Bharatiya Vidya Bhavan Library, Mumbai

Kavyaratna

Shastri.,k.sambasiva · 2012/08

PDF Proofread

Front matter

In the stanzas "श्रीमलिनाथगणिनाथ तदीरितेन : Thalagår fanne aan." (P. 73). it is said that the revered tencher Munisuvrata explained the Tattva to Mallinátha and this statement is in obvious contradiction to the statements of Mrs. Sinclair Stevenson N A., Sc. D. and Jagmander Lal Jaini M. A. The former observes :- "The ninetcenth Tīrthaukara (Mallinatha) is the most interesting of all ........." (vide page 56, The Heart of Jainism), and the latter also mentions Mallinātba as the 19th and Munisuvrata as the 20th Tirthankaras (vide table attached after page 0, "Outlines of Jainism"). Thus both of them consider Mallinātha to be the 19th Acărya and the predecessor of Munisuvrata. If the Mallinātha of our Arluddîsa who is desirous of receiving instruction at the lands of Munisuvratn, the exponent of Tattva, is the same as the Mallinatha of the above mentioned scholars, then he could only have been a contemporary and not the predecessor. A palm lenf manuscript belonging to the Raja of Chirakkal and a transcript belonging to the Adyar Library, Madras, have been utilized for the publication of this work and we express our gratitude to the owners of these manuscripts for their kindness in placing them at our disposal. Trirandrum, 15-12-1106.) K. SAMBASIVA SÅSTRI.

। निवेदना। महाकविश्रीमदईहासविरनितमिदं श्रीमुनिसुनवकाव्यं नाम कान्य- रत्नं किमप्यन रलमम्मत्सौरस्त्यमन्थमालायाः । अखिलमतीयमन्थजातमम - सरमाविष्कर्तुगनसामस्माकमस्य रत्नस्य प्रकाशनं मन्ये धन्यतायाः कोऽपि प्र. फटनापर्यायः । जिनाचार्यवर्यस्य श्रीमुनिसुव्रतस्य चरितवर्णनपरमिदं दशसर्गी. सम्पुटितं काव्यं मातृकायामादा श्रीमुनिसुरतकाव्यनाम्ना समुचितमेव समुसितं दृश्यते । "यद् वयते जनचरित्रमन्त्र चिन्तामणिभन्यजनस्य यच । ह्यावरत्नकनिधिः स्वयं में तत् काव्यरत्नामिधमेतदस्तु ।" (लो० २०. स० १. पृ०४) इति लोकेन कविसम्गतमस्यामिधानं काव्यरत्नमिति स्पष्टम् | "अहंद्दासः स भनपुरलासतमयसितं भूघरे तन कृत्या कल्याण तीर्थकर्तुः सुरकुलमहितः प्रापदात्मीयलोकम् । अहंदासोऽयमित्थं जिनपतिचरितं गौतमत्वाभ्युपर्श गुम्फित्या काव्यवन्धं कविकुलमहितः प्रापदुच्चैः प्रमोदम् ॥ धावन् कापथसम्भृते मयंबने सन्मार्गमेकं परं त्यस्त्वा श्रान्ततरश्चिराय कथमप्यासाद्य कालादमुम् । सद्धर्मामृतमुदतं जिनवचःक्षीरोदधेरादरात् पायंपायमितश्रमः सुखपदं दासो भवत्यर्हतः ॥" (श्लो० ६३, ६४. स० १०. पृ० ७६) इति पद्याभ्यां कविनामधेयमर्हदास इति, तचाहिद्भक्तिमहिमातिशयात् काव्य- रचनानिपुणमतेरस्य विरुदसम्पन्नमिति च शक्यमभ्यूहितुम् । सर्वथा दासोत्तरोऽयं महाकविः श्रीकालिदासवद् रघुवंशादिनानेन काव्यरनेन सहृदयोल्लासी विजयत इत्यनुभवसाक्षिकोऽयं समाचारः । तमिमं कविमईयास प्रति न किञ्चिदन्यद् विज्ञातुं पारितम् ।

२ इहत्यान् मुख्यान् विषयान् संक्षिपती काचन सूची चरितजिज्ञासूनामुप- काराय साकमनेनैव सम्पुटेन मुखतः सङ्घटिता । तदिशा दशमसर्गीयाष्टाचत्वा- शिश्लोके, "श्रीमल्लिनाथगणिनाथ तदीरितेन पृष्टः समस्तविदसौ निजगाद तत्त्वम् ।" इत्यंशेन श्रीमल्लिनाथगणिने भगवता मुनिसुव्रतेन तत्त्वनिगदनमुपवर्ण्यमानं, मिस्सिस्. सिन्क्लेयर स्टीवन्सन् एम्. ए., एस्सि. डि., जग्पन्द- रलाल् जयिनि एम्. ए. इत्यनयोः पण्डितयोरभिप्रायेण विरुध्यमानं दृश्यते । तयोहि - मिस्सिम, सिन्क्लेयर स्टीवन्सन् एकोनविंशोयं सर्वाभिनन्द्यमहिमा तीर्थकरो मल्लिनाथः, विंशश्च मुनिसुनतस्तादृश इति (The Heart of Jainism. p. 66) जग्मन्दलाल् जयिनि एम्. ए. चतुर्विंशतौ तीर्थकरेषु सुप्रसिद्ध एकोनविंशो मल्लिनाथो विंशश्च मुनिसुनत इति च मन्वाते (Table attached after page 6. Outlines of Jainism.) यदि च मुनिसुव्रतात् तत्त्वाख्यातुरुपदेशलिप्सुरस्मदहदासीयम- ल्लिनायः पूर्वोक्तपण्डिताभिमतश्चाभिन्नावभविष्यतां, तदा समसमयजीवि. तावश्यम्भावन मातनतावादो न मनागपि समगस्यतेति विरोधोऽयं दुप्परिहर एव। अस्य रलस्य प्रकाशनोपयोगि परिशोधनधर्पणं बहुमान्यश्री-चिरकल्- राजसम्बन्धिी लालवासिका, मदनपारस्थ-अडयामान्यपालीका एकर त्मिकां च द्वे मातृके निकपहपदावाश्रित्य साधितम् । अतस्तदुभयस्वामिभ्यां कृतज्ञतानिवेदनपुरस्सरमिदं अन्यमालायामपगुम्भ्य महद्भ्य उपहरामि । अनन्तशयनम्, १५-१२-१९०६.

Dopan
॥श्रीः॥
श्रीपद्मनाभसेवि-
न्यसिलश्रीवर्धनी महारानी।
श्रीसेतुलक्ष्म्यभिख्या
प्रत्यक्षा जयति पश्चिभूलक्ष्मीः ।।
ग्रन्थावलिरियमिन्धे
प्रसाधिता तत्प्रसादगुणगुम्फा।
श्रीसहितसेतुलक्ष्मी-
प्रसादमाला सुार्णमणिचित्रा ।।

मुख्यविषयाः ।
सगे
सो. विषयाः.
१.
३.
६.
"
११. काव्यकथाया मूलम्
२०,२१, काव्यनामधेयम्
१२,१३. नायकजन्मवृत्तसूचनम्
२३ kc. नायकमातुः स्वामदर्शनम
१६. नायजन्मसमयः
१०, अभिषेक
४३. नामकरणम्
१७. विवाहो राज्याभिषेकश
३१. राज्यपरिपालनकाला
२. गजराजमृतम्
३. नायकस्य वैराग्योत्पति.
८. तनयं राज्येऽभिषिच्य मनजनम्
१०, पाण्डुवनप्रवेशः नालवने तपश्चर्या व
१५. दीक्षाप्राप्पिसमयः
३५. दीदाकालपरिमाणम्
८. धनदेन शहाज्ञया समानयनम्
१८. सभायां मल्लिपेणगणिप्रार्थितेन भगवता तत्वोपदेशः
भगवतः सम्मेदशैलपातिः
८.
"
11
"
"

॥ श्रीः ॥ ॐ नमः सिद्धेभ्यः। अर्हदासविरचितं श्रीमुनिसुव्रतकाध्यं नाम काव्यरत्नम्। प्रथमः सर्गः। श्रियं स वः श्रीवृपभो विशिष्याद् यस्यालिमालावृतवत् सभायाम् । वभौ नतेन्द्रोत्करमौलिनील- प्रभावलीलालितमजपीठम् ॥ १॥ चन्द्रप्रभ नौमि यदङ्गकान्ति ज्योत्स्लेति मत्वा द्रवतीन्दुकान्तः । चकोरयूथं पिबति स्फुटन्ति कृष्णेऽपि पक्षे किल कैरवाणि ॥२॥ तमांसि हत्वा जगतः पदार्थान् प्रकाशयन्तं यमिव प्रदीपम ननाश मोहादभिपत्य कामः पतङ्गवच्छान्तिजिनं भजे तम् ॥ ३ ॥ अवोधकालोरगलीढमूढ- मवूबुधद् गारुडरत्नवद् यः। . G.P.T.1502,500 12-9-1105, काव्यरने जगत् कृपाकोमलदृष्टिपातैः प्रभुः प्रसद्यान्मुनिसुव्रतो नः ॥ ४ ॥ बासादिदोपोज्झितमुहजाति गुणान्वितं मौलिमणिं यथैव । वृत्तात्मकं भावलयाभिरामं कृतक्रियं मूर्तिं दधामि वीरम् ॥ ५ ॥ स्वार्थप्रकाशिद्युतयोऽशरीरा रत्नप्रदीपा इव मे वसन्तु । तमःप्रहाण्यै हृदि दीप्यमानाः कृताधिवासाः पवनान्तरेऽपि ॥ ६ ॥ निराकृतान्तस्तमसो निषेव्या दिगम्बरैः सन्ततवृत्तदेहाः । सुनिर्मलाः साधुसुधांशवो मे हरन्तु सन्तायमदृष्टपूर्वाः ॥ ७ ॥ रत्ननयात्मा सुचिराय धर्मः सार्थेन नाम्ना महितः स जीयात् । यो धारयत्यच्युतधाम्नि मना- नुद्धृत्य सत्त्वान् भववारिराशेः ॥ ८॥ वीरादिव क्षीरनिधेः प्रवृत्ता सुधेव वाणी सुधिया कलश्या । विधृत्य नीता विवुधाधिपैमें निषेविता नित्यसुखाय भूयात् ॥ ९ ॥ .

-- प्रथमः सर्गः भट्टाकलङ्काद् गुणभद्रसूरेः समन्तभद्रादपि पूज्यपादात् । वचोऽकलङ्क गुणभद्रमस्तु समन्तभद्रं मम पूज्यपादम् ॥ १० ॥ वीराकरोत्थं मुनिसार्थनीतं कथामणिं श्रीमुनिसुव्रतस्य । सुवर्णदीप्रं नवयुक्तिरम्यं विदग्धकर्णाभरणं विधास्ये ॥ ११ ॥ सरस्वतीकल्पलता स को वा संवर्धयिष्यन् जिनपारिजातम् । विमुच्य काजीरतरूपमेपु व्यारोपयेत् प्राकृतनायकेषु ।। १२ ।। गणाधिपस्यैव गणेयमेतद् भवामि चोद्यन् भगवचरित्रे । भक्तीरितो नन्वगचालनेऽपि शक्तो न लोके ग्रहिलो न लोकः॥ १३ ॥ मनः परं क्रीडयितुं ममैतत् कान्यं करिष्ये खलु वाल एपः । न लाभपूजादिरतः परेपां न लालनेच्छाः कलमा रमन्ते ॥ १४ ॥ श्रव्यं करोत्येष किल प्रबन्धं पौरस्त्यवन्नेति हसन्तु सन्तः।

४
काव्यरत्ने
किं शुक्तयोऽद्यापि महापरायं
मुक्ताफलं नो सुवते विमुग्धाः ॥ १५ ॥
प्रबन्धमाकर्ण्य महाकवीनां
प्रमोदमायाति महानिहैकः ।
विधूदयं वीक्ष्य नदीन एव
विवृद्धिमायाति जडाशया न ॥ १६ ॥
उपेक्षितारोऽपि फलन्त्यनिष्टा-
भीष्टानि यद् दुर्जनसज्जनास्तत् ।
वृथा कृता विश्वसृजा श्रमाय
विषद्रुकल्पद्रुमयोहि सृष्टिः ॥ १७ ॥
सन्तः स्वभावाद् गुणरत्नमन्ये
गृह्णन्ति दोषोपलमात्मकीयम् (१) ।
यथा पयोऽत्रं शिशवो जलूका
जनो वृथा रज्यति कुप्यतीह ॥ १८ ॥
तिक्तोऽस्ति निम्बो मधुरोऽस्ति चक्षुः
स्वं निन्दतोऽपि स्तुवतोऽपि तद्वत् ।
दुष्टोऽप्यदुष्टोऽपि ततोऽनयो,
निन्दास्तवाभ्यामधिकं न साध्यम् ॥ १९ ॥
यद् वर्ण्यते जैनचरित्रमत्र
चिन्तामणिर्भव्यजनस्य यच्च ।
हृद्यार्थरलैकनिधिः स्वयं मे
तत् काव्यरत्लाभिधमेतदस्तु ॥ २० ॥

प्रथमः सर्गः। यत् स्थापनां नाम भुवं च कालं द्रव्यं च भावं प्रति पट्प्रकारा । स्तुतिर्जिनस्य क्रियतेऽत्र तस्मात् काव्यं ममैतत् स्तुतिरेव भूयात् ॥ २१ ॥ अथास्ति जम्बूविटपिच्छलेन द्वीपेषु गर्वोन्नतमस्तकस्य । द्वीपस्य भर्माभरणेऽत्र खण्डे रत्नायमानो मगधाख्यदेशः ॥ २२ ॥ यद्भूधरा भूतलसेव्यपादा भूपा इवाकान्तदिगन्तरालाः । इन्दन्ति मतहिपकैरवाक्षि- कस्तूरिकाकाञ्चनरत्नखड्गैः ॥ २३ ।। नगेपु यस्योन्नतवंशजाताः सुनिर्मला विश्रुतवृत्तरूपाः । भव्या भवन्त्याप्तगुणाभिरामा मुक्ताः सदा लोकशिरोविभूषाः ॥ २४ ॥ उत्तुङ्गगोत्रप्रभवा भवत्यो भजन्तु भूचक्रवहिप्कृतं किम् । 'इति स्रवन्तीरुदधि सरन्ती- स्वैमि यत्रालिगणो रुणद्धि ॥ २५ ॥ तरङ्गिणीनां तरुणान्विताना- - मतुच्छपद्माच्छदलाञ्छितानि । १. 'वर्गोन्न' क. पाठ. २. 'देहाः। ख. पाठः काव्यरले पृथूनि यस्मिन् पुलिनानि रेजुः काञ्चीपदानीव नखाश्चितानि ।। २६ ।। तमोनिवासेपु वनेषु यस्य मरन्दसा(र्दा ?न्द्रा)स्तरणेमयूखाः । स्फुरन्ति शाखान्तरलब्धमार्गाः कुन्ताः प्रयुक्ता इव शोणिताः ॥ २७ ॥ अभ्रंलिहाग्राणि वनानि यस्मि- नीयुर्भुवं नाकतरुं निकर्तुम् । को दानवारिप्रतिपन्नवृत्तेः क्षमेत सङ्कल्पितदानगर्वम् ॥ २८ ॥ पाकावनम्राः कलमा यदीयाः पदावनम्रा इव मातृभक्त्या । आघ्रायमाणाः स्वशिरस्सु भान्ति विकासिपद्माननया धरिच्या ॥ २९ ॥ विभान्ति सस्यान्तरितानि यस्मिन् हेमारविन्दानि मधूल्बणानि । आपाययन्त्या इव शालिपुत्रा- नात्तानि धान्याः करसेचनानि ।। ३० ॥ यत्रेक्षुदण्डाः कुसुमाभिरामा वितन्वते पर्वचयाञ्चिताङ्गाः । मनोजराजस्य जगज्जिगीपो. रुच्चामरोड्डामरकुन्तलीलाम् ॥ ३१ ॥ १. 'स्मिन् म', २. 'चि स. पाठः.

प्रथमः सर्गः। भूदेवता यद्विभवं विलोक्य भूयोऽवधूतत्रिदिवं दधाति । निलीनभृङ्गस्थलपद्मदम्भा- निप्पन्दताराणि विलोचनानि ॥ ३२ ॥ यस्योर्वरासारगुणस्य मूर्ताः पुजा इवाभान्ति समन्ततोऽपि । तिलातसीकोगवद्गमाप- गोधूमवल्लक्षवशालिशैलाः ॥ ३३ ॥ यत्रार्तवत्वं फलिताटवीपु पलाशिताद्रौ कुसुमे परागः । निमित्तमात्रे पिशुनत्वमासी- निरोष्ठयकाव्येष्वपवादिता च ॥ ३४ ॥ स्त्रीणां कचे माल्यमुरोजभारे श्यामाननत्वं जघने जडत्वम् । अपाङ्गता केवलमक्षिसीनो- मध्यप्रदेशेषु च नास्तिवादः ॥ ३५ ॥ भुजङ्गमेप्यागमवक्रमावो भुजङ्गहारेऽप्यजिनानुरागः। ध्रुवं प्रदोपानुगमो रजन्याम् (दि ?इ)नक्षयः सोऽपि दिनोवसाने ॥ ३६ ॥ तनास्ति सा राजगृहामिधानां पुरी वनैः पृष्टगतैरुदत्रैः। १. 'मापमुहगो', २. 'या' स. पाद:

काव्यरले पुरारिवैरप्रतिकारहेतो- या मुक्तकेशव्रतमादितेव ॥ ३७ ॥ बहिर्वणे यत्र विधाय वृक्षा- रोह परिष्वज्य समर्पितास्याः। कृताधिकारा इव कामतन्त्रे : कुर्वन्ति सङ्गं विटपैर्वतत्यः ॥ ३८ ॥ आरामरामाशिरसीव केली- शैले लताकुन्तलभासि यत्र । सकुङ्कमा निर्झरवारिधारा सीमन्तसिन्दूरनिभा विभाति ॥ ३९ ॥ कण्डतिशान्त्यै निजकर्णमूलं सङ्घर्पयन्तः सरसीपु मीनाः। अम्भोजदण्डेपु विभान्ति यस्या- मालानर्देण्डोष्विव हस्तिपोताः ॥ ४० ॥ वीथ्या हयानां दशया गजानां श्रमैर्भटानां करणैनेटानाम् । भुजाहतैर्मलगणस्य यस्या जयन्ति बाह्यालिमुवो विशालाः ॥४१॥ अहो नु तीरद्रुमराजिराज- हिचित्रपुप्पोद्गमविम्वितानि । उतोल्लसत्पन्नगभोगरत्न- द्युतीनि यस्याः परिखाजलानि ॥ ४२ ॥ १. 'ने', २. 'बत्येष्वि' क. पाठः.

मथमः सर्गः । माणिक्यकुम्भोज्ज्वलगोपुराणां रूपेण यां मूर्तिचतुष्टयाप्तः। आप्तः समालक्ष्य विलक्षमास्ते 'पूर्वाचलः कूट विभासिभास्थान् ॥ ४३ ॥ सुरापगापूरकृतान्तराणि शृङ्गाणि सालाग्रगतानि यस्याः। हैमानि हेमाम्बुरुहाणि बुद्ध्वा मुग्धा जिहीर्पन्ति सुरर्पिकान्ताः ॥ ४४ ॥ प्रतप्तचामीकरवैकृतानि प्राकारशीर्षाणि पुनर्न यस्याः । पत्या दिशां भित्तिषु लिप्तशेपाः प्रतापपिण्डा वियदङ्गणे ते ॥४५॥ उत्तोरणानां किल मन्दिराणा- मुद्यड्वजानामसमेपु यस्याः। धनुष्मतो वारिभृतः सशम्पान् निर्माय निर्माय नमः प्रमार्टि ॥ ४६ ॥ यचन्द्रकान्तोपलमन्दिराणां ज्योत्स्नाप्रवाहैः परिवाहिता द्यौः । क्रीडाधियामप्सरसा विधत्ते दिवा दिवा दिव्यसरःप्रमोपम् ॥ १७ ॥ ताराफलायां वियदामलक्यां क्षेप्तुं व्रजन्तं नतदारबुद्ध्या । 1 C १० काव्यरत्ने यञ्चन्द्रशालागतबालचन्द्र बालं हसन्ति स्फुटमीशदाराः ।। ४८ ।। नैतानि ताराणि नभस्सरस्याः सूनानि तान्याददेते सुकेश्यः । यदुच्चसौधाग्रजुषो मृपा चेत् । प्रगे प्रगे कुत्र निलीनमेभिः ॥ ४९ ।। विकासिनेनाशुभिरङ्गनानां विषक्तगात्रैरेवसक्तगात्राः। विलासिना सूचिगृहान्धकारा वितन्वते यत्र सदा नियुद्धम् ॥ ५० ॥ सदा पठत्कोकिलनन्दनायाः समुल्लसत्पाण्डुकभद्रौलाः। जिनालयाः सौमनसालयास्ते जयन्ति मेरूनपि यत्र चित्रम् ॥ ५१ ॥ यंत्राश्मगर्भार्कजिनालयत्विट् - छन्नेऽभ्रमध्ये तपनो हठेन । दूर्वाम्बुबुद्ध्या द्रवदश्वरोध- क्लेशासहः किं कुरुतेऽयने द्वे ॥ ५२ ॥ चित्रं जिनेन्द्रावसथस्थलेषु प्रमोबाप्पोदकपिच्छिलेषु । १. 'ध', २. 'रि', ३. 'सा' क. पाठः.

१ द्वितीयः सर्गः । भव्यैः किलोप्ताः सिततण्डुलौघाः फलन्ति यस्यां बहुशः फलानि ॥ ५३ ॥ देवीनां मणिगृहमध्यवर्चिहैम- प्रासादे सदलसकर्णिकाम्बुजामे । आवासे यदधिभुवः कृताधिवासा श्रीरासीद् ध्रुवमरविन्दमन्दिरा सा ॥ ५४॥ इत्यईदासकृतौ काव्यरत्ने भगवदभिजनवर्णनो नाम प्रथमः सर्गः ।। अथ द्वितीयः सर्गः। अथाभवत् तस्य पुरस्य राजा सुमित्र इत्यन्वितनामधेयः । कियार्थयोः क्षेपणपालनार्थ- द्वयादसत्सद्विपयात् सुपूर्वात् ॥ १ ॥ यं राजशब्दासहमन्यपुंसि श्रुत्वा भयादयः सुखरोचिरासीत् । स्तुतिप्रसक्ताः कवयो बभूवु- यक्षोऽपि सत्यं धनदो बभूव ॥ २॥ कोपारुणेऽप्यक्षणि यस्य चित्रं सकञ्चुकैः कुण्डलिभिः सनाथम् । शिवास्पदं काञ्चनबज्रपूर्ण बभूव सर्व नगरं रिपूणाम् ।। ३ ।। १. 'लास्ते फे' क. पाठः.

१२ काव्यरले प्रयाणभेरीश्रवणेन यस्य पलायमानानरिभूमिपालान् । पदाभिघाताक्षमयेव सद्यः प्रकाशयामास समीरकेतुः ॥ ४॥ येनासिना युद्धशिरस्यरीणां साङ्ग(च्छि १ च्छ)दे चर्मणि रक्तधारा । विनिर्यती तेन पथा व्यराजी- दुद्भूतकोपामिशिखेव तेषाम् ॥५॥ रणेपु खड्गः करिकुम्भमुक्ता- संपृक्तधारोऽनुचकार यस्य । विदारिते वक्रबिले विधातु- विधुन्तुदस्येन्दुकुटुम्बकानाम् ॥ ६ ॥ कृपाणभिन्नैयुधि वैरिवारै- विभिन्नविम्बे सति यस्य भानौ । स्वयं भयेनैव बभूव भिन्नः द्वितीयः सर्गः। नेदं हिपो यं यमगुः प्रदेशं तप्ता बभूवुः किमु तत्र तन ॥ ९ ॥ यस्यासिधाराविनिपातभीता- स्त्यजन्तु पद्माकरसङ्गमानि । विमुक्तवन्तः किल राजहंसाः स्वमुत्तराशाश्रितमानसं च ॥ १० ॥ तेजोनले व्याप्तसमस्तकाष्ठे तत्र स्थितिं कर्तुमशक्नुवानाः। यस्यारयो वारिधिवासमापु- नचेत् तथा के किल वारिमाः ॥११॥ उपायनाश्वेभखुरप्रहार- मदाम्बुनिम्नीकृतपूर्णमध्यम् । रत्नाङ्कणं यत्सदसो विशालं क्रीडासरोवद् विरराज लक्ष्म्याः ॥ १२ ॥ प्राणेश्वरी तस्य बभूव राज्ञः पद्मावती नाम नरेन्द्रकन्या । ययाधिविन्नाजनि भूतधात्री या चाधिविन्नाजनि भूरिलक्ष्या ॥ १३ ॥ लावण्यवाराशिसराङ्गकल्प- लतां नृपस्त्रीमवलोक्य शङ्के । १. 'मन्ये' [ ' ख. पाठः, फायरले तत्काम्ययायापि करोति लक्ष्मी- स्तपोऽम्बुमध्ये कमलासनस्था ॥ १४ ॥ निशाकरस्फेटनिभानि तन्व्या नखानि पादाङ्गुलिसङ्गतानि । जगजिगीपोर्मकरध्वजस्य प्रपेदिरे खेटकभल्लकत्वम् ॥ १५ ॥ स्वर्गापगारक्तसरोरुहाणां सजातमेतद्वयमित्यवैमि । सुराङ्गनानां कथमन्यथा स्तां चिराय सेव्यौ चरणो मृगाक्ष्याः ॥ १६ ॥ सपर्वरम्भासदृशोस्तों सजवयोरङ्गजकाहला का। कियांश्च पश्चायुधपृष्ठतूण: कियत्तरौ मन्मथदन्तिदन्तौ ॥ १७ ॥ परिस्फुरत्काञ्चनकाञ्चिबन्धं निघद्वनीवीविलसद्दुकूलम् । कलत्रभारं कलिकायुथोऽस्या- श्वकार वास्त्रं किल चक्रयानम् ॥ १८ ॥ वलित्रयत्रासतरङ्गितेऽस्या विलग्नसौन्दर्यमहाम्बुराशौ । उपर्युदस्तस्तनशैलतयों रराज सेतुर्नवरोमराजिः॥ १९ ॥ १. 'यघस्त' क. पाठः.

१५ द्वितीय सर्ग । भुजायता चम्पकमालिका स्यात् कुचोन्नतः पङ्कजकुङ्मलश्च । मृदुत्वकाठिन्यगुणौ मृगाक्ष्याः कथं दधीतोभयमप्युभय्याः ॥ २०॥ शुभेन रेखात्रितयेन तन्व्याः- कण्ठः स्फुट कम्बुसमान एव । सुधासदाइँण पुनः स्वरेण विपशिकाप्यञ्चत एव तस्य ॥ २१ ॥ यदब्जसौन्दर्यसखं मुखं च यदम्बके मीनविडम्बके च। नमाश्रियः : साम्यमुपागता या सरःश्रियः साम्यमतो गता सा ॥ २२ ॥ त्रिलोकनारीतिलकस्य तस्याः क केशपाशस्य पुरो भवामः । इतीदमद्याप्यभिनेतुमेते सधूतयश्वामरवालहस्ताः ॥ २३ ॥ मनोजसंमोहनमन्त्रचिन्ता- फलं नु भूपालतफाफलं मु। जनेक्षणादृष्टफलं नु किञ्चि- न्न वेझि सृष्टेः कलशाकृतिः सा ॥ २४ ॥ निर्मूलितापविपक्षकक्षो निराकुलीभूतसमस्तभूतः। १. 'मुपाग', २. ट' क पाठ * काव्यरत्ने युवा स पुष्पायुधवाणकोण- व्यधात् परं व्याकुलमानसोऽभूत् ॥ २५ ॥ कुलांगते वर्मणि दृष्टशौचे से मन्त्रिवर्गेऽर्पितराज्यभारः। तया समं मन्मथशासनानि बभार भावातिमनोहराणि ॥ २६ ॥ अगायदेपा स ततान तान- मनृत्यदेपा स तताड तालम् । अवादयद् वल्लकिकामथैपा स वल्लकीवानुजगौ द्वितीया ॥ २७ ॥ सह प्रयातौ दयितौ बनान्तं सह प्रियौ केलिसरः प्रविष्टौ । सहाधिरूढौ रमणौ च दोलां सह स्थितौ सौधशिरस्सु कान्तौ ॥ २८ ॥ उरोजयोरेणमदेन तन्व्याः कुतूहली यं मकरं लिलेख । विभावयामास स भावयोनेः स्थूलाग्रजायन्मकरध्वजस्य ॥ २९ ॥ सखीसभायां चतुरङ्गकेली चुचुम्ब संरक्षितुमातस्य । यस्य याआकपटेन कामी मुहुर्मुहुः स्मेरमुखी कपोले ॥ ३० ॥ १. ६ ख. पाठः. २. 'सु' क. पाठः.

१७ तृतीयः सर्गः। मुक्तागुणच्छायमिषेण तन्व्या रसेन लावण्यमयेन पूर्णे । नाभिहदे नाथनिवेशितेन विलोचनेनानिभिषेण जज्ञे ॥ ३१ ॥ अमर्पणायाः श्रवणावतंस- मपाङ्गविद्युहिनिवर्तनेन । स्मरेण कोशादवकृप्यमाणं रथाङ्गमुर्वीपतिराशशङ्के ॥ ३२ ॥ रहस्सु वस्त्राहरणे प्रवृत्ताः सहासगर्जाः क्षितिपालवध्वाः । सकोपकन्दर्पधनुःप्रमुक्त शरौघहुङ्काररवा इवाभुः ॥ ३३ ॥ इति किलानिमतौ सुरदम्पति- प्रतिमरूपकलागुणशालिनौ । विविधकेलिरसैः कृतसम्मदैः सफलतां युवतामुपनिन्यतुः ॥ ३४ ॥ इत्यदासकृती कायरले भगवपितृवर्णनो नाम द्वितीयः सर्गः॥ अर्थ तृतीयः सर्गः। एपैकदा तु नवकल्पलतेव, भूयो। भूयः प्रपन्नऋतुकापि फलेन हीना ! १. 'किल स' क.पाठः. "

૨૮
काव्यरत्ने
आलोक्य केलिकलहंसवधू सगी
दयौ धराधिपवधूरिति दीनचेताः॥ १ ॥
आः पुष्पितापि विफलेव रसालयष्टिः
. सेनेव नायकगतापि जयेन शून्या ।
काले स्थितापि धनराजिरवणेव
मिथ्या दधामि हतकुक्षिमदृष्टतोका ॥ २ ॥
चिन्ताभरादिति वहन्नयनोदकां तां
कान्तोऽनुसय करपल्लवदत्तगण्डाम् ।
व्यग्रीभवत्परिजनादवगम्य सर्व-
माश्वासयत्युचितसूक्तिरसेन यावत् ॥ ३ ॥
तावत् तमम्बरतलादवतीर्य देव्यो
मित्रं दिने नमितया रमया समेतम् ।
मुक्त्वा श्रिया सततसङ्गतया सनाथं
भक्तुं सुमित्रमिव दीधितयोऽधिजग्मुः ॥ ४॥
भूपोऽथ जीवजयनन्दपदास्पदास्या-
स्ताः प्राञ्जलीरभिनिरीक्ष्य विलक्षचक्षुः ।
प्राप्तासनेषु विनिवेश्य मुदेदमूचे
प्राप्ताः किमत्र सुरलोकसुखैकसाराः ॥ ५ ॥
आकर्ण्य वाचमिति तस्य सुराङ्गनाभिः
श्रीरीरिताकथयदागमहेतुमेवम् ।
मन्दस्मितद्विगुणमञ्जुलवाक्प्रसूनै.
वय॑त् फलं क्षितिपतेरिव सूचयन्ती ॥६॥

तृतीयः सर्गः। भूपार्यखण्ड इह भूविदितेऽङ्गदेशे चम्पापुरे नृपवरो हरिवर्मनामा । आसीद् यशःकवचितावनिरस्रधारा- संप्लावितारिनृपतद्वनितावितानः ॥ ७ ॥ ज्ञात्वा जिनाजननदुःखमनन्तवीर्या- देपोऽवगीतभवभोगशरीररोगः। मत्वा तृणाय निजराज्यपदं मनीपी तत्पादयोः किल यभार जिनेन्द्रमुद्राम् ॥ ८॥ सन्त्यक्तसर्वविषयोऽप्यवरोधमुक्तो- ऽप्येकाक्षरक्षणपरोऽप्यनिशं यतीशः । संभक्तसर्वविपयोऽजनि साबरोधः पञ्चाक्षनिग्रहपरः परमेप चित्रम् ॥ ९ ॥ कुर्वस्तपो जिननिरूपितलक्ष्मलक्ष्मी- भूतं प्रभूतविनयो विविधं मुनीन्द्रः । एकादशाङ्गकुशलोऽजनि हेतुयुग्म- सामग्र्यसञ्जनिततीर्थकरत्वपुण्यः ॥ १० ॥ अन्ते समाधिविधिसात्कृतदेहभारः स्वः प्राणते तदभिधानविमानमध्ये । म प्राणतेन्द्र इति सेन्द्रपतिर्वभूव लोकेषु तप्ततपसां किमसाध्यमस्ति ॥ ११ ॥ मासानतीत्य पडयं गुडनिर्विशेपी- भूतेतविंशतिनदीपतिसम्मितायुः । १. 'म्या', २. 'दी', ३. 'नो' क. पाठः. ५. 'ज' स. पाठः, २० फाव्यरत्ने सूनुर्भविष्यति च तेऽतुलपुण्यराशे- स्तीर्थस्य विशतितमो भविता च कर्ता ॥१२॥ तस्माद् वयं जिनपतेर्भुवनैकवन्द्य- पादारविन्दयुगलस्य भविष्यतोऽग्रे। दास्यं विपुण्यजनदुर्लभमद्य याता मातुर्विधातुममरेश्वरशासनेन ।। १३ ।। इत्थं तदीयमुखचन्द्रमसः समुद्यद्- वाक्चन्द्रिकां श्रुतिपुटेन निपीय सद्यः। चेतस्यवाप चपलेक्षणया समेतो भूपश्चकोर इव भूरितरप्रमोदम् ॥ १५ ॥ भूमीपतेरनुमताभिरथामराणां भ्रूवल्लरीविलसनेन विलासिकाभिः । भूपालमौलिदयिता भृतसंमदाभि- भूलोकसेव्यचरणाम्बुरुहा सिपेवे ॥ १५ ॥ साधः कयापि विधृतस्य सुरेन्द्रनील- च्छत्रस्य चारुवलयस्य महौपधीव । रेजे प्रकाण्डरुचिरस्य सुरद्रुमस्य धारान्तरस्य च घनस्य तटिल्लतेव ॥ १६ ॥ दिव्याङ्गनावधुतचामरलालिताङ्गा तिष्ठन्त्यसाधरुचदुन्नतरत्नपीठे । लक्ष्मीः सुधाब्धिचटुलोमिहतव शेषे चान्द्री कलेव शरदभ्रचितोदयाद्रौ ॥ १७ ॥ १. 'स' ख. पाठ तृतीयः सर्गः । सा कुङ्कुमेन परया कुचयोविलिप्ता कर्पूरक्लप्ततिलका निटिले चकाशे । संवडकुन्तलभरा शिरसि हिरेफ- व्याप्तेव पवितपुप्पितकल्पवल्ली ॥ १८ ॥ तस्याः शिरोरुहभरे विनियोग्यमान कृष्णं कयापि चमरीरहमावभामे । तापिञ्छकच्छमुपसर्पदिवान्धकारं नीलाब्जकुञ्जमुपयन्निव भृङ्गराशिः ॥ १९ ॥ कर्पूरमौक्तिकखगेन्द्रमणिप्रक्लुप्तै- स्ताटङ्कहारवलयेरपरोपनीतैः डिण्डीरितः क्वचन बुद्बुदितः परत्र शैवालितः क्वचिदहो सुपमाब्धिरस्याः ॥ २० ॥ चामे फलव्यवहिते व्यरुचत् कुचोऽन्य- स्तन्त्रीविवादनचलस्दिशाङ्गनायाः। वन्दुना सहचरीमभिशङ्कय याता- मुत्कम्पमान इव कान्तिझरीरथाङ्गः ॥ २१ ॥ ताभिर्यथावसरमित्थमुपास्यमाना सानीततुर्यवसना किल तीर्थतोयैः । शुभ्राम्बराभरणमाल्यविलेपना च शिश्ये सुखेन रमणेन समानतल्पा ॥ २२ ॥ नागं वृपाधिपगजारिरमाश्च माले चन्द्रार्कमीनयुगकुम्भयुगानि वापीम् ।

२२ काव्यरले अम्भोनिधि च हरिपीठविमानभोगि. स्थानानि रत्ननिकरं च विधूममग्निम् ॥ २३ ॥ स्वप्नेऽध सा सदृशताप्रणयादिवेता- नेतान् गजेन्द्रगतिरात्तवृपाधिपत्वा । शातोदरी-सविभवा सुकुमारगात्री चन्द्रानना सकलविष्टपसेव्यपादा ॥ २४ ॥ मीनेक्षणा घटकुचा हृदनिम्ननाभि- र्गाम्भीर्यपर्यवसितिः सुनितम्बपीठा। मानोन्नता च कृतभोगिपतिप्रमोदा चेतस्विरत्नममला क्रमशो ददर्श ॥ २५॥ राज्ञी विबुध्य सुरवल्लाभिकासुगीतैः कादम्बिनीकलकलैरिव केकिकान्ता । उत्थाय तल्पतलतः सुसमाप्य कृत्यं प्राभातिकं सपदि वल्लभमाससाद ॥ २६ ॥ अर्धासने प्रियनिवेशितवल्लभायै स्थित्वा क्षणं श्रुतिसुखं विनिवेदिताया। स्वप्नावलेरिति जगाद फलं कुचान्ते दन्तार्चिषा विरचयन्निव चर्चिकां सः ॥ २७ ॥ नागेन तुङ्गचरितो वृपतो वृषात्मा सिंहेन विक्रमधनो रमयाधिकश्रीः। नग्भ्यां धृतश्च शिरसा शशिना क्लमच्छित् सूर्येण दीप्तिमहितो झपतः सुरूपः ॥ २८ ॥ कल्याणभाक् कलशतः सरसः सरस्तो गम्भीरधीरुदधिनासनतस्तदीशः ।

तृतीयः सर्गः। देवाहिवासमणिराश्यनलैः प्रतीत- देवोरगागमगुणोद्गमकर्मदाहः ॥ २९ ॥ एवंविधस्तव भविष्यति तीर्थकर्ता पुत्रो जगत्रयविनेयजनकमित्रम् । मामरोरगखगप्रमदातिशायि- पुण्यातिशायनघनायितचारुमूर्ते ! ॥ ३० ॥ एतन्निशम्य वचनं रुचितस्य देवी रोमाञ्चकन्चुकितचन्चुरगात्रयष्टिः । आकर्णितान्यभृतमजुरवा बनान्ते माकन्दवल्लिरिव कोरकिता बभूव ॥ ३१ ॥ देवोऽथ पूर्वगदितस्त्रिदिवादुपेतो देव्या वपुः करिवपुर्वदनादविक्षत् । पक्षेऽपरे नभसि मासि तिथौ हितीये योगे शिये श्रवसि भे विरतौ रजन्याः॥ ३२ ॥ विज्ञायासनकम्पतः सुरपतिस्तस्यावतारं प्रभोः स्वर्गादेत्य चतुर्विधैः सह सुरैरस्याम्बिका कल्पजैः । आकल्पाम्बरगन्धमाल्यनिवहरभ्यर्च्य नाम स्तवं गानं नर्तनमारचय्य जनकं चाहत्य भूयो गतः ।। ३३ ।। इत्यहदासकृती काव्यरले भगवद्गर्भापतग्णवर्णनो नाम. तृतीयः सर्गः ॥ 1 १. एफ. पाठ..

२० अथ चतुर्थः मर्गः। न्यग्रोधशाखेव रराज सान्द्र- च्छायो दधाना पुरुपोत्तमं तम् । पत्रोदरेऽथार्तवमुष्णशीत- मुच्चैःस्तनीयं नुदती प्रियस्य ॥ १ ॥ सा गर्भिणी सिंहकिशोरगर्भा गुहेब मेरोरमृतांशुगर्भा। वेलेव सिन्धोः स्मृतिरत्नगर्भा रेजेतरां हेमकरण्डिकेव ॥२॥ वल्ली बसन्तात् सरसी घनान्तात् सम्पन्नयाचन्द्रमसोऽधिवेला। यथा तथाजायत सा कृशाङ्गी गर्भिकादुज्ज्वलरूपसम्पत् ॥ ३ ॥ मिनस्य माहात्म्यपदेन हौ सामीप्यलाभेन कुचौ तदीयौ । न वभ्रतुः श्यामलतां मुखेऽल्पा- मप्येप नो हर्पयतीह कांस्कान् ॥ ४ ॥ -सुतस्य गम्भीरतरस्य सङ्गात् तस्योदरिण्या अपि राजपल्याः । नाभिर्न तत्याज गभीरभावं गुणं त्यजेत् को गुणिसङ्गमेन ॥ ५ ॥ १. 'यं, २. 'री' क. पाठः, ३. 'ण्ड' ख. पाठः.

२५ चतुर्थः सर्गः। गर्भेऽपि बोधनयनायकोऽय- मितीदमावेदयितुं किलास्याः । बलिप्रभावाद् बलयो न नष्टाः सनाभिनाशं भुवि के सहन्ते ॥ ६ ॥ तत्सङ्गमे सर्वसमृद्धिहेतौ निरन्तरं सत्यपि कुक्षिरस्याः । समृद्धिमल्पामपि न प्रपेदे भाग्यानुसारीणि फलानि कामम् ॥ ७ ॥ स्मरज्जनानामपि नाशयन्त- मन्तस्तमो नूतनरत्नदीपम् । साक्षाद् दधत्या जिनमन्तरस्याः स्प्रष्टुं तमो नैट भियेव जातु ॥ ८ !' . गर्भस्य लिङ्गं परमाणुकल्प. मप्येतदङ्गेपनवेक्ष्य रक्षी। जगबयोद्धारणदोहदेन परं नराणां बुबुधे ससत्त्वाम् ॥ ९ ॥ सम्बन्धदुःखाग्विलजीवमुक्ते- हेतुं तमक्षार्थगतस्पृहं च । प्रसोप्यती तेन समाभवत् मा. प्युपाधिवत् स्वच्छतरं हि वन्तु ॥ १० ॥ गुणान्वितोऽपास्ततमःप्रपञ्चः प्रकाशितात्मेतरवस्तुरेपः।। १. 'म' क.पाठ..

२६ काव्यरले बभौ जिनेन्द्रो जठरे जनन्या दीपो यथा स्फाटिकपात्रमध्ये ॥ ११ ॥ तद्गर्भवासे निवसन्नपीशः स भास्वराङ्गो निहतान्धकारः । तत्याज बोधत्रितयं न तेज- स्त्यजेत करण्डेऽपि मणिमहार्घः ॥ १२ ॥ मासाने पुरे पञ्चदशानुसन्ध्यं बन्धुर्महेशस्य वसून्यवर्पत् । सौधा यदंशुच्छुरिता विरेजुः शैला यथा कर्बुरिताभ्रलिप्ताः॥ १३ ॥ स्वनामसाथींकरणाय भक्ति- च्छलेन गत्वातिबलेन राज्ञा । . विधित्सितं पुंसवनादिकर्म पुरैव शक्रः स्वयमस्य चक्रे ॥ १४ ॥ मुग्धामरीगानसुधानिपान- मुदश्छलान्मीलितचक्षुरेपा । विचिन्वती क्षेमवतोऽपि सूनोः क्षेमित्वमायात् समयं प्रसूतेः॥ १५ ॥ अवाप्य चैत्रासितपक्षपूर्णा- मथो तिथिं सश्रवणामसूत । असावहम्पूर्विकयेव सूनुं भानुं यदेवेन्द्रदिशा तदैव ॥ १६ ॥ १. 'तू' ख, पाठः. २., ३. 'थै क. पाठः.

२७. चतुर्थः मर्गः। बभुः स्त्रियस्तं निहतान्धकार नवोदितं विश्वजनैकमित्रम् । विलोकयन्त्यः सरसीव सौधे फुल्लाक्षिपद्मा इव पुष्करिण्यः ॥ १७ ॥ गृहान्तराले शशिकान्तमित्ति- विपैव निर्वान्ततमःप्रपत्र । सुराङ्गना कापि तदा प्रदीपा- नबोधयत् केवलमङ्गलार्थम् ॥ १८ ॥ . हतान्धकारेऽपि शिशुप्रभावाद् गृहोदरे तद्दधुतिपूर्णमेतत् अजानती काचन रत्नदीपा- नतिष्ठिपद् भक्तिभरेण मुग्धा ॥ १९ ॥ अरिष्टहर्म्यस्य सवज्रवेदे- बोलाङ्गनीलद्युतिपूरितस्य । मध्ये विरेजुर्नवदीपमाला माला मणीनामिव वारिराशेः ।।२०।। कुमारजन्मादिमवार्तकने कृताङ्गभूपो हपितः क्षितीन्द्रः। विधूतपत्रोद्गतकोरकस्य विधामधान्नीपतरोर्मुहर्तम् ॥ २१ ॥ गन्धाम्युसिक्ता विरजाः पुरश्रीः श्रीखण्डपढेन विलिप्तदेहा । १. 'द' क. पाठः.

२८ काव्यरने दुकूलमुक्तावलिमाल्यरम्या भृशं वभृवात्मपतेः प्रियाय ॥ २२ ॥ प्रत्यङ्गण कल्पितपञ्चरत्न- रङ्गालयश्चक्रुरनेकभङ्गाः। जिनेन्द्रजन्मावसरप्रणश्य- त्पयाधरस्रस्तधनुर्विशङ्काम् ॥ २३ ॥ उत्क्षिप्तचित्रध्वजपतयोऽपि समीरमार्गे जिनजन्महष्टाः। चञ्चत्पताकाग्रमिवाभ्यनृत्यन् परस्परं गाडमिवालिलिङ्गुः ॥ २४ ॥ मृदङ्गमन्द्रध्वनिमांसलेन गीतेन नृत्यद्गणिका निकायः । उहेलमुज्जृम्भितरागवा- स्तरङ्गमालाकृतिमाललम्बे ॥ २५ ॥ भन्याश्चिरं दुरसहगन्धवन्ध- मुक्त्यर्थिनोऽस्मिन्नुदिते विमुक्तिम् । यास्यन्ति यत्तेन ययुस्तदैव क्षितीन्द्रबन्यो यदिदं हि चित्रम् ॥ २६ ॥ श्रीखण्डपण्डेन जिनस्य गात्रे सौरभ्यमिभ्यं प्रहितोऽत्रगन्तुम् । प्रभृतभीतेरिव कम्पमान- थ(का:चा)र चार्मलयाद्रिवातः ॥ २७ ॥ १. 'मि', २. 'लं न य स. पाठः. .

चतुर्थः सर्गः । प्रकाशते भानुसहनतुल्यं तथाप्यहो नत्रमुखैकहेतुः। कुमारकोऽसाविति लजितः किं बभूव मन्दोष्णरुचिर्विवस्वान् ॥ २८ ॥ शुचित्ववृद्धरमपत्नहतो- जिनस्य भक्त्या शुचयः कुरध्वम । प्रदक्षिणं यूयमितीव वक्तुं प्रदक्षिणत्वेन शुचिर्दिदर ।। २९ ॥ रजांसि धर्मामृतवर्षणेन जिनाम्बुवाहः शमयिष्यतीति । न्यवेदयन्नम्वुधरा नितान्तं रजोहरैगन्धजलाभिवः ॥ ३० ॥ जिनस्य कालारिरिति प्रसिद्धि विबुध्य भीता इन सबनाय । बनाय सर्वे सहसावतेग- वसन्तमुग्न्याः मममेव कालाः ॥.३१ ॥ अहो विभुत सवितारमेपा तमीश्वर इंष्टि च पश्यतेति । हिरेफत्ति जिनजन्मदम्भा- दम्भोजिनीमुत्पलिनी जहास ।। ३२ ॥ अप्यद्ययावन्मधुपाननिष्ठाः सम्प्रत्यपाप' इति गानमङ्गया। १. 'श्य' ग. पाठः, २. 'प्ति जि' क, पाठ , काव्यरले भृङ्गा वदन्तो विविशुः प्रतीत्यै पद्माग्निकुण्डेषु परीत्य विद्मः ॥ ३३ ॥ मुक्ता रजोभिर्बहुकण्टकैश्च जिनप्रभावेन समुज्ज्वलात्मा । वसुन्धरापि प्रमदेन जाता सस्यच्छलाङ्कुरितरोमराजिः ॥ ३४ ॥ स्वभावशुद्धा अपि सर्वजीवा- श्चिरं रजोभिः परिभूयमानाः । न केवलं निर्गलितपु तेषु दधुः प्रसाद ककुभोऽपि सद्यः ॥ ३५ ॥ गृहेपु शङ्खा भवनामराणां वनामराणां पटहाः पदेषु । ज्योतिस्सुराणां सदनेषु सिंहाः कल्पेषु घण्टाः स्वयमेव नेदुः ॥ ३६ ।। पुष्पाः पतन्तो नभसः सुधांशो- रेणस्य सिंहध्वनिजातभीतः । पदमहारैः पततामुङ्कना शङ्कां तदा विद्रवतो वितेनुः ॥ ३७॥ अभ्रात् पतन्तो मणयस्तदानी- मुच्चण्डघण्टाध्वनिताडनेन । भिन्नेन्द्रकोशालयतो जनानां मतिं वितेनुर्गलतां मणीनाम् ॥ ३८ ॥ १. 'म्मे क. पाठ..

१ चतुर्थः सर्गः। जाते जिने मा जनि भूजनानां •विपत्कणोऽपीति बिभुत्वशक्त्या । बन्दीकृतानीव भुवि ग्रहाणां बलानि रेजुर्मणयो विकीर्णाः ॥ ३९ ॥ देवोत्तमाङ्गान्यखिलोत्तमाना- • मानम्यपादस्य विभोः प्रणामैः। सार्थ स्वनामेव विधातुकामा- न्यानमुरत्यद्भुतमात्मनैव ॥ ४०॥ जिनामृतांशोरुदितात् त्रिलोक्या- मुत्कूलितस्य प्रमदाम्बुराशेः । प्रत्युञ्चलद्वीचिवशेन सत्यं भद्रासनानि धुसदां विचेलुः ॥४१॥ विज्ञाय तेनाधिपजन्म पीठा- दुत्थाय सप्तेस पदानि नत्वा । प्रादापयन्मेघहयोऽतिमेघां प्रस्थानभेरीमभिपेक्तुकामः ॥ १२ ॥ शहादयोऽईज्जननं प्रणाद- रेकैकलोकं स्वमबुघंस्ते । तत् सर्वलोकानभिपेकयात्रा सा बोधयामीति मदादिवाप ॥ ४३ ॥ ज्योतिप्कवन्योरगकल्पनाशा भेरीप्रणादादवगम्य यानाम् । १. 'ग्य क. पाठः,

- काव्यरत्ने
.
जिनाङ्गन्दीप्त्या पिहितस्वकान्ति-
'विकस्वरस्फारसहस्रनेत्र।
सुराधिनाथः शुशुभेऽञ्जनाद्रि-
येथैव फुल्लस्थलपुण्डरीकः ॥ ८ ॥
करारविन्दयभृङ्गराशि
जिन पदान्जद्वितये प्रणम्य ।
चकार देवाधिपतिदितीय-
मनर्थ्यचूडामणिमुत्तमाङ्गे ॥ ९॥
अथैप संसारमहाम्युराशि
समुत्तितीपुर्जिनपोतमेनम् ।
दधत् कराभ्यां दृढमुत्सबेन
स्वसिन्धुरस्कन्धतटं निनाय ॥ १० ॥
द्वात्रिंशदास्यानि मुखेऽष्ट दन्ता
दन्तेऽब्धिरब्धौ विसिनी विसिन्याम् ।
द्वात्रिंशदजानि दलानि चाब्जे
द्वात्रिंशदिन्द्रहिरदस्य रेजुः ॥ ११ ॥
अस्पृष्ट नीरेजदलं नटन्त्यो
नट्यः सुराणामभितो नृसिंहम् ।
रहो वितेनुर्निजवल्लभाशा-
प्रकाशमानाजनिवेशनानाम् ॥ १२ ॥
ईशाननाथः स्वयमातपत्रं
दधौ तदूर्योभयकल्पनाधौ।
प्रकीर्णके प्राक्षिपता परेऽपि
यधाम्बमासन् करणीयमानः ॥ १३ ॥

पन्चमः सर्गः।
संसारगापतिताखिलैक--
हस्तावलम्वं जिनराजमिन्द्रः ।
हृदा च दोयामंवलम्बमानः
पथा सुराणामथ संप्रतस्थे ।॥ १४ ॥'
आकारमात्रेण तुपारशैल!
का कूटराशेस्तव तुल्यतेति ।
आकर्णयिष्यन्निव विप्रलापा-
नाकाशमार्गेऽकमताभ्रनागः ॥ १५ ॥
आरुह्य नानाविधवाहनानि
जिनाग्रवामेतरपृष्ठदिक्षु ।
कमेण वन्योरगकल्पवासि-
ज्योतिष्कनाथा व्यचलन् ससैन्याः ॥ १६ ॥
नभोन्तरे नाथतनुप्रभाभिः
प्रपूरिते प्रोज्चलरनकूटाः।
बभुर्विमानाः कुलिशास्त्रभीतेः
समुद्रमना इव सानुमन्तः ॥ १७ ॥
जिनाङ्गदीप्त्या दधुरभ्रवीथ्यां
तरङ्गितायां सितचामराणि ।
सुरावधृतानि कलिन्दकन्या-
तरङ्गदोलारतहंसलीलाम् ॥ १८ ॥
चला न्यलीयन्त जिनाङ्गरोचि-
वीच प्रपशेऽगरुधूमलेखाः ।
हरेर्विभीताः फणिराजपल्य-
स्तरङ्गकुञ्जेविय यामुनेषु ॥ १९ ॥

३२ काव्यरत्ने विभूषिताङ्गाः सपरिच्छदाः खे विलोकयन्तः शतमन्युमस्थुः ॥ ४४ ॥ सामानिर्दिकपतिभिः पदाति- गन्धर्वहरत्यश्वरथाद्यनीकैः शरीररक्षैश्च समन्वितोऽयं शच्या सहास्थाय गजं प्रतस्थे ॥ ४५ ॥ साथैः सुरेन्द्ररतरिभिर्विमानैः सांयात्रिकोऽयं जलधिं विहायः । सन्तीर्य चिन्तामणिमीशितारं सञ्चेतुमेयाय खनि कुशाग्रम् ॥ ४६ ॥ इन्द्रोऽ५ रुद्रविभवं गणिकानिकाय- सङ्गीतकेलिरुचिरं रचिताप्टशोभम् । भक्त्या परीत्य पुरवन्नृपवासमीश- मानेतुमन्तरचिरेण ससर्ज कान्ताम् ॥ ४७ ॥ इत्यहदासकृतौ काव्यरत्ने भगवजन्मोत्सवरर्णनो नाम चतुर्थः सर्गः ॥ अथ पञ्चमः मर्गः। अदृश्यरूपाथ गृहे प्रविश्य ददर्श बालामृतभानुमारात् । शची जनन्याः स्थितमम्बरान्ते सुधारसस्यन्दिनमीक्षणानाम् ॥ १॥ . वहन्त्यसौ भक्तिरसप्रवाहे दिदृक्षमाणेव दृढावलम्बम् ।

सर्गः समर्प्य मायाशिशुमम्बिकायाः पुरो जहारोन्नतवंशमेनम् ॥ २ ॥ पाण्योर्जिनं न्यस्य निरित्य हाद ब्रजन्त्यसौ वल्लभमाभिमुख्यात् । द्विरेफमध्याम्बुरुहेब रेजे सरोजिनी भानुमभिस्फुरन्ती ॥ ३ ॥ जिनास्यचन्द्रेक्षणमात्रतोऽभू- चतुर्निकायामररागसिन्धुः। विशृङ्लो यत्र मुखस्मितानि वितेनिरे फेनविभङ्गलीलाम् ॥ ४ ॥ दिवौकसां बालसुधामरीचि- जयस्वनापूरितदिक्तटानाम् । हृदक्षिहस्तान् कुमुदेन्दुकान्त- कुशेशयार्थान् कुरुते स्म सद्यः ॥ ५ ॥ जिनाङ्गलावण्यरसप्रपूर्णे निश्शेपमस्मिञ् जगदन्तराले । विभासुरं तनगरं सुराणा- मजीजनत् पाशिपुराभिशङ्काम् ॥ ६ ॥ जिगाय शच्या शतमन्युहस्त- द्वये कृतस्तन्नयनाचिताङ्गः। जिनार्भको भृङ्गकुलाभिरामं दोमोत्पलानां मणिभाजनस्थम् ॥ ७॥ १. "धा' क. पाटः.

.
काव्यरत्ने
नभस्थलेनागरुधूमलेखाः
स्फुरत्स्फुलिङ्गाः शशिशङ्कयामी ।
सितातपत्रग्रसनाय धाव-
हिधुन्तुदा वान्तविपस्फुलिङ्गाः ॥२०॥
अङ्गारविक्षिप्तदशाङ्गधूपः
सङ्क्रान्तसन्ताप इव क्षणेन ।
आश्लिप्यदुत्थाय पटीरहार-
कर्पूरकल्हारपयोरुहाणि ॥ २१ ॥
गयेन पद्येन च दण्डकेन
शशंस गीतेन च गाथया च ।
मरुद्गणोऽयं न परं परोऽपि
गुहामुखोद्यत्प्रतिशब्ददम्भात् ॥ २२ ॥
वियत्तलं वीतघनाघनौघ-
मपि प्रपूर्ण जिनदेहभासा ।
विभिन्न नीलाञ्जनसन्निभेन
पुनर्घनापूर्णमिवावभासे ॥ २३ ॥
जिनाम्बुदोऽसाविभवानवृष्टि-
नेटीतटिद्' वाद्यनिनादगर्जः ।
विमानमालारुचिकार्मुको दि-
व्याकालिकी प्रावृपमाततान ॥ २४ ॥
अनाण्यदनाणि सुरेभदन्त-
प्रोतानि रेजुः परितो जिनेन्द्रम् ।
उत्क्षिप्यमाणानि मुदामुनेव
चन्द्राश्मदण्डातपवारणानि ॥ २५ ॥

पञ्चमः सर्गः। G सेनापदामर्दितपाण्डुमेघान् मुक्तागुरूनभ्रतले बिडालाः। हठेन ध्यन्नधिया वजन्तः स्कन्धाधिरूढाननयन्त मन्युम् ॥ २६ ॥ प्रयाणवेगानिलनीयमानाः पयोधराः श्यामतनूनिमेन्द्रान् । सगर्जितानूर्जितदानवान् स्ववन्धुबुद्ध्या ध्रुवमन्त्ररुन्धन् ॥ २७ ॥ सदाभियुक्तापि तदामरौधैः सहोत्पला भानुसुता प्रतीये। जिनाङ्गरोचिर्निचयेन दिग्धा विबुद्धहेमाम्बुरुहा द्युसिन्धुः ॥ २८॥ विशालमाकाशतलं चकाशे विभुप्रभाश्यामलतारकौघम् । विपाकनीलविपुलैः फलौघै- विलम्बमानामभिभूय जम्बूम् ।। स्वशून्यवादे परमागमेन सद्यो निरस्ते विशदान्तरस्य । व्योम्नो विरेजुः पुलकोपमानि जिनप्रभाश्यामलतारकाणि ॥३०॥ मुग्धप्सिरा कापि चकार सर्वा- नुत्फुल्लवक्रान् किल धृपचूर्णम् ।।

काव्यरले रथाग्रवासिन्य रुणे क्षिपन्ती हसन्तिकाङ्गारच यस्य बुद्धया ॥ ३१ ॥ मन्दाकिनीसालिसितारविन्द- धियान्यया मूर्ध्नि कृतो मृगाङ्कः । अमन्यतापूर्णसुधं तमन्या सनीलनीररुहदुग्धकुम्भम् ॥ ३२ ॥ अगच्छिदर्हद्युतिभानुजायां सुरद्विपद्युतसुरसिन्धुसख्याम् । मज्जत् प्रतीहारसुरासुराणा- मनीकमाद्रिं कथमप्यनष्ट ।। ३३ ॥ गिरीशमुद्यद्विपदन्तवृत्ति रवीन्दुतारामरसेव्यपादम् । दिगम्बरैरातमेनमारा- दपश्यदने प्रभुतुल्यमिन्द्रः ॥ ३४ ॥ सजातरूपोऽपि गिरिः प्रवृत्त- दिगम्बराकान्तिरुदग्रकूटः । अघान्तकं पापभियाभ्ययासीत् किमित्यमर्यभणितः क्षणाप्तः ॥ ३५ ॥ द्युमण्डलं मध्यगतस्य मेरो- मणिप्रभापञ्जरभासमानम् । विभोरमुष्योपरि हेमदण्डा बभार नीलातपवारणाभाम् ।। ३६ ॥ १. 'धृ' क. पाठ..

३९ पञ्चमः सर्गः। अगाह्यतः पाण्डुवनं समन्ता- दुपर्यटन्त्या सुरसेनयाद्रेः। सजीवचित्राङ्कितमन्दवायु- चलोत्तरीयश्रियमावहन्त्या ॥ ३७ ॥ अनीकिनीमन वने समस्तां सुरद्रुमच्छायसुखे यथार्हम् । निवेशयन् पाण्डुशिलामवाप पूर्वोत्तरस्यां दिशि तस्य जिष्णुः ॥ ३८ ॥ शतार्धमष्टौ शतमुज्ज्वलाया विशालतामुन्नतिमायति च । क्रमेण यस्याः खलु योजनानि बदन्ति सर्वज्ञजिनेन्द्रपादाः ।। ३९ ॥ आद्यहिकल्पेशपरार्धपीठ- मध्यस्थजैनासनरम्यमध्या। सतोरणा रत्नमयाञ्चला या समङ्गला शुक्तिममाकृतिथ ॥ ४० ॥ या चावभासेऽमरकल्पितेन महाभिषेकोत्सवमण्डपेन। ज्वलन्मणिन्तम्भमतमुक्ता- वितानचित्रध्वजभूपितेन ॥४१॥ अनेऽवलम्बरहिते सुचिरं मुमेक- मामृतप्रदक्षिण कृषिश्रमभाग्शान्त्यै ।

काव्यरले प्राप्तोऽष्टमीन्दुरिव पाण्डवनं शिलैषा प्रादात् सुरेन्द्रनयनोत्पलपण्डहर्पम् ॥ ४२ ॥ इत्यर्हद्दासकृती काव्यरत्ने भगवन्मन्दरानयनवर्णनो नाम पञ्चमः सर्गः॥ : अथ पष्टः सर्गः। अथामरेन्द्रेण गजेन्द्रतो जिनः संनीयमानः प्रति पाण्डुकं महत् । निराकृतोयो मधुनेव मन्मथो नितम्बमुचैः शुशुभे हराचलात् ॥१॥ नगेन्द्रफालस्थलबद्धपटिका- शिलोपरि स्थापित एष जिप्णुना । जिनार्भकः प्रोतपुरन्दरोपल- स्फुरन्मनीपामपुपद् दिवौकसाम् ॥२॥ तरङ्गितज्योतिपि तच्छिलातले सरोजरागद्विपरिविष्टरे । तरङ्गिताम्बो त्रिदिवौकसां सर- स्थलिय॑था कोकनदेऽशुभद् विभुः॥ ३ ॥ जिनेश्वरः पाण्डुशिलाप्रभान्तरे रराज माणिक्यमयासने स्थितः । हरिर्यथा विद्रुमरागरजिते फणीन्द्रभोगे कलशार्णवान्तरे ॥ ४ ॥ जिनेन्द्र पाण्ड्वोर्मणिपीठरश्मिभिः प्रवेणितः कान्तिरयो व्यराजत ।

५१
पष्ठः सर्गः।
यथा निमजहनिताकुङ्कुम-
वर्जलौषो यमुनात्रिमार्गयोः ॥ ५ ॥
बभौ नगेन्द्रः प्रमुपीठपापदुक-
प्रभावितानैः परितस्तिरोहितः ।
यथैव तापात्ययसान्ध्यशारदै-
पनापनौधैर्युगपत् समावृत्तः ॥ ६ ॥
अथेन्द्रवाचा मणिदण्डभृद् विमुं
दिक्षयोपनजतो मुहुर्मुहुः ।
धनी दिगीशान् सपरिच्छदान हठा-
निज निजेऽस्यापयदाशु धामनि ॥ ७ ॥
जिनाभिषेकाय मुराङ्गनाजनं
मुरमतानं सुरनायकानपि ।
अदोपकृत्यं जिनभक्तिभावितान
यथाईमग्राहयदेष कृत्यवित् ॥८॥
अनन्तरं दक्षिणवामभागयो-
जिंनस्य पूर्वाभिमुग्यस्य मुस्यिते ।
शचीपतीशानपती समम्भ्रमी
निजासने सम्मुग्यमध्यगहताम् ॥ ९ ॥
अनेकतीधोपहरयाम्युभि-
घंटोघृतैः स्नापयितुं जिनार्भकम् ।
पदारभेते रम मुदा मुरानक-
स्तदाप्मरोगातवानदिकटम् ॥१०॥

१२ काव्यरले तदा ऋभूणामुभयी घटा घटैः पयांसि नेतुं घटिता प्रयत्नतः । सुमेरुचूलादि सुधार्णवावधि प्रबद्धनीलो(त्प? पोलतीर्थपद्धतिः ॥ ११ ॥ बभुर्ब्रजन्तो मणिकुम्भधारिणः सुधाशिनः पाण्डुवनात् पयोवनम् । जिनेन्द्रभक्त्या जलनीतये स्वयं प्रवृत्तपत्राङ्गसुरद्रुमा इव ।। १२ ॥ भुवा च भीत्या भिदुरात्मकं सुराः स्वभावतो घ्यक्षमुखैर्विवर्जितम् । विशालमाद्यन्तविदूरमहुतं गभीरमापुस्त्वरया पयोनिधिम् ॥ १३ ॥ निपीड्य लक्ष्मीमपहृत्य चक्रिरे ठकाः स्वकं जीवनमानशेषकम् । अपीदमायान्त्यपहर्तुमित्यगा- दपांनिधिर्वेपथुमूर्मिभिर्न तु ॥ १४ ॥ मरुत्सु कुम्भान् युगपत् क्षिपत्स्वलं जलाय संक्षोभमिपेण सागरः । जिनोत्सवा)ऽहमभूवमित्यभू- न्मुदा समुन्मेपित एप केवलम् ॥ १५॥ विनिन्युरेकं मुखयोजनं घटै- दधद्भिरष्टादश योजनानि च । १. 'इतीद', २. 'टोदरयो' स. पाठः.

पष्ठः सर्गः। जलानि सर्वाण्यपि दुग्धवारिधेः स्वकेन मार्गेण धराधरं सुराः ॥ १६ ॥ जिनोऽयमक्षीणमहानसदिमाग भविष्यतीत्यस्य विवक्षया स्फुटम् । वितीर्णमप्यम्बुधिना पयोऽखिलं जिनाधिपायाक्षयतामयात् पुनः ॥ १७ ॥ अथामरेन्द्रौ सुरवृन्दढीकितान् मुजैरनेकैर्विकृतः पयोघटान् । विधृत्य जन्माभिपवं विधीच्या सुनिर्मलस्यापि जिनस्य चक्रतुः ॥ १८ ॥ मुवर्णगात्मतरूप्यकुम्मिभिः मुंजासहन्नग्मराधिपावुभौ । व्यगजतां पाकशालाटुपुप्पिभि. लतासहस्रग्वि कल्पशाचिनी ।। १९ ॥ शिशुम शैलम भूतिं परीक्षितुं भुयं सुरेन्द्रदितयेन पारिपः । निपीटयमानी युगपत् मुपागले. मभावभनां समधैर्यसम्पदा ॥ २० ॥ पात्पयःपूरशनानि पापुकार पभुम्मिलोकय गुगंजिनेशिनः । भोण भिलादगिता मिनिम्मरत- प्रभुननिर्गमरममयाहया ॥ २१ ॥ १. R. 2.

काव्यरले नगेन्द्रसम्पत्तिदिदृक्षया ध्रुवं पयःप्रवाहाः परितोऽपि सम्भ्रमात् । हटत्तटीशृङ्गशिलागुहासरो- वनेषु पर्याट्टरनेकधा चिरम् ॥ २२ ॥ वहत्पयःपूरशतोऽभितो बभौ सुमेरुराच्छिद्य पतत्रयोर्द्वयम् । पुनश्च केनापि चलिप्यतीत्ययं गिरिद्विषा राजतरज्जुबद्धवत् ।। २३ ।। विरेजुरुन्मन्ननिमग्नमूर्तयो मुहुर्मुहुज्योतिपलोकसंश्रिते । पयःप्रवाहे परितोऽपि तारका येथैव विस्पष्टविनष्टबुबुदाः ॥ २४ ॥ निशाकराहस्करभार्गवासितै- रलक्ष्यत क्षीरतरङ्गिणी क्षणम् । सिताजरक्ताम्बुजकैरवोत्पलै- विराजमानेव वियत्तरङ्गिणी ॥ २५ ॥ वहन्ति नानामणिमेदिनीप्रभा- प्रवद्धदुग्धाम्बुधुनीशतान्यभुः । सुरेन्द्रभीताचलपालिनेऽन्धये नगाधिपक्षिप्तविचित्रवस्त्रवत् ॥ २६ ॥ महीभृता तेन तदोपदीकृताः पयस्तटिन्यो भुवनैकपालकम् । १. 'रि' ग. पाठ २ 'म्न', ३ 'धी क. पाठ . ३ - सर्गः पठः सुगावलावण्यनिवासमर्णवं समेत्य वर्याः स्वमयं व्यधुः क्षणात् ॥ २७ ॥ अथामरास्तीर्थजलैः सुरेश्वर- द्वयेन सष्टे जिनगन्धवारिणि । पटीरकर्पूरनिपटराविले. ऽप्यहो ममन्जुर्हतपापकर्दमे ॥ २८ ॥ बभौतरां पाण्डुकसंज्ञिता शिला समीपकीर्णः स्नपनोदविन्दुभिः । यथा शरच्चन्द्रकलोडुभिः श्रितै- यथाच शुक्तिनवमौक्तिकैश्च्युतैः ॥ २९ ॥ प्रमार्य निर्मज्जनशीकरांस्तनी दुकूलचेलाञ्चलपल्लवेन तम् । शची विमुग्धा जगदेकवृद्धम- प्यलंचकाराखिलबालभूषणैः ॥ ३०॥ निसर्गरन्ध्रश्रुतिसंश्रयाभ्यां रराज रक्तोत्पल कुण्डलाभ्याम् । जिनाधिपः पल्लवितद्विपाश्चों यथा रमालः शिशिरात्ययस्य ॥ ३१ ॥ हारस्य मुक्ता गलशामुक्ता इव प्रभोरङ्गमरीचिवश्याः । उरःकपाटीयमुनाहदान्त- वितेनिरे युदयुदपहिलीलाम् ॥ ३२ ।। १. 'मान', २. 'प' म. पठ:.

- काव्यरले महीधरे तत्र निषेदिवांसं तमालनीलाकृतिमुद्वहन्तम् । पयोदबुद्धया श्रितमिन्द्रचाप- म(सि ?स)स्मरद् रत्नमयः कलापः ॥ ३३ ॥ बालामृतांशोधूंवमस्य पाद- मेकान्ततः पङ्कजरुक्प्रशान्तेः । निबन्धनं बन्धुहिताय भानु- - भैजे ज्वलन्नूपुरवेषधारी ॥ ३४ ॥ कलङ्कमुक्त्यै सकुटुम्बमिन्दु- नखच्छलेनाभजदस्य पादौ । सदाश्रयं सोऽपि न मोचयेति- च्छलेन नीलोपलकिङ्किणीनाम् ॥ ३५ ॥ मुहुविलिप्तोऽपि जिनेन्द्रगात्रे शचीशरत्नोज्ज्वलभासि शच्या । सिताभ्रविभ्राजिपटीरपङ्कः स्फुटोऽभवत् केवलसौरभेण ॥ ३६ ।। अथाखिलेन्द्रैः सहितोऽमरेन्द्रः समर्चनाभिः स्तवनैश्च नाट्यैः। समाप्य जन्माभिपवं समग्रं कुशाग्रमेनं पुनरानिनाय ॥ ३७ ॥ ऋभुक्षिचक्षुर्युतिसिच्यमानो । जिनो बभौ देवगजे निपण्णः । १. 'मुनीन्द्र' क. पाठः, पष्ठ सर्ग.। तदापि पाण्डूपरि रत्नकुम्भ- शतक्षरत्क्षीरनिपिच्यमानः ॥ ३८ ॥ पुरं नृपागारमपि प्रवेश्य पुरैव यक्षेन्द्रकृते सुरेन्द्रः। निवेशयामास स हेमपीठे सभागृहे रत्नमये जिनेन्द्रम् ॥ ३९ ॥ ततः सुतास्येन्दुविलोकमात्र- प्रवृद्धहर्षामृतसिन्धुमग्नौ । विलोक्य मातापितरौ स्मितास्यो निवेदयामास समस्तमिन्द्रः ॥ ४० ॥ माता स्वयं च परिरम्भमिपेण देवं रोमाश्चनीपकलिकानिकरैः कृतार्थ्यो । प्रीत्याभ्यपिञ्चदमितप्रमदाश्रुनीरैः स्वच्छैरतुच्छकुचकुम्भपयोद्वितीयः ॥ ४१ ॥ मणिकाश्चनदिव्यवस्खदान. पटुभेरीपटहोत्थितारवैश्च । युगपत् परिपूरिताखिलाशं विदधे स्वःपतिरस्य जातकर्म ॥ ४२ ॥ करिष्यते मुनिमखिलं च सुव्रतं भविष्यति स्वयमपि सुव्रतो मुनिः। विवेचनादिति विभुरभ्यघाय्यसौ बिडोजसा किल मुनिसुव्रताक्षरैः॥ १३॥ : १. 'वि' ख. पाठ.

काव्यरने देवर्मिजनमण्डनादिकरणे प्रौढाः प्रहृष्टाशया देवांश्चापि विनोदकर्मणि समानाकृत्यवस्थां गतान् । देवस्यास्य नियुज्य निर्जरपतिः प्रत्युद्ययौ स्वं जगत् प्रीत्यानुव्रजतो विसृज्य विबुधान् फालाग्रबद्धाञ्जलीन् । इत्यहंदासकृतौ काव्यरले भगवज्जन्माभिषेकवर्णनो नाम षष्ठः सर्गः ॥ अथ सप्तमः सर्गः। न निर्जरैर्वर्जितसेवनोऽयं न कान्तिसम्भावितशुक्लपक्षः। नच प्रदोषावसरं प्रपन्नः क विद्म वालेन्दुरियाय वृद्धिम् ॥ १ ॥ कराङ्गुलिं लिप्तसुधां स लीवा बबन्ध मातुः स्तनयोर्न बुद्धिम् । सुरेन्द्रवन्धः सुरदेहतायां चिरानुभूतामृततृष्णयेव ॥ २॥ जिनार्भकस्येन्द्रियतृप्तिहेतुः करे बभूवामृतमित्यचित्रम् । चित्रं पुनः स्वार्थसुखैकहेतु- • स्तच्चामृतं तस्य करे यदासीत् ॥ ३ ॥ उल्लोकितैरुत्पललोचनायाः ससम्भ्रमोत्क्षेपणकौतुकेषु। १. 'या' क. पाठः

+
सहमः सर्गः।
रराज राजाभवोऽन्तरिक्षे
तटिल्लताश्लिष्ट इवाम्बुवाहः ॥ ४ ॥
नराधिपेनोरसि नीयमानो
वभार हारान्तरनायकत्वम् ।
भेजे चलत्कुण्डलतां भुजाने
चूडामणित्वं शिरसि प्रपन्नः ॥ ५॥
करात् करं बन्धुजनस्य गच्छन्
रराज विभाजितहेमसूत्रः ।
स लेखवन्द्यः कृतहेमलेखो
वणिग्जनस्येव निकापपट्टः ।।६।।
स जानुचारी मणिमेदिनीपु
स्वपाणिभिः स्वप्रतिविम्बितानि ।
पुरः प्रधावत्सुरसूनुवुडया
प्रताडयन् नाटयति स्म वाल्यम् ॥ ७ ॥
शनैः * समुत्थाय गृहाङ्गणेषु
सुराङ्गनादत्तकरः कुमारः।
पदानि कुर्वन् किल पञ्चपाणि
पपात तहीक्षणदीनचतुः ।।८॥
स पांसुकेलौ सुरतर्णकानां
करावकीर्णनवालचूर्णैः।
कृतोपवीतो व्यरुचत् कुमारः
सदिव्यधन्येव नवाम्बुवाहः ॥ ९ ॥

काव्यरत्ने अशेषविज्ञोऽनिमिषैः परीक्षा- प्रदित्सयेवैप विधीयमानान् । नियुद्धमुख्याखिलबालकेलीन् निरूपयामास नरेन्द्रसूनुः ॥१०॥ गतोनपादायुतवत्सरस्य श्रितं ततो यौवनमस्य गात्रम् । मधुर्यथा नन्दनपारिजातं शरद् यथा सान्ध्यसुधामयूखम् ॥ ११ ॥ अधर्मता निर्मलता च नित्यं पयः सुधा वानिकरो हितत्वम् । समाकृतिः संहननं च पूर्व सुगन्धिता निन्दितकैणनाभिः ॥ १२ ॥ परश्शतैरम्बुजकम्बुमत्स्य-. श्रीवत्समुख्यैर्वरलक्षणैश्च । सयञ्जनैश्चोनसहस्रकोण- मसूरिकाद्यैरुपलक्षितत्वम् ॥ १३ ॥ विलोचनासेचनकं स्वरूपं वचांसि पीयूपरसालघट्टाः । जगत्त्रयीमप्यतथाविधातुं पटीयसी काचन दिव्यशक्तिः ॥ १४ ।। युतः स्वभावातिशयैरमीभिः कृतोन्नतिविंशतिचापदण्डैः १. 'के' क. पाठः सम्मः सर्गः। 40०१ ५१ विषाग्निशस्त्रादिविघातदूर- त्रिदोपवैषम्यभवामयारिः ॥ १५ ॥ त्रिंशत्सहस्रीमितवत्सरायुः स्फुटातसीसूनसमानवर्णः। तदायमुत्सृष्टधनु शरस्य स्मरस्य शङ्का जनयाम्बभूव ॥ १६ ॥ पित्रापि निर्वर्तितदारकर्मा ततः स यूनामधिपोऽपि वृद्धाम् । अग्राह्यत स्वामधिराजलक्ष्मी पुरैव राजा जगता त्रयाणाम् ॥ १७ ॥ पुण्यैकलभ्योऽधिकसौख्यहेतु- विचित्रवर्णो विशदान्तरङ्गः । नृपासनस्थोऽनमयत् त्रिलोकी सदीपवर्तीन् निधिवत् पदाने ॥ १८ ॥ भास्थानलक्ष्म्याः सगुणोरुकान्ति- नृपावलीमौक्तिकहारमध्ये । स्थितो दधौ नायकरत्नशोभा- मसौ महानीलरुचि पेन्द्रः ॥ १९ ॥ स चन्द्रपाषाणसभापयोधौ सचामरोल्लोलतरङ्गमाले। शेपोपमस्फाटिकविष्टरस्थः श्रिया सनायो हरिवन्चकाशे ॥ २० ॥ १. 'ति' क. पाठ anng

काव्यरने
चकम्पिरे हेममयाः किरीटा
मुहुः सभासौधसदां नृपाणाम् ।
जिनोक्तिपीयूषजुषां यथामी
मरुदशाज्जाह्नवपद्मकोशाः ॥ २१ ॥
जिनाम्बुदः पीठनगाधिरूढो
दिवौकसामेष धिनोतु वृन्दम् ।
प्रवर्षणैर्वागमृतस्य चित्रं
प्रमोदयामास च राजहंसान् ॥ २२ ॥
स्वस्थैरदुस्थोऽतनुसौख्यकृष्ट-
र्जुष्टामृतैरष्टगुणाभिरामैः ।
वृतोऽजरैः सिद्ध इवैष रेजे
विलोकयल्लोकगति समस्ताम् ॥ २३ ॥
नरोरगस्वर्गिमनोरमाभि-
रुपास्यमानः स बभौ सभायाम् ।
जयार्थमुन्मुद्रितशस्त्रकोशो
जगद्ययाणामिव पुष्पकेतुः ॥ २४ ॥
उपायनीकृत्य गजाश्वरत्ना-
न्युपागतानामधिपं नृपाणाम् ।
न केवलं मार्गरुधो नगेन्द्रा
निपेतुरेपां दुरिताद्रयश्च ॥ २५ ॥
भक्तुं जिनेन्द्रं व्रजतां नृपाणां
चमूपदोघृतपरागपाल्या ।
विहाय चेतांसि पलायमान-
कपोतलेश्याकृतिरन्वकारि ॥ २६ ॥

सप्तमः सर्गः । ५३ चित्रं कृपालोर्जिनपस्य राज्य यत् प्राप्तबन्धानपि पापदस्यून् । बाधां दुरन्तां ददतो नितान्तं विमोचयामास जगज्जनानाम् ॥ २७ ॥ जिनेऽवनि रक्षति सागरान्तां नयप्रतापवयदीर्घनेत्रे। कस्यापि नासीदपमृत्युरीति- पीडा च नाल्पापि बभूव लोके ॥ २८ ॥ अधर्मता खगिनि तस्य राज्ये पयोधरे सत्पथरोध आसीत् । वधूकटाक्षे श्रवणातिपातो गजे कदाचिद् यदि दानलोपः ॥ २९ ।। रतिक्रियायां विपरीतवृत्ती रतावसाने किल पारवश्यम् । यभूव मल्लेप गदाभिघातो भयाकुलत्वं रविचन्द्रयोश्च ।। ३० ॥ इति निरुपममक्त्या सानुरक्तव्यावनम्र- त्रिभुवनपरिचूडाचित्ररत्नांशुवा । विलिखितपदपीठे राजपीठे स तस्थौ दश दश शतसङ्ख्यान वत्सरान् पञ्च चैव ।। ३१ । इत्यहंदासकृतौ कान्यरले भगवत्कौमारयौवनदारकर्मसाम्राज्यवर्णनो नाम ससमः सर्गः॥

५५ अधाष्टमः सर्गः। अत्रान्तरे श्रुतधरः श्रुतधर्मतत्त्वै- भव्योत्तमैर्दमवराख्यमुमुक्षुमुख्यः । आलोक्य यागकैरिपुङ्गवहस्तहर्ष- मापृष्ट इत्यचकथद् गजराजवृत्तम् ॥ १ ॥ राजाभवन्नरपतिः पुरि पूर्वताले दानं ददौ निकृतनिर्मलजैनधर्मः । स्वैरं कुपात्रनिवहाय ततोऽजनिष्ट सोऽयं गजः स्मृतवतैः कबलं निरुन्धे ॥ २ ॥ आकर्ण्य तहचनमाप्तभवस्मृतिः सन् सद्यः सहग्विकलसंयममग्रहीत् सः । ध्रुत्वा जगत्त्रयगुरुस्तदिदं सभास्थो निर्वेदमात्महृदये षिभराम्बभूव ॥ ३ ॥ हन्ताशुभाशरणदुःखचले भवेऽस्मिन् बीभत्सके वपुपि चेतननेययन्त्रे । प्रारम्भमृष्टपरिणामकटौ च भोगे लोलो बसाम्यलमलं स्वहिते यतिष्ये ॥४॥ तं निश्चितात्मकरणीयतया वसन्तं स्वान्तनितान्तमवधार्य विमुक्तिनार्या । सम्पर्कलालसधियेव चरा विसृष्टाः सम्प्राप्य साधु जगदुर्जगदन्तदेवाः॥५॥ १. 'गजपु', २. 'मस्तिह' ख. पाठः. ३. 'नः', ५. 'वि', ५. नि' क. पाठः. ६. 'न्तं निता' ख. पाठः.

अष्टमः सर्गः ५५ अस्मात् तृतीयजनने जननान्धकूपा- दभ्युद्धरेयमखिलं जगदित्युदीर्णा । चित्तस्थले तब कुपाच्छलकल्पवल्ली या साद्य देव ! फलिता जगदेकबन्धोः ।।६।। सांयात्रिकस्त्वमसि बोधनकर्णधारो यस्मात् तपःप्रवहणो गुणरत्नवाही । तस्माद् विनेयवरसार्थयुतो विमुक्ति- हीपं गमिष्यसि भवाम्बुनिधेरवश्यम् ॥ ७ ॥ स्वं लोकमित्थमभिवन्ध गतेषु तेषु देवोऽपवर्गपुरसाधननिर्गम तम् । बन्धून् निवेद्य जननीजनको परांश्च प्राज्यं नियोज्य तनये विजये स्वराज्यम् ॥ ८ ॥ तीर्थाम्बुनाथदिविजप्रभुणाभिषिक्तो दिव्याङ्गरागवसनाभरणैः प्रसिद्धः । अग्रेभवां ग्रहविवर्तमिव स्फुरन्ती- मध्यारोह शिविकामपराजिताख्याम् ॥ ९ ॥ भूमीभृतामभृत सप्त पदानि भूमौ विद्याधृतां वियति सप्त पदानि वृन्दम् । आरभ्य पाण्डुवनमप्यतुभिः प्रपन्नै- रानिन्यिरे तदनु नीलवनं निलिम्पाः ॥१०॥ रेजे नभास्थलविराजिविमानराजि- रश्मिप्रतानवितताप्रविभागमेतत् ।।

कायरले अत्तुं फलप्रकरमापततो विहङ्गा- नानायविस्तृतमिवोपरि निग्रहीतुम् ॥ ११ ॥ रेजे बहिर्घटितरत्नविमानमेत- 'दन्तश्वरामरगलन्मकरन्दधारम् । सेन्द्रायुधं सचपलं च सौरिधार- मभ्रच्युतं मिथ इवाहतमभ्रजालम् ॥ १२ ॥ यानादथायमवतीर्य वनस्य मध्ये श्रीदेन दिव्यपदमण्डपिकां प्रक्लप्ताम् । आविश्य देवपतिदत्तकरावलम्बः श्रीदृब्धमौक्तिकचतुष्कमलञ्चकार ॥ १३ ॥ षष्ठोपवासनियमी सुरदिड्मुखस्थः पल्यङ्कवान् परिहताम्बरमाल्यवेपः । त्यक्ताखिलोपधिरुपेतसहस्रभूभृ- दुच्चार्यमाणवरसिद्धनमस्कृतिश्च ॥ १४ ॥ उत्खाय पञ्चभिरुदश्चितमुष्टिबन्धैः कैश्य स पश्चभवमूलचय यथैव । वैशाखकृष्णदशमीदिवसेऽपराह्ने दीक्षामुपादित युतश्रवणे सिताशौ ॥ १५ ॥ लोकत्रयैकगुरुरेप पुरैव पूर्ण- चारित्रशीलगुणसंयमभारवाही । प्राप्ताखिलर्द्धिरुपजातचतुर्थबोधि- रत्यन्तगौरवपद पुनरास देर. ॥ १६ ॥ 'त पतना' क पाठ २ 'नीरधा' ख पाठ अष्टमः सर्गः। रेजेतरां दशशतैः श्रमणैरुपेतो नेत्ररिवामरपतिः किरणैरिवार्कः । परिवाग्बुजमरैरिव चक्ररत्नं शेपः फणैरिव निधानमिवैष यक्षैः ॥ १७ ॥ यस्माद् वभूब लवनं नियमेन तरिम- नेः पुष्पधन्व धुनतः पुरतो जिनेन । तस्मात् तदादि किल नीलवनाभिधानं तस्याभवत् त्रिभुवनप्रथितं वनस्य ॥ १८ ॥ पश्चाग्जिनालकमरं माणभाजनस्थं रक्तोत्पलस्थमिव भृङ्गकदम्वमिन्द्रः। चिक्षेप दुग्धजलधौ जयघोषघूर्णद्- बम्भाप्रणादबधिरीकृतसर्वलोकम् ॥ १९ ॥ यो यत्र यत्र जिनकुन्तलकवुरोऽभू- छैवालमञ्जरितवत् स हि तत्र तत्र । क्षीराम्बुधिस्त्रिदशलोकमनांसि कर्पन वातावधूर्णितधनावृतवद् बभासे ॥२०॥ तं पारणां वृपभसेन इति प्रतीतो राजाथ राजगृहनामनि राजधान्याम् । श्रद्धादिसप्तगुणवान् नवभेदभिन्नैः पुण्यैरकारयदुपस्थितपूर्वपुण्यः ॥ २१ ॥ आश्रर्यपञ्चकमभूदथ रत्मवृष्टि- राच्छादिताम्बरतला चलतान्तवृष्टिः। - ५८ काव्यरत्ने व्याप्तश्रुती विबुधदुन्दुभिनिस्वनाहो- दानस्वनौ सुरभिशीतलमन्दवायुः ॥ २२ ॥ मुनिपरिवृढो निर्वयैवं तनुस्थितिमुत्तमा मृदुमधुरया वाचाशास्यं विधाय यथोचितम् । मुनिसमुदयै रक्षिवातैश्च पौरनृणामनु- व्रजितचरमः पुण्यारण्यं गजेन्द्रगतिर्ययो ।॥ २३॥ इत्यहँदासकृतौ काव्यरत्ने भगवत्परिनिष्क्रमणवर्णनो नामाष्टमः सर्गः ॥ अथ नवमः सर्गः। आलोक्य देवमथ पाटितपञ्चवाणं प्रायेण नश्यति मधौ मधुरा(स्र ? स्त्र)बन्धौ । वेलामुपेत्य किल विरफुरितप्रतापः । सद्योऽग्रहीदरिपदं विपिनं निदाघः ॥१॥ वाताश्ववेगजरजःपिहिताभ्रभाग- मागत्य सर्वमपहाय मेघो तस्य । ग्रीष्मस्तुतोद पिकभृङ्गबलान्यधाक्षीत केलीवनानि रुजति स्म च पुण्डरीकम् ॥३॥ तहावि दुःखमिव बीक्षितुमक्षमत्वात् क्षिप्रं मघौ ब्रजति तीव्रनिदाघयोगात् । संतप्यमानमखिलं तरुवल्लिजातं तापज्वरीव ददृशे मधुविप्रयोगात् ॥ ३ ॥ १. 'स्त', २. 'पथो हत' ख. पाठः नवमः सर्गः ५९ ग्रीष्मे विदीर्णवनभूमिविशालदर्यो रेजुः कनकनकशेवधिदीप्रगर्भाः। मान्यामिरुनकरपादहतेः प्रवेष्टुं क्लप्साग्निकुण्डशतवद् वनदेवताभिः ॥ ४ ॥ मिथ्यात्वकर्मकृतयाशुभयेव दृष्ट्या जन्तुप्रजापरमतत्त्वधियाप्यतत्त्वम् । ग्रैण्या तृपा मृगगणा मृगतृप्णिकाम्भः सेदुनंदीरयधिया वत धावमानाः ॥ ५ ॥ तृष्णातुरः स्वयमपि धुमणिर्वभूव सन्तापवांश्च समयेऽत्र न चेत् करात्रैः । पकाविलान्यपि जलान्यपिवत् किमर्थ प्रालेयशैलतटमध्युपितश्च कस्मात् ॥ ६ ॥ शङ्कामयं जनितवान् जगतो बनान्तः किं पाटलाः कुसुमिता दवषावकाः किम् । किं वल्लिकाः स्तिमितभृङ्गगणाः किमेते शान्तोल्मका विशदभस्मचया इतीत्थम् ॥७॥ सन्तप्तरेणुनिकर कृपयेव बाता निन्युः सुशीतल जलां शुनदी निदाघे। एकान्ततप्तवसुधा स्थितिभीतभीता द्रागद्रवन्निव तदा मृगतृप्णिकोषाः ॥ ८॥ हा हन्त तृड्भरविदीर्णगला मृगाली पकाविलोष्णसलिलं वनपल्बलानाम् । १. 'म', २. १, ३. 'ततीभिः' ख. पाठ,

६०
फायरने
अल्पं कश्चिदपियत् कृपयावगम्य
केनाप्युपाहतमियोद्धकपायतोयम् ॥ ९ ॥
धात्री दरीमुखगतैविपिनस्थलीनां
व्यादीर्णवेणुगलितैर्मणिभिर्विरेजे ।
मा लोकभिन्न! शिसिनो मम पीडयेति
दीनं प्रकाशितरदेव दिनाधिपाय ॥ १० ॥
सन्तापिताः त्वरिपुराहुमहारुपेव
चण्डांशुना सदृशराहुकुलाः फणीन्द्राः ।
शगतान्यशरणा व्पलुठस्तदीये
पादाय एव कृतवक्रपुटप्रमोकाः॥११॥
इत्येप तीव्रतरभावनिपीड्यमान-
निश्शेषजीवनिवहोऽपि निदाघकालः।
निन्येऽत्र जीवनिवहः सुखमात्तयोगः
पुण्वे जगद्गुरुरवास्थित यत्र शैले ॥१२॥
गम्भीरगर्जितभराध कम्पमान-
चकाङ्गवालविरहिबजमन्दकालः ।
छिद्राविशत्फणि सन्त्यमयूरयूथ-
सुन्मीलदोष्टपुटचातकमुहभूव ॥ १३ ॥
माजीजनन् प्रसृतसर्वसमुद्रदेशाः
शक्रेण सिन्धुजलमग्ननगग्रहाय ।
क्षिप्तोरुजालधिपणां पुनरुत्पतन्तः
खं नीयमाननगशेमुपिकां नवादाः ॥ १५ ॥

नवमः सर्गः नो विज्ञ साभ्रमपराम्युनिधेरटन्ती विद्युत्वतां किमु ततिबडवानलार्ता । वार्दन्तिसन्ततिरुत धुनदीक्षणार्थ व्यारूढपाशिवनितामकरीततिर्वा ॥ १५ ॥ नीरन्ध्रमभ्रपटलं पिहिताखिला भेजेतरां विधृतदीर्घतराम्बुधारम् । देव्याः क्षितरुपरिलम्बितदाधमुक्ता- मालं विशालमिव धातृकृतं वितानम् ॥ १६ ॥ रेजुः प्रसृत्य जलधिं परितोऽप्यशेष मेघा मुहुर्मुहुरभिप्रसृताभ्रभागाः । आदानवर्षणमिषात् पयसां पयोधि व्योमापि मान्त इव संशयिनाशयेन ॥ १७ ॥ कान्तारभूमिपु विदीर्णदनिधान- देदीप्यमानमणिराशिमुपोपविष्टाः । अङ्गारपुञ्जमनसा किल सेवमानाः शाखामृगाः शुशुभिरे नववृष्टिशीर्णाः ॥ १८॥ नीलोपलो निलयैर्मणितोरणाप्रै- रन्तर्बहिः परिमुहुर्विचरद्वधूकैः । किारिता जलधराः सुरचापरम्या विधुधुता विविदिरे नगरेषु वः ॥ १९ ॥ उन्मार्गवर्सपि जगज्जनमान्यवृत्ति- रुल्लासभासुरकुजोऽप्युरुबाप्पसीतः। १. 'ता', २. 'धि' ख. पाठः, ६२ काव्यरने अम्भोमुचामशमयत् प्रचयो रजांसि प्रत्याहतामलदिगम्बरदर्शनोऽपि ॥२०॥ कि केतकी कुसुमिता किमयं तडित्वान् सम्बोधतो जलमुचां पतितः पृथिव्याम् । किं वा धृतेन्दुशकलस्तमसां समूहः किं शाकिनी शितरदा तरुणादनाय ॥ २१॥ गोत्रारिगोपकरका व्यरुचन् धरायां मेघागमेन दयितेन कृताङ्कपाल्याः । व्योमश्रियः स्तनतटत्रुटितोरुहार- स्रस्तावकीर्णनवविद्रुममौक्तिकाभाः॥ २२ ॥ आलप्य खल्वतितरां चतुरैरमुप्मि- नारूढधन्वनि सतामवमानहेतौ । काले हि राजविकले कलुषात्मनीति() कामं पिकोऽभवदुरीकृतमूकभावः ।। २३ । प्रत्युन्मिपन्नवकदम्बरजोभिरुच्चै- चक्रे दिगम्बरहदप्यनुरक्तमाशु । चित्तान्यरञ्जयत रागिजनस्य तस्ये- त्याश्चर्यमत्र किमु पश्चिमगन्धवाहः ।। २४ ॥ इत्यम्बुवाहसमयोऽपि विजृम्भमाणो वज्रानलं जनपदेषु ससर्ज नेपत् । चक्रेऽतिवृष्टिमितरां नच दुर्दिनानि तस्य द्रुमूलगतलोकपतेः प्रभावात् ॥ २५ ॥ १. साततो' क. पाठः, ३ कश्चिद् बभूव नवमः सर्गः। सुश्लिष्टकान्तमथ सीत्कृतगर्भकण्ठं निःस्वेददीर्घसुरतं स्वदमानवह्नि । कर्पूरखण्डविकलकमकोपभोग विषयः समयो जनानाम् ॥ २६ ॥ उच्चाटनाय शरदः सितसर्पपौधो निर्दग्धुमञ्जनिलयानिलयं तुपामिः । आलम्भचूर्णमसहायजनस्य कामं प्रालेयशीकरमिपेण कुतोऽप्यपतत् ॥ २७ ॥ रेजुः प्रभातसमयेपु लतावनद्राः भोणीसहस्तुहिनवारिकणैर्विकीर्णैः। भालिङ्गितस्तबकचारुकुचा रतान्त- प्रादुर्भवद्भिरिव धर्मलवैयुवानः ॥ २८ ॥ कालेन तीमहिमभाजि न वासरेन्द्रः सान्द्रांशुकोऽपि सहते स्म हिमाद्रिवासम् । दूरस्थमप्यथ ययौ मलयाचलेन्द्र गोशीर्षकोटरफणिश्वसितैः कवोप्णम् ॥ २९ ॥ . लौधेण सौरभसनद्वितदिङमुखेन रेणूत्करेण पिहितानि बनानि रेजुः । लोकातिदुःसहसहस्यमयादिवात्त- पत्राङ्गचारुतरभूरिनिवारकाणि ॥ ३० ॥ सन्तापिता रेतिपतेस्त्रिजगज्जयार्थ नाराचिकाः सुनिशिता इव निर्विचारम् । १. 'मुनिशितासि' स. पाटः ६४ .. काव्यरत्ने कातर्यमम्बुजशो दिदिशुर्जनानां काश्मीररेणुकलिताङ्गलता हिमत्तौ ॥ ३१ ॥ कान्तावियोगदहनेन नितान्तदग्धाः पान्थास्तुपारपतनेन विशीर्यदङ्गाः। ऊप्मायमाणवदनाः श्वसितैरशत चूर्णोपलाः समभवन् सलिलोपसिक्ताः ॥ ३२ ॥ सत्यं तुपारपटलैः शमिनो न रुद्धाः सिद्धः पुनः परिचयाय हिमर्नुलक्ष्म्या । छन्ना दुकूलवसनैर्नु पटीरपङ्क- हिंता नु मौक्तिकगुणैर्यदि भूषिता तु ॥ ३३ ॥ इत्थं सुदुःसहतुपारतुपावपातै- निर्दग्धनीरजकुले समयेऽपि तस्मिन् । म्लानानि नैव कमलानि महानुभावो यस्याः स्थितः स भगवान् सरितः प्रतीरे॥ ३४॥ कायक्लेशाभिधाने तपसि जिनपतिनिष्ठितो वर्षमेकं बाह्यान्तर्विग्रहद्वादशविधतपसां मध्यमेऽप्यग्रय इत्थम् । दीक्षाकल्याणमादौ समभवदभवद् यत्र तत्रैव भूयो नीलारण्ये शरण्ये भवचकितधियामात्तपुण्ये वरेण्ये॥३५॥ इत्यर्हद्दासकृतौ कान्यरत्ने भगवतपोवर्णनो नाम नवमः सर्गः ॥ १. 'द्वैः' क. पाठः.

अप दशमः सर्गः। श्रीमन्तमेनमखिलाचिंतमात्मधाम प्राप्तं स्वयं सपदि तहनभूजपण्डम् । शाखाकरेपु धृतपुष्पफलप्रतान- मासीदिवार्चयितुमुद्यतमादरेण ॥१॥ तस्यैव कीलकलनाः किमु पल्लवानि नस्य स्फुलिङ्गनिकरो ननु कुड्मलानि । तस्यैव धूमविततिर्न पुनईिरेका दत्त्वा बने यमनलं मदनो निमनः ॥२॥ अस्मिन्नमूनि न पलाशदलान्यधारे- मंडेलशान्तरससागरविद्रुमा नु। बान्ता मृगचिरविरोधलवा मिथो नु वन्यस्ततार्चनमणिप्रकरा नु रेजुः ॥ ३ ॥ अध्यास्य चम्पकतरोस्तलमाटो धाणि विनदवलम्बितशुभ्रलेश्यः। शुदात्मतत्त्वमिव जातविवर्नमीशो ध्यानं दधे दुरितधूननचुञ्चु शुक्रम् ॥ ४ ॥ स्त्याननयं जिनपतिः क्रममो रजांसि सानि पयोददा पुरा हतमतमोहः । मोहयाविशतिमपि क्षपयन् ददाह श्रीणेऽथ पोदशनिदीक्षणगेधविमान् ॥ ५॥ २. नाम.. X काव्यरले घातीन्यपि प्रबलशक्त्यतिगर्वितानि देवस्य योगकरवालदितान्यभूवन् । वात्मनः किमिति चिन्तनयेव दग्ध- रज्जूपमं सममघातिबलं बभूव ॥ ६॥ इत्यस्तपापरिपुराप सहैव लब्धि- वैशाखकृष्णदशमीश्रवणेऽपराह्ने । साक्षायिकीनवदशातिशयान् पर्दै च प्राप्तोदयं नभसि पश्चसहस्रदण्डैः ॥ ७॥ अत्रान्तरे सकललोकपतेरमुप्य शकाज्ञयाचरितवान् धनदः सभां ताम् । तस्याः प्रमाणमुदितं मुनिभिः पुराणे- रध्ययोजनयुगं बहुरत्नमय्याः ॥ ८ ॥ रेजेतरां दिविजराजपत्प्रतिष्ठा संसैन्मही विनयसङ्कुचिताखिलाङ्गा । व्योमस्थलीव भुवि यः समवाप्य सेव्यः सोऽयं वयं गुणनिधिः समगच्छतेति ॥९॥ प्रासादचैत्यपरिखालतिकाद्रुमक्ष्मा जाता ध्वजघुकुजहर्म्यगणक्षमाश । पीठानि चेति हरसङ्ख्यभुवस्तदन्त- रेकान्तकेलिसदनं जिनबोधलक्ष्म्याः॥ १०॥ प्रासादचैत्यनिकरः परिखा बतत्यो वृक्षा ध्वजः सुरकुजाः क्रमशोऽष्टभूयु। १. 'स' क. पाठः. २. 'दश्य प्रा', ३. 'प' ख. पाठः• ४. 'मा' क. पाठः.

दशमः सर्गः। आसन् गृहाणि च गणास्त्रिपु विष्टरेपु श्रीधर्मचक्रविविधध्यजमङ्गलानि ॥ ११ ॥ सालैश्चतुभिरपि पञ्चभिरप्युदार- वेदीमिरन्नतिरवापि चतुर्गुणैव । लोकोन्नतादपि जिनाधिपतेरभुष्मा- ज्जैनप्रदक्षिणकृतेः फलमीदृशं हि ॥ १२ ॥ आवेष्टय संसदद्वनीतलवारिवाह प्रारभ्यमाणसुकृतामृतपूरवर्षम् । सालेन सर्वमणिचूर्णमयेन तेने तेनापि तानसुरकार्मुकसम्पुटधीः ॥ १३ ॥ लोकेषु कूटरहितेषु महामहिम्नो देवस्य तस्य निकटेऽपि कृताधिवासाः । प्रासादचैत्यनिलयाः प्रथयांवभूयुः फूटान् दिगम्बरपधप्रतिरोधिनो धिक् ।। १४ ॥ मार्गेष्वपि त्रिषु चिरभ्रमणेन खिन्ना भिन्ना पुरैव भवलालनया युसिन्धुः । शाह जिनेन्द्रचरणं शरणं प्रवेष्टुं सम्पाप मम्प्रति गभां जलग्वातकात्मा ॥१५॥ पल्लोक्षिती मुमनसो रतिबलभस्य मालक्रियागतजगल्लयपातकानि । सेलप्य मृङ्गाणिनेन विशुद्धिहेतोः कि लोकनाथमभजन मुमनोनित्यम् ॥१९॥ .

१८ कान्यरले कङ्केलिसप्तद्लचम्पकचूतपण्डाः कामारिसन्निधिवशादिव शान्तकामाः । पुष्पाणि वामचरणाहतिचाटुवाद- छायाकटाक्षनिरपेक्षमधुर्वधूनाम् ॥ १७ ॥ अर्चा जिनस्य वनचैत्यमहीरहाणा- मच्छिन्नधारमकरन्दमुचां तलेपु । चर्निरत्ययतपात्यययोगनिष्ठा- निष्कम्पगात्रजिनयोगिवराभिशङ्काम् ॥ १८ ॥ ज्ञानोदये जिनपतेः स्थिरभावमाप्ते लोके स्वयं च तडितः स्थिरभावमाप्ताः । प्रायः प्रलम्बितधनास्तमुपासते स्म प्रेङ्ख़त्पताककनकध्वजदण्डदम्भात ॥१९॥ भव्यावलेर्दशविधामरभूजकृत्य घान्छां विनैव विधात्ययमेक एव । यत्ते तदेनमभितोऽप्यमजन् जिनेन्द्र रुद्रान् गुणैर्विगुणिनः समुपाश्रयन्ते ॥२०॥ आकीर्णकेतुचमरीकहतालकृन्त. कालाचिकादकलशातपवारणादिः । हावनी जिनजितद्रुतपुप्पकेतोः सेनानिवेश इव चेलकुटीचितोऽौत् ॥ २१ ॥ देवेन्द्र कुमुदोत्सवचन्द्रिकाया देदीप्यमानमणियकृतगन्धकुट्याः। १. 'त्यभिच्या वि', १. भूक, पाड. '',

.
देशमः सर्गः।
उच्चैर्ऋतोरिव विदिक्षु भृशं विरेजुः
कोष्ठाः प्रकीर्णकवदुज्ज्वलरूपभाजः ॥ २२ ॥
तेषु प्रदक्षिणमनुक्रमतो मुनीन्द्राः
कल्पाङ्गनाश्च नृवधूसहितायिकाश्च ।
ज्योतिप्कभौमभवनामरिकाश्च भोगि
भौमोडकल्पसुरमर्त्यमृगाश्च तस्थुः ॥ २३ ॥
वीथीपु नाथचतुरानननिर्यदुक्ति-
पीयूपनद्युभयचारुतटानुकाराः ।
अष्टायतस्फटिकभित्तय आवितेनु-
वृद्धेशभूतिविनिवेशितयष्टिशङ्काम् ॥ २४ ॥
यच्छूयते सुरपथात् सुमनस्स्रवन्ती
स्रस्ता तरङ्गिततनूरिति पुस्तकेषु ।
तत्त्वेतदित्यनुमिमे भगवत्सभाया
यत् तीर्थपद्धतिचतुष्टयमर्कशिल्पम् ॥ २५ ॥
वाराशितीर्थकरवारणसंख्यरूपा
देवादिरुद्रनगकन्जलभूधरास्तम् ।
देय॑स्पृहो निखिलदिग्गतहेमरूप्य-
नीलादमगोपुरनिभादभजन्त दैवम् ।। २६ ।।
सम्प्राप्य चायगुणरमनिधि जिनेन्द्र
लोकैकमङ्गलममुं समपक्षरांगात् ।
शक्कानि माक्तुमथ नो निधिमङ्गलानि
दारेषु तस्यरसिलेविह को वितर्कः ॥ २७ ॥

६८ काव्यरने कङ्केलिसप्तदलचम्पकचूतषण्डाः कामारिसन्निधिवशादिव शान्तकामाः । पुष्पाणि वामचरणाहतिचाटुवाद- च्छायाकटाक्षनिरपेक्षमधुर्वधूनाम् ॥ १७ ॥ अर्चा जिनस्य वनचैत्यमहीरुहाणा- मच्छिन्नधारमकरन्दमुचां तलेषु । चर्निरत्ययतपात्यययोगनिष्ठा- निष्कम्पगात्रजिनयोगिवराभिशङ्काम् ॥ १८ ॥ ज्ञानोदये जिनपतेः स्थिरभावमाप्ते लोके स्वयं च तडितः स्थिरभावमाताः। प्रायः प्रलम्बितघनास्तमुपासते स्म प्रेख़त्पताककनकध्वजदण्डदम्भात् ॥ १९ ।। भव्यावलेदेशविधामरभूजकृत्य वाञ्छां विनैव विदधात्ययमेक एव । यत्ते तदेनमभितोऽप्यभजन जिनेन्द्र रुद्रान् गुणैर्विगुणिनः समुपाश्रयन्ते ॥ २० ॥ आकीर्णकेतुचमरीमहतालवृन्त- कालाचिकाब्दकलशातपवारणादिः । हावनी जिनजितद्रुतपुप्पकेतोः सेनानिवेश इब चेलकुटीचितोऽर्भात् ॥ २१ ।। देवेन्द्रनेत्रकुमुदोत्सवचन्द्रिकाया देदीप्यमानमणिवकृतगन्धकुट्याः । १. 'त्यमिच्छा 'ि, न्दा' र पाठ. १. भू. पाउ. १ "

देशमः सर्गः
.
६९
उच्चैऋतोरिव विदिक्षु भृशं विरेजुः
कोष्ठाः प्रकीर्णकवदुबलरूपभाजः ॥ २२ ॥
तेषु प्रदक्षिणमनुक्रमतो मुनीन्द्राः
कल्पाङ्गनाश्च नृवधूसहितायिकाश्च ।
ज्योतिप्कभौमभवनामरिकाथ भोगि
भौमोडुकल्पसुरमर्त्यमृगाश्च तस्थुः ॥ २३ ॥
वीथीपु नाथचतुरानननिर्यदुक्ति-
पीयूपनद्युभयचारतटानुकाराः ।
अष्टायतस्फटिकभित्तय आवितेनु-
देशभृतिविनिवेशितयष्टिशङ्काम् ॥ २४ ॥
यच्छ्यते सुरपथात् सुमनरस्रवन्ती
सस्ता तरङ्गिततनूरिति पुस्तकेपु ।
तत्त्वेतदित्यनुमिमे भगवत्सभाया
यत् तीर्थपद्धतिचतुष्टयमर्कशिल्पम् ॥ २५ ॥
याराशितीर्थकरवारणसंख्यरूपा
देवादिगद्रनगकाजलभूधरास्तम् ।
देर्प्यरहो निखिलदिग्गतहेमरप्य-
नीलादमगोपुरनिभादभजन्त देवम् ॥ २६ ॥
गम्प्राप्य नागगुणरमनिधि जिनेन्द्रं
लोगामान्लम समपक्षगगात ।
समान मांगनुमथ नो निधिमन्यानि
tirg नतिरेधिा को शितः ॥२७॥

60 काव्यरले ज्योतिप्कयक्षफणिकल्पसदः क्रमण तेजस्विनः प्रतिदिशं मणिदण्डहस्ताः । हारत्रयद्वितययुग्मयुगेषु तेनु- हाःपाल कृत्यमपि जन्मशतैरलभ्यम् ॥ २८ ॥ नुन्नाम्बरं प्रतिदिशं नवगोपुराणा- मष्टान्तरेषु बहिरादिमगोपुराच्च । नानाविधाभिनवशिल्पमनोभिरामं माणिक्यतोरणशतं पृथगाविरासीत् ॥ २९ ॥ आद्यन्तरे निहतदुर्मतिमानगुम्फाः स्तम्भाश्चतुर्थ इह राजतनाट्यशालाः । पष्ठेऽपि नाट्यनिलयाः किल सप्तमेऽस्मिन् स्तूपाश्च तोरणशतान्तरिता बभूवुः ॥ ३० ॥ दुःखौवसर्जनपद्वंत्रिजगत्यजेयान् साक्षान्निहत्य चतुरोऽपि च घातिशत्रुन् । स्तम्भा जयादय इव प्रभुणा निखाताः स्तम्भा बभुः प्रतिदिशं किल मानपूर्वाः ॥३१॥ संसारदुस्तरमहार्णवमग्नजन्तू- तारैकनावि सदसीखरकर्णधारे । स्तम्भश्रियं विदधुरुग्वलरत्नमान- स्तम्भाः समीरचलकेतुपटाभिरामाः ।। ३२ ॥ मानाधिको कनकगोपुररूप्यसाल- व्याजेन मानमवितुं बहुरूपभाजौ । ६. क. पाठ.

दशमः सर्गः।
मन्ये सुमेरुविजयार्धनगौ स्म मान-
स्तम्भानुपेत्य भजतश्चतुरोऽपि भीत्या ॥ ३३ ॥
मज्जत्पुरन्ध्रिकुचकुङ्कुमलालितानि
पर्यन्तखातसलिलानि वितेनुरेषाम् ।
आलोकनेन सुचिरोपचिताभिमान-
लोकैर्विवान्तदृढमानरसाभिशङ्काम् ॥ ३४ ॥
विश्रामसुन्दरमृदङ्गनिनादगर्जा
विद्युल्लतायितनिलिम्पनटीसनाथाः ।
नाट्यालया विजितशारदवारिवाहा-
· चित्तक्षितौ नवरसान् वपुर्जनानाम् ॥ ३५ ॥
सौवर्णधूपघटनिर्गतधूमजालं
सौरभ्यशालि ददृशे जिनपूंजनाय ।
आयजनस्य सुचिरं हृदयारविन्द-
गन्धाधिवासितमिव द्रवदन्धकारम् ॥ ३६॥
जैनी सभा जिनपदाम्बुजसेवयैव
सेत्स्यन्ति मङ्घ नव केवललब्धयो वः ।
इत्येवमुन्नतनवाङ्गुलिसंचयो(चैःचे)
स्तूपच्छलादुपयतां जिनसेवनार्थम् ॥ ३७॥
रेजे विशालगणभूतलवेष्टितस्य
पीठत्रयस्य शिरसि द्विपवैरिपीठम् ।
धतुं जिनेश्वरमुपागतभद्रसाल-
रुदनिसानुकनकाचरचूलिकेव ॥ ३८ ॥

७३ काम्मरले ३ तत्र निकालविषयाखिलवस्तुवृत्ति- साक्षी प्रबोधमहसा सकलं स जानन् । जिज्ञासयोपगतसङ्घचतुष्टयस्य तज्ज्ञापनोत्सुकतयेव चतुर्मुखोऽस्थात् ॥ ३९ ॥ भामण्डलेन निकटोच्चलचामरेण संवेष्टितो दिवि जिनाधिपतिश्चकाशे। हंसान्वितेन शरदम्बुदेमण्डलेन नीलाम्बुवाह इव कोऽपि कृतोपवीतिः ॥ ४॥ अस्याशरीरपदलिप्सुतया शरीरं बोधासिना हतवतो भुवनैकमल्लम् । वीरस्य पार्श्वमुपयन्ति तदा तदीय- दिव्यायुधान्यनुचकार लतान्तवृष्टिः ॥ ११ ॥ दिव्यध्वनिश्च सुरदुन्दुभिनिस्वनश्च सन्त्यक्तशासनतदीयफलाभिलापम् । उत्पर्धेमानमुभयं युगपज्जहार श्रोत्रं मनश्च सुतरां परिपज्जनानाम् ॥ ४२ ॥ सर्वज्ञपादरतयो वयमप्यशोका मुग्धानिजातरतयः किल तेऽप्यशोकाः । इत्यालपन्नलिनिनादपदादशोकः प्रत्युन्मिपत्कुसुमकैतवतो जहास ॥ ४३ ॥ छायां तिरस्कृतवतो जगदेकभर्तु- श्छायां प्रदातुमितमेतदलं ललज्जे । १. 'क्षि' क. पाठः. २. 'ज', ३. 'पिः' स. पाठः. ५, 'त्य' क. पाठा. १ दशमः सर्गः। छत्रत्रयं न यदि शारदनीरदाभं श्यामं जिनाङ्गचिसङ्गनिभात् कुतोऽभूव ॥ स्त्रीबालवृहनियहोऽपि सुखं सभा ता- मन्तर्मुहूर्तसमयान्तरतः प्रयाति । निर्याति च प्रभुमहात्मतयाश्रितानां निद्रामृतिप्रसवशोकरुजादयो न ॥ ४५ ॥ मिथ्यादृशः सदसि तत्र न सन्ति मिश्राः सासादनाः पुनरसंज्ञिवदप्यभव्याः । भव्याः परं विरचिताञ्जलयः सुचित्ता- स्तिष्ठन्ति देववदनाभिमुखं गणोाम् ॥ ४६ ॥ इत्यहुतां त्रिभुवनैकपतेः सभा ता- मागत्य वीक्ष्य निखिलं हरिणा जिनेन्द्रम् । आकीर्णपुप्पमवनम्य पुनर्ममज्जे हाम्बुधौ भवसमुद्रतितीर्पणापि ॥ ७ ॥ साक्षायिकाचलहशोज्ज्वलसंयमेन सप्तदिसम्यगवबोधचतुष्कभाजा । श्रीमल्लिनाथगणिनाथ तदीरितेन पृष्टः समस्तविदसौ निजगाद तत्त्वम् ॥ १८ ॥ अथ समयधिदिन्द्रादेशतो वाघदेवै- विनिहतजिनसंख्योदारभेरीप्रणादः । विघटितगिरिसन्धिविश्वविश्चैकभर्तु- त्रिभुवनमपि यात्रारम्भमावेदयत् तम् ॥ १९ ॥ १. 'ध' क. पाठः ७४ काव्यरले समवसरणमभ्रे भव्यपुण्यैश्चचाल स्फुटकनकसरोजश्रेणिना लोकवन्धः। सुरपतिरपि सर्वाञ् जैनसेवानुरक्तान कलितकनकदण्डोऽयोजयत् स्वस्वकृत्ये ॥ ५० ॥ सितचमररुहाली पार्श्वयोश्चिक्षिपाते सुधिय उपरि शुभ्राण्यातपत्राणि देवैः । उदधृषत तथाप्टौ मङ्गलान्यप्सरोभि- दिशि दिशि धृतमग्रे धर्मचक्रं च यक्षैः ॥५१॥ सपदि पवनदेवाः शर्करालोष्टधूली- कृमितृणमपनिन्युभूतलान्मेघदेवाः । सुरभिसलिलसेकं चक्रुरत्रेदमासी- न्मुकृरतलवदच्छाकाशदिक्पर्धयेव ॥ ५२ ॥ धरणिरमरवृष्टैरुद्गमैः सोपहारा सुरमणिमकुटार्चिःशक्रचापार्चितं खम् । सुरनरजयशब्दस्तोत्रकिम्मीरभेरी- मुखरवमुखरं चाप्यास दिक्चक्रवालम् ॥ ५३ ।। गलितचिरविरोधाः प्राप्तवन्तश्च मैत्री मिथ इव जिनसेवालम्पटाः संपदिाः । पडपि च ऋतवस्ते तत्र तत्रान्वगच्छन् व्यवहरदयमीशो यत्र यत्रैव देशे ॥ ५४ ॥ न परमखिललोकः प्रातिकूल्यं विहाय ' त्रिभुवनतिलकं तं वायुरप्यन्वियाय । दिविजसरसि मग्नः पुष्पगन्धोपवाही मधुकरकुलशब्दच्छद्मना संस्तुबानः॥ ५५ ॥ १. 'स' ख. पाठः. २. 'स्य क. पाठः. ३. नु' ख. पाठः.

दशमः सर्गः। ७५ .. अपिच सदसि भर्तुः कच्छपाङ्कस्य रेजुः सवरुणबहुरूपिण्यन्वहाराधितरय । गणधरपदभाजोऽष्टादशैतच्छताङ्का न परमवधिनेत्राः केवलज्ञानिनोऽपि ॥ ५६ ।। शतविगलितमाना वादिनस्तुर्यबोधा- स्त्रिशतगलितसंख्या विक्रियर्दिप्रसिद्धाः । अधिकशतचतुष्काः केवलिभ्यो बभूवु- स्त्वधिगतदशपूर्वास्तुर्यबोधत्रिभागाः ॥ ५७ ॥ त्रिहतहयसहस्राण्यर्धलक्षं च लक्ष त्रिगुणितमपि लक्षं शिक्षकाचार्यकाश्च । उपगतगृहमेधाः श्राविकाश्चाप्यसंख्याः सुरसुरसुकुमार्यः प्राप्तसङ्ख्या मृगाश्च ॥ ५८ ॥ इति विषयमशेपं विश्ववन्द्यो विहत्य त्रिचरणपरिशिष्टं नूनमन्दायुतं सः । सुजनहृदयवप्रेषप्ततत्त्वार्थसस्यः प्रविशदमणिचूलं प्राप सम्मेदशैलम् ॥ ५९ ॥ तत्र स्थित्वैकमासं व्यपगतविहतिः फाल्गुने कृष्णपक्षे द्वादश्यामर्धरात्रौ सदशशतमुनिर्जन्मभे घात्यरातीन् । मारूढा योगिधामाद्विचरमसमये सप्तति हिःप्रयुक्तां शुक्लध्यानासियष्टया स चरमसमये वृत्तसङ्ख्याञ् जघान । ईपत्याग्मारसंज्ञेऽष्टमधरणितलेऽमर्त्यलोकप्रमाणे सिद्धक्षेत्रे विशुद्धः स जयति तनुपातान्त्यभागे कृतौकाः। किचिन्यूनान्त्यदेहप्रमितिघननिजाकारभाक् क्षायिकैः स्वैः सम्यक्त्वाचैरुपेतोष्टभिरभितमुखापादकरस्तकर्मा ॥ ६१ ॥ ..

9009 काव्यरत्ने दशमः सर्गः। आस्ते तत्र स निर्वृतः सुखसुधां चर्वन् सदात्यन्तिकी स्वस्थः संसृतिनाटकं स्फुटरसं पश्यन् विभावादिभिः । सम्पन्नः सकलैर्गुणैरनुपमैः स्थानं सिताम्राकृतेः कीर्तरात्मसमैः सहैव पुरुषैः शुद्धश्च बुद्धैः परम् ॥ ६२ ॥ अर्हद्दासः स भक्त्युल्लसितमवसितं भूधरे तत्र कृत्वा कल्याणं तीर्थकर्तुः सुरकुल मंहितः प्रापदारमीयलोकम् । अर्हदासोऽयमित्थ जिनपतिचरित गौतमस्वाम्युपज्ञं गुम्फित्वा काव्यबन्धं कविकुलमहितः प्रापदुचैः प्रमोदम्॥ धावन् कापथसम्भृते भववने सन्मार्गमेक परं त्यक्त्वा श्रान्ततरश्चिराय कथमप्यासाद्य कालादमुम् । सद्धर्मामृतमुद्धृतं जिनवचःक्षीरोदधेरादरात् पोयंपायमितश्रमः सुखपदं दासो भवेत्यर्हतः॥६४ ॥ मिथ्यात्यकर्मपटलैश्विरमावृते मे युग्मे दृशोः कुपथयाननिदानभूते । आशाघरोक्तिलसदलनसम्प्रयोगै- रच्छीकृतेऽद्य पृथुसत्पथमाश्रितोऽस्मि ॥ ६५ ॥ इय॑हद्दासकृतौ काव्यरले भगवदुभयमुक्तिवर्णन। नाम दशमः सर्गः ॥ 9009 मुनिसुव्रतकाव्यं सम्पूर्णम् । शुभमस्तु । १. "द', २. 'चाम्यई' स. पाठः. ३. 'पा' क. पाठः, LIST OF SANSKRIT PUBLICATIONS FOR SALE. RS.AS. P. Hitta Bhaktimanjari (Stuti) by H. H. Svati Srī liāma Varma Mahārāja. 1 0 0 स्थानन्दूरपुरवर्णनप्रवन्धः Syanandurapuravarnanaprabandha (Kavya) by H. H. Svāti Sri Rama Varma Maharaja, with the commentary Sundarī of Rājaraja Varma Koil Tampuran. 2 0 0 Trivandrum Sanskrit Series. No. 1-274 Daiva (Vyakarann) by Deva with Puruşakara of Krsmalilasukamuni (out of stock). 1 0 0 No. 0 (out of stock). O 2 No. 3-TIT: Nalabhyudaya (Kavya) by Varana Bhatia Bana (second cdition). 0 4 No. 1-racteruta: Sivalilarnava (Kavya) by Nilakantha Diksita (out of stock). ? 0 0 No. 5-fularda Vyaktiviveka (Alankūra) by Mahima-Bhatta with commentary (ou of stock). 2 12 0 No. G-girafa: Durghatavrtti (Vyakarana) by Sarapadera (out of alock), 2 0 0 No. 7-प्रसातत्वप्रकाशिका Brahmatattvaprakasika (Vedantn) by Sadasivendmeam. Emel (vult of stock). 2 No. 8-34 Pradyumnabhyudaya, (Watakn) by Kavi Varma Bhapa (out of srock), 1 0 0 2 ks. AS. t. No. 9-विरूपाक्षपञ्चाशिका Virupaksapaneasika (Vedānta) by Virūpākşanātha with the commentary of Vidya cakravartin (out of stock). O 8 No. 10—Haier Matangalila (Gajalaksanu) by Nīlakantha (out of stock). 0 8 0 No. 11-audiciatura Tapatisamvarana (Nātaka) by Kulasekharn Varma with the commentary of Sivarāma (out of stock). 2 4 No. 12—-TARIETTE Paramarthasara (Vedānta) by Adiseșa with the commentary of Rāghava nanda (out of stock). 0 8 0 No. 13-सुभद्राधनञ्जयम् Subhadradhananjaya (Nataka) by Kulasekham Varina with the commentary of Sivarāma (out of stock). 2 G C No. 14-FETT: Nitisara (Nīti) by Kāmandaka, with the commentary of Sankarärza (out of stock). 3 8 C No. 15-स्वप्नवासवदत्तम् Svapnavasavadatta (Nataka) by Bhasa (second edition). 1 SC No. 16-afarr-!: 8 0 No. 17-- Panoharatra (Xataka) by Bhasa (out of stock). 1 0 0 No. 18-at Narayaniya (Stuti) by Narayana Bhatta with the commentfry of Desainangalavarya (out of stock). 4 0 No. 19-HARLE: Manameyodaya (al[mains) by Nariyana Blintta and Narayana Pangita (out of stock). 1 No. 20-fatt44 Avimaraka (Natika) by Bhasa (out ng stock). I No. 21-afta Balacarita (Nažka) by Bh&sa (out of stock). 10 0 8 0 o 3 Rs, AB. P. No. 22- Aum-dermatet 7-FOHIT रुभनी 0 by Bhasa (out of stock). 1 8 0 No. 23- Prietojeriana: Nanartharnavasam - ksopa (Kosa) by Kesavnsrāmin (Part I, 1st and 2nu Kāndas). (out of stock). 11: No. 24-5reitafuta: Janakiparinaya (Kavya) by Cakra Kavi (out of stock). 1 0 0 No. 25-TESTAREST Kanadasiddhantacandrika (Nyaya) by Gangadharasuri (out of stock). O 12 No. 26---f79071729 Abhisekanataka by Bhasr (out of stock). 0 12 0 No. 27-YHTEET+72: Kumarasambhava (Kavya) by Kalidasa with the two commentarics, Pmkasika of Arunagirinatha and Vivarana of Narayana Pandita (Part I, 1st and 2nd Sargns) (out of stock). 1 12 0 No. 28 -OTTEETHRT: Valkhanasadharmaprasna (Dharmasatra) by Vikhanas (ort nf stock). 08 0 No. svinnin * slock). 2 4 0 No. 30-ta Vastuvidya (Silpn) (out of stuck). 0.12 No. 31--Muming: Nanartharnavasam - ksepa (kos) by Kebayashirin (l'art III, 4th, 5th and 6th bandas). 1 0 No. 32-TTCT: Kumarasambhava (Kavya) by Kalidasa with the two coramcntories, Prakasika of Arungirinatha nud Vinur of Nariyaſı l'apdita l'art II, 3rd, 4th and 5th Sargas) (our of atrol). ! 8 0 zasam- 0 RS AS P. No 33-GONE Vararucasangraha (Vváhrrane) with the commentary Dipiprabhā of Nariyana (ordt of stock) 0 $0 No 34-Augas Manidarpana (Nyiya) by Rajzcūdaminimakluin 10 No 35~AAT Manisara (Nyaya) by Gopinathn 1 8 D No 31;~KOR Kumarasambhava (havya) by Kalidasa rith the two commentnries, Prkasika of Arunagirinātbr and Virişına of Nariyana Pandita (Part II], 6th, ith wd Sth Sargr) 3 0 0 No 37~372111794 Asaucastaka (smrti) by Varrucı with commentary No 38-नामलिङ्गानुशासनम् Namahnganusasana (hoia) by Amrmsimha wuh the com mentary Tillearvut? Of Vandya ghutiyn Sirripinda (Part I, 1st handa) 200 No 39-47 Carudatta (Natala) by Bhāsa (0ué of stock) 0 12 0 No 103TETEZH Alankarasutra br Rajunaka Rund with the Alanlarasarosta of Vinnhhuha and its commentary by Naudmbrrdha (second edition) 2 S 0 NO 41m-UAESTEL Adhyatmapatala (Ve dinta) lr Arastımla with marina of Sri Sulara Bharavat Pada (out of crocl) O.O xo 49cfaartet Pratimanataka b; Bli a (out of sloch) 180 Xo 43.- TARAFTARF Namalınganusasana (hola) by imra imha with the tho commotones, Amaralasodhajana of kşin rims and -arrasta o Wardragha in Sarraballa (Part II, 2 12 14 Tantrasuddha 1 - Berninata Vedo tama word harda, 16 vargas) 5 0 RS. AS. P. No. 45-654 Prapancahrdaya. 1 0 0 No. 46—9thmarata: Paribhasavrtti (Vykkaraña) ·by Nilakantha Dikşita. O 8 0 No. 47-Farah Sidhantasiddhanjana (Vedānta) by Krşņānanda Sarasvatī (Part I.) 1 12 0 No. 48--peralatalana Do. Do. (Part II). 20 0 No. 49--Trettet Goladipika (Jyotişa) by Paramesvara. 0 No. 50 -Tera Rasarnayasudhakara (Alankara) by Singa Bhūpāla. 3 0 No. 51-मामलिङ्गानुशासनम् Namalinganusasana (Kosa) by Amarasimha with the tio commentaries, Amarakośodglātana of Kşirasyāmin and Tikasarvasya of Vandysghatīya Sarvānanda (Part III, 2nd Kanda, 7-10 vargas). 2 0 0 No. 52-गामलिङ्गानुशासनम् Namalinganusasana (Koša) by Amarasimha with the commentary Tikâsarvasva of Vandynghatiya Sarvånanda (Part IV, 3rd Kända). 1 8 0 No. 53-Efaia: Sabdanirnaya (Vedanta) by Prakåbåtmayatindra. O 12 0 No. 54-Frafalgratuferet: Sphotasiddhinyayavichara (Vyakamna). 0 4 No. 55-मत्तविलासग्रहसनम् Wattavilasaprahasana (Națaka) by Jaliendravikrama- 0 8 0 No. 56-A447Fil Manasyalayacandrika (Šilpa) (out of stock). O 8 0 No. 57—thercartre Raghuviracarita (Kilvya). 1 No. 38-forum Siddhantasiddhanjana (Vedānta) by kipinananda Samsvati (Part III). 200 o Yarian.

6 RS. AS, P No. 59-ararog Nangananda (Nataka) by Harşadeva with the commentary Vimarsini of Sivarâma (out of stock). 3 4 0 No. 60—zgrala: Laghustuti by Laghubhaţțâraka with the commentary of Râybavînanda. 0 8 0 No 61-सिद्धान्तसिद्धाञ्जनम् Siddhantasiddhanjana. (vedânta) by Rşşnânanda Sarasvati (Part IV). 1 4 0 No. 62- HÉTE: Sarvamatasangraha. 08 0 No. 63-fektar fra Kiratarjuniya (KÂvya) by Bhåravî with the commentary, Sabdârthadīpika of Citrabhânii (1, 2 and 3 Sargas). 28 0 No. 64-TA: Meghasandesa by Kalidāsa with the commentary Pradipa of Dakşiņâvartanātha. 0 12 0 No: 63-ARTH Mayamata (Silpra) hy Mayamuni(out of stock). 3 4 0 No. 66-HEPATÊ Maharthamanjari (Darsana) with the commentary Parimala of Maheśvarananda. 2 4 0 No. 67- : Tantraasamuccaya (Tantra) by Narîyana with the commentary Vimarsinī of Sankara (Part I, 1-6 Patalas) (out of stock). 3 No. 68-741st: Tattvaprakasa (Agama) by Sri Bhojadeva with the commentury Tâtparyadipika of Sri Kumāra. i 12 0 No. 69-Tagua: Isenasivagurudevapaddhati(Tantra)bylsûnasivaguruderamiśra Part 1, Simanyn. påda). 1 80 No. 70—STRIA2mma Aryamanjusrimala- 28 0 kalpa (Part I). No. 71-FREET: Tantrasamoccaya(Tantra) 3 8 0 RS. AS. P. 0 No. 72– ARTia: Isanasivagurudevapaddhati (Tantra) by Isanasiraguruderamiśra (Part II, Mantrapâda). 4 0 0 No. 73— fagfafret: Isvarapratipattiprakasa (Vedānta) by aſadhusudanasarasvati. 0 4 0 No. 74--Terreala: Yajnavalkyasmrti with the commentary Balakrida of Visvarûpâcârya. (Part I -- Acara and Vyavakâra Adhyâyās). 3 4 0 No. 75 Petcar Silparatna (Šilpa) by Śríkumara (Part I). 2 12 0 No. 76-turuhy: Aryamanjusrimulakalpa (Part II). 3 0 0 10. 77-varaarefa: Isanasivagurudevapaddhati (Tantra) by Isanašivagurudevamišra (Part III, Kriyāpāda 1-30 Patalas). 3 0 No. 78-31UTVETETT Asvalayanagrhyasutra with the commentary Anāvilā of Haradattācārya. 6 0 No. 79-TIER Arthasastra of Kautalya with commentary by Mahamahopadhyaya T. Ganapati Sastri (Part I-1&2 Adhikariņas). 3 12 0 No. 80--STATIEF Do. Do. (Part 1143-7 Adhikaranis). No. 81-acreafa:Yajnavalkyasmrti with the commentary Balakrida of Visyaropicărya (Part II. Prayascit. tinhyºya). 2 0 0 No. 82-au Arthasastra of Kaugalya with commentary by, Mahainahopidhyiya T. Ganapati Sastri (Part III, 8-15 Adhikaranis). 3 4 0 No. 83-aarayanafa: Isanasiragurudayapaddhati (Tantra) by Isina Sivngurudeta miśmn (Part IV, kriyi pada 31–64 latalas and Yogapada). 3 8 2 0 0 8 RS. AS. P. 2 0 0 No. 84—371x409: Aryamanjusrimulakalpa (Part III). 0 No. 85-facerea Visnusamhita (Tantra) 2 8 0 No. 86 - Ha Bharatacarita (Kavya). by lişşnakavi. 1 8 0 No. 87—27ETATERT: Sangitasamayasara (Sangita) of Sangītåkara Pârsvadeva. 1 2 0 No. 88–647TT: Kayyaprakasa (Alankârs) of Mammaţabhatta with the two commentaries the Sampradayaprakāšinī of Sri Vidyacakravartin and the Sâhityacândå maņi of Bhattagopala (Part I, 1-5 Ullâsās). 3 No. 89-meters Sphotasiddhi (Vyakarana) by Bharatamiśra. 0 8 0 No. 90-Tataraniitti Mimamsaslokavartika with the commentary Käsika of Sucaritamiśra (Part I). 28 0 No. 91-ETIKETE Horasastra of Varāhamihirā cārya with the Vivaraña of Rudra. 0 No. 92—Thua Rasopanisat. 20 0 No. 93-चेदान्तपरिभाषा Vedantaparibhasa (Vedanta) of Dharmarajadh varíndra with the commentary Prakāsikit of PeddadIkşita. 1 8 0 No. 94-et Brihaddesi (Sangita) of Matangamuni. 1 8 0 No. 95--Tur til Ranadipika (Jyotişa) of Kimaraganaka. OO No. 96-**Rksamhita with the Bhagya of Skandasyāmin and the cominentary of Veåkatamadhavarya (Part I, 1st Adhyāya ju 1st Astaka). 180 3 0 9 RS. AS. P. No. 97-नारदीयमनुसंहिता Naradiyamanusamhita. (Smrti) with Bhaiya of Bhavasvīmin. 2 0 No. 98-fatertag Silparatna (Silpa) by Śrikumāra. 2 8 0 No. 99-मीमांसारलोकवार्तिकम् Mimamsaslokavartika (Mīmåmsă) with the commentary Kasikā of Sucaritamisra (Part II). 200 No. 100-TECTIFT:Kayyaprakasa (Alarikára) of Mammațablıaçta with the two commentaries, Sampradayaprakasini of Śrīvidyācakravartin and Sahityacudá mani u Blattagopüla. (Part II, 6-10 UNāsās). 5 0 0 No. 101--Triazh Aryabhatiya (Jyotişa) of Aryabhatācārya with the Bhagya of Nilakanthasomasutyan (Part I. Ganitapada). 28 No. 102-A Dattila (Sangīta) of Dattilamuni, 0 4 0 No. 103- RTANT: Hamsasandesa (Vedanta) with commentary. 08 0 No. 104- ATISTATTET Sambapancasika (Stuti) with conmentary. 1 1:0 No. 105-fata: Nidhipradipa of Siddha. Erikanthasamblu. 0 40 No. 106-TIRTI Prakriyasaryasya. (l'ya karnna) of Sri Narayana Bhatta with commentary (Part I.) 1 0 0 No. 107-BUGT Kavyaratna (Karya) of Arhnddasa 190 Apply to: The Curator for the publication of Oriental Manuscripts, Trivandrum. 0

Kavyaratna

Author
Shastri.,k.sambasiva
Title
Kavyaratna
File name
Kavyaratna
Text
OCR done
Citation
1931
Published
2012/08
Publisher
Trivandrum,.the Travanocore Government Press
Language
Sanskrit
Pages
92
Library
Bharatiya Vidya Bhavan Library, Mumbai
DLI number
312664
Barcode
99999990321429.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
VMLT id
YuObsrLmCl0
Download PDF

Kavyaratna