Hindi Sahataya Samalayan
Chitramimansha
Front matter
KĀVYAMĀLĀ. 38.
THE
CHITRAMIMAMSĀ
OF
APPAYA DĪKSITA
AND THE
CHITRAJĪMĀJISĀ-KIIANDANA
JAGANNATH PANDIT.
EDITED BY
PANDIT SIVADATTA
AND
KĀŠĪNĀTH PANDURANG PARAB
www
Fourth Edition
HEADER
PUBLISHED BY
SATYABHĀMĀBAI PANDURANG,
FOR THE NIRNAYA SĀGAR PRESS,
BOMBAY
HT
1941
.
112res
Price 1-47?upee.
[All rights reserved by the publisher.]
Publisher:-Satyabhamabal Pandurang,
Printer:-Ramchandra Yesu Shedge,
Nirnaya-Sagar Press,
28-28, Kolbbat Street, Bombay,
www.
1,277
nale
काव्यमाला ३८. श्रीमदप्पयदीक्षितप्रणीता चित्रमीमांसा। (पण्डितराजजगन्नाथविरचितं चित्रमीमांसाखण्डनं च ।) जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसादारक- केदारनाथकृपाङ्गीकृतशोधनकर्मणा शिवदत्तशर्मणा, काशीनाथ पाण्डुरङ्ग परब इत्येताभ्यां च संशोधिता। तृतीयावृत्तिः। सा च मुम्बच्या सत्यभामाबाई पाण्डुरङ्ग इत्येताभिर्निर्णयसागराख्ययन्त्रालये तस्यैव कृते मुद्रयित्वा प्राकाश्यं नीता । मूल्यं । रुप्यकः।
काव्यमाला। श्रीमदप्पदीक्षितप्रणीता चित्रमीमांसा। अभिवन्द्य चन्द्रशेखरमाय गौरीसखं परं ज्योतिः। वितनोमि विपुलविषयां विशदार्थामर्थचित्रमीमांसाम् ।। त्रिविधं तावत्काव्यम् । ध्वनि-गुणीभूतव्यङ्ग्य-चित्रभेदात् । यत्र वाच्यातिशायि व्यङ्ग्यं स ध्वनिः। यथा- - 'स्थिताः क्षणं पक्ष्मसु ताडिताघराः पयोधरोत्सेधनिपातचूर्णिताः। वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः ।' अत्र तपस्यन्त्या देव्या देहोपरि निपततां प्रथमवृष्टिबिन्दूनां क्रिया- स्वभाववर्णनेन देव्याः समाध्युचितावस्थानाभिव्यक्तिद्वारा चिरनिदाघत- तदेहोपरि निपतनेन सुखपारवश्यसम्भ्रमहेतौ प्रथमवृष्टावप्यविहता समा- ध्यवस्था व्यज्यते। तथा हि- 'नासाग्रन्यस्तनयनः संवृतास्यः सुनिश्चलः । ध्यायीत मनसा देवमुरो विष्टभ्य चाग्रतः ॥' इति समाधिमतामवस्थानमाहुः । तत्र पक्ष्मसु स्थिता इत्यनेन नासाग्र- न्यस्तनयनतारूपमर्धनिमीलनं व्यज्यते । सर्वथोन्मीलने पक्ष्मणामूर्खा- प्रत्वेन सर्वथा निमीलने तेषामधोगत्वेन च तेषु जलबिन्दूनां स्थित्य- संभवात् । पक्ष्मभ्यश्युतानां तेषामास्याप्रवेशेनाधरोष्ठे निपत्य ततश्यु- २ काव्यमाला। तिकथनेन संवृतास्यत्वं व्यज्यते । ततश्श्युतानां तेषां स्तनोत्सेधनिपत- नादिवर्णनेन तूरोविष्टम्भः । अलसवदवनतावस्थाने हि स्तनयोरन्तःसंकु- चिताकारतया तदुत्सेधयोस्तेषां पतनं न स्यात् । कथंचित्तयोः पतित्वा वलित्रयं प्राप्तानामपि वलीषु तिर्यगेव गमनं स्यात् , न नाभिदेश- प्राप्तिः । नाभौ च संवृतायां प्रवेशो न स्यात् । पक्ष्माधरादिपतनक्रम- कथनेन च निश्चलत्वं व्यज्यते । मुखादिचलने सति पक्ष्मपतितानां तेषामधरपयोधरादिक्रमेण पतनासंभवात् । किं चैभिरेव विशेषणैर्देव्या लोकोत्तरं सौन्दर्यमभिव्यज्यते; स्थिता इत्यनेन पक्ष्मणामविरलतायाः, क्षणमित्यनेन तेषां मसृणतायाः, पक्ष्मपतनशिथिलवेगैरुदबिन्दुमिस्ताड- नोक्त्याऽधरस्यातिसौकुमार्यस्य पक्ष्माधरपंतनादिभिः शिथिलवेगानां तेषां स्तनोत्सेधे चूर्णीभाववर्णनेन तयोरतिकाठिन्यस्य, उरोविष्टम्भेऽपि वलीषु तेषां स्खलनोक्त्या वलीनां विस्पष्टतायाः सर्वबिन्दूनां नाभावेव प्रवेश- कथनेन नाभेरतिगभीरतायाश्चाभिव्यञ्जनात् । एवं च वाच्यातिशायि व्यङ्ग्यमत्रेति ध्वनेरुदाहरणमिदम् । यथा वा- 'निःशेषच्युतचन्दनं स्तनतटं निर्मष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमा (मे :) वापी सातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥ अत्र वापी सातुं गतासि न तु तत्सकाशमिति वाक्याथें स्थिते तत्सकाशमेव रन्तुं गतासीत्यधमपदेन प्राधान्येन व्यज्यते। तथा हि- अधमत्वमपकृष्टत्वम् , तच जात्या कर्मणा वा भवति । तत्र जात्याऽपकर्ष नोत्तमनायिका नायकस्य वदति । नापि स्वापराधपर्यवसायिदूतीसंभोगा- १. 'अपि व्यज्यते' क-घ. २. पतनातिशिथिल' क-घ; 'पतनादिना शिथिल'ख. म चित्रमीमांसा। दिहीनकर्मातिरिक्तेन कर्मणा । तादृशं च दूतीसंभोगात्प्राचीनं सर्व सोढमेवेति नोद्घाटनाहम् । अन्यथा, स्वयं दूतीसंप्रेषणानुपपत्तेः । तद- नन्तरं च खप्रेषितदूतीसंभोगरूपमेव खयं संनिहितचिहातुं शक्यं हीनकर्म संभवतीति तत्पर्यवसायिनाऽधमपदेन तस्यान्तिकमेव रन्तुं गता- सीति व्यज्यते । निःशेषच्युतचन्दनं स्तनतटमित्यादीनि वाच्यानि संभो- गचिह्नोद्धाटनेन तत्र साहायकमाचरन्ति । कथम् ? 'निःशेषच्युतचन्दनं स्तनतटम्' इत्यत्र तावद्वापी स्वातुमितो गतासीति वाच्यार्थमुपपादयितुमि- होत्तरीकर्ष(ष)णेन चन्दनच्युतिरित्यन्यथासिद्धिपरिहाराय निःशेषविशे- पणं कृतम् । ततश्चन्दनच्युतेः सानसाधारण्यव्यावर्तनेन संभोगचिहो- द्धाटनाय तटग्रहणम् । स्नाने हि सर्वत्र चन्दनच्युतिः स्यात् , तव तु स्तनयोस्तटे उपरिभाग एव दृश्यते, इयमाश्लेषकृतैवेति । तथा निर्मुष्टरा- गोऽधर इत्यत्र ताम्बूलग्रहणविलम्बात्प्राचीनरागस्य किंचिन्मृष्टतेत्यन्यथा- सिद्धिपरिहाराय निर्मष्टराग इति रागस्य निःशेषZष्टतोक्ता । पुनः स्वान- साधारण्यव्यावर्तनेन संभोगचिह्नोद्घाटनायाधर इति विशिप्य ग्रहणम् । उत्तरोष्ठे सरागेऽधरोष्ठमात्रस्य निर्मुष्टरागता चुम्बनकृतैवेति । नेत्रे दूर- मनञ्जने इत्यत्र प्रातर्दत्तमञ्जनं कालविलम्बेन किंचिद्विलुप्तमित्यन्यथासि- द्धिपरिहाराय दूरमित्युक्तम् । दूरमत्यर्थमित्यापाततोऽर्थः । कालतः खानेन वा सर्वतोऽअनलोपः स्यात् , तव तु लोचनयोः कचित्तान्त एवा- नञ्जनत्वमिदं चुम्बनकृतमेवेति । 'पुलकिता तन्वी तवेयं तनुः' इत्यत्रापात- तस्तन्वीति सहजतानवकीर्तनेन पुलकितेति खानचिहोपन्यासः। पुलकि- ताऽपि तन्वी वर्तत इति हृदि स्थितोऽन्वयः । तेन च मानेन पुलकिता १. हि दूतीसंप्रेषणादि' ख-ग. २. 'स्वयं' क-य-पुस्तकयो स्ति; 'स्वसंनिहित' ख. ३. 'इवोत्तरीयकर्षणेन' क; 'इवोचरीयापकर्षणेन' घ. ४. 'सर्वच्युतिः' ख-ग. ५. "निसृष्टताका' ख. MINDI/MERAIPUR HMAPKISAMAONMOHABDUNIA HMMMeasaramimart- Imalaepornmom
काव्यमाला।
तनुः किंचिदुच्छसिता भवति, इयं तु न तथेति रतिक्लेशजनितावेव
तौ नवपुलकोद्गमाविति मर्मोद्घाटनम् । एवमेभिर्वाक्यरुपस्कृतेनाधमपदेन
तस्यान्तिकमेव रन्तुं गतासीति व्यज्यमाने प्राग्वाच्यार्थतादशायां वापी
खातुं गतासीत्येतदनुगुणार्थतयाऽन्वितम् , मिथ्यावादिनीति संबोधनमपि
व्यत्यानुगुण एवार्थे पर्यवस्यति । ततश्च न्यग्भावितवाच्यमस्यापि व्यङ्ग्यं
वाच्यातिशायीति इदमपि ध्वनेरुदाहरणम् ।
यत्र व्यङ्गयं वाच्यानतिशायि तद्गुणीभूतव्यङ्ग्यम् ।
यथा-
'गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते
किंत्वेवं विजनस्थयोर्हतजनः संभावयत्यन्यथा ।
इत्यामन्त्रणभङ्गिसूचितवृथावस्थानखेदालसा-
माश्लिष्यन्पुलकोत्कराश्चिततनुं गोपी हरिः पातु वः ।।'
अत्र गच्छाम्यच्युतेत्याद्यामन्त्रणेन त्वया रन्तुमेतावत्कालं स्थितम् , तन्न
लब्धमिति व्यङ्ग्यम् । तत्तु इत्यामन्त्रणभङ्गिसूचितवृथावस्थानखेदालसा-
मित्येतद्वाच्यस्य सिद्धिं करोतीति तदङ्गत्वान वाच्यातिशायि । अतो
गुणीभूतव्यङ्ग्यमिदम् ।
यथा वा-
'प्रहरविरतौ मध्ये वाहस्ततोऽपि परेऽथवा
किमुत सकले याते वाहि प्रिय त्वमिहैष्यसि ।
इति दिनशतप्राप्यं देशं प्रियस्य यियासतो
हरति गमनं बालालापैः सबाष्पगलज्जलैः ॥
अत्र सकलमहः परमावधिः, ततः परं प्राणान्धारयितुं न शक्नोमीति
१. 'मिथ्यावादिनीत्यादि क. २. 'वाच्यादतिशायीति' ख.
चित्रमीमांसा। ५ - व्यङ्ग्यं प्रियगमननिवारणरूपस्य वाच्यस्य सिद्धिं करोतीति तदङ्गत्वाद्वा- च्यानतिशायि । अत इदमपि गुणीभूतव्यङ्ग्यम् । यदव्यङ्ग्यमपि चारु तचित्रम् । तत्रिविधम्-शब्दचित्र-मर्थचित्र-मुभयचित्रमिति । शब्दचित्रं यथा- 'नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् । मृदुलतान्तलतान्तमलोकयत्स सुरभि सुरभि सुमनोभरैः ॥' अर्थचित्रं यथा- 'स च्छिन्नमूलः क्षतजेन रेणुस्तस्योपरिष्टात्पवनावधूतः । अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितो धूम इवाबभासे ॥' उभयचित्रं यथा- 'वराहः कल्याणं वितरतु स वः कल्पविरमे विनिर्धन्वन्नौदन्वतमुदकमुर्वीमुदवहत् । खुराधातत्रुट्यत्कुलशिखरिकूटपविलुठ- च्छिलाकोटिस्फोटस्फुटघटितमङ्गल्यपटहः ।।' तदेवं त्रिविधे ध्वनिगुणीभूतव्यङ्ग्ययोरन्यत्रास्माभिः प्रपञ्चः कृतः । शब्दचित्रस्य प्रायो नीरसत्वान्नात्यन्तं तदाद्रियन्ते कवयः, न वा तत्र विचारणीयमतीवोपलभ्यत इति शब्दचित्रांशमपहायार्थचित्रमीमांसा प्रसन्नविस्तीर्णा प्रस्तूयते । चिन्त्येत्र चित्रवर्गे प्रदर्ययोर्लक्ष्यलक्षणयोः। प्राचीनानामेव श्लोकाः प्रायेण लिख्यन्ते ॥ इति चित्रमीमांसायां ग्रन्थारम्भप्रकरणम्। aweindean १. 'उभयत्र' क.
काव्यमाला। उपमैका शैलूषी संप्राप्ता चित्रभूमिकामेदान् । रञ्जयति काव्यरङ्गे नृत्यन्ती तद्विदां चेतः ॥ चन्द्र इव मुखमिति सादृश्यवर्णनं तावदुपमा। सैवोक्तिभङ्गीभेदेना- नेकालङ्कारभावं भजते । तथा हि-चन्द्र इव मुखं मुखमिव चन्द्रः' इत्युपमेयोपमा। 'मुखं मुखमिव' इत्यनन्वयः । 'मुखमिव चन्द्रः' इति प्रतीपम् । चन्द्रं दृष्ट्वा मुखं स्मरामि' इति स्मरणम् । 'मुखमेव चन्द्रः' इति रूपकम् । 'मुखचन्द्रेण तापः शाम्यति' इति परिणामः। 'किमिदं मुख- मुताहो चन्द्रः' इति संदेहः । 'चन्द्र इति चकोरास्त्वन्मुखमनुधावन्ति' इति भ्रान्तिमान् । 'चन्द्र इति चकोराः कमलमिति चञ्चरीकास्त्वन्मुखे रज्यन्ति' इत्युल्लेखः। 'चन्द्रोऽयं न मुखम्' इत्यपहवः। 'नूनं चन्द्रः' इत्युत्प्रेक्षा। 'चन्द्रोऽयम्' इत्यतिशयोक्तिः। 'मुखेन चन्द्रकमले निर्जिते' इति तुल्ययोगिता । 'निशि चन्द्रस्त्वन्मुखं च हृष्यति' इति दीपकम् । 'वन्मुख एवाहं रज्यामि चन्द्र एंव चकोरो रज्यते' इति प्रतिवस्तूपमा । 'दिवि चन्द्रो भुवि त्वन्मुखम्' इति दृष्टान्तः । 'मुखं चन्द्रश्रियं बिभर्ति' इति निदर्शना । 'निष्कलङ्कं मुखं चन्द्रादतिरिच्यते' इति व्यतिरेकः। 'त्वन्मुखेन समं चन्द्रो निशासु हृष्यति' इति सहोक्तिः। 'मुखं नेत्राक- रुचिरं स्मितज्योत्स्नोपशोभितम्' इति समासोक्तिः। 'अब्जेन सदृशं वक्र हरिणाहितसक्तिना' इति श्लेषः । 'मुखस्य पुरतश्चन्द्रो निष्प्रभः' इत्य- प्रस्तुतप्रशंसा । एवमुक्तानेकालङ्कारविवर्तवतीयमुपमा । तदिदं चित्रं विश्वं ब्रह्मज्ञानादिवोपमाज्ञानात् । ज्ञातं भवतीत्यादौ निरूप्यते निखिलभेदसहिता सा ॥ १. 'अनुरज्यन्ति' क, २. 'एव हि' क. ३. 'शक्तिना' ख-ग.
चित्रमीमांसा। अस्यास्तावदेवं लक्षणमाहुः- उपमानोपमेयत्वयोग्ययोरर्थयोर्द्वयोः । हृद्यं साधर्म्यमुपमेत्युच्यते काव्यवेदिभिः॥ कविसमयप्रसिद्ध्यनुरोधेनोपमानोपमेयत्वयोग्ययोरेव साधर्म्यमुपमा । नत्वतथाभूतयोः । अत एव 'कुमुदमिव मुखं प्रसन्नम्' इत्यादि नोपमा । तथाभूतयोरपि वस्तुत्वद्रव्यत्वादिकृतमह्यं साधर्म्य न तथा। किंतु हृद्य- मेव कान्तिमत्त्वादिकम् । सर्वोऽपि ह्यलङ्कारः कविसमयप्रसिद्ध्यनुरोधेन हृद्यतया काव्यशोभाकर एवालङ्कारतां भजते । अतः 'गोसदृशो गवयः' इति नोपमा । गौर्वाहीकः' इति न रूपकम् । 'स्थाणुर्वा पुरुषो वा' इति न संदेहः । 'इदं रजतम्' इति न भ्रान्तिमान् । 'नायं सर्पः' इति नाप- हृतिः । 'पीनो देवदत्तो दिवा न भुते' इति न पर्यायोक्तम् । 'पर्वतो वह्निमान्' इति नानुमानम् । स देवदत्तः' इति न स्मरणम् । 'तस्थस्थ- मिपां तांततामः' इति न यथासङ्ख्यम् । 'पुत्रेण सहागतः पिता' इति न सहोक्तिः । तेन विना गतः' इति न विनोक्तिः। श्वेतो धावति' इति न श्लेषः । इत्याहनीयम् । अत्रेदं विचार्यते-द्वयोरिति विशेषणमिह किमर्थम् । खस्य खेनैव साधर्म्यवर्णनात्मकस्यानन्वयस्य व्युदासार्थमिति चेत् , एवमप्यु- पमानस्योपमेयत्वकल्पनात्मके प्रतीपे द्वयोः पर्यायेणोपमेयत्वकल्पना- त्मिकायामुपमेयोपमायां चातिव्याप्तिः । तयोः सादृश्यवर्णनसत्त्वा- दुपमात्वेन संग्राह्यत्वे तथैवानन्वयोऽपि संग्राह्यः स्यादिति व्यर्थ द्वयो- रिति पदम् । एतेन 'साधर्म्यमुपमा भेदे-' इति काव्यप्रकाशिकोक्त- (काशोक्त)लक्षणेऽनन्वयव्युदासाय कृतं भेदग्रहणमपि प्रत्युक्तम् । नहि १. 'उपमानोपमेयत्व' ख-ग-घ. २. 'काव्यप्राकाशिकोक्त' घ.
८ काव्यमाला। संभवत्साधर्म्यवर्णन एवोपमात्वम् । येन स्वस्य स्वेन साधर्म्यासंभवादन- न्वयस्य व्यवच्छेद्यत्वमितरयोः संग्राह्यत्वं न स्यात् । तथात्वे 'हंसीव धवला कीर्तिः स्वर्गङ्गामवगाहते' इत्यादी कविकल्पितसाधोपमाया अनुपमात्वप्रसङ्गात् । किञ्च, सत्यामप्युपमानोपमेयत्वयोग्यतायां सत्यपि हृद्यत्वे लिङ्गवचनभेदादिदुष्टायामुपमायां 'हंसीव धवलश्चन्द्रः सरांसीवा- मलं नभः' इत्यादिरूपायामतिव्याप्तिः । उदाहरिप्यमाणे चोपमाधवनाव- तिव्याप्तिः । न हि सोऽप्यलकारः, अलङ्कार्यत्वात् ब्राह्मणश्रमणन्यायेन तत्रालङ्कारध्वनिव्यपदेश इति सिद्धान्तात् । यदि च दुष्टादुष्टालङ्कार्या- लङ्कारसाधारणोपमासामान्यलक्षणमिति नोक्तातिव्याप्तिस्तदोपमानोपमेय- त्वयोग्ययोरिति हृद्यमिति च व्यर्थम् । कविसमयप्रसिद्ध्यभावादिदुष्टोप- माया अपि संग्राह्यत्वात् । यत्तु विद्यानाथेन लक्षणमुक्तम्- 'स्वतःसिद्धन मिनेन संमतेन च धर्मतः । साम्यमन्येन वर्ण्यस्य वाच्यं चेदेकदोपमा ।।' इति । अत्र स्वतःसिद्धेनेत्युत्प्रेक्षाल्यावृत्तिः । तत्रोपमानस्य कविकल्पितत्वेन लोकसिद्धत्वाभावात् । भिन्नेनेत्यनन्वयव्यावृत्तिः । संमतेनेति सर्वविध- दुष्टोपमाव्यावृत्तिः । कविसमयप्रसिद्ध्यभावेन लिङ्गवचनभेदादिना वा यद्यदसंमतं तस्य सर्वस्यापि संमतपदेन व्यावर्तनात् । धर्मत इति श्लेष- व्यावृत्तिः। श्लेषे हि-'सकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिव । इत्यादौ शब्दसाम्यमात्रमिवशब्देनोच्यते, न गुणक्रियारूपधर्मसाम्यम् । अन्येन वर्ण्यस्येत्यनेन प्रतीपव्यावृत्तिः। तत्र वयेन प्रकृतेन सहाप्रकृतस्य - १. 'इत्यादेः' क. २. 'ध्वनित्व' खा 'ध्वनित्वेन' ग. ३. 'इति' ख-ग-पुस्त- कयो स्ति. ४. 'सिद्धित्वा' का 'प्रसिखवा' ग... 'मन्यस साइस्या ख-ग.
चित्रमीमांसा। ९ साश्यवर्णनात् । एकदेत्यनेनोपमेयोपमाव्यावृत्तिः । वाच्यमित्यनेन व्यङ्गयोपमाव्यावृत्तिः' इति । तत्रोत्प्रेक्षाव्यावृत्तये खतःसिद्धेनेत्युक्तम- युक्तम् । उत्प्रेक्षायामिवकारस्य विषयविषयिणोस्तादात्म्यादिसम्भावना- वाचकत्वेन तत्र साम्यस्यावाच्यतया तत एव तव्यावृत्तेः। उक्तं हि चक्रवर्तिना- 'यदायमुपमानांशो लोकतः सिद्धिमृच्छति । तदोपमैव येनेवशब्दः साधर्म्यसूचकः ॥ यदा पुनरयं लोकादसिद्धः कविकल्पितः । तदोत्प्रेक्षव येनेवशब्दः सम्भावनापरः ॥ इति । दृष्टं च लोके सम्भावनापरत्वमिवशब्दस्य । 'दूरे तिष्ठन्देवदत्त इव भाति' इति । कथं च स्वतःसिद्धेनेत्यनेनोत्प्रेक्षाव्यावृत्तिः ? 'न नित्यमस्मिन्परिपूर्णतेति त्यक्त्वा नभः क्षोणितलावतीर्णः । आनन्दयन्निन्दुरिव स्वधाम्ना विभाति लोके नवकाकतीन्द्रः ।। इति तदीयोत्प्रेक्षोदाहरण एवोपमानस्य स्वतःसिद्धत्वात् । इन्दुः क्षोणि- तलावंतीर्णत्वाकारेण कविकल्पित इति चेत्तर्हि, 'चन्द्रबिम्बादिव विषं चन्दनादिव चानलः । परुषा वागितो वक्रादित्यसंभावितोपमा ।' इत्युक्तायामसंभावितोपमायामव्याप्तिः। विषानलयोः स्वतःसिद्धत्वेऽपि चन्द्रचन्दनप्रभवत्वेन कविकल्पितत्वात् । 'उभौ यदि व्योनि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् । तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः।।' इति कविकल्पितोपमानायामुपमायां सर्वथैवाव्याप्तिः। भिन्नेनेत्यनन्वय- व्यावृत्त्यर्थमुपात्तमप्ययुक्तम् । १. 'वतीर्णत्वेन' क; 'वतीर्णत्वात्' ख. २. 'इत्युक्तरूपायर्या' खग.
१० काव्यमाला। ''अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् । एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥' इत्यस्यामुपपादकोपमायामव्याप्तेः । तत्रोपमेयदोषगुणसामान्यान्तर्गता- नामुपमानानां दोषगुणविशेषाणां कलङ्ककिरणानां तद्भिन्नत्वाभावात् । अथोपमेयतावच्छेदकभिन्नोपमानतावच्छेदकावच्छिन्नत्वमुपमानम्य तद्भि- न्नत्वमेतदपि न युक्तम् । 'अनवरतकनकवितरणधृतजललवकरतरङ्गितार्थिततेः । भणितिरिव मतिर्मतिरिव चेष्टा चेष्टेव कीर्तिरतिविमला ।' इति रशनोपमायामव्याप्तेः, मतित्वाद्युपमानतावच्छेदकानामुपमेयतावच्छे- दकमिन्नत्वाभावात् । उपमेयोपमायामुपमानतावच्छेदकयो योरपि तद्भि- नत्वाभावेनोक्तविशेषणेनैव तव्यावृत्तिसिद्ध्या एकदेत्यस्य वैयर्थ्यापत्तेश्च । 'रजोभिः स्यन्दनोद्भूतैर्गजैश्च घनसंनिभैः । भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम् ॥' इत्युपमेयोपमाप्रकरणोदाहरिष्यमाणपरस्परोपमायामव्याप्तेश्च । अथ खोप- मेयतावच्छेदकभिन्नधर्मावच्छिन्नत्वमुपमानस्य तद्भिन्नत्वमिति विवक्षित- मिदमपि न सम्यक् । 'उपाददे तस्य सहस्ररश्मिस्त्वष्ट्रा नवं निर्मितमातपत्रम् । सँ तढुकूलादविदूरमौलिर्बभौ पैतद्गङ्ग इवोत्तमाङ्गे ॥' 'द्वारं द्वारमटन्भिक्षुः शिक्षत्येवं न याचते । अदत्त्वा मादृशो मा भूर्दत्त्वा वं त्वादृशो भव ।।' १. 'गुणदोष' क. २. 'उपाचाना' क. ३. 'मिन्ने उप' ख. ४. 'वच्छेदकधर्मा- बच्छिन्नत्वं'क, ५. 'इत्यनेन' ख-ग. ६. 'अतहुकूलादवि' ख-ग. ७, 'वहन्गाग- मिव प्रवाहम्' क; 'पतद्बाङ्ग' ख-ग. ८. 'दारमित्यादिपूर्वार्ध क-घ-पुखकयो स्ति, 4 चित्रमीमांसा। ११ इत्याद्यभिन्नधर्मिकोपमास्वव्याप्तेश्च । तत्र परमेश्वरत्वादेः खोपमेयतावच्छे- दकस्यैवोपमानतावच्छेदकत्वात् । श्लेषव्यावृत्त्यर्थ धर्मत इति विशेषण- मप्ययुक्तम् । तत्र न शब्दसाम्यमात्रमिवेनोच्यते, किंतु गुणसाम्यमपीति तैदव्यावृत्तेः। ननु पुरे सकलकलत्वं कलकलशब्दसाहित्यं सुधांशुबिम्बे कलासा- कल्यमिति, नैकोऽनुगतो गुणो लभ्यते, मैवम् ; श्लेषेभित्तिकामेदाध्य- वसायमूलया भेदेऽभेद इत्येवंरूपयाऽतिशयोक्त्या धर्मसाधारण्यलाभात् । नह्युपमानोपमेययोरेनुगत्या धर्मस्य मुख्यसाधारण्य एवोपमालङ्कारः । 'पाण्ड्योऽयमंसार्पितलम्बहारः क्लृप्ताङ्गरागो नवचन्दनेन । आभाति बालातपरक्तसानुः सनिझरोदार इवाद्रिराजः॥ इत्यादौ हरिचन्दनबालातपहारनिर्झरादीनां बिम्बप्रतिबिम्बभावेन निर्दि- ष्टानामपि साधारणधर्मत्वाङ्गीकारात् । ननु सकलकलमित्यादावपि गुणसाम्यं चेदुपमैव स्यादिति चेत् , शब्दसाम्यमानं चेदपि किमित्युपमा न स्यात् । नहि शब्दान्यगुणादि- साम्यमेवोपमाप्रयोजकं न शब्दसाम्यमिति कुलधर्मः । 'यथा प्रहादनाचन्द्रः प्रतापात्तपनो यथा । तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ॥ इत्यत्रानुगतार्थनामरूपशब्दसाम्येऽप्युपमादर्शनात् । किन्तु श्लेषस्यालङ्का- रान्तरविविक्तविषयाभावेन निरवकाशतया बलवत्त्वेनालङ्कारान्तरबा- धकत्वादुपमाप्रतिभानेऽपि तत्प्रतिभोत्पत्तिहेतुः श्लेष एव नोपमेति मल- १. 'न तश्यावृत्तिः' क-घ. २. श्लेषनिमित्तक' क-घ. ३. 'ऽभेदे भेदः' ख. ४. 'पमेयानुगत्या' क. ५. 'अनुगतधर्मस्य' घ, ६. 'ननु' ख-ग-पुस्तकयोनीस्ति. ७. 'चेत्तदपि' घ. ८. 'इत्यर्थानुगतार्थ ख-ग. ९. मडकादि:' क-ख-पा १२ काव्यमाला। कादिभिरभ्युपेयते । ततश्च यथा शब्दसाम्यमाश्रित्योपमाप्रतिभाने तद्वा- धकत्वं श्लेषस्य तथा श्लेषभित्तिकाभेदाध्यवसायलब्धाभेदगुणसाम्यमात्र- माश्रित्योपमाप्रतिभानेऽपि तद्वक्तुं शक्यमिति तदनुरोधेन न तत्र गुण- साम्यपरित्यागः । यत्तु रुद्रटेन-सकलकलमित्यादावुपमां समर्थयमानेन, 'स्फुटमर्थालङ्कारावेतावुपमासमुच्चयो किंतु । आश्रित्य शब्दमानं सामान्यमिहापि सम्भवतः ।।' इति शब्दसाम्यमात्रमिहोक्तम् , तदन्ततः शब्दसाम्यमात्रमाश्रित्याप्यु- पमा समर्थयितुं शक्येति भावेन, न त्वमेदाध्यवसायेनापि गुणसाम्यं न सम्भवतीति भावेन श्लिष्टविशेषणेप्वप्यभेदाध्यवसायेनैक्यस्यालङ्कारान्त- रेषु सर्वैरपि समाश्रयणात् । तस्माद्धर्मत इत्यनेन न श्लेषो व्यावर्तयितुं शक्यते । वस्तुतस्तु सकलकलमित्यादावुपमैवेति व्यर्थ धर्मत इति विशे- पणम् । अलकारान्तरविविक्तस्तु श्लेषस्य विषयस्तत्प्रकरणे दर्शयिष्यते । किश्च, विविक्तविषयाभावेनालङ्कारान्तरबाधकत्वमिति वाचोयुक्तिरप्य- युक्ता । विषयसद्भावमात्रेण निरवकाशत्वहानेर्विविक्तविषयानपेक्षणात् । नह्ययमलकारगोचरो लोकन्यायो यद्विविक्तविषयो वक्तव्य इति । अर- न्ध्ररत्नानां सुवर्णविविक्तविषयाभावेऽपि सुवर्णाश्रितानामेव चारुताहेतु- त्वेनालङ्कारान्तरत्वव्यवस्थितः । अन्यथा निरवकाशैररन्ध्रप्रत्युप्तरत्नैः साव- काशस्स तदाश्रयसुवर्णस्यालकारता बाध्येत । नाप्ययं वाक्यविसंमतः शास्त्रीयन्यायः पदे जुहोतीत्यादीनामिवोत्तरार्धे जुहोतीत्यादीनामाहव- नीयशास्त्रादिविविक्तविषयाभावेऽपि सविषयत्वमात्रेण प्रतिष्ठितत्वात् । नाप्यसाधारण्येनैतच्छास्त्रन्यायः। सहोक्त्यादीनामतिशयोक्त्यादिविविक्त- १. 'निमित्तक' क-घ, २. 'न तदनुरोधेन तत्र' क-घ. ३. शक्यत इति' क, ४. शेषविषयः'ख-ग. । MANDARMEROuree चित्रमीमांसा। - विषयाभावेऽपि तदबाधेनालङ्कारान्तरत्वव्यवहारादविरोध इहाप्यवि- शिष्टः । तस्मादत्रोपमाप्रतिभोत्पत्तिहेतुः श्लेषालङ्कार इत्ययुक्तम् । प्रत्यु- तोपमैवात्र श्लेषप्रतिभोत्पत्तिहेतुः । नहि पुरवर्णनप्रकरणे सकलकलमिति तद्विशेषणपदस्य सुधांशुबिम्बमिवेत्युपमाया अनिबन्धने कलासाकल्यल- क्षणार्थान्तरप्रतिभा सम्भवति । प्रतीपव्यावृत्त्यर्थमन्येन वर्ण्यस्य साम्यमि- त्युक्तं तत्रान्येनेत्ययुक्तम् । अनेनेत्यस्य भिन्नविशेषणेन पौनरुक्त्यात् । किंच, वात्प्रकृतादन्येनाप्रकृतेनेति यद्यर्थस्तदा- 'इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु । रजांसि समरोत्थानि तच्छोणितनदीष्विव ॥' इति समुचितोपमायामव्याप्तिः । तत्र समराङ्गत्वेन रजसां शोणितेषु पतनस्यापि वर्ण्यत्वात् । यदि तु स्वयं वयेनावयेन वा कुतश्चिद्वा- दन्येनेत्यर्थः । तदाप्युत्कृष्टगुणत्वादुपमानभावमप्यसहमानस्योपमानत्वक- ल्पनरूपे प्रतीपेऽतिव्याप्तिः । यथा- 'अहमेव गुरुः सुदारुणानामिति हालाहल तात मा स्म दृप्यः । ननु संति भवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम् ॥' अत्र हि वर्णानां दुर्जनवचसां हालाहलेनातिप्रकृष्टदोषत्वादुपमान- भावमप्यसहमानेन साम्यनिबन्धनं प्रतीपम् । अत्र वर्ण्यस्येत्यप्ययुक्तम् । 'त्वत्कीर्तेः पुरतो माति. ज्योत्स्ना ध्वान्तमलीमसा' इत्यप्रस्तुतप्रशंसास- कीर्णोपमायामव्याप्तेः। तत्र कीर्तेरेव वर्ण्यत्वेन ज्योत्लाया अवर्ण्यत्वात् । अपि च, 'अन्येन वर्ण्यस्य साम्यं वाच्यम्' इति कोऽर्थः । किमन्यप्रति- योगिकत्वेन वर्ण्यगतं साम्यं वाच्यमिति, किं वा यथाकथञ्चिद्वावर्यो- भयनिरूपितं साम्यं वाच्यम् , अथवा वर्णानुपयोगिकत्वेन साम्यं वाच्य- - १. 'प्रतिभाहेतुः' ख-ग, २. 'उक्तमयुक्तम्' क-घ, ३. 'मा स तात' क-घ, १४ काव्यमाला। मिति । आये, 'सरसिजमिदमाननं च तस्याः सममिति चेतसि संमदं विधत्ते' इत्युभयविश्रान्तसादृश्योपमायामव्याप्तिः। द्वितीये, प्रसिद्धप्रती- पेऽप्यतिव्याप्तिस्तदवस्था । एवं तृतीये वर्ण्यस्य साम्यमित्येतावता विव- क्षितार्थलाभादन्येनेत्यस्य वैयर्थ्यम् । उपमेयोपमाव्यावृत्त्यर्थमेकदेति विशेषणमप्ययुक्तम् । तेन 'खमिव जलं जलमिव खं' इत्यादी पर्यायेण प्रवृत्तायामुपमेयोपमायामतिव्याप्तिनिरासेऽपि, 'तद्वल्गुना युगपदुन्मिपितेन ताव- त्सद्यः परस्परतुलामधिरोहतां द्वे । प्रस्पन्दमानपरुषतरतारमन्त- श्चक्षुस्तव प्रचलितभ्रमरं च पद्मम् ।। इति युगपत्प्रवृत्तायां तस्यामतिव्याप्त्यनिरासात् । अपि चैवम् , 'ज्योत्सेव नयनानन्दः सुरेव मदकारणम् । प्रमुतेव समाकृष्टसर्वलोका नितम्बिनी ।' इति भिन्नसाधारणधर्मायां मालोपमायामव्याप्तिः । तत्रानेकदा साम्यप्र- तिपादनात् । न च बडूपमामेलनमेव मालोपमा नैका, तासु च प्रत्येक लक्षणमस्त्येवेति वाच्यम् । तथा सत्युपमेयोपमाप्युपमाप्रतीपमेलनमेवेति तयावृत्त्यर्थं विशेषणान्तरकरणायोगात् । संसृष्टिसंकरात्पृथग्रन्थकृतां लेखनमुभयत्रापि तुल्यम् । एवमुपमेयोपमाप्रकरणे उदाहरिप्यमाणायां 'रजोमिः स्पन्दनोद्भूतैः' इति परस्परोपमायामव्याप्तिः । व्यन्जयोपमाव्या- वृत्त्यर्थ वाच्यमित्युक्तमप्ययुक्तम् । 'न पद्म मुखमेवेदं न भृङ्गौ चक्षुषी इमे । इति विस्पष्टसादृश्यात्तत्त्वाख्यानोपमैव सा ।' इत्युक्तरूपायां तत्त्वाख्यानोपमायां साम्यस्यावाच्यत्वेनाव्यात्यापत्तेः ।
चित्रमीमांसा। 'त्वदाननमधीराक्षमाविर्दशनदीधिति । भ्रमभृङ्गमिवालक्ष्यकेसरं भाति पङ्कजम् ॥' इत्यादौ विशिष्टोपमाद्याक्षिप्तविशेषणाद्युपमायामव्याप्त्यापत्तेश्च । 'शस्त्री श्यामा' इत्यादिवाचकलुप्तोपमायां 'चन्द्रसुहृन्मुखम्' इत्यादिसाम्यलक्षक- पदवदुपमायां चाव्याप्त्यापत्तेश्च । किंच, वाच्यमित्यत्र विधेयतया वाच्यतोच्यते अनुवाद्यतया वा ? आये, ‘स कर्षन्महतीं सेनां पूर्वसागरगामिनीम् । बभौ हरजटाभ्रष्टां गङ्गामिव भगीरथः ॥' इत्यादावेवेदं लक्षणं स्यात् । 'स ययौ प्रथमं प्राची तुल्यः प्राचीनबर्हिषा । अहिताननिलोद्भूतैस्तर्जयन्निव केतुभिः ।। इत्यादौ न स्यात् । द्वितीये, यत्र व्यतिरेकालंकारे साम्यस्य निषेधायानु- वाद्यता 'मुखेन निष्कलङ्केन न समस्तव चन्द्रमाः' इत्यादौ, तत्रापीदं लक्षणं स्यात् । नच निषेधाप्रतियोगित्वेन वाच्यमिति विशेषणीयम् । 'असिमात्रसहायोऽपि प्रभूतारिपराभवे । नैवान्यतुच्छजनवत्सगर्वोऽयं महाद्युतिः ॥' इति व्यतिरेके तथाप्यतिव्याप्तेः । न च निषेधप्रतियोगिकोट्यननुप्रवि- ष्टतया वाच्यमिति विशेषणीयम् । 'वृथा चरसि किं भृङ्ग तत्र तत्र वनान्तरे। मालत्याः सदृशीं वापि भ्रमन्नपि न लप्स्यसे ॥ इत्युपमानलुप्तायामव्याप्तेः । तत्र सदृशलाभनिषेधे साम्यस्यापि प्रतियो- गिकोटिनिविष्टत्वात् । तस्माद्विद्यानाथोक्तलक्षणमप्ययुक्तम् । १. 'महाधृतिः'क. २. 'अपि व्याप्तेः'ग.
काव्यमाला। -- - यत्तु सरस्वतीकण्ठाभरणोक्तं लक्षणम्- प्रसिद्धरनुरोधेन यः परस्परमर्थयोः । भूयोऽवयवसामान्ययोगः सेहोपमा मता ।।' इति । तदपि गुणक्रियादीनां परस्परसादृश्यवर्णनात्मिकायाम्- 'सस रश्चक्षुण्णानामेलानामुत्पतिष्णवः । तुल्यगन्धिषु मत्तेभकटेषु फलरेणवः ।। इत्याधुपमायामव्याप्तम् । 'उद्गर्महणतरुणीरमणोपमर्द- भनोन्नतस्तननिवेशनिभं हिमांशोः । बिम्ब कठोरबिसकाण्डकडारमेत- द्विष्णोः पदं प्रथममग्रकरैर्व्यनक्ति ॥' 'सद्योमुण्डितमत्तहणचिबुकप्रस्पर्धि नारङ्गकम्' इत्यादौ प्रसिद्धिर- हितोपमानायां करिस्पतोपमायां चाव्याप्तम् । यत्त्वलकारसर्वस्वकृतोक्तम्-"उपमानोपमेययोः साधम्र्थे भेदाभेदतु- ल्यत्वे वोपमा । साधम्र्ये त्रयः प्रकाराः। मेदप्राधान्यं, दीपकतुल्ययो- गितादृष्टान्तप्रतिवस्तूपमासहोक्तिव्यतिरेकादिषु । अभेदप्राधान्यं, रूपक- परिणामम्रान्तिमदुल्लेखादिषु । द्वयोस्तुल्यत्वं, यथास्यामुपमायाम् । अत्र झुपमानोपमेयासाधारणरूपाभ्यां भेदः साधारणधर्मेणामेदश्चेति द्वयोरपि तुल्यतैव" इति तदप्युपमानोपमेयातिव्याप्त्यादिदुष्टमिति स्पष्टमेव । तस्माहुर्वचमस्या लक्षणमिति । अत्रोच्यते- 'व्यापार उपमानाख्यो भवेद्यदि विवक्षितः । क्रियानिष्पत्तिपर्यन्तमुपमालंकृतिस्तु सा ॥' उपमानव्यापार उपमितिक्रियानिष्पादको व्यापारः सादृश्यवर्णना।
चित्रमीमांसा। - सोऽयमुपमितिक्रियानिष्पत्तिपर्यन्तं विवक्षिता चेदुपमालङ्कार इत्यर्थः । तथा च व्यतिरेके नातिव्याप्तिः। तत्र सादृश्यवर्णनासत्त्वेऽपि 'मुखेन निष्कलङ्केन' इत्यादौ साक्षात्तस्यैव निषेधेन, 'नैवान्यतुच्छजनवत्' इत्यादौ तत्प्रयोजकधर्मनिषेधेन चोपमितिक्रियाया अनिष्पत्तेः । नाप्य- नन्वयेऽतिव्याप्तिः। तत्रापि खेन स्वस्य सादृश्यस्य सदृशान्तरव्यवच्छेदे रुद्ररोदनवपोत्खननाद्यर्थवादेऽसदर्थस्य निन्दास्तुत्योरिव द्वारमात्रतया वर्ण्यमानत्वेनोपमितिक्रियाया अनिष्पत्तेः । अन्यथा स्वस्य खेनोपमिति- क्रियानिष्पत्तौ सदृशान्तरव्यवच्छेदेऽपि सर्वथानुपमत्वद्योतनं फलं न स्यात् । आहुश्च तस्य तदेव फलं भामहादयः- 'यत्र तेनैव तस्य स्यादुपमानोपमेयता । असादृश्यविवक्षातो वदन्ति तमनन्वयम् ॥' इति । अत एव वर्ण्यमानमपि स्वस्य खस्सिन्साधय नान्वेतीत्यनन्वयपद- व्युत्पत्तिमलङ्कारसर्वस्वकारादयो वदन्ति । ततश्च यथाम्भसि कतकरजः- संयोजनेन रजोन्तव्यवच्छेदे सति कतकरजसोऽपि विलयनात्सर्वथाना- विलमम्भः सिध्यति तथा 'रामरावणयोर्युद्धं रामरावणयोरिव' इत्यादौ खेन सादृश्यवर्णनया सदृशान्तरव्यवच्छेदे सति वस्तुतः स्वेनाप्युपमाया असंभवादनुपमं रामरावणयोर्युद्धमित्यत्रैव कविसंरम्भ इत्युपमितिक्रि- याया अनिष्पत्तेर्नानन्वयेऽतिव्याप्तिशङ्कावकाशः। एवं प्रतीपेऽपि यत्रो पमित्यनिष्पत्तिः, 'आकर्णय सरोजाक्षि वचनीयमिदं भुवि । शशाङ्कस्तव वक्रेण पामरैरुपमीयते ॥' इत्यादौ नै तत्रातिव्याप्तिशङ्का । उपमितिक्रियानिष्पत्तिविरहात् । १. नातिन्याप्ति' ख-ग. २चि० मी० १८ काव्यमाला। w -- 'गर्वमसंवाह्यमिमं लोचनयुगलेन किं वहसि भद्रे । सन्तीदृशानि दिशि दिशि सरःमु ननु नीलनलिनानि ।' इत्यादि प्रतीपमुपमेयोपमा चेत्युभयमपि सङ्ग्राह्यमेवेति न तद्यापन लक्षणस्य दोषः । तथा खुदाहृतं प्रतीपं तावदुपमाविशेष एव । साह- श्यवर्णनस्य प्रकृतविषयत्व इवाप्रकृतविषयत्वेऽपि स्मृतिरूपकसन्देह- प्रान्त्यनेकधागणापहवसम्भावनासम्भवद्वस्तुसंबन्धनिबन्धननिर्दिष्टसमर्थ- नादीनामिवालकारान्तरत्वायोगात् । अन्यथा तेषामपि प्रकृतविषयत्व एव सरणरूपकसन्देहस्रान्तिमदुल्लेखापटुत्युत्प्रेक्षानिदर्शनार्थान्तरन्यासा- द्यलकारत्वम् । अप्रकृतविषयत्वेऽपि चानलकारत्वमिति कल्पनाप्रसंगात् । स्मृत्यादयश्च प्रकृतविषया इवाप्रकृतविषया अप्यलकारभूतास्तत्र तत्रो- दाहरिप्यन्ते । न चोपमायामयं नियमो यदप्रकृतेन प्रकृतसादृश्यवर्ण- नात्मनैव तया भाव्यमिति । समुच्चयोपमायुदाहरणेषु प्रकृतयोरेवाप्रकृत- योरेव वा सादृश्यवर्णनस्याप्युपमात्वाङ्गीकारात् । तद्वत्प्रकृतेनाप्रकृतस्य सादृश्यवर्णनमप्युपमैवेति युक्तम् । एवं चोपमेयोपमापि प्रकृताप्रकृतवि- षयोपमाद्वयरूपतया नालङ्कारान्तरतां भजते । अन्यथा तत्प्रकरणोदाह- रिप्यमाणपरस्परोपमाया अप्यलकारान्तरत्वप्रसंगात् । परस्परप्रमनिब- न्धनादिष्वप्यलकारान्तरतापत्तेश्च । न चानन्वयप्रतीपोपमेयोपमासु साह- श्यवर्णनस्य पृथनिरूपणस्य चाविशिष्टत्वेनानन्वयस्यानुपमात्वमितरयोरु- पमात्वं च क्तुमयुक्तमिति वाच्यम् । यत्रोपमितिक्रियानिष्पत्तिस्तत्रोप- माशब्दप्रवृत्तिनिमित्तसद्भावेन, यत्र तदनिष्पत्तिस्तत्र तदभावेन च वैष- म्यस्य स्फुटत्वात् । इममेव विशेषमभिप्रेत्य काव्यप्रकाशिकादिलक्षणे- ष्वनन्वयव्युदासार्थमेव यत्नः कृतो नोपमेयोपमादिव्युदासार्थम् । उपमे- १. 'प्रकृताप्रकृतविषयत्वे क.
चित्रमीमांसा। योपमादेरुपमान्तर्गतत्वेऽपि व्यङ्ग्यादिकृतवैचित्र्यविशेषेण पृथग्गणनं न विरुध्यते, रूपकपरिणामवत् । 'उभौ यदि व्योम्नि पृथक्प्रवाहो' इत्यादौ लक्षणाभावो न दोषः । यदि तथाभूतौ प्रवाहौ स्यातां तर्युप- मीयेत । न च तौ संभवतः । तस्मान्न केनाप्युपमीयत इत्युपमापरप- यायोऽयमित्यनिष्पत्तावप्युपमात्वस्वीकारे तत्रोपमाशब्दस्य पारिभाषिक- त्वापत्तेः । किंतु तत्रातिशयोक्तिविशेषोऽलंकारः । अत एव काव्यप्र- काशिकायां प्रस्तुतस्य यदन्यत्वं यद्यर्थोक्तौ च कल्पनम्' इत्यतिशयो- क्तिषु परिगणय्य यद्यर्थोक्तौ कल्पनस्य, 'राकायामकलकं चेदमृतांशोभवेद्वपुः ।। तस्या मुखं तदा साम्यपराभवमवामुयात् ॥' इत्युदाहृतम् । 'पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् । ततोऽनुकुर्याद्विशदस्य तस्य ताम्रौष्ठपर्यस्तरुचः स्मितस्य ॥' इति तु कविकल्पितोपमानाया उत्पाद्योपमेति व्यवहृताया उदाहरणम् । तत्र यद्युत्पाद्यस्योपमानस्य संभाविततया तेनोपमितिनिष्पत्तेर्लक्षणमस्त्ये- वेति नाव्याप्तिः । न चैवं 'चन्द्रबिम्बादिव विष' इत्यसंभावितोप- मायामव्याप्तिः, तत्रासंभावितेनैवोपमानेनोपमितिक्रियानिष्पत्तेः कविना विवक्षितत्वेन विवक्षानुसार्युपमितिक्रियानिष्पत्तिसद्भावात् । नहि 'वस्तु सदानिबन्धनोपमितिक्रियानिष्पत्तिरुपमा' इति लक्षणमुच्यते किंतु कविविवक्षानिबन्धना । अत एव श्लोके विवक्षित इति विशेषणम: र्थवत् । अन्यथा 'चन्द्र इव मुखम्' इत्यादावपि लक्षणं न स्यात् । चन्द्रगतकान्त्यतिशयस्य वस्तुतो मुखेऽभावेन विवक्षानुसरणं विना ग- , १. "इत्यत्र' ग-घ. २. 'संभवात् क.
काव्यमाला। त्यभावात् । 'चन्द्रधवला कीर्तिः' इत्यादौ च सर्वथैव लक्षणं न स्यात् । कीर्ती धावल्यस्य लेशतोऽप्यभावात् । न चैवमनन्वयेऽपि कविविवक्षया स्वस्थ खेनोपमितिक्रियानिष्पत्तिः संभवतीति वाच्यम् । सर्वथैवानुपमत्व- पोतने कविसंरम्मे सति तथा विवक्षानुदयात् । 'वृथा चरसि किं भृङ्ग' इत्यादौ सादृश्याधिकरणस्यानुपलम्मोक्त्योपलभ्यमानेषु सादृश्यनिषेधपर्य- वसानेऽप्यनुपलभ्यमानगतसादृश्याभ्यनुज्ञानात्तत्रोपमितिक्रियानिष्पत्तिर- सीति नाव्याप्तिः। अत एव तस्य विशिष्यानुपादानादुपमानलप्तता । एवम् , 'निरूप्यमाणं कविना सादृश्यं स्वात्मनो न चेत् । प्रतिषेधमुपादाय पर्यवस्यति सोपमा ।।' इत्यपि लक्षणमनुसंधेयम् । उपमितिक्रियानिष्पत्तिमत्सादृश्यवर्णनमुपमा । स्वनिषेधापर्यवसायि सादृश्यवर्णनमुपमा । इति द्विविधमप्येतदुपमासामान्यलक्षणम् । अलंकारभूतोपमालक्षणं त्वे- तदेवादुष्टाव्यङ्ग्यत्वविशेषितम् । विशिष्टोपमादिसले विशेषणाद्युपमानां वाच्यभूतविशिष्टोपमादिसिद्ध्यङ्गत्वात् । वाच्यसिद्ध्यारूपगुणीभूतव्य- अयतयैव तासां नालंकारतेति न तदव्यापनं दोषः । 'न पळ मुखमेवेदं इत्यादौ नोपमालंकारः । किं तु प्रतिषेधाक्षिप्तप्रसक्तितया भ्रान्तिमान् , सुदुपपादकतयोपमा चेत्युभयं व्यङ्ग्यम् । तथापि श्रान्तिमदादिकमपि साधर्म्यमूलत्वमात्रेणोपमामध्ये परिगणयता दण्डिना तत्त्वाख्यानोपमेत्येता- शव्यवहारः कृतः परमिति न तत्राप्यव्याप्तिर्दोष इति दिक् । ; सा चेयमुपमा द्विविधा-पूर्णा लुप्या च । उपमानोपमेयसाधारणधर्मोपमावाचकानां चतुर्णामुपादाने पूर्णा । १. सिमर्थत्वात् क.
चित्रमीमांसा। तेषामेकस्य द्वयोस्त्रयाणां वा लोपे सति लुप्ता। पूर्णायां कचित्साधारणधर्मस्यानुगामितया निर्देशः । कचिद्वस्तुप्रति- वस्तुभावेन । कचिद्विम्बप्रतिबिम्बभावेन । कचिच्छेषेण । कचिदु- पचारेण । क्वचित्समासान्तराश्रयेण । क्वचिदेषां यथासंभवं मिश्रणेन । लुप्तायां तु नैवं भेदाः। तस्यां साधारणधर्मस्यानुगामित्वनियमात् । किं तु प्रकारान्तरेण भेदा वक्ष्यन्ते । तत्र पूर्णायां धर्मस्यानुगामिता यथा-- 'वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥' औत्पत्तिकस्तु शब्दस्यार्थेन संबन्ध इति वागर्थयोर्नित्यसंबन्धित्वं प्रसिद्धम् । उमामहेश्वरयोरप्यनयोर्न पृथग्भावः चन्द्रचन्द्रिकयोरिवेति तत्प्रसि- द्धम् । तथा च नित्यसंबन्धित्वरूपोऽत्र साधारणधर्मोऽनुगामितया निर्दिष्टः । यद्यप्युमामहेश्वरयोर्वागर्थवन्नित्यसंबन्धित्ववर्णनेन तैयोर्निरति- शयपरस्परप्रेमशालित्वं महामहिमत्वमित्यादि व्यज्यते तथापि न ध्वनि- गुणीभूतव्यङ्ग्यव्यवहारः । न खलु व्यङ्ग्यसंस्पर्शप्रतिभासादेवात्र चारुता- प्रतीतिः, किं तु वाच्यवैचित्र्यप्रतिभासादपीति प्रायस्तत्र संभवद्रसादिरूपं व्यङ्ग्यमलंकारान्तरं चागणयित्वैव तत्तदलंकारा उदाहियन्ते । एकस्यैव धर्मस्य संबन्धिमेदेन द्विरुपादानं वस्तुप्रतिवस्तुभावः । म तु शुद्धो न संभवति । किं तु विशेषणतया विशेष्यतया वा सर्वत्र बिम्बप्रतिबिम्बभावकरम्बितः । वस्तुतो मिन्नयोधर्मयोः परस्परसादृश्या- दभिन्नतयाध्यवसितयोxिरुपादानं बिम्बप्रतिबिम्बभावः । तत्र वस्तुप्रति- वस्तुमावस्य विशेषणता यथा- यान्या मुहुर्वलितकंधरमाननं त- दावृत्तवृन्तशतपत्रनिभं वहन्त्या । १. 'अयणेन' क. २. 'तयोरतिशय ख-घ.
२२ काव्यमाला। -- दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः ।।' अत्र बिम्बप्रतिबिम्बमावेन निर्दिष्टयोः कंधरावृन्तयोर्वलितावृत्तश- ब्दाभ्यामेक एव धर्मो विशेषणतया निर्दिष्टः । विशेप्यता यथा- 'सा तेन जगृहे साध्वी हठात्साध्वसकम्पिता। वानरेणातिलोलेन वाताधूतेव वल्लरी ।। अत्र साध्वसवातयोर्बिम्बप्रतिबिम्बमावापन्नयोः कम्पिताधूतशब्दाभ्या- मेक एव धर्मो विशेष्यतया निर्दिष्टः। शुद्धबिम्बप्रतिबिम्बभावो यथा- 'पाण्ड्योऽयमंसार्पितलम्बहारः' इत्यादि । अत्र हरिचन्दनबालातपौ हारनिरौ च बिम्बप्रतिबिम्बभावेन निर्दिष्टौ । श्लेषो यथा--- 'नरसिंह महीपाल समस्तोऽपि रिपुस्तव । पारावारसमानत्वं दधाति स्वपदच्युतः ।।' उपचारो यथा- 'उद्भवन्तमुदितार्चिषं ततो भानुमन्तमिव हेमभूभृतः । पङ्कजैरिव कुमारमीक्षणैर्विस्मयेन विकचैः पपुर्जनाः ॥' अत्र विकासः पुष्पधर्म उपमेयेषु वीक्षणेखूपचरितः । समासमेदा- श्रयणं यथा--- 'तया विवृद्धाननचन्द्रकान्त्या प्रफुल्लचक्षुःकुमुदः कुमार्या । प्रसन्नचेतःसलिलः शिवोऽभूसंसृज्यमानः शरदेव लोकः ।।' अत्र विवृद्धाननचन्द्रकान्त्येति विशेषणं देव्यां शरदि च समासमे- देन प्रवर्तते । मिश्रणेष्वनुगामित्वबिम्बप्रतिबिम्बमाक्योर्मिश्रणं यथा- 'भीमकान्तैनूपगुणैः स बभूवोपजीविनाम् । ' अधृष्यश्चाभिगम्यश्च यादोरलैरिवार्णवः ।। - - १. 'प्रसन्न'क-घ.
चित्रमीमांसा। २३ - - अनाधृष्यत्वमभिगम्यत्वं च नृपगुणानां यादोरत्नानां च बिम्बप्रतिबि- म्बभावमपेक्ष्य लब्धात्मकं साधारणो धर्मः । अनुगामित्वश्लेषयोर्मिश्रण यथा- 'गते तव प्रातरि वत्स पञ्चतां चिराय नश्चान्द्रमसं कुलं महत् । अदृष्टसंतानतया न शोभते वनं हरेः प्राड्मथनादिवोदधेः ॥' अत्र संतानशब्दश्लेषमपेक्ष्य लब्धात्मकं शोभारहितत्वं साधारणो धर्मः । अनुगामित्वोपचारयोर्मिश्रणं यथा- 'तडिदुज्ज्वलहेतिमुत्तरः कुरुराजध्वजिनीं विलोकयन् । प्रिययेव भिया सकम्पया परिरेमे धृतधर्मपाथसा ।।' अत्र सकम्पत्वानुगामिधर्मापेक्षया लब्धचारुभावं परिरम्भकर्तृत्वं भीत्यामुपचरितम् । अनुगामित्वसमासभेदाश्रयणयोर्मिश्रणं यथा- 'श्येनपक्षपरिधूसरालकाः सांध्यमेघरुधिरावाससः । अङ्गना इव रजस्खला दिशो नो बभूवुरवलोकनक्षमाः ॥' अत्र श्येनपक्षपरिधूसरेत्यादिविशेषणयोः समासभेदाश्रयणेन साधा- रण्यमपेक्ष्यानवलोकनक्षमत्वमनुगामिधर्मश्चारुतातिशयं पुष्णाति । वस्तु- प्रतिवस्तुभावबिम्बप्रतिबिम्बभावयोर्मिश्रणं यथा- 'लिङ्गैर्मुदः संवृतविक्रियास्ते हृदाः प्रसन्ना इव गूढनक्राः । वैदर्भमामय ययुस्तदीयां प्रत्यर्प्य पूजामुपदाछलेन ॥' अत्र बिम्बप्रतिबिम्बभावापन्नयोः क्रोधनक्रयोः संवृतगूढशब्दाभ्यामेक एव धर्म उक्त इति बिम्बप्रतिबिम्बभाववस्तुप्रतिवस्तुभावः। संतोषचिह्न- प्रसादयोर्बिम्बप्रतिबिम्बभावश्च । श्लेषबिम्बप्रतिबिम्बभावयोर्मिश्रणं यथा- 'पार्थनाशमुदिता नृपात्मजा बाष्पमूहुरविनीतमन्यवः । आतपक्कथितपाथसो बहिः शीतगर्भसलिला इव हृदाः ।।" १. 'साधारणधर्मः' ख-ग. - g २४ काव्यमाला। Hada अत्र बाप्पर्शन्दे श्लेषस्य नृपात्मजहृदविशेषणानां बिम्बप्रतिबिम्बभा- वमपेक्ष्य चारुता । उपचारबिम्बप्रतिबिम्बभावयोर्मिश्रणं यथा- 'सा किलाश्वासिता चण्डी भी तत्संश्रुतौ वरौ । उद्ववामेन्द्रसिक्ता भूर्बिलममाविवोरगौ ।' अत्राश्वासितेन्द्रसिक्तेत्यनयोर्वरोरगाणां च बिम्बप्रतिबिम्बभावमपेक्ष्यो- द्वमनमुपमानोपमेययोर्द्वयोरप्युपचरितम् । मुख्यार्थस्य द्वयोरप्यसंभवात् । मुख्यार्थे तस्य ग्राम्यत्वाच्च । तैदाहुः- 'निष्ठचूतोद्गीर्णवान्तादि गौणवृत्तिन्यपाश्रयम् । अतिसुन्दरमन्यत्तु (त्र) ग्राम्यकक्षां विगाहते ॥ इति । एवमन्यदपि द्वयोर्मिश्रणमूह्यम् । अनुगामित्वबिम्बप्रतिबिम्बभावसमा- समेदाश्रयणानां मिश्रणं यथा- 'नृपं तमावर्तमनोज्ञनाभिः सा व्यत्यगादन्यवधूर्मवित्री । महीधरं मार्गवशादुपेतं सोतोवहा सागरगामिनीव ।।' अत्र व्यत्यगादित्यनुगामिधर्मः । अन्यवधर्भवित्री सागरगामिनीत्य- नयोर्बिम्बप्रतिबिम्बभावः । आवर्तमनोहनामिरित्यत्र समासमेदाश्रयणमि- त्येतेषां मिश्रणम् । अनुगामित्वश्लेषोपचाराणां मिश्रणं यथा- 'असौ मरुचुम्बितचारुकेसरः प्रसन्नताराधिपमण्डलाग्रणीः । वियुक्तरामातुरदृष्टिवीक्षितो बसन्तकालो हनुमानिवागतः ।।' अत्रातुरदृष्टिवीक्षित इत्यादावनुगामिता । रामादिशब्दवेषः । कु- म्बितशब्दस बसन्तपक्षे उपचारः। इत्येतेषां मिश्रणम् । एवमन्येऽपि मिश्रणोदाहरणमेदाः स्वयमेव द्रष्टव्याः। बिम्बप्रतिबिम्बभावोदाहरणेषु कश्चिद्विशेषः। कचित्प्रसिद्धसाधर्म्यतया प्रतीयमानसाधर्म्ययोर्बिम्बपति- १. 'शब्देन' क. २. यदाहक ३. मिश्रणभेदोदाहरणा: ख-य.
चित्रमीमांसा। २५ बिम्बभावः । यथा-'पाण्ड्योऽयमंसार्पितलम्बहारः' इत्यादौ । क्वचिद- प्रसिद्धसाधर्म्यतया येनकेनचित्प्रकारेणोपात्तसाधारणधर्मयोर्बिम्बप्रतिबि- म्बभावः । यथा---'तया विवृद्धाननचन्द्रकान्त्या' इत्यादौ । अत्र हि शरदपर्णयोः स्वतोऽप्रसिद्धसाधर्म्ययोर्विवृद्धाननेत्यादिना समासभेदाश्रय- णेनोपात्तसाधारणधर्मयोरेव बिम्बप्रतिबिम्बभावः । यथाकथंचित्साधर्म्य- प्रतीति विना बिम्बप्रतिबिम्बभावो न संभवत्येव । 'यथा त्वं गुणवाँल्लोके तथा ते निर्गुणो रिपुः । इतीदमुपमानं तु विपरीतमिति स्मृतम् ॥' इत्युक्तरूपाया विपरीतोपमायाः कथं निर्वाहः । तत्र हि सगुणत्वनि- गुणत्वयोर्नोपात्तेन न वा प्रतीयमानेन धर्मेण साधर्म्यप्रतीतिरस्ति । नैष दोषः । तत्राप्यात्यन्तिकत्वखाभाविकत्वादिधर्मेण प्रतीयमानेन तयोः साधर्म्यप्रतीतेः । अन्यथा यथाशब्दोदितस्य सादृश्यस्य सर्वथा निराल- म्बनत्वप्रसङ्गात् । एवं पूर्णाया दिगुदाहृता । लुप्ताष्टविधा-वाचकलुप्ता, धर्मलुप्ता, उपमानलुप्ता, वाचकोपमान- लुप्ता, धर्मोपमानलुप्ता, धर्मवाचकलुप्ता, वाचकोपमेयलुप्ता, धर्मोपमानवा- चकलुप्ता चेति । क्रमेणोदाहरणानि- कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम् । अवेहि मां किंकरमष्टमूर्तेः कुम्भोदरं नाम निकुम्भतुल्यम् ॥' अत्र कैलासगौरमित्यत्र वाचकलोपः। निकुम्भतुल्यमित्यत्र धर्म- लोपः। वाचकलोपः सर्वत्र समासविधायकशास्त्रकृतः। धर्मलोपस्त्वै- च्छिकः। प्रभावादिना निकुम्भतुल्यमित्यपि वक्तुं शक्यत्वात् । 'यच्चोराणामस्य च समागमो यच्च तैर्वधोऽस्य कृतः । उपनतमेतदकस्सादासीहत काकतालीयम् ।।'
काव्यमाला। इत्यत्र काकतालशब्दो वृत्तिविषये काकतालसमवेतक्रियावर्तिनौ तेन काकागमनमिव तालपतनमिव काकतालमिति इवार्थे 'समासाच तद्विषयात्' इति ज्ञापकात्सुप्युपेति समासः । उभयत्रोपमेयं क्रमेण देवदत्तागमनं दस्यूपनिपातश्च । तेन देवदत्चदस्युसमागमः काकतालस- मागमसदृश इति फलति । ततः काकतालमिव काकतालीयमिति द्वितीये इवार्थे 'समासाच्च तद्विषयात्' इति छप्रत्ययः । ततश्च पतता तालफलेन यथा काकस्य वध एवमुपनिपतितैर्दस्युभिर्देवदत्तस्य वध इत्यर्थः । यदाह भगवान्भाष्यकारः-'एवं तर्हि द्वाविमावी काकागमनमिव तालपतनमिव काकतालं काकतालमिव काकतालीयम्' इति । तच्च विवृतं कैयटेन- "तत्र काकागमनं देवदत्तागमनस्योपमानम् । तालपतनं दस्यूपनिपा- तस्य । तालेन तु यः काकस्य वधः स देवदत्तस्य दस्युना वधस्योपमान- मिति । अकस्मादुपनतत्वं च समानो धर्मः । तदाह वृत्तिकारः-'तेन काकतालीयं नामाकरमादुपनतं चित्रीकरणमुच्यते' इति । ततश्चात्र काकागमनतालपतनसमागमनरूपस्य पतत्तालकृतकाकवधरूपस्य चोपमा- नस्यानुपादानात् । प्रत्ययार्थोपमायामुपमानलोपः । समासार्थोपमायां वाच- कोपमानलोपः । अत्रैव 'किमिति ब्रूमो वयमिदम् ।' इति तृतीयपादपाठे प्रत्ययार्थोपमायां धर्मोपमानलोपः । समासार्थोपमायां धर्मोपमानवाचक- लोपः । अत्र धर्मलोपमात्रमैच्छिकम् । "यं त्वं पालयसे धर्म वृत्त्या च नियमेन च । स वै राघवशार्दूल धर्मस्त्वामभिरक्षतु ॥' अत्र राघवः शार्दूल इवेत्यर्थे 'उपमितं व्याघ्रादिमिः सामान्याप्रयोगे' इति समासे .. धर्मवाचकयोर्लोपः । अत्र वाचकलोपवद्धर्मलोपोऽपि -- - । ir - चित्रमीमांसा। - शास्त्रीयः । सामान्यप्रयोग एवैतत्समासानुशासनात् । धर्मवाचकलुप्तायां धर्मलोपस्यैच्छिकत्वमपि संभवति । यथा- 'नृणां यं सेवमानानां संसारोऽप्यपवर्गति । तं जगत्यभजन्मर्त्यश्चञ्चा चन्द्रकलाधरम् ॥' अत्रापवर्ग इवाचरतीत्यर्थेऽपवर्गतीत्यत्राचारार्थस्य विपो लोपाद्वाच कवद्धर्मस्यापि लोपः । चञ्चेत्यत्र चञ्चा तृणपुरुष इवेत्यस्मिन्नर्थे 'इवे प्रतिकृतौ' इति विहितस्य कनो 'लुम्मनुष्ये' इति लुम्विधानाद्वाचक- लोपो धर्मलोपश्च । अस्य श्लोकस्य 'यद्भक्तानां सुखमयः संसारोऽप्यपवर्गति । तं शंभुमभजन्मर्त्यश्चञ्चैवात्महिताकृतेः॥ इति पाठे नोभयत्रापि धर्मस्य श्रवणमपि संभवति । 'रूपयौवनलावण्यस्पृहणीयतराकृतिः। पुरतो हरिणाक्षीणामेष पुष्पायुधीयति ॥' अत्र वाचकोपमेययोर्लोपः । रूपयौवनेत्यादिस्वविशेषणसामर्थ्यात्स्वा- त्मानं पुष्पायुधमिवाचरतीत्यस्यार्थस्य गम्यमानत्वात् स्वात्मन उपमेयस्म लोपः कवरैच्छिकः । न चैष इत्युपमेयस्योपादानमस्तीति शक्यम् । तस्य कर्मविभक्त्यभावेन पुष्पायुधीयतीत्यत्रोपमेयासमर्पकत्वात् । अत्रैव हरिण- स्याक्षिणी इवायते अक्षिणी आसामित्यस्मिन्नर्थेऽनुशिष्टे हरिणाक्षीणा- मिति पदे धर्मोपमानवाचकानां लोपः । सर्वोऽप्ययं 'सप्तम्युपमानपूर्वप- दस्य' इत्यादिशास्त्रकृत एव लोपः। त्रिलोपे धर्मलोपस्त्वैच्छिकोऽपि संभ- वति । यथा- 'यच्चोराणामस्य च' इति श्लोकस्य द्वितीयपाठे समासार्थोपमायाम् । एवं लुप्ताया अष्टौ विधाः प्रदर्शिताः। १. 'लुप्तायां' क-घ.
२८ काव्यमाला। काव्यप्रकाशिकाकारादिभिस्तु पूर्णायाः षडिधाः लुप्तायास्तु धर्मलुप्ता- दिष्ववान्तरभेदेन कैश्चिदेकोनविंशतिरन्यैर्विंशतिविधाः प्रदर्शिताः। तत्रायं विभागः-पूर्णा तावद्विविधा श्रौती आर्थी च । सादृश्यमात्रवाचकय- थेवादिशब्दवती श्रौती । सादृश्यविशिष्टधर्मिपर्याप्ततुल्यसदृशसंकाशादि- शब्दवती आर्थी । द्विविधापि वाक्ये समासे तद्धिते चेत्येवं षडिया पूर्णा । धर्मलुप्तापि पूर्णावदेव विभागवती । किं तु श्रौती तद्धितेन संभ- वतीत्येवं पञ्चविधा । वाचकलुप्ता कर्मकर्तृणमुलोः कर्माधिकरणक्यचो! क्यङि णिनौ समासे चेत्येवं सप्तविधा । उपमानलुप्ता वाक्यसमासयोtि- विधा । धर्मवाचकलुप्ता क्विप्समासयोर्द्विविधा । धर्मोपमानलुप्ता वाक्यस- मासयोर्द्विविधा । उपमेयवाचकलुप्ता क्यचि एकविधा । धर्मवाचकोप- मानलुप्ता समास एवैकविधेति । यदाहुः- 'पूर्णा लुप्ता च सा द्वेधा श्रोत्यार्थी चेति ते पुनः । द्विविधे प्रथमा वाक्ये समासे तद्धिते मवेत् ।। तद्वल्लुप्तापि धर्मस्य लोपे श्रौती न तद्धिते । इवादिलोपे द्विविधे णमुलि क्यचि च क्यकि तथा णिनी समासे च सप्तधा परिकीर्तिता । उपमानस्य लोपे तु द्विधा वाक्यसमासयोः । इवादिधर्मलोपेऽपि द्विविधा किप्समासयोः । धोपमानयोलोंपे वाक्यगा च समासगा। इवादेरुपमेयस्य द्वयोलोप भवेत्क्यचि । इवादिधर्मोपमानकोपे त्वेषा समासगा ।" इति । wo १.पर्यन्त' क. २. 'तु'ख.
चित्रमीमांसा । २९ यं अत्रोदाहरणानि तन्मतरीत्या संगृह्यास्माभिर्लिख्यन्ते- 'यस्याज्ञा शिरसोबते सुमनसां वृन्दैर्यथा मालिका बवा मुञ्चति यः पशूनिव जनान्यस्याभ्रवद्वैभवम् । हृद्यं शेवधिना समं हृदि भजन्त्यानन्दसारोपमं धन्याः शशिवत्प्रसन्नवपुषे तस्मै नमः शंभवे ॥' अत्र षड्डिधापि पूर्णा दर्शिता । तत्र प्रथमवाक्ये वाक्यगा श्रौती । द्वितीयवाक्ये समासगा श्रौती । 'इवेन नित्यसमासो विभक्त्यलोपः पू- र्वपदप्रकृतिस्वरत्वं च' इति वार्तिककृद्वचनेन पशूनिवेत्यस्य समासपद- त्वात् । तृतीयवाक्ये तद्धितगा श्रौती । अप्रवदिति षष्ठीसमर्थाद्वतेः 'तत्र तस्येव' इति सूत्रेणेवार्थे विहितत्वात् । 'हृद्यं शेवधिना समं हृदि भज- न्ति' इत्यत्र वाक्यगा आर्थी । 'आनन्दसारोपमं' इत्यत्र समासगा आर्थी । हृद्यमिति विशेषणमत्राप्यपेक्ष्यते । अन्यथा धर्मलुप्तैव स्यान्न पूर्णा । शशिवदित्यत्र तद्धितगा आर्थी । तत्रत्यवतेः 'तेन तुल्यं क्रिया चेद्वतिः इति तुल्यार्थे विहितत्वात् । 'मूर्तिर्यथा नवसुधा बलभिन्मणीव कण्ठप्रभा सुसद्दशश्च जटास्तडिद्भिः। शाक्षि काञ्चननिमं पदमब्जदेश्य यस्यैष मेऽस्तु हृदि दैवतसार्वभौमः ॥' अत्र पञ्चविधापि धर्मलुप्ता दर्शिता । तत्र मूर्तिर्यथा नवसुधेति वाक्यगा । बलभिन्मणीव कण्ठप्रमेति समासगा श्रौती। उभयत्रापि भातीत्यादिक्रियाप्रयोगे सैव साधारणो धर्म इति धर्मलुप्ता न भवेत् , अत- स्तदप्रयोगः। श्रौती तु धर्मलुप्ता तद्धिते न संभवति । षष्ठीसमर्थात्सप्त- मीसमर्थाद्वा इवार्थे विहितस्य वतेधर्मोपादानं विनान्वयसौकर्याभावात् ।
काव्यमाला। न च वाच्यं 'इवे प्रतिकृती' इत्यधिकारे इवार्थे विहितस्य तद्धितस्य धर्मोपादानं विना नैराकाङ्ख्यमस्ति । 'कुशाग्रीया बुद्धिः' शैलेयं दधि' 'पौण्डरीकं मुखम्' इति दर्शनात् । अतस्तत्र श्रौती धर्मलुप्ता तद्धित उदाहर्तुं शक्यत इति 'इवे प्रतिकृतौ' इत्यधिकारे विहितप्रत्ययानां तुल्यार्थे एव विधानात् । अन्यथा तेषां सादृश्यविशिष्टधर्मिपर्यन्तत्वाभा - वेन कुशाग्रीया बुद्धिरित्याद्युपमेयसामानाधिकरण्यासंभ वात्सादृश्यविधा नमपि सदृशे पर्यवस्यति सामानाधिकरण्यदर्शनादिति सूत्रे इवग्रहणं न विरुध्यते । सुसदृशश्चेत्यादि वाक्यत्रये क्रमेणार्थी वाक्यगा समासगा तद्धितगा च । अब्जदेश्यमित्यत्रेषदसमाप्तौ विहितोऽपि देश्यप्रत्ययः सादृश्ये प्रयुज्यते सोऽपि सामानाधिकरण्यात्सदृशपर्यवसायी । ननु सट्ट- शादिशब्दप्रयोगे सादृश्यविशिष्टधर्मिपर्यन्तत्वादार्थीति युक्तम् । साह- श्यादिशब्दप्रयोगे कथम् । किं श्रौती उतार्थी । यथा- 'परस्पराक्षिसादृश्यमदूरोज्झितवमसु । मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ॥' इत्यादौ श्रौत्येवेति ब्रूमः । तत्र तद्धितप्रकृत्या धर्मिपर्यन्ताभिधानेऽपि प्रधानप्रत्ययाभिहितस्य सादृश्यस्यैव वाक्यार्थान्वयित्वात् । 'यं पश्यन्दीप दर्श सपदि मनसिजः कीटनाशं स नष्टः स्वान्ते योऽन्तःपुरीयत्यतिभजनकृतस्तं कुमारीयति द्राक् । मूलस्तम्भायते यस्त्रिभुवनभवने कोकिलालापिनी यं वामाङ्गे कल्पवल्ली श्रयति कुवलयश्यामला तं भजामि ।।' अत्र सप्तविधापि वाचकलुप्ता दर्शिता । तत्र दीपमिव पश्यन्नित्यर्थे दीपदर्शमिति कर्मणमुलि, कीट इव नष्ट इत्यर्थे कीटनाशं नष्ट इति कर्तृणमुलि, स्वान्तेऽन्तःपुर इवाचरतीत्यर्थेऽन्तःपुरीयतीत्यधिकरणक्यचि, चित्रमीमांसा। ३१ कुमारं स्कन्दमिवाचरतीति कर्मक्यचि, त्रिभुवनस्योत्पत्तौ मूलस्तम्भ इवा- चरतीत्यर्थे मूलस्तम्भायत इति कर्तृक्यङि, कोकिल इवालपतीत्यर्थे कोकि- लालापिनीति णिनौ, कुवलयमिव श्यामलेत्यर्थे कुवलयश्यामलेति समासे च क्रमेण वाचकलुप्ता द्रष्टव्या। 'पूजनं पुररिपोस्तनोतु मे चित्तमन्यदपहाय चापलम् । यत्समं प्रियहितं न दृश्यते येन नापि सदृशं निशम्यते ॥' अत्र यत्सममिति समासे येन सदृशमिति वाक्ये चोपमानलुप्ता द्विविधापि दर्शिता । 'वृथा मम भ्रमत्यहो मनः स्थिते महेश्वरे श्रुतोऽस्ति तेन किं समः स्मृतोऽथवास्ति तत्समः । षडङ्मयत्वदः सदा तदङ्ग्रिपङ्कजद्वये चकोरकीयतु स्थिरं तदानने शशिप्रभे ॥ अत्रावशिष्टाः पड्डिधा अपि लुप्ताः प्रदर्शिताः । तत्र द्वितीयपादे वाक्यसमासयोधर्मोपमानलुप्ता द्विविधा, तृतीयपादे किप्समासयोधर्मवा- चकलुप्ता द्विविधा, चकोरकीयत्विति वाचकोपमेयलुप्ता, शशिप्रभ इति धर्मोपमानवाचकलुप्ता च क्रमेण द्रष्टव्या । एवमयं पूर्णालुप्ताविभागो वाक्यसमासप्रत्ययविशेषगोचरतया शब्दशा- स्त्रव्युत्पत्तिकौशलप्रदर्शनमात्रप्रयोजनो नातीवालंकारशास्त्रे व्युत्पाद्यतामह- ति। न वा लुप्तानामयं सामस्त्येन विभागः । तथाहि-धर्मलुप्ता वाक्य- समासतद्धितेपु दर्शिता द्विर्भावेऽपि दृश्यते-'पटुपटुर्देवदत्तः' इति । अत्र हि 'प्रकारे गुणवचनस्य' इति सादृश्ये द्विर्भावविधानात् । पटुसदृश इत्यर्थः । यो हि शास्त्रादिष्वपटुरेव पटुवदभिनयति स उच्यते पटुपटु- १. 'अत्रावशिष्टा षड्विथापि लुप्ता प्रदर्शिता' क-घ.
३२ काव्यमाला। - रिति । न तावदियं वाक्ये धर्मलुप्ता । 'कर्मधारयवदुत्तरेषु' इति समा- ससद्भावविधानेनकपद्यसिद्धेः। अत एव न समासेऽपि धर्मलप्तेयम् । वाचकलुप्ता णिनिं विना कैश्चित्षड्डिधा दर्शिता । णिनिना सहापरैः सप्त. विधा । क्लिप्तद्धितयोरपि दृश्यते- 'यद्भक्तानां सुखमयः संसारोऽप्यपवर्गति । तं शंभुमभजन्मर्त्यश्चञ्चैव स्वहिताकृतेः ।।' इति विवृतमेतदधस्तात् । वाक्यसमासयोरुपमानलुप्तापि दर्शिता । 'उपनतमेतदकस्मादासीहत काकतालीयम्' इति तद्धितेऽपि दृश्यते । वाचकोपमानलुप्ता स्वरूपत एव नोदाहृता । सापि काकतालीयमिति प्रकृतिभूते समासे दृश्यते। धर्मोपमानलुप्तापि तद्धिते काकतालीयमित्यत्र दृश्यते । धर्मवाचकलुप्ता क्विप्समासयोरिव तद्धितेऽपि दृश्यते। 'तं जग- त्यभजन्मर्त्यश्चञ्चा चन्द्रकलाधरम्' इति हि प्रागुदाहृतम् । तस्माल्लुप्तावि- भागे दिमात्रप्रदर्शनमेवेदं प्राचां नतु सामस्त्येन विभागः । ये चान्ये काव्यालोकादिषूपमायां प्रकारमेदा दर्शितास्ते सर्वे तेष्वेव द्रष्टव्याः । दार्शताश्चेहापि लेशतो लक्षणविचारप्रस्तावे। रूपकप्रकरणे चास्याः प्रका- रभेदान्कांश्चित्प्रदर्शयिष्यामः। पुनश्चेयमुपमा संक्षेपतस्त्रिधा-कचित्स्ववैचित्र्यमात्रविश्रान्ता यथा- 'सच्छिन्नमूलः क्षतजेन रेणुः' इत्यादौ । क्वचिदुक्तार्थोपपादनपरा यथा- 'अनन्तरत्नप्रभवस्य' इत्यादौ । यथा वा- 'विश्रब्धघातदोषः स्ववधाय खलस्य वीरकोपकरः । वनतरुभङ्गध्वनिरिव हरिनिद्रातस्करः करिणः ।।' . WAROOMINDIHINoman १. "विनापि ख. २. 'लुप्तकिप्' क.
चित्रमीमांसा। - क्वचिद्यायप्रधाना सा, व्यङ्ग्यस्य वस्त्वलंकाररसरूपतया त्रैविध्यात्रि- विधा । तत्र वस्तुध्वनिर्यथा- दर्पान्धगन्धगजकुम्भकपाटकूट: संक्रान्तिनिघ्नघनशोणितशोणरोचिः। वीरैर्व्यलोकि युधि कोपकषायकान्तिः कालीकटाक्ष इव यस्य करे कृपाणः ।।' अत्र कृपाणस्य कुपितकालीकटाक्षसादृश्यवर्णनेन सकलरिपुबलक्षयः क्षणादेव करिष्यत इति वस्तु व्यज्यते । अलंकारध्वनिर्यथा 'यशसि तव विकसिते नृप हिमकरकिरणच्छटाधवले । भ्रमर इव पुण्डरीके विराजते विष्णुपदमेतत् ॥' अत्रोपमालंकारेण यशसः पुण्डरीकवद्वैपुल्यस्य, गगनस्य च अमरव- दल्पत्वस्य प्रतीतेराश्रयाश्रयिणोरनानुरूप्यलक्षणोऽधिकालंकारो व्यज्यते। रसध्वनिः 'वागर्थाविव' इत्यादावुदाहृतः । क्वचिदेकत्रैव विविधोऽपि ध्वनिर्दृश्यते यथा- पश्यात्र नलिनीपत्रे बलाका परिदृश्यते । हरिन्मणिमये पात्रे शुक्तिकेव प्रतिष्ठिता ।।' किमावयोः संकेतस्थानं भविष्यतीति प्रष्टुमनसो जनसमक्षमपृच्छतश्च प्रच्छन्नकामुकस्यामिप्रायमिङ्गितेन विदितवत्या विदग्धायाः संकेतस्थान- सूचनार्थमिदं वचनम् । अत्र पद्मपत्रस्थितबलाकाया मरकतपात्रप्रतिष्ठित- शुक्तिकासादृश्यवर्णनेन तस्यास्तद्वन्निश्चलत्वप्रतीतेराश्वस्तत्वं व्यज्यते, तेन तत्प्रदेशस्य निर्जनत्वं व्यज्यत इति वस्तुध्वनिः । ततश्च तदेव संकेत- स्थानमावयोरिति प्रकाशनात्संलक्षितसूक्ष्मार्थप्रकाशनरूपसूक्ष्मालंकार- १. 'पश्याच' काघ. ३ चि०मी० 10 काव्यमाला। ध्वनिः । एवं तदभिप्रायानुरूपवर्णनात्परस्परं रतिभावो व्यज्यत इति रसध्वनिश्च । ननु रसादिध्वनिरसंलक्ष्यक्रम इति प्रसिद्धिः कथमत्र तस्यानुरणनेन व्यङ्ग्यतोच्यते । मैवम् । यत्र विभावाभावादिवशादाशु भाविनी रसा- भिव्यक्तिस्तत्रासंलक्ष्यक्रमता । अन्यत्र तु रसादिध्वनिरपि संलक्ष्यक्रम एव । तदुक्तमभिनवगुप्तपादाचार्यः-'यद्यपि रसभावादिरों ध्वन्यमान एव न वाच्यः कदाचिदपि तथापि न सर्वोऽसंलक्ष्यक्रमस्य विषयः' इति । अत एव ध्वनिकारोऽपि- 'एवंवादिनि देवर्षी पार्श्वे पितुरधोमुखी । लीलाकमलपत्राणि गणयामास पार्वती ॥' इत्यत्र लज्जाख्यं संचारिभावमनुरणनव्यङ्ग्यमुदाजहार । अथोपमाव्यङ्ग्यप्रसङ्गादुपमाध्वनयः प्रदर्श्यन्ते । तत्र शब्दशक्तिमू- लोपमाध्वनिर्यथा- 'किरति प्रकरं गवां प्रकामं सुमनःस्वच्छतरं निधौ कलानाम् । कतिचित्कलयन्ति यत्प्रबोधं कतिचिन्नेति स तत्स्वभाव एव ।।' एकस्माद्गुरोविद्यां शिक्षमाणानां केचित्प्रगल्भन्ते नान्य इति विशेषो बोधकस्य गुरोस्तेषु तेषु बोधनविशेषकृतो न भवति, किं तु तत्स्वभावकृत इत्यस्मिन्नर्थे प्रकृते प्रकृतार्थस्योपमानत्वकल्पनयात्रैवमुपमा व्यज्यते यथा चन्द्रे किरणानां प्रकरमविशेषेण सर्वपुष्पेषु विकिरति कानिचिद्विकसन्ति नान्यानीत्येष विशेषस्तत्तत्पुष्पस्वभावकृत एव न तु चन्द्रस्य किरणवि- शेषकृतः । एवं गुरौ सर्वशिष्येष्वविशेषेण वाङ्मयं विकिरति तेषु बोधा- बोधविशेषोऽपि तत्तत्स्वभावकृत एवेत्यत्र श्लिष्टानां गोसुमनःकलानिधि- MARATramarsuaweetawan HRSaamawessNONDIA TRRORANVARNIPATIT MarriaNPAMDHPrimantup १. प्रसिद्धःख. २. 'रूप' ग.
चित्रमीमांसा। शब्दानां वागादिपर्यायपरिवृत्त्यसहिष्णुत्वाच्छब्दशक्तिमूलानुरणनरूप- ध्वनिः । - अर्थशक्तिमूलो वस्तुनोपमाध्वनिर्यथा- 'वाहि वात यतः कान्ता तां स्पृष्ट्वा मामपि स्पृश । त्वयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागमः ॥' अत्रार्थशक्त्या चन्द्रे दृष्टिसमागम इत्यनेन चन्द्रे सीतामुखसादृश्य व्यज्यते । अलंकारेणोपमाध्वनिर्यथा- 'यैदृष्टोऽसि तदा ललाटपतितप्रासप्रहारो युधि स्फीतासृक्सुतिपाटलीकृतपुरोभागः परान्दारयन् । येषां दुःसहकामदेहदहनप्रोद्भूतनेत्रानल- ज्वालालीभरभासुरे पुररिपावस्तं गतं कौतुकम् ॥' अत्रान्यत्कार्य प्रकुर्वतोऽशक्यान्यवस्तुकरणात्मको विशेषालंकारः । उक्तरूपं त्वां पश्यतो यथोक्तविशेषणविशिष्टपुरारेपुदर्शनमासीदिति निब- न्धनात्करणस्य क्रियासामान्यात्मनो दर्शनेऽपि सद्भावाद्यद्यप्ययमों न वाच्यस्तथापि तस्सिन्कौतुकास्तमयवर्णनाव्यङ्ग्यः । तेन तदा त्वं तथाभूतः पुररिपुरिव स्थितोऽसीत्युपमा व्यज्यते । एवमुपमादिगुदाहृता । अथोपमादोषाश्चिन्त्यन्ते-न्यूनत्वमधिकत्वं लिङ्ग भेदो वचनभेदोऽ- सादृश्यमसंभव इत्यस्याः षड् दोषानाहुः । तत्रोपमेयादुपमानस्यापकृष्टत्वं न्यूनत्वम् । उत्कृष्टत्वमाधिक्यम् । द्वयमपि जात्या प्रमाणेन धर्मतो वेति प्रत्येकं त्रिविधम् । तत्र जातिप्रमाणगतन्यूनत्वाधिक्ये यथा- 'चण्डालैरिव युष्माभिः साहसं परमं कृतम् ।' 'वह्निस्फुलिङ्ग इव भानुरयं चकास्ति 'अयं पद्मासनासीनश्चक्रवाको विराजते । युगादौ भगवान्वेधा विनिर्मित्सुरिव प्रजाः ॥
काव्यमाला। - 'पातालमिव नाभिस्ते पर्वताविव च स्तनौ वेणीदण्डः पुनरयं कालिन्दीपातसंनिभः ।। अत्र चण्डालादिमिरुपमानैः प्रस्तुतोऽर्थोऽत्यन्तमेव कदर्थित इत्यनु- चितार्थतायामिमे न्यूनत्वाधिक्ये पर्यवस्यतः। धर्मतो न्यूनत्वाधिक्ये तु हीनाधिकपदत्वरूपी दोषौ । यथा- 'स मुनिर्लाञ्छितो मौज्या कृष्णाजिनपटं वहन् । व्यराजन्नीलजीमूतभागाश्लिष्ट इवांशुमान् ।' 'स पीतवासाः प्रगृहीतशाओं मनोज्ञभीमं वपुराप कृष्णः शतहदेन्द्रायुधवानिशायां संसृज्यमानः शशिनेव मेघः ।।' अत्राद्य उपमानस्य मौञ्जीप्रतिबिम्बस्तडिल्लक्षणधर्मो न निबद्ध इति न्यूनत्वम् । द्वितीये उपमेयस्य शङ्खादेरनिर्देशेन शशिनो ग्रहणमतिरि- च्यत इत्याधिक्यम् । लिङ्गवचनभेदो यथा- 'भाग्याभावात्करस्थोऽपि चिन्तारलमिव च्युतः। सक्तवो भक्षिता देव शुद्धाः कुलवधूरिव ॥" इमौ प्रक्रमभङ्गान्तभूतौ । कथं च्युतत्वादिरत्र साधारणधर्मों भवितुं नार्हति । उपमानोपमेययोर्मध्ये यत्र लिङ्गवचनसारूप्यं तत्रैवास्य समन्व- येनोभयान्वयाभावात् । तथा चोपात्तविशेषणविशिष्टस्यैवोपमानत्वमुपमे- यत्वं वा भवेत् । प्रतीयमानेन तु धर्मान्तरेणोपमानिर्वाह्या स्यात् । तत- थोपमानोपमेययोः कस्यचित्सविशेषणत्वमन्यस्य नेत्येवं विशेषणप्रक्रमभ- रूपता। - केचित्तु कालपुरुषलोडर्थादिमेदमपि दोषमाहुः । यथा- 'तस्यापनोदाय फलप्रवृत्तावुपस्थितायामपि नियंपेक्षः। त्यक्ष्यामि वैदेहसुतां पुरस्तात्समुद्रनेमि पितुराज्ञयेव ॥'
चित्रमीमांसा। अत्र समुद्रनेमिमत्यजमित्यन्वेति न तु त्यक्ष्यामीति । पुरुषभेदो यथा- 'शरीरमात्रेण नरेन्द्र तिष्ठन्नाभासि तीर्थप्रतिपादितर्द्धिः । आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः ॥' नीवारे आभातीत्यन्वेति न त्वाभासीति । विध्यादिभेदो यथा- 'आशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते । पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवतः पितेव ॥' भवन्तमलभतेत्यन्वेति न तु लभखेत्याशीः । असादृश्यासंभवावुपमा- यामनुचितार्थतायां पर्यवस्यतः । असादृश्यं यथा- 'प्रश्नामि काव्यशशिनं विततार्थरश्मिम् ।' कायस्य शशिना सादृश्यमप्रसिद्धम् । यद्यर्थानां रश्मीनां च सादृश्यं प्रसिद्धं स्यात्तदा तदीयबिम्बप्रतिबिम्बभावेन काव्यशशिनोः सादृश्यमप्र- सिद्धमप्यांनीयेत न च तदप्यस्ति । यथा वा- 'एष विन्ध्याचलः सान्द्रकुञ्जोल्लसितनिर्झरः । भालेक्षणस्फुरद्वहिशिखाटोप इवेश्वरः ॥' असंभवो यथा- 'निपेतुरास्यादिव तस्य दीप्ताः शरा धनुर्मण्डलमध्यभाजः । जाज्वल्यमाना इव वारिधारा दिनार्धभाजः परिवेषिणोऽर्कात् ।।' ज्वलन्त्योऽम्बुधाराः सूर्यमण्डलान्निष्पतन्त्यो न संभवन्तीत्यसंभवः । १. 'काव्यशशिनो:'ग. २. 'आनीयते' ख. ३. 'सान्द्रः कुञोच्चलित' क-ख. ४. 'निष्पेतुः' कख. mam- काव्यमाला। - केचिदुपमानाप्रसिद्धिं पृथग्दोषमाहुः । यथा- 'बाष्पदिग्धेक्षणं वक्र तरुण्याः परिदृश्यते । तुषारसिक्तच्छदनं तरङ्गिण्या इवोत्पलम् ।' अत्र बाष्पदिग्धेक्षणं तुषारसिक्तच्छदनमित्यनयोर्बिम्बप्रतिबिम्बभावेन सादृश्यसंभवेऽप्युत्पलस्य मुखं प्रत्युपमानत्वाप्रसिद्धिरेव दोषः । अथैषां दोषाणां यथासंभवमपवादाः प्रदर्श्यन्ते-कविसमयसंमतेषु जात्या प्रमाणेन च न्यूनत्वाधिक्ये न दोषौ । यथा- 'तवाननसमश्चन्द्रश्चन्द्रतुल्यं त्वदाननम् । यणुकं मध्यसदृशं मध्यं यणुकसंनिभम् ।।' अत्र कविसमयप्रसिद्धेन किंचिदनौचित्यम् । उपमेयोपमानगताधिक- धर्मोपादानस्यैकैकधर्मकानेकोपमार्थत्वेन वा साधारणधर्मवत्तासंपादनार्थ- त्वेन वा धर्मिखरूपविशेषलाभार्थत्वेन वा विधान्तरेण वा प्रस्तुतकार्या- न्तरार्थत्वे धर्मतो न्यूनत्वाधिक्ये न दोषौ । यथा- 'क्षीरोदवेलेव सफेनपुञ्जा पर्याप्तचन्देव शरत्रियामा । नवं नवं क्षौमनिवासिनी सा भूयो बभौ दर्पणमादधाना ।।' इत्यत्रोपमेयगताधिकविशेषणोपादानस्यैकैकविशेषणकानेकोपमाना- र्थत्वात् । 'क्षीरोदवेला च सफेनपुञ्जा पर्याप्तचन्द्रा च शरत्रियामा । अनुव्यधात्झौमनिवासिनी तामच्छपमं दर्पणमादधानाम् ॥ इत्यस्यैव श्लोकस्य पाठे उपमानगतानेकधर्मोपादानमेकैकधर्मकोपमा- द्वयार्थमित्युपमानस्य धर्मत आधिक्यान दोषः । १. 'नवक्षोम' क-घ, २. 'आधिक्यं ग. । wEETitam चित्रमीमांसा। ३९ 'इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः । क्षणमात्रमृषिस्तस्थौ सुप्तमीन इव हृदः ॥' अत्र विज्ञापितविशेषणं ध्यानस्तिमितलोचन इति साधारणधर्मवत्ता- संपादनार्थमिति न्यूनत्वं न दोषः । 'ज्यानिनादमभिगृह्णती तयोः प्रादुरास बहुलक्षपाछविः । ताडका चलकपालकुण्डला कालिकेव निबिडा बलाकिनी अत्र निबिडेति विशेषणं कालिकायां बहुलक्षपाछविरिति साधारण- धर्मवत्तासंपादनार्थमित्याधिक्यं न दोषः । 'अतिथिं नाम काकुत्स्थात्पुत्रमाप कुमुदती । पश्चिमाद्यामिनीयामात्प्रसादमिव चेतना ॥' अत्रातिथिं नामेति विशेषणं धर्मिस्वरूपविशेषलाभार्थमित्याधिक्य न दोषः। 'रसान्तराण्येकरसं यथा दिव्यं पयोऽश्नुते । देशे देशे गुणेष्वेवमवस्थास्त्वमविक्रियः॥' अत्र दिव्यमिति विशेषणं धर्मिविशेषलाभार्थमित्यधिकत्वं न दोषः । एवं प्रकृतकथासंघटनचमत्कारादिकार्यान्तरत्वेऽपि द्वेष्टव्यम् । एवं च प्रस्तुतकार्यान्तरोपयोगरहितानां बिम्बप्रतिबिम्बभावेऽपि न साधारणधर्मतैकप्रयोजनतया संभाव्यमानानामुपमेयोपमानविशेषणानां प्रतिविशेषणानिर्देश एव न्यूनत्वमधिकत्वं च दोषः । कार्यान्तरार्थानामप्यनुगामिनामतया विशेषणनिर्देशेन वा साधारणी- करणे त्वधिको गुणः । यथा--'ज्यानिनादमभिगृह्णती-' इति श्लोके ज्यानिनादमभिगृद्धतीत्युपमेयविशेषणं ताडका स्वयमेव जिघांसया प्रादु- १. 'काले घ. २. 'तत्र तत्र द्रष्टव्यम्' क.
काव्यमाला। 1 भूय प्रथममभिद्रुतवती रामेण हतेति स्त्रीवधानौचित्यपरिहारार्थत्वेऽप्यु- पमानसाधारणम् । कालिकायामपि गर्जितशालिन्यामतिशयोक्त्या तद्वि- शेषणानुवृत्तेः । तथा-'नृपं तमावर्त-' इति श्लोके 'अन्यवधूभवित्री' इत्यस्य व्यतिक्रमणार्थत्वेऽपि सागरगामिनीति तत्प्रतिविशेषणनिर्देशः कृतः। यत्र लिङ्गवचनभेदेऽपि सामान्याभिधायिपदं स्वरूपभेदं नापद्यते स तत्र न दोषः । उभयानुगतिक्षमत्वात् । यथा-'भीमकान्तैनूपगुणैः' । 'तद्वेषोऽसदृशोऽन्याभिः स्त्रीभिर्मधुरताभृतः । दधते स्म परां शोभां तदीया विभ्रमा इव ॥' सामान्याभिधायिपदस्य स्वरूपभेदापत्तावपि लिङ्गवचनभेदो महाक- विप्रयोगेषु दृश्यते । 'द्वेप्योऽपि संमतः शिष्टस्तस्यार्तस्य यथौषधम् । त्याज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता ॥' 'प्रवृद्धो हीयते चन्द्रः समुद्रोऽपि तथाविधः । स तु तत्समवृद्धिश्च न चाभूताविव क्षयी ॥' इत्यादौ । कालादिभेदे तु भूयांस्युदाहरणानि । 'एतादृशीषु लोक- सिद्धत्वाल्लिङ्गादिभेदो न दोपः' इति वामनः । एवं गुणदोषव्यवस्थायां सहृदयहृदयमेव प्रमाणम् । उक्तं हि दण्डिना- 'न लिङ्गवचने भिन्ने न हीनाधिकते अपि । उपमादूषणायालं यत्रोद्वेगो न धीमताम् ।। स्त्रीव गच्छति षण्ढोऽयं वक्त्येषा स्त्री पुमानिव । प्राणा इव प्रियोऽयं मे विद्याधनमिवार्जिता ॥ भवानिव महीपाल देवराजो विराजते ।
चित्रमीमांसा। अलमंशुमतः कक्षामारोढुं तेजसा नृपः ॥ इत्येवमादि सौभाग्यं न जहात्येव जातुचित् । अस्ति च क्वचिदुद्वेगः प्रयोगे वाग्विदां यथा ॥ हंसीव धवलश्चन्द्रः सरांसीवामलं नमः । भर्तृभक्तो भटः श्वेव खद्योतो भाति भानुवत् ॥ ईदृशं वय॑ते सद्भिः कारणं तत्र चिन्त्यताम् ।' इति । कविसमयप्रसिद्धौ सत्यामसादृश्यं न दोषः। यथा-'चन्द्रधवला कीर्तिः' इत्यादौ । उपमेयगतासंभावितत्वविवक्षायामुपमानस्यासंभवो न दोषाय । यथा-'चन्द्रबिम्बादिव विषम्' इत्यादौ । श्लिष्टसाधारणध- मायामन्यत्रापि सहृदयहृदयाह्लादिन्यां कल्पितोपमानायामुपमायामसि- द्धत्वं न दोषः । यथा- 'कविमतिरिव बहुलोहा सुघटितचक्रा प्रभातवेलेव । हरमूर्तिरिव हसन्ती भाति विधूमानलोपेता ॥' 'सद्यो मुण्डितमत्तहूणचिबुकप्रस्पर्द्धि नारङ्गकम्' इत्यादौ । एवमन्येऽपि दोषापवादप्रकारा विद्वद्भिश्चिन्तनीयाः ।। इति चित्रमीमांसायामुपमाप्रकरणम् । अथोपमेयोपमा निरूप्यते- उपमानोपमेयत्वं द्वयोः पर्यायतो यदि । उपमेयोपमा सा स्याद्विविधैषा प्रकीर्तिता ॥ यदि द्वयोर्यद्वय॑ते सोपमेयोपमेत्युच्यते तदा तुल्ययोगितायामति- व्याप्तिः। तत्र- - १. 'अप्रसिद्ध का 'अप्रसिद्धि' ग.
४२ काब्यमाला। - 'जनस्य तस्मिन्समये विगाढे बभूवतुर्की सविशेषकान्तौ । तापापनोदक्षमपादसेवौ स चोदयस्थो नृपतिः शशी च ॥' इति द्वयोर्नुपशशिनोयुगपदेकधर्मान्वयवर्णनात् । अतः पर्यायेणेत्युक्तम् । तथापि- 'तस्य द्विपानां मदवारिसेकात्खुराभिघाताच्च तुरङ्गमाणाम् । रेणुः प्रपेदे पथि पकभावं पकोऽपि रेणुत्वमियाय भूयः ॥' इत्यत्रातिव्याप्तिः । तत्र रेणुपङ्कयोः पर्यायेण पकरेणुभाववर्णनात् । अत उपमानोपमेयत्वमित्युक्तम् । द्वयोर्यदुपमानोपमेयत्वं वर्ण्यते सोपमे- योपमेत्युक्तेऽपि - 'व्युष्टं प्रमाणं च वियोगवेदनाविदूननारीकमभूत्सम तदा' इत्युभयविश्रान्तसादृश्यायामुपमायामतिव्याप्तिः । न च तत्रोभयो- रपि सादृश्याश्रयत्वरूपस्योपमेयत्वस्यैव प्रतिपादनमस्ति न सादृश्यप्रति- योगित्वरूपस्योपमानत्वस्यातो नातिव्याप्तिरिति वाच्यम् । मुखतः प्रति- पादनाभावेऽपि तयोः परस्परमुपमानत्वस्यार्थात्प्रतीतेः । न युपमानोपमे- यत्वं यत्र वाच्यमिति लक्षणे विवक्षितम् । व्यङ्गयोपमेयोपमासंग्रहाभाव- प्रसङ्गात् । अतः पर्यायेणेत्युक्तम् । एवमपि-'भणितिरिव मतिर्मति- रिव चेष्टा' इत्यादिरसनोपमायां मतिचेष्टयोः पर्यायभेदेनोपमानत्वस्यो- पमेयत्वस्य च सत्त्वेनातिव्याप्तिपरिहारायैकस्मिन्पर्याये यं प्रत्युपमानत्वं तं प्रत्येव पर्यायान्तरे उपमेयत्वं विवक्षणीयम् । द्विविधैषेत्युक्तम् । द्वैविध्यं धर्मस्य साधारण्यवस्तुप्रतिवस्तुभावा- भ्याम् । 'सुगन्धि नयनानन्दि मदिरामदपाटलम् । अम्मोजमिव ते वकं त्वद्वक्रमिव पङ्कजम् ॥' १. 'वियोगवहिना' क. २. 'तत्र' ख.
चित्रमीमांसा। ४३ - 'सच्छायाम्भोजवदनाः सच्छायवदनाम्बुजाः। वाप्योऽङ्गना इवाभान्ति यत्र वाप्य इवाङ्गनाः ॥' इति क्रमेणोदाहरणे। अत्रेदं विचार्यते । लक्षणस्य 'त्वद्वल्गुना युगपदुन्मिषितेन तावत् इति प्रागुदाहृतायां युगपदुपमेयोपमायामव्याप्तिः । न चेयमुपमेयोपमा न भवति, किं तूभयविश्रान्तोपमामात्रमिति शङ्कनीयम् । परस्परतुला- मित्यनेन द्वयोरपि प्रतियोगित्वस्यापि प्रतिपाद्यमानतया उपमेयोपमेत्यव- यवार्थस्याविशिष्टत्वात् । अर्थादपि सिध्यतः परस्परप्रतियोगित्वस्य मुखतः प्रतिपादनेन तृतीयसदृशव्यवच्छेदरूपफललाभाच्च । किं च 'रजोभिः स्यन्दनोद्भूतैः' इति प्रागुदाहृतायां परस्परोपमायामतिव्याप्तिः । न च तत्राप्युपमेयोपमा । तृतीयसदृशव्यवच्छेदाप्रतीतेः । 'द्विविधैषा प्रकी- र्तितेति विभागासामञ्जस्यप्रसङ्गाच । न ह्यत्र धर्मस्य साधारण्यं वस्तु- प्रतिवस्तुभावो वास्ति । गगनस्य भूतलेन सादृश्ये रजोव्याप्तत्वं साधार- णधर्मः । भूतलस्य गगनेन सादृश्ये गजानां मेघानां च बिम्बप्रतिबिम्ब- भाव इत्यत्यन्तविलक्षणत्वात् । अत एवात्र तृतीयसब्रह्मचारिव्यवच्छेद- रूपं फलमपि न सिध्यति । एकधर्माश्रयेण परस्परसाम्ये वर्ण्यमाने ह्यन- योरस्मिन्विषये तृतीयः सब्रह्मचारी नास्तीति फलति । कस्यचित्केनचि- त्सादृश्ये वर्णिते तस्याप्यन्येन सादृश्यमर्थसिद्धमपि मुखतो वर्ण्यमानं तृतीयसदृशव्यवच्छेदार्थं भवतीति हि तत्फलकत्वे बीजम् । न चैतद्ध- मसाधारण्य इव धर्मभेदेऽपि लभ्यते । रजोभिर्गगनस्य भूतलसाश्यव- र्णनेन भूतलस्य मेघाकारैगजैर्गगनसादृश्यस्यार्थतः सिद्ध्यभावात् । १. 'साधर्म' क.
४४ काव्यमाला। अपि च- 'पिता समाराधनतत्परेण पुत्रेण पुत्री स यथैव तेन । पुत्रस्तथैवाधिकवत्सलेन स तेन पित्रा पितृमान्बभूव ॥' इति व्यत्यस्तधर्मिबिम्बप्रतिबिम्बकोपमायामतिव्याप्तिः । अत्र हि पुत्रः पिता चेत्युभावुपमेयोपमानभूती धर्मिणौ । तयोस्तावेव व्यत्यासेन पितृ- मत्त्वं पुत्रित्वमिति साधारणधर्मकोटिप्रविष्टतयोपात्तौ । तयोश्च बिम्बप्र- तिबिम्बरूपसाधारण्यापादको धर्मो मतुविनिप्रत्ययोपात्तं प्राशस्त्यम् । प्रशंसायां यत्र तौ प्रत्ययौ पित्रा पितृमानिति संबन्धमात्रस्यांवक्तव्यत्वात् । एवं च पुत्रस्य पितुश्च प्रशस्तपितृमत्त्वं प्रशस्तपुत्रवत्त्वं च बिम्बप्रतिबि- बकरम्बितेन वस्तुप्रतिवस्तुभावेन साधारणधर्मे इति लभ्यते। तयोश्च पितापुत्रयोः प्राशस्त्यप्रतिपादके। अधिकवत्सलेन समाराधनतत्परेणेति च विशेषणे । ततश्च धर्म्युपमायां यः पिता पुत्रस्योपमानं स एव तस्य तदुपपादके बिम्बप्रतिबिम्बनिर्देशे उपमेय इति लक्षणस्य वर्तनं तावत्स्प- ष्टम् । न चेयमुपमेयोपमा । पुत्रपित्रोधर्मिणोरुपमायां प्रशस्तपितृमत्त्वं प्रशस्तपुत्रवत्त्वं च वस्तुप्रतिवस्तुभावेन बिम्बप्रतिबिम्बमावकरम्बितेन साधारणो धर्मः । पितापुत्रयोस्तु धर्मकोटिनिविष्टयोर्वात्सल्यभक्त्यति- शयकृतं प्राशस्त्यमनुगतसाधारणधर्म इति पूर्वोदाहरणसारूप्यात्समुच्च- योपमया पुत्रोऽपि पितृभत्त्या प्रशस्तः पितापि पुत्रवात्सल्येन प्रशस्त इत्यर्थलामेऽपि तृतीयसब्रह्मचारिव्यवच्छेदालाभाच्च । न चात्र इवशब्द- द्वयादियुक्तपर्यायद्वयाभावात्पर्यायविशेषणेनैवातिव्याप्तिनिरासः स्यादिति वाच्यम् । वाच्यकक्षायां पुत्रपित्रोरुपमा व्यङ्ग्यकक्षायां पितापुत्रयोरिति पर्यायद्वयसत्वात् । न हि पर्यायद्वयस्यापि वाच्यत्वमत्र विवक्षितम् । १. अध्यकत्वाद' क. २. 'बिम्बप्रतिबिम्बमाव' ख-ग. ३. 'साधारण्ये ख-ग. ४. 'उपपादके' क. M Sarancer tri rou चित्रमीमांसा। - येनेवशब्दद्वययुक्तपर्यायद्वयाभावादतिव्याप्तिर्निरस्येत । तथा सति हि व्यङ्गयोपमेयोपमासाधारण्यं न स्यादित्युक्तम् । न चात्र धर्मिणोरेवोपमा धर्मयोस्तु उपमानोपमेयसाधारण्यार्थमभेद एव प्रतीयते नोपमेति वा- च्यम्- 'नलिन्या इव तन्वङ्ग्यास्तस्याः पद्ममिवाननम् । मया मधुकरेणेव पायं पायमतृप्यत ।' इत्यादौ बिम्बप्रतिबिम्बभावापन्नयोस्तन्वीनलिन्यादिकयोरुपमाया अपि दर्शनेन धर्मयोः सादृश्येन साधारणीकरणस्याप्युपमाप्रयोजकत्वात् । तस्मात्तत्रातिव्याप्तिशङ्का दुरा । अतोऽनुपपन्नमेवेदं लक्षणं लक्ष्यते । अत्र ब्रूमः- - 'अन्योन्येनोपमा बोध्या व्यक्त्या वृत्त्यन्तरेण वा । एकधर्माश्रया या स्यात्सोपमेयोपमा मता ॥' अन्योन्येनेति विशेषणान्न रशनोपमायामतिव्याप्तिः। व्यक्त्या वृत्त्यन्त-- रेण वा बोध्येति विशेषणाच नोभयविश्रान्तसादृश्योपमायामतिव्याप्तिः । परस्परप्रतिक्षेपकविकल्पार्थेन वाकारेण हि या परस्परप्रतियोगिकत्वविशि- ष्टोपमा तद्विषयवृत्त्यन्तरनिरपेक्षव्यक्तिबोध्या तद्विषयव्यक्तिनिरपेक्षवृत्त्य- न्तरबोध्या वा भवति सोपमेयोफ्मेति पर्यवस्यति। ततश्चोभयविश्रान्तसाह- श्योपमायामन्योन्यप्रतियोगिकत्वांशे व्यक्तिः सादृश्यरूपोपमांशे वृत्त्यन्त- रमिति तयोः करम्बितत्वान्नातिव्याप्तिशङ्का । सामान्यलक्षणसिध्द्यर्थं च व्यक्तिवृत्त्यन्तरयोरन्योन्यत्वेन क्रोडीकृतयोर्ग्रहणम् । एवं हि 'तया गृहीतं नु मृगाङ्गनाभ्यः' इत्यत्र वृत्त्यन्तरापेक्षव्यक्तिबोध्यायामनलंकारभूतायां व्यक्तिनिरपेक्षवृत्त्यन्तरबोध्यायामलंकारभूतायां चोपमायां लक्षणमनुगतं ame- १. 'तत्र' क.
काव्यमाला। -- भवति । यद्यपि व्यङ्गयायामप्युपमेयोपमायां शब्दस्य सहकारित्वेन तद्ग- तशक्तेरप्यपेक्षितत्वात् ‘खमिव जलं जलमिव खम्' इत्यादौ वाच्याया- मपि गम्यसाधारणधर्मायां तस्यां धर्माशे व्यक्तेरपेक्षितत्वात्परस्परनरपेक्ष्य- मसंभवि, तथाप्यन्योन्यप्रतियोगिकत्वविशिष्टसादृश्यविषयवृत्त्यन्तरनिर- पेक्षकत्वं व्यक्तेः तद्विषयव्यक्तिनिरपेक्षत्वं वृत्त्यन्तरस्य चास्त्येव । इदमेव च व्यक्तिपदानपेक्षयालंकाररूपाया विशेषलक्षणमपि । तत्र व्यक्तिपदप- रित्यागे वृत्त्यन्तरमात्रबोध्येत्येतद्विशेषणं पर्यवस्यति । ततश्चोभयविश्रा- न्तसादृश्योपमाव्यावृत्तिः । न च तस्यामेकस्यैवोपमानत्वं न तु द्वयोरित्य- न्योन्यपदेनैव व्यावृत्ताविदं व्यर्थमिति वाच्यम् । प्राकरणिकाप्राकरणि- कयोः सादृश्यवर्णनेऽप्राकरणिकस्यैवोपमानत्वलामेऽप्युभयोरपि प्राकरणि- कत्वे विनिगमनाविरहेण परस्परोपमानत्वप्रतीतेः । एवं धर्माश्रयविशेष- णात् 'रजोभिः स्यन्दनोत्कीर्णैः' इति परस्परोपमायां नातिव्याप्तिः । उक्तविशेषणबलादेव 'पिता समाराधनतत्परेण' इत्युपमायामपि नाति- व्याप्तिः। उभयत्राप्युपमेययोभिन्नधर्माश्रयत्वात् । एकधर्माश्रयेत्यस्य चाय- मर्थः । कस्यचिदन्येनोपमायां यो धर्मः साधारणो वस्तुप्रतिवस्तुमावापन्नो वा स एवान्यस्य तेनोपमायामपीति । न त्वनुगामिधर्माश्रयेत्यर्थः । बिम्ब- प्रतिबिम्बगर्भवस्तुप्रतिवस्तुभावनिर्देशे तदभावादिति दिक् । इदं तूपमेयोपमात्वप्रयोजकं लक्षणम् । अनुगतानतिप्रसक्तलक्षणं तु- 'सदृशस्य तृतीयस्य व्यवच्छेदाय यद्भवेत् । अन्योन्येनोपमेयत्वं सोपमेयोपमा मता ॥' इति द्रष्टव्यम् । अत्रान्योन्येनेति विशेषणं 'अहमेव गुरुः सुदारुणानाम्' इति प्रतीपविशेषव्यावृत्त्यर्थम् । -- - चित्रमीमांसा। - अथोदाहरणानि । तत्र धर्मस्य साधारण्ये यथा- 'खमिव जलं जलमिव खं हंसश्चन्द्र इव हंस इव चन्द्रः। कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ॥' इयं प्रतीयमानसाधारणधर्मा । वाच्यसाधारणधर्मा यथा-'सुगन्धि नयनानन्दि' इत्यादि। यथा वा- 'गिरिरिव गजराजोऽयं गजराज इवोच्चकैर्विभाति गिरिः। निर्झर इव मदधारा मदधारेवास्य निर्झरः सवति ॥ अत्रोपमेयोपमाद्वयस्य परस्परानुगृहीतत्वेन विच्छित्तिविशेषोऽधिकः । वस्तुप्रतिवस्तुभावो यथा-'सच्छायाम्भोजवदना' इत्यादि । इदं वस्तुप्रतिवस्तुभावस्य बिम्बप्रतिबिम्बविशेषणत्वे उदाहरणम् । तद्विशेष्यत्वे यथा 'वत्रं पद्ममिवैतस्या नेत्रं भृङ्गमनोहरम् । पद्मं वक्रमिवाभाति मृगलोचनभूषितम् ॥' एतानि पर्यायोपमेयोपमोदाहरणानि । युगपदुपमेयोपमोदाहरणं तु-'तद्वल्गुना युगपदुन्मिपितेन' इत्यादि। तत्रापि यथासंभवं पूर्वोक्ता भेदा उन्नयाः ॥ इत्युपमेयोपमाप्रकरणम् । . अथानन्वयः एकस्यैवोपमानोपमेयत्वेऽनन्वयो मतः । एवकारबलादेकस्यामेवोपमितिक्रियायामिति गम्यते । तेनोपमेयोप- मायां रसनोपमायां च नातिव्याप्तिः । उदाहरणम्-'गगनं गगनाकारं १. 'चित्रमीमांसायां' क.
ग ॥ ४८ काव्यमाला। सागरः सागरोपमः' । अयं प्रतीयमानधर्मः । निर्दिष्टधर्मो यथा- न केवलं भाति नितान्तकान्तिर्नितम्बिनी सैव नितम्बिनीव । यावद्विलासायुधलास्यवासास्ते तद्विलासा इव तद्विलासाः ।। ननु- 'पितुर्नियोगाद्वनवासमेवं निस्तीर्य रामः प्रतिपन्नराज्यः। धर्मार्थकामेषु समां प्रपेदे यथा तथैवावरजेषु वृत्तिम् ॥' इत्यत्रैकस्यैव रघुपतेरुपमानत्वमुपमेयत्वं च । न च तत्रानन्वयः । समुच्चयोपमया तस्य धर्मार्थकामेष्वनुजेषु च समवृत्तिमात्रस्यैव प्रतिपाद्य- तयासदृशान्तरव्यवच्छेदे तात्पर्याभावात् । तथा 'त्यक्ष्यामि वैदेहसुतां पुरस्तात्समुद्रनेमिं पितुराज्ञयेव' इत्यत्राप्यस्ति खस्यैवोपमानत्वमुपमेयत्वं च । तत्रापि नानन्वयः । पितृनियोगाक्षितित्याग इवापवादात्सीता त्यागे च सदृशान्तरप्रसक्त्यभावेन तद्यवच्छेदस्य फलत्वायोगाच्च । एवम्- 'उपाददे तस्य सहस्ररश्मिस्त्वष्ट्रा नवं निर्मितमातपत्रम् । स तहुकूलादविदूरमौलिर्बभौ पतद्गग इवोत्तमाझे ॥' इत्यादावप्येकस्यैवोपमानोपमेयभावः स्पष्टः। न चैतेषु कचिद्धर्मादिषु वृत्तेरवरजेषु वृत्तेश्चोपमानोपमेयभावः । अन्यत्र क्षितित्यागस्य सीतात्या- गस्य चापरत्र गङ्गापतनस्य दुकूलसंनिधानस्य च । न तु क्वचिदप्येकस्यैव धर्मिण उपमानोपमेयभावः । विशिष्टान्वयिनोऽपि विशेष्यबाधे विशेष- णसंक्रमौचित्यादिति वाच्यम् । यथा धर्मार्थकामेषु समवृत्ति प्रपेदे तथा वरजेष्वित्यादिप्रकारेणैकस्यैवोपमानोपमेयभावे निबद्धेऽपि तस्य विशेष- णसंक्रान्तिकल्पने 'पाण्ड्योऽयमंसार्पितलम्बहारः' इत्यादीनामपि हारनि- झरादीनामेवोपमानोपमेयभावः स्यादिति बिम्बप्रतिबिम्बोदाहरणमात्रवि- लोपप्रसङ्गात् । 'रामरावणयोर्युद्धम्' इत्यादावभेदेऽप्युपमानोपमेयभावम- चित्रमीमांसा। ४९ सभ्युपगच्छतामालंकारिकारिकाणां विशेष्यबाधस्यापरिहरणीयत्वाच्च । तस्मादत्र 'सविशेषणे हिं' इति न्यायोपन्यासो वाक्यमीमांसकानां शोभते नालंकारमीमांसकानाम् । वाक्यमीमांसका ह्यभेदे उपमानोपमेयभावनि- देश एव नास्तीति मन्यमाना 'रामरावणयोर्युद्धं' इत्यादावद्यतनस्य पूर्वे- धुस्तनं युद्धमुपमानम् । एतत्कल्पगगनस्य कल्पान्तरगगनमुपमानमित्यादि कल्पयन्ति । तस्मादालंकारिकमते एतेष्वेकस्यैवोपमानोपमेयभाव इति लक्षणमतिव्याप्तमिति चेत् । अत्र ब्रूमः 'स्वस्य खेनोपमा या स्यादनुगाम्येकधर्मिका । अन्वर्थनामधेयोऽयमनन्वय इतीरितः ॥' स्वस्य खेनेति विशेषणादुपमेयोपमायां रसनोपमायां च नाति- व्याप्तिः। अनुगाम्येकधर्मिकेति विशेषणादुदाहृतोपमाविशेषेषु नाति- व्याप्तिः। यद्यपि तेष्वपि समां वृत्ति प्रपेदे इत्याद्यशेऽनुगामिधर्मप्र- वेशः । तथाप्येको न भवति । धर्मार्थकामावरजादिबिम्बप्रतिबिम्बभाव- करम्बितत्वात् । अत एवैकग्रहणमप्यर्थवत् । अन्वर्थनामधेय इति तु न लक्षणान्तर्गतम् । किं तु स्वेन स्वस्योपमाप्यनुगाम्येकधर्मा चेदेवान- न्वयो नान्यथेत्यत्रोपपत्तिमात्रपरम् । ध_क्ये हि स्वस्य खेनोपमा नान्वे- तीत्यनन्वय इत्यन्वर्थ नाम भवति । अनन्वय्यर्थनिबन्धनवशाच्चानुपम- त्वद्योतनफलपर्यन्तं धावेत् । धर्मभेदे तु एकधर्मावच्छिन्नेन खेनैव धर्मा- न्तरावच्छिन्नस्य स्वस्योपमान्वेतीति न तत्रान्वर्थ नाम, न वानन्वय्यर्थ- निबन्धनाधीनानुपमत्वफललाभः । इदमनन्वयत्वप्रयोजकं लक्षणम् । लक्षणमात्रं तु 'यत्र तेनैव तस्य स्यात्' इति भामहोत्तमनुसंधेयम् । १. 'सविशेषणे हि विधिनिषेधौ सति विशेष्ये बाथै विशेषणमुपसंक्रामत इति'. चि० मी० काव्यमाला। 'उमौ यदि व्योन्नि पृथक्प्रवाही' इत्यतिशयोक्तिविशेषेऽनुपमत्वद्योतन- फलसाम्यकल्पनावत्यतिव्यातिनिरासाय तेनैव तस्येति विशेषणम् । अवमनन्वयो व्ययोऽप्यस्ति । यथा- 'अध या मम गोविन्द जाता त्वयि गृहागते । कालेनैषा भवेत्रीतिस्तवैवागमनास्पुनः ।। अत्र गृहागतं श्रीकृष्णं प्रति विदुरवाक्ये इयं त्वदागमनप्रभवा प्रीतिर्वहुकालव्यवहितेन पुनरपि त्वदागमनेनैव भवेत् नान्येनेत्युक्ति- भगया त्वदागमनप्रभवप्रीतेः सैव सदृशी न वितरमभवेति व्यज्यते । एतादृशव्यावृत्यर्थमनन्क्यालंकारलक्षणेऽव्ययत्वविशेषणं पूर्ववद्रष्टव्यम् ॥ इत्यनन्वयप्रकरणम्। mmememein अथ स्मरणालंकारः- स्मृतिः सादृश्यमूला या वस्त्वन्तरसमाश्रया । स्मरणालंकृतिः सा सादव्यज्ञयत्वविशेषिता ।। यथा- 'अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्षीचकार । सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः ॥' यथा वा- 'दिव्यानामपि कृतविस्मयां पुरस्ता- दम्भस्तः स्फुरदरविन्दचारुहस्ताम् । उद्वीक्ष्य श्रियमिव कांचिदुत्तरन्ती- मसा(जलनिधिमन्थनस्य शौरिः।'
चित्रमीमांसा। एकत्र सदृशदर्शनात्तत्सदृशधर्मिका स्मृतिः । इतरत्र सहशदर्शनात- सदृशलक्ष्मीसंबन्धिनो जलनिधिमन्थनस्य स्मृतिः। उभयत्रापि सादृश्य- मूलकवस्त्वन्तरस्मृतित्वमविशिष्टम् । अत एव सदृशासदृशसाधारण्या- र्थतया लक्षणे वस्त्वन्तरग्रहणमर्थवत् । 'सौमित्रे ननु सेव्यतां तरुतलं चण्डांशुरुजृम्भते चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽयमुन्मीलति । वत्सैतद्विदितं कथं नु भवता धत्ते कुरङ्गं यतः कासि प्रेयसि हा कुरङ्गनयने चन्द्रानने जानकि ।। अत्र श्रुतकुरङ्गसंबन्धिनस्तन्नयनस्य स्मरणात्तत्सदृशसीतानयनस्मृति- स्तत्संबन्धिसीतास्मृतिश्चेति । किं त्वेषा व्यङ्ग्या, अलंकार्यभूता च । तघ्यावृत्त्यर्थमव्यङ्ग्यत्वविशेषणम् । 'अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधय- स्तानेतानपि बिभ्रती किमपि न क्लान्तासि तुभ्यं नमः । आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुव- स्तावद्विदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ।। स्तूयमानभूसंबन्धिनो भूभृद्भुजस्य स्मृतिर्न सादृश्यमूलेति नात्र स्मरणालं- कारः। किंतुस्मृतेः संचारिभावस्य भूभृद्विषयरतिभावाङ्गत्वात्प्रेयोऽलंकारः। 'स तथेति प्रतिज्ञाय विसृज्य कथमप्युमाम् । ऋषीजयोतिर्मयान्सप्त ससार सरशासनः ॥' अत्र चिन्तामूला स्मृतिः । विच्छित्तिविशेषाभावान्न कश्चिदलंकारः । एतदुभयव्यावृत्त्यर्थं सादृश्यमूलेति विशेषणम् । एवमेते भेदाभेदसाधा- रणसाधर्म्यमूला अलंकाराः प्रदर्शिताः ।। इति स्मरणालंकारप्रकरणम् ।
५२ काव्यमाला। - अथाभेदप्रधानेषु प्रथमं रूपकं निरूप्यते- आरोपविषयस्य स्यादतिरोहितरूपिणः । उपरञ्जकमारोप्यमाणं तद्रूपकं मतम् ।। अत्रारोपविषयस्येत्यनेनोत्प्रेक्षातिशयोक्त्योावृत्तिः । तत्र मुखादे- रारोपविषयत्वाभावात् । अतिरोहितरूपिण इत्यनेन ससंदेहम्रान्तिमदप- द्रुतीनां व्यावृत्तिः । तेषु संदेहप्रान्त्यपहवैर्विषयस्य तिरोधानात् । उपर- अकमित्यनेन समासोक्तिपरिणामव्यावृत्तिः । तयोहि नोपरञ्जकत्वं विष- येष्वताद्रूप्यापादकत्वलक्षणम् । समासोक्तो व्यवहारमात्रसमारोपेण तादू- प्यप्रतीतेरेवाभावात् । परिणामे आरोप्यमाणस्यैव विषयताद्रूप्यापत्त्या विषयस्यारोप्यमाणताद्रूप्यापत्त्यभावादित्याहुः ।। अत्रेदं विचार्यते । आरोपाध्यवसाययोः कीदृशं भेदमभिसंधायारोप- विषयस्येत्यनेनोत्प्रेक्षाव्यावृत्तिरुच्यते । यदि विषयविषयिणोरभिहितयोर- मेदप्रतिपत्तिरारोपः। विषयनिगरणेन विषयिणस्तदमेदप्रतिपत्तिरध्यवसाय इति भेदममिसंधाय, तदोत्प्रेक्षारोपमूलैव स्यात् । तत्र 'नूनं मुखं चन्द्रः' इति विषयस्य मुखस्याप्यभिधानेन तन्निगरणाभावात् । ततश्च तत्राति- व्याप्तिरनिवारितैव स्यात् । ताद्रप्यप्रतिपत्तिरारोपस्तदभेदप्रतिपत्तिरध्यव- साय इति तयोर्भेदः । 'मुखं चन्द्रः' इत्यादिरूपके चन्द्रस्य यद्पं चन्द्रत्वं तेन रूपवत्तामात्रं मुखस्य प्रतीयते । न तु प्रसिद्धचन्द्राभेदः । 'मुखवि- षयायां चन्द्रः' इत्याधतिशयोक्तौ तु तदभेद एव प्रतीयत इति चेत् । न । वैपरीत्यस्यापि वक्तुं शक्यत्वात् । न च वाच्यम् । 'इन्दोरपि मृगाक्षीणां मुखेन्दुरतिरिच्यते । निर्जरैः पीयमानोऽपि यः कदाचिन्न हीयते ॥'
चित्रमीमांसा। ५३ इति मुखचन्द्रस्य प्रसिद्धचन्द्राव्यतिरेकवर्णनं तदमेदप्रतिपत्तौ न संभवतीति रूपके ताप्यप्रतिपत्तिरेवेति । तथा सति हि 'सुधाबद्धग्रासैरुपवनचकोरैरनुसृतां किरज्योत्स्नामच्छां लवलिफलपाकप्रणयिनीम् । उपप्राकाराग्रं प्रहिणु नयने तर्कय मना- गनाकाशे कोऽयं गलितहरिणः शीतकिरणः ।।' 'अपरः पाकशासनः' इत्याद्यतिशयोक्तौ 'अपर इव पाकशासन' इत्याद्युत्प्रेक्षायां च रूपकवदेव प्रसिद्धचद्राद्यभेदप्रतिपत्त्यभावेन ताद्रूप्य- प्रतिपत्तिरेव स्यादिति तयोर्लक्षणस्यातिव्याप्तिरनेनानिवारिता स्यात् । अथ तत्र प्रसिद्धचन्द्राद्यभेदप्रतिपत्त्यभावेऽप्युपात्तकल्पितापरचन्द्राद्यभेद- प्रतिपत्तिः संभवतीति चेत् । रूपकेऽप्येवं वक्तुं शक्यमित्यसंभव एव लक्षणस्य स्यात् । किं चातिरोहितरूपिण इत्यनेन ससंदेहभ्रान्तिमतोर- तिव्याप्तिवारणेऽपि नापहवेऽतिव्याप्तिवारणम् । 'नेदं मुखं किं तु चन्द्रः' इत्यत्र मुखे मुखत्वाभावारोपस्य चन्द्रत्वारोपस्य चाहार्यत्वेन विषयतिरोधा- यकत्वाभावात् । आहार्यारोपस्यापि तिरोधायकत्वे रूपकेऽपि लक्षण- स्यासंभवः स्यात् । उत्प्रेक्षाया अप्याहार्यसंभावनारूपाया अतिरोहित- रूपिण इत्यनेनैव व्यावृत्तिसिद्धावारोपविषयस्येति विशेषणस्य वैयर्थ्य च स्यात् । अतिशयोक्तौ विषयस्य निगीर्णस्य तिरोहितत्वेन तस्या अप्यनेनैव व्यावृत्तिः। अपि च । 'त्वत्पादनखरत्नानां यदलक्तकमार्जनम् । इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः ।।' इति निदर्शनायामतिव्याप्तिः । तत्रोपमेयवाक्यार्थे उपमानवाक्यार्थ- ताद्रूप्यारोपसद्भावात् । यदि चारोपविषयस्य पदार्थस्येति विशेषणम् ।
काव्यमाला। तथाप्यलक्कककृतत्वत्पादनखमार्जनं श्रीखण्डलेपकृतविधुपाण्डुरीकरणमिति निदर्शनायामतिव्याप्तिः। 'अद्भिन्दण्डो हरेरूर्ध्वमुरिक्षप्तो बलिनिग्रहे । विधिविष्टरपद्मस्य नालदण्डो मुदेऽस्तु वः ॥' इति रूपकेऽव्याप्तिश्च । यत्तु सरखतीकण्ठाभरणोकं लक्षणम्- 'यदोपमानशब्दानां गौणवृत्तिव्यपाश्रयात् । उपमेये भवेद्वृत्तिस्तदा तद्रूपकं विदुः ॥' इति । तदप्यतिशयोक्ताबतिव्याप्तम् । 'मुखं चन्द्रः' इति रूपके चन्द्रश- ब्दस्य मुखे गौणसारोप्यलक्षणा । चन्द्र इत्यतिशयोक्तौ साध्यवसानलक्ष- णेत्यालंकारिकसिद्धान्तात् । वस्तुतस्त्वतिशयोक्तावेव लक्षणा न तु रू- पके इति शक्यं व्यवस्थापयितुम् । तथाहि । अतिशयोक्ती विषयाभि- धायिमुखादिपदाप्रयोगाच्चन्द्रादिपर्दैनैव तत्प्रत्यायनं कार्यमिति तस्य तत्र लक्षणावश्यमास्थया । रूपके विषयविषयिणोः खस्ववाचकाभिहितयोर- भेदप्रतिपत्तिः संसर्गमर्यादयैव संभवतीति किमर्थं तत्र लक्षणा, अशक्या च तत्र लक्षणाभ्युपगन्तुम् । कथम् । 'मुखं चन्द्र' इत्यत्र लक्षणया मुखे प्रवर्तमानं चन्द्रत्वं केन निमित्तेन प्रवर्तेत । मुखत्वेन वा, मुखासांधार- णकान्तिविशेषण वा, चन्द्रत्वेन वा, चन्द्रासाधारणकान्तिविशेषेण वा, मुखचन्द्रोभयानुगतकान्तिसामान्येन वा, मुखगतचन्द्रसादृश्येन वा नाद्यः । मुखपदेन पौनरुक्त्यापत्तेः । मुम्वत्वस्य शक्यासंबन्धित्वेन तेम निमित्तेन लक्षणायोगाच्च । अत एव न द्वितीयः । न तृतीय चतुर्थो । मुखावृत्तिधर्मयोस्तत्र प्रवृत्तिनिमित्तत्वायोगात् । न पञ्चमः । कान्तिमा- न्मुखचन्द्र इत्यत्र कान्तिमत्पदेन पौनरुक्त्यापत्तेः । नापि षष्ठः । साह- श्यस्य शब्दप्रतिपाद्यत्वेनाव्यङ्ग्यत्वेन रूपकस्योपमापृथग्भावानुपपत्तेः । १. 'मुखगतासाधारण खग. PupittanemasalNAMANRNA-ATTwee चित्रमीमांसा अभेदप्रधान रूपकमिति सिद्धान्तविरोधाच्च । तस्माद्रूपके स्वस्वपदाभि- हितयोविषयविषयिणोरभेदप्रतिपत्तिः संसर्गमर्यादयेत्येव वक्तव्यमिति रु- क्षणस्यासंभवोऽपि दोषः । यदा तु 'वक्रेन्दौ तव सत्ययं यदपरः शी- तांशुरुज्जृम्भते । 'द्वौ चन्द्रौ जगतो राजन्स दिवि त्वं महीतले' इत्या- दौ विषयस्य प्रसिद्धचन्द्राभेदप्रतिपत्तिर्न संभवतीति कथंचिदिन्द्रादिपदस्य विषये लक्षणा कल्प्यते । तथापि 'कान्तिमान्मुखचन्द्र' इत्यादौ काठ- काध्यापकादिवत्संसर्गमर्यादयैवाभेदप्रतिपत्तिसंभवेनातिक्लिष्टलक्षणाश्रय- णायोगात्तत्राव्याप्तिर्वज्रलेपायते । अपि च । 'सेतुः शैलैस्त्वया बद्धः पूर्व जेतुं दशाननम् । कं जेतुमद्य बध्नासि यशश्चन्द्रोपलैः प्रमो॥' 'चिराद्यत्कौतुकाविष्टं कल्पवृक्षमुदीक्षितुम् । तन्मे सफलमद्यासीन्नेत्रं त्वय्यवलोकिते ॥' इत्यादौ व्यङ्ग्यरूपके चाव्याप्तिः । अत्र ह्याचे वर्ण्य प्रभु प्रति राव- णवधाय त्वया सेतुर्वद्ध इति निर्दिश्यमानेन वस्तुना त्वमेव राम इति रूपकं व्यज्यते । न च तत्र विषये गौणं रामपदमस्ति । द्वितीये त्वाम- वलोकयता मम नेत्रेण चिरकाशितं कल्पवृक्षावलोकनं लब्धमिति प्रती- यमानेन विशेषालंकारेण त्वमेव कल्पवृक्ष इति रूपकं व्यज्यते । तत्र कल्पवृक्षपदं प्रसिद्धकल्पवृक्षपरमेव न विषयलक्षकमिति स्पष्टम् । 'ततः कुमुदनाथेन कामिनीगण्डपाण्डुना । नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता ।' इति शुद्धसारोपलक्षणामूलकरूपके चाव्याप्तिः । तत्र ह्यानन्दहेतुत्वा- दानन्दत्वरूपणं न त्वौपम्यात् । यत्तु 'आयुघृत'मित्यादौ विच्छित्तिवि- शेषादर्शनाच्छुद्धसारोपलक्षणास्थले न कश्चिदलंकार इति । तद्युक्तम् ।
काव्यमाला। 'गौर्वाहीक' इत्यादौ विच्छित्तिविशेषादर्शनेन गौणसारोपलक्षणास्थलेड- प्यलंकारत्वाभावप्रसङ्गात् । क्वचिद्वैचित्र्यादर्शनेऽप्यन्यत्र वैचित्र्यवति स्थलेऽलंकारत्वमिहापि वक्तुं युक्तम् । 'नेत्रानन्देन चन्द्रेण' इति । 'आयुर्दानमहोत्सवस्य, विनतक्षोणीभृतां मूर्तिमान् विश्वासो, नयनोत्सवो मृगदृशां, कीर्तेः प्रकाशः परः । आनन्दः कलिताकृतिः सुमनसां, वीरश्रियो जीवितं धर्मस्यैष निकेतनं, विजयते वीरः कलिङ्गेश्वरः ।। इत्यादौ शुद्धसारोपलक्षणास्थलेऽपि वैचित्र्यदर्शनात् । यदि तु हेतु- मता सह हेतोरभिधानममेदतो हेतुरिति मतान्तराश्रयेण तत्र हेत्वलंकारो न रूपकमित्यभ्युपगम्येत । तदा 'आरोपविषयस्य स्यात्' इति पूर्वोदाह- तलक्षणस्य तत्राव्याप्तिः । एवम्-'उपमैव तिरोभूतभेदा रूपकमुच्यते।' 'तद्रूपकमभेदो य उपमानोपमेययोः' इत्यादिलक्षणेष्वप्यतिव्याप्त्यादिदोषा यथासंभवमुन्नेयाः । अत्र वदामः- 'बिम्बाविशिष्टे निर्दिष्टे विषये यद्यनिडुते । उपरञ्जकतामेति विषयी रूपकं तदा ॥' बिम्बाविशिष्ट इति विशेषणात् 'त्वत्पादनखरलानाम्' इति निद- र्शनायां नातिव्याप्तिः । तत्र हि चन्द्रो यथा स्वतः शुभ्रत्वादनासञ्जनी- यधावल्यस्तथा नखाः स्वतोऽरुणत्वादनासञ्जनीयारुण्या इति सादृश्येन नखानां चन्द्रस्य च बिम्बप्रतिबिम्बमावः। अलकचन्दनयोरन्यत्र स्वव- सञ्जकत्वेन । ततश्च तत्र बिम्बभावान्नखालक्तकविशिष्टे एव रञ्जने तत्प्रतिबिम्बभूतचन्द्रचन्दनविशिष्टपाण्डरीकरणमुपरकम् । एवमन्य- त्रापि 'अरण्यरुदितं कृतम्' इत्यादितादूप्यारोपवन्निदर्शनोदाहरणे सर्वत्र बिम्बमावापन्नवस्तुविशिष्ट एवोपमेये तत्प्रतिबिम्बविशिष्टमुपमानमुपरजamin चित्रमीमांसा कमिति न काप्यतिव्याप्तिः । रूपके तु न कचिदपि बिम्बप्रतिबिम्बमा- वापन्नधर्मविशिष्टतया विषयविषयिणोरुपादानम् । सावयवरूपकेऽपि विशेष्यरूपणात्पृथगेवावयवेषु रूपणं न त्ववयवविशिष्टरूपेण विशेष्ये । 'अनिदण्डो हरेरूर्ध्वम्' इत्यत्राप्यनिदण्डनालदण्डयोर्न बिम्बप्रतिबिम्ब- विशिष्टता । तयोः प्रतीयमानेन श्यामलत्वविधातृविष्टरकमलश्लिष्टत्वा- द्यनुगामिधर्मेणैवोपमानोपमेयभावात् । किं तु विधातृविष्टरकमलश्लिष्ट- त्वरूपसाधारणधर्मवत्तासंपादनार्थं विशेषणविशिष्टतामात्रमुपमेयस्य । निर्दिष्ट इति विशेषणान्न निगीणविषयायामतिशयोक्त्यामतिव्याप्तिः। व्यङ्ग्यरूपकोदाहरणेषु विषयिवाचकाप्रयोगसंभवेऽपि विषयनिर्देशः सार्व- त्रिक इति न तत्राव्याप्तिः । 'नेत्रानन्देन' इत्यादौ हेत्वलंकार इति मते विषय इत्यनेनोपमेय इत्येतदर्थकेन तव्यावृत्तिः । तत्रापि रूपकमित्येका- वलीकारादिमते विषयपदं धर्मिमात्रपरं स्पष्टार्थम् । अनिडुते निषेधास्पृष्ट इति विशेषणादपद्भुतौ नातिव्याप्तिः । उपरञ्जकतामाहार्यताद्रूप्यनिश्चयगोचरतामेतीत्यनेन ससंदेहोत्प्रेक्षा- समासोक्तिपरिणामभ्रान्तिमत्स्वतिव्याप्तिनिरासः । ससंदेहोत्प्रेक्षयोनिश्चय- स्यैवाभावात् । समासोक्तौ परिणामे च तस्य ताप्यागोवरत्वात् । समा- सोक्तो व्यवहारमात्रसमारोपात् । परिणामे आरोप्नमाणस्यैव विषयता- द्रूप्यगोचरत्वात् । भ्रान्तिमति सतः कल्पितस्य वा प्रवृत्त्यादिपर्यन्तस्य स्वारसिकस्यैव निबन्धने तस्यानाहार्यत्वात् । अव्यङ्ग्यविशेषणाच्चैतदेवालंकारभूतस्य रूपकस्य लक्षणमिति सर्व सुस्थम् । तच्च रूपकं त्रिविधम्-निरवयवं सावयवं परम्परितं च । निरवयवं केवलं माला चेति द्विविधम् । सावयचं तु समस्तवस्तुविषय- मेकदेशविवर्ति चेति द्विविधम् । परम्परितं च श्लिष्टाश्लिष्टशब्दनिबन्ध- काव्यमाला। - women नत्वेन द्विविधं सत्केवलं माला चेति द्वैविध्याच्चतुर्विधम् । एवमष्टविधो आपकालंकारः । तत्र केवलं निरवयवं यथा- 'कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु य- सखी कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति यत् । अनिद्रं यच्चान्तः स्वपिति तदहो वेड्यभिनवां प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम् ॥' मालानिरवयवं यथा- 'सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्गमः कान्तेः कार्मणकर्म नर्मवचसामुल्लासनावासभूः । विद्या वक्रगिरां विधेरनवधिप्रावीण्यसाक्षाक्रिया प्राणाः पञ्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया ॥' समस्तवस्तुविषयं सावयवं यथा- 'ज्योत्साभस्मच्छुरणधवला बिभ्रती तारकास्थी- नन्तर्धानव्यसनरसिका रात्रिकापालिकीयम् । द्वीपाट्ठीपं भ्रमति दधती चन्द्रमुद्राकपाले न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्य च्छलेन ।' एकदेशविवर्ति सावयवं यथा- 'प्रौढमौक्तिकरुचः पयोमुचा बिन्दवः कुटजपुष्पबन्धवः । विद्युतां नमसि नाट्यमण्डपे कुर्वते स्म कुसुमाञ्जलिश्रियम् ।।' अत्र नभसो नाट्यमण्डपत्वेन रूपणाद्विद्युतामर्थान्नर्तकीत्वं गम्यते । इत्येकदेशे रूपकस्य विशेषणवाच्यतया वर्तनादिदमेकदेशविवति । - १. 'नरहसकखम. २. 'बाणाः पञ्चशिलीमुखम' ग.
चित्रमीमांसा। . - श्लिष्टशब्दनिबन्धनं केवलपरम्परितं यथा- 'अलौकिकमहालोकप्रकाशितजगत्रयः । स्तूयते देव सद्वंशमुक्तारलं न कैर्भवान् ॥' अत्र त्वमेव मुक्तारत्नमित्यारोपणपूर्वकः सद्वंश उत्तमान्वय एव सद्वंश उत्कृष्टवेणुरित्यारोप इति रूपकद्वयमपि संभूतपरम्परमिति परम्परितम् । वंशे श्लिष्टशब्दनिबन्धनं च । तदेव मालापरम्परितं यथा- 'विद्वन्मानसहंस वैरिकमलासंकोचदीप्तद्युते दुर्गामार्गणनीललोहित समित्स्वीकारवैश्वानर । सत्यप्रीतिनिधानदक्ष विजयप्राग्भाव भीम प्रभो साम्राज्यं वरवीर वत्सरशतं वैरिञ्चमुच्चैः क्रियाः ॥' अश्लिष्टशब्दनिबन्धनं केवलं परम्परितं यथा- 'निरवधि च निराश्रयं च यस्य स्थितमनिवर्तितकौतुकप्रपञ्चम् । प्रथममिह भवान्स कूर्मनाथो जयति चतुर्दशलोकवल्लिकन्दः तदेव मालापरम्परितं यथा- 'पर्यको राजलक्ष्या हरितमणिमयः पौरुषाब्धेस्तरङ्गः सङ्ग्रामत्रासताम्यन्मुरलपतियशोहंसलीलाम्बुवाहः । भग्नप्रत्यर्थिवंशोल्बणविजयकरिस्त्यानदानाम्बुपट्टः खड्गक्ष्मासौविदल्लः समिति विजयते मालवाखण्डलस्य ।।' इदं वैधयेणापि दृश्यते । तत्केवलं यथा- 'आवृण्वतो लोचनमार्गमाजी रजोऽन्धकारस्य विजृम्भितस्य । शस्त्रक्षताश्वद्विपवीरजन्मा बालारुणोऽभूद्रुधिरप्रवाहः ॥' मालारूपकं यथा- 'सौजन्याम्बुमरुस्थली सुजनतालेख्यधुभित्तिर्गुण- ज्योत्स्नाकृष्णचतुर्दशी सरलतायोगश्वपुच्छच्छटा । - काव्यमाला। यैरेषापि दुराशया कलियुगे राजावली सेविता तेषां शूलिनि भक्तिमात्रसुलमे सेवा कियत्कौशलम् ।।' एवमष्टौ भेदा रूपकालंकारस्य प्राचीनः प्रदर्शिताः। एवं भेदा उप- माया अपि वक्तुं शक्याः। एकत्र प्रदर्शितेन प्रकारेण संभवस्थलेऽन्य- त्राप्युन्नेतुं शक्या इति न प्रदर्शिताः । तथाहि । 'वागर्थाविव संपृक्तौ' इत्यादौ केवलनिरवयवोपमा । 'ज्योत्स्नेव नयनानन्दः' इत्यादी माला- निरवयवोपमा । 'ततः प्रतस्थ कौवेरी भास्वानिव रघुर्दिशम् । शरैरुलैरिवोदीच्यानुद्धरिष्यत्रसानिव ॥' इत्यत्र समस्तवस्तुविषयसावयवोपमा । 'नेत्ररिवोत्पलैः पद्ममुखैरिव सरःश्रियः । पदे पदे विभान्ति स चक्रवाकैः स्तनरिव ॥' इत्यत्रैकदेशविवर्तिनी। 'अत्यन्तरागिणमपि निपीतवसुसंचयम् । गणिकेवापरदिशा पूषाणं निरकासयत् ॥' इत्यत्राप्येकदेशविवर्तिनी । पूर्वत्र विशेषणोपमायां विशेष्योपमा गम्यते, उत्तरत्र विशेष्योपमाया विशेषणोपमेति भेदः। 'दूरादयश्चक्रनिभस्य तन्वी तमालतालीवनराजिनीला । आभाति वेला लवणाम्बुराशेर्धारानिबद्धेव कलङ्करेखा ।' इत्यत्राश्लिष्टशब्दनिबन्धनकेवलपरम्परितोपमा । अत्र छम्बुराशेरय- श्चक्रेणोपमा । तद्धाराश्लिष्टकलङ्करेखया वेलाया उपमा चेति द्वयमपि संजातपरम्परम् । यथा वा- 'अस्त्रज्वालावलीढप्रतिबलजलधेरन्तरौर्वायमाणे सेनानाथे स्थितेऽसिन्मम पितरि गुरौ सर्वधन्वीश्वराणाम् । - चित्रमीमांसा। ६१ कर्णालं संभ्रमेण व्रज कृप समरं मुञ्च हार्दिक्य शङ्का ताते चापद्वितीये वहति रणधुरां को भयस्यावकाशः ॥' अत्र द्रोणस्यौवेंणोपमा प्रतिबलजलधेरित्यत्रोपमायाः साधिकेत्युपमा- द्वयमपि संजातपरम्परम् । एवं 'राजहंसायते राजा विदुषामेष मानसे' इत्यत्र श्लिष्टशब्दनिबन्धनकेवलपरम्परितोपमा । उभयत्रापि मालापरम्प- रितमनयैव रीत्योन्नेयम् । रेणुध्वान्तस्य रक्तौघो बालधर्मकरायते' इति वैधhण रूपकवदुपमेति सर्वं समानम् । अयं तु विशेषः। समस्तवस्तुविषयं रूपकं न विशिष्टरूपकं भवति । विषयविषयिणोर्बिम्बप्रतिबिम्बधर्मविशिष्टयोस्ताद्रूप्यारोपे निदर्शनाया ए- वावतरणात् । सावयवोपमा तु विशिष्टोपमां गमयति । ततः प्रतस्थे कौबेरी भाखानिव' इत्यत्र शरैरुदीच्यानुद्धर्तुमुत्तरां दिशं प्रस्थितस्य रघो- विशिष्टस्य किरण रसाशोषयितुमुत्तरां दिशं प्रस्थितेन विशिष्टेन रविणा साधर्म्यस्य फलितार्थतया लाभात् । एवं च क्वचिदुपमयान्यत्रोपमाया गम्यत्वं चतुर्धा पर्यवस्यति । कचिद्विशेषणोपमया विशेष्योपमायाः । 'विश्वजित्सर्वपृष्ठोऽतिरात्रः' इत्यत्र पृष्ठगतसर्वताविधिनेव तद्विशेष्यपृष्ठ- विधेः। क्वचिद्विशेष्योपमया. विशेषणोपमायाः। वैकृतप्रधानविधिनेव प्राकृततदङ्गकलापविधेः । उभयमप्येकदेशविवर्तित्वेनोदाहृतम् । कचि- दवयवोपमया विशिष्टोपमाया गम्यत्वम् । अङ्गप्रधानगोचरप्रत्येकविधि- कलापेनेव सर्वाङ्गविशिष्टप्रधानगोचरप्रयोगविधेः । तत्तु समस्तवस्तुविष- योपमोदाहरणे दार्शितम् । एकवाक्यतायामवयवोपमया विशिष्टोपमाया गम्यत्वे इदमुदाहरणम् । वाक्यभेदेनापि दृश्यते- 'हस्त इव भूतिमलिनो यथा यथा लङ्घयति खलः सुजनम् । दर्पणमिव तं कुरुते तथा तथा निर्मलच्छायम् ॥'
काव्यमाला। अत्रावयवोपमा । यथा भूतिमलिनो हस्तो दर्पणमधिकमधिकं घर्षय- नुत्तरोत्तरं निर्मलीकुरुते । तथा खलः सुजनमधिकं धर्षयन्नुत्तरोत्तरं नि- मलमेव कुरुते इति विशिष्टोपमा गम्यते । कचिद्विशिष्टोपमया तदवय- वोपमानां गम्यत्वम् । विशिष्टविधिनेव विशेषणविशेष्यविधीनाम् । यथा- 'त्वदाननमधीराक्षमाविर्दशनदीधिति । भ्रमद्धृङ्गमिवालक्ष्यकेसरं भाति पङ्कजम् ।।' अत्र विशिष्टेन विशिष्टस्योपमया तदवयवभूतानां भृङ्गलोचनानां के- सरनखदीधितीनां पङ्कजाननयोश्चोपमानोपमेयभावो गम्यते । एक्मसंख्या उपमाविकल्पाः । तथा- 'किसलयकरैलतानां करकमलैः कामिना मनो जयति । नलिनीनां कमलमुखैमुखेन्दुभिर्योषितां मदनः ।।' इत्येवमाद्या रसनारूपकाद्या रूपकविकल्पा अप्यसंख्याः । उक्त हि काव्यालोके- 'अपर्यन्तो विकल्पानां रूपकोपमयोर्यतः । दिमानं दर्शितं धीरैनुक्तमनुमीयताम् ॥” इति । इति रूपकप्रकरणम् । अथ परिणामः- 'भारोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः' इति तल्लक्षणमुक्तम् । तत्र शश्यते । 'यामि मनोवाकायैः शरणं करुणात्मकं जगन्नाथ । जन्मजरामरणार्णवतरणतरण्यं तवाङ्गियुगम् ।। १. 'जगन्नाथम्' ख-ग. Hatel Morn 18BANDALINIORIENTERTA चित्रमीमांसा। 'निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः । धारानिपातैः सह किं नु वान्तश्चन्द्रोऽयमित्याततरं रासे ।' 'एतान्यवन्तीश्वरपारिजातजातानि तारापतिपाण्डुराणि । संप्रत्यहं पश्यत दिग्वधूनां यशःप्रसूनान्यवतंसयामि ।। इति श्लोकेष्वारोप्यमाणानां तरण्य-नयन-प्रसूनानां तरण-निरीक्षणा- वतंसनरूपप्रकृतकार्योपयोगे सत्यप्युक्तलक्षणकृतालंकारसर्वस्वकारेणैव रूपकमङ्गीकृतम् । 'आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥' इत्यादिश्रुतावारोप्यमाणानां रथिरथादीनां 'सोऽध्वनः पारमामोति तद्विष्णोः परमं पदम्' इति वक्ष्यमाणाध्वपारगमनरूपप्रकृतकार्योपयोगे सत्यपि भगवता बादरायणेन 'नानुमानिकमप्येकेषामिति चेत् न शरीर- रूपकविन्यस्तगृहीतेर्दर्शयति च' इति शारीरकसूत्रे रूपकमङ्गीकृतम् । अतस्तेषु लक्षणस्यातिव्याप्तिः । एवम्- 'भिन्नेषु रत्नकिरणैः किरणेष्विहेन्दो- रुच्चावचैरुपगतेषु सहस्रसंख्याम् । दोषापि नूनमहिमांशुरसौ किलेति व्याकोशकोकनदतां दधते नलिन्यः ॥' इति प्रान्तिमति, 'विकसदमरनारीनेत्रनीलाब्जषेण्डा- न्यधिवसति सदा यः संयमाधःकृतानि । १. 'ररास' क-ग. २. 'संप्रत्यहं पश्य तडिद्वधूनाम्' ख; 'संप्रत्यहं यस्य तडिद्- धूनाम्' ग; 'संप्रत्यहं यस्य हरिद्वधूनाम् घ. ३. 'खण्डानि' क-घ.
६४ काव्यमाला। न तु रुचिरकलापे वर्तते यो मयूरे वितरतु स कुमारो ब्रह्मचर्यश्रियं वः ।।' इत्यपद्भुतो, 'उरोभुवा कुम्भयुगेन जृम्भितं नवोपहारेण वयःकृतेन किम् । त्रपासरिदुर्गमपि प्रतीर्य सा नलस्य तन्वी हृदयं विवेश यत् ॥' इत्यतिशयोक्ती, 'चक्रभ्रमणकरत्वात्कुदृष्टिभिर्दूरवर्ण्यमानत्वात् । श्रुत्यन्तखेलनत्वान्मशक त्वामेव माधवं मन्ये ।। इत्यनुमाने चातिव्याप्तिः। भ्रान्तिमत्यहिमांशोर्विकासे, अपहृतावम- रनारीनेत्राणां ब्रह्मचर्यवितरणे, अतिशयोक्तो कुम्भयुगस्य सरित्तरणे, अनुमाने माधवस्य चक्रे भ्रमणे च प्रकृतकार्योपयोगित्वात् । अपहृतौ 'तं यथा यथोपासते तथैव भवति' इति तत्क्रतुन्यायेन संयमाधःकृतामरना- रीनेत्राधिष्ठानस्य ब्रह्मचर्यवितरणोपयोगित्वम् । 'सुहृदालापेनैव प्रणश्यति स्थाखुरान्तरः क्लेशः । कान्तामुखचन्द्रेण हि शाम्यति रुचिरेण विरहजस्तापः ।। इति दृष्टान्तसंकीर्णपरिणामे चाव्याप्तिः । अत्रारोप्यमाणस्योपमान- कोट्यन्तर्गताप्रकृतकार्योपयोगित्वादिति । अत्राहुः-आरोप्यमाणस्य प्रकृतात्मनोपयोगित्वे परिणाम इति लक्ष- णार्थः । न चैवं सत्युदाहृतरूपकादिष्वतिव्याप्तिः। तेष्वारोप्यमाणानां तर- ण्यनयनप्रसूनसूर्यादीनां स्वात्मनैव तरणनिरीक्षणावतंसनकमलविकासना- दिकार्योपयोगित्वसंभवेन तदर्थमङ्गियुगवियुधशश्चन्द्रादिप्रकृतात्मतापत्त्य- १. चक्रनमणे प्रकृतकार्योपयोगित्वात् ख-ग-घ. २. 'प्रकृतात्मतापरिणत्यनपे- सणारख.
चित्रमीमांसा। ६५ नपेक्षणात् न चोक्तलक्षणस्य परिणामेऽसंभवः। यत्रारोप्यमाणं किंचि- कार्योपयोगित्वेन निबध्यमानं स्वतस्तस्य तदुपयोगित्वासंभवात्प्रकृतात्म- तापत्तिमपेक्षते तत्रैव परिणामाङ्गीकारात् । यथा “प्रसन्नेन दृगब्जेन वीक्षते मदिरेक्षणा' इति । अत्र त्वब्जस्य वीक्षणोपयोगित्वं निबध्यते । मयूरव्यंसकादिसमासेनोत्तरपदार्थप्राधान्यात् । न चोपमितिसमासाश्रय- णेन पूर्वपदार्थप्राधान्यादृश एव तदुपयोगित्वं निबध्यत इत्यस्त्विति वाच्यम् । प्रसन्नेनेति सामान्यधर्मप्रयोगात् । 'उपमितं व्याघ्रादिमिः सामान्याप्रयोगे' इति तदप्रयोग एवोपमितसमासानुशासनात् । अब्जस्य च वीक्षणोपयोगित्वं न स्वात्मना संभवति । अतः प्रकृतहगात्मतापत्त्य- पेक्षणात्परिणामालंकारः। नन्वेवं “यामि मनोवाकायैः' इत्यादिष्वपि तरणादिशब्दलक्षितजन्मनाशाद्युपयोगित्वं तरण्यादीनामनियुगाद्यात्मनै- वेति तेष्वपि परिणामप्रसङ्गः । मैवम् । यस्य कार्यवाचिपदप्रथमप्रतीत- तन्मुख्यार्थनिवर्तनसामर्थ्य तदात्मनोपयोगित्वस्य ग्राह्यत्वात् । तरण्यादि- पदमुख्यार्थनिवर्तनसामर्थ्यस्य च तरण्यादिष्वेव व्यवस्थितत्वात् । तस्मा- दुदाहृतेपु रूपकमेव । तेषु च नातिव्याप्तिरिति । नन्वेवमुक्तातिव्या- प्तिपरिहारेऽपि- 'सोऽपूर्वो रसनाविपर्ययविधिस्तत्कर्णयोश्चापलं दृष्टिः सा मदविस्मृतस्वपरदिक्किं भूयसोक्तेन वा । सर्व विस्मृतवानसि भ्रमर हे यद्वारणोऽद्याप्यसा- वन्तः शून्यकरोऽपि सेव्यत इति भ्रातः क एष ग्रहः ॥ इत्यप्रस्तुतप्रशंसायामतिव्याप्तिः । तत्राप्रकृतवारणरसनाविपर्ययादीनां - १. 'यत्कार्यवाचिपदं प्रथमं प्रतीतं तन्मुख्यार्थनिवर्तनसामर्थ्यरूपस्य' गः 'कार्यवा- चिपदप्रथमप्रतीततन्मुख्यार्थ' घ. २. 'निषेव्यत इति' ग. ५ चि० मी० काव्यमाला। ६६ प्रकृतदुष्प्रभुरसनाविपर्ययाद्यात्मतयैव तत्सेवात्यागलक्षणकार्योपयोगि- त्वात् । न हि यथा वारणस्य कर्णचापलं भ्रमरस्य तत्सेवात्यागे हेतुः, यथा तस्य रसनाविपर्ययः शून्यकरता च तत्र हेतुः । मदः प्रत्युत तत्से- वायामेव हेतुरिति तस्य तत्त्यागहेतुत्वं दुरापास्तम् । एवमपि यत्तेषां त्यागहेतुत्वं निबध्यते तद्वारणादीनामप्रकृतानां दुष्प्रभुप्रभृतितादाम्याप- त्यैव निर्वाह्यमिति । 'मुहृदालापेनैव' इत्यत्रोदाहृतपरिणामेऽव्याप्तिश्च तदवस्था । तत्र चन्द्रवन्मुखस्याप्यप्रकृतत्वेन प्रकृतात्मनोपयोगित्वाभा- वात् । उच्यते । प्रकृतात्मनेत्यत्र प्रकृतशब्दो विषयमात्रपर इति नोदा- हृतपरिणामाव्याप्तिः । उपयोगित्वं च प्रकृतागमकार्य प्रति विवक्षितम् । अप्रस्तुतप्रशंसोदाहरणे प्रकृतदुप्प्रमुसेवात्यागगमकवारणसेवात्यागं प्रत्यु- पयोगित्वमिति न तत्रातिव्याप्तिः । एवं च- 'आरोप्यमाणमारोपविषयात्मतया स्थितम् । प्रकृतस्योपयोगि स्यात्परिणाम उदाहृतः ।। इति विद्यानाथलक्षणं प्रकृतस्येति पदस्य प्रकृतगमकस्येति व्याख्या- नेन परिष्करणीयम् ॥ अयं च परिणामो द्विविधः । सामानाधिकरण्यवैयधिकरण्याभ्याम् । सामानाधिकरण्येन यथा- 'तीर्खा भूतेशमौलिस्रजममरधुनीमात्मनासौ तृतीय- स्तस्मै सौमित्रिमैत्रीमयमुपकृतवानातरं नाविकाय । व्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदञ्चदक्षं कृच्छ्रादन्वीयमानः क्षणमचलमथो चित्रकूटं प्रतस्थे । an eldermammer Dowwwgayat-termoOur Janwarrai Primary Ka Penience १. 'परिणामाव्याप्तिश्च' ख.
चित्रमीमांसा। ६७ अत्रारोप्यमाण आन्तरो विषयभूतसौमित्रिमैत्रीरूपतापत्त्या गुहोप- कारलक्षणकार्योपयोगीति परिणामः । उभयोविभक्त्यैक्यात्सामानाधि- करण्यम् । वैयधिकरण्येन यथा- 'पुन्नागजालकैारान्काञ्चीः केयूरदामभिः । कर्णिकाः कर्णिकारैश्च विहर्तु विदधुर्वने ॥ अत्रारोप्यमाणा हारादयो विषयभूतपुन्नागजालकादिरूपतयैव वन- क्रीडोपयोगिन इति परिणामः । विभक्तिभेदाद्वैयधिकरण्यम् । इदं च वैयधिकरण्यं रूपकेऽपि संभवति । यथा- 'तारानायकशेखराय जगदाधाराय धाराधर- च्छायाधारककन्धराय गिरिजासङ्गैकशृङ्गारिणे । नद्या शेखरिणे दृशा तिलकिने नारायणेनास्त्रिणे नागैः कङ्कणिने नगेन गृहिणे नाथाय सेयं नतिः ॥" अत्र नदीदृशोर्विषययोर्विभक्तिरारोप्यमाणयोः शेखरतिलकयो स्ति। यथा वा- 'द्विर्मावः पुष्पकेतोर्विबुधविटपिनां पौनरुक्त्यं विकल्प- श्चिन्तारत्नस्य वीप्सा तपनतनुभुवो वासवस्य द्विरुक्तिः । द्वैतं देवस्य दैत्याधिपमथनकलाकेलिकारस्य कुर्व- न्नानन्दं कोविदानां जगति विजयते श्रीनृसिंहक्षितीन्द्रः॥' अत्र विषयस्य राज्ञो विषयिणां पुष्पकेतुप्रभृतीनां च विभक्तिभेदः। अथ परिणामस्य व्यङ्ग्यतायां किमुदाहरणम् । १. 'आरोपविषय' ख. २. 'केलिकालस्य' ग. ३. 'श्रीनृसिंहः' ख-ग.
६८ काव्यमाला। 'नरसिंह धरानाथ के वयं तव वर्णने। अपि राजानमाक्रम्य यशो यस्य विजृम्भते ॥' इति विद्याधरेणोदाहृतम् । अत्र राजपदेन चन्द्रे विषये निर्दिष्टे तत्रारोग्यमाणस्य नृपस्याक्रमणरूपकार्योपयोगिनः प्रतीतेः परिणामो व्यज्यत इति, तदयुक्तम् । अत्र ह्यारोप्यमाणस्य नृपस्य नृपात्मनैवाक्रम- गोपयोगो न चन्द्रात्मना। विद्याधरेणापि विषयिणः स्वरूपेण कार्या- नुपयोगे तदुपयोगाय विषयिणे विषयात्मना परिणत्यपेक्षायामेव परि- णामोऽङ्गीकृतः । यदाह- 'तं परिणाम द्विविधं कथयन्त्यारोप्यमाणविषयतया । परिणमति यत्र विषयः प्रस्तुतकार्योपयोगाय ।' विद्यानाथेन तूदाहृतम्-- . 'एष शाम्यति वस्तापो राजपादनिषेवया । कण्टकद्रुममूलेषु वासस्तं शमयेत्कथम् ॥' इति । नास्त्यत्र प्रागुक्तदोषानुषङ्गः । नृपचरणसेवायां प्रस्तुतायामारोप्य- माणायाः चन्द्रचरणसेवायाः नृपचरणसेवात्मतयैव तापशान्तिहेतुत्वात् । तापशब्दस्य सौरतापसाधारण्येऽपि प्रकृते राज्यभ्रंशजनिततापस्यैव विव- क्षितत्वात् । तन्निवर्तने चन्द्रकिरणसेवायाः स्वतोऽसामर्थ्यात् । तथापि प्राचीनानां मत एवैतदुदाहरणम् । ते हि 'राजपादनिषेवया' इत्यस्य प्रकरणनियन्त्रितत्वादप्रकृतायां चन्द्रकिरणसेवायां शब्दशक्तिमूलो व्यञ्ज- नाव्यापार इति मन्यन्ते । वस्तुतस्त्वप्रकृतेऽप्यर्थे शब्दानामभिधैव व्यापार इत्यस्माभिः श्लेषप्रकरणे व्यवस्थापयिष्यमाणत्वात् , इहापि 'राज- पादनिषेवया' इत्यत्र चन्द्रकिरणसेवायामप्यभिधैव व्यापारः । अतः १. 'विषयिण' इति ग-पुस्तके नास्ति. MAN INNARAN चित्रमीमांसा। ६९ प्रस्तुताप्रस्तुतद्वयताद्रूप्यप्रतीतेः श्लेषभित्तिकातिशयोक्त्यादिष्विव संसर्ग- विधयैव लाभात्तस्य प्रकृतकार्योपयोगितायास्तृतीयाया लाभाच्च न कापि व्यञ्जनाव्यापारापेक्षेति नेदं परिणामध्वनेरुदाहरणम् । इदं च दूषणं पूर्वोदाहरणेऽपि तुल्यम् । इदं तूदाहरणम्- 'चिराद्विषहसे तापं चित्त चिन्तां परित्यज । नन्वस्ति शीतलः शौरेः पादाब्जनखचन्द्रमाः ॥' अत्र चिरतापात प्रति हरिपादाब्जनखचन्द्रसद्भावप्रदर्शनेन तमेव निषेवस्व, तन्निषेवणादयं तापः शान्तिमेष्यतीति परिणामो व्यज्यते । एवं रूपकवैलक्षण्ये परिणामो निरूपितः । तत्र रूपके प्रकृतमप्रकृतरू- पापन्नं भवति, परिणामे त्वप्रकृतं प्रकृतरूपापन्नं भवतीति वैलक्षण्ये स्थिते यत्तदुपजीव्यचक्रवर्तिनान्यथैव तयोर्वैलक्षण्यं वर्णितम् । मुखचन्द्र इति रूपके मुखं महारजतरूपेण पटवदारोप्यमाणचन्द्ररूपेण स्थगित- स्वरूपं भवति । 'मुखचन्द्रेण तापः शाम्यति' इति परिणामे तु मुखम- नाच्छादितखरूपमेव भवति । चन्द्रस्य मुखात्मनैव विरहतापशान्तिहेतु- त्वादिति । उक्तं च- 'विषय्याकारमारोप्य विषयस्थगनं यथा । रूपकत्वं तदा तत्र रञ्जनेन समन्वयः ॥' 'यदा तु विषयो रूपात्वस्मादप्रच्युतो भवेत् । उपयुक्त्यै तदाकारः परिणामस्तदा मतः ॥' इति । अत्रेदं विचारणीयम् । रूपके विषयस्य स्थगनं न तावत्तिरोहितरू- पत्वम् । रजतभ्रमेण शुक्तिस्वरूपस्येवाहार्यारोपेण विषयस्य तिरोधानासं- भवात् । शारीरके च ‘य एवासौ तपति तमुद्गीथमुपासीत' इत्यत्रोद्गी- थस्यादित्यदृष्टिविषयत्वाङ्गीकारे रजतदृष्टिविषयशुक्तिस्वरूपमिवोद्गीथक्रि काव्यमाला। याखरूपं तिरोधीयतेत्याशङ्कयाहार्यदृष्टेरतिरोधायकत्वस्योक्तत्वात् । नापि विषय्युपसर्जनत्वम् । परिणामेऽपि तुल्यत्वात् । उभयत्राप्युत्तरपदार्थप्र- धानस्य मयूरव्यंसकादिसमासस्याविशेषात् । अत एव विषयिविशेषितत्वं स्थगनमित्यपि निरस्तम् । विषयिणो विशेष्यत्वात् । तस्मात्स्थगनास्थग- नवैलक्षण्यवचो निरालम्बनमिति विषयात्मनोपयोगेनैव परिणामस्य रूप- काद्वैलक्षण्यं समर्थनीयमित्यलं विस्तरेण ॥ इति परिणामप्रकरणम् । . अथ संसंदेहः- साम्यादप्रकृतार्थस्य या धीरनवधारणा। प्रकृतार्थाश्रया तज्ज्ञैः ससंदेहः स इष्यते ॥ त्रिविधश्चायं ससंदेहः । शुद्धो निश्चयगर्भो निश्चयान्तश्च । क्रमेण यथा- 'आनीय द्विषतां धनानि विपिने राजन्यचूडामणे तेप्वालोक्य विनिर्मलं हिमकलाखण्डं करण्डं पुनः । किं वाद्यं किमु पेषणं किमु धनं किं क्षेपणीयायुधं किं वा देवतमित्यनिश्चितधियो मन्दाः पुलिन्दा जनाः ।।' 'अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं सर्वाः प्रसरति दिशो नैव नियतम् । कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरं समालोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाः ।। १. 'संदेहः'कग घ. २. 'हिमजलाखण्डंग.
चित्रमीमांसा। 'किं तावत्सरसि सरोजमेतदारा- दाहोखिन्मुखमवभासते तरुण्याः। संशय्य क्षणमिति निश्चिकाय कश्चि- द्विब्बोकैर्बकसहवासिनां परोक्षैः ॥' इति वदन्ति । अत्रेदं विचारणीयम् । साम्यादिति किमन्नाद्धतोर्वसती- तिवत्फलत्वेन हेतुत्वविवक्षया पञ्चमी, उत स्वतो हेतुत्वविवक्षया । आ- द्येप्रकृतसाम्याभिव्यक्तिफलकत्वमर्थः स्यात् । तथा सति 'आनीय द्विष- ताम्' इत्याद्युदाहरणेऽव्याप्तिः । न हि तत्र हिमकरण्डस्य वाद्यादिसाह- श्याभिव्यक्तौ कविसंरम्भः । किं तु द्विषत्पुरमीदृशीमवस्थामापन्नमिति राज्ञः प्रतापातिशयाभिव्यक्तौ । द्वितीये साम्यादित्यनेन किमेकमेवाप्रक- तसाम्यं यावत्संदेहकोट्युच्छित्तिहेतुत्वेन विवक्षितम् , उतैकमनेकं वेत्य- नियमः । आये 'अयं मार्तण्डः किम्' इत्याद्युदाहरणेऽव्याप्तिः । नहि तत्र "किं लक्ष्मीरुवंशी वेयं रम्भा वा मेनकाथ वा' इत्यत्र लक्ष्मीत्यादि- विकल्पेष्वतिशयितसौन्दर्यसाम्यवदेकमेव साम्यमिह मार्तण्डत्वादिविक- ल्पेषु हेतुः, किं तु प्रतापेन दुर्निरीक्षत्वसाम्यं मार्तण्डत्वविकल्पे, दुरा- घर्षत्वसाम्यं कृशानुत्वविकल्पे, क्षणेन सकलंसंहर्तृत्वसाम्यं कृतान्तविकल्पे च हेतुः । द्वितीये 'इह नमय शिरः कलिङ्गवद्वा समरमुखे करहाट- वद्धनुर्वा' इति विकल्पालंकारेऽतिव्याप्तिः। अत्र दिग्विजयप्रवृत्तेन बलवता राज्ञा समरे प्रसक्ते यथा कलिङ्ग- नृपतिः- 'समाक्रान्तो बलवता कासन्नभ्रंशिनीं श्रियम् । श्रयेत वैतसीं वृत्तिं न भौजङ्गी कदाचन ॥' १. 'संहर्तृकत्व' ख.
काव्यमाला। - इति नीतिमनुसृत्यासंदिग्धं निजराज्यलक्ष्मीभ्रंशपरिहारकामः शिरो नमितवान् , तथा वा शिरो नमय, यथा करहाटनृपतिः 'जयेन लभ्यते लक्ष्मीर्मरणेन सुराङ्गना' इति नीतिमनुसृत्य युद्धकामो धनुर्नमितवान् , तथा वा धनुर्नमयेति समयोचिताप्तोपदेशे तद्राजचरितदृष्टान्तप्रापितानव- स्थितार्थधीसत्त्वात् । न च तत्र श्लोके तादृग्धीनिबन्धनं नास्तीति नाति- व्याप्तिरिति वाच्यम् । तन्निबन्धनस्यापि लक्षणान्तर्गतविवक्षायाम् - 'जीवनग्रहणे नम्रा गृहीत्वा पुनरुन्नताः । किं कनिष्ठाः किमु ज्येष्ठा घटीयन्त्रस्य दुर्जनाः ।।' इत्यादिषु संदेहविषयनिबन्धनगम्यससंदेहालंकारेप्वव्याप्तिप्रसङ्गात् । उत्प्रेक्षायां वाच्यगम्यभेदवदिहापि द्विविधोदाहरणदर्शनेन वाच्यगम्य- भेदेन द्वैविध्यस्याङ्गीकर्तव्यत्वात् । अपि चानवधारणेति किमुच्यते । अनिश्चयात्मकत्वमिति चेत् । तथा सति 'बालेन्दुवक्राण्यविकाशभावात्' इत्यादावुदाहरिप्यमाणायामप्रकृत- साम्यनिमित्ततत्तादाम्यसंभावनारूपायामुत्प्रेक्षायामतिव्याप्तिः । विरोधेन परस्परप्रतिक्षेपकतया निबद्धानेककोट्यवगाहित्वं विवक्षितमिति चेत् । तथापि 'अकं केऽपि शशङ्किरे' इत्यादावुदाहरिप्यमाणायामपद्भुतावति- व्याप्तिः । संदेहविकल्पयोर्वाकारादिनेव तत्रापि तत्तन्मतत्वोपन्यासेन परस्परप्रतिक्षेपसिद्धेः। 'अस्याः सर्गविधौ प्रजापतिरभूञ्चन्द्रो नु कान्तिप्रदः शृङ्गारेकरसः स्वयं नु मदनो मासो नु पुष्पाकरः। १. 'परिहातुकामः' क. २. 'उद्धता:' क. ३. संभावनाया उत्कटकोटि संदेह- रूपत्वात् । विरुद्धानेककोट्यवगाहित्वं तदिति चेत् । तथापि मुखचन्द्र प्रति रूपकेऽति- व्याप्तिः' इत्यधिकं ख-पुस्तके. Friate NRN OMRArANar iranialSPrem n Pre. In Samme चित्रमीमांसा। वेदाभ्यासजडः कथं स विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥' इति ससंदेहोदाहरणे चाव्याप्तिः । तत्र चन्द्रादीनां संदेहधर्मिणामेवाने- कत्वम् । प्रकारस्तु सर्वत्र वर्णनीयवनितास्रष्टुत्वमेकमेवेत्यनेककोटिकत्वा- भावात् । न च साम्यनिमित्तत्वाभावान्न तत्र ससंदेहः । 'इतो गता सा क गता न जाने गृहं गता मे हृदयं गता वा' इति संदेहो न संग्राह्य इति वाच्यम् । वर्णनीयनायिकायाः कान्त्या चन्द्रसाम्यं सौरभसौकुमा- र्याभ्यां पुष्पसाम्यं च निमित्तीकृत्य किमस्यां कान्तिनिधानभूतश्चन्द्रः स्वकान्तिसंपदा स्रष्टा, उत पुष्पमासः स्वकीयपुष्पसंपदेति संदेहनिबन्ध- नात् 'शृङ्गारैकरसः स्वयं नु मदनः' इत्यंशस्य शृङ्गारविभ्रमबाहुल्यमात्र- पर्यवसायित्वेन किंचित्साम्यनिमित्तत्वाभावेऽपि चन्द्रवसन्तर्मिकांशयो- स्तन्निमित्तत्वानिवारणात् । एवं च प्रकृतार्थाश्रयेत्येतदप्ययुक्तम् । उदाहृतसंदेहस्य वर्णनीय- नायिकानाश्रयत्वेनाव्याप्तिरिति चेत् । अत्र ब्रूमः । 'बुद्धिः सर्वात्मनान्योन्य क्षेपिनानार्थसंश्रया । सादृश्यमूला वार्थस्पृक्संदेहालंकृतिर्मता ॥' यद्यप्यन्योन्यप्रतिक्षेपकविरुद्धनानार्थावलम्बनत्वं विकल्पस्याप्यस्ति । तथापि तदर्थानां सर्वात्मना परस्परप्रतिक्षेपकत्वं नास्ति किं तु पक्ष तत्प्राप्तिमनिरुध्य स्वप्राप्तिपक्ष एव स्वपरिपन्थिप्राप्तिप्रतिक्षेपकत्वम् । न हि 'व्रीहिभिर्यवैर्वा यष्टव्यम्' इति विकल्पोद्देशे ब्रीहयो यवान् यवाश्च त्रीहीन्सर्वात्मना यागात्प्रतिक्षिपन्ति । तथा सति शास्त्रस्यास्यानिर्णाय- कत्वेनाननुष्ठापकत्वेन चाप्रामाण्यप्रसङ्गात् । किं तु स्वस्वानुष्ठानपक्ष एव । अत एव 'व्रीहिभिर्यवैर्वा यष्टव्यम्' इति संदेहेन पृष्टवन्तं प्रति 'ब्रीहि- ७४ काव्यमाला। भिर्यवैर्वा यष्टव्यम्' इति प्रश्नसमाकारमेव वाक्यं निर्णायकं प्रश्नमूल- संदेहनिवर्तकमनुष्ठापकं च दृश्यते । प्रश्नवाक्ये वाकारः सर्वात्मना पक्षान्तरप्रतिक्षेपार्थः । उत्तरवाक्ये पक्षे तत्प्रतिक्षेपार्थ इति विशेषसद्भा- वात् । एवं विकल्पालंकारोदाहरणेऽपि द्विविधस्यापि नीतिशास्त्रस्य प्रामाण्यात्तदुपदिष्टफलेच्छानुसारेणोभयमपि पक्षेऽनुष्ठातुं युक्तमिति शिरो- धनुनमनयोर्न सर्वात्मना परस्परप्रतिक्षेपकत्वमिति विकल्पालंकारे नाति- व्याप्तिः । अपह्नवोदाहरणे सर्वात्मना परस्परप्रतिक्षेपसत्त्वेऽपि वाकारार्थ- स्पर्शाभावान्नातिव्याप्तिः । तत्र हि केचिदन्य इति मतान्तरत्वोपन्यासेन पक्षाणां परस्परप्रतिक्षेपलाभः । न तु वाकारार्थस्पर्शोऽस्ति । उत्प्रेक्षाया- मपि नातिव्याप्तिः । तत्र ह्यत्कटकोटिके संशयकोट्योः समबलत्वाभावेन वाकारार्थस्पर्शाभावात् । 'अस्याः सर्गविधौ' इत्युदाहरणे परस्परप्रतिक्षेप- कनानाकोटिसमाश्रयत्वाभावेऽपि तथाभूतनानाधर्मिरूपार्थसमाश्रयत्वस- त्त्वान्नाव्याप्तिरिति सर्वमवदातम् । संदेहालंकारध्वनिर्यथास्सत्कुलकूटस्थवक्षःस्थलाचार्यकृते वरदराजव- सन्तोत्सवे- 'कांचित्काञ्चनगौराङ्गी वीक्ष्य साक्षादिव श्रियम् । वरदः संशयापन्नो वक्षःस्थलमवेक्षत ॥' अत्र संशयस्य शब्दोपात्तत्वेऽपि तावन्मात्रस्यानलंकारत्वात् । तदलंकारताप्रयोजकस्य वक्षःस्थले स्थितैव लक्ष्मीस्ततोऽवतीर्य पुरत- स्तिष्ठतीत्येवं संशयाकारस्य वक्षःस्थलमवैक्षतेत्यनेन व्यङ्गयत्वात्संदेहालं- कारध्वनिरत्रेति । यथा- 'दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः । चीक्ष्य बिम्बमनुबिम्बमात्मनः कानि कान्यपि चकार लज्जया ॥ - - चित्रमीमांसा। इत्यत्र कानि कान्यपीति सामान्यतो निर्दिष्टानुभावविशेषप्रतीत्यर्थलज्जा- शब्दप्रयोगेऽपि तस्याः खविभावानुभावाभ्यां रसानुगुणाभिव्यक्तिरूपो ध्वनिः । यद्यपि 'संशयापन्नः' इत्यनेन लक्ष्म्याः पुरो दृष्टायाश्च मध्ये कस्या रूपमधिकमिति संशयाविष्ट इति वा, निःसमाधिकरूपवत्त्वामि- मानिनी लक्ष्मीः पुरत एनां दृष्ट्वा कथं वर्तत इति संशयापन्न इति वा, इयं च वक्षसि कुत्र निवेशनीयेति संशयापन्न इति वा, बहवः संशया- कारा वक्षःस्थलमवैक्षतेत्यनेन व्यङ्ग्याः संभवन्ति, तथापि सर्वेषामपि संदेहानां सादृश्यमूलत्वाव्यतिरेकमूलसंदेहस्याप्यत्र संभवेऽपि कथंचित्सा- दृश्यमूलत्वात्संदेहालंकारध्वन्युदाहरणत्वमिति युक्तमेव ।। इति संदेहालंकारप्रकरणम् । , - अथ भ्रान्तिमान्- कविसंमतसादृश्याद्विषये पिहितात्मनि । आरोप्यमाणानुभवो यत्र स भ्रान्तिमान्मतः॥ पिहितात्मनीत्यनेनारोप्यमाणानुभवस्य स्वारसिकं कविप्रतिभया कल्पनं विवक्षितम् । तस्यैव विषयपिधानसामर्थ्यात् । अतो रूपकादौ नातिव्याप्तिः । उदाहरणम्- 'कपाले मार्जारः पय इति कराल्लेढि शशिन- स्तरुच्छिद्रप्रोतान्बिसमिति करी संकलयति । रतान्ते तल्पस्थान्हरति वनिताप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो विभ्रमयति ॥ अत्र लेहनादिप्रवृत्तिपर्यन्ततोक्तेः स्वारसिक एव विभ्रमः कविप्रति- भया चन्द्रिकोत्कर्षद्योतनाय निबद्धः । १. 'इयं वक्षसि' ख. १. 'प्रभावित्तः' ग. memunera-
७६
काव्यमाला।
womwww
क्वचिद्भान्तेरुत्तरोत्तरं पल्लवेन चमत्कारः-
'बल्लाल क्षोणिपाल त्वदहितनगरे संचरन्ती किराती
कीर्णान्यादाय रत्नान्युरुतरखदिराङ्गारशङ्काकुलाङ्गी ।
कृत्वा श्रीखण्डखण्डं तदुपरि मुकुलीभूतनेत्रा धमन्ती
श्वासामोदानुधावन्मधुकरनिकरघूमशङ्कां करोति ॥'
कचिद्भिन्न कर्तृकोत्तरोत्तरभ्रान्तिनिबन्धनेन चमत्कारः।
'शिञ्जानैमञ्जरीति स्तनकलशयुगं चुम्बितं चञ्चरीकै-
स्तत्रासोल्लासलीलाः किसलयमनसा पाणयः कीरदष्टाः ।
तल्लोपायालपन्त्यः पिकनिनदधिया ताडिताः काकलोकै-
रित्थं चोलेन्द्रसिंह त्वदरिमृगदृशां नाप्यरण्यं शरण्यम् ॥'
क्वचिदन्योन्यविषयभ्रान्तिनिबन्धनेन । यथा-
'पलाशकुसुमभ्रान्त्या शुक्रतुण्डे पतत्यलिः ।
सोऽपि जम्बूफलान्त्या तमलिं धर्तुमिच्छति ॥
'विस्फूर्तिमत्यां कीर्ती ते विधिवैकुण्ठशंकराः।
आरोढुं शयितुं वस्तुमाकाङ्क्षन्ति महीतले ॥'
इत्यत्र भ्रान्तिमदलंकारो व्यगथः ।
सादृश्यान्यमूलो संदेहविभ्रमो ससंदेहभ्रान्तिमदलंकारप्रयोजको न
भवतः। यथा-
'अमुष्य धीरस्य जयाय साहसी शरासनज्यां विशिखैः सनाथयन् ।
निमज्जयामास यशांसि संशये स्मरस्त्रिलोकीविजयार्जितान्यपि ॥'
mmu
-
१. 'जल्लाल' ग,
२. 'शङ्कां करोति' ग.
श्वासामोदप्रसक्त मधुकरनिकरे' ऊ.
३. वासामोदानुयाते:'ग-घ.
चित्रमीमांसा । . 'दामोदरकराघातचूर्णिताशेषवक्षसा । दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम् ॥' आये दुर्जयविजयोद्योगसाहसप्रयुक्तः कीर्तिभ्रंशसंदेहः । द्वितीये गाढमर्मप्रहारकृतचन्द्रविभ्रम इति । इति भ्रान्तिमत्प्रकरणम् । • - - .. . अथोल्लेखालंकारः- निमित्तभेदादेकस्य वस्तुनो यदनेकधा । उल्लेखनमनेकेन तमुल्लेखं प्रचक्षते ॥ यत्र नानाविधधर्मयोग्येकं वस्तु तत्तद्धर्मयोगरूपनिमित्तभेदादनेकेन ग्रहीत्रानेकधोल्लिख्यते स उल्लेखः । 'कीर्तिगङ्गाहिमक्ष्माभृदोजःसूर्योदयाचलः । शत्रुसेनाब्धिमन्थाद्रिगुणरत्नैकरोहणः ॥' इति मालारूपके एकस्य राज्ञो यशस्वित्वादिधर्मयोगरूपनिमित्तभेदात्तुषा- राद्रित्वाद्यनेकप्रकारेणोल्लेखनमस्तीति तत्रातिव्याप्तिनिरासायानेकेन्युक्तम् । तत्र ग्रहीतृभेदनिबन्धनं न भवत्यनेकधोल्लेखनमिति नातिव्याप्तिः। 'विद्याविक्रमसौन्दर्यतपसां निधिमागतम् । पश्यन्ति विबुधाः शूराः स्त्रियो वृद्धाश्च कौतुकात् ॥' इत्यत्रैकस्य वय॑स्य विद्याद्यनेकधर्मयोगरूपनिमित्तभेदादनेकेन ग्रही- त्रोल्लेखनमस्तीति तत्रातिव्याप्तिवारणायानेकवेत्युक्तम् । तत्र कौतुका- स्वरूपावलोकनमात्रनिबन्धनं नानेकधोल्लेखनमिति तद्व्यावृत्तिः । शिक्षा- नैर्मञ्जरीति स्तनकलशयुगं चुम्बितं चञ्चरीकैः' इत्युदाहृतायामनेककर्तृक- RAINARMER १ 'मुष्टिप्रहार' ग.
काव्यमाला। - प्रान्तिपरम्परायां स्तनादीनां मञ्जरीसादृश्यादिनिमित्तभेदादनेकेन चञ्चरी- कादिना मञ्जरीत्वाद्यनेकप्रकारेणोल्लेखनमस्तीति तत्रातिव्यातिवारणायैकस्य वस्तुन इत्युक्तम् । 'कीर्ती विस्फूर्तिमत्यां ते मृणालक्षीरशङ्किनः । द्वयेऽपि नागास्तन्वन्ति जिबान्तोल्लेखनं मुहुः ।। इति भ्रान्तिमदुदाहरणे एकस्या एव कीर्तेरनेकेन कुञ्जरभुजंगरूपेण ग्रहीत्रा मृणालक्षीररूपत्वाधनेकप्रकारेणोल्लेखनमस्तीति तत्रातिव्याप्ति- निरासाय निमित्तमेदादित्युक्तम् । तत्र कीर्तिगतं धावल्यमेकमुल्लेख- द्वयेऽपि निमित्तम् । यद्यपि गजभुजंगानां स्वस्वप्रियाहारलोभरूपनिमित्त- भेदोऽप्यस्ति, तथापि निमित्तभेदादित्यनेनैकनिमित्तविरहो विवक्षित इति तघ्यावृत्तिः । तस्य संग्राह्यत्वे निमित्तभेदादिति स्वरूपकथनमात्रम् । एवमपि यदि- 'कान्त्या चन्द्रं विदुः केचित्सौरभेणाम्बुजं परे । वक्त्रं तव वयं ब्रूमस्तपसैक्यं गतं द्वयम् ॥ इत्यपहवोदाहरणविशेषेऽतिव्याप्तिः शया, तदानीमनेकधोल्लेखन निषेधास्पृष्टत्वेन विशेषणीयम् । तत्राद्योल्लेखनद्वयं परमतत्वोपन्यास- सामर्थ्याद्गम्यमाननिषेधमिति नातिव्याप्तिः । 'स्त्रीभिः कामोऽर्थिभिः स्वर्दुः कालः शत्रुभिरैक्षि सः ।' अत्र चानेकथोल्लेखने रुच्यर्थित्वभयादिकं यथायोगं प्रयोजकम् । रुचिरभिरतिः । अर्थित्वं लिप्सा । द्विविधश्चायमुल्लेखः । शुद्धोऽलंका- रान्तरसंकीर्णश्च । तत्र शुद्धो यथा- 'गजत्रातेति वृद्धाभिः श्रीकान्त इति यौवतैः । यथास्थितश्च बालामिदृष्टः शौरिः सकौतुकम् ।।' १. 'स्त्रीमिः कामः' इत्यारभ्य 'अथित्वं लिप्सा' इत्यन्तः पाठः क-पुस्तके नास्ति. - kar.mame kam-name sroopwappearanewsNARMter 44 MINDIAN'T wrimel19. 1%ay Prem Preps w. Sanwaar चित्रमीमांसा। ७९ अत्र यस्तथा भीतं भक्तं गजं त्वरया त्रायते स सोऽयमादिपुरुष इति वृद्धाभिः संसाराभीत्या तदभयार्थिनीभिः कृष्णः पुरः प्रविशन् दृष्टः, यस्तथा चञ्चलत्वेन प्रसिद्धाया लक्ष्म्या अपि कामोपचारवैदग्ध्येन नित्य- वल्लभः सोऽयं दिव्ययुवेति युवतीभिः सोत्कण्ठाभिदृष्टः, बालाभिर्बालस्व- भावाद्यथास्थितरूपवेषयुक्तो दृष्ट इति सर्वत्र वस्तुसता नानारूपेणोल्लेखा- दयं शुद्धः । यथा वा हर्षचरिते श्रीकण्ठजनपदवर्णने- 'यस्तपोवनमिति मुनिभिः, कामायतनमिति वेश्याभिः, संगीतशा- लेति लासकैः, यमनगरमिति शत्रुभिः, चिन्तामणिरित्यर्थिभिः, वीरक्षेत्र- मिति शस्त्रोपजीविभिः, गुरुकुलमिति विद्यार्थिभिः, गन्धर्वनगरमिति गायकैः, विश्वकर्ममन्दिरमिति विज्ञानिभिः, लाभभूमिरिति 'वैदेहकैः, धूर्तस्थानमिति वन्दिभिः, साधुसमागम इति सद्भिः, वज्रपञ्जरमिति शरणागतैः, विटगोष्ठीति विदग्धैः, सुकृतपरिणाम इति पथिकैः, असु- रविवरमिति वाहिकैः, शक्याश्रम इति शमिभिः, अप्सरःपुरमिति का- मिभिः, महोत्सवसमाज इति चारणैः, वसुधारेति च विप्रेरगृह्यत ।' अत्र तपोवनादिभूयिष्ठत्वात्तपोवनाद्युल्लेखः शुद्धः । अत्रैव यमनगर- त्वाद्युल्लेखः संकीर्णः । तत्र यदि यमनगरत्वादीनामुपरञ्जकतामात्रेणान्व- यस्तदा रूपकसंकरः । यदि तादूप्यानुभावगोचरतया, तदा भ्रान्तिमत्सं- करः। अयं चोल्लेखो वर्ण्यगुणोत्कर्षख्यापनायाचेतनकर्तृकोऽपि निब- ध्यते । यथा तत्रैव हर्षवर्णने- 'निःस्नेह इति धनैः, अनाश्रयणीय इति दोषैः, निग्रहरुचिरिती- न्द्रियैः, दुरुपसर्प इति कलिना, नीरस इति व्यसनैः, भीरुरित्ययशसा, १. 'चिन्तामणिभूमिः' इति हर्षचरिते. २. 'वणिग्भिः' ग. ३. 'असुविवरमिति वातिकैः' इति हर्षचरिते वातिकविवरव्यसनिमिरिति तत्र टीकायाम्.
काव्यमाला। .. दुर्ग्रह-चित्तवृत्तिरिति चित्तभुवा, स्त्रीपर इति सरस्वत्या, पण्ढ इति पर- कलत्रैः, काष्ठामुनिरिति यतिभिः, धूर्त इति वेश्याभिः, विनय इति मुहृद्भिः, कर्मकर इति विप्रैः, असहाय इति शत्रुयोधैः, एकमप्यनेकधा गृह्यमाणम्' इति । भ्रान्तिमदलंकारादयोऽप्येवमचेतनकर्तृका निबध्यन्ते- 'भिन्नेषु रत्नकिरणैः किरणेविहेन्दो- रुच्चावचैरुपगतेषु सहस्रसंख्याम् । दोषापि नूनमहिमांशुरसौ किलेति व्याकोशकोकनदतां दधते नलिन्यः ॥' इत्यादौ । 'मधुलुब्धा मधुकरास्तृषिताश्च चकोरकाः । सुगन्धि कान्तिसंपन्नमनुधावन्ति ते मुखम् ।।' इत्यत्रोल्लेखो व्यङ्ग्यः । 'विद्याविक्रमसौन्दर्य' इति श्लोके विद्यादीनां स्वरूपावलोकनकौतुकमात्रे निमित्ततया यदि न विश्रान्तिः, किं तु विद्व- त्ताद्युल्लेखवदवलोकनकौतुकनिमित्ततायां पर्यवसानं तदा तत्राप्युल्लेखन- गतानेकधात्वविच्छित्तिविशेषस्य गम्यत्वादुल्लेखालंकारो गम्यः । 'परिव्राट्कामुकशुनामेकस्यामेव योपिति । कुणपः कामिनी भक्ष्यमिति तिस्रो विकल्पनाः ।। इत्यत्राप्युल्लेख इप्यत इति लक्षणस्य नातिव्याप्तिः । अथापर उल्लेखप्रकारः 'गृहीतृभेदाभावेऽपि विषयाश्रयभेदतः । एकस्यानेकधोल्लेखमप्युल्लेखं प्रचक्षते .NANTONTAmareeramanRE DHIREON arpanNEPAurana + MARWARINNERNAMANAMRAPARMANE. १. ' दुहचित्तवृत्तिः' ख. २. 'शण्ठः' इति हर्षचरिते. शण्ठः प्रजननाक्षम इति टीका. ३. "विनेयः' क.
चित्रमीमांसा । तत्र विषयमेदादनेकधोल्लेखः, शुद्धः संकीर्णश्च । शुद्धो यथा- 'अकृशं कुचयोः कृशं वलग्ने विपुलं चक्षुषि विस्तृतं नितम्बे । अधरेऽरुणमाविरस्तु चित्ते करुणाशालिकपालिभागधेयम् ।' 'गुरुर्वचसि, पृथुरुरसि, विशालो मनसि, जनकस्तपसि, सुमित्रस्ते- जसि, सुमन्त्रो रहसि, बुधः सदसि, अर्जुनो यशसि, भीष्मो धनुषि' इत्यादौ श्लेषसंकीर्णः॥ 'हंसमयीव गतिषु, परपुष्टमयीवालाये, चक्रवाकमयीव पतिप्रेमणि, प्रावृण्मयीव पयोधरोन्नती, कमलमयीव कोशसंग्रहेषु, कुसुममयीव फल- दानेषु' इत्याद्युत्प्रेक्षासंकीर्णः । पयोधरोन्नतावित्यादौ विषयांशे श्लेषसं. कीर्णश्च । 'युधिष्ठिरः सत्यवचसि' इत्यादौ रूपकसंकीर्णः । 'युधिष्ठिरसमः सत्यवचसि' इत्यादावुपमासंकीर्ण इत्याधुन्नेयम् । अधिकरणभेदेनानेकघोल्लेखो यथा- 'वर्धिष्णोरुपरि क्षणं रविरभूच्छत्रं बलिध्वंसिनो रत्नं मूर्ध्नि ललाटसीम्नि तिलकं कर्णान्तिके कुण्डलम् । अंसे चक्रमुरःस्थले मणिवरो नाभौ सरोजासनो यस्याङ्गौ कटकस्त्रिविक्रमगतेः पायादपायात्स वः ।।' अत्र रूपकसंकीर्णः । भगवल्ललाटमध्यकर्णान्तादितत्तद्वयवाभिमुख- स्थितग्रहीतृभेदनिमित्तोल्लेखसंकीर्णश्च । एकस्यैव द्रष्टुर्ललाटमध्ये कर्णा- न्तिके च रविदर्शनासंभवात् । 'यस्य वह्निमयो हृदयेषु, जलमयो लोचनपुरेषु, मारुतमयः श्वसि- तेषु, क्षमामयोऽङ्गेषु, आकाशमयः शून्यतासु, पञ्चमहाभूतमयो मूर्त इवादृश्यत निहतप्रतिसामन्तान्तःपुरेषु प्रतापः ।' ६ चि० मी० - ८२ काव्यमाला। अत्र वहिजलादिशब्दगृहीततापबाष्पादिरूपाणां प्रतापकार्याणां प्रता- पस्य चाभेदकथनं हेत्वलंकार इति तत्संकरः । मतान्तरे रूपकसंकरः । 'कस्तूरी तिलकादि भालफलके, देव्या मुखाम्भोरुहे रोलम्बन्ति, तमाललोलमुकुलोत्तंसन्ति मौलिं प्रति । याः कर्णे विकचोत्पलन्ति, कुचयोरंशे च कालागुरु स्थास्यन्ति, प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः ॥' अत्रोपमासंकीर्णः । केचित्तु तत्तदधिकरणौचित्यात्कस्तूरीतिलकादि- तादात्म्यसंभावनायामुपमार्थे विहितोऽपि क्विबुत्प्रेक्षायां पर्यवस्थतीत्युपमो- पक्रमोत्प्रेक्षेयमित्याहुः । तन्मते उत्प्रेक्षासंकीर्णः । एवमलंकारान्तरसंक- रोऽप्युन्नेयः। इत्युल्लेखप्रकरणम् । अथापडुतिः- प्रकृतस्य निषेधेन यदन्यत्वप्रकल्पनम् । साम्यादपढुतिर्वाक्यभेदाभेदवती द्विधा ।। अन्यत्वकल्पनमात्रं रूपके, विषयनिषेधमात्रं 'नाहं दूती वरतनोरन- तापोऽतिभास्वरः' इत्याक्षेपे, उभयमपि साम्यविशेषणरहितम् । 'न पञ्च- विशिखः कामः किं त्वपञ्चशिलीमुखः' इत्यतिशयोक्तौ चातिव्याप्तमिति विशिष्टोपादानम् । न चैवं 'न पद्मं मुखमेवेदम्' इति तत्त्वाख्यानोप- मायां विषये पद्मत्वनिषेधस्य मुखत्वप्रकल्पनस्य च सत्त्वादतिव्याप्तिः। प्रकल्पनपदस्यारोपपरत्वात् । 'निषिध्य विषयं साम्यादन्यारोपः' इति क्त्वाप्रत्ययेन लक्षणं नोक्तम् । वक्ष्यमाणोदाहरणे आरोपपूर्वकापहवेऽति- व्याप्तिप्रसङ्गात् ।
चित्रमीमांसा। ८३ ... इयं च साक्षान्निषेधकनादिप्रयोगे परंपक्षत्वाद्युपन्यासे निषेधसाम- या॑द्गम्यत्वे च वाक्यभेदेन प्रवर्तते । विषयासत्यत्वप्रतिपादकच्छमनि- भकपटव्याजादिशब्दप्रयोगे विषयासत्यत्वपर्यवसायिरूपवपुर्नामभङ्ग्यादि- शब्दप्रयोगे च तदभेदेन । अत्र वाक्यमेदेऽपह्नवपूर्वक आरोप आरोपपूर्वकापहवश्चेति दैवि- ध्यम्। क्रमेणोदाहरणानि- 'अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये कलङ्को नैवायं विलसति शशाङ्कस्य वपुषि । अमुष्येयं मन्ये विगलदमृतस्यन्दशिशिरे रतिश्रान्ता शेते रजनिरमणी गाढमुरसि ।।'' यथा वा- 'नेदं नभोमण्डलमम्बुराशिर्नेमाश्च तारा नवफेनपुञ्जाः । नायं शशी कुण्डलितः फणीन्द्रो नायं कलङ्कः शयितो मुरारिः॥' पूर्वत्र निरवयवापबुतिरत्र सावयवेति भेदः । 'अकं केऽपि शशङ्किरे जलनिधेः पङ्क परे मेनिरे सारङ्ग कतिचिच्च संजगदिरे. भूच्छायमैच्छन्परे । इन्दौ यद्दलितेन्द्रनीलशकलश्यामं दरीदृश्यते तत्सान्द्रं निशि पीतमन्धतमसं कुक्षिस्थमाचक्ष्महे .॥' इत्यत्राप्यपहवपूर्वक आरोपः । अपह्नवस्तु परपक्षोपन्यासादर्थसिद्धः। 'विकसदमरनारीनेत्रनीलाजषण्डा- न्यधिवसति सदा यः संयमाधःकृतानि । १.'खण्डानि' ख-ग.
काव्यमाला। RON न तु रुचिरकलापे वर्तते यो मयूरे वितस्तु स कुमारो ब्रह्मचर्यश्रियं वः ॥' अनारोपपूर्वकोऽपहवः शाब्दः। 'मन्थानभूमिधरमूलशिलासहस्र- संघटनव्रणकिणः स्फुरतीन्दुमध्ये । छाया मृगः शशक इत्यपि पामराणां लोके गतानुगतिकः प्रथितः प्रवादः ।।' अत्राप्यारोपपूर्वकोऽपवः । स च पामरवचनोपन्यासादर्थसिद्धः। एतानि वाक्यभेदेनोदाहरणानि । एकवाक्यतायां तु- 'बत सखि कियदेतत्पश्य वैरं सरस्य प्रियविरह कृशेऽस्मिन्कामिलोके तथा हि । उपवनसहकारोद्भासिभृङ्गच्छलेन प्रतिविशिखमनेनोट्टङ्कितं कालकूटम् ॥' 'अमुष्मिल्लावण्यामृतसरसि नूनं मृगद्दशः स्मरः शर्वप्नुष्टः पृथुजघनभारे निपतितः। यदङ्गाकाराणां प्रशमपिशुना नामिकुहरे शिखा धूमस्येयं परिणमति रोमावलिवपुः ।।' पूर्वत्र न सभृङ्गाणि सहकाराणि, अपि तु सकालकूटाः शरा इत्य- सत्यत्वामिधायिच्छलशब्दवशात्प्रतीयते । उत्तरत्र नेयं रोमावलिः कि तु धूमशिखेत्यसत्वपर्यवसायिवपुःशब्दबलात्प्रतीयते । केचित्तु सादृश्यव्यक्तयेऽपक्वदपवाय सादृश्यमप्यपहुत्यलंकार वदन्ति । यथाहुः- १. 'पूजधनमागे' क. - InHeamerasaw sayaa-mastendiwww चित्रमीमांसा । ८५ 'सादृश्यव्यक्तये यत्रापहवोऽसावपडुतिः। अपहवाय सादृश्यं यत्रास्त्येषाप्यपद्भुतिः ।।' इति । उदाहरन्ति च- 'आकृष्यादावमन्दग्रहमलकचयं वक्रमासज्य वक्रे कण्ठे लमः सुकण्ठः प्रसरति कुचयोर्दन्तगाढाङ्गसङ्गः । बद्धासक्तिनितम्बे पतति चरणयोर्यः स तादृप्रियो मे बाले लज्जा निरस्ता न हि न हि सरले चोलकः किं त्रपाकृत् ॥' अत्र वीक्षितं प्रियमपद्दत्य चोलकत्वारोपः । तदर्थं च प्राक् प्रिय- चोलसदृशधर्मोपन्यासः । अत्रेदमपगुतिकथनं व्याजोक्त्यलंकारं पृथग- नङ्गीकुर्वतामुद्भटादीनां मतमनुसृत्य । ये तु उद्भिन्नवस्तुनिगृहनं व्याजो- क्तिरिति व्याजोक्त्यलंकारं पृथगिच्छन्ति तेषामिहापि व्याजोक्तिरेव नाप तिरिति रुचकादयः । दण्डी त्वपद्भुतेः साधर्म्यमूलत्वनियममनादृत्य 'किंचिदपकुत्य कस्यचित्प्रदर्शनमात्रमपद्दतिः' इति लक्षयित्वोदाजहार- 'अपहुतिरपद्धुत्य किंचिदन्यार्थसूचनम् । न पञ्चेषुः स्मरस्तस्य सहस्रं पत्रिणामिति ॥ चन्दनं चन्द्रिका गन्धो गन्धवाहश्च दक्षिणः । स्वयमभिमयी सृष्टिः शीता किल परान्पति ।। अमृतस्यन्दिकिरणश्चन्द्रमा मम नो मतः । अन्य एवायमात्मा विषनिष्यन्ददीधितिः॥' साधर्म्यमूला त्वपहुतिरिति तेन व्याहृता । 'त्वदालेख्ये कौतूहलतरलतन्वीविरचिते विधायैका चक्रं रचयति सुपर्णासुतमपि । १. 'सादृश्यनियममनादृत्य' ग-घ, २. 'सहस्रं विशिखाः पुनः ख.
८६. काव्यमाला। अथ विद्यत्पाणिस्त्वरितमपमृज्यैतदपरा करे पौप्पं चापं मकरमुपरिष्टाच लिखति ।।' इत्यादावपङतिध्वनिरुदाहर्तव्यः । अत्र हि चक्रसुपर्णलेखनेन नायं साधा- रणः पुरुषः किं तु पुण्डरीकाक्ष इति कयाचियञ्जितम् । अन्यया तु तस्याप्येतादृशं रूपं न संभवतीत्याशयेन नायं पुण्डरीकाक्षोऽपि किंतु मन्मथ इति तदुभयमुन्मृज्य पुष्पसायकमकरध्वजलेखनेन व्यञ्जितम् ।। इत्यपहुतिप्रकरणम् -- अथोत्प्रेक्षालंकारः- यत्रान्यधर्मसंबन्धादन्यत्वेनोपतर्कितम् । प्रकृतं हि भवेत्प्राज्ञास्तामुत्प्रेक्षां प्रचक्षते ॥ यथा- 'बालेन्दुवक्राण्यविकाशभावाद्वभुः पलाशान्यतिलोहितानि । सद्यो वसन्तेन समागताना नखक्षतानीव वनस्थलीनाम् ।।' अत्र प्रकृतानि पलाशकुसुमान्यप्रकृतनखक्षतधर्मवक्रत्वलौहित्यसंब- न्धानखक्षतत्वेनोपकल्पितानि । तर्कः संभावनामात्रं न त्ववधारणम् । तदीयधर्मो हि तत्तादाल्यसंभावनामात्रहेतुर्न व्याप्तिपक्षधर्मतावल्लिङ्गवद- वधारणहेतुः । न चात्रेवशब्दस्य सादृश्यपरत्वमित्युपमाशका कार्या । उपमाया यत्र क्वचित्स्थितैरपि नखक्षतैः सह वक्तुं शक्यतया वसन्तना- यकसमागतवनस्थलीसंबन्धित्वविशेषणकल्पनानपेक्षत्वात् । पलाशमुकु- लानां नखक्षततादात्म्यसंभावनायामेव तथाविधविशेषणस्योपयुक्तत्वात् । १. 'सादृश्यपर्यवसानत्व' ख.
चित्रमीमांसा। एवमन्यत्रापि यत्र यत्राप्रकृततादात्म्यसंभावनोपयुक्तविशेषणकल्पना तत्र सर्वत्राप्युत्प्रेक्षावगन्तव्या । यथा- 'उवाह या तनुलता भृङ्गालीरोगवल्लरीम् । पश्चाद्विमुक्तां वैमल्याद्विम्बितामिव वेणिकाम् ॥' उपमा यत्र क्वचित्स्थितयापि वेणिकया वक्तुं शक्येति तत्रानुपयुक्ता, वैमल्यात्पुरोभागप्रतिबिम्बितत्वरूपविशेषणकल्पना तादात्म्यसंभावनार्था । यत्र तु संभावनोपयुक्तविशेषणकल्पनारहितमुपमानं निबध्यते तत्र पर- मिवशब्दः सादृश्यपर इत्युपमालंकारः । अमुमेव विभागमभिप्रेत्य चक्र वर्तिनोक्तम् 'यदायमुपमानांशो लोकतः सिद्धिमृच्छति' इत्यादि । दण्डिनापीवशब्दस्योत्प्रेक्षाव्यञ्जकत्वयुक्तम् । 'मन्ये, शङ्के, ध्रुवं, प्रायो, नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः॥' इति । अत्रादिशब्देन तर्कयामि, संभावयामि, जाने, उत्प्रेक्षे, स्यात् , इत्ये- वमादीनां संग्रहः । अत्र च 'कस्तूरिकामृगाणामण्डाद्गन्धगुणमखिलमादाय । यदि पुनरहं विधिः स्यां खलजिह्वायां निवेशयिष्यामि ॥' 'यद्यनुष्णो भवेद्वह्निर्यद्यशीतं भवेज्जलम् । मन्ये दृढव्रतो रामस्तदा स्यादप्यसत्यवाक् ॥' इत्यादिष्वतिव्याप्तिवारणाय धर्मसंबन्धादित्युक्तम् । तेषु हि 'यद्य- र्थोक्तौ च कल्पनम्' इत्यतिशयोक्त्यलंकारविषयेषु, “संभावनं यदीत्थं स्यादित्यूहोऽन्यस्य सिद्धये' इति संभावनालंकारविषयेषु वा निर्निमित्त- मेव तथा तथोपतर्कणम् । तथापि- 'सर्वातिशायिसौन्दर्य शङ्के सत्यवतो मुखम् । येन सा मृगशावाक्षी सावित्री तरलीकृता ॥' । - काव्यमाला। इत्यादिष्वतिव्याप्तिः स्यादिति तद्वारणायान्यधर्मसंबन्धादित्युक्तम् । तत्र सावित्रीहृदयतरलीभावकारकत्वादिना स्वधर्मेणैव वितर्कणमिति नातिव्याप्तिः । 'विरक्तसंध्यापरुषं पुरस्ताद्यतो रजः पार्थिवमुज्जिहीते। शक्के हनूमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः ससैन्यः ॥' इत्यत्रातिव्याप्तिवारणायान्यत्वेनेति विशेषणम् । तत्र ससैन्ये प्रत्यु- गन्तयन्यत्रापि दृष्टस्यागेरजोगमनस्य संबन्धेन निमित्तेन भरतः प्रत्युद्ग- सत्वेन वस्तुसद्रूपेणैवोपतर्कितो न त्वन्यत्वेनेति नातिव्याप्तिः। 'नरसिंहमहीपाल विदुस्त्वां मकरध्वजम् । मार्गणास्तव संजाताः कथं सुमनसोऽन्यथा ॥' इत्यत्राव्याप्तिवारणायोपतर्कितमित्युक्तम् । तत्रानुमानालंकारविषये सुमनोमार्गणत्वेन मन्मथत्वव्याप्तिलिङ्गेन राज्ञि मन्मथत्वमवधृतं न संभा- वनामात्रम् । 'इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मगीणामिव प्रम्लानारुणिमेव विद्रुमलता श्यामेव हेमप्रभा । कार्कश्यं कलया च कोकिलवधूकण्ठेष्विव प्रस्तुत सीतायाः पुरतश्च हन्त शिखिनां बर्हाः सगर्हा इव ।।' इत्यत्रातिव्याप्तिवारणाय प्रकृतमित्युक्तम् । तत्र निरतिशयसौन्दर्य- सीतावदनादिसंनिधानेन तद्वदनाद्युपमानेष्वपि निकर्षापादकेन प्रशस्तोप- मानेप्विन्द्वादिष्वप्रकृतेप्वञ्जनलेपादिनिकर्षसंभावना क्रियत इति नाति- व्याप्तिः । नन्वेवमपि- 'अस्सद्विक्रमचेष्टितानि निखिलत्रैलोक्यहेलाजय- प्रहीभूतसुरासुराणि भवतो भूमेः सुता शृण्वती ।
चित्रमीमांसा। ८९ पत्यौ द्वेषकषायितेन मनसा खिग्धा मयि स्थास्यति स्त्रीणां प्रेम यदुत्तरोत्तरगुणग्रामस्पृहाचञ्चलम् ।। इत्यत्र चाञ्चल्यसहचरितत्वेनान्यत्र दृष्टस्त्रीत्वस्य संबन्धेन निमित्तेन वस्तुतः प्रत्येकस्थिरचित्ता देवी सीता चञ्चलत्वेनोपतर्किता । न च तत्रो- त्प्रेक्षालंकारः। रावणकृततदीप्सितसंघटनानुकूलविचारमात्रस्य निबद्धत्वेन विच्छित्तिविशेषाभावात् । न चान्यधर्मसंबन्धादित्यत्र धर्म उपमायामिव सहृदयहृदयाह्लादी विवक्षितः, न तु साधारणधर्ममात्रम् । तथा च नोक्तातिव्याप्तिः । स्त्रीत्वादेश्वाञ्चल्यादिसंभावनामात्रप्रयोजकत्वेऽपि सहृदयहृदयाहादिसाधारणधर्माभावेनोपमालंकारप्रयोजकत्वाभावादिति वा- च्यम् । तथा सति- 'स्तनाभिरामस्तबकां नूनं सीतेति वल्लरीम् । संभावयनरघुपतिर्धावति स्म दिदृक्षया ।' इत्यत्रातिव्याप्तेरवारणात् । न चाहार्यत्वं तर्कविशेषणम् । इह त्वनाहार्या संभावनेति वाच्यम् । तथा सति 'शके हनूमत्कथितप्रवृत्तिः' इति संभावनाया अप्यनाहार्यत्वेन तव्यावृत्त्यर्थस्यान्यत्वेनेत्यस्य वैयर्थ्य- प्रसङ्गादिति चेत् , मैवम् । अन्यत्वेनेत्यस्यान्यत्वेनावगतपरतया तस्यैवा- हार्यत्वविशेषणपर्यवसायित्वात् । ननु तथापि नैतल्लक्षणम् , अव्याप्तेः । तथा हि । यत्र स्वमात्रधर्मा- दन्यमात्रधर्माद्वा किंचिदुत्प्रेक्ष्यते तत्रान्यधर्मसंबन्धादिति लक्षणांशा- भावादव्याप्तिः । यथा- 'अङ्गुलीभिरिव केशसंचयं संनियम्य तिमिरं मरीचिभिः । कुडमलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥'
९० काव्यमाला। 'भृयस्तराणि यदमूनि तमखिनीषु ज्योत्स्लीषु च प्रविरलानि ततः प्रतीमः । संध्यानलेन भृशमम्बरमूपिकाया- मावर्तितैरुडुमिरेव कृतोऽयमिन्दुः ॥' इत्यत्राद्योदाहरणेऽङ्गुलीसदृशीभिर्मरीचिभिः केशसंचयसदृशस्य तिमि- रस्य ग्रहणात्स्वमात्रधर्मादेव शशिनचुम्बनमुत्प्रेक्षितम् । द्वितीये तारा- विरलत्वाविरलत्वरूपेणान्यमात्रधर्मेण चन्द्रस्य संध्यानलमध्यगाम्बर- मूषिकावर्तिततारानिकरनिमित्तत्वमुत्प्रेक्षितम् । किं च हेतुफलधर्मस्वरूपो- प्रेक्षास्वन्यत्वेनेति लक्षणांशाभावादव्यातिः । यथा- 'सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नृपुरमेकमुाम् । अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ।।' इति हेतूप्रेक्षोदाहरणे नूपुरगतेन दुःखिसाधारणेन मौनित्वेन निमि- त्तेन नूपुरे तद्धेतुभूतदुःखमेव धर्मतयोत्प्रेक्ष्यते, न तु दुःखितादात्म्यम् , दुःखशब्दस्योपरि तुमुबाधश्रवणात् । एवम्- 'चोलस्य यद्धीतिपलायितस्य भालत्वचं कण्टकिनो बनान्ताः । अद्यापि किं वानुभविष्यतीति व्यपाटयन्द्रामिवाक्षराणि ॥' इति फलोत्प्रेक्षोदाहरणे द्रुमगतेन ललाटाक्षरदर्शनप्रवृत्तपुरुषसाधारणेन ललाटपाटनेन निमित्तेन द्रुमाणां तत्फलं ललाटाक्षरदर्शनमुद्देश्यमिति धर्मतयोत्प्रेक्ष्यते न तु ललाटाक्षरदर्शनप्रवृत्तधर्मितादात्म्यम् , द्रष्टुमित्यस्य धर्मिपर्यन्तत्वाभावात् । तथा- 'पिनष्टीव तरङ्गाप्रैः समुद्रः फेनचन्दनम् । तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः ॥' इति धर्मस्वरूपोत्प्रेक्षोदाहरणे समुद्रस्य चन्दनघर्षणशिलाप्रान्तस्थानीये - चित्रमीमांसा। तटे हस्तस्थानीयतरङ्गाः फेनचन्दनपेषकत्वेन शशाङ्कस्य करैर्दिगङ्गना- दिघवलीकरणेन च प्रतीयमानेन निमित्तेन तत्कर्तृकं पेषणलेपनमात्र- मुत्प्रेक्ष्यते, न तु तयोः पेषणलेपनकर्तृतादात्म्यम् । पिनष्टि लिम्पतीत्या- ख्यातयोः कर्तृवाचकत्वेऽपि 'भावप्रधानमाख्यातम्' इति न्यायेन कर्तुः प्रधानभूतक्रियोपसर्जनस्यान्यत्रान्वयासंभवात् । अत एव 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः' इत्युत्प्रेक्षामुदाहृतवता दण्डिनोक्तोदा- हरणयोरिवशब्दश्रवणाल्लेपनवर्षणकर्तृभ्यां तमोनभसोरुपमामाशय- 'कर्ता यद्युपमानं स्यान्न्यग्भूतोऽसौ क्रियापदे । स्वक्रियासाधने व्यग्रो नालमन्ययपेक्षितुम् ॥' इति दूषितम् । 'वृत्तानुपूर्वे च न चातिदीर्धे जके शुभे सृष्टवतस्तदीये । शेषाङ्गनिर्माणविधौ विधातुर्लावण्य उत्पाद्य इवास यत्नः ॥' इत्यत्र निरतिशयलावण्यशालिजङ्घासृष्ट्यनुमितेन निःशेषलावण्यको- शल्ययेन निमित्तेन विधातुः शेषाङ्गनिर्माणोपयुक्तलावण्योत्पादने यत्न- मात्रमुत्प्रेक्ष्यते, न तु तथाभूतयत्नवत्तादात्म्यमिति स्पष्टमेव । अपि चाप्रकृतधर्मिकोत्प्रेक्षायां प्रकृतमित्यंशाभावादव्याप्तिः । यथा- 'हृतसारमिवेन्दुमण्डलं दमयन्तीवदनाय वेधसा । कृतमध्यबिलं विलोक्यते धृतगम्भीरखनीखनीलिम ॥' अत्र कृतमध्यबिलमिति पदार्थहेतुककाव्यलिङ्गापेक्षयातिशयोक्त्या कृतमध्यरन्ध्राकाशनैल्यत्वेनाध्यवसितो यः कलङ्कस्तद्वत्त्वेन निमित्तेन कलकाध्यवसितधृतमध्यरन्ध्राकाशनैल्यत्वनिमित्तोत्प्रेक्षितं कृतमध्यबिल- त्वेन निमित्तेन वा चन्द्रमण्डलं दमयन्तीवदननिर्माणाय हृतसारत्वेनो- १. नल्यत्वोप्रेक्षितम्' ख. - ९२ काव्यमाला। प्रेक्षितम् , नतु प्रकृतं दमयन्तीवदनमेवोक्तप्रकाराहृतेन्दवसारांशनिर्मि- तत्वेनोत्प्रेक्षितम् । 'यद्वालेन्दुकलोच्चयादुपचितैः सौररिवोत्पादितं तत्प- श्येयमनङ्गमङ्गलगृहं भूयोऽपि तस्या मुखम् ।' इत्यत्रेव तथाशब्दान्वया- भावात् । ननु यथा शब्दतोऽन्वयालामेऽपि 'ब्राह्मणशतं भोज्यता'मि- त्यत्र प्रधानमतिलयोपसर्जने क्रियान्वयपर्यवसानम् , संख्याया भोजना- न्वयायोग्यत्वात् , तथेहापि प्रधानमिन्दुमण्डलमतिलक्ष्योपसर्जने दमय- न्तीवदने इन्दुमण्डलाहृतसारांशनिर्मितत्वोत्प्रेक्षापर्यवसानं स्यात् , अप्र- कृतस्यावर्णनीयत्वादिति चेत्, न । अप्रकृतवर्णनस्याप्यप्रस्तुतप्रशंसारू- पेण प्रकृतातिशयाधानार्थतयान्वेतुं योग्यत्वात् । नच वाच्यं 'इन्दुर्लिप्त इव' इत्यप्रस्तुतप्रशंसोदाहरणान्तर इवात्रापि संभावनामात्रमेव नोटो- क्षेति । तत्र सहृदयहृदयाहादिनिमित्ताभावेनोत्प्रेक्षासामग्रीपरिपूत्यभावा- दुत्प्रेक्षाया असंभवेऽप्यत्र तत्संभवादप्रस्तुतप्रशंसया संकरोपपत्तेः । तस्मा- दव्याप्तत्वानेदं लक्षणं युक्तमिति चेत्- अत्र ब्रूमः । न तावत् 'हृतसारम्' इत्यादावव्याप्तिः । प्रकृतशब्दस्य विषयत्वाभिमतमात्रपरत्वात् । न चैवं 'इन्दुर्लिप्त इव' इत्यादावतिव्याप्तिः । तत्र सीतावदनसंनिधाने वस्तुतोऽन्यधर्मत्वे सत्यपीन्दुगताञ्जनलिप्तत्वसं- भावनायामन्यधर्मत्वम्याप्रयोजकत्वात् , धर्मस्य सहृदयहृदयाहादिनो वि- वक्षितत्वाद्वा । अन्यत्वेनेत्यस्यान्येन प्रकारेणेत्यर्थ इति न हेतुफलधर्म- स्वरूपोत्प्रेक्षास्वव्याप्तिः । यत्र धर्मिणि धर्म्यन्तरं तादाम्येनोत्प्रेक्ष्यते तत्र धर्म्यन्तरमन्यः प्रकारः। यत्र तु कश्चिद्धर्म एव किंचित्प्रति हेतुतया फलतया स्वरूपेण चोत्प्रेक्ष्यते तत्र स एव धर्मोऽन्यः प्रकार इति सर्व- त्राप्यनुगतेः । यद्वा हेतुफलधर्मस्वरूपोत्प्रेक्षोदाहरणेष्वपि तादात्म्येनैवो- प्रेक्षा । तथा हि । 'सैषा स्थली यत्र विचिन्वता त्वाम्', 'चोलस्य यदी- चित्रमीमांसा। तिपलायितस्य' इत्यादिहेतुफलोत्प्रेक्षोदाहरणयोस्तावद्विश्लेषदुःखललाटाक्ष- रदर्शनादिधर्मो हेतुतया फलतया वा नोत्प्रेक्ष्यते । किं तु नूपुरयुगादि- धर्मिकं यन्निश्चलत्वकण्टकसंश्लेषादिनिमित्तकं मौनव्यापाटनादिकं तदेव दुःखहेतुकमौनललाटाक्षरदर्शनार्थव्यापाटनादितादात्म्येनोत्प्रेक्ष्यते । अ- वश्यं च द्विविधस्यापि मौनादेस्तादात्म्येनाध्यवसाय आस्थेयः । अन्यथा निश्चलत्वादिहेतुके स्वाभाविकमौनादौ दुःखादेहेतुत्वादिनोत्प्रेक्षणमसम- असं स्यात् । अङ्गीकृतश्च 'सैषा स्थली' इत्यादौ दुःखादिर्धर्म एव मौना- दिहेतुतया नूपुरादिगतत्वेनोत्प्रेक्ष्यत इति वदताप्यलंकारसर्वस्वकृता द्विवि- धस्य मौनादेरभेदाध्यवसायः। 'हेतूत्प्रेक्षायां यस्य प्रकृतसंबन्धिनो धर्मस्य हेतुरुत्प्रेक्ष्यते स धर्मोऽध्यवसायवशादमिन्न उत्प्रेक्षानिमित्तत्वेनाश्रीयते' इत्यादितद्वचनात् । आवश्यकं चान्यत्रापि क्वचित्कचिद्धेतूप्रेक्षोदाहरणे निमित्तांशे तादात्म्याध्यवसायाश्रयणम् । यथा- 'उन्मेषं यो मम न सहते जातिवैरी निशाया- मिन्दोरिन्दीवरदलदृशा तस्य सौन्दर्यदर्पः । नीतः शान्ति प्रसभमनया वक्रकान्त्येति हर्षा- लमा मन्ये ललिततनु ते पादयोः पद्मलक्ष्मीः ॥' अन्न हेतुतया हर्षोत्प्रेक्षां प्रति तत्फलत्वाभिमतं पादयोः पद्मलक्ष्या लगनं निमित्तं वाच्यम् , तच्च सर्वथैवासिद्धम् । अतस्तत्र पादयोर्यः खाभाविकशोभासंबन्धः स एव पद्मलक्ष्मीलगत्वेनाध्यवसितो निमित्त- मिति समर्थनीयम् । एवं निमित्तांशे तादात्म्याध्यवसानावश्यंभावे तत्रै- वोत्प्रेक्षाविश्रान्तिरस्तु । नच तत्र निमित्तान्तरमन्वेष्यं स्यादिति वाच्यम् । निश्चलत्वहेतुकमौनस्य दुःखहेतुमौनत्वेनोत्प्रेक्षायां चरणारविन्दविश्लेषstomameramommarwmmer १. 'यस्य' ख.
९४ काव्यमाला। कालभवत्वं निमित्तं कण्टकसंश्लपहेतुकव्यापाटनस्य ललाटलिपिदर्शनार्थ- व्यापाटनत्वेनोत्प्रेक्षायां महाराजोऽप्येवं कष्टमनुभवति, इतः परमपि किय- दनुभाव्यमनेनेति जिज्ञासोत्थापकपलायनकालभवत्वमित्यादेः स्पष्टत्वात् । अयमेव पक्षो दण्डिनोऽभिमतः । यदाह- 'अन्यथैव स्थिता वृत्तिश्चेतनस्यतरस्य वा । अन्यथोत्प्रेक्ष्यते यत्र तामुत्प्रेक्षां प्रचक्षते ।। मध्यन्दिनाकसन्तप्तः सरसी गाहते गजः । मन्ये मार्तण्डगृह्याणि पद्मान्युद्धर्तुमुद्यतः ॥ सातुं पातुं बिसान्यत्तुं करिणो जलगाहनम् । तरिनिष्क्रयायेति कविनोत्प्रेक्ष्य वर्ण्यते ॥' इति । अत्र संतापनिवृत्त्यर्थत्वेनान्यथैव स्थिता करिणश्चेतनस्य जलगाहन- रूपा वृत्तिरन्यथा तद्वैरनिष्क्रयार्थजलावगाहनत्वेनोत्प्रेक्ष्यत इति स्वकृत- लक्षणानुसारेणैव योजितम् । काव्यप्रकाशिकाकारस्याप्ययमेव पक्षोऽभिमतः । तेन हि संभावन- मथोत्प्रेक्षा प्रकृतस्य संमेन यत्' इत्युपमानोपमेयस्य तादाम्यसम्भावन- मुत्प्रेक्षालक्षणमभिधाय 'उन्मेषं यो मम न सहत' इति तत्रोदाहरणं कृतम् । ततश्च खकृतलक्षणानुरोधेन स्वाभाविकी पादशोभव स्ववैरिजय- प्रभवहर्षलमपद्मलक्ष्मीत्वेनोत्प्रेक्ष्यत इत्यभिमतमिति स्फुटमेव । तथा "पिनष्टीव तरङ्गाप्रैः' इत्यादिधर्मस्वरूपोत्प्रेक्षोदाहरणेष्वपि प्रेरणादिरेव पेषणादिरूपत्वेनोत्प्रेक्ष्यते । न च प्रेरणादेविषयस्यानुपादानं दोषः । अतिशयोक्ताविव तदुपपत्तेः । उत्प्रेक्षाया अध्यवसायगर्भतया तत्र विषयनिगरणस्योचितत्वाच्च । न च प्रेरणादेविषयत्वेन निमित्तत्वा- १. “परेण ख. R Ww tolaram HumanAmerRA AAPMRANDIRMErasannapurna mararun चित्रमीमांसा। ९५ भावे निमित्तान्तरमन्वेष्यं स्यादिति वाच्यम् । प्रेरणस्य पेषणरूपतयो- प्रेक्षायां प्रान्तगतफेनचन्दनपुञ्जीभवनं निमित्तम् । करव्यापनस्य दिग- ङ्गनालेपनत्वेनोत्प्रेक्षायां तद्भवलीकरणं निमित्तमिति निमित्तान्तरस्य जाग- रूकत्वात् । 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नमः' इत्यादौ व्यापनादिलेप- नादिरूपतया सम्भावितमिति वदता काव्यप्रकाशिकाकारेणापि धर्म- स्वरूपोत्प्रेक्षोदाहरणेषु तादात्म्योत्प्रेक्षणपक्ष एवाश्रितः । एवं 'चुम्बतीव रजनीमुखं शशी'त्यादावपि रजन्या वदनत्वेनाध्यव- सितं यदारम्भाख्यं मुखं तस्य शशिनश्च संबन्धश्चुम्बनत्वेनोत्प्रेक्ष्यते । 'वृत्तानुपूर्वे च' इत्यत्रायत्नपूर्वके शेषाङ्गनिर्माणे यत्नपूर्वकत्वतादाम्यो- प्रेक्षेत्याग्रुह्यम् । अन्यधर्मोऽनुगामितयैव न विवक्षितः, किं तूपमायां साधारणधर्म इव बिम्बप्रतिबिम्बभावादिभिः सर्वैरपि प्रकारैर्विवक्षितः । तथा च यथा- 'आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् । सुजातपुष्पस्तबकावनम्रा संचारिणी पल्लविता लतेव ॥ इत्यत्र बिम्बप्रतिबिम्बभावकृताभेदाध्यवसायेन । 'तारुण्यकुञ्जरारूढां विलासकमलाकुलाम् । मूर्तामिव मनोजस्य त्रैलोक्यविजयश्रियम् ॥' इत्यत्र समासभेदाश्रयणकृताभेदाध्यवसायेन च धर्मस्य प्रकृताप्रकृत- साधारण्यादन्यधर्मसंबन्धः । तथा---'अङ्गुलीभिरिव' इत्यत्रान्वयभेद- कृताभेदाध्यवसायेन धर्मस्य प्रकृताप्रकृतसाधारण्यादन्यधर्मसंबन्धः १ पल्लविनी' ख.
काव्यमाला। सुसंपाद इति न तत्राव्याप्तिः । नापि भूयस्तराणि' इत्यत्राव्याप्तिः। तत्रो- पात्तधर्माक्षिप्तधर्मान्तरसंबन्धस्य निमित्तत्वात् । तत्र हि चन्द्ररूपविषय- गतसंध्यानलमध्यगाम्बरमूषिकावर्तिततारानिकरनिर्मितत्वोत्प्रेक्षायां तारा- गतेन तत्तद्रात्रिषु विरलत्वाविरलत्वरूपेणोपात्तधर्मेण निमित्तेन धर्मस्व चन्द्रगतस्य तद्विरलत्वाविरलत्वानुविधायिवृद्धिहासशालित्वस्याक्षेपः । अयं चापरोऽपि विशेषः । अन्यधर्मसंबन्धादित्यन्यपदार्थो धर्म्युत्प्रे- क्षामु विषय्येव, धर्मोत्प्रेक्षासु तु विषयिणो धर्मस्याश्रयः । एवं स्थिते यत्रानुपात्तो निमित्तभूतो धर्मस्तत्र सर्वत्रापि यो धर्मोऽन्यपदार्थस्य विष- यस्य च संबन्धितया संभावनापदवीमारोहति तथाभूतोऽन्वेष्यः । तत्र 'वर्षतीवाञ्जनं नमः' इत्यत्र नभोगतत्वेन वर्षणक्रियोत्प्रेक्षापक्षे नभसो भूपर्यन्तगामिनीलिमव्याप्तत्वमञ्जनवर्युकसाधारणनिमित्तम् । तमसो व्या- पने नभःकर्तृकाञ्जनवर्षणक्रियात्योत्प्रेक्षेति पक्षे तु सकलवस्तुसान्द्रमलि- नीकरणादि । एवं 'वेलेव रागसागरस्य' इत्यादी संक्षोभकारित्वादि गम्यं निमित्तमूहनीयम् । यत्र तु निमित्ततया धर्मस्योपादाने सत्यपि तत्संबन्धो विषयस्यान्यपदार्थस्य वाजसा न प्रतीयते, तत्र कचिनिमित्तमूतधर्माद- न्यस्य कस्यचिद्धर्मस्य तत्ताप्यसंपादनेन तत्संबन्धः समर्थनीयः । कचि- द्विषयस्य चान्यपदार्थस्य वा तद्धर्माश्रयताद्रूप्यसंपादनेन, कचिन्मिलितेन तेनोभयेन, कचिदुपात्तधर्मकृतधर्मान्तराक्षेपेण । तत्र धर्मान्तरस्य निमि- तताप्यसंपादनमुपमायां धर्मस्य संपादनमिव बिम्बप्रतिबिम्बमावादिभिः प्रकारैस्ते प्रदर्शिताः । एवं विषयस्यान्यपदार्थस्य वा धर्माश्रयातादूप्यसंपादनं श्लेषादि- माया । तत्र विषयस्य श्लेषेण धर्माश्रयतादूप्यसंपादनं यथा- १. गाडनीलिम' ख.
चित्रमीमांसा। ९७ - 'अस्यां मुनीनामपि मोहमूहे भृगुर्महान्यत्कुचशैलशीली । नानारदाहादि मुखं श्रितोरुया॑सो महाभारतसर्गयोग्यः ॥' अत्र भृग्वादिमुनिरूपविषयगतदमयन्तीगोचरमोहोत्प्रेक्षायां यदेव तत्कुचपरिशीलनादि निमित्तं न तद्विषयगतं किं तु तटादिगतम् । तस्य भृग्वादिशब्दश्लेषेण विषयगततानिर्वाहः । अपहृत्या यथा- 'किंशुकव्यपदेशेन तरुमारुह्य सर्वतः । दग्धां दग्धामरण्यानीं पश्यतीव विभावसुः ॥' अत्र दावानलरूपविषयगतदग्धादग्धवनप्रदेशदर्शनक्रियोत्प्रेक्षायां तरु- समारोहणं निमित्तम् । तदपि न विषयगतं किं तु किंशुकपुष्पगतम् । तत्रापि यद्यपि मुख्यं समारोहणं नास्ति तथापि तदीयं तरुसमाश्रयणमेव तदारोहणत्वेनाध्यवसितम् , ततश्च तत्रापहृत्या विषयस्य किंशुकपुष्पता- द्रूप्यसंपादनेन धर्मसंबन्धनिर्वाहः । १. नषधे सप्तमे सर्गे दमयन्तीवर्णनमिदम्, तत्र 'अस्यामिति । अहं अस्यां व्यासादिमुनीनामपि मोहं ऊहे तर्कयामि । मुनयोऽप्येतामाश्रित्य तिष्ठन्तीति । अथ च जितेन्द्रियाणामप्यस्यां विषये मोहं मदनविकारं तर्कयामि । तेऽप्यनया मोहिता इत्यर्थः। यस्ताव महान् अतितापसो भूगुः कुशलशीली कुचपर्वतसेवी । मुनीनां पर्वताश्रयत्वात् पर्वतयुज्या स्तनावाश्रयति । अथ च कामपीडितत्वादत्युच्चावेतस्कुचौ मर्दयितुमिच्छति । अथ च भूगुरतटः पर्वताश्रयेण वर्तते । कुचयोः पार्थभागोऽतटतुल्य इत्यर्थः । शीलमेव शैलं कुचयोः शैलं स्वभावं श्रीलयति अभ्यस्यति, परमथापि कुचस्वभावो नायातीत्यर्थः । मुखं नारदमाहादयतीति नारदाहादि, न नारदाहादि अनारदाहादि, एवंविधं न भवति, किं तु नारदाहायेव । गानकलाभ्यासार्थ नारदो मुखसेवां करोतीत्यर्थः । मदनपीडि- तत्वादुन्मुखं चुम्बनाभिलाषिणं नारदमानन्दयतीत्यर्थः । मुखं नानाविधैत्रिंशत्संख्याकै रदैर्दन्तैरानन्दयत्यतिसुन्दरमित्यर्थः । महामारतस्य सर्ग निर्माणे योग्यः समर्थों व्यासः श्रिताचूरू येनैवविधः । कदलीस्तम्भच्छायाबुद्ध्या एतदूरू आश्रित्य तिष्ठति । अथ च कामपीडितत्वादेतदूरू समालिङ्गय वर्तत इत्यर्थः । महती मा दीप्तिर्यस्य । रतं सुरतं तस्य सर्गों निर्माणं तत्र योग्यस्ततः कर्मधारय इति वा । एवं विधो न्यासो विस्तारः श्रितावूरू येन । अतिविशालावूरू इति भावः ॥ इति टीका. ७ चि० मी० :
काव्यमाला। अन्यपदार्थस्य श्लेषण धर्माश्रयताद्रूप्यसंपादनं यथा-- 'अस्या दोहदशालिन्या मुखमापाण्डुरप्रभम् । सत्यं राजेति मन्येऽद्य यद्भुवं भोक्तुमिच्छति ।।' अत्र मुखस्य चन्द्रत्वोत्प्रेक्षायां भुवं भोक्तुमभिलाषो निमित्तम् , तद्वि- पयगतमपि नान्यपदार्थभूतचन्द्रगतम् । अतस्तत्र राजशब्दश्लेषेण चन्द्रस्य धर्माश्रयताद्रूप्यसंपादनेन धर्मस्य तदीयतानिर्वाहः । धर्मान्तरस्य निमित्तधर्मताद्रूप्यसंपादनं विषयस्य तद्धर्माश्रयताद्रूप्य- संपादनं चेत्युभयमेलनं यथा- 'आकृष्टिवेगविवलद्भुजगेन्द्रभोग- निर्मोकपट्टपरिवेष्टनयाम्बुराशेः । मन्थव्यथाव्युपशमार्थमिवाशु यस्य मन्दाकिनी चिरमचेष्टत पादमूले ।' अत्र मन्दाकिनीरूपविषयगतपयोधिमन्थव्यथाव्युपशमरूपफलोत्प्रेक्षायां यन्निमित्तं चरणमूले वेष्टनं तचादास्यसंपादनं पर्यन्तवेष्टनस्य श्लेषेण विषयस्य यत्ताद्रूप्यसंपादनमपहृत्या वेति मिलितेनोभयेन विषयस्यान्यधर्मसंबन्ध- निर्वाहः । उपात्तधर्मेण धर्मान्तराक्षेपस्तु दर्शित एव । तस्मादन्यधर्मसंब- धादित्येतदपि सर्वोत्प्रेक्षानुगतमिति न क्वाप्यत्र्याप्तमिति सर्व समञ्जसम् । अलंकारसर्वस्वकृतेत्थमस्य विभागः प्रदर्शितः । वाच्या प्रतीयमाना चेति तावदुत्प्रेक्षा द्विविधा । इवादिप्रयोगे वाच्या, तदप्रयोगे प्रतीय- माना । तत्र वाच्या जातिगुणक्रियाद्रव्याणामप्रकृतानामध्यवसेयत्वेन चतुर्विधा । तेषां च प्रत्येकं भावाभावाभिमानरूपतया द्वैविध्येनाष्ट- विधा । तेषु निमित्तगुणक्रियारूपत्वेन षोडशभेदाः । निमित्तस्य पुनरू- NORTHEAstem.twatantaereameraPyamHRNANTARWARANASHANTIPuratamIILAMRAJARAM-AmrutnwarRANA 103808080PMMptim १. राजा चन्द्रो नृपश्च. २. भुवं गर्मिण्यमिलपिता मृदं पृथिवीं च.
चित्रमीमांसा। (९९ प पादानानुपादानांभ्यां द्वात्रिंशत्प्रकाराः। तेषु पुनः प्रत्येकं स्वरूपहेतुफ- लोत्प्रेक्षारूपत्वेन षण्णवतिर्भेदाः । तत्र द्रव्यस्य स्वरूपोत्प्रेक्षणमेवेति हेतुफलोत्प्रेक्षास्ततोऽपि विपातनीयाः । ततः षोडशभेदा न्यूनाः । जात्यादीनामपि हेतुफलोत्प्रेक्षयोनिमित्तस्यानुपादानं न संभवति ततश्चतु- विशतिर्भेदा न्यूनाः । तथा च स्वरूपोत्प्रेक्षावैकल्येन द्वात्रिंशद्भेदा; हेतु- फलोत्प्रेक्षे प्रत्येकं द्वादशभेदे, इति पञ्चपञ्चाशद्भेदा वाच्योत्प्रेक्षा । प्रती- यमानोत्प्रेक्षायामप्येवमेव गणना । तत्र स्वरूपोत्प्रेक्षायामपि निमित्तानु- पादानं न संभवतीति भेदः । ततश्च तत्र स्वरूपोत्प्रेक्षा षोडशभेदा, हेतुफलोत्प्रेक्षे पूर्ववहादशभेदे इति चत्वारिंशद्भेदा गम्योत्प्रेक्षा । - एव- मेव मिलित्वा षण्णवतिभेदोत्प्रेक्षेति । विद्यानाथेन पुनद्रव्यस्य हेतुफलोत्प्रेक्षणमप्यङ्गीकृत्यानुपात्तनिमित्तेषु गम्यस्य निमित्तस्य गुणक्रियारूपत्वेन भेदगणनमजातपुत्रनामकरणकल्पं न चारुत्वावहमिति तदनादृत्यान्यथा विभागो दर्शितः । वाच्यायां खरूपोत्प्रेक्षा चतुर्विंशतिभेदा, अनुपात्तनिमित्तायां गुणक्रियारूपभेदग- णनाभावेन भेदाष्टकहासात् । हेतुफलोत्प्रेक्षे प्रत्येकं षोडशविधे । द्रव्यो- प्रेक्षागोचराणां भावाभावाभिमानेन गुणक्रियानिमित्तत्वेन चतुर्णा मेदा- नामाधिक्यात् । एवं षट्पञ्चाशद्भेदा वाच्योत्प्रेक्षा । प्रतीयमानायां पुनः स्वरूपोप्रेक्षापि षोडशप्रकारा । तत्र निमित्तानुपादानासंभवेन तन्निबन्ध- नभेदाष्टकहासात् । ततश्चाष्टचत्वारिंशद्देदा प्रतीयमानोत्प्रेक्षा । एवं मिलित्वा चतुरुत्तरशतभेदोत्प्रेक्षेति । अथोदाहरणानि दिङ्मात्रेण प्रदर्श्यन्ते। उपात्तगुणनिमित्तजातिभा- वस्वरूपोत्प्रेक्षा यथा- 'स वः पायादिन्दुर्नवबिसलताकोटिकुटिलः स्मरारेर्यो मूर्ध्नि ज्वलनकपिशे भाति निहितः ।
काव्यमाला। - सवन्मन्दाकिन्याः प्रतिदिवससिकेन पयसा कपालेनोन्मुक्तः स्फटिकवलेनाङ्कुर इव ॥' अत्राङ्कुरशब्दस्य जातिशब्दत्वाज्जातिरुत्प्रेक्ष्यते । उपात्तः कौटिल्य- गुणो निमित्तम् । एवमुपात्तक्रियानिमित्तापि जातिभावस्वरूपोत्प्रेक्षोदाह- र्तव्या । उपात्तक्रियानिमित्तगुणभावस्वरूपोत्प्रेक्षा यथा- 'निवेशितं यावकरागदीप्तये लमं तदीयाधरसीनि सिक्यकम् । रराज तत्रैव निवस्तुमुत्सुकं मधूनि निषूय सुधासधर्मिणि ।।' अत्रौत्सुक्यं गुण उत्प्रेक्ष्यते । उपात्ता लगनक्रिया निमित्तम् । एक- मुपात्तगुणनिमित्तापि गुणभावस्वरूपोत्प्रेक्षोदाहर्तव्या। उपात्तगुणनिमि. तक्रियाभावस्वरूपोत्प्रेक्षा यथा- 'अथ सांध्यसान्द्रकिरणारुणितं हरिहेतिदूति मिथुनं पततोः । पृथगुत्पपात विरहार्तिगलवृदयस्रुतासृगनुलिप्तमिव ॥' 'अव रुषिरानुलेपनक्रियोत्प्रेक्ष्यते । उपात्त आरुण्यगुणो निमित्तम् । एवमुपातक्रियानिमित्तापि क्रियाभावखरूपोत्प्रेक्षोदाहर्तव्या । उपात्तक्रि- यानिमित्तद्रव्यभावखरूपोत्प्रेक्षा यथा- 'एकैकमुद्गतगुणं च्युतदूषणं च हित्वान्यमन्यमुपगम्य परित्यजन्ती । एतां जगाद जगदर्चितपादपद्मा पनामिवाच्युतभुजान्तरविच्युतां सा ॥' अत्र पद्माया एकतया द्रव्यत्वाइव्यमुत्प्रेक्ष्यते। उपात्ता उपगम्यपरि- त्यजनक्रिया निमित्तम् । एवमुपात्तगुणनिमित्तद्रव्यभावस्वरूपोत्प्रेक्षोदाह- चित्रमीमांसा। १०१ तव्या । एवं भावाभिमानेषु जात्यादिषूपात्तनिमित्ता अष्टौ भेदाः संपन्नाः। अनुपात्तनिमित्तजातभावखरूपोत्प्रेक्षा यथा- 'वर्षातपानावरणं चिराय काष्ठौघमालम्ब्य समुक्षितेषु । बोलेषु ताराकवकेष्विवैकं विकवरीभूतमवैमि चन्द्रम् ॥ अत्र कवकजातिरुत्प्रेक्ष्यते । अनुपात्तो धावल्यवर्तुलत्वादिर्गुणो नि- मित्तम् । अनुपात्तनिमित्तगुणभावस्वरूपोत्प्रेक्षा यथा- 'अयमाभाति राजेन्द्रो विजिताखिलशात्रवः । अनुजीविषु सर्वेषु प्रसाद इव मूर्तिमान् ॥' अत्र प्रसादो गुण उत्प्रेक्ष्यते । अनुपात्तो बहुप्रदत्वसुखनिषेव्यत्वादि- निमित्तक्रियाभावोत्प्रेक्षा यथा- 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नमः असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता दिन... " अत्र क्रियोत्प्रेक्ष्यते । अनुपात्तं व्यापनादि निमित्तम् । अनुपात्त- निमित्तद्रव्यभावोत्प्रेक्षा यथा- 'देहस्था दर्पणे यस्य पश्यति प्रतिमामुमा । अन्यार्धाभ्यामिवोत्पन्नमर्धनारीश्वरान्तरम् ॥ अत्रार्धान्तरोत्पन्नार्धनारीश्वरान्तरद्रव्यमुत्प्रेक्ष्यते । प्रतिबिम्बव्यत्यस्त- भागस्त्रीपुरुषाकारशालित्वमनुपात्तं निमित्तम् । अर्धनारीश्वरान्तरोत्प्रेक्षा- यामपि वस्तुतोऽर्धनारीश्वरस्यैकत्वाद्रव्योत्प्रेक्षात्वमविरुद्धम् । यथा वा- 'विललास जलाशयोदरे वचन द्यौरनुबिम्बितेव या। परिखा कपटस्फुटस्फुरत्प्रतिबिम्बानवलम्बिताम्बुनि ॥' अत्र देवपुरीद्रव्यमुत्प्रेक्ष्यते । सौभाग्यातिशयः कुण्डिनपुरीगतोऽनु- - १. 'नैकेषु ताराकलिकेषु' क. २. 'कलिकात्वजातिः' क.
१०२ काव्यमाला। पात्तो निमित्तम् । एवं चतुर्विधानुपात्तनिमित्तोदाहृता । अस्यां निमित्तस्य गुणक्रियारूपभेदमालोच्याष्टविधत्वमूहनीयम् । एवं जात्याद्युत्प्रेक्षा भावाभिमानवत्यः षोडश संपन्नाः। अथ वा विद्यानाथोक्तप्रकारेणानुपात्तनिमित्तगुणक्रियाभेदो न चिन्त- नीयः । अनुपाते निमित्ते तव्यवस्थाया असंभवात् । यथा-'विललास जलाशयोदरे' इत्यत्र निरतिशयसौभाग्यवत्त्वं गुणो निमित्तमित्यपि वक्तुं शक्यम् । निरतिशयसौभाग्यभागित्वं क्रियानिमित्तमित्यपि । अतो द्वाद- शैव भेदाः । अथाभावाभिमानवत्यः स्वरूपोत्प्रेक्षाः । उपात्तगुणनिमित्तजातिगुणक्रियाणामभावोत्प्रेक्षा यथा- 'अकुमक्षोदमिवाङ्गमेतदयावकारुण्यमिवाधरं ते । अनञ्जनोल्लेखमिवाक्षियुग्मं खाभाविकैरेव गुणैरुदीक्षे ॥' अत्र कुङ्कुमरजोयावकरागाञ्जनोल्लेखनरूपाणां जातिगुणक्रियाणाम- भावा उत्प्रेक्ष्यन्ते । उपात्ताः खाभाविकगौरारुणनीलवर्णा निमित्तम् । एतासु क्रियानिमित्तमप्युदाहार्यम् । उपात्तक्रियानिमित्तद्रव्याभावोत्प्रेक्षा wws- यथा- mireme- 'भुवि त्वन्मुखमालोक्य पूर्णचन्द्रमिवोदितम् । अचन्द्रामिव पश्यामि दिवं शोभाविवर्जनात् ॥' अत्र चन्द्रस्य द्रव्यस्याभाव उत्प्रेक्ष्यते । उपात्ता वर्जनक्रिया निमि- तम् । एवमुपात्तगुणनिमित्तापि द्रव्याभावोत्प्रेक्षोदाहार्या । एतावेव श्लोको 'इदं विशालाक्षि विभावयामि' 'पदवीममृतान्धसाम्' इति चतुर्थपादयोः पाठेऽनुपाचनिमित्तजात्याधभावोत्प्रेक्षोदाहरणे। एवमभावाभिमानवत्योऽपि स्वरूपोत्प्रेक्षाः पूर्वोत्तरीत्या षोडश द्वादश वेति द्वात्रिंशञ्चतुर्विंशतिर्वा स्वरूपोत्प्रेक्षाभेदाः प्रदर्शितप्रायाः ।
चित्रमीमांसा। १०३ - -- एतासु विषयिणः कचित्तादात्म्येनाध्यवसायः । यथा---'स वः पायादिन्दुः' इत्यत्र । कचित्तु संसर्गितया यथा-निवेशितं यावकराग- दीप्तये' इत्यत्रौत्सुक्यस्येत्ययमपि भेदो बोद्धव्यः । अथ हेतूप्रेक्षा । उपात्तगुणनिमित्ता जातिहेतूप्रेक्षा यथा- 'तनुरेणशावकदृशस्तनीयसी शनकैरवाप शरकाण्डपाण्डताम् । उदरान्तरस्थितिमुपेयुषो हरेः करपाञ्चजन्यकिरणैरिवोद्गतः ॥ अत्र किरणजातिः पाण्डिमानं प्रति हेतुत्वेनोत्प्रेक्ष्यते । स एव पाण्डिमा निमित्तम् । एवं क्रियानिमित्तापि जातिहेतूत्प्रेक्षोहनीया । क्रियानिमित्ता गुणहेतूत्प्रेक्षा यथा- 'वहतो बहुशैवलक्षतां धृतरुद्राक्षमधुव्रतं खगः । स नलस्य करं ययौ पुनः सरसः कोकनदभ्रमादिव ॥' अत्र नलकरप्राप्तिक्रियां प्रति कोकनदभ्रमो हेतुत्वेनोत्प्रेक्ष्यते । सैव प्राप्तिक्रिया निमित्तम् । उत्तरत्रापि हेतूत्प्रेक्षायां सर्वत्र फलमेव निमि- त्तम् । एवं गुणनिमित्तापि गुणहेतूप्रेक्षा द्रष्टव्या । गुणनिमित्ता क्रिया- हेतूत्प्रेक्षा यथा- 'विवस्वता नायिषतेव मिश्राः स्वगोसहस्रेण समं जनानाम् । गावोऽपि नेत्रापरनामधेयास्तेनेदमान्ध्यं खलु नान्धकारैः ॥' अत्रान्ध्यगुणं प्रति नयनक्रिया हेतुत्वेनोत्प्रेक्ष्यते । एवं क्रियानिमि- तापि क्रियाहेतूत्प्रेक्षोदाहार्या । क्रियानिमित्ता द्रव्यहेतूप्रेक्षा यथा- 'हृदयं परिपूतमेव नित्यं विदुषस्तस्य विशुद्धकर्मभाजः । विपदापगयेव विश्वमूर्तेः प्रवहन्त्या वसतोऽन्तरङ्गिपद्मात् ॥' अत्र पवनक्रियां प्रति गङ्गाद्रव्यं हेतुत्वेनोत्प्रेक्ष्यते । एवं गुणनिमि- त्तापि हेतूत्प्रेक्षोदाहार्या । इत्थं भावाभिमानवत्यो हेतूत्प्रेक्षा उदाहृताः । १. 'दधतो क. - - काव्यमाला। अथाभावाभिमानवत्यः। 'रात्री रवेर्दिवा चेन्दोरभावादिव स प्रभुः । भूमो प्रतापयशसी सृष्टवान्सततोत्थिते ॥' 'तस्मिन्नस्तंगते मानौ विधुस्तस्य पदे कियान् । इत्यनादरतो नूनं मीलत्यम्बुरुहाकरः ।। 'वीणावादनसंरम्भाच्चकम्पे दक्षिणः स्तनः । अदृष्ट्वेतरं तस्यास्तम्भाभोगतिरोहितम् ॥' अत्राद्यश्लोके रविचन्द्रयोर्जातिद्रव्ययोरभावी हेतुत्वेनोत्प्रेक्ष्येते । द्वि- तीयतृतीयश्लोकयोरादरदर्शनयोर्गुणक्रिययोरभावौ । सृष्टिमीलनकम्पक्रि- यास्तु निमित्तानि । एवं गुणनिमित्ता अप्यभावहेतूत्प्रेक्षा उदाहार्याः । एवं पोडशभेदा हेतून्मेक्षा दर्शिता । अथ फलोत्प्रेक्षाः- 'सौधेषु यत्र मुखमासु मृगेक्षणानां ज्योत्स्नापहासचतुरासु विसृत्वरीषु । चन्द्रस्तदर्थमिव रात्रिषु बंभ्रमीति कुर्वन्करप्रसरणान्यधिजालवर्गम् ॥' 'तव निर्वर्ण्य यद्वर्ण स्वर्ण वर्णाय तादृशे । त्वत्कोशगेहान्निर्गम्य तीर्थेषु वसति ध्रुवम् ॥' थिस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम् । उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् ।। Thameefabouwlnation १. 'सततोदिते' ख. २. 'तस्यास्तुम्म्यामोग' ख. ३. विणकृतविक्रमादेव- चरिते महाकाव्ये पथमेतत.
चित्रमीमांसा।
'दुग्धार्णवसहस्राय कैलासाचलकोटये ।
नूनं प्रतापरुद्रेण यशो दिक्षु प्रसारितम् ॥
एषु श्लोकेषु क्रमेण मुखप्रभागौरवर्णपरिवर्तनदुग्धार्णवकैलासरूपाणि
जातिगुणक्रियाद्रव्याणि फलत्वेनोत्प्रेक्ष्यन्ते । भ्रमणतीर्थवासप्रस्थानप्रसा-
रणक्रिया निमित्तानि । एवं गुणनिमित्ता अप्युदाहार्याः ।
अभावाभिमानवत्यः फलोत्प्रेक्षा यथा--
'त्वदाननेन सादृश्यं प्राप्तुकामो निशाकरः।
कलङ्कपङ्काभावाय नूनं मज्जति सागरे ।'
'अरण्यवासाजितबान्धवासु मृगीष्ववैरार्थमिवाशरण्याः ।
कलिन्ददेशेश्वरवैरिनार्यः पराङ्मुखा लोचनविभ्रमेषु ॥'
'हेमाद्रिकुञ्जेषु विहारभाजः स्निग्धाङ्गनाकल्पितचन्द्रकान् ।
श्रीवीररुद्रस्य यशोविलासान्गायन्त्यसंस्प्रष्टुमिवान्धकारम् ॥'
'वीररुद्रनरेन्द्रस्य जयप्रस्थानसंभवम् ।
रजःपिहितदिग्गोलं निराकाशमिवोत्थितम् ॥'
एषु श्लोकेषु पङ्कवैरस्पर्शनाकाशानामभावाः फलत्वेनोत्प्रेक्ष्यन्ते । तेषु
पराङ्मुखत्वमेको गुणः । अन्याः क्रियाः। इत्थं गुणक्रियानिमित्मेदा
उदाहार्याः। एवं फलोत्प्रेक्षाः षोडश दर्शिताः । इति वाच्योत्प्रेक्षावर्गः।
अथ गम्योत्प्रेक्षा दिङ्मात्रेणोदाहियते-
'नभसि महसां ध्वान्तध्वाङ्कप्रमापणपत्रिणा-
मिह विहरणैः श्येनंपातां खेरवलोकयन् ।
शशविशसनत्रासादाशामगाच्चरमां शशी
तदधिगमनात्तारापारावतैरुदडीयत ॥
अत्र सूर्येण विसृष्टानां ध्वान्तकाकप्रमापणश्येनरूपाणां किरणानां
काव्यमाला। विहरणेन निमित्तेन सूर्यस्य श्येनपातवती मृगयाविहारक्रियोत्प्रेक्ष्यत इति क्रियास्वरूपोत्प्रेक्षा तावदेका । तस्माच्छशिनस्त्रासः तस्य दिगन्तरगमनं प्रति हेतुत्वेनोत्प्रेक्ष्यत इति हेतूप्रेक्षान्या । ततस्तदधिगमस्तारापारावतानां मुग्धत्वेनाध्यवसितः तत्तत्स्थानेऽस्फुरणं प्रति हेतुत्वेनोत्प्रेक्ष्यत इत्यपरा च हेतूत्प्रेक्षा । सर्वाश्चैता गम्याः । इवाद्यभावात् । एवमन्या अपि स्वय- मेव बोध्याः। नूनमादिशब्दविरहेण पूर्वोक्तप्रकाराणामुन्नेतुं शक्यत्वात् । प्रागुदाहृतानामेव श्लोकानां नूनमादिशब्दाविधानेन गम्योत्प्रेक्षोदाहरण- त्वसंभवाच्च गम्योत्प्रेक्षाः पृथक्साकल्येन नोदाहृताः । इदं तु चिन्त्यते । गम्योत्प्रेक्षामु जातिव्यस्वरूपोत्प्रेक्षे संभवतो नवेति । संभवत इति पक्षे---- 'रुचयोऽस्तमितम्य भाम्वतः स्खलिता यत्र निराश्रयाः खलु । अनुसायमभुविलेपनापणकाश्मीरजपण्यवीथयः ।।' 'परिखावलयच्छलेन या न परेषां ग्रहणस्य गोचरः। फणिभाषितभाष्यफक्किका विषमा कुण्डलनामवापिता ।।' इत्यादिनोदाहरणेन भाव्यम् । अभिमतं च तथा केषांचित् । अलं- कारसर्वस्वकारस्य तु न संभवत इति पक्षः । एतदभिप्रायेणैव तेनोक्तं गम्योत्प्रेक्षाविभागे 'प्रायश्चात्र स्वरूपोत्प्रेक्षा न संभवति' इति । कस्त- नयोस्तस्य । पक्षेऽलंकारः रूपकमेव । अत एव- 'पीयूषप्रसूतिर्न वा मखभुजा दात्रं तमोलतये खर्गमाविमनस्ककोकवदनसस्ता मृडालीलता । द्विर्भावः सरकार्मुकस्य किमपि प्राणेश्वरी सागसा- माशातन्तुरुदश्चति प्रतिपदि प्रालेयभानोस्तनुः ॥' doAONKantarpuONMENTamame १. निरालया:' ख.
चित्रमीमांसा। १०७ इत्यत्र मालारूपकमुदाहरता 'स्वर्गङ्गा विमनस्का' इत्यादिष्वपि रूपक- मेवोररीकृतम् । तस्माज्जातिद्रव्योत्प्रेक्षे परिहृत्यैव गम्योत्प्रेक्षावर्गः परि- गणनीयः। इदं चान्यद्बोद्धव्यम् । धर्म्युत्प्रेक्षासु विषयिविषयानुगतो धर्मो धर्मोत्प्रेक्षासु विषयाश्रयविषयानुगतो धर्मश्च निमित्तम् । तेन 'उवाह या तनुलता' इत्यादौ वैमल्यं निमित्तमित्यादिपक्षो न युक्तः । तस्य तादात्म्यसंभावनोपयुक्तप्रतिबिम्बघटकस्य तनुधर्मस्य विषयधर्मत्वाभावात्। 'यत्रान्यधर्मसंबन्धात्' इत्यादिलक्षणं वदद्भिः सर्वैरपि विषयधर्मस्यैव निमित्तत्वस्य व्यवहृतत्वादित्यलमतिविस्तरेण । अत्र ब्रूमः- 'विषयिण उत्प्रेक्षायां जातिगुणाद्यात्मना विभागविधा । यादर्शि नैव शोभा तयोपमायामिवोपमेयस्य ॥ तदभावेऽलंकाराः संभवमात्रेण न विभागम् । अर्हन्तीतरथास्या विषयोऽप्येवं विभक्तव्यः ।। धर्मस्यापि विभागो गुणक्रियात्मा न चारुताहेतुः । उपमायामिव सोऽपि न्यूनस्तदभावयोरसंकलनात् ॥ मनसि सन्तमिव प्रियमीक्षितुं नयनयोः स्पृहयान्तरुपेतयोः । ग्रहणशक्तिरभूदिदमीययोरपि न संमुखवास्तुनि वस्तुनि ॥ वतंसनीलाम्बुरुहेण किं दृशा विलोकमाने विमनीबभूवतुः । अपि श्रुती दर्शनसक्तचेतसां न तेन ते शुश्रुवतुर्मगीदृशाम् ॥ इत्यादिषु पश्यामो गुणक्रियाभावयोरपि व्यक्तम् । उज्ज्वलभावनिबन्धनमुत्प्रेक्षायां निमित्तत्वम् ॥' अत्र ह्याचे उदाहरणे नयनयोर्हदयगतप्रियवीक्षणायान्तःप्रविष्टत्वो- १०८ काव्यमाला। प्रेक्षणायां बाह्यवस्तुग्रहणशक्त्यभावो निमित्तम् । द्वितीये श्रोत्रेन्द्रिय- गतविलोकनैकाग्रत्वोत्प्रेक्षायां श्रवणक्रियाभावो निमित्तम् । एवम्- 'वीरासनैर्ध्यानयुषामृषीणाममी समध्यासितवेदिमध्याः । निवातनिष्कम्पतया विभान्ति योगाधिरूढा इव शाखिनोऽपि ॥' इत्यादीन्यभावनिमित्तत्वे भूयास्युदाहरणानि । 'अपि च समुच्चयभेदः परिगणनीयो निमित्तेषु । भावी भावाभावी समुच्चितावपि निमित्ततां भजतः ।।' 'अवैमि हंसावलयो वलक्षास्त्वत्कीर्तिमूर्तेश्चपलाः पुलाकाः । उड्डीय युक्तं पतिताः सवन्तीवेशन्तपूर परितः प्लवन्ते ।।' 'उडपरिषदः किं नार्हन्ती निशः किमनौचिती पतिरिह न यदृष्टस्ताभ्यां गणेयरुचां गणः । स्फुटमुडपतेराश्मं वक्षः स्फुरन्मलिनात्मन- श्छविमदनयोर्विच्छेदेऽपि द्रुतं बत न द्रुतम् ॥' एवमादिषु बहीषु निहोतुं केन शक्यते । समुचितनिमित्तत्वमुत्प्रेक्षासु निरीक्षितम् ॥' आये उदाहरणे हसावलीना कीर्तिपुलाकत्वोत्प्रेक्षायां धावल्यगुणो जलोपरि प्लवनक्रिया चेत्युभयं निमित्तम् । द्वितीये उड्डपतिवक्षसोऽश्म- विकारत्वोप्रेक्षायाममच्छविरूपो भावो द्रुतत्वाभावश्चेत्युभयं निमि- त्तम् । किं च- 'उत्प्रेक्षायां निमित्तत्वं यज्जातिद्रव्ययोरपि । तेनापि विकलां विघ्नो निमित्तगणनामिमाम् ।।' १. शन्तमपसरः, तत्पूरयित्वेति णमुल्- *- चित्रमीमांसा । 'द्रोणः स तत्र वितरिष्यति भाग्यलभ्य- सौभाग्यकार्मणमयीमुपदां गिरिस्ते । तबीपदीप इव दीप्तिभिरोषधीनां चूडामिलज्जलदकज्जलदर्शनीयः ।। अत्र द्रोणाचलस्य दीपत्वोत्प्रेक्षायां तत्प्ररूढौषधिवृक्षदीपस्योपरि स्थितं जलदकज्जलं च निमित्तमिति जातेनिमित्तत्वं दृष्टम् । 'निशासु मूर्ध्नि स्फुरता यत्सौधो राजतीन्दुना । श्रीकण्ठो भक्तरक्षार्थं संनिधानं भजन्निव ॥' इत्यत्र बाणासुरसौधस्य शिवरूपोत्प्रेक्षायां मूर्ध्नि स्फुरन्निन्दुनिमित्तम् । एवम्-'भास्वतालंकारेण, श्वेतरोचिषा मितेन, लोहितेनाधरेण, सौम्येन दर्शनेन, गुरुणा नितम्बेन, सितेन हारेण, शनैश्चरेण पादेन, विकचेन लोचनोत्पलेन, त्रिभुवनविजयकेतुना रूपेण, ग्रहमयीवे'त्यत्र वासवदत्तायाः सकलग्रहमयत्वोत्प्रेक्षायां श्लेषण तत्तद्रहरूपापन्नालंकारा- दयो निमित्तमिति जातिक्रियागुणानां समुच्चितानां निमित्तत्वं दृष्टम् । न चोदाहृतेषु दीप्त्यादिसंबन्धो निमित्तं स च सर्वो गुण एवेति वाच्यम् । तथा सति 'ईदृक्षां क्षामतां गतौ' इत्यादावपि गमनादिक्रियासंबन्ध एवं निमित्तमिति क्रियाया एव निमित्चत्वप्रसङ्गात् । न च तथापि भावता- लंकारेण' इत्यादौ श्लेषेण सूर्यरूपताधापन्ना अलंकारादयो निमित्तं न लविशिष्टा जातिव्यं वेति वाच्यम् । तथासति 'कपालेनोन्मुक्तः स्फटि- कधवलेनाङ्कुर इव' इत्यादावपि कपालोन्मुक्ताङ्कुरत्वादिविशिष्टमेवोत्प्रेक्ष- णीयं न त्वविशिष्टं जात्यादिकमिति विषयिणोऽपि जात्यादिरूपेण विभा- गस्यासामञ्जस्यप्रसङ्गात् । तस्माद्विषयिण इव निमित्तस्यापि जात्यादिरू- १. 'वृक्षदीप्तय उपरि' क-ख. २. 'गुणानां समुच्चितत्वं दृष्टम्' ग, काव्यमाला। पेण चतुर्विधतया पुनः प्रत्येकं भावाभावाभ्यामष्टविधतया च विभागः कर्तव्य इति न्यून इवायं विभागः । किं च यद्धेतूत्प्रेक्षायामनुपादानं निमित्तम्य वापि न संभव इति प्रतिश्रुतं तदपि नो चारु । 'ममा सुधायां किमु तन्मुखेन्दोलमा स्थिता तत्कुचयोः किमन्तः। चिरेण तन्मध्यममुञ्चतास्य दृष्टिः ऋशीयः स्खलनाद्भिया नु ।' 'इह हेतावुत्प्रेक्ष्ये मजनलगने निमित्तमनुपात्तम् । तत्कार्य दृष्टिगतं चिरेण यन्मुखकुचत्यजनम् ।' स्यादेतत् । इह मज्जनलगनोत्प्रेक्षयोश्चिरेण मुखकुचत्यागावनुपात्ती निमित्ते, तयोश्च न मज्जनलगने हेतुत्वयोम्ये इति । सत्यम् । तथापि हेतूत्प्रेक्षैव । न हि हेतूभवनक्षमस्योत्प्रेक्षैव हेतूत्प्रेक्षा, किं तु हेतुत्वेनो- प्रेक्षा । यथा-'सैपा स्थली यत्र विचिन्वता त्वाम्' इत्यत्र । अत्र हि पञ्चमी हेतुत्वप्रतिपादिका । तथा- 'कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ । अपश्यन्ताविवान्योन्यमीक्षा क्षामतां गतौ ।' इत्यत्र क्षामतागमनं प्रति परस्परादर्शनस्य हेतुत्वोत्प्रेक्षायां शतृप्रत्ययो हेतुत्वप्रतिपादकः। 'मदनतापभरेण विदीर्य नो यदुदपाति हृदा दमनस्वमुः। निबिडपीनकुचद्वययन्त्रणा तमपराधमधात्प्रतिबध्नती ।।' इत्यत्र हृदयस्य मदनतापेन स्फुटितत्वोत्पतनामावे कुचद्वययन्त्रणाया हेतुत्वोत्प्रेक्षायामुत्पतनप्रतिबन्धकत्वपरः प्रतिबनतीशब्दः फलतोऽनुत्प- तनहेतुत्वप्रतिपादकः । एतादृशेषु च फलस्य निमित्तस्योपादानं नियत- मेव । अन्यथा पञ्चम्यादीनामन्वयसंघटनाभावात् । यत्र हेतुत्वप्रतिपा- दकः शब्दो नास्ति तत्र हेतुभवनक्षमस्यापि स्वरूपोत्प्रेक्षैव ।
चित्रमीमांसा। अत एवालंकारसर्वस्वकृता- 'प्राप्याभिषेकमेतसिन्प्रतितिष्ठासति द्विषाम् । चकम्पे लोक्यमानार्थभयविह्वलितेव भूः ॥' इत्यत्र , विह्वलितत्वस्योत्प्रेक्ष्यस्य हेतुत्वप्रतिपादकशब्दरहितस्य कम्प प्रति हेतुभवनक्षमत्वेऽपि स्वरूपोत्प्रेक्षोदाहृतेति चेत् । मैवम् । एवं हि- 'स्मरसि स्मर मेखलागुणैरुत गोत्रस्खलितेषु बन्धनम् । च्युतकेसरदूषितेक्षणान्यवतंसोत्पलताडनानि च ॥' इत्यत्र हेतूत्प्रेक्षा लक्ष्या न स्यात् । स्मरणगतहेतुत्वप्रतिपादकशब्दा- भावात् । न चेष्टापत्तिः । 'कृतवानसि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् । किमकारणमेव दर्शनं विलपन्त्यौ रयते न दीयते ॥' इत्युक्त्यनन्तरं प्रवृत्तस्यास्य श्लोकस्य, अथ वा मत्पूर्वकृतापराधस्मरणे- नैव दर्शनं न दीयते किमिति हेतूत्प्रेक्षापरत्व एव सामञ्जस्यात् । यदि तु हेतुत्वप्रतिपादकशब्दाभावेऽपि पूर्वापरानुगुण्येनापि हेतूप्रेक्षा भवेत् वहींहापि तृतीयोत्प्रेक्षासमभिव्याहारात्तस्यां चिरेण मध्यत्यजने शब्दो- पात्ते स्खलनभयस्यैवाद्योत्प्रेक्षयोरपि निमित्ततया गम्यमाने चिरान्मुखकुच- त्यजने मज्जनस्य लगनस्य च हेतुत्वेनोत्प्रेक्षणमित्येव युक्तम् । यत्रापि हि फले फलत्वप्रतिपादकशब्दस्तत्राप्यौचित्येन फलोत्प्रेक्षामवधीर्य हेतूत्प्रेक्षा- श्रीकार्या दृश्यते । यथा- 'हृत्तस्य यन्मन्त्रयते रहस्त्वां तद्व्यक्तमामन्त्रयते मुखं यत् । तद्वैरिपुष्पायुधमित्रचन्द्रसख्यौचिती सा खलु तन्मुखस्य ।' १. 'वा' क. २. 'इत्युक्त्वानन्तरम्' क.
११२ काव्यमाला। अत्र हि हृदयकृतरहस्यमन्त्रणोद्भेदनप्रत्यवमर्शकेन तच्छब्देन सख्यौ- चितीशब्दस्य कर्मार्थकष्यबन्तस्य सामानाधिकरण्याच्छन्दतो रहस्यो- द्भेदनस्य मुखगतहृदयवैरिमन्मथसुहृच्चन्द्रसख्यकार्यत्वं प्रतीयते । तथापि तत्र सख्यस्य रहस्योद्भेदनं प्रति हेतुत्वेनैवोत्प्रेक्षा, न तु हरस्योद्भेदनस्य सख्यफलत्वेन । रहस्योद्भेदनं फलमुद्दिश्य सख्यं कृतमित्युत्प्रेक्षाया असा- मञ्जस्यात् । हेतुत्वमात्रेण हेतूत्प्रेक्षाया इव तदुद्देशं विना कार्यत्वमात्रेण फलोत्प्रेक्षाया अनिर्वाहात् । एवं यत्र हेतौ हेतुत्वप्रतिपादकः शब्दस्तत्रापि क्वचिदौचित्येन हेतूप्रेक्षामवधीर्य फलोत्प्रेक्षाङ्गीकार्या दृश्यते । यथा- 'स्मराशुगीभूय विदर्भसुभ्रूवक्षो यदक्षोमि खलु प्रसूनैः । सजं सृजन्त्या तदशोभि तेषु यत्रैकया सूचिशिखां निखाय ॥' अत्र निखनने पूर्वकालत्वरूपकारणत्वप्रतिपादकक्त्वाप्रत्ययसद्भावेऽपि न तद्वैरशोधनं प्रति हेतुत्वेनोत्प्रेक्ष्यं किं तु वैरशोधनार्थं निखननमिति वैरशोधनमेव फलत्वेनोत्प्रेक्ष्यम् । सिद्धासिद्धयोरपि सिद्धस्योत्प्रेक्षणीय- त्वात् । इह तदुद्देशोत्प्रेक्षणसंभवाच्च । यथा वा- 'अस्यैव सर्गाय भवत्करस्य सरोजसृष्टिर्मम हस्तलेखः । इत्याह धाता हरिणेक्षणायां किं हस्तलेखीकृतया तयास्याम् ॥' , अत्र हस्तलेखीकृतया सरोजसृष्ट्येति करणविभक्तिसद्भावेऽपि न सा विधातृकर्तृकसरोजसृष्टिगतहस्तलेखत्वप्रकाशनं प्रति हेतुत्वेनोत्प्रेक्ष्यते, किं तु तत्प्रकाशनार्थ सरोजसृष्टिहस्तलेखकरणमिति तत्प्रकाशनमेव फलत्वेनो प्रेक्ष्यम् । किं बहुना यत्र हेतुत्वप्रतिपादकः शब्दस्तस्यैव फलत्वमौधि- त्येन क्वचिदङ्गीकार्यं दृश्यते । यथा- 'स्तनावालोक्य तन्वयाः शिरः कम्पयते युवा । तयोरन्तरनिर्ममां दृष्टिमुत्पाटयन्निव ।।' १. हस्तलेखो नाम रुचिरवर्णलेखसिम पूर्वमभ्यासदााय तदभ्यसनम्, - mainputanusmitideovuTH चित्रमीमांसा। ११३ अत्र शतुहेतौ विधानेऽपि फलस्याप्युद्देश्यतया कथंचिद्धेतुत्वमित्युप- पाद्य फलोत्प्रेक्षाङ्गीकरणीया । एवं च फलत्वादिप्रतिपादनमप्यनादृत्य हेतूत्प्रेक्षादिकमौचित्येनाङ्गीकार्य तदा किमु वक्तव्यं विरोधिशब्दाभावे औचित्यानुशरणं कार्यमिति । एवमनया दिशान्यत्रापि निमित्तानुपादानं संभवदूहनीयम् । अपि च- 'यथोपात्तनिमित्तमनुपात्तनिमित्तता । प्रत्येकं वर्तते तद्वत्समुच्चित्यापि दृश्यते ॥ - यथा- . 'मुनिद्रुमः कोरकितोऽसितद्युतिर्वनेऽमुनामन्यत सिंहिकासुतः । तमिस्रपक्षत्रुटिकूटभक्षितं कलाकलापं किल वैधवं वमन् ॥ अत्र कोरकनिर्गमनविशिष्टस्य मुनिद्रुमस्य विधुकलाकलापवमन- विशिष्टराहुरूपत्वे उत्प्रेक्ष्यमाणे विशिष्योत्प्रेक्षानिमित्तमसितवर्णत्वमुपा- तम्, विशेषणोत्प्रेक्षानिमित्तं तु कोरकविधुकलासाधादिरूपं नोपा- त्तम् । यथा वा- 'त्वत्प्राङ्गणे सुन्दर पाण्ड्यदेव मतङ्गजाः शृङ्खलिनो विभान्ति । आवासदानादरिभूपतीनामाशान्तशैला इव सापराधाः ।। अत्र विशेषणभूतसापराधत्वोत्प्रेक्षानिमित्तं शृङ्खलितत्वमुपात्तम् , वि- शेष्यशैलरूपत्वोत्प्रेक्षानिमित्तमौन्नत्यादिकं नोपात्तम् । यथा वा- 'अजस्रभूमीतटकुट्टनोत्थितैरुपास्यमानं चरणेषु रेणुभिः । स्यप्रकर्षाध्ययनार्थमागतैर्जनस्य चेतोभिरिवाणिमाकितैः॥ अत्र विशेष्यभूतचेतोरूपत्वोत्प्रेक्षायामणिमाकितैरिति निमित्तमुपा- तम् । अध्ययनार्थमागतैरिति तद्विशेषणोत्प्रेक्षायामपि चरणोपासनारूपं निमित्तमुपात्तम् । रयप्रकर्षेत्यध्ययनविशेषणे निमित्तं चेतसां वर्णनीया- ८ चि० मी० काव्यमाला। दश्वादपकृष्टरयत्वं नोपात्तम् । एवमन्यत्रापि निमित्तोपादानानुपादानसमु- चये उदाहर्तव्यम् । तस्मान्यूनः सतृणाभ्यवहारश्चायं विभागः । अतो- ऽत्र विषयिणो जात्यादिरूपेणाष्टधाविभागम् , धर्मस्य गुणक्रियारूपेण विभागं चापहाय विभागान्तरलभ्या यावन्तो भेदास्तावन्त एव चम- कारिणः । खरूपहेतुफलोत्प्रेक्षासु तु विधान्तरेणाप्यवान्तरभेदाः संभवन्ति । यथा--स्वरूपोत्प्रेक्षा द्विविधा, अविशिष्टोत्प्रेक्षा विशिष्टोत्प्रेक्षा च । यत्र विषयिणो विशेषणमुपात्तमपि नोत्प्रेक्षणीयमवगम्यते तद्विषयरूपस्य तन्नि- मित्तरूपस्य वा विषयविशेषणस्याभावात् किं तु तद्विशेषणं विषयिणि विधान्तरेणोपयुज्यते सा विशिष्टोत्प्रेक्षा । यत्र तु विषयिणो विशेषण- मप्युत्प्रेक्षणीयमवगम्यते तद्विषयरूपस्य तन्निमित्तरूपस्य वा विषयविशे- षणस्योपादानात्सा विशिष्टोत्प्रेक्षा । तत्राद्या यथा- 'रतेर्गृहीतानुनयेन कामं प्रत्यर्पितखानमिवेश्वरेण । काकुत्स्थमालोकयतां नृपाणां मनो बभूवेन्दुमतिनिराशम् ॥' अत्र मदनरूपत्वोत्प्रेक्षायां मदनाकृतिशालित्वमस्ति निमित्तम् । अतस्तावदुत्प्रेक्षणीयमवगम्यते तत्प्रत्यर्पणं रत्यनुनयप्रसन्नेन परमेश्वरेण कृतमिति विशेषणांशस्तु नोत्प्रेक्षणीयोऽवगम्यते । तदंशे विषयस्य वाच्यस्य गम्यस्य वा निमित्तस्य वालाभात् । किं तु परमेश्वरदग्धस्य मदनदेहस्यासुरदग्धस्य कचदेहस्य शुक्र इव न कश्चिदन्यः प्रत्यर्पणं कर्तुं शन्नोतीति विषयिणि प्रत्यर्पणोपपादकतया तद्विशेषणमुपयुज्यते इत्य- विशिष्टोत्प्रेक्षेयम् । विशिष्टोत्प्रेक्षायां 'मुनिद्रुमः कोरकितोऽसितद्युतिः' 'त्वत्प्राङ्गणे चित्रमीमांसा। सुन्दर पाण्ड्यदेव' इत्याद्युदाहरणे विषयोपादानाद्विषयिविशेषणस्योत्प्रे- क्षतावगम्यते । द्वितीये निमित्तोपादानाद्धेतुफलोत्प्रेक्षे त्वसिद्धयोः सिद्ध- योर्वा हेतुफलभावनोत्प्रेक्षणीयतया प्रत्येकं द्विविधे । 'सैषा स्थली यत्र चिन्वता त्वाम्' 'चोलस्य यद्भीतिपलायितस्य' इत्यादिषु नूपुरकण्ट- किद्रुमादावसिद्धयोर्विश्लेषदुःखललाटलिपिदर्शनादिकयोर्हेतुफलाभावेनो- प्रेक्षणीयता। 'आलोहिततलावेतौ क्षितौ विक्षेपणादिव । वर्णयेम कथं तन्व्याः पादौ पल्लवकोमलौ ।' 'पूर विधुर्वर्धयितुं पयोधेः शकेयमेणाङ्कमणिं कियन्ति । पयांसि दोग्धि प्रियविप्रयोगात्सशोककोकीनयने कियन्ति ॥' इत्यादिषु पादचन्द्रादौ स्वतःसिद्धयोरेव विक्षेपपयोवर्धनादिकयोहेतुफला- भावनोत्प्रेक्षणीयता । प्रकारान्तरेणापि कतिचिदस्या भेदान्समासोक्तिप्र- करणे दर्शयिष्यामः । यत्तु सर्वस्वकृता वैचित्र्यान्तरमस्या दर्शितम् । एषा कचिद्धर्मविषये श्लिष्टा, क्वचिच्छलादिशब्देन सापहवा, वचित्पदार्थान्वयवेलायां साह- श्याभिधानादुपमाक्रान्ताप्युपमावाक्यार्थतात्पर्यसामर्थ्यादभिमातृव्यापारी- चित्यक्रमेणोत्प्रेक्षायां पर्यवस्थतीत्युपमोपक्रमा चेति । तत्र धर्मविषये श्लिष्टत्वं किमित्युपन्यस्तम् । किं धर्मस्य निमित्तानुगामितयेव श्लेषेणापि निर्वाह्यत इति, किं वा धर्माशेषु शुद्धतेव श्लेषेणालंकृतापि दृश्यत इति । आये उपमायां साधारणधर्मस्यानुगामित्वादयो यावन्तो भेदाः साधार- ण्यनिर्वाहकास्ते सर्वेऽप्युत्प्रेक्षायां धर्मस्य निमित्ततानिर्वाहकाः संभवन्तीति १. 'अभिमन्त' ख-ग. । --
काव्यमाला।
न्यूनो विभागः । तथा हि 'बालेन्दुवक्राण्यविकाशमावात्' इत्यादौ
तावदनुगामित्वं स्पष्टम् । तथा-
'व्यराजत सखे तन्व्या वकं वलितकन्धरम् ।
लावण्यौघजलावृत्तनालदण्डमिवाम्बुजम् ॥'
इत्यत्र वस्तुप्रतिवस्तुभावः । बिम्बप्रतिबिम्बभावादयस्तु प्रागेवोदाहृताः।
द्वितीये निमित्तांशेन श्लेषेण वालंकारान्तरेणाप्यलंकृतता दृश्यते इति
न्यूनो विभागः । तथा हि 'अङ्गुलीभिरिव केशसंचयम्' इति निमित्तांशे
उपमालंकारः स्पष्टः।
'उदरं परिमाति मुष्टिना कुतुकी कोऽपि दमस्वसुः किल ।
धृततच्चतुरङ्गुलीव यद्वलिभिर्भाति सहेमकाञ्चिभिः ॥'
इत्यत्रोत्प्रेक्षा । अत्र दमयन्त्युदरस्य केनचित्कुतुकिना परिमीयमाणत्वो-
स्प्रेक्षायां काञ्चीसहितासु वलीषु तदीयाङ्गुलित्वोत्प्रेक्षालब्धमुदरगतं
तदीयाङ्गुलिचतुष्टयधारणं निमित्तम् ।
'अजसमारोहसि दूरदीर्घा संकल्पसोपानततिं तदीयाम् ।
श्वासान्स वर्षत्यधिकं पुनर्यध्यानादिव त्वन्मयतामवाप्य ॥'
इत्यत्रासंगतिः । यतोऽत्र नलस्य दमयन्तीरूपतावाप्त्युत्प्रेक्षायां दमयन्ती-
कर्तृकण सोपानारोहणेन नलस्य श्वासवर्षणं निमित्तम् ।
'प्रतीपभूपैरिव किं ततो भिया विरुद्धधर्मैरपि मेत्तृतोज्झिता ।
अमित्रजिन्मित्रजिदोजसा स यद्विचारक्चारगप्यवर्तत ॥'
इत्यत्र विरोधाभासः। अत्र हि विरुद्धधर्मगतस्याश्रयभेदकत्वत्यागोत्प्रेक्षायां
विरुद्धतयावभासमानधर्माणां नले सहवासो निमित्तम् ।
१'उपेत्य ख.
चित्रमीमांसा। 'ध्रुवमधीतवतीयमधीरतां दयितदूतपतगतिवेगतः । धृतिविरोधकरी झणुकोदरी तदुदितः स हि यो यदनन्तरः ॥' इत्यत्रार्थान्तरन्यासः । यद्यप्यत्र दमयन्तीगतस्य चापलस्य नलदूतहंसपक्ष- वेगो हेतुत्वेनोत्प्रेक्ष्यते, तथापि तत्रोत्प्रेक्षायामध्ययनफलमात्रं न निमित्त किं त्वन्यवेगात्कथमन्यत्र चापलमिति शङ्कावारणाय निबद्धेन 'तदुदितः स हि यो यदनन्तरः' इत्यर्थान्तरन्यासेनोपस्कृतम् । एवम्- 'गौरीव पत्या सुभगा कदाचित्कर्तेयमप्यर्धतनूसमस्याम् । इतीव मध्ये विदधे विधाता रोमावलीमेचकसूत्रमस्याम् ॥' इत्यत्र निमित्तांशे रूपकमित्याहनीयम् । तस्मादुभयथापि तत्र श्लिष्ट- त्वमात्रकीर्तनं न्यूनमितरेषामप्युपलक्षणं द्रष्टव्यम् । यत्तु सापह्नवत्वे- 'गतासु तीरं तिमिघट्टनेन ससंभ्रमं पौरविलासिनीषु । यत्रोल्लसत्फेनलवच्छलेन मुक्ताट्टहासेव विभाति शिप्रा ।' इति स्वरूपोत्प्रेक्षायामुदाहृतं तदपि हेतुफलोत्प्रेक्षयोरपि सापह्नवत्वे उप- लक्षणं बोद्धव्यम् । तत्र सापह्नवहेतूप्रेक्षायाम् -- 'मुग्धः स मोहात्सुभगात्तदेहाद्ददद्भवभूरचनाय चापम् । भ्रूभङ्गजेयस्तव मन्मनोभूरनेन रूपेण यदा तदासीत् ।।' अत्र मदनगते मुग्धशब्दवाच्यत्वे वस्तुतोऽहेतोः सौन्दर्यस्य हेतुत्व- मपद्धुत्य नलभूरचनाय स्वचापादानप्रयुक्तस्य मौढ्यस्य हेतुत्वमुत्प्रेक्षितम् । सापहवफलोत्प्रेक्षा यथा- 'रविततो गजः पद्मांस्तगृह्यान्बाधितुं ध्रुवम् । सरो विशति न स्नातुं गजस्तानं हि निष्फलम् ॥ अत्र गजस्य सरःप्रवेशं प्रति वस्तुतः फलस्य स्नानस्य फलत्वमपङ्कुत्य - ११८ काव्यमाला। पद्मबाधनमत्र फलत्वेनोत्प्रेक्षितम् । न च स्वरूपोत्प्रेक्षाया वास्तवविषय- खरूपापह्नव एव विच्छित्तिविशेषो न तु फलोत्प्रेक्षयोः प्रसिद्धहेतुफला- पहव इत्यस्ति । प्रत्युतोदाहृतयोर्हेतुफलोत्प्रेक्षयोः सिद्धहेतुफलापहवोऽपि सहेतुकः न तूदाहृतविषयः खरूपापह्नवोत्प्रेक्षे इत्युपलक्षणतैव युक्ता अन्यदत्र विचारणीयं समासोक्तिप्रकरणे विचारयिष्यते । यत्तु 'कस्तूरीतिलकन्ति भालफलके' इत्यादावुपक्रान्ता उपमा औचित्यादुत्प्रेक्षायां पर्यवस्यतीत्युक्तं तत्र भालादिस्थानविशेषसंबन्धस्य कस्तूरीतिलकादितादात्म्यमात्रे औचित्यं चेत् रूपके पर्यवसानं स्यादिति तस्य तादात्म्यसंभावनायामौचित्यमुपगम्योत्प्रेक्षायां पर्यवसानं वाच्यम् । तथा च- 'रक्षन्तु त्वामसितजलजैरञ्जलिः पादमूले मीना नामीसरसि हृदये कौस्तुभाख्या मुरारेः । हाराः कण्ठे हरिमणिमया वक्रपद्मे द्विरेफाः पिच्छाचूडाश्चिकुरनिकरे घोषयोषित्कटाक्षाः ॥ इत्यादौ रूपकप्रतीतिस्थलेऽप्युत्प्रेक्षोपगन्तव्या । तथा- 'पतत्रिणा तद्रुचिरेण वञ्चितं श्रियः प्रयान्त्याः प्रविहाय पल्वलम् । चलत्पदाम्भोरुहनूपुरोपमा चुकूज कूले कलहंसमण्डली ।' 'लोकाश्रयो मण्डपमादिसृष्टिब्रह्माण्डमाभात्यनुकायमस्य ।' 'अथाजिनाषाढधरः प्रगल्भभाग्ज्वलन्निव ब्रह्ममयेन तेजसा । विवेश कश्चिजटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमो यथा ।।' इत्यादावुपमाप्रतीतिस्थले यथोत्प्रेक्षायां पर्यवसानम् । एवम्- 'वरणः कनकस्य मानिनी दिवमकादमराद्विरागताम् । घनरलकवाटपक्षतिः परिरभ्यानुनयन्नुवास याम् ॥ १. 'मारवाणा मुरारेः' ग. २. सर्वेषु पुस्तकेषु श्लोकार्य एव दृश्यते. - M चित्रमीमांसा। ११९ - 'स्वधाकृतं यत्तनयः पितृभ्यः श्रद्धापवित्रं तिलमिश्रमम्भः । चन्द्रं पितृस्थानतयोपतस्थे तदङ्गरोचिःखचिता सुधैव ॥' इत्यादिरूपकप्रतीतिस्थलेऽपि तस्यां पर्यवसानमुपगन्तव्यम् । तादात्म्यसं. भावनोपयुक्तविशेषणनिबन्धरूपन्यायसाम्यात् । एवम्- 'पूर्णेन्दोः परिपोषकान्तवपुषः स्फारप्रभाभासुरं नेदं मण्डलमभ्युपैति गगनाभोगाजिगीषोर्जगत् । कामस्योच्छ्रितमातपत्रमधुना पाण्डुप्रदोषश्रिया मानोन्नद्धजनाभिमानदलनोद्योगैकहेवाकिनः ॥' इत्यपहृत्युदाहरणे इत्यपि द्रष्टव्यम् । अधिकं निदर्शनालंकारप्रकरणे चिन्तयिष्यते । ननु गम्योत्प्रेक्षायां अलंकारतया परिगणनमयुक्तम् । तस्या अलंका- रध्वनित्वात् । उच्यते । विषयविषयिनिमित्तेषूपात्तेषु केवलमिवादिवाच- काप्रयोगमात्रेण यत्रोत्प्रेक्षावगम्यते सात्यन्तं स्फुटत्वाद्वाच्यायमानत्वाद- लंकारतामेवासादयतीति । यथोदाहृतम् । यत्रोत्प्रेक्षणीयस्य विषयिणो- ऽप्यनुपादानं निबद्धेन वस्तुनालंकारेण वा गम्योत्प्रेक्षा गूढा तत्रैवोत्रे- क्षाध्वनिः। यथा- 'वीररुद्रभटान्दृष्ट्वा जयलक्ष्म्यावृतान्रणे। कर्षन्त्यरिवधूकेशान्कानने कण्टकिद्रुमाः ॥ अत्र वस्तुना कचग्रहणरूपेण जयश्रीसमालिङ्गितभटदर्शनोद्दीपितम- न्मथा इवेत्युत्प्रेक्षा ध्वन्यते । १. 'प्रविशेषकान्तवपुषः' ग, २. 'मानोन्नाहजना' ख. ३. 'हेतोgवम्' क. ४. ख-पुस्तकेऽत्रैव 'इत्युत्प्रेक्षाप्रकरणम् । समाप्तश्चायं समुपलभ्यमानो ग्रन्थः' इति ग्रन्थसमाप्तिः कृता. ग-पुस्तके तु 'अप्यर्धचित्रमीमांसा' अयं समाप्तिश्लोकोऽत्र विलिख्य पुनरग्रे अधिकमित्यादि लिखितमस्ति. ५. 'केवल इवादि' ग. - १२० काव्यमाला। 'वेलामतिक्रम्य पृथुर्मुखेन्दोरालोकपीयूषरसेन तस्याः । नलस्य रागाम्बुनिधौ विवृद्धे तुङ्गौ कुचावाश्रयति स्म दृष्टिः।। अत्रैकदेशविवर्तिरूपके मज्जनभयादिवेत्युत्प्रेक्षावगम्यते । एवमन्य- त्राप्युदाहार्यम् । इत्युत्प्रेक्षाप्रकरणम् । - - अथातिशयोक्तिः तस्यास्तावत्- विषयस्खानुपादानाद्विषय्युपनिबध्यते । यत्र सातिशयोक्तिः स्यात्कविप्रौढोक्तिजीविता ॥ इति लक्षणमुक्त्वा चातुर्विध्यं वर्णयन्ति । भेदेऽभेदः, अभेदे मेदः, संबन्धेऽसंबन्धः, असंबन्धे संबन्ध इति । एतेषामुदाहरणानि- 'कमलमनम्भसि कमले कुवलयमेतानि कनकलतिकायाम् । सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥' 'अन्येयं रूपसंपत्तिरन्या वैदग्ध्यधोरणी । नैषा कमलपत्राक्षी सृष्टिः साधरणी विधेः ॥' 'अस्याः सर्गविधौ प्रजापतिरभूञ्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं स विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ।।' 'दाहोऽम्भः प्रसूतिपचः प्रचयवान्बाष्पः प्रणालोचितः श्वासाः प्रेजितदीप्तदीपकलिकाः पाण्डिग्नि ममं वपुः । १. 'अस्या' क.. २. 'कुवलयमेतापि' ग.
चित्रमीमांसा। १२१ किं चान्यत्कथयामि रात्रिमखिलां त्वन्मार्गवातायने हस्तच्छत्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिर्वर्तते ।' अत्र कमलादीनां मुखादिभेदेऽप्यभेदः । रूपादीनां लोकसिद्धरूपा- द्यभेदेऽपि भेदः। रूपस्य पुराणप्रजापतिसृष्टिसंबन्धेऽप्यसंबन्धः । विर- हादीनामम्भःप्रमृतिपचत्वाद्यसंबन्धेऽपि संबन्धश्च क्रमेण निबद्धः । अत्रेदं विचार्यते । विषयस्यानुपादानादित्यत्र किमनुपादानं सर्वथैव विषयस्य प्रतिपादकाभावः, तद्वाचकाभावो वा । आये 'कमलमनम्भसि' इत्यादा- वपि लक्षणं न स्यात् । कमलादिशब्दानां लक्षणया विषयभूतमुखादिप्र- तिपादकत्वात् । द्वितीये 'चुम्बतीव रजनीमुखं शशी' इत्यादिषु मुख- शब्दादिश्लेषमूलातिशयोक्तावव्याप्तिः । विषयिवाचकातिरिक्तविषयप्रति- पादकाभावो विवक्षित इति चेत्, तथापि 'उन्मीलितानि नेत्राणि पद्मा- नीवोदिते रवौ' इत्यादावुन्मीलितशब्दवाच्यलक्ष्यार्थाध्यवसायरूपातिश- योक्तावतिव्याप्तिः। तत्रोन्मीलितशब्दस्य विषयीभूतविकाशलक्षकतया तद्वाचकातिरिक्तस्यैव विषयप्रतिपादकत्वात् । विषयिप्रतिपादकातिरिक्त- विषयप्रतिपादकाभावविवक्षायामपि- 'पल्लवतः कल्पतरोरेष विशेषः करस्य ते वीर । भूषयति कर्णमेकः परस्तु कर्ण तिरस्कुरुते ॥' इत्यत्र कर्णशब्दश्लेषमूलातिशयोक्तावव्याप्तिः । तत्र विषयविष- यिणोः पृथक्कर्णपदोपादानाद्विषयप्रतिपादकविलक्षणविषयप्रतिपादकाभा- वो वा विवक्षित इति चेत् , तथापि- 'उरोभुवा कुम्भयुगेन जृम्मितं नवोपहारेण वयस्कृतेन किम् । त्रपासरिदुर्गमपि प्रतीर्य सा नलस्य तन्वी हृदयं विवेश यत् ॥ इत्यत्र कुचद्वये कुम्भयुगाभेदाध्यवसायरूपातिशयोक्तावव्याप्तिः। - - १२२ काव्यमाला। तत्रोरः प्रभवत्वाकारेण विषयप्रतिपादकस्य विषयिप्रतिपादकविलक्षणस्य सद्भावात् । ननु विषयिप्रतिपादकविलक्षणस्य विषयतावच्छेदकप्रकारेण. विषयप्रतिपादकस्याभावो विवक्षितः, उरःप्रभवत्वं तु न पयोधरयोर्विष- यतावच्छेदकमनेकसाधारणत्वादिति चेत् , एवमपि- ध्वान्तस्य वामोरु विचारणायां वैशेषिकं चारु मतं मतं मे । औलूकमाहुः खलु दर्शनं यत्क्षमं तमस्तत्त्वनिरूपणाय ॥' इत्यादावुलूकदर्शनमिति वैशेषिकमते पक्षिविशेषदृष्ट्यभेदाध्यवसाय- रूपातिशयोक्तावव्याप्तिौरा । तत्र वैशेषिकमतमिति विषयतावच्छेद- कप्रकारेण विषयप्रतिपादकस्य संभवात् । अपि चैवम् 'रामरावणयोर्यु- द्धम्' इत्यनन्वयालंकारे चातिव्याप्तिः । तत्र विषयप्रतिपादकविलक्षण- विषयप्रतिपादकाभावात् । ननु यत्र कश्चिदभेदेनाध्यवसीयते स विषयः, यस्तु तथाध्यवसीयते स विषयीति विषयविषयिभावोऽत्र विवक्षित इति नोक्तातिव्याप्तिरिति चेत् , एवमपि 'विद्वन्मानसहंस' इत्यादिश्लिष्टरूप- केऽतिव्याप्तिर्दुर्वारा । रूपके ताद्रूप्यारोपमात्रम्, अतिशयोक्तावभेदा- ध्यवसाय इति कल्पना तु रूपकविचारलक्षण एव निरस्ता । सोरूप्य- निबन्धनसमासोक्त्युदाहरणेषु चातिव्याप्तिः । 'अप्यर्धचित्रमीमांसा न मुदे कस्य मांसला । अनूरुरिव धर्माशोरर्धेन्दुरिव धूर्जटेः ।' समाप्तश्चायं समुपलभ्यमानो ग्रन्थः । १.क-पुस्तके "इति चेत्' इति नास्ति. २. 'निरीक्षणायाम्' क. ३. 'दुर्वारा। तत्र' इति क-पुस्तके नास्ति. ४. 'सद्भावात' क. ५. 'अप्रस्तुतप्रशंसोदाहरणेषु' ग.
काव्यमाला।
पण्डितराजश्रीजगन्नाथविरचित
चित्रमीमांसाखण्डनम् ।
नागेशकृतमर्मप्रकाशादुद्धृतया टिप्पण्या सहितम् ।
नाम नाम घनश्यामं धाम तामरसेक्षणम् ।
पण्डितेन्द्रो जगन्नाथशर्मा निर्माति कौतुकम् ॥
रसगङ्गाधरे चित्रमीमांसाया मयोदिताः ।
ये दोषास्तेऽत्र संक्षिप्य कथ्यन्ते विदुषां मुदे ।।
सूक्ष्म विभाव्य मैयका समुदीरिताना-
मप्पय्यदीक्षितकृताविह दूषणानाम् ।
निर्मत्सरो यदि समुद्धरणं विदध्या-
दस्याहमुज्ज्वलमतेश्चरणौ वहामि ।।
यत्त्वादिभागे चित्रमीमांसायामप्पयदीक्षितैः 'निःशेषच्युतचन्दनं
स्तनतटम्' इति पद्यं ध्वन्युदाहरणप्रसङ्गे व्याख्यातम्-'उत्तरीयकर्षणेन
चन्दनच्युतिरित्यन्यथासिद्धिपरिहाराय निःशेषग्रहणम् । ततश्चन्दनच्युतेः
व्याख्यातमिति । व्याख्यानमेवाह-उत्तरीयेत्याद्याचरन्तीत्यन्तेन
इत्यादीत्यादिना प्रातर्दत्तमञ्जनं कालविलम्बेन किंचिद्विलुप्तमित्यन्यथासिद्धिपरिहा-
राय दूरमिति । अत्यर्थमित्यापाततोऽर्थः । एतेन कालान्यथासिद्धिनिरासः। पुनः
१.मया'.
१२४ काव्यमाला। मानसाधारण्यव्यावर्तनेन संभोगचिह्रोद्घाटनाय तटग्रहणम् । स्नाने हि सर्वत्र चन्दनच्युतिः स्यात् , तव तु स्तनयोस्तट उपरिभाग एव दृश्यते इयमाश्लेषकृतैव । तथा निर्मष्टरागोऽधर इत्यत्र ताम्बूलग्रहणविलम्बा- प्राचीनरागस्य किंचिन्मृष्टतेत्यन्यथासिद्धिपरिहाराय निर्मुष्ट इति रागस्य निःशेषमृष्टतोक्ता । पुनः स्नानसाधारण्यव्यावर्तनेन संभोगचिहोद्धाटना- याधर इति विशिष्य ग्रहणम् । उत्तरोष्ठे सरागेऽवरोष्ठमात्रस्य निर्मुष्ट- गता चुम्बनकृतैव' इत्यादिना 'इदमपि ध्वनेरुदाहरणम्' इत्यन्तेन संदर्भेण तटादिघटिता वाक्यार्थाः ‘स्नानव्यावृत्तिद्वारा संभोगाङ्गानामाश्लेषचुम्बना- दीनां प्रतिपादनेन प्रधानव्यङ्ग्यव्यञ्जने साहायकमाचरन्ति' इति, तदे- तदालंकारिकाणामतितमां हृदयारुंतुदतया नालंकारमीमांसकेन वक्तुं युक्तम् । एवं च तटादिघटितानां वाक्यार्थानां मुख्यार्थवापीस्नानपक्षे बाधितत्वाद्विरोधिलक्षणया वापी स्वातुं न गतासि किं तु तदन्तिकमिति प्रतिपत्तौ विगलितव्यञ्जनाव्यापारेण यथा---'अहो पूर्ण सरो यत्र लुठन्तः स्त्रान्ति मानवाः' इत्यत्र लुठन्त इत्यस्य विशेषणस्य मुस्त्येऽर्थेऽनुपपत्त्या विरुद्धोऽर्थो भासमानोऽपि न व्यायः, एवमिहापि स्यात् । अपि च यथाकथंचिदगीकुरु वात्र व्यञ्जनाव्यापार तथापि न तवेष्ट- सिद्धिः । वाच्यानां निःशेषच्युतचन्दनस्तनतटत्वादीनामधमत्वस्य च त्वदुक्तरीत्या प्रकारान्तरेणानुपपद्यमानतया दूतीसंभोगमात्रनिष्पाद्यत्वेन मानसाधारण्यव्यावर्ज(त)नेन संभोगचिहोद्धाटनाय दूरे प्रान्त इति हृदयस्थि- तोऽर्थः। कालतः मानेन सर्वतोऽजनलोकः स्यात्तव तु लोचनयोः कचित्प्रान्त एचानजनत्वमिदं चुम्बनकृतमेवेत्यादि परिग्रहः । वाक्यार्थाः प्रधानवाक्यार्थाः । प्रधानव्यङ्गय संभोगः । यथाकथंचिदिति । अर्थापत्तिप्रमाणस्यातिरिक्तस्या- मावादिति भावः। अत्र रमणे । संभोगमात्रेति। तदन्येन वाच्यसिद्धरेवा- चित्रमीमांसाखण्डनम् । - गुणीभूतव्यङ्ग्यत्वप्रसङ्गात् । किं चैवं सति 'भम धम्मिअ वीसत्थ- इत्यादौ लिङ्गजलिङ्गिज्ञानरूपेणानुमान व्यक्तिं गतार्थयतो व्यक्तिविवेक- कृतो मतं प्रत्याचक्षाणा व्यभिचारित्वेनासिद्धत्वेन च संदिह्यमानादपि लिङ्गायञ्जनमभ्युपगच्छन्तः सर्वेऽपि ध्वनिमार्गप्रवर्तकास्तव प्रतिकूलाः स्युः । अन्यच्च येनोदाहृतं पद्यमायुष्मता व्याख्यातम् , तस्यापि विशेष- णानामसाधारण्यमननुमतमेव । तथा च तेनैवोक्तं पञ्चमोल्लासशेषे- 'निःशेषेत्यादौ गमकतया यानि चन्दनच्यवनादीन्युपात्तानि तानि कार- णान्तरतोऽपि भवन्ति । यतश्चात्रैव स्नानकार्यत्वेनोपात्तानीति नोपभोग एव प्रतिबद्धानीत्यनैकान्तिकानि' इति । एवं च त्व(त)दुक्तिविरोधः स्फुट एव । तस्माद्वाच्यार्थसाधारण्यमेवोचितमतिविदग्धनायिका निरूपि- तानां विशेषणानाम् । तथा हि-अयि बान्धवजनस्याज्ञातपीडागमे वार्थपरायणे स्नानकालातिक्रमभयवशेन नदीमदीयप्रिययोरन्तिकमगत्वैव भावादिति भावः। भमेति । 'भ्रम धार्मिक विश्रब्धः स शुनकोऽद्य मारित- तेन । गोदानदीकच्छनिकुञ्जवासिना दृप्तसिंहेन ॥' कुसुमावचयार्थ कुजे धार्मिक- भ्रमणेन खण्डितसंकेतायास्तन्निवारणोक्तिरियम् । अत्र वाच्येन भीरुखभावस्य गृहे श्वनिवृत्त्या भ्रमणेन निकुञ्ज सिंहोपलब्ध्या भ्रमणनिषेधो व्यङ्ग्यः । ग्रन्थविरोध- माह-अन्यञ्च येनेत्यादि। गमकतयेति । संभोगेत्यादिः । अत्रैव निःशे- षेत्यादावेव । प्रतिबद्धानि जन्यतया न तत्रैव संबद्धानि । अनैकान्तिकानि साधारणानि । कथं तर्हि तस्य व्यङ्ग्यत्वं प्रकाशाद्युक्तमाह-तस्माद्वाच्यार्थेति । वापीस्नानेनेत्यर्थः । निरूपितेति । बोधितेत्यर्थः । गमे इत्यन्तव्याख्या खार्थेति । अन्तिकमित्यत्र गतासीत्यनुषङ्गः। एवं त्रपापारवश्यात् । तथा निर्मृष्ट- रागः । तन्वीत्यस्यार्थमाह-तानवाच्चेति । कृशत्वाच्चेत्यर्थः । उपसंहरति- १. “भम धम्मिअ वीसत्थो सो सुणओ अज्ज मालिदो तेण । गोलाणइकच्छकुडङ्ग वासिना दरिअसीहेण ॥'.
१२६ काव्यमाला। वापी स्नातमितो ममान्तिकाद्गतासि न पुनस्तस्य परवेदनानभिज्ञतया दुःखदातृत्वेनाधमस्यान्तिकम् । यतो निःशेषच्युतचन्दनं स्तनयोस्तटमेव, नोरःस्थलम् । वापीगतबहुलयुवजनत्रपापारवश्यादंशद्वयलमानस्वस्तिकी- कृतभुजलतायुगलेन तटस्थेवोन्नततया मुहुरामर्शात् । एवं त्वरया सम्य- गक्षालनेनोत्तरोष्ठो न निर्मष्टरागोऽधरस्तु तदपेक्षया गण्डूषजलरदनशो- धनामुल्यादीनामधिकसंमर्दमावहतीति तथा । किं च सम्यगक्षालनेन नेत्रे जलमात्रसंसर्गादूरमुपरिभाग एवानञ्जने । शीतवशात्तानवाच्च तव तनुः पुलकितेति। एवं तस्या विदग्धाया गूढतात्पर्योक्तिरुचिता । अन्यथा वैदग्ध्यभापत्तेः। एवं साधारणेषु वाक्यार्थेषु मुख्यार्थे बाधाभावात्तात्पर्यार्थस्य झटित्य- नाकलनात्कुतोऽत्र लक्षणावकाशोऽनन्तरं च वाच्यार्थप्रतिपत्तेर्वक्तृबोद्ध- व्यनायकादीनां वैशिष्ट्यप्रतिपत्तो सत्यामधमपदेन वप्रवृत्तिप्रयोजको दु:- खदातृत्वरूपो धर्मः साधारणात्मा प्राग्वाच्यार्थदशायामपराधान्तरनिमि- तकदुःखदातृत्वरूपेण स्थितो व्यञ्जनान्यापारेण दूतीसंभोगनिमित्तकदुः- खदातृत्वाकारेण पर्यवस्यतीत्यालंकारिकसिद्धान्तनिष्कर्षः । एतेन 'अध- मत्वमप्रकृष्टत्वं तच्च जात्या कर्मणा वा भवति । तत्र जात्यापकर्ष नोत्त- एवमिति । उक्तप्रकारेत्यर्थः। मुख्यार्थे वापीनाने। अनन्तरमिति। वाच्यार्थ- प्रतिपत्तेरनन्तरं चेत्यर्थः । वक्री विदग्धोत्तमनायिका ।बोद्धव्या दुःश्चीला दूती। नायकस्तादृशः। आदिना काक्कादिपरिग्रहः । अधमपदेनेति । बोधित इति शेषः । खेति । अधमपदप्रवृत्तिनिमित्तमित्यर्थः। साधारणेति । तादृशकर्मान्तर- १. स्वप्रवृत्तिनिमित्तप्रयोजकः' इति.
चित्रमीमांसाखण्डनम् । १२७ - मनायिका नायकस्य वक्ति । नापि स्वापराधपर्यवसायिदूतीसंभोगादिही- नकर्मातिरिक्तेन कर्मणा । तादृशं च दूतीसंप्रेषणात्प्राचीनं सोढमेवेति नोद्घाटनाहमितीतरव्यावृत्त्या संभोगरूपमेव पर्यवस्यति' इति यदुक्तम् , तदपि निरस्तम् । विदग्धोत्तमनायिकायाः सखीसमक्षं तदुपभोगरूपस्य स्वनायकापराधस्य स्फुटं प्रकाशयितुमतितमामनौचित्येन प्राचीनानामेव सोढानामप्यपराधानामसह्यतया दूती प्रति प्रतिपादयिषितत्वात् । यथैव हि- 'औण्णिदं दोब्बल्लं चिन्ता अलसन्तणं सणीससिअम् । मह मन्दभाअणीए केरं सहि तुह वि परभवइ ।' इत्यादावौन्निद्यादीनि वाच्यभूतस्वक्लेशनिमित्तकसखीक्लेशसाधारणान्येव बोद्धव्यवैशिष्ट्यवशात्तत्कामुकोपभोगजनितौन्निद्यादिषु पर्यवस्यन्ति । न चात्र वाच्यार्थव्यावर्तकं किंचिद्विशेषणमपेक्षन्ते सहृदयाः, एवमिहापि । अथ तदन्तिकगमनस्य लक्षणावेद्यत्वेऽपि रमणमात्रस्य लक्ष्यशक्तिमूलध्व- ननवेद्यत्वमव्याहतमेवेति चेत् , नैवम् । 'अधमत्वं जात्या कर्मान्तरेण वा नोत्तमनायिका नायकस्य वक्ति' इत्यादिना संदर्भण रमणस्यापि भवतैव श्रुतार्थापत्तिवेद्यतायाः स्फुटं वचनात् । एतेन काव्यप्रकाशटीका- कृतामुक्तयः परास्ताः । विशेषणसाधारण्यपरस्य स्वमूलग्रन्थस्यैव तैरना- कलनात् । बाधाभावेन लक्षणाया दुरापास्तत्वात् । साधारणेत्यर्थः। स्वापराधेति ।खं नायिकादूतीसंभोगादिरूपं यद्धीनकर्मेत्यर्थः । एतेनेत्यस्यार्थमाह-विदग्धेति । तदुपभोगेति । दूत्युपभोगेत्यर्थः । अति- तमामत्यन्तम् । प्राचीति । दूतीसंप्रेषणादित्यादिः। अन्यथा वैदग्धादिभङ्गा- पत्तिः । औण्णिद्दमिति । 'औन्नियं दौर्बल्यं चिन्तालसत्वं सनिःश्वसितम् । मम मन्दभागिन्याः कृते सखि त्वामपि परिभवति ॥' कृतकामुकसंभोगां दूती प्रत्यु- पभोगचिह्नस्तं ज्ञातवत्या नायिकाया इयमुक्तिः। साधारणानि । रोगादितोऽपि १२८ काव्यमाला। । यत्तु- 'प्रहरविरतौ मध्ये वाहस्ततोऽपि परेण वा किमुत सकले याते वाहि प्रिय त्वमिहेष्यसि । इति दिनशतप्राप्यं देशं प्रियस्य यियासतो हरति गमनं बालालापैः सबाष्पगलज्जलैः ।।' इत्यत्र 'सकलमहः परमावधिस्ततः परं प्राणान्धारयितुं न शक्नोमीति व्यङ्ग्यं प्रियगमननिवारणरूपवाच्यसिद्ध्यगम्' इति मध्यमकाव्योदाहृति- प्रसङ्गे निगदितम् , तञ्चिन्त्यम् । सबाप्पगलजलानां 'प्रहरविरतौ' इत्या- द्यालापानामेव प्रियगमननिवारणरूपवाच्यसियङ्गव्यङ्ग्यतया व्यङ्ग्यस्य गुणीभावाभावात् । आलापैरिति तृतीयया प्रकृत्यर्थस्य हरणक्रियाकरण तायाः स्फुटं प्रतीतेः । न च व्यङ्गयस्यापि वाच्यसिध्यङ्गतात्र संभवतीति तथोक्तमिति वाच्यम् । 'निःशेषच्युतचन्दनम्' इत्यादावप्यधमत्वरूप- वाच्यसिद्ध्यङ्गताया दृतीसंभोगादौ संभवाद्गुणीभूतव्यङ्गत्वापत्तेः । अस्तु वा ततः परं प्राणान्धारयितुं न शक्नोमीति वाच्यसिद्ध्यतया गुणीभाव- स्तथापि नायकादेविभावस्य बाष्पादेरनुभावस्य चित्तावेगादेश्च संचारिणः संयोगादभिव्यज्यमानेन विप्रलम्भेन ध्वनित्वं को निवारयेत् । तत्संभवात् । यथात्रैव नायिकायास्तद्वियोगतः। प्रहरविरताविति । हे प्रिय, त्वं किं प्रहरसमाप्तौ दिनमध्ये यावे वा मध्याहादपि परेण तृतीयप्रहरेण यातेन वा सर्वदिने गते वेह मत्समीपे उत निश्चयेनैध्यस्यागमिष्यसि । इत्येवंप्रकारेण । आलापेऽस्यान्वयः । अप्रे स्पष्टम् । शतशब्दोऽनियतसंख्यावाची। एवमुक्तव्यव- च्छेदे। व्यङ्ग्यस्य शक्कोमीत्यन्तस्य । ननु विनिगमनाविरहोऽत आह-आला- पैरिति । प्रकृत्यर्थस्य तादृशालापस्य । अपिरुक्तसमुच्चये । ननु सबाष्पगलज्ज- लतदुक्तालापानां गमनोत्तरचिरकालावस्थितिनिवारकतयाप्युपपत्तेर्व्यङ्ग्यसहिताना- मेव गमननिवारणसामर्थ्यमत आह-अस्तु वेति । आन्तरालिकव्ययमादा- चित्रमीमांसाखण्डनम् । १२९ : यदप्युभयचित्रप्रस्ताव उदाजद्दुः- 'वराहः कल्याणं वितरतु स वः कल्पविरमे : विनिर्धन्वन्नौदन्वतमुदकमुर्वीमुदवहत् । । खुराधातत्रुट्यत्कुलशिखरिकूटप्रविलुठ- च्छिलाकोटिस्फोटस्फुटघटितमाङ्गल्यपटहः ॥' एतच्च पद्यं दोषाविलत्वादनुदाहार्यमेव । तथा हि-प्रथमेऽर्थे वाक्य- द्वयस्यापि समाप्तेर्नैराकाङ्ख्यादुत्तरार्धगतविशेषणे समाप्तपुनरात्तत्वम् । निवृत्त उद्वाहे माङ्गल्यपटहवादनप्रतिपत्तेरपदस्थपदत्वम् । ऊर्ध्ववहन- निष्पत्तौ च भूम्यूचंगानां कुलशिखरिणां कूटेषु कथंकारमधःस्थस्य भग- वतो वराहस्य खुराघात इति व्याहतार्थत्वम् । एकाऽनेकक्रियत्वेन यत्पदाध्याहारेण चासंष्ठुलत्वं चेति । अन्येऽप्येवंजातीयका बहवोऽत्र दोषाः । न ह्यवरं काव्यमिति दोषसहस्रग्रस्तमुदायिते । तस्य काव्यतैव नेत्यालंकारिकसिद्धान्तात् । अयमपि कवेः सहृदयस्य च महान्दोषो यत्पुनरिदमेव पद्यं पूर्वोत्तरार्धव्यत्यासेन न पद्यान्तरतामापितम् । एव- मप्येकार्धगतेनानेकक्रियत्वेन यत्पदाध्याहारेण चासंष्ठुलत्वाच्चमत्कारापकर्षः स्थित एव ॥ इति श्रीभभट्टारकपेरुभट्टात्मजेन पण्डितराजापराभिधानेन जगन्नाथभट्टेन निर्मिते चित्रमीमांसाखण्डने ग्रन्थारम्भप्रकरणदोषः। अथोपमाप्रकरणदोषाः- यत्तु 'मुखस्य पुरतश्चन्द्रो निष्प्रभः' इति वाक्यमुपमाया विपुला- यैव ध्वनिगुणीभूतादिव्यङ्ग्यव्यवहारस्योपपद्यमानतया 'विप्रलम्भेन ध्वनित्वं को निवारयेत्' इति चिन्त्यम् । अन्यथा 'ग्रामतरुणम्' इत्यादिगुणीभूतव्यङ्गयीयप्रका- ९ चि० मी० १३० काव्यमाला। लंकारवर्तितां प्रतिपादयद्भिः प्रायुज्यत, तव्याकरणाविमर्शनिबन्धनम् । पुरत इति नगरवाचिनः पुरशब्दात्तसिलि मुखस्य नगरादित्यर्थस्या- संगत्यापत्तेः । न हि पूर्ववाचकः पुरशब्दः क्वापि श्रूयते । पूर्वशब्दात्तु 'पूर्वाधरावराणामसिपुरधवश्चैषाम्' इत्यसौ पुरादेशे च पुर इति भाव्यम् । न तु पुरत इति । अत एव 'अमुं पुरः पश्यसि देवदारुम्' इति प्रायुत महाकविः । एवमेव च- 'रूपयौवनलावण्यस्पृहणीयतराकृतिः। पुरतो हरिणाक्षीणामेष पुष्पायुधीयति ॥' इति वाचकोपमेयलुप्तोदाहरणमपि तैर्निर्मितमपशब्दकलुषितमेव । तथा चाहुर्वैयाकरणाः-पत्या पुरतः परतः, 'आत्मीयं चरणं दधाति पुरतः, 'पुरतः सुदती समागतं माम्' इत्यादयः सर्वेऽपि व्याकरणाज्ञानमूला अपशब्दाः इति । शायुक्तोदाहरणानामप्यसंपत्त्यापत्ती व्याकुली स्यात् । तत्रापि व्यायसंकेतभरेन वाच्यमुखमालिन्यातिशयरूपानुभावमुखेनैव विप्रलम्माभासपोषणं न केवलेन संके- तभङ्गेन । तस्याकर्तव्यत्वबुध्यापि संभवादिति बोध्यम् । तसिलीति । इदं चिन्त्यम् । तदप्राप्तः। आधादित्वात्तलावित्युचितम् । महाकविः कालिदासः । तैः अप्पयदीक्षितैः । इदं चिन्त्यम् । पुरत इति निपाताशीका रात् । अत एव 'इयं च वेऽन्या पुरतो विडम्बना' इति कालिदासः, 'पश्यामि तामित इतः पुर- तश्च पश्चात्' इति भवभूतिश्च संगच्छते । इति केचित् । अन्ये तु-दक्षि- णोत्तराभ्यामतसुच्' इत्यत्र तसुचैव पुंवद्भावेन सिद्धेऽतमुज्विधानमन्यस्माद- पीति शापनाय । तेन पचाद्यजन्तात्पुरशब्दात्तस्मिभिष्टसिद्धिः-इत्याहुः ॥ वस्तुतस्तु-'पुर अप्रगमने' इति चौरादिकाणिजभावे 'इगुपधलक्षणे के सार्वत्रिकतसिः।' इति बोध्यम् । वैयाकरण इति । प्राश्च इत्यादिः । १. "पत्या पुरतः सरता'.
चित्रमीमांसाखण्डनम् । .' यदपि चोपमालक्षणसिद्धान्तः–'उपमितिक्रियानिष्पत्तिमत्सादृश्य- वर्णनमदुष्टमव्यङ्ग्यमुपमालंकारः', 'स्वनिषेधापर्यवसायि सादृश्यवर्णनं का तथाभूतं तथा' इति लक्षणंद्वयं तैरेव निर्मितम् , तदसत् । वर्णनस्य विलक्षणशब्दात्मकस्य, विलक्षणज्ञानात्मकस्य वा शब्दवाच्यताविरहे- णोपमाया वाच्यालंकारता न स्यात् । तस्य सर्वथैवाव्यङ्गयत्वादव्यङ्गयत्व- विशेषणवैयर्थ्याच्च । अथ यदि वर्णनविषयीभूतं तादृशसादृश्यमुपमेत्यु- च्यते तदा यथा गौस्तथा गवय इत्यत्रोपमालंकारापत्तेः । एवं 'कालोप- सर्जने च तुल्यम्' इत्यादावपि । अशिष्यत्वादिना प्रधानप्रत्ययार्थवचन- सादृश्यस्य तत्रापि प्रतिपादनात् । न चात्र वचनभेदस्य दोषस्य सत्त्वाद- दुष्टत्वविशेषणेनैव वारणं भविष्यतीति वाच्यम् । एतद्वाक्योपप्लुतवाक्या- न्तरप्रतिपादितै(कै)कोपमेयके सादृश्ये तथाप्यतिप्रसङ्गात् । न चात्रोप- मितिक्रियानिष्पत्तावपि न सादृश्यवर्णनम्, विषयस्याचमत्कारित्वात् , चमत्कारिविषयककविव्यापारस्यैव वर्णनपदार्थत्वादिति वाच्यम् । एवं हि चमत्कारित्वस्य लक्षणेऽवश्यं निवेश्यत्वेनोपमितिक्रियानिष्पत्तिविशे- षणस्य वैयर्थ्यात् । नयनिष्पन्नमापाततः प्रतीयमानं सादृश्यं चमत्कृति- माधते । एवं द्वितीयलक्षणे निषेधपर्यवसायित्वं निरर्थकम् । व्यतिरेके विलक्षणशब्देति । शब्दस्य वाच्यत्वमते नायं दोषोऽत,आह-विलक्षण- शानेति। अव्यङ्ग्यत्वात् व्यङ्ग्यत्वाभावात्। तादृशेति । अदुष्टाव्यङ्ग्यायविशेषण- द्वयान्यतरेत्यर्थः । इत्यादावपीति । उपमालंकारापत्तिरित्यस्यानुषः। आदिग्राह्य चिन्त्यम् । तत्रापि कालोपसर्जनयोरपि । अत्र 'कालोपसर्जने च तुल्यम्' इत्यत्र द्विवचनोपादानादिति भावः । एतदर्थमेव द्वितीयदोषोक्तिः । उपप्लुतेति । कल्पितेत्यर्थः । प्रधानप्रत्ययार्थवचनवत्काल इत्यादीति भावः। तदाह-एको- पमेयेति । अत्रेति । यथा गौरित्यादावित्यर्थः । व्यतिरेक इति। तबान- १. 'प्रतिपत्तिपादितैक.
१३२ काव्यमाला। 'तवाननस्य तुलनां दधातु जलजं कथम्' इत्यादौ कमलादिसादृश्य- निषेधस्य, अनन्वये च सर्वथा सादृश्यनिषेधस्य चमत्कारितया तत्प्रति- पत्तये प्रतियोगिविधया सादृश्यनिरूपणमित्यलंकारिकैरभिधानात् । किं च- 'स्तनाभोगे पतन्भाति कपोलात्कुटिलोऽलकः । शशाङ्कबिम्बतो मेरौ लम्बमान इवोरगः ॥' इत्यादौ मुख्यवाक्यार्थत्वेनानलंकारभूतायामुपमायामतिव्याप्तिः। उपमिति- क्रियानिष्पत्तिमत्सादृश्यवर्णनस्य [अदुष्टाव्यङ्ग्यत्वस्य च] अत्रापि सत्त्वात् । नपत्राभेदप्रधानोत्प्रेक्षा शक्या वक्तुम् । कल्पितोपमाया निर्विषयत्वा- पत्तेः । न चेयमुपमा लक्ष्यैवेति वाच्यम् । ध्वन्यमानोपमानिवारणप्रया- सस्य वैयर्थ्यापत्तेः। 'व्यापार उपमानाख्यो भवेद्यदि विवक्षितः। क्रियानिष्पत्तिपर्यन्तमुपमालंकृतिस्तु सा ।' इति स्वकृतसूत्रेऽलंकारभूतोपमाया एव लक्ष्यत्वेनाभिधानस्य, अलंकार- भूतोपमालक्षणत्वे तदेवादुष्टाव्यङ्ग्यत्वविशेषितमिति तत्रैव पुनरभिधानस्य चासंपत्त्यापत्तेश्च । नात्रोपमानोपमेयसादृश्यादुपमास्वरूपादस्ति कश्चिद- तिरिक्तो वाक्यार्थः, येनोपमा तमलंकुर्यात् । अपि च लक्षणे सादृश्य- " नस्सेत्यादावित्यर्थः। कमलादिसादृश्येति । कमलादिनिष्ठसादृश्येत्यर्थः । ननु वर्णनपदस्य चमत्कारजनकज्ञानविषयीभूतानुयोगिकत्वार्थे तात्पर्यग्राहकमिदम्, न तु. लक्षणशरीरपदकमिति चेत्, तत्राह-किं चेति । वाक्यार्थत्वेनेति । तथा चन वाक्यार्थोपस्कारकत्वमिति भावः । तदाह-अनलमिति । नन्वलंकरो- तीति योगबोधितोपस्कारकत्वस्यालंकारसामान्यखरूपत्वेन विशेषलक्षणेषु तदनि- वेशेऽपि क्षत्यभाव इत्यत आह-अपि चेति । अत एव चित्रभूतोपमालक्षणं चित्रमीमांसाखण्डनम् । विशेषणं निरर्थकम् । 'उपमितिक्रियानिष्पत्तिमद्वर्णनमुपमा' इत्येतावतैव स्वाभीष्टार्थलाभात् । अन्यच्चाव्यङ्ग्यत्वविशेषणमयुक्तम् । नहि व्यङ्गयत्वा- लंकारत्वयोरस्ति कश्चिद्विरोधः । प्राधान्येन व्यङ्गबतायां तु प्रधानत्वा- लंकारत्वयोर्विरोधादलंकारत्वलक्षणं तत्र मा प्रसाङ्क्षीदित्युपस्कारकत्वेन पुनर्विशेषणीयम्, न त्वव्यङ्ग्यत्वेन । 'अद्वितीयं रुचात्मानं मत्वा किं चन्द्र हृष्यसि । भूमण्डलमिदं मूढ केन वा विनिभालितम् ॥' इत्यत्र कस्यचिद्विदेशस्थस्य किरणैरात्मानं तापयन्तं चन्द्रं प्रति वाक्ये अस्ति मम प्रियायाः कदापि बहिरनिर्गतायाः अत एव त्वयाप्यदृष्टाया आननं त्वत्सदृशमिति व्यङ्ग्यायामुपमायां मूढपदध्वन्यमानचन्द्रविषयवक्तृ- गतासूयालंकारभूतायामव्याप्तेः । विशिष्टोपमादिस्थले च विशेषणाद्युप- मानां वाच्यसिध्यङ्गतया गुणीभूतव्यङ्ग्यत्वंम् , सिद्धार्थस्योपस्करणभावात्तु नालंकारतेति मम न काप्यसंगतिः। यदपि काव्यप्रकाशोत्तोपमाभेदाधिकभेदकथनप्रस्तावेऽभिहितम्- 'धर्मलुप्ता वाक्यसमासतद्धितेषु दर्शिता । द्विर्भावेऽपि दृश्यते । 'पटुपटु- देवदत्तः' इत्यत्र 'प्रकारे गुणवचनस्य' इति सादृश्ये द्विर्भावविधानात् इति, तत्तुच्छम् । अत्र चोपमावाचकस्याप्यनुपादानाद्वाचकधर्मलुप्ताया- मेतदाधिक्यमुद्भावयितुमुचितम् । न तु धर्मलुप्तायाम् । त्विति तै!क्तम् । पूर्ववदस्यापि तात्पर्यग्राहकत्वादिदमपि चिन्त्यम् । अव्यङ्ग्यत्वं च तल्लक्षणे प्राधान्येनाव्यङ्ग्यत्वं बोध्यमिति दिक् । विनिभालितमिति । विशे- षेण दृष्टमित्यर्थः । अत्रेति । व्यङ्ग्यायामित्यत्रास्यान्वयः । व्यङ्ग्यायामुपमाया- मिति । अत्रोपमानस्योपमेयत्वकल्पनात्मकप्रतीपस्यैव व्यङ्ग्यत्वम् । मूढपदखार- स्यात् । चमत्कारातिशयाच्च । किं हृष्यसीत्येतत्स्वारस्याञ्चेति केचित् । अत्र चेति ।
काव्यमाला। . धर्ममात्रलुप्तायाश्चान्तर्भावात्पृथगुपादानमसंगतमेव स्यात् । न चात्र द्विर्भावस्यैव वाचकस्य सत्त्वान्नास्ति तस्य लोपः अपि तु धर्ममात्रस्येति वक्तुं शक्यम् । द्विर्भावस्य सादृश्यवाचकत्वोक्तेर्भाष्यकैयटादिविरुद्धत्वात् । तदुक्तम्-'प्रकारे गुणवचनस्य' इति सूत्रे सिद्धं त्विति प्रतीकमादाय कैयटेन द्विवचनस्य प्रकृतिः स्थानी' इति तदर्थो विशिष्यते न तु प्रकारः । तत्र सर्वस्य गुणवचनत्वाव्यभिचाराभावात् । तद्ब्रहणाद्गुणवचनो यः शब्दो निर्मातस्तस्य सादृश्ये द्योत्ये द्वे भवत इति सूत्रार्थः इति । एवं च द्विर्भावपदस्य सादृश्युझ्योतकत्वमेव न वाचकत्वम्, अतो वाच- कलोपोऽप्यत्रास्तीति वाचकधर्मलुप्ताया उदाहरणमेतत् , न धर्मलुप्तायाः। यदि तु द्योतकोऽपि वाचकपदेनात्र विवक्षित इत्याग्रहः तदा तुष्यतु भवान्। यच्चान्यदभ्यधीयत तस्मिन्नेव प्रसङ्गे- "नृणां यं सेवमानानां संसारोऽप्यपवर्गति । तं जगत्यभजन्मर्त्यश्चञ्चा चन्द्रकलाधरम् ॥" अत्र “क्विकनोर्लोपे प्रत्येकं वाचकधर्मलोप उभयत्रापि" इति तदर- F . चो ह्यर्थे । सूत्रार्थ इति । द्विर्भावस्य सादृश्यद्योतकत्वेऽपि शकत्वरूप- वाचकत्वाभावाद्वाचकलोप इति तव हृदयम् । तत्तु इवादेर्योतकतानये चन्द्र इव मुखमित्यत्र, चन्द्रसुहन्मुखमित्यत्र च वाचकलुप्ताव्यवहाराभावाय सादृश्यतद्विशि- अन्यतरबोधकाभावस्यैव वाचकलुप्ताव्यवहारप्रयोजकत्वस्य वाच्यत्वेन द्योतकस्यापि बोधकत्वानपायेन नास्ति वाचकलोप इति तदाशयादबोधमूलकमिति चिन्त्यनि- दम् । यद्यान्यदिति । वक्ष्यमाणमन्यचेत्यर्थः। किन्लोपे तयोर्युतत्वेऽपि चित्रमीमांसाखण्डनम् । १३५ मणीयमेव । चञ्चेत्यत्र कनो वाचकस्य 'लुम्मनुष्ये' इति शास्लेण लोपेऽपि चन्द्रकलाधरमभजन्निति चन्द्रकलाधरभजनराहित्यरूपस्य चचाचन्द्र- साधारणस्य धर्मस्योक्तत्वात्कथं तावद्धर्मलोपः । न चोपमेयमर्त्यविशेषण- तयोपात्तस्य चन्द्रकलाधरभजनराहित्यस्य सादृश्योपसर्जने चञ्चायामनन्व- यान्न सादृश्यमिति वाच्यम् । 'यद्भक्तानां सुखमयः संसारोऽप्यपवर्गति । तं शंभुमभजन्मर्त्यश्चञ्चैवात्महिताकृतेः॥' इति पाठे 'धर्मश्रवणमप्युभयत्रापि संभवति' इति खोक्तेरसंगत्यापत्तेः। इहाप्युपमेयसंसारविशेषणतयोपात्तस्य सुखमयत्वस्य सादृश्योपसर्जनेऽप- वर्गेऽन्वयाभावात्कथंकारं धर्मस्य साधारण्यम् । उपमेयगतत्वेनोपमानगतत्वेन वा उपात्तस्य धर्मस्य शाब्दे उभया- न्वये सत्यपि वस्तुत उभयनिष्ठताज्ञानमेव साधारणतया नियामकमिति चेत्, चन्द्रकलाधरभजनराहित्येऽपि दीयतामेवमेव दृष्टिः । यदि चोप- मेयतावच्छेदकतयैव चन्द्रकलाधरभजनराहित्यं मम विवक्षितम् , साधा- रणधर्मश्च स्वात्महिताकरणरूपः स चात्र लुप्त एवेति शपथेन स्वाभिप्रायः प्रकाश्यते तदा निवारितोऽयं दोषः । तुष्यतु भवान् । यच्चापि "सेयमुपमा संक्षेपतस्त्रिधा-कचित्स्ववैचित्र्यमात्रविश्रान्ता। यथा-'स च्छिन्नमूलः क्षतजेन रेणुः' इत्यादौ । कचिदुक्तार्थोपपादन- परा । यथा-'अनन्तरत्नप्रभवस्य' इत्यादौ” इति तैरेव द्रविडशिरो- कन्लोपेऽयुक्तत्वमित्याह-कन इति । तामुपपादयति-इहापीति । कथंकार कथं कृत्वा । पाठान्तरवादी खाशयमाह-उपमेयेति । एवमेवेति । एक च तुल्यतेति भावः। प्रकारान्तरेण खाशयमाह-यदि वेति । तैरेवेति १. “साधारणतानियामकम्'. २. आधुनिकपुस्तकेषु तु 'पुनश्चयम्' इत्युपलभ्यते.
काव्यमाला। मणिभिरभ्यधीयत । तदप्यहृयमेव । देवतुल्यैनरैर्भाति स देशः सुमनो- हरः' इत्यादौ वाच्यभूतवस्तूपस्कारिकाया देवोपमाया अक्रोडीकरणात् । नह्यत्र स्ववैचित्र्यमाने विश्रान्तिरस्ति गुणानां प्रधानसान्निध्ये स्वातत्र्या- योगात् । नापि व्यङ्गयोपकारकत्वमेवालंकाराणामिति नियमोऽस्ति । अलंकारभूतोपमासु स्ववैचित्र्यंमात्रविश्रान्ताया उपमाया असंग्रहे को नाम ध्वन्यमानायास्तस्या निरासायाव्यङ्गयत्वविशेषणदानदुराग्रहः । असंग्रहे तु तत्रैवालंकारभूतोपमालक्षणस्यातिव्याप्तिरिति प्रागेवावेदनात् । अहो महदेवेदमन्याय्यम्-यदलक्षणीयायाश्च स्ववैचित्र्यमात्रविश्रान्ताया उप- मायाः संग्रहः, लक्षणीयायाश्च प्रागुक्तासूयालंकारभूताया असंग्रह इति प्राचां तूपमासामान्य लक्षयतां ध्वन्यमानाया इव वाच्याया अपि स्ववै- चित्र्यमात्रविश्रान्तायाः संग्रहो नानुचितः । न तु स्वस्य यत्नेन ध्वन्य- मानोपमा निरस्य कण्ठरवेणालंकारभूतोपमालक्षकस्य । यदि च प्रबन्ध- व्यङ्ग्योपस्कारकत्वेनेयं संगृह्यत इत्युच्यते, तदा 'स्ववैचित्र्यमात्र विश्रान्ता' इति खोक्तिविरुद्धा स्यात् । 'अनन्तरत्नप्रभवस्य' इत्यत्र गुणसमूहसमा- अप्पयदीक्षितैरेवेत्यर्थः । स्वस्येति । तवेत्यर्थः । नानुचित इत्यस्यानुषङ्गः । इयं खवैचित्र्यमात्र विश्रान्ता। विरुद्धा स्यादिति । वस्तुतस्तु-उपमासामान्य- लक्षणस्यापि प्रकृतत्वेनोपमासामान्यस्यैवायं विभागः। उपमानोपमेयतावच्छेदक- योर्भेदाचास्त्येवोपमितिनिष्पत्तिः । अत एव 'सेयमुपमा' इत्येवोक्तम् । नत्वलंकार इति । 'नयने शिशिरीकरोतु मे शरदिन्दुप्रतिमं मुखं तव' इत्यत्र तूकार्थोपपाद- नपरैव मुखकर्तृकनयकर्मकशिशिरीकरणस्यैव कव्युक्तस्येन्दूपमयैवोपपत्तेः ।. उका- ोपपादनेत्यस्य चोकार्थस्योपपादनम् , उकार्थे वोपपादनमित्यर्थद्वयम् । विनिग- मनाविरहात् । इति न दोष इति चिन्त्यमिदमिति बोध्यम् ॥ उतार्थोपपादनप- रोपमायाखदुकमुदाहरणं दूषयति-अनन्तेति । 'अनन्तरमप्रभवस्य यस्य हिर्म न सौभाग्यविलोपि जातम् । एको हि दोषो गुणसंनिपावे निमजतीन्दोः किरणे- चित्रमीमांसाखण्डनम् । २३७ नाधिकरणे एको दोषो दोषत्वेन न स्फुरतीत्यस्यार्थस्य पूर्वार्धप्रतिपादि- तार्थसमर्थनात्मकस्य सामान्यात्मकस्य विशेषरूपोदाहरणप्रदर्शनमन्तरेण सम्यगनाकलनादिन्दुकिरणसमानाधिकरणेऽके उदाहृतः, न तूपमानतया निर्दिष्टः । सामान्याद्विशेषस्य भेदाभावेनोपमितिक्रियाया अनिष्पत्त्या उपमालंकृतेरत्रानवतारादुदाहरणालंकारोऽयमतिरिक्तः । यथा 'इको यणचि' इति वाक्यार्थस्य सामान्यात्मनो विज्ञानायोकारे यकारो दध्यु- दकेकारस्येवेति वाक्यान्तरेण तद्विशेष उदायिते, तद्वदनापीति । विशेषस्तूदाहरणालंकारप्रकरणे रसगङ्गाधरादवसेयः । यत्तु 'लुप्तायां बिम्बप्रतिबिम्बादयो नैवं भेदाः । तस्यां साधारणधर्म- यानुगामितानियमात्' इत्युक्तम् , तन्न । 'मलय इव जगति पाण्डुर्वल्मीकसमो नृपोऽम्बिकातनयः। जम्बूनदीव कुन्ती गान्धारी सा हलाहलेव सरित् ।।' इत्यत्रानुगामिधर्मस्याप्रत्ययाचन्दनानां पाण्डवानाम् , सर्पाणां दुर्योधना- दीनां च बिम्बप्रतिबिम्बभावस्यैवोपमानिर्वाहकत्वात् । न च श्रौतोपादान- मन्तरेण नास्ति बिम्बप्रतिबिम्बभाव इति वाच्यम् । आर्थबिम्बप्रतिबिम्बने तदनपेक्षणात् । अत एवाप्रस्तुतप्रशंसायां वाच्यव्यङ्ग्यवाक्यार्थावयवानां बिम्बनमप्रत्यूहम् ॥ इति श्रीभट्टभट्टारकपेरुभट्टात्मजेन पण्डितराजापराभिधानेन जगन्नाथभट्टेन निर्मिते चित्रमीमांसाखण्डने उपमाप्रकरणदोषाः। विवाङ्कः ॥' इत्यत्रेयर्थः । स्फुरतीत्यस्यार्थस्य तृतीयचरणप्रतिपाद्यस्य । तत्त्वना- निर्दिष्टत्वे हेतुमाह-सामान्येति । अनवतारादिति । अग्रे तथा चेति शेषः । अलंकारोऽयमतिरिक्त इति । 'अदत्वा मादृशो मा भूहत्वा त्वं त्वादृशो भव' इत्यभिन्नधर्मिकोपमायामुपमानतावच्छेदकोपमेयतावच्छेदकभेदेनोप- १. 'सामान्यरूपस्य': २. 'करणेऽशुके'.
१३८ काव्यमाला। - अथोपमेयोपमाप्रकरणदोषाः- यत्तु प्राचीनलक्षणमव्याप्त्यादिभिर्दूषयित्वा 'अन्योन्येनोपमा बोध्या व्यक्त्या वृत्त्यन्तरेण वा । एकधर्माश्रया या स्यात्सोपमेयोपमा मता ॥' इति स्वयं लक्षणं निरमीयत । अस्यार्थः सपदकृत्यः संक्षेपेण तदुक्त- रीत्या सहृदयानां सौकर्यायोच्यते--अन्योन्येनेति । अन्योन्यप्रतियोगि- कत्वविशिष्टा व्यक्त्या व्यञ्जनाव्यापारेण वृत्त्यन्तरेण शक्त्या वा बोध्या वेद्या, एकधर्माश्रया एकधर्मप्रयोज्या या उपमा सा उपमेयो- पमा मतेत्यन्वयः। अन्योन्येनेति विशेषणादिदं तच्च सममित्युभयविश्रान्तोपमाया निरासः । अत्रान्योन्यप्रतियोगिकत्वस्य व्यञ्जनव्यापारगम्यत्वेनोपमायाश्च शक्तिवेद्यतया परस्परनिरपेक्षेणैकेन व्यापारेणान्योन्यप्रतियोगिकत्वविशि- ष्टायास्तस्या अबोधनात् । परस्परनैरपेक्ष्यस्य लक्षणे वाकारेणाभिधानात् । एकधर्माश्रयेति विशेषणात् । amaARARIANE मितिक्रिया निष्पत्तरुपमालंकारव्यवहारस्य च सर्वसंमतत्वेन तद्वदिहापिसामान्यधर्म- विशेषधर्मयोस्तयोर्भेदेन तनिष्पत्तेः संभवादुदाहरणालंकारो मास्त्वतिरिक्त इति तदाशयात् । चिन्त्यमेतत् । 'उदकोदकारे दधीकारस्य यः' इति पाठः॥ प्राचीनेति । 'उपमानोपमेयत्वं द्वयोः पर्यायतो यदि । उपमेयोपमा सा स्थाद्विविधैषा प्रकीर्तिता ॥' इत्यर्थः । अव्याप्तीति । तद्बल्गुना युगपदुन्मिषि- तेन तावत्' इत्यत्राव्याप्तिः । 'रजोभिः स्यन्दनोद्भूतैः' इत्यत्रातिव्याप्तिरिति भावः । तृतीयार्थः प्रतियोगित्वमित्याशयेनाह-अन्योन्यप्रतीति । लक्षणाया असंभ- वादाह-शक्त्येति । इवादिसत्त्वे इति भावः । विश्रान्तेति । उभयत्र पर्य- वसिता न श्रौती तस्यामित्यर्थः । शकीति । सप्तंपदे(?)त्यादिः । ननु मियो निरपेक्षत्वं न निविष्टमत आह-परस्परेति । अन्यथा पक्षान्तरकथनासंगते. १. व्यानाव्यापारमात्रवेषत्वेन'. २. 'शक्तिबोध्यतया'.
चित्रमीमांसाखण्डनम् । 'रजोभिः स्यन्दनोद्भूतैर्गजैश्च घनसंनिमः । भुवस्तलमिव व्योम कुर्वन्न्योमेव भूतलम् ॥' इत्यत्र परस्परोपमायां नातिव्याप्तिः । तत्रोपमाप्रयोजकधर्मैक्याभावात् । भूतलोपमानिकायां प्रयोजकस्य रजसामनुगामिधर्मस्य, नभस्तलोपमानि- कायां प्रयोजकस्य घनसदृशगजानां बिम्बप्रतिबिम्बभावापन्नधर्मस्य च भेदात् । व्यक्त्येति च विशेषणं व्यङ्गयोपमेयोपमासंग्रहार्थमितीदमुप- मेयोपमात्वप्रयोजक लक्षणमिति, तन्न । 'अहं लतायाः सदृशीत्यखर्व गौराङ्गि खेदं न कदापि यायाः । गवेषणेनालमिहापरेषामेषापि तुल्या नितरां भवत्याः ॥' अत्र 'षष्ठयन्तात्सदृशादयः शब्दाः सादृश्यप्रतियोगिवचनाः' इत्युक्त- तयान्योन्यप्रतियोगिकत्वविशिष्टाया उपमायास्तनुत्वादिरूपैकधर्माश्रयाया वृत्त्यन्तरेण शक्त्या बोधनादुपमेयोपमात्वापत्तेः । न चात्रान्योन्यप्रति- योगिकत्वमुपमायां न प्रतीयते । लतादिसंबन्धिसादृश्याश्रयत्वस्यैवास- । रिति भावः । रजसामिति । प्रयोजकीभूतरजोभिन्नानुगामिधर्मस्येत्यर्थः । समा- नविभक्तिकत्वस्येव समानवचनत्वस्याभेदान्वये न तन्त्रत्वमिति भावः । एवमप्रेऽपि। घनगजयोर्भेदेन साधारणत्वं कथमत आह-बिम्बेति । प्रयोजकमिति । अनुगतानतिप्रसक्तलक्षणमात्रं तु-'सदृशस्य तृतीयस्य व्यवच्छेदाय यइयोः । अन्योन्येनोपमेयत्वमुपमेयोपमा मतां ॥' इति द्रष्टव्यम् । अत्रान्योन्येनेति विशेष- णम् 'अहमेव गुरुः सुदारुणानाम्' इति प्रतीपविशेषव्यावृत्त्यर्थमिति भावः । अह- मिति । लतानुयोगिकसादृश्याश्रयावहमित्यर्थः । अखर्व महान्तम् । एषा- पीति । त्वदनुयोगिकसादृश्यप्रतियोगिकेत्यर्थः । अत्रेत्यस्य इतीत्यादिः । तनुत्वे- त्यस्य अनुपात्तेत्यादिः । लतादीति । लताद्यनुयोगिकसादृश्यप्रतियोगिकत्वस्यैवे- त्यर्थः । एतेन सादृश्यव्यवच्छेदः। सादृश्यादिपदानां धर्मिबोधकत्वात् । एवं च १. रसगङ्गाधरे त्वत्र 'रजोभिरिव द्यौर्धनसंनिभर्गजैश्च द्यौरिव भूरिति कस्यचित्पद- स्यार्थे परस्परोपमायां नातिव्याप्तिः' इति पाठः. २'तव तावदस्ति' इति रसगङ्गाधरे पाठः, १४० काव्यमाला। पदार्थेऽन्वयादिति वाच्यम् । 'मुखस्य सदृशश्चन्द्रश्चन्द्रस्य सदृशं मुखम्' इत्युपमेयोपमायामव्याप्तेः । नहि 'अहं लतायाः सदृशीत्यखर्वम्' इत्य- त्रोपमेयोपमा भवितुमर्हति । गर्वमात्रनिरासपरत्वेनोत्तरार्धगतोपमायास्तृ- तीयसदृशव्यवच्छेदाप्रतिपत्तेः । अत एव अन्यान्यपि तव सदृशानि सन्त्येव तेषां गवेषणेन किं फलमित्येतदर्थकं गवेषणेनेत्युत्तरार्ध संग- च्छते । 'तृतीयसब्रह्मचारिव्यवच्छेदो झुपमेयोपमाजीवितम्' इत्यालंका- रिकसिद्धान्तात् । अन्यथा 'रजोभिः स्यन्दनोबूतैः' इति प्रागुक्तपरस्प- रोपमावारणप्रयासवैफल्यप्रसङ्गात् । न च तृतीयसदृशव्यवच्छेदफलक- त्वमुपमाविशेषणमिति वाच्यम् । विशेषणान्तरवैयर्थ्यांपत्तेः । तद्विशेष- णव्यावर्त्यानामाधुनिकविशेषणेनैव वारणात् । अन्योन्यप्रतियोगिकत्व- - सादृश्यस्य तत्रान्वये इयम्, न तु तत्रेति भावः । मुखस्येति । तत्रापि सदृश- पदसत्त्वेन तत्तुल्ययोगक्षेमत्वादिति भावः । नन्वेवं तथा दुर्वचमिति यथैतत्संग्रह- स्तथाह-लताया इति। अस्यापि संग्रह इष्ट एवेत्यतिव्याप्तिात आह- नन्त्यमिति ।)। ननु तन्मात्रपरत्व एव किं बीजमत आह-अत एवेति । तत्परत्वेन तस्याः साफल्यादेवेत्यर्थः । उत्तरार्ध तदेकदेशः। अन्यथा तुर्यचरणे- नैवेष्टार्थलाभे मध्ये एतत्कथनानर्थक्यं स्पष्टमेवेति भावः । नन्वेवमपि तृतीयसह- शव्यवच्छेदप्रतीतावेवेय मित्यत्र किं विनिगमकमत आह-तृतीयेति । सब- ह्मेति । सदृशेत्यर्थः । एवमग्रेऽपि बोध्यम् । “सिद्धान्तः' इति पाठः। 'सिद्धा- न्तात्' इत्यपपाठः । अन्यथा तस्य तज्जीवितत्वानङ्गीकारे । वाच्यमिति । 'अहं लतायाः' इत्यत्राति व्याप्ति]वारणायेदानीं वक्तव्यमित्यर्थः । विशेषणान्तरेति। अन्योन्येनेत्यादीत्यर्थः । नन्वेवं कथमुक्कदोषनिरासोऽत आह-तद्विशेष- प्रेति । विशेषणान्तरेत्यर्थः । तदुक्तमन्यडूषयति-अन्योन्येनेति । प्रति- योगित्वस्येति । अनुयोगित्वविशिष्टेत्यादिः । ननु तस्य वृत्तिविषयत्वं कुतो २. 'उत्तरार्धमपि'. २. 'भुवस्त्रलमिव म्योम कुर्वन्थ्योमेव भूतलम्' इत्यत्राप्युपमें- पमत्वनिवारणप्रयासवैयापत्तेः' इति रसगङ्गाधरे,पाठ:.
चित्रमीमांसाखण्डनम् । विशिष्टोपमैकवृत्तिमात्रवेद्येत्यप्ययुक्तमेव । 'खमिव जलं जलमिव खम् , हंसश्चन्द्र इव हंस इव चन्द्रः' इत्यादौ खजलयोश्चन्द्रहंसयोश्च सादृश्या- न्वये प्रतियोगित्वस्य संसर्गत्वेन वृत्त्यविषयत्वात् । 'वृत्तिवेद्यानां पदा- र्थानां संसर्गो वृत्त्यवेद्यः' इति तात्पर्यवृत्तिमनङ्गीकुर्वाणैर्वाक्यविद्भिरभ्यु- पगमात् । अन्यथा प्रकारतापत्तेः॥ इति श्रीभट्टभट्टारकपेरुभट्टात्मजेन पण्डितराजापराभिधानेन जगन्नाथभट्टेन निर्मिते चित्रमीमांसाखण्डने उपमेयोपमाप्रकरणदोषाः। - अथानन्वयः- यच्च-"अयमनन्वयो व्यङ्गयोऽप्यस्ति अद्य या मम गोविन्द जाता त्वयि गृहागते । कालेनैषा भवेत्प्रीतिस्तवैवागमनात्पुनः ।।' अत्र गृहागतं श्रीकृष्णं प्रति विदुरवाक्यम् । 'इयं त्वदागमनप्रभवा प्रीतिर्बहुकालव्यवहितेन पुनरपि त्वदागमनेनैव भवेन्नान्येन, इत्युक्ति- भझ्या 'त्वदागमनप्रभवप्रीतेः सैव सदृशी, नत्वितरप्रभवा' इति व्यज्यते इत्यभिहितम् , तन्न । 'अमुष्यास्त्वदागमनप्रभवायाः प्रीतेर्वारान्तरत्वदा- गमनप्रभवाप्रीतिः सदृशी' इति प्रत्ययस्य सर्वजनसिद्धतया श्रीकृष्णागमन- जन्यप्रीतिसामान्यावयवयोर्द्वयोः प्रीतिव्यक्त्योः सादृश्यस्याबाधाद्योगार्था- नेयाह-वृत्तीति । उक्तग्रन्थस्यैकवृत्तिमात्रवेद्यत्वे न तात्पर्य किं तु वृत्तिद्वय- वेधत्वाभावे । यद्वा तजन्यप्रतीतो यथाकथंचिद्भासमानत्वमेव तन्मात्रवेद्यत्वम् । अस्ति च 'खमिव जलम्' इत्यादौ । नास्ति च तत्रेति तन्निरास इत्याशयेनादो- षाञ्चिन्त्यमिदम् ॥ अमुष्या इति । यत इत्यादिः । व्यक्त्योदितभेदेनेति शेषः । योगार्थेति । १. 'प्रतियोगिकत्वस्य'.
काव्यमाला। -- भावेनानन्वय एव नायं भवितुमर्हति, 'स्वस्मिन्स्वसादृश्यस्यान्वया- भावादनन्वयः' इत्युपमाप्रकरणे खयमेवाभिधानात् । उपमेयस्य प्रीति- व्यक्तिविशेषस्य सदृशान्तरव्यवच्छेदे बाधातादृशप्रीतिसामान्यस्यावय- विनो निरुपमतया प्रतीयमानस्यानुपमेयत्वेन फलवैयधिकरण्यप्रसङ्गाच्च ।। न चात्र 'श्रीकृष्णागमनप्रीतिसामान्यावयविनः खेन सादृश्यं मध्ये प्रती- यते' इति शपथः कर्तुमुचितः । सहृदयत्वभङ्गप्रसङ्गात् । प्रयोजनविर- हाच ॥ श्रीकृष्णागमनप्रभवप्रीतिसामान्यस्य निरुपमत्वसिद्धिरेव प्रयोज- नम्-इति चेत् न । एतत्कालावच्छिन्नकालान्तरावच्छिन्नतादृशप्रीति- व्यक्त्योरवयवयोरुपमानोपमेयभावेनैवावयविनि तत्सिद्धेः । यथा- 'एतावति प्रपञ्चे सुन्दरमहिलासहस्रभरितेऽपि । अनुहरति सुभग तस्या वामाधं दक्षिणार्धस्य ॥' इत्यादाववयवयोर्वामार्धदक्षिणार्धयोः सादृश्येनावयविनः कान्तारूपस्या- नुपमत्वं प्रतीयते । एवमिहापि ॥-नहि तत्रापि निरूपमत्वप्रतीत्या- वयविनः खेन सादृश्यप्रत्ययोऽन्तरा कल्प्यते-इति वाच्यम् । निरुप- मत्वप्रतीतेरनन्वयनैयत्यविरहात् । अन्यथा 'गगनपुष्पमिवास्य वचः सखे' इत्यादिकल्पितोपमायामपि निरुपमत्वप्रत्ययेनानन्वयकल्पनापत्तरिति न किंचिदेतत् ॥ 'रत्नाकरोक्तस्यैवानन्वयप्रकारविशेषस्यात्र व्यङ्ग्यता' इत्यपि वक्तुमयु- अनन्वयपदयोगार्थत्यर्थः । ननु रूढमेवानन्वयपदमभिमतमत आह-खस्सि- निति । व्यवच्छेदे बाधादिति । तस्य व्यवच्छेदकरणेऽसामादित्यर्थः। कालान्तरस्थप्रीतिव्यक्तिविशेषस्य सदृशस्य सत्त्वादिति भावः। तादृशेति । श्रीकृ- ष्णागमनजन्येत्यर्थः । महिला नी। दक्षिणार्धस्येति कर्मणः शेषत्वविवक्षायां षष्ठी। मत्रोपमेयं समुदिता नायिका ॥ ननूकरीत्या न व्यजकत्वम्, किंतु रत्ना-. करोतरीत्येति नोकदोषोऽत आह-रत्तेति । तस्य प्रकारस्य प्रकृतेऽवाच्या चित्रमीमांसाखण्डनम् । १४३ - क्तमेव । तस्य रसगङ्गाधरेऽस्माभिर्निरस्तत्वात् । प्रकृतेऽवाच्यत्वात् । स्वयमनन्वयप्रकरणे तस्यानुक्तत्वाच्च । इदं पुनरनन्वयध्वनेरुदाहरणं मदीये गङ्गास्तवे- 'नगेभ्यो यान्तीनां कथय तटिनीनां कतमया पुराणां संहर्तुः सुरधुनि कपर्दोऽधिरुरुहे । कया वा श्रीभर्तुः पदमितरयाक्षालि सलिलै- स्तुलालेशो यस्यां तव जननि दीयेत कविभिः ।।' अत्रेतरयेत्येतन्माहात्म्यात् 'त्वयि तु तव तुला दीयेतैव' इत्यनन्वयो निरुपमत्वपर्यवसायी व्यज्यते । यथा वा- 'भुवनत्रितयेऽपि मानवैः परिपूर्णे विबुधैश्च दानवैः । न भविष्यति नास्ति नाभवक्षितिप त्वत्तुलनाधरोऽपरः ॥' अत्राप्यपरशब्दमहिम्ना 'त्वं तु त्वत्तुलनाधरो वर्तसे' इति व्यज्यते । तस्याभावे त्वसमालंकार एवेति रसगङ्गाधरे व्यक्तमुपपादितमस्माभिः ।। इति श्रीभट्टभट्टारकपेरुभट्टात्मजेन पण्डितराजापराभिधानेन जगन्नाथभटेन निर्मिते चित्रमीमांसाखण्डनेऽनन्वयप्रकरणम् । अथ मरणालंकारप्रकरणम् । यत्तु "स्मृतिः सादृश्यमूला या वस्त्वन्तरसमाश्रया । स्मरणालंकृतिः सा स्यादव्यङ्ग्यत्वविशेषिता ।' त्वात् । ननु त्वया दूषितोऽपि न मया दूषितः, तत्राह-वय- मिति । 'अन्यथा-अलंकारध्वनेर्विषयापहारः स्यात्' इति रत्नाकरोक्ति खण्ड- यितुमाह-इदं पुनरिति । नगेभ्यः पर्वतेभ्यः । कपर्दो जटाजूटः ।
काव्यमाला। - यथा- 'अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्षीचकार । सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः॥ यथा वा- 'दिव्यानामपि कृतविस्मयां पुरस्ता- दम्भस्तः स्फुरदरविन्दचारुहस्ताम् । उद्वीक्ष्य श्रियमिव कांचिदुत्तरन्ती- मस्मार्षीजलनिधिमन्थनस्य शौरिः ॥ एकत्र सदृशदर्शनात्तत्सदृशधर्मिका स्मृतिः, अपरत्र सदृशदर्शनात्त- त्सदृशलक्ष्मीसंबन्धिनो जलनिधिमन्थनस्य स्मृतिः । उभयत्रापि सादृश्य- मूलकवस्त्वन्तरस्मृतित्वमविशिष्टम् । अत एव-सदृशासशसाधार- ण्यार्थतया लक्षणे वस्त्वन्तरग्रहणमर्थवत् । प wamame RITER -- अपीति । रघुवंशे दशरथमृगयावर्णनम् । स दशरथः । सादृश्यबोधकं केशपाशस्य विशेषणद्वयम् । दिव्यानामिति । माघे जलक्रीडावर्णनम् । अम्भस्तो जलात्। मन्थनस्येति । 'अधीगर्थ-' इति कर्मणि शेषे षष्ठी ॥ लक्ष्यद्वये बीजमाह- एकत्रेति । आद्य इत्यर्थः । इत(अप)रत्र अन्त्ये । सदृशेति । लक्ष्मीसदृश- नायिकेत्यर्थः । लक्षणं संगमयति-उभयत्रेति । तथा च द्वितीयलक्ष्यसंग्रह एव 'वस्त्वन्तरसमाश्रया' इति विशेषणफलमित्याह-अत एवेति । द्वितीयस्य लक्ष्यत्वादेवेत्यर्थः । सहशासदृशेति । स्मृतेः सदृशासदृशान्यतरविषयकत्व- १. 'इतरत्र' चित्रमीमांसा-रसगजाधरयोः पाठः.
चित्रमीमांसाखण्डनम् । १४५ 'सौमित्रे ननु सेव्यतां तरुतलं चण्डांशुरुज्जृम्भते चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽयमुन्मीलति । वत्सैतद्विदितं कथं नु भवता धत्ते कुरङ्गं यतः कासि प्रेयसि हा कुरङ्गनयने चन्द्रानने जानकि ॥' '' अत्र श्रुतकुरङ्गसंबन्धिनस्तन्नयनस्य स्मरणातत्सदृशसीतानयनस्मृति- श्वेति । किंत्वेषा व्यङ्ग्या अलंकार्यभूता च । तघ्यावृत्त्यर्थमव्यङ्ग्यत्व- विशेषणम् । 'अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधय- स्तानेतानपि बिभ्रती किमपि न क्लान्तासि तुभ्यं नमः । आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुव- स्तावद्विदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥' अत्र स्तूयमानभूसंबन्धिनो भूभृतः स्मृतिर्न सादृश्यमूलेति नात्र सर णमलंकारः, किंतु स्मृतेः संचारिभावस्य भूभृद्विषयकरतिभावाङ्गत्वात्प्रे- योऽलंकारः । एतघ्यावृत्त्यर्थ लक्षणे 'सादृश्यमूला' इति विशेषणम्" इत्याहुः ॥ तदेतत्सर्वमरमणीयम् । यत्तावदुच्यते-"सदृशासदृशयोः : लाभार्थतयेत्यर्थः ॥ अव्यङ्ग्यत्वविशेषणफलमाह-सौमित्रे इति । हनुमन्नाटके सीतावियोगे श्रीरामचन्द्रस्य लक्ष्मणं प्रत्युक्तिरियम् । ननु निश्चयेन । चण्डांशुः सूर्यः ॥ तन्नयनेति । कुरङ्गनयनेत्यर्थः । तत्सदृशेति नयनविशेषणम् । इति । 'भूता च' इत्यग्रे योज्यः । एषा सीतास्मृतिः। अलंकारसामान्यलक्षणमपि नास्तीत्साह-अलमिति । सीतास्मृतेः प्राधान्यादिति भावः । अत्युच्चा इति । भुवं प्रत्युक्तिरियम् । प्रस्तौमि करोमि । इमां भुवम् ॥ न सादृश्येति । किं तु 'एकसंबन्धि-' इति रीत्येति भावः ॥ रतिभावेति । कविनिष्ठेत्यादिः । अरमणीयमिति । वक्ष्यमाणदोषादिति भावः॥ तमेव दाळयानूद्याह- यत्तावदिति । तत्र उच्यमाने तस्मिन् । ब्रूम इति शेषः । तदाह १० चि० मी० १४६ काव्यमाला। - केशपाशजलनिधिमन्थनयोः संग्रहाय लक्षणे वस्त्वन्तरग्रहणमर्थवत्" इति, तत्र 'सादृश्यमूला स्मृतिः स्मरणालंकारः' इत्येतावतैव केशपाश- स्मरणस्येव जलनिधिमन्थनस्मरणस्यापि संग्रहाद्वस्त्वन्तरसमाश्रयत्वविशे- षणमनर्थकम् । एकत्र सादृश्यदर्शनोद्बुद्धसंस्कारजन्यत्वेन, अपरत्र च सादृश्यदर्शनोबुद्धसंस्कारजलक्ष्मीस्मरणोद्बुद्धसंस्कारजन्यत्वेन च, साह- श्यमूलकत्वस्याविशेषात् । नहि 'सादृश्यमूला' इत्युक्ते 'सदृशविषया' इति लभ्यते । येन जलनिधिस्मृतेरसंग्रहः स्यात् ॥ * ॥ यदपि- "-'सौमित्रे ननु सेव्यातम्-' इत्यत्र स्मृतिय॑जयालंकार्यभूता च । तद्व्या- वृत्त्यर्थमव्ययत्वविशेषणम्-" इत्युक्तम् , तत्र नेयं स्मृतिरलंकार्यभूता, किं तु जानक्यालम्बनो निशासमयोद्दीपितः संतापादिनानुभावित उन्मा- देन च संचारिणा परितोषितो विप्रलम्भः प्रधानत्वेनालंकार्यः, तस्य स्मृतिरुत्कर्षहेतुत्वादलंकार एव, अतो नितरां तव्यावृत्त्यर्थमव्यङ्ग्यत्व- विशेषणमनुचितम् । नहि व्यङ्ग्यत्वालंकारत्वयोर्विरोध इति वक्तुं शक्यम्, नित्यव्यङ्ग्यानां रसभावादीनां पराङ्गतायामलंकारत्वाभ्युपग- सादृश्येति । एवमग्रेऽपि । केशेति । तस्य सदृशत्वेन दृष्टान्तत्वमिति भावः । स्यादिति । इतीति शेषः । सादृश्यपदस्य नियमसंबन्धिकतया संबन्ध्याकाहा. यामुपस्थितस्मर्यमाणस्यैवान्वयापत्तिः। न हि 'जनकत्वमूला पूज्यते' इत्युक्ते पुत्र- जनकत्वेन भार्या पूज्यते। अतो 'वस्त्वन्तरसमाश्रया' इत्यावश्यकमिति चिन्त्य- मिदम् ॥ नेयं स्मृतिरलंकार्यभूतेति । अत्र स्मृतेः 'हा कासि' इत्यादिप- दगम्यत्वेन विवहनप्रवृत्तराजानुगम्यमानमृत्यवत् । 'शठेन विधिना निद्रादरिद्री- कृतः' इत्यादौ शठादिपदगम्यासूया बुद्धा, तस्या एव प्राधान्यादलंकार्यत्वम् । अनुपस्कारकत्वाच विप्रलम्भस्यैव तत्त्वाचेति चिन्त्यम् ॥ विप्रलम्भः श्रीराम- चन्द्रनिष्ठः। नितरामित्यस्यानौचित्येऽन्वयः। तदाशयं खण्डयति-नहीति नित्येति । सर्वथेत्यर्थः । कदाप्यवाच्यलक्ष्येति यावत् । नन्वेवं प्राधान्येऽप्यलं चित्रमीमांसाखण्डनम् । मात् । प्रधानव्यङ्ग्यव्यावृत्त्यर्थं पुनरुपस्कारकत्वं सर्वेष्वप्यलंकारलक्षणेषु देयमिति प्रागेवावेदितम् । यदप्युक्तम्-'अत्युच्चाः परितः स्फुरन्ति-' इत्यत्र स्मृतेः संचा- रिभावस्य भूभृद्विषयकरतिभावाङ्गत्वात्प्रेयोलंकारत्वम्" इति । तत्र हि भावस्य भावाद्यङ्गतायां प्रेयोलंकारत्वम् । न ह्यत्र स्मृतिर्भावः, तस्याः स्मरतिना वाचकेनाभिधानात् । नहि. वाच्यस्य व्यभिचारिणो भावत्वं वक्तुं युक्तम् । 'व्यभिचार्यञ्जितो भावः' इति सिद्धान्तस्य भङ्गापत्तेः । तथा चोक्तं सर्वस्वकृता--"प्रेयोलंकारस्य तु सादृश्यव्यतिरिक्तनिमित्तो- स्थापिता स्मृतिर्विषयः। तत्रापि विभावाद्यागूरितत्वे । यथा-'अहो कोपेऽपिः कान्तं मुखम्' इति, नतु खशब्दनिवेद्यत्वे । यथा- 'अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन निवृत्तखेदः। रहस्त्वदुत्सङ्गनिषक्तमूर्धा स्मरामि वानीरगृहेषु सुप्तम् ॥' इत्यादौ" इति ॥ ननु-भावाद्यङ्गीभूतभावत्वं न प्रेयोलंकारत्वम्, अपि तु-भावाद्यङ्गीभूतसंचारित्वमात्रम् । तथा च प्रकृते सरणस्य स्वशब्दनिवेद्यत्वेन भावत्वविरहेऽपि संचारित्वानपायात्प्रेयोलंकारत्वम- विरुद्धमेव-' इति चेत् । एवं तर्हि 'इतरागीभूतस्थायित्वमानं रसा- कारत्वापत्तिरत आह-प्रधानेति । सर्वेषु न त्वत्रैव। तथा चालंकारसामा- न्यलक्षणप्राप्तत्वात्तस्य नातिप्रसङ्ग इति भावः ॥ सिद्धान्तेति । मम्मटभट्टादी- नामिति शेषः । तद्न्थमाह-प्रेयोलमित्यादि इतीत्यन्तेन । तत्रापि तदुक्तस्यापि, न स्मृतिष्वपि । आगूरितत्वे आविष्कृतत्वे। अत्रेति । पुष्पकेण लङ्कातोऽयोध्यां गच्छतः श्रीरामस्य सीतां प्रत्युक्तिरियं रघुवंशे । अनुगोदं गोदा- समीपे ॥ वानीरेति । तृणधान्येत्यर्थः । सुतं स्वापः । इष्टापत्तिं परिहरति- १. 'तन्न । भावस्य हि' इसि रसगङ्गाधरपाठः. ॥ - १४८ काव्यमाला। लंकारत्वम् , नतु व्यज्यमानत्वविशिष्टम्' इत्यस्यापि सुवचत्वात् । एवं च 'चराचरोभयाकारजगत्कारणविग्रहम् । कल्पान्तकालसंक्रुद्धं हरं सर्वहरं नुमः ॥' इत्यत्र क्रोधस्य स्वशब्दनिवेद्यत्वेऽपि देवताविषयकरतिभावाङ्गीभूतस्था- यित्वानपायाद्रसालंकारः स्यात् । न च-इष्टापत्तिः । अपसिद्धान्तात् । तस्माद्-व्यज्यमानस्यैव संचारिणो भावाद्यङ्गतायां प्रेयोलंकारत्वम्- इति नात्र स्मृतिमादाय प्रेयोलंकारत्वं वाच्यम् । किं तु भूविषयकरतेः पूर्वार्धव्यङ्गयाया उत्तरार्धगतभूभृद्विषयकरतिभावाङ्गत्वाद्युक्ता प्रेयोलंका- रता । उक्तं च मम्मटभट्टै:-'अत्र भूविषयो रत्याख्यो भावो राज- विषयकरतिभावस्य' इति ॥ अपि च महदिदमाश्चर्यम् । यत्स्वेनैव निर्मितः कुवलयानन्दाख्यः संदर्भोऽपि विस्मृतः । उक्तं च तत्र शेष- भागे-'विभावानुभावाभ्यामभिव्यञ्जितो निर्वेदादिः स यत्रापरस्यानं स प्रेयोलंकारः' इति । इति श्रीमहमारकपेरुमहात्मजेन पण्डितराजापराभिधानेन जगन्नाथभटेन निर्मिते चित्रमीमांसाखण्डने सरणालंकारप्रकरणम् । ॥ एवं चेति । तथा सुवचत्वे चेत्यर्थः। स्वशब्दस्येति । क्रुद्धमितीत्यर्थः ॥ रतिभावेति। कविनिछेत्यादिः । स्मृतिमादायेत्युक्तिफलमाह-किं त्विति । एवं च प्रेयोलंकारस्य सत्त्वेऽपि त्वत्कृतं तदुपपादनं चित्रमीमांसास्थमयुक्तमिति भावः । मावस्येति । अङ्गामिति शेषः । खेनैव अप्पदीक्षितेनैव । तत्र कुवल- यानन्दे । निर्वेदादित्रयस्त्रिंशत् । अपरस्य भावादेः ॥ १. 'न्यज्यमानस्यैव स्थायिनः परागवे यथा रसालंकारत्वम् , एवं व्यज्यमानस्यैव स.इति रसगजाधरपाठः. २. 'इति रसगङ्गाधरान्तर्गतचित्रमीमांसाखण्डनसंग्रहे स्मरणालंकारप्रकरणम्' इत्यादर्शवपाठः चित्रमीमांसाखण्डनम् । १४९ अथ रूपकप्रकरणम् । यत्तु- "बिम्बाविशिष्टे निर्दिष्टे विषये यद्यनिद्भुते । उपरञ्जकतामेति विषयी रूपकं तदा ॥ अत्र 'बिम्बाविशिष्टे' इति विशेषणात् 'त्वत्पादनखरत्नानां यदलक्तकमार्जनम् । इदं श्रीखण्डलेपेन पाण्डरीकरणं विधोः ।। इति निदर्शनाया निरासः, तत्र विषयस्य मार्जनस्यालक्तकादिरूपबिम्ब- विशिष्टत्वात् । निर्दिष्टे' इति विशेषणान्निगीर्णविषयायां 'कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम्' इत्याद्यतिशयोक्तौ नाति- व्याप्तिः । अनिद्भुते निषेधास्पृष्टे इति विशेषणादपद्भुतौ नातिव्याप्तिः । 'उपरञ्जकतामाहार्यताद्रूप्यनिश्चयगोचरतामेति' इत्यनेन ससंदेहोत्प्रेक्षयो- निश्चयस्यैवाभावात् । समासोक्तो व्यवहारमात्रसमारोपात् । परिणामे चारोप्यमाणस्यैव विषयताद्रप्यनिश्चयगोचरत्वात् । भ्रान्तिमति सतः कल्पितस्य वा प्रवृत्त्यादिपर्यन्तिकस्वारसिकश्रमस्यैव निबन्धनेन तस्या- नाहार्यत्वात्' इत्याहुः ॥ तन्न, 'त्वत्पादनखरत्नानाम्' इत्यादिनिदर्शना- व्यावृत्त्यर्थ बिम्बाविशिष्टत्वं विषयविशेषणं तावदयुक्तमेव । तत्र वाक्या- र्थरूपकस्य वक्ष्यमाणत्वेन लक्ष्यत्वात् । यदि च 'मुखं चन्द्रः' इत्यादि- बिम्बेति ॥ अयं भावः-यथा चन्द्रः स्वतः शुभ्रत्वादनासञ्जनीयधावल्यः, तथा नखाः खतोऽरुणत्वादनासजनीयारुणा इति सादृश्येन नखानां चन्द्रस्य च बिम्बप्रतिबिम्बभावः। अलक्तकचन्दनयोरन्यत्र खवर्णासञ्जकत्वेन सः । तथा च बिम्बप्रतिबिम्बभावो यत्र नखालककविशिष्ट एव स्नने तत्प्रतिबिम्बभूतचन्द्रच- न्दनविशिष्टं पाण्डुरीकरणमुपराकम् इति ॥ निर्दिष्ट इति । उच्चारित १५० काव्यमाला। रूपकान्तर इवात्रापि वस्तुविशेषे वस्त्वन्तरतादात्म्यारोपे सत्यपि नेदं रूपकम् । अपि तु निदर्शना—इत्यागृह्यते । तदा 'मुखं चन्द्रः' इत्यपि निदर्शना-इत्युच्यताम् । निरस्यतां च रूपकम् ॥ किं च–'इन्दु- शोभां वहत्यास्यम्-' इत्यादिपदार्थनिदर्शनायां कथमन्यस्यान्यः शोभां वोढुं समर्थ इति संबन्धस्यानुपपन्नत्वात्तच्छोभासदृशी शोभा लक्ष्यमाणा चन्द्रशोभया विषयिस्था निगीर्णेति साध्यवसानलक्षणामूलत्वं तावन्निर्वि- वादम् । वाक्यार्थनिदर्शनायां तु विषयविषयिणोरुपादानेऽप्यार्थ एवा- रोपो न शाब्दः। यथा- 'त्वत्पादनखरत्नानि यो रञ्जयति यावकैः । इन्दु चन्दनलेपेन पाण्डुरीकुरुते हि सः ॥' इत्यत्र । इह त्वत्पादनखरत्नकर्मकं यावककरणकं रञ्जनम् , इन्दुकर्मक- चन्दनलेपकरणकपाण्डुरीकरणभिन्नमित्यारोपस्य व्यङ्ग्यत्वाद्भवति निद- र्शना । 'त्वत्पादनखरत्नानाम्' इत्यत्र तु विषयविषयिणोः प्रथ[मा]न्त- शब्दोपात्तयोरभेदसंसर्गेण बोधाच्छाब्द एवारोपो नार्थ इति रूपकमेव युक्तम् , न निदर्शना । रूपके बिम्बप्रतिबिम्बभावो नास्तीति तु भ्रान्ति- मात्रम्, 'ययोरिवादिशब्दप्रयोगे उपमा, तयोरेकत्रान्यारोपे रूपकम्' इति नियमादत्र यदि रूपकं नाङ्गीकुरुपे, मैवाङ्गीकुरु तर्हि तत्रेवयथादेः प्रयोगे उपमामपि । एवम् - 'त्वयि कोपो महीपाल सुधांशाविव पावकः।' इत्यादौ स्वकल्पितेन विशिष्टेन धर्मिणा सादृश्यस्य प्रत्ययादुपमा ब्रूषे, ब्रूहि तर्हि तत्रैवेवस्य निरासे - इत्यर्थः ॥ वत्र येन यस्य व्यावृत्तिखत्क्रमेणाह-सममितिः॥ अगोचरत्वे चित्रमीमांसाखण्डनम् । - त्वयि कोपो महीपाल सुधांशौ हव्यवाहनः ।' इत्यादौ रूपकमपि, तथा 'कुङ्कुमद्रवलिप्ताङ्गः कषायवसनो यतिः । कोमलातपबालाभ्रसंध्याकाल इवाबभौ ॥ इत्यत्र 'संध्याकालो न संशयः' इति कृते रूपकं भवितुं युक्तम् । 'त्वयि कोपः-' इत्यत्र 'कल्पितं रूपकम्' इह तु न तथेति विशेषः॥ न च- एवमादौ प्रतीयमानोत्प्रेक्षा-इति वाच्यम् , निश्चीयमानत्वेनाभेदस्य भानात् ॥ किंच-आलंकारिकसंमतोऽयं रूपके बिम्बप्रतिबिम्बभावः । उक्तं हि विमर्शिन्याम्- 'कंदर्पद्विपकर्णकम्बुमलिनैर्दानाम्बुभिः क्षालितं सलमाञ्जनपुञ्जकालिमकलं गण्डोपधानं रतेः। व्योमानोकहपुष्पगुच्छमलिभिः संछाद्यमानोदरं पश्यैतच्छशिनः सुधासरुचिरं बिम्बं कलङ्काङ्कितम् ॥ अत्र कलङ्कस्य दानाम्ब्वादिभिः प्रतिबिम्बनम् , लाञ्छितत्वाकितयोः शुद्धसामान्यारूपत्वम्-इति ॥ तथा 'निर्दिष्टे शब्देनाभिहिते' इत्यस्य येन केनचिद्रूपेण शब्देनाभिहिते' इत्यर्थः, आहोस्वित्-'उपमेयता- वच्छेदकरूपेण शब्देनाभिहिते' इत्यर्थः, आये- 'सुन्दरं कमलं भाति लतायामिदमद्भुतम् ।' इत्यत्रातिशयोक्तावतिप्रसङ्गः, सुन्दरपदेन सुन्दरत्वेन रूपेणेदंपदेन वान- क्रमेण हेतू आह–समेति । अत्र त्वत्पादेत्यत्र कंदर्पति । सर्वत्र षष्टीतत्पु- रुषः । कम्बुः शङ्खः। कलं रमणीयम् । 'अनोकहः कुटः शालः' ॥ शुद्ध- सामान्येति । अनयोर्वस्तुप्रतिवस्तुभावापन्नत्वादिदं चिन्त्यम् ॥ द्वितीयविशे- षणं दूषयति-तथेति । आहोखित् अथवा। इत्यत्र रूपकातिशयोकि- १५२ काव्यमाला। कमलपदेन कम- नस्य प्रतिपादनात् । न च-अत्र सुन्दरपदार्थस्यारोप्यमाणकमलान्वय एव, न तु वदनरूपविषयान्वयः -इति वाच्यम्, लताद्रूप्येणाननस्यैव लक्षणयोपस्थापनात्तत्रैव सुन्दरादिपदार्थान्वयो युक्तः, न तु विशेषणीभूतेषु कमले ॥ अथ 'तादृशं विषयमुद्दिश्य विषयिताद्रूप्यं यत्र विधीयते' इत्यपि लक्षणवाक्यार्थः । प्रकृते च सुन्दरत्वावच्छिन्नमुद्दिश्य कमलताद्रूप्यस्याविधानान्नातिप्रसङ्गः-इति चेत्, न 'मुखचन्द्रस्तु सुन्दरः' इत्यादिरूपके समासं गतयोर्विषयविष- यिणोः पृथग्विभक्तिमन्तरेणोद्देश्यविधेयभावाबोधादव्याप्त्यापत्तेः ॥ द्वितीये तु-'अनिद्भुत-' इति विशेषणवैयर्थ्यम् , अपहृतावुपमेयतावच्छेदकस्य निषिध्यमानतया तेन रूपेण विषयस्यानिर्दिष्टत्वादेव लक्षणस्याप्रसक्तः । HauARIVARTIMIMARRIOMMA विषये । अन्वय एवेति । तत एव चमत्कारात्सांनिध्याश्चेति भावः । रूपका- तिशयोक्ति ध्वनायितुमाह-कमलेति । तत्रैव आनन एव । न त्विति । 'पदार्थः पदार्थेन-' इति न्यायादिति भावः। ताशं येनकेनचिद्रूपेण शब्देना- भिहितम् । इत्यपि उद्देश्यविधेयभावघटितोऽपि । अविधानादिति । तादृश- माननमुद्दिश्य भानक्रियाया एव विधेयत्वादिति भावः। यद्वा सुन्दरत्वादेः कमल- स्वादिविशिष्टे विशेषणत्वमेवोद्देश्यतावच्छेदकत्वम् । इयांस्तु विशेषः-यदतिश- योकावुपमेयधर्मस्योद्देश्यतावच्छेदकत्वाभाव एव, रूपके त्वनियमः, इतीति भावः ॥ अत एवाह-मुखचन्द्रस्त्विति । पृथगिति । उद्देश्यविधेयभावेन बोधे मिचत्रिभक्तिजन्योपस्थितेस्तत्वात् । तथा च व्यस्ते तथा प्रतीतिः, न समस्ते इत्यत्राव्याप्तिरिति भावः । ननूपमेयतावच्छेदकरूपेण शब्देनाभिहिते इति तदर्थेन प्रागुक्तदोषोऽत आह-द्वितीये त्विति । अपहृतौ 'नायं सुधांशुः किं तर्हि व्योमगङ्गासरोरुहम्' इत्यत्र । अनिर्दिष्टत्वादेवेति । अत्र निषेधप्र- तियोगिविधया निर्दिष्टत्वादिदं चिन्त्यम् । न च तथा निर्दिष्टस्वेऽपि पुरस्कारा- भावा, तर्हि तावत्पर्यन्तविवक्षाबोधनार्थमेवानिहत इति विशेषणसाफल्यादिति.
चित्रमीमांसाखण्डनम् । १५३ निश्चयगताहार्यत्वविशेषणवैयर्थ्यं च, भ्रान्तिमति दोषविशेषेण प्रति- विध्यमानतया नास्त्युपमेयतावच्छेदकस्पर्शः, इति तावतैव वारणात् ॥ यच्चाप्युक्तम्-'अव्यङ्ग्यत्वविशेषणाच्चेदमेवालंकारभूतस्य रूपकस्य लक्षणम्-' इति । तदपि निरस्तप्रायम् । न हि व्यङ्ग्यत्वालंकारत्वयो- विरोधोऽस्ति, प्रधानव्यङ्ग्यरूपकवारणाय पुनरुपस्कारत्वं विशेषणमुचित- मित्यसकृदावेदनात् । अनलंकारत्वस्य तुल्यतया प्रधानव्यङ्ग्यरूपकस्येव प्रधानवाच्यरूपकस्यापि वारणीयतया तद्वारकविशेषणाभावेन तत्राति- प्रसङ्गाच्च । रूपकलक्षणं तु रसगङ्गाधरादवगन्तव्यम् ॥ इति चित्रमीमांसाखण्डने रूपकप्रकरणम् । अथ परिणामः। यच्च वैयधिकरण्येन परिणामे दीक्षितेनोदाहृतम्- 'तारानायकशेखराय जगदाधाराय धाराधर- च्छायाधारककंधराय गिरिजासङ्गैकशृङ्गारिणे । बोध्यम् । तावतैव उक्तार्थकनिर्दिष्ट इति विशेषणेनैव । इदं चिन्त्यम्-आहा-- यत्वविशेषणस्य निर्दिष्ट इति विशेषणलब्धार्थकथनतात्पर्यकत्वात् । अतिशयोक्तौ लक्षणामाहात्म्याज्जायमानज्ञानस्यानाहार्यस्यैव जायमानत्वेन तावतैव वारणात् । शक्यतावच्छेदकलक्ष्यतावच्छेदकयो नमिति त्वल्लिखितमतान्तरेऽपि युगपदेवो- भयोर्भानेन बाधस्यैवानुपस्थितत्वान्न तद्बुद्धेराहार्यत्वम् । किं च चन्द्रवृत्तिगुणवत्त्व- लक्ष्यतावच्छेदकस्य चन्द्रत्वस्य च मिथोविरोधाभावेन न बाधप्रतिसंधानम् । मुखत्वेन मुखं लक्ष्यत इति त्वश्रद्धेयमेव। रूपके तु बाधस्य स्फुटमुपस्थितत्वेन साक्षाद्यञ्जनया वा जायमाना ताद्रूप्यप्रतिपत्तिराहायवेति दीक्षिताशय इति दिक् ॥ इदमेव प्रागुक्तं रूपकलक्षणमेव। नन्वेवं कथमतिप्रसङ्गनिरासोऽत आह- प्रधानेति। नन्वेवमपि विनिगमनाविरहात्तथोक्तिरत आह-अनलमिति। मन्मते तु तेनैवोभयोरिणमिति भावः । इति रूपकप्रकरणम् ॥ अथ परिणामः॥ तारेति । चन्द्रशेखरायेत्यर्थः । धाराधरेति । नील- - १५४ काव्यमाला। नद्या शेखरिणे दृशा तिलकिने नारायणेनास्त्रिणे नागैः कङ्कणिने नगेन गृहिणे नाथाय सेयं नतिः ।।' यथा वा- 'द्विर्भावः पुष्पकेतोर्विबुधविटपिनां पौनरुक्त्यं विकल्प- श्चिन्तारत्नस्य वीप्सा तपनतनुभुवो वासवस्य द्विरुक्तिः। द्वैतं देवस्य दैत्याधिपमथनकलाकेलिकारस्य कुर्व- न्नानन्दं कोविदानां जगति विजयते श्रीनृसिंहक्षितीन्द्रः ॥' इति ॥ अत्र चिन्त्यते-'तारानायकशेखराय-' इति पद्ये तावत् गिरिजासङ्गैकशृङ्गारिणि भगवति भवे नतिः प्रक्रान्ता । शृङ्गारिता च शेखरादीनि भूषणान्यपेक्षते इति नद्या आरोप्यमाणशेखररूपतयैवोपयोगो न स्वरूपेण । एवं च दृशोऽपि तिलकरूपतयेति रूपकमेव शुद्धं भवितुमर्हति ॥ ननु-'परिणामे विषयाभिन्नतया विपयिणोऽवस्थानम्' इति भवतैवोक्तम् । तदत्र नद्यादेविषयस्य तृतीययाभेदः प्रतिपाद्यमानो विषयिणि शेखरादौ भासत इति कथं नाम रूपकं स्यात्-इति चेत् 'मीनवती नयनाभ्यां करचरणास्यैः प्रफुल्लकमलवती । शैवालिनी च केशैः सरसेयं सुन्दरीसरसी ॥' इत्यत्र व्यधिकरणरूपके सुन्दयाँ सरसीतादात्म्यस्य मीनकमलशैवालग- तैर्नयनकरादिकेशाभेदैर्मनागप्यसमर्थनात् । प्रत्युत-नयनकरादिकेशग- ग्रीवायेत्यर्थः। नद्या गङ्गया। दृशा भालचक्षुषा। नगेन कैलासेन ॥ कोवि- द्वानां पण्डितानाम् ॥ शुद्धं रूपकामिश्रम् ॥ एवमिति । परे तु-'मीनवती नयनाभ्याम्" इत्यत्र सुन्दर्या सरसीतादात्म्यरूपं रूपकं मुख्यवाक्यार्थः । तत्र च मीनवत्त्वादिः साधारणो धर्मः। तस्य च सुन्दर्यामभावारप्राप्तबाधबुद्धिस्थग- नाय 'नयनाभ्यां मीनवती' इति सुन्दरीविशेषणम् । सरस्यां मीनवत्वं प्रसिद्ध- चित्रमीमांसाखण्डनम् । तैर्मीनकमलशैवालाभेदैश्च समर्थनाद्यथा स्वनिष्ठाभेदे प्रतियोगित्वं तृती- यार्थः, एवं 'नद्या शेखरिणे दृशा तिलकिने-' इत्यत्रापीति क विष- यिणि विषयप्रतियोगिकाभेदपर्यवसानम् ॥ यदि पुनरारोप्यमाणे, यथा- कथंचिद्विषयाभेदप्रत्ययमात्रात्परिणामतोच्यते, तदा प्रवृत्तोऽस्याः सेक्तं हृदि मनसिजः प्रेमलतिकाम्' इति त्वदुदाहृतरूपकस्य परिणामतापत्तेः । प्रेमलतिकाम्' इति समासे प्रेम्णो विषयस्य लतिकायामारोप्यमाणाया- मभेदेन विशेषणत्वात् । विस्तृतिश्च रसगङ्गाधरादवसेया । 'द्विर्भावः पुष्पकेतोः-' इति पद्येऽपि-कोविदानन्दजननजगदुत्कर्षों राज्ञो नृसिं- हस्य कथ्यते । तत्र कोविदानन्दजनकत्वं राज्ञ आरोप्यमाणद्वितीयम- न्मथादिताद्रूप्येण यथा संभवति, न तथा केवलेन स्वरूपेण । तथा हि-अहो नयनानामस्मदीयानां साफल्यं यदयमपरो मन्मथोऽस्माभि- रालोक्यत इति मन्यमानानां तेषां नयनानामानन्दस्तावत्पुष्पकेतुनैवोत्पा- द्यते न राज्ञा । एवम्-अपरोऽयं कल्पतरुः, द्वितीयश्चिन्तामणिः कर्णश्च, तथा वासवो भूगतोऽयमन्यो दारिद्यमस्माकमपहरिप्यति । मेव । एवं च सुन्दर्या मीनवत्त्वसंपादनरूपप्रकृतकार्योपयोगिनां मीनानां नयना- त्मतापत्त्यैवेति तदंशे परिणाम एवेति नयनप्रतियोगिकाभेदवन्मीनवतीति बोध इति दिक् । 'पादाम्बुजं भवतु नो विजयाय मनु' इत्यादौ 'रूपकोपमयोः संदेह एव' इति प्राहुः॥ कथ्यते इति । शत्रन्तलडन्ताभ्यामिति भावः। तत्र द्वयोर्मध्ये । 'द्विर्भावः पुष्पकेतोः' इत्यस्यार्थमाह-द्वितीयमन्मथेति । 'विबुध-' इति वाक्यार्थमाह-अपरोऽयं कल्पतरुरिति । एवं च बहुवचनं कल्पभेदाभिप्रायेण । “विकल्पश्चिन्तारत्नस्य' इत्यस्यार्थमाह-द्वितीयश्चिन्ता- मणिरिति । द्वितीय इत्यस्याग्रेऽप्यनुषङ्गो बोध्यः। 'तपन-' इत्यादेरर्थमाह- कर्ण इति । भूगत इत्यनेन प्रसिद्धेन्द्राद्यतिरेकः सूचितः । 'द्वैतं देवस्य' इत्या- - १५६ काव्यमाला। - हरिः खल्वयं संसारं नः परिहरिष्यतीत्यभिमानाज्जायमानस्तेषामानन्दो- ऽप्यारोप्यमाणैः कल्पवृक्षादिभिरेवेति न विषयात्मना विषयिण उप- योगः, अपि तु स्वात्मनैवेति कुत्रास्ति परिणामः । अत एवेदं पद्यं रूप- कप्रकरणे विमर्शिनीकारादिभिरालंकारिकैरुदाहृतमिति तद्न्थविरोधश्च ।। यच्च विद्याधरोक्तं परिणामध्वन्युदाहरणमनूद्य दूषितम् । तथाहि- "नरसिंह धरानाथ के वयं तव वर्णने। अपि राजानमाक्रम्य यशो यस्य विजृम्भते ॥ अत्र राजपदेन चन्द्रे विषये निर्दिष्टे तत्रारोप्यमाणस्य नृपस्याक्रम- णरूपकार्योपयोगिनः प्रतीतेः परिणामो व्यज्यते- इति ॥ तदयुक्तम् । तत्र ह्यारोप्यमाणस्य नृपस्य नृपात्मनैवाक्रमणोपयोगः, न चन्द्रात्मना" इति । तदसत् । अत्र विजृम्भणं नाम न केवलं प्रागल्भ्यमानं कवेर- भिप्रेतम् , येन यशःकर्तृकाक्रमणे नृपस्य नृपात्मनैव कर्मतारूप उपयोगः स्यात् । अपि तु निरतिशयनैर्मल्यगुणवत्तायां स्वसमानजातीयद्वितीय- राहित्यप्रयुक्तः प्रौढिविशेषः । आक्रमणं न्यग्भाव एव । एवं चैवंविधे विजृम्भणे चन्द्रकर्मकमाक्रमणमुपयुज्यते, न तु नृपकर्मकमिति विषयि- तया व्यज्यमानस्यापि नृपस्य चन्द्रात्मनैवाक्रमणोपयोग इति रमणीयमेव विद्याधरेणोक्तं परिणामव्यङ्ग्यतायामुदाहरणम् ॥ अर्थमाह-हरिरिति । दूषितमित्यस्य 'चन्द्रात्मनेति' इत्यन्तेनान्वयः। अत्र प्रागुक्तपद्ये । गुणवत्तायां तद्रूपसाधारणधर्मे । एवं च विजृम्भणाक्रमण- योरुक्तरूपत्वे च ॥ रमणीयमेवेति । तत्रेदं चिन्त्यम्-"राजशब्दस्यानेका- थत्वात् , बिजम्भतेश्च प्रागल्भ्यतदुक्तार्थोभयपरत्वात् , प्रकरणादेश्च शक्तिसंकोच- कस्याभावात् , तन्त्रेण शक्त्यैव तुल्यतयार्थद्वयोपस्थिती 'सर्वदो माधवः पातु इतिवच्छेष एवायम्, न परिणामः । वा नृपस्य व्यज्यमानतेति प्रकृतनरसिंह- चित्रमीमांसाखण्डनम् । यद्यपि परोक्तिं दूषयित्वा स्वयं परिणामव्यङ्ग्यतायामुक्तम्- "चिराद्विषहसे तापं चित्त चिन्तां परित्यज । नन्वस्ति शीतलं शौरेः पादाब्जनखचन्द्रमाः ॥' अत्र चिरतापात प्रति हरिपादनखचन्द्रसद्भावप्रदर्शनेन 'तमेव निषे- वस्व, तन्निषेवणादयं तापस्तव शान्तिमेष्यति' इति परिणामो व्यज्यते" इति ॥ तत्तुच्छमेव । “आरोप्यमाणस्य विषयात्मकत्वेन प्रकृतकार्योप- योगे परिणामः' इति स्वयमेवोक्तम् । तत्र प्रकृतकार्योपयोगमात्रं न परिणामशरीरम् , अपि तु विषयिगतायाः प्रकृतकार्योपयोगिताया अव- च्छेदकीभूतविषयताद्रूप्यम् । अत एव रूपकप्रकारविशेषत्वमस्यान्यैरा- लंकारिकैः स्वयं च तत्र तत्राभिहितम् । एवं चात्र नखचन्द्रसद्भावप्रद- शनेन 'तन्निषेवणादयं ते तापः शान्तिमेष्यति' इति प्रकृतोपयोगिताया व्यङ्ग्यत्वेऽपि तदवच्छेदकीभूतस्य विषयिणि विषयताद्रूप्यरूपस्य परि- राजोत्कर्षस्य चन्द्रकर्मणाक्रमणेनेवेतरनृपाक्रमणेनापि सूपपादत्वम् । न च द्वयोरपि राजपदार्थयोरितरक्रियान्वये राजानाविति द्विवचनं स्यादिति वाच्यम्, 'न ब्राह्मणं हन्यात्' इतिवदुपपत्तेः। समाहारद्वन्द्वविषयेऽप्येकशेषस्य कैश्चिद्वैयाकरणैरङ्गीका- राच । अस्तु वारोपः, तथापि नृपस्यैवारोप्यमाणत्वम् , चन्द्रस्यैव विषयत्वमित्यत्र नियामकाभावः। अत्रैव च दीक्षिततात्पर्यम् । अपि च प्रागल्भ्यस्यापि विजृम्भ- त्यर्थत्वेन प्रकृतकार्योपयोगिना नृपत्वेनापि नृपस्य संभवति । अत एव विद्याधरे- णापि 'विषयिणः खरूपेण प्रकृतकार्यानुपयोगित्वे तदुपयोगाय विषयिणो विषया- त्मनोपरिगत्यपेक्षायामेव परिणामः' इत्युक्तम् । यदाह-'तं परिणामं द्विविधं कथयन्त्यारोप्यमाणविषयतया। परिणमति यत्र विषयी प्रस्तुतकार्योपयोगाय ॥' इति । ननु 'तात्पर्यविषयीभूतप्रकृतकार्यानुपयोगित्वमस्त्येव-' इति चेत्, तस्यैव तात्पर्यविषयत्वे मानं विभावय-" इति ॥ परोक्ति विद्यानाथोक्तिम् । स्वयमेव अप्पदीक्षितेनैव ॥ चिरतापात 'चित्तम्' इति शेषः ॥ वैयाकरणमतेनाह- १५८ काव्यमाला। णामस्य वाक्यवाच्यत्वाच्छक्यसंसर्गत्वाद्वा सर्वथैव न व्यङ्ग्यत्वं वक्तुमु- चितम् । विद्याधरोक्तोदाहरणे तु नियन्त्रिताया अभिधाया विषयचन्द्रा भेदवेदनाक्षमतया शब्दशक्तिमूलानुसरणस्य नास्त्युपयोगः ॥ इति चित्रमीमांसाखण्डने परिणामप्रकरणम् । - अथ ससंदेहः। यत्तु- 'अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं सविषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥' अत्र चन्द्रादीनां संदेहधर्मिणामेवानेकत्वम् । प्रकारस्तु वर्णनीयव- नितासष्टुत्वमेकमेवेत्यनेककोटित्वाभावात्-विरोधेन परस्परप्रतिक्षेपक- तया निबद्धानेककोट्यवगाहित्वरूपस्य संशयलक्षणस्याव्याप्तिमाहुः ।। तन्न । अत्र हि 'अस्याः सर्गविधौ यः प्रजापतिरभूत् , स किं नु चन्द्रः, नु मदनः, किं वा नु वसन्तः' इति संशयः प्रजापतिधर्मिकश्चन्द्र- त्वादिनानाकोटिक एवेति कुत्राव्याप्तिः । न च-अत्र चन्द्रादिधर्मिकः संशयो युक्तो वक्तुम् । एवं च प्रजापतेः प्रथमोद्देशो न स्यात् । दोष- दानाय वाक्यान्तरकल्पनेन तथा कव्यभिप्रायवर्णनादौचित्यात् ॥ किं वाक्येति । नैयायिकमनाह-शक्येति । इति परिणामप्रकरणम् ॥ अस्या इति। विक्रमोर्वशीये उर्वशीवर्णनमिदम् । मासो वसन्तः । बनिता स्रष्टत्वं प्रजापतिशब्दबोध्यम् । अभावादित्यव्याप्तौ हेतुः । संशय- लक्षणमाह-विरोधेनेति । हि यतः । अस्या उर्वश्याः। तदुपपादनं खण्ड- यतिन चात्रेति । एवं चेति।चो ह्यर्थे । यत एवं सतीत्यर्थः । विधेयस्य चित्रमीमांसाखण्डनम् । १५९ - - यदपि प्राचां लक्षणम् 'साम्यादप्रकृतार्थस्य या धीरनवधारणा । प्रकृतार्थाश्रया तज्ज्ञैः ससंदेहः स इष्यते ॥' इति महता प्रबन्धेन त एव दूषितवन्तः ॥ तदपि न.। साम्यनिमित्ता- निश्चयसंभावनान्यतरभिन्ना या धीः इति तदर्थकरणे दोषाभावात् । निश्चयत्वं तु संशयाघटितमेव निर्वक्तव्यम् ।। यदपि च संशयध्वन्युदाहरणप्रसङ्गे 'कांचित्काञ्चनगौराङ्गी वीक्ष्य साक्षादिव स्वयम् । वरदः संशयाविष्टो वक्षःस्थलमवैक्षत ॥' इत्यस्सत्कुलकूटस्थवक्षःस्थलाचार्यकृतवरदराजवसन्तोत्सवान्तर्गते पद्ये सं- शयस्य स्वशब्दोपात्तत्वेऽपि तावन्मात्रस्यानलंकारत्वात्तदलंकारताप्रयोज- कस्य 'वक्षःस्थले स्थितैव लक्ष्मीस्ततोऽवतीर्य किं पुरस्तिष्ठति' इत्येव संशयाकारस्य 'वक्षःस्थलमवैक्षत' इत्यनेन व्यङ्गयत्वात्संदेहालंकृतिध्वनि- रत्रेति ॥ यथा- 'दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः । वीक्ष्य बिम्बमनुबिम्बमात्मनः कानि कान्यपि चकार लज्जया ॥ ' इत्यत्र 'कानि कान्यपि' इति सामान्यतो निर्दिष्टानुभावविशेषप्रती- त्यर्थ लज्जाशब्दप्रयोगेऽपि तस्याः स्वभावानुभावाभ्यां रसानुगुणाभि- व्यक्तिरूपो ध्वनिः-" इत्याहुः ॥ तदेतवनितत्त्वज्ञैरुपहसनीयम् । - पाश्चात्यमिति नियमादिति भावः। त एव अप्पदीक्षिता एव ॥ अनवधारणे- त्यस्य तात्पर्यार्थमाह-निश्चयेति ॥ नन्वेवमन्योन्याश्रयापत्तिरित्यत आह- निश्चयत्वं त्विति ॥ कांचिदिति । इदं च पद्यमप्पदीक्षितमूलपुरुषवक्षः- स्थलाचार्यकृतवरदराजवसन्तोत्सवस्थम् । वरदः काञ्चीदेवता विष्णुः। तदिति । -- १६० काव्यमाला। तथाहि-'संशयाविष्टः' इत्यत्र संशयपदेनैकस्मिन्पदार्थे विरुद्धनाना- पदार्थसंबन्धावगाहिज्ञानं साक्षादेव निवेद्यते । तत्र कोऽसौ विरुद्धो नानार्थ इति विशेषाकाझ्या वक्षःस्थलावेक्षणेन 'वक्षःस्थलस्थैव लक्ष्मी- स्ततोऽवतीर्य किं पुरस्तिष्ठति' इत्यादिरों व्यञ्जनव्यापारेण बोध्यमानः शक्त्या संशयशब्दनिवेदितज्ञानविशेषणीभूतेन सामान्यार्थेन साकम- भेदेन पर्यवस्यति । एवं च 'संशयमात्रस्य शक्त्या बोधनात् 'वक्षःस्थल- स्थितैव' इत्यादिविषयविभागस्यापि विरुद्धनानार्थत्वेन सामान्याकारणा- वलीढतया तयैव कवलीकरणाद्वाच्यार्थसंशयपर्यवसायकत्वाच्च न कस्यापि ध्वनिव्यपदेशहेतुत्वमुचितम् । सर्वथा वाच्यवृत्त्यचुम्बितस्यैव तथात्वमिति ध्वनिमार्गप्रदर्शकैः सिद्धान्तितत्वात् । तथा च द्वितीयोयोते- 'शब्दार्थशक्त्याक्षिप्तोऽपि व्यङ्गयोऽर्थः कविना पुनः । यत्राविष्क्रियते खोक्त्या सान्यैवालंकृतिलनेः ।। इति सूत्रयित्वा 'संकेतकालमनसं विटं ज्ञात्वा विदग्धया । ल(ह)सन्नेत्रार्पितीकूलं लीलापमं निमीलितम् ॥' - । संशयेत्यर्थः। तत्र सामान्यज्ञाने। अवेक्षणेनेति । व्यजनार्थवृत्तिरपीति भावः। संशयमात्रस्येति । सर्वस्य संशयस्य । अर्थत्वेन सामेति । एतद्रूपसामा- न्याकारेणेत्यर्थः । अवलीहेति । बोध्यतयेत्यर्थः । तयैव शक्त्यैव । कव- लीति । बोधनादित्यर्थः। नन्वेवमपि विशेषरूपेण व्यङ्ग्यत्वमेवात आह- वाच्याथेति । विशेषसंशयस्येत्यादिः । तदाह-कस्यापीति । विशेषस्या- 'पीत्यर्थः । सर्वथा केनापि प्रकारेण । तथात्वं ध्वनित्वम् । संकेतेति। को वावयोरतिकालखत्संकेतमित्यत्र (2) दत्तचित्तमित्यर्थः । हसदिति क्रियाविशेष- १. 'संशयपदार्थस' इत्यादर्शपाठः, चित्रमीमांसाखण्डनम् । १६१ अत्र 'संकेतकालमनसं विटं ज्ञात्वा लीलापमं निमीलितम्' इति वदता कविना लीलापद्मनिमीलनस्य प्रदोषाभिव्यञ्जकत्वं खोक्त्यैव निवेदितमिति ध्वनिमार्गादयमपर एव गुणीभूतव्यङ्गयस्य मार्गः । यथा वा- 'अम्बा शेतेऽत्र वृद्धा परिणतवयसामग्रणीरत्र तातो निःशेषागारकर्मश्रमशिथिलतनुः कुम्भदासी तथात्र । अस्मिन्पापाहमेका कतिपयदिवसप्रोषितप्राणनाथा पान्थायेत्थं तरुण्या कथितमवसंख्याहृतिव्याजपूर्वम् ॥ 'अत्र निःशङ्क रन्तुमायाहि' इत्यर्थश्चरणत्रयव्यङ्ग्योऽप्यवसरव्याहृते- ाजत्वं ब्रुवता कविना स्फुटं खोक्त्या निवेदित इत्ययमपि न ध्वने- मार्गः" इत्याहुरानन्दवर्धनाचार्याः । एवं चैवंविधेषु विषयेषु व्यञ्जकत्वस्य व्यङ्ग्यस्य वा मनागुक्तिसंस्पर्शमात्रेणं ध्वनित्वं निराकुर्वाणाः 'कांचि- काञ्चनगौराङ्गीम्' इति पद्ये शब्दाभिहितव्यङ्ग्ये ध्वनित्वं कथमिवं खीकुर्वीरन् ॥ एतेन 'दर्पणे च परिभोगदर्शिनीम्-' इति प्रागुक्तपद्ये लजाध्वनित्वं यदभ्यधीयत, तदप्यपास्तमिति दिक् ।। इति चित्रमीमांसाखण्डने संशयालंकृतिः । णम् । इति वदतेति । क्त्वान्तवाक्यविशिष्टं वदतेत्यर्थः । अन्यथा क्त्वान्त- वाक्येनैवार्थात्तदभिव्यञ्जकत्वे सिद्धे तान्तवाक्यानर्थक्यं स्पष्टमेव । तदाह- खोक्त्यैवेति । क्त्वान्तवाक्येनेत्यर्थः । अत्र गृहप्रदेशविशेषे । एवमग्रेऽपि । कुम्भेति पान्थसंबोधनमिति कश्चित् । तन्नामिका दासीत्यन्यः । जलाधाहरणार्थ दासी, न क्रीडादासीति तत्त्वम् । वियोगात्पापात्वम् । कतिपयेत्यनेन द्रुतमागम- नाभावः सूचितः । अवसरे समय उत्तेाजपूर्वमित्यर्थः । पूर्वोदाहरणाशयेनाह- व्यकेति । द्वितीयाशयेनाह-व्यङ्येति ॥ ११ चि.मी. '..
१६२ काव्यमाला। अथ प्रान्तिमान् । यच्च- 'कविसंमतसादृश्याद्विषये पिहितात्मनि । आरोप्यमाणानुभवो यत्र स प्रान्तिमान्मतः ॥' इतिलक्षणं तैरुक्तम् , तन्न । 'कविसंमतसादृश्यप्रयोज्यो विषय आरो- प्यमाणो यत्र वाक्संदर्भ स प्रान्तिमान्' इति प्रान्तिमतो लक्षणं विहाय रूपकव्यावृत्त्यर्थ 'पिहितात्मनि' इत्युच्यते, न चैतद्युक्तम् । न हि रूपक- वाक्य आरोप्यमाणस्यानुभवो वर्ण्यते, किं तु तस्माज्जायते । न च- अत्रानुभवान्तं प्रान्तेर्लक्षणम् , अग्रिमं च भ्रान्तिमतः । तत्र प्रान्तिल- क्षणे रूपकातिव्याप्तिवारणाय 'विषये पिहितात्मनि' इति विशेषणम् इति वाच्यम् । अनुभवत्वघटितस्य प्रान्तिलक्षणस्यानुभूयमानाभेदात्मके रूपके कथमप्यवृत्तेः ।। यदि च-रूपकपदं रूपकबुद्धिपरमिति ग्रन्थ- सामञ्जस्यं विधीयते, तदा विषयतावच्छेदकानवगाहिनि 'मरकतमणिमेदिनीधरो वा तरुणतरस्तरुरेव वा तमालः । रघुपतिमवलोक्य तत्र दूरादृषिनिकरैरिति संशयः प्रपेदे ।' इति संशयेऽतिप्रसङ्गः। 'कमलमिति चञ्चरीकाः, चन्द्र इति चकोरा- स्त्वन्मुखमनुधावन्ति' इति भ्रान्तिसमुदायात्मके उल्लेखेऽतिव्याप्तेश्च ।। " अथ भ्रान्तिमान् । उच्यत इति । अयं भावः-तद्विशेषणेनारोप्यमाणानुभवस्य खारसिकस्य कविप्रतिभया कल्पनं विवक्षितम्, तस्यैव विषयपिधानसामर्थ्यात्-इति ॥ अग्रिमं चेति । यत्रेत्याधुकमित्यर्थः ॥ तत्रेति । तद्वाक्यजानुभवस्य तत्रापि सत्त्वादिति भावः ॥ ननु नाम(3) संशयेऽतिप्रसङ्गः, विषयस्यैवेति प्रतिपादनादत आह-कमलमिति । अत एव वक्ष्यति-'भ्रान्त्या संकीर्ण' इति । अति- व्याश्चेति । उल्लेखत्वभ्रान्तित्वयोरत्र संकीर्णत्वं बाधकामावाद्भूतत्वमूतत्वयो- चित्रमीमांसाखण्डनम् । 4 अत्र प्रान्त्या संकीर्ण उल्लेख इति चेत् , न तावतोल्लेखांशातिव्याप्तिन दोषः । नहि दुग्धभागजलभागानां व्यामिश्रणमस्तीति दुग्धलक्षणं जला- शातिव्याप्तिकं कर्तुं युक्तम् । एकत्वविवक्षायाः स्वयमनुद्वारात् । तथा चासत्कृतलक्षण एवं पर्यवसानम् ॥ येदपि च भिन्नकर्तृकोत्तरोत्तरभ्रान्ताबुदाहरणं दत्तम्- 'शिञ्जानैमञ्जरीति स्तनकलशयुगं चुम्बितं चञ्चरीकै- स्तत्रासोल्लासलीलाः किसलयमनसा पाणयः कीरदष्टाः । तल्लोपायालपन्त्यः पिकनिनदधिया ताडिताः काकलोकै- रित्थं चोलेन्द्रसिंह त्वदरिमृगदृशां नाप्यरण्यं शरण्यम् ॥' इति ॥ अत्र विचार्यते--स्तनकलशयुगे हि न तावन्मञ्जरीसादृश्यं कविसमयसिद्धम्, येन तन्मूला चञ्चरीकाणां प्रान्तिरुपनिबध्येत । 'दोषान्तरमूला तु सा नालंकारः' इत्यनुपदमेवोक्तम् ॥ अपि च- घर्मिणि कलशरूपकानुवादेन मञ्जरीभ्रान्तिरूपमलंकारान्तरमुपनिबध्यमा- नमुद्वेजकमेव सहृदयानाम् । 'नहि सादृश्यमूलैकालंकारावच्छिन्ने साह- श्यमूलमलंकारान्तरं शोभते। तथा—'मुखकमलं तव चन्द्रवत्प्रतीमः' रिख। 'नरैर्वरगतिप्रद' इत्यत्रोल्लेखत्वस्य 'कनक इव' इत्यत्र भ्रान्तित्वस्य साव- काशत्वादिति कश्चित् । 'वनितेति वदन्येतां लोकाः' इति त्वदुदाहृतापहृतिसंकी- गोल्लेखे उपमेयतावच्छेदकनिषेधसामानाधिकरण्येनोत्थाप्यापहुतिलक्षणातिव्याप्ति- स्तवाप्यस्ति । एवं तत्तदलंकारसंकीर्णे तत्तदसंकरलक्षणस्य सा दुर्वारेति चिन्य- मिदमित्यपरे ॥ तावदादौ । उपेति । वय॒तेत्यर्थः ॥ ननु यथाकथंचित्साह- श्यमप्यस्तीत्यत आह-अपि चेति। धर्मिणि स्तनरूपे । मुखकमलमिति १. पर्यवसानमित्यर्थः पाठोऽयं रसगङ्गाधरेऽसिन्प्रकरणे नोपलभ्यते. २, 'यच्चापि' रसग०. ३. 'तत्र' रसग..
१६४ काव्यमाला। . इति प्रागेवावेदनात् ॥ प्रत्युत-कलशरूपकेण मञ्जरीसादृश्यतिरस्का- राञ्च । तथा 'तत्रासोल्लासलीलाः किसलयमनसा पाणयः कीरदष्टाः' इत्यत्र विधेयाविमाद्विधेयान्तरमाकासितम् । कीरैर्दष्टा इति तु भा- व्यम् । जाता इत्यध्याहारेऽपि विवक्षितस्याविधेयत्वम् , अविवक्षितं च विधेयत्वं प्रसज्येत ॥ एवम्-'तल्लोपायालपन्त्यः पिकनिनदधिया ताडिताः काकलोकैः' इत्यत्र न तावपिकनिनदास्ताडनयोग्याः काका- नाम् , येन तद्धिया आलपन्त्यस्तैस्ताड्थेरन् । नापि पिकनिनदम आल- पन्तीषु संभवति, संभवन्वा न सादृश्यमूलः । 'पिकनिकरधिया' इति तु भाव्यम् ॥ अथ—तदालापेषु पिकनिनदबुद्धेरपि तामु पिकबुद्ध्युत्पादन- द्वारा संभवत्येव ताडनोपयोग इति प्रयोज्यत्वार्थकतृतीयया पिकनिनद- धीप्रयोज्यकाकर्तृकताडनकर्मत्वमालपन्तीनां सुप्रतिपादमेव-इति चेत् । मैवम् । तथा प्रतीतेरसिद्धः। 'चौरबुद्ध्या हतः साधुः' इत्यादौ चोर- बुद्धिहननयोः सामानाधिकरण्येन हेतुहेतुमद्भावगमकत्वव्युत्पत्तेः ॥ एवम्-'दन्तिबुद्ध्या हतः शूरैर्वराहो वनगोचरः।' इत्यत्रापि विशेष्य- तया वराहवृत्तेर्दन्तिबुद्धर्वराहवृत्तिहननहेतुभावावगमः । त्वदुक्तरीत्या 'दन्तबुद्ध्या' इति तु कृते बोधकदर्थनैव ॥ किंच-पिकानां कूजितादि- शब्दैरेव शब्दो वर्ण्यते, न तु निनदादिशब्दैः सिंहदुन्दुभ्यादिशब्दप्र- - रूपकम् ॥ अभ्युपेत्याह-प्रत्युतेति । एवमाद्ये दोषमुक्त्वा द्वितीये दोषमाह- तत्रासोल्लेति । भ्रमरभयजनकजातचेष्टा इत्यर्थः ॥ विधेयाविमर्शादिति । विधेयस्याकथनादित्यर्थः। उद्देश्यकोटिप्रविष्टं सर्वमिति भावः। पाणी उद्दिश्य विशिष्टस्य कीरकर्तृकदष्टत्वस्य विधेयत्वे । को दोष इति चिन्स्यमिदम् । विवेति। इष्टत्वस्येत्यर्थः ॥ तृतीयं तमाह-एवमिति । तल्लोपाय कीरदूरीकरणाय । तावदादौ । दोषमूलः संभवतीत्याह-संभवन्वेति । शब्दप्रयोगेति। .
चित्रमीमांसाखण्डनम् । योगयोग्यैः । तथा-प्रथमद्वितीयचरणस्थयोः स्तनपाण्योर्यथाकथं- चियवहितमपि जातान्वयमपि 'त्वदरिमृगदृशाम्' इत्येतत्षष्ठ्यन्तमन्वेतुं शक्नुयात्, न तु तृतीयचरणस्थे 'तल्लोपायालपन्त्यः' इत्यस्मिन्विशेषणे विशेष्यभावेनेति तासां ताटस्थ्यमेव स्यात् । विभक्तिविपरिणामेऽपि क्रमभङ्गासंष्ठुलत्वाभ्यां स्थितमेवेति पद्यमव्युत्पन्ननिर्मितमेवेदम् ॥ दीक्षि- तैस्तु प्रान्त्यलंकारांशमादायोदाहृतमिति न तेषां तथा दोषः । इति चित्रमीमांसाखण्डने भ्रान्त्यलंकारः । अथोल्लेखः। यत्तु तैरेवाभिहितम्-- "एवमपि यदि- 'कान्त्या चन्द्रं विदुः केचित्सौरभेणाम्बुजं परे । वत्रं तव वयं ब्रूमस्तपसैक्यं गतं द्वयम् ॥' इत्यपहवोदाहरणविशेषेऽतिव्याप्तिः शङ्कया । तदानीमनेकधोल्लेखनं निषेधास्पृष्टत्वेन विशेषणीयम् । तत्राद्योल्लेखनद्वयं परमतत्वोपन्यास- सामर्थ्यागम्यमाननिषेधमिति नातिव्याप्तिः-” इति तन्न, "द्विविधश्चाय- मुल्लेख:-'शुद्धोऽलंकारान्तरसंकीर्णश्च" इत्युक्त्वा. "श्रीकण्ठजनपद- MPIRANI शब्द प्रयोगेत्यर्थः । आसत्त्याकाङ्क्षयोः खारसिकयोरभावादाह-यथाकथंचि- दिति । जातान्वयेति । 'नाप्यरण्यं शरण्यम्' इति संनिहितेनेति भावः । न त्विति । विभिन्न विभक्तित्वात्स्वस्मिन्खभेदाभावाचेति भावः । ननु विभक्तिविप- रिणामेनाभेदान्वयः सुलभोऽत आह-विभक्तीति । प्रक्रमेति । नन्वेवं दीक्षितैः कथमुदाहृतमत आह-दीक्षितैरिति ॥ एवमपि उक्तविशेषणदा- नेऽपि । गम्येति । बहुव्रीहिः ॥ श्रीकण्ठेति । शुद्धस्यैकमुदाहरणं सोपपाद- १. 'भ्रान्तिमदलंकारः' इति भवेत्. २. 'निमित्तभेदादेकस्य वस्तुनो यदनेकधा । उल्लेखनमनेकेन तमुलेख प्रचक्षते ॥' इत्युल्लेखलक्षणे 'अनेकधा' इति विशेषणदानेऽपी- त्यर्थः स्यात.
१६६ काव्यमाला। वर्णने यस्तपोवनमिति मुनिभिरगृह्यत” इत्यादौ शुद्धः, “यमनगरमिति शत्रुभिः वज्रपञ्जरमिति शरणागतैः, इत्यादौ भ्रान्तिरूपकादिसंकीर्णः" इति स्वयमेवोक्तत्वादिहाप्यपद्दुत्या संकीर्ण उल्लेख इत्यस्य सुवचत्वात् ।। यदि चैवंविधापहृतिवारणाय निषेधास्पष्टत्वं विशेषणमुच्यते, तदा, 'कपाले मार्जारः पय इति कराँल्लेढि शशिन- स्तरुच्छिद्रप्रोतान्बिसमिति करी संकलयति । रतान्ते तल्पस्था हरति वनिताप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो विभ्रमयति ।' इति त्वदुदाहृतम्रान्तावतिव्याप्तिः कथं नाम वार्येत, मार्जाराद्यनेक- ग्रहीतृकानेकवोल्लेखनस्य तत्रापि सत्त्वात् । स्वस्वप्रियाहारलिप्सारूप- निमित्तभेदाच । तस्मात्संकीर्णनिवारणाय यत्नोऽनर्थक एवेति ।। इति चित्रमीमांसाखण्डन उल्लेखप्रकरणम् । अथापहुतिप्रकरणम् । यत्तु-अपडतिध्वनावुक्तम्- 'त्वदालेख्ये कौतूहलतरलतन्वीविरचिते विधायैका चक्र रचयति सुपर्णीसुतमपि । नमुक्त्वान्यदाह हर्षचरिते । इत्यादौ 'यस्तपोवनम्' इत्यादि गद्ये । अगृह्यते- त्यस्य सर्वत्र संबन्धः । इच्छब्दार्थः श्रीकण्ठजनपदः । शुद्ध इति । तत्र तपो- बनादिभूमिनिष्ठत्वादिति भावः । यमनगरत्वादीनां तादूप्यानुभवगोचरतयान्वये आह-भ्रान्तीति । यदि तेषामुपरजकतामात्रेणान्वयः, यदाह-रूपकेति । एवं विधेति । विलक्षणेत्यर्थः । त्वदुदेति । त्वया प्रथम मुख्यत्वेनोदाहृते- त्यर्थः। तादृशभ्रान्तिविशेषस्यापि वारणावश्यकत्वात् , अन्यथा संकीर्ण तत्कथ- मादावुदाहृतम् । तद्विविक्तविषयस्यैवादावुदाहर्तुमौचित्यात् । अन्यथालंकारभेदो न स्यादिति भावः ॥ अनेकधेति । पयस्त्वादीत्यर्थः। उपसंहरवि-तस्सा- दिति । त्वदलेख्य इति । त्वत्प्रतिकृतिभूतचित्र इत्यर्थः । नायकं प्रति खस- ख्युतिः। एका तन्वी सखी। चक्र सुदर्शनम् । सुपर्णीसुतं गरुडम् । अपि चित्रमीमांसाखण्डनम् । १६७ अपि विद्यत्पाणिस्त्वरितमपमृज्यैतदपरा करे पौष्पं चापं मकरमुपरिष्टाच लिखति ॥' इत्यादावपहुतिध्वनिरुदाहर्तव्यः । अत्र हि चक्रसुपर्णलेखनेन नायं साधारणः पुरुषः, किंतु पुण्डरीकाक्षः इति कयाचिभ्यञ्जितम् । अन्यथा तु, तस्याप्येतादृशं न संभवतीत्याशये 'नायं पुण्डरीकाक्षः, अपि तु मन्मथः' इति तदुभयमपमृज्य पुष्पसायकमकरध्वजलेखन व्यञ्जितम्" इति । तदेतदापातरमणीयम् । यत्तावदुच्यते- 'चक्रसुपर्णलेखनेन नायं साधारणः पुरुषः किंतु पुण्डरीकाक्षः-इति कयाचियञ्जितम्' इति । तत्रापहृतेर्ती भागौ--उपमेयनिषेधः उपमानारोपश्च इति । तयोस्ताव- दुपमानारोपभागः 'पुण्डरीकाक्षोऽयम्' इत्याकारश्चक्रसुपर्णलेखनेन व्यङ्गं शक्यः, चक्रसुपर्णयोस्तत्संबन्धित्वात् । नतु–'नायं साधारणः पुरुषः' इत्युपमेयनिषेधभागोऽपि, व्यञ्जकस्यारोपमात्रव्यञ्जनेन चरितार्थतया सा- मर्थ्याभावात् । नाप्यनुभवसिद्धः सः, येन तद्व्यञ्जनायोपायो गवेष्येत । नापि गवेष्यमाणोऽपि तद्यञ्जनोपायः शब्दोऽर्थो वा उपलभ्यते, येना- अथ । क्वचित्तथैव पाठः। अथ मार्जनयोग्यत्वाय हेतुगर्भ विशेषणम्-विद्य- त्पाणिरिति । अपरा तत्सखी । तस्यापि पुण्डरीकाक्षस्यापि । इत्याशयेन तथा लेखनेन । इति व्यजितमित्यन्वयः । तदुभयं चक्रसुपर्णद्वयम् ॥ तत्रेति । उच्यत इति शेषः । एवमग्रेऽपि भागो व्यङ्गु शक्य इत्यनुषज्यते । व्यञ्जकेति। चक्रसुपर्णलेखनस्येत्यर्थः । ननु कथं तदनुभवोऽत आह-नापीति लभ्यत काव्यमाला। नुभवकलहः स्यात् । नच साधारणपुरुषमन्तरेण पुण्डरीकाक्षतादात्म्या- रोपो दुर्घट इति सोऽपि व्यज्यत इति वाच्यम् , रूपकोच्छेदापत्तेः ।। इति चित्रमीमांसाखण्डनेऽपह्नुतिप्रकरणम् । इति । प्रकृतपद्य इति शेषः। दुर्घट इति । तज्ज्ञानस्य तत्र प्रतिबन्धकत्वा- दिति भावः । सोऽपि निषेधभागोऽपि । अन्यथानुपपत्त्येति भावः ॥ इति रसगङ्गाधरमैमप्रकाशोतटिप्पण्यामपहुतिप्रकरणम् ॥ समाप्तोऽयं ग्रन्थः। १. एतत्प्रणेतुः पण्डितराजजगनाथस्य विषये यद्वक्तव्यं तत्सर्व रसगङ्गाधरभूमिकायां महामहोपाध्यायपण्डितवरदुर्गाप्रसादैर्वर्णितमिति तत एवावसेयम्. एतद्न्यादर्शपुस्तकं तु जयपुरराजगुरुश्रीलक्ष्मीदत्तनुश्रीयुतश्रीदत्तशर्मभिः काव्यमालार्थ संवत् १७०९ (खिस्तशतक १६५२) लिखितं १७ पत्रात्मकं दत्तमिति तेऽतीव धन्यवादाही.. २. एतद्वन्यप्रणेतुर्नागेशभट्टस्य विषयेऽपि वक्तव्यं रसगङ्गाधरभूमिकायामेव महाम- होपाध्यायैर्वणितमिति तत एवावसेयम्. टिप्पण्यादर्शपुस्तकं तु नोपलब्धम् , किंतु मूल- अन्योपयोग्यशोऽसाभिरेव मैथिलवर्यश्रीयुतसुन्दरशर्मसाहाय्येनोद्धत्य संकलितः.