Carnegie Mellon University
Tarka San'graha
Front matter
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.
WIN
No text on this page.
No text on this page.
No text on this page.
HA
fi: 1
तर्कसंग्रहः।
1
1
THE TARKA-SANGRAHA
OF
PANDIT ANNAM BHATTA
With the two Commentaries Naya-bodhini and
Padakritya of Govardhan Pandit
and Chandrasingha Pandit.
REVISED BY
PANDIT SHIVADATTA OF JAIPUR
Drintea Ini Lublisura
BY
KHEMRAJ SHRIKRISHNA DASS
IN HIS: VENKATESHWAR PRESS
BOMBAY
{
2000-
1897.
All rights reserved accordirg to Act
XXI of 1867
No text on this page.
श्रीः।
तर्कसंग्रहः।
-:ORo:
पण्डितवरश्रीमदन्नंभट्टविरचितः।
गोवर्धनपण्डितकृता न्यायबोधिनी, चन्द्रसिंहपण्डि-
तकृतं पदकृत्यम्, इति व्याख्याद्वयेन संयुतः।
जयपुरस्थपण्डितबदरीनाथात्मजदाधीचशिवदत्तेनसंशोधितः।
खेमराज श्रीकृष्णदास इत्यनेन
मुम्बय्यां
स्वकीये "श्रीवेङ्कटेश्वर" मुद्रणालये
मुदायित्वा प्रकाशितः।
शके १८१९, संवत् १९५४.
इदं पुस्तकं १८६७ वमनिस्टाब्दिकराजनियमस्य २५ तमनियमानुसारतो
लेखारूढं कृत्वा सर्वेऽधिकाराः प्रकाशकर्तृभिः स्वाधीना रक्षिताः।
No text on this page.
श्रीः । सटीकतर्कसङ्ग्रहलक्ष्यपदानामनुक्रमणिकेयम् । पृष्ठसंख्याः पदार्थाः पृष्ठसंख्याः .... .... ४१ ५,७ ६८ २३ ४९ अवयवत्वम् अव्याप्तिः असमवायिकारणम् असम्भवः २४ । असाधारणत्वम् असाधारणोऽनैकान्तिकः असिद्धः २० आकरजम् ३५ आकाङ्क्षा ३६ आकाशम् २५ आकुंचनम् आत्मा .... .... ६ ५ ९ .... ८ पदार्थाः अजहल्लक्षणा अतिव्याप्तिः अत्यन्ताभोवः अधर्मः.... अनन्यथासिद्धत्वम् अनित्यत्वम् अनुपसंहारी अनुभवः अनुमानम् अनुमितिः अन्यथासिद्धिः.... अन्योन्याभावः अन्वयव्यतिरोक अन्वयव्याप्तिः.... अपक्षेपणम् अपरत्वम् अप मान्यम् अप अभाव: अयथार्थस्मतिः अयथार्थानुभवः .... .... .... १० .... ४ आपः .... आप्तः .... .... ५७ .... .... .... .... .... ८ .... आप्तत्वम् १७ आश्रयासि (दिः .) त्वम्५२ ४,६६ । इच्छा इन्द्रियार्थसंनिकर्षः ईश्वरः.... उत्क्षेपणम् २१ उदर्यम् .... .... .... ६५ ....
अनुक्रमणिका. पृष्ठसंख्याः ८ पृष्ठसंख्याः .. .... .... ६२ ... 8... wr 68.. . ९ .... 08. ... २ .... ९ पदार्थाः उदानः उदाहरणम् उदीची उद्देशः.... उपनयः उपमानम् उपमितिः उपाधिः करणम् कर्म कारणम् कार्यम्.... ४२ ५५ .... ar 9.0. .... ६३ २४ .... .... ४२ पदार्थाः तर्कः तेजः त्वक दक्षिणा.... दिक दिव्यम्.... दुःखम्.... द्रवत्वम् द्रव्यम्.... द्वेषः धर्मः निगमनम् नित्यत्वम् निमित्तकारणम् निर्विकल्पकम्.... निवृत्तिः न्यायत्वम् पक्षः पक्षधर्मता पदम् पदार्थत्वम् परत्वम् परसामान्यम्. परामर्शः परार्थानुमानम् .... ४५ २८ ३० ... .... .... .... .... ४१ ... .... .... .... .... ३९. केवलव्यतिरेकि केवलान्वयि गन्धः गुणः गुरुत्वम् गौणी घ्राणम्.. .... चक्षुः जहल्लक्षणा जीवः जीवनयोनिः ज्ञानम्.... ५७ ... ६ १७ .... .... १० .... ३७ .... ...
अनुक्रमणिका. ३ पृष्ठसंख्याः १५ .... १२ २ ... .... .... .... ६ पदार्थाः परिमाणम् परीक्षा.... पाक: पृथक्त्वम् पृथिवी.... प्रकरणसमः प्रतिज्ञा.... प्रतीची... प्रत्यक्षम् मध्वंसाभाव: प्रयत्न..... मवृत्तिः प्रसारणम् मागभावः प्राची माणः बाधितः बालः बुद्धिः भावना.... भौमम् . मनः मूर्तत्वम् मोक्षः. यथार्थस्मृतिः पृष्ठसंख्याः पदार्थाः यथार्थानुभव:.... २ योग्यता १४ रसनम्... रूपम् ५१ लक्षणम् लक्षणा ९ लिंगम् .... २९ वाक्यम् वायुः विपक्ष:- विपर्ययः विभागः विभुत्वम् ९ विरुद्धः विशेषाः ५५ विषयः वृत्तिः वेगः व्यतिरेकव्याप्तिः व्यानः.... १० व्यापारः व्याप्तिः व्याप्यत्वासिद: शक्तत्वम् .... .80. १६ .60. ५० .... . or ®.. .... ४३, ४४ & ८ .... २४ ३८ ५१ ५८ अनुक्रमणिका. . ५८ १८ .... 4200 पृष्ठसंख्याः पदार्थाः पृष्ठसंख्याः सव्यभिचारः संयोगः.... १६ साधनाव्यापकत्वम् ५७ । साधारणत्वम् २३ साधारणोऽनैकान्तिकः साध्यव्यापकत्वम् .... सामान्यम्' ६६ ६५ सुखम.... १५ स्थितिस्थापकः ६५ स्नेहः.... १८ स्पर्शः.... .... १३ स्मृतिः स्वरूपासि (द्धिः) द्धत्वम् ५२ .... .... पदार्थाः शक्तिः शक्यत्वम् शब्द: .... शब्दः शरीरम्- शाब्दज्ञानम् संशयः. संस्कारः संख्या सत्मतिपक्षः संनिधिः सपक्षः समवायः समवायिकारणम् समानः. समूहालम्बनम् सविकल्पकम् ... .... .... .... 4.2. .00 800 स्वार्थानुसातम् .... ८ ४२ .... ३० हेत्वाभासत्वम्. D0 इत्यनुक्रमणिका समाप्ता।
श्री। तर्कसंग्रहः। निधाय हदि विश्वेशं विधाय गुरुवन्दनम् । बालानांसुखबोधाय क्रियते तर्कसंग्रहः॥१॥ ( न्यायबोधिनी) निखिलागमसंचारि श्रीकृष्णाख्यं परं महः। ध्यात्वा गोवर्द्धनसुधीस्तनुते न्यायबोधिनीम् ॥शा चिकीर्षितस्यग्रन्थस्य निर्विघ्नपरिसमाप्यर्थमिष्टदेवता- नमस्कारात्मक मंगलं शिप्यशिक्षार्थ ग्रन्थतो निबध्नाति निधायति ॥ ( पदकृत्यम्) श्रीगणेशं नमस्कृत्य पार्वतीशंकरं परम् । मया चन्द्रजसिंहेन क्रियते पदकृत्यकम् ॥ १ ॥ विश्वेशं जगत्कर्तारं श्रीसाम्बमात हृदि मनसि निधाय नितरां धारयित्वा गुरुवन्दनं च विधाय कृत्वा-इत्यर्थः ॥ बालेति ॥ अत्रा- धीतव्याकरणकाव्यकोशोऽनधीतन्यायशास्त्रो बालः । व्यासादावति- व्याप्तिवारणाय-'अनधीतन्याय- इति ॥ स्तनंधयेऽतिप्रसक्तिवा- रणाय-'अधीतव्याकरण-' इति । "यस्मादिदमहं मन्ये बालानामुपकारकम् । तस्माद्धितकरं वाक्यं प्रवक्तव्यं सतां सदा॥ and ३ कुत्रचिन्नास्ति। ४ कोशानधीत। पाठान्तराणि १ अखिला। २ ये ५ निवारणाय । ६ सद्भिः।
, तर्कसंग्रहः। सुखेति॥ सुखेनानायासेन बोधाय पदार्थतत्त्वज्ञानाय' इत्यर्थः॥ तय॑न्त प्रमितिविषयीक्रियन्ते ' इति तर्का द्र- व्यादिसप्तपदार्थाः तेषां संग्रहः संक्षेपेणोद्देशलक्षणपरीक्षा यस्मिन स ग्रन्थः॥ नाममात्रेण वस्तुसंकीर्तनम् उद्देशः। यथा-' द्रव्यगुण--' इति ॥ अंसाधारणधर्मो लक्षणम् । यथा-गन्धवत्त्वं पृथिव्याः। 'लक्षितस्य लक्षणं संभवति न वा ' इति विचारः परीक्षा ॥' अत्रोदेशस्य पक्षज्ञानं फलं ' लक्षणस्य इतरभेदज्ञानं ' परीक्षाया लक्षणदो. षपरिहारः-' इति मन्तव्यम् ॥ द्रव्यगुणकर्मसामान्यविशेपसमवायाभावाः सप्तपदार्थाः (न्याय० ) अथ पदार्थान् विभजते-'द्रव्य- इ- ति ॥ अत्र सप्तग्रहणं ' पदार्थत्वंद्रव्याद्यन्यतमत्वव्याप्य- म् । इति व्याप्तिलाभाय ॥ ननु शक्तिपदार्थस्याष्टम- स्य विद्यमानत्वात् कथं सप्तैव' इति-तथाहि-वह्नि- संयुक्तेन्धनादौ सति मणिसंयोगे दाहो न जायते, त- च्छून्ये जायते ॥ अतो 'मणिसमवधाने शक्तिनश्यति, मण्यभावदशायां दाहानुकूलाशक्तिरुत्पद्यते । इति कल्प्यते ।। तस्माच्छक्तिरतिरिक्त पदार्थः" इति चेत् ॥ न ॥ मंणेः प्रतिबन्धकत्वेन तदभावस्य कारणत्वेनैव निर्वाहे मणिसमवधानासमवधानाभ्यामनन्तशक्तिध्वं- सकल्पनाया अन्याय्यत्वात् ॥ तस्मात् 'सप्तव पदा- र्था' इति ॥ . १ सप्तपदं नास्ति । २ सत्त्वात् । १ मण्यादिसंयुक्तेन्धनादौ सत्यपि वहिसंयोगे। ४ शून्ये तु । ५ धानेदाहानुकूलाश । ६ दाहं प्रति मणेः प्र-1 ७ इति सिद्धम् ।
तर्कसंग्रहः । (३) तत्र द्रव्याणि पृथिव्यतेजोवाय्वाकाशकाल- दिगात्ममनांसि नवैव। (न्याय०) द्रव्याणिं विभजते--'पृथिवी--' इति॥ नतु “ अन्धकारस्य दशमद्रव्यस्य सत्वात् कथं 'नवैव' इति ॥ तथा हि-नीलंतमश्चलति । इति प्रतीतेील- रूपाश्रयत्वेन क्रियाश्रयत्वेन च द्रव्यत्वं सिद्धम् । न च कि सप्तद्रव्येप्वन्तर्भावात्कुतो दशमद्रव्यत्वम् । इति वा- च्यम् ॥ आकाशादिपञ्चकस्य नीरूपत्वात्तमसो नीलरू- वत्त्वाद्वायोरपि नीरूपत्वान्न तेष्वन्तर्भावः, तमसो निर्ग- न्धत्वान्न पृथिव्यामन्तर्भावः संभवति, जलतेजसोः शी- तोष्णस्पर्शवत्वान्न तयोरन्तर्भावः ॥ तस्मात्तमसो दश- मद्रव्यत्वं सिद्धम्" इति चेत्र ॥ तेजसोभावेनैवो- पपत्तावतिरिक्तकल्पनायां मानाभावात् ॥ नच “विनि- गमनाविरहात्तेज एवान्धकाराभावस्वरूपम् " इति वा च्यम् ॥ तेजसोऽभावस्वरूपत्वे सर्वानुभूतोष्णस्पर्शा- अयत्वस्यबाधात्॥ द्रव्यान्तरकल्पनेगौरवाच ॥ तस्मादु- प्णस्पर्शगुणाश्रयतया तेजसो द्रव्यत्वं सिद्धम् । तमसि नीलरूपप्रतीतिस्तु भ्रान्तिरेव दीपापसरणक्रियाया एव तत्र भानात् ॥ (पदकृत्य. ) तत्रेति ॥ तत्र 'सप्तपदार्थमध्ये' इत्यर्थः ॥ द्रव्याणि नवैव इत्यन्वयः ॥ एवं तत्र' इति पदं 'चतुर्विंशतिगुणाः' इत्यादि- 'ज्वप्यन्वेति ॥ द्रव्यत्त्वजातिमत्वं गुणवत्त्वं समवायिकारणत्वं वा द्रव्य- सामान्यस्यलक्षणम् ॥ १ विद्यमानत्वात् । २ वायोश्चापि । ३त्वात्पृथिव्या गन्धवत्त्वान्न । ४ आश्रयी- भूतद्रव्यान्तर। ५ नीलत्वादिप्र।
(४) तर्कसंग्रहः। रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगवि- भागपरत्वापरत्वगुरुत्वद्वत्वस्नेहशब्दबुद्धिसुखदुः- खेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराश्चतुर्विशतिगुणाः॥ उत्क्षेपणापक्षेपणाकुचनप्रसारणगमनानि पञ्च कर्माणि ॥ परमपरं चेति द्विविधं सामान्यम् ॥ (पद) परमपरं चेति ॥ परसामान्यम्, अपरसामान्यम् इत्यर्थः।। परत्वं चाधिकदेशवृत्तित्वम् ॥ अपरत्वं च न्यूनदेशवृत्ति वम् ।। नित्यद्रव्यवृत्तयो विशेपास्त्वनन्ता एव ॥ समवाय- स्त्वेक एव ॥ अभावश्चतुर्विधः-प्रागभावःप्रध्वंसा- भावोऽत्यन्ताभावोऽन्योन्याभावश्चेति ॥ तत्र गन्धवती पृथिवी साद्विविधा-नित्यानित्या चा नित्या परमाणुरूपा।अनित्या कार्यरूपा। पुनस्त्रि- विधा-शरीरेन्द्रियविषयभेदात् । शरीरमस्मदादी- नाम् । इन्द्रियं गन्धग्राहकं प्राणम् । तच्च नासाग्र- वर्ति । विषयोमृत्पाषाणादिः॥ (न्यायबो०) गन्धवतीति ॥ गन्धवत्त्वं पृथिव्या लक्ष- णम् ॥ लक्ष्या पृथिवी ॥ पृथिवीत्वं लक्ष्यतावच्छेदकम् । यद्धर्मावच्छिन्नं लक्ष्यं, स धर्मो लक्ष्यतावच्छेदकः ॥ यो धर्मो यस्या अवच्छेदकः सा तद्धर्मावच्छिन्नों ॥ तथा च लक्ष्यतावच्छेदकं पृथिवीत्वं चेल्लक्ष्यता पृथिवीत्वावच्छि- १ गन्धवत्त्वं गन्धसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वम ! २ यस्य। ३ स । ४ नः ।
तर्कसंग्रहः। त्रा ॥ एवं शीतस्पर्शवत्वादिलक्षणेषु जलत्वादीनां ल- क्ष्यतावच्छेदकत्वं बोध्यम् ॥ (पद) तदेव हि लक्षणम्, यदव्याप्त्यतिव्याप्त्यसंभवरूपदोषत्र- यशून्यम् ॥ यथा गोः सानादिमत्त्वम् ॥ अव्याप्तिश्च लक्ष्यैकदेशा- वृत्तित्वम् ॥ अत एव गोर्न कपिलत्वं लक्षणम्, तस्याव्याप्तिग्रस्तत्वाद। अतिव्याप्तिश्च लक्ष्यवृत्तित्व सत्यलक्ष्यवृत्तित्वम् । अत एव गोर्न- शङ्गित्वं लक्षणम्, तस्यातिव्याप्तिग्रस्तत्वात् ॥ असंभवश्च लक्ष्यमात्रा- वृत्तित्वम् ॥ अत एव गोरेकशफवत्त्वं न लक्षणम् , तस्यासंभवग्रस्त- त्वात् ।। नित्येति ॥ध्वंसभिन्नत्वे सति ध्वंसामतियोगित्वं नित्यत्वम्॥ ध्वंसऽतिव्याप्तिवारणाय 'ध्वंसभिन्न-' इत्यादि ॥ घटादावतिव्याप्ति- वारणाय विशेष्यदलम् ॥ ध्वंसामतियोगित्वं प्रागभावमतियोगित्वं वा नित्यत्वम्।। योगायतनं तदेव शरीरम् , चेष्टाश्रयो वा।। इन्द्रियमिति चक्षुरादावतिव्याप्तिवारणाय 'गन्धग्राहकम् । इति ॥ कालादावतिम- सक्तिवारणाय 'इन्द्रियम् । इति ॥ विषय इति ॥ शरीरेन्द्रियभिन्नत्वे सत्युपभोगसाधनं विषयः ॥ शरीरादावतिव्याप्तिनिरासाय भित्रों- न्तम् ॥ परमाण्वादावतिमसक्तिवारणाय विशेष्यदलम् ॥ कालादि वारणाय 'जन्यत्व सति' इत्येतदपि बोध्यम् ॥ शीतस्पर्शवत्य आपः। ता द्विविधाः- नित्या अ- नित्याश्च । नित्याः परमाणुरूपाः अनित्याः कार्य- रूपाः । पुनस्विविधाः-शरीरेन्द्रियविषयभेदात् । शरीरं वरुणलोके । इन्द्रियं रसग्राहकं रसनम् । तच्च जिह्वाग्रवति । विषयः सरित्समुद्रादिः॥ पणेषु जलादीनां लक्ष्यता जलवादीनां लक्ष्यतावच्छेदकत्वं च । १ तत । ३ यथा। ४ ध्वंसभिन्नति विशेषणम् । ५ सत्यन्तम् ।
तर्कसंग्रहः। (पद०) शीतेति ॥ तेजआदावतिव्याप्तिवारणाय 'शीत' इति ॥ आकांक्षावारणाय 'स्पर्श इति ॥ कालादावतिमसक्तिवारणाय ' सम- वायसंबन्धेन ' इति पदं देयम् ॥ इन्द्रियमिति ॥ त्वगादावति- व्याप्तिवारणाय 'रसग्राहकम् । इति ॥ रसनेन्द्रियरससंनिकर्षादाव- तिव्याप्तिनिरासाय 'इन्द्रियम् ' इति ॥ सरिदिति ॥ आदिनातडाग- हिमकरकादीनां संग्रहः ॥ उष्णस्पर्शवत्तेजः । तद्विविधम्-नित्यमनित्यं च। नित्यं परमाणुरूपम् । अनित्यं कार्यरूपम् । पुनस्त्रि- विधम्-शरीरेन्द्रियविषयभेदात् । शरीरमादित्य- लोके । इन्द्रियं रूपग्राहकं चक्षुःकृष्णताराग्रवात । विषयश्च चतुर्विधः-भौमदिव्योदर्याकरजभेदात् । भौमं वह्नयादिकम् । अविन्धनंदिव्यं विद्युदादि । भुक्तस्य परिणामहेतुरुदर्यम् । आकरजं सुवर्णादि। ( पदकृ० ) उष्णेति ॥ जलादावतिव्याप्तिवारणाय ' उष्ण ' इति। कालादावतिव्याप्तिवारणाय 'समवायसंबन्धेन ' इति पदं देयम् ।। इन्द्रि- यमिति ।। प्राणादावतिव्याप्तिवारणाय 'रूपग्राहकम्' इति ॥ काला- दावतिव्याप्तिनिरासाय ' इन्द्रियम् । इति ।। 'भेदात् । इतिपदं प्रत्येक- मभिसंबध्यते ॥ भौममिति ॥ आदिपदेन खद्योतगततेजःमभृतिपै-- रिग्रहः ॥ विद्युदिति ।। आदिना रविचन्द्रादिपरिग्रहः ॥ भुक्तेति ।। भुक्तस्यानादेः परिणामो जीर्णता तस्य हेतुमदर्यम् इत्यर्थः।।सुवर्णेति।। आदिना रजतादेः परिग्रहः॥ रूपरहितस्पर्शवान वायुः। स द्विविधः-नित्योऽनि निरासाय। २तेः।
तर्कसंग्रहः। (७) त्यश्च । नित्यः परमाणुरूपः। अनित्यः कार्यरूपः। पुनस्त्रिविधः-शरीरेन्द्रियविषयभेदात् । शरीरंवायु- लोके । इन्द्रियं स्पर्शग्राहकं त्वक् सर्वशरीरवृत्ति । विषयोवृक्षादिकम्पनहेतुः॥ शरीरान्तस्संचारीवायुः प्राणः।स चैकोऽप्युपाधिभेदात्प्राणापानादिसंज्ञालभते। न्यायबो०) एवं पृथिव्यादित्रिकं निरूप्य वायुं मि- रूपयति--रूपरहितति ॥ रूपरहितत्वे सति स्पर्शवत्वं वायोलक्षणम् ॥ सतिसप्तम्याविशिष्टार्थतंया रूपरहि- तत्वविशिष्टस्पर्शवत्त्वं वायोर्लक्षणम् ॥ विशेषणानुपादा- ने स्पर्शवत्त्वमात्रस्य लक्षणत्वे पृथिव्यादित्रिकतिव्या- प्तिः, तद्वारणाय विशेषणोपादानम् ॥ तावन्मात्रे कृते आकाशादावतिव्याप्तिः, तत्रापि रूपरहितत्वस्य सत्त्वा त् । अतउक्तं' स्पर्श--' इति ॥ अतिव्याप्तिर्नाम अलक्ष्य लक्षणसत्त्वम् । यथा गोः शृङ्गित्वं लक्षणं कृतं चेत् लक्ष्र- भूतगोभिन्नमहिप्यादावतिव्याप्तिः, तंत्रापि शृंङ्गित्वस्य विद्यमानत्वात् ॥ अव्याप्तिर्नाम लक्ष्यैकदेशावृत्तित्वम् ॥ यथा गोलरूपवत्त्वं लक्षणं कृतं चेत ( लक्ष्यैकदेशा- वृत्तित्त्वं नाम 'लक्ष्यतावच्छेदकाश्रयभूते क्वचिल्लक्ष्ये लक्षणस्याभावोऽसत्त्वमेवाव्याप्तिः' इत्यर्थः ) श्वेतगवि नीलरूपवत्त्वस्याभावात् ( अव्याप्तिः ) असंभवो नाम लक्ष्यमात्रे कुत्रापि लक्षणासत्वम् ॥ यथा-गोरे- ॥ १दिकं। टार्थकतया। ३ इतःप्रभृति पाठान्तरम् ‘गोनीलरूपवत्त्वं लक्षणं कृतं चेलक्ष्यैकदेशे लक्ष्यतावच्छेदकाश्रयीभूतक्कचिल्लभ्ये लक्षणासत्त्वमव्यातिरित्यर्थः। ४ इयंपतिष्टिप्पणीभता केनचिट्टीकामध्ये प्रक्षिमेति भाति ।
(८) तर्कसंग्रहः । , कशफवत्त्वम् । गोसामान्ये द्विशफवत्त्वेन एकश- फवत्त्वाभात् ॥ अतिव्याप्त्यव्याप्त्यसंभवानां (प्रत्येक) निकृष्टलक्षणंचे लक्ष्यतावच्छेदकसामानाधिकरण्येसति लक्षतावच्छेदकावच्छिन्नप्रतियोगिताकभेदसामानाधि- करण्यम अतिव्याप्तिः ॥ अव्याप्तिस्तु 'लक्ष्यतावच्छेदक- समानाधिकरणात्यन्ताभावप्रतियोगित्वम्' ॥ असंभ- वस्तु 'लक्ष्यतावच्छेदकव्यापकीभृताभावप्रतियोगित्वम' (इाते)॥ ( पदकृ० ) रूपेति ॥ घटादिवारणाय विशेषणम् । आकाशादि- वारणाय विशेष्यम् ॥ इन्द्रियमिति॥ चक्षुरादिवारणाय 'स्पर्शग्राहकम्' इति ।। कालादिवारणाय ‘इन्द्रियम् । इति ॥ वृक्षेति । आदिपदेन जलादीनां परिग्रहः ॥ शरीरेति ॥ महावायुवारणाय । विशेषणम् । मन आदिवारणाय विशेप्यम् । धनंजयवारणाय संचारी इति ॥उपाधीति! 'मुखनासिकाभ्यां निर्गमनप्रवेशनात, प्राणः ॥ जलादेरधानयनात् अपानः ॥ भुक्तपरिणामाय जाठरानलस्य समुन्नयनाद समानः ॥ अन्नादेवनयनात् उदानः ।। नाडीमुखेषु वितननात् व्यानः इति क्रिया रूपोपाधिभेदात्तथा व्यवहियते इत्यर्थः ॥ शब्दगुणकमाकाशम् । तच्चैकं विभु नित्यं च ॥ ( न्यायबो०) आकाशं लक्षयति--'शब्दगुणकम् । इति ॥ अत्र गुणपदम् ‘आकाशे शब्द एव विशेषगुणः' इति द्योतनाय न त्वतिव्याप्तिवारणाय, समवायेन शब्दवत्त्वमात्रस्य लक्षणत्वात् ॥ तदुक्तम्-- "रूपं गन्धो रसः स्पर्शः स्नेहः सांसिद्धिको द्रवः। बुद्धयादि भावनान्ताश्च शब्दो वैशेषिका गुणाः ? वत्त्वस्य कुत्राप्यसत्त्वात् । • तु । ३ समानाधिकरणत्वे ।४ संचारीति । ५ सम्यक्त्वात् । , तर्कसंग्रहः। (२) इति ॥ तच्चैकामिति ॥ अनेकत्वे मानाभावादिति । वि- विति॥सर्वमूर्तसंयोगित्वं विभुत्वम्॥ मूर्तत्वं च क्रिया- श्रयत्वम् ॥ पृथ्व्यप्तेजोवायुमनांसि मूर्तानि । पृथ्व्यप्त- जोवाय्वाकाशपश्चकं भूतपदवाच्यम् । भूतत्वं नाम बहि- रिन्द्रियग्राह्यविशेषगुणवत्त्वम् ॥ (पदकृ०) शब्देति ॥ शब्दो गुणोयस्य तत्तथा॥ असंभववारणाय शब्दपदमुन्नेयम् ॥ विभिवति ।। सर्वमूर्त्तद्रव्यसंयोगित्वं विभुत्वम् ।। अतीतादिव्यवहारहेतुः कालः। स चैको विभुनित्यश्च।। (न्यायबो०) कालं लक्षयति-अतीतेति ॥ व्यवहारहे- तुत्वस्य लक्षणत्वे 'घटः' इति व्यवहारहेतुभूतघटादाव- तिव्याप्तिः।तद्वारणाय अतीतादि इतिविशेषणोपादानम् ( पदकृ० ) अतीतेति ।। अतीत आदियों व्यवहारः अतीतः भविष्यन्वर्तमान ' इत्यात्मकः, तस्यासाधारणहेतुः काल इत्यर्थः ।। 'नन्विदं लक्षणम् आकाशेरतिव्याप्तं व्यवहारस्य शब्दात्मकत्वात इति चेत्।।न।। अत्र हेतुपदेन निमित्तहेतोर्विवक्षितत्वात्।।नचैवमपि कण्ठ ताल्वाद्यभिघातेऽतिव्याप्तिरिति वाच्यम् ।। विभुत्वस्यापि निवेशात् ।। प्राच्यादिव्यवहारहेतुर्दिक । सा चैका नित्या विभ्वी च।। (न्यायबो०) दिशो लक्षणमाह-प्राचीति उदयाच- लसंयुक्ता दिक् प्राची॥अस्ताचलसंयुक्ता दिक् प्रतीची॥ मेरोः संनिहिता दिग् उदीची ॥ मेरोर्व्यवहिता दि- ग्दक्षिणा॥ ( पदकृ०) प्राच्येति ॥ ' इयं प्राची' इयं प्रतीची' 'इयमुदीची' इत्यादिव्यवहारासाधारणं कारणं दिगित्यर्थः ॥ ‘हेतुर्दिक इत्यु- - १ पृथिव्य। २ शब्दगुणोभयम् । ३ व्याप्तिस्तद . (१०) तकसंग्रहः। च्यमाने परमाण्वादावतिव्याप्तिः स्यात् 'तद्वारणाय, व्यवहारहेतुः इति ।। आकाशादिवारणाय 'असाधारणम्' इत्यपि बोध्यम् ॥ ज्ञानाधिकरणमात्मा । स द्विविधः-परमात्मा जीवा- त्माचेति ॥तत्रेश्वरः सर्वज्ञः परमात्मा एकएव । जीव स्तुप्रतिशरीरं भिन्नो विभुर्नित्यश्च ॥ (न्यायबो०) आत्मानं निरूपयति-ज्ञानाधिकरण- मिति ॥ अत्राधिकरणपदं समवायेन ज्ञानलाभार्थम् ॥ ( पदकृ०) ज्ञानाधिकरणेति ।। भूतलादिवारणाय 'ज्ञान' इति ॥ कालादिवारणाय ' समवायेन ' इत्यपि देयम् ।। ईश्वर इति ॥ समवा- यसंबन्धेन नित्यज्ञानवान् ईश्वरः ॥ जीवेति ॥ मुखादिसमवायि- कारणं जीवः ॥ सुखाद्युपलब्धिसाधनमिन्द्रियं मनः। तच्च प्रत्यात्म- नियतत्वादनन्तं परमाणुरूपं नित्यं च ॥ (न्यायबो०) मनो निरूपयति-सुखादीति ॥ उपल- ब्धिर्नाम साक्षात्कारः। तथा च 'सुखादिसाक्षात्कार- कारणत्वे सतीन्द्रियत्वं मनसो लक्षणम् ॥ इन्द्रियत्वमा- त्रोक्तो चक्षुरादावतिव्याप्तिः, अतः पूर्वदलम् ॥ विशेप्या- तुपादाने आत्मन्यतिव्याप्तिः, आत्मनो ज्ञानादिकंप्रति समवायिकारणत्वात अंतइन्द्रियत्वरूपविशेप्योपादानम् ( पदकृ० ) सुखेति ॥ आत्ममनस्संयोगादिवारणाय 'इन्द्रियम् इति ॥ चक्षुरादिवारणाय 'सुख' इति ॥ चक्षुर्मात्रग्राह्यो गुणो रूपम्। तच्च शुक्लनीलपीतहरि तरक्तकपिशचित्रभेदात्सप्तविधम्। पृथिव्यप्तेजोवृत्ति। १ अत्रेति नास्ति । २ लक्षणं लब्धम् । ३ नः सुखादिक प्रति ! ४ अत आत्मन्य तिव्याप्तिवारणाय इन्द्रियत्वविशेष्यो ।
तकसंग्रहः। (१२) M तत्रपृथिव्यांसप्तविधम् । अभास्वरशुक्कं जलोभास्व- रशुक्लं तेजसि। (न्यायबो०) रूपं लक्षयति-चक्षुर्मात्रेति॥चक्षुर्मात्रग्राह्य- वविशिष्टगुणत्ववेत्त्वं रूपस्य लक्षणम् ॥ विशेप्यमात्रो दाने रसादावतिव्याप्तिः, अतः 'चक्षुर्मात्रग्राह्य' इति वेशेषणम् ॥ तावन्मात्रीपादाने रूपत्वेऽतिव्याप्तिः 'यो णो यदिन्द्रियेण गृह्यते तनिष्ठा जातिरपि तदिन्द्रियेण दृह्यते'अतस्तद्वारणाय विशेप्योपादानम् ॥ चक्षुर्मात्रग्रा- प्रत्वं नाम चक्षुर्भिन्नेन्द्रियाग्राह्यत्वे सति चक्षुह्यत्वम् ॥ मात्रपदानुपादाने संख्या दिसामान्यगुणेऽतिप्याप्तिः, संख्यादावपि चक्षुर्ग्राह्यत्व विशिष्टगुणत्वस्यसत्त्वात, अतस्तत्रातिव्याप्तिवारणाय मात्रपदम् ॥ संख्या इश्चक्षुभिन्नत्वग्ग्राह्यत्वाच्चक्षुर्मात्रग्राह्यत्वं नास्ति ॥ अत्र लक्षणे ग्राह्यत्वं नाम लौकिकप्रत्यक्षविषयत्वम् ॥ अग्राह्यत्वं नाम तदविषयत्वम् ॥ तथा च' चक्षुर्भिन्नेन्द्रिय जन्य(लौकिक साक्षात्काराविषयत्वेसतिचक्षुर्जन्यचाक्षुष विषयत्वम् ' इति फालतोऽर्थः ॥ ननु 'प्रभाघटसंयोगे रूपलक्षणस्यातिव्याप्तिः तस्य चक्षुर्मात्रग्राह्यत्वात् ' इति चेत्॥ न॥ गुणपदस्य विशेषगुणमापरत्वात् ॥नचैवं वि- शेषगुणघटितलक्षणे संख्यादावतिव्याप्त्यभावान्मात्रप- दवैयर्थ्यम् ' इति वाच्यम् ॥ जलमात्रवृत्तिसांसिद्धिकद्र- वत्वादावतिव्याप्तिवारणाय तदुपादानात् ॥ अथवा चक्षुर्मात्रग्राह्यजातिमद्गुणत्वस्य लक्षणत्वान्नप्रभाघटसं- १ वत्त्वमिीत कुत्रचित्र। २ ग्राह्यत्वविशे। ३ ननु तथापि । ४ ग्राह्यगुणत्वात, ग्राह्यत्वाविशिष्टगुणत्वात् । ५ मात्रपदंनास्ति ।
(१२) तर्कसंग्रहः। योगादावतिव्याप्तिः, संयोगत्वजातेश्चक्षुर्मात्रग्राह्यत्वा- भावात ॥ घटसंयोगस्य त्वगिन्द्रियग्राह्यत्ववत्तद्ग- तजातेरपि त्वगिन्द्रियग्राह्यत्वात् ॥ यो गुणो यदिन्द्रिय- ग्राह्यः, तनिष्ठजातेरपि तदिन्द्रियग्राह्यत्वात् ॥ अत्र जा- तिघटितलक्षणे गुणत्वानुपादानेचक्षुर्मात्रग्राह्यजातिमति सुवर्णादावतिव्याप्तिः तद्वारणाय तदुपादानम् ॥ एवं रसादिलक्षणे विशेषणानुपादाने लक्ष्यभिन्नगुणेऽतिव्य. प्तिः ॥विशेप्यानुपादाने लक्ष्यमात्रवृत्तिरसत्वगन्धत्वादा- वतिव्याप्तिः, अतो विशेषणविशेयेयोरुपादानम् ॥ ( पदकृ०) चक्षुत्रिति ॥ रूपत्वादिवारणाय गुणपदम् ।। रसा- दिवारणाय ' चक्षुग्राह्य ' इति । संख्यादिवारणाय मात्रपदम्॥यद्यपि प्रभाभित्तिसंयोगादिवारणाय गुणपदेन विशेषगुणस्य विवक्षणीयतया तत एव संख्यादिवारणे संभवति मात्रपदं व्यर्थम्, तथापि सांसिद्धिक- द्रवत्ववारणाय तदावश्यकम् ॥ वस्तुतस्तु परमाणुरूपेऽव्याप्तिवारणाय चक्षुर्मात्रग्राह्यजातिमत्त्वस्य विवक्षणीयतया विशेषपदं न देयम् । त्र्यणु- कादिवारणाय गुणपदं तु देयम् ॥ सप्तेति ॥ 'रूपम् ' इत्यनुषज्यते॥ रसनग्राद्यो गुणो रसः । स च मधुरामललवणकटु- कषायतिक्तभेदात्षड्विधः । पृथिवीजलवृत्तिः। तत्र पृथिव्यां षड्विधः। जलेतुमधुर एव ।। (पदकृ० ) रसनेति ॥ रसत्वादिवारणाय 'गुणः' इति ।। रूपादि- वारणाय 'रसन' इति ॥ तत्रेति ॥ पृथिवीजलयोर्मध्यइत्यर्थः। षविध इति ।। अत्र 'रस' इत्यनुवर्तते ॥ । ३ गन्धत्वपदंनास्ति । ४ प्योभयोपादानम् । १ ग्राह्यत्वात्तद्ग। २ गुणादाव । रूपादावतिव्याप्तिवारणाय ।
तर्कसंग्रहः। (१३) प्राणग्राह्यो गुणो गन्धः । स द्विविधः-सुराभिरसुर- भिश्च ॥ पृथिवीमात्रवृत्तिः॥ ( पदकृ०) प्राणेति ॥ गन्धत्वादावतिव्याप्तिवारणाय 'गुणः इति ॥ रूपादावतिव्याप्तिवारणाय 'घ्राणग्राह्यः' इति ॥ पृथिवीति॥ 'गन्धप्रतीतिसत्त्वे पृथिवीसमवेतत्वसत्त्वम् पृथिवीसंबन्धाभावे गन्धमती- त्यभावः' इत्यन्वयव्यतिरेकाभ्यां पृथिवीगन्धस्यैव प्रतीतिर्जले बोध्या। ननु 'देशान्तरस्थकस्तूरीकुमुमसंबन्धिपवनस्यैतद्देशे संबन्धाभावाद्गन्ध- प्रतीत्यनुपपत्तिः ।। नच वाय्वानीतत्र्यणुकादिसंबन्धोऽस्त्येव ' इति वाच्यम् ।। कस्तूर्या न्यूनतापत्तेः कुसुमस्य सच्छिद्रत्वापत्तेः" इति चेत् । न । भोक्त्रदृष्टविशेषेण पूर्ववत्र्यणुकान्तराद्युत्पत्तिः ॥ कर्पूरादौ तु तदभावान्न तथा ॥ त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः । स त्रिविधः- शीतोष्णानुप्णाशीतभेदात् । पृथिव्यप्तेजोवायु- वृत्तिः। तत्र शीतं जले । उष्णस्तेजसि । अनुष्णा- शीतस्तु पृथिवीवाय्वोः॥ ( न्यायबो० ) स्पर्श लक्षयति-त्वगिन्द्रियति । अत्रापि मात्रपदं संख्यांदिसामान्यगुणादावतिव्याप्ति- वारणाय ॥ अन्यद्विशेषणकृत्यं पूर्ववद्बोध्यम् । ग्राह्यत्व- पदार्थोऽपिपूर्ववदेव प्रत्यक्षविषयत्वरूप एव बोध्यः । ( पदकृ० ) त्वगिति ॥ स्पर्शत्वादावतिव्याप्तिवारणाय 'गुणः" इति ॥ रूपादावतिव्याप्तिवारणाय त्वगिन्द्रिय-' इति ॥ संख्या दिवारणाय मात्रपदम् ॥ तत्रेति ॥ पृथिव्यादिचतुष्टये ॥ शीतमिति ॥ शीतंगुणे इति कोशान्नपुंसकत्वम् ॥ उष्ण इति ॥ उष्णःस्पर्शः ॥ १ संबद्धसंयोगस्याव्याप्यवृत्तिवादिति बोध्यम् । , (१४) तकसंग्रहः। रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च । अन्य- त्रापाकनित्यमनित्यं च । नित्यगतं नित्यम् । अनित्यगतमनित्यम् ॥ (न्यायबो० ) रूपादीति ॥ एतत्तत्त्वनिर्णयश्चेत्थम्।। पाको नाम विजातीयतेजस्संयोगः॥ स च नानाजाती- यरूपजनको विजातीयतेजस्संयोगः ॥ तदपेक्षया रसज- नको विजातीयः॥एवं गन्धजनकोऽपि विजातीयः॥ एवं स्पर्शेऽपि तथैव ॥ एवंप्रकारेण भिन्नभिन्नजातीयाः पाका: कार्यवेलक्षण्येन कल्पनीयाः ॥ यथा तृणपुञ्जनिक्षिप्ते- आम्रादावूष्मलक्षणविजातीयतेजस्संयोगानु पूर्वहारतरू पनाशेन रूपान्तरस्य पीतत्वादेरुत्पत्तिः, न तु रसादेरु- त्पत्तिः पूर्वरसस्यैवाम्लस्यानुभवात ॥ क्वचित्पूर्वहरित- रूपस्य सत्त्वेपि रसपरावृत्तिदृश्यते, रसविजातीयतेज- स्संयोगरूपपाकवशात्पूर्वतनाम्लरसनाशेनमधुररसस्या- नुभवात् ॥ तस्मात्तद्रूपजनकापेक्षया रसजनको विलक्षण एव ॥ एवं गन्धजनकोऽपि विलक्षण एवाङ्गीकार्यः, रूप- रसयोरपरावृत्तावपि पूर्वगन्धनाशेन विजातीयपाकव- शात्सुरभिगन्धोपलब्धेः ॥ एवं स्पर्शेन पाकवशात्कठि- नस्पर्शनाशेन मृदुस्पर्शानुभवात्॥तस्माद्दूपादिजनकवि- जातीयपाका भिन्नभिन्नाः अत एव पार्थिवपरमाणूनामेक जातीयत्वेऽपि पाकमहिनाविजातीयद्रव्यान्तरानुभवः ।। यथा गोभुक्ततृणादीनामापरमाण्वन्तभङ्गे तृणारम्भकप- रमाणुषु विजातीयतेजस्संयोगात् पूर्वरूपादिचतुष्टय- १ दर्शनात् । २ तस्माद्रूपजन ! ३ जनकपाको । ४ यथाकार्यमुन्नेयाः ।
तर्कसंग्रहः। नाशे तदनंतरं दुग्धे यादृशं रूपांदिकं वर्तते तादृशरूप- रमगन्धस्पर्शजनकास्तेजस्संयोगा जायन्ते, तदुत्तरं तरेव तादृशरूपरसादय उत्पद्यन्ते ॥ एतादृशरूपरसादिवि- शिष्टपरमाणुभिर्दुग्धव्यणुकमारभ्यते, ततख्यणुकादि- क्रमेणदुग्धारम्भ इति ॥ एवं दुग्धारम्भकैः परमाणुभिरे- व दध्यारभ्यते पाकमहिम्ना ॥ एवं दध्यारम्भकैरेव पर- माणुभिर्नवनीतारम्भ इति दिक ॥ एकत्वादिव्यवहारहेतुः संख्या । नवद्रव्यवृत्तिः । एकत्वादिपराईपर्यन्ता । एकत्वं नित्यमनित्यं च । नित्यगतं नित्यम् । अनित्यगतमनित्यम् । द्वित्वा- दिकं तु सर्वत्रानित्यमेव ॥ ( पदकृ० ) एकादीति ॥ एकत्वम् ' इत्यादियों व्यवहारः 'एक दौ' इत्याद्यात्मकः । तस्य हेतुः संख्या, इत्यर्थः । पटादिवा- रणाय 'एकत्वादि । इति तथा च- "एक दश शतं चैव सहस्रमयुतं तथा । लक्षं च प्रयुतं चैव कोटिरर्बुदमेव च ॥ वृन्दै खो निखर्वश्च शंखं पद्मश्च सागरः । अन्त्यं मध्यं परार्द्ध चदशवृद्धया यथाक्रमम् ॥ इति उक्तेः परार्द्धपर्यन्तैव संख्यात्वम्, इति भावः । मानव्यवहारासाधारणकारणं परिमाणम् । नवद्रव्य- वृत्ति । तच्चतुर्विधम्-अणु महदीर्घ द्वस्वं चोत ॥ ( पदकृ.) मानेति ॥ 'मानं परिमितिः । तस्य यो व्यवहार- १ रूपरसादिकम् । २ महादुग्धारम्भः। ३ तादिकमिति ।
(१६) तकसंग्रहः । 'इदमणुः ' इदं महत् । इत्याद्यात्मकः, तस्य कारणं परिमाणम् । इत्यर्थः ॥ दण्डादिवारणाय — मान इति ॥ कालादिवारणाय ' असा- धारणम्' इति ॥ शब्दत्ववारणाय ' कारणम् ' इति । नवद्रव्येति ॥ चतुर्विधमपि परममध्यमभेदेन द्विविधम् । तत्र परमाणुत्व-हस्वत्व च परमाणुमनसोः ॥ मध्यमाणुत्व-हस्वत्व व्यणुके ॥ परममहत्त्वदीर्घत्वे गगनादौ ॥ मध्यममहत्त्वदीर्घत्वे घटादौ ॥ एतन्मौक्तिकादतन्मौक्ति- कमणु, इति व्यवहारस्य निकृष्टमहत्त्वागौणत्वं बोध्यम् ॥ एवमेव 'केतनाट्यननं हस्वम् इत्यत्रापि निकृष्टदीर्घत्वागौणत्वम् ।। पृथग्व्यवहारासाधारणकारणं पृथक्त्वम्।सर्वद्रव्यवृत्ति। ( पदकृ० ) पृथगिति ॥ 'अयमरमात्पृथक 'इति यो व्यवहारः तस्य कारणं पृथक्त्वम्,इत्यर्थः॥दण्डादिवारणाय पृथक्-'इत्यादि ॥ काला- दिवारणाय असाधारण-'इति।।पृथग्व्यवहारत्ववारणाय कारणम् इति। संयुक्तव्यवहारहेतुः संयोगः । नवद्रव्यवृत्तिः। ( पदकृ० ) संयुक्तति ॥ 'इमो संयुक्तौ' इति यो व्यवहार- स्तस्य हेतुः संयोगः, इत्यर्थः ॥ दण्डादिवारणाय — संयुक्तव्यवहार' इति ।। कालादिवारणाय ' असाधारण इत्यपि देयम् । संयुक्तव्यव- हारत्वेऽतिव्याप्तिवारणाय 'हेतुः । इति ॥ उपदर्शितलक्षणचतुष्टये असाधारण ' पदं देयम् ॥ क्वचित्पुस्तके परिमाणपृथक्त्वलक्षणे असाधारण ' पदं दृश्यते ' तत्त्वाधुनिकैय॑स्तम् । इति बोध्यम् ॥ संयोगनाशको गुणो विभागः । नैवद्रव्यवृत्तिः॥ ( न्याय०) विभागं लक्षयति-संयोगेति ॥ संयोगना- शकत्वविशिष्टगुणत्वं विभागस्य लक्षणम् ॥ विशेषण- -- - , १ सर्व । २ सर्व ।
तर्कसंग्रहः। मात्रोपादाने क्रियाया अपि संयोगनाशकत्वात्तत्राति. व्याप्तिवारणाय गुणत्वविशेषणम् ॥ ( पदकृ) संयोगेति ॥ संयोगनाशजनक इत्यर्थः ॥ काले ऽति- प्रसक्तिनिवारणाय गुणपदम् ॥ ईश्वरेच्छादिवारणाय ' असाधारण' इत्यपि बोध्यम् ॥ ननु ‘असाधारणपदोपादाने गुणपदस्य वैयर्थ्य स्यात्' इति चेत् ॥ न ॥ क्रियायामातिप्रसाक्तिवारणाय तस्याप्यावश्य- कत्वात् ॥ परापरव्यवहारासाधारणकारणे परापरत्वे । तेद्विवि धे दिकते कालकृते च । दूरस्थे दिकृतं परत्वम् । समीपस्थे दिकृतमपरत्वम्।जष्ठे कालकृतं परत्वम् । कनिष्ठे कालकृतमपरत्वम्॥ ( पदकृ०) परेति॥'परव्यवहारासाधारणं कारणं परत्वम् ॥ अपरव्यवहारासाधारणकारणम् अपरत्वम्' इत्यर्थः ॥ दण्डादिवार- णाय 'परव्यवहार ' इति ॥ कालादिवारणाय ' असाधारण ' इति । परव्यवहारत्ववारणाय 'कारण' इति ॥ एवमेव द्वितीयेपि बोध्यम् ॥ आद्यपतनासमवायिकारणं गुरुत्वम्।पृथिवीजलवृत्ति। (न्यायबो०)गुरुत्वं लक्षयति-आद्यति॥द्वितीयपतनक्रिया यां वेगस्यैवासमवायिकारणत्वात्तत्रातिव्याप्तिवारणाय 'आद्य इति। उत्तरलक्षणेऽप्याद्यविशेषणंपूर्ववद्योजनीयम् ( पदकृ० ) आद्यति ॥ दण्डादिवारणाय 'असमवायि' इति ॥ रूपादिवारणाय 'पतन' इति । वेगेऽतिव्याप्तिवारणाय 'आद्याइति स्यन्दनासमवायिकारणं द्रवत्वम् । पृथिव्यप्तेजो- वृत्ति । तद्दिविधम् । सांसिद्धिकं नैमित्तिकंच । तत्र (१८) तर्कसंग्रहः। + सांसिद्धिकं जले। नैमित्तिकंपृथिवीतेजसो पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वम् । तेजसि सुवर्णादौ ॥ ( पदकृ० ) स्यन्दनति ॥ दण्डादिवारणाय 'असमवायि' इति । रसादिवारणाय ' स्यन्दन ' इति ॥ चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः । जलमात्रवृत्तिः॥ (न्यायबो० ) स्नेहं लक्षयति-चूर्णादीति ॥ चूर्णादि- पिण्डीभावहेतुत्वे सति गुणत्वं स्नेहस्य लक्षणम्॥पिण्डी- भावो नाम चूर्णादिधारणाकर्षणहेतुभूतो विलक्षणसं- योगः॥ तादृशसंयोगे स्नेहस्यैवांसाधारणकारणत्वम् ॥ न तु जलादिगतद्रवत्वस्य ।। तथा सति दुतसुवर्णादिसं- योगेन चूर्णादिपिण्डीभावापत्तेः । अतः स्नेह एवासाधा- रणकारणम्॥विशेषणमात्रीपादाने कालादावतिव्याप्तिः, तद्वारणाय विशेप्योपादानम् ॥ वस्तुतस्तु द्रुतजलसं- योगस्यैव पिण्डीभावहेतुत्वम्, स्नेहस्य पिण्डीभावहेतुत्वे मानाभावात्।।जले द्रुतत्वविशेषणात्करकादिव्यावृत्तिः॥ (पदकृ.) चूर्णादीति ॥ 'चूर्ण पिष्टं तदेवादिर्यस्य मृत्तिकादेः स चूर्णादिः तस्य पिण्डीभावः संयोगविशेषः तस्य हेतुनिमित्तकारणं स्नेहः' इत्यर्थः । कालादावतिव्याप्ति वारणाय गुणपदम् ॥ रूपादाव- तिव्याप्तिवारणाय — पिण्डीभाव' इति ॥ चूर्णपदं स्पष्टार्थम् ॥ श्रोत्रग्राह्यो गुणः शब्दः' । आकाशमात्रवृत्तिः । स द्विविधः ध्वन्यात्मको वर्णात्मकश्चेति । तत्र ध्वन्या- त्मको भेर्यादौ, वर्णात्मकः संस्कृतभाषादिरूपः। १ द्रवत्वस्येत्यनन्तरम 'असाधारणकारणत्वमस्तु इति नच वाच्यम्' इति कुत्रचित्पाटोस्ति । ३ रेतिकादेः। २भावः तर्कसंग्रहः। (१९) (न्यायबो०) शब्दं लक्षयति--श्रोत्रग्राह्य इति ॥ शब्दत्वेऽतिव्याप्तिवारणाय 'गुणः' इति ॥ स विविधः संयोगजो विभागजःशब्दजश्चेति॥यथा|भेरीदण्डसंयोग जन्योभांकारादिशब्दः,हस्ताभिघातसंयोगादिजन्योमृद ङ्गादिशब्दः।वंशेपाट्यमाने दलद्वयविभागजन्यः पटपटी दिशब्दाशब्दोत्पत्तिदेशमारभ्य कर्णविवरपर्यन्तं वीची- तरङ्गन्यायेन कदम्बमुकुलन्यायेन वा निमित्तपवनसंबन्धा च्छब्दद्धाराजायते।।तत्रोत्तरोत्तरशब्दे पूर्वशब्दःकारणम् ॥ ( पदकृ०)श्रोत्रेति ॥ शब्दत्वेऽतिव्याप्तिवारणाय 'गुणः' इति॥ रूपादिवारणाय 'श्रोत्रग्राह्यः इति ॥ वस्तुतस्तु श्रोत्रोत्पन्नशब्दस्यै श्रोत्रग्राह्यत्वेन तद्भिन्ने ऽव्याप्तिवारणाय श्रोत्रग्राह्यजातिमत्त्वे तात्पर्या गुणपद्मनुपादेयमेव ॥ सर्वव्यवहारहेतुर्मानं बुद्धिः । सा द्विविधा-स्मृ- तिरनुभवश्च ॥ ( न्यायबो० ) बुद्धेर्लक्षणमाह-सर्वव्यवहारेति ॥ व्यवहारः शब्दप्रयोगः, ज्ञानं विना शब्दप्रयोगासंभवा- च्छब्दप्रयोगरूपव्यवहारहेतुत्वं ज्ञानस्य लक्षणम् ॥ बुद्धिं विभजते-स्मृतिरनुभवश्चेति ॥ ( पदक० ) बुद्धिलक्षणमाह-सर्वेति ॥ सर्वे ये व्यवहारा आहार- विहारादयः तेषां हेतुर्बुद्धिः, इत्यर्थः ॥ दण्डादिवारणाय 'सर्वव्यवहार इति कालादिवारणाय ' असाधारण' इत्यपि देयम् ॥ संस्कारजन्यं ज्ञानं स्मृतिः॥ १ भेयादिशब्दः । शब्दसंबन्धधारा जा० । २ चटपटायमानशब्दः । ३ श्रोत्र । ४ निमित्तपवनेन (२०) तर्कसंग्रहः। (न्यायबो०) स्मृतिं लक्षयति- (संस्कारेति) ॥ संस्कारजन्यत्वविशिष्टज्ञानत्वं स्मृतेर्लक्षणम् ॥ विशेष- णानुपादाने प्रत्यक्षानुभवेतिव्याप्तिः तद्वारणाय विशे- षणोपादानम् ॥ संस्कारध्वंसेतिव्याप्तिवारणाय विशे- प्योपादानम् ॥ ध्वंसे प्रतियोगिनः कारणत्वात् संस्कार- ध्वंसेपि संस्कारजन्यत्वस्य सत्त्वात् ॥ प्रत्यभिज्ञायाम- निव्याप्तिवारणायमात्रपदम् ॥ ( पदकृ.) संस्कारेति ॥ संस्कारध्वंसेऽतिव्याप्तिवारणाय 'ज्ञानम् इति । अनुभवेऽतिव्याप्तिवारणाय 'संस्कारजन्यम्' इति । तथापि प्रत्यभिज्ञायामतिव्याप्तिवारणाय संस्कारमात्रजन्यत्वं विवक्षणीयम् ।। क्वचित्तथैव पाठः ॥ नचैवं सत्यसंभवः ॥ तस्य संस्कारजन्यत्वे सतीन्द्रियार्थसनिकर्षाजन्यार्थकत्वात् ।। तद्भिनं ज्ञानमनुभवः। स द्विविधः-यथार्थोऽयथार्थश्च। (न्यायबो०) अनुभवं लक्षयति-(तद्भिनामति) तद्भि नत्वं नाम स्मृतिभिन्नत्वम् ॥ तत्र विशेषणानुपादाने स्मृतावतिव्याप्तिः, विशेष्यानुपादानेघटादावतिव्याप्तिः, अतस्तद्वारणाययोरुपादानम् ॥ अनुभवं विभजते-स द्विविध इति ॥ (पदकृ०) तदिति ॥ स्मृतित्वावच्छिन्नभिन्नमित्यर्थः ॥ तेन यत्किंचित्स्मृतिभिन्नत्वस्य स्मृतौ सत्त्वेपि न क्षतिः। घटादावतिव्याप्ति वारणाय 'ज्ञानम् । इति ।। स्मृतिवारणाय ' तद्भिन्नम्' इति ॥ तद्वति तत्प्रकारकोऽनुभवो यथार्थः-सएवप्रमेत्युच्यते (न्यायबो०) यथार्थानुभवं लक्षयति-तद्वतीति ॥ १ध्वंसं प्रति स्वप्रतियो। २विशेषणविशेष्योभयोरु.॥
तर्कसंग्रहः। (२१) , 'तद्वति । इत्यत्र सप्तम्यर्थों विशेष्यत्वम्, तच्छब्देन प्रकारीभूतो धर्मो धर्तव्यः। तथा च तद्वद्विशेप्यकत्वे सति तत्प्रकारकत्वं यथार्थानुभवस्य लक्षणम् ॥ उदाह- रंणम्-रजतत्ववद्विशेष्यकत्वे सति रजतत्वप्रकारकम्- रजते 'इदं रजतम्' इति ज्ञानं 'तद्वत्रिष्ठविशेष्यतानिरू- पिततनिष्ठेप्रकारताशाल्यनुभवत्वम्, इति निष्कर्षः॥अ- न्यथायथाश्रुते, रङ्गरजतयोः 'इमे रङ्गरजते' इत्याका- रकसमूहालम्बनभ्रमे ऽतिव्याप्तिः ॥ तत्रापि रजतत्वव द्विशेष्यकत्व-रजतत्वप्रकारकत्वयोः, रङ्गत्ववद्विशेयक त्वरङ्गत्वप्रकारकत्वयोः सत्त्वात् । उक्तनिष्कर्षे तु ना- तिव्याप्तिः, नज्ज्ञानस्यरङ्गांशे रजतत्वप्रकारताया रङ्ग- त्वनिष्ठविशेष्यतानिरूपितत्वेपि रजतत्वेवद्विशेष्यता- निरूपितत्वभावात्, रजतांशे रङ्गत्वप्रकारताया रजत- त्ववत्रिष्ठ विशेष्यतानिरूपितत्वेपि रङ्गत्ववंद्विशेष्यतानि रूपितत्वाभावात्,किंतु समूहालम्बनभ्रमस्य रङ्गांशे रज- तत्वावगाहित्वेन रजतत्वप्रकारताया रङ्गत्ववद्विशेष्यता निरूपितत्वात्एवं, रजतांशे रङ्गत्वावगाहित्वेन रङ्गत्वप्र- कारताया रजतत्ववद्विशेप्यतानिरूपितत्वाञ्चति ॥ (ना- नाधर्मप्रकारताशालि एकं ज्ञानं समूहालम्बनम् )॥ (पदकृ० ) तद्वतीति ॥ तदेव प्रकारो यस्य स तथेत्यर्थः । 'तद्वदिशेष्यकतत्प्रकारकः' इति यावत् ॥ स्मृतिधारणा 'अनुभवः' इति । अयथार्थानुभवनिरसेनाय 'तद्वति' इति ॥ निर्विकल्पकेऽति व्याप्तिवारणाय 'तत्प्रकारकः इति ॥ १ तत्प्रकारकत्वेसत्यनुभवत्वम् । २ कुत्रचिन्निष्ठपदं नास्ति । ३ रजतरंगयो. १४ उक्तभ्र- मेइत्यधिकम १५ रजतत्ववद्रजतविशे ।६ रंगत्ववद्रंगविशे । ७ नानागुणिविशेष्यतानिरूपि- त इत्यधिकंकुत्रचिदेव दृश्यते. तट्टिप्पणीरूपमिवाभाति. 1 ८ तद्वतीत्यर्थः । ९ वारणाय ।
(२३) तर्कसंग्रहः। तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः॥ (न्यायबो०) अयथार्थानुभवं लक्षयति-तदभावव- तीति।अत्रापिपूर्ववत् तदभाववनिष्ठविशेष्यतानिरूपित- तनिष्ठप्रकारताशालिज्ञानत्वं विवक्षणीयम् ॥ अन्यथा रङ्गरजतयोः 'इमे रङ्गरजते' इत्याकारकसमूहालम्बन- प्रमायामतिव्याप्तिः। एतत्समूहालम्बनस्य रङ्गरजतोभ- यविशेप्यकत्वेन रजतत्वरङ्गत्वोमयप्रकारकत्वेन च रजत- त्वाभाववद्रगनिष्ठविशेष्यकत्वरजतत्वप्रकारकत्वयोरङ्ग त्वाभाववद्रजतविशेष्य कत्वरङ्गत्वप्रकारकत्वयोश्च सत्त्वा त् ।। निकर्षे 'तु रजतांशे रजतत्वावगाहित्वेन रङ्गांशे रङ्गत्वावगाहित्वेन च रेंजतत्वप्रकारताया रजतत्वाभाव- वद्रगनिष्ठविशेष्यतानिरूपितत्वाभावात्,एवं रङ्गत्वप्रका- रताया रङ्गत्वाभापवद्रजतविशेप्यतानिरूपितत्वाभा- वाच, नातिव्याप्तिः ॥ उदाहरणम्-यथा शुक्तो 'इदं रजतम् ' इति ॥ ( पदकृ०) तदभाववतीति ॥ तदभाववदिशेप्यकतत्प्रकारको ऽनुभवोऽयथार्थानुभवः' इति ॥ यथा शुक्तौ 'इदं रजतम्' इति ज्ञान- म् । स्मृतिवारणाय ' अनुभवः । इति ॥ यथार्थानुभवनिरसनाय 'तद भाववति इति ॥ निर्विकल्पकवारणाय 'तत्प्रकारकः' इति ॥ यथार्थानुभवश्चतुर्विधः-प्रत्यक्षानुमित्युपमि तिशाब्दभेदात् ॥ (न्यायबो०) यथार्थानुभवं विभजते- 'चतुर्विधः' इति ॥ १ ज्ञानपदं कुत्रचित्रास्ति २ कारकस्थले । ३ लम्बने । ४ उक्तनिष्क ! ५ रजतांशे रजत । ६ रंगत्वांशेरंग । ७ खण्डनाय । इदमवतरणं कुत्रचित्रास्ति ।
तर्कसंग्रहः। (३) . ( पदकृ० ) यथार्थेति ॥ यथार्थानुभवः 'प्रत्यक्षमेव इति चार्वा- काः, 'अनुमितिरपि' इति काणादबौद्धाः, 'उपमितिरपि' इति नैया- यिकैकदेशिनः, 'शाब्दापि इति नैयायिकाः, 'अर्थापत्तिरपि इति प्राभाकराः, अनुपलब्धिरपि' इति भावेदान्तिनौ, ' सांभ- विकैतिह्यकावपि' इतिपौराणिकाः, चैष्टिकोऽपि' इति तान्त्रिकाः ।। एतेषां मतेऽस्वरसं संभाव्य तस्य चातुर्विध्यं स्पष्टं दर्शितम् ॥ तत्करणमपिचतुर्विधम्-प्रत्यक्षानुमानो पमानशब्दभेदात्॥ (न्यायबो० ) तत्करणमिति ॥ फलीभूतप्रत्यक्षादि- करणं चतुर्विधम् इत्यर्थः ॥ प्रत्यक्षादिचतुर्विधप्रमाणा- नां प्रमाकरणत्वं सामान्यलक्षणम् ॥ एकैकप्रमाणलक्षणं तु वक्ष्यते, प्रत्यक्षज्ञानम्-, इत्यादिना ॥ ( पदकृ०) तदिति॥यथार्थानुभवात्मकप्रमायाः करणमित्यर्थः ।। असाधारणं कारणं करणम् ॥ (न्यायबो०) करणलक्षणमाह--असाधारणमिति ॥ व्यापारवदसाधारणं कारणं करणम्, इत्यर्थः । असा धारणत्वं च 'कार्यत्वव्याप्यधर्मावच्छिन्नकार्यतानिरू- पितकारणताशालित्वम्, इत्यर्थः । यथा दण्डादौ घटं प्रत्यसाधारणकारणत्व-कार्यत्वव्याप्यो घटत्वादिरू- पधर्मः, तदवच्छिन्नकार्यता घटे, तनिरूपितकारणता दण्डे, अतो घटं प्रति दण्डो ऽसाधारणकारणम् । भ्रम्या दिरूपव्यापारवत्त्वाच्च करणम् ॥ साधारणत्वं च कार्य १ अस्वरसात्तस्य । २ प्रमाणस्य । ३ आसाधारणं च । ४ कार्यत्वातिरिक्तधर्मा। ५ कुत्रचिनास्ति । ६ त्वं च । ७ कार्यत्वातिरिक्तो। ८ णत्वम् । ९साधारणकारणत्वं च ।
तकसंग्रहः। , त्वावच्छिन्नकार्यतानिरूपितकारणताशालित्वम् ॥ईश्वरे- च्छादृष्टादेः कार्यत्वावच्छिन्नंप्रत्येव कारणत्वात्साधारण- कारणत्वम् ॥ ( पदकृ० ) असाधारणमिति कालादिवारणाय ' असाधारणम्। इति । व्यापारे ऽतिव्याप्तिवारणाय 'व्यापारवद्' इत्यपि देयम् ॥ व्यापारश्च द्रव्यान्यत्वे सति तज्जन्यत्वे सति तज्जन्यजनकः । इश्वरे च्छादिवारणाय तज्जन्यत्वे सति' इति ॥ कुलालजन्यत्वे सति कुला- लजन्यघटजनकत्वं कुलालपुत्रस्याप्यस्ति, अतस्तत्रातिव्याप्तिवारणाय प्रथमं रुत्यन्तम् ॥ दण्डरूपादिवारणाय तज्जन्यजनकः' इति ॥ कानियतपूर्ववृत्ति कारणम् ॥ (न्यायबो ) कारणं लक्षयति-कार्यनियतेति ॥ कार्य प्रति नियतत्वे सति पूर्ववृत्तित्वम् ॥ नियतत्ववि- शेषणानुपादाने पूर्ववर्तिनो रासभादेरपि घटादिकार णत्वं स्यात्, अतो' नियतत्वे सति, इति विशेषणम् ॥ नियतपूर्ववर्तिनो दण्डरुपादेरपि घटकारणत्वं स्यात्, अतः 'अनन्यथासिद्धृत्वम् ' अपि कारणलक्षणे निवेश- नीयम्, दण्डरूपादेरन्यथासिद्धत्वात् ॥ ( पदकृ०) कार्येति ॥ 'कार्यान्नियताऽवश्यंभाविनी पूर्ववृत्तिः पूर्वक्षणवृत्तिर्यस्य तत्तथा' इत्यर्थः ।। अनियतरासभादिवारणाय 'नियत' इति । कार्यवारणाय 'पूर्व ' इति । दण्डत्वादिवारणाय 'अनन्यथा- सिद्धत्वा विशेषणस्यावश्यकत्वेन तत एव रासभादिवारणसंभवे , । १ ईश्वरादृष्टादेः। २ अनन्यथासिद्धाका। ३ कारणत्वम् । ४ विशेषणाभाव ५ नियतपूर्वव । ६ घटादीतिकुत्रचिन्न । ७ नियतविशेषणम् । ८ घटादिकारणता । ९ सिद्धपदमपि। १० कारणत्वल। ११ दीनातु ।
तर्कसंग्रहः। (२५) नियतपदमनर्थकम् ॥ एवं च ' अनन्यथासिद्ध कार्यपूर्ववृत्ति कारणम् इति फलितम् ॥ अनन्यथासिद्धत्वमन्यथासिद्धिशून्यत्वम् । अन्यथा सिद्धिश्च ‘अवश्यक्तृप्तपूर्ववर्तिन एव कार्यसंभवेतत्सहभूतत्वम् ' । यथा-अवश्ययत्कृप्तनियतपूर्ववर्तिभिर्दण्डादिभिरेव घटरूपकार्यसंभवे नेत्सहभूतत्वं दण्डत्वादी, इति तदन्यथासिद्धम् ॥ कार्य प्रागभावप्रतियोगि ॥ (न्यायबो०) कार्य लक्षयति--प्रागिति ॥प्रागभाव- प्रतियोगित्वं कार्यस्य लक्षणम् ॥ कार्योत्पत्तेः पूर्वम् इह घटो भविष्यति, इति या प्रतीतिर्जायते तत्प्रतीति विषयोऽभावः प्रागभाव: , तत्प्रतियोगि घटादि- रूपं कार्यम् ।। ( पदकृ० ) प्रागिति ॥ कालादिवारणाय 'प्राग् ' इति ॥ असं- भववारणाय 'प्रतियोगि' इति ॥ कारणं त्रिविधम्- समवाय्यसमवायिनिमित्तभेदात् ॥ (न्यायबो०) कारणं विविधमिति ॥ समवायिकार णम्, असमवायिकारणं, निमित्तकारणं चेति ॥ यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम् । यथा तन्तवः पटस्य पटश्च स्वगतरूपादेः॥ (न्यायबो०) समवायिकारणं लक्षयति-यत्समवे- तमिति ॥ यस्मिन् समवेतं सत् समवायेन संबद्धं सत् कार्यम् उत्पद्यते तत्समवायिकारणम् , इत्यर्थः ॥ उदा- हरणम्-'यथा तन्तवः' इति । तन्तुषु समवायेन संबद्धं सत् पटात्मकं कार्यमुत्पद्यते इति तन्तवः सम- १ कार्यपदं नास्ति. २ कृप्तनियतपू-. ३ भूतदण्ड- ४ विषयीभूतोऽभा.
(२६) तर्कसंग्रहः। वायिकारणम्,इत्यर्थः॥सामान्यलक्षणंतु--'समवायसंब न्धावच्छिन्नकार्यतानिरू पिततादात्म्यसंबन्धावच्छिन्नका रणताश्रयत्वंसमवायिकारणत्वम् इति।समवायसंबन्धेन घटाद्यधिकरणेकपालादो कपालादेस्तादात्म्यसंबन्धेनैव सत्त्वात्समवायसंबन्धावच्छिन्नघटत्वावच्छिन्न कार्यतानि रूपिततादात्म्यसंबन्धावच्छिन्न कारणतायाः कपालादौ सत्त्वाल्लक्षणसमन्वयः ॥ 'जन्यभावत्वावच्छिन्नं प्रति ता- दात्म्यसंबन्धेन द्रव्यस्यैव कारणत्वात् । जन्यभावेषु द्रव्य- गुणकर्मसु त्रिषु द्रव्यमेव समवायिकारणम्' अतो गुणा- दावपि द्रव्यमेव समवायिकारणम् इत्याशयेनाह-पटश्च स्वगतरूपादेः' इति ॥ 'समवायिकारणम्' इत्यनुषज्यते॥ ( पदकृ० ) यदिति ।। 'यस्मिन् समवायसंबन्धेन वर्तमानं तव इति भावः । चक्रादिवारणाय समवेतम् । इति ॥ कार्येण कारणेन वा सहकैस्मिन्नर्थे समवेतत्वे सति कारणमसमवायिकारणम् । यथा तन्तुसंयोगः पटस्य । तन्तुरूपं पटगतरूपस्य । (न्यायबो०) असमवायिकारणं लक्षयति-कार्ये णोति ॥ 'कार्येण सहकस्मिन्नर्थे समवेतं सद्यत् कारणं तदसमवायिकारणम् ' इत्यन्वयः। 'कारणेन सहैकस्मि- नर्थे समवेतं सद्यत् कारणं तदसमवायिकारणम्' इत्ये- न्वयः ॥ जन्यद्रव्यमाने ऽवयवसंयोगस्यैवासमवायिका- रणत्वात्, 'पटात्मककार्ये तदवयवतन्तुसंयोगस्यैवासमwan १ वच्छिन्नकपालत्वाच्छिन्नकार.। २' द्रव्ये तु द्रव्यावयवाः समवायिकारणअतो रत्वगादि। ४ इत्यर्थः । ५ द्रव्ये।
तर्कसंग्रहः। (२७) वायिकारणत्वम्' इति दर्शयति---' यथा तन्तुसंयोगः पटस्य ' इति ॥ पटात्मककार्येण सहकस्मिन्नर्थ तन्तो समवेतंसत् समवायसंबन्धेन वर्तमानं सत पटात्मककार्य प्रति तन्तुसंयोगात्मकं कारणमसमवायिकारणमित्यर्थः । द्वितीयमसमवायिकारणं 'कारणेन सह ' इत्यादिना पूर्वोक्तमुदाहरति--' तन्तुरूपम् । इति ॥ कारणेन सह पटरूपसमवायिकारणीभूतपटेन सह एकस्मिन्नर्थ तन्तु रूपे ऽर्थे समवेतं सत् समवायसंबन्धेन वर्तमानं सत तन्तुरूपं पटरूपं प्रति कारणं भवति, अतो ऽसमवायि- कारणं तन्तुरूपं पटरूपस्य ॥ सामान्यलक्षणं तु 'सम- वायसंबन्धावच्छिन्नकार्यतानिरूपिता या समवायस्व- समवायिसमवेतत्वान्यतरसंबन्धावच्छिन्ना कारणता ताशकारणताश्रयत्वम् असमवायिकारणत्वम्' इति॥ द्रव्यासमवायिकारणीभूतावयवसंयोगादौ तु समवाय- संबन्धावच्छिन्नघटत्वावच्छिन्नकार्यतानिरूपिता समवा- यसंबन्धावच्छिन्ना कपालदयसंयोगनिष्ठा कारणता कपालद्वयसंयोगे वर्तते ॥ एवम् आद्यपतनक्रियायां आद्यस्यन्दनक्रियायां च गुरुत्वद्रवत्वे असमवायि- कारणे भवतः । आद्यपतनक्रियांप्रति आद्यस्यन्दन- कियां प्रति च समवायसंबन्धेनैव तयोः कारणत्वात् ॥ अवयविगुणादौ त्ववयवगुणादेः स्वसमवायिसमवेतत्व संबन्धेनैव कारणत्वात् तत्संबन्धावच्छिन्नकारणताश्रय- त्वमवयवगुणादौ वर्तते ॥ अवयवगुणभूतकपालतन्तु- रूपादेस्वशब्दमाह्यकपालरूपतन्तुरूपसमवायिकपालत- १ दर्शयति । २ तदाश्रयत्वन् ।
(२८) तर्कसंग्रहः। न्तुसमवेतत्वसंबन्धेन घटपटादो कपालरूपतन्तुरूपयो: सत्वात् लक्षणसंगतिः॥ (पदकृ० ) कार्येणेति ॥ कार्येण सह कारणेन सह वा एक स्मि- वर्थेसमवेतत्वे सति, आत्मविशेषगुणभिन्नत्वे सति, यत्कारणं तदसम वायिकारणम् ॥ तन्तुसंयोगादावव्याप्तिवारणाय 'कार्येण' इति॥ तन्तु रूपादावव्याप्तिवारणाय 'कारणेन' इति ॥ आत्मविशेषगुणेऽतिव्याप्ति वारणाय 'आत्मविशेषगुणभिन्नत्वे सति' इति ॥ विशेषवारणाय कारणम् । इति॥ तदुभयभिन्न कारणं निमित्तकारणम् । यथा-तुरी- वेमादिकं पटस्य ॥ (न्यायबो०) तदुभयभिन्नमिति ॥ 'समवाय्यसम वायिकारणभिन्नम्' इत्यर्थः॥ ( पदकृ० ) तदुभयभिन्न कारणं निमित्तकारणम् इति ॥ समवाय्यसमवायिकारणवारणाय 'तदुभयभिन्नम् ' इति । विशेषादा- पतिव्याप्तिवारणाय 'कारणम् ' इति ॥ तदेतत्रिविधकारणमध्येयदसाधारणकारणंतदेवकरणम् (न्यायबो०) तदेतदिति ॥ 'यदसाधारणम्' इति ॥ व्यापारवत्त्वे सति, इत्यपि पूरणीयम् ॥ अन्यथा तन्तुक- पालसंयोगयोरतिव्याप्तिः, तन्तुकपालसंयोगयोरपिकार्य- त्वंव्याप्यपटत्वघटत्वाद्यवच्छिन्नं प्रतिकारणत्वादसाधार णत्वमस्त्येवेति, अतस्तत्र करणत्ववारणाय 'व्यापारवत्त्वे सति' इति करणलक्षणे विशेषणं देयम् ॥ व्यापारत्वं १ कार्येण कारणेन सहैक-12 वायिभिन्नकारणमित्य । ३ गादौ । ४ कार्यत्वातिरिक्त ।
तर्कसंग्रहः। , च तजन्यत्वे सति तजन्यजनकत्वम् ।। भवति हि दण्ड- जन्यत्वे सति दण्डजन्यघटजनकत्वाद् भ्रम्यादेर्दण्डव्या- पारत्वम् ॥ एवं कपालसंयोगतन्तुसंयोगादेरपि कपाल- तन्तुव्यापारत्वम् कपालतन्वादिजन्यत्वे सति कपालत- नत्वादिजन्यघटपटादिजनकत्वात् ॥ करणलक्षणे ऽसाधा- रणत्वविशेषणानुपादाने ईश्वरादृष्टादेरपि व्यापारवत्त्वे- सति कारणत्वात्करणत्वंस्यात् । अतः तत्रातिव्याप्तिवा- रणाय 'असाधारण' इति पदोपादानम् ॥ (पदकृ० ) तदेतदिति ॥ यस्मात्कारणात् करणत्वघटकं कारण मुपदर्शितम् तस्मादेतत्त्रिविधसाथकमध्ये यत्साधकतमं तदेव करणम् इति भावः ॥ इति करणप्रपञ्चः ।। तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् ॥ (न्यायबो०) षड्विधेन्द्रियभूतप्रत्यक्षप्रमाणस्य लक्ष- णमाह-तत्रेति ॥ प्रमाणभूतेषु, प्रत्यक्षात्मिकं यज्ज्ञानं चाक्षुषादिप्रत्यक्षं तत्प्रति करणं व्यापारवदसाधा- रणम् इन्द्रियं भवति,अतः प्रत्यक्षज्ञानकरणत्वं प्रत्यक्षस्य लक्षणम् ॥ आद्यसंनिकर्षातिरिक्तचतुर्विधसंनिकर्षाणां समवायघटितत्वेनेन्द्रियजन्यत्वाभावाद्वयापारत्वं न सं- भवति, इतीन्द्रियमनस्संयोगस्यैव षड्विधप्रत्यक्षे जननीये इन्द्रियव्यापारता बोध्या ॥ ( पदकृ० ) तत्रेति ॥प्रमाणचतुष्टययमध्ये ॥ दण्डादिसंयोगवार- 'ज्ञान' इति ॥ अनुमानादिवारणाय 'प्रत्यक्ष' इति । ज्ञानाकरणकं ज्ञानं प्रत्यक्षम् ॥ इन्द्रियार्थसनि- २ यस्यों नास्ति । वदसाधारण कारणमिन्द्रिय । ५ समवायरूपत्वेन। ८ संयोगपदं कुत्रचिन्नास्ति। SARDAN णाय १ करणघ । ३ षद्धिधप्रत्य। ४ कारणंव्यापार ६ संभवात् । ७ बाह्यमा (३०) तर्कसंग्रहः। कर्पजन्यज्ञानं प्रत्यक्षम्।तद्विविधम्-निर्विकल्पक सविकल्पकं चेति॥ (न्यायबो०) प्रत्यक्षप्रमाणलक्षणमुक्त्वा प्रत्यक्षप्र मायालक्षणमाह-ज्ञानाकरणकमितिाक्षेपकं लक्षणमिदम् ज्ञानं व्याप्तिज्ञानं सादृश्यज्ञानं पदज्ञानं च तदेव करणं येषां तानि ज्ञानकरणकानि अनुमित्युपमितिशाब्दानि तद्भिन्न ज्ञानाकरणकं यज्ज्ञानं [तत्त्वम् ] प्रत्यक्षप्रमायाल- क्षणम् । प्रत्यक्षे इन्द्रियाणामेव करणत्वात्, न तु ज्ञानस्य करणत्वम् इतिसमन्वयः ॥ इदं लक्षणमीश्वरप्रत्यक्षसा- धारणम् ईश्वरप्रत्यक्षस्यज्ञानकरणकत्वात् । इन्द्रियार्थसं- निकषेति । जन्यप्रत्यक्षस्यैव लक्ष्यत्वाभिप्रायेणेदम् ॥ प्रत्यक्षं विभजते-'निर्विकल्पकम् ' इति ॥ (पदकृ० ) इन्द्रियार्थेति ।। इन्द्रियं चक्षुरादिकम् , अर्थो घटादिः तयोः संनिकर्षः संयोगादिः, तज्जन्यं ज्ञानं प्रत्यक्षम् । इत्यर्थः । संनि- कर्षध्वंसवारणाय 'ज्ञानम् ' इति । अनुमित्यादिवारणाय — इन्द्रियार्थ सनिकर्ष । इति ॥ ननु ‘सोपनेत्रचक्षुषा कथं पदार्थग्रहणम् , चक्षुष- उपनेत्रनिरुत्वेन पदार्थेन सहँ संनिक भावात् कथं वा स्वच्छजान्हवी- सलिलावृतमत्स्यादेश्चक्षुषा ग्रहणम् ' इति चेत् , न । स्वच्छद्रव्यस्य पदार्थनिरोधकत्वाभावेन तदन्तश्चक्षुःमवेशसंभवात् ॥ नचईश्वरप्रत्य ऽव्याप्तिः, इति वाच्यम् । अत्र जन्यप्रत्यक्षस्यैव लक्षितत्वात् । तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकम् ॥ , १ उक्तम्. २ प्रत्यक्षप्रमालक्षणम् . ३ तद्भिन्नत्व प्रत्यक्षे । ४ ईश्वरीय । ५ रश्वरीय । ६ इदै लक्षणम् ।
तर्कसंग्रहः। (३१) (न्यायबो०) निष्प्रकारकमिति ॥ 'प्रकारताशून्य- त्वमेव निर्विकल्पकत्वम् ' इत्यर्थः ॥ निर्विकल्पके चतुर्थी विषयता स्वीक्रियते नतु विविधविषयतामध्ये कोऽपि तत्रास्ति । अतो 'विशेष्यताशून्यज्ञानत्वम्' इत्यपि लक्षणं संभवति ॥ (पदकृ०) तत्र निप्प्रकारकमिति॥ सविकल्पके ऽतिव्यासि- वारणाय 'निप्पकारकम्' इति । प्रकारवारणाय 'ज्ञानम् इति ॥ सप्रकारकं ज्ञानं सविकल्पकम् ॥ यथा-डित्थोऽ- यम्, ब्राह्मणोऽयम्, श्यामोयम्' इति ॥ (न्यायबो०) सप्रकारकमिति ॥ विषयताया ज्ञान- निरूपितत्वात् ज्ञानस्य विषयतानिरूपकत्वेन, प्रकारता- निरूपकज्ञानत्वं सविकल्पकस्य लक्षणम् ॥ उदाहरणम्- यथेति । इदंत्वावच्छिन्नविशेप्यतानिरूपितडित्थत्वप्रका- रताशालिज्ञानं ब्राह्मणत्वप्रकारताशालिज्ञानं च सवि- कल्पकमित्यर्थः॥ ( पदकृ०) सप्रकारेति॥ घटादिवारणाय 'ज्ञानम्' इति निर्विकल्प कवारणाय समकारकम् । इति ॥ प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसंनिकर्पः पहिधः-संयो- गः,संयुक्तसमवायः, संयुक्तसमवेतसमवायः,समवायः समवेतसमवायः, विशेपणविशेष्यभावश्चेति ॥ (न्यायबो० ) चाक्षुषादिषड्विधप्रत्यक्षकारणीभूतान्ष- ड्विधसंनिकर्षान्विभजते 'संयोगः' इत्यादिना ॥ द्रव्य- २ एकापि। ३ विशेषणतान्यत्वमिव विशेष्यताशून्यत्वं १ कुत्रचित्रोपलभ्यते। संसर्गताशन्यत्वमित्वपिल ।
(३२) तर्कसंग्रहः। वृत्तिलौकिकविषयतासंबन्धेन चाक्षुषत्वावच्छिन्नं प्रतिच क्षुस्संयोगः कारणत्वम् । द्रव्यसमवेतवृत्तिलौकिकवि- षयतासंबन्धेन चाक्षुषत्वावच्छिन्नं प्रति चक्षुस्संयुक्तसमवा यस्य हेतुत्वम् । द्रव्यसमेतसमवेतवृत्तिलौकिकविषयता- संबन्धेन चाक्षुषत्वावच्छिन्नंप्रति चक्षुःस्संयुक्तसमवेतसम- वायस्य हेतुत्वम् । द्रव्यग्राहकाणीन्द्रियाणि चक्षु- स्त्वङ्मनांसि त्रीण्येव । अन्यानि घ्राणरसनश्रवणानि गुणग्राहकाणि ॥ अतस्त्वगिन्द्रियस्थले द्रव्यवृत्तिलौकि- कविषयतासंबन्धेन त्वाचत्वावच्छिन्नं प्रति त्वक्संयोगस्य हेतुता ॥ एवं द्रव्यसमवेतत्वाचत्वावच्छिन्नं प्रति त्वक्सं- युक्तसमवायस्य हेतुता।द्रव्यसमवेतसमवेतोष्णत्वशीत- त्वादिजातिस्पार्शनप्रत्यक्षे त्वक्संयुक्तसमवेतसमवायस्य हेतुता।एवम् आत्मरूपद्रव्यमानसप्रत्यक्षे मनःस्संयोगस्य हेतुता|आत्मसमवेतसुखादिमानसप्रत्यक्षे मनस्संयुक्तस- मवायस्य हेतुता । आत्मसमवेतसमवेतमुखत्वादिमान- सप्रत्यक्षे मनस्संयुक्तसमवेतसमवायस्य हेतुता ॥ रसन- घ्राणयोस्तु रसोगन्धतगतजातिग्राहकत्वेन द्वितीयतृ- तीययोः संनिकर्षयोरेव तंत्र हेतुता वाच्या ॥ श्रवणे- न्द्रियस्याकाशरूपत्वेन शब्दस्याकाशगुणत्वेन श्रवणे- न्द्रियेण समं शब्दस्य समवायः संनिकर्षः। शब्दवृत्ति- शब्दत्वजातिविषयकश्रावणप्रत्यक्ष समवेतसमवायस्य हेतुता|अभावप्रत्यक्षे इति॥विशेषणविशेष्यभावो नाम ३ चेत्यधिकम् । १त्वाचप्रत्पक्षत्वा। २ द्रव्यसमवेतविषयकत्वाचप्रत्यक्षत्वा । ४ रसगन्धप्रत्यक्षेइत्यर्थः । ५ शब्दत्वकत्वखत्वगत्वादि ।
तर्कसंग्रहः । (३३) विशेषणतासंनिकर्षः । पञ्चविधसंनिकर्षोपरि विशेषणता योजनीया तथाहि-द्रव्याधिकरणकाभावप्रत्यक्षे संयुक्त- विशेषणता । द्रव्यसमवेताधिकरणकाभावप्रत्यक्षे इन्द्रि- यसंयुक्तसमवेतविशेषणता। द्रव्यसमवेतसमवेताधिकर णकाभावप्रत्यक्षे इन्द्रियसंयुक्तसमवेतसमवेतविशेषणता संयोगस्थाने संयुक्तत्वं घटयित्वा समवायस्थाने समवे- तत्वपदं घटयित्वा अभावप्रत्यक्षस्थले निर्वाह्यम् ॥ यथा घटद्रव्यसमवेतं घटत्वं पृथिवीत्वादि रूपादिकं च ॥ तत्र नीलादौ पीतत्वाभावः, घटत्वादिजातौ पटत्वाभावश्च वर्तते । स चाभावः संयुक्तसमवेतविशेषणतासंनिकर्षण गृह्यते । ( एवं नीलत्वादिजातो पीतत्वाभावोऽपीन्द्रिय- संयुक्तसमवेतसमवेतविशेषणतासंनिकर्षण गृह्यते ) । पटसमवेतं नीलं, तत्समवेतं नीलत्त्वम्, तद्विशेषणता पीतत्वाभाववर्तत इति संक्षेपः ॥ ( पदकृ० ) प्रत्यक्षेति ॥ तच्च प्रत्यक्ष-पड्विधम्-घ्राणज-रासन- चाक्षुष श्रौत्रंत्वाच-मानसभेदाद ॥ ननु ' प्रत्यक्षकारणीभूतेन्द्रियसं निकर्षप्रत्यक्षसामानाधिकरण्यघटकः संनिकर्षः कः' इत्यपेक्षायां विभज्य दर्शयति प्रत्यक्षेति । लौकिकमत्यक्ष इत्यर्थः ।। चक्षुषा घटप्रत्यक्षजनने संयोगः संनिकर्षः। ( पदकृ० ) संयोगमुदाहरति चक्षुषेति ॥ तथा च 'द्रव्यचाक्षुष त्वाचमानसेषु संयोग एव संनिकर्षः इति भावः । घटरूपप्रत्यक्षजनने संयुक्तसमवायः संनिकर्षः । चक्षुःसंयुक्ते घटे रूपस्य समवायात् १ संयोगस्थाने समवायस्थानेच सयुक्तपदं समवेतपदं च । २ दिक। ३ निष्ठ । av (३४) तर्कसंग्रहः। ( पदकृ० ) घटरूपेति ॥ ' चक्षुषा' इत्यनुषजते ॥ तथा च द्रव्यसमवेतचाक्षुषरासनघ्राणजस्पार्शनमानसेषु संयुक्तसमवाय एव संनिकर्ष इत्यर्थः॥ रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः संनि- कर्षः। चक्षुः संयुक्ते घटेरूपं समवेतम्, तत्र रूप- त्वस्य समवायात् ॥ ( पदकृ०) रूपत्वेति ॥ रूपत्वात्मकं यत्सामान्यम्, तत्मत्यक्ष इत्यर्थः अत्रापि 'चक्षुषा' इत्यनुषज्यते। तथा च 'द्रव्यसमवेतसमवेत चाक्षुषरासनघ्राणजस्पार्शनमानसेषु संयुक्तसमवेतसमवाय एव संनि- कर्षः' इति भावः ॥ अथ 'द्रव्य तत्समवेतप्रत्यक्षेऽपि संयुक्तसमवाय एव संनिकर्षोऽस्तु ' इति चेत् नैतत् । ईश्वरात्मादेरनध्यक्षत्व प्रसंगात् ॥ श्रोत्रेण शब्दसाक्षात्कारे समवायः संनिकर्षःकर्ण- विवरवाकाशस्य श्रोत्रत्वात् । शब्दस्याकाशगु णत्वात् । गुणगुणिनोश्च समवायात् ॥ ( पदकृ०) समवायसंनिकर्षमुदाहरति श्रोत्रेणेति॥ 'जननीये। इति शेषः ननु ' श्रोत्रशब्दयोः कथं समवायः' इत्यपेक्षमाणं प्रति तमुपपाद्य दर्शयति-कर्णेति ॥ अथ 'समवायस्य नित्यत्वेन शब्द- प्रत्यक्षे को व्यापारः : इति चेत् ॥ शब्दः श्रोत्रमनःसंयोगो वा इति गृहाण ॥ शब्दत्वसाक्षात्कारे समवेतसमवायः संनिकर्षः। श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात् ॥ ? चक्षुषा जनन इति । २ चाक्षुषत्वाचमानसरासनघाणजेषु ।
तर्कसंग्रहः। (३५) ( पदकृ० ) शब्दत्वेति ॥ श्रोत्रण । 'जननीय ' इत्यनुकर्षशेषौ।। अभावप्रत्यक्षे विशेषणविशेप्यभावः संनिकर्षः । घटाभाववद्भूतलम् , इत्यत्र चक्षुःसंयुक्ते भूतले वटाभावस्य विशेषणत्वात् ॥ ( पदकृ० ) विशेषणेति ॥ विशेषणभावो विशेष्यभावः। इन्द्रियसंबद्धविशेषणत्वम् , इन्द्रियसंबद्धविशष्यत्वम् , इति यावत् ॥ विशेषणभावसनिकर्ष मुपपाद्य दर्शयति-घटाभाववदिति ॥ इह भूतले घटोनास्ति' इत्यादौ विशेप्यतासंनिकर्षोऽवसेयः । सप्तम्य- न्तस्य विशेषणत्वात् ॥ एवं संनिकर्षपङ्कजन्यं ज्ञानं प्रत्यक्षम् ॥ ( पदकृ० ) प्रत्यक्षप्रमाणमुपसंहरति एवमिति । ' उपदर्शित- क्रमेण · इत्यर्थः। तत्करणमिन्द्रियम् । तस्मात् 'इंद्रियं प्रत्यक्षप्रमा- णम्' इति सिद्धम्॥ ( पदकृ०) ननु । सिद्धान्ते प्रत्यक्षज्ञानकरणमिन्द्रियार्थसंनिकर्षः किं न स्यात् । इति चेत् ॥ 'न' इत्याह-तत्करणमिति ॥ प्रत्यक्ष प्रमाणं निगर्दयति-तस्मादिति ॥ प्रत्यक्षप्रमाणकरणत्वादित्यर्थः ।। सिद्धमिति ॥ न्यायसिद्धान्ते सिद्धमित्यर्थः ॥ इति प्रत्यक्षपरिच्छेदः समाप्तः। अनुमितिकरणमनुमानम् ॥ न्यायबो०) अमानं लक्षयति-अनुमितीति ॥ १ वश्चेति बोध्यम् । २ व्यापारत्त्वाभावादिति भावः । 'फलायोगव्यवच्छिन्नं कारणम् इति मते तु संत्रिकर्ष एव प्रत्यक्षप्रमाणम् इति बोध्यम। ३ निगमयति । ४ अवतरणप्र ताक कुत्रचिन्न स्तः । , (३६) तर्कसंग्रहः। अनुमितो व्याप्तिज्ञानं करणम्, परामर्शो व्यापारः, अनु- मितिः फलं कार्यमित्यर्थः॥ परामर्शस्य व्याप्तिज्ञानज- न्यत्वात् व्याप्तिज्ञानजन्यानुमितिजनकत्वाचतजन्यत्वे सति तज्जन्यजनकत्वरूपव्यापारलक्षणमुपपन्नम् ॥ अनु- मितिकरणत्वमनुमोनस्य लक्षणम् । अनुमानं च व्याप्ति- ज्ञानम् । एतस्य परामर्शरूपव्यापारद्वारा अनुमिति प्रति असाधारणकारणतया ऽनुमितिकरणत्वमुपपन्नम् ॥ ( पदकृ० ) प्रत्यक्षानुमानयोः कार्यकारणभावसंगतिमभिप्रेत्यप्रत्य क्षानन्तरमनुमानं निरूपयति अनुमितीति ॥ 'अनुमितेः करण मनुमानम् इत्यर्थः तच्च 'लिङ्गपरामर्श एव । इति निवेदयिष्यते ॥ कुठारादाव तिव्याप्तिवारणाय 'अनुमिति' इति । प्रत्यक्षादावतिव्या प्तिवारणाय अनु' इति ॥ परामर्शजन्यं ज्ञानमनुमितिः। न्यायबो०) परामर्शजन्यमिति ॥ 'परामर्शजन्यत्वे सति' इति सतिसप्तम्या विशिष्टत्वमर्थः । परामर्शजन्य त्वविशिष्टज्ञानत्वमनुमितेर्लक्षणम् ॥ तत्र ज्ञानत्वमात्रो- पादाने प्रत्यक्षादावतिव्याप्तिः, अतस्तद्वारणाय 'पराम- र्शजन्यत्वे सति' इति विशेषणोपादानम् । विशेषणमा- त्रोक्तौ तु तद्धंसे तिव्याप्तिः, अंतो ज्ञानत्वोपादानम् ॥ (पदकृ०) ननु 'अनुमितेरेव दुर्निरूप्यत्वात् तद्वटितमनुमान- मपि दुर्निरूपम् । इत्यत आह-परामर्शति ॥ प्रत्यक्षादावतिव्याप्ति- वारणाय ' परामर्शजन्यम् । इति । परामर्शध्वंसवारणाय 'ज्ञानम् । इति । परामर्शप्रत्यक्षवारणाय, ‘हेत्वविषयकम् । इत्यपि बोध्यम् ॥ १ प्रत्यक्षे । २ अतस्तद्वारणाय 'ज्ञानः ।
तर्कसंग्रहः। व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः । यथा-- वह्निव्याप्यधूमवानयंपर्वतः, इतिज्ञानं परामर्शःतज- न्यम् पर्वतो वह्निमान्' इतिज्ञानमनुमितिः॥ (न्यायबो० ) व्याप्तिविशिष्टति ॥ 'व्याप्तिविशिष्टं च तत्पक्षधर्मताज्ञानं च' इति कर्मधारये विशिष्टपदस्य प्रकारकपरत्वात 'पक्षधर्मताज्ञानम्' इत्यत्र षष्ठया विष- यत्वबोधनात् धर्मतापदस्य संबन्धार्थकत्वाच्च कर्मधारय- समासे समस्यमानपदार्थयोरभेदसंसर्गलाभेन च 'व्या- प्तिप्रकारकाभिन्नं यत् पक्षसंबन्धिविषयकं ज्ञानं तत् परा- मर्शः' इति लभ्यते । एवं सति 'धूमो वहिव्याप्य घट- वान् पर्वतः, इति समूहालम्बने परामर्शलक्षणं गतम्, तद्वारणाय 'पक्षविशेष्यतानिरूपिता या हेतुप्रकारता, तनिरूपिता या व्याप्तिनिष्ठप्रकारता, तच्छालिज्ञानं प- रामर्शः, इति निष्कर्षः ॥ एतादृशपरामर्शजन्यत्वे सति ज्ञानत्वम् अनुमितेर्लक्षणम् ॥ अनुमितिपरामर्शयोविशि प्यकार्यकारणभावश्चेत्थम् - 'पर्वतत्वाव च्छिन्नोद्देश्यता निरूपितसंयोगसंबन्धावच्छिन्नवतित्वावच्छिन्नविधेयता कानुमितित्वावच्छिन्नं प्रतिवन्हिव्याप्तिप्रकारतानिरूपि तायाधूमवत्त्वावच्छिन्नाप्रकारता,तनिरूपिता पर्वतत्वाव- च्छिन्ना विशेष्यता, तच्छालिनिर्णयः कारणम् ' इति ॥ स चनिर्णय वन्हिव्याप्यधूमवान् पर्वतः' इत्याकारकः॥ (पदकृ. ) व्याप्तिविशिष्टेति ॥ विषयितासंबन्धेन व्याप्ति- विशिष्टपक्षधर्मताज्ञानं परामर्शः' इत्यर्थः ॥ घटादिज्ञानवारणाय १ व्यातिविशिष्टपक्षधर्मताज्ञानमिति । २ स्यातद्विशिष्टस्य पदस्य प्रकारपरत्वात्प्रकारतापर त्वात् । ३ पक्षधर्मता । ४ समासेन । ५ लगति। ६ हेतुनिष्टप्रका।
(३८) तर्कसंग्रहः। " 'पक्ष धर्मता' इति । 'धूमवान् पर्वतः' इति ज्ञानवारणाय 'व्याप्ति- विशिष्ट-' इति ॥ तदिति ॥ 'पराशर्मजन्यम्' इत्यर्थः ॥ 'यत्रयवधूमस्तत्र तत्र वह्निः' इति साहचर्यनियमाव्याप्तिः (न्यायबो० ) यत्रयोति । यत्र पदे वीप्सावशाद्ध- माधिकरणे यावति वह्निमत्वलाभात् यावत्पदमहिना धूमव्यापकत्वं वन्ही लब्धम् तदेव स्पष्टयति-साहच ये नियम इति ॥ एतदर्थस्तु 'नियतसाहचर्य व्याप्तिः' इति नियतत्वं व्यापकत्वम् ॥ साहचर्य नाम सामानाधिकर- ण्यम् तथाच 'धूमेव्यापकवन्हिसामानाधिकरण्यं व्याप्तिः इत्यर्थः ॥ अत्रे धूमव्यापकत्वं नाम धूमसमानाधिकरणा त्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्वम् । तादृश- धर्मो वन्ही वन्हित्वम् । तथाहि-धूमाधिकरणे ॥ पर्वत- महानसचत्वरादौ वर्तमानोऽभावः घटत्वावच्छिन्नप्रति योगिताकाभावो, न तु वन्हित्वावच्छिन्नप्रतियोगिताको भावः। कुतः-पर्वतादी बन्हेः सत्वात् । एवं सति धूमा- धिकरणे पर्वतादौ वर्तमानस्य घटाभावस्य प्रतियोगि तावच्छेदकं घटत्वम्, पटाभावस्य प्रतियोगि तावच्छेदकं पटत्वम्, अनवच्छेदकं वन्हित्वम्, तादृशं वन्हित्वं वन्हौ वर्तते । अतो धूमव्यापकत्वं वन्ही वर्तते, ( तस्याधिकरणे पर्वतादौ वृत्तित्वं धूमे वर्तते ) इति । इयमन्वयव्याप्तिः सिद्धान्तानुसारेण ॥ पूर्वपक्षीयव्या १ धूमपदं कुत्रचित्रास्ति २ लब्धीमत्यस्यानन्तरं 'तथाच धूमव्यापकवह्निमत्' इत्य- धिकः पाठः ३ तदेवत्यादिनियतत्वं व्यापकत्वमित्यन्तः पाठः कुत्रचिन्नास्ति ४ धूमनि- यतवन्हिप्तामानाधिकरण्यं धमव्यापक- ५ अत्रेत्यादिः, अयमन्वयव्याप्ति: सिद्धान्तानुसारे गेल्यतः पाठःकुत्रचिन्नास्ति अत्रवन्ही व्यापक - तर्कसंग्रहः। (३९) प्तिस्तु 'साध्याभाववदवृत्तित्वम्'-साध्यतावच्छेदकसंब- न्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताकामा ववनिरूपितं यद्धेतुतावच्छेदकसंबन्धावच्छिन्नवृत्तित्वम्' तादृशवृत्तित्वावच्छिन्नप्रतियोगिताकाभावो व्याप्तिः ॥ तञ्च केवलान्वयिन्यव्याप्तम्' इति सिद्धान्तानुसारेण लक्षणसमन्वयः॥ (पदकृ०) यत्रयति ॥-'तत्रतत्रानिः । इति व्याप्तेरभिनयः । साहचर्यनियमः । इति लक्षणम् । सहचरति ' इति सहचरः, तम्य भावः साहचर्य सामानाधिकरण्यम् । इति यावत् । तस्य नियमो व्याप्तिरित्यर्थः । सचाव्यभिचरितत्वम् । तचे व्यभिचाराभावः व्यभिचारश्च साध्याभावववृत्तित्वम् । तथा च साध्याभाववदवृत्तित्वं व्याप्तिरितिपर्यवसन्नम् महानसो वन्हिमान धूमाव,इत्यादौ साध्यो वन्हिः, तदभाववानलहदादिः,तद्वृत्तित्वं नौकादी, अवृत्तित्वं प्रकृते हेतुभूतेधूमे ' इति कृत्वालक्षणसमन्वयः ॥ ' धूमवान् वन्हेः ' इत्यादौ साध्यो धूमः, तदभाववत् अयोगोलकम्, तबृत्तित्वमेव वन्ह्यादौ, इति नातिव्याप्तिः ॥ व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता ( पदकृ० ) ननु ज्ञातेयं व्याप्तिः, 'पक्षधर्मताज्ञानम्' इत्यत्र 'का नाम पक्षधर्मता' इत्यपेक्षमाणं प्रति तत्स्वरूपं निरूपयति-व्याप्य- स्येति ॥ 'व्याप्यो नाम व्याप्त्याश्रयः स च धूमादिरेव, तस्य पर्वतादिवृत्तित्वं पक्षधर्मता' इत्यर्थः अनुमानं द्विविधम्-स्वार्थ परार्थच । ( पदकृ० ) अथ — कथमनुमानमनुमितिकरणम्, कथं वा तस्माद १ प्रतियोगव्याधिकरणसाध्याभा। २ द्रष्टव्यम् । ३ यत्र तत्र धूमस्तत्र तत्राग्निरिति । ४ इत्यादि पर्यवसन्नमित्यन्तः पाठः कचित्रास्ति । ५ व्याप्त्याश्रयज्ञानमनुमितिः ।
(४०) तर्कसंग्रहः। - नुमितिननिः । इति जिज्ञासमानं प्रति, लाघवादनुमानविभागमुखेनैव बुबोधयिषुरनुमान विभजते-अतुमानमिति ॥ दैविध्य दर्शयति स्वार्थ परार्थ चेति ॥ स्वार्थ स्वानुमितिहेतुः। तथाहि-स्वयमेव भूयोद र्शनेन यत्र यत्र धूमस्तत्र तत्राग्निः'इति महानसादौ व्याप्ति गृहीत्वा पर्वतसमीपं गतः, तदते चानौ संदिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति यत्र धूमस्तत्राग्निः' इति : तदनन्तरं 'वन्हिव्याप्यधूमवा नयं पर्वतः। इति ज्ञानमुत्पद्यते । अयमेव लिङ्गप- रामर्श इत्युच्यते । तस्मात् 'पर्वतो वन्हिमान्' इति ज्ञानमनुमितिरुत्पद्यते । तदेतत्स्वार्थानुमानम् ॥ (न्यायबो०) स्वार्थानुमाननाम न्यायाप्रयोज्यानुमानम् ( पदकृ० ) स्वार्थमिति ॥ स्वस्यार्थः प्रयोजनं यस्मात्तत्स्वार्थ मिति समासः ।स्वप्रयोजनच स्वस्थानुमेयमतिपत्तिः॥एवं 'परार्थम्,इत्य स्यापिअयमिति ॥ व्याप्तिबलेनलीनमर्थ गमयति, इतिलिंगम् ।तच्च धूमादिः । तस्य परामर्शो ज्ञानविशेष इत्यर्थः ॥ तस्मादिति ।। लिङ्गपरामर्शादित्यर्थः ॥ स्वार्थमुपसंहरति तदेतदिति ॥ यस्मा- दिदस्वमतिपत्तिहेतुः, तस्मादेतत्स्वार्थानुमानमित्यर्थः ॥ यत्तु स्वयं धूमादग्निमनुमाय परप्रंत्ययाथै पञ्चावय- ववाक्यं प्रयुज्यते तत्परार्थानुमानम् । यथा पर्वतो अग्निमान्' धूमवत्त्वात्, यो यो धूमवान् स सोनि- १ तस्मात् २ परप्रतिपत्यर्थ ।
तर्कसंग्रहः । (४१) मान् यथा महानसम्, तथा चायम्, तस्मात्तथा, इति । अनेन प्रतिपादितालिंगात्परोऽप्यग्निं प्रतिपद्यते ( न्यायबो०) न्यायप्रयोज्यातुमानं परार्थनुमानं न्यायत्वं चप्रतिज्ञादिपञ्चकसमुदायत्वम् ॥ अवयवत्वं प्रतिज्ञाद्यन्यतमत्वम् ॥ (पदकृ०) क्रमप्राप्तं परार्थानुमानमाह-यदिति ॥ यत् पञ्जावय- ववाक्यं प्रयुज्यते, तत् परार्थानुमानम् ' इति संबन्धः । पञ्चावय- वेति ॥ अथ अवयवत्वं नाम द्रव्यसमवायिकारणत्वम् , ' प्रतिज्ञादिषु तदसंभवात्कथमेतेऽवयवाःस्युः' इति चेत् ॥ ‘अनुमानवाक्यैकदेश- त्वात्तु, अवयवाः' इत्युपर्यन्ते इति गृहाण ॥ नन्वेवमपि पञ्चावयववा क्यस्यानुमानत्वमेव न विचारसहम् ! तस्य लिङ्गपरामर्शत्वाभावात् ॥ इति चेत् ॥ मैवम् । लिङ्गपरामर्शप्रयोजकलिंगप्रतिपादकत्वेन 'अनु- मानम् ' इत्युपचारमात्रत्वात् ॥ तदाहरति-यथेति ॥ तथा चायमिति ॥ अयं च पर्वतः तथा वह्निव्याप्यधूमवान् । इत्यर्थः ।। तस्मात्तथेति ॥ 'वह्निव्याप्यधूमवत्त्वात् वन्हिमान् ' इत्यर्थः ।। अनेनेति । अनेन पञ्चावयववाक्येन ' इत्यर्थः ॥ प्रतिज्ञाहेतृदाहरणोपनयनिगमनानि पञ्चावयवाः । 'पर्वतोऽग्निमान्' इति प्रतिज्ञा, 'धूमवत्त्वात् इति हेतुः, यो यो धूमवान् ससोऽग्निमान्' इत्युदा- हरणम्, 'तथा चायम्' इत्युपनयः' 'तस्मात्तथा' इति निगमनम् ॥ (पद०) ननु 'पञ्चावयववाक्यम्' इत्यत्र के ते पञ्चावयवाः, अतस्तान्दर्शयति-प्रतिज्ञेति ॥ प्रतिज्ञाद्यन्यतमत्वम् अवयवत्वम् ॥ , (४२) तर्कसंग्रहः। साध्यविशिष्टपक्षबोधकवचनं प्रतिज्ञा । पञ्चम्यन्तं तृतीयान्तं वा लिङ्गवचनं हेतुः ॥ व्याप्तिप्रतिपादकदृष्टान्तवचनम् उदाहरणम् । उदाहृतव्याप्तिविशिष्टत्वेन हेतोः पक्षधर्मताप्रतिपादकं वचनम् उपनयः। पक्षे साध्यस्याबाधितत्वप्रतिपादकवचनं निगमनम् ॥ इदमेव लक्षणं हृदि निधाय प्रतिज्ञादीन् विशिष्य दर्शयति-पर्वतो वन्हिमानित्यादिना स्वार्थानुमितिपरार्थानुमित्योलिङ्गपरामर्शएव कर- णम् तस्माल्लिङ्गपरामर्शोऽनुमानम् ॥ ( पदकृ० ) लिङ्गेति ॥ 'ज्ञायमानं लिङ्गमनुमितिकरणम्' इति वृद्धोक्तं नयुक्तम् । ‘इयं यज्ञशाला वन्हिमती अतीतधूमात्' इत्यादी लिङ्गाभावेप्यनुमितिदर्शनात्-इत्यभिपायवान् ‘लिङ्गपरामर्श एव करणम् इत्याचष्टे, 'लिङ्गपरामर्श एव' इति । अनुमानमुपसंहरति तस्मा- दिति ॥ अनुमितिकरणत्त्वादित्यर्थः ॥ 'अयमेव तृतीयज्ञानम्। इत्युच्यते । तथाहि-महानसादौ धूमाग्न्योाप्तौ गृह्यमाणायां यद्धूम- ज्ञानं तदादिमम्, पक्षे यक्ष्मज्ञानं तद्वितीयम्, अत्रैव वन्हिव्याप्यत्वेन यद्धृमज्ञानं तत्तृतीयम्, अयमेव लिङ्गपरामर्श इत्युच्यते ॥ अनु- मानमिति ॥ ' व्यापारवत्कारणं करणम् । इति मते ' व्याप्तिज्ञा- नमेवानुमानम्, लिङ्गपरामर्शो व्यापारः' इत्यवसेयम् ॥ लिङ्गं त्रिविधम्-अन्वयव्यतिरेकि केवलान्वयि केव लव्यतिरेकि चेति ॥ अन्वयेन व्यतिरेकेण च व्या- प्तिमदन्वयव्यतिरेकि॥ यथा वन्ही साध्ये धूमव- त्वम् । 'यत्र धूमस्तत्राग्निः, यथा महानसम्' इत्य- + - १ मवद्भानम् । २ "मूलग्रन्थस्तु" 'फलायोगव्यवच्छिन्नं कारणं करणम्, इति मतमव लम्ब्य इति बोध्यम् ।
तर्कसंग्रहः। (४३) न्वयव्यप्तिः। यत्र वन्हिर्नास्ति तत्र धूमोप नास्ति, यथा ह्रदः' इति व्यतिरेकव्याप्तिः॥ (न्यायबो०)अन्वयेनेति ॥ व्यापकसामानाधिकरण्य रूपव्याप्तिमानित्यर्थः ॥ व्यतिरेकेणेति ॥ व्यतिरेको नामाभावः । तथा च साध्याभावहेत्वभावयोर्व्यतिरेक- व्याप्तिः । इयं (त्थं ) च 'यत्र यत्र वड्यभावस्तत्र तत्र धूमाभावः इति यत्र पदवीप्सया वड्यभाववति यावति धूमाभावग्रहणे यावत्पदस्य व्यापकपरतया धूमाभावे वड्यभावव्यापकत्वं लब्धम् ॥ एवं च वयभावनिष्ठ व्याप्तेः स्वाश्रयीभूतवयभावव्यापकीभूताभावप्रतियो गित्वसंबन्धेन धूमनिष्ठतया गृहीतव्यतिरेकव्याप्तिमत्वेन व्यतिरेकित्वेन,धूमव्यापकवद्विसामानाधिकरण्यरूपान्व- यव्याप्तिमत्त्वेनान्वयित्वेन च गृह्यते । व्यतिरेकपरामर्श स्तु 'वड्यभावव्यापकीभूताभावप्रतियोगिधूमवान् पर्व- तः इत्याकारकः ॥ ( पद० ) अन्वयव्यतिरेकिणो लक्षणमाह-अन्वयेनेति ॥ तृतीयाया:प्रयोज्यत्वमर्थः । साध्यसाधनयोः साहचर्यमन्वयः' तदभा- वयोः साहचर्य व्यतिरेकः ॥ तथा च ' अन्वयप्रयोज्यव्याप्तिमद व्यतिरेकप्रयोज्यव्याप्तिमद् अन्वयव्यतिरेकि ' इत्यर्थः ॥ केवलव्यति- रोकिव्याप्त्यातव्याप्तिवारणाय ' अन्वयेन' इति । केवलान्वयिनि व्यभि- चारवारणाय 'व्यतिरेकेण' इति ॥ तथा च अन्वयव्याप्तिरुपदर्शितैव! व्यतिरेकव्याप्तिश्च ' साध्याभावव्यापकीभूताभावप्रतियोगित्वम् ' इत्यर्थः ॥ तदुक्तम्-- व्याप्यव्यापकभावो हि भावयोर्यादगिष्यते । तयोरभावयोस्त- स्मादिपरीतः प्रतीयते ॥ अन्वये साधनं व्याप्यं साध्यं व्याप- - " (४४) तर्कसंग्रहः। कमिष्यते । साध्याभावोन्यथाव्याप्यो व्यापकःसाधनात्ययः इति ॥ अन्वयमात्रव्याप्तिकं केवलान्वयि ॥ यथा-'वटो ऽभिधेयः प्रमेयत्वात् पटवत्'इति । अत्र प्रमेयत्वा भिधेयत्वयोर्व्यतिरेकव्याप्तिास्ति सर्वस्यापि प्रमेयत्वादभिधेयत्वाच ॥ (न्यायबो०) व्यतिरेकव्याप्ति शून्यत्वे सति अन्वय- व्याप्तिमत्वंकेवलान्वयित्वम् ॥ साध्ये केवलान्वयित्वम् अत्यन्ताभावाप्रतियोगित्वम् । तथाच 'अभावाप्रतियो- गिसाध्यव्यापकत्वं केवलान्वयिहेतोर्लक्षणम् ॥ एतल्ल- क्षणं हेतोर्व्यतिरेकित्वेन संगच्छते। साध्ये केवलान्व यित्वादेव व्यतिरेकव्याप्तेरभावात् 'अन्वयमात्रत्याप्तिकं केवलान्वयि, इति मूलकारोक्तलक्षणमुपपन्नम् ॥ अत्य न्ताभावाप्रतियोगित्वं केवलान्वयित्वम् ॥ नच 'एवं संयोगाभावे कालाभावे चाव्याप्तिः इतिवाच्यम् ॥ स्वविरोधिवृत्तिमदत्यन्ताभावाप्रतियोगित्वस्य तदर्थ- त्वात् ॥ एकजातीयसंबन्धेन सर्वत्र विद्यमानत्वं केवला न्वयित्वम्, इति नव्याः॥ ( पदकृ० केवलान्वयिनो लक्षणमाह-अन्वयेति ॥ अन्वयेनैव व्याप्तियस्मिन्स तथा ॥ प्रमेयत्वाभिधेयत्वयोर्व्यतिरेकव्याप्ति निराक- रोति--अत्रेति ॥ 'अभिधेयत्वसाधकानुमाने' इत्यर्थः ॥ ननु कुतस्तन्नि- षेधः, अतस्तत्र हेतुमाह-सर्वस्येति ॥ पदार्थमात्रस्येत्यर्थः ॥ तथा च सकले पदाभिधेयत्वस्यैश्वरप्रमाणविषयत्वस्य चात्यन्ताभावाप्रतियोगित्व , १ व्यतिरेकिशन्यत्वे सति संगच्छते । २ इात नाव्याप्तिः।
तर्कसंग्रहः । (४५) रूपकेवलान्वयित्वेन तदभावामसिद्ध्या तहटितव्यातरकव्याप्तिन संभव त्येवेति भावः॥ व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि ॥ यथा- पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात् । यदितरेभ्यो न भिद्यते नतद्गन्धवत् यथा जलम् । न चेयं तथा। तस्मान्न तथोताअ'यद्गन्धवत्तदितरेभ्योऽपि भिन्नम् इत्यन्वयदृष्टान्तो नास्ति,पृथिवीमात्रस्य पक्षत्वात्॥ ( न्यायबो०) अन्वयव्याप्तिशून्यत्वे सति व्यतिरेक व्याप्तिमत्वं केवलव्यतिरेकित्वम् ॥ यथा पृथिवीति॥अत्र "पृथिवीत्वावच्छिन्नंपक्षः पृथिवीतरजलाद्यष्टभेदःसाध्यः, गन्धवत्वं हेतुः अत्र यद्गन्धवत् तदितरभेदवत् इत्यन्वयट- ष्टान्ताभावात् गन्धव्यापकेतरभेदसामानाधिकरण्यरूपा न्वयव्याप्तिग्रहासंभवात् । किन्तु 'यत्र यत्रतरभेदाभाव- स्तत्र तत्र गन्धाभावः यथा जलादिकम् इति व्यतिरे- कदृष्टान्तभूतजलादावितरभेदाभावरूपसाध्याभावव्याप कता गन्धाभावे दृश्यते । इदमेवार्थ मनसि निधाय 'यन्नेतरेभ्यो भिद्यतेन तद्गन्धवत्यथा जलम् इति ग्रन्थेन मूलकद्वयतिरेकव्याप्तिमेव प्रदर्शितवान् ॥ एवं व्यतिरेक. व्याप्तिग्रहानन्तरम् इतरभेदाभावव्यापकीभूताभावप्रति योगिगन्धवती पृथिवी' इत्याकारकव्यतिरेकिपरामर्शात् 'पृथिवीत्वावच्छिन्नोद्देश्यतानिरूपितेतरभेदत्वावच्छिन्न- विधेयताका पृथिवी इतरभेदवती' इत्याकारानुमिति- र्जायते" इति तत्त्वम् ॥ यथाश्रुतमूलार्थस्तु-यथा जल- १ अभावपदं कुत्रचिन्न २ मूलकारो ।
(४६) तर्कसंग्रहः। . मिति ॥ जलमितरभेदाभाववत्-इतरभेदाभावव्यापक- गन्धाभाववञ्च' इत्येवं प्रकारेण गन्धाभावनिरूपिताव्या- प्यता इतरभेदाभावे गृह्यते इर्थः ॥ नचेयं तथेति । इयं पृथ्वी, तथाइतरभेदाभावव्यापकगन्धाभाववती न, किंतु तदभावगन्धवती, इत्यर्थः ॥ तस्मान्न तथेति ॥ तच्छब्देनगन्धाभावाभावरूपस्य गन्धस्य परामर्शन त स्मात्' इति पञ्चम्यन्तात् 'गन्धाभावाभाववत्त्वात् इत्य- र्थोपर्लब्धेः, तथाइतरभेदाभाववती। 'न' इत्यस्याभावः, तथा च इतरभेदाभावाभाववती-इतरभेदवती' इत्यर्थः॥ ( पदकृ० ) केवलव्यतिरेकिणो लक्षणमाह-व्यतिरेकेति ॥ व्यतिरेकेणैव व्याप्तियस्मिस्तत्तथा ॥ अन्वयव्यतिरेकिणि अतिव्याप्ति- वारणाय मात्रपदम्, नचेयं तथेति ॥ ' इयं पृथिवी न तथा न गन्धा- भाववती' इत्यर्थः ॥ तस्मान्न तथेति ॥'गन्धाभाववत्त्वाभावादि- तरभेदाभाववती न, इत्यर्थः ॥ ननु 'अत्र किमिति नान्वयव्याप्तिः, इत्याशङ्कय परिहरति-अत्रेति इतरभेदसाधकानुमाने । इत्यर्थः इदमुपलक्षणम्- “जीववच्छरीरं सात्मकं, प्राणादिमत्वात् यन्नैवं तत्रैवं यथा घट" ।“प्रत्यक्षादिकं 'प्रमाणम्' इति व्यवहर्तव्यम्, प्रमाण करणत्वात् यन्नैवं तन्नैवं यदि प्रत्यक्षभावः। “विवादास्पदम् आकाशम् इतिव्यवहर्तव्यम्, शब्दवत्वात् ।" इत्यादिकमपि केवलव्यतिरोक इति द्रष्टव्यम् । संदिग्धसाध्यवान् पक्षः । यथा-धूमवत्त्वे हेतौ पर्वतः।। (न्यायबो०) संदिग्धसाध्यति।। साध्यप्रकारकसंदेह विशेप्यत्वं पक्षत्वम् ॥ एतच्च 'अनुमितेः पूर्व साध्यसंदेहो १ इयं पृथ्वी तथा नाम इति कुत्र नास्ति । २ तदभाववती नाम गन्धव । ३ गन्धाभावाभावानाम गन्धत्त्वातू । ४ इत्यों लब्धः। ५ मात्रेति । - , तर्कसंग्रहः। (४७) नियमेन जायते' इत्यभिप्रायेण लक्षणं प्राचीनः कृतम्॥ गगनविशेष्यकैसंदेहाभावदशायामपि गृहमध्यस्थपुरु- षस्य घनगजितश्रवणेन 'गगनं मेघवत' इत्याकारानु- मितिर्जायते गगनत्वावच्छिन्नोदेश्यतानिरूपितमेघवा- वच्छिन्नविधेयताकातुमितिदर्शनात प्राचीनमतं विहाय नवीनः “ अनुभित्युद्देश्यत्वंपक्षत्वम्" इति स्थिरीकृतम् ॥ (पदकृ०) अथ 'पृथिवीमात्रस्य पक्षत्वात्' इत्यत्र किं नाम पक्षता, तां निर्वक्ति-संदिग्धेति ' सपक्षवारणाय संदिग्धति ॥ निश्चितसाध्यवान सपक्षः । यथा तत्रैव महानसम् ॥ (न्यायबो० ) निश्चितसाध्यति ॥ साध्यप्रकारकनि- श्चयविशेष्यत्वंसपक्षत्वम् ॥ निश्चयश्च,महानसं वन्हिमत, इयतकारकः॥ ( पदकृ० ) निश्चितेति ॥ पक्षे अतिव्याप्तिवारणाय निश्चितेति। नत्रेति 'धूमवत्दे हेतौ ' इत्यर्थः ॥ निश्चितसाध्याभाववान् विपक्षः। यथा तत्रैव ह्रदः॥ (न्यायबो०) निश्चितसाध्याभावेति॥ साध्याभावप्रका रकनिश्चयविशेष्यत्वं विपक्षत्वम् ॥ निश्चयश्च 'हृदो वन्ह्य- भाववान्' इत्याकारक: (पदकृ० ) निश्चितेति ॥ सपक्षे अतिव्याप्तिवारणाय साध्या- भाव' इति ॥ पक्षे अतिव्याप्तिवारणाय निश्चितः इति । तत्रैवेति धूमवत्व एव ॥ १ मेघप्रकारकेत्यधिकम् ।
६८) तर्कसंग्रहः। सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धवाधिताः पञ्च हेत्वाभासाः॥ (न्यायवो.) एवं सद्धेतन्निरुप्य हेत्वाभासानिरूप- यति--सव्याभिचारोति ॥ हेतुवदाभासन्त इति हेत्वा भासा दुष्टहेतवः, इत्यर्थः । दोषाश्च व्यभिचारविरोधस- प्रतिपक्षासिद्धिबाधाः। एतद्विशिष्टा हेतवो दुष्टहेतव इत्यर्थः ॥ हेतौ दोषज्ञाने सत्यनुमितिप्रतिबन्धो जायते व्याप्तिज्ञानप्रतिबन्धो वा भवति ॥ अतो वादिनिग्रहार्थ वादिनोद्भाविते हेतौदोषोद्भावनार्थ दुष्टहेतुनिरूपणमि- त्यर्थः ॥ 'पर्वतो वन्हिमान् प्रमेयत्वात्' इत्यत्र प्रमेयत्व हेतो वह्नयभावववृत्तित्वरूपव्यभिचारे ज्ञातेवड्यभावव वृत्तित्वरूपव्याप्तिग्रहप्रतिबन्धः फलम् ॥ (पदकृ० ) हेतूनिरूप्य प्रसङ्गात्विाभासानाह-सव्याभिचारोत ॥ अत्रेदं बोध्यम् । “अन्वयव्यतिरेकि तु पश्चरूपोपपन्नं स्वसाध्य साधयितुं क्षमते । 'तानि कानि' इति चेत् श्रूयतोम्-पक्षधर्मत्वम् सपक्षसत्वम्, विपक्षव्यावृतिः, अबाधितविषयत्वम्, असत्मतिपक्षत्वं चेति । अबाधितः साध्यरूपविषयो यस्य तत्तथोक्तम्, तस्य भावस्तत्त्वम, एवं साध्याभावसाधकहेत्वन्तरं यस्य स 'सत्मतिपक्षा इत्युच्यते, स नास्ति यस्य सः असत्प्रतिपक्षः, 'तस्य भाव स्तत्वम्। (इति बोध्यम् ) केवलान्वयि तु चतूरूपोपपन्नमेव स्वसाध्यं साध- यितुं क्षमते । तस्य विपक्षविपर्ययेण तव्यावृत्तिविपर्ययात् ॥ केवल- व्यतिरेक्यपितथा तस्य सपक्षविपर्ययेण तत्सत्वविपर्ययात् ॥ इति ॥ . १ जायते २ ज्ञायताम् ।
तर्कसंग्रहः। उपदर्शितरूपाणां मध्ये कतिपयरूपोपपन्नत्वात् 'हेतुबदाभासन्ते' इति हेत्वाभासाः । तत्त्वं च अनुमितितत्करणान्यतरप्रतिबन्धकयथार्थज्ञा नविषयत्वम् ॥ वाधस्थले । 'वन्हिरनुष्णइत्यनुमितिमतिबन्धकं यज्ज्ञा नम् 'उष्णत्ववदन्हावनुष्णत्वसाधकं द्रव्यत्वम् इत्याकारकम् तद्विषय त्वस्य विषयितासंबन्धेन द्रव्यत्वरूपहेत्वाभासे सत्त्वाल्लक्षणसमन्वयः॥ सतुवारणाय 'यथार्थ' इति घटादिवारणाय 'अनुमितितत्करणम- तिवन्धक' इति। व्यभिचारिण्यतिव्याप्तिवारणाय, 'अनुमितितत्करणा- न्यतर' इति ॥ सव्यभिचारोऽनैकान्तिकः । स त्रिविधः-साधारणा साधारणानुपसंहारिभेदात् ॥ तत्र साध्याभाववठ्ठ त्तिः साधारणो ऽनैकान्तिकः। यथा 'पर्वतो ऽग्नि मान् प्रमेयत्वात्' इति । प्रमेयत्वस्य वन्यभावव तिहदे विद्यमानत्वात् ॥ ( पदकृ०) तत्रेति 'साधारणादित्रयमध्ये' इत्यर्थःअथ विरुद्धेऽतिमसक्तिः इति मा स्म दृप्यः। सपक्षवृत्तित्वस्यापि निवेशात् ॥ अथैवमपि स्वरूपासिद्धे दूषणंजागति, इति मा वह गर्वम् । पक्ष- वृतित्वस्यापि तथात्वात् । सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिरसाधारणः । यथा 'शब्दो नित्यः शब्दत्वात् ' इति । शब्दत्वं सर्वेभ्यो नित्येभ्योऽनित्येभ्यो व्यावृत्तं शब्दमात्रवृत्ति (न्यायबो०) असाधारण इति ॥सर्वसपक्षव्यावृत्तत्वं निश्चितसाध्यवदवृत्तित्वं च साध्यासामानाधिकरण्यम् १ सपक्षविपक्ष । निश्चितसाध्यसाध्याभाववद । MON
(५०)
तर्कसंग्रहः।
हेतौसाध्यासामानाधिकरण्ये निश्चिते साध्यसामानाधि
करण्यरूपव्याप्तिज्ञानप्रतिबन्धः फलम् ॥
( पदकृ० ) पक्षमात्रेति ॥ सर्वे ये सपक्षा विपक्षास्तेभ्यो
व्यावर्तत इति व्यावृत्तः ॥ केवलव्यतिरेकिवारणाय, 'तदिन
इत्यपि देयम् ॥
अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी । यथा-
'सर्वमनित्यं प्रमेयत्वात्' इति । अत्र सर्वस्यापि पक्ष
वादृष्टान्तो नास्ति ॥
(न्यायबो०) अनुपसंहारिणं लक्षयति-अन्वयोति ॥
उभयत्रदृष्टान्ताभावादन्वयव्याप्तिज्ञानव्यतिरेकव्याप्तिज्ञा
नोभयसामग्री नास्तीत्यर्थः पंक्षातिरिक्ताप्रसिद्धरित्यर्थः॥
( पदकृ० ) अन्वयेति ॥ केवलान्वयिन्यतिव्याप्तिवारणाय
'अन्वयः इति । केवलव्यतिरेकिण्यतिव्याप्तिवारणाय 'व्यतिरेका
इति । अत्रेति ॥ 'उपदर्शितानुमाने' इत्यर्थः ॥
साध्याभावव्याप्तो हेतुविरुद्धः । यथा 'शब्दो नित्यः
कृतकत्वात् ' इति । कृतकत्वं हि नित्यत्वाभावेना
नित्यत्वेन व्याप्तम् ॥
( न्यायबो० ) विरुद्धं लक्षयति-साध्याभावव्याप्त
इति ॥ तथा च पक्षविशेष्यकसाध्याभावव्याप्यहेतुप्रका-
रकज्ञानात् पक्षविशेष्यकसाध्यप्रकारकानुमितिप्रतिबन्धः
फलम् ॥ एवं सत्प्रतिपक्षेऽपि ॥ विरुद्धसत्प्रतिपक्षयोवि-
शेषस्तु-विरुद्धहेतोरेकत्वेन सत्प्रतिपक्षहेतोद्वित्वेन च
ज्ञातव्यः। 'सत्प्रतिपक्षे द्वौ हेतू, विरुद्ध एको हेतुः इति.
१ सर्वस्यैव पक्षत्वात्पक्षाति ।
L - तर्कसंग्रहः। (५१), 8368 यावत् ॥ साध्याभावसाधकहेतुः साध्यसाधकत्वेनोप- न्यस्तः' इत्यसामर्थ्य सूचनमपि भवति॥... ( पदकृ०) विरुद्धं लक्षयति-साध्येतिसितुवारणाय 'साध्या भावव्याप्तः' इति । सत्मतिपक्षवारणाय 'सत्प्रतिपक्षभिन्नः' इत्यपिज्ञैयम् कृतेति ॥ कार्यत्वादित्यर्थः ॥ कृतकत्वमिति ॥ अनित्यत्वेन । व्या- प्तमिति ॥ यद्यत्कृतकं तत्तदनित्यम् इतिव्याप्तेर्भवत्येव तथेति भावः। साध्याभावसाधकं हेत्वन्तरं यस्य स सत्प्रतिपक्षः। यथा 'शब्दो नित्यः श्रावणत्वाच्छब्दत्ववत्, शब्दो नित्यः कार्यत्वात घटवत्॥ ( पदकृ० ) सत्यतिपक्षं लक्षयति-साध्येति॥ 'यस्य हेतोःसाध्या- भावसाधकं साध्याभावस्यानुमापकं हेत्वन्तरं प्रतिपक्षो हेतुर्विद्यते, स हेतुः सत्प्रतिपक्षः' इत्यर्थः ॥ अयमेव ' प्रकरणसमः' इत्युच्यते ॥ विरुद्धवारणाय हेत्वन्तरंयस्य' इति ॥ वह्नयादिवारणाय साध्या- भाव-' इति ॥ असिद्धस्त्रिविधः-आश्रयासिद्धःस्वरूपासिद्धोव्याप्य त्वासिद्धश्चेति ॥ ( पदकृ० ) असिद्धं विभजते-असिद्ध इति ॥आश्रयासिद्धाद्यन्य- तमत्वमसिद्धम् ॥ आश्रयासिद्धो यथा-गगनारविन्दं सुरभि-अरविन्द- त्वात् सरोजारविन्दवत् । अत्र गगनारविन्दमाश्रयः सच नास्त्येव ।। , १ भेदः । इतोऽग्रेतन पाठः कुत्रचिनास्ति । २ बोध्यम्।
(५३) तर्कसंग्रहः। (न्यायबो०) आश्रयासिद्ध इति ॥ (आश्रयासिद्धि र्नाम ) पक्षतावच्छेदकविशिष्टपक्षाप्रसिद्धिः । यथा (तथाच)-गगनीयत्वविशिष्ट पक्षासिद्धेः सौरभ्यातु मितिर्न भवति ॥ (पदकृ०)आश्रयासिद्धत्वं च पक्षतावच्छेदकाभाववत्पक्षकत्वम् ॥ भवति हि अरविन्दे गगनीयत्वरूपपक्षतावच्छेदकाभाववत्त्वम् , अर- विन्दरूपपक्षे गगनीयत्वविरहात् ॥ ननु कथमरविन्दे गगनीयत्वविरहोऽ त आह-अवेति ॥ उपदर्शितानुमान इत्यर्थः ।। स्वरूपासिद्धो यथा-शब्दो गुणः, चाक्षुषत्वात् रूप- वत् । अत्र चाक्षुषत्वं शब्दे नास्ति शब्दस्य श्राव- णत्वात् ॥ . (न्यायबो०) स्वरूपासिद्धिर्नाम पक्षे हेत्वभावः। तथा च हेत्वभावविशिष्टपक्षज्ञानात् पक्षविशेष्यकहेतुप्र- कारकपरामर्शानुपपत्या परामर्शप्रतिबन्धः फलम् ॥ (पदकृ०) पक्षे हेत्वभावः स्वरूपासिद्धिः ॥ सद्धत्वभावेऽतिव्या- प्तिवारणाय 'पक्षे' इति । घटाद्यभाववारणाय' हेतु' इति ॥ “ सो ऽयं स्वरूपासिद्धः शुद्धासिद्ध-भागासिद्ध-विशेषणासिद्ध-विशेष्या. सिद्ध-भेदेन चतुर्विधः" ॥ तत्राद्यस्तूपदर्शित एव ॥ द्वितीयो यथा- 'उद्भूतरूपादिचतुष्टयं गुणः रूपत्वात्' इत्यत्रं रूपत्वहेतोः पझेकदेशा- वृत्तित्वेन भागे स्वरूपासिद्धत्वम् ॥ तृतीयो यथा-'वायुः प्रत्यक्षः रूपत्वे सति स्पर्शवत्त्वात्' इत्यत्र रूपवत्वविशेषणस्य वायाववृत्तेस्त द्विशिष्टस्पर्शवत्वस्यापि तथात्वेन तस्य स्वरूपासिद्धत्वं निर्वहति, विशे- षणाभावे विशिष्टस्याप्यभावात् ॥ तुरीयो यथा--अत्रैव विशेषणविशे MORE १ बहुविधः ।
तर्कसंग्रहः। (५३) व्यवैपरीत्येन हेतुः, तस्य स्वरूपासिद्धत्वं विशेष्याभावप्रयुक्तविशिष्टा- भावात्, इति बोध्यम् ॥ सोपाधिको हेतुाप्यत्वासिद्धः॥ साध्यव्यापकत्वे सति साधनाव्यापकत्वम् उपाधिः ॥ साध्यसमाना धिकरणात्यन्ताभावाप्रतियोगित्वं साध्यव्यापकत्वम् साधनवनिष्ठात्यन्ताभावप्रतियोगित्वं साधनाव्याप- कत्वम् ॥ पर्वतो धूमवान् वह्निमत्त्वात्, इत्यत्र 'आईन्धनसंयोग उपाधिः ''यत्र धूमः, तत्रा- न्धनसंयोगः' इति साध्यव्यापकता । 'यत्र वह्निः' तत्राईन्धनसंयोगो नास्ति, अयोगोलक आर्द्वन्धना- भावात् , इति साधनाव्यापकता । एवं साध्यव्या- पकत्वे सति साधनाव्यापकत्वादाइँन्धनसंयोग उपाधिः । सोपाधिकत्वाद्वंह्निमत्त्वं व्याप्यत्वासिद्धम्।। ( न्यायबो० ) व्याप्यत्वासिद्धमिति ॥ प्रकृते धूमव्या- पकत्वमानॆन्धनसंयोगे गृहीतं चेत्, धूमे आनॆन्धनसंयो- गंव्याप्यत्वं गृहीतम् । एवं वहिव्यापकत्वमान्धनसंयोगे गृहीतं चेत्, वहौ तदव्याप्यत्वं गृहीतम्, तदेव व्यभि- चारित्वं ॥ तथा चोपाधिव्यभिचारित्वं साधने गृहीतं चेत् उपाधिभूताईन्धनसंयोगव्याप्यधूमव्यभिचारित्वं. गृहीतमेव ॥ अनुमानप्रकारश्च पूर्वानुमानहेतुं पक्षीकृत्य ' वहिधूमव्यभिचारी धूमव्यापकान्धनसंयोगव्यभि- १ संयोगस्य।
(५४) तर्कसंग्रहः। चारित्वात् घटत्वादिवत् । यो यत्साध्यव्यापकव्यभि- चारी स सर्वोऽपि साध्यव्यभिचारी । एवं प्रकारेण प्रकृ. तानुमानहेतुभूते पक्षे साध्यव्यभिचारोत्थापकतया दूष- कत्वमुपाधेः । तथा च धूमाभाववत्तित्वरूपधूमव्यभि- चारे गृहीते वन्ही धूमाभाववदवृत्तित्वरूपव्याप्तिग्रहप्र- तिबन्धः फलम् ॥ ( पदकृ० ) व्याप्यत्वासिद्धं लक्षयति-'सोपाधिकः' इति ॥ ननु ' कोयमुपाधिः' इत्यत आह-साध्येति ॥ साधनाव्यापकत्व- मुपाधिः' इत्युक्ते ' शब्दो नित्यः कृतत्वात् ' इत्यत्र 'सामान्यवत्त्वे सत्यस्मदादिबाह्येन्द्रियग्रहणाहत्वम् । उपाधिः स्यात्, तदर्थं साध्य- व्यापकत्वमुक्तम् ॥ तावत्युक्ते सामान्यवत्त्वादिना नित्यत्वसाधने कृतकत्वमुपाधिः स्यात्, तदर्थं साधनाव्यापकत्वमुक्तम् ॥ उपाधि- भेदमादायासंभववारणाय व्यापकत्वशरीरेऽप्यत्यन्तपदमादेयम्॥साध- नभेदमादाय साधनस्योपाधित्ववारणायाव्यापकशरीरेऽप्यत्यन्तपदमा- वश्यकं देयम् ॥ " सोऽयमुपाधिस्त्रिविधः-केवलसाध्यव्यापकः, पक्षधर्मविच्छिन्नसाध्यव्यापकः, साधनावच्छिन्नसाध्यव्याकश्चेति " तत्राद्य उपदर्शितः ॥ एवं 'क्रत्वन्तर्वतिनी हिंसा ऽधर्मजनिका हिंसात्वात् ऋतुबाह्यहिंसावत्' इत्यत्र निषिद्धत्वमुपाधिः । 'यत्राधर्मजनकत्वम्, तत्र निषिद्धत्वम्' इति साध्यव्यापकता । यत्र हिंसात्वम्, तत्र न निषिद्धत्वम्' इति निषिद्धत्वमुपाधिः साधनाव्यापकः, ऋतुहिंसायां निषिद्धत्वस्याभावात् । “न हिंस्यात्सर्वा भूतानि" इति सामान्यवाक्यतः "पशुना यजेत" इत्यादिविशेषवाक्यस्य बलीयस्त्वादाअतो हिंसात्वं नाधर्मजनकत्वे प्रयोजकम्,अपितु 'निषि- तस्य १ इदं कुत्रचिन्नास्ति । २ अत्रायमधिकः पाठः 'यथा घटत्वव्यापकपृथिवीत्वव्याभि- चारिद्रव्यत्वं घटत्वव्यभिचारि' इति ॥ ३ फलमित्यधिकम् ॥
तर्कसंग्रहः। (५५) - द्धत्वमेवइत्यादिकमपि द्रष्टव्यम्॥द्वितीयो यथा--'वायुःप्रत्यक्षः प्रत्यक्ष स्पर्शा श्रयत्वात्' इत्यत्रोद्भूतरूपवत्वम् उपाधिः। तस्य 'यत्र प्रत्यक्षत्वम्, तत्रोद्भूतरूपवत्वम्' इति नकेवलसाध्यव्यापकत्वं रूपे व्यभिचारावकिंतु 'द्रव्यलक्षणो यः पक्षधर्मस्तद्वच्छिन्नबहिः प्रत्यक्षत्वं यत्र, तत्रोद्भूतरूपव त्वम् इतिपक्षधर्मावच्छिन्नसाध्यव्यापकत्वमेव । आत्मनि व्यभिचारवार णायबहिःपदम् 'यत्र प्रत्यक्षस्पर्शाश्रयत्वम्। तत्रनोद्भूतरूपवत्त्वम्, इति साधनाव्यापकत्वं च । वासावुद्भूतरूपविरहात् ॥ तृतीयो यथा-'माग- भावो विनाशी जन्यत्वात् ' इत्यत्र भावत्वम् उपाधिः । तस्य 'यत्र विनाशित्वम्, तत्र भावत्वम् । इति न केवलसाध्यव्यापकत्वम् , पाग- भावे भावत्वविरहात् । किंतु 'जन्यत्वरूपसाधनावच्छिन्नविनाशित्वं यत्र, तत्र भावत्वम् । इति साधनावच्छिन्नसाध्यव्यापकत्वमेवास्ति । यत्र जन्यत्वम्, तत्र भावत्वम्' इति साधनाव्यापकत्वं च, ध्वंसे भावत्वविरहात् ॥ एवं ‘स श्यामो मित्रातनयत्वात् ' इत्यत्र शाकपा- कजन्यत्वमुपाधिः । श्यामत्वस्य नीलघटेऽपि सत्वात् न केवलसा- ध्यव्यापकत्वम् । किंतु साधनावच्छिन्नसाध्यव्यापकत्वमेव । 'अष्टमे पुत्रे शाकपाकजन्यत्वविरहेण साधनाव्यापकत्वं च "इत्यादिकं द्रष्टव्यम् ॥ यस्य साध्याभावः प्रमाणेनं निश्चितः स बाधितः। यथा 'वहिरनुष्णो द्रव्यत्वात्' इत्यत्रानुष्णत्वं साध्यम्, तदभावउष्णत्वं स्पर्शेन प्रत्यक्षेण गृह्यते इति बाधितत्वम्॥ व्याख्यातमनुमानम् (न्यायबो०) यस्यति ॥ यस्य हेतोः । साध्यस्या- भावः साध्याभावः स च प्रमाणेन प्रत्यक्षप्रमाणेन १ प्रमाणान्तरेण । २ प्रमाणान्तरेण निर्णीतः।
(५६) तर्कसंग्रहः। निश्चितः ॥ तथा च प्रात्यक्षिकसाध्याभावनिश्चयेनानु मितिप्रतिबन्धः फलम् ॥ बांधितसाध्यकत्वाद्वाधितो हेतुरुच्यते॥ ( पदक० ) यस्येति ॥ सद्धेतुवारणाय 'प्रमाणान्तरण' इति । घटादिवारणाय साध्य इति ॥ इत्यनुमाननिरूपणम् ॥ उपमितिकरणमुपमानम् ॥ संज्ञासंज्ञिसंबन्धज्ञानमुप- मितिः। तत्करणं सादृश्यज्ञानम् । तथाहि-कश्चि- द्ववयपदार्थमजानन्कुतश्चिदारण्यकपुरुषाद् ‘गोस- दृशो गवयः' इति श्रुत्वा वनं गतो वाक्यार्थ स्मरन् गोसदृशं पिण्डं पश्यति तदनन्तरं 'गवयशब्द- वाच्योऽयम्' उत्युपमितिरुत्पद्यते॥ ( न्यायबो०) उपमानं लक्षयति--उपमितीति ।। उपमितिं लक्षयति-संज्ञासंज्ञीति ॥ संज्ञा पदम्, संख्यर्थः, तयोः संबन्धः शक्तिः। तथा च 'पदपदार्थसंबन्धज्ञानमु- पमितिः' इत्यर्थः । उपमानमतिदेशवाक्यार्थज्ञानम् । अतिदेशवाक्यार्थस्मरणं व्यापारः। 'गोसदृशो गवय- पदवाच्यः' इत्याकारकात् गोसदृशत्वावच्छिन्नविशेष्य- कगवयपदवाच्यत्वप्रकारकज्ञानं जायते, तदेव करणम् ॥ ( पदकृ० ) अवसरसंगतिमभिप्रेत्यानुमानानन्तरम् उपमानं निरू पयति- उपमितीति ॥ उपमितेः करणमुपमानमित्यर्थः ॥ कुठारा दिवारणाय 'मिति' इति॥प्रत्यक्षादिवारणाय ' उपा इति ॥ संज्ञासं- १ इदं कुत्रचिन्नास्ति । २ संज्ञा नाम । ३ संज्ञीपदार्थः । ४ इत्याकारकवाक्यात् ।
PM + तर्कसंग्रहः। (५७) सीति ॥ अनुमित्यादिवारणाय 'संबन्ध' इति । संयोगादिवारणाय ' संज्ञासंज्ञि' इति ॥ 'अयं गवयवाच्यः' इति । 'अभिप्रेतगवयो गवयपदवाच्यः' इत्यर्थः ॥ तेन गवयान्तरे शक्तिग्रहाभावमसंगः । इति दूषणमपास्तम् ॥ तथा च गोसादृश्यविशिष्टपिण्डज्ञानं करणम् । अति देशवाक्यार्थस्मरणमवान्तरव्यापारः । उपमितिःफलम् , इति सारम् ॥ तच्चोपमा त्रिविधम्-सादृश्यविशिष्टपिण्डज्ञानम्, असाधारणधर्मविशिष्ट पिण्डज्ञानम्, वैधर्म्यविशिष्टपिण्डज्ञानंच॥ तत्राद्यमुक्तमेव॥ द्वितीयंयथा- 'खड्गी मृगः कीदृक् ' इति पृष्टे ' नासिकालसदेकशृङ्गोऽनतिकान्त गजाकृतिश्च' इति ॥ तज्ज्ञातृभ्यः श्रुत्वां कालान्तरे तादृशपिण्डं पश्यन्नतिदेशवाक्यार्थं स्मरति, तदनंतरं ' खड्गमृग खड्गपदवाच्यः' इत्युपमितिरुत्पद्यते, अत्र 'नासिकालसदेकशृङ्गः' इत्यसाधारणधर्मः ॥ तृतीयं यथा-'उष्ट्रःकीदृक्' इति पृष्टे 'अश्वादिवदसमानपृष्ठो न -हस्व- ग्रीवशरीरश्च' इति आप्तोत्तरिते कालान्तरेण तत्पिण्डदर्शनाद्वधर्म्य- विशिष्टपिण्डज्ञानम्, ततोऽतिदेशवाक्यार्थस्मरणम्, ततः 'उष्ट्रउष्ट्र- पदवाच्यः' इत्युपमितिरुत्पद्यते ॥ इत्युपमाननिरूपणम् ॥ आप्तवाक्यं शब्दः॥ आप्तस्तु यथार्थवक्ता । वाक्यं पदसमूहः । यथा-'गामानय' इति ॥ शक्तं पदम् ॥ 'अस्मात्पदादयमों बोद्धव्यः'इतीश्वरसंकेतःशक्तिः।। (न्यायबो०) शब्दं लक्षयति--आप्तति ॥ पदज्ञानं कारणम् । वृत्तिज्ञानसहकृतपदज्ञानजन्यपदार्थोपस्थिति- व्यापारः। वाक्यार्थज्ञानं फलम्, तच्छाब्दबोधः ॥ वृत्ति र्नाम शक्तिलक्षणान्यतररूपा ॥ शक्तिर्नाम घटादिविशे- प्यकघटादिपदजन्यबोधविषयत्वप्रकारक ईश्वरसंकेतः ।। . - (५८) तर्कसंग्रहः । यथा - ईश्वरसंकेतोनामेश्वरेच्छा । सैव शक्तिरित्यर्थः ॥ शक्तिनिरूपकत्वमेव पदे शक्तत्वम् ॥ विषयतासंबन्धेन शत्त्याश्रयत्वं शक्यत्वम् ॥ शक्यसंबन्धो लक्षणा ॥ साद्विधा--गौणी शुद्धा चेति ॥ गौणी नाम सादृश्य विशिष्टलक्षणा ॥ यथा-'सिंहो माणवकः' इत्यादी सिंहपदस्य सिंहसादृश्यविशिष्टे लक्षणा शुद्धाऽपि द्विविधा-जहल्लक्षणा अजहल्लक्षणा चेति ॥ लक्ष्य तावच्छेदकरूपेण लक्ष्यमात्रबोधप्रयोजिका जहल्लक्षणा ॥ गङ्गायां घोषः, इत्यत्र गङ्गापदवाच्यप्र. वाहसंबन्धस्य तीरे सत्त्वात्तादृशशक्यसंबन्धरूपलक्षणा- ज्ञानात् गङ्गापदात्तीरोपस्थितिः॥ लक्ष्यतावच्छेदकरूपेण लक्ष्यशक्योभयबोधप्रयोजिकां अजहल्लंक्षणा ॥ यथा- 'काकेभ्यो दधि रक्ष्यताम् ' इत्यत्र काकपदस्य दध्युप- घातकेलक्षणा लक्ष्यतावच्छेदकत्वं दध्युपघातकत्वेतेनरूपे णदध्युपघातकानां काकबिडालकुकुरादीनां शक्यल- श्याणांसर्वेषां बोधात् ॥ जहदजहल्लक्षणा वेदान्तिमते ॥ ( पदकृ० ) अवसरसंगतिमभिप्रेत्योपमानानन्तरं शब्दं लायति- आप्तेति ॥ शब्द इति ॥ शब्दप्रमाणमित्यर्थः ॥ भ्रान्तविप्रलम्भकयो- क्यिस्य शब्दप्रमाणत्ववारणाय 'आप्त' इति ॥ ननु ‘कोऽयमाप्तः । इत्यत आह-आप्तस्त्विति ॥ यथार्थवत्ता यथाभूताबाधितार्थोपदेष्टा।। वाक्यं लक्षयति-वाक्यमिति । घटादिसमुहवारणाय 'पद' इति । शक्तमिति ॥ 'निरूपकतासंबन्धेन शक्तिविशिष्टम् । इत्यर्थः ॥ अस्मादिति ॥ 'घटपदाटरूपोऽर्थों बोद्धव्यः' इतीश्वरेच्छैव शक्तिः इत्यर्थः ॥ अर्थस्मृत्यनुकूलपदपदार्थसंबन्धत्वं तल्लक्षणम् ॥ शक्तिरित १ तत्वात् । २ प्रयोजकलक्षणा अज । ३ कुक्कुटसारमेयादीनाम् । ४ दर्शयति । निरूपयति। - - तर्कसंग्रहः। (५९) लक्षणाऽपि पदेवृत्ति ॥ अथ केयं लक्षणा-शक्यसंबन्धो लक्षणा ॥ सा च त्रिधा-जहदजहजहदजहझेदात् ॥ वर्तते च 'गङ्गायां घोषः । इत्यत्र गङ्गापदशक्यप्रवाहसंबन्धस्तीरे ।। लक्षणाबीजं च तात्पर्यानुपपत्तिः ।। अत एव प्रवाहे घोषतात्पर्यानुपपत्तेस्तीरे लक्षणा सेत्स्यति ॥ 'छत्रिणो यान्ति । इत्यादौ द्वितीया ॥ सो ऽयमश्वइत्यादौ तृतीया।। आकाङ्क्षा योग्यता संनिधिश्च वाक्यार्थज्ञाने हेतुः॥ पदस्य पदान्तर व्यतिरेकप्रयुक्तान्वयाननुभावकत्व माकाङ्क्षा अर्थाबाधो योग्यता ॥ पदानामविलम्ब नोच्चारणं संनिधिः॥ तथा चाकाङ्क्षादिरहितं वाक्य मप्रमाणम् । यथा-गोरश्वः पुरुषो हस्ती' इति न प्रमाणम्, आकाङ्क्षाविरहात् । 'वह्निना सिञ्चेत्' इति न प्रमाणम्, योग्यताविरहात् । प्रहरे प्रहरे ऽस- होचारितानि 'गाम्, आनय' इत्यादिपदानि न प्रमाणम्, सांनिध्याभावात् ॥ ( न्यायबो० ) आकाक्षां लक्षयति--पदस्योति ॥ यत्पंदविशेष्यकाव्यवहितोत्तरत्वादिसंबन्धेन यत्पदप्रका- रकज्ञानव्यतिरेकप्रयुक्तो यादृशशाब्दबोधाभावः, ताह- शशाब्दबोधे तत्पदे तत्पदवत्त्वम् आकाङ्क्षा । तादृशा- काङ्क्षाज्ञानं शाब्दबोधे कारणम् ॥ अर्थाबाध इति ॥ 'बाधाभावी योग्यता' इत्यर्थः॥'अग्निना सिश्चेत् । इत्यत्र सेककरणत्वस्य जलादिधर्मस्य वहाँ बाधनिश्च- यसत्त्वात्ताशवाक्याच्छाब्दवोधो न संभवति॥आसत्ति १ पदस्य वृत्तिः । २ यत्पदविशेष्यकेति कुत्रचिनास्ति । ३ यस्य यत्पद ।
- - . (६०) तर्कसंग्रहः। निरूपयति--पदानामिति ॥ असहोच्चारितानि॥विल- म्बेनोच्चारितानि ॥ ( पदकृ० ) पदस्यति ॥ असंभववारणाय ‘पदान्तरव्यतिरेक- प्रयुक्त ' इति । पुनरसंभववारणाय ' पदान्तर ' इति ॥ अर्थेति ॥ आकाङ्क्षावारणाय ‘अर्थ ' इति ॥ पदानामिति ॥ असहोच्चा- रितेष्वतिव्याप्तिवारणाय ' अविलम्बेन ' इति । आकाङ्क्षावारणाय पदानाम् । इति ॥ आकाक्षादिशून्यस्य वाक्यस्यात्र प्रमाणत्वं निषेधयति-तथाचेति ॥ आकाङ्क्षादिकंशाब्दहेतुः । इत्युक्ते चेत्यर्थः ॥ अनाकाङ्क्षायुदाहरणं दर्शयति--यथेति ॥ वाक्यंद्विधा-वैदिकं लौकिकं चेति ॥ वैदिकमीश्वरो तत्वात् सर्वमेव प्रमाणम्। लौकिकं त्वाप्तोक्तं प्रमा- णम् । अन्यदप्रमाणम् ॥ ( न्यायबो०) वैदिकम् 'वेदवाक्यम्' इत्यर्थः ॥ इद- मुपलक्षणम्-वेदमूलकस्मृत्यादीन्यपि ग्राह्याणि॥लौकिक त्विति ॥ आप्तत्वं च प्रयोगहेतुभूतयथार्थज्ञानवत्त्वम् ॥ वाक्यार्थज्ञानं शब्दज्ञानम् । तत्करणं शब्दः॥ ( पदकृ० ) ' नन्वेतावता शाब्दसामग्री प्रपंचिता, प्रमाविभाजक वाक्य शाब्दस्याप्युद्दिष्टत्वेन तत्कुतो न प्रदर्शितम्' इत्यत आह- वाक्यार्थेति ॥ शान्दत्वं च 'शब्दात्मत्येमि इत्यनुभवसिद्धा जातिः।। शाब्दबोधक्रमो यथा-'चैत्रो ग्रामं गच्छति' इत्यत्र 'ग्रामकर्मक- गमनानुकूलवर्तमानकृतिमान् ' इति शाब्दबोधः ॥ द्वितीयायाः कर्म- त्वमर्थः, धातोर्गमनम्, अनुकूलत्वं च संसर्गमर्यादया भासते, लटो वर्तमानत्वम्, आख्यातस्य कृतिः, तत्संबन्धः संसर्गमर्यादया भासते॥ १ अन्यवाक्यस्येति ।
तर्कसंग्रहः। (६१) इत्यत्र रथो गच्छति । गमनानुकूलव्यापारवान् रथः । इति शाब्दबोधः ॥ 'स्नात्वा गच्छति' इत्यत्र 'गमनमागभावावच्छिन्नकाली- नस्नानकर्ता गमनानुकूलवर्तमानकृतिमान् । इति शाब्दबोधः ॥ क्त्वापत्ययस्यकर्ता पूर्वकालीनत्वं चार्थः॥ एवमन्यत्रापि वाक्येबोध्यम्।। इति शब्दनिरूपणम् ॥ अयथार्थानुभवस्त्रिधा-संशयविपर्ययतर्कभेदात् ॥ एकस्मिन्धर्मिणि विरुद्धनानाधर्मविशिष्टज्ञानं संशयः। यथा-'स्थाणुर्वा पुरुषो वा' इति ॥ (न्यायबो०) यथार्थातुभवं निरूप्यायथार्थानुभव विभजति-संशय इत्यादिना ॥ एकेति ॥ 'एकधर्माव- च्छिन्नविशेष्यतानिरूपितभावाभावप्रकारकं ज्ञानं संश- यः' भावद्वयकोटिकसंशयाप्रसिद्धेः 'स्थाणुर्वा' इत्यत्र स्थाणुत्वस्थाणुत्वाभाव-पुरुषत्वपुरुषत्वाभाव । एक ) कोटिक एव ॥ ( पदकृ० ) अयथार्थानुभवं विभजते--अयथार्थेति ॥ संशयं लक्षयति-एकेति ॥ ' एकस्मिन्धर्मिण्येकस्मिन्पुरोवर्तिनि पदार्थे विरुद्धा व्यधिकरणा नानाधर्माः स्थाणुत्वपुरुषत्वादयस्तेषां वैशिष्टयं संबन्धः, तदवगाहि ज्ञानं संशयः' इत्यर्थः ॥ 'घटपटौ' इति समूहा- लम्बनज्ञानस्य घटत्वपटत्वरूपविरुद्धनानाधर्मवैशिष्टयावगाहित्वादति- प्रसक्तिवारणाय ' एकस्मिन्नितिः॥ 'घटः पृथिवी' । इति ज्ञानस्यैक- स्मिन्धर्मिणि घटे घटत्वपृथिवीत्वरूपनानाधर्मवैशिष्टयावगाहित्वादति प्रसङ्गवारणाय' विरुद्ध ' इति ॥ घटत्वविरुद्धपटत्ववान्पटः' इति ज्ञानेतिप्रसक्तिवारणाय 'नाना : इति ॥ " .
(६२) तर्कसंग्रहः। - मिथ्याज्ञानं विपर्ययः॥ यथा शुक्तौ रजतम्' इति॥ (न्यायबो० ) मिथ्याज्ञानमिति ॥ 'अयथार्थज्ञानम्' इत्यर्थः ॥ विपर्ययो नाम भ्रमः, इत्यर्थः ॥ (पदकृ० ) मिथ्येति ॥ यथार्थज्ञानवारणाय 'मिथ्या' इति अयथार्थवारणाय ' ज्ञान ' इति ॥ व्याप्यारोपेण व्यापकारोपस्तर्कः ॥ यथा-'यदि वह्निर्न स्यात् तर्हि धूमोऽपि न स्यात्' इति ॥ (न्यायबो०) व्याप्यारोपेणेति ॥ तर्के व्याप्यस्य व्यापकस्य च व्यतिरेकविधनिश्चयः कारणम् । अन्यथा बाधनिश्चयाभावे इष्टापत्तिदोषेण तर्कानुत्पत्तेः ॥ ( पदकृ० ) व्याप्येति ॥ असंभववारणाय 'व्याप्यारोपेण । इति पुनरसंभववारणांय ' व्यापकारोपः' इति ॥ अत्र वह्नयभावो व्याप्यः, धूमाभावो व्यापकः । यद्यपि तर्कस्य विपर्ययात्मकत्वेन पृथग्विभागो ऽनुचितः । तथापि प्रमाणानुग्राहकत्वात् स उदितः, इति बोध्यम् ॥ स्वप्नस्तु ॥ पुरीतद्वहिर्देशान्तर्देशयोः संधौ सिधोनाड्यां वा मनसि स्थिते अदृष्टविशेषेण धातुदोषेण वा जन्यते।स च मानसविपर्ययान्तर्भूतः स्मृतिरपि द्विधा-यथार्था, अयथार्था च ॥ प्रमा- जन्या यथार्था । अप्रमाजन्या ऽयथार्था ॥ सर्वेषा- मनुकूलवेदनीय सुखम् ॥ ( न्यायबो० ) सुखं निरूपयति--अनुकूलेति ॥ इत- रेच्छानधीनेच्छाविषयत्वम्' इति निष्कर्षः॥ यथाश्रुते- अनुकूलत्वप्रकारकवेदनीयत्वस्य ( वेदनाविशेष्यत्वस्य) १ कारणमित्यारभ्य तर्कानुत्पत्तरित्यन्तः पाठः कुत्रचिन्न । २ विपर्ययत्वेन ।
तर्कसंग्रहः। (६३) . 'घटो ऽनुकूलः' इत्याकारकज्ञानदशायामनुकूलप्रका- रकज्ञानविशेष्यत्वस्य घटादावपि सत्त्वावटादावति व्याप्तिः, इति निष्कृष्टलक्षणमुक्तम् ॥ भोजनादावति व्याप्तिवारणाय 'इतरेच्छानधीन ' इतीच्छाविशेषणम् । सुखेच्छायाः सुखत्वप्रकारकज्ञानमात्रजन्यत्वात् ॥ ( पदकृ०) सुखं निरूपयति--सर्वेषामिति ॥ सर्वात्मनाम्, अनुकूलः । इति वेद्यं यत् 'तत्सुखम् ' इत्यर्थः ॥ 'अहं सुखी' इत्यनुभवसिद्धसुखत्वजातिमद्धर्भमात्रासाधारणकारणगुणो वा सुखम् शत्रुदुःखवारणाय 'सर्वेषाम् । इति ॥ प्रतिकूलतया वेदनीयं दुःखम् । (न्यायबो०) दुःखं निरूपयति--प्रतिकूलेति॥अत्राोप " इतरद्वेषानधीनद्वेषविषयत्वम्" इति निष्कृष्टलक्षणम्।। द्वेषविषयत्वमात्रोक्तो सादावतिव्याप्तिः, तद्वारणाय 'इतरद्वेषाधीन-' इति द्वेषविशेषणम् ॥ सर्पजन्यदुःखा- दौ द्वेषात् सऽपि द्वेषः, इति सर्पस्य सर्पजन्यदुःखजन्य- द्वेषविषयत्वात् । अन्यद्वेषानधीनद्वेषविषयत्वरूपदुःखल- क्षणस्य सादौ नातिव्याप्तिः॥ फलेच्छा उपायेच्छां प्रति कारणम् । अतः फलेच्छावशादुपायेच्छा भवति ॥ एवं फले द्वेषादुपाये द्वेषः ॥ ( पदकृ० ) प्रतिकूलोत ॥ दुःखत्वजातिमत् अधर्ममात्रासाधा- रणकारणगुणो ( वा ) दुःखम् ॥ पदकृत्यं पूर्ववत् ॥ इच्छा कामः ॥क्रोधो द्वेषः॥ कृतिःप्रयत्नः॥ ( पदकृ० ) इच्छां निरूपयति-इच्छेति । कामः' इति. पर्यायः ॥ इच्छात्वजातिमती-इच्छा ॥ सा द्विधा-फलेच्छा, उपा- १ सर्वेषांजनानाम् । २ सुखदुःखवा।
(६४) तर्कसंग्रहः। येच्छा च ॥ फलम् सुखादिकम् । उपायो यागादिः ॥ देवं निरूप- यति-क्रोध इति ॥ 'द्वेष्टि ' इत्यनुभवसिद्धटेषत्वनातिमान् विष्ट- साधनताज्ञानजन्यगुणो वा द्वेषः ॥ प्रयत्नं निरूपयति-कृतिरिति॥ प्रयत्नत्वजातिमान् प्रयत्नः ॥ स त्रिविधः-प्रवृत्तिनिवृत्तिनीवनयोनि- भेदात् ॥ इच्छाजन्यो गुणः प्रवृत्तिः॥ द्वेषजन्यो गुणो निवृत्तिः॥ जीवनादृष्टजन्यो गुणो जीवनयोनिः ॥ स च माणसंचारकारणम् ॥ विहितकर्मजन्यो धर्मः॥ निषिद्धकर्मजन्यो ऽधर्मः॥ (न्यायबो० ) धर्माधौं निरूपयति--विहितति ॥ वेदविहित' इत्यर्थः ॥ निषिद्धति। वेदनिषिद्ध'इत्यर्थः।। ( पदकृ० ) धर्ममाह-विहितेति ॥ 'वेदविहित-' इत्यर्थः ॥ अधर्मवारणाय वेदविहित- इति ॥ यागादिक्रियावारणाय 'कर्म- जन्यः' इति ॥ स च कर्मनाशाजलस्पर्शकीर्तन-भोग-तत्त्वज्ञानादिना नश्यति ॥ अधर्मलक्षणमाह-निषिद्धति ॥ 'वेदेन' इत्यर्थः ॥ धर्मवारणाय 'वेदनिषिद्ध' इति । निषिद्धक्रियावारणाय 'कर्मनन्यः इति ॥ स च भोगमायश्चित्तादिनानश्यति ॥ एतावेव अदृष्टम्। इति कथ्यते, वासनाजन्यौ च ॥ वासना च विलक्षणसंस्कारः। बुद्धयादयोऽष्टावात्ममात्रविशेषगुणाः । बुद्धीच्छा- प्रयत्ना नित्या अनित्याश्च । नित्या ईश्वरस्य । अनित्या जीवस्य ॥ (न्यायबो० ) बुद्धयादयोऽष्टाविति ॥ बुद्धिसुखदुःख द्वेषप्रयत्नधर्माधर्मा इत्यर्थः ॥ संस्कारस्त्रिधा-वेगो भावना स्थितिस्थापकश्चेति ॥ वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः॥ अनुभवजन्या १ देषि ।
तर्कसंग्रहः । (६५) RRISED स्मृतिहेतुर्भावना-आत्ममात्रवृत्तिः॥अन्यथाकृतस्य पुनस्तदवस्थापादकः स्थितिस्थापकः कटादिपृ- थिवीवृत्तिः॥ इति गुणाः॥ (न्यायबो०) संस्कारविभजतेसंस्कार इति ॥ ( पदकृ० ) संस्कार विभजते-संस्कारं इति ॥ सामान्यगुणा- त्मविशेषगुणोभयवृत्तिगुणत्वव्याप्यनातिमान् संस्कारः॥ घेटादिवा- रणाय 'गुणत्वव्याप्य' इति । संयोगादिवारणाय 'आत्माविशेषगुणो- भयवृत्ति ' इति ज्ञानादिवारणाय 'सामान्यगुण' इति ॥ द्वितीयादि- पतनासमवायिकारण, वेगः । रूपादिवारणाय 'द्वितीयादिपतन इति। कालादिवारणाय 'असमवायि' इति ॥ भावनां लक्षयति- अनुभवेति ॥ आत्मादिवारणाय प्रथमदलम् । अनुभवध्वंसवारणाय द्वितीयदलम् ॥ स्थितिस्थापकमाह-अन्यथेति ॥ पृथिवीमात्रसमवे- तसंस्कारत्वव्याप्यजातिमत्त्वं स्थितिस्थापकत्वम् ।। गन्धत्वमादाय गन्धेऽतिव्याप्तिवारणाय 'संस्कारत्वव्याप्य' इति । भावनात्वमादाय भावनावारणाय 'पृथिवीसमवेत । इति । स्थितिस्थापकरूपान्यतरत्व- मादाय रूपवारणाय 'जाति' इति ॥ इति गुणा इति ॥ द्रव्य- कर्मभिन्नत्वे सति सामान्यवान् गुणः ॥ द्रव्यकर्मणोरतिव्याप्तिवार- णाय विशेषणदलम् । सामान्यादावतिव्याप्तिवारणाय विशेष्यदलम् ।। चलनात्मकं कर्म ॥ ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम्॥ अधोदेशसंयोगहेतुरपक्षेपणम्॥ शरीरसंनिकृष्टसंयो- १ गुणान्यतमविशे। २ पटादि ।
-- (६६) तर्कसंग्रहः । गहेतुराकुञ्चनम् ॥ विप्रकृष्टसंयोगहेतुः प्रसारणम् ॥ अन्यत्सवै गमनम् ॥ (न्यायबो०) कर्म निरूपयति-चलनात्मकमिति ॥ (पदकृ० ) चलनेति ॥ संयोगभिन्नत्वे सति संयोगासमवायि- कारणं कर्म ॥ हस्तपुस्तकवारणाय सत्यन्तम् । घटादिवारणाय विशे ष्यदलम् ॥ ऊर्वेति ॥ अपक्षेपणवारणाय 'ऊर्ध्व ' इति । काला- दिवारणाय ' असाधारण इत्यपि बोध्यम् ॥ अधोदेशेति ॥ उत्क्षेपणवारणाय ' अधोदेश' इति । कालादिवारणाय 'असाधारण इत्यपि देयम् ॥ शरीरोति ॥ प्रसारणादिवारणाय 'शरीरसंनिकृष्ट इति । कालादिवारणाय ' असाधारण ( पद ) म्' देयम् ॥ विप्र- कृष्टेति ॥ उत्क्षेपणादिवारणाय 'विप्रकृष्ट' इति । कालादिवारणाय असाधारण (पद) म्' अप्यावश्यकम् ॥ नित्यमेकमनेकानुगतं सामान्यम् ॥ द्रव्यगुणकर्म वृत्ति । परं सत्ता । अपरं द्रव्यत्वादि । (न्यायबो०) सामान्यं निरूपयति--नित्यमेकमने- कानुगतमिति ॥ 'नित्यत्वे सत्यनेकसमवेतत्वं जातेल- क्षणम् । इत्यर्थः॥ नित्यत्वविशेषणानुपादाने अनेकस- मवेतत्वमात्रोपादाने संयोगीदावतिव्याप्तिः, तत्राप्यने- केसमवेतत्वस्य सत्त्वात् ॥ अनेकसमवेतत्वानुपादाने. नित्यत्वमात्रोपादाने आकाशादावतिव्याप्तिः, तद्वार- णाय 'अनेकसमवेतत्वम् । अनेकसमवेतत्वानुपादाने नित्यत्वविशिष्टसमवेतत्वमात्रोक्तावाकाशगतैकत्वपरि- माणादौ जलपरमाणुगतरूपादौ चातिव्याप्तिः, जलपर १ अनेकद्रव्यसम । अनेकसमवेतत्वस्य संयोगादौ रुत्त्वात्तत्रातिव्याप्तिवारणाय नित्य- चविशेषणम् । २ रूपरसादौ ।
तर्कसंग्रहः । (६७) -- , माणुगतरूपादेराकाशगतैकत्वपरिमाणादेनित्यत्वात् स- मवेतत्वाच्च, अतः 'अनेक ' इति समवेतविशेषणम् ।। ( पदकृ० ) नित्यमिति ॥ संयोगादिवारणाय 'नित्यम्' इति । कालादिपरिमाणवारणाय ' अनेक' इति अनेकानुगतत्वं च समवायेन बोध्यम् । तेन नात्यन्ताभावेऽतिव्याप्तिः ॥ नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः॥ ( पदकृ० ) नित्यद्रव्यवृत्तस्य इति घटादिवारणाय 'नित्य द्रव्यवृत्तय : इति आत्मत्वमनस्त्ववारणाय आत्मत्वमनस्त्वभिन्नत्वे सति' इत्यपि बोध्यम् ॥ नित्यसंवन्धः समवायः। अयुतसिद्धवृत्तिः । ययो- ईयोर्मध्यएकमपराश्रितमेवावतिष्ठते, तावयुतसिद्धौ यथा अवयवावयविनौ, गुणगुणिनौ, क्रियाक्रियाव- न्तौ, जातिव्यक्ती, विशेषनित्यद्रव्ये चेति ॥ (न्यायबो०) समवायं निरूपयति-नित्यति ॥ संब- न्ध त्वं विशिष्टप्रतीतिनियामकत्वम्।तावन्मात्रोक्तौ संयो- गे ऽतिव्याप्तिः, अतो नित्य' इति विशेषणम् ॥ ( पदकृ०) नित्येति ॥ आकाशादिवारणाय · संबन्धः । इति । संयोगवारणाय 'नित्य' इति । स्वरूपसंबन्धवारणाय तद्भिनाइत्यपि । अनादिः सान्तःप्रागभावः॥ उत्पत्तेः पूर्व कार्यस्य ॥ ( न्यायबो०) प्रागभावं निरूपयति-अनादिरिति । ( पदकृ० ) प्रागभावं लक्षयति-अनादिरिति ॥ घटादिवारणाय प्रथमदलम् । परमाणुवारणाय द्वितीयदलम् ॥ 'पुनः प्रागभावः + (६८) तकसंग्रहः। कस्मिन् कालेऽस्ति' इत्यत आह-उत्पत्तेरिति ॥ ' कार्यस्योत्पत्तेः पाक स्वप्रतियोगिसमवायिकारणे वर्तते , इत्यर्थः ॥ सादिरनन्तः प्रध्वंसः॥ उत्पत्त्यनन्तरं कार्यस्य॥ (न्यायबो० ) ध्वंसं निरूपयति-सादिरिति ॥ ( पदकृ०) ध्वंसं लक्षयति--सादिरिति । घटादिवारणाय अनन्तः' इति । आत्मादिवारणाय 'सादिः । इति ॥ उत्पत्तीति 'कार्यस्योत्पत्त्यनन्तरं स्वप्रतियोगिसमवायिकारणवृत्तिः' इत्यर्थः स च 'ध्वस्तः । इति प्रत्ययविषयः ॥ त्रैकालिकः संसर्गावच्छिन्नप्रतियोगिताकोऽत्यन्ता- भावः॥ यथा 'भूतले घटो नास्ति' इति ॥ (न्यायबो०) अत्यन्ताभावं निरूपयति-त्रैकालिक इति ॥ ( पदकृ० ) अत्यन्ताभाव लक्षयति-त्रैकालिक इति॥ 'त्रैका- लिकत्वे सति संसर्गावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः ॥ ध्वंसमा- गभाववारणाय ‘त्रैकालिक ' इति । भेदवारणाय ' संसर्ग ' इत्यादि। तादात्म्यसंबन्धावच्छिन्नप्रतियोगिताकोऽन्योन्या- भावः॥ यथा 'घटः पटोन' इति । (न्यायबो०) अन्योन्याभावं निरूपयति-तादात्म्यति। ( पदकृ०) अन्योन्याभावं लक्षयति-तादात्म्येति । प्रागभाव- प्रध्वंसाभाववारणाय । तादात्म्य' इति ॥ अत्यन्ताभाववारणाय तादात्म्यत्वेनतादात्म्यसंबन्धो विशेषणीयः ॥ सर्वेषामेवं पदार्थानां यथायथमुक्तेष्वेवान्तर्भावात् 'सप्तैव पदार्थाः' इति सिद्धम् ।। १ प्रथमविषयः। २ मपि ।
तर्कसंग्रहः। (६९) .. (न्यायबो०) सर्वेषामिति ॥ प्रमाणप्रमेयसंशयम योजनदृष्टान्तासद्धान्तावयवतर्कानर्णयवादजल्पवित ण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्वज्ञानात्रिः श्रेयसाधिगमः" इति न्यायस्यादिमसूत्र उक्तानां 'प्रमा णप्रमेयादीनाम्' इत्यर्थः॥ विस्तरस्त्वन्यत्रानुसंधेयः ।। ( पदकृ०) 'पदार्थज्ञानस्य परमप्रयोजनं मोक्षः' इत्यामनन्ति ॥ स च आत्यन्तिकैकविंशतिदुःखध्वंसः ॥ आत्यन्तिकत्वं च स्वसमा- नाधिकरणदुःखप्रागभावासमानकालीनत्वम् ॥ दुःखध्वंसस्येदानीमपि सत्वेनास्मदादीनामपि मुक्तत्वापत्तिवारणाय कालीनान्तम् । मुक्त्या- त्मकदुःखध्वंसस्यान्यदीयदुः खमागभावसमानकालीनत्वादामदेवादीनां मुक्तात्मनामप्यमुक्तत्वप्रसंगात् 'स्वसमानाधिकरण' इति मागभाव विशेषणम्, दुःखानि चैकविंशतिः शरीरम्, षडिन्द्रियाणि, षड्विषयाः षड्बुद्धयः, सुखं, दुःखं चेति ॥ दुःखानुषङ्गित्वाच्च शरीरादौ गौण दुःखत्वम् ॥ तथा च 'आत्मावारे श्रोतव्यो मन्तव्यो निदिध्यासितव्यः, इति श्रुतेरात्मज्ञानसाधननिदिध्याससाधनमननसाधनत्वं पदार्थज्ञाने सजावटीति ॥ एवं च सति तत्वज्ञाने शरीरपुत्रादावात्मत्वस्वीयत्वा भिमानरूपमिथ्याज्ञानस्य नाशः । तेन दोषाभावः। तेन प्रवृत्यनुत्पत्तिः ततस्तत्कालीनशरीरेण कायव्यूहेन वा भोगतत्वज्ञानाभ्यां कर्मणां नाशः। ततो जन्माभावः ॥ “नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् । ज्ञानं च विमलीकुर्वन्नभ्यासेन च पाचयेत् । अभ्यासात्पक्कविज्ञाने कैवल्यं लभते नरः ॥ इत्यादिवचनात् " तमेव विदित्वाऽतिमृत्युमेति " इति श्रुतेश्च १ सर्वेषामपति। २ प्रारब्धकर्मणाम् ।
(७०) तर्कसंग्रहः। सगुणोपासनाकाशीमरणादेराव तत्वज्ञानद्वारा मुक्तिहेतुत्वम् ॥ अत एव 'परमेश्वरः काश्यां तारकमुपदिशति । इति सारम् ॥ काणादन्यायमतयोर्चालव्युत्पत्तिसिद्धये । अनंभट्टेन विदुषारचितस्तर्कसंग्रहः ॥१॥ (न्यायबो०) इति श्रीमत्समस्तविद्वन्मुकुटश्रीगोवर्द्ध नकृता तर्कसंग्रहव्याख्या न्यायबोधिनी समाप्ता ॥ ( पदकृ८) चक्के चन्द्रजसिंहो हि पदकृत्यमिदं शुभम् । परोपकारकरणं माधवो वीक्षतां परम् ॥ १ ॥ इति श्रीमत्तत्रभवद्गुरुदत्तशिष्यश्रीचन्द्रजसिंहविरचितं पदकृत्यं समाप्तिमगात् ॥ पुस्तक मिलनेका ठिकाना- खेमराज श्रीकृष्णदास, "श्रीवेंकटेश्वर" छापाखाना-मुंबई.
जाहिरात. न्यायग्रंथाः। की०स०आ Wa .... A... .... .... .... .... .... ... .... .... .... - .... .... तर्कसंग्रह न्यायबोधिनी और पदकृत्यीका तर्कसंग्रहमूल.... तर्कसंग्रहदीपिका नीलकंठी टीकासहित .... ०-१२ भाषापरिच्छेद मुक्तावलीसहित ०-१० सामान्यनिरुक्ति गदाधरकृत तर्कसंग्रहव्याख्या लघुबोधिनी कारिकावली मुक्तावली रामरुद्रीदिनकरी व्याकरणग्रंथाः। सिद्धांतकौमुदी अष्टाध्यायी, गणपा०, धातुपा०, लिंगानुशासन पा०और सूत्रसूचीस० अक्षर मोटा .. सिद्धांतकौमुदी अतिउत्तम पंचपाठीसहित अष्टाध्यायी, गणपाठ, धातुपाठ, लिंगानुशा० ०-१२ लपसिद्धांतकौमुदी टिप्पणसहित जिल्द मो० अ० लघुसिद्धांतकौमुदी टिप्पणस० ग्लेज छोटा सिद्धांतचंद्रिका सुबोधिनीटीका और तत्वदीपिकासह संपूर्ण सुन्दर जिल्द लघुकौमुदी उदाहरण, स्पष्टीकरण, नियमाङ्कयोजना भाषा- टोकासमेत २-८ लघुभाष्य छपता है .. कारकस्वरूप भाषाटीकासहित [व्याकरण] ०-६ सिद्धांतकौमुदी तत्वबोधिनीटीकासहित संपूर्ण सद्धांत चंद्रिका उत्तरार्द्ध सुबोधिनी औरै तत्वदीपिकासह 4.40 .... .... ... .... .... .... .... ६. Haman जाहिरात. 9... 0... .... .... .... - .... .... .... .... .... A... ... .... ०-३ .... सिद्धांतचन्द्रिका सटीक पूर्वार्द्ध सुबोधिनी और तत्त्वदीपिका- टीकासहित सिद्धांतचंद्रिका मूल ०-१० तत्वबोधिनी कौमुदीके पृष्ठांक सहितपूर्वाई. ३-८ सिद्धान्तकौमुदी तत्वबोधिनीटीकासहित उत्तराई रूपमाला संधिभागः अन्ययार्थभागः प्रयोगविधिसंग्रहः (कार- कसमासतद्धितादिक ) क्रियाकलापः आख्यातचन्द्रिका धातु- रूपभेदः श्लोकयोजनिकोपायः रूपमालाव्याकरणका षड्लिंगविभाग संधिविभागः अव्ययविभागः मयोगविधिः कारकसमासतद्धितदिदिकक्रियाकलापः अख्यातचन्द्रिकाधातुरूप. भेदः श्लोकयोननिकोपायः समासकुवलयाकर नियमोंके साथ उदाहरण सारस्वतसटीक प्रसादट्टीका ०-१२ सारस्वतमूल पूर्वार्द्ध जिल्द टाईपका... सारस्वत तीनोंवृत्ति ०-१० सारस्वत चंद्रकीर्तिटीकासह परमोत्तम १-४ तथा रफ कागजका १-० सारस्वतमाधवीटीका २-० कारकवादार्थशब्दबोध व्याकरणन्याय धातुरूपावली लघुधातुपाठसहित शब्दरूपावली एकाक्षरीकोषसहित ०--१॥ समासचक ०-१ शब्ददीपिका खेमराज श्रीकृष्णदास " श्रीवेंकटेश्वर" छापाखाना मुम्बई. .... .... .... .... .. .... .... 8... .... .... .... .... .... .... ....
No text on this page.
No text on this page.
No text on this page.