Charan Sahitya Shodh Sansthan, Ajmer

Kavya Mala (ii)

Krishnath Pandurang Parab · 2010/05

PDF Proofread

Front matter

( Regisler cd according to act IIT of 1867.)
( All ughts reserved by the publisher )
***
..
+

॥ श्रीः॥ काव्यमाला। + . नाम नानाविधप्राचीनकाव्यनाटकचम्पूभाणमहसन- च्छन्दोलकारादिसाहित्यग्रन्थानां संग्रहः । सप्तमो गुच्छकः । - जयपुरमहाराजाश्रितेन पण्डितब्रजलालसूनुना पण्डित- दुर्गाप्रसादेन, मुम्बापुरवासिना परवोपाह- पाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधितः । मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतः। १८९० . (अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा जावजी दादाजी इत्यत्त्ववाधिकारः।) मूल्यमेको रूप्यकः।

पृष्टा .... ... .... द .... .... .... १. मानतुङ्गाचार्यविरचितं भक्तामरस्तोत्रम् २. सिद्धसेनदिवाकरप्रणीतं कल्याणमन्दिरस्तोत्रम् ३. वादिराजप्रणीतं एकीभावस्तोत्रम् ४. धनंजयप्रणीतं विपापहारस्तोत्रम् ५. भूपालकविप्रणीता जिनचतुर्विशतिका ६. देवनन्दिप्रणीतं सिद्धिप्रियस्तोत्रम् ७. सोमप्रभाचार्यविरचिता सूक्तिमुक्तावली ८. जम्बृगुरुरिरचितं जिनशतकम् ९. पद्मानन्दकविप्रणीतं वैराग्यशतकम्, १०. जिनप्रभसूरिविरचितः सिद्धान्तागमस्तवः (सावचूरिः) ११. आत्मनिन्दाष्टकम् १२. जिनवल्लभसूरिविरचितं महावीरस्वामिस्तोत्रम् १३, हेमचन्द्राचार्यविरचितं १४. (द्वितीयम्) १५. जिनप्रभसूरिविरचितः पार्श्वनाथस्तवः १६. विरचितं गोतमस्तोत्रम् १७. जिनप्रभाचार्यविरचितः श्रीवीरस्तवः.... १८. जिनप्रभसूरिविरचितः चतुर्विंशतिजिनस्तवः १९, पार्श्वस्तवः.... २०. श्रीवीरनिर्वाणकल्याणकस्तवः २१. विमलप्रणीता प्रश्नोत्तररत्नमाला २२, धनपालप्रणीता ऋपभपश्चाशिका २३, शोभनमुनिप्रणीता चतुर्विशतिजिनस्तुतिः (सटिप्पणी) ६ १० १. १० ११ १६ १ १ १ .... १. १ १ । L 7. प्र काव्यमाल श्रीमानतुङ्गाचार्यविरनि भकामरस्तोत्रम् भक्तामरप्रणतमौलिमणिप्रभाणा- मुद्दयोतकं दलितपापतमोवितानम् सम्यक्प्रणम्य जिनपादयुगं युगादा- वालम्बनं भवजले पततां जनानाम् ॥ ५ ॥ १. भक्तामरस्तोत्रप्रणेता मानतुड्गाचार्यों मालवदेशान्तर्गतोजयिनीनगर्या वृद्धभोज- महीपतिसमये वाणमयूरयोः समकालिक आसीदिति भक्तामरस्तोत्रटीकानामुपोद्धाते समुपलभ्यते. तेन ख्रिस्ताब्दीयसप्तमशतकपूर्वभागो बाणभट्टसमय एव मानतुङ्गसमय इत्य- वसीयते. मेरुतुङ्गप्रणीतप्रबन्धचिन्तामणौ तु 'अथ यदा मालमण्डले श्रीभोजराजो राज्य चकार तदात्र गुर्जरधरित्र्या चौलुक्यचक्रवर्ती श्रीभीम पृथिवी शशास' इत्यस्ति तदन- न्तर भोजसभाया वाणमयूराभ्यासह मानतुगाचार्यस्य विवादादि भक्तामरस्तोत्रनिर्माण च वर्णितमस्ति. भीमभोजराजौ तु ख्रिस्ताब्दीयैकादशशतक आस्तामिति गुजरातदेशीयेति- हासे स्फुटमेव. स एव मानतुगस्य काल इत्यपि वक्त शक्यते, एव किंवदन्तीनां परस्पर- विसवादे सदिग्ध एव मानतुगसमय.. एतादृश्यो जनश्रुतयस्तु समयादिनिर्णये नातीवोप- युक्ता इत्यसकृदुक्तमेव. स्तोत्र चैतद्दिगम्बरै श्वेताम्मरैश्च श्रद्धया पठ्यते. किं तु दिगम्बरा अष्टचत्वारिंशत्पद्यघटितं श्वेताम्बराश्चतुश्चत्वारिंशत्पद्यात्मक च पठन्ति तकत्रिंशपद्यान- न्तरं गम्भीरताररव-' इत्यादि पद्यचतुष्टयं दिगम्बररधिकमद्धोध्यते अस्माकं तु चतु. श्चत्वारिंशत्पद्यात्मकमेव स्तोत्रमाचार्येण प्रणीतमित्येव भाति यतो भक्तामरस्तोत्रानुक- रणप्रवृत्त. सिद्धसेनदिवाकरोऽपि कल्याणमन्दिरस्तोत्र चतुश्चत्वारिंशच्छोकैरेव नि. मितवान्, अथ च भक्तामरसमस्यापूर्तिस्तोत्रमपि चतुश्चत्वारिंशत्पद्यात्मकमेव श्यते. ग- म्भीरेत्यादि चत्वारि पद्यानि तु केनचन पण्डितमन्येन निर्माय मणिमालाया कावशकला. नीव मानतुगकविताया प्रवेशितानीत्यपि तद्विलोकनमात्रेणैव कवित्वमर्मविद्भिविद्वनि- ऊद्ध शक्यते टीकाश्चास्य स्तवस्य श्वेताम्बरैदिगम्बरैश्च निर्मिता भूयस्यो वर्तन्ते. तत्र दिगम्बरा मानतुङ्गाचार्य दिगम्बर श्वेताम्बराश्च श्वेताम्बर वदन्ति. उपोदातस्तु टीकासु प्रायः समान एव वर्तते. कैश्चन टीकाकारैः प्रतिश्लोक मन्त्रस्तत्प्रभावकथा च लिखि- तास्ति. ते च मन्त्रास्तत्तत्पद्येभ्य. कथ निर्गता इति त एव जानन्ति. मन्त्रशास्त्ररीत्या तु २ काव्यमाला । यः संस्तुतः सकलवायतत्त्वबोधा- दुद्भूतबुद्धिपटुभिः सुरलोकनाथैः । स्तोत्रैर्जगत्रितयचित्तहरैरुदारैः स्तोप्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ २ ॥ (युग्मम) बुद्ध्या विनापि विबुधार्चितपादपीठ स्तोतुं समुद्यतमतिर्विगतत्रपोऽहम् । वालं विहाय जलसंस्थितमिन्दुविम्ब- मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥ ३ ॥ तेभ्यः श्लोकेभ्यस्तेषां मन्त्राणामुद्धागे दुष्कर एव. अस्माभिस्तु टीकाचतुष्कमुपल- धम्-तत्र (१) श्वेताम्बरेण गुणचन्द्रसूरिशिप्यगुणाकरण प्रणीता टीका समीचीना. अस्या चतुश्चत्वारिंशत्पद्यानि व्याख्यातानि प्रायः पद्यानन्तरं मन्त्रस्तत्प्रभावकथा च व. णितास्ति. टीकानिर्माणसमयस्तु समाप्ती 'वर्षे पडिशाधिकचतुर्दशगतीमिते (१४२६) च वर्षौं । मासि नभस्य रचिता सरस्वतीपत्तने विकृतिः ॥' इत्यमुक्त . नागार्जुनप्र. णीतयोगरत्नावल्याटीकाकारो गुणाकरस्तस्माद्भिः. यतस्तटोकान्ते 'श्रीमन्नृपवित्रा- मतो द्वादशनवपद्भिरविते (१२९६) वर्षे । रचिता गुणावरेण श्वेताम्मभिक्षुणा वि. वृतिः ॥' इति टीकानिर्माणकालो वर्तते. (१) तपागच्छीयहीरविजयसूरिशिप्यात- नककुशलप्रणीता टीका संक्षिप्ता उपोद्धातप्रभावकथाभी गहिता च. अत्रापि चतुश्च- त्वारिंशत्पद्यान्येव व्याख्यातानि. समाप्तौ च 'श्रीमत्तपगणगगनाङ्गणदिनमणिहीरविजय- सूरीणाम् । शिष्याणुना विरचिता वृत्तिरियं कनककुशलेन ॥ नयनशररसेन्दु(१६५२). मिते वर्षे सुविराटनाम्नि वरनगरे । पालजनविरोधार्थ विजयदशम्या हि सुसमाप्ता॥' ए- तदार्यायुग्मं वर्तते. (३) इय टोका कर्टनामरहिता सामान्या उपोद्धातमात्रसमेता ब- तते. एतत्प्रणेतापि कश्चन श्वेताम्बर एव प्रतीयते. यतोऽनेन मानतुझाचार्यो वृहद्ग- च्छाधीशः श्वेताम्बरश्वासोदित्युक्तमस्ति. कित्वयमष्टचत्वारिंशच्छोकान्व्याख्यातवानि. त्यस्य श्वेताम्यरत्वे मनाक्सदेहः. (४) इय टोका १६६७ सवत्सरे दिगम्मरभधारकरल- चन्द्रेण प्रणीता. अत्रापि तादृश एवोपोद्धातोऽनुष्टुप्पद्यघटितस्तादृश्य एवं प्रभावक- थाश्च वर्तन्ते. मानतुझाचार्यो दिगम्पर आसीदिन्यप्यत्रास्ति. कितु टीकाकारः सुत- रामप्रौढः. एतहीकाचतुष्टयमस्मभ्य सूरतनगरवासिनास्मन्मित्रेण केवलदासात्मजभगवा. न्दासश्रेष्ठिना प्रहितम्. द्वित्राणि मूलपुस्तकानि त्वस्मामिर्जयपुरेऽधिगतानि. तदाधा- रेणास्माभिरेतत्स्तोत्रमुद्रणमारर्धामात शुभम्. १. श्रीनाभेयमिति गुणाकरः. वृपभमिति रत्नकुशलः, श्रीआदिनाथमिति कर्ट- नामरहितटीका. } भक्तामरस्तोत्रम् । or वक्तुं गुणान्गुणसमुद्र शशाङ्ककान्ता- न्कस्ते क्षमः सुरगुरुप्रतिमोऽपि वुद्ध्या । कल्पान्तकालपवनोद्धतनकचक्र को वा तरीतुमलमम्बुनिधिं भुनाम्याम् ॥ ४ ॥ सोऽहं तथापि तव भक्तिवशान्मुनीश कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः । : प्रीत्यात्मवीर्यमविचार्य मृगो मृगेन्द्र नाभ्येति किं निजशिशोः परिपालनार्थम् ॥ ५ ॥ अल्पश्रुतं श्रुतवतां परिहासधाम त्वद्भक्तिरेव मुखरीकुरुते वलान्माम् । यत्कोकिलः किल मधौ मधुरं विरौति तच्चारुचूतकलिकानिकरैकहेतु ॥ ६ ॥ त्वत्संस्तवेन भवसंततिसंनिबद्धं पापं क्षणाक्षयमुपैति शरीरभानाम् । आक्रान्तलोकमलिनीलमशेषमाशु सूर्याशुभिन्नमिव शार्वरमन्धकारम् ॥ ७ ॥ मत्वेति नाथ तव संस्तवनं मयेद- मारभ्यते तनुधियापि तव प्रभावात् । चेतो हरिष्यति सतां नलिनी दलेषु मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥ ८ ॥ आस्तां तव स्तवनमस्तसमस्तदोषं स्वसंकथापि जगतां दुरितानि हन्ति । दूरे सहस्रकिरणः कुरुते प्रभैव पद्माकरेषु जलजानि विकासभाजि ॥ ९ ॥ नात्यद्भुतं भुवनभूषणभूत नाथ भूतैर्गुणैर्भुवि भवन्तमभिष्टुवन्तः ।

४ काव्यमाला। तुल्या भवन्ति भवतो ननु तेन किं वा भूत्याश्रितं य इह नात्मसमं करोति ॥ १० ॥ दृष्ट्वा भवन्तमनिमेपविलोकनीय नान्यत्र तोपमुपयाति जनस्य चक्षुः । पीत्वा पयः शशिकरद्युति दुग्धसिन्धोः क्षारं जलं जलनिधे रसितुं क इच्छेत् ॥ ११ ॥ यैः शान्तरागरुचिभिः परमाणुभिस्त्वं निर्मापितस्त्रिभुवनैकललामभूत । तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत्ते समानमपरं नहि रूपमस्ति ॥ १२ ॥ वकं व ते सुरनरोरगनेत्रहारि निःशेपनिर्जितजगत्रितयोपमानम् । विम्बं कलङ्कमलिनं व निशाकरस्य यद्वासरे भवति पाण्डुपलाशकल्पम् ॥ १३ ॥ संपूर्णमण्डलशशाङ्ककलाकलाप- शुभ्रा गुणास्त्रिभुवनं तव लद्धयन्ति । ये संश्रितास्त्रिजगदीश्वरनाथमेकं कस्तान्निवारयति संचरतो यथेष्टम् ॥ १४ ॥ चित्रं किमत्र यदि ते त्रिदशाङ्गनाभि- नीतं मनागपि मनो न विकारमार्गम् । कल्पान्तकालमरुता चलिताचलेन कि मन्दराद्रिशिखरं चलितं कदाचित् ॥ १५ ॥ निधूमवतिरपवर्जिततैलपूरः कृत्स्नं जगत्रयमिदं प्रकटीकरोपि । गम्यो न जातु मरुतां चलिताचलानां दीपोऽपरस्त्वमसि नाथ जगत्प्रकाशः ॥ १६ ॥ १. मन्दरो मेरुः । युगान्ते सर्वपर्वताना क्षोभो भवति न तु मेरोः' इति टोकाकृतः, ६ भक्तामरस्तोत्रम् । नास्तं कदाचिदुपयासि न राहुगम्यः स्पष्टीकरोषि सहसा युगपज्जगन्ति । नाम्भोधरोदरनिरुद्धमहाप्रभावः सूर्यातिशायिमहिमासि मुनीन्द्र लोके ॥ १७ ॥ नित्योदयं दलितमोहमहान्धकारं गम्यं न राहुवदनस्य न वारिदानाम् । विभ्राजते तव मुखाजमनल्पकान्ति विद्योतयज्जगदपूर्वशशाङ्कविम्बम् ॥ १८ ॥ किं शर्वरीषु शशिनानि विवस्वता वा युष्मन्मुखेन्दुदलितेषु तमःसु नाथ । निष्पन्नशालिवनशालिनि जीवलोके कार्य कियज्जलधरैर्जलमारननैः ॥ १९ ॥ ज्ञानं यथा त्वयि विभाति कृतावकाशं नैवं तथा हरिहरादिषु नायकेषु । तेजः स्फुरन्मणिषु याति यथा महत्त्वं नैवं तु काचशकले किरणाकुलेऽपि ॥ २० ॥ मन्ये वर हरिहरादय एव दृष्टा दृष्टेषु येषु हृदयं त्वयि तोषमेति । किं वीक्षितेन भवता भुवि येन नान्यः कश्चिन्मनो हरति नाथ भवान्तरेऽपि ॥ २१ ॥ स्त्रीणां शतानि शतशो जनयन्ति पुत्रा- नान्या सुतं त्वदुपमं जननी प्रसूता । सर्वा दिशो दधति भानि सहस्ररश्मि प्राच्येव दिग्जनयति स्फुरदंशुजालम् ॥ २२ ॥ त्वामामनन्ति मुनयः परमं पुमांस- मादित्यवर्णममलं तमसः परस्तात् ।

काव्यमाला। त्वामेव सम्यगुपलभ्य जयन्ति मृत्यु नान्यः शिवः शिवपदस्य मुनीन्द्र पन्थाः ॥ २३ ॥ त्वामव्ययं विभुमचिन्त्यमसंख्यमाचं ब्रह्माणमीश्वरमनन्तमनङ्गकेतुम् । योगीश्वरं विदितयोगमनेकमेक ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥ २४ ॥ बुद्धस्त्वमेव विबुधाचिंतबुद्धिबोधा- त्त्वं शंकरोऽसि भुवनत्रयशंकरत्वात् । धातासि धीर शिवमार्गविधेर्विधाना- व्यक्तं त्वमेव भगवन्पुरुषोत्तमोऽसि ॥ २५ ॥ तुभ्यं नमस्त्रिभुवनातिहराय नाथ तुभ्यं नमः क्षितितलामलभूपणाय । तुभ्यं नमस्त्रिजगतः परमेश्वराय तुभ्यं नमो जिन भवोदधिशोपणाय ॥ २६ ॥ को विस्मयोऽत्र यदि नाम गुणैरशेपै- स्त्वं संश्रितो निरवकाशतया मुनीश । दोषैरुपात्तविविधाश्रयजातगर्वैः स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥ २७ ॥ उच्चैरशोकतरुसंश्रितमुन्मयूख- माभाति रूपममलं भवतो नितान्तम् । स्पष्टोल्लसत्किरणमस्ततमोवितानं विम्ब रवेरिव पयोधरपार्श्ववति ॥ २८ ॥ सिंहासने मणिमयूखशिखाविचित्रे विभ्राजते तव वपुः कनकावदातम् । बिम्बं वियद्विलसदंशुलतावितानं तुङ्गोदयाद्रिशिरसीव सहस्ररश्मेः ॥ २९ ॥ १. मदनस्य क्षयहेतुम्. २. 'वियुधाश्रय' इति पाठ..

मक्तामरस्तात्रम् । ७ 3 ३ - . कुन्दावदातचलचामरचारुशोभ विभ्राजते तव वपुः कलधौतकान्तम् । उद्यच्छशाङ्करुचिनि:रवारिधार- मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥ ३० ॥ छत्रत्रयं तव विभाति शशाङ्ककान्त- मुच्चैःस्थितं स्थगितभानुकरप्रतापम् । मुक्ताफलप्रकरजालविवृद्धशोभं प्रख्यापयत्रिजगतः परमेश्वरत्वम् ॥ ३१ ॥ [गम्भीरताररवपूरितदिग्विभाग- स्त्रैलोक्यलोकशुभसंगमभूतिदक्षः । सद्धर्मराजजयघोषणघोषकः स- न्खे दुन्दुभिर्नेदति ते यशसः प्रवादी ॥ ३२ ।। मन्दारसुन्दरनमेरुसुपारिजात- संतानकादिकुसुमोत्करवृष्टिरुद्धा । गन्धोदबिन्दुशुभमन्दमरुत्प्रयाता दिव्या दिवः पतति ते वचसां ततिर्वा ॥ ३३ ॥ शुंभत्प्रभावलयभूरिविभा विभोस्ते लोकत्रये द्युतिमतां युतिमाक्षिपन्ती । प्रोद्यद्दिवाकरनिरन्तरभूरिसंख्या दीया जयत्यपि निशामपि सोमसौम्याम् ॥ ३४ ॥ स्वर्गापवर्गगममार्गविमार्गणेष्टः सद्धर्मतत्त्वकथनैकपटुस्त्रिलोक्याः । दिव्यध्वनिर्भवति ते विशदार्थसर्व- भाषास्वभावपरिणामगुणप्रयोज्यः ॥ ३५ ॥] १ गम्भीरत्यादिपद्यचतुट्य श्वेताम्बरन व्याख्यातम् अस्माकमप्येतत्मक्षितमेव ति. २. 'ध्वनति'. ३ उद्धा प्रशस्ता मतल्लिकादयः शब्दाः समासान्तर्गना एव स्तिवाचकाः. उद्धशब्दस्तु समास विनापीति रामाश्रम्या द्रष्टव्यम्.

काव्यमाला। उन्निद्रहेमनवपङ्कजपुञ्जकान्ती पर्युल्लसन्नखमयूखशिखाभिरामौ । पादौ पदानि तव यत्र जिनेन्द्र धत्तः पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥ ३६ ॥ इत्थं यथा तव विभूतिरभूजिनेन्द्र धर्मोपदेशनविधौ न तथापरस्य । यादृक्प्रभा दिनकृतः प्रहतान्धकारा तादृकुतो ग्रहगणस्य विकासिनोऽपि ॥ ३७ ।। थ्योतन्मदाविलविलोलकपोलमूल- मत्तभ्रमद्भमरनादविवृद्धकोपम् । ऐरावताभमिभमुद्धतमापतन्तं दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ।। ३८ ॥ भिन्नभकुम्भगलदुज्ज्वलशोणितात- मुक्ताफलप्रकरभूपितभूमिभागः । वद्धक्रमः क्रमगतं हरिणाधिपोऽपि नाकामति क्रमयुगाचलसंश्रितं ते ॥ ३९ ॥ कल्पान्तकालपवनोद्धतवतिकल्पं दावानलं ज्वलितमुज्ज्वलमुत्स्फुलिङ्गम् । विश्वं जिवत्सुमिव संमुखमापतन्तं त्वन्नामकीर्तनजलं शमयत्यशेपम् ॥ ४० ॥ रक्तक्षणं समदकोकिलकण्ठनीलं क्रोधोद्धतं फणिनमुत्फणमापतन्तम् । आक्रामति क्रमयुगेण निरस्तशङ्क- स्त्वन्नामनोगदमनी हृदि यस्य पुंसः ॥ ४१ ॥ १. ओषधिविशेष..

भक्तामरस्तोत्रम् । वल्गत्तुरङ्गगजर्जितभीमनाद- मानौ वलं बलवतामपि भूपतीनाम् । उद्यद्दिवाकरमयूखशिखापविद्धं । त्वत्कीर्तनात्तम इवाशु भिदामुपति ॥ ४२ ॥ कुन्ताग्रभिन्नगजशोणितवारिवाह- वेगावतारतरणातुरयोधभीमे। युद्धे जयं विजितदुर्जयजेयपक्षा- स्त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥ ४३ ॥ अम्भोनिधौ शुमितभीषणनकचक्र- पाठीनपीठभयदोल्वणवाडवाग्नौ । रङ्गत्तरङ्गशिखरस्थितयानपात्रा- स्त्रासं विहाय भवतः सरणाद्रजन्ति ॥ ४४ ॥ उद्भूतभीषणजलोदरभार ग्नाः शोच्यां दशामुपगताश्च्युतजीविताशाः । त्वत्पादपङ्कजरजोभृतदिग्धदेहा भा भवन्ति मकरध्वजतुल्यरूपाः ॥ ४५ ॥ आपादकण्ठमुरुशृङ्खलवेष्टिताङ्गा गाढं बृहन्निगडकोटिनिघृष्टजङ्घाः। त्वन्नाममन्त्रमनिशं मनुजाः सरन्तः सद्यः स्वयं विगतवन्धमया भवन्ति ॥ ४६ ॥ मत्तद्विपेन्द्रमृगराजदवानलाहि- सङ्ग्रामवारिधिमहोदरवन्धनोत्थम् । तस्याशु नाशमुपयाति भयं मियेव यस्तावकं स्तवमिमं मतिमानधीते ॥ ४७ ॥ १. वारिवाहा जलप्रवाहाः. २. 'चक्रे' इति पाठ.. ३. 'भग्ना.,' 'मना.' इति च पाठ:. - २ १० काव्यमाला। स्तोत्रस्रनं तव जिनेन्द्र गुणैर्निवद्धां भक्त्या मया रुचिरवर्णविचित्रपुष्पाम् । धत्ते जनो य इह कण्ठगतामजस्रं तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥ ४८ ॥ इति श्रीमानतुगाचार्यविरचितं भक्तामरस्तोत्रम् । श्रीसिद्धसेनदिवाकरप्रणीतं कल्याणमन्दिरस्तोत्रम् । कल्याणमन्दिरमुदारमवद्यभेदि भीताभयप्रदमनिन्दितमधिपद्मम् । संसारसागरनिमज्जदशेपजन्तु- पोतायमानमभिनम्य जिनेश्वरस्य ॥ १ ॥ यस्य स्वयं सुरगुरुर्गरिमाम्बुराशेः स्तोत्रं सुविस्तृतमतिर्न विभुर्विधातुम् । १. मानतुङ्गमिति स्वकीयं नामाप्याचार्येण युक्त्या चरमपद्ये निवेशितम्. २. क- ल्याणमन्दिरस्तोत्रं सिद्धसेनदिवाकरेण प्रणीतमिति प्रसिद्धिरस्ति. स्तोत्रान्तिमपये तु कुमुदचन्द्र इति कर्तुर्नाम लभ्यते. तथ सिद्धसेनदिवाकरस्य गुरुणा दीक्षावसरे विहित नामेति स्तोत्रटीकाकर्ता वक्ति. सिद्धसैनदिवाकरो विक्रमादित्यसमय उजयि. न्यामागत इत्यादि प्रबन्धचिन्तामणी विक्रमादित्यप्रवन्धे वर्तते. स च श्वेताम्बर आसी- दित्यपि तत एव प्रतीयते. दिगम्परास्तु दिगम्मरमेनं वदन्ति. ख्रिस्ताब्दीयषष्ठशत- कोद्भूतः श्रीवराहमिहिराचार्यो वृहजातकस्य सप्तमेऽध्याये कचन सिद्धसेननामान गणकं स्मरति, स चायमेव सिद्धसेनदिवाकरः स्यात्. अन्येऽपि द्विधाः सिद्धसेना जैनेषु प्र- सिद्धाः सन्ति. कल्याणमन्दिरस्तोत्र तु दिगम्बराः श्वेताम्मराश्च पठन्ति. किं तु भ- क्तामरस्तोत्रवदस्य भूयस्यष्टीकाः प्रतिपद्य मन्त्रास्तत्मभावकिंवदन्त्यश्च नातीव प्रच. रिताः सन्ति. मध्ये प्रक्षिप्तश्लोका अपि न दृश्यन्ते. अस्मदृष्टेषु निखिलेष्वपि पुस्तकेषु चतुश्चत्वारिंशत्पद्यान्येव वर्तन्ते. एतन्मुद्रणावसरे चास्माभिरेक कर्तनामरहितसक्षिप्त. टीकासमेतमपर हिन्दीभाषान्तरसहितमिति पुस्तकद्वय भगवान्दासश्रेष्ठितः प्राप्तम्. वित्राणि मूलपुस्तकानि चेति.

। कल्याणमन्दिरस्तोत्रम् । ११ तीर्थेश्वरस्य कैमठस्मयधूमकेतो- स्तस्याहमेष किल संस्तवनं करिष्ये ॥ २ ॥ (युग्मम्) सामान्यतोऽपि तव वर्णयितुं खरूप- मस्सादृशाः कथमधीश भवन्त्यधीशाः । धृष्टोऽपि कौशिकशिशुर्यदि वा दिवान्धो रूपं प्ररूपयति किं किल धर्मरश्मेः ॥ ३ ॥ मोहक्षयादनुभवन्नपि नाथ मर्यो नूनं गुणान्गणयितुं न तव क्षमेत । कल्पान्तवान्तपयसः प्रकटोऽपि यस्मा- न्मीयेत केन जलधेर्ननु रत्नराशिः ॥ ४ ॥ अभ्युद्यतोऽसि तव नाथ जडाशयोऽपि कर्तुं स्तवं लसदसंख्यगुणाकरस्य । बालोऽपि किं न निजबाहुयुगं वितत्य विस्तीर्णतां कथयति खधियाम्बुराशेः ॥ ५ ॥ ये योगिनामपि न यान्ति गुणास्तवेश वक्तुं कथं भवति तेषु ममावकाशः । जाता तदेवमसमीक्षितकारितेयं जल्पन्ति वा निजगिरा ननु पक्षिणोऽपि ॥ ६ ॥ आस्तामचिन्त्यमहिमा जिन संस्तवस्ते नामापि पाति भवतो भवतो जगन्ति । तीव्रातपोपहतपान्थजनान्निदाघे प्रीणाति पद्मसरसः सरसोऽनिलोऽपि ॥ ७ ॥ हृद्धर्तिनि त्वयि विभो शिथिलीभवन्ति जन्तोः क्षणेन निविडा अपि कर्मवन्धाः । १. कमठो नाम पार्श्वनाथप्रभोस्तपोविघ्नकर्ता कश्चन दैत्य आसीत्. पार्श्वनायस्यानु- जन्मैव शत्रुभूतः कमठ इत्यपि केचिद्वदन्ति. 'शठकमठकृतोपद्रवाबाधितस्य' इति पार्श्व- नाथस्तवेऽपि पार्श्वनाथविशेषणम्.

१२ । ।, काव्यमाला । ', सद्यो भुजंगममया इव मध्यभाग- मभ्यागते वनशिखण्डिनि चन्दनस्य ॥ ८॥ मुच्यन्त एव मनुजाः सहसा जिनेन्द्र रौद्रैरुपद्रवशतैस्त्वयि वीक्षितेऽपि । गोस्वामिनि स्फुरिततेजसि दृष्टमात्रे चौरैरिवाशु पशवः प्रपलायमानैः ॥ ९ ॥ त्वं तारको जिन कथं भविनां त एव त्वामुद्वहन्ति हृदयेन यदुत्तरन्तः । यद्वा ईतिस्तरति यज्जलमेप नून- मन्तर्गतस्य मरुतः स किलानुभावः ॥ १० ॥ यस्मिन्हरप्रभृतयोऽपि हतप्रभावाः सोऽपि त्वया रतिपतिः क्षपितः क्षणेन । विध्यापिता हुतभुजः पयसाथ येन पीतं न किं तदपि दुर्धरवाडवेन ॥ ११ ॥ स्वामिन्ननल्पगरिमाणमपि प्रपन्ना- स्त्वां जन्तवः कथमहो हृदये दधानाः। जन्मोदधिं लघु तरन्त्यतिलाघवेन चिन्त्यो न हन्त महतां यदि वा प्रभावः ।। १२ ।। क्रोधस्त्वया यदि विभो प्रथमं निरस्तो ध्वस्तस्तदा वद कथं किल कर्मचौराः। प्लोपत्यमुत्र यदि वा शिशिरापि लोके नीलद्रुमाणि विपिनानि न कि हिमानी ॥ १३ ॥ त्वां योगिनो जिन सदा परमात्मरूप- मन्वेपयन्ति हृदयाम्बुजकोपदेशे । १. सूर्ये. २. चर्मभस्ला. ३. निर्वाण नीताः, कल्याणमन्दिरस्तोत्रम् । पूतस्य निर्मलरुचेर्यदि वा किमन्य- दक्षस्य संमेवपदं ननु कर्णिकायाः ॥ १४ ॥ ध्यानाजिनेश भवतो भविनः क्षणेन देहं विहाय परमात्मदशां व्रजन्ति । तीवानलादुपलभावमपास्य लोके चामीकरत्वमचिरादिव धातुभेदाः ॥ १५ ॥ अन्तः सदैव जिन यस्य विभाव्यसे त्वं भव्यैः कथं तदपि नाशयसे शरीरम् । एतत्स्वरूपमथ मध्यविवर्तिनो हि यद्विग्रहं प्रशमयन्ति महानुभावाः ॥ १६ ॥ आत्मा मनीषिभिरयं त्वदभेदबुद्ध्या ध्यातो जिनेन्द्र भवतीह भवत्प्रभावः । पानीयमप्यमृतमित्यनुचिन्त्यमानं किं नाम नो विपविकारमपाकरोति ॥ १७ ॥ त्वामेव वीततमसं परवादिनोऽपि नूनं विभो हरिहरादिधिया प्रपन्नाः । किं काचकामलिभिरीश सितोऽपि शङ्खो नो गृह्यते विविधवर्णविपर्ययेण ॥ १८ ॥ धर्मोपदेशसमये सविधानुभावा- दास्तां जनो भवति ते तरुरप्यंशोकः । अभ्युद्गते दिनपतौ समहीरुहोऽपि किं वा विवोधमुपयाति न जीवलोकः ॥ १९ ॥ चित्रं विभो कथमवाङ्मुखवृन्तमेव विष्वक्पतत्यविरला सुरपुष्पवृष्टिः । १. अक्षस्य पद्मबीजस्य. २. 'सभविपद' इति पाठ.. ३. काचकामलादयो ने. प्ररोगास्तयुक्तै'. ४. श्रीपार्श्वनाथोऽशोकवृक्षतले स्थितवान्, 'उचैरशोकतरुसश्रितं' इति भक्तामरस्तवेऽपि.

१४
काव्यमाला।
त्वद्वोचरे सुमनसां यदि वा मुनीश
गच्छन्ति नूनमध एव हि बन्धनानि ॥ २० ॥
स्थाने गभीरहृदयोदधिसंभवायाः
पीयूपतां तव गिरः समुदीरयन्ति ।
पीत्वा यतः परमसंमदसङ्गभाजो
भव्या ब्रजन्ति तरसाप्यजरामरत्वम् ॥ २१ ॥
खामिन्सुदूरमवनम्य समुत्पतन्तो
मन्ये वदन्ति शुचयः सुरचामरौघाः ।
येऽसै नतिं विदधते मुनिपुंगवाय
ते नूनमूर्ध्वगतयः खलु शुद्धभावाः ॥ २२ ॥
श्यामं गभीरगिरमुज्ज्वलहेमरत्न-
सिंहासनस्थमिह भव्यशिखण्डिनस्त्वाम् ।
आलोकयन्ति रभसेन नदन्तमुच्चै-
श्चामीकरादिशिरसीव नवाम्वुवाहम् ॥ २३ ॥
उद्गच्छता तव शितिद्युतिमण्डलेन
लुप्तच्छदच्छविरशोकतरुर्बभूव ।
सांनिध्यतोऽपि यदि वा तव वीतराग
नीरागतां व्रजति को न सचेतनोऽपि ॥ २४ ॥
भो भोः प्रमादमवधूय भजध्वमेन-
मागत्य निर्वृतिपुरी प्रति सार्थवाहम् ।
एतन्निवेदयति देव जगत्रयाय
मन्ये नदन्नभिनभः सुरदुन्दुभिस्ते ॥ २५ ॥
उद्दयोतितेपु भवता भुवनेषु नाथ
तारान्वितो विधुरयं विहताधिकारः ।
मुक्ताकलापकलितोरुसितातपत्र-
व्याजात्रिधा धृततनुर्बुवमभ्युपेतः ॥ २६ ॥

कल्याणमन्दिरस्तोत्रम् । १५ खेन प्रपूरितजगप्रयपिण्डितेन कान्तिप्रतापयशसामिव संचयेन । माणिक्यहेमरजतप्रविनिर्मितेन सालत्रयेण भगवन्नभितो विभासि ॥ २७ ॥ दिव्यत्रजो जिन नमत्रिदशाधिपाना- मुत्सृज्य रत्नरचितानपि मौलिवन्धान् । पादौ श्रयन्ति भवतो यदि वापरत्र त्वत्संगमे सुमनसो न रमन्त एव ॥ २८ ॥ त्वं नाथ जन्मजलधेविपराङ्मुखोऽपि यत्तारयस्यसुमतो निजपृष्ठलग्नान् । युक्तं हि पार्थिवनिपस्य सतस्तवैव चित्रं विभो यदसि कर्मविपाकशून्यः ॥ २९ ॥ विश्वेश्वरोऽपि जनपालक दुर्गतस्त्वं किं वाक्षरप्रकृतिरप्यलिपिस्त्वमीश । अज्ञानवत्यपि सदैव कथंचिदेव ज्ञानं त्वयि स्फुरति विश्वविकासहेतुः ॥ ३० ॥ प्राग्भारसंभृतनभांसि रजांसि रोषा- दुत्थापितानि कमठेन शठेन यानि । छायापि तैस्तव न नाथ हता हताशो अस्तस्त्वमीभिरयमेव परं दुरात्मा ॥ ३१ ॥ यद्गर्जदूतिघनौघमदभ्रभीम- भ्रश्यत्तडिन्मुसलमांसलघोरधारम् । दैत्येन मुक्तमथ दुस्तरवारि दधे तेनैव तस्य जिन दुस्तरवारिकृत्यम् ॥ ३२ ॥ १. प्राकारत्रयेण. २. पार्थिवश्चासौ निपो घट:. 'पार्थिवनिभस्य, 'पार्थिवभवस्य इति च पाठः. ३. घटस्तु वहिकृतपाकेन शून्यस्तारयितुमसमर्थो भवति. ४. तरवारिः खगः. 'विमलतरवारिधारावासितराजहंसमण्डलः' इति वासवदत्ताश्लेपः.

१६. काव्यमाला। ध्वस्तोर्ध्वकेशविकृताकृति मर्त्यमुण्ड- प्रालम्बभृद्भयदक्त्रविनिर्यदग्निः प्रेतव्रजः प्रति भवन्तमपीरितो यः सोऽस्याभवत्प्रतिभवं भवदुःखहेतुः ॥ ३३ ॥ धन्यास्त एव भुवनाधिप ये त्रिसंध्य- माराधयन्ति विधिवद्विधुतान्यकृत्याः । भक्त्योल्लसत्पुलकपक्ष्मलदेहदेशाः पादद्वयं तव विभो भुवि जन्मभाजः ॥ ३४ ॥ असिन्नपारभववारिनिधी मुनीश मन्ये न मे श्रवणगोचरतां गतोऽसि । आकर्णिते तु तव गोत्रपवित्रमन्त्रे किं वा विपद्विपधरी सविधं समेति ॥ ३५ ॥ जन्मान्तरेऽपि तव पादयुगं न देव मन्ये मया महितमीहितदानदक्षम् । तेनेह जन्मनि मुनीश पराभवानां जातो निकेतनमहं मथिताशयानाम् ॥ ३६ ॥ नूनं न मोहतिमिरावृतलोचनेन पूर्व विभो सकृदपि प्रविलोकितोऽसि । मर्माविधो विधुरयन्ति हि मामनर्थाः प्रोद्यत्प्रवन्धगतयः कथमन्यथैते ॥ ३७ ॥ आकर्णितोऽपि महितोऽपि निरीक्षितोऽपि नूनं न चेतसि मया विधृतोऽसि भक्त्या । जातोऽसि तेन जनवान्धव दुःखपात्रं यसात्क्रियाः प्रतिफलन्ति न भावशून्याः ॥ ३८ ॥ त्वं नाथ दुःखिजनवत्सल हे शरण्य कारुण्यपुण्यवसते वशिनां वरेण्य । १. गोत्रं नाम. २. मर्मभेदकाः.

एकीभावस्तोत्रम् । १७ भक्त्या नते मयि महेश दयां विधाय दुःखाडरोद्दलनतत्परतां विधेहि ॥ ३९ ॥ निःसंख्यसारशरणं शरणं शरण्य- मासाद्य सादितरिपुप्रथितावदानम् । त्वत्पादपङ्कजमपि प्रणिधानवन्ध्यो वन्ध्योऽसि चे वनपावन हा हतोऽस्मि ॥ ४० ॥ देवेन्द्रवन्ध विदिताखिलवस्तुसार संसारतारक विभो भुवनाधिनाथ । त्रायख देव करुणाह्रद मां पुनीहि सीदन्तमद्य भयदव्यसनाम्बुराशेः ॥ ४१ ॥ यद्यस्ति नाथ भवदभिसरोरुहाणां भक्तेः फलं किमपि संततसंचितायाः । तन्मे त्वदेकशरणस्य शरण्य भूयाः स्वामी त्वमेव भुवनेऽत्र भवान्तरेऽपि ॥ ४२ ॥ इत्थं समाहितधियो विधिवजिनेन्द्र सान्द्रोल्लसत्पुलककञ्चकिताङ्गभागाः । त्वम्बिनिर्मलमुखाम्बुजवद्धलक्ष्या ये संस्तवं तव विभो रचयन्ति भव्याः ॥ ४३ ॥ जननयनकुमुदचन्द्र प्रभास्वराः वर्गसंपदो भुक्त्वा । ते विगलितमलनिचया अचिरान्मोक्षं प्रपद्यन्ते ॥ ४४ ॥ (युग्मम्) इति श्रीसिद्धसेनदिवाकरविरचित पार्श्वनाथस्य कल्याणमन्दिग्स्तोत्रम् ॥ श्रीवादिराजमणीतं. एकीभावस्तोत्रम् । एकीभावं गत इव मया यः स्वयं कर्मवन्धो घोरं दुःखं भवभवगतो दुर्निवारः करोति । १. बिम्ब प्रतिमा. २. वादिराजस्य देशकालौ न ज्ञायते, किं वेतत्प्रणीतमेकीभा- वस्तोत्र दिगम्बरा एव पठन्ति. अस्य स्तवस्य कर्तनामरहितका संक्षिप्तावनिमीणि मूलपुस्तकानि चास्माभिर्जयपुर एव समधिगतानि. ३ १८ काव्यमाला। तस्याप्यस्य त्वयि जिनरवे भक्तिरुन्मुक्तये चे- जेतुं शक्यो भवति न तया कोऽपरस्तापहेतुः ॥ १ ॥ ज्योतीरूपं दुरितनिवहध्वान्तविध्वंसहेतुं त्वामेवाहुर्जिनवर चिरं तत्त्वविद्याभियुक्ताः । चेतोवासे भवसि च मम स्फारमुद्भासमान- स्तस्मिन्नंहः कथमिव तमो वस्तुतो वस्तुमीप्टे ॥ २ ॥ आनन्दानुनपितवदनं गद्गदं चाभिजल्प- न्यश्चायेत त्वयि दृढमनाः स्तोत्रमन्त्रैर्भवन्तम् । तस्याभ्यस्तादपि च सुचिरं देहवल्मीकमध्या- निष्कास्यन्ते विविधविपमव्याधयः कावेयाः ॥ ३ ॥ प्रागेवेह त्रिदिवभवनादेप्यता भव्यपुण्या- त्पृथ्वीचक्र कनकमयतां देव निन्ये त्वयेदम् । ध्यानद्वारं मम रुचिकर स्वान्तगेहं प्रविष्ट- स्तत्कि चित्रं जिन वपुरिदं यत्सुवर्णीकरोपि ॥ ४ ॥ लोकस्यैकस्त्वमसि भगवन्निनिमित्तेन वन्धु- स्त्वय्येवासौ सकलविषया शक्तिरप्रत्यनीका। भक्तिस्फीतां चिरमधिवसन्मामिकां चित्तशय्यां मय्युत्पन्नं कथमिव ततः क्लेशयूथं सहेथाः ॥ ५ ॥ जन्माटव्यां कथमपि मया देव दीर्घ भ्रमित्वा प्राप्तवेयं तव नयकथा स्फारपीयूपवापी । तस्या मध्ये हिमकरहिमव्यूहशीते नितान्तं निर्मनं मां न जहति कथं दुःखदावोपतापाः ॥ ६ ॥ पादन्यासादपि च पुनतो यात्रया ते त्रिलोकी हेमाभासो भवति सुरभिः श्रीनिवासश्च पद्मः । १. पूजयेत. 'चाय पूजानिशामनयोः'. २. कुष्ठरोगाक्रान्त मदीयं शरीरामिति टीकाकारः.

१२ एकीभावस्तोत्रम् । सर्वाङ्गेण स्पृशति भगवंस्त्वय्यशेष मनो मे श्रेयः किं तत्स्वयमहरहर्यन्न मामभ्युपैति ॥ ७ ॥ पश्यन्तं त्वद्वचनममृतं भक्तिपाच्या पिवन्तं कारण्यात्पुरुषमसमानन्दधाम प्रविष्टम् । त्वां दुर्वारस्सरमदहरं त्वत्प्रसादैकभूमि क्रूराकाराः कथमिव रुजाकण्टका निळ्ठन्ति ॥ ८ ॥ पाषाणात्मा तदितरसमः केवलं रत्नमूर्ति- निस्तम्भो भवति च परस्तादृशो रत्नवर्गः । दृष्टिप्राप्तो हरति स कथं मानरोगं नराणां प्रत्यासत्तिर्यदि न भवतस्तस्य तच्छक्तिहेतुः ॥ ९ ॥ हृद्यः प्राप्तो मरुदपि भवन्मूर्तिशैलोपवाही सद्यः पुंसां निरवधि रुजाधूलिवन्धं धुनोति । ध्यानाहूतो हृदयकमलं यस्य तु त्वं प्रविष्ट- स्तस्याशक्यः क इह भुवने देव लोकोपकारः॥ १० ॥ जानासि त्वं मम भवभवे यच्च याक्च दुःखं जातं यस्य स्मरणमपि मे शस्त्रवन्निपिनष्टि । त्वं सर्वेशः सकृप इति च त्वामुपेतोऽसि भक्त्या यत्कर्तव्यं तदिह विषये देव एव प्रमाणम् ॥ ११ ॥ प्रापदैवं तव नुतिपदैर्जीवकेनोपदिष्टैः पापाचारी मरणसमये सारमेयोऽपि सौख्यम् । कः संदेहो यदुपलभते वासवश्रीप्रभुत्वं जल्पञ्जाप्यैर्मणिभिरमलैस्त्वन्नमस्कारचक्रम् ॥ १२ ॥ शुद्धे ज्ञाने शुचिनि चरिते सत्यपि त्वय्यनीचा भक्तिों चेदनवधि सुखावञ्चिका कुञ्चिकेयम् । - - १. 'जीवन क्षत्रियवशचूडामणि श्रीसन्यधरमहाराजपुत्रेणेति टीकाकार'. २. सौ. मत्यस्य देवमिति विशेषणम्. सारमेय. श्वा.

२० काव्यमाला। शक्योद्घाटं भवति हि कथं मुक्तिकामस्य पुंसो मुक्तिद्वारं परिदृढमहामोहमुद्राकवाटम् ॥ १३ ॥ प्रच्छन्नः खल्वयमघमयैरन्धकारैः समन्ता- त्पन्था मुक्तेः स्थपुटितपदः क्लेशगर्तेरगाधैः । तत्कस्तेन ब्रजति सुखतो देव तत्त्वावभासी यद्यग्रेऽग्रे न भवति भवद्भारतीरत्नदीपः ॥ १४ ॥ आत्मज्योतिनिधिरनवधिद्रष्टुरानन्दहेतुः कर्मक्षोणीपटलपिहितो योऽनवाप्यः परेपाम् । हस्ते कुर्वन्त्यनतिचिरतस्तं भवद्भक्तिभाजः स्तोत्रैर्वन्धप्रकृतिपरुपोदामधात्रीखनित्रैः ॥ १५ ॥ प्रत्युत्पन्नानयहिमगिरेरायता चामृताब्धे- या देव त्वत्पदकमलयोः संगता भक्तिगङ्गा । चेतस्तस्यां मम रुचिवशादाप्लुतं क्षालितांहः- कल्मापं यद्भवति किमियं देव संदेहभूमिः ॥ १६ ॥ प्रादुर्भूत स्थिरपदसुख त्वामनुध्यायतो मे त्वय्येवाहं स इति मतिरुत्पद्यते निर्विकल्पा । मिथ्यैवेयं तदपि तनुते तृप्तिमभ्रेपरूपां दोपात्मानोऽप्यभिमतफलास्त्वत्प्रसादाद्भवन्ति ॥ १७ ॥ मिथ्यावाद मलमपनुदन्सप्तभङ्गीतरङ्गै- गम्भोधि वनमखिलं देव पर्येति यस्ते । तस्योवृत्ति सपदि विबुधाश्चेतसैवाचलेन व्यातन्वन्तः सुचिरममृतासेवया तृप्नुवन्ति ॥ १८ ॥ १. तत्त्वैः सप्तसंख्यैरवभासते य . २. प्रकृतिस्थित्यनुभागप्रदेशा बन्धप्रकृतय इति टीका. ३. स्याद्वादनयहिमाचलात्. ४. स्यादस्ति, स्यानास्ति, स्यादस्ति नास्ति, स्यादवक्तव्यम्, स्यादस्त्यवक्तव्यम्, स्यान्नास्त्यवक्तव्यम्, स्यादस्ति च नास्ति चाव- ताव्यं च इति सप्त भहाः स्याद्वादनये प्रसिद्धाः. ५. चेतोरूपपर्वतेनावृत्तिं मथनम्.

एकीभावस्तोत्रम् । २१ आहार्येभ्यः स्पृहयति परं यः खभावादयः शस्त्रग्राही भवति सततं वैरिणा यश्च शक्यः । सर्वाङ्गेषु त्वमसि सुभगस्त्वं न शक्यः परेषां तत्कि भूषावसनकुसुमैः किं च शस्त्रैरुदस्त्रैः ॥ १९ ॥ इन्द्रः सेवां तव सुकुरुतां किं तया श्लाघनं ते तस्यैवेयं भवलयकरी श्लाप्यतामातनोति । त्वं निस्तारी जननजलधेः सिद्धिकान्तापतिस्त्वं त्वं लोकानां प्रभुरिति तव श्लाप्यते स्तोत्रमित्थम् ॥ २० ॥ वृत्तिर्वाचामपरसदृशी न त्वमन्येन तुल्य- स्तुत्युद्गाराः कथमिव ततस्त्वय्यमी नः क्रमन्ते । मैवं भूवंस्तदपि भगवन्भक्तिपीयूपपुष्टा- स्ते भव्यानामभिमतफलाः पारिजाता भवन्ति ॥ २१ ॥ कोपावेशो न तव न तव क्वापि देव प्रसादो व्याप्तं चेतस्तव हि परमोपेक्षयैवानपेक्षम् । आज्ञावश्यं तदपि भुवनं संनिधिर्वैरहारी क्वंभूतं भुवनतिलक प्राभवं त्वत्परेषु ॥ २२ ॥ देव स्तोतुं त्रिदिवगणिकामण्डलीगीतकीर्ति तोतूर्ति त्वां सकलविषयज्ञानमूर्ति जनो यः । तस्य क्षेमं न पदमटतो जातु जोहूर्ति पन्था- स्तत्त्वग्रन्थस्मरणविषये नैष मोमूर्ति मर्त्यः ।। २३ ।। चित्ते कुर्वनिरवधिसुखज्ञान दृग्वीर्यरूपं देव त्वां यः समयनियमादादरेण स्तवीति । श्रेयोमार्ग स खलु सुकृती तावता पूरयित्वा कल्याणानां भवति विपयः पञ्चधा पश्चितानाम् ॥ २४ ॥ १. बाह्यभूषणादिभ्यः. २. प्रभुत्वम्. ३. स्तोतु तोतूर्ति त्वरितो भवति. ४. कुटिलो भवति. ५. सदेहं प्राप्नोति. ६. विस्तृतानाम्.

२२ काव्यमाला। - भक्तिप्रहमहेन्द्रपूजितपद त्वत्कीर्तने न क्षमाः सूक्ष्मज्ञानदृशोऽपि संयमभृतः के हन्त मन्दा वयम् । अस्माभिस्तवनच्छलेन तु परस्त्वय्यादरस्तन्यते खात्माधीनसुखैपिणां स खलु नः कल्याणकल्पद्रुमः ॥२५॥ वादिराजमनु शाब्दिकलोको वादिराजमनु तार्किकसिंहः । वादिराजमनु काव्यकृतस्ते वाजिराजमनु भव्यसहायः ॥ २६ ॥ इति श्रीवादिराजकृतमेकीभावस्तोत्रम् ॥ श्रीधनंजयमणीतं विषापहारस्तोत्रम् । स्वात्मस्थितः सर्वगतः समस्तव्यापारवेदी विनिवृत्तसङ्गः । प्रवृद्धकालोऽप्यनरो वरेण्यः पायादपायात्पुरुषः पुराणः ॥ १ ॥ परैरचिन्त्यं युगभारमेकः स्तोतुं वहन्योगिभिरप्यशक्यः । स्तुत्योऽद्य मेऽसौ वृपभो न भानोः किमप्रवेशे विशति प्रदीपः ॥ २ ॥ तत्याज शक्रः शकनाभिमानं नाहं त्यजामि स्तवनानुबन्धम् । खल्पेन वोधेन ततोऽधिकाथै वातायनेनेव निरूपयामि ॥ ३ ॥ त्वं विश्वदृश्वा सकलैरदृश्यो विद्वानशेपं निखिलैरवेद्यः । वक्तुं कियान्कीदृश इत्यशक्यः स्तुतिस्ततोऽशक्तिकथा तवास्तु ॥ ४ ॥ व्यापीडितं वालमिवात्मदोपैरुल्लाघतां लोकमवापिपस्त्वम् । हिताहितान्वेपणमान्यभाजः सर्वस्य जन्तोरसि वालवैद्यः ॥ ५ ॥ १. सर्वेऽपि शाब्दिकास्तार्किकश्रेष्ठाः कवयः सजनाश्च वादिराजान्यूना इत्यात्मप्र. शंसां कविः कृतवानिति तात्पर्यम्. २ द्विःसंधानकाव्यकर्ता कश्चिदन्योऽयमेव धनजय इति न निश्चयः. स्तोत्रस्यास्य द्वित्राणि मूलपुस्तकानि कर्तनामरहिता टीका चासा- दितास्माभिः. ३. एक एवान्यपुरुषैर्मनसाप्यस्मरणीयं प्राणिप्राणधारणोपायप्रदर्शनस्वरूपं युगभारं वहन्धारयनिति टीका. ४. त्वां स्तोतुमहं शक्त इत्यभिमानम्. ५. स्वल्पाद्वो- धात. ६. स्वल्पेनापि गवाक्षेण वृहदपि पर्वतादि यथा विलोक्यते तद्वदह स्वल्पेनापि पोधेनाधिकार्थ निरूपयामीति तात्पर्यम्. ७ प्रापितवानसि.

२३ प विषापहारस्तोत्रम् । दाता नं हर्ता दिवसं विवस्वानद्यश्व इत्यच्युत दर्शिताशः । सव्याज्यमेवं गमयत्यशक्तः क्षणेन दत्सेऽभिमतं नताय ॥ ६ ॥ उपैति भक्त्या सुमुखः सुखानि त्वयि स्वभावाद्विमुखश्च दुःखम् । सदावदातद्युतिरेकरूपस्तयोस्त्वमादर्श इवावभासि ॥ ७ ॥ अगाधताब्धेः स यतः पयोधिर्मरोश्च तुङ्गा प्रकृतिः स यंत्र । द्यावापृथिव्योः पृथुता तथैव व्याप त्वदीया भुवनान्तराणि ॥ ८ ॥ तैवानवस्था परमार्थतत्त्वं त्वया न गीतः पुनरागमश्च । दृष्टं विहाय त्वमदृष्टमैषीविरुद्धवृत्तोऽपि समञ्जसस्त्वम् ॥ ९॥ स्मरः सुदग्धो भवतैव तस्मिन्नुभूलितात्मा यदिनाम शंभुः । अशेत वृन्दोपहतोऽपि विष्णुः किं गृह्यते येन भवानजागः ॥१०॥ स नीरजाः स्यादपरोऽघवान्वा तद्दोषकीत्यैव न ते गुणित्वम् । खतोऽम्बुराशेर्महिमा न देव स्तोकापवादेन जलाशयस्य ॥ ११ ॥ कर्मस्थिति जन्तुरनेकभूमि नयत्यमुं सा च परस्परस्य । त्वं नेतृभावं हि तयोर्भवाब्धौ जिनेन्द्रनौनाविकयोरिवाख्यः ॥१२॥ सुखाय दुःखानि गुणाय दोषान्धर्माय पापानि समाचरन्ति । तैलाय बालाः सिकतासमूहं निपीडयन्ति स्फुटमत्वदीयाः ॥ १३ ॥ विषापहारं मणिमौषधानि मन्त्रं समुद्दिश्य रसायनं च । भ्राम्यन्त्यहो न त्वमिति स्मरन्ति पर्यायनामानि तवैव तानि ॥ १४ ॥ चित्ते न किंचित्कृतवानसि त्वं देवः कृतश्चेतसि येन सर्वम् । हस्ते कृतं तेन जगद्विचित्रं सुखेन जीवत्यपि चित्तवाह्यः ॥ १५ ॥ १. सूर्यो न ददाति नापहरति केवलमद्यश्व इत्याशा दर्शयनशक्त. सन्सव्याज दिवनं यति, केवल कालपेक्षं करोतीत्यर्थ.. अन्यत्राशा दिशः. २. यत्र स मेरुर्वर्तते तत्रव । प्रकृति न्यत्र. ३. तव मतेऽनवस्था परमार्थतत्त्वं वर्तते. ४. पुनरावृत्ति. चाञ्छितवानसि. ६. पापरहितः स ब्रह्मादिदेवसमूहः. ७. सरोवरादेः स्तोकापवादेन पमेतदिति निन्दया महत्त्वं न ख्याप्यते स तु स्वभावेनैव महान्, ८. जी- समुद्रस्य मणोरन्योन्यस्य नेतभावं भवाब्धौ त्वमाख्य. कथितवानसि, यथा समुद्रे नौका क नयति नाविकश्च नौकां तद्वत्, ९. त्वत्तः पराङ्मुखाः. M 4 २४ काव्यमाला । त्रिकालतत्त्वं त्वमवैस्त्रिलोकीस्वामीति संख्यानियतेरमीपाम् । वोधाधिपत्यं प्रति नाभविष्यंस्तेऽन्येऽपि चेयाप्स्यदमूनपीदम् ॥ १६ ॥ नाकस्य पत्युः परिकर्म रम्यं नागम्यरूपस्य तवोपकारि । तस्यैव हेतुः खसुखस्य भानोरुविभ्रतच्छत्रमिवादरेण ॥ १७ ॥ कोपेक्षकस्त्वं क सुखोपदेशः स चेत्किमिच्छाप्रतिकूलवादः । क्वासौ व वा सर्वजगत्प्रियत्वं तन्नो यथातथ्यमवेविचं ते ॥ १८ ॥ तुङ्गात्फलं यत्तदकिंचनाच्च प्राप्यं समृद्धान्न धनेश्वरादेः । निरम्मसोऽप्युच्चतमादिवाने कापि नियति धुनी पयोधेः ॥ १९ ॥ त्रैलोक्यसेवानियमाय दण्डं दधे यदिन्द्रो विनयेन तस्य । तत्प्रातिहार्य भवतः कुतस्त्यं तत्कर्मयोगाद्यदि वा तवास्तु ॥ २० ॥ श्रिया परं पश्यति साधु निःस्वः श्रीमान्न कश्चित्कृपणं त्वदन्यः । यथा प्रकाशस्थितमन्धकारस्थायीक्षतेऽसौ न तथा तमःस्थम् ॥ २१ ॥ स्ववृद्धिनिःश्वासनिमेपभाजि प्रत्यक्षमात्मानुभवेऽपि मूढः । कि चाखिलज्ञेयविवर्तिबोधस्वरूपमध्यक्षमवैति लोकः ॥ २२ ॥ तस्यात्मजस्तस्य पितेति देव त्वां येऽवगायन्ति कुलं प्रकाश्य । तेऽद्यापि नन्वाश्मनमित्यवश्यं पाणौ कृतं हेम पुनस्त्यजन्ति ॥ २३ ॥ दत्तस्त्रिलोक्यां पटहोऽभिभूताः सुरासुरास्तस्य महान्स लाभः । मोहस्य मोहस्त्वयि को विरोद्धुर्मूलस्य नाशो बलवद्विरोधः ॥ २४ ॥ मार्गस्त्वयैको ददृशे विमुक्तेश्चतुर्गतीनां गहनं परेण । सर्व मया दृष्टमिति मयेन त्वं मा कदाचिद्भुजमालुलोक ॥ २५ ॥ खर्भानुरर्कस्य हविर्भुजोऽम्भः कल्पान्तवातोऽम्बुनिधेविघातः । संसारभोगस्य वियोगभावो विपक्षपूर्वाभ्युदयास्त्वदन्ये ॥ २६ ॥ अजानतस्त्वां नमतः फलं यत्तज्जानतोऽन्यं न तु देवतेति । हरिन्मणि काचधिया दधानस्तं तस्य वुद्ध्या वहतो न रिक्तः ॥ २७ ॥ १. अवजानन्ति. २. पापाणोद्भवम्. ३. नरदेवतिर्यगादीनाम्. ४. काचम्. ५. हरि- मणेः.

२५ विषापहारस्तोत्रम् । प्रशस्तवाचश्चतुराः कषायैर्दग्धस्य देवव्यवहारमाहुः । गतस्य दीपस्य हि नन्दितत्वं दृष्टं कपालस्य च मङ्गलत्वम् ॥ २८ ॥ नानार्थमेकार्थमदस्त्वदुक्तं हितं वचस्ते निशमय्य वक्तुः । निर्दोषतां के न विभावयन्ति ज्वरेण मुक्तः सुगमः स्वरेण ॥ २९ ॥ न क्वापि वाञ्छा वैवृते च वाक्ते काले क्वचित्कोऽपि तथा नियोगः । न पूरयाम्यम्बुधिमित्युदंशुः स्वयं हि शीतद्युतिरभ्युदेति ॥ ३० ॥ गुणा गभीराः पैरमाः प्रसन्ना वहुप्रकारा वहवस्तवेति । दृष्टोऽयमन्तः स्तवने न तेषां गुणो गुणानां किमतः परोऽस्ति ॥ ३१ ॥ स्तुत्या परं नाभिमतं हि भक्त्या स्मृत्या प्रणत्या च ततो भजामि । स्मरामि देवं प्रणमामि नित्यं केनाप्युपायेन फलं हि साध्यम् ॥ ३२ ॥ ततस्त्रिलोकीनगराधिदेवं नित्यं परं ज्योतिरनन्तशक्तिम् । अपुण्यपापं परपुण्यहेतुं नमाम्यहं वन्द्यमवन्दितारम् ॥ ३३ ।। अशब्दमस्पर्शमरूपगन्धं त्वां नीरसं तद्विषयावबोधम् । सर्वस्य मातारममेयमन्यैर्जिनेन्द्रममार्यमनुस्मरामि ॥ ३४ ॥ अगाधमन्यैर्मनसाप्यलवचं निष्किचनं प्रार्थितमर्थवद्भिः । विश्वस्य पारं तमदृष्टपारं पति जनानां शरणं व्रजामि ॥ ३५॥ त्रैलोक्यदीक्षागुरवे नमस्ते यो वर्धमानोऽपि निजोन्नतोऽभूत् । प्राग्गण्डशैलः पुनरद्रिकल्पः पश्चान्न मेरुः कुलपर्वतोऽभूत् ॥ ३६ ॥ खयंप्रकाशस्य दिवा निशा वा न वाध्यता यस्य न वाधकत्वम् । न घालवं गौरवमेकरूपं वन्दे विभुं कालकलामतीतम् ॥ ३७ ॥ इति स्तुति देव विधाय दैन्याद्वरं न याचे त्वमुपेक्षकोऽसि । छायातलं संश्रयतः खतः स्यात्कश्छायया याचितयात्मलाभः ॥ ३८ ॥ . 5 . १. पूर्वापरविरोधरहितार्थम्. २. प्रवृत्ता. ३. उत्कृष्टा . ४. स्वयमेवोन्ननः, न तु ण वर्धमान'. वर्धमान इति च महावीरस्वामिनो नामान्तरम्. यथा मेरु. पूर्वे गण्ड- तुल्यस्तदनन्तर पर्वतकल्पस्तत. कुलपर्वतोऽभूदिति न क्रम . उत्पत्तिसमकालमेव पर्वतत्व मेरोः. एव जिनोऽपि जन्मनैवोनतो न तु नामानुरूपं क्रमेण वर्धमान इति पर्यम्, २६ काव्यमाला । अथास्ति दित्सा यदि वोपरोधस्त्वय्येव सक्तां दिश भक्तिबुद्धिम् । करिष्यते देव तथा कृपां मे को वात्मपोष्ये सुमुखो न सूरिः ॥ ३९॥ वितरति विहिता यथाकथंचिन्जिन विनताय मनीपितानि भक्तिः । त्वयि नुतिविपया पुनर्विशेषादिशति सुखानि यशो धनं जयं च ॥ ४०॥ इति श्रीधनजयकृतं विपापहारस्तोत्रम् ।। श्रीभूपालकविप्रणीता जिनचतुर्विशतिका। श्रीलीलायतनं महीकुलगृहं कीर्तिप्रमोदास्पदं वाग्देवीरतिकेतनं जयरमाक्रीडानिधानं महत् । स स्यात्सर्वमहोत्सवैकभवनं यः प्रार्थितार्थप्रदं प्रातः पश्यति कल्पपादपदलच्छायं जिनाघिद्वयम् ॥ १॥ शान्तं वपुः श्रवणहारि वचश्चरित्रं सर्वोपकारि तव देव ततः श्रुतज्ञाः । संसारमारवमहास्थलरुन्दसान्द्र- च्छायामहीरुह भवन्तमुपाश्रयन्ते ॥ २ ॥ खामिन्नद्य विनिर्गतोऽस्मि जननीगर्भान्धकूपोदरा- दद्योद्धाटितदृष्टिरमि फलवजन्मास्मि चाय स्फुटम् । त्वामद्राक्षमहं यदक्षयपदानन्दाय लोकत्रयी- नेत्रेन्दीवरकाननेन्दुममृतस्यन्दिप्रभाचन्द्रिकम् ॥ ३ ॥ निःशेषत्रिदशेन्द्रशेखरशिखारत्नप्रदीपावली सान्द्रीभूतमृगेन्द्रविष्टरतटीमाणिक्यदीपावलिः । क्वेयं श्रीः क्व च निःस्पृहत्वमिदमित्यूहातिगस्त्वादृशः सर्वज्ञानदृशश्चरित्रमहिमा लोकेश लोकोत्तरः ॥ ४ ॥ १. द्वित्राणि मूलपुस्तकान्येका च टीकास्य स्तोत्रस्यास्माभिः समासादिता. तन टीकायां तत्कर्तुर्नाम नास्ति. २. पण्डिताः. ३. रुन्दा विस्तीर्णा. ४. सिंहासनस्य. .

२७ . - जिनचतुर्विशतिका। राज्य शासनकारिनाकपति यत्त्यक्तं तृणावज्ञया हेलानिर्दलितत्रिलोकमहिमा यन्मोहमल्लो जितः । लोकालोकमपि (१) स्ववोधमुकुरस्यान्तः कृतं यत्त्वया सैषाश्चर्यपरम्परा जिनवर क्वान्यत्र संभाव्यते ॥ ५ ॥ दानं ज्ञानधनाय दत्तमसकृत्पात्राय सद्वृत्तये चीर्णान्युग्रतपांसि तेन सुचिरं पूजाश्च वह्वयः कृताः । शीलानां निचयः सहामलगुणैः सर्वः समासादितो दृष्टस्त्वं जिन येन दृष्टिसुभगः श्रद्धापरेण क्षणम् ॥ ६ ॥ प्रज्ञापारमितः स एव भगवान्पारं स एव श्रुत- स्कन्धाब्धेर्गुणरत्नभूषण इति श्लाव्यः स एव ध्रुवम् । नीयन्ते जिन येन कर्णहृदयालंकारतां त्वद्गुणाः संसाराहिविषापहारमणयस्त्रैलोक्यचूडामणे ॥ ७ ॥ जयति दिविजवृन्दान्दोलितैरिन्दुरोचि- निचयरुचिभिरुच्चैश्चामरैर्वीज्यमानः । जिनपतिरनुरज्यन्मुक्तिसाम्राज्यलक्ष्मी- युवतिनवकटाक्षक्षेपलीलां दधानः ॥ ८ ॥ देवः श्वेतातपत्रत्रयचमरिरुहाशोकभाश्चक्रभाषा- पुष्पौघासारसिंहासनसुरपटहैरष्टमिः प्रातिहार्यैः । (1) साश्चर्यैर्भ्राजमानः सुरमनुजसभाम्भोजिनीभानुमाली पायान्नः पादपीठीकृतसकलजगत्पालमौलिजिनेन्द्रः ॥९॥ नृत्यत्स्वर्दन्तिदन्ताम्बुरुहवननटन्नाकनारीनिकायः सद्यस्त्रैलोक्ययात्रोत्सवकरनिनदातोद्यमाद्यन्निलिम्पः । हस्ताम्भोजातलीलाविनिहितसुमनोद्दामरम्यामरस्त्री- काम्यः कल्याणपूजाविधिषु विजयते देव देवागमस्ते ॥१०॥ १. आज्ञाविधेयः शको यस्मिन् २ चमरिरहं चामरम्, भाश्चकं भामण्डलम्, भाषा दिव्यध्वनि . 'अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यध्वनिश्चामरमासनं च । भामण्डलं दुन्दुभिरातपत्र सत्प्रातिहार्याणि जिनेश्वराणाम् ॥ इति शान्तिपाठे पद्यम्.

२८ काव्यमाला । चक्षुष्मानहमेव देव भुवने नेत्रामृतस्यन्दिनं त्वद्वन्दुमतिप्रसादसुभगैस्तेजोभिरुद्भासितम् । येनालोकयता मयानतिचिराचक्षुः कृतार्थीकृतं द्रष्टव्यावधिवीक्षणव्यतिकरव्याजृम्भमाणोत्सवम् ॥ ११ ॥ कन्तोः सकान्तमपि मल्लमवैति कश्चि- न्मुग्धो मुकुन्दमरविन्दजमिन्दुमौलिम् । मोघीकृतत्रिदशयोपिदपाङ्गपात- स्तस्य त्वमेव विजयी जिनराजमल्लः ॥ १२ ॥ किसलयितमनल्पं त्वद्विलोकाभिलापा- त्कुसुमितमतिसान्द्रं त्वत्समीपप्रयाणात् । मम फलितममन्दं त्वन्मुखेन्दोरिदानी नयनपथमवाप्तादेव पुण्यद्रुमेण ॥ १३ ॥ त्रिभुवनवनपुष्प्यत्पुष्पकोदण्डदर्प- प्रसरदवनवाम्भोमुक्तिसूक्तिप्रसूतिः । स जयति जिनराजबातजीमूतसद्धः शतमखशिखिनृत्यारम्भनिर्बन्धवन्धुः ॥ १४ ॥ भूपालस्वर्गपालप्रमुखनरसुरश्रेणिनेत्रालिमालार लीलाचैत्यस्य चैत्यालयमखिलजगत्कौमुदीन्दीर्जिनस्य । उत्तंसीभूतसेवाञ्जलिपुटनलिनीकुङ्मलास्त्रिः परीत्य श्रीपादच्छाययापैस्थितभवदवथुः संश्रितोऽस्मीव मुक्तिम् ॥१५॥ देव त्वदभिनखमण्डलदर्पणेऽस्मि- नये निसर्गरुचिरे चिरदृष्टवक्रः । श्रीकीर्तिकान्तिधृतिसंगमकारणानि भव्यो न कानि लभते शुभमङ्गलानि ॥ १६ ॥ १. कामस्य. २. माद्यन्. ३. जिनानां गणधरदेवानां राजानस्तेषा प्रातः समूह एव मेघसंघ इति टीका. ४. वृक्षविशेषस्य. ५. अपस्थितो दूरीभूतः, जिनचतुर्विशतिका । २९ जयति सुरनरेन्द्रश्रीसुधानिरिण्याः कुलधरणिधरोऽयं जैनचैत्याभिरामः । प्रविपुलफलधर्मानोकहानप्रवाल- प्रसरशिखरशुम्भत्केतनः श्रीनिकेतः ॥ १७ ॥ विनमदमरकान्ताकुन्तलाक्रान्तकान्ति- स्फुरितनखमयूखद्योतिताशान्तरालः । दिविजमनुजराजबातपूज्यक्रमानो जयति विजितकारातिजालो जिनेन्द्रः ॥ १८ ॥ सुप्तोत्थितेन सुमुखेन सुमङ्गलाय द्रष्टव्यमस्ति यदि मङ्गलमेव वस्तु । अन्येन किं तदिह नाथ तवैव वक्र त्रैलोक्यमङ्गलनिकेतनमीक्षणीयम् ॥ १९ ॥ त्वं धर्मोदयतापसाश्रमशुकस्त्वं काव्यबन्धक्रम- क्रीडानन्दनकोकिलस्त्वमुचितः श्रीमल्लिकापट्पदः । त्वं पुन्नागकथारविन्दसरसीहंसस्त्वमुत्तंसकैः कैर्भूपाल न धार्यसे गुणमणिस्रङ्मालिभिर्मोलिभिः ॥ २० ॥ शिवसुखमजरश्रीसंगमं चामिलण्य खमभि नियमयन्ति क्लेशपाशेन केचित् । वयमिह तु वचस्ते भूपतेर्भावयन्त- स्तदुभयमपि शश्वल्लीलया निर्विशामः ॥ २१ ॥ देवेन्द्रास्तव मजनानि विदधुर्दैवाङ्गना मङ्गला- न्यापेटुः शरदिन्दुनिर्मलयशो गन्धर्वदेवा जगुः । शेषाश्चापि यथानियोगमखिलाः सेवां सुराश्चक्रिरे तत्कि देव वयं विदध्म इति नश्चित्तं तु दोलायते ॥२२॥ देव त्वज्जननाभिषेकसमये रोमाञ्चसत्कञ्चुकै- देवेन्द्रर्यदनर्ति नर्तनविधौ लब्धप्रभावैः स्फुटम् । १. हे जगत्पालक.

काव्यमाला। किंचान्यत्सुरसुन्दरीकुचतटप्रान्तावनद्धोत्तम- प्रेकदल्लकिनादझंकृतमहो तत्केन संवर्ण्यते ॥ २३ ॥ देव त्वत्प्रतिबिम्बमम्वुजदलमेरेक्षणं पश्यता यत्रासाकमहो महोत्सवरसो दृष्टेरियान्वर्तते । साक्षात्तत्र भवन्तमीक्षितवतां कल्याणकाले तदा देवानामनिमेपलोचनतया वृत्तः स किं वर्ण्यते ॥ २४ ॥ दृष्टं धाम रसायनस्य महतां दृष्टं निधीनां पदं दृष्टं सिद्धरसस्य सम सदनं दृष्टं च चिन्तामणेः । किं दृष्टैरथवानुषङ्गिकफलैरेभिर्मयाय ध्रुवं दृष्टं मुक्तिविवाहमङ्गालगृहं दृष्टे जिनश्रीगृहे ॥ २५ ॥ दृष्टस्त्वं जिनराजचन्द्र विकसद्भूपेन्द्रनेत्रोत्पले नातं त्वन्नुविचन्द्रिकाम्भसि भवद्विवच्चकोरोत्सवे । नीतश्वाय निदाघनः क्लमभरः शान्ति मया गम्यते देव त्वद्गतचेतसैव भवतो भूयात्पुनदर्शनम् ॥ २६ ।। इति श्रीभूपालकविप्रणीता जिनचतुविशतिका ।। समाप्तेयं जिनपश्वस्तवी॥ श्रीदेवनन्दिप्रणीतं सिद्धिप्रियस्तोत्रम् । सिद्धिप्रियैः प्रतिदिन प्रतिभासमान- जन्मप्रबन्धमथनैः प्रतिभासमानः । श्रीनाभिराजतनुभूपदवीक्षणेन प्रापे जनैविर्तनुभूपदवी क्षणेन ॥ १ ॥ येन सरास्त्रनिकरैरपराजितेन सिद्धिर्वधूर्भुवमबोधि पॅरानितेन । १. जन्माभियेके. २. स्तोत्रस्यास्य त्रिचतुराणि मूलपुस्तकान्येवोपलब्धानि टीका तुन प्राप्ता. एकस्मिन्मूलपुस्तके टिप्पण वर्तते तदेवानोद्भतम्. ३. देदीप्यमानैः. ४. प्रतिभया- नुपमैः. ५. नाभिराजतनुभूवृषभनाथस्वामी तवरणविलोकनेन. ६. वितनवो मुक्तास्तेषां भूर्मोक्षभूमिस्तस्याः पदवी मार्गो रलवयात्मकः.५.पराउत्कृष्टा ,अजितेन एतनाम्नाजिनेन.

सिद्धिप्रियस्तोत्रम् । संवृद्धधर्मसुधिया कविराजमानः (0 क्षिप्रं करोतु यशसा स विराजमानः ।। २ ।। - श्रुत्वा वचांसि तव संभवकोमलानि नो तृप्यति प्रवरसंभव कोऽमलानि । देवप्रमुक्तसुमनोभवनाशनानि स्वार्थस्य संमृतिमनोभवनाशनानि ॥ ३ ॥ यस्मिन्विभाति कलहंसरवैरशोक- श्छिन्द्यात्स मिन्नभवमत्सरवैरशोकः । देवोऽभिनन्दनजिनो गुरु मेऽघजालं शम्पेव पर्वततटं गुरुमेघजालम् ॥ ४ ॥ येन स्तुतोऽसि गतकुन्तल तापहार चक्रासिचापशरकुन्तलतापहार । भव्य प्रभो सुमतिनाथ वैरानतेन कामाश्रिता सुमतिनाथ वरा न तेन ॥ ५ ॥ मोहप्रमादमदकोपरतापनाशः (१) पञ्चेन्द्रियाश्वदमकोऽपरतापनाशः । पद्मप्रभुर्दिशतु मे कमलां वराणां मुक्तात्मनां विगतशोकमलाम्बराणाम् ॥ ६ ॥ ये त्वां नमन्ति विनयेन महीनभोगाः श्रीमत्सुपार्श्व विनयेनमहीनभोगाः । ते भक्तभव्यसुरलोक विमानमाया ईशा भवन्ति सुरलोकविमानमायाः ॥ ७ ॥ आकर्ण्य तावकवचोऽवनिनायकोऽपि शान्ति मनः समधियावनिनाय कोपि । १. संभवेति जिननाम. २. हे देव प्रमुक्तसुमनोभवन, अश(स)नानि प्रेरकाणि स्वा. र्थस्य. ३. हे वर, आनतेन. ४. लक्ष्मीः. ५. विनयस्येन प्रभुम् अहीनभोगा:. ६. दे- वलोकव्योमयानश्रियः. ७. कोपयुक्तं मनः शान्तिमवनिनाय.

३२ काव्यमाला। चन्द्रप्रभ प्रभनति स रैमा विना शं दोर्दण्डमण्डितरतिस्मरमाविनाशम् ॥ ८ ॥ श्रीपुष्पदन्त जिनजन्मनि काममाशा यामि प्रिये वितनुतां च निकाममाशाः । इत्थं रतिं निगदतातनुना सुराणां स्थानं व्यधायि हृदये तेनुना सुराणाम् ॥९॥ श्रीशीतलाधिप तवाधिसभं जनानां भव्यात्मनां प्रसृतसंसृतिभञ्जनानाम् । प्रीतिं करोति विततां सुरसारमुक्ति- मुक्तात्मनां जिन यथा सुरसार मुक्तिः ॥ १० ॥ पादद्वये मुदितमानसमानतानां श्रेयन्मुने विगतमान समानतानाम् । शोभां करोति तव कांचन भा सुराणां देवाधिदेव मणिकाञ्चनभासुराणाम् ॥ ११ ॥ घोरान्धकारनरकक्षतवारणानि श्रीवासुपूज्यजिन दक्ष तवारणानि । मुक्त्यै भवन्ति भवसागरतारणानि वाक्यानि चित्तभवसागरतारणानि ॥ १२ ॥ भव्यप्रजाकुमुदिनीविधुरञ्जनानां हन्ता विभासि दलयन्विधुरं जनानाम् । इत्थं खरूपमखिलं तव ये विदन्ति राज्यं भजन्ति विमलेश्वर तेऽविदन्ति ॥ १३ ॥ १. द्वितीयायहुवचनम्. २. सुखम्. ३. दोर्दण्डमण्डितरतेः स्मरस्य माया लक्ष्म्याश्च विनाशो यस्मिन्सुखे. मोक्षसुखमिति भावः. ४. सूक्ष्मेण, ५. सुशब्दां रतिम्. ६. सु- रसा-अरं-उक्ति'.७. हे सुरश्रेष्ठ. ८. मानत्वेन सहवर्तमानानाम्. ९. भरणानि युद्धनि- पेधकानि. १०. चित्तभवमायाः कामलक्ष्म्या गरता विषत्वं तां रणन्ति कथयन्ति तानि. ११. कल्मषाणाम्. १२. विगता दन्तिनो यस्मात्तद्विदन्ति, न विदन्ति अविदन्ति. ह- स्तियुक्तं राज्यमित्यर्थः. १२ सिद्धिप्रियस्तोत्रम् । स्वर्गापवर्गसुखपात्र जिनातिमात्रं यस्त्वां स्मरन्भुवनमित्र जिनाति मात्रम् । श्रीमन्ननन्त वर निर्वृतिकान्त कान्तां भव्यः स याति पदवी बृतिकान्तकान्ताम् ॥ १ ॥ जन्माभिषेकमकरोत्सुरराजनामा यस्याश्रितो गुणगणैः सुरराज नामा । धर्मः करोत्वनलसं प्रति बोधनानि सिध्यै मनः सपदि संप्रति वो धनानि ॥ १५ ॥ नास्तानि यानि महसा विधुनामितानि चेतस्तमांसि तपसा विधुनामि तानि । इत्याचरन्वरतपो गतकामिनीति शान्तिः पदं दिशतु मेऽगतकामिनीति ॥ १६ ॥ कुन्थुः क्षितौ क्षितिपतिर्गतमानसेनः पूर्व पुनर्मुनिरभूद्धतमानसेनः । योऽसौ करोतु मम जन्तुदयानिधीनां संवर्धनानि विविधद्धर्युदयानि धीनाम् ॥ १७ ।। या ते शृणोति नितरामुदितानि दानं यच्छत्यभीप्सति न वा मुदिता निदानम् । सा नो करोति जनता जनकोपितापि चित्तं निनार गुणभाजन कोपि" तापि ॥ १८ ॥ मल्लेर्वचास्यनिकृतीनि सभावनानि धर्मोपदेशनकृतीनि सभावनानि । १. जीर्यते वृद्धो भवति. २. मां मोक्षलक्ष्मी त्रायते मात्रस्तम्. ३. मुक्तिप्रभो. ४.हे व्रतिक व्रतदानदक्ष, अन्तकान्ता यमस्य विनाशका पदवीम्. ५. ना पुरषो गुगगणे. अमा सह सुष्टु रराज. ६. गता कामिना नीतिर्यस्मात्तपम . ७. अगता न प्राप्ता का. मिन्य ईतयश्च यत्र तादृश पदम्. ८. अप्रमाणा सेना यस्य. ९ आगामिवाञ्छान. १०. हे जिन, हे अर. ११. कोपयुक्त तापयुक्त च चित्तं नो करोति. १२. भारनया सहितानि. १३. सभाया अवनानि.

३४ काव्यमाला। कुर्वन्तु भव्यनिवहस्य नभोगतानां मङ्गु श्रियं कृतमुदं जनभोगतानाम् ॥ १९ ॥ संस्तूयसे शुभवता मुनिना येकेन नीतो जिनाशु भवता मुनिनायकेन । नाथेन नाथ मुनिसुव्रत मुक्तमानां मुक्ति चरन्स मुनिसुव्रतमुक्तमानाम् ॥ २० ॥ चित्तेन मेरुगिरिधीर दयालुनासि सर्वोपकारकृतधीरदया लुनासि । इत्थं स्तुतो नमिमुनिर्मम तापसानां लक्ष्मी करोतु मम निर्ममतापसानाम् ।। २१ ॥ येनोद्धेशृङ्गगिरनारगिराविनापि नेमिः स्तुतोऽपि पशुनापि गिरा विनापि । कंदर्पदपैदलनः क्षतमोहतान- स्तस्य श्रियो दिशतु दक्षतमोऽहता नः ॥ २२ ॥ गन्धर्वयक्षनरकिनर दृश्यमानः प्रीतिं करिष्यति न किं नरदृश्यमानः । भानुप्रभाप्रविकसत्कमलोपमायां पार्श्वः प्रसूतजनताकमलोऽपमायाम् ॥ २३ ॥ श्रीवर्धमानवचसा परंमाकरण रत्नत्रयोत्तमनिधेः परमाकरण कुर्वन्ति यानि मुनयोऽजनता हि तानि वृत्तानि सन्तु सततं जनताहितानि ॥ २४ ॥ १. देवानां जनभोगस्य तानो विस्तारो यस्यां ता श्रियं भव्यनिवहस्य कुर्वन्तु, २. यकेन येन. ३. कथितप्रमाणाम्. ४. निःशेपेण मतामपस्यन्तीति निर्ममताप. सास्तेषाम्. ५. उद्धशब्दः प्रशसावचनः. प्रशस्तशिखरे गिरिनारिपर्वते. ६. इना कामे- नापि. ७. मनुष्यमात्रदृष्टौ. ८. प्रसूता प्रकटीकृता जनतार्थ कमला लक्ष्मीर्यन. ९.श्री- महावीरस्वामिवाक्येन. १०. परमेणाकरण खनिरुपेण. ११. परलक्ष्मीकरण. १२. ज. नतातो बहिर्भूताः. अलौकिका इत्यर्थः.

मूक्तिमुक्तावली । वृत्तात्समुल्लसितचित्तवचःप्रसूतेः श्रीदेवनन्दिमुनिचित्तवचः प्रसूतेः । यः पाठकोऽल्पतरजल्पकृतस्त्रिसंध्यं लोकत्रयं समनुरञ्जयति त्रिसंध्यम् (१) ॥ २५ ॥ तुष्टिं देशनया जनस्य मनसो येन स्थितं दित्सता सर्व वस्तु विजानता शमवता येन क्षता कृच्छूता । भव्यानन्दकरेण येन महतां तत्त्वप्रणीतिः कृता तापं हन्तु जिनः स मे शुभधियां तातः सतामीशिता ॥ २६ ॥ इति श्रीदेवनन्दिप्रणीत सिद्धिप्रियस्तोत्रम् । श्रीसोमप्रभाचार्यविरचिता (सिन्दूरप्रकरापरपर्याया) सूक्तिमुक्तावली। सिन्दूरप्रकरस्तपः करिशिरःकोडे कपायाटवी- दावाचिनिचयः प्रबोधदिवसप्रारम्भसूर्योदयः । मुक्तिस्त्रीकुचकुम्भकुड्डुमरसः श्रेयस्तरोः पल्लव- प्रोल्लासः ऊमयो खद्युतिभरः पार्श्वप्रभोः पातु वः ॥ १ ॥ सन्तः सन्तु मम प्रसन्नमनसो वाचां विचारोद्यताः सूतेऽम्भः कमलानि तत्परिमलं वाता वितन्वन्ति यत् । कि वाभ्यर्थनयानया यदि गुणोऽस्त्यासां ततस्ते स्वयं कर्तारः प्रथनं न चेदथ यशःप्रत्यार्थिना तेन किम् ॥ २ ॥ १. चक्रबन्धपद्यमेतत् तत्र तृतीयवलये 'देवनन्दिकृति.' इत्यद्रियते. २ अत्या. सूक्तिमुक्तावल्या मुद्रणावसरे पुस्तकत्रयमस्माभिरासादितम्. तत्र प्रथम जययुरीयविद्या- विभागाध्यक्ष 'मास्टर् ऑव् आर्ट्स्' इत्युपाधिमण्डिनश्रीयुक्तहरिदासशालिणा प्रयोदा. पत्रात्मक शुद्धं नातिनवीन च क-सज्ञकम्. द्वितीयं संवेगिसाधसत्तमगमदमादिभूषित- निष्परिग्रहश्रीशान्तिविजयाभिधाना जैनमुनीना पत्रयात्मकं प्राचीनं गुद्ध च ख-सह- कम्. तृतीयमपि पूर्वोक्तमुनीनामेव द्वादशपत्रात्मक प्राचीन नातिशुद्ध गुर्जग्भाषासकी- र्णया कर्टनामरहितया संक्षिप्तटीकया समेतं ग-संज्ञकम्. ३. पान्यो.. ४. प्रथनेन. - ३६ काव्यमाला। - अथ धर्मप्रक्रमः । त्रिवर्गसंसाधनमन्तरेण पशोरिवायुविफलं नरस्य । तत्रापि धर्म प्रवरं वदन्ति न तं विना यद्भवतोऽर्थकामौ ॥ ३ ॥ यः प्राप्य दुष्प्रापमिदं नरत्वं धर्म न यत्नेन करोति मूढः । क्लेशप्रबन्धेन स लब्धमधौ चिन्तामणि पातयति प्रमादात् ॥ ४ ॥ स्वर्णस्थाले लिपति स रजः पादशौचं विधत्ते पीयूपेण प्रवरकरिणं वाहयत्येधभारम् । चिन्तारत्नं विकिरति कराद्वायसोड्डायनार्थ यो दुष्प्रापं गमयति मुधा मर्त्यजन्म प्रमत्तः ॥ ५ ॥ ते धत्तूरतरुं वपन्ति भवने प्रोन्मूल्य कल्पद्रुमं चिन्तारत्नमपास्य काचशकलं स्वीकुर्वते ते जडाः । विक्रीय द्विरदं गिरीन्द्रकरणि क्रीणन्ति ते रासभं ये लब्धं परिहृत्य धर्ममधमा धावन्ति भोगाशया ॥ ६ ॥ अपारे संसारे कथमपि समासाद्य नृभवं न धर्म यः कुर्याद्विपयसुखतृष्णातरलितः । ब्रुडन्पारावारे प्रवरमपहाय प्रवहणं स मुख्यो मूर्खाणामुपलमुपलब्धुं प्रयतते ॥ ७ ॥ भक्ति तीर्थकरे गुरौ जिनमते "संघे च हिंसानृत- स्तेयाब्रह्मपरिग्रहव्युपरमं क्रोधायरीणां जयम् । सौजन्यं गुणिसङ्गमिन्द्रियदमं दानं तपोभावनां वैराग्यं च कुरुष्व निर्वृतिपदे यद्यस्ति गन्तुं मनः ॥ ८ ॥ अथ पूजाप्रक्रमः। पापं लुम्पति दुर्गति दलयति व्यापादयत्यापदं पुण्यं संचिनुते श्रियं वितनुते पुष्णाति नीरोगताम् । १. काष्ठभारम्. २. पर्वततुल्यम्. 'गिरीन्द्रसदृशं' इति क-पाठः, ४. साधुसमूहे. ५. 'पूजाद्वारम्' ग. क-पुस्तके तु प्रक्रमविभागो नास्ति. ३. मजन्, -- - सूक्तिमुक्तावली । सौभाग्यं विदधाति पल्लवयति प्रीति प्रसूते यशः स्वर्ग यच्छति निर्वृतिं च रचयत्यर्चाहतां निर्मिता ॥ ९ ॥ स्वर्गस्तस्य गृहाङ्गणं सहचरी साम्राज्यलक्ष्मीः शुभा सौभाग्यादिगुणावलिविलसति खैरं वपुर्वेश्मनि । संसारः सुतरः शिवं करतलकोडे लुठत्यञ्जसा यः श्रद्धाभरभाजनं जिनपतेः पूजां विधत्ते जनः ॥ १० ॥ कदाचिन्नातकः कुपित इव पश्यत्यभिमुखं विदूरे दारिद्यं चकितमिव नश्यत्यनुदिनम् । विरक्ता कान्तेव त्यजति कुगतिः सङ्गमुदयो न मुञ्चत्यभ्यर्ण सुहृदिव जिनाची रचयतः ।। ११ ।। यः पुष्पैर्जिनमर्चति स्मितसुरस्त्रीलोचनैः सोऽर्च्यते यस्तं वन्दत एकशस्त्रिजगता सोऽहनिशं वन्द्यते । यस्तं स्तौति परत्र वृत्रदमनस्तोमेन स स्तूयते यस्तं ध्यायति क्लुप्तकर्मनिधनः स ध्यायते योगिभिः ॥ १२॥ अथ गुरुप्रक्रमः । अवद्यमुक्त पथि यः प्रवर्तते प्रवर्तयत्यन्यजनं च निस्पृहः । से सेवितव्यः स्वहितैषिणा गुरुः स्वयं तरंस्तारयितुं क्षमः परम् ॥ १३ ॥ विदलयति कुवोधं बोधयत्यागमार्थ सुगतिकुगतिमार्गों पुण्यपापे व्यनक्ति । अवगमयति कृत्याकृत्यभेदं गुरुयों भवजलनिधिपोतस्तं विना नास्ति कश्चित् ॥ १४ ॥ पिता माता भ्राता प्रियसहचरी सूनुनिवह सुहृत्वामी माद्यत्करिभटरथाश्वः परिकर । निमज्जन्तं जन्तुं नरककुहरे रक्षितुमलं गुरोर्धर्माधर्मप्रकटनपरात्कोऽपि न परः ॥ १५ ॥ १. रोगः. २. इन्द्रसमूहेन. ३. 'गुरुद्वारम्' ग. ४. निर्देषि, ५. 'म एव मेय.' क. - काव्यमाला । किं ध्यानेन भवत्वशेषविपयत्यागैस्तपोभिः कृतं पूर्ण भावनयालमिन्द्रियजयैः पर्याप्तमाप्तागमैः । किं त्वेकं भवनाशनं कुरु गुरुप्रीत्या गुरोः शासनं सर्वे येन विना विनाथबलवत्स्वार्थाय नालं गुणाः ॥ १६ ॥ अथ जिनमतप्रक्रमः। न देवं नादेवं न शुभगुरुमेनं न कुगुरुं न धर्म नाधर्म न गुणपरिणद्धं न विगुणम् । न कृत्यं नाकृत्यं न हितमहितं नापि निपुणं विलोकन्ते लोका जिनवचनचक्षुविरहिताः ॥ १७ ॥ मानुष्यं विफलं वदन्ति हृदयं व्यथै वृथा श्रोत्रयो- निर्माणं गुणदोपभेदनकलां तेपामसंभाविनीम् । दुर्वारं नरकान्धकूपपतनं मुक्ति बुधा दुर्लभां सार्वज्ञः समयो दयारसमयो येपां न कर्णातिथिः ॥ १८ ॥ पीयूपं विषवज्जलं ज्वलनवत्तेजस्तमःस्तोमव- न्मित्रं शात्रववत्स्रजं भुजगवच्चिन्तामणि लोष्टवत् । ज्योत्स्नां ग्रीष्मजधर्मवत्स मनुते कारुण्यपण्यापणं जैनेन्द्रं मतमन्यदर्शनसमं यो दुर्मतिर्मन्यते ॥ १९ ॥ धर्म जागरयत्यघं विघटयत्युत्थापयत्युत्पथं भिन्ते मत्सरमुच्छिनत्ति कुनयं मनाति मिथ्यामतिम् । वैराग्यं वितनोति पुष्यति कृपां मुप्णाति तृष्णां च य- तज्जैन मतमर्चति प्रथयति ध्यायत्यधीते कृती ॥ २० ॥ अथ संघप्रक्रम। रत्नानामिव रोहणक्षितिधरः खं तारकाणामिव स्वर्गः कल्पमहीरुहामिव सरः पङ्केरुहाणामिव । १. 'दमैः क. २. स्वामिरहितसन्यवत्. ३. 'जिनमतद्वारम्' ग. ४. 'सघद्वारम्' ग. ५. 'रोहण:' क.

सूक्तिमुक्तावली। २९ पाथोधिः पयसामिवेन्दुमहसां स्थानं गुणानामसा- वित्यालोच्य विरच्यतां भगवतः संघस्य पूजाविधिः ॥ २१ ॥ यः संसारनिरासलालसमतिर्मुक्त्यर्थमुत्तिष्ठते यं तीर्थ कथयन्ति पावनतया येनास्ति नान्यः समः । यस्मै तीर्थपतिनमस्यति सतां यसाच्छुभं जायते स्फूर्तिर्यस्य परा वसन्ति च गुणा यस्सिन्स संघोऽर्च्यताम् २२ लक्ष्मीस्तं स्वयमभ्युपैति रभसात्कीर्तिस्तमालिङ्गति प्रीतिस्तं भजते मतिः प्रयतते तं लव्धुमुत्कण्ठया । खःश्रीस्तं परिरब्धुमिच्छति मुहुर्मुक्तिस्तमालोकते यः संघ गुणसंघकेलिसदनं श्रेयोरुचिः सेवते ॥ २३ ॥ यद्भक्तेः फलमर्हदादिपदवीमुख्यं कृषः सस्यव- चक्रित्वत्रिदशेन्द्रतादि तृणवत्प्रासङ्गिकं गीयते । शक्तिं यन्महिमस्तुतौ न दधते वाचोऽपि वाचस्पतेः संघः सोऽघहरः पुनातु चरणन्यासैः सतां मन्दिरम् ।। २४ ॥ अथाहिंसाप्रक्रमः। क्रीडाभूः सुकृतस्य दुष्कृतरज-संहारवात्या भवो- दन्वन्नौर्व्यसनाग्निमेघपटली सकेतदूती श्रियाम् । निश्रेणित्रिदिवौकसः प्रियसखी मुक्तेः कुगत्यर्गला सत्त्वेषु क्रियतां कृपैव भवतु क्लेशैरशेषैः परैः ॥ २५ ॥ यदि ग्रावा तोये तरति तरणिर्यादयते प्रतीच्यां सप्ताचियदि भजति शैत्यं कथमपि । यदि मापीठं स्यादुपरि सकलस्यापि जगतः प्रसूते सत्त्वानां तदपि न वधः क्वापि सुकृतम् ॥ २६ ॥ स कमलवनमग्नेर्वासरं भाखदस्ता- दमृतमुरगवनात्साधुवादं विवादात् । १. 'सुखं' ख. २. 'नि.श्रेणी त्रिदिवौकमां' क.

४० काव्यमाला । रुगपगममजीर्णाज्जीवितं कालकूटा- दभिलषति वधायः प्राणिनां धर्ममिच्छेत् ॥ २७ ॥ आयुर्दीर्घतरं वपुर्वरतरं गोत्रं गरीयस्तरं वित्तं भूरितरं बलं बहुतरं स्वामित्वमुच्चैस्तरम् । आरोग्यं विगतान्तरं त्रिजगति श्लाष्यत्वमल्पेतरं संसाराम्बुनिधिं करोति सुतरं चेतः कृपार्टान्तरम् ॥ २८ ॥ अथासत्यप्रक्रमः। विश्वासायतनं विपत्तिदलनं देवैः कृताराधनं मुक्तेः पथ्यदनं जलाग्निशमनं व्याघ्रोरगस्तम्भनम् । श्रेयःसंवननं समृद्धिजननं सौजन्यसंजीवनं कीर्तेः केलिवन प्रभावभवनं सत्यं वचः पावनम् ॥ २९ ॥ यशो यस्माद्भस्मीभवति वनवहेरिव वनं निदानां दुःखानां यदवनिरुहाणां जलमिव । न यत्र स्याच्छायातप इव तपःसंयमकथा कथंचित्तन्मिथ्यावचनमभिधत्ते न मतिमान् ॥ ३० ॥ असत्यमप्रत्ययमूलकारणं कुवासनासद्म समृद्धिवारणम् । विपन्निदानं परवञ्चनोजितं कृतापराधं कृतिभिर्विवर्जितम् ॥ ३१ ॥ तस्याग्निर्जलमर्णवः स्थलमरिमित्रं सुराः किंकराः कान्तारं नगरं गिरिरॅहमहिर्माल्यं मृगारिमंगः । पातालं विलमस्त्रमुत्पलदलं व्यालः सृगालो विपं पीयूषं विपमं समं च वचनं सत्याञ्चितं वक्ति यः ॥ ३२ ॥ अथ स्तेयप्रक्रमः। तमभिलपति सिद्धिस्तं वृणीते समृद्धि- स्तमभिसरति कीर्तिर्मुञ्चते तं भवार्तिः । स्पृहयति सुगतिस्तं नेक्षते दुर्गतिस्तं परिहरति विपत्तं यो न गृह्णात्यदत्तम् ॥ ३३ ॥ १. मार्गोपयुक्त भोजनमू. शम्बलमिति यावत. २. आतपे छायेव. ३. दुष्टगजः.

सूक्तिमुक्तावली। ४१ अदत्तं नादत्ते कृतसुकृतकामः किमपि यः शुभश्रेणिस्तस्मिन्वसति कलहंसीव कमले । विपत्तस्मादूरं व्रजति रजनीवाम्बरमणे- विनीतं विद्येव त्रिदिवशिवलक्ष्मीर्भजति तम् ॥ ३४ ॥ यन्निर्वतितकीर्तिधर्मनिधनं सर्वागसां साधनं प्रोन्मीलद्वधवन्धनं विरचितलिष्टाशयोद्बोधनम् । दौर्गत्यैकनिवन्धनं कृतसुगत्याश्लेपसंरोधनं प्रोत्सर्पत्प्रधनं जिघृक्षति न तद्धीमानदत्तं धनम् ॥ ३५ ॥ परजनमनःपीडाक्रीडावनं वधभावना- भवनमवनिव्यापिव्यापल्लताघनमण्डलम् । कुगतिगमने मार्गः खर्गापवर्गपुरार्गलं नियतमनुपादेयं स्तेयं नृणां हितकाङ्क्षिणाम् ॥ ३६ ॥ अथ शीलप्रक्रम। दत्तस्तेन जगत्यकीर्तिपटहो गोत्रे मपीकूर्चक- श्चारित्रस्य जलाञ्जलिर्गुणगणारामस्य दावानलः । संकेतः सकलापदां शिवपुरद्वारे कपाटो दृढः शीलं येन निजं विलुप्तमखिलं त्रैलोक्यचिन्तामणिः ॥ ३७ ॥ व्याघ्रव्यालजलानलादिविपदस्तेषां व्रजन्ति क्षयं कल्याणानि समुल्लसन्ति विवुधाः सांनिध्यमध्यासते । कीर्तिः स्फूर्तिमियैर्ति यात्युपचयं धर्मः प्रणश्यत्ययं स्वनिर्वाणसुखानि संनिदधते ये शीलमाविभ्रते ।। ३८ ।। हरति कुलकलङ्क लुम्पते पापपर्चा सुकृतमुपचिनोति श्लाव्यतामातनोति । नमयति सुरवर्ग हन्ति दुर्गोपसर्ग रचयति शुचि शीलं स्वर्गमोक्षौ सलीलम ॥ ३९ ॥ १. 'क्लिष्टाशयोद्दीपनम्' ख. २. 'कामार्तस्त्यजति प्रभोदयमिदाशनों परनी न यः' इति क-पुस्तके चतुर्थः पादः. ३. गच्छति. ६ ४२ काव्यमाला। तोयत्यग्निरपि सजत्यहिरपि व्याघ्रोऽपि सारङ्गति व्यालोऽप्यश्वति पर्वतोऽप्युपलति क्ष्वेडोऽपि पीयूपति । विघ्नोऽप्युत्सवति प्रियत्यरिरपि क्रीडातडागत्यपां- नाथोऽपि वगृहत्यटव्यपि नृणां शीलप्रभावाद्भुवम् ॥ ४० ॥ अय परिग्रहप्रक्रम.। कालुप्यं जनयजेडस्य रचयन्धर्मद्रुमोन्मूलनं क्किभन्नीतिकृपाक्षमाकमलिनी लोभाम्बुधि वर्भयन् । मर्यादातटमुद्रुजञ्छुभमनोहंसप्रवासं दिश- कि न क्लेशकरः परिग्रहनदीपूरः प्रवृद्धि, गतः ॥ ४१ ॥ कलहकलभविन्ध्यः कोपगृध्रश्मशानं व्यसनभुजगरन्ध्र द्वेपदस्युप्रदोपः । सुकृतवनदवाग्निर्दिवाम्भोदवायु- नयनलिनतुपारोऽत्यर्थमर्थानुरागः ॥ ४२ ॥ प्रत्यर्थी प्रशमस्य मित्रमधृतेर्मोहस्य विश्रामभूः पापानां खनिरापदां पदमसध्यानस्य लीलावनम् । व्याक्षेपस्य निधिर्मदस्य सचिवः शोकस्य हेतुः कलेः केलीवेश्म परिग्रहः परिहृतेर्योग्यो विविक्तात्मनाम् ॥ ४३ ॥ वदिस्तृप्यति नेन्धनैरिह यथा नाम्भोभिरम्भोनिधि- स्तवल्लो धनो घनैरपि धनैर्जन्तुर्न संतुष्यति । न त्वेवं मनुते विमुच्य विभवं निःशेपमन्यं भवं यात्यात्मा तदहं मुधैव विदधाम्येनांसि भूयांसि किम् ॥४४॥ अथ क्रोधप्रक्रमः । यो मित्रं मधुनो विकारकरणे संत्राससंपादने सर्पस्य प्रतिविम्वमङ्गदहने सप्ताचिपः सोदरः । चैतन्यस्य निषूदने विपतरोः सब्रह्मचारी चिरं स क्रोधः कुशलाभिलाषकुशलैनिर्मूलमुन्मूल्यताम् ॥ ४५ ॥ १. जलस्य मूर्खस्य चं. २. 'मोहघनो' क. ३. 'अन्यदहने क.

सूक्तिमुक्तावली। फलति कलितश्रेयःश्रेणीप्रसूनपरम्परः प्रशमपयसा सिक्तो मुक्ति तपश्चरणद्रुमः । यदि पुनरसौ प्रत्यासत्तिं प्रकोपहविर्भुजो भजति लभते भस्मीभावं तदा विफलोदयः ॥ १६ ॥ संतापं तनुते भिनत्ति विनयं सौहार्दमुत्सादय- त्युद्वेगं जनयत्यवद्यवचनं सूते विधत्ते कलिम् । कीर्ति कृन्तति दुर्मतिं वितरति व्याहन्ति पुण्योदयं दत्ते यः कुगति स हातुमुचितो रोपः सदोपः सनाम् ॥ ४७ ॥ यो धर्म दहति द्रुमं दव इवोन्मश्नाति नीति लता दन्तीवेन्दुकलां विधुतुद इव क्लिश्नाति कीर्ति नृणाम् । स्वार्थ वायुरिवाम्बुदं विघटयत्युल्लासयत्यापदं तृष्णां धर्म इवोचितः कृतकृपालोपः स कोपः कथम् ।। ४८ ॥ अथ मानपक्रम. । यस्मादाविर्भवति विततिर्दुस्तरापन्नदीनां यस्मिशिष्टाभिरुचितगुणग्रामनामापि नास्ति । यश्च व्याप्तं वहति वधधीधूम्यया क्रोधदावं तं मानाद्रि परिहर दुरारोहमौचित्यवृत्तेः ॥ ४९ ॥ शमालानं भञ्जन्विमलमतिनाडौं विघटय. न्किरन्दुर्वाक्पांशूत्करमगणयन्नागमणिम् । भ्रमन्नुयौ वैरं विनयवनवीथीं विदलय- ञ्जनः कं नानथै जनयति मदान्धो द्विप इव ॥ ५० ॥ औचित्याचरणं विलुम्पति पयोवाहं नभस्वानिव प्रध्वंसं विनयं नयत्यहिरिव प्राणस्पृशां जीवितम् । कीर्ति कैरविणी मतङ्गन इव प्रोन्मूलयत्यञ्जसा मानो नीच इवोपकारनिकर हन्ति त्रिवर्ग नृणाम् ॥ ५६ ॥ मुप्णाति यः कृतसमस्तसमीहितार्थ संजीवनं विनयजीवितमङ्गभाजाम् ।

काव्यमाला। जात्यादिमानविपनं विपमं विकार तं मार्दवामृतरसेन नयख शान्तिम् ॥ १२ ॥ अथ मायाप्रक्रमः। कुशलजननवन्ध्यां सत्यसूर्यास्तसंध्यां कुगतियुवतिमालां मोहमातङ्गशालाम् । शमकमलहिमानी दुर्यशोराजधानी व्यसनशतसहायां दूरतो मुञ्च मायाम् ॥ १३ ॥ विधाय मायां विविधैरुपायैः परस्य ये वञ्चनमाचरन्ति । ते वञ्चयन्ति त्रिदिवापवर्गसुखान्महामोहसखाः स्वमेव ॥ ५४ ॥ मायामविश्वासविलासमन्दिरं दुराशयो यः कुरुते धनाशया । सोऽनर्थसाथै न पतन्तमीक्षते यथा विडालो लगुडं पयः पिवन् ॥ ५५ ॥ मुग्धप्रतारणपरायणमुज्जिहीते यत्पाटवं कपटलम्पटचित्तवृत्तेः । जीर्यत्युपप्लवमवश्यमिहाप्यकृत्वा नापथ्यभोजनमिवामयमायतो तत् ॥ १६ ॥ अथ लोभप्रक्रम.। यदुर्गामटवीमटन्ति विकटं कामन्ति देशान्तरं गाहन्ते गहनं समुद्रमतनुक्लेशां कृषि कुर्वते । सेवन्ते कृपणं पतिं गजघटासंघट्टदुःसंचरं सर्पन्ति प्रधनं धनान्धितधियस्तल्लोभविस्फूर्जितम् ॥ १७ ॥ मूलं मोहविपद्रुमस्य सुकृताम्भोराशिकुम्भोद्भवः क्रोधानेररणिः प्रतापतरणिप्रच्छादने तोयदः । क्रीडासद्मकलेविवेकशशिनः स्वर्भानुरापन्नदी- सिन्धुः कीर्तिलताकलापकलभो लोभः पराभूयताम् ॥ १८ ॥ निःशेषधर्मवनदाहविजृम्भमाणे दुःखौघभस्मनि विसर्पदकीर्तिधूमे ।

सूक्तिमुक्तावली। बाद धनेन्धनसमागमदीप्यमाने लोभानले शलभतां लभते गुणौषः ॥ ९ ॥ जातः कल्पतरुः पुरः सुरगवी तेषां प्रविष्टा गृहे चिन्तारत्नमुपस्थितं करतले प्राप्तो निधिः संनिधिम् । विश्वं वश्यमवश्यमेव सुलभाः स्वर्गापवर्गश्रियो ये संतोषमशेषदोषदहनध्वंसाम्बुदं विभ्रते ।। ६० ॥ अथ सुजनप्रक्रमः। वरं लिप्तः पाणिः कुपितफणिनो वत्रकुहरे वरं झम्पापातो ज्वलदलनकुण्डे विरचितः । वरं प्रासप्रान्तः सपदि जठरान्तर्विनिहितो न जन्यं दौर्जन्यं तदपि विपदां सम विदुषा ।। ६१ ॥ सौजन्यमेव विदधाति यशश्चयं च खश्रेयसं च विभवं च भवक्षयं च । दौर्जन्यमावहसि यत्कुमते तदर्थ धान्येऽनलं क्षिपसि तज्जलसेकसाध्ये ॥ ६ ॥ वरं विभववन्ध्यता सुजनभावभाजां नृणा- मसाधुचरितार्जिता न पुनरूर्जिताः संपदः । कृशत्वमपि शोभते सहजमायतौ सुन्दरं विपाकविरसा न तु श्वयथुसंभवा स्थूलता ।। ६३ ।। न ब्रूते परदूषणं परगुणं वक्त्यल्पमप्यन्वहं संतोषं वहते परद्धिपु परावाधासु धत्ते शुत्रम् । वश्लाघां न करोति नोज्झति नयं नौचित्यमुल्लड्डय- त्युक्तोऽप्यप्रियमक्षमा न रचयत्येतञ्चरित्रं सताम् ॥ ६४ ॥ अथ गुणिसङ्गप्रक्रमः। धर्म ध्वस्तदयो यशश्श्युतनयो वित्तं प्रमत्तः पुमा- काव्यं निष्प्रतिभस्तपः शमदमैः शून्योऽल्पमेधः श्रुतं । १ 'शमदयाशून्यो' क.

४१ काव्यमाला। वस्त्वालोकमलोचनश्चलमना ध्यानं च वाल्छत्यसौ यः सङ्गं गुणिनां विमुच्य विमतिः कल्याणमाकानि ॥६५॥ हरति कुमति भिन्ते मोहं करोति विवेकितां वितरति रतिं सूते नीति तनोति विनीतताम् । प्रथयति यशो धत्ते धर्म व्यपोहनि दुर्गति जनयति नृणां किं नाभीष्टं गुणोत्तमसंगमः ॥ ६६ ॥ लन्धुं बुद्धिकलापमापदमपाक विहत पथि प्राप्तुं कीर्तिमसाधुतां विधुवितुं धर्म समासेवितुम् । रो पापविपाकमाकलयितुं स्वर्गापवर्गश्रियं चेत्त्वं चित्त समीहसे गुणवतां सङ्गं तदङ्गीकुरु ॥ ६७ ॥ हिमति महिमाम्भोजे चण्डानिलत्युदयाम्बुदे द्विरदति दयारामे क्षेमक्षमाभूति वज्रति । समिधति कुमत्यग्नौ कन्दत्यनीतिलतासु यः किमभिलपतां श्रेयः श्रेयान्स निर्गुणि संगमः ॥ ६८ ॥ अयेन्द्रियप्रक्रमः । आत्मानं कुपथेन निर्गमयितुं यः सूकलाश्वायते कृत्याकृत्यविवेकजीवितहतो यः कृष्णसर्पयते । यः पुण्यद्रुमखण्डखण्डनविधौ स्फूर्मत्कुठारायते तं लुप्तत्रतमुद्रमिन्द्रियगणं जित्वा शुभंयुभव ॥ ६९ ॥ प्रतिष्ठां यन्निष्ठां नयति नयनिष्ठां विघटय- त्यकृत्येप्वाधत्ते मतिमतपसि प्रेम तनुते । विवेकस्योत्सेकं विदलयति दत्ते च विपदं पदं तद्दोपाणां केरणनिकुरुम्बं कुरु वशे ॥ ७० ॥ वत्तां मौनमगारमुज्झतु विधिप्रागल्भ्यमभ्यस्यता- मस्त्वन्तर्वणमागमश्रममुपादत्तां तपस्तप्यताम् । १. 'अपाहर्तु' ख. २. 'दमाराम ख. ३. 'श्रेयः' क-ख. ४. 'शूफल क. 'सू. कलाश्वायते दुविनीततुरग इवाचरति' इति टीका. ५. इन्द्रियसमूहम. ६. वने तिष्ठतु. --- सूक्तिमुक्तावली । १७ श्रेयःपुञ्जनिकुञ्जभञ्जनमहावातं न चेदिन्द्रिय- जातं जेतुमवैति भस्मनि हुतं जानीत सर्व ततः ॥ ७१ ॥ धर्मध्वंसधुरीणमभ्रमरसावारीणमापत्प्रथा- लंकर्मीणमशर्मनिर्मितिकलापारीणमेकान्ततः । सर्वान्नीनमनात्मनीनमैनयात्यन्तीनमिष्टे यथा- कामीनं कुंपथाध्वनीनमजयन्नक्षौघमक्षेमभाक् ।। ७२ ॥ अथ लक्ष्मीस्वभावप्रक्रम । निम्नं गच्छति निम्नगेव नितरां निद्रव विकम्भते चैतन्यं मदिरेव पुष्यति मदं धूम्येव धत्तेऽन्धताम् । चापल्यं चपलेव चुम्बति दवज्वालेव तृप्णां नय- त्युल्लासं कुलटाङ्गनेव कमला स्वैरं परिभ्राम्यति ॥ ७३ ।। दायादाः स्पृहयन्ति तस्करगणा मुप्णन्ति भूमीभुजो गृह्णन्ति च्छलमाकलय्य हुतभुग्भमीकरोति क्षणात् । अम्भः प्लावयते क्षितौ विनिहितं यक्षा हरन्ते हठा- हुर्वृत्तास्तनया नयन्ति निधनं धिग्वधीनं धनम् ॥ ७ ॥ नीचस्यापि चिरं चटूनि रचयन्त्यायान्ति नीचैर्नति शत्रोरप्यगुणात्मनोऽपि विदधत्युच्चैर्गुणोत्कीर्तनम् । निर्वेदं न विदन्ति किंचिदकृतज्ञस्यापि सेवाक्रमे कष्टं किं न मनखिनोऽपि मनुजाः कुर्वन्ति वित्तार्थिन ॥७॥ लक्ष्मीः सर्पति नीचमर्णवपयःसङ्गादिवाम्भोजिनी- संसर्गादिव कण्टकाकुलपदा न क्वापि धत्ते पैदम् । चैतन्यं विपसंनिधेरिव नृणामुज्जासयत्यजसा धर्मस्थाननियोजनेन गुणिभिर्ग्राह्यं तदस्याः फलम् ।। ७६ ॥ १. 'शान्तरसाच्छादनम्' इति टीका. २. 'सर्वभक्षकम्' इति टोका. ३. 'अनरे. ऽन्यन्तगामिन' इति टीका. ४ 'इष्टे वस्तुनि यथाकामीन यथाभिलापिणम्' इति टीका. ५. 'कुमत' क. ६. "विनाशयति' इनि टीकता. ७ गतिमूक.

काव्यमाला। अथ दानप्रक्रमः । चारित्रं चिनुते तनोति विनयं ज्ञानं नयत्युन्नति पुष्णाति प्रशमं तपः प्रवलयत्युल्लासयत्यागमम् । पुण्यं कन्दलयत्यघं दलयति स्वर्ग ददाति क्रमा- निर्वाणश्रियमातनोति निहितं पाने पवित्रं धनम् ॥ ७७ ॥ दारियं न तमीक्षते न भजते दौर्गत्यमालम्बते नाकीर्तिर्न पराभवोऽभिलपते न व्याधिरास्कन्दति । दैन्यं नाद्रियते दुनोति न दरः क्लिश्नन्ति नैवापदः पाने यो वितरत्यनर्थदलनं दानं निदानं श्रियाम् ।। ७८ ॥ लक्ष्मीः कामयते मतिर्मगयते कीर्तिस्तमालोकते प्रीतिश्चुम्बति सेवते सुभगता नोरोगतालिङ्गति । श्रेयःसंहतिरभ्युपैति वृणुते स्वर्गोपभोगस्थिति- मुक्तिर्वाञ्छति यः प्रयच्छति पुमान्पुण्यार्थमर्थ निजम् ॥ ७९ ॥ तस्यासन्ना रतिरनुचरी कीर्तिरुत्कण्ठिता श्रीः स्निग्धा बुद्धिः परिचयपरा चक्रवर्तित्वऋद्धिः । पाणौ प्राप्ता त्रिदिवकमला कामुकी मुक्तिसंप- सप्तक्षेत्र्यां (१) वपति विपुलं वित्तबीजं निजं यः ॥ ८० ॥ अथ तप.प्रक्रमः । यत्पूर्वार्जितकर्मशैलकुलिशं यत्कामदावानल- ज्वालाजालजलं यदुग्रकरणग्रामाहिमन्त्राक्षरम् । यत्प्रत्यूहतमःसमूहदिवसं यल्लब्धिलक्ष्मीलता- मूलं तद्विविधं यथाविधि तपः कुर्वीत वीतस्पृहः ॥ ८१ ॥ यस्माद्विघ्नपरम्परा विघटते दास्यं सुराः कुर्वते कामः शाम्यति दाम्यतीन्द्रियगणः कल्याणमुत्सर्पति । उन्मीलन्ति महर्द्धयः कलयति ध्वंसं चयः कर्मणां स्वाधीनं त्रिदिवं शिवं च भवति श्लाघ्यं तपस्तन्न किम् ॥ २॥ १. 'धिनोति' ख, २. 'पवित्रे ख, सूक्तिमुक्तावली । ४२ . कान्तारं न यथेतरो ज्वलयितुं दक्षो दवाग्निं विना दावाग्निं न यथापरः शमयितुं शक्तो विनाम्भोधरम् । निष्णातः पवनं विना निरसितुं नान्यो यथाम्भोधरं कौघं तपसा विना किमपरो हन्तुं समर्थस्तथा ॥ ८३ ।। संतोषस्थूलमूलः प्रशमपरिकरस्कन्धवन्धप्रपञ्चः पैञ्चाक्षीरोधशाखः स्फुरदभयदलः शीलसंपत्प्रवालः । श्रद्धाम्भःपूरसेकाद्विपुलकुलबलैश्वर्यसौन्दर्यभोगः वर्गादिप्राप्तिपुष्पः शिवपदफलदः स्यात्तपःकल्पवृक्षः ॥ ८४ ॥ अथ भावनामक्रमः। नीरागे तरुणीकटाक्षितमिव त्यागव्यपेतप्रभोः सेवाकष्टमिवोपरोपणमिवाम्भोजन्मनामश्मनि । विष्वग्वर्षमिवोषरक्षितितले दानाईदर्चातपः- स्वाध्यायाध्ययनादि निष्फलमनुष्ठानं विना भावनाम् ॥ ८५॥ सर्व ज्ञीप्सति पुण्यमीप्सति दयां धित्सत्यघं मित्सति क्रोधं दित्सति दानशीलतपसां साफल्यमादित्सति । कल्याणोपचयं चिकीर्षति भवाम्भोधेस्तटं लिप्सते मुक्तिस्त्री परिरिप्सते यदि जनस्तद्भावयेद्भावनाम् ॥ ८६ ॥ विवेकवनसारिणी प्रशमशर्मसंजीवनी भवार्णवमहातरी मदनदावमेघावलीम् । चलाक्षमृगवागुरां गुरुकपायशैलाशनि विमुंक्तिपथवेसरी भजत भावनां किं परैः ॥ ८७ ॥ घनं दत्तं वित्तं जिनवचनमभ्यस्तमखिलं क्रियाकाण्डं चण्डं रचितमवनौ सुप्तमसकृत् । १. 'अपर हतु समर्थे' ख-ग. २. पञ्चेन्द्रियाणि पश्चाक्षी. ३. 'निस्तारभोगः' ग. ४. 'तपःपादपोऽयम्' क-ग. ५. 'मित्सति' क-ग. ६. 'खण्डयितुमिञ्चति' इति टीका. ७. मार्गोपयुक्तामश्वतरीम्.

५० काव्यमाला। . तपस्तीनं तप्तं चरणमपि चीण चिरतरं न चेच्चित्ते भावस्तुपवपनवत्सर्वमफलम् ॥ ८ ॥ अथ वैराग्यप्रक्रमः। यदशुभरजःपाथो हप्तेन्द्रियद्विरदानुशं कुशलकुसुमोद्यानं माद्यन्मनःकरिशृङ्खला । विरतिरमणीलीलावेश्म सरज्वरभेप शिवपथरथस्तद्वैराग्यं विमृश्य भवाभयः ।। ८९॥ चण्डानिलः स्फुरितमन्दचयं दवाचि- वृक्षवज तिमिरमण्डलमर्कविम्बम् । वज्रं महीध्रनिवहं नयते यथान्तं वैराग्यमेकमपि कर्म तथा समग्रम् ॥ ९० ॥ नमस्या देवानां चरणवरिवस्या शुभगुरो- स्तपस्या निःसीमक्लमपदमुपास्या गुणवताम् । निपद्यारण्ये स्यात्करणदमविद्या च शिवदा विरागः क्रूरागःक्षपणनिपुणोऽन्तः स्फुरति चेत् ॥ ९१ ॥ भोगान्कृष्णभुजंगभोगविपमानराज्यं रजःसंनिभं वन्धून्वन्धनिबन्धनानि विपयग्रामं विपानोपमम् । भूति भूतिसहोदरां तृणतुलं स्त्रैणं विदित्वा त्यन- स्तेष्वासक्तिमनाविलो विलभते मुक्ति विरक्तः पुमान् ॥ ९२ ॥ जिनेन्द्रपूजा गुरुपर्युपास्तिः सत्त्वानुकम्पा शुभपात्रदानम् । गुणानुरागः श्रुतिरागमस्य नृजन्मवृक्षस्य फलान्यमूनि ॥ ९३ ॥ त्रिसंध्यं देवा! विरचय चयं प्रापय यशः श्रियः पाने वापं जनय नयमार्ग नय मनः । स्मरक्रोधाचारीन्दलय कलय प्राणिपु दयां जिनोक्तं सिद्धान्तं शृणु वृणु जवान्मुक्तिकमलाम् ॥ ९४ ॥ १. 'चारित्रं' इति टीका.

सूक्तिमुक्तावली । ५१ कृत्वाहत्पदपूजनं यतिजनं नत्वा विदित्वागमं हित्वा सङ्गमधर्मकर्मठधियां पात्रेषु दत्त्वा धनम् । गत्वा पद्धतिमुत्तमक्रमजुषां नित्वान्तरारिव्रज स्मृत्वा पंञ्चनमस्कियां कुरु करक्रोडस्थमिष्टं सुखम् ॥ ९५ ॥ प्रसरति यथा कीर्तिर्दिा क्षपाकरसोदरा- भ्युदयनननी याति स्फीतिं यथा गुणसंततिः । कलयति यथा वृद्धि धर्मः कुकर्महतिक्षमः सुलभकुशले न्याय्ये कार्य तथा पथि वर्तनम् ॥ ९६ ॥ भवारण्यं मुक्त्वा यदि जिगमिपुर्मुक्तिनगरी तदानी मा कार्कीविषयविपवृक्षेपु वसतिम् । यतश्छायाप्येपां प्रथयति महामोहमचिरा- देयं जन्तुर्यस्मात्पदमपि न गन्तुं प्रभवति ॥ ९७ सोमप्रभाचार्यमभा च लोके वस्तु प्रकाशं कुरुते यथाशु । तथायमुच्चैरुपदेशलेशः शुभोत्सवज्ञानगुणांस्तनोति ॥ ९८ ॥ अमजदजितदेवाचार्यपट्टोदयाद्रि- घुमणिविजयसिंहाचार्यपादारविन्दे । मधुकरसमतां यस्तेन सोमप्रमेण व्यरचि मुंनिपनेत्रा सूक्तिमुक्तावलीयम् ॥ ९९ ॥ इति श्रीसोमप्रभाचार्यविरचिता सिन्दूरप्रकरापरपर्याया सूक्तिमुक्तावली । १. जिनमतप्रसिद्धा पञ्चपरमेष्टिनमस्कृतिम्, २. 'कुशलसुलभे' क-स. ३. एन. च्छोकानन्तरं क-पुस्तके 'करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणमनं मुखे सत्या वागी श्रुतमधिगतं च श्रवणयोः । हृदि स्वच्छा वृत्तिविजयि भुजयोः पौरुपमहो विनाप्यैश्वरंग प्रकृतिमहतां मण्डनमिदम् ॥' अयं श्लोकोऽधिकः. ४. 'विमुच्यैन दूरे भव जनमन :- मसदनम्' ख. ५. 'सोमप्रभाचार्यममा च यन्न पुंसां तम पदमपाकरोति । तदप्यम- ष्मिन्नुपदेशलेशे निशम्यमानेऽनिशमेति नाशम् ॥' अय क-पुस्तकपाठः हारवगग्य- तरगिणीधृतपाठसमानः. अत्र अन्यका सोमप्रभाचार्य इति त्वतीयं नाम गुस्न्या निवेशितम्. ६. अयं श्लोकः ख-ग-पुस्तकयो स्ति. ७. मुनीन्द्रनायकेन.

६२ काव्यमाला। श्रीजम्बूगुरुविरचितं जिनशतकम् । श्रीमद्भिः खैर्महोभिर्भुवनमैविभुवत्तापयत्येप शश्व- सत्खप्यसादृशेषु प्रभुपु किमिति सैन्मन्युनेवोपरक्ताः । सूर्य वीर्यादैहार्यादभिभवितुमिवामीशवो यस्य दीप्राः प्रोत्सर्पन्त्यधियुग्मप्रभवनखभुवः स श्रिये स्ताजिनो वः ॥ १॥ संसारापारनीरेश्वरगुरुनिरयाशर्मपकौघमन्ना- नुद्धर्तुं सत्त्वसार्थानिव नखजमजाजीर्णरज्जूर्यदीयाः । पादाः प्रासीसरन्तः प्रकटितकरुणाः प्रार्थितार्थान्समर्था भर्तु तीर्थाधिपोऽसौ पृथुदवथुपथप्रस्थितिं वो रुणद्ध ॥२॥ प्रोद्यद्दीपप्रभाढ्यक्रमनखमुकुरक्रोडसंक्रान्तविम्बं वकं वृत्तस्य शत्रुः स्वकमधिकरुचिं विभ्रदभ्रान्तचेताः । पश्यशीतांशुकान्तं प्रणतिकरणतो न व्यरंसीप्रमोदा- यस्यासौ श्रीजिनेन्द्रो द्रुतमतनुतमस्तानवं वस्तनोतु ॥ ३ ॥ मार्तण्डश्चण्डभावं दधदहनि हिनस्त्यस्तदोपोऽपि पादै- र्वघ्नात्यँहाय रात्रौ पुनरलिपटलैरारटन्ती रटद्भिः । मामम्मोजन्मधाम्नि स्थिततनुलतिकामेवमालोच्य लक्ष्मी- रुद्विग्नेवापविघ्नं क्रमकजमगमद्यस्य सोऽव्याजिनो वः ॥ ४ ॥ १. शतकस्यास्यैकं सटीकं मनोहरमपर्युपितं नातिशुद्धं चाष्टादशपत्रात्मक पुस्तकं श्रीशन्तिविजयमुनिभिरस्मभ्यं दत्तम्. तत्र नागेन्द्रकुलोद्भूतसाम्यमुनिप्रणीता समी- चीना टीका वर्तते. स च साम्यष्टीकासमाप्तौ 'शरदा सपञ्चविंशे शतदशके (१०२५) स्वातिभे च रविवारे । विवरणमिदं समाप्तं वैशाखसितत्रयोदश्याम् ॥' इत्यमात्मनो ग्रन्थनिर्माणसमयं वदति. द्वितीयं तु मूलमा शुद्धं पत्रचतुष्टयात्मकं प्राचीनं पुस्तकं जोधपुरनगरपाठशालाध्यापकपण्डितरामकर्णशर्मभिः प्रहितम्. टीकामुद्रणं तु पुस्तका. न्तराभावा?ष्करमिति मत्वा ततः सक्षिप्तमुपयोगिटिप्पणमात्रमेवात्रोद्धृतम्. २. अस्वा- मिकमिव. ३. सन्नुत्पद्यमानश्वासौ मन्युस्तेन. ४. हर्तुमशक्यात्. ५. अपारसंसारसमुद्र एव महानरकदुःखं तदेव पकौघस्तत्र ममान्. ६. नखोत्पन्ना दीप्तय एवाजीर्णा नवा रज्जवः. ७. प्रसारितवन्तः. ८. शीघ्रम्. ९. कमलरूपगृहे. १०. निरुपद्रवं यथा स्यात्. ११. च. रणकमलम्.

जिनशतकम् । निर्विघ्नान्विघ्ननिम्नानतिघनघृणया श्लाघ्यघोषानघोषा- न्योराघौधैरैनुद्धापधनसुघटिताशीघ्रमुद्धाभिपाणीन् । अर्थोपनाननॆर्घान्घटयति लघिमालिङ्गितान्वोऽलघिष्ठा- श्लाघ्यं यस्याभियुग्मं विघटयतु घनं सोऽघसंघातमहन् ॥ ५ ॥ रक्तस्त्यक्तसरोऽपि प्रतिभयभयकृन्निर्भयत्वप्रदोऽपि प्रायश्चित्तग्रहीता सततनिरतिचारोऽपि यत्पादपद्मः । वैकुण्ठाभ्यर्चितोऽपि प्रकटमपचितः पण्डितैः खण्डितांहा- स्तन्यादन्याय्यवृत्तिव्यपगमगुरुतां वः स निर्गन्यनाथः ॥ ६ ॥ खान्तारण्यं शरण्याश्रयणमिति यदध्यास्त विध्वस्तशङ्क- स्तद्धर्मध्यानधूमध्वजजवननितात्यन्तसंतापतप्तम् । संत्यज्यासह्यदाहादिव चरणसरोऽशिश्रियत्सत्सरोज यस्यातिप्रौढरागद्विरद उरुरजः सोऽस्यतात्तीर्थपो वः ॥ ७॥ जङ्घोद्यत्स्कन्धबुनोगतलसदरुणाभाङ्गुलीपल्लवाव्या- न्प्रेवन्तीमिर्नखाचिर्निचयरुचिरसन्मञ्जरीभिर्युतान्वः । प्रेक्ष्य प्राप्तेप्सिता वि बलवदवाकल्पवृक्षाः किमेवं विद्वद्भिः शङ्कयते छीनतुलफलयुनो यस्य सोऽर्हन्मुदेऽस्तु ॥ ८ ॥ क्षोणी क्षान्त्या क्षिपन्तः क्षणिकरतिकरस्त्रीकटाक्षाक्षताक्षा मोक्षक्षेत्राभिकालाः क्षपितशुभशताक्षेमविक्षेपदक्षाः । १. अनुद्वा अप्रशस्ता अपघना अहानि. २. प्रशस्तहस्तपादान्. ३. अर्पण पूजया आश्रितान्. ४. पूजारहितान्. ५. भयानकभयकर्ता. भयानकभयं कृन्ततीति विरो- धपरिहारः, ६. सततं निरन्तरं गृहीतस्य व्रतस्यैकदेशतो भगोऽतिचारः. स निर्गतो यस्मात्सोऽपि प्रायश्चित्तग्रहीतेति विरोधः. प्रायो वाहुल्येन चित्तस्य ग्रहीता आवर्जकः सततं निरतिचारश्चानतिक्रमणीयश्चेति परिहारः. ७. अपचितोऽपचयं नीत इनि विरोधः. अपचितः पूजित इति परिहारः, ८. निम्रन्यास्तपस्विनस्तेपा नायो जिन.. ९. चरणयोः कमलरूपाणि लाञ्छनानि भवन्ति. यस्य हृदयं वीतरागं चरणी च सरागाविति तात्पर्यम्. १०. बलवदत्यर्थमवानोऽधोमुखाः कल्पवृक्षा.. ११. पूजाया बहुवचनम्.

५४ काव्यमाला। अक्षोभाः क्षीणरूक्षाक्षरपटुवचना भिक्षवो मझ्वलक्ष्मी साक्षाद्वीक्ष्य क्षिपन्ति क्षपयतु स जिनः क्षय्यपक्षं यदजी ॥ ९ ॥ तन्वाना वैनतेयश्रियमैहितवृपोत्कर्पमोपिप्रतापाः कामं कौमोदेकीनाशरणशरणदा नीरजोदाररागाः । सद्यः प्रद्युम्नयुक्ताः सदसिकृतमुदो यत्क्रमाश्चक्रिणो वा भ्राजन्ते भ्राजिताशाः सुखमखिलमसौ श्रीजिनो वो विधेयात्॥१०॥ यत्पादौ पादपौ वा शुचिरुचिनिचिताम्भोजपुञ्जालवाली स्वःसन्मूर्धाधिरूढोद्भटमुकुटकुंटैनिर्यदेशूदभारैः । संसिक्तौ शोणरत्नप्रतिमनखरुचः सत्प्रवालावलीव- द्धत्तः शुद्धि विधेयादधिकमधिपतिः श्रीजिनानामसौ वः ॥ ११ ॥ द्यां द्युत्योद्दयोत्य मुंद्यद्दयुसदधिपमता विद्युदुद्दयोतजेच्या- विद्यौनद्याद्यसद्योनय उपदधते सद्यमोद्यानमोदम् । दुर्भेद्यावद्यमुद्यद्दयुमणिमिव समाच्छाद्य वन्द्याभिवन्द्याः सद्यो यत्पादकंदा द्यतु स जिनपतिर्वोऽतिनिन्द्यामविद्याम् ॥१२॥ निर्वाणापूर्वदेशप्रगमकृतधियां शुद्धबुद्धयध्वगानां मार्गाचिल्यासयैपा त्रिभुवनविभुना प्रेपिता किं नु लोकैः । आलोक्यारेकितैवं चरणनखभवा वो विभीविर्भवन्ती यस्य श्रेयांसि स श्रीजिनपतिरपतिः पाप्मभानां विदध्यात् ॥१३॥ १. भिक्षवो यतयो यदगी साक्षाद्वीक्ष्य मगु शीघ्रमलक्ष्मी क्षिपन्ति स जिनः क्षय्य- पक्ष शत्रुपक्षं क्षपयतु. २.वै निश्चयेन नते प्राणिनि अयश्रियं शुभावहविधिसंपत्तिम् (पक्षे) वैनतेयो गरुडः. ३. अहितो विरुद्धो यो वृषो धर्मः; (पक्षे) पोऽरिष्टासुरः. ४. को भूमी मोदस्य कीनाशो नाशको यो रणस्तत्र शरणदाः; (पक्षे) कौमीदकी गदा तस्या इना. प्रम- वोऽशरणशरणदाश्च. ५. नीरजेप्विवोदारो रागो येपु; (पक्षे) नीरजः शशः. ६. प्रकृष्ट युनं तेजः; (पक्षे) प्रद्युम्नो वासुदेवपुत्रः. ७. सदसि सभायाम् ; (पक्षे) संथासावसिः खगो नन्दकस्तेन कृता मुद्येपाम्. ८. क्रमाः पादा वासुदेवा इव. ९. पूरितमनोरथाः. १०. कुटो घटः. ११. मुदं यन्गच्छन्. १२. विद्यैव नदी तस्या आयाः सद्योनयः शो- भनान्युत्पत्तिस्थानानि. १३. संश्चासौ यमश्च (नियमसहचरः) स एवोद्यानं तस्य मोदं पुष्टिलक्षणम्. १४. क जल ददतीति कंदा मेघाः. पादा एव कंदाः. कमित्यव्ययं जल- वाचकम्. १५. आरेकिता उत्प्रेक्षिता. १६. आविर्भवन्ती उर्व गच्छन्ती.

५५ H - जिनशतकम् । शोभामम्भोरुहाणामपहरति करोत्युद्धवं कौशिकस्या- नुष्णैः पुष्णाति पादैः कुमुदमसुमतां नोपतापाय दृष्टेः । प्राज्याजेयप्रतापं सततमिनैतया युक्तमप्यन्यरूपं युग्मं यत्पादयोः स्तात्स भवदविभवाभावकृत्तीर्थनाथः ।। १४ ।। दूरे दूरेपसो वो वसतिमसुभृतां साधयन्तौ धेयन्तौ वारी वारीतिमझी नतससुरमहादेवराजौ वरानौ । यस्यायस्याप्तिहेतू जयमुपनयतो मोहिताना हितानां दध्यादध्यामतेजाः स भुवि जिनवरोऽनन्तमोदं तमोदम् ॥ १५ ॥ कृत्वाधः पादयोमी निरतिशयशमश्रीसमालिङ्गिताङ्गः खस्थस्तिष्ठत्यनिष्ठः कथमयमधुनेतीव संचिन्त्य सृष्टा । ऊर्ध्व वाणाशनिर्वा मृदुहृदयभिदे भाति रांगेण गाढं यस्य प्रेङ्खन्नखालीद्युतिरतनुरति रातु स श्रीजिनो वः ॥ १६ ॥ चार्वाचारोक्तिचुचुप्रवचनचतुराचार्यचक्रस्य चश्च- नो'च्येताचण्डरोचीरुचिरुचिररुचिर्यस्य वाचां प्रपञ्चैः । उच्चैश्चर्यमाणश्चरणगुणचयश्चौरुचित्तार्चितार्च- चेतःशौचं चिनोतूचितमचलमसौ चारुचेष्टो जिनो वः ॥ १७ ॥ पद्भ्यां भूभृद्गुरुभ्यां भ्रमति भृशमभीभ्रंशयन्हेलयायं कोऽस्सन्मू|द्धृतां गामिति फणिसमितेः सक्रुधः क्रोधवः । ज्वाला निर्यान्त्यधस्तात्किमिति सुजनता शङ्कते लोकयन्ती भव्यानव्याद्भयेभ्यो निखिलनखरुचो यस्य योगीश्वरोऽसौ ॥ १८ ।। भ . १. इन्द्रस्योलूकस्य च. २. कोः पृथिव्या मुदम्. ३. सूर्यत्वेन प्रभुत्वेन च. ४. दुष्ट च तद्रेपः पाप तस्माद्दूरे स्थानेऽसुमता वसतिं साधयन्ती. स्वर्गप्रदावित्यर्थः. ५. वार्गव जलमिव अरीतिं शत्रूपद्रवं धयन्तौ पिबन्ती. नाशयन्तावित्यर्थः. ६. श्रेष्टयुद्धे मोहितानां हितानां भक्तानां जयमुपनयतः. ७. यस्यानी आयस्य लाभस्याप्तिहेतू. ८. अकृशतेजाः. ९. उर्ध्व क्षिप्ता. १०. पाणावलीव. ११. कामेन. १२. यस्य चरणगुणचयो नोच्येत वक्तुं न शक्येत. अतिप्राचुर्यात. १३. चारुचित्तैरिन्द्रादिभिरचिंता अर्चा मूर्तिर्यस्य स जिनः. १४. पातालमुद्भिद्य.

५६ काव्यमाला। -- प्रख्यातादच्युतश्रीवरवसतितया शेषकान्त्योपगूढा- सन्मीनात्क्षीरेनीरेश्वरत इव यदज्योर्युगान्निर्गता भा। वेलेव प्लावयन्ती नखमणिकिरणोन्मिश्रिता श्रीमदज- श्रेणी विश्वंभरावद्भवदनभिमतं तीर्थपोऽसौ भिनत्तु ॥ १९ ॥ मा पप्तत्तप्त्यभावात्कलिकलिलभराक्रान्तमत्यन्तमेत- पातालापारपङ्के त्रिभुवनभवनं द्रागितीवावधार्य । त्वष्ट्रावष्टम्भनाथै प्रचुरभरसहौ निर्मिमाते यदजी वज्रस्तम्भाविवासौ निखिलसुखखनीर्वो विधत्तां यतीन्द्रः ॥ २० ॥ दुर्गे स्वर्गापवर्गाध्वनि संदरितया स्यन्दनः संस्यदाग- स्तिग्मांशूत्तप्तजन्तून्प्रति वरविटपी छायया संयुतत्वात् । सद्भूत्याहूतिमन्त्रः सति धननिधने व्यक्तवर्णत्वतो वः सिद्धयध्वन्यध्वनीनानवतु स मुनिपः पादपद्मो यदीयः ॥ २१ ॥ यत्पादैः पारिजातक्षितिरुहमहिमा हानिमानीयतेऽहि. भ्रातृव्यायाप्ययोपाः प्रमदभरनमन्मस्तकलस्तदाम्नः । द्राग्भूयो भूपयद्भिः शुचिरुचिनखरुङमञ्जरीकर्णपूरैः पापाकूपारवारिप्रतरणपटुतां तीर्थकृद्वः स दध्यात् ॥ २२ ॥ सर्वोवीभृत्प्रबर्हप्रणतिपरशिरःश्रेणिचूडामणियु- त्संदोहालीढमूढम्रदिम नखमयूखोल्लसत्केसरालि । वल्वमुल्यनपत्रं सकमलममलं पादयुग्मं यदीयं भात्यादित्योस्रमिश्रं नलिनमिव स वोऽवद्यमर्हन्हिनस्तु ॥ २३ ॥ प्राज्यप्रौढप्रमादप्रतिभटनिधनप्राप्तदीप्रप्रतापा- प्रोच्चैः प्रीतिं प्रयान्ति प्रतिकलममलान्प्राणिनः प्रेक्षमाणाः । १. शेषनागस्य कान्त्या अशेषया पूर्णया कान्त्या च. २. सन्तो विद्यमाना मीना लाञ्छनरूपा यत्र. ३. क्षीरसमुद्रात. ४. पादतलवर्तिनी लाञ्छनरूपां पद्मपति विश्व- म्भरावद्भूमिवत्. ५. तपश्चरणाभावात. ६. नरककर्दमे त्रिभुवनरूपं गृहं मा पतन पततु. ७. विधात्रा. ८. सच्चक्रयुक्ततया. ६. सह स्यदेन वेगेन यदागः पापं तदेव तिग्मांशु.. १०. अहित्रासुरस्तस्य भ्रातव्यः शत्रुरिन्द्रस्तस्यायाप्या अनवद्या योपाः बियो- ऽप्सरसः.११. द्युत्संदोहो दीप्तिसमूहः.

जिनशतकम् । ५७ 7 है प्रत्ताप्रान्तप्रसादान्प्रणमदसुमतां यत्क्रमान्सत्प्रणम्या- प्राणिप्राणप्रियाणि प्रवितरतु जिनः स प्रशान्तप्रयासम् ॥ २४ ॥ उज्जृम्भाम्भोजगर्भश्रितमिति परमेष्ठीयते निष्ठितार्थ त्रैलोक्यत्रासहन्न्या नरकरिपुतयानन्तमूर्तीयते वः । सद्भूतिभाजितत्वाद्वृषभगतितया चाद्रिजेशायते य- त्पादाम्भोज स सद्यो भवतु भवभयाभोगभित्केवलीशः ॥ २५ ॥ इति श्रीजम्बूकविविरचिते जिनशतके जिनपादवर्णन नाम प्रथम परिच्छेद । कोषाढ्येऽपि द्रढिम्ना विरहितमहिमन्युत्कटे कण्टकर्म सक्ते व्यक्तं जडौधैः सुचिरमनुचितं सद्रजस्यत्र वस्तुम् । पद्मं पद्मा खसञत्युदितविपदिव प्रोज्झ्य यत्रानुलिल्ये छका दानच्छलेन त्रिजगदधिपतेर्वः पुनीतात्स हस्तः ॥ १ ॥ प्रध्वस्ताशर्मधर्मप्रणयनविधये व्यापूतः प्राणिपूगा- कालव्यालावलुप्तौ प्रतिसमवसृतौ भ्रान्तिमन्तस्तनोति । यः संहत विषार्ति किमयमिह चलत्येवमाखण्डलस्य ख्यातं सौख्यं स दत्तां जिनवृषभनरेन्द्रस्य पाणिर्द्धतं वः ॥ २ ॥ भाभिर्योऽम्भोजशोभामभिभवति भृशं विभ्रदुद्भूतभव्यं भूषाभावं समाया भवभवभयभिरिभीभारमानाम् । भर्तुर्भद्रस्य पाणिस्त्रिभुवनभवनोद्भासनोद्भूतभूते- भूयाद्भूत्यै स भूतेभुविभुविभवाधीशभूभर्तृभाजः ॥ ३ ॥ कल्पान्तेऽनल्पभासः प्रर्लंयमसुमतां यूयमुच्चैर्विघातं कृत्वायुर्गोत्रनाम्नामपि कुरुत किल द्वादशैकत्वमेत्य । नित्यं पञ्चापि कुर्मो वयमिति हसितार्का इवोद्भान्ति भासा प्रेज्ञप्तौ यन्नखाः स्तात्स शिवशतकरोऽर्हत्करः प्रोल्लसन्वः ॥ ४ ॥ १. शिष्टाशेषप्रयोजनम्. २. केवलं सर्वव्यपर्यायग्राहकमप्रतिहत जान तद्वतामाशी जिनः. ३. चतुरा. ४. सांवत्सरिकमहादानव्याजेन. ५. जिनपम एव नरेन्द्रो विष- वैद्यः. ६. लक्ष्म्याः. ७. ऋभवो देवास्तद्विभुरिन्द्रः. विभवाधीशः कुपेरः भूमागे राजानः तान्भजते तस्या भूतेः. ८. जिनपक्षे प्रकृष्टो लयो मोक्ष.. ९. च्यायान.

५८ काव्यमाला। गीर्वाणैनिर्मितोवीरुहबहलदलश्यामलाभीशुजालै- जीमूतैः प्रावृपेण्यैरिव नभसि सदस्यातते यः समन्तात् । विद्युत्पुञ्जायमानः स्फुरदरुणरुचा दृश्यते त्रैदशैर्व- स्त्राणाय स्तात्स हस्तस्तनुरहितजितः साधु बोधोद्यतोऽद्य ॥ ५ ॥ चञ्चच्चक्रोऽप्यकृष्णो विवरयुततलोऽप्यस्तरन्ध्रानुपङ्गः सैत्कार्योऽप्यस्तकृत्यो विलसितकमलोऽप्यङ्ग दोपाकरो नो। यः सार्वज्ञः सुपर्वा शय इति महिमापीक्ष्यते नो विरोधी वध्यात्स ध्यानवृद्धेनिधनकरमरं वस्तु वः स्तूयमानः ॥ ६ ॥ द्वारं व्यस्तार्गलं वः परमपदपुरो दर्शयाम्येत यूयं श्रोतृञ्जन्तूनिवैवं गदितुमतिगुरुभ्राम्यतीतस्ततो यः । पर्पद्युत्कर्पवत्यां प्रवचनकरणानेहसि श्रीजिनस्य स्ताद्धस्तो वः प्रशस्तः प्रणिपतनकृतावाहतानां स वृद्धयै ॥ ७ ॥ वजिन्वजं समस्ति प्रकटतरमिदं मेऽपि मा गवितो भू- यक्ष क्षिप्रं जहीहि त्वमपि निधिमदं शङ्खपद्मौ यतः स्तः । अम्लानौ मय्यपीमाविति परिहसतीवोच्छलद्भिर्मयूखै- ाख्यायां यन्नखेभ्योऽखिलसुखकृदसावस्तु वो जैनहस्तः ॥ ८॥ जेताजावूजितौना विजयिनविगजभ्रानि सद्वानिराज्यां तेजोभानां जजौर्जाविजितजनजितां स्वौजसा दुर्जनानाम् । योऽन्यनोऽजातजाड्यो जगति जिनशेयो जम्भनित्पूजितौजा अज्यायो जन्मवीनं जयतु सरंजसौर्जित्यजित्सोऽजसा वः ॥९॥ भित्त्वा दोपानुपङ्गं जनवनजवनं वोधयामीद्धधाम्ना मोत्करें सूर्य काीरिति मम पुरतो दर्पतो हन्त यत्तत् । १. उर्वीरुहोऽत्राशोक.. २. त्रिदशसमूहः. ३. मदनजयिनः. ४. हस्तपक्षे विवराः पक्षिश्रेष्ठा हंसादयस्तच्चिहावितः. ५. सत्कारार्हः. ६. कमलो हरिणः. ७. शयो हस्तः. ८. हे कुबेर. ९. 'जजि युद्धे' । जजन्तीति जजा योधास्तेषामूर्जा यलं तेनाविजितं जनं जयन्ति ये तेपाम्. १०. न विद्यते न्यञ्ज उपतापो रोगो वा यस्य. ११. हस्तः. १२. अ. श्रेष्ठम्. १३. कर्म. १४. सह रजसा वर्तन्ते सरजसाः सरागा अज्ञानिनो मिथ्यादृष्टयस्ते. पामौजित्यं बलवत्व जयतीति सः. १५. जनरूपकमलवनम्, -- --- - जिनशतकम् । साक्षाद्दोष' श्रितोऽपि श्रमणगणगुरोबोधयेऽहं महिने- तीव प्रेड्डन्सदोऽन्तः प्रणिगदति करो यः स वो वामहान्तु ॥१ स्निग्धं मूतॊऽलिनीलघुतिकचनिचयं प्रोद्धरन्धैर्यराशे- निर्मूलं लोकमर्तुश्चरणकृतमते ति यः पाणिपद्मः । अन्तर्वतिकृतिक शिति कलिलमिदं कर्पतीहैप एवं देवैरारेक्यमाणो भवदशिवशताशर्म स साक् शृणातु ॥ ११ ॥ दक्ष दीक्षां जिघृक्षोर्मदनशरनुदो देहतो दीप्रदीप्ती: सत्वर्णालंकृतीयः सरससुमनसः कल्पवृक्षादिवोच्चैः । पाणिः प्रोत्तारयन्वः सरसिरुहरुचिः सन्नखांशुप्रसूनो मालाकारायतेऽसौ स्यतु कुमतिमलं प्राणमत्कंधराणाम् ॥ १२ यः कालः शोणिमानं दधदपि निधने कल्मपस्योल्वणस्य द्रष्ट्रणां दृष्टमात्रः सरुगपि नितरां नीरुगात्माप्तसक्तः। लक्ष्मीदानेन तृष्णाछिदापि तनुमतामग्रहस्तोऽजडोऽसौ मुष्यादोषानशेषान्कलुपितवपुपां वो विरुद्धात्मकोऽपि ॥ १३ मय्यप्यस्सिन्सयारौ प्रभवति भुवने भूभृतः किं कराणां पातैरुत्तापयन्ति सितिमित कि भवेद्रूमभामादिवालम् । रक्तः शक्त्या स्फुरन्वो निगडित इव यो भूषणालीनकाले व्याधेरव्यात्स पाणिः सदुपलवलयामुक्तितो मुक्तिभाजः ॥ १: मा भूदन्तःपुरस्त्रीकठिनकुचभिदाकारिणी रोगभाक्त्वा- सक्तैतस्मिन्नखाली सरविकृतिहृतः सर्वदास्येते कीव । . . , 1 ... ना १. भुजम्. २. जिनस्य. ३. प्रतिकूलहन्ता. ४. चरणं प्रव्रज्या. ५. कृष्णम्. पम्. ७. आशङ्कयमानः .. हिनस्तु. ९. शीघ्रं यथा स्यात्. १०. जिनस्य. १ कर्षणानमन्ती कघरा येषाम् १२. आप्तो जिनस्तस्य सक्तत्तटीयः. १३. गर्व १४. इतकि इति । अकजागमः१५. भवज्ञायमानो भून्ना पाहुल्येन यो भार धस्तस्मादिव. १६. ग्रहणकाले. १७. सन्तः शोभना उपला मणयो येषु तानि व तेषामामुक्तिः परिधानं ततः. १८. जिनस्य. १९. रागो मन्मयातक्तिपि. २०. होत. गानन्द हल. -- ३ ६० काव्यमाला। . . . मुद्राभिर्मुद्रितोऽलंकरणविधिकृता वज्रिणाहत्करो यः सोऽहांस्यद्वाय हन्तु प्रविहितविनतेर्भक्तिभाजो जनस्य ॥ १५ ॥ स्रष्टाजस्रं श्रियो यः शिवपुरपंथिकासमहानोचितायाः कोपाधीशैनिशान्ते नेमुचिरिपुगिरासद्महा नो चितायाः । आनीयानीय नित्यं परमगुरुकरः पर्वशैलीक्षयाय- प्राप्तेर्हेतुः प्रधानो भवतु स भवतां पर्वशालीक्षयाय ॥ १६ ॥ युक्ता यम॑न्नृजिम्ना मसृणितपरुपोऽग्रेऽर्धचन्द्रायमाणा- नङ्गुल्यः संदधानाः सघृणिनखमणीन्द्राघिमोद्धस्वरूपाः । पुष्पेपोनिर्जितस्येपव इव विषमाः संग्रहीता विभान्ति १२क्षेपीयः पातकान्तं प्रजनयतु स वः पाणिरहद्भुजस्थः ॥ १७ ॥ बनेनापीद्धधाम्ना परिहृतमिदमालोक्य पातालमूलं सव्यालत्वात्करालं तिमिरभरभृतं भीरुणेवेति यस्य । वीक्ष्यन्तेऽधो विविक्षन्त्य इव ननु भुवो भ्राजनाथ नखामाः स्त्रस्तस्य ध्यानकाले दलयतु दुरितं वः स जैनेन्द्रपाणिः ॥ १८ ॥ यो नान्वीतो जडिम्ना नयति न कुमुदं नंद) दीप्यमानो न ज्योतिया॑नियुक्तोऽहनि मलिनतमं लक्ष्म धत्ते न मध्ये । सोल्लासं नो नदीनं जनयति लभते धाम दोपोदयान्नो सोऽपूर्वो यन्नखेन्दुश्चरैमतनुशयो योग्यतां वो युनक्तु ॥ १९ ॥ अर्थव्यक्ति विविक्तां विदधति वहवो यां करा हारिदश्वा विश्वमिंस्तीव्ररूपाः प्रशममितवतैकाकिना सा मयापि । १. शिवपुरपथिकाश्च तेऽसमानोऽनगारास्तेषां हानं त्यागस्तस्योचिताया योग्यायाः. २. इन्द्रवचनेन. ३. असद्महा नो किं तु साहाः सत्तेजोविशिष्टः करः. ४. पूरितायाः. ५. पर्वयुक्तः. ६. ईक्षया दर्शनेनायस्य शुभावहविधेः प्राप्तेर्हेतुः, ७. पर्वाण्युत्सवानि श्यन्ति तनूकुर्वन्तीति पर्वशा विपक्षास्तेयामाली पद्धिस्तस्याः क्षयाय. ८. ऋजुत्वेन. ९. लक्ष्णग्रन्ययः. १०. दीर्घत्वेन प्रशस्तरूपाः. ११. पसंख्याकाः. १२. क्षिप्रतरम्. १३. कुत्सितां मुदम्. १४. समुद्रम्. पक्षे दीनं न. १५. चरमतनर्जिनस्तस्य हस्तः.

-- १० जिनशतकम् । प्रोचैनिष्पाद्यतेऽमुं मयमिव वहता धार्यते वैजयन्ती येनासौ युष्मदाधेर्वधकरणपटुढेसक्तः करोऽस्तु ।। २० ॥ श्रद्धालोर्यो विधत्ते विविधबुधधृतीरेधयन्बोधवृद्ध्या धैर्य धामद्धिमिद्धां धनमपनिधनं शुद्धबुद्धि धरित्रीम् । व्याधिध्वंसं पुरंध्रीजितविबुधवधूधर्मवृद्धः समृद्धि धर्मोक्तौ वः स धत्तां धियमधिकधृति प्रोद्धृतो बौद्धहस्तः ॥ २१ ॥ ज्येष्ठासक्तं संचित्रं गुरुमहिमपुनर्वस्खपोढात्मकं नो नित्यं सत्कृत्तिकं यजनितवृषतुलं व्यक्तमीनं सकुम्भम् । व्योमेवाभाति किं तु प्रविरहितमलं शून्यवृत्त्यात्युदात्तं छिन्द्यात्कृच्छ्राणि तद्वः सुमृदु करतलं निवृतेरीश्वरस्य ॥ २२ ॥ दारिद्याद्रेर्महेन्द्रप्रहरणसमतां यो विभेदे विभर्ति प्राकाश्ये विश्ववेश्मोदरविवरगतस्यार्थजातस्य दीपः । हस्तालम्बोऽवलम्बो गुरुतरनरकागाधकूपप्रपाते पौतात्पातात्स हस्तस्तमसि तततमे वो विनेतुत्रिलोक्याः ॥ २३ ॥ यः प्रोद्यद्विद्रुमद्युत्कररुहमणिमन्मस्तकाङ्गुल्यहीन्द्रः सत्सत्त्वोऽपारिजातः पुनरसुरैतनुः साधुमुक्ताफलश्रीः । चक्रे हस्तः समुद्रो दशशतनयनेनोन्मुंदा मूर्ध्नि मेरोः कृच्छ्रोच्छायं छिनत्तु प्रतिहतसुपमं वः स जेतुः सरस्य ॥ २४ ॥ सत्स्कन्धावद्धमूलावृजितभुजलतालग्नमम्लानरूपं बिभ्रद्वन्धूककान्ति करतलमचलं पल्लवभ्रान्तिभाग्भिः । १. जयपताका का मया सह स्पर्धेत्येवरूपा. २. बुद्धो जिनस्तत्सबन्धी. ३. ध. मोक्तौ धर्मकथने प्रोद्धृत उकृितः, ४. ज्येष्ठेषु वृद्धेष्वेवोपदेशार्थमासक्तम्. ५. श- सचक्रादि चित्रसहितम्. ६. गुरुमहिमा यस्य. ७. पुन पुनरपि वमुना तेजता अपोढात्मकं रहितात्मक नो. ८. सती शोभना कृत्तिश्चम यस्य. ६. यूपतुलामीनकुम्मा रेखात्मकाः. १०. शून्यवृत्त्या अलमत्यर्थ प्रविरहितम्. व्योमपक्षे तु ज्येष्टाचित्रागुरुएनर्व- सुकृत्तिकावृषतुलामीनकुम्भराब्दाः प्रसिद्धार्थाः, व्योम স্থান भवति. ११. अस्सलिनः. १२. रक्षतात्. १३. अपगतशत्रुसमूहः पारिजातरहितश्च. १४. असूनातीयमुरा गान- प्रदा तनुर्यस्य । पक्षे सुरारहितदेहः. १५. मुद्रासहित' सागरच. १६. उगाहर्षे. १७. अजिता सरला. .

६२ काव्यमाला। मौग्ध्यात्सारङ्गशावैर्वनगहनभुवि ध्यानवृत्तेर्विधातुः सिद्धेर्लेलिह्यते यत्तदवतु पतनादापदन्तः सदा वः ॥ २५ ॥ इति श्रीजम्बूकविविरचिते जिनशतके जिनहस्तवर्णनं नाम द्वितीयः परिच्छेदः । मल्लक्ष्म्या क्षिप्तदीप्ति प्रलपदलिरवैर्वारिणीन्दीवरं वो मॉ शक्त्या वियुक्तं संदलमपि जये वाञ्छतीत्युच्छलच्छुि । हर्षात्कोत्प्रफुल्लं किमिदमिति जनैः कल्प्यतेऽनल्पधीभि- र्यचक्षुर्वीक्ष्यमाणं क्षणमहितहति तत्तनोत्वाप्तवक्रम् ॥ १ ॥ भास्वान्भाखानपि वैणिभिरनणुभिर्यत्तमोऽनुत्तमं नो नेता नेतुं तनुत्वं तदतनिम मनो मोहयन्मानवानाम् । मुष्णद्धिष्ण्यं गुणानामगुणमपि मुखं खण्डितामूर्तिकीर्ते- स्तथ्यं पथ्यं प्रथीयः प्रदिशतु दशनाभीशुभिः शोभितं वः ॥ २ ॥ यस्य स्यादन्तरात्मा कलितमलिनिमा चञ्चलश्च स्वभावा- तुल्यद्धि स्पर्धयान्यं क्रमत इति सहीतीव धात्रा व्यधायि । मर्यादाथै यदन्तर्निहितनयनयोः सेतुबन्धायमानो नासावशो जिनास्यं दिशतु शमर्शनैः शाश्वतं तद्भवभ्यः ॥ ३ ॥ सोत्कण्ठाः कण्ठपीठोल्लठितजरठरुक्तारहाराभिरामा विभ्रत्योऽदभ्रमूर्तिस्तनभरमवलाः स्वर्भुवो याः समायुः । ध्यानध्वंसं विधातुं विकृतिमकृत यत्प्रत्युत प्रेक्ष्यमाणं तावेवास्यं जिनस्य प्रणुदतु तदधं वः स्वरूपश्रियैव ॥ ४ ॥ स्पष्टं जुष्टं ललाटं विकटतरमतिस्निग्धलम्बालकान्तैः कान्तं शान्तं दृशां शं दिशदनुकुरुते दृश्यमानाङ्कपङ्कम् । यस्योद्यत्पार्वणैणाङ्कनशकलमलं तद्भवद्भाग्यपुष्टि द्वेष्टर्दुष्टाष्टकर्मद्विप उपचिनुतादास्यमस्यत्तमांसि ॥ ५ ॥ १. सदलं सपरिकरमपि. २. आप्तस्य जिनस्य मुखम्. ३. समर्थः. ४. अगुणं तमोगुणादिरहितमपि गुणानां सौन्दर्यादीना धिष्ण्यम्. ५. खण्डिता अमूर्तेः कामस्य कीतिर्येन तस्य जिनस्य. ६. अतिशयेन पृथु. ७. एव. ८. शं सुखम्. ६. शीघ्रम्. १०. स्वर्गोत्पन्नाः. ११. समागताः.

६३ . - जिनशतकम् । दर्प कंदर्पशत्रोष्टसिति भगवता भ्रंशयित्वा यदाप्त क्रोधा धा विधायोद्धृतविततगुणं कार्मुकं तत्किमेतत् । आस्ते न्यस्तं लसद्भूयुगलमिति नृमि व्यते यत्र वत्रं तद्दष्टुर्विष्टपान्तर्गतनिखिलपदार्थाननर्थ हताद्वः ॥ ६ ॥ यत्कान्त्या त्याजितश्रीः क्षितिपतिरिव सत्कोपपत्रोरुदण्डे- राख्योऽपि क्षीणदा? वसति वनभुवि ब्रीडयेवाअखण्डः । तन्मौनीन्द्र विनिद्रं स्फुरदधरदलं कण्ठनालोपलीनं हरभृङ्गासङ्गि गुर्वी ग्लपयतु विपदं सन्मुखं युप्मदीयाम् ॥ ७ ॥ शान्तं श्वेतांशुशोचिःशुचिदशनमशं स्यदृशां दृश्यमानं विश्वक्लेशोपशान्ति दिशदतिविशदश्लोकराशि प्रकाशम् । निःशेषश्रीनिशान्तं शरणमशरणे नाशिताशेषशङ्क दिश्याद्वः शोभिताशं शिवमुपशमिनामीशितुः शश्वदास्यम् ॥ ८ ॥ दुष्टारिष्टानि दृष्टेऽप्यकृतविकृतिकान्येव निर्नामकानि क्षीयन्ते दक्षमक्ष्णां प्रविकसनकृति प्राणियूथस्य यत्र । नैशानीवांशुमालिन्यलिकुलमलिनान्यन्धकाराणि बन्धो- साधोमध्यलोकश्रितजनसमितेरास्यमस्यत्वधं तत् ॥ ९ ॥ व्यालम्बालोलनीलालकजलदयुजो राजमानाद्धिमानी- शुभैर्दन्तैः सद॑न्तैर्वरविवरभृतः प्रस्फुरगण्डैशैलात् । यसागौः शुद्धवर्णा प्रभवति सुमनोमानसं नन्दयन्ती तज्जैनेन्द्रं हिमाद्रेरिव दिविजनदी वो नुदत्वास्यमेनः ॥ १० ॥ दुर्बोधो दुर्विधैर्यः प्रवररदमणीन्धारयन्मध्यसंस्था- नस्तश्रेष्ठौष्ठमुद्रो व्यसन तशमप्रत्यलावाप्तिरुचैः । १. मुनीन्द्रसबन्धि. २. न शमशं दुःखम्. ३. स्पष्टतरयशासमूदन. ४. दन्ता अग्रे निर्गताः पर्वतैकदेशा अपि. ५. सत्पर्यन्तैः. ६. विवरं मुखान्तरालं गहाथ ५. गण्टा- वेव शैलाविति मुखपक्षे. ८. गङ्गा. ६, भाग्यहीनैः. १०. व्यतनशतगमे प्रत्यला समर्था अवाप्तिर्यस्य सः.

- १४ काव्यमाला। सुप्रापः प्रायशोऽसिञ्जिनवदननिधिर्बुद्धतत्त्वैः सुतत्त्वै- स्तत्त्वार्थ सत्वरं वस्त्वरयतु स गुरुर्वोद्भुमध्यामरूपम् ॥ ११ ॥ किं विम्बं पद्मवन्धोर्नहि दहनमहस्तन्मनाग्नेदमिन्दो- स्तर्हि स्यात्सत्कलङ्कं तदपि न विकलं लान्छनेनैतदेवम् । दृष्ट्वा द्वेषुर्बलस्य प्रमुदितहृदयास्तर्कयन्तेऽतिमुग्धा वध्वो मूय॑द्रिभर्तुर्यदेजितलपनं वस्तदेनस्तृणेढु ॥ १२ ॥ मान्ये मान्येन कारि खगशुभतरात्रेतिकृष्णातिकृष्णा चक्रे चक्रे दिशां यत्सिततरयशसि भ्रूलतारलतारा । रक्षौरक्षालिनीवत्यैवहितविधिना यत्र पापापापा- दव्यादयोपैदास्यं तदमेरैणगुरोर्वः सैदन्तं सद॑न्तम् ॥ १३ ॥ वक्षस्याधोक्षजे श्रीः परिवसति सदेतिप्रसिद्धि वृथार्था- मत्यर्थ भावयन्तोऽमिलपितविभवावाप्तितः कल्पयन्ति । साक्षालक्ष्मीरिहास्तेऽनवरतमिति यद्दर्शने याचकौघा- स्तद्वकं वैतरागं गुरुगदगहनध्वंसनाद्वो धिनोतु ॥ १४ ॥ श्रीमत्पौरंदरं दृग्नलिनघनवनं वानमप्यन्यदीप्ति प्रत्यक्षत्वेक्षणेन श्रवर्णपरिकरः खातिरक्तो धुंधप्रीः । खाभिर्यो दीधितीभिः कुरुत इतितरामाचरन्नप्यचण्ड- श्चण्डांशोः कर्म धर्माधिपलपनविधुर्वो विरुद्धं स वध्यात् ॥ १५ ॥ सद्रोणं सालकान्तं शिशिरघनतरच्छायमन्तद्विजांनी राज्यापूर्ण सदन्तच्छदलसदलिकं काननं निनं वः । १. प्रकटतरम्. २. दाहात्मकतेजोविशिष्टम्. ३. इन्द्रस्य. ४. अजितस्य जिनस्य लपनं मुखम्. ५. हिनस्तु. ६. कृष्णादप्यतिकृष्णा. ७. दिशां समूहे यद्गच्छत्सिततरं यशो यस्य. ८. कुटिलकनीनिका दृक्. ८. अरक्षा न विद्यते अन्या रक्षा यस्याः सा रक्षा. १०. अवहितेन धात्रा. ११. त्रपामापयति प्रापयति तस्मात्. १२. निरुपद्रवम्. १३. जिनस्य. १४. दन्तः सहितम्. १५. शोभनप्रान्तम्. १६. म्लानमपि. १७. प्रत्यक्ष- त्वेन यदीक्षण तेन. १८. श्रवणो कर्णी श्रवणं च नक्षत्रम्. १९. शोभना आतिर्गतिः. २०. बुधान्प्रीणयति. २१. अतिशयेन. २२. मुखपक्षे बाणः शब्दः. २३. दन्तानां पक्षिणां च पङ्कया. २४. इवार्थे वा. .

जिनशतकम् । । . . . सप्तसप्तेरिव विषमगतेरागसोऽतीव गुर्वी- मूल्यान्मन्मथानुन्मथितमुनिगणप्रष्ठकण्ठस्थलस्थम् ॥ १६ ॥ तर्न दत्ते स्थितिमयममदो नस्तथाप्येप सेव्यो नत्वात्सर्वदोा वहिरपि निरतैः पूर्वपृक्तेरितीव । गो गरीयस्यधरवरमणौ यत्र चित्रातिचण्ड- सात्संसारतो द्राङ्मृतिजनननुदस्त्रायतां वस्तदास्यम् ॥ १७ ॥ लिन्ययोगेऽप्यतिचपलतया योऽवदातानुयातः स्थारक्तवर्णो भवति स लभते भूरिशोभा सुवृत्तः । व्धा समाधौ बुवदिव युगलं तारयोर्लोचनान्त- वं राजते तन्मुखमुपशमयत्वार्हतं गर्हितं वः ॥ १८ ॥ यं दधद्भिर्वहुधवलगुणः संगतो गीयते य- दर्थानर्थदीत्यवितथमिव तत्कर्तुमालक्ष्यतेऽक्ष्णोः । र्णोपसर्पि द्वितयमुपवहाघिमाणं यदीयं शस्याननं तच्छकलयतु कलां काश्मली हेलया वः ॥ १९ ॥ त्वं निजा जयसि वहुरजः सत्कथं कथ्यतां मा- श क्षीयमाणस्त्वमपि किल मया स्पर्धसे सार्धमेवम् । वासलुब्धभ्रमदलिपटलप्रोच्छलद्राणतो य- व व्यक्तमक्तास्नपयतु रजसा वस्तदर्हन्मुखाजम् ॥ २० ॥ मत्वात्स्वकीयां क्षरदमृतरसां सौम्यतां न्यूनवृत्ति लोक्यालोकिताशः कृशतनुरविशत्वश्रियोऽन्तद्धिमिच्छुः । वादिवेन्दुर्मुडविकटजटाजूटरौद्राटवीं वो छत्वच्छिन्नवाञ्छं सुपममितमृतेराननं तन्मनोहृत् ।। २१ ॥ र्णः प्रपूर्ण चलगनिमिपं राजहंसोपजीव्यं न्यद्भूयुग्मभङ्गं त्रिदशमुनिगणासेवनीयं प्रसन्नम् । न्धात्. २. अरुणत्वं मानसो विकारश्च ३. निकटत्या अनुरक्ता वर्मा पस्य. ४. शब्दत . ५. रजसा पापेनात्तान् लिप्तान् ६. शोभनन्. य जिनस्य. अ म -- 4. Amer 1-tan- 4. प (+ -ul--- -- -- काव्यमाला। सच्छवं मानसाई सर इव तरसा मानसस्यातनोति प्रहत्ति वीक्षितं यत्तदरिविहतये वः शमीशास्यमस्तु ॥ २२ सेवा कर्तु किमेतौ मिहिरहिमरुची पार्श्वयोरेतदात्त- खश्रीलिप्साकुलाशाविति मनसि सतां शेमुपी प्रादुरस्ति । निर्वाकीर्णदीप्तिप्रतिहततमसी कुण्डले गण्डलग्ने यत्सत्कर्णापिनद्धे नयतु शिवपदं तन्मुनीन्द्राननं वः ॥ २३ अम्लानं मौलिमालोल्ललितकपिलरुग्धूलिलुब्धालिजालं व्यालोलारालकालालकममलकलालाञ्छनं यद्विलोक्य । लेखाली लालितालं प्रवलबलकुलोन्मूलिना शैलराजे प्रहन्ना लीलया वो दलयतु कलिलं लोलहक्तज्जिनास्यम् ॥ यद्वन्नासत्ययुक्तः सुरवरदयिताख्यातिमांस्त्वं पवित्रो गोभृगोत्रस्य हन्ता बलमिदहमपि त्वत्समानं तथैव । तस्मादविलेपं जहिहि हरिमितीवाहसत्सत्सितैर्य- तद्वो द्वन्द्वानि विद्वद्वरगुरुवदनं सुप्रसन्नं पिनष्टु ॥ २५ ॥ इति श्रीजम्बूकविविरचिते जिनशतके जिनमुखवर्णनं नाम तृतीयः परिच्छे ब्राह्मी त्रैमाधिभर्तुः कृतरतिरसकृद्वैव॒धानां विशुद्ध्या गुर्वी भाखत्सुवर्णानरुचिखचिता चारुचामीकराद्रेः । चूडा वा रोचमाना दिवि दिवसपतेर्भानुसीमानमुच्चै- रुल्लङ्घयालङ्घनीया बृहदवमवने वन्यवद्दीयतां वः ॥ १॥ १. परितोपमू. २. एतेन मुखेन आत्ता गृहीता या स्वधीः सूर्याचन्द्र कीया शोभा तस्या लल्धुमिच्छा तया आकुलमग ययोः. ३. विलोक्य, ४ कलः पूर्णिमा चन्द्रस्तस्येवासमन्तालाञ्छनम्. ५ देवपक्षिः ६. अत्यर्थ ७. इन्द्रेण. ८. मेरौ. ९. पविं वजं त्रायते पवित्र.. १०. गोत्राख्यस्य । जिनपक्षे. ११. बलं सनहनाख्य कर्म. १२. सकलोपद्रवान्, १३. वाणी परमपद तस्याधिभर्ता जिनः. १५. देवसमूहानाम. १६. अवने रक्षणे या रु --- - irr..

जिनशतकम् । ६७ इन्द्रबिंद्राणनिद्रं श्रितविधि विबुधैः सार्थक ऋक्षनाथैः सिद्धैः साध्यार्थसिद्ध्यै धुतदिति दितिनैः साधुभिः साधितार्थम् । गन्धीतगर्भ कृतकरमुकुलैः श्रूयमाणानणीयो जैनी गौौरवं वोऽतनुभुवनकुटीकोटरान्तः करोतु ॥ २ ॥ या मैन्दारैरशोकैः प्रविकचसुमनःशोभितैभिक्षुवृक्ष- स्तुङ्गैनीरोगमानैः सततमुपचिता भारती वैतरागी । स्वच्छायाच्छिन्नतापा विहितशुभफलालंकृतारामलेखा- तुल्या कल्याणमाल्यैर्वहुभिरिह तनूभूपयत्वाशु सा वः ॥ ३ ॥ यूथैर्या संयैतानां सुदृढनियमनान्मोक्षमाकामाणे- गुप्तैः संसृत्यटव्याश्रयणगमनतः संश्रितत्वादितीह । कारागारानुकाराप्यघनतरतमा निर्भया भ्रष्टवन्धा साधीयोधीधन.रतिसमधिकतां सा क्रियासिद्धगीर्वः ॥ ४ ॥ संसारोदन्वदम्भर्यमितिमृतिमहोमिण्यगण्योद्भवौर्व- शुद्धीमे लोभकुम्भीनसविषमतले मज्जतो जन्तुराशीन् । प्रत्यप्रान्तप्रथिम्नि स्मरमकरवति ब्रायजिह्मवरूपा निर्व्याजं नाव्यते या यतिपतिगदिता सा हताद्वो द्विषन्तम् ॥५॥ नामीष्टं विष्टपान्तः प्रति चरमचरं प्राणिनं प्राणितव्या- दन्यद्वस्त्वित्यवेत्य स्खमिव तदपि भो रक्षता क्षुद्रभावाः । भद्रं भोक्तं विमुक्त्यां यदि मतिरिति याकर्ण्यते कर्णरन्ब्रै. सा श्रीयोगीन्द्रगीर्वः प्रबलयतु बलं कालमल्लं विजेतुम् ।। ६ ।। द्रव्यादेशेन नित्यं यदितरदपि तत्पर्ययादेशतोऽस्मि- न्वस्त्वेवं यैकमेव प्रकटयति नयद्वन्द्वतो द्विप्रकारम् । १. साध्यस्यार्यस्य सिद्ध्यै धुता दिति. खण्डन यत्र. २. मन्द आर अग्मिमूही येषाम्. ३. नीरं पानीयं तस्यागमः प्राप्तिस्तेनानाः प्राणा येषा ते.; भिक्षपक्षे तु रागमा- नाभ्यां रहितैः. ४. उपवनराजीसमाना. ५. संयतास्तपस्विनो पद्धाश्च. ६. अमिनयों मृतयो मरणान्येव महान्तस्तरङ्गा यत्र. ७. नौग्विाचरति. ८. या वागरिश गरि एकमेव वस्तु द्विप्रकारं द्विमेदं प्रकटयति प्रतिपादयति । त । नगदन्दू नार्म द्रव्यास्तिकनय पर्यायास्तिकनयश्च तस्मात् । एवमित्यनेन प्रकारे।। यन्मृदादिवस्ट द्रव्यादेशनयापेक्षया नित्यं तत्पर्ययादेशत इतरदनित्यम्. ।

काव्यमाला। कुग्राहोग्रग्रहास्यप्रपतिततनुभृत्स्तोममुन्मोचयन्ती चेतोभूप्रच्युति वः सुमतियतिपुरोगस्य सा वाग्विधेयात् ॥ ७ ॥ निर्दोपा सन्निशीथाप्यवितथरचना सत्यहीनापि नित्यं सद्गुप्तिर्मोक्षदापि श्रुतयममहिमाप्युन्नतासत्कृतान्ता । द्विष्टार्था सार्थकापि स्खलितपरमताप्युन्नतासत्तमाया- मारोप्यात्सा पदव्यां प्रशमिपरिवृढवायलं वोऽविलम्बम् ॥ ८॥ सत्या सत्यानताङ्गे तनुमति भविका सर्वदा सर्वदाग- स्तानेऽस्तानेकशर्मण्यपि विनिपतिते स्तूयमानीयमाना । नाशं नाशतितार्था भवतु कविशतैः पूरिताशारिताशा गौर्वा गौमिपङ्के मुनिपलपनभूर्वः सदावासदावा ॥ ९ ॥ वाचो वोऽर्चामचिन्त्याचलचरणरुचेश्चुचुरन्मा चिराया- त्युच्चैस्ताश्चोरयन्त्यो रुचिमतिशुचयो नीचवाक्तारकाणाम् । याश्चण्डाश्चण्डवक़रुच इव निचितं चित्तभूध्वान्तचित्या सच्चेतोम्भोजचक्रं प्रचुररुचिचितं कुर्वते चित्रचाराः ॥ १० ॥ श्रोतृन्वृन्दारकादीन्प्रणिहितकरणानादराद्देशनायां संसद्यासाद्य सद्यः 'परिणमति वचोऽहन्मुखान्निर्गतं सत् । तेषां भाषाविशेपैविषमिव विपदाद्भविभागान्विभिन्ना- न्खैः स्वैर्वर्णैः सुवर्ण यदनुगुणयतात्स्वश्रुतौ तन्मनो वः ॥११॥ या वारिक्षीरयोर्वा प्रकृतिपुरुषयोः श्लिष्टयोस्त्रोटयन्ती संवन्धं निर्विवन्धं ललितपदगती रामरामेव रम्या । सा वः शुक्लाभदेहा दहतु महदपि क्षुद्रपक्षद्रुमाणां वृन्दं वृन्दारकादीश्वरसभसरसीभूपणा वाग्जिनस्य ॥ १२ ॥ १. निशीथो ग्रन्थविशेषः.२. सती शोभना अहीना च. ३. असनविद्यमानः कृतान्तो यमो यस्याम्; अन्यत्र सत्कृतान्ता शोभनसिद्धान्ता. ४. द्विष्टोऽर्थी द्रव्यादिर्यया.५. सर्वे ददातीति सर्वदा. ६. पापविस्तारे, ७, वामपड़े मिथ्यादृष्टिरूपकर्दमे नाशमयमाना.ग. च्छन्ती. ८. अरितां शत्रुतां श्यति सा. ६. सदावासो मोक्षस्त ददति ते ज्ञानादय- स्तानवति सा. १०. मदनान्धकारसमूहेन. ११. पर्यायान्तरमनुभवति, १२. जलमित्र. १३. जलदात्, १४. कर्मजीवयोः. १५. मनोहरवनितेव.

जिनशतकम् । ६९ गृभुत्वात्तत्त्वगन्धाधिगमविपयतः संपतद्भिः समुद्भिः सद्भिः सद्भिद्विरेफैरिव मधुररवैश्चारुपक्षैः सुदः । यत्प्राप्य प्राप्यते शं वरिनकरिमदाम्भोवदाप्तं वचो व- स्तत्क्लेशाश्लेषशोपोपशमकृतिविधि प्रत्यलंभूप्णु भूयात् ॥ १३ ॥ नानावणैर्विचित्रा रुचिरगुणशतैः कल्पितानल्पशोभा शुद्धाधिक्यान्महार्घा हृदि मुदमधिकं संदधाना ग्रहीतुः । शाटं वः सत्पटीवोत्कटकटुकफलाकार्यशीतस्य गौ- संपर्कात्कुर्वती श्रीसुखमतितनुतात्सा जितोत्सेकमूर्तेः ॥ १४ ॥ प्रोत्खातासंख्यदुःखाखिलजनसुखकृत्खण्डिताखण्डखेदं खड्गाभा मूर्खमुख्यप्रखलमुखरताशाखिशाखा विलेखे । ख्याता वाग्लेखसंख्याप्रमुखशतमखाम्यचिंता खण्डशो वः संख्यं प्रेवेन्मनोभूविशिखमुखभिदः खण्डयत्वस्खलन्ती ॥१५॥ वर्णैः पूर्णाप्यवर्णा कुजनपरिचिताप्याप्तलोकैविनता साराप्युच्चैरसारा 'रैतिसुखकृदपि प्रास्तकंदर्पदर्पा । या सन्निष्ठाप्यनिष्ठा प्रविदितजगतो भारतीनां रतीनां सा युष्माकं निमित्तं त्वरितमुपदधात्वित्यनेकप्रकारा ॥ १६ ॥ भद्रा द्रोणी समुद्रे द्रविणवरनिधिर्धनायेऽपिधानः वापस्त्वोनूपपातापदि परिपततां कूवरी दुर्गमागें । युद्धे साध्वायुधश्रीः शशिसमयशसां योनिरौर्यार्यगीर्या सा युष्माकं महाधिप्रधनविधुरताध्वस्तयेऽस्तु प्रशता ॥ १७ ॥ १. इन्द्रगजदानोदकवत् २ आप्तो जिनस्तस्येदमाप्तम्. ३. समर्थन. ४. नागम्. ५. उत्कटकटुकं फल यस्य तादृश यदकार्य दुष्कर्म तदेव शीत तस्य. ६. जितगर्वा मूर्तिर्यस्य । शान्ताकृतरित्यर्थः. ७. छेदने. ८. मोहरूपं प्रेम. ९. जिनस्व. १०. गटा- दिवर्णरहिता. ११. भूमिस्थलोकैः. १२. अभिष्टुता. १३. सारो गमनं तद्रहिता । न्यिो- त्यर्थः. १४. रतिसुखं कृन्ततीति विरोधपरिहारः. १५. सनिष्पत्ति गहिना च. १६. भारती वाणी ईना लक्ष्मीणा रतीनां च निमित्त त्वरितमपदधातु. १५. नौका. १८. धनाभिलाषेऽपिधानो मुद्रणरहितो द्रवणवरनिधिः. ५९. निर्जरदेशगमनायदि स्वापः शोभनजलम्. २०. रथः. २१. आर्याणा तपस्विनामर्य स्वामी जिनलस्य गीः.

काव्यमाला । + . . भूमानं विभ्रतोऽपि प्रकटयति अटित्योजसा स्वेन हानि स्नेहस्योचैः पतङ्गप्रभृतितनुमतोऽवन्त्यनित्यत्वशून्या । यान्याहक्षेव साक्षात्कृतनयनपथातीतवस्तुवरूपा दैपी वर्तिः कुवृत्तीरपहरतुतरामर्हतां वागसौ वः ॥ १८ ॥ ज्योतिमैत्रं न यत्र प्रविचरति रुचिनॆन्दवी न प्रकाश्यं यद्भासां चित्रभानोरनणुमणिरुचां गोचरे यच्च नैव । वस्तु प्रत्यक्षयन्ती तदपि मुदमितैः प्राप्तरूपैर्नुता या साहारत्यरत्या वियुततनुलतान्वः क्रियादक्रमेण ॥ १९ ॥ सालंकारां करोति श्रुतिमति विशदन्यायरत्नोद्भटश्रि श्रीमद्भिर्धार्यमाणं गतमतिविभवैर्दुर्लभं भास्वराङ्गम् । सद्वृत्तोदात्तरूपं व्युपरतविकृतेर्यत्तुलां कुण्डलस्य क्षिप्रं विभ्रक्रियाद्वो वचनमुपचितिं चिन्तितानां तदय॑म् ॥२०॥ नाश्रेयांसि श्रितानां न भयतरलता श्रूयते श्राद्धदेवा- दश्रीणां नाश्रयोऽनु स्तुतिरपि न नवा विस्त्रेसा न श्रमो वः । नाविश्रम्भश्रुतिर्न श्रवणकटुवचो यत्र तत्स्थानमीयुः श्रुत्वा यां श्रीनिनस्याश्रियमभिभवताद्गौरसौ स्राक् श्रुतीष्टा ॥२१॥ मिथ्यादृक्पाथसान्तर्भूतगुरुविपदावर्तगतै गरीयः- सर्पकंदर्पसपै प्रचरितकुनयानेकनकादिचक्रम् । यत्प्राप्य प्रोत्तरन्ति प्रततमपि भवाम्भोनिधिं साधुवन्धं पातात्पोतायमानं तदैवमपतनाज्जैनचन्द्रं वचो वः ॥ २२ ॥ सोन्मुद्भिर्जन्मवद्भिः शिखिभिरिव समाकर्णिता निर्णयन्ती क्लेशग्रीष्मोप्मशोषं स्वमहिमभवनात्संहरन्ती रजांसि । विस्फूर्जन्नीतिधारानिकरपतनतः प्रावृपा या समाना मांनारेर्माननामाप्यपनुदतु भवत्स्वाशु सा सूनृता वाक् ॥ २३ ॥ १. पण्डितै'. २. शीघ्रम् । विशदा न्याया नीतय एव रत्नानि. ३. जिनस्य. ४. य. मात्. ५. जरा. ६. रक्षतात्. ७. पापपातात् ८. अपनयन्ती. ९. स्वकीयमाहात्म्य- भावात. १०. जिनस्य. .

:- वैराग्यशतकम् । ७१ लक्ष्मी, दुग्धसिन्धोर्धरणिधरवराज्जहुकन्येव मान्या श्यामशाचन्द्रिकेवाभिनवजलधरादम्भसः श्रीरिवोच्चैः 1. ध्वान्तावन्धोरहःश्रीरिव समुदभवद्भारती रत्यधीन्द्रं द्रोग्धुर्या सा निधेयादधरितविबुधाधीशराज्ये पदे वः ॥ २४ ॥ नाक्षेमं क्षुद्रपक्षात्क्षणमपि लभते संभ्रमेणेह विभ्र- त्कण्ठे निर्लोव्य शाठ्यं कुशमसदृशोद्भासितां भ्रंशयन्तीम् । यां रक्षां वा विवेकी बहुविधविपदा भेदिकां दैन्यशून्या- न्युष्मान्मान्याग्रगस्याननवनजशया वागसौ द्राग्विधेयात् ।। २५ ।। इति श्रीजम्बूगुरुविरचिते जिनशतके जिनवाग्वर्णन नाम चतुर्थः परिकोट । समाप्तमिदं जिनशतकम् । - श्रीपद्मानन्दकविप्रणीत वैराग्यशतकम् । त्रैलोक्यं युगपत्कराम्बुजलुठन्मुक्तावदालोकते जन्तूनां निजया गिरा परिणमद्यः सूक्तमाभापते । स श्रीमान्भगवान्विचित्रविधिभिर्देवासुरैरचितो वीतत्रासविलासहासरभसः पायाजिनानां पतिः ॥ १ ॥ यैः क्षुण्णाः प्रसरद्विवेकविना कोपादिभूमीभृतो योगाभ्यासपरश्वधेन मथितो यैर्मोहधात्रीरुह. । वद्धः संयमसिद्धमन्त्रविधिना यैः प्रौढकामज्वर- स्तान्मोक्षैकसुखानुषगरसिकान्वन्दामहे योगिन ॥ २ ॥ यैस्त्यक्ता किल शाकिनीवदसमप्रेमाञ्चिता प्रेयसी लक्ष्मीः प्राणसमापि पन्नगवधूवमोज्झिता दूरनः । १. ध्वान्तशत्रो.. २. रत्यधीन्द्रं कामं दोग्धुढेष्टर्जिनात् ३ इव. ४. जिनन्य. ५. मुखकमलस्था. ६. कवेरस्य देशकालौ न ज्ञायेते. एकमेव पुस्तकमत्य शतकस्य प्राय. शुद्धं पत्रचतुष्टयात्मक सवेगिसाधुसत्तमश्रीशान्तिविजयमुनिभिरत्मभ्यं प्रदिन तदाधारं णेतन्मुद्रणं विहितम्. ७. वजेण. १ ७२ काव्यमाला । मुक्तं चित्रगवाक्षराजिरुचिरं वल्मीकवन्मन्दिरं निःसङ्गत्वविराजिताः क्षितितले नन्दन्तु ते साधवः ॥ ३ ॥ यः परवादे मूकः परनारीवक्रवीक्षणेऽप्यन्धः । पङ्गुः परधनहरणे स जयति लोके महापुरुषः ॥ ४ ॥ आक्रोशेन न दूयते न च चटुप्रोक्त्या समानन्धते दुर्गन्धेन न वाध्यते न च सदामोदेन संप्रीयते । स्त्रीरूपेण न रज्यते न च मृतश्चानेन विद्वेप्यते माध्यस्थ्येन विराजितो विजयते कोऽप्येप योगीश्वरः ॥ १ ॥ मित्रे नन्दति नैव नैव पिशुने वैरातुरो जायते भोगे लुभ्यति नैव नैव तपसि क्लेशं समालम्बते । रत्ने रज्यति नैव नैव दृपदि प्रद्वेपमापद्यते येषां शुद्धहृदां सदैव हृदयं ते योगिनो योगिनः ॥ ६ ॥ सौन्दर्यैकनिधेः कलाकुलविधेर्लावण्यपाथोनिधेः पीनोत्तुङ्गपयोधरालसगतेः पातालकन्याकृतेः । कान्ताया नवयौवनाञ्चिततनोयेंरुज्झितः संगमः सम्यङ्मानसगोचरे चरति किं तेषां हताशः स्मरः ॥ ७ ॥ शृङ्गारामृतसेकशालरुचिर्वक्रोक्तिपत्रान्विता प्रोद्गच्छत्सुमनोभिपङ्गसुभगा स्त्रीणां कथावल्लरी । यैर्ब्रह्मव्रतपावकेन परितो भरमावशेपीकृता किं तेपां विपमायुधः प्रकुरुते रोपप्रकऽपि रे ॥ ८॥ आताम्रायतलोचनाभिरनिशं संतW संतयं च क्षिप्तस्तीक्ष्णकटाक्षमार्गणगणो मत्ताङ्गनाभिर्भृशम् । तेपां किं नु विधास्यति प्रशमितप्रद्युम्नलीलात्मनां येषां शुद्धविवेकवज्रफलकं पार्थे परिभ्राम्यति ॥ ९ ॥ अग्रे सा गजगामिनी प्रियतमा पृष्ठेऽपि सा दृश्यते धान्यां सा गगनेऽपि सा किमपरं सर्वत्र सा सर्वदा । १. नागकन्यातुल्यायाः, वैराग्यशतकम् ।। 1 . . आसीद्यावदनङ्गसंगतिरसस्तावत्तवेयं स्थितिः, संप्रत्यास्यपुरःसरामपि न तां द्रष्टासि कोऽयं लयः ॥ १० ॥ योगे पीनपयोधराञ्चिततनोविच्छेदने विभ्यता मानस्यावसरे चक्तिविधुरं दीनं मुखं विभ्रताम् । विश्लेषसरवहिनानुसमयं दन्दह्यमानात्मनां भ्रातः सर्वदशासु दुःखगहनं धिक्कामिनां जीवितम् ॥ ११ ॥ मध्ये खां कृशतां कुरङ्गकदृशो भ्रूनेत्रयोर्वक्रतां कौटिल्यं चिकुरेपु रागमधरे मान्धं गतिप्रक्रमे । काठिन्यं कुचमण्डले तरलतामक्ष्णोनिरीक्ष्य स्फुट वैराग्यं न भजन्ति मन्दमतयः कामातुरा ही नराः ॥ १२ ॥ पाण्डुत्वं गमितान्कचान्प्रतिहतां तारुण्यपुण्यश्रियं चक्षुः क्षीणवलं कृतं श्रवणयोर्वाधिर्यमुत्पादितम् । स्थानभ्रंशमवापिताश्च जरया दन्तास्थिमांसत्वचः पश्यन्तोऽपि जडा हहा हृदि सदा ध्यायन्ति तां प्रेयसीम् १३ अन्यायार्जितवित्तवत्वचिदपि भ्रष्टं समस्तै रदै- स्तापक्रान्ततमालपत्रवदभूदङ्गं वलीभगुरम् । केशेषु क्षणचन्द्रवद्धवलिमा व्यक्तं श्रितो यद्यपि खैरं धावति मे तथापि हृदयं भोगेपु मुग्धं हहा ॥ १४ ॥ उद्णन्ति प्रपञ्चेन योपितो गद्गदां गिरम् । तामामनन्ति प्रेमोक्ति कामग्रहिलचेतसः ॥ १५ ॥ यावयुष्टरसक्षयाय नितरां नाहारलौल्यं नितं सिद्धान्तार्थमहौषधेनिरुपमश्चू! न जीणों हृदि । पीतं ज्ञानलघुदकं न विधिना तावत्सरोत्यो ज्वरः शान्ति याति न तात्त्विकी हृदय हे पेरलं भेपनं. ॥ १६ ॥ शृङ्गारद्रुमनीरदे प्रसमरक्रीडारसत्रोतसि प्रद्युम्नप्रियवान्धवे चतुरवामुक्ताफलोइन्वति । - --- .

७४ काव्यमाला। - तन्वीनेत्रचकोरपार्वणविधौ सौभाग्यलक्ष्मीनिधी धन्यः कोऽपि न विक्रियां कलयति प्राप्ते नवे यौवने ॥ १७ ॥ सम्यक्परिहृता येन कामिनी गजगामिनी । किं करिष्यति रुष्टोऽपि तस्य वीरवरः स्मरः ॥ १८ ॥ लज्जेयं प्रलयं प्रयाति झटिति.ब्रह्मव्रतं भ्रश्यति ज्ञानं संकुचति सरज्वरवशात्पश्यामि यावत्प्रियाम् । यावत्तु स्मृतिमेति नारकगतेः पाकक्रमो भीषण- स्तावत्तत्त्वनिरीक्षणात्प्रियतमाप्येपा विपौघायते ॥ १९ ॥ कारुण्येन हता वधव्यसनिता सत्येन दुर्वाच्यता संतोपेण परार्थचौर्यपटुता शीलेन रागान्धता । नैर्ग्रन्थ्येन परिग्रहग्रहिलता यैर्यौवनेऽपि स्फुटं :: पृथ्वीयं सकलापि तैः सुकृतिभिर्मन्ये पवित्रीकृता ॥ २० ॥ यत्राजोऽपि(2) विचित्रमञ्जरिभरव्याजेन रोमाञ्चितो दोलारूढविलासिनीविलसितं चैत्रे विलोक्याद्भुतम् । सिद्धान्तोपनिपन्निषण्णमनसां येषां मनः सर्वथा तस्मिन्मन्मथबाधया न मथितं धन्यास्त एव ध्रुवम् ॥ २१ ॥ खाध्यायोत्तमगीतिसंगतिजुपः संतोपपुप्पाञ्चिताः सम्यग्ज्ञानविलासमण्डपगताः सध्यानशय्यां श्रिताः । तत्त्वार्थप्रतिबोधदीपकलिकाः क्षान्त्यङ्गनासगिनो निर्वाणैकसुखाभिलापिमनसो धन्या नयन्ते निशाम् ॥ २२ ॥ किं लोलाक्षि कटाक्षलम्पटतया किं स्तम्भजृम्भादिभिः .. कि प्रत्यङ्गनिदर्शनोत्सुकतया कि प्रोडसच्चाटुभिः । आत्मानं प्रतिबाधसे त्वमधुना व्यर्थ मदर्थ यतः शुद्धध्यानमहारसायनरसे लीनं मदीयं मनः ॥ २३ ॥ सज्ज्ञानमूलशाली दर्शनशाखश्च येन वृत्ततरुः । श्रद्धाजलेन सिक्तो मुक्तिफलं तस्य स ददाति ॥ २४ ॥ .

वैराग्यशतकम् । क्रोधाधुग्रचतुष्कपायचरणो व्यामोहहस्तः सखे रागद्वेषनिशातदीर्घदशनो दुरिमारोद्धरः । सज्ज्ञानाङ्कुशकौशलेन स महामिथ्यात्वदुष्टद्विपो नीतो येन वशं वशीकृतमिदं तेनैव विश्वत्रयम् ॥ २५ ॥ दृश्यन्ते वहवः कलासु कुशलास्ते च स्फुरत्कीर्तये सर्वखं वितरन्ति ये तृणमिव क्षुरैरपि प्रार्थिताः । धीरास्तेऽपि च ये त्यजन्ति झटिति प्राणान्कृते स्वामिनो द्वित्रास्ते तु नरा मनः समरसं येषां सुहृद्वैरिणोः ॥ २६ ॥ हृदयं सदयं यस्य भाषितं सत्यभूपितम् । कायः परहितोपायः कलिः कुर्वीत तस्य किम् ॥ २७ ॥ नास्त्यसद्भापितं यस्य नास्ति भङ्गो रणागनात् । नास्तीति याचके नास्ति तेन रत्नवती क्षितिः ॥ २८ ॥ आनन्दाय न कस्य मन्मथकथा कस्य प्रिया न प्रिया लक्ष्मीः कस्य न वल्लभा मनसि नो कस्याङ्गजः क्रीडति । ताम्बूलं न सुखाय कस्य न मतं कस्यान्नशीतोदकं सर्वाशाद्रुमकर्तनैकपरशुर्मृत्युर्न चेत्स्याजनोः ॥ २९ ॥ भार्येयं मधुराकृतिर्मम मम प्रीत्यन्वितोऽयं सुत. स्वर्णस्यैष महानिधिर्मम ममासौ वन्धुरो बान्धवः । रम्यं हर्म्यमिदं ममत्थमनया व्यामोहितो मायया मृत्यु पश्यति नैव दैवहतकः क्रुद्धं पुरश्चारिणम् ॥ ३० ॥ कष्टोपार्जितमत्र वित्तमखिलं द्यूते मया योनितं विद्या कष्टतरं गुरोरधिगता व्यापारिता कुतुनौ । पारम्पर्यसमागता च विनयो वामेक्षणायां कृत सत्पात्रे किमहं करोमि विवशः कालेऽव नेटीयसि ॥ ३१॥ आत्मा यद्विनियोजितो न विनये नोग्रं तप. प्रापितो न क्षान्त्या समलंकृतः प्रतिकलं सत्येन न प्रीणितः ।

७६ काव्यमाला। . - ---तत्त्वं निन्दसि नैव कर्महतकं प्राप्ते कृतान्तक्षणे दैवायैव ददासि जीव नितरां शापं विमूढोऽसि रे ॥ ३२ ॥ वालो यौवनसंपदा परिगतः क्षिप्रं तितो लक्ष्यते वृद्धत्वेन युवा जरापरिणतो व्यक्तं समालोक्यते । सोऽपि क्वापि गतः कृतान्तवशतो न ज्ञायते सर्वथा पश्यैतद्यदि कौतुकं किमपरैस्तैरिन्द्रजालैः सखे ॥ ३३ ॥ द्वारं दन्तिमदप्रवाहनिवहै]पामभूत्पङ्किलं ग्रासाभाववशान्न संचरति यद्रकोऽपि तेपां पुनः (१)। येऽभूवन्विमुखाः खकुक्षिभरणे तेपामकरसादहो यच्च श्रीरिह दृश्यतेऽतिविपुला तत्कर्मलीलायितम् ॥ ३४ ॥ नापत्यानि न वित्तानि न सौधानि भवन्त्यहो । : , मृत्युना नीयमानस्य पुण्यपापे परं पुरः ॥ ३५॥ तेऽहंकृतिनिग्रहं मृदुतया पश्चात्करिष्याम्यहं प्रोद्यन्मारविकारकन्दकदनं पञ्चेन्द्रियाणां जयात् । व्यामोहप्रसरावरोधनविधि सध्यानतो लीलया नो जानाति हरिप्यतीह हतकः कालोऽन्तराले किल ।। ३६ ।। बद्धा येन दशाननेन नितरां खट्दैकदेशे जरा द्रोणाद्रिश्च समुद्धृतो हनुमता येन स्वदोलीलया । श्रीरामेण च येन राक्षसपतिस्त्रैलोक्यवीरो हतः सर्व तेऽपि गताः क्षयं विधिवशात्कान्येषु तद्भोः कथा ॥३७॥ सर्वभक्षी कृतान्तोऽयं सत्यं लोके निगद्यते । , रामदेवादयो धीराः सर्वे क्वाप्यन्यथा गताः ॥ ३८ ॥ मिथ्यात्वानुचरे विचित्रगतिभिः संचारितस्योद्भटै- रत्युग्रभ्रममुद्गराहतिवशात्संमूर्छितस्यानिशम् । संसारेऽत्र नियन्त्रितस्य निगडेर्मायामयैश्चोरव- न्मुक्तिः स्यान्मम सत्वरं कथमतः सद्वृत्तवित्तं विना ॥ ३९ ॥ - वैराग्यशतकम् । . दुष्प्रापं मकराकरे करतलाद्रत्नं निमग्नं यथा संसारेऽत्र तथा नरत्वमथ तत्प्राप्तं मया निर्मलम् । भ्रातः पश्य विमूढतां मम हहा नीतं यदेतन्मुधा कामक्रोधकुवोधमत्सरकुधीमायामहामोहतः ॥ ४० ॥ येनेह क्षणभङ्गुरेण वपुपा क्लिन्नेन सर्वात्मना सब्यापारवियोजितेन परमं निर्वाणमप्याप्यते । प्रीतिस्तेन हहा सखे प्रियतमावक्रेन्दुरागोद्भवा क्रीता स्वल्पसुखाय मूढमनसा कोट्या मया काकिणी ॥४१॥ क्रीडाकारि परोपहासवचनं तुष्टयै परव्यंसनं कान्ता काञ्चनसुन्दराङ्गलतिका कान्तैव पृथ्वीतले । भव्यो द्रव्यसमर्जने किल महारम्भोद्यम कि तु रे भेदच्छेदनताडनादिविधिना रौद्रो महारौरवः ॥ ४२ ॥ कंदर्पप्रसरप्रशान्तिविधये शीलं न संशीलितं लोभोन्मूलनहेतवे स्वविभवो दत्तो न पात्रे मुदा । व्यामोहोन्मथनाय सद्गुरुगिरां तत्त्वं न चाङ्गीकृतं दुष्प्रापो नृभवो मया हतधिया हा हारितो हारितः ।। ४३ ॥ सौख्यं मित्रकलत्रपुत्रविभवभ्रशादिभिर्मगुरं कासश्वासभगंदरादिभिरिदं व्याप्तं वपुर्व्याधिभिः । भ्रातस्तूर्णमुपैति संनिधिमसौ कालः करालाननः कष्टं किं करवाण्यहं तदपि यञ्चित्तस्य पापे रतिः ॥ ४४ ॥ संसारे गहनेऽत्र चित्रगतिषु भ्रान्त्यानया सर्वथा रे रे जीवन सोऽस्ति कश्चन जगन्मध्ये प्रदेशो ध्रुवम् । यो नाप्तस्तव भूरिजन्ममरणैस्तत्कि न तेऽद्यापि ही निर्वेदो हृदि विद्यते यदनिशं पापक्रियायां रतिः ॥ ४५ ॥ नो स्कन्धेन समुन्नतेन धरसे चारित्रगन्न्या धुरं पृष्ठेनोपचितेन नैव वहसे प्रोचैरहिसाभरम् ।

काव्यमाला । मिथ्या त्वन्निवयं 7) पदाहतिवशागो गाहसे त्वं यत- श्वेतस्तद्गतशङ्क साङ्कवृपवन्निन्धं परिभ्राम्यसि ॥ ४६ ॥ । प्राप्ते सत्कुलजन्ममानवभवे निर्दोपरत्नोपमे नीरोगादिसमस्तवस्तुनिचये पुण्येन लब्धे सति । नोपात्तं किमपि प्रमादवशतस्तत्त्वं त्वया मुक्तये रे जीवात्र ततोऽतिदुःखविपमे संसारचक्रे भ्रमः ॥ ४७ ॥ क्रोधो न्यक्कृतिभाजनं न विहतो नीतो न मानः क्षयं माया नैव हता हताश नितरां लोभो न संक्षोभितः । रे तीनोत्कटकूटचित्तवशग खान्त त्वया हारितं हस्ताप्तं फलमाशु मानवभवश्रीकल्पवृक्षोद्भवम् || ४८ ॥ बाल्ये मोहमहान्धकारगहने मग्नेन मूढात्मना तारुण्ये तरुणीसमाहृतहृदा भोगैकसंगेच्छुना । वृद्धत्वेऽपि जराभिभूतकरणग्रामेण निःशक्तिना मानुष्यं किल दैवतः कथमपि प्राप्तं हतं हा मया ॥ ४९ ॥ यस्मै त्वं लघु लचसे जलनिधिं दुष्टाटवी गाहसे मित्रं वञ्चयसे विलुम्पसि निजं वाक्यक्रमं मुञ्चसि । तद्वित्तं यदि दृश्यते स्थिरतया कस्यापि पृथ्वीतले रे रे चञ्चलचित्त वित्तहतक व्यावर्ततां (1) मे तदा ॥ ५० ॥ अज्ञानाद्रितटे कचित्वचिदपि प्रद्युम्नगर्तान्तरे मायागुल्मतले क्वचित्वचिदहो निन्दानदीसंकटे । मोहव्याघ्रभयातुरं हरिणवत्संसारघोराटवी- मध्ये धावति पश्य सत्वरतरं कष्टं मदीयं मनः ॥ ११ ॥ सच्चारित्रपवित्रदारुरचितं शीलध्वजालंकृतं गुर्वाज्ञागुणगुम्फनादृढतरं सद्बोधपोतं श्रितः । मोहग्राहभयंकरं तर महासंसारवारांनिधि यावन्न प्रतिभिद्यते स्तनतटाघातैः कुरङ्गीदृशाम् ॥ १२ ॥ . .

७१ वैराग्यशतकम् । किं भस्मप्रतिलेपनेन वपुपो धूमस्य पानेन किं वस्त्रत्यागजुगुप्सया किमनया कि वा त्रिदण्डाप्यहो। किं स्कन्धेन नतेन कम्बलभराज्जापस्य कि मालया वामाक्षीमभिधावमानमनिशं चेतो न चेद्रक्षितम् ॥ ५३ रोर्बु बालमृणालतन्तुभिरसौ मत्तेभमुज्जृम्भते भेत्तुं वज्रमणीशिरीषकुसुमप्रान्तेन संनह्यति । माधुर्य मधुविन्दुना रचयितुं क्षाराम्बुधेरीहते नेतुं वाञ्छति यः सतां पथि खलान्सूक्तैः सुधास्यन्दिभिः॥१४॥ मुक्त्वा दुर्मतिमेदिनी गुरुगिरा संशील्य शीलाचलं बद्ध्वा क्रोधपयोनिधिं कुटिलतालका क्षपित्वा क्षणान् । नित्वा मोहदशाननं निधनतामाराध्य वीरव्रतं श्रीमद्राम इव द्युमुक्तिवनितायुक्तो भविष्याम्यहम् ॥ ५५ ॥ आहारैर्मधुरैर्मनोहरतरहीविहारैर्वरैः केयूरैर्मणिरत्नचारुशिखरदारैरुदारैश्च किम् । प्राणान्पद्मदलानवारितरलाज्ञात्वा जवाज्जीव रे दानं देहि विधेहि शीलतपसी निर्वेदमाखादय ॥ १६ ॥ ज्ञात्वा बुद्बुदभङ्गुरं धनमिदं दीपप्रकम्पं वपु- स्तारुण्यं तरलेक्षणाक्षितरलं विद्युच्चलं दोवलम् । रे रे जीव गुरुप्रसादवशतः किंचिद्विधेहि द्रुतं दानध्यानतपोविधानविपयं पुण्यं पवित्रोचितम् ॥ १७ ॥ श्रीखण्डपादपेनेव कृतं खं जन्म निप्फलम् । जिह्मगानां द्विजिह्वानां संबन्धमनुरुन्धता ॥ ६८ ॥ किं तकेंण वितर्कितेन शतशो ज्ञातेन कि छन्दसा किं पीतेन सुधारसेन वहुधा स्वाध्यायपाठेन किम् । अभ्यस्तेन च लक्षणेन किमहो ध्यानं न चेत्सर्वथा लोकालोकविलोकनैककुशलज्ञाने हृदि ब्रह्मण. ॥ ५९॥ : 7 20. काव्यमाला। 'मां वाल्यादपि निर्निमित्तनिविडप्रोद्भूतसख्यश्रियं दम्भारम्भ विहाय सत्वरतरं दूरान्तरं गम्यताम् । पश्योन्मीलति मेऽधुना शुभवशाज्ञानोप्णरश्मिप्रभा .: प्रालेयोत्करवद्भवन्त(द्धतं त)मनया द्रक्ष्याम्यहं त्वां कथम्॥६०॥ कारुण्यान्न सुधारसोऽस्ति हृदय द्रोहान्न हालाहलं वृत्तादस्ति न कल्पपादप इह क्रोधान्न दावानलः । संतोषादपरोऽस्ति न प्रियसुहृल्लोभान्न चान्यो रिपु- युक्तायुक्तमिदं मया निगदितं यद्रोचते तत्त्यज ॥ ६१ ॥ औचित्यांशुकशालिनी हृदय हे शीलाङ्गरागोज्ज्वलां श्रद्धाध्यानविवेकमण्डनवी कारुण्यहाराङ्किताम् । सबोधाञ्जनरञ्जिनी परिलसच्चारित्रपत्राङ्कुरां निर्वाणं यदि वाञ्छसीह परमक्षान्तिप्रियां तद्भज ॥ ६२॥ यत्रातिर्न मतिभ्रमो न न रतिः ख्यातिन नवोन्नति- न व्याधिन धनं...... न वधो ध्यानं न नाध्येपणा । नो दास्यं न विलास 'वदनं हास्यं च लास्यं च नो. तत्सांसारिकपुण्यपापरहितं ध्येयं पदं धीधनाः ॥ ६३ ॥ तावद्भानुकराः प्रकाशनपरा यक्षेश्वरोऽप्यर्थवा- न्संपूर्णेन्दुमुखीप्रिया प्रियमहीमाधुर्यहृद्या च""। - . 4 ॥ ६४॥ हृदये। मन्त्ररहस्योद्गारी मन्त्रीव स दूरतस्त्याज्यः ॥ ६५ ॥ धर्मोऽयं निहतः प्रमादवशतः प्राप्तेऽपि मानुप्यके कार्पण्येन विडम्बितौ सति धने यैरर्थकामावपि । अत्यन्तं चलचित्तनिग्रहपरैरप्याप्यते वा न वा मोक्षः शाश्वतिकः प्रसादसदनं तेषां दवीयान्पुनः ॥ ६६ ॥, .

.
वैराग्यशतकम् ।
आकाशेऽपि चिराय ति[छति] शिला मन्त्रेण तन्त्रेण वा
बाहुभ्यामपि तीर्यते जलनिधिर्वेधाः प्रसन्नो यदा ।
दृश्यन्ते ग्रहयोगतः सुरपथे प्राहेऽपि ताराः स्फुट
हिंसायां पुनराविरस्ति नियतं गन्धोऽपि न श्रेयसः ।। ६७ ॥
निशानां च दिनानां च यथा ज्योतिर्विभूपणम् ।
सतीनां च यतीनां च तथा शीलमखण्डितम् ।। ६८ ॥
मायया राजते वेश्या शीलेन कुलबालिका ।
न्यायेन मेदिनीनाथः सदाचारतया यतिः ॥ ६९ ॥
यावयाधिविवाधया विधुरतामङ्गं न संसेवते
यावच्चेन्द्रियपाटवं न हरति क्रूरा जरा राक्षसी ।
तावन्निष्कलनिश्चलामलपदं कर्मक्षयायाधुना
ध्येयं ध्यानविचक्षणैः स्फुटतरं हृत्पद्मसद्मोदरे ॥ ७० ॥
अज्ञानावृतचेतसो मम महाव्यामूढतां
कृत्वा धर्मधनं हृतं यदनिशं वाराणसीधूर्तवत् ।
युक्तं तद्विहितं त्वयेदमपि ते युक्तं भवेद्धि द्रुतं
मां पुण्याप्तगुरुप्रसादमधुना संत्यज्य निर्गच्छ रे ॥ ७१ ॥
तन्नो नागपतेर्भुजंगवनिताभोगोपचारैः परै-
स्तन्नो श्रीसविलाससंगमशतैः सारैर्मुरारेः किल ।
तन्नो वज्रधरस्य देववनिताक्रीडारसैनिभैरै-
यत्सौख्यं वत वीतकाममनसां तत्त्वार्थतो योगिनाम् ॥ ७२ ।।
मध्यक्षामतया योषित्तपः क्षामतया यतिः।
मुखक्षामतया चाश्वो राजते न तु भूषणैः ॥ ७३ ॥
तन्व्या श्रोत्ररसायनेन वचसा सप्रेम संभापितः
सर्पत्कोपविपाकपाटलरुचा संवीक्षितश्चक्षुपा ।
सद्योगान्न तिलाग्रमात्रमपि यः संक्षोभितुं शक्यते
रागद्वेषविवर्जितो विजयते कोऽप्येप योगीश्वरः ॥ ७४ ॥

८२ । काव्यमाला। . - आताम्रायतलोचनातुरमिदं न्यकारवाङ्गिन्दितं B/- बद्धभृकुटिमालभीममधरप्रस्पन्ददुर्दर्शनम् । व्यालोलालकसंकुलं कृशतनोः कोपेऽपि कान्तं मुखं पश्यन्ति सरविवलीकृतहृदो ही कामिनां मूढता ।। ७५ ॥ कौशल्यं प्रविलीयते विकलता सर्वाङ्गमाश्लिप्यते ज्ञानश्रीः प्रलयं प्रयाति कुमतिः प्रागल्भ्यमभ्यस्यति । धर्मोऽपि प्रपलायते कलयति स्थेमानमंहः परं यस्माच्छोकवशात्कथं स विदुषां संसेवितुं युज्यते ॥ ७६ ॥ व कफाते मुखं नार्याः क्व पीयूपनिधिः शशी । आमनन्ति तयोरैक्यं कामिनो मन्दबुद्धयः ॥ ७७ -1) पाशे कुरङ्गनिवहो न पतत्यविद्वा- न्दाहात्मतामकलयशलभः प्रदीपे । जानन्नहं पुनरमून्करिकर्णलोला- न्मोगांस्त्यजामि न तथापि क एप मोहः ॥ ७८ ॥ ज्ञानमेव परं मित्रं काम एव परः परः । अहिंसैव परो धर्मो योपिदेव परा जरा ॥ ७९ ॥ धिकंदर्प जगत्रयीविजयिनो दोःस्थामविस्फूर्जितं विद्वान्कः किल तावकीनमधुना व्यालोकतामाननम् । दृष्ट्वा यौवनमित्र......"भवान्सर्पज्जराराक्षसी- वक्रान्तःपतितं विमुञ्चति न यः कोदण्डकेलिक्रमम् ॥ ८०॥ तृष्णावारितरङ्गभङ्गविलसत्कौटिल्यवल्लीरुह- स्तिर्यक्प्रेक्षितवाक्प्रपञ्चकबरीपाशभ्रवः पल्लवाः । यस्यां मान्ति न तुच्छके हृदि ततः स्थानं बहिः कुर्वते कस्ताश्चञ्चलचक्षुपः कुशलधीः संसेवितुं वाञ्छति ॥ ८१ ॥ रे रे मोहहताश तावकमिदं धिक्पौरुपोज्नम्मितं विस्रब्धं भवसागरे किल भवान्संयम्य मां क्षिप्तवान् । - वैराग्यशतकम् । ८३ संप्रत्याप्तगुरूपदेशफलकः पारं प्रयातोऽस्म्यहं शोटीये तव विद्यते यदधुना दोष्णोस्तदा दर्शय ।। ८२ ।। रे कंदर्प किमाततज्यमधुना धत्से धनुस्त्वं मुधा किं भ्रूलास्यकलासु पक्ष्मलदृशः प्रागल्भ्यमभ्यस्यथ । वैराग्याम्बुजिनीप्रबोधनपटुः प्रध्वस्तदोषाकरः खेलत्येष विवेकचण्डकिरणः कस्त्वादृशामुत्सवः ॥ ८३ ॥ अन्यं प्रियालापपथं नयन्ते किंचित्कटाक्षरपरं स्पृशन्ति । अन्यं हृदा कंचन मन्त्रयन्ते धिग्योषितां चञ्चलचित्तवृत्तिम् ॥ ८४ ॥ याच्नायै वचनक्रमं रचयतः पादौ परिभ्रान्तये नेत्रे रोषकपायितानि वदनान्यालोकितुं स्वामिनाम् । धातश्चेन्न दयालुता तव हृदि स्थानं ववन्ध क्षणं तत्कि हन्त परिश्रमोऽपि निकटीभूयं(?) न संपन्नवान् ॥८॥ रक्षाकृते धनलवस्य विमूढचेता लो[भाज्जनः] किमपि संतनुते प्रयत्नम् । तल्लक्षकोटिभिरनाप्यमपीदमायुः कालो निकृन्तति न तन्ननु शङ्कतेऽपि ॥ ८६ ॥ बन्धो क्रोध विधेहि किंचिदपरं वस्याधिवासास्पदं भ्रातर्मान भवानपि प्रचलतु त्वं देवि माये बन । हंहो लोभ सखे यथाभिलपितं गच्छ द्रुतं वश्यतां नीतः शान्तरसस्य संप्रति लसद्वाचा गुरूणामहम् ॥ ८७ ॥ मनो न वैराग्यतरङ्गितं चेद्वृथा तदा दानतपःप्रयासः । लावण्यमङ्गे यदि नाङ्गनानां मुधा तदा विभ्रमवल्गितानि ॥८८|| विश्वाः कलाः परिचिता यदि तास्ततः कि तप्तं तपो यदि तदुग्रतरं ततः किम् । कीर्तिः कलङ्कविकला यदि सा ततः कि- मन्तर्विवेककलिका यदि नोल्ललास ।। ८९ ॥

काव्यमाला। --- स्फूर्जल्लोमकरालवत्रकुहरो हुंकारगुजारवः ":. कामक्रोधविलोललोचनयुगो मायानखश्रेणिमाक् । स्वैरं यत्र स बम्भ्रमीति सततं मोहाद्वयः केसरी तां संसारमहाटवीं प्रतिवसन्को नाम जन्तुः सुखी ।। ९० ॥ एकः स वैवस्वत एव देवः शौटीर्यशाली च महाव्रती च । पशौ च गीर्वाणपतौ च यस्या विभिन्नमुद्रस्य दृशः पतन्ति ॥२१॥ एतानि तानि मदनज्वलनेन्धनानि दूरीकुरुप्व मयि वक्रविलोकितानि । उन्मीलति स ललिताङ्गयधुना स एव मन्मानसे शुचिविवेककलाविलासः ॥ ९२ ॥ प्रत्यक्षो नरकः स एप वसुधापीठे परायत्तते- त्येवं पूत्कुरुते जनः प्रतिकलं सर्वोऽपि विद्वानिह । तन्नारी (१)वशवर्तिनोऽपि विषयान्कण्डूतिकल्पानयं रोमाञ्चाङ्कुरचर्विताङ्गलतिकः किं नाम नैवोज्झति ॥ ९३ ॥ ता एवैताः कुवलयदृशः सैप कालो वसन्त- स्ता एवान्तः शुचिवनभुवस्ते वयं ते वयस्याः । किं तूभृतः स खलु हृदये तत्त्वदीपप्रकाशो येनेदानी हसति हृदयं यौवनोन्मादलीलाः ॥ ९४ ॥ को देवो वीततमाः कः सुगुरुः शुद्धमार्गसंभाषी । किं परमं विज्ञानं स्वकीयगुणदोपविज्ञानम् ।। ९५ ॥ यत्कारुण्यहिरण्यनं न न च यत्सन्मार्गताम्रोद्भवं नो यत्संयमलोहजन्म न च यत्संतोपमृत्स्नामयम् । यद्योग्यं न तपोविधानदहनज्वालावलीतेजसां सिद्धि याति कथं नृधान्यनिकरस्तसिन्कुपात्रे श्रितः ॥ ९६ ।। हे मोहाहत जीव हुं शृणु वचः श्रद्धास्ति चेत्कथ्यतां प्राप्तं किंचन सत्फलं भवमहाटव्यां त्वया भ्राम्यता । 0 :८१ वैराग्यशतकम् । भ्रातर्नैव तथाविधं किमपि तन्निर्वाणदं तहिं कि शून्यं पश्यसि पङ्गुवन्ननु गतं नोपक्रमे तिष्ठति ॥ ९७ ॥ शौक्लये हंसवकोटयोः सति समे यद्वद्गतावन्तरं कार्ये कोकिलकाकयोः किल यथा भेदो भृशं भापिते । पैत्ये हेमहरिद्रयोरपि यथा मूल्ये विभिन्नार्घता मानुप्ये सदृशे तथार्यखलयो र विभेदो गुणैः ॥ ९८ ॥ त्वदृष्टिपातनिहताः खलु तेऽन्य एव धैर्यव्रतं सुतनु ये परिमार्जयन्ति । अन्ये त्वमी शुचिविवेकपवित्रचित्ता- स्तत्कि विडम्वयसि मन्मथविभ्रमैः स्वम् || ९९ ॥ संपत्स्यते मम कदाचन तद्दिनं कि सद्धयानरूढमनसः सततं भवेयुः । आनन्दविन्दुविशदानि सुधामयानि यत्रेक्षितानि मयि मुक्तिमृगेक्षणायाः ॥ १०० ।। ललितं सत्यसंयुक्तं सुव्यक्तं सततं मितम् । ये वदन्ति सदा तेषां स्वयं सिद्धैव भारती ॥ १०१ ॥ सिक्तः श्रीजिनवल्लभस्य सुगुरोः शान्तोपदेशामृतेः श्रीमन्नागपुरे चकार सदनं श्रीनेमिनाथस्य यः । श्रेष्ठी श्रीधनदेव इत्यभिधया ख्यातश्च तस्याङ्गजः पद्मानन्दशतं(इति) व्यधत्त सुधियामानन्दसंपत्तये ॥ १०२ ॥ संपूर्णेन्दुमुखीमुखे न च न च श्वेतांशुविम्वोदये श्रीखण्डद्रवलेपने न च न च द्राक्षारसास्वादने । आनन्दः स सखे न च कचिदसौ कि भूरिभि पितैः पद्मानन्दशते श्रुते किल मया यः स्वादितः खेच्छया॥१०॥ इति श्रीपद्मानन्दप्रणीत वैराग्यशतकम् । :

८६ काव्यमाला। 17 - . श्रीजिनप्रभसूरिविरचितः ::m.. सिद्धान्तागमस्तवः। सावचूरिः। ध्यायन्ति श्रीविशेषाय गतावेशा लयेन यम् । स्तुतिद्वारा जयश्रीदः श्रीवीरगुरुगो रवः ।। 'पुरा श्रीजिनप्रभसूरिभि. प्रतिदिन नवस्तवनिर्माणपुरःसरं निरवद्याहारग्रहणाभिग्रह- वद्भिः प्रत्यक्षपद्मावतीदेवीवचसामभ्युदयिन श्रीतपागच्छं विभाव्य भगवतां श्रीसोमति- लकसूरीणां स्वशैक्षशिष्यादिपठनविलोकनाद्यर्थ यमकलेपचित्रच्छन्दोविशेषादिनवन- वभगीसुभगाः सप्तशतीमिताः स्तवा उपदीकृता निजनामाङ्किताः । तेष्वय सर्वसिद्धान्त. स्तवो यहूपयोगित्वाद्विवियते- ! , 'नत्वा गुरुभ्यः श्रुतदेवतायै सुधर्मणे च श्रुतभक्तिनुन्नः । निरुद्धनानावृजिनागमानां जिनागमानां स्तवनं तनोमि ॥१॥ गुरुभ्यः श्रुतदेवतायै सरस्वत्यै सुधर्मणे च पञ्चमगणधराय नत्वा । त्रिषु नतिक्रिया। 'अभिप्रेयत्वाच्चतुर्थी' इति सूत्रेण संप्रदानाचतुर्थी । श्रुतभक्तिप्रेरितोऽहं निरुद्धा रुद्धा नाना अविरतिकषायादिभिर्वहुविधानां वृजिनानां पापानामागमाः प्रसरणानि यैस्तेषां जिनागमानां श्रीवीरसिद्धान्तानां स्तवनं तनोमि करोमि || सामायिकादिकपडध्ययनस्वरूप- मावश्यकं शिवरमावदनात्मदर्शम् । नियुक्तिभाष्यवरचूर्णिविचित्रवृत्ति- स्पष्टीकृतार्थनिवहं हृदये वहामि ॥ २ ॥ अवश्यकरणादावश्यकम् । सामायिकादिकानि सामायिक-चतुर्विशतिस्तव-वन्दनक- प्रतिक्रमण-कायोत्सर्ग-प्रत्याख्यानरूपाणि यानि पडध्ययनानि तत्स्वरूपम् । शिवरमाया (मोक्षलक्ष्म्याः) वदनात्मदर्श दर्पणतुल्यम् । पुनः किंविशिष्टम् । नियुक्तिः श्रीभद्रवाहु- कृता एकत्रिंशच्छतप्रमाणा । भाष्य सूत्रार्थप्रपश्चनम् । वरावचूर्णिरष्टादशसहस्रप्रमाणा पूर्षिविहिता । विचित्रवृत्तिरनुगतार्थकथनं द्वाविंशतिसहस्रप्रमाणम् । एताभिः स्पष्टी- कृतोऽर्थनिवहो यस्य तथाविध हृदये वहामि स्मरामि ॥ युक्तिमुक्तास्वातिनीरं प्रमेयोनिमहोदधिम् । 'विशेषावश्यक स्तौमि महाभाण्यापराह्वयम् ॥ ३ ॥ 1 १. स्तोत्रस्यास्यैकमेवाष्टपत्रात्मक सटीक पुस्तक संवेगिसाधुवरश्रीशान्तिविजयमु- नीनां सकाशादधिगतम्. तच्च नातिशुद्धं शतवर्षप्राचीनमिवानुमीयते. तदाधारणैतन्म- द्रणं विहितमस्ति. . , .

सिद्धान्तागमस्तवः। युक्तय एव मुक्ता मौक्तिकानि तासां निष्पादकत्वात्स्वातिनीरम् । प्रमेयाः पदार्याल एवोर्मयः कल्लोलास्तेषां महोदधिम् । महाभाप्यमित्यपर आयो यस्य तद्विशेषावश्यक स्तौमि। दशबैकालिक मेरुमिव रोचिष्णुचूलिकम् । प्रीतिक्षेत्र सुमनसां सत्कल्याणमयं स्तुमः ॥ ४ ॥ विकालेनापराह्नरूपेण निवृत्तानि वैकालिकानि दशाध्ययनानि यत्र तत् शव्यंभवसू. रिकृतं दशवकालिक मेरुमिव रोचिष्णू चूलिके इह खचूलिप:रुपे यत्र । पक्षे च. त्वारिंशद्योजनमाना । सुमनसामुत्तमाना पक्षे देवाना प्रीतिस्थानम् । सत्कल्याणमयं श्रे. योमयं पक्षे सुवर्णमयं स्तुमः ॥ उद्धामुपोद्धातविकल्पकालभेदप्रभेदप्रतिभेदरूपाम् । मिताभिधानाममिताभिधेयां नौम्योपनियुक्तिममोषयुक्तिम् ॥ ५ ॥ उद्धा प्रशस्यां मिताभिधाना स्तोकशब्दाममिताभिधेया बहाममोघयुक्ति सफलयु. क्तिमोघनियुक्ति नौमि स्तौमि । किविशिष्टाम् । उपोद्धातः शास्त्रस्यादिस्तस्य विकल्पा द्वाराणि 'उद्देसे निद्देसे निग्गमे इत्यादीनि षड्विंशतिः। तत्र विकल्परूपास्तस्य भेदा एका. दश नामस्थापनाद्रव्यादयः 'दव्वे अहअहाउ अवकमे इत्यादिगाथोक्तास्तेपु षष्ठभेदस्यो. पक्रमकालस्य प्रभेदी सामाचार्युपक्रमकालः यथायुष्कोपक्रमकालश्च । तयोः प्रयमस्य त्रयः प्रतिभेदाः ओघसामाचारी इच्छाकारादिदशविधसामाचारी पदविभागसामाचारी च त्रिषु ओघःसामान्य संक्षेपाभिधानरूपा सामाचारी तद्रूपा ओघनियुक्तिः श्रीभद्ररा- हुस्वामिना नवमपूर्वात्तृतीयादाचाराभिधवस्तुनो विंशतितमप्राभूतानियूढा साप्रतिक- साधूनां हितायास्मिन्काले स्थिरीकृता श्रीआवश्यकनियुक्तौ गणधरवादस्याग्रे संप्रति च सुखपाठाय पृथग्प्रन्यरूपा विहितास्ति ताम् ॥ पिण्डविधिप्रतिपत्तावखण्डपाण्डित्यदानदुर्ललिताम् । ललितपदश्रुतिमिष्टामभिष्टुमः पिण्डनियुक्तिम् ॥ ६ ॥ पिण्डस्याहारस्य विधिर्दोषरहितत्वेन विशुद्धस्तक्षाने संपूर्णकीगलवितरणसत्ता ल- लितानां सुकोमलानां पदानां श्रुतिः श्रवणं तया मिष्टा(मृष्टां) मधुरां पिग्टनिति वयमभिष्टुमः ॥ प्रवचननाटकनान्दी प्रपञ्चितज्ञानपञ्चकसतत्वा । अस्माकममन्दतमं कन्दलयतु नन्दिरानन्दम् ॥ ७ ॥ प्रवचनं जिनमतमेव नाटकं तत्र नान्दी द्वादशतूर्यनिघाप । तन्मूलत्वानाटकस्य । प्रपश्चितं प्रकटीकृत ज्ञानपचकस्य मतिश्रुतावधिमनःपर्ययकेवलज्ञानरपस्य सतत्त्व स्वरुप यया सा नन्दिरस्माकममन्दतम पहुतरमानन्दं कन्दव्यतु वर्धयतु ।

. काव्यमाला। . . २ । अनुयोगद्वाराणि द्वाराणीवापुनर्भवपुरस्य । जीयासुः श्रुतसौधाधिरोहसोपानरूपाणि ॥ ८ ॥ श्रुतमेव सौध गृह तदरोहे सोपानरूपाणि अपुनर्भवपुरस्य मोक्षनगरस्य द्वाराणीवा- नुयोगद्वाराणि जीयासुः ॥ अनवमनवमरससुधाहदिनीं पत्रिंशदुत्तराध्ययिनीम् । अञ्चामि पञ्चचत्वारिंशतमृपिभापितानि तथा ॥ ९ ॥ अनवमो रम्यो यो नवमो रसः शान्ताख्यः स एव सुधामृतं तस्य हदिनी नदी प. त्रिंशद्यान्युत्तराणि प्रधानान्यध्ययनानि [यस्यां] तामहमश्चयामि पूजयामि । तथा पञ्च- चत्वारिंशतं श्रीनेमिपार्श्वश्रीवीरतीर्थवर्तिभिनारदादिभिः प्रणीतानध्ययनविशेपान् ॥ उच्चैस्तरोदश्चितपञ्चचूडमाचारमाचारविचारचारु । महापरिज्ञास्थनभोगविद्यमायं प्रपद्ये गमनं गजेन्द्रम् ॥ १० ॥ आचारविचारचारु योगानुष्ठानपूर्व यथा स्यादेवम् आचारप्रतिपादकत्वादाचारं ना. माद्यमगमहं प्रपद्ये श्रये । किंविशिष्टम् । उच्चस्तरा: शब्दार्थाभ्यामतिशायिन्य उदश्चिताः प्रकटीकृता पश्च चूडा येन तत् । उक्तशेपानुवादिनोऽधिकारविशेषाथूढासंज्ञाः। पुनः किंविशिष्टम् । महापरिज्ञानामाध्यायनं तत्रस्था आकाशगामिनीविद्या तस्य । तत एवो- नृत्य श्रीवज्रस्वामिना प्रभावना कृता । त्रिषष्टिसंयुक्तशतत्रयीमितप्रवाददाद्रिविभेदहादिनीम् । द्वयश्रुतस्कन्धमयं शिवश्रिये कृतस्पृहः सूत्रकृदङ्गमाद्रिये ॥ ११ ॥ श्रुतस्कन्धद्वयरूपं सूत्रकृदन शिवश्रिये कृतस्पृहोऽहमाद्रिये आश्रयामि । किंविशि- ष्टम् । विषष्टयधिकशतत्रयीमिता ये प्रवादिनः क्रियावादिप्रभृतयस्तेषां दर्पादिविभेदे हा. दिनीं वज्रसमम् ॥ स्थानाङ्गाय दशस्थानस्थापिताखिलवस्तुने । नमामि कामितफलप्रदानसुरशाखिने ॥ १२ ॥ कामितफलप्रदानसुरशाखिने तिष्ठन्ति प्रतिपाद्यजीवादयः पदार्था [येषु] इति स्था- नान्यधिकारविशेषाः । तथाहि-तनुइन्दा' ..............."कम्म बन्धन्ति' इत्यादयः । एवमेतेषु दशस्थानेषु स्थापितान्यखिलवस्तूनि यत्र तस्मै स्थानाजायाहं नमामि । 'वि. वक्षातः कारकाणि भवन्ति' इति न्यायात्स्थानागायेति संप्रदानम् ॥ तत्तत्संख्याविशिष्टार्थप्ररूपणपरायणम् । संस्तुमः समवायाङ्गं समवायैः स्तुतं सताम् ॥ १३ ॥ तास्ता एकादिदशान्ताः संख्यास्ताभिर्विशिष्टा येऽर्थास्तेषां प्ररूपण कथन तत्र परा- यणं तत्परं सतां समवायैः समूहैः स्तुतं समवायाचं वयं स्तुमः ।। - . । ।

सिद्धान्तागमस्तवः। ८ ९ . या षट्त्रिंशत्सहस्रान्प्रतिविधिसजुपां बिभ्रती प्रश्नवाचा चत्वारिंशच्छतेषु प्रथयति परितः श्रेणिमुद्देशकानाम् । रङ्गद्भङ्गोत्तरङ्गानयगमगहना दुर्विगाहा विवाह- प्रज्ञप्ती पञ्चमाझं जयति भगवती सा विचित्रार्थकोपः ॥ १४ ॥ या प्रतिविधिरुत्तरं तेन सहितानां प्रश्नवाचा पत्रिंशत्सहस्रान्यिभ्रती दयती या चत्वारिंशच्छतेष्वधिकारविशेषेषूद्देशकानां श्रेणि परित. सर्वतः प्रथयति सा विवाहप्रज्ञप्ती नानी पश्चमाङ्ग रगन्तो ये भगा रचनाविशेपास्तैरुत्तरङ्गा उत्कल्लोला तया युक्तयो गमाः सदृशपाठास्तैर्गहना अन्थिला अकुशलैविगाहा विचित्रार्थकोपो जयति । भगवतीति पूज्याभिधानम् ॥ कथानकानां यत्रार्धचतस्रः कोटयः स्थिताः । सोत्क्षिप्तादिज्ञातहृया ज्ञातधर्मकथाः श्रये ॥ १५ ॥ यत्रार्धचतस्रः कथानकानां कोटयः स्थिता सा ज्ञातधर्मकथा नाम पष्टमनमुक्षिप्ता- दिभितैिदृष्टान्तैर्हृद्या श्रियेऽस्तु (श्रये) ॥ आनन्दादिश्रमणोपासकदशकेतिवृत्तसुभगार्थाः । विशदामुपासकदशा भावदृशं मम दिशन्तु सदा ॥ १६ ॥ आनन्दादयः श्रमणोपासकास्तेषां दशकं तस्येतिवृत्तानि चरितानि तैः सुभागा उपासकदशा नाम सप्तमाग विशदा भावदृशं मम सदा दिशन्तु ।। महदृषिमहासतीनां गौतमपद्मावतीपुरोगाणाम् । अधिकृतशिवान्तसुकृताः स्मरतोचैरन्तकृद्दशाः कृतिनः ॥ १७ ॥ गौतमपद्मावतीप्रमुखाणां महर्षीणां महासतीनामधिकृतानि प्रकटितानि शिवान्तानि सुकृतानि यासु ता अन्तकृद्दशा हे कृतिनः, उच्चै!य स्मरत ॥ गुणैर्यदध्ययनकलापकीर्तिता अनुत्तरा प्रशमिपु जालिमुख्यकाः । अनुत्तरश्रियमभनन्ननुत्तरोपपातिकोपपददशाः श्रयामि ता. ॥१८॥ यदध्ययनकलापे कीर्तिताः कथिता: प्रशमिषु ऋषिषु गुणैश्वारिवादिभिरनुत्तरा प्र. धानाः । जालिमुख्यका जालि म ऋषि स एव मुख्यो येषां ते जालिमल्यका । स्वार्थे कप्रत्ययः । अणुत्तराणि विजयादीनि पचविमानानि तेषां नियमभनन् । अनु. त्तरोपपातिकमित्युपपदं पूर्वपदं यासां ता अनुत्तरोपपातिकदशा अहं अयामि ॥ अङ्गुष्ठाधवतरदिष्टदेवतानां विद्यानां भवनमुदात्तवैभवानाम् । निर्णीताश्रयविधिसंवरस्वरूपा प्रश्नव्याकरणदशा दिशन्तु शं नः ॥१६॥ । 4. A + १२ 2 ९० काव्यमाला। अगुष्ठादिषु आदिशब्दाद्दीपजलादिष्ववतारोऽवतरणं तेन दिष्टाः कथिता देवता यासां तासामुदात्तवैभवानामुत्कृष्टमहिनां विद्यानां भवनं स्थानम् । आश्रवविधिः कर्म पुद्गलानां सवरस्तनिरोधः । निर्णीत तयोः स्वरूपं यासु ताः प्रश्नव्याकरणदशा दश- माई नोऽस्माकं शं सुखं दिशतु ।। ज्ञातैर्मुगापुत्रसुवाहुवादिभिः शासद्विपाकं सुखदुःखकर्मणाम् । द्विः पतिसंख्याध्ययनोपशोभितं श्रीमद्विपाकश्रुतमस्तु नः श्रिये ॥ २० ॥ मृगापुत्रसुबाहुवादिभिदृष्टान्तः सुखदुःखकर्मणां विपाकं परिणाम शासच्छिक्षयत् । ज्ञापयदित्यर्थः । केयाम् । भव्यजीवानामिति गम्यम् । विंशत्यध्ययनालंकृतं श्रीमद्विपाक- श्रुतमेकादशमङ्गं नः श्रियेऽस्तु । सुबाहुवादिभिरित्यत्र 'इवर्णादेः' इत्यनेन सूत्रेण परतो वत्वम् । एतान्यप्येकादशान्यगानि श्रीसुधर्मस्वामिना रचितानि । अन्येषां गणभृता '' पूर्वनिर्वृतत्वेन सर्वगणधरशिष्याणामेतद्वाचनाग्रहणात् । अत एवादी श्रीसुधर्मा नमस्कृतः ॥ प्रणिधाय यत्प्रवृत्ता शास्त्रान्तरवर्णनातिदेशततिः । नमतोपपातिकं तत्प्रकटयदुपपादवैचित्रीम् ॥ २१ ॥ यत्प्रणिधाय स्मृत्वा शास्त्रान्तरेषु पदार्थवर्णनातिदेशनाततिः श्रेणि. प्रवृत्ताः । अति- देशोऽन्यत्र विस्तरेण प्ररूपितस्य वस्तुनः सक्षेयेण कथनम् । तदुपपातिकमाचाराहोपाई देवनारकाणामुपपाद उत्पादस्तस्य वैचित्रीं प्रकटयत् हे विद्वांसः, यूयं नमत । आचारा. गस्य शास्त्रपरिज्ञाध्ययनाल्ये द्वे शतके । सूत्रमिदं “एवमेगे सिनोनायं भवई' इत्यादि । अत्र सूत्रे यदीपपातिकत्वमात्मनो निर्दिष्ट तदन प्रपञ्चयत इत्यर्थः । अगस्योपसमीप उपागम् ॥ सूर्याभवैभवविभावनहष्टतीर्थ- प्रश्नादनन्तरमिनानननिर्गतेन । केशिप्रदेशिचरितेन विराजि राज- प्रश्नीयमिद्धमुपपत्तिशतैर्महामि ॥ २२ ॥ सूर्याभदेवस्य वैभवमृद्धिस्तस्य विभावनेनीक्षणेन हृष्ट यत्तीर्थे प्रथमगणधरश्चतुविधः सघो वा तस्य प्रश्नात्पृच्छाया अनन्तरमिनस्य श्रीवीरस्याननं मुखं ततो निर्गतेन । केशी गणभृत् प्रदेशी च राजा तयोश्चरितेन विराजि शोभि । उपपत्तिशतैयुक्तिशतैरिद्धं दीप्त राजप्रश्नीय सूत्रकृदुपागमहं महामि । प्रदेशी केशिना प्रतियोधितो देवत्वमाप्य श्री- वीरं वन्दितुं समवस्तौ गतः तत्रात्यद्भुत तस्य तेजो वीक्ष्य श्रीसघेन प्रश्नः कृतः सर्वेभ्यो देवेभ्यो किमित्ययमुत्कृष्ट इति ॥ . .

. । सिद्धान्तागमस्तवः । ९१ जीवाजीवनिरूपिवधाप्रतिपत्तिनवककमनीयम् । जीवाभिगमाध्ययनं ध्यायेमासुगमगमगहनम् ॥ २३ ॥ जीवाजीवनिरूपिण्यौ या द्वेषा द्विप्रकाराः प्रतिपत्तयोऽधिकारास्तासा नवकेन रन्यम् । असुगमा विषमा ये गमास्तैर्गहनं जीवाभिगमाध्ययन स्थानाङ्गोपाई ध्यायेम । जीवाना- मुपलक्षणादजीवानामप्यभिगमो ज्ञान यत्र तत् ॥ पत्रिंशता पदैनर्जीवाजीवभावविभावनीम् । प्रज्ञापनां पनायामि श्यामार्यस्यामलं यशः ॥ २४ ॥ पट्त्रिंशता पदैरधिकारैर्जीवाजीवभावप्ररूपिका प्रज्ञापनां समवायागोपाग पनायामि स्तौमि । श्यामार्यस्य कालिकाचार्यस्यामलं यशः । तत्र तदधिकारात् ।। विवृताद्यद्वीपस्थितिजिनजनिमहचक्रिदिग्विजयविधये । भगवति जम्बूद्वीपप्रज्ञप्ते तुभ्यमस्तु नमः ॥ २५ ॥ हे भगवति, जम्बूद्वीपप्रज्ञप्ते, पञ्चमागोपाग' "विवृता प्रकटिता आयद्वीपस्य स्थितिर्जिनजन्ममहश्चक्रिणो दिग्विजयविधिश्च यया सा । तुभ्यं नमोऽस्तु ॥ प्रणमामि चन्द्रसूर्यप्रज्ञप्ती यमलनातके नव्ये । गुम्फवपुषैव नवरं नातिभिदार्थात्मनापि ययोः ॥ २६ ॥ चन्द्रसूर्यप्रज्ञप्ती चन्द्रसूर्यविचारप्रतिपादके यमलजातके सहजाते नवरं केवलं गुम्भ- वपुपैव गुम्फेनैव नव्ये भिनग्रन्थरूपे अहं प्रणमामि । ययोरर्थात्मनापि नातिभिदा भेदः । अपिशब्दाच्छन्दतोऽपि ॥ कालादिकुमाराणां महाहवारम्भसंभृतैर्दुरितैः । दर्शितनरकातिथ्या निरयावलिका विजेपीरन् ॥ २७ ॥ कालादिदशकुमाराणा चेटककोणिकवरे महाहवारम्भसभृतमहायुद्धारम्भोपार्जितैः पापैर्दर्शितं नरकातिथ्यं नरकभवप्राप्तिर्याभिस्ता निरयावलिका विजेपीरन्विनयन्ताम् । तत्र कालादिकुमाराणां वर्णनात् ॥ पद्मादयः कल्पवतंसभूयमुपेयिवांसः सुकृतैः शमीशाः। यत्रोदिताः श्रेणिकराजवंश्या उपास्महे कल्पवतंसिकालाः ॥ २८ ॥ श्रेणिकराजवंश्याः पद्मादयः शमीशा ऋषयः सुकृतैः कल्पवतंसभूयं देवत्वमुपेरियांमः प्राप्ता यत्रोदिताः कथितास्ताः कल्पवतसिका वयमुपास्महे । ........... । चन्द्रसूर्यवहुपुत्रिकादिभिर्यत्र संयमविराधनाफलम् । भुज्यमानमगृणाद्गणाधिपः पुष्पिकाः शमभिपुप्पयन्तु नः ।। २९ ॥

९२ । काव्यमाला। - ܘܢ . . . व यत्र संयमविराधनायाः फल चन्द्रसूर्यौ राजानी पूर्वभवे गृहीतदीक्षी बहुपत्रिकानप- त्या पूर्वभवे प्रव्रजिता....."अगृणानगाद ताः पुष्पिकाः शं सुखमभिपुष्पयन्तूत्फुल्लयन्तु । यत्र अन्येऽगिनो ग्रहवासत्यागेन संयमभावपुष्पिता वर्णिताः (१) ॥ श्रीहीप्रभृतिदेवीनां चरित्रं यत्र सूत्रितम् । ताः सन्तु मे प्रसादानुकूलिकाः पुष्पचूलिकाः ॥ ३० ॥ श्रीहीप्रभृतिदेवीनां चरित्रं परिवारादिस्वरूप यत्र सूत्रितं कथितं ता. पुष्पचूलिका मे मम प्रसादानुकूलिका. प्रसादतत्पराः सन्तु ।। वृष्णीनां निषधादीनां द्वादशानां यशास्रजः । पुष्णन्तु भक्तिनिष्ठानां दशां दृष्णिदशाः शुभाम् ॥ ३१ ॥ निपधादीनां राज्ञा वृष्णीनामन्धक... वृष्णिदशा भक्तिपरायणानां शुभां दशा पुष्णन्तु ॥ नन्द्यनुद्योगद्वारयोः पूर्व कथनादायद्वयेन त्रयोदशप्रकीर्णकानि स्तौति- वन्दे मरणसमाधि प्रत्याख्याने महातुरोपपदे । संस्तारचन्द्रवेध्यकभक्तपरिज्ञाचतु शरणम् ॥ ३२ ॥ वीरस्तवदेवेन्द्रस्तवगच्छाचारमपि च गणिविद्याम् । दीपाब्धिमज्ञप्तिं तण्डुलवैतालिकं च नुमः ॥ ३३ ॥ अह वन्दे मरणसमाधिम् । प्रत्याख्याने महा इति आतुर इत्युपपदे ययोस्ते । महाम- त्याख्यानमातुरप्रत्याख्यान च । सस्तार-चन्द्रवेध्यक-भक्तपरिज्ञा-चतुःशरणमिति समा- हारः। वीरस्तवं-देवेन्द्रस्तवं-गच्छाचारं गणिविद्यां द्वीपाधिप्रज्ञप्ति तण्डुलवैतालिकं च वयं नुमः । सर्वेषां नामार्थाः पाक्षिकसूत्रावचूर्णौ सन्ति ।। शिवाध्वदीपायोद्धातानुद्धातारोपणात्मने । चित्रोत्सर्गापवादाय निशीथाय नमोनमः ॥ ३४ ॥ मोक्षमार्गदीपाय उद्घातो गुरुप्रायश्चित्तविशेषः । अनुद्धातस्तु तद्विपरीतः । लघुरि- त्यर्थः । तयोरारोपणमुचितस्थाने प्रयोजन तदात्मा स्वरूपं यस्य स तस्मै उद्धातानुद्धा- तारोपणात्मने । चित्रा विविधा उत्सर्गापवादा यत्र । उत्सर्गो मुख्यमार्गः । अपवादः । करणे प्रतिषिद्धसेवा । निशीथमधरानस्तद्वद्रहोभूतं यदध्ययन तनिशीथं तस्मै निशीथा- चारागपञ्चमचूढायै नमोनमः ॥ नियुक्तिभाष्यप्रमुखैर्निवन्धैः सहस्रशाखीकृतवाच्यजातम् । दशाश्रुतस्कन्धमनात्तगन्धं परैः सकल्पव्यवहारमीडे ॥ ३५ ॥ नियुक्तिभाष्यप्रमुखैनिवन्धैः सहस्रशाखीकृतं विस्तारितं वाच्यजातं यत्र तं दशाध्य- . . . - , , सिद्धान्तागमस्तवः। यनानां श्रुतस्कन्धं दशाश्रुतस्कन्ध परैः परमतिभिरनात्तगन्धम् । कल्पः साध्वाचार- स्तत्प्रतिपादको ग्रन्थोऽपि कल्पः। व्यवहारः प्रतीतार्थस्तत्प्रतिपादको ग्रन्थोऽपि व्यव- हारः। ताभ्यां सह वर्तते यः स कल्पव्यवहारस्तमीहे स्तुवे ।। पट्सप्तपतिविंशतिपगुणसप्तप्रकारकल्पानाम् । विस्तारयिता कल्पितफलदः स्तात्पञ्चकल्पो नः ।। ३६ ॥ षट् सप्त पलिर्दशा विंशतिः षड्गुणसप्त द्विचत्वारिंशत् एतत्प्रकारा ये कल्पास्ते वि- स्तारयिता पञ्चकल्पो नोऽस्माक कल्पितफलदो वाञ्छितफलप्रदः स्तात् ।। लेभे यव्यवहारेणाधुनान्त्येनापि मुख्यता। तं जीतकल्पमाकल्पकल्पं तीर्थश्रियः श्रये ॥ ३७ ॥ अन्त्येनापि यद्यवहारेण यदाचारेणाधुना मुख्यता लेभे । एतदाधारणव प्रायश्चित्तवि- धिप्रवृत्तेः । तं जीतकल्प तीर्थश्रिय. शासनरमाया आकल्पकल्पं वेपतुल्यं श्रये । व्यव- हारा. पञ्च । आगम. श्रुतमाज्ञा धारणा जीतं चेति सन्ति । ............... 1 एवं जीतव्यवहारोऽन्त्यः ॥ अञ्चामि पञ्चननवप्रमाणमाचाम्लसाध्यं कुमतैरवाध्यम् । 'महानिशीथं महिमौषधीनां निशीथिनीशं शिववीथिभूतम् ॥ ३८ ॥ पञ्चन्ननवतिः पश्चचत्वारिंशत् तत्प्रमाणैराचाम्लैः (१) साध्यम् । कुमतैरपाध्यम् । म. हिमान ओषध्यस्तासां निशीथिनीशं चन्द्रम् । वृद्धिमापकत्वात् । मोक्षमार्गभूत मा- निशीथमश्चामि पूजयामि ॥ नियुक्तिभाज्यवार्तिकसंग्रहणीचूर्णिटिप्पनकटीका । सर्वेषामप्येषां चेतसि निवसन्तु न. सततम् ॥ ३९ ॥ नियुक्तिः सूत्रोक्तार्थभेदप्ररूपिका । भाप्यं सूत्रोक्तार्थप्रपञ्चकम् । वार्तिकमुत्तानुत्तद्- रुक्तार्थानां चिन्ताकारि । सग्रहणी सूत्रार्थस्य समाहिका । चूणिरवचूणि. I टिप्पनक विषमपदव्याख्या । टीका निरन्तरव्याख्या । एता एपां सर्वेषामपि पूर्वोक्तप्रन्धाना न- श्वेतसि सततं निवसन्तु॥ परिकर्मसूत्रपूर्वानुयोगगतपूर्वचूलिकाभेदम् । ध्यायामि दृष्टिवादं कालिकमुत्कालिकं श्रुतं चान्यत् ।। ४० ॥ परिकर्म सप्तभेदम् । सूत्राणि द्वादशभेदानि । पूर्वानुयोगो द्विधा प्रयमानुयोग का- लानुयोगः । प्रथमे जिनचक्रिटशारचरितानि । कालानयोगेऽर्धतो जिनः शब्दनो गणप- रैश्च पूर्व रचितत्वात् पूर्वाणि चतुर्दशापि पूर्वगतन् । चूलिका उनाशेपनाप्पा (३) ने पञ्च भेदा यस्य तम् । दृष्टयो दर्शनानि तासां वदनं दृष्टिवादस्तं ध्यावामि । न पुनर.

९४ काव्यमाला। - न्यत्कालिकमगाढायोगसाध्यमुत्कालिकमनागाढायोगसाध्य ध्यायामि । श्रुतं हि द्विधा- अगप्रविष्टमनगप्रविष्टं च । ....... ॥ यस्या भवन्त्यवितथा अद्याप्येकोनषोडशादेशाः । सा भगवती प्रसीदतु ममाङ्गविद्यानवद्यविधिसाध्या ॥ ४१ ॥ यस्या अद्याप्येकोनषोडश पश्चदशादेशाः स्वप्नादिष्वतीतानागतवर्तमानकथनान्यवि- तथाः सत्या भवन्ति सा अगविद्या भगवती अनवद्यविधिसाध्या मम प्रसीदतु ॥ वन्दे विशेषणवती संमतिनयचक्रवालतत्त्वार्थान् । ज्योतिष्करण्डसिद्धमाभृतवसुदेवहिण्डींश्च ॥ ४२ ॥ विशेषणवती सपत् । एतान्ग्रन्थानह वन्दे । कर्मप्रकृतिप्रमुखाण्यपराण्यपि पूर्वसूरिचरितानि । समयसुधाम्बुधिष्टपतान्परिचिनुमः प्रकरणानि चिरम् ॥ ४३ ॥ कर्मस्वरूपप्रतिपादको ग्रन्थः कर्मप्रकृतिः । तत्प्रमुखाण्यपराण्यप्यनुक्तानि पूर्वसूरि- चरितानि प्रकरणानि चिरं परिचिनुमः सुपरिचितानि कुर्मः । सिद्धान्तोदधिविन्दुप्रा- याणि ।। व्याकरणच्छन्दोलंकृतिनाटककाव्यतर्कगणितानि । सम्यग्दृष्टिपरिग्रहपूतं जयति श्रुतज्ञानम् ॥ ४४ ॥ व्याकरणादिक मिथ्याग्भिः कृतमपि सम्यग्दृष्टयो देवास्तै. परिग्रहः स्वीकृतिस्तया पूत श्रुतज्ञान जयति ॥ । सर्वश्रुताभ्यन्तरगां कृतैनस्तिरस्कृतिं पञ्चनमस्कृति च । तीर्थप्रवृत्तेः प्रथमं निमित्तमाचार्यमन्त्रं च नमस्करोमि ॥ ४५ ॥ कृतपापतिरस्कारां सर्वसिद्धान्तमध्यगां पश्चनमस्कृति पञ्चनमस्कारं शासनप्रवृत्तेः प्रथम निमित्तमाचार्यमन्त्र च नमस्करोमि ॥ इति भगवतः सिद्धान्तस्य प्रसिद्धफलप्रथां गुणगणकयां कण्ठे कुर्याजिनप्रभवस्य यः । वितरतितरां तस्मै तोषाद्वरं श्रुतदेवता स्पृहयति च सा मुक्तिश्रीस्तत्समागमनोत्सवम् ॥ ४६ ॥ इत्यमुना प्रकारेण भगवतः सिद्धान्तस्य जिनप्रभवस्य जिनप्रणीतस्य यः पुरुषो गुणा 'माहात्म्यादयस्तेपां गणः समूहस्तस्य कथां जल्पनमेतत्स्तवरूपा कण्ठे कुर्यात्पठति । कथंभूताम् । प्रसिद्धा सर्वविद्भिर्माता फलानां 'कुत्रचिनगरे बहुपद्मपरि- - आत्मनिन्दाष्टकम् । वृतं महापुण्डरीकं देवताधिष्ठित सरस्यास्ते तच्च केनापि ग्रहीतुं न शक्यते । गजोक्तं य एतदानयति तद्धर्ममहं प्रतिपद्य इति । यदा परतीथिकरुपक्रमेणाप्यादातु न शक्त म- न्त्रिणा जैनपिराकारितः । तेन च सचित्तजलास्पर्शिना (१) त्रिः प्रदक्षिणीकृत्य पालिस्ये. नैव 'उप्पाहि पुण्डरीया' इत्यादि पुण्डरीकाध्ययन पेठे । ततस्तत्पुण्डरीकमुत्युत्य राजोऽई, पपात । तदनु सपरिकरो राजा जैनोऽजनि ।' इत्यादीनां प्रथा विस्तारो यस्यास्तां प्र. सिद्धफलप्रथाम् । तस्मै श्रुतदेवता वर वितरति दत्ते । सा मुक्तिश्रीस्तत्समागमनोत्सव स्पृहयति । अत्र पूर्वार्धे जिनप्रभवस्येति सिद्धान्तविशेषणेन कविरौद्धत्यपरिहाराय गुप्त जिनप्रभेति स्वनामाभिहितवान् । आदिगुप्ताभिधानस्य गुरोः पादप्रसादतः । पदविच्छेदरूपेय विवतिलिखिता मिता ॥ इति श्रीजिनप्रभविरचितः सावचूरिः सिद्धान्तागमस्तव' । आत्मनिन्दाष्टकम् । श्रुत्वा श्रद्धाय सम्यक्छुभगुरुवचनं वेश्मवासं निरस्य प्रव्रज्याथो पठित्वा बहुविधतपसा शोपयित्वा शरीरम् । धर्मध्यानाय यावत्प्रभवति समयस्तावदाकस्मिकीयं प्राप्ता मोहस्य धाटी तडिदिव विपमा हा हताः कुत्र याम. ॥१॥ एकेनापि महाव्रतेन यतिनः खण्डेन भन्नेन वा दुर्गत्यां पततो न सोऽपि भगवानीप्टे स्वयं रक्षितुम् । हत्वा तान्यखिलानि दुष्टमनसो वर्तामहे ये वयं तेषां दण्डपदं भविष्यति कियज्जानाति तत्केवली ॥२॥ कट्यां चोलपटं तनौ सितपटं कृत्वा शिरोलञ्चनं स्कन्धे कम्बलिकां रजोहरणकं निक्षिप्य कक्षान्तरे । वो वस्त्रमथो विधाय ददतः श्रीधर्मलाभाशिप वेषाडम्बरिणः खजीवनकृते विझो गति नात्मनः ॥ ३ ॥ भिक्षापुस्तकवस्त्रपात्रवसतिप्रावारलुब्धा यथा नित्यं मुग्धजनप्रतारणकृते कप्टेन खिद्यामहे । १. पुस्तकेऽवचूरिकृतो नाम नोपालव्धम्. २. एतदटकमस्मभ्य वृहत्तरतरगया. मण्डनायमानजङ्गमयुगप्रधानभधारकश्री १०६ श्रीपूज्यजिनमुक्तिसूरिभिः सामन जयपुर- मलंकुर्वद्भिर्दत्तमस्ति. तन च पुस्तके कर्तुर्नाम नास्ति. --- - ९६ काव्यमाला। आत्मारामतया तथा क्षणमपि प्रोज्झ्य प्रमादद्विपं स्वार्थाय प्रयतामहे यदि तदा सर्वार्थसिद्धिर्भवेत् ॥ ४ ॥ पाखण्डानि सहस्रशो जगृहिरे ग्रन्था भृशं पेठिरे लोभाज्ञानवशात्तपांसि बहुधा मूवैश्चिरं तेपिरे । क्वापि क्वापि कथंचनापि गुरुभिर्भूत्वा मदो भेजिरे कर्मक्लेशविनाशसंभवविमुख्या(मुखा)न्यद्यापि नो लेभिरे ॥ ५ ॥ किं भावी नारकोऽहं किमुत बहुमवी दूरभव्यो न भव्यः किं वाहं कृष्णपक्षी किमचरमगुणस्थानकं(?) कर्मदोपात् । वदिज्वालेव शिक्षा व्रतमपि विपवत्खड्गधारा तपस्या खाध्यायः कर्णसूची यम इव विपमः संयमो यद्विभाति ॥ ६ ॥ वस्त्रं पात्रमुपाश्रयं बहुविधं भैक्षं चतुर्थोपधं शय्यापुस्तकपुस्तकोपकरणं शिष्यं च शिक्षामपि । गृह्णीमः परकीयमेव सुतरामाजन्मवृद्धा वयं यास्यामः कथमीदृशेन तपसा तेषां हहा निष्क्रयम् ॥ ७ ॥ अन्तर्मत्सरिणां वहिः शमवतां प्रच्छन्नपापात्मनां नद्यम्भःकृतशुद्धिमद्यपवणिग्दुर्वासनाशात्मिनाम् (१) । पाखण्डव्रतधारिणां वकशां मिथ्याशामीदृशां बद्धोऽहं धुरि तावदेव चरितैस्तन्मे हहा का गतिः ॥ ८ ॥ येषां दर्शनवन्दनप्रणमनस्पर्शप्रशंसादिना मुच्यन्ते तमसा निशा इव सिते पक्षे प्रजास्तत्क्षणात् । तादृक्षो अपि सन्ति केऽपि मुनयस्तेपां नमस्कुर्महे संविग्ना वयमात्मनिन्दनमिदं कुर्मः पुनर्बोधये ॥ ९ ॥ रागो मे स्फुरति क्षणं क्षणमथो वैराग्यमुज्जम्भते द्वेषो मां भजति क्षण क्षणमथों मैत्री समालिङ्गति । दैन्यं पीडयति क्षणं क्षणमथो होऽपि मां वाधते कोपेयं कृपणोऽकृपापरिवृतैः(१) कार्य हहा कर्मभिः ॥ १०॥ इत्यात्मनिन्दाष्टकम् ।

श्रीमहावीरस्वामिस्तोत्रम् । ९७ श्रीजिनबल्लभसरिविरचितं समसस्कृतप्राकृत श्रीमहावीरस्वामिस्तोत्रम् । भावारिवारणनिवारणदारुणोरु- कण्ठीरवं मलयमन्दरसारधीरम् । वीरं नमामि कलिकालकलङ्कपङ्क- संभारसंहरणतुङ्गतरङ्गतोयम् ॥ १ ॥ वाढं विसारिगरिमा महिमा तवेह बुद्धो न देवगुरुणा न पुरंदरेण । तं कोऽवगन्तुमखिलं जडिमालयोऽह- मिच्छामि किं तु तव देव गुणाणुमेव ॥ २ ॥ सन्तो गुणा गुणिगुरो तव हासहंस- नीहारहारधवला वहुलीभवन्ति । ते सोमसूरहरिहीरविरञ्चिबुद्ध- मायाविदेवनिवहेन मलीमसा वा ॥ ३ ॥ देवं भवन्तमवहाय दुरन्तमोह- संछन्नबुद्धिमिहिरा इह भूरिकालम् । संसारनीरनिलये बहु संसरन्तो विन्दन्ति जन्तुनिवहा नहि सिद्धिभावम् ॥ ४ ॥ सासूयसंगमसुरोरुसमूढदम्भ- रम्भसंतमससंचयचण्डभासम् । हिंसासरोरुहतमीरमणं चिरोटा- हंकारकन्दलदलीकरणासिदण्डम् ॥ ५ ॥ वन्देऽहमिन्दुदलभालममन्दभद(१)- संदोहमन्दिरवरं दरकन्दकोलम् । १. स्तोत्रस्यास्यैकमेव पुस्तक संवेगिसाधुवरौशान्तिविजयमुनिभिरस्म दत्तन. पुस्तकान्तर टीका वा नोपलब्धेति क्वचित्कचित्संदेह वर्तते. १३ ९८ काव्यमाला। गम्भीरसंभवजरामरणोरुनीर- संसारसागरतरीकरणिं च वीरम् ॥ ६॥ (युग्मम्) उद्दामकामभरभङ्गुरमङ्गभङ्ग- संसङ्गवन्धुरमुरोरुहमारखिन्नम् । देहं सलीलपरिरिक्षणमझुशिञ्जि- मञ्जीरचारुचरणं सरसं वहन्ती ॥ ७ ॥ संगेयताललयचञ्चुरचारचारी- संचारिणी करणवन्धकलासु सज्जा। उन्नालनीररुहकोमलबाहुवल्ली भल्लीव विद्धवहुकामिकुरङ्गसंघा ॥ ८ ॥ हेलाविलोलमणिकुण्डललीढगल्ला कङ्केल्लिपल्लवकरा वरकम्बुकण्ठी । केलीललामरमणी रमणीयहावा नालं निहन्तुमिह ते विमलाभिसंधिम्।।९॥(विशेपकम्) संचारिकिंनरगणारववेणुवीणा- संरावभिन्नकलगेयरवाभिरामा । आकालभाविकुगुरुहकुधीकुदेव- संवन्धवुद्धहरणी तव देव वाणी ॥ १० ॥ संदेहदावजलवाहमजीवजीव- भावावभासतरणिं भवसिन्धुनावम् । आगामिकेवलरमातरुणीविवाहा देवागमं तव नरा विमला महन्ति ॥ ११ ॥ देवा महापरिमलं तरलालिजाल- झंकारहारि तव वीर सभासु भूरि । फुल्लारविन्दनवसुन्दरसिन्दुवार- मन्दारकुन्दकवरं कुसुमं किरन्ति ॥ १२ ॥ ५ श्रीमहावीरस्वामिस्तोत्रम् । ९९ निःसीमभीमभवसंभवरूढगूढ- संमोहभूवलयदारणसारसीरम् । वीरं कुवासमलहारिसुवारिपूर- मुत्तुङ्गमारकरिकेसरिणं नमामि ॥ १३ ॥ भिन्दन्तमन्तरणकारणमन्तरायं संरुद्धरोगसमवायमलोभमायम् । उच्छिन्नमोहतिमिरावरणावसायं वीरं नमामि नवहेमसमिद्धकायम् ॥ १४ ॥ वन्दारुवासवसुरासुरभासुरालं- कारामलच्छविपरागसमुद्धराणि । सेवामि ते चरणवारिरुहाणि भूरि- संदेहरेणुहरणोरुसमीर वीर ॥ १५ ॥ अञ्चामि ते चरणतामरसालिलीला संघायि पञ्चममहागणधारिवाणी (१)। संवन्धबुद्धिकरुणालयलिङ्गसिद्ध- संधावलीदमिगणं चरणं चरन्तम् ॥ १६ ॥ (2) उच्चण्डधारकरवालकरारिवार- विच्छिन्नकुम्भगलनालकरालनागे । कुन्तासितोमरविभिन्नपरासुदेहे कङ्कालसंकुलभयावहभूमिभागे ॥ १७ ॥ सावेगहुंकरणडामरमुण्डरुण्ड- कीलाललालसविहंगकुलावरुद्धे । आवद्धवाणविसरे सहसा नुवन्तो वीरं नरा रणभरेऽरिवलं जयन्ति ॥ १८॥(युगलकम्) आसन्नसिद्धिकमलापरिरम्भलम्भ- दम्भोलिपाणिमिव मोहगिरि किरन्तम् । .

-
१००
काव्यमाला।
संपत्तिकारणममङ्गलमूलकीलं
सेवन्ति के न भगवन्तमघं हरन्तम् ॥ १९ ॥
आयासभङ्गडमरामयसंपराय-
चोरारिमारिविरहेण चिराय देव ।
भूमण्डले सुनगरानिगमा (१) विहार-
चारेण ते परममुद्धवमामनन्ति ॥ २०॥
निःसङ्ग निःसमर निःसम निःसहाय
नीराग नीरमण नीरस नीररंस ।
हे वीर धीरिमनिवासनिरुद्धघोर-
संसारचार जय जीवसमूहवन्धो ॥ २१ ॥
उल्लासितारतरलामलहारिहारा
नारीगणा वहुविलासरसालसा मे ।
संसारसंसरणसंभवभीनिमित्तं
चित्तं हरन्ति भण किं करवाणि देव ॥ २२ ॥
इच्छामहासलिलकामगुणालवालं
चिन्तादलं समलचित्तमहीसमुत्थम् ।
संभोगफुल्लमिव मोहतलं लसन्तं
हे वीरसिन्धुर समुद्धर मे समूलम् ॥ २३ ॥
संपन्नसिद्धिपुरसंगममङ्गलाय
मायोरुवारिरुहिणीवरकुञ्जराय ।
वीराय ते चरमकेवलपुंगवाय
कामं नमोऽसमदयादमसत्तमाय ॥ २४ ॥
हे देव किंकरमिमं परिभावयेह
मज्जन्तमुद्धरजवे भवसिन्धुपूरे ।
उत्तारणाय कुरु वीर करावलम्वं
भूयोऽसमञ्जसनिरन्तरचारिणो मे ॥ २५ ॥

श्रीमहावीरस्वामिस्तोत्रम् । १०१ कुसमयतरुमालाभङ्गसंहारवाया कुनयकुवलयालीचूरणे(चूर्णने) मत्तनाग । तव गुणकणगुम्फे मे परीणाममित्यं विमलमपरिहीणं हे महावीर पाहि ॥ २६ ॥ अनयनिविडे पीडागाढे भयावहदुःसहे विरहविरसे लज्जापुले रमे भवपञ्जरे । निरयकुहरंगामी हाहं न सिद्धिमहापुरी- सरलसरणिं सेवे मूढो गिरं तव वीर हे ॥ २७ ॥ निरीहं गन्तारं परमभुवि मन्तारमखिलं निहन्तारं हेलाकलिकलह भवन्तं नन्तारो नहि खलु निमज्जन्ति भवभी- महापारावारे मरणभयकल्लोलकलिले ॥ २८ ॥ एवं सेवापरिहरहया (१) लोलचूलामणीद्ध- च्छायालीढं खरकिरणभाभिन्नमम्भोरुहं वा । चित्तागारे चरणकमलं ते चिरं धारिणो मे सिद्धावासं बहुभवभयारम्भरीणाय देहि ॥ २९ ॥ इत्थं ते समसंस्कृतस्तवमहं प्रस्तावयामासिवा- नाशंसे जिनवीर नेन्द्रपदवीं न प्राज्यराज्यश्रियम् । लीलाभाजि न वल्लभप्रणयिनीवृन्दानि किं त्वर्थये नाथेदं प्रथय प्रसादविपदां दृष्टि दयालो मयि ॥ ३० ॥ इति श्रीजिनवल्लभसूरिप्रणीत समसंस्कृतप्राकृत श्रीमहावीरस्वामिस्तोत्रम्। + 4 4 . - - . १. जिनवल्लभेति प्रन्यकर्तामापि.

-- १०२ काव्यमाला। श्रीहेमचन्द्राचार्यविरचितं अन्ययोगव्यवच्छेदिकाद्वात्रिंशिकाख्यं श्रीमहावीरस्वामिस्तोत्रम् । अनन्तविज्ञानमतीतदोपमबाध्यसिद्धान्तममर्त्यपूज्यम् । श्रीवर्धमानं जिनमाप्तमुख्यं स्वयंभुवं स्तोतुमहं यतिष्ये ॥ १ ॥ अयं जनो नाथ तव स्तवाय गुणान्तरेभ्यः स्पृहयालुरेव । विगाहतां किं तु यथार्थवादमेकं परीक्षाविधिदुर्विदग्धः ॥ २॥ गुणेष्वसूयां दधतः परेऽमी मा शिश्रियन्नाम भवन्तमीशम् । तथापि संमील्य विलोचनानि विचारयन्तां नयवर्त्म सत्यम् ॥ ३॥ स्वतोऽनुवृत्तिव्यतिवृत्तिभाजो भावा न भावान्तरनेयरूपाः । परात्मतत्त्वादतथात्मतत्त्वा द्वयं वदन्तोऽकुशलाः स्खलन्ति ॥ ४ ॥ आदीपमाव्योम समस्वभावं स्याद्वादमुद्रानतिभेदिवस्तु । तन्नित्यमेवैकमनित्यमन्यदिति त्वदाज्ञाद्विपतां प्रलापाः ॥ ५ ॥ कर्तास्ति कश्चिजगतः स चैकः स सर्वगः स खवशः स नित्यः । इमाः कुहेवाकविडम्बनाः स्युस्तेषां न येपामनुशासकस्त्वम् ॥ ६ ॥ न धर्मधर्मित्वमतीव भेदे वृत्त्यास्ति चेन्न त्रितयं चकास्ति । इहेदमित्यस्ति मतिश्च वृत्तौ न गौणभावोऽपि च लोकवाधः ॥ ७ ॥ सतामपि स्यात्वचिदेव सत्ता चैतन्यमौपाधिकमात्मनोऽन्यत् । न संविदानन्दमयी च मुक्तिः सुसूत्रमासूत्रितमत्वदीयैः ॥ ८ ॥ यत्रैव यो दृष्टगुणः सतत्र कुम्भादिवन्निष्प्रतिपक्षमेतत् । तथापि देहाहहिरात्मतत्त्वमतत्त्ववादोपहताः पठन्ति ॥ ९ ॥ स्वयं विवादग्रहिले वितण्डा पाण्डित्यकण्डूलमुखे जनेऽसिन् । मायोपदेशात्परमर्म भिन्दन्नहो विरक्तो मुनिरन्यदीयः ॥ १० ॥ १. अस्या अन्ययोगव्यवच्छेदिकाद्वात्रिंशिकाया एकं कर्तनामरहितटोकासमेत न तिशुद्ध पुस्तकमप्रिमायाश्चायोगव्यवच्छेदिकाद्वात्रिशिकाया मूलमात्रमेकमस्मभ्यं श्रीर न्तिविजयमनिवर्पितम

श्रीमहावीरस्वामिस्तोत्रम् ।
१०३
न धर्महेतुविहितापि हिंसा नोत्सृष्टमन्यार्थमपोद्यते च ।
खपुत्रघातान्नृपतित्वलिप्सासब्रह्मचारि स्फुरितं परेपाम् ॥ ११ ॥
स्वार्थावबोधक्षम एव बोधः प्रकाशते नार्थकथान्यथा तु ।
परे परेभ्यो भयतस्तथापि प्रपेदिरे ज्ञानमनात्मनिष्ठम् ॥ १२ ॥
माया सती चेद्यतत्त्वसिद्धिरथासती हन्त कुतः प्रपञ्चः ।
मायैव चेदर्थसहा च तत्कि माता च वन्ध्या च भवत्परेपाम् ॥ १३ ॥
अनेकमेकात्मकमेव वाच्यं द्वयात्मकं वाचकमप्यवश्यम् ।
अतोऽन्यथा वाचकवाच्यक्लप्तावतावकानां प्रतिभाप्रमादः ॥ १४ ॥
चिदर्थशून्या च जडा च बुद्धिः शब्दादि तन्मात्रजमम्बरादि ।
न वन्धमोक्षौ पुरुषस्य चेति कियज्जडैन ग्रथितं विरोधि ॥ १५ ॥
न तुल्यकालः फलहेतुभावो हेतौ विलीने न फलस्य भावः ।
न संविदद्वैतपथेऽर्थसंविद्विलूनशीर्ण सुगतेन्द्रनालम् ॥ १६ ॥
विना प्रमाणं परवन्न शून्यः स्वपक्षसिद्धेः पदमभुवीत ।
कुप्येत्कृतान्तः स्पृशते प्रमाणमहो सुदृष्टं त्वदसूपिदृष्टम् ॥ १७ ॥
कृतप्रणाशाकृतकर्मभोगभवप्रमोक्षस्मृतिभङ्गदोपान् ।
उपेक्ष्य साक्षात्क्षणभङ्गमिच्छन्नहो महासाहसिकः परस्ते ॥ १८ ॥
सा वासना सा क्षणसंततिश्च नाभेदभेदानुभयैर्घटेते ।
ततस्तटादर्शिशकुन्तपोतन्यायात्त्वदुक्तानि परे श्रयन्तु ॥ १९ ॥
विनानुमानेन पराभिसंधिमसंविदानस्य तु नास्तिकस्य ।
न सांप्रतं वक्तुमपि क चेष्टा व दृष्टमात्रं च हहा प्रमादः ॥ २० ॥
प्रतिक्षणोत्पादविनाशयोगि स्थिरैकमध्यक्षमपीक्षमाणः ।
जिन त्वदाज्ञामवमन्यते यः स वातकी नाथ पिशाचकी वा ॥ २१ ॥
अनन्तधर्मात्मकमेव तत्त्वमतोऽन्यथा सत्त्वमसूपपादम् ।
इति प्रमाणान्यपि ते कुवादिकुरङ्गसंत्रासनसिंहनादाः ॥ २२ ॥
अपर्ययं वस्तु समस्यमानमद्रव्यमेतच्च विविच्यमानम् ।
आदेशभेदोदितसप्तभङ्गमदीशस्त्वं बुधरूपवेद्यम् ॥ २३ ॥

१०४ काव्यमाला। उपाधिभेदोपहितं विरुद्ध नार्थेष्वसत्त्वं सदवाच्यते च । इत्यप्रवुध्यैव विरोधभीता जडास्तदेकान्तहताः पतन्ति ॥ २४ ॥ स्यान्नाशि नित्यं सदृशं विरूपं वाच्यं न वाच्यं सदसत्तदेव । विपश्चितां नाथ निपीततत्त्वसुधोद्गतोगारपरम्परेयम् ॥ २५ ॥ य एव दोषाः किल नित्यवादे विनाशवादेऽपि समास्त एव । परस्परध्वंसिषु कण्टकेपु जयत्यधृष्यं सरशासनं ते ॥ २६ ॥ नैकान्तवादे सुखदुःखभोगौ न पुण्यपापे न च वन्धमोक्षौ । दुर्नीतिवादव्यसनासिनैवं परैविलुप्तं जगदप्यशेषम् ॥ २७ ।। सदेव सत्स्यात्सदिति त्रिधार्थो मीयेत दुर्नीतिनयप्रमाणैः । यथार्थदर्शी तु नयप्रमाणपथेन दुर्नीतिपथं त्वमास्यः ॥ २८ ॥ मुक्तोऽपि वाभ्येतु भवं भवो वा भवस्थशून्योऽस्तु मितात्मवादे । षड्जीवकायं त्वमनन्तसंख्यमाख्यस्तथा नाथ यथा न दोपः ॥ २९ ॥ अन्योन्यपक्षप्रतिपक्षमावाद्यथा परे मत्सरिणः प्रवादाः । नयानशेषानविशेषमिच्छन्नपक्षपाती समयस्तथा ते ॥ ३० ॥ वाग्वैभवं ते निखिलं विवेक्तुमाशामहे चेन्महनीयमुख्य । लड्डेम जड्वालतया समुद्रं वहेम चन्द्रद्युतिपानतृष्णाम् ॥ ३१ ॥ इदं तत्त्वातत्त्वव्यतिकरकरालेऽन्धतमसे जगन्मायाकारैरिव हतपरहीं विनिहितम् । तदुद्धर्तुं शक्तो नियतमविसंवादिवचन- स्त्वमेवातस्त्रातस्त्वयि कृतसपर्याः कृतधियः ॥ ३२ ॥ इति श्रीहेमचन्द्रसूरिविरचितमन्ययोगव्यवच्छेदिकाद्वात्रिंशिकाख्यं श्रीमहावीरस्वामिस्तोत्रम् । श्रीहेमचन्द्राचार्यविरचितं अयोगव्यवच्छेदिकाद्वात्रिंशिकाख्य श्रीमहावीरस्वामिस्तोत्रम् । अगम्यमध्यात्मविदामवाच्यं वचखिनामक्षवतां परोक्षम् । श्रीवर्धमानाभिधमात्मरूपमहं स्तुतेर्गोचरमानयामि ॥ १ ॥ १. हेमचन्द्र इति ग्रन्थकर्तुनामापि, -- श्रीमहावीरखामिस्तोत्रम् । १०५ . 4 म A स्तुतावशक्तिस्तव योगिनां न किं गुणानुरागस्तु ममापि निश्चलः । इदं विनिश्चित्य तव स्तवं वदन्न वालिशोऽप्येप जनोऽपराध्यति ॥२॥ क सिद्धसेनस्तुतयो महार्था अशिक्षितालापकला व चेपा। तथापि यूयाधिपतेः पथस्थः स्खलद्गतिस्तस्य शिशुनै शोच्यः ॥ ३ ॥ जिनेन्द्र यानेव विवाधसे स दुरन्तदोपान्विविधैरुपायैः । त एव चित्रं त्वदंसूययेव कृताः कृतार्थाः परतीर्थनाथैः ॥ ४ ॥ यथास्थितं वस्तु दिशन्नधीश न तादृशं कौशलमाश्रितोऽसि । तुरंगशृङ्गाण्युपपादयद्भयो नमः परेभ्यो नवपण्डितेभ्यः ॥ ५ ॥ जगत्यनुध्यानवलेन शश्वत्कृतार्थयत्सु प्रसभं भवत्सु । किमाश्रितोऽन्यैः शरणं त्वदन्यः स्वमांसदानेन वृथा कृपालुः ॥ ६ ॥ स्वयं कुमार्ग लपतां नु नाम प्रलम्भमन्यानपि लम्भयन्ति । सुमार्गगं तद्विदमादिशन्तमसूययान्धा अवमन्वते च ॥ ७ ॥ प्रादेशिकेभ्यः परशासनेभ्यः पराजयो यत्तव शासनस्य । खद्योतपोतद्युतिडम्बरेभ्यो विडम्बनेयं हरिमण्डलस्य ॥ ८॥ शरण्य पुण्ये तव शासनेऽपि संदेग्धि यो विप्रतिपद्यते वा । खादौ स तथ्ये स्वहिते च पथ्ये संदेग्धि वा विप्रतिपद्यते वा ॥ ९ ॥ हिंसाद्यसत्कर्मपथोपदेशादसर्वविन्मूलतया प्रवृत्तेः । नृशंसदुर्बुद्धिपरिग्रहाच मस्त्वदन्यागममप्रमाणम् ॥ १० ॥ हितोपदेशात्सकलज्ञक्लप्तेर्मुर्मुक्षुसत्साधुपरिग्रहाच्च । पूर्वापरार्थेऽप्यविरोधसिद्धस्त्वदागमा एव सतां प्रमाणम् ॥ ११ ॥ क्षिप्येत वान्यैः सदृशीक्रियेत वा तवाभिपीठे लुठनं सुरेशितुः । इदं यथावस्थितवस्तुदेशनं परैः कथंकारमपाकरिप्यते ॥ १२ ॥ तदुःखमाकालखलायितं वा पचेलिमं कर्म तवानुकूलम् । उपेक्षते यत्तव शासनार्थमयं जनो विप्रतिपद्यते वा ॥ १३ ॥ परः सहस्राः शरदस्तपांसि युगान्तरं योगमुपासतां वा । तथापि ते मार्गमनापतन्तो न मोक्ष्यमाणा अपि यान्ति मोक्षम् ॥ १४ ॥ १४ १०६ काव्यमाला। । अनाप्तजाड्यादिविनिर्मितित्वसंभावनासंभविविप्रलम्भाः । परोपदेशाः परमाप्तकृप्तपथोपदेशे किमु संरभन्ते ॥ १५ ॥ यदार्जवादुक्तमयुक्तमन्यैस्तदन्यथाकारमकारि शिप्यैः । न विप्लवोऽयं तव शासनेऽभूदहो अधृष्या तव शासनश्रीः ॥ १६ ॥ देहाद्ययोगेन सदाशिवत्वं शरीरयोगादुपदेशकर्म । परस्परस्पर्धि कथं घटेत परोपक्लुप्तेष्वधिदैवतेपु ॥ १७ ॥ प्रागेव देवान्तरसंश्रितानि रागादिरूपाण्यवमान्तराणि । न मोहजन्यां करुणामपीश समाधिमास्थाय युगाश्रितोऽसि (1) ॥१८॥ जगन्ति भिदन्तु सृजन्तु वा पुनर्यथातथा वा पतयः प्रवादिनाम् । त्वदेकनिष्ठे भगवान्भवक्षयक्षमोपदेशे तु परं तपखिनः ॥ १९ ॥ वपुश्च पर्यशयं श्लथं च दृशौ च नासानियते स्थिरे च । न शिक्षितेयं परतीर्थनाथैर्जिनेन्द्र मुद्रापि तवान्यदास्ताम् ॥ २० ॥ यदीयसम्यक्त्ववलाप्रतीमो भवादृशानां परमस्वभावम् । कुवासनापाशविनाशनाय नमोऽस्तु तस्मै तव शासनाय ॥ २१ ॥ अपक्षपातेन परीक्षमाणा द्वयं द्वयस्याप्रतिमं प्रतीमः । यथास्थितार्थप्रथनं तवैतदस्थाननिर्वन्धरसं परेषाम् ॥ २२ ॥ अनाद्यविद्योपनिषन्निपण्णैर्विशृङ्खलैश्चापलमाचरद्भिः । अगूढलक्ष्योऽपि पराक्रिये यत्त्वत्किकरः किं करवाणि देव ॥ २३ ॥ विमुक्तवैरव्यसनानुवन्धाः श्रयन्ति यां शाश्वतवैरिणोऽपि । परैरगम्यां तव योगिनाथ तां देशनाभूमिमुपाश्रयेऽहम् ॥ २४ ॥ मदेन मानेन मनोभवेन क्रोधेन लोभेन च संमदेन । पराजितानां प्रसभं सुराणां वृथैव साम्राज्यरुजा परेपाम् ॥ २५ ॥ खकण्ठपीठे कठिनं कुठारं परे किरन्तः प्रलपन्तु किंचित् । मनीपिणां तु त्वयि वीतराग न रागमात्रेण मनोऽनुरक्तम् ।। २६ ॥ सुनिश्चितं मत्सरिणो जनस्य न नाथ मुद्रामतिशेरते ते । माध्यस्थ्यमास्थाय परीक्षका ये मणौ च काचे च समानुबन्धाः ॥२७॥ .

श्रीपार्श्वनाथस्तवः । १०७ -- . इमां समक्ष प्रतिपक्षसाक्षिणामुदारघोपामवघोपणां वे । न वीतरागात्परमस्ति दैवतं न चाप्यनेकान्तमृते नयस्थितिः ॥ २८ ॥ न श्रद्धयैव त्वयि पक्षपातो न द्वेषमात्रादरुचिः परेषु । यथावदाप्तत्वपरीक्षया तु त्वामेव वीर प्रभुमाश्रिताः सः ॥ २९ ।। तमःस्पृशामप्रतिभासभा भवन्तमप्याशु विविन्दते याः । महेम चन्द्रांशुशा (१) वदातास्तास्तर्कपुण्या जगदीश वाचः ॥ ३० ॥ यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया यया तया । वीतदोषकलुपः स चेद्भवानेक एव भगवन्नमोऽस्तु ते ॥ ३१ ॥ इदं श्रद्धामात्रं तदथ परनिन्दा मृदुधियो विगाहन्तां हन्तः प्रकृतिपरवादव्यसनिनः । अरक्तद्विष्टानां जिनवर परीक्षाक्षमधिया- मयं तत्त्वालोकस्तुतिमयमुपाधि विधृतवान् ॥ ३२ ॥ इति श्रीहेमचन्द्रसूरिविरचितमयोगव्यवच्छेदिकाद्वात्रिंशिकाख्य श्रीमहावीरस्वामिस्तोत्रम् । श्रीजिनमभसूरिविरचितः श्रीपार्श्वनाथस्तवः। का मे वामेयशक्तिर्भवतु तव गुणस्तोमलेशप्रशस्ती न स्याद्यस्यामधीशः सुरपतिसचिवस्यापि वाणीविलासः । माने वा वार्धिवारां कलयति क इव प्रौढिमारूढधारां भक्तिव्यक्तिप्रयुक्तस्तदपि किमपि ते संस्तवं प्रस्तवीगि ॥ १ ॥ संसाराम्भोधिवेला निविडजडमतिध्वान्तविध्वंसहसः श्यामाश्यामाङ्गधामा (8) शठकमठतपोधर्मनिर्माथपायः। स्फारस्फूर्जत्फणीन्द्र प्रगुणफणमणिज्योतिरुयोतितागा- चक्रश्चक्रिध्वज त्वं जय जिन विजितद्रव्यभावारिवार ॥ २ ॥ १. पार्श्वनाथस्तवादिस्तोत्रपटु जिनप्रमसूरिप्रणीतमस्मभ्य सूरतनगरवातिना केवल- दासात्मजेन भगवान्दासधेष्टिना प्रहितम्. पुस्तकान्तरं चास्य नोपलम्ममिति, १०८ काव्यमाला॥ कम्रानम्रानिचेतःशिखिकुलविलसत्ताण्डवाडम्बरश्री- हेतुः प्रेसन्नखालीरुचिररुचितडिद्दामनेत्राभिरामः । प्रीति फुल्लत्फणाभाग्मणिघृणिसुमनश्चापचित्रीकृतद्यौ- यास्त्वं देशनावास्तनितसुखकरो मेघवन्मेऽघहन्तः ॥ ३ ॥ मिन्दंल्लोकप्रवाहप्रबलतरसरित्पूरमुच्चैर्वहन्तं जन्तूनां चित्तभूमौ स जयति जगति त्वद्वचोवारिकान्तः । मुक्त्वा गाढं गृहीतानपि विनतजनान्यत्प्रवाहाद्भयार्ता भूयस्तन्मध्यमेव प्रविशति झटिति क्रूरमोहावतारः ॥ ४ ॥ लौल्याल्लावण्यलक्ष्मीमधुरमधुरसं त्वन्मुखाम्भोरुहोत्थं पायंपायं भरेण प्रणतभवभृतां नेत्रपुप्पंधयाल्यः । नूनं हर्षप्रकर्षोद्गतनयनपयःपूरदम्भेन दूर मिथ्यादृग्लोचनानामसुलभ भगवन्सद्य एवोद्रिन्ति ॥ ५॥ निःस्यन्दानन्दकन्दः कलिमलकदलीकाण्डखण्डीकृतौ य- कक्षाकौक्षेयकस्य क्षपितभवशतं नेत्रपीयूषसत्रम् । श्रेयःश्रीवल्लिहल्लीसकमलयमरुद्भाग्यमारोग्यलक्ष्म्या- दर्शः कंदर्पदर्पद्विजपतिपतनं दर्शनं तावकीनम् ॥ ६ ॥ , विद्याविद्याधरीणां मणिमयमुकुरः क्रूरवैरारिजैत्रो गात्रश्रीमैत्र्यपात्रीकृतरतिरमणः सच्चरित्रैः पवित्रः । सद्भोगाभोगभागी सुभगिमभवनं श्रीजिन श्रीद संप- निःकम्पः संपनीपद्यत इह मनुजः साधु नत्वा जिन त्वा ॥ ७ ॥ देव्या वाचोऽपि वाचामविषय दिविषन्मन्दिरद्वारसेवा- हेवाकी सर्वनाकीश्वरमुकुटतटीघृष्टपादाम्बुजस्य । नेतश्चैतन्यशून्यः सकलकलयितुर्भुक्तिमात्रस्य दाता भुक्ति मुक्तिं च दातुः कथमिव भवतः कल्पवृक्षः सदृक्षः ॥ ८॥ चन्द्रः प्रत्युदकाशयं प्रतिफलत्येको न चार्थक्रिया- कारीत्येप न चास्तवास्तव पुनर्वृत्तं जयत्यद्भुतम् । १. सरस्वत्याः. २. प्रतिजलाशयम्.

श्रीपार्श्वनाथस्तवः । १०९ एकस्त्वं प्रतिमानसं वससि यद्भव्यात्मनामेकदा सर्वेषामथ च प्रयच्छसि फलं तेषां मनोवाञ्छितम् ॥ ९ ॥ यौप्माकीणगुणस्तुति विकिरती शुण्डामिवान्तर्गत- प्रीतिं स्फीतिमतीमतीव सुरभि दानाम्बुना विभ्रती । त्रैलोक्यैकसुरद्रुम द्रुमवनानीवोन्मदा वासिता युष्मद्भक्तिरलं भनक्ति भविनामेनांसि हृद्वासिता ॥ १० ॥ आधारे स्थिरतोज्झिते किल भवत्याधेयमप्यस्थिर सोऽयं ज्ञानपथस्तथापि किमपि स्वार्थैकनिष्ठो ब्रुवे । अश्रान्तं मम चञ्चलेऽपि मनसि खामिन्वधान स्थिति त्रैलोक्याधिप शक्तिभाजि यदि वा किं नोपपन्नं त्वयि ॥ ११ ॥ विश्वेश प्रसभं त्वदीययशसा व्यालुप्यमाने प्रभा- सर्वखे जगदाक्रमैकपटुना नूनं द्विजानां पतिः । शस्त्री लाञ्छनकैतवात्प्रतिनिशं कुक्षिप्रदेशे क्षिप- न्कोपाटोपवशादसावुदयते विभ्रद्वपुलॊहितम् ॥ १२ ॥ वक्रेण त्वमपाहरः शशधरस्याखण्डमूर्तेः श्रियं व्याकोशस्य कुशेशयस्य सुषमासर्वस्वमप्यग्रहीः । यत्तुल्यव्यसनादपि स जहितो नैतौ विरोधं मिथ- स्तेनाकारि समानशीलविपदां सख्यप्रवादो मृषा ॥ १३ ॥ पुष्टाङ्गं व्यवहारनिश्चयनयप्रोत्तुङ्गशृङ्गं शुभं दानाद्यभिचतुष्टयं च विकसज्ज्ञानक्रियालोचनम् । नित्यच्छेकविवेकपुच्छलतिकं स्याद्वादपर्युल्लस- पीनोचैः ककुदं कुतीर्थतृणभुक्सूते वृपं गौस्तव ॥ १४ ॥ आकण्ठं कमाम्बुदोज्झितपयःपूरे निमग्नाङ्गक- स्योत्फुलं मुखपङ्कजं तव पपौ या कौतुकोत्कर्पतः । नागस्त्रैणविलोचनालिपटली संख्याय धुर्येव तां (1) धन्यानां गणनाक्षणे न खलु सा रेखान्यतः सर्पति ॥ १५ ॥ १. करिणी.

११०
काव्यमाला।
वन्दारोः प्रियकोपितप्रणयिनीहक्कोणशोणत्विषः
सान्द्रस्निग्धसमुच्छलत्क्रमनखश्रेणीमयूखास्तव ।
त्वद्वृत्तस्तुतिदूतिकाभिमुखितां पाणौ चिकीर्षोः शिव-
श्रीरामां नवपद्मरागमहितं वनन्तु मौलौ मम ॥ १६ ॥
एवं तृदेवमहितः सहितः प्रभाव-
भूत्या प्रभूततमया विनुतो मयायम् ।
पार्श्वप्रभुविमलचिन्मयचित्तसौध-
मुत्तंसयत्त्ववृजिनप्रभसूरिवर्ण्यः ॥ १७ ॥
इति श्रीजिनप्रभसूरिविरचितः पार्श्वनाथस्तवः ।
श्रीजिनप्रभसूरिविरचितं
गोतमस्तोत्रम् ।
श्रीमन्तं मगधेषु गोर्वर इति ग्रामोऽभिरामः श्रिया
तत्रोत्पन्नमसन्नचित्तमनिशं श्रीवीरसेवाविधौ ।
ज्योतिः संश्रयगौतमान्वयविपत्प्रद्योतनद्योमणि
तापोत्तीर्णसुवर्णवर्णवपुष भक्त्येन्द्रभूति स्तुवे ॥ १ ॥
के नाम नाभङ्गुरभाग्यसृष्टयै दृष्टयै सुराणां स्पृहयन्ति सन्तः ।
निमेषविघ्नोज्झितमाननेन्दुज्योत्स्ना मनोहत्य तवापिवद्या ॥२॥
निर्जित्य नूनं निजरूपलक्ष्म्या तृणीकृतः पञ्चशरस्त्वया सः ।
इत्थं न चेत्तहि कुतस्त्रिनेत्रनेत्रानलस्तं सहसा ददाह ॥ ३ ॥
पीत्वा गिरं ते गलितामृतेच्छाः सुराश्चिरं चक्रुरभोज्यमिन्दुम् ।
सुधाहदे तत्र मुनीश मन्ये लक्ष्मच्छलाच्छैवलमीक्ष्यतेऽन्तः ॥ ४ ॥
सौभाग्यभङ्गयापि समाधिदाने प्रत्येति लोकः कथमेतदज्ञः ।
यत्त्वां समग्रा अपि लब्धिकान्ताः समालिलिङ्गुः समकालमेव ॥ ५ ॥
त्वत्पादपीठे विलुठन्त्यमास्त्वदेहभृत्याः किल कल्पवृक्षाः ।
तैरप्यमा हन्त तवोपमानोपमेयभावः कथमस्तु वस्तु ॥६॥

गोतमस्तोत्रम् । पदोनखाली तव रोहिणीयं मुदे न कस्याद्भुतकृच्चरित्रा। वन्दारपुंसां वदनेन्दुरन्तः प्रविष्टविम्वोऽपि शिवाय यस्याः ॥ ७ ॥ यत्केवलज्ञानमविद्यमानमथात्मनि खान्तिपदामदास्त्रम् (१) । लोकोत्तरत्वे ननु तावकानां दिङ्मात्रमेतच्चरितामृतानाम् ॥ ८ ॥ भवद्गुणानां स्तुतयो गुणविधीयमाना विबुधाधिपाद्यैः । स्तुत्यन्तरस्तोत्रकथागणस्य समाप्तये वृत्करणीभवन्ति ॥ ९॥ (१) न रागवानो भजसेऽतिचारं नालम्बसे वक्रगति कदाचित् । पुरस्कृतेनोऽपि घनाय नासि तथापि पृथ्वीतनयोऽसि रूढः ॥ १० ॥ प्रभो महावीरमुपास्य सम्यक्त्वयार्जितं यज्ज्ञकलारहस्यम् । गृहे यतित्वेऽप्यभिरूपरत्नत्रयीजुषा कीर्तिरतानि तेन ॥ ११ ॥ त्वद्वाणिमाधुर्यजिता पलाय्य सितोपला काचघटी विवेश । तत्रापि भीतिं दधती शलाकाव्याजेन जग्राह तृणं तु वने ॥ १२ ॥ श्रीवीरसेवारसलालसत्वात्तद्वाधिनी केवलबोधलक्ष्मीम् । अप्याय(ग)तामादरिणी वरीतुं तृणाय मत्वा त्वमिमन्वमंस्थाः(१) १३ अपोढपङ्के कविभिनिषेव्ये निरस्ततापे बहुभङ्गनाले । विभो भवद्वाड्मुखगाङ्गपूरे दुर्वादिपूगास्तृणवत्तरन्ति ॥ १४ ॥ राकामये दिग्वलये समन्ताद्यशःशशाङ्केन ध्रुवं कृते ते । कुहूध्वनिः केवलमेव कण्ठदेशं पिकानां शरणीचकार ॥ १५ ॥ जगत्रयोद्भासि यशस्तवैतत्व स्पर्धतां सामनेन चन्द्रः । यस्यापरार्धेऽपि तृणस्य (?) नैव प्रभाप्रभावो लभतेऽवकाशम् ॥ १६ ॥ छन्वेन्दुपद्मादिषु रूढिमानं त्वन्नाम्नि तु श्रीर्वसतीति पुष्टिः । कुतोऽन्यथा तज्जपदीक्षितानां पुरःपुरो नृत्यति नित्यमृद्धिः ॥ १७ ॥ वसुभूतिसूतोऽपि कौतुकं वसुभूतेर्जनकः प्रणेमुपाम् । भगवन्नभवोऽपि वर्तसे कथमङ्गीकृतसर्वमङ्गलः ॥ १८ ॥ नाधः करोषि वृषमीश गणाधिपोऽपि धत्से सदाशयमपाशमपि प्रचेताः ।

११२
काव्यमाला।
श्रीदोऽपि सूत्रितयमालयवासकेलि-
स्त्वं पावकोऽपि हरसे हरहेतिपातम् ॥ १९ ॥
यत्तपत्यपि कलौ जिन प्रभाचार्यमन्त्रमनुशीलतां स्फुरेत् ।
हेतुतात्र खलु तत्त्वदेकताध्यानपारमितयैव गृह्यते ॥ २० ॥
मयैवं दुर्दैवं शमयितुमलंभूप्णुमहिमा
स्तुतस्त्वं लेशेन श्रुतरथधुरागोतम गुरो।
कुरूद्दयोतं क्लीवद्दिनपतिसुधागौ तमसि मे
प्रभो विद्यामन्त्रप्रभव भवते गोतम नमः ॥ २१ ॥
इति श्रीजिनप्रभाचार्यविरचित गोतमस्तोत्रम् ।
श्रीजिनप्रभाचार्यविरचितः
श्रीवीरस्तवः।
कंसारिक्रमनिर्यदापगाधाराशुद्धविराट्छदच्छविम् ।
छन्दोभिर्विविधैरधीरधीस्तोष्येऽहं चरमं जिनेश्वरम् ॥ १ ॥
त्रैलोक्यनेतस्तव दुर्नयालीनिर्नाशनं शासनमाश्रितो यः ।
तस्येन्द्रवज्रायुधमाविरस्ति दुष्कर्मशैलेन्द्रभिदाविधाने ॥ २ ॥
किमेकमाश्चर्यकरं न ते यत्पुप्पंधयोऽप्येप विशेपविज्ञः ।
त्यक्तोपजातिभ्रमणामिलापस्त्वदङ्गसौगन्ध्यमनुप्रयाति ॥ ३ ॥
यः सृजत्यजरसौरभसारैरम्बुजैस्तव पदाम्बुजपूनाम् ।
प्रेत्य तस्य दिवि देवमृगाक्ष्यः स्वागतानि निगदन्ति सरागम् ॥४॥
वाजिवारणरथोद्धता भटैरुद्भटा सुभगभोगभङ्गिभूत् ।
राज्यऋद्धिरुपननमीति तं नमीति तव यः पदौ मुदा ॥ ५ ॥
नाकिनिकायकरप्रहतानां संप्रसरन्गगने मुरजानाम् ।
जन्ममहे तव कस्य न जज्ञे दत्तमदो धकधोंकृतिनादः ॥ ६
ये भक्त्यात्तभ्रमरविलसिता जाताः पादाम्बुरुहि तव विभो ।
तैः श्रेयश्रीर्मधुरमधुरसास्वादासादात्समननि कृतिभिः ॥ ७ ॥

श्रीवीरस्तवः। ११३ तत्त्वातत्त्वारोपलोपप्रवीणां प्रहप्राणित्राणसंस्थाधुरीणाम् । आज्ञां धत्ते मौलिना भव्यजन्तुश्रेणिः श्रद्धाशालिनी तावकीनाम् ।।८।। वसुधाम सुधामय वक्रविधो तव भापितमाद्रियते भुवि यः । स सुखानि सुखानिरिवोद्धमणीविभृते परितोऽटककीर्तिभरः ॥ ९ ॥ स्रग्विणी कुण्डलभ्राजिगण्डस्थला तारहारद्युतिद्योतिवक्षस्तटा । राजिराखण्डलानामखण्डादरा पादपीठेऽलुठत्तावके पावके ।। १० ॥ क्षणादेव तेषां शिवश्रीभुजंग प्रयातं विवृद्धिं शुभं कर्म पुंसाम् । भवन्नाममन्त्रस्य वर्णानुपूर्वी रसज्ञानवर्तिप्णुरापादिता यैः ॥ ११ ॥ द्रुतविलम्बितमध्यरवध्वनद्विविधतूर्यमनेकमणीमयम् । कुसुमवर्षचितं तव देशनावनितलं क इवैत्य न मोदते ॥ १२ ॥ मुकुरोज्ज्वले गणभृतां हृदये प्रमिताक्षरापि वत वाग्भवतः । अनियत्तया प्रतिपफाल जिन ध्वनितार्थतश्च जगद→धियाम् ॥ १३ ॥ जगत्प्रभो भक्तिभरादनुद्विनाद्विजातिवंशादपहृत्य कृत्यवित् । नरेन्द्रवंशस्थमचीकरच्छचीपतिर्मवन्तं हरिनैगमेपिणा (१) ॥ १४ ॥ वाचां ते निखिलनयाविरोधिनीनां दुर्योधद्रुमदलने कुठारिकाणाम् । माहात्म्यं भुवनमनामहर्षिणीनां निर्वक्तुं क इव यथावदस्तु शक्तः ॥१५॥ सिद्धार्थराजकुलनन्दनपारिजात न भ्राम्यति क तव कीर्तिरपारिजात । वर्णेन दुग्धमधुरेण मनोजनाग- सिंहोदता स्थिरतया सुमनोजनाग ॥ १६ ॥ अतिमहति भवोमीमालिनीह भ्रमन्तो जननमरणवीच्याघातदोदूयमानाः । कथमपि पृथुपुण्याः प्राणिनः प्राप्नुवन्ति प्रवहणमिव केचिच्छासनं तावकीनम् ॥ १७ ॥ लवणिमतर्जितमरपुरंधिरूपदर्पा घटितकटाक्षलक्षशरविद्धकामिमर्मा । १. वसन्ततिलकेति नामान्तरम्. १५ ४ काव्यमाला । कनकमणीमयाभरणरश्मिरञ्जिताङ्गी व्यजयत वाणिनी न भवतः समाधिमुद्राम् ॥ १८ ॥ प्रबोधं भव्याम्भोरुहवनमधीशाभिगमय- न्हरन्मोहध्वान्तं परसमयताराः कवलयन् । निविष्टः सिंहासन्यलममलभामण्डलयुतो भवानाभाति सोदयशिखरिणीव द्युतिपतिः ॥ १९ ॥ अमित दमितस्रोतोमाद्यत्तुरंगमसंगम त्रिदशहरिणीनेत्रा नेत्रत्रिभागविलोकितैः। तव जिन मनः शेके कर्तु मनागपि न खसा- चलयितुमलं किं हेमाद्रिं युगान्तमहाबलाः ॥ २० ॥ दारिद्यापत्परिभवजनुर्विस्त्रसामृत्युदुः- रार्ताः के के न तव बलवदेव सेवां प्रपन्नाः । किं स्याद्दोषप्रशमनपटोरोपधस्योपयुक्तौ मन्दाक्रान्ता जगति जनता दुःसहेनामयेन ॥ २१ ॥ शरदुदितनिशाकरांशुभैभाजैत्रकीर्तिच्छटा- धवलितनिखिलत्रिलोकीतलं श्रद्धयोपासते । सरभसविनमत्सुराधीशचूडामणिज्योतिषा- मरुणितपदपीठमूर्मीभिरेष्यच्छिवास्त्वां प्रभो ॥ २२ ॥ बिभ्राणो नखविक्रियां भयकरीं धूतोल्लसद्वालधी रौद्रं शब्दमनीचकैः प्रकटयन्भूपोऽवनीपादृतः । त्वद्भक्त्या भृतकोऽव्यवाप्यनृपतां मांसादरं वर्धय- न्धत्तेऽनेकपरानिदर्पदलने शार्दूलविक्रीडितम् ॥ २३ ॥ विद्यामन्त्रैर्न कार्य सुरतरुभिरलं वित्तेन च मृतं पर्याप्तं राज्यलक्ष्म्या कृतममरतया ह्यास्तां सुवदना। १. आसनशब्दस्यासनादेश इति काशिका. २. वाता:. ३. महामालिकेति नामान्तरम्.

चतुर्विंशतिजिनस्तवः ।
११५
स्फूर्जत्वेका तु भक्तिस्तव मम मनसि ध्वस्ताखिलमला
कैवल्यश्रीर्यया स्यात्करतलनिलया साहाय भगवन् ॥ २४ ॥
श्रीवीरः सर्वदिक्कैः कनकरुचितनूरोचिरुद्दीप्तदीपै-
मङ्गल्यः सोऽस्तु दीपोत्सव इव जगदानन्दसंदर्भकन्दः ।
सूक्तिनँनप्रभीयं मृदुविशदपदा स्रग्धराधीयमाना
भव्यानां भव्यभूत्यै भवतु भवतुदे भावनामावितानाम् ॥ २५ ॥
इति श्रीजिनप्रभसूरिविरचितो वीरस्तव. ।
श्रीजिनप्रभसूरिविरचितः
चतुर्विशतिजिनस्तवः।
कनककान्तिधनुःशतपञ्चकोच्छ्रितवृपाङ्कितदेहमुपास्महे ।
रतिपतेर्जयिनं प्रथमं जिनं नृवृषभं वृपमं वृपभज्जिनः ॥ १॥
द्विरदलाञ्छित वाञ्छितदायक क्रमलुठत्रिदशासुरनायक ।
स्तुतिपरः पुरुषो भवति सितावजित राजितरा जितराग ते ॥ २ ॥
तुरगलाञ्छन संभव संभवत्वहरिदं जिन यत्र रसादहम् ।
हृदि दधे भणितीर्गुणभूरुहां शमहिता महिता महि तावकीः ॥ ३ ॥
भवमहार्णवनिस्तरणेच्छया त्वमभिनन्दन देव निपेव्यसे ।
व्रतभृतां कुगतेः स्मरनिग्रहप्रसभया सभया सभयात्मना ॥ ४ ॥
त्रिभुवनामित कामितपूरणे सुरतरोरुपमामतिगामुको ।
तव विभो भजते भवतः क्रमावसुमते सुमते सुमतेर्दद ॥ ५ ॥
धरनृपात्मज पष्ठजिनेश्वर त्वयि कृतप्रणयः क्रियते पतिः ।
रभसतः प्रथितार्थ......"तोपरमया रमयारमयान्वितः ॥ ६ ॥
प्रभुसुपार्श्व जगत्रितयाजनुःपवितकाशिपुरीक विलक्षण ।
सुकृतिनः कृतिनश्चरितं विदुः सुभवतो भवतो भवतोदनम् ॥ ७ ॥
कुनयकाननभञ्जनकुञ्जराः शशिरुचे महसेनसुत प्रभो।
निखिलजीवनिकायदितोक्तिभिः शुभवदाभवदाभवदागमाः ॥ ८ ॥

६
काव्यमाला।
-
युधि विजित्य मनोभवमग्रहीन्मकरमङ्कमिपाद्धनमस्य यः ।
स्तुतजनाः सुविधि कुदृशां सुरस्तुतमसंतमसं तमसंस्तुतम् ॥ ९॥
दृढरथाङ्गजशीतल शीतलद्युतिकला विमला तव भारती ।
मनसि कस्य न हर्षसनाथतां जिन तता नततानततायिनी ॥ १० ॥
जयति गण्डकलक्ष्म तनुर्जिनः शशिमुखाम्बुजहग्दशमोत्तरः ।
कनकदीप्तिरमर्षित हीरकस्तबरदो वरदो वरदोर्युगः ॥ ११ ॥
शुभमयी वसुपूज्यसुतप्रभो भुवननेत्रमहो महिपाङ्किता।
तव तनुर्वितनोतु सुखं सतामरुचिरं रुचिरं रुचिरल्लिता ॥ १२ ॥
सकलसत्त्वसरोजविकासने रविरुचिर्विमल त्रिजगत्पते ।
अपि शमं नयते तव गीर्जितामृतरसा तरसा तरसा तृषम् ॥ १३ ॥
निजयशोभरनिबुतजाह्नवीजलवलक्षितकीर्तिरनन्तजित् ।
दिशतु वः कुमतासुरनिग्रहे भृशमनःशमनः शमनश्वरम् ॥ १४ ॥
भव भयं तव धर्म धुनोतु वाक्श्रुतिपथातिथितां गमिता सती ।
किमु करोति न पित्तरजः शमं वरसिता रसिता रसिताजुषा ॥ १५ ॥
जयति शान्तिनिनः स जगन्ति या भटचमूर्युधि मोहमहीपतेः ।
रणकथामपि भक्तिभरेण ते स सहसा सहसा सहसामुचत् ॥ १६ ॥
अवति कुन्थुजिनाधिप राज्यमा हिमवतस्त्वयि चक्रहताहितम् ।
त्रिदिवतोऽप्यधिकाजनि ऋद्धिभिर्घनरसा नरसा न रसा न किम्॥१७॥
जगदधीश सुदर्शनभूमिपान्वयपयःसरिदीशशिखामणे ।
प्रणिदधेऽन्तिषदो विषदव्रता वनरता न रता नर तावकान् ॥ १८ ॥
हृदि नरस्तव मल्लिजिन सरन्नपि हि मूर्तिमुपैति महत्फलम् ।
निशमयन्समताकरुणाञ्चितां किमुदितामुदिता मुदितादरः ॥ १९ ॥
त्वयि न सुव्रत कच्छपलाञ्छनोऽञ्जनरुचिहरिवंशविभूषणः ।
शिवसुखाय तपः परशुच्छिता शुभवतो भवतो भवतो धियाम् ॥२०॥
विरतिवर्मतटावतिकुण्ठितसरशरः शरणीक्रियतां त्वया ।
गुणगणस्य नमिर्बुधवर्हणवजनभाजनभाजनभावमाक् ॥ २१ ॥

पार्श्वस्तवः । ११७ अनुमितं खलु नेमिविभो भवभ्रमणतो मयका यदियच्चिरम् । महितपाद भवान्भवतः कृपाभवनमावनमावनमालिका ॥ २२ ॥ कमठशासनपार्श्व शिवंकरे रमत एव मनः प्रियधर्मणाम् । अपि कुतीर्थ्यजनेन दुरात्मना तव मते वमतेऽवमतेजसः ॥ २३ ॥ त्रिजगदीक्षण केसरिलक्षण क्षणमपि प्रभुवीर मनोगिरौ । गुणगणान्मम मा स विरज्यतामुदयिता दयितादयि तावकात् ॥२४॥ च्युतजनुव्रतकेवलनिर्वृतिक्षणदिनाददतां मुदमाहता । व्यरचि यैरुपयत्रिदशैईशां नवसुधा वसुधावसुधामभिः ॥ २५ ॥ इति निनप्रभवो मयकान्तिमक्रमगतैर्यमकावयवैर्नुताः । बलममी वितरन्तु धुरि स्थिताः शुभवतां भवतां भवतान्ति भित् ॥२६॥ सदुपदेशकरप्रसरक्षताखिलतमस्कतया तपनोपमाः । ददतु तीर्थकृतो मम निर्ममा शमरमामरमा मरमानिताः ॥ २७ ॥ जयति दुर्नयपङ्कजिनीवने हिमततिर्मतिकैरवकौमुदी। शमयितुं तिमिराणि जने महावृजिनभाजि नभाजिनभारती ॥ २८ ॥ करकृताम्रफला पृणती जिनप्रभवतीर्थमिभारिमधिष्ठिता। हरतु हेमरुचिः सुदृशां सुखव्युपरमं परमं परमम्बिका ॥ २९ ॥ इति श्रीजिनप्रभसूरिप्रणीतश्चतुर्विशतिजिनस्तवः । श्रीजिनमभसूरिविरचितः पार्श्वस्तवः। अधियदुपनमन्तो यात्रिकाः प्रीतिपात्रा अविकलफलशालि प्राणितं मन्वते स्वम् । स जयति फलवर्धिस्ता(स्था)नलप्तावतार- स्त्रिभुवनभवनश्रीदीपकः पार्श्वनाथः ॥ १ ॥ जिनविभुरविभाव्यं वैभवं भूरि विभ्र- भवतु भुजगभोगाभोगविभ्राजिमौलिः । .

काव्यमाला। शुभसुभगिमभङ्गीभाजनं भक्तिभाजा- मभिमतफलकल्पानोकहः शोकहती ॥ २ ॥ शरदुडुपरुचिश्रीगर्वसर्वखचौरै- र्धवलितनिखिलाशामण्डलः कीर्तिपूरैः । दधदलिकुलनीलं भावितानं नताना- मुपनयतु समृद्धीराश्वसावाश्वसेनिः ॥ ३ ॥ किमपि जिन विजेतुं दुःशकानां शकानां महिम तलिनयन्त(१)स्त्वत्प्रभावस्य लेशाः। प्रसृमरकलिकालक्षोणिपालप्रताप- प्रतिहतिकृतहस्ताः स्वस्ति विस्तारयन्ति ॥ ४ ॥ सुहृदति रिपुवारः क्षीरति क्षारनीरं तुहिनति दहनोऽहिः पद्मिनीनालति द्राकू । स्थलति जलधिरेणत्येणराजः करीन्द्रो गवति भवति भक्तिं विभ्रतामीश पुंसाम् ॥ ५ ॥ नतशखमखचूडारत्नरोचिष्णुरोचिः कवचितचरणाम्भोजाग्रजाग्रन्नखार्चिः । पुलकनिचुलिताङ्गैरुत्प्रमोदैन कैः कै- रमृतपदसुखाय स्तूयसे भूयसे त्वम् ॥ ६ ॥ इदमिन तव चैत्यं शैत्यकृल्लोचनानां कलितकलिवितण्डं मण्डपाखण्डितथि। तुलितसुरविमानं मानवानाममानां दिशति मुदमुदग्रस्तम्भपाञ्चालिकाभिः ॥ ७ ॥ तव चरणयुगेन स्पर्धिनः कल्पवृक्षाः क इति लपतु नेतुर्युक्तिरिक्तं खलोऽपि । दिवि विबुधगणानां त्वत्पुरो दास्यभाजां दधति खलु सदा यद्नेहदासत्वमेते ॥ ८॥ : .

श्रीवीरनिर्वाणकल्याणकस्तवः ।
११९
तव तनुरुचिसालं नम्रमूर्धा जनोऽयं
प्रतिफलितमसक्तं स्वे ललाटे विचिन्त्य ।
मरकतदलनील ध्यानसिद्धिं व्यपोढ-
श्रममुपलभते ही लोभऋद्धेर्निदानम् ॥ ९ ॥
सकलकुशलसंपद्वीरुधां वारिवाहः
प्रचितदुरितकक्षप्रक्षये हव्यवाहः ।
कमठधरणपद्मापार्श्वयक्षैश्विराय
त्वमचिरहितपार्थः पार्श्वतीर्थेश नन्द्याः ॥ १० ॥
सफलय फलवर्षीचैत्यलक्ष्मीवतंस
त्रिजगदभयदातर्मल नः कासितानि ।
स्तवनमवनमेतचेतसस्तावकीनं
विलसतु रसनाने चातुरीचञ्चुवाचाम् ॥ ११ ॥
नन्दतुज्वलनक्षपाकर(१३६९)मिते संवत्सरे वैक्रमे
राधस्याधिशिती त्रयोदशिवुधे संघेन साधै सुधीः ।
यात्रायै फलवर्धिकामुपगतः स्तोत्रं तवेदं प्रभो
श्रीमत्पार्श्व जिनप्रभो मुनिपतिः संसूत्रयामासिवान् ॥ १२ ॥
इति श्रीजिनप्रभसूरिविरचितः पार्श्वस्तव. ।
जिनप्रभसूरिविरचितः
श्रीवीरनिर्वाणकल्याणकस्तवः ।
श्रीसिद्धार्थनरेन्द्रवंश कमलाशृङ्गारचूडामणे-
भव्यानां दुरपोहमोहतिमिर प्रोज्जासनेऽहमणेः ।
कुर्वे किंचन काञ्चनोज्ज्वलरुचेनिर्वाणकल्याणक-
स्तोत्रं गोत्रभिदर्चनीयचरणाम्भोजस्य वीरप्रभोः ॥ १ ॥
प्राप्य देवशरदां द्विसप्ततिं शीतगौ पवनदेवतःगे।
तामुपायत रसेन (1) कार्तिकामावसी निशि शिवधियं भवान् ॥ २ ॥

१२० काव्यमाला। हस्तिपालकनृपालपालिता पूर्न पूरयतु मन्मनःशुचा । यत्र दर्श इव चन्द्रमा भवानस्तमाप भवतापहापनः ॥ ३ ॥ ऊर्मदर्शनिशि दर्शिताद्वयास्तत्र पुर्यखिलवर्णनाः प्रजाः । त्वन्महोदयमहीतयाधुनाप्युत्सवं विदधतेऽनुवत्सरम् ॥ ४ ॥ यैर्ध्वनिस्तव पपे श्रवःपुटैः षोडशप्रहरदेशनाविधौ । तान्निवेश्य धुरि धन्यताजुषां रेखया न खलु सृप्यतेऽन्यतः ॥५॥ पुण्यपापफलपाकवर्णनामध्यमध्ययनपति युक्छतम् । व्याकृथाः स्फुटमपृष्ट षट्कृतिव्याकृतीश्च परिषत्पुरस्तदा ॥ ६ ॥ जीवति त्वयि जिनेन्द्रभूतिना त्वत्प्रणामविधिभङ्गभीरुणा । नूनमैण्यत न देव केवलज्ञानसंपदनुरागभागपि ॥ ७ ॥ यद्विधेयमुपदिश्य गौतमः प्रैषि भक्तिभृदपि त्वयान्यतः । रोगिणः कटुकायुपानवज्ज्यायसेऽस्य चक्लुपे गुणाय तत् ॥ ८॥ त्वहिक्ष्ववतरत्सुरावलीयानदेहमणिभूषणांशुमिः । सा कुहूरजनिरस्ततामसा पूर्णिमानिशमुपाहसद्भुवम् ॥९॥ निर्वते त्वयि विलोक्य विष्टपं ध्वान्तपूरपरिपूरितोदरम् । रोदयन्त इव रोदसी प्रतिश्रुद्भरेण रुरुदुः पुरंदराः ॥ १० ॥ वहिवायुजलदेश्वरैः सुरैस्तैलेपणिककृताङ्गसंस्कृतेः । भूतिमात्रमपि भूतिधाम ते येऽस्पृशन्वत न तारजोऽस्पृशत् ॥ ११ ॥ भक्तितो महितुमीश वासवास्तावकीनहनुसंग्रहं व्यधुः । नूनमक्षविजयेन तावकानुग्रहेण हनुमत्त्वमिच्छवः ॥ १२ ॥ कुग्रहा न तव जातु शासनं वीर बाधितुमलंभविष्णवः । एककः स खलु भस्मकग्रहो बाधते भवदुपेक्षितस्तदा ॥ १३ ॥ जग्मुषि त्वयि शिवं नराधिपास्तं क्षणं गृहिणीनबोधयन् (१) । ये बभुः कुनयकाननप्लुपस्त्वत्प्रतापशिखिनः कणा इव ॥ १४ ॥ यन्न कश्चन मुनिस्त्वया समं मुक्तिमायदितरैजिनैरिव । दुःपमासमयमावलिङ्गिनां व्याञ्जि तेन गुरुनिर्व्यपेक्षता ॥ १५ ॥ १. जायुरौषधम्. २. तैलपर्णिक चन्दनविशेषः. .

प्रश्नोत्तररत्नमाला। १२१ प्रस्थिते त्वयि शिवाय तत्क्षणं संमुमूर्छरधिचि कुन्थवः । क्षुद्रनीव बहुलामतः परं सूचयन्त इव भाविनी महीम् ॥ १६ ॥ यत्र यत्र चरणौ त्वयार्पितौ तत्तदास्पदमगादपापताम् । एकया पुनरपापया पुरा पापयाजनि सुरोक्तिनामतः ॥ १७ ॥ यत्र मुक्तिमगमः शमद्रुमावाप पापतुदि नार्कतापतत् । प्रीतिमीतितनुकुञ्जभञ्जने नागनागकरणं करोतु नः ॥ १८ ॥ यः पठत्यशठधीस्तव वीर स्तोत्रमेतदवधानसमेतः । तत्र भावरिपुराजिरयश्रीभाजि न प्रभवति प्रवलापि ॥ १९ ॥ इति श्रीजिनप्रभसूरिविरचितः श्रीवीरनिर्वाणकल्याणकस्तवः । श्रीविमलप्रणीता प्रश्नोत्तररत्नमाला। प्रणिपत्य वर्धमान प्रश्नोत्तररत्नमालिकां वक्ष्ये । नागनरामरवन्धं देवं देवाधिपं वीरम् ॥ १ ॥ कः खलु नालंक्रियते दृष्टादृष्टार्थसाधनपटीयान् । कण्ठस्थितया विमलप्रश्नोत्तररत्नमालिकया ॥ २ ॥ भगवन्किमुपादेयं गुरुवचनं हेयमपि च किमकार्यम् । को गुरुरधिगततत्त्वः सत्त्वहिताभ्युद्यतः सततम् ॥ ३ ॥ त्वरितं किं कर्तव्यं विदुपा संसारसंततिच्छेदः । किं मोक्षतरोवीज सम्यग्ज्ञानं क्रियासहितम् ॥ ४ ॥ कि पथ्यदनं धर्मः कः शुचिरिह यस्य मानसं शुद्धम् । कः पण्डितो विवेकी किं विषमवधीरिता गुरवः ॥ ५ ॥ कि संसारे सारं बहुशोऽपि विचिन्त्यमानमिदमेव । मनुजेषु दृष्टतत्त्वं वपरहितायोद्यतं जन्म ॥ ६ ॥ १. प्रश्नोत्तररत्नमालायाः पुस्तकद्वयमस्माभिरासादितम्. तत्र प्रयममेकपपत्मर शुद्धं सवेगिसाधुश्रीशान्तिविजयमुनिभिर्दत्तं क-सनकम्. द्वितीय पद्वयात्मर हुद् भगवान्दासश्रेष्ठिना केवलदासात्मजेन सुरतनगरात्प्रहितं ख-तक्षक यन. २. 'जिनव- रेन्द्रं क. ३. 'पद्धति' ख. ४. 'सत्व' क.

१२२
काव्यमाला।
मदिरेव मोहजनकः कः स्नेहः के च दस्यवो विषयाः ।
का भववल्ली तृष्णा को वैरी नन्वनुद्योगः ॥ ७ ॥
कस्माद्भयमिह मरणादन्धादपि को विशिष्यते रागी।
कः शूरो यो ललनालोचनबाणैर्न च व्यथितः ॥ ८॥
पातुं कर्णाञ्जलिभिः किममृतमिव वुध्यते सदुपदेशः ।
किं गुरुताया मूलं यदेतदप्रार्थनं नाम ॥ ९ ॥
किं गहनं स्त्रीचरितं कश्चतुरो यो न खण्डितस्तेन ।
किं दारिद्यमसंतोष एव किं लाघवं याच्या ॥ १० ॥
कि जीवितमनवयं किं जाड्यं पाटवेऽप्यनभ्यासः।
को जागति विवेकी का निद्रा मूढता जन्तोः ॥ ११ ॥
नलिनीदलगतजललवतरलं किं यौवनं धनमथायुः ।
के शशधरकरनिकरानुकारिणः सज्जना एव ॥ १२ ॥
को नरकः परवशता कि सौख्यं सर्वसङ्गविरतिर्या ।
किं सत्यं भूतहितं किं प्रेयः प्राणिनामसवः ॥ १३ ॥
किं दानमनाकाई किं मित्रं यन्निवर्तयति पापात् ।
कोऽलंकारः शीलं किं वाचां मण्डनं सत्यम् ॥ १४ ॥
किमनर्थफलं मानसमसंगतं का सुखावहा मैत्री।
सर्वव्यसनविनाशे को दक्षः सर्वथा त्यागः ॥ १५ ॥
कोऽन्धो योऽकार्यरतः को वधिरो यः शृणोति न हितानि ।
को मूको यः काले प्रियाणि वक्तुं न जानाति ॥ १६ ॥
किं मरणं मूर्खत्वं किं चानयं यदवसरे दत्तम् ।
आ मरणात्कि शल्यं प्रच्छन्नं यत्कृतमकार्यम् ॥ १७ ॥
कुत्र विधेयो यत्नो विद्याभ्यासे सदौषधे दाने ।
अवधीरणा व कार्या खलपरयोषित्परधनेषु ॥ १८ ॥
काहर्निशमनुचिन्त्या संसारासारता न च प्रमदा।
का प्रेयसी विधेया करुणा दाक्षिण्यमपि मैत्री ॥ १९ ॥

प्रश्नोत्तररत्नमाला। १२३ कण्ठगतैरप्यसुभिः कस्यात्मा नो समर्प्यते जातु । मूर्खस्य विषादस्य च गर्वस्य तथा कृतघ्नस्य ॥ २० ॥ कः पूज्यः सद्वृत्तः कमधनमाचक्षते चलितवृत्तम् । केन जितं जगदेतत्सत्यतितिक्षावता पुंसा ॥ २१ ॥ कसै नमः सुरैरपि सुतरां क्रियते दयाप्रधानाय । कस्मादुद्विजितव्यं 'संसारारण्यतः सुधिया ॥ २२ ॥ कस्य वशे प्राणिगणः सत्यप्रियभापिणो विनीतस्य । क्व स्थातव्यं न्याय्ये पथि दृष्टादृष्टलाभाय ॥ २३ ॥ विद्युद्विलसितचपलं किं दुर्जनसंगतं युवतयश्च । कुलशैलनिष्प्रकम्पाः के कलिकालेऽपि सत्पुरुषाः ॥ २४ ॥ किं शोच्य कार्पण्यं सति विभवे किं प्रशस्यमौदार्यम् । तनुतरवित्तस्य तथा प्रभविष्णोर्यत्सहिष्णुत्वम् ॥ २५ ॥ चिन्तामणिरिव दुर्लभमिह किं कथयामि ननु चतुर्भद्रम् । किं तद्वदन्ति भूयो विधूततमसो विशेषेण ॥ २६ ॥ दानं प्रियवाक्सहितं ज्ञानमगवै क्षमान्वितं शौर्यम् । त्यागसहितं च वित्तं दुर्लभमेतच्चतुर्भद्रम् ॥ २७ ॥ इति कण्ठगता विमला प्रश्नोत्तररत्नमालिका येषाम् । ते मुक्ताभरणा अपि विभान्ति विद्वत्समाजेपु ॥ २८ ॥ रैंचिता सितपटगुरुणा विमला विमलेन रत्नमालेव । प्रश्नोत्तरमालेयं कण्ठगता कं न भूपयति ॥ २९ ॥ इति श्रीविमलविरचिता प्रश्नोत्तररलमाला । १. 'संसारावासतः' क. २. 'दृष्टादृष्टार्थलाभाय' ख. ३. दिनोपदेशेऽपीपमा समु- द्धृतास्ति. ४. ख-पुस्तकेऽस्या आर्याया स्याने 'विवेकात्यतराज्येन राक्षे रलमा. लिका । रचितामोघवर्षेण सुधिया सदलंकृति. ॥ एतत्स्य वर्नते.

१२४ काव्यमाला। महाकविश्रीधनपालमणीता ऋषभपञ्चाशिका । जय जन्तुकप्पपायव चन्दायव रामपङ्कयवणस्स । सयलमुणिगामगामणि तिलोअचूणामणि नमो ते ॥ १॥ [जय जन्तुकल्पपादप चन्द्रातप रागपङ्कजवनस्य । सकलमुनिग्रामग्रामणीस्त्रिलोकचूडामणे नमस्ते ॥] जय रोसजलणजलहर कुलहर वरनाणदसणसिरीणम् । मोहतिमिरोहदिणयर नयर गुणगणाण पउराणम् ॥ २ ॥ [जय रोपज्वलनजलधर कुलगृह वरज्ञानदर्शनश्रियोः । मोहतिमिरौघदिनकर नगर गुणगणानां पौराणाम् ॥] दिट्ठो कहँवि विहडिए गण्ठिम्मि कवाडसंपुडघणम्मि । मोहन्धयारचारयगएण जिण दिणयरुव्व तुमम् ॥ ३ ॥ [दृष्टः कथमपि विघटिते ग्रन्थौ कपाटसंपुटघने । मोहान्धकारचौरकगतेन जिन दिनकर इव त्वम् ॥] भविअकमलाण जिणरवि तुह दंसणपहरिसूससन्ताणम् । दढबद्धा इव विहडन्ति मोहतमभमरचन्दाइं ॥ ४ ॥ [भव्यकमलानां जिनरवे त्वदर्शनप्रहर्षोच्छुसताम् । . दृढबद्धा इव विघटन्ते मोहतमोभ्रमरवृन्दानि ॥] लट्ठत्तणाभिमाणो सव्वो सव्वट्ठसुरविमाणस्स । एइँ नाह नाहिकुलगरघरावयारम्मुहे नहो ॥ ५ ॥ [प्रधानत्वाभिमानः सर्वः सर्वार्थसुरविमानस्य । त्वयि नाथ नाभिकुल""गृहावतारोन्मुखे नष्टः ।) एइँ चिन्तादुल्लहमुक्खसुक्खफलए अउव्वकप्पदुमे । अवइन्ने कप्पतरू जयगुरु हित्था इव पउत्था ॥ ६ ॥ १. अस्या ऋषभपञ्चाशिकायाः सटीक पुस्तकद्वयमस्माभिरधिगतम्. जीर्णतर पत्रद्वयात्मक सवेगिसाधुवरश्रीशान्तिविजयमुनिभिर्दत्तम्. द्वितीयं भगवान्दास- श्रेष्ठिना सुरतनगरात्प्रहित नवीनं नातिशुद्धं च, २. कारागारगतेन. तत्र प्रथम ऋपभपञ्चाशिका । १२५ [त्वयि चिन्तादुर्लभमोक्षसुखफलदेऽपूर्वकल्पद्रुमे । अवतीर्णे कल्पतरवो जगद्गुरो होस्था इव प्रोपिताः ॥] अरएणं तइएणं इमाइ ओसप्पिणीइ तुह जम्मे । फुरिअं कणगमएणं व कालचकिकपासम्मि ॥ ७ ॥ [अरकेण तृतीयेणास्यामवसर्पिण्या तव जन्मनि । स्फुरितं कनकमयेनेव कालचक्रैकपाधै ॥] जम्मि तुमं अहिसित्तो जत्थ य सिवसुक्खसंपयं पत्तो । ते अट्ठावयसेला सीसामेला गिरिकुलस्स ॥ ८ ॥ [यत्र त्वमभिपिक्तो यत्र च शिवसुखसंपदं प्राप्तः । तावष्टापदशैलौ शीर्पापीडौ गिरिकुलस्य ॥] धन्ना सविम्हयं जेहि झत्ति कयरजमज्जणो हरिणा । चिरपरिअनलिणपत्ताभिसेअसलिलेहि दिट्ठोसि ॥ ९ ॥ [धन्याः सविस्मयं यैगिति कृतराज्यमज्जनो हरिणा । चिरधृतनलिनीपत्राभिपेकसलिलैंदृष्टोऽसि ॥] दाविअविज्जासिप्पो बजरिआसेसलोअववहारो। जाओसि जाण सामिअ पयाउ ताओ कयत्थाओ॥ १० ॥ [दर्शितविद्याशिल्पो व्याकृताशेषलोकव्यवहारः । जातोऽसि यासां स्वामी प्रजास्ताः कृतार्थाः बन्धुविहत्तवसुमई वच्छरमच्छिन्नदिन्नधणनिवहो । जह तं तह को अन्नो निअमधुरं धीर पडिवन्नो ॥ ११ ॥ [बन्धुविभक्तवसुमतीको वत्सरमच्छिन्नदत्तधननिवहः । यथा त्वं तथा कोऽन्यो नियमधुरां धीर प्रतिपन्नः ॥] सोहसि पसाहिअंसो कज्जलकसिणाहि जयगुरु जडाहि । उवगूढविसजिअरायलच्छिवाहच्छडाहि वा ॥ १२ ॥ [शोभसे प्रसाधितांसः कजलकृष्णाभिर्जगद्गुरो जटाभिः । उपगूढविसर्जितराजलक्ष्मीवाष्पच्छटाभिरिव ॥]

१२६
काव्यमाला।
उवसामिआ अणजा देसेसु तुए पवन्नमोणेण ।
अंभणन्तच्चिअ कज्जं परस्स साहन्ति सप्पुरिसा ॥ १३ ॥
[उपशमिता अनार्या देशेपु त्वया प्रपन्नमौनेन ।
अभणन्त एव कार्य परस्य साधयन्ति सत्पुरुषाः
मुणिणो वि तुहल्लीणा नमिविनमी खेअराहिवा जाया ।
गुरुआण चलणसेवा न निष्फला होइ कइयावि ॥ १४ ॥
[मुनेरपि तवालीनी नमिविनमी खेचराधिपो जाती ।
गुरूणां चरणसेवा न निष्फला भवति कदाचनापि ॥]
भदं से सेअंसस्स जेण तवसोसिओ निराहारो।
वरिसन्ते निव्वइओ मेहेण व वणदुमो तं सि ॥ १५ ॥
[भद्रं तस्य श्रेयसो येन तपःशोषितो निराहारः ।
वर्षान्ते निर्वापितो मेघेनेव वनगुमस्त्वमसि ॥]
उप्पन्नविमलनाणे तुमम्मि भुवणस्स विअलिओ मोहो ।
सेलुग्गयसूरे वासरम्मि गयणस्स व तमोहो ॥ १६ ॥
[उत्पन्नविमलज्ञाने त्वयि भुवनस्य विगलितो मोहः ।
सकलोद्गतसूर्ये वासरे गगनस्येव तमओघः ॥]
पूआवसरे सरिसो दिट्ठो चक्कस्स तं पि भरहेण ।
विसमा हु विसयतिला गुरुआण वि कुणइ मइमोहम् ॥ १७ ॥
[पूजावसरे सदृशो दृष्टश्चक्रस्य त्वमपि भरतेन ।
विषमा खलु विपयतृष्णा गुरूणामपि करोति मतिमोहम् ॥]
पढमसमोसरणमुहे तुह केवलसुरवहूकउज्जोआ ।
जाया अग्गेइदिसा सेवासयमागयसिहि व्व ॥ १८ ॥
[प्रथमसमवसरणमुखे तव केवलसुरवधूकृतोड्योता ।
जाता आग्नेयी दिशा सेवास्वयमागतशिखीव ॥]
गहिअवयभङ्गमलिणो नणं दूरोणएहि मुहराओ ।
तइओ पढमुल्लअतावसहि तुह दंसणे पढमे ॥ १९ ॥

ऋषभपश्चाशिका। १२७ [गृहीतव्रतभङ्गमलिनो नूनं दूरावनतैर्मुखरागः । स्थगितः प्रथमोत्पन्नतापसैस्तव दर्शने प्रथमे ॥] तेहि परिवेढिएण य बूढा तुमए खणं कुलवइस्स । सोहा विअडंसत्थलघोलन्तजडाकलावेण ॥ २० ॥ [तैः परिवेष्टितेन च व्यूढा त्वया क्षणं कुलपतेः । शोभा विकटांसस्थलपेहजटाकलापेन ॥] तुह रूवं पेच्छन्ता न हुन्ति जे नाह हरिसपडिहत्था । समणावि गयमणच्चिअ ते केवलिणो जइ न हुन्ति ॥ २१ ॥ [तव रूपं पश्यन्तो न भवन्ति ये नाथ हर्पपरिपूर्णाः । समनस्का अपि गतमनस्का इव ते केवलिनो यदि न भवन्ति ॥] पत्तानि असामन्नं समुन्नई जेहि देवया अन्ने । ते दिन्ति तुम्ह गुणसंकहासु हासं गुणा मज्झ ॥ २२ ॥ [प्राप्तान्यसामान्यां समुन्नति यैर्दैवतान्यन्यानि । ते ददते तव गुणसंकथासु हासं गुणा मह्यम् ॥] दोसरहिअस्स तुह जिण निन्दावसरम्मि भग्गपसराए । वायाइ वयणकुसला वि वालिसाहुन्ति मच्छरिणो ॥ २३ ॥ [दोषरहितस्य तव जिन निन्दावसरे भग्नप्रसरया । वाचा वचनकुशला अपि वालिशायन्ते मत्सरिणः ॥] अणुरायपल्लविल्ले रइवल्लिफुरन्तहासकुसुमम्मि । तवताविओ वि न मणो सिङ्गारवणे तुहल्लीणो ॥ २४ ॥ [अनुरागपल्लववति रतिवल्लीस्फुरद्धासकुसुमे । तपस्तापितमपि न मनः शृङ्गारखने तव लीनम् ॥ आणा जस्स विलइआ सीसे सेसन्न हरिहरेहिं पि । सो वि तुह आणजलणे मयणो मयणं विअ विलीणो ॥ २५॥ [आज्ञा यस्य विलम्बिता शीर्षे शेपेव हरिहराभ्यामपि । सोऽपि तव ध्यानज्वलने मदनो मदन इव विलीनः ॥] ,

काव्यमाला । ,
.
,
-
पइँ नवरि निरभिमाणा जाया जयदप्पभजणुत्ताणा ।
वम्महनरिन्दजोहा दिहिच्छोहा मयच्छीणम् ॥ २६ ॥
त्वयि केवलं निरभिमाना जाता जगद्दर्पभजनोत्तानाः ।
मन्मथनरेन्द्रयोधा दृष्टिक्षोभा मृगाक्षीणाम् ॥]
विसमा रागद्देसा निन्ता तुरयव्व उप्पहेण मणम् ।
ठायन्ति धम्मसारिहि दिढे तुह पवयणे नवरम् ॥ २७ ॥
[विपमौ रागद्वेपौ नयन्तौ तुरगाविवोत्पथेन मनः ।
तिष्ठतो धर्मसारथे दृष्टे तव प्रवचने निश्चितम् ॥
पच्चलकसायचोरे सइसंनिहिआसि चक्कधणुरेहा ।
हुन्ति तुह चिअ चलणा सरणं भीआण भवरन्ने ॥ २८ ॥
[प्रत्यलकपायचोरे सदासंनिहितासि चक्रधनूरेखौ ।
भवतस्तवैव चरणौ शरणं भीतानां भवारण्ये ॥]
तुह समयसरव्भट्ठा भमन्ति सयलासु रुक्खजाईसु ।
सारणिजलं व जीवा ठाणट्ठाणेसु वज्झन्तो ॥ २९ ॥
[तव समयसरोभ्रष्टा भ्रमन्ति सकलासु रू(ब)क्षजातिषु ।
सारणिजलमिव जीवा स्थानस्थानेषु बध्यमानाः ॥]
सलिलिव्व पवयणे तुह गहिए उड्डे अहो विमुक्कम्मि ।
वच्चन्ति नाह कूवारहट्टघडिसंनिहा जीवा ॥ ३० ॥
[सलिल इव प्रवचने तव गृहीते ऊर्ध्वमधो विमुक्ते ।
व्रजन्ति नाथ कूपारघट्टघटीसंनिभा जीवाः ॥
लीलाइ निन्ति सुक्खं अन्ने जह तिथिआ तहा न तुमम् ।
तह वि तुह मग्गलग्गा मग्गन्ति बुहा सिवसुहाई ॥ ३१ ॥
लीलया नयन्ति सुखमन्ये यथा तीथिका तथा न त्वम् ।
तथापि तव मार्गलग्ना मृगयन्ते बुधाः शिवसुखानि [1]
सारिव्व बन्धवहभरणभाइणो जिण ण हुन्ति पइ दि? ।
अक्खहिवि हीरन्ता जीवा संसारफलयम्मि ॥ ३२ ॥

ऋषभपञ्चाशिका। १२९ [शारय इव बन्धवधमरणभागिनो जिन न भवन्ति त्वयि दृष्टे । अक्षैरपि ह्रियमाणा जीवाः संसारफलके ॥] अवहीरिआ तए पहु निन्ति निओगिक्कसङ्खलावद्धा । कालमणन्तं सत्ता समं कयाहारनीहारा ।। ३३ ।। [अवधीरितास्त्वया प्रभो नयन्ति निगोदै(योगै)कशृङ्खलाबद्धाः । कालमनन्तं सत्त्वा समं कताहारनीहाराः ॥] जेहि तविआण तवनिहि जायइ परमा तुमम्मि पडिवत्ती । दुक्खाइँ ताइँ मन्ने न हुन्ति कम्मं अहम्मस्स ॥ ३४ ॥ [यैस्तापितानां तपोनिधे जायते परमा त्वयि प्रतिपत्तिः । दुःखानि तानि मन्ये न भवन्ति कर्माधर्मस्य ॥] होही मोहच्छेडं तुह सेवाए धुवत्ति नन्दामि । जं पुण न वन्दिअन्वो तत्थ तुमं तेण झिज्जामि ॥ ३५ ॥ [भविष्यति मोहच्छेदस्तव सेवया ध्रुव इति नन्दामि । यत्पुनर्न वन्दितव्यस्तत्र त्वं तेन क्षीये ॥] जा तुह सेवाविमुहस्स हन्तु मा ताड मह समिद्धीओ। अहियारसंपया इव पेरन्तविडम्वणफलाओ ॥ ३६ ॥ [यास्तव सेवाविमुखस्य भवन्तु मा ता मम समृद्धयः । अधिकारसंपद इव पर्यन्तविडम्बनफलाः ॥] भित्तूण तमं दीवो देव पयत्थे जणस्स पयडे । तुह पुण विवरीयमिणं जइक्कदीवस्स निव्वडिअम् ॥ ३७ ॥ [भित्त्वा तमो दीपो देव पदार्थाञ्जनस्य प्रकटयति । तव पुनर्विपरीतमिदं जगदेकदीपस्य निर्वृत्तम् ॥] मित्थत्तविसपसुत्ता सचेयणा जिण न हुन्ति किं जीवा । कन्नम्मि कमइ जइ फित्ति पि तुह वयणमन्तस्स ॥ ३८ ॥ [मिथ्यात्वविषप्रसुप्ताः सचेतना जिन न भवन्ति कि जीवाः । कर्णयोः कामति यदि कियदपि त्वद्वचनमन्त्रस्य ॥] १७

१३०
काव्यमाला।
.
आयण्णिआ खणद्धं पि पइ थिरं ते करन्ति अणुराअम् ।
परसमया तह वि मणं तुह समयज्जाण न हरन्ति ॥ ३९ ॥
[आकर्णिताः क्षणार्धं त्वयि स्थिरं ते कुर्वन्यनुरागम् ।
परसमयास्तथापि मनस्तव समयज्ञानां न हरन्ति ॥]
वाईहिं परिग्गहिआ करन्ति विमुहं खणेण पडिवक्खम् ।
तुज्झ नया नाह महागयत्व अन्नुन्नसंलग्गा ॥ ४० ॥
[वादि(जि)भिः परिगृहीताः कुर्वन्ति विमुखं क्षणेन प्रतिपक्षम् ।
तव नया नाथ महागजा इवान्योन्यसंलग्नाः ॥
पावन्ति जसं असमञ्जसा वि वयणेहि जेहिं परसमया ।
तुह समयमहोअहिणो ते मन्दा विन्दुनिस्सन्दा ॥ ४१ ॥
[प्राप्नुवन्ति यशोऽसमञ्जसा अपि वचनैः परसमयाः ।
तव समयमहोदधेस्तानि मन्दा बिन्दुनिस्यन्दाः ॥]
पइ मुक्के पोअम्भिव जीवहिं भवन्नवम्मि पत्ताओ।
अणुवेलमावयामुहपडिएहिं विडम्बणा विविहा ॥ ४२ ॥
[त्वयि मुक्ते पोत इव जीवैभवार्णवे प्राप्ताः ।
अनुवेलमापदा(गा)मुखपतितैर्विडम्बना विविधाः ॥]
वुत्थं अपत्थिआगयमत्थभवन्तो मुहुत्तवसिएण ।
छावट्ठीअयराइं निरन्तरं अप्पइट्टाणे ॥ ४३ ॥
[उषितमप्रार्थितागतमत्स्यभवान्तर्मुहूर्तमुषितेन ।
षट्पष्टिसागरोपमानि (8) निरन्तरमप्रतिष्ठाने ।
सीउवासधारानिवायदुक्खं सुतिक्खमणुभूअम् ।
तिरिअत्तणम्मि नाणावरणसमुच्छाइएणावि ॥ ४४ ॥
[शीतोष्णवर्पधारानिपातदुःखं सुतीक्ष्णमनुभूतम् ।
तिर्यक्त्वेऽपि ज्ञानावरणसमवच्छादितेनापि ॥]
अन्तोनिक्खन्तेहिं पत्तेहिं पिअकलत्तपुत्तेहिं ।
सुन्ना मणुस्सभवणाडएसु निव्भाइआ अङ्का ॥ ४५ ॥

ऋषभपञ्चाशिका। १३ - [अन्तेनिष्क्रान्त प्राप्तैः(पात्रः) प्रियकलत्रपुत्रैः । शून्या मनुष्यभवनाटकेषु निभालिता अवाः ॥] दिट्ठा रिउरिद्धीओ आणाउ कया महट्टिअसुराणम् । सहियावहीणदेवत्तणेसु दोगच्चसंतावा ॥ ४६ ॥ [दृष्टा रिपुऋद्धय आज्ञा कृता महर्द्धिकसुराणाम् । सोढाववहीनदेवत्वेषु दौर्गससंतापौ ।।] सिञ्चन्तेण भववणं पल्लट्टा पल्लिआ रहट्टव्व । घडिसंठाणोसप्पिणिओसप्पिणिपरिगया बहुसो ॥ ४७ ॥ [सिञ्चता भववनं परिवर्ताः प्रेरिता अरघट्ट इव । घटीसंस्थानावसर्पिण्युत्सर्पिणीपरिगता बहुशः ॥] भमिओ कालमणन्तं भवम्मि भीओ न नाह दुक्खाणम् । दिढे तुमम्मि संपड़ जायं च भयं पलायं च ॥ ४८ ॥ भ्रान्तः कालमनन्तं भवे भीतो न नाथ दुःखानाम् । दृष्टे त्वयि संप्रति जातं च भयं पलायितं च ॥ जइ वि कयत्थो जगगुरु मज्झत्यो जइ वि तह वि पत्थेमि । दाविज्जसु अप्पाणं पुणो वि कइयावि अह्माणम् ॥ ४९ ॥ [यद्यपि कृतार्थो जगद्गुरो मध्यस्थो यद्यपि तथापि प्रार्थये । दर्शयेरात्मानं पुनरपि कदाचिदप्यस्माकम् ॥] इअ झाणग्गिपलीविअकम्मिन्धण वालबुद्धिणा वि मए । भत्तीइ थुओ भवभयसमुद्दवोहित्थवोहिफलो ॥ ५० ॥ इति ध्यानाग्निप्रदीपितकर्मेन्धन बालबुद्धिनापि मया । भक्त्या स्तुतो भवभयसमुद्रयानपात्रबोधिफलः ॥] इति महाकविश्रीधनपालविरचिता ऋषभपश्चाशिका।

१३२ काव्यमाला। . महाकविशोभनमुनिप्रणीता चतुविशतिजिनस्तुतिः। टिप्पणसमेता। - - . 1 धनपालपण्डितबान्धवेन शोभनाभिधानेन मुनिचक्रवर्तिना विरचितानां प्रतिजिन चतुष्कभावा षण्णवति(?)संख्यानां शोभनस्तुतीनामवचूरिः किंचिल्लिख्यते । तत्रादौ युगादिस्तुतिमाह- भव्याम्भोजविबोधनकतरणे विस्तारिकर्मावली- रम्भासामज नाभिनन्दन महानष्टापदाभासुरैः । भक्त्या वन्दितपादपद्म विदुषां संपादय प्रोज्झिता- रम्भासान जनाभिनन्दन महानष्टापदामासुरैः ॥ १॥ " हे नाभिनन्दन नाभिनरेन्द्रपुत्र, त्व महानुत्सवान्विदुषां सपादयेति संबन्धः । भव्या एवाम्भोजानि कमलानि तेषां विवोधन एकोऽद्वितीयस्तरणिः सूर्यस्तस्य सवोधन हे भव्याम्भोजविबोधनकतरणे । सूर्यो यथा स्वगोसभारस्तमो विधूय पद्मखण्डानि विका- सयत्येवं भगवानपि मिथ्यात्वादितमस्तोमं ध्वसयित्वा निजगोसंभारैभव्यजन्तूनां बोध विधत्ते । ननु भव्यानामेव स प्रबोध विधत्ते न त्वभव्यानां तर्हि तस्य तद्वोधनेऽसामhमायातमिति नैवम् । नहि भानवीया भानवो विश्वं विश्वमवभासयन्तोऽपि कौशिक- कुले आलोकमकुर्वाणा उपलम्भास्पदं स्युः । एवं भगवतो वाणी विश्वविश्वस्य प्रमोद- विधायिन्यपि यद्यमव्यानां केपांचिनिबिडकर्मनिगडनियन्त्रितानां प्रबोधाय न प्रभवति तर्हि तस्या न ह्यसामर्थ्यम् । किं तु तेषामेवाभाग्य येषां ता न रोचयन्ते (सा न रोचते) नहि जलदो जलं प्रयच्छन्नूषरक्षेत्रे तृणान्यनुत्पादयन्नुपालम्भसभावनामर्हतीत्यलं वि- स्तरेण । विस्तारिणी विस्तारवती कर्मणां ज्ञानावरणादिभेदभिन्नानामावली माला सैव रम्भा कदली तस्याः प्रमदहेतुत्वात्सामजो हस्ती । तस्य संवोधनम् । हे नाभिनन्दन । तथा महत्यो नष्टा आपदा यस्य स महानष्टापत् । सवोधन वा । तथा आभासुरैः का- न्तिसभारेण समन्ताद्देदीप्यमानैरासुरैर्देवविशेषैर्भक्त्या आन्तर चित्तप्रतिवन्धेन हे व- न्दितपादपद्म हे स्तुतचरणकमल । प्रोज्झिताः प्रकर्षेण त्यक्ता आरम्भाः सावधव्यापारा १. एतस्या जिनस्तुतेः पुस्तकत्रयमवचूरिसमेत केवलदासात्मजेन भगवान्दासश्रे. टिनास्मदर्थे प्रहितम्. तत्र प्रथमं शुद्ध सुन्दर पश्चपत्रात्मक १५०५ मिते विक्र- माव्दे लिखितम्. द्वितीयमपि तादृशमेवैकादशपत्रात्मक १६१४ मिते विक्रमाब्दे लिखितम्. तृतीय नातिशुद्ध त्रयोदशपत्रात्मक १६१५ मिते विक्रमाब्दे लिखि- तमस्ति.

चतुर्विंशतिजिनस्तुतिः ।
१३३
-
येन तस्य सबोधनम् । तथा सह आमै रोगैवर्तते सामः । न तथा असामोऽरोगस्तस्य
संबोधनम् । जनानमिनन्दयति तस्य संबोधनम् । तथा अष्टापदं सुवर्ण तद्वदासमन्ताभा
'दीप्तिर्यस्य तस्य संबोधनम् । तप्तजात्यतपनीयसमवर्णत्वाद्भगवतः ॥
ते वः पान्तु जिनोत्तमाः क्षतरुजो नाचिक्षिपुर्यन्मनो
दारा विभ्रमरोचिताः सुमनसो मन्दारवा राजिताः ।
यत्पादौ च सुरोज्झिताः सुरभयांचक्रुः पतन्त्योऽम्बरा-
दाराविभ्रमरोचिताः सुमनसो मन्दारवाराजिताः ॥ २ ॥
ते जिनोत्तमा जिनेन्द्रा वो युष्मान्पान्तु रक्षन्तु । किंभूता । क्षताः क्षीणा रुजो
रोगा येषां येभ्यो वा ते । तथा येषा जिनानां मनो मानस कर्मतापन्न दारा कलत्राणि
कर्तरूपाणि नाचिक्षुपुर्न क्षोभयामासुः । 'दाराः प्राणास्तु वलजाः' इति वचनाद्दारशब्दो
बहुवचनान्तः पुलिङ्गश्च । ते दारा. किंभूताः । विभ्रमैविलासै रोचिता. सशोभिता ।
सुमनसः सुन्दरहृदया । मन्दारवा मृदुरवा. सन्तो राजिताः शोभिताः । सुमनस पु.
पाणि कर्तृणि यत्पादौ यच्चरणौ सुरभयामासु. । किंभूताः सुमनसः । सुरोज्झिता दे-
वमुक्ताः । अम्बरादाकाशात्पतन्त्यः । समवसरणभुवि सगच्छमानाः । आराविणः शब्दा.
यमाना भ्रमरास्तेषामुचिता योग्या. । मन्दारकुसुमवातैरजिता ॥
शान्ति वस्तनुतान्मियोऽनुगमनाद्यन्नैगमाधैर्नयै-
रक्षोभं जन हेऽतुलां छितमदोदीर्णाङ्गजालं कृतम् ।
तत्पूज्यैर्जगतां जिनैः प्रवचनं दृप्यत्कुवाद्यावली-
रक्षोभञ्जनहेतुलाञ्छितमदो दीर्णाङ्गजालंकृतम् ॥ ३ ॥
तनगतां पूज्यैजिन. कृत प्रवचन गणिपिटकरूप वो युष्माकं शान्ति मोक्षमुपशम
वा तनुतात्कुरुतात् । यन्मिथोऽनुगमनादनुवर्तनाद्धेतो गमादिमिर्नयैरक्षामं परवादिभि-
रजेय वर्तते। हे जन भव्यलोक । शान्ति किंभूताम् । अतुला निरुपमाम् । मत किंभू.
तम् । छिदमदं छिन्नदर्पमुदीर्णमुच्छ्रितमगानामाचारादीना जाल समूहो यत्र तत् । तथा
माद्यत्कुवादिश्रेणिः सैव क्रूरात्मकत्वाद्रक्षो राक्षसस्तस्य भजनैर्भङ्गकारिभिर्हेतुभिलाञ्छित
मण्डितम् । अदः प्रत्यक्षदृश्यम् । शीर्णमदनै श्रमणादिभिरलकृतम् । मिथोऽनुगमना.
दित्यत्र 'गुणादस्त्रियां न च' इति पञ्चमी ॥
शीतांशुत्विषि यत्र नित्यमदधद्गन्धाव्यधूलीकणा-
नाली केसरलालसा समुदिताशु भ्रामरीभासिता ।
पायाद्वः श्रुतदेवता निदधती तत्राव्जकान्ती क्रमौ
नालीके सरलालसा समुदिता शुभ्रामरीभासिता ॥ ४ ॥

। १३४ काव्यमाला॥ यत्र नालीके चन्द्रतुल्यरुचि भ्रामरी भ्रमरसबन्धिनी आली श्रेणिर्गन्धाव्यजिकल्क- बिन्दूनदधत्पपौ । किंभूता । केसरषु लालसा लम्पटा । समुदिता मिलिता । आशु शी- घ्रम् । इभेषु मदलोल्यादासिता विश्रब्धा । तत्र नालीके क्रमौ निदधती श्रुतदेवता वः पातु । किंभूता । समुदिता सहर्षा । शुभ्रा शुक्ला छविर्यासां ताश्च ता अमर्यश्च तामि. शोभिता । (सरला अलसा च) ॥ तमजितमभिनौमि यो विराजद्वनघनमेरुपरागमस्तकान्तम् । निजजननमहोत्सवेऽधितष्ठावनघनमेरु परागमस्तकान्तम् ॥ ५ ॥ यः स्वामी निजजन्मोत्सवेऽधितष्ठौ । किं कर्म । विराजद्भिवनैनो निरन्तरः अथवा शोभमानाम्भसो घना यत्र स चासौ मेरुपरागो मेरुपरमपर्वतस्तस्य शिखरायम् । कि- भूतम् । अनघा नमेरवो देववृक्षविशेषास्तेषां रेणुर्यत्र तत्तथा । किभूतं शिखराअम् । अ- स्तोऽस्तगिरिस्तद्वत्कान्तं कमनीयम् । अथवा जिनविशेषणम् । अस्ता कान्ता येन तम् ॥ स्तुत जिननिवहं तमर्तितप्ताध्वनदसुरामरवेण वस्तुवन्ति । यममरपतयः प्रगाय पार्श्वध्वनदसुरामरवेणव स्तुवन्ति ॥ ६ ॥ हे लोकाः । तं जिनवृन्दं स्तुत । यं जिनव्रजममरेन्द्राः स्तुवन्तीति संबन्धः । कि कृत्वा । अल् पीडया तप्तानां शैत्याधायकतया साक्षादध्वनदी मार्गद्वदः सुरामः सुष्टु रमणीयो यो रवः शब्दस्तेन करणभूतेन । वस्तुवन्ति च्छन्दोजातिविशेपवन्ति गीतानि प्रगाय गीत्वा । किंभूताः । पार्श्वे समीपे ध्वनन्तोऽसुरामराणां वेणवो वंशा येषां ते तथा । 'वत्यये(?) लुग्वा' इति रेफस्य लुक् ॥ प्रवितर वसतिं त्रिलोकवन्धो गम नययोगततान्तिमे पदे है। जिनमत विततापवर्गवीथीगमनययो गततान्ति मेऽपदेहे ॥ ७ ॥ अन्तिमे मोक्षलक्षणे पदे हे जिनमत । मे मम वासं देहि । हे गम हे सदृशपाठ, नया निगमादयस्तैर्योगः सवन्धस्तेन विस्तीर्ण विपुलशिवमार्गगमने ययो अश्व । 'ययुर- श्वोऽश्वमेधीयः' इति वचनात् । 'तमोऽवग्लानौ' इति धातोस्तान्तिरानिः । आपदि- त्यर्थः । गततान्ति अपगतग्लानि यथा स्यात् । किंभूते पदे अपदेहे देहमुक्ते ॥ सितशकुनिगताशु मानसीद्धात्तततिमिरंमदभा सुराजिताशम् । वितरतु दधती पवि क्षतोद्यत्तततिमिरं मदभासुराजिता शम् ॥ ८ ॥ हसारूढा मानसी देवी पविं वज्र दधतो शं सुखं प्रवितरतु । पविं किंभूतम् । इद्ध। दीप्ता आत्ता गृहीता ततिविस्तारो येन तत्तथा । इरंमदो जलदाग्निस्तद्वत्कान्तिर्यस्याः सा सुष्टु शोभिता आशा दिशो येन । क्षत विनष्टमुद्यदुद्गच्छत्ततं विस्तीर्ण ध्वान्तं यस्मा. तत्तथा । देवी दर्पोमुरैरपराभूता ॥ M 1 चतुर्विंशतिजिनस्तुतिः। १३६ निर्मिनशत्रुभवभय शं भवकान्तारतार तार ममारम् । वितर त्रातजगत्रय शंभव कान्तारतारतारममारम् ॥ ९ ॥ हे निर्मिनशत्रुसंभूतभय, हे संसारकान्तारतारक, हे तार उज्ज्वल, अरं शीघ्र मम श सुखं देहि । हे रक्षितजगत्रय, शंभव जिन, योषित्सुरतेष्वरत अनासक्त, न रमत इत्यरमोडरममाणोऽक्रीडन्मार कामो यत्र ॥ आश्रयतु तव प्रणतं विभया परमा रमारमानमदमरैः । स्तुत रहित जिनकदम्बक विभयापरमार मारमानमदमरैः ॥ १० ॥ हे जिनकदम्बक जिनसमूह, रमा लक्ष्मीस्तव प्रणत नरमाश्रयतु । किंभूता । विभया. रोचिषा परमा प्रकृष्टा । अर शीघ्रमानमन्तश्च ते सुराश्च ते. स्तुत वन्दित । हे विगत- भय । हे न परान्मारयतीत्यपरमार । सर्वजन्तुरक्षक । हे रहित त्यक्त। कैः। काममान- मदमरणैः ॥ जिनराज्या रचितं स्तादसमाननयानया नयायतमानम् । शिवशर्मणे मतं दधदसमाननयानयानया यतमानम् ॥ ११ ॥ जिनानां राज्या श्रेण्या रचितं अर्थस्य तदुक्तत्वात्कृत मतं शासनं नोऽस्माक शिव- सुखाय स्तात् भूयात् । किंभूतया । असमे निरुपमे आननयाने मुखगमने यस्यास्तया न' इत्यत्र 'रोर्यः' इति रस्य यः । 'स्वरे वा' इति विकल्पत्वात्तस्यात्र न लुक् । आयतो विपुलो मानः पूजा प्रमाणं वा यस्य तत्तथा । दधत् धारयत् । कान् । असमाननयान् असदृशनयान् । किंभूतया जिनराज्या । अयानया अवाहनया। मत किंभूतम् । यतमानं प्रयत्नं कुर्वाणम् ॥ शृङ्खलभृत्कनकनिभा यातामसमानमानमानवमहिताम् । श्रीवज्रशृङ्खलां कजयातामसमानमानमानवमहिताम् ॥ १२ ॥ या देवी शृङ्खलाभरणभृत्सुवर्णवर्णा चास्ति तां श्रीवज्रशृङ्खला वजशृङ्खलाभिधाना- मानम । किंभूताम् । असमानोऽसाधारणो मानः पूजा बोधो वा येषाम् । अथवा अस- दशौ अनमानौ प्राणाहकारौ येषां ते असमानमाना. । ते च मानवाश्च तैर्महिता पू. जिता ताम् । कजयाता पङ्कजगताम् । असमानं निरहकार यथा स्यात् एवमानम नम- स्कुरु । अवम पापं तन विद्यते येषा तेऽनवमास्तेभ्यो हिताम् ॥ त्वमशुभान्यभिनन्दन नन्दितासुरवधूनयनः परमोदरः । स्मरकरीन्द्रविदारणकेसरिन्सुरव धूनय नः परमोऽदरः ॥ १३ ॥ हे अभिनन्दन जिन, त्वमशुमान्यशिवान्यकल्याणान्यपुण्यानि वा नोऽस्माकं धूनय कम्पय विनाशय । किंभूत । नन्दिता असवः प्राणा. प्राणिनां येन । अथवा धर्मधर्मिणोः कचिदभेदादसुशब्देनासुमन्त एवोच्यन्ते । तथा न वधूषु नयने यस्य स तथा । यद्वा काव्यमाला। . ५ । . नन्दितानि असुरवधूनयनानि येन सः । तथा परेभ्यो मोदं राति ददाति यः । यद्वा परमुदरं यस्य । हे सुरव, जगदाह्रादित्वात्........। परम. प्रधानोऽदरो निर्मयश्च ॥ जितवराः प्रयतध्वमितामया मम तमोहरणाय महारिणः । प्रदधतो भुवि विश्वजनीनताममतमोहरणा यमहारिणः ॥ १४ ॥ है जिनवराः, मम तमोहरणायाज्ञानापगाय यूय प्रयतध्वं प्रयत्न कुरुध्वम् । किंभूताः । इतामया गतरोगाः । पुन. किंभूताः । महान्ति अरीणि चक्राणि धर्मचक्रलक्षणानि येषां ते । किं कुर्वाणाः । दधानाः पृथिव्यां विष्टपजनहितत्वम् । अमतावनभिप्रेती मोहसङ्ग्रामा येषां ते । यमहारिणो मृत्युहरणशीलाः । यद्वा यमानि महाव्रतानि तैर्मनोहराः ॥ असुमतां मृतिजात्यहिताय यो जिनवरागम नो भवमायतम् । प्रलघुतां नय निर्मथितोद्धताजिनवरागमनोभवमाय तम् ॥ १५ ॥ यो भवोऽसुमतां मृतिजाती मरणजन्मनी ते एवाहितमपथ्यं तस्मै मरणजन्माहि- ताय स्यात् । हे जिनेन्द्रसिद्धान्त, नोऽस्माकं तं भव संसारमायतं प्रबलं लघीयस्त्व प्रा. पय । आजिः सङ्ग्रामः नवरागो द्रव्यादौ नूतनोऽमिलापः । यद्वा उद्धताजी नवगगो यस्य तच्च तन्मनस्तत्र भवा या माया सा निराकृता येन । यद्वा मुक्तसनामनूत- नरागकाममाय ॥ . 'विशिखशङ्खजुषा धनुपास्तसत्सुरभिया ततनुन्नमहारिणा । परिगतां विशदामिह रोहिणी सुरभियाततनुं नम हारिणा ॥ १६ ॥ धनुपा मण्डितहस्तां रोहिणीं देवीं नम । किंमतेन । शरशससहितेन । अस्ता ध्वस्ता सत्सुराणा प्रकृष्टदेवानां भीर्येन । तताः प्रसूता नुना प्रेरिता महान्तोऽरयो येन । परि- गता परिवारिताम् । विशदा शुक्लवर्णाम् । इहात्र जगति रोहिणी रोहिण्यभिधानाम् । सुरभिर्गौस्तत्र याता प्राप्ता तनुर्यस्यास्तां देवी नम प्रणिपत । धनुपा किंभूतेन । हा- रिणा मनोहरेण ॥ मदमदनरहित नरहित सुमते सुमतेन कनकतारेतारे । ..दम दमपालय पालय दरादरातिक्षतिक्षपातः पातः ॥ १७ ॥ हे मदकामाभ्यां त्यक्त, हे नरेभ्यो हित, हे सुमतिजिन, दमद प्रशमद नर दरा- दिहलोकादिभेदभिन्नसाध्वसापालय रक्ष । हे सुमतेन सुसिद्धान्तस्वामिन् । यद्वा सुम- तेन करणभूतेन । हे अपालय अपगतनिलय । है कनकतार तपनीयोज्ज्वल । हे इ. तारे गतशात्रव । हे पातस्त्रायक । अरातिक्षति. शत्रुभ्य उपमर्दः सैव रौद्रात्मकत्वा- रक्षपा रात्रिस्तस्याः॥ विधुतारा विधुताराः सदा सदाना जिना जिताघातापाः । 'तनुतापातनुतापा हितमाहितमानवनवविभवा विभवाः ॥ १८ ॥ . . स चतुर्विंशतिजिनस्तुतिः। “१३७ विधुतारा हे जिनाः, हित तनुत कुरुत । विधुतमारमरीणां समूहोरणं वा अरो भ्र- मणमर्थात्संसारो यैस्ते । तथा विधुश्चन्द्रस्तद्वदुज्ज्वलाः । सदानाः सत्यागाः । जितम- घात घातवर्जितमघ पापं यैस्ते । अपगतमहातापाः । आहितो विस्तीर्णो मानवाना न- वविभवो नवः प्रत्यग्रो विभव ऐश्वर्य यैस्ते । तथा विगतसंसाराः ॥ मतिमति जिनराजि नराहितेहिते रुचितरुचि तमोहे मोहे । मतमत नूनं नूनं स्मरामराधीरधीरसुमतः सुमतः ॥ १९ ॥ जिनराजि सर्वज्ञे, मत त्व स्मरेति संबन्धः । किंभूते । मतिमति सातिशयज्ञानयुक्ते। नराणामाहित पूरितमीहित वाञ्छितं येन तस्मिन् । रुचिता परेपा प्रमोदकारित्वादभीष्टा रुक्कान्तिर्यस्य तस्मिन् । तमोहे अज्ञानघातिनि । मोहे ममत्वमुक्ते । मतं किंभूतम् । तनु तुच्छमूनमपूर्ण च तनूनं न एवविधमतनूनम् । नूनं निश्चितम् । न स्मरेणाधीरा धीर्यस्य स. । असुमत प्राणिन । जातावेकत्वम् । सुमतो रक्षाक्रियायां सुष्ठ अभिप्रेतः ॥ नगदामानगदा मामहो महो राजिराजितरसा तरसा । घनघनकाली काली बतावतादूनदूनसत्रासत्रा ॥ २० ॥ अहो इति सबोधने विस्मये वा । काली देवी मामवताद्रक्षतात् । किंभूता । नगदा 'दो अवच्छेदने' इति धातोः पर्वतभेत्री अमाना अप्रमाणा गदा प्रहरणविशेषो यस्या सा । कान्तिराज्या राजिता शोभिता रसा भूमिर्यया सा। तरसा बलेन शीघ्रं वा । धनो मेघस्तद्वद्धनकाली प्रभूतकालवर्णा । बतेति विस्मये । उना अपूर्णाः । दूना विपक्ष । सत्रासाः सभयास्तास्त्रायते रक्षति या ॥ पादद्वयी दलितपद्ममृदुः प्रमोद- मुन्मुद्रतामरसदामलतान्तपात्री । पामप्रभी प्रविदधातु सतां वितीर्ण- मुन्मुद्रतामरसदा मलतान्तपात्री ॥ २१ ॥ पद्मप्रभसबन्धिनी पादद्वयी प्रमोद प्रविदधातु । किंभूता । दलित विकसित यदव्जं तद्वत्कोमला । उन्मुद्राणि विकसितानि तामरसदामानि कमलमाला लतान्तानि कुसु- मानि तेषां पात्रीव पात्री भाजनम् । यद्वा उन्मुद्रतामरसदामान्येव लम्बत्वाल्लतास्तासा- मन्तपात्री समीपभाजनम् । सता वितीर्णमुद्दत्तप्रीतिः। मुदि मुदा वा रता अमरसदा देवसभा यस्याः सा । मलेन कर्मणा तान्तान्ग्लानान्पातीनि मलतान्तपात्री ।। सा मे मतिं वितनुताजिनपतिरस्त- मुद्रा गतामरसभासुरमध्यगाद्याम् । रत्नांशुभिर्विदधती गगनान्तराल- मुद्रागतामरसमासुरमध्यगाद्याम् ॥ २२॥.

काव्यमाला। । 1 सा जिनश्रेणी मम मतिं दद्यात् । अस्तमुद्रा मुक्तप्रमाणाः । गता प्राप्ता अमरसभा देवपर्षद्यां जिनपति अध्यगात्प्राप्तवती । आद्यां प्रथमाम् । किंभूता । असुरमध्यगा असुरमध्ये गच्छतीति । किं कुर्वती।रत्नाशुभिर्भूषणमणिकान्तिभिर्गगनमध्य 'उद्गतरागं यत्तामरसं पद्मं तद्वद्भासुरं कुर्वाणा ।। श्रान्तिच्छिदं जिनवरागममाश्रयार्थ- माराम मा नम लसन्तमसंगमानाम् । धामाग्रिम भवसरित्पतिसेतुमस्त- माराममानमलसंतमसं गमानाम् ॥ २३ ॥ हे लोक, जिनेन्द्रागममानम । किंभूतम् । श्रमभेदकम् । आश्रयहेतोराराममिवारा- मम् । लसन्तं शोभमानम् । केषाम् । असगमानाम् । निःसङ्गानां मुनीनामित्यर्थः । अ. ग्रिमं प्रकृष्टं धाम गृहम् । केषाम् । गमानां सदृशपाठानाम् । ससारसमुद्रसेतुम् । अस्ताः कामरोगाहंकारपापाज्ञानानि येन ।। गान्धारि वज्रमुसले जयतः समीर- पातालसत्कुवलयावलिनीलभे ते । कीर्तीः करप्रणयिनी तव ये निरुद्ध- पातालसत्कुवलया बलिनी लभेते ॥ २४ ॥ हे गान्धारि देवि, ते वज्रमुसले आयुधे जयतः । किभूते । वातप्रेसोलनेनालसन्ती या कुवलयमाला तद्वन्नीला भा कान्तिर्ययोः । ये वज्रमुसले कीर्तीर्यशांसि लभेते । किभूते । तव हस्तस्नेहले । वलिनी बलवती । कीर्ती. किंभूताः । निरुद्धमावृतं पातालं सत्पृथ्वीवलय च याभिः ।। कृतनति कृतवान्यो जन्तुजातं निरस्त- स्मरपरमदमायामानबाधायशस्तम् । सुचिरमविचलत्वं चित्तवृत्तेः सुपार्श्व सर परमदमाया मानवाधाय शस्तम् ॥ २५ ॥ यः स्वामी जन्तुजातं कृतप्रणाम विहितवान् । किंभूतम् । निरस्तानि कंदर्पवैरिम. दमाया मानपीडायशासि येन तत् । त सुपार्श्वे देव हे मानव, नर, त्व स्मर । किं कृत्वा । निश्चलत्वमाधाय । कस्याः । चित्तवृत्तेमनोव्यापारस्य । सुचिरं प्रभूतकालम् । परमो दमो यस्याः । शस्तं शोभनम् ।। बजतु जिनततिः सा गोचरं चित्तवृत्तेः सदमरसहिताया वोऽधिका मानवानाम् । . . N चतुर्विंशतिजिनस्तुतिः। १३९ पदमुपरि दधाना वारिजानां व्यहार्षी- सदमरसहिता या वोधिकामा नवानाम् ॥ २६ ॥ सा जिनानां ततिर्यो युष्माकं मनोवृत्तेर्गोचर व्रजतु गच्छतु । किंभूतायाः । सह दम- रसेन वर्तन्ते ये तेषां हितायाः । जिनततिः किंभूता । मानवानां नराणामधिका उत्कृष्टा । या जिनश्रेणिर्व्यहार्षीद्विहार कृतवती । किंभूता । नवाना नवसंख्यानां नूतनानां वारि- जानां स्वर्णकमलानामुपरिष्टात्पदं स्थापयन्ती । सद्देवयुक्ता । बोधिकामा स्वयमवाप्त- बोधित्वात्परेषा बोधिर्धर्मप्राप्तिस्तत्र कामो यस्याः सा ॥ दिशदुपशमसौख्यं संयतानां सदैवो- रु जिनमतमुदार काममायामहारि । जननमरणरीणान्वासयन्सिद्धवासे- ऽरुनि नमत मुदारं काममायामहारि ॥ २७ ॥ हे जना जिनमत नमत प्रणमत । किंभूतम् । उरु प्रौढं प्रशमसुखं ददत् । केषाम् । सयताना मुनीनाम् । सदैव सर्वदा । उदारमुदात्तम् । काममत्यर्थमायामहारि दैर्घ्यशोमि । अरुजि रोगरहिते सिद्धवासे वासं कारयन् । कान् । जन्ममरणखिन्नान् । मुदा हर्षेण । अरं शीघ्रम् । काममाययोर्महारि महावैरिभूतम् ॥ दधति रविसपत्नं रत्नमाभास्तभाव- न्नवघनतरवारिं वा रणारावरीणाम् । गतवति विकरत्याली महामानसीष्टा- नव धनतरवारिं वारणारावरीणाम् ॥ २८ ॥ हे महामानसि देवि, इटानभिमतानरादीनव रक्ष । हे गतवति प्रापुषि । कस्मिन्वार- णारौ सिंहे । हे दधति धारयन्ति । किम् । रत्नं मणिम् । किंभूतम् । रविसपलं रविप्रति- पक्ष प्रभाधिक्यात् । आभया कान्त्या अस्तो भास्वान्सूर्यो येन स चासौ नवो नूतनो घनो निविडस्तरवारिः खड्गश्च तम् । वा समुच्चये। सिहे किं कुर्वति । अरीणां वैरिणामा- ली श्रेणि विकिरति क्षिपति । किंभूतामालीम् । रणस्यारावेण रीणां क्षीणाम् । खग किं- भूतम् । धनतरवारि सान्द्रतरपानीयम् । रत्नविशेषणं वा । तुभ्यं चन्द्रप्रभ जिन नमस्तामसोज्जृम्भितानां हाने कान्तानलसम दयावन्दितायासमान । विद्वत्पतया प्रकटितपृथुस्पष्टदृष्टान्तहेतू- हानेकान्तानलसमदया वन्दितायासमान ॥२९॥ हे चन्द्रप्रभ जिन, हे दयावन् , तुभ्यं नमोऽस्तु । तमःसंबन्धिविस्फूर्जिताना हाने N १४० काव्यमाला । त्यागे मनोहरवहिसमान । दितौ छिन्नावायासमानौ येन । तुभ्यं किंभूताय । विद्वत्पतया वन्दिताय । प्रकटिताः पृथवो वितताः स्पष्टा दृष्टान्ता निदर्शनानि हेतवः करणानि उहो वितर्कः अनेकान्तः स्याद्वादो येन तत्सबोधनम् । विद्वत्पद्या किंभूतया । न वि. घेते अलसमदौ तन्द्राहंकारौ यस्यास्तया । हे असमान निरुपमान ॥ जीयाद्राजिनितजननज्यानिहानिर्जिनानां सत्यागारं जयदमितरुक्सारविन्दावतारम् । भव्योवृत्या भुवि कृतवती या वहद्धर्मचक्रं सत्यागा रञ्जयदमितरुक् सा रविं दावतारम् ॥ ३० ॥ जिनानां राजिर्जयतात् । किंभूता । विहितजराजन्मक्षया । सत्यस्यागारं गृहम् । ज- यदमभ्युदयावहम् । इतरुग्गतरोगा। सारविन्दा सहारविन्दैः पदाधस्तनैः पूजाकमलै- वर्तते या । या भव्योद्धृत्या भव्यानामुद्धतिर्भवोत्ताररूपा तया हेतुभूतया भुवि पृथिव्या- मवतारं कृतवती । या धर्मचक्रमवहदुवाह । सत्यागा सदाना । धर्मचक्र कथंभूतम् । र- अयद्रक्तीकुर्वत् । रवि.सूर्यम् । दावतारम् दावोज्ज्वलम् ।अमिता अप्रमाणा रुकान्तिर्यस्य॥ सिद्धान्तस्तादहितहतयेऽख्यापय जिनेन्द्रः सद्राजीवः स कविधिषणापादनेऽकोपमानः । दक्षः साक्षाच्छ्वणचुलकैर्य च मोदाद्विहायः- सद्राजीवः सकविधिषणापादनेकोपमानः ॥ ३१ ॥ स सिद्धान्तो वो युष्माकमहितक्षयाय भूयात् । य सिद्धान्तं सन्ति शोभनानि कम- लानि यस्य स जिनेन्द्रः प्रधानकमलोऽख्यापयदूचिवान् । कवयः शास्त्रज्ञास्तेषां बुद्धिज- नने दक्षो विचक्षणः । न विद्यते कोपमानौ यस्य यत्र वा । विहायःसदो देवास्तेषां राजी श्रेणिः कर्णचुलकैः श्रोत्राअलिभिर्मोदाद्धर्षाद्य च सिद्धान्तमपात् पीतवती । श्रेणी किंभूता । सह कविधिषणाभ्यां शुक्रगुरुभ्यां वर्तते या । अनेकानि चन्द्रसमुद्रादीन्युपमा- नानि यस्याः । प्रथमान्तविशेषणानि जिनस्यागमस्य वा योज्यानि 'सद्राजीव.' इति मुक्त्वा ॥ वज्राङ्कुश्यकुशकुलिशभृत्त्वं विधत्स्व प्रयत्न खायत्यागे तनुमदवने हेमतारातिमत्ते । अध्यारूढे शशधरकरश्वेतभासि द्विपेन्द्रे स्वायत्यागेऽतनुमदवने हेऽमतारातिमत्ते ॥ ३२ ॥ हे वज्राङ्कुशि देवि, तनुमदवने जन्तुरक्षणे प्रयलं विधेहि । हे सृणिवज्रधारिणि । स्वायत्यागे शोभन आयोऽर्थागमो दानं च यस्याः । त्व कथभूता । हेमतारा कनको. 4 चतुर्विंशतिजिनस्तुतिः। १४१ ज्ज्वला । हे अध्यारूढे । क । द्विपेन्द्रे । किंभूते । अतिमत्ते मदोद्धते । चन्द्रकरा इव श्वेता भा यस्य तस्मिन् । स्वायत्या निजायामेन अगे पर्वत इव । अतनु प्रचुर मदवनं मदवारि यस्य तस्मिन् । अराति३री सोऽस्यास्तीत्यरातिमान् तस्य भावोऽरातिमत्ता, सा न मता यस्यास्तस्याः संबोधनम् ॥ तवाभिवृद्धिं सुविधिविधेयात्स भासुरालीनतपा दयावन् । यो योगिपतया प्रणतो नमःसत्सभासुरालीनतपादयावन् ॥ ३३ ॥ स सुविधिर्जिनो हे दयावन् जन, तव समृद्धि क्रियात् । भासुरं घोरमालीनमाश्रित तपोऽनशनादिरूपं यस्य सः । यःस्वामी अवनक्षन् योगिवृन्देन प्रकर्षण नतः । योगि- पलया कथभूतया । नभःसदो देवास्तेषा सभा पर्षत् असुगवली असुरश्रेणिश्च ताभ्या नतौ पादौ यस्यास्तया ॥ या जन्तुजाताय हितानि राजी सारा जिनानामलपद्ममालम् । दिश्यान्मुदं पादयुगं दधाना साराजिनानामलपद्ममालम् ॥ ३४ ॥ या सारा श्रेष्ठा जिनाना ततिर्जन्तुजाताय हितानि अलपत् गदितवती सा मम अ. लमत्यर्थ मुदं प्रीति दिश्याद्दद्यात् । कथभूता । पादयुग्मं धारयन्ती । राजिनी राजन- शीलाः नाना बहुविधाः अमला. पद्ममाला यस्य तत्पादयुगम् ।। जिनेन्द्र भङ्गैः प्रसभं गभीराशु भारती शस्यतमस्तवेन । निर्नाशयन्ती मम शर्म दिश्यात् शुभारतीशस्य तमस्तवेन ॥ ३५ ॥ हे जिनेन्द्र, तव भारती मम शर्म सुखं देयात् । किंभूता । भट्टैरर्थविकल्पैर्गभीरा तथा आशु शीघ्रं तमोऽज्ञानं निर्नाशयन्ती । केन । शस्यतमश्चारुतमो यस्तवस्तेन हेतु- भूतेन शुभा प्रकृष्टा । तव कीदृशस्य । अरतीशस्याकामस्य । हे इन स्वामिन् ।। दिश्यात्तवाशु ज्वलनायुधाल्पमध्या सिता कं प्रवरालकस्य । अस्तेन्दुरास्यस्य रुचोरुपृष्ठमध्यासिताकम्प्रवरालकस्य ॥ ३६ ॥ तव ज्वलनायुधा देवी क सुख दिश्यात्करोतु । किंभूता । अल्पं तुच्छं मध्यं मध्य- भागो यस्याः सा । कृशोदरीत्यर्थः । सिता शुभ्रा । प्रवरालकस्य प्रवरकुन्तलस्य । अ- स्तेन्दुयंकृतमृगाथा । कया।आस्यस्य मुखस्य रुचा कान्त्या । उरु विस्तीर्ण पृष्ठमध्या- सिताध्यारूढा । कस्य । अकम्पः स्थिरो यो वरालको देववाहनविशेषस्तस्य ।। जयति शीतलतीर्थकृतः सदा चलनतामरसं सदलं घनम् । नवकमम्बुरुहां पथि संस्पृशच्चलनतामरसंसदलङ्घनम् ॥ ३७ ॥ शीतलतीर्थकरस्य चलनतामरस पादपद्म जगति । किंभूतम् । अम्बुरुहा कमलाना नवक परिमार्गे संस्पृशत् । नवक किंभूतम् । सदलं सपत्रम् । घनं सारम् । चलनतामरस ।

१४२ काव्यमाला। . J । । किंभूतम् । चला नता च अमराणां संसद् यस्य तत् । नास्ति लानमधःकरणं कुतश्चि- द्यस्य तदलछनम् ॥ स्मर जिनान्परिनुन्नजरारजोजननतानवतोदयमानतः । परमनिर्वृतिशर्मकृतो यतो जन नतानवतोऽदयमानतः ॥ ३८ ॥ हे जन, भव्यलोक, अतोऽस्माकारणाजिनान् स्मर । किविशिष्टान् । परिनुन्ना परि- क्षिप्ता जरा वयोहानिरूपा, रजः कर्म, जननं जन्म, तनोलस्य भावस्तानवं काश्य, तोदो बाधा, यमो मृत्युर्यैस्तान् । यतः कारणात् परममुक्तिसुखकर्तृन् । नहि जिनस्म- रणमन्तरेण जन्तोस्तात्त्विकी सिद्धिः । नतान् जन्तूनवतो रक्षतः । अदयं शरीरावयवनि- रपेक्ष यथा स्यात्तथा आनतः प्रणतः सन् त्वम् ॥ जयति कल्पितकल्पतरूपमं मतमसारतरागमदारिणा । प्रथितमत्र जिनेन मनीपिणामतमसा रतरागमदारिणा ॥ ३९ ॥ जिनेन मनीषिणां गणभृता प्रथित प्रोक्त मतं जयति । किंभूतम् । कल्पिता समर्पिता सकलमनोरथपूरणात्कल्पतरुणा उपमा साम्यं यस्य तत् । असारतरान्मिथ्यारूपानागमान् दृणातीत्येवंशील. । जिनविशेषणमिदम् । पुनः किंभूतेन । अतमसा अज्ञानरहितेन । रते मैथुने रागो रतरागः । मदश्च जात्याद्युत्थोऽभिनिवेशः । यद्वा रत मैथुन, रागो द्रव्यादाव- मिलापः, मदः पूर्वोक्त एव, तेषामरिणा वैरिणा ॥ धनरुचिर्नयताद्भुवि मानवी गुरुतरा विहतामरसंगता। कृतकरास्त्रवरे फलपत्रभागुरुतराविहतामरसं गता ॥ ४० ॥ मानवी देवी जयतात् । किंभूता। घना सान्द्रा रुचिः कान्तिर्यस्याःसा । गुरुतरा अ- तिमहान्तोऽविहता अपरिक्षता येऽमरास्तैः संगता सहिता । अस्त्रवरे प्रधानायुधे कृत- पाणिः । फलपत्रे भजते फलपत्रभाक् । तरोविशेषणमेतत् । स चासौ उरुतरुश्च विशा- लद्रुमश्च तत्र । तामरसं पनं गता प्राप्ता ॥ कुसुमधनुषा यस्मादन्यं न मोहवशं व्यधुः कमलसदृशां गीतारावा वलादयि तापितम् । प्रणमततमां द्राक् श्रेयांसं न चाहृत यन्मनः कमलसदृशाङ्गी तारा वावला दयितापि तम् ॥ ४१ ॥ अलसदृशामलसेक्षणानी स्त्रीणां नृणा वा गीतारावा गीतध्वनयो यस्माज्जिनाक- मन्य जनं मोहवशवतिनं न व्यधुः । आपि तु सर्वमप्यकार्पः। किंविशिष्टम् । बलात्प्रस- भम् । अयि सबोधने । तापितं पीडितम् । केन । कुसुमधनुपा कामेन । हे जनाः, त श्रेयासं प्रणमततमाम् । द्राक् शीघ्रम् । अवला स्त्री दयितापि कान्तापि यन्मनो यन्मा- १. 'मानसी' इति पुस्तकान्तरे पाठः, चतुर्विंशतिजिनस्तुतिः । १४३ नसं च नाहृत नाक्षिप्तवती । किंभूता । कमलसदृशं कोमलत्वादहं यस्याः सा कमलस- . दृशाङ्गी । तारा मनोहरा । वा समुच्चये ।। जिनवरतति वालीनामकारणवत्सला- समदमहितामारादिष्टा समानवराजया । नमदमृतभुक्पतया नूता तनोतु मति ममा- समदमहितामारादिष्टा समानवराजया ॥ ४२ ॥ जिनेन्द्रराजिर्मम मार्तं ददातु । किंभूता । प्राणिगणाना निनिमित्तवत्सला । असमो दमो येषां निरुपमदमस्य वा हिताभिप्रेता । अमारा अकामा अमरणा वा । आदिष्टो दत्तोऽसमानोऽपूर्वो वरो वाञ्छितार्थप्राप्तिर्यया सा । अजया अपरिभूता । यद्वा न जायते इत्यजा तया नमन्तो नम्रा येऽमृतभुजो देवास्तेषां पङ्ख्या नूता स्तुता । मतिं किंभूताम् । असमदैनिरहकारैर्महिता पूजिताम् । आरान् शीघ्रमिष्टा पूजिता अभिमता वा । देव- पतया किंभूतया, सह मानवराजैनरेन्दैवर्तते या तया ॥ भवनलनिधिभ्राम्यजन्तुबजायतपोत हे तनु मतिमतां सन्नाशानां सदा नरसंपदम् । समभिलषतामहन्नाथागमानतभूपात तनुमति मतां सन्नाशानां सदानरसं पदम् ॥ ४३ ॥ हे ससारार्णवभ्रमज्जन्तुजातविपुलयानपात्र जिनेन्द्रसमय मतिमतां पुरुषाणां नरसपदं मानववृद्धिं समभिलषतां वाञ्छता सह दाने रसेन वर्तते सदानरस पदं तनु विधेहि । इति सटङ्कः (१)। नरसपद किंभूताम् । तनुमति प्राणिनि मतामभीष्टामभिमताम् । किवि- शिष्टानाम् । सन्ना. क्षीणा आशा मनोरथा येषाम् । नरसपद किंभूताम् ।आनता भूपतयो यस्यां सा ताम् । सन् विद्यमानो नाशो मरणं येषां ते । अल्पायुषामित्यर्थः ॥ धृतपविफलाक्षालीघण्टैः करैः कृतबोधित प्रजयतिमहा कालीमाधिपङ्कजराजिभिः । निजतनुलतामध्यासीनां दधत्यपरिक्षतां प्रजयति महाकाली माधिपं कजराजिभिः-॥ ४४ ॥ महाकाली देवी प्रजयति प्रकर्षेण वैरिजयेन सर्वोत्कृष्टा वर्तते । करैर्हस्तैरुपलक्षिता। किंभूतैः । धृता वन-फल-जपमाला-घण्टा यैस्ते तथा। देवी किंभूता । बोधिता प्रजा लोको यैस्ते बोधितप्रजास्ते च ते यतयश्च साघवः । तत कृतो बोधितप्रजयतीनां महः पूजा उत्सवो वा यया सा । तथा काली श्यामा दधती धारयन्ती । काम् । स्ववपुर्ल- ताम् । किंभूताम् । अपरिक्षतामदूपिताम् । कै । आत. पीडा, आधिर्मानसी व्यथा, .

. १४४ काव्यमाला। पङ्ककर्दमः कालुष्य, जरा विखसा, आजिः प्रधनं तैः । पुनः किंभूताम्, अध्यासीनाम् । कम् । माधिप पुरुषप्रकाण्डम् । करैः किंविशिष्टः। कजं पद्मं तद्वद्राजिभी राजनशीलै.॥ पूज्य श्रीवासुपूज्यावृजिन जिनपते नूतनादित्यकान्ते- मायासंसारवासावन वर तरसाली नवालानवाहो । आनम्रा त्रायतां श्रीप्रभवभवभयादिभ्रती भक्तिभाजा- मायासं सारवासावनवरतरसालीनवालानवाहो ॥ ४५ ॥ हे पूजनीय, हे श्रीवासुपूज्य, हे अवृजिन, हे जिनपते, भक्तिभाजां जनानामाली श्रेणिस्त्वया त्रायतां रक्षताम् । नूतनो विभातसमये उद्गच्छन् य आदित्यस्तद्रक्ता कान्तिर्यस्य तस्य सबोधनम् । हे अमाय अदम्भ । हे असंसारवास, मुक्तौ प्राप्तत्वात् । हे अवन रक्षक, हे वर प्रधान । केन। तरसा बलेन वेगेन वा । यद्वा मायासंसारवा- साभ्यां सकाशादवति रक्षतीति । नवालानवद्वाहू भुजौ यस्य तस्य सबोधनम् । आली किंभूता।आनम्रा कृतप्रणामा। कस्मात्रायताम् । श्रीप्रभवः कामस्तद्भवं यद्भयं तस्मात् । हे श्रीभव लक्ष्मीसमुत्पत्तिस्थानेति पृथग्जिनामन्त्रणं वा । आली किं कुर्वाणा । दधती । कम् । आयास दुःख श्रमं वा । सारवा प्रारब्धस्तुतित्वात्सशब्दा । असौ प्रत्यक्षा । अन- वरतमजस रसायां पृथिव्यां लीना वालाः केशा यस्याः सा । एतेन भक्त्याधिक्य सू- चितम् । नवा कतिपयदिनप्राप्तबोधिः अस्मदादिवत् । अहो इत्यामन्त्रणे ॥ पूतो यत्पादपांशुः शिरसि सुरततेराचरचूर्णशोभा या तापत्रासमाना प्रतिमदमवतीहार ताराजयन्ती। कीर्तेः कान्त्या ततिः सा प्रविकिरतुतरां जैनराजी रजस्ते यातापत्रासमानाप्रतिमदमवती हारतारा जयन्ती ।। ४६ ।। पूतः पवित्रो यत्पादपाशुश्चरणरेणुः सुरसमूहस्य मस्तके चूर्णशोभा वासक्षोदलक्ष्मी प्राप्तवान् । या ततिस्तापत्रा तापभेत्री । असमाना गुणैरनन्यसदृशी। प्रतिमद प्रतिगत- मदं निर्मदमवति रक्षति । इह अरता अप्रतिबद्धा । राजयन्ती शोभां लम्भयन्ती । सा तती रजः कर्म ते तव प्रविकिरतु क्षपयतु । किंविशिष्टा। जिनराजानामियं जैनराजी तीर्थकरसंबन्धिनी । अप्रतिमो दमो यस्याः सा अप्रतिमदमवती । याता गता आपद्वि- पत, बासस्त्वाकस्मिक भयं, मानो गर्यो यस्याः सा । कीर्तेः कान्त्या जयन्ती अभिभ- वन्ती । काः । हारताराः मुक्तावलीनक्षत्राणि ॥ नित्यं हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धा- पायायासाद्यमानामदन तव सुधासारहृया हितानि । वाणी निर्वाणमार्गप्रणयिपरिगता तीर्थनाथ क्रियान्मे पापायासाद्यमानामदनत वसुधासार हृद्याहितानि ॥४७॥ . - । ।

। चतुर्विंशतिजिनस्तुतिः । १४५ नित्यं सर्वदा हे तीर्थनाथ, तव वाणी मम हितानि क्रियात् । कथंभूता, हेतवो वस्तु- गमकलिङ्गानि । उपपत्तयो युक्तय ।यद्वा हेतूनामुपपत्तयस्ताभिविध्वस्तः कुशासनप्रोद्दा- मतमोग्रन्थियया । अपगता अपाया अनर्था यस्याः सा । आसाद्यमाना प्राप्यमाणा । अपापायैरासाद्यमाना वा । हे अमदन अकाम । सुधाया अमृतस्यासारो वेगवान्वपस्तद्व- न्मनोहरा । श्रूयमाणामृतमिव हृदयंगमेत्यर्थः । मोक्षपथस्नेहलै स्वीकृता । न विद्यते पाप चायासश्चादिर्येषा ते पापायासादयस्ते च तेऽमानाश्च । मदाश्च नरास्तैर्वन्दित । हे वसुधासार पृथिव्युत्कृष्ट । आहितानि स्थापितानि । क्व । हृदि मनसि ॥ रक्षःक्षुद्रग्रहादिप्रतिहतिशमनी वाहितश्वेतभाव- सन्नालीका सदा प्तापरिकरमुदिता साक्षमाला भवन्तम् । शुभ्रा श्रीशान्तिदेवी जगति जनयतात्कुण्डिका भाति यस्याः सन्नालीका सदाप्ता परिकरमुदिता सा क्षमालाभवन्तम् ॥ ४८ ॥ श्रीशान्तिदेवी भवन्तं त्वा क्षमा उपशमस्तस्या लाभ' सोऽस्यास्तीति तं क्षमालाभ- वन्त क्रियात् । कीदृशा । रक्षासि पलादाः, क्षुद्रा शाकिनीप्रमुखा , ग्रहाः शनैश्चरा. दय.। आदिशब्दाढूपालव्यालादय.। तेभ्यः प्रतिहतिरुपघातस्तस्याः शमनी नाशिका । वाहित वाहनीकृतं श्वेतं सित भास्वद्दीप्यमानं सत् शोभन नालीक कमल यया सा । सतां साधूनामाप्ता अविप्रतारिका । प्तापरिकर जटामण्डलं तेन मुदिता प्रीता । सनं क्षीणमलीकमसत्यं यस्याः सा । सहाक्षमालया जपमालया वर्तते । इदं देव्याः कुण्डि. काया वा विशेषणम् । यस्या देव्याः कुण्डिका कमण्डलु ति । कथभूता। करं हस्तं परि लक्षीकृत्य उदिता उदयं प्राप्ता ॥ अपापदमलं धनं शमितमानमामो हितं नतामरसभासुरं विमलमालयामोदितम् । अपापदमलचनं शमितमानमामो हितं न तामरसभासुरं विमलमालयामोदितम् ॥ ४९ ॥ विमल जिन वयमानयाम. । पापं ददातीति पापदः । न पापदमपापदम् । पुण्यप्रद- मित्यर्थः । अलमत्यर्थम् । यद्वा अपापो यो दम उपशमस्त लातीति अपापदमलम् । धनं निश्छिद्रं अशेषमलक्षयोत्य शं सुखमितं प्राप्तम् । हितं प्राणिगणस्य । नता नम्रीभूता अमरसभा देवपर्षदसुराश्च यस्य । विमला या माला पुष्पत्रक तयामोदित सुरभीकृतम् । अपगता आपदो यस्मात्तम् । अलकन केनाप्यपराभूतम् । शमितो मानो येन तन् । आमोहित न मोहेन समन्तान वशीकृतम् । तामरसं कमलं तद्वद्भासुर दीप्यमानम् । (विमलं निर्दोषम्) । आलये गृहविषये । अमोदितमहष्टम् ॥ । --- १९ १४६ काव्यमाला। सदानवसुराजिता असमरा जिना भीरदाः क्रियासु रुचितासु ते सकलभा रतीरायताः । सदानवसुराजिता असमराजिनाभीरदा क्रियासुरुचितासु ते सकलभारतीरा यताः ॥ १० ॥ ते जिनास्ते तव आयता विपुला रतीर्मुदः क्रियासु कर्तव्येषु क्रियासुदेयासुः । कि- भूतासु। रुचितासु इष्टासु। उचितासु योग्यासु । पुण्यरूपास्वित्यर्थः । जिनाः किंविशिष्टाः। सदानवैः सासुरैः सुरैरुपसर्गादिभिरजिताः । असमरा अरणाः । भियं भीति रदन्ति मि. न्दन्तीति भीरदाः। 'रद विलेखने' । सकलाः सदोषाः संसारकृत्यरूपा ये भारास्तेषां पर्यन्ते स्थितत्वात्तीराः। यद्वा असदोषा भारतीरीरयन्ति रान्ति वा । यताः प्रयलवन्तः। सदानं सत्याग यद्वसु सुवर्णे तेन राजिताः शोभिताः । असमाः शोभमानाश्च नाभीरदा येषां ते । सकला समस्ता मा दीप्तिर्येषां येषु वा । यद्वा सह कलभया रुचिररुचा वर्तन्ते ॥ सदा यतिगुरोरहो नमत मानवैरश्चितं मतं वरदमेनसा रहितमायताभावतः । सदायति गुरोरहो न मतमानवैरं चितं मतं वरदमेन सारहितमायता भावतः ॥ ११ ॥ अहो लोकाः, यतिगुरोः सर्वज्ञस्य भावतो भक्त्या मतं शासनं नमत । सदा सर्वका- लम् । कथभूतम् । मानवैर्मानुषैरश्चित पूजितम् । वरमभीष्टार्थ ददाति वरदम् । एनसा पापेन रहित त्यक्तम् । यतिगुरोः किंभूतस्य । आयतामावतः आयता विपुला भा अ- स्यास्तीति मतुप् । मत किंभूतम् । सदायति सती शोभना आयतिरागामिकालः प्रभूता वा यस्य तत् । गुरोरहतो रहो रहस्यभूतम् । न मतेऽभीष्टे मानवैरे यस्य । चित व्या- प्तम् । केन । वरदमेन प्रधानोपशमेन । किंभूतेन । आयता आगच्छता । मतं कथभूतम् । मत सर्वस्याभिप्रेतम् । सारं च तद्धितं च । यद्वा सार हित यस्मिन् ॥ प्रभाजि तनुतामलं परमचापला रोहिणी सुधावसुरभीमना मयि सभाक्षमालेहितम् । प्रभाजितनुतामलं परमचापलारोहिणी सुधावसुरभीमनामयिसभा क्षमाले हितम् ॥ १२ ॥ रोहिणी देवी मयि विषये ईहितममलमनवद्य हितं शुभोदकै तनुतां कुरुताम् । मयि कथभूते । प्रभाजि प्रकर्षण भजत इति तच्छीले । अलमत्यर्थम् । परं प्रकृष्टम् । देवी किंविशिष्टा । अचापला चापल्यमुक्ता । सुधा प्रासादलेपनद्रव्यं तद्वद्वसु तेजो यस्याः । यद्वा अमृतमेव द्रव्य यस्याः । न भीर्भयं मनसि यस्याः सा अभीमनाः । सभा सका. - चतुर्विंशतिजिनस्तुति.। न्तिका अक्षमाला यस्याः । प्रभाजितैस्तेजस्तिरस्कृतैर्नुता स्तुता । परमं चापं धनुर्ला- तीति । आरोहणशीला । काम् । सुष्टु धावतीति सुधावा सुवेगा या सुरभी गौस्ताम् । अनामयनी नीरोगा समा यस्याः सा । क्षमा लातीति क्षमाले मयि ॥ सकलधौतसहासनमेरवस्तव दिशन्त्वभिषेकजलप्लवाः । मतमनन्तजितः स्नपितोल्लसत्सकलधौतसहासनमेरवः ॥ १३ ॥ सकलाः समस्ता धौताः क्षालिता सहासाः सविकासा न मेरवो वृक्षविशेषा यैस्ते । मतमभिप्रेतम् । हे अनन्तजिन । चतुर्दशस्य तीर्थकृतोद्वे नानी अनन्तोऽनन्तजिच्च । सहा- सनेन स्नानपीठेन असनैर्वा वृक्षविशेषैर्वर्तते ततः स्लपितः स्नानं कारितः उल्लसञ्शोभ- मानः सकलधौतः सहेमा सहासनो मेरुयैस्ते । यद्वा सकलधौतं ससुवर्णे सह समर्थ दृ- ढमासनं यस्मिन् । ततः स्वपित उल्लसन् सकलधौतसहासनमेरुयस्तै । हे अनन्तजित्, तव लानजलप्रवाहा मत हित दिशन्विति सबन्धः ॥ मम रतामरसेवित ते क्षणप्रद निहन्तु जिनेन्द्रकदम्बक । वरद पादयुगं गतमज्ञताममरतामरसे विततेक्षण ॥ ५४॥ हे जिनेन्द्रपटल, ते तव पादयुगं ममाज्ञता जाड्यं निहन्तु । रता. सक्तचित्ता ये- ऽमरास्तैः सेवित । हे क्षणप्रद उत्सवदायक । वर ददातीति वरद । पादयुग किभूतम् । गतं प्राप्तम् । क्व । अमरतामरसे सुरकृतनवकमलेषु । जातित्वादेकवचनम् । वितते वि. स्तीर्णे लोचने यस्य तस्य सबोधनम् ॥ परमतापदमानसजन्मनःप्रियपदं भवतो भवतोऽवतात् । जिनपतेर्मतमस्तजगत्रयीपरमतापदमानसजन्मनः ॥ १५ ॥ हे भव्यलोकाः, जिनेन्द्रमत भवतो युष्मान् भवत. संसारात् अवताद्रक्षताम् । किं- विशिष्टम् । परमतानां बौद्धादिशासनानामापदा हेतुत्वादापद्वयसनम् । अमानान्यसं- ख्यानि सजन्ति संबध्यमानानि मनःप्रियाणि चित्तप्रीतिकराणि पदानि स्वाद्यन्तानि यस्मिस्तत् । जिनपतेः कथंभूतस्य । अस्तो ध्वस्तो जगत्रय्याः परमतापदो महासताप- कारी मानसजन्मा कामो येन तस्य ।। रसितमुच्चतुरङ्गमनायकं दिशतु काञ्चनकान्तिरिताच्युता। धृतधनुः :फलकासिशरा करै रसितमुच्चतुरं गमनाय कम् ॥ ५६ ॥ अच्युता अलुप्ता देवी के सुखं देयात् । कथंभूता । इता प्राप्ता । कम् । उच्चतुरद्गम- नायक तुङ्गाश्वप्रकाण्डम् । किंविशिष्टम् । रसितं शब्दायमानम् । उत्पावल्येन चतुरं द. क्षम् । असितं नीलवर्णम् । यद्वा रसिते मुत्प्रमोदो यस्य स चासौ चतुरश्च तम् । गम. नाय गत्यर्थम् । देवी कथंभूता । काञ्चनवत्कान्तिर्यस्याः सा । करैः शयैर्धता चापावरण- खगबाणा यया सा॥

काव्यमाला । नमः श्रीधर्म निष्कर्मोदयाय महितायते । मामरेन्द्रनागेन्द्रर्दयायमहिताय ते ॥ १७ ॥ हे धर्मनाथ जिन, ते तुभ्य नमोऽस्तु । कथंभूताय । निर्गतः कर्मादयो मलोत्पादो यस्य स तस्मै निर्गतकर्मोदयाय । महिता पूजिता आयतिरुत्तरकालः प्रभुता वा यस्य । यद्वा महिता आसमन्ताद्यतयः साधवो यस्य तत्सबोधनम् ।कैर्मामरेन्द्रनागेन्द्रैमर्याश्चामराश्च तेषामिन्द्रा नागेन्द्राश्च । नागेन्द्रस्योपलक्षणात्पातालवासिदेवैः । दया च यमाश्च व्रतानि तेषां हिताय ते तुभ्यम् ॥ जीयाजिनौघो ध्वान्तान्तं ततान लसमानया । भामण्डलत्विषा यः स ततानलसमानया ॥ ५ ॥ स जिनौघो जीयात् । भामण्डलकान्त्या यो ध्वान्तध्वस ततानाकृत । किंभूतया । ततो विपुलो योऽनलो वहिस्तत्सदृशया लसमानया वर्धमानया ॥ भारति द्राग्जिनेन्द्राणां नवनौ रक्षतारिके । संसाराम्भोनिधावस्मानवनौ रक्ष तारिके ॥ ५९॥ हे जिनवराणां वाणि, अस्मानवनौ पृथिव्यां रक्ष । किंविशिष्टा । नवा प्रत्यया नौम- गिनी(३) संबोधनं वा । कस्मिन् । संसाराम्भोनिधौ भवसागरे । अक्षतानुपहता अरयः शत्रवः कं जल यत्र । हे तारिके निर्वाहिके ।। केकिस्था वः क्रियाच्छक्तिकरा लाभानयाचिता । प्रज्ञप्तिनूतनाम्भोजकरालामा नयाचिता ॥ ६ ॥ प्रज्ञप्तिर्देवी वो युष्माकमयाचिता अप्रार्थिता लाभान् दद्यात् । किंभूता । केकिनि मयूरे तिष्ठतीति केकिस्था । शक्तिः प्रहरणविशेषः करे यस्याः । नवकमलवकराला अत्युल्बणा मा यस्याः सा नयेन नीत्या आचिता व्याप्ता ॥ राजन्त्या नवपद्मरागरुचिरैः पादैजिताष्टापदा- देऽकोपद्भुत जातरूपविभया तन्वार्य धीर क्षमाम् । विभ्रत्यामरसेव्यया जिनपते श्रीशान्तिनाथास्मरो- द्रेकोपद्रुत जातरूप विभयातन्वार्यधी रक्ष माम् ॥ ११ ॥ हे श्रीशान्तिदेव, मां रक्ष पालय । जितोऽष्टापदाद्रि#रुयेन तस्य सबोधनम् । कया। तन्वा शरीरेण । किंभूतया । पादैश्चरणै राजन्त्या शोभमानया । किंभूतैः । नवपद्मरागो नूतनकमलरक्तता तद्वद्रुचिरैश्चारुभिः । हे अकोप अक्रोध । पुनस्तन्वा किंभूतया। द्रुत- मुत्तप्त यज्जातरूपं तपनीयं तद्वद्विमा कान्तिर्यस्यास्तया । हे अयं स्वामिन् । हे धीर प- रोषहाद्यक्षोभ्य । तन्वा किं कुर्वत्या । क्षमा शान्ति बिभ्रत्या धारयन्त्या । अमरसेव्यया .

चतुर्विंशतिजिनस्तुतिः। १४९ देवसेवनीयया । हे अस्मरोद्रेकोपद्रुत न कामवेगपीडित । जात प्रादुर्भूतं विश्वातिशायि रूपं सौन्दर्य यस्य । हे विभय गतभय । अतनुरकृशा आर्या प्रशस्या धीर्यस्य तस्य संबो- धनम् । त्वमित्यस्यानुक्तस्यापि रक्षेति क्रिययोपलव्धस्य विशेषण वा। अत्र तनोमरुणा श्लेषः । सोऽपि पद्मरागमणिमयैः पादैर्मूले राजते स्वर्णवर्णश्च । क्षमा भुवं बिभर्ति । अ. मरसेव्यश्च स्यात् ॥ ते जीयासुरविद्विषो जिनवृषा मालां दधाना रजो- राज्या मेदुरपारिजातसुमनःसंतानकान्तां चिताः । कीर्त्या कुन्दसमत्विषेषदपि ये न प्राप्तलोकत्रयी- राज्या मेदुरपारिजातसुमनःसंतानकान्ताञ्चिताः ॥ ६२ ॥ ते जिनोत्तमा जयन्तु । ये प्राप्तत्रैलोक्यैश्वर्या अपि ईषदपि न मेदुर्मद चक्रुरिति स- न्धः । किंविशिष्टाः । अविद्विष. शत्रुरहिताः । माला सजं धारयन्त । माला किंभू- साम् । रजोराज्या परागपूरेण मेदुरा पारिजातकुसुमानि संतानकानि सतानककुसुमानि व तेषामन्ता अवयवा यस्यां ताम् । चिता व्याप्ताः । कया। कीर्त्या । कथंभूतया । कु- दपुष्पोज्ज्वलया । अपारिजाता अपगतवैरिवृन्दा ये सुमनःसताना विद्वत्समूहा देव- मूहा वा तेषां कान्ताः शिरम्पान्ता प्रणामपराः स्त्रियो वा तैरश्चिताः पूजिताः ॥ जैनेन्द्र मतमातनोतु सततं सम्यग्दृशां सद्गुणा- लीलाभं गमहारि भिन्नमदनं तापापहृयामरम् । दुनिर्भेदनिरन्तरान्तरतमोनिाशि पर्वल्लस- ल्लीलाभङ्गमहारिभिन्नमदनन्तापापहृयामरम् ॥ ६३ ॥ जैनेन्द्र जिनेन्द्रप्रोक्त मतं सद्गुणश्रेणिलाभं सम्यग्दृष्टीना वितनोतु । किंविशिष्टम् । माः सदृशपाठास्तैहारि मनोहरम् । मिनो विदीर्णो मदनोऽनगो येन । तापं ससार- मणजमपहरतीति । यामानि व्रतानि रातीति । दुनिर्भेदं दु खभेद्यं निरन्तरं निविवर- न्तरमन्तर्भवं तमो मोह निर्नाशयतीत्येवशीलम् । पर्युल्लसल्लीलान्प्रोद्यद्विलासान् अम- निजेयान् महारीन्महावैरिणो भिनत्तीति । नमन्तोऽनन्ता अप्रमाणाः अपापहृद्या उमरा यस्य ॥ दण्डच्छत्रकमण्डलूनि कलयन्स ब्रह्मशान्तिः क्रिया- संत्यज्यानि शमी क्षणेन शमिनो मुक्ताक्षमाली हितम् । तप्ताष्टापदपिण्डपिङ्गलरुचिर्योऽधारयन्मूढतां संत्यज्यानिशमीक्षणेन शमिनो मुक्ताक्षमालीहितम् ॥ ६४ ॥ स ब्रह्मशान्तिनामा यक्षः शं सुखं कुरुतात् । किं कुर्वन् । दण्डच्छत्रकमण्डलूनि क.

१५० काव्यमाला। . । लयनुद्वहन् । किंभूतानि । सन्ति शोभनानि । अज्यानि अहीनानि । शमी प्रशमवान् । क्षणेन वेगेन । मुक्ताक्षमाला अस्यास्तीति । तप्तस्वर्णपिण्डपीतरुचिः । यो यक्षः क- स्यापि शमिनो मुनेरनिशं निरन्तरमीक्षणेन विलोकनेनाज्ञतां मूढतां संत्यज्य हितं प- रिणतिसुखमधारयत् । हित किंभूतम् । मुक्ता अक्षमा यैस्ते मुनयस्तेषामाली श्रेणि- स्तस्या ईहितं चेष्टितम् ॥ भवतु मम मनः श्रीकुन्थुनाथाय तस्सा- यमितशमितमोहायामितापाय हृद्यः । सकलभरतमाभूज्जिनोऽप्यक्षपाशा- यमितशमितमोहयामितापायहृयः ॥ ६५ ॥ तस्यै श्रीकुन्युनाथाय जिनाय नमोऽस्तु । अमितः शमितो मोहस्यायामितापो दीर्घ- दवथुर्येन तस्मै । यः स्वामी हृयो हृदयहारी । सपूर्णभरतक्षेत्राधिपश्चक्रवर्ती जिनोऽप्य- भूत् । किंभूतः। अमितानपायान्हरतीति । तस्मै किंभूताय। अक्षपाशा इन्द्रियरज्जवस्तै- रयमिता अबद्धा ये शमिनो मुनयस्तेषां तमोहायाज्ञानघातिने । सकलजिनपतिभ्यः पावनेभ्यो नमः स- नयनरवरदेभ्यः सारवादस्तुतेभ्यः । समधिगतनुतिभ्यो देववृन्दाद्रीयो- नयनरवरदेभ्यः सारवादस्तु तेभ्यः ॥ ६६ ॥ तेभ्यः सर्वजिनेन्द्रेभ्यो नमोऽस्तु । किंभूतेभ्यः। पावनेभ्यः पवित्रताजनकेभ्यः । सन्तः शोभमाना नयनानि लोचनानि रखो देशनाध्वनिः रदा दन्ताश्च येषा तेभ्यः । सारो- ऽर्थप्रधानो वाद उक्तिर्येषां तैः स्तुताः । यद्वा सारश्चासौ वादश्च तेन स्तुता तेभ्यः । स- मधिगता प्राप्ता नुतिर्यैस्तेभ्यः । कस्माद्देवसमूहात् । किंविशिष्टात् । सारवान प्रस्तुतस्तु- तिकात् । गरीयांसो गरिष्ठा नया नीतयो येषु ते च ते नराश्च तेषां वरदेभ्यः । इत्य- भूतेभ्यो जिनेभ्यो नमोऽस्तु भवतु ॥ स्मरत विगतमुद्रं जैनचन्द्रं चकास- कविपदगमभङ्गं हेतुदन्तं कृतान्तम् । द्विरदमिव समुद्यद्दानमार्ग धुताधे- कविपदगममङ्गं हे तुदन्तं कृतान्तम् ॥ ६७ ।। हे लोकाः, जिनचन्द्रसवन्धिनं कृतान्तं सिद्धान्तं यूयं स्मरत । हस्तिनमिव । किं- भूतम् । विगतमुद्रं 'गतप्रमाणम् । चकासन्तः शोभमानाः कविपदानि कवियोग्याः शब्दाः गमा भङ्गाश्च यस्मिन् । हेतुदन्तं हेतव एव दन्तो विपक्षभेदकत्वाद्विषाणो यस्य PL १ चतुर्विंशतिजिनस्तुतिः। १५१ तम् । कृतान्त यमम् । तुदन्त व्यथमानम् । समुद्यन्समुल्लसन्दानमार्गो ज्ञानादीनां वित. रणक्रमो यस्मिन् । अर्धेकविपदः पापैकविपद एवागा वृक्षास्ते धुता येन । अभङ्गमजे- यम् । अत्र द्विरदेन श्लेष । सोऽप्यपेतमर्यादः । तस्यापि पदगमनभङ्गाः शोभन्ते । दा. नमार्गों मदप्रवाहश्च स्यात् । स च कृतविनाश च तुदति ।। प्रचलदचिररोचिश्चारुगात्रे समुद्य- त्सदसिफलकरामेऽभीमहासेऽरिभीते । सपदि पुरुषदत्ते ते भवन्तु प्रसादाः सदसि फलकरा मेऽभीमहासेरिभीते ॥ ६८ ॥ हे पुरुषदत्ते, ते तव प्रसादा. सदसि सभायां फलकराः कार्यसिद्धिकारिणो भवन्तु मे मम । प्रचलन्ती स्फुरन्ती या विद्युत्तद्वच्चारु गात्र यस्याः सा तस्याः संबोधनम् । विलसद्भयामसिफलकाभ्या खड्गखेटकाभ्यां रामा रमणीया तस्याः सबोधनम् । अभी- मोऽरौद्रो हासो हसनं यस्याः । अरिभ्यो भीर्भय तस्या ईतिभूते । अभीनिर्भया या महासेरिभी प्रौढमहिषी तामिता गता तस्याः संबोधनम् ॥ व्यमुचच्चक्रवर्तिलक्ष्मीमिह तृणमिव यः क्षणेन तं सन्नमदमरमानसंसारमनेकपराजितामरम् । द्रुतकलधौतकान्तमानमतानन्दितभूरिभक्तिभा- क्संन्नदमरमानसं सारमनेकपराजितामरम् ॥ ६९ ॥ यश्चक्रवर्तिलक्ष्मी क्षणेन वेगेन तृणवदत्याक्षीत् त अरं अरनामानं जिनं हे जनाः, आनमत । किंभूतम् । सन्ना क्षीणा मदमरणमानससारा यस्य तम् । लक्ष्मी किंभूताम् । अनेकपा गजास्तै राजितां शोभिताम् । जिन किंभूतम् । द्रुत विलीन यत्सुवर्णे तद्व- कान्तं कमनीयम् । आनन्दित भूरिभक्तिभाजा सनमतां प्रणामकारकाणाममराणां मानसं चित्त येन । तथा सार श्रेष्ठम् । दिग्विजयादिप्रक्रमेऽनेके बहवः पराजिता अमरा मागधादिदेवा येन तम् । यद्वा लक्ष्मी कथभूताम् । अनेकै परैरजिताम् । अर शीघ्रम् ।। स्तौति समन्ततः स समवसरणभूमौ यं सुरावलिः सकलकलाकलापकलितापमदारुणकरमपापदम् । तं जिनराजविसरमुजासितजन्मजरं नमाम्यहं सकलकला कलापकलितापमदारुणकरमपापदम् ।। ७० ॥ सुरेन्द्रश्रेणी य जिनेन्द्रव्यूह स्तौति । समन्ततः सर्वतः । स्मेत्यतीतार्थकम् । समवस. रणभूमौ । किंभूता । सकला. समस्ताः कला विज्ञानानि तासां कलापेन समूहेन क- लिता सहिता । अपमदा अपगतमदा । सह कलकलेन कोलाहलेन वर्तते । कला में.

१५२ काव्यमाला। - धुरा । त जिनेन्द्रविसरमहं नमामि । किंविशिष्टम् । अरुणावारक्तौ करौ हस्तौ यस्य । अपगता आपदो यस्मात्तम् । विनाशितजन्मजरम् । अपकलितापमपगतकलहसतापम् । अदारुणमरौद्रं करोतीति तम् । अपापं पुण्यं ददातीति तम् ॥ भीममहाभवाब्धिभवभीतिविभेदि परास्तविस्फुर- त्परमतमोहमानमतनूनमलं धनमधवतेऽहितम् । जिनपतिमतमपारमामरनिर्वृतिशर्मकारणं परमतमोहमानमतनूनमलहनमघवतेहितम् ॥ ७१ ।। भीषणमहासंसारसमुद्रोत्पन्नभयविदारकम् । परास्ताः परिक्षिप्ता विस्फुरन्तः परम- तमोहमाना येन । यद्वा मोहादज्ञानान्मानो मिथ्याभिनिवेशः । परमतानां मोहमानी वा । तनु तुच्छमूनमपूर्ण च न । अलमत्यर्थ घन निबिड प्रमेयगाढम् । अघवते पापिने अहितं न श्रेयस्कारि । अपाराण्यपर्यन्तानि मांनाममराणां निर्वाणस्य शर्माणि तेषां कारणम् । परम तमो हन्ति । यद्वा परमतमा उहा यस्मिन् । आनमत प्रणमत । नूनं निश्चितम् । न लङ्नमभिभवो यस्य स चासौ मघवा च तेन सामर्थ्यांदच्युतनाथेन ईहि- तमभिलषितम् ।। यात्र विचित्रवर्णविनतात्मजपृष्ठमधिष्ठिता हुता- समतनुभागविकृतधीरसमदवैरिव धामहारिभिः । तडिदिव भाति सांध्यघनमूर्धनि चक्रधरास्तु सा मुदे- ऽसमतनुभा गवि कृतधीरसमदवैरिवधा महारिभिः ।। ७२ ।। अरा एषां सन्तीत्यरीणि चक्राणि । महान्ति च तान्यरीणि च तैर्महारिभिर्महा- चकैः यात्र जगति चक्रधरा देवी अप्रतिचक्रा देवी भाति शोभते । कथंभूता। विविध- वर्णगरुडपृष्ठमधिरूढा । हुतमत्तीति हुताद्वद्भिस्तत्तुल्यां तनुं भजते । अविकृता अवि- कारिणी धीर्यस्याः सा । महारिभिः किंभूतैः । असमानदवानलैरिख । धाम तेजस्तेन हारिभिर्मनोहरैः । यथा विद्युत्सध्याभवमेघमस्तके भाति तद्वत् । सा देवी मुदेऽस्तु भवतु । समा च तनुश्च समतनुः न समतनुरसमतनुः एवविधा भा यस्याः । गवि पृ. थिव्यां स्वर्गे वा कृतो धीराणां समदाना वैरिणां वधो यया ॥ नुदंस्तनुं प्रवितर मल्लिनाथ मे प्रियंगुरोचिररुचिरोचितां वरम् । विडम्बयन्वररुचिमण्डलोज्ज्वलः प्रिये गुरोऽचिररुचिरोचिताम्वरम् ॥ ७३ ।। नुदन् क्षिपन् । तनु शरीरम् । प्रियंगुः श्यामो वृक्षविशेषस्तद्वद्रोचिर्यस्य । तनु कथ- भूताम् । रुचिरा उचितां च न एवविधाम् । रुचिमण्डलं भामण्डलं तेनोज्ज्वलः कान्तः । अचिररुच्या रोचितं विद्युच्छोभितमम्बरमाकाशं विडम्बयन । हे मल्ले (मल्लि- चतुर्विशतिजिनस्तुतिः । १५३ नाथ) हे गुरो, अरुचिरोचिता तनुं नुदन् प्रियगुवर्णः भामण्डलशोभितः विद्युत्सहितमा- काशं पराभवन् मम वर प्रवितर ॥ जवाद्गतं जगदवतो वपुर्यथाकदम्बकैरवशतपत्रसं पदम् । जिनोत्तमान्स्तुत दधतः स्रज स्फुरत्कदम्बकैरवशतपत्रसंपदम् ॥ ७४ ॥ जवाद्वेगाजगद्विश्वमवतो रक्षतो जिनोत्तमान् हे भव्यजनाः, स्तुत नुत । जगत्किवि. शिष्टम् । पद स्थान नरकादिलक्षण गतं प्राप्तम् । पदं किंभूतम् । वपु पीडोत्पीडैरवशाः परतन्त्रास्तपन्तस्तापमनुभवन्तस्त्रसा' प्राणिनो यत्र तत् । जिनोत्तमान्कथभूतान् । सर्ज पुष्पमाला दधतः । मालां कथभूताम् । स्फुरन्ती कदम्बाना कैरवाणा शतपत्राणा च सपद्यत्र ॥ स संपदं दिशतु जिनोत्तमागमः शमावहन्नतनुतमोहरोऽदिते । स चित्तभूः क्षत इह येन यस्तपःशमा वहन्नतनुत मोहरोदिते ॥ ७९ ॥ स जिनेन्द्रागमः संपद दद्यात् । कथभूतः । श सुखमावहन्कुर्वन् अतनु प्रौढं तमो हरतीति । यद्वा अतनुतमानूहान् राति ददातीति । स चित्तभूः कामो येन क्षतो हतः । यः कंदर्पस्तप.शमौ अहन् जघान । अदिते अखण्डिते मोहश्च रोदित च मोहरोदिते च योऽतनुताप्रथयत् ॥ द्विपं गतो हृदि रमतां दमश्रिया प्रभाति मे चकितहरिद्विपं नगे। वटाह्वये कृतवसतिश्च यक्षराट प्रभातिमेचकितहरिद्विपन्नगे ॥ ७६ ॥ यक्षराट् कपर्दिनामा मम मनसि रमता परिक्रीडताम् । हृदि कथभूते । उपशम. लक्ष्म्या प्रभाति प्रकर्पण शोभमाने । यक्षराट् किंविशिष्ट । चकितस्त्रस्नो हरिद्विप ऐरा- वणो यस्मात्त द्विप वारण गतः प्राप्तः । विपन्नगे विगतसपै नगे वृक्षे वटाभिधाने कृता वसतिरालयो येन। प्रभया कान्त्या अतिमेचकिता श्यामलीकृता हरितो दिशो येन सः ।। जिनमुनिसुव्रतः समवताज्जनतावनतः समुदितमानवा धनमलोभवतो भवतः । अवनिविकीर्णमादिषत यस्य निरस्तमनः- समुदितमानवाधनमलो भवतो भवतः ॥ ७७ ॥ जिनमुनिसुव्रतो भवतो युष्मान् भवत. संसारात्समवतात्सरक्षतु । कयभूतः । जन. तया जनसमूहेनावनतः । समुदिता. सहर्षा ये मानवा मनुष्या अवनिविकीर्ण भूमौ रा. शीकृतं धन कनकादिकं यस्यालोभवतोऽलोमिनो भवतः सतः । दीक्षा ग्रहीतुकामस्ये- त्यर्थः । आदिषताददत । जिनः कथंभूतः । निरस्ता अपकीर्णा मन.समुदिता हदि समुत्पन्ना सहता वा मानो बाधनं पीडा मलः कर्म च येन ॥

१५४ काव्यमाला। प्रणमत तं जिनवजमपारविसारिरजो दलकमलानना महिमधाम भयासमरुक् । यमतितरां सुरेन्द्रवरयोषिदिलामिलनो- दलकमला ननाम हिमधामभया समरुक् ॥ ७८ ॥ प्रणमत नमत तं जिनवजमर्हत्संदोहम् । कथभूतम् । भयासं भयक्षयकारकम् । सुरे. न्द्रवरयोपिदिन्द्राणी यं ननाम अनंसीत् । कथंभूता । अपाराण्यपर्यन्तानि प्रसरणीलानि रजासि दलानि च यस्य तच्च तत्कमलं च तद्वत्सुगन्धमाननं मुखं यस्याः । महिना धाम गृहम् । जिनव्रजविशेषणमेतत् । हिमधामा चन्द्रस्तस्य भया कान्त्या समाना रु- ग्रुचिर्यस्याः सा । इलामिलनेन क्षितिघटनेन उद्गतोऽलकेषु केशेषु मलो यस्याः सा ।। त्वमवनताजिनोत्तमकृतान्त भवाद्विदुषो- ऽव सदनुमानसंगमन याततमोदयितः । शिवसुखसाधकं स्वभिदधत्सुधियां चरणं वसदनु मानसं गमनयातत मोदयितः ॥ ७९ ॥ है जिनोत्तमसमय, त्वमवनतान् प्रणमतो विदुषोऽव रक्ष भवात्ससारात् । सत् शोभ- मानं विद्यमानं वा अनुमानस्य प्रमाणस्य संगमनं संगतिर्यस्य तस्य संबोधनम् । त्व किं- विशिष्टः । यातं तमो येभ्यस्ते याततमसो मुनयस्तेषा दयितोऽभीष्टः । मोक्षसुखप्रापर्क चरणं चारित्रं स्वभिदधत्स्वाख्यन् । किंभूतम् । सुधियां मानसमनु लक्ष्यीकृत्य वस- त्तिष्ठत् । हे गमनयातत गमा सदृशपाठाः नयाच नैगमादयस्तैरातत विस्तीर्ण । हे मो. दयितः प्रमोदकारक ॥ अधिगतगोधिका कनकरुक्तव गौर्युचिता- कमलकराजि तामरसभास्यतुलोपकृतम् । मृगमदपत्रभङ्गतिलकैर्वदनं दधती कमलकरा जितामरसभास्यतु लोपकृतम् ॥ ८० ॥ गौरी देवी तव लोपकृतं विनाशकारकमस्यतु क्षिपतु । किंभूता । अधिगता प्राप्ता गोधिका देववाहनविशेषो यया सा । कनकवद्रुग्दीप्तिर्यस्य । वदनं मुखं दधती । किंमू- तम् । मृगमदस्य कस्तूरिकाया ये पत्रभङ्गाः पत्रच्छेदास्तैरुपलक्षिता ये तिलकास्तरु- चिता योग्या अट्टा लाञ्छनानि यस्य तदुचिताङ्कम् । अलकैश्चिकुरै राजते इत्येवंशीलम- लकराजि तामरसभासि । अतुलमुपकृतं स्वकान्तिसंविभागादिना उपकारो यस्य तत् । कमलं करे यस्याः कमलवद्वा करो यस्याः सा । जिता निष्प्रभीकृता रूपनेपथ्यप्राग. लभ्यादिभिरमराणां समा यया सा ॥

चतुर्विशतिजिनस्तुतिः। १५५ स्फुरद्विद्युत्कान्ते प्रविकिर वितन्वन्ति सततं ममायासं चारो दितमद नमेऽघानि लपितः । नमद्भव्यश्रेणीभवभयभिदां हृद्यवचसा- ममायासंचारोदितमदनमेघानिल पितः ॥ ८१ ।। हे ममे नमिजिन, ममायास वितन्वन्ति अघानि पापानि प्रविकिर निरस्य । स्फु- रन्ती या विद्युत् तद्वत्कान्तिर्यस्य तस्य सवोधनम् । हे चारो दर्शनीय । हे दितमद च्छिन्नमद । हे लपितः वादक । केषाम् । हृद्यवचसाम् । कथंभूतानाम् । नमद्भव्यश्रेणी- भवभयभिदाम् । मायाया दम्भस्य संचारो यस्य स नैवविधस्तस्य सबोधनम् । उदित उदयं प्राप्तो मदनः काम एव मेघो जीमूतस्तस्य सहारकत्वादनिलो वात इव तस्य संबोधनम् । हे पितः जनक इव हितकारक ॥ नखांशुश्रेणीभिः कपिशितनमन्नाकिमुकुटः सदा नोदी नानामयमलमदारेरित तमः । प्रचक्रे विश्वं यः स जयति जिनाधीशनिवहः सदा नो दीनानामयमलमदारेरिततमः ॥ ८२ ॥ यो विश्वं इततमो गतमोह प्रचक्रे स जिनेन्द्रसमूहो जयति । कथमतः । नखाशुश्रेणी- भिर्नखमयूखसंततिभिः कपिशितनमनाकिमुकुटः पीतीकृतनमद्देवकिरीट: । सदा शश्वत नोदी प्रेरणशीलः । कस्य । नाना अनेकरूपा आमयाश्च मलाश्च मदाश्च । समाहारद्वन्द्व. । तदेवारिस्तस्य । सदानो दानसहितः । दीनाना कृपणानाम् । अयमेषः । अलमतिमा- त्रम् । अतिशयेन दारै. कलत्रैरीरितो धैर्याच्चालितो दारेरिततमः । न एवविध. अदारेरिततमः ॥ जलव्यालव्याघ्रज्वलनगजरुग्वन्धनयुधो गुरुर्वाहोऽपातापदघनगरीयानसुमतः । कृतान्तस्त्रासीष्ट स्फुटविकटहेतुप्रमितिमा- गुरुर्वाहो पाता पदघनगरीयानसुमतः ॥ ८३ ॥ कृतान्तः सिद्धान्तोऽसुमत. प्राणिनस्त्रासीष्ट रक्षतात् । कस्मात् । जलव्यालव्याघ्रज्व- लनगजरुग्वन्धनयुध । व्याल: सर्प. । रुजो जलोदरादिरोगा. । बन्धनं कारानिगे. धादि । युत्सभामः । जलादीना सकाशादित्यर्थः । किंभूत. । गुरुमहान् । वाहोऽश्वः । न विद्यते पातश्च्यवनं आपद्विपत् अघ पाप च यस्या सा चासो नगरी च युक्त्या मु. क्तिरेव तस्या याने गमने सुन्नु मतोऽभिप्रेतः । स्फुटा अविसवादिन्यो विकटा विस्तृता हेतुप्रमितयः हेतवः प्रमाणानि च भजते यः स्फुटविकटहेतुप्रमितिमाक् । उरुविशालः । 1 १५६ काव्यमाला॥ वाशब्दश्चकारार्थे । अहो इत्यामन्त्रणे । पाता नायकः । पदधनगरीयान् पदघनोऽर्थ- निबिडः गरीयांश्च महत्त्वयुक्तः । यद्वा पदेषु वाक्यावयवेषु घनश्च गरीयांश्च ॥ विपक्षव्यूहं वो दलयतु गदाक्षावलिधरा- समा नालीकालीविशदचलना नालिकवरम् । समध्यासीनाम्भोभृतघननिभाम्भोधितनया- समानाली काली विशदचलनानालिकवरम् ॥ ८४ ॥ काली देवी वो युष्माकं विपक्षव्यूह प्रतीपपटलं दलयतु पिनष्टु । किंविशिष्टा । गदा आयुधविशेषः अक्षावलिरक्षमाला च ते धरतीति । असमा रूपैश्वर्यादिना अनन्यस- दृक् । नालीकाना कमलानामाली श्रेणी तद्वद्विशदौ निर्मलौ चलनी पादौ यस्याः सा । नालिकवर प्रधानकमलं समध्यासीना अधिरोहन्ती अधिरूढा वा । अम्भोभृतः पय:- पूर्णो यो धनो मेघस्तस्य निभा कृष्णवर्णत्वात्समा । अम्भोधितनयासमाना लक्ष्मी- तुल्या आल्यः सख्यो यस्याः । विशन्तो लीयमाना अचलाः स्थिरा नाना बहुविधा येऽलयो भ्रमरास्तैः कवर मिश्रम् । खचितमित्यर्थः । इद नालिकवरस्य विशेषणम् ॥ चिक्षेपोर्जितराजकं रणमुखे यो लक्षसंख्यं क्षणा- दक्षामं जन भासमानमहसं राजीमतीतापदम् । तं नेमिं नम नम्रनिर्वृतिकरं चके यदूनां च यो दक्षामञ्जनभासमानमहसं राजीमतीतापदम् ॥ ८५ ॥ यो नेमिजिनो लक्षसख्यं लक्षप्रमाणमूर्जितराजकं बलवद्राजवृन्दं रणमुखे चिक्षेप ब. भज । क्षणाद्वेगेन । राजकं किंभूतम् । अक्षाममुपचितम् । हे जन, तं नेमि नम । कि- भूतम् । भासमान कान्तिकदम्बेन दीप्यमानं जनैर्भासमानं वा । अहसं हास्यमुक्तम् । राजीमत्या राजकन्यायाः प्रव्रज्याग्रहणेन मनोरयविफलीकरणात्तापदम् पश्चात्तु मुक्ति- सुखप्रदम् । नम्राणां निवृति मुक्ति सुखं वा करोतीति । यश्च स्वामी यदूनां यादवानां दक्षा राजी श्रेणि अतीता अतिक्रान्ता आपदो यया सा तामतीतापद चक्रे कृतवान् । नेमि किंभूतम् । अअनस्य भया कान्त्या समानं तुल्यं महस्तेजो यस्य ॥ प्रात्राजीजितरानका रज इव ज्यायोऽपि राज्यं जवा- द्या संसारमहोदधावपि हिता शास्त्री विहायोदितम् । यस्याः सर्वत एव सा हरतु नो राजी जिनानां भवा- यासं सारमहो दधाव पिहिताशास्त्रीविहायोऽदितम् ॥ ८६ ॥ या उदितमुदयं प्राप्त ज्यायोऽपि अतिप्रौढमपि राज्य रज इव विहाय प्रावाजीत प्र. ग्रज्यामग्रहीत् । किंभूता । जित राजक राजसमूहो यया सा । संसारमहोदधौ भवम- चतुर्विंशतिजिनस्तुतिः । १५७ हार्णवेऽपि हिता सुखकारिणी । शास्त्री शिक्षयित्री । यस्याश्च सर्वतः सर्वासु दिक्षु सा- रमही सारतेजो दधाव प्रससार । किंभूतम् । पिहिता आच्छादिता आशास्त्रियो दि- ग्वनिता विहाय आकाश च येन । तत् । अदितमखण्डितम् । सा जिनानां राजी भवा. यासं संसारक्लेश नोऽस्माकं हरतु ॥ कुर्वाणाणुपदार्थदर्शनवशाद्भास्वत्प्रभायास्त्रपा- मानत्या जनकृत्तमोहरत मे शस्तादरिद्रोहिका । अक्षोभ्या तव भारती जिनपते प्रोन्मादिनां वादिनां मानत्याजनकृत्तमोहरतमेश स्तादरिद्रोहिका ॥ १७ ॥ है जिनपते, तव भारती वाणी मे मम अरिद्रोहिका बाह्याभ्यन्तरशत्रुजयकारिणी स्ताद्र्यात् । किंविशिष्टा । अणव सूक्ष्मा. पदार्था जीवाजीवादयस्तेषां दर्शनवशात्मका- शनात् भास्वत्प्रभाया. सूर्यकान्तेस्त्रपा लनां कुर्वाणा । आनत्या प्रणामेन हेतुभूतया ज- नानां कृत्तश्छिन्नो मोही रतं च येन तस्य सबोधनम् । शस्ता प्रकृष्टा । अदरिद्रा आन्या उहास्तर्का यस्या. सा अदरिद्रोहिका । अक्षोभ्या अपराभवनीया । प्रोन्मा. दिना दर्पवता परवादिना मानस्याहंकारस्य स्याजन मोक्षणं करोतीति । अतिशयेन तमो हरतीति तमोहरतमा । हे ईश नेत. ॥ हस्तालम्बितचूतलुम्बिलतिका यस्या जनोऽभ्यागम- द्विश्वासेवितताम्रपादपरतां वाचा रिपुत्रासकृत् । सा भूतिं वितनोतु नोऽर्जुनरुचिः सिंहेऽधिरूढोल्लस- द्विश्वासे वितताम्रपादपरताम्बा चारिपुत्रासकृत् ॥ ८ ॥ यस्या अम्बाया जनो लोको विश्वेन जगता सेवितयोस्ताम्रयो रक्तयो. पादयोश्चर- णयोः परता तदेकशरणतामभ्यागमज्जगाम साम्बा नोऽस्माक भूति सपद वितनोतु । किभूता । हस्ते आलम्बिता चूतलुम्बिरेव लतिका यया सा । वाचा वाण्या रिपूणा त्रास करोतीति । अर्जुन काश्चनं तद्वद्रुचि कान्तिर्यस्याः सा । सिंहे कण्ठोरवेऽधिरूढा आसीना । उल्लसन् प्रसरन् विश्वासो यस्माद्यस्य वा। विततो विपुलो य आम्रपादप- शूतवृक्षस्तत्र रता। चारिणौ विहरणशीलौ पुत्रौ यस्याः सा । असकृन्निरन्तरम् ॥ मालामालानवाहुर्दधददधदरं यामुदारा मुदारा- लीनालीनामिहाली मधुरमधुरसां सूचितोमाचितो मा। पातात्पातात्स पार्थो रुचिररुचिरदो देवराजीवराजी- पत्रापत्रा यदीया तनुरतनुरवो नन्दको नोदको नो ।। ८९ ॥ मा मा पातात् नरकादिपतनात्पाताद्रक्षतात् । स पार्श्वस्त्रयोविंशो जिनः। किवि- १५८ काव्यमाला। । शिष्टः । माला सजं दधत् दधानः । यां मालामलीनां भ्रमराणामाली पटली उदारा प्रघुरा मुदा हर्षेण आरात अन्तिके अरमत्यर्थे लीना लिया सती अदधपीतवती । किं. भूताम् । मधुरो मधुर्मकरन्दरसो यस्याः सा ताम् । पार्थः किंभूतः । आलानवद्वाहू यस्य सः । सुष्ट उचिता या उमा कीर्तिस्तया चितो व्याप्तः । रुचिररुचयो रम्यका- न्तयो रदा दन्ता यस्य सः । तथा यस्येय यदीया तनुः शरीरं आपना विपदो रक्षिका। किभूता। देवानां सबन्धिनी या राजीवराजी स्वर्णाम्बुजश्रेणी सैव पत्रं वाहनं यस्याः सा । पावः किंभूतः । अतनुर्योजनप्रमाणभूमौ श्रूयमाणत्वात्प्रौढो रवो देशनाध्वनिर्यस्य सः । नन्दकः समृद्धिजनकः नन्दयिता वा । नोदको नो प्रेरको न भवतीत्यर्थः ।। रानी राजीववत्रा तरलतरलसत्केतुरङ्गत्तुरङ्ग- व्यालव्यालग्नयोधाचितरचितरणे भीतिहृयातिहृद्या । सारा साराजिनानामलममलमतेबौधिका माधिकामा- दव्यादव्याधिकालाननजननजरात्रासमानासमाना ॥ ९० ॥ राजी श्रेणी राजीववत्कमलवद्वक्र यस्याः सा । तथा तरलतरलसत्केतवः कम्पविरा- जमानध्वजा रङ्गता चलतां तुरगाणा व्यालानां दुष्टदन्तिनां व्यालमा अभिघटिताः कृताधिरोहणा वा ये योधाः सुभटास्तैराचित आकीर्णो रचितः कृतश्च यो रणः सद्धाम- स्तत्र या भोतिर्भयं तां हरतीति सा । या अतिहृद्या अत्यन्तहृदयंगमा। सारा उत्कृष्टा । सा यच्छब्दनिर्दिष्टा । आराद्दूरादन्तिकाद्वा । जिनानां सर्वज्ञानाम् । अलमत्यर्थम् । अ- मला मतिर्यस्य तस्य बोधिका बोधजनका । मा माम् अधिको यो आमो रोगस्तस्मात् यद्वा आधिश्च कामश्च तस्मात् । व्याधिश्च कालाननं यममुखं मरणं च जनन च जरा च त्रासश्च मानश्च न विद्यन्ते व्याध्यादयो यस्या सा। असमाना गुणैरसदृशा । या जिनाना राजी रणे भीतिहत्सा अव्यादिति संबन्धः ॥ सद्योऽसद्योगभिवागमलगमलया जैनराजीनराजी- नूता नूतार्थधात्रीह ततहततमःपातकापातकामा । शास्त्री शास्त्री नराणां हृदयहृदयशोरोधिकावाधिका वा- देया देयान्मुदं ते मनुजमनुजरां त्याजयन्ती जयन्ती ॥ ९१॥ जिनराजानां सबन्धिनी जैनराजी वाग्वाणी ते तुभ्यं मुद देयात् । किविशिष्टा । सद्यः शीघ्र असन्तो ये योगा मनोवाकायव्यापारास्तान भिनत्तीति सा । अमलानां गमाना लयो यत्र सा । इना इभ्याः सूर्या वा तेषां राज्या नूता स्तुता । नूतानवीनानर्थान् द- धातीति सा । इह पृथिव्याम् । तत विपुल हतं ध्वस्तं तमोऽज्ञानं पातकं पाप्मा यया सा । अपातः पतनरहितः कामश्च यया । यद्वा पृथग्विशेषणम् न विद्यते पातकामी यस्याः सा । शास्त्री शास्त्रसंबन्धिनी । नराणां शास्त्री शासिका । यद्वा शास्त्रीणामीशा चतुर्विंशतिजिनस्तुतिः । १५९ स्वामिनी । स्त्रियो नार्यो नरा मास्तेषां हृदयं हरतीति । अयशो रुणद्धीति । न बाधते इत्यवाधिका । वा समुच्चये । आदेया ग्राह्या । मनुजं मानवमनु लक्ष्यीकृत्य जरा वि. ससा त्याजयन्ती विनाशयन्ती । जयन्ती केनाप्यपरिभूतत्वात् ।। याता या तारतेजाः सदसि सदसिभृत्कालकान्तालकान्ता- पारि पारिन्द्रराजं सुरवसुरवधूपूजितारं जितारम् । सा त्रासात्रायतां त्वामविषमविषभृद्भूषषणाभीषणा भी- हीनाहीनाग्र्यपत्नी कुवलयवलयश्यामदेहामदेहा ॥ ९२ ॥ याता प्राप्ता देवी । तारमुज्ज्वलं तेजो यस्याः सा । सदास सभायाम् । सन्त शो- भनमसि बिभर्ति सा । काला कृष्णाः कान्ता रुचिरा अलकानामन्ताः प्रान्ता यस्या सा । अपगता अरयो यस्मात् तमपारि पारिन्द्रराजमजगरेन्द्रम् । सुरवा. सुशव्दा या सुरवध्वो देवकान्तास्ताभिः पूजिता । अर शीघ्र जितमारमरिसमूहो येन । सा यच्छ- व्दादिष्टा त्रासाद्भयात्रायता रक्षताम् । त्वा भवन्तम् । अविषमाः सौम्या विषभृतः सी भूषण यस्याः सा । तथा अभीषणा अरौद्राकारा मिया भयेन हीना त्यक्ता । अ. हीनो नागपतिस्तस्याग्र्या प्रधाना पत्नी अग्र्यमहिषी । चिरोढेत्यर्थ. । कुवलयाना वलय समूहस्तद्वच्छयामो देहो यस्याः सा । अमदा मदरहिता ईहा चेष्टा यस्या. सा । या सदसिः पारिन्द्रराज प्राप्ता सा अहीनाम्यपत्नी त्रासात्रायतामिति सबन्धः ।। नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जिताहे धरित्रीकृता- वन वरतम संगमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहिताक्षो भवान् । मम वितरतु वीर निर्वाणशर्माणि जातावतारो धराधीशसिद्धार्थधाम्नि क्षमालंकृता- वनवरतमसङ्गमोदारतारोदितानङ्गनार्याव लीलापदे हे क्षितामो हिताक्षो. भवान् ॥ ९३ ॥ नमताममराणा शिरोरुहेभ्य. केशेभ्यः स्रस्ताः सामोदानां निनिद्राणा विक्रसिताना मन्दाराणां या मालास्तासा रजसा परागेण रञ्जिताहे पाटलितचरण । धरित्र्या भुव. कृतावन विहितरक्षण । वरतम प्रधानतम । संगमनाम्रो देवस्य संवन्धिनी उदारा ताग उदितानगा उद्तस्मरा अथवा वरतमः संगमः समागमो यस्या. सा वरतमसगमा उ- दारतारा अदीनकनीनिका उदितानगा उद्गतस्मरा या नार्यावली नारीणां पतिस्तस्या लापेन जल्पितेन देहेन ईक्षितेन च न मोहितानि अक्षाणि इन्द्रियाणि यस्य स भवान् त्वम् मम वितरतु हे वीर जिन । निर्वाणशर्माणि मोक्षसुखानि । जातावतारोऽवतीर्णः । उत्पन्न इत्यर्थः । धराधीशः क्षितिपतियः सिद्धार्थस्तस्य धाग्नि गृहे । कथंभूते। क्षमालं- कृतौ भुवोऽलंकारभूते । अनवरतमजस्रम् । हे असगमोद सगमोदाभ्यां रहित । यद्वा . १६० काव्यमाला। सहायो मोद. स नास्ति यस्यासी असगमोदः । स्वतन्त्रसुख इत्यर्थः । हे अरत अना- सक्त । हे अरोदित रोदनहीन । शोकरहितेत्यर्थः । हे अनङ्गन अङ्गनारहित । हे आ- वि आर्यानवति यस्तदामन्त्रणम् । धाम्नि कथभूते । लीलानां विलासानां पदे स्थाने । है इत्यामन्त्रणे । भवान् कथंभूतः । क्षितामः क्षपितरोगः । हे हित हितकारिन् । पुनः कथभूतः । अक्षोभवान् न भयान्वितः । हे वीर, भवान्मम निर्वाणशर्माणि वितर- विति सबन्धः ॥ समवसरणमत्र यस्याः स्फुरत्केतुचक्रानकानेकपद्मन्दुरुक्चामरोत्सर्पिसालत्रयी- सवनमदशोकपृथ्वीक्षणप्रायशोभातपत्रप्रभागुवराराट् परेताहितारोचितम् । प्रवितरतु समीहितं सार्हता संहतिर्भक्तिभानां भवाम्भोधिसंभ्रान्तभव्या- वलीसेविता- सवनमदशोकपृथ्वीक्षणप्रा यशोभातपत्रप्रभागुर्वराराट्परेताहितारोचितम् ॥ समवसरण धर्मदेशनास्थानं यस्याः अत्र अस्मिन् अराराट् भृशमराजत सा अहंतां ततिर्भक्तिभाजां समीहित वितरतु । समवसरण कथभूतम् । स्फुरत् केतुर्धर्मध्वजश्चक्र धर्मचक्र आनको देवदुन्दुभिः अनेकपद्मानि सुरकृतकमलानि इन्दुरुक्चामराणि च- न्द्रावदातप्रकीर्णकानि उत्सर्पिणी सालत्रयी प्राकारत्रय प्रधानावनमदशोकद्रुमः पृ. थिव्युत्सवभूतच्छायातपत्रत्रयं तस्य प्रभा कान्तिस्तया गुरु महाहम् । पुन: किंभूतम् । परेता अपगता अहिताः शत्रवो येषां तैरारोचितं शोभितम् । अथ वा परा प्रधाना इताहिता गतशत्रुरित्यर्हतां सहतेविशेषणे । आरोचितं शोभितम् । सहतिः कथंभूता । भवाम्भोधौ संसारसमुद्रे सभ्रान्ता आकुलीभूता या भव्यावली तया सेविता । पुनः कथं- भूता । सदवना सोपतापा च मदशोकाभ्या पृथ्वी वितता च या न भवति । ईक्षणानि चलषि ज्ञानानि वा प्राति पूरयति सा । यशसा भातानि शोभितानि पत्राणि वाहनानि प्रभजन्ते ये उर्वराराजः पृथ्वीपतयः परेताः पिशाचा अहयो नागारतारा ज्योतिष्का- स्तेषामुचितं योग्यम् । समवसरणविशेषणमिदम् ।। परमततिमिरोग्रभानुप्रभा भूरिभङ्गैर्गभीरा भृशं विश्ववर्य निकाय्ये वितीर्यात्तरा- महति मतिमते हि ते शस्यमानस्य वासं सदा तन्वतीतापदानन्दधानस्य सामानिनः । जननमृतितरङ्गनिप्पारसंसारनीराकरान्तर्निमज्जज्जनोत्तारनौ रतीतीर्थकृत् महति मतिमतेहितेशस्य मानस्य वा संसदातन्वती तापदानं दधानस्य सा मानि नः ॥ ९५ ॥ - ।

चतुर्विंशतिजिनस्तुतिः। १६१ तीर्थकृत, ते तव मते शासने भारती विश्ववर्य निकाय्य वासमाश्रयम् । मोक्षमित्यर्थ । वितीर्यात्तरामिति सबन्धः । भारती कथभूता। परशासनध्वान्तसूर्यसमा । भूरिभहैरर्थ- विकल्पैर्गभीरा। निकाय्ये कथभूते। अहतिमति अविद्यमानहनने । मते शासने आधार- भूते । यद्वा अहति अविद्यमानघातम् । एतद्वासस्य विशेषणम् । अतिमते अतिशयेना- भिप्रेते । हि स्फुटम् । ते तव । शस्यमानस्य स्तूयमानस्य । सदा नित्यम् । अतनवो बहुतरा अतीता आपदो यस्य तस्यामन्त्रणं अतन्वतीतापत् । आनन्दधानस्य प्रमो- दस्थानस्य । सा इत्यभूता । अमानिनो निरहंकारस्य । नौस्तरणिः। महति विस्तीर्णे । हे हित प्रियकारिन् । यद्वा मतिमता मनीषिणा ईहिता । ईशस्य स्वामिनः । वा इवार्थे भिन्नक्रमश्च । मानस्य पूजाया. ससद् वा सभेव । तापदानं सतापखण्डनमातन्वती । सामानि प्रियाणि दधानस्य । नोऽस्माकम् ॥ सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसारक्रमाम्भोरुहे परमवसुतराङ्गजा रावसन्नाशिताराति भाराजिते भासिनी हारतारा बलक्षेमदा। क्षणरुचिरुचिरोरुचञ्चत्सटासंकटोत्कृष्टकण्ठोद्भटे संस्थिते भव्यलोकं त्वमम्बा- म्विके परमव सुतरां गजारावसन्ना शितारातिभा राजिते भासिनीहारतारा- बलक्षेऽमदा ॥ ९६ ॥ हे सवेगनतदेववधूजनस्तनपीठीषु लुठतां तारहाराणां स्फुरद्रश्मिभिः सारे कर्बुरे के माम्भोरुहे चरणकमले यस्यास्तस्या. सबोधनम् । परमवसुतराङ्गजा अतिशयेन परमवसू परमतेजसौ अगजौ पुत्रौ यस्या. सा । रावण ध्वनिना सम्यग् नाशितोऽदर्शनं नीतो अ- रातिभारः शत्रुवर्गो यया सा । अजितेऽपराभूते । भासिनी भासनशीला । हारतारा हारोज्ज्वला । बल क्षेम च ददाति या । सिंहे कथभूते । क्षणरुचिरुचिरामिविद्युद्दीप्ति- भिरिव रुचिराभि. उर्वीभिः चश्चन्तीभिः सटाभिः सकट उत्कृष्टो य. कण्ठस्तेनोद्भटे। हे अम्ब मातः । हे अम्बिके देवि । परमुत्कृष्टमव रक्ष । सुतरामत्यर्थम् । गजारौ सिंहे। असन्ना अखिन्ना । सस्थिता। शितस्य तनूकृतस्य आरस्येव पित्तलस्येव अतिशयेन मा यस्याः सा । राजिते भ्राजिते । भासमानहिमनक्षत्रधवले । अमदा मदरहिता । हे अम्बिके सिंह सस्थिते सुतरा त्वं भव्यलोकमवेति सबन्धः ।। इति श्रीमहाकविशोभनमुनिप्रणीता सावचूरिश्चतुर्विशतिजिनस्तुतिः । २१

Kavya Mala (ii)

Author
Krishnath Pandurang Parab
Title
Kavya Mala (ii)
File name
Kavya Mala (ii)
Text
OCR done
Citation
1890
Published
2010/05
Publisher
Narniya Sagar Printing Press Mubai
Language
Sanskrit
Pages
164
Library
Charan Sahitya Shodh Sansthan, Ajmer
DLI number
327335
Barcode
99999990002822.00
Scanning centre
Banasthali University
Digital publisher
Digital Library of India
VMLT id
Ytou7xigzjT
Download PDF

Kavya Mala (ii)