमार्गस्तु ग्रहं प्रति गुणभूतः । 'प्रतिप्रधानं गुण आवर्तनीय' इति न्याया- दयावन्तो ग्रहास्तेषां सर्वेपार संमार्ग इति निश्चये साति, 'कति ग्रहाः सम्मार्जनीयाः' इति बुभुत्साया अभावादुद्देश्यगतमकत्वं श्रूयमाणमप्यविवक्षितम् । य- शुच्यते-'नेदमुद्देश्यगतं किन्तु स्वयं विधेयम्' 'ग्रह समृज्याद' 'यं संमृज्यात्तश्चैकम्' इति । तथा सति विधेयभेदाद्वाक्यभेदः स्यात । तथाबुभुत्साया अ. भावात् विधिनाऽयोगाचोद्देश्यगता सङ्ख्या न वि.
AND मीमांसापरिभाषा । -- वक्षिता (पू.मी.अ.३ पा.१ अधि.७)। उद्देश्यगतमपि विशेषणं किञ्चिद्विवक्षितं यस्य विशेषणस्प विवक्षां विना उद्देश्यप्रतीतिर्न पर्यवस्थति । यथा-तत्रैव ग्रहत्वं विव- क्षितम् । तद्विवक्षां बिना उद्देश्यस्वरूपस्य ज्ञातुमशक्य- स्वात् । तेन ग्रहजातीयसाधनकसोमयागापूर्थित्वाचम. सेषु न संमार्ग इति स्थितम् । (पू.मी.अ.३पा.१अधि.८) "पशुना यजेत"इत्यत्र तु यागं प्रति पशुर्विधे- यत्वाद् गुणभूता, प्रतिगुणं प्रधानात्तिर्नास्तीति कियद्भिः पशुभिः यागः कर्तव्यः ? इत्याकालायाम एकवचनेन प्रतीयमानं विधेयगतमेकत्वं विवक्षितम् । बुभुत्सितत्वात् (पू. मी. अ. ४ पा. १ अधि.५)। किञ्च लिङ्गसङ्ख्याविशेषितस्य पशुद्रव्यरूप- कारकस्य एकपदोपाचस्य विधेयत्वाद्विधेयपथद्वा- रा तद्गतलिङ्गसङ्ख्यादेरपि क्रियाङ्गत्वादेकत्वं वित्र- क्षितम् । अथवा तृतीयया विभत्स्याऽभिहितयो- लिङ्गसङ्खथयोविभत्त्यभिहिततया करणकारकशक्त्या- ऽऽत्मसातकृतयोः प्रातिपदिकार्थपशुद्रव्येण सम्बन्ध- मनादृत्य तद्वदेव साक्षात् क्रियाङ्गत्वेन विधाने सति पश्चादरुणैकहायनीन्यायेन परस्परमन्वयः-यागाङ्गत्वे- न विहितो यः पशुः स एकः पुमांश्चेति । HTTERTOISA में ३८ मीमांसापरिभाषा। यथा-"अरुणया पिङ्गाक्ष्या एकहायन्या गवा सोमं क्रीणाति" इत्यत्र कारकाणां क्रियान्वयनियमात् करण- विभक्तिभिरारुण्यपिङ्गाक्षीत्वादीनां चतुणी परस्परमन- न्वितानामेव सोमक्रयणाङ्गत्वेन अन्वये सति आरुण्या- देर्गुणस्यामूर्तस्य स्वतः क्रियासाधनवायोगात् क्रि. यासाधनकहायनीगोपरिच्छेदकत्वेन पश्चाद स्परं पाष्णिकान्वय:-या एकहायनी गौः सा पिङ्गाक्षी अरुणोते, तद्वत् । (पू० मी० अ० ३ पा०१ अधि०६) तदेवमुद्देश्यगतविशेषणमविवक्षितम्, उपादेयगत विवक्षितमिति स्थितम् । एवञ्च चित्रापदेन चित्रत्वस्वीवोभयविशेषितप- शुकारकस्य यजेतेतिपदानूदितेऽनीषोमीयपशुयागे वि. धातुं शक्यत्वात् कथं नामस्वमिति चेन्न । तथा सति प्रकृतस्य भाजापत्ययागस्य फलस. म्बन्धाकाङ्कस्य हानम्, अपकृतस्य अग्नीपोमीययागस्य कल्पना च स्यात् । तद् द्रथमयुक्तम् । तस्माचित्रापदं कर्मनामधेयम् ॥ एवं तवप्रख्यादिभिरन्यरमेन सर्वत्र कमनामत्वमृह्यम् ॥ इत्थं विधिवाक्यस्य मामाण्यं विचारितः । ।
IN मीमांसापरिभाषा । अधार्थवादो विचार्यते। अर्थवादानान्तु स्वार्थपरत्वे प्रयोजनाभावादध्य- यनविधिवशेन फलबदर्थज्ञानार्थत्वस्यावश्यकत्वाद्वि- धेयगतप्राशस्वप्रतिपादनद्वारा विध्येकवाक्यतया प्रा- माण्यमू । स चतुर्विधः- निन्दा-प्रशंसा-परकृति-पुराक- ल्पभेदात् । तत्र निन्दाऽर्थवादो यथा-"असत्रं वा एतद् यदच्छन्दोमा", "अश्रुजं हि रजतं, यो बर्हिषि ददाति पुराऽस्य संवत्सराद गृह रुदन्ति" इत्यादिः । प्रशंसा यथा-"शोभतेऽस्य मुखं य एवं वेद", "वायु क्षेषिष्ठा देवता बायुमेव स्वेन भागधेयेनोपधाव- ति स एवैन मुर्ति गमयति" इत्येवमादिः। परेण महता पुरुषेणेदं कर्म कृतमिति प्रतिपाद- कोऽर्थवादः परकृतिः, यथा-"अग्निर्वा अकामय- त" इत्यादि। परप्रवक्तृकार्थादिप्रतिपादकः पुराकल्पः, यथा- "तमशापद् धिया धिया ला वध्यासुः" इत्यादिः । तत्र निन्दाऽर्थवादस्य विधेयान्यनिन्दाद्वारा विधेयप्रा. शस्त्यपरत्वम् । “अश्रुजम्" इत्यादिरजतनिन्दा- , TAASEATTA मीमांसापरिभाषा। द्वारा विधेयभूतरजतदाननिषेधप्राशस्त्यपरत्वे विरोधा- भावात् । इतरेषां त्रयाणां साक्षात् प्राशस्त्यपरत्वमेव । "वायु" इत्यर्थवादस्य वायुः क्षिप्रगामित्वादतीच प्रश- स्तादेवता,अतस्तदेवत्यं कर्मा प्रशस्तमिति विधेयदेवता- गतमाशस्त्यप्रतिपादनद्वारा बिध्येकवाक्यत्वम् । "अग्निर्वा अकामयत" इत्यस्य अग्निदैवत्यो यागः पूर्वकाले अग्निना कृतत्त्वात् प्रशस्त:,आधिक्यादिदानी. मप्यन्यैर्यजमानैरवश्यं कर्तव्य इति विधेयकर्मगतमा- शास्त्यद्वारा विधयेकवाक्यत्वम् । एवमन्यत्राप्यूह्यम् । कचित् कार्यान्तरमप्यस्ति, यथा-"अक्ताः श- करा उपदधाति" इतिविधौ "अक्ता"इतिपदेन द्रवद्रव्य. सामान्यं प्रतीयते । तच द्रव्य किमिति सन्देहे "तेजी वै घृतम्" इत्यर्थवादाद् घृतमिति निश्चीयते इति, "तेजो बै घृतम्" इत्यर्थवादस्य सन्दिग्धार्थनिर्णायक- त्वेन प्रामाण्यम्। इत्यर्थवादविचार: अथ मन्वविचारः। मन्त्राणामपि अध्ययनविधिना कृत्स्नस्वाध्यायस्य फलवदर्थज्ञानार्थत्वमेव, न त्वदृष्टार्थत्वम् । दृष्ट सम्भ- 1.
मीमांसापरिभाषा। बत्यकल्पनाऽयोगात् । प्रयोगकाले कर्मज्ञानं विना कमानुष्ठानायोगात् कर्मोपयि कमर्थज्ञानं मन्त्रैः क्रियते । न चोपदेष्ट्रवचनादिनाऽप्यस्मरणालम्भवादनु- धानोपपतिरिति वाच्यम् । मन्त्रैरंवार्थ स्मृत्वाऽनुष्ठाने सात फलं भवति नान्यथेतिनियमाङ्गीकारात् । नियमेनादृष्टस्याङ्गीकारान् । तदभाचे तज्जन्यादृष्टलोपे सन्मुलं फलं न सिध्यतीति कल्पना । नन्त्र मन्त्राणां स्वप्रकाश्येऽर्थे विनियोग इति फलिन । विनियोगो नामशेषत्वेनान्वयः शेषवं ना- म अङ्गलम् । ततश्व "इमामगृभ्णन रशनाम"इतिमन्त्रस्य रानाग्रहणलामर्थ्यमस्तीति रशनाग्रहणप्रकाशनसाम- थर्थरूपात् लिङ्गादेव रशनाग्रहणाङ्गत्वोपपत्तेः "इमाम- गृभ्णन रानामृतस्य इत्यवाभिधानीमादत्ते" इति वचन किमर्थमिति चेत्-न । परिसङ्ख्याऽर्थवाद । चय- नमकरणे ऽरशनाग्रहणम्, गर्दभरानाग्रहणञ्चति द्वय- मस्ति । तत्र लिङ्गादश्वरशनायां मन्त्रमाप्ताबुच्यमानायां लिङ्गाविशेषाद्गर्दभरशनायामपि मन्त्रः प्राप्ता, अतो अवाशनायामेव मन्त्रः काव्यों न गर्दभरशनायामिति मन्त्रनिवृत्तिरूपपरिसकयाऽर्थोऽय विधिः।
" मीमांसापरिभाषा। साच परिसङ्कथा त्रिदोषा-स्वार्थत्यागः, परा- थस्वीकारः,प्राप्तवाधश्चेति । तत्र"अश्वाभिधानीमादत्ते" इति वाक्यस्य अनेन मन्त्रेणावरशनाऽऽदानं कु- यादिति स्वार्थः, स च त्यक्तः । गर्दभरशनातो मन्त्रनित्तिः परार्थः, स च स्वीकृतः । गर्दभरधाना- यामपि लिङ्गात् मातस्य मन्त्रस्यानेन बाधश्च-इति त्रिदोषा परिसङ्घया गत्यभावादगीकृता । गत्यन्तरे सति सान युक्ता। एवमष्टदोषदुष्टविकल्पो ऽप्यगतिको ऽङ्गीकृतः । यथा यदाग्नेयोऽष्टाकपालः संस्कृतः पुरोडाशो यागा. ङ्गत्वेनावगतः । तत्र अपूपविशेषस्य पुरोडाशस्य प्रकृ. तिद्रव्याकाङ्कायाम् अनियमेन यस्य कस्यचिद द्रव्यस्य प्राप्तौ "बीहिभिर्यजेत" इतिवाक्यात् ब्रीहयो नियम्यन्ते, एवं “यवैर्यजेत" इतिवाक्याचवा अपि नियम्यन्ते, तयोरेकार्थत्वाद्विकल्पः।। एवम्"अतिरात्रे षोडशिनं गृह्णाति इति षोडशिग्रहो विहितः। तथा "नातिराने घोडशिनं गृह्णाति" इति प्रतिषे- घाव ग्रहणाभावो विहितः, योग्रहणाग्रहणयोः पर- स्परविरुद्धयोरेकस्मिन् प्रयोगेऽनुष्ठातुमशक्यत्वात् क- चित प्रयोगे ग्रहणानुष्ठानम्, प्रयोगान्तरे तदभावानुष्ठा- मीमांसापरिभाषा। ४३ नमिति तत्रापि विकल्पः। स चाष्टदोषदुष्टः । तथाहि-पूर्व व्रीहियोगे यवशास्त्रस्य स्वार्थानुष्ठापकत्वलक्षणपामाण्यपरित्या- गः, अननुष्ठापकत्वलक्षणापामाण्यस्वीकारः, ततो द्वितीयप्रयोगे यवानुष्ठाने पूर्व त्यक्तं यत् मामाण्यं ततस्वीकार, स्वीकृतं पदमामाण्यं तत्परित्यागश्चे- ति यवशास्त्रे चत्वारो दोषाः । एवं पूर्व यवप्रयो- गे श्रीहिशायस्य स्वार्थानुष्ठापकत्वलक्षणं यत्मा- माण्छ सत्परित्यागः, अननुष्ठापकत्वलक्षणं यदप्रामाण्यं तत्स्वीकारः पुनद्वितीयायोगे ब्रीहनुष्ठाने ब्रीहिशास्त्रस्य सक्तप्रामाण्यस्वीकारः, स्वीकृताप्रामाण्यपरियागश्चेति, ब्रीहिशास्त्रे चत्वारो दोषाः । इत्यष्टदोषदुष्टो विकल्पः ।। सच विकल्पः कचिदेकार्थत्वाद्, एककार्यका- रित्वादिसर्थः; यथा, ब्रीहियत्रयोरेकैकस्य पुरोडाश- निष्पादनक्षमत्वाद्विकल्पः । कचित् वचनबलात; यथा-"बृहत्पृष्ठं भवति" इति बृहत्सामसाध्यं पृष्ठनामकं स्तोत्रं विहितम, "रथन्त- रपृष्ठम्भवाति" इति रथन्तरसामसाध्यं पृष्ठस्तोत्रान्तरं विधीयते। स्तोत्रं च प्रयाजादिवदपूर्वार्थत्वादर्थकर्म । सा- मीमांसापरिभाषा म तु संस्कारकर्मलाद गुणकर्म । सोनसाधनीभूत- स्तोत्रियाक्षराभिव्यक्तिरूपसंस्कारद्वारा साम्नां स्तो- त्रसाधनस्वाङ्गीकारात । प्रगीतमन्नमाध्यमिन्द्रादि- गुणिनिष्ठगुणाभिधानं स्तोत्रम् । गीतमन्त्रसाध्यं सा- माभिव्यक्तऋगक्षरसाध्यमिसर्थः । अमगीतमन्त्रमा- ध्यगुणिनिष्ठगुणाभिधानं शस्त्रम । गानक्रियाविशेष: साम । स्तोत्रसाधनीभूना ऋचः स्तोनिया: । तदा त्रिपञ्चदशत्वादिसल्याविशेषः स्तोमः इसतेषां भेदः। तथाच बृहद्रथन्तरपृष्ठयोः भिन्नार्थिवेन एकार्थत्वाभावेऽपि 'बृहदा पृष्ठं कार्य, रथन्तरं वा पृष्ठं कार्यम्' इति वचनवलादेव विकल्पः । कचित् व्यवस्थितविकल्प:-द्वितीयप्रयाजादिक- मणि नराशंसानूनपानमन्त्रयोः एकार्थवाद वि. कल्पः । स च "राजन्यवसिष्टानां नराशंसो द्वितीयः प्रयाजस्तनूनपादन्येषामूहतिवाक्या व्यवस्थित इति व्यवस्थितविकल्पः। तदेवं चोदनाऽपरपर्यायाणां विधिवाक्यानाम् अंशत्रयविशिष्टभावनाविधायकत्वात प्रामाण्यम् । उद्भिदादीनां नामतया, अर्थवादानां विधेयप्राशस्त्य. परतया, मन्त्राणामतुष्टयार्थस्मारकतया भामाण्यमि-
मीमांसापरिभाषा।
ति कृत्स्नस्य वेदस्यालौकिके धर्माधर्माख्येऽर्थे-
प्रामाण्यं स्थितम् ॥
इति वेदप्रामाण्यविचारः।
अथ स्मृत्यादिमामाण्यविचारः।
मन्वादिप्रणीतानां स्मृतीनामपि वेदमूलकत्वा-
त्स्याद् अष्टकादौ धर्मे प्रामाण्यम् । “औदुम्बरी सा
वेष्टमितव्या" इतिस्मृतिरममाणम्, “औदुम्बरी स्पृष्ट्वो-
गायेदु" इतिप्रत्यक्षश्रुतिविरुद्धत्वात् । सर्ववेष्टने सति
श्रुत्युक्तपर्शनस्य कर्तुमशक्यत्वात् । “वैसर्जनहोमीयं
वासोऽध्वर्युनाति" इत्यादिस्मृतिरममाणम् । श्रुत्यर्था-
विरुद्धत्वेऽपि लोभमूलकत्वात् ।
तथा शिष्टाचारोऽपि स्मृतिद्वारा श्रुतिमूलकत्वात
प्रमाणम् । मातुलसुतापरिणयनादिशिष्टाचारस्त्वप्रमा-
णम् । “मातुलस्य सुतामूरा" इखादिस्मृत्या निषि-
द्धत्वेन स्मृतिविरुद्धत्वात् । तदेवं श्रुतिस्मृत्याचाराणां
घधिर्मयोः प्रामाण्यमुक्तम् ।
सच धर्मः परस्परं भिन्नः । भेदकप्रमाणानि तु
शब्दान्तरादीनि ।
सथाहि-यागदानहोमानां यजतिददातिजुहोती.
४६ मीमांसापरिभाषा। त्यपर्यायशब्दप्रतिपाद्यत्वाच्छब्दान्तराद्भेदः । स्वस्व- स्वनित्तिपूर्वकं परस्वत्वापादनं दानम् । "समिधो यजति" इत्यादीनां पञ्चानां वाक्यानां मध्ये एकस्य कमविधायकन्वमन्येषां तस्मिन् कम्मणि गुण- विधायकत्वामित्यत्र नियामकाभावात्सर्वेषां सविधा. यकत्वे स्थिते विहितस्य कर्मणः पुनर्विधानं व्यर्थ- मिति पुनर्विधानसामर्थ्यात् पूर्ववाक्यविहितकर्मा- पेक्षयोत्तरोत्तरवाक्यविहितस्य कर्मणो भेदः सि- ध्यतीत्येतादृशस्थलेष्वविशेषपुनःश्रुतिरूपायजतिपदा- भ्यासात् कर्मभेदः। "तिस्र आहुतीर्जुहोति" इत्यत्र जुहोतिपदाभ्या- साभावेऽपि जुहोतीत्यर्थे होमे वित्तसङ्ख्याऽनयात्प- रस्परं भिन्नास्त्रयो होमा इति सधयाऽत्र कर्मभेदः । "अथैप ज्योतिरथैष विश्वज्योतिरथैप सर्वज्यो- तितेन सहस्रदक्षिणेन यजेत" इति ज्योतिष्टोमन- करणे श्रुतानामपि ज्योतिराख्यानां त्रयाणां या- गानां ज्योतिष्टोमसंज्ञाऽपेक्षया पृथक संज्ञाकरणात ज्योतिष्टोमापेक्षया भेदः । भिन्नसंज्ञावशादेव त्रयाणां परस्परं भेद इति संज्ञया कर्मभेदः । तथा"तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा Unca FM मीमांसापरिभाषा। वाजिभ्यो वाजिनम्" इत्यत्र “सा वैश्वदेवी"इतिवाक्ये विश्वदेवदेवताऽऽमिक्षाद्रव्यसम्बन्धानुमितो यागो वि- धीयते । “वाजिभ्यो वाजिनम्"इयत्रापि वाजिदैवत्य- वाजिनद्रव्यक कर्मान्तरं विधीयते । न तु पूर्वविहिते वैश्वदेवयागे वाजिनद्रव्यरूपो गुणो विधीयते । पूर्वया- गस्याऽऽमिक्षागुणावरुद्धत्वेन तत्र वाजिनस्य निवे- शायोगात् । न च वीहियवद्विकल्पः । वाजिना- मिक्षयोः समशिष्टत्वाभावात् । विषमशिष्टयोर्विकल्पा- योगात् । वैश्वदेवयागोत्पत्तिवाक्ये एवामिक्षागुणः शिष्यत इत्युत्पत्तिशिष्टः । शिष्यते विधीयते इत्यर्थः । वैश्वदेववाक्यादुत्पन्ने कर्माणि वाक्यान्तरेण शिष्टो वि- हितो वाजिनगुण उत्पन्नशिष्टः । तयोर्मध्ये ह्युत्पत्ति- शिष्टः प्रबलः, कर्मात्पत्तिवेलायामेव कर्माङ्गत्वन प्रमि- तलात् । उत्पन्न शिष्टो वाजिनगुणोऽनन्तरं म. मितोऽपि विलम्बितत्वेन दुर्बलत्वात् तत्पूर्वकर्मणि निवेशमलभमानो वाजिरूपदेवतान्तरसम्बन्धात् स्व- वाक्यस्थ कर्मान्तरविधायकत्वमानयतीति गुणाद्भेदः । तत्र घनीभूतं पय आमिला, शिष्टं जलं वाजिनम् । तथा कुण्डमायिनामयने श्रूयते-"उपप्तद्भिश्चारत्वा मामममिहोत्रं जुहोति" इति । अत्र पूर्व कर्म किञ्चिदपि मीमांसापरिभाषा। सन्निहितं न भवति अपूर्वकर्मसन्निधानरूपात प्रक- रणान्तरात प्रसिद्धाग्निहोत्रधर्मकं तन्नामकं कर्मा- तर विधीयते । नत्वग्निहोत्रशब्देन प्रसिद्धाग्निहोत्र- मनूब गुणविधिः । प्राप्ते कर्माणि आनन्तर्य-मास- रूपानेकगुणविधौ वाक्यभेदापत्तेरिति प्रकरणान्तरादत्र कर्मभेदः । प्रसिद्धाग्निहोत्रं नैमिकाग्निहोत्रम्- निखाग्निहोत्रमिति यावत् । तदेवं शब्दान्तरा-भ्यास. सङ्ख्या-संज्ञा-गुण-नामधेश-प्रकरणान्तरैः कमभेदो दर्शितः॥ इति कर्मभदनिरूपणम् । अथ प्रमेयादिविचार। तत्र वेदादिममेयो ऽर्थस्त्रिविध: कलर्थः, पुरु. पार्थः, उभयार्थश्चेति । तत्र प्रयाजादिकं केवलं क्र. स्व:, फलं तस्करणं च पुरुषार्थः, यथा-ज्योमिष्टो- मादिः स्वर्गश्च । दध्यादि तूमयरूपम्-"दना जुहुया- दु"इति फलासंयुक्तवाक्येन त्वर्थत्वात् "दनेन्द्रिय- कामस्य जुहुया" इत्यनेन फलाय विधानात पुरुषा- र्थलात् । तदुक्तम्-"एकस्य तूभयरूपत्वे संयोगपृथ- कत्वम" इति (पू०मी०अ०४ पा०३ अधि०३ मू०४)।
। मीमांसापरिभाषा संयोगो बाक्यं तस्य पृषक भेदः एकस्य उमथा. र्थले नियामक इसर्थः। कवर्षे प्रयाजादौ क्रतुःप्रयोजकः । पुरुषार्थे फलं प्रयोजकम् । प्रयोजकत्वं नामानुष्ठापकत्वमिसर्थः । विधिर्यदर्थं यदनुष्ठापयांत स प्रयोजकः । ददिविधिः स्वर्गाथै दर्शादिकमनुष्ठापयतीति स्वर्गादिदर्शादौ प्रयोजकः | मयाजादिविधिः मयाजान दर्शायर्थम् अनुष्ठापयतीति दर्शादिः मयाजानी भयोजक दध्यानयनविधिः द- ध्यानयनमामिक्षार्थमनुष्ठापयति, न वाजिनार्थम्, आ- मिक्षार्थ दध्यानयनानुष्ठाने सति वाजिनस्य स्वतः सिद्धत्वात, अन आमिक्षव दध्यानयने प्रयोजिका, न वाजिनम् । “घुरोडाशकपालेन तुषानुपत्रपति" इति तु- घोपत्रापाङ्गत्वेन पुरोडाकपालं विधीयते, तथापि तुपोपचापः कपालक्ष्य प्रयोज को न भवति, पुरोडा- शार्थ पासेनेल कपालेन लुगोपचापसिद्ध । किन्तु पुरोडामा एक कपालय प्रयोजक इत्याग्रूशम्म् ।। इति ममेयादिनिरूपणविचारः । তা লিগ। ननु विधिना साङ्गंमधानं कर्तव्यतया बोचते । , স্বাৰাণায়া। গাজা মুম্বানান অ বা গা গান্ত- তা নু। সুয়াল মুদা। কিন্তু, জ্ঞায় ব, । গ্রীলাল রুমালিয়া। দাথায়-অলথন শিখা। গ্রাথ স্থান’ অক্ষায় প্রায় প্ল- কন্তু গ্রী। ‘বাঘ আলাৰ” ‘লুলান যান’ অা। विधिवाक्यपाठकमादेव समिदादियामानुशानका। “পার্টি অঞ্জলি প্রান্তি বা বুলি অখা Sথা চাণ গ্ৰাক্ষন্দু মুখ ভাল ল য় - প্রয়া বন্ধ Sথা ছড়। ই; বীজ ভাগৰি ন ক অর্থ। বন দুগ্ধ : গ্রাম । যৱস্থা ‘মুল লংগুল হলে।” যায়গা থাকােলাজ্ব মা হামলা হয়। দ্ধ জয় নয় যান। লাখ রু। দুলা? এ কি ন য় (4, ক্ষিপ্ত ইতঃ জয় গজল ন কত ভাল চg । এই গয়না, ওল ও গ্রানালী রং ক্লিাস নি E রাঞ্চল ৰাগাৰৰ।। যাডাল নুৰীৰ গুণ মাখনু, উথখানমঘলা- ফলা। আম র গ ঘাগলা হালুষ্টিয- নানু সঞ্চয়ী ঘর বি যা ক্ষুধা লাশ খাতৰিাজল বাঙালি। ধ্বণীঃ লম্বান নন্তন নম্বন্ধ। কথাৰত লিলেন মথ- ফাবাগগা জ্বলাহ নিশীলন খালা ম- ঘন্বয়ী লিজান্ধল বাজাল শিক্ষা ন জ্ঞানলুদ, ললিহামবান্ধৰ ফল क्रमेण प्रवृत्तं तेनैव नियोजनादिकं कार्यमिति प्र- বগা ভলিছু। অামদায় কথা- খানালু জীবিকালীবালুখালী ঘন মগ साद्यरक्राख्ये सोमयागे "सह पशूनालभेत" इसक- दाऽनुष्ठानलक्षण माहिसंबोधित । तदाप सबनीयस्य খান কিন্তু গুগ গাংলা স্বপ্ন সীগঞ্জ ফায় শান্ত্রিাগালাপী দাগনীলাভগাঙ্কা লৰা- Sী নাগ এ মহা সুস্থ? উথালা ঃ তনুং স্বস্থা হয় দন্ম হবে, যথা কম বলা হইলি সুন,অনস্বাস নাগাজীনালা মাখি RE ই
No text on this page.
Mela ५२ मीमांसापरिभाषा । मुख्ययोराग्नेयसान्नाय्ययागयोर्मध्ये आग्नेय यागस्य पूर्वमनुष्ठानान्मुख्यधागक्रमेणादावाग्नेयपुरोडाशस्य प्र- याजशेषाभिधारणम्, ततः पयसोऽभिधारणम् इति मुख्ययागक्रमादभिधारणक्रमः । इत्येवं श्रुति-अर्थ- पाठस्थान-मुख्य-प्रवृत्तिकमरेख कर्मानुष्ठानम् । अन्यथाऽनुष्ठाने बैगुण्यमियलयू ।। इति श्रीकृष्णयज्यकृता मीमांसापरिभाषा सब लरह कि संस्कृत पुस्तके मिलने का पता- हरिदासगुप्तः चौखम्बासंस्कृतसीरीज आफीस PARMASTERDARSHANTINES