Library

Pancham- Puspam Isavasyopanisad Bhashya Teeka Prakasika

Vidyasekharalu,u

PDF Proofread

Front matter

MA
॥ श्रीः ॥
श्रीमद्वादिसनामधन्यमालिकायों
पञ्चम-पुष्पम्
H
॥ श्रीयवनाय नमः ।।
श्रीमद्भाविसमीरवादिराजपूज्यपादविरचिता
सभाष्यसटीकेशावास्योपनिषदः टिप्पणी
सभाष्यतलवकारोपनिषदश्च टिप्पणी
सभाष्यतैत्तिरीयोपनिषदोऽपूर्णा टिप्पणी च
श्रीमद्वादिराजीयग्रन्थप्रकाशनसमित्या संशोध्य
उडुपि मेजिष्टिक मुद्रणालये मुद्रापयित्वा प्रकाशिताः ।
श्रीरजतपीठपुरम् ।
शा० शक १८७७
इ. स. १९५४
(Copy right reserved)
Price 0-12-0
मूल्यं ०-१२-०.
एतद्न्थानां पुनर्मुद्रणादिविषय सर्वेऽधिकाराः
एतत्समित्यैव स्वायतीकृताः ।

विज्ञप्तिः। अयि सहृदया:, अत्र मुखपत्रनिर्दिष्टेशावास्यभाष्यटीकाटिप्पणी तलवकारोपनिषद्भाष्यटि प्पणीति द्वौ ग्रन्थौ पूर्णावुपलब्धौ मुद्रापितौ । तथा तैत्तिरीयोपनिषद्भाष्यटिप्पर्ण यावदुपलब्धा तावदपूर्णवात्र मुद्रापिता:- यत्रकुत्रापि पण्डितैर्महाशयैरवशिष्टटिप्पणीभागो दृष्टचरस्तदयं प्रेष्येत चेत मुद्रापयित्वा तं प्रकटयितुमुत्कण्ठते समितिरियम्. एवं दशोपनिषदामपि टिप्पण्यः श्रीपूज्यचरणैर्विरचिता इत्याकर्ण्यते. ताश्च येषां सविधे सन्ति, ते महोदयास्सम्प्रेष्य उपकुर्युरिति विश्वसिति समितिः. इतः परं ग्रन्थमालाया अस्याः षष्ठपुष्पतया श्रीवादिराजपूज्यपादकृतोप न्यासा द्वित्रास्समुपलब्धा मुद्रणाय सिद्धाः. अत्रापि दशोपन्यासा वर्तन्त इति श्रूयते. अवशिष्टाः प्रेक्षावद्भिरीक्षिता यदि सम्प्रेष्येरन् , तर्हि तेऽपि मुद्रापयित्वा प्रकटतां नेष्येरन्. इतः परं सप्तमपुष्पतया कल्पलता इत्यादयो मुद्रापणीया इति निश्चितम् अत्रेयं समितिरिदमेकं प्रतिजानीते. यत् यःकश्चित्प्रहितं पुस्तकमस्मत्कार्यावसाने अविकृतं यथावस्थितमेव परतः प्रेष्येत. तादृशानां मुद्रितपुस्तकद्वितयं सहैव प्रेष्येतेति. सर्वेऽपि महाशयाः एतादृशदुर्लभग्रन्थानां संग्रहणादिना मुद्रापणीयशिष्ट- ग्रन्थमुद्रणाय यथाशक्ति साहाय्यं कर्तुमहन्तीति विज्ञापयति श्रीवादिराजीयग्रन्थ- प्रकाशातसमिति अपूर्वजांकोधिनयमलिमममस्यास्म कार्यनिवहितृणां मेजिष्टिक् प्रेस अधिकारिणामुपकासल्याविभागविस्मरति. तान्यशसा योजयत्विति श्रीकृष्णं प्रार्थयते. पूर्णप्रहविद्यापीठम्, बेङ्गलूरु-२८ श्रीरुद्रासिटारम्, वि.संत्वभ्यर्थयिता सहृदयप्रेमाकांक्षी कार्यदर्शी, शाक शके १८७७तमे श्रीमद्वाहिराजीयग्रन्थप्रकाशनसमितेः ब्दीयाधिने नारायण तन्त्री, शु०द्वितीयायां सौम्यवासरे द्वैतवेदान्तविद्वान् , द्वैतवेदान्तशिरोमणिः.

॥ श्रीः ट, वेङ्गार श्रीमवेशाय नमः ।। श्रीमद्भाबिससीस्टीवादिसंजगुरुभ्यो नमः ॥ श्रीमद्वादिराजपूज्यणविरचिता ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका । श्रीमद्धनुमद्भीममध्यान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः || ॥ श्रीगुरुभ्यो नमः । हरिः ॐ उप० ।। ॐ ॥ ईशावास्यमिद सई यत्किच जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ।। १ ।। भा० ॥ ॐ ॥ नित्यानित्य जगद्धात्रे नित्याय ज्ञानमूर्तये । पूर्णानन्दाय हरये सर्वयज्ञमुजे नमः ॥ १ ॥ टी० ॥ ॐ ॥ *यज्ञं यज्ञभुजं प्राज्ञं पूर्णप्रज्ञमुनीश्वरम् । मनोज्ञगुणमासेवे सुज्ञानद. महर्निशम् ॥ श्रीमच्छीवदनाम्भोजगतसौन्दर्यसौरभम् । लिहयां लोचना- लिभ्यां भगवान् पातु नो हरिः ॥ । ॐ ॥ हयास्य व्यासकृष्णौ मां प्राण वाणी गुरूनपि । प्रणम्य वादि- राजाख्ययतिना तदनुग्रहात् ।। ईशावास्योपनिषदो भाष्यटीकाप्रकाशिका । क्रियते हियते दुर्वाग्गन्धितमस यया ॥ ईशावास्योपनिषद्धाप्यटीको चिकीर्षुर्जयतीर्थमुनिः उपनिषदुक्तगुणवत्तया प्रतिपाद्यदेवतायाः सेवारूप मङ्गलमाचरति यज्ञमिति । यज्ञमिति वदता स्वायम्भुवमनोहित्र आकूतिसूनुर्यज्ञनामा हरिदेवतेति सूचितम् । मनुना स्वदृष्टमन्त्रैस्तस्यैव स्तुतत्वात् । यज्ञभुजमिति “तस्मिन्नपो मातरिश्वा * इदं च पद्य मुद्रिवेशावास्यभाष्यटीकायां नोपलभ्यते । अस्मद्देशीय- मूलकोशेषु उपलभ्यमानत्वात् व्याख्यायां श्रीमचरणैः प्रथमतो व्याख्यातत्वाच्च अत्र मुद्रितम् ।

२ --- चेताहतुतयः इशावास्योपनिझायटीसम्मका शिका टी० । काकी जन्लोपनिषदं यथावयाकरिप्यनु भंगवांनाचार्यः चिकीर्षिता विध परिसमाप्त्यादिप्रयोजने तत्प्रतिपाद्यदेवतास्तुतिनती प्रथम निबध्नाति । नित्येति ॥ सर्वयज्ञभुज इति । सर्वयज्ञभोक्तत्वायज्ञनान इत्यर्थः ! यथोत दधाती'त्यस्याथकथनम् । अप्पदोपलक्षितसर्वयज्ञादिकर्मणां सकलपाणिप्रकृष्ट प्राणपाडवाच्येन वायुना हरावर्पितत्वम्योक्तत्वात चेष्टाया"मिति धातोः प्रकृष्ट कर्मण्यनयति चेष्टयतीति व्युत्पत्या प्रकृष्ट चेष्टा हेतुर्ति प्राणः । "ओथि गतिवृद्धयो"रिति धातोर्मातरि सर्वप्रमातरि हरौ सर्वकर्मणा- मर्पणत्या गतिर्यस्मात्स हि मातरिश्वा । “कधिनीपी"त्यत्रोक्तसर्वज्ञत्वापरपर्याय कविशव्दार्थकथन प्राज्ञमिति । प्रज्ञासम्बन्धी हि प्राज्ञः ! प्रकर्षण आ समन्तात जानातीति प्राज्ञः । यहा मातरिश्वेत्यत्रोक्तमातृपदार्थसूचनायेदम् । पूर्णप्रज्ञमुनीश्वर मित्लपि मातरि श्वा गतिरवगतिर्यस्येति व्युत्पत्त्या सिद्धमातरिश्वपदार्थसूचनम् मातरिश्चनः पूजकत्वोक्या मातरिश्चंना पूज्यत्वोत्तया हरेः पूर्णप्रज्ञेश्वरत्वमपि तलैः सूचितम् । मनोज्ञगुणमित्यनेन पदेन “अनेनदेश"मित्यादेरर्थकथनम् । सुज्ञानद मिति "ततो न विजुगुप्सत' इत्यस्यार्थकथनम् । ततो भगवदत्तज्ञानेन स्वकीय तया सुवनन्य प्रायम् ज्ञातवात । आत्मानं विशेषे स्वयं “गुपू रक्षण : इति धातागोतु रक्षितुं नेच्छतीति स्वोपासकाय ज्ञानदानम्यार्थत उक्तत्वात ! अहानिश मिति च “कुर्वन्नेवेह कर्माणी'त्यस्य फलितार्थकथनम् ।। भगवत्यादरात्सकलवा मनसदेवताया रनाया अप्युपसर्जनतया स्मरणाय पुनरप्याशीर्वादरूपं मङ्गलमा चरति श्रीमदिति । अलिरपि पुप्पसौरभं दूरत आघ्राय तदन्तिकमायाति भगवल्लोचनाली तु श्रीमुखसौन्दर्याव्यसौरभलोभात्प्रतिक्षणमायात इति भावः । चिकीर्तिताविनपरिसमाप्त्यादीत्यत्र "तं हासुरा विदध्वसुगरिति श्रुत्युलवायुरुपपूर्णप्रज्ञस्य विनाभावपरिसमाप्त्योः स्वतः सिद्धत्वाद्भगवत्प्रसादालय लम्य सम्भावितविनव्वसस्य शिष्यप्रशियादिशु प्रचयाख्यफलस्य च सूचना दिपदम् । अत्र नम्यत्वोपपादकनित्यानित्यजगद्धातृत्वादिगुणानां वस्तुगल स्तुतिरूपत्वेन मङ्गलत्वाच्च स्तुतिनती इत्युक्तम् । एवमन्यवाप्यूह्यम् । सर्वयज्ञ मावस्यायनान्न इत्यनेन यजनं यज्ञ इति भावव्युत्पत्ति त्राभिप्रेता । किं १ ऋत्वा २ ईशावास्योपनिषद्भाप्यटीकप्रकाशिका टी० ॥ काण्वी मन्त्रोपनिषदं यथावयाकरिप्यनु भंगवानाचार्यः चिकीर्षिता विन. परिसमाप्त्यादिप्रयोजने तत्प्रतिपाद्यदेवतास्तुतिनती प्रथम निबध्नाति !! नित्येति । सर्वयज्ञभुन इति । सर्वयज्ञभोक्तृत्वाद्यज्ञनाम्न इत्यर्थः । यथोक्तं दधाती"त्यस्यार्थकथनम् । अप्पदोपलक्षितसर्वयज्ञा द्विकर्मणां सकलपाणिप्रकृष्ट- चेष्टाहेतुतया प्राणपदवाच्येन वायुना हरावर्पितत्वस्योक्तत्वात् । “अन चेष्टाया'"मिति धातोः प्रकृष्ट कर्मण्यनयति चेष्टयतीति व्युत्पत्त्या प्रकृष्टचेष्टाहेतुर्हि प्राणः ! "टुओश्चि गतिवृद्धयो"रिति धातोर्मातरि सर्वप्रमातरि हरौ सर्वकर्मणा- मर्पणख्या गतियस्मात्स हि मातरिश्वा । “कर्थिनीषी"त्यत्रोक्तसर्वज्ञत्यापपर्याय- कविशव्दार्थकथन प्राज्ञमिति । प्रज्ञासम्बन्धी हि प्राज्ञः । प्रकर्षेण आ समन्तात् जानातीति प्राज्ञः । यद्वा मातरिश्वेत्यत्रोक्तमातृपदार्थसूचनायेदम् । पूर्णप्रज्ञमुनीश्वर- मित्यपि मातरि श्वा गतिरवगतिर्यस्येति व्युत्पत्त्या सिद्धमातरिश्वपदार्थसूचनम् । मातरिश्वनः पूजकत्वोक्त्या मातरिश्वंना पूज्यत्वोत्तया हरेः पूर्णप्रज्ञेश्वरत्वमपि तत्रैव सूचितम् । मनोज्ञगुणमित्यनेन पदेन “अनेजदेक"मित्यादेरर्थकथनम् । सुज्ञानद- मिति "ततो न विजुगुप्सत" इत्यस्यार्थकथनम् । ततो भगवदत्तज्ञानेन स्वकीय- तया भुवनस्य प्राग ज्ञातस्त्रात् । आत्मानं विशेषेण स्वयं “गुपू रक्षण" इति धातोगाप्तु रक्षितुं नेच्छन्तीति स्वोपासकाय ज्ञानदानस्यार्थत उक्तत्वात् । अहर्निश- मिति च “कुर्वन्नेवेह कर्माणी'त्यस्य फलितार्थकथनम् ।। भगवत्यादरात्सकलवा- मनसदेवताया रनाया अप्युपसर्जनतया स्मरणाय पुनरप्याशीर्वादरूपं मङ्गलमा- चरति श्रीमदिति । अलिरपि पुष्पसौरभं दूरत आघ्राय तदन्तिकमायाति । भगवल्लोचनाली तु श्रीमुखसौन्दर्याख्यसौरभलोभात्प्रतिक्षणमायात इति भावः ।। चिकीर्षिताविघ्नपरिसमाप्त्यादीत्यत्र "तं हासुरा ऋत्वा विदध्वसुरिति श्रुत्युक्तवायुरूपपूर्णप्रज्ञस्य विनाभावपरिसमाप्त्योः स्वतः सिद्धत्वाद्भगवत्प्रसादाख्य- फलस्य सम्भावितविनव्वसस्य शिष्यप्रशियादिषु प्रचयाख्यफलस्य च सूचनाय आदिपदम् । अत्र नम्यत्वोपपादकनित्यानित्यजगद्धातृत्वादिगुणानां वस्तुगत्या स्तुतिरूपत्वेन मङ्गलत्वाच्च स्तुतिनती इत्युक्तम् । एवमन्यत्राप्यूह्यम् । सर्वयज्ञ- भोक्तृत्वाद्यज्ञनान्न इत्यनेन यजनं यज्ञ इति भावव्युत्पत्ति त्राभिप्रेता ! किं तु ईशावास्योपनिषद्धाप्यटीकाप्रकाशिका टी० ॥ सुखरूपस्य भोक्तृत्वादिति । अपूर्णसुखाः सुखार्थं भोगान् भुञ्जते किं तथा हरिरपि नेत्याह ॥ पूर्णानन्दायेति ॥ भोगास्तु लीलयेति भावः । पूर्गानन्दत्वं हरेः कुत इत्यत आह !! जगद्धात्र इति ।। तदुक्तं “को ह्येवा- न्यादित्यादि । धातृत्वं चानित्यानामेव नतु नित्यानाम् । अनाधेयातिश- यत्वादिति नागकनीयमिति भावेनाह ॥ नित्यानित्यति ।। "निन्यं नित्या- त्मना यत" इत्यादेः । अशरीरस्य न जगद्धातृत्वं शरीरित्वे मरणं स्यादि- त्यत आह ॥ ज्ञानमूर्तये नित्यायेति ॥ मूर्तिमत्त्वाज्जगद्धातृत्वोपपत्तिः । तस्याश्च मूर्तेर्ज्ञानाद्यात्मकत्वेन नित्यत्वोपपत्तिरिति । वक्ष्यते चैतत्सर्व "याथातथ्यतोऽर्थान् व्यदधात्" । "वायुरनिलममृत" “यत्ते रूपं कल्याण- तमं” “स पर्यगाच्छुकं" "तस्मिन्नपो मातरिश्वा दधाती"त्यादि । देवताप्रणामानन्तरं गुरुषणामः कर्तव्य इति शिष्यान् ग्राहयितुं गुरुत्वेनापि हरिं प्रणमति ॥ यस्मादिति ।। इज्यत इति यज्ञ इति कर्मव्युत्पत्तिरेव सूचिता । कर्तुमर्तुमन्यथा कर्तुं समर्थस्य हरेनित्यनाशकत्वशक्तिरप्यस्तीत्यतो नित्यं नित्यात्मना यत इत्युक्तम् ! ज्ञानाद्या- त्मकत्वेनेति बदता मनःपरिणामरूपज्ञानस्य विक्षणावस्थायित्वेऽपि करचरणा- द्यात्मज्ञानस्य विलक्षणत्वान्नित्यत्वमेव सम्भावितमिति सूचितम् । याथातथ्य- तोऽर्थान् व्यदधादित्यनेन नित्यानित्यजगद्धातृत्वमुक्तं भवति । यथायथा प्रतीयते तथातथा विद्यमान हि यथातथम् ! तस्य भावश्च याथातथ्यम् । एवं च बहुकाल. स्थायिक्षित्याद्यर्थान् सृष्ट्वा स्थापयतीत्यपि सिद्धम् । न तु सृष्टिमात्रकथनमिदम् । अतो जगद्धातृत्वमप्युक्तं भवति । वायुरनिलममृतमित्यत्रामृतपदेन नित्यत्वमुक्तम् । यत्ते रूपं कल्याणतममित्यनेन ज्ञानमूर्तित्वमुक्तं भवति । “अकायमव्रण"मित्या- दिना व्रगादियोग्यप्राकृतकायराहित्यमुक्त्वा यत्ते रूपं कल्याणतममिति पुनः कल्याणतमत्वं वदन्ती ज्ञानाद्यात्मिकामेव मूर्तिमभिप्रैतीति मूर्तेर्ज्ञानाद्यात्मकत्वं कथं न सिद्धयेत् । स पर्यगाच्छुक्रमित्यत्र शुक्रपदोक्तशोकराहित्योपपादनाय पूर्णा- नन्दत्वं च श्रुतेः कथं नाभिप्रेतम् । अपूर्णानन्दानां जीवानां शोकसद्भावदर्शनात् । तस्मिन्नपो मातरिश्वा दधातीत्येतत्सर्वयज्ञभोक्तृत्वार्थकतया पूर्वमेव व्याख्यातम् ।

४ ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका भा० ॥ यस्माद्ब्रह्मेन्द्ररुद्रादिदेवतानां श्रियोऽपि च । ज्ञानस्फूर्तिः सदा तस्मै हरये गुरवे नमः ॥ स्वायम्भुवो मनुरेतैर्मन्वैर्भगवन्तमाकृतिसूर्नु यज्ञनामान विष्णु तुष्टाव । टी ॥ ब्रह्मादीनामप्राप्तज्ञानमुत्पद्यते श्रियस्तु सर्वदा विद्यत इति सूचयितुं श्रियो- ऽपीति पृथग्रहणम् । चशब्दोऽवधारणे । यस्मादित्यनेन सम्बद्धयते । ज्ञानस्फूर्तिः ज्ञातव्यार्थप्रतिभा । यथायोग्यं क्रियाध्याहारः । “यो ह वा अविदितार्षच्छन्दोदैवतब्राह्मणेन मन्त्रेण यजति याजयति अध्यापयति वा स्थाणुं वच्छति गते वापद्यते प्रवामीयत" इति श्रुतेदेवतादिज्ञानवत एव विद्या फलतीति ज्ञायते । तत्र ब्राह्मणपदोपलक्षितार्थज्ञानं व्याख्याना- देव भविष्यति । छन्दोज्ञानं त्वक्षरगणनया सुकरमेव । ऋषिदेवते तु ज्ञापयन्नाह ॥ स्वायम्भुव इति ॥ व्याचिकीर्षितत्वेन बुद्धौ प्रकृतत्वादेत- रित्युक्तम् । मूर्त्यन्तरं विहाय यज्ञस्य स्तुतौ किं कारणमित्यतो विशेषतः स्वसम्बन्धमाह ॥ आकूतिसूनुमिति ॥ भगवन्तमिति पूजार्थम् । कुत एतदवगम्यत इत्यत आह || स्वायम्भुव इति ।। ब्रह्मादीनामप्राप्तज्ञानमुत्पद्यत इत्यत्र आलोचने सर्वविषयकज्ञानवतो ब्रह्मणः कथमप्राप्तज्ञानमिति नाशङ्कनीयम् । अनालोचनदशायामप्राप्तज्ञानस्यापि सम्भवात् । प्रवाहतो नित्यस्य मनोवृत्तिरूपज्ञानस्यानित्यत्वेन पूर्वपूर्वज्ञानोत्पत्तिकाले उत्तरोत्तर- ज्ञानस्याप्राप्तत्यावश्यम्भावाच्च । ब्रह्मादिषु भवेदिति क्रियाध्याहारः, लक्ष्भ्यां तु स्पष्टीभवेदिति क्रियाध्याहार इति भावेनाह यथायोग्यमिति | अविदितापच्छन्द इत्यत्र आर्षपदेन ऋषिसम्बन्धः कथ्यते । ब्राह्मणपदोपलक्षितार्थज्ञानमित्यत्र ब्राह्मणपदं हि संहितायाष्टीकावाचकम् । टीका च अर्थज्ञानोत्पादनायेत्यतो ब्राह्मण- पदमर्थज्ञानोपलक्षकमिति भावः । स्थाणु वच्छतीत्यत्र भावप्रधानो निर्देशः । स्थाणुं स्थाणुत्वमित्यर्थः । गर्तपदेन भूगर्तरूपो नरकः कथ्यते । प्रवामीयत इत्यस्य "व्यत्ययो बहुल''मिति वचनात्प्रमीयते वा म्रियते वेत्यर्थः । यद्यपि भगवच्छब्दः षड्गुणैश्वर्यवाची । तथाऽपि गुरुभूतमातामहेन कथं लघुभूतो दौहित्रः स्तूयत इति शङ्कावारणाय दौहित्रोऽप्ययं हरेरवतारत्वात्पूज्य इत्यर्थसूचनाय भगवन्तमिति ईशावास्योपनिषद्भायटीकाप्रकाशिका भा० ॥ स्वायम्भुवः स्वदौहित्रं विष्णु यज्ञाभिधं मनुः । ईशावास्यादिभि- मन्त्रैस्तुष्टावावहितात्मना ॥ रक्षोभिरुग्रैः सम्प्राप्तः खादितुं मोचित- स्तदा । स्तोतं श्रुत्वैव यज्ञेन तान्हत्वाऽवध्यतां गतान् ॥ प्रादाद्धि भगवांस्तेषामवध्यत्वं हरः प्रभुः । तैवंध्यत्वं तथाऽन्येपामतः कोऽन्यो हरेः प्रभुरिति ब्रह्माण्डे ।। भागवते चायमेवार्थ उक्तः । टी० ॥ अवहितात्मना सावधानेन मनसा । यद्यप्यसौ स्वपरमोक्षार्थ तुष्टाव । तथाऽप्यवान्तरमस्य फलान्तरं सिद्धमित्याह ॥ रक्षोभिरिति ॥ तदा स्तुतिकाले स्तोत्रं श्रुत्वैव तदसहमानैः रक्षोभिः खादितुं सम्प्राप्तो यज्ञेन तेभ्यो मोचित इत्यर्थः । तान्राक्षसानित्यध्याहारेण पुल्लिङ्गोपपत्तिः । अव- ध्यत्वे कारणमाह ॥ प्रादाद्धीति ॥ ननु बाधने कथं तेषां शक्तिरित्यत आह ।। तैरिति ॥ अन्येषां तैर्वध्यत्वमिति तेषामन्यवधे सामर्थ्यमित्यर्थः । तथाशब्दो वरसमुच्चये । यत एवं हरिः शिववरमप्यतिक्रान्तवानतो हरे- रन्यः को नाम प्रभुः समर्थः किंतु हरिरेवेत्यर्थः । अत्र प्रमाणान्तरमाह ॥ भागवते चेति ॥ ईशावास्यादिमन्त्राणां योऽर्थों वक्ष्यतेऽयमेव भाग- वतेऽष्टमादावुक्तः । तत्र च मनुः स्तोता यज्ञनामा विष्णुः स्तुत्य इति स्पष्टं प्रतीयते । तत्समाख्यानादत्रापि तयोरेव ऋषिदेवतात्वं ज्ञायत इति भावः । अनेनोपनिषदोऽधिकारिविषयप्रयोजनाभिसम्बन्धोऽपि दर्शितो भवति । मन्वादीनामधिकारिणां यज्ञनाम्नो विष्णोविषयस्य मोक्षस्य प्रधानस्य रक्षोनिरसनस्याप्रधानस्य च प्रयोजनस्य सूचितत्वात् । पूजार्थमित्युक्तम् । खादनाथ प्रागनागतरक्षसामिदानीमागमने हेतुसूचनाय स्तोत्रं श्रुत्वैव तदसहमानै रित्युक्तम् । भगवतस्तु मनोः स्वमातामहत्वात्तददनार्थमागता- नामनादिवैरिणां रक्षसां हननं न स्तोत्रश्रवणसापेक्षमिति भावः । शिवेनान्येषां राक्षसैर्वध्यत्ववरे दत्ते सर्वेषां वधोऽपि स्यादेव । न च सर्ववधो दृश्यते । अतोऽन्य- वधे सामर्थ्यमित्युक्तम् । अत्र प्रमाणान्तरमाहेत्यत्र अत्र मनोक्रेषित्वे यज्ञस्य देवतात्वे च प्रमाणं समाख्यारूपमित्यर्थः ।

६ ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका भा० ॥ ईशस्यावासयोग्यमीशावास्यम् । जगत्यां प्रकृतौ । तेन ईशेन त्यक्तेन दत्तेन भुञ्जीथाः । टी० ॥ अतो युक्तमेतदुपनिषदो व्याख्यानं गहनार्थत्वाच्चेति । उपदिष्टमपि तत्वं अधिकारिण एव हि हृदयेऽवतिष्ठते नान्यस्येति तत्वं विवक्षुरुपनिषदधि- कारसिद्ध्यर्थ विच्छिन्नतृष्णत्वं तावदायेन मन्त्रेण सोपपत्तिक विधत्ते । तोशावास्यपदं दुर्गमार्थत्वायाख्याति ॥ ईशस्येति ॥ अनेनावासमहती- त्यावास्यं ईशस्यावास्य ईशावास्यमित्युक्तं भवति । जगत्यामित्येतत्पृथिव्या- मित्यन्यथाप्रतीतिनिरासाय व्याचष्टे ॥ जगत्यामिति ॥ तेनेति परामर्शस्य विषयो न प्रतीयते त्यक्तस्य च भोगसाधनत्वमयुक्तमतो दुर्गमार्थ तृतीयपाद व्याख्याति ॥ तेनेति ॥ समासे उपसर्जनीभूतस्यापीशस्य बुद्धया विवेके- नायं परामर्श इति भावः । पूर्वार्धाक्ततात्पयपरामर्शश्चायमिति ज्ञातव्यम् । ततश्चाय मन्त्रार्थः । यत्किच जगदिदं तत्सर्वं प्रवृत्त्यर्थमात्मन ईशस्यावास- महतीति ताव"तदेवानुप्राविश"दिति श्रुतिप्रसिद्धम् । तेन ज्ञायते स्वय- मिदं प्रवृत्तावशक्तं परमेश्वराधीनमिति । किं च जगत्यां प्रकृताविदं सर्व- माश्रितमित्येतत् “आकाश एव तदोतं च प्रोत चे''ति श्रुतिसिद्धम् । प्रकृतिश्च परमेश्वराधीना । “एतस्मिन्खल्वक्षरे गााकाश ओतश्च प्रोतश्चे"त्यादि- श्रुतेः । ततोऽपि सर्वमस्वतन्त्रं परमेश्वराधीनमिति विज्ञायते । मीश्वर एव स्वतन्त्रस्तेन कारणेन तेनेशेन त्यक्तेन दत्तेन वित्तेन यदृच्छया लव्येनेति यावत् । भुञ्जीथाः भोग कुर्याः । यतश्चेशादन्यदस्वतन्त्रं तेन तस्य दाने सामर्थ्याभावात्कस्यस्वित् कस्यापि राजादेः सकाशाद्धनं मा गृधः मा कांक्षेथाः ॥ यद्यपि तेनेशावास्यमित्यत्रोक्तेनेशेनेति परामों युज्यते । तथाऽपि तत्पदस्य यत्पद- सापेक्षत्वमभिप्रेत्योक्तं बुद्धया विवेकेनेति । य ईशस्तेनेति परामर्श इति भावः । यद्यपि “तत्सृष्ट्वा तदेवानु प्राविश"दिति श्रुतौ प्रवेशमात्रमुच्यते । तथाऽपि स्वभावत एव सर्वत्र व्याप्तस्य सृष्टयनन्तरं स्वसृष्टवस्तुषु पुनः प्रवेशस्तत्प्रवर्तनाथमिति भावः । अव्याकृताकाशस्य प्रकृत्यात्मकत्वात्प्रकृतिस्वामिकत्वात् “आकाश एव तदोतं च प्रोत चे"ति श्रुताचाकाशपदेन प्रकृतिरेवोच्यत इति भावः ।। यत एव- - ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका उप० ।। कुर्वन्नेवेह कर्माणि जिजीविषेच्छत५ समाः। एवं त्वयि नान्यथतोऽस्ति न कर्म लिप्यते नरे ॥ २॥ भा० ॥ स्वतः प्रवृत्यशक्तत्वादींशावास्यमिदं जगत् । प्रवृत्तये प्रकृतिगं यस्मात्स प्रकृतीश्वरः । तदधीनप्रवृत्तित्वात्तदीयं सर्वमेव यत् । तहत्तेनैव भुञ्जीथा अतो नान्यं प्रयाचयेदिति ब्रह्माण्डे ।। १ ।। अकु- र्वतः कर्म न लिप्यत इति नास्ति । टी० ॥ मन्त्रार्थस्थापनाय स्मृतिसमाख्यामाह ॥ स्वत इति ॥ स्वतः प्रवृत्त्यशक्त- त्वादेवेदं जगत्प्रवृत्तय ईशावास्यं । अन्यथा तन्न स्यात् । अत ईशावास्य त्वात् स्वतः प्रवृत्त्यशक्तमीशाधीनम् । किं च यस्मादिदं प्रकृतिगं यस्माच्च विष्णुः प्रकृतीश्वरस्ततोऽपि । यद्यस्मादेवमुक्तप्रकारेण तदधीनस्वरूपत्वात् सर्वं वित्तं तदीयमेवातस्तद्दत्तेनैव भुञ्जीथा: । अतः परमेश्वरादन्यं न प्रयाचेत भवानित्यर्थः ॥ १ ॥ तृष्णाविच्छेदवत् स्वोचितकर्मानुष्ठानमप्यावश्यक ज्ञानार्थिनामित्येतत्कुर्वन्नवेति द्वितीयमन्त्रेण विधत्ते । तत्र नान्यथेतोऽस्ती- त्येतदुर्गमार्थत्वाव्याख्याति ॥ अकुर्वत इति ॥ ततश्चाय मन्त्रार्थः । शतं समाः शतं वर्षाणि इह मानुषादिजन्मनि यजिजीविषेत् जीवितुमिच्छेत् तत्कर्माणि स्वोचितानि कुर्वन्नेवामरण भगवत्पूजात्मकान्यसङ्कल्पित- फलानि स्वोचितानि कर्माणि सर्वथा कुर्यादिति यावत् । कुतः एवं कर्माणि कुर्वति नरे मनुष्यमात्रेऽपि त्वयि कम पापं न लिप्यते । स्वोचि- तेनासङ्कलितफलेन कर्मणा भगवत्पूजां कुर्वन्तमल्पाधिका रिणमपिं न प्रागुत्तराणि कर्माणि पापानि बाधन्ते । ततश्च ज्ञानाधिकारी स भवतीति । यावत् । "नान्य प्रयाचये"दिति भाष्ये स्वयं न याचेत अन्यमुखेन याचयेदिति भ्रमनिवा- रणाय स्वार्थिको णिजिति भावेनोक्तं न प्रयाचेत. भवानिति । अन्यथा नियंलीक- वैराग्याभावप्रसङ्गात् । “मा गृधः कस्यस्विद्धन"मिति मूलश्रुतिविरोधाच्च ॥ १ ॥ न प्रागुत्तराणि कर्माणि पापानि बाधन्त इत्यस्य निरन्तरभगवत्पूजाया अपि सकलपापप्रायश्चित्तरूपत्वादिति भावः ।

८ J ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका भा० ॥ अज्ञस्य कर्म लिप्येत कृष्णोपास्तिमकुर्वतः । ज्ञानिनोऽपि यतो हास आनन्दस्य भवेद्रुवम् । अतोऽलेपेऽपि लेपः स्यादतः कार्यैव सा सदेति नारदीये ॥२॥ टी० ॥ इतः कर्मकरणात् । अन्यथा कर्म न लिप्यत इति नास्ति । भगवत्पूजा- मकुर्वन्तं पापानि बाधन्त एव । ततश्चासौ ज्ञाने नाधिक्रियते । अशुद्धचि- तत्वात् । अतः कर्माणि कार्याणीति ॥ अपरे व्याचक्षते । ज्ञानिनः सर्वकर्मत्यागः पूर्वमन्त्रेण विहितः । यथा ईशा ईशित्रा परमेश्वरेण यत्किच जगत्यां पृथिव्यां जगदिदं तत्सर्व वास्यमाच्छाद्य तेन कारणेन त्यक्तेन सर्वकर्मत्यागेन भुञ्जीथाः पालयेथाः । एवं त्यक्तेषणस्त्वं कस्यविद्धनं मा गृधः मा कांक्षीः । अथवा मा गृधः कस्मात् कस्यविद्धनं न कस्यापि । अतो मिथ्याविषये बुद्धिं मा कार्करिति । यस्तु नरमानोऽल्पज्ञस्तं प्रति कर्मानेन मन्त्रेणोच्यत इति । तदनुपपन्नम् । अज्ञवज्ज्ञानिनोऽपि भगवत्पूजा- त्मकस्वकर्माकरणे पापलेपसद्भावेन द्वाभ्यामपि तत्कर्तव्यतायाः स्मार्तत्वादि- तिभावेनाह ॥ अज्ञस्येति ॥ कृष्णोपास्ति स्वकर्मणेति शेषः । नियतमोक्ष- त्वेन कर्मणामकिंचित्करत्वादलेपस्य ज्ञानिनः कुतः कर्मलेप इत्यत आह ॥यत इति ॥ हासो भवेत्कृष्णोपास्त्यकरणनिमित्तपापेनेति शेषः । यतो हासो भवेदतो मोक्षप्रच्युतिरूपलेपरहितेऽपि ज्ञानिनि कर्मलेपः स्यादेव । यत एवमुभयोर्लेपोऽतो द्वाभ्यामपि सा कृष्णोपास्तिः कार्यवेत्यर्थः ॥ असङ्गतं च तस्येशाच्छाद्यत्वकथनम् । नहि तत्कर्माकरणे हेतुः । तथासत्यज्ञस्यापि तत्प्रसंगेनोत्तरमन्त्रविरोधात् । ईशावास्यत्वज्ञानोपलक्षणपक्षेऽप्यसंगतिरेव । नहि जगदीशावास्यमिति जानता कर्म न कार्यमिति नियमोऽस्ति । अद्वैतज्ञानमनेनोपलक्षितमिति चेन्न । विरोधात् । न ह्याच्छाद्याच्छादकयोर- न हि जगदीशावास्यमिति जानतेत्यत्र रात्रौ तमसाऽह्नि हिमान्या च जगतः आच्छाद्यत्वं जानताऽपि सन्ध्यावन्दनादिकर्मकरणदर्शनादिति भावः । अद्वैतज्ञान- मनेनोपलक्ष्यत इत्येतदपि न प्रकृतोपयोगि । अद्वैतज्ञानवता मायावादिना आचा- येणैव जपादिकर्मणां क्रियमाणत्वात् । अङ्गीकृत्य दूषणान्तरमाह न हीति ।

ईशावास्योपनिषद्भाप्यटीकाप्रकाशिका ९ । टी० ॥ भेदो दृष्टपूर्वः । सर्वमपीशावास्यमंगीकुर्वताऽवश्यं जगतीपदस्य सर्वोपलक्षण- त्वमङ्गीकर्तव्यम् । ततो वरं प्रकृतिवाचकत्वग्रहणमेव । सर्वार्थलाभात् । नच तत्पक्षेऽस्योपयोगोऽस्ति । भुञ्जीथा इत्यस्य पालनाथतायामात्मनेपद- विरोधः । धनमिथ्यात्वं च प्रत्यक्षादिविरुद्धमिति ॥ २ ॥ एवं प्राप्ताधिकार न च तत्पक्षेऽस्योपयोगोऽस्तीत्यस्य ईशाच्छाद्यस्वर्गाद्यर्थं तैरपि यज्ञादेः क्रियमाण- स्वादिति भावः । 'भुजोऽनवन' इत्यवनाथें आत्मनेपदनिषेधादिति भावेनाह आत्मनेपदविरोध इति । किं च ईशा ईशित्रा आच्छाद्यं जगदिति च न माया- वादिना वक्तुं शक्यते। ईश्वरो माययाऽविद्यमानमेव जगदर्शयतीति हि तन्मतम् । कथमन्यथा दृश्यत्वेन मिथ्यात्वं वदेत् । अपि च रक्षसा रसातले आच्छादितजगतः वराहरूपिणा भगवताऽऽच्छादकजलादुद्धृत्य प्रकाशितत्वाच्च कथमीशाच्छाद्यत्वम् । 'तमेव भान्तमनुभाति सर्व मिति च तत्पक्षः । अतोऽपि नेशाच्छाद्यत्वं । किं च 'यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ ततेजो विद्धि मामक' मिति गीतायां जगदीशेन कृष्णेनैवोक्तत्वात्कथमीशाच्छाद्यं जगत् । अतो यत्किञ्चि- देतत् । प्रत्युत 'तदव्यक्तमाह हि' 'यत्तदद्रेश्यमग्राह्य' 'अदृश्यत्वादिगुणको धर्मोक्तेः' 'मायायवनिकाच्छन्नमहिने ब्रह्मणे नमः' इत्यादिश्रुतिस्मृतिभ्यः स्वमते ब्रह्मवाच्छाद्यम् । ब्रह्मणो जगदारोपाधिष्ठानत्वाङ्गीकाराच्च स्वप्रक्रियया ब्रह्मैवा- च्छाद्यम् । एवं चेशाच्छाद्यत्वेन त्यागे ब्रह्मण एव त्यागप्रसंग: । न तु कर्मणः । अतोऽपि स्वाज्ञानविजृम्भितमेवेदं व्याख्यानम् । अपि च जगदीशाच्छाद्य चेत्कर्म कुतस्त्याज्यं । कर्मणोऽपि जगदन्तःपातित्वादिति चेत्तर्हि मोक्षसाधनमनोवृत्ति- रूपापरोक्षज्ञानस्यापि तत एवोपेक्ष्यत्वं स्यात् । किं चेन्द्रवाय्वादिरूपतया महा- ज्ञानिभिः पाण्डवै रेव महता प्रयत्नेन राजसूयाश्वमेधादिकर्मणां कृतत्वात्कथं ज्ञानिना कर्म त्याज्यं । किं च महाज्ञानिनं पार्थ प्रति 'कर्मण्येवाधिकारस्ते मा फलेषु कदाचनेति निवृत्तरूपकमण्येव ज्ञानिन एवाधिकारस्योक्तत्वात् । अनेनैव क्वचित् कर्मणां त्याज्यत्वोक्तिः काम्यकर्मणामेवेति सूचितं । 'नियतस्य तु संन्यासः कर्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्तित' इति संध्यावन्दनादि- कर्मणामत्याज्यत्वस्यैव भगवता कथनाच्च । पालयेथा 'इत्यत्र पालनविषयतया कर्म

१०
ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका
उप० । असुर्या नाम ते लोका अंधेन तमसावृताः । तांस्ते प्रेत्याभिगच्छन्ति
ये के चात्महनो जनाः ॥ ३॥
भा० ॥ सुष्टु रमणविरुद्धत्वादसुराणां प्राप्यत्वाचासुर्याः । नच रमन्त्यहो
असदुपासनयात्महन इत्युक्तत्वात् । महादुःखैकहेतुत्वात्प्राप्यत्वाद.
सुरैस्तथा । असुर्या नाम ते लोकास्तान्यान्ति विमुखा हराविति
वामने । ये केवेत्यनेन नियम उक्तः । नियमेन तमो यांति सर्वेऽपि
विमुखा हराविति च ॥३॥
टी० ॥ प्रतिपरमात्मतत्वबुभुत्साजननायासुर्या इति मन्त्रेणापरमात्मविदां निंदा
क्रियते । तत्रासुर्या इत्यस्य वर्णविपर्ययेणासुर्याः सूर्यप्रकाशहीना इत्यन्यथा-
प्रतीतिनिरासायार्थमाह ॥सुष्टु रमणेति!। सुष्टु रमण सुखं सुयं तद्विरुद्धमहादुः-
खत्वादसुर्या इत्यर्थः । असुराणां प्राप्यत्वादित्यनेन सकलसुखराहित्य-
मुपलक्ष्यते । कुतोऽयमसुर्यपदार्थ इत्यत आह ॥ न चेति ॥ एतमेव मन्त्रं
मूलीकृत्य प्रवृत्तेऽस्मिन्वाक्येऽसुर्यपदार्थवर्णनं " न च रमन्ती"ति क्रियते ।
तत्र चशब्देन महादुःखमनुभवन्तीत्येषोऽर्थः समुच्चीयते । महादुःखसुखा-
भावपरताऽस्य पदस्योक्तव्याख्यान एव सम्भवति नान्यथेति भावः ।
आत्मनो नित्यत्वेन हननासम्भवात्तत्रानर्थकथनमयुक्तमित्येतदप्यनेन परि-
हृतम् । असदुपासनया आत्महन इति व्याख्यातत्वात् । विपरीतं भावयता
हि तद्याथास्यं तिरस्कृतमिति तस्य गौण्या वृत्त्याऽऽत्महन्तृत्वम् । स्पष्ट
चात्र प्रमाणमाह ॥ महादुःखेति ॥ विमुखा हराविति समाख्ययाऽत्राऽऽ
स्मशब्दो हरिपर इति चोक्तं भवति । तथा च नित्यशुद्धबुद्धमुक्तस्वरूप-
मात्मानं जीवं ये विपरीतं प्रतिपद्यते ते आत्महन इत्यपव्याख्यानमेव ।
ते लोका इति तच्छब्दः प्रसिद्धिद्योतकः । ये ते प्रसिद्धास्तान्यांतीत्यर्थः ।
च न परेण वक्तुं शक्यम् । ईशाच्छाद्यसकलजगतामुपेक्षणे सति आत्मैव युवरितः ।
एवं च स्वात्मानमेव त्वं पालयेथा इत्युक्तं स्यात् । तच्च कर्तृकर्मभावविरोधा न्नित्य-
स्यात्मनः पाल्यत्वायोगाच्चायुक्तम् । अतो मर्कटः स्वकरगतरत्नमालाया इवोपनिषदाम
पकतैव परो न व्याकर्ते ति युक्तमुत्पश्यामः ॥ २ ॥

।
ईशावास्योपनिषद्धाप्यटीकाप्रकाशिका
उप० । अनेजदेकं मनसो जवीयो नैनदेवा आमुवन्पूर्वमर्षत् । तद्धावतोऽन्यान-
त्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥ ४ ॥
भा० ॥ अनेजनिभयत्वात्तदेकं प्राधान्यतस्तथा । सम्यग्ज्ञातुमशक्यत्वादगम्यं
तत्सुरैरपि ॥
टी० ॥ ये आत्महनस्ते केचन ताँल्लोकानभिगच्छन्ति केचन नेत्यन्यथाप्रतीतिनिरा-
सायाह ॥ ये के चेति ।। ये के चात्महनस्ते सर्वेऽपीत्येवं नियमपरमेवेद न
तूक्तप्रकारेण विभागपरमित्यर्थः । कुत इत्यत आह ॥ नियमेनेति ॥ नियमेने-
त्यस्यैव विवरण सर्वेऽपीति । अंधयतीत्यन्धम् । अतिनिबिडांधकारावृता
इत्यर्थः । प्रेत्य मृत्वा । एवमुदाहृतवचनविरोधादेव देवादिशरीराण्यसुर्या लोका
इति व्याख्यानमयुक्तमेवेति ॥ ३ ॥ एवं निवृत्तकर्मणा विशुद्धाशयस्यैहिका-
मुष्मिकाशेषविषयेभ्यो व्यावृत्तस्येश्वरतत्वबुभुत्सावतः कोऽसावात्मा यद्विपरी-
तोपासनम सुर्यलोकप्राप्तिसाधनं स्यादित्यपेक्षायां परमात्मतत्वोपदेशः क्रियते
।। अनेजदित्यादिना ।। तत्राद्य मन्त्रमन्यथाप्रतीतिनिरासाय स्मृत्यैव व्याचष्टे
॥ अनेजदिति ॥ तत्परमात्मस्वरूपं निर्भयत्वादेवानेजत् अकंपमानं । नतु
निष्क्रियत्वात् । प्राधान्यत एव चैकं नतु द्वितीयवस्तुरहितत्वात् । तथा-
शब्दो विशेषणसमुच्चये । मनसोऽपि जवीयो वेगवत्तरम् । मनो हि वेगव-
प्रसिद्धं । सम्यग्ज्ञातुमशक्यत्वादेव नैनद्देवा आमुवन्निति तत्सुरैरप्यगम्य-
श्रुतिगीता हि काञ्चित् श्रुतिं मूलीकृत्य प्रवर्तते । “न च रमन्तीति च" श्रुतिगीता-
वाक्यम् । अत एवैतमेव मन्त्रं मूलीकृत्येत्युक्तं । ये के चात्महनस्ते सर्वेऽपीत्यत्र
यः कोऽपि ब्राह्मणोऽस्मिन् ग्रामे नास्तीत्युक्ते नियमेन ब्राह्मणाभावस्य प्रसिद्धत्वा-
दिति भावः । (देवादिशरीराणीत्यस्य स्थाने अदेवादिशरीराणीति न्याय्यम् ।
तथा च) अदेवादिशरीराणीत्यस्य सुरयोग्या लोकाः देहाः सुर्याः । ते न भवन्तीत्य-
सुर्याः अदेवादिदेहाः भूतप्रेतपिशाचादिशरीराणीति यावत् । आदिपदेन तामसयो-
न्यन्तरं गृह्यते (असुर्यपदशक्तिलभ्योऽप्ययमेवार्थः । सति चैवं सुराणामप्यसुरत्व-
मभिप्रेत्य “परमात्मभावमद्वयमपेक्ष्य देवादयोऽप्यसुराः" इति परभाष्यं स्वस्वरूप-
प्रदर्शनपरमेवेत्यगन्तव्यम्) ॥ ३ ॥

१२
ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका
भा० ॥ स्वयं तु सर्वानगमत्पूर्वमेव स्वभावतः । अचिन्त्यशक्तितश्चैव सर्वगत्वाच
तत्परम् ॥ द्रवतोऽत्येति सन्तिष्ठत्तस्मिन्कर्माण्यधान्मरुत् । मारुत्येव
यतवेष्टा सर्वा तां हरयेऽर्पयेदिति ब्रह्माण्डे । ऋष ज्ञाने ॥ ४ ॥
टी० ॥ मुच्यते । नतु सर्वथाऽगोचरत्वात् । पूर्वमर्षदित्यस्य व्याख्यानं स्वयं तु
सर्वानिति । अगमत् व्यजानात् । पूर्वमेवेत्यनुवादेन स्वभावत इति विवरणम्
अचिंत्यशक्तितश्च सर्वगतत्वाच तत्परं ब्रह्म संतिष्ठत् द्रवतोऽन्यानत्येतीत्यु-
च्यते। न त्वन्यस्य कल्पितत्वात् । अप इत्यस्य व्याख्यानं कर्माणीति ॥ आ
समन्तात्पालयंतीति कर्माण्यापः । सर्वैः क्रियमाणानि कर्माणि तस्मिन्नर्पि-
तवानित्यर्थः । अन्यकर्माणि कथं मातरिश्वाऽपयेदित्यत आह |मारुतीति।।
यतः सर्वा चेष्टा मरुत्प्रेरणयोत्पन्नत्वान्मारुती अतस्तां हरये हरावर्पयेदित्युक्त-
मित्यर्थः । अर्षदित्येतदगमदिति व्याख्यातं । तन्मूलभूतं धातुसूत्रमपि
पठति ।। ऋष ज्ञान इति । अनेजदित्यादेनिष्क्रियत्वाद्यर्थकल्पने मनसो
जवीय इत्यादिविरोधश्च । नच सोपाधिकनिरुपाधिकत्वेन व्यवस्था ।
मुख्यार्थसंभवेऽमुख्यार्थायोगात् । स्वप्रधाने ब्रह्मणि वेदांतानां तात्पर्यादत्र
स्वरूपकथनमात्रेण वाक्यपरिसमाप्तिः ॥ ४ ॥ उत्तरमंत्रे तदेजतीत्यस्य
तब्रह्म चेष्टत इति तु व्याख्यानं प्रायपाठविरुद्धम् । अतः तद्विभेतीत्यन्यथा
प्रतीतिः स्यात्तन्निरासायाह ॥ तदिति . ॥ तदित्यव्ययं पंचम्यर्थे चेद
मंगीक्रियते तयंजनस्य किं कर्तृ तत्राह ॥ अन्यदिति ।।
अगमयजानादित्यत्र गत्यर्थानां ज्ञानार्थत्वादिति भावः । अचिन्त्यशक्तित इति
वदता भाष्यकारेणात्रैव स्थितस्यानन्तरूपग्रहणशक्तिसद्भावाच्चकेन रूपेण तिष्ठत्
रूपान्तरेण द्रवतोऽत्येतीति गत्यन्तरं सूचितम् । अप इत्यस्य व्याख्यानं कर्माणीति ।
कर्माणीत्यत्र सर्वकर्मणामन्ते कृष्णार्पणबुद्धया अपां दीयमानत्वात् शिखाग्रहणेन
शिखिनामाकर्षवदप्पदेन सर्वकर्मणामुपलक्षणमिति भावः । एतादृश ब्रह्मोपासीते-
त्यादिज्ञानपेक्षितक्रियानभिधानात्स्वप्रधाने ब्रह्मणीयुक्तम् । सानादिमती गौः,
पृथुबुघ्नोदराकारो घट इत्यादौ लौकिकवाक्ये, 'सत्यं ज्ञानमनन्तं ब्रह्मेति श्रौतवाक्ये
च स्वरूपमात्रनिरूपणेनापि वाक्यार्यवसानदर्शनादिति भावः ॥ ४ ॥

ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका १३ उप० ॥ तदेजति तन्नेजति तदूरे तद्वन्तिके । तदन्तरस्य सर्वस्य तदु सवस्य बाह्यतः ॥ ५ ॥ यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति । सर्व- भूतेषु चात्मानं ततो न विजुगुप्सते ।। ६ ॥ भा० ॥ तदेजति तत एव एनत्यन्यत् । तत्स्वयं नैजति । ततो बिभेति सोऽपि न विभेति हरिः स्वयम् । सर्वगत्वात्स दृरे च बाह्येऽन्तश्च समीपग इति तत्वसंहितायाम् ॥ ५॥ सर्वर्ग परमात्मानं सर्व च परमात्मनि । यः पश्येत्स भयाभावानात्मानं गोतुमिच्छतीति सौकरायणधुतिः टी० ॥ ननु किमध्याहारेण तद्ब्रह्म बिभेतीत्येवार्थः किं न स्यादित्यतस्तन्नेजतीत्युत्तर- वाक्यविरोधात् । शाब्द्या ह्यनुपपत्तेरार्थी बलवतीति भावेन तव्याख्याति ॥ तत्स्वयमिति ।। तन्नजतीत्येतन्निष्क्रियत्वार्थमपि व्याख्यातुं शक्यमित्यतो मन्त्रार्थे समाख्यामाह ॥ तत इति ॥ दूरे समीपतश्च बाह्येऽन्तश्चेति योज्यम् ॥ ५ ॥ तद्रे तद्वन्तिक इत्यादौ परमेश्वरस्य सर्वभूताश्रयतया सर्वभूतगतत्वमुक्तम् । तज्ज्ञानफलं यस्तु सर्वाणीति मन्त्रेणोच्यते । तत्र जीवस्य सर्वभूतात्मकत्वमुच्यत इत्यपव्याख्याननिरासाय मन्तं श्रुत्या व्याचष्टे ॥ सर्वगमिति ॥ सर्वगं परमात्मानमिति सर्वभूतेषु चास्मानमि- प्रायपाठविरुद्धमित्यस्य तदेजतित्तन्नेजतीत्यादिप्रायपाठविरुद्धमित्यर्थः । शाब्या ह्यनुपपत्तेरित्यत्र तद् ब्रह्म, एजति चलतीति यथाश्रुतवाक्यार्थकथने तन्नेजतीत्युत्तर- वाक्यविरोध: स्यात् । कम्पनरूपैजनस्य निर्भये ब्रह्मण्यसम्भवात् यथास्थित- वाक्ययोजनायामर्थ एवानुपपन्नः । भिन्नवाक्यतायां तु तस्मादेजतीति ब्रह्मनिमि- त्तकैजनरूपार्थस्यानुपपत्त्यभावान्नार्थानुपपत्तिः । किं तु किमेजतीत्याकांक्षायां अन्यदिति पदाध्याहाराभावे वाक्ययोजनानुपपत्तिरूपा शाब्येवानुपपचिरिति भावः । दूरे बाह्ये अन्तः समीपग इति यथास्थितवाक्ययोजनायाः पौनरुत्येनासम्भवात् दूरे समीपगश्च बाह्येऽन्तश्चेति भिन्नक्रमेण योजना कार्येति भावेनोक्तं दूरे समीप- गश्चेति ॥ ५ ॥ सर्वभूतान्यात्मनि आत्मत्वेनाभिपश्यतीत्यपव्याख्यानकतुरभिप्राय इति भावेनाह जीवस्य सर्वभूतात्मकत्वमिति । इदं चोपलक्षणम् । सर्वभूतान्या- ११ ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका उप० ॥ यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः ।। ७ ॥ भा० ॥ यस्मिन्परमात्मनि सर्वभूतानि स परमात्मैव तत्र सर्वभूतेष्वभूत् । एवं सर्वभूतेष्वेकत्वेन परमात्मानं विजानतः को मोहः ॥ यस्मिनु सर्वाणि भूतानि स आत्मा सर्वभूतगः । एवं सर्वत्र यो विष्णुं पश्ये- त्तस्य विजानतः । को मोहः कोऽथवा शोकः स विष्णुं पर्यगाद्यत इति पिप्पलादशाखायाम् ॥ टी० ॥ त्यस्यार्थः । 'सर्व च परमात्मनी'ति पूर्वार्धस्य । भयाभावादिति ततो न विजुगुप्सत इत्येतद्व्याख्यानस्य नात्मानं गोप्तुमिच्छतीत्यस्योपपादनम् । अभेदार्थतायां सप्तम्यनुपपत्तिश्च ॥ ६ ॥ एतन्मन्त्रार्थविवरणार्थों यस्मि . न्सर्वाणीत्ययं मन्त्र इति वक्ष्यति । तत्र यस्मिन्नात्मनि जीवे सर्वभूतानि स आत्मव यस्य विजानतः तानि संवृत्त इत्याद्यन्यथाप्रतीतिनिरासाय मन्त्र व्याख्याति ॥ यस्मिन्निति ॥ सर्वभूतानि तिष्ठन्तीति शेषः । तत्रेत्यनु- वादेन सर्वभूतेष्विति व्याख्यानम् । अभूत् अनादितो वर्तते । विजानत इत्यस्यान्वयसिद्धयर्थमेवमित्यध्याहारः कृतः । एवं सर्वाधारतया सर्वभूतेषु परमात्मान विजानतः तं चैकत्वेन विजानत इति योज्यम् । विजानतोऽनु- पश्यत इति द्वयोरपि व्याख्यानं विजानत इति । अर्थान्तरे सम्भवति कुतोऽयं मन्त्रार्थ इत्यतः श्रुत्यन्तरेण व्याख्यानादिति भावेनाह || यस्मि- निति | विजानतः एकत्वं चेति शेषः । ननु परमेश्वरज्ञानेऽपि कुतः शोकाद्यभाव इत्यत आह म विष्णुमिति । यतो ज्ञानी विष्णुं पर्यगात् सम्यक्प्राप्नोत्येव । अतः शोकाद्यभावस्तस्य युक्त इत्यर्थः । अनेन स स्मनि स्वस्मिन् जीव इति यथाश्रुतार्थकथनाशाप्येकस्मिन् जीवे सर्वजीवाना- मभावेन परस्यानुपपन्नवः । अस्माकं तु विश्वरूपे भगवति सर्वजीवानामाश्रितत्वान्न काऽप्यनुपपत्ति: । "ब्रह्माणमीशं कमलासनस्थमृषीश्च सर्वानुरगांश्च दिव्यान् । पश्यामि देवांस्तव देव देहे सर्वोस्तथाः भूतविशेषसङ्घा'" निति हि स्मृतिः ॥ ६ ॥ ब्रह्मगमनस्य निश्चितत्वादगादित्यतीतत्वोक्तिरिति भावेनाह सम्यक् प्रामोतीति ।

ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका
१५
भा० ॥ पूर्वोक्तानुवादेन शोकमोहाभावोऽपि विजानतश्चात्रोच्यते । अभ्यासश्च
सर्वगतत्वस्य द्योतनार्थः ॥ ७ ॥
टी० ॥ पर्यगादित्युत्तरमन्त्रार्थतात्पर्यमप्युक्तं भवति । एकत्वमित्यस्य पौनरुक्तयं चा-
न्यथा । अनुवादस्य वैयर्थ्यात् । नन्वेवं मन्त्रव्याख्यानेऽपि पुनरुक्तिः
स्यात् । यस्तु सर्वाणि भूतान्यात्मन्येवेत्यस्य यस्मिन्सर्वाणि भूतानीत्यनेनो-
तत्वात् सर्वभूतेषु चात्मानमित्यस्य चात्मैवाभूदित्यनेनोक्तत्वात् ।
अतो नायं मन्त्रार्थ इत्यत आह. ॥ पूर्वेति ॥ पूर्वमन्त्रोक्तस्य
सर्वाधारतया सर्वगतत्वस्यात्रानुवादोऽतो न पुनरुक्तिरित्यर्थः । नच वाच्य-
मधिकविधानायानुवादो भवति । न चानाधिकं किञ्चिदिति । पूर्वमेव-
विदो भयाभावः फलत्वेनोक्तः । .अत्र पुनः शोकमोहाभावोऽपि । प्राक्
सर्वाधारत्वेन सर्वगतत्वदर्शनफलमुक्तम् । अत्र तु विशेषतो जानत इत्येवं
फले ज्ञाने चाधिक्यसद्भावादित्यर्थः । उपलक्षणे चैतत् । एकत्वमनुपश्यत
इत्याधिक्यं च द्रष्टव्यम् । तद्धावत इत्यस्य सर्वगतत्वस्य तर इत्यादिना
पुनरुच्यमानत्वात्पुनरुक्तिदोष इत्याशङ्कां पुनरुक्तिदोषपरिहारप्रसङ्गात्परिह-
रति ॥ अभ्यासश्चति ।। श्रुतिः स्वस्य परमात्मसर्वगतत्वे तात्पर्य द्योतयितुं
“एष्यत्तु निश्चितं यत्स्यादतीतत्वेन भण्यते” इति स्मृति: 1 "आत्मैवाभूदिति
पूर्वार्धेऽपि परेणैक्यस्य कथितत्वात्पुनरुत्तरार्धे “एकत्वमनुपश्यत" इत्येकत्वस्यैव
कथनात्पौनरुतयम् । नच भाष्ये वक्ष्यमाणरीत्या परेणापीद पौनरुक्त्यमभ्यासार्थमिति
परिहर्तुं शक्यम् । सर्वभूतानामन्ते ब्रह्मण्येकीभावं वदताऽपि परेणैकस्मिन् जीवे
सर्वभूतैक्यं नाङ्गीक्रियते । उभयोरपि भिन्नदेहाधवच्छिन्नत्वेन बाधितं च । एवं च
बाधितेऽर्थे रज्जुः सर्प इति बहुवारमभ्यासेऽपि यथा नार्थसिद्धिस्तात्पर्य तु दूरा-
पास्तं तथाऽत्राप्युक्तरीत्या बाधिते परस्यानभिमतेऽर्थे. अभ्यासोऽपि स्वस्य शास्त्रा-
भ्यासराहित्यसूचक एव । नतु परस्यार्थसाधकः । टीकाकृतोक्तपौनरुक्त्यं तु अभ्यु.
पगमवादेनेति ज्ञेयम् । अस्माकं तु “यस्मिन्सर्वाणि भूतानि स आत्मैव सर्वभूते-
प्वभू"दित्यर्थाश्रयणात् स्थानभेदेन परमात्मनि प्राप्तभेदनिवारणायैकत्वमनुपश्यत
इति सार्थकमिति भावः ॥ ७ ॥

६ ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका J उप० ॥ स पर्यगाच्छुक्रमकायमत्रणमस्नाविर शुद्धमपापविद्धम् । कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यस्समाभ्यः ॥८॥ भा०॥ शुक्रं तच्छोकरादित्यादत्रणं नित्यपूर्णतः । पावनत्वात्सदा शुद्धमकायं लिङ्गवर्जनात् । स्थूलदेहस्य राहित्यादनाविरमुदाहृतम् ।। टी० ॥ तदभ्यस्यतीति न दोष इत्यर्थः । सर्वगतत्वस्येत्युपलक्षणम् । अनेजत्तन्नेज- तीत्यभयत्वस्यापि द्रष्टव्यम् ॥ ७ ॥ ज्ञानिनः शोकाद्यभावे युक्तित्वेन स पर्यगादिति विष्णुप्राप्तिरुक्ता । तब च राजादीनिव परमेश्वरं प्राप्तस्यापि शोकाद्यभावः किंनिमित्त इत्यतः शुक्रमित्यादिविशेषणानि । तत्रा- देहोक्त्या प्राप्तशङ्कापरिहाराय कविरित्युत्तराधः । तमिमं मन्त्रमप्रती- त्यादिपरिहाराय पुराणवाक्येन व्याख्याति ॥ शुक्रमिति ॥ शुचं शोक रहति त्यजतीति शुक्रमित्यर्थः । नित्यपूणत इति ॥ नित्यत्वपूर्णत्वाभ्या- मित्यर्थः । 'व्रण संचूणन' इत्यतः स्तोको व्रणः कालेनास्तोकं नित्य गुणैरस्तोक पूर्णमिति । पावनत्वात्पावित्र्यहेतुत्वात् । यद्यपि कायशब्दः स्थूलसूक्ष्मशरीरसाधारणः । तथाप्यस्नाविरमिति स्थूलशरीराभावस्य पृथगुक्ते रकायं लिङ्गवजनादित्युक्तम् । स्नावोपलक्षितधातुमयं नाविर स्थूलशरीरमेव हि प्रसिद्धम् । यतो हि ब्रह्म शुद्धं तस्मादपाप- विद्धम् । ततश्च पापमूलस्थूलसूक्ष्मशरीरविधुरम् । तथाच देहनिमित्त- शोकादिशून्यम् । एवंभूतं च ज्ञानी पर्यगात् । सारूप्यादिलक्षणां तद्गतिं गतो भवति । अतस्तस्य शोकाद्यभावो युक्त इति भावः । यद्यशरीरो विष्णुर्न तर्हि तस्य जगत्सजनाद्युपपद्यते । घटादिसृष्टयादौ शरीरान्वय- स्तोको व्रण इत्यत्र स्तोकोऽल्पता । “किञ्चिन्मात्रं तनुस्तोकस्वाल्पत्रुटयस्समाः' इति हलः । न चाकायमित्यत्र सर्वथा कायाभावः शङ्कयः । “यत्ते रूपं कल्याण- तम"मित्युपरि कल्याणरूपस्य वक्ष्यमाणत्वात् । "अकायमव्रण"मित्यत्रापि प्राकृतदुर्भगदेहस्यैव निषेधः । अत एव व्रणादियोग्यदेहाभावसूचनाय "अत्रणम- नाविर"मित्युक्तम् । तम्य हरेः शोकरहितत्वेन तं प्राप्तस्य मुक्तस्यापि शोकराहित्य. घटनाय सारूप्यादिलक्षणां तद्गतिमित्युक्तम् ।

१७ ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका भा० ॥ एवंभूतोऽपि सार्वज्ञात्कविरित्येव शब्द्यते । ब्रह्मादिसर्वमनसां प्रकृते. मनसोऽपि च ।। ईशितृत्वान्मनीषी स परिभूस्सर्वतो वरः । सदाऽन- न्याश्रयत्वाच्च स्वयम्भूः परिकीर्तितः ।। स सत्यं जगदेताहङ् नित्यमेव प्रवाहतः । अनाद्यनन्तकालेषु प्रवाहकप्रकारतः ।। नियमेनैव ससृजे भगवान्पुरुषोत्तमः । टी० ॥ व्यतिरेकानुविधानदर्शनात् । नच वाच्यं शुक्तिकायामिव रजतं परमात्मनि जगदारोपितमेव । अतो न शरीरापेक्षेति । वाधाभावेन तत्सत्यत्वनिश्चयात् । न चादेहत्वस्य जगत्सृष्टयादेश्च कालभेदेन व्यवस्था । जगत्सृष्टयादिप्रवा- हस्यानाद्यनन्ततया प्रमितत्वात् । अतः सत्यानाद्यनन्तकालीनजगदुत्पत्त्यादि- कारणस्य विष्णोः कथमशरीरत्वमित्याशङ्कापरिहारायोक्तस्य कविरित्यादेः व्याख्यानम् ॥ एवंभूतोऽपीति ॥ एवंभूतोऽशरीरोऽपि स पुरुषोत्तमः सत्यं प्रवाहतो नित्यमपि जगत्ससृज इति सम्बन्धः ॥ एतादृगिति ॥ सत्यत्वा- दिना प्रमितमित्यर्थः । समृज इत्युपलक्षणम् । प्रवाहतो नित्यत्वेऽपि पूर्वोत्तराणां जगतां वैचित्र्यं सम्भवति । तन्नास्तीति स्वरूपकथनम् ।। ॥ अनादीति | नियमेन प्रवाहकप्रकारत इति प्रवाहिणामेकप्रकारत्व- मभिप्रेति । तदनेन शाश्वतीभ्यः समाभ्य इति सप्तम्यर्थे व्याख्यातं भवति । अनाद्यनन्तसंवत्सरेषु याथायेन वर्तमानानपीत्यर्थः । अशरीरस्य जगत्सृ. ष्टयादिनिर्वाहार्थमाह ॥ सार्वज्ञादिति ॥ “एवा वैवाही"तिवत् कविरित्येव कविरित्येवं परिभवति सर्व वशीकरोतीति परिभूम्सर्वतो वरः । स्वयमेव परमनपेक्ष्य भवतीति स्वयम्भूः । सदाऽनन्याश्रयः । चशब्दौ विशेषणसमु- च्चयार्थौ । ननु शरीराधीनत्वात्सर्जनादेः कथं सार्वज्ञादिना घटत इत्यत नियमेन प्रवाईकप्रकारत इतीत्यत्र प्रवाहस्यैकत्वात्तत्रैकप्रकारोक्तिय॑र्था स्यात । अत एव प्रवाहिणामित्युक्तम् । कविरित्येव शब्द्यत इत्युक्ते नामान्तरं नास्तीति भ्रमः स्यात् । अत एवशब्दार्थ सदृष्टान्तमाह एवाह्येवेति । “एवा वैवाह्यमा" इत्युपनिषद्वाक्येषु एवाहीतिशब्दस्य एवं हीत्यर्थ उक्त इति भावः । ननु कविपदेन भगवतः सार्वज्ञकथनेऽपि तार्किकसर्वज्ञेश्वरवदेहाभावे कथं सृष्टिः । कुम्भकरण-

ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका
भा० ॥ सज्ज्ञानानन्दशीर्षोऽसौ सज्ज्ञानानन्दबाहुकः । सज्ज्ञानानन्ददेहश्च
सज्ज्ञानानन्दपादवान् ॥ एवंभूतो महाविष्णुर्यथाथ जगदीदृशम् ।
अनाद्यनन्तकालीन ससर्जात्मेच्छया प्रभुरिति वाराहे ॥८॥
टी० ॥ आह ।।सज्ज्ञानेति॥ जडशरीराभावेऽपि सज्ज्ञानाद्यात्मकशीर्षादिमान्भवति ।
यत एवंभूतस्तस्माज्जगत्ससजेंति योजना । सज्ज्ञानाद्यात्मकविग्रहवत्त्वम-
न्येषामविद्यमानं तस्योपपादयितुं सार्वज्ञादिमाहात्म्यमुक्तमिति भावः ।
अपरे तु योऽयमतीतैमन्त्रैरुक्त आत्मा स स्वेन रूपेण किंलक्षणक इत्यपे-
क्षायामयं मन्त्र इत्युक्त्वा ‘स पर्यगा'दित्येतदप्यात्मविषयं व्याकुर्वते । स
आत्मा पर्यगायाप्तोऽभूदिति । तत्त्वसत् । शुक्रमित्यादेद्वितीयान्तस्यान्व-
याभावप्रसङ्गात् । न चैतत्प्रथमान्तमात्मन एव विशेषणं लिङ्गव्यत्ययात् ।
विपरिणामस्त्वगतिका गतिः । स्वयमेव सर्व भवतीति स्वयम्भूरिति च
कौशलज्ञानवतोऽपि कुम्भकारस्य हस्तच्छेदे कुम्भकर्तृत्वादशनादिति । हरेरप्यलौ-
किकदेहसद्धावं प्रमाणेन द्रढयति सज्ज्ञानानन्दशीर्ष इति । न चैवंविधमित्यत्र
तेषां स्वयमेव सर्व स्वयं भवतीति वादिनामेवंविधं "शुक्रमकायमव्रणमस्नाविर"-
मित्यादिनोक्तं निष्कृष्टरूपमस्ति । मनुष्यपशुपक्ष्यादिरूपेषु शोकसहितत्वात् सकाय-
त्वात् सत्रणत्वात् नाविरविशिष्टत्वात्यापविद्धत्वाच्च । तथा च स्वयम्भुपदेन सर्व-
जीवात्मकत्वं वदतां कथं न पूर्वोत्तरविरोध इति भावः । तमस्यनुभूयमानदुःखाति-
शयस्य ततोऽधिकमित्यनेनैव प्राप्तः पुनरिवशब्दो व्यर्थ इव भाति, अतस्तदर्थमाह
भाष्यकारः व्यक्तमिति । तमः प्रवेशयन्ति वायुदूताः । अविद्योपासकस्तु सद्विद्या-
मजानन्नत एव दुर्विद्यानिन्दनमप्यजानन भगवतो जीवस्वरूपत्वमुक्त्वा दु:खभोक्तत्व-
मज्ञातृत्वं मूलस्वरूपेऽपि निर्गुणत्वादिकमुपास्ते । त्वं तु सद्विद्यां जानन्नत एव
दुर्विद्यानिन्दनमपि जानन् दुष्प्रमेयं न निन्दसि, केवलविद्यामेवोपास्से । एवं च
भगवद्वेष्युपेक्षकत्वाज्ज्ञात्वा कृतब्रह्महत्यावत्तव भगवदपराधोऽधिक इति दोषाधिक्यं
घोषयित्वा तमोमार्गे तं जत्रुताडन-तजन-ताडन-जिह्वाच्छेदन-देहदाहादिना बहुतर-
दुःखादिकं दत्वा नयन्ति । तं तु न तथा नयन्ति । तमसि ततोऽधिकदुःखानु-
भवस्तु भूयःपदेनैव प्राप्त इति भावः ॥ ८ ॥

ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका उप० । अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायां रताः ॥ ९ ॥ अन्यदेवाहुविद्यया अन्यदाहुरविद्यया । इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १० ॥ भा० ॥ अन्यथोपासका ये तु तमोऽन्धं यान्त्यसंशयम् । ततोऽधिकमित्र व्यक्तं यान्ति तेषामनिन्दकाः ॥ तस्माद्यथास्वरूपं तु नारायण- मनामयम् । अयथार्थस्य निन्दां च ॥९॥ १० ॥ टी० ॥ 'मनीषी परिभूपरित्यनेन विरुद्धम् । न चैवंविधमात्मनो निष्कृष्टं रूपं तेषा- मिति ॥ ८ ॥ अन्धं तमः प्रविशन्तीत्यादिमन्त्रानप्रतीत्यन्यथाप्रतीति- निरासाय स्मृत्यैव व्याचष्टे । अन्यथोपासका इति ॥ यथावत्परमात्म- ज्ञानं मोक्षसाधनमित्युक्तम् । न केवलं तत् । किं नामान्यथाज्ञाननिन्दा- समुचितमेवेत्येतदर्थप्रतिपादकमाद्यमन्त्रत्रयम् । तत्र तावद्यथावज्ज्ञानस्येवा- न्यथाज्ञाननिन्दाया - अप्यावश्यकत्वोपपादनायान्यथाज्ञानस्योक्तमसुर्यलोक- साधनत्वमनूद्यान्यथाज्ञानानिन्दनस्य ततोऽधिकानर्थसाधनत्वमायेन मन्त्रे- णोच्यते ॥ तस्यार्थोऽन्यथेति ॥ उपासका विष्णोरिति शेषः । सर्वत्र ज्ञानशब्दस्योपासनापर्यन्तत्वाद्यामिश्रोक्तिः । तत्राविद्यापदं विषयिवाचकं विषयस्यान्यथाकारस्य लक्षकमित्यभिप्रेत्याविद्यामुपासत इत्येतदन्यथोपा- सका इति व्याख्यातम् । ततोऽन्यथाज्ञानिप्राप्यात्तमसोऽधिकमिव । इवा- र्थमाह ॥ व्यक्तमिति ॥ उशब्दोऽवधारणार्थः । विद्यायामित्यनेन सम्ब- यते । तेन विद्यायां यथार्थज्ञान एव रताः । न त्वन्यथाज्ञाननिन्दा कुर्वन्तीत्येषोऽर्थों लभ्यते । अत उक्तं तेषामनिन्दका इति । ततः किमि- त्यतो वक्ति । तस्मादिति ॥ यस्मान्मिथ्याज्ञानतदनिन्दाभ्यां तम:प्राप्तिः । निन्दां च विद्यादिति शेषः । अयथार्थस्य निन्दामिति । अयथार्थज्ञा- नस्य निन्द्यत्वमित्यर्थः ॥ ९॥ किं विपक्षेऽनर्थप्राप्तेरेव सम्यग्ज्ञानासम्यग्- अविधया अन्यथाज्ञाननिन्दयेत्यत्र अविद्यया मोक्षैकदेशप्राप्तेरसंभवात् अविद्या- निन्दनस्य प्राक्प्रस्तुतत्वाच्च यथाश्रुतविद्याविद्ययोभिन्नफलत्वस्य सर्वसंमतत्वेनावक्त- व्यत्वाच्च, "अविद्यया मृत्यु तीत्वे ति मोक्षकदेशरूपफलस्य वक्ष्यमाणत्वाच्च

२०
ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका
उप० ॥ विद्यां चाविद्यां च यस्तद्वेदोभय सह । अविद्यया मृत्यु तीवो
विद्ययाऽमृतमश्नुते ॥ ११ ॥
भा० ॥ ये विदुः सह सज्जनाः । ते निन्दयाऽयथार्थस्य दुःखाज्ञानादिरू-
पिणः ॥ दुःखाज्ञानादिसन्तीर्णाः सुखज्ञानादिरूपिणः । यथार्थस्य
परिज्ञानात्सुखज्ञानादिरूपताम् । यान्ति ॥ ११ ॥
टी ॥ ज्ञाननिन्दनयोः कर्तव्यता नेति ब्रूमः । किंतु मोक्षफलस्यांशत उभयसाध्य-
त्वादपीति प्रतिपादकोऽन्यदेवाहुविद्ययेति द्वितीयमन्त्रः । तथाहि । विद्यया
यथार्थज्ञानेनान्यदेव मोक्षकलक्षणं फलं प्राप्यमाहुवृद्धाः। अविद्यया अन्य-
थाज्ञाननिन्दया चेति यावत् । अन्यदेव फलमाहुरिति धीराणां धीमताम् ।
वृद्धवचनसम्मतियुक्तं वचनं शुश्रुम । ये धीराः नोऽस्मभ्यं मोक्षसाधनं
विचचक्षिरे व्याचचक्षिरे । लस्मादुपपन्नः समुच्चय इति ॥ १० ॥ अस्यैवा-
थस्य विवरणार्थों विद्यां चेति तृतीयो मन्त्रः । तस्येदं व्याख्यानम् ॥
ये विदुरिति ॥ यथास्वरूपं वित्या युक्तावृत्त्याऽन्वयः । तेन विद्यापदं
ईश्वरयाथात्म्यस्याविद्यापदं चान्यथाज्ञाननिन्द्यत्वस्योपलक्षणमित्युक्तं भवति ।
सहेत्येकपुरुषार्थहेतुत्वेनेत्यर्थः । दुःखाज्ञानादिरूपिणोऽयथार्थस्येति । तज्ज्ञा-
नस्येत्यर्थः । अयथार्थज्ञाननिन्दया मृत्युपदोदितदुःखादितरण भवति
यथार्थज्ञानेन च सुखज्ञानादिरूपतालक्षणामृतप्राप्तिर्भवतीत्येतदुपपादनाय
दुःखाज्ञानादिरूपिणोऽयथार्थस्य सुखज्ञानादिरूपिणो यथार्थस्येति विशेष-
णोपादानं कृतम् । तथा च श्रुतिः । “तं यथायथोपासते तदेव भवतीति।।
॥ ११ ॥ अन्यथाज्ञानमेवानर्थसाधनं यथार्थज्ञानमेव मोक्षसाधनमित्येतद्वि-
वरणार्थमन्धं तमः प्रविशन्तीत्युत्तरमन्त्रत्रयम् । तत्राद्यमन्त्रस्यार्थः ॥ एव-
मिति ॥ यथाऽन्यथोपासका अन्यथाज्ञानानिन्दका इत्यर्थः । असम्भूति-
निन्दयेति पदमध्याहृत्य व्याख्येयमिति भावः । लौकिकधैर्यस्याप्रयोजकत्वाद्धियां
रता इति धीराः इति भावेनोक्त धीमतामिति । तेऽपि धीराः कल्पनाशक्त्या
नोक्तवन्त इति भावेनोक्तं वृद्धवचनसंमतियुक्तमिति ॥ ९, १० ॥ क्रमिकज्ञानयो-
युगपदुत्पत्त्यभावात्सहशब्दार्थमाह एकपुरुषार्थेति ॥ ११ ॥

ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका २१ प० । अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते । ततो भूय इव ते तमो य उ सम्भूत्या रताः ॥ १२ ।। अन्यदेवाहुः सम्भवादन्यदाहुर- सम्भवात् । इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ।।१३।। सम्भूति च विनाशं च यस्तद्वेदोभय सह । विनाशेन मृत्यु ती सम्भूत्याऽ मृतमश्नुते ॥ १४ ॥ T० ॥ एवं सृष्टिकर्तृत्वं नाङ्गीकुर्वन्ति ये हरेः । तेऽपि यान्ति तमो घोरं तथा संहारकर्तृताम् । नाङ्गीकुर्वति तेऽप्येवं तस्मात्सर्वगुणात्मकम् । सर्व- कर्तारमीशेश सर्वसंहारकारकम् ॥ १२, १३ ॥ यो वेद संहृति- ज्ञानादेहबन्धाद्विमुच्यते । सुखज्ञानादिकर्तृत्वज्ञानात्तद्यक्तिमात्रजेन् । १० ॥ जगत्सृष्टेरकर्तारमित्यस्य तात्पर्य सृष्टीति ॥ अत्राप्युशब्दोऽवधारणार्थः । सम्भूत्यामित्यनेन सम्बध्यते तेन सम्भूत्यां उ जगत्स्रष्टत्व एव । जगत्स्रष्टैव विष्णुः नतु संहारकर्तेत्यस्मिन्नर्थे रता इत्येषोऽथों लभ्यते । तस्मादुक्तं तथेति ॥ तेऽप्येवं सृष्टिकर्तृत्वानङ्गीकारिण इव तमो यान्तीत्यर्थः । ततः किमित्यत आह ॥ तस्मादिति ॥ यस्मादेवं सृष्टिकर्तृत्वानङ्गीकारेऽनथः । विद्यादिति वाक्यशेषः । सृष्टिकर्तृत्वानङ्गीकारेऽनर्थकथनमुपलक्षणाथमिति ज्ञापयितुं सर्वगुणात्मकमित्युक्तम् । एतदप्युपलक्षणम् । उपसंहारेऽधिकस्यापि वक्ष्यमाणत्वात् ॥ १२ ॥ किं विपक्षे बाधकसद्भावादेवैतज्ज्ञातव्यम् । नेति बमः । किंतु मोक्षोपयोगित्वादपीति प्रतिपादयितुमन्यदेवाहुः सम्भवादिति द्वितीयो मन्त्रः । तत्र सम्भवात्सृष्टिकर्तृत्वज्ञानादसम्भवात्सम्भवविपरीत- संहारकर्तृत्वज्ञानादित्यर्थः ॥१३॥ तस्यैव विवरणार्थः सम्भूतिं चेति तृतीयो मन्त्रः । तस्यार्थो यो वेदेति ॥ पूर्ववदावृत्त्यैवान्वयः । संहतिज्ञानादिति ।। तत्कर्तृत्वज्ञानादित्यर्थः । देहसम्बन्धस्य मृत्युत्वं तद्धेतुत्वाज्ज्ञातव्यम् । न विद्यते सम्भूतिर्यस्मादिति व्युत्पत्तिमभिप्रेत्याह जगत्सृष्टेरकर्तारमिति । उप- संहारेऽधिकस्यापि वक्ष्यमाणत्वादित्यत्र सर्वदोषविनिर्मुक्तमित्यादिश्लोकत्रयेण बहु- मेयाणां निरूप्यमाणात्वादाधिक्यमिति भावः ।। १२, १३ ॥ आदौ योज्यमित्यत्र उस्माद्विष्णोरित्यर्थकथनाय तत्रापि तस्मादित्यस्यावश्यकत्वादुपसंहारत्वज्ञापक- २२ ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका भा० ॥ सर्वदोषविनिर्मुक्तं गुणरूपं जनार्दनम् । जानीयान्न गुणानां च भाग- हानि प्रकल्पयेत् । न मुक्तानामपि हरेः साम्यं विष्णोरभिन्नताम् । न वै प्रचिन्तयेत्तस्माद्रह्मादेः साम्यमेव वा ॥ मानुषादिविरिश्चान्तं तारतम्यं विमुक्तिगम् । ततो विष्णोः परोत्कर्ष सम्यग्ज्ञात्वा विमुच्यत इति कौर्मे ॥ १४ ॥ टी० ॥ सुखज्ञानादीति पूर्ववद्युक्तिसूचनार्थम् । मन्त्रार्थमुपसंहरति ॥ सर्वेति ।। तस्मादिति वक्ष्यमाणमादौ योज्यम् । हरेः साम्यं न चिन्तयेदिति वक्ष्यमाणे- नान्वयः । विष्णोरभिन्नतां मुक्तानामित्यनुवर्तते । ब्रह्मादेरमुक्तवर्गस्य साम्यमेव । किमुताभिन्नताम् । वाशब्दो न चिन्तयेदित्यस्यानुकर्षणार्थः । मानुषादीत्यत्र जानीयादित्यनुवर्तते । ततो मुक्तामुक्तगणात्तस्मादिति परा- मृष्ट हेतु दर्शयति ॥ सम्यगिति ॥ केचिदविद्यापदं कर्मवाचकं मत्वैकैक- निन्दया मोक्षे ज्ञानकर्मणोः समुच्चयस्य प्रतिपादकमाद्यमन्त्रत्रयमिति मन्यन्ते । अन्ये तु विद्यापदं देवताज्ञानस्य वाचकं मत्वा स्वर्गादौ तस्य कर्मणा समुच्चयं प्रतिपादयतीदमित्याचक्षते । उत्तरं तु मन्त्रत्रयं सम्भूत्य- सम्भूतिपदयोरुत्पत्त्यनुत्पत्तिमत्परत्वेन हिरण्यगर्भप्रकृतिवाचकत्वं गृहीत्वा तदुपासनयोः सत्यलोकादिप्राप्तौ समुच्चयस्य प्रतिपादकमिति प्रतिपन्नाः । तदेतदपव्याख्यानम् । पुराणवाक्येनैवान्यथा व्याख्यातत्वात् । “नान्यः पन्था"इत्यादिश्रुतिविरुद्धश्च समुच्चयपक्षः । केवलकर्मिणोऽप्यधिकः केवल- ज्ञानिनः संसार इति च 'कामकारेण चैके' इत्यादिविरुद्धम् । आत्मज्ञान- निष्ठाया एवात्रोपक्रमादिभिनिर्णीतत्वाद्देवताज्ञानकर्मणोः समुच्चयश्च न प्रकरणानुगुणः । कुर्वन्नेवेति मन्त्रस्यापि निवृत्तकर्मविषयतया व्याख्यात- त्वात् । सम्भूतिं च विनाशं चेत्यत्र कुतोऽयं विनाश आपतित इति चिन्त्यम् । विनाशधर्मकत्वाद्विनाशो हिरण्यगर्भ इति चेन्न । सम्भूतिपदेन पौनरुक्त्यात् । पदस्यात्रादर्शनादादावपि योज्यमिति भावः । अव्याकृतोत्यभावादित्यत्र प्रागस- म्भूतिपदेन न विद्यते सम्भूतिर्यस्या इति असम्भूतिपदेन प्रकृतिमुक्तवा इदानीं तत्स्थाने प्रयुक्तविनाशपदेन हिरण्यगर्भोक्तौ प्रकृतिवाचकपदाभावादिति भावः ।

ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका २३ उप० ।। हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत्वं पूषन्नपाणु सत्य- धर्माय दृष्टये ॥ १५ ॥ भा० ।। पात्रं हिरण्मय सूर्यमण्डलं समुदाहृतम् । विष्णोः सत्यस्य तेनैव सर्व- दाऽपिहितं मुखम् ॥ तत्तु पूर्णत्वतः पूषा विष्णुदर्शयति स्वयम् । सत्यधर्माय भक्ताय ॥ १५ ॥ टी० ॥ अव्याकृतोक्त्यभावाच्च । अकारलोपेन सम्भूतिरव्याकृतमित्यपूर्व व्याकरण- कौशलमित्यास्ताम् ॥ १४ ॥ एवं प्राप्ताधिकारं शिष्यं प्रति परमात्मस्वरूपं निरूप्य तत्साक्षात्कारो मोक्षसाधनमित्यतीतग्रन्येनोक्तम् । स चेश्वरसाक्षात्कारो न श्रवणादिमात्रेण भवति । नापि मोक्षः साक्षात्कारमात्रेण । किं तु भगवत्प्रसादादेवेत्यतोऽनुष्ठितश्रवणादिकेनापि साक्षात्कारार्थ प्राप्तसाक्षा कारेणापि च मोक्षार्थं यथा भगवत्प्रार्थनं कार्य तत्प्रकारप्रदर्शनार्थों हिरण्मयेन पात्रेणेत्याधुत्तरो ग्रन्थः । तत्र सगुणब्रह्मप्राप्त्यर्थमेकर्षिप्रभृति- शब्दाभिवेयमादित्यं प्रति मार्गयाचनमनेन क्रियत इत्याद्यन्यथाप्रतीति- निरासाय तयाख्यानरूपां स्मृतिं तावदुदाहरति ॥ पात्रमिति ॥ सत्यस्ये- त्यनूद्य विष्णोरिति व्याख्यातम् । मुखमिति समस्तविग्रहोपलक्षणम् । यद्यपि मन्त्रेऽपावृण्विति प्रार्थनम् । अत्र तु दर्शयतीति स्वरूपकथनम् । तथापि मन्त्रतात्पर्यमानोक्तिरियमिति न दोषः । 'पुष पुष्टावि'त्यतः पूर्ण- त्वेन पूषेत्युक्तम् । सत्यधर्मायेत्यनूद्य भक्तायेति व्याख्यानम् ॥ १५ ॥ अकारलोपेनेत्यत्र सम्भूतिपदे अकारप्रक्षेपं कृत्वा प्रकृतिमभिधाय पुनस्तल्लोपे सति सम्भूतिपदमात्रमुवरितमिति व्याख्यानस्य प्रसिद्धव्याकरणेऽनुशासनाभावा- दपूर्व व्याकरणकौशलमित्युक्तम् । यद्यपि निरुक्तिमात्रे वर्णनाशादिकमुक्तं, तथापि स्वापेक्षितलौकिकप्रयोगेषु वर्णविनाशादेः कथने घटपदमघटवाचकं पटपदमपट- वाचकं ऐक्यपदं चानैक्यवाचक स्यादिति सर्वव्यवहारेषु सङ्करप्रसङ्ग इति भावः ii ॥ १४ ॥ दर्शयतींति स्वरूपकथनमित्यत्र प्रार्थनार्थकलोटोऽभावात्स्वरूपसङ्कीतन- मात्रमित्युक्तम् । इदमप्युपलक्षणम् । अपावृण्विति पदस्य फलितकथनं चेत्यपि द्रष्टव्यम् ॥ १५ ॥ सर्वविषयत्वादिनेत्यत्र निरवधिकसर्वविषयत्वेनेत्यर्थः । सूरि- २४ ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका उप० ।। पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन्समूह तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि ॥ १६ ॥ भा० ॥ प्रधानज्ञानरूपतः । विष्णुरेक ऋषिज्ञेयो यमो नियमनाद्धरिः । सूर्यः स सूरिगम्यत्वात् फ्राजापत्यः प्रजापतेः । विशेषेणैव गम्यत्वात् ॥१६॥ टी० ॥ एकशब्दस्य प्रधानवाचकत्वात् 'ऋष ज्ञान' इत्यतश्च प्रधानज्ञानरूपत्वत एकर्षिरित्युक्तम् । प्राधान्यं च ज्ञानस्य सर्वविषयत्वादिना ज्ञातव्यम् नियमनात्सर्वस्येति शेषः । सूर्यः स सूरिगम्यत्वादित्यनेन सूरिशब्दोपपदस्य याते रूपमिदमित्युक्तं भवति । प्रजापतेहिरण्यगर्भस्यायं प्राजापत्य इत्यभि- सन्धाय सम्बन्धो दर्शितः । प्रजापतेर्गम्यत्वादिति ॥ तर्हि सूर्य इत्यनेन गतार्थत्वमित्यत उक्तम् । विशेषेणैवेति ॥ एतेन प्रजापतेरपत्यमिति व्याख्यानं निरस्तं भवति ॥ १६ ॥ अहेयतोऽहेयत्वतः । न हीयत शब्दोपपदस्येत्यत्र निरुक्तत्वादिकारलोपः । अन्यथा सूरियः इति स्यादिति ज्ञेयम् ॥ १६ ॥ सोऽहमस्मीत्यपव्याख्यानमित्यत्र एवमभेदपरतया व्याख्याने जीवब्रह्मणोरैक्यमेकस्मिन् प्रार्थ्यप्रार्थकभावायोगाद्युक्तिविरुद्धम् । इदानीं व्यावहा- रिकभेदोऽस्ति मुक्तावैक्यप्राप्तेरुभयोपपत्तिरिति तु अस्मीति लटा विरुध्यते । तस्य वर्तमानैक्यप्रतिपादकत्वात् । 'वर्तमाने लट्' । एतेना"हं ब्रह्मास्मि" "तत्त्वमसी" .. त्यादावपि अनुपपत्तिदर्शिता । किं च जीवस्य स्वदेहपाते सति यः श्वासनियामको वायुः, अनिलं अकाराख्यः परमात्मा निलं निलयन आधारो यस्य तदनिलं, तस्य वायोः स्वरूपं, अमृतमिति वायोरमृतत्वमुक्त्वा तदाधारतयाऽनिलमित्यत्र अकारपदेनोक्तस्य तदाधारस्य हरेः सुतराममृतत्वं चार्थत उक्तम् । अथ मरणानन्तरं इदं मम शरीरं भस्मान्तं भवतीति स्वस्य मृतत्वोक्तेश्च कथं मृतामृतयोरैक्यं स्यात् । प्राक् ब्रह्मणो"ऽकायमव्रण"मिति "शुद्धमपापविद्ध"मिति च प्राकृतदेहोपेता- शुद्धपापविद्धजीवेभ्यो वैलक्षण्योक्तेश्च कथमभेदः। “यत्ते रूपं कल्याणतम"मिति कल्याणतमपदेन भगवतो जीवेष्वसम्भावितज्ञानादिगुणभरितातिशोभनदिव्यदेह- कथनाच्च कथमभेदः । “तद्धावतोऽन्यानत्येति तिष्ठत्" इति भगवतः सर्वगतत्वस्या- नन्तमूर्तिग्रहणाख्याचिन्त्यशक्या एकमूर्त्या स्थितेः बहुमूर्तिभिश्च परितो धावत्सकल- , ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका २५ प० । योऽसावसौ पुरुषः सोऽहमस्मि ॥ १७ ॥ ० ॥ अहं चासावहेयतः । अस्मि नित्यास्तितामानात्सर्वजीवेषु संस्थितः । स्वयं तु सर्वजीवेभ्यो व्यतिरिक्तः परो हरिः । स ऋतुर्ज्ञानरूपत्वाद- निरङ्गप्रणेतृतः । सत्यं ब्रह्म हृदये धारयतीति सत्यधर्मा ॥ १७ ॥ १० ॥ इत्यहमित्यर्थः ॥ नित्यास्तितामानादिति ॥ नित्यसत्त्वेन प्रमितत्वा- दित्यर्थः । अनेन 'अस भुवि' 'माङ् मान' इत्येतयोरिदं रूपमित्युक्तं भवति । अहमस्मिशब्दोक्तत्वेऽपि न जीवैक्यं हरेराशङ्कनीयमित्याह ।। स्वयं विति ॥ सर्वजीवेभ्यो व्यतिरिक्तोऽप्यहेयत्वादियोगेनैवाहमस्मिशब्दाभ्या- मुच्यत इत्यर्थः । एतेन नाहं त्वां भृत्यवद्याचे किं नाम योऽसावादित्ये पुरुषः नीवात्ययनाख्यविचित्रसामर्थ्यस्य च कथनात् । अणुभ्योऽसमर्थेभ्यश्च जीवेभ्यो महा- उमर्थस्य सर्वगतस्य हरेः कथमभेदो भवेत् । न हि कुण्डलिनामधीश्वरोऽनन्तः डुण्डुभो भवति । नापि घटो गगनं भवति । अपि च तस्मादन्यदेजति तन्नेजतीत्युपक्रम एव भयाभयाख्यविरुद्धधर्मकथनाच्च कथमेकता स्यात् । न हि भवति भीरुहरिणशिशुः क्वापि भयरहितो हर्यक्षः । तस्मादुपनिषदभिमानिनी सकल- जगतो माता मङ्गलदेवता लक्ष्मीः 'यो नः पिते त्यादिश्रुत्युक्तसकलजगत्पितुः स्वक- मितुः 'शम्भोः पितामहोब्रह्मपिता शक्राद्यधीश्वर' इत्यादिना तत्पुत्रपौत्रदासत्वादिनोक्त ब्रह्मादिजीवसमुदायैक्य कथं ब्रूयात् । किं त्वेवं पूर्वोत्तरमजानन्विपरीतं च जानन कुवाद्येव बलीवदों वा गर्दभो वा श्वा वा कपिर्वेत्येतादृशमिथ्याज्ञानादुयोनिषु पततः स्वस्यैव हीनजीवैक्यं वदेत् । तथा च श्रुतिः 'त इह व्यानो वा सिंहो वा वृको वा वराहो वा यद्यद्भवति तत्तदा भवति' । कस्तर्हि “योऽसावसौ पुरुषः सोऽ हमस्मीति वाक्यार्थ इति चेत् सत्यम् । ब्रूमस्तस्यार्थम् । सावधानेन श्रूयताम् । उक्तविधयाऽनेकविरुद्धधर्मिणोरक्यायोगादादौ त्वद्दत्तवनभोक्तृत्वेनोक्तो योऽसौ पुरुषः, तदनन्तरं त्वद्विषयकपूजारूपनिष्कामकर्मकतृत्वेनोक्तो योऽसौ पुरुषः, तदनु सूर्यस्थित- भगवदपरोक्षज्ञान प्रार्थयमानो योऽसौ पुरुषः, अन्ते “अग्ने नयेति' मोक्षं प्रार्थयमानो योऽसौ पुरुषः, सोऽहमेतदुपनिषदधिकारी जीव एवास्मि । त्वद्दत्तधनभोक्तृत्वात् त्वदर्शनकामुकत्वात् त्वत्तः परमपुमर्थमोक्षमर्थयमानत्वाच्च न तूपनिषत्प्रतिपाद्यदेवता २६ ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका टी० ॥ सोऽहमस्मीत्यपव्याख्यानमित्युक्तं भवति । अहमस्मिशब्दाभिधेयत्वे हरेर्मूर्ति- नियमोऽप्यस्तीत्याह ॥ सर्वजीवेष्चिति ॥ उपासकेष्वित्यर्थः । उपलक्षणं चैतत् । पूषादिशब्दैरप्यादित्याद्यन्तर्गत एवोच्यते । अधिकारियोग्यताभेदेन खलु नानाप्रतीकेषु भगवदापरोक्ष्यमत्र प्रार्थ्यते । ऋतुर्मतिर्मनीषेत्यभिधानात्स ऋतुर्ज्ञानरूपत्वादित्युक्तम् । अङ्गं शरीरमप्रधानं जगद्वा नयतीत्यग्निरित्यर्थः । एवं पुराणवाक्येन तात्पर्यतो व्याख्यातान् मन्त्रानिदानी स्ववाक्येन त्वमेवास्मि । दातृप्रतिगृहीत्रोः पूज्यपूजकयोः शिष्याचार्ययोः द्रष्टदृश्ययोः मोच्यमो- चकयोरधिकारिविषययोश्च भेदावश्यम्भावादित्यनुपमृद्यपदमहिम्नैव जीवब्रह्मणोर- त्यन्तभेदाख्यार्थसिद्धः प्रतिवादिनो मुखमुद्रणमेवेति । नहि याचको दरिद्रः याच्यमानमहाराज प्रति त्वमेवाहमस्मीति क्वचिद् बूते । तस्मात्तत्प्रकरणानुकूल स्वादस्मदीयार्थ एव प्रेक्षावद्भिरादरणीयः न तु प्रकरणविरुद्धः परकीयोऽर्थ इति सन्तोष्टव्यमायुष्मता । किं च वायुरनिलममृतमिति वाक्यशेषे वायोः प्रस्तूयमान त्वात् योऽसावसौ वायौ पुरुषः वायुहृदि स्थितो नारायण इत्यर्थः । सोऽहं रुद्रादिवदसुरवेधाभावात् रुद्रादिदेवैर्वा धात्रा वा तेन वायुना वा कदाऽप्य हेयत्वादविस्मयमाणत्वादिति यावत् । अहमित्युच्यमानं परं ब्रह्म ।“नामा- नि सर्वाणि यमाविशन्ती"ति च श्रुतेः । तथा प्रलयेऽप्यविलुप्तज्ञानवत्त्वेन अस्तित्वोपलक्षितसकलगुणवत्तया तेनैव वायुना सदा प्रमितत्वादस्मीति पदेनाप्यु- च्यमान परं ब्रह्म । अत एव यो विष्णुस्तस्य अकारवाच्यस्य परमात्मनः वायुः निलं निलयनं सन्निधानपात्रीभूतं रूपम् । अथ जीवमरणानन्तरमपि अमृतं मृतिरहितम् । नित्यामृतश्रीहरेः सन्निवानाजीवानां मरणावस्थायामपि आब्रह्मलयं मृतिरहितमिति भावः । इदं जीवानां शरीरं मरणे सति वारं वारं दह्यमानं भस्मान्तं भस्म भस्मीभावः अन्ने अवसाने यस्य तत्तथोक्तम् । 'अनावृत्तिर्देहिनां देहपाते तस्माद्वायुर्देवदेवो विशिष्टः' इति भारते । एवं च देहिनां देहपातेऽपि मरणाभावेन सर्वजीवोत्तमत्वान्नित्यापरोक्षज्ञानित्वेन हरेरतिप्रियत्वात्कल्यादीनां वेध- विधुरत्वेन कदाऽपि हरौ वैमुख्याभावाच्च वायुप्रतीकमेव वागादिसकलप्रतीकेभ्योऽप्य- धिकमत एकऋष्यादिपदवाच्य हे हरे तस्मिन् वायौ क्रियमाणहरिध्यानादेः ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका २७ टी० ॥ विशदयन्सत्यधर्मपदं कथं भक्तस्य वाचकमित्यतस्तन्निर्वक्ति । सत्यमिति । भक्त उच्यत इति शेषः । अत्र सत्यं ब्रह्म धारयतीति सत्यधर्मेत्युक्ते कथ- मनाधारं ब्रह्मायं धारयतीति शङ्का स्यात्तन्निवृत्त्यर्थं हृदये धारयतीत्युक्तम् । हृदये ब्रह्मधारण चादरनरन्तयोपेतं तद्ध्यानादिकमेव । तच्च भक्तस्यैव सम्भवतीति भावः। सत्यस्य च तथाभूतस्य धर्मस्यानुष्ठातेति व्याख्याने सत्यस्यापिहितमिति प्रकृतपरित्यागो दोषः॥१॥ततश्चायमर्थः । हिरण्मयमिव हिरण्मयं ज्योतिर्मयं पिबति रसांस्त्रायते च जगदिति पात्रम् । तेन हिरण्मयेन पात्रेण सूर्य मण्डलेन । सत्यस्य सद्गुणपूर्णस्य आदित्यमण्डलान्तर्गतस्य तब मुख पिहित- मस्ति । हे पूषस्तद्वपुस्त्वं सत्यधर्माय त्वद्विषयध्यानादिमते मह्यं दृष्टये मम त्वदशनसिद्धयर्थमिति यावत् । अपावृणु अपगतावरणं कुरु । ख० ॥१५|| हे पूषन्नेकर्षे यम सूर्य प्राजापत्य मदीयान् रश्मीन्व्यूह । तेजश्च समूह । स्वरूपं बाह्य च मदीयज्ञानं विस्तारयेति यावत् । तथा च यते रूपं कल्याणतमं तत्ते प्रसादादहं पश्यामीति । आदित्यरश्म्यादीनामपगमनादिना तदन्तर्गतब्रह्मप्रतीत्यसम्भवादादित्यरश्म्यादिविषयं व्याख्यानं न युक्तम् । खं० ॥ १६ ॥ योऽसावसौ पुरुष इत्यत्र द्विरसाविति किमर्थमित्यत आह । एक इति । असौशब्दोऽसावितिशब्दः । इति वक्तीति शेषः । यद्यसुः प्राणस्तस्मिन्नित्यथः स्यात्तह्यस्यान्वयो नास्ति । क्रियापेक्षत्वादधि- कल्याद्यसुरकृतविघ्नाभावात्तत्रैव त्वामुपास्य “यते रूपं कल्याणतम तत्पश्यामी- ति" पूर्वेणान्वयः । अत एव छन्दोगानामुपनिषदपि “य एवायं मुख्यप्राणस्त- मुद्गीथमुपासाञ्चक्रिरे त हासुरा ऋत्वा विदध्वसु"रिति निरन्तरायोपास्ति वायावाह । एवं चोपनिषदभिमानिनी रमा हनुमदवतारे स्वोपकारकं स्वज्येष्ठपुत्रं मुख्यप्राण मानयन्ती हरिं स्तौतीत्येकवाक्यतया मनोहराख्यिामृतलाभे कः प्रेक्षावान् विष- संपृक्तान्ने रतिं कुर्यात् । कश्च प्रेक्षावानुपनिषत्प्रतिपाद्यदेवतास्तुतिप्रस्तावे 'निन्दामि च पिबामि चेति न्यायेन तमौपनिषदं महापुरुषं नीचतमेन जीवेनैकीभूतं वदेत् । तस्मान्न परकृतेयं व्याख्या किन्तूपनिषदां प्रत्याख्यवेति युक्तमुत्पश्यामः । इद च स्वोक्ततत्वोपोहलनं 'दशार्थाः सर्ववेदेष्विाति निरूपयतो, मम हृदि स्थित्वा मामनु- २८ ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका उप० ॥ वायुरनिलममृतमथेदं भस्मान्त शरीरम् ॥ १८ ॥ भा० ॥. एकोऽसौ शब्दः प्राणे स्थित इति ॥ यस्मिन्नय स्थितः सोऽप्यमृतः किमु परः । अः ब्रह्मैव निलयनं यस्य-वायोः सोऽनिलम् । अतिरो- हितविज्ञानाद्वायुरप्यमृतः स्मृतः । मुख्यामृतः स्वयं रामः परमात्मा सनातन इति रामसंहितायाम् ॥ १८ ॥ टी० ॥ करणस्येत्यतः क्रियाध्याहारेणान्वयं दर्शयति ॥ स्थित इति ।। असावसाविति वीप्सार्थतया किं न व्याख्यायत इति चेन्न । एवं व्याख्याने प्राणाख्य- प्रतीकान्तरस्याप्युक्तिलाभात् । एकेनापिशब्देन वीप्सासिद्धेः । तथा च योऽ सौ प्रसिद्धोऽसौ प्राणे स्थितः पुरुषः स एवाहेयत्वनित्यसत्तामानाभ्यामहमस्मि शब्दाभिवेयस्तं च पश्यामीति वाक्यार्थः । अथवा पूषादिशब्दरुपलक्षणया प्राणाद्यनेकप्रतीकस्थत्वं विष्णोरुक्तम् । तत्र भेदशङ्कायामिदमाह ॥ सर्व- प्रतीकेषु स्थित एक एवेत्यर्थः । भा० ॥ १७ ॥ वायुरनिलममृतमित्ये - तद्वाक्यं मरिष्यतो वायुः प्राणोऽध्यात्मपरिच्छेदं हित्वाऽधिदैवमात्मानं अनिलममृतं प्रपद्यताम् । अथेदं शरीरमग्नौ हुतं भस्मान्तं भूयादिति केचिद्व्याचक्षते । तदसत् । अवश्यम्भाविन्यर्थे प्रार्थनानुपयोगात् । प्रकरणा- दप्युपपत्तेबलीयस्त्वातु । अतो लिङ्गव्यत्ययेन विभक्तिव्यत्ययेन वा समा- नाधिकरणान्येतानि पदानि । ननु तर्हि प्रकृतासङ्गतानि स्युः । वायुरनिल मिति पुनरुक्ति: स्यादित्यत आहं ॥ यस्मिन्निति ॥ यस्मिन्वायौ अयं दिनं प्रेरयतः 'अयमिह सुमतिं वायुदेवो विदध्यादि"ति मया स्तूयमानस्य पवनस्य गुरोरेवाभिसन्धिरित्यनुसन्धेयम् । यथाभूतस्य धर्मस्यानुष्ठात्र इत्यत्रोपनिषदु- पक्रमे तेन त्यक्तेनेति ज्ञानिनः सकलकर्मत्यागमुक्त्वा इदानीं यथास्थितधर्मस्यानुष्ठात्रे इति कथने स्ववचनविरोधश्चेत्यपि द्रष्टव्यम् ॥ १७ ॥ आदित्यरउम्यादिविषय व्याख्यानमित्येतदुदयेऽस्तमये च तव मते प्रतिबन्धकत्वाभिमतरश्मिरहितमण्डले ब्रह्मदर्शनप्रसङ्गादनुपपन्नम् । सौरं तेजः 'सूर्यकोटिप्रतीकाश मिति स्मृतेरनन्त - सूर्यप्रकाशेभ्योऽप्यधिकभगवत्प्रकाशं, सूर्यतेजोभिभूतो दीपः स्वाभिभावकसौरं तेज इव कथं विरुध्यात् । न हि भवति तरक्षोः मृगीशाबः प्रतिबन्धकः | किन्त । TAMAJNA SAMISHA ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका उप० ॥ ॐ क्रतो स्मर कृता ॐ तो सर कृषर स्मर ॥ १९ ॥ भा० ॥ भक्तानां स्मरणं विष्णोनित्यज्ञप्तिस्वरूपतः । अनुग्रहोन्मुखत्वं तु नैवान्यत्कचिदिष्यत इति ब्रह्मतर्के । १९ ।।। टी० ॥ परमेश्वरः । सोऽपि वायुहर्षि अमृतः किमु परोऽमृत इति वक्तव्यमिति शेषः । नन्वस्मिन्वाक्ये वायुरमृतमित्येवीच्यते । नतु यस्मिन्वायावयं स्थित इति तत्कुतः कैमुत्यं लभ्यते । नहिं वायोरमृतत्वमालेणेश्वरामृतत्वसिद्धिरिति चेन्मैवम् । अस्यार्थस्यानिलपदेनोक्तत्वात् । तत्कथमित्यतस्तात्पर्यतो व्या- ख्यातं तदिदानी निर्वक्ति । अ: ब्रह्मैवेति । निलं निलयनमाश्रयः । यथा- श्रुतस्यानुवादोऽयमित्यतोऽनिलमित्युक्तम् । अनेन पुनरुक्तिरपि परिहृता भवति । ननु यस्मिन्नयं स्थित इत्यनेन वायुरीश्वराश्रय इत्युक्तम् । अनेन निर्वचनेनेश्वरो वायोराश्रय इति लक्ष्यते । तत्कथमनिलपदार्थोऽसाविति चेन्मैवम् । यस्मिन्नयं स्थित इत्यनेनापि यस्मिन्वायावयं परमेश्वरो नियामक- त्वेन स्थित इति वायोरीश्वराश्रितत्वस्यैव कथितत्वात् । अथवा यस्मिन्नर- मेश्वरेऽयं वायुः स्थितः यदधीनो वर्तत इति यावत् । स वायुरपि यदाऽमृतः तदा किमु वक्तव्यं स परोऽमृत इति व्याख्येयम् ॥ १८ ॥ ततश्चेदमुक्तं भवति ॥ सोऽहमस्मीति जीवान्तर्गतस्य परमेश्वरस्य नित्यास्तित्वं कल्याणतम- रूपत्वं चोक्तम् । तन्न युक्तम् । प्रत्यक्षत एव देहस्य भस्मान्तत्वदर्शनात् । देहनाशे च तदन्तर्गतस्य परमेश्वरस्य जीववन्मरणाद्यवश्यभावादित्या- शङ्कयेदमुक्तम् । वायुरनिलमिति ॥ अयमर्थः । यद्यपीदं शरीरं भस्मान्तम् । तथापि तदन्तर्गतस्य परमेश्वरस्य न मरणादिदोषप्रसङ्गः । कुतः अनिल: परमेश्वराश्रितो वायुरपि यदाऽमृतः । अथ तदा परमेश्वरः किं वक्तव्य इति स्वाव्यक्तत्वशक्त्यैव भगवांस्तत्र न प्रतीयते, श्रवणादिना प्रसन्नः सन प्रतीयत इत्येव वक्तव्यम् । तस्मात्परोदीरितव्याख्याऽपव्याख्यैव । एकेनापि वीप्सासिद्धे- रित्यत्र यो धूमवानसौ वहिमानित्युक्तेऽपि वीप्साफलव्याप्तिसिद्धेः । अत एव श्रुतिः 'ब्राह्मणो न हन्तव्य' इत्येवाह । न तु यो यो ब्राह्मणोऽसावसौ न हन्तव्य इत्याह । नानाप्रतीकेषु स्वदर्शनं प्रार्थयमानस्योपासकस्य । विभक्तिव्यत्यासेनेत्यत्र वायुरिति . ३० ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका उप० ॥ अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् । युयो- ध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ॥ २० ॥ भा० ॥ वयुनं ज्ञानं । त्वदत्तया वयुनयेदमचष्ट विश्वमिति वचनात् । जुहुराणं अस्मानल्पीकुर्वत् । युयोधि वियोजय । यदस्मान्कुरुतेऽत्यल्पांस्तदे- नोऽस्मद्वियोजय । नय नो मोक्षवित्तायेत्यस्तौद्यज्ञ मनुः स्वराडिति स्कान्दे । युयु वियोग इति धातुः । भक्तिज्ञानाभ्यां भूयिष्ठां नम- उक्ति विधेम ॥ २० ॥ टी० ॥ तदमृतत्वस्य कैमुत्यसिद्धत्वादिति ॥ ननु संसारिणो वायोः कथममृतत्वं सम्भवति । यधुपचारेण तहीश्वरस्यापि किं तथाविधममृतत्वमस्तीत्याशङ्का स्मृत्यैव परिहरति । अतिरोहितेति ।। देहनाशेऽपि तत्कार्यविज्ञानतिरोभावा भावसादृश्यादित्यर्थः । अतिरोहितविज्ञानादिति भावप्रधानो निर्देशः । मुख्यामृतः देहनाशादिरहितः । परमात्मा सनातन इति तत्र युक्तिद्वयम् । ॥ १८ ॥ अथ प्रणवप्रतीकं प्रार्थयते ॥ अमिति ॥ ओतत्वादि गुणयुक्त क्रतो मां स्मर । मया कृतं ध्यानादिकं च स्मरेति । अभ्यास. स्तात्पर्यार्थः । अत्र स्मरणं नामप्रसिद्धमेवेति प्रतीतिं स्मृत्यैव परिहरति ॥ भक्तानामिति ॥ भक्तर्मकं यद्विष्णोः स्मरण तदनुग्रहोन्मुखत्वमेव । विष्णौ यः स्मरणशब्दः प्रयुज्यते स स्मरणकार्यानुग्रहोन्मुखत्व एव लक्षण. या वर्तत इति यावत् । नैवान्यत्संस्कारकारणकं ज्ञानमित्यर्थः । न केवलं भक्तविषय एवं किंतु सर्वत्रापीत्युक्तम् ।। क्वचिदिति ॥ कुतः । नित्यज्ञप्ति- स्वरूपतः । स्मरणं ह्यनुभवनाशे तज्जन्यसंस्कारसहकृतेन मनसा जायते । ईश्वरश्च नित्यज्ञानस्वरूप इति तस्य स्मरणासम्भवाल्लक्षणाश्रयणमिति भावः ॥ १९ ॥ साक्षात्कारप्राथनानन्तरमग्निप्रतीक भगवन्तं मोक्षार्थ प्रथमायाः “सुपां सुलुगिति वचनात् द्वितीयाकरणे वायुमनिलममृतमाहुरिति योजनासम्भवात् । लिङ्गव्यत्यासे तु वायुरनिलः अमृत इति योजनासम्भवा- दिति भावः । प्रकृतासङ्गतानीत्यत्र भगवत एव प्रकृतत्वेन वायोः कथन कथं सङ्गच्छत इति शङ्कितुरभिप्रायः ॥ १८,१९ ॥ मोक्षप्राप्तये 'तेऽर्चिषमभि- ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका ३१ ॥ भा० ॥ पूर्णशक्तिचिदानन्दश्रीतेजःस्पष्टमूर्तये । ममाभ्यधिकमित्राय नमो नारायणाय ते॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचित मीशावास्योपनिषद्भाष्यं सपूर्णम् ॥ टी० ॥ प्रार्थयते ॥ अन इति ॥ वयुनानि कर्माणीति केषांचिद्याख्यानं तदसत मोक्षस्य कर्मसाध्यत्वाभावेन तदुक्तेर्वैयर्थ्यप्रसङ्गादित्यभिप्रेत्य वयुनशब्दार्थ माह ॥ वयुनमिति ॥ वयुनशब्दस्य ज्ञानवाचित्वं कुत इति चेत्प्रयोगं दर्शयति ॥ त्वदत्तयेति ॥ जुहुराण कुटिलमित्यन्यथाप्रतीतिनिरासायाह ॥ जुहुरोणमिति ॥ अस्मानित्यन्वयसिद्धयर्थमावर्तितम् । युयोधीत्य- प्रतीतार्थपदं व्याख्याति ॥ युयोधीति ।। कुतोऽयं पदद्वयार्थ इत्यतः समा- ख्यानादित्याह । यदिति ॥ युयोधीत्यस्य वियोगार्थसिद्धये धातुसूत्रमपि पठति ॥ युयु वियोग इति धातुरिति ॥ धातुव्याख्यानमित्यर्थः । नम उक्तेभूयिष्ठत्वमभ्यस्तत्वमतोऽभ्यधिकार्थं वदन् नमस्कारस्य कथमुक्तित्वमि- त्याशङ्कां परिहरति । भक्तीति ॥ ततश्चायमर्थः । हे अग्ने अस्मान्सुपथा- पुनरावर्तिवर्जितेनाचिरादिमार्गेण राये मोक्षाख्यवित्ताय नय । कुतः । हे देव अस्मदनुष्ठितानि विश्वानि सम्पूर्णानि मोक्षाय पर्याप्तानीति यावत् । वयुनानि ज्ञानानि भवान्वेद । प्रारब्धकर्मभिर्बद्धस्य कथं मोक्ष इत्यत उक्तम् ॥ युयोधीति ॥ अस्मान् जुहुराणमल्पीकुर्वत् । संसारे परिवर्तयदिति यावत् । एनः पापमनिष्ट कर्मेति यावत् । अस्मद्युयोधि । अस्मत्तो वियोजय । वयं तुभ्यं भूयिष्ठां नमउक्तिं विधेम । नतु तत्प्रतिकतुं शक्नुम इति ॥ २० ॥ अथ समापितभाष्योऽपि भगवानाचार्यों यत्ते रूप कल्याणतम “योसावसौ पुरुष” इत्यादिना प्रतिपादितं नारायण स्तुति नतिभ्यां प्रीणयति ॥ पूर्णेति ॥ पूर्णशक्तिचिदानन्दश्रीतेजांस्येव मूर्ति- सम्भवन्ती'तिं श्रुत्युक्ताचिर्नामकाग्निकुमारलोकस्याग्निशिखाद्वारा प्राक्प्राप्यत्वाद्गज- तुरगशिबिकादिना राजमन्दिरं गच्छतोऽपि नदीनिरोधपरिहाराय नद्युत्तारकपुरुष- प्रार्थनवतू, राजान्तःपुरप्रवेशाय प्राक्प्रतिहारप्रार्थनवता 'अग्ने नयेत्यग्निस्थभगवत ३२ ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका टी० ॥ यस्येत्युक्ते करचरणादिमान्विग्रहो नास्तीति प्रतीतिः स्यात् । अत उक्तम् ।। स्पष्टेति ॥ स्पष्टा प्रसिद्धा करचरणादिमतीत्यर्थः । अभ्यधिकमित्रं निरतिशयोपकारकम् । अतिपरमप्रीतिविषयश्चेति ।। कमलावदनाम्भोजराजहंसाय विष्णवे । नमो जगज्जनिस्थेमहेतवे परमात्मने । इति श्रीमदानन्दतीर्थभगवत्पादविरचितस्य याज्ञीयमन्त्रभाष्यस्य विवरणं श्रीमज्जयतीर्थभिक्षुविरचितं संपूर्णम् प्रार्थनमिति भावनाह अग्निप्रतीकमिति । यद्वा "कुर्वन्नेवेह कर्माणीति कर्मानु- ष्ठानस्योक्तत्वात्कर्मानुष्ठातॄणां च "अग्नौ क्रियावतां विष्णुर्योगिनां हृदये हरिः" इति स्मृतेरमेरपेक्षितत्वादमिप्रार्थनमिति ज्ञातव्यम् ॥ २० ॥ नियुक्ते देहिनो योऽन्तः स्वयं भुक्त सुखानि च । तदन्ते मुक्तिदस्तं ते भजन्ते चिन्तितार्थदम् ॥ १ ॥ ग्रन्थेनानेन भगवानिन्दिरारमणः प्रभुः । नन्दितीर्थमुनेबन्धुः स दद्यात्सकलेप्सितम् ॥ २ ॥ इति श्रीमत्कविकुलतिलकमाविसमीरश्रीवादिराजपूज्यचरणविरचिता ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका समाप्ता ।। ॥ श्रीकृष्णार्पणमस्तु ।

॥ श्रीः ॥ ॥ श्रीवेदव्यासाय नमः ॥ ॥ श्रीमद्भाविसमीरवादिराजगुरुभ्यो नमः ।। श्रीमद्वादिराजपूज्यचरणविरचिता तलवकारोपनिषद्भाष्यटिप्पणी। श्रीमद्धनुमद्धीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ॥ ॥ श्रीगुरुभ्यो नमः । हरिः ॐ ★ उप ॥ ॐ ॥ केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः । केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति । श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाच स उ प्राणस्य प्राणश्चक्षुषश्चक्षुरतिमुच्य धीराः प्रत्यास्माल्लोकादमृता भवन्ति । न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनो न विझ न विजानीमो भा० ॥ ॐ ॥ अनन्तगुणपूर्णत्वादगम्याय सुरैरपि । सर्वेष्टदात्रे देवानां नमो नारा- यणाय ते ॥ वैजयन्ते समासीनमेकान्ते चतुराननम् । विष्णोर्विविदिषुस्तत्वं पर्यपृच्छत्सदाशिवः ।। यदिदं पुरुषावश्यं तत्र तत्र पतेन्मनः । केन तत्प्रेरितं ॐ ॥ दद्याद्विद्यां हयग्रीवः पद्मा दद्याच्छ्रियं मम । विद्वान्मध्वो बुद्धिशुद्धिं दद्यादद्य महर्द्धिमान् ॥ १ ॥ प्रणम्य कमलाकान्तमनन्तं चिन्तितार्थदम् । कुर्वे तलवकारोपनिषद्भाष्यस्य टिप्पणीम् ॥ २ ॥ तलवकारोपनिषदं व्याचिख्यासुभंग- वानानन्दतीर्थमुनिस्तदुक्तगुणवत्तया भगवन्तं स्तुवन्प्रणमति । अन्न्तगुणपूर्णत्वा- दिति । “तन्न व्यजानन्त किमिदं यक्ष"मित्यस्यार्थकथनमगम्याय सुरैरपीति । "तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमां हैमवती'मिति पार्वती- मुखेनेन्द्रादीनां ज्ञानदानस्योक्तत्वाद्देवानां सर्वेष्टदात्र इत्युक्तम् । वैजयन्तो नाम बहुयोजनवान्मेरोः शृङ्गविशेषः । तत्राप्येकं ब्रह्मणो मन्दिरमस्ति । तत्रासीनं ब्रह्मा- णमित्यर्थः । “केनेषितं पतति प्रेषितं मन" इत्यादिना मनआदीन्द्रियाणां प्रवृत्ति- तलवकारोपनिषद्भाष्यटिप्पणी उप० ॥ यथैतदनुशिष्यात् । अन्यदेव तद्विदितादथो अविदितादधि । इति शुश्रुम पूर्वेषां ये नस्तन्याचचक्षिरे । यद्वाचाऽनभ्युदितं येन वागभ्यु- द्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते । यन्मनसा न मनुते येनार्मनो मतम् ॥ तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते । भा० ॥ याति प्राण: सर्वोत्तमस्तथा ॥ चक्षुः श्रोत्रं तथा वाचं को देवो विनियोज- येत् । इति पृष्टस्तदा ब्रह्मा प्राह देवमुमापतिम् ॥ ध्यात्वा नारायण देवं सर्वाधारमनूपमम् । सर्वज्ञं सर्वशक्तिं च सर्वदोषविवर्जितम् ॥ यः प्राणस्य प्रेरकः क इति प्रश्नः क्रियते । इन्द्रियाणां स्वस्वविषयेषु गमनस्य स्वाभाविकत्वा- व्यर्थोऽयं प्रश्न इति न मन्तव्यम् । इन्द्रियाणां जडत्वेन घटवत्स्वतः प्रवृत्त्ययोगेन प्रवर्तकप्रश्नस्य न्यायप्राप्तत्वात् । तहिं तत्तज्जीवा एव स्वस्वेन्द्रियाणि प्रवर्तयन्तु चेतनत्वेन तेषां प्रवर्तकत्वसम्भवादिति च न मन्तव्यम् । “वि मे कर्णा पतयतो वि चक्षुर्वी३दं ज्योतिहृदय आहितं यत् । वि मे मनश्चरति दूर आ धीः किंस्वि- द्वक्ष्यामि किमनू मनिष्य” इति कर्णादीन्द्रियाणां तत्तज्जीवानधीनत्वोक्तेः । मन- आदीन्द्रियप्रेरकैरिन्द्रियाभिमानिदेव मनआदीन्द्रियाणां प्रवृत्तिरस्तु । किं प्रेरका- न्तरप्रश्नेनेति चेन्न । “निषुसीद गणपते गणेषु त्वामाहुर्विप्रथम कवीनाम् । न ऋते त्वत्क्रियते किञ्चनारे महामक मघवञ्चित्रमः''ति श्रुत्या इन्द्रियगणप्रवर्तनाय सर्वेन्द्रियगणाधिपतेरेकस्येन्द्रियगणेषु निषुसीदेति सन्निधानस्य प्राथनात् । तदुक्तं भागवते “अन्तबहिश्चाखिललोकपालकैरदृष्टरूपो विचरस्युरुश्च नः । स इश्वरस्त्वं य इदं वशे नयन्नात्मा यथा दारुमयीं नरः स्त्रियम् ॥ यं लोकपाला: किल मत्सरज्वराः हित्वा यतन्तोऽपि पृथक्समेत्य च । त्रातु न शेकुर्द्विपदश्चतुष्पदः सरीसृपः स्थास्नु यदत्र दृश्यते” इति । इदं च मत्स्यतनुं हरिं प्रति मनोः प्राथनम् । अत इयमुपनिषत्प्राकृतभाषया यामिकसनाम्ना शङ्काकृतश्चोरान्दूरे धुनोतीत्यत उप- पन्नतरः प्रश्न इति श्रुतेरभिसन्धिरनुसन्धयः । “केनेषितं पतति प्रेषितं मन" इत्यादेरर्थमाह यदिदमिति । मन इषितमिष्टं प्रति केन प्रेषितं प्रेरित पतति गच्छति । स्वानभीष्टस्वजिह्वादशनादावपि मनसः प्रवृत्तिदर्शनात्यततीत्युक्तम् । बलात्पततीत्यर्थः । स्वादुतरवस्त्वास्वादनसमये हरिं विस्मृत्य स्वतृप्तिमेवोदिश्य तलवकारोपनिषद्भाष्यटिप्पणी '३५ । ॥ उप० ॥ यच्चक्षुषा न पश्यति येन चढूंषि पश्यति । तदेव ब्रह्म त्वं विद्धि नेद यदिदमुपासते । यच्छोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ! यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ १॥ यदि मन्यसे सुवेदेति दहरमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपम् । यदस्य त्वं यदस्य देवेष्वथ नू मीमांस्यमेव ते । मन्ये विदितं नाहं मन्ये भा० ॥ प्रणेता च चक्षुरादेश्च सर्वशः । अगम्यस्सर्वदेवैश्च परिपूर्णत्वहेतुतः ।। प्राणादीनां प्रणेता च सर्ववेत्ता च सर्वशः । सर्वोत्तमश्च सर्वत्र स विष्णु- रिति धार्यताम् ॥ १ यं सम्यङ्नैव जानाति कश्चिन्निरवशेषतः । सर्वात्मना विजानामीति तु यस्य मतं भवेत् ॥ तस्याज्ञातस्स भगवान्यो नैवं मन्यते सदा । ज्ञातस्तस्य तथाऽस्यैव निश्शेषमननं कृतम् ॥ इति यो तत्स्वादुस्वीकाराख्यदोषपरिहाराय बलात्स्वभक्तकृपालुना हरिणा प्रेरितं मनस्तत्र बलाद्च्छतीति भावः । इदमपिपदं प्रेरकान्तरावश्यम्भावसूचकम् । अत एवाह भगवान्भाष्यकारः पुरुषावश्यमिति । पुरुषेण वशीकर्तुमशक्यं पुरुषावश्यमित्यर्थः । मनआदीन्द्रियाभिमानिदेवस्सह पठितोऽपि प्राणो न तत्समानयोगक्षेम इति भावे- नोक्तं प्राणः प्रथम इति । तस्यार्थमाह सर्वोत्तम इति । सर्वेभ्य इन्द्रियाभि- मानिदेवेभ्योऽप्युत्तम इत्यर्थः । “स उ प्राणस्य प्राण" इत्यत्र प्राक्कस्यापि परा- मर्शाभावात्तच्छब्दः स्वबुद्धिस्थवस्तुपरामर्शीति भावेनोक्तं ध्यात्वेति ॥ १ ॥ "सर्वात्मना विजानामी'त्यत्र सर्वान्विजानामि विशेषतो जानामि अपरोक्षतो जानामीत्यर्थः । तस्य स भगवानज्ञातः सम्यगपरोक्षतो न ज्ञात इत्यर्थः । असङ्ख्यात- गुणस्य ब्रह्मणस्सामस्त्येन ज्ञानायोगादिति भावः । य एवं सर्वात्मना विजानामीति न मन्यते तेन स भगवान्परोक्षतो ज्ञात एव । सामस्त्येनाज्ञातस्य हरेर्यथायोग्य ज्ञानस्यैवानुमतत्वात् । यथाऽपरोक्षज्ञाने विभागोऽस्ति तथा मननाख्यपरोक्षज्ञानेऽपि विभागोऽस्तीत्याह तथेति । पूर्ववदेव योजना । तस्मात्पूर्वोक्तन्यायान्नातिवेद्यः । अतिशयेन वेद्योऽतिवेद्यः सामस्त्येन वेद्यो नेत्यर्थः । अवेद्यः सर्वथा शशविषाण- वदवेद्यश्च अवेद्योऽपि न किंतु स्वस्वयोग्यतानुसारेण वेद्य इति भावः । “न विद्म ३६ तलवकारोपनिषद्भाष्यटिप्पणी उप० ।। सुवेदेति । नो न वेदेति वेद च । यो नस्तद्वेद तद्वेद नो न वेदेति वेद च । यस्यामतं तस्य मतं मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञातमविजानताम् । प्रतिबोधविदितं मतममृतत्वं दि विन्दते । आत्मना विन्दते वीर्य विद्यया विन्दतेऽमृतम् । इह चेद- वेदीदथ सत्यमस्ति । न चेदिहावेदीन्महती विनष्टिः । भूतेषु भूतेषु विचित्य धीराः । प्रेत्यास्माल्लोकादमृता भवन्ति ॥२॥ ब्रह्म ह भा० ॥ मन्यते नास्य मतस्स पुरुषोत्तमः । नातिवेद्यो न चावेद्यस्तस्मात्स परमे- श्वरः ॥ नेदं जीवस्वरूपं तद्ब्रह्म विष्ण्वाख्यमव्ययम् । किंतु यत्ते समीपस्थ- मासते विनियामकम् ॥ तदेव ब्रह्म विद्धि त्वं विष्ण्वाख्यं परमव्ययम् नियामकं तद्देवानां मर्त्यानां किमुतोत्तमम् ।। तत्प्रसादं विना जीवे मन्तव्या न प्रवृत्तयः । किमु जीवस्य तद्भावो न मन्तव्य इतीयते ॥ २ ॥ इत्यत्रा- न विजानीम" (स्व० १) इत्युपनिषद्वाक्यस्य एतद्ब्रह्म यथाऽनुशिष्याजगन्नियम- येत् एतत् आन्तं विद्म विदामेत्याशां च न कुर्मः । 'आशिषि लिङ्लोटा'वि- त्याशिषि लोटोऽनुशासनात् । अत एव न विजानीमः तादृशं ज्ञानं वर्तमानम- प्यस्माकं नास्तीत्यर्थः । वर्तमाने हि लट् । अतो न पौनरुत्तयम् । “नेदं यदिद- मुपासत" (ख० १) इति बहुशोऽभ्यस्तवाक्यस्यार्थमाह नेदमिति । हे जीव विष्ण्वाख्यं तद्ब्रह्म इदं परिदृश्यमानं जीवाख्यं तव स्वरूपं न । तथासति जीवस्यैव विष्णुत्वेन सर्वेन्द्रियप्रेरकत्वसम्भवात् “केनेषित"मित्यादिप्रश्नस्यासङ्गतिप्रसङ्गः । यत्ते उप समीपे हृदीत्यर्थः आसते नियामकतया आस्ते । जीवानां हृदि जडगगन- स्यापि सत्त्वेन तस्य च ब्रह्मत्वायोगाच्छ्रतिनियामकत्वमभिप्रति । अत एवोक्तं भाष्ये ते विनियामकमिति । यदिदमुपासते लोकाः इद ब्रह्म न किंतु तदेव ब्रह्मति व्याख्याने तच्छब्देन परामर्शयोग्ययच्छब्दोदितार्थस्य पूर्वमभावादुत्तरत्र चाभावा. द्वाक्यमपरिपूर्ण स्यात् । “साकांक्ष वाक्यमनथक"मिति हि प्राचां वाच इत्यान्तरानुपपत्तिः “अथातो ब्रह्मजिज्ञासे"ति जिज्ञासारूपोपास्तिविषयत्वस्य ब्रह्मण्येव सूत्रकृता विधानाबाह्यानुपपत्तिश्चेत्युभयतःपाशारज्जुः परस्य । न च तत्रापि वेदा- न्तानामेवोपास्यत्वं न ब्रह्मण इति वाच्यम् । श्रुतहान्यश्रुत कल्पनाप्रसङ्गात् ।

तलवकारोपनिषद्भाष्यटिप्पणी ७ उप० ॥ देवेभ्यो विजिग्ये । अथ तस्य ह ब्रह्मणो विजये देवा अमहीयन्त त ऐक्षन्त । अस्माकमेवायं विजयो अस्माकमेवाय महिमेति । तद्वैषां विजज्ञौ । तेभ्यो ह प्रादुर्बभूव । तन्न व्यजानन्त । किमिदं यक्ष- मिति । तेऽग्निमब्रुवन् । जातवेद एतद्विजानीहि किमेतद्यक्षमिति । तथेति तदभ्यद्रवत् । तमभ्यवदत्कोऽसीत्यग्निर्वा अहमस्मीत्यब्रवीं- ज्जातवेदा वा अहमस्मीति । तस्मिस्त्वयि किं वीर्यमित्यपीदं सर्व दहेयं यदिदं पृथिव्यामिति तस्मै तृणं निदधावेतद्दति । तदुपप्रेयाय सर्वजवेन । तन्न शशाक दग्धुम् । स तत एव निववृते । नैतदशकं भा० ॥ ख्यायिकां वच्मि शृणु तां त्वं महेश्वर । स्थित्वा देवेषु तद्ब्रह्म व्यजयदैत्यदानवान् ॥ देवेभ्योऽर्थाय विजय ते देवा मेनिरे स्वकम् । आविष्टा असुरैस्तेषां प्रबोधाय जनार्दनः ॥ यक्षरूप: प्रादुरभूदुमाशिव- समन्वितः । ब्रह्मणा चापि सहित एतेभ्योऽपि परो ह्यहम् ॥ एतेऽपि मे भृत्यभूताः परिवार्य व्यवस्थिताः । इति ज्ञापयितुं विष्णुः सह तैरप्युपा- “येन चशूषि पश्यती" (ख० १) त्यत्र अन्यत्रादृष्टमतीन्द्रियेन्द्रियद्रष्टत्वं कथं भगवत इति चोय चक्षूषीति विलक्षणप्रयोगेन श्रुतिरेव दूरीचकार । येन परमा- स्मना तत्कृपयेत्यथः । रमाब्रह्मादियोगिनां समूहोऽपि च षि पश्यति तस्य दर्शने शक्तिः किं वाच्येति हेतुमुपलक्षणतयोपपाद्य तस्मात्तेन चढूंषि दृश्यत इति साध्य- मपि श्रुतिः सूचयतीत्यर्थः । “दहरमेवापि नून"मित्यत्र दहरमल्पमित्यर्थः । "यदस्य त्व"मित्यत्र त्वं त्वयि अस्य परमात्मनो यद्रूपमस्वतन्त्रत्वदिन्द्रियप्रेरक- देवेष्वप्यस्य परमात्मनो यद्रूपं ततेनु मीमांस्यमेव विचार्यमेव । देवेष्विति सप्तमीपंक्ति- पतितत्वात्त्वं पदमपि सप्तम्यन्तमिति भावः । अन्यथा प्रायपाठविरोध: स्यात् । “यो नस्तद्वेदे"त्यत्र नोऽस्माकं ज्ञानिनां मध्ये यस्तद्ब्रह्म वेदेति वेद स तद्ब्रह्म नो वेदेति वेदपदस्याऽऽवृत्त्या योजना । न वेदेति यो वेद सः तद्ब्रह्म वेद चेति पदानां परस्परमन्वयो ज्ञेयः ॥ २ ॥ "ब्रह्म ह देवेभ्यो विजिग्य" इत्यत्र देवभ्य इति चतुर्थी । देवानामर्थ इत्यर्थः । “तद्वैषा"मित्यत्र तत् त ऐक्षन्तेत्युक्तमस्माक- मेवार्य महिमेतीक्षणमर्थः । “तेभ्यो ह प्रादुर्वभूवे'त्यत्र तेभ्य इति चतुर्थी देवानां ३८ तलवकारोपनिषद्भाष्यटिप्पणी उप० ॥ विज्ञातुं यदेतद्यक्षमिति । अथ वायुमब्रुवन् । वायवेतद्विजानीहि किमे- तद्यक्षमिति । तथेति तदभ्यद्रवत् । तमभ्यवदत्कोऽसीति । वायु अहमस्मीत्यब्रवीत् । मातरिश्वा वा अहमस्मीति । तस्मिंस्त्वयि किं वीर्यमिति । अपीदं सर्वमाददीयं यदिदं पृथिव्यामिति । तस्मै तृणं निदधावेतदादत्स्वेति तदुपप्रेयाय सर्वजवेन तन्न शशाकाऽऽदातुम् । स तत एव निववृते । नैतदशकं विज्ञातुम् । यदेतद्यक्षमिति । अथेन्द्र- मब्रुवन् । मघवन्नेतद्विजानीहि किमेतद्यक्षमिति तथेति तदभ्यद्रवत् । तस्मात्तिरोदधे । स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानांमुमां हैमवतीम् । तां होवाच किमेतद्यक्षमिति ॥ ३॥ ब्रह्मेति होवाच । भा० ॥ गतः ।। यूयमेतानपि ज्ञातुमशक्ताः किमु मामिति । तज्ज्ञानार्थ हुताशश्च नासिक्यो वायुरेव च ॥ इन्द्रश्च क्रमशो जग्मुस्तं ज्ञातुं नैव चाशकन् । तत्रेन्द्रोऽधिकबुद्धित्वात्पृच्छतीति जनादनः ॥ मत्तः शिवाब्रह्मणश्च श्रोतु नैवापि शक्तिमान् । इति ज्ञापयितुं तत्र नादृश्यत स केशवः ॥ एषव ज्ञानदाने ते योग्योमेति व्यदर्शयत् ॥ ३ ॥ उमा सा सम्यगाचष्ट तस्मै प्रयोजनायेत्यर्थः । “किं वीय"मित्यपीत्यत्र किं वीर्यमित्यपीत्यभ्यवददिति पूर्वेणा- न्वय इति ज्ञेयम् । “तत एव निववृत" इत्यत्र ततस्तदुक्तकार्यकरणासामर्थ्यादेव निववृत इत्यर्थः । “तस्मात्तिरोदधे" इत्यत्र यस्मात्त्वं कोऽसीति मां प्रत्येव प्रश्न- करणकौशलवानिन्द्र आजगाम । असुराविष्टमनस्कं प्रति मयैव प्रतिवक्तुमनुचितं तस्माद्धेतोरेव तिरोदध इत्यर्थः । “स्त्रियं+उमांxता"मित्यस्य पार्वत्या इन्द्रं प्रति साक्षाद्गुरुत्वात्त्वमेव तत्वं ब्रूहीति भगवताऽऽज्ञप्तां स्त्रियमित्यर्थः । साक्षाद्गुरुश्च साक्षान्माता अप्रक्षालितमलं पुत्रमिव शिष्ये किञ्चिदवद्यमस्ति चेत्तमनुगृह्णीयादिति लोकन्यायः ॥ ३ ॥ "ब्रह्म व्यजाना"दित्यत्र उमामुखात्स्वयं व्यजानात्पश्चाद्देवान् प्रत्युक्तवान् । तथा कामोऽपि दक्षादिभ्य उत्तमः । यतः स कामो देवेभ्यः पूर्वमेवेन्द्र प्रति तज्ज्ञातुमुक्तवान् । एवं च 'कर्ता कारयिता चेति न्यायेन द्वावपि समाविति भावः । “सर्वदेवाधिकास्तस्मा"दित्यत्र सर्वे देवाः 'उक्तशेषाः शतस्था' इत्यत्र प्रोक्तदेवाः तेभ्योऽधिका इत्यर्थः । एते देवा इन्द्रादीनामाज्ञया प्राग्गतावमिवायू तलवकारोपनिषद्भाष्यटिप्पणी उप० ॥ ब्रह्मणो वा एतद्विजये देवा अमहीयध्वमिति । ततो ह वै विदांचकार ब्रह्मेति । तस्माद्वा एते देवा अतितरामिवान्यान्देवान्यदग्निर्वायुरिन्द्रस्ते ह्येनन्नेदिष्ठं पस्पृशुः । ते ह्येनत्प्रथमो विदांचकार ब्रह्मेति । तस्माद्वा इन्द्रोऽतितरामिवान्यान्देवान । स ह्येनन्नेदिष्ठं पस्पर्श । स ह्येनत्प्रथमो विदांचकार ब्रह्मेति । तस्यैष आदेशो यदेतद्विद्युतोऽभिव्यद्युतदा३इति । भा० ॥ विष्णुं परं पदम् । यस्माद्ब्रह्मा च वायुश्च शेषवीन्द्रौ शिवस्तथा ॥ सभार्या गर्विणो नासन्सुरेभ्यस्तेऽधिकास्ततः । इन्द्रस्तु प्रथमं ब्रह्म व्यजानात्तेन तूत्तमः ॥ दक्षादिभ्यस्तथा कामस्तज्ज्ञातुं पूर्वमुक्तवान् । दक्षो बृहस्प- तिश्चैव मनुः कामात्मजस्तथा ॥ सूर्याचन्द्रमसौ धर्मों वरुणश्वोचु- रोमिति । नासिक्यवायुरग्निश्च प्रथमं तदपश्यताम् ॥ सर्वदेवाधिकास्तस्माद् ज्ञातुमिन्द्रस्योमित्यनुमतिकर्तारो दक्षाद्या वरुणपर्यन्ता देवा इत्यर्थः । न चात्र शङ्कनीयम् । इन्द्रादपि पूर्वगमनादग्निवायू इन्द्रादप्युत्तमाविति । निष्फलगमन- कोरपि सफलगमनकर्तुरिन्द्रस्योत्तमत्वावश्यम्भावात् । अस्तु तर्खगन्तृभ्यो दक्षा- दिभ्योऽप्यनयोरुत्तमत्वमिति चेन्न । निष्फलगमनकोंरपेक्षया सफलगमनानुमन्तॄणा मेव फलोपयोगित्वेनोतमत्वौचित्यात् । गत्वा ज्ञानदातुरिन्द्रात्प्रथममिन्द्रगमनोत्था- पकात्कामाच्च दक्षादीनामवमत्वस्य च न्यायप्राप्तत्वादुपनिषदुक्तदेवतातारतम्यस्यैव स्पष्टीकरणादिति ज्ञेयम् । “तस्माद्वा एते देवा अतितरामिवान्यान्देवा"नित्यत्र इवशब्देन यथाऽन्ये देवा ऋष्यादिभ्योऽतितरामतिशयेन वर्तन्त इवैवमेते वाय्य. नीन्द्राख्या देवा अन्यान्देवानतितरामतिशयेन वर्तन्त इत्युपमया तारतम्यान्तरं सूचितमिति ज्ञेयम् । एवमुत्तरत्रापि । यथा दक्षादयोऽग्निवायुभ्यामधिका इव । एव- मिन्द्रो दक्षादिभ्योऽप्यतितरामतिशयेन वर्तत इति देवेष्ववान्तरतारतम्यमपि सूचित- मिति ज्ञेयम् । अव्ययानामनेकार्थत्वादवधारणाओं वा । ब्रह्मरुद्रशेषगरुडानामपुरा- वेशाभावादेते देवा असुरावेशादहङ्कारकर्तृभ्य एतेभ्यो देवेभ्योऽतितरामिवातिशयेन वर्तन्त एवेत्युपनिषदोऽभिसन्धिः । एवं चोपनिषदङ्गना रमा पूर्वोत्तरपर्यालोचनायां स्वतनयपवनतनयमध्वस्याध्वानमेव स्थिरीचकार । पस्पृशुः भगवन्तं स्वहृदि स्थिरी- चक्रुः । विदांचकार व्यजानात् । इन्द्रः प्रथमो विदांचकार । तदुपदेशेन तेऽपि ४० तलवकारोपनिषद्भाष्यटिप्पणी उप० ।। न्यमीमिषदा३इत्यधिदैवतम् । अथाध्यात्मम् । यदेतद्च्छतींव च मनोऽनेन वै तदुपस्मरति । अभीक्ष्ण सङ्कल्पस्तद्ध तद्वनं नाम तद्वनमित्युपासितव्यम् । स य एतदेवं वेदाभिहैनै सर्वाणि भूतानि संवाञ्छन्ति । उपनिषदं भी बहीति । उक्ता त उपनिषत् । ब्राह्मीं वाव त उपनिदमब्रूमेति । तस्यै तपो दमः कर्मेति प्रतिष्ठा । वेदाः भा० ॥ एते देवाः प्रकीर्तिताः । एतेभ्यश्चेन्द्रकामौ तु ताभ्यां ब्रह्मादयोऽधिकाः ॥ एतेषामवमो वह्निः परमो विष्णुरुच्यते । अन्तराले स्थितास्त्वन्ये ब्रह्माद्या: पूर्वमीरिताः ॥ अग्निः पश्चाद्यजानात्तदिन्द्रवाक्यात्ततोऽवमः । तस्माद्वि- ष्ण्वभिसम्बन्धात्पारावर्य सुरेष्विदम् ॥ व्यद्योतयद्विधुदादीन्कपिलाख्यस्तु यो हरिः । अक्ष्णोनिमेषणं कृत्वा यः शेते क्षीरसागरे ।। स एवैकः परं ब्रह्मेत्येव तस्योपदेशनम् । अधिदैवे तथाऽध्यात्मे यं मनो गच्छतीव च ।। सम्यङ् न गच्छति कापि मनो येन स्मरत्यपि । सोऽनिरुद्धाख्य ईशेशः परं ब्रह्मेति कीयते ॥ स विष्णुस्तद्वनं नाम ततत्वाद्वननीयतः । एवमेनं तु यो वेद भवेत्सर्वैरपेक्षितः ॥ एतच्छ्रुत्वा हरोऽपृच्छद्ब्रह्माणं पुन रेव तु । विद्याकारं मम बृहीत्युक्तो ब्रह्माऽऽह तं पुनः ॥ विद्यावेद्यं तव प्रोक्तमास्थानं ते वदाम्यहम् । तपोदमस्वधर्मेषु ये स्थितास्तेषु तिष्ठति ॥ विद्यास्थानानि तस्यास्तु वेदा अङ्गानि निर्णयः । वेदैतामेवमखिलां यो विष्णौ प्रतितिष्ठतीत्यादि ब्रह्मसारे । विद्युतः सूर्यादिप्रकाशान् । आ समन्ताभ्यद्युतत्प्राकाशयत् । “यदादित्यगतं तेज़ो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चानौ तत्तेजो विद्धि मामक"मिति वचनात् । “तमेव भान्त- मनुभाति सर्व तस्य भासा सर्वमिदं विभाती"ति च । न्यमीमिषदा । आ विदांचकुरिति योजना । क्षणिकविद्युन्मात्रप्रकाशकत्वस्यातिमहिमसम्पादकत्वाभा- वाद्विद्युतः विशेषेण द्युतः प्रकाशमानानिति योगमाश्रित्यार्थमाह भाष्यकारो विद्युत- स्सूर्यादिप्रकाशानिति । आ इत्युपसर्गमनूद्य तस्यार्थमाह आ समन्तादिति । अभि अभितः विशेषेणेत्यर्थकोपसर्गद्वयपूर्वकस्य 'युती प्रकाशन' इति धातोरन्त- गीतणिजन्तत्वमभिप्रेत्यार्थमाह प्राकाशयदिति । 'श्रुतेरिखार्थं स्मृतिरन्वगच्छादिति .

तलवकारोपनिषद्भाष्यटिप्पणी . ४१ उप० ॥ सर्वाङ्गानि सत्यमायतनम् । यो ह वा एतामुपनिषदमेव वेदापहत्य- पाप्मानमनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति ज्येये प्रतितिष्ठति ।। ४ ।। इति तलवकारोपनिषत्समाप्ता । भा० ॥ समन्तान्निमीलिताक्षमभवत् । “स वै किलायं पुरुषः पुरातनो य एक आसीदविशेष आत्मनि । अग्रे गुणेभ्यो जगदात्मनीश्वरे निमीलितात्मा निशि सुप्तशक्तिवि"ति वचनात् । पूर्णत्वाच्च आः । अभीक्ष्णं सङ्कल्प इति मनसो विशेषणम् । सङ्कल्पकमित्यर्थः । सप्रतिष्ठां सायतनामुपनिषदं काव्यकारेणाप्युक्तत्वात्स्मृतिसमाख्यया च विद्युत्पदं न विद्युन्मानवाचकमिति भावेन स्मृतिश्रुती पठति “यदादित्यगत"मिति । श्रुतौ सर्वमिति सामान्येनोक्तत्वा- द्विशेषार्थकस्मृतेरादौ ग्रहणम् । यद्यपि पञ्चरात्रवाक्ये न्यमीमिषदा इति वाक्यं क्षीर- सागरशायिनः कपिलाख्यहरेः प्रतिपादकमित्युदितम् । तथापि तदङ्गीकुर्वन्नेव भाष्य- कारो ब्रह्मशतवर्षपर्यन्तं वटपत्रशायिनि हरौ आ इत्युपसर्गार्थस्याभिव्याप्तिसिद्धेः सोऽ प्यर्थ इति भावेनाऽऽह स वै किलायमिति। आ इत्यस्यार्थान्तरमप्याऽऽह पूर्णत्वादिति। आ समन्ताद्विद्यमान इति व्युत्पत्त्या आशब्दो भगवत एव पूर्णत्ववाचको भवतीति भावः । अनेनैकैकमूर्त्या एकैकत्र स्थितस्य हरेस्सर्वगतत्वं नास्तीति शङ्का निरस्ता । "यदेतद्गच्छतीवे त्यत्र एतन्मनः गच्छतीवेति यत्तदनेन वै जीवान्तर्नियामकतया स्थितेनानिरुद्धेन । इवशब्देन च कचिन्न गच्छतीति सूचितम् । वैशब्देन 'अनिरुद्धः सर्वजीवो हृषीकेशो मनःपति'रिति स्मृतिप्रसिद्धि सूचयति । सेर्वे जीवाः यस्मात्प्रवर्तन्ते इति वा सर्वान्जीवयतीति वा सर्वजीव इत्यर्थः । सर्वजीवात्मक इत्यर्थकथनं तु “सर्वा- तिशायी कः सर्वाध्यक्षः सर्वेश्वरेश्वर' इत्युपक्रमवाक्येन "ब्रह्मरुद्राद्युत्कृष्टचेतनः । शम्भोः पितामहो ब्रह्मपिता शक्राद्यधीश्वर' इत्युपरितनवाक्येन च विरुद्धम् । अभीक्ष्णं वहुश: सङ्कल्पः सङ्कल्पात्मकं मन उपस्मरामीति यत् तदप्यनेन वै' इत्यर्थमभिप्रेत्याह भाष्यकारः। अभीक्ष्णमिति मनसो विशेषणीकृतसङ्कल्पपदेन इदमिदं करोमीत्यादि- रूपो यः सङ्कल्पः सोऽपि भगवदधीन इति सूचितम् । हेतुगर्भविशेषणानां तं देव पितरं पतिं गुरुतम'मित्यादौ बहुलमुपलम्भात् । सङ्कल्पपदस्य नित्यपुल्लिङ्गत्वात् । सङ्कल्पो मन इत्यपि 'वेदाः प्रमाण मितिवद्युज्यते । सङ्कल्पकमिति तु तात्पर्य- - ४२ तलवकारोपनिषद्भाष्यटिप्पणी भा०॥ ब्रूहीत्युक्ते सम्यगेव मयोपनिषत्स्वरूपमुक्तम् । तत्र वक्तव्यं नास्ति । तपो दमः कर्म च विद्यायाः प्रतिष्ठा । तद्वत्सु विद्या प्रतितिष्ठतीत्यर्थः । सत्यमिति मीमांसा । “निर्णीयते यतः सम्यगिदं सत्यमिति स्फुटम् । श्रुतिस्मृत्युदित सर्व व्यस्तं मीमांसयैतया । सत्यमित्युच्यते तस्मान्मीमांसा ब्रह्मनिश्चये"ति शब्दनिर्णये । “ऋग्यजुस्सामाथाख्याः पञ्चरात्रं च भारतम् । मूलरामा- कथनम् । तत्परं ब्रह्म तन्नाम तदिति नाम यस्य तत् तन्नाम 'तनु विस्तार' इति धातोरौणादिके डतुप्रत्यये कृते तदिति शब्दनिष्पत्तिः प्रसिद्धति ह शब्देनाऽऽह श्रुतिः । तत् परं ब्रह्म वनं नाम 'वन सम्भजन' इत्ति धातोः भजनीयत्वाद्वनशब्द- वाच्यमित्यर्थः । “उपनिषदं भो ब्रूहीं"ति हरेण पृष्टे उपनिषदेव वक्तव्या । "तस्यै तपो दमः कर्मेति प्रतिष्ठा । वेदाः सर्वाङ्गानि सत्यमायतन"मिति प्रतिष्ठायतनयोः कुतो निरूपणम् । अपृष्टपरिभाषणत्वप्रसङ्गात् । अतः प्रश्नवाक्येऽपि "सप्रतिष्ठां सायतना"मित्युपस्कर्तव्यमिति भावेनाऽऽह भाष्यकारः सप्रतिष्ठामिति । एवं च भारतीभावं भारतीपतिरेव वेद नापर इति ज्ञेयम् । 'उपनिषदं भो ब्रूही'ति प्रश्नवाक्ये च वाक्यमात्रकथनस्य नायं प्रश्नः । चतुर्मुखमुखादेव स्वयोग्यसकल. वेदानां हरेणापि प्रागेव पठितत्वात् । अत उप वाक्यस्य समीपे वाक्यस्थपदानां समीपे च यन्नितरां वेदप्रतिपाद्यत्वेनाभिमतदेवादिभ्यः कर्मादिभ्यश्चातिशयेन महा- योगेन विद्वद्रूढया चेति यावत् । सीदति "पदल विशरणगत्यवसादनेष्विति धातोर्वाक्यसमन्वयेन वाक्यानां पदसमन्वयेन पदानां च विषयतया तिष्ठतीति व्युत्पत्त्या सकलोपनिषत्प्रतिपाद्यं परं ब्रह्मैवोपनिषदित्युच्यते । तां च प्रकर्षण प्रमास्येभिरिति व्युत्पत्त्या प्रमास्थिरीकरणहेतुभूततपआदिकरणैः सह प्रमाया म्ला- धारभूतायतनशब्दवाच्यप्रमाणैस्सह बहीति प्रश्नवाक्यार्थः । अत एव “उक्ता त उपनिषदि"त्युक्त्वा "ब्राही वाव त उपनिषदमब्रूमे"ति श्रुतिः स्वयमेव ब्राह्मी- मित्युक्त्या प्रतिपाद्यब्रह्मविषयोऽयं प्रश्न इति सूचयति । एतत्प्रश्नपरिहाराय च प्रतिपाद्यब्रह्ममहिमरूपसकलेन्द्रियप्रेरकत्वसकलदेवोत्तमत्वादिगुणविशिष्टतया अस्या एव उपनिषद उक्तिकाले प्रतिपाद्यब्रह्मस्वरूपमप्युक्तमिति ज्ञेयम् । अवशिष्टप्रश्न- द्वयोत्तरं तूत्तरवाक्येनैवोच्यत इति विज्ञेयम् । “उक्ता त उपनिषदि"ति वाक्य- तलवकारोपनिषद्भाष्यटिप्पणी ४३ यणं चैव पुराणं भगवत्परम् ॥ वेदा इत्युच्यते सद्भिः शिक्षाद्याः स्मृतय- स्तथा । अङ्गानि सत्यं मीमांसा तद्विद्यायतनं त्रय"मिति विद्यानिर्णये ॥४॥ यश्चिदानन्दसच्छक्तिसम्पूर्णो भगवान्परः । नमोऽस्तु विष्णवे तस्मै प्रेयसे में परात्मने । इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं तलवकारोपनिषद्भाष्य सम्पूर्णम् । स्थस्य उपनिषत् उपनिषत्स्वरूपमुक्तव्युत्पत्त्या उपनिषत्पदवाच्यं ब्रह्मस्वरूपं ते उक्तमित्यर्थः । सत्यं सत्यवचनमिति भ्रमनिवारणायाऽऽह सत्यमिति मीमांसेति । व्यस्तं मीमांसयेत्यत्र व्यस्तं व्यासेन प्रपञ्चेन सहितं यथा भवति तथा व्यस्तमि- त्यर्थः । प्रमाकरणानां पञ्चरात्रभारतमूलरामायणवैष्णवपुराणानां तपआदिनियम- स्वरूपप्रमापकवैष्णवस्मृतीनां च सत्त्वात्कथं त्रित्वेन पर्यवसानमित्यत आह ऋग्यजु रिति । वेदापेक्षिततपआद्यङ्गप्रतिपादकस्मृतीनां वेदस्वरूपतदर्थप्रमापकत्वेन वेदाङ्गभूतशिक्षादिष्वेवान्तर्भावनोक्तं शिक्षाद्याः स्मृतयस्तथा । अङ्गानीति ॥४॥ नियन्ता सर्वदेवानां निहन्ता सर्वरक्षसाम् । स मन्ता कमलाकान्तः समन्तात्सुखदोऽस्तु मे ॥ इति श्रीमत्कविकुलतिलकश्रीमद्वादिराजपूज्यचरणविरचिता तलवकारोपनिषद्भाष्यटिप्पणी समाप्ता । ॥ श्रीकृष्णार्पणमस्तु ॥

॥ श्रीः ॥ ॥ श्रीवेदव्यासाय नमः ॥ ॥ श्रीमद्भाविसमीरवादिराजगुरुभ्यो नमः ।। श्रीमद्वादिराजपूज्यचरणविरचिता तैत्तिरीयोपनिषद्भाष्यटिप्पणी । श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ।। ॥ श्रीगुरुभ्यो नमः । हरिः ॐ॥ उप० ॥ ॐ शन्नो मित्रः शं वरुणः । शन्नो भवत्वर्यमा । शन्न इन्द्रो वृह- स्पतिः । शन्नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । भा० ॥ ॐ ॥ सत्यं ज्ञानमनन्तमानन्दं ब्रह्म सर्वशक्त्येकम् । सैंवेदेवैरीड्य वि- प्ण्वाख्यं सर्वदैमि सुप्रेष्ठम् ॥ १ ॥ आदित्यसंस्थिताद्विष्णोश्श्रुत्वा ब्रह्मा यथा हरिम् । तुष्टाव तत्प्रकारेण वरुणोक्तेन वै भृगुः ॥ विष्णुमस्तौत्तथा प्राह शन्नोमित्रादिका श्रुतिः । यदुवाच हरिस्सूर्यमण्डलस्थः परः पुमान् ।। ॐ ॥ सुमतिभिरनुमेय शुभ्रकाय सखायं सुखमयमनपायं मुक्त्युपायं विमा- यम् । नृहयमहममेयं ध्येयमाम्नायगेयं सदयमसदजेयं श्रीसहायं भजेयम् ॥ एवं वचस्सुबहुदर्शिष्वित्यत्र सुबहुदर्शिषु एवं च परोक्तानुवादरूपमेव वचः वर्तते । “तं व्याससूनुमुपयामि गुरुं मुनीना मित्यादौ व्यासकृतभागवतग्रन्थे कृतस्तुत्यादिनम- स्कारादीनां तत्रतत्रानुवाददर्शनादिति भावः । शं नो मित्रः शं वरुण इत्यत्र वरुणो मित्रो देवो नः शं प्रति भवति तथा भवत्विति योजना । त्वमेव प्रत्यक्ष ब्रह्मेति वदता साक्षात्परंब्रह्माप्रत्यक्षमेव । श्रवणादिकं विना द्रष्टुमशक्यत्वस्य "आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य" इत्यादिश्रुतौ निश्चि- तत्वात् । अतो ब्रह्मणः स्वयं मुख्यतः सन्निहितत्वेन तब विष्णोर्मुख्यतः प्रतिमा- त्वेन रङ्गनाथादिप्रतिमादौ त्वमेव रङ्गनाथ इत्युक्तिर्यथा तथा वायोरपि प्रत्यक्ष- ब्रह्मत्वोक्तिः । नतु ब्रह्माभेदेन, प्रत्यक्षाप्रत्यक्षयोरक्यायोगादिति सूचितम् । त्वमेव तैत्तिरीयोपनिषद्भाष्यटिप्पणी ४५ उप० ॥ त्वमेव प्रत्यक्ष ब्रह्मासि । त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् । ॐ शान्तिश्शान्तिश्शान्तिः ॥ १॥ ॐ शीक्षां व्याख्यास्यामः । वर्णस्स्वरः । मात्रा बलम् । साम सन्तानः । इत्युक्तश्शीक्षाध्यायः॥ २ ॥ स ह नौ यशः । स ह नौ ब्रह्म- भा० ॥ ब्रह्मा तदाह वरुणे वरुणो भृगवेऽपि तु । शन्नोमित्रादिभिर्वाक्यैस्तै रेव हरिमस्तुवत् ॥ भृगुः पञ्चात्मकं पूर्णमन्नादिमयमच्युतम् । मुक्तगीतावसा- नैस्तु स्तुतस्तेन जनार्दनः ॥ सुप्रीतः प्रददौ ज्ञानं स्वात्मभक्तिं च शाश्वतीमित्यादि यजुम्संहितायाम् । भृगुवाक्यतया वायुनमस्कारादिकं हरिः ॥ प्रोवाच ब्रह्मणे चैवं वचस्सुबहुदर्शिष्विति च वरणीयो वर्णः । स्वरतेस्तु स्वरः । मानास्त्राता मात्रा । बलरूप: । समश्च सर्वरूपेषु । सन्ततश्च ॥ वर्णादिवाचकं रूपं ज्ञेयं वर्णादिनामकम् । विष्णोर्वर्णादिसंस्थं च पुसु तत्तरिक्रयापदम् ॥ २॥ नारायणादिरूपाणि प्रत्यक्षं ब्रह्म त्वमेव प्रत्यक्ष ब्रह्मेति वदिष्यामि । ऋतं 'ऋगताविति धातो: कर्तरि क्तप्रत्यये कृते गत्यर्थानां च ज्ञानार्थत्वाद्यथार्थज्ञानवदित्यर्थः । सत्यं 'पद्ल विशरणगत्यवसादनेष्वि'ति धातोः सत्-ज्ञानं श्रुतिनिर्दिष्टं यं कर्तृत्वे प्रवर्तकत्वे च (कृतौ प्रवृत्तौ च) प्रवतकं यस्य तत्सत्यमित्यर्थः । ज्ञानस्येच्छाद्वारा प्रवृत्तिकारण- त्वस्य सिद्धत्वादिति भावः । तादृशमहामहिम्नस्तव स्तुतिरूपवचनं मा इत्यध्येतारं मामवतु ॥ मम प्रवक्तारं गुरुं मध्यवर्तिनमित्यथः । गुरोरथं च श्रुत्वा शिष्य स्यैव साक्षादध्येतृत्वाच्छिष्यः स्वकीयपाठेन गुरोरभिरक्षणमपि प्रार्थयते । "वक्तुर्दशगुणं फलमि"ति वचनात् शिष्यप्रार्थनामात्रेणापि गुरोः फलं भवतीति भावः । द्विरुक्तिरादरार्था ॥ १ ॥ शीक्षां व्याख्यास्याम इत्यत्र "तृतीयोऽतिशय" इति वचनाच्छिक्षायास्सामञ्जस्यवचनाय शीक्षामित्युक्तम् । यद्यप्युदात्तानुदात्त- स्वरितप्रचयाख्याः स्वरा अपि मात्रा एव । तथाऽपि वक्ष्यमाणधर्मान्तर- विवक्षया मात्रायाः पृथग्ग्रहणम् । एकमात्रो हस्वः । द्विमात्रो दीर्घः ॥ त्रिमात्रः प्लुत इत्यर्थः । स्पृष्टेषत्स्पृष्टादिरूपः प्रयत्न: । बहुवर्णात्मकवाक्यं वर्णपरम्परारूप- तैत्तिरीयोपनिषद्भाष्यटिप्पणी उप० ॥ वर्चसम् । अथातस्सरहिताया उपनिषदं व्याख्यास्यामः । पञ्चस्वधि- करणेषु । अघिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् । ता महासहिता इत्याचक्षते ॥३॥ अथाधिलोकम् । पृथिवी पूर्वरूपम् । द्यौरु- त्तररूपम् । आकाशस्सन्धिः । वायुस्सन्धानम् । इत्यधिलोकम्।।४||अथा- धिज्यौतिषम् । अग्निः पूर्वरूपम् । आदित्य उत्तररूपम् । आपस्सन्धिः। वैद्युतस्सन्धानम् । इत्यधिज्यौतिषम् ।। ५॥ अथाधिविद्यम् । आचार्यः पूर्वरूपम् । अन्तेवास्युत्तररूपम् । विद्या सन्धिः । प्रवचन सन्धानम् । भा० ॥ लोकादिषु च पञ्चसु । अनिरुद्धावसानानि ध्येयानि चतुरात्मना । वासु- देवादिकान्येव तानि पूर्वोत्तरार्णयोः । संहितायास्तथा सन्धौ सन्धाने चापि कृत्स्नशः ॥ यो वेदैतानि रूपाणि सर्वभोगसमन्वितः । प्राप्नोति वैष्णव स्थान मुक्तस्स्वर्गाभिधं परम् ॥३-८॥ यो विश्वरूपो भगवांश्छन्दसामधिपो तया सन्तान इत्युच्यते । वर्णादिषट्कस्य तन्नियामकरूपषट्कस्य च ज्ञानाभावे वर्णोच्चारणं व्यथ स्यात् । मध्येमध्ये स्खलन च स्यात् । अत इयं शिक्षा प्राथमिके- ति भावः ॥ २ ॥ शन्नो मित्र इत्युपनिषदारम्भे मङ्गलस्य कृतत्वात्पुनस्सहनौ यश इति मङ्गलाचरणं किमर्थमिति चेत्सत्यं विद्यानां बाहुल्यात्प्रतिविद्यं मङ्गलाचरण कार्यमिति सूचनायाथातस्सरहिताया इति विद्यारम्भेऽपि पुनर्मङ्गलं कृतमिति ज्ञेयम् । महमित्रादिर्नी यशो दिशत्वित्यथः ॥ "हेत्यनेन यशोदानशक्तेः प्रसिद्धता- माह । अथातः संहिताया इत्यत्र अथ अध्ययनाङ्गशिक्षानिरूपणानन्तरमतः संहितायाः "अग्निमीळे पुरोहितमि”त्यादावन्यादिवर्णद्वयात्मकसंहितायाः पूर्वोत्तर- वर्णयोस्तत्सन्धित्सायाः सन्धेश्च ज्ञानस्यैकवर्णज्ञानादप्यधिकफलसाधनत्वात्तस्या- स्संहिताया उप समीपे निषीदतीत्युपनिषदं तत्सम्बन्धिरहस्यविद्यां व्याख्या- म्यामः । एवं ज्ञानेऽक्षरद्वयात्मकसंहितोच्चारण स्पष्टमक्लिष्टं च भवतीत्यतोऽस्या विद्याया उत्तरविद्याङ्गत्वमिति भावः । चतुरात्मना । वासुदेवादिकान्येवेत्यत्र चतुरात्मना वासुदेवाद्यनिरुद्धान्तचतुरात्मना वासुदेवादिकान्येव च पूर्वोत्तर- वर्णयोस्तत्सन्धौ सन्धाने च ध्येयानीति योजना । अत्रायं विवेकः । सन्धिदेवताज्ञाने सन्ध्यक्षरोच्चारणे सौष्ठवं भवति । अधिलोकादिसन्ध्यक्षरज्ञाने इह लोके परलोके च तैत्तिरीयोपनिषद्भाष्यटिप्पणी ४७ उप० !! इत्यधिविद्यम् ॥ ६ ॥ अथाधिप्रजम् । माता पूर्वरूपम् । पितोत्तर- रूपम् । प्रजा सन्धिः । प्रजनन५ सन्धानम् । इत्यधिप्रजम् ॥ ७ ॥ अथाध्यात्मम् । अधरा हनुः पूर्वरूपम् । उत्तरा हनुरुत्तररूपम् । वाक्स- न्धिः । जिह्वा सन्धानम् । इत्यध्यात्मम् ।। इतीमा महासहिताः । य एवमेता महामहिता व्याख्याता वेद । सन्धीयते प्रजया पशुभिः। ब्रह्मवर्चसेनान्नाद्येन सुवग्येण लोकेन ।। ८॥ तृतीयोऽनुवाकः ॥ ३ ॥ यश्छन्दसामृषभो विश्वरूपः । छन्दोभ्योऽध्यमृतात्सम्बभूव । स मेन्द्रो मेधया स्पृणोतु । अमृतस्य देव धारणो भूयासम् । शरीरं मे विचर्षणम् । भा० ॥ हरिः । छन्दोभ्योऽमृतरूपेभ्यस्सुव्यक्तस्तदुपासनात् । मेधावी तत्वविज्ञानी भूत्वा क्षिप्रं विमुच्यत इति च ॥ वेदावासत्वतो विष्णुब्रह्मकोश इति स्मृतः । सुख भवति । अधिज्यौतिष सन्ध्यक्षरज्ञाने ब्रह्मवर्चसं भवति । अघिविद्यं सन्ध्यक्षर- ज्ञाने शिष्याचार्यादिघटना भवति । अधिप्रज़ सन्ध्यक्षरज्ञाने सन्तानाभिवृद्धिर्भवति अध्यात्म सन्ध्यक्षरज्ञाने सुष्ठूच्चारणशक्तिर्भवति । अत इदमप्यवश्यं ज्ञातव्यमित्ये तदेवाभिप्रेत्य श्रुतिः सन्धीयते प्रजया पशुभिरित्यादिना फलमप्याह ॥३-८॥ छन्दोभ्योऽध्यमृतात्सम्बभूवेत्यत्रामृतात् अमृतेभ्यो नित्येभ्यो वेदेभ्योऽधि अघि- कतया सर्वोत्तमत्वेन सम्बभूव सम्यगाविबभूव । अमृतादित्येकवचनं छन्दसां भगवद्विषये एकवाक्यताद्योतनार्थम् । अत एव विश्वरूप इत्युक्तम् । विश्वस्मिन्नि- न्द्रादौ रूपमन्तर्यामिरूपं यस्येति विग्रहः । तथा चन्द्रादिसूक्तान्यपि 'गुहाशयायैव न देहमानिन' इति स्मृतेरिन्द्राद्यन्तर्यामिविषयाणीत्येकवाक्यतेति भावः । स इन्द्रो मेधया धारणया बुद्धया मा मां स्पृणोतु सम्बध्नातु । 'स्पृ स्पर्शन' इति धातोः विकरणव्यत्ययात् वृणोत्वितिवत् स्पृणोत्विति रूपं भवतीति ज्ञेयम् । मेधाऽपि छन्दोविषयैव भवेदिति सूचनाय छान्दसप्रयोगः । अत एवाऽऽह श्रुतिः । अमृतस्य धारणो धारको भूयासमिति । मे शरीरं विचर्षणं वि विशेषेण 'चर गतिभक्षणयो रिति धातोगत्यर्थानां च ज्ञानार्थत्वात् चर्षगं ज्ञानानुकूल भवतु । मेधावित्वेऽपि व्याध्यादिना शरीरदौबल्ये ज्ञानायोगादिदं प्रार्थनम् । मे जिह्वा मधुमत्तमा अति- शयेन मधुवचनवती भूयात् । गुर्वादिषु प्रियवचनाभावे ज्ञानायोगादिदं प्रार्थनम् ।

४८ तैत्तिरीयोपनिषद्भाष्यटिप्पणी सीति भावः उप० ॥ जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि विश्रुवम् । ब्रह्मणः कोशोऽसि मेघयाऽपिहितः । श्रुतं मे गोपाय ॥९॥ आवहन्ती वितन्वाना। कुर्वाणा चीरमात्मनः । वासासि मम गावश्च । अन्नपाने च सर्वदा । ततो मे श्रियमावह । लोमशां पशुभिस्सह स्वाहा ।। १० ।। आ मा यन्तु ब्रह्मचारिणस्स्वाहा । वि मा यन्तु ब्रह्मचारिणस्वाहा ! प्र मा यन्तु ब्रह्मचारिणस्स्वाहा । दमा यन्तु ब्रह्मचारिणस्वाहा । शमा यन्तु भा० ॥ भगष्षड्गुणपूर्णत्वाद्बहुरूपत्वतो विभुः । सहस्रशाख इत्युक्तस्तमुपास्य जनार्दनम् । मुच्यते नात्र सन्देहस्सर्वभोगैश्च पू(यु)ज्यत इति प्रक्लृप्ते । मयि छन्दसामभावे मां प्रति, त्वया कथं छन्दोविषयकमेधाप्रार्थन क्रियत इत्यत उक्तं ब्रह्मणः कोशोऽसीति । "बृह जातिजीवकमलासनशब्दराशिष्वि"ति धातोः ब्रह्मणो वैदिकशब्दराशेः कोशोऽसि । मेधया अपिहितः निगूहितोऽसि । व्या- ख्यानकाले मेघामाविर्भावयसि । अन्यदा निगृह्य कोशान्तस्स्थितधनवन्न प्रकाशय- ॥ ९॥ ब्रह्मचार्यभावे व्याख्यानासम्भवात्तत्प्रार्थनप्रकारमाह । आमायन्त्विति । ब्रह्मचारिणो मा मां प्रति आ समन्तात् आयन्तु आगच्छन्तु । "इणुगतावि"ति धातोलोटि प्रथमपुरुषवचनमिदम् । विमायन्तु वि विशिष्ट- तया कुलगोत्रादिभिरन्योन्यं विशिष्टतया च आयन्तु । “विद्या ह वै ब्राह्मण- माजगाम गोपाय मां शेवधिष्टेऽहमस्मि । अनायकायानृजवे शठाय न मां ब्रूया ऋजवे ब्रूहि नित्यमिति श्रुतेरकुलीनेषु वेदोपदेशस्यानुचितत्वादेतत्प्रार्थनम् । "शमो मन्निष्ठता बुद्धे "रिति वचनाच्छमः विष्णुविषकनिष्ठा । विष्णुविषयक निष्ठाभावे तं प्रति वेदोपदेशायोगादिदं प्रार्थनम् । 'नाभक्ताय कदाचनेति गी- तोक्तेः । “दम इन्द्रियनिग्रह" इति वचनात् दमा इन्द्रियनिग्रहवन्तः । "इदं नातपस्काये"ति गीतायामेवोक्तत्वादिदं प्रार्थनम् । जने जनसमुदाये यशः कीर्तनात् यशो भवानि यशसि स्थितो भवानि “अस भुवी"ति धातोलोट्युत्तम- पुरुषैकवचनमिदम् । वस्यसः वस्तुं योग्य वस्यः सुख तस्य वस्यसः सुखविषये इत्यर्थः । श्रेयान् श्रेष्ठः असानि अतिशयितसुखवानसानीति भावः । स्वस्य सुखाभावेऽप्युपदेशायोगादेतत्प्रार्थनम् । भग षड्गुणपूर्ण तं त्वा भगवन्तं त्वामहं तैत्तिरीयोपनिषद्भाष्यटिप्पणी उप० ॥ ब्रह्मचारिणस्स्वाहा । यशो जनेऽसानि स्वाहा । श्रेयान्वस्यसोऽसानि- स्वाहा । तं त्वा भग प्रविशानि स्वाहा । स मा भग प्रविश स्वाहा । तस्मिन्सहस्रशाखे । निभगाहं त्वयि मृजे स्वाहा ||११॥ यथाऽऽपः प्रवता यन्ति । यथा मासा अहर्जरम् । एवं मां ब्रह्मचारिणः । धातरायतु सर्वतस्स्वाहा । प्रतिवेशोऽसि ३ मा भाहि प्र मा पद्यस्व ॥ १२ ॥ भा० ॥ आवहन्ती चिरं सर्वभोगान्या श्रीस्सनातनी । तां मय्यावह गोविन्द सुशिखण्डोपशोभितामिति च ॥ अनु० ४ ॥ ९-१२ ।। भूरादिव्याहृती- प्रविशानि शिष्येषु प्रवचनेन मुक्तो भवानीति भावः । त्वय्येवाविष्टचितो भवानीति वा । हे भग स त्वं मा मां प्रविश मयि सन्निहितो भव । “न ऋते त्वरिक्रयत इति श्रुतेः । निभग नितरां भाग्ययुक्त नारायण सहस्रशाखे सहस्रावतारे तस्मिन्त्वयि मृजे "मृजुशुद्धा"विति धातोदोषाणां प्रक्षालनवानसानीत्यर्थः । एतैमन्त्रैः प्रत्येकममिमुखे आहुतिर्देयेति भावेन सर्वत्र स्वाहेत्युक्तम् ॥ ११ ॥ "क्षुधितानां दुर्भगानां कुतो योगसमाधय' इति वचनादन्नाभावे चितसमाधानायोगादन्नदायि. न्या लक्ष्म्याः प्रार्थनप्रकारमाह आवहन्तीति । चीरं चिरतरं मम वासांसि पटान्य- नपाने च सर्वदा आवहन्ती "वह प्रापण' इति धातोः आ सम्यक् प्रापयन्ती, 'तनु विस्तार'इति धातोवितन्वाना विशेषेण विस्तारयन्ती या महालक्ष्मीर्यतः एतादृशी ततः कारणात् लोमश सुशिखण्डोपशोभितां तां श्रियं मे मयि आवह आधेहि पशुभिरित्युपलक्षणम् । वासोभिरन्नपानादिभिश्च सहेत्यपि द्रष्टव्यम् । अनेनापि मन्त्रेणाऽऽहुतिदेयेति भावेन स्वाहेत्युक्तम् ॥ १० ॥ शिष्या अप्यप्रयत्ने- नाऽऽयन्त्विति भावेनाह यथाऽऽप इति । पर्वतोन्नतदेशेनाऽऽप: यथाऽऽयन्ति । मासा: अहानि जरयतीति अहजरः संवत्सरः तं यथाऽऽयन्ति, एकैकस्मिन्वत्सरे द्वादश द्वादश मासा अनायासेन गच्छन्ति । एवं हे धातब्रह्मचारिणो मां सर्वतः अष्टदिग्भ्योऽप्यायन्तु । प्रतिवेशः प्रति मां प्रति वेशः विशत इति व्युत्पत्या वेशः प्रवेशयोग्योऽसि! मम योग्यजीवत्वात्तव दयालुत्वाच्च मां प्रविश्य नय नियमय नियन्तुं योग्ये मयि सतीति भावः । “योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्ता सञ्जीवयतीति स्मृतेः । प्रमा भाहि प्र प्रकर्षेण मा मां भाहि । “भा दीप्ता"विति धातोर्भासय ।

तैत्तिरीयोपनिषद्भाध्यटिप्पणी उप० ॥ भूर्भुवस्सुवरिति वा एतास्तिस्रो व्याहृतयः । तासामु ह स्मैतां चतु- र्थीम् । माहाचमस्यः प्रवेदयते । मह इति । तद्ब्रह्म । स आत्मा । अङ्गान्यन्या देवताः॥ १३ ॥ भूरिति वा अयं लोकः । भुव इत्यन्त- भा० ॥ भिस्तु वाच्यं मूर्तिचतुष्टयम् । अनिरुद्धादिकं वासुदेवान्तं देहमध्यगः ।। वासुदेवो महोनामा त्वनिरुद्धश्शिरो मतः । भूर्नामाऽथ भुवोनामा बाहू प्रद्युम्न ईरितः ॥ सङ्कर्षणस्सुवर्नामा पादौ तस्य महात्मनः । अनन्योऽप्य- न्यशब्देन चतुरात्मा प्रकीर्त्यते ॥ निर्विशेषोऽपि भगवान्सङ्ख्यामात्रविशे- पतः । लोकज्योतिःप्राणवेदेप्वेकस्स पुरुषोत्तमः ॥ प्रत्येकशश्चातुरात्म्यात् षोडशात्मा प्रकीर्तितः । महीयते महति च स्वयं स भगवान्हरिः ॥ पूज्य- पूजकभेदोऽत्र नैव कश्चिदपीष्यते । नामप्रवृतिहेतुत्वान्नामलोकादिकं ब्रह्मवर्चसवन्तं कुर्विति भावः । “उद्दीप्यस्व जातवेद'' इति श्रुतेः प्र मा पद्यस्व प्र प्रकर्षेण मा मां पद्यस्व आप्तो भव । इतरेभ्योऽधिकसन्निधानं कुर्वित्यर्थः ॥ १२॥ इदानीं सकलविद्याभ्यासकाले शुध्द्यर्थं प्रागवश्यं वक्तव्यां व्याहृतिविद्यामाह भूर्भुवःसुवरित्यादिना । “सव्याहृति सप्रणव मिति हि श्रुतिः । प्रतिपाद्यदेवता- ज्ञानपूर्वकं मन्त्रोऽभ्यसनीय इति भावेनाह भाष्यकारो भूरादिव्याहतीभिरिति । भूरित्यनेनानिरुद्धः कथ्यते । भुव इत्यनेन प्रद्युम्नः । सुवरित्यनेन सङ्कर्षणः । मह इत्यनेन वासुदेव इति विवेकः । तासां मध्ये चतुर्थी मह इति व्याहृतिं महत् चमसं चमत्कारो, यस्य स महाचमसः परमात्मा तस्य सम्बन्धी माहाचमस्यः ब्रह्मा प्रवेदयते इतिहासादितोऽप्युत्तमत्वात् महागुणप्रतिपादकत्वात्सर्वगुणपूर्णत्व- प्रतिपादकत्वाच्च चतुर्थ्या ब्रह्मैव सम्यगुपास्त इति भावः । मह इति व्याहृति प्रतिपाद्य, ब्रह्म सर्वगुणपूर्ण परं ब्रह्म, । स वासुदेव आत्मा मध्यदेहः । अङ्गी नारायणः अन्या देवताः अनिरुद्ध प्रद्युम्नसङ्कर्षणाख्याः नारायणस्याङ्गानि शिरः पाणिपादाख्याङ्गानि । अनिरुद्धः शिरः, प्रद्युम्नो बाहू, संकर्षण: पादौ । एवं चतुर्मू- ात्मको नारायण इत्यर्थः । प्रत्येक मन्त्रार्थाः वासुदेवाद्या भगवदङ्गतया ध्येया:, समुदितमन्त्रप्रतिपाद्यो नारायणस्त्वङ्गितया ध्येय इति भावः ।।१३।। इदानी भूरादि- वाच्यानिरुद्धादिदेवतानां सकलजगदाधारत्वद्योतनाय चतुर्धा चतुर्धा स्थानान्याह ।

तैत्तिरीयोपनिषद्भाष्यटिप्पणी ५१ .. स्वा उप० ॥ रिक्षम् । सुवरित्यसौ लोकः । मह इत्यादित्यः । आदित्येन वा व सर्वे लोकां महीयन्ते । भूरिति वा अग्निः । भुव इति वायुः । सुव- रित्यादित्यः । मह इति चन्द्रमाः । चन्द्रमसा वा व सर्वाणि ज्यो- भा० । हरेः ॥ अयं समीपस्थतया त्वसौ प्राणे स्थितत्वतः । ईक्षणादन्तरिक्ष चाथादित्यस्थोऽदितेस्सुतः ॥ अग्निरग्नौ स्थितत्वाच्च वायुर्वयति यज्जगत् । चन्द्र आह्वादरूपत्वादृगय॑त्वाजनार्दनः । यजुर्याज्यस्वरूपत्वात्साम चासौ संमत्वतः । बृहत्त्वाद्ब्रह्म वेदानां समुदायेऽखिले स्थितः ॥ तत्सम्बन्धाद्वेद- राशिब्रह्मशब्देन कीर्तितः । प्रकृष्टनयनात्प्राणोऽपानोऽवाङ्नयनाद्धरिः ॥ विविधं नयनाध्यानस्सोऽन्नं सर्वोपजीव्यतः । एवं षोडशरूपोऽसौ चतुरात्मा व्यवस्थितः ॥ महाचमसनामाऽसौ यस्मादतिचमत्कृतिः । माहाचमस्यस्त- ज्ज्ञानी ब्रह्मा सम्परिकीर्तितः ॥ एवं षोडशरूपाणां ज्ञानयोग्यश्चतुर्मुखः । भूरिति चा अयं लोक इत्यादिना । भूर्नामकोऽनिरुद्धः अयं लोको वै एतल्लोकस्थित- "ल्लोक दर्शन"इत्यस्माद्धातोस्सर्वज्ञत्वात्समीपगंतत्वाच्च अयंलोकशब्दाभ्यां वाच्यो वै । भुवः भुवर्नामप्रद्युम्नस्वरूपं अन्तरिक्षस्थितत्वादन्तरिक्षम् । सुवर्नाम संकर्षणस्वरूपं प्राणे स्थितत्वात्प्रकाशरूपत्वाल्लोकः । मह इति वासुदेवः आदित्य- स्थितत्वादादित्यः । एवं रूपचतुष्टयर्लोकत्रयभासकमादित्यं च प्रवर्तयत्ति । एवं ध्यात्वा त्रिलोक्याभेहिकं सुख लब्ध्वा परलोकगमनसमये सूर्ये च सङ्गत्य स सुखी भवतीति । एवं भूरिति शब्दवाच्योऽनिरुद्धः अग्निः अग्निस्थितत्वादङ्गभूतजगन्ने- तृत्वाच्चाग्निशब्दवाच्यः । भुवः भुवःशब्दवाच्यः प्रद्युम्नो वायुः “वयगता"वि- तिधातोर्जगत्प्रवर्तकत्वाद्वायुगतत्वाच्च वायुशब्दवाच्यः । सुवः सुवश्शब्दवाच्यः सङ्कर्षणः आदित्यः आदित्यप्रवर्तकत्वाददितिसुतत्वाच्चादित्यशब्दवाच्यः । महः महश्शब्दवाच्यो वासुदेवः चन्द्रमाः, चन्द्रगतत्वात् 'चदि आह्वादन' इति धातोः सुखकरत्वाच्चन्द्रमाः चन्द्रमश्शब्दवाच्यः । एवं ध्यातुरग्निवाय्वादयस्सर्वे अनुकूला भवन्तीति भावः । भूभूश्शब्दवाच्योऽनिरुद्धः ऋग्वेदगतत्वात् 'ऋ पूजाया'मिति धातोरय॑त्वाच्च ऋक्शब्दवाच्यः । प्रत्यूचे बहुरूपत्वादृच इति बहुवचनम् । भुवः भुवःशब्दवाच्यः प्रद्युम्नः सामवेदगतत्वात् सर्वरूपेषु समत्वाच्च सामशब्दवाच्यः ।

५२ तैत्तिरीयोपनिषद्भाष्यटिप्पणी उप० । ती षि महीयन्ते । भूरिति वा ऋचः । भुव इति सामानि । सुवरिति यषि । मह इति ब्रह्म । ब्रह्मणा वा व सर्वे वेदा महीयन्ते । भूरिति वै प्राणः । भुव इत्यपानः । सुवरिति व्यानः । मह इत्यन्नम् । अन्नेन वा व सर्वे प्राणा महीयन्ते । ता वा एताश्चतस्त्रश्चतुर्धा । भा० ॥ स एव ब्रह्मवित्तस्मात्पूज्यते मुक्तिगोऽपि सन् ॥ सर्वदेवैरतितरां यस्सम्य- षोडशात्मविदिति व्याहृतितत्वे ॥ तस्य भूरिति शिरः । एक शिरः । एकमेतदक्षरम् । भुव इति बाहू । द्वौ बाहू । द्वे एते अक्षरे सुवरिति प्रतिष्ठे । द्वे प्रतिष्ठे । द्वे एते अक्षरे इत्यादिश्रुतेः । सर्वव्याहृतीनां प्रवेत्ता माहाचमस्यश्चतुर्थीत्वेनैतां प्रवेदयत इति विशेषः । भूर्नामा स्फूर्ति- रूपत्वाद्भरिवीर्यत्वतो भुवः । सुवस्सुबलरूपत्वान्महः पूर्णत्वतो विभुः ।। तदेतच्चतुराकारं ब्रह्मोक्तं गुणबृंहणात् । स आत्मा सर्वदेवानां चतुरात्मा जनार्दनः ॥ तस्य ब्रह्मादयो देवा अङ्गमागन्तुकत्वतः । वासुदेवादिरूपोऽसौ षोडशात्मा चतुश्चतुः ॥ स एव सर्ववेदोक्तस्सर्वविद्यासु चेश्वरः । प्रणवार्था व्याहृतयो व्याहृत्यर्था ऋगादयः ।। इतिहासः पुराणं च पञ्चरात्रं च सर्वशः। सम्यग्व्याहरणाद्विष्णोश्श्रुता व्याहृतयस्त्विति ॥ सर्ववेदोक्तसर्वस्वव्याहृते- साम्नां ऋगधिरूढत्वा'दृचस्सामानी ति श्रुतेः क्रमोल्लङ्घनम् । प्रतिसाम बहुरूपत्वा- बहुवचनम् । सुवस्सङ्कर्षणो यपि यजुर्वेदस्थितत्वाद्याज्यत्वाच्च यजुश्शब्द- वाच्यः । बहुवचनं तु पूर्ववदृष्टव्यम् । महः वासुदेवः ब्रह्म वेदसमुदाये स्थित- त्वाद्गुणबृंहितत्वाच्च ब्रह्मशब्दवाच्यः । एवं ध्यातुर्वेदाः फलप्रदा भवन्तीति भावः । एवं भूःशब्दवाच्योऽनिरुद्धः प्राणे स्थितत्वात् ‘णीञ् प्रापण' इति धातोः प्रकृष्टान् ब्रह्मादीन्ना समन्तान्नयतीति व्युत्पत्त्या च प्राणशब्दवाच्यः । भुवर्नामकप्रद्युम्नः अपानः अपानवायुगतत्वात्सर्वजगदयं स्वस्याधस्तादा सम्यक् नयतीति व्युत्पत्त्या चापानशब्दवाच्यः । सुवर्नामकस्सङ्कर्षणो व्यानाख्यवायुगतत्त्वाद्विविधतया जगदा समन्तान्नयतीति व्युत्पत्त्या च व्यानशब्दवाच्य इत्यर्थः । महाशब्दवाच्यो वासुदेवोऽन्नगतत्वा "दद्यतेऽत्ति"चे श्रुतेस्सर्वोपजीव्यत्वाच्चान्ननामेत्यर्थः । एवं ध्यायन् चिरं जीवो यथेष्टान्नवान्लोकोपजीव्यश्च भवतीति भावः । ता एता अनि- तैत्तिरीयोपनिषद्भाष्यटिप्पणी उप० ॥ चतस्रश्चतस्रो व्याहतयः । ता यो वेद । स वेद ब्रह्म । सर्वेऽस्मै देवा बलिमावहन्ति ॥ १४ ॥ स य एषोऽन्तर्हदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः । अमृतो हिरण्मयः । अन्तरेण तालुके । य एष स्तन भा० ॥ ाहृतित्वमु । विशेषेणाहरन्तीमं विष्णुमित्यथवा स्मृता इति व्याहृतिसारे ॥ १३,१४ ॥ य एष हृदयाकाशस्त्वनिरुद्धस्तु तद्गतः । प्रद्युम्नस्तालु- मध्यस्थो लम्बिन्यामिन्द्रनामकः ॥ व्याख्यस्सुपर्णरूपत्वात्केशान्ते वर्तते तु यः । सङ्कर्षणस्सुपर्णात्मा वासुदेवो व्यपस्स्मृतः ॥ यस्मान्यपगतस्थाता जगति प्रलये विभुः । अशीर्षककपालेऽसौ कपालादुपरिस्थितः । अनि- रुद्धादिदेवताः पुनश्चतस्रः पुनश्चतुर्धा पुनश्चतस्रः पुनश्चतस्र इति षोडशधा भूत्वा सर्वं जगत्प्रवर्तयन्ति । यो ब्रह्मा ताः व्याहृतिप्रतिपाद्यदेवताः वेद अविच्छिन्नतया वेद स एव ब्रह्म वेद । अस्मै मुक्ताय ब्रह्मणे सर्वे देवा बलि पूजामावहन्तीत्यर्थः । अनेन तदुपनिषद्विद्योक्तोपास्तौ ब्रह्मण एव मुख्याधिकारित्वमिति सूचितम् ॥१४॥ अधुना प्रकारान्तरेण जीवनियामकतया परमात्मनः स्थितिप्रकारमाह । स य एषोऽन्तर्हदय आकाश इति । अन्तहृदये प्रसिद्धः स एष आकाशोऽस्ति मनो- मयो ज्ञानमयः । हिरण्मयः हिनोति भजकमितिं व्युत्पत्या हिरुक सुखं तन्मयः । अमृतः जीवमरणेऽपि मरणरहितः । अयमनिरुद्धः तस्मिन्हृदयाकाशे जीवप्रेरकतया तिष्ठति । तालुके उत्तराधरतालुके अन्तरेण मध्ये य एष धातुविशेषेण स्तन इवा- वलम्बते इन्द्रस्य इन्द्रनामकप्रद्युम्नस्य योनिः स्थानं भुक्तान्नस्योदरान्तः प्रेषणाय प्रद्युम्नस्तत्र तिष्ठतीति भावः । यत्र केशान्तः केशमूलप्रदेशः वर्तते तत्र विशब्दवाच्य पक्षिसदृशरूपवत्वाद्विनामकसङ्कर्षणस्तिष्ठतीति । शिरसि व्याप्तकेशोज्जीवनाय स्वपक्षौ विस्तार्य पक्षिरूपेण तिष्ठतीति भावः । व्यपः विनामकपक्षिरूपत्वादपगतदोष- त्वाच्च व्यपनामको वासुदेवः अशीर्षकपाले शीर्षभागकपालभिन्ने, तद्यत् कपा- लोपरिगतस्थानं तत्र पूर्ववत् सकलरक्षणाय · तिष्ठतीत्यर्थः ॥ १५ ॥ भूरिति वा अग्निरित्यादिनोक्ताग्न्यादिषोडशाधिष्ठानेषु सामानाधिकरण्येनोक्त्या ऐक्यशङ्कां निवारयन् चतुर्णां स्थानान्तरेऽप्युपास्तिमाह । भूरित्यग्नौ प्रतितिष्ठतीति । "भूर्नामा हुताशे संव्यवस्थित" इति भाष्योक्तेः । प्रागुतामिर्गार्हपत्यः । अत्रोक्ता- ५४ तैत्तिरीयोपनिषद्भाष्यटिप्पणी उप० ॥ इवावलम्बते । सेन्द्रयोनिः । यत्रासौ केशान्तो विवर्तते । व्यपो ह्य शीर्षकपाले ॥ १५ ॥ भूरित्यग्नौ प्रतितिष्ठति । भुव इति वायौ । सुवरित्यादित्ये । मह इति ब्रह्मणि । आप्नोति स्वाराज्यम् । आप्नोति भा० ॥ रुद्धस्तु भूर्नामा हुताशे संव्यवस्थितः । प्रद्युम्नो भगवान्वायौ भुव इत्येव कीर्तितः । सङ्कर्षणस्सुवर्नामा सूर्ये तिष्ठति केशवः । महोनामा वासुदेवो ब्रह्मणिस्थश्चतुर्मुखे । स वासुदेवस्स्वाराज्यं व्याप्यास्मिन्मनसस्पतौ । अनि- रुद्धे च संव्याप्तः ततो वागादिनां पतिः । वागादिषु स्थितो नित्यं भवत्येव- जनार्दनः । स्वव्यापी च जगद्व्यापी नित्यैश्वर्यात्स ईश्वरः । आकाशवद्याप्त- मिस्त्वाहवनीयः । वायुश्चतुर्मुखपंक्तौ पठितत्वान्मुख्यवायुः । प्रागुक्तस्त्वमुख्यः । अतो न पौनरुक्त्यम् । अत्र स्पष्टमधिकरणत्वोक्त्या "सप्तसु प्रथमे"त्यनुशासना- प्रागुक्तप्रथमा सप्तम्यर्थ इति सूचितम् । ब्रह्मा चतुर्मुखः आदित्यो द्वादशादित्ये- प्वेकः, अतो न पौनरुक्त्यम् । परिच्छिन्नब्रह्मादिस्थितत्वेन वासुदेवादेरपि परि- च्छिन्नत्वभ्रमनिवारणाय तस्य महिमानमाह । आमोतीति ॥ स्वाराज्यं स्वराट चक्रवर्ती तत्सम्बन्धि जगत् स्वाराज्यं आप्नोति व्याप्नोति । मनसस्पति मनोभि- मानिनमनिरुद्धं च व्याप्नोति । एवं प्रधानेन्द्रियमनोभिमानिव्याप्तत्वात् । वाक्पतिः वागिन्द्रियस्यापि पतिः, चक्षुष्पतिः चक्षुरिन्द्रियस्यापि पतिः, श्रोत्रे- न्द्रियस्यापि पतिः, न केवलमेतावत् किंतु विज्ञानपतिश्च विज्ञानतत्वाभि- मानिनोस्सरस्वतीब्रह्मणोरपि पतिरित्यर्थः स्वव्यापी च जगद्यापीत्यत्र एतेष्विन्द्रियेष्वाविष्टस्वांशव्यापित्वमप्यस्तीति भावेन स्वव्यापीत्युक्तम् ॥ १६ ।। तद्ब्रह्म आकाशशरीरं आकाशवद्व्याप्तशरीरम् । सत्यात्म सत्यः साधुपूर्णगुण एव आत्मा देहो यस्य तत्सत्यात्म प्राणं मुख्यप्राणं आ सम्यक् रमयतीति प्राणारामम् । एतद्धटनायार्थान्तरमप्याह । बलानन्दस्वरूपवानिति । प्र. प्रकर्षेण अनं चेष्टा बलं वा यस्मात्प्राणं आ सम्यक् रमणमानन्दो यस्येति प्राणाराममित्युक्तं भवति । एवं च स्वयं बलवत्वादानन्दवत्वाच्च प्राणस्यापि बलं दत्वा सर्वेभ्योऽपराजितं च कृत्वाऽऽनन्दयतीति भावः । शान्ति सुखस्यान्तः सर्वेषां सुखगणनायां “यतो वाचो निवर्तन्ते''इत्यन्तिमवाक्योक्तनिरवधिकत्वमस्यास्तीति शान्तीत्यर्थः । शत्रून्श- ५५ तंतिस्यिोपनिषद्भाष्यटिप्पणी उप० ॥ मनसस्पतिम् । वाक्पतिश्चक्षुष्पतिः । श्रोत्रपतिविज्ञानपतिः । एतत्ततो भवति ॥ १६ ॥ आकाशशरीरं ब्रह्म । सत्यात्म प्राणारामं मनआ- नन्दम् । शान्ति समृद्धममृतम् । इति प्राचीनयोग्योपास्व ॥ १७ ॥ भा० ॥ देहस्सत्यात्मा गुणपूर्तितः । वायोविशेषरमको बलानन्दस्वरूपवान् । ज्ञाना- नन्दस्वरूपोऽसौ शातिनामा सुखोन्नतेः । अन्तगत्वात्स्वतः पूर्तेस्समृद्धं तत्प्रकीर्तितम् । इत्युपास्य प्राथमिको योग्यस्त्वं मदुपासने । प्राधान्यादिति पूर्व हि प्राह विष्णुश्चतुर्मुखमिति ब्रह्मसारे ।। अनु० ॥ ६ ॥ इति ॥ श्रीः ॥ मयतीति व्युत्पत्या च शान्तिशब्दवाच्यं परं ब्रह्मैवेति भावेनाह अन्तगत्वादिति । सम् सम्यक् परनिरपेक्षया ऋद्धं पूर्ण समृद्धम् । अमृतं मरणरहितम् । प्राची- नयोग्य अधिकारिषु प्रथमयोग्य ब्रह्मन् । इत्युपास्वेति ब्रह्माणं प्रति भगवानुपदि. शतीत्यर्थः ॥ १७ ॥ इप्ति ॥ श्रीः ॥ ॥ श्रीकृष्णार्पणमस्तु ॥ यावदुपलब्ध तावदेव मुद्रितम् । समग्रा टिप्पणी अस्यास्तैत्तिरीयोपनिषदः येषां केषांचित्सविधेऽस्ति चेत् ते संप्रेष्य अनुगृह्णीयुरित्याशास्त इये समितिः ।।

श्रीमहादिराजीयग्रन्थप्रकाशनसमितेः पोषकाः
अष्टमठाधीशाः
१ श्री पुतिकामठाधीश श्री १०८ श्री सुधीन्द्रतीर्थ श्रीमच्चरणा:
२ श्री काणियूरुमठाधीश श्री १०८ श्री विद्यासमुद्रतीर्थ श्रीमच्चरणाः
३ श्री शीरूरुमठाधीश श्री१०८ श्री लक्ष्मीन्द्रतीर्थ श्रीमच्चरणाः
४ श्री पुत्तिकामठाधीश श्री१०८ श्री सुज्ञानेन्द्रतीर्थ श्रीमचरणाः
५ श्री कृष्णापुरमठाधीश श्री१०८ श्री विद्यारत्नतीर्थ श्रीमच्चरणाः
६ श्री पेजावरमठाधीश श्री १०८ श्री विश्वेशतीर्थ श्रीमच्चरणाः
७ श्री काणियूरुमठाधीश श्री १०८ श्री विद्यावारिनिधितीर्थ श्रीमच्चरणाः
८ श्री सोदामठाधीश श्री १०८ श्री विश्वोत्तमतीर्थ श्रीमच्चरणाः
९ श्री अदमारुमठाधीश श्री १०८ श्री विबुधेशतीर्थ श्रीमच्चरणाः
१० श्री फलिमारुमठाधीश श्री १०८ श्री रघुवल्लभतीर्थ श्रीमच्चरणा:
इतरमठाधीशाः
१ श्री भण्डारकेरिमठाधीश श्री१०८ श्री विद्यामान्यतीर्थ श्रीमच्चरणाः
एतावत्पर्यन्तमधो निर्दिष्टसमित्या मुद्राप्य विक्रयाय सज्जाः
ग्रन्थाः
मूल्यं च
१. श्रीमन्महाभारततात्पर्यनिर्णयः
श्रीमद्वादिराजीयभावप्रकाशिकाटीकासहितः
मूल्यं ६-०-०
२. गुर्वर्थदीपिका श्रीमन्न्यायसुधाटिप्पणी
अर्धमूल्यं १-१२-०
३. स्तोत्ररत्नमाला अधिकरणनामावल्या-एकादशी
निर्णयेन-भूगोळवर्णनेन च सहिता
मूल्यं १-२-०
४. गुर्वर्थदीपिका तत्त्वप्रकाशिकाटिप्पणी
अर्घमूल्यं १-८-०
इदानीं मुद्रणायारब्धं उपन्यासमाला कल्पलतेत्यादिकम् ।

Pancham- Puspam Isavasyopanisad Bhashya Teeka Prakasika

Author
Vidyasekharalu,u
Other authors
Poorna Prajna Samshodhanamandiram
Title
Pancham- Puspam Isavasyopanisad Bhashya Teeka Prakasika
File name
Pancham- Puspam Isavasyopanisad Bhashya Teeka Prakasika
Text
OCR done
Citation
1954
Publisher
Narayanatantri ,udipi
Language
Sanskrit
Pages
59
Classification
Literature
DLI number
368516
Barcode
5010010007304.00
Scanning centre
RMSC, IIIT-H
Digital publisher
UDL TTD TIRUPATI
Rights
OUT_OF_COPYRIGHT
VMLT id
YwnJxDVW6HF
Download PDF

Pancham- Puspam Isavasyopanisad Bhashya Teeka Prakasika