Central Archaeological Library_asi_new Delhi

Paribhashendushekharah

PDF Proofread

Front matter

KALAM
AAAAAAAAAAAAAAAAAAAAAAKO
Naresadhara
नागेशभट्टकृतः
AAAAAAAAAAAAIAKI
परिभाषेन्दुशेखरः
महामहोपाध्यायश्रीजयदेवशर्ममिश्रविरचितया
विजयाख्यव्याख्यया
Vijaja
समलङ्कृतः
Paribhaşendu-sekhara
तदात्मजेन प्रयागविश्वविद्यालयसंस्कृताध्यापकेन
एम० ए०, डि० लिट्, काव्यतीर्थोपाधि-
भूषितेन श्रीमदुमेशमिश्रशमणा
संशोध्य प्रकाशितः
50
AAAAAAIA
VAAAAAAAAAAAAAAAA
Booksallars)
Sa4V
Nag/Mis
Rai
RL Publishers
KZAAAAAAAAAAALAALA
दी इलाहाबाद लॉ जर्नल प्रेस
इलाहाबाद
१९४१
IAALAKAL

PUBLISHED BY DR. UMESHA MISHRA, M.A., D.LITT.,
THE UNIVERSITY OF ALLAHABAD, ALLAHABAD
प्रथमसंस्करणम् १९१४ खीस्ताब्द
द्वितीयसंस्करणम् १६२५ खीस्ताब्द
तृतीयसंस्करणम् १९४१ खीस्ताब्द
मूल्यं सार्धपश्चरूप्यकाणि
All rights reserved by the Publisher
म० म० जयदेवमिश्ररचितानां पुस्तकानां प्राप्तिस्थानम्
कृष्णदास गुप्त
४०/५ ठठेरीबाजार
बनारस
PRINTED BY J. K. SHARMA AT THE ALLAHABAD
LAW JOURNAL PRESS, ALLAHABAD

विषयानुक्रमणिका पृष्ठसंख्या ६-१६ १ प्रामुखम् मङ्गलाचरणम् ग्रन्थारम्भप्रयोजनम् स्वनामोच्चारणविवेचनम् परिभाषापदार्थविचारः ३ ७ १० १० २८ ३५ शास्त्रत्वसम्पादकप्रकरणम् १. व्याख्यानतो विशेषप्रतिपत्तिः २. यथोद्देशं संज्ञापरिभाषम् ३. कार्यकालं संज्ञापरिभाषम् ४. अनेकान्ता अनुबन्धा इति ५. एकान्ताः ६. नानुबन्धकृतमनेकालत्वम् ७. नानुबन्धकृतमनेजन्तत्वम् ८. नानुबन्धकृतमसारूप्यम् ९. कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययः १०. उभयगतिरिह भवति ११. कार्यमनुभवन् हि कार्थी निमित्ततया नाश्रीयते १२. यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते १३. निर्दिश्यमानस्यादेशा भवन्ति १४. यत्रानेकविधमान्तयं तत्र स्थानत प्रान्तयं बलीयः १५. अर्थवद्ग्रहणे नानर्थकस्य १६. गौणमुख्ययोर्मुख्य कार्यसम्प्रत्ययः १७. अनिनस्मन् ग्रहणान्यर्थवता चानर्थकेन १८. एकयोगनिर्दिष्टानां सह वा प्रवृत्तिः सह वा० . - 8८ HINNAR १०१ १०६ SHARE .

( ४ ) पृष्ठसंख्या ११२ ११८ १२३ १२४ १२६ १३२ १३५ १४१ १४४ १४७ १४८ १५३ १५५ A १६. एकयोगनिर्दिष्टानां क्वचिदेकदेशोऽप्यनुवर्तते २०. भाव्यमानेन सवर्णानां ग्रहणं न २१. भाव्यमानोऽप्युकारः सर्वमान् गृह्णाति २२. वर्णाश्रये नास्ति प्रत्ययलक्षणम् २३. उणादयोऽव्युत्पन्नानि प्रातिपदिकानि २४. प्रत्ययग्रहणे यस्मात्स विहितः २५. प्रत्ययग्रहणे चापञ्चम्या: २६. उत्तरपदाधिकारे प्रत्ययग्रहणे २७. स्त्रीप्रत्यये चानुपसर्जने न २८. संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति २६. कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् ३०. पदाङ्गाधिकारे तस्य तदन्तस्य च ३१. व्यपदेशवदेकस्मिन् ३२. ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति ३३. व्यपदेशिवभावोऽप्रातिपदिकेन '३४. यस्मिन् विधिस्तदादावल्महणे ३५. सर्वो द्वन्द्वो विभाषैकवद्भवति ३६. सर्वे विधयश्छन्दसि विकल्प्यन्ते ३७. प्रकृतिवदनुकरणं भवति- ३८. एकदेशविकृतमनन्यवत् बाधबीजकथनप्रकरणम् ३६. पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः ४०. पुनः प्रसङ्गविज्ञानात्सिद्धम् ४१. सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव ४२. विकरणेभ्यो नियमो बलीयान् ४३. कृताकृतप्रसङ्गि नित्यं तद्विपरीतमनित्यम् ४४. शब्दान्तरस्य प्राप्नुवन्विधिरनित्यो भवति ४५. शब्दान्तरात् प्राप्नुवतः शब्दान्तरे ४६, लक्षणान्तरेण प्राप्नुवन्निधिरनित्यः ४७. कवचित्कृताकृतप्रसङ्गित्वमात्रेणापि नित्यता १६० १६२ १७० १७० १७१ १७७ १८० १८१ १८१ RSS है १८२ ( ५ ) पृष्ठसंख्या १८२ १८२ १८३ १८३ २१८ २२३ २३४ २३७ २३७ २५० २६१ २७३ २७६ ४८. यस्य च लक्षणान्तरेण निमित्तं विहन्यते० ४६. यस्य च लक्षणान्तरेण निमित्तं विहन्यते० ५०. स्वरभिन्नस्य च प्राप्नुवन्विधिरनित्यो भवति ५१. प्रसिद्धं बहिरङ्गमन्तरङ्गे ५२. नाजानन्तर्ये बहिष्ट्वप्रक्लृप्तिः ५३. अन्तरङ्गानपि विधिन् बहिरङ्गो लुगबाधते ५४. पूर्वोत्तरपदनिमित्तकार्यात् ५५. अन्तरङ्गानपि विधीन् बहिरङ्गो ल्यब्बाधते ५६. वर्णादाङ्ग बलीयो भवति ५७. अकृतव्यूहाः पाणिनीयाः ५८. येन नाप्राप्ते यो विधिरारभ्यते० ५६. क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशते ६०. पुरस्तादपवादा अनन्तरान्विधीन् बाधन्ते० ६१. मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते० ६२. अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति ६३. पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः ६४. प्रकल्प्य चापवादविषयं तत उत्सर्गोऽभिनिविशते ६५. उपसञ्जनिष्यमाणनिमित्तोऽप्यपवाद० ६६. अपवादो यद्यन्यत्र चरितार्थः ६७. अभ्यासविकारेषु बाध्यबाधकभावो नास्ति ६८. ताच्छीलिकेषु वासरूपविधिर्नास्ति ६६. क्तल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नास्ति ७०. लादेशेषु वासरूपविधिर्नास्ति ७१. उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् शेषार्थकथनप्रकरणम् ७२. प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् ७३. विभक्तौ लिङ्गविशिष्टाग्रहणम् ७४. सूने लिङ्गवचनमतन्त्रम् ७५. नन्निव युक्तमन्यसदृशाधिकरणे० ७६. गतिकारकोपपदानां कृद्भिः सह २७६ २७७ २७७ २७८ २७८ २८१ २८२ २८५ २८५ २८६ २८६ २८८ ..२८८ २६२ २६३ २६५ २६७ पृष्ठसंख्या ३०१ ३०२ ३०३ ३०४ ३०५ ३०६ ३०७ ३०८ ३०६ ७७. साम्प्रतिकाभावे भूतपूर्वगतिः ७८. बहुव्रीहौ तद्गुणसंविज्ञानमपि ७६. चानुकृष्टं दोत्तरत्र ८०. स्वरविधौ व्यञ्जनमविद्यमानवत् ८१. हल्स्वरप्राप्तौ व्यञ्जनमविद्यमानवत् ८२. निरनुबन्धकग्रहणे न सानुबन्धकस्य ८३. तदनुबन्धकग्रहणे नातदनुबन्धकस्य ग्रहणम् ८४. क्वचित् स्वार्थिकाः प्रकृतितो लिङ्गवचनानि० ८५. समासान्तविधिरनित्यः ८६. सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य ८७. सन्नियोगशिष्टानामन्यतरापाये० ८८. ताच्छीलिके णेऽण्कृतानि भवन्ति ८६. धातोः कार्यमुच्यमानं तत्प्रत्यये भवति ६०. तन्मध्यपतितस्तद्ग्रहणेन' गृह्यते ६१. लुग्विकरणालुग्विकरणयोरलुग्विकरणस्य ६२. प्रकृतिग्रहणे ण्यधिकस्यापि ग्रहणम् ६३. अङ्गवृत्ते पुनर्वृत्तावविधिः ६४. संज्ञापूर्वकविधेरनित्यत्वम् ६५. आगमशास्त्रमनित्यम् ६६. गणकार्यमनित्यम् ६७. अनुदात्तेत्वलक्षणमात्मनेपदमनित्यम् ६८. नघटितमनित्यम् १६. प्रातिदेशिकमनित्यम् १००. सर्वविधिभ्यो लोपविधिरिविधिश्च बलवान् १०१. प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम् १०२. विधौ परिभाषोपतिष्ठते नानुवादे १०३. उपपदविभक्तेः कारकविभक्तिर्बलीयसी १०४. अनन्त्यविकारेऽन्त्यसदेशस्य १०५. नानर्थकेऽलोऽन्त्यविधिरनभ्यासविकारे ११०६. प्रधानाप्रधानयोः प्रधाने कार्यसम्प्रत्ययः ३१६ ३२३ ३२३ ३२४ ३२५ ३२६ ३२६ ३२८ ३२८ ३२८ ३२८ ३२६ ३ ३ ३३० ३३० .३३२ ३४० ( ७ ) पृष्ठसंख्या ३४१ ३४२ ३४३ १०७. अवयवप्रसिद्धः समुदायप्रसिद्धिर्बलीयसी १०८. व्यवस्थितविभाषयापि कार्याणि क्रियन्ते १०६. विधिनियमसम्भवे विधिरेव ज्यायान् ११०. सामान्यातिदेशे विशेषानतिदेशः १११. प्रत्ययाप्रत्यययोः प्रत्ययस्य ग्रहणम् ११२. सहचरितासहचरितयोः सहचरितस्यैव० ११३. श्रुतानुमितयोः श्रुतसम्बन्धो बलीयान् ११४. लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् ११५. गामादाग्रहणेष्वविशेषः ११६. प्रत्येक वाक्यपरिसमाप्तिः ११७. क्वचित्समुदायेऽपि ११८. अभेदका गुणाः ११६. बाधकान्येव निपातनानि १२०. पर्जन्यवल्लक्षणप्रवृत्तिः १२१. लक्ष्ये लक्षणं सकृदेव प्रवर्तते १२२. निषेधाश्च बलीयांसः १२३. अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे १२४. योगविभागादिष्टसिद्धिः १२५. पर्यायशब्दानां लाघवगौरवचर्चा नाद्रियते १२६. ज्ञापकसिद्धं न सर्वत्र १२७. पूर्वत्रासिद्धीयमद्वित्वे १२८. एकस्या प्राकृतेश्चरितः प्रयोगो० १२६. सम्प्रसारणं तदाश्रयं च कार्य बलवत् १३०. यत्तु क्वचिद्विकृतिः प्रकृति गृह्णाति १३१. औपदेशिकप्रायोगिकयोरौपदेशिकस्यैव ग्रहणम् १३२. रितपा शपानुबन्धेन० १३३. पदगौरवाद्योगविभागो गरीयान् १३४. अर्धमात्रालाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः ३४५ ३४५ ३४७ ३४८ ३५० ३५१ ३५२ ३५२ ३५४ ३५५ ३५५ ३५७ ३५८ ३५८ ३५९ ३५६ ३५३ . प -- . 0 SHNA म

No text on this page.

प्रामुखम् अद्य खलु श्री १०८काशीविश्वनाथस्यानुकम्पया तातपादविरचितायाः परिभाषेन्दुशेखरस्य विजयाटीकायाः परिशोधितं कुत्रचिट्टिपण्यादिभिः परिवद्धितं तृतीयं संस्करणं सहृदयानां विपश्चितां पुरतः संस्थाप्यते । शास्त्रीयालौकिक- चमत्कारशीलानां शास्त्रमर्मज्ञानां तत्त्वैकदृशां पितृचरणसदृशानां विदुषां ग्रन्थस्य संशोधने महानवकाशः सम्भाव्यते प्रमादस्य विशेषतोऽस्मत्सदृशानां शास्त्रमान- भिज्ञानां कृते । अतो यद्यपि पूर्वसंस्करणानुरोधेन यत्र तत्र संशोधनं कृतं तथाऽपि तेषां संशोधितस्थलानां तथ्यातथ्यविषये विद्वांस एव पुनः प्रमाणमिति । अतः परं यत् किञ्चित् प्रस्तूयते शास्त्रमर्मज्ञानां विनोदाय । तत्र विदितमेतत् सर्वेषां पण्डितप्रवराणां यत्सर्वेष्वपि व्याकरणेषु प्राधान्यं पाणिनीयव्याकरणस्यैव । तथा चोक्तं भगवता पतञ्जलिना महाभाष्यकारेण 'पूर्वापरप्रथमचरमेत्यादि सूत्रे भाष्ये-'सर्ववेदपारिषदं हीदं शास्त्रम्'। व्यासेनापि कथितम्- पाणिनीयं महाशास्त्र पदसाधुत्वलक्षणम् । सर्वोपकारकं ग्राह्यं कृत्स्नं त्याज्यं न किञ्चन ॥ सन्ति च तत्र बहूनि व्याकरणानि । पाणिनिनैव अष्टाध्यायीतिसंज्ञके व्या- करणसूत्रग्रन्थे शाकल्य--प्रापिशलि-शाकटायन--आङिरस--स्फोटायन- गालव-भारद्वाज-गार्य-काश्यप-चाक्रवर्मण-सेनकादीनां उदीचां प्राचा- 'मित्यादीनाञ्च प्राचीनव्याकरणाचार्याणां नामोल्लेखः कृतः । पाणिनेः पूर्वमपि व्याकरणान्तराण्यासन्नित्यनेन ज्ञायते । अन्येषामप्याचार्याणां व्याकरणान्तराणि सन्ति । तद्यथा-चान्द्र, शाकटायनं, हैमं, कातन्त्रं, सारस्वतं, वोपदेवं, कौमारं, 'सौपा, कालापं, ऐन्द्र, दौर्य, ब्राह्म, याम्यं, वायव्यं, वारुणं, सौम्यं, वैष्णवं, रौद्रं, सौरं तथा जैनेन्द्रम् । एतेषां सर्वेषां व्याकरणान्तराणां ग्रन्था यद्यप्यधुना सर्वथा नोपलभ्यन्ते परन्तु एतेषामखिलानामस्तित्वे नास्ति सन्देहलेशोऽपीति सप्तदशख्रिस्ता- ब्दीयश्रीसर्व विद्यानिधानकवीन्द्राचार्यसरस्वतीनां काशीस्थव्याकरणशास्त्रसूची- पत्रादवगम्यते । पाणिनीयातिरिक्तान्यपि कानिचिद्व्याकरणानि सौकर्यार्थ केषु चित्प्रान्तेषु पठ्यन्ते किन्तु न तेषां पण्डितसमाजे तादृशः समादरो न वा एतेषु व्याकरणेषु बहवः प्रकरणग्रन्थाः सन्ति । अत एव पाणिनीयस्यैव व्याकरणस्य ( १० ) महत्त्वं सर्वत्र स्वीक्रियते । अस्यैवानवच्छिन्ना पठनपाठनपरम्परा आ पाणिनेः समागता । पाणिनीयसूत्राण्यवलम्ब्य परःसहस्रं ग्रन्था रचिता अध्ययनाध्यापन- प्रणाल्यामद्यापि प्रसिद्धाः । कि बहुना पाणिनीयव्याकरणाध्ययनमेव विदुषां समाजे व्याकरणाध्ययनमित्युच्यते। ये केचन विशिष्टा विद्वांसो भारतवर्षे ज्ञानिनां शिरोमुकुटायमाणास्ते प्रायः सर्वेऽपि प्रधानतया पाणिनीयव्याकरणनिष्णाता एवेति श्रूयते । संस्कृतविद्याप्रधानान्यतमकेन्द्रीभूतायां काश्यामपि तेषामेवाधिपत्यं पण्डितमण्डलीषु येषां पाणिनीये व्याकरणे सर्वापेक्षया प्रगाढ़पाण्डित्यम् । ईदृशी शास्त्रस्यास्य प्रतिष्ठा गुरुपरम्परातः श्रूयते । तत्रादौ भगवान् पाणिनिः शास्त्रमिदं सूत्ररूपेण जग्रन्थ । पाणिनीयसूत्राणि च चतुर्दशभ्यो माहेश्वरसूत्रेभ्य आगतानीति विदितमेव सर्वेषाम् । माहेश्वरसूत्राणा- ञ्च नन्दिकेश्वरकृता काशिकाख्या कारिकासु व्याख्या वरीवति । सैव वस्तुतः शिव- सूत्राणां यथार्थस्वरूपं व्याकरणशास्त्रस्य च मुख्य प्रयोजनं जगदादितत्त्वाविर्भावादि- प्रकारञ्च निरूपयन्ती क्रमेण ब्रह्मस्वरूपमपि प्रतिपादयति । अतः परं क्रमशः पाणिनीयसूत्राणां सूक्ष्मेक्षिकया तत्त्वविवेचनं व्याडिकात्यायनपतञ्जलिप्रभृतिभिः पूर्वाचार्यैः स्वस्वव्याख्यासु कृतम् । तदनु योगिवरभर्तृहरिप्रमुखैरपि विविधाष्टीका निर्मिताः । एते सर्वे प्रायः शास्त्रस्य मुख्योद्देश्यमेव मनसिकृत्य सूत्राणां तेषां विविधव्याख्यानाञ्च समालोचनं सरलरीत्यैव विहितम् । परन्तु एतावता कालेन शास्त्रलेखनशैलीषु महत्परिवर्तनं जातम् । तत्रादौ दर्शनशास्त्राणां विशेषतो न्यायशास्त्रस्य नव्यपरिपाटीमुखेन मिथिलानवद्वीपकाशीप्रभृतिषु विद्याकेन्द्रेषु विचारः प्रवत्तितः । अनया नवीनलेखनप्रणाल्या दर्शनातिरिक्तान्यपि शास्त्राणि प्रभावितानि । व्याकरणेऽपि अस्याः प्रभावो महान् बभूव । काशीमरणान्मुक्ति- रिति निश्चित्य विपश्चितः संसारबन्धनान्मुक्तिसुपलिप्सवो न केवलं चरमे वयसि अपि तु युवावस्थायामेव भगवतः काशीविश्वेश्वरस्य मणिकर्णिकातीर्थस्य च सेवाभिः सहैव विद्योपार्जनाय नानादिग्देशेभ्यः काशीमागत्य वसन्ति स्म । पूर्वतनकाला- दारभ्याद्यपर्य्यन्तमपि मोक्षाथिभिविद्यार्थिभिश्चेत्थं विश्वनाथपुरी सुसम्पन्ना विद्यते। यद्यपि चिरकालादेवेदृशी प्रतिष्ठा विश्वेश्वरनगरस्यासीत् किन्तु प्राचीनकालि- केतिहासस्यान्धकाराच्छन्नेन हेतुना तत्कालीनायाः परिस्थितेः विशेषज्ञानाभावो वर्तते । मध्ययुगे पुनः यवनराज्यकाले नगरोऽयं विद्यागौरवे महती प्रतिष्ठामापेति बहुभिः प्रमाणैर्ज्ञायते, नास्त्यत्र संशयलेशोऽपि । अत एव दाक्षिणात्या मैथिला वङ्गीयाः सारस्वता बहवो विद्वांसः काश्यामेवाधिवसन्ति स्म । अतः कालक्रमेण विश्वनाथनगरी एव विद्यानां विविधकलानाञ्च प्रधानकेन्द्र- भूता काशते स्म । अत एव दाक्षिणात्या दीक्षितवंशजाः सर्वेऽपि प्रायः काशीमागत्य -- स ( १२ ) स्वनिवासं चक्रुः । तदनु श्रीमता भट्टोजिदीक्षितेन क्रमशः सिद्धान्तकौमुद्यां प्रौढ़- मनोरमायां शब्दकौस्तुभादिग्रन्थेषु च पाणिनीयसूत्राणां तद्व्याख्यानानाञ्च नव्य- न्यायप्रभावितनवीनविवेचनप्रकारः प्रदर्शितः। अनेन विवेचनप्रकारेण शास्त्रेऽस्मिन् कश्चिन्नूतनः संस्कारो जातः । शास्त्रमर्म रसिका विद्वांसोऽधुना अपूर्वमानन्दमनु- भवन्तः स्वस्ववैदुष्यमहिमानं विशेषेण प्रदर्शितवन्तः । तामेव परिपाटीमनुसरन्तः प्रयागादुत्तरे शृङ्गवेरपुरे वसतो रामनृपाल्लब्धजीविकाः श्रीमन्तो नागेशभट्टाः काश्यामेव विविधशास्त्रेषु विशेषतो व्याकरणे बहून् ग्रन्थान् व्यरचयन् । एतेषा- मेव ग्रन्थेषु अधुनाऽपि पाणिनीयशास्त्रतत्त्वं विराजते । अतो विद्यार्थिनां ज्ञानि- नाञ्च शिरोमुकुटायमाणा विशेषरूपेण नागेशभट्टानामेव ग्रन्थाः सन्ति । तदनु एतेषामेव शिष्यो गदा--छाया-कला-प्रभा--भावप्रकाशिकादीनां व्याकरणव्याख्यानरूपग्रन्थानां प्रणेता वेणीमहादेवसुतः पायगुण्डापरनामको वैद्यनाथो बभूव । न केवलं व्याकरणेऽपि तु धर्मशास्त्रेऽपि अस्य कृतयः सन्ति । एवं शिष्यपरम्पराक्रमेण काशी एव प्रायः पाणिनीयव्याकरणस्यापि प्रधानकेन्द्रो बभूव । एतेषामेव गुरुशिष्यपरम्परायां काशीस्थपण्डितसमाजप्रसिद्धाः श्रीमन्तो राजा- रामशास्त्रिचरणा जाताः। तेषां पुनः प्रधानशिष्यवराःप्रातःस्मरणीया बालशास्त्रिण प्रासन् । येषां लोकोत्तरवैदुष्यमहिमानं श्रुत्वा नानादेशस्था विद्वांसोऽपि काशी- मागत्य तेभ्यः एवाधीत्य स्वशास्त्रेषु नैपुण्यमापुः । तत्र तावत् दाक्षिणात्येषु गङ्गा- धरशास्त्रि-दामोदरशास्त्रि-रामकृष्णशास्त्रिचरणाः, संयुक्तप्रान्तीयेषु शिवकुमार- मिश्रपादाः, मैथिलेषु तातचरणाः श्रीमन्तो जयदेवमिश्राः एव प्रधानशिष्या आसन् । प्रायः सर्वे एते पाणिनीयव्याकरणे प्रकाण्डवैदुष्यं सम्प्राप्य काश्यामेवाजीव- मध्ययनाध्यापनादिकं सम्पादयन्तो गुरुपरम्परागतशास्त्रतत्त्वगूढविवेचनरक्षणार्थ ग्रन्थांश्च विरचयामासुः । एभिविरचितानेव ग्रन्थान् पठित्वाऽधुना संस्कृतविद्यानु- रागिणः शास्त्रमर्मज्ञा भवन्ति । एवं श्रीमद्भिर्भट्टोजिदीक्षितैः समारब्धा समये समये नागेशादीनां विचार- परम्पराभिः सम्बधिता बालशास्त्रि-दामोदरशास्त्रि-शिवकुमारमिश्रशास्त्रिभिः परिपोषिता जयदेवमिश्रचरणैः पल्लविता परां काष्ठां प्रापिता शास्त्रमर्मोद्घाटिनी नव्यन्यायपरिबृंहिता परिष्कारेति नाम्ना पण्डितमण्डलीषु प्रसिद्धा शास्त्रानुशीलन- परिपाठी न केवलं काशीक्षेत्रस्यापि तु समग्रभारतवर्षस्य विद्यागौरवं परिपालयतीति । इत्थं सामान्यरूपेण पाणिनीयव्याकरणस्य गुरुशिष्यपरम्पराम् प्रदर्शयता विद्यासु तस्य महिमानं निरूपयताधुना सम्पादितविजयासहितपरिभाषेन्दुशेखर- ग्रन्थमधिकृत्य किमप्युच्यते । । ।

( १२ ) परिभाषेन्दुशेखरो नाम ग्रन्थो व्याकरणपरिभाषारूपग्रन्थस्यैका सुप्रसिद्धा व्याख्या। परिभाषारूपग्रन्थः शास्त्रव्युत्पादनाय वैयाकरणानां सिद्धान्तस्वरूपो व्याकरणशास्त्रविषयक विविधन्यायानां संग्रहरूपो ग्रन्थः। एता न्यायरूपाः परिभाषाः मुख्यतया कात्यायनपतञ्जलिप्रमुखानां व्याकरणशास्त्राचार्याणां ग्रन्थेभ्य उद्धृत्य सङ्कलिताः । क्वचित्तु परिभाषामूलं निरूपयता नागेशेन महेश्वरस्य वाक्यादपि कस्याश्चित्परिभाषाया उत्पत्तिः सूचिता । तद्यथा "व्याख्यानाच्च द्विरुक्तितः" इति वात्तिकव्याख्याने यत्पतञ्जलिना-'एतज्ज्ञापयति प्राचार्यो भवत्येषा परिभाषा-व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणमिति' व्याख्यातं तत्र 'आचार्य'पदेन 'शिव' एव नागेशेन गृहीत उद्योते। एतत्सर्वं नागेशेनैव परि- भाषेन्दुशेखरप्रारम्भे एव निगदितम्---'प्राचीनवैयाकरणतन्त्रे वाचनिकानि अत्र पाणिनीयतन्त्रे ज्ञापकन्यायसिद्धानि भाष्यवात्तिकयोरुपनिबद्धानी'त्यादिग्रन्थसन्दर्भण। "विजयाकारेण" तु व्याकरणपरिभाषापदार्थः क इत्यत्र 'अप्रामाण्यज्ञानानास्कन्दित- साधुत्वप्रकारकबोधोपयोगिबोधजनकत्वं परिभाषात्व'मित्युक्तम् । तदनन्तरं माहे- श्वरोच्चरितानुबन्धमूलकत्वमपि कस्याश्चित् परिभाषायाः स्वीकृतन्तत्रैव । एताः सर्वाः परिभाषाः व्याकरणमहाभाष्ये सोदाहरणं पतञ्जलिना समुपबंहिता इत्यपि तत्तत्परिभाषाव्याख्यासु श्रीमता नागेशेनैव सूचितम् । एतासां परिभाषाणां सङ्कलनं प्रायः धातुपाठादिसङ्कलनकाले एव जातम् । ततः कालक्रमेण परिभाषाणां दुरवबोधतया काचिद् व्याख्याऽपेक्षिता। तत्र तावत् श्रीमता सीरदेवेन संक्षिप्तो नातिसरलः 'परिभाषावृत्ति'नामको व्याख्यानरूपो ग्रन्थो रचितः किन्तु नानेन विद्यार्थिनां जिज्ञासूनां सन्तोषः समजायतेति मनसि निश्चित्य नागेशेनैतासां नव्यन्यायशैलीमुखेन विस्तृता व्याख्या परिभाषेन्दुशेखरेति- नाम्नी कृता । अस्य मूलभूतो ग्रन्थः परिभाषावृत्तिरस्तीति पण्डितमण्डलीषु यद्यपि प्रसिद्धिरस्ति किन्तु नागेशेन न कुत्रचिदस्या वृत्तेः चर्चापि कृता । अधुना पठनपाठन- प्रणाल्यां परिभाषेन्दुशेखर एव सर्वत्र विराजते । अस्मिन् ग्रन्थे त्रीणि प्रकरणानि सन्ति-शास्त्रत्वसम्पादकम्, बाधबीज- कथनम्, शेषार्थकथनञ्च । 'एकदेशविकृतमनन्यवदि'-(३८)-ति परिभाषान्त- माद्यम् । तदनु 'उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्' (७१) इतिपरिभाषान्तं द्वितीयम् । एतदनन्तरं तृतीयं प्रकरणम् । अनेनैव क्रमेण तातचरणैविजयायां व्याख्यातो ग्रन्थः । क्रमशः परिभाषेन्दुशेखरस्यापि व्याख्या अपेक्षिता बभूव । सन्ति तत्र शाङ्करी, श्रीधरी, त्रिपथगा, मनुदेवी, चन्द्रिका, भूत्यादिका विविधाष्टीकाः किन्तु परिष्कारपिपासूनां शास्त्रमर्मजिज्ञासूनां नागेशग्रन्थतत्त्वाभिलिप्सूनां विद्यार्थिनां विपश्चिताञ्च कृते नैताः पूर्णसन्तोषप्रदाः । न चैतासु शास्त्रार्थपरिष्कारप्रणाल्याः AR ।

( १३ ) तत्तत्कोटिभेदेन कुत्रचित् परम्परोपलभ्यते । इत्यादिविविधविषयाभावं प्राचीन- टीकासु दृष्ट्वा तातचरणैर्विजयानाम्नी अपरैका व्याख्या निर्मिता प्रकाशिता च । सा चाधुना लेखसौष्ठवेन, सरलसरसमुखेन पदार्थानां प्रतिपादनेन, अपदार्थनिरा- करणेन, नागेशाभिप्रायं सुस्पष्टं समुद्घाटनेन सर्वत्र विजयतेतरामिति विदुषां परामर्शः। शास्त्रार्थपरिपाटी परिष्कारचर्चा चेमामेव विजयामवलम्ब्याधुनाऽपि जगति विपश्चितां यशोडिण्डिमरूपेण विराजते । अतः परं ग्रन्थकर्तुष्टीकाकर्तुश्च संक्षिप्त जीवनवृत्तान्तमपि छात्राणां विनोदाय विलिख्यते । तत्र तावत् शिवभट्टसुतः सतीदेव्यास्तु गर्भजो नागेशापरनामको नागोजिभट्टः परिभाषेन्दुशेखरस्य रचयिता आसीत् । अयं सिद्धान्तकौमुदीकारस्य भट्टोजिदीक्षि- तस्य पौत्रस्य हरिदीक्षितस्य प्रसिद्धतमः शिष्यः । यद्यपि महाराष्ट्रदेशोऽनेन जन्म- नाऽलंकृतः किन्तु यतोऽस्य गुरुवरास्तेषां पूर्वजाश्च काश्यामेव कृतवसतयोऽतोऽयमपि विश्वेश्वरनगर्यामेव क्षेत्रन्यासरूपेण निवसन् शतशछात्रानध्यापयन् ग्रन्थांश्च विरचयन् स्वकालं यापयामास । कदा भारतवर्ष स्वजन्मना भूषितवानयमिति विचार्यमाणे एतदेवालं यदयं पण्डितराजजगन्नाथरचितरसगङ्गाधरग्रन्थस्य मर्मप्रकाशनामकटीकायाः रचयिता बभूव । पण्डितराजस्तु दिल्लीश्वरस्य यवनाधिपतेः शाहजहांनामकस्य संसदि सम्प्राप्य स्वविद्याचमत्कारप्रदर्शनफलस्वरूपा 'पण्डितराज पदवीं तस्मादेव लब्ध- वान् । शाहजहांमहीपतेः राज्यसमयः १६२८-१६५८ ख्रिस्ताब्दः आसीदितीतिहा- सविदां परामर्शः । स एव पण्डितराजस्यापि जीवनकालस्तत्पश्चाद्वर्ती नागेशः । अन्यच्च पण्डितराजो नागेशस्य गुरोः पितुः भानुदीक्षितस्यः समकालिक आसीदतः पण्डितराजात् प्रायः पञ्चाशद्वर्षाणि पश्चान्नागेशः समभूदिति मत्वा अष्टादश- शताब्दस्य प्रारम्भकाले तेन स्वजन्मना दक्षिणदेशोऽलंकृत इति निश्चीयते । अपरं चात्र प्रमाणं किंवदन्तीरूपेण श्रूयते यत् जयपुराधिपतिस्तदानीन्तनः श्रीसवाई जयसिंहवर्माऽश्वमेधयज्ञप्रसङ्गे नागेशभट्टायामन्त्रणं प्रेषितवान् । तत्पत्रं प्राप्य ना- गेशेन- अहं क्षेत्रसंन्यासं गृहीत्वा काश्यां स्थितोऽस्मि अतः कासीम् परित्यज्य नान्यत्र गन्तुं शक्नोमीति--प्रत्युत्तरं प्रहितम् । एष महाराजः १७१४ ख्रिस्ताब्दे अश्वमेधयज्ञसम्भारं कृतवानिति महामहोपाध्यायदुर्गाप्रसादशर्मणो लेखादवगम्यते । एतस्मादपि अष्टादशशताब्दस्य प्रारम्भकाले नागेशभट्टस्य जन्मकालः समायाति । अस्य पोषकः शृङ्गवेरपुराधीशो विसेनवंशजो रामनृपतिनागेशशिष्यो बभूव । तस्मादेव लब्धजीविको नागेशः । एतावानेवास्य जीवनवृत्तान्तो लभ्यते । अनेन बहवो ग्रन्था रचिता येषु निम्नलिखिता अद्यतनेऽप्युपलभ्यन्ते । तद्यथा (१) N mawat PHOTO . यसूत्रवृत्तिः, (१६) सापिण्डयनिर्णयः, ( १४ ) भाष्यप्रदीपोद्योतः, (२) काव्यप्रदीपोद्योतः, (३) लघुशब्देन्दुशेखरः, (४) बृहच्छब्देन्दुशेखरः, (५) परमलघुमञ्जूषा, (६) लघुमंजूषा, (७) बृहन्मञ्जूषा, (८) परिभाषेन्दुशेखरः, (६) प्रायश्चित्तेन्दुशेखरः, (१०) परमार्थसारविवर- णम्, (११) योगसूत्रवृत्तिः, (१२) दुर्गासप्तशतीटीका, (१३) रसगङ्गाधरमर्म- प्रकाशः, (१४) रसतरङ्गिणीटीका, (१५) रसमञ्जरीटीका, (१६) वृत्तिसंग्रहः, (२०) एकश्रुत्यवादः, (२१) वाल्मिकीयरामायणटीका, (२२) अध्यात्म- रामायणटीका, (२३) शब्दरत्नञ्च । एतान् ग्रन्थान् विरचयन् शतशश्छात्रानध्यापयन् काशीवाससुखमनुभवन् स्वयशोभिर्दश दिशो धवलयन्नैहिककार्य सुसम्पादयन् काश्यां तारकं जपन्नागेशो दिव्यलोकं जगामेति । परिभाषेन्दुशेखरविजयाटीकाकाराः स्वनामधन्याः महामहोपाध्यायाः प्रात:- स्मरणीयाः श्रीजयदेवमिश्रशमणिः । मिथिलाप्रदेशान्तर्गतगजहराग्रामः एतैः स्वजन्मनाऽलङ्कृतः । तातचरणाः रुद्राङ्कशशिसम्मिते (१६११) वैक्रमाब्दे कात्तिकशुक्लपूणिमायां सुप्रतिष्ठिते सोदरपुरश्रोत्रियमैथिलब्राह्मणकुले जन्म लेभिरे । एतेषां तातपादानां पितृचरणाः चित्रनाथशर्माणश्चतुर्ष सोदरेषु ज्येष्ठाः । तेऽपि चत्वारः सोदरा: चित्रनाथपोषनभगवान्दत्तगणेशशौणः नाना- शास्त्रेषु पण्डिता आसन् । तत्रापि पोषनशा व्याकरणन्याय (शब्दखण्ड) धर्म- शास्त्रादिष्वतिनिपुणो बृहत्कुटुम्बभारपोषको बभूव । माता चास्मद्गुरुवराणां शचीनाम्नी सर्वगृहकार्येष्वतिपट्वी एकाकिन्येव बृहत्कुटुम्बभारमाजीवं दधौ । तात- पादानां मातृकुलेऽपि प्रायः सर्वे विशिष्टा विद्वांसो बभूवुः । तत्राप्यतेषां मातामहः कुलमणिशा मातुलौ च श्रीमणिरत्नमणिशर्माणौ तदानीन्तनमिथिलाधीश- प्रवत्तितपाण्डित्यपरिचायकधौतपरीक्षायां तत्तच्छास्त्रेषु लब्धप्रतिष्ठा आसन् । एते सर्वेऽपि बलिष्ठा दीर्घजीविनः काश्यां चरमे वयसि समागत्य मणिकर्णिकायां तारकं जपन्त ऐहिकशरीरं तत्यजुः । तातचरणाः षट्सु सोदरेषु ज्येष्ठाः । सोदरा चैतेषामेका सर्वज्येष्ठा । तत्र वासुदेवकेशवशर्माणौ ज्योतिषशास्त्रे धर्मशास्त्रे तन्त्रशास्त्रे च विशिष्टविद्वांसौ जातौ । जनार्दनमुकुन्दशाणावल्पमेवाधीत्य गृहकार्य एव संलग्नौ बभूवतुः । चतुर्थो मधुसूदनशर्मा तु लौकिकाखिलव्यवहाराचारगृहकार्यदक्षः प्रायो ज्यौतिष- शास्त्रवर्जमन्येषु सर्वेषु शास्त्रेषु स्वज्येष्ठभ्रातुः सकाशादेवाधीत्याल्पे एव वयसि लब्धप्रकर्षपाण्डित्यो बड़ोदाधारेन्दौरादिविद्याकेन्द्रेषु शास्त्रमर्यादया स्वालौकिकयशः प्रख्यापयन् जम्बूकलिकातादिनगरेष्वध्याप्य पुनः काशीमागत्य दरभङ्गानरेश- संस्थापितपाठशालायां शतशश्छात्रान् पाठयन् काशीस्थपण्डितमण्डलीषु च शास्त्रार्थ- चर्चासु लोकोत्तरवैदुष्यं प्रख्यापयन् भूनेत्ररत्नकमिते (१९२१) ख्रिस्ताब्दे पञ्चपञ्चाशद्वर्षवयस्क एव काश्यामैहिकनश्वरं शरीरं विहाय विश्वेश्वरसायुज्यं प्राप्तवान् । तद्रचितानि मधुसूदनीतिसंज्ञकानि व्याकरणशब्दखण्डविषयकानि क्रोड- पत्राणि विदुषां समाजे प्रसिद्धानि तस्य दुर्द्धर्षवैदुष्यपरिचायकान्यद्यापि सन्त्येव । तत्समानकालिकेषु पण्डितेषु न कोऽपि तत्समः शास्त्रार्थविचारनिपुण प्रासीदिति तातचरणैर्बहुधोदीरितम् । महात्मनामेतेषां पितृव्यपुत्रा अपि नानाशास्त्रचणा आसन् । तत्रोल्लेखन- योग्यो भगवान्दत्तशर्मणः पुत्रो दामोदरशा । स च खलु काव्यसाहित्येऽलौकिक- व्युत्पन्नो ज्यौतिषशास्त्रवैदुष्ये तु तत्समकालिकेषु प्रायः तत्तुल्योऽन्यो नैवासीदिति तस्य गुरुवरस्येदानीमपि काशीमलङ्कुर्वतः श्रीगेनालालचातुर्द्धरीणशर्मणो मुखा- च्छ्यते । लौकिकविषयेष्वपि तस्य विचारचमत्कारः सर्वथा प्रशंसनीय एवासीत् । तद्विरचिता भास्कराचार्यरचितायाः लीलावत्याः 'वासना' तु विपश्चितां समाजे सर्वत्र प्रसिद्धैव। अन्येऽपि ज्योतिषशास्त्रविषयका बहवो निबन्धास्तेन रचिताः । कालिकाकुशेश्वरादिदेवतानां स्तोत्राण्यपि बहूनि तेन निर्मितानि । एकदा नेपालं गत्वा तत्र स्वपाण्डित्यालौकिकचमत्कारेण सर्वविद्यावदातं राजगुरुं प्रसाद्य महती प्रतिष्ठा महद्धनञ्च तेनालम्भि । नेपालराजकीयजनकपुरपाठशालायां शतशश्छा- त्रानध्यापयन् दिशि दिशि पाण्डित्यं प्रकाशयन् कीर्तिञ्च धवलयन्नत्यल्पे एव वयसि ऐहिकं शरीरं तत्याज। बहुकुटुम्बपरिपूर्णेऽस्मत्कुले तदानीमुचितलौकिककार्यसम्पादनार्थमपि परिपूर्ण धनं नासीदतस्तातपादाः ब्राह्मणोचितसंस्कारसम्पादनानन्तरमेव स्वनामे विद्या- म्यवसायसंकटमनुभूय नवमे वर्षे ग्रामावहिर्भूत्वा हरिनगरमामे तदानीं विद्याविभव- सम्पन्नस्य सुप्रसिद्धस्य हलधर- (प्रसिद्ध 'हल्ली) शर्मणः सकाशमध्ययनाथ जग्मुः । तत्र वर्षद्वयं यावत् व्याकरणे तन्त्रे च कतिपयग्रन्थानधीतवन्तः । पुनस्तत्रा- प्यार्थिकक्लेशं सम्प्राप्य तत्स्थानं परित्यज्य तदानीं सुप्रसिद्धे गन्धवारिनगरे सुविख्यातमहामहोपाध्याय-डाक्टर-सर-श्रीगङ्गानाथझाशर्मणो मातामह्या पुण्य- शीलया श्री३वसुमतीदेव्या संस्थापिते विद्यालये महामहोपाध्यायश्रीधरजेमिश्र- शर्मणां सकाशमध्ययनार्थमागतवन्तः । तेभ्य एव शब्देन्दुशेखरादिव्याकरणग्रन्था- नधीत्य स्वालौकिकविद्याकौशलप्रतिभाभिस्तदानीमेव विदुषां समाजे परां ख्याति प्राप्तवन्तः । तदनु गुणाग्निग्रहभू (१९३३) परिमिते च वर्षे श्रीश्वसुमतीदेव्या सहैव नावा काशीमागत्य तस्या एव लब्धजीविकाः प्रातःस्मरणीयानां श्रीमतां बालशास्त्रिणामन्तेवासिनो भूत्वा पूर्वमधीतमपि व्याकरणं समग्नं सम्मायं शास्त्रा- - । RANI www ( १६ ) - न्तराण्यपि समग्राण्यधिगतवन्तः । समस्तपण्डितमण्डलानां दौर्भाग्येणाचिरेणैव कालेन शास्त्रिणः परलोकं गताः । तदनु शास्त्रिणामनुरोधेनैव कियन्तं कालं यावत् श्रीदामोदरशास्त्रिणः सकाशे द्वितीयगुरुभावेनाधिगतान्येव शास्त्राण्यालो- चयामासुः । तत्पश्चात् क्रमश: सर्वतन्त्रस्वतन्त्रैः प्रातःस्मरणीयैः श्रीमद्भिः शिवकुमारशर्ममित्रैस्सह तातचरणानां शास्त्रतत्त्वालोचने विशेषेण घनिष्ठता बभूव । श्रीमतां मिश्राणामलौकिकशास्त्रमर्मज्ञानेनाकृष्टास्तातपादाः तृतीयगुरुस्व- रूपेणैतान् स्वीकृत्य क्रमशोऽधीतान्यप्यखिलानि शास्त्राणि पौनःपुन्येन विशिष्ट- तर्कवितर्कद्वारा एतैस्सह सम्यगालोचितवन्तः । प्रत्यहमुभावपि गुरुशिष्यौ सायं काले काशीनगराद्वहिः ‘बड़ी गैवी'ति नामकप्रसिद्धकूपपर्य्यन्तं गत्वा जनासङ्कीर्ण- प्रदेशे शास्त्राण्यालोचितवन्तौ । मार्गेऽपि तयोः शास्त्रविचारः प्रचलित एवासीत् । पश्चात् बहिर्गमनं परित्यज्य शास्त्रिणां वासस्थल एवैतयोः शास्त्रसम्मेलनं भवति स्म । इत्थं कतिपयवर्षपर्यन्तं तयोमिथः शास्त्रतत्त्वेषु गूढार्थालोचनानि निरवच्छि- नानि प्रचलितानि । नासीत् किमपि शास्त्रतत्त्वं यदधिकृत्य तयोविचारो न प्रवत्तितः । एषु तर्केषु पूर्वाचार्यरनधिगतानि शास्त्रमर्माणि समुद्भतानि । एतानि सर्वाणि तातचरणैः स्वग्रन्थेषु तत्तत्स्थलेषु सुस्पष्टं प्रतिपादितानि । इत्थं न केवलमेतयोरेव गुरुशिष्ययोर्महान् लाभः समजायत किन्तु शास्त्राणां शास्त्रमर्म- जिज्ञासूनामपि कृते अपूर्वो लाभो बभूवानेन । अत्रान्तरे तातपादानां वेदान्तशास्त्रनिष्णातानां परमहंसपरिव्राजकाचार्याणां श्री १०८विशुद्धानन्दसरस्वतीनां च मिथः परिचयो जातः । तातपादाः समये समय वेदान्तयोगदर्शनादीनामालोचनार्थ स्वामिवराणां सकाशं गच्छन्ति स्म । तदानीं वस्वग्निग्रहभू-(१९३८)-मिते वैक्रमाब्दे . श्री१० ०८विशुद्धानन्द- सरस्वतीभिः प्रेरितेन मिथिलाधीशेन पवित्रकीर्तिना महाराजश्री५लक्ष्मीश्वर- सिंहमहोदयेन काश्यां दरभङ्गापाठशालेतिसंज्ञको विद्यालयः संस्थापितः । युबा- वस्थायामेव काशीस्थविद्वज्जनमण्डलेषु प्राप्तवैदुष्यप्रतिष्ठाः श्रीमन्तस्तातचरणाः स्वामिवराणामनुरोधेनैव श्रीशिवकुमारमिश्र-श्रीरामकृष्ण-(प्रसिद्ध तात्या)- शास्त्रि-श्रीसुधाकरद्विवेद-श्रीदुःखभजनकविभिः पण्डितरत्नैः सह तत्र व्या- करणाध्यापकासनं सुशोभयामासुः समभूषयंश्च तदासनं वेदर्षिग्रहभू-(१९७४)- मितवर्षपर्यन्तम् । विद्यालयेऽस्मिन्नध्यापयद्भिरेतैश्छात्राणां सुखबोधाय चन्द्राचल- रत्नभू-(१९७१)-मिते वर्षे परिभाषेन्दुशेखरस्य विजयानाम्नी टीका व्यरचि अनेन ग्रन्थरत्नेन तत्रभवतां तातपादानां प्रतिष्ठा दिगन्तव्यापिनी बभूव । तदनन्तरं काशीस्थहिन्दूविश्वविद्यालयाध्यक्षास्तान् प्राच्यविद्याविभागे प्र- धानाध्यापकपदव्यां सादरमाहूय समावेशयन् । तदारभ्याजीवं तदेव पदं तैरलङ्कृत- ( १७ ) मासीत् । अत्रान्तरे रसपर्वतग्रहचन्द्र-(१९७६)-मिते वर्षे शास्त्रार्थरत्नावलीति- नामकः सपरिष्कार: पाणिनीयसूत्रार्थरूपो ग्रन्थस्तैनिर्मितः। अत्र ग्रन्थे सपरि- ष्कारशास्त्रार्थकोटिपरम्पराऽलौकिकशास्त्रमहिम्ना पितृचरणैः प्रादर्शि । अत्रैव गुरुपरम्परागता सपरिष्कारा शास्त्रार्थकोटिप्रणाली परां काष्ठां प्राप्य प्रायो विश्वे- श्वरसायुज्यमलभत । अन्तिमावस्थायां पण्डितमण्डलैः प्रेरितास्तातपादा व्युत्पत्ति- वादस्य जयानाम्नी टीका रचितुं नेत्रवसुग्रहचन्द्र-(१९८२)-मिते वर्षे प्रारभन्त किन्तु सर्वेषां शास्त्ररसिकानां दौर्भाग्येण प्रथमाविवरणे भेदान्वयविचारे 'प्रत्य- यत्वाद्यनुपस्थितिदशायां' इतिग्रन्थपर्य्यन्तस्यैव टीकां विरचयन्त एव कर्णमूलक- सन्निपातज्वराभिभूता बभूवुः । तत्रापि ज्वरप्रलापेषु शास्त्रीयाण्येव वाक्यान्युच्चेरुः। मरणात् 'प्राक् चत्वारि दिनानि मणिकर्णिकायां चक्रपुष्करणीतीर्थगङ्गाप्रवाह- योर्मध्ये स्थित्वा-"उत्क्षिप्य बाहू त्वसकृद्रवीमि, त्रयीमयेऽस्मिस्त्रयमेव सारम् । विश्वेशलिङ्गम्मणिकर्णिकाम्बु, काशीपुरी सत्यमिदं त्रिसत्यम्" इति पद्यमच्चै?ष- यन्तो मध्याह्नवेलायामात्मीयजनानां समक्षं मणिकर्णिकागङ्गाप्रवाहे निमग्नार्द्ध- शरीरास्त्रिवसुरत्नशशी-(१९८३)-परिमिते वैक्रमाब्दे फाल्गुनशुक्लसप्तम्यां गुरौ विश्वेश्वरसायुज्यमगमन् । इत्थं प्रायः षट्चत्वारिंशद्वर्षाणि नानाशास्त्राण्यध्यापयतां सहस्रशश्छात्रान् पाण्डित्यपदवी प्रापयतां लोकोत्तरकीा दश दिशो धवलयतामेतेषां वैदुष्यमहिम्ना चमत्कृतो भारतसम्राट् ग्रहचन्द्ररत्नभू-(१९१९)-मिते ईशवीये पण्डितसम्राड्भ्य एभ्यो महामहोपाध्यायपदवीं वितीर्यास्याः पदव्याः प्रतिष्ठां वर्धयामास । तात- चरणानां प्रायशो गणितशास्त्रवर्ज सर्वेष्वपि शास्त्रेषु पूर्णतयाऽऽधिपत्यमासीदिति तेषां ग्रन्थपर्यालोचनेनैव सुस्पष्टं प्रतिभाति । तथाप्येतदेवालं यच्छास्त्रविचारस्य तु. सारमेवैतेष्वेकत्रीकृतमासीत् । पण्डितवराः सपरिष्कारशास्त्रार्थमूर्त्तय एवासन्निति विदुषां परामर्शः। सनातनम्मिणां कृतेऽपि पूज्यपादा आदर्शा एवासन् । षट्चत्वारिंशद्वर्षाणि यावन्नित्यं ब्राह्म मुहूर्ते समुत्थाय कृतनित्यक्रियाः मणिकर्णिकागङ्गाप्रवाहे कृताव- गाहाः विश्वनाथादिदेवतादीनामों विधाय सूर्योदयात्पूर्वमेव सहस्रसंख्यकगायत्री जपित्वा विद्यालयं गच्छन्ति स्म । तत्रैकादशवादनं यावच्छात्रानध्यापयामासुः । तत आगत्य पुनः स्नानादिकं सम्पाद्य षडङ्गशतरुद्रस्नपनपूर्वकनर्मदेश्वरशालग्राम- शिलादीनां पूजां कृत्वा मध्याह्नोत्तरे होरैकवादनानन्तरमेवाहारं सम्पादयामासुः । तदनु कियन्तमेव कालं यावत् विश्रामं कृत्वा पुनः समागतान् छात्रान् आ सायं पाठयामासुः । तत्पश्चात् सायंकृत्यं विधाय गुरोरन्तिकं गत्वा तैः सहैव शास्त्राण्या- लोच्य प्रहरानन्तरं गृहं समागत्य पुनः तत्रैकत्रीभूतानात्मीयान् विशिष्टछात्रा- 95 Sama ( १८ ) नेकादशहोरापर्य्यन्तमध्यापयन्तो रात्रिभोजनानन्तरं विश्रामागारं गच्छन्ति स्म । एवंविधं तातचरणानामाह्निकं कर्म आजीवमासीत् । तन्निमिता अन्ये च ग्रन्था:--- (१) शब्देन्दुशेखरस्य टीका (अपूर्णा), (२) महाविनायकस्थापनपद्धतिः, (३) वास्तुपद्धतिः, (४) शतचण्डीविधानपद्धतिः, (५) कुलदेवतास्थापनपद्धतिः, (६) नीलवृषोत्सर्गपद्धतिः, (७) तुलादानपद्धतिः, (८) धर्मशास्त्रविषयका निबन्धाश्च । तातचरणानां क्रमशस्तिस्रो भार्या बभूवुः । तत्र प्रथमा ससन्ताना नष्टा । द्वितीयाऽप्यचिरेणैव परलोकं गता। तस्यां पुत्रद्वयं कन्यारत्नञ्च । कन्या त्वचि- रेणैव पञ्चत्वं जगाम । पुत्रयोळयांस्त्वस्य निबन्धस्य लेखक एव, कनीयान् श्रीरमेशः प्रवेशपरीक्षापर्यन्तमाङ्गलभाषामधीत्याधुना गृहकार्ये संलग्नः । विनष्टा- यान्तु तस्यामावामल्पवयस्कावास्व । अत आवयोः पोषणाद्यर्थं तृतीयामुपायंस्त । तस्यामेकः पुत्रः श्रीश्रीकृष्णो 'मास्टर ऑफ आर्टस्' (M.A.) पर्यन्तमाङ्गलविद्या- मधीत्य जीविकोपायलग्नोऽस्ति-कन्यकाद्वयञ्च । तयोविवाहसंस्कारस्तातचरौरेव सम्पादितः। ग्रन्थरचनातिरिक्ताऽपरा चिरस्थायिनी कीतिरूपतेषां कृतिरेका पुष्करिणी मिथिलायां स्वनिवासग्रामे वर्तते । एतस्याः पुष्करिण्याः 'शाके षट्श्रुतिनागभू- (१८४६)-परिमिते ज्येष्ठे वलक्षे गुरौ' चतुरग्निविधानेन यागं गुरुवराः स्वयमेव सम्पादितवन्तः । यस्मिन् वैदिके कर्मणि कर्मकाण्डनिष्णातो वैयाकरणकेसरी महामहोपाध्यायः परमेश्वरशा पौरोहित्यं सम्पादितवान्, महामहोपाध्याय- डाक्टरसर-श्रीगङ्गानाथझाशर्मप्रमुखा विद्वांसः साक्षिण आसन् । एतद्विषयक- निम्नलिखितश्लोकास्तातचरणानां गुरुचरणैर्महामहोपाध्यायश्रीधरजेमिश्रशमंभि- निर्मिताः सन्ति :- आसीदत्र बखेडिशर्ममतिमान् यश्चित्रनाथाभिधो विख्यातो मिथिलावनौ गजहराग्रामे निवासी कृती। पुत्रास्तस्य बभूवुरुत्तमगुणास्तेष्वेव सर्वोत्तमो दुर्द्धर्षो जयदेवशमशुभकृत्पाण्डित्यपारङ्गमः ॥१॥ काशीपण्डितमण्डलीमणिमहामालासुमेरूपमः कीतिस्तोमसमस्तसोमविकसज्ज्योत्स्नाजगन्मण्डनः । शास्त्रार्थो न हि कोऽपि येन तुलितो वैतण्डिकः पण्डितः सासील्लब्धमहामहोत्तरपदोपाध्यायसत्पद्धतिः ॥२॥ कीर्तिः पुष्करिणीयमस्य विदुषो विद्याप्रसूता सती तस्या दानविधौ च वैदिकगण: कल्पोक्तसम्भारतः ।

( १६ ) श्रीचातुश्चरणैरयष्ट विधिभिर्वेदोदितैः कर्मठः शाके षट्श्रुतिनागभूपरिमिते ज्येष्ठे वलक्षे गुरौ ॥३॥ तस्माद्वर्षयुगान्तरोत्तरगतश्रीभास्करेऽच्छे दले श्रीकाशीमणिकर्णिकामरनदीतीरे जपँस्तारकम् । दुःखागारशरीरमत्यजदथो तादृग्जगन्नश्वरं काशीवासफलं फलं द्विजजनेर्मोक्षं प्रलेभे सुधीः ॥४॥ एवञ्चैहिकसमस्तसम्पदनुमापितप्राक्तनपुण्यराशयो नित्यसदनुष्ठानाः प्रत्यक्षी- कृतब्राह्मण्याः पूज्यचरणाः सर्वेषां विद्यार्थिनां विपश्चितां सनातनधर्मावलम्बिनामा- दर्शा इवासन् । अतः परं यत्तेषामेव प्रधानान्यतमछात्रैः प्रातःस्मरणीयैः समस्तविश्व- विख्यातैः स्वनामधन्यैर्महामहोपाध्यायादिविविधपदवीविभूषितैः श्रीगङ्गानाथ- झाशर्माभिलिखितन्तदेवात्रोद्धृत्य लिख्यते--'शून्यमधुना पण्डितमण्डलम्भारते, शास्त्रार्थचर्चा त्वस्तप्रायैव । शोकसन्तप्तेनाधिकं वर्णयितुन्न पार्यते । समाश्वा- सनस्थानमेतावदेव यदधिकक्लेशं विनैव पठनपाठनादिकार्य' कुर्वाणा एव यथा सर्वत्र जीवने प्रौढ़ा प्रासंस्तथैवामरणन्निरवायन । जवराक्रान्तदिनपर्यन्तं व्युत्प- त्तिवादटीकारचनाया लग्ना आसन् । अत एवोक्तम्:-- कुले.. ...जयोऽभ्यासे जयः पण्डितमण्डले । जयो मृत्यौ जयो मोक्षे 'जयदेवः' सदा जयः॥' इति शुभम् - 'जयनिवास प्रयाग श्रीकृष्णजन्माष्टम्यां शुक्र १९६८ वैक्रमाब्दे विदुषामनुचरः उमेशमिश्रः gave Pre- स महामहोपाध्याय-पण्डितराज-जयदेवशममिश्राः (जीवनकालः १९११-८३ वैक्रमाब्द) अथ परिभाषेन्दुशेखरः विजयाऽलङ्कृतः नत्वा साम्बं शिवं ब्रह्म नागेशः कुरुते सुधीः । बालानां सुखबोधाय परिभाषेन्दुशेखरम् ॥ श्रीगणेशाय नमः गौयङ्कात् स्वेन्दुमाक्रष्टुं हस्तमुक्षिपतोऽसकृत् । गजास्यस्यास्यमालोक्याहसते शम्भवे नमः ॥१॥ दरभङ्गानरेशस्य काशीस्थे पाठसद्मनि । अध्यापकपदं प्राप्तो जयदेवाभिधस्सुधीः ॥२॥ विजयाख्यामिमां व्याख्यां पारिभाषेन्दुशेखरीम् । परिष्कृतियुतां कुर्वे विद्वद्वन्दमनोमुदे ॥३॥ ग्रन्थसमाप्त्यादिप्रतिबन्धकदुरितप्रशमाय कृतं मङ्गलं शिष्यशिक्षायै व्याख्यातृश्रोतणामनुषङ्गतो मङ्गलाय च निबध्नाति-नत्वेति । स्वनि- ष्टापकृष्टत्वप्रकारकबोधानुकूलव्यापाररूपनमस्कारो नमधात्वर्थः। स्वं नम- स्कर्ता व्यापारश्च करशिरस्संयोगादिरूपो बोध्यः। ननु देवदत्तस्य स्वापेक्षयाऽपकृष्टत्वे 'देवदत्तं नमस्करोती'तिप्रयोगो न स्यात्, तादृशबोधस्य तत्रासम्भवात् । ननु तादृशबोधाभावेऽपि तदाश्रयत्वेनेच्छोद्देश्यत्वस्य तत्रापि सत्त्वान्न कमत्वानुपपत्तिर्न वा बोधानुपपत्तिर्बाधितस्यापि भ्रमात्मकबोधसम्भवा- दिति चेत्-न । अयं माम्प्रति हीनो विनीतश्च न मदीयव्यापारशतेनापि मामपकृष्टं ज्ञास्यति स्वापेक्षयेतिनिश्चयसद्भावेऽपि तादृशस्येष्टस्य प्रयोग- स्यानुपपत्तेस्तत्र कर्तुस्तादृशेच्छाया अप्यसम्भवात् ।

२] परिभाषेन्दुशेखरः [ ग्रन्थारम्भप्रयोजनम् अत्रोच्यते-स्वधम्मिकोऽपकृष्टत्वप्रकारकबोधाश्रयत्वप्रकारको यो बोध: 'अयं मदपेक्षयापकृष्टमात्मानं जानाती'त्याकारकस्तदनुकूलो व्या- पारो नमस्कारस्स च बोधो निरुक्तस्थलेऽपि सम्भवतीति नानुपपत्तिः । न च सन्निहितशूद्रादेरपि ताहशव्यापारेण तादृशबोधसम्भवात् ब्राह्मण- नमति चैत्रे शूद्रन्नमतीति प्रयोगापत्तिनं च दैवात्तादृशबोधाश्रयत्वेऽपि तदाश्रयत्वेनेच्छोद्देश्यत्वाभावान्न शूद्रस्य कर्मत्वापत्तिः । कर्तुरित्यस्य प्रवृ- त्यभावेऽपि तथायुक्तमित्यनेन तदापत्तेर्दुरित्वादिति वाच्यम् , स्वाव- धित्वेन विवक्षितवृत्तित्वस्वप्रकारकबोधाश्रयत्वप्रकारकत्वोमयसम्बन्धेना- पकृष्टत्वविशिष्टो यो बोधस्तदनुकूलव्यापारस्यैव नमस्कारपदार्थत्वात् । शूद्रवृत्तिबोधे द्वितीयसम्बन्धसत्त्वेऽपि प्रथमसम्बन्धस्याभावान्न हि शूद्रो- ऽपकृष्टत्वावधित्वेन विवक्षितोऽस्ति नमस्कर्तुः। विवक्षितत्वनिवेशाद्वस्तुत- स्स्वापेक्षयाऽपकृष्ट उदासीने वाऽव्याप्त्यतिव्याप्त्योरभाव इति सर्वमव- दातम्। अम्बया सहितः साम्बः। अम्बा माता। सा चाविशेषाजगज्जननी माया गृह्यते । तत्सहितत्वेन परमेश्वरस्य शिवस्य वस्तुतो निर्द्धम्मकस्या- कर्तुरसंज्ञस्यापि सृष्टिकर्तृत्वमुक्तम्भवति । वृद्धचर्थकबृधातुनिष्पन्नब्रह्म- शब्देन पालनकर्तृत्वं बोध्यते । शेते अस्मिन्नविशेषात्सर्वं जगदिति व्युत्पत्त्या प्रलयकर्तत्वम्। ततश्च जगतः सृष्टिस्थितिप्रलयकर्तारं 'यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसम्विश- न्तीति' अतिप्रतिपाद्यं परमेश्वरन्नत्वेत्यर्थः । यदि च सन्निधानान्नागेशाम्बै- वाम्बापदेन गृह्यते, अम्बासाहचर्यान्नागेशपितैव शिवः शिवशब्देनोच्यते तहिं स्वजननीसहितं स्वपितरं शिवनामानन्नत्वेत्यर्थोऽपि युक्त एव । शिवस्यैव माता सान्निध्यादम्बापदेनोच्यते। ततश्च स्वपितामहीसहितं पितरमित्यप्यर्थः। क्त्वाप्रत्ययस्य समानकर्तृकपूर्वकालिकक्रियावाचकधा- तोविधानात् कुरुत इत्येतत्प्रतिपाद्ये विशेष्यभूतव्यापारे स्वकर्तृकर्तृक- त्वस्वोत्तरकालिकत्वोमयसम्बन्धेन नमधात्वर्थव्यापारस्यान्वयस्तदर्थ एव फलभूते बोधे अभेदेन साम्बब्रह्मपदार्थान्वितशिवपदार्थस्य समवेतत्व- सम्बन्धेनान्वयः। बालानामित्यस्य साधारणबुद्धिमतामित्यर्थः। तस्य सुखबोधपदार्थे सुखसमानाधिकरणबोध अन्वयस्समवेतत्वेन। एतेन विशिष्टबुद्धीनां क्लशेन मन्दबुद्धीनाश्च महाभाष्यादितोऽपि परिभाषार्थबोधसम्भवान्निष्फलोऽयं ग्रन्थारम्भ इत्यपास्तम् । तस्य च तादर्थ्यचतुर्थ्यन्तार्थस्य प्रयोजकत्वसम्ब- स्वनामोच्चारण० ] विजयालकुकृतः [३ न्धेन कृधात्वर्थव्यापारेऽन्वयः । शोभना सूक्ष्मपदार्थावगाहिनी धीबुद्धि- य॑स्य स सुधीस्तस्याभेदेन नागेशपदार्थेऽन्वयः । अनेन विशेषणेनात्मोत्क- र्षबोधनद्वारा ग्रन्थोत्कर्षो बोधितः। नागेशस्य च कर्तर्यात्मनेपदार्थे अन्व- यस्तस्मिन्नेव तदर्थसंख्यायाः समवायसम्बन्धेनान्वयः । कर्तश्च वृत्तित्वस- म्बन्धेन तदर्थवर्तमानकालस्य च परिच्छिन्नत्वसम्बन्धेन धात्वर्थव्यापारे- ऽन्वयः। तस्य च मुख्यविशेष्यतया भानं भावप्रधानमाख्यातमिति वचनात् । इन्दुरिव परिभाषा परिभाषेन्दुः । व्याकरणसिद्धान्तप्रकाशकत्वेन भाष्यादितः परिभाषार्थज्ञाने जायमानक्लेशरूपसन्तापनिवर्तकत्वेन च च- न्द्रसादृश्यं परिभाषायाः। स शेखरः। शेखरसदृशः। अर्थात्प्रधानं यस्मिन् ग्रन्थेऽसौ परिभाषेन्दुशेखरस्तम् । तस्य च वृत्तित्वसम्बन्धेन धात्वर्थफले उत्पश्चावन्वयः। परितो भाष्यते पुरुषार्थसाधनत्वादिनोद्घोष्यत इति परि- भापः शिवः। स चासाविन्दुशेखर इति व्युत्पत्त्या शिवेऽपि तन्त्रेण परिभा- पेन्दुशेखरपदार्थस्यान्वयः । तथा च साम्बाभिन्नब्रह्माभिन्नशिवसमवेतोत्कु- ष्टत्वविशिष्टबोधानुकूलो यो व्यापारस्तद्विशिष्टो बालकसमवेतसुखसमाना- धिकरणबोधप्रयोजकस्सुद्ध्यभिन्ननागेशाभिन्नैकत्वविशिष्टकर्तृवृत्तिः वर्त्त- मानकालपरिच्छिन्नःपरिभाषेन्दुशेखरवृत्त्युत्पत्त्यनुकूलो व्यापार इति बोधः। अनेनाध्येतृप्रवृत्तिप्रयोजकत्वेनावश्यप्रदर्शनीयानुबन्धचतुष्टयमपि प्रद- शितम् । अनुबन्धत्वञ्च प्रवृत्तिप्रयोजकज्ञानविषयत्वम् । तथा हि तद्वि- षयकप्रवृत्ति प्रति तद्धम्मिकेष्टसाधनत्वप्रकारकज्ञानं कारणम् । तब प्रकृते परिभाषेन्दुशेखरो मदिष्टसाधनं इत्याकारकं ज्ञानं, तद्विषयतेष्टत्वावच्छिन्ना सुखबोधनिष्टा परिभाषेन्दुशेखरत्वावच्छिन्ना ग्रन्थनिष्ठाऽस्मदर्थत्वाब- च्छिन्ना बालकनिष्ठा साधनत्वत्वावच्छिन्ना प्रयोजकत्वनिष्ठेति सुखबोध- परिभापेन्दुशेखरबालकप्रयोजकत्वानां प्रयोजनविषयाधिकारिसम्बन्धाना- मनुबन्धत्वमुपपन्नम् । न च आत्मनाम गुरोर्नाम नामातिकृपणस्य च । श्रेयस्कामो न गृह्णीयाज्जेष्ठापत्यकलत्रयोः । इति स्मृते: नागेशेति स्वनामोच्चारणमसङ्गतमिति चेत्-उच्यते । अक्षरानभिज्ञेनापि यथादृष्टं प्रन्थस्य लेखनादुच्चारणम्विनापि लेखो भव- तीति स्वीकर्तव्यतया प्रकृते तथैव सत्त्वेनादोषात्। लेखस्य भृत्यकतकस्या- पि सम्भवाम्नागेशकर्तृकत्वस्यैवासिद्धेश्च स्वकीयग्रन्थनिर्माणसामर्थ्यस्य पतञ्जलिप्रणीतमहाभाष्याध्ययनजन्यतया पतञ्जलिरव कुरुते नत्वहम्। अहन्तु लेखनीस्थानीय इति ग्रन्थकारस्याशयेन नागेशपदेन महाभाष्यकार- ४ ] परिभाषेन्दुशेखरः [ परिभाषापदार्थविचारः स्यैव नागानामीश इतिव्युत्पत्त्याऽभिधानाच्च । सङ्कल्पवाक्ये पत्रलेखादौ च स्वनामोच्चारणव्यवहारस्य प्रचुरतया परश्रवणोपयोगिनामोच्चारणनि- षेधपरत्वस्यैव स्मृतेरभ्युपगमाच्च । पण्डितब्राह्मणादिशब्देन स्वस्यापि स्वेनाभिलापस्य शिष्टाचारगोचरतया 'एकादशे द्वादशे वाऽहनि पिता नाम कुर्य्यादिति श्रुतिविहितनामोच्चारणस्यैव निषेधविषयत्वेन नाग ईशः प्रवर्तको यस्य सः। नागस्य ईनांगेः भाष्यकारस्य लक्ष्मीः महाभाष्यं तां श्यति तनूकरोतीति नागेश इतिव्युत्पत्तिकस्य नागेशनाम्नो निषेधविषय स्वाभावाच्च । यद्वा ईशते इतीशः प्रभवो नागानामीशो नागेशस्तान नागेश इति द्वितीयान्तं नत्वेत्यनेनान्वितम् । 'अविद्वांसः प्रत्यभिवादे नाम्नो ये न प्लुतिम्विदुः। कामन्तेषु तु विप्रोष्य स्त्रीष्विवायमहम्बदेत्- इति श्रुत्या 'नामगोत्रम्वेति वार्तिकाच्च स्वनाभगोत्रोच्चारणपूर्वकस्यैवा- भिवादनस्य लाभेन यथा ‘मा हिंस्यात्सर्वा भूतानी'तिनिषेधस्य 'अग्नीषो- मीयं पशुमालभेदित्यनेन बाधस्तथाभिवादने नामोच्चारणविशेषविधिना सामान्यनामोच्चारणनिषेधस्य बाधेनादोषाच्च । न च वाचस्पतिमिश्रेण सांख्यकारिकाव्याख्यानावसरेऽग्नीषोमीयपशुहिंसया बाधो नोक्त इति दृष्टान्तासिद्धिरिति वाच्यम् । तावताऽपि 'स्वल्पः सङ्करस्सपरिहारस्सप्र- त्यवमर्ष' इति पञ्चशिखाचार्यवाक्येन तत्र पापसद्भावस्य प्रामाणिकत्वेन बाधाभावेपि प्रकृते बाधाभावे प्रमाणाभावात् । यत्तु कूपखननजन्यजलेन यथा खननहेतुककईमादिलेपस्य नाशो भवति पुण्योत्पत्तिश्च भवति तथैव नमस्कारजन्यादृष्टेन नामोच्चारणजन्य- पापनाशः समाप्तिप्रतिबन्धकदुरितध्वंसश्च भविष्यतीति नात्मनामोच्चारण- जन्यकलङ्कावतार इति तन्न । तत्तत्पापनाशम्प्रति प्रातिस्विकरूपेण तत्तत्क- मणो हेतुतायाः शास्त्रे प्रतिपादनेन यस्य कर्मणो यत्पापनाशकत्वमुक्तं शास्त्रकारेण तस्यैव तत्पापनाशकत्वस्य स्पष्टं घोतितया प्रकृते अभिवादन- जन्यं पुण्यं नामोच्चारणजन्यपापनाशकमित्याकारकवाक्यस्याभावेनोक्तार्थे प्रमाणाभावात्। कूपखननस्थले प्रत्यक्षप्रमाणेनैव तथास्वीकारादित्यास्ताम्। ननु परिभाषाणां शास्त्रभेदेन भिन्नतया व्याकरणपरिभाषापदार्थः क इति चेत् ? अत्रोच्यते-अप्रामाण्यज्ञानानास्कन्दितसाधुत्वप्रकारक- बोधोपयोगिबोधजनकत्वं परिभाषात्वम् । यथा 'तस्मिन्निति परिभा- षाव्यापारमन्तरेणेको यणचीत्यादेरजुपश्लिष्टस्येको यण साधुरित्याद्येव बोधः । उपश्लिष्टत्वं पूर्वापरसाधारणमित्यप्रामाण्यज्ञानास्कन्दितोऽनास्क- [ ५ परिभाषापदार्थविचारः ] विजयाऽलङ्कृतः प्राचीनवैयाकरणतन्त्रे वाचनिकानि अत्र पाणिनीयतन्त्रे ज्ञाप- न्दितश्चाजव्यवहितपूर्वत्वविशिष्टस्येको यणित्याकारकस्तस्मिन्नितिव्या- पाराधीन इति तस्मिन्नितिपरिभाषाजन्यबोधोऽप्रामाण्यज्ञानानास्कन्दित- साधुत्वप्रकारकबोधोपयोगी तज्जनकत्वञ्च तस्या इति तत्त्वमुपपन्नम् । न चैवं वृद्धयादिपदार्थज्ञानद्वारा वृद्धिरादैजित्यादिसंज्ञाशास्त्राणामपि वृद्धिरचीत्यादिवाक्यार्थबोधोपयोगिबोधजनकत्वात्परिभाषात्वापत्तिरिति वाच्यं, चरमबोधे शक्तयविषयकल्वस्य निवेशनीयत्वात् । नाप्यपवादशास्त्रेण स्वीयोद्देश्यतावच्छेदकावच्छिन्नातिरिक्तत्वेनोत्सर्गशास्त्रीयोद्देश्यतावच्छेद- कावच्छिन्ने संकोचादुत्सर्गशास्त्रीयाप्रामाण्यज्ञानानास्कन्दितो य: सङ्कचि- तधविच्छिन्नोद्देश्यताको बोधः तदुपयोगिबोधजनके 'अकस्सवणे दीर्घ इत्याद्यपवादशास्त्रे परिभाषात्वापत्तिः। साधुत्वाप्रकारकत्वेनापि चरम- बोधस्य विशेषणाधिकारशास्त्रस्य विधिनैकवाक्यतयैव बोधकत्वात्सा- धुत्वाप्रकारकनिरुक्तबोधजनकत्वाभावान्न तत्रातिव्याप्तिशङ्कापि । पूर्वत्रा- सिद्धमित्यस्याधिकारत्वेऽपि होढ इत्यादाविदं शास्त्रं तत्तच्छास्त्रदृष्ट्या सिद्धमित्याकारकपृथग्बोधजनकत्वेन तद्बोधस्य साधुत्वाप्रकारकत्वेऽपि निरुक्तबोधोपयोगित्वाभावेनादोषात्। अतिदेशशास्त्रस्य प्राधान्यात्कार्या- तिदेशकत्वेन तत्रापि नातिव्याप्तिः। निषेधशास्त्राणां वार्त्तिकानाञ्च पृथक साधुत्वाप्रकारकबोधाजनकत्वेन न परिभाषात्वापत्तिः । नन्वेव मसिद्धम्बहिरङ्गमन्तर इत्यादिपरिभाषाबोधस्य निरुक्तबो- धोपयोगित्वाभावेन तत्राव्याप्तिरिति चेदिदमत्रावधेयं विधिशास्त्रप्रवृत्तिनि- वृत्त्युपयोगिसाधुत्वाप्रकारकशक्त्यविषयकबोधजनकत्वे सत्यधिकारशा- स्त्रभिन्नत्वं तत्त्वम् । परिभाषया कस्यचिद्विधिशास्त्रस्य कुत्रचित्प्रवृत्ते- निवृत्तेर्वावश्यम्भावाल्लक्षणसमन्वयः। रूपातिदेशस्य तृज्वत्क्रोष्टुरित्यस्य विचारेण साधुत्वप्रकारकबोधजनकत्वस्यैव लाभेनादोष इति दिक् । निरुक्तलक्षणलक्षितानामपि 'तस्मिन्नित्यादिपरिभाषाणामव्याख्या- न्यूनत्वशङ्कावारणाय व्याख्येयानि परिभाषारूपाणि निर्दिशति- प्राचीनवैयाकरणेत्यादिना । तस्मिन्नित्यादीनां स्वत:प्रामाण्येन ज्ञापक- न्यायसिद्धत्वाभावेन व्युदासः । ननु स्वतस्सिद्धान्यपि 'यस्मिन् विधिस्तदादावलग्रहणे 'उपपदविभ- क्तेः कारकविभक्तिर्बलीयसी'त्यादीनि व्याख्यातान्यत एव तत्र तत्र वाच- - परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके कन्यायसिद्धानि भाष्यवार्तिकयोरुपनिबद्धानि यानि परिभाषारू- पाणि तानि व्याख्यायन्ते । निकमिदमित्युक्तं सङ्गच्छत इति प्रतिज्ञाभङ्ग इति चेत्- अत्र केचित् प्राचीनवैयाकरणतन्त्र इत्यादि सप्तम्यन्तद्वयं न क्रमेणान्वय्यर्थप्रतिपादकं येन वाचनिकेषु पाणिनीयतन्त्रान्वयो न स्यादपि तु समुच्चयार्थकचशब्दमुभयत्राप्यध्याहृत्य प्राचीनवैयाकरणतन्त्रे अत्र पाणिनीयतन्त्रे च वाचनिकानि ज्ञापकन्यायसिद्धानि चेति रीत्या समुदायत्वावच्छिन्नस्य समुदायत्वावच्छिन्नेऽन्वयाद्यथायोग्यमन्वयविश्रा- न्तेरापत्त्यभावादित्याहुः। अन्ये तु ज्ञापकन्यायशब्दाभ्यामर्श आद्यचि ज्ञापकेत्यस्य ज्ञापकसिद्धं न्यायेत्यस्य न्यायसिद्धं सिद्धत्यस्य स्वतस्सिद्धमित्यर्थं कृत्वा वाचनिक- मपि संगृह्णन्ति । पक्षद्वयेऽपि तस्मिन्नित्यादिव्यावृत्तये पाणिन्यनुञ्चरिता- नीति शेषः। परे तु ज्ञापकन्यायसिद्धत्वमेव सर्वासामिति तत्तत्परिभाषानिरूप- णावसरे स्फुटीभविष्यति । तत्र तत्र वाचनिकत्वकथनन्तु भाष्ये ज्ञापक- न्यायानुपन्यासप्रयुक्तमेवेत्याहुः। ननु नाजानन्तर्याकृतव्यूहेत्यादीनां भाष्यवार्तिकयोरनुपनिबद्धा- नामपि व्याख्यानेन प्रतिज्ञाविरोध इति चेत्-न । भाष्यवार्तिकयोरुप- निबद्धानीति न परिभाषारूपे विशेषणमपि तु स्वतन्त्रमेव । तथा च ज्ञापकन्यायसिद्धानि भाष्यवार्तिकयोरुपनिबद्धानि च यानीत्यर्थः । भाष्यवार्तिकयोरित्यस्य तयोरेवेत्यर्थस्तेनाष्टाध्यायीपठितानां तस्मिन्नि- त्यादीनां व्युदासः । नाजानन्तर्य इत्यादीनां यस्मिन्विधिरित्यादीनाञ्च संग्रहः। अस्मिन् ग्रन्थे त्रीणि प्रकरणानि सन्ति-शास्त्रत्वसम्पादकम्, बाध- बीजकथनम्, शेषार्थकथनञ्च । एकदेशविकृतमनन्यवदित्यन्तमाद्यम् । एत- दनन्तरमुभयनिर्देशे पञ्चमीनिर्देशो बलीयानित्यन्तं द्वितीयम् । तदनन्तरं तृतीयम् । तेषु प्राधान्यात्प्रथमं शास्त्रत्वसम्पादकमुपात्तम् । तत्रापि महेश्वरो- चरितानुबन्धमूलकत्वेनाभ्यहितत्वादितरपरिभाषाप्रवृत्तिप्रयोजकतया चादौ १. व्याख्यानतो विशेष. ] विजयाऽलङ्कृतः [७ ननु लण्–अइउणसूत्रयोर्णकारस्यैवोपादानेनाणिणग्रहणेषु सन्देहादनिर्णयोऽत आह- 'व्याख्यानतो विशेषेति' परिभाषामवतारयति-नन्विति । गृह्मन्त एभिरिति ग्रहणानि । अणिणां ग्रहणानि अणिणग्रहणानि । तेषु अणिण- ग्रहणेषु । सन्देहादिति। नन्वत्र क सन्देहः ? न तावच्छत्तौ । अण- पदमकारादिपूर्वणकारान्तसमुदायघटकवर्णवृत्तिजात्यवच्छिन्ननिरूपितश- क्तिमत्, उताकारादिपरणकारान्तसमुदायघटकवर्णवृत्तिजात्यवच्छिन्ननि- रूपितशक्तिमदित्याकारकः ? आदिरन्त्येन सहेतेत्यनेनाणपदे अकारादि- णकारान्तसमुदायघटकवर्णवृत्तिजात्यवच्छिन्ननिरूपितशक्तर्बोधनेन शक्य- तावच्छेदकाश्रययावद्वयक्तिनिरूपितैकैव शक्तिरिति नियमेन निरुक्तसमु- दायद्वयघटकसर्ववर्णानां निरुक्तशक्यतावच्छेदकाक्रान्तत्वेन तत्रत्यसकल- वर्णनिरूपितशक्तिमत्त्वनिश्चयेन तस्य सन्देहप्रतिबन्धकत्वेन सन्देहासम्भ- वात्। न हि घटत्वावच्छिन्ननिरूपितशक्तिमत्त्वेन ज्ञाते घटपदे एतद्घट- निरूपिता शक्तिः, उत तद्घटनिरूपितेति सन्देहो भवति । न च बाध- काभावात्सर्वत्राणिणपदेऽन्त्यणकारान्तसमुदायनिरूपितैकशक्तरेव बोधने पूर्वणकारोच्चारणस्य वैयर्थ्यापत्त्याऽकारादिपूर्वणकारान्तसमुदायनिरूपिता परणकारान्तसमुदायनिरूपिता च भिन्नैव शक्तिर्बोध्यते। शक्यतावच्छेद- ककोटौ पूर्वत्वपरत्वनिवेशेनेति कोटिद्वयोपपत्तेर्ने सन्देहासम्भव इति वाच्यम् । तावतापि हादिपदे नानाशक्तिदर्शनेन शक्तीनां विरोधाभावेन विरुद्धकोटिद्वयावगाहिज्ञानरूपसन्देहासम्भवस्य तादवस्थ्यात्। नापि तात्पर्य सन्देहः। प्रकृते निर्णायकाभावेनैतदण्पदमेतच्छक्तिज्ञानाधीनबोधजनने- च्छयोच्चरितमपरशक्तिज्ञानाधीनबोधजननेच्छया वेत्याकारकः। मदीयः पुत्रो धनवान् भवतु पण्डितश्च भवत्वित्येकस्मिन्ननेकेच्छाविशेष्यत्वदर्श- नेनाविरोधात्सन्देहस्य तत्राप्यसिद्धेः। अत्रोच्यते-यद्यप्येकस्मिन्नपि नानातात्पर्यसम्भवः तथापि ऋषी- णामिच्छाप्रतिघाताभावात्तदीयेच्छा फलवत्येव भवितुमर्हति । बोधव- यञ्च सकृदुच्चरिताणपदान्न सम्भवति। सकृदुच्चरितन्यायादावृत्तौ प्रमाणाभावाच्च । तस्मान्न पाणिनिसमवेतोभयविधतात्पर्य्यविषयताप- नमिदमणपदमिति निश्चयेनैकस्यैव सत्त्वेनेदन्तात्पर्य्यमुतापरमितिसन्देह ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम् ॥१।। विशेषस्यान्यतराद्यर्थरूपस्य व्याख्यानाच्छिष्टकृतात् प्रतिपत्ति- निश्चयः । हि यतः सन्देहाच्छास्त्रमलक्षणमननुष्ठापकं, लक्षणं तथा न। शास्त्रस्य निर्णयजनकत्वौचित्यादित्यर्थः । असन्दिग्धानुष्ठानसिद्धय- थेऽत्र शास्त्रे सन्दिग्धोचारणरूपाचार्यव्यवहारेण सन्देहनिवृत्ते- उपपद्यते । शाब्दबोधे च तात्पर्यनिश्चयस्यैव हेतुत्वेन तात्पर्य्यसन्देहाद- निर्णयः शाब्दबोधाभाव इत्यर्थः । यदि तात्पर्यज्ञानत्वेनैव कारणता तर्हि तात्पर्यसन्देहे शाब्दबोधोपि सन्दिग्धप्रामाण्यक एवेत्यनिर्णय इत्यस्य निश्चितप्रामाण्यकशाब्दबोधाभाव इत्यर्थः । विशेषेत्यस्यार्थमाह- अन्यतराद्यर्थरूपस्येति । अन्यतमस्या- दिना ग्रहणम् । अलक्षणमित्यत्रानुष्टापकशब्देन नब्ब्तत्पुरुषे लक्षणेन सह कर्मधारये शाकपार्थिवादित्वात्पूर्वसमासोत्तरपदस्य लोपे च कृतेऽल- क्षणमित्यस्याप्रवर्तकलक्षणमित्यर्थः । सन्देहात्तथा नेत्यर्थः । असन्दि- ग्धानुष्ठानसिद्धयर्थत्वेन शास्त्रं सन्देहादलक्षणमप्रवर्तकलक्षणं भवितुम्ना- हंति परन्तु तथा प्राप्तमिति व्याख्यानात्सन्देह निवृत्तिः कर्तव्येति बोध्यम् । लक्षणमित्यस्य शास्त्रमित्यर्थः । यदि तात्पर्यनिश्चयत्वेन शाब्दबोधं प्रति कारणता यदि वा तात्पर्यज्ञानत्वेन कारणता सर्वथा प्रवर्तकशास्त्रत्वा- भावः प्राप्त इति बोध्यम् । ज्ञापनप्रकारमाह-असन्दिग्धानुष्ठानसि- द्ध्यर्थ इत्यादि । भावक्तान्तसन्दिग्धपदेनार्थाभावेऽव्ययीभावः। सन्देह- स्थाभावोऽसन्दिग्धं, तत्प्रयोज्यमनुष्ठानं प्रयोगोच्चारणे प्रवृत्तिरित्यर्थः । तद्विषयकप्रवृत्ति प्रति तद्धमिकेष्टसाधनत्वनिश्चयस्य हेतुत्वेनानुष्ठानं सन्दे- हाभावप्रयोज्यम्भवति । तदर्थत्वञ्च शास्त्रस्य । तद्विना लक्ष्ये पुण्यजनक- त्वरूपस्येष्टसाधनत्वस्य निश्चयाभावेन प्रवृत्त्यभावात् । सन्दिग्धोच्चारणरूपाचार्यव्यवहारेणेति । भावक्तान्तस्य प्रयो- जकत्वार्थकषष्ठयन्तस्य सन्दिग्धस्य समासः । उच्चारणेति। णकारोच्चारणेत्यर्थः। आचार्यपदेनात्र महेश्वरः । अनुबन्धस्य महेश्वरकृतत्वात् । सन्देहवारणोपायस्य खकाराद्यनुबन्धकर- १. व्याख्यानतो विशेष. ] विजयाऽलङ्कृतः [. ाख्यानातिरिक्तनिमित्तानपेक्षत्वं बोध्यत इति यावत् । तेना's- णुदित्सवर्णस्य' इत्येतत्परिहाय पूर्वेणाण्ग्रहणं परेणेण्ग्रहणमिति लसूत्रे भाष्ये स्पष्टम् ॥१॥ णस्य सत्यपि सम्भवे सन्देहाभावप्रयोज्यस्य प्रयोगोच्चारणस्य सिद्धी- च्छया सन्देहप्रयोजकणकारोच्चारणं सर्वज्ञस्य महेश्वरस्यानुपपन्नं सत् सन्देहनिवृत्तिाख्यानाद्भविष्यतीत्येताहशं स्वस्योपपादक कल्पयित्वोप- पन्नमित्यर्थापत्तिप्रमाणगम्यमेव सर्वत्र ज्ञाप्यं बोध्यम् । व्याख्यानात्सन्दे- हनिवृत्तिस्स्यादिति बोधनायैव तथोच्चारणमिति नानुपपत्तिरिति यावत्। अत एवेको यणचीत्यादावचीतिपदमकारादिबोधकत्वेन तात्पर्यविषय- मचप्रत्ययबोधकत्वेन वेति सन्देहस्योत्पत्तिमात्रेण नाप्रामाण्यम् । एतेन ज्ञापितायामपि कथं स्वांशे चारितार्थ्यमिति शंका न, अस्या हि ज्ञाप्य- मस्तु ज्ञापकं मास्त्वित्याकारः। पूर्वणकाररूपज्ञापकाकरणे हि अइ उमात्रबोधानापत्तिः । खकाराद्यनुबन्धं कृत्वा तावन्मात्रबोधस्य अखइ- खपदेनोपपादने हि लाघवानवकाशस्तथा सति सन्देहाभाव इति चेत्- णकारकरणेऽप्युक्तज्ञाप्यात्सन्देहाभावसिद्धेः। किञ्चानुपपत्त्योपपादकं क- ल्पितन्तेनानुपपत्तिशान्तिरिति किमितोऽधिकं वक्तव्यम् । यत्र ज्ञापने जाते केनापि लघुभूतोपायेन लक्ष्यसिद्धौ गुरुभूतज्ञापककरणमनुपपन्नमेव तत्र ज्ञापिते कथं चारितार्थ्यमित्युच्यते । अन्यथा लक्ष्यासिद्धिरूपोपपाद- कस्य प्रदर्शनेनानुपपत्तिपरिहारे जातं चारितार्थ्यमित्युच्यते, न तथा प्रकृते उपपादितत्वात् । एतेन ज्ञापितायामप्यस्यां स्वांशे चारितार्थ्याभाव इत्यपास्तम् । सन्देहनिवृत्तेर्व्याख्यानापेक्षवं बोध्यत इत्येव सिद्धेः नद्धयोपादानेन विरोधस्थले व्याख्यानादेव सन्देहनिवृत्तिः कर्तव्या। न पाणिनिन्यासादिनेति बोधनद्वारा 'यथोत्तरं मुनीनां प्रामाण्याम ति बोधितम् । अत एव 'हृदयस्य हल्लेखयदण्लासेष्वि'ति सूत्रे लेखग्रहणेन लेखशब्दस्य न घअन्तलेखशब्दबोधकत्वं ज्ञापितमपि तु भाष्यकृव्या- ख्यानेनोत्तरपदाधिकारे प्रत्ययग्रहणे इति परिभाषैव ज्ञापितेति बोध्यम् । ब्याख्यानञ्च तत्र तत्र ग्रन्थ एव स्पष्टम् । 'यथोत्तरमि'त्यत्र प्रमाणन्तु 'धिन्विकृण्व्योर चेति सूत्रेण वलोपविधानेनैव 'न धातुलोप' इत्यनेन गुणनिषेधाद्धिनोतीत्यस्य सिद्धावकारविधानमेव । ज्ञापिते च भाष्यकारेण न धातुलोप इत्यस्य प्रत्याख्यानाद्गुणाभावाय चरितार्थम् ।

- १० ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके तत्र संज्ञापरिभाषाविषये पक्षद्वयमित्याह- यथोद्देशं संज्ञापरिभाषम् ॥ २ ॥ कार्यकालं संज्ञापरिभाषम् ॥ ३ ॥ उद्देशमनतिक्रम्य यथोद्देशम् । उद्देश उपदेशदेशः । अधिकरण- साधनश्वायम् । यत्र देश उपदिश्यते तद्देश एव वाक्यार्थबोधेन यत्तु स्वेन स्वस्याप्रामाण्यबोधनमनुचितमिति नैतज्ज्ञापकमिति-तन्न। यथार्थबोधने अनौचित्यविरहात्॥१॥ तन्त्र संज्ञापरिभाषाविषये पक्षद्वयमिति। तश्रेत्यस्य शास्त्र इत्यर्थस्तस्य च पक्षद्वयपदार्थेऽन्वयः । तेन पक्षद्वयत्वावच्छिन्नाधेयतानिरू- पिताधिकरणता शास्त्रत्वावच्छिन्नेति लभ्यते । तत्रेत्यनुक्तौ तु संज्ञापरि- भाषादेशत्वावच्छिन्नाया एव तस्या लाभेन प्रतिसंज्ञाविषयं प्रतिपरिभाषा- विषयं पक्षद्वयमित्यनिष्टं सम्भाव्येत । तावन्मात्रोक्तौ तु विधिसूत्रेऽपि पक्षद्वयाधिकरणत्वापत्तिः। विषयशब्दो देशवाची । सप्तम्याश्चावच्छेद- कत्वमर्थोऽधिकरणवान्वयि। तथा च संज्ञापरिभाषादेशावच्छेदेन शास्त्रे पक्षद्वयमित्यर्थः। यत्र देश उपदिश्यत इति । छात्रो द्विविधः-एकश्च श्रद्धालुः 'गुरुभिर्यन्माम्प्रत्युपदिश्यते तदश्यमेव मदुपयोगीति निश्चय- वान् यथाश्रुतग्राही। स वृद्धिरादैजित्यस्य बृद्धिपदमादैनिरूपितशक्ति- मदित्यर्थे तस्मिन्नित्यादिपरिभाषायाः सप्तमीनिर्देशेन विधीयमानं कार्य- मव्यवहितपूर्वस्य भवतीत्याद्यर्थे च गुरुभिर्बोधिते सादरानुभवाज्जात- तत्तदर्थविषयकसंस्कारो वृद्धिरेचीको यणचीत्यादौ वृद्धिपदोपश्लेषिका- धिकरणवोधकाचीतिपदेत्यादिरूपैकसम्बन्धिज्ञानेनोबुद्धतत्तत्संस्कारेणा- नुभूततत्तदर्थं स्मृत्वा लक्ष्यसंस्कारोपयोगिवाक्यार्थबोधवान् भवति। तद्- पेक्षया यथोद्देशपक्षः। अपरश्च फलानुरोधेनैव गुर्वादिवाक्येऽपि श्रद्धावान् । स वृद्धिरादैच तस्मिन्नित्यादिवाक्यार्थे गुरुभिर्बोधितेऽपि शब्दसाधुत्वज्ञानार्थं प्रवृत्तस्य मम नानेव साधुत्वम्बोधितमिति नैतन्मदुपयोगीति निश्चित्योपेक्षितवान् ।

२. यथोद्देशं० ] विजयाऽलङ्कृतः [ ११ गृहीतशक्त्या गृहीतपरिभाषार्थेन च सर्वत्र शास्त्रे व्यवहारः। देशश्च प्रथमोच्चारणकाल एवात्र शास्त्रे व्यवहियते । तत्तद्वाक्यार्थबोधे जाते भविष्यति किञ्चिदनेन प्रयोजनमिति ज्ञानमात्रण सन्तुष्यद्यथाश्रुत- ग्राहिप्रतिपत्रपेक्षोऽयं पक्ष इति 'ईदूत' सूत्रे कैयटः । केचित्तु परिभाषाविषये 'तस्मिन्'इत्यादिवाक्यार्थबोधे सप्त- मीनिर्देशादिः कति पालोचनायां सकलतत्तद्विध्युपस्थितौ सक- तेन तत्तदर्थविषयकदृढसंस्काराजननाद्वृद्धिरेचीत्यादौ वृद्धयादिपदज्ञा- नेऽपि तत्तदर्थज्ञानाभावाद्वाक्यार्थबोधाप्रसक्तौ कोस्ति वृद्धिपदार्थ इत्यादि- जिज्ञासायां पुनर्गुरुभिरुच्यमानेन वृद्धिरादैजित्यादिना सहैवं तस्मिन्नित्या- दिना च सह वृद्धिरेचीत्यादीनां पदैकवाक्यतयैवार्थो बुद्धद्यते । तदपेक्षः कार्यकालपक्षः। अनुभवेन संस्कारजनने अनुभवस्येवापेक्षावुद्धरपि हेतुत्व- मितिभावः। तथा च यथोद्देशपक्षे परिभाषया संज्ञासूत्रेण च विधिशास्त्रस्य वाक्यैकवाक्यता। सा चोपजीव्योपजीवकभावापन्नबोधजनकत्वरूपा । तस्मिन्नित्यादिपरिभाषाणां वृद्धिरादैजित्यादिसंज्ञासूत्राणाञ्च बोध उप- जीव्य "इको यणचि "वृद्धिरेची"त्यादिशास्त्रजन्योऽप्रामाण्यज्ञानाना- स्कन्दितो लक्ष्यधर्मिकसाधुत्वप्रकारको बोध उपजीवकः । तादृशबोधस्य संज्ञापरिभाषाबोधाधीनत्वादिति लक्षणसमन्वयः । कार्यकालपक्षेच पदैकवाक्यता । सा च निरूप्यनिरूपकभावापन्नविषयताप्रयोजकपदध- टितत्वरूपा। तत्पक्षे च विधिशास्त्रेण सह संज्ञापरिभाषयोर्बोधजनक- त्वात् । परिभाषाघटकस्य पूर्वपदार्थस्य निर्दिष्टपदार्थस्य च सूत्रघटके इपदार्थे अच्पदार्थे चाभेदसम्बन्धेनान्वयात् । संज्ञासूत्रघटकादैच्प- दार्थे सूत्रघटकवृद्धिपदस्याभेदेनान्वयाच्च । तत्रत्यप्रकारताविशेष्यतयोनि- रूप्यनिरूपकभावापन्नयोः प्रयोजकत्वं पूर्वादिपदानां तद्घटितत्वञ्च प- रिभाषाविधिसूत्रयोः संज्ञासूत्रविधिसूत्रयोश्चेति लक्षणसमन्वयः । इदं प्राचीनमतम् । स्वमतमुपन्यस्यति-केचित्रिवति । भाष्यतत्त्वविद इत्यर्थः। सक- लतत्तद्विध्युपस्थिताविति । परिभाषया स्वीयसप्तमीनिर्देशादिलिङ्गचि- १२] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके लतत्तत्संस्काराय गुणभेदं परिकल्प्यैकवाक्यतयैव नियमः । कार्य- कालपक्षे तु त्रिपाद्यामप्युपस्थितिरिति विशेषः । एतदेवाभिप्रेत्याधिकारो नाम त्रिप्रकार:-कश्चिदेकदेशस्थः सर्व शास्त्रमभिज्वलयति, यथा प्रदीपः सुप्रज्वलितः सर्वं वेश्माभि- ज्वलयतीति षष्ठी स्थान' इति सूत्रे भाष्य उक्तम् । अधिकारशब्देन ह्नितस्वदृष्टसकलसापादिकशास्त्राणामाकर्षणमिति भावः । सकलतत्त- त्संस्कारायेति । तत्तद्विधिशास्त्रीयाप्रामाण्यज्ञानानास्कन्दितसाधुत्वप्र- कारकबोधजननायेत्यर्थः । गणस्येति । विधेयस्य निर्दिष्टे पूर्वस्येत्यादि- रूपस्य । भेदमिति । यावद्विधिसूत्रमावृत्तिम् एकेन विधेयबोधकपदेन सह सर्वविधिसूत्राणामन्वयासम्भवादिति भावः। संपूर्णपरिभाषाया विधि- सूत्रेणानन्वयात्तदावृत्तौ फलाभावाद्गुणभेदमित्युक्तम् । एकवाक्यतयैव नियम इति । पदैकवाक्यतयैव लक्ष्यसंस्कारको वोध इत्यर्थः। परिभाषया जन्यत इति शेषः । पदैकवाक्यता तु पूर्वमुक्ता। यन्न देशे परिभाषो- पदिश्यते तद्देश एव विधिसूत्रेण सह पदैकवाक्यतया लत्यसंस्कारोप- योगिवाक्यार्थबोध: परिभाषया सम्पाद्यत इति निष्कर्षः। अयमेव यथोडेशपक्षः। त्रिपादीस्थशास्त्राणां परिभाषादृष्ट्या असिद्धत्वात्तेषामाकर्षणाभावात् परिभाषया लक्ष्यसंस्कारकबोधजनकत्वं तेषान्न स्यादित्यत आह-कार्य- कालपक्षे त्विति । तुशब्देन यथोद्देशपक्ष व्यवच्छिनत्ति । न यथोद्देशपक्ष इति यावत् । त्रिपाद्यामपीति । अपिना यथोद्देशपने सपादसप्ताध्या- य्यामित्यस्य संग्रहः । अदृष्टपिशाचन्यायेन त्रिपादीस्थैविधिशास्रेव वसंस्काराय परिभाषामाकृष्य पकवाक्यतया लक्ष्यसंस्कारको बोधः स्वदेशे जन्यत इति भावः । अयमेव कार्यकालपक्षः । पक्षद्वयेऽपि परिभाषाणां पदैकवाक्यतयैव बोधकत्वमित्यर्थे मानमाह- एतदेवेत्यादिना । त्रिप्रकार इति । एकः उत्तरोत्तरं सम्बध्यते, यथा- ऽङ्गस्येत्यादि । अपरो यश्चकारेणानुषज्यते । अपरः परिभाषारूपः। अधि- कारत्वञ्च विधिवाक्येन सह पदैकवाक्यतया बोधजनकत्वम्। न चाधिका- २. यथोद्देशं० ] विजयाऽलङ्कृतः [ १३ पारार्थ्यात्परिभाषाप्युच्यते। कश्चित्परिभाषारूप इति कैयटः। दीपो यथा प्रभाद्वारा सर्वगृहप्रकाशक एवमेतत्स्वबुद्धिजननद्वारा सर्व- शास्त्रोपकारकमिति तत्तात्पर्यम् । एतच्च पक्षद्वयसाधारणं भाष्यम् । पक्षद्वयेऽपि प्रदेशकवाक्यताया इतः प्रतीतेः । तत्रतावान्विशेषः । यथोद्देशे परिभाषादेशे सर्वविधिसूत्रबुद्धावात्मभेदं परिकल्प्य तैरे- कवाक्यता परिभाषाणाम् । तदुक्तं 'ङिति च' इति सूत्रे कैयटे । यथोद्देशे प्रधानान्यात्मसंस्काराय सन्निधीयमानानि गुणभेदं प्रयु- जत इति । कार्यकाले तु तत्तद्विधिप्रदेशे परिभाषाबुद्ध्यैकवा- क्यतेति । अत्रैकदेशस्थ इत्यनेन तत्र तत्र तत्तबुद्धावपि तत्तद्दे- शस्थत्वं वारयति । यथा व्यवहर्तृणां कार्यार्थमनेकदेशगमनेऽपि । रविषयं भाष्यं परिभाषायां नोपयुज्यत इत्यत आह-कश्चित्परिभाषारूप इति कैयट इति । तथा च परिभाषाविषयमेव भाष्यमिति बोध्यम् । दीपो यथा स्वावयवप्रभासम्बद्धपदार्थप्रकाशकस्तथा परिभाषापि स्वावयववि- धेयसम्बद्धमेव विधिशास्त्रमभिज्वलयतीत्यर्थ इति स्पष्टमेव दीपदृष्टान्तेन पदैकवाक्यता लभ्यते । वाक्यैकवाक्यतायान्त्ववयवसम्बन्धाभावादृष्टा- न्तासङ्गतिः स्पष्टैवेति बोध्यम् । एवं दीपवत् । एतत् परिभाषारूपम् । स्ववधिजननद्वारेति । स्वविधेयोपस्थितिद्वारेत्यर्थः । नन्विदं भाष्यं कार्यकालपक्षाभिप्रायकमेव । तत्पक्षे पकवाक्यतायाः प्राचीनैरप्यङ्गीकारान्नैतद्भाष्यविरोधः प्राचामिति चेत्तत्राह-एतच्चेति । भाष्ये पक्षविशेषस्यानुपक्रमादिति भावः । प्रदेशैकेति। विध्येकेत्यर्थः । न तु विधिदेश एवेत्याग्रहः। ननु पक्षद्वये पदैकवाक्यतायां को विशेषस्तयोरित्यत आह—एतावा- निति । परिकल्प्येति । अस्य स्थितानामिति शेषः । अत एव क्त्वा- प्रत्ययोपपत्तिः । तैः विधिसूत्रैस्सहेत्यर्थः । कार्यकाले तु तत्तद्विधि- प्रदेश इति । तथा च यथोद्देशे परिभाषादेशे, कार्यकाले विधिदेशे, लक्ष्य- संस्कारको बोध इत्येतावन्मानंतयोर्भेद इति बोध्यम् । ननु विधिदेशे परि- भाषाबुद्धौ परिभाषाया एकदेशस्थत्वानुपपत्तिरित्यत आह-एकदेशस्थ इत्यनेनेति । एकदेशस्थ इत्यस्य एकदेश उत्पन्न एवेत्यर्थः। तत्तद्देश- ।

१४] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके न तद्देशीयत्वव्यवहारः किं त्वभिजनदेशीयत्वव्यवहार एव तद्वत् । निषेधवाक्यानामपि निषेध्यविशेषाकाक्षित्वाद्विध्येकवाक्यतयैवा- न्वय इति परिभाषासादृश्यात्परिभाषात्वेन व्यवहारः 'डिति चे'- त्यत्र भाष्ये । तत्रैकवाक्यता पर्युदासन्यायेन । प्रसज्य प्रतिषेधे- स्थत्वमित्यस्य तत्तद्देशीयत्वमित्यर्थः । अत एव दृष्टान्ते न तु तद्देशीय- स्वेत्येवोक्तम् । उत्पत्त्यधिकरणदेशस्यैव परत्वादिव्यवहारप्रयोजकतया परिभाषाया विधिदेशस्थितिमात्रेण क्षत्यभावाच कस्यचिद्व्याख्याना- न्तरन्तु न युक्तमुक्तरीत्यैवोपपत्तौ क्लिष्टकल्पनाया अनौचित्याच्छब्दम- या॑दयाऽलाभाचेत्यलम्। ननूक्तपक्षद्वयस्य संज्ञापरिभाषामात्रविषयकत्वेन 'डिति चे'त्यत्र का- र्यकालपक्षोपन्यासो भाष्यकूतां विरुध्येतेत्यत आह-निषेधवाक्या- नामित्यादि । विध्युपकारकत्वमात्रेणारोपितं परिभाषात्वं तत्राप्यस्तीति भावः । डिन्तीत्यौपश्लेषिकसप्तमीत्वाद्भिन्नमित्यादौ दकारेण व्यवधा- नेपि गुणनिषेधोपपत्तये भाष्यकृतोऽयं यत्नः । पर्युदासन्यायेनेति । 'क्ङिति चे'त्यत्रानुवृत्तस्य नबो भेदार्थकत्वेन क्डित: स्वप्रतियोगिकत्व- सम्बन्धेन भेदे तस्य च स्वरूपसम्बन्धेन सार्वधातुकार्द्धधातुकपदार्थेऽन्वयः। डिप्रतियोगिकभेदविशिष्टसार्वधातुकार्द्धधातुकयोः परयोरित्यर्थ इति भावः । तथा च निरुक्तपदैकवाक्यतोपपद्यते । पर्युदासन्यायेनेत्यस्य नयो भेदरूपपर्युदासाऽर्थत्वमिति युक्त्येत्यर्थः । ननु घटेन द्रव्ये इत्यादिवाक्याघटभिन्ने द्रव्य इत्यर्थाप्रतीतेरसमस्तन- बा भेदबोधने प्रथमान्तप्रतियोग्यनुयोगिवाचकपदसमभिव्याहारस्य कार- णताया वक्तव्यतया प्रकृते प्रतियोग्यनुयोगिवाचकपदयोस्सप्तम्यन्तत्वेन भेद- बोधकत्वं नबो न सम्भवतीत्याह-प्रसज्य प्रतिषेधेपोति । डिति पर इको गुणो न भवतीति पृथगेव वाक्यार्थबोधः । पुगन्तलघूपधस्य चेत्यस्य समीपे प्रसज्य प्रतिषेधे यद्यपि वाक्यार्थद्वये गौरवं तथापि पर्युदासस्योक्त- युक्त्याऽसम्भवदुक्तिकत्वेनागत्या गौरवं स्वीकार्यमिति भावः । न च भिन्न- मित्यादौ दकारेण व्यवधानात् कथं निषेध इति वाच्यम् । कार्यकालपक्षे प्रतिनिषेध्यशास्त्रं डिति चेत्यस्य भिन्नतया पुगन्तलघूपधस्य चेत्यत्रोप- स्थितस्य तस्य सामर्थ्यादेकवर्णव्यवधानेऽपि प्रवृत्तिस्वीकारेणादोषात् । न २. यथोद्देशं० ] विजयाऽलङ्कृतः [ १५ ऽपि तेन सह वाक्यार्थबोधमात्रेणैकवाक्यताव्यवहारः। संज्ञाशा- स्त्रस्य तु कार्यकालपक्षे न पृथग्वाक्यार्थबोधः किन्तु प्रदेशवाक्येन वेकवाक्यता एतदेवाभिप्रेत्याह-तेन सह वाक्यार्थबोधमात्रेणैकवा- क्यताव्यवहार इति । वास्तविकैकवाक्यता नास्ति किन्तु तद्देशे वाक्या- थंबोधेनैकवाक्यत्वमारोपितमिति तद्भावः । संज्ञाशास्त्रस्य तु कायंत्यादि-ननु इदन्तावद्युक्तं पृथग्वाक्या- र्थबोधाभावे तद्वाक्ये शक्तियाहकत्वस्याज्ञानाद्विधिशास्त्रेण तदाकर्षणा- सम्भवात्तद्देशेऽपि वाक्यार्थबोधासम्भवात् न च वाक्यार्थबोध इत्यनेन लक्ष्यधर्मिकसाधुत्वप्रकारको बोधो गृह्यते । स न संज्ञाशास्त्रस्य कार्यका- कालपक्षे पृथगित्यर्थ इति वाच्यम् । तथा सति तत्पक्षे परिभाषाया अपि पृथक् तादृशबोधाजनकत्वेन संज्ञाशास्त्रस्येति विशिष्योक्तरसङ्गत्यापत्तेः। यथोद्देशपक्षेऽपि संज्ञाशास्त्रस्य तादृशबोधाजनकत्वेन कार्यकालपक्ष प्रति विशिष्योक्तरसंगत्यापत्तश्चेति चेन्मैवम् । वाक्यार्थबोध इत्यनेन लक्ष्यसं- स्कारक एव वाक्यार्थबोधो गृह्यते । लक्ष्यसंस्कारकश्च साधुत्वप्रकारकः । साधुत्वप्रकारकबोधाधिकरणत्वे सति तदुपयोगी चेत्युभयविधः। संज्ञाशा- स्त्रस्य तु न पृथक् तादृशो वाक्यार्थबोधः । कदापीति शेषः । पथगित्यस्य स्वदेश इत्यर्थः। कार्यकालपक्षे इत्यस्य प्रदेशवाक्येन सहैवेत्यत्रान्वयः। तथा च कार्यकालपक्षे प्रदेशवाक्येन सहैव । प्रदेशदेश एव ताशो वा- क्यार्थबोध इत्यर्थात् । तथा च परिभाषाया यथोद्देशे स्वदेशे तथा बोधात्। संज्ञेति। विशेषोक्तिरुपपन्ना। वृद्धिरादैजित्यादेर्भपदसंज्ञायाश्च कार्यकालपक्षे यथोद्देशपक्षे वा स्वदेशे शक्तिमहात्मकबोधेऽपि लक्ष्यसंस्कारको न सः । कार्यकालपचे प्रदेशदेशे तथा बोधेऽपि न स बोधः पृथग्बोध इति सर्वम- वदातम् । अत्र बीजन्तु यथा परिभाषाणां स्वोद्देश्यज्ञानाय विधिशास्त्रस्या- पेक्षणात्ताभिस्तेषामाकर्षणं तथा संज्ञाशास्त्रस्य न सङ्केतकाले सङ्केतितपदेन व्यवहर्तुरनपेक्षणात् न तेन तस्याकर्षणमिति तस्मिन् शक्तिग्रहे अपेक्षाबुद्धौ यथोद्देश उपेक्षाबुद्धौ कार्यकालमिति बोध्यम्। परत्वादिव्यवस्था चेत्थं-त्रि- विधं तद्देशत्वप्रयोजकं पाणिन्युच्चारणाधिकरणत्वमेकं, लक्ष्यसंस्कारोपयो- गिबोधाधिकरणत्वं द्वितीयं, पाणिन्युच्चारणाधिकरणत्वविशिष्टलक्ष्यसं- स्कारकबोधाधिकरणत्वं तृतीयम्। तच्चोत्तरोत्तरं बलवत्। परिभाषायाः स्व- , परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके सहैव । अत एव अणोऽप्रगृह्यस्य इत्येतदेकवाक्यतापन्नाददसो देशे तृतीयप्रयोजकस्य सत्त्वात्स एवदेशः। वृद्धथादिसंज्ञाया विधिदेशे द्विती- यप्रयोजकस्य सत्त्वात् स एव देशः। भपदसंज्ञाया अग्रिमप्रयोजकस्य कुत्रा- प्यसम्भवात् स्वदेशे प्रथमप्रयोजकस्य सत्त्वात्स एव देश इति। अणी- प्रगृह्यस्येत्येतदिल्यादि, अयादिभ्यः परैवेत्यादि, अष्टाध्यायी- पाठकृतेत्यादि, यथोद्देशपक्ष एवेति, तत्रत्यपरत्वेनैवेति च सर्व सुव्यवस्थितमिति परे। तत्त्वविदस्तु कार्यकालपने संज्ञाशास्त्राणां स्वदेशे बोध एव न । संज्ञात्वग्रहस्तु वृद्धिरादैजित्यादौ प्रथमान्तपदद्वयसमभिव्याहारादनुमि- त्यात्मकोऽत एव वृद्धिसंज्ञासूत्रे भाष्ये संज्ञाधिकारप्रत्याख्यानावसरे समानविभक्तिकत्वेन संज्ञासंज्ञिभावज्ञानमुपपादितम् । तथा च यथाश्रुता- र्थकमेव तत् । द्विविधमेव तद्देशत्वप्रयोजकम् । शाब्दबोधाधिकरणत्ववि- शिष्टोच्चारणाधिकरणत्वं तदसम्भवे शाब्दबोधाधिकरणत्वं परिभाषाणां विशिष्टाधिकरणत्वं स्वदेशस्यैवेति तस्यैव तद्देशत्वं भपदसंज्ञानां स्वदेश- स्यैव विशिष्टाधिकरणत्वेन तद्देशत्वं प्रगृह्य संज्ञादीनाञ्च कार्यकालपक्षे स्वदेशे बोधाभावेन विधिदेशे बोधात्तहेशत्वमेव यथोडेशे च स्वदेशत्वमि- त्याहुः। शास्त्रिचरणास्तु न कार्यकालपक्षो न यथोहेशपक्ष: किन्तु परिभा- षाणां संज्ञानाञ्चोच्चारणाधिकरणदेश एव परत्वादिनियामकः । परिभाषा द्विविधाऽस्ति–कयाचित् शास्त्रत्वं क्रियते यथा तस्मिन्नितीत्यादि। तत्परि- भाषाप्रवृत्तिम्विना इको यणचीत्यादीनामनाहा-प्रामाण्यज्ञानानास्कन्दि- तसाधुत्वप्रकारकबोधजनकत्वरूपशास्त्रत्वस्यैवासिद्धिरिति ताशपरिभा- षादृष्ट्या त्रिपादीशास्त्राणां नासिद्धत्वं शास्त्रस्यैव पूर्वत्रासिद्धमित्यनेना- सिद्धत्वविधानात् । कस्याश्चिदुद्देश्यतावच्छेदकं शास्त्रत्वं यथाऽसिद्धम्बहि- रङ्गमन्तरङ्ग इत्यस्याः। तत्प्रवृत्तेः प्रागेव शास्त्रत्वस्य सत्त्वात्तदृष्ट्या त्रिपाद्या असिद्धत्वेन न सा त्रिपाद्या प्रवर्त्तते। संज्ञादृष्ट्या संज्ञाघटित- शास्त्राणामसिद्धत्वेऽपि न क्षतिस्तत्र जातशक्तिग्रहेणैव व्यवहारसिद्धस्तत्प्र- वृत्तिं विना तेषां शास्त्रत्वाभावाच्च । अदसो मादित्येतत्प्रति न मुत्वस्या- सिद्धत्वं सुत्रस्यैव वैयर्थ्यांपत्तेरित्यमू इत्यत्र नानुनासिकत्वमित्याहुः । अत एवेति । अदसो मादित्यस्य प्रदेशदेशत्वादेवेत्यर्थः ।

२. यथोद्देशं०] विजयाऽलङ्कृतः [ १७ मादित्येतत्प्रति न मुत्वाद्यसिद्धम् । असिद्धत्वस्य काार्थतया का- य॑ज्ञानोत्तरमेव प्रवृत्तिः। कार्यज्ञानं च प्रदेशदेश एवेति तद्देश- स्थस्यासिद्धत्वात्पूर्वग्रहणेनाग्रहणात् । एवं तद्बोधोत्तरमेव विरो- धप्रतिसन्धानं चेति तत्रत्यपरत्वमेव विप्रतिषेधसूत्रप्रवृत्तौ बीजम् । अत एव कार्यकालपक्षेऽयादिभ्यः परैव प्रगृह्य संज्ञति 'अदसो मा- दिति सूत्रे भाष्ये उक्तम् । आकडाराधिकारस्थभपदसंज्ञाविषये तु यथोद्देशपक्ष एवेति तत्रत्यपरत्वेनैव बाध्यबाधकभावः । पदादिसं- । तद्देशस्थस्येति-अणोऽप्रगृह्यस्येत्येतद्देशस्थस्यादसो मादित्यस्येत्यथः । असिद्धत्वादिति । मुत्वशास्त्रैकवाक्यतापन्नपूर्वत्रासिद्धमित्येतत्प्रति अ- णोऽप्रगृह्यस्येत्येकवाक्यतापन्नपूर्वत्रासिद्धमित्यनेनासिद्धत्वादित्यर्थः । पूर्व- ग्रहणेनेति । मुत्वशास्त्रकवाक्यतापन्नपूर्वत्रासिद्धमित्येतद्घटकपूर्वग्रहणेने- त्यर्थः । एवं तद्बोधोत्तरमेवेति । विधिदेशे संज्ञासूत्रजबोधोत्तरमेवे- त्यर्थः । परैवेति । प्रगृह्यसंज्ञायाः प्लुत: प्रगृह्या इत्येतदेशस्थत्वादिति भावः । भपदसंज्ञाविषये त्विति। अत एव राज्ञः इत्यादौ नलोपो न । कार्यकालत्वे तु भसंज्ञाशास्त्रस्याल्लोपो न इत्येतद्देशस्थत्वेन न- लोपैकवाक्यतापन्नपदसंज्ञायास्त्रिपादीस्थत्वेन भसंज्ञादृष्टयाऽसिद्धत्वेन पूर्व भसंज्ञायामल्लोपे कृते पदत्वे नलोपापत्तेः तत्पते प्राकडारीयत्वाभा- वेन निरवकाशेनापि भत्वेन कृत्यसंज्ञया कृत्संज्ञाया इव पदसंज्ञाया- स्समावेशसम्भवात् । दण्डिना गौयेत्यादौ भविष्यति किञ्चिदनेन प्रयो- जनमित्यभिसन्धिमात्रेण प्राप्तभत्वेन पदत्वस्य बाधेन नलोपप्रकृतिभा- वयोरप्रवृत्तिरपि यथोद्देशत्वे सिद्धा। कार्यकालत्वे तु भत्वप्रयुक्तकार्या- भावेन भत्वाप्राप्त्या पदत्वेन तयोरापत्तिर्दुर्वारा। न चैकदेशविकृतन्या- यावतरणे पदसंज्ञायां कार्यकालत्वोक्त्या ततो विरोध इति वाच्यम् । भसंज्ञासाहचर्येण परनिमित्तकपदसंज्ञाया एवात्र विवक्षितत्वात्। यदा कार्य तदा संज्ञा संज्ञाशास्त्रस्य विधिदेशे बोधजनकत्वञ्चेत्यंशद्वयात्मककार्य- कालपक्षचरमांशस्यैवैवकारेण व्यावर्त्तनाच्च । प्राचीनमतेनावतरणस्य सत्त्वाच्च । 'कार्यकालं संज्ञापरिभाष भस्येत्युपस्थितमिदं भवति यचि भमिति'-प्यङसंप्रसारणमितिसूत्रस्थभाष्यविरोधस्तु न । तस्यैकदेश्युक्त- १८ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके ज्ञानां तत्र जातशक्तिग्रहेणैव त्रिपाद्यामपि व्यवहारः। अत एव पूर्वत्रासिद्धमिति सूत्रे परिभाषाणामेव त्रिपाद्यामप्रवृत्तिमाशङ्कय कार्यकालपक्षण समाहितमित्याहुः यथोदेशपक्षः प्रगृह्यसंज्ञाप्रकरणे भाष्ये ॥२॥ कार्यकालमित्यस्य च कार्येण काल्यते स्वसन्निधिं प्राप्यत इ- त्यर्थः । कार्येण खसंस्काराय स्खवृत्तिलिङ्गचिह्नितपरिभाषाणा- माक्षेप इति यावत् । अत एव पूर्वत्रासिद्धमिति सूत्रे भाष्ये त्रि- पाद्या प्रसिद्धत्वात्तत्र सपादसप्ताध्यायीस्थपरिभाषाणामप्रवृत्तिमा- शङ्कय यद्यपीदं तत्रासिद्धं तत्त्विह सिद्धमित्युक्त्वा तावताप्यसिद्धि- त्वादिति स्पष्टं शब्देन्दुशेखरे । अत एवेति। संज्ञाशास्त्रजबोधे विधि- शास्त्रज्ञानानपेक्षणेन स्वदेशस्थशक्तिप्रहेणैव त्रिपाद्यामपि व्यवहारादेवे- त्यर्थः । यथोडेशपक्षः प्रद्यसंज्ञेति । आगच्छतमग्नी इत्यादौ प्लुत- स्यासिद्धत्वात्प्रगृह्यत्वे कृते ततः प्लुते जाते तस्यासिद्धत्वात् पुनः प्रगृह्यत्वेन नानुनासिकः । कार्यकालत्वे तु प्रगृह्यसंज्ञाया 'अणोऽप्रगृह्यस्येत्येत- देशस्थत्वेन तदृष्ट्या लुतस्यासिद्धत्वाभावेनाप्रगृह्यत्वेनानुनासिकत्वाप- त्तिर्दुर्वारेति तत्प्रकरणस्थभाष्याशयः ॥२॥ आद्यपरिभाषां व्याख्याय द्वितीयां व्याचष्टे -कार्यकालमित्यस्य चेति । अत एवेति । कार्यकालमित्यस्य निरुक्तार्थकत्वादेवेत्यर्थः। अ- प्रवृत्तिमाशडुचेति । परिभाषा स्वसंस्काराय स्ववृत्तिलिङ्गचिह्नितं यदेव शास्त्रं पश्यति तस्यैवाकर्षणं करिष्यति न तु त्रिपादीस्थं शास्त्रं तस्या- सिद्धत्वेनादर्शनादिति भावः। यद्यपीदं तत्रासिद्धमिति । इदं त्रिपादी- शास्त्रं तत्र परिभाषादृष्ट्याऽसिद्धम् । तत्त्विह सिद्धमिति । तत्तु परिभाषाशास्त्रं तु इह विधिशास्त्रदृष्टया सिद्धमित्यर्थः । परिभाषया स्वदेशे त्रिपादीशास्त्रस्याकर्षणाभावेऽपि त्रिपादीशास्त्रेण स्वदेशे परिभाषाया पाक- पणं स्यादेवाष्टपिशाचन्यायेनेति भावः । तावताप्यसिद्धिरिति । एतावत्कालपर्यन्तं कार्यकालपक्षस्याश्रयणाभावेन विधिशास्त्रस्याकर्षणसा-

३. कार्यकालं०]
विजयाऽलङ्कृतः
[ १६
रित्यभिप्रायके कथमिति प्रश्ने कार्यकालं संज्ञापरिभाष यत्र कार्य
तत्रोपस्थितं द्रष्टव्यमित्युक्तम् । न च कार्यकालपक्षे 'ङमो ह्रस्वात्
इत्यादौ 'तस्मादित्युत्तरस्य' 'तस्मिन्निति निर्दिष्ट' इति परिभाषा-
द्वयोपस्थितौ परत्वादुभयनिर्देशे पञ्चमीनिर्देशो बलीयानिति
तस्मिनिति सूत्रस्थभाष्यासङ्गतिः। उभयोरेकदेशस्थत्वेन परत्वा-
दित्यस्यासङ्गत्यापत्तेः। स्पष्टं चेदमिको गुणेत्यत्र कैयट इति
वाच्यम् । विप्रतिषेधसूत्रेऽष्टाध्यायीपाठकृतपरत्वस्याश्रयणेनादो-
पात् । न हि कार्यकालपक्ष इत्येतावता तदपैति । पक्षद्वयेऽपि प्रदे-
शेषु स्वबुद्धिजननेनाविशेषात् । न हि तत्पक्षेऽप्यचेतनस्य शास्त्रस्य
स्वदेशं विहाय तद्देशगमनं सम्भवति । नाप्यस्मदादिबुद्धिजननेन
स्वदेशत्यागो भवति । अत एव भाष्ये एकदेशस्थस्यैव सर्वशास्त्रा-
भिज्वालकत्वमुक्तम् । अत एव तस्मिन्निति सूत्रे कैयटः सूत्रपाठा-
पेक्षया परत्वस्य व्यवस्थापकत्वमिति । इको गुणेतिसूत्रस्थकैयटस्तु
चिन्त्य एव । अन्यथा सर्वशास्त्राणां प्रयोगार्थत्वेन प्रयोगरूपैक-
देशस्थत्वेन क्वापि परत्वं न स्यात् । किञ्च डिति चेति सूत्रस्थ-
कैयटरीत्या विधिसूत्राणां यथोद्देशपक्षे परिभाषादेशे सन्निधानेन
तेषां परत्वं व्याहन्येत । एवं च वृक्षेभ्य इत्यत्र सुपि चेत्यतः परत्वा-
मर्थ्याबोधनादिति भावः । तत्पक्षाश्रयणेन समाधीयते-कार्यकाल-
मित्यादि । विप्रतिषेधसूत्रे अष्टाध्यायीपाठकृतेति। न च तद्बो-
धोत्तरमेव विरोधप्रतिसन्धानचेति तत्रत्यपरत्वमेवेति पूर्वग्रन्थविरोध
इति वाच्यम् । संज्ञाविषये तथास्वीकारेण प्रकृते विरोधाभावात् । प्रगृह्य-
संज्ञाविषये विधिदेशस्थं परत्वं परिभाषाविषये पाठकृतं परत्वं गृह्यते ।
अत्रत्यं तत्त्वं पूर्वमुक्तमिति तत्रैव द्रष्टव्यम् ।
नन्वियं शङ्कव नोपपद्यते। एकदेशस्थ इत्यनेन तत्र तत्र तत्तबुद्धावपि
तदेशस्थत्वं वारयतीति पूर्वमुक्तत्वादिति चेन्न । कैयटमते तत्सत्त्वादत एव
कैयट इत्युक्तमिति दिक्॥३॥

२० ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके बहुवचने झल्येदित्येत्त्वमित्याधुच्छिद्यतेत्यलम् ॥३॥ इत्संज्ञका अनुबन्धास्तेष्ववयवानवयवत्वसन्देहे आह- अनेकान्ता अनुबन्धा इति ॥४॥ पूर्वपरिभाषयाऽनेकान्ता अनुबन्धा इत्यस्याः स्मृतिविषयत्वे सत्यु- पेक्षानहत्वरूपसङ्गोधनाय परिभाषाया अनुमितिप्रयोजकवाक्यात्म- कत्वेनानुमितिकारणीभूतपक्षताऽवच्छेदकज्ञानाय प्रयुज्यमान इत्संज्ञका अनुबन्धा इतिवाक्ये विवरणपदस्याऽपीत्संज्ञका इत्यस्य पूर्वप्रयोगः। तथा सति उभयोः परिभाषयोः संज्ञोद्देश्यकत्वेन सादृश्यात्पूर्वपरिभाषानन्तर- मुत्तरस्याः स्मरणम् । एतेन वित्रियमाणस्योद्देश्यत्वेनोद्देश्यस्य च यच्छब्द- योग: प्राथम्यमित्याद्युद्देश्यलक्षणमित्यभियुक्तोक्त्या विवरणाऽपेक्षया पूर्व- प्रयोगस्यैवोचितत्वेनानुबन्धा इत्यस्यैव प्रथमम्प्रयोग उचित इत्यपास्तम् । नन्वत्र घटः कलश इत्यत्रेव शब्दभेदेपि प्रवृत्तिनिमित्ताभेदादभेदबोध- स्योभयोः समानविभक्तिकनामत्वेन भेदान्वयबोधस्य चासम्भव इति चेन्न। प्रकृतेऽनुबन्धपदस्यार्थपरत्वासम्भवेन शब्दपरत्वेन प्रवृत्तिनिमित्तभेदात् । न च तर्हि बाधादभेदबोधासम्भवः, शब्दार्थयोस्तादात्म्याङ्गीकारात् । अनुबन्धपदस्यानुबन्धपदवाच्ये लक्षणाया अभ्युपगमाद्वा । प्राचीनमते साध्यसन्देहरूपपक्षताया अनुमिती कारणत्वेन तां दर्शयति-अवयवा- नवयवत्वसन्देह इति। सन् घटको नकारोऽवयवत्ववानवयवत्वाभाववान् वेति सन्देह इत्यर्थः । न चैकस्मिन्नपि निरूपकभेदेन अवयवत्वानवयवत्व- योदर्शनादविरोधेन तयोविरुद्धकोदिद्वयावगाहिज्ञानरूपसन्देहाऽसम्भवः । न च बोधकैकनिरूपितयोस्तयोस्सन्देहः बोधकभेदेन तावताऽप्यविरोधात स्वघटितघटकबोधकेतिकथनेऽपि न निस्तारः । स्वं साध्यवत्त्वेन विवक्षितो गुप्रतिकिझ्यस्सन्नित्यत्र नकारस्तद्घटिताऽष्टाध्यायी तद्घटकयत्कि- ञ्चिद्बोधकाऽनवयवत्वस्य गुप्तिजितिसूत्ररूपबोधकाऽवयवत्वस्य च नकारे सत्त्वेनाऽविरोधतादवस्थ्यात्। न वा स्वघटितपद्घटकबोधकाऽवयवत्व- सन्देह इति नाष्टाध्यायीमादायाऽविरोधस्तस्या अपदत्वादिति युक्तन्तथा- ऽपि द्वयसच् दन्नच मात्रच इत्यत्र दकारे स्वघटितं पदं समुदायरूपं तद्घट- कमात्रबोधकानवयवत्वस्य तादृशद्वयसबोधकावयवत्वस्य च दर्शनेना- ४. अनेकान्ता अनुबन्धाः ] विजयाऽलङ्कृतः [ २१ विरोध एव । न वा समुदायरूपपदमादायाविरोधस्याऽभावाय पदे पदा- घटितत्वमपि दीयते । समुदायस्य पदत्वेऽपि पदाऽघटितत्वविरहादिति सम्यक् । सन्यत इत्यत्र सकारे स्वघटितं पदाऽघटितं पदं सनीति तद्घट- केकाररूपबोधकाऽनवयवत्वस्य तादृशबोधकाऽवयवत्वस्य च सत्त्वेन तावताऽपि विरोधानुपपादनादिति वाच्यं, स्वघटितपदाघटितविभक्त्य- घटितपघटकबोधकावयवत्वतदनवयवत्वयोविरुद्धयोः सन्देहस्य विवक्षि- तत्वात् । न च नकारादावनुबन्धे निरुक्तसन्देहप्रयोजकस्य साधारणस्या- साधारणस्य वा धर्मस्याऽभाव इति वाच्यं, सनिरूपकपदार्थसन्देहस्य निरूपकसन्देहाधीनतया बोधकसन्देहस्यैव प्रकृते प्रयोजकत्वात् । स च न सन्शब्दो बोधक: सशब्दो वेत्याकारक: सन्देहस्यैकधर्मिकत्वनि- यमात् । अपि तु बोधकता सपर्याप्ता सन्पर्याप्ता वेत्याकारकः। अत्रापि प्रयोजकजिज्ञासायां श्रूयतां बोधकतायां स्वनिरूपितबोध्यतापर्याप्त्य- धिकरणपर्याप्तानुपूर्वीमत्पर्याप्तत्वं भवति । यथा जरो निष्ठायां तस्यां स्वं बोधकता तन्निरूपितबोध्यतापर्याप्त्यधिकरणं लक्ष्यस्थं जरसिति तत्पर्याप्ता- नुपूर्वी जरस्त्वरूपा तद्वान् सूत्रे जरस् तत्पर्याप्तत्वमस्ति बोधकतायां तथा प्रकृते चेत् सपर्याप्ता स्यात् । स्वाश्रयप्रकृतिकविभक्तिप्रकृतित्वपर्याप्त्यधि- करणपर्याप्तत्वमपि दृष्टं यथा तत्रैव जरोनिष्टबोधकतायां तथा प्रकृते चेत् सन्पर्याप्ता स्यादिति सन्देह उपपद्यते । तदधीनश्च बोधकाऽवयवत्व- सन्देहः स्पष्ट एव। विधेयेऽदर्शनाद्धेतोरनवयवत्वस्य विभक्तिप्रकृतिघट- कत्वाद्वयवत्वस्य च । हलन्त्यमित्यत्रत्यावयवबोधकान्त्यपदेन ग्रहणादव- यवत्वस्य उपदेशग्रहणाऽभावे 'अभ्र आँ अटित' इत्यत्र सामीप्यमूलकमारो- पितमवयवत्वमादायादित्वप्रयुक्तादितश्चेतीनिषेधापत्तिकथनपरभाध्याद- नवयवत्वस्य च कोटेरुदयेन सन्देहोपपत्तेश्च । नन्वेकधर्मिकविरुद्धकोटिद्वयावगाहिज्ञानस्यैव सन्देहपदार्थत्वेन तन्म- हिम्नैवैककोट्युपादानेऽपि कोट्यन्तरस्याक्षेपादेव लाभेनावयवानवयवत्व- योरुपादानं व्यर्थमिति चेत्-अत्रोच्यते—स्पष्टार्थमेवोभयोपादानम् । ह्यस्त्याक्षेपेण लब्धं योग्यस्य स्पष्टतया बोधनाय शब्दो न प्रयुज्यत इति नियमः, द्वारमित्येतावदुक्तावाक्षेपयोग्यस्यापि पिधेहीत्यस्य स्पष्टतया बोध- नाय कदाचित् द्वारम्पिधेहीति प्रयोगदर्शनात् । किञ्चानवयवत्वावयवत्वो- भयकोटिसाध्यकाऽनुमितिद्वयस्य वक्ष्यमाणत्वेनैकैकानुमितिसाध्यमात्रस्यै- वोपादानं साध्यामावस्यात्राप्याक्षेपेणैव लाभः । सन्देहपदं सन्देहत्वजात्य- वच्छिन्नपरम् । तथा चानुमितिद्वयस्यावयवत्वसन्देहाऽनवयवत्वसन्देहरूप- " २२] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके पक्षताद्वयमुपन्यस्तमिति बोध्यम् । नन्वेकस्यैव साध्यस्योक्तावप्यनुमितिद्वयस्य पक्षतासम्भवः । तथा हि-अवयवत्वसन्देह इत्येतावन्मात्रोक्तो तद्विरोध्यनवयवत्वकोटेराक्षेपे- णावयवत्वानवयवत्वयोस्सन्देह इत्युक्तं भवति । तत्रावयवत्वस्य साध्यत्वे साध्याभावत्वमनवयवत्वस्य अनवयवत्वस्य साध्यत्वे साध्याभावत्वमव- यवत्वस्य अनवयवत्वाभावस्यावयवत्वरूपत्वात् । साध्यप्रकारकत्वे सति साध्याभावप्रकारकसन्देहस्यैव पक्षतात्वात् इति चेत्-न। अवयवत्वस्य अवयवत्वाऽभावाभावरूपत्वेऽप्यवयवत्वत्वस्याऽनवयवत्वाभावत्वतो भिन्न- तयाऽवयवत्वत्वावच्छिन्नप्रकारतायाः साध्याभावत्वावच्छिन्नत्वाभावेन साध्यतावच्छेदकधर्मावच्छिन्नप्रकारताकत्वे सति साध्याभावत्वावच्छिन्न- प्रकारताकसन्देहस्यैव पक्षतात्वाऽभ्युपगमेन निरुक्तसन्देहस्याऽनवयवत्व- साध्यकाऽनुमितिम्प्रत्यपक्षतात्वात् । अनेकान्ताः स्वघटितं यत्पदाऽघटितं विभक्त्यघटितं पदं तद्घटक- बोधकाऽनवयवा इत्यर्थः । सन्नित्यादौ नकारस्याऽनवयवत्वमात्रसाधने यस्य कस्यचिदनवयवत्वस्य सिद्धत्वेन सिद्धसाधनमत एव बोधकानवयव- त्वमपि न साध्यम् । यं कञ्चन बोधकम्प्रत्यनवयवत्वस्याऽपि सिद्धत्वात् । नापि स्वघटितघटकबोधकाऽनवयवत्वन्तथा स्वघटिताष्टाध्यायीघटकगुप्ति- जित्यादिसूत्ररूपयोधकाऽवयवत्वसत्त्वेन बाधात् तदर्थं स्वटितपदघटकबो- धकाऽनवयवत्वसाधनेऽपि द्वयसच्दघ्नच्मात्रच् इति समुदायरूपं स्वघटितं पदं तद्घटकं बोधकं व्यपदेशिवद्भावेन तदेव तदवयवत्वस्यैव सत्त्वेन च- काररूपे अनुबन्धे बाधस्य तादवस्थ्यात् । पदे पदाघटितत्वस्य निवेशेन प्रकृते समुदायस्य पदघटितत्वेन बाधपरिहारेऽपि 'सन्यत' इत्यादौ नकारे स्वघटितम्पदाघटितं पदं सनीति तद्घटकबोधक इकारस्तदनवयवत्वस्य सत्त्वेन सिद्धसाधनम् । व्यपदेशिवद्भावेन तद्घटकं बोधकं सनीति तदव- यवत्वस्यैव सत्त्वेन बाधश्च । अत एव विभक्त्यघटितत्वेनापि पदम्विशेष- यितव्यमिति सर्वमुपपन्नम् । ननु 'श्राद्गुण' इत्यादौ गुणघटकगकारादौ व्यभिचाररतत्र बोध्याव- यवत्वेनोपलब्धिविषयत्वाभावरूपहेतोस्सत्त्वेन प्रकृतसाध्यस्याभावात् स्वं- साध्यवत्वेन विवक्षितो गकारस्तद्घटितम्पदाघटितम्विभक्त्यघटितं पदं गुण इति तद्घटको बोधको गुणशब्दस्तवयवत्वस्यैव सत्त्वात् साध्याभा- ववदवृत्तित्वरूपव्याप्यत्वस्याभावादनुमित्यनापत्तिः । न च स्वघटितपदा- घटितविभक्त्यघटितपघटकवृत्त्यानुपूर्व्यवच्छिन्नविषयताप्रयोजकपदानव- ४. अनेकान्ता अनुबन्धाः ] विजयाऽलङ्कृतः [ २३ यवत्वस्यैव साध्यत्वेन विवक्षितत्वात् । प्रकृते तादृशं पदं गुण इति तद्घट- कवृत्तिरानुपूर्वीगुणत्वरूपा तदवच्छिन्नविषयताप्रयोजकत्वस्य गुणशब्दे- ऽभावेन ताशप्रयोजकपदानवयवत्वरूपसाध्यस्य सत्त्वेनन व्यभिचार इति वाच्यम् । अणादिपदेऽत्वावच्छिन्नविषयताप्रयोजकत्वस्यैव सत्त्वेन ताह- शानुपूर्व्यवच्छिन्नविषयताप्रयोजकानवयवत्वस्य साधनेऽपि अत्वावच्छि- नविषयताप्रयोजकपदावयवानवयवत्वसन्देहस्य प्रकारे अनुमित्याऽन्यत- रकोटिनिश्चयाभावेन तादवस्थ्यादानुपूर्वीम्बिहाय श्रावणप्रत्यक्षविषयता- वच्छेदकधर्मस्यैव प्रवेशनीयतया तादृशपघटकगुणवृत्तिश्रावणप्रत्यक्ष- विषयतावच्छेदकधर्मोऽत्वं तदवच्छिन्नविषयताप्रयोजको गुणशब्दस्तद्- वयवत्वस्यैव सत्त्वादिति चेत्- अत्रोच्यते। इदन्तावद्व्यभिचारवादी प्रष्टव्यः गुणशब्दशक्यता- वच्छेदकं किं? न तावदत्वादि, शक्यतावच्छेदकभेदे शक्तिभेदस्य हर्यादि- पद् इव अत्राप्यापत्त्या सकृदुच्चरितन्यायेनाद्गुण इत्यादौत्रयाणां बोधाना- पत्तेः । नापि अन्यतमत्वन्तथा, प्रकृतेऽन्यतमत्वस्याकारप्रतियोगिकभेद- विशिष्टकारप्रतियोगिकभेदविशिष्टौकारप्रतियोगिकभेदविशिष्टभिन्नत्वरूप- तया विनिगमनाविरहेण रूपान्तरत्वस्याऽपि सम्भवेन गुर्वनेकधर्मा- वच्छिन्ने नानाशक्त्यापत्तेर्दुरित्वात् , प्रातिपदिकपदेऽन्यतमत्वस्यासर्व- ज्ञदुर्बोधतया शक्तिग्रहस्यैवाभावापत्तेश्च । नापि पाणिनिसंकेतसम्बन्धेन गुणपदवत्त्वं तत् । गुणादिपदे पाणिनिसङ्केतभिन्नशक्तेरभावेन कीदृश- शक्तिविषयतारूपशक्यतावच्छेदकतावच्छेदकः पाणिनिसङ्केतः स्यात् । अथ लाघवानुरोधेनातिरिक्तशक्तिकल्पनमिति चेत्-तथापि गुणपदाव- च्छिन्नविशेष्यतायाः परम्परया गुणपदनिष्ठावच्छेदकतायाः साक्षादवच्छे- दिका गुणत्वरूपानुपूर्वी तदवच्छिन्नविषयताप्रयोजकपदावयवत्वस्यैव सत्त्वेन व्यभिचारो दुर्वार इति चेत्-न। स्वावच्छिन्नत्वस्वावच्छिन्नाव- च्छेदकतानिरूपितावच्छेद्यत्वाभाववत्त्वैतदुभयसम्बन्धेन । तादृशश्रावण- प्रत्यक्षविषयतावच्छेदकधर्मविशिष्टमुख्यविशेष्यताप्रयोजकानवयवत्व- स्यैव साध्यतया व्यभिचाराभावात् । मुख्यत्वनिवेशादवच्छेदकताख्यवि- षयतामादाय द्वितीयसम्बन्धनिवेशादाद्यसम्बन्धमादाय वा न दोषः । नन्वेवमपि स्थाम्नोऽकार इत्यत्र तादृशश्रावणप्रत्यक्षविषयतावच्छे- दकमत्त्वं तदवच्छिन्नविषयताप्रयोजकमकार इतिपदं तदवयवत्वस्यैव ककारे सत्त्वेन साध्याभावसहितहेतोः सत्त्वेन तत्र ककारे व्यभिचार एवेति चेत्-सत्यम् । स्वघटितपदाघटितविभक्त्यघटितपघटकयावद्वर्ण- ।

२४ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके घटितसमुदायपर्याप्तत्वेन धर्मस्य विशेषणात् । तादृशश्चाकारत्वन्नत्वत्वं तदवच्छिन्नविषयताप्रयोजकन्नाकारपदमिति तादृशप्रयोजकानवयवत्वस्य सत्त्वेनादोषात्। ननु सन् इत्यत्र स्वं नकारस्तद्घटितं पदाघटितं विभक्त्यघटितं पदं सन्निति । तद्घटकयावद्वर्णघटितसमुदायस्सन्निति । तत्पर्याप्तं श्रावण- प्रत्यक्षविषयतावच्छेदकं सन्त्वम् । तदवच्छिन्नविषयताप्रयोजकं न सन्- पदमपि तु सत्वावच्छिन्नविषयताप्रयोजकमिति सन्त्वावच्छिन्नविषयता- प्रयोजकपदानवयवत्वस्यानुमित्या निर्णयेऽपि सत्वावच्छिन्नविषयता- प्रयोजकावयवो न वेति सन्देहस्याऽनुच्छेदप्रसङ्ग इति चेत्-न । साध्य- घटकसमुदायस्यानुबन्धाघटितस्यैव विवक्षितत्वेन तादृशसमुदायस्सेति तत्पर्याप्तसत्वावच्छिन्नविषयताप्रयोजकानवयवत्वस्य साधनात् सन्देह- प्रसङ्गाभावात् । अथ स्वरूपसूत्रविषये बोधकत्वेन विवक्षितवृत्तिधर्मा- वच्छिन्नस्यैव तेन संज्ञित्वबोधनात् बोधकत्वसंदेहे बोध्यतावच्छेदकस्या- प्यनिर्णयेन तादृशसत्त्वरूपधर्मावच्छिन्नविषयताप्रयोजकपदाप्रसिद्धथा साध्याप्रसिद्धिरिति चेत्-न। तथाविधसमुदायपर्याप्तश्रावणप्रत्यक्षविष- यतावच्छेदकधर्माश्रयनिष्टविषयताप्रयोजकाऽनवयवत्वस्यैव साध्यशरीर- त्वात् तस्य च प्रसिद्धत्वादित्यास्ताम् । केचित्तु गुणादौ व्यभिचारवारणाय साध्यघटकपदे संज्ञातिरिक्तत्वं निवेशनीयं विभक्तिस्थाने प्रत्ययस्य निवेशादकारघटकककारादावपि न व्यभिचार इति वदन्ति । ननु बोध्यावयवत्वेनोपलब्धिविषयत्वाभावस्य हेतोः पक्षेऽसिद्धिः स- नित्यादेः शब्देत्यादिबोधकबोध्यतया तवयवत्वेनोपलब्धिविषयत्वस्यैव नकारे सत्त्वादिति चेत्-न । स्वघटितपदघटकबोधकबोध्यस्यैव हेतुघट- कत्वात्। ननूच्चारणभेदेन वर्णभेदे सन्घटकसकारे साध्याभाववति हेतो- स्सद्भावेन व्यभिचारः। अभेदे गुप्तिजितिसूत्रे सन्शब्दोऽस्तीत्येतद्वाक्य- घटकसनशब्दस्यापि सूत्रघटकसन्शब्दघटकनकारघटितत्वेन तद्घटकः स एव सन्शब्दस्तबोध्यः सूत्रघटकः सन् तदवयवत्वस्यैव पक्षे सत्त्वेना- सिद्धिः। मनिन्घटकानुबन्धनकारे बोध्यावयवत्वोपलम्भेन भागासिद्धि- श्चेति चेत्-मैवम् । उच्चारणभेदेन वर्णभेद एव । हेतुश्च स्वघटित- घटकबोध्यतावच्छेदकधाभाव एव । ततश्च बोध्यतावच्छेदकसकार- त्वस्य सन्घटकसकारे सत्त्वेन साध्यस्य हेतोश्चासत्त्वान्न व्यभिचारः । सूत्रघटकनकाराद्भिन्नत्वस्यैव सन्शब्दोऽस्तीत्येतद्वाक्यघटकसन्घटकन- [२५ ४. अनेकान्ता अनुबन्धाः ] विजयाऽलङ्कृतः कारस्येति तादृशसनशब्दस्य स्वघटितत्वाभावान्नासिद्धिशङ्काऽपि । मनिन्- घटकनकारे भागासिद्धिरवशिष्यते । तत्रापि विचार्य्यताम् । स्वघटितघटकबोध्यतावच्छेदकतापर्याप्त्यधि- करणधाभावो हेतुः । स च धर्मो मन्त्वरूपस्तदभावोऽस्त्येव नकार इति न साऽपि । न च पर्याप्तिनिवेशे सन्घटकसकारे साध्याभाववति हेतो!ध्यतावच्छेदकतापर्याप्त्यधिकरणसत्त्वाभावस्य सत्त्वेन व्यभिचारो दुर्वार इति वाच्यम् । विनिगमनाविरहेण सकारोत्तरत्वे सत्यत्वम् । अकाराव्यवहितपूर्वत्वविशिष्टं सकारत्वमित्युभयरूपताया एव सत्त्वस्य वक्तव्यतयाऽकाराव्यवहितपूर्बसकारत्वरूपसत्त्वस्यैव सकारे सत्त्वेन व्य- भिचाराभावात् । मन्त्वस्य चैकविधस्यापीकारोत्तरनकारेऽभावेन भागा- सिद्धयभावाच्च । न चैवमपि कुघटकककाररूपानुबन्धे बोध्यतावच्छे- दककत्वस्यैव सत्त्वेन भागासिद्धिर्दुरेति वाच्यम् । अन्यादृशहेतोरेव कल्पनीयत्वात् । तथा हि स्वघटितघटकबोध्यतावच्छेदकधर्मवत्त्वं स्व- घटितघटकबोधकावयवत्वेन निश्चितोत्तरत्वविशिष्टं बोधकावयवत्वेना- निश्चितं यत्तदनुत्तरत्वमित्युभयसम्बन्धावच्छिन्नप्रतियोगिताकस्वाभावो हेतुः। सनि स्वं नकारस्तद्घटितं सन्निति । तद्घटकबोध्यतावच्छेदकं सत्वम् । तस्य स्वघटितघटकबोधकावयवत्वेन निश्चितः स इति । तदुत्तरं बोधकावयवत्वेनानिश्चितोनकारस्तदनुत्तरत्वस्य च सशब्दे सत्त्वान्नोभया- भावरूपो हेतुः तत्र । नकारे चोत्तरसम्बन्धसत्त्वेप्याद्यसम्बन्धाभावेनोभया- भावः । मनिनो नकारे चोभयाभावप्रयुक्तोऽभावः । कुकि चोत्तरसम्बन्धाभा- वप्रयुक्तोभयसम्बन्धावच्छिन्नप्रतियोगिताकोऽभावः । मनिनः प्रथमनकारे व्यभिचारापत्त्या स्वघटितघटकानुत्तरत्वमानं न द्वितीयस्सम्बन्धो न वा तद्वारको घटके बोधकायवयवत्वेनानिश्चितत्वमात्रनिवेशो युक्तः। डुपचष्पाक इत्यत्र स्वघटितघटकबोधकावयवत्वेनानिश्चितो दुरूपानुबन्धस्तदुत्तरत्वेन पकारे तदनुत्तरत्वाभावप्रयुक्तोभयसम्बन्धावच्छिन्नप्रतियोगिताकाभावस- त्त्वेन प्रसक्तव्यभिचारवारणायानिश्चितेऽप्युक्तनिवेश आवश्यकः। यदि चेदानीमुक्तरीत्या बोध्यतावच्छेदकस्यानिर्णय इत्युच्यते तहिं बोध्यपर्याप्त- धर्मवत्त्वरूपस्सम्बन्धो बोध्य इति सर्वमुपपन्नम् । केचित्तु "भागासिद्धिवारणाय पक्षे कुक्ककारभिन्नत्वं देयम् । अयं ककार: स्वघटितघटकबोधकाऽनवयवः स्वघटितघटकबोधकानवयवत्वेन निश्चितोत्तरत्वात् । यन्नैवं तन्नैवम्" इत्यनुमानान्तरेण ककारे सन्देहाभाव इति वदन्ति । ।

२६ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके अनेकान्ता अनवयवा इत्यर्थः । यो ह्यवयवः स कदाचित्तत्रो- स्वार्थपरार्थभेदेनानुमानं द्विविधम् । श्राद्य न वाक्यापेक्षा । द्वितीयं तु वाक्यसापेक्षम् । तस्य पञ्चावयवान् प्रतिज्ञाहेतूदाहरणोपनयनिगमा- ख्यान के चिद्वदन्ति । प्रतिज्ञाहेतूदाहरणाख्यान्' उदाहरणोपनयनिगमा- ख्यान् वा त्रीन् बहवः । अवशिष्टयोस्तेष्वेवान्तर्भाव इति तेषामाशयः। द्वितीयमतमवलम्ब्योच्यते-अनेकान्ता इत्यादि । अनुबन्धा अने- कान्ता इति प्रतिज्ञा । यो ह्यवयव इत्याद्युदाहरणम् । तदर्थभूतेत्यादिः हेतुः । हेतुसाध्ययोः स्वरूपमुक्तम् । नन्वनुबन्धघटितघटकबोधकाऽनवय- वत्वमेव साध्यमस्तु । गुणादिशब्दघटकगकारादौ व्यभिचारशङ्काया अपि तथासत्यप्रसङ्गादन्वयव्याप्तिलाभाच्चेति चेत्-न । अनुबन्धाघटि- तघटकत्वस्योपाधेस्सत्त्वेन व्याप्तेविघातात् ङमुघटकमकारे व्यभिचारस्य दुर्वारत्वादनुबन्धत्वस्याप्रयोजकत्वाच्च । तस्मात् यत् स्वघटितघटकबो- धकानवयवत्वाभाववत् तत् स्वघटितघटकबोध्यानवयवत्वभाववदिति व्य- तिरेकव्याप्तिरेव ग्रन्थकृतां तात्पर्यविषयीभूता। नन्ववयवोपन्यासे हेत्वनन्तरमेवोदाहरणोपन्यासस्य दर्शनादुचित- त्वाच्च प्रकृते हेतोः पूर्वमुदाहरणोपन्यसनमयुक्तमिति चेत्-मैवम् ।प्रति- ज्ञाऽनन्तरं बोधकाऽवयवत्वेनानुपलब्धेरित्यस्य प्रयोक्तुमभिमतत्वेपि प्र- सिद्धत्वादप्रयोग इति कल्पनात् । तदुत्तरं व्यतिरेकव्याप्तिप्रदर्शनं--यो ह्यवयव इत्यादि । अनवयवत्वाद्यभावस्यावयवत्वादिरूपत्वादवयवत्वोप- न्यासः । अनुमितेः प्रागवयवत्वेनानुपलब्धेहे तोरसिद्धत्वादनुमित्यन्तरेण १ नैयायिकाः । २ इति मोमांसकाः । (1) हेतूदाहरणोपनयाः एते त्रयोऽवयवा इति वाचस्पतिमिश्राः। (ii) उदाहरणोपनयों द्वावयवाविति बौद्धाः । (iii) जिज्ञासा-संशयः---शक्यप्राप्तिः --प्रयोजनं---संशयव्युदासश्चैते प्रतिज्ञादिपञ्चसहिता दशावयवाः केचन नैया- यिकास्तथा चोक्तं वात्स्यायनैायभाष्ये-'दशावयवानेके नैयायिका वाक्ये सञ्चक्षते' । (iv) भद्रबाहुनामकजैननैयायिकमतेनापि दशावयवाः। ते यथा-- (१) प्रतिज्ञा (अहिंसा परमो धर्मः)-(२) प्रतिज्ञाविभक्तिः (जैनशास्त्रानुसारेण अहिंसा धर्मः)--(३) हेतुः (अहिंसकानां देवप्रियत्वात्)-(४) हेतुविभक्तिः (अहिंसकेभ्योऽन्ये धर्मलोकेषु वस्तुं न लभन्ते)-(५) विपक्षः (याज्ञिर्काहसा- ४. अनेकान्ता अनुबन्धाः ] विजयाऽलङ्कृतः [ २७ पलभ्यत एव । अयं तु न तथा। तदर्थभूते विधेये कदाप्यदर्शनात् । शित्किदित्यादौ समीपेऽवयवत्वारोपेण समासो बोध्यः । कुछण- कठेत्यादौ णित्त्वप्रयुक्त कार्य पूर्वस्यैवेत्यादि तु व्याख्यानतो निर्णे- तसिद्धिमाह-अयन्तु न तथेति । अयमनुबन्धः । न तथा । बोध- कावयवत्वेनोपलब्धिविषयो नेति यावत् । अत्र हेतुमाह-तदर्थभूते इत्यादिना। अयं प्रथमसाध्यस्यापि हेतुस्सम्भवति । व्याप्यव्याप्यस्य सुतरां व्याप्यत्वादिति नानुपपन्नं किमपि । नन्वनुबन्धशकारादीनामव- यवत्वाभावे शिदित्यादिपदे समासानुपपत्तिः। सामीप्यस्य षष्ठ्यर्थत्वा- भावादत आह-शिकिदित्यादाविति । व्याख्यानतो निर्णय- मिति । द्वयसचश्चकारस्य पूर्वपरसमीपत्वेनोभयनिरूपितावयवत्वारोपे- णोभयोश्चित्वे दनचश्चकारवैयापत्त्या स्वाघटितपदाघटकत्वस्वसमीप- त्वोभयसम्बन्धेन स्वविशिष्टेऽनुबन्धे स्वावयवत्वारोप इति ज्ञापनमेव व्याख्यानमिति बोध्यम् । लोपश्चेत्यत्र सर्वादेशत्वार्थ प्रश्लिष्टस्य शका- रस्य भिन्नपदत्वेन लोपाऽघटितं शइतिपदं तद्घटकत्वस्यैव व्यपदेशि- वद्भावेन सत्त्वेऽपि न दोषोऽनतिदिष्टघटकत्वस्यैव सम्बन्धघटकत्वात् । अत एवाभ्र आँ अटित इत्यादावपि नाव्याप्तिः । केचित्तु ङमुडित्यत्रोडिति पृथक्पदं मत्वा टकारेऽव्याप्तिमाशङ्कय सम्बन्धघटकपदेऽनुबन्धेतरवर्णघटितत्वमपि निवेशयन्ति । उडित्यत्रोभ- योरनुबन्धत्वमिति तदाशयः-तन्न । उडित्यस्य भिन्नपदत्वे मानाभावात् । डमुटत्वेनैव उकारादिनिरूपितशक्ततायाः शास्त्रकाराभिप्रेतत्वम् । एवं धुडि- त्याद्यप्येकमेव पदमिति परे। परायणा अपि स्वर्गे वसन्तीति वर्ण्यते)--(६) विपक्षप्रतिषेधः (अहिंसकाः कदापि देवप्रिया न भवन्ति)-(७) दृष्टान्तः (अर्हन्तो हिंसाभयादन्नं न पचन्ति) -(८) आशङ्का (अन्ये पुरुषा यदन्नं पचन्ति तदन्नमर्हन्तोऽपि भुञ्जन्ति, अतस्तेऽपि हिंसादोषेण दुष्यन्त एव)-(९) प्राशङ्काप्रतिषेधः (अहंदुद्देशेनैव यन्न पच्यते तद्गतहिंसादोषेण न दुष्यन्ति ते) तथा (१०) निगमनम् (तस्मादहिंसा परमो धर्मः)।

२८ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके यम् । 'हलन्त्यम्' इत्यत्रान्त्यशब्दः परसमीपबोधकः ॥४॥ वस्तुतस्तु- एकान्ताः ॥ ५ ॥ इत्येव न्याय्यम् । शास्त्रे तत्रोपलम्भादन्यत्रानुपलम्भाच । परसमीपबोधक इति। सनो नकारस्य प्रत्ययानवयवत्वेनान्त्य- पदशक्यत्वासम्भवादन्त्यशब्दस्य परसमीपत्वावच्छिन्ने लाक्षणिकत्वमिति भावः। यदि चाविशेषेण समीपेऽवयवत्वारोपस्तदा शक्यपरत्वेऽपि न क्षतिः । आरोपितान्त्यत्वस्य तत्रापि सत्त्वात् । परसमीपेत्यस्य वस्तुतः परसमीपेत्यर्थः। यदि चाग्रिमपरिभाषात्रयाकरणलाघवेनेत्पदप्रयोज्य- विषयतामात्रोपयोग्यवयवत्वमारोप्यत इत्युच्यते तदा लक्षणैव सम्यक् । ननु शक्यार्थबाधे लक्षणादरेणानवयवत्वे लक्षणा। अनवयवत्वञ्च बोध्यतावच्छेदकधर्माभावरूपहेतुनिर्णये हेतुनिर्णयश्चेत्संज्ञालोपोत्तरम् । इत्संज्ञा च हल्पदबोध्यनिर्णयः। तन्निर्णयश्चानवयवत्वे इति चक्रकाप- त्तिरिति चेत्-सत्यम् । एतदूषणेनैवावयवत्वपक्षस्यैव सिद्धान्तत्वाभ्युप- गमात् । ननु उक्तयुक्त्या स्वघटितघटकबोध्यपर्याप्तश्रावणप्रत्यक्षविषयतावच्छे- दकधर्माभावस्यैव हेतोरुक्ततयाऽवयवत्वानवयवत्वनिर्णयात्प्राक् बोध्यता- वच्छेदकस्यानिर्णयेऽपि बोध्यस्य पिपठिषतीत्यादिलक्ष्यदर्शनमात्रेण निर्णी- तत्वेन तत्पर्याप्तधर्माभावस्य पक्षे नकारे निर्णीतत्वेन न चक्रकापत्तिः। न चेत्संज्ञायाः प्रागनुबन्धत्वाभावेन पक्षतावच्छेदकज्ञानाभावाच्चक्रकमिति वाच्यम् । अनुबन्धत्वयोग्यस्यापि पक्षत्वसम्भवादिति चेत्-सत्यम् । आन- बोध्ये नकारस्य गणबोध्येऽकारस्य सर्वत्र लोपात्। कदाप्यदर्शनेन बोध्य- पर्याप्तश्रावणप्रत्यक्षविषयताऽवच्छेदकाऽऽत्वगणत्वादेोधकाऽवयवे नकारे अकारे चाभावेन व्यभिचारादेव पक्षान्तरस्यादरणात्। तदाह-वस्तुतस्तु एकान्ता इत्येव न्याय्यम् । शास्त्र इत्यादि । शास्त्र इति बोधक इत्यर्थ- स्तथा च बोधकेऽवयवा इत्यर्थः, न तु बोध्य इति भावः । पूर्वकल्पे व्याव- ल्लाभाद्बोधक इति नोक्तम् । तत्रेत्यस्य बोधक इत्यर्थः। तथा चानु- बन्धाः स्वघटितघटकबोधकावयवा बोधके उपलम्भादन्यत्रानुपलम्भाञ्चेति फलति।

५. एकान्ताः ] विजयाऽलङ्कृतः [ २६ अनवयवो हि काकादिरेकजातीयसम्बन्धेन गृहवृक्षादिषूपलभ्यते । नैवमयम् । एवं हि बहुव्रीहिरपि न्यायत एवोपपन्नः। अन्त्य- ननु बोधकनिर्णयम्विना कथं तत्रोपलम्भनिर्णय इति चेत्-न। साध्यनिर्णयविनापि स्वघटितपघटकत्वसम्बन्धेन बोधके उपलम्भनि- र्णयसम्भवात् सन्घटकस्य कस्यचिद्बोधकत्वमस्तीति निर्णयस्यानुमि- तिम्विनाऽपि सत्त्वात् । केन चित् 'नकारे पक्षे हेतोस्समन्वयप्रदर्शनायोक्तम् । नकारस्य समवायसम्बन्धेन सनि उपलब्धस्यान्यत्र तेन सम्बन्धेनानुपलभ्यमान- त्वादिति'–तदत्यन्तमसमञ्जसम् । बोधके उपलम्भस्यैव हेतुत्वेन सनि उपलम्भप्रदर्शनस्याऽनुपयोगात् । सनोऽवयवत्वस्य नकारे निर्णीतत्वाच्च । किञ्च नकारस्य समवायसम्बन्धेन आकाशे उपलम्भो न सनशब्दे । अव- यिविन एव अवयवे समवायसम्बन्धेन सत्त्वस्य सर्वसम्मतत्वाच । अत एवामिपूर्व इत्यत्रामीति सप्तमी साधिताऽऽधारत्वारोपेण शेखरकृता । यदप्यग्रे तेनैव सन्शब्दे प्रकृतित्वहेतुना बोधकत्वं प्रसाध्य बोधक उपलम्भमुपपाद्य तेन हेतुना बोधकावयवत्वं साधितं-तदपि तुच्छम् । प्रथमानुमानेनैवाभिमतसाध्यसिद्धथा द्वितीयानुमानस्यानुपयोगात् । यदपि 'शशशृङ्गे व्यभिचारवारणाय हेतावाद्यदल'मित्युक्तं तेन- तदपि हेयम् । असत्त्वादेव तत्र व्यभिचाराप्रसक्तः । केचित्तु अन्यत्रेति हेत्वन्तरमित्याहुः । आकाशे व्यभिचारवारणायाद्यदलमित्यपरे। यो य एकजातीयसम्ब- न्धेन यत्रोपलब्धस्सन् अन्यत्र नोपलभ्यते स स तस्यावयव इति सामान्य- व्याप्त्या प्रकृतेऽनुमितिर्न विशेषव्याप्त्येति बोध्यम् । ननु चक्र उत्पन्नो नष्टो घटश्चक्रादन्यत्रानुपलब्धस्सन् संयोगेन चक्र उपलब्धोऽपि न चक्रावयव इति व्यभिचार इति चेत्-न । हेतौ योग्य- त्वनिवेशेनादोषात् । अन्यत्रोपलब्धियोग्यतायास्तत्रापि सत्त्वात् । न वा कपाले समवायेनोपलब्धस्य घटस्यान्यत्र समवायेनोपलब्धियोग्यताया असत्त्वाव्यभिचारशङ्का युक्ता, कपालान्तर उपलम्भात् । जातिगुणक्रि- याणामध्याश्रयव्यक्त्यन्तर्गतत्वेन तेष्वपि व्यभिचारशङ्का न कार्याऽव- यवत्वस्यैवेष्टत्वात् । व्यतिरेकव्याप्तिमाह-अनवयवो हीत्यादि । अत्रेदं बोध्यम्- ३० ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके शब्दे लक्षणा च न । किश्चानवयवत्वे णशकप्रत्ययादौ णादेरि- स्वानापत्तिः। प्रत्ययादित्त्वाभावात् । दनचश्चकारस्य वैयापत्तेश्च। इदं च तस्य लोप' इत्यत्र भाष्ये स्पष्टम् । तत्र युक्तमेकान्ता अनुबन्धा इत्येव न्याय्यमिति दिक ॥५॥ नन्वेकान्तत्वेऽनेकालवादेव औशादीनां सर्वादेशत्वसिद्धया- ऽनेकालसूत्रे शिद्ग्रहणं व्यर्थमत पाह- नानुबन्धकृतमनेकालत्वम् ॥६॥ , बोधकत्वेन निर्णीतवृत्तिधर्मावच्छिन्नस्यैव स्वरूपसूत्रबलेन शानघटकपद्- शक्यतया सानुबन्धकस्थले 'तस्य लोप' इतिसूत्रसहकृतेन तेन सन्त्वादिना अनुबन्धरहितो बोध्यते एकान्तपक्षे, लक्ष्ये चौपदेशिकसन्त्वादिकं भूतपू- र्वगत्या आदाय सन्परत्वादिकमुपपादनीयम् । अनेकान्तपक्षे च नकारे- संज्ञकसत्वाद्यवच्छिन्ने उद्देश्यताप्रयोजकसनादिपदघटकानुबन्धरहितस्य लक्षणा । विधेयताप्रयोजकसनादिपदे तु 'न विधौ परः शब्दार्थ' इति सिद्धान्तात् लक्षणाया अभावेन सन्त्वावच्छिन्नोऽनुबन्धरहित एव विधेयो नकारेत्संज्ञकत्वादेर्भूतपूर्वगत्या सत्वादेश्च प्रत्यक्षेण लक्ष्ये नकारेत्संज्ञकस- त्वादिकमुपपादनीयम् । इत्थश्च सानुबन्धकस्योद्देश्यत्वस्थले सर्वत्र लक्ष- णाश्रयणे गौरवं, समीपेऽवयवत्वारोपश्चेति द्वयमनेकान्तत्त्वतिरस्कारप्रयो- जकम्। ननु आरोपस्य लक्षणायाश्चानाश्रयणेऽप्यग्रिमपरिभाषात्रयकरणेनैका- न्तपक्षेऽतिगौरवमिति चेत्-न। अनेकान्तपक्षस्य व्यभिचारपराहतत्वेनैव तिरस्कारात् । परिभाषात्रयस्थाने एकस्यैव कल्पनीयस्य वक्ष्यमाणत्वाञ्चेति दिक् । न्यायत इति । आरोपं विनैवेत्यर्थः॥५॥ नन्वेकान्तत्व इति । नन्वेकान्तत्वकल्पेऽपि बोध्यानवयवत्वस्यैवा- नुबन्धानां स्वसिद्धान्ततया आदिश्यत इत्यादेश इति व्युत्पत्त्या बोध्यस्यै- वादेशत्वेन तस्य चानेकालत्वाभावेनानेकाल आदेशस्सर्वस्येत्यर्थकानेकाल सर्वस्येति सूत्रस्यौशादेशस्थले प्रवृत्त्या कथं शिद्ग्रहणं व्यर्थमिति चेत्- अत्र केचित् अनेकाल्बोधकबोध्यस्सर्वस्येत्यर्थेन सर्वादेशताप्राप्तिः । न च लोपादेशोऽप्येवं सर्वादेशस्स्यात् , बोधकस्य लोपशब्दस्यानेकालत्वादिति ।

६. नानुबन्धकृतमनेकालत्वम् ] विजयाऽलङ्कृतः [ ३१ वाच्यम् । शास्त्रीयसङ्केतानाश्रयत्वस्य बोधकविशेषणत्वाभ्युपगमात् जरसा- देशस्थलेऽपि स्वरूपशास्त्रसङ्केतस्य सत्त्वेन सर्वांदेशत्वानापत्तिरिति नाशङ्क- नीयम् । स्वरूपशास्त्रातिरिक्तशास्त्रस्यैव तत्र शास्त्रपदेन ग्रहणादित्याहुः- तन्न । अनुस्वारविसर्जनीयादेरपि सर्वादेशत्वापत्तेः । शब्दमर्यादा- म्विहाय स्वेच्छयार्थकरणेन सौत्राक्षरखण्डने अतिप्रसङ्गाच्च । अन्ये तु औशादौ शकारोच्चारणसामर्थ्यात् भूतपूर्वानेकालत्वमादाय सर्वादेशत्वसिद्धथा शिद्ग्रहणं व्यर्थमित्याहु:-तदपि न । शि सर्वनाम- स्थानं विभाषा ङिश्योरित्यादौ विशेषणार्थत्वेन जश्शसोः शिः जसः शी- त्यादौ शकारस्य वैयर्थ्याभावात्। भूतपूर्वानेकालत्वाश्रयणे प्रमाणाभावेन सर्वादेशत्वानापत्तेः । अर्वणस्नसावनब इत्यत्रोगित्त्वार्थमृकारस्य चारिता- यंन भूतपूर्वानेकालत्वस्यानाश्रयणेन सर्बादेशत्वाप्राप्त्या परिभाषाफल- त्वेन तदुपन्यासस्यासङ्गत्यापत्तेश्च । अनुबन्धविनिर्मुक्तस्यैवोक्तयुक्त्यादेश- त्वेन तस्य कदाप्यनेकालत्वाभावेन भूतपूर्वानेकालत्वाश्रयणेऽपि सर्वादेश- त्वाप्राप्तेश्च । यदि च बोधकगतानेकालत्वमादायापि प्रवृत्तिरित्येव भूतपूर्व- गत्याश्रयणमित्यस्याशय इत्युच्यते तहि लोपविसर्जनीयादेरपि सर्वादेश- त्वापत्तिः। यत्तु बोधकवृत्तिधर्माणां बोध्य आरोप इति भिन्न इत्यादौ गुणनिषे- धाय तत्तच्छास्त्रप्रामाण्यात् कल्पनीयन्ततश्चानेकालत्वस्याप्यारोपेण सर्वा- देशत्वसिद्धथा शिद्ग्रहणं व्यर्थमित्याशयः। बोधकश्चानुबन्धघटितो ग्राह्यः । तेन लोपादौ न दोष इति-तन्न । तेनैव ज्ञापकेन धर्मिग्राहकमानादित्प- दघटितधर्माणां बोध्य भारोप इत्येतत्कल्पनयैव शिद्ग्रहणस्य चारिता- र्थ्यसम्भवे परिभाषाज्ञापनस्यैवाभावापत्तेः । कित्वाद्यानयनस्यैतत्परिभाषा- फलत्वेनैव स्थानिवत्सूत्रे शेखरकृता प्रतिपादितत्वाच्च । तस्मादिदमत्रावधे- यम्-स्वरूपबोधकस्थले स एवायमिति तत्त्वप्रत्यभिज्ञया बोध्यबोधकयो- रभेद इत्युपेयते । तथा च स एवायमौकाराद्यादेशो यो बोधके औशित्याद्या- कारक आसीदिति प्रतीत्याऽनेकालत्वमप्यस्यैव धर्म इत्यस्यावश्यमेव मन्तव्यतया भवत्यनेकाल्वधर्मवानादेश इति स्यात्सादेशः । आदेशा- वस्थायां योऽनेकाल इत्यवस्थाविशेषाश्रयणे प्रमाणाभावात् । एतदभिप्रा- येणैव शब्देन्दुशेखरे विधौ निर्दिष्टो योऽनेकाल इत्युक्तमिति। शिद्ग्रहणा- म्व्यर्थमिति। ज्ञापितायाञ्चास्यामनुबन्धस्यानेकालघटकाल्पदेनाग्रहणा- द्बोधकावस्थायामप्यनेकाल्त्वस्यौशादेशस्थलेऽभावेन शिद्ग्रहणं चरिता- र्थम् । तथा चाल्विशिष्टत्वमनेकालत्वमिति फलति। अल चानुबन्धभिन्नो ।

३२] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके गृह्यते। वैशिष्टयञ्च स्वघटितत्वं स्वेतरो योऽनुबन्धभिन्नोऽल तद्घटितत्व- मित्युभयसम्बन्धेन । ननु ज्ञापितायामप्यस्यां शिग्रहणन कर्त्तव्यमौशि- त्यादौ शकारोच्चारणसामर्थ्यात्परिभाषाया अप्रवृत्त्या सर्वादेशत्वम्भवि- ष्यति। अनेकालित्यत्राल्पदेनौशित्येतद्घटकशकारातिरिक्तानुबन्धभिन्नोऽल गृह्यते इति यावदिति चेत्-न। विशेषणार्थचरितार्थशकारके श्यादेशस्थले शिद्ग्रहणस्यावश्यकत्वात् । ननु किमेतस्या ज्ञापने फलम् ? परिभाषापि मास्तु । शिद्ग्रहणमपि त्यज्यताम् । अनेकालत्वादेव सर्वादेशत्वम्भविष्यति। न चार्वन्तावित्यादौ त्रादेशस्य ससजुषो रुरिति विहित देशस्य च सर्वादेशतापत्तिरिति वाच्यम् । उभयत्र ङित्करणेनापि सर्बादेशताया वारणसम्भवात् । न वा दिव उदिति विहितोकारादेशोपि सर्वादेशः स्यात् । स्वमते तूञ्चारणार्थाना- मपीत्संज्ञाया आवश्यकतया परिभाषयानेकाल्त्वाभावान्न दोष इति फलं युक्तम् । तपरसूत्रे वर्णस्यैव संज्ञात्वस्य शेखरकृतोक्तत्वेन बोध्यबोधकयोः कुत्राप्यनेकाल्त्वस्याभावेन परिभाषाया अनावश्यकत्वात्। उच्चारणे मुखसुख- सम्पादनमात्रप्रयोजकतया तकारस्य कार्यान्तराप्रयोजकतया तकार- मादाय सर्वादेशतायाः प्रसक्त्यभावाच । केचित्तु सत्येव तकारे परिभाषायाः प्रयोजनं स्यात्तकारो न क्रियताम् । 'भाव्यमानोप्युकारस्सवर्णान गृह्णाती'ति परिभाषया सवर्णग्राहकत्वेऽपि वकारस्यैव स्थानित्वेनान्तरतमपरिभाषयैव दीर्घादिव्यावृत्तेः । न च दिवु- धातोः क्विपि ऊठि अक्षयूशब्दाद्यामि स्थानिवत्त्वेन दिव्त्वादान्तरतम्या- ही? मा भूदित्यर्थं तपरकरणमावश्यकमिति वाच्यम् । निरनुबन्धकपरि- भाषया तत्रैतत्सूत्राप्रवृत्तेः । नापीच्छाक्यजन्तादिवशब्दात् किप्यूठि भ्यामि दुयुभ्यामित्यत्र ह्रखविधानार्थं तपरकरणमिति वाच्यम् । क्यचि नान्त- मेव पदमिति नियमेनाल्लोपस्य स्थानिवद्भावेन च तत्रैतत्सूत्राप्रवृत्त्या दीर्घ- स्यैवेष्टत्वाच्चेति न फलं परिभाषाया इत्याहुः। परे तु शिद्ग्रहणेनानुबन्धानामल्पदबोध्यत्वाभावो ज्ञाप्यत इति स्था- निवत्सूत्रे शेखरे प्रतिपादितम् । एतल्लभ्यमेवानुबन्धकायें अनल्विधाविति निषेधो न प्रवर्त्तत इति । तथा सत्येकान्तपक्षेऽपि क्त्वाककारस्य स्थान्यल- पदेनाग्रहणेन तन्निष्ठकत्वघटितकित्त्वस्य स्थानिसम्बन्ध्यल्वृत्त्यल्त्वव्याज्य- धर्मघटितधर्मत्वाभावेन निषेधाप्रवृत्त्या नल्यपीत्यस्य चारितार्थ्यम् । प्रदा- येत्यादौ स्थानिवत्त्वेन कित्त्वादिप्रयुक्तप्राप्तेत्त्ववारणाय अनुभूयेत्यादौ गुण- निषेधादिकश्चात एव स्थानिवद्भावेन सिद्धम् । अनुबन्धस्याल्पदेनाग्रहणा- ६. नानुबन्धकृतमनेकालत्वम् ] विजयाऽलङ्कृतः द्वोधकेप्यनेकाल्त्वस्याभावेन न सर्वादेशत्वसिद्धिशङ्कापि। भाष्ये दृश्यमानं नानुबन्धकृतमनेकालत्वमिति त्वनुबन्धस्याल्पदबोध्यत्वाभावबोधनलभ्यमे- वेति न विरोधः। 'नानुबन्धकृतमनेजन्तत्व'मित्यप्येतज्ज्ञापनलभ्यमेव नापूर्वम् । एजन्तत्वं ह्येज्विशिष्टत्वम् । वैशिष्टयञ्च स्वघटितत्वस्वध्वंसाधि- करणक्षणवृत्त्यल्घटितत्वोभयसम्बन्धेन । अनुबन्धस्याल्पदबोध्यत्वाभावेन दैबित्याद्यनुबन्धविशिष्टस्यैजन्तत्वमुपपद्यते । 'नानुबन्धकृतमसारूप्य'मि- त्यपि नापूर्वम् । एतल्लभ्यत्वात्। सारूप्यमित्यस्य हि समानान्त्वमर्थः । अनुबन्धस्याल्पदबोध्यत्वाभावेन काणोस्समानाल्त्वस्यैव सत्त्वादिति बहूनि फलान्येतस्या इति विज्ञेयम् । नन्वेवं घअन्तरामशब्दगतहलन्तत्वमानुमानिकस्थान्यादेशकल्पनयाऽ तिदेशेनादन्तरामशब्द श्रादाय राम इत्यादौ हल्ड्याब्भ्य इति सुलोपाप- त्तिः। बकारस्यानुबन्धत्वेनानल्विधाविति निषेधाप्राप्तः । अथैवं सति रमा- गौरीत्यादावपि टाप्ङीषोः पकारादिहलत्वमादाय सुलोपे सिद्धे ड्याब्ग्रहणं व्यर्थं सदनुबन्धगतहल्त्वमादाय सुलोपश्चेत् ङ्याब्भ्यामेवेति नियमेन राम इत्यादौ न दोष इति चेत्-एवमपि ओवश्चु इति धातोयुटि निष्पन्नव्रश्चन- शब्देन सह कुशब्दस्य समासे उत्तरपदस्य स्थानिवद्भावेनाजादित्वमादाय कोः कत्तत्पुरुष इति कदादेशापत्तिरिति चेत्-न। अल्बोधकपदबोध्य- त्वाभावस्यैव ज्ञाप्यत्वेनाजादिपदेनाप्यनुबन्धस्याग्रहणात् । यत्तु एवं सति हल्पदेनाप्यनुबन्धस्याग्रहणे हलन्त्यमित्यनेनेत्संज्ञा न स्यादेवं किदादिपघटकककारादिपदेनाप्यनुबन्धककारादीनामग्रहणे ज्ञाप- नोत्तरमपि कित्त्वाद्यनुपपत्तिरिति-तन्न । इत्पदप्रयोज्यविषयतानिरूपित- विषयत्वाप्रयोजकत्वस्य ज्ञाप्यशरीरघटकाल्बोधकपदे विवक्षितत्वात् । हल- न्त्यमिति सूत्रघटकहलपदस्य किदादिपघटकककारादेश्चेत्पदप्रयोज्यवि- षयतानिरूपितविषयताप्रयोजकत्वस्यैव सत्त्वेन ज्ञाप्याविषयत्वात् । नन्वेवमपि 'यस्मिन् विधिस्तदादावल्ग्रहणे इत्येतद्घटकाल्पदस्य तथाविधत्वेन तत्पदबोध्यत्वस्य शबादिघटकशकाररूपानुबन्धे अभाव- बोधनेन तादृशशकारबोधकस्य शितीतिपदस्य परिभाषाघटकाल्ग्रहण- पदेनाग्रहणापत्तौ तदादिविध्यभावेनेत्संज्ञकशकारादावित्यर्थानापत्तिरिति चेत्-अत्रोच्यते । स्वप्रयोज्यविषयतानिरूपितविषयताप्रयोजकत्वस्व- निष्ठविषयतानिरूपितविषयताप्रयोजकत्वैतदन्यतरसम्बन्धेन इत्पदवि- शिष्टभिन्नं यदल्बोधकं पदन्तबोध्यत्वाभावस्यैव ज्ञाप्यत्वात् । हलन्त्य- घटकहलपदे किदादिघटककितिपदे चाद्यसम्बन्धेन अलग्रहणघटकाल्प- ३ ३४ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके शिद्ग्रहणमेवैतज्ज्ञापकम् । तेनार्वणस्तृ इत्यादेनं सर्वादेशत्वम् । डादिविषये तु सर्वादेशत्वं विनानुबन्धत्वस्यैवाभावेनानुपूर्व्यात्सि- द्धम् ॥ ६॥ दे चान्त्यसम्बन्धेनेत्पदविशिष्टत्वस्यैव सत्त्वेनादोषात् । अल्ग्रहण इत्यस्य ह्यल्बोधक इत्यर्थः । अल् शब्घटकशकारस्तद्बोधकं शितीतिपदमिति ग्रहणपदप्रयोज्या विषयता शित्पदे अपर्याप्त्या च तद्घटकेत्पदे वर्त्तते । तन्निरूपिता विषयताऽल्त्वावच्छिन्ना तत्प्रयोजकत्वस्यैवाल्पदे सत्त्वा- दिति दिक। नन्वेवं डाणलादावनेकालत्वाभावात् सर्वादेशत्वं न स्यादित्यत आह-डादिविषये तु सर्वादेशत्वमित्यादि-प्रत्ययादित्वाभावा- दिति भावः । एवञ्च नैतत्परिभाषाप्रवृत्तिरिति बोध्यम् । नन्वेवं सर्वादिगणोक्तशेखररीत्या परिभाषायामनुबन्धपदेनानुबन्ध- त्वयोग्यस्यैव ग्रहीतुमुचितत्वेन यदि सर्वादेशस्स्यात्तर्हि स्थानिवद्भावेन प्रत्ययत्वादित्संज्ञा स्यादिति सम्भावनायास्सत्त्वेन परिभाषाप्रवृत्तेस्सूपपा- दत्वेनेदमयुक्तमिति चेत्-न । प्राचीनमताभिप्रायेणैतद्ग्रन्थस्य सत्त्वात् । स्वमते डा-इत्यस्य डा आ इत्याकारकतामभ्युपगम्य सर्वादेशत्वमुपपा- द्यम् । अथवा सर्वादेशत्वमित्यस्य सिद्धमित्यनेनान्वयोऽभावेनेत्यस्य विने- त्यनेनान्वयः। एवशब्दोऽप्यर्थस्तस्य विनोत्तरमपकर्षस्तथा चानुबन्धत्व- स्याभावेन विनापि अर्थादनुबन्धत्वेऽप्यनुबन्धत्वयोग्यतया परिभाषाघट- कानुबन्धपदेन ग्रहणेऽपि परिभाषाप्रवृत्तावपीति यावत् । आ आ इत्या- नुपूर्व्यात् सर्वादेशत्वं सिद्धमित्याकारद्वयं निस्सायं स्वमतेऽपि फक्किका योजनीया। अथ वा सिद्धमित्यत्र हेतुद्वयम् । प्राचीनमते सर्वादेशत्वं विनानुब- न्धत्वस्यैवाभावेनेति हेतुः । स्वमते आ आ आनुपूर्व्यादितिहेतुरिति मत- द्वयमनुसृत्यापि योजयितुं शक्यते। अथ वा यदि सर्वादेशत्वं स्यात्तदा स्थानिवत्त्वेन प्रत्ययादित्वादनुबन्धत्वं स्यादिति सम्भावनाविषयीभूता- नुवन्धत्वमादायैव परिभाषा प्रवर्तनीयेति परिभाषाप्रवृत्तौ सर्वादेशत्व- सम्भावनापि निमित्तम् । परिभाषाप्रवर्त्तने च निमित्तभूतसर्वादेशत्वसम्भा- बनाया विघातः स्यादित्युपजीव्यविरोधान्न परिभाषाप्रवृत्तिरित्याकारप्र- ७. नानुबन्धकृतमनेजन्तत्वम् ] विजयाऽलङ्कृतः [ ३५ न चैवमप्यवदातं मुखमित्यत्र पलोपोत्तरमात्वे कृतेऽदाप् इति घुसंज्ञाप्रतिषेधो न स्यात् । दैपः पकारसत्त्वेऽनेजन्तत्वादात्वाप्राप्त्या पलोपोत्तरं पकाराभावेनास्य दापत्वाभावादत आह- श्लेषमन्तरेणैव ग्रन्थः स्वमतेन योजनीयः। सर्वादेशत्वम्बिनेत्यस्य सर्वा- देशत्वसम्भावनाम्विनेत्यर्थः । अनुबन्धत्वस्यैवाभावेनेत्यस्थानुबन्धत्व- सम्भावनाया अभावेनेत्यर्थः। अभावेनेत्यन्तग्रन्थेन सर्वादेशत्वसम्भाव- नायाः परिभाषोपजीव्यत्वं प्रदर्शितम् । सर्व इत्यादौ तु नानया रीत्योप- जीव्यविरोध उपपादयितुं शक्यते। परिभाषाप्रवृत्तावपि शित्वात्सर्वादे- शत्वाक्षतेरिति दिक् ॥६॥ अवदातम्मुखमित्यादाविति–दैपधातोः पलोपे क्तप्रत्यये प्रात्वे दातमिति सिद्धयति । अदाबिति घुसंज्ञाप्रतिषेधेन "अच उपसर्गात्त” इति तत्त्वन्न । अत्रोच्यते-अदावितिनिषेधः कथम् ? अदाबित्यस्य हि दापो घुसंज्ञा नेत्यर्थः। अत्र च बोधके पकारसत्त्वेऽपि दाशब्दो नास्ति तत्रैजन्तत्वाभावेनात्वाभावात् । बोध्ये श्रात्वे कृते दाशब्दसत्त्वेऽपि पका- राभावात् दकारोत्तराकारोत्तरपकाररूपत्वस्यैव दापत्वरूपत्वादेतदेवाह- पलोपोत्तरमित्यादिना । दापत्वाभावात् अदाबिति घुसंज्ञाप्रतिषेधो न स्यादित्यन्वयः । कदाचित् पकाराभावात दापत्वाभावः । कदाचित् दारू- पत्वाभावात्तत्त्वाभावः। कदा कस्मादित्याकाङ्क्षायामाह-पलोपोत्तरं पकाराभावेनास्य दापत्वाभावः । न दारूपत्वाभावेनेति भावः। तत्रैव हेतुरुच्यते-पलो- पोत्तरमात्वे कृते इति । अस्य दारूपत्वेपीतिशेषः। पकारसत्त्वे अनेजन्त- त्वादात्वाप्राप्त्या दाप्त्वाभावः । प्राप्त्या इत्यस्य दारूपत्वाभावेनेति शेषः। एतेन पलोपोत्तरमिति पुनरुक्तमित्यपास्तम् । एकस्मिन्नेव अनेकवारमेकस्य विशेषणत्वे एव पुनरुक्तदोषात्। अत्र तु आत्वे दापत्वाभावे चान्वयाम सः। अत्र केचित्-पकारेत्संज्ञकत्वे सति दात्वमेव दापत्वं, तच्च पकारे- त्संज्ञकत्वस्य स्थानिवत्त्वेन आत्वे कृते स्वतो दात्वस्य च सत्त्वात्सुलभमेव पलोपोत्तरं दाशब्द' इति नेदमवतरणं युक्तमित्याहुः । अत्र केचित्-पकारेत्संज्ञकदापशब्दबोध्यस्यैव दापूपत्वमिति युक्त- मेवेत्याहुः।

परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके नानुबन्धकृतमनेजन्तत्वम् ॥ ७॥ 'उदीचां माङ' इति निर्देशोऽस्या ज्ञापकः । 'प्रादेच उपदेश' इति सूत्रणोपदिश्यमानस्यैजन्तस्यात्वं क्रियते । ङकारसत्त्व एज- न्तत्वाभावादात्वाप्राप्तस्तस्यासङ्गतिः । न चास्यामवस्थायां तस्य धातुत्वाभावात्कथमात्वमिति वाच्यम् । तत्र 'धातो रित्यस्य निवृ- तेरित्यन्यत्र विस्तरः। स्पष्टं चेदं दाधाध्वदाविति सूत्रे भाष्ये ॥७॥ अत्रेदं चिन्त्यते-अदापशब्दघटकदापशब्दस्य शक्यतावच्छेदकं दापत्वमानुपूर्वीरूपम् । तच्च पकारेत्संज्ञकदापशब्दबोध्य एव गमिष्यति । न प्रकृते पकारेत्संज्ञकदापशब्दबोध्यस्य कस्याप्यभावादिति निषेधाप्रवृ- त्याऽवतरणं सङ्गतमित्याशयो वा पकारेत्संज्ञकदापशब्दबोध्यत्वमेव दाप- शब्दबोध्यतावच्छेदकं तन्नास्तीति निषेधाप्रवृत्त्याऽवतरणं सङ्गतमेवेत्या- शयो वा । नाद्यः । दाप् लवन इत्यत्र दापशब्दे दापयतीत्यादौ पुगन्त- दापशब्देच दाप्त्वरूपानुपूर्व्याःसत्त्वात् ।नान्त्यः। बोधकत्वेन तात्पर्य्यविष- यीभूतशब्दनिष्टानुपूर्व्यवच्छिन्ने शब्दशक्यतायाः स्वरूपसूत्रेण बोधनात् । पकारेत्संज्ञकदापशब्दबोध्यत्वस्य दापशब्दबोध्यतानवच्छेदकत्वात्। न च तद्रूपावच्छिन्ने लक्षणा । शक्यार्थेनैवोपपत्तौ लक्षणायां मानाभावात् । तस्मान्नेदं युक्तम् । यदपि तैरेव दैशब्दे स्थानिवद्भावेनोपदिश्यमानत्वमानीतं -तदपि न युक्तम् । तस्याशास्त्रीयत्वात्। तस्य बोध्यत्वरूपत्वेनानुबन्धरहिते दैशब्दे स्वतस्सिद्धत्वाच्च। यदप्यधातौ स्थानिवद्भावेनोपदिश्यमानत्व- मादाय टकारस्येत्संज्ञामाशङ्कयसमाहितं--तदप्यसमञ्जसमेव। इत्संज्ञावि- धावुपदिश्यमानत्वस्यानिमित्तत्वात् करणसाधनस्यैवोपदेशशब्दस्य सिद्धा- न्तितत्वात्। परतुदाप्त्वमानुपूर्वीरूपमेव । तदेव दाप्पदशक्यतावच्छेदकम्। स्वरूप- सूत्रेण तस्यैव शक्यतावच्छेदकत्वबोधनात् । पकारेत्संज्ञकत्वे सति दात्व- रूपस्य दाप्त्वस्य लक्षणां विना बोध्यतानवच्छेदकत्वात् । लक्षणायां च प्रमाणाभावात् । अत एव प्रणिदापयतीत्यादावदाबितिप्रतिषेधमाशङ्कथ दाबिति बान्त एव प्रतिषिध्यते । दैपदापावपि बान्तावेवेत्युक्तं भाष्ये । पकारेत्संज्ञकत्वस्य दाप्पदशक्यतावच्छेदककोटौ प्रवेशे शङ्कासमाधानयोर- ८. नानुबन्धकृतमसारूप्यम् ] विजयाऽलङ्कृतः [ ३७ नन्वेवमपि 'वाऽसरूपसूत्रण कविषयेऽणोऽप्यापत्तिरत आह- नानुबन्धकृतमसारूप्यम् ॥ ८॥ सङ्गत्यापत्तेः। किन्चैवं रीत्या टकारेत्संज्ञकत्वस्य खकारेत्संज्ञकैत्वस्य च इट् उपदशक्यतावच्छेदकताया वक्तव्यतया अग्रहीद् रामायेत्यादावनलू- विधाविति निषेधापत्तेः । अण्त्वणत्वयोः साङ्कर्यापत्तेः । पूर्वत्वपरत्वयोः प्रवेशेन तत्परिहारे गौरवाच्च । अत्रैवाऽस्तु तथा। अन्यत्रानुपूर्वीरूपत्वमेव सर्वेषामस्तु इति चेत्-न। वैषम्ये बीजाभावात् , लाघवस्य सर्वत्र तुल्यत्वाच्च । न च तवापि अत्रेव हशि चेत्यादौ रुत्वस्याप्यानुपूर्वीरूपत्वेन देवरुहीत्या- दावुत्वापत्तिः । एवं “उत्रि च पद” इत्यत्रोक्त्वस्यानुपूर्वीरूपत्वेन तन्त्रयु- तमित्यादिप्रत्युदाहरणपरभाष्यासङ्गत्यापत्तिः । मम तु उकारेत्संज्ञकत्वस्य रुधातावसत्त्वेन बोधकगतबकारेत्संज्ञकत्वस्यातिदेशेन उत्वस्य च स्वतः सत्त्वेन न दोष इति वाच्यम् । अतो रोरित्यादावनुनासिकस्योकारस्यै- बोचारणरूपयत्नसत्त्वेनानुनासिकत्वस्य विवक्षितत्वेन सिद्धान्ते पदग्रह- णस्योत्तरार्थत्वेनानेकान्तपक्षाभिप्रायेणैव तन्त्रयुतमिति प्रत्युदाहरणपर- भाष्यस्य सत्त्वेन चादोषात् । ननु ज्ञापितायामप्यस्यां बोधके बोध्ये वाऽ- ऽत्वप्रवृत्तिः । न तावद्बोधके दैप शोधने, धेट पाने, इत्यादावात्वश्र- वणापत्तेः । नापि बोध्ये अनुबन्धरहितस्यैव बोध्यत्वेन तावतापि दाप्त्वा- भावेन निषेधाप्रवृत्त्यापत्तेरिति चेत्-न । बोधक एवात्वं प्रवृत्तं बोधकत्वेन तात्पर्य्यविषयीभूतमैकारादिघटितमेवौपदेशिकमिति बोधयितुमात्वघटितं नोच्चारितम् । बोध्यं तु दैधे इत्याद्येव । बोधकत्वेन विवक्षितस्वरूस्यैव स्वरू- पसूत्रेण शक्यत्वबोधनात् । बोध्येऽपि शित्परत्वाभावे आत्वम् । बोधक- गतदाप्त्वस्य बोध्ये बोध्यबोधकयोरभेदेन सत्त्वाग्निषेधोपपत्तिश्चेति दिक । नानुबन्धकृतमनुपदिश्यमानत्वमिति पाठ एव युक्तः । दैबित्येतद्- घटकदैमात्रस्यैजन्तत्वं स्वतस्सिद्धम् । परिभाषयोपदिश्यमानत्वबोधनादा- त्वसिद्धिरनेजन्तत्वपाठेतुपान्तस्यैव परिभाषयैजन्तत्वेनालोन्त्यपरिभाषया पकारस्यैवात्वापत्तेरिति केचित्-तन्न । निर्दिश्यमानपरिभाषयैकारस्यैवा- त्वेन यथाश्रुतपक्षेऽपि दोषाभावात् , भाष्यानुग्रहस्यात्रैव सत्त्वाच्च ॥७॥ कविषयेऽणोप्यापत्तिरिति-एकान्तपक्षेऽनुबन्धघटितस्यैव बोध- कत्वेन तस्यासरूपत्वेन वाऽसरूपसूत्रप्रवृत्तेरिति भावः। ननु बोधकावस्था- यामसरूपत्वविवक्षणे व्यावालाभेनासरूपग्रहणस्य वैयर्थ्यांपत्त्या परि- ।

३८ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके ददाति दधात्योर्विभाषेति णबाधकशस्य विकल्पविधायकम- स्या ज्ञापकम् । तेन गोद इत्यादौ नाण्णिति वासरूपसूत्र भाष्ये स्पष्टम् ॥८॥ । भाषाऽकरणलाघवेन च प्रायोगिकासरूपत्वस्यैव ग्रहणेन न दोषः। प्रयोगे काणोरनुबन्धविनिर्मुक्तयोरेवोपस्थित्यासरूपत्वात् इति चेत्-न । वाक्या- थबोधकाले लक्षणैकचक्षुषां प्रायोगिकरूपज्ञानाभावेनौपदेशिकरूपग्रहण- स्यैवौचित्यात् । न च वैयर्थं "हनश्च वध” इति सूत्रविहितस्य वधादेशस- नियोगशिष्टस्यापः प्रत्ययस्य "मूत्तौ घन" इति सूत्रविहितेन घनादेशसन्नि- योगशिष्टेनापप्रत्ययेनापवादभूतेन वैकल्पिकबाधाभावाय सार्थक्यात्। तत्र बोधकावस्थायामुभयोस्सरूपत्वात्। वैकल्पिकवाधे तु मूर्तावपि पक्षे वधादे- शापत्तेः । यदि च धनादेशमात्रं मूत्तौ विधीयते प्रत्ययश्च पूर्वसूत्रेणैव, किञ्च तावन्मात्रप्रयोजनकत्वे पदलाघवाद् हुनश्च वधोऽमूर्ताविति न्यासेनापि बाध्यबाधकभावाभावेन न दोष इत्युच्यते तथाऽपि इगुपधलक्षणकप्रत्य- यस्य "तुन्दशोकयोः परिमृजापनुदो"रिति विहितकप्रत्ययेन वैकल्पिकबा- धाभावाय तत्सार्थक्यमवेहि । वैकल्पिकबाधे हि उत्सर्गकप्रत्यये शोकस्या- पनुदः शोकापनुद इति समासविकल्पापत्तिरिष्यते तूपपदमतिङिति नित्य- समास एवेति बोध्यम्। ननु किमिदं सरूपत्वम् ? न तावत् समानरूपवत्त्वं तत्, सर्वेषां रूपाणां स्वापेक्षया समानत्वेनाव्यभिचारात् । नापि स्ववृत्तिरूपवत्त्वसम्बन्धेन स्वविशिष्टत्वं स्वसरूपत्वं, तव्यतः क्तप्रत्ययसरूपत्वापत्तेः । नीलघटशब्द- स्थापि घटशब्दसरूपत्वापत्तेश्च स्ववृत्तितत्त्वादेस्तव्यदादौ सत्त्वात् । अत्रोच्यते--स्वपर्याप्तश्रावणप्रत्यक्षविषयतावच्छेदकधर्मपर्याप्त्य- धिकरणत्वसम्बन्धेन स्वविशिष्टत्वमेव स्वसरूपत्वम्। परिभाषासहकारेण तु स्वघटकानुबन्धेतरयावद्वर्णघटितपर्याप्तश्रावणप्रत्यक्षविषयतावच्छेदकध- र्मपर्याप्त्यधिकरणत्वन्तत्त्वम् । परन्त्वत्र यावत्त्वं दुर्वचम् । तस्मात् स्ववि- शिष्टत्वं स्वसरूपत्वम् । वैशिष्ट्यं स्वघटकवृत्तिश्रावणप्रत्यक्षविषयतावच्छे- दकधर्मवद्घटितत्वस्वघटकावृत्तितादृशधर्मवदघटितत्वोभयसम्बन्धेन । न च सरशब्दरसशब्दयोः परस्परवैशिष्ट्यसत्त्वात् सरूपत्वापत्तिरिति वाच्यम् । स्वं सरशब्दस्तद्घटकावृत्तितादृशो धर्मो रशब्दोत्तरत्वविशि- ष्टसत्वं तद्वान् रसिति । तद्घटितत्वस्यैव रसशब्दे सत्त्वात्। एवं रसशब्द- १०. उभयगतिरिह भवति ] विजयाऽलङ्कृतः [ ३६ ननु सङ्ख्याग्रहणे बह्वादीनामेव ग्रहणं स्यात् । प्रकरणस्या- भिधानियामकत्वसिद्धात्- कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययः ॥ ६ ॥ इति न्यायात् । अस्ति च प्रकृते बह्वादीनां सङ्ख्या संज्ञा कृतेति ज्ञानरूपं प्रकरणम् ॥६॥ न तु लोकप्रसिद्धकद्वयादीनामित्यत आह- उभयगतिरिह भवति॥ १० ॥ इह शास्त्रे । 'सङ्ख्याया अतिशदन्ताया' इति निषेधोऽस्या m- घटकावृत्तितादृशो धर्म:सशब्दोत्तररत्वं तद्धटितत्वस्यैव सरशब्दे सत्त्वेना- दोषात् । परिभाषाबलात्तु धर्मेऽनुबन्धावृत्तित्वं देयमित्यलम् ॥८॥ प्रकरणस्याभिधानियामकत्वसिद्धादिति । अत्राभिधापदेन तात्पर्य्यमुच्यते न तु शक्तिः। तस्याः शक्यशक्ततावच्छेदकमात्रनियम्य- त्वात् । अयं भावः । यस्मिन् शब्देऽनेकाः शक्तयस्तत्र श्रोतुः कीदृशश- क्तिज्ञानाधोनबोधनेच्छया वक्त्रोच्चारितमिदमिति निश्चयाभावात् । शाब्द- बोधे च समानविषयकतात्पर्य्यनिश्चयस्य कारणत्वाच्छाब्दबोधानुपपत्तौ प्राप्तायां प्रकरणादिना तात्पर्य्यनिर्णयोत्तरं बोधो भवति । एवञ्च शास्त्रे संख्यादिपदे एकत्वादिनिरूपिता लौकिकी, बहुगणादिनिरूपिता शास्त्रीया च शक्तिरस्तीति कीदृशार्थबोधनेच्छयोच्चरितमिदमिति जिज्ञासायां स्वय- मेव शास्त्रकारेण बह्वादिनिरूपितशक्तिं बोधयित्वा कथमन्यार्थबोधनेच्छ- योच्चारितं स्यादिति ज्ञानरूपप्रकरणेन बहुगणादावेव तात्पर्य्यनिर्णयेन तद्विषयकबोधस्यैव शास्त्रे सम्भवेन लौकिकार्थबोधाप्रसक्तिरित्येतत्फलि- तमेव “कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्यय' इति न्याय इति ॥९॥ उभयगतिरिह इतिपरिभाषया च लौकिकालौकिकोभयार्थतात्पर्य शास्त्रेऽस्तीति बोध्यत इति भावः। तथा चोभयबोधस्थल आवृत्तिराश्रय- णीयेति भावः।

४० ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके ज्ञापकः। न हि कृत्रिमा सङ्ख्या त्यन्ता शदन्ता चास्ति । तेन 'कर्तरि कर्मव्यतिहारे', 'कण्वमेघेभ्यः करणे', 'विप्रतिषिद्धं चानधिकरण इत्यादौ लौकिकक्रियाद्रव्याघवगतिः । तत्र कोभयगतिः काकृत्रिम- स्यैव व कृत्रिमस्यैवेत्यत्र लक्ष्यानुसारिव्याख्यानमेव शरणम् । अत एवामेडितशब्देन कृत्रिमस्यैव ग्रहणं न तु द्विस्त्रिघुष्टमात्रस्य । स्पष्टं चेदं सङ्ख्यासंज्ञासूत्रे भाष्ये । यत्तु संज्ञाशास्त्राणां मच्छास्त्रेऽनेन शब्देनैत एवेति नियमार्थत्वं तज्ज्ञापकत्वमुपपादयति-न हि कृत्रिमा संख्या त्यन्ता शदन्ता चास्तीति । ननु कतीति कृत्रिमाऽपि संख्या त्यन्ताऽस्तीति तव्यावृ- त्यर्थं त्यन्तग्रहणमिति चेत् न । तिशब्दे विशिष्टरूपोपादानसत्त्वेनार्थवद्- ग्रहणपरिभाषयाऽर्थवत्त्यन्तस्यैव तिपदेन ग्रहणेन कतीत्यादावकारसहित- स्यैवार्थवत्त्वेन तव्यावृत्त्यर्थत्वाभावात् । न च परिभाषाज्ञापनोत्तरमपि द्विदशशब्दातिप्रत्यये द्विदशशब्दस्य विंशादेशेन, शतिप्रत्यये विनादेशेन च विंशतिशब्दस्य साधनादर्थवतस्तेस्सत्त्वासत्त्वाभ्यां प्रसक्तस्य फलभेद- स्य वारणायार्थवद्ग्रहणपरिभाषायाः प्रकृतेऽनुपस्थित्या कृत्रिमस्यैव ग्रह- णेऽपि कतीत्येतव्यावृत्त्यर्थत्वसम्भवेन नैतज्ज्ञापकमिति चेत-सत्यमित एवारुचे: शदन्तग्रहणस्य ज्ञापकत्वमुक्तमिति दिक् । यत्तु संज्ञाशास्त्राणामित्यादि । अयम्भावः-सर्वशब्दात् केषांचित् शक्तिभ्रमात् केषांचित् लक्षणया सर्वार्थविषयकबोधोत्पत्त्या सर्वार्थबो- धकत्वं सर्वेषां शब्दानां सिद्धम् । वैयाकरणमते च "बोधकतैव शक्ति"- रिति सर्वार्थनिरूपितशक्तिमत्त्वं सर्वेषां शब्दानां सिद्धमेव । ननु शक्ति- भ्रमाद्बोधः लक्षणया बोध इति व्यवहारानुपपत्तिः। तंव मते सर्वत्र शक्तस्सत्त्वादिति चेत्-न । परमताभिप्रायेण तद्व्यवहारस्य सत्त्वात् । अत एव 'सर्वे सर्वार्थवाचका' इत्यभियुक्तानां व्यवहारः। एवञ्च वृद्धि- संख्यादिपदेषु आदैजादिबहुगणादिनिरूपितशक्तेरपि सत्त्वेन तत्तत्पदेन तत्तदर्थप्रतीतेलौकिकशक्त्यैव सिद्धौ वृद्धिरादैजित्यादिसंज्ञासूत्राणां बैय- ात् । अस्मच्छास्ने वृद्धयादिशब्देन आजादीनामेव बोध इति निय- मात् 'कृत्रिमाकृत्रिम' इति न्यायो लभ्यत इति ।

११. कार्यमनुभवन् ] विजयाऽलङ्कृतः [४१ कृत्रिमाकृत्रिमन्यायवीजमिति-तन्न । तेषामगृहीतशक्तिग्राहकत्वन विधित्वे सम्भवति नियमत्वायोगात् । 'सर्वे सर्वार्थवाचका' इत्य- भ्युपगमोऽपि योगिदृष्ट्या न त्वस्मदृष्ट्या । विशिष्य सर्वशब्दा- र्थज्ञानस्याशक्यत्वात्सामान्यज्ञानं तु न बोधोपयोगीत्यन्यत्र निरू- पितम् ॥ १०॥ नन्वध्येता शयितेत्यादाविशीडोङित्वाङ्कितिचेति गुणनि- षेधः स्यादत अाह- कार्यमनुभवन् हि कार्थी निमित्ततया नाश्रीयते ॥११॥ अगृहीतशक्तिग्राहकत्वेनेति। अयम्भावः उक्तरीत्या वृद्धयादि- पदे आदैजादिनिरूपितशक्तस्सत्त्वेऽपि लोके तत्पदेन तेषां बोधाभावेन व्यवहारादिना शक्तिग्रहासम्भवेन अज्ञातशक्त्या बोधाभावेन च शक्तिज्ञा- नजननाय संज्ञासूत्राणां विधायकत्वे सम्भवति नियामकत्वायोग इति नानेन प्रकारेणोक्तन्यायसिद्धिरिति । नन्वेवं 'सर्वे सर्वार्थवाचका' इत्यस्य का गतिरित्यत आह-सर्वे सर्वार्थवाचका इति। योगिदृष्टयेति । योगिनां विशिष्य सर्वेषां तत्त- द्धर्माणां ज्ञानसम्भवादिति भावः । ननु घटपदमर्थवाचकं पदत्वादित्यनु- मानेन सामान्यलक्षणासहकृतेन अर्थत्वावच्छिन्नसकलार्थनिरूपितशक्ति- ज्ञानमस्मदादीनामपि सुलभमिति चेत्-न । अनुभवोपस्थितिशाब्दबोधानां समानप्रकारेणैव हेतुहेतुमद्भावेन अर्थत्वप्रकारकशक्तिग्रहेण घटत्वादिवि- शेषधर्माप्रकारेणोपस्थितिशाब्दवोधयोर्जननासम्भवात् । इत्याह-सामा- न्यज्ञानन्तु न बोधोपयोगीति । आत्वादिविशेषरूपेण न बोधोपयो- गीत्यर्थः ।। १०॥ नन्वध्येताशयितेत्यादाविति । ननु निमित्तपदेन सप्तम्यन्तपञ्च- म्यन्तपदप्रयोज्यविषयताश्रयस्यैव शास्त्रे व्यवहृतत्वेन प्रकृते निषेधाऽप्रवृ- तेरवतरणमसङ्गतमिति चेत्-न । निमित्तपदेन कारणमात्रस्याभिधानात् । परिभाषायां सत्यां तथाभूतस्यैव ग्रहणं निमित्तपदेनेत्यन्यदेतत् । अत एव तदविषये ऊर्गुनविषतीत्यादौ सन्यङोरित्येतच्छास्त्रघटकषष्ठ्यन्तसन्प- दप्रयोज्यविषयताश्रयस्यापीसेकारस्य निमित्तत्वमाश्रित्य द्विवंचनेऽचीत्यस्य ४२ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके प्रवृत्तिः । ननु किति चेत्यत्र गित्साहचर्येण प्रत्ययस्यैव ङितो ग्रहणात्प्र- कृते न दोषः । न च जहातीत्यादौ दीर्घोऽकित इत्यस्याप्रवृत्तये हाधातो- गित्त्वस्यैव वक्तव्यत्वेन गित्त्वस्य प्रत्ययमात्रवृत्तित्वाऽभावात्साहचर्या- भाव इति वाच्यम् । किति चेतिप्रवृत्तिप्रयोजकस्य प्रत्ययस्यैव गितः सम्भवेन साहचर्यपरिभाषाप्रवृत्तौ बाधकाभावात् । “दीर्घोऽकित" इत्यत्र न कित् यस्मिन्निति बहुव्रीहिगर्भबहुव्रीहिणा दीर्घसाहचर्येण च किल्पदेन यङ्यङलुनिमित्तकनुगादेरेव ग्रहणेनौदागित्यादौ कित्त्वेऽपि दोषाऽभा- वाच । न च सुनोतीत्यादौ ङितः प्रत्ययस्यैव सत्त्वेन तत्र निषेधाभावाय परिभाषाऽवतार इति युक्तम् । नुप्रत्ययस्य डिन्त्वेऽपि तत्पर्याप्तायाः कस्या अपि विषयताया असत्त्वेन डित्पर्याप्तनिमित्तताकत्वस्य गुणेऽसत्त्वेन नि- षेधाऽप्रवृत्तरिति चेत्-न । अस्य स्त्री ई: सेवाचरतीत्यर्थेऽयतीत्यादौ ङित्प्रत्य- यस्य गुणनिषेधाभावाय परिभाषाया आवश्यकत्वात् । न च धातुविहित- प्रत्ययत्वेन साहचर्याश्रयणान्न दोष इति वाच्यम् । आपूर्वकात् धाधा- तोः किप्रत्यये तदन्तादाचारकिपि आधयतीत्याद्यर्थं परिभाषाया आवश्य- कत्वात्। यत्तु आचारक्किप्रकृतिगतमनुबन्धमादाय विबन्ते कार्यन्न भवति, अत एव केदाराद्यञ् चेतिसूत्राद्यञोऽनुवृत्त्या सिद्धे "ब्राह्मणमाडववा- डवाद्यन्” इति सूत्रे यनो ग्रहणात्कचिदन्यत्रापि भवति । तेन पृष्ठादुप- संख्यानमित्यस्य सिद्धया पृष्ठ्यमिति सिद्धयति । अन्यथा ब्राह्मणादि- शब्दाद्यन्नन्तादाचारक्किबन्ताल्लटि परस्मैपदस्य यबोऽनुवृत्तौ कर्तृगामिनि क्रियाफले ययन्तप्रकृतिकाचारविबन्तादात्मनेपदस्य चोत्पत्त्या फलभेदा- दुक्तज्ञापकपरभाष्याऽसङ्गतिरिति-तम्न । तद्भाष्यप्रामाण्याद्यजन्तान्नाचा- रक्विबित्यस्यैव लाघवेन कल्पनीयत्वात् । यदि च गित्पर्याप्तनिमित्ततायाः प्रत्ययत्वव्याप्यधविच्छिन्नाया एव जिष्णुरित्यत्र सम्भवेन तत्साह- चात् किन्डिम्निष्ठाया अपि प्रत्ययत्वव्याप्यधर्मावच्छिन्नाया एव ग्रहणेन न प्रकृते दोष इत्युच्यते तदा तदपि न फलम् । अध्येतेत्यादौ चार्द्धधातुकनिमित्तकगुणस्य प्रकृतिमात्रनिमित्तकनिषेधापेक्षया बहिरङ्गा- सिद्धत्वेन निषेध्याभावान्निषेधाप्रवृत्त्यापि मूलोक्तमवतरणासङ्गतिः। भवि- तेत्यादौ गुणस्य बहिरङ्गत्वेऽपि दीधीवेवीटामित्यत्रेड्ग्रहणसामर्थ्येन तदृष्टयाऽसिद्धत्वन्नेत्येव कल्पना । निषेधापेक्षयाऽसिद्धत्वन्नेति सामान्य- कल्पना तु न युक्ता । प्रेद्ध इत्यत्र गुणस्य निषेधापेक्षया बहिरङ्गासिद्धत्व- प्रतिपादनपरभाष्यासङ्गते: रोरवीतीत्यत्र निमित्तग्रहणाभावे बहिरङ्गपरि- ११. कार्यमनुभवन् ० ] विजयालङ्कृतः [ ४३ भाषया निषेधाप्रवृत्तिप्रतिपादनपरभाष्यासङ्गन्तेश्च । अरिरिपतीत्याद्यर्थन्तु परिभाषाश्रयणमवेहि । तथाहि-ऋधातोः सनि “स्मिपुज्वसां सनी"- ति सन इटि "ऋ इस” इति स्थिते परिभाषायाः सत्त्वे इसो द्वित्वनि- मित्तत्वाऽभावेन द्विवचनेऽचीत्यस्याऽप्रवृत्त्या परत्वाद्गुणे रिसित्यस्य द्वित्वे अरिरिषतीति सिद्भयति। अन्यथा द्विवंचनेऽचीति निषेधप्रवृत्त्या गुणात्पूर्व द्वित्वे अनिष्टापत्तेः । वस्तुतस्तु अरिरिपतीत्यादावपि परिभाषाया नोपयोगः, द्वित्वनिमि- ततापर्याप्त्यधिकरणाज्निमित्तककार्यस्यैव तेन निषेधात्प्रकृते इकारस्य द्वित्वनिमित्ततापर्याप्त्यनधिकरणत्वेन निषेधाऽप्रवृत्त्येष्टसिद्धेः । चक्रतुरि- त्यादावकारस्य द्वित्वनिमित्ततापर्याप्त्यनधिकरणत्वेन निषेधाप्रवृत्त्या परत्वाद्यणि द्वित्वाऽसिद्धधापत्तिरिति चेत्, तथापि द्वित्वनिमित्तताश्रया- चपर्याप्तनिमित्तताककार्यस्यैव निषेधस्वीकारेणोभयत्र सामञ्जस्यात् । न च जग्मतुरित्यादावुपधालोपीयनिमित्तताऽतुसि पर्याप्ता नाकार इति निषेधाऽप्रवृत्त्या प्रथममुपधालोपे रूपाऽसिद्धिरिति वाच्यम् । अजादौ किति लोप इत्यर्थेनाचत्वावच्छिन्ननिमित्तताया अच्पर्याप्तत्वात् निषेध- प्रवृत्तेः : सुलभत्वात् । यत्तु ऊर्जुनविषतीत्यादौ गुणशास्त्रीयनिमित्तताया इकारपर्याप्तत्वाऽ- भावाग्निषेधाऽप्राप्त्या परत्वाद्गुणेऽवादेशे नवशब्दस्य द्वित्वेऽभ्यास उकार- श्रवणानापत्तिरिति तन्न। उक्तरीत्या गुणस्यानिषेधेऽप्यवादेशस्य निषेधे- नौकारविशिष्टस्य द्वित्वे ह्रस्वे दोषाऽभावादवादेशीयनिमित्तताया अच्प- याप्तत्वात् । अत्रोच्यते-दिब्धातोः सनि सनीवन्तर्द्धतीटो वैकल्पिकत्वेन "हलन्ताच्च” इति सनः कित्त्वेन परत्वात्प्रथमं वकारस्योठि "दि ऊस" इति स्थिते “सन्यङो"रिति द्वित्वे यणि च प्राप्ते परत्वादन्तरङ्गत्वाच्च यणि द्यूशब्दस्य द्वित्वे दुयूषतीति सिद्धथति-तन्न सिद्धेत् । परिभाषाम्विना सन्नन्तत्वावच्छिन्नाया द्वित्वीयनिमित्तताया दिऊसपर्याप्ताया अपा- प्त्योकारेऽपि सत्त्वेन तत्पर्याप्तत्वस्य यणशास्त्रीयाऽच्पदप्रयोज्यनि- मित्ततायाः सत्त्वेन द्विवचनेऽचीत्यनेन पूर्वे यणोऽभावादिशब्दस्यैव द्वित्वेनाभ्यास उकारश्रवणानापत्तेरिकारश्रवणापत्तेश्च । न च परिभाषया- ऽपि न दोषनिस्तार ऊकारस्य काउनुभवकर्तृत्वविशिष्टकायित्वाऽभावेन निमित्तताया वारयितुमशक्यतया द्विवचनेऽचीत्यस्य प्रवृत्तेरनिवारणादिति वाच्यम् । यद्यपि कार्यानुभवकर्तृत्वं दिशब्दस्यैव तथापि कार्यानुभवक- र्तृकाय्यिघटितस्याप्यवयवद्वारा कार्यानुभवकर्तृत्वविशिष्टकायित्वं वक्त- ४४ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके व्यमन्यथा शयितेत्यादाविकारस्य कार्यानुभवकर्तृत्वविशिष्टकाय्यित्वेन निमित्ततयाऽनाश्रयणेऽपि शीशब्दस्य तत्त्वाऽभावेन निमित्ततयाऽऽश्रयणे बाधकाऽभावेन गुणनिषेधस्याशक्यवारणत्वेन ज्ञापकत्वस्यैवोच्छेदापत्तेः। मम त्ववयवद्वारा शीशब्दस्यापि तत्त्वेन न दोषः। एवञ्च प्रकृते दिऊसे- तिसमुदायस्य विशिष्टकाय्यिदिशब्दघटितत्वेन निमित्ततयाऽनाश्रयणेन समुदायानिमित्तताया निरसनादवयवे अपर्याप्त्याऽपि तस्याः स्थितेर्व- क्तुमशक्यत्वात् । समुदायपर्याप्ता ह्यवयवेऽपर्याप्त्या तिष्ठति । स्वत- न्त्रायाश्च कस्या अपि निमित्ततायास्तत्राऽसत्त्वेन परिभाषासद्भावे दोषा- ऽभावात् । अरिरिषतीत्याद्यर्थं द्वित्वनिमित्ततापर्याप्त्यधिकरणघटकाऽच्- पर्याप्तनिमित्तताककार्यस्यैव द्विवंचनेऽचीत्यनेन निषेध इत्यर्थस्वीकारेण, प्रकृते परिभाषाबलात् द्वित्वीयनिमित्तताया ऊकारघटिते कुत्राऽप्यभावेनो- कारपर्याप्तयणीयनिमित्तताया द्वित्वनिमित्ततापर्याप्त्यधिकरणघटकाच्- पर्याप्तत्वाऽभावेन निषेधाऽप्राप्तेश्च । कार्य्यमनुभवन्नितिपरिभाषा द्विवचने- ऽचीत्यस्य प्रवृत्तिवारकत्वेनाऽपवादभूता । तस्याः प्राप्तिसम्भावनया द्विर्व- चनेऽचीत्यस्याऽप्रवृत्तिः "उपसञ्जनिष्यमाणनिमित्तोऽप्यपवाद उपसञ्जा- तनिमित्तमप्युत्सर्ग बाधत" इति न्यायात् । यदि पूर्व द्विवचनेऽचीति न प्रवर्तेत तहिं यण्यूकारविशिष्टस्य द्यूशब्दस्य द्वित्वेनोकारस्योक्तकायित्वेन परिभाषा प्रवतेति सम्भावनायाः प्रकृते सत्त्वादित्यपि कश्चित् । ननु दुषतीत्यादौ द्विवंचनेऽचीत्यस्याऽप्रवृत्तये प्रत्ययघटकाऽच्प-- सनिमित्तताकादेशो नेत्येवाऽर्थः । प्रकृते चोकारस्य प्रत्ययघटकत्वाऽभावा- त्सूत्राऽप्राप्तावलं परिभाषयाऽत एव प्रत्यय इति वक्ष्यामीत्येव प्रकृतदोषो- द्धाराय भाष्य उक्तमिति चेत्-अत्राहुः। दुयूषतीत्येतदर्थम्प्रत्यय इति कथने- ऽपि भवनमिच्छति भवनीयति भवनीयितुमिच्छति विभवनीयिषतीत्या- दावचः प्रत्ययघटकस्यैव सत्त्वेन निषेधशास्त्रप्रवृत्त्या पूर्व गुणाऽवादेश- योरभाव उकारविशिष्टस्यैव द्वित्वेनाऽभ्यास इकारश्रवणानापत्तिमाशङ्कय द्वित्वनिमित्तस्यैवाऽचो ग्रहणमित्युक्तम् । विभवनीयिषतीत्यत्राऽनस्य द्वित्व- निमित्तत्त्वाभावेनाचोऽपि तत्त्वाऽभाव इति भाष्याशयः । एवञ्च दुयूष- तीत्यादावप्युकारस्य द्वित्वनिमित्तत्वाभावेनैव सूत्राप्राप्त्या प्रत्ययग्रहण- स्याकर्तव्यताया एव भाष्यतो लाभः । न च परिभाषाऽभावे सन्नन्ततदा- दित्वावच्छिन्नाया अपि विषयताया निमित्ततारूपत्वेन समुदाये वर्त्त- मानायास्तस्या एवापर्याप्त्या दुयूषतोत्यादावुकारे विभवनीयिषतीत्य- नाकारे च सत्त्वेनोभयत्र दोष एवाचि प्रत्ययघटकत्वस्य निवेशेनाद्यदो- ११. कार्यमनुभवन्० ] विजयाऽलङ्कृतः [ ४५ पवारणेऽप्यन्तदोषतावस्थ्यमेवाकारस्य प्रत्ययघटकत्वात् परिभाषाया- स्सत्त्वे तूक्तरीत्याऽवयवद्वारा सन्नन्तस्य विशिष्टकायित्वेन निमित्ततया समुदायस्यानाश्रयणेनापर्याप्त्याऽप्यवयवे निमित्तताया असम्भव एवेत्यु- क्तमिति न सूत्रप्रवृत्तिरिति विभवनीयिषतीत्येव परिभाषाफलमिति केचित् । यदि च द्वित्वनिमित्तत्वम्प्रत्ययघटकत्वञ्चेत्युभयं निवेश्य द्वित्वनि- मित्ततापर्याप्त्यधिकरणप्रत्ययघटकाऽपर्याप्तनिमित्तताकादेशो नेत्यर्थ इति मन्यते, द्विवंचन इति प्रत्ययविशेषणमिति भाष्यात्, तदा न फलं परिभाषाया इति विभावनीयम् । अधिपूर्वकादीङ्धातोर्णिजन्ताल्लुङि चङि “णौ च सँश्चङो"रित्यनेन पूर्वं गाङादेशे ततो द्वित्वे अध्यजीगपदिति भवति। तत्र द्वित्वनिमित्ततापर्याप्त्यधिकरणीभूतप्रत्ययश्चङ् तद्घटकोऽच तस्यैवाऽकारस्तत्पर्याप्तनिमित्तताकं गाङादेशरूपं कार्यं तन्न स्यादिति तु नाशङ्कनीयम् द्वित्वनिमित्ततापर्याप्त्यधिकरणप्रत्ययघटकाऽविशिष्ट कार्य नेत्यर्थाङ्गीकारात् । वैशिष्टयञ्च स्वपर्याप्तनिमित्तताकत्वस्वाव्यवहितपूर्वप- र्याप्तनिमित्तत्वानिरूपकत्वोभयसम्बन्धेन । प्रकृते द्वित्वनिमित्ततापर्य्या- प्त्यधिकरणप्रत्ययघटकोऽच् चङोऽकारस्तद्विशिष्टत्वन्न गाडादेशस्य स्वप- र्याप्तनिमित्तताकत्वेऽपि स्वाव्यवहितपूर्वणिज्निष्ठनिमित्तताकत्वादिति न तस्य निषेध इत्यलम् । पुनरप्यवतरणे प्रकारान्तरेण विचार आरभ्यते। यन इग्लक्षणे गुणवृद्धी विधीयते तत्र तिति नेत्युपतिष्ठते इत्यर्थकम्परिभाषारूपमेव किति चेत्यस्तु । ततश्च पुगन्तलघूपधस्य चेत्यत्रोपस्थितस्य तिति नेत्यस्यसामर्थ्या- धन नाव्यवधानमिति न्यायेनैकवर्णव्यवधानेऽपि भिन्नो भिन्नवानित्यादौ प्रवृत्त्या गुणनिषेधसिद्धेः वित्यत्रौपश्लेषिकाधिकरणबोधकसप्तम्याश्रयणेन किदव्यवहितपूर्वस्य गुणो नेत्यर्थकस्य सार्वधातुकार्द्धधातुकयोरित्यत्रोप- स्थितस्य विति चेत्यस्याध्येता शयितेत्यादावप्रवृत्त्यावतरणमसङ्गतम् । परिभाषारूपत्वाभावेऽपि निषेधशास्त्रस्य निषेध्यापेक्षायां यावन्ति निषेध्य- शास्त्राणि तावन्ति तिति चेति शास्त्राणिजातानि । ततश्चेग्लक्षणत्वेन पुगन्ते- तिगुणस्यापि निषेध्यत्वेन तदर्थोपप्लुतस्य किति चेत्यस्यान्यत्राचारितार्थ्या- त्सामर्थ्यादेकवर्णव्यवधानेऽपि प्रवृत्त्या भिन्नमित्यादौ दोषाभावेन परस- तम्याश्रयणात् अवतरणाऽसङ्गतिरेव । अथ वा "त्रसिगृधिधृषिक्षिपे: क्नु" रिति सूत्रे क्नोः कित्त्वसामर्थ्यादुपधालक्षणस्यापि गुणस्य दिव्यवहित- पूर्वस्थानिकत्वाभावेऽपि निषेधोभवतीत्यर्थज्ञापनेन भिन्नमित्यादौ दोषाभाव- स्तावताऽपि निमित्तग्रहणस्य परिभाषायाश्चाश्रयणापेक्षया लाघवात् । न ४६ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके च धम्मिग्राहकमानेनोपधालक्षणस्य गुणस्यैव निषेधज्ञापनेन मृष्टो मृष्टवा- नित्यादौ वृद्धथापत्तिरिति वाच्यम् । उपधालक्षणस्य निषेध इत्यस्यैव लाघवा- ज्ज्ञापनेनोभयोनिषेधसिद्धेः। उपधालक्षणस्येत्यस्योपधास्थानिकस्येत्यर्थः । "कित्यजादौ वेष्यत" इत्यत्र कित्यचीत्येको योगः। वेत्यपरः । तत्राजादौ किति वृद्धिर्भवतीति पूर्वस्यार्थः। सा च वेत्यपरस्यार्थः । मृजेवृद्धिरित्यनेन सिद्धे किति चेदजादावेवेति नियमेन मृष्ट इत्यादौ दोषाभावाच्च । केचित्तु कित्त्वसामर्थ्यादेकवर्णव्यवधानेऽपि निषेधस्य प्रवृत्तिरिति ज्ञा- प्यते इत्याहुः-तन्न । भिन्नमित्यादेस्सिद्धावपि भवत इत्यादौ गुणनिषेधाप- त्तेः । न च ज्ञापकसाजात्याद्धलवर्णव्यवधानस्यैव सहनमिति वाच्यम् । तावतापि अष्टामित्यादौ सिचस्सकारव्यवधानेऽपि तांरूपङितमादाय निषेधापत्तेः। सूत्रं त्वक्षैषीदित्यादौ चरितार्थम् । धातुघटकस्यैव व्यवधायक- स्य ज्ञापकसाजात्येन सहने तु प्रकृते दोषाभावेऽपि गुतेत्यादौ धात्वघटक- तकारव्यवधानेन डारूपडितमादाय निषेधाऽप्रवृत्तेः । तकाररूपङिदव्यव- हितपूर्वत्वमादाय तकारनिमित्तकस्य सार्वधातुकार्द्धधातुकयोरिति विहितगु- णस्य निषेधेऽपि डानिमित्तकलघूपधगुणस्य तु न निषेधः । तकारनिमित्त- कनिषेधापेक्षया तस्य बहिरङ्गत्वेनासिद्धत्वात्। अत एव प्रेद्ध इत्यत्र गुण- स्य बहिरङ्गत्वेन निषेधाप्रवृत्तिरित्युक्तं भाष्ये । अन्ये तु धम्मिग्राहकमानेन गुणनिषेधांशे व्यवधानसहनेऽपि वृद्धिनि- षेधांशेऽव्यवहितस्यैव निषेधेनाष्टिामित्यादौ सकारव्यवधानेन दोषाभावः । मृष्ट इत्यादौ तु न वृद्धिप्रसङ्गः। किति चेदजादावेवेति नियमेन वारणस्योक्त- त्वात् । सामान्यतो हल्वर्णव्यवधानसहनेन गुतेत्यादौ तकारव्यवधानेऽपि निषेधप्रवृत्तिरित्याहुः अथैवं सति अगुषीदित्यादावष्टामित्यत्रेव सिचस्सकारव्यवधा- नात्तिबनिमित्तकनिषेधाप्रवृत्त्या सिचं निमित्तीकृत्य निषेधे कर्त्तव्य सिच- तिबुभयनिमित्तकवृद्धेर्बहिरङ्गतयाऽसिद्धत्वेन तस्याऽप्यप्रवृत्त्या वृद्धथाप- त्तेस्तद्वारणाय वृद्धवंशेऽपि वर्णव्यवधानस्य सहनीयतयाऽष्टामित्यादौ निषेधापत्तिः । तदर्थं धातुघटकत्वस्य व्यवधायके निवेशेऽगुषीदगुतेल्या- देरसिद्धथापत्तिनं च निमित्तग्रहणेऽपि एकनिमित्तकनिषेधापेक्षयोभयनि- मित्तकवृद्धर्बहिरङ्गत्वेनाऽसिद्धतया निषेधाप्रवृत्त्याऽगुषीदिति भाष्यप्रयो- गाऽसङ्गत्या बहिरङ्गपरिभाषाया अनित्यत्वादप्रवृत्तिर्वाच्या। ममाप्यनि- त्यत्वादप्रवृत्त्या सिचस्सकाररूपडितमादायैव निषेधसिद्धिरिति गुणांश एव सामान्यहल्वर्णव्यवधानसहनेनाऽतैष्टामित्यादौ दोषाभावो गुतेल्या- ।

११. कार्यमनुभवन् ] विजयाऽलङ्कृतः [ ४७ दावपि तकारव्यवधानेऽपि निषेधप्रवृत्तिरिति वाच्यं, निमित्तग्रहणपक्षमा- दायावतरणस्य सत्त्वात् । अस्तु वोभयांशे धातुघटकवर्णव्यवधानसह- नमतेष्टामित्यादौ धात्वघटकसकारव्यवधानानिषेधाप्रवृत्तिरगुषीद्गुतेत्या- दौ सिच तकारनिमित्तक एव निषेधस्तदृष्टया निषेध्यवृद्धिगुणयोर्बहिर- ङ्गाऽसिद्धत्त्वं तु न नाजानन्तर्यनिषेधादिति न वाच्यं, भेवा कविरिवाचरति कवयतीत्यादौ किपमादाय निषेधापत्त्या रोरवीतीत्यत्र बहिरङ्गपरिभाषया निषेधाप्रवृत्तिपरभाष्यप्रामाण्याच्च नाजानन्तर्य इत्यस्याप्रवृत्तिस्वीकारात् । अथ सार्वधातुकार्द्धधातुकोपदेशकालिकलघूपधस्यैव क्नोः कित्त्वसाम- •द् भेत्तेत्यादिलक्ष्यानुरोधाच्च ग्रहणेन नागुषीदगुतेत्यादौ दोषः । सिच- तासिप्रत्ययोत्तरं तत्र लघूपधत्वेऽपि सार्वधातुकतिबुपदेशकाले तत्त्वाऽभा- वात् रियति पियत्यसुश्रुवदित्यादौ तादृशलघूपधत्वाभावेन गुणाऽप्राप्तावन्त- रङ्गत्वादियडित्यादिसमाधानपरभाष्याऽसङ्गतिस्तु न । उपायस्योपायान्त- राऽदूषकत्वात् । न च धातोः कार्यमुच्यमानमिति परिभाषयेन्दति सिञ्च- तीत्यादौ तिप्रत्यये परे नुमो विधानेन तदुपदेशकाले लघूपधत्वात्तदादाय नुमुत्तरमपि गुणापत्तिरिति वाच्यं, धातोरिति परिभाषाया "न भू सुधियो" रितिज्ञापकेनानित्यत्वादिसंज्ञोत्तरमेव नुमो विधानेनादोषात् । नित्यत्वे वा लावस्थायामेव नुमः प्रवृत्तौ सार्वधातुकोपदेशकाले लघूपधत्वाभावस्य सत्त्वाच । तोतो त्यादौ तुर्वाधातोर्यङलुकि रालोप इति प्रवृत्त्युत्तरमेव लघूपधत्वेन गुणो न स्यादिति तु न यङलुकश्छान्दसत्वेन तत्र दृष्टानुवि- धानस्यैव सत्त्वेनापत्त्यभावात् । नन्ववेमपि सीदादेशात्पूर्व सद्धातौ प्रत्य- योपदेशकालिकलघूपधत्वस्य सत्त्वेन तदादायादेशोत्तरं गुणापत्तिर्दुर्वा- रेति चेत्-न । प्रत्ययोपदेशकाले यो लघुस्तस्योपधाभूतस्य गुणो भवतीत्य- थेनापत्त्यभावात् । यत्तु भीधातोर्घबर्थे के भियस्तस्मादाचारकिबन्ताद्वनिपि अल्लोपय- लोपयोरल्लोपस्य स्थानिवद्भावेन लघूपधत्वमादाय गुणे, भेवेति सिद्ध- यति । प्रत्ययोपदेशकालिकलघूपधत्वाश्रयणे तु न स्यात् । न च न धातु- लोप इति निषेधान्नेष्यते तत्र गुणस्तस्य प्रत्याख्यानात् । न च तत्रै- वारम्भप्रत्याख्यानयोः फलभेदवारणाय तस्यानभिधानमेवेति वाच्यम् । आचारकिबन्तप्रकृतिकककिबन्तप्रकृतिकाचारविबन्ताद्वनिपि कर्तकिब- निमित्तकयोरेबाऽल्लोपयलोपयोः सत्त्वेन वनिपो धात्वंशलोपनिमित्तत्वा- भावेन तत्र फलभेदाभावात् । तस्मात् क्नोः कित्त्वेन गुणनिमित्तभूत- प्रत्ययाऽवयववर्णनिमित्तकसंयोगनिमित्तकगुरुसंज्ञापूर्वकालिकलघूपधत्व- - ४८ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके मादायापि गुणप्रवृत्तिरित्यस्यैव ज्ञापनेन गुतेत्यादौ दोषतादवस्थ्यमि- ति चेत्-न । पुगन्तसाहचर्येण धातोरेव लघूपधस्य ग्रहणात् । दीधीवेवी- टामित्यत्रेङ्ग्रहणस्यापि तत्रैव तात्पर्य्यकल्पनात् । केचित्तूक्तज्ञापकान्निषेधशास्त्रे स्वघटकसप्तम्यन्तपदप्रयोज्यविषयत्वाभा- वविशिष्टं यन्निषेध्यशास्त्रीयसप्तम्यन्तपदप्रयोज्यविषयत्वं तदभाववान् यो वर्णस्तद्वयवधानमेव सह्यत इत्यतैष्टामित्यादौ निषेधो न अगुषीत् , गुते- त्यादौ च निषेध इत्याहुः। न च रोरवीतीत्यादौ प्रत्ययलक्षणेन यङो डित्वमादाय गुणनिषेधः स्यादिति वाच्यम् । बहिरङ्गत्वेन निषेध्यस्यासिद्धत्वानिषेधाऽप्रवृत्तेर्न लुम- तेतिप्रत्ययलक्षणनिषेधाच्छान्दसत्वाच्च । नापि कविरिवाचरति कवयती- त्यादौ किपमादाय निषेधापत्तिः । ङित्साहचर्येण धातुविहितकित एव ग्रहणात् निषेध्यस्य बहिरङ्गत्वाच्च । केचित्सामान्यबुद्धयो निमित्तग्रहणाऽभावे भिन्न इत्यादौ गुणस्य वार- णमित्थं कुर्वन्ति । तथा हि-निषेधनिषेध्यशास्त्रयोः पृथगवाक्यार्थबोध- कत्वे एकस्मिन्नेव विषय एकेन विधेरपरेण निषेधस्य बोधने शास्त्रद्वयप्रा- माण्याद्विकल्पापत्तिस्तदर्थम्प्रकल्प्य चाऽपवादविषयमिति न्यायेन निषेध- विषयम्परित्यज्यान्यत्र विधातव्यम् । ततश्च निषेधविषय एव व्यभिचारेण विधेये उद्देश्यतावच्छेदकव्यापकत्वविषयकस्य शास्त्रतात्पर्य्यस्य कल्पयि- तुमशक्यतयोद्देश्यतावच्छेदकसामानाधिकरण्यस्यैव तात्पर्य्यविषयत्वक- ल्पनेन निषेधस्थलाऽतिरिक्तस्थलेऽपि कचिद्विधेयाऽभावे शास्त्राज्ञोल्लखाना- ऽभावेन विभेदेत्यादौ गणाभावेऽप्यसाधुत्वं न स्यादिति निषेधशास्त्रस्य विधिशास्त्रीयोद्देश्यतावच्छेदकसङ्कोचमात्रतात्पर्य्यकत्वं वाच्यम् । ततश्च पुगन्तलघूपधस्य चेति शास्त्रीयोद्देश्यतावच्छेदके सार्वधातुक आर्द्धधातुके च यद्यपि तिति चेति शास्त्रघटकपदेन नबसहितेन शब्दमर्यादया कि - दस्य बोधनमशक्यम्प्रथमान्तप्रतियोग्यनुयोगिवाचकपदसमभिव्याहृतस्यै- वासमस्तस्य नबो भेदबोधकत्वात् तथाप्युक्तहेतोरेव सार्वधातुकार्द्धधातु- कपदयोः किद्भिन्नसार्वधातुकार्द्धधातुकयोलक्षणाया एव ग्राहकत्वस्य किति चेति शास्त्रस्य वक्तव्यत्वेन डित्किद्भिन्नसार्वधातुकार्द्धधातुकाव्यवहितपूर्व- स्वविशिष्टस्य पुगन्तलघूपधयोरवयवस्येको गणो भवतीत्यर्थः पर्य्यवसितः । येन नाव्यवधानन्यायेनैकवर्णव्यवधानेऽपि प्रवृत्तिरुद्देश्यताऽवच्छेदका- वच्छेदेन च विधेयान्वय इत्थं चौपश्लेषिकसप्तम्यामपि भिन्न इत्यादौ न दोष इत्यवतरणाऽसङ्गतिरेवेत्याहुः-तन्न । उक्तैकवाक्यत्वेऽपि सैवैकवा- ११. कार्यमनुभवन् ] विजयाऽलङ्कृतः [ ४६ क्यता प्रामाणिकी स्यात् यया पृथगवाक्यार्थबोधे यादृशं लक्ष्यं भवति तादृशमेव लक्ष्यं स्यात् । अन्यादृश्यां प्रमाणाभावादतिप्रसङ्गाच्च । तत- श्चाधिकरणसप्तम्याम्पृथग्बोधे किदव्यवहितपूर्वत्वविशिष्टस्येको गुणवृद्धी नेत्यर्थेन भिन्न इत्यादौ गुणस्यैव लाभेनैकवाक्यत्वेऽपि तत्र गुणस्यैव सम्पादनीयत्वेन किदव्यवहितपूर्वत्वविशिष्टेभिन्नस्य सार्वधातुकार्द्धधातु- काव्यवहितपूर्वत्वविशिष्टस्य लघूपधावयवस्येको गुण इत्येवैकवाक्यत- याऽर्थः स्यात् । स्वेच्छयैवैकवाक्यत्वे किदव्यवहितपूर्वत्वविशिष्टभिन्नसार्व- धातुकार्द्धधातुकाव्यवहितस्येको गुणः, किदघटिताङ्गावयवस्य सार्वधातु- कार्द्धधातुकाव्यवहितपूर्वस्य लघूपधाऽवयवस्येको गुण इत्याद्याकाराणा- मेकवाक्यतानामशक्यवारणापत्तिः । लक्ष्यानुरोधेनैकवाक्यताकरणन्तु लक्षणकचक्षुषामशक्यमिति सुधियो विभावयन्तु । निमित्तग्रहणेऽप्युक्तप्रकारेण निषेध्यविध्येकवाक्यतया विद्भिन्नसार्व- धातुकार्द्धधातुकयोर्गुण इत्यर्थेनाऽध्येतेत्यादौ न दोष इत्याशङ्काया अप्युक्त- प्रकारेणैव समाधानम्बोध्यम् । कुधातोः प्रकृतिगतङित्त्वमादाय ङित्त्व- प्रयुक्तकार्यसिद्धौ कुटादौ पाठात, दीधीववीधातोर्धातुगतङित्त्वमा- दाय गुणवृद्धयोरभावसिद्धौ दीधीवेवीदामित्यनेन तयोर्गुणवृद्धिनिषेधात, शीडो डिक्वमादाय शयित इत्यादौ गुणनिषेधापत्ते१रुद्धरत्वेन तत्प्रकृति- कसेटूनिष्ठाया निष्ठाशीङित्यादिना कित्त्वाऽभावविधानस्य वैयर्थ्याच्च, सार्वधातुकार्द्धधातुकप्रकृतिगतडित्वमादाय गुणनिषेधाऽप्राप्तिकल्पनयाs- ध्येताशयितेत्यादौ दोषाऽभावोपपादने तु स्मरणार्थकस्येको धातोरध्येती- त्यस्योपलक्षणमवेहि नागेशाऽवतरणम् । उक्तज्ञापकादिना प्रकृतिभिन्न- स्यैव डितो ग्रहणेन तत्साहचर्येण च कितो गितश्च तथाभूतस्यैव ग्रहणे त्वध्येतीत्यपि नावतरणमिति बोध्यम् । यद्यपि परिभाषाया उक्तरीत्या फलं नास्ति तथापि नागेशानुसारेण व्याख्यायते--कार्यमनुभवन्नित्यस्य का-यसाक्षादुद्देश्यताश्रय इत्यर्थः । का-त्यस्योद्देश्यदलप्रविष्टषष्ठ्यन्तपद्प्रयोज्यविषयताश्रय इत्यर्थः । तथा च स्वविशिष्टः स्वस्य निमित्तं नेत्यर्थः । स्वं कार्यम् । वैशिष्टयञ्च स्वीय- साक्षादुद्देश्यताविशिष्टत्वसम्बन्धेन । सम्बन्धघटकवैशिष्टयं स्वाश्रयत्वस्वा- श्रयघटितत्वाऽन्यतरसम्बन्धेन। अन्यतरघटकाद्यसम्बन्धस्य फलमध्येता। द्वितीयस्य तु शयितेति बोध्यम् । ननु "शयितरी"तिनिर्देशादसति बाधके प्रमाणानां सामान्ये पक्ष- पात इति न्यायेन लाघवानुगृहीतेन सहकृतात्कार्यो निमित्तं नेत्येव ५० ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके 'स्थण्डिलाच्छयितरि व्रते' इति निर्देशश्चास्या ज्ञापकः । ऊर्ण- नविषतीत्यादिसिद्धये कार्यमनुभवन्निति । अत्र हि द्विर्वचनेऽचि' इति नुशब्दस्य द्वित्वम् । अन्यथा 'सन्यडोरि त्यस्य षष्ठ्यन्तत्वात्सन्न- न्तस्य कार्यित्वेन इसो द्वित्वनिमित्तत्वाभावात्तत्प्रवृत्तिर्न स्यात् । वस्तुतः समवायिकारणनिमित्तकारणयोर्मेदस्य सकललोक- तन्त्रप्रसिद्धतया तस्य तत्त्वनाश्रयणाभावेन नैषा ज्ञापकसाध्या । अत एव हिः प्रयुक्तः। स हिस्तत्त्वेनानाश्रयणे हेतोः प्रसिद्धत्वं द्योतयतीति तत्त्वम् । 'द्विवचनेऽचि' इत्यत्र भाष्ये ध्वनितैषा ॥११॥ । ज्ञाप्यतामित्यत आह-ऊर्जुनविषतीत्यादिसिद्धये कार्य्यमनुभव- नितीति । एतल्लक्ष्यसिद्धये विशिष्टं ज्ञापनीयमिति भावः । वस्तुतः समवायिकारणेत्यादि । ननु न्यायभिन्नतन्त्रे. समवाया- नभ्युपगमेन समवायिकारणस्याऽप्रसिद्धिः । सायत इत्यादौ दीर्घसमवा- यिन: परस्य निमित्तत्वाभावे दीर्घस्य परनिमित्तकत्वाभावेन स्थानिवद्धा- वाभावेन, लत्वा नापत्त्या, श्रायसावित्यादौ नुमो वारणाय भाष्ये कृतस्य द्धिरूपैकादेशस्थानिवद्भावस्य वृद्धः परनिमित्तकत्वाभावेऽसङ्गत्यापत्त्या चव्याकरण समवायिनोऽपि निमित्तत्वाभ्युपगमेन कार्य्यस्य शब्दात्मकतया तत्समवायिकारणत्वस्याकाशएव सत्त्वेन चेदमत्यन्तमसङ्गतमिति चेत्-- अत्रोच्यते-नैयायिकवासनया समवायिकारणमित्युक्तम् । यन्नैया- यिकेन समवायिकारणमुच्यते तस्य निमित्ताद्भेदः सकललोकतन्त्रप्रसिद्ध इत्यर्थः । कार्य्यस्थानिनो निमित्ताभदः सकललोकतन्त्रप्रसिद्ध इति यावत् । "अचः परस्मिन्नि' त्यत्र परनिमित्तो योऽजादेश इत्यस्य न परं निमित्त- कारणं यस्येत्यर्थोऽपि तु परं नियमेन पूर्वकालिकं यस्मादित्यर्थ इति न कार्य्यमनुभवन् व्याकरणे निमित्तम् । अत एव शब्दस्य नित्यत्वात्तम्प्रति समवायिकारणत्वमसम्भवीत्यपास्तम् । तात्पर्य्यान्तरस्य प्रदर्शितत्वात् । द्विवचनेऽचीत्यत्रभाष्ये ध्वनिषेति । तत्र हि-अचि किं जेन्नी- यते देध्मीयते इत्युक्तम् । द्विवंचनेऽचीतिसूत्रेऽज्ग्रहणाभावे द्वित्वनिमित्तनि- मित्तकोऽजादेश "ई प्राध्मोरि" तिविहित ईकारः। तस्य निषेधे प्रथमं घाश- ब्दस्यैव द्वित्वेऽभ्यास एकारश्रवणानापत्तिरज्ग्रहणे तु द्वित्वनिमित्तस्य यडो- 50% ११. कार्यमनुभवन् ] विजयाऽलङ्कृतः [ ५१ ऽच्त्वाऽभावाद्विवचनेऽचीत्यस्याप्रवृत्तावीत्वे कृते द्वित्वे रूपं सिद्धचतीति तद्भावः। अत्र कथमेतस्या ध्वननमिति विचार्य्यताम् । येन विना यदनुपपन्नं तेन तस्य कल्पनमेव । तेन तस्य ध्वननमित्युच्यते । न प्रकृते "कार्य्यमनुभ- वन्निति” परिभाषाम्विना भाष्ये काप्यनुपपत्तिरस्ति यया सा कल्प्येतेति न ध्वननम्। केचिदध्वनितेति छेदं कुर्वन्ति। तत्त्वत्यन्तमसमञ्जसम् । अध्वनिते- त्यस्य हि अस्या ध्वननाऽभाव इत्यर्थः । ध्वननाऽभावस्त्वत्रेवेको यणचीत्या- दावपि समान इति द्विवंचनेऽचीति विशेषोपादानासङ्गतिः। अन्ये तु"नटभार्थ्यावद्वयञ्जनानि भवन्ती"तिन्यायादेकाद्विवचन- न्यायाच द्वितीयाऽचपूर्वव्यञ्जनसहितस्यैव प्रथमैकाचो घायित्यस्य द्वित्वेन शयितेत्यत्रकारद्वारा शीधातोरिवावयवद्वारा यशब्दस्य कार्यानुभवकर्तृ- त्वविशिष्टकायित्वेन द्वित्वनिमित्तत्वाभावेनाज्यहणाभावेऽपि द्विवचन इत्यस्याप्रवृत्तौ पूर्वमीत्वे पश्चाद्वित्वे रूपसिद्धावज्रहणप्रयोजनकथनास- गत्यापत्त्याऽस्या अभाव एव ध्वनित इत्याहु:-तन्न । तावताऽपि ध्वनितै- षेतिग्रन्थाऽसङ्गतिः । न हि ध्वनितेत्यस्य अस्या अभावो ध्वनित इत्यर्थः शब्दमर्यादया लभ्यते।शयितरीतिज्ञापकसाजात्यादपि तत्रैवावयवद्वारक- कार्यानुभवकर्तृत्वस्वीकारो यत्रावयवे पर्याप्त्या कार्यानुभवकर्तृत्वं न तथा प्रकृते यकारमात्र पर्याप्तत्वाभावात् । “स्वरान्तरे व्यञ्जनान्युत्तरस्येति" मते- ऽपर्याप्त्याऽपि यकारस्य कार्यानुभवकर्तृत्वाऽभावाच्च । अत्रोच्यते-शयितरीतिनिर्देशस्य कार्थी निमित्ततया नानियत इत्येतावन्मात्रकल्पनेनाप्युपपत्तौ कार्यमनुभवन् कार्योति विशिष्टकल्पनाया- मसामर्थ्यादप्रामाणिकीयमित्याह-ध्वनिषेति । विशेषणविशिष्टपात्र ध्वनितेत्यर्थः। कार्या निमित्ततया नाश्रियत इत्येतावन्मात्रे शयितरीत्या- दिनिर्देशाज्ज्ञापिते तु यङः स्वरान्तरे व्यञ्जनान्युत्तरस्येतिन्यायेन द्वित्व- रूपकार्यानुभवकर्तृत्वाभावेऽपि सन्यङोरित्यस्य षष्ठ्यन्तत्वादुद्देश्यदलप्र- विष्टषष्ठ्यन्तपदप्रयोज्यविषयतारूपकार्यिताया ऊर्जुनविषतीत्यत्र सन इव सत्त्वेन द्वित्वनिमित्तत्वाभावेऽज्ग्रहणाभावेऽपि दोषाभावेन तत्र तत्फलदा- नपरभाष्येण शयितरीतिनिर्देशेन च विशेषशाविशिष्टा ज्ञाप्यत इति ध्वन्यते न तु कार्थी निमित्ततया नाश्रियत इत्येतावन्मानं ज्ञाप्यते इत्याशय इति । न च द्वित्वनिमित्तताया ईत्वनिमित्ततायाश्च यडोऽकारे सत्त्वेनाज्ग्रहणेऽपि द्वित्वनिमित्तताश्रयोऽजकारस्तन्निमित्तकमीत्वं नैव भविष्यतीति भाष्यम- ५२ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके सङ्गतमेवेति वाच्यं, द्वित्वनिमित्तताश्रयीभूताऽच्पर्याप्त निमित्तताकादेशो नेत्यर्थावश्यकत्वस्योपपादितत्वात् । गुरवस्तु परिभाषा अस्माद्भाष्याद्धनिता, परिभाषाया अभावेऽज्यहणे- ऽप्यत्र दोषसत्त्वेनाऽज्ग्रहणप्रयोजनकथनाऽसङ्गत्या परिभाषायास्सत्त्वं प्रतीयते । तथा हि-परिभाषाया अभावे उद्देश्यदलप्रविष्टविषयतामात्रस्य निमित्ततापदेन ग्रहणात् यङन्ततदादित्वावच्छिन्नविषयतारूपनिमित्तताया घ्रापर्याप्ताया घाऽऽकारे सत्त्वमीघ्राध्मोरित्यत्रालोन्त्यस्येत्युपस्थित्याऽन्त्या- लत्वावच्छिन्नविषयतायाश्च पर्याप्त्यैवाकारे सत्त्वमिति द्वित्वनिमित्तताश्र- योऽच् श्राकारस्तत्पयाप्ताऽलत्वावच्छिन्नानिमित्तता तादृशनिमित्ततानिरू- पकमीत्वं न स्यादिति नाऽज्ग्रहणस्य फलमिति भाष्यासङ्गतिः। सत्यान्त्वस्यां घ्राशब्दस्य कार्यानुभवकर्तृत्वविशिष्टकार्यितया निमित्तत्वाऽभावेनाकारेऽ- पर्याप्त्याऽपि द्वित्वनिमित्तताया अभावादग्रहणो न दोष इत्याहुः। नच द्विवचनेऽचीत्यत्राधिकरणसप्तम्या द्वित्वनिमित्तताश्रयीभूतो योऽच तदव्यवहितपूर्वस्याच आदेशो नेत्यर्थेन द्वित्वनिमित्तताश्रय आकारस्तत्पूर्व- स्य कार्याभावेन परिभाषाभावे नाज्यहणेऽपि दोष इति गरुमतेऽप्यनिस्तार इति वाच्यम् । अधिजगे जग्ल इत्यादौ द्वित्वनिमित्तताश्रय एकारस्तद्- व्यवहितपूर्वस्याऽचो गाङादेशस्यात्वादेशस्य वाऽभावापत्तौ रूपाऽसिद्धथा निमित्तसप्तम्या एवाश्रयणीयत्वाद् गाडादेशस्य लावस्थायामेव प्रवृत्त्या, आत्त्वस्य चानिमित्तकत्वेनानिमित्तकत्वाभावेन तथा सति दोषाभावा- त् । न चाऽधिजग इत्यत्र लावस्थायामेव गाडादेशस्य प्रवृत्त्या तदा द्वित्व- निमित्ताचः पूर्वत्वस्येङोभावः । एवं जग्ल इत्यादावण्यात्त्वस्यानैमित्तिकत्वे- नैशादेशात्प्रागेवोपदेशकाले प्रवृत्त्या स्थानिन ऐकारस्य द्वित्वनिमित्ताचः पूर्वत्वाऽभाव इति द्वित्वनिमित्तताश्रयीभूताऽजव्यवहितपूर्वो योऽच् तस्या- देशो नेत्यर्थकद्विर्वचनेऽचीत्यस्य परसप्तम्यामप्यप्रवृत्त्या न दोष इति वाच्यम् । अत्रास्ति पक्षद्वयं-निषेधपक्षः स्थानिवद्भावपक्षश्च। श्राद्ये दोषा- ऽभावेप्यन्त्ये दोषोद्धारस्य निमित्तसप्तमीस्विनाऽशक्यत्वात् । द्वित्वनिमि- त्तताश्रयीभूतो योऽच् तव्यवहितपूर्वो योऽजादेशः स स्थानिवदिति हि तत्पक्षे परसप्तम्याश्रयणेऽर्थः स्यात् । आदेशस्य च द्वित्वनिमित्ताचपूर्वत्वस्य सत्त्वात् । जग्मतुरित्यादौ मकारव्यवधानेन लोपरूपादेशस्थानिभूतस्या- ऽचो द्वित्वनिमित्तताश्रयाऽजव्यवहितपूर्वत्वाभावेन लोपस्य निषेधाभावा- त्पूर्व लोपे द्वित्वानापत्तेश्च । चक्रतुरित्यादावव्यवहिते प्रवृत्तिसम्भवेनैकव- र्णव्यवधानसहने मानाऽभावादित्यलम् ।

१२. यदागमास्तद्० ] विजयाऽलङ्कृतः [५३ ननु प्रणिदापयतीत्यादौ दारूपस्य विधीयमाना घुसंज्ञा दापेन स्यादत आह- यदि च द्वित्वनिमित्तताश्रयीभूतोऽच्प्रत्ययघटक एव गृह्यते प्रत्यय इति वक्तव्यमिति द्विवचनेऽचीतिसूत्रस्थभाष्यादिति मन्यते तदा घ्राऽऽका- रस्य प्रत्ययघटकत्वाऽभावाद्विशेषणांशध्वननपक्ष एव श्रेयानिति लभ्यते । एतत्परिभाषालभ्यमेव प्रत्ययग्रहणमिति केचित् । ननु नुनावयिषतीत्यादौ नुइ इस इति स्थिते अपर्याप्त्या द्वित्वनिमि- त्तताया णिच इकारेऽपि सत्त्वेन तत्पर्याप्तनिमित्तताकवृद्धथावादेशयोः पूर्व- मप्रवृत्तौ नुशब्दस्यैव द्वित्वेन रूपसिद्धौ णिच्यच आदेशो नेति ज्ञापनं निष्- फलमिति चेत्-न । नुइइसइति समुदायस्यापि नुशब्दद्वारा कार्यानुभवक- र्तृत्वविशिष्टकार्यित्वेन निमित्ततयाऽनाश्रयणादिकारे निमित्तताया अपर्या- प्त्याऽप्यभावात् परिभाषाऽभावे तु ज्ञापनं व्यर्थमेव । अत एव ज्ञापकपर- भाष्यादेषा ध्वनितेति बोध्यम् ॥ ११ ॥ दापेन स्यादिति । दाफ्धातोर्न स्यादित्यर्थः । दारूपत्वाभावादिति भावः। ननु दापघटकदाशब्दस्य दारूपत्वेन तस्यैव घुत्वेन णत्वमस्त्विति चेत-न। सूत्रे दाधेतिविशिष्टरूपोपादानसत्त्वेनार्थवत्परिभाषोपस्थित्याऽर्थ- बतोरेव दाधोर्ग्रहणेन दाप्घटकदारूपस्य घुत्त्वाप्राप्तेः। "आगमसमभि- व्याहारे आगमविशिष्टस्यैवार्थवत्त्वमित्यनेन"दापशब्दस्यैवार्थवच्वात् । न चात्र प्रमाणाभाव इति चेत्-अत्र केचित्-शब्दानित्यत्ववारणाय पुग्विधायकस्य अर्थबोधनायादन्तस्योच्चारणप्रसङ्ग पान्तस्योचारणे कर्त- व्यमित्यर्थस्यैव वक्तव्यतयाऽर्थबोधनेच्छयोचरितत्वस्यैव चार्थवत्त्वरूपतया दापशब्दस्यैवार्थवत्त्वन्न दाशब्दस्य, अर्थबोधनेच्छया तदनुच्चारणादित्ये- तत्फलितोऽयं न्याय इत्याहुः-तन्न। अर्थबोधनाय रामेत्यस्योच्चारणप्रसङ्ग राम सित्यस्योच्चारणं कर्त्तव्यमित्यस्यापि "स्वादिसूत्रेण" बोधनात् । राम इत्यादावपि प्रकृतिभागस्यानर्थक्यापत्तेः । तस्माच्छास्त्रेण साधुत्वमात्रमु- च्यते । अर्थबोधकता त्वन्वयव्यतिरेकाभ्यामेवावगम्यते । तयोश्च दाशब्दे- ऽपि सत्त्वात् । परे तु दापशब्दघटको दाशब्दोऽनर्थकः। दाशब्दावयवत्वे सति दाश- ब्दावयबाघटितत्वात् दाशब्दावयवदकारवदित्यनुमानलब्धोऽयं न्याय इत्याहुः। , ५४ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके "प्रणिदापयति प्रणिधापयतीत्यत्रापि नैतौ दाधावर्थवन्तौ किन्तहि दापधापाविति" भाष्येणापि लभ्यते उक्तार्थ इति भाष्यतत्त्वविदः । बोधकता स्वाश्रयावयवाघटितापर्याप्ता, बोधकतात्वात् , रामशब्दनिष्ठ- बोधकतावदित्यनुमानमप्यागमसमभिव्याहारे आगमविशिष्टस्यैवार्थवत्वं बोधयति। किञ्च "स्यसिच्सीजुडि"तिसूत्रे भावकमवाचिनि प्रत्यये परे ये स्यादय इत्यर्थे स्यसिच्तासयो विशेषिताः सीजुडविशेषित: इति भाष्य उक्तन्तदप्यागमसमभिव्याहारे आगमिनोऽर्थवत्त्वाभावे एव सङ्गच्छते । भाविपीष्टेत्यत्र हि सीजुट्समभिव्याहारे लिङोऽनर्थकत्वेन भावकम्मवा- चित्वाभावेन सीजुटो भावकर्मवाचिप्रत्ययपरत्वासम्भवात् । अर्थवत्त्वे तु सीजुटस्तादृशप्रत्ययपरत्वसत्त्वेनाविशेषितोक्तिरसङ्गता स्यात् । न चैतद्भा- प्यात् प्रत्ययत्वस्यैव सीजुट्समभिव्याहारे लिङि अभाव: कल्प्यतामिति वाच्यं, प्रत्यय इतिमहासंज्ञया अर्थबोधकत्वे सति प्रत्ययपद्वत्त्वस्यैव प्रत्ययत्वरूपतया तदपेक्षयाऽर्थवत्त्वस्य लघुत्वेन कल्पनागौरवात् । प्रत्यय- त्वार्धधातुकत्वादेविशिष्ट एव सत्त्वकल्पने तु प्रत्ययार्धधातुकसंज्ञाविधाय- कशास्त्रस्य साक्षाद्वाधापत्तेश्च। अवयवः स्वनिरूपकपूर्वत्वाभाववान् , अव- यवत्वात् , रामाद्यवयवरेफवदित्यनुमानेनाविशेषितोक्तिस्सङ्गतेति चेत्-न । "नद्यै कुमार्ये' इत्यादावाट: एपूर्ववाभावापत्तौ वृद्धचनापत्तस्तदनुमा- नस्यानतिदिष्टावयवविषयत्वात् । किञ्च 'उस्यपदान्तादितिसूत्रस्थमपि भाष्यमुक्तार्थे प्रमाणम्। तत्र हि-अपदान्तादिति किं-का, वस्त्रा कोस्रा, अपदान्तादिति शक्यमकर्तुं कस्मान्न भवति का उस्रा कोस्रा, अर्थवद्हणेनानर्थकस्येति नैषा परिभाषेह शक्या विज्ञातुम् । इह हि दोषः स्याद्भिन्धुरित्युक्तम् । यासुडागमसमभिव्याहृतस्योसोऽनर्थकत्वादेव हि दोषः स्यादिति सिद्धोऽयं न्यायः। न चास्य न्यायस्याश्रयणे फलाभावः भूयादित्यत्र तकारस्याप्यन्यथा अर्थवत्त्वेन प्रत्ययत्वाद्धल्ङ्यादिलोपापत्तेः। न च हलः परत्वाभावः संय्योगादिलोपस्यासिद्धत्वेन तस्यापि सत्त्वात् । यदि च याप्साहचर्य्यात् तिङनवयव एव हल् गृह्यते तस्मादेव प्रत्यय- विधायकशास्त्रघटकपदप्रयोज्याव्यवहितोत्तरत्वसम्बन्धावच्छिन्नप्रकारता- श्रयान्त एव वा गृह्यते इति न दोष इत्युच्यते, तāधिषीध्वमित्यत्रेड्विशिष्ट- स्येणन्ताङ्गत्वेन ततः परस्य षीध्वमो धकारस्येणः षीध्वमित्यनेन मूर्धन्या- पतिर्दोषः । स्वीकृते च तस्मिन् पीध्वमोऽनर्थकत्वान्न दोषः। न च विभाषेट इत्यत्रेड्भिन्नस्यैवेणस्सम्भवेनार्थाधिकारादत्रापि तस्यैव ग्रहणमिति न १२. यदागमास्तद्० ] विजयाऽलङ्कृतः [ ५५ दोषोऽत एवेभिन्न एवेणिह गृह्यत इति मते त्विति वक्ष्यते इति वाच्यम् । अर्थाधिकारस्य हि लाघवादेवानुरोधः कर्त्तव्यः। उत्तरत्रावश्याश्रयितव्या- र्थापेक्षयाऽन्यार्थस्य पूर्वत्राश्रयणे उभयार्थोपस्थित्योरुभयविधतात्पर्य्यज्ञा- नयोः शाब्दबोधकारणतायां गौरवात् । प्रकृते चेण्पदेनेण्पदवत्त्वेनैवेट इकारस्यापि ग्रहणेन भिन्नोपस्थित्यादेरभावेन गौरवाभावेनार्थाधिकारानुरोधे बीजाभावात् । यदि च लिटोधकारस्य मूर्धन्यादेश इड्मिन्नस्यैवेणस्सम्भवेन तत्साहचर्यात् पीध्वविषयेऽपीड्भिन्नस्यैवेणो ग्रहणेनादोषो विभाव्यते तदा रामाणामित्युदाहर्त्तव्यम् । अत्र उक्तन्यायाभावे आममात्रस्यापि प्रत्ययत्वेन ततः पूर्वस्य रामन्नित्यस्यान्नन्ताङ्गत्वेन परनिमित्तकत्वेन बहि- रणतया नामीत्यस्यासिद्धत्वेनाल्लोपो न इत्यल्लोपापत्तिः । तत्सत्त्वे तु नुडू- हितस्यार्थवत्त्वाभावेनाप्रत्ययत्वेन ततः पूर्वस्य भत्वाभावान्न दोषः । अका- रमादाय जातो नुउकारविनाशं प्रत्यनिमित्तं स्यादिति नाशङ्कनीयम् । तथा सति नामीतिदीर्घस्याप्यभावापत्तौ नामीत्यस्य वैयापत्त्या तत्सामर्थ्यात नुट्शास्त्रीयाभ्यनुज्ञावाक्ये सन्निपातपरिभाषाप्रयुक्तसङ्कोचाभावस्य कल्पनी- यत्वात् । अभ्यनुज्ञावाक्यविचारश्च वक्ष्यते-नामीत्येतत्सूत्रप्रयुक्त एव नि- मित्तविघातस्तत्सामर्थ्यात् सह्यत इत्युच्यते चेत्-नेदमपि फलम् । न च पूतक्रतुशब्दादाचारकिबन्तात्करि किपि तुकि पूतक्रतुदित्यत्रागमरहि- तस्याप्यर्थवत्त्वप्रातिपदिकत्वादेस्सत्त्वेन पूतक्रतोरैचेत्यस्य प्राप्तस्याभाव एव फलं, न्यायस्वीकारे पूतक्रतुमात्रस्यानर्थक्यात् पूतक्रतुदित्यस्यानिर्दिश्यमा- नत्वान्न दोष इति वाच्यम्। विचारासहत्वात्। तथा हि-स्वीकृतेऽपि न्याये- ऽत्र सूत्रप्रवृत्तिर्दुर्वारा।पूतक्रतुशब्दादुपस्थितार्थस्य पूतक्रतुशब्दे एव विशेष- णत्वेन अर्थवत्पूतक्रतुशब्दाक्यवनिर्दिश्यमानस्यैकारादेशः पूतक्रतुशब्दात् डोषित्यर्थस्यैव न्याय्यतयाऽर्थवत्पूतक्रतुशब्दो यदागमन्यायेन पूतक्रतुदिति तदवयवनिर्दिश्यमानः पूतक्रतुशब्दस्तस्यादेशप्राप्तेस्तकारात्तान्ङीषश्च प्राप्तः । अत्र केचित्-सिद्धान्ते लक्ष्यानुरोधादन निर्दिश्यमान एवार्थवतोऽ- न्वयेन प्रकृते तस्य तत्त्वाभावादादेशस्य तत्सन्नियोगशिष्टत्वेन ङीषश्चाप्राप्तः न्यायानाश्रयणे तथाऽन्वयेऽपि सूत्रप्राप्तेर्दुरित्वेन फलं सम्यगेवेत्याहुः- तन्न। न हि परिभाषान्तरेणेवानयाऽर्थवदुपस्थाप्यते । येन तस्य यथेष्टमन्वयः स्यादपि तु शब्दार्थयोः शब्दशक्यतयोपस्थितार्थस्य त्यागाभावमूलिकया तया पूतक्रतुशब्दादुपस्थितार्थस्य तदुपस्थाप्यपूतक्रतुशब्द एवान्वयः स्यात् । समानपश्रुतेः तथैव सर्वत्रान्वयाच्च, न तु निहिश्यमाने, किन्तु ङीषैकारा- देशयोः सन्नियोगशिष्टतया साहित्यविशिष्टयोरेव तयोविधानम्। समानदे- - ५६ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके शत्वविशिष्टसमानकालत्वमेव च साहित्यम् । तच्चाव्यवहितपूर्वापरीभा- वेनैव तयोरवस्थाने उपपद्येत । प्रकृते च तद्बाधेन सूत्राप्रवृत्तिः सिद्धान्ते, आदेशो हि निर्दिश्यमानस्य, प्रत्ययश्च प्रातिपदिकत्वनिमित्तकः पूतक्रतुच्छ- ब्दादिति साहित्यबाधः स्पष्टः । न्यायाभावे तु निर्दिश्यमानस्यापि प्रातिपदिकत्वसत्त्वेन तत्रैवोभयोस्समावेशसम्भवेन सूत्रप्रवृत्तः फलं सम्य- गिति तत्त्वम् । परे तु विबर्थनिष्ठविशेष्यतानिरूपितपूतक्रतुनिष्ठप्रकारताप्रयोजक- त्वरूपोपसर्जनत्वान्नात्र ङीषः प्रसक्तिरनुपसर्जनाधिकारीयत्वात्सूत्रस्येति नेदं फलमित्याहुः। ननु किमिदमुपसर्जनत्वम् ? नेतरार्थनिष्ठविशेष्यतानिरूपितप्रकारता- प्रयोजकत्वं तत्। घटत्वादेरपि घटांशे प्रकारतया तत्प्रयोजकघटादिपदा- नामपि तत्त्वापत्तेः। नापीतरत् यत् पदं तदर्थनिष्ठविशेष्यतानिरूपितप्रकार- ताप्रयोजकत्वं तत्। घटस्येतरपदार्थत्वाभावेन दोषाभावादिति सम्यक् । किबन्तस्थलेऽपि विपस्सर्वापहारेण “यः शिष्यते” इति न्यायेन प्रकृतेरेव विशिष्टार्थकत्वेन तत्रोपसर्जनत्वानापत्तः। नापीतरत्वमर्थान्वय्येव प्रकारता चोपस्थितीयविशेष्यतासमानाधिकरणा गृह्यत इति घटादावतिव्याप्तर- नवकाशः। विशेष्यता चोपस्थितीया गृह्यत इति न घटोऽस्तीत्यत्रास्त्यर्थ- निष्टशाब्दबोधीयविशेष्यतामादायापि दुजनसन्तोषसम्भवः । चरम- विशेष्यता चोपसर्जनत्वेन विवक्षितपदप्रयोज्यैव गृह्यत इति नोदासीनवि- शेष्यतामादायापि वादिना विजेतव्यम् । नन्वेवमपि राजपुरुषतात्पर्यकतच्छब्दस्योपसर्जनत्वापत्तिर्वज्रलेपा- यते । पुरुषत्वावच्छिन्नोपस्थितीयविशेष्यतानिरूपितराजनिष्ठप्रकारताया राजत्वनिष्ठोपस्थितीयप्रकारतानिरूपितविशेष्यतासमानाधिकरणायाः प्र- योजकत्वस्य तच्छब्दे सत्त्वादिति चेत्-अत्र वदामः । शक्तिविशिष्टत्व- मुपसर्जनत्वम् । वैशिष्ट्यञ्च स्वजन्योपस्थितिजन्यशाब्दबोधजनकत्वेन तात्पर्यविषयत्वस्वविशिष्टविशेष्यताप्रयोजकत्वोभयसम्बन्धेन । तत्र वैशि- घट्यम्-स्वजन्योपस्थितिनिरूपितत्वस्वविशिष्टशक्तिज्ञानाधीनोपस्थितीय- विशेष्यतानिरूपितप्रकारतासामानाधिकरण्योभयसम्बन्धेन । पुनर्वैशिष्ट्यं स्वभिन्नत्वस्वसमानाधिकरणत्वोभयसम्बन्धेन । घटशब्दस्थले उपस्थितीय- विशेष्यतायास्तादृशप्रकारतासामानाधिकरण्यविरहान्नातिव्याप्तिः । आचा- रविबन्तादिस्थले प्रथमशक्तिज्ञानाधीनोपस्थितिविशेष्यताया द्वितीयशक्ति- मादाय तादृशप्रकारतासामानाधिकरण्योपपादनान्नाव्याप्तिः। न वा ताह- - १२. यदागमास्तद्० ] विजयाऽलङ्कृतः [ ५७ शतच्छब्दे अतिव्याप्तिः । तत्र राजनिष्ठविशेष्यतानिरूपकोपस्थितिजनक- शक्तेः राजनिष्ठप्रकारतानिरूपकोपस्थितिजनकशक्तेश्चैक्यात् । अथ परस्मै- पदं परस्मैभाषेत्यत्र"वैयाकरणाख्यायां चतुर्थ्यां" इत्यस्योदाहरणभूते पर- शब्दस्योपसर्जनत्वापत्तिः । परत्वावच्छिन्ननिरूपितशक्तिज्ञानाधीनोपस्थि- तीयविशेष्यतायां सामासिकशक्तिज्ञानाधीनोपस्थितीयविशेष्यतानिरूपि- तप्रकारतासामानाधिकरण्यात् तादृशविशेष्यताप्रयोजकत्वस्य च परशब्दे सत्त्वादिति चेत्-मैवम् । शक्तिवैशिष्टयनियामकस्य स्वसमानाधिकर- णत्वस्य स्थाने स्वपर्याप्त्यधिकरणनिष्ठचरमावयवतानिरूपकसमुदायप- र्याप्तत्वस्य निवेशनीयत्वात् प्रकृते सामासिकशक्तेः प्रथमशक्तयाश्रयपर- शब्दचरमावयवकसमुदायपर्याप्तत्वाभावात् । न चैवं द्वाविच्छति द्वीयति द्वीयतेरप्रत्यये द इति प्राप्नोति, स्वश्रेष्यते इति "तदोस्स” इतिसूत्रस्थ- भाष्यमसङ्गतं स्यात् , त्वदुक्तोपसर्जनत्वस्यैव सत्त्वेनात्वसत्त्वाप्रवृत्तेरिति वाच्यं, तस्यैकदेश्युक्तत्वस्य शब्देन्दुशेखरे प्रतिपादितत्वात् । नन्वेतद्भाष्यप्रामाण्यात् स्वेतरत्वस्वान्तसमुदायघटकत्वोभयसम्बन्धेन स्वविशिष्टपदप्रयोज्यविशेष्यतानिरूपितप्रकारतासमानाधिकरणविशेष्यता- प्रयोजकत्वमेवोपसर्जनत्वं भाष्यसम्मतम् । अत एवानुपसर्जनाधिकारस्य स्त्रीप्रत्यये तदन्तविधिज्ञापकतापरभाध्य सङ्गच्छते। अन्यथा गौरादिश- बदादाचारविबन्तात् कर्तरि विपि डीवारणाय चारितार्थ्यसम्भवे ज्ञाप- कत्वोक्तिरसङ्गता स्यात्। तादृशानामनभिधानं शेखरकारोक्त तुनयुक्तम् । मदुक्तोपसर्जनत्वे पूर्वभाष्यसम्मते दोषाभावात् निरुक्तमाष्यस्यैकदेश्युक्तत्वे प्रमाणाभावाचेति चेदिष्टत्वात् । शेखरकारेण तु इतरविशेषणतयोपस्थित- स्योपसर्जनत्वव्यवहारदर्शनेन महासंज्ञया लौकिकार्थसाधारण्येन तथो- क्तमिति दिक्। ततश्च शेखरमते पूतक्रतुदित्यस्योपसर्जनत्वेनैव ङीषो वारणसम्भवा- नागमसमभिव्याहारे आगमविशिष्टस्यैवार्थवत्त्वमित्यस्य फलम्भवितुमर्ह- तीति चेत्-अत्रोच्यते-भूयास्तामित्वादौ न्यायाभावे तामित्यस्यापि प्रत्य- यत्वेनेडापत्तिाये च तावन्मात्रस्यार्थवत्त्वाभावेनार्थवत्त्वे सति प्रत्ययपद- वत्त्वरूपप्रत्ययत्वाभावान्न दोष इति–तदपि न सम्यक् । आर्द्धधातुकस्य प्रत्ययत्वेन तदाद्युपस्थित्या तदन्तविधावा धातुकान्ततदादियो बलादि- स्तस्येडागम इत्यर्थापत्त्या भूयास्तामित्यत्र धातोः पूर्वमिडापत्तिवारणाय धातोः परस्यार्द्धधातुकस्येत्यर्थो वाच्यः । तथा सति प्रत्ययग्रहणे चापञ्चम्ये- ति निषेधान्न दोषः। एवञ्च यासुटा व्यवहितत्वेन तामात्रस्येडागमाप्रस- ५८ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके जात्। अथातीदित्यादावीकारान्तस्य गुणापत्तिस्तकारमात्रात्मकप्रत्यये परे, स्वीकृते च न्याये आगमरहितस्य तकारमात्रस्योक्तरीत्या प्रत्ययत्वा- भावान्न दोष इति फलं युक्तमीकारविधानसामर्थ्याद्गुणाप्राप्तिस्तु न । अगुषीदित्यादौ श्रवणार्थन्तस्यावश्यकत्वात्तत्र कुटादित्वात्तिपो ङित्त्वेन गुणाप्राप्तेः । न च गुणे एकादेशाप्राप्त्या सिजलोप एकादेशे सिद्धो वाच्य इत्यस्य वैयर्थ्यान्न गुण इति सम्यक् । तेनागमविशिष्टस्यैवार्थवत्त्वमिति- कल्पनस्यैवौचित्यात् । अकुटीदित्यादौ ङित्त्वेन गुणाप्राप्त्या चारितार्थ्या- वेति चेत् न। आर्द्धधातुकाव्यवहितपूर्वमङ्गं सार्वधातुकार्द्धधातुकान्यतराव- यवत्वाभावविशिष्टेगन्तमेवास्ति । तत्साहचर्यात सार्वधातुकाव्यवहितपूर्व- मप्यङ्गं तथाभूतेगन्तमेव गृह्यते। प्रकृते चेकारस्य तथाभूतत्वाभावेन दोषा- भावात्। पूर्वान्तवद्भावेनेट्वाद्दीधीवेवीटामिति निषेधाच तत्र दीर्धकार- रूपागमस्यापि प्रश्लेषेणेटोपि निषेधाङ्गीकाराच्च । एतेन सिज्लोपात्पूर्वमेव गुणापत्तिर्दुवारेति परास्तम् । दण्डिन् उ अत्रेति स्थिते निपातस्य नुटि उमात्रस्यानर्थकत्वेन प्रगृह्यत्वाभावः फलमिति केचित्-तदपि न। बहिरङ्ग- त्वेन नुटोऽसिद्धत्वादर्थवत्त एव निपातस्य सत्त्वेन प्रगृह्यत्वस्य सिद्धान्ते- पीष्टत्वात् । न च नाजानन्तर्य इतिनिषेधात् संज्ञाशास्त्राणां विधिनिमि- त्तनिमित्तकत्वेनोभयोस्साम्याच्च न बहिरङ्गासिद्धत्वमिति वाच्यम् । ताव- तापि पूर्बत्रासिद्धत्वस्य दुर्वारत्वात् । उनिपातस्य नया समासे अनु, तत्र, न्याये, नकारागमविशिष्टनुशब्दस्यैवार्थवत्त्वेनोकारमात्रस्यार्थवत्त्वाभावे- नार्थवनिपातत्वाभावन निपात एकाजनाङित्यस्याप्रवृत्त्याऽचि परे यणि अन्वत्रेति सिद्धयति। न्यायानङ्गीकारे उमात्रस्याप्यर्थवन्निपातत्वेन प्रगृह्य- त्वापत्तेरन्वत्रेल्यस्यासिद्धयापत्तेरिति मूर्द्धाभिषक्तं केन चिन्मन्यमानमपि फलम्। निपातयोस्समासस्य कुत्रापि प्रामाणिकप्रयोगेऽदर्शनात् । उभयोरपि द्योतकयोः परस्परासामर्थेन तदसम्भवाच न विदुषामामोदावमिति बोध्यम् । समासात् समासान्तप्रत्ययोत्पत्तौ बहुकुमारीशब्दात् समस्य- मानात् कपि आगमसमभिव्याहारन्यायेन कप: प्रागवत्तिनोऽर्थवत्त्वाभावेन प्रातिपदिकत्वाभावेऽपि कासमकालमेव पूर्वभागस्य प्रातिपदिकत्वापत्तौ ह्रस्वत्वापत्तिस्यात् । अतः समासालौकिकविग्रहवाक्ये बहु अस कुमारी असित्यत्र समाससमकालमेव कपि तत् काले समासस्थित्यभावेन तदुत्त- रकालेऽनर्थकत्वेनाप्रातिपदिकत्वाद्धस्वाभाव इति भाष्ये समासान्ता इति- सूत्रे शेखरे चोक्तम् । स एव हवाभावो न्यायस्य फलमवेहि । न चात्रापि "न कपी"तिनिषेधान्न फलमिति वाच्यम् । “केण" इति सूत्रविहितस्यैव १२. यदागमास्तद्० ] विजयाऽलङ्कृतः [ ५६ तेन निषेधात् कथमन्यथा समासालौकिकविग्रहवाक्ये कपः प्रवृत्तावत्र ह्रस्वाभावः फलत्वेन भाष्योक्तस्सङ्गच्छतामिति वक्तव्यम् । अत्रापि न कपीति निषेधावलम्बिदुराग्रहे तु फलाभावेप्यनुमितिसिद्धोऽर्थः कथं प्रत्याख्यातुं शक्यमिति सन्तोष्टव्यमित्यलम् । ननूक्तन्यायादागमसमभिव्याहारे आगमिनोऽर्थवत्त्वाभावो निश्चित इति तद्वथावृत्तमर्थवत्त्वं वक्तव्यम् । न चार्थबोधजनकत्वन्तत् । उक्तन्याया- दागमविशिष्टस्यैव बोधजनकत्वनागमरहितस्येति वाच्यं, फलोपधायक- तारूपजनकताया ग्रहणे कामिनीजिज्ञासादिप्रतिबन्धकवशाबोधाजनने प्रणिदातेत्यादावपि घुत्वानाषत्तेः। स्वरूपयोग्यतायाश्च तस्या जनकता- वच्छेदकरूपतया दात्वरूपबोधजनकतावच्छेदकस्य प्रकृतेऽपि सत्त्वात् । नापि बोधजनकत्वप्रकारकतात्पर्य्यविशेष्यत्वन्तत् । अयं मदुश्चरितदाश- ब्दोऽर्थबोधको भवत्वितीच्छाया अनिवार्य्यतयाऽर्थवत्त्वस्याप्यशक्यनिरा- करणत्वात् । अत्रोच्यते-उक्तन्यायेन न तत्रार्थवत्त्वं निराक्रियते अपि तु अर्थवत्त्वप्रयुक्त कार्यन्न तत्समभिव्याहारे तद्रहितस्येत्येव बोध्यते इत्यर्थ- वत्त्वस्य सत्त्वेपि नागमिनस्तत्प्रयुक्त कार्यमिति न दोषः। अथ वा स्वनि- ष्ठविधेयतानिरूपितोद्देश्यतावत्त्वसम्बन्धेनागमविशिष्टभिन्नत्वे सति अर्थ- बोधजनकत्वप्रकारकतात्पीयविशेष्यताश्रयत्वमेवोक्तन्यायादर्थवत्त्वमिति नोक्तदोषः। न च तादृशार्थवत्त्वस्य दापि सत्त्वेनापर्याप्त्या तत्रत्यदाशब्देपि सत्त्वात् धुत्वं निर्बाधमिति वाच्यं, पर्याप्त्याऽर्थवत्त्वस्य विवक्षितत्वात् । ननु न ह्यवयवापर्याप्तस्य समुदाये पर्याप्तिरस्तीति न्यायेन दाशब्देऽपि पर्याप्तिरस्त्येवेति चेत्-मैवम् । न ह्यवयवापर्याप्तन्यायेन तात्पीयविशे- प्यताया आगमरहिते सत्त्वेप्यागमविशिष्टभिन्नत्वांशस्याभावात् । अन्यथा भेत्तेत्यस्य धातुभिन्नत्वसत्त्वेन भूमात्रस्यापि धातुभिन्नत्वापत्तेः । किञ्चार्थ- बोधनेच्छयोञ्चरितत्वमेवार्थवत्त्वम् । अर्थबोधनाय णिजव्यवहितपूर्वत्ववि- शिष्टदाशब्दस्योच्चारणप्रसदापशब्दोच्चारणस्यैव शास्त्रेण बोधिततया अर्थबोधनेच्छयोच्चरितत्वं दापशब्दे एव न दाशब्दे । तस्य नान्तरीयकतयो- च्चारणेऽप्यर्थबोधनेच्छयोच्चरितत्वाभावादिति न दोषः । न च चरमप्रवृत्त- शास्त्रेण दापयतीत्येतदुच्चारणस्यैवार्थबोधनाय वोधितत्वेन तस्यैव निरुक्ता- र्थवत्वं न दापशब्दस्येति तस्याप्यर्थवत्त्वानापत्तिः । पूर्वप्रवृत्तशास्त्रेण दापशब्दोच्चारणस्यापि बोधितत्वेन न दोष इति चेद्दाशब्देऽपि "डुदाबू दान" इतिशास्त्रबोधितत्वादोषो दुर्वार एवेति वाच्यम् । अर्थवद्दाशब्दस्य घुसंज्ञेल्यस्थार्थवत्त्वप्रतियोगिकपर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्ना- ।

६० ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके नुयोगितानिरूपकपर्याप्तिप्रतियोगिदात्वाश्रयस्य घुसंज्ञेत्यर्थस्योत्सर्गतो लाभेन दोषाभावात् । अर्थवत्त्वप्रतियोगिकपर्याप्तिर्दाशब्दे सत्त्वेऽपि तद- नुयोगितावच्छेदकत्वस्य दापशब्दगतत्रित्वे एवान्यूनानतिप्रसक्ते सत्त्वेन दात्वप्रतियोगिकपOत्यनुयोगितावच्छेदकत्वस्य च दागतद्वित्वे सत्त्वेन प्रकृतार्थसमन्वयस्यासम्भवान्न घुसंज्ञा दाशब्दस्येति बोध्यम्। नन्वेवमपि दातेत्यादावर्थवत्त्वपर्याप्त्यनयोगितावच्छेदकत्वस्य दात्व- पर्याप्त्यनुयोगितावच्छेदकत्वस्य च द्वित्वे सत्त्वेन तादृशदात्वस्य च दाप्- घटकदाशब्देऽपि सत्त्वेन दोषतावस्थ्यमिति चेत्-न। शुद्धदात्वस्य दाशब्दे सत्त्वेपि विशिष्टदात्वत्वावच्छिन्नाधेयतानिरूपिताधिकरणताश्रयस्यैव घुसं- ज्ञेत्यर्थेन दापघटकदाशब्दे तदभावनावतरणसङ्गतः । दात्वप्रतियोगिक- पर्याप्त्यनुयोगितावच्छेदकं यदर्थवत्त्वप्रतियोगिकपर्याप्त्यनुयोगिताव- च्छेदकं तदाश्रयस्य धुसंज्ञेत्यर्थेन दातेत्यादौ तादृशं दागतं द्वित्वं तदाश्र- यत्वस्य तत्रैव सत्त्वेन दापघटकदाशब्दस्य तदाश्रयत्वाभावेन घुत्वाप्राप्तेश्च । ननु मैत्रादावपि विद्यमानस्य ब्राह्मणत्वादेश्चैत्रवृत्तित्वेन चैत्र एवाधिक- रणत्वमितिवत् दापपर्याप्तस्याप्यर्थवत्त्वस्य दावृत्तित्वेन दाशब्दे एव पर्या- प्लेस्सत्त्वेन तद्नुयोगितावच्छेदकत्वस्य दाशब्दगतद्वित्वे एव सत्त्वेन दोषता- दवस्थ्यम्। पर्याप्तिप्रतियोगिभूतार्थवत्त्वे दावृत्तित्वस्यापि विशेषणतयाप्रति- योगिताया दावृत्तित्वार्थवत्त्वत्योभयपर्याप्तावच्छेदकतानिरूपितावच्छेद्यता- वत्वेऽप्यर्थवत्त्वत्वपर्याप्तावच्छेदकतानिरूपितावच्छेद्यतावत्प्रतियोगिता- निरूपकपर्याप्तेरेवप्रवेशेन ताशपर्याप्त्यनयोगितावच्छेदकत्वस्य दापग- तत्रित्व एव सत्त्वेनापत्तिविरह इति तु न युक्तं,न ह्यवयवापर्याप्तस्येतिन्यायेन दावृत्तित्वार्थवत्त्वत्वोभयपर्याप्ताया अवच्छेदकताया अप्यर्थवत्त्वत्वपर्याप्त- त्वात् । नापि स्वावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगिता- वच्छेदकत्वसम्बन्धेनार्थवत्त्वत्वगतैकत्ववृत्तिप्रतियोगिताया एव विवक्षण- मिति कथनेऽपि निस्तारः पूर्ववत् । उभयपर्याप्तावच्छेदकताया अप्यर्थवश्व- त्ववृत्तित्वेन रूपेणार्थवत्त्वत्व एव पर्याप्तत्वात् तद्दोषताद्वस्थ्यात् । तत्रापि किञ्चिग्निवेश्य वारणे पूर्वोक्तरीत्या पुनरपि दोषसद्भावेनानवस्थाप्रसङ्गात् । अत्रोच्यते-दावृत्तित्वविशिष्टार्थवत्त्वप्रतियोगिकपर्याप्तिरस्तु दाशब्दे एव । तदनुयोगितावच्छेदकञ्चास्तु दागतद्वित्वमेव । तथापि पर्याप्तिसम्ब- न्धावच्छिन्नाऽधेयता दावृत्तित्वविशिष्टार्थवत्त्वनिष्ठा तदवच्छेदकता दाव- त्तित्वार्थवत्त्वत्वोभयनिष्ठा न मन्यतेऽपि तु दावृत्तित्वनिष्ठैव लाघवात् । पर्याप्तिसम्बन्धेन दावृत्तिमदित्येतत्प्रतीतिविषयीभूताधेयतावच्छेदकताया- १२. यदागमास्तद्० ] विजयाऽलङ्कृतः स्तत्र क्लृप्तत्वात् सैवाधेयता, दावृत्तित्वविशिष्टार्थवत्त्ववान् दाशब्द इति- प्रतीतावपि विषयीभूता, न त्वर्थवत्त्वत्वावच्छिन्ना। मानाभावात्। ततश्चा- र्थवत्त्वत्वावच्छिन्ना या पर्याप्तिसम्बन्धावच्छिन्नाधेयता तादृशाधेयतानि- रूपिताधिकरणतावच्छेदकधर्मावच्छिन्नानुयोगितेत्याद्यर्थः। तादृशाधि- करणतावच्छेदकञ्च त्रित्वमेवेति न दोषः। न च दावृत्तिमान् दाशब्दः दावृत्त्यर्थवत्त्ववान दाशब्द इत्युभयत्र प्रतीतावेकरूपाधेयताया एव विषयत्वे प्रतीत्योवलक्षण्यानुपपत्तिरिति वाच्यं, प्रकारतावच्छेदकभेदेन वैलक्षण्यो- पपत्तेः । किञ्च दावृत्तित्वविशिष्टार्थवत्त्वस्येव दावृत्तित्वविशिष्टस्य दाग- तत्रित्वस्यापि दाशब्दे एव सत्त्वस्याभ्युपगन्तव्यतया तस्यापि दागतद्वि- त्वस्येवानतिप्रसक्ततया दावृत्तित्वविशिष्टार्थवत्त्वत्वावच्छिन्नप्रतियोगिताक- पर्याप्त्यनुयोगितावच्छेदकत्वमपि तादृशत्रित्वस्यैव क्लृप्तत्वान्न दागत- द्वित्वस्येति न दोष इति दिक् । नन्वेवमप्यनैमित्तिकत्वेनान्तरङ्गभूतघुसंज्ञया बहिरङ्गपुकोऽसिद्धत्वेना- र्थवतो दाशब्दस्यैव दर्शनेन प्रवर्तितव्यमेवेति नावतरणसङ्गतिः। किञ्च यथोद्देशपक्षे पूर्वप्रवृत्तघुत्वमादायैव णत्वोपपत्त्याऽवतरणासङ्गतिः। कि- श्वानुभूयत आनन्दश्चेत्रेणेत्यादौ कर्मणि लकारसिद्धये अवश्याश्रयणीयेन पूर्व धातुरूपसर्गेण युज्यत इति सिद्धान्तेन पूर्वमुपसर्गयोगे णत्वे पश्चाण- णिचि पुकि रूपसिद्धेः। किञ्चातिहीतिसूत्रेणा त्यादिभ्यः परस्य रणे: पुको विधानेन दाधातोरर्थवत्वाक्षतेघुत्वसिद्धौ णत्वसिद्धिरिति चेत् न । संज्ञाशास्त्राणां विधिनिमित्तनिमित्तकत्वेन घुसंज्ञाया अपि णत्वनिमित्तनि- मित्तकत्वेन बहिरङ्गतरत्वात्। अत एव हेस इति भाष्योदाहरणं सङ्गच्छते। अन्यथा त्यदादीनाम इत्यस्य विभक्तिनिमित्तकत्वेन बहिरङ्गतयाऽसिद्धत्वेन गुणसंज्ञानापत्तौ पररूपत्वानापत्तिः । विधिनिमित्तनिमित्तकत्वे तु गुणसं- ज्ञाया अपि पररूपनिमित्तनिमित्तिकत्वेन न दोषः। न च तावतापि संज्ञापे- क्षया प्रकृतिप्रत्ययोभयापेक्षस्य त्यदादीनाम इत्यस्य तत्त्वमेवेति वाच्यम् । नाजानन्तर्य्य इति निषेधात् । किञ्च यक्रियायुक्ताः प्रादयस्तं प्रत्येव गत्यु- पसर्गसंज्ञतिवचनेन योगग्रहणलब्धेन यदर्थक्रियाया योगस्तद्धातुं प्रत्येवो- पसर्गसंज्ञेत्यस्य लाभेनोपसर्गप्रदेशे प्रत्यासत्त्या घुसंज्ञकादिनिरूपितोप- सर्गत्वविशिष्टस्यैव ग्रहणेन प्रकृते दाशब्दे पूर्वजातघुत्वस्य सत्त्वेऽपि तस्या- नर्थकत्वेन तदर्थक्रियायोगाभावेन तं प्रत्युपसर्गत्वस्याभावात् । तदर्थ- क्रियायोगस्तु तजन्यबोधविषयीभूतक्रियाविशेषविषयकतात्पर्यग्राहकत्व- मेव । तथा च जन्यबोधविषयीभूतक्रियाविशेषविषयकवात्पर्य्यग्राहकत्वे ६२ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके सति प्राद्यन्यतमत्वमुपसर्गत्वम् । जन्यतायाश्च निरूपकांशे नित्यसा- कांक्षतया प्रदेशे तत्तदुपात्तधातुनिरूपिताया एव प्रत्यासत्त्या ग्रहणम् । एतेन सङ्केतसम्बन्धेनोपसर्गपदवत्त्वस्यैवोपसर्गपदार्थतया घटत्वादिव- सम्बन्धिकत्वाभावेन घुनिरूपितस्यैव ग्रहणमित्याद्यसङ्गतमित्यपास्तम् । किञ्च"पूर्वं धातुस्साधनेन युज्यते"इत्येव युक्तम् । अत एव प्रत्यय इत्यस्य सिद्धिरन्यथा पूर्वमुपसर्गयोगे सवर्णदीर्घ पश्चाद्गुणे प्रतय इति स्यात् । अनुभूयत इत्यत्र तु भूधातोरेवानुभवार्थकत्वं श्रोतृबोधाय तु प्रकृतार्थता- त्पर्यग्राहकस्यानोर्योग इति न दोषः । नापि णे: पुको विधानं युक्तम् । अदिद्रपदित्यादौ "णौ चड्युपाया ह्रस्व" इत्यनेन ह्रस्वत्वानापत्तेः । पका- रसहितस्य णित्वेन पकारात्पूर्वाकारस्याङ्गनिरूपितोपधात्वाभावात् । को- पयत्तीत्यादाविडागमापत्तेश्च । केचित्तु प्रणिदापक इत्यादौ पकारसहितस्य णित्वेन लोपापत्तिरि- त्याहुः-तन्न। निर्दिश्यमानपरिभाषयाऽदोषात् । नापि धात्वधिकारे अती- त्यादेः पाठेन धातुशब्दमुचार्य णौ परे पप्रत्ययविधानेन प्रणिदापयती- त्यस्य सिद्धिः। एवं च पप्रत्ययस्यार्धधातुकत्वेन “सार्वधातुकार्द्धधातु- कयो"रित्यनेन गुणोपपत्तौ 'पुगन्तलघूपधस्येति सूत्रे पुगन्तग्रहणमपि न कर्तव्यमिति सम्यक् । जिह्वेतीति हीस्तस्माद्धात्वर्थे णिचि पुकि ह्रीपय- तीति भवति। इदानीं पप्रत्यये गुणापत्तेः । कोपयति मापयतीत्यादौ पप्रत्य- यस्येडापत्तेश्च । पश्करणे सार्वधातुकमपिदिति ङित्वेनार्पयतीत्यादौ गुणा- नापत्तिः तदर्थं पान्तलघूपधस्य चेतिकरणे सार्वधातुकादिसाहचर्येण प्रत्ययस्यैव पस्य ग्रहणे च गौरवापत्तिः। ङित्ववारणाय पश्पकरणे शकारस्येत्वानापत्तिः। शुपपकरणे चेत्संज्ञकशकारादित्वेन ब्रापयतीत्यादौ जिघ्रादेशापत्तिश्च । ह्रीपयतीत्युक्तदोषापरिहारश्च । न च पप्रत्ययो बिधीय- ताम् । आर्धधातुकत्वं सार्वधातुकत्वं वा मास्तु। पुगन्तेत्यत्र लघूपधस्येत्येको योगः। तस्य चोक्त एवार्थः। पि चेतिद्वितीयः । तत्र सार्वधातुकार्द्धधातुकयो- रित्यनुवर्त्तते। ततश्व सार्वधातुकाद्यव्यवहितपूर्वत्वविशिष्टे पप्रत्यये परे इको गुण इत्यर्थेन सर्वेष्टसिद्धिरिति वाच्यम् । यतः क इवाचर क । अ इवाचर अ। क अइति सततं यस्यां क्रियायामभिधीयते सा का क्रिया। काशब्दा- चाचारकिबन्ता तुमति णौ पुकि ण्यन्तात्कर्तरि क्विपि णिलोपे काप भव- तीत्यादौ यदागमन्यायेन कापशब्दस्य तिङन्तत्वेन ततः परस्य भवती- त्यस्य तिङतिङ इति निघातो न भवति । इदानीन्तु पप्रत्ययान्तस्य तिङ- न्तत्वाभावेन निघातापत्तिः । पञ्चमीसमासमाश्रित्य णिलोपस्य स्थानिव- १२. यदागमास्तद्० ०] विजयाऽलङ्कृतः [ ६३ यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते ॥१२॥ यमुद्दिश्यागमो विहितः स तद्गुणीभूतः । शास्त्रेण तदवयवत्वेन बोधितः । अतस्तद्ग्रहणेन तद्ग्राहकेण तद्बोधकेन शब्देन गृह्यते बोध्यत इत्यर्थः । तत्र तद्गुणीभूता इत्यंशो बीजकथनम् । लोके- , त्त्वेन निघात: सिद्धान्तेऽपि न भवत्येवेति तु न सम्यक् । स्वरविधौ तनिषेधात् । एवञ्चावतरणं सम्यगेवेति दिक् । केचित्तु गामादाग्रहणेष्वविशेष इति परिभाषयाऽनर्थकस्यापि दाशब्द- स्य घुसंज्ञासिद्धयाऽवतरणमसङ्गतमेवेत्याहुः-तदपि न । 'लक्षणप्रतिप- दोक्त', 'लुग्विकरण' इतिपरिभाषयोरेव तया बाधात् । कथमन्यथा प्रनि- दारयतीत्यादौ घुत्वाभावः । 'अनपायोपजनविकारिभिरि ति भाष्ये आगमार्थकोपजनशब्दस्य विकारात् पृथगुपादानेनागमस्य विकारत्वा- भावबोधनेनैकदेशविकृतन्यायेनापि सिद्भिापादनीया। यस्यागमा यदागमाः। आगमत्वमवयवत्वावच्छिन्नविधेयताश्रयत्वं न तु टिदाद्यन्यतमत्वम् । गौरवात् । एवञ्चागमपदेनैव विहितांशस्यापिलाभे- नागमो विहित इत्यत्र विहितपदमधिकमिति गुरुचरणाः । स्वसमभिव्या- हृतपदार्थो यदर्थे साकांक्षस्तस्यैव षष्ठीवाच्यत्वनियमेनोद्देश्यत्वमेव यत्प- दोत्तरपष्ठ्या अर्थ इति यनिष्ठोद्देश्यतानिरूपितावयवत्वावच्छिन्नाविधेय- ताश्रय इति यदागमपदस्यार्थः। तस्य गुणास्तद्गुणाः । अतद्गुणास्तद- गुणास्संपन्नास्तद्गुणीभूताः । गुणशब्दार्थोवयवत्वमाहार्यज्ञानम् । च्युप्र- त्ययार्थो भूधात्वर्थोऽविवक्षितो विषयताश्रयः। क्तप्रत्ययार्थस्तन्निरूपिताच- यवत्वप्रकारकाहार्यज्ञाननिरूपितविषयताश्रयः समुदायार्थः । गृह्यते अने- नेति ग्रहणम्। तस्य ग्रहणं तद्ग्रहणम्। तेन तद्ग्रहणेन । ग्रहधात्वर्थो बोधः। जनकत्वं ल्युडर्थः। बोधान्वयि विषयित्वं तत्पदोत्तरषष्ठ्यर्थः। जन्यत्वं गृह्यन्त इत्यत्रत्यग्रहधात्वर्थबोधान्वयि तृतीयार्थः। बोधस्य च विषयताश्र- यलडबैंकदेशविषयतायामन्वयो निरूपितत्वसम्बन्धेन । तथा च तन्निरूपि- तविषयितावबोधनिष्ठजन्यतानिरूपितजनकतावनिरूपितजन्यत्वविशिष्ट- बोधनिरूपितविषयताश्रयाः तद्ग्रहणेन गृह्यन्त इति समुदायस्यार्थः। यदागमा इति तद्गुणीभूता इत्यत्र हेतुः। तद्गुणीभूता इति तद्ग्रह- णेन गृह्यन्त इत्यत्र हेतुः। तद्गुणीभूता इत्यस्य तद्विशिष्टा इति शेषः। यत इति । । ६४ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके अत इति च पदमुभयत्राध्याहृत्य बोधः कर्त्तव्यः । तथा च यतो यनिष्ठोद्दे- श्यतानिरूपितावयवत्वावच्छिन्नविधेयताश्रया अतस्तन्निरूपितावयवत्वप्र- कारकाहार्यज्ञाननिरूपितविषयताश्रया, यतस्तथाभूता अतस्तद्विशिष्टास्त- निरूपितविषयितावबोधजनकपदजन्यवोधनिरूपितविषयताश्रया इति- परिभाषार्थः पय॑वस्यति । अध्याहृतपदार्थघटकवैशिष्ट्यश्च स्वघटितत्व- स्वनिष्ठविधेयतानिरूपितोद्देश्यताश्रयघटितत्वस्वविशिष्टाघटितत्वैतत्त्रितय- सम्बन्धेन । तत्रापि वैशिष्ट्यं खेतरत्वस्वनिष्ठविधेयतानिरूपितोद्देश्यता- श्रयावयवाघटितत्वैतदुभयसम्बन्धेन । समन्वयो यथा प्रणिदापयतीत्यादौ पकारो यतो दानिष्ठोद्देश्यतानिरूपितावयवत्वावच्छिन्नविधेयताश्रयोऽतः दानिरूपितावयवत्वप्रकारकाहार्यज्ञाननिरूपितविषयताश्रयो यत एवंभूतः। अतस्तत्प्रकारविशिष्टो दापशब्दः, दानिरूपितविषयितावद्बोधनिष्टज- न्यतानिरूपितजनकतावत् पदं 'दाधाघ्वदाप्' इतिसूत्रघटकं दापदं, तन्निरू- पितजन्यत्वविशिष्टो बोधो दापदजन्यः, तन्निरूपितविषयताश्रय इति भवति दापशब्दस्य घुत्वम्। पकारवैशिष्ट्यं दापशब्दे कथमिति चेत्-एवं स्वं पकारः, तद्घटितत्वं दापशब्दे । पुन: स्वं पकारः, तनिष्ठविधेयतानिरूपि- तोद्देश्यताश्रयो दाशब्दः, तद्घटितत्वमपि दापशब्दे । पुनः स्खं पकारः, तद्विशिष्टो दापघटकभिन्नो यतः स्वेतरत्वं पकारे नास्ति स्वनिष्ठविधेयता- निरूपितोद्देश्यताश्रयावयवाघटितत्वं दकारे अकारे दाशब्दे आपशब्दे वा नास्ति । श्राद्ययोर्व्यपदेशिवद्भावेन अपरयोः स्वत एव तादृशावयवघटित- त्वात् , अपि तु तदुभयमुदासीनस्यैव, तदघटितत्वं दापशब्दस्येति । तस्य घुत्वसिद्धिः । यद्यपि यदागमपरिभाषया श्रागमविशिष्टस्यागमिवाचकपद- ग्राह्यत्वं बोध्यते तथापि शक्तिलक्षणाभ्यामुपस्थितस्यैव शाब्दबोधविषयतया दाशब्दादौ आगमविशिष्टदापादिशब्दनिरूपितशक्तिलक्षणयोरभावन कथं तस्य तेन बोध इति चेत्-अनोच्यते-ग्राह्यत्वाभ्यनुज्ञाने यद्विना ग्राह्यत्वं न सम्भवति तदप्यभ्यनुज्ञातमेव । ततश्च यदागमन्यायेन स्वघटितत्वस्वनिष्ठो- हेश्यतानिरूपितावयवत्वावच्छिन्नविधेयताश्रयघटितत्वस्वविशिष्टाघटितत्वै- तत्रितयसम्बन्धेन स्वविशिष्टे समुदाये स्ववृत्तिधारोप इति बोध्यते । तृतीयसम्बन्धघटकवैशिष्ट्यञ्च खेतरत्वस्वनिष्ठोद्देश्यतानिरूपितविधेयता- श्रयेतरत्वोभयसम्बन्धेन। समन्वयः पूर्ववत्। ततश्च दापशब्दोऽपि दात्वा- वच्छिन्न इति तस्य दापदेन बोध उपपन्नः। यद्वा आगमिबोधकदाशब्दादीनां स्वशक्यविशिष्टे लक्षणा बोध्यते अनेन न्यायेन । वैशिष्ट्यं स्वघटितत्वस्वविशिष्टाघटितत्वोभयसम्बन्धेन । , १२. यदागमास्तद्गुणीभूताः ] विजयाऽलङ्कृतः [६५ ऽपि देवदत्तस्याङ्गाधिक्ये तद्विशिष्टस्यैव देवदत्तग्रहणेन ग्रहणं दृश्यते । यमुद्दिश्यविहित इत्युक्तः प्रनिदारयतीत्यादौ न दारि- तत्र वैशिष्ट्यञ्च स्वेतरत्वस्वनिष्टोद्देश्यतानिरूपितावयवत्वावच्छिन्नविधेय- ताश्रयेतरत्वोभयसम्बन्धेन । ततश्च दाशब्दस्य दापशब्दस्य च लक्षणयैव बोधः । उभयोरुक्तलक्ष्यतावच्छेदकाक्रान्तत्वात् । ग्रहणपदे ल्युटः कर्तबोधकतां बोधयितुमाह-ग्राहकेणेति । ग्रहधा- तोरुपादानार्थकताभ्रमवारणाय बोधकनेत्याह । यमुद्दिश्य विहित इत्युक्तेरिति । अयं भावः-यथा पष्टीसमभिव्याहृतागमपदार्थो विधे- यत्वं साकाङ्क्षमुद्देश्यत्वे तथाऽवयवत्वमवयवित्वे साकाङ्क्षमित्यविशेषा- दवयवित्वमेव षष्ठ्यर्थमङ्गीकृत्य यनिष्ठावयवितानिरूपितावयवत्वावच्छि- नविधेयताश्रय इत्येवार्थो यदागमपदस्य कुतो न कृतः तावतापि प्रणिदा- पयतीत्यादौ दोपाभावादद्देश्यत्वार्थकत्वे किं फलमिति । प्रनिदारयती- ति । रेफनिष्ठावयवत्वावच्छिन्नविधेयतानिरूपितोद्देश्यताया "उरणपर" इत्येतद्घटकाण्पदप्रयोज्याया दार्घटकाऽऽकारे सत्त्वेऽपि दाशब्देऽभावेन सिद्धान्ते दाग्रहणेननदारितिसमुदायस्य ग्रहणम्। इदानीन्तु आनिरूपिता- वयवत्वस्य रेफे सत्त्वेन दानिरूपितावयवत्वस्य चाकारे सत्त्वेन 'अवयवाव- यवः समुदायावयव' इति न्यायेन दानिरूपितावयवत्वस्यापि रेफे सत्त्वेन यदागमन्यायेन दाग्रहणेन दारित्यस्य ग्रहणापत्तिः। न चोक्तन्यायस्य शास्त्रे आश्रयणे फलाभाव इति वाच्यम्, शेरत इत्यादौ “आत्मनेपदेष्व- नत” इत्यनेन झघटकझकारस्यादादेशे तस्य च "शीडो रुडि"त्यनेन रुडागमे आनुमानिकस्थान्यादेशभावे झशब्दस्यात इत्यादेशेनातशब्दस्य स्थानिवद्भावेन सार्वधातुकत्वेऽपि रुटस्तदुद्देश्यकत्वाभावेन तन्निष्ठसार्वधातु- कत्वस्य यदागमन्यायेन रतशब्दे आनेतुमशक्यतया "शीङस्सार्वधातुके गुण" इत्येतत्प्रवृत्तये तदाश्रयणस्यावश्यकत्वात् । प्राश्रयणे त्वतशब्दाव- यवस्यातोऽवयवो रेफोऽतशब्दावयवस्तद्विशिष्टस्य रतशब्दस्य सार्वधातु- कत्वेन गुणसिद्धिः । न च तेन न्यायेन समुदायावयवत्वेऽपि सिद्धान्ते यदागमन्यायाप्रवृत्त्याऽवयवावयवन्यायेनैव समुदायग्रहणग्राह्यत्वस्यापि वक्तव्यतया तथैव तेन न्यायेन प्रनिदारयतीत्यादावपि समुदायग्रहणग्रा- ह्यत्वापत्तौ "यमुद्दिश्य" इत्युक्तेऽपि दोषतादवस्थ्यमिति वाच्यम् । स्वाव- यवत्वविशिष्टावयवित्वनिरूपितावयवत्वविशिष्टः स्वावयवो भवति स्वग्रह- ५ ६६ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके णग्राह्यश्च भवतीत्यस्यैव न्यायार्थत्वात्। वैशिष्ट्यं स्वसामानाधिकरण्यस्वो- त्तरकालिकत्वोभयसम्बन्धेन । प्रनिदारयतीत्यादौ चाऽऽनिष्ठे रेफनिरूपि- तावयवित्वे दानिरूपितावयवत्वोत्तरकालिकत्वाभावेन तत्र न्यायाप्रवृत्तेः । अत एव ट्युट्युलोष्टित्वं चरितार्थमन्यथा तुटष्टित्वादेव सायन्तनीत्यादावु- क्तन्यायेन ङीपि सिद्धे तस्य वैयर्थ्यापत्तेः । उक्तार्थे तु तकारनिष्ठे टका- रावयवित्वे युनिरूपितावयवत्वोत्तरकालिकत्वायोगेन न्यायाप्रवृत्तेमबर्थं तस्यावश्यकत्वात् । ननु न्यायाप्रवृत्तौ यन्निरूपितावयवत्वेत्याद्यर्थेऽपि दोषाभावेन ग्रन्थासङ्गतिः । किञ्च न्यायस्य न फलम् । तथा हि-शेरत इत्यस्य शीडोरदितिन्यासेन यथास्थितन्यासेन वा सिद्धिरदादेशोत्तरं हि शीडो रुडित्यस्य प्रवृत्त्याऽदा- देशसमकाले च विरोधाभावाद् गुणस्य प्रवृत्त्या रूपसिद्धेः । यद्यपि गुणा- पेक्षया रुटः प्रतिपदोक्तत्वं तथापि समकालप्राप्तावेव तस्य बलवत्वप्रयोज- कतया न पूर्व तेन रुट: प्रवृत्याशा। यत्तु धातोरेव रुगागमे रविशिष्टस्य यदागमन्यायेन शीत्वात्सार्व- धातुकाव्यवहितपूर्वत्वाच्च गुणे रूपसिद्धिरिति-तन्न । निर्दिश्यमानस्य रेफेण व्यवधानात् । यदपि प्रत्ययावयवे प्रत्ययत्वव्यवहार इत्यनेनादादेशेऽपि सार्वधातुकत्वाद्यदागमन्यायेन सागमे सावधातुकत्वात् गुणसिद्धिरिति- तदपि न । प्रत्ययत्वातिदेशेपि तद्वयाप्यस्यानतिदेशात् । अत एव राममि- त्यादौ मकारे सुप्त्वातिदेशेन दीर्घो न । नापि “दधिच्छादयती"त्यादौ ह्रस्वस्य छकारे परे तुकि तद्विशिष्टस्योक्तन्यायेन पदत्वात्तितिङिति निघा- तसिद्धिरिति फलम् । तस्मिन्नितिपरिभाषया पूर्वस्येत्यस्योपस्थितौ तद्वि- शेषणेन तदन्तविधी हवान्तस्य छकारात् पूर्वस्य तुगित्यर्थेन विशिष्ट- स्यैव तुकि यदागमन्यायेनैव सिद्धेः । न च परमन्दधि च्छादयतीत्यादा- वुक्तरीत्या वृक्षप्रचलन्यायेन वाक्यस्य तुकि यदागमन्यायेनापि पदत्वाभा- वान्निघाताभावापत्या न्यायावश्यकत्वमिति वाच्यम् । पदयसापेक्षतुको बहिरङ्गत्वेनासिद्धत्वात्तदुपपत्तेः । न च सनशम्भुरिति स्थिते नकारस्य तुकि तद्विशिष्टस्योक्तन्यायेन पदत्वात् छत्वसिद्धिः फलमिति वाच्यम् । नान्त- स्य पदस्यैव तुकि यदागमभ्यायेनैव सिद्धेः । यदपि एधिषीष्टेत्यत्र तकारावयवस्य सकारस्यानेन न्यायेन प्रत्यया- वयवत्वात् पत्वमिति फलं-तदपि न । प्रत्ययावयवे तकारे प्रत्ययत्वव्यव- हारेण तवयवत्वात् सकारस्य प्रत्ययावयवत्वोपपत्तेः । अत्रोच्यते-दीव्यमानइत्यत्र श्यनोऽकारस्य नित्यत्वान्मुगागमे तास्य- १२. यदागमास्तद्गुणीभूताः ] विजयाऽलङ्कृतः [ ६७ त्यस्य घुत्वम् । 'आने मुक्' इति मुग्विधानसामर्थ्यादेषाऽनित्या । नुदात्तेदिति स्वरो न स्यान्मान्ते उपदिश्यमानाकारान्तत्वस्योपदिश्यमाना- कारत्वस्य वा अभावात्। यशब्दस्यागमित्वाभावादकारस्योपदिश्यमानत्वा- भावाच्च यदागमन्यायेन तस्यानयनासम्भवात् । अवयवावयवन्यायसत्त्वे तु यशब्दावयवस्याकारस्यावयवो मकारो यशब्दावयवस्तद्ग्रहणग्राह्यश्चेति यम्शब्दस्याकारान्तोपदिश्यमानत्वेन स्वरोपपत्तिरिति सुष्ठुतरमिदं फलम- वयवावयवन्यायस्य, तथापि प्रनिदारयतीति ग्रन्थासङ्गतिरस्त्येवेति चेत्- श्रृयताम्-यमुद्दिश्य विहित इत्युक्तरित्यस्य यत्पर्याप्तोद्देश्यतानिरूपितवि- धेयताश्रय इत्याद्यर्थोक्तरित्यर्थः। प्रनिदारयतीत्यादावाकारवृत्त्युद्देश्यताया अपर्याप्त्या दावृत्तित्वेऽपि दापर्याप्तत्वाभावान्न तामादाय दोष इति ग्रन्थाशय इति । वस्तुतस्तु अवयवावयवन्यायस्य न फलनापि तत्तदर्थमनेकविधकल्- पना । स्वविशिष्टोद्देश्यतानिरूपितावयवत्वावच्छिन्नविधेयताश्रयः स्वग्रह- णेन गृह्यत इत्येव परिभाषाया अर्थः । वैशिष्ट्यश्च स्वपर्याप्तत्वस्वावयवत्व- विशिष्टत्वान्यतरसम्बन्धेन । द्वितीयवैशिष्ट्यं स्वसामानाधिकरण्यस्वो- त्तरकालिकत्वोमयसम्बन्धेन । एवञ्चानयैव परिभाषया शेरते दीव्यमान इत्यादीनामपि सिद्धिः। तथा हि-शेरत इत्यत्र स्वं अतशब्दस्तद्विशिष्टो- द्देश्यता अन्निष्ठा रुडागमनिरूपिता यतस्तत्र अतशब्दावयवत्वमच्छब्दे वर्त्तते । तत्सामानाधिकरण्यमस्ति । तदुत्तरकालिकत्वमप्यस्ति । तन्निरूपि- तावयवत्वावच्छिन्नविधेयताश्रयो रुडिंति तद्विशिष्टे सार्वधातुकत्वमुपपन्नम् । एवं दीव्यमान इत्यादावप्यूह्यम् । उत्तरकालिकत्वरूपद्वितीयसम्बन्धदानात् प्रनिदारयतीत्यादौ न दोषः। तत्राकारनिष्ठरेफीयोद्देश्यताया दावयवत्वोत्तरकालिकत्वविरहात्। दारूप- सम्पत्तः प्रागेवाकाररूपस्याणः प्रसङ्गावस्थायामेव रपरत्वविधानात् । अत एव ट्युट्युलोष्टित्वं चरितार्थम् । एवञ्च यमुद्दिश्य विहित इत्युक्तेरित्यस्य यद्विशिष्टोद्देश्यताघटितोक्तार्थस्वीकारादित्यर्थः । ननु दात्वं दकारोत्तरत्वविशिष्टमात्वमेव । पार्शब्दे च यदागमन्या- येनात्वं दकारोत्तरत्वञ्चास्त्येवेति दार्शब्दे दात्वसिद्धौ घुत्वं दुर्वारमित्यत- आह-आने मुगित्यादि । तथा चानित्यत्वान्नार्शब्दे आत्वमिति भावः। मुग्विधानसामर्थ्यादिति । ननु सूत्रसत्त्वे वार्णपरिभाषया दीर्घ ।

६८ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके बाधित्वा प्राप्त मातो ङित' इतिशास्त्रं तकन्यायेन बाधित्वा मुकि यदागम- न्यायेन दीर्धे पचान इति। सूत्राभावे आतो ङित इत्यस्य प्रवृत्त्या पचेन इति स्यादिति फलभेदात् कथं व्यर्थमिति चेत्-न। इयादेशबाधनमात्रस्य फलत्वे 'आतोडिन्तो नानस्येति न्यासकरणेनैवेयादेशाप्रवृत्त्या मुग्विधानस्य वैयर्थ्यापत्तेः । अत एव मुग्विधानसामर्थ्यादित्येवोक्तम् । न तु सूत्रारम्भ- सामर्थ्यादित्युक्तमिति बोध्यम् । निरवकाशत्वाल्लुको बाधकेऽमि तद्वैय- •द्यथा न लुक् ज्ञानमित्यादौ तथा दीर्घो न भविष्यति मुकि कृते इति नाशक्यं, मुको वैयर्थेन दीर्घबाधकल्पनापेक्षया परिभाषाऽनित्यत्वकल्- पनस्यैवौचित्यात् । ननु मुग्विशिष्टे यदागमन्यायेनाकत्वेऽपि तत्सवर्णत्वमाकारे नास्ति अम्जनकस्थानस्यैवाभावेन तुल्यस्थानत्वाभावात् अवयवद्वारककण्ठस्था- नजन्यत्वमादाय तुल्यस्थानत्वोपपादने ओष्ठस्थानजन्यत्वस्यापि सत्त्वेन यावत्स्थानसाम्याभावादिति चेत्-न। अक्त्ववत् कण्ठमात्रस्थानजन्यत्व- विवृतत्वमात्रप्रयत्नजन्यत्वयोश्चाप्यतिदेशेनोपपत्तेः। न च निद्दिश्यमानस्यै- वादेशेनामो निर्दिश्यमानत्वाभावान्नात्र दीर्घ इति वाच्यम् , अक इत्यस्य पञ्चम्यन्तत्वेन षष्ठ्यभावान्निहिश्यमानपरिभाषाया अप्रवृत्तेः । न च पूर्वप- रयोरित्यस्य स्थानषष्ठ्यन्तत्वात् तत्पदीयनिर्दिश्यमानस्यैव ग्रहणेन दीर्घा- भाव इति युक्तम् । शास्त्रान्तरासहकारेणैव पूर्वपरपदजन्योपस्थितिविषय- त्वेन अम् आ इति समुदायस्य निर्दिश्यमानत्वाक्षतेः । प्रकृते अचः पूर्व- त्वेन बुद्धिस्थो यः, अकः परत्वेन बुद्धिस्थो यस्तदुभयमात्रारब्धसमुदा- यस्य पूर्वपरपदेन शास्त्रान्तरासहकारेणैवोपस्थितत्वात् । यत्तु केन चिदुक्तम्-एकादेशविपये निर्दिश्यमानपरिभाषा न प्रवर्तते, एकादेशशास्त्राणां वैयर्थ्यमन्यथा स्यात् , यतो निर्दिश्यमानावयवेतरस्य नादेशा इति निर्दिश्यमानपरिभाषायाः पर्यवसिते अर्थे एकादेशपूर्वस्थानिनः तत्परस्थानिरूपनिद्दिश्यमानावयवेतरत्वमेवं पूर्वस्थानिरूपनिर्दिश्यमानाव- यवेतरत्वं परस्येत्युभयोरादेशाभावे तद्वैयर्थ्यं स्पष्टमेवेति-तदविचारितर- मणीयमेव । पूर्वपरयोरित्येकपदनिर्दिश्यमानत्वस्यैव समुदाये सत्त्वेन निर्दिश्यमानावयवेतरत्वाभावादुदासीनपद्मादायेतरत्वोपपादने तु परि- भाषाया निर्विषयत्वापात इति सुधीभिर्विभावनीयम् । ननु मुकि अकस्सवर्ण इत्यनेन सानुनासिक आकारो निरनुनासिक- श्वाऽऽकारः सानुनासिकोकारो निरनुनासिकश्चोकारः औकार इत्येते प्रा- तास्तेषां प्राप्यमाणानां मध्ये स्थानिनाऽन्तरतमः सानुनासिक ओकार १२. यदागमास्तद्गुणीभूताः ] विजयाऽलङ्कृतः [ ६६ अन्यथा पचमान इत्यादावकारस्य मुकि अनया परिभाषया विशि- ष्टस्य सवर्णदीचे कृते तद्वैयर्थ्यं स्पष्टमेव । तेन दिदीये इत्यादौ एव । आदेशान्तरावृत्तित्वस्य कण्ठोष्ठस्थानिकत्वविशिष्टसानुनासिकत्वे एव सत्त्वेन तेन रूपेण तस्यैवान्तरतमत्वात् । मुकोभावे आकार इति वैषम्यान ज्ञापकमिति । न चोदानस्येत्येव तदर्थमस्तु । श्रादेः परस्येत्यनेनाकारस्योत्वे गणे पचोन इति सिद्धौ मुको वैयर्यमिति तावताप्यनुनासिकत्वाला- भात् । अनुनासिकोकारविधानेन पररूपेण तदपि भविष्यतीति प्रत्याशा न कार्या, इत्संज्ञालोपयोरापत्तेः । न च लोप एव कर्तव्ये उकारोचारण- सामर्थ्यान्न ताविति वाच्यमुगित्वेन डीपः प्रवृत्त्या उच्चारणस्यावैयर्थ्यात् । न च टित्वादेव तत्सिद्धिः। लाश्रयमनुबन्धकार्यन्नादेशानामित्यस्य स्त्रीप्रत्य- यप्रकरणे शेखरकृता खण्डितत्वादिति वाच्यम् , लादेशानात्मके शाननि यजमान इत्यत्र स्त्रीलिङ्गे डीपः फलस्य सम्भवात् । तस्मान्न ज्ञापकमिति वाच्यम् । मुक अान्तरतम्यमात्रफलकत्वे पादमात्रिकमकारविधानेनापि तदुपपत्तावर्धमात्रिकमकारोच्चारणस्य ज्ञापकत्वसम्भवात् । सिद्धान्ते तु पादमात्रिकस्य तस्य श्रवणायोग्यत्वान्न तत् कृतमित्य- लम् । बुवः पञ्चानामितिनिर्देशोऽप्यत एबोपपद्यते । अन्यथोक्तन्यायेन नामि अजादित्वातिदेशे पञ्चनित्यस्य भत्वे नलोपानापत्तेः । यत्तु न पदान्ताट्टोरनामिति सूत्रे अनामितिपयंदासो ज्ञापकोऽन्यथा पण्णामित्यादावुक्तरीत्या पदत्वाभावेन निषेधाप्रवृत्त्यातद्वैयथ्य स्पष्टमेवेति- तन्न। नमधातोः किप्यनुनासिकस्येतिदीर्थे पटनामिति स्थिते ष्टुत्वनिषेधाभा- वाय तत्सार्थक्यसम्भवात् । तेन दिदीये इत्यादाविति । युडागमविशिष्टे येशब्दे अजादित्वमुक्तन्यायेनादाय एरनेकाच इति यणादिकन्नेत्यर्थः । न च यणोऽप्राप्तियोग्येऽचारितार्थ्येन कृते तस्मिन् चारितार्थेन च तक्रन्यायेन युटो बाधकत्वात् सर्वेषामित्यत्र नुडिव न यणिति वाच्यम् । दीधातोघं- अर्थे के दिय इत्यादौ यणोऽप्राप्तिविषये युटश्चारितार्थ्यात् । न च तत्रापीय- झाप्त्याऽचारितार्थेन,दीर्घेण यण्गुणयोरिवेययणोधेिन ग्रन्थासङ्गति- रेवेति वाच्यम् । इयङस्सकललक्ष्यप्राप्तत्वेन कुप्वो क पौ चेत्यनेन विस- र्जनीयस्य स इत्यस्येवानापीयङ एव बाधेन यणापत्तेसम्भवात्। दीयते इति दीः शत्रोः दीः शत्रुदी: शत्रुदीमेति शत्रुदीत् तमाचष्टे णिचि क्विपि टिलो- पणिलोपयोः शत्रुत् । तत प्राचारकिबन्ताद्धयर्थे के युटि शत्रुद्य इत्यादावु- - ७० ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके यणादिन । जहारेत्यादावात औ णल इति च न । न चाकारादेर्व- र्णस्य वर्णान्तरमवयवः कथमिति वाच्यम् । वचनेनावयवत्वबोधनात् । तस्य चावयवसादृश्ये पर्यवसानं बोध्यम् । न चोक्तज्ञापकाद्वर्णग्रहणे- ऽस्या अप्रवृत्तिरिति वाच्यम् । "आने मुक्" इति सूत्रे भाष्येऽकारस्या- गावयवस्य मुगित्यर्थे पचमान इत्यत्र “तास्यनुदात्तेत्" इति स्वरो न स्यादित्याशङ्कयादुपदेशभक्तस्तद्ग्रहणेन ग्राहीष्यत इत्युक्तरसङ्ग- त्यापत्तेः। । भयोरप्राप्तियोग्ये चारितार्थ्याचा नच वुगयुटावुवब्यणोरिति वार्तिकारम्भ- सामर्थ्यान्न यणिति वाच्यं, शास्त्रवाधापेक्षया परिभाषाऽनित्यत्वज्ञापनस्यै- वौचित्यात्। जहारेति। आरित्यस्योक्तन्यायेनाऽऽत्वेनादन्तत्वात्ततः परस्य णल औकारः स्यात् । अनित्यत्वेन तन्नेति भावः । न च सन्निपातपरिभाषया णलव्यवहितपूर्ववन्निमिन्तीकृत्य जायमानावृद्धिर्णलविनाशिका न स्यादिति वाच्यम् । अात औ णल् इत्येतद्विषये सन्निपातपरिभाषाया अप्रवृत्तेः । अत एव ममावित्यादावेज्विषयत्वनिमित्तकमात्वं निमित्तीकृत्याऽऽत औ एल् इति भवति । अत एव च भवेयुः भिन्द्यरित्यादावागमसमभिव्या- हारेप्यागमरहितस्यैवोसो ग्रहणसिद्धिः। पञ्चानामित्यादौ च नलोपसिद्धिः। अनित्यत्वाभावे नामि यदागमन्यायेनाजादित्वेन भत्वात् नलोपो न स्यात् । एतीतीत् तेनेतेल्यादाविणधातोः किपि टाविभक्तौ घित्वाभावान्नादेशाभावश्च सिद्धः । एवमयधातोः किपि यलोपे तुकि भिसि अद्भिरित्यत्रैस् न । न चाकारादेरित्यादि । विषयितासम्बन्धावच्छिन्नव्यापकताश्रयत्वे सति विषयितासम्बन्धावच्छिन्नव्याप्यत्वाभाववत्त्वरूपतया वर्णान्तरनि- रूपितस्य तस्याभावादिति भावः । वचनेनेति । आद्यन्तौ टकितावित्यादि- नेत्यर्थः। न च तावताप्याशङ्काया अनिस्तारः। न हि वह्निःशीत इति बोधनेपि तत्र तत्त्वम्भवति इत्यत आह-तस्य चेति । अवयवसादृश्यञ्चावयविग्रह- णग्राह्यत्वेन बोध्यम् । तथा च तेनैव यदागमन्यायो लब्ध इति बोध्यम् । वर्णग्रहणे अस्या अप्रवृत्तिरिति ।अननुगतानित्यत्वज्ञापनापेक्षयाऽनुगत- स्थले प्रवृत्तिज्ञापने लाघवमिति भावः। वर्णत्वव्याप्यधर्मघटितधनियन इत्यर्थः । अदुपदेशभक्त इति । उपदिश्यमानाकारस्यावयव इत्यर्थः । दी- .. ।

१२. यदागमास्तद्गुणीभूताः ] विजयाऽलङ्कृतः [ ७१ किञ्च ङमन्तपदावयवस्य ह्रस्वात्परस्य ङमो ङमुडित्यर्थे कुर्वन्ना- स्ते इत्यादौ ङमो ङमुडागमे णत्वप्राप्तिमाशङ्कय यदागमाइति न्याये- नाद्यनस्यापि पदान्तग्रहणेन ग्रहणात् 'पदान्तस्य निषेध इति । अनया च परिभाषयाऽऽगमानामागमिधर्मवैशिष्टयमपि बोध्यत इत्याशय- व्यमान इत्यर्थमकारान्तोपदिश्यमानादित्यर्थस्तास्यनुदात्तेदित्यादेस्तदन्त- विधिना कार्यः । उपदिश्यमानाकारान्तत्वञ्च मकारसहिते अमि यदा- गमन्यायेनानीय स्वरस्साधितस्सोऽसङ्गतस्स्यादकारान्तोपदिश्यमानत्वस्य वर्णत्वव्याप्यधर्मघटितत्वादिति भावः । यत्तु केनचित्-यथाऽधोगित्यत्रादुहित्यस्यौपदेशिकदादित्वन्तथा पच- मान इत्यत्राप्यमित्यस्यौपदेशिकमदन्तोपदिश्यमानत्वं स्वत एवास्ति । अत एव तत्र परिभाषोपन्यासो न कृतो भाष्य इत्युक्तभाष्यासङ्गतिर्नेत्युक्तम्- तदविचारितरमणीयम् । तथा हि-अधोगित्यत्रादुहित्यस्मिन् यदागम- न्यायेन दुहधातुत्वातिदेशे दुहित्यस्य अदुहित्यस्य चैक्यबुद्धौ दुहित्यस्य य उपदेशस्सोऽदुहित्यस्यापीति तदुपदेशकाले तस्य चेद्दादित्वन्तहिं तदभिन्न- स्यादुहित्यस्यौपदेशिकदादित्वमस्तीत्यविवादमेव । पचमान इत्यत्र तु वर्ण- ग्रहणेऽप्रवृत्तावम्यबुद्धयभावेन अ श्रम अनयोर्भेदादकारस्य य उपदेशस्स न अमित्यस्येत्यकारस्यौपदेशिकादन्तत्वेप्यमित्यस्य तत्त्वोपपादनस्याश- क्यसम्भवत्यादिति विभावनीयम् । न च वर्णत्वव्याप्यधर्मस्यातिदेशो नेत्येव ज्ञाप्यत इति नोक्तभाष्यविरोध इति वाच्यम् । दिदीय इत्यादाव- जादित्वस्यातिदेशापत्तेः। आद्यनस्यापि पदान्तग्रहणेन ग्रहणादिति । नकारविशेषणस्य पदान्तस्येत्यस्य वर्णवोधकत्वेन वर्णग्रहणे अप्रवृत्तावत्राप्यप्रवृत्त्या भाष्या- सङ्गतिरिति भावः। वस्तुतो नेदं युक्तम् । वर्णवव्याप्यस्य तद्घटितस्य वा नातिदेश इति हि तस्यार्थः। पदान्तत्वस्य स्वघटकत्वस्वघटकवर्णप्रागभावाधिकरणक्षणा- बृत्तित्वोभयसम्बन्धेन पदविशिष्टत्वरूपस्य वर्णसमुदायेऽपि सत्त्वेन वर्णत्व- व्याप्यत्वाभावेनातिदेशे वाधकाभावात् । आगमानामागमिधर्मवैशिष्ट्यमपीति। इदमपिन युक्तं, फलाभा- वात् । रामाणामित्यादावाम्वृत्तिपदान्तत्वस्य नकारेऽतिदेशेन पदान्तस्येति निषेधापत्त्या णत्वानापत्तेश्च। प्रकृते आगमविशिष्टे एव नकारद्वयात्मकसमु- ७२ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके कङमुटसुत्रस्थभाष्यासङ्गतः। किञ्च गुणादे रपरत्वे रेफविशिष्टे गुण- त्वाद्येष्टव्यम् । अन्यथर्कारस्य गुणवृद्धीअरारावेवेति नियमो न स्या- त्। तच्च वर्णग्रहण एतदप्रवृत्तौ न सङ्गच्छते । अत एव "रदाभ्याम्" दाये पदान्तत्वातिदेशेन वर्णग्रहणे जातिग्रहणमित्यनेन नकारद्वयस्यापि नन- हणेन ग्रहणेन निषेधोपपत्तेश्च पदान्तस्य नद्वयात्मकनकारस्य पर्याप्त्याऽप- र्याप्त्या वा णत्वाभावो निषेधेन बोध्यत इति भावः । सजातीयानेकवर्ण- घटितसमुदायेऽपि तज्जातेरारोप इति वर्णग्रहणे जातिग्रहणमित्यस्यार्थः । केचित्तु पदान्तस्येत्यवयवषष्ठी। ततश्च पदान्तावयवस्य नस्येत्यर्थेना- द्यस्य व्यपदेशिवद्भावेन पदान्तस्य च परिभाषाम्विनैव निषेध इति वदन्ति–तन्न । रामेणेत्यादावपि नेतिसमुदायस्य पदान्तत्वेन तवयव- स्यापि नस्य णत्वानापत्तेः । यत्तु पदविशिष्टस्य नस्य णत्वन्नेत्यर्थः । वैशिष्ट्यं स्वघटकत्वस्वघटक- नकारेतरवर्णप्रागभावाधिकरणावृत्तित्वोभयसम्बन्धेनेति विनैव परिभाषां निषेधसिद्धिरुभयोरिति-तदसमञ्जसं, शब्दमर्यादयोक्तार्थालाभात् । यदपि केनचित्-नस्येत्यत्रावयवषष्ठीमाश्रित्य पदान्तनकारावयवस्य णत्वन्नेत्यर्थेन निषेध इत्युक्तं तदप्यविचारितरमणीयमेव । अवयवस्य स्थानित्वबोधकषष्ठ्यन्तराभावात् । रषाभ्यामित्यनुवर्त्य पञ्चम्योपस्थापि- तस्योत्तरस्येत्यस्य विशेष्यत्वेन पदान्तनकारावयवत्वविशिष्टस्य रषाभ्या- मुत्तरस्येत्यर्थेनोत्तरपदोत्तरं षष्ठ्या स्थानित्वार्थकत्वमित्याशयवर्णनन्तु न युक्तं, रषाभ्यामित्यनुवृत्तेः फलाभावात् । अस्तु वा यथाकथञ्चित् गुणादेरपरत्वे रेफविशिष्टे गुणत्वाद्यष्ट- व्यमिति। अयं भावः-कर्तेत्यादौ ऋकारस्य त्रयो गुणपदबोध्या: प्रसक्ताः । तत्राकारस्य प्रसङ्गावस्थायामेव रपरत्वेनारिति प्रसक्तस्संपन्नः । तत्र यदागमन्यायेनाकारवृत्तिगुणत्वस्यातिदेशेन मूर्द्धस्थानिकवर्णघटित- त्वेन च स्थानेन्तरतम इत्येतत्सहकारेण सार्वधातुकार्द्धधातुकयोरित्यस्या- न्तरतमो गुणो भवतीत्यर्थसत्त्वेनारेव ऋकारस्य भवति वर्णत्वव्याप्यध- नितिदेशे गुणत्वस्यातिदेशाभावेनारित्यस्य गुणत्वाभावादकारस्य तत्त्वे- प्यन्तरतमत्वाभावाद्विनिगमनाविरहेण त्रयाणां पर्यायापत्तिरिति । वस्तुतो नायं दोषः। रेफविशिष्टे गुणत्वाभावेप्यकारस्य उरणपर इत्यनेन रेफावयवकत्वबोधनेन ऋकारस्य मूद्धस्थानिकावयवकत्वेनान्तर- १२. यदागमास्तद्गुणीभूताः ] विजयाऽलङ्कृतः [७३ इति सूत्रे भाष्ये गुणो भवति वृद्धिर्भवतीति रेफशिरा गुणवृद्धिसंज्ञ- कोऽभिनिर्वर्तत इति । अत एव 'नेटि णेरनिटि' इत्यादि चरितार्थम् । " तमोऽकार एव भविष्यति। स च भवन् अर एव सम्पन्नो भविष्यति । न च तावतापि ऋकारस्य गुणवृद्धी अरारावेवेति सामानाधिकरण्यानुपपत्तिः। इष्टत्वात् । तस्य भाष्यप्रयोगत्वाभावात्। ऋकारस्य यत्र गुणवृद्धी भवतस्त- त्रारारावेव संपद्यते इति तस्य व्याख्यानाच्च । ऋकारस्याप्यादेशकोटावन्त- रतमो नास्त्यकारस्यापि स्थानिकोटावन्तरतमो नास्तीत्यन्तरतमाभाववत्वे- नाकारस्यैव ऋकारान्तरतमत्वाच्च । तदुक्तमनान्तर्यमेवैतयोरान्तर्यामिति । रेफशिरा गुणवृद्धिसंज्ञकोऽभिनिवर्तते इति । रेफः शिरः पराव- यवो यस्यारित्यादेः स गुणादिसंज्ञक इत्यर्थः । अत्वस्य गुणसंज्ञकत्वस्य वाऽरित्यत्रातिदेशाभावे तस्य गुणसंज्ञकत्वानुपपत्तिरिति भावः। वस्तुत इदमपि भाष्यन्नैव विरुणद्धि गुणवृद्धिसंज्ञकोऽकारादिः, रेफशिरा अभि- निवर्तत इत्यर्थात् । रेफशिरा इत्यत्र चातद्गुणसम्विज्ञानम् । तथा चाद्य- दूषणमेव सम्यगिति तत्त्वम् । उपदिश्यमानाकारान्तात्परत्वस्योपलक्षणत्वे तु तत्रापि न दोष इति विभावनीयम् । यत्तु लुलविथेत्यादौ अवादेशावयवाकारस्य गुणशब्दप्रयोज्यविधेयता- श्रयत्वरूपस्य गुणशब्दभावितत्वस्याभावेन नशसद्देतिनिषेधाप्राप्तिस्तदर्थ स्थानिवद्भावेन गुणशब्दभावितत्वमवादेशेप्यानेयं तस्य चाल्मात्रवृत्तित्वात्। स न स्यात् । अर्शब्दे गुणत्वातिदेशे तु तस्यापि गुणशब्दभावितत्वेन तस्य अलमात्रवृत्तित्वन्न भवतीतिस्थानिवद्भावेन निषेधः सिद्धयतीति वर्णग्रहणे प्रवृत्तिरावश्यकीति-तन्न । अल्मात्रवृत्तित्वाभावेप्यशास्त्रीयत्वेन गुणश- ब्दभावितत्वस्यातिदेशासम्भवेन दोषस्य प्रकारान्तरेणैव वारणीयत्वात् । कोऽसौ प्रकार इति चेत्-अत्रोच्यते। गुणपदस्य स्वविशिष्टे लक्षणा। वैशिष्ट्यञ्च स्वप्रयोज्यविधेयताश्रयत्वस्वप्रयोज्यविधेयताश्रयस्थानिकत्वा- न्यतरसम्बन्धेन । स्वबोध्यविधायकशास्त्रव्यापाराधीनलब्धसत्ताकत्वाव- च्छिन्ने वा लक्षणा। तथा च स्थानिवद्भावं विनैव निषेधः प्रकृते उपपन्न इति। लोकन्यायसिद्धाया अस्याःशास्त्रे आश्रयणेमानमाह-अतएव नेटी- त्यादि। यदागमपरिभाषायाः शास्त्रे आश्रयणादेवेत्यर्थः। माभवानतीदित्या- दौ यदागमन्यायाभावे इविशिष्टे सिच्त्वाभावेनेटा व्यवधानेन वृद्धथप्राप्तौ नेटीत्यस्य वैयर्थ्यात्। एवमेव णेरनिटीत्यत्रानिटीत्यस्यापि वैयर्थ्य बोध्यम् ।

७४ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके अनागमकानां सागमका श्रादेशा इत्यस्य त्वयमर्थः। आर्ध- धातुकस्येडागम इत्यर्थे ज्ञाते नित्येषु शब्देष्वागमविधानानुपप- च्यापत्तिमूलकवाक्यान्तरकल्पनेनेड्रहितबुद्धिप्रसङ्गे सेड्बुद्धिः कर्तव्येति । एवं चादेशेष्विवात्रापि बुद्धिविपरिणाम इति न नित्य- त्वहानिः । स्थानिवत्सूत्रे च नेदृशादेशग्रहणं साक्षादष्टाध्यायीबो- । ननु प्रणिदापयतीत्यादौ दावृत्तिदात्वस्य दापशब्दे स्थानिवत्सूत्रेणा- तिदेश एव अनागमकानां सागमका आदेशा इति स्थान्यादेशभावकल्प- नायाः फलम् । तदतिदेशस्य च यदागमपरिभाषयैव लाभेन । भाष्ये दृश्य- मानस्य 'अनागमकानां सागमका आदेशा' इत्यस्य किं प्रयोजनमित्यत आह–अनागमकानां सागमका आदेशा इत्यस्य त्वयमर्थ इति । इदं वक्ष्यमाणं प्रयोजनमित्यर्थः । अर्थापत्तीति । अर्थस्योपपादकस्या- पत्तिः कल्पनं यया सा । अनुपपत्तिरूपा अर्थापत्तिः पञ्चमं प्रमाणं मीमां- सकवेदांतिसम्मतमित्यर्थः । प्रकृते नित्ये शब्दे उपचयापचयरूपविकार- रहिते, आगमरूपोपचयस्यासम्भवेन आगमविधानानुपपत्त्या इड्रहितस्य वलादेरार्द्धधातुकस्य सेट् इति वाक्यान्तरं कल्प्यते । तेन च मृजेर्वृद्धिरित्या- दिना मृजिप्रसङ्ग मार्जिरिव इड्रहितस्य तव्येत्यस्य प्रसङ्गे इतव्यः साधुरिति बोध्यते । तथा च नोत्पत्तिनिवृत्ती, अपि तु तद्बुद्धिप्रसङ्गे तद्बुद्धिरिति आदेशस्थलवदागमस्थलेऽपि न नित्यत्वहानिरिति बोध्यम् । ननु आगमस्थलेऽपि अनित्यत्ववारणायावश्याश्रयणीये स्थान्यादेश- भावे स्थानिवत्सूत्रेणैव निर्वाहात् यदागमपरिभाषा मास्त्वित्यत आह- स्थानिवदिति । साक्षादिति । अष्टाध्यायीस्थशास्त्रघटकषष्ठीप्रतिपाद्ये- त्यर्थः। अयं तु स्थान्यादेशभावो न तथा अपि तु अष्टाध्यायीस्थशास्त्र- कल्पितशास्त्रघटकषष्ठीप्रतिपाद्य इति बोध्यम् । * प्रत्यक्षमेकं चार्वाकाः कणादसुगतौ पुनः । अनुमानं च तच्चाथ साङ्ख्याः शब्दं च ते अपि ॥ न्यायैकदेशिनोऽप्येवमुपमानं च केचन । अर्थापत्त्या सहैतानि चत्वार्याह प्रभाकरः ।।

१२. यदागमास्तद्गुणीभूताः ] विजयाऽलङ्कृतः [ ७५ धितस्थान्यादेशभावे चारितार्थ्यात्। किञ्चैवंसतिस्थानिबुद्धयैव कार्य- प्रवृत्त्या निर्दिश्यमानस्येति परिभाषाया अप्राप्त्याऽडागमसहितस्य पिवाद्यादेशापच्या लावस्थायामडिति भाष्योक्त सिद्धान्तासङ्गतिः । स्थानिवद्भावविषये निर्दिश्यमानस्येति परिभाषायाः प्रवृत्तौ तिसृणा- मित्यत्र परत्वात्तिस्रादेशे स्थानिवद्भावेन त्रयादेशमाशङ्कय सकृद्- तिन्यायेन समाधानपरभाष्यासङ्गतिः। “एस." इत्यादौ स्थानषष्ठीनि- देशात्तदन्तपरतया पठितवाक्यस्यैव समुदायादेशपरत्वेनादेशग्रहण- ननु नेटि हेरनिटीति ज्ञापकेनोभयविधस्थान्यादेशभावयोः स्थानिव- सूत्रे एव ग्रहणमस्तु । मास्तु परिभाषेत्यत आह-किजेति। स्थानिवद्भाव- विषयेऽपि निर्दिश्यमानपरिभाषाप्रवृत्तौ दण्डमाह--स्थानिवदित्यादिना । भाष्यासङ्गतिरिति । स्थानिवद्भावेन तिस्रादेशे त्रिशब्दत्वबुद्धावपि अपि- बदित्यत्रेव निर्दिश्यमानत्वाभावादादेशाप्रवृत्तेरिति भावः । ननु भवत्वित्यादाविकारोकारयोः एरुरितिशास्त्रस्थषष्ठीप्रतिपाद्यस्था- न्यादेशभावेऽपि इकारे तिङ्त्वाभावात्तिशब्दस्यानुमानिकस्थानित्वेऽपि तस्य स्थानिवत्सूत्रेऽग्रहणेन तिङ्त्वस्याक्तपरिमाणनिष्ठत्वेन एकदेशविकृत- न्यायाप्रवृत्तेश्च तिङ्त्वाभावात्पदत्वानापत्तिरित्यत आह-एसरित्यादि । आर्द्धधातुकस्येवलादेरित्यत्र षष्ठ्या अवयवत्वार्थकतया तत्सूत्रकल्पितवा- क्यान्तरस्थैव षष्टी स्थानित्वार्थिका। अत्र तु अष्टाध्यायीस्थसूत्रघटक- षष्ठ्येव स्थानित्वबोधिका। इकारादिपदस्य तदन्ते लक्षणयैव समुदायस्य तितुरूपस्य स्थान्यादेशमावलाभादस्य स्थानिवत्सूत्रे ग्रहणम्भवतीति भावः । ननु स्थानिवत्सूत्रस्य प्रथमोपस्थितश्रौतस्थान्यादेशभावमादाय रामा- येत्यादौ चारितार्थेन लक्षणादिलब्धसमुदायस्थान्यादेशभावग्रहणे माना- भाव इत्यत आह-आदेशग्रहणसामर्थ्यादिति । अयम्भावः-पितृवद- धीत इत्यादौ पितृपदार्थस्य ससम्बन्धिकत्वात् पुत्रस्येव स्थानिवदित्येतनमा- अभावषष्ठान्येतानि भाट्टा वेदान्तिनस्तथा। सम्भवैतिह्ययुक्तानि तानि पौराणिका जगुः ॥ -तार्किकरक्षायां वरदराजमिश्राः ७६ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके सामर्थ्यात्तस्य स्थानिवत्सूत्रे ग्रहणेन न दोषः । आनुमानिकस्था- न्यादेशभावकल्पनेऽपि श्रोतस्थान्यादेशभावस्य नत्याग इति "अचा परस्मिन्" इत्यादेन सङ्गतिः । एतेन यदागमा इति परिभाषा स्थानिवत्सूत्रेण गतार्थेत्यपास्तम् । एतत्सर्वं 'दाधाध्वदाबि'ति सूत्रे भाष्ये स्पष्टम् ॥ १२॥ त्रोक्तावपि आदेशस्य लाभादादेशग्रहणमादेशमात्रग्रहणार्थन्तेनानुमानि- कस्यापि साक्षादष्टाध्यायीवोधितस्य ग्रहणं न तु अर्थापत्तिमूलकवाक्यान्त- रबोधितस्य तस्यातिविलम्बोपस्थितिकत्वादप्रधानत्वाच्चेति । न चानुमा- निकस्थान्यादेशभावकल्पने अज्मात्रस्थानिकादेशस्यासम्भवात् अचः पर- स्मिन्निति व्यर्थमित्यत आह-यानमानिकेत्यादि । इकुस्थाने यण- साधुः । परन्तु इदन्न युक्तम् । किन्तु इग्घटितस्य यणघटितस्साधुरित्येवं क्रमेण प्रक्रियानिहाय शाखाणामर्थकल्पनादिति भावः। एतेनेति । आगमस्थलीयस्थान्यादेशभावस्य स्थानिवत्सूत्रे ग्रहीतुमशक्यत्वेनेत्यर्थः । अपास्तमिति । अत्रोच्यते-न वयं स्थानिवत्सूत्रविषये नियमेन प्रवर्तते न प्रवर्तते वा निर्दिश्यमानपरिभाषेत्यभ्युपगच्छामोऽपि तु यस्य निर्दिश्य- मानत्वं तस्यादेशो भविष्यति यस्य न तस्यादेशो नेत्येव कल्प्यत इति । यदागमपरिभाषा च न मन्यते । स्थानिवत्सूत्रे च सर्वेषामादेशानां ग्रहणं क्रियते । निद्दिश्यमानत्वञ्च षष्ठीप्रकृतिविशिष्टत्वम् । वैशिष्ट्यश्च स्वजन्यो- पस्थितिविषयत्वस्वजन्योपस्थितिविषयसमभिव्याहृतवर्णाघटितत्वोभयस- म्बन्धेन । अपिबदित्यत्र नदोषः। तत्र पाघ्राधमेतिसूत्रस्थषष्ठीप्रकृतिपाविशि- ष्टत्वं पाशब्दस्यैवेति तस्यैव पिवादेशः । स्वजन्योपस्थितीयविषयताश्रयत्व- मस्ति पाशब्दस्य । स्वजन्योपस्थितीयविषयताश्रयः पा, तत्समभिव्याह- तोऽकारस्तद्घटितत्वमपाशब्दस्याघटितत्वं तस्येति समन्वयः । तिसृणा- मित्यत्र च षष्ठीप्रकृतिः । ब्रेस्त्रय इति सूत्रस्था त्रिरूपा तज्जन्योपस्थिति- विषयताश्रयत्वं तिसृशब्दस्य तत्समभिव्याहत उदासीनस्तदघटितत्वमपि तिसृशब्दस्यैवेति प्राप्तस्त्रयादेशः सकृद्गतिन्यायेन वारितो भाष्य इति सर्व समञ्जसम्। नन्वेवं देवीमञ्चति देवव्यङित्यत्र विष्वग्देवयोश्च टेरित्यनेन देवी- शब्दावयवटेरद्र्यादेशो न स्यादवयवषष्ठीविषयेप्यस्याः प्रवृत्तेवपदीयनि- १२. यदागमास्तद्गुणीभूताः ] विजयालङ्कृतः [७७ दिश्यमानावयवटेरेवाञ्चतौ परे अत्यादेशेन देवीशब्दस्य निर्दिश्यमानत्वा- भावात् । यद्यपि लिङ्गविशिष्टपरिभाषया देवग्रहणेन देवीशब्दस्यापि ग्रह- णात् षष्टीप्रकृतिवशब्दस्तजन्योपस्थितीयविषयताश्रयत्वं देवीशब्दस्य, परं स्वजन्योपस्थितीयविषयताश्रयो देवशब्दस्तत्समभिव्याहृत ईकारस्त- द्घटितत्वस्यैव सत्त्वात् । वर्णे स्त्रीप्रत्ययेतरत्वनिवेशे तु प्रकृते दोषाभावे- ऽपि अस्य स्त्री ई तस्या जरसौ ईजरसावित्यत्रापि समुदायस्य निहिश्यमा- नत्वापत्तिर्दुर्वारा। स्वजन्योपस्थितीयविषयताश्रयसमभिव्याहृतस्त्रीप्रत्यये- तरवर्णाघटितत्वादिति चेत्-न। द्वितीयसम्बन्धस्थाने स्वजन्योपस्थितीय- विषयताश्रयविशिष्टवर्णाघटितत्वस्य निवेशनीयत्वात्। वैशिष्ट्यञ्च स्वसम- भिव्याहृतत्ववप्रकृतिकस्त्रीप्रत्ययेतरत्वोमयसम्बन्धेन। देवीत्यत्र स्वजन्यो- पस्थितीयविषयताश्रयो देवस्तद्विशिष्टत्वमिकारस्य नास्ति । स्वसमभिव्या- हृतत्वेपि स्वप्रकृतिकस्त्रीप्रत्ययेतरत्वाभावात् ईजरसावित्यत्र चेकारस्य तद्विशिष्टत्वेन न दोषः । नन्वेवमपि जराया जरा जराजरा जराजरसावित्यत्रोपस्थितीयवि- षयताश्रयः पूर्वो जराशब्दस्तद्विशिष्ट उत्तरजराजकारस्तद्घटितत्वादुत्तर- स्य निर्दिश्यमानत्वाभावः। न च द्वितीयसम्बन्धस्थाने स्वजन्योपस्थितीय- विषयताश्रयावधिकपूर्ववर्णाघटितत्वसम्बन्धस्य निवेशादुत्तरस्य निर्दिश्य- मानत्वमक्षतमिति वाच्यं, त्रिशब्दादाचारविवन्तात् कर्तरि किपि तुकि आमि त्रितामित्यादौ उपस्थितीयविषयताश्रयस्त्रिशब्दस्तदवधिकपूर्वो वर्ण उदासीनस्तदघटितत्वं त्रिदित्यस्येति । तस्य निर्दिश्यमानत्वेन त्रया- देशापत्तेः । अथ स्वजन्योपस्थितीयविषयताश्रयत्वस्वजन्योपस्थितीय- विषयताश्रयविशिष्टवर्णाघटितत्वोमयसम्बन्धेन षष्ठीप्रकृतिविशिष्टत्वन्त- त्वम् । वैशिष्ट्यश्च स्वावधिकपूर्वत्वस्वनिष्ठोद्देश्यतानिरूपितावयवत्वाव- च्छिन्नविधेयताश्रयत्वैतदन्यतरसम्बन्धेन । जराजरसौ निर्जरसावित्यादौ समुदायस्य व्याघ्रपात्पद इत्यादौ पूर्वपाच्छब्दस्य च तत्त्वाभावाय पूर्वत्वनिवेशः। त्रितामित्यादौ तदभावायोद्देश्यताघटितो द्वितीय इति सर्वमवदातम् । नम्वेवमपि प्रतिषिश्चतीत्यादौ नुम्बिशिष्टस्य तन्मध्यपतितन्यायेन सि- चत्वेपि सिचुनिष्टोद्देश्यतानिरूपितावयवत्वावच्छिन्नविधेयताश्रयो नुम् तद्- घटितत्वेन निर्दिश्यमानत्वाभावात् षत्वानापत्तिरिति चेत्-न । अन्यतर- सम्बन्धघटकद्वितीयसम्बन्धस्थाने स्वसमभिव्याहृतत्वस्वनिष्ठोद्देश्यतानि- रूपितावयवत्वावच्छिन्नविधेयताश्रयत्वैतदुभयसम्बन्धेन स्वविशिष्टत्वस्य ७८ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके निवेशनीयत्वात्। नुमः सिच्समभिव्याहृतत्वविरहात् पूर्वपरयोरेव समभि- व्याहृतपदार्थत्वादिति चेत्-मैवम् । यतो व्याघ्रपदः सुपद इति समुदाये उपस्थितीयविषयताश्रयपरपाच्छब्दावधिकपूर्ववर्णघटितत्वेन पूर्वस्य पदादे- शाभावापत्त्याऽव्यवहितपूर्वत्वं सम्बन्धघटकं वक्तव्यम् । तथा चास्नात्वा- कालकं स्नात्वा कालकं कृत्वा स्नात्वाकालकीकृत्येत्यत्र मयूरव्यंसकादित्वा- स्नात्वाकालक इत्यत्र समासः। पश्चाचच्च्यन्तस्य गतित्वात् कुगतिप्रादय इति समासे पूर्वक्त्त्वाप्रत्ययस्यापि समासे नयपूर्वेत्यत्रत्यषष्ठीप्रकृतिक्त्वा- विशिष्टत्वान्निहिश्यमानत्वेन ल्यबादेशापत्तिय॑तः स्वजन्योपस्थितीयवि- पयताश्रयत्वमप्यस्ति स्वजन्योपस्थितीयविषयताश्रयः परस्तदव्यवहितपू- ववर्णाघटितत्वेन तद्विशिष्टवर्णाघटितत्वञ्चास्ति । ननु स्नात्वाकालक इत्यादौ ल्यपोऽभावाय स्नात्वाकालकादीनां प्रति- षेधो वक्तव्य इत्यनेन भाष्यवार्तिकेनैवात्रापि वारणं समासान्तरघटकत्वे- ऽपि स्नात्वाकालकत्वाविशेषादिति चेत्-न । वार्त्तिकप्रत्याख्यानायानब्- पूर्वपदकस्य क्त्वान्तसमासस्य ल्यवित्यर्थस्यभाष्यकृताश्रयणादत एव स्ना- त्वाकालकादीनां प्रतिषेधो वक्तव्य इत्युक्त्वा तदन्तनिर्देशासिद्धमित्युक्त- म् । तथा च प्रत्याख्यानपक्षे पूर्वक्त्वाप्रत्ययस्यापि ल्यवापत्तिः। क्त्वान्तस- मासावयवक्त्वापदीयनिर्दिश्यमानस्य ल्यवित्यर्थात् । अत्रोच्यते-आरम्भप्रत्याख्यानयोः फलभेदेनानभिधानमेवास्य । कि- ञ्च मयूरव्यसकादौ समासाथ स्नात्वाकालक इति निपातनमवश्यं कर्त- व्यम् । तेनैव ल्यबभावोऽपि भविष्यति । यत्तु स्नात्वाकालकेतिसमासप्रयोज्यस्यैव ल्यपोऽभावो निपातनाद्भ- विष्यति न स्नात्वाकालकीकृत्येतिसमासप्रयोज्यस्यापीति-तन्न । तादृश- विशेषाश्रयणाभावेपि बाधकाभावात् । अत एव युधिष्ठिरपुत्र इत्यत्र सप्त- म्या विशिष्टसमासप्रयोज्योऽपि हलदन्तात्सप्तम्या इति न लुक अनञ् इति पर्युदासादव्ययपूर्वपदात्परस्य क्तो ल्यबित्यर्थाद्वा ल्यवभावः । तदुक्तं भाष्ये समासनिपातनाद्वा अवश्यमत्र समासाथ निपातनं कर्त्तव्यम् । तेनैव यत्नेन ल्यबपि न भविष्यति । अनबो वा परस्य अथवा अनञः परस्य ल्यपा भवितव्यमित्यादि। यत्तु मयूरव्यंसकादयश्चेति चकारेणैतद्विहितसमाससंज्ञकानां समा- सान्तरे न प्रवेशोऽत एव परमाश्च ते मयूरव्यंसका इति वाक्यमेवेति स्ना- त्वाकालकघटितसमासस्यासाधुत्वान्नैतत्प्रयोग इति-तन्न । सजातीये क- मधारय एव । तेनाप्रवेशबोधनात् । अत एव प्रत्ययमात्रग्रहणे इत्यादि- । १२. यदागमास्तद्गुणीभूताः ] विजयाऽलङ्कृतः [ ७६ ग्रन्थकृत्प्रयोग उपपद्यते । किञ्चान्त्यबाधेऽन्त्यसदेशस्येति परिभाषयापि पूर्वस्य क्त्वो ल्यवभावः । न च प्रकृते नान्त्यस्य बाधो न वान्त्यसदेशस्याऽऽ- कारविनिम्मुक्तस्य क्त्वितिसमुदायस्य प्राप्तिरिति वाच्यम् । अन्त्यपदेन वर्ण- स्यैव विवक्षितत्वात् । तथा चान्त्यवर्णपर्याप्तोद्देश्यताककाऱ्यांप्रयोजके शास्त्रे अन्त्यसदेशस्येत्यस्योपस्थितिरिति परिभाषार्थः। अन्त्यसदेशस्येत्य- स्य नाभेदेन निर्दिश्यमानविशेषणत्वमपि तु आदेशे एवैकत्र द्वयमितिरी- त्याऽन्वयः । तथा चानपूर्वपदकस्य क्त्वान्तस्य समासस्यावयवो यः क्त्वापदीयनिर्दिश्यमानस्तत् स्थानिकत्वविशिष्टस्सन् अन्त्यसदेशस्थानिको ल्यबिति बोधः। अन्त्यसदेशस्य स्थानिता चापाप्ता । तथा च तथा ल्यप् भविष्यति यथा निर्दिश्यमानान्त्यसदेशोभयस्थाने स्यात् । स चान्त्यक्त्वा- प्रत्ययस्य ल्यबादेशे एवेति न पूर्वस्यादेशः। किञ्च षष्ठीप्रकृतिविशिष्टत्वं तत्त्वम् । तत्र वैशिष्ट्यनियामकद्वितीयसम्बन्धस्थाने स्वप्रयोज्यशाब्दबो- धीयविषयताविशिष्टवर्णाघटितत्वं निवेशनीम् । वैशिष्ट्यश्च वर्णे स्वाना- श्रयत्वस्वाश्रयसमभिव्याहृतत्वोभयसम्बन्धेन । स्नात्वाकालकीकृत्येत्यत्र क्त्वान्तसमासस्य ल्यबित्यर्थे क्त्वापदीयशाब्दबोधीयविषयतायास्समा- सान्ते क्त्वाशब्दे एव सत्त्वेन तदनाश्रयत्वस्य तदाश्रयसमभिव्याहृतत्वस्य च पूर्वक्त्वाप्रत्ययघटकवणे सत्त्वेन तघटितत्वस्यैव पूर्वस्मिन् सत्त्वेन न पूर्वस्य निर्दिश्यमानत्वम् । व्याघ्रपदः सुपद' इत्यत्र पादः पदितिसूत्रध- टकपाच्छब्दप्रयोज्यशाब्दबोधीयविषयताया एकस्या एवोभयत्र सत्त्वेन स्वानाश्रयत्वस्य पाच्छब्दावयवे अभावेनोभयत्र निर्दिश्यमानत्वोपपत्ति- रवच्छेदकभेदेनैव विषयताया भेदात् । अत एव सजुषस्सजुषौ सजूस्स- जुषौ ताभ्यां सजूस्सजूामित्यत्रोभयत्र निर्दिश्यमानत्वसिद्धिः। ससजु- षोरुरित्यस्य सजूशशब्दान्तपदस्य रुरित्यर्थेन पदनिष्ठविशेष्यतानिरूपि- तायास्सजूशशब्दत्वावच्छिन्नाया: शाब्दीयविषयताया एकस्या एवोभयत्र सत्त्वादवच्छेदकस्योभयत्रैकस्यैव सत्त्वेन विषयताभेदे मानाभावात् । न चापिबदित्यादावर्थवत्त्वावच्छिन्नविषयतया संकुचितायाः पात्वावच्छिन्न- विषयताया आगमविशिष्टे एव सत्त्वं न तु तद्रहिते तस्यानर्थकत्वात् । ततश्च शाब्दबोधीयविषयताविशिष्टोऽकारो न भविष्यतीति तादृशविषय- ताविशिष्टवर्णाघटितत्वेन उपस्थितीयविषयताश्रयत्वेन च विशिष्टस्यापि निर्दिश्यमानत्वापत्तिरेवमागमस्थले सर्वत्र बोध्यमिति वाच्यम् । स्वज- न्योपस्थितीयविषयताश्रयनिष्ठोद्देश्यतानिरूपितावयवत्वावच्छिन्नविधेयता- श्रयाघटितत्वरूपतृतीयसम्बन्धस्यापि स्वतन्त्रस्य निवेशेनादोषात् । न वा .] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके प्रतिषिञ्चतील्यत्र तादृशविधेयताश्रयनुमघटितत्वेन दोषावसरः । तादृशोप- स्थितीयविषयताश्रयविशिष्टवर्णाघटितत्वस्य विवक्षितत्वात् । वैशिष्ट्यञ्च स्वसमभिव्याहृतत्वस्वनिष्ठोद्देश्यतानिरूपितावयवत्वावच्छिन्नविधेयताश्र- यत्वोभयसम्बन्धेन । नुमस्समभिव्याहृतत्वाभावात् । एवञ्च यदागमपरि- भाषा निष्फलेति विभावयन्तु सुधियः । परे तु पचमान इत्यादौ तास्यनुदात्तेदिति स्वरार्थं, ऋकारस्य गुणवृद्धी अरारावेवेति नियमार्थञ्च, परिभाषावश्यकत्वमेव अकारान्तोपदिश्यमा- नत्वस्य गुणत्वस्य चाल्मात्रवृत्तिधर्मघटितत्वेन स्थानिवत्वाप्रवृत्तेरिति "वर्णप्रहणे न प्रवर्तत” इत्येतत्खण्डनखण्डनावसरे विस्तरेण प्रतिपादि- तमिति तत एव द्रष्टव्यमित्याहुः। ननु स्थाने द्विवचनरूपपदद्वित्वे जराजरसावित्यादौ स्थानिवद्भावेन समुदायस्यापि जरात्वात् शाब्दबोधीयविषयताया उत्तरजराशब्दे इव समुदायेपि तस्या एव सत्त्वेन पूर्वजराऽऽकारस्य तादृशविषयताश्रयावधिक- पूर्वत्वेऽपि स्वानाश्रयत्वाभावेन विषयताविशिष्टत्वाभावेन विशिष्टवर्णाघटि- तत्वेन समुदायस्यादेशापत्तिः। नन्वयं प्रयोगोन सम्भवति । हलङ्यादिलोपे जरेतिपदस्य समुदायस्यानस्तमितावयवकत्वेन भागद्वयस्य सुबन्तत्वेन समासग्रहणनियमेन स्थानिवद्भावेन प्रत्ययान्तत्वाच्च प्रातिपदिकत्वाभा- वात्ततो विभक्त्युत्पत्त्यसम्भवात् । न च तस्य कृतद्वित्वस्य परमादिना समासं कृत्वा एकशेषेण परमजरा जरा औ इत्यादौ दोष इति वाच्यं, यत्किञ्चिन्निरूपितव्याप्यताया एव वीप्सापदार्थतया वीप्सितस्य व्यापके अन्वयनियमेन परमादिनाऽसामर्थ्येन समासाप्राप्तरिति चेत्-न । अतिश- यिता जराजरा अतिजराजरा इत्यत्र अत्यातिशयं प्रत्येव वीप्सितत्वेन तत्रैवान्वयेन समासस्य द्वित्वस्य चोपपत्त्या पश्चादेकशेषे अतिजराजरसा- विति प्रयोगस्योपपादनसम्भवादिति चेत्-मैवम् । समुदायादेशस्यैवेष्ट- त्वात्। न च तत्र विशिष्टस्य नेष्यत आदेशोऽत एव जराया इति सूत्रे प्रतिपत्तिलाघवाय जराया असुङ् न कृतः, त्रेस्त्रय इति सूत्रे त्रेरयङिति न कृत इति शेखरकृतोक्तं सङ्गच्छते। अन्यथा पदद्वित्वस्थले समुदायस्य जरसादेशे अतिजरसाविति असुङादेशेऽतिजराजरसाविति । एवं पदद्वि- त्वस्थले समुदायस्य त्रयादेशेऽतित्रयाणामिति अयङादेशेऽतित्रित्रयाणा- मिति प्रयोगभेदरूपदोषसत्त्वे लाघवपर्यन्तानुधावनस्य ग्रन्थकृतोऽसङ्ग- त्यापत्तेरिति वाच्यम् । पदद्वित्वस्थलापर्य्यालोचनेनैव तद्ग्रन्थस्य सत्त्वात् त्रिशब्दस्य बहुवचनान्तस्य पदस्य द्वित्वे स्थानित्वेन त्रयः इति तदादेशस्य , १३. निर्दिश्यमानस्यादेशाः ] विजयाऽलङ्कृतः [८१ नन्वेवमुदस्थादित्यादौ 'उदः स्थास्तम्भोः पूर्वस्य' इति पूर्वसव- पत्तिरत आह- निर्दिश्यमानस्यादेशा भवन्ति ॥१३॥ त्रयः त्रयः इति समुदायस्य स्थानिवद्भावेन त्रिशब्दत्वालाभाच । न चाश- वचनं साकच्कार्थम् , इमोऽ: इत्येव सिद्ध कादेशः साकच्कार्थ इति भाष्या- दिग्रन्थविरोधः पदद्वित्वस्थले फलभेदादिति वाच्यम् । साकच्कार्थमित्यस्य पदद्वित्वस्याप्युपलक्षकत्वात् । अन्तरङ्गत्वात् कादेशे कृते द्वित्वप्राप्त्या समुदाये स्थानिवद्भावेन किम्शब्दत्वालाभाच्च। पादः पदितिसूत्रेणोपधाया हस्वत्वं वक्तव्यमन्यथा द्विपदः पश्येत्यादौ समुदायस्यादेशापत्तिर्न वक्त- व्यम् । निर्दिश्यमानस्यैवादेशादित्यर्थकभाष्यविरोधः । पदद्वित्वस्थले व्या- ध्रपात्पद इति ह्रस्वपक्षे, निर्दिश्यमानस्यादेशपक्षे च व्याघ्रपद इति फल- भेदात् इत्यपि न वाच्यम्। वार्तिकस्य द्विपद इत्यादौ समुदायादेशाभावरूपं यत् प्रयोजनं तस्य निर्दिश्यमानपरिभाषया अन्यथासिद्धिप्रतिपादनमात्रपरं हि तद्भाष्यम् । न तु ह्रस्वकरणे दोषो नास्तीत्यत्र तात्पर्यन्तद्भाष्यस्येति कल्पनात् । तथा च द्विपद' इत्यादौ विशिष्टस्य निर्दिश्यमानत्वाभावेनादे- शाप्राप्तः । पदद्वित्वस्थले दोषाच ह्रस्वत्वन्न वक्तव्यमिति फलति । अत एव व्याघ्रपाच्छब्दाणिजन्ताक्तिपि णिलोपटिलोपयोः शसि निर्दिश्यमा- नस्य पदादेशे व्याघ्रपदः ह्रखे व्याघ्रप इति फलभेदोद्भावनमपि न युक्तम् । तत्र दोषस्यैव सत्त्वात् । णिलोपस्य स्थानिवद्भावेपि तत्पूर्वभागस्य पाच्छ- ब्दान्तभत्वानपायात् सूत्राप्रवृत्तेर्वक्तुमशक्यत्वात् बहुव्रीहावेव कृतसमा- सान्तत्वेन तत्रच समासैकदेशस्य वीप्सितत्वासम्भवाच्च । भाष्यप्रामाण्यात तादृशलक्ष्याणामनभिधानकल्पनाञ्च । एतेन निरुक्तदोषैः पदद्वित्वस्थले विशिष्टस्य निर्दिश्यमानत्वं नैवेष्यत इति केन चिदुक्तन्तु-अविचारर- मणीयम् । येन विधिः, यदागम इत्युभयबोधितस्थानित्वप्रतिषेधमात्रफ- लिका निर्दिश्यमानपरिभाषेत्यस्य अनया परिभाषया येन विधिरितिसूत्रे- त्यादिवक्ष्यमाणग्रन्थकारोक्त्या स्पष्टं लाभाच्चेति दिक् । निर्जरसावित्यादी जरेति ह्रस्वान्तस्य स्थानिवद्भावेन जरात्ववत् पदद्वित्वस्थलेऽपि स्थानि- बद्भावेन विशिष्टस्य जरात्वसत्त्वेन वैषम्ये बीजाभावाच्च ।। १२ ॥ ६ ८२] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके 'षष्ठी स्थाने योगा' इति सूत्रमावर्त्तते । तत्र द्वितीयस्यायमर्थः । षष्ठ्यन्तं निर्दिश्यमानमुच्चार्यमाणमुच्चार्यमाणसजातीयमेव निर्दिश्य- . नन्वेवमुदस्थादित्यादाविति । यदागमपरिभाषायाः स्वीकारे अ- स्थेत्यस्यापि तया स्थात्वादिति भावः। सत्याञ्चास्यां निर्दिश्यमान एवोदः परत्वस्यान्वयेनोदस्थादित्यत्राकारेण व्यवधानान्न दोष इति बोध्यम् । ननू- दस्थेतिसूत्रे लुप्तषष्ठयन्तसकारस्य प्रश्लेषेणोदः परस्य स्थास्तम्भसम्बन्धि- सकारस्येत्यर्थेन न दोष इति चेदुदस्थादिति निर्जरसावित्यस्योपलक्षणम्। तत्र तदन्तविधिना समुदायस्य जरसादेशापत्तिः । न च जराया इत्यादेरपि अङ्गस्येत्यवयवषष्ठयाजादिविभक्त्यव्यवहितपूर्वस्याङ्गावयवस्य जराशब्दस्य जरसित्यर्थेन न दोषः। न च सम्भवति सामानाधिकरण्ये वैयधिकरण्य- स्यान्याय्यत्वान्नैवमिति वाच्यम् । सत्यामपि परिभाषायां जराशब्दान्ता- गावयवस्य निर्दिश्यमानस्येत्यर्थेन वैयधिकरण्यान्वयस्यावश्यकत्वादिति वाच्यम् । तावताप्याचारक्विन्तप्रकृतिककर्तृकिवन्तत्रितशब्दादामि त्रिता- मित्यादौ यदागमन्यायेन त्रितशब्दस्य त्रिशब्दत्वात् आमव्यवहितपूर्वत्वाच्च विशिष्टस्यादेशापत्तेः। न च यदागमपरिभाषाया लक्षणाग्राहकत्वेन त्रिशब्दस्य त्रिशब्दविशिष्टे लक्षणया त्रिशब्दादुपस्थितत्रिशब्दविशिष्टैकदेशे त्रिशब्दे एवामव्यवहितपूर्वत्वस्यान्वयेनामव्यवहितपूर्वत्वविशिष्टो यस्त्रिशब्दस्तद्वि- शिष्टस्य त्रयादेश इत्यर्थेन न दोष इति वाच्यम् । अपिबदित्यत्र तावता- प्यनिस्तारात् परिभाषाया आवश्यकत्वात् । सूत्रकारमते षष्ठयाः स्थानपदार्थानुयोगिकसम्बन्धार्थकत्वाय सूत्रस्या- वश्यकत्वेनावृत्त्या द्वितीयार्थमाह-षष्ठी स्थाने योगेति सूत्रमावर्तत इत्यादिना । भाष्यमते तु राज्ञः पुरुष इत्यादौ पदान्तरसमभिव्याहारात् ष- प्ठ्याः स्वत्वार्थकत्वस्येव इको यणचीत्यादावपि यणादिपदसमभिव्याहा- रादेव षष्ठ्याः स्थानार्थकत्वलाभात षष्टी स्थानेतिसूत्रं निर्दिश्यमानस्यादेशा इत्यर्थकमेव । तन्मते आवृत्त!पयोगः । प्रत्ययग्रहणे तदन्तग्रहणादाह-षष्ठ्यन्तमिति।ननुषष्ठ्यन्तंजराया इति समुदायो न तस्य स्थानेन योग इति चेत्-न । अन्तशब्दस्य परसमीप- बोधकतया षष्टी अन्त: परसमीपो यस्येत्यतद्गुणसम्विज्ञानबहुव्रीहिणा षष्ठीप्रकृतिरूपार्थस्य लाभात् । वस्तुतस्तु सूत्रे यतस्सेल्यध्याहारेण यतः षष्ठी सा स्थाने योगेत्येवार्थः १३. निर्दिश्यमानस्यादेशाः ] विजयाऽलङ्कृतः [ ८३ मानावयवरूपमेव वा स्थानेन स्थाननिरूपितसम्बन्धेन युज्यते न सम्यक् । षष्ठ्यन्तं स्थाने योगेत्यनयोरभेदे समानलिङ्गकत्वस्यौचित्यात् । प्रत्ययग्रहणे तदन्तग्रहणमित्येतललब्धस्यान्तपदस्य परसमीपवोधकत्वेऽत- द्गुणम्विज्ञाने चातिप्रसङ्गात् निर्दिश्यमानस्येत्यध्याहारस्यानुपयोगाच्च। निर्दृिश्यमानमिति । इदमध्याहारलब्धम् । ननु षष्ठीप्रकृतिः सूत्रे उच्चार्यते न तस्याः स्थाने अपि तु तद्बोध्यस्ये- त्यत आह-उच्चार्यमाणसजातीयमेवेति । ननु सूत्रे उच्चाय॑माणस्यादेशासम्भवादाह-उच्चाय॑माणसजा- तीयमेवेतीति केनचिदुक्तन्न युक्तं, पञ्चम्या असङ्गतेः । उच्चाय॑माणमि- त्यसङ्गतमित्यत इति शेषेण कथञ्चित् लापने तु न विद्वेषः । एवकारेण सूत्रे उच्चाय॑माणस्य व्यावृत्तिः साजात्यञ्च समानानुपूर्वीकत्वेनेति बोध्यम् । ननु अयोगवाहानां वर्णसमाम्नाये पाठाभावे विसर्गस्यालत्वाभावेन अलोन्त्यस्येत्यस्याप्रवृत्ती विसर्जनीयस्य स इत्यनेन पदाधिकारात्तदन्तवि- धिना विसर्जनीयान्तस्य पदस्य सत्वमित्यर्थकेन वृक्षस्तत्रेत्यादौ समुदाय- स्थानिकसत्वापत्तेः निर्दिश्यमानपरिभाषया वारणपरभाष्यासङ्गतिः । वि- न्दुद्वयात्मकविसर्गस्य विसर्जनीयपदसजातीयत्वाभावात् । किञ्च तदोस्स- स्सावनन्त्ययोरित्यत्र त्यदादीनाम इत्यतस्त्यदादिपदसम्बन्धेनाङ्गाधिकारेण च त्यदाद्यन्तं यदङ्गन्तवयवस्य त्यदादिपदीयनिर्दिश्यमानस्य योऽवय- वोऽनन्तस्तकारो दकारश्च तस्य सत्वमित्यर्थः । अत एवातिस इत्यादावा- दितकारस्य न सत्वम् । तस्य त्यदादिपदीयनिहिश्यमानावयवत्वाभावात्। तत्र तच्छब्दस्य त्यदादिपदसजातीयत्वाभावेन निर्दिश्यमानत्वाभावः। न वा • तस्य स्थानेन योगोऽपि तु तदवयवस्यैवेत्यत आह-निर्दृिश्यमानावय- वरूपमेव वेति । षष्ठीप्रकृतिजन्यप्राथमिकोपस्थितीयविषयताश्रयावयव- मेवेत्यर्थः। ननु तर्हि षष्टीप्रकृतिजन्योपस्थितीयविषयताश्रयस्य निर्जरसावित्यादौ जरशब्दस्य स्थाने योगो न स्यात् अपि तु तदवयवस्यैवेति चेत्-न। व्यप- देशिवद्भावेन स्वस्यापि स्वावयवत्वात् वृक्षप्रचलन्यायेन समुदाय एवादेश प्रवृत्तेः । यद्वा षष्ठीप्रकृतिजन्योपस्थितीयविषयताश्रय एव स्थानेन युज्यते परन्तु स्थानषष्ठीस्थले साक्षात् स्थानषष्ठीप्रकृत्यर्थान्वय्यवयवषष्ठीस्थले स्वा- वयवद्वारेति बोध्यं निर्दृिश्यमानावयवरूपमेवेति प्रतीकमुपादाय । अयं ८४ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके प्रतीयमानमिति । तेनेदं सिद्धम् । न च 'अस्य च्या वित्यादौ दीर्घाणा- मादेशानापत्तिस्तेषां निर्दिश्यमानत्वाभावादिति वाच्यम् । जातिपक्षे दोषाभावात् । किञ्च 'न भूसुधियोः' इति निषेधेन ग्रहणकशास्त्रगृही- भावः । सर्वा अपि सूत्रघटकषष्ठीप्रकृतयः साक्षात् स्वावयवमात्रघटितप- रंपरया वा स्थानेन युज्यन्त इतिसूत्रार्थादिति केनचिदुक्तं न युक्तम् । आ- गमशास्त्रघटकषष्ठीप्रकृतेस्तथात्वाभावात् । स्थानषष्ठीमात्रविषयकत्वे स्वा- वयवेत्याद्यसङ्गतेश्च । न प्रतीयमानमिति । द्वितीयोपस्थितीयविषयता- श्रयो न स्थानेन युज्यत इत्यर्थः । येन विधिसूत्रसहकारेण तदन्तस्य यदाग- मपरिभाषासहकारेण सागमस्योपस्थितिहि स्वरूपोपस्थित्यनन्तरं द्वितीयो- पस्थितिरिति तदन्तस्य सागमस्य च स्थानित्वाभावः। तथा च शास्त्रान्तरा- सहकारेण षष्ठीप्रकृतिजन्योपस्थितीयविषयताश्रयत्वनिर्दिश्यमानत्वमिति फलति । न च शालीभवति मालीभवतीत्यादावाकारस्य अस्य च्वाविति सूत्रस्थापदेनाणुदित्सूत्रसहकारेणैवोपस्थितत्वान्निर्दिश्यमानत्वाभावेनेत्वाना- पत्तिरित्यत आह-न चास्य च्वावित्यादाविति। जातिपक्षे दोषाभा- वादिति । तस्मिन् पक्षे अपदस्यात्वजात्यवच्छिन्ने शक्तत्वेनाणुदित्सूत्रस्य प्रत्याख्यानात् शास्त्रान्तरासहकारेणैव दीर्घस्याप्युपस्थितिरिति भावः । व्यक्तिपक्षेऽपि समाधानमाह-किञ्च न भूसुधियोरिति । भुवौ भुव इत्यादौ सुधियौ सुधिय इत्यादौ च दीर्घोकारेकारयोर्व्यक्तिपक्षे ओः सुपी- त्यत्रोपदेन एरनेकाच इत्यत्रेपदेन ग्रहणकशास्त्रसहकारेणैवोपस्थितत्वेनानि- द्दिश्यमानत्वाद्यणोऽप्राप्तौ न भूसुधियोरिति निषेधसामादुक्तलक्षणे शास्त्रान्तरपदे ग्रहणकशास्त्रातिरिक्तत्वेन सङ्कोच इति बोध्यम्। इदमुपलक्षणं शास्त्रान्तरस्यापि कस्य चिद्भेदस्य निवेशयिष्यमाणत्वात् । यत्तु केनचित् भूसुधीशब्दयोन्नपुंसकह्रस्वत्वे चारितार्थ्यमुक्तं-तन्न युक्तम् । तत्र यणपेक्षया परत्वेन नुम एव प्रवृत्तेः। यदपि तत्रैव तेनोक्तं दीर्घभूशब्दसाहचर्येण दीर्घान्तसुधीशब्दस्यैव तत्र सत्त्वेन तत्रेयङ्- निर्देशासङ्गत्या ज्ञापनमिति-तदपि न । तन्निद्देशेनानित्यसाहचर्य्यपरिभा- षानाश्रयणस्यापि ज्ञापनसम्भवात् । न च भवति यत् कुलम् तद्भुकुलम् । परमं भुकुलं ययोस्तौ परमभुवावित्यादौ चारितार्थ्यम् । न च परमस्य गतिकारकेतरत्वान्न यण् तत्र प्राप्नोति गतिकारकेतरपूर्वस्य यणनेष्यत इति निषेधात् । एवं परमसुधियावित्यत्रापि बोध्यमिति वाच्यम् । तथापि आ १३. निर्दिश्यमानस्यादेशाः ] विजयाऽलङ्कृतः [८५ भवति या संध्यायति यत् कुलन्तदाभु, आसंधि, आ आभु, आ आसंधि, ययोः तो आभुवौ प्रासंधियावित्यादौ परादिवद्भावेन गतिपूर्वपदकत्वस्यैव सत्त्वेन यणः प्राप्तेस्तनिषेधाय चारितार्थ्यादिति वाच्यम् । ह्रस्वो नपुंसके प्रातिपदिकस्येत्यनेनाच्पदीयनिर्दिश्यमानस्यैव ह्रस्वत्वेन दीर्घस्याच्पदीय- निर्दिश्यमानत्वाभावेन ह्रस्वत्वाप्राप्तेस्तस्माज्ज्ञापकत्वं युक्तमेवेति दिक् । तथा च ग्रहणकशास्त्रातिरिक्तशास्त्रसहकारेण षष्ठीप्रकृतिजन्योपस्थितीयविषय- ताश्रयत्वन्तत्त्वमिति बोध्यम् । न च जरारूपषष्ठीप्रकृत्या स्वरूपशास्त्रसह- कारेणैव जराशब्दस्योपस्थितत्वेन तस्यापि निर्दिश्यमानत्वानापत्तिः। एवं निजरसावित्यादावपि स्थानिवत्सूत्रसहकारेणैव जरशब्दस्योपस्थितत्वम् । एवं देवीमञ्चति देवाडित्यादौ विष्वग देवयोरित्यत्रत्यदेवपदेन प्राति- पदिकग्रहणे लिङ्गविशिष्टस्यापीत्येतत्सहकारेणैव देवीशब्दस्योपस्थितिरिति तेषामप्यनिर्दिश्यमानत्वापत्तिः। किमः क इत्यत्रत्यकिम्पदीयनिर्दिश्यमा- नत्वमकविशिष्टककिम्शब्दस्य न स्यात् , तन्मध्यपतितन्यायसहकारेणैवो- पस्थितत्वादिति वाच्यम् । अणुदित्सूत्रातिरिक्तत्वस्येव स्वरूपस्थानिवत् प्रातिपदिकग्रहणे तन्मध्यपतित एतदतिरिक्तत्वस्यापि शास्त्रे निवेशनीय- त्वात् । वस्तुतस्तु येन विधियेदागमा इत्येतच्छास्त्रद्वयासहकारेण षष्ठीप्रकृ- तिजन्योपस्थितीयविषयताश्रयत्वन्तत्त्वम् । अत एव अनया च परिभाषया येन विधिरितिसूत्र इत्यादि वक्ष्यते मूले। यत्पद्घटितत्वेन बोभयोः प्रवेशः। यद्यपि भाष्ये यदागमपरिभाषाया यत्पदघटितत्वन्नास्ति तथापि यत्पदं प्रवेश्य तथा वक्तुं शक्यते । नन्वेवं जराया जरा जराजरा ततो द्विवचने जराजरसावित्यादौ पूर्व- स्यापि जराशब्दस्य निरुक्तनिर्दिश्यमानत्वापत्तिः । न च विभक्त्यव्यवहि- तपूर्वत्वस्य निर्दिश्यमान एवान्वयान्नादेशापत्तिरिति वाच्यम् । प्रत्ययस्या- नांशे एवान्वयस्य शेखरकृता व्यवस्थापनात् । पादः पदितिसूत्रे निमि- त्तस्यानुपादानेन व्याघ्रपात्पद इत्यादी गतिविरहाच्च । स्वमते आक्षिप्तस्य शाब्दबोधे भानाभावाच्च । संज्ञासूत्राणां पदैकवाक्यतयाऽन्वयाबोधाचेति चेत्-न । स्वजन्योपस्थितिविषयताश्रयत्वस्वजन्योपस्थितीयविषयताश्रय- समभिव्याहृतवर्णाघटितत्वोभयसम्बन्धेन षष्ट प्रकृतिविशिष्टत्वन्तत्त्वमि- त्याशयात् । विस्तरेण पूर्वपरिभाषायामेवोक्तमिति तत्रैव द्रष्टव्यम् । यत्तु षष्ठीप्रकृतिविशिष्टत्वं तत्त्वं वैशिष्ट्यञ्च स्वप्रयोज्यशाब्दबोधीय- विषयत्वाश्रयत्वस्वप्रयोज्यशाब्दबोधीयविषयताश्रयाघटितत्वोभयसम्बन्धे- नेत्युक्तम्-तन्न । पदद्वित्वस्थले विशिष्टस्यादेशानापत्तेः। विशिष्टस्य निर्दि- ।

८६ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके श्यमानत्वाभाव एवेष्यत इति तु पूर्वपरिभाषायामेव खण्डितम् । अवशिष्टं विचार्य्यते । यदागमपरिभाषया आगमिवृत्तिधर्मस्य सागमे आरोपो बोध्यते न तु शास्त्रघटकतत्तत्पदानां स्वशक्यविशिष्टे लक्षणा । तत्तच्छा- स्त्राणामधिकार्थविषयकबोधजनकत्वेन तत्तत्पदजन्योपस्थितीनामधिकल- क्ष्यार्थविषयाणां कारणत्वेन च गौरवात् । ततश्च पाघ्राध्मेत्यादिसूत्राणां विशिष्टरूपोपादानसत्त्वादर्थवत्परिभाषयाऽर्थवतः पाधातोः पिबादेशः,अर्थ- बतस्त्रिशब्दस्य त्रयादेशः, अर्थवतः स्थाशब्दस्य पूर्वसवर्ण इत्यर्थः । ततश्च अपिबत् त्रिताम् उदस्थादित्यादौ प्रागमिनोऽनर्थकत्वेनार्थवत्पात्वावच्छि- नशाब्दबोधीयविषयताया अभावेन तद्घटितस्यापि सागमस्यापेत्यादेः स्वप्रयोज्यशाब्दबोधीयविषयताश्रयत्वेन पिवाद्यादेशापत्तिर्वज्रलेपायते । स्वप्रयोज्यशाब्दबोधीयविषयता अर्थवत्त्वासङ्कचितैव गृह्यते । सा चापि- बदित्यत्रागमरहितेऽपि वर्तते । तद्घटितत्वाद्विशिष्टस्य न निर्दिश्यमानत्व- मित्यपि न युक्तम् । अर्थवत्त्वविषयतयानिरूप्यनिरूपकभावापन्नविषयता- निरूपकवाक्यार्थबोधीयविषयताया अर्थवत्त्वासंकुचिताया अप्रसिद्धः । यदपि षष्ठीप्रकृतिविशिष्टत्वन्तत्त्वं, वैशिष्ट्यञ्च स्वजन्योपस्थितीय- विषयताश्रयत्वस्वविशिष्टवर्णाघटितत्वोभयसम्बन्धेन । तत्र वैशिष्ट्य स्वजन्योपस्थितीयविषताश्रयाव्यवहितपूर्वत्वस्वप्रयोज्यशाब्दबोधीयविषय- ताश्रयान्तेतरत्वोमयसम्बन्धेन । अपिबत् निर्जरसावित्यादौ अकारस्य रेफस्य च स्वविशिष्टत्वेन समुदायस्य तद्घटितत्वेन पाजरयोश्चाघटितत्वे- नानिर्दिश्यमानत्वनिर्दिश्यमानत्वयोरुपपत्तिः । सजूस्सजूामित्यादौ पूर्व- सजूशशब्दसम्बन्धिषकारस्योपस्थितीयविषयताश्रयोत्तरसजूशशब्दाव्यव- हितपूर्वत्वेपि स्वप्रयोज्यशाब्दबोधीयविषयताश्रयपूर्वसजूशशब्दान्तत्वस्यैव सत्त्वेन तदितरत्वरूपद्वितीयसम्बन्धाभावात् तद्घटितत्वेपि पूर्वस्य निर्दि- श्यमानत्वोपपत्तिर्म च स्नात्वाकालकीकृत्येत्यादौ पूर्वक्त्वाघटकाकारस्य स्वप्रयोज्योपस्थितीयविषयताश्रयोत्तरक्त्त्वाऽव्यवहितपूर्वत्वरूपप्रथमसम्ब- न्धाभावेन द्वितीयसम्बन्धसत्त्वेऽपि विशिष्टत्वाभावात् तद्घटितत्वेऽपि पूर्वक्त्वाशब्दस्य निर्दिश्यमानत्वापत्तिरिति वाच्यं, कृग्रहणपरिभाषया कालकीकृत्वेति समुदायस्याप्युपस्थितीयविषयताश्रयत्वात् । त्रितामित्या- दावपि न दोषः । स्वजन्योपस्थितिविषयविशिष्टवर्णाघटितत्वस्यापि तृतीयसम्बन्धस्य निवेशनीयत्वात् । तत्र वैशिष्ट्यं स्वसमभिव्याहृतत्वस्व- निष्ठोद्देश्यतानिरूपितावयवत्वावच्छिन्नविधेयताश्रयत्वोभयसम्बन्धेन । आ- द्यसम्बन्धनिवेशात् प्रतिषिञ्चतीत्यादौ न दोषः । न च सुपदो व्याघ्रपद १३. निर्दिश्यमानस्यादेशाः ] विजयाऽलङ्कृतः [८७ तानां निद्दिश्यमानकार्यबोधनान्न दोषः । इयकुवङोर्डित्वं त्विवों- , , इत्यादौ पादः पदेतच्छास्त्रीयषष्ठीप्रकृतिजन्योपस्थितीया पाच्छब्दान्तत्वा- वच्छिन्नाऽपि विषयता तदाश्रयः पूर्वदकारादिसमुदायोऽपि तवधिक- पूर्वत्वं द्वितीयसम्बन्धश्च पूर्वस्मिन् पकारे तद्घटितत्वं पूर्वपाच्छब्दे इति तस्य निर्दिश्यमानत्वाभावादादेशानापत्तिरिति वाच्यम् । उपस्थितीयवि- षयतां विहाय तत्स्थाने शाब्दबोधीयविषयताया निवेशनीयत्वात्। तस्याश्च तादृशसमुदाय अभावादित्युक्तम्-तदपि न । पदद्वित्वस्थले विशिष्टस्य इष्टादेशानापत्तेः। अथ येन विधिरिति सूत्रं यदागमपरिभाषा चेत्युभयं लक्षणाग्राहकम् । आद्यं शास्त्रघटकस्याभेदेन विशेषणतात्पर्य्यकपदस्य तदन्तत्वावच्छिन्ने, अन्त्या च तत्तच्छास्त्रघटकपदस्य स्वशक्यविशिष्टे लक्षणां ग्राहयति । वैशिष्ट्यञ्च वेतरत्वस्वनिष्टोद्देश्यतानिरूपितावयवत्वा- वच्छिन्नविधेयताश्रयेतरत्वोभयसम्बन्धेन स्वविशिष्टाघटितत्वस्वघटितत्वो- भयसम्बन्धेन । ततश्च षष्ठीप्रकृतिशक्यत्वं निर्दिश्यमानत्वमिति निर्जरसा- वित्यत्र अपिबदित्यत्र च न विशिष्टस्य तत्त्वमिति न दोषः । प्रातिपदिक- ग्रहणे, तन्मध्यपतितः, स्थानिवत् , स्वरूपमित्येतत् सर्वं शक्तिग्राहकमिति तत्सहकारेणोपस्थिते सर्वत्र निर्दिश्यमानत्वसिद्धिः। जराया जरसौ जरा- जरसावित्यत्र पूर्वजराशब्दस्य निर्दिश्यमानत्वेऽपि अजादिविभक्त्यव्यव- हितपूर्वत्वाभावान्न दोषः । व्याघ्रपात्पदः स्नात्वा कालकीकृत्येत्यादौ दीक्षितोक्तदिशा अन्त्यबाधे अन्त्यसदेशस्येतिपरिभाषया च न पूर्वस्या- देशापत्तिः । पतिरिवाचरति पतित्, वृषलः पतित यस्याः सा वृषलपतित् । पूताः क्रतवो यया सा पूतक्रतुस्सा इवाचरति पूतक्रतुदित्यादौ विभाषा सपूर्वस्य, पूतक्रतोरैचेति सूत्राभ्यां पतिशब्दपूतक्रतुशब्दयोनकारैकारावा- देशौ स्याताम् । आगमरहितयोरुक्तनिर्दिश्यमानत्वस्य सत्त्वादिति तु न वक्तव्यम् । सर्वस्मिन् परिष्कारे तदोषयोः साम्यात् तदर्थमुपायान्तरा- नुशरणस्यापेक्षणात् । तथा हि-पूतक्रतुदित्यत्रोपसर्जनत्वात् नैकारः । द्वितीये पतिशब्दे इकारस्यापि प्रश्लेषेणेकारान्तपतिशब्दस्यैव ग्रहणात् न नकारः इति यदागमपरिभाषावतरणनिरूपणावसरे विस्तरेणाभिहितम् । एवं नाभिरिवाचरति नाभिदित्यत्र नाभिनभञ्चेत्यस्याप्रवृत्तयेऽपि यतनीयमेवेति बोद्धयमिति निर्दुष्टमेवेदमिति मैथिलवराः । इयहुव- डोर्डित्वं स्विति । अयम्भावः-नियौनिय इत्यादौ अन्यादेशार्थमेवादेशे ८८] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके डित्वं कृतमन्त्यादेशश्च य्वोरित्येतत्पदीयनिद्दिश्यमानस्यैव विधानेन सिद्ध एवेति ङित्वं व्यर्थम्-इति नाशंक्यम् । वोरिव धातोरपि धातुपदीय- निर्दिश्यमानत्वादृक्षप्रचलन्यायेन तस्य प्राप्तादेशव्यावृत्त्यर्थन्तस्यावश्यक- त्वादिति । नन्विदं न युक्तम् । जराया जरसन्यतरस्यामिति सूत्रस्य जराशब्दा- न्ताङ्गस्य जरसित्यर्थादङ्गपदीयनिर्दिश्यमानताया निजरसावित्यत्र निर्जर- शब्दे एव सत्त्वेनोक्तरीत्या समुदायस्यादेशापत्तिवारणाय षष्ठीप्रकृतिवि- शिष्टत्वं निर्दिश्यमानत्वं वाच्यम्। वैशिष्ट्यं च पूर्वोक्तसर्वमपरञ्च स्वविशिष्ट- स्थानषष्टीप्रकृतिजन्योपस्थितीयविषयताश्रयाघटितत्वम् । तत्र वैशिष्ट्यं वभिन्नत्वस्वघटितशास्त्रघटकत्वोभयसम्बन्धेन । ततश्च निर्जरसमुदाये अङ्गरूपषष्ठीप्रकृते: पूर्वोक्तसम्बन्धसत्त्वेपि वविशिष्टा प्रकृतिजरेति । तत्र वभिन्नत्वस्य स्वघटितं जराया जरसन्यतरस्यामिति सूत्रन्तद्घटकत्वस्य च सत्त्वात् तज्जन्योपस्थितीयविषयताश्रयो जरेति तदघटितत्वनास्तीति न निर्दिश्यमानत्वमिति न दोषः। एवमेव प्रकृते धातुपदीयनिर्दिश्यमानत्वं नियावित्यादौ नीशब्दस्य नास्ति । तत्र धातुरूपषष्ठीप्रकृतेः पूर्वोक्तसम्ब- न्धसत्त्वेऽपि नूतनसम्बन्धस्यासत्त्वात्। खं धातुस्तद्भिन्नत्वं यवोरस्ति स्वघटितमचिष्णुधातुभ्रवामिति शास्त्रन्तद्घटकत्वमप्यस्तीति स्वविशिष्टा षष्ठीप्रकृतिः यूइति तजन्योपस्थितीयविषयताश्रय ईकारस्तदघटितत्वा- भावादिति चेत्-न। निर्दिश्यमानत्वलक्षणे षष्ठीप्रकृतिपदेनाभेदसम्बन्धा- वच्छिन्नप्रकारतानिरूपितमुख्यविशेष्यत्वाप्रयोजिकाया एव ग्रहणेनाङ्गरू- पायास्तस्या अग्रहणेन निर्जरसावित्यादौ दोषाभावेन नूतनसम्बन्धनिवे- शस्यानावश्यकत्वमित्याशयेन तद्ग्रन्थस्य सत्त्वात् । मुख्यत्वञ्चाभेदस- म्बन्धावच्छिन्नप्रकारत्वासामानाधिकरण्यमेव । अङ्गपदप्रयोज्यविशेष्यता- यान्तादृशप्रकारत्वासामानाधिकरण्यात मुख्यत्वं धातुपदप्रयोज्यायाञ्चा- ङ्गपदप्रयोज्यविशेष्यतानिरूपिततादृशप्रकारतासामानाधिकरण्यान्न मुख्य- त्वमिति विशेष इति बोध्यम् । यत्तु केनचित् निर्दिश्यमानावयवेतरस्यादेशाभावोऽनया परिभाषया बोध्यते । अत एव मूले उक्तं निर्दिश्यमानावयवरूपमेवेति न तु निर्दिश्य- मानावयवेतरत् स्थानेन युज्यत इति हि तस्यार्थः । तथा च निरसा- वित्यादौ समुदायस्य जरापदीयनिर्दिश्यमानजरावयवेतरत्वान्न तस्यादेशो नियावित्यादौ च वोरित्येतत्पदीयनिर्दिश्यमानेकारावयवेतरत्वात् समु- दायस्यादेशाप्राप्त्या ङित्वं रीङो ङित्वमिव स्पष्टार्थमेव-इत्युक्तम्-तस्यापि १३. निर्दिश्यमानस्यादेशाः ] विजयाऽलङ्कृतः [८६ वर्णान्तश्नुधातुभ्रवामित्यर्थेन धात्वादीनामपि निर्दिष्टत्वादन्त्यादेश- त्वाय । रीड्रिडोर्डित्त्वं तु स्पष्टार्थमेव । एतेनेदं ङित्त्वं वर्णग्रहणे निर्दिश्यमानपरिभाषाया अप्रवृत्तिज्ञापकमित्यपास्तम् । हयवरटसूत्रस्थेनायोगवाहानामटस्पदेशेऽलोऽन्त्यविधिः प्र- योजनम् । वृक्षस्तत्र नैतदस्ति प्रयोजनं निर्दिश्यमानस्येत्येव सिद्ध- मदुक्तनूतनवैशिष्ट्यदानपरतयैव कथञ्चिल्लापनं युक्तम् । यथाश्रुतन्तु न विचारसहम् । तथा हि-यदि निर्दिश्यमानावयवत्वावच्छिन्नप्रतियोगिता- कसामान्यभेदो विवक्षितस्तदा धातोरपि अङ्गपदीयनिर्दिश्यमानावयवत्वेन दोषतादवस्थ्यं यत्किञ्चिन्निर्दिश्यमानावयवेतरत्वस्य जरापदीयनिर्दिश्य- मानेपि निर्जरसावित्यादौ सत्त्वेनादेशानापत्तिर्दुरा । एकशास्त्रघटक- त्वनिवेशेऽपि समन्वयासम्भवः । जराशब्दान्ताङ्गस्य जरसादेशो निर्दिश्य- मानावयवेतरस्य नेत्यर्थेन निजरसावित्यादौ जराशब्दस्यापि आदेशाना- पतिर्जराशब्दान्ताङ्गत्वाभावात् । जराशब्दान्ताङ्गावयवस्य जरापदीय- निर्दिश्यमानस्यादेश इत्यर्थस्य तु शब्दमर्यादयाऽलाभात् । किञ्च तच्छा- पघटकयत्किञ्चित्पदीयनिर्दिश्यमानस्यादेशस्तच्छास्त्रघटकतदितरपदीय- निर्दिश्यमानावयवेतरस्य नेत्यर्थेपि ज्वरत्वरेतिसूत्रेणोपधापदीयनिर्दिश्य- मानावयवस्य तच्छास्त्रघटकतदितरवपदीयनिश्यिमानावयवेतरत्वेनादे- शानापत्तिः। एवकारेण तु सूत्रे उच्चार्यमाणमेव व्यावय॑ते इत्यलं परदोषा- विष्करणेन। स्पष्टार्थमिति । न तु किश्चिदर्थज्ञापनद्वारापि सफलमिति भावः । एवेति । ज्ञापनेनापि साफल्यस्यासम्भव इति भावः । हयवरट्सूत्रस्थे- नेत्यादि । विसर्गस्यापि वर्णत्वेन तत्र त्वदुक्तरीत्या निर्दिश्यमानपरिभाषाया अप्रवृत्तौ निर्दिश्यमानस्येत्येव सिद्धमित्यस्यासङ्गत्यापत्तिरिति भावः । यदि च विसर्गस्य न वर्णत्वं ज्ञाप्यशरीरे वा वर्णत्वस्थानेऽल्त्वमेव प्रवेश्यते तदान भाष्यविरोधलेश इति चेत् फलाभावादेव ज्ञापनं न युक्तमित्यवेहि । न च शब्दानित्यत्ववारणायैरुरित्यस्येकारान्तस्योकारान्त आदेश इत्यर्थे भववित्यत्र एरित्येतत्पदीयनिर्दिश्यमानस्येकारमात्रस्योकारान्ततुशब्दा- देशाभाव एव फलमिति वाच्यम् । तत्र निहिश्यमानपरिभाषायाः प्रवृत्तौ शब्दानित्यत्वध्रौव्येण तदन्तपरतया व्याख्यानस्यैव व्यर्थत्वापत्तेः। आनु- ६० ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके मिति भाष्येण विरोधात । अनया परिभाषया 'येन विधि'रिति सूत्रबोधिततदन्तस्य स्थानित्वाभावबोधनं 'यदागमाः' इति लब्ध- स्य च । तेन सुपद उदस्थादित्यादिसिद्धिः । अनया च स्वस्व- निमित्तसनिधापितानाम'लोऽन्त्यस्य' इत्यादीनां समावेश एव न बाध्यबाधकभावो विरोधाभावात् । नाप्येतयोरङ्गाङ्गिभावः । उभ- योरपि परार्थत्वेन तदयोगात् । 'अनेकाल शित्' इति सूत्रे सर्वश्चै- तत्परिभाषाबोधित एव गृह्यते । मानिकस्थान्यादेशभावस्थले उक्तपरिभाषाया अप्रवृत्तिकल्पनात् । न च तदपि वर्णग्रहणे न प्रवर्त्तत इत्यनेनैव गतार्थमिति वाच्यम् । भस्य टेर्लोप इत्यादौ पथ्यादिसम्बन्धिटिघटितस्य लोपघटित आदेश इत्यर्थस्य शब्दा- नित्यत्ववारणायावश्यकत्वेन टेरित्यस्य वर्णग्रहणत्वाभावेन निर्दिश्यमान- परिभाषया पथ इत्यादौ टिमात्रस्य टिपदीयनिद्दिश्यमानस्य लोपघटित- पथित्यादेशापत्तेस्तत्कल्पनाया आवश्यकत्वात् । उकारमात्रस्यापि व्यपदे- शिवद्भावेनोकारान्तत्वादन्तरतमपरिभाषया तस्यैवादेशत्वेन दोषाभा- वाच्चेति दिक् । अनया परिभाषयेत्यादि । एतेन पदद्वित्वे समुदायस्य निर्दिश्यमा- नत्वाभाव इति वदन्तः परास्ताः । प्रकृतशास्त्रद्वयबोधितस्यैव स्थानित्वा- भावस्य परिभाषाफलत्वेनोपसंहारात् । समस्सुटीत्यादौ उदःस्थास्तम्भोरि- त्यादौ च समपदीयनिर्दिश्यमानान्त्यस्यादेः परस्य. स्थास्तम्भपदीयनिर्दि- श्यमानादेरित्यादिरीत्या समावेशसम्भवान्न बाध्यवाधकभावः । विरोधे हि बलीयसा दुर्बलो बाध्यत इत्युक्तरित्याह-अनया च स्वस्वनिमित्ते- त्यादि । नाप्येतयोरिति । अलोन्त्यनिर्दिश्यमानपरिभाषयोरित्यर्थः। तथा सति निर्दिश्यमानान्त्यस्याल् आदेश इत्यर्थापत्तौ अनेकाल्विषये निर्दिश्य- मानपरिभाषाया अप्रवृत्त्यापत्तिरिति भावः । परार्थत्वेनेति । विध्युपका- रार्थत्वादुभयोः । गुणानाञ्च परार्थत्वादसम्बन्धस्समत्वात् स्यादित्युक्तरिति भावः। ननु निर्दिश्यमानपरिभाषया निर्जरसावित्यादौ जराशब्दस्य, अनेकाल्परिभाषया जराशब्दान्ताङ्गस्यादेशो बोध्यत इति विरोधाबाध्य- बाधकभावः स्यादित्याह-सर्वश्चेति । एतत्परिभाषाबोधित इति ।

१३. निर्दिश्यमानस्यादेशाः ] विजयाऽलङ्कृतः [६१ यत्तु 'आदेःपरस्य' 'अलोऽन्त्यस्य' इत्येतावेव एतद्बाधकाविति- तन्न । उदस्थादिति सूत्रविषयेऽस्याः पादः पत्' इति सूत्रे भाष्ये सञ्चारितत्वात् । नाप्येतयोरियं बाधिका । एतयोनिविषयत्वप्रस- ङ्गादिति 'विंशते रिति सूत्रे कैयटः । अकविषये तु नायं न्या- निर्दिश्यमानपरिभाषाबोधित इत्यर्थः । निर्दिश्यमानस्य सर्वस्येत्यन्वयेन समावेश एवेति भावः । एतद्बाधकाविति । निद्दिश्यमानपरिभाषाया बाधकावित्यर्थः । उदस्थादिति । उदस्थादिति यः सूत्रस्यादेःपरस्येत्यस्य विषयस्तत्रेत्यर्थः। अस्याः। निर्दिश्यमानपरिभाषाया इत्यर्थः । सूत्रस्य बाधकत्वे हि तद्विषये बाध्यभूतायाः परिभाषायाः सञ्चारस्यायुक्तत्वमिति भावः। । यत्तु केनचिदुक्तं-उदः स्थास्तम्भोरितिसूत्रविषय इति-तन्न। तत्सूत्रवि- षयत्वप्रदर्शनस्येहोपयोगाभावात्। अकज्विषये तु नायन्न्याय इति । अकज्विशिष्टस्य स्थानित्वव्यावर्त्तकोऽयं न्यायो नेत्यर्थः। तथा चाणुदित्सू- त्रातिरिक्तत्वस्येव तन्मध्यपतितन्यायातिरिक्तत्वस्यापि निवेशो निर्दिश्यमा- नत्वलक्षणे इति बोध्यम् । अत्र ज्ञापकमनाप्यक इति सूत्रे अकग्रहणमन्यथा अकविशिष्टस्येदकम्शब्दस्येदम्पदीयनिर्दिश्यमानत्वाभावात् इदम्पदी- यनिर्दिश्यमानावयवो य इद् तस्यानादेश इत्यर्थकस्यानापीत्यस्य साकचि अप्राप्त्या अक इत्यस्य वैयर्थ्यमेव । ज्ञापिते तु साकचकस्यापीदम्पदीय- निर्दिश्यमानत्वेन तव्यावृत्त्यर्थन्तत् । न च तत्रेदम इत्यस्यावयवषष्ठय- न्तत्वेन स्थानषष्ठीविषयकनिर्दिश्यमानपरिभाषाया अप्रवृत्तिरिति वाच्यम् । अवयवषष्ठीविषयेऽपि तत्प्रवृत्तेर्वक्ष्यमाणत्वात् । अत एवाकविशिष्टस्यापि किमशब्दस्य कादेशसिद्धिः । न चैवं निर्दिश्यमानत्वाभावादकच्सहितस्य कादेशो न स्यादित्याशङ्कय किमः क इत्यस्यावृत्त्या समाधानपरशब्दे- न्दुशेखरविरोध वाच्यम् । कैयटमतेन तद्ग्रन्थस्य सत्त्वादत एव तत्रावृत्त्याश्रयणादोष इति कैयट इत्युक्तम् । न च भिन्धकीत्यत्राकचि धित्वं न स्यान्निर्दिश्यमानत्वाभावादित्याशंक्यान्तरङ्गत्वाद्धित्वेऽकजिति- भाष्य उक्तन्तद्विरुद्धयतेति वाच्यम् । धर्मिग्राहकमानात् साकच्का- नपहारके आदेशे नायन्न्याय इति कल्पनेनादोषात् । धित्वस्य कादेशस्य च साकचकापहारकत्वेन तद्विषये निर्दिश्यमानपरिभाषायाः प्रवृत्त्या ६२ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके यः स्थानिवद्भावेनेव तन्मध्यपतितन्यायेन तबुद्धधैव कार्य- जननात् इयञ्चावयवषष्ठोविषयेऽपि । अत एव 'तदोः सः सौ' इति सत्वम् । प्रतिस्य इत्यत्रोपसर्गतकारस्य न । निर्दिश्यमानयुष्म- दाद्यवयवमपर्यन्तस्यैव यूयादयो न त्वतियूयमित्यादौ सोपस- भाष्यस्य शेखरग्रन्थस्य चोपपन्नत्वात् । सर्वशब्दस्याकचि दाप्रत्यये सर्वकशब्दस्य निर्दिश्यमानत्वाभावेन सर्वस्य सोऽन्यतरस्यां दीत्यनेन सादेशाभावेन सर्वकदेत्येव । ज्ञापनादेव तच्छब्दस्याकचि निर्दिश्यमानत्वा- भावेऽपि साकचकानपहारकत्वेन निर्दिश्यमानपरिभाषाया अप्रवृत्तरत्व- सत्वयोः सक इति सिद्धम् । केचित्तु तिङश्चेत्यनेन तिङन्ततदादेरकविधानेन भिन्हिपर्याप्त- मुख्योद्देश्यतानिरूपितविधेयताश्रयत्वस्यैवाकचस्सत्त्वेन हिपर्याप्तमुख्यो- द्देश्यतानिरूपितविधेयताश्रयत्वाभावेन तन्मध्यपतितन्यायेन हकिशब्दस्य हिशब्दत्वासम्भवःस्वघटकपूर्वत्वस्वघटकपरत्वस्वपर्याप्तमुख्योद्देश्यतानि- रूपितविधेयताश्रयत्वैतत्रितयसम्बन्धन तद्विशिष्टत्वस्यैव तन्मध्यपतित- त्वपदार्थत्वात् । अत एव समासोत्तरजायमानायाः कमण्डलुपाणिं छा- त्रमद्राक्षीदित्यादौ कमण्डलुप्रकृतिकतृतीयायाः प्रातिपदिकानवयवत्वेन सुपो धात्विति लुगभाव उक्तः कैयटेनेति इत्थंभूतलक्षण इतिसूत्रस्थशेखरे उक्तम्। उद्देश्यताघटिततृतीयसम्बन्धस्यानिवेशे तु तन्न्यायेन विशिष्टस्य प्रा- तिपदिकत्वेन लुको दुर्वारत्वेन कैयटोक्त्यसङ्गत्यापत्तेः। तथा च हिशब्द- स्वाभावादेव भिन्धकीत्यत्राकचि धित्वन्न प्राप्नोतीत्युक्तं भाष्यकृता । न तु निर्दिश्यमानपरिभाषाबलादित्यस्य वक्तुं शक्यतया अकविषये सामा- न्यतोऽप्रवृत्तावपि न विरोधलेशः। अकविषयेऽपि सदेत्येव साध्वित्या- हु:-तन्न । हुझल्भ्यो हेर्धिरितिसूत्रभाष्यपालोचनया निर्दिश्यमानपरि- भाषाबलादेव वित्वाभावे भाष्यतात्पर्य्यावधारणात् । तत्र हि रुदिहि स्वपिहीत्यत्र धित्वमाशंक्य निर्दिश्यमानपरिभाषया समाधायोक्तं यद्येवं भिन्धकीत्यत्राकचि धित्वन्न प्राप्नोतीत्युक्तम् । यद्यवमिति प्रतीकमुपादाय निर्दिश्यमानस्यादेशा भवन्तीति स्वीकार इत्युक्तं कैयटेनापि । एतद्भाष्य- बलादेव मुख्योद्देश्यताघटितस्य तृतीयसम्बन्धस्य मध्यपतितत्वेऽप्रवेशोऽ- न्यथा तन्मध्यपतितत्वाभावादेव धित्वाप्राप्त्या निर्दिश्यमानपरिभाषास्वी- १३. निर्दिश्यमानस्यादेशाः ] विजयाऽलङ्कृतः [६३ र्गावयवमपर्यन्तस्येति बोध्यम् । 'पादः पदितिसूत्रे 'षष्ठी स्थाने' इति सूत्रे च भाष्ये स्पष्टषा ॥ १३ ॥ कार इत्यर्थकस्य यद्येवमित्यस्यासङ्गत्यापत्तः । लुगभावबोधककैयटस्तु चिन्त्य एवेति । नरं मन्य इत्यादाविच एकाचोऽम् प्रत्ययवच्चेतिसूत्रेण समासोत्तरविहितस्य नृशब्दप्रकृतिकस्यामोऽम्भावेन लुकमाशंक्याम्वि- धिसामर्थ्येन वारणं भगवता कृतमुपपद्यते अन्यथा समासीभूतनृमन्यश- ब्दनिष्ठमुख्योद्देश्यतानिरूपितविधेयताश्रयत्वसाम्यसत्त्वेन तन्मध्यपतित- त्वाभावेनाविधिसामर्थ्यप्रयुक्तलुगभावकथनस्यासङ्गत्यापत्तेः। धनवन्ता- वित्यादौ वत्वस्यासिद्धत्वेन पूर्वजातस्य नुमस्समुदायपर्याप्तमुख्योद्देश्य- तानिरूपितविधेयताश्रयत्वेऽपि मतुपपर्याप्तमुख्योद्देश्यताकत्वाभावेन मतु- वग्रहणेन मन्तेत्यस्याग्रहणेन मादुपधायाश्चेत्यस्याप्रवृत्त्या वत्वानापत्तेश्च । नन्वेवं जनं रातीति जनरेतिशब्दस्यापि मध्यपतितनकारत्वेन तन्म- ध्यपतितन्यायेन जरसादेशापत्तिस्तृतीयसम्बन्धनिवेशे तु नेति चेत्-न। अव्यवहितोत्तरत्वसम्बन्धेन जविशिष्टरात्वस्यैव जरात्वपदार्थतया तस्य प्रकृते कस्मिन्नपि क्षणेऽसत्त्वेन तन्मध्यपतितत्वाभावेन न्यायेन कथमप्या- नयनासम्भवात्। अन्ये तु तृतीयसम्बन्धघटकोद्देश्यतायां मुख्यत्वं न दीयते । तावतापि कैयटग्रन्थ उपपद्यते । उत्तरपदशब्दस्य समासचरमावयवार्थकत्वेन तद्- घटकसमासत्वावच्छिन्नविषयताया नृमन्यसमुदायपर्याप्तत्वेन तन्मध्य- पतितन्यायेन प्राप्तस्य लुकोऽविधिसामर्थेन वारणं सम्यगेव । कमण्ड- लुपाणिशब्दे च तृतीयानिष्ठविधेयतानिरूपितोद्देश्यतायाः कस्या अपि समुदायेऽसत्त्वेन न्यायाप्रवृत्तेः धनवन्तावित्यादावपि उगित्पदप्रयोज्य- विषयताया मतुपि सत्त्वेन तन्निष्टोद्देश्यतानिरूपितविधेयताया नुमि सत्त्वेन न्यायेन वत्वसिद्धौ बाधकाभावः। एवमेवाकचि धित्वन्न प्राप्नोतीत्यादावपि तिङ्प्रयोज्यविषयताया हिपदे सत्त्वेन न्यायेन हित्वस्य सत्त्वेऽपि निर्दिश्य- मानपरिभाषया आदेशाभावशंकाप्युपपद्यते । जनं रातीत्यादौ जरात्वस्य कथञ्चिदुपपादनेऽप्युद्देश्यतामात्रस्याभावेन न दोष इति साकच्कानपहारक इति कल्पनमेव युक्तम् । अत्र कस्यचिदन्यथाव्याख्यानन्तु अविचारितरमणीयमिति विभाव्य- तामित्याहुः।

ननु ६४ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके चेतेत्यादौ ह्रस्वस्येकारस्य प्रमाणत आन्तर्यादकारोऽपि स्यादत आह- यत्रानेकविधमान्तयं तत्र स्थानत आन्तयं बलीयः॥१४॥ अनेकविधं स्थानार्थगुणप्रमाणकृतम् । अत्र मानं षष्ठी स्थाने इत्यत एकदेशानुवृत्त्या स्थानेग्रहणेऽनुवर्तमाने पुनः 'स्थानेऽन्तर- तमः' इति सूत्रे स्थानेग्रहणमेव । तद्धि तृतीयया विपरिणमय्य वाक्यभेदेन स्थानिनः प्रसङ्गे जायमानः सति सम्भवे स्थानत उच्छृङ्खलास्तु अनाप्यक इत्यत्रत्याकग्रहणेन षष्ठ्यर्थावयवत्वमुप- लक्षणन्न तु विशेषणमित्येव ज्ञाप्यते। तावतैवाकविषये अनादेशप्राप्त्या चारितार्थ्यसम्भवात् । इदकम्शब्दावयवस्येच्छब्दस्यापीदमशब्दावयव- त्वेन दृष्टत्वात् । सक इत्यादौ अत्वसत्वयोस्सिद्धिश्च तकदित्येतदवयवत- कारस्य दकारस्य च त्यदाद्यवयवत्वेन दृष्टत्वात् धनवन्तावित्यादौ मकारस्य चमतुबवयवत्वेन दृष्टत्वाद्वत्वसिद्धिः। निद्दिश्यमानपरिभाषाया अकविषये- ऽपि प्रवृत्त्युपगमेन भिन्धकीतिभाष्यं शेखरग्रन्थश्चोपपद्यत इत्याहुः॥१३।। ननु चेतेत्यादाविति । प्रमाणत आन्तादित्यस्य कालकृतसाह- श्यादित्यर्थः। तथाच तालुस्थानजन्यत्वेन यथैकारस्सशस्तथा मात्राकालि- कत्वेनेकारस्याकारोऽपि सहश इति विनिगमनाविरहेण पर्यायापत्तिरिति बोध्यम् । मात्रिकत्वं विहाय मात्राद्वयन्यूनकालिकत्वपर्य्यन्तानुधावनं कस्यचित्तु वृथेति प्रतिभाति । पान्तर्यमिति।सादृश्यमित्यर्थः। श्रादेश- नियामकत्वेन प्रसक्तमिति शेषः। वाक्यभेदेनेति। स्थानेऽन्तरतम इतिसूत्रे अन्तरतम इत्येकं वाक्यं पूर्वं पठनीयं, स्थाने इत्यपरम् । तत्र पूर्वस्मिन् वाक्ये स्थाने इत्यनुवर्तते । प्रसङ्ग इति तस्यार्थः । तथा च प्रसङ्ग सति सह- शतमो भवतीत्यर्थः । द्वितीय स्थाने इति वाक्ये पूर्ववाक्यादनुवृत्तं स्थाने इति अन्तरतम इति च पदद्वयमा वर्त्तते । सूत्रस्थं स्थाने इति स्थानेनेत्य- र्थकम् । तथा च प्रसङ्गे सति स्थानेन स्थानघटितधर्मेण सहशतमो भवतीत्यर्थः । इदञ्च पूर्ववाक्येनैव स्थानघटितधर्मेण सहशस्यापि विधा- नसम्भवात् व्यर्थं सत् स्थानेनैव सदृशतमो भवतीति नियमार्थम् । सति सम्भव इति । एतच्च योगविभागसामर्थ्याल्लभ्यते । तथा १४. यत्रानेकविधमान्तर्य ] विजयाऽलङ्कृतः [ ६५ एवान्तरतम इत्यर्थकम् । तमग्रहणमेवानेकविधान्तर्यसत्तागम- कम् । स्थानतः स्थानेनेत्यर्थः । तत्र स्थानत आन्तर्यम् ‘इको यण- चैतत्फलितैव यत्रानेकेतिपरिभाषेति बोध्यम् । ननु वाक्यभेदे किं प्रमाणं- प्रसङ्ग सति स्थानेन सहशतमो भवतीत्यर्थकमेकमेव वाक्यमस्तु इत्यत आह-तमबग्रहणमेवेति । अनेकविधेति। अनेकविधान्तय॑सत्ता आ- देशनियामिकेत्यत्र गमकमित्यर्थः । यथाश्रुतन्तु न युक्तम् । सादृश्यस्य वस्तुधर्मत्वेन तत्र ज्ञापकस्यानुपयोगात् अस्य वाक्यभेदज्ञापनद्वारेत्यादिः। तथा हि यद्येकमेव वाक्यं, स्थाने इति चानुवृत्तं स्थानेनेत्यर्थकं तहिं स्थान- घटितधर्मेण सहशतमो भविष्यतीत्येवार्थः । ततश्च तमबग्रहणं व्यर्थम् । न च सादृश्ये अतिशयलाभार्थमस्तु । तेन च लाकृतिरित्यादौ दन्तस्थान- जन्यत्वेन लकारवकारयोस्तुल्यत्वेऽपि दन्तमात्रस्थानजन्यत्वेनातिशय- सदृशो लकार एव न वकारोऽधुना पर्यायेण वकारोऽपि स्यात् उभयोः स्थानघटितधर्मेण सहशत्वाविशेषादिति वाच्यम् । तथा सति समानं स्थानं यस्येत्यर्थक सस्थानमित्येव सिद्धेऽन्तरग्रहणसामर्थ्यादन्तरतम इत्यर्थस्य लाभसम्भवात् । वाक्यभेदे ज्ञापिते तु पूर्ववाक्यस्य प्रसङ्गे सति सहशतमो भवतीत्यर्थनार्थकृतगुणकृतप्रमाणकृतसदृशानां विधानला- भायान्तरग्रहणस्य चारितार्थेनान्तरग्रहणसामर्थेनातिशयार्थस्य लाभा- सम्भवात्तल्लाभार्थं तमपो ग्रहणं चरितार्थमिति बोध्यम् । तेन च वाक्य- भेदज्ञापनेऽर्थादेवानेकविधान्तय॑स्यादेशनियामकत्वलाभः। तच्च अर्थ- कृतमनान्तर्यकृतं स्थानकृतं गुणकृतं प्रमाणकृतमेव गृह्यत इत्यत्र तु भाष्यकारादिव्याख्यानमेव शरणम् । स्थानकृतन्तु सूत्रादपि लभ्यत इति विवेकः। केनचित् स्थान इति पूर्व वाक्यमन्तरतम इत्यपरं कृत्वा स्थाने इत्य- त्रान्तरतम इत्यनुवर्तत इत्युक्तं तदसमञ्जसम् । उत्तरत्र सम्बन्धस्यैवा- नुवृत्तिपदार्थत्वेन सर्वसम्मतत्वात् । यदपि केनचिदुक्तं न च तमब्ग्रहणमतिशयलाभार्थमादेशवृत्त्यतिश- यश्च स्ववृत्तित्वस्वस्थानिवृत्तित्वस्वेतरयावदादेशावृत्तित्वैतत्रितयसम्बन्धेन स्वविशिष्टधर्मवत्वरूप इति-अत्रोच्यते । अन्तरतमपद्घटकतमपप्रतिपा- द्योऽतिशयः स्वप्रकृत्यर्थनिष्ठ एव भवितुं युक्तः। प्रत्ययस्य प्रकृत्यान्वित- स्वार्थबोधकत्वान्नादेशनिष्ठः । न चान्तरशब्दार्थोऽप्यादेश एवेति नासङ्ग- परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके ची'त्यादौ प्रसिद्धमेव । अर्थतः 'पद्दन्न' इत्यादौ । स्थान्यर्थाभिधा- नसमर्थस्यैवादेशतेति सिद्धान्ताद्यदर्थाभिधानसमर्थों यः स तस्या- तमिति वाच्यम् । प्रकृत्यर्थतावच्छेदके एवातिशयस्य तमपा बोधनात् सादृश्य एवातिशयो बोध्यते न तु धम्मिण्यादेशे । सप्तम्यन्तपाठे स्थानिन एवान्तरतमपदार्थान्वयेनादेशवृत्तित्वस्य शब्दमर्यादयाऽलाभाच्चेति । ननु सादृश्येऽपि कोऽतिशय इति चेत्-उच्यते। सादृश्यानुयोगित्वेन विवक्षितविशिष्टधर्मसाधारणधर्मकत्वरूपः । वैशिष्ट्यञ्च स्ववृत्तित्वस्व- घटितदलघटकस्वेतरावृत्तित्वोभयसम्बन्धेन । स्वघटितदलत्वञ्च स्वनिष्ठवि- षयताप्रयोजकपदप्रयोज्यविषयताश्रयत्वम् । तथा च लाकृतिरित्यादौ लुका- रस्य वकारो नान्तरतम इति न स आदेशः। तथा हि यदा वकारोन्तरत- मत्वेन विवक्षितस्तदा सादृश्यानुयोगित्वेन स एव विवक्षितस्तद्विशिष्टो न कोऽपि धर्मः । दन्तस्थानजन्यत्वस्य स्ववृत्तित्वेऽपि लकारे सत्त्वेन द्वितीय- सम्बन्धस्यासत्त्वात् यदा च लकारोन्तरतमत्वेन विवक्षितस्तदा सादृश्य- स्यानुयोगी स एव । तद्विशिष्टश्च दन्तमात्रस्थानजन्यत्वरूपः। तत्र स्ववृत्ति- त्वस्य स्वघटितदलघटकस्वेतरो वकारादिस्तवृत्तित्वस्य च सत्त्वात् । तेन साधारणधर्मेण लुकारस्य सदृशो लकार इति स एवादेशः । एवमेव सर्वत्र बोध्यम् । सप्तम्यन्तपाठे अन्तरतमे स्थानिनि आदेश इत्येवार्थस्तदा । यदा दध्यत्रेत्यत्रेकारस्य यण चिकीर्षितस्तदा सादृश्यानुयोगी स एव हवेकार- स्तद्विशिष्टो धर्मः द्विमात्रान्यूनकालिकत्वविशिष्टतालुस्थानजन्यत्वरूपः। तत्र स्ववृत्तित्वस्य स्वघटितदलघटकस्वेतरावृत्तित्वस्य च सत्त्वात्। तेन रूपेण यकारसदृशतमस्स एवेति । तस्यैव यण स्यान्न दीर्घकारस्य । तद्विशिष्टस्य धर्मस्य यकारसाधारणस्याभावादत एव प्रथमान्तपाठस्सिद्धान्तित इति दिक। प्रसिद्धमेवेति । तत्र यदा यकारोन्तरतमत्वेन विवक्षितस्तदा यकार- विशिष्टो धर्मस्तालुस्थानजन्यत्वरूप इति । तेनेकारसदृशतमस्स एवेत्येवं क्रमेण बोध्यम् । अर्थतः पट्टन्नित्यादाविति। तत्र शसूप्रभृतिष्विति- सप्तमीबलाच्छशाद्यव्यवहितपूर्वस्य पदाद्य आदेशा इति सामान्यतोऽर्थे जाते पदादेशस्स्वसहशतमस्य ददादेशस्वसदृशतमस्येत्येवं क्रमेण सप्तम्य- न्तपाठेऽर्थः। तत्र यदा पदादेशस्य सहशतमत्वेन पादशब्दो विवक्षितस्तदा पादविशिष्टो धर्मो भवति । चरणवाचकत्वे सति पकारदकारघटितत्वरू- १४. यत्रानेकविधमान्तयं ] विजयाऽलङ्कृतः [ ६७ देश इति तत्समानार्थतत्समानवर्णपादादीनां ते । 'तृज्वत्कोष्टुरिति , पस्तस्य स्वं पादशब्दस्तवृत्तित्वस्य स्वघटितदलघटकाः स्वेतरे स्थानित्वेन सम्भाविताः सर्व एव तदवृत्तित्वस्य च सत्त्वात् । तेन धर्मेण पदादेशस्य सहशतमस्स एवेति पादशब्दस्यैव पदादेशः। चरणादिशब्दस्य पदादेशस- दृशतमत्वं न सम्भवति। यतो यदा सहशतमत्वेन चरणशब्दो विवक्षि- तस्तदा चरणशब्दविशिष्टः पदादेशसाधारणो यस्तेनैव सादृश्यं ग्राह्यम् । तञ्च न सम्भवति । कस्यापि स्ववृत्तित्वस्वघटितदलघटकस्वेतरावृत्तित्व- योरभावात् । चरणवाचकत्वस्य तु पादादिवृत्तित्वेन निरासः। चकारघ- टितत्वे सति तत्त्वस्य तु पदादेशसाधारणत्वाभावादेव पदादेशसादृश्यनि- यामकत्वासम्भवः । एवं ददादेशस्य सहशतमो दन्तशब्द एव भविष्यति नान्यो रदनादिशब्द इति विभावनीयम् । तत्तदर्थवाचकत्वधर्मे तत्तदादे- शघटकाद्यद्वयघटितत्वसाहित्येन तत्तदादेशस्य सादृश्यप्रयोजकत्वमुप- पादनीयम् । तथा च चरणवाचकत्वे सति पकारदकारघटितत्वं, दन्तवा- चकत्वे सति दकारनकारघटितत्वं, मासवाचकत्वे सति मकारसकारघटि- तत्वं, हृदयवाचकत्वे सति हकारदकारघटितत्वमित्यादय एव धर्मा भवि- प्यन्तीति विचारणीयम् । न चैवं निशाशब्दस्यैवेति कथं, तत्र रात्रिवाच- कत्वे सति नकारशकारघटितत्वं हि सादृश्यप्रयोजकं वाच्यम् । तस्य निशीथिनीशब्देऽपि सत्त्वादिति वाच्यम् । थकाराघटितत्वसहितस्य तस्य तथात्वसम्भवात्। नन्वेवमपि नासिकाशब्दस्यैव नसादेश इत्यनियमः। तत्र साधारण- धर्माप्रसिद्ध सिकाबाचकत्वे सति नकारसकारघटित्वस्य नासाशब्देपि सत्त्वादिति चेत्-न । नासाशब्दाप-लोचनेनैव कौमुद्यां नासिकेति विशेषोक्तेः । वस्तुतस्तु नासाशब्दस्यापि नसादेशे इष्टापत्तिरेवेत्यलम्। सप्त- म्यन्तपाठस्य दीर्घकारादौ यणोऽसिद्धया दूषितत्वेन सिद्धान्तभूते प्रथ- मान्तपाठे फलमाह-वृज्वल्क्रोष्टुरिति चेति। तत्र क्रोष्टुशब्दस्य स्थाने शृगालवाचकत्वेन सदृशतमः क्रोष्टशब्द एवादेशो न पक्तृशब्दः। न च तत्र स्थानषष्ठ्यभावेन स्थान्यादेशभावाभावात् स्थानेऽन्तरतम इत्यस्याप्रवृत्ति- रिति वाच्यम् । रूपातिदेशस्थले स्थानषष्ठी विना गत्यभावात् । तथा हि धम्मिणि विद्यमान एवापरधर्मिणोऽतिदेशे क्रोष्टुक्रोष्ट्रइत्युभयोः श्रव- णापत्तिः। धम्मिणं विहायानुपूर्वीमात्रस्यानुपूय॑न्तरविशिष्ट अतिदेशे च । ७ ८] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके च । गुणतो वाग्धरिरित्यादौ । प्रमाणतः 'अदसोऽसेरि'त्यादौ । 'स्थानेऽन्तरतम सूत्रे भाष्ये स्पष्टैषा ॥ १४ ॥ ननु प्रोढवानित्यत्र 'प्रादूहोढ' इति वृद्धिः स्यादत आह- अर्थवद्ग्रहणे नानर्थकस्य ॥ १५ ॥ विशिष्टरूपोपादाने उपस्थितार्थस्य विशेषणतयान्वयसम्भव एकस्मिन्नेव धम्मिणि क्रोष्टुत्वकोष्टत्वयोः श्रवणप्रसङ्गः । तस्मात् क्रोष्टु- शब्दस्य स्थाने तृजन्तादेश इत्यस्यागत्याङ्गीकारेणान्तरतमोपस्थितौ बाध- काभावः । गुणत इति । बाह्यप्रयत्नकृत इत्यर्थः । प्रमाणत इति । कालकृत इत्यर्थः । अदसोऽसेरित्यत्र मात्राद्वयन्यूनकालिकत्वेन ह्रस्वव्यञ्जनयोहूं- स्वः। द्विमात्रिकत्वेन दीर्घस्य दीर्घ इति बोध्यम् ॥ १४ ॥ ननु प्रोढवानित्यत्रेति । प्रादूहोढ़ोढीत्यनेनोढ़त्वरूपानुपूर्वीविशिष्टे परे वृद्धिविधानेनोढवच्छब्दघटकोढशब्दस्याप्यूढत्वरूपानुपूर्वीविशिष्टत्वेन तस्याग्रहणे प्रमाणाभावेन वृद्धयापत्तिरित्यर्थः । अर्थवद्ग्रहणे नानर्थ- कस्येति । अर्थवद्ग्रहणे सम्भवति सति अनर्थकस्य ग्रहणं न भवतीत्यर्थः। तेन प्रौढ़ इत्यादावर्थवदूढशब्दे परे वृद्धिर्जाता प्रोढवानित्यत्र न । तत्रोढ- शब्दस्यानर्थकत्वात् । अयं भावः-घटमानय घटमुच्चारयेत्यादौ अर्थस्य शब्दस्य च भानादर्थे शक्तिः। शब्दे लक्षणेत्यत्र विनिगमनाविरहात् प्रयोग- प्राचुर्य्यस्य शक्तिग्राहकस्य निर्धारयितुमशक्यत्वात् व्यवहारद्वयोरुभयत्र तुल्यत्वात् "न सोऽस्ति प्रत्ययो लोके यश्शब्दानुगमाहते" इति भर्तृहरि- वाक्यादर्थबोधस्थलेऽपि शब्दभानस्य प्रामाणिकत्वाच्च शब्दे अर्थे च शक्तिरभ्युपगन्तव्या। घटमानयेत्यादौ घटवाच्यमर्थमानय, घटमुच्चारये- त्यादौ घटरूपार्थबोधकं घटशब्दमुच्चारयेत्येवं क्रमेण बोधः। तत्र शब्द- विशिष्टे अर्थे, अर्थविशिष्टे शब्दे च शब्दानां शक्तिकल्पने शक्यतावच्छेदके गौरवात् । लाघवात् सर्वेषां शब्दानां स्ववृत्तिश्रूयमाणानुपूर्व्यवच्छिन्ने घट- त्वादितत्तद्रूपावच्छिन्ने च खण्डशः शक्तिः कल्प्यते । लोके आनयनादिका- । 'अस्योत्तरार्धस्तु-अनुबिद्धमिव ज्ञानं सर्वं शब्देन भासते-बाक्यपदीये, काण्ड १, कारिका १२४.

१५. अर्थवद्ग्रहणे नानर्थकस्य ] विजयाऽलङ्कृतः [६९ त्यागे मानाभावोऽस्या मूलम् । अत्रार्थः । कल्पितान्वयव्यतिरेक- कल्पितः शास्त्रीयोऽपि गृह्यत इति 'सङ्ख्याया' इति सूत्रे भाष्ये स्पष्टम् । इयं वर्णग्रहणेषु नेति 'लस्ये त्यत्र भाष्ये स्पष्टम् । अत एवैषा विशिष्टरूपोपादानविषयेति वृद्धाः। एतन्मूलकमेव 'येन विधिरित्यत्र भाष्ये पठ्यतेऽलैवानर्थकेन तदन्तविधिरिति । य॑स्य शब्दे बाधादर्थस्य विशेष्यतया शब्दस्य चार्थे विशेषणतया, शास्त्रे राज्ञो यदित्यादौ मांसपिण्डरूपार्थस्य विशेष्यतया भानासम्भवात् प्राति- पदिकेन सहानन्वयात् प्रत्ययेन पौर्वापासम्भवाच शब्दस्य विशेष्यतया शब्दे चार्थस्य विशेषणतया बोधः। तथा च तत्तदर्थविशिष्टे परे तत्तत्कार्य- मिति लब्धे फलितेयं 'अर्थवद्ग्रहणे नानर्थकस्येति परिभाषा। विशिष्टरूपो- पादान एषा प्रवर्त्तत इति वृद्धोक्तः । अलैवानर्थकेन तदन्तविधिरिति भाष्याञ्च । लुनातीत्यादौ लस्य तिबादेशमाशंक्यार्थवत्त्वाभावेऽपि धातोः परत्वाभावेन समाधानकरणपरभाष्याच्च वर्णानामर्थविशिष्टे वर्णे एका शक्तिरपरा च वर्णमात्रे। तथा च शास्त्रे वर्णो यत्र उपात्तो वर्तते तत्र लोक इवार्थविशेष्यकबोधे कार्याणां बाधादपरा या वर्णमात्रनिरूपिता शक्ति- स्तयैव वर्णमात्रस्य बोधो न तु विशिष्टरूपोपादान इवार्थविशिष्टवर्णवोध इत्युक्तभाष्यबलात् कल्प्यत इति तत्रानर्थकस्यापि वर्णस्य ग्रहणं भवति अत एव स्वरूपसूत्रं प्रयोजनाभावात् भाष्ये प्रत्याख्यातम् । अर्थवैशिष्ट्यञ्च शब्दे स्वविषयकबोधजनकत्वेन तात्पर्यविषयत्वसम्बन्धेन । एतेन बोधक- त्वसम्बन्धेनार्थवैशिष्ट्ये यदि बोधकता फलोपधायकता कार्याव्यवहित- प्राक्क्षणावच्छेदेन कार्याधिकरणबृत्तित्वरूपा तदा यदा प्रतिबन्धकवशा- बोधाभावस्तदा प्रौढ इत्यादावपि वृद्धिर्भ स्यात् । यदि स्वरूपयोग्यता बोधजनकतावच्छेदकानुपूर्वीरूपा तर्हि प्रोढवानित्यत्रापि तादृशानुपूर्व्या- स्सत्त्वेन वृद्धयापत्तिरित्यपास्तम् । तात्पर्यायविशेष्यतापर्याप्तरूढवच्छब्द- घटकोढशब्देऽभावात् सिद्धान्ते दोषाभावः । यद्यप्यर्थवोधकता लोके प्रौढ़ इति समुदायस्यैव न तूढशब्दे तथापि शास्त्रीयकार्यनिर्वाहाय शास्त्रप्रामाण्यात् तत्रापि स्वीक्रियत एव । तदाह- अत्रार्थ: कल्पितान्वयव्यतिरेककल्पितःशास्त्रीयोग्पीति। कल्पिती यावन्वयव्यतिरेको ताभ्यां कल्पितः प्रकृत्यर्थः प्रत्ययार्थश्च । यथा प्रौढ ।

१०० ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके किञ्च 'स्वं रूपमिति शास्त्रे स्वशब्देनात्मीयवाचिनाऽर्थों गृह्यते । रूपशब्देन स्वरूपम् । एवं च तदुभयं शब्दस्य संज्ञीति तदर्थः । इत्यत्र वहनकादिरूपः। यत्र कल्पितावपि तौ न स्तो यथा यावक इत्यादौ कप्रत्ययाभावे योऽर्थः प्रतीयते स एव कप्रत्ययेऽपि । तत्र प्रत्यय इति महासंज्ञाबलेन कप्रत्ययस्य प्रकृत्यर्थेनैवार्थवत्त्वं मन्यत इति सोऽपि गृह्यते शास्त्रीयकाव्य । पररुचैतत्कल्पे गोतो णिदित्यादौ गोपदेन कोऽर्थों विवक्षितो यदि गोत्वावच्छिन्नस्तर्हि पशुतात्पर्येण प्रयुक्ते गामानयेत्यादौ स्यात् पृथिव्यादितात्पर्य्यके न स्यात् । ततश्च लोके यावन्तोऽर्था गोपदेन बोध्यन्ते तत्सकलार्थतात्पर्य्यकोऽयं सूत्रस्थो गोशब्द इति वक्तव्यमन्यथा सर्वत्र वृद्धिर्न स्यात् । न च सर्वेऽर्थाः सकृदुच्चरिताद्गोशब्दाबोर्बु शक्याः । सकृदुचरितन्यायविरोधादिति प्रतिशक्यतावच्छेदकं सूत्रमाव- तेनीयम् । तथा च किरणतात्पर्यकाद्गोशब्दात् पृथ्वीतात्पर्य्यकात् गोशब्दात् गोत्वावच्छिन्नतात्पर्यकाद्गोशब्दादित्यादिप्रकारेणार्थः कर्त्त- व्यो न त्वर्थवाचकाद्गोशब्दादित्येकरूपेण । अर्थत्वेन रूपेणार्थे गोपद्- शक्तेरभावात् । एवं रीत्या नानार्थकस्थले सर्वत्रावृत्तौ गौरवम् । एवं केण इत्यादावर्थविशिष्टे कशब्दे परे इत्यर्थो न स्यात् । प्रत्ययजन्यबोधे प्रकृतिस- मभिव्याहारस्य कारणत्वादन्यथाऽणादिशब्दादप्यपत्यादिबोधप्रसङ्गात् । यदि तु लौकिके प्रयोगे कशब्दप्रकारककुत्साद्यर्थविशेष्यकबोधस्यैव सत्त्वेन ताशबोध एव प्रकृतिसमभिव्याहारस्य कारणत्वं सूत्रे केण इत्यादौ त्वदर्थप्रकारकशब्दविशेष्यकबोधस्य सत्त्वेन न तत्र प्रकृतिसमभिव्याहारा- पेक्षेत्युच्यते तथापि कार्यतावच्छेदके कशब्दनिष्ठप्रकारतानिरूपितकुत्साद्य- र्थनिष्ठविशेष्यतायाः प्रवेशे गौरवम् । स्वं रूपसूत्रसत्त्वे तु तेन सूत्रेण शास्त्रघटकशब्दे अपूर्वः सङ्केतो बोध्यते । स चार्थत्वावच्छिन्ने स्ववृत्तिरू- पावच्छिन्ने च । तथा च गोतो णिदित्यादावर्थविशिष्टस्य गोशब्दस्येत्यर्थेन सर्वत्रार्थे प्रयुज्यमानस्य गोशब्दस्यैकेनैव सूत्रण कार्यप्रवृत्त्याऽऽवृत्तेर्नोप- योगः । केण इत्यादावप्यर्थविशिष्टे कशब्दे परे इत्येवार्थः । तत्र न प्रक- तिसमभिव्याहारस्य कारणत्वमपि तु कुत्सार्थबोध एवेति न विशेषरूपेण कार्यकारणभावकल्पनप्रयुक्तमपि गौरवमिति प्रत्याख्यानं न युक्तमित्यत एवा- रुचेः प्रत्याख्यानपहं.प्रथममुपन्यस्यारम्भपक्षमन्ते उपन्यस्यति-किजेत्या- दिना। शेषं सुगमम् ।। १५ ॥

१६. गौणमुख्ययोर्मुख्ये ] विजयाऽलङ्कृतः [१०१ तत्रार्थो न विशेष्यः। तत्र शास्त्रीयकार्यासम्भवात् । किन्तु शब्द- विशेषणम् । एवं चार्थविशिष्टः शब्दः संज्ञीति फलितम् । तेनैषा परिभाषा सिद्धति भाष्ये स्पष्टम् ॥ १५ ॥ नन्वेवमपि महद्भूतश्चन्द्रमा इत्यत्र 'पान्महत' इत्यात्वापत्तिरत आह- गौणमुख्ययोर्मुख्य कार्यसम्प्रत्ययः ॥ १६ ॥ गुणादागतो गौणः। यथा गोशब्दस्य जाड्यादिगुणनिमित्तोऽर्थों नन्वेमपोति।अर्थवद्ग्रहणपरिभाषायाः स्वीकारेऽपीत्यर्थः। आत्वा- पत्तिरिति । अर्थवत्त्वस्य तत्रापि सत्त्वादिति भावः । महद्भूत इत्येतद्घट- कमहच्छब्दस्य ह्यारोपितमहत्वविशिष्ट इत्यर्थोऽभूततद्भावे च्चिप्रत्ययात् । गौणमुख्ययोरिति । गौणमुख्ययोरर्थयोर्मध्ये मुख्ये एवार्थे कार्यसंप्रत्ययः। मुख्यार्थबोधके एव शब्दे कार्यप्रवृत्तिरित्यर्थः । गुणादागत इति। गुणा- दिति हेतौ पञ्चमी । प्राङ्पूर्वकगम्धातोर्ज्ञानमर्थः क्तप्रत्ययार्थो विषयता- श्रयः। ज्ञानञ्चारोपात्मकं हेतुबोधकपदसान्निध्यात् गुणपदं गुणज्ञानपरम् । तथा च गुणप्रतिसन्धानप्रयोज्यारोपीयविषयताश्रय इत्यर्थः । स्वशक्यता- वच्छेदकसमानाधिकरणगुणप्रतिसन्धानप्रयोज्यस्वशक्यतावच्छेदकप्रका- रकारोपीयविशेष्यताश्रयोऽर्थः। स्वस्य गौणोऽर्थ इति निष्कर्षः। गौर्वाहीक इत्यादौ गोपदशक्यतावच्छेदकं गोत्वं तत्समानाधिकरणं यज्जाड्यमान्द्या- दिकं तस्य वाहीके संस्कारहीने पुरुषविशेषे ज्ञानादुगोपदशक्यतावच्छेदक गोत्वं तत्रारोप्यत इति वाहीको गोपदस्य गौणोऽर्थः । एवं महत्त्वसमाना- धिकरणस्य विशिष्टशिरोवनकर्मत्वस्य चन्द्रे दर्शनात् कलङ्किन्यपि चन्द्रे महत्त्वारोप इति चन्द्रतात्पर्य्यको महच्छब्दः प्रकृते गौणार्थकः । गुणादागत इति प्रतीकमादाय तवृत्तिगुणसत्ताप्रयोज्यारोपविषयी- भूत इत्यर्थः। यथा गोवृत्तिजाड्यादिगुणसत्ताप्रयोज्यारोपविषयीभूतगो- त्वादिरों गौण इति कस्यचित् लेखोऽसङ्गतः। तथा हि-तवृत्तीत्यशब्दा- र्थोऽनुपयुक्तश्च । अारोपविषयीभूतगोत्वादिरों गौण इत्यप्ययुक्तम् । न हि गोत्वं नाना । येनैकं गौणमपरं मुख्यं स्यात् । न ह्यारोपेण वस्तुभेदः शिष्टा- नुमत उपपन्नोवा।गुणादागतो गौणः। यथा गोशब्दस्य जाड्यादिगुण- १०२ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके वाहीकः । अप्रसिद्धश्च संज्ञादिरपि तद्गुणारोपादेव बुध्यते । मुखमिव प्रधानत्वान्मुख्यः प्रथम इत्यर्थः । गौणे ह्यर्थे शब्दः प्रयु- ज्यमानो मुख्यार्थारोपेण प्रवर्तते । एवं चाप्रसिद्धत्वं गौणला- क्षणिकत्वं चात्र गौणत्वम् । तेन प्रियत्रयाणामित्यादौ त्रयादेशो भवत्येव । तत्र त्रिशब्दार्थस्येतरविशेषणत्वेऽप्युक्तरूपगौणत्वाभा- निमित्तोऽर्थो वाहीक इति मूलेन वाहीकादेम्मिण एव गौणार्थत्वावग- माच्च । गौणे ह्यर्थे वाहीकादाविति स्वग्रन्थाच्च । जाड्यादिर्गुणो निमित्तं यस्येत्यर्थः । अर्थ इत्यस्य बोधविषय इत्यर्थः। जाड्यादिगुणप्रयोज्यबोध- विषयो वाहीक इत्यर्थः। बोधे प्रयोज्यता च प्रवृत्तिनिमित्तारोपद्वारा बोध्या। अप्रसिद्धश्च संज्ञादिरपीति । गौण इति शेषः । गौणत्वे हेतुमाह- तद्गुणारोपादेव बुध्यत इति । यः कश्चित् पुत्रादे रामेति कृष्णेति वा नाम करोति स रामादिगतपित्राज्ञापालनकर्तृत्वादिकं पुत्रादावारोप्य तद्धेतो रामत्वादिकमारोप्य रामत्वादिना बोध करोति । तथा च गुणप्रतिसन्धा- नप्रयोज्यशक्यतावच्छेदकप्रकारकबोधविषयत्वरूपगौणत्वस्य तत्रापि सम- न्वय इति भावः । यानेव विशेषो यदेकत्र गुणप्रतिसन्धानं प्रमात्मकम- परत्रारोपात्मकमिति । ननु संज्ञा नाम शब्दः गौणश्वार्थ इति संज्ञादिरपीत्यसङ्गतमिति चेत्-न । संज्ञादीतिपाठस्यैव सत्त्वेन संज्ञा आदिः प्रथमो बोधको यस्येति व्युत्पत्त्या अर्थस्यैवावगमात् । सम्यग्ज्ञायते बोध्यते इति संज्ञेति व्युत्प- त्याऽर्थस्यैव लाभाञ्च । मुखमिवेति । मुख्यार्थस्य प्राधान्यं गौणे मुख्ये वा सर्वत्र भासमानत्वात् तदेवोपपादयति-गौणे ह्यर्थ इत्यादिना। सामा- न्यगौणत्वमुक्तं तव्याप्यमप्रसिद्धत्वं गौणलाक्षणिकत्वञ्चेति बोध्यम् । गौणलाक्षणिकत्वन्तु गुणप्रयोज्यलक्षणाविषयत्वम् । लक्षणा च शक्य- तावच्छेदकारोप एवेति बोध्यम् । गौर्वाहीक इत्यादौ आरोपितगोत्ववान वाहीकः, गोत्ववान् वाहीक इति वा बोध इत्युभयमसङ्गतम् । गौर्वाहीक इति बोध एव सम्यक् । अमहाब्राह्मण इत्यादौ नत्र आरोपार्थकत्वेन महत्त्वारोपविषयस्यैव महच्छब्देन प्रतीतावप्यारोपस्य गुणहेतुकत्वाभावेनोक्तगौणत्वाभावादात्व- सिद्धिः।

१६. गौणमुख्ययोर्मुख्ये ] विजयाऽलकृतः [१०३ वात् । किं चायं न्यायो न प्रातिपदिककार्ये किन्तूपात्तं विशि- प्याऽर्थोपस्थापकं विशिष्टरूपं यत्र तादृशपदकार्य एव । परिनिष्ठि- तस्य पदान्तरसम्बन्धे हि गौर्वाहीक इत्यादौ गौणत्वप्रतीतिर्न तु प्रातिपदिकसंस्कारवेलायामित्यन्तरङ्गत्वाज्जातसंस्कारबाधायो- गः प्रातिपदिककायें प्रवृत्त्यभाचे बीजम् । श्वशुरसदृशस्यापत्यमि- त्यर्थके श्वाशुरिरित्यादावत इनः सिद्धये उपात्तमित्यादि । न च प्रातिपदिकपदं तादृशमिति वाच्यम् । तेन हि प्रातिपदिकपदवत्त्वे. नोपस्थितिरिति तस्य विशिष्यार्थोपस्थापकत्वाभावात् । निपातपदं तु चादित्वेनैव चादीनामुपस्थापकमिति तदुद्देश्यककार्यविधायके किन्तूपात्तं विशिष्यार्थोपस्थापकं विशिष्टरूपं यत्र तादृश- पदकार्य एवेति । उपात्तमित्यस्य सूत्र उच्चार्यमाणमित्यर्थः । विशिष्या- र्थोपस्थापकमित्यस्य स्ववृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकधर्मावच्छिन्न- बोधकमित्यर्थः। विशिष्टरूपमित्यनेन स्ववृत्तिधर्म आनुपूर्वीरूप एवेति बोध्यते । तथा च स्ववृत्त्यानुपूर्व्यवच्छिन्नविषयताप्रयोजकपदोपादान एव परिभाषाप्रवृत्तिरिति पदत्रयेण बोधितम् । अत इब इत्यादावत्पदस्य प्रातिपदिकपदस्य वोपादानं न विशिष्टरूपोपादानम् । अत्वस्य प्रातिपदि- कपदवत्त्वस्य वाऽऽनुपूर्वीरूपत्वाभावात् । अत एव गौणेऽपि तस्य प्रवृत्तिः । न च यद्धविच्छिन्ने शक्तिस्तस्यैव तत्पदप्रयोज्यविषयतावच्छेदकत्वं प्राति- पदिकपदवत्त्वस्य च तन्न भवितुमर्हति । धातुभिन्नत्वादिविशिष्टार्थवत्त्वा- वच्छिन्ने च प्रातिपदिकपदस्य सङ्केतादिति वाच्यम् । पाणिनिकृतप्राति- पदिकपदसङ्केत्तस्य तत्तद्धर्मावच्छिन्ने सत्त्वेऽपि लाघवानुरोधेन पाणिनि- सङ्केतसम्बन्धन प्रातिपदिकपदवत्वावच्छिन्ने शक्त्यन्तरकल्पनेनादोषात् । न च व्यन्ते गोऽभवदित्यादौ प्रगृह्यसंन्नावारणायौतसूत्रे भाष्यकारेण कृता गौणमुख्यन्याप्रवृत्तिः विरुद्ध्येत । श्रोत्पदस्य निपातपदस्य वोक्तरीत्या ओदन्तत्वाद्यवच्छिन्नविषयताप्रयोजकत्वेन आनुपूव्यवच्छिन्नविषयताप्र- योजकत्वाभावेन विशिष्टरूपोपादानाभावादित्यत आह-निपातपदन्तु चादित्वेनैव चादीनामुपस्थापकमित्यादि। तथा च चादित्वस्यानुपूर्वी- रूपत्वाद्विशिष्टरूपोपादानमस्तीति न दोषः । ननु चत्वावच्छिन्ने वात्वाव- १०४ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके 'श्रोत्' इत्यादावेतत्प्रवृत्त्या गोऽभवदित्यादौ दोषो न । अग्नीषोमौ माणवकावित्यत्र प्रसिद्धदेवताद्वन्द्ववाच्यग्नीषोमपदस्य तत्सदृशपर- त्वेऽन्तरङ्गत्वादीत्वषत्वे भवत एव । सदृशलाक्षणिकाग्निसोमपद- योर्द्वन्द्व तन्नामकावित्यर्थके च नेत्वषत्वे । आये गौणलाक्षणिकत्वा- दन्त्ये प्रसिद्धत्वात् । च्छिन्ने शक्तिकल्पनायामपि स्ववृत्त्यानुपूर्व्यवच्छिन्नविषयताप्रयोजकत्वस्या- भाव एव इति चेत्-न। स्ववृत्तित्वं विहायानुपूर्व्यवच्छिन्नेत्यादेरेव प्रवेशात्। ननु तथा सति शक्यतावच्छेदकभेदेन शक्तिभेदापत्त्या सर्वधर्मावच्छिन्न- स्यैकदा बोधाभावप्रसङ्ग इति चेत्-न । चाद्यन्यतमत्वावच्छिन्ने शक्तिकल्प- नया शक्यतावच्छेदकभेदाभावेन शक्तिभेदाभावात् । नन्वानुपूर्ध्या साक्षा- दवच्छिन्नमुख्यविशेष्यताप्रयोजकपदोपादानं विशिष्टरूपोपादानमिति वक्त- व्यम् । अन्यथा प्रातिपदिकपदवृत्तिविषयतायाः प्रातिपदिकत्वरूपानुपूर्ध्या साक्षादवच्छिन्नत्वेन प्रातिपदिकपदवत्त्वावच्छिन्नमुख्यविशेष्यतायाः परं- परया आनुपूर्व्यवच्छिन्नत्वेन च प्रातिपदिकपदोपादानस्यापि विशिष्टरूपो- पादानत्वापत्तिः । उक्तनिवेशे तु आद्यविषयताया मुख्यविशेष्यतात्वविरहात अन्त्यायास्साक्षात्तदवच्छिन्नत्वाभावान्न दोषः। तथा च निपातपस्य चाद्यन्यतमत्वावच्छिन्नबोधकत्वाङ्गीकारेऽपि तत्पदीयमुख्यविशेष्यतायाश्च- त्वाद्यानुपूर्व्या साक्षादवच्छिन्नत्वविरहात् । चत्वादिना साक्षादवच्छिन्ना- याश्च मुख्यविशेष्यतात्वाभावात्प्रातिपदिकपदस्येवास्याप्युपादानं न तादृशं, खेन साक्षादवच्छिन्नत्वं स्वावच्छिन्नत्वस्वावच्छिन्नावच्छेदकतानिरूपि- तावच्छेद्यत्वाभाववत्त्वोभयसम्बन्धेन। स्वविशिष्टत्वं मुख्यत्वश्च विशेष्य- तायां प्रकारत्वासामानाधिकरण्यम् । किञ्च निपातपद इव प्रातिपदिकपदे- ऽपि घटाद्यन्यतमत्वावच्छिन्ने शक्त्यापत्तिः । न च घटादीनामानन्त्याच्चा- दीनाञ्च परिसंख्यातत्वान्नायं दोष इति वाच्यम् । चादेरपि आकृतिगण- त्वन उभयोः साम्यादिति चेत्-अत्र वदन्ति । अोत्सूत्रस्थभाष्यप्रामा- ण्यात् निपातपदस्य स्वाश्रयसङ्केतवत्त्वसम्बन्धेन निपातत्वरूपानुपूर्वीवि- शिष्टे शक्तिः कल्प्यते । तथा च निपातपदप्रयोज्यमुख्यविशेष्यतानिरूपिता स्वाश्रयसङ्केतवत्त्वसम्बन्धावच्छिन्ना साक्षादवच्छेदकता निपातत्वरूपानुपू- १६. गौणमुख्ययोर्मुख्ये०] विजयाऽलङ्कृतः [ १०५ अत एवाग्निसोमौ माणवकावित्यत्र गौणमुख्यन्यायेनेत्वषत्ववा- रणपरं 'अग्नेः स्तुत्स्तोमसोमाः' इति सूत्रस्थं भाष्यं सङ्गच्छते । गाम्पाठयेत्यादौ मुख्यगोपदार्थस्य पाठनकर्मत्वासम्भवेन विभक्त्यु- वीनिष्ठेति विशिष्टरूपोपादानत्वमुपपन्नम् । प्रातिपदिकपदे च स्वनिरूपित- सङ्केतवत्त्वसम्बन्धेन प्रातिपदिकपदविशिष्टे शक्तिरिति मुख्यविशेष्यता प्रातिपदिकपदेनैव साक्षादवच्छिना न त्वानुपूर्थेति न तत्र विशिष्टरूपो- पादानमिति दिक्। पदकार्यत्वञ्च विभक्त्यनिमित्तकत्वे सति स्त्रीत्वानिमित्तकत्वम् । स्त्रयः औतोमशसोः गोतो णिदित्यादीनां विभक्तिनिमित्तकत्वेन पदकार्य- त्वाभावान्न तत्रैतस्याः प्रवृत्तिः । जानपदकुण्डेतिङीषः स्त्रीत्वनिमित्तकत्वेन पदकार्यत्वाभावात् गौणेऽपि प्रवृत्तिः । अत एव कौमुद्यां गजवाची नाग- शब्दः स्थौल्यगुणयोगादन्यत्र प्रयुक्त उदाहरणमित्युक्तम् । पदकार्ये प्रवृत्तौ बीजमुक्तं-परिनिष्ठितस्य पदान्तरेत्यादिना। अनेन यदा गौणत्व- प्रतीतिस्तदैतत्परिभाषया कार्याभाव इति सूचितम् । तेन च प्रातिपदिक- संस्कारवेलायां गौर्वाहीक इत्यादौ अग्नीषोमौ माणवकावित्यादौ च न गौणत्वप्रतीतिरिति नैतत्परिभाषाप्रवृत्तिः । यदि च तत्रापि कदाचित्प्राति- पदिकसंस्कारवेलायामेव गौणत्वप्रतीतिस्तर्हि गौणमुख्यन्यायः प्रवर्तत एव । अत एवाग्नीसोमौ माणवकाविति भाष्यं सङ्गच्छते । एतत्फलितमेव पदकार्ये अयन्न्यायो न प्रातिपदिककार्य इति । ननु विभक्त्यनिमित्तकत्वांशस्यैतत्फलितत्वेऽपि स्त्रीत्वानिमित्तकत्वांशे किं प्रमाणमिति चेत्-न । जानपदेतिसूत्रे नागग्रहणस्यैव प्रमाणत्वात् । अन्यथा गजवाचिनागशब्दात् मुख्ये जातेरस्त्रीत्यनेनैव ङीषि सिद्धे तस्य वैयापत्तेरुक्तांशज्ञापने तु गोणे चारितार्थ्यमिति न वैयर्थ्यम् । न च तत्रापि जातेरित्येव सिद्धमारोपितगजत्वजातिप्रकारेणैव तत्र बोधादिति वाच्यम् । स्वसामानाधिकरण्यस्वनिष्ठप्रकारतानिरूपितत्वोभयसम्बन्धेन जातिवि- शिष्टविशेष्यताकबोधजनकत्वरूपजातिवाचकत्वाभावात्। ननु विभक्त्यनिमित्तकत्वांशो न फलितः । गां पाठयेत्यादौ कर्मत्वाय पाठनक्रियान्वयस्य विभक्त्युत्पत्तिवेलायामेवावश्यकत्वेन मुख्यगोपदार्थस्य पाठनान्वयासम्भवाद्गोपदस्य गौणार्थकत्वस्य वक्तव्यत्वादित्यत आह-गां १०६ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके त्पत्तिवेलायां प्रयोक्तृभिगौणार्थत्वस्य प्रतीतावप्यपदस्थाप्रयोगेण बोद्धृभिः सर्वत्र पदस्यैव गौणार्थकत्वस्य ग्रहेणात्वं त्वं सम्पद्यते, अमहान् महान् भूतस्त्वद्भवतीत्यादिभाष्यप्रयोगे त्वाद्यादेशदी- र्यादीनां करणेन चास्य न्यायस्य पदकार्यविषयत्वमेवोचितम् । अन्यथा वाक्यसंस्कारपक्षे तेषु तदनापत्तिः । पाठयेत्यादाविति । अपदस्याप्रयोगेण बोद्धृभिस्सर्वत्र पदस्यैव गौणार्थकत्वग्रहेणेति । अयं भावः । उच्चारणानन्तरमेवार्थप्रतीतिः । उच्चारणन्तु पदस्यैवापदन्न प्रयुञ्जीतेति भाष्यात् । तथा च पदत्वसिद्ध्यु- त्तरमेव श्रोतुर्गौणार्थकत्वग्रहः । यदा च श्रोतुगौणार्थकत्वग्रहसम्भवस्तदैव गौणमख्यन्यायप्रवृत्तिरिति कल्पनात् प्रयोक्तुः पूर्वं गौणार्थकत्वग्रहेऽपि न परिभाषाप्रवृत्तिरिति । अग्नीसोमावित्यादौ द्वन्द्वात् प्रागपि श्रोतुर्गौणार्थक- त्वग्रहे तत्रापि न्यायप्रवृत्तियदि द्वन्द्वोत्तरं तथा प्रतीतिस्तहिं ईत्वपत्वे भवत एवेति फलितमेव विभक्त्यनिमित्तककार्ये प्रवृत्तिरिति । वस्तुतस्तु प्रयोक्तुरेव प्रयोगनिमित्तानं भवितुं युक्तमिति। तस्यैव मुख्यार्थतात्पर्ये शास्त्रप्रवृत्तिर्गौणार्थतात्पर्ये शास्त्राप्रवृत्तिरित्येव कल्पना ज्यायसीति अग्नीषोमावित्यादौ तात्पर्यग्रहसमयभेदेन कार्यतभावी सिद्धौ । तथा च न फलितमिदं विभक्तिनिमित्तककार्ये न प्रवृत्तिरिति । गां पाठयेत्यादौ विभक्त्युत्पत्तिवेलायामेव गौणार्थतात्पर्य्यस्यावश्यकत्वादित्य- रुचेराह-अत्वं त्वं सम्पद्यते इति । तथा चैतद्भाष्यप्रामाण्यादुक्त- रूपे पदकायें एव परिभाषाप्रवृत्तिरिति । अत्वं त्वं सम्पद्यत इत्यत्र च्विाप्रत्ययो वैकल्पिकत्वान्न भवति । एवममहान महान्भूत इत्यत्रापि बोध्यम् । परन्तु आरोपितसम्बोध्यत्वादिप्रकारेणैव बोधाद्गौणत्वमस्तीति भावः । त्वाद्यादेशदीर्घादीनामिति । त्वं सम्पद्यत इत्यत्र त्वाही सावित्यनेन त्वादेशः। अयुवा युवां बुध्येते, अयूर्य यूयं बुध्यन्ते इत्यादी युवादेशादेरादिपदेन संग्रहः। दीर्घादीत्यादिना त्वद्भवतीत्यादौ प्रत्ययोत्तर- पदयोश्चेत्यस्य संग्रहः। तत्रापि विभक्तावित्यनुवृत्त्या पदकार्यत्वाभावोऽत एवान्तरङ्गानपि विधीन बहिरङ्गो लुगबाधत' इत्येतज्ज्ञापनं प्रत्ययग्रहणेन सङ्गच्छते। अन्यथा युष्मच्छब्दाणिचि आदेशार्थं तस्यावश्यकत्वेन ज्ञापकत्वस्यासङ्गत्यापत्तेः । अन्यथेति । विभक्तिनिमित्तककार्थेऽपि परि- १६. गौणमुख्ययोमुख्ये० ] विजयाऽलङ्कृतः [ १०७ किञ्च शुक्लामित्युक्ते कर्म निर्दिष्टं, कर्तृक्रिये चानिर्दिष्टे इत्या- द्युक्त्वेहेदानी गामभ्याज कृष्णां देवदत्तेत्यादौ सर्व निर्दिष्टं गामेव कर्म देवदत्त एव कर्त्ता अभ्याजैव क्रियेत्यर्थनार्थवत्सूत्रस्थभाष्येण कारकादिमात्रप्रयोगे योग्यसर्वक्रियाध्याहारे प्रसक्ते नियमार्थः क्रियावाचकादिप्रयोगे इत्येतत्तात्पर्यकेण सामान्यतः क्रियाजन्य- फलाश्रयत्वमात्रविवक्षायां द्वितीयादीनां साधुत्वान्याख्यानमित्यर्थ- लाभेन पाठनक्रियान्वयकाले पदस्यैव गौणार्थत्वप्रतीतिः प्रयो- क्तुरपि । एवमेतन्मूलकः "अभिव्यक्तपदार्था य" इति श्लोकोऽपि भाषाप्रवृत्तावित्यर्थः। ननु त्वाद्यादेशकरणेन पदं संस्कृत्याभूततद्भाववि- वक्षायां जातसंस्कारस्य बाधायोगेन नैते दोषाः। एकतरपक्षण, लक्ष्ये सिद्धे पक्षान्तरेण दोषदानस्यादृष्टत्वादित्यरुचेराह-किञ्चेति। शुक्लामित्युक्ते कम- निर्दिष्टमित्यादिभाष्येण सामान्यतः क्रियाकर्मत्वविवक्षया द्वितीयादेस्सा- धुता भवतीत्यस्य लाभेन गौणस्थलेपि मुख्यार्थे एव क्रियाकर्मत्वादिवि- वक्षया पदं संसाध्य पश्चाद्गौणार्थविवक्षाप्रयोक्तुरपि भवतीत्यर्थः स्पष्टमेव लभ्यते । तेन फलितमेवेदं पदकार्ये अयं न्यायो न प्रातिपदिककार्य इति । अग्नीषोमौ अग्निसोमावित्युभयोईर्शनात् कचित् द्वन्द्वं कृत्वा गौणार्थवि- वक्षा, कचित् पदे एव गौणार्थविवक्षां कृत्वा द्वन्द्वकरणमिति फलबलेन कल्प्यत इति विभावयन्तु सुधियः । कर्ता क्रिया चानिर्दिष्टे इति पुमान्- स्त्रियेतिसूत्रेण पुम्वोधकस्यैव शेषेण निर्दिष्टाविति युक्तम् । गामेव कम्र्मेति गामित्येतत्पदवाच्यमेवेत्यर्थः । केचित्तु पदात्परत्वव्याप्यविषयताप्रयोजकशास्त्रविहितं काय पद- कार्यमिति वदन्ति । श्रान्महत इत्यात्वमीत्वषत्वे च भवति तथाभूतमिति तत्र न्यायः प्रवर्तते । त्रेस्त्रयः औतोम्शसोरित्यादिशास्त्रं च न निरुक्त- प्रयोजकमिति न तंत्र परिभाषाप्रवृत्तिः। तदीयायाः कस्या विषयतायाः पदात्परत्वव्याप्याया अभावात् । सुबन्तादेव तद्धितोत्पत्त्या तद्धितनिष्ठायास्तस्यास्तथाभूतत्वेन अत इब् इत्यादेः पदकायंत्वसिद्धिः । एतन्मूलक इति । गौणमुख्यन्यायमूलक इत्यर्थः। अभिव्यक्तति । अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः।

१०८ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके पदकार्यविषयकः । ध्वनितं चेदं 'सर्वादीनीति सूत्रे संज्ञाभूतानां प्रतिषेधमारभता वार्त्तिककृता, 'पूर्वपति सूत्रेऽसंज्ञायामिति वदता सूत्रकृताऽन्वर्थसंज्ञया तत्प्रत्याख्यानं कुर्वता भाष्यकृता च । अर्था- श्रय एतदेवं भवति शब्दाश्रये च वृद्धयात्वे इति 'प्रोत्सूत्रस्थभा- प्यस्य लौकिकार्थवत्त्वयोग्यपदाश्रय एष न्यायः। तद्रहितशब्दाश्रये च ते इत्यर्थः । 'गोत' इति यथाश्रुतसूत्रे विशिष्टरूपोपादानसत्त्वे- नोक्तरीत्यैव तस्य भाष्यस्य व्याख्येयत्वादित्यलम् ।। १६ ।। अर्थवद्ग्रहणे इत्यस्यापवादमाहmston शास्त्रार्थस्तेषु कर्तव्यः शब्देषु न तदुक्तिषु-इति श्लोकः । ध्वनितञ्चेदमिति । गौणमुख्यन्यायस्य पदकार्य्यविषयकत्वं ध्वनि- तमित्यर्थः। अन्यथाऽनेनैव न्यायेन संज्ञायां सर्वनामत्वाद्यप्राप्तौ तदर्थः प्रयासो विफलः स्यादाचार्याणामिति भावः । महासंज्ञयेति संज्ञाशास्त्राणां विधिनिमित्तनिमित्तकत्वेन सर्वादीनि सर्वनामानीत्यस्य विभक्तिनिमित्तकत्वात्पदकार्यत्वाभावः । श्रारभतेति । अनुदात्तत्वलक्षणमात्मनेपदमनित्यमित्यभिप्रायेण सता आरभमाणेनेति तु युक्तम्। ननु गौर्वाहीक: गां पाठयेत्यादौ गौणमुख्यन्यायेन वृद्धथात्वयोरप्राप्ति- माशंक्य अर्थाश्रये एतदेवं भवति शब्दाश्रये च वृद्धयात्व इति समाधा- नस्य भाष्ये करणेन प्रातिपदिककार्यत्वेन परिभाषाप्रवृत्तिवारणमसङ्गत- मित्यत आह-लौकिकार्थवत्त्वेति । लौकिकार्थवत्त्वस्य पदे एव सत्त्वेन अर्थाश्रय इत्यस्य पदाश्रय इत्यत्र तात्पर्य्यम् । शब्दाश्रय इत्यस्य प्राति- पदिकाश्रय इत्यत्र तात्पर्यमिति भावः । यथाश्रुतार्थकत्वे गोतो णिदितिसूत्र- न्याससत्त्वे विशिष्टरूपोपादानसत्त्वादर्थोपस्थित्या वृद्धथात्वयोरप्यर्थाश्रय- त्वेन परिभाषावारणस्याशक्यत्वापत्तेः ॥ १६॥ । पत्र ‘संज्ञाभूतानाभिति'पाठोऽभिप्रेत इति प्रतिभाति ।

१७. अनिनस्मन्ग्रहणान्यर्थवता ] विजयाऽलङ्कृतः [ १०६ अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्ति ॥ १७ ॥ 'येन विधिरित्यत्र भाष्ये वचनरूपेण पठितैषा । तेन राज्ञा साम्नत्यादावल्लोपो दण्डी वाग्मीत्यादौइन् हनिति नियमः सुपयाः सुश्रोता इत्यादौ 'अत्वसन्तस्येति दीर्घः। सुशर्मा सुप्रथिमेत्यादौ तदन्तविधि प्रयोजयन्तीति । ते अन्ता येषां तानि तदन्तानि तेषु विधिस्तम् । अर्थवता अनर्थकनेत्यभेदे प्रकृत्यादित्वात् तृतीया तत्पदार्थे तस्यान्वयः। अथवा लक्ष्यस्थमनादिकं कर्तृ स्वान्ते विधि प्रयुक्ते करोति तं सूत्रस्थानि प्रयोजयन्तीत्यर्थविवक्षया प्रयोज्यकर्तरि तृतीया बोध्या। अनिति प्रकृतिभावबाधनार्थं कामस्ताच्छील्य इति निपातनमेकदेशानु- मत्याऽस्यां ज्ञापकमन्यथानर्थकत्वात् कार्म इत्यत्र प्रकृतिभावाप्राप्त्या नस्तद्धित इत्येव सिद्धे तद्वैयथ्य स्पष्टमेव । राज्ञेत्यत्रान् अर्थवान् , उणादी- नामव्युत्पन्नत्वे सुजम्भन इत्यनिजन्तेऽर्थवदुदाहरणम्बोध्यम् । अथवा अन्धातोः किप्यानशब्दादपत्येऽणि आन इत्यादावेवानिति प्रकृतिभावः स्यान्न त्वनर्थक इति बोध्यम् । दण्डोत्यत्रेन अर्थवान् वाग्मीत्यत्रानर्थकः । सुपया इत्यत्रास् अर्थवान् । अव्युत्पत्तिपक्षे प्रजामाचष्टे इत्यर्थे णिचि टिलोपे किपि णिलोपे च तदन्तबहुव्रीहावसिचि सप्रजा इत्युदाहर्तव्यम् । सुश्रोता इत्यत्र श्रुधातोरसिप्रत्ययस्तस्य तुडागमेनागमसमभिव्याहारे आग- मविशिष्टस्यैवार्थवत्त्वेनास्अनर्थकः । ननु यदागमन्यायेनास्पदेनागमसहि- तस्यासो ग्रहणेन तस्य चार्थवत्त्वेनानर्थकोदाहरणमयुक्तम् । न च निर्दिश्य- मानस्यासो ग्रहणेन तस्यानर्थकत्वमेवेति वाच्यम् । अस्पदोत्तरषष्ठ्य- भावेन तस्या अनुपस्थानात् । निर्दिश्यमानपरिभाषया अर्थवदसन्तावय- वास्पदीयनिर्दिश्यमानावयवस्योपधाभूतस्य दीर्घ इत्यर्थस्यैव सत्वेन निहि- श्यमाने अर्थवत्त्वस्यानन्वयाच न चोणादीन्यव्युत्पन्नानीति दृष्टथा श्रोत- सित्यस्यैवार्थवत्त्वेनासोऽनर्थकत्वमिति वाच्यम्। तथा सति सुपया इत्यत्रा- प्यनर्थकस्यैवासस्सत्वेनार्थवदुदाहरणदानासङ्गत्यापत्तेरिति चेत्-न । श्रुधा- तोविचि गुणे श्री इति । तस्मात्पञ्चम्यन्तात्तसि । प्रत्यये श्रोतसिति । तद- नुकरणस्य सुशब्देन बहुव्रीहौ सुश्रोता इत्यत्रासोऽनर्थकत्वमित्याशयात् । सुशमैति । अत्र मन्नर्थवान् । सुप्रथिमेति । अत्रेमनिचप्रत्ययावयवस्य मनो- ११० 1 परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके 'मन' इति कीपनिषेधश्च सिद्धः। अन्ये तु परिवेविषीध्वमित्यत्र ढत्वव्यावृत्त ये क्रियमाणादिणः पीध्वमि'त्यत्राङ्गग्रहणादर्थवत्परिभाषाऽनित्या तन्मूलकमिदमि- त्याहुः। 'विभाषेट' इत्यत्रानर्थकस्यैव पीध्वमः सम्भवादत्रापि तस्यैव ग्रहणमिति भ्रमवारणायाङ्गादिति परे ॥ १७ ॥ ननु 'उश्चे'त्यत्र 'लिसिचावि'त्यत आत्मनेपदेष्वित्येव सम्ब- ध्येतानन्तरत्वादत आह- । ऽनर्थकत्वम्बोध्यम् । शोभनः प्रथिमाऽस्या इत्यर्थे अनित्यनर्थकस्य ग्रहणाद- नो बहुब्रीहेरित्येव सिद्धे अनर्थकस्य मनोग्रहणे नैतदुदाहरणं युक्तम् । न सुप्रथिमाऽसुप्रथिमेति बहुव्रीयुत्तरपदकनब्ब्तत्पुरुषे उदाहरणमिति परे । अनो बहुव्रीहेरित्यत्र बहुव्रीहिपदेन प्रातिपदिकस्य विशेषणात् तदन्त- विधिना तत्रापि सिद्धौ प्रथिमानमतिक्रान्ता अतिप्रथिमेत्युदाहरणमुचित- मित्यपरे। केचित्तु सुप्रथिमेत्यादौ अनो बहुव्रीहेरित्यस्य सुराज्ञीत्यत्रेव बाधेन पने अन उपधालोपिन इति ङीवापत्तिरनर्थकस्य मनोग्रहणे तु मन इत्यनेन बाध्यसामान्यचिन्तया तस्यापि बाध इत्यनर्थकस्य मनोग्रहणे फलं सम्य- गेवेत्याहुः । वस्तुतः सुगरिम्नीतनूममुकनाम्नीमिति प्रयोगदर्शनात् मन इत्यस्यापि अन उपधेत्येव बाधकमित्यतिप्रथिमेत्येव युक्तमित्यम्बाक: । सुगता प्रथि- मानं सुप्रथिमेति नवीनाः। परिवेविषीध्वमिति । परिपूर्वकाज्जौहोत्या- दिकाद्विष्धातोविधिलिङि सीयुडागमे सकारलोपे द्वित्वेऽभ्यासगुणे परि- वेविषीध्वमिति साधुः । अस्धातोविधिलिङि कर्मव्यतिहारे आत्मनेपदे व्यतिषीध्वमित्यत्रार्थवत: पीध्वमः सम्भवेन तत्र मूर्धन्यवारणायानन्ग्रह- णस्य चारितार्थ्यात् ज्ञापकासङ्गतिरिति तु न वाच्यम् । तत्रोपसर्गप्रादु- भामिति विहितषत्वस्यासिद्धत्वेन पीध्वमोऽभावेनाङ्गग्रहणस्य चारिता- र्थ्याभावात् आगमसमभिव्याहारे तद्विशिष्टस्यैवार्थवत्त्वेनेट: परस्य षोध्यमो- ऽर्थवत्त्वासम्भवात्तत्रार्थवत्परिभाषाबाधेप्यत्र बाधे मानाभावादशग्रहणं ज्ञापकमेवेति दिक् ॥ १७ ॥ - १८. एकयोगनिर्दिष्टानां ] विजयाऽलङ्कृतः [ १११ एकयोगनिर्दिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः ॥ १८॥ वा शब्द एवार्थे । परस्परान्वितार्थकपदानां सहैवानुवृत्तिनि- वृत्तो इत्यर्थः । एककार्यनियुक्तानां बहूनां लोके तथैव दर्शनादिति भावः। यत्वत्र ज्ञापकं 'नेड्वशि' इत्यत इडित्यनुवर्तमान 'आर्द्धधातुक- स्येट्' इत्यत्र पुनरिडग्रहणं तद्धि नेत्यस्यासम्बन्धार्थमिति तन्न । 'दीधीवेवीटामिति सूत्रे भाष्ये तत्रत्येडग्रहणप्रत्याख्यानायेडग्रहणेऽ- नुवर्तमाने पुनरिडग्रहणस्येटो गुणरूपविकाराभावार्थकत्वस्योक्त- त्वेन तद्विरोधात् । नजो निवृत्तिस्तु क्वचिदेकदेशोऽप्यनुवर्तत इति न्यायेन सिद्धा। वस्तुतस्तु 'दीधीवेवीटामिति सूत्रस्थभाष्यमेकदेश्युक्तिः । 'आर्द्धधातुकस्येति'सूत्रस्थडग्रहणस्य 'नेड्वशी'ति सूत्रे भाष्ये प्रत्या- ख्यानात् । तत्करणेन गुरुतरयत्नमाश्रित्यैतत्प्रत्याख्यानस्यायुक्त- त्वात् ॥ १८॥ एकयोगनिर्दिष्टानामिति । एकस्मिन् योगस्सम्बन्धस्तेन निर्दिष्टा- नामेकान्वितानामित्यर्थः । यथा कित्वे अन्वितानां लिसिजात्मनेपदाना- मिति बोध्यम् । एतदेवाह-परस्परान्वितार्थकपदानामिति । स्वन- योज्यविषयतया साक्षात्परम्परया वा निरूपिता या विषयता तत्प्रयोज- कानामित्यर्थः । योगपदं कार्यपरमिति केनचिदुक्तं न युक्तं, योगशब्दस्य कार्यपरतायाः क्वाप्यदृष्टत्वादनन्वयाच्च । एकत्रार्थे योगसम्बन्ध इति मूलेन विरोधाच्च । एतेषामेव कचित्सहानुवृत्तिनिवृत्ती कचिदेकदेशानुवृत्तिरिति परिभाषाद्वयेनोच्यते । द्विवचननिर्देशस्तु बहुवचनस्याविवक्षाबोधनार्थः । परस्परान्वितार्थक क्वचित्पदत्रयं, कचित्पदद्वयं सर्व ग्राह्यमिति तात्पर्यम् । तद्विरोधादिति। इदमुपलक्षणं सूत्रारम्भसामर्थ्याग्नबो निवृत्तौ ज्ञापितायां ।

११२ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके नन्वलुगधिकारः प्रागानङ उत्तरपदाधिकारः प्रागङ्गाधिकारा- दित्यनुपपन्नमेकयोगनिर्दिष्टत्वात् । तथा 'दामहायनान्ताच्चे' त्या- दौ 'सङ्खथाव्ययादेः' इत्यतः सङ्ख्यादेरित्यनुवर्ततेऽव्ययादेरिति निवृत्तमिति चानुपपन्नमत आह- एकयोगनिर्दिष्टानां क्वचिदेकदेशोऽप्य- नुवर्तते ॥ १६ ॥ एकत्रार्थे योगः सम्बन्धः । तेन निर्दिष्टयोः समुदायाभिधायि- द्वन्द्वनिर्दिष्टयोरित्यर्थ इति ‘पक्षात्तिरिति सूत्रे कैयटः। तावन्मात्रा- शे स्वरितत्वप्रतिज्ञाबलाल्लभ्यमिदम् । स्पष्टा चेयं 'दामहायनान्ता- च्चेति सूत्रे 'श्रौतोऽम्शसोः' इति सूत्र च भाष्ये पूर्वा च ॥१६॥ ननु 'त्यदादीनाम' इत्यादिनेममित्यादावनुनासिकः स्यादत आह- स्वांशे चारितार्थ्याभावादित्यपि बोध्यम् । ज्ञापकजिज्ञासायां तु ईदूदेद्- द्विचनं प्रगृह्यमित्यत ईदूदित्येतन्मात्रानुवृत्त्यैव सिद्धावेकाराननुवृत्त्यर्थं कि- यमाणमदसोमादित्यत्र माद्ग्रहणमेव । ज्ञापितायान्त्वाद्यायामकारानुव- त्तिनिरासाय चरितार्थम् । लिसिचावित्यतः सिज्ग्रहणानुवृत्त्यैव सिद्धौ हनः सिच इत्यत्रत्यं सिज्ग्रहणश्च ज्ञापकम् । दामहायनान्ताञ्चेत्यत्र संख्या- देरिति वक्तव्यमितिवार्तिकप्रत्याख्यानमेकदेशस्यापि संख्याव्ययादेर्डीबि- त्यत: संख्यादेरित्यस्यानुवृत्त्या कृतमन्त्याया अभावे अव्ययस्याननुवृत्तये संख्यादेरित्यस्याप्यननुवृत्तेः प्रत्याख्यानासङ्गतिः स्पष्टवेति बोध्यम् । कैयद इति। अनेनारुचिस्सूचिता। अलुगुत्तरपदे इत्यवतरणभाष्यवि- रोधादौतोम्शसोरित्यत्राचिनवमित्यत्रात्वाप्रवृत्त्यर्थं वा सुपीत्यतो वेति निवृ- तं सुपीत्यनुवर्तत इति भाष्यविरोधाच्च । उभयत्र समासस्याभावात् ॥१९॥ इमावित्यादौ त्यदादीनाम इत्यनेनानुनासिकाकारस्य विधानेऽपि ऐचो- ऽनुनासिकस्याभावेन शुद्धस्यैवौकारस्य वृद्धिरेचीत्यनेन विधानात्, इमे इत्यत्र परस्येकारस्य द्विमात्रत्वेन तत्सदृशगुणकस्यैव विधानेन दोषाभावेन द्विवच- २०. भाव्यमानेन सवर्णानां० ] विजयाऽलङ्कृतः [ ११३ भाव्यमानेन सवर्णानां ग्रहणं न ॥ २० ॥ 'अणुदित् सूत्रेऽप्रत्यय इत्यनेन सामर्थ्यात्सूत्रेण प्राप्तं जाति- पक्षण प्राप्तं गुणाभेदकत्वेन च प्राप्तं नेत्यर्थः । अत एव 'अणुदित्'सूत्रे प्रत्ययादेशागमेषु सवर्णग्रहणाभावं प्रकारान्तरेणोक्त्वा एवं तर्हि नाद्यपेक्षयैकवचनस्य प्राथम्याच द्वितीयैकवचनान्तमवतरणम् । भाव्यमा- नेन सवर्णानां ग्रहणन्नेति । कतरि तृतीया, ग्रहणमिति भावे प्रत्ययः। ननु भाव्यमानं विधेयभूतं लक्ष्यस्थम् । तेन सवर्णग्रहणं न प्रसक्तं सूत्रे एवाणुदित्सूत्रप्रवृत्तेलक्ष्ये सवर्णग्राहकताया अनुपयोगाच। तत्र निषेधो व्यर्थ इति चेत्-न । बोध्यबोधकयोरभेदेन भाव्यमानपदेन विधेयताप्रयोजकप- दस्यैव ग्रहणात् । किञ्च पदे सवर्णग्राहकतायां बोधकत्वसम्बन्धेनाणहेतुर- बोधकं हि पदं सवर्णग्राहकमित्यणा बोधकत्वसम्बन्धेन पदे सता हेतुना पदे न सवर्णग्रहणम्भवति । भाव्यमानेन विधेयभूतेन तेन हेतुना सव- र्णानां ग्रहणन्न भवतीति परिभाषार्थः । तथा च हेतावेषा तृतीया विधेय- बोधकमेव भाव्यमानपदमिति बोध्यम् । अप्रत्यय इत्यनेनेति । अस्य बोध्यत इत्यनेनान्वयः। नेत्यर्थ इति। अस्य बोध्यत इति शेषः। अयम्भावः अणुदित्सवर्णस्य चाप्रत्यय इत्यत्राप्रत्यय इति पृथक् योगः । प्रत्ययः सव- र्णग्राहको नेत्यर्थः । यदि चायं सूत्रप्राप्तस्यैव निषेधस्तदा योगविभागो व्य- र्थस्तत्सामर्थ्यात् प्रदर्शितप्रकारत्रयेण प्राप्तम्वार्यते । परन्तु तावतापि व्य- र्थमेवेहल्यघोरित्यनेन हवेकारकरणेनैव ग्राहकसूत्रबलेन दीर्घ सिद्धे ईकार- करणात् ज्यादादीयसः इत्यत्र अदादेशेनैव ग्राहकशास्त्रवलेन दीर्धे सिद्धे दीर्घोच्चारणाच्चादेशे, इविधानेनैवाणुदित्सूत्रबलेन दीर्घस्यापि विधिसिद्धौ वृतो वेतिसूत्रारम्भसामर्थ्यादागमे, अनभिधानात्प्रत्यये, सवर्णाग्रहणे सिद्ध अप्रत्ययग्रहणम्व्यर्थमेवेति सामर्थ्यादनेनैवाप्रत्ययग्रहणेनैकदेशानुमत्येयं परिभाषा ज्ञाप्यते । भाव्यमानस्य प्रत्ययागमादेशरूपांशत्रयात्मकत्वादिति भावः। ननु नेदमप्रत्ययग्रहणमुक्तपरिभाषाज्ञापकमपि तु प्रतीयते विधीयत इति व्युत्पत्त्या प्रत्ययपदस्य वाच्यार्थ एव परिभाषार्थः । अथवा प्रत्ययस्यै- वाग्राहकत्वनागमादीनामित्येव सामर्थ्यात्।कुतोन कल्प्यत इत्यत आह- अत एवाणुदितसूत्र इति । प्रकारान्तरेणेति । उक्तप्रकारेणेत्यर्थः । ८ ११४ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके सिद्धे यदप्रत्यय इति प्रतिषेधं शास्ति तज्ज्ञापयति आचार्यो भव- त्येषा परिभाषा-भाव्यमानेन सवर्णानां ग्रहणं ने ति । किञ्च ज्याद ईयस इत्वेवान्तर्यतो दोर्षे सिद्ध ज्यादादिति ज्ञापयतीति । एकदेशानुमत्या बोधयतीत्यर्थः । वाच्यार्थत्वे नैवं वदेदिति भावः। नेत्यर्थ इति । भाष्ये उक्तमिति शेषः । अत्रैवाणुदित्सूत्र इत्यस्या- न्वयः । उक्तभाष्यस्य वाच्यार्थपरतयापि कथञ्चिल्लापनाग्रहे अाह-किञ्चे- ति । इदं भाष्यं परिभाषार्थस्याप्रत्ययपदवाच्यत्वे विरुद्धतेति भावः। तेन च प्रत्ययसंज्ञक एवार्थ इति सिद्धम् । ज्ञापितायामप्यस्यां कथं दीर्घोच्चारणं स्वांशे चरितार्थ हस्वाकारविधानेपि सवर्णदीर्पण रूपसिद्धेनं च पररूपं बाधकम्भविष्यतीति वाच्यम् । लोपग्रहणमनुवत्र्येकारस्य लोपविधानेनैव सिद्धेऽकारविधानसामर्थ्येन पररूपस्याप्रवृत्त्या दीर्घसिद्धेरिति चेत्-न। लोपेऽकृत्सार्वधातुकयोरिति दीर्घापत्त्याकारविधानस्य पररूपे सत्यपि व्यर्थत्वाभावात् । न चाङ्गकार्य इति परिभाषया अकृदितिदीर्घाभाव इति वाच्यन्तस्या भाष्ये लक्ष्यसंस्काराय काप्यनाश्रयणात् । ननु धृष्णुयेत्यत्र दीर्घवारणायाकृदित्यत्र कितीत्यस्यानुवृत्तेरावश्यक- तया लोपे दीर्घाभाव इति चेत्-अत्रोच्यते-अकारविधानसामर्थ्येन पर- रूपन्नेति कल्पेताहोस्विदविकृताकार एव श्रूयते इति वा कल्पेतेत्यत्र विनि- गमकाभावेनाकारविधानस्यावश्यकत्वात्। किञ्चाकारविधित्सया दीर्घोच्चा- रणं पाणिनिना कृतन्तदनुपपन्नम् । ह्रस्वकरणेनापि ग्राहकसूत्रबलेनाकार- विधिसम्भवेन दीर्घोच्चारणजनकप्रयत्नस्यानुपयोगात्। तस्मात्परिभाषा- ज्ञापने ह्रस्वकरणेन दीर्घविधानस्याशक्यत्वात्तदर्थ दीर्घोच्चारणमावश्यक- मिति नानुपपन्नम् । दीर्घोच्चारणमेतदेव । स्वांशे चारिताय नाम येनानुप- पन्नेन किञ्चिज्ज्ञाप्यन्तेन ज्ञापितेन सानुपपत्तिरवश्यं परिहरणीयेति । अका- रविधानमेवास्तु दीर्पण रूपसिद्धिर्भविष्यतीदन्त्वन्यत् । तस्यैव किं समा- धानमिति चेत्-पूर्वोक्तमेव गृहाणेत्यलम् । ननु कोऽयं परिभाषार्थः ? न तावत् विधेयताप्रयोजकं पदं स्वसवर्ण- ग्राहकन्नेत्यर्थः । त्यदादीनाम इत्यत्र विधेयताप्रयोजकमेति पदन्तत्स्वसव- र्णस्य शुद्धहस्वाकारस्यापि दीर्घानुनासिकयोरिव ग्राहकन्न स्यादिति तत्- सूत्रस्यैव वैयापत्तिः। यदि च स्वबोध्यसवर्णग्राहकन्नेत्यर्थस्तथापि स एव ।

२०. भाव्यमानेन सवर्णानां०] विजयाऽलङ्कृतः [ ११५ दोषः स्वबोध्यो हस्खोऽकारस्तत्सवर्णस्स एव । यदि च स्वबोध्यविशिष्ट- ग्राहकन्नेत्यर्थः। वैशिष्ट्यञ्च स्वभिन्नत्वस्वसवर्णत्वोमयसम्बन्धेन । स्व- स्मिन् स्वभिन्नत्वाभावान्न दोष इत्युच्यते तथापि जातिपने स्वबोध्यो दी- |ऽपि सानुनासिकोऽपि तद्विशिष्टत्वमुक्तसम्बन्धाभ्यां शुद्धह्रस्वाकारे तस्या- ग्रहणस्यापरिहार एव । एवं स्वबोध्य एको ह्रस्वोऽकारस्तद्वैशिष्ट्यमपर- स्मिन् तादृशेऽकारे तस्याग्रहणापत्तौ स इत्यत्र स्यात् , एष इत्यत्र न स्यात् । अत्रोच्यते । विधेयताप्रयोजकं पदं स्वविशिष्टग्राहकन्नेत्यर्थः । वैशि- ष्ट्यञ्च स्वसवर्णत्वस्वावृत्तिधर्मवत्त्वोभयसम्बन्धेन । त्यदादीनाम इत्यत्र स्वमेति तद्विशिष्टस्सानुनासिको दीर्घश्च । तत्र स्वसवर्णत्वस्य स्वावृत्ति- धर्मोऽनुनासिकत्वं दीर्घत्वञ्च । तस्य च सत्त्वात्तयोर्ग्रहणाभावः । शुद्धह्रस्वा- कारे च स्वावृत्तिधर्मवत्त्वस्याभावान्न दोषः । न चैवं तत्पुरुषीयत्वतत्का- लिकत्वादयः स्वावृत्तयो धस्तिद्वत्त्वस्य तत्रापि सत्त्वात् स दोषो दुरु- द्धर इति चेत्-न । श्रावणप्रत्यक्षविषयतावच्छेदकस्यैव धर्मस्य ग्रहणेन तेषां धर्माणामतादृशत्वेन दोषाभावात् । न च तव्यक्तित्वन्तथा- विधतदादाय दोषानिस्तार इति वाच्यं, तदतिरिक्तत्वेनापि धर्मास्य विशेषणात् । न चाननुगम इति वाच्यं, भेदविशिष्टान्यत्वेनानुगमसम्भ- वात् । वैशिष्ट्यश्च स्वप्रतियोगिवृत्तित्वस्वसामानाधिकरण्योभयसम्बन्धेन बोध्यम् । न चैवमपि स्वावृत्तयो धास्तादृशा उदात्तत्वस्वरितत्वाद- यस्तद्वतामपि ग्रहणन्न स्यात् । तथा च वृक्षेभ्य इत्यादावुदात्तानुदात्तयोः स्थान्यन्तरतमयोर्विधानन्न स्यात् । इष्यते तु गुणानामभेदकतया सर्वे- षामुदात्तादीनामकाराणाम्विधानमिति वाच्यं, स्वरत्वव्याप्यधर्मेतरत्व- स्यापि निवेशनीयत्वात् । अथवा स्थानप्रयत्नजन्यतावच्छेदकस्यैव धर्मास्य निवेशस्तत्पुरुषीयत्वतद्व्यक्तित्वादयश्च न तथेति न तादृशधर्ममादाय दोषः। स्वरत्वव्याप्यधमतरत्वमत्रापि देयमेव । तेषामपि तादृशजन्यताव- च्छेदकत्वात् । न चैवमपीको यणचीत्यादौ दोष एव। तत्र विधेयताप्रयो- जकं यणपदं तत्सवर्णाप्रसिद्धया विशिष्टस्याप्रसिद्धत्वेन परिभाषाया अप्र- वृत्त्या सानुनासिकयोर्यकारवकारयोरपि विधानापत्तेनं च स्वबोध्यविशिष्ट- निवेशाददोष इति वाच्यम् , त्यदादीनाम इत्यत्र जातिपक्षे स्वबोध्यो दीर्घ- स्तद्विशिष्टो ह्रस्वस्तस्याग्रहणापत्तेरिति वाच्यम्। यतः स्वतादात्म्यस्वनिष्ठ- शक्तिनिरूपकतावच्छेदकसमुदायघटकत्वैतदन्यतरसम्बन्धेन । स्वविशिष्टो यस्तद्विशिष्टस्य ग्राहकं विधेयताप्रयोजक पदन्न भवतीत्यर्थः। अन्त्ये वैशिष्ट्यं पूर्ववदेव बोध्यम् । तादात्म्यनिवेशात् त्यदादीनाम इत्यादौ ११६ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके दीर्घोच्चारणमस्या ज्ञापकम् । 'अणुदित्'सूत्रे च भाष्ये स्पष्टैषा । 'चोः कुरि'त्यादौ भाव्यमानेनापि सवर्णग्रहणम् । विधेये उकारोच्चा- रणसामर्थ्यात् । एतन्मूलकमेव-भाव्यमानोऽण सवर्णान्न गृह्णा- तीति नव्याः पठन्ति ॥ २० ॥ नन्वेवं 'अदसोऽसेरि'त्यादिनाऽमू इत्यादौ दीर्घविधानं न स्यादत आह- भाव्यमानोऽप्युकारः सवर्णान् गृह्णाति ॥ २१ ॥ दिव उत् ऋत उत् इति तपरकरणमस्या ज्ञापकम् । 'तित्स्व- न दोषः। द्वितीयसम्बन्धनिवेशादिको यणचीत्यादौ न दोषः। अग्रिमवै- शिष्ट्यनिवेशफलन्तु पूर्वमुक्तमेवेति सुधियो विभावयन्तु ॥२०॥ नन्वेवमिति।भाव्यमानस्य सवर्णाग्राहकत्वे इत्यर्थः। ननु उश्च ऊश्चेति ह्रस्वदीर्घयोस्समाहारद्वन्द्वेन तत्रोभयोर्विधानसिद्धिः। अत एव कौमुद्यामुक्तं ह्रस्वदीर्घयोस्समाहारद्वन्द्व इति चेत्-न। उश्च ऊश्चेतिसमाहारद्वन्द्व घित्वात् हस्वस्य पूर्वनिपाते नपुंसकहस्वत्वदीर्घत्वयोः प्राप्तावपरनिमित्तकत्वेनान्त- रङ्गत्वात् ह्रस्वे पश्चात् सवर्णदीर्घे लक्ष्ये लक्षणन्यायेन पुनह स्वाप्रवृत्तौ दीर्घस्यैव श्रवणापत्तेः। दिव उदिति । तपरकरणं हि दीर्घव्यावृत्त्यर्थमेतत्परिभाषाया असत्त्वे तु दीर्घस्य पूर्वपरिभाषयाऽविधानसिद्धेस्तद्वैयय स्पष्टमेव । न च ज्ञापिते- ऽपि स्वांशे चारितार्थ्याभावः ।. सवर्णग्राहकत्वेपि वकारस्य स्थानिनो द्विमात्रन्यूनकालिकत्वेनान्तरतम्याद्मस्वस्यैव प्रवृत्तेः । ननु छ्वोश्शूडितिसूत्रे कितीत्यस्याननुवृत्तेः भ्यामित्यादौ परत्वात पूर्वमूठि आन्तरतम्यात् दिव उदित्यनेन प्राप्तस्य दीर्घस्य वारणार्थं दिवुधातोः किपिऊठि भ्यामिद्युभ्यामित्यादौ ह्रस्वार्थश्च तपरत्वं चरितार्थमिति चेत्- न। प्रतिपद्विधित्वेन पूर्व दिव उदित्यस्यैव प्रवृत्तः । 'निरनुबन्धकग्रहणे न सानुबन्धकस्येति परिभाषया दिवुधातोः किप्यप्रवृत्तेश्चेति वाच्यम्। दिव- मिच्छतीत्यर्थे क्यजन्तात् किप्यल्लोपयलोपयोरूठि भ्यामि द्युभ्यामित्यादौ ह्रस्वार्थन्तस्यावश्यकत्वात् । न चोठि अल्लोपस्य स्थानिवत्त्वं, की विधि प्रतीतिनिषेधात् । न चोत्वे तस्य स्थानिवत्त्वेनापदान्तत्वादुत्वाभावः।

[११७ २१. भाव्यमानोऽप्युकारः ] विजयाऽलङ्कृतः रितम्' इति सूत्रे भाष्ये स्पष्टैषा ॥ २१ ॥ स्थानिभूतादचः पूर्वत्वेन दृष्टस्य कार्याभावात् । कार्य हि उकारस्य । स च न स्थानिभूतादचः पूर्वत्वेन दृष्टः । स्थानिवत्सूत्रेण तु तथा दृष्टत्वमलभ्य- मशास्त्रीयत्वात्पूर्वत्वादिघटितस्यातिदेशाभावाच । ऋत उदिति । न च तपरत्वं सूत्रान्तरप्राप्तदीर्घस्याप्यभावार्थमत एव पितू राज्यमित्यादौ दीर्घासाधुत्वमिति वाच्यम् । उरणपर इति सूत्रस्थे ऊरपर इति भाष्यप्रयोगे 'सवितूरस्मयो यथेति'रामायणप्रयोगे च दीर्घ- दर्शनात् अक्षरमादयाऽलाभाच सूत्रान्तरप्राप्तस्य तस्येष्टत्वात् । अत्र केचित्-इयं परिभाषा सूत्रकारानभिप्रेता। हस्खोकारकरणेना- प्यान्तरतम्यादीघे सिद्धे अदुपधायागोह इत्यत्रोदितिदीर्घोच्चारणस्य सूत्र- कृतो वैयापत्तेः। भाष्यकारानभिप्रेता च। कथमन्यथा उऊदिति प्रश्लिष्य गोह इति विकृतनिर्देशः प्रत्याख्यातः । ह्रस्वोकारकरणेनापि परिभाषाबलेन दीर्घसिद्धथा विकृतनिर्देशस्य प्रत्याख्यानसम्भवेन प्रश्लेषासङ्गत्यापत्ते- रित्याहु:- तन्न। दोषोणावित्यत्र दुषोणावित्यस्यैव सुवचत्वेन तत्र दीर्घविधानार्थ- त्वात् । न च ह्रस्वोकारानुवृत्तावपि परिभाषया दीर्घसिद्धिः। तक्रन्यायेन गुणं बाधित्वाऽऽन्तरतम्याद्ध्वस्यैव विधानापत्तेः। न च ह्रस्वस्य ह्रस्ववि- धानम्व्यर्थं गुणवाधनार्थत्वात् । न वा भाष्यविरोधः। विकृतनिर्देशाभावे ह्रस्वोकारकरणे तक्रन्यायेन गुणं बाधित्वा जुगूहेत्यादावान्तरतम्याद्धस्व- विधानापत्तेः । दीर्घप्रश्लेषे तु तत्सामर्थ्यात्तक्रन्यायाप्रवृत्त्या पूर्व गुणे आन्तरतम्यादीर्घ सिद्धिर्भवतीति प्रश्लेषस्सार्थकः । न च ह्रस्वकरणे ह्रस्व- स्यैव विधाने नाभ्यस्तस्याचीत्यस्याने गुहश्चेतिकरणेन गुह उपधाया गुणो नेत्यर्थेन गुणाभावोपपत्तौ हस्वविधानसामर्थ्यात् तक्रन्यायबाधेन गुणे कृते आन्तरतम्याद्बस्वकरणेऽपि दीर्घविधानसिद्धौ दीर्घप्रश्लेषासङ्गति- स्तदवस्थैवेति वाच्यम् । गुधातोर्णिजन्ताल्लुङि अजुगृहदित्यादावुपधा- गुणेऽनेन प्रतिपदोक्तत्वाद्ध्वात्पूर्वं दीर्घोकारे विधानसामर्थ्यात् णौ च- ड्युपधाया ह्रस्व इति हस्खवारणेन दीर्घप्रश्लेषस्य सार्थक्यात् । वस्तुतस्तु नैतत्परिभाषायाः फलन्न चामू इत्यत्र दीर्घविधानं फलम् । अदसोऽसेरिति सूत्रे हस्वदीर्घयोस्समाहारद्वन्द्वेनापि तत्सिद्धेः । न च निर्देशासङ्गतिः। सूत्रत्वाद्दीघे कृते स्वप्रवृत्तिरितिकल्पनया निर्देशोप- ११८ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके ननु गवे हितं गोहितमित्यादौ प्रत्ययलक्षणेनावाद्यादेशापत्ति- रताह- पत्तेरिति दिक् ॥ २१ ॥ ननु गवे हितंगोहितमित्यादौ प्रत्ययलक्षणेनेति । ननु न लुम- ताङ्गस्येत्यनेन लुमच्छब्देन लुप्तप्रत्ययनिमित्तकं कार्य्यमङ्गस्य नेत्यर्थकेनात्र- प्रत्ययलक्षणाभावान्न दोष इत्यवतरणासङ्गतिर्न चाङ्गत्वावच्छिन्नोद्देश्य- ताककार्यस्यैव तेन निषेधात्प्रकृते न दोषोऽवादेशस्याङ्गत्वावच्छिन्नो- द्देश्यताकत्वाभावादिति वाच्यम् । फलाभावेन तादृशनिवेशस्याभावात् । न चावादेशीयोद्देश्यताया अङ्गपर्याप्तत्वाभावादङ्गपर्याप्तोद्देश्यताकका- य॑स्यैव तेन निषेधोऽत एवोत्क्रामेत्यादौ हेर्नुकि प्रत्ययलक्षणेन परस्मै- पदपरकशित्परकक्रमेरचो दीर्घोऽन्यथाऽपर्याप्त्या तत्राप्यचत्वावच्छि- नोद्देश्यताया अङ्गवृत्तित्वेन निषेधापत्तिरिति वाच्यम् । शब्दानित्यत्ववार- णायाजव्यवहितपूर्वत्वविशिष्टस्यैघटितस्योच्चारणप्रसङ्गेऽयादिघटितस्सा- धुरित्यर्थावश्यकत्वेन एघटितगोशब्दरूपेऽङ्गे एवोद्देश्यतायाः पर्याप्तत्वा- दिति चेत्-अत्रोच्यते-शब्दानित्यत्ववारणायैवमर्थकरणे केशवोऽत्रेत्या- दावन्यजव्यवहितपूर्वस्यैघटितस्य केशवशब्दस्यापि प्रसङ्गेऽयघटितस्य तस्य साधुत्वापत्त्याऽजव्यवहितपूर्वो य एच तद्घटितस्योच्चारणप्रसङ्गे अयादिघटितस्साधुरित्येवार्थः कर्तव्यः। तथा चैचोऽजव्यवहितपूर्वत्वा- भावेन न दोषः । न लुमताङ्गस्येत्यनेन च लुमता लुप्तप्रत्ययाव्यवहितपूर्व- स्वावच्छिन्नाङ्गपर्याप्तोद्देश्यताककार्य्यस्यैव निषेधः। पूर्वोक्तार्थे तु दधि मध्वित्यादावपि सुप्तिङन्तं पदमितिपदसंज्ञाया निषेधापत्तिः। तस्या अपि लुप्तप्रत्ययनिमित्तकत्वाऽङ्गापर्याप्तोद्देश्यताकत्वयोः सत्त्वात् । तथा चाङ्गप- र्याप्तोद्देश्यताया एघटितनिष्ठाया लुप्तप्रत्ययाव्यवहितपूर्वत्वावच्छिन्न- त्वाभावात् एज्निष्ठायास्तस्याश्चाङ्गपर्याप्तत्वाभावात्प्रकृते न प्रत्ययलक्षण- निषेध इत्यवतरणं सम्यगेव । न चैघटितनिष्ठाया अप्युद्देश्यतायाः परम्परया लुप्तप्रत्ययाव्यवहितपूर्वत्वावच्छिन्नत्वादवतरणासङ्गतिरेव सा- क्षादवच्छिन्नत्वनिवेशे फलाभावादिति वाच्यम् । उत्क्रामेत्यादौ क्रमत्वा- वच्छिन्नाया अङ्गपर्याप्ताया लुप्तप्रत्ययपरस्मैपदाव्यवहितपूर्वत्वेनावच्छि- नत्वेन निषेधापत्त्या साक्षादवच्छिन्नत्वनिवेशस्यावश्यकत्वात् । न च केशवोऽत्रेत्याद्यनुरोधेनाजव्यवहितपूर्वत्वविशिष्टस्यैजन्तस्योच्चारणप्रसझेड- २२. वर्णाश्रये नास्ति०] विजयाऽलङ्कृतः [ ११६ याद्यन्तस्साधुरित्येवार्थः क्रियते । तथा चाङ्गपर्याप्ताया एजन्तत्वावच्छिन्न- विषयताया लुप्तप्रत्ययाव्यवहितपूर्वत्वेन साक्षादवच्छिन्नत्वेनावतरणासङ्ग- तिरेवेति वाच्यम् । गोरगवचनं स्वरसिद्धयर्थमिति वार्तिकरीत्या गवार- मित्यादौ गोशब्दस्यागागमे गोश्र इति स्थिते आगमसमभिव्याहारे आग- मविशिष्टस्यैवार्थवत्त्वमित्यनुसारेण गोशब्दस्यानर्थकत्वात्तस्यार्थबोधनाय प्रसङ्गस्यैवाभावेनावादेशानापत्तेरजव्यवहितपूर्वत्वविशिष्टो य एच् तद्घटि- तस्येत्युक्तौ तु अच अकारस्तव्यवहितपूर्वत्वविशिष्ट एच् ओकारस्तद्- घटितस्यार्थवतो गो अ इत्यस्योच्चारणप्रसङ्गेऽवघटितस्य गवेल्यस्य साधुत्वे- नादोषात् । न चैवमपि जराया जरसन्यतरस्यामित्यस्य जराशब्दान्तं यदङ्गन्तदवयवस्य जरापदीयनिद्दिश्यमानस्याजादिप्रत्ययाव्यवहितपूर्वस्य जरसित्यर्थेन निर्जरपुत्र इत्यादौ प्रत्ययलक्षणेन जरसादेशापतिरङ्गपर्याप्तो- द्देश्यताया लुप्तप्रत्ययाव्यवहितपूर्वत्वेनावच्छिन्नत्वाभावात् न लुमताङ्गस्ये- त्यस्याप्राप्तेरिति वाच्यम् । अङ्गपर्याप्तधर्मेण साक्षात् परंपरया वाs- वच्छिन्ना या लुप्तप्रत्ययाव्यवहितपूर्वत्वेन साक्षादवच्छिन्नोद्देश्यता तन्निरू- पककार्यन्नेत्यर्थकरणेन निर्दिश्यमानत्वावच्छिन्नोद्देश्यता याऽस्ति तस्याः परंपरयाऽङ्गपर्याप्तधर्मेण साक्षाल्लुप्तप्रत्ययाव्यवहितपूर्वत्वेन चावच्छिन्न- त्वात्तामादायैव निषेधप्रवृत्तेः । यदि चाङ्गवृत्ति- षष्ठयन्तपदप्रयोज्या विषयता लुप्तप्रत्ययाव्यवहितपूर्वत्वेन साक्षादवच्छिन्ना तनिरूपकं कायंने- त्यर्थः। उत्क्रामेत्यादौ च परस्मैपदेन साक्षादवच्छिन्नायास्सप्तम्यन्तशित्पद- प्रयोज्यविषयतायाः षष्ठ्यन्तपदप्रयोज्यत्वाभावेन निषेधाप्रवृत्तिः । प्रकृते त्वेचपदप्रयोज्याया विषयतायाः षष्ठ्यन्तपदप्रयोज्यत्वस्य लुप्त- प्रत्ययाव्यवहितपूर्वत्वेन साक्षादवच्छिन्नत्वस्य च सत्त्वेन निषेधादवतर- णमसङ्गतमित्युच्यते-तदा चित्रायां याता चित्रेत्येवावतरणं बोध्यम् । ननु अन्तरङ्गानपि विधीन् बहिरङ्गोलुग्बाधत' इतिन्यायेनेत्संज्ञालोपाभ्यां प्रागेव लुकि प्रत्ययलक्षणेन डेबुद्धिरेव स्यान्न तु एबुद्धिरित्यच्परत्वाभा- वेनावादेशाप्राप्तेरवतरणमसङ्गतमेव । ननु सूत्र एवेत्संज्ञालोपयोः कृतयोरनुबन्धविनिर्मुक्तस्यैव लक्ष्यस्थत्वेन लुकि प्रत्ययलक्षणेनाच्परत्वं सूपपादमिति चेत्-न। लुक्प्रयोजकसमा- सादीनामपि तेन न्यायेन प्राबल्यबोधनादित्संज्ञालोपयोर्लुक्प्रयोजकसमा- ससम्भावनायां पूर्वमप्रवृत्तेरत एव गोमत्प्रिय इत्यादौ पदान्तरसापेक्षसमा- सात्पूर्वमपि गोमत्प्रकृतिकसोहलङ्यादिलोपो नेति चेत्-न । हे वारे इति भाष्यप्रयोगात्संज्ञापेक्षया लुकः प्राबल्याबोधनात् कथमन्यथा सम्बुद्धि- १२० ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके वर्णाश्रये नास्ति प्रत्ययलक्षणम् ॥ २२ ।। । संज्ञायां कृतायां लुकि प्रत्ययलक्षणेन सम्बुद्धिगुणस्तत्र । नन्वस्तूक्तभाष्यात् सम्बुद्धिसंज्ञायाः पूर्वं प्रवृत्तिरित्संज्ञालोपयोः पूर्व प्रवृत्तौ बीजाभाव इति चेत्-न । धम्मिग्राहकमानेन लाघवेन च साधुत्ववि- धायकशास्त्रापेक्षयैव लुकः प्रावल्यबोधनात् संज्ञाशास्त्रेण तस्य लोप इति- शास्त्रेण वा न कस्यचित् साधुत्वम्बोध्यते इति स्पष्टमेव । नन्वेताशविशे- षविषयकत्वे फलाभाव इति चेद्धे वार इत्यस्यैव फलत्वसंभवात् संबुद्धिसं- ज्ञापेक्षया प्राबल्यं न बोध्यत इत्यपेक्षया साधुत्वविधायकापेक्षया प्राबल्यं बोध्यत इत्येतत्कल्पनायामेव लघुत्वात् । अत एव बित्स्वरविधौ प्रत्ययल- क्षणप्रतिषेधो वक्तव्य इति वार्तिकं चरितार्थम् । गर्गाविदा इत्यादौ यत्रो लुकि प्रत्ययलक्षणेन बित्स्वरप्राप्तौ तत्प्रतिषेधार्थं हि वार्त्तिकमित्संज्ञात: पूर्व लुकि स्वराप्राप्तौ तद्वैयर्थ्यांपत्तेः । लुकि न स्थानिवदित्यप्यत एव चरि- तार्थन्तद्धि पञ्चेन्द्राण्यो देवता अस्य पञ्चेन्द्र इत्यादौ द्विगोल्गनपत्य इत्यणो लुकि लुक् तद्धितलुकीत्यनेन ङीषो लुकि सन्नियोगशिष्टानामिति- परिभाषयाऽऽनुको निवृत्तौ कर्त्तव्यायां ङीषो लुकः स्थानिवद्भावेनान्यतरा- पायाभावादानुको निवृत्त्यभावे प्राप्ते स्थानिवत्त्वनिषेधार्थ लुकि लुप्तन्न स्था- निवदिति तदर्थः इत्संज्ञालोपाभ्यामपि पूर्व लुकि अज्मात्रस्थानिकादेशा- भावात्स्थानिवत्त्वाप्राप्तौ तद्वैयापत्तिः। किञ्च प्रत्यय इतिमहासंज्ञया बोधकस्यैव प्रत्ययत्वेन लोके काररहितस्यैव एइत्यस्य बोधकत्वेन प्रत्य- यसंज्ञा स्यान्न तु डे इत्यस्य प्रत्ययादर्शनस्यैव च लुपदार्थत्वेन प्रत्ययत्व- संपादनद्वारेत्संज्ञालोपयोरुपजीव्यत्वेन लुका बाधाभाव इति दिक् । परे तु गवेहितमितिवद्दोहितमित्यादाववादेशापत्तिरित्यर्थः। गावौ हितौ यस्य तद्गोहितमितिसमास इति न कोऽपि दोष इत्याहुः । वर्णाश्रये नास्ति प्रत्ययलक्षणमिति । वर्ण आश्रयो निमित्त यस्येत्यर्थः। ननु यदि वर्णोद्देश्यककार्ये कर्तव्ये प्रत्ययलक्षणसूत्रन्न प्रव- तते इत्यर्थस्तहि वेधा इत्यादौ ससजुषोरुरितिरुत्वे कर्तव्ये प्रत्ययलक्षणेन पदत्वानापत्ती रुत्वस्य वर्णाश्रयत्वादिति चेत्-न । प्रत्यासत्या लुप्तप्रत्ययाः- वृत्तिवर्णत्वव्याप्यधविच्छिन्नोद्देश्यताके काय इत्यर्थात् । ननु तावत्तापि तत्रैव दोषस्तत्वस्य लुप्तप्रत्ययवृत्तित्वादिति चेत्न-न । लुप्तप्रत्ययवृत्तिया वर्णवव्यायधविच्छिन्ना विषयता तन्निरूपके कार्य इत्यर्थेनादोषात् २२. वर्णाश्रये नास्ति०] बिजयाऽलङ्कृतः [ १२१ वर्णप्राधान्यविषयमेतत् । तत्त्वं च 'प्रत्ययलोप' इति सूत्रे स्था- निवत् इत्यनुवृत्त्यैव सिद्धे प्रत्ययलक्षणग्रहणं प्रत्ययस्येतराविशेष- णत्वरूपं यत्र प्राधान्यं तत्रैव प्रवृत्यर्थमित्येतत्सिद्धम् । वर्णप्राधा- न्यं च वर्णस्येतराविशेषणत्वरूपं प्रत्ययनिरूपितविशेष्यतारूपं च । प्रकृते तादृशविषयताया अभावात् । तत्त्वज्चेति। परिभाषारूपञ्चेत्यर्थः । परं त्वस्मिन्नर्थे त्वप्रत्ययोऽयुक्तः । तच्चेत्येव वक्तुंयुक्तम्। वस्तुतस्तु तत्त्वं चेत्यस्य सारांशस्त्वित्यर्थः । अयम्भावः- यथाऽन्यत्र किञ्चिज्ज्ञापकम्भवति ज्ञापनोत्तरं स्वांशे चारितार्थ्यं भवति तथा प्रकृते नास्ति किन्तु तत्तत्पदमहिम्ना प्रत्ययलोपसूत्रस्यैव तथाऽर्थोस्ति येन वर्णाश्रये न प्रवृत्तिर्भवतीति । तल्लक्षणमित्येव सिद्धे प्रत्ययपदस्वारस्यात् प्रत्ययत्वव्याप्येतिवक्ष्यमाणोर्थः । स्थानिवदित्यनुवृत्त्यैव सिद्धे प्रत्ययलक्षण- ग्रहणात् प्रत्यये प्राधान्यलाभः। तेन वर्णस्य प्राधान्येनाश्रयणे प्रत्ययलक्षणा- भाव इति फलति । प्रत्ययस्येतराविशेषणत्वमिति। ननु तद्यदि इतरनि- ष्ठविशेष्यतानिरूपितप्रकारत्वानाश्रयत्वरूपं तदा गोहितमित्यादावेनिष्ठवि- शेष्यतानिरूपिताव्यवहितपूर्वत्वावच्छिन्नप्रकारताश्रयत्वेन लुप्तप्रत्ययस्य प्रा- धान्याभावात्प्रत्ययलक्षणाभावेऽपि हे दीर्घाहो निदाघेत्यादौ प्रत्ययलक्षणे- नासुपीति निषेधानापत्त्या रत्वेनोत्वानापत्तिः। लुप्तप्रत्ययस्योक्तप्राधान्याभा- वात् । दधि मध्वित्यादौ प्रत्ययलक्षणेन सुप्तिङन्तमिति पदत्वानापत्तिश्च । सुपः प्राधान्याभावात् सखेत्यादावनङाद्यभावश्चेति चेत्-न । वर्णत्वव्या- प्यधविच्छिन्नविशेष्यतानिरूपितप्रकारतानाश्रयत्वस्य प्रत्ययप्राधान्य- पदार्थत्वात् । तस्य च गोहितमित्यादौ चित्रायां जाता चित्रेत्यादौ चाभा- वान्न प्रत्ययलक्षणम् । न च ह्रस्वस्य पिति कृतीति तुक् कृदित्यादौ न स्या- त् प्रत्ययस्य प्राधान्याभावेन प्रत्ययलक्षणाप्रवृत्तेरिति वाच्यम् । ह्रस्वान्त एव प्रत्ययस्यान्वयात् । किञ्चावयवत्वसम्बन्धावच्छिन्नप्रकारताभिन्नप्रत्य- यत्वव्याप्यधावच्छिन्नविषयताश्रयत्वं प्रत्ययप्राधान्यम् । अणो योऽका- रस्तदन्तात्प्रातिपदिकानडीवित्यर्थात् चित्रायां जाता चित्रेत्यादौ ताइशप्र- कारताभिन्नविषयता नास्ति । गोहितमित्यादावेकारनिष्ठविषयताया: प्रत्यय- त्वव्याप्यधर्मावच्छिन्नत्वाभाव इति प्रत्ययप्राधान्याभावः। वर्णप्राधान्य- ञ्च वर्णस्येतराविशेषणत्वरूपमिति । यदीतरनिष्ठविशेष्यतानिरूपि- १२२ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके तेन गोहितमित्यादाववादि न। चित्रायां जाता चित्रेत्यादावणो योऽकारस्तदन्तात् डीबिति ङीप्च न । इयमल्विधौ स्थानिवत्त्वा- प्राप्तावपि प्राप्तस्य प्रत्ययलक्षणविधेर्निषेधिकेति स्पष्टं भाष्ये ॥२२॥ तप्रकारतानाश्रयत्वं तर्हि गोहितमित्यादावेज्निष्ठविशेष्यतानिरूपितप्रकार- ताश्रयत्वेन प्राधान्याभावान्निषेधानापत्तिः । यदीतरपदेन प्रत्ययस्य ग्रहणात् प्रत्ययत्वव्याप्यधविच्छिन्नविशेष्यतानिरूपितप्रकारतानाश्रयत्वं तत् त- ह्यनेनैव चित्रेत्यादौ वर्णस्य प्राधान्यात् प्रत्ययनिरूपितविशेष्यतारूपञ्चेति- लक्षणान्तरस्य वैयर्थ्यमिति चेत्-अत्रोच्यते । इतरपदेनावयवी गृह्यते । ततश्चावयविनिष्ठविशेष्यतानिरूपितप्रकारतानाश्रयत्वमितराविशेषणत्व मित्यस्यार्थः। तच्च गोहितमित्यादावस्ति । चित्रेत्यादौ चावयविप्रातिपदि- कन्तनिष्ठविशेष्यतानिरूपितप्रकारताश्रयत्वस्यैवाकारे सत्त्वेन प्राधान्याना- पत्त्या प्रत्ययनिरूपितविशेष्यतारूपमुक्तम् । यदि प्रत्ययत्वव्याप्येत्यादिनि- वेशेनैवोभयत्र प्राधान्यसिद्धौ प्रत्ययनिरूपितेत्यादिलक्षणान्तरं न वक्तव्य- मित्युच्यते तीष्टापत्तिः। मित्रशी: अतृणेडित्यादौ च वर्णप्राधान्याभावान्न प्रत्ययलक्षणनिषेधः । भाष्यकारमते प्रत्ययलोपसूत्रन्नियमार्थमेव । स्था- निवत्सूत्रेण सर्वत्र निर्वाहात् मित्रशीः अतृणेडित्यादावीत्वादेहलादित्व- निमित्तकस्य विशेषणतयाऽल्विधित्वात्स्थानिवत्त्वेन यद्यपि न निर्वाहस्त- थापि तत्रोपायान्तरस्य शब्दरत्ने उक्तत्वात् । तन्मते गोहितं चित्रेत्या- दावनल्विधाविति निषेधेन स्थानिवद्भावाप्राप्तिरेव । ननु नियमशास्त्राणां स्वमते विधिमुखेनैव प्रवृत्त्या गोहितमित्यादौ प्रत्ययलक्षणन्दुर्वारमिति तदर्थं वर्णाश्रय इति परिभाषाऽवश्यकीति चेत्- न। तल्लक्षणमित्येव सिद्धे प्रत्ययग्रहणेन प्रत्ययत्वव्याप्यधर्मस्य यत्राश्रयणं तत्रैवेदं सूत्र प्रवर्तत इत्यर्थेन गोहितमित्यादौ प्रवृत्त्यभावात् । न च तथा- प्यणसम्बन्ध्यकारत्वस्य प्रत्ययत्वव्याप्यत्वेन चित्रेत्यादौ प्रत्ययलक्षणप्राप्त्या परिभाषा मन्तव्येति वाच्यम् । एकपदेन प्रत्ययत्वव्याप्यस्य यत्राश्रयण- मित्यर्थेन तस्यैकपदोपात्तत्वाभावात् । तदाह-इयमल्विधौ स्थानि- वत्त्वाप्राप्तावपीति । तथा च वार्तिकमते मित्रशी: अतृणेडित्यर्थं सूत्र- स्यावश्यकत्वेन गोहितमित्यादावपि प्रत्ययलक्षणापत्त्या वर्णाश्रय इति मन्तव्येति भावः। मित्रशीरित्यादावुपायान्तरन्तु भाष्यकृदूहितन्न वार्तिक- कारोहितम् ।

२३. उणादयोऽव्युत्पन्नानि० ] विजयाऽलङ्कृतः [ १२३ ननु 'अतः कृकमी'त्यत्र कमिगृहणेन सिद्धे कंसगृहणं व्यर्थमत आह- उणादयोऽव्युत्पन्नानि प्रातिपदिकानि ॥ २३ ॥ इदमेवास्या ज्ञापकमिति कैयटादयः । कंसेस्तु न सोऽनभिधा- नात् । 'प्रत्ययस्य लुगि'त्यादौ भाष्ये स्पष्टा । 'बुल्तृचावि'त्यादौ ननु वार्तिकमतेऽपि प्रत्ययत्वव्याप्यधर्माश्रयमेव कार्य प्रत्ययलोपे सति भवतीत्येवार्थस्सूत्रस्य कर्त्तव्यः । प्रत्ययलोपे तल्लक्षणमित्येव सिद्धे प्रत्ययग्रहणात् । तथा च मित्रशीरित्यादौ कथं प्रत्ययलक्षणमीत्वादौ प्रत्य- यत्वव्याप्यस्यानाश्रयणात् । न च हलादिक्ङित्त्वादि तथा । तस्य तथा- स्वेऽपि एकपदोपात्तत्वाभावादिति चेत-न। प्रत्ययत्वव्याप्यविषयताप्रयो- जकपदप्रतिपाद्यतावच्छेदकधर्माश्रयं कार्यमेव प्रत्ययलोपे सति भवती- त्यर्थस्यैव तन्मते प्रत्ययग्रहणेन बोधनात् । तथा च तत्र हलादित्वस्य तथा- भूतत्वेनादोषात् । सुहषत्प्रासाद इत्यादौवात्तिकमते दोष एव । अस्त्वस्या- तथात्वेनैतत्सूत्राप्राप्तावपि स्थानिवत्सूत्रप्राप्तिसत्त्वात् । अत एव भाष्यका- रेण तदेव नियमफलमुक्तम् । वात्तिकमतेऽपि तत्र दूषणोद्धारः शब्द- रत्नादावुक्तः । तत्रैव द्रष्टव्य इत्यलम् ॥ २२ ॥ कमिग्रहणेन सिद्ध इति । विष्वगदेवयोश्चेतिसूत्रे अप्रत्ययग्रहणेन धातुग्रहणेऽपि तदादिविधिज्ञापनात्कमादावुत्तरपदे पर इत्यर्थेनायस्कंस इत्यस्य सिद्धावित्यर्थः। उणादयोऽधुत्पन्नानि प्रातिपदिकानीति । उणाद्यन्ततदादीनि अव्युत्पन्नानि प्रकृतिप्रत्ययविभागशून्यानीत्यर्थः । यथाश्रुतन्तु न युक्तमुणादिप्रत्ययमात्रस्य प्रातिपदिकत्वाभावात्। ननु ताव- तापि उणाद्यन्ततदादीनि प्रकृतिप्रत्ययविभागशून्यानीति विरुद्धमेवेति चेत् -न । उणाद्यन्ततदादित्वेन शाकटायनाभिप्रेतानि वस्तुत: प्रकृतिप्रत्यय- विभागशून्यानि । उणाद्यन्तानि प्रकृतिप्रत्ययविभागप्रयोज्यपाणिनिसूत्र- प्रवृत्त्यनहर्हाणीति वाऽर्थात् । इदमेवेति । कंसग्रहणमेवेत्यर्थः। अनभि- धानादिति । कमेः सः कंस इति भाष्यकारोक्तरिति भावः । नन्वेवं सर्पिश्शब्दस्य यजुश्शब्दस्य चाव्युत्पन्नत्वे सर्पिषा यजुषे- त्यादौ प्रत्ययावयवसकाराभावेन षत्वानापत्तिरिति चेत्-न। उणाद्यन्तत्वेन पराभिमतानि बहुलं साधूनीत्यर्थकेनोणादयो बहुलमिति सूत्रेण षत्वोप- ।

१२४ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके भाष्येव्युत्पन्नानीत्यपि । इदं शाकटायनादिरीत्या । पाणिनेरस्त्व- व्युत्पत्तिपक्ष एवेति शब्देन्दुशेखरे निरूपितम् । 'आयनेयी'ति सूत्रे भाष्ये स्फुटमेतत् ॥ २३ ॥ ननु देवदत्तश्चिकीर्षतीत्यादौ देवादेः सन्नन्तत्वप्रयुक्तधातुत्वा- द्यापत्तिरत आह- प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रह- गम् ॥ २४ ॥ 'यस्मात्प्रत्ययविधिरिति सूत्रे यसात्प्रत्ययविधिस्तदादिप्रत्यये इति योगो विभज्यते । गृह्यमाण उपतिष्ठत इति शेषः । तेन तदा- पत्तेः। प्रायनेयीतिसूत्रे भाष्ये इति । तत्र हि शमेः खः शंख:, शण्ड इत्यादावीनादिकमाशंक्य प्रातिपदिकविज्ञानाच्चभगवतः पाणिनेस्सिद्धमि- त्युक्तम् । प्रातिपदिकविज्ञानादित्यस्य प्रकृतिप्रत्ययविभागशून्यप्रातिपदिक- विज्ञानादित्यर्थः ॥ २३ ॥ देवदत्तश्चिकीर्षतीत्यादी देवादेरिति । धातुत्वे सुपो धात्वितिलुगा- पत्तिनं च प्रातिपदिकावयवसुप्साहचर्येण धात्ववयवोऽपि सुप् संज्ञाप्र- योजक एव गृह्यत इति प्रकृते धातुसंज्ञाप्रयोजकत्वाभावान्न लुगिति वाच्यम्। पदसंज्ञाप्रयोजकत्वस्य तत्रापि सत्त्वावृत्तिप्रयोजकत्वमपि साहचर्याद- लभ्यमिदानी देवदत्तो गार्य इत्यत्र देवदत्तो गाग्र्येति समुदायस्यापि तद्धि- तान्तत्वेन प्रातिपदिकत्वात्तदवयवस्य सुपो वृत्त्यप्रयोजकस्यापि सम्भवेन साहचर्य्यस्यासम्भवात् देवादेद्वित्वापत्तिरपि दोषः । यदि सन्यङोरित्यत्रा- नभ्यासस्येत्यस्य सम्बन्धस्तच्च बहुव्रीहिबलात्सन्नन्तविशेषणं तदा स दोषो नास्ति । न च वाक्यसंस्कारपक्षे प्रथममेव देवादेद्वित्वापत्तिरिति वाच्यम्। एकतरपक्षेण लक्ष्यसिद्धः पक्षान्तरेण दोषदासस्यानुचितत्वेन तत्पक्षाना- श्रयणेनापि तद्दोषवारणसम्भवात् । प्रत्ययग्रहणे यस्मादिति । सनाद्यन्ता धातव इत्यादौ सन्निति- प्रत्ययग्रहणस्य सत्त्वात् तदादिरित्यस्योपस्थितिस्तत्र सनाचन्ता इत्यस्या- भेदेनान्वयः । तथा च सनादिर्यस्माद्विहितस्तदादिय॑स्सनाद्यन्त इत्यादि- baba २४. प्रत्ययग्रहणे यस्मात्०] विजयाऽलङ्कृतः [ १२५ धन्तांशः सिद्धः । तदन्तांशस्तु 'येन विधिरित्यनेन सिद्धः। स च शब्दरूपं विशेष्यमादाय विशेष्यान्तरासत्त्वे । यत्त प्रत्ययेन वप्रकृत्यवयवकसमुदायाक्षेपात्तद्विशेषणत्वेन तद- क्रमेण बोधः। यत्र चान्तपदं नास्ति यथा ङ्यापप्रातिपदिकादित्यत्र तत्र तदादेरित्यस्योपस्थितस्य ड्याब्भ्यामभेदेन विशेषणाद्येन विधिरिति तदन्तविधिना झ्यावन्तात्तदादेरित्यर्थस्तदाह-तदन्तांशस्तु येनेति।स च शब्दस्वरूपमिति। इदमत्र बोध्यम् । यत्र प्रत्ययस्य विशेष्यं सूत्रे नोपात्तं यथा ड्याबित्यत्र तत्रोपस्थिततदादिशब्दस्वरूपविशेषणादेव ड्याब्भ्यां तदन्तविधियंत्र विशेष्यान्तरं सूत्रे उपात्तमस्ति यथा यजिबोश्चेत्यत्र प्रातिपदिकादिति तत्र प्रातिपदिकमेव विशेष्यीकृत्य प्रत्ययेन तदन्तविधि- धम्मिण उपस्थितौ फलाभावेन तदादित्वमात्रस्योपस्थितस्य स्वरूपसम्बन्धेन प्रत्ययान्तेऽन्वयः। नामार्थत्वेन स्वरूपसम्बन्धेन कथमन्वय इति चेदस्तु तदनुरोधेन धम्मिणस्तदादेरुपस्थितिस्तस्य चाभेदेन तदन्तेऽन्वयः । तदेवो- च्यते। विशेष्यान्तरासत्त्व इति । कचित्तु लक्ष्यानुरोधात् प्रमाणान्तराद्वा विशेष्यान्तरसत्त्वेऽपि तदादिरूपविशेष्यमादाय प्रत्ययेन तद्न्तविधि कृत्वा पुनर्विशेष्यान्तरमादाय प्रत्ययान्ततदादिना तदन्तविधिय॑था वनो र चेत्यादौ वन्नन्तान्तादित्यर्थेनातिधीवरीत्यस्य सिद्धिः। प्रमाणन्तु नित्यं समासेऽनुत्तरपदस्थस्येति सूत्रेऽनुत्तरपदग्रहणमेव । तद्धि परमसप्पि: कुण्डिकेत्यादौ पत्ववारणाय । समासात्पूर्वपदस्याध्याहारेण तदेव विशे- प्यान्तरमादायेसुस्प्रत्ययौ तदन्तबोधको ताभ्यामुपस्थितं तदादित्वन्तु स्व- रूपसम्बन्धेन तत्रैव विशेषणमिसुस्प्रत्ययान्तं यत्पूर्वपदन्तदादित्वविशि- ष्टन्तस्य षत्वमित्यर्थे परमसपिरित्यत्र प्राप्त्यभावेन तद्व्यर्थं सदुक्तार्थे ज्ञापकम् । ज्ञापिते तु इसुसन्ततदाद्यन्तपूर्वपदस्येत्यर्थेन तत्र प्राप्त्या स्वांशे चरितार्थम् । यदि तु सर्पिरादिकमव्युत्पन्नमेवेसुस्पदन्न प्रत्ययबोधक- न्तदाऽतिधीवरीतिलक्ष्यानुरोधादेव तथा कल्प्यते । यत्तु प्रत्ययेन स्वप्रकृत्यवयवकेति। प्रत्ययःस्वप्रकृत्यवयवकसमुदाय- विशिष्टः प्रत्ययत्वादित्यनुमितिरूपाक्षेपेणोपस्थितस्य स्वप्रकृत्यवयवकसमु- दायस्य प्रत्ययेन विशेषणात्तदन्तविधौ प्रत्ययान्तः स्वप्रकृत्यवयवकसमुदाय इत्यर्थेन सिद्धौ प्रत्ययग्रहणपरिभाषा निष्फलेति तदाशयः। अत्रेदं चिन्त्यते। एतादृशार्थे देवदत्तश्चिकीर्षेति समुदायस्य धातुत्वापत्तिरेव । तस्य प्रत्यया- १२६ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके न्तविधिरिति तन्न । इयानित्यादौ तस्य तादृशसमुदायेन व्यभि- चारेणाक्षेपासम्भवात् । यत्र प्रत्ययो निमित्तत्वेनाश्रीयते तत्र तदा- देरित्यन्तांशमात्रोपस्थितिरिति 'अङ्गस्य'ति सूत्रे भाष्यकैयटयोः एवं यत्रापि पञ्चम्यन्तात्परःप्रत्यय आश्रीयते तत्रापि तदादीत्य- न्तांशोपस्थितिः। परन्तु तत्र पञ्चम्यन्तता। अत एव 'एहस्वादि'- ति सूत्रे एङन्तादित्यथलाभः । अस्याः परिभाषायाः प्रयोजना- न्तत्वेन तत्प्रकृत्यवयवकत्वेन च निरासासम्भवात् । यदि च स्वप्रकृत्याद्य- वयवकसमुदायः साध्यत्वेनाभिमतस्तहि बहुच्प्रत्यये व्यभिचारः । न च परत्वावच्छिन्नविधेयताश्रयत्वं हेतुस्तन्नास्ति तत्रेति न दोष इति वाच्यम् । रुणद्धीत्यादौ श्नम्प्रत्यये हेतोः सत्त्वेन स्वप्रकृतीरुधेति तदाद्यवयवकत्वस्य रुन्धसमुदायेऽभावेन तत्र व्यभिचारस्य तावतापि सत्त्वात् । यदि च साध्ये प्रकृतित्वमपर्याप्त्याऽपि गृह्यते रुमात्रस्यापि तदस्ति तन्निष्ठाद्य- वयवतानिरूपकत्वं रुन्धसमुदायस्यास्ति घटकत्वरूपसाध्यतावच्छेदक- सम्बन्धेन तद्विशिष्टो नेति न व्यभिचार इत्युच्यते तदाह-इयानित्या- दाविति । अत्र परत्वावच्छिन्नविधेयताश्रयत्वस्य सत्त्वेपि तादृशस्समुदायो नास्तीति व्यभिचारो दुरुद्धरः । यदि च परत्वे सति परत्वावच्छिन्नविधेय- ताश्रयत्वं हेतुः प्रकृते परत्वाभावेन न व्यभिचारः। परन्तु शाब्दबोधे शब्द- निष्ठावृत्तिज्ञानाधीनोपस्थितेहे तुत्वेनानुमित्योपस्थितस्य शाब्दबोधे भानग्न स्याद्तः परिभाषा मन्तव्यैवेति बोध्यम् । यत्र प्रत्ययो निमित्तत्वेना- श्रीयत इति । यथा स्यतासील्लुटोः सुपि चेत्यादौ। तत्र तदन्तांशोपस्थिती तु लुडन्तलुडन्ततदादौ सुबन्ततदादाविल्यर्थेन द्वितीयाद्धातोद्वितीयस्थाङ्गस्य च काय्यं स्यात्तदन्तानुपस्थितौ तु यथासम्भवं लुलुटोरित्यत्र धातोरिति पञ्चम्यन्तानुरोधेन पञ्चम्यन्ततैव तदादेरित्यस्य, व्यपदेशिवद्भावाच्च स्वस्मि- न्नेव तदादित्वं, सुपि चेत्यादावङ्गस्येति षष्ठ्यन्तानुरोधेनात इत्यनुरोधेन च षठ्यन्ततैवेति ध्येयम्। प्रान्महतस्समानाधिकरणजातीयथोरित्यत्र जातीयत्ययेनोपस्थिततदादिविशेष्यमादाय महच्छब्देन तदन्तविधा- वतिमहाजातीय इत्यत्रात्वसिद्धिस्तदन्तांशोपस्थितौ तुन स्यादिति बोध्यम् । एडन्तादिति । आक्षिप्तस्य शाब्दबोधे भानाभावेनाङ्गस्याक्षेपेण तु तदन्त- विधिन युक्त इत्यन्यत्रोक्तमिति भावः । हे कतरदित्यत्र सम्बुद्धयवयवा- २४. प्रत्ययग्रहणे यस्मात् ] विजयाऽलङ्कृतः [ १२७ न्तरं 'येन विधिरि त्यत्र भाष्य उक्तम् । परमगाायण इति परम- गार्ग्यस्यापत्यमितिविग्रहेऽपि गाय॑शब्दादेव प्रत्ययो न विशिष्टात् । निष्कृष्य तावन्मात्रेणैकार्थीभावाभावेऽपि वृत्तिर्भवत्येव । अत्र चेदं भाष्यमेव मानमित्यन्यत्र विस्तरः। प्रत्ययमात्रग्रहणे एषा न तु कारान्तस्यापि ह्रस्वान्ततदादित्वेन ततः परस्य सम्बुद्धथवयवस्य हलो लोपापत्तिस्तु न एङ्साहचर्येणाङ्गानवयवभिन्नस्यैव हस्खस्य ग्रहणात् । सम्बुद्धयवयवाघटितस्यैव तदादेर्ग्रहणमुक्तसाहचर्यादिति तु न युक्तम् । हेकुलेत्यत्रलोपानापत्तेःसम्बुद्धिविशिष्टभिन्नस्यैव हस्वस्यैङ्साहचर्येणग्रह- णम्। वैशिष्ट्यञ्च स्वावयवत्वस्वावयवस्थानिकादेशभिन्नत्वोभयसम्बन्धेने- त्यपि कश्चित् । उभयत्रापि तदन्तांशानुपस्थितौ मूलमग्रिमा परिभाषैवेति तत्रैव स्पष्टीभविष्यति । परमगार्ग्यस्यापत्यमिति । राजपुरुषस्यापत्यं राजपौरुपिरिति वारणाय तद्धितप्रत्ययः स्वार्थान्वयितावच्छेदकधर्मा- वच्छिन्नवाचकतापर्याप्त्यधिकरणाद्भवतीत्यर्थस्याभ्युपेयतया परमगार्य- स्थापत्यमित्यर्थे स्वार्थापत्यरूपार्थान्वयितावच्छेदकं परमाभिन्नगर्गापत्य- वं तदवच्छिन्नवाचकतापर्याप्त्यधिकरणं परमगार्येतिसमुदायस्तस्य च यवन्ततदादित्वाभावो नेष्यते च ततः प्रत्ययः । यतश्चेष्यते गाय॑शब्दात्स च न तादृश इति कथं भाष्यसङ्गतिरित्यत आह-निष्कृष्येति । एतस्यैव व्याख्यानं तावन्मात्रेणेति । तत्पर्याप्तेत्यर्थः । तथा चास्मादेव भाष्यात्ता- दशपर्याप्त्यधिकरणघटकादपि तद्धितो भवतीति कल्प्यते इति भावः। न चैवं राजपौरुषिरिति स्यादिति वाच्यम्। धम्मिग्राहकमानेन प्रत्ययान्त- त्वव्याप्यधर्मावच्छिन्नोद्देश्यताकतद्धितविषयकत्वादुक्तज्ञापनस्य । न चैवं शिवस्य भगवतोऽपत्यं शिवभागवतमित्यत्र भगवच्छब्दात्प्रत्ययो न स्यादण्प्रत्ययस्य प्रत्ययान्तत्वव्याप्यधर्मावच्छिन्नोद्देश्यताकत्वाभावादिति वाच्यम् । तद्भाष्यप्रयोगादेव समासस्येव प्रत्ययस्यापि सिद्धेः । प्रत्यय- मात्रग्रहण इति । प्रत्ययबोधकत्वे सति प्रत्ययेतराबोधक इत्यर्थः । ननु प्रतीषिषतीत्यत्रेणधातोस्सनि द्वितीयस्यैकाचस्सशब्दस्य द्वित्वे सन्यत इत्यभ्यासावयवाकारस्येत्वे तस्योत्तरखण्डरूपसन्परत्वेनाज्मन्ग- मामिति दीर्घमाशंक्योत्तरखण्डस्याप्रत्ययत्वाद्दीर्घाभाव इति सन्नन्तप्रक- रणे शब्देन्दुशेखरे प्रतिपादितम् । तत्र धातुत्वायोत्तरखण्डस्य सना- १२८ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके प्रत्ययाप्रत्ययग्रहण इति 'उगितश्चेतिसूत्रे भाष्ये । इयमङ्गसंज्ञासूत्रे भाष्ये स्पष्टा ॥ २४ ॥ 'येन विधिरि ति सूत्रे भाष्य एतद्घटकतदन्तांशस्यापवादः पठ्यते- द्यन्ताधातव इत्यत्रत्यसन्पदेन ग्रहणावश्यकतया प्रत्ययेतरबोधकत्वेन प्रत्य- यमात्रग्रहणाभावात् कथं सनाद्यन्ता इत्यत्र परिभाषाप्रवृत्तिरिति चेत्-न । उत्तरखण्डस्य प्रत्ययत्वेनादोषात् । अजन्ताङ्गस्य झलादौ सनि दीर्घ इत्य- फैन प्रत्यासत्त्या यादृशभलादौ सनि दीर्घस्तादृशसननिरूपिताङ्गत्ववत एव दीर्घ इत्यर्थस्य लाभेनोत्तरखण्डस्य 'आगन्तुकानामग्रे निवेश' इति न्यायेन विधेयत्वेन कुतश्चिद्विहितत्वाभावेन पूर्वभागस्य तन्निरूपिताङ्गत्वा- भावेन प्रतीषिषतीत्यादौ दीर्घाभावः । शेखरे अप्रत्ययत्वादित्यस्याजन्त- वृत्त्यङ्गत्वोपयोगिप्रत्ययत्वाभावादित्यर्थेन तद्विरोधाभावात् हन्गमवयवा- च्साहचर्येणाभ्यासानवयवस्यैवाचोऽजन्ताङ्गावयवस्य ग्रहणेन दीर्घाणा- प्त्या शेखरस्य खण्डनीयत्वाच । केचित्तु सन्यत इतीत्वे प्रतिपद्विधित्वात् पूर्व दीर्घ ह्रस्वः । अप्रत्यय- त्वादिति शेखरोक्तन्तु न युक्तम् । प्रतीषिषेत्यादावप्रत्ययादित्यप्रत्ययानाप- तेरित्याहुः। परे तु प्रत्ययमात्रग्रहण इत्यत्र मात्रपदेन प्रातिपदिकमात्रस्यैव निरा- सः। तथा च प्रत्ययबोधकत्वे सति प्रातिपदिकाबोधक इत्यर्थेनाप्रत्ययरूपो- त्तरखण्डबोधकत्वेऽपि दोषाभाव इत्याहुः। अन्ये तु प्रत्ययमात्रग्रहण इत्यस्य प्रत्ययविशिष्टग्रहण इत्यर्थः। वैशि- ष्ट्यञ्च स्वबोधकत्वस्वविशिष्टाबोधकत्वोभयसम्बन्धेन। तत्र वैशिष्ट्यं स्वेत- रत्वस्वनिष्ठोद्देश्यतानिरूपितविधेयताश्रयेतरत्वैतदुभयसम्बन्धेन । उत्तरख- एडस्याप्रत्ययत्वेपि न क्षतिरिति व्याचख्युरिति दिक् । उगितश्चेति । अत्रोगित्पदस्य सर्वनामभवतुरूपप्रातिपदिकंबोधक- त्वेन प्रत्ययमात्रबोधकत्वाभावेन परिभाषाया अप्रवृत्त्या निर्य्यवमतीत्या- दिसिद्धिः ॥ २४ ॥ तदन्तांशस्यापवादः पठ्यत इति । एतेन परिभाषायास्तदन्तवि- धिनेत्यर्थः फलितः। तथा च प्रत्ययग्रहणे चापञ्चम्या इत्यस्याः पञ्चम्यन्ता- विधिकपरत्वविशिष्टप्रत्ययत्वव्याप्यधर्मावच्छिन्नविषयताप्रयोजकं पद- ।

२५. प्रत्ययग्रहणे चापञ्चम्याः ] विजयाऽलङ्कृतः [ १२६ प्रत्ययग्रहणे चापञ्चम्याः ॥ २५ ॥ यत्र पञ्चम्यन्तात्परः प्रत्ययः कार्यान्तरविधानाय परिगृह्यते तत्र तदन्तविधिनेंत्यर्थः । यथा 'रदाभ्यां निष्ठातो नः' इत्यत्र । तेन न्तदन्तबोधकन्नेत्यर्थः। यत्र पञ्चम्यन्तात्परः प्रत्यय इति । यत्र शास्त्रे पञ्चम्यन्तार्थावधिकपरत्वविशिष्टः प्रत्यय इत्यर्थः । न च रदाभ्यामित्यस्य तकारविशेषणत्वेन पञ्चम्यन्तार्थावधिकपरत्वविशिष्टप्रत्ययत्वव्याप्यधर्मा- वच्छिन्नविषयताया अभाव इति वाच्यम् । प्रत्ययावयवे प्रत्ययत्वव्यव- हारेण निष्ठावयवतत्वस्य प्रत्ययत्वव्याप्यत्वात् । न च तदवच्छिन्नविषय- ताप्रयोजकं तपदं न निष्ठापदमिति वाच्यम् । तादृशविषयताप्रयोजकपद- घटकमित्यर्थेनादोषात् । कान्तिरविधानायेति । न तु स्वस्यैव विधानायेत्यर्थः। एतेन परिभाषार्थे विषयतापदेन विधेयताभिन्ना विषयता गृह्यत इति सूचितम् । तथा च पञ्चम्यन्तार्थावधिकपरत्वविशिष्टप्रत्ययत्व- व्याप्यधर्मावच्छिन्नोद्देश्यताप्रयोजकमित्यर्थः फलितः । यत्र स्वस्य विधा- नायैव प्रत्ययग्रहणं यथा ऋन्नेभ्यो ङीवित्यादौ तत्रैतद्वाक्यार्थबोधात्याक प्रत्ययग्रहणपरिभाषाप्रवृत्तिसमये डीपः प्रत्ययत्वस्यैवाभावेन प्रत्ययग्रहण- त्वाभावान्नैतत्परिभाषाप्रवृत्त्युपयोग इत्येतत्फलितमेव कार्यान्तरविधाना- येति भावः। केचित्त कार्यान्तरेत्यस्य प्रत्ययेतरकायेत्यर्थः। तेन किमेत्तिङव्यय- घादामद्रव्यप्रकर्षे इत्यनेन तिङन्तरूपपञ्चम्यन्तार्थावधिकपरत्वविशिष्टप्रत्य- यत्वव्याप्यघसंज्ञकत्वावच्छिन्नविषयताप्रयोजकत्वेऽपि घपदस्यामरूपप्रत्य- यविधानायैवाश्रयणादस्या अप्राप्त्या तदन्तविधौ घान्ततदादिपचतितरेति- समुदायादेवामो विधानेन पचतितरामित्यस्य तद्धितान्तत्तदादित्वनिबन्धन- प्रातिपदिकत्वसिद्धिरन्यथा तदन्तविधेरनया निषेधे तर प्रत्ययादेवामि समु- दायस्य तद्धितान्ततदादित्वाभावेन प्रातिपदिकत्वानापत्तिरित्याहुः-तन्न । उक्तयुक्त्या प्रत्ययान्तत्वस्याप्यभावेन पूर्वसूत्रेण प्रातिपदिकत्वसिद्धेः। समासग्रहणनियमस्य तु न विषयः पचतीत्यस्य स्वातन्त्र्येण प्रयोगार्हत्वेपि तरामित्यस्य तत्वाभावात् । परिगृह्यत इति। तद्बोधकं पदमुच्चार्य्यत इत्यर्थः। तदन्तविधिर्नेति । प्रत्यासत्त्या तादृशप्रत्ययबोधकं पदं तदन्त- बोधकन्नेत्यर्थः। यथा अतो भिस ऐस्, ह्रस्वनद्याप इत्यादौ। रदाभ्या- । । & १३० । परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके दृषत्तीर्णेत्यादौ धातुतकारस्य न नत्वम् । तदन्तेत्यंशानुपस्थितावपि तदादीत्यंशस्योपस्थितौ रेफदान्तात्परस्य निष्ठातस्येत्यर्थ इति न मिति । एतत्परिभाषाया अभावे निष्ठापदेन तदादितदन्तोपस्थितौ निष्ठा- न्ततदाद्यवयवो यो रदाभ्यां परस्तकारस्तस्या नत्वमित्यर्थेन तृधातोः क्तप्रत्यये इत्वे रपरत्वे टापि तीर्ता । तस्य दृषत् सम्बन्धे निष्टान्ततदाद्यवय- वस्तकारः प्रत्ययावयव इव धात्ववयवोऽपि । स च दकारात्परोप्यस्तीति तस्य नत्वापत्तिः। परिभाषायाञ्च सत्यां निष्ठापदस्य तदन्तबोधकत्वाभावेन तदुपस्थाप्य तदादिशब्दस्वरूपं विशेष्यीकृत्य रदाभ्यामित्यनेन तदन्तविधौ रेफान्तोदान्तश्च यो निष्ठा यस्माद्विहितस्तदादिस्ततः परस्य निष्ठावयवतका- रस्य नत्वमित्यर्थेन धातुतकारस्य नत्वाभावः । ननु दृषत्तीर्णेत्यादावन्तबा- धेऽन्तसदेशस्येतिपरिभाषया धातुतकारस्य नत्वाप्राप्तिरिति चेत्-न । तीर्ण- माचष्ट इत्यर्थे नत्वस्यासिद्धत्वेन पूर्वे णिचि टिलोपेतीर्णयतीत्यादावन्तस्यैव तकारस्य नत्वप्रवृत्त्याऽन्तबाधाभावात् । दृषत्तीर्णवानित्यस्योपलक्षणत्वाद्वा तत्र ह्यन्तसदेशस्याभावेन सूत्राऽप्रवृत्तेः । केन चित्तु आचारकिबन्तप्रकृतिककर्तक्विबन्तस्य ऋच्छब्दस्य देवश- ब्देन समासे देव इत्यत्रान्त्यतकारस्य नत्वप्राप्त्याऽन्तबाधाभाव उक्त:- तन्न युक्तम् । निष्ठानत्वमवृद्धरित्यत्र वृद्धिपदस्य गुणस्याप्युपलक्षकत्वात् । नन्ववयवषष्ठीविषयेऽपि निर्दिश्यमानपरिभाषाप्रवृत्त्या निष्टान्ततदाद्य- वयवो यो निष्ठापदीयनिर्दिश्यमानस्तवयवस्य रदाभ्यां परस्य तकारस्य न- त्वमित्यर्थेन धातुतकारस्य निष्ठापदीयनिर्दिश्यमानावयवत्वाभावेन परिभा- षाम्विनापि दोषाभाव इति चेत्-न । प्रकृतसूत्रस्थभाष्यप्रामाण्यादत्र निर्दिश्य- मानपरिभाषाया अप्रवृत्तेः । भाष्ये हि रदाभ्यां किं चरितम्मुदितमित्युक्त्वा अथाप्युच्यमाने रदाभ्यामिति कस्मान्नभवतीत्याशङ्कयरदाभ्यामिति न नि- ष्ठा विशेष्यते अपि तु तो विशेष्यत इति समाहितम् । निर्दिश्यमानपरिभा- षाप्रवृत्तौ तु निष्ठापदीयनिद्दिश्यमानविशेषणत्वेऽप्यागमव्यवधानेन दोपा- भावात्तकारविशेषणत्वकथनमसङ्गतं स्यात् । यदि तु क्तक्तवतू निष्ठेतिसूत्रे षष्ठ्यभावेन निद्दिश्यमानपरिभाषाया अप्राप्त्यागमविशिष्टस्यापि क्तादेनि- ष्ठासंज्ञायां रदाभ्यामित्यत्रत्यनिष्ठापदीयनिर्दिश्यमानत्वमागमविशिष्टस्यै- वेति निष्ठापदीयनिर्दिश्यमानविशेषणत्वेऽपि दोषतादवस्थ्येन तकारविशे- पणत्वमिति नैतद्भाष्यं निद्दिश्यमानपरिभाषाप्रवृत्तौ विरुणद्धीत्यस्या अनु- २५. प्रत्ययग्रहणे चापञ्चम्याः] विजयाऽलङ्कृतः [ १३१ दोषस्तदाद्यंशानुपस्थितौ मानाभावात् । तदन्तांशोपस्थितौ तूभयो- रेकविषयत्वमेव स्यादिति दृषत्तीर्णेत्यादौ दोषः स्यादेव । 'स्यतासी लुलुटोरि'त्यादौ लुलुटोः परयोरित्यर्थे नियमेनावधिसाकाङ्क्षत्वे- नोपस्थितधातोरित्यस्यैवावधित्वेनान्वयान तदन्तविधिः । ड्या- ब्भ्य इत्यादौ तु न दोषः । तत्र करमादितिनियतावध्याकाक्षाया पस्थितौ मानाभावेनावतरणमसङ्गतमेवेत्युच्यते तदा अन्धातोः किपि डाबुभाम्यामिति डाप्प्रत्यये टिलोपे सुप्पितावनुदात्तावित्यनुदात्तत्वे आ- शब्दादाचारकिबन्तात् कर्तरि किपि नपुंसकलस्वत्वे अइत्यनुदात्तन्तस्मा- दाचारविवन्ताक्तप्रत्यये एकाच उपदेश इत्यनिटि अतो लोपे त इति तस्य हषदित्यनेन सम्बन्धे दृषत्त इत्यत्र नत्वापत्तिरिति बोध्यम् । न च निष्ठान्त- तदादित्वाभावान्नत्वाप्राप्तिरिति वाच्यम् । व्यतिसे इत्यत्रेव व्यपदेशिवद्भा- वेन तल्लामसम्भवात् । ननु स्यतासी लुलुटोरित्यादौ पञ्चम्यन्तार्थावधि- कपरत्वेन लुलुटोरनाश्रयणात्प्रकृतपरिभाषाया अप्रवृत्त्या तदादितदन्तोप- स्थितौ लुडन्तलुडन्ततदादौ परे इत्यर्थापत्त्यातिप्रसङ्गः स्यादित्यत आह- स्यतासी लुलुटोरित्यादाविति। तस्मिन्नितिपरिभाषाया यथा सप्तम्य- न्तार्थाव्यवहितपूर्वस्य कार्यं भवेत्तथा कर्त्तव्यमित्यर्थकतया लुलुटोरित्यत्र परयोरित्यस्य शेषेण लुलुटोः परयोरित्यर्थस्य बोधनेन कस्मात्परयोरिति- नियमेनाकाङ्क्षायामुपस्थितधातोरित्यस्यैवावधित्वेनान्वयात्पञ्चम्यन्तार्था- त्परत्वेनाश्रयणात्परिभाषाप्रवृत्तिस्सुलभेति भावः । हलुङ्याबभ्य इत्यादौ यापोः प्रत्ययत्वेन प्रातिपदिकात्परत्वस्य सत्त्वेऽपि नित्यसाकाङ्क्षबोध- कपदाभावेनाकाङ्क्षाया अभावेनाक्षेपाभावात् पञ्चम्यन्तार्थावधिकपरत्वेन तयोराश्रयणाभावान्न परिभाषाप्रवृत्तिरिति तदादितद्न्तोभयोपस्थिती ङ्यावन्ततदादेरित्यर्थलाभेन तदवधिकपरत्वेन सुतिसीनामाश्रयणात्तत्र तदन्तांशानुपस्थित्या तदादिमात्रस्योपस्थित्या तदेव विशेष्यीकृत्य ड्या- बन्ततदादिस्वान्तबोधकमिति ङ्यावन्ततदाद्यन्ततदादेः परेषां सुतिसीनां हलो लोप इत्यर्थेन बहुश्रेयसीत्यादौ सुलोपसिद्धिः । न च तदादेविशे- ध्यान्तरस्य सत्त्वे कथं प्रथमतदन्तविधिरिति वाच्यम् । वनो र चेत्यादि- वत्रापि सत्त्वादिति सर्वमभिप्रेत्याह-याभ्य इत्यादौ तु न दोष इति । आक्षिप्तपञ्चम्यन्तार्थावधिकपरत्वमादायापीयं परिभाषा प्रवर्तत १३२] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके अभावेन पञ्चम्यन्तस्य प्रत्ययविशेषणत्वाभावात् । अङ्गसंज्ञासूत्रे तु तदादेः प्रत्यये परे इत्यर्थे पञ्चम्यन्तस्य विशेषणत्वं स्पष्टमेव । अत एव उत्तमैकाम्यामित्यादिनिर्देशाः सङ्गच्छन्ते ॥ २५ ॥ नन्वेवं कुमारी ब्राह्मणिरूपेत्यादौ घरूपेतिहखापत्तिरत आह- उत्तरपदाधिकारे प्रत्ययग्रहणे न तदन्तग्रहणम् ॥२६॥ m इत्यर्थो धम्मिग्राहकमानादेवेत्याह-अत एवोत्तमैकाभ्यामिति । परि- भाषायामपीदं ज्ञापकमिति बोध्यम् । अन्यथा सुपि चेत्यत्र तदादितदन्तो- पस्थितौ सुबन्ततदादौ परे पूर्वस्य दीर्घ इत्यर्थेन निर्देशासङ्गतिः स्पष्टैवेति दिक् ॥ २५ ॥ कुमारी ब्राह्मणिरुपेत्यादाविति । नन्वियं शंका नोदयमहति । स्यतासी लुलुटोः सुपि चेत्यत्रेवात्रापि पूर्वपरिभाषयैव तदन्तविध्यभाव- सिद्धेः । अत एव घांशे न तदन्तविधिरन्यथा तत्र तदन्तविधौ कुमारी ब्राह्मणितरेत्यादौ ह्रस्वापत्तेस्सत्त्वेन प्राथम्यात्तस्यैवावतरणत्वं वक्तुं युक्तं स्यादिति चेत-न । तदादिरूपविशेष्यमादाय प्राप्ततदन्तविधेरेव तया निषेधात् । अत एव रात्रेः कृतीत्यादौ तदादिविशेष्यकतदन्त विधेनिषेधे- ऽप्युत्तरपदं विशेष्यमादाय प्राप्तस्य तस्य न निषेधः । न चानया तत्र निषेधो दुर्वारः प्रत्ययवृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकधविच्छिन्नविषयता- प्रयोजक एवैतस्याः प्रवृत्तिस्वीकारात् । अत एव घांशे तदादिविशेष्यकत- दन्तविधेः पूर्वपरिभाषया निषेधेप्युत्तरपदविशेष्यकतदन्तविधिना दोषस्य सत्त्वेन प्राथम्यात्तदेवावतरणं वक्तुमुचितमित्यपास्तम् । तत्साध्यदोषा- भावकस्यैव तदवतरणत्वेनोक्तरीत्या श्रावणप्रत्यक्षविषयतावच्छेदकनिवे- शस्यावश्यकत्वेन परिभाषया दोषनिराकरणासम्भवात् । ननु मास्त्ववतरणन्तत्। उत्तरपदं विशेष्यमादाय तदन्तविधिना ह्रस्वा- पत्तिस्तु तत्र दुर्वार इति चेत्-न। संज्ञाविधौ तदन्तविधिनिषेधसामर्थ्यात्प्र- देशेऽपि न तदन्तविधिरित्यनेन शब्देन्दुशेखरे समाहितत्वात्। तथा हि- तरप्तमपौ घ इत्यत्र तदन्तविधिनिषेधे प्रदेशे घपदस्य प्रत्ययमात्रग्रहण- त्वेन तदादितदन्तलाभः । संज्ञाविधौ निषेधाभावे तरबाद्यन्तस्य घसंज्ञायां प्रदेशे घपदस्य प्रत्ययमात्रग्रहणत्वाभावेन तदन्तविध्यभावात्तरबाद्यन्तत- दादेरेव लाभः । घरूपसूत्रेपि तदादिविशेष्यकतदन्तविधौ पूर्वपरिभाषया २६. उत्तरपदाधिकारे० 1 विजयाऽलङ्कृतः [ १३३ 'हृदयस्य हृल्लेख्यदण्लासेषु'इत्यत्र लेखग्रहणात् । तत्र लेखेति न घनन्तमनभिधानात् । इयं च 'हृदयस्येति सूत्रे एव भाष्ये स्पष्टा ॥ २६ ॥ वारिते उत्तरपदविशेष्यकतदन्तविधौ घान्तो यावान् समुदायो लभ्यते ता- वानेव संज्ञाविधौ निषेधाभावे तदन्ततदादेर्घसंज्ञायां घरूपसूत्रे उत्तरपदवि- शेष्यकतदन्तविधिना लभ्येतेति प्रदेशे तदन्तविधौ संज्ञायां तनिषेधो व्यर्थ एव । किञ्च रूपवादिनिमित्तको ह्रस्वः प्रत्ययाव्यवहितपूर्वस्यैवेकारस्य भवति तत्साहचर्य्याद्घनिमित्तकोऽपि ह्रस्वः प्रत्ययपूर्वस्यैवेत्यर्थेनादोषः । केचित्तु रूपवाद्यंशे अनया परिभाषया साक्षाच्छास्त्रबाधकल्पनापेक्ष- योत्तरपदस्य विशेषणत्वबोधनमेव युक्तन्तथा च घांशे तस्य विशेष्यत्वे सर्वेषामेकस्मिन्नन्वयाभावेन द्वन्द्वासाधुत्वापत्त्या तत्रापि विशेषणत्वमेवेति न घांशेऽपि तदन्तविधिरित्याहुः । अन्ये तु प्रत्ययवृत्तिश्रावणेत्यादि न निवेश्यते प्रत्ययबोधकमात्रं न तदन्तबोधकं घांशे प्राथम्यादवतरणम्वक्तुं युक्तमेव । रात्रेः कृतीत्यादौ तु सामर्थ्यात्तदन्तविधिः कृद्रूपोत्तरपदस्यासम्भवादित्याहुः-तन्न। अशब्दा- दाचारक्किबन्ताद्घञ्प्रत्ययेऽतो लोपे रात्रिम इत्यादावुत्तरपदस्य कृद्रुपत्व- सम्भवेन चारितार्थ्यादित्यास्ताम् । अथात्र कर्मधारये बहुव्रीहौ वा पुम्व- द्भावापत्त्या कुमारब्राह्मणिरूपेति स्यात् । षष्ठीतत्पुरुषे नदीतरे प्रतिषेधो वक्तव्यो न वक्तव्यः समानाधिकरण इति वर्तत इतिभाष्यात्समानाधिक- रणे एव हस्वप्रवृत्तिलाभेनासङ्गत्यापत्तिरिति चेत-न। वयोवाचके वैकल्पिक- जातिकाय॑स्येष्टत्वेन जातेश्चेत्यनेन पुम्बद्भावनिषेधात् बहुब्रीहौ दोषाभा- वात् । यद्वा कुमारी ब्राह्मणिरूपेतिवाक्यमेव । अत्र समासे इष्टस्य पुम्वद्भा- वस्य परत्वाबाधेन ह्रस्वापत्तिरित्याशयात् । इदमुपलक्षणम् । ब्राह्मणिरू- पेत्यादौ ह्रस्वानापत्तिरित्यपि बोध्यम् । लेखग्रहणादिति । ननु लेखग्रहणे तदन्तविधिना हृदयशब्दस्य परम- लेखशब्देन समासे हृत्परमलेख इति भवति । तदभावे अणन्ततदादिरूपो- त्तरपदपरत्वाभावेन हृदयपरमलेख इति वैषम्यात्कथं ज्ञापकमिति चेत्-न । गिलेऽगिलस्येत्यत्र तदन्तविधौ गिलान्त उत्तरपद इत्यर्थेन तिमिगिलगिल इत्यस्य सिद्धौ गिलगिले चेत्येतत्सामर्थ्यात् उत्तरपदाधिकारे प्रातिपदिक- ग्रहणे न तदन्तग्रहणमितिपरिभाषान्तरस्य ज्ञापितत्वेन लेखशब्दे तदन्त- । १३४ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके विध्यभावादत एवेष्टकेषीकामानानां चिततूत्नभारिण्वित्यादौ चिताद्यंशे न तदन्तविधिस्तेनेष्टकापरिचितमित्यादौ ह्रस्वाभावः । केचित्तु तिमेर्गिलस्तस्य गिल इत्यर्थ के तिमि गिलगिल इत्यत्र तदन्त- विधावपि गिलगित्लशब्दस्योत्तरपदत्वाभावेनाप्राप्त्या तत्र विधानार्थं गिल- गिले चेति चरितार्थमित्याहुः-तन्न। अन्तरङ्गत्वेन पूर्वमेव मुसिद्धेः । वाति- केप्युत्तरपदसम्बन्धस्य सत्त्वेन तस्याप्राप्तेश्च । नापि गिलान्ते चेगिलगिल एवेति नियमार्थतया न ज्ञापकमिति युक्तम् । विधिनियमसम्भवे विधेरेव ज्यायस्त्वात् । वनो र चेत्यादाविव विशेष्यान्तरसत्त्वेऽपि तदादिस्वरूपमा- दायापि तदन्तविधिना अणन्ततदाद्यन्तोत्तरपद इत्यर्थेन फलभेदाभावाच्च ज्ञापकपरभाष्यप्रामाण्यात् हृत्परमलेख इत्यादेरनभिधानाच्च । न चैतत्परि- भाषासत्त्वे उपसर्गस्य घबीत्यत्र तदन्तविध्यभावेन घञ्चन्त इत्यर्थः कथमिति वाच्यम् । सूत्रारम्भसामर्थ्येन तदन्तविधिनिषेधाभावात् नहि घप- मुत्तरपदं सम्भवति न चाशब्दादाचारकिबन्तात् घनि तत्सम्भवः । तत्र दीर्घोत्तरमिकोऽसवर्ण इति ह्रस्वसमुच्चितप्रकृतिभावे यणि वा दीर्घविधा- नस्य फलाभावात् । खित्यनव्ययस्येत्यत्र खित्पदस्य तत्पुरुषे कृतीत्यादौ कृत्पदस्य च प्रत्ययवृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकधर्मावच्छिन्नबोध- कत्वाभावान्न निषेधः । उत्तरपदाधिकारे प्रातिपदिकग्रहण इत्यस्याः प्राति- पदिकवृत्तिविषयताप्रयोजकपदे एव प्रवृत्तिरत एव एकहलादौ पूरयितव्य इत्यत्र एकहलादिपदेन न तदन्तविधिः । वस्तुतस्तु एकहलादिपदे तदन्तविधाबुदकस्थितिशब्देऽप्यसंयुक्तहला- दिरितशब्दस्तदन्तः स्थितिशब्द इति तत्राप्यादेशापत्त्यैकग्रहणसामर्थ्यान्न तदन्तविधिः। तथा च श्रावणप्रत्यक्षविषयतावच्छेदकधर्मावच्छिन्न- विषयताप्रयोजकं पदमुत्तरपदं विशेष्यीकृत्य तदन्तबोधकन्नेत्येव परिभाषा- द्वयस्थाने उच्यते। केचित्त पदघटितं विशेष्यीकृत्येत्याद्यर्थोऽत एव पादस्य पदाज्याती- त्यादौ पूर्वपदम्विशेष्यमादायापि पादशब्देन न तदन्तविधिस्तेन दग्ध- पादोपहत इत्यादौ नपदादेश इत्याहुः-तन्न । तथा सति पक्केष्टकचित- मित्यादावपि ह्रस्वत्वानापत्तिरिष्टकेषीत्यादावपि तदन्तविधिनिषेधापत्तेः। दग्धपादोपहत इत्यत्र तु भाष्यप्रयोगान्नेत्यस्यापि वक्तुं शक्यत्वात् । अन्ये तु पदघटितम्विशेष्यमादायेत्येवार्थः । इष्टकेषीत्यादौ पूर्वपदस्या- नाक्षेपान्न दोषोऽत एव तुन्दशोकयोः परिमृजापनुदोरित्यादावुपपदं विशेष्यमादाय न तदन्तविधिरित्याहुः । वस्तुतस्तु अनोपपदशब्दस्या- २७.स्त्रीप्रत्यये चानुपसर्जने न] विजयाऽलङ्कृतः [ १३५ नन्वेवं परमकारीषगन्धीपुत्र इत्यत्रेवातिकारोषगन्ध्यापुत्र इत्य- त्रापि 'प्यङः सम्प्रसारणं पुत्रपत्योरिति स्यादत आह- न भावेन तदन्तविधेरप्रसङ्ग एवेति दिक् । चन्द्रिकाकारस्तु कुमारी ब्राह्मणितरेत्यस्यैतत्परिभाषाफलत्वेन घरूप- सूत्रे भाष्यकृतोक्तत्वेन श्रावणप्रत्यक्षेत्याद्यनिवेशः। इयञ्च धर्मिग्राहक- मानादादेशविधायक एव प्रवर्तते । अत एव रात्रेः कृतीत्यादौ न दोषः । खित्यनव्ययस्येत्यत्र तु अनव्ययस्येत्येत्सामर्थ्यात्तदन्तविधिः । तत्पुरुषे कृतीत्यस्यादेशविधायकत्वाभावादेवादोषः । प्रातिपदिकग्रहण इत्यस्य तु आगमविधायकेऽपि प्रवृत्तिरत एव कारे सत्यागदस्येत्यत्र कारशब्दे तदन्तविधिरत एव न द्वयोरेकत्वसम्भव इत्याहुः ॥२६॥ नन्वेवं परमकारीषगन्धीपुत्र इत्यत्रेवातिकारीषगन्ध्यापुत्र इति । नन्विदमवतरणन्न युक्तं, पूर्वपदरूपविशेष्यान्तरस्य सत्त्वेन तदादि- विशेष्यकतदन्तविध्यभावे पूर्वपदम्बिशेष्यमादाय तदन्तविधिस्तदन्ते च तदादेरभेदेनान्वयः। तथा च तदाद्यभिन्नं यत् ष्यङन्ते पूर्वपदमित्यर्थस्यैव लाभेन परमकारीषगन्ध्येत्यस्य व्यङन्तपूर्वपदत्वेपिष्यङ् यस्माद्विहितस्तदा- दित्वविरहेण सम्प्रसारणाप्राप्त्या दृष्टान्तत्वासिद्धः । न च परमंकारीष- गन्धीपुत्र इत्यत्रेवातिकारीषगन्ध्यापुत्र इत्यत्रापि स्यात् अर्थान्न स्यादि- त्येव तात्पर्य्यविषय इति वाच्यन्तत्राभावस्यैवेष्टत्वेनोपपत्त्यभावात् । न च वनो र चेत्यत्रेवात्रापि तदादिविशेष्यकतदन्तविध्युत्तरं पूर्वपदं विशेष्यी- कृत्य पुनस्तदन्तविधिः। अथ वा पूर्वपदस्य विशेष्यान्तरस्य सत्त्वेपि तद्विशेष्यकतदन्तविधेः प्रथमं पूर्वपरिभाषया निषेधात् तस्य सत्त्वेऽपि तदा- दिविशेष्यक एव तदन्तविधिः, तदन्तविधिप्रयोजकस्यैव विशेष्यान्तरस्य तदादिविशेष्यकतदन्तविधिप्रतिबन्धकत्वात् । ततश्च व्यङन्ततदादेः प्रत्ययग्रहणत्वाभावेन पूर्वपरिभाषाया अप्राप्त्या पूर्वपदविशेष्यकतदन्त- विधौ ष्यङन्ततदाद्यन्तपूर्वपदस्येत्यर्थेन परमकारीषगन्धीपुत्र इत्यत्र प्राप्त्या दृष्टान्तत्वमुपपन्नमिति वाच्यम् । तथा सति परिभाषायामवतीर्णायामपि अतिकारीषगन्ध्यापुत्र इत्यत्र ष्यङन्ततदाद्यन्तत्वेन दोषस्य दुरुद्धरत्वाद- सङ्गतेस्तादवस्थ्यात् । न चानङ् ऋतो द्वन्द्व इत्यत्रेवात्राणि पूर्वपदन्ना- क्षिप्यते । ततश्च व्यङन्ततदादेः संप्रसारणमित्यर्थेन दृष्टान्तत्वोपपत्तिरि- त्यपि युक्तं दत्तोत्तरत्वादिति चेत्-अत्रोच्यते । तदाद्यभिन्नं ध्यङन्तं यत्पूर्व- १३६ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके स्त्रीप्रत्यये चानुपसर्जने न ॥ २७ ॥ पदमित्येवार्थः । इवशब्दस्यातिकारीषगन्ध्या पुत्र इत्यत्रेत्यस्याने उत्कर्षः। तथा चातिकारीषगन्ध्यापुत्र इत्यत्रेव परमकारीषगन्धीपुत्र इत्यत्रापि स्या- दित्यर्थः । यथा तत्र स्वाभाववत्वसम्बन्धेन भवति तथा परमकारीषगन्धी- पुत्र इत्यत्र स्यात्। मूर्खपुत्रे मूर्खपितृवदयं पण्डित इत्यत्र यथा न स्यादिति यावदिति युक्तमेवावतरणमिति । स्त्रीप्रत्यये चानुपसर्जने नेति । ननु कोऽर्थोऽस्याः ? न तावत् स्त्रीप्रत्ययेऽनुपसर्जने तदादिविधिन्नेत्यर्थोऽनुपसर्जनस्त्रीप्रत्ययस्य लक्ष्ये सत्त्वेऽपि तत्र तदादेरप्रसङ्गात् , उत्सर्गापवादयोस्समानदेशत्वभङ्गापत्तेश्च । नापि प्रत्ययग्रहणपरिभाषाया अपवादत्वादत्रापि ग्रहणपदसम्बन्धेनानु- पसज्जनस्त्रीप्रत्ययबोधके तत्पदघटिते शास्त्रे तदादिविधिनेत्यर्थः । व्यङ- स्सम्प्रसारणमितिसूत्रघटकष्यपदस्यानुपसर्जनपरमकारीषगन्ध्याघटक- ध्यबोधकत्वेन तदादिनियमाभावे प्यङन्तपूर्वपदस्येत्यर्थे परमकारीष- गन्धीपुत्र इत्यत्र संप्रसारणोपपत्तावप्यतिकारीषगन्ध्यापुत्र इत्यत्रापि स- म्प्रसारणापत्तिः। तत्रापि ष्यङन्तपूर्वपदस्य सत्त्वादिति चेत्-अत्र वदन्ति- ध्यङस्सम्प्रसारणमितिसूत्रे प्यपदे आवृत्तिरेकमनुपसजनतात्पय्यकमप- रमुपसजनतात्पर्य्यकम् । तत्रानुपसजनतात्पर्य्यके एषा तदादिनियमम्वा- रयति । ततश्चानुपसर्जनष्यङन्तपूर्वपदस्य सम्प्रसारणमित्यर्थेन परम- कारीषगन्धीपुत्र इत्यत्र सम्प्रसारणमुपसर्जनष्यङन्ततात्पर्य्यके व्यङ्पदे तदादिनियमेनोपसर्जनष्यङन्ततदादिपूर्वपदस्येति द्वितीयोऽर्थः। तथा च अतिकारीषगन्ध्यापुत्र इत्यत्र पूर्वपदस्य तदादित्वाभावादुपसजनवा- क्यस्य व्यङ उपसर्जनत्वादनुपसर्जनवाक्यस्य चाप्राप्त्या सम्प्रसारणा- भावः। न चोपसर्जनवाक्यस्यानर्थक्यम् । कारीषगन्ध्या इव मनुष्य इत्यर्थे कनो लुपि ष्यङ उपसर्जनत्वेन कारीषगन्धीपुत्र इत्यत्र चारिता- र्थ्यात् । उपसर्जनत्वञ्च प्रकृते न शास्त्रीयं, प्रत्ययमाने तदसम्भवात् । नापी- तरपदार्थनिष्ठविशेष्यतानिरूपितप्रकारताप्रयोजकत्वं तत्, परमकारीषग- न्धीपुत्र इत्यत्रापि ष्यङ उपसर्जनत्वापत्तेः ।अपि तु स्वान्तसमुदायपर्याप्त- शक्तिनिरूपकार्थनिष्ठविशेष्यतानिरूपितप्रकारतावच्छेदकताप्रयोजकत्वं स्वं यस्य प्रत्ययस्योपसर्जनत्वमिष्टन्तत् । कनलुबन्तष्यङन्तसमुदायपर्याप्त- शक्तिनिरूपकार्थः कारीषगन्ध्यासदृशः अतिकारीषगन्ध्यापुन इत्यत्र कारी- २७. स्त्रीप्रत्यये चानुपसर्जने न] विजयाऽलङ्कृतः [ १३७ षगन्ध्याकर्मकातिक्रमणकर्ता तन्निष्ठविशेष्यतानिरूपितप्रकारता कारीष- गन्ध्यापदार्थे कारीषगन्धसदृशगन्धविशिष्टसम्बन्धिस्त्रीत्वविशिष्टापत्यरूपे, तदवच्छेदकता स्त्रीत्वे तत्प्रयोजकत्वं ध्यङ इति लक्षणसमन्वयः । तथैवा- तिकारीषगन्ध्येत्यत्रापि बोध्यम् । परमकारीषगन्धीपुत्र इत्यत्र च स्वान्त- समुदाय: परमकारीषगन्ध्या तनिष्ठशक्तिनिरूपकार्थः परमाभिन्नकारीष- गन्धवत्सम्बन्धिस्त्रीत्वविशिष्टापत्यरूपस्तन्निष्टविशेष्यतानिरूपितप्रकारता परमपदार्थे तवच्छेदकता टाबर्थस्त्रीत्वे तत्प्रयोजकत्वं टापो न तु ष्यङ इत्यनुपसर्जनत्वन्तस्य बोध्यम् । अथ वा अस्मिन् कल्प आवृत्त्याश्रयण- रूपगौरवभयेन स्त्रीप्रत्ययवोधकपदघटिते शास्त्रेऽनुपसज्जनेनेत्यस्योपस्थि- तिरित्यर्थो न तु तत्र तदादेरुपस्थितिस्तस्यानया वाधात् । अनुपसज्जनेनेति। तृतीयार्थोऽभेदः। तथा चानुपसर्जनष्यडन्तपूर्व- पदस्य संप्रसारणभित्येक एवार्थः । परमकारीषेत्यत्रानुपसर्जनत्वात्संप्रसा- रणमतिकारीषगन्ध्यापुत्र इत्यत्रोपसर्जनत्वात्संप्रसारणाभावश्चोपपद्यते । न च कनलुबन्तकारीषगन्धोपुत्र इत्यत्रोक्तरीत्योपसज्जनत्वेन संप्रसारणा- भावप्रसङ्ग इति वाच्यमिष्टत्वात् । पूर्व कल्पादत्रकल्पे फलभेदस्त्वकिञ्चित्कर एव गौरवस्येव पूर्वकल्पे कन्लुबन्ते सम्प्रसारणापत्तेरपि बाधकस्य वक्तुं शक्यत्वात् । फलैक्याग्रहे तु अस्मिन् कल्पे उपसर्जनत्वं स्वान्ततदाद्यव्य- वहितपूर्वपदप्रयोज्यविशेष्यतानिरूपितप्रकारतावच्छेदकताप्रयोजकत्वं कन्- लुबन्ते स्वान्ततदाद्यवधिकपूर्वपदस्याभावात् परमकारीषगन्धीत्यत्र ध्यङ- न्ततदाद्यवधिकपूर्वपदं परमपदन्तत्प्रयोज्यप्रकारताया एव सत्त्वान्न तु विशेष्यताया इति उभयत्र विशेषणाभावप्रयुक्तो विशिष्टाभाव इत्यनुपसज्ज- नत्वम् । अतिकारीषगन्ध्येत्यत्र पूर्वपदप्रयोज्यातिक्रमणकर्तनिष्ठविशेष्यता- निरूपितप्रकारतावच्छेदकत्वप्रयोजकत्वरूपोपसर्जनत्वस्यैव सत्त्वेन न संप्रसारणमिति विभावयन्तु । नन्वेकदेशिसमासस्य कर्मधारयमाश्रित्य तत्प्रत्याख्यानस्य च फलै- क्यानापत्तिः । तथा हि पिप्पल्या अर्धमर्धपिप्पलीत्यारंभपक्षे पूर्वपदार्थस्या- धंस्य प्राधान्यात्स्वान्तसमुदायोऽर्द्धपिप्पलीरूपस्तत्पर्याप्तशक्तिनिरूपकार्थः पिप्पल्यर्धरूपरतन्निष्ठविशेष्यतानिरूपिताप्रकारता पिप्पलीनिष्ठा तदवच्छे- दकत्वं स्त्रीत्वे तत्प्रयोजकत्वरूपोपसर्जनत्वं ङीष इत्यनुपसजनेनेत्यस्योप- स्थितिकल्पे हल्याभ्य इत्यस्यानुपसर्जनभूतौ यो ड्यापौ तदन्तो यस्सुतिसीत्येतत्सम्बन्धितदादिस्तत: परस्य सुतिसिरूपस्य हलो लोप इत्य- र्थेन सुलोपो न प्राप्नोति । अर्द्धचासौ पिप्पलीति कर्मधारये परमकारीष- १३८ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके गन्धीत्यत्रेवानुपसर्जनत्वेन सुलोपः प्राप्नोतीति फलभेदः स्पष्ट एव । एवं गोवष्कयणीतिपूर्वपदार्थप्रधानकर्मधारयेप्युक्तरीत्योपसजनेनेत्यस्योपस्थि- तिकल्पे सुलोपानापत्तिश्चेति चेत्-न । अवयवावयविभावसम्बन्धेतरसम्ब- न्धावच्छिन्नाया एव प्रकारताया ग्रहणेनाद्ये प्रकारताया, अवयवावयविभा- वसम्बन्धावच्छिन्नत्वेनान्त्ये अभेदस्य सम्बन्धत्वाभावेन सम्बन्धावच्छि- नत्वस्याभावेनानुपसज्जनत्वेनादोषात् । स्वान्ततदाद्यवधिकपूर्वपदपा- तप्रयोजकता ग्राह्या । तेन परमा कारीषगन्ध्या यस्या इति बहुब्रीहौ पूर्वपदे अन्यपदार्थनिष्ठ विशेष्यताप्रयोजकताया अपर्याप्त्यासत्त्वेऽपिन तादृशविशे- प्यतानिरूपितप्रकारतानिरूपितस्त्रोत्वनिष्ठावच्छेदकताप्रयोजकस्यापि ष्यङ उपसर्जनत्वमिति तादृशपरमकारीषगन्धीपुत्र इत्यादौ सम्प्रसारणसिद्धिः। नन्वेवमावृत्तिकल्पे निरुक्तस्थले स्वान्तसमुदायः परमकारीषगन्ध्यारू- पस्तत्पर्याप्तशक्तिनिरूपकार्थोऽन्यपदार्थः । तनिष्ठविशेष्यतानिरूपितप्रका- रता कारीषगन्ध्यानिष्ठा । तदवच्छेदकता स्त्रीत्वनिष्ठा । तत्प्रयोजकत्वस्यैव ध्यङस्सत्त्वेनानुपसर्जनवाक्यस्य न प्रवृत्ति: । नाण्युपसर्जनवाक्यस्योपस- जनष्यङन्ततदादिरूपपूर्वपदत्वाभावादिति फलभेद इति चेत्-न । संप्रसा- रणामावस्यैव तत्रष्टत्वात् । अनेन सह फलैक्यायानुपसर्जनेनेत्युपस्थिति- कल्पेऽपि संप्रसारणाभावस्यैवेष्टत्वन प्रयोजकतायां पर्याप्तरनिवेश एव । नन्वेचं परमकारीपगन्धीपुत्र इत्यादौ विशिष्टार्थनिरूपितैकार्थीमा- वरूपशक्तस्समुदाये सत्त्वेन तात्यसकलविषयताप्रयोजकताप्राप्तस्स- मुदाये सत्त्वेन पुत्रत्वावच्छिन्नविशेष्यताप्रयोजकतापि समुदायपर्या- प्ता सा परमरूपपूर्वपदेऽप्यस्ति । ततश्च स्वान्ततदाद्यवधिकपूर्वपदं परमरूपं तनिष्ठप्रयोजकतानिरूपितप्रयोज्यतावद्विशेष्यता पुत्रत्वावच्छिन्ना । तन्नि- रूपितप्रकारता कारीषगन्ध्यानिष्ठा। तदवच्छेदकता स्त्रीत्वनिष्ठा । तत्प्रयो- जकत्वरूपोपसर्जनत्वस्यैव ष्यङस्सत्त्वेन सम्प्रसारणानापत्तिरिति वा- च्यम्। स्वविशिष्टविशेष्यतानिवेशेनादोषात्। वैशिष्ट्यश्च स्वान्ततदाद्यव- धिकपूर्वपदप्रयोज्यत्वस्वोत्तरपदपर्यापप्रयोजकतानिरूपितप्रयोज्यत्वाभा- वत्रत्वोभयसम्बन्धेन । पुत्रत्वावच्छिन्नविशेष्यतायाश्च स्वोत्तरपुत्रपदपर्या- तप्रयोजकतानिरूपितप्रयोज्यत्वस्यैव सत्त्वेन लक्षणघटकत्वाभावादिति दिक। अथ वा स्त्रीप्रत्यय इत्यस्य स्त्रीप्रत्ययान्ततदादावित्यर्थोऽनुपसजन इति स्त्रीप्रत्ययान्ततदादेविशेषणं शास्त्रीयमेव चोपसजनत्वं ग्राह्यम् । तथा चानुपसर्जने स्त्रीप्रत्ययान्ततदादौ सति तदादिनियमो नेत्यर्थः । अधिक- २७.स्त्रीप्रत्यये चानुपसर्जने न ] विजयाऽलङ्कृतः [ १३६ स्त्रीप्रत्यय इति विषयसप्तमी । यः स्त्रीप्रत्ययः स्त्रियं प्राधान्येनाह तत्र तदादिनियमो न । यस्त्वप्राधान्येनाह तत्र तदादिनियमोऽस्त्ये- वेत्यर्थः । प्रत्यासत्त्या यस्य समुदायस्य स्त्रीप्रत्ययान्तत्वमानेयं तदर्थ प्रत्यनुपसर्जनत्वमेवैतत्परिभाषाप्रवृत्तौ निमित्तम् । तेनातिराजकुमारि- व्यावर्त्तको नेति यावत् । तदादिघटिते तदादित्वारोप इति तत्त्वम् । एवञ्च कारीषगन्ध्यारूपतदादिघटिते परमकारीपगन्ध्याशब्दे तदादित्वारोपेण प्यङन्ततदादिरूपपूर्वपदस्य परमकारीषगन्ध्याशब्दस्य संप्रसारणसिद्धिः। अतिकारीषगन्ध्येत्यत्र प्यङन्ततदादेरुपसर्जनत्वेन तद्घटिते समुदाये तदादित्वारोपाभावात् न संप्रसारणम् । कन्लुबन्ते च स्वत एव तदादि- त्वमिति सर्वमवदातम् । विषयसप्तमीति । सत्सप्तमीत्यर्थः। स्त्रियं प्राधान्येनाहेति। स्त्रीत्वं पूर्वोक्तप्रकारतावच्छेदकतया नाहेत्यर्थः । अप्राधान्येनेत्यस्य तादृशप्रका- रतावच्छेदकतयेत्यर्थः। प्रत्यासत्त्येति । अयम्भावः । अतिराजकुमारिरित्यत्र स्वान्ततदादिः कुमारीशब्दः। तदवधिकपूर्वपदमतिपदम् । तत्प्रयोज्यविशेष्यताऽतिक्रमण- कर्तृनिष्ठा । तन्निरूपितप्रकारता कुमारीनिष्ठा । तदवच्छेदकतास्त्रीत्वे । तत्प्र- योजकत्वरूपोपसर्जनत्वं डीपः । एवमाद्यकल्पेऽपि स्वान्तसमुदायोऽतिरा- जकुमारीशब्दः तत्पर्याप्तशक्तिनिरूपकोर्थः। राजकुमारीकर्मकातिक्रम- णकर्ता। तनिष्ठविशेष्यतानिरूपितप्रकारता कुमारीनिष्ठा । तदवच्छेदक- ताप्रयोजकत्वरूपोपसर्जनत्वं ङीषः । गोत्रियोरुपसर्जनस्येत्यस्यानुपस- जनेनेत्युपस्थितिकल्पे अनुपसर्जनाभिन्नो यः स्त्रीप्रत्ययस्तदन्तं यदुपसर्ज- नन्तदन्तसमासस्य ह्रस्वः । एवमेवाद्यकल्पे अनुपसर्जनवाक्यस्याप्यर्थः । उपसर्जनवाक्यस्य चोपसर्जनस्त्रीप्रत्ययान्ततदादिरूपं यदुपसजनन्तद्- न्तस्य ह्रस्व इत्यर्थः । प्रकृते ङीष उपसर्जनत्वेनाद्यपक्षयोह्रस्वाप्राप्तिः स्पष्टै- वान्तिमपक्षे उपसर्जनस्त्रीप्रत्यययोङीष् तदन्ततदादिः कुमारीशब्दस्तच नोपसर्जनं यदुपसर्जनं राजकुमारीशब्दो न स उपसर्जनस्त्रीप्रत्ययान्तत- दादिरिति ह्रस्वाप्राप्तिरिति शङ्का समाधानन्तु प्रत्यासत्त्या यख्य समुदायस्य स्त्रीप्रत्ययान्तत्वमानेतव्यं तद्घटक पूर्वपदं विवक्ष्यते । स्त्रीप्रत्ययान्तत्वञ्च राजकुमारीशब्दे आनेतव्यन्न तद्घटकोऽतिशब्दोऽपि तु राजन्शब्दस्तत्प्र- । PMAIN १४० ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके रित्यादौ राजकुमारीशब्दार्थस्यातिशब्दार्थ प्रत्युपसर्जनत्वेऽपि तदर्थं प्रत्यनुपसर्जनत्वात्तदादिनियमाभावेन हस्वसिद्धिः । अत एवात्र प- रिभाषायां न शास्त्रीयमुपसर्जनत्वमसम्भवात् । अस्याः प्रत्ययग्रह- णे इत्यस्यापवादत्वात्तदेकवाक्यतापन्नत्वादत्रापि ग्रहणपदसम्ब- न्धेन स्त्रीप्रत्ययसामान्यग्रहणे विशेषग्रहणे च प्रवृत्तिन तु स्त्रीप्रत्य- याऽस्रोप्रत्ययग्रहणे। ध्वनितं चेदमर्थवत् सूत्रे भाष्ये । इयं च । योज्यविशेष्यताया अभावादनुपसर्जनत्वमेव ङीष: । आद्यकल्पेऽपि स्वा- न्तसमुदायस्स एव गृह्यते यस्य स्त्रीप्रत्ययान्तत्वमानेतव्यम् । स च राजकु- मारीशब्द एव तन्निष्टशक्तिनिरूपकोऽर्थो राजसम्बन्धिकुमारीरूपः। तन्निष्ठ- विशेष्यतानिरूपितप्रकारतावच्छेदकताप्रयोजकता न ङीष इत्यनुपसर्जन- त्वमेवेति न दोष इति । अत एवेति। प्रत्ययमात्रस्योपसर्जनत्वविवक्षणादेवेत्यर्थः । असम्भ- वादिति । प्रत्ययमात्रस्यासम्भवादित्यर्थः । नन्विदं न युक्तम् । अस्य स्त्री ई याः निष्क्रान्ता निरिरित्यत्र प्रत्ययमात्र- स्यापि तत्सम्भवात् । न च तस्य तत्त्वे फलाभावो निरेरपत्यमित्यर्थे स्त्रीप्रत्यया- स्ततदादेगित्यर्थकात्रीभ्यो ढगितिसूत्रात् निरिशब्दाठठगभावस्यैव फल- त्वसम्भवात् । उपसजने तदादिनियमान्निरिशब्दस्य स्त्रीप्रत्ययान्ततदादि- त्वाभावादिति चेत्-न। अतिकारीषगन्ध्यापुत्र इत्यत्र प्रत्ययमात्रस्य तदस- म्भवादित्यर्थात् स्त्रीबोधकागित्यर्थस्यैव ढकि लोप इत्यनेन ज्ञापनसम्भ- वेन फलाभावाच्च स्त्रीप्रत्ययान्त एवानुपसर्जनत्वान्वयस्य पूर्वमुक्तत्वेन शास्त्रीयस्यापि ग्रहणे न दोष इत्यपि प्रागुक्तन्न विस्मर्त्तव्यमिति दिक् । स्त्रीप्रत्ययसासान्यग्रहणे इति।स्त्रीप्रत्ययत्वावच्छिन्नबोधके इत्यर्थः। यथा गोस्रियोरुपसर्जनस्येत्यादौ। विशेषग्रहणे इति स्त्रीप्रत्ययत्वव्याप्य- धविच्छिन्नविषयताप्रयोजकपदे इत्यर्थः । यथा प्यङर प्रसारणमि- त्यादौ । न तु स्त्रीप्रत्ययास्त्रीप्रत्ययग्रहणे इति । उक्तस्थलद्वयातिरिक्ते स्त्रीप्रत्ययवृत्तिविषयताप्रयोजके नेत्यर्थः । अर्थवत्सूत्रे इति । तत्रत्यप्रत्यय- पदस्यापि स्त्रीप्रत्ययवृत्तिविषयताप्रयोजकत्वेनैतत्परिभाषया अनुपसजने तदादिनियमाभावेन राजकुमारीतिसमासस्य प्रत्ययान्तत्वेन पूर्वेणाप्राप्त- प्रातिपदिकत्वविधानाय चारितार्थ्यसम्भवे समासग्रहणस्य नियमार्थत्वो- me २८. संज्ञाविधौ प्रत्ययग्रहणे०] विजयाऽलङ्कृतः [ १४१ वाचनिक्येव 'प्यङ: इति सूत्रे भाष्ये स्पष्टा ॥२७॥ नन्वेवं 'तरतमपौ घ' इत्यादिना तरबन्तादेः संज्ञा स्यादत माह- संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति ॥ २८ ॥ क्तिरसङ्गता स्यादिति तत्र तदप्रवृत्तियनितेति भावः । वाचनिक्येवेति। भाष्यकारेण ज्ञापकन्नोपन्यस्तमिति भावः । न तु ज्ञापकन्न सम्भवतीति । अङ्गसंज्ञासूत्रे नेयङबङ्स्थानावस्त्रीत्यतोऽस्त्रीपदस्य सम्बन्धः। तस्य स्त्रीबोध- कभिन्नोर्थस्तस्य च प्रत्यय अन्वयः । स्त्रीबोधकश्च प्रधानाप्रधानन्यायेनानुप- सजन एव गृह्यते । तथा चानुपसर्जनस्त्रीबोधकभिन्नप्रत्यये गृह्यमाणे तदादिरित्युपतिष्ठत इत्यर्थादनुपसर्जनस्त्रीप्रत्यये तदादिनियमालाभादियं परिभाषा लब्धेति ज्ञापनसम्भवात् ॥ २७ ॥ नन्वेवमिति । प्रत्ययग्रहणपरिभाषायास्वीकार इत्यर्थः । संज्ञावि- धाविति । ननु कोऽस्या अर्थः ? संज्ञाविधायकशास्त्रघटकं प्रत्ययबोधकं पदन्तदन्तबोधकन्नेत्येव यद्यपि शब्दमर्यादया लभ्यते परन्त्वस्मिन्नर्थे प्रातिपदिकसंज्ञाविधायकशास्त्रघटकं प्रत्ययबोधकं प्रत्ययपदमपि तदन्त- बोधकन्न स्यात् । तथा च प्रत्ययान्तभिन्नमित्यर्थो न स्यात्। नापि संज्ञानिष्ठ- विधेयतया साक्षाग्निरूपिता योद्देश्यता तत्प्रयोजकं प्रत्ययबोधकं पदन्त- दन्तबोधकनेत्यर्थः । प्रातिपदिकसंज्ञया साक्षानिरूपितोद्देश्यतायाः प्रयोज- कमर्थवत्पदन्न तु प्रत्ययपदमिति न तत्र निषेध इति युक्तम् । कृदति- जित्यादौ कृत्संज्ञानिष्ठविधेयतया साक्षानिरूपितोद्देश्यतायाः अयोजकत्व- स्याभावात्तिपदे तदन्तबोधकत्वापत्तेः । अत्रोच्यते--संज्ञानिष्ठविधेयतया साक्षान्निरूपिता प्रत्ययत्वव्याप्य- धर्मेण साक्षादवच्छिन्ना योद्देश्यता तत्प्रयोजकशास्त्रघटक प्रत्ययबोधक पदन्तदन्तबोधकन्नेत्यर्थः । अर्थवत्सूत्रे विधेयतया साक्षान्निरूपितायाः प्रत्ययत्वेन साक्षाद्वच्छिन्नत्वाभावान्न निषेधः। कृदतिङित्यादौ च कृत्संज्ञा- निष्ठविधेयतया साक्षानिरूपितायास्तस्याः प्रत्ययत्वेन साक्षादवच्छिन्नतया तत्प्रयोजकशास्त्रघदकत्वात्तिपदे निषेधः। अथ वा संज्ञानिष्ठविधेयतया साक्षाभिरूपितप्रत्ययत्वव्याप्यधर्मावच्छिन्नोद्देश्यताप्रयोजकं पदन्तदन्त- बोधकन्नेत्यर्थः। अर्थवत्सूत्रे प्रत्ययत्वावच्छिन्नोद्देश्यतायाः संज्ञानिष्ठविधेय- १४२ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके तया साक्षानिरूपितत्वविरहान्न निषेधः। कृतिडित्यादौ तिइन्त्वावच्छि- नोद्देश्यतायाः कृत्संज्ञानिष्ठविधेयतया साक्षान्निरूपितत्वविरहेण निषेधा- प्रवृत्तावपि प्रत्ययग्रहणेनैव तिङन्ततदादिभवतीत्यादिव्यावृत्तौ तदन्त- विधिना तिङन्ततदादिव्यावर्त्तकातिपदस्य वैयर्थ्यापत्त्या सामर्थ्यात्त- दन्तविध्यभावः । न च व्यतिसे इत्यत्र सेमात्रस्य प्रत्ययत्वेऽपि व्यपदेशि- बद्भावेन तिङन्ततदादित्वात्तव्यावर्तनार्थमतिअहणमस्त्विति वाच्यम् । व्यपदेशिवदेकस्मिन्नित्यनेन स्वस्मिन् स्वघटकत्वस्वघटितत्वयोरेवातिदेशस्य लोकदृष्टान्तेन लाभात स्वस्मिन् स्वान्ततदादित्वस्य तेन न्यायेनातिदेशा- भावेनातिपदवैयर्थ्यात् सेमात्र प्रयोजनकत्वे न ह्येकमुदाहरणमितिन्या- येनातिङग्रहणस्य वैयर्थ्यांपादनं न सम्यक् । अशब्दादाचारविबन्तादा- शिषि लिङि अतो लोपे यात् इत्यत्रापि प्रयोजनसम्भवान्न ह्येकमुदाहरण- मितिन्यायस्य विषयाभावात् । अथ वा तिङन्ततदादिभिन्न इत्यर्थे प्रत्यय- मात्रस्य कृत्संज्ञापत्तौ अकृत्सार्वधातुकयोहर्घ इत्यत्र कृग्रहणेनैव सिद्धौ सार्वधातुकग्रहणस्य वैयर्थ्यापत्त्याअत्र तदन्तविध्यभावः कल्प्यत इत्यदोषः। अथ वा प्रत्ययमात्रोद्देश्यके संज्ञारूपे कार्ये तिङन्ततदादेः पर्युदासेन तिङ्पदस्य स्वबोध्यावयवपरत्वं अवयवोद्देश्यककार्ये यत्र समुदायः पर्यु- दस्यते तत्र समुदायबोधकपदानां स्वावयवपरत्वात् । तथा च तिङन्त- तदाद्यवयवभिन्नस्येत्यर्थेनादोषात् । अत एव नश्छव्यप्रशानिति सूत्रे प्रशानशब्दस्यात्वसन्तस्य चाधातोरिति सूत्रस्थधातुपदस्य च स्वावयवपर- त्वेन प्रशानशब्दावयवभिन्नस्य नस्येत्यर्थः । धात्ववयवभिन्नो योऽस्तदन्त- स्योपधाया इत्यर्थः । ष:प्रत्ययस्येत्यत्र प्रत्ययस्यादिः ष इदित्यर्थे प्रत्यय- पदस्येत्संज्ञानिष्टविधेयतया साक्षानिरूपितोहेश्यताप्रयोजकत्वाभावेन निषे- धाप्राप्त्या प्रत्ययान्ततदाद्यादिः ष इत्यर्थापत्त्या षण्णामित्यादौ प्रकृतिष- कारस्यत्वापत्तिस्तु न, प्रत्ययावयवेऽपि प्रत्ययत्वव्यवहारेणेन्संज्ञानिष्ठविधे- यतया साक्षान्निरूपिताया आदिषत्वावच्छिन्नविषयताया अपि प्रत्ययत्व- व्याप्यधविच्छिन्नत्वेन तत्प्रयोजक पःप्रत्ययस्येतिसूत्रन्तघटकप्रत्यय- पदस्य तदन्तबोधकत्वाभावस्यानेन बोधनसम्भवात् न चाद्यार्थे दोषाभावे- ऽपि द्वितीयार्थे दोष एव प्रत्ययपदस्य तावतापि संज्ञानिष्ठविधेयतया साक्षानिरूपितविषयताप्रयोजकत्वाभावादिति वाच्यम्। नागेशमते सूत्रा- न्तर्गतानामवेत्संज्ञालोपयोस्सत्त्वेन प्राचां फस्तद्धित इति सूत्रघटकं यत्प्र- त्ययबोधकं एफपदं तद्बोधकत्वेऽपि षःप्रत्ययस्येतिसूत्रघटकप्रत्ययपदस्य प्रत्ययबोधकत्वाभावेन प्रत्ययग्रहणपरिभाषाया अप्रवृत्त्या तदाद्युपस्थितेरे- २८. संज्ञा विधौ प्रत्ययग्रहणे० ] विजयाऽलङ्कृतः [ १४३ 'सुप्तिङन्तमि'त्यन्तग्रहणमस्या ज्ञापकम् । न च प्रत्यययोः प- दसंज्ञायामपि प्रत्ययग्रहणपरिभाषया तदन्तग्रहणसम्भवाज्ज्ञापिते- ऽपि फलाभाव इति वाच्यम् । पदसंज्ञायाः स्वादिष्विति विषये प्र- कृतिनिष्ठतया पदग्रहणस्य प्रत्ययमात्रग्रहणत्वाभावात् । 'सुप्तिङ- न्तमिति सूत्रे भाष्ये स्पष्टा ॥२८॥ वाभावेन तदन्तविधेरप्रसङ्गात् सामन्त्रितमित्यादौ आमन्त्रितेतिमहासं- ज्ञयाऽऽमन्त्रणं येन भवति तस्यैवामन्त्रितसंज्ञेतिबोधनात्तदन्तविधिः प्रत्ययमात्रेणामन्त्रणस्यासम्भवात् , तद्धितश्चासर्वविभक्तिरित्यत्रासर्ववि- भक्ति विशेष्यमादाय तदन्तविधिस्तदादिविशेष्यकतदन्तविधेरेवानेन निषे- धात् । अत्युच्चैसावित्यादौ लुगभावायाच्ययादाप्सुप इत्यादौ विहितविशे- षणस्यावश्यकत्वेन प्रत्ययमात्रस्याव्ययसंज्ञायां फलाभावाच्च । अत एव कृन्मेजन्त इत्यत्र निषेधो न । कृत्तद्धितसमासाश्चेत्यत्रार्थवदनुवृत्तिसाम- ात्तदन्तविधिः कृत्तद्धितान्तश्चैवार्थवदिति भाष्येण कृत्तद्धितयोरर्थव- त्वाभावादिति शेखरे स्पष्टम् । सर्वादिगणघटकडतरडतमप्रत्यययोस्त- दन्तविध्युपायस्तु कौमुद्यामेव स्पष्ट : । तथैव वतुडतिप्रत्यययोरपि तदन्तविधिः। वस्तुतस्तु नास्या उपयोगः । प्रत्ययग्रहणपरिभाषया तदादीतिप्राति- पदिकमात्रस्योपस्थितिः। तस्य यथै स्वादित्यत्रान्वयानुरोधेन पञ्चम्य- न्तता तथा यत्रास्याः प्रवृत्तिरिष्यते तत्रापि पञ्चम्यन्ततैव । तथा च तद- न्तविधेरप्राप्त्या न दोषः । स्वीकृतायामप्यस्यामनेकत्रानेकलिष्टकल्पनाया आवश्यकत्वेन तदपेक्षया परिभाषाया अकरणलाघवेन तदादेः पञ्चम्य- न्तत्वकल्पनाया एव लघीयस्त्वात् । अन्तग्रहण मस्या ज्ञापकमिति । अस्या अभावे तदादिरूपविशेष्यमादाय तदन्तविधौ सुबन्ततिङन्ततदा- दीत्यर्थस्यान्तग्रहणाभावेऽपि लाभादिति भावः । ननु अन्तग्रहणे सति तदादिविशेष्यकतदन्तविधिना सुप्तिपदस्य सुबन्ततिङन्ततदादीत्यर्थः । सुप्तिङ्पदस्यान्तशब्देन बहुव्रीहौ सुबन्तान्त- तिङन्तान्तयोः पदसंज्ञा । अन्तग्रहणाभावे सुबन्ततिङन्ततदादेरिति फल- भेदात् कथं ज्ञापकमिति चेत्-न । अन्तग्रहणे सति तदादेरुपस्थितावपि अन्तविशेषणतयोपस्थितयोः सुप्तिङोस्तत्र विशेषणत्वायोगात् । एकत्र १४४ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके - नन्वेवमवतप्तें नकुलस्थितमित्यादौ नकुलस्थितशब्दस्य क्तान्त- त्वाभावात्समासो न स्यादत आह- कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् ॥ २६ ॥ अस्याश्च कर्मणि क्तान्त उत्तरपदेऽनन्तरो गतिः प्रकृतिस्वर इत्यर्थक गतिरनन्तरः' इति सूत्रेऽनन्तरग्रहणं ज्ञापकम् । तद्धयभ्यु- द्धृतमित्यादावभावातिव्याप्तिवारणार्थम् । प्रत्ययग्रहणपरिभाष- योद्धृतस्य क्तान्तत्वाभावादेवाप्राप्तौ तद्व्यर्थं सदस्या ज्ञापकम् । न चाभ्युद्धृतमित्यादौ परत्वादतिर्गतावित्यनेनाभेनिघात एवेति विशेषणतयाऽन्वितस्यापरत्र विशेषणतयान्वयो नेति व्युत्पत्तेः। तथा च तदादेरेव सुप्तिङन्तेऽभेदेनान्वय इति फलैक्यसम्भवात् विशेष्यान्तरासत्त्वे इत्यस्य प्रकारान्तरेण तदन्तार्थलाभसम्भवे तदादिविशेष्यकतदन्तविधिनें- त्यर्थः । कुत्रचित् विशेष्यान्तरमादाय तल्लामः कचिदन्तग्रहणातल्लाभोऽत एव सनाद्यन्ता इत्यत्र न तदादिविशेष्यकतदन्तविधिः । तथा च प्रकृते न तदादिविशेष्यकतदन्तविधिप्रयुक्तफलभेदाशङ्कापीत्यपि कश्चित् ॥२८॥ नन्वेवमवतप्त इति । प्रत्ययग्रहणपरिभाषया क्लान्ततदादिप्रकृतिक- सुबन्तेन सह सप्तम्यन्तः समस्यत इत्यर्थेन नकुलस्थितशब्दस्य क्तान्तत- दादित्वाभावात् समासो न स्यादित्यर्थः । कृद्ग्रहणे गतिकारकपूर्व- स्यापि ग्रहणमिति। कृन्मात्रनिष्टविषयताप्रयोजक पदं कृद्विशिष्टे लाक्ष- णिकमित्यर्थः। वैशिष्ट्यञ्च स्वनिष्ठचरमावयवतानिरूपकत्वस्वविशिष्टाघटि- तत्वोभयसम्बन्धेन । पुनर्वैशिष्ट्यं स्वेतरत्वस्वनिष्ठविधेयतानिरूपितोद्दे- श्यताश्रयेतरत्वस्वनिष्ठविधेयतानिरूपितोद्देश्यताश्रयाव्यवहितपूर्वत्वविशिष्ट- गतिकारकान्यतरेतरत्वैतत्त्रितयसम्बन्धेन । एवंभूतो नकुलस्थितशब्दः समन्वयः स्पष्टः लक्ष्यतावच्छेदकेन कृत्प्रत्ययविशिष्टत्वेनैव कृदन्ततदादेः गतिकाकरविशिष्टस्य तस्य च ग्रहणम् । अथ वोक्तसम्बन्धैः कृद्विशिष्टे कृदन्ततदादित्वारोपोऽनया बोध्यते । ततश्च कृदन्ततदादित्वेनैवोभयो- बर्बोधः । एतेन शाब्दबोधे शक्तिलक्षणाज्ञानस्य हेतुत्वात्तदभावेन परिभाषया बोधितोऽपि गतिकारकपूर्वस्य बोधोऽसङ्गत एवेत्यपास्तम् । ज्ञापितेऽपि कथं चरितार्थमित्याह-न चाभ्युद्धृतमित्यादाविति । ।

२६. कृद्ग्रहणे गतिकारक० ] विजयाऽलङ्कृतः [१४५ वाच्यम् । पादादिस्थत्वेन पदात्परत्वाभावेन च तदप्राप्तेः । अनन्त- रग्रहणे कृते तु तत्सामर्थ्यागत्याक्षिप्तधातुनिरूपितमेवानन्तयं गृ- ह्यते इति न दोषः । न चाभ्युद्धृतमित्यादावभिना समासेऽनन्तरा- स्योदः पूर्वपदत्वाभावेऽपि स्वरार्थं तदिति वाच्यम् । 'कारकादत्ते'- तिसूत्रे कारकादितियोगं विभज्य तत्र गतिग्रहणमनुवर्त्य कारकादेव परं गतिपूर्वपदं क्तान्तमन्तोदात्त मितिनियमेन थाथादिख राप्राप्त्या कृत्स्वरेणोद उदात्तत्वसिद्धः। तस्मादनन्तरग्रहणं व्यवहितनिवृत्त्य- पदात्परत्वाभावेन चेति । नन्विदमयुक्तम् । कुत्सने च सुपीत्यत: प्रागेव पदादित्यस्य निवृत्तरन्यत्र स्पष्टत्वात् गतिर्गतावित्यस्य च ततः परत्वादिति चेत्-अत्र चन्द्रिका- कारा:-'चो हेतौ । यतः पदात्परत्वाभावोऽतः पादादिस्थत्वमिति व्याच- ख्युः–तन्न। पदात्परस्यापि श्लोकद्वितीयपादादेः पदस्य पादादिस्थत्वेन पदात्परत्वाभावस्य पादादिस्थत्वं प्रति व्यभिचरितत्वेन हेतुत्वासम्भवात् । तस्मादयुक्तमेवैतदिति परे । न च परिभाषायां सत्यामुद्धृतशब्दस्य क्तान्त- पदेन ग्रहणे तदनन्तरत्वमेवाभेरिति कथं तव्यावृत्त्या चरितार्थमनन्तरग्रह- णमित्यत आह–सामर्थ्यादिति । अनन्तरग्रहणसामर्थ्यादित्यर्थः। या- वता विना न चारितार्थ्यं तावज्ज्ञाप्यमिति न्यायादिति भावः । न च ग- तिसमभिव्याहारेऽनया विशिष्टस्यैव कर्मक्तान्तपदेन ग्रहणे तदव्यवहितपूर्व- स्य धात्वनन्तरत्वंबाधितमिति वाच्यं, पुनः सामर्थ्यागतिसमभिव्याहारेऽपि तान्ततदादेरेव ग्रहणमित्यस्य कृद्ग्रहणे इत्यस्य मूल एव स्पष्टत्वात् । अन- न्तरग्रहणस्य परिभाषाज्ञापनमन्तरापि चारितार्थ्यं शङ्कते-न चाभ्यु - तमित्यादावभिनेति । न चोद्धृतशब्दस्याभिना समासेऽपि उद्धृतरूप- समासीयपूर्वपदत्वमुदोऽक्षतमेवेति कथमपूर्वपदत्वन्तस्येति वाच्यम् । उद्- धृतरूपसमासीयपूर्वपदत्वमादाय प्रवृत्तं गतिरनन्तर इति सूत्रं तत्समासी- यथाथादिस्वरस्यैव प्रत्यासत्त्या बाधकं स्यान्नत्वभ्युद्धृतेतिसमासीयस्य बहिरङ्गत्वादिति विशिष्टसमासीयथाथादिम्बरबाधनार्थं तत्समासेऽपि गतिरनन्तर इतिसूत्रं प्रवर्तनाथं ततसमासापूर्वपदत्वाञ्च न प्राप्नोति । उक्त- रीत्याऽनन्तरग्रहणसामर्थ्यादनन्तरमात्रस्य भवतीत्यर्थबोधनद्वारा अपूर्व- पदत्वेऽपि स्वरार्थमस्तु न परिभाषायां ज्ञापकमित्याशयात् । अभ्युद्धृतं १० १४६ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके र्थमेवेति ज्ञापकमेव । यत्र गतिकारकसमभिव्याहृतं कृदन्तं तत्र कृद्ग्रहणे तद्विशिष्टस्यैव ग्रहणमपिशब्दात्तदसमभिव्याहृतस्य केव- लस्यापीति तदर्थः । अन्यथाऽनया कृद्ग्रहणविषये परत्वात् प्रत्ययग्र- हणपरिभाषाया बाध एवं स्यादित्य पिग्रहणम् । अत एव साङ्क- टिनमिति 'गतिकारकोपपदानामि ति कुद्ग्रहण इति च परिभाषा- भ्यां कृदन्तेन समासे कृते विशिष्टादेवाणि सिध्यति न तु सङ्को- टिनमितीति''योगादितिसूत्रे भाष्योक्तं सङ्गच्छते । अन्यथा तत्र पुरोहितमित्यादौ समासस्वरः प्राप्तः तं बाधित्वाऽव्ययपूर्वपदप्रकृतिस्वरः तं बाधित्वा गतिकारकोपदादितिकृत्स्वरः तं बाधित्वा थाथादिस्वरः प्राप्तः तं बाधित्वा गतिरनन्तर इति प्रकृतिस्वर इति स्वरप्रक्रिया। अभ्युद्धृता- मित्यत्र गतिरनन्तर इत्यस्याभावे थाथादिस्वरेणान्तोदात्तत्वं स्यात्तच्चेत् कारकादेव परमिति नियमेन वारितम् । तदा गतिकारकोपपदात्कृत इत्यनेन प्रकृतिस्वरेण उद उदात्तत्वसिद्धथा तत्र गतिरनन्तर इत्यस्याप्रवृत्तावपि क्षतिविरह इति भावः । न चास्यामवस्थायां परिभाषाया अभावेन उद्धृ- तशब्दस्य कृदन्ततदादित्वक्तान्ततदादित्वविरहात् कृत्स्वरस्य थाथादिस्वर- स्य वा न प्राप्तिरिति वाच्यम् । वनो र चेत्यादाविवात्रापि उत्तरपदं विशे- प्यमादाय द्वितीयतदन्तविधिना कृदन्तान्तमुत्तरपदमित्याद्यर्थस्वीकारेणा- दोषात् । अपिशब्दाततसमभिव्याहृतस्येति । यद्यपि नेयमपिशब्दस्य मर्यादा ब्राह्मणमानय शूद्रमप्यानयेत्युक्तौ ब्राह्मणसत्त्वेऽपि शूद्रस्यानयनं प्रतीयते न तु तदसत्त्व एव । तथा च तदसमभिव्याहार इत्यसङ्गतं, तथा प्यग्रिमभाष्यात्तदसमभिव्याहार इत्यंशस्य लाभेनादोषात्। अन्यथेति। अपिशब्दाभावे परत्वादित्यस्यापवादत्वादित्यर्थः । यथाश्रुतन्तु न युक्तम- न्यत्रास्याः चारितार्थ्याभावात् । यत्तु व्यावक्रोशीत्यत्र स्त्रीप्रत्यय इति निषेधेन प्रत्ययग्रहणपरिभाषाया अप्रवृत्त्या अस्याश्चारितार्थ्यमिति परत्वमपि सुवचमिति-तन्न । तत्रै- तस्या अप्यप्रवृत्तौ दोषाभावेन चारिताथ्यस्य साफल्यरूपस्याभावात् । अत एवेति । गतिसमभिव्याहारे केवलस्याग्रहणादेवेत्यर्थः। अहीनवा-

३०. पदाङ्गाधिकारे तस्य० ] : विजयाऽलङ्कृतः
[ १४७
केवलं कूटिन्नित्येतस्यापीनुणन्तत्वात्ततोऽणि पाक्षिकदोपो दुर्वार
एव स्यात् । स्पष्टा चेयं समासेऽनपूर्वे' इति सूत्रे भाष्यकैयटयोः ।
'गतिरनन्तरः' इत्यत्र तु गतेः पूर्वपदस्य क्तान्त उत्तरपदे परे का-
यविधानात्तत्समवधानेऽपि केवलस्य क्तान्तत्वेन ग्रहणं बोध्यम् ।
इयं च कृद्विशेषग्रहणे कृत्सामान्यग्रहणे च न तु कुदकृद्ग्रहण इ-
ति 'अनुपसर्जनादितिसूत्रे भाष्ये स्पष्टम् ॥ २६ ॥
पदाङ्गाधिकारे तस्य तदन्तस्य च ॥ ३० ॥
पदमपंच विशेष्यं विशेषणेन च तदन्तविधि र्येन विधि रित्य-
स्यायं प्रपञ्चः । तेनेष्टकचितं पक्केष्टकचितमित्यादाविष्टकेषीका-
मालानां चित' इति ह्रस्वो महान्परममहान् परमातिमहानित्यादौ
'सान्तमहत' इति दीर्घश्च सिद्धः । अत एव तदुत्तरपदस्येति पाठोs-
युक्त इति भाष्ये स्पष्टम् । अत्र पदशब्देनोत्तरपदाधिकारः केवल-
पदाधिकारश्च । 'पादस्य पदाज्याती'त्यत्र न तदन्तग्रहणं लक्ष्यानु-
रोधादिति सर्व 'येन विधि रित्यत्र भाष्ये स्पष्टम् ॥ ३० ॥
।
चिनि समासे क्तान्ततदादौ परे द्वितीयान्तं प्रकृत्यर्थके अहीने द्वितीयेति-
सूत्रेऽनुपसर्ग इति वक्तव्यम्। नेह सुखप्राप्त इति भाष्य उक्तम् । तदप्य-
स्याज्ञापकम् । न हि परिभाषां विना सुखप्राप्त इत्यत्र द्वितीयान्तस्य क्तान्त-
तदाद्युत्तरपदाव्यवहितपूर्वत्वं सम्भवतीति केचित् ।
ननु गतिसमभिव्याहारे केवलकृदन्तस्याग्रहणे उद्धृतं पुरोहितमित्यादी
गतिरनन्तर इति न स्यादत आह—गतिरनन्तर इत्यत्रेति। तत्समवधा-
नेऽपि केवलस्येति तत्र सूत्रसामर्थ्यात् केवलस्य ग्रहणेप्यन्यत्रोक्तभाष्याद-
ग्रहणमेवेति भावः । कृद्विशेषग्रहणे। क्षेप इत्यादौ । सामान्यग्रहणे । कर्तृ-
करणे कृतेतिसूत्रे । न तु कृदकृद्ग्रहण इति । अत एव कौम्भकारेय-
सिद्धिद्वितीयतदन्तविधेः फलमुक्तं टिढेतिसूत्रे भाष्ये ॥ २९ ॥३०॥

१४८ ] परिभाषेन्दुशेखरा [ शास्त्रत्वसम्पादके नन्वेवमस्यापत्यमिरित्यादावदन्तप्रातिपदिकाभावादिञ् न स्यादत आह- व्यपदेशिवदेकस्मिन् ॥ ३१ ॥ निमित्तसद्भावाद्विशिष्टोऽपदेशो मुख्यो व्यवहारो यस्यास्ति स नन्वेवमिति । विशेषणेन तदन्तविधावित्यर्थः। अदन्तप्रातिपदि- काभावादिति । अन्तत्वं यत्किञ्चिद्विशिष्टत्वम् । वैशिष्ट्यञ्च स्वघटकत्व- स्वघटकवर्णप्रागभावाधिकरणक्षणावृत्तित्वोभयसम्बन्धेन । आदित्वं यत्कि- श्चिद्विशिष्टत्वम्। ।वैशिष्टयञ्च स्वघटकत्वस्वघटकवर्णध्वंसाधिकरणक्षणावृत्ति- त्वोभयसम्बन्धेन । मध्यत्वञ्च स्वघटकत्वस्वघटकवर्णप्रागभावाधिकरणक्ष- णवृत्तित्वस्वघटकवणध्वंसाधिकरणक्षणवृत्तित्वैतत्त्रितयसम्बन्धेन । घटक- त्वञ्च स्वव्यापकत्वस्वव्याप्यत्वाभाववत्त्वैतदुभयसम्बन्धेन यत्किञ्चिद्विशि- ष्टत्वम् । व्यापकत्वञ्च स्वाधिकरणवृत्त्यभावाप्रतियोगित्वम्। व्याप्यत्वञ्च स्वाभाववदवृत्तित्वम्। प्रकृते उभयत्राधिकरणता वृत्तिता प्रतियोगिता विष- यितासम्बन्धावच्छिन्ना ग्राह्या । ज्ञानरूपाधिकरणमादाय लक्षणसमन्वयः। तथा अदन्तत्वादादित्वे अकारविशिष्टत्वरूपे वैशिष्टयञ्च स्वघटितत्वस्वध्वं- साधिकरणक्षावृत्तिवर्णाघटितत्वोभयसम्बन्धेन । स्वघटितत्वस्वप्रागभावा- धिकरणक्षणवृत्तिवर्णाघटितत्वोभयसम्बन्धेन । एवमकारमध्यकत्वमपि अकारविशिष्टत्वम्। वैशिष्ट्यं स्वघटितत्वस्वध्वंसाधिकरणक्षणवृत्तिवर्ण- घटितत्वस्वप्रागभावाधिकरणक्षणवृत्तिवर्णघटितत्वैतत्रितयसम्बन्धेन बो- ध्यम्। घटितत्वञ्च स्वव्याप्यत्वस्वव्यापकत्वाभाववत्त्वोभयसम्बन्धेन य- त्किञ्चिद्विशिष्टत्वम् । अत्रापि व्यापकता व्याप्यता तद्घटकाधिकरणता- दयश्च पूर्वोक्तस्वरूपा एव। पकारादौ रामशब्दादिघटकत्ववारणाय व्या- पकत्वं स्वस्मिन् स्वघटकत्ववारणाय व्याप्यत्वाभावो निवेशितः। प्रकृते चास्यापत्यमिरित्यादावद्विशिष्टत्वरूपमदन्तत्वमकारे नास्ति द्वितीयसम्ब- न्धस्य सत्त्वेऽपि स्वघटकत्वसम्बन्धस्याभावात् । तथा चादन्तप्रातिपदि- कत्वनिबन्धनमिब् न स्यादितिपरिभाषा मन्तव्या। कुम्भशब्दे ककारम- काररूपवर्णद्वये आदित्वापादनं कन चित् कृतं-न युक्तम् । तथा हि- ककारे इष्टत्वात् मकारे स्वघटकवर्णध्वंसाधिकरणक्षणवृत्तित्वात् कका- रमकारातिरिक्तस्य ककारमकाररूपवर्णद्वयस्यानङ्गीकारात् । न च कम- ३१. व्यपदेशिवदेकस्मिन् ] विजयाऽलङ्कृतः [ १४६ व्यपदेशी । यस्तु व्यपदेशहेत्वभावादविद्यमानव्यपदेशोऽसहायः स तेन तुल्यं वर्तते । कार्य प्रतीत्येकसिन्नसहायेऽपि तत्कार्य कर्त्तव्य- मित्यर्थः । तेनाकारस्याप्यदन्तत्वान्न क्षतिः। एकस्मिन्नित्युक्तेः सभासनयने आकारस्य नादित्वं दरिद्राधाताविकारस्य नान्त- त्वम् । अन्यथा सभासन्नयने भव इत्यर्थे 'वृद्धाच्छ' दरि- समुदाये श्रापाद्यते समुदायश्च स्वमतेऽतिरिक्त इति वाच्यम् । ताह- शसमुदायत्वस्याव्यवहितोत्तरत्वसम्बन्धेन कविशिष्टमत्वस्य अव्यवहित- पूर्वत्वसम्बन्धेन मविशिष्टकत्वस्य वा वक्तव्यतया तद्वतः कुम्भशब्दे अभावात् । न चाद्यन्तवदेकस्मिन्नितिसूत्रेण आदित्वान्तत्वशरीरे घट- कत्वानिवेशतात्पर्य्यकेण सूत्रप्रत्याख्यानपरेण अपूर्वानुत्तरलक्षणाद्वेतिवा- र्तिकेन वा सिद्धे परिभाषाया न प्रयोजनमिति वाच्यम् । प्रकृते सिद्धा- वपि धुगित्यादौ धातौ धात्ववयवत्वस्य सूत्रवार्तिकाभ्यामसिद्धथा वा- र्तिकमते स्वस्मिन् स्वान्तत्वादिव्यवहारस्य मुख्यत्वापत्त्या च परिभा- षायाः सूत्रवार्तिकोभयप्रत्याख्यानपराया अवतारस्यावश्यकत्वात् । एक- स्मिन्नित्यस्यासहाये इत्यर्थः । सभासन्नयनेत्यादिव्यावर्त्य त्रयप्रदर्शने- नातिदिश्यमानधर्मावदसमभिव्याहृतत्वे सति अतिदिश्यमानधर्मवद- घटकत्वे सति अतिदिश्यमानधर्मवदघटितत्वमसहायत्वमिति ग्रन्थ- कृता सूचितम् । यद्यपि सभाकारेऽतिदिश्यमानसभासन्नयननिरूपितादि- त्वधर्मवत्सभासमभिव्याहृतत्वेनासहायत्वाभावान्न तन्निरूपितादित्वं न वा सभासम्नयनशब्दे वृद्धत्वातिदेशोऽतिदिश्यमानवृद्धत्वधर्मवद्भासन्नयनघ- टितत्वेनासहायत्वाभावात्। न वा आसन्नयनशब्दे प्रातिपदिकत्वातिदेशो- ऽतिदिश्यमानप्रातिपदिकत्ववत्सभासन्नयनशब्दघटकत्वेन ससहायत्वात् इ- त्यंशत्रयस्यैकत्रापि साफल्यं सम्भवति । तथापि स्पष्टार्थ त्रितयोपादानम्। दरिद्राशब्दघटकेकारे न दरिद्रानिरूपितान्तत्वं, न वा दरिद्रशब्दे धातुत्वं, न वा दरिद्राशब्दे इवर्णान्तत्वं क्रमेणांशत्रयस्य व्यभिचारेण ससहायत्वात् । नापि हरिष्वित्यादौ सोः पदत्वं पदुत्ववद्घटकत्वात् । तथा च स्वविशिष्टे स्वस्यातिदेश इति परिभाषार्थः पर्यवसितः । वैशिष्ट्यञ्च स्वाश्रयाघटक- त्वस्वाश्रयासमभिव्याहृतत्वस्वाश्रयाघटितत्वैततत्रितयसम्बन्धेन । नन्वेवं रामादिशब्दे उक्तसम्बन्धत्रयेण जराशब्दान्तत्वविशिष्टे जराशब्दान्तत्वा- - १५० ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके द्रातेरिवर्णान्तलक्षणोऽच्च स्यात् । अत एव हरिध्वित्यादौ सोः पदत्वं न । लोकेऽपि बहु पुत्रसत्त्वे नैकस्मिन् ज्येष्ठकनिष्ठत्वादि- व्यवहारोऽयं मे ज्येष्ठः कनिष्ठो मध्यम इति । किन्त्वेकपुत्रसत्त्वे तिदेशापत्तिरिति चेत्-न । स्वमुखप्रविष्टधमत्वात्मकचतुर्थसम्बन्धस्यापि निवेशनीयत्वात् । प्रकृते स्वं जराशब्दान्तत्वं तन्मुखप्रविष्टं जरात्वं तद्वत्ताविरहेणादोषात् । मुखप्रविष्टत्वञ्च स्वघटकनिष्ठा याऽवयवत्वव्या- प्यधर्मावच्छिन्ना विशेष्यता तन्निरूपितप्रकारतावच्छेदकत्वम् । यथा जराशब्दान्तत्वमुखप्रविष्टं जरात्वमदन्तत्वमुखप्रविष्टमत्वं अवयवत्वव्या- प्यत्वनिवेशाद्धातौ धातुभिन्नत्वस्य नातिदेशः । धातुत्वस्य तत्र मुखप्रविष्ट- त्वाभावात् । केवलधातोः प्रयोगाभावेन समुदाये धातुभिन्नत्वरूपातिदि- श्यमानधर्मस्य सत्त्वेन तदुघटकत्वरूपसम्बन्धस्य तत्रासत्त्वाच्च । एवं भेद्घटितधर्माणामतिदेशो निरसनीयः । ननु एकाच्त्वातिदेशो न स्यात् । तत्रावयवत्वव्याप्यधर्मास्याभावेन मुखप्रविष्टधर्मस्याभावादिति चेत्-न । एकाज्निष्टावयवतानिरूपकत्वस्यैवै- काच्त्वरूपत्वेनावयवत्वस्यैवावयवत्वव्याप्यत्वात् । एवमेव धात्ववयवस्या- यतिदेशः तादात्म्यसम्बन्धेन धातौ। तेन धुगित्यादौ न दोषः । एतेनेकारा- दावजव्यवहितपूर्वत्वातिदेशेन यणापत्तिः। धुगित्यादौ धात्ववयवत्ववद्दका- रघटितत्वेन ससहायत्वादतिदेशानापत्तिश्च केनचिदत्ता निरस्ता। आद्येमुख- प्रविष्टधाभावात् एकपदप्रतिपाद्यस्य पूवत्वाद्यघटितस्यैव धर्मस्यातिदेश इत्यर्थस्यातिदेशमात्रस्वभावसिद्धत्वाच्च । इदानीमतिदिश्यमानधर्मवद- घटितत्वस्यानिवेशाद्वितीयापत्तेरप्यभावाच्च । यदपि कुम्भशब्दादिककारे हल्द्वयघटितत्वातिदेशेन विशिष्टस्यैकहला- दित्वानापत्तिरित्युक्तं-तदप्यविचारसहम् । व्यपदेशिसदृशं कार्यं लभत इत्युक्त्या कार्यप्रवृत्तये एवैतत्प्रवृत्तिलाभात् तस्यातिदेशेष्येकहलादित्वा- क्षतेमुखप्रविष्टधर्माभावाच्चेत्यलं परदोषे दृष्टिपातेन । फलस्यापि व्यपदे- शिवद्भावेन फलाश्रयत्वात् कर्मत्वमित्यस्य कागतिः। तत्र मुखप्रविष्टधा- भावादिति चेत्-अयुक्तमेव । तादात्म्यस्यापिफलतावच्छेदकसम्बन्धतास्वी- कारेण कर्मत्वोपपत्तेः। परे तु स्वस्मिन् स्वघटकत्वस्वघटितत्वयोरेवानयाऽतिदेशः। परिभाषा- थस्तु एकस्मिन् घटकत्वघटकव्यापकत्वसम्बन्धे घटितत्वघटकव्याप्यत्वस- ३१. थ्यपदेशिवदेकस्मिन् ] विजयाऽलङ्कृतः [१५१ एव । अनेन चाशास्त्रीयस्याप्यतिदेशः। अत एव इयायेत्यादावे- काचत्वनिबन्धनद्वित्वसिद्धिः। अत एव भवतीत्यादौ भू इत्यस्या- ङ्गत्वम् । व्यतिसे इत्यादौ से इत्यस्य पदत्वम् । इरियानित्यादौ कार्य- रबन्धे सति सम्बन्धद्वये यथा घटकत्वघटितत्वप्रयुक्त कार्य्यन्तथा भवतीति तावतैव अन्तत्वादित्वैकाचत्वधात्ववयवत्वादिव्यवहारोपपत्तिरिति विभा- वनीयम् । इयान् इरित्यादौ च तद्धितान्तत्वस्य घटकत्वमात्रातिदेशेन लाभेऽपि तदादित्वालाभात् कार्यकालपक्षे प्रातिपदिकसंज्ञाया अप्राप्तावपि यथोद्देशपक्षे पर्वजातप्रातिपदिकत्वस्यानुमानिकस्थान्यादेशभावकल्पनया- तिदेशेन निर्वाहः । असहायत्वस्यानिवेशान्निजौ चत्वार एकाच इतिभाष्य- मप्युपपद्यते। ननु लोकन्यायसिद्धेयं परिभाषा लोके च ज्येष्ठत्वादीनामप्यतिदेश इत्यनुपपन्नमिति चेत-नाघटकत्वघटितत्वातिदेशेनैव ज्येष्ठत्वादिव्यवहारो- पपत्तेः। तथा हि पितृविशिष्टविशिष्टत्वं जेष्टत्वं कनिष्ठत्वं मध्यमत्वञ्च । आये वैशिष्ट्यं सर्वत्र स्वजन्यघटितत्वस्वाजन्याघटितत्वोभयसम्बन्धेन । अन्त्ये वैशिष्ट्यं ज्येष्ठत्व स्वघटकत्वस्वघटकोत्पत्तिध्वंसाधिकरणक्षणावृत्त्युत्पत्ति- कत्वोभयसम्बन्धेन । कनिष्ठत्वे स्वघटकत्वस्वघटकोत्पत्तिप्रागभावाधिकर- रणक्षणावृत्त्युत्पत्तिकत्वोभयसम्बन्धेन। मध्यमत्वे स्वघटकत्वस्वघटकोत्प- त्तिध्वंसाधिकरणक्षणावृत्त्युत्पत्तिकत्वसम्बन्धावच्छिन्नप्रतियोगिताकस्वा- भाववत्त्वस्वघटकोत्पत्तिप्रागभावाधिकरणक्षणावृत्त्युत्पत्तिकत्वसम्बन्धाव- च्छिन्नप्रतियोगिताकस्वाभाववत्वैतत्रितयसम्बन्धेन । आद्याभावनिवेशा- ज्ज्येष्ठे नातिव्याप्तिः द्वितीयाभावनिवेशात् कनिष्ठे नातिव्याप्तिः। एकपुत्रस- वे घटकत्वमात्रातिदेशेन ज्येष्ठत्वकनिष्ठत्वयोरुपपत्तावपि मध्यमत्वन्नोप- पद्यते । अभावप्रतियोगितावच्छेदकसम्बन्धस्यैव तत्र सत्त्वेनाभावात्मक- सम्बन्धद्वयस्य तत्रासत्त्वादिति न वाच्यमुभयत्राभावप्रतियोगितावच्छेद- कसम्बन्धत्वेन वास्तविकघटकत्वस्यापि विवक्षितत्वेन प्रथमसम्बन्धस्य सत्त्वेऽपि वास्तविकघटकत्वस्यासत्त्वेनोभयसम्बन्धावच्छिन्नप्रतियोगिता- काभावात्मकसम्बन्धस्य सुलभत्वात् । घटकत्वमात्रातिदेशेन तृतीयसम्ब- न्धस्य घटकत्वरूपस्यापि सम्बलनान्मध्यमत्वोपपत्तिरिति विभावनीयम् । अनेन चाशास्त्रीयस्यापोति । शास्त्रीयत्वं शास्त्रशङ्केतितावच्छेदकधर्म- त्वम्। अन्तत्वमादित्वञ्च येन विधिः यस्मिन् विधिरिति शास्त्रसङ्केतिता- १५२] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके कालपक्षेतद्धितान्तत्वनिबन्धनप्रातिपदिकत्वं च सिध्यति । अन्यथा यस्माद्विहितस्तदादित्वाभावान स्यात् । यत्तु योऽर्थवांस्तत्रार्थस्य त्यागोपादानाभ्यामेकाजव्यपदेशो यथेयायेत्यादावर्थवतो धातोरयं वर्णरूप एकोऽजिति कैयटः- तन्न। तस्यैकपदनित्यत्रत्यभाष्योक्तरीत्या मुख्यव्यवहारसत्त्वात् । एकपदनित्यत्रार्थेन युक्तो व्यपदेश इति भाष्य उक्तम् । ऋक्त्वा- देरर्थशब्दोभयवृत्तित्वेन तस्याः शब्दमात्ररूपं पदमेकोऽवयव इत्यर्थ इति तदाशयः । तस्मादेकस्मिस्तत्तद्धर्मारोपेण युगपद्यथा ज्येष्ठ- त्वादिव्यवहारो यथा च शिलापुत्रकस्य शरोरमित्यादावेकस्मि- नारोपितानेकावस्थाभिः समुदायरूपत्वाद्यारोपेण तस्य शरीरमि- त्यादिव्यवहारस्तथानकाच्त्वादिव्यवहारोपपत्तिरिति लोकन्यायसि- देयम् । न चासहाय एवैतत्प्रवृत्तौ भवतीत्यत्र भूइत्यस्याङ्गत्वाना- पत्तिः, ससहायत्वादिति वाच्यम् । शपमादायाङ्गत्वे कार्ये यस्मा- द्विहितस्तदादित्वे तस्य ससहायत्वाभावाल्लोके विजातीयकन्यादि- सत्त्वेऽप्येकपुत्रस्य तस्मिन्नेवायमेव ज्येष्ठ इत्यादिव्यवहारवत् । न चैवं निजौ चत्वार एकाच इति भाष्यासङ्गतिरिकारस्यासहाय- वच्छेदकत्वेन यद्यपि शास्त्रीयन्तथाप्येकाच्त्वस्य तत्त्वाभावेप्यतिदेशः । कैयटोक्तं खण्डयति-यत्त्विति । अयम्भावः । वाचकत्वसम्बन्धेन फ- लव्यापारविशिष्टः शब्दो धातुस्सोऽन्यपदार्थः । एकाजितिबहुव्रीहौ एकोच- शब्दमानं यस्मिन् फलव्यापारविशिष्टशब्दरूपे धातावित्येकाचत्वमुपपद्यत इण्धातौ। ननु धातुरर्थविशिष्टश्शब्दस्तदवयवः केवलइशब्दस्सकथमे- काच तत्रान्यपदार्थस्यासम्भवादिति चेत्-न । फलव्यापारविशिष्टः शब्दो धातुस्तदवयवः फलविशिष्टः शब्दः स एकोचशब्दमानं यस्मिन् फलविशिष्टे इशब्दे एवंभूत इत्युपपन्नो धात्ववयव एकाच इ इति । त्यागोपादानाभ्यामिति । वतिपदार्थविवक्षायामर्थस्य त्यागः श- ब्दमात्रस्य ग्रहणम् । अन्यपदार्थविवक्षायामर्थस्योपादानमित्यन्यपदार्थे ३२. ग्रहणवता प्रतिपदिकेन० ] विजयाऽलङ्कृतः [१५३ त्वाभावेन तत्रैकाचत्वानुपपादनादिति वाच्यम् । एकस्मिन्नित्य- स्यापर्यालोचनया तत्प्रवृत्तः । अर्थवता व्यपदेशिवद्धाव इत्यत्रार्थ- वत्पदेनाप्यसहायत्वमुपलक्ष्यते । अर्थबोधकेन शब्देन व्यपदेशि- सदृशो भावः कार्य लभ्यते इति तदर्थः । प्रायोऽसहाय एवार्थव- वात् । कुरुते इत्यादौ तशब्दाकारोऽचामन्त्य इति व्यवहारे स श्रादिर्यस्येति व्यवहारे चासहाय एवेति तत्र व्यपदेशिवद्भावेन टिसंज्ञासिद्धिरित्यन्यत्र विस्तरः ॥ ३१ ॥ ननु गर्गादिभ्यो विहितो यञ् तदन्तविधिना परमगर्गादिभ्यो- ऽपि स्यादत आह- ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति ॥३२॥ इयं च समासप्रत्ययविधौ प्रतिषेध उगिद्वर्णग्रहणवर्जमिति वा- अजघटितत्वमुपपत्रमिति-तन्नेति । एवं रीत्यैकाच्त्वोपपादने एकपदा ऋगित्यत्रत्यभाष्यरीत्या मुख्यव्यवहार एवेति व्यपदेशिवदेकस्मिन्नित्येतदु- दाहरणत्वासङ्गत्या कैयटोक्तं न युक्तमिति नागेशाशयः ॥ ३१ ॥ ग्रहणवता प्रातिपदिकेन तदन्तविधिास्तीति । ग्रहणवत्प्रा- तिपदिकप्रयोज्यं तदन्ते विधानन्न भवतीत्यर्थः। तेन गर्गादिशब्दप्रयोज्यं गर्गाद्यन्ते यज्प्रत्ययस्य विधानन्नेति बोध्यम् । ननु किमिदं ग्रहणवत्त्वं न तावदानुपूर्व्यवच्छिन्नविषयताप्रयोजकत्वं, गर्गादिपदानां तत्त्वोपपत्तावपि वृद्धाच्छ इत्यत्र वृद्धपदस्य नौ द्व्यच इत्यत्र व्यचपदस्यानुपूर्व्यवच्छिन्न- विषयताप्रयोजकत्वाभावेन निषेधाप्राप्त्या तदन्तविध्यापत्तेः । नापि प्राति- पदिकत्वव्याप्यधर्मावच्छिन्नविषयताप्रयोजकत्वन्तत, यच्त्ववृद्धत्वादीनां प्रातिपदिकत्वव्याप्यत्वाभावात् पूर्वोक्तदोषानुद्धारात् । नापि प्रातिपदिकत्व- व्याप्यविषयताप्रयोजकत्वन्तत् , नौ व्यचः वृद्धाच्छ इत्यत्र प्रातिपदिका- धिकारात् प्रातिपदिकत्वावच्छिन्नविशेष्यतानिरूपित्ताभेदसम्बन्धावच्छि- नायाः व्यच्त्ववृद्धत्वावच्छिन्नप्रकारताख्यविषयतायाः प्रातिपदिकत्वव्या- प्यत्वेन प्रकृतदोषोद्धारेऽपि अत इञ् इत्यादावपि प्रातिपदिकाधिकारणो- क्तरीत्या अत्वावच्छिन्नविषयतायाःप्रातिपदिकत्वव्याप्यत्वेन तथैवोगितश्चे- - १५४ ] परिभाषेन्दुशेखरः । शास्त्रत्वसम्पादके र्तिकस्थप्रत्ययांशानुवादः । अत एवेयं प्रत्ययविधिविषय एव । अत एव 'येन विधिरि ति सूत्रे भाष्ये प्रत्ययविधिभिन्नेऽप्तृन्नित्यादौ गृह्यमाणप्रातिपदिकेनापि तदन्तविधिप्रतिपादनं स्वसा परमस्वसे- त्याधुदाहरणं च सङ्गच्छते । अत एव च तदन्तविधि सूत्र भाष्ये समासेत्यादिनिषेधस्य कथनवदस्य न कथनम् । सोऽपि निषेधो विशिष्य तत्तद्रूपेण गृहीतप्रातिपदिकसूत्र एव । ध्वनितं चेदमसमासे 'निष्कादिभ्यः' इति सूत्रे भाष्ये ।अत्र च ज्ञापकं 'सपूर्वाञ्चे'तिसूत्रम् । त्यत्रोगित्वावच्छिन्नविषयताया अपि तत्त्वेनोभयत्र तदन्तविधिनिषेधापत्तेः। न चास्तु आद्यः पक्षः । वृद्धपदस्य वृद्धपदवत्त्वेन बोधकतया व्यचपदस्य द्वित्वविशिष्टाचपदवघटितत्वेन बोधकतया वृद्धत्वाचत्वरूपानुपूर्व्या अपि परंपरया विषयतावच्छेदकत्वेन निषेधोपपत्तेरिति वाच्यम् । एवं रीत्यो- गित्पदस्याप्युक्त्वरूपानुपूर्व्यवच्छिन्नविषयताप्रयोजकत्वेन निषेधापत्तेः । वनो र चेत्यादावपि निषेधापत्तेश्वेति चेत्- अत्रोच्यते । वर्णत्वव्याप्यधविच्छिन्नविषयत्वाप्रयोजकत्वे सति प्रत्ययत्वव्याप्यधर्मावच्छिन्नविषयत्वाप्रयोजकत्वे सति प्रातिपदिकवृत्ति- विषयताप्रयोजकत्वं ग्रहणवत्प्रातिपदिकत्वं उगितश्चेत्यत्रापि विषयताया वर्णत्वव्याप्योक्त्वावच्छिन्नत्वान्न दोषः । न चैवं व्यचपदस्यापि वर्णत्व- व्याप्याच्त्वावच्छिन्नविषयताप्रयोजकत्वेन निषेधानापत्तिरिति वाच्यम् । धम्मितानवच्छेदकस्यैव वर्णत्वव्याप्यधर्मस्य ग्रहणेनादोषात् । तत्र द्वि- त्त्वावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकस्यैवाच्त्वस्य सत्त्वात् । नन्वस्मायामेधाजो विनिरित्यादौ अस्पदस्यापि ग्रहणवत्प्रातिपदिक- त्वापत्त्या निषेधप्रवृत्त्या यशस्वीत्याद्यसिद्धथापत्तिः । यत्तु केनचित् प्रत्ययस्याप्यसः सत्त्वेन प्रत्ययग्रहणभिन्नत्वाभावान्न दोषः प्रत्ययमात्रग्रहणभिन्नत्वनिवेशे च फलाभावादित्युक्तम्-तन्न । तथा सति बहूनां प्रत्ययानामपि व्यच्त्वेन वृद्धत्वेन च व्यच्पदवृद्धपदयोरपि प्रत्ययग्रहणभिन्नत्वाभावेन निषेधानापत्तेः । तस्मात् असमासे निष्कादिभ्य इति सूत्रे असमासग्रहणेनास्या अनित्यत्वेनैव दोषवारणं सम्यक् । अत एव रोणीसूत्रे तदन्तविधिना आयकरौण इति सिद्धम् । मेघर्तिभयेषु कृनः इत्यत्र भयशब्देन तदन्तविधिना अभयंकर इति सिद्धमिति दिक् ।

३३. व्यपदेशिवद्भावोऽप्राति०] विजयाऽलङ्कृतः [१५५ अन्यथा पूर्वादिनिः इत्यत्र तदन्तविधिनैव सिद्ध किं तेन ॥३२॥ - नन्वेवं सूत्रान्ताक् दशान्ताड्डः एकगोपूर्वात् इत्यादेः केवलसूत्रशब्ददशन्शब्दैकशब्दादिष्वपि प्रवृत्तिळपदेशिवद्भावा- त्स्यादत आह- व्यपदेशिवद्भावोऽप्रातिपदिकेन ॥ ३३ ॥ पूर्वात्सपूर्वादिनिरित्येकयोग एवं कर्तव्ये पृथग्योगकरणमस्या- नन्वेवमपि अनुदात्तादेरभित्यादावनुदात्तत्वादेर्वर्णत्वव्याप्यत्वेनानुदा- त्तादिपदस्य वर्णत्वव्याप्यधर्मावच्छिन्नविषयत्वाप्रयोजकत्वाभावात् निषे- धाप्राप्त्या तदन्तविध्यापत्तिरिति चेत्-न । वर्णत्वव्याप्यधर्मेण साक्षाद- वच्छिन्नमुख्यविशेष्यत्वाप्रयोजकत्वे सतिप्रत्ययत्वव्याप्यधर्मावच्छिन्नवि- षयत्वाप्रयोजकत्वे सति उगित्वावच्छिन्नविषयत्वाप्रयोजकत्वन्तत्त्वमित्य- दोषात् । अत एवेति । अपूर्वत्वाभावादेवेत्यर्थः ॥ ३२ ॥ व्यपदेशिवद्भावोउप्रातिपदिकेनति । प्रातिपदिकेन स्ववृत्तिप्रा- तिपदिकत्वव्याप्यधर्मावच्छिन्नविषयताप्रयोजकपदघटितं यदन्तादिपद- घटितं पदं तत्प्रयोज्योद्देश्यतानिरूपितविधेयताश्रयीभूतं प्रत्ययविशिष्टं कार्य न व्यपदेशिवल्लभ्यत इत्यर्थः। प्रत्ययवैशिष्टय स्वतादात्म्यस्वनि- प्टोद्देश्यतानिरूपितविधेयताश्रयत्वैतदन्यतरसम्बन्धेन प्रातिपदिकत्वव्याप्य- त्वनिवेशाद्भवतीत्यादौ उगिद्भवच्छब्देन ङीप् लभ्यते । उगितश्चेत्यत्रान्त- पदाघटितत्वाच्च, अन्तादिपघटितत्वनिवेशात् रौण इत्यत्र रोणीशब्देन व्यपदेशिवद्भावः रोणीसूत्रेऽन्तादिपदघटितत्वाभावात् प्रत्ययनिवेशादाद- नित्यत्राग्रशब्दे व्यपदेशिवद्भावेनाग्रान्तत्वादन्तस्य दन दनादेशस्य प्रत्यय- रूपत्वाभावात् , प्रत्ययस्य द्वितीयसम्बन्धनिवेशात् पञ्चम इत्यत्र व्यपदेशि- वद्भावेन संख्यादित्वं न अनेन निषेधात् मट: प्रत्ययत्वाभावेऽपि प्रत्ययो- द्देश्यकत्वात् व्याप्यत्वनिवेशादेवानुदात्तादेरबित्यादौ व्यपदेशिवद्भावेनानु- दात्तमात्रादप्यसिद्धिरनुदात्तत्वस्य प्रातिपदिकत्वव्याप्यत्वाभावेन निषे- धाप्रवृत्तः। पूर्वात्सपूर्वादिनिरित्येकयोग इति । कृतपूर्वीत्यत्र सपूर्वकः पूर्व- शब्दो मुख्यः । पूर्वीत्यत्र व्यपदेशिवद्भावेन सपूर्वत्वमिति भावः । अत १५६ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके ज्ञापकम् । न चेष्टादिभ्यः' इति सूत्रेऽनुवृत्त्यर्थन्तथा पाठोऽत एवा- निष्टीत्यादिसिद्धिरिति वाच्यम् । ज्ञापकपरभाष्यप्रामाण्येनानिष्टी- त्यादिप्रयोगाणामनिष्टत्वात् । एकयोगेऽपि तावत उत्तरत्रानुवृत्तौ बाधकाभावाच्च । अत एव नान्तादसङ्खथादेरिति चरितार्थम् । अन्यथा पञ्चम इत्यादावपि व्यपदेशिवद्भावेन सङ्घयादित्वात्तद्वै- ययं स्पष्टमेव । इयञ्च प्रातिपदिकग्रहणे एव न तु प्रातिपदि- काप्रातिपदिकग्रहणे । तेन 'उगितश्चे'त्यत्र न दोष इति तत्रैव भाष्ये स्पष्टम् । इयं ग्रहणवता इति च परिभाषा प्रत्ययविधिविषयवेत्य- समासे 'निष्कादिभ्य' इति सूत्रे भाष्यकैयटयोः । तेन अहन्नित्यादेः परमाहनशब्दे केवलाहनशब्दे च प्रवृत्तिरित्यन्यत्र विस्तरः॥३३॥ ननु वान्तो यीत्यादौ यादौ प्रत्यय इत्यर्थः कथमत आह- यस्मिन् विधिस्तदादावल्ग्रहणे ॥ ३४ ॥ तदन्तविधेरपवाद इयम् । वाचनिक्येषा 'येन विधिरित्यत्र भा- एव धम्मिग्राहकमानात्सूत्रोपाचावयवबोधकशब्दविषयकत्वलाभः । नन्वेक- मनिष्टीत्यस्येष्ठत्वपक्षे का गतिरेकयोगनिर्दिष्टत्वेन सपूर्वादित्यस्यानुवृत्त्यस- म्भवादिति चेत्-न । इष्टादिगणे पूर्वशब्दं पठित्वा इष्टान्तादिनिरिति न्यासः कर्त्तव्य इत्याशयात् ॥ ३३ ।। यस्मिन विधिस्तदादावलग्रहणे इति । यत्पदेन सप्तम्यन्तं परामू- श्यते । अलग्रहण इत्यस्याल्बोधक इत्यर्थः । विधिपदेन कर्मव्युत्पत्त्या कार्यमुच्यते । येन विधिरित्येतदपवादत्वादुत्सर्गसमानदेशापवादा इति न्यायेनाभेदेन विशेषणमिति लब्धम्। तथा चाल्बोधके सप्तम्यन्ते पदेऽभेद- सम्बन्धावच्छिन्नप्रकारताप्रयोजके सति यत् कार्य तत् तदादौ अर्थात् स्वविधायकशास्त्रघटकाभेदसम्बन्धावच्छिन्नप्रकारताप्रयोजकसप्तम्यन्तप- दबोध्यालादौ भवतीत्यर्थः। यथा वान्तो यि प्रत्यय इत्यादौ यिपदं सप्तम्य- न्तमलबोधकमभेदेन विशेषणं तद्यकारादिबोधकमिति बोध्यम् । वाचनि- क्येषेति । भाष्ये वचनस्वरूपमेव पठितम् । न तु ज्ञापकमुपन्यस्तमिति । ३४. यस्मिन् विधिस्तदा०] विजयाऽलङ्कृतः [ १५७ भावः । नैतावता ज्ञापकनास्तीति भ्रमितव्यम् । वान्तो यि प्रत्यय इत्यस्यैव ज्ञापकत्वात् । तथा हि-एतस्या अभावे येन विधिरितिसूत्रबलाद्यान्ते प्रत्यय इत्यर्थापत्त्या यान्तप्रत्ययस्यासम्भवेन सूत्रस्य वैयथ्य स्पष्टमेव । ननु नैतद्युक्तम् । गोशब्दान्मयदि गोमयं गोमयमतति गोमयात् । तमा- चष्ट इत्यर्थे णिचि टिलोपे गोमययतीत्यादौ यान्तप्रत्ययस्य सम्भवेन सूत्र- सार्थक्यसम्भवात् । न च स्थानिवद्भावोऽज्झलादेशत्वात् नापि बहिरङ्गा- सिद्धत्वन्नाजानन्तर्य इति निषेधात् । नापि भान्तप्रत्ययस्यासम्भवादेतस्या अभावे अपोभीति व्यर्थ सदस्याज्ञापकमिति वाच्यं तत्सामर्थ्याद्भीति सप्तमी स्वतन्त्रैव न प्रत्यये विशेषणमितिकल्पनया प्रत्ययाव्यवहितपूर्वस्य भकाराव्यवहितपूर्वस्यापस्तकार इत्यर्थेन चारितार्थ्यसम्भवात् । न वा कोः कत्तत्पुरुषेऽचीत्यस्याजन्ते उत्तरपदे इत्यर्थापत्त्या कद्रथः कद्वद इत्यनयोरप्य- नेनैव सिद्धौ रथवदयोश्चेति व्यर्थं सदस्याज्ञापकमिति सम्यक् । रथवद- शब्दाभ्यामाचारक्विबन्ताभ्यां कर्तरि किप्यलोपे रत् वत् तयोः कुशब्देन समासे चारितार्थ्यात् स्थानिवद्भावेनाजन्तत्वन्तु न कदादेशस्य पदचरमा- वयवत्वेन न पदान्तेतिनिषेधात् स्थानिभूतादचः पूर्वस्य कार्याभावाच । तावन्मात्रप्रयोजनकत्वे तयोरेवानुकरणं कृत्वा रद्वदोरित्येव कर्त्तव्ये रथव- दयोश्चेति ज्ञापकमेवेति तु न वाच्यम् । रम्धातोः वद्धातोः किपि रत् वत् इत्येतद्व्यावृत्त्या चरितार्थत्वेन ज्ञापकत्वासम्भवादिति चेत्-न। न ल्यपी- त्यस्यज्ञापकत्वात् । अन्यथा प्रदायेत्यादावीत्वाप्राप्त्यान ल्यपीत्यस्य वैयर्य स्पष्टमेव । न च प्रदायच्छत्रमित्यादौ तुकि हलन्तत्वसम्भवेन प्राप्तस्येत्वस्य वारणाय तस्यावश्यकत्वं, न चेत्वे कर्तव्ये तुको बहिरङ्गासिद्धत्वं नाजा- नन्तर्य इति निषेधादिति वाच्यमिदानीमातो लोप इटि चेत्यस्याजन्त इत्यर्थापत्त्या तुकः पर्वमेवातो लोपे ईत्वाप्राप्त्या निषेधस्य वैयर्थ्यध्रौव्यात। तस्मात् ज्ञापकसिद्धैवेयम् । ननु किमेतस्याः फलम् ? न चैतस्या अभावे वान्तो यि प्रत्यय इत्यस्य यकाररूपे प्रत्यये यान्ते वा प्रत्यय इत्यर्थापत्तौ गव्यमित्यादौ वान्तादेशो न स्यात् गोमययतीत्यादौ वान्तादेशस्स्यादित्येतत्परिहार एव फलमिति वाच्यम् । अन्वयस्य कामचारेणैकत्रद्वयमितिरीत्या ओदौतोरेवोभयोस्स्वा- तन्त्र्येणान्वयेन यकाराव्यवहितपूर्वो यः प्रत्ययाव्यवहितपूर्व ओकारादि- स्तस्य वान्तादेश इत्यर्थेनोक्तप्रयोगद्वयेऽव्याप्त्यतिव्याप्तिपरिहारसम्भवात् । नचैवमपि गोयानमित्यादौ प्रत्ययलक्षणेन प्रत्ययाव्यवहितपूर्वत्वस्य स्वतश्च यकाराव्यवहितपूर्वत्वस्य सत्त्वेन वान्तादेशापत्तिरिति वाच्यं, वृक्षे शाखे- १५८ ] परिभाषेन्दुशेखरः [शास्त्रत्वसम्पादके तिवदमिपूर्व इतिवच्च प्रत्यये आधेयेऽप्याधारत्वारोपेण सप्तमीमाश्रित्य प्रत्यये यो यकारोऽर्थात् प्रत्ययावयवो यो यकारस्तव्यवहितपूर्वयोरोदौ- तोरित्यर्थेन सर्वदोषवारणसम्भवात् । ननु उष्ट्रगोयुगमित्यादौ गोयुगच्प्रत्ययावयवयकाराव्यवहितपूर्वस्य त- त्प्रत्ययावयवीकारस्यावादेशापत्तिरिति चेत्-न । औकारसाहचर्येणौकार- स्यापि यकारघटितप्रत्ययाघटकस्यैव ग्रहणेनादोषात् । गव्युगचि कर्तव्य ओकारोच्चारणसामर्थ्याच्च तत्र नापत्तिः । यत्तु केचित् उष्ट्रगोयुगशब्दात् पुनः पुनर्णिलोपटिलोपाभ्यां यकारादि- लोप उष्ट्रगोरित्यत्रोकारस्य श्रवणार्थमोकारोच्चारणमित्याहु:-तन्न युक्तम् । लोपात प्रागेवोपदेशावस्थायामवादेशप्राप्त्यौकारश्रवणासम्भवात् , नापि अपोभीत्यस्य भादावित्यर्थसम्पादनेनाद्भिरित्यादिसिद्धिरिति फलं युक्तम् । उक्तरीत्या प्रत्ययावयवे भकारे परे इत्यर्थेनादोषात्। कोः कत्तत्पुरुषेऽचीत्य- स्यापि उत्तरपदावयवेऽचि परे इत्यर्थाद्धलादावुत्तरपदे न कदादेशः। एतेन तत्रादेशाभावार्थमियमावश्यकीति परास्तम् । डमो ह्रस्वादचीत्यस्य अच्प- रको यो ह्रस्वात्परोङम् तदन्तं यत् पदं तत: परस्य पदस्य, ह्रस्वात्परोयो डम् तदन्तंयत्पदं पदपरकंततः परस्याच इतिवार्थ इतिन नव्य मतेऽपि परम- दण्डिनावित्यादौ दोषः। अन्यथा परिभाषाया अभावे ह्रस्वात्परो यो उम् तदन्तं यत्पदं ततः परस्य पदावयवस्याचो ङमुडित्यर्थापत्तौ नव्यमते का- यित्वनिवेशेन उत्तरपदत्वे चेति निषेधाप्रवृत्त्या प्रत्ययलक्षणेन दण्डिन्नित्य- स्य पदत्वे द्विवचनान्तपदमादायौकारस्य पदावयवाच्त्वेन प्राप्तस्य मुटोs- भावाय परिभाषाया आवश्यकत्वापत्तिः । न च परिभाषाया अभावे गो- त्रेलुगचीत्यत्र तदादिविध्यभावे अजादौ प्रागदीव्यतीये विवक्षिते गोत्र- प्रत्ययस्यालुगित्यर्थाभावे प्रागदीव्यतीयप्रत्ययस्थस्याचो विषये इत्यर्थस्यैव सत्त्वेन गर्गरूप्यमित्यादौ हलादावष्यज्वति प्रत्यये विवक्षितेऽलुगापत्तिः। त- त्रापि तादृशाविषयतायास्सत्त्वादिति वाच्यम् । प्रागदीव्यतीयप्रत्ययघ- टकाजव्यवहितपूर्वत्वविवक्षायामलुगित्यर्थे गर्गरूप्यमित्यादौ दोषाभावात्। प्राग्दीव्यतीयप्रत्यये सर्वत्राचस्सत्त्वेनाज्ग्रहणसामादजादावित्यर्थला- भाच्च । न चातृणेडित्यादौ नित्यत्वाद्धलङयादिलोपे इमागमाय प्रत्ययल- क्षणेन हलादिपित्सार्वधातुकपरत्वं वक्तव्यम् । वर्णाश्रये इति निषेधस्तु न तस्य वर्णप्राधान्यविषयत्वात् परिभाषाया अभावे सार्वधातुकस्थे हली- त्यर्थे वर्णप्राधान्यसत्त्वात् प्रत्ययलक्षणनिषेधापत्त्येमागमानापत्तिरिति वा- च्यम् । लोपस्यापि शब्दान्तरप्राप्त्याऽनित्यत्वेन परत्वात् प्रतिपदोक्तत्वाच्च। timesothi ३४. यस्मिन् विधिस्तदा०] विजयाऽलङ्कृतः [ १५६ ध्ये पठिता। अस्याश्च स्वरूपसती सप्तमी निमित्तम् । अत एव 'नेडवशि कृती'त्यादौ वशादेः कृत इत्याद्यर्थलाभः । इयं चार्धधा- तुकस्येडिति सूत्र चलादेरित्यादिग्रहणसामर्थ्याद्विशेषणविशेष्य- योरुभयोः सप्तम्यन्तत्व एव प्रवर्तते। तेन 'डःसि धुडि'त्यादौ सादेः इमागमस्यैव पूर्व प्रवृत्तेः। भाष्यमते नाभ्यस्तस्याचीत्यतोऽचिनेत्यनुवृत्त्या हल्ग्रहणाकरणोच्च । परिभाषासत्त्वे इत्संज्ञकशकारादौ प्रत्यये परेपिबा- द्यादेश इत्यर्थे पिबतीत्यादौ सिद्धान्तभूते एकान्तपक्षे भूतपूर्वगत्या इत्संज्ञ- कशकारादित्वमादायादेशः।परिभाषाया अभावेच प्रत्ययस्थे इत्संज्ञकशकारे परे इत्यर्थकरणे भूतपूर्वगत्यापि इत्संज्ञकशकारपरत्वासम्भवेन पिवतीत्या- द्यनापत्तिरित्यपि न फलं, इत्संज्ञकशकारे परे इत्यर्थे सूत्रवैयापत्त्या इत्संज्ञकशकारपरत्वसम्भावनायामित्यर्थेनादोषात् । यदीत्संज्ञालोपौ न स्यातां तीत्संज्ञकशकारपरत्वं स्यादिति सम्भावनायास्सत्त्वात् । अत्रोच्यते। नैतस्याः फलम् । अत एवैकहलादौ पूरयितव्य इत्यत्र ह्रस्वा- त्तादौ तद्धित इत्यत्र चादिग्रहणं सार्थकं परिभाषासत्त्वे हलितीतिकरणेनैव तदादिविधिना हलादौ तादावित्यर्थलाभेन आदिग्रहणस्य वैयर्थ्यापत्तिरिति केचित् । बहुषुस्थलेष्वनेकक्लिष्टकल्पनापेक्षया परिभाषायाः स्वीकारस्यैवौ- चित्यम्। एकहलादावित्यादावादिग्रहणं स्पष्टार्थमेवेति परे । स्वरूपसती सप्तमी निमित्तमिति। न तु सप्तम्यर्थत्वेन शास्त्रप्रतिपादितार्थबोधिकैव स- प्तमी निमित्तमपि तु ङि ओस् सुप् इत्येतत्स्वरूपमेव निमित्तमिति बोध्यम्। तेन वशि कृति इत्यत्राधिकरणार्थाप्रतीतावपि तदादिविधिरिति भावः। आदिग्रहणसामादिति । वलि आर्धधातुकस्येतिन्यासेऽपि तदादिवि- धिना वलादेरार्धधातुकस्येत्यर्थलाभसम्भवादिति भावः । उभयोस्सप्तम्य- न्तत्व इति । ननु वलि आर्धधातुके इतिन्यासकरणे स्वांशे चारितार्थ्या- भाव इति चेत्-न। तस्मिन्नितिपरिभाषयाऽऽर्धधातुकाव्यवहितपूर्वस्येडाग- मापत्तेः। केनचित उभयोः सप्तम्यन्तत्व एवेतिज्ञापनं न्यायसिद्धार्थानुवाद एव समानाधिकरणविशेषणस्थले समानविभक्तिकत्वनियमेनैव तल्लाभादि- त्युक्तं-तन्न । मृदु पचति, सोमेन यजेत, प्रकृत्या चारुरित्यादावसमानवि- भक्तिकयोरपि समानाधिकरणत्वदर्शनात् । सादेः पदस्थति नार्थ इति ।

१६० ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके पदस्येति नार्थः । 'तीषसह से सिची'त्यादौ यथा तादेरित्याद्यर्थ- लाभस्तथा शब्देन्दुशेखरे निरूपितम् ॥ ३४ ॥ घटपटं घटपटावित्यादिसिद्धये आह- सर्वो द्वन्द्वो विभाषकवद्भवति ॥ ३५ ॥ तथा सति षट्तिवत्यत्र धुट् न स्यादिति दोषः । ननु तदादिविध्यभावेऽपि येन विधिरितिसूत्रेण तदन्तविधिना सान्तस्य पदस्येत्यर्थेन षट्त्स्वित्यादौ धुडनापत्त्या सूत्रवैयापत्त्या च तदन्तविध्यभावाय पदावयवस्य सस्येति- वैयधिकरण्येनान्वयस्यावश्यकतया समानाधिकरणविशेषणत्वाभावादेव त- दादिविध्यभावे उभयोस्सप्तम्यन्तत्व एव प्रवृत्तिरित्यस्य न फलमिति चेत्-न। उभयसप्तम्यन्तत्वस्यानिमित्तत्वे तदादिविधिसत्त्वे सामानाधिकरण्यान्वये सूत्रवैयाभावेन सम्भवति सामानाधिकरण्ये वैयधिकरण्यस्यान्याय्यत्वेन सामानाधिकरण्यान्वये एव स्यादित्याशयात् । ननु तीषसहेत्यत्र सेसिची- त्यत्र च षष्ठ्यन्तस्यैवार्धधातुकपदस्यानुवृत्त्या तदादिविध्यप्राप्त्या तादे: सादेरार्धधातुकस्येत्यर्थो न स्यादित्यत आह-तीषसह सेऽसिचीत्यादा- विति । शब्देन्दुशेखरे निरूपितमिति । तत्र हि ति से इति सप्तम्यौ प्रथ- मार्थ आर्द्धधातुकस्येत्यस्येव वलादेरित्यस्याप्यनुवृत्तिः। तदेकदेशवलपदार्थ- ऽभेदसम्बन्धेन तकारसकारयोरन्वयः। तथा च तकाराभिन्नो यो वल सका- राभिन्नो यो वल् तदादेरार्धधातुकस्येत्यर्थ इत्यर्थकमुक्तम् । तीति से इति सप्तम्योः स्वातन्त्र्येण भेदेन विशेषणत्वमङ्गीकृत्य तकाराव्यवहितपूर्वो य इषादिः सकाराव्यवहितपूर्वो यः कृदादिस्तत: परस्यार्धधातुकस्येत्यर्थस्तु नयुक्तस्सत्यामेतस्यां परिभाषायाम्। तथासति सर्वत्र तथैव निर्वाहे परिभा- षाया निष्फलत्वापत्तिरित्यलम् ॥ ३४ ॥ घटपटं घटपटावित्यादिसिद्धय इति । ननु अविशेषेण द्वन्द्वमात्रे उद्भूतावयवभेदविवक्षारूपेतरेतरयोगतिरोहितावयवभेदविवक्षारूपसमा - हारयोस्सत्त्वेन सर्वस्मादेव द्वन्द्वीभूतशब्दात् विवक्षाभेदेनैकवचन द्विवचन- योरुपपत्तावलं परिभाषयेति चेत्-न । द्विविधो हि शब्दो भवति-कश्चनोद्- भूतावयवभेदकसमुदायबोधको यथा वृक्षशब्दः । अत एव तत्र बहुवचनान्त एव वृक्षा इति प्रयुज्यते । कश्चन तिरोहितावयवभेदकसमुदायबोधको यथा वनशब्दः। तत्रैकवचनान्त एव वनशब्दः प्रयुज्यते । तथा चाविशेषेणेतरेतर- ।

३५. सर्वो द्वन्द्वो विभाषैकव० ] विजयाऽलङ्कृतः 'द्वन्द्वश्च प्राणी'त्यादि प्रकरणाविषयः सर्वो द्वन्द्व इत्यर्थः । 'चार्थे द्वन्द्व' इति सूत्रण समाहारेतरेतरयोरविशेषेण द्वन्द्व विधाना- न्यायसिद्धयम् । 'तिष्यपुनर्वस्वो रिति सूत्रस्थबहुवचनस्येति ग्रहण- मस्या ज्ञापकम् । तद्धीदं तिष्यपुनर्वस्वित्यत्र तव्यावृत्त्यर्थम् । न चैवमप्यत्र 'जातिरप्राणिनामिति नित्यैकवद्भावेन बहुवचनाभावा- योगसमाहारयोर्द्वन्द्वविधानेऽपि द्वन्द्वीभूतोऽपि घटपटादिशब्दः एकविध- समुदायबोधक एव स्यादिति एकस्मिन् घटपटादिरूपद्वन्द्वीभूतशब्द उभय- विवक्षाया अभावेनैकवचनद्विवचनान्तत्वमनुपपन्नमिति तदुपपत्तये परि- भाषारम्भः। अयम्भावः । वनवृक्षादिकतिपयशब्दस्योभयविधसमुदायबोधकत्वा- भावेऽपि लोकशब्दसर्वशब्दयोः सर्वे लोकाः सर्वो लोक इत्युभयविधप्रयो- गस्यैकसमुदायबोधकस्थले दृष्टतयोभयविवक्षायाः शब्दैकवृत्तित्वेऽविरो- धेन तत्र यथोभयविवक्षा भवति तथा द्वन्द्वीभूतैकघटपटादिशब्देऽप्यविशे- षेणोभयत्र द्वन्द्वविधानलब्धैवोभयविवक्षा परिभाषया बोध्यते इति । ननु परिभाषायां द्वन्द्वपदस्य तन्त्रैकशेषादिना सकलद्वन्द्वपरत्वे एकवचनानुप- पत्तिरेकद्वन्द्वपरत्वेसर्वेतिविशेषणानुपपत्तिः। लोक्यते दृश्यत इति व्युत्पत्त्या लोकत्वस्य प्रत्येकपर्याप्तत्वसमुदायपर्याप्तत्वयोः स्वीकारेऽपि द्वन्द्वत्वस्य तथात्वाभावादिति चेत्-न । सकलद्वन्द्वबोधकत्वेऽपि जात्येकत्वविवक्षयैक- वचनान्तत्वोपपत्तेः। ननु पाणिपादमित्यादौ नित्यैकवद्भावस्यैव दर्शनात् सर्वो द्वन्द्व इत्यनुपपन्नमित्यत आह-द्वन्द्वश्व प्राणीत्यादीति । चार्थे द्वन्द्व इत्येतत्सूत्रविषय इति यावत् । बहुवचनस्येतिग्रहणमस्या ज्ञापक- मिति । द्वन्द्वीभूततिष्यपुनर्वसुशब्दस्योद्भूतावयवसमुदायबोधकत्वे बहुव- चनान्तत्वस्यैव सत्त्वेन इदन्तिष्यपुनर्वस्वितिव्यावर्त्यस्थलाभावाद्वहुवच- नग्रहणं व्यथे, तिरोहितावयवभेदकसमुदायबोधकत्वे एकवचनान्तत्वस्यैव सत्त्वेन बहुवचनान्तस्यासम्भवात् सूत्रस्यैव वैयर्थ्यमित्युभयविवक्षा ज्ञापय- तीति युक्तम्। ज्ञापितायान्तूभयविवक्षायां सम्भवव्यभिचारयोस्सत्त्वेन स्वांशे चारितार्थ्यम् । न चैवमप्यत्र जातिरप्राणिनामितीति। द्वन्द्वश्च प्राणीत्येतत्प्रकरणविषय एवायमिति ज्ञापितेऽपि चारितार्थ्याभाव इति

१६२ ]
परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके
दिदं सूत्रं व्यर्थमिति वाच्यम् । तद्वैकल्पिकत्वस्याप्यनेन ज्ञापनात् ।
न चैते प्राणिन इति वाच्यम् । 'आपो मयः प्राण' इति श्रुतेरद्भिर्विना
ग्लायमानप्राणानामेव प्राणित्वात् । स्पष्टं चेदं तिष्यपुनर्वस्वो रिति
सूत्र भाष्ये । अत एव 'द्वन्द्वश्चप्राणी'त्यादौ प्राण्यङ्गादीनामेव समा-
हार इति विपरीतनियमो न ॥ ३५ ॥
सर्व विधयश्छन्दसि विकल्प्यन्ते ॥ ३६ ॥
भावः । तदैकल्पिकत्वस्यापीति । तथा चोभयवचनान्ततिष्यपुनर्वसु-
शब्दस्य सत्त्वेन सम्भवव्यभिचारयोस्सत्त्वेन स्वांशे चारितार्थ्यं सुघटम् ।
नन्विदं न युक्तम् । तस्य वैकल्पिकत्वे बदराणि चामलकानि च बदरा-
मलकमितिवत् बदरामलकानीत्यपि स्यात्। नैतदिष्यत इति चेत्-न। ज्ञापितं
हि वैकल्पिकत्वं व्यवस्थितंव्यवस्था चेयं बदरत्वादिजाते:प्राधान्य विवक्षिते
एकवद्भावः। बदरादिव्यक्तेः प्राधान्ये विवक्षिते बहुवचनान्तत्वमिति । ननु
बदरामलकमित्यादौ बदरत्वादेम्मिविशेषणतयैव भानात् जाते: प्राधान्या-
भाव इति चेदिदं प्राधान्यं पदजन्यबोधविषयत्वप्रकारकतात्पर्यायविषयता-
समनियतत्वम् । नन्वेवं तिष्यत्वपुनर्वसुत्वयोः प्राधान्ये विवक्षिते एकवचनं
भविष्यति तद्व्यावृत्त्यर्थमन्यत्र बहुवचनस्य द्विवचनार्थं च बहुवचनग्रहणं
चरितार्थमिति परिभाषाज्ञापकन्न भविष्यतीति चेत्-अत्रोच्यते । फल्गु-
नीप्रोष्ठेल्यतो नक्षत्रग्रहणानुवृत्त्यैव सिद्धे पुननक्षत्रग्रहणात् तिष्यपुनर्वसु-
नक्षत्रव्यक्तिप्राधान्य एव तिष्यपुनरितिसूत्रं प्रवर्तते । तत्र जातिरप्राणीत्य-
स्याप्राप्त्या परिभाषां विना समाहारेतरेतरयोगान्यतरविवक्षाया एव सत्त्वे
एकवचने बहुवचनस्याभावात् बहुवचने व्यावाभावात् व्यर्थं सत् बहु-
वचनग्रहणं परिभाषां ज्ञापयति । ज्ञापितायाश्चोभयविवक्षायास्तिष्यपुनर्व-
सुशब्दे सत्त्वेनैकवचनव्यावृत्तिपुरस्सरंबहुवचनस्थानितालाभाय बहुवचन-
ग्रहणं चरितार्थमिति। ननु ज्ञापनद्वयेऽपि बहुवचनग्रहणं व्यर्थमेव । द्वन्द्वश्व
प्राणीत्यादिसूत्राणामेषामेव समाहार इत्येतन्नियामकत्वेनान्यत्र तिष्यपुनर्व-
स्वादावेकवचनोभावेन व्यावाभावादिति चेत्-सत्यम् । एतद्बहुवचन-
ग्रहणमेव प्राण्यगादीनां समाहार एवेति मूलोक्तनियमाकारेऽपि ज्ञापकम् ।
तथा च तत्प्रकरणाविषय उभयविवक्षायास्सत्त्वेन चरितार्थत्वमुपपन्नमिति
दिक् ॥ ३५॥

३७. प्रकृतिवदनुकरणं भवति ] विजयाऽलङ्कृतः [ १६३ 'व्यत्ययो बहुलमिति सूत्रे भाष्ये बहुलमिति योगविभागेन 'षष्ठीयुक्तश्छन्दसी ति सूत्रे वेति योगविभागेन चैषा साधिता । तेन प्रतीपमन्य उर्मियुध्यतीत्यादि सिद्धम् । युध्यत इति प्रामोति ॥३६॥ ननु 'क्षिय' इत्यादावियङ्कथमत आह- प्रकृतिवदनुकरणं भवति ॥ ३७ ॥ क्षिय इतीयनिर्देशोऽस्या ज्ञापकः । तत्रैव प्रातिपदिकत्वनि- बन्धनविभक्तिकरणादनित्या चेयमिति 'तियो दीर्घादिति सूत्रभा- प्ये स्पष्टम् ॥ ३७॥ बहुलमिति योगविभागेनेति । छन्दसि विधीयमानानि सर्वाणि कार्याणि बहुलं भवन्तीत्यर्थः । वेति । योगस्याप्ययमेवार्थ इत्येतत्सिद्धं सर्वे विधय इति । युध्यतीति । सिद्धमिति । नन्वनुदात्तत्वलक्षणमात्मनेपदमनित्यमित्यनयैव परिभाषया युध्यती- तिपरस्मैपदोपपत्तौ प्रकृतपरिभाषायाः फलं न युक्तमिति चेत्-न । प्रकृत- परिभाषायाः फलत्वेन तदुदाहरणपरभाष्येण तस्या असत्त्वबोधनात् तदभावस्याग्रे वक्ष्यमाणत्वाच ॥ ३६॥ क्षिय इत्यादावियङ् कथमिति । क्षियो दीर्घादितिसूत्रे क्षीत्यस्य लक्ष्यस्थतिधातोरनुकरणत्वेन धातुत्वाभावाद्धातुत्वनिबन्धनमियङ् न स्या- दिति भावः। प्रकृतिवदनुकरणमिति। अनुकरणत्वं स्ववृत्त्यानुपूर्व्यवच्छि- नविषयताप्रयोजकत्वम् । प्रकृतिरनुकाय्यं तद्वत् तवृत्तिधर्मवदित्यर्थः । तथा च धातुत्वातिदेशादियङ् उपपद्यते । नन्वेवमधातुपर्युदासात् प्रातिपदिकत्वाभावे विभक्तधनुपपत्तिरित्यत आह -तत्रैवेति। अनित्येति। यत्किञ्चित्कार्यायानुकार्यधारोपोभवति यत्किञ्चित्कार्याय नेति बोध्यम् । ननु कृतदीर्घस्यानुकरणे तद्वलादेव दीर्घा- न्तत्वलाभे सूत्रे दीर्घग्रहणं व्यर्थं ह्रस्वान्तानुकरणे घित्वेन गुणापत्तिरिति चेत्-न। दीर्घान्तस्यैवानुकरणमित्यत्रीव दीर्घग्रहणस्य तात्पर्य्यात् । केनचित् लक्ष्यघटकेऽनुकायें धातौ फलाभावेन स्थितस्य पित्वाभाव- स्यानुकरणे क्षिशब्देऽनयैवातिदेशेन गुणाभावः । सखिशब्दसाहचर्येणा- १६४ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके ननु रामावित्यादौ वृद्धौ कृतायां कार्यकालपक्षे कथं पदत्व- मुभयत आश्रयणेऽन्तादिवद्भावाभावाद्यस्माद्विहितस्तदादितदन्त- स्वाभावादत आह- एकदेशविकृतमनन्यवत् ॥ ३८ ॥ नुकरणाक्षिशब्दावयवेकारभिन्नस्यैव घिसंज्ञासूत्रे ग्रहणादस्य घित्वाभा- चाच्च गुणाभाव इत्युक्तम्-तन्न युक्तम् । शास्त्रीयवचनेनाशास्त्रीयधर्मा- तिदेशस्य क्वाप्यदर्शनात् । शास्त्रीयकार्यप्रवृत्तिफनायैवाचः परस्मिन्नित्येत- द्भिन्नातिदेशस्य प्रवृत्तेश्च । द्वितीयसमाधानमपि न युक्तं, तत्साहचर्येण हरिशब्दावयवभिन्नादेरपि ग्रहणापत्तौ बहूपप्लवः स्यात् । सखिशब्दे प्रथमोपात्तसकारस्यापि साहचर्येणोक्तार्थलाभसम्भवे तदुपेक्षायां बीजा- भावाच ॥ ३७॥ कार्यकालपक्षे कथं पदत्वमिति । एकादेशेन सुपस्तदादेश्वापहारेण सुबन्ततदादित्वाभावात् सुप्तिङन्तमित्यस्याप्राप्तिरिति भावः । ननु एकादे- शघटिते औशब्दे परादिवद्भावेन सुप्त्वं एकादेशघटिते रामावित्यादौ पूर्वान्तवद्भावेन तदादित्वमिति सुबन्ततदादित्वात्पदत्वं स्यादेवेत्यत आह- उभयत इति । नन्विदं न युक्तं, भपदसंज्ञाविषये यथोद्देशपक्ष एवेतिपूर्वोक्त- स्वग्रन्थेन विरोधात् । व्यवस्थितपक्षद्वयमध्य एकस्मिन् पने लक्ष्यसिद्धौ पक्षान्तरे लक्ष्यासिद्धावपि क्षत्यभावेन यथोद्देशपक्षे पदत्वसिद्धेश्चेति चेत्-न । प्राचीनमताभिप्रायेणैतद्ग्रन्थस्य सत्त्वात् । किञ्च कार्यकालपक्षे अंशद्वयं स्वदेशत्यागो यदा कार्य तदा संज्ञेति च । तत्राद्यांशस्यैव यथोद्देशपक्ष एवेत्येवकारेण व्यावर्त्यतेऽन्त्यांशस्तु पदसंज्ञा- यामप्यस्त्येवेति न विरोधः। भसंज्ञासाहचर्येण परनिमित्तकस्वादिष्वि- तिपदसंज्ञाया एव तत्रत्यपदपदेन ग्रहणमिति केचित् । उभयत आश्रयण इति। निषेधोद्भावनमप्ययुक्तम्। प्राचीनमताभिप्रा- यकम्वा स्वमते उभयत पाश्रयणेऽपि अन्तादिवद्भावस्येष्टत्वात् । केनचित्तु तदादित्वस्य प्रत्ययाव्यवहितपूर्वस्वघटिततया व्यपवृक्तत्वेन नातिदेश इत्युक्तम्-तत्तु अत्यन्तमसङ्गतम् । तदादित्वे प्रत्ययाव्यवहित- पूर्वत्वघटितत्वस्य कथमप्यसम्भवात् । वस्तुतस्तु नेदं परिभाषायाः फलम् । यथोद्देशपक्षे पूर्वजातपदसंज्ञाया ३८. एकदेशविकृतमनन्यवत् ] विजयाऽलङ्कृतः [ १६५ राम औ इत्यस्य स्थाने रामावित्यादेश इत्यानुमानिकस्थान्यादेशभावमा- दाय रामावित्यत्र स्थानिवद्भावेन लाभसम्भवात् । ननु राम औ इत्यव- स्थायां पदसंज्ञावृद्धयादेशयोः प्राप्तौ कृताकृतप्रसङ्गित्वेन नित्यत्वादादेश- प्रवृत्त्या न यथोद्देशपक्षेऽपि पदत्वसिद्धिरिति चेत्-न । अपरनिमित्तकत्वेना- न्तरङ्गत्वात् पूर्व, विरोधाभावेन बाध्यबाधकभावासम्भवात्समकालमेव वा पदसंज्ञायाः प्रवृत्तः । न च चकारेत्यत्र कृधातोलिटि द्वित्वे पूर्वस्याभ्यासत्वे उरदत्वे रपरत्वे करक इत्यवस्थायां करित्यस्याभ्यासत्वाभावेन हलादिः शेषो न स्यात् । अभ्यासस्यानर्थकत्वेनानुमानिकस्थान्यादेशमावस्यार्थवत्त्व- निबन्धनस्याभावेन स्थानिवद्भावाप्रसक्तेर्द्विरुक्तधातुपूर्वभागत्वाभावेन पुनर- भ्याससंज्ञाया अप्राप्तेश्च । स्वीकृतेन तु अनेन न्यायेन कृइत्यत्र स्थितं द्विरुक्तधातुपूर्वभागत्वमभ्यासत्वम्वा करित्यत्रानीय हलादिः शेष उपपद्यते इति फलमिति चेत्-मैवम् । अर्धाधिकस्य मात्राकालिकस्य ऋकारस्य विकृ- तत्वेन प्रकृतिपरिभाषाया अप्राप्तः। न च द्वित्वशास्त्रविशिष्टसमुदायविशि- ष्टस्याभ्याससंज्ञा विधीयते । वैशिष्ट्यञ्च स्वीयोद्देश्यताश्रयघटितत्वस्वीय- विधेयताश्रयघटितत्वस्वविशिष्टाघटितत्वैतत्रितयसम्बन्धेन । तृतीयस- म्बन्धघटक वैशिष्ट्यं स्वीयोद्देश्यताश्रयेतरत्वस्वीयविधेयताश्रयेतरत्वोभ- यसम्बन्धेन।सच समुदायः कृ कृ इति तद्विशिष्टश्चाद्यः कृ इति। वैशिष्ट्यञ्च स्वारम्भकत्वस्वारम्भकाव्यवहितपूर्वत्वोभयसम्बन्धेन समन्वयः सुगमः । एवञ्च कृकृइतिसमुदाये यत् द्वित्वशास्त्रविशिष्टत्वन्तदेकदेशविकृतन्यायेन करकृसमुदायेऽतिदिश्यते इति द्वित्वशास्त्रविशिष्टसमुदायः करक इति तद्विशिष्टश्चाग्रिमसम्बन्धाभ्यां कर इति तस्याभ्याससंज्ञेति युक्तमेव न्याय- फलमिति वाच्यम्। द्वित्वशास्त्रविशिष्टसमुदायत्वस्य स्वीयोद्देश्यताश्रय- स्वरूपविकृतावयवघटितत्वेनातिदेशालभ्यत्वात्। न च तवैव कथं हलादिः शेष उपपद्यते इति वाच्य, यतो द्वित्वशास्त्रविशिष्टस्याभ्याससंज्ञेत्यर्थः । वैशिष्ट्यश्च स्वीयविधेयताश्रयावधिकपूर्वत्वस्वीयोद्देश्यताश्रयसममिव्या- हृतवर्णाघटितत्वोभयसम्बन्धेन । करक इत्यत्र करित्यस्य विधेयताश्रयोत्तर- खण्डपूर्वत्वमस्ति । उद्देश्यताशयकृसमभिव्याहृतो द्वित्वपूर्वकालिको वर्ण उपसर्गावयवादिस्तदघटितत्वञ्च करित्यस्यास्तीत्युपपन्नं न्यायं विनाप्य- भ्यासत्वम् । अथवाऽन्त्यसम्बन्धस्थाने स्वीयोद्देश्यताविशिष्टत्वं देयम् । वैशिष्ट्यं स्वाश्रयत्वस्वाश्रयप्रकृतिकत्वैतदन्यतरसम्बन्धेन । कृ इत्यत्र कृ इत्यत्राद्यः सम्बन्धः । कर्क इत्यत्र करित्यत्रोद्देश्यताश्रयः क तत्प्रकृति- कत्वमस्तीति समन्वयः । न च प्रहिणोतीति फलम् । तत्र हि प्रहि तीति १६६ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके अनन्यवदित्यस्यान्यवन्नेत्यर्थः । तत्रान्यसादृश्यनिषेधेऽन्यत्वा- स्थिते श्नुप्रत्यये युगपद्गुणणत्वयोः प्राप्तौ हिनुमीनेत्यस्यासिद्धत्वात्पूर्व गुणे हिनोशब्दस्यानर्थकत्वेनानुमानिकादेशत्वस्यासत्त्वेन स्थानिवद्भावाप्रा- प्रनेन न्यायेनैव हिनुशब्दत्वं संपादनीयमिति फलत्वं सम्यगेवेति वाच्यम् । गुणस्याचः परस्मिन्निति स्थानिवद्भावेन हिनुशब्दत्वस्योपपत्तेः । न च पूर्वत्रासिद्धीय इति निषेधः, तस्य दोष इति प्रतिषेधात् । प्रकृष्टो रा यस्मिन् कुले तत् प्ररिकुलम् । ततो द्विचने पराभ्यामित्यादौ रिशब्दस्यैकदेशविकृत- न्यायेन रैशब्दत्वादात्वसिद्धिरित्यपि फलं न युक्तम् । रैशब्दस्य रीत्यादेश इत्यानुमानिकस्थान्यादेशभावकल्पनात् स्थानिवद्भावेनैव सिद्धेः । गुणोद- कमित्यादावुदके केवल इति स्वरसिद्धयर्थं दकशब्दस्यानेन न्यायेनोदक- शब्दत्वम् । तत्र ह्यन्तरङ्गत्वात्पूर्वमेकादेश इति फलमित्यपि न । पूर्वोत्तरपद- निमित्तककार्यात्प्रागन्तरङ्गोऽप्येकादेशो नेति परिभाषया स्वरस्यैव पूर्व प्रवृत्तेः। अत एवानुमानिकस्थान्यादेशभावमाश्रित्यास्य न्यायस्यानाश्रयणं स्थानिवत्सूत्रे भाष्ये उक्तम् । एकदेशः विकृतो विकारप्रतियोगी यस्मिन् । यनिष्ठविकारप्रतियोगी एकदेश इति यावत् । स एकदेशविकृतः। यथा रामिति मान्तनिष्ठविकारप्रतियोगी रामेत्यकारान्तस्यैकदेशोऽकारस्तथा च यदेकदेशविकृतोऽर्थात् यदेकदेशप्रतियोगिकविकारविशिष्टो यो भवति स ततोऽन्यो न भवतीत्यर्थः। यथा रामशब्दैकदेशाकारप्रतियोगिकवि- कारविशिष्टो रामिति मान्तस्ततोऽन्यो न भवति । अथ वा विकृतमिति भावप्रत्ययान्तो विकार इत्यर्थः। एकदेशस्य विकृतं यस्मिन्निति व्यधि- करणबहुव्रीहिः । यद्वा एकदेशपदमेकदेशप्रतियोगिके लाक्षणिकम् । समानाधिकरणबहुव्रीहिरेव एकदेशपदस्वरसादेव प्रतियोगिभूतावयवभि- असकलावयवसद्भावस्तदितरवर्णासद्भावश्च सूचितः । तेन जराशब्दैकदेश- विकृतो जरशब्दो न तु निर्जर शब्द इति बोध्यम् । तथा च स्वविशिष्टं स्वतोभिन्नं न भवतीत्यर्थः । वैशिष्ट्यं स्वघटकमात्रप्रतियोगिकविकारव- त्वस्वविशिष्टाघटितत्वैतदुभयसम्बन्धेन । सम्बन्धे वैशिष्ट्यं स्वाघट- कत्वस्वघटकमात्रोद्देश्यकविकारतरत्वोभयसम्बन्धेन । निर्जरशब्दे जराश- ब्दवैशिष्ट्यवारणाय द्वितीयः सम्बन्धस्तत्रोक्तोभयसम्बन्धेन स्वविशिष्टो निशब्दस्तद्घटितत्वात्तव्युदासः। राशब्दे जराशब्दवैशिष्टयसत्त्वेऽपि जातिव्यञ्जकभूयोवयवदर्शनाभावेन न तस्मिन् तद्पताव्यवहारः ।

FOR ३८. एकदेशविकृतमनन्यवत् ] विजयाऽलङ्क्तः [ १६७ भावः सुतराम् । अत एव तादृशादर्थबोधः। अन्यथा शक्तताव- च्छेदकानुपूर्व्यज्ञानात्ततो बोधो न स्यात् । एवं च रामिति मा- न्तस्य यस्माद्विहितस्तत्त्वं ौ इत्यस्य परादिवत्त्वेन सुप्तमिति तदादितदन्तत्वमार्थसमाजग्रस्तम् । छिन्नपुच्छे शुनि श्वत्वव्यवहा- रवन्मान्ते तत्त्वे लोकन्यायसिद्धम् । अत एव 'प्राग्दीव्यतः' इति । नापि रामावित्यादौ रामशब्दैकदेशविकृतत्वमेकादेशस्य तद्घटकमात्रो- द्देश्यकत्वाभावात्। अत एवेति । मान्ते रामि अदन्तरामशब्दाभेदस्यानया बोधितत्वादेवे- त्यर्थः । स्वाभेदस्य बोधनात्स्ववृत्तिदाशरथिनिरूपितशक्तिमत्वबोधनमर्थात् सिद्धमिति बोध्यम् । न चैवं सत्यदन्तत्वादिधर्मवत्वमपि स्यादिति वाच्यं, तस्य वर्णसन्निवेशसापेक्षत्वेनातिदेशालभ्यत्वाद्विकृतावयवनिबन्ध- नत्वाच्च । अन्यथेति। परिभाषाया अभाव। शक्ततावच्छेदकज्ञानादेव शक्ति- ज्ञानमिति बोध्यम् । एवञ्चेति । परिभाषास्वीकारे चेत्यर्थः। आर्थसमा- जग्रस्तमिति । अर्थस्यायमार्थः। समाजः समुदायः । आर्थश्चासौ समाज प्रार्थसमाजस्तेन प्रस्तं व्याप्तमित्यर्थः । प्रकृते अर्थपदेन सुप्त्वं तदादित्वञ्च विवक्षितमिति बोध्यम्। लोकसिद्धत्वेऽपि शास्त्रे तदाश्रयणे प्रमाणमाह -अत एवेति । परिभाषास्वीकारादेवेत्यर्थः । प्राग्दीव्यतोऽणितिसूत्रे दीव्यतीति । तेन दीव्यति खनतीत्यत्रत्यदीव्यतीत्यस्यानुकरणं, तच्च न सम्भवति । अनुकरणस्यानुकार्यसमानानुपूर्वीकत्वनियमात् । स्वीकृते चास्मिन न्याये दीव्यतीत्येतदेकदेशविकृतो दीव्यदिति । तच्च दीव्यतितो- ऽभिन्नमिति न्यायेन बोधिते दीव्यति चेत्समानानुपूर्वीकत्वाद्दीव्यतेरनुकरणं भवितुमर्हति । तदभिन्नं दीव्यदपि भवत्येव दीव्यतेरनुकरणमिति सूप- पन्नं ज्ञापकत्वम् । अत्रापि स्वांशे चारितार्थ्यस्य चर्चा न कार्यो । यदनुप- पत्त्या यत् कल्पितं तेन तदुपपत्तिमात्रस्यैव ज्ञापनेऽपेक्षितत्वात् । न च दीव्यतीत्येतद्घटकदीव्यत एवानुकरणं दीव्यदित्यस्तु । तथा सत्यनुपप- त्तिविरहाज्ज्ञापनासम्भव इति वाच्यम् । तथा सत्यवधेर्दीव्यतो निरर्थक- त्वेनावध्यवधिमतोस्लाजात्यमिति नियमबलात् प्रत्ययार्थबोधनाय निर्दि- ष्टपदकसूत्र एवाधिकार इत्यर्थालाभेन प्रत्ययार्थबोधकपदघटितेऽपि शास्त्रे वाह्वादिभ्यश्चेत्यादावणधिकारापत्तेः। दीव्यतीत्यस्यावधित्वे तु न दोषः। ।

१६८ ] परिभाषेन्दुशेखरः [ शास्त्रत्वसम्पादके सूत्रे भाष्ये दीव्यतिशब्दैकदेशदीव्यच्छब्दानुकरणमिदमित्युक्त्वा किमर्थं विकृतनिर्देश एतदेव ज्ञापयत्याचार्यों भवत्येषा परिभाषै- कदेशविकृतमनन्यवदितीत्युक्तम् । एतेनायं न्यायः शास्त्रीयकार्य- एव शास्त्रीयविकार एवेत्य पास्तम् । विकृतावयवनिबन्धनकार्ये तु नायं छिन्नपुच्छे शुनि पुच्छवत्वव्यवहारवद्विकृतावयवव्यवहारस्य दुरुपपादत्वात् । एवमक्तपरिमाणग्रहणेऽपि नायम् । उक्तयुक्तेः । एतत् 'येन विधिः' इत्यत्र भाष्यकैयटयोर्ध्वनितम् । तस्यार्थबोधकत्वेनोक्तन्यायविषयत्वात् । दीव्यतिशब्दैकदेशदीव्यच्छ- ब्दानुकरणमिति । दीव्यतिशब्दैकदेशो दीव्यच्छब्दोऽनुकरणमित्यर्थः । यत्त केनचित् दीव्यतिशब्दैकदेशेति प्रतीकमुपादाय दीव्यतिशब्दवृ- त्यर्थवत्वं तान्ते आरोप्य कृतमनुकरणमित्यर्थ इत्युक्तं-तन्न युक्तम् । प्रक- तोपयोग्यर्थशून्यत्वादर्थवत्त्वारोपस्यानुकरणेऽनुपयोगाच्च । एतेनेति । प्राग्दीव्यत इतिसूत्रस्थज्ञापकपरभाष्येणेत्यर्थः। तत्र हि विकारस्य कार्य्यस्य च शास्त्रीयत्वाभावाच्छास्त्रीयविकारकार्ययोरेव ग्रहणे तद्भाष्यविरोधः स्यादिति भावः । विकृतावयवेति । विकृतो योऽवयवस्त- निमित्तकं यत्कार्यमित्यर्थः । तेन निर्जरशब्दे आदन्तत्वप्रयुक्तं कार्यन्नेत्य- र्थः। अक्तपरिमाणग्रहण इति । परिच्छिन्नपरिमाणग्रहण इत्यर्थः । उक्तयुक्तरिति । लोके छिन्नपुच्छे शुनि पुच्छवनिष्ठस्य सेटकपरिमित- त्वादेव्यवहाराभावादित्यर्थः। यत्तु केनचित् संख्यात्वव्याप्यपरिमाणत्वव्याप्यधर्मानयने तद्घटि- तधनियने च तदप्रवृत्तिरिति प्रतिज्ञाय शतत्वशतमुद्राघटितमञ्जूषात्वयोः सेटकत्वसेटकपरिमितधान्यघटितमजूषात्वयोश्च नातिदेश इत्युक्तम्-तत्तु न विचारसहम्। शतं ब्राह्मणा इत्यादिप्रयोगदर्शनात्। शतशब्दः संख्येय- परः । शतत्वं संख्या न तु संख्यात्वव्याप्यधर्माः। मञ्जूषायां मञ्जूषात्वे वा शतमुद्राघटितत्वं खपुष्पायमानं, रामशब्दो रेफघटित इति व्यवहारात् ब्राह्मणो वस्त्रघटित इति व्यवहाराभावात् । घटितत्वं व्याप्यत्वे सति व्यापकत्वाभाववत्त्वमिति निश्चीयते। मञ्जूषा मञ्जूषात्वम्वा न शतमुद्रा- दिव्याप्यमित्यागोपालाङ्गनं प्रसिद्धमित्यहो व्यामोहः। इत्यलमसत्पदार्थ- पर्यालोचनेन।

३८. एकदेशविकृतमनन्यवत् ] विजयाऽलङ्कृतः [ १६६ यत्र त्वद्धं तदाधिकं वा विकृतं तत्र जातिव्यञ्जकभूयोऽवयव- एवमत्रव केचिदित्युपक्रम्य जरात्वस्य चतुष्ट्वसमनियतत्वमुक्तं तदपि पदार्थानवबोधविजृम्भितम् । प्रत्युच्चारणभिन्नजराशब्दनिष्टकजरात्वस्य प्रतिधम्मिभिन्नचतुष्टसंख्यासमनियतत्वासम्भवात् । तत्रैवाभिशब्दत्वातिदेशाभावेनोपसर्गात्परत्वाभावाद्वो नेत्युक्तं- तदप्यज्ञानविलसितम्। न ह्युपसर्गत्वमभिशब्दत्वरूपन्तद्घटितम्वा । येना- भिशब्दत्वानतिदेशप्रयोज्य उपसर्गत्वाभावस्स्यादिति विभावयन्तु सुधियः। प्रकृतमनुसरामः। किन्नामाक्तपरिमाणत्वम् ? न तावद्यत्किञ्चित्सं- ख्यासमनियतत्वं, जरावाद्यानुपूर्व्याः तिङ्वप्रत्ययत्वादीनाञ्च शास्त्रका- रसम्मतोऽक्तपरिमाणत्वव्यवहारो न स्यादुक्तयुक्त्या कस्या अपि संख्या- यास्तेषां समनियतत्वाभावात् । सेटकपरिमितत्वादीनामपि संख्यासम- नियतत्वाभावादक्तपरिमाणत्वव्यवहाराभावप्रसंगात् । इदन्तु तत्त्वं-संख्यात्वपरिमाणत्वान्यतरव्याप्ययत्किञ्चिज्जातिव्या- पकाभावप्रतियोगित्वमक्तपरिमाणत्वम् । व्यापकत्वघटकाधिकरणता च स्वाश्रयाश्रयत्वसंबन्धावच्छिन्ना बोध्या। यथा संख्यात्वव्याप्या जातिः पञ्चत्वत्वं स्वाश्रयाश्रयत्वसम्बन्धेन तदधिकरणं पञ्चाक्षरावयवकस्समुदा- यस्तनिष्ठाभावो जरावाभावाभावो न पादपि तु घटत्वाद्यभावस्तदीय- प्रतियोगितावच्छेदकं घटत्वत्वमनवच्छेदकं जरावाभावत्वं तद्वत्त्वरूप- व्यापकत्वं जरावाभावस्य तत्प्रतियोगित्वं जरात्वस्येति लक्षणसमन्वयः । अङ्गत्वधातुत्वपदत्वादीनाञ्च न तथात्वं, तेषामभावस्य कामपि संख्यात्व- व्याप्यजाति प्रति व्यापकत्वाभावात्। एवं तित्वोपसर्गत्वप्रत्ययत्वाद्य- भावाः पञ्चत्वत्वादिजातिव्यापका इति तेषामक्तपरिमाणत्वसिद्धिः । येषां धर्माणां परिगणिताक्षरारम्भकसमुदायात्मकव्यक्तिवृत्तित्वं तेषामक्तपरि- माणत्वमङ्गत्वधातुत्वपदत्वानां न तथेति न तान्यक्तपरिमाणानीति निष्कर्षः। ननूदकशब्दत्वस्याप्यक्तपरिमाणत्वादनेन न्यायेन दुकशब्दे उदकशब्द- त्वानयनपरभाष्यविरोध इति चेत्-न। तद्भाष्यस्यैकदेश्युक्तत्वात् । पूर्वोत्तर- निमित्तकार्यादिति परिभाषया गुणोदकमित्यादावुदके केवल इति स्वरस्य बहिरङ्गस्याप्येकादेशात्प्रागेव प्रवृत्तेः। ननु अनेनैव न्यायेन सर्वत्र सिद्धौ स्थानिवत्सूत्रं किमर्थमित्यत्त श्राह- यत्र त्वित्यादि । जातिव्यजकेल्यादि। यथा रामायेत्यादौ तत्र सुप्त्वा- १७० ] परिभाषेन्दुशेखरः [ बाधबीजकथने दर्शनाभावेन तत्वाप्रतीतौ कार्यसिद्धचर्थ विकृतानलरूपावय- वत्त्वप्रतीत्यर्थं च स्थानिवत्सूत्रम् । क्वचित्तु लक्ष्यानुरोधान्न्यायानाश्रयणम् । तेनाभीयादित्या- दिसिद्धिः । स्पष्टं च क्वचिन्न्यायाप्रवृत्तिः । 'प्रथमयोः पूर्वसवर्ण इत्यत्र कैयटेन दर्शितत्यन्यत्र विस्तरः ॥ ३८ ॥ इति परिभाषेन्दुशेखरे शास्त्रत्वसम्पादकपरिभाषाप्रकरणं समाप्तम् अथ बाधबीजकथनप्रकरणम् पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः ॥ ३६॥ पूर्वात्परं बलवत् । विप्रतिषेधशास्त्रात्पूर्वस्य परं बाधकमिति यावत् ॥ ३६॥ तिदेशार्थमित्यर्थः। तत्वाप्रतीताविति । अनन्यत्वाप्रतीतावित्यर्थः। लोके छिन्नाधिकावयवके श्वादौ श्वत्वाद्यप्रतीतेरिति भावः। विकृतानलरूपेति । चमनशब्दाणिचि किपिटिणिलोपे चमित्यन्नानन्तत्वातिदेशार्थमित्यर्थ- स्तत्रानेन न्यायेन न सिद्धिः। विकृतावयवनिबन्धनत्वादन्नन्तत्वव्यवहारस्य न चाभीयादित्रैकादेशे उपसर्गत्वस्याक्तपरिमाणत्वेनानतिदेशाद्हस्वत्वा- प्रवृत्तावपि भान्तस्याभित्यस्य पदत्वमनेन न्यायेनादाय जस्त्वापत्तिरित्यत आह-क्वचिदित्यादि ॥ ३८॥ इति विजयायां शास्त्रत्वसम्पादकपरिभाषाप्रकरणं समाप्तम् अथ बाघबीजकथनप्रकरणम् शास्त्रघटकपदप्रयोज्यविषयतानियामकपरिभाषां व्याख्याय शास्त्रस्य बलवत्त्वप्रयोजकपरिभाषाप्रकरणं व्याख्यातुमारभमाणसामान्यरूपेण बलवत्त्वप्रयोजकप्रदर्शकपरिभाषामाह-पूर्वपरेत्यादि । क्रमेण निष्कृष्य व्याख्यायते—पूर्वात्परं बलवत् विप्रतिषेधसूत्रादिति । पूर्वपरशब्द- योस्सम्बन्धिशब्दत्वात् स्वोत्तरत्वसम्बन्धेन स्वविशिष्टं शास्त्रं स्वापेक्षया - RA ४०. पुनःप्रसङ्गविज्ञानात्सिद्धम् ] विजयाऽलङ्कृतः [ १७१ नन्वेवं भिन्धीत्यत्र परत्वात्तातडा बाधितो धिन स्यादत आह- पुनः प्रसङ्गविज्ञानात्सिद्धम् ॥ ४० ॥ नन्वेवं तिसृणामित्यत्र परत्वात्तिस्रादेशे पुनस्त्रयादेशः स्यादत आह बलवत् स्वोत्तरत्वादित्यनुमानाकारो लभ्यते। उत्तरत्वस्य बलवत्त्वप्रयोज- कत्वे बीजमाह-विप्रतिषेधशास्त्रादिति। एतेन विप्रतिषेधशास्त्रस्य परशास्त्ररूपपक्षावृत्तित्वाद्धेतुत्वासिद्धिरित्यपास्तम्। परस्य बहिरङ्गत्वानि- त्यत्वोत्सर्गत्वान्यतमधर्मवत्त्वे दुर्बलत्वेन बाधदोष इति न वाच्यं, विप्र- तिषेधशास्त्रोपन्यासेन तुल्यबलत्वस्यापि सूचनेन स्वनिरूपितबहिरङ्गत्वाभा- ववत्त्वस्वनिरूपितानित्यत्वाभाववत्त्वस्वनिरूपितोत्सर्गस्वाभाववत्त्वसम्ब- न्धानामपि हेतौ पक्षतावच्छेदके च निवेशबोधनात् । परं बाधकमिति यावदिति । तथा च परशास्त्रेण स्वप्रवृत्तियोग्यातिरिक्तत्वेन स्वविहितका- र्याश्रयातिरिक्तत्वेन च पूर्वशास्त्रीयोद्देश्यतावच्छेदकावच्छिन्ने संकोच इति बोध्यम् ॥ ३९॥ नन्वेवं भिन्धीत्यत्र परत्वात्तातडा बाधितो धिनेति । नन्वेवं पूर्वशास्त्रापेक्षया पूर्वोक्तप्रकारद्वयेन संकोचकत्वरूपबाधकत्वस्य परशास्त्रे स्वीकारे इदन्न युक्तम् । तातङि धिभावं परत्वाद्बाधित्वा जाते स्थानिवद्- भावेन हित्वं दुर्लभम् । तातडादेः स्थानिवत्वप्रतिषेधो वक्तव्य इति वार्त्तिकेन स्थानिवत्त्वनिषेधात्। भिन्तादित्येव रूपं, वैकल्पिकत्वेन तदभावे बाधका- भावाद्धिभावसिद्धश्च । अथ वैकल्पिकत्वेन तातङ्तदभावौ विधेयौ । तातङा इव तदभावेनापि परत्वाद्बाधितो धिन स्यादपि तु हेरेव श्रवणं स्यादिति सम्यगेवावतरणं तातडा इत्युत्तरमिव तदभावेनापीति शेष इति चेत्-न। अप्राप्तविभाषास्थलेऽभावस्य सिद्धत्वेन भावमात्रस्यैव विधेयत्वात् । अत एव मुचोऽकर्मकस्य गुणो वेत्यनेनाभावस्याविधेयत्वात् । तत्पक्षे मुमुक्षते वत्सः स्वममेवेत्यत्रात्र लोपोऽभ्यासस्येति सूत्रेण तत्प्रकरणविधेयसन्नियोग- शिष्टाभ्यासलोपविधायकेनाभ्यासलोपो न। केचित्त भिन्धकीत्यत्र परत्वाद्धिना बाधितोऽकच् न स्यादित्यवतरण- माहुः-तदपि न । कुत्सानिमित्तकत्वेनाकचो बहिरङ्गत्वेनैव बाधात् । तुल्यबलत्वाभावेन विप्रतिषेधसूत्राप्राप्तेः ।

१७२ ] परिभाषेन्दुशेखरः [ बाधबीजकथने सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव ।। ४१ ॥ तत्र क्वचिच्चरितार्थयोरेकस्मिन्युगपदुभयोः कार्ययोरसंभवेन बाधकाभावात् पर्यायेण तृजादिवच्छास्त्रद्वयप्रसङ्गे नियमार्थ विप्र- परे तु भिन्धीति भिन्तादित्यस्योपलक्षणम् । तत्र परत्वात्तातङि धिभावं बाधित्वा जाते धिभावस्याप्राप्त्या तातडादेः स्थानिवत्वप्रतिषेधो वक्तव्य इतिवार्तिकस्य वैयर्थ्यमित्याशयकमवतरणमाहुः । पुनः प्रसङ्गविज्ञानात् सिद्धमिति प्रसंगशब्दो लुप्तसप्तम्यन्तः। पुन: प्रसंगे प्राप्तौ सत्यां विज्ञानं शास्त्रप्रवृत्तिरित्यर्थः। तथा च परत्वमूलकबाध- स्थले स्ववृत्तियोग्यातिरिक्तत्वेन संकोच इति यावत् । प्रथमान्तविज्ञान- शब्दान्तमेव परिभाषास्वरूपमधिकन्तु समाधानरूपम् ॥४०॥ सकृद्गताविति । विप्रतिषेधे सति सकृद्यद्बाधितं तत् गतौ प्राप्तौ सत्यामपि बाधितमेव न प्रवर्तत इत्यर्थः। उभयरूपेण पूर्वशास्त्रे संकोच इति यावत् । उभयत्र बीजमुपन्यस्यति-तत्र क्वचिच्चरितार्थयोरित्या- दिना। पर्यायेण तृजादिवदिति । यथा णवुल्तृचौ पर्यायेण भवत- स्तथा वृक्षेभ्य इत्यत्रत्वदीर्घयोरपि पर्यायेण प्रसङ्ग इत्यर्थः। ननु पर्यायेण प्रवृत्तिरित्यसंगतम् । तथा सति विधेयशून्यस्यापि कस्य चिल्लक्ष्यस्य साधुत्वाभावाय विधेये क्लुप्तस्योद्देश्यतावच्छेदकव्यापकत्वस्य भंगापत्तेः । पक्तत्यादौ धातुत्वरूपोद्देश्यतावच्छेदकाधिकरणे स्वाव्यवहित- पूर्वत्वसम्बन्धेन वुलोऽभावस्य सत्त्वात् । न चात्रोक्तसम्बन्धेन व्यापक- त्वस्य विधेयद्वये बाधितत्वेनान्यत्र तथा नियमस्वीकारेऽपि प्रकृते उद्देश्यता- वच्छेदकसामानाधिकरण्यमात्रस्वीकारेण पर्यायेण प्रवृत्तौ बाधकाभाव इति वाच्यम् । तथा सति प्रकृते कदाचिद्विधेयद्वयशून्यस्य पच्इत्यस्यापि साधुतापत्तेः । अत्रोच्यते-प्रकृते विधेये अन्यतरवैयापत्त्योद्देश्यतावच्छेदकं प्रति विधेयतावच्छेदकधर्मावच्छिन्नव्यापकताया अभानेप्यन्यतरत्वावच्छिन्न- व्यापकताया एव शास्त्रतात्पर्य्यविषयत्वात् । तस्य चाबाधात् विधेयशून्यस्य साधुत्वाप्रसक्तः । व्यापकताघटकाधिकरणस्यान्यतरानधिकरणस्यैव प्रकृते निवेशेन विधेयतावच्छेदकावच्छिन्नव्यापकताभानेऽपि क्षत्यभावाच । नियमार्थमिति । 'विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र ४१. सकृद्गतौ विप्रतिषेधे० ] विजयाऽलङ्कृतः [ १७३ तिषेध सूत्रमिति सकृद्गतिन्यायसिद्धिः । यथा तुल्यबलयोरेका प्रेष्यो भवति स तयोः पर्यायेण कार्य करोति । यदा तमुभौ युग- पत्प्रेषयतो नानादिक्षु च कायें तदोभयोन करोति योगपद्यासंभ- वात् । तथा शास्त्रयोर्लक्ष्यार्थयोः क्वचिल्लक्ष्ये यौगपद्येन प्रवृत्त्य- संभवादप्रतिपत्तौ प्राप्तायामिदं परविध्यर्थं, तत्र कृते यदि पूर्व- प्राप्तिरस्ति तर्हि तदपि भवत्येवेति पुनः प्रसङ्गविज्ञानसिद्धिरिति 'विप्रतिषेध'सूत्रे भाष्ये स्पष्टम् । यत्तु कैयटादयो व्यक्तौ पदार्थे प्रतिलक्ष्यं लक्षणोपप्लवादुभ- योरपि शास्त्रयोस्तत्तल्लक्ष्यविषययोरचारितार्थ्येन पर्यायेण द्वयो- रपि प्राप्तौ परमेवेति नियमार्थमिदमिति सकृद्गतिन्यायसिद्धिः । अत्र पक्षे एतनियमवशादेतल्लक्ष्यविषयकपूर्वशास्त्रानुपप्लव एव । जातिपक्षे तूद्देश्यतावच्छेदकाक्रान्ते क्वचिल्लक्ष्ये चरितार्थयोर्द्वयोः चान्यत्र च प्राप्तौ परिसंख्येति गीयत'* इति वचनानुसारेण परकार्यरूप- विधेयस्य पाक्षिकप्राप्तिरूपस्य नियमत्वप्रयोजकस्य सत्त्वादिति भावः । अप्रतिपत्तौ प्राप्तायामिति । भृत्यस्थानीयं लक्ष्य कस्यापि शास्त्रस्य विधे- यसम्बन्धरूपं कार्य न करिष्यतीति भवति शास्त्राप्रवृत्तिरूपाप्रतिपत्तिरि- त्यर्थः। परविध्यर्थमिति । 'विधिरत्यन्तमप्राप्तावि'त्युक्तेरिति भावः । व्य- क्तौ पदार्थ इति । त्रय इत्यादिशास्त्रघटकच्यादिपदानां त्रित्वाद्युपलक्षित- तत्तद्वयक्तित्वावच्छिन्ने शक्तिरितिन शक्यतावच्छेदकतत्तद्व्यक्तित्वभेदेऽपि शक्तिभेद उपलक्षणीभूतधर्मस्यैक्यात् एकेन पदेनैकतव्यक्तित्वावच्छिन्न- स्यैव बोधादन्यतव्यक्तित्वावच्छिन्ने कायं न स्यादिति प्रतिलक्ष्यं लक्षणोपप्लव इति बोध्यम् । परमेवेतीति । न पूर्वमिति नियमः । तेन पश्वादपि न पूर्वप्रवृत्तिरिति बोध्यम् । *कुमारिलभट्टपादानामियं तन्त्रवात्तिकस्था कारिका ।

१७४ ] परिभाषेन्दुशेखरः [ बाधबीजकथने शास्त्रयोः सत्प्रतिपक्षन्यायेन युगपदुभयासम्भवरूपविरोधस्थले उभयोरप्यप्राप्तीपरविध्यर्थमिदमिति पुनःप्रसङ्गविज्ञानसिद्धिरित्या- हुः-तन्न । व्यक्तिपक्षे सर्व लक्ष्यं शास्त्रं व्याप्नोति न जातिपक्षे इत्यत्र मानाभावात् । न ब्राह्मणं हन्यादित्यादौ जात्याश्रयसकलव्य- क्तिविषयत्वार्थमेव जातिपक्षाश्रयणस्य भाष्ये दर्शनात् । अत एव 'सरूप'सूत्रे भाष्ये जातौ पदार्थेऽनवयवेन साकल्येन विधेः प्रवृत्ती गौरनुबन्ध्य इत्यादौ सकलगवामनुबन्धनासम्भवात्कर्मणो वैगुण्य- मुक्तम् । द्रव्यवादे चासर्वद्रव्यावगतेगौरनुबन्ध्य इत्यादावेकः शास्त्रोक्तोऽपरोऽशास्त्रोक्त इत्युक्तम् । किञ्च न हि भाष्योक्ततृजा- दिदृष्टान्तस्य व्यक्तिपक्ष एव सर्वविषयत्वं न जातिपक्षे इत्यत्र मा- नमस्ति । अपि च व्यक्तिपक्षेऽप्यन्यव्यक्तिरूपविषयलाभेन चरि- तार्थयोरियं व्यक्तिर्विरोधात्स्वविषयकत्वं न कल्पयतीति वक्तुं शक्यम् । जातिपक्षेऽपि तज्जात्याश्रयतद्व्यक्तिविषयकत्वमेव नैत- व्यक्तिविषयकत्वमित्यत्र विनिगमकाभावः। तत्र लक्ष्यानुसारा- क्वचिच्छास्त्रीयदृष्टान्ताश्रयणं क्वचिच्लौकिकदृष्टान्ताश्रयणमिति सत्प्रतिपक्षन्यायेनेति । विरुद्धसाध्यसाधकहेतुमान् पक्षम्सत्प्रति- पक्षः। यथा वह्निव्याप्यधूमवान् पर्वतो वह्वभावव्याप्यपाषाणमयत्ववानि- त्यादौ वह्नस्तदभावस्य च नानुमितिरेकपरामर्शस्यापरसाध्यकानुमितौ प्र- तिबन्धकत्वात्। तद्वत्ताबुद्धिं प्रति तदभावव्याप्यवत्ताबुद्धेःप्रतिबन्धकत्वात्। तद्वत् एकस्यापि शास्त्रस्य न प्रवृत्तिः। सव्वं लक्ष्यंशास्त्रमिति। लक्ष्य कर्म शास्त्रं कर्तृ। नब्राह्मणं हन्यादि- ति । व्यक्तिपक्षे एकस्या एव ब्राह्मणव्यक्तेहननं निषिद्धं स्यान्न सर्वासामिति जातिपक्षाश्रयणम् । अत एवेति । जातिपक्षे शास्त्रस्य सकललक्ष्यव्यापक- त्वादेवेत्यर्थः। अनवयवेनेत्यस्यैव व्याख्यानम् । साकल्येनेति । द्रव्यवादे चेति । व्यक्तिपक्षे चेत्यर्थः । इयं व्यक्तिः लक्ष्यरूपा व्यक्तिरित्यर्थः। खमते व्यवस्थामाह-तत्र लक्ष्यानसारादित्यादिना। शास्त्रीय- ४१. सकृद्गतौ विप्रतिषेधे० ] विजयाऽलङ्कृतः [ १७५ भाष्यसम्मतमार्ग एव युक्त इति बोध्यम् । द्वयोः कार्ययोयौंगपद्य- नासम्भव एव विप्रतिषेधशास्त्रोपयोगी। इदम् 'इको गुणेति सूत्रकै- यटे स्पष्टम् । यथा शिष्टादित्यादौ तातशाभावोयुगपत्प्रवृत्ती स्वस्वनिमित्तानन्तासम्भवः। यद्यपि तातडादेः स्थानिवत्त्वेनास्त्येव तत्तथाप्यादेशप्रवृत्युत्तरमेव स, न तु तत्प्रवृत्तिकाले । एवं नुम्तृ- ज्वत्त्वयोः प्रियक्रोष्ट्रनीत्यादौ युगपदसम्भवो यदागमाः इत्यस्य नु- म्प्रवृत्त्युत्तरं प्रवृत्तेः । एवं भिन्धीत्यत्र तातधिभावयोर्युगपदेकस्था- निसम्बन्धस्याङ्गरूपनिमित्तानन्तर्यस्य चासम्भवो बोध्यः । नुम्नुटो- रपि नुट्यजादिविभक्तयानन्तर्यबाधो नुमि ह्रस्वान्ताङ्गबाध इत्य- सम्भवाद्विप्रतिषेधः । क्वचिदिष्टानुरोधेन पूर्वशास्त्रे स्वरितत्वप्र- तिज्ञावलात् स्वरितेनाधिकं कार्यमित्यर्थात्पूर्वमेव भवति । तेन सर्वे पूर्वविप्रतिषेधाः संगृहीता इति 'स्वरितेन' इति सूत्रे भाष्ये 'वि- दृष्टान्ताश्रयणमिति । यथा पर्यायेण ण्वुल्तृचौ भवतस्तथा पर्यायेण प्राप्तिस्स्यादित्यर्थः । लौकिकदृष्टान्ताश्रयणमिति । यथा तुल्यवलयो- रेकः प्रेष्यो नोभयोः कायं करोति तथा लक्ष्यं नोभयोः शास्त्रयोविधेयस- म्बन्धं करिष्यतीत्यर्थः। यौगपद्येनासम्भव एवेति। न त्वेकस्य कार्यद्व- यासम्भव एवेत्यर्थः । यथा शिष्टादिति। अत्र तातशादेशयोरेकस्थानि- कत्वाभावेऽपि यौगपद्यासम्भवाद्विप्रतिषेधशास्त्रप्रवृत्तिः। ननुशासहीतिस्थिते हिनिरूपिताव्यवहितपर्खत्वविशिष्टशास्त्वंशासि। अङ्गाव्यवहितोत्तरत्वविशिष्टहिशब्दत्वं हौ। युगपदस्त्येवेतियुगपत्प्रवृत्तौ को विरोध इति चेत्-न । हिनिरूपिताव्यवहितपूर्वस्य शासः प्रसंगे शा साधु- रित्यर्थे शासहीत्यस्य प्रसङ्गे शामात्रस्यैवमङ्गोत्तरत्वविशिष्टस्य हेः प्रसङ्ग तातङ् साधुरित्यर्थे शासःप्रसङ्गतातङ्मात्रस्य साधुत्वापत्त्या निमित्तवाच- कपदानामावृत्त्या विधेयेऽपि निमित्तानन्तर्याविशेषणस्यावश्यकत्वेन युगप- दुभयोः प्रवृत्तौ विधेये स्वस्वनिमित्तानन्तर्य्यबाधेन विरोधस्य स्पष्टत्वात् । ननु विधेये निमित्तानन्तर्य्यदानेऽपि इको यणचीत्यादौ अजव्यवहित- पूर्वेग्घटितस्य स्थानेऽजव्यवहितपूर्वयणघटितस्साधुरित्यर्थः। सुधी १७६ ] परिभाषेन्दुशेखरः [ बाधबीजकथने उपास्य इत्यस्य प्रसङ्गे सुध्युपा, सुध्यु इत्यादीनां सुध्युपास्यो देवो मध्वरिरि- त्यादीनां च प्राप्तस्य साधुत्वस्य वारणाय स्थानेऽन्तरतमपरिभाषयाऽजव्य- वहितपूर्वेग्घटितस्य प्रसङ्गेऽजव्यवहितपूर्वयणघटितोन्तरतम आदेश इत्यर्थो वक्तव्यः। साश्यं च स्वघटकौतस्थानीतरयावद्वर्णघटितत्व- स्वविशिष्टाघटितत्वोभयरूपेण । वैशिष्ट्यञ्च स्वघटकेतरत्वस्वघटकोद्देश्य- कौतादेशेतरत्वोमयसम्बन्धेन । तथा च प्रसक्तापेक्षया न्यूनाधिकवर्ण- घटितस्य आदेशस्य न प्रसङ्गः । एवञ्चान्तरतमपरिभाषयैव सुध्युइत्यस्य शामात्रस्य तात्मात्रस्य चादेशत्वाभावसिद्धौ विधेये निमित्तानन्तयंदानस्य फलाभाव एव। किऊचेगघटितस्य प्रसंगे यणघटितस्साधुरित्यर्थस्य वोधने- ऽपि यणमात्रे शास्त्रस्य व्यापारः। तदितरवर्णानान्तु प्रसक्तानामेवादेशे सन्नि- वेशो न न्यूनाधिकानां मानाभावादित्यन्तरतमपरिभाषामन्तरेणाप्युक्तदो- पाणामुद्धाराद्विधेये निमित्तानन्तर्यानिवेश इति विरोधाभाव इति चेत्-न। अजव्यवहितपूर्वेग्घटितस्य प्रसङ्ग यणघटितस्साधुस्तदघटितोऽसाधुरिति व्यापारस्य सुधी उपास्य इत्यस्य साधुत्वाभावायावश्यकतया प्रकृतेऽपि शासहीत्यस्य प्रसङ्गे शाघटितस्साधुरन्योऽसाधुरित्यर्थे शास्तात् शातात् इत्यनयोरसाधुत्वे बोधिते अङ्गात्परत्वविशिष्टहील्यस्य प्रसङ्गे तातङ्घटित- स्साधुरन्योऽसाधुरितिबोधनेन शाहीत्यस्य शास्होत्यस्य चासाधुत्वं बोधित- मिति । एकेन यस्य साधुत्वमपरेण तस्यासाधुत्वमिति विरोध इति बोध्यम् । प्रियक्रोष्टूनीत्यादावपि एकेनः तृवद्भावादितस्य प्रियक्रोष्टूनित्यस्या- साधुत्वमपरेण नुम्घटितस्य प्रियक्रोष्ट्रित्यस्यासाधुत्वबोधनाद्विरोधः। तथा नुम्नुटोरपि विरोध उन्नेय इति मूलोक्तविधेयान्वयि निमित्तानन्तर्य हेयमेवेत्याहुः। यत्तु नुम्नुटोविषये तु वारीणामिति लक्ष्यस्यैवोभाभ्यां साधुत्वबोधने- ऽपि उभयोरपूर्वबोधकत्वासम्भवेनैकस्य विधायकत्वमपरस्यानुवादकत्वं वक्तव्यम्। तत्र कस्य विधायकत्वं कस्यानुवादकत्वमित्यादिग्रन्थेन विरोधो- पपादनं-तच्चिन्त्यम् । नुमि दीर्घाभावेन वारिणामित्यस्य नुटि दीर्घ वारी- णामित्यस्य साधुत्वेनोभाभ्यां वारीणामित्यस्यैव साधुत्वबोधनासम्भवात् । यदपि मूलोक्तं न युक्तमादेशप्रवृत्तिकाले निमित्तानन्तर्याभावेऽपि तदुत्तरं स्थानिवद्भावेन तत्सत्त्वेनासम्भवोपपादनस्यैवासम्भवादित्युक्तं- तदपि न । प्रवृत्तिकालिकविरोधमात्रेण विप्रतिषेधसूत्रप्रवृत्तिसम्भवात् । यदपि किञ्च यदागमा इतिन्यायस्यागमप्रवृत्तिकाल एव प्रवृत्तिराद्य- न्तावितिशास्त्रसहकारेणोद्देश्यग्रहणग्राह्यत्वविशिष्टानामागमानां तत्तच्छा- ४२. विकरणेभ्यो नियमः ] विजयाऽलङ्कृतः [ १७७ प्रतिषेध सूत्रस्थपरशब्दस्येष्टवाचित्वात्तत्संग्रह इति 'विप्रतिषेध'सूत्रे भाष्ये इत्यन्यत्र विस्तरः॥ ४१ ॥ नन्वेवमेधत इत्यादौ परत्वाद्विकरणेऽनुदात्तङित इत्यादिनि- यमानुपपत्तिस्तेन व्यवधानादत आह- विधानादित्युक्तं तदपि न । प्रकृते स्वाभीष्टसाधके प्रवृत्तिकाले उद्देश्ये तृजन्तत्वाभावेनोद्देश्यग्राह्यत्वेऽपि आगमविशिष्टे तृजन्तत्वाभावेन तृजन्तरूपविधेये सर्वनामस्थानरूपनिमित्तानन्तर्यवाधेन विरोधस्य स्पष्टत्वात् । किञ्च स्वस्वनिमित्तानन्त-सम्भवोऽपि दुरुपपाद एवेति तदुत्तरशङ्काग्रन्थोप्यसङ्गतः। विधेये निमित्तानन्तर्यस्य पूर्वमेव बुद्धयारूढत्वेन विरोधस्य स्पष्ट- त्वात् । तद्धृदयस्थं कृत्वैव हि स्थानिवद्भावेन विरोधाभावस्योपपादित- त्वात् । तदुत्तरं तेषां विधेयकुक्षिप्रविष्टत्वेन शास्तीत्यादावपि हिपरकशा- देशापत्तिरिति दूषणदानमपि-भावानवबोधविजृम्भितमेव । आवृत्त्यो- द्देश्यविधेययोरुभयत्रैव निमित्तानन्तर्याविशेषणस्य ग्रन्थकाराभिप्रेतत्वात् । न च विशिष्टस्य विधेयत्वेऽपि प्राप्ताप्राप्तविवेकन्यायेन शाशब्द एव विधेयता पर्यावस्यति, हिशब्दपूर्वत्वन्तु सर्बादीनीत्यादौ सर्वार्थवाचकत्वमिवो- हेश्यगतमेवापेक्षितमिति न दोष इति वाच्यम् । शिष्टादित्यत्राप्युद्देश्ये शास- धातौ हिशब्दपूर्वत्वस्य सत्त्वेनासम्भवस्य दुरुपपादत्वादिति तदुत्तर- ग्रन्थोप्यविचाररमणीयः। सर्वार्थवाचकत्वस्य सामानाधिकरण्यसम्बन्धन सर्वनामपदे विशेषणत्वेनोद्देश्यगतत्वमात्रेण तस्योपपत्तिः। प्रकृते हिपूर्व त्वविशिष्टशादेशस्य विधानेन शादेशे स्वरूपसम्बन्धेन पूर्वत्वस्य विशेषण- त्वेन प्रवृत्तिकाले तदभावे उद्देश्यगतत्वमात्रेण तदुपपादनस्याशक्यत्वा- दित्यलमसदर्थचिन्तनेनेति दिक् । परशब्दस्येष्टवाचित्वादिति । अपरमितिच्छेदेन पूर्वविप्रतिषेध- संग्रहस्तु न युक्तः । परविप्रतिषेधस्यासंग्रहापत्तेः, प्रमाणमन्तरेणावृत्तर- सम्भवाच्च ॥४१॥ नन्वेवमिति । परत्वाद्विकरणे इति । खश्चानशादौ विकरणस्या- वकाशो लिडादौ नियमस्यावकाश इति भावः। पूर्वविप्रतिषेधेन तु न निर्वाहः । तस्य भाष्योक्तस्थल एव स्वीकारात्। तिप्तसित्यादिसामान्यसूत्रेण १२ " Pig १७८ ] परिभाषेन्दुशेखरः [ बाधबीजकथने विकरणेभ्यो नियमो बलीयान् ॥ ४२ ॥ अत्र 'वृद्भ्यः स्यसनो' इति सूत्रेण स्ये विभाषाऽतविधानं ज्ञापकम् । अन्यथा स्यव्यवधाने नियमाप्रवृत्तौ सामान्यशास्त्रणोभ- यसिद्धौ विकल्पविधानं व्यर्थं स्यात् । अत्रार्थे ज्ञापिते तु स्य इति विषयसप्तमी बोध्येत्य'नुदात्तङित' इत्यत्र भाष्यकैयटयोः स्पष्टम् । विकरणव्यवधानेऽपि नियमप्रवृत्तेरिदं ज्ञापकमिति 'शदेः शित' इत्यत्र भाष्ये ध्वनितम्। वस्तुतोऽस्माज्ज्ञापकाद'नुदात्तडित' इत्या- दिप्रकरणं तिबादिविध्येकवाक्यतया विधायकम् । तत्र 'धातोरि'ति विहितपञ्चमी तत्समानाधिकरणम'नुदात्तडित' इत्यादिविहितवि- शेषणमेव । एवं च लावस्थायां स्येऽपि तद्वयवधाने तङ्सिद्धिः । विहितानामनुदात्तङिन्त इत्यादिनियमेनेतरनिवृत्तिरिति पक्षे इदम्बोध्यम्- तिवादिविध्येकवाक्यतया नियमसूत्राणां विधायकत्वमिति । सिद्धान्तपक्षे तु लकारावस्थायां सार्वधातुकपरत्वाभावात् परत्वाद्विकरण इत्युक्तिर- सङ्गता स्यात्। परत्वादिति । नित्यत्वस्योपलक्षणम् । अन्यथा विकरणस्य नित्यत्वेनातुल्यबलत्वाद्विप्रतिषेधसूत्राप्रवृत्तौ परत्वादित्यस्यासङ्गत्यापत्तिः। अन्यथा स्यव्यवधान इति । परिभाषाया अभावे परत्वात् लुट्स्थाने तिबादिसूत्रेण पदवये तङः परत्वात् स्यप्रत्यये तेन व्यवधानानियमाप्राप्त्यो- भयपदस्थित्यैव सिद्धे अतविधानं व्यर्थ सत्परिभाषाज्ञापकम् । ज्ञापितायां त्वस्यां स्यप्रवृत्तेः प्राक् नियमप्रवृत्तिवारणाय चरितार्थमिति भावः । नन्वस्यामवस्थायां स्यप्रत्ययपरत्वाभावात् कथं वृद्भ्यः स्यसनोरित्यस्य प्रवृत्तिरित्यताह-स्य इति तु विषयसप्तमीति। पक्षान्तरमाह-विक- रणव्यवधानेपीति । अस्मिन् पक्षे स्य इति परसप्तम्येव। विप्रतिषेध- शास्त्राबाधश्चेति लाघवम् । सिद्धान्तभूतं तृतीयं पक्षमाह-वस्तुत इति । तत्रेति । तिबादिसूत्रे इत्यर्थः। विहितपञ्चमीति । लुलुटोः परयोः प्रतिपदोक्तत्वात्स्यता- सिप्रत्यययोः प्रतिपदोक्तत्वात्स्यतासिप्रत्यययोः कृतयोः प्रवृत्त्यर्थं साऽऽ.

४२. विकरणेभ्यो नियमः ] विजयाऽलङ्कृतः [ १७९ शबादिभ्यस्तु पूर्वमेव नियमः । यद्वा लमात्रापेक्षत्वादन्तरङ्गा आ- देशा लकारविशेषापेक्षत्वात्स्यादयो बहिरङ्गा इति दिग्योगलक्षण- पञ्चम्यामपि न दोषः । अत्र पक्षे 'वृद्भ्यः स्य' इति सूत्रं स्यविष- य इति व्याख्येयम् । आत्मनेपदशब्दादौ भाविसंज्ञाश्रयणीयेति तत्त्वम् । भिन्नवाक्यतया सामान्यशास्त्रविहितानां नियमे तु लुगा- दिनेव नियमेन जातनिवृत्तिरङ्गीकार्या। भुक्तवन्तं प्रति मा भु- ङ्था इति ब्रूयात् । किं तेन कृतं स्यादिति न्यायस्तु नात्र शास्त्रे वश्यकीति भावः। शबादिभ्यस्तु पूर्वमेव नियम इति । तिबादिसू- त्रस्य परत्वेन तदेकवाक्यतया नियमस्यापि परत्वात्तम्बिना सार्वधातुक- परत्वाभावाच्चेति भावः । विहितपञ्चम्यां गौरवादाह-यद्वति । इदन्न युक्त सामान्यापेक्षाद्विशेषापेक्ष बहिरङ्गमित्यस्य भाष्यानारूढत्वेन खण्डयिष्य- माणत्वात्। अत्र पक्षे इति । स्यादीनां बहिरङ्गत्वेनान्तरङ्गत्वात्प्राप्तं निय- ममपवादत्वेन बाधित्वा वृद्भ्य इति प्रवर्तत इति बोध्यम् । न चेदानी स्यपरत्वाभावात् कथं प्रवृत्तिरित्यत आह-वद्भ्य इत्यादि । ननु जातस्य संज्ञाकरणात संज्ञया विधाने अन्योन्याश्रय इत्यत आह-प्रात्मनेपदश- ब्दादाविति । विहितानां नियमे दोषमाह-जातनिवृत्तिरिति। ननु भु- क्तवन्तं प्रति मा मुक्या इति निषेधेऽपि भोजनस्यानिवृत्तिरिवानापि जातस्यानिवृत्तिरित्यत आह-भुक्तवन्तं प्रतीति । ननु बलवदनिष्टान- नुबन्धित्वविशिष्टेष्टसाधनत्वं प्रकृत्यर्थक्रियान्वयि लिङाद्यर्थः निषेधार्थक- मादिशब्दयोगे च क्रियायां तदभावः प्रतीयते । तथा च भोजनं बलवदनि- ष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वाभाववदित्येव प्रतीयेत । तस्य च जाते- ऽपि भोजनेऽबाधितत्वेन बोधनसम्भवात् कथं तत्र तद्वाक्यं ब्यर्थमिति चेत्-न । विध्यर्थकलिङादिना प्रवृत्तिः, निषेधार्थकपदसमभिव्याहारे निवृत्तिश्च प्रकृत्यर्थक्रियायां प्रतीयते । जाते च भोजने निवृत्तेर्बाधितत्वेन तस्य वैयर्थ्यसम्भवात्। यत्तु विध्यर्थे लिङो विधानात् प्रवृत्तिजनकत्वेन तात्पर्यविषयत्वं तदर्थः । नबादिसत्त्वे च निवृत्तिजनकत्वेन तात्पर्यविषयत्वं भासते । तथा च कृत- भोजने निवृत्त्यप्रयोजकत्वेन तन्नरर्थक्यस्य स्पष्टत्वादित्युक्तं-तत्तु शाब्द- बोधरीत्यनवबोधविलसितम् ।

१८० ] परिभाषेन्दुशेखरः [ बाधबीजकथने आश्रयितुं युक्तो नियमादिशास्त्राणां वैयर्थ्यांपत्तेः । ध्वनितं चेदं 'स्थानेन्तरतम' इति सूत्रे भाष्ये । शास्त्रानर्थक्यं तु वृद्धिसंज्ञासूत्रे भाष्ये तिरस्कृतम् । सामान्यशास्त्रेणोत्पत्तिस्तु सरूपसूत्रस्थकैयटरी- त्या प्रधानानुरोधेन गुणभेदकल्पनात्तावत्प्रकृतिकल्पनया कार्या । प्रत्ययनिवृत्तौ च तत्कल्पितप्रकृतेरपि निवृत्तिः कल्प्येति गौरवमि- त्यन्यत्र विस्तरः ॥ ४२ ॥ परान्नित्यं बलवत्' । कृताकृतप्रसङ्गित्वात् । तत्राऽक्लृप्ताभा- । वैयापत्तेरिति । ननु तदपीष्टमेवेत्यत आह-तिरस्कृतमिति । वर्णेनाप्यनर्थकेन न भवितव्यं किम्पुनरियता सूत्रेणेति हि तत्सूत्रे भाष्यम् । ननु विहितानां नियमे सामान्यशास्त्रेण कथमेकस्माद्धातोः परस्यैकस्य ल- स्याष्टादशादेशाः। अष्टादशानां युगपदेकस्थानिकत्वबाधादित्यत आह- सामान्यशास्त्रेणेत्यादि । प्रकृत्यपेक्षया प्रत्ययः प्रधानमिति बोध्यम् । प्रत्ययनिवृत्ताविति । नियमशास्त्रेणेति शेषः॥४२॥ परान्नित्यं बलवदिति । स्वविशिष्टं शास्त्रं स्वापेक्षया बलवत् । उभयत्र वैशिष्ट्यं स्वप्रवृत्तिप्राक्कालिकप्राप्तिकत्वस्वप्रवृत्त्युत्तरकालिकप्राप्ति- कत्वस्वनिष्ठान्तरङ्गत्वानिरूपकत्वस्वनिष्ठापवादत्वानिरूपकत्वैतच्चतुष्टयस - म्बधेन । एवं च परस्याप्यनेनैव बलवत्त्वम् । अत एव परत्वान्नित्यत्वाच्चत्यत्र परत्वादित्युक्तिरेकदेशिन इत्युक्तं शेखरे । कृताकृतप्रसङ्गिबहिरङ्गोत्सर्गयो- बलवत्वाभावेऽपिन व्यभिचारः। तत्र निरुक्तहेतोरभावादिति बोध्यम्। कृता- कृतप्रसंगित्वस्य बलवत्त्वव्याप्यत्वे व्यभिचारशङ्कानिवारकानुकूलतर्कमाह- अक्लप्ताभावकस्येति । तुदतीत्यादौ शप्रत्यये कृते क्ङिति चेतिनिषेधेना- प्रवृत्तावपि प्राप्तिमात्रेण गुणस्यापि कृताकृतप्रसङ्गित्वशङ्का न कार्या। बाधकाबाधितप्रसङ्गास्यैव प्रकृते लक्ष्यानुरोधेन ग्रहणात् । आदिपदेन रुणद्धि १ पूर्वस्मिन् संस्करणद्वये 'परान्नित्यं बलवत्' इत्येव परिभाषारूपेण स्वीकृतं किन्तु परिभाषापाठात् चन्द्रिकाकारेण स्वीकृतत्वात् सिद्धान्तकौमुद्यां भट्टोजिदी- क्षितेनापि पठितत्वाच्च 'कृताकृतप्रसङ्गि नित्यं तद्विपरीतमनित्यमित्येव परिभा- षारूपेणात्राङ्गीकृतमिति सुधीभिर्विभावनीयमिति ।

४५. शब्दान्तरात् प्राप्नुवतः ] विजयाऽलङ्कृतः
[ १८१
वकस्याभावकल्पनापेक्षया क्लुप्ताभावकस्यैव तत्कल्पनमुचितमिति
नित्यस्य बलवत्त्वे बीजम् । तदाह-
कृताकृतप्रसङ्गि नित्यं तद्विपरीतमनित्यम् ॥ ४३ ॥
अत एव तुदतीत्यादौ परादपि गुणानित्यत्वात् शप्रत्ययादि-
भवति ॥४३॥
यद्व्यक्तिसम्बन्धितया पूर्व प्रवृत्तिस्तद्व्यक्तिसम्बन्धितयैव पु-
नः प्रवृत्तौ कृताकृतप्रसङ्गित्वमित्याशयेनाह-
शब्दान्तरस्य प्राप्नुवन्विधिरनित्यो भवति ॥ ४४ ॥
इदं 'शदेः शित' इति सूत्रे भाष्ये स्पष्टम् । तत्र हि न्यविशते-
त्यत्र विकरणे कृते तदन्तस्याट, अकृते विकरणे धातुमात्रस्ये-
त्यानित्य इत्युक्तम् ॥ ४४ ॥
एतत्तुल्यन्यायेनाह-
शब्दान्तरात् प्राप्नुवतः शब्दान्तरे प्राप्नुवतश्चानित्य-
त्वम् ॥ ४५ ॥
एतन्मूलकमेवाह-
रन्धयतीत्यादेः सङ्ग्रहः । तत्र श्नमो गुणापेक्षया रधिजभोरचीत्यस्योपधा-
वृद्ध्यपेक्षया नित्यत्वं बोध्यम् ॥ ४३ ॥
शदेः शित इतिसूत्रस्थभाष्यप्रामाण्यादेकव्यक्तिनिमित्तकमेव कृताकृत-
प्रसङ्गित्वंगृह्यते । तत्फलितमाह-शब्दान्तरस्य प्राप्नुवन्निति । शब्दा-
न्तरादिति । शब्दान्तरे इतिच। तदन्तस्येति विकरणविशिष्टस्यैव लङव्य-
वहितपूर्वस्वविशिष्टाङ्गत्वादिति भावः । एतत्फलन्तु इष्धातोस्सनि इडद्वि-
त्वयोः प्राप्ताविटि कृते षिशब्दस्याकृते इटिषशब्दस्य प्राप्तत्वेन व्यक्तिभेदेना-
नित्याद् द्वित्वादकृते कृतेऽपि सन एव प्राप्तत्वेन नित्यत्वात् पूर्वमिटि
षिशब्दस्य द्वित्वे एषिषिषतीति भवतीति ॥४४॥॥४५॥

१८२ ] परिभाषेन्दुशेखरः [ बाधबीजकथने लक्षणान्तरेण प्राप्नुवन्विधिरनित्यः ॥ ४६ ॥ अतिदेशविषय इयमसिद्धवत्सूत्रे कैयटेनोक्ता ॥ ४६॥ यदा तु शास्त्रव्यतिरेकेण तद्विधेयकार्ययोरेव नित्यत्वादिवि- चारो यदापि व्यक्तिविशेषाश्रयणाभावस्तदाह--- क्वचित्कृताकृतप्रसङ्गित्वमात्रेणापि नित्यता ॥४७॥ कृते द्वितीये नित्यत्वेनाभिमतस्य पुनः प्रसङ्गमानं नित्यत्व- व्यवहारे प्रयोजकं न तु बाधकाबाधितफलोपहितप्रसङ्ग एव तथेति भावः । तदाह- यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तद- नित्यम् ॥ ४८ ॥ क्वचित्तु बाधकाबाधितफलोपहितप्रसङ्ग एव गृह्यते । तदाह- यस्य च लक्षणान्तरेण निमित्तं विहन्यते तदप्यनि- त्यम् ॥ ४६ ॥ सप्तमे कैयटेनैतदुपष्टम्भकं लोकव्यवहारद्वयमुदाहृतम् । वालि- सुग्रीवयोयुध्यमानयोर्भगवता वालिनि हतेऽपि सुग्रीवस्य वालिनः - एवं कृताकृतप्रसङ्ग एकेनैव लक्षणेनापेक्ष्यत इत्येतत् फलितमाह-लक्ष- णान्तरेण प्राप्नुवन्निति। अत एव नुम्जरसोः प्राप्तयोः परत्वाजरसि- त्युक्तं भाष्ये । तुमो हि जरसादेशात्पूर्वमजन्तलक्षणेन जरसादेशादुत्तरं झल- न्तलक्षणेन प्राप्तत्वादनित्यत्वम् ॥ ४६॥ यदा तु लक्ष्यानुरोधात् ब्यक्त्यैक्यस्य लक्षणैक्यस्य वा ना- दुरस्तदा आह-क्वचित् कृताकृतेति ॥ ४७ ॥ यदा कृताकृतप्रसंगमात्रमपेक्षते न तु बाधकाबाधित एवेत्याग्रह- स्तदा पाह-यस्य च लक्षणान्तरेणेति । सप्तमाध्यायभाष्यव्याख्यावसर इत्यर्थः॥४८॥ एतदुपष्टम्भकमिति । एतत्परिभाषाद्वयज्ञापकमित्यर्थः। यथा भगव- ५१. असिद्धं बहिरङ्गमन्तरङ्गे] विजयाऽलङ्कृतः [१८.३ प्राबल्यं न व्यवहरन्ति । भगवत्सहायैः पाण्डवैजये लब्धेऽपि पाण्ड- वानां प्राबल्यं व्यवहरन्ति चेति । सर्वं चेदं लक्ष्यानुरोधाद्वयव- स्थितं 'लुटः प्रथमस्य' इतिसूत्रे भाष्ये । स्वरभिन्नस्य च प्राप्नुवन्विधिरनित्यो भवति ॥ ५० ॥ इति पठ्यते । यत्र त्वेकस्यैव कार्यस्य परत्वं नित्यत्वं च तत्रेच्छयान्यतरत्तदुभयं वा तस्य बलवत्त्वे नियामकमुल्लेख्यम् । अत एव तत्र तत्र परत्वान्नित्यत्वाच्चेति भाष्य उच्यते । वस्तुतस्तत्र परत्वादित्युक्तिरेकदेशिनः। स्पष्टं चेदं 'विप्र- तिषेधसूत्रे कैयटे। 'णौ चङि' इतिहस्वापेक्षया नित्यत्वान्त- रङ्गत्वप्रयुक्तद्वित्वस्य प्रथमतः प्रवृत्तौ नित्यत्वादित्येव भाष्य उक्तम् । एवं नित्यान्तरङ्गयोर्बलवत्वमपि यौगपद्यासम्भव एवेति बोध्यम् ॥ ५० ॥ नित्यादप्यन्तरङ्ग बलीयोऽन्तरङ्गे बहिरङ्गस्यासिद्धत्वात् । प्रयत्नेनैव सुग्रीवस्य पाण्डवानां च जयेऽविशिष्टेऽपि लोकाः बालिन प्रति सुग्रीवस्य प्राबल्यं न व्यवहरन्ति कौरवान् प्रति पाण्डवानां प्राबल्यं व्यवहरन्ति । तथा प्रकृतेऽपि लक्षणान्तरेण निमित्तविघातस्थलप्रसङ्गस्य बाधकाबाधितफलोपहितप्रसङ्गत्वाभावे अविशिष्टेऽपि कचिन्नित्यत्वं क्वचिदनित्यत्वमिति भावः ॥ ४९ ॥ नियामक मुल्लेख्यमिति । उभयोरपि बलवत्त्वप्रयोजकत्वादिति भावः। परत्वादित्यक्तिरेकदेशिन इति । नित्यत्वेन नित्यस्यानित्या- पेक्षयाऽधिकबलवत्त्वेन तुल्यबलत्वाभावेन विप्रतिषेधसूत्राप्रवृत्तिरिति भावः ॥ ५० ॥ नित्यादप्यन्तरङ्ग बलीय इति । इदन्तु अन्तरङ्गबहिरङ्गयोः सम- कालप्राप्तिकत्वे बोध्यम् । जातबहिरङ्गापेक्षया हि अन्तरङ्गस्य बलवत्त्व- बोधने फलाभावात् । नित्यादपीति । अपिशब्दात् परादपीति बोध्यम् । अन्तरङ्गञ्च उत्सर्गभिन्नं गृह्यते । तेनोत्सर्गरूपान्तरङ्गस्य बलवत्त्वाभा- वेऽपि न बाधः । तद्भिन्नस्यैव पक्षत्वात् । असिद्धत्वादिति । न चासिद्ध- १८४ ] परिभाषेन्दुशेखरः [ बाधबीजकथने असिद्ध बहिरङ्गमन्तरङ्गे ॥ ५१ ॥ अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्येऽन्तर्भूतान्यङ्गानि निमित्तानि यस्य तदन्तरङ्गम् । एवं तदीयनिमित्तसमुदायाद्वहि- ताङ्गकं बहिरङ्गम् । एतच्च ‘खरवसानयोः' इति सूत्रे 'असिद्धवत्'- सूत्रे च भाष्यकैयटयोः स्पष्टम् । अत्राङ्गशब्देन शब्दरूपं निमित्तमेव गृह्यते । शब्दशास्त्रे तस्यैव प्रधानत्वात् । तेनार्थनिमित्तकस्य न बहि- त्वस्य बहिरङ्गनिष्ठत्वेन हेतुसाध्ययोर्वैयधिकरण्यमिति वाच्यम् । अन्त- रङ्गत्वस्यैव हेतुत्वेन विवक्षितत्वात् । असिद्धत्वादित्यन्तग्रन्थस्तु अन्तरङ्ग- त्वस्य बत्तवत्त्वप्रयोजकतायामनुकूलतर्कस्य प्रतिपादकः । असिद्धत्वमभा- वप्रतियोगित्वम् । तथा च अन्तरङ्गदृष्टया बहिरङ्गस्याभावप्रतियोगित्वात्। अर्थादन्तरङ्गशास्त्रस्य बहिरङ्गशास्त्रविषयकज्ञानाभावात् विरोधिज्ञानाभा- वेन लक्ष्येऽन्तरङ्गस्य निश्शङ्कप्रवृत्तिः। बहिरङ्गस्य तु स्वविरोध्यन्तरङ्गज्ञा- नात् लक्ष्ये साशङ्कप्रवृत्तिरित्यन्तरङ्गस्य बलवत्वं लोके तथैव दर्शनात् । यद्वा अन्तरङ्गे बहिरङ्गस्यासिद्धत्वादिति हेतुरेव बहिरङ्गविषयकज्ञा- नाभावादित्यर्थः । तस्य चाभावस्यान्तरङ्गे पक्षसत्त्वान्न साध्यवैयधिकर- ण्यम् । तथा च स्वविशिष्टं शास्त्रे स्वापेक्षया बलवत् स्वविशिष्टत्वात् । उभयत्र वैशिष्ट्यं स्वनिष्ठापवादत्वानिरूपकत्वस्वनिरूपितान्तरङ्गत्वोभय- सम्बन्धेन । अथ वा स्वविषयकाज्ञानाभावो हेतुः । स च परिभाषालभ्य इत्याह-असिद्धं बहिरङ्गमन्तरङ्ग इति । अनेन जातस्य समकालप्राप्ति- कस्य च बहिरङ्गस्य ज्ञानाभावः । अन्तरङ्गशास्त्रे बोध्यत इत्यजातबहिर- ङ्गके लक्ष्ये इव जातबहिरङ्गकेऽपि लक्ष्ये अन्तरङ्गशास्त्रे प्रवर्तत इति बोध्यम् । अन्तरङ्गबहिरङ्गयोर्लक्षणे आह-अन्तर्मध्ये इत्यादि । अन्तरङ्ग- त्वबहिरङ्गत्वयोश्च सनिरूपकत्वेन सनिरूपितान्तरङ्गत्वे विवक्षितन्तदीयनि- मित्तसमुदायान्तर्भूतनिमित्तकत्वमन्तरङ्गत्वम् । यन्निरूपितं बहिरङ्गत्वं विव- क्षितं तदीयनिमित्तसमुदायबहिर्भूतनिमित्तकत्वं बहिरङ्गत्वमित्येव लक्षणं न त्वन्तरङ्गत्वे बहिरङ्गत्वस्य तस्मिन् वा तस्य प्रवेश इति नान्योन्याश्रयशङ्का । मूले अन्तरङ्गलक्षणे बहिरङ्गस्य बहिरङ्गलक्षणे अन्तरङ्गस्योपादानन्तु वस्तु- ५१. प्रसिद्ध बहिरङ्गमन्तरङ्गे] विजयाऽलङ्कृतः [ १८५ रङ्गत्वम् । अत एव 'न तिसृचतसृ' इति निषेधश्चरितार्थः । अन्य- था स्त्रीत्वरूपार्थनिमित्तकतिस्रपेक्षयाऽन्तरङ्गत्वात् त्रयादेशे तदस- गत्या तयोरेव सत्त्वेन बोध्यम् । स्वविशिष्टं शास्त्रं स्वापेक्षया अन्तरङ्ग स्ववि- शिष्टं स्वापेक्षया बहिरङ्गम् । आयेवैशिष्ट्यं स्वीयनिमित्तसमुदायघटकनिष्ठ- विषयताप्रयोजकसप्तम्यन्तपदघटितत्वसम्बन्धेन । अन्त्ये स्वघटकसप्तम्य- न्तपदप्रयोज्यविषयताश्रयघटितसमुदायनिमित्तकत्वसम्बन्धेन । स्वमुभयत्र शास्त्रम् । निमित्तत्वञ्च प्रवृत्तिप्रयोजकत्वमिति निर्गलितोऽर्थः । समन्वयो यथा-वाह ऊठ् इत्येतन्निमित्तसमुदायः विश्वौह इत्यत्र विश्ववाहरूपमङ्ग- न्तद्घटको ण्विः, शशः पूर्वस्याङ्गत्वात् । तन्निष्ठविषयताप्रयोजकं सप्तम्य- न्तमार्धधातुकपदन्तद्घटितत्वं गुणशास्त्रस्येति तस्य वाह ऊठित्येतदपेक्षया अन्तरङ्गत्वमेवं पुगन्तलघूपधस्य चेत्येतदपेक्षया तस्य बहिरङ्गत्वम्। स्वघ- टकसप्तम्यन्तम्पदमार्धधातुकपदम्। तत्प्रयोज्यविषयताश्रयो ण्विस्तद्घटि- तसमुदायो विश्ववाहूरूपमङगन्तन्निमित्तकत्वमूठशास्त्रस्येति दिक । अत एवेति । अर्थकृतबहिरङ्गत्वस्यानाश्रयणादेवेत्यर्थः । तिमृणामि- त्यत्र त्रिआमिति स्थिते त्रयादेशापेक्षया परत्वात् तिस्रादेशे सकृद्गतिन्यायेन त्रयादेशाभावे न तिस्निति दीर्घे निषिद्धे तिसृणामिति भवति । तत्र उभयोः शास्त्रयोः प्रकृतिप्रत्ययोभयापेक्षन्वेऽपि तिस्रादेशे स्त्रीत्वरूपार्थस्याधिकस्या- पेक्षितत्वेन बहिरङ्गत्वेनान्तरङ्गत्वात् त्रयादेशे स्थानिवद्भावेन प्राप्तमपि तिस्रादेशमुक्तरीत्यैव बाधित्वा नुटि तथैव दीर्घ ततस्तिस्रादेशे लक्ष्ये लक्षण- न्यायेन पुनर्दीर्घाप्राप्तौ न तिरिति निषेधो व्यर्थ इति बोध्यम् । ननु तिस्रादे- शशास्त्रे यथा स्त्रीत्वं निमित्तं तथा त्रयादेशे आमंशविशिष्टरूपोपादानस- त्त्वेनार्थोऽपि निमित्तमिति चेत्-न। तिस्रादेशे विभक्तिसंज्ञाया अपि निमि- त्तत्वात् । न च स्वरूपसूत्रबलेनाम्संज्ञाया अपि सत्त्वेन तदंशे साम्यम् । तथापि तिस्रादेशे त्रिशब्दांशे उपस्थितस्यार्थस्याधिक्यम्। ननु तवापि त्रयादेशे त्रिशब्दांशेअर्थोपस्थितिस्तुल्येति चेदत्रोच्यते-अर्थापेक्षमन्तरङ्गत्वं बहिरङ्गत्वं वदता नार्थगताल्पत्वाधिकत्वे अपेक्षणीये अर्थव्यक्तीनामा- नन्त्यात्तयोग्निर्धारयितुमशक्यत्वात् । किन्त्वर्थगतधर्मे विषयत्वे वा न्यून- त्वाधिकत्वे अपेक्षणीये । तथा च आमंशे अर्थोपस्थितावपि तत्रत्यार्थत्व- धमतस्त्रिशब्दांशे उपस्थितार्थत्वरूपधर्मस्य भेदाभावेनाधिकधर्मास्याना- श्रयणात् अवच्छेदकभेदेन विषयताभेदादर्थत्वावच्छिन्नविषयताया अप्ये- १८६ ] परिभाषेन्दुशेखरः [ बाधबीजकथने ङ्गतिः स्पष्टव । अत एव त्रयादेशे सन्तस्य प्रतिषेध इति स्थानिव- सूत्रस्थभाष्यवार्त्तिकादिः सङ्गच्छते । एतेन गौधेरः पचेदित्यादा- वयादीनामङ्गसंज्ञापेक्षत्वेन बहिरङ्गतयाऽसिद्धत्वाद्वलि लोपो न कत्वेनानाधिक्यात्। तथा च त्रयादेशेत्रित्वम् अर्थत्वम् आमसंज्ञा, तिस्रादेशे त्रित्वम अर्थत्वं विभक्तिसंज्ञेति धर्मत्रयनिमित्तकत्वे समानमधिकं स्त्रीत्वं निमित्तमिति तस्य बहिरङ्गत्वम् । अर्थस्य द्वेधा भानेप्यर्थस्यैक्येनार्थद्वयनिमि- तकत्वाभावादिति कश्चित्-तन्न। प्रकृत्यर्थप्रत्ययार्थयोरैक्यस्योपपादनास- म्भवात् । एतेनेति । अर्थकृतबहिरङ्गत्वस्यानाश्रयणेनेत्यर्थः । गौधेर इति । गोधाशब्दात् ढकि आयनेयीतिसूत्रेण ढकारस्यैयादेशे आकारलोपे यलोपे गौधेर इति सिद्धयति । अर्थकृतान्तरङ्गत्वबहिरङ्गत्वग्रहणे प्रत्ययसंज्ञाद्वया- श्रितत्वेन बहिरङ्गतया एयादेशस्य लोपं प्रत्यसिद्धत्वात् यलोपो न स्या- त्। यलोपेऽपि वललोपसंज्ञाद्वयाश्रयणेनोमयोस्साम्यमेवेति चेत्-न । लोप- संज्ञाया विधेयकोटावाश्रयणेन निमित्तत्वाभाव इत्याशयात् । अत एवारुचेः पचेदित्यस्योपन्यासाच्च । पचेदित्यत्र हि इयादेशे अत्संज्ञासार्वधातुकसंज्ञा- यासंज्ञानां तिसृणामुपादानेन संज्ञाद्वयापेक्षलोपापेक्षयैकस्या आधिक्येन बहिरङ्गत्वम् । ननु स्वमतेऽपि एयादेशेयादेशयोनिमित्तसमुदायो इति अयात् इति तदन्तर्भूतो प्रिति यत् इति समुदायस्तन्निमित्तकत्वेन वलिलो- पस्यान्तरङ्गत्वेनतदपेक्षया तयोरसिद्धत्वं दुर्वारम् । नच यकारस्यादेशावय- वत्वेन निमित्तसमुदायान्तर्भूतत्वाभावेन तद्घटितवर्णद्वयात्मकसमुदायस्य निमित्तसमुदायान्तर्भूतत्वाभाव इति न दोष इति वाच्यम् । स्थानिद्वारा यकारस्यापि तदन्तर्भूतत्वात्। अत एवाक्षयूरित्यादावूठो यणपेक्षया बहिर- गत्वेन नाजानन्तर्य इत्यस्यावतरणं संगतमन्यथोकारस्योठशास्त्रीयनिमित्त- समुदायान्तर्भूतत्वाभावेन यणोऽन्तरङ्गत्वाभावात्तदसङ्गतः । स्थानिद्वार- कान्तर्भूतत्वमादायैव ज्ञापकपरभाष्यसंगतिश्चा । अन्यथा विश्वौह इत्यादौ सम्प्रसारणस्य वाह ऊठित्येतन्निमित्तसमुदायान्तर्भूतत्वाभावेन लघूपधगुणे लघ्वादिपदेन तस्याश्रयणेन तस्यान्तरङ्गत्वाभावेन ज्ञापितेऽपि स्वांशे चारि- तार्थ्याभावेनासंगत्यापत्तेः । अङ्गपदेन सप्तम्यन्तपदेनाश्रीयमाणस्यैव ग्रहणस्य वक्ष्यमाणत्वेन षष्ठ्यन्तपदोपात्तयकारस्य बहिर्भूतत्वेपि क्षत्यभा- वाच । यकारस्य विधेयान्तर्गतत्वेन स्वघटकेतरानिमित्तकत्वसम्बन्धस्यापि निमित्तसमुदायवैशिष्ट्यनियामकतया प्रवेशेन लोपस्यान्तरङ्गत्वाभाववर्णनं ५१.असिद्धं बहिरङ्गमन्तरङ्गे] विजयाऽलङ्कृतः [ १८७ स्यादिति परास्तम् । एयादेशादेरपरनिमित्तकत्वेनान्तरङ्गत्वाच्च । केषाञ्चित्तु-न युक्तम् । उक्तावतरणज्ञापकभाष्ययोरसङ्गत्यापत्तेः । तद्वद- त्रापि प्राप्तश्च । परनिमित्तकत्वेन लोपस्य बहिरङ्गत्वन्न युक्तमियादेशस्यापि पूर्वनिमित्त- कत्वेन साम्यादित्यपि कस्यचिदुक्तं हेयमेव । अपरनिमित्तकत्वेनान्तरङ्ग- त्वाञ्चेतिमूलग्रन्थविरोधात् । ऊकाल इत्यत्र समाहारद्वन्द्वोपपादकत्वेन निषादस्थपत्यधिकरणोपन्यासोप्यनुपयुक्तोऽयुक्तश्च । अपरनिमित्तकत्वे- नान्तरङ्गत्वाच्चेति । अयम्भावः । अन्तरङ्गत्वाभावविशिष्टबहिरङ्गस्यै- वासिद्धत्वं परिभाषया बोध्यत इति गौधेरः पचेदित्यादिलक्ष्यानुरोधात् कल्प्यते । एयादेशेयादेशयोरुक्तरीत्या बहिरङ्गत्वेऽपि अपरनिमित्तकत्व- रूपान्तरङ्गत्वस्यापि सत्त्वेनान्तरङ्गत्वाभावविशिष्टबहिरङ्गत्वाभावेन लोपह- ष्ट्याऽसिद्धत्वाभाव इति । वस्तुतस्तु अन्तर्भूतनिमित्तकत्वमपरनिमित्तकत्वं शीघ्रोपस्थितिनिमि- त्तकत्वमित्याद्यनेकविधमन्तरङ्गत्वम् । बहिरङ्गत्वन्तु अन्तरङ्गत्वेन विव- क्षितं यच्छास्त्रं तन्निरूपितान्तरङ्गत्वप्रयोजकधर्माभाववत्त्वरूपमेकविधमेव। प्रकृते अन्तरङ्गत्वप्रयोजकधर्मस्यापरनिमित्तकत्वरूपस्य सत्त्वेन बहिरङ्ग- त्वाभावात् न तयोरसिद्धत्वमिति बोध्यम् । अथापरनिमित्तकत्वरूपान्त- रङ्गत्वे किं प्रमाणमिति चेत्-अत्रोच्यते । अतोऽमितिसूत्रे तपरकरणमेव मानम् । तद्धि दीर्घव्यावृत्त्यर्थं नपुंसके च हस्वस्यैव सर्वत्र सत्त्वेन तद्व्यर्थ सदपरनिमित्तकत्वमन्तरङ्गत्वमिति ज्ञापयति। ततश्च अश्व आश्चेति समा- हारद्वन्द्व सुपो लुकि अआइति स्थिते सवर्णदीर्घापेक्षया अपरनिमित्तक- स्वरूपान्तरङ्गत्वेन पूर्व ह्रस्वे ततो दीर्घे लक्ष्ये लक्षणन्यायेन पुनर्हस्वत्वा- प्राप्तावत इति तपरकरणे सोरमादेशाभावेन सोलुंकि श्रा इति सिद्धयति । अन्यथा परत्वादीधै ततो ह्रस्वे व्यावालाभेन तस्य वैयर्थ्यं स्यादिति बोध्यम् । अत एव समाहारद्वन्द्वे न उकाल इति न कृतम् । स्वीकृते तु तस्मिन् उश्च ऊश्च उ३श्चेति समाहारद्वन्द्वेऽपरनिमित्तकत्वेनान्तरङ्गत्वात् पूर्व ह्रस्वे ततो दीर्घ उक्तन्यायात्पुनर्हस्वाप्राप्त्या उकाल इति न कृतमिति बोध्यम् । न चादसोऽसे दुदो म इत्यत्र उश्च ऊश्चेति समाहारद्वन्द्व इति कौमुदीविरोधः । उक्तरीत्यान्तरङ्गत्वात्पूर्व हवे ततो दीर्घ ह्रस्वरूपासि- द्धेरिति वाच्यम् । तस्या एतद्रूषणेनैव दूषितत्वात् । भाव्यमानोप्युकारः १८८] परिभाषेन्दुशेखरः [ बाधबीजकथने सवर्णान् गृह्णातीत्यनया ह्रस्वोकारमात्रोच्चारणेनैव ह्रस्वदीर्घयोर्विधानस्य शेखरकृता प्रतिपादनाच्च । विकरणेभ्यो नियमो बलीयानित्येतज्ज्ञापन विभाषा परस्मैपदविधानेनापरनिमित्तकत्वमन्तरङ्गत्वमित्यस्यैव ज्ञापनेन पचते इत्यादौ विकरणेभ्यः पूर्वमपरनिमित्तकत्वेनान्तरङ्गत्वादात्मनेपद- सिद्धौ विकरणेभ्य इत्यस्या अपि एतन्मूलकत्वमेवेति बोध्यम् । ननु ज्ञापि- तेऽपि तदन्तरङ्गत्वे उ ऊ इति स्थिते ह्रस्वस्यापरनिमित्तकत्वेनान्तरङ्गत्वं दीर्घस्यान्तर्भूतनिमित्तकत्वमन्तरगत्वमित्युभयोस्साम्यमेवेति चेत्-न।ब- हिरङ्गत्वेन विवक्षितशास्त्रघटकसप्तम्यन्तपदेनाश्रीयमाणसमुदायघटकवृत्ति- विषयताप्रयोजकसप्तम्यन्तपदघटितत्वस्यैवान्तरङ्गत्वरूपत्वात् । ह्रस्ववि- धायके चोपयुक्तसप्तम्यन्ताभावेन दीर्घस्यान्तरङ्गत्वाभावात्। न च वाह ऊठ् इत्यत्र सप्तम्यन्तपदाभावेन पुगन्तलघूपधस्य चेत्यस्य तं प्रत्यन्तरङ्गत्वा- भावेन ज्ञापकतापरभाष्यविरोधापत्तिरिति वाच्यम् । समकालप्राप्तिकान्त- रङ्गत्वकुक्षावेवोभयत्र सप्तम्यन्तपदस्य प्रवेशनीयत्वात् । ज्ञापकपरभाष्यन्तु जातासिद्धत्वाभिप्रायकम् । तत्र चान्त एव सप्तम्यन्तपदप्रवेश इत्यदोषात् । ननु समकालप्राप्तिकान्तरङ्गत्वलक्षणे उभयत्र सप्तम्यन्तपदप्रवेशे अन्तरङ्ग- स्वादिय रियति पियतीति भाष्यविरोधस्तत्र गुणशास्त्रीयसप्तम्यन्तपदेना. श्रीयमाणस्तिप तदन्तर्भूतनिमित्तकत्वाभावादियङ: रि अ इत्येतदन्तर्भूत- निमित्तकत्वेऽपि तस्य सप्तम्यन्तपदेनानाश्रयणादिति चेत्-न । शीघ्रोपस्थि- तिनिमित्तकत्वरूपान्तरङ्गत्वस्येयङरसत्त्वेनादोषात् । अत एव नन्वेवम- सुनुवदित्यादौ लघूपधगुणादुवङोऽल्पनिमिकत्वाभावादुवङ् न स्यादिति शंकाग्रन्थ उपपद्यतेऽन्यथा गुणशास्त्रीयाङ्गपदेनाश्रीयमाण: असुजुत्र इति समुदायस्तदन्तभूतोऽकारस्तनिमित्तकत्वेनोवङोऽन्तरङ्गत्वात् शङ्काया उ- स्थानाभावात्। मम तु गुणशास्त्रीयसप्तम्यन्तपदेनाश्रीयमाणान्तर्भूतनिमित्तकत्वस्यो- वङोऽभावात् सोपपद्यते शीघ्रोपस्थितिनिमित्तकत्वेन च समाहितम् । अत एव च स्योन इत्यत्र ऊनशब्दमाश्रित्ययणादेशो न शब्दमाश्रित्य गुण इति भाष्ये सप्तम्यन्तपदेनाश्रीयमाणशब्दमादायैवान्तरङ्गत्वमु- क्तम् । ननु तत्रैवान्तरङ्गत्वाद्यणो गुणबाधकत्वमिष्यत इति सिद्धान्त- भाष्यविरोधः । यणशास्त्रे गुणशास्त्रीयसप्तम्यन्तं यत्तदाश्रीयमाणसमु- दायान्तर्भूतनिमित्तकत्वरूपान्तरङ्गत्वाभावादिति चेत्-न । शीघ्रोपस्थिति- निमित्तकत्वरूपान्तरङ्गत्वस्य यणि सत्त्वात् । ननु उभयत्रसप्तम्यन्तप- दघटितान्तरङगत्वस्य किम्फलं कश्च इश्व ईशश्चेतिद्वंद्व क इ ईशति स्थिते ५१. असिद्धं बहिरङ्गमन्तरङ्गे] विजयाऽलङ्कृतः [ १८६ परमपि सर्वणदीर्घ बाधित्वाऽन्तरङ्गत्वाद्गुणे अयादेशे कयीशा इति सिद्धयति । अन्यथा परत्वाद्दीर्घ गुणे केशा इति स्यादिति समका- लप्राप्तिकबहिरङ्गासिद्धत्वस्य मूर्धाभिषिक्तोदाहरणस्यापि शीघ्रोपस्थि- तिनिमित्तकत्वरूपान्तरङ्गत्वे नैव सिद्धेरिति चेत्-नास्तीति गृहाण । नन्व- परनिमित्तकत्वरूपान्तरङ्गत्वस्वीकारे नामीत्यत्रामीतिन्यासे राम आमि- तिस्थिते नित्यत्वादीघे नुट् न स्यादित्येतत्प्रतिपादकभाष्यासङ्गतिः । अप- रनिमित्तकत्वरूपान्तरङ्गत्वस्य नुटस्सत्त्वेन तस्यैव पूर्व प्रवृत्तेः दुषती- त्यादौ दिवस इति स्थिते परमपि ऊठं बाधित्वाऽपरनिमित्तकत्वेनान्त- रङ्गत्वात्पूर्व प्रथमैकाचोदिशब्दस्यैव द्वित्वेऽभ्यासे उकारश्रवणानापत्तिः । जहथेत्यादौ गुणे औपदेशिकाजन्तत्वमादाय थल इटो निषेधाय अच- स्तास्वत्थल्यनिटो नित्यमिति सूत्रे भाष्यकृत्कृतस्योपदेशपदानुवर्तनस्य वैयापत्तिश्चापरनिमित्तकत्वेनगुणापेक्षयान्तरङ्गत्वात् पूर्वमिटो निषेधसि- द्धेरिति चेत्-न । उक्तभाष्यादपरनिमित्तकादेशविधायकत्वमन्तरङ्गत्वमिति स्वीकारात् नुद्वित्वनिषेधानामनादेशत्वेनादोषात् । जहङ्केत्यत्र गुणात्पूर्व प्राप्तस्येटो निषेधे गुणे पुनः प्राप्तस्येटो निषेधायोपदेशपदानुवृत्तेरावश्यक- त्वाच्च । यदि च अतोमित्यादौ तपरत्वं मुखसुखार्थमेव । अश्च आश्चेतिसमा- हारद्वन्द्वे अमित्येव रूपम्भवति । अकाल इत्यत्र समाहारद्वन्द्वेन ह्रस्वोकारो- च्चारणे लाघवस्य सत्त्वेऽपीशलाघवस्य नादरः । अत एव लाघवात् समा- हारद्वन्द्वेन षट्चतुर इति अस्थिदधिसक्थ्यक्षण इति च न्यासं विहाय इत- रेतरयोगेन षट्चतुर्यः अस्थिदधिसक्थ्यक्षणामितिगुरुन्यासः कृत इति मन्यते तदा अपरनिमित्तकत्वमन्तरङ्गत्वम्मास्तु। गौधेरः पचेदित्यादावन्त- भूतनिमित्तकत्वेन लोपस्यान्तरङ्गत्वात्तं प्रति एयियादेशयोरसिद्धत्वेन वलि लोपो न स्यादिति तु न । वलि लोपे अन्तरङ्गपरिभाषाया अप्रवृत्तिकल्पना- त् वृश्चतीत्यादौवलि लोपदृष्ट्या संप्रसारणासिद्धत्वप्रतिपादनपरभाष्यवि- रोधस्तु न ।जातबहिरङ्गासिद्धत्वाभावस्यैव कल्पनात् । अत एव नोपयती- त्यादौ णिजपेक्षपुको यलोपदृष्ट्यानासिद्धत्वं चे ले क्लोपेरिति निर्देशश्चोप- पन्नः । यायावरःजातिरित्यादौ यङोऽकारलोपस्य प्रत्ययनिमित्तकस्य यलोपे नासिद्धत्वमिति केचित् । नागेशानुयायिनस्तु अग्निष्ठान्यानन्तर्यनिमित्तके कार्ये कर्त्तव्ये कृते च यदन्तरङ्गं प्राप्नोति तत्र कर्त्तव्ये बहिरङ्गासिद्धत्वनेत्यर्थकेन नाजान- न्तर्य इत्यनेनैवोक्तदोषाणां परिहार इति वदन्ति । संज्ञाकृतबहिरङ्गत्वाश्रय- १६० ] परिभाषेन्दुशेखरः [ बाधबीजकथने ननु 'येन विधिस्तदन्तस्य' इति सूत्रे भाष्ये 'इको यणचि' इत्यादावपि तदन्तविधौ स्योन इत्यत्रान्तरङ्गत्वाधणो गुणबाधक- त्वमिष्यते तन्न सिद्धयेत् । ऊनशब्दमाश्रित्य यणादेशो नशब्द- माश्रित्य गुण इत्यन्तरङ्गत्वाद्गुण एव स्यादित्युक्तम् । अत्र कैयटः-सिवे_हुलकादौणादिके नप्रत्यये गुणवलोपोठां प्रसङ्गे ऊठ अपवादत्वाद्वलि लोपं बाधते । गुणं त्वन्तरङ्गत्वाद्- बाधते । गुणो ह्यङ्गसम्बन्धिनीमिग्लक्षणां लध्वीमुपधामार्द्धधातुकं चाश्रयति । ऊठ तु वकारान्तमङ्गमनुनासिकादिं च प्रत्ययमित्यल्पा- पेक्षत्वादन्तरङ्गः। तत्र कृते यण्गुणौ प्राप्नुत इति । एवं च संज्ञापे- तस्यापि बहिरङ्गत्वं स्पष्टमेवोक्तमिति चेत्-न । तदन्तविधावपि बहुपदार्थापेक्षत्वरूपबहिरङ्गत्वस्य गुणे सत्त्वेन तत्र दोषकथनपरभा- प्यासङ्गतेः । बहिरङ्गान्तरङ्गशब्दाभ्यां बहपेक्षत्वाल्पापेक्षत्वयोः शब्दमर्यादयाऽलाभाच्च । तथा सत्यसिद्धं बह्वपेक्षमल्यापेक्ष इत्येव णपरकैयटविरोधं स्वमते उपपाद्य खण्डयति-नन्विति । इको यणची- त्यादावपि तदन्त विधाविति । येन विधिरितिसूत्रेण विशेषणमात्रस्य तदन्तसंज्ञकत्वे तदपवादभूताया यस्मिन्विधिस्तदादावल्ग्रहण इतिपरिभा- पाया अपि प्रकारमात्रपरसप्तम्यन्ते प्रवृत्त्यापत्तौ इको यणचीत्यादावचीति- पदस्यापि अजादावित्यर्थे इत्यर्थः । अपवादत्वादिति । अनुनासिक- निमित्तकस्योठोऽपवादत्वादित्यर्थः । एतेन दिवधातोर्णिजन्तात् किपि हिलोपे तस्य स्थानिवद्भावाद्वलोपाप्राप्त्या तत्रोठश्चारितार्थ्यनापवादत्वा- भावः । अठि तु न स्थानिवत्वं को विधि प्रतीतिनिषेधादित्यपास्तम् । अन्तरङ्ग इति । पञ्चसंज्ञापेक्षगुणापेक्षया संज्ञात्रयापेक्षस्योठोऽन्तरङ्गत्व- मिति भावः। तदन्तविधावपीति । इको यणचीत्यादौ तदादिविधि- नाऽजादावित्यर्थेऽपि सि ऊन इति समुदायस्योभयत्राश्रयणेऽपि संज्ञा- द्वयापेक्षयणपेक्षया पञ्चसंज्ञासापेक्षगुणस्याधिकसंज्ञासापेक्षत्वेन त्वद्रीत्या बहिरङ्गत्वस्यैव सत्त्वेन गुणस्यान्तरङ्गत्वप्रतिपादनपरभाष्यासङ्गत्यापत्त्या संज्ञाकृतं गुणस्योठं प्रति बहिरङ्गत्वं न युक्तमिति भावः । शब्दमर्यादये- ५१. प्रसिद्ध बहिरङ्गमन्तरङ्गे ] विजयाऽलङ्कृतः [ १६१ वदेत् । अत एव 'विप्रतिषेध' सूत्रे भाष्ये गुणाधणादेशोऽन्तरङ्गत्वा- दित्यस्य स्योन इत्युदाहरणं न तु गुणादृट् अन्तरङ्गत्वादित्यु- क्तम् । त्वद्रीत्या तदपि वक्तुमुचितम् । प्राथम्यात्तदेव वा वक्तु- मुचितम् । मम त्वन्तरङ्गपरिभाषया तद्वारणासम्भवात्तन्नोक्तम् । किं च सिद्धान्ते नित्यत्वात् गुणात् पूर्वमूठ गुणस्तु ऊठि यणा बाधितत्वादनित्यः। ऊनशब्दमाश्रित्येत्यादिभाष्येण च परिभाषा- यामङ्गशब्देन सप्तम्याधन्ततयोपात्तं शब्दरूपं निमित्तमेव गृह्यत इति स्पष्ट मेवोक्तम् । ति। शब्दशक्त्येत्यर्थः । तपासतीति । बहुपदार्थापेक्षत्वाल्पपदार्थापेक्षत्व- योरन्तरङ्गबहिरङ्गत्वप्रयोजकत्वे इत्यर्थः । वदेदिति।भाध्यकार इतिशेषः । अत एवेति । गुणापेक्षयोठोऽन्तरङ्गत्वाभावादेवेत्यर्थः। त्वदीत्येति । संज्ञाकृतमपि बहिरङ्गत्वमिति रीत्येत्यर्थः । तदपोति । गुणादूठोऽन्तर- ङ्गत्वमपीत्यर्थः। ननु तद्विना गुणाद्यणादेशोन्तरङ्गत्वादितिकथनासङ्गत्या तदपि कथि- तप्रायमित्यत आह-प्राथम्यादिति । ननु स्वमतेऽपि गुणाद्यणादेश इति भाष्यस्योपपत्तये गुणापेक्षया पूर्वमूठः प्रवृत्तिरावश्यकी । सा कथं स्यादि- त्यत आह-किञ्चति । किन्त्वित्यर्थः । सिद्धान्ते इति । स्वमत इत्यर्थः । यणा बाधितत्वादिति । लक्ष्यानुरोधात् बाधकाबाधितकृताकृतप्रसङ्ग- त्वरूपनित्यत्वस्याश्रयणादिति भावः । परिभाषायामङ्गशब्दनेति। परि- भाषाघटकान्तरङ्गशब्दघटकाङ्गशब्देनेत्यर्थः । यथाश्रुतन्तुन युक्तं, वाह ऊठ्- सूत्रे सप्तम्यन्तपदाभावेन ज्ञापकतापरभाष्यासङ्गत्यापत्तेः । तथा च बहिर- ङ्गत्वेन विवक्षितं यच्छास्त्रं तद्घटकपदप्रयोज्यविषयताश्रयघटकवृत्तिविषय- ताप्रयोजकसप्तम्यन्तपञ्चम्यन्तान्यतरपदघटितत्वमन्तरङ्गत्वमिति लभ्यते। बहिरङ्गत्वेन विवक्षितं वाह ऊठसूत्रं तद्घटकाङ्गभपदप्रयोज्यविषयताश्रयो विश्ववाह इति समुदायस्तद्घटको विस्तदन्तस्यैव शशाद्यव्यवहितपूर्व- त्वेन भत्वात् तन्निष्ठविषयताप्रयोजकं सप्तम्यन्तपदमार्धधातुकपदं तद्घटितं पुगन्तलघूपधस्येति सूत्रमिति तदन्तरङ्गम् । अन्तरङ्गत्वेन विवक्षितं यच्छा- खं तद्घटकसप्तम्यन्तपदप्रयोज्यविषयताश्रयघटितवृत्तिविषयताप्रयोजकप- १६२ ] परिभाषेन्दुशेखरः [ बाधबीजकथने यत्तु कैयटेन तदन्तविधिपक्षे परत्वाद्गुणः प्राप्नोतीत्युक्तं त- तूनशब्दमाश्रित्येत्यादिभाष्यासङ्गत्या चिन्त्यम् । वलि लोपेऽन्त- रङ्गपरिभाषा न प्रवर्तते इति तु न युक्तम् । तत्सूत्रे भाष्य एव ब- श्चादिषु लोपातिप्रसङ्गमाशङ्कयोपदेशसामर्थ्यान्न । न च वृश्चती- त्यादौ चारितार्थ्यम् । बहिरङ्गतया संप्रसारणस्यासिद्धत्वेन पूर्वमेव तत्प्राप्तेरिति भाष्योक्तः। यत्तु नलोपस्य षट्संज्ञायामसिद्धत्वात्पञ्चेत्यत्र 'न षट्' इति निषेध इति तच्चिन्त्यम् । न लोपस्य हि पदसंज्ञासापेक्षत्वेन बहि- रङ्गत्वं वाच्यम् । तच्च न । संज्ञाकृतबहिरङ्गत्वस्यानाश्रयणात् । दघटित्तत्वं बहिरङ्गत्वम् । अन्तरङ्गत्वेन विवक्षितञ्च पुगन्तलघूपधस्य चेति शास्त्रं तद्घटकसप्तम्यन्तपदमार्धधातुकपदं तत्प्रयोज्यविषयताश्रयो ण्वि- स्तदुघटितं विश्ववाहिति तनिष्ठविषयताप्रयोजकमङ्गपदं तद्घटितं वाह ऊठसूत्रं तद्बहिरङ्गमिति लक्षणसमन्वयः। कार्यकालपक्षेऽङ्गभसंज्ञाशास्त्र- कवाक्यतया वाह ऊठसूत्रस्यापि प्रत्यये यचीत्यादिसप्तम्यन्तपद्घटितत्वम- स्त्येवेति तु न वाच्यम् । स्वमते संज्ञाशास्त्राणां विधिशास्त्रणकवाक्यतायाः शब्देन्दुशेखरे खण्डितत्वात् । तावतापि समन्वयासम्भवाच्च । परमिदं जातासिद्धत्वप्रयोजकान्तरङ्गबहिरङ्गभावस्थल एव । समकालप्राप्तासिद्ध- त्वस्थले तु उभयत्र सप्तम्याद्यन्ततयोपात्तमेवाङ्गपदेन गृह्यत इति पूर्वमुक्तम् । गौधेर इत्यादावेयादेशादेवलि लोपापेक्षयाऽसिद्धत्वाभावाय चेलेकोपेरिति निर्देशेन वलि लोपेऽन्तरङ्गपरिभाषा न प्रवर्तत इति ज्ञाप्यते। अन्यथायलो- पापेक्षया णिज्निमित्तपुको बहिरङ्गत्वेनासिद्धत्वाद्यलोपाप्राप्त्या निर्देशासङ्ग- त्यापत्तेरिति प्राचीनोक्तं खण्डयति-वलि लोप इत्यादिना। अत्र यद्वक्त- व्यन्तदुक्तम्-वृश्चतीत्यादावित्यादि । इदं यथा नोपपन्नं तथोक्तम् । पञ्चे- त्यत्र टापोऽभावाय षट्संज्ञा वक्तव्या। तदर्थञ्च कार्यकालपक्षे षट्संज्ञादृष्टया नलोपासिद्धत्वमवश्यं वक्तव्यम् । तच्च संज्ञाकृतबहिरङ्गत्व एवोपपद्यत इति संज्ञाकृतमपि बहिरङ्गत्वं वक्तव्यमित्याशङ्कय समाधत्ते-यत्त्वित्यादिना । ।

५१. प्रसिद्धं बहिरङ्गमन्तरङ्ग] विजयाऽलङ्कृतः [ १६३ पञ्चेत्यत्र निषेधस्तु स्त्रियां यत् प्राप्नोति तोति व्याख्यानसाम- येन भूतपूर्वषट्त्वमादायेति बोध्यम् । अत एव कृति तुगग्रहणं चरितार्थम् । वृत्रहभ्यामित्यादौ पदत्वनिमित्तकत्वेऽपि नलोपस्य बहिरङ्गत्वाभावात् । भ्यामः पदसंज्ञानिमित्तत्वेऽपि नलोपस्य तनिमित्तकत्वाभावात् । परम्परया निमित्तत्वमादाय बहिरङ्गत्वा- श्रयणे तु न मानम् । ध्वनितं चेदं 'नलोपः सुप्' इति सूत्रे भाष्य इति तत्रैव भाष्यप्रदीपोद्योते निरूपितम् । - पञ्चेत्यत्र निषेधस्त्विति । ननु नलोपः सुवित्यादिना षट्संज्ञादृष्ट्या नलोपासिद्धत्वं किन्न स्यादिति चेत्-न। तत्र संज्ञापदेन घिसंज्ञाया एव ग्रह- णस्य तत्सूत्रस्थभाष्यतो लाभात् । तत्र हि दत्तदण्डिनौ दण्डिदत्तावित्यादौ नलोपस्य घिसंज्ञादृष्ट्याऽसिद्धत्वेन घित्वाभावात् पूर्वनिपातानियम फलम- क्त्वा यदाधित्वन्तदा पूर्वनिपातो यदा पूर्वनिपातस्तदा नलोपे घित्वमित्य- न्योन्याश्रयमाशङ्कय संज्ञाग्रहणसामर्थ्याद्यस्य पूर्वपदत्वे धित्वं भावि तस्य पूर्वनिपात इत्यर्थेन समाहितम् । अन्यस्या अपि संज्ञाया ग्रहणे षट्संज्ञाह- ध्या नलोपासिद्धत्वेन सार्थक्यसम्भवात् । सामोक्तेरसङ्गत्यापत्तेः । द्वन्द्वे धिरित्यस्यैतादृशार्थे फलं धुलिहौ ग्रामणिराजानावित्यादि बोध्यम् । व्या- ख्यानसामर्थ्यनेति । अन्यथा षडादिभ्यष्टापोऽसम्भवात् ङीप न स्यादि- त्येव वदेदिति भावः। वस्तुतस्तु व्याख्यानसामर्थ्येनेत्यस्य व्याख्यानबलेने- त्यर्थः। भूतपूर्वषट्त्वमादायेत्यस्य लुगर्थं पूर्व भूतं जातं यत् पट्त्वं संके- तसम्बन्धेन षट्पदवत्त्वरूपं तत् स्थानिवद्भावेनादायेत्यर्थः । यथाश्रुतन्तु न युक्तम् । प्रियपञ्चाद्रौपदीत्यत्र डापोऽभावाय ताहशव्याख्यानस्यावश्यकत्वेन सामर्थ्यस्योपक्षीणत्वात् । अत एवेति । संज्ञाकृतबहिरङ्गत्वस्यानाश्रयणा- देवेत्यर्थः । नाजानन्तर्य्यपरिभाषा तु नास्त्येवेति भावः । वस्तुतस्तु नाजानन्तर्यपरिभाषाया अभावेऽपि तत्स्थले बहिरङ्गपरि- भाषाया अनित्यत्वाश्रयणेन नेदं संज्ञाकृतबहिरङ्गत्वानाश्रयणे लिङ्गम् । वृचहभ्यां इभ्यामित्यादावन्तर्भूतनिमित्तत्वरूपान्तरङ्गत्वस्यापि सत्त्वाच्च । ध्वनितमिति । चत्र हि सन्निपातपरिभाषया वृत्रह यामित्यादौ तुगभाव- मुपपाद्य कृत्तुग्ग्रहणं प्रत्याख्यातं न त्वन्तरङ्गपरिभाषया। वाक्यार्थबोधे १६४ ] परिभाषेन्दुशेखरः [ बाधबीजकथने अन्तरङ्गे कर्त्तव्ये जातं तत्कालप्राप्तिकं च बहिरङ्गमसिद्धमि- त्यर्थः । वृश्चत्यादिषु पदसंस्कारपक्षे समानकालत्वमेव द्वयोरिति बोध्यम् । एतेनान्तरङ्ग बहिरङ्गाबलीय इति परिभाषान्तरमित्य- पास्तम् । एनामाश्रित्य 'विप्रतिषेध'सूत्रे भाष्ये तस्याः प्रत्याख्या- नाच्च । अन्तरङ्गशास्त्रत्वमस्या लिङ्गम् । इयं च त्रिपाद्यां न प्रवर्त्तते, त्रिपाद्या असिद्धत्वात् । अस्या- पदार्थज्ञानस्य हेतुत्वादन्तरङ्गादिपदं व्याख्याय वाक्यार्थमाह-अन्तरङ्ग इत्यादि । जातासिद्धत्वसमकालिकासिद्धत्वयोः फले अन्ते निरूपयिष्यते। ननु वृश्चतीत्यादौ भविष्यत्प्राप्तिकस्यापि सम्प्रसारणस्य बलोपदृष्टयाऽसि- द्धत्वोक्तिरसंगता स्यादित्यत आह-वृश्चत्यादिष्विति । एतेनेति । अर्थ- द्वयस्थाप्यनयैव सङ्ग्रहेणेत्यर्थः । एनामिति। प्रसिद्धं बहिरङ्गमित्येतत्परि- भाषामित्यर्थः। तस्या अन्तरङ्ग बहिरङ्गाद्बलीय इत्यर्थः। लिङ्गमिति। उप- स्थितिप्रयोजक चिह्नमित्यर्थः । अन्तरङ्गशास्त्रं मत्वा प्रतिपादयति-बहिर- ङ्गशास्त्रं नास्तीति त्वं जानीहीति यावत् । अन्तरङ्गशास्त्रत्वस्य लिङ्गत्वे फल- माह-त्रिपाद्यां न प्रवर्तते इति । अन्तरङ्गशास्त्रे त्रिपादीस्थे न प्रवर्तते इत्यर्थः । असिद्धत्वादिति। प्रतिपाद्याभावे प्रतिपादनासम्भव इति भावः । बहिरङ्गशास्त्रत्वं तु न लिङ्गम् । तस्य जातत्वे कर्तव्यत्वाभावेन प्रतिपादनवैय- र्थ्यात्। तस्य त्रिपादीस्थत्वेऽपि अन्तरङ्गस्य सापादिकत्वे आगच्छहे पयोद आगच्छ हे पयोद इत्येतत् सिद्धयर्थं परिभाषाप्रवृत्तेरिष्टत्वाच्च । तथा हि- अटतीत्यः पयस्यट् पयोट । तत्र सम्बोधने वाक्यनिमित्तक: प्लुतो दूराद्धृते चेत्यनेनाटोऽकारस्य पयोदेत्यत्र पयर्द इति स्थिते संथ्योगात्पूर्वाकारस्य गुरोःगुरोरनृत इति प्लुतो वाक्यनिमित्तको बहिरङ्गपादिकः अन्तरङ्गो- त्वदृष्ट्याऽसिद्ध इत्यतो रोरप्लुतादप्लुत इतिसूत्रविहितोत्वसिद्धिः । बहिर- ङ्गशास्त्रत्वस्य लिङ्गत्वे तु प्लुतस्य बहिरङ्गस्य त्रिपादीस्थत्वेन सापादिकपरि- भाषां प्रत्यसिद्धत्वेनाभावादसिद्धत्वप्रतिपादनासम्भवेनोत्वानापत्तेः । पूर्व- त्रासिद्धमित्यनेन तु नासिद्धत्वसिद्धिः। एहि सुश्रोता अत्रेत्यादिसकललक्ष्य- प्राप्तस्य तस्याप्लुतादप्लुते इत्येतत्सामर्थ्येन बाधादिति तत्रैव शब्देन्दु- शेखरे उक्तम् । त्रिपाद्यामप्रवृत्तेरेवाभिषेणयत्यभिषिणोति, राज्ञः, सर्वेषा- मित्यादौ णत्वश्चुत्वषत्वेषु त्रिपादीस्थेषु अन्तरङ्गेषु कर्त्तव्येषु षत्वाल्लोपसु- ५१. प्रसिद्ध बहिरङ्गमन्तरङ्गे ] विजयाऽलङ्कृतः [ १६५ ञ्च 'वाह ऊ' सूत्रस्थमूठग्रहणं ज्ञापकमित्येषा सपादसप्ताध्यायीस्था। अन्यथा संप्रसारणमात्र विधानेन लघूपधगुणे 'वृद्धिरेचि' इति वृद्धौ डादीनां बहिरङ्गाणां नानयाऽसिद्धत्वम् । नन्वेतस्या अष्टाध्याय्यां पाठा- भावेन कथमेतद्दृष्ट्या त्रिपाद्या असिद्धत्वमित्याह-अस्याज्जेत्यादि । परिभाषाया ज्ञापकबोध्यरूपत्वात् बोध्यस्य बोधकदेशस्थत्वौचित्यादिति भावः । लघूपधगुण इति । लोकसिद्धेनान्तरङ्ग बहिरङ्गाबलीय इति न्यायेन लघूपधगुणात्पूर्वमाद्गुणे विश्वौहोसिद्धिरिति न वाच्यं, तस्याप्ये- तस्यामेवान्तर्भावणास्यामवस्थायामभावात् लघूपधगुणस्यैवान्तरङ्गत्वाच्च । न च ऊडिदंपदाद्यप्पुम्रदधु भ्य इतिसूत्रण प्रष्टौह इत्यादौ स्वरो न स्यादू- ठोऽग्रहण इति ज्ञापकत्वासिद्धिरिति वाच्यम् । अत्र केचित् ऊठ्युपधाग्रहणं कर्त्तव्यमिति तत्सूत्रस्थवात्तिकादत्र स्वर- स्यानिष्टत्वात् प्रतिपदोक्तपरिभाषासहकारेणोक्तवार्तिकस्योपधापदमुच्चार्य विहितस्यैवोठो ग्रहणं कर्तव्यमित्यर्थात् कौमुद्यां प्रष्टौह इति तत्सूत्रोदाह- रणन्तु वृत्तिकारानुसारेण वस्तुतोऽयुक्तमेव । जूरा तूरेत्यादेरेव तदुदाहर- णात् । अत एव भाष्ये शेखरे च ज्ञापकत्वविचारावसरे एतद्रूषणन्नो- पन्यस्तमित्याहुः। उपधाग्रहणमन्त्यप्रतिषेधार्थम् । अन्त्यस्य माभूत् अक्षावे इतिभाष्ये- णान्त्यव्यावृत्तिरेवोपधाग्रहणस्य प्रयोजनं लभ्यते । अप्रतिपदोक्त विश्वौह इत्यस्यापि व्यावर्त्यत्वे तत्साधारण्येनानुपधाभूतव्यावृत्त्यर्थमित्येव वदेत् । शेखरे ज्ञापकविचारसमये एतदोषानुपन्यासमात्रेण वृत्तौ कौमुद्याञ्च प्रष्टौह इत्युपन्यासस्यायुक्तत्वबोधनानौचित्यात्। उद्देश्यविधेयभावसम्बन्धे- नान्वितार्थकपदद्वयघटितसमुदायोपादाने विभाषा दिक्समासे तत्पुरुषे तुल्यार्थतृतीयेत्यादावेव प्रतिपदोक्तपरिभाषाया ग्रन्थकृता प्रवर्तनेन तत्रैव प्रवृत्तेरौचित्येनानित्यत्वेन चाभेदेनोपधान्वितोठ्बोधकोपधापदोपदघटित ऊठ्युपधेतिसमुदाये तस्याप्रवृत्तेः प्रष्ठौह इत्यादाविष्ट एव स्वर इति परे । तहि ज्ञापकत्वं कथमिति चेत्-उच्यते। स्वरविधायके वाहऊठित्यत्र च ह्रस्व एव कर्तव्ये दीर्घस्य विधानं ज्ञापकमेव । तद्धि एत्येधत्यूठसु इत्येतत्प्रवृत्त्यर्थ- मिदानी लघूपधगुणे वृद्धिरेचीत्येव सिद्धम् । ज्ञापितायाञ्चास्यां वाह उठि- त्यस्यासिद्धत्वेन लघूपधगुणाप्राप्तौ वृद्धिरेचीत्यस्याप्रवृत्तौ वृद्ध्यनापत्त्या दीर्घग्रहणमेत्येधत्यूवित्येत्प्रवृत्तिसम्पादनेन चरितार्थम् । न च तत्रापि ।

१६६ ] परिभाषेन्दुशेखरः [बाधबीजकथने विश्वौह इत्यादिसिद्धेस्तद्वैयर्थं स्पष्टमेव । सत्यां ह्येतस्यां बहिर- ङ्गसम्प्रसारणस्यासिद्धत्वाल्लघूपधगुणो न स्यात् । न च 'पुगन्त' हस्वकरणेन वृद्धेस्सिद्धौ दीर्घग्रहणं न स्वांशे चरितार्थमिति वाच्यम् । अवतीत्यूः जनस्य ऊ: जनौरित्यादौ ज्वरत्वरेति दीर्घ ऊठि वृद्धयनापत्तेः। तत्रापि ह्रस्वकरणे जूरावित्यादौ दीर्घश्रवणानापत्तेः । न च स्वरविधायके हस्त्रकरणे जूरेत्यादौ स्वरानापत्तनै दीर्घग्रहणं ज्ञापकमिति वाच्यम् । स्वरविधायके वार्तिके च ठित्करणेनादोषात् । ननु स्वरविधौ तद्वार्तिके च ठिदितिकरणे पदद्वयाधिक्येन बहुव्रीह्या- श्रयणेन च गौरवमिति चेत्-अन्न चन्द्रिकाकाराः स्वरविधायके वार्तिके च ऊठित्यत्र दीर्घेणोकारोऽपि प्रश्लिष्यते । ऊठ्साहचर्याच्च स वकारस्था- निक उपधाभूतो धातुस्थो गृह्यते । तेन सोमसुतः अक्षयुवा तस्थुष: यून इत्यादौ न स्वरापत्तिः । इत्थञ्च सम्प्रसारणमात्रविधानेन सिद्धे ऊठ्यहणं ज्ञापकमित्याहुः। अस्तु वा ज्ञापकतापरभाष्यप्रामाण्यात् प्रतिपदोक्तपरिभाषाश्रयणाच्च स्वराऽभाव एवेष्टः प्रष्टौह इति स्वरोदाहरणं कौमुदीकारस्य प्रमाद एवेति यथान्यासेनैवोठग्रहणं ज्ञापकमिति परे । दीर्घविधानमेव ज्ञापकमित्यपरे। तथा हि ह्रस्व उठ एव विधीयतां स्वरेऽपि ह्रस्व एव । ज्वरत्वर-च्छ्वोः शूडितिसूत्रद्वयेनापि ह्रस्व एव विधातव्यः । वृद्धावपि तथैव जूरावित्यादौ दीर्घश्रवणन्तु उउठिल्यादेशद्वयविधानपूर्वकसवर्णदीर्घकरणेनोपपन्नं भवि- ध्यतीति तन्न । ज्ञापितेऽपि दीर्घोच्चारणस्य चरितार्थत्वासम्भवात् । आव- यतीत्यौरित्यादौ ण्यन्तादवेः क्विपि णिलोपे आङ्गत्वात्सवर्णदीर्घ बाधित्वा वृद्धौ यणि वौरित्यापत्त्याऽऽदेशद्वयविधानाऽसम्भवाचेत्ति दिक् । बहिरङ्गसम्प्रसारणाऽसिद्धत्वादिति । ननु सम्प्रसारणस्य बहिर- ङ्गत्वेऽपि तस्य पूर्वरूपेणापहारात पूर्वरूपस्य च बहिरङ्गत्वाऽभावाद्गुणो निराबाध इति चेत्- अत्र केचित् पूर्वरूपे सम्प्रसारणतुल्यत्वं हल इति सूत्राज्ज्ञाप्यते। अ- न्यथा हुतमित्यादौ पूर्वरूपस्यैव सत्त्वेन तस्य वैयापत्तेः । स्थानिवद्धावेन तु न निर्वाहः । सम्प्रसारणत्वस्याल्मात्रवृत्तित्वात् स्थान्येकदेशवृत्तित्वाच्च । अचः परस्मिन्नित्यपि न स्वविधित्वात् दीर्घविधौ तनिषेधाच । इत्थं च स- म्प्रसारणनिष्ठं बहिरङ्गत्वमपि पूर्वरूपस्येति न दोषः । अत एव ज्ञापकता- ५१. प्रसिद्धं बहिरङ्गमन्तरङ्गे] विजयाऽलङ्कृतः [१९७ इति सूत्रे निमित्तमिको विशेषणम् । अत एव भिनत्तीत्यादौ न गुणः । एवं च नाजानन्तर्य इति निषेधात् कथं परिभाषाप्रवृत्तिरिति वाच्यम् । प्रत्ययस्यांगांशे उत्थिताकाङ्क्षत्वेन तत्रैवान्वयात् । पुग- परभाष्यमप्युपपद्यते । जागृढ इत्यादौ ग्रहेर्यङलुगन्तात् तसि उत्तरखण्डे सम्प्रसारणपूर्वरूपाभ्यां ऋदुपधत्वे यङ्लुनिमित्तको रिगागमो न । स- म्प्रसारणस्थानिकपूर्वरूपस्याऽपि बहिरङ्गत्वातिदेशेन रिगागमापेक्षयाऽसि- द्धत्वादित्याहुः। परे तु सम्प्रसारणाच्चेतिसूत्रेण सम्प्रसारणात्परस्याचो निवृत्तिमात्र- मुच्यते । पूर्वपरयोनिवृत्तिं कृत्वाऽपूर्वस्यैकस्यानयने गौरवात् । तथा च सम्प्र- सारणमेव वर्त्तते इति सर्वमुपपन्नं हलश्चेति सूत्रञ्च चरितार्थम् । न च जा- गृढ इत्यादौ परनिवृत्तिरूपादेशस्य स्थानिवत्त्वेन ऋकारस्य यणापत्तिरिति वाच्यम् । तस्यानादेशत्वात् सम्प्रसारणस्यैव पूर्वरूपात्मकस्यादेशत्वात् । नन्वेवं राममित्यादावुक्तयुक्त्या अमि पूर्व इति पूर्वरूपेणापि परस्याकारस्य निवृत्तौ मकारात्मके सुपि सुपि चेति दीर्घस्स्यादिति चेत्-न। मकारस्य सुप्त्वाभावात्। अर्धाधिकविकारेणैकदेशविकृतन्यायाऽप्रवृत्तेः ।मकारस्या- नादेशत्वेन स्थानिवद्भावाप्रवृत्तेश्च । न च द्वयोः स्थाने एकादेशेन द्वयोनिवृत्ति- रपूर्वस्य स्थितिलभ्यते न परस्य निवृत्तिरिति वाच्यम् । एकस्य सत्त्वेऽपि द्वित्वावच्छिन्नप्रतियोगिताकाभावस्य सत्त्वात् घटसत्त्वे घटपटौ न स्त इति- वत् । अन्यसहायेन स्थितस्यान्यासहायेन स्थितावपूर्वत्वोपपत्तैश्च । निमि- तमिको विशेषणमिति । अङ्गविशेषणत्वे हि सार्वधातुकाद्यव्यवहितपूर्वा- गावयवस्येको गुण इत्यर्थे भिनत्तीत्यादौ भिनद् ति इति स्थिते सार्वधातुका- ऽव्यवहितपूर्वाङ्गं भिनद् तवयवस्येकारस्य गुणापत्तिरिको विशेषणे तु येन नाव्यवधानन्यायेन भेत्तेत्यादावेकवर्णव्यवधाने चरितार्थत्वादनेकव्य- वधानादत्र न गुण इति भावः। एवञ्चेति । अनिष्टं यत्प्रत्ययनिरूपितमानन्तयं तन्निमित्तकत्वेनेत्यर्थः। वस्तुतस्तु नेदं युक्तं, सामर्थ्यादेकवर्णव्यवहितस्येको गुणविधानेनानिष्ठा- न्यनिरूपिताव्यवहितत्वरूपाजानन्तयनिमित्तकत्वाऽभावेन नाजानन्तर्य- परिभाषाया अप्रवृत्तेः। तत्राप्येकवर्णव्यवधानसहने मानाभावात्। प्रत्यय- स्याङ्गांशे उत्थिताकांक्षत्वेनेति । इदन्न युक्तं, संकेतसम्बन्धेन प्रत्ययपद- १६८ ] परिभाषेन्दुशेखरः [बाधबीजकथने न्तेत्यादौ कर्मधारयाश्रयणेन प्रत्ययपराङ्गावयवलघूपधारू पेको गुण इति 'इको गुणवृद्धी' इति सूत्रभाष्यसम्मतेऽर्थे भिनत्तीत्यादावदो- पाच्च । अकारान्तोपसर्गेऽनकारान्ते चोपपदे वहेवहिर्वा शिवविचा- वनभिधानान्न स्त एव । वाय्यूहेत्यादि तूहतेः क्विपि बोध्यम् । धातू- नामनेकार्थत्वान्नार्थासंगतिः । प्रौह इत्याद्यसाध्वव । वृद्धरप्राप्तेः। अस्योहस्यानर्थक्यान्न 'प्रादूहोढो' इत्यस्यापि प्रवृत्तिः। न च कार्य- कालपक्षे त्रिपाद्यामेतत्प्रवृत्तिर्दुवारेति वाच्यम् । पूर्व प्रति परस्यासि- वत्त्वस्यैव प्रत्ययपदार्थत्वेन घटत्वादिवदुत्थिताकाङ्क्षात्वाभावात् । पुत्रादि- पदार्थे आकाङ्क्षोत्थापकजन्यत्वादिवदत्र, ससम्बन्धिकस्य कस्य चिदर्थ- स्याभावात् । पूगन्तेत्यादौ कर्मधारयाश्रयणेनेति । लध्वी चासावुप- धा च लघूपधा। पुकि अन्तः पुगन्तः । पुगन्तश्च लघूपधा च पुगन्तलघूपध- मिति समाहारः। तस्य पुगन्तलघूपधस्येत्यस्याश्रयणेनेत्यर्थः। अदोषादि- ति । इक उपधात्वाभावादिति भावः । ननूठग्रहणन्न ज्ञापकं अकारान्तोपसर्गे प्रौह इत्यत्र लघूपधगुणे वृद्धिरेचीत्येतवाधित्वा एङ्गि पररूपमितिपररूपे इष्ट- वृद्धेरसिद्धयापत्तेः । अनकारान्ते वायूह इत्यादौ लघूपधगुणे ऊकारश्रवणा- नापत्तेश्चेत्यत आह-प्रकारान्तोपसर्ग इत्यादि । वाहेति । वरिवः। णिजन्ताद् वाहेर्विजित्यर्थः । ननु णिजन्ताद्वाहेरिति न युक्तं, णिजन्ता- द्विजिति प्रतीकमुपादायानेन लोके विश्ववाट्शब्दस्य साधुत्वमात्रमुच्यते । न त्वस्योठ् अङ्गभसंज्ञाक्षिप्तप्रत्ययेन वाहो विशेषणात् णिलोपस्य स्थानि- वत्त्वेन व्यवधानादिति शब्देन्दशेखरोक्तेन विरोधादिति चेत्-न । आक्षि- मस्य शाब्दबोधे भानाभावात्। कार्यकालपक्षेऽपि संज्ञाशास्त्राणां विध्येकवा- क्यताया असंभवाच्च। तस्य ग्रन्थस्य खण्डनीयत्वात् वाहप्रयत्न एतदभिप्रा- येणेतद्ग्रन्थस्य सत्त्वाच्च । न च कार्यकालपक्ष इति । पूर्व प्रति अन्तरङ्ग- परिभाषां प्रतीत्यर्थः । परस्य त्रिपादीस्थान्तरङ्गशास्त्रस्य, पूर्वस्य सापादिक- बहिरङ्गस्येति कस्यचिद्व्याख्यानन्तु अविचारितरमणीयम् । यतोऽस्य ग्रन्थस्यैताशार्थकत्वे परिभाषादृष्ट्या त्रैपादिकान्तरङ्गस्यासिद्धत्वमात्रप्र- तिपादनेन परिभाषायास्तत्राप्रवृत्त्युपपत्तौ पूर्वस्य तनिरूपितबहिरङ्गत्वाभा- वादित्येतत्पर्य्यन्तानुधावनस्य वैयर्थ्यांपत्तेः । त्रिपाद्या प्रसिद्धत्वहेतुनैव त्रिपाद्यामप्रवृत्तिमुक्त्वा तद्धेतुनैव पुनस्तत्राप्रवृत्युक्तः । पुनरुक्तत्वापत्तेश्च ।

५१. प्रसिद्धं बहिरङ्गमन्तरङ्गे ] विजयाऽलङ्कृतः [ १६६ द्धत्वादन्तरङ्गाभावेन पूर्वस्य तन्निरूपितबहिरङ्गत्वाभावात्तया त- स्यासिद्धत्वप्रतिपादनासम्भवात् । न चानया पूर्वस्यासिद्धत्वात्तदभा- वेन तंप्रति परासिद्धत्वं 'पूर्वत्र' इत्यनेन वक्तुमशक्यमिति वाच्यम्। एवं हि विनिगमनाविरहादुभयोरप्यप्रवृत्त्यापत्तः। किं च पूर्वोत्य- स्य प्रत्यक्षत्वेन तेनानुमानिक्या अस्या बाध एवोचितः । अतः उत्तरस्य पक्षद्वयसाधारण्यात् शङ्कादले कार्यकाल इति विशेषोक्तेरसङ्गत्या- पत्तेश्च । त्रिपाद्यसिद्धत्वहेतोरस्यामिव परिभाषान्तरेऽपि समानत्वात्। कार्य- कालेऽन्यासांप्रवृत्तिर्भवत्यस्या नेति वैषम्ये बीजाभावाच। तस्मादयमा- शयः-यथोद्देशे परिभाषाणां ज्ञापकदेशस्थत्वेन सापादिकत्वात् त्रिपाद्या- मसिद्धत्वेनाप्रवृत्तावपि कार्यकाले विधिदेशस्थत्वेन परिभाषाणां विधिशा- स्त्रस्य च समानदेशस्थत्वेन पूर्वत्रासिद्धमित्यस्याप्रवृत्त्याऽसिद्धत्वाभावेन त्रिपाद्यां प्रवृत्तिरव्याहतेति । तदेवाह-कार्यकालपक्ष इति । उत्तरन्तु परि- भाषां प्रत्यन्तरङ्गस्यासिद्धत्वाभावेऽपि सापादिकबहिरङ्ग प्रतिपादिका- न्तरङ्गस्य पूर्वत्रासिद्धमित्यनेनासिद्धत्वादन्तरजाभावे तन्निरूपितबहिरण- त्वस्याप्यभावः । सत्यन्तरङ्ग बहिरङ्गं सति च बहिरङ्गेऽन्तरङ्गमिति भाष्यात्। तथा च परस्परसापेक्षान्तरङ्गत्वबहिरङ्गत्वयोरभावेन परिभा- पाया अप्रवृत्तिरिति । न च पूर्वत्रासिद्धमित्यतः प्रागेव परिभाषा चैपा- दिकान्तरङ्गे प्रवर्त्ततां तदानीमन्तरङ्गबहिरङ्गयोस्सत्त्वात् । न च पश्चा- त्पूर्वत्रासिद्धमित्यस्य प्रवृत्त्या परिभाषायोधितस्याप्रामाण्यं स्यादिति वाच्यम् । अन्तरङ्गकवाक्यतापन्नपूर्वत्रासिद्धमित्यस्याप्यन्तरङ्गत्वेन परि- भाषया तदृष्ट्याऽपि पूर्वस्यासिद्धत्वेन पूर्वत्रासिद्धमित्यस्य पूर्वशास्त्रज्ञाना- भावात् तनिरूपितासिद्धत्वमन्तरङ्गस्य बोधयितुमसामर्थ्यादिति परिभा- षाबोधितस्याप्रामाण्याप्रसक्तरित्याह-न चानयेत्यादि वाच्यमित्यन्तेन । एवं हीति । पूर्वापरीभावे नियामकाभावे हीत्यर्थः । प्रत्यक्षत्वेनेति । प्रत्यक्षप्रमाणस्य सर्वतो बलवत्त्वादिति भावः । गरुवरबालशास्त्रिणस्तु ग्रन्थकारोक्तयुक्तौ सर्वथाऽपरितुष्यन्तोऽन्यां व्यवस्थां वर्णयन्ति–तथा हि परिभाषा द्विविधा-शास्त्रत्वसंपादिका शास्त्रत्वावच्छिन्नोद्देश्यिका च। तत्र यया विना अप्रामाण्यज्ञानानास्क- न्दितसाधुत्वप्रकारकबोधजनकत्वरूपशास्त्रत्वमेव न तां प्रति परं शास्त्रम- २०० ] परिभाषेन्दुशेखरः [ बाधबीजकथने कार्यकालपक्षेऽपि त्रिपाद्यामस्या अनुपस्थितिरेव । अत एव का- यंकालपक्ष मेवोपक्रम्योक्तयुक्तीरुक्त्वाऽयुक्तोऽयं परिहारो न वा बहिरङ्गलक्षणत्वादित्युक्तं 'विसर्जनीय सूत्रे भाष्ये सिद्धान्तिना । त्रिपादीस्थेऽन्तरङ्ग कर्त्तव्येऽयं परिहारो न युक्त इति तदर्थः । किं- सिद्धमित्यथकपूर्वत्रासिद्धमित्यनेन त्रैपादिकस्यासिद्धत्वाभावेन सा त्रिपाद्यां प्रवर्तते । यथा तस्मिन्नित्यादि । यया विनापि उक्तशास्त्रत्वमस्ति तां प्रति निरुक्तार्थकपूर्वत्रासिद्धमित्यनेनासिद्धत्वात् सा त्रिपाद्यां न प्रवर्तते । यथा असिद्धं बहिरङ्गमिति सर्वमुपपन्नम् । अस्याबाध इति । परिभाषात: पूर्व प्रवृत्तिरिति यावत् । किन्तु वचनमेवारब्धव्यमिति सुध्युपास्य इत्यत्र संयोगान्तलोपाभावाय यण: प्रतिषेधो वक्तव्यः। चक्र यत्रेत्यत्र संयोगादिलोपार्थ, निगाल्यत इत्यत्राचि- विभाषेति लत्वार्थं ब्रीहिवापाणीत्यादौ णत्वार्थ तस्य दोषः संयोगादिलो- पलत्वरणत्वेषु। कृतस्यापत्यं कार्तिरित्यादौ रदाभ्यामिति नत्वाभावाय निष्ठा- नत्वमवृद्धः । नृमतोऽपत्यं नाम॑तमित्यादौ मादुपधाया इति वत्वाभावार्थ नृमतोवप्रतिषेधः । नार्केटः, नार्पत्य इत्यत्र विसर्गप्रतिषेधाय विसर्जनीयो- ऽनुत्तरपदे इत्यादि वचनानि कर्त्तव्यानीत्यर्थः । ननु त्रिपाद्यामन्तरङ्गपरिभाषाप्रवृत्तिमभ्युपगच्छतामस्माकमन्तरङ्गप- रिभाषयैव सर्वदोषोपशमात् वचनानि न वक्तव्यानीति लाघवात् त्रिपाद्यां प्रवृत्तिरेवास्तु। अतिप्रसङ्गस्तु यथोद्देशपक्षाश्रयणेन परिहरणीय इति चेत्-न । लाघवेन युक्तिसिद्धस्य बाधायोगात् । अत एव व्यक्तिशक्तिस्वीका- रापेक्षया जातिशक्तिपक्षे सत्यपि लाघवे व्यक्तिशक्तिः स्वीकृता तार्किकैः। किञ्च ममापि संयोगान्तलोपे झलोपकर्षणेन यणः प्रतिषेधवचनाभाव एव चक्रयत्रेत्यत्र यण: पदद्वयसम्बन्धिवर्णद्वयापेक्षत्वेनैव बहिरङ्गत्वं वाच्यं, चक्रथकैदित्यत्र तन्नास्तीति तदर्थं संयोगादिलोपग्रहणं कर्त्तव्यमेव तवापि । तत्र हि इणधातोर्लङितिङश्चैत्यकचि अकैदिति रूपम् । तत्रा- कचस्तन्मध्यपतितत्वाभावेन तन्मध्यपतितन्यायाप्रवृत्त्या तिङन्ततदादि- त्वाभावेन अकदित्यस्य पदत्वाभावात् । तक्षधातोय॑न्तात् क्विपि णिलोपे सुपि पदत्वे संयोगान्तलोपे तगिति रूपम् । संयोगादिलोपस्तु न णिलो- पस्य स्थानिवद्भावात् । तत्र पूर्वत्रासिद्धीये न स्थानिवदित्यस्याप्रवृत्त्यर्थं च ५१. प्रसिद्धं बहिरङ्गमन्तरङ्गे] विजयाऽलङ्कृतः [ २०१ संयोगादिलोपग्रहणं णिलोपस्य बहिरङ्गत्वाभावेन न परिभाषया सिद्धिः । प्लायते इत्यत्र प्र अयते इति स्थिते पदद्वयापेक्षेण उपसर्गस्यायतावितिसू- त्रेण लत्वार्थमावश्यकस्य दीर्घरूपैकादेशस्थानिवत्त्वस्य प्रतिबन्धकीभूतपूर्व- त्रासिद्धीये न स्थानिवदितिवचनस्याप्रवृत्तये लत्वग्रहणं तवाप्यावश्यक- मेव। परिभाषया च न निर्वाहो दीर्घस्यान्तरङ्गत्वात् । प्राहिणोदित्यत्र पूर्व धातोस्साधनेनैव योगस्य सिद्धान्ततया पश्चादुपसर्गयोगे अन्तरङ्गत्वाद्गुणे हिनुशब्दनिमित्तकहिनुमीनेतिणत्वप्रवृत्तये गुणस्थानिवद्भावस्यैव शरणी- कर्त्तव्यतया णत्वग्रहणमपि तवावश्यकं णत्वस्यैव बहिरङ्गतया न तत्राभी- ष्टसिद्धिकरी परिभाषा । ऋधातोः क्तप्रत्यये निष्पन्नादृतशब्दादाचारकिब- न्तात् लङि प्रातदित्यत्र निष्ठानत्वाभावाय वार्तिकाश्रयणमेव तवापि । न बहिरङ्गपरिभाषा कल्याणाय । वृद्धेर्बहिरङ्गत्वात् । एवं ऋशब्दान्मतुबन्ता- दाचारकिवन्तात् लङि आमतदित्यत्र वत्वाभावार्थं वचनारम्भ एव तवापि युक्त: । वृद्धेरन्तरङ्गत्वात् ऋशब्दप्रकृतिककल्पप्प्रत्ययान्तात् ऋकल्पशब्दा- लङि आर्कल्पदित्यर्थं विसर्जनीयोऽनुत्तरपदे इत्यप्यावश्यकमेवेत्यलं भाष्य- सम्मतयुक्त्युल्लंघनेन। प्रसङ्गात् विसर्जनीयोऽनुत्तरपदे इत्यस्यार्थो विचार्यते । उत्तरपदशब्देन वृत्तिचरमावयवो गृह्यते इति रामः करोति नार्कल्पिरित्यादौ नातिव्याप्त्य- व्याप्ती। दास्याः पुत्र इत्यादौ समासेऽलुकि विसर्गोपपत्तये रत्वावच्छिन्न- विधेयताश्रयरेफस्य वृत्तिचरमावयवे परे न विसर्ग इत्यर्थेपि गी:पतिरित्यादौ दोष इति न वाच्यम् । वृत्तिचरमावयवनिमित्तको यो रेफस्तस्य न विसर्ग इत्यर्थः । गो:पतिरित्यादौ च न रेफस्तथाभूतः । निमित्तता च यथाकथ- ञ्चिदेव । तेन नाकूट: नार्कल्पिरित्यादौ न दोषः । रेफनिमित्तवृद्धिनिमित्त- प्रातिपदिकावयवकूटकल्पादेरपि अपर्याप्त्या वृद्धिनिमित्तताद्वारा रेफनि- मित्तत्वात् । न चोपाछुतीत्यादौ दोषः। वृत्तिचरमावयवस्थानेऽर्थवतो निवेशात् । न च राम इत्यादावपि सुरूपार्थवन्निमित्तकत्वेन रेफस्य विसर्गा- नापत्तिरिति वाच्यं, खर्विशिष्टो विसर्गोऽसाधुरित्यर्थात् । वैशिष्ट्यञ्च स्वघटितार्थवव्यवहितपूर्वस्थानिकरेफस्थानिकत्वस्वनिमित्तकत्वोभयस- म्बधेन । उपार्छति परमर्त्त इत्यादौ खर् छकारादिस्तद्घटितोऽर्थवान् ऋच्छादिस्तदवधिकपूर्वोऽकारस्तत्स्थानिको वृद्धयादिद्वारा रेफस्तत्स्थानि- कत्वं च्छकारादिनिमित्तकत्वं च जायमानविसर्गे स्यादिति तस्यासाधुत्वो- पपत्तिः । न च दास्याः पुत्र इत्यादौ नृः पाहीत्यादौ च विसर्गस्यासाधु- त्वापत्तिः । पकाररूपखरः वैशिष्ट्यनियामकं स्वनिमित्तकत्वमस्ति स्वघ- २०२] परिभाषेन्दुशेखरः [ बाधबीजकथने तु वचनमेवारब्धव्यमिति तदाशयः । अत एव निगाल्यत इत्या- दौलत्वार्थ तस्य दोष इति वचनमेवारब्धम् । अन्यथान्तरङ्गत्वा- शिणलोपात्पूर्व वैकल्पिकलत्वे तद्वैयर्थं स्पष्टमेव । येऽपि लक्ष्या- नुरोधादानुमानिक्याप्यन्तरङ्गपरिभाषया प्रत्यक्षसिद्धस्य पूर्वत्रेत्य- स्य बाधं वदन्ति तेऽपि लक्षणैकचक्षुर्भिर्नादर्तव्या इति दिक् । अत एव 'ओमाङोश्च' इत्याङ्ग्रहणं चरितार्थम् । तद्धि खट्वा पा ऊढे- त्यत्र परमपि सवर्णदीर्घ बाधित्वा अन्तरङ्गत्वाद्गुणे कृते वृद्धिप्रा- टितोऽर्थवान् पुत्रशब्दः पाहिशब्दश्च तव्यवहितपूर्वः सकारो नकारश्च ततस्थानिकरेफस्थानिकत्वमप्यस्ति विसर्गस्येति खर्विशिष्टत्वादिति वाच्यम् । रेफे रत्वावच्छिन्नविधेयताश्रयत्वस्यापि निवेशेनादोपात् । वस्तु- तस्तु स्वनिष्ठनिमित्ततानिरूपितरत्वावच्छिन्नविधेयताश्रयत्वस्वाव्यवहि- तपूर्वस्थानिकत्वोभयसम्बन्धेन । यतकिञ्चिद्विशिष्टस्य रेफस्य न विसर्गः। उपार्छतीत्यादौ ऋच्छमादाय परमर्त्त इत्यादौ ऋकारमादाय समन्वयः। रत्वावछिन्नविधेयतानिवेशान नृःपाहीत्यादौ दोषः । निमित्ततानिवेशात् गीः पतिरित्यादौ न दोषः । उद्देश्यदलप्रविष्टविषयतामात्रस्य निमित्तता- पदेन ग्रहणात् नाकट: नार्कल्पिरित्यादौ न दोषः । प्रातिपदिकत्वावच्छिन्न- विषयताया अपर्याप्त्या कूटादौ सत्त्वादित्यलम् । अत एव निगाल्यत इति । कार्यकालपक्षेऽप्यन्तरङ्गपरिभाषायास्त्रि- पाद्यामप्रवृत्तत्वादेवेत्यर्थः। पूर्वत्रेत्यस्य बाधमिति। तथा सति त्रिपाद्या- मन्तरङ्गपरिभाषाप्रवृत्तिप्रतिबन्धकासिद्धत्वस्याभावेन त्रिपाद्यामस्याः प्रवृ- त्तिनिराबाधेति भावः । लक्षणैकच्चक्षुभिरिति । लक्षणद्वारैव लक्ष्यसाधुत्वं जानतां लक्षणैकचक्षुषां लक्ष्यानुरोधेन लक्षणं व्यवस्थापयतां दुस्तरोऽ- न्योन्याश्रय इति भावः। धर्मिग्राहकमानेन जातबहिरङ्गासिद्धत्वबोधक- त्वमेवास्या न समकालप्राप्तबहिरङ्गासिद्धत्वबोधकत्वमिति भ्रमनिरासाय तदंशेऽपि मानमाह-अत एवेति। समकालप्राप्तबहिरङ्गासिद्धत्वबोधक- त्वादेवेत्यर्थः। न च खट्वा आ ऊढा इति स्थिते परमपि सवर्णदीर्घ बाधित्वा नित्यत्वाद्गुणे दीर्घाप्राप्त्याप्राप्तवृद्धिबाधनार्थमाङ्ग्रहणं चरितार्थ नोक्तार्थ- ज्ञापकं स्यादिति वाच्यं, नित्यापेक्षयाऽप्यपवादस्य बलीयस्त्वेन पूर्वं दीर्घ- स्यैव प्रवृत्तौ ततो गुणे रूपसिद्धौ व्यर्थस्य तस्य ज्ञापकत्वसम्भवात् । न च ५१. प्रसिद्धं बहिरङ्गमन्तरङ्गे ] विजयाऽलङ्कृतः [२०३ सौ पररूपार्थम् । साधनबोधकप्रत्ययोत्पत्त्यनन्तरं पूर्व धातोरुपस- गयोगे पश्चात् खट्वाशब्दस्य समुदायेन योगाद्गुणस्यान्तरङ्गत्व- मिति 'सम्प्रसारणाच' इति सूत्रे भाष्ये स्पष्टम् । एहोत्यनुकरणस्य शिवादिशब्दसम्बन्धे तु नास्य प्रवृत्तिपिकपर सम्प्रसारणाच्चे'ति सूत्रस्थभाष्यप्रामाण्येनानित्यं प्रकृतिवदनुकरणमित्यतिदेशमादाय लब्धाङ्त्वे एतदप्रवृत्तः। ज्ञापनोत्तरमपि व्यर्थमेवान्तरङ्गापेक्षयाप्यपवादस्य बलीयस्त्वादिति वाच्यम्, अपवादस्याप्यस्यान्तरङ्गबहिरङ्गभावाभावविषये दैत्यारित्यादौ चरितार्थस्य प्रकृतेऽन्तरङ्गण गुणेन बाधसम्भवात्। तदुक्तमपवादो यद्यन्यत्र चरितार्थ- स्तन्तिरङ्गण बाध्यत इति पद्द्वयसम्बन्धिवर्णद्वयापेक्षत्वस्योभयोस्साम्ये- नाचः परस्मिन्नितिभाष्योदाहृते मृव्यापव्येत्यत्र पूर्वयण इव पूर्वोच्चरि- तनिमित्तकत्वरूपान्तरङ्गत्वस्य दीर्घ एव सत्त्वेन च अन्तरङ्गत्वं गुणस्य कथमित्यत आह-साधनबोधकेत्यादि । एवं रूपेण योगे हेतुरग्रे वक्ष्यते-- क्रियायाः साध्यत्वेनेत्यादिना । नन्वेवं रीत्या गुणस्यान्तरङ्गत्वेऽप्यचः परस्मिन्नितिभाष्यरीत्या दीर्घस्याप्यन्तरङ्गत्वमित्यव्यवस्थेति चेत्-न । स्वा- र्थद्रव्यलिङ्गसंख्याकारकाणां क्रमेणैव बोधविषयत्वेन तत्क्रमेणैव तद्बोधक- शब्दयोगेन तद्रीत्यैव मृव्यापद्व्येत्यादावपि पूर्वयणोऽन्तरङ्गत्वात् एतज्ज्ञा- पकतापरभाष्यप्रामाण्यात् पूर्वोच्चरितनिमित्तकत्वस्य निमित्तानामेकपद- घटकत्वे एवान्तरङ्गत्वप्रयोजकत्वाभ्युपगमाच्च । एतदभिप्रायेणैवोच्यते- भाष्ये स्पष्टमिति । ननु आङपूर्वकेण धातोरेहीतिरूपम् । तदनुकरणे एहिशब्देऽनुकार्यघ- टकैकारे पुर्वान्तवद्भावेनाङ्त्वादनुकरणं प्रकृतिवदित्यतिदेशेन लब्धाङ्त्वे अनुकरणैकदेशभूतैकारे शिवादिशब्दयोगे प्राप्तवृद्धिबाधपुरस्सरं पररूपार्थ- माङ्ग्रहणं न ज्ञापकं स्यादित्यत आह-एहोत्यनुकरणस्येत्यादि । अनेन च प्रकृत्येकदेशपर्याप्तधर्मास्यानुकरणैकदेशेऽप्यतिदेशः । अत एवाप्सुमन्तावा- ज्यभागावित्यादावनुकरणभूताप्सुघटके सुशब्दे अनुकार्यसप्तम्यन्तैकदेश- सुशब्दगतसुप्त्वमादाय प्राप्तलुकोऽभावाय अपो योनियन्मतुष्विति मतु- प्यलुक्चरितार्थः । श्राइहीत्यनयोरनुकरणद्वयमित्यन्ये । न च पदसंस्कार- पक्षे एहीतिरूपं संसाध्य पश्चाच्छिवादिसम्बन्धे पूर्वान्तवद्धावेन लब्धान्त्वे - । २०४ ] परिभाषेन्दुशेखरः [ बाधबीजकथने यत्तु पूर्व धातुरुपसर्गेण युज्यते पश्चात्साधनेन । उपसर्गेण त- त्संज्ञकशब्देन साधनेन कारकेण तत्प्रयुक्तकार्येण । अत एवानु- भूयत इत्यादौ सकर्मकत्वात् कर्मणि लकारसिद्धिरिति-तन्न । क्रियायाः साध्यत्वेन बोधात्साध्यस्य च साधनाकाङ्क्षतया तत्स- म्बन्धोत्तरमेव निश्चितक्रियाबोधेन साधनकार्यप्रवृत्त्युत्तरमेव क्रि- यायोगनिमित्तोपसर्गसंज्ञकस्य सम्बन्धौचित्यात् । अत एव 'सुट् कात्पूर्वः' इति सूत्रे पूर्व धातुरुपसर्गेणेत्युक्त्वा नैतत् सारं पूर्व धा- तुः साधनेन युज्यते पश्चादुपसर्गेणेत्युक्त्वोक्तयुक्त्या अस्यैव युक्त- त्वमुक्तम् । साधनं हि क्रियां निवर्तयतीत्यादिना भाष्ये । उपसर्ग- द्योत्यार्थान्तर्भावण धातुनवार्थाभिधानादुक्तेषु कर्मणि लकारादि- एकारे पररूपार्थमाञहणं चरितार्थमिति वाच्यम् । एवं रीत्यापि प्रयोगो न भवति ज्ञापकतापरभाष्यप्रामाण्यादेव। धातूपसर्गनिमित्तकगुणस्यान्तर- ङ्गत्वोपपादनेन पूर्वं धातुरुपसर्गेण युज्यते पश्चात्साधनेन । धातूपसर्गनिमि- त्तकं कार्यमन्तरङ्गमिति प्राचां सिद्धान्तो नागेशस्य सम्मत इति भ्रमवार- णाय प्राचीनमतमुपपाद्य खण्डयति-यस्वित्यादिना । अत एवानुभूयत इति । अनुसमभिव्याहारेण भूधातोर्ज्ञानार्थकत्वमित्यभिमानः । निश्चित- क्रियेति । साध्यशरीरिण्याः साधनसम्बन्धोत्तरमेव स्वरूपनिष्पादादिति भावः । साधनकायेति। येन क्रमेणार्थस्य ज्ञानगोचरता तेनैव क्रमेण शब्दा- भियोगः । शब्दाभियोगक्रमेणैव शब्दनिमित्तककार्याणां प्रवृत्त्यौचित्यमिति भावः। अत एवेति।साधनयोगस्य प्राथम्यादेवेत्यर्थः। उक्तयुक्त्येति । क्रि- यायास्साध्यत्वेनेत्यादियुक्तयेत्यर्थः । निवर्तयतीति । उत्पादयतीत्यर्थः । धातुनवार्थाभिधानादिति । शब्दार्थसम्बन्धस्यानादित्वात् भू- धातोर्ज्ञानार्थत्वस्यानुसम्बन्धात्प्रागपि सत्त्वेन सकर्मकत्वात्कर्मणि लकारे बाधकाभावः अनुः, केवलं प्रयोक्तुर्ज्ञानार्थतात्पर्य श्रोतारं ग्राहयति । अत एव श्रोतुर्ज्ञानार्थबोधोऽनुसम्बन्धोत्तरमेव । न हि श्रोतृबोधः कर्मसंज्ञायां लकारे वा कारणं येन पूर्व कर्मणि लकारो न स्यादिति सर्वमभिसन्धायाह- ।

५१. प्रसिद्धं बहिरङ्गमन्तरङ्गे] विजयाऽलङ्कृतः [ २०५ सिद्धिः । पश्चाच्छोतुर्बोधाय द्योतकोपसर्गसम्बन्धः । एवञ्च अन्त- रङ्गतरार्थकोपसर्गनिमित्तः सुट् सम्कृतीत्यवस्थायां द्वित्वादितः पूर्व प्रवर्तते ततो द्वित्वादि । अत एव प्रणिदापयतीत्यादौ णत्वं यदा- गमा इति न्यायेन समाहितं भाष्ये । अत एव प्रत्येति प्रत्यय इ- त्यादिसिद्धिः । अन्यथान्तरङ्गत्वात् सवर्णदीचे रूपासिद्धिः । य- दुपसर्गनिमित्त कार्य्यमुपसर्गार्थाश्रितं विशिष्टोपसर्गनिमित्तकत्वा- त्तदन्तरङ्गम् । यत्तु न तथा तत्र पूर्वागतसाधननिमित्तकमेवान्तरङ्ग- म् । अत एव 'न धातु' इति सूत्रे प्रेद्ध इत्यत्र गुणो बहिरङ्ग इति भाष्य उक्तम् । पश्चाच्छोतृबोधायेति । बुध्यारूढानामेवार्थानां बोधनाय शब्दोच्चारणात् सर्वेषामर्थानां तत्तदर्थबोधकशब्दप्रादुर्भावात्प्रागेवोपस्थितत्वात् साधन- बोधकशब्दनिमित्तककार्यापेक्षयोपसर्गार्थनिमित्तककार्यस्य शीघ्रोपस्थि- तिनिमित्तकत्वेनान्तरङ्गत्वात्पर्वमेवोत्पत्तिस्तेन संचस्कारेत्यादौ लिडपेक्षया भूषणरूपोपसर्गार्थस्य प्रथमतरमेवोपस्थितत्वेन तन्निमित्तकस्सुट् लिड्नि- मित्तकद्वित्वतोऽन्तरङ्गतर इत्याह-एवजेत्यादिना । अत एवेति । साध- नबोधकप्रत्ययनिमित्तककार्याणामुपसर्गसंज्ञकशब्दमात्रनिमित्तककार्या- पेक्षया पूर्वोत्पन्नत्वादेवेत्यर्थः । यदागमा इति पुकः पर्वमेव णत्वे परिभा- षाया अनुपयोग एव स्यादिति भावः। वस्तुतस्तु पूर्वमुपसर्गयोगेऽपि परिभाषोपयोग इति तदवतरणे प्रति- पादितम्-अत एवेति । साधनबोधकप्रत्ययस्य पूर्वमुत्पत्त्या तन्निमित्तक- कार्य्यस्य प्रथमप्रवृत्तेरेवेत्यर्थः । अध्यैयातामित्यादौ पूर्व प्राप्ताया अप्याट- श्वेति वृद्धथाः पूर्वमातामादेशोत्तरप्रवर्तमानस्यापीयङ्ग आङ्गत्वेन प्रवृत्तिरि- वात्रापि गुणस्यैव पूर्वागतोपसर्गसापेक्षदीर्घापेक्षयाऽऽङ्गत्वेन पूर्वप्रवृत्तौ नेदं फलमिति केचित्। अन्यथेति । पूर्वमुपसर्गयोग इत्यर्थः । पूर्वोक्तमेव स्पष्टयति-यदुपस- गंनिमित्तकमित्यादिना । यत्तु न तथेति। नोपसर्गार्थनिमित्तकमित्यर्थः। भाष्ये उक्तमिति । धात्वंशलोपनिमित्त आर्धधातुके सतिगुणोनेत्यर्थे प्रेद्ध इत्यत्र नकारलोपे क्तप्रत्ययनिमित्तके सत्याद्गुण इति गुणस्यापि निषेधा- २०६ ] परिभाषेन्दुशेखरः [ बाधबीजकथने किञ्च पूर्वमुपसर्गयोगे धातूपसर्गयोः समासे ऐकस्वाद्याप- त्तिरित्युपपदमति' इति सूत्रे भाष्ये स्पष्टम् । भावार्थकप्रत्ययस्या- पि पूर्व मेवोत्पत्तः । अत एव 'णेरध्ययन' इति निर्देशः सङ्गच्छते । इदं च सामान्यापेक्षं ज्ञापकं भावतिकोऽपि पूर्वमुत्पत्तः । अन्यथा तत्र समासापत्तिः। तिङि त्वतिङितिनिषेधान्न दोषो यदि भावति- ड्युपसर्गयोगोऽस्तीत्यलम् । यत्तु विशेषापेक्षात्सामान्यापेक्षमन्तरङ्ग विशेषधर्मास्याधिकस्य निमित्तत्वात् । यथा 'रुदादिभ्यः सार्वधातुके' इत्यत्र रुदादित्वं सा- बंधातुकत्वं च तत्र सार्वधातुकत्वज्ञानाय प्रकृतेर्धातुत्वज्ञानं प्रत्यय- पत्तिमाशंक्य न धातुलोप इति निषेधापेक्षयोपसर्गसापेक्षगुणस्य बहिरङ्ग- त्वेनासिद्धत्वान्निषेध्याभावेन निषेधाप्रवृत्तिरिति तत्रोक्तम् । पूर्वमुपसर्गयोगे तु क्तप्रत्ययसापेक्षनिषेधस्यैव बहिरङ्गत्वेन भाष्यविरोधस्स्यादिति भावः । किज्च पूर्वमुपसर्गयोग इति । साधनबोधकलकारात्पूर्वमुपसर्गसंज्ञकश- ब्दयोगे कुगतिप्रादय इत्यनेन प्रभवतीत्यादौ प्रभु इत्यस्यैव समासे सोप- सर्गधातोस्सामासिकस्वरेणैकस्वापत्तिरित्यर्थः । अन्वभवदित्यादावनु भू इत्यस्य समासे पाक्षिकस्येष्टस्य प्रकृतिभावस्य न समास इति निषेधापत्तिर- पि बोध्या। पूर्व लकारयोगेऽतिङितिनिषेधात्तिङन्तस्यासामर्थ्याद्धात्वन्तस्य च समासाभावे इति बोध्यम् । भावार्थकप्रत्ययस्यापीति । पूर्वोत्पत्ति- प्रयोजकयुक्तेस्तुल्यत्वादिति भावः । न्यायसिद्धेऽर्थे ज्ञापकमप्याह-अत- एव णेरध्ययन इति । सामान्यापेक्षमिति । न तु ल्युट एव पूर्वोत्पत्ता- विति भावः । तत्रेति । भावतिङीत्यर्थः। यदि भावेति । भावतिङ्युपस- गयोगाभावे तु सामान्यापेक्षस्य नोपयोगः । परन्तु नैवम् । विक्रियते इत्यादौ तत्राप्युपसर्गयोगोपलम्भात् । विशेषापेक्षे विशेषधर्मस्याधिकस्येति । विशेषस्य व्याप्यस्य ज्ञानात् सामान्यस्य व्यापकस्य धूमज्ञानाद्वतरिवानुमानं, सामान्यधर्मज्ञानाधीनज्ञानविषयस्य विशेषधर्मस्य ज्ञाने सामान्यज्ञानमाव- श्यकमितिरीत्या वा सामान्यज्ञानम् । ततश्च विशेषस्य श्रुतत्वात्। सामान्य- स्यानुमितत्वादुपस्थितयोद्वयोनिमित्तत्वमित्यभिमानादिति बोध्यम् । तदे- वोपपादयति यथेत्यादिना । एतेनेति । विशेषापेक्षस्य विशेषधर्मरूपाधि- ५१. प्रसिद्धं बहिरङ्गमन्तरङ्गे] विजयाऽलङ्कृतः [२०७ स्य प्रत्ययत्वज्ञानं चावश्यकमिति यासुडन्तरङ्गः। एतेन यत् 'अनु- दात्तङितः' इति सूत्रे कैयटेनोक्तं लमात्रापेक्षयाऽन्तरङ्गास्तिवादयो लकारविशेषापेक्षत्वाबहिरङ्गाः स्यादय इति तदप्यपास्तम् । विशे- पापेक्षत्वेऽपि तस्य सामान्यधर्मनिमित्तकत्वाभावेन तत्त्वस्य दुरु- पपादत्वात् । परनिमित्तकत्वेन स्यादीनां बहिरङगत्वाच्च्चेति- तन्न । विशेषस्य व्याप्यत्वेन व्यापकस्यानुमानेनोपस्थितावपि तस्य निमित्तत्वे मानाभावेनाधिकधर्मनिमित्तकत्वानुपपादनात् । भाष्ये एवं विधान्तरङ्गबहिरङ्गभावस्य काप्यनुल्लेखाच । यत्तु मतुप्सूत्रे भाष्ये पञ्च गावो यस्य सन्ति स पञ्चगुरित्यत्र मतुप्प्राप्तिमाशङ्कय प्रत्येकमसामर्थ्यात् समुदायादप्रातिपदिकत्वात् - कनिमित्तकत्वादेव बहिरङ्गत्वस्योपपादनेनेत्यर्थः । बुद्धिस्थहेतुमुपपादयति- विशेषेति । सामान्यधर्मनिमित्तकत्वाभावेनेति । न हि शास्त्रप्रमाणसि- द्धस्य सार्वधातुकत्वस्य प्रत्ययत्वधातुत्वज्ञानमन्तराऽज्ञातत्वमिवप्रत्यक्षप्रमा- रणसिद्धस्य लुट्त्वस्य लत्वज्ञानं विनाऽज्ञातत्वं येन लुट्त्वज्ञाने लत्वज्ञानमाव- श्यकस्यादिति भावः। लुट्त्वज्ञानाय कथं चिल्तत्वज्ञानापेक्षायामपि स्यादि- कार्ये घटे कुलालपितुरिवान्यथासिद्धत्वेन लत्वस्यानिमित्तत्वादधिकनिमित्त- कत्वप्रयुक्तस्य बहिरङ्गत्वस्य दुरूपपादत्वात्। तवाभीष्टस्य स्यादीनांबहिरङ्गत्व- स्यप्रकारान्तरेणाप्युपपत्तावसदावलम्बनन्तववृथेत्याह-परनिमित्तकत्वे नेत्यादि । इदानीं रुदादिभ्य इति विहितस्येटोऽपि बहिरङ्गत्वं न सम्भव- तीत्याह-तन्नेत्यादिना। निमित्तत्वे मानाभावेनेति । प्रकृते शाब्द- बोधीयविषयताया एव निमित्ततापदेन ग्रहणादनुमित्युपस्थितेऽपि धर्मे श- ब्दजन्योपस्थितीयविषयतासमनियतायास्तस्या दुरूपपादत्वमिति बोध्यम् । ननु अर्थापत्त्योपस्थितस्यापि कचिच्छाब्दबोधे भानदर्शनादत्रापि सार्वधातुकत्वज्ञानान्यथानुपपत्त्योपस्थितस्य धातुत्वादेर्भानसम्भवेन निमि- त्तत्वं स्यादित्यत आह-एवं विधेत्यादि । सार्वधातुकत्वे तस्यापेक्षितत्वेपि इटि घटे कुलालपितुरिवाऽन्यथासिद्धत्वेनानिमित्तत्वमित्यपि बोध्यम् ।भाष्ये दृश्यमानं विशेषापेक्षस्य बहिरङ्गत्वमेकदेशिनोक्तमिति बोधनाय भाष्यमुप- पादयति-यत्त्वित्यादिना । प्रत्येकमसामादिति । नेत्यध्याहृत्य २०८] परिभाषेन्दुशेखरः [ बाधबीजकथने समासात् समासेनोक्तत्वादिति सिद्धान्तिनोक्ते नैतत्सारमुक्तेऽपि हि प्रत्ययार्थ उत्पद्यते द्विगोस्तद्धिता यथा पाञ्चनापितिरिति पूर्व- पक्ष्युक्तिभाष्यम् । 'द्विगोलुंगनपत्ये' इति लुग्विधानात्तद्धितार्थद्वि- गोस्तद्धितो भवति पञ्चगुशब्दश्च द्विगुरिति तदाशयं कैयटः। ततो द्वैमातुरः पाश्चनापितिः पञ्चसु कपालेषु संस्कृत इत्यादौ सावका- शद्विगोर्बहुव्रीहिणा प्रकृते परत्वाद्वाध इत्याशयेन नैष द्विगुः क- स्तर्हि बहुव्रीहिरिति सिद्धान्तिनोक्ते तमवकाशमजानानोऽपवादत्वा- द्विगुः प्राप्नोतीति पूर्वपक्षी। अन्यपदार्थे सुबन्तमात्रस्य विधीय- मानबहुव्रीहेः संङ्ख्यायास्तद्धितार्थे विधीयमानो द्विगुर्विशेषविहित- त्वाबाधकः प्राप्नोतीति कैयटः । ततः सिद्धान्त्येकदेश्याह–अन्त- रङ्गत्वाद् बहुव्रीहिः । काऽन्तरङ्गता ? अन्यपदार्थे बहुव्रीहिर्वि- शिष्टेऽन्यपदार्थे द्विगुस्तस्मिंश्चास्य तद्धितेऽस्तिग्रहणं क्रियत इति । अधिकास्त्यर्थापेक्षमत्वर्थनिमित्तो द्विगुर्बहिरङ्ग इति कैयटः। ? सर्वत्राऽन्वयः। प्रत्येकं पञ्चअसूशब्दात् गोअस्शब्दादित्यर्थः। असाम- ादिति । पञ्चशब्दार्थस्य गोपदार्थेनान्वयान्मत्वर्थेऽन्वयासम्भवेनेति भावः। समुदायादिति । पञ्चअस्गोअरूपात्। समासादिति । पश्चगु- शब्दादित्यर्थः । यथा पाचनापितिरितीति । पञ्चानां नापितानामपत्य- मित्यर्थे तद्धिताऽर्थे विहितेन द्विगुसमासेनोक्तेऽप्यपत्यरूपार्थे इब्प्रत्ययः । द्विगोल्लुंगनपत्ये इति । द्विगुनिमित्ततद्धितस्यानपत्यार्थकस्य लुगनेन विधीयते । दिगुसमासेनोक्ते तद्धितार्थे तद्धितानुत्पत्तौ हि सूत्रं व्यर्थ स्यादिति बोध्यम् । पञ्चगुशब्दश्च द्विगुरितीति। तथा सत्यपि टच न समासान्तविधेरनित्यत्वात् । सावकाशद्विगोरिति । निरुक्तलक्ष्ये न बहुब्रीहेः प्रसक्तिः प्रथमान्तत्वाभावादिति भावः। तमवकाशमिति । पाञ्चनापितिरित्यादौ विद्यमानमित्यर्थः। सिद्धान्त्येकदेश्याहेति । सा- ध्यांशस्य युक्तत्वात्सिद्धान्तित्वं हेतोरयुक्तत्वादैकदेशित्वम् । अन्तरङ्गत्वमुप- पादयति-अन्यपदार्थ इत्यादि । तस्मिंश्चास्य तद्धित इति । अस्य ५१. प्रसिद्धं बहिरङ्गमन्तरङ्गे] विजयाऽलङ्कृतः [२०६ नैषा सिद्धान्त्युक्तिरेतावताप्यपवादत्वाहानेः। अच्सामान्यापेक्ष- यणो विशिष्टसवर्णाजपेक्षदीर्घेण बाधदर्शनात् । किञ्च उक्तरीत्या परत्वेनैव वाधसिद्धः। किञ्च अत्राधिकापेक्षत्वेनैव बहिरङ्गत्वम् । न केवलविशेषापेक्षत्वेनेति नैतद्भाष्यारूढं विशेषापेक्षस्य बहिर- ङ्गत्वम् । अत एव सुबन्तसामान्यापेक्षो बहुव्रीहिस्तद्विशेषापेक्षो द्विगुरिति नोक्तं भाष्ये । न चार्थकृतबहिरङ्गत्वस्य अनाश्रयणा- दिदमयुक्तम् । एकदेश्युक्तित्वेनादोषात् । अत एवास्तिग्रहणं नो- पाध्यर्थं किन्तु अस्तिशब्दान्मतुबर्थमिति त्वदभिमतं बहिरङ्ग- त्वमपि द्विगोर्नास्तीति प्रतिपाद्य सिद्धान्तिना मत्वर्थे द्विगो: प्रतिषेधो वक्तव्य इति बचनेनैतसिद्ध मित्युक्तम् । अत एव तदोः 'सः सौ' इति सूत्रेऽनन्त्ययोरिति चरितार्थम् । अन्यथा प्रत्ययसा- मान्यापेक्षत्वेनान्तरङ्गत्वादन्त्यात्वेऽनन्त्यस्यैव सत्वे सिद्धे तद्वै- ययं स्पष्टमेव । 'पादः पत्' इति सूत्र भाष्यकैयटयोरप्येतदन्तरङ्ग- स्वाभाव एव सूचित इति सुधियो विभावयन्तु । द्विगोरर्थद्वारानिमित्तभूते तस्मिन् मतुपि तद्धित इत्यर्थः। अन्यपदार्थे बहुव्रीहिरित्यन्तरङ्गत्वोपपादनपरभाष्येण विशेषापेक्षस्य बहिरङ्गत्वलाभे- ऽप्येकदेश्युक्तत्वेनानादर इति बोध्यम् । अपवादत्वाहानेरिति । अन्तर- ङ्गादप्यपवादस्य बलवत्त्वादित्यर्थः। विशिष्टसवणेति। विशिष्टत्वमेवाह- सवर्णति । उक्तरीत्येति । अवकाशत्वरीत्येत्यर्थः। नोपाध्यर्थमिति । न मतुपो निमित्तत्वार्थमित्यर्थः। बहुव्रीहिवन्मतुपोऽपि शब्दशक्तिस्वाभा- व्यादस्त्यर्थविषयता स्यादित्याशयः। सिद्धान्तिनेति । सिद्धान्त्येकदेशि- नेत्यर्थः । परमसिद्धान्ती तु परत्वादेव बहुव्रीहिमाह । नन्वेवमसुनुवदित्यत्र लघूपधगुणादुवङोऽल्पेति । सुधातोलुंङि चडि द्वित्वेऽसुनु अदिति स्थिते सार्वधातुकनिमित्तकलघूपधगुणस्य चनिमित्त- कस्योवडश्च प्राप्तौ अन्तरङ्गत्वादुवङ् भवति । तन्न सिद्ध्येत । उभयोः परनिमित्तकत्वाविशेषादित्यर्थः । न च गुणशास्त्रघटकाङ्गपदप्रयोज्यविष- १४ ।

२१० ] परिभाषेन्दुशेखरः [ बाधबीजकथने नन्वेवमसुश्रुवदित्यत्र लघूपधगुणादुवङोऽल्पनिमित्तत्वाभावा- दुवङ् न स्यादिति चेत्-न । तत्रान्तःकार्य्यत्वरूपान्तरङ्गत्वस- त्वात् । अन्तःकार्यत्वं च पूर्वोपस्थितनिमित्तकत्वम् । अङ्गशब्दस्य निमित्तपरत्वात् । इदमन्तरङ्गत्वं लोकन्यायसिद्धमिति । मनुष्योऽयं प्रातरुत्थाय प्रथमं शरीरकार्याणि करोति । ततः सुहृदां ततः सम्बन्धिनाम् । अर्थानामपि जातिव्यक्तिलिङ्गसंख्याकारकाणां बोध- क्रमः । शास्त्रकृत्कल्पितस्तत्क्रमेणैव च तद्बोधकशब्दप्रादुर्भावः कल्पित इति तत्क्रमेणैव तत् कार्याणीति पटव्येत्यादावन्तर- ङ्गत्वात् पूर्वं पूर्वयणादेशः परयणादेशस्य बहिरङ्गतयाऽसिद्धत्वा- दित्यादिना 'अचः परस्मिन्' इति सूत्रे भाष्ये स्पष्टम् । तदपि युगपत्प्राप्तौ पूर्वप्रवृत्तिनियामकमेव । यथा पव्येत्यत्र पदस्य विभज्यान्वाख्याने । न तु जातस्य बहिरङ्गस्यैतादृशेऽन्तरङ्गेऽसि- यताश्रय: असुसु अ इति तद्घटकाकारनिष्ठविषयताप्रयोजकसप्तम्यन्ताच- पघटितत्वरूपान्तभूतनिमित्तकत्वरूपान्तरङ्गत्वस्य उवङि सत्त्वाच्छङ्कोद- याभाव इति वाच्यम् । समकालप्राप्तिकबहिरङ्गासिद्धत्वस्थले ऊनशब्दमा- श्रित्य यणादेशो नशब्दमाश्रित्य गुण इति भाष्यात् । सप्तम्यन्तपदेनोपात्त- स्यैवाङ्गपदेन ग्रहणस्योक्तत्वात् । पूर्वोपस्थितेति। पूर्वोच्चरितेत्यर्थः । नन्वेवं खट्वा या ऊठेत्यत्राङ: पूर्वोपस्थितिमादाय गुणस्योक्तान्तरङ्गत्वमनु- पपन्नं तदपेक्षया खट्वाकारस्यैव प्रथमोच्चरितत्वादिति चेत्-न। सति सम्भवेऽर्थकृतस्यैव पूर्वोपस्थितत्वस्य ग्रहणम् । तदसम्भवे उच्चारणकृतस्येति व्यवस्थयाऽदोषात्। चडोऽनर्थकत्वात्। प्रथमं शरीरकार्याणीति । सर्वापेक्षया शरीरस्य प्रथममुपस्थितत्वादिति भावः। जातिव्यक्तीत्यादि। शब्दश्रवणानन्तरं प्रथमं जातिबुंध्यारूढा भवति । जातिपदं धर्ममात्रपरम्। ततस्तत्पुरस्कारेण व्यक्तिः। ततो जातिविशिष्टव्यक्तौ विशेषप्रणिधाने लिङ्गम् । ततस्सजातीयपदार्थान्तरसापेक्षापेक्षाबुध्या संख्या। ततो विजा- तीयक्रियापेक्षं कारकत्वं बुध्यारूढ़ भवति । तेनैव क्रमेण तत्तदर्थबोधक- शब्दप्रादुर्भाव इत्यर्थः। तदपीति । अन्तःकार्यत्वरूपान्तरङ्गत्वमपीत्यर्थः । ।

५१. असिद्धं बहिरङ्गमन्तरङ्गे ] विजयाऽलङ्कृतः [ २११ द्धतानियामक प्रागुक्तलोकन्यायेन तथैव लाभादिति 'चाह ऊ' सूत्रे कैयटे स्पष्टम् । अत एव वाय्वोरित्यादौ वलिलोपो यणःस्थानिवत्त्वेन वारितो- 'ऽचः परस्मिन्नि त्यत्र भाष्यकृता। क्रमेणान्याख्याने तु उक्तो- दाहरणे पूर्वप्रवृत्तिकत्वमप्यन्तरङ्गत्वं बहिरङ्गस्यासिद्धत्वमपि नि- मित्ताभावादप्राप्तिरूपं बोध्यम् । यत्तु एवं रीत्या पूर्वस्थानिकमप्यन्तरङ्गमिति तच्चिन्त्यम् । स्रजिष्ट इत्यादौ 'विन्मतोलुंकि' टिलोपस्यापवादविन्मतोलुंक्प्रवृत्त्या जातिपक्षाश्रयणेन वारणप्रयासस्य 'प्रकृत्यैकाच्' इति सूत्रप्रयोजन- खण्डनावसरे भाष्यकृतकृतस्य नैष्फल्यापत्तेः। त्वदुक्तरीत्या 'विन्मतोलको' बहिरङ्गासिद्धत्वेन अनायासतस्तद्वारणात् । भाष्ये ईदृशरीत्या बहिरङ्गासिद्धत्वस्य क्वाप्यनाश्रयणाच्च । परिभाषाया- मङ्गशब्दस्य निमित्तपरत्वाच । इयं चोत्तरपदाधिकारस्थबहिरङ्गस्य नासिद्धत्वबोधिकेतीच 'एकाचोऽम्' इति सूत्रे भाष्ये पूर्वपक्ष्युक्तिरिति सा नादर्तव्या । अत एवेति । जातबहिरङ्गासिद्धत्वानियामकत्वादेवेत्यर्थः । यणः स्था. निवत्त्वेनेति । जातासिद्धत्वनियामकत्वे तु विलम्बोपस्थितौकारनिमि- त्तकस्य यणोऽनयैव लोकसिद्ध्याऽसिद्धत्वेन यलोपवारणसंभवात्स्था- निवद्भावपर्यन्तानुधावनस्य चयापत्तेः । उक्तोदाहरण इति। मृव्या पद्येत्यादावित्यर्थः। पूर्वप्रवृत्तिकत्वमिति । परिभाषाया नोपयोग इति भावः। स्त्रजिष्ट इत्यादाविति । विन्मतोलुंकि प्राप्तस्य स्रज्घटका- जुद्देश्यकस्य लोपस्येत्यर्थः । त्वदुक्तरीत्येति । पूर्वस्थानिकत्वमन्तरङ्ग- त्वमिति स्वीकारेणेत्यर्थः । वस्तुतो नेदं भाष्यं सिद्धान्तभूतं तक्रन्यायेन बाधके प्रवृत्ते उत्सर्गस्याप्रवृत्तेष्टिलोपाप्रवृत्तः । नादर्तव्येति । ननु तहिं तत्फलस्यानुस्वारे कर्तव्ये मुमोऽसिद्धत्वाभावस्य कथं सिद्धिरत आह-पर- २१२ ] परिभाषेन्दुशेखरः [ बाधबीजकथने परन्तप इत्यादावनुस्वारे नासिद्धत्वं मुमस्त्रिपाद्यां तदप्रवृत्तः। नव्य- मतेऽपि यथोद्देशपक्षाश्रयणेनान्यथासिद्धोदाहरणदानेन तस्य तदुक्ति- त्वमावश्यकमित्याहुः । आभीयेऽन्तरङ्गे आभीयस्य बहिरङ्गस्य समानाश्रयस्य नानेनासिद्धत्वमसिद्धत्वादित्य सिद्धवत्' सूत्रे भाष्ये न्तप इत्यादाविति । इदमुपलक्षणम् । अरुन्तुद इत्यत्र संयोगान्तलोपेऽ- सिद्धत्वाभावः । नव्यमतेम्पीति। दीक्षितमतेपीत्यर्थः। फलस्यान्यथा- सिद्ध्या तद्भाष्यस्यैकदेश्युक्तत्वं स्यष्टमेवेति बोध्यम् । आभीये अन्तरङ्गे आभीयस्य बहिरङ्गस्य समानाश्रयस्येति । इयं पंक्तिर्म समीचीनतया योजयितुं शक्यते । तथा हि पपुष इत्यादौ वसोः संप्रसारणे पपाउस् अस् इति स्थिते आतो लोप इत्येतदृष्ट्या संप्रसारणस्य बहिरङ्गासिद्धित्वादा- भीयासिद्धत्वाचालोपो न स्यादित्याशंक्य व्याश्रयत्वेनाभीयासिद्धत्वं परि- हृत्य बहिरङ्गमन्तरङ्गमिति च प्रतिद्वन्द्वभाविनावेतावौँ कथं सत्यन्तरङ्ग बहिरङ्गं सति च बहिरङ्गे अन्तरङ्गम् । न चात्रान्तरङ्गबहिरङ्गयोयुगपत्सम- वस्थानमस्ति । नानभिनिवृत्ते बहिरङ्ग अन्तरङ्गं प्राप्नोति तत्र निमित्तमेव वहिरङ्गमन्तरङ्गस्येतिग्रन्थेन बहिरङ्गासिद्धत्वमपि भाष्ये परिहतम् । यथा स्योन इत्यादौ यणगुणयोयुगपत्प्राप्तिरस्ति न तथा पपुष इत्यादौ । संप्रसा- रणप्रवृत्तिकाले आलोपादीनां निमित्ताभावादप्रसंगः । आलोपप्रवृत्तिकाले च निवृत्तं संप्रसारणम् । ततश्च निमित्तमेवालोपादीनां संप्रसारणमिति नास्ति परिभाषोपस्थानमित्यर्थः कैयटेनोक्तः । तेनैव च पचावेदमित्यत्राप्येवं सति जातासिद्धत्वं न स्यादित्याशंक्य भाष्यमन्यथा व्याख्यातम् । तथा हि इयं परिभाषा वाह ऊठ इत्येतज्ज्ञापितत्वादाभीया भाभीयेष्वालोपादिषु कर्तव्येषु असिद्धेति न प्रवर्तते । असिद्धत्वमभावप्रतियोगित्वम् । नैवास्ति परिभाषेत्यर्थः । तदप्रवृत्तौ चाऽऽलोपादीनि भवन्तीति भाष्यस्थपदान्य- स्मिन्नर्थे एवं योजितानि सत्यन्तरङ्ग इति विध्यपेक्षित इत्यर्थः। तत्र निमित्त- मेवेति परिभाषाया असिद्धत्वादप्रवृत्ताविति भावः । वसुसम्प्रसारणञ्चैकं परिभाषाया आलोपादीनाञ्च आश्रय इति समानाश्रयत्वाद्भवत्येवासिद्ध- स्वम्परिभाषाया इति। स्वस्या असिद्धत्वेऽप्यदृष्टपिशाचन्यायेनाऽसिद्धूया- ऽप्यनयाऽन्तरङ्गप्रति बहिरङ्गाऽसिद्धत्वप्रतिपादने बाधकाऽभावः । समा- नाश्रयत्वमप्यन्यूनाधिकनिमित्तकत्वमेवान्यथाऽतिप्रसङ्गात् चिन्त्यं कैय- - ५१. असिद्धं बहिरङ्गमन्तरङ्गे] विजयाऽलङ्कृतः [२१३ स्पष्टम् । एवं सिचि वृद्धयेंन नाप्राप्तन्यायेनान्तरङ्गबाधकत्वमूलक न सिच्यन्तरङ्गमस्तीती'को गुण' इति सूत्रे भाष्ये स्पष्टम् ॥ ५१ ॥ टोक्तं किन्तु अन्तरङ्गस्याभीयस्याभीयां परिभाषाम्प्रत्यसिद्धत्वात्परिभाषया प्रतिपाद्याभाव इव तस्यासिद्धत्वप्रतिपादनासम्भवः। अन्तरङ्गशास्त्रत्वस्य लिङ्गत्वेन परिभाषाया अन्तरङ्गशास्त्रस्थत्वेन समानाश्रयत्वमिति परे। परन्तु मूले बहिरङ्गे समानाश्चयत्वमाभीयत्वमिति विशेषणमनुपयुक्तमे- वेति विभावयन्तु । येन नाप्राप्तन्यायेनान्तरङ्गबाधकत्वमूलकमिति । एतेन न सिच्यन्तरङ्गमस्तीति नाऽपूर्वमिति बोध्यम् । अथ जातबहिरङ्गासिद्धत्वस्य किम्फलमिति चेत्-अत्रोच्यते । पचावे- दमित्यत्र लोडुत्तमद्विवचनान्तस्येदंशब्देन सहैकादेशे पूर्वान्तवद्भावेन लोडुत्तमसम्बन्धित्वस्य स्वत एत्वस्य च सत्त्वेन एत ऐरितिप्राप्तन्तद्रूपे- ऽन्तरङ्ग कर्तव्ये पदवयसम्बन्धिवर्णद्वयापेक्षत्वेन बहिरङ्गस्य गुणस्या- सिद्धत्वादेत ऐरित्यस्याप्रवृत्तिरिति फलम् । यदि च इत ऐरितिन्यासेनापि पचावेदमित्यत्र वारणसम्भवः भवानीत्यादावायादेशः स्यादिति तु न भ्रमितव्यम्। तकन्यायेन न्यासादेशेन इत ऐरित्यस्य बाधसम्भवादित्युच्यते तदा पचावेदमित्यत्र आमेत इत्यामादेशवारणमेव फलमिति कश्चित् । तदपि न युक्तम् । प्रतिपदोक्तस्यैकारस्य ग्रहणनादोषात् । एधस्व पचस्वेति सततं यत्राभिधीयत इत्यर्थे श्राख्यातमाख्यातेनेतिसमासे बहुवचने बहु- वचने झल्येदित्यत्वे एधस्व पचस्वेभ्य इत्यत्र प्रतिपदोक्तस्यैकारस्यामादेशा- पत्तेस्तादवस्थ्यात् । तद्वारणायैव परिभाषा मन्तव्येत्यपि न । टित आत्म- नेपदानामित्यत आत्मनेपदानुवृत्त्या प्रतिपदोक्तपरिभाषाञ्चाश्रित्यात्मनेपद- मुच्चार्य विहितस्य लोट एकारस्यामादेश इत्यर्थकरणेन पचावेदमित्या- दावामादेशवारणसिद्धेरैविधायके आत्मनेपदसम्बन्धेनापि पचावेदमित्य- त्रायादेशवारणं सम्यगेव । न च सवाभ्यां वामावित्यस्यात्मनेपदमुच्चार्य विहितकारस्येत्यर्थो न कर्त्तव्यः । एधस्वेत्यत्रादेशानापत्तेः। एवञ्च एधस्वेद- मित्यत्रामादेशाभावाय जातासिद्धत्वं वक्तव्यम् । न चैधस्वेत्यत्रापि सेघटकै- कारस्य पर्जन्यन्यायेन टित आत्मन इत्यनेनैत्वे आत्मनेपदमुच्चार्य विहितकारस्य सत्त्वेन प्रतिपदोक्तपरिभाषाप्रवृत्तौ बाधकामावेनैधखेदमि- त्यादौ न दोष इति वाच्यम् । तङादेशानां टेरेत्वन्नेत्यस्य एकारोच्चारण- सामर्थ्येन ज्ञापनात्सेघटकैकारस्यत्वाप्रवृत्तेः। सकारसाहचर्यात्सवाभ्या- २१४ ] परिभाषेन्दुशेखरः [ बाधबीजकथने मित्येतद्विहितानवयववकारात्परस्यामादेश इत्यर्थकरणेनादोषाच्च । न चासूषुदित्यत्र क्षरणार्थकसूदधार्तोर्णिजन्तात् लुङि चङि द्वित्वे उपधाह्रस्वे सन्वद्भावेऽभ्यासस्य दीर्घे णिचि प्राप्तलघूपधगुणे बहिरङ्गस्योपधाहस्वस्या- सिद्धत्वं मन्तव्यम् । नाजानन्तर्य इत्यस्य तु न विषयः गुणस्याजानन्त- यंनिमित्तकत्वाभावात्। एकवर्णव्यवधाने येन नाव्यवधानन्यायेन गुण- प्राप्तावपि नाजानन्तर्यप्रवृत्तौ मानाभावात् । कोः कित्वेनार्द्धधातुकवि- शिष्टस्यैवेको गुणो विधीयते । वैशिष्ट्यञ्च स्वपूर्वत्वस्वोपदेशकालिकलघुत्व- वत्त्वोभयसम्बन्धेन । एवञ्चेको णिजपदेशकालिकलघुत्वाभावाद्गुणान- वृत्तेर्नेदं फलमिति तु न युक्तम् । तोतो त्यादौ वलोपोत्तरजातलघुत्वकेऽपि गुणदर्शनेनोक्तार्थस्य कल्पयितुमशक्यत्वात्। यदि च यङलुकश्छान्दसत्वेन छन्दसि दृष्टानुविधानस्यैव सत्त्वेन न तत् प्रकृतार्थप्रतिवन्धकं तुर्वीधातो- निपि तोर्वेत्यत्रगुणानुपपत्तिरपि न प्रकृतार्थप्रतिबन्धिका । न धात्विति- निषेधेन तत्र गुणस्यानिष्टत्वात् । तत्प्रत्याख्यानेऽपि फलैक्याय तदनभिधा- नस्यैवौचित्याच्चेत्युच्यते तदा नेदम्फलम् । यत्तु केनचित् 'अन्ये तु पुगन्तसाहचर्यात्सार्वधातुकसाहचर्याचार्द्ध- धातुकपरऽपि स्वोत्तरप्रत्ययानिमित्तकस्यैवेकोगुणविधानान्नदोष इति प्राहुः' इत्युक्तम्-तन्न युक्तम् । सादृश्ये प्रतियोग्यनुयोगिवृत्त्येकधर्मस्यापेक्षिततया स्वत्वस्याननुगतत्वेन तद्धटितैकधर्मस्योभयवृत्तित्वासम्भवात् । पुगन्तप्रति- योगिकस्य सार्वधातुकप्रतियोगिकस्य वा सादृश्यस्येकि निरुक्तधर्मेण प्रति- पादयितुमशक्यत्वाच्च । ह्रीधातोः किबन्तादाचष्टे णिचि पुकि ततो हेतुम- पिणचि लुङि चडि णिचो लोपेऽजिहिपदित्यत्र स्वोत्तरप्रत्ययनिमित्तक- स्यापीकः सत्त्वाचच । वेब्धातोः क्विपि सम्प्रसारणे तुकि निष्पन्नादुत्पा- तिपदिकादाचारकिपि अोततीत्यादौ स्वोत्तरप्रत्ययनिमित्तस्यैवेकः सत्त्वा- च्च । गुरुसंज्ञायां संयोगपदेन प्रत्ययावयवानिमित्तकसंय्योगस्यैव कोः कि- त्वसामर्थ्याल्लाघवाद्ग्रहणे तु फलं सम्यगेव । सार्वधातुकसाहचर्याल्ल- घुत्वानिमित्तस्यैवार्द्धधातुकस्य ग्रहणे तु न फलं णिचो लघुत्वनिमित्तत्वात् । कोः कित्वेन भेत्तेद्यादिलक्ष्यानुरोधेन च लघूपधविहितप्रत्ययाव्यवहितपूर्व- स्येको गुण इत्यर्थेनासूषुददित्यादौ णिचो लघूपधविहितत्वाभावेन गुणा- प्रवृत्त्या नेदं फलं सम्यगित्यपि कश्चित्। एतन्मते ऽसुनुवत् रियतीत्यादौ गुणस्याप्राप्त्या तदपेक्षयान्तरङ्गत्वादुवादिप्रतिपादकभाष्यविरोधोन, उ- पायस्योपायान्तरादूषकत्वात् । नाप्यदिद्रपदित्यादौ द्राधातोर्णिजन्ताल्लुङि चङि पुकि द्वित्वे उपधाहस्वत्वे अदिद्रपदिति निष्पन्ने णिज्निमित्तकोपधा- ५१. असिद्धं बहिरङ्गमन्तरङ्गे] विजयाऽलङ्कृतः [ २१५ वृद्धौ कर्तव्यायां बहिरङ्गोपधाह्रस्वस्यासिद्धत्वसम्पादनेन सफलाऽसिद्धं बहिरङ्गमिति परिभाषा। चित्साहचर्येण अद्घटितप्रकृतिकस्यैव णितो ग्रहणेनादोषात् । रजयति मृगानित्यादौ संज्ञापूर्वको विधिरनित्य इत्यनेन वृद्धरनित्यत्वान्न दोषाः। शास्धातोणिजन्ताल्लुङि अशशासदित्यत्र णौ चङीति ह्रस्वेऽपि वृद्ध्या लक्ष्ये लक्षणन्यायेन पुनर्हस्वाप्रवृत्त्या च रूपसि- द्धौ शास्धातौ नाग्लोपीतिनिषेधसामर्थ्येन ह्रस्वोत्तरं वृद्धयप्रवृत्तिज्ञापना- नेदं फलमिति केचित्-तन्न । तेन शाखबाधापेक्षया परिभाषाकल्पन एव लाघवात् । प्रधातोर्य्यङलुङन्तात्तसि सम्प्रसारणे जागृट् इत्यादौ ऋदुप- धत्वसम्पादकस्य तनिमित्तकसम्प्रसारणस्य रुसिद्धत्वाय रुगादौ कर्तव्ये असिद्धत्वाय न परिभाषावश्यकता। यङलुकश्च्छान्दसत्वादभ्यास एव ऋ- दुपधत्वस्यान्वयाच्च । नाप्यातिखट्वघटकखट्वशब्दाहापोऽभावो हस्वासि- द्धत्वेन फलम् । लक्ष्ये लक्षणन्यायेन तत्सिद्धेः । अतिष्टिपदित्यनापीकारस्या- सिद्धत्वेन गुणाभावोऽपि न फलमोपदेशिकलघूपधस्यैव गुणविधानस्योक्त- त्वादिकारोच्चारणसामर्थ्याच्च । न च हे जगदम्बेत्यादौ टापोऽभावाय बहिरङ्गहस्वासिद्धत्वार्थ सा तल्लक्ष्यत्वाट्टापो वारणन्त्वशक्यम् । प्रथमप्रवृ- त्युद्देश्यत्वेनाश्रीयमाणसमुदायविशिष्टं जगदिति तद्घटितत्वस्यैव सत्त्वेन स्वाघटकत्वस्वघटकमात्रोद्देश्यकविकारातिरिक्तत्वोभयसम्बन्धेन स्वीयप्रथ- मप्रवृत्त्युद्देश्यत्वेनाश्रीयमाणसमुदायविशिष्टाघटितत्वरूपतल्लक्ष्यत्वविरहा- दिति वाच्यम् । पुनहखेनेष्टसिद्धः। न च लक्ष्ये लक्षणन्यायेन पुनह स्वा- सम्भवः । समुदायोद्देश्यकटापा सहेकादेशस्य ह्रस्वशास्त्रीयप्रथमप्रवृत्त्युद्देश्य- समुदायविशिष्टत्वेन तद्घटितस्य जगदम्बेत्यस्य तल्लक्ष्यत्वाभावात् पुन- ष्टाप् तु न तल्लक्ष्यत्वात्। तथा हि स्वीयप्रथमप्रवृत्तिजगदम्बशब्दाहापः प्रवृत्तिस्तदुद्देश्यत्वेनाश्रीयमाणो जगदम्बसमुदायस्तत्त्वं लिङ्गविशिष्टपरिभा- षया जगदम्बाशब्देऽपि तद्विशिष्टत्वमन्तिमहस्वस्य नास्ति यतस्तस्य तद्धट- कमात्रोद्देश्यकत्वेन स्वघटकमात्रोद्देश्यकविकारातिरिक्तत्वाभावात् । अपि तूदासीनस्य कस्यचित् तद्घटितत्वस्य जगदम्वशब्देऽसत्त्वात्। न च ह्रस्वे कर्त्तव्ये जगदम्बाशब्दे यत्तल्लक्ष्यत्वन्तदेकदेशविकृतन्यायेन जगदम्बशब्दे आनीय पुनल्लिङ्गविशिष्ट परिभाषया जगदम्बाशब्दे आनीयत इति तल्ल- क्ष्यत्वान्नात्र ह्रस्वत्वेनेष्टसिद्धिरिति वाच्यम् । ह्रस्वस्य विभक्तिनिमित्तकत्वेन विभक्तौ लिङ्गविशिष्टाग्रहणमिति परिभाषया लिङ्गविशिष्टन्यायेन जगद- म्बाशब्दे तल्क्ष्यत्वाभावात् । न च यासाशब्दे पुनरत्ववारणाय तल्लक्ष्यत्वं लिङ्गविशिष्टपरिभाषया विभक्तिनिमित्तककार्येप्यानेतव्यमेवेति वाच्यं, न २१६ ] परिभाषेन्दुशेखरः [ बाधबीजकथने यासयोरितिनिर्देशेन पुनरत्वाप्रवृत्तेरेव कल्पनात्। तत्रैव विभक्तौ लिङ्गेतिप- रिभाषाया अप्रवृत्तिकल्पनाच्च । हे जगदम्बेत्यादौ सम्बुद्ध्यव्यवहितपूर्वत्वं निमित्तीकृत्य जायमानो हस्वस्तन्निमित्तविनाशकटापं प्रत्यनिमित्तं स्यादि- तिरीत्यापि टापोऽभावः परिभाषां विनापि सिद्धोऽत एव बुद्धावित्यादावपि न टाप इति न फलं जातासिद्धत्वस्य यासेत्यादौ तु न यासयोरिति निर्दे- शाट्टाप हे लक्ष्मीत्याद्यनुरोधेन सम्बुद्धौ सन्निपातपरिभाषा न प्रवर्त्तत इति न भ्रमितव्यं, नदीहस्वत्वस्यैव विशिष्य भाष्योक्तः । यत्तु अम्बात्रेत्यादौ ह्रस्योत्तरैकादेशे पूर्वान्तवद्भावेनैकादेशविशिष्टे अ- म्बार्थकत्वेऽपि न ह्रस्वः पदद्वयसम्बन्धिवर्णद्वयापेक्षत्वेन बहिरङ्गस्यैकादेश- स्यासिद्धत्वादित्येव फलं तन्न। उत्तराकारपूर्वभूतसम्बुद्धयपेक्षया उत्तराका- रपर्यन्तैकादेशविशिष्टस्य पूर्वत्वबुद्ध यभावेन ह्रस्वत्वाप्राप्तः । स्वयंभवतीति स्वयम्भूः स्तस्मै स्वयम्भुवे इत्यत्र प्रत्ययलक्षणेन किप्परत्वमादाय प्राप्ते अठि विभक्तिनिमित्तकत्वेन बहिरङ्गस्योवङोऽसिद्धत्वं परिभाषाफलमित्यपि न । छकारसाहचर्येण विभक्त्यनिमित्तकस्यैव वस्य ग्रहणेनादोषात् । न चोक्त- स्वयम्भूशब्दादाचारकिबन्तात् पयर्थे कप्रत्यये स्वयम्भुव इत्यादौ वकारस्यो- ठोऽभावायासिद्धत्वं वकारस्य विभक्त्यनिमिकत्वेनोक्तसाहचर्येणाशक्यवा- रणत्वादिति वाच्यम्, साहचर्येण यगितरप्रत्ययानिमित्तकस्यैव वस्य ग्रह- णेनादोषात् । यगितरत्वनिवेशेन ब्राह्मणकण्डूतिरितिभाष्यप्रयोगे कण्डू- यतेयगन्तात् क्तिचि अल्लोपयलोपयोः स्थानिवद्भावेन यगकारनिमित्तकोव- ङवयववकारस्योठ्यप्यदोषात्। न च इष्धातोः कर्तृकिबन्तप्रकृतिकाचारकि- बन्तात् कर्तृतिबन्तेषशब्दस्याशब्देन समासाद्वा आचारकिबन्ताल्लटि ति- पि शपि पररूपे छत्वे इच्छतीत्यादौ छकारस्य किपमादाय शत्वप्रवृत्तेस्ता- दृशसाहचर्यस्य वक्तुमशक्यत्वात् । पूर्वोक्तं फलं युक्तमेवेति वाच्यमिष्टसि- द्धः। तत्रापि छत्वस्यासिद्धत्वेन शत्वाप्रवृत्त्यर्थश्चान्तरङ्गपरिभाषा मन्तव्येति बोध्यम् । कर्तृक्विबन्तप्रकृतिकाचारक्विवन्तभूधातोर्यति भव्यमित्यादा- वुठोऽभावाय सा । दिवधातोः कप्रत्यये दिवः। मन्धातोः क्विपि न लोपे तुकि मत्। तयोस्समासे ततो णिचि टिलोपे णिलोपे दिवमितिमान्तस्य मशब्देन समासे णिचि टिलोपे देवयतीत्यादावुठोऽभावाय सा। नौशब्द- स्याशब्देन समासे नावशब्दादाचारक्किबन्ताण्णावल्लोपे नावयतीत्यत्रोठो- ऽभावायापि सा । अल्लोपस्य स्थानिवत्त्वन्तु न क्वौ विधि प्रति निषेधात् । दीडो घबर्थे के दियशब्दादाचारविबन्तागणावल्लोपे दिययतीत्यादौ किपो वकारमादाय यलोपस्याभावायापि सा बोध्या।

५१. असिद्धं बहिरङ्गमन्तरङ्गे] विजयाऽलङ्कृतः [२१७ समकालप्राप्तबहिरङ्गासिद्धत्वफलमथ विचार्यते । रियति, पियति, असुनुवत् , अयजे इन्द्रं मृद्वया पट्ट्या, एषु प्रयोगेषु लघूपध- गुणापेक्षया इयङवङोः अयजइइन्द्रमित्यवस्थायां दीर्घापेक्षया गुणस्य मृदु ई श्रा, पटु ई आ इत्यवस्थायां परयणपेक्षया पूर्वयणश्च शीघ्रोपस्थिति- निमित्तकत्वरूपान्तरङ्गत्वेन पूर्व प्रवृत्तिस्समकालप्राप्तिकबहिरङ्गासिद्धत्वफ- लम् । अन्यथाऽऽद्येषु गुणस्य चतुर्थे दीर्घस्य परत्वादापत्तिरन्त्ययोः शब्द- परविप्रतिषेधेन परयणश्च प्रवृत्तिस्स्यात् । पूर्वस्य यण न स्यादिति केचित्। तन्न । येन नाव्यवधानन्यायेन पुगन्तसाहचर्येण चार्धमात्रिकवर्णव्यवधा- नस्यैव सहनेन मात्रिकव्यवधाने प्रवृत्तौ मानाभावेन गुणस्याप्राप्तः। न च भीधातोर्घजथे कप्रत्यये तदन्तादाचारक्विबन्तात्कर्तरि क्विपि अलोपय- लोपयोराचारक्विबन्ताल्लटि भयति वनिपि भेवेत्यादावल्लोपस्य स्थानिवद्- भावात् सार्वधातुकार्धधातुकयोरिति गुणो न स्यात, मम तु अन्तरङ्गत्वा- दियड्रियतीत्यादिभाष्यप्रामाण्यान्मात्रिकवर्णव्यवधानेऽपि लघूपधगुण- प्रवृत्त्या लघूपधत्वादेव गुणसिद्धिरित्यर्धमात्रिकव्यवधानमेव सह्यत इति न युक्तमिति वाच्यम् । अर्धमात्राधिककालिकं यच्छ्रयमाणं तदतिरिक्त- व्यवधानस्यैव सहनेनादोषात् । यत्तु रियतीत्यादौ सत्यपि गुणे जातस्य बहिरङ्गस्यासिद्धत्वादियङा- दिस्स्यादिति तन्न । नाजानन्तर्य इति निषेधात् । अयजे इन्द्रमित्यत्र पदसंस्कारपक्षे गुणप्रवृत्तिसमये दीर्घस्याप्राप्त्या गुणप्रवृत्तेरव्याहतत्वात नित्यत्वाच्च । अपवादत्वाद्दीर्घस्तु न वाच्यः । यण्गुणशास्त्रीयाच्पदप्रयो- ज्यविषयतायास्सवर्णाच्त्वावच्छिन्नविषयतां प्रत्येव व्यापकत्वात् । तत्र सवर्णाचत्वावच्छिन्नविषयताश्रयाभिन्नवृत्तित्वं स्यादिति पूर्वेकारस्य तादृश- विषयताश्रयभिन्नत्वेनाच्पदेन तस्य ग्रहणे बाधकाभावात्। मृव्येत्या- दावपि क्रमिकान्वाख्यानपक्षे पूर्वयणसमये तृतीयाया अभावेन परयणोऽ- प्राप्तः। शब्दपरविप्रतिषेधेन जातेऽपि परयणादेशे तस्य स्थानिवद्भावेन पूर्वयणः प्रवृत्तेश्च । न च इउन्ना एषां समासे परयणादेशे पदान्तविधि- त्वेन स्थानिवद्भावाभावेन पूर्वयणादेशो न स्यादित्यन्तरङ्गत्वात्पूर्वं पूर्वय- णादेश इति फलमिति बाच्य; जातबहिरङ्गासिद्धत्वेन परयणादेशस्या- सिद्धत्वेन पूर्व यणादेशप्राप्तः। नाजानन्तर्य इति निषेधात् । असिद्धत्वाभावे तु फलं युक्तमेवान्तरजत्वात्पूर्वयण एव पूर्व प्रवृत्तेर्वा इति सिद्धेः । यलोप- स्तु न । परयणो बहिरङ्गत्वेनासिद्धत्वात् स्थानिवद्भावाच्च । यलोपे निषेधस्तु न । लोपाजादेशस्यैव निषेधविषयत्वात् । रुद्यादित्यादौ प्रकृतिप्रत्ययापेक्षा- २१८] परिभाषेन्दुशेखरः [ बाधबीजकथने नन्वेवमक्षयूरित्यादौ बहिरङ्गस्योठोऽसिद्धत्वादन्तरङ्गो यण् न स्यादत आह-- नाजानन्तर्य बहिष्ट्वप्रक्लृप्तिः ॥ ५२ ॥ अत्र 'पवतुको रिति सूत्रस्थं तुग्ग्रहणं ज्ञापकम् । अन्यथाधीत्य प्रेत्येत्यादौ समासोत्तरं ल्यपप्रवृत्त्या पूर्व समासे जाते तत्र संहि- ताया नित्यत्वाल्लयबुत्पत्तिपर्यन्तमप्यसंहितयाऽवस्थानासम्भवनै- कादेशेल्यपि तुगपेक्षया पदद्वयसम्बन्धिवर्णद्वयापेक्षकादेशस्य बहि- भ्यामडीड्भ्यामन्तरङ्गत्वाद्यासुडिति तु न फलं परस्मैपदेष्विति विषय- सप्तम्या लावस्थायामेव यासुटः प्रवृत्तेस्तस्य नित्यत्वाच्च । अभवकदित्यत्र नित्यमकचं बाधित्वाऽन्तरङ्गत्वादितश्चेतीकारलोपः पूर्वमकचि तु अभवत- कीति स्यादिति बोध्यम् । कश्च अश्च इशश्च केशा इत्यत्र नित्यमपि गुणं बाधित्वाऽन्तरङ्गत्वाद्दीर्घ इत्यपि फलम् । अपवादत्वाद्दीर्घ इति तु न युक्तमकारद्वयनिमित्तकगुणं प्रत्यपवादत्वेऽप्यकारेकारनिमित्तकगुणं प्रति तत्त्वाभावात् । इच्छतीत्यादौ छत्वे कृतेऽन्तरङ्गत्वात्पूर्वं तुकि लघूपधत्वा- भावान गुण इत्यपि फलं सम्यगेव । अविभयमित्यत्र भीअभ इति स्थिते परमपि गणं बाधित्वा श्लूनिमित्तके द्वित्वेऽन्तरङ्गत्वात्पूर्व कृतेऽभ्यासे इका- रश्रवणम् । जन् अतीतिस्थिते परमप्युपधालोपं बाधित्वाऽन्तरङ्गत्वात् श्लावितिद्वित्वे जज्ञतीति सिद्विः । पूर्वमलोपे द्वित्वानापत्तेरिति दिक् ॥५१॥ नन्वेवमिति । बहिरङ्गपरिभाषायाः' स्वीकार इत्यर्थः । अन्तरङ्गो यण न स्यादिति । बहिरङ्गत्वेन विवक्षितमूठशास्त्रं तद्घटकाङ्गपदप्रयो- ज्यविषयताश्रयो दिविति तद्घटकः स्थानिद्वारा उकारस्तन्निष्ठविषयता- प्रयोजकमच्पदं तद्घटितत्वेन यणोऽन्तरङ्गत्वमिति भावः । षत्वतुकोर- सिद्ध इत्यस्य षत्वे तुकि च कर्त्तव्ये एकादेशशास्त्रमसिद्धमित्यर्थः । समासोत्तरमिति । ल्यपस्तन्निमित्तकत्वादिति भावः । अधि इत्वा इति स्थिते समासे तत्र संहितायाः 'संहितैकपदे नित्ये'त्यभियुक्तोक्त्या नित्यत्वात्। युगपदेकादेशल्यपोः प्रवृत्तौ तुकि कर्तव्ये षत्वतुकोरित्यनेन एकादेशस्यासि- द्धत्वात्तुग भवति । नाजानन्तर्यपरिभाषाया अभावे तु बहिरङ्गत्वादेवैका- देशस्यासिद्धत्वेन तुकसिद्धौ तुको ग्रहणं व्यर्थ सदस्या ज्ञापकम् । ज्ञापिता- ५२. नाजानन्तर्य बहिष्ट्व० ] विजयाऽलङ्कृतः [ २१६ रङ्गतथा असिद्धत्वेन तद्वैयर्थं स्पष्टमेव । पदद्वयसम्बन्धिवर्णद्व- यापेक्षकादेशस्य बहिरङ्गत्वमिति प्रेद्ध इत्यादौ गुणो बहिरङ्ग इति ग्रन्थेन । 'न धातुलोप' इति सूत्रे 'संयोगान्तस्य लोपः' इति सूत्रे च भाष्ये स्पष्टम् । यत्तु षत्वग्रहणमपि ज्ञापकम् । अन्यथा कोऽसिचदित्यादौ पदद्वयसम्बन्धिवर्णद्वयापेक्षत्वेन बहिरङ्गस्यैकादेशस्यासिद्धत्वेन ष- यान्त्वस्यामनिष्ठल्यनिरूपितान्तयनिमित्तकतुगपेक्षयकादेशस्य बहिरङ्ग- परिभाषयाऽसिद्धत्वाभावेन तुगग्रहणं चरितार्थम् । प्रेड इत्यादाविति । न धातुलोपार्द्धधातुक इत्यस्य धात्वंशलोपनिमित्त आर्द्धधातुके सति गुणो नेत्यर्थे प्रेद्ध इत्यादौ धात्वंशनकारलोपनिमित्ते क्तप्रत्ययरूपे आर्द्धधातुके सति आद्गुण इति गुणो न स्यादित्याशंक्य गुणो बहिरङ्गो निषेधोन्तरङ्ग इति निषेध्यस्यासिद्धत्वेनादर्शनानिषेधो न स्यादिति समाहितम् । तत्र गुणस्य पदद्वयसम्बन्धिवर्णद्वयापेक्षत्वरूपमेव बहिरङ्गत्वं भाष्याभिप्रेत- मिति भावः। तद्भाष्यरयैकदेश्युक्तत्वेनाप्रामाण्यमिति चेत् तदाह-संयोगा- न्तस्य लोप इति । तत्र हि यणः प्रतिषेधो वाच्यो न वा बहिरङ्गलक्षण- त्वादित्युक्तम् । सुट्युपास्य इत्यादौ यण: पदवयसम्बन्धिवर्णद्वयापेक्षत्वेनैव बहिरङ्गत्वं वाच्यमिति भावः । ननु वृक्षे छत्रमित्यत्र पदान्ता द्वेति तुकि कर्तव्ये एकादेशस्यासिद्धत्वार्थं तुक्चरितार्थन्तत्रैकादेशस्यान्तरङ्गत्वेन बहिरङ्गपरिभाषयाऽनिर्वाहात । न चासिद्धत्वेऽपि छे चेति तुक्प्रवृत्त्या न विशेष इति वाच्यम् । तथापि वैकल्पिकत्वासिद्धेरिति चेत्-न। पदान्तपदा- द्योरिति वक्तव्यमितिवार्तिकेन पदान्तपदाद्योरेकादेशस्यैव तुक्यसिद्धत्वात् । नन्वेवमपि वृक्षस्य इः वृत्तेः । तस्य छत्रं वृक्षेछत्रमित्यादावेकादेशस्य तथा भूतस्यासिद्धत्वार्थं तुगग्रहणमस्त्विति चेत्-न । सेरित्यादिवत् । न चङः पदान्तात्परोरुरस्तीतिभाष्यात् ज्ञापकपरप्रकृतभाष्याच्च । तस्यानभिधानात्। कोसिचादित्यादाविति । को इत्येकादेशविशिष्टस्य पूर्वान्तवद्धावेन पदत्वमोसिचदित्यस्य परादिवद्भावेन सिचदित्येतन्मात्रस्यैकदेशविकृत- न्यायेन वा पदत्वादेकपदसम्बन्धित्वमिणः द्वितीयपदसम्बन्धित्वं सकार- स्येति षत्वस्यापि पदद्वयसम्बन्धिवर्णद्वयापेक्षत्वमेकादेशस्य तत्त्वन्तु स्पष्ट- मेव । न चान्तादिवञ्चत्यस्य शास्त्रीयकार्ये एव प्रवृत्त्या बहिरङ्गपरिभाषाया ramme २२० ] परिभाषेन्दुशेखरः [ बाधबीजकथने त्वाप्रवृत्तौ किं तेनेति । तन्न । इणः पूर्वपदसम्बन्धित्वेन षत्वस्यापि पदद्वयसम्बन्धिवर्णद्वयापेक्षत्वेन उभयोः समत्वात् । एकादेशस्य प- रादिवत्वेनोसिचदित्यस्य पदत्वेन सस्य पदादित्वाभावान्न 'सात्प- दायोः' इत्यनेन निषेधः। श्रेपादिकेऽन्तरङ्गे कार्यकालपक्षेऽपि बहिरङ्गपरिभाषायाः अप्रवृत्तः पूर्वमुपपादितत्वाच्च । परिभाषार्थ- स्तु अचोऽन्यानन्तर्यानिमित्तकेऽन्तरङ्ग कर्तव्ये जातस्य बहिरङ्ग- स्य बहिष्ट्वप्रक्लप्तिनं । बहिष्पदेन बहिरङ्गम् । तस्य भावो बहिष्ट्वं बहिरङ्गत्वं तत्प्रयुक्तासिद्धत्वस्य न प्रक्लूप्तिः, न प्राप्तिरिति । असिद्धं बहिरङ्गमित्युक्त्वा नाजानन्तर्य इति वक्ष्यामोति भाष्यो- क्त्या तत्रत्यस्यान्तरङ्गे इत्यस्यानुवृत्तिसूचनात् । तेन पचावेदमि- त्यादौ न दोषः । अन्तरङ्गस्याच्स्थानिककार्य्यस्यैत्वस्यान्यानन्त- अप्रवृत्त्यर्थं कथन्तत्प्रवृत्तिरिति वाच्यम्। परिभाषाया अप्रवृत्तिद्वारा षत्वप्रवृत्त्यर्थत्वेन शास्त्रीयकार्यार्थत्वात् । प्रसङ्गात् षत्वग्रहणस्य चारितार्थ्याय सात्पदाद्योरित्यस्या- प्राप्तिरुच्यते । ओसिदित्यस्य पदत्वेनेति । तथा चौकारस्य प- दादित्वं न तु सकारस्येति न सात्पदाद्योरित्यस्य प्रवृत्तिः । न च तद्- प्रवृत्तेरशास्त्रीयत्वात् कथं परादिवद्भावः, षत्वनिषेधाप्रवृत्तेः। षत्वरूपत्वेन शास्त्रीयत्वात् । यत्तु को इत्यस्य पूर्वान्तवद्भावेन पदत्वेऽपि उभयत आश्रयणेनान्ता- दिवद्भाव इति निषेधेनौसिचदित्यस्य पदत्वाभावात्पदादादिरिति पश्चमी- समासेन सात्पदाद्योरितिषत्वनिषेधसिद्धिरित्युक्तं-तन्न । ओसिचदित्यस्य पदत्वेऽपि सकारस्य पदात्परत्वविशिष्टस्यादित्वस्याक्षतेः । उभयत आश्रयण इत्यस्य स्वमते अभावाच । त्रैपादिकेऽन्तरङ्ग इति । तथा च न षत्व- दृष्ट्यैकादेशस्यासिद्धत्वेन सिद्धिरिति भावः । अनुवृत्तिसूचनादिति । अ- सिद्धं बहिरङ्गमन्तरङ्गे नाजानन्तर्य इति भाष्योक्ती नाजानन्तर्य इत्युत्त- रार्द्ध पूर्वस्थान्तरङ्ग इत्यस्यानुवृत्तिरिति भावः । तेन अज्निष्ठान्यानन्तर्य- निमित्तकत्वस्यान्तरजाविशेषणत्वेनेत्यर्थः । अन्तरङ्गबहिरङ्गयोमध्ये कस्या- ५२. नाजानन्तर्ये बहिष्ट्व० ] विजयाऽलङ्कृतः [ २२१ निमित्तकत्वाभावात् । जातस्य बहिरङ्गस्येत्युक्त्या अयजे इन्द्र धियतीत्यादौ बहिरङ्गदीर्घगुणादेरसिद्धत्वम् । अत एवेण्डिशीना- 'माद्गुणः सवर्णदीर्घत्वाच्छचङन्तस्यान्तरङ्गलक्षणत्वादित्यादि संगच्छते । अत एव 'श्रो माङोश्च' इत्याङ्ग्रहणं चरितार्थम् । तद्धि शिव था इहीति स्थिते परमपि सवर्णदीर्घ बाधित्वा धातूपसर्गकार्य- त्वेनान्तरङ्गखाद्गुणे वृद्धिबाधनार्थम् । न चाक्षरित्यत्र यणि कृते ऊठोऽसिद्धत्वाद्वलि लोपापत्तिरिति वाच्यम् । अचोऽन्यानन्तर्यनि- प्यनिष्ठान्यानन्तर्यविशेषणत्वे तु प्रकृते बहिरङ्गगुणस्य तथात्वेनासिद्ध- त्वानापत्तिः । जातस्य बहिरङ्गस्येति । नन्वेवमधीत्येत्यादावन्तरङ्गानपि विधीन् बहिरङ्गो ल्यप् बाधत इति परिभाषयकादेशात्पूर्वमधि इत्वेति स्थिते ल्यपि अधि इयेत्यत्र समकालमेवैकादेशतुकोबहिरङ्गान्तरङ्गयोः प्राप्तौ जातबहिरङ्गाभावेन परिभाषाया अप्राप्तौ तुकः स्वाशे चारितार्थ्या- भाव इति चेत्-न । अन्तरङ्गनिमित्तविनाशकस्यैव ल्यपः प्राबल्यस्य तया बोधनेन प्रकृते ल्यबुत्तरमपि दीर्घप्रवृत्त्या ल्यपस्तन्निमित्तविनाशकत्वा- भावेन प्राबल्यावोधनात् । अत एव निरेष्य दुरेष्येत्यादौ निर्दपूर्वकात एयन्तादिषेः क्त्वाप्रत्यये अन्तरङ्गानपीतिन्यायेन ल्यप्प्रयोजकसमासे ल्यपि च गुणात् पूर्वं कृते प्रतिपदोक्तत्वेन गुणात् पूर्व ल्यपि लघु- पूर्वादित्यनेन गेरयादेशे गुणे निरषय्य दुरेषय्य इति न किन्तु ल्यवुत्तर- मपि गुणादेशप्रवृत्त्या ल्यपो गुणनिमित्तविनाशकत्वाभावेन प्राबल्या- भावादन्तरङ्गत्वाद्गुणे ल्यपि लघुपूर्वकत्वाभावेनायादेशाप्राप्तौ णिलोपे नि- रेष्य दुरेष्येत्यस्य सिद्धिः । नन्वेवं पराजग्ध्येत्यादौ परा अक्त्वा इति स्थिते ल्यप एकादेशनिमिचविनाशकत्वाभावेनाप्राबल्यात् यत्पूर्वं सम- कालमेव वा दीर्धे परादिवद्भावेन जग्ध्यादेशे पन्ध्येति स्यादिति चेत- न । जग्ध्यादेशद्वारा परंपरया दीर्घनिमित्तविनाशकत्वस्य सत्त्वेनादो- पात्। अत एवेति । जातस्यैवासिद्धत्वाभावबोधनादेवेत्यर्थः । परमपि सवर्णदीर्घमिति । समकालस्थलेऽपि प्रवृत्तावन्तरङ्गपरिभाषाया निषेधे परत्वाद्दीघे गुणं शिवेहीति सिद्धौ तद्वैयर्थ्य स्पष्टमेव । 'अठोऽसिद्ध- २२२ ] परिभाषेन्दुशेखरः [वाधबीजकथने मित्त केऽन्तरङ्गे कर्त्तव्ये, कृते च तस्मिन् यदन्तरङ्ग प्रामोति तत्र च कर्तव्ये नासिद्धत्वमित्येतदर्थात् । असिद्धपरिभाषाया अनित्यत्वेन तद्वारणे त्वस्या वैयर्थ्यं तेनैव सिद्धेः। अत एव 'नलोपः सुप्' इति सूत्रे कृति तुग्ग्रहणं चरितार्थम् । अन्यथा घृत्रहभ्यामित्यादौ बहि- भूतभ्यानिमित्तकपदत्वाश्रयत्वेन बहिरङ्गतया नलोपस्यासिद्धत्वेन सिद्धे तद्वैयर्थ्यं स्पष्टमेव । मम तु तुक्यजानन्तर्यसत्त्वान्न दोषः । न चैवं सति 'हस्वस्य पिति' इति सूत्रस्थभाष्यविरोधः। तत्र हि ग्राम- णिपुत्र इत्यत्रको 'हस्वोऽङयः' इति ह्रस्वे कृते तुकमाशङ्कय ह्रस्वस्य बहिरङ्गासिद्धत्वेन समाहितम् । नाजानन्तर्य इत्यस्य सत्वे तत्र तदप्राप्तेरसङ्गतिःस्पष्टैवेति वाच्यम् । तेन भाष्येणास्था अनावश्यकत्व- बोधनात् । एतज्ञापकेनान्तरङ्गपरिभाषाया अनित्यत्वबोधनस्यैव न्याय्यत्वात् । अत एवा'चः परस्मिन्' इति सूत्रेभाष्ये पटुई आइत्यत्र परयणादेशस्यानयाऽसिद्धत्वात्पूर्वयणादेशः साधितः । अत एवैषा त्वादिति । वलिलोपापेक्षयाबहिरङ्गत्वेनोठोऽसिद्धत्वादिति भावः । अस्या वैयर्थ्यमिति । नाजानान्तयंपरिभाषाया वैयर्थ्यमित्यर्थः। तेनैवेति । अन्तरङ्गपरिभाषाया अनित्यत्वनैवेत्यर्थः । अत एव नलोप इति । नाजानन्तर्यपरिभाषायास्सत्त्वादेवेत्यर्थः। अन्यथेति । अनित्यत्वे प्रकृते प्रवृत्त्यैवेष्टसिद्धौ तद्वैयर्थ्यं स्यादिति भावः। मम तु नाजानन्तर्यपरिभाषा- वादिनस्तु।अत एवेति। नाजानन्तर्यापरिभाषाया अभावादेवेत्यर्थः। नन्वत्र तस्यास्सत्त्वेऽपि न दोषस्समकालप्राप्तत्वादिति चेत्-न। परिभाषास्वीकार- स्तत्र जातत्वनिवेशस्तदपेक्षया बहिरङ्गपरिभाषाया अनित्यत्वेनैव सकला- तिप्रसङ्गभङ्ग इत्येव युक्तमिति भावः। अत्रेदं बोध्यं ग्रामणिपुत्र इत्यत्र बहि- रङ्गपरिभाषया तुग्वारणपरभाष्यान्नाजानन्तर्य इति नास्तीति कल्प्यतेऽ- न्यथाऽनया बहिरङ्गपरिभाषाया अप्रवृत्त्यापत्त्या भाष्यासङ्गतिः । तुक्ग्रह- णेन च बहिरङ्गपरिभाषाया अनित्यत्वमेव ज्ञाप्यते । तेनैवाक्षारित्यादौ यण्वलिलोपाभावौ सिद्धौ रामयोरित्यादावयादेशापेक्षयौसिचेत्यस्यासिद्ध- ५२. नाजानन्तर्य बहिष्ट्व०] विजयाऽलङ्कृतः [ २२३ परिभाषा भाष्ये पुनः क्वापि नोल्लिखिता। अत एवान्तरङ्गपरि- भाषामुपक्रम्य विप्रतिषेधसूत्रेऽस्या बहूनि प्रयोजनानि सन्ति तद- र्थमेषा परिभाषा कर्त्तव्या प्रतिविधेयं दोषेषु इत्युक्तं 'सम्प्रसारणाच' इति सूत्रे भाष्ये । प्रतिविधानं च परिभाषाविषयेऽनित्यत्वाश्रयण- मेवेति ध्वनितमित्यलम् ॥ ५२ ॥ नन्वेवं गोमत्प्रिय इत्यादौ पदद्वयनिमित्तकसमासाश्रितत्वेन बहि- स्वाभावः । रामेणेत्यादौ गुणापेक्षयेनादेशस्यासिद्धत्वाभावश्च। सिद्धः शयाते इत्यत्रायादेशापेक्षया बहिरङ्गस्यापि गुणस्यासिद्धत्वाभावः । एषु प्रयोगेषु नाजानन्तर्यपरिभाषया वारणसम्भवेऽपि अयजे इन्द्रमित्यादौ मृव्या- पव्येत्यादौ चैतस्या अप्रवृत्तये जातबहिरङ्गत्वविषयकत्वमपि वक्तव्यम् । तदपि गौरवमेव । अक्षयरित्यत्र वलिलोपवारणायानाजानन्तर्ये अन्तरद्ध कृते चेत्यर्थान्तरकरणापत्तिश्च स्यात् । तथापि दीधातोर्विचि मीनाती- त्यात्वे विचो लोपे शसि बातो धातोरित्याकारलोपे दः, अस्यः अः आः, शसि आलोपे अः, पशुं सनोतीति पशुसाः, षनधातोर्विटि विड़बनोर- नुनासिकस्यादिति नकारस्यात्वे शसि आलोपे पशुसः, यायावरः, यातिः, इत्याद्यर्थमन्तरङ्गपरिभाषाया अनित्यत्वमपि वक्तव्यमेवान्यथाऽनैमित्ति- कत्वेनान्तरङ्गस्यालोपस्य वलमात्रनिमित्तकत्वेनान्तरङ्गस्य यलोपस्य च कर्तव्ये बहिरङ्गस्यात्वस्याकारलोपस्य चासिद्धत्वेनातो लोपस्य यलोपस्य चाभावापत्तिः। नाजानन्तर्यपरिभाषया तु न निर्वाहः। अन्तरङ्गस्या- निष्टान्यानन्तर्यानिमित्तकत्वाभावात् । इत्थश्चावश्याश्रयणीयेनानित्य- त्वेनैव सर्वत्र निर्वाहे नाजानन्तर्यपरिभाषा नाश्रयणीयेत्येव युक्तमिति तत्त्वम् । अनित्यत्वेन बहिरङ्गपरिभाषाया अप्रवृत्तियोग्यानां केषाञ्चि- स्थलानामनुगमरूपैव नाजानन्तर्य्यपरिभाषा। ग्रामणिपुत्र इत्यत्र सन्नि- पातपरिभाषयाऽपि तुग्वारणस्य भाष्ये सत्त्वेन बहिरङ्गपरिभाषया वारणस्य भाष्यकारेणावहेलनात् पशुस इत्यादावननुगतानित्यत्वस्वीकारेऽपि बहुषु स्थलेषु अनुगतानित्यत्वस्वीकारे बाधकाभावात् । नासूया तत्र कर्तव्या यत्रानुगमः क्रियत इत्युक्तेरितिं परे ॥५२॥ नन्वेवमिति । अन्तरङ्गपरिभाषायास्स्वीकार इत्यर्थः । बहिरङ्गं २२४ ] परिभाषेन्दुशेखरः [ बाधबीजकथने रङ्ग लुक बाधित्वाऽन्तरङ्गत्वाद्धल्यादिलोपे नुमादयः स्युरत- आह- अन्तरङ्गानपि विधीन्बहिरङ्गो लुग् बाधते ॥ ५३ ॥ लुकमिति । ननु गोमत्सु प्रियसु इति दशायां हल्ङ्यादिलोपसमये लुको- ऽप्राप्त्या बहिरङ्ग लुकं बाधित्वा अन्तरङ्गत्वादित्युक्तिरसंगता। जातस्य समकालप्राप्तस्य वा बहिरङ्गस्यैवासिद्धताबोधनात्। न च लुक्पदं तत्प्रयो- जकसमासस्योपलक्षकन्तस्य लोपसमकालप्राप्तत्वादिति वाच्यं, तस्याप्यन्य- पदार्थान्तर्भावेण वृत्तिकल्पनोत्तरमेव प्रवृत्तेरिति चेत्-न । अप्राप्तिमत्वरू- पबहिरङ्गत्वस्य सत्त्वेनादोषात् । हलङ्यादिलोप इति। नन्वेतद्पेक्षया नुमः परत्वादिदमयुक्तमिति चेत्-न। अपरनिमित्तकत्वेन लोपस्यान्तरङ्- गत्वात्पूर्वं नुम्यपि दोषस्यैव सत्त्वेनापाद्यमानेऽर्थे न्यायानादराच्च । नुमा- दयः स्युरिति । ननु पूर्व नुम्यच उपधात्वाभावेन निरवकाशत्वात्पूर्व दीर्घ एव स्यादिति नुमादय इत्ययुक्तमिति चेत्-न। उपधापदस्य पूर्वमात्रो- पलक्षकत्वेन नुमुत्तरं दीर्घस्य सावकाशत्वेन परत्वान्नित्यत्वाच्च नुम एव पूर्व प्रवृत्तिरित्याशयात् । श्रापाद्यमाने अर्थे न्यायानादरणाच्च । अन्तरङ्गानपीति । अपिशब्देन अन्तरङ्गबाधकस्यान्तरङ्गापेक्षया दुर्बलयोः परनित्ययोधकत्वं लोकसिद्ध संगृह्यते न त्वपवादबाधकत्वं, तस्य निरवकाशत्वेन प्राबल्यात् । तेन ह्यः श्वः आदितः मध्यत इत्यादौ परमप्यत्वसन्तस्येतिदीर्घ बाधित्वाऽव्ययादिति लुक् । ब्रह्मिष्ठा इत्यादौ ब्र- झन् अस् इष्ठ इति दशायां परमपि टिलोपं बाधित्वा सुपो लुकि अन्रू- पटेलोपे ब्रह्मिष्ठा इति सिध्यति । परस्य लुकाऽबाधे अनुरूपटेः परत्वाल्लोपे तस्याभीयासिद्धत्वेन अन्रूपटेः पुनर्लोपाभावे असिद्धयापत्तेः । शोभना आपो यस्मिन् तत् स्वपकुलमित्यादौ सुपथि वनमित्यादौ च प्रतिपदोक्त- रूपान्तरङ्गमपि अतृन्नितिदीर्घ पथिमथीत्यात्वं च बाधित्वा लुक् । नन्व- पिघटितपाठे तत् कुलमित्यादौ लुगथं कृतस्य त्यदादिभ्यश्च वक्तव्य इ- तिवात्तिकस्य वैयथ्यमनेनैव न्यायेन परमपि त्यदाद्यत्वं बाधित्वा स्वमोन- पुंसकादित्यनेन लुसिद्धेः। श्रपिघटितपाठाभावे तु अत्वस्यान्तरङ्गत्वाभा- वेन न्यायेन तद्बाधासिद्धेत्तिकं सार्थकम् । एवं लुकः परबाधकत्वे भवता- दित्यादौ परमपि तातङादेशं बाधित्वा अतोहेरिति लुक स्यादिति चेत्-न ।

५३. अन्तरङ्गानपि विधीन् ] विजयाऽलङ्कृतः [ २२५ अत्र च 'प्रत्ययोत्तरपदयोश्व' इतिसूत्रं ज्ञापकम् । त्वत्कृतमित्यादौ लुगपेक्षयान्तरङ्गत्वाद्विभक्तिनिमित्तकेन 'त्वमावेकवचने' इत्यनेन सिद्धे इदं व्यर्थं सदेतज्ज्ञापकम् । ननु तव पुत्रस्त्वत्पुत्र इत्यादौ तवममादिबाधनार्थं तदावश्यक- । , तत् कुलमित्यादौ उत्सर्गशास्त्रप्रवृत्त्यभावसम्भावनाप्रयोज्यापवादशास्त्रप्र- वृत्तिसम्भावनायां पूर्वमुत्सर्गशास्त्रं न प्रवर्त्तत इत्यर्थकोपसंजनिष्यमाणनि- मित्तन्यायेन लुकोऽप्रवृत्त्या वार्तिकस्यावश्यकत्वात् । यदि पूर्व लुक् न स्यात्तर्हि त्यदाद्यत्वे अतोऽमिति स्यादितिसंभावनायाः प्रकृते सत्त्वात् भ- वतादित्यादौ लुकोऽन्तरङ्गमात्रबाधकत्वेऽप्यनिमित्तकत्वेन तातडोऽन्तर- ङ्गत्वात् प्रकारान्तरेणैवोभयोस्समाधेयत्वेनादोषात् । कोऽसौ प्रकार इति चेत्-ज्ञापकसिद्धन्न सर्वत्रेति गृहाण । अत्र चेति । प्रकृतपरिभाषायामि- त्यर्थः । लुगपेक्षयाऽन्तरङ्गत्वादिति । लुकः पदवयापेक्षसमाससापे- क्षत्वात् त्वमयोः पूर्वपदमात्रापेक्षत्वादिति भावः । तव ममादिबाधना- र्थमिति । त्वत्पुत्र इत्यादौ तवममौ, त्वद्धितमित्यादौ तुभ्यमयौ च त्व- मावेकवचन इत्यस्य निरवकाशत्वेन बाधको प्राप्तौ तेषां बाधनार्थ प्रत्ययो- त्तरपदयोश्चेति चरितार्थमित्यर्थः । ननु समासात्प्रागेवालौकिकप्रक्रियावा- क्ये युष्मद् अस् अस्मद् असित्यादौ बाधकस्यापि प्रत्ययोत्तरपदयोश्चेति- सूत्रस्य विभक्त्या व्यवधानेनाप्राप्त्या तवममादिप्रवृत्तिरव्याहतैव । ननु विभक्तरपि प्रत्ययत्वात्तामादायैव प्रत्ययोत्तरपद्योरिति सूत्र प्रवर्त्ततेति वाच्यम् । उत्तरपदसाहचर्येण वृत्तिचरमावयवप्रत्ययस्यैव ग्रहणेन विभक्ति- मादाय प्रवृत्तेरसम्भवात् । अन्यथा त्वया मयेत्यादावप्यनेनैव सिद्धे त्वमा- वेकवचनमित्यस्य वैयापत्तेरिति चेत्-न । उपसंजनिष्यमाणनिमित्तोऽ- प्यपवाद उपसंजातनिमित्तमप्युत्सर्ग बाधत इति न्यायेन प्रक्रियादशायामपि प्रत्ययोत्तरपदयोश्चेत्यस्य तवममादिबाधकत्वसम्भवात् । अस्ति हि यदि तवममादिशास्त्रं न प्रवर्तेत तदा समासे सुबलुकि प्रत्ययोत्तरपदयोश्चेति सूत्रं प्रवर्त्ततेति सम्भावना । न च सामर्थ्यादेव तन्न्यायमाश्रित्य तवममा- दिबाधकत्वं वक्तव्यं ततो वरं परिभाषाकल्पनम् । तथा सति हि न साक्षा- च्छाखबाध इति वाच्यम् । दधतीत्यादौ अदभ्यस्तादिना तथाबाधकस्य क्लुप्ततया तदाश्रयणेनैव चारितार्थ्यसम्भवे अक्लुप्तपरिभाषाकल्पनाया १५ २२६ ] परिभाषेन्दुशेखरः [ बाधबीजकथने मिति चेत्-एवं तत्रित्यमपर्यन्तग्रहणानुवृत्तिस्तज्ज्ञापिकेति भा- प्यकृतः । युष्मदादिभ्य आचारक्विा तु न । सम्पूर्णसूत्रस्य ज्ञापकता- परभाष्यप्रामाण्यात् 'हस्वनद्याप' इति नुविधायकसूत्रस्थमाष्यप्रा- अन्याय्यत्वात् । न च तवममादिबाधमात्रप्रयोजनकत्वे तवममौङस्यवृत्ता- वित्येव वक्तव्यं, तावतैव त्वत्पुत्र इत्यादौ तवादीनामप्राप्त्या त्वमावेकवचन इत्यनेनैव सिद्धेरिदं सूत्रं व्यर्थं सदस्या ज्ञापकमिति वाच्यम् । आक्रोशविव- क्षायां षष्ठ्या आक्रोश इत्यलुकि तव पुत्र इतिवृत्तौ तवादेशानापत्तेः । सूत्र- सत्त्वे विभक्त्या व्यवधानेन तवादेशस्य सुलभत्वाच्च । न च तवममौङ- स्यलुकीत्येवास्तु लुक्विषयेनेत्यर्थेनोक्तदोषाभावादिति वाच्यं, तव सुन्दरः पुत्रो यस्येति त्रिपदबहुब्रीहौ मध्यमपदेन व्यवधानादुत्तरपदपरत्वाभाबेन सूत्राप्राप्त्या परिभाषाया इदानीमभावेन ङस्परे तबादेशप्रवृत्तेरलुक्यप्रवृ- त्या फलभेदात् । न च ज्ञापकसाजात्येन सप्तम्यन्तस्यैव व्यधिकरणबहुव्री- हिर्न षष्ठ्यन्तस्येति वाच्यम् , असति बाधके प्रमाणानां सामान्ये पक्षपात इति न्यायाबाधकबाधनार्थत्वकथनपरभाष्याच्च व्यधिकरणबहुव्रीहि- सामान्यस्य कल्पनात् । न च सूत्रं मपर्यन्तानुवृत्तिर्वा । न ज्ञापिते चरि- तार्थ, त्वमावेकवचन इत्यन्न विभक्तरननुवृत्त्यैव त्वत्कृतमित्यादौ परिभाषया पूर्वमेव ङसो लुकि बाधकस्यापि तवममादेशशास्त्रस्याप्रवृत्त्या त्वत्पुत्र इ- त्यादौ च त्वमादेशसिद्धेरिति वाच्यम् । त्वं सुन्दरः पुत्रो यस्येति त्रिपदब- हुत्रीहौ युष्मतसुन्दरपुत्र इत्यादौ त्वमादेशापत्तेः । सिद्धान्ते तु विभक्तिप- रत्वाभावेन त्वमावेकवचन इत्यस्य मध्यमपदेन व्यवधानादुत्तरपदपरत्वा- भावेन प्रत्ययोत्तरपदयोश्चेति सूत्रस्य चाप्रवृत्त्या दोषाभावात् । मपर्यन्त- ग्रहणानुबत्तिस्तज्ज्ञापिकेति । युष्मदस्मद्भ्यामाचारकिपि अाचक्षा- णणिचि च विभक्तिपरत्वाभावेन त्वमावेकवचन इत्यस्याप्रवृत्त्या प्रत्ययनि- मित्तकत्वमादेशाय प्रत्ययांशे चारितार्थ्येन तदंशेऽपवादत्वाभावेन हृदय- स्थोत्सर्गसमानदेशा इतिन्यायस्याभावेन तत्र सर्वादेशवारणाय मपर्यन्ता- नुवृत्तेश्चारितार्थ्याग्न ज्ञापकत्वमित्यत आह-युष्मदादिभ्य इत्यादि संपू- णसूत्रज्ञापकतापरभाष्यप्रामाण्यादित्यन्तमिति । नन्विदं न युक्तं, संपूर्णसूत्रज्ञापकताया बाधकबाधनार्थत्वव्यवस्थापनेन खण्डितत्वात् । तत्खण्डनेऽत्र चारितार्थ्यमपि हेतुरिति चेत्-न । तद्भाष्यघटितघटकमपर्य- न्तानुवृत्तिज्ञापकतापरभाष्यप्रामाण्यादित्यर्थे ग्रन्थकर्तुस्तात्पर्यात् । नुड़ि- [ २२७ ५३. अन्तरङ्गानपि विधीन् ] विजयाऽलङ्कृतः माण्येन हलन्तेभ्य आचारविबभावाच । एवमेवैकार्थकाम्यां प्राति- पदिकप्रकृतिकणिचोऽपि अनभिधानं बोध्यम् । एतेन तत्रादेशार्थ प्रत्ययग्रहणं चरितार्थमित्यपास्तम् । वधायकसूत्रस्थेति । तत्र हि काश्प्रत्ययादितिविहितस्यामो नुट् कस्मान्न- त्याशंक्याकारानुबन्धेन सानुबन्धकत्वान्निरनुबन्धकग्रहणे न सानुबन्धक- स्येति समाधायोक्तं तयकारानुबन्धः कर्त्तव्योऽवश्यं कर्तव्योऽन्यथा मका- रस्येत्संज्ञापत्तिन्न चेत्संज्ञकत्वे मकारोच्चारणं व्यर्थम् । न च मिदचोऽन्त्या- त्पर इत्यस्य प्रवृत्त्यर्थं काश्धातोर्विधीयमानस्यामोऽन्त्यादचः परत्वे फला- भावात्प्रत्ययान्ताद्विधीयमानस्यान्त्यादचः परत्वे परश्चेत्यनेन प्रत्ययपरत्वे वा विशेषाभावादिति मकारोच्चारणसामर्थ्यान्नेत्संज्ञेत्यर्थकं भाष्यमुक्तं हल- न्तेभ्यो युष्मदादिशब्देश्य प्राचारकिबन्तेभ्य आमि प्रत्ययपरत्वेऽन्त्या- दचः परत्वे विशेषसम्भवेन भाष्यासङ्गत्या हलन्तेभ्य आचारक्विपोऽन- भिधानमिति बोध्यम् । एवमेवैकार्थकाभ्यां प्रातिपदिकप्रकृतिक- णि चोप्यनभिधानमिति । ज्ञापकतापरभाष्यप्रामाण्यादिति शेषः । न च मपर्यन्तस्येति सूत्रे परिग्रहणाभावे यत्रैव मान्ते युष्मदस्मदी तत्रैव स्यात् । क्वच मान्ते युष्मयतेरस्मयतेरप्रत्यय इति भाष्ये युष्मदस्मच्छ- ब्दाभ्यां णिच उक्तत्वादिदमसङ्गतमिति वाच्यम् । तद्भाष्यस्य बहुत्वार्थ- कयुष्मदस्मच्छब्दविषयकत्वेन तद्विरोधाभावात् । वस्तुतस्तु प्रत्ययोचरपदयोश्चेत्यत्र विभक्तावित्यनुवर्त्य प्रत्ययोत्तर- पदयोर्या विभक्तिस्तद्व्यवहितपूर्वयोर्युष्मदस्मदोस्त्वमावित्यर्थः कर्तव्यः। त्वत्पुत्रः त्वदीय इत्यत्रालौकिकप्रक्रियावाक्ये लुकः प्रागेव सामर्थ्यात प्रवर्तते । न च आक्रोशे विवक्षिते षष्ठ्या आक्रोशे इत्यलुकि तव पुत्र इत्यादौ चारितार्थेन त्वत्पुत्र इत्यादौ पूर्व लुकि नलुमताङ्गस्येति निषेधेन. प्रत्ययलक्षणाप्रवृत्तौ विभक्तिपरत्वाभावेनादेशो न स्यादिति वाच्यम् । एकत्रद्वयमितिरीत्या युष्मदस्मदोरेव प्रत्ययोत्तरपदयोश्च सम्बन्धेन विभ- क्त्यव्यवहितपूर्वयोस्सतोः प्रत्ययाव्यवहितपूर्वयोरुत्तरपदाव्यवहितपूर्व- योर्युष्मदस्मदोस्त्वमावित्यर्थे आक्रोशे अलुकि विभक्त्या व्यवधाना- दप्राप्त्या सामर्थ्यात् नलुमतेतिनिषेधाप्रवृत्त्या प्रत्ययलक्षणेन त्वत्पुत्र इत्यादौ दोषाभावात् । न च विभक्त्या व्यवधानादुत्तरपदपरत्वासम्भवः २२८ ] परिभाषेन्दुशेखरः [ बाधबीजकथने ननु मपर्यन्तानुवृत्तिरपि सर्वादेशत्ववारणाय चरितार्था । न चोत्सर्गसमानदेशा अपवादाइति न्यायेनासिद्धवत्सूत्रस्थभाष्यसम्म- तेन मपर्यन्तस्यैवादेशे सिद्धे तदनुवृत्तिर्व्यथेति वाच्यम् । तस्य इनमकजादौ व्यभिचारादिति चेत्-न । इनमि मित्त्वेन बहुचि पुरस्ताद्ग्रहणेनाकचि प्राक् टेग्रेहणेन तस्य बाधेऽपि अत्रोत्सर्गस्य त्यागे मानाभावात् । अत एव 'तस्मिन्नणि च' इत्यनेन युष्मा- । शास्त्राप्रवृत्तये प्रत्ययलक्षणाप्रवृत्तेः । युष्मदस्मदोराचारक्विपि णिचि वा प्रत्ययाव्यवहितपूर्वत्वेऽपि विभक्त्यव्यवहितपूर्वत्वाभावेनादेशाप्राप्त्याऽ- नभिधाने प्रमाणाभाव इति बोध्यम् । विभक्तावित्यस्याननुवृत्तौ तु प्रत्यय- पदेन प्रत्ययमात्रस्य ग्रहणेन त्वमावेकवचने प्रत्ययोत्तरपदयोरित्येकवाक्य- करणेनैव सिद्धे वाक्यभेदो व्यर्थस्स्यादिति बोध्यम् । न चास्तु एकवाक्यता मास्तु विभक्तावित्यस्यानुवृत्तिः । प्रत्ययपदश्च प्रत्ययत्वावच्छिन्नबोधक- मस्त्विति वाच्यम् । आचारक्विबादावादेशापत्तेः। आचारक्विपोऽ- नभिधानेऽपि णिचोऽनभिधाने मानाभावात् । युष्मयतेरितिभाष्यमपि स्वरसत एव तथा सति संगच्छत इति परे । तदनुवृत्तिरिति । मपर्य- न्तानुवृत्तिरित्यर्थः । श्नमकजादाविति। श्मम् शपोऽपवादोऽपिअन्त्याचः परो भवति । शप् तु धातोः परः अकच्टेः प्राग्भवति । कस्तु प्रातिपदिकात् पर इति समानदेशत्वस्य व्यभिचारः। मानाभावादिति। मित्वादिरूप- विशेषकारणबलात्तत्र तत्रोत्सर्गसमानदेशा इति न्यायस्य बाधेपि ततोऽ- न्यत्राप्रवृत्तौ मानाभावादित्यर्थः। न चासति बाधके प्रमाणानां सामान्ये पक्षपात इति न्यायेनात्र शास्त्रे उत्सर्गसमानदेशा इति न्यायाभाव एव मित्वादिना किन्न कल्प्यत इति वाच्यं, मपर्यन्तानुवृत्तेापकतापरभाष्य- स्यैव बाधकत्वात् । युष्माकास्माकादेशावपि तन्न्यायसत्त्वे एव चरितार्थों सामान्यतःतदभावकल्पने बाधकावित्याह-अत एवेति । उत्सर्गसमान- देशा इति न्यायस्य सत्त्वादेवेत्यर्थः। तस्मिन्नणि च युष्माकास्माकाविति- सूत्रेण युवयोर्युष्माकं वा अयं यौष्माकः यौष्माकीण इत्यादावणि खनि च युष्मदस्मदोः युष्माकास्माकावादेशौ भवतः । तवायं तावकीनः तावकः मामकीन: मामकः इत्यत्र तबकममकावेकवचन इति सूत्रेण युष्माकास्मा- कयोर्द्वित्वबहुत्वविवक्षायां सावकाशयोरेकत्वविवक्षायां बाधकौ तवकमम- ५३. अन्तरङ्गानपि विधीन्० ] विजयाऽलङ्कृतः [ २२६ कादेशौ भवतः । यदि चाकङादेशमेव विदध्यात् तर्हि डिच्चेत्यनेन दकार- स्यादेशे यौष्माक इत्यादेस्सिद्धावपि उत्सर्गसमानदेशा अपवादा इति न्यायेनाकादेशस्यापवादभूतौ तबकममकादेशावप्यन्तस्यैव स्यातामिति तावक इत्यादेरसिद्धयापत्तिरतो युष्माकास्माकावादेशौ कृतौ । तन्न्याया- भावे तु तवकादेरनेकालत्वात् सर्वादेशत्वे दोषाभावात् तौ व्यर्थावित्युक्त- न्यायज्ञापकाविति भावः । ननु उत्सर्गसमानेति न्यायज्ञापनात्पूर्वं मपर्यन्तानुवृत्तिवैयर्थ्याभा- वेनान्तरङ्गानपीतिन्यायाभावेन युवयोरयमितिविग्रहे युष्मद्रोसीन इति स्थिते विभक्तिव्यवधानेन युष्माकादेशाप्रवृत्त्याऽन्तरङ्गत्वाद्विभक्तिनिमि- त्तकयुवादेशे विभक्तिलुकि स्थानिवद्भावेन युष्माकादेशे यौष्माकीण: आकङि तु यौवाकीन इति फलभेदात्कथं ज्ञापकम् । एवं फलभेदाभावे युष्माकादेशस्य वैयर्थ्यं वैयर्थ्य न्यायः । न्याये च विभक्तिलुकि युवादेशाभावे आकङादेशेन सिद्धे फलभेदाभावाद्वैयर्थ्यमिति चक्रका- पतिरिति चेत्-अत्रोच्यते । स्वार्थे परिपूर्ण पदमर्थान्तरेऽभिसम्बध्यत इति न्यायेन स्वार्थोपस्थित्युत्तरमेव बहिर्भूतापत्त्याद्यर्थसम्बन्धेनान्त- रङ्गत्वात्स्वार्थनिमित्तकविभक्तरेव पूर्वमुत्पत्तिस्ततश्च विभक्त्या व्यवधा- नात्प्रातिपदिकाव्यवहितोत्तरत्वविशिष्टस्तद्धितोऽनुपपन्नस्तथा च पूर्वाह्- णेतर इत्यादौ तरबव्यवहितपूर्वत्वविशिष्टसप्तम्यभावेन घसंज्ञकनिमित्त- कसप्तम्यलुग्विधायकघकालतनेत्यस्य वैयर्थ्यात् । तद्धितनिष्ठविधेयतानि- रूपितोद्देश्यतावच्छेदकधर्मावच्छिन्नोद्देश्यताककार्ये कर्तव्ये विभक्तर- विद्यमानवद्भावः कल्प्यते । सा च विभक्तिस्तद्धितपरकत्वेन सम्भाविता गृह्यते धर्मिग्राहकमानात् । तथा च तद्धितनिष्ठविधेयतानिरूपितोद्देश्यता- वच्छेदकं प्रातिपदिकत्वं तदवच्छिन्नोद्देश्यताकतद्धितप्रत्ययरूपकार्य तत्र कर्तव्ये विभक्तरविद्यमानत्वाद्विभक्तिव्यवधानेऽपि तद्धितोत्पत्त्या औपगवा- दिसिद्धि विधानञ्च चरितार्थम् । एवञ्च तद्धितनिष्ठविधेयतानिरूपितोद्दे- श्यतावच्छेदकं युष्मच्छब्दत्वमस्मच्छव्दत्वं तदवच्छिन्नोद्देश्यताकं युवावौ द्विवचने इतिसूत्रं तस्मिन् कर्तव्ये ओस्विभक्तरविद्यमानवद्भावान्न यौष्मा- कोण इत्यादौ युवाद्यादेशस्तद्धितपरत्वेन सम्भावितत्वस्य दानान्न युवयो- रित्यादावविद्यमानबद्भावः । तथा च न फलभेद इति बोध्यम् । नन्वेवमपि युष्मकदिति स्थिते अकज्विषये नायन्न्याय इत्युक्तस्साकचो युष्माकादेशे यौष्माकीणः दकारस्याकडि यौष्मकाकीणः इति फलभेद इति चेत्-न। अनाप्यक इति धम्मिग्राहकमानेन साकचकानपहारके ..

२३० ] परिभाषेन्दुशेखरः [ बाधबीजकथने काद्यादेशविधानं चरितार्थम् । अन्यथा आकडादेशमेव विदध्या- त् । आकङि तवकाद्यादेशयोरेतदपवादयोरुक्तन्यायेनान्त्यादेश- त्वापत्तिः । अतस्तद्विधानमिदमेव च तज्ज्ञापकम् । यद्यपि विरोधे बाधकत्वमिति वार्त्तिकमतेऽयं न्यायो भाष्यकारस्तु विनापि विरोध निर्दिश्यमानपरिभाषा न प्रवर्तते इत्येव कल्प्यते। युष्माकादेशस्तु न तथेति तत्र न्यायप्रवृत्त्या न साकचो युष्माकादेश इति तदपि न । ताव- तापि युष्माकादेशाप्रवृत्तेराकडादेशस्य साकचोऽनपहारकत्वेन प्रवृत्त्या फलभेदस्य तद्वस्थत्वात् । अत्र केचित्-धम्मिग्राहकमानादिदम्शब्दे एवाकज्विषये नायं न्याय इति कल्पनेन युष्माकादेशस्याककादेशस्य चानिद्दिश्यमाने साकचि प्रवृत्त्यभावेन फलभेदाभावोऽत एव भिन्धकीत्यत्राकचि धित्वं न प्राप्नोतीति भाष्यमुपपन्नं साकचो निर्दिश्यमानत्वाभावात् । किमः क इत्यस्यावृत्त्या ककिमः साकच: कादेश इत्यर्थकशब्देन्दुशेखरोऽप्युपपद्यते इत्याहुः-तद्- पि न । परमयुवकाभ्यामित्यादौ कृताकचा समासे युवादेशानापत्तेः सामान्यतोऽकज्विषये निर्दिश्यमानपरिभाषाया अप्रवृत्तरेव कल्पनात् । भिन्धकीत्यत्रेति भाष्यादिविरोधस्तु परिहृतः पूर्वम् । अत्र गुरुचरणा:-युष्मदस्मदवयवमकारात्परस्याक आदेश इत्यर्थ- कमादाक इति न्यासेनैव सिद्धौ युष्माकास्माकादेशयोर्वेयर्सेन ज्ञापकत्वं बोध्यम् । साकचोऽपि पक्षद्वयेपि यौष्माक इत्यादिसिद्धेरित्याहुः । नन्वजादेद्वितीयस्येत्यस्यैकाचो द्वे प्रथमस्येत्येतदपवादत्वेऽपि तत्समा- नदेशत्वाभावेन नात्र शास्त्रे उत्सर्गसमानदेशा इति न्यायाश्रयणमिति चेत्-न । मपर्यन्तानुवृत्तिज्ञापकतापरभाष्यप्रामाण्येन तन्न्यायस्यावश्याश्र- यणीयत्वात् । उत्सर्गशास्त्रीयोद्देश्यतावच्छेदकाधिकरणपर्याप्तोद्देश्यताव- च्छेदककत्वं यत्रापवादशास्त्रे तद्विषयकत्वस्य धम्मिग्राहकमानेन न्याये कल्पनेनादोपात् । उत्सर्गशास्त्रीयोद्देश्यतावच्छेदकप्रथमैकाचत्वाधिकरण- पर्याप्तत्वस्य द्वितीयैकाच्त्वेऽभावात् । इदमेव च तज्ज्ञापकमिति । युष्माकास्माकादेशविधानमेवोत्सर्गसमानदेशा अपवादा इत्येतज्ज्ञापक- मित्यर्थः । विरोधे बाधकत्वमिति । एकस्य द्विकार्ययोगरूपविरोध इत्यर्थः। अयन्न्याय इति । उत्सर्गसमानदेशा अपवादा इत्यर्थः । विनापि विरोधमिति। एकस्य द्विकार्ययुक्तत्वरूपविरोधम्बिनापीत्यर्थः।

५३. अन्तरङ्गानपि विधीन्० ] विजयाऽलङ्कृतः [ २३१ सत्यपि सम्भवे बाधकत्वमिच्छतीत्यनभिहितसूत्रस्थकैयटरीत्या नायं नियमस्तथापि युष्माकाद्यादेशविधानज्ञापित उत्सर्गः स्वीक्रि- यत एवेति प्रकृते न दोषः । एतद्भाष्यमपि तत्स्वीकारे मानम् । एवं च मपर्यन्तानुवृत्तिस्त्वत्कृतमित्यादौ मपर्यन्तस्यादेशविधाना- । तत्र चान्तरङ्गत्वाचमावित्येव सिद्ध व्यर्था सैतज्ज्ञापिका । ज्ञापिते त्वस्मिन्नेतद्विषये तवादीनामप्राप्त्या तदपवादत्वाभावेन मपर्यन्तस्यैवादेशार्थ सा चरितार्थेति तदाशयः । यत्तु हरदत्तेनान्तरङ्गप्रवृत्तौ प्रत्यय उत्तरपदे च मपर्यन्तासम्भ- वेन तदनुवृत्तिया सती ज्ञापिकेत्युक्तं-तन्न । अन्तरङ्गाणामप्य- पवादबाध्यत्वेन तद्विषये तदप्रवृत्तः । वस्तुत इदं ज्ञापकं वार्तिक- । - सत्यपि सम्भव इति । उक्तविरोधाभावेऽपीत्यर्थः । अत एव भवेदित्या- दावियादेशस्य परदीर्घबाधकत्वं द्वितीयैकाचो द्विवचनं प्रथमैकाचो द्विर्व- चनस्य बाधकं सर्वेषामित्यादौ सुटौ नुड्वाधकत्वम् । नायन्नियम इति । फलितो नास्तीत्यर्थः। तथापीति। फलितत्वाभावेऽपीत्यर्थः। उत्सर्गइति। उत्सर्गसमानदेशा अपवादा इत्यर्थः। स्वीक्रियत एवेति । भवेदित्यादौ व्यभिचारवारणन्तूक्तरीत्या बोध्यम् । प्रकृते न दोष इति । न मपर्यन्ता- नुवृत्तिज्ञापकत्वासङ्गतिरित्यर्थः। एतद्भाष्यमपीति । मपर्यन्तानुवृत्तिज्ञा- पकतापरभाष्यमपीत्यर्थः । अपिशब्दाशुष्पाकाद्यादेशः । एवञ्चति । उत्स- समानदेशा इत्यस्य स्वीकारे चेत्यर्थः । त्वत्कृतमित्यादाविति। पूर्व विभक्तिलुकि त्वमावेकेत्यस्याप्रवृत्तेरिति भावः । अन्तरङ्गप्रवृत्ताविति । तवममयोः प्रवृत्तावित्यर्थः । व्यर्थासतीति । तवादेशे मपर्यन्तासम्भवात् । ममादेशे व्यावाभावाचेति भावः। तविषये तदप्रवृत्तरिति । प्रत्ययो- त्तरपदयोश्चेत्येतद्विषये तवममौ ङसीत्यस्याप्रवृत्तरित्यर्थः । युष्माकास्मा- कादेशविधानं न ज्ञापम् । ज्ञापितेऽपि स्वांशे चारितार्थ्याभावात् । तस्मिन्न- णि चाकङनेकवचन इति न्यासेनैव सिद्धेरिति न युक्तं, यथास्थितन्यासा- पेक्षयाऽस्य न्यासस्यालघुत्वात् । वस्तुत इति । वार्तिकमते एकस्य द्विका- २३२ ] परिभाषेन्दुशेखरः [ बाधबीजकथने रीत्यैव । भाष्यरीत्या तु वाचनिक एवायमर्थ इत्याहुः । इयं 'सुपो धातु' इति लुगविषयैवेति । केचित् 'एहस्वात्स- म्बुद्धेः 'न यासयोः' इति सूत्रस्थाकरप्रामाण्येन लुङ्मात्रविषया । आये हे त्रपु इत्यादावनेन न्यायेन लोपं बाधित्वा लुग्भवतीति भाष्ये उक्तम् । अन्त्येऽन्तरङ्गांश्च विधीन सर्वोऽपि लुग्बाधते न तु सुब्लुगेव । अत एव सनीखंस इत्यादौ नलोपो न भवति । पञ्चभिः खट्वाभिः क्रीतः पञ्चखट्व इत्यादावेकादेशात् प्रागेव टापो लुक् । अन्यथा कृतैकादेशस्य लुक्यकारश्रवणं न स्यादिति कैयट उक्तम् । एतद्विरोधात्तद्राजस्थति सूत्र केयटेनोक्तम्। अङ्गानतिक्रान्तोऽत्यङ्ग इत्यत्र सुपो लुकि बहुवचनपरत्वाभावात् 'तद्राजस्येति लुक न .. । ययोगरूपविरोधे एव बाध्यबाधकमावादुत्सगसमानदेशा इत्यस्य फलित- त्वेऽपि भाष्यमते तादृशविरोधाभावेऽपि बाध्यबाधकभावाभ्युपगमेन फलि- तत्वाभाव इति । यदि चोक्तन्यासस्य गुरुत्वान्न तेन स्वांशे चारितार्थ्याभाव इति विभाव्यते तहिँ ज्ञापकसिद्ध एवायमन्तरङ्गानपीति न्यायः । अत एव भवतादित्यत्रानेन न्यायेन तातङादेशं बाधित्वा हेर्लुकमाशंक्य ज्ञापक- सिद्धस्यासार्वत्रिकत्वेन समाहितं शब्देन्दुशेखरे । अत एवारुचेराहुरित्यु- क्तम् । इयं सुपो धात्विति । धम्मिग्राहकमानादिति तद्भावः। आक- रेति । भाष्यकैयटेत्यर्थः । तथा च ज्ञापकं सामान्यापेक्षमेवेति बोध्यम् । अनेन न्यायेनेति । अन्तरङ्गानपीतिन्यायेनेत्यर्थः । एतद्भाष्यमप्यपिशब्द- घटितपाठे मानम् । अत एव सनीस्रंस इति । अन्तरङ्गमपि नलोपमनेन न्यायेन बाधित्वाऽचि यङो लुक् । ततो नलुमतेति निषेधान्न लोपो नेत्यर्थः। अन्यथेति। सुब्लुक एव बलवत्त्वबोधने इत्यर्थः। कृतैकादेशस्येति। अस्य अन्तरङ्गत्वादित्यादिः। एतद्विरोधादिति। प्रदर्शितेन टाब्लुको बलवत्त्व- बोधनतात्पर्यकेण कैयटेन विरोधादित्यर्थः । लुग्न स्यादिति । अयम्भावः । तद्राजस्य बहुषु तेनैवास्त्रियामितिसूत्रस्य बहुष्वर्थेषु विद्यमानस्य यद्राज- संज्ञकप्रत्ययस्य लुक् न तु स्त्रियामित्यर्थः । तत्र बहुषु इत्यस्य बहुवचने परे इत्यर्थे भाष्यकारेणोक्तं अङ्गान् अतिक्रान्तोऽत्यङ्ग इत्यत्र पदाव- ५३. अन्तरङ्गानपि विधीन्० ] विजयाऽलङ्कृतः [ २३३ स्यादिति शङ्कापरभाष्यव्याख्यावसरेऽन्तरङ्गानपीति न्यायेनायं लुक् सुब्लुको बाधकः स्यादित्याशङ्कय सुब्लुक एवानेन बलवत्त्वं बोध्यत इति तत् प्रौढ्येति द्रष्टव्यम् । लुगपेक्षया लुको बलवत्त्वस्य वक्तुमशक्यत्वादिति तदाशङ्कासमाधानं वक्तुं युक्तम् । अनेन न्यायेनान्तरङ्गनिमित्तविनाशकलुकस्तत्प्रयोजकसमासादीनां च प्राबल्यं बोध्यत इति अन्यत्र विस्तरः॥ ५३॥ धिकान्वाख्याने अति सु अङ्ग अण अस् इति स्थिते तद्राजलुक एकप- दापेक्षत्वेनान्तरङ्गत्वम् । अपरनिमित्तकत्वेन सामासिकलुकोऽप्यन्तरङ्गत्व- मित्यन्तरङ्गत्वे समाने परत्वात् सामासिकलुकि नलुमतेतिनिषेधेन प्रत्यय- लक्षणाभावेन बहुवचनपरत्वाभावात्तद्राजलुग्न स्यादिति तत्र कैयटेन इद- माशङ्कितम्-अन्तरङ्गानपीत्यादि । अयं लुगिति । तद्राजलुगित्यर्थः । तथा च बहुवचने परे इत्यथऽपि न दोष इति भावः। पुनस्तेनैव समाहितम् । सुब्लुक एवेति । न तु लुगमात्रस्येत्यर्थः । धमिग्राहकमानादिति तद्भावः । इयमुक्ति: पूर्वोक्तात् पञ्चखट्व इत्यत्रत्यकैयटाविरुद्धा । अत एवायं प्रौढि- वादः तदेतदुच्यते । प्रौत्येति । अशुद्धमिति यावत् । नन्वेतत्समाधानस्या- युक्तत्वे शंका तिष्ठत्येव कैयटस्य । तस्याः किं समाधानमिति चेदाह नागेशः-लुगपेक्षयेति । धर्मिग्राहकमानात् लुगितरकार्यापेक्षयैव लुको बलवत्त्वमनया बोध्यते न तु लुगपेक्षयापीति तद्भावः । अन्तरङ्गनिमित्त- विनाशकस्यैव लुको बलवत्त्वमित्यस्य वक्ष्यमाणत्वात् । तद्राजलुकस्सा- मासिकलुग्निमित्तविनाशकत्वाभावेन लुगपेक्षया सामासिकलुगपेक्षया लुकः तद्राजलुकः बलवत्त्वमशक्यं वक्तुमित्यर्थ इति परे । तदाशंकासमा- धानमिति । तस्य कैयटस्य आशंकायाः समाधानमित्यर्थः। अनेन न्यायेनेत्यादि । तत् फलमणुहि इत्यत्र तानादिकादृण धातोर्लोटस्सिपो- ह्यादेशे मध्ये उप्रत्यये तन्निमित्तकगुणात्पूर्वमुतश्च प्रत्ययादसंय्योगपूर्वादि- त्यनेन हेलगनेन न्यायेन न तत्र लुको गुणनिमित्तविनाशकत्वाभावात् । अन्तरङ्गत्वाद्गुणे कृते तु असंय्योगपूर्वत्वाभावान हेतुंगिति बोध्यम् । ननु गोमत्प्रिय इत्यादौ समासोत्तरं लुकः प्रवृत्त्या समासात् प्राति- पदिकत्वाच्चैकपदापेक्षत्वेनान्तरङ्गत्वाद्धल्ङ्यादिलोप: पूर्व कस्मान्नेत्यत आह-तत्प्रयोजकसमासादीनाञ्चेति । आदिना प्रातिपदिकत्वस्येति दिक ॥ ५३ ॥ ।

२३४ ] परिभाषेन्दुशेखरः [ बाधबीजकथने नन्वेवं सोमेन्द्रेऽन्तरङ्गत्वादा'द्गुणे' पूर्वपदात् परेन्द्रशब्दा- भावेन 'नेन्द्रस्य' इति घृद्धिनिषेधो व्यर्थः । अन्तादिवद्भावस्तु उभ- यत आश्रयणे निषिद्धः । किञ्च वृद्धिरप्यत्र न प्राप्नोति । अन्तादिव- चोभयाभावेऽपि पूर्वान्तवत्त्वेनेन्द्रशब्दस्यैकदेशविकृतन्यायेनोभयत श्राश्रयणे नान्तादिवदित्यस्याभावेन तदाश्रणे चोत्तरपदत्वेपि तस्या- नचकत्वात् । एकस्यैकादेशेन परस्य नित्येन यस्येति लोपेनापहा- रात् । न च परादिवद्भावेनैकादेशविशिष्टस्योत्तरपदत्वमेवास्त्विति तत् सम्भव इति वाच्यम् । उत्तरपदाद्यच्स्थानिकत्वावृद्धेस्तद- पूर्वपदात्परेन्द्रशब्दाभावेनेति । सोमेन्द्रशब्दयोस्समासे गुणे पूर्व- पदस्य सोमशब्दस्येन्द्रशब्दस्य चाभावेन पूर्वपदात्परेन्द्रशब्दस्य वृद्धिन्नै- त्यर्थकस्य नेन्द्रस्य परस्येत्यस्याप्राप्त्या वृद्धिनिषेधो न स्यादिति भावः । ननु एकादेशविशिष्टे सोमे शब्दे पूर्वान्तवद्भावेन पूर्वपदत्वमुपपन्नमिति चेत्-न । तथापि इन्द्रशब्दस्याभावेन पूर्वपदात्परेन्द्रशब्दस्याभावात्। ननु परादिवद्भावेनैन्द्रशब्दस्येन्द्रशब्दत्वमपि भविष्यतीति चेदाह-अन्तादि- वद्धावस्त्विति । वस्तुतस्तु एकारान्ते पूर्वान्तवद्भावेन पूर्वपदत्वे तदेका- रादावेव परादिवद्भावेन इन्द्रशब्दत्वेऽपि पूर्वपदात्परेन्द्रशब्दाभाव एवेति बोध्यम् । अन्तादिवत्त्वोभयाभावेऽपीति । अन्तादिवत्त्वोभयाति- देशे हि उभयत आश्रयणेनान्तादिवदिति निषेधः प्रवर्तते । प्रकृते अन्तादि- वत्त्वोभयाभावेन तन्निषेधस्थाप्रवृत्तावपि वृद्धिनं प्राप्नोति निमित्तसम्बल- नाभावादिति हृदयस्थं हेतुं प्रकटयति। एकादेशविशिष्टे सोमे शब्दे पूर्वा- न्तवत्त्वेन पूर्वपदत्वेन्द्रशब्दस्यैकदेशविकृतन्यायेन तदाश्रयणे उत्तरपद- त्वातिदेशाश्रयणे उत्तरपदत्वेऽपि अनच्कत्वात् तदेवोपपादयति-एकस्ये. ति । आद्यस्येत्यर्थः । परस्य उत्तरस्य यस्येति लोपेनापहारादित्यन्वयः । देवताद्वन्द्वे चेत्यनेन हि पूर्वोत्तरपदयोर्घटकस्याचो वृद्धिविधीयते पुनः प्रकारान्तरेण निमित्तसम्बलेनमाशंक्य खण्डयति-न च परादिवद्भा- वेनेति । एकादेशविशिष्टस्येति । एन्द्रशब्दस्येत्यर्थः। मान्तस्यैकदेशवि- कृतन्यायेन पूर्वपदत्वमित्यपि योज्यम् । तत्सम्भव इति। वृद्धिप्राप्तिसम्भव इत्यर्थः। उत्तरपदाद्यचस्थानिकत्वादिति । एतदुक्तम्भवति । केवल- ५४. पूर्वोत्तरपदनिमित्त०] विजयाऽलङ्कृतः [२३५ भावेनाप्राप्तेस्ताद्रूप्यानतिदेशात् । अन्यथा खट्वाभिरित्यादावपि पूर्वान्तवत्त्वेनादन्तत्वे मिस ऐस्त्वापत्तिरिति भाष्ये स्पष्टम् । अत एव पूर्वेपुकामशम इत्यादावन्तरङ्गत्वादाद्गुणे वृद्धिर्न स्यादित्या- मुत्तरपदत्वन्तु अशास्त्रीयत्वान्नातिदेष्टुं योग्यं किन्तूत्तरपदाद्यच्त्वं परादि- वद्भावेनानेयम्। तस्य शास्त्रीयाच्त्वघटितत्वेन शास्त्रीयत्वादिति प्रश्नाशयो वाच्यस्तस्य च वर्णमात्रवृत्चित्वेनातिदेशासम्भवः । ताप्यानतिदेशादिति। ननु किमिदं ताद्रूप्यम् ? न तावद्वर्णमात्रवृत्तित्त्वं तत् । खट्वाभिरित्यत्र टापा सहकादेशविशिष्टखट्वाशब्दे पूर्वान्तवद्भावेनादन्तत्वमादाय ततः परस्य भिस ऐसापत्तेरदन्तत्वस्य वर्णमात्रवृत्तित्वाभावेनाताद्रूप्यत्वात् । नापि वर्णमात्रवृत्तिधर्मघटितत्वम् । तत् अदन्तवे स्वत: अत्वे च व्यपदे- शिवद्भावेन वर्णमात्रवृत्तिधर्मघटितत्वं बोध्यमिति युक्तम् । क्षीरपेणे- त्यादावेकादेशविशिष्टे पेशब्दे णत्वायैकाजुत्तरपदत्वस्यातिदेशानापत्तेः । तस्यापि तथाभूताच्त्वघटितत्वात् । न च तत्रैकाच्त्वस्य स्वतः सिद्धत्वा- दुत्तरपदत्वं पूर्वान्तवद्भावेनानीयते । तस्याताद्रूप्यत्वादिति वाच्यं, तस्या- शास्त्रीयत्वेनातिदेशासम्भवात् । नाप्येकादेशस्थानिविशिष्टवर्णमात्रवृत्ति- धर्मघटितत्वं तत्त्वम् । वैशिष्टयञ्च स्ववृत्तित्वस्वस्थानिकादेशावृत्तित्वो- भयसम्बन्धेन । अच्त्वस्य स्वस्थानिकादेशवृत्तित्वेनादोषादित्यपि साधु। उत्तरपदाद्यच्त्वस्य वर्णमात्रवृत्त्यच्त्वघटितत्वेऽपि अच्त्वस्यैकादेशस्थानि- भूतेन्द्रशब्दघटकेकारविशिष्टत्वाभावात् । उत्तर पदाद्यच्त्वे विशिष्टधर्म- घटितत्वस्याभावेन ताद्रूप्यत्वानापत्तेरिति चेत्-अत्रोच्यते । अच्त्वमादाय ताप्यत्वाभावेऽपि एकादेशस्थानी इकारस्तद्विशिष्टं निरुक्तोभयसम्बन्धे- नोत्तरपदाद्यच्त्वमेव । तच्च वर्णमात्रवृत्त्यपि तद्घटितमपि व्यपदेशिवद्भा- वेन तदेवेति तदपि ताद्रूप्यमेवेति दिक् । अन्यथेति । ताप्यस्याप्यतिदेश इत्यर्थः । भाष्य इति। अन्तादिव- त्सूत्रस्थे भाष्ये इत्यर्थः। तत्र हि वर्णाश्रये अन्तादिवद्भावप्रतिषेधो वक्तव्यो न वा अताद्रूप्यातिदेशादित्युक्तम् । अत्र ज्ञापकं षत्वतुकोरसिद्ध इति सूत्रे तुगग्रहणमन्यथा अधीत्येत्यादावेकादेशस्य परादिवद्भावेन ह्रस्वत्वात्तुक्- सिद्धेस्तद्वैयर्थ्यमेवेति । अत एवेति । ताप्यानतिदेशादेवेत्यर्थः। पूर्वेषुका- मशम्याम्भव इत्यर्थेऽणि पूर्वमन्तरङ्गत्वादाद्गुणे एकारस्योत्तरपदाद्य- च्त्वाभावेन प्राचो ग्रामनगराणामित्यनेन दिशः परेषां नगरवाचिनां ग्राम- २३६ ] परिभाषेन्दुशेखरः [ बाधबीजकथने शङ्कितम् । तदेकदेशमात्रस्य विकाराभावाच्च । तदुक्तं भाष्ये- 'इन्द्रे द्वावचावेको यस्येति लोपेनापहृतोपर एकादेशेन ततोऽनच्क इन्द्रशब्दः सम्पन्नस्तत्र कः प्रसङ्गो वृद्धरिति । मरुदादिभिरिन्द्रस्य द्वन्द्वे इन्द्रस्यैव पूर्वनिपातोऽत आह- पूर्वोत्तरपदनिमित्तकार्यात्पूर्वमन्तरङ्गोऽप्ये- कादेशो न ॥ ५४ ॥ अत्र च 'नेन्द्रस्य' इति निषेध एव ज्ञापक इत्यन्तादिवच' 'विप्रतिषेधे परमिति सूत्रयोर्भाष्ये स्पष्टम् ॥ ५४ ॥ वाचिनाञ्चाद्यचोऽणि परे वृद्धिरित्यर्थकेन वृद्धि स्यादित्याशङ्कयानेन न्यायेन गुणात्पूर्वमेव वृद्धिः साधितेति भावः। ननु सोमशब्दस्यैकदेश- विकृतन्यायेन पूर्वपदत्वमेन्द्रशब्दस्य । तेनैवोत्तरपदत्वमानीयोत्तरपदाद्य- च्त्वस्यार्थसमाजग्रस्तत्वावृद्धिः प्राप्तेत्यत आह-तदेकदेशेति । एकाररू- पविकारस्य पूर्वपरोभयैकदेशविकारत्वात् तदेकदेशमात्रविकारविशिष्टं तदन्यवन्नेतिन्यायाकार इति भावः । अत्रैव प्रमाणमाह-तदुक्तमित्या- दिना । निषेधस्य चारितार्थ्यमाशङ्कय निराकरोति-मरुदादीति । पूर्व- निपात इति । अजाद्यदन्तं पूर्वम् । अभ्यहिँतञ्चेति सूत्रवार्तिकाभ्यामिति शेषः । सोमस्य तु सर्वोत्कृष्टशिवशिरसोह्यमानत्वादभ्यर्हितत्वेन पूर्वनि- पातः । विष्णुशब्दस्येन्द्रशब्देन द्वन्द्वेऽपीन्द्रशब्दस्यैव पूर्वनिपातः । इन्द्रस्य सर्वदेवाधिष्ठातृत्वेनाभ्यहिंतत्वादिति न तत्र निषेधस्य चारितार्थ्याशा। इदमत्र बोध्यम् । परिभाषायां पूर्वपदमुत्तरपदञ्च वस्तुसन्निमित्तं यस्मिन् कार्ये तत् कार्य गृह्यते न तु पूर्वपदत्वोत्तरपदत्वाभ्यां का-यनि- मित्ततायामाग्रहस्तेन परमाहमित्यादावन्तरङ्गादप्येकादेशात्प्रागेवानया परिभाषया त्वाही सावित्यनेनाहादेशः सिद्धः। न हि तत्र पूर्वपदत्वादिना निमित्ततास्ति । एकादेशपदेनापि सन्धिकार्यमात्रमुच्यते । अत एव रात्रिमट इत्यादौ रात्रेः कृति विभाषेति मुमः प्रागन्तरङ्गोऽपि यण न । न च नाजानन्तर्यनिषेधेन निर्वाहस्तस्य जातासिद्धत्वविषयकत्वात् । प्रतिपदो- क्तत्वान्मुम् इत्यस्यापि वक्तुं शक्यत्वाच्च ।। ५४ ॥

५६. वार्णादाङ्ग बलीयः० ] विजयाऽलङ्कृतः [ २३७ नन्वेवमपि प्रधाय प्रस्थायेत्यादावन्तरङ्गत्वाद्धित्वादिषु कृतेषु ल्यप् स्यादत आह अन्तरङ्गानपि विधीन् बहिरङ्गो ल्यब्बाधते ॥ ५५ ॥ 'अदो जन्धिः' इति सूत्रे ति कितीत्येव सिद्धे ल्यग्रहणमस्या ज्ञापकमित्य'दो जग्धि रित्यत्र भाष्ये स्पष्टम् ॥ ५५ ॥ नन्वेवमियायेत्यादौ द्वित्वे कृतेऽन्तरङ्गत्वात्सवर्णदीर्घत्वे तद- सिद्धिरत आह- अन्तरङ्गत्वादिति । पदद्वयापेक्षसमासापेक्षल्यबपेक्षयैकपदापेक्षस्य दधातेहिरित्यादेरन्तरङ्गत्वादित्यर्थः । नल्यपीतिसूत्राकरणलाघवात् प्रकृ- तिप्रत्ययमात्रनिमित्तकं कार्य ल्यविषये न प्रवर्तत इत्येव ल्यब्ग्रहणेन ज्ञाप्यतामिति तु न वाच्यम् । अधीत्येत्यादौ तुकोऽप्यभावापत्तेः। क्त्वा- श्रयानुबन्धकार्याणां ल्यब्विषयेऽप्रवृत्तिज्ञापनेऽपि अनुभूयेत्यादौ गुणनि- षेधः प्रोद्येत्यादौ संप्रसारणं प्रमथ्येत्यत्र नलोपश्च न स्यात् । तत्त्वं तु ल्यवग्रहणं व्यर्थं सत्स्वप्रवृत्तिविरोधिप्राप्तेर्बाधेन चारितार्थ्य स्वप्रवृत्त्युत्तर- प्राप्तिबाधे न समर्थमिति स्थानिवद्भावेन ल्यबुत्तरप्राप्तत्ववारणाय नल्यपी- त्यस्यावश्यकत्वमिति। अन्तरङ्गनिमित्तविनाशकस्यैव ल्यपः प्राबल्यम्। तेन प्रपूर्वकादिष्धातोय॑न्तात् क्त्वाप्रत्यये प्रेष्यगत इत्यादौ न गुणा- त्पूर्वं ल्यप् अन्यथा ऐर्गुणात् पूर्व ल्यपि लघुपूर्वादित्यनेनायादेशापत्तेरि- त्यन्यत्र विस्तरः ॥ ५५॥ इयायेत्यादाविति । आदिना इयेषेत्यादेस्संग्रहः । द्वित्वे कृते इति । दीर्घे कर्तव्ये द्वित्वस्य न बहिरङ्गासिद्धत्वं, नाजानन्तर्य इति निषे- धात्। अत एव आदतुरूखतुरित्यादि सिद्धम् । अन्तरङ्गत्वादिति । वृद्धि- गुणापेक्षयेत्यादिः । अत्र नाजानन्तर्य इति निषेधो न । तस्य जातासिद्धत्व- विषयत्वात्। वृद्धिगुणविधायकशास्त्रघटकाङ्गपदप्रयोज्यविषयताश्रयघटकः पर इकारस्तन्निष्ठविषयताप्रयोजकाच्पदघटितत्वं यथा दीर्घस्य तथा दीर्घ विधायकशास्त्रघटकपर्वपरयोरिति पदप्रयोज्यविषयताश्रयेकारद्वयस- मुदायघटकपरेकारनिष्ठविषयताप्रयोजकाजादिपघटितत्वेन वृद्धिगुणयो- रप्यन्तरङ्गत्वं समानमिति तु न वाच्यं, विषयताप्रयोजकपदस्य सप्तम्य- , २३८ ] परिभाषेन्दुशेखरः [बाधबीजकथने वार्णादाङ्गं बलीयो भवति ॥ ५६ ॥ तेनान्तरङ्गमपि सवर्णदीर्घ बाधित्वा वृद्धिरिति तसिद्धिः। अभ्यासस्यासवणे इतीयविधायकसूत्रस्थमसवर्णग्रहणमस्यां ज्ञा- पकम् । तद्धीपतुरित्यादावियादिव्यावृत्त्यर्थम् । एतत्परिभाषामा त्वीपतुरित्यादावन्तरङ्गेण सवर्णदीर्पण बाधात्तद्व्यर्थम् । इयडु- वङौ ह्यभ्याससम्बन्धिनिमित्तकत्वादहिरङ्गौ । न चेयङपवाद इति न्तस्यैव ग्रहणेन वृद्धिगुणयोरन्तरङ्गत्वाभावात् । वार्णादित्यस्य वर्णत्वव्या- प्यधविच्छिन्नोद्देश्यकादित्यर्थः । आङ्गमित्यस्य अङ्गत्वावच्छिन्नोद्देश्य- कमित्यर्थः । तेनेति। वार्णादाङ्गमितिन्यायेनेत्यर्थः । असवर्णग्रहणमिति । सूत्रमियीत्यादौ चरितार्थमिति तद्भावः । तद्धीति। असवर्णग्रहणं हीत्यर्थः। दीर्घापेक्षया इयडुवङोर्बहिरङ्गत्वमुपपादयति-इयङ्गुवङौ हि अभ्याससम्बन्धिनिमित्तकत्वादिति । अभ्याससम्बन्धिभूतसमुदा- यानिमित्तकत्वादित्यर्थः । एतदुक्तं भवति-इयशास्त्रघटकाङ्गपदप्रयो- ज्यविषताश्रय इ इषिति समुदायस्तद्घटकपरेकारवृत्तिविषयताप्रयोजक- सप्तम्यन्ताचपघटितत्वेन दीर्घस्यान्तरङ्गत्वमिति । न चेयङवङोरपि दीर्घशास्त्रघटकपूर्वपरयोरित्येतत्पदप्रयोज्यविषताश्रय इ इ इति समुदायस्त- द्घटकपरेकारवृत्तिविषयताप्रयोजकसप्तम्यन्ताच्पदघटितत्वरूपान्तरङ्गत्वा- विशेष इति वाच्यम् । स्वप्रयोज्यविषयताश्रयघटकत्वस्वघटकपदप्रयोज्य- विषयतापर्याप्त्यनधिकरणत्वोभयसम्बन्धेन । बहिरङ्गशास्त्रघटकपदवि- शिष्टवृत्तिविषयताप्रयोजकसप्तम्यन्तपदघटितत्वस्यैवान्तरङ्गपदार्थत्वेनादो- षात्। यत्तु प्राचीनमतेनैतद्ग्रन्थस्य सत्त्वेन तन्मते संज्ञाकृतबहिरङ्गत्व- स्यापि सत्त्वेनाभ्याससंज्ञासापेक्षत्वेनेयवङोर्बहिरङ्गत्वमित्यभिप्राय इति -तन्न । दीर्घस्याप्यगादिसंज्ञापेक्षकत्वाविशेषात् । केचित्तु अभ्यासनिमित्तकत्वेनाभ्याससंज्ञोत्तरप्राप्तिमदियङाद्यपेक्षया अभ्याससंज्ञानपेक्षस्य दीर्घस्य पूर्वप्रवृत्तिकत्वेनान्तरङ्गत्वमित्याहुः-तन्न । हलादिः शेषोत्तरमेवोभयोः प्राप्तत्वेन द्वयोरप्यभ्याससंज्ञोत्तरप्राप्तिकत्वा- विशेषात् । केचित्तु द्वित्वप्रयोज्यसंज्ञानिमित्तककार्याणां द्वित्वनिमित्तप्रत्ययाव्य- ।

५६. वार्णादाङ्ग बलीय:० ] विजयाऽलङ्कृतः [२३६ वाच्यम् । येन नाप्राप्तिन्यायेनेयीत्यादिसकललक्ष्यप्राप्तयणपवाद- त्वस्यैव निर्णयादिति प्राश्चः। वहितपूर्वत्वनिमित्तकत्वमिति ह्वःसंप्रसारणमिति सूत्रारम्भसामर्थ्यात् क- ल्प्यते । तद्धि अजूहुचदित्यत्र चपरणौ ह्वःसंप्रसारणं विदधदपि निरुक्त- कल्पनाऽभावेऽभ्यस्तस्य चेत्यनेनैव तत्र संप्रसारणसिद्धौ व्यर्थं स्यात् । कल्पिते च तस्मिन् अभ्यस्तस्य चेत्यस्य द्वित्वप्रयोज्याभ्यस्तसंज्ञानिमित्त- कत्वेन द्वित्वनिमित्तभूतप्रत्ययाव्यवहितपूर्वत्वनिमित्तकत्वेन णिचा व्यव- धानेनाप्राप्तः सूत्रं सार्थकम् । अत एव एवुलन्तह्वायकशब्दप्रकृतिकक्य- जन्तात्सनि जिह्वायकीययिषतीत्यादावभ्यस्तस्य चेति सम्प्रसारणम्न तथा चेयङादेरपि अतुस्निमित्तकत्वेन प्रकृतिप्रत्ययोभयापेक्षत्वेन बहिरङ्गत्व- मित्याहुः। न चासवर्णग्रहणमीयतुरित्यादौ इ इ अतुसितिस्थिते यदीधैंकादेशौ प्रतिपद्विधित्वात्प्रबाध्य दीर्घ इण: कितीत्यभ्यासस्य दीर्घ उत्तरखण्डस्येणो यणि च कृते स्थानिवद्भावेन प्राप्तस्येङो निवृत्त्यर्थमस्त्विति वाच्यम् । तक्रन्यायेनेयङ बाधित्वा जाते दीर्घे इयङप्रवृत्तः । यणपवादत्वस्यैवेति । यथा कुप्वो क पौ चेति सूत्रं विसर्जनीयस्य स इत्यस्यैव सकललक्ष्य- प्राप्तस्य बाधकं न तु शप्परे विसर्जनीय इत्यस्येति भावः । ननु यण्गुणयो- रन्यतरत्वेन व्यापकत्वात्तयोर्यथा अकस्सवर्ण इति बाधकं, तथा यणदीर्घ- योरुभयोर्बाधकमियङ तत्रान्यतरस्य सकललक्ष्यप्राप्तत्वाभावेन विशेषात् । अनत्यं तत्त्वमग्रे वक्ष्यते। ननु इयतीत्यादौ ऋ ऋ ति इति स्थिते यणं तकन्यायेन बाधित्वाऽ- तिपिपोश्चेतीत्वे इ ऋति इति स्थिते यणः पुनरप्राप्त्या न तस्यापि सकललक्ष्यप्राप्तत्वमिति वाच्यम् । यणं बाधित्वाऽपवादत्वाद्दीघः प्राप्तस्तं बाधित्वा प्रतिपद्विधित्वादित्वं प्राप्तम् । तदप्यभ्यासविकारेषु बाध्याः। पूर्व प्रवर्तन्त इति न्यायेन बाधित्वोत्सर्गभूतमुरदत्वन्तत इत्वे निष्प्रत्यूहं यणः प्राप्त्या सकललक्ष्यप्राप्तत्वोपपत्तेः। यत्तु ऋ ऋति इति स्थिते सार्वधातु- केतिगुणः प्राप्तस्तं बाधित्वा परत्वाल्लघूपधगुणस्तं चाधित्वाऽन्तरङ्गत्वाद्यण तं वाधित्वाऽपवादत्वाद्दीर्घस्तं बाधित्वा परत्वात्प्रतिपद्विधित्वाच्चातिपिप- योरितीत्वं तदप्यभ्यासविकारन्यायेनोरदत्वं तदपि बाधित्वा परत्वाद्- ध्रस्वस्तमपि बाधित्वा पर्वोपस्थितिनिमित्तकत्वेन सार्वधातुकगुणस्तमपि २४० ] परिभाषेन्दुशेखरः [ बाधबीजकथने परे वेतत्परिभाषाभावेऽभ्यासस्येति सूत्रमेव व्यर्थम् । न चेया- येयेषेत्यादौ चरितार्थम् । तयोरपि पूर्वप्रवृत्तगुणस्य पूर्वप्रवृत्तवृद्धेश्च 'द्विवंचनेची ति रूपातिदेशेनापहारे द्वित्वे कृते पुनः प्राप्ते गुणवृद्धी बाधित्वाऽन्तरङ्गत्वात्सर्वणदीर्घापत्तेः । न चेयर्तीत्यादौ तच्चरिता- र्थम् । तावन्मानप्रयोजनकत्वे उरित्येव ब्रूयात् । य्वोरित्यनुवर्तते । तमपीति चक्रकापत्तिरिति-तन्न। प्रतिपद्विधित्वाद्गुणात्पूर्वं जुहोत्या- दिभ्य इति श्स्ततः प्रतिपद्विधित्वादेव श्लाविति द्वित्वम् । ततोऽनैमि- त्तिकत्वेन सर्वापेक्षयान्तरङ्गत्वाद्यासविकारे बाध्याः पूर्वमितिन्याये- नेत्वापेक्षया च पूर्वमुरदत्वे प्रतिपद्विधित्वेनेत्वे याप्राप्त्या चक्रकस्या- सम्भवात् । ननु ईषतुरित्यादौ इकारांशे यण एव सकललक्ष्यप्राप्तत्वेन तदपवादत्वेऽपि दीर्घस्य तत्त्वाभावेन तदपवादत्वाभावेनान्तरङ्गत्वेन दीर्घ- स्येव प्रवृत्त्याऽसवर्णग्रहणस्य वैयर्थेऽपि ऊखतुरित्यादाघुकारांशे सकल- लक्ष्यप्राप्तदीर्घस्याप्यपवादत्वेन प्राप्तस्योवङोऽप्रवृत्तये आवश्यकत्वादसवर्ण- ग्रहणन्न ज्ञापकमिति चेत्--न । उकारांशमात्रव्यावृत्त्यर्थत्वेऽभ्यासस्याना- वितिन्यासेनैव सिद्धेऽसवर्णग्रहणस्य वैयर्सेन ज्ञापकत्वमित्याशयात् । रूपातिदेशेनापहारे इति । नन्वतिदेशेन अतिदिष्टधर्मज्ञानमेवाहा- त्मिकं भवति न तु तद्धर्मविरुद्धस्थितधर्मस्यापहारो भवत्यत एवाति- दिश्यमानधर्मविरुद्धधर्माप्रयुक्तकार्याभाव इत्येवोक्तं न तु तद्विरुद्धधर्मा- भाव इति प्रकृते पूर्वस्थितधर्मापहारोक्तिः पुनर्गुणवृद्धिप्राप्तिश्चासङ्गतेति चेत्-न । रूपातिदेशस्थले वास्तविकमेव रूपन्तत्रोत्पद्यते । तदुत्पत्तिश्च पूर्वरूपसद्भावे न सम्भवति विभिन्नयोरानुपूर्पोरेकशब्दवृत्तित्वायोगादनु- पलब्धेश्च । तस्मात् पूर्वरूपापहारं विना गत्यभावोऽत एव तृज्वत्क्रोष्टुरि- त्यतिदेशे क्रोष्टुशब्दस्य क्रोष्टा क्रोष्टारावित्यादिरूपाणि भवन्ति । वस्तुतो रूपातिदेशस्थले तद्रूपविशिष्टादेश एव तात्पर्यमित्यस्यैव वक्तव्यत्वाच्च चरितार्थमिति । सर्वणाच्परत्वाभावात् दीर्घस्यानवकाशत्वेन बाधाद्यणश्च तत्राप्राप्तरिति भावः। उरित्येव अयादिति । न च उरितिन्यासे अङ्गस्ये- त्यस्याचीत्यस्य च सम्बन्धे ऋवर्णान्ताङ्गस्याचि परे इयङित्यर्थे कर्त्तारावि- त्यादावियङापत्त्या फलभेद इत्यत आह-य्वोरिति । तथापि ऋकारस्य य इकारस्तस्येयडित्यर्थे ऋकारेकारयोः स्थान्यादेशभावसम्बन्धस्यैव ema ५६. वार्णादाङ्गं बलीयः०] विजयाऽलङ्कृतः [ २४१ इणो यणिति साहचर्याद्व्याख्यानाच ऋधातोरेव ग्रहणम् । अर्ते- रिवर्णस्येयङित्यर्थः । अभ्यासस्याावित्यभ्यासस्यातेरिति वा गुरु- त्वान्न युक्तम् । न च ए ऐ ओ औ शब्देश्य आचारविवन्तेभ्यो लिटीयङाद्यर्थं तत्सूत्रमावश्यकं तथा अोणधातोण्वुलन्तादिच्छा- क्यजन्तात्सन्युवोणकीयिषतीत्याद्यर्थमावश्यकमिति वाच्यम् । पाष्ठप्रथमाह्निकान्तस्थभाष्यप्रामाण्येन तेषामनभिधानात् । अन्त्ये द्वितीयद्विर्वचनस्यैव सत्त्वेन त्वदुक्तप्रयोगस्यैव दुर्लभत्वात् । सम्भवेन इयतीत्यत्रोरदत्वे एवोक्तरीत्या अतिपिपोश्चेत्यस्य प्रवृत्त्या ऋका- रस्थानिकेकारस्याभावादियङ् न स्यादरियीत्यादरसिद्धयापत्तेश्चेत्यत आह-इणो यणिति । सूत्रान्तरसाहचर्यस्यादर्शनादाह-व्याख्याना- दिति । न ह्येकमुदाहरणन्यायेन सूत्रस्य ज्ञापकत्वप्रदर्शकभाष्यमूलकाद- चिष्णुधात्वित्यतो धातुग्रहणानुवृत्तिमूलकाद्वा व्याख्यानादित्यर्थः । षाष्ठेति । दाश्वानिति सूत्रस्थेत्यर्थः । तत्र हि निरुक्तपरिभाषाज्ञापनसमये अभ्यासस्यासवर्ण इत्यस्येयतीत्यत्र चारितार्यमाशंक्य न ह्येकमुदाह- रणमित्यादिना समाहितमुक्तस्थले चारितार्थ्यसम्भवे तदसङ्गतिः स्पष्टवे- ति भावः । प्रत्ययग्रहणमपनीय तत्स्थानेऽनेकाच् इति वक्तव्यमित्यारम्भ- प्रत्याख्यानयोः कलैक्यायापि एऐओऔएतेभ्य आचारविपोऽनभिधानं बोध्यम् । इजादेश्च गुरुमतोऽनृच्छ इत्याम् तु न अनृच्छ इतिपयुदासेना- नतिदिष्टगुरुमत्वस्यैव तत्र ग्रहणादिति केचित् । कटीत्यत्र प्रश्लिष्टस्य ईधातोरयाञ्चकारेत्युदाहरणात्तादृशसाहचर्याना- श्रयणमित्यन्ये। द्वित्वे एऐइत्यादिस्थिते इदानीं परिभाषाया अभावेनान्तरङ्गत्वाद्- खम्बाधित्वाऽयादेशादेरेव प्रवृत्त्या तेषु चारितार्थ्यासम्भव इति परे । अत एव इण्धातोलिटि द्वित्वात्पूर्वमपरनिमित्तकत्वेनान्तरङ्गत्वात् थलि परत्वाद्गुणे द्वित्वे स्थानिभूतादचः पूर्वत्वेन दृष्टत्वाभावेन स्थानिवत्त्वा- प्रवृत्तौ इएथेति स्थिते सूत्रं चरितार्थमित्यपास्तम् । तत्रापि हवं बाधित्वा- ऽन्तरङ्गत्वादयादेशस्यैव प्रवृत्तेः। अन्त्ये द्वितीयद्विवचनस्यैवेति । नामधातावपि अजादेस्तु आद्येतरस्येत्युक्तत्वेनाद्येतरस्यैवैकाचो द्वित्वमिति भावः । श्राद्यैकाचो द्वित्वे तु ओए ओए इति स्थिते ह्रस्वः हलादिः शेष १६ २४२] परिभाषेन्दुशेखरः [ बाधबीजकथने एवं च संपूर्णसूत्रस्य ज्ञापकता युक्ता । यद्यपि भाष्ये यदयमभ्यासस्या- सवर्ण इत्यसवर्णग्रहणं करोतीति ग्रन्थेनासवर्णग्रहणस्यैव ज्ञापकता लभ्यते तथापि न यन्तरेण गुणवृद्धी असवर्णपरोभ्यासो भवतीति तदुपपादनग्रन्थेन संपूर्णसूत्रस्यैव ज्ञापकता लभ्यते । अग्रेऽपि नैत- दस्ति ज्ञापकमर्त्यर्थमेतत्स्यादित्यनेन सूत्रसार्थक्यमेव दर्शितम् । अस- वर्णग्रहणस्यैव ज्ञापकत्वे तु तद्व्यावर्त्यप्रदर्शनेन तत्सार्थक्यमेव दर्शितं स्यात् । न चाकृतव्यूहपरिभाषयेयेषेत्यादौ सवर्णदीर्घाप्राप्ति- .. इत्यनयोः प्राप्तौ परमपि हलादिः शेषम् अभ्यासविकारे बाध्यबाधकमा- वो नेत्यनेन वाध्याः पूर्व प्रवर्तन्त इत्यर्थकेन बाधित्वा हवे हलादिः शेषे इयर्थं चरितार्थं स्यादिति भावः । अत्रेदं बोध्यम् । हलादिः शेष इत्यस्य यदि अभ्यासस्य आदिभूतं हलमुद्दिश्य शेषविधायकत्वमादीतरहलो निवृत्तिश्च फलिता तहिं आटतुरित्यादौ उद्देश्याभावेनाप्रवृत्तौ टकारनि- वृत्तिर्न स्यात्। इतरनिवृत्तिपूर्वकस्वस्थितिरूपशेषविधाने गौरवञ्च । तस्माद- भ्यासावयवस्यादीतरस्य हलो निवृत्तिरेव विधीयते । तावतैवादिहलस्थि- तिस्सिद्धव बोधिता स्यात् सति सम्भवे । आटतुरित्यादौ तु अन्त्यहलो निवृत्तिमात्रमादिहस्थित्तेरभावात् । पपाचेत्यादौ तु पचो द्वित्वे चकारस्या- नेन निवृत्त्यपेक्षया लाघवाद्धलादेरजन्तस्यैवैकाचो द्वित्वतात्पर्यबोधनद्वारैव चकारनिवृत्तिबोधनम् । तथा चाजाद्यनेकान्धातौ आदिभूतादचः परस्य द्वितीयस्येति नामधातावजादेस्तु आद्येतरस्येति चैतत्फलितमेव । तेन नाम- धातौ मध्यस्थस्याप्येकाचो हलादेरजन्तस्यैव द्वित्वमिति स्थितम्। तेन मनश्शब्देन प्रोणकशब्दस्य समासे मन ओणकीयियिषतीत्यादौ णशब्द- स्यैव द्वित्वेन चारिताध्यशंकापि न । एतेन मनश्शब्दन समासे ओणि- त्यस्याद्येतरत्वादोषो दुर्वार इत्यपास्तम् । इयेषिथेत्यादाविष्धातोलिटि थलीडागमे कृते गुणस्याच्पर्याप्तनिमित्तताकत्वाभावेन द्विवंचनेऽचीत्यस्या- प्रवृत्त्या परत्वाद्गुणे द्वित्वे हलादिश्शेषे हुवे सूत्रं चरितार्थमित्यपि न । हस्वापेक्षयाऽन्तरङ्गत्वादयादेशस्यैव पूर्व प्रवृत्तः हलादिश्शेषात् पूर्वमेवाभ्या- सविकारे बाध्यबाधकभावो नेत्यनेन ह्रस्वप्रवृत्तौ ततो हलादिश्शेषे सूत्रं चरि- तार्थमेवेति चेत् उक्तरीत्यैमात्रस्य द्वित्वेनायादेशस्यैव प्रवृत्तिरिति बोध्यम् । एवञ्चेति । उरितिकरणेनैवेयीत्यस्य सिद्धौ चेत्यर्थः । इयेषेत्या- ५६. वार्णादाङ्ग बलीयः० ] विजयाऽलङ्कृतः [ २४३ यदि दी? न स्यात्तर्हि गुणः स्यादिति संभावनायाः सत्त्वेन परिभाषाप्रवृत्तेः सूपपादत्वादिति कथं संपूर्णसूत्रस्य ज्ञापकतेति वाच्यम्। तस्या असत्त्वात् । सत्त्वे चैतद्भाष्यप्रामाण्येन यत्रान्त- रङ्गकार्यप्रवृत्तियोग्यकालोत्तरमेव तन्निमित्तविनाशकबहिरङ्गविधेः प्राप्तिस्तत्रैवैतत्परिभाषाप्रवृत्तिस्वीकाराच्च । न चान्तरङ्गत्वाद्दी- घंपीयायेत्यादौ पूर्वान्तवत्त्वेनाभ्यासत्वादिवर्णत्वाच णल्यसवणे इयविधानेनेदं सूत्रं चरितार्थम् । न चाचि अनु' इत्यनेन सिद्धि- वृद्धिबाधनार्थत्वादिति वाच्यम् । प्रत्यासत्याऽसवर्णपदेनाभ्या- सोत्तरखण्डसम्बन्ध्यसवर्णा च एव ग्रहणाच्छास्त्रबाधकल्पनापे- क्षया परिभाषाज्ञापकत्वस्यैवौचित्याचेत्याहुः । सा चेयं धर्मिग्राह- कमानादाङ्गवार्णयोः समानकार्यित्व एव । दाविति । आदिना इयायेत्यस्य संग्रहः । इयेषेत्यत्र गुणदीर्घयोः परस्परं निमित्तविनाशकत्वेनाकृतव्यूहेत्यस्याप्रवृत्तावपीयायेत्यत्र दीर्घस्य वृद्धिनि- मित्तविनाशकत्वाभावेन दीर्वं परिभाषाप्रवृत्तेर्बाधकाभाव इति बोध्यम् । एतद्भाष्येति । ज्ञापकपरभाष्येत्यर्थः। यत्रान्तरङ्गकार्यति । प्रकृते न तथा द्वित्वात्पूर्वमपि गुणस्य प्राप्तेः । प्रत्यासत्त्येति । उत्तरखण्डपूर्वस्यैवा- भ्यासत्वेनाभ्यासकार्यसान्निध्यस्योत्तरखण्डे सत्त्वादिति भावः। धर्मि- ग्राहकमानादिति । समानकायित्वं धर्मः। परिभाषा धर्मी । तद्ग्राहक बोधकं मानं प्रमाणम् । अभ्यासस्यासवर्ण इति सूत्रम् । तस्मादित्यर्थः। तद्विषये तथैव सत्त्वादिति भावः। समानकार्यित्व एवेति । समानस्था- निताकत्व एवेत्यर्थः। तत्त्वञ्च वाणशास्त्रीयस्थानितासमानाधिकरणस्थानि- ताकत्वमाङ्गशास्त्रे यथेयायेत्यादाविण्धातोलिटि तस्य णलादेशे द्वित्वे इ इअ इतिस्थिते दीर्घशास्त्रीयस्थानिता परेऽकारनिष्ठा तत्समानाधिकरणस्थानिता वृद्धिनिरूपिता तन्निरूपकत्वं वृद्धिशास्त्रस्येति समन्वयः। पर्याप्त्यनिवे- शादी(यस्थानितासमुदायनिष्ठा वृद्धिशास्त्रीयस्थानिता परेकारनिष्ठे- ति समानस्थानिकत्वाभाव इत्यपास्तम् । ननु त्वं स्त्रीत्यत्र त्व अद अमिति स्थिते अन्तरङ्गत्वादतो गुणे कृते दिलोपेनादन्तत्वाभावान्न २४४ ] परिभाषेन्दुशेखरः [ बाधबीजकथने टाबिति कौमुदीग्रन्थासङ्गतिर्लोपीयस्थानितापररूपीयस्थानितयोरप-- प्त्याऽकारनिष्टत्वेन समानस्थानिताकत्वेनानया परिभाषया पूर्व टिलोपे टापो दुर्वारत्वादिति चेत्-न । वार्णशास्त्रीयस्थानितावच्छेदकपर्याप्त्यधि- करणपर्याप्तस्थानिताकत्वस्यैव समानस्थानिताकत्वपदार्थतयाऽदोषात् । इयायेत्यादौ दीर्घायस्थानितावच्छेदकपरत्वपर्याप्तिः परेकारे तत्रैव वृद्धि- स्थानितापर्याप्तस्सत्त्वात् । त्वमित्यादौ पररूपीयस्थानितावच्छेदकपरत्वप- र्याप्त्यधिकरणे परेकारे लोपस्थानितापर्याप्त्यभावाच्च, हलन्तादेशस्यैव भाष्यसम्मतत्वाच्च । शेषे लोप इति सूत्रस्थशेषग्रहणेन परिभाषाया अप्र- वृत्तिज्ञापनाच्च । स्थानिताया निवेशादुच्छति युच्छतीत्यादावन्तरङ्गत्वा- त्पूर्वं तुकि लघूपधत्वाभावेन गुणाभावः । कायित्वनिवेशे तु तुग्गुणयो- समानकार्यित्वेन तुकः पूर्वमनया गुणापत्तेः। गान इत्यत्र गा अ आनेति स्थिते अन्तरङ्गत्वादी मुकोऽप्राप्त्या गान इति रूपस्यैव सत्त्वेनादादिकाद- विशेष: कौमुद्युक्त उपपद्यते । कार्यित्वनिवेशे दीर्घेण मुकस्समानकार्यि- त्वादनया मुगागमे विशेषापत्तेः। चच्छावित्यादौ छा छा अ इति स्थिते- ऽन्तरङ्गत्वादभ्यासाऽऽकारस्य तुक्यजन्ताभ्यासत्वाभावेन हरवो न स्यादि- त्याशंक्याभ्यासावयवस्याचो ह्रस्व इति वैयधिकरण्यान्वयकरणपरभाष्य- मप्यत एव सङ्गच्छते । अन्यथाऽनया पूर्व हस्वस्यैव प्रवृत्त्या तद्विरोधा- पत्तिः । समानकार्यित्वविषयत्वादेव गाते इत्यादौ गा अाते इति स्थिते आङ्गादप्यातो ङित इति सूत्रात्पूर्वमन्तरङ्गत्वात्सवर्णदीर्घसिद्धिः । वारिणी इत्यादौ नुमः पूर्वमन्तरङ्गत्वाद्दीर्घापत्तिस्समानस्थानिकत्वाभावेन प्रकृतपरिभाषाया अप्रवृत्तेः। येन नाप्राप्तन्यायेन नुमो बाधकत्वन्तु न वारिणोरित्यादिसकललक्ष्यप्राप्तयणबाधकत्वस्यैव सम्भवादिति तु न युक्तम् । लक्ष्यानुरोधेन बाध्यसामान्यचिन्ताश्रयणेनोभयबाधकत्वात् । स्योन इत्यादौ सि उ न इति स्थिते गुणं बाधित्वाऽन्तरङ्गत्वाद्यणिष्यते तन्न स्यादनया गुणस्यैव प्रवृत्तिरिति तु नाशंक्यं, वक्ष्यमाणरीत्या अस्या अनित्यत्वात् । ननु प्रष्ठेत्यादौ ह्रस्वस्य तुक् छकारस्य शकार इत्यनयोस्समानका- यित्वाभावेन प्रकृतपरिभाषाया अप्रवृत्त्या अन्तरङ्गत्वात् पूर्व तुकि तस्य निवृत्तये सतुग्ग्रहणस्यावश्यकत्वेनानित्यत्वे न ज्ञापकमिति चेत्-न । अन्तरङ्गत्वाद्यणो गुणबाधकत्वमिष्यत इतिभाष्यादस्या अनित्यत्वात् । नन्वनित्यत्वाश्रयणस्यावश्यकत्वेन तेनैवातिप्रसङ्गभङ्गात्समानस्थानिकत्व- विषयकत्वकल्पनानवकाश इति चेत्-न । असमानस्थानिकत्वेनाप्रवृत्ति- ५६. वार्णादाङ्ग बलीय:० ] विजयाऽलङ्कृतः [ २४५ यत्तु समाननिमित्तकत्वरूपसमानाश्रयत्वे एवैषेति-तन्न।ज्ञापिते- स्थलानामनुगमेऽपि लाघवस्य सत्त्वात् । ज्ञापितेऽपीयायेत्याद्यसिद्धि- रिति । इयायेत्यादौ परेकारनिमित्तकत्वं दीर्घस्य प्रत्ययनिमित्तकत्वं वृद्धे- रिति तयोस्समाननिमित्तिकत्वाभाव इति भावः । परे तु आङ्गशास्त्रविशिष्टत्वं वार्णशास्त्रे समाननिमित्तकत्वम् । वैशि- घट्यश्च स्वीयस्थानितापर्याप्त्यधिकरणवृत्तित्वस्वघटकसप्तम्यन्तपदप्रयो- ज्यविषयताश्रयघटकवृत्तित्वान्यतरसम्बन्धेन स्वविशिष्टविषयताप्रयोजक- सप्तम्यन्तपघटितत्वसम्बन्धेन । इयायेत्यादौ वृद्धिशास्त्रवैशिष्ट्यं दीर्घस्य यतस्तघटकाच्पदप्रयोज्यविषयताया वृद्धिनिरूपितस्थानितापर्याप्त्यधि- करणपरेकारवृत्तित्वम् । कारकेत्यादौ यणशास्त्रीयाच्पदप्रयोज्यविषय- ताया वृद्धिशास्त्रीयसप्तम्यन्तपदप्रयोज्यविषयताश्रयाघटकाकारवृत्तित्वे- नोभयोस्समाननिमित्तकत्वादियङ यणश्चान्तरङ्गमपि बाधित्वाऽऽङ्गं वृद्धि- कार्य सिद्धम् । स्योन इत्यत्र यणशास्त्रघटकसप्तम्यन्ताच्पदप्रयोज्योकार- निष्ठविषयताया गुणशास्त्रवैशिष्ट्याभावेन समाननिमित्तकत्वाभावेनाङ्ग- मपि गुणमन्तरङ्गत्वाद्बाधित्वा यणादेशः । ननु ऊखतुरित्यत्राङ्गत्वाद्धस्वे कृते दीर्धे पूर्वान्तवद्भावेनाभ्यासत्वेऽपि लक्ष्ये लक्षणन्यायेन पुनर्हस्वाभावो भवति । तत्र दीर्घशास्त्रघटकसप्तम्य- स्तपदप्रयोज्यविषयतायां ह्रस्वशास्त्रवैशिष्ट्याभावेन समाननिमित्तकत्वाभा- वेन परिभाषाया अप्रवृत्तावाङ्गमपि ह्रस्वमन्तरङ्गत्वाद्बाधित्वा दीर्घ ह्रस्वा- पत्तिरिति चेत्-न । सप्तम्यन्तपञ्चम्यन्तान्यतरपदस्य निवेशेन पञ्चम्यन्ता- पदप्रयोज्याभ्यासवृत्तिविषयत्तायां इस्वशास्त्रीयवैशिष्ट्यसत्त्वेनादोषात् । नन्वेवमपि यणशास्त्रस्य समाननिमित्तकत्वाभावेन तस्य हवेनाबाधात् चक्रकापत्तिः। तथा हि उ उख अतुसिति स्थिते यणमपवादत्वात्प्रबाध्य दीर्घः प्राप्तस्तमाङ्गत्वाद्वाधित्वा ह्रस्वः प्राप्तस्तमप्यन्तरङ्गत्वाद्बाधित्वा यण प्राप्तस्तं दीर्घ इत्यावर्त्तनात्तदर्थं षष्ठ्यन्तपदस्याप्यन्यतमत्वेन प्रवेशे स्योन इत्यत्रापि यणो गुणेन बाधापत्तिरिति चेदेतदाशयेनैव तत्पक्षस्य दूषितत्वात्। वस्तुत ऊखतुरित्यत्र उख उख अतुसिति स्थिते अभ्यासविकारे बाध्यबाधकभावाभावेन हलादिश्शेषह्रस्वयोस्समकाले प्रवृत्तेस्तस्मिन् काले न दीर्घप्राप्तिः । खकारेण व्यवधानात्तदुत्तरं दीर्घे पुनर्लक्ष्ये लक्षणन्यायेन २४६ ] परिभाषेन्दुशेखरः [ बाधबीजकथने ऽपीयायेयेषेत्याद्यसिद्धेः सूत्रवैयर्थ्यस्य तदवस्थत्वाच । स्योन इत्यत्र तु वक्ष्यमाणरीत्याऽस्य अनित्यत्वादप्रवृत्तौ गुणादन्तरङ्ग- त्वाद्यणादेशः। न चैवमपीयायेत्यादावियङ् दुर्लभस्तत्र कर्त्तव्ये वृद्धयादेः स्थानिवत्त्वेनासवर्ण इति प्रतिषेधादिति वाच्यम् । । हस्वाप्रवृत्त्या न दोषः । एतदाशयेनैव कौमुद्यां परत्वादित्युक्तिः । दीर्घस्य परकालिकप्रवृत्तिमत्वादिति तस्या अर्थ इति समाननिमित्तकत्वं निर्दुष्टमे- वेत्याहुः। सिवे प्रत्यये नित्यत्वाद्गुणात्पूर्वमूठि सिऊन इति स्थिते गुणमन्तर- ङ्गत्वाद्बाधित्वा यण् भवति । स न स्यादाङ्गत्वाद्गुणस्यैव प्राप्तेरित्यत आह-स्योन् इत्यत्रेत्यादि स्थानिवत्वेनेति । ननु इयायेत्यत्र इऐ अ इति स्थितेऽन्तरङ्गत्वादायादेशे इ आयेतिस्थिते इयङ् भवति । तत्र स्थानिवद्भावेनायादेशे इबुद्धया सवर्णाच्परत्वेनेयोऽप्राप्तिस्तेऽभिमता सा न युक्ता । आयादेशस्थानिनि वृद्धयादेशे इत्वस्याभावात् । न चैकारे प्रथमं स्थानिवद्भावेन सवर्णाचत्वमानीय पुनरायादेशे स्थानिवद्भावेन सव- चत्वानयनमविवादमिति वाच्यं, लक्ष्ये लक्षणन्यायेन पुनः स्थानिवत्त्वा- प्राप्तेः । अत एवैतिकेत्यादौ लक्ष्ये लक्षणन्यायेन स्थानिवद्भावद्वयाभावः। स्त्रीप्रत्ययप्रकरणे शेखरोक्तस्संगच्छते । आयादेशेनैकारस्यापहारेण तत्र प्रथमं स्थानिवद्भावाप्राप्तश्चेति चेत्-अनोच्यते । स्थानिवदित्यत्र स्थानिपदेन स्थानिस्थान्यपि गृह्यते । तथा चादेशः आयादेश स्स स्वस्थानिस्थानी इकारस्तद्वृत्तिसवर्णाचत्ववान् स्यादितीयङादेशप्राप्तिरत एव सुनयिकेत्यादौ धात्वन्तत्वाद्यकारस्य धात्वन्तयकोऽस्तु नित्यमित्यस्य प्रवृत्तिरन्यथा नयरू- पानुमानिकादेशे नीरूपस्थानिस्थानिगतस्य धातुत्वस्यातिदेशाभावे नित्ये- त्वानापत्तिः। नन्वेतिकेत्यादाकस्थानिवद्भावेनैव टापा सहैकादेशः स्वस्थानी पररू- पनिष्पन्नोऽकारस्तत्स्थानी वर्णद्वयात्मकस्तद्वत्स्यात् । ततश्चेत्वं न स्यादिति चेत्-न । टापा सहकादेशस्थानी पररूपात्मकोऽकारष्टापाकारश्चेति समु- दायस्तत्स्थानित्वस्य कुत्राप्यभावेनादोषात् । केचित्तु यूनस्तिरिति निर्देशादतिदेशविषये लक्ष्ये लक्षणन्यायो न प्रवर्तत इति ज्ञापनेनात्र स्थानिवद्भावद्वयप्राप्तिरन्यथा यु उन इति स्थिते ५६. वार्णादाङ्गं बलीय:० ] विजयाऽलङ्कृतः [२४७ सूत्रारम्भसामर्थ्यादेव स्थानिवत्त्वाप्रवृत्तेः। तच्च सामान्यापेक्षम् । अभ्यासकार्ये तदुत्तरखण्डादेशस्य तत्कार्यप्रतिबन्धकीभूतं स्थानि- वत्त्वं नेति । अत एवारतीत्यादौ यणादेशस्य स्थानिवत्त्वादभ्या- कृतस्य दीधैंकादेशस्य स्थानिवद्भावेऽपि यु उन इति बुद्धौ पूर्वरूपस्योक्त- न्यायेन पुनः स्थानिवद्भावाप्राप्त्या, संप्रसारणपरत्वाभावेन निषेधाप्राप्त्या संप्रसारणे निर्देशासंगतिरेतिकेत्यादौ तु न यासयोरिति ज्ञापकात् । त्यदाद्यकारेण जातपररूपस्य स्थानिवत्त्वं नेति कल्पनेनादोष इत्याहुः- तन्न । संप्रसारणस्थानिकपूर्वरूपस्य हल इति सूत्रारम्भसामर्थ्यात्सम्प्रसार- णतुल्यत्वातिदेशेन पूर्वरूपेण पूर्वपरनिवृत्तिपूर्वकापूर्वस्यैकस्य बोधनापेक्षया लाघवेन परनिवृत्तिपूर्वकपूर्वस्थितेरेवाभ्यनुज्ञादानस्य युक्ततया च पुनः स्था- निवद्भावमन्तरेणैव निषेधप्रवृत्त्या निर्देशोपपत्तेः। सत्रारम्भसामर्थ्यादि- ति । ननु इयेथ इयतीत्यादौ सूत्रस्य चारितार्थ्यम् । इणधातोलिटि सिपि थलि द्वित्वनिमित्ताचोऽभावेन द्विवचनेऽचीत्यस्याप्राप्त्या परत्वाद्गुणे एरूपस्य द्वित्वे ह्रखे तस्य स्थानिभूतादचः पूर्वत्वाभावेनोत्तरखण्डस्य स्थानिवद्भावाप्रवृत्तेरियीत्यादौ गुणात्पूर्वमभ्यासस्यत्वेऽपि उत्तरखण्डस्य स्थानिवद्भावेऽप्यसवर्णाचत्वस्याक्षतत्वाञ्च। न चाभ्यासस्यानिकि अभ्यास- स्याय्वोरिति न्यासेनैवोपपत्तावभ्यासस्यासवर्ण इत्यस्य वैयर्थेन युक्त- मेव ज्ञापकत्वमिति वाच्यम् । तथा सति ज्ञापितेऽपि चारितार्थ्याभावेन ज्ञापनासम्भवादिति चेत्-न । अभ्यासस्यानणि अभ्यासस्यानाविति- न्यासेनैव सिद्धावसवर्णग्रहणस्य ज्ञापकत्वसिद्धरप्रत्यूहत्वात्। इयर्ती- त्यादौ स्थानिवद्भावेन ऋबुद्धावप्यनण्वत्वस्य इयेथेत्यत्र स्थानिवद्भावा- प्राप्त्या स्वत एवाएिभन्नत्वस्येकारभिन्नत्वस्य च सत्त्वेनेयङपपत्तेः । ज्ञापिते तु इयायेत्यादावरिभन्नत्वाभावादियोऽभावापत्त्योखतुरित्यत्रकारभिन्न- त्वेनोवडापत्त्या च चरितार्थमसवर्णग्रहणम् । गुरुचरणास्तु इयेथेत्यादौ प्रतिपदोक्तत्वात्पूर्व द्वित्वमेवेत्याहुः । अत एवेति । इयङादेशे कर्तव्ये न स्थानिवदिति विशेषापेक्षं विहा- याभ्यासकार्य इत्यादिसामान्यापेक्षाज्ञापनादवेत्यर्थः । आरतीति । ऋधा- तोर्यङलुगन्तालटो झरदादेशे अभ्यासस्योरदत्वे रुकि च कृते उत्तरखण्ड- स्य यणि रोरीतिलोपे दीर्घे रूपसिद्धिस्तत्रोक्तज्ञापनाभावे यणः स्थानिव- त्वेन रेफलोपनिमित्तरेफाभावेन ढलोप इति दी| न स्यादिति भावः ।

२४८ ] परिभाषेन्दुशेखरः [ बाधबीजकथने सस्य 'ठूलोप' इति दी? दुर्लभ इत्यपास्तम् । दीर्घविधौ तनिषे- धाच । अरियियादित्यत्र तु स्थानिवत्त्वेनेयङ् भवत्येव । तस्य बहिरङ्गत्वेन यणोऽसिद्धत्वन्तु न नाजानन्तर्य इति निषेधात्। रोरीत्येत- दपेक्षयाऽपि यणो न बहिरङ्गासिद्धत्वं तस्य त्रिपादीस्थत्वेन परिभाषाया अप्रवृत्तेः। वस्तुतस्तु स्थानिवद्भावेऽपि न क्षतिर्दीर्घविधौ हि रेफस्य रेफत्वेन न निमित्तत्वमपि तु रेफलोपनिमित्तत्वेन तस्य च रेफाज्ञानेऽपि लोपदर्शनेन ऋकारे एव ज्ञानसम्भवेन दीर्घप्रवृत्तस्सूपपादत्वात् । दीर्घविधौ तनिषेधा- चेति न पदान्तसूत्रेण स्थानिवत्त्वनिषेधादित्यर्थः। न च तत्र दीर्घपदेन पादिकस्यैव ग्रहणमत एव पूर्वत्रासिद्धे न स्थानिवदित्यवष्टभ्य बरे यलोपस्वरवयं द्विवचनादीनां प्रत्याख्यानं सङ्गतमन्यथा फलभेदापत्तेरिति वाच्यम् । चिण्णमुलोर्दीर्घोऽन्यतरस्यामिति सूत्रे मितां ह्रस्व इत्यतो ह्रस्वग्रहणमनुवत्यै तद्विकल्पेनैव सिद्धे दीर्घग्रहणसामर्थ्येन तत्रतस्यापि ग्रहणावश्यकत्वेन वर्यकोटी दीर्घस्याप्युपलक्षणत्वेन दीर्घातिरिक्तानामेव द्विवचनादीनां प्रत्याख्यानात् । स्पष्टञ्चेदं चिण्णमुलोरितिसूत्रे शब्देन्दु- शेखरे । तत्रत्यकौमुदीग्रन्थस्तु चिन्त्य एवेत्यपि तत्रैव स्पष्टम् । स्वरदीर्घयलोपेषु लोपाजादेश एव न स्थानिवदित्युक्तत्वादिदं न युक्तमिति वाच्यम् । तत्र दीर्घग्रहणस्य फलाभावात् । विव्यतुरित्यादावुपधायाश्चेत्य- नेन दीर्चे कर्तव्ये यणः स्थानिवत्त्वनिषेधेन दीर्घस्तु न प्रत्यासत्त्या धात्ववय- वस्यैवेको दीर्घविधानेनाभ्यासोत्तरखण्डस्यैव धातुत्वेनाभ्यासावयवेको दीर्घाप्राप्तेरत एव कविधौ सर्वत्र संप्रसारणिभ्यो डवक्तव्य इत्यनेन परिपूर्वाव्येबो डप्रत्यये डलोपे परिव्य इत्यत्रोपसर्गावयवेको न दीर्घः। अरियियादिति । अर्तेर्यङलुगन्ताल्लिङि द्वित्वे अभ्यासस्य रिगागमे रिङियडोः प्राप्तौ परत्वादुत्तरखण्डस्य रिङादेशे तस्य स्थानिवद्भावेनाभ्या- सस्येयङ् भवति । स्थानिवद्भावस्यानेन निषेधस्तु नाभ्यासकार्यसाधकत्वात् । यदि त्वन्तरङ्गत्वात्पूर्वमेव रिङादेशादिया, अत एव रिङादेशस्य स्थानि- बद्भावाद्यलोपो न पूर्व रिङादेशे यकारस्य स्थानिभूतादचः पूर्वत्वाभावेन स्थानिवद्भावाभावेन यलोपापत्तेदुर्वारत्वात् , यलोपे बहिरङ्गासिद्धत्वन्तु नाचोऽन्यानन्तर्यनिमित्तके अन्तरङ्गे इयडि कृते निषेधादित्युच्यते तदा प्रतिबन्धकीभूतत्वं न देयम् । अत एव कटीवीत्यत्र प्रश्लिष्टादिधातोलिटोs- ५६. वार्णादाङ्ग बलीयः ] विजयाऽलङ्कृतः [ २४६ स्थानिवत्त्वस्याभ्यासकार्यप्रतिबन्धकत्वाभावात् । इयं चाङ्गसम्ब- न्धिन्याङ्ग एवेति 'स्वरितो वा' इति सूत्रे भाष्ये । तत्र हि कुमाय इत्यादौ यणुत्तरमोडुक्तः । इयं चानित्या 'च्छ्वोरिति सतुङ्- निर्देशात् । अन्यथाऽन्तरङ्गत्वात्पूर्वं तुकः शादेशे तुको प्राप्त्या तद्वैयर्थं स्पष्ट मेवेत्यन्यत्र विस्तरः ॥५६॥ तुसि द्वित्वे इ इ अतुसिति स्थिते एरनेकाजिति यणि इयतुरित्यत्र यण: स्थानिवद्भावेन नाभ्यासेकारस्य यण । अचकाणदित्यादौ काण्यादीनाम्वेति ह्रस्वाभावे वृद्धथादेशस्य स्थानिवद्भावेन लघुपरत्वमादाय दीर्घसन्वद्भावौ न स्थानिवद्धावस्यानेन निषेधात् । प्रतिबन्धकीभूतत्वनिवेशे तु नैतत्सि- येत् । स्थानिवद्भावस्याभ्यासकार्यसाधकत्वात् अभ्यासत्वावच्छिन्नो- द्देश्यककार्याभावेनाद्यदोषाभावेऽपि द्वितीयस्य वज्रलेपत्वादभ्यासत्वा- वच्छिन्नोद्देश्यताकत्वनिवेशेन दोषवारणापेक्षया निष्फलनिवेशाभावस्यैव युक्तत्वाच्च । अभ्यासकार्येत्यनुक्तौ तु नीधातोलिटि निन्यतुरित्यादावनेन निषेधादुत्तरखण्डाजादेशस्थानिवद्धावानापत्त्याऽनिदितामिति नलोपाप- त्तिस्तदुक्तौ तु नलोपस्याभ्यासकार्यत्वाभावान्न दोषः । उत्तरखण्डनि- वेशाव्रश्चेत्यत्राभ्यासकार्ये संप्रसारणनिषेधे कर्तव्येऽभ्यासावयवोरद- त्वस्य स्थानिवद्भावः । एतद्वचनफलन्तु अचीकमत अतूतवदित्यत्र दीर्घसन्वद्भावयोः कर्त्तव्यत्वे उत्तरखण्डाजादेशस्य हस्वस्य स्थानिवद्भा- वाभावः । अङ्गसम्बन्धिन्याङ्ग इति। अङ्गनिष्टोद्देश्यताके अङ्गाधिकारस्थे कार्ये एवेयं परिभाषा प्रवर्तत इत्यर्थः। धम्मिग्राहकमानादिति भावः । कुमाय-इत्यत्राङ्गत्वेऽप्यङ्गनिष्ठोद्देश्यताकत्वविरहान्न पूर्वमाडिति भावः । अनित्येत्यादिच्छ्वोश्शूडिति सूत्रे तकारोऽपि छकारात्पूर्व प्रश्लिष्यते । तेन तुग्विशिष्टस्य छकारस्य प्रष्टेत्यादौ शकारोऽन्यथाऽन्तरङ्गत्वाच्छे चेति तुकि छकारस्य शकारेऽपि तकारश्रवणापत्तिः । न चाकृतव्यूह- परिभाषया न पूर्व तुगिति वाच्यन्तस्या असत्त्वात् । अनित्यत्वा- भावे तु वार्णपरिभाषयैवान्तरङ्गादपि तुकः पूर्वमेव शकारे सतुग्निर्देशस्य वैययं स्पष्टमेव । न च समानस्थानिकत्वाभावात्परिभाषाया अप्रवृत्ते_- याभाव इति वाच्यम् । समानस्थानिकत्वस्याप्यनित्यत्वमूलकत्वात् । न च समानस्थानिकत्व एवेयमित्येव सतुग्निर्देशाज्ञाप्यते इति २५० ] परिभाषेन्दुशेखरः [बाधबीजकथने नन्वेवं सेदुष इत्यादौ कसोरन्तरङ्गत्वादिटि ततः संप्रसारणे- ऽपीटः श्रवणापत्तिरिति चेद्-अत्र केचित्- अकृतव्यूहाः पाणिनीयाः॥ ५७ ॥ न कृतो व्यूहो विशिष्ट ऊहो निश्चयः शास्त्रप्रवृत्तिविषयो यैरि- त्यर्थः।भाविनिमित्तविनाशे इत्यध्याहारः। बहिरङ्गेणान्तरङ्गस्य नि- मित्तविनाशे पश्चात्सम्भावितेऽन्तरङ्गं नेति यावत् । अत्र च ज्ञापक 'समर्थानां प्रथमात्' इति सूत्रे समर्थानामिति । तद्धि सत्थितादि- भ्यः कृतदीर्धेभ्यः प्रत्ययोत्पत्त्यर्थम् । अन्यथान्तरङ्गत्वादीघे कृत युक्तम् । स्योन इत्यादौ यणगुणयोस्समानस्थानिकत्वेनानया पूर्वं गुणस्यै- वापत्तेः । चंच्छम्यत इत्यादावनया तुकः पूर्वं नुमः प्रवृत्तेरभावापत्तश्च । अङ्गसम्बन्धिन्याङ्ग एवेत्यसङ्गतमेव कुमाय इत्यादावस्या अनित्यत्वादेवाट: पूर्वमप्रवृत्तिसिद्धः । अत एव ज्ञाने वारिणी इत्यादावाङ्गत्वादन्तरङ्गाभ्या- मपि वृद्धिपूर्वसवर्णदीर्घाभ्यां पूर्व श्यादेशः । अन्यथा श्यादेशस्याङ्गोहे- श्यकत्वाभावादेतस्या अप्रवृत्त्या पूर्वमप्रवृत्त्यापत्तेर्न च तस्य चैयर्थ्य हलन्ते चारितार्थ्यादिति दिक् ॥५६॥ नन्वेवमिति । पूर्वोपस्थितिनिमित्तककार्य्यस्य 'मनुष्योयं प्रातरुत्थाय शरीरकार्याणि करोती'ति लोकन्यायेन प्रथमं प्रवृत्तिवर्णने सतीत्यर्थः । कसोरन्तरङ्गत्वादिटीति । सद्धातोलिट: क्वसौ धातोद्वित्वैत्वाभ्यास- लोपेषु सेद्वस इत्यवस्थायामेव वलादित्वरूपशीघ्रोपस्थितिनिमित्तकस्येटः शस्प्रत्ययोत्पत्त्युत्तरप्रवतिष्यमाणसंप्रसारणात्पूर्व प्राप्तेरिति भावः । इटः श्रवणापत्तिरिति । तत्स्थानिकयण: श्रवणापत्तिरित्यर्थः । यणद्वारकमिट एव श्रवणं वा बोध्यम् । केचिदिति । दीक्षितादय इत्यर्थः । अध्याहार इति । अन्यथा यथा- श्रुतपरिभाषार्थे शास्त्राणां वैयर्थ्यापत्तिरिति भावः । बहिरङ्गेणेति । फलि- तमिदंन तु बहिरङ्गत्वान्तरङ्गत्वे परिभाषाप्रवृत्तौ निमित्तम् । पश्चादिति । उत्तरकालिके इत्यर्थः । अत्र चेति । परिभाषायामित्यर्थः । समर्थानामि- ति । कृतसन्धिकार्यादिति तदर्थः । अन्यथेति । परिभाषाया अभाव इ- त्यर्थः । अन्तरङ्गत्वादिति । प्राप्तिमत्वन्तत्वमप्राप्तिकत्वञ्च बहिरङ्गत्वम् । - ५७. अकृतव्यूहाः पाणिनीयाः] विजयाऽलङ्कृतः [ २५१ एव प्रत्ययप्राप्त्या तद्व्यर्थता स्पष्टव । तत्र हि भाविन्याऽऽदि- वृद्धया सवर्णाचत्वविनाशः स्पष्ट एव । न चात्रैकादेशप्रवृत्तिसमये वृद्धचाप्राप्त्यैकादेशे कृते आदेशे वृद्धः प्राप्तावपि तन्निमिचविना- शाभाव इति वाच्यम् । तद्द्वारैव तन्निमित्तविनाशसत्त्वेनाक्षतेः। न च सौस्थितौ बहिरङ्गतया वृद्धरसिद्धत्वान्न तन्निमित्तविनाश इति वाच्यम् । समर्थग्रहणेनैतद्विषये तस्या अप्रवृत्तेरपि ज्ञापनात् । यत्तु समर्थग्रहणेनान्तरङ्गपरिभाषाया अनित्यत्वमेव ज्ञाप्यत । अचत्वविनाश इति । अल्पान्तरमिति सौत्रप्रयोगाविति भाष्यप्रयो- गाभ्यामचि पदत्वे वैकल्पिकमिति कल्पनात् कुत्वाभावः । तद्वारैवेति । एकादेशविनाशद्वारैवेत्यर्थः । श्रीपायेत्यत्र दीर्घनिमित्तस्यात्वस्यादेशेऽनुवर्त- मानस्य धम्मिनाशानाशः । सन्निपातपरिभाषाप्रवृत्तिप्रयोजक इव एकादे- शेऽपि सत: सवर्णाचत्वरूपनिमित्तस्य धम्मिनाशादेव नाश एतत्परिभा- षाप्रवृत्तिप्रयोजक इति भावः । निमित्तविनाश इत्यस्य निमित्तविशिष्टो विनाश इत्यर्थो वा । वैशिष्ट्यञ्च स्वप्रतियोगिकत्वस्वस्थानिकादेशप्रतियो- गिकत्वैतदन्यतरसम्बन्धेन । न च सौत्थिताविति । ननु जातस्य तत्का- लप्राप्तस्य वा बहिरङ्गस्यैवासिद्धत्वं बहिरङ्गपरिभाषया बोध्यते । वृद्धश्च भ- विष्यत्प्राप्तिकत्वात्कथं दीर्घापेक्षयाऽसिद्धत्वमिति चेत्-अत्रोच्यते । अन्त- रङ्गप्रवृत्तिसमये उपस्थितस्य बहिरङ्गस्यासिद्धत्वम्बोध्यते । अनुपस्थित- स्याप्यसिद्धत्वे मानाभावात् । उपस्थितिश्चान्तरङ्गप्रापकतया तत्प्रतिबन्ध- कतया च तेन रूपेणोपस्थितिः प्रायस्तयोरेवेत्येतत्फलितैव जातस्येत्याधु- क्तिर्ग्रन्थकारस्य । प्रकृते च स्वप्रवृत्तिप्रतिवन्धकपरिभाषाप्रवृत्तिकारणीभू- ताया वृद्धः परिभाषाद्वारा स्वप्रवृत्तिप्रतिवन्धकतया दीर्घप्रवृत्तिसमये उपस्थितैव वृद्धिरिति तस्या असिद्धत्वं युक्तमेवेति बोध्यम् । किञ्चान्तर- निमित्तविनाशनिमित्तकत्वेनान्तरणदेशस्थत्वेन च परिभाषाप्यन्तरङ्गा। तद्दृष्ट्यैव तत्समकालप्राप्ताया वृद्धरसिद्धत्वेन परिभाषाया अन्तरङ्गनि- मित्तविनाशज्ञानाभावात् न प्रवर्तेत सेति बोध्यम् । समर्थग्रहणेनेति । यद्विना न चारितार्थ्यं तत्कल्पनीयमेवेति बो- ध्यम् । एतद्विषये अकृतव्यूहपरिभाषारूपान्तरङ्ग कर्तव्य इत्यर्थः । अनित्यत्वमेवेति । न तु परिभाषेति बोध्यम् । तथा च सूस्थितशब्दे पत्यादौ गोमत् सु २५२ ] परिभाषेन्दुशेखरः [ बाधबीजकथने इति-तन्न । असिद्धपरिभाषया समकालप्राप्तबहिरङ्गस्य पूर्व जातब- हिरङ्गस्य चान्तरङ्गे कर्तव्येऽसिद्धत्वं बोध्यते । न तु जातेऽन्तरङ्ग तस्य तत्त्वं बोध्यते मानाभावात् फलाभावाच । एवं च सत्थितादा- वेकादेशस्य परिभाषासाध्यत्वाभावेन तदनित्यत्वज्ञापनासम्भवात् । अन्तरङ्गानपि विधीनित्यादेरप्यस्यामेवान्तर्भावः । एतत्प्रवृत्तौ च निमित्तविनाशसम्भावनापि निमित्तम् । अत एव गोमद्दण्डीत्यादौ हल्ङ्यादिलोपो न । अन्यथा हल्ङ्यादिलोपकाले सामासिकलु- को प्राप्त्या तदुत्तरं चापहार्याभावादप्राप्त्या लोपस्यैवापत्तेः । अस्ति चात्रापि यदि लोपो न स्यातहि लुक् स्यादिति सम्भावना । दीर्घस्य प्रथममप्रवृत्त्याऽकृतसन्धेरेव प्राप्तप्रत्ययवारणार्थ समथग्रहण- मिति भावः । तदनित्यत्वज्ञापनासम्भवादिति । सु उत्थितेति स्थिते वृद्धरप्रवृत्त्या दीर्घस्य च प्रवृत्त्याऽन्तरङ्गपरिभाषां विनैव निराबाधदीर्घ- प्रवृत्त्याः कृतसन्धिकार्यादेव प्रत्ययोत्पत्तिसम्भवेन समर्थग्रहणस्य चारि- तार्थ्याभावेन ज्ञापकत्वासङ्गत्यापत्तेः । न हि परिभाषाधीना दीर्घप्रवृत्ति- येनानित्यत्वात्तदनवृत्तावप्राप्तदीर्घप्रवृत्त्यर्थ चरितार्थ समर्थग्रहणं स्यादिति भावः । अस्यामेवान्तर्भाव इति । गोमप्रिय प्रिय स्वित्यवस्थायां हल्ङ्यादिलोपस्य निमित्तं सुः, कारणमात्रस्य निमि- त्तत्वात् । तस्य सामासिकलुका विनाशस्य भावित्वात् पूर्व हल्ङथा- दिलोपस्यानयैवाभावसम्भवात् । प्रजग्ध्येत्यादौ जग्ध्यादेशनिमित्तस्य तादिकित्वस्य ल्यपा विनाशस्य भावित्वात् पूर्व जग्ध्यादेशस्याप्राप्त्या ल्यपि जग्ध्यादेशार्थं ल्यग्रहणमिति भावः । एतत्प्रवृत्ताविति । अकृत- व्यूहपरिभाषाप्रवृत्तावित्यर्थः । निमित्तविनाशसम्भावनेति । यद्यन्तरङ्ग पूर्वं न प्रवर्त्तत तदा बहिरजेणान्तरङ्गानिमित्तविनाशः स्यादिति सम्भावने- त्यर्थः । अत एवेति । सम्भावनाया निमित्तत्वादेवेत्यर्थः । अन्यथेति । सम्भावनाया निमित्तत्वाभाव इत्यर्थः।लोपस्यैवापत्तरिति। निमित्तविना- शस्य भावित्वाभावेन प्रकृतपरिभाषाया अप्राप्तेरिति भावः । ननु सम्भावनाया निमित्तत्वे तपरकरणं व्यर्थमित्यत आह- ५७. अकृतव्यूहाः पाणिनीयाः] विजयाऽलङ्कृतः [ २५३ 'अल्लोपोन' इति सूत्रस्थतपरकरणं तु परिभाषानित्यत्वज्ञापनेन चरितार्थम् । तद्ध्यान इत्यादौ लोपवारणाय । अन्यथा दीर्घामाचे लोपसम्भावनयैतत्परिभाषाबलाद्दीर्घाप्राप्तौ तद्वैयर्थ्य स्पष्टमेवे- त्याहुः। 'समथा मिति सूत्रे कैयटस्तु समर्थवचनेनेयं परिभाषा ज्ञाप्यते-अकृतव्यूहाः पाणिनीया इति । तेन पपुष इत्यादा- वन्तरङ्गत्वात् पूर्व कृतोपीडागमो निवर्तत इति वदन् न कृतो व्यूहो विशिष्टस्तकों निमित्तकारणविनाशेऽपि कार्यस्थिति- रूपो यैरित्यर्थमभिप्रैति । निमित्तापाये नैमित्तिकस्याप्यपाय इति यावत् । सूत्थितादिजि वृद्धौ दीर्घनिवृत्तौ सावुत्थितिभूदिति । । अल्लोपो न इति । तद्धीति । तपरकरणं हीत्यर्थः । आन इति । अन्- धातोः क्विपि अनुनासिकस्येति दीर्घ शसि रूपम् । लोपैति । आलोपे- त्यर्थः । अन्यथेति । अनित्यत्वाभाव इत्यर्थः । दीर्घाभाव इति । यदि दी? न स्यात् तर्हि लोप: स्यादिति दीर्घनिमित्तविनाशसम्भावनायास्स- त्त्वेन दीर्घाप्राप्तौ सत्यपि तपरकरणे लोपप्राप्त्या तपरकरणं व्यर्थमिति बोध्यम् । अनित्यत्वफलन्त्वतिभवकानित्यादौ सर्वनामसंज्ञाया निमित्तभू- तानुपसर्जनत्वस्य भाविना समासेन विनाशसम्भावनायामनया वाक्येऽ- पि सर्वनामत्वाप्राप्तावकचोऽप्रवृत्त्यापत्तिः अनित्यत्वेऽकच्सिद्धिरिति दान्- शानभ्यां धातुभ्यां क्विपि शसि दानः शान इत्यादौ लोपाभावस्तु न तपरकरणफलम् । तयोर्नित्यण्यन्तत्वेन णिलोपस्य स्थानिवद्भावेन लोपा- प्राप्तेः। सावुत्थितिमा भूदिति । ननु कृतदीर्घात् सूस्थितशब्दादिनि दीर्घरूपादेशस्य वृद्धावपि न तया दीर्घनिमित्तविनाशो दीर्घेणैव स्वनिमित्त- विनाशस्य कृतत्वात् । किञ्च नैमित्तिकस्य दीर्घस्य वृद्ध्यैव विनाशात् परिभा- पाया तद्विनाशस्याशक्यत्वाच्चेदमनुपपन्नम्। किञ्च दीर्घविनाशेऽपि देवद- त्तहन्तृहतन्यायेनोकारश्रवणमप्यनुपपन्नमिति चेत्-अत्रोच्यते । निमित्त- स्य विनाशे तत्प्रयुक्तकार्यविशिष्टस्य स्थाने तत्कार्यरहितस्वरूपातिदेशोऽनया बोध्यते । तावतैव नैमित्तिकविनाशस्योपपत्तेरुकारश्रवणोपपत्तेश्च । दीर्घ- २५४ ] परिभाषेन्दुशेखरः [ बाधबीजकथने समर्थानामिति।लोकन्यायसिद्धश्चायमर्थः । तथाहि लोके निमित्तं द्वि- विधं दृष्टम्-कार्यस्थितिनियामकं तदनियामकं च।आद्यं यथा न्याय- नये अपेक्षाबुद्धिस्तन्नाशे द्वित्वनाशाभ्युपगमात् । वेदान्तनये प्रारब्ध- निमित्तस्याक्त्वस्य सवर्णत्वस्य चैकादेशेऽपि सत्त्वात् वृद्ध्यैव तस्य विना- शाच्च न किमप्यनुपपन्नम् । किञ्च निमित्तं सवर्णाक्वं नैमित्तिकञ्चादेश- स्थितिः स्थानिनो निवृत्तिश्च । तत्र दीधैंकादेशेऽप्यनुवर्त्तमानसवर्णाक्त्वस्य वृद्धथा विनाशे उकाररूपस्थानिनो निवृत्तिरूपनैमित्तिकस्याप्यपायेऽभा- वाभावस्य प्रतियोगिरूपतयोकारागमे आद्योकारस्य निवृत्तिपूर्वकौकारे विहिते आवादेशे सावुत्थितिः प्राप्नोतीति बोध्यम्। समर्थानामितीति । कृतसन्धिकार्यादेव प्रत्ययस्थितिरिति बोधनेन निमित्तापाय इत्यस्यात्राप्रवृ- त्तिस्समर्थग्रहणेन बोध्यत इति सौस्थितिसिद्धिः । निमित्तविनाशे भाविनि नैमित्तिकस्यानुत्पत्तिः। निमित्तविनाशे सति जातस्य नैमित्तिकस्यापाय इत्युभयोपिकसिद्धत्वाविशेषेऽपि कैयटमते लोकसम्मतत्वमपीति प्रदर्श- यति-लोकन्यायेति । कार्यस्थितिनियामकमिति।यावन्निमित्तंतिष्ठति तावत्कार्य तिष्ठतीत्यर्थः। अपेक्षाबद्विधरिति । अयमेकः अयमेक इत्या- कारापेक्षाबुद्धिः। ततो द्वित्वसंख्योत्पत्तिः। ततोऽपेक्षाबुद्धिनाशः। ततो द्वित्वनाश इति लोकस्थितिः। तत्र निमित्तभूतापेक्षाबुद्धिनाशान्नैमित्ति- कस्य द्वित्वस्य नाशो दृष्टः। प्रारब्धस्येति । कम्म द्विविधं-सञ्चितं प्रारब्धञ्च । यत् फलप्रदा- १ अपेक्षाबुद्धिजन्यद्वित्वोत्पत्तिप्रक्रियाविचारो यथा लक्षणावल्यां मिथिला- लङ्कारभूतश्रीमदुदयनाचार्या:- प्रादाविन्द्रियसन्निकर्षघटनादेकत्वसामान्यधी- रेकत्वोभयगोचरामतिरतो द्वित्वं ततो जायते । तस्मात द्वित्वमतिस्ततोऽनुपरतो द्वित्वप्रमानन्तरं द्वे द्रव्ये इति धीरियं निगदिता द्वित्त्वाश्रया प्रक्रिया ॥ कृतं क्रियमाणं प्रारब्धञ्चेति त्रिविधं कर्म । कृतमित्यस्य सञ्चितं क्रियमा- णस्य च सञ्चीयमानमिति नामान्तरम् । तज्जन्यं फलं पुण्यं पापं च त्रिविधमेव । तत्राभुक्तं यत्कर्म तत् ‘कृतं' सञ्चितमिति व्यपदिश्यते। 'क्रियमाणं' तु प्रारब्धभोगेन [ २५५ ५७. अकृतव्यूहाः पाणिनीयाः ] विजयाऽलङ्कृतः स्य विक्षेपस्थितिनियामकत्वं च प्रसिद्धमेव । द्वितीयं यथा दण्डादि । नोन्मुखन्न तदाद्यम् । यत् तदुन्मुखं तद्वितीयम् । तत्राद्यस्य ब्रह्मसाक्षात्का- रेण नाशः । 'क्षीयन्ते चास्य कर्माणि' तस्मिन् दृष्टे परावरे'इति श्रुतेः। द्वितीयस्य तु भोगादेव क्षयः । 'नामुक्त क्षीयते कम कल्पकोटिशतैरपी'ति वचनात् । तत् यावदस्ति तावत् भोगात्मकः संसारस्तस्य नाशे संसार- नाश इति वेदान्तिमतम् । विक्षेपेति । संसारेत्यर्थः । ३ सहैव दैनन्दिनं सञ्चीयमानरूपं कर्म । यत् कर्मफलभोगार्थं वर्तमानदेहोत्पत्तिस्तद- नुकूलकर्मकलापभोगस्तत् कर्म 'प्रारब्धमिति' व्यवह्रियते। परमार्थतः एकस्यैव काल- स्योपाधिभेदेन भूतभविष्यद्वर्त्तमानव्यवहारवत् कर्मत्वेनैकरूपस्यापि कर्मणो भोग- कालावस्थाभेदेन त्रैविध्यमिति वस्तुस्थितिः । इत्थं यद्यपि कर्मणस्त्रैविध्यं प्रदर्शितन्त- थापि ज्ञाननाश्यत्वभोगनाश्यत्वदृष्टयाऽत्र कर्मणो द्वैविध्यमेवोक्तं तातचरणैः । 'अत्र कर्मशब्दस्तु सञ्चितसञ्चीयमानयोरेव वाचकः । 'अत्र कर्मशब्दस्तु प्रारब्धकर्मपरः । 'ब्रह्म सत्यं जगन्मिथ्या', 'ब्रह्मैवाखिलं जगत्', 'नेह नानाऽस्ति किञ्चन' इत्यादिश्रुतिबलात् घटाकाशमहाकाशयोरिव नभःस्थजलस्थचन्द्रयोरिव जीवात्म- परमात्मनो स्ति भेदः । अतोऽहमपि ब्रह्मवेत्याकारकेनापरोक्षज्ञानेन तत्रोभयोः सञ्चितसञ्चीयमानयोः कर्मणोः नाशो भवति । प्रारब्धकर्मणस्तु भोगेनैव क्षयो अत्र लौकिकनिदर्शनम्-क्षेत्रस्थितमन्नं सञ्चीयमानम् । गृहे कुशूल- स्थितमन्नं सञ्चितम् । उदरस्थितमन्नं प्रारब्धम् । तत्र क्षेत्रकुशूलस्थितयोरन्नयो- दर्दानादिना तात्कालिकक्षयोऽपि सम्भवति । उदरस्थानस्य तु कालपरिपाकादेव क्षयो नान्यथा। *वेदान्तिनये सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मकं ज्ञानविरोधि भावरूपं यत्किञ्चिदित्यात्मकं 'अज्ञान' मन्यते । अस्याज्ञानस्य आवरणविक्षेपनामकमस्ति शक्तिद्वयम् । तत्र परिच्छिन्नाऽपि आवरणशक्तिः स्वप्रभावात् अपरिच्छिन्नमपि ब्रह्म तथाऽऽच्छादयति यथा नित्योपलब्धिस्वरूपस्यापि आत्मनोऽदर्शनं भवति । विक्षेपशक्तिप्रकर्षाच्च प्रावरणावृते तत्त्वभूते ब्रह्मणि विविधासत्कल्पनादिकमुद्भाव- यति प्रज्ञानं-रज्जौ सर्पज्ञानवत् । एवमखिलमिदं जगत् विक्षेपशक्तिसामर्थ्यात् अद्वैते ब्रह्मणि उद्भावयति अज्ञानम् । इत्थं विक्षेपाज्ञानविजृम्भितः संसारः इति कृत्वा विक्षेपेत्यस्य संसारेत्यर्थः कृतस्तातपादैः । नान्यथा।

२५६ ] परिभाषेन्दुशेखरः [ बाधबीजकथने तन्नाशेऽपि घटनाशादर्शनात् । शास्त्रे लक्ष्यानुरोधाद्व्यवस्था । भाविनिमित्तविनाशे पूर्वमनुत्पत्तौ तु न कश्चित् न्यायो नापि संप्रति- पन्नो दृष्टान्तः । समर्थानामित्यस्यापि लोकसिद्धार्थज्ञापनेन चारि- तार्थ्यसम्भवे लोकासिद्धापूर्वतादृशार्थज्ञापकत्वे मानाभाव इति तदाशय इति बोध्यम्। परे तु सेदुष इत्यादौ पदावधिकेऽन्वाख्याने सेद्वस् अस् इति स्थिते इट्संप्रसारणयोः प्राप्तयोः प्रतिपदविधित्वात्पूर्व संप्रसारणे वस्तुतस्तु अपेक्षाबुद्धयादिस्थले तथादर्शनेऽपि निमित्तनाशत्वेन नैमित्तिकनाशत्वेन न कार्यकारणभावः । दण्डनाशे घटनाशादर्शनेन व्यभि- चारात् । किन्त्वपेक्षाबुद्धिनाशत्वादिविशेषरूपेणैव कार्यकारणभावस्य वक्तव्यतया न प्रकृतोऽर्थो लोकन्यायसिद्धः। तथा च 'प्रक्षालनाद्धि पङ्कस्ये'- तिन्यायात् लुकाऽनुत्पत्तिरिव नैमित्तिकानुत्पत्तिरेव युक्तत्याहुः–तन्न। अयमों लोकेऽपि कचिदृष्ट इत्येतावन्मात्रे ग्रन्थतात्पर्यात् । लक्ष्यानु- रोधाव्यवस्थेति । अनेनास्यानित्यत्वं लब्धमिति बोध्यम् । तेनातिभवका- नित्यादावनयाऽकज्न युक्त इत्यपास्तम् । सम्प्रतिपन्न इति। वादिप्रति- वादिसम्मत इत्यर्थः । ननु ज्ञापकसिद्धऽर्थ नास्ति दृष्टान्ताद्यपेक्षेत्यत आह- समर्थानामिति । परिभाषाम्विनैव सर्वदोषपरिहारमाह-परे त्वित्या- दिना। पदावधिकेऽन्वाख्यान इति पदं विभज्य साधुत्वान्वाख्यान इत्यर्थः । प्रतिपदविधित्वादिति । प्रतिपदोक्तत्वादित्यर्थः। सम्प्रसा- रणसूत्रे वसोस्साक्षादुपादानात्तत्त्वम् । नन्विडागमविधायकेऽपि ववेका- जिति सूत्रे वसोस्तथैवोपादानादुभयोस्समत्वमेवेति चेत्-न । वस्खेका- जितिसूत्रस्य नियमार्थत्वेनेतरव्यावृत्तिमात्रतात्पर्यकत्वेनार्धधातुकस्येड्व- लादेरित्यस्यैव विधायकत्वेन तत्त्वाभावात् । ननु स्वमते नियमशास्त्रस्य विधिमुखेनैव प्रवृत्तस्तत्त्वमस्त्येवेति चेत्-न । प्राचीनाभिमतपरिभाषाया- स्तन्मतेनैव खण्डनस्यौचित्यात् । स्वमते सद् वस् असिति विभागेऽ- न्तरङ्गत्वात्सम्प्रसारणं पूर्व बोध्यम् । उभयोः प्रतिपदविधित्वेन नित्य- त्वात् संप्रसारणस्य पूर्व प्रवृत्तेश्च वस्वन्तसमुदायस्यैवोभयत्राश्रयणेन नान्तरङ्गत्वमिटः । न च पूर्वमिडागमेऽपि सम्प्रसारणे यणि सम्प्रसारण- ५७. अकृतव्यूहाः पाणिनीयाः ] विजयाऽलङ्कृतः [ २५७ बलादित्वाभावादिटः प्रातिरेव नेति तसिद्धिरिति 'समर्थानामिति सूत्रे कैयटे। 'असिद्धव'त्सूत्रे च कैयटे स्पष्टमेव तत् । यद्यपि प्रतिप- दविधित्वमनवकाशत्वे सत्येव बाधकत्वे बीजं तथापि पूर्वप्रवृत्ती सावकाशत्वेऽपि नियामकं भवत्येवेति तदाशयः । निरूपितं चैतद्वहुशः शब्देन्दुशेखरे । 'समर्थानामि ति सूत्रस्थसमर्थग्रहणं तु विषुण इत्यादावकृतसन्धेः प्रत्ययदर्शनेन सर्वत्र तथाभ्रमवा- रणाय न्यायसिद्धार्थानुवाद एव । ध्वनितं चेदं 'विप्रतिषेध'सूत्रे भाष्ये । तत्र हि वैक्षमाणिरित्यन्तरङ्गपरिभाषोदाहरणमुक्तम् । किश्च विभज्यान्वाख्याने सु उत्थित अस् इ इति स्थिते वार्णादाङ्गं बलीय इति प्राप्तवृद्धिवारणाय समर्थग्रहणमित्यत्रैव कैयटे । स्यासिद्धत्वाद्वलि लोपे रूपसिद्धिरिति वाच्यम् । नाजानन्तर्ये इत्यस्या- न्तरङ्ग कर्तव्ये कृते चेत्यर्थेनाक्षारित्यत्रेव दोषाभावात् । बाधकत्वे बीजमिति । अपवादस्य स्वप्रवृत्त्युत्तरोत्सर्गप्रवृत्तिप्रतिबन्धकत्वे बीजमि- त्यर्थः । इदन्तु सावकाशमिति भावः । ननु सेदुष इत्यस्यान्यथैवोपपत्ती परिभाषाया अनभ्युपगमेन सौस्थितिरित्यादावन्तरङ्गत्वात् कृतदीर्घभ्य एव प्रत्ययोत्पत्त्या समर्थानामिति व्यर्थमित्याह-समर्थानामिति । विषुण इत्यत्र विष्वगित्युत्तरपदलोपश्चाकृतसन्धेरिति वार्तिकात् । विषु अच् इत्यवस्थायां णप्रत्ययः । अचो लोपः। न्यायसिद्धार्थानुवाद एवेति । न तु दोषवारणायेत्यर्थः। ध्वनितञ्चेदमिति ।न्यायासिद्धार्था- नुवादत्वं ध्वनितमित्यर्थः । इदं हि तत्र भाष्य वृद्धेरेकादेशः वैक्षमाणि: सौस्थितिः वृद्धिश्च प्राप्नोत्येकादेशश्च परत्वाद्वृद्धिस्स्यादेकादेशो भवत्य- न्तरङ्गत इति । कृतसन्धिकार्यात्प्रत्ययोत्पत्त्यर्थं चेत् समर्थग्रहणम् । अन्त- रङ्गत्वाभावेऽपि प्रत्ययोत्पत्तेः प्रागेवैकादेशस्यावश्यकत्वेनान्तरङ्गत्वाधीन- त्वमेकादेशस्योच्यमानमसङ्गतं स्यादिति बोध्यम् । मम तु समर्थग्रहण- स्यान्तरङ्गत्वसिद्धार्थबोधकत्वेन न दोषः। ननु समर्थग्रहणेनाकृतव्यूहप- रिभाषा ज्ञापिता । सा तद्धितविधौ न प्रवर्तते इत्येव तेन बोध्यते । ततश्चान्तरङ्गत्वादेवैकादेशो वैक्षमाणिरित्यत्रेति युक्तन्तदुदाहरणत्वमस्ये- त्यरुचेराह-किञ्चेति । वृद्धिवारणायेति । तथा च पूर्वमेव दीर्घ इति १७ ।

२५८ ] परिभाषेन्दुशेखरः [ बाधजीजकथने स्पष्टम् । अत एवासिद्धवत्सूत्रे वसुसंप्रसारणमज्विधौ सिद्धं वक्तव्यम् । पपुष इत्यादौ वसोः संप्रसारणे कृते आतो लोपो यथा स्यादिति भाष्ये उक्तम् । पदस्य विभज्यान्वाख्याने पूर्वोक्तकैयटरोत्या पूर्व संप्रसारणे इटोऽप्राप्तावुनिमित्तक एवातो लोप इति तदाशयः। अन्यथान्तरङ्गत्वादिटि तनिमित्तक एवातो लोप इति तदसङ्गतिः। अत एव चौ प्रत्यङ्गस्य प्रतिषेध इति वचनं वात्तिककृतारब्धं भाष्यकृता च न प्रत्याख्यातम् । प्रत्यङ्ग- मन्तरङ्गमस्यां परिभाषायां सत्यां तु तद्वैयर्थ्यं स्पष्टमेव । अत एव भावः। एवं च समर्थग्रहणस्य सार्थकत्वादज्ञापकत्वमित्याशयः। ननु समर्थग्रहणेनाकृतव्यूहेति ज्ञाप्यते । ततश्च प्राप्तवृद्धिवारणाय समर्थ- ग्रहणम् । वार्णपरिभाषा तुनातिरिच्यते । अकृतव्यूहरूपैव सेत्यरुचेराह- अत एवेति । परिभाषाया अभावादेवेत्यर्थः। ननु दीक्षितमते पपुष इत्यादौ सम्प्रसारणेन वलादित्वरूपनिमित्तविनाशे भाविनि पूर्वमिटोऽप्र- वृत्तः सम्प्रसारणे कृते तन्निमित्तक एवातो लोपो वाच्यस्सम्प्रसारणस्या- सिद्धत्वे स न स्यादिति युक्त एव परिभाषायां सत्यां वार्तिकारम्भः । कैयटमतेऽपि पूर्वमन्तरङ्गत्वादिटि तन्निमित्तकालोपे च कृते सम्प्रसारणे नेटो निमित्तस्य वत्लादित्वस्य विनाशे निमित्तापाय इति परिभाषयेटोऽपाये तयैव तन्निमित्तकातो लोपस्याप्यपाये पुनस्सम्प्रसारणनिमित्तक एवालोपो वक्तव्य इति तस्यासिद्धत्वाभावाय वात्तिकारम्भस्यावश्यकत्वान्नैतद्भाष्यवि- रोध: परिभाषास्वीकर्त्तरित्यत आह-अत एवेति । प्रतीच इत्यादौ प्रति अच् असिति स्थिते अन्तरङ्गत्वात्प्राप्तस्य यणः प्रतिषेधे अल्लोपे दीर्घ च प्रतीच इति सिद्धम् । ननु प्रतिषेधो नापूर्वः। किन्त्वकृतव्यूहपरिभाषा- लभ्य एवात एव न प्रत्याख्यात इति चेत्-अत एवारुचेराह- अत एवेति । वस्तुतस्तु चावितिदीर्घविधानसामर्थ्याद्यणाद्यभावमुपपाद्य वार्तिकं प्रत्याख्यातमेव । तथा च भाष्यम्-इहान्ये आचार्य्याश्चौ प्रत्य- ङ्गस्य प्रतिषेधमाहुः-तदिहापि साध्यम् । नैष दोषः । एतदेव ज्ञापयत्या- चार्यो-न चौ प्रत्यङ्गम्भवतीति यदयं चौ दीर्घत्वं शास्तीति । ननु अस्मा- दपि परिभाषाया अभाव एव लभ्यते । सत्यां हि तस्यां दीर्घत्वसामो- ५७. अकृतव्यूहाः पाणिनीयाः] विजयाऽलङ्कृतः [२५६ 'च्छ्योरिति सूत्रेऽवश्यमत्र तुगभावार्थो यत्नः कार्यो-न्तरङ्गत्वा- द्धि तुक् प्रामोतीति भाष्ये उक्तम् । एतत्सत्त्वे तु तुको प्राप्त्या यत्नावश्यकत्वकथनमसङ्गत्तमिति स्पष्टमेव । न चैतदनित्यत्वज्ञा- पनार्थमेव तदिति तदाशयः। अवश्यमत्रेत्यक्षरस्वारस्यभङ्गापत्तः । किश्चानयैव प्रत्ययोत्तरपदयोश्च अदो जन्धिय॑वित्यनयोश्वारि- तार्थेन तज्ज्ञापकवचाल्लुगल्यपोरन्तरङ्गबाधकता भाष्योक्ता भज्येत । किश्चैषा भाष्ये न दृश्यते । तदुक्तम सिद्धवत् सत्रे कैयटेन । निमित्तापाये नैमित्तिकस्याप्यपाय इति परिभाषाया भाष्यकृता- - क्तिरसङ्गतेति चेत्-न । दीर्घत्वसामयेन परिभाषैवांशतो ज्ञाप्यत इति तात्पर्य्यात् । प्रष्ठेत्यादौ छकारमात्रस्य शत्वे तन्निमित्तकतुकः श्रवणं स्यादित्यत उक्तं-अवश्यमित्यादि । एतत्सत्त्वे त्विति । परिभाषाया- स्सत्त्वे त्वित्यर्थः । यत्नश्च च्छ्वोरितिसूत्रे सतुरग्रहणरूपो बोध्यः । एतदनित्यत्वे ति। परिभाषाऽनित्यत्वेत्यर्थः । अवश्यमत्रेत्यक्षरस्वार- स्येति । तुको निवर्तकोपायस्य सर्वथाभावे हि तथाकथनौचित्यमिति भावः। न च प्रकृतिप्रत्यापत्तिवचनेनैतस्या अनित्यत्वेन च्छ्योधातोः विपि शादेशाभावाय च यत्नावश्यकत्वं न तु परिभाषाया अभावेनेति वाच्यम् । तावताप्यक्षरस्वारस्यभङ्गस्यैवापत्तेरत एवारुचेश्चाह-किचानयेति । त्वमा- देशजग यादेशयोनिमित्तभूतविभक्तितादित्वयोलल्यभ्याम्विनाशसम्भा- वनयाऽनया पूर्वमप्रवृत्त्या प्रत्ययोत्तरपदयोश्चेति सूत्रस्य ल्यग्रहणस्य च चारितार्य बोध्यम् । यदि चाकृतव्यूहपरिभाषाज्ञापनद्वारैव तज्ज्ञा- पकता भाष्याभिप्रेतेत्युच्यते तदा नायं दोषोऽत्त आह-कि ति । एषेति । अकृतव्यूहपरिभाषेत्यर्थः। अकृतव्यूहेत्यानुपूर्व्या अदर्शनेऽपि अन्तरङ्गा- नपि विधीनित्यादिना तदर्शनमस्त्येवेति न किञ्चिदेतदित्यत आह-तदुक्त- मिति । स्वरूपतोऽनाश्रयगामात्रेण कैयटोक्तिसङ्गतिरिति चेत् । परिमा- पास्वीकार एव युक्त इत्यवेहि गच्छतीत्यादि सम्बन्धेनाबसानभङगे भाविनि पूर्व विसर्गाप्रवृत्त्याऽत्रसाननिमित्तकस्य जातस्य विसर्गस्य निवृत्त्या वा हरिगच्छतीति भवति परिभाषासत्त्वे । तस्या अभावे तु वाक्यसंस्कारपचे तत्सिद्धावपि पदसंस्कारपने हरिः गच्छतीत्यस्याप्यापत्तिरिति दूषणमिष्टा- - २६० ] परिभाषेन्दुशेखरः [ बाधबीजकथने नाश्रयणादिति । पदसंस्कारपक्षे हरिरित्यादौ विसर्गे कृते ततो गच्छतीत्यादिसम्बन्धे हरिः गच्छतोत्यायेव साधु । तद्विषये पदसं- स्कारपक्षानाश्रयणं वेति दिक् ।। ५७ ।। । पत्त्या वारयति-पदसंस्कारपक्ष इत्यादिना । वस्तुत इदन्न युक्तम् । वि- सर्जनीयस्य स इति सूत्रभाष्यविरोधात् । तत्र हि विसर्जनीयस्य स इति सूत्रे खरीत्यस्यानुवृत्त्यभावेऽपि खरनिमित्तकस्यैव विसर्गविधानस्य वैय- यं खरवसानयोस्सत्त्वविधानेनैव सिद्धरवसानमात्रनिमित्तकस्य सत्त्वे शपरे विसर्गविधानस्य वैययं तत्र सत्त्वाप्राप्त्या विसर्गस्य सिद्धेर्न च वासः क्षोममद्भिः सातमित्यादौ "क" पयोधिनार्थं तत्सार्थकन्तावन्मा- नप्रयोजनकत्वे कुप्वोः क पौ चाशरीत्येव ब्रूयादिति रीत्या खरीत्य- स्यानुवृत्तिस्तिरस्कृता । यद्यवसाननिमित्तकस्य विसर्गस्यावसानभङ्ग भावि- न्यपि पूर्व प्रवृत्तिरवसानभङ्गे वा जातस्य तस्य निवृत्त्यभावस्तदा पदसं- स्कारपः कः । इत्यवसाने विसर्ग कृत्वा त्सरुरित्यस्य सम्बन्धे सत्त्वाभा- यार्थ शर्पर इत्यस्यावसानमात्रनिमित्तकविसर्गस्य सत्त्वविधानेऽपि चा- रितार्थ्यसम्भवेन भाष्योक्ता ज्ञापकता भज्येत । तस्मात् परिभाषा मन्तव्या। पदसंस्कारपक्षस्यैतद्विषयेऽनाश्रयणं वेत्यरुचेराह-तद्विषय इत्यादि । परि- भाषाया अभावे तु हरिः ओमित्यस्य वैदिकसम्प्रदायसिद्धशिक्षाकारव- चनबलात् कथञ्चित्साधुत्वम्। वाक्शब्दे पूर्व जातस्य कुत्वस्यानिवृत्त्या वागाशीदत्तोवाचिक इति रूपस्य कथं सिद्धिरिति न वाच्यम् । पूर्वत्रेत्यत्र विषयसप्तम्या सपादसप्ताध्यायीस्थकार्यप्रवृत्तिसम्भावनायांपादिकस्य पू- र्वमप्रवृत्तिरित्यर्थात् तद्विषये वाक्यसंस्कारपक्षस्यैवाश्रयणाद्वा नाप्येत- स्या अभावे वृक्षो वृक्षः सिच्यत इत्यादौ पूर्वत्रासिद्धीयमद्विवचन इत्यने- नासिद्धत्वनिषेधाद्विसर्गान्तेषु कार्येषु कृतेषु सर्वस्य द्वे इति द्वित्वे पूर्वखण्डे रोरभावादुत्वानापत्त्या रूपासिद्धिरापाद्या तस्यानित्यत्वेनादोषात् निमि- त्तापाय इत्यस्याभावे ष्ठागतिनिवृत्तावितिधातुपाठे षकारनिमित्तकष्टुत्वस्य धात्वादेरिति सत्त्वेन षस्य निवृत्तावपि निवृत्त्यभावे स्थाता स्थानमित्याद्य- सिद्धिनं । ष्टुत्वस्य लक्षणवशसम्पन्नत्वेन बोधकत्वेन तात्पर्य्यविषयीभूत- स्वरूपस्यैव वेस्त्रय इत्यत्रेव बोध्यतया लक्ष्ये नकारजावनुस्वारेत्यभियुक्तो- कत्या टवर्गश्रवणाप्रसक्तः । विभाजयितृशब्दाण्ण्यन्तोत्तरतृजन्ताद् वि- -- ५८. येन नाप्राप्ते यो विधिरा०] विजयाऽलङ्कृतः [ २६१ अन्तरङ्गादप्यपवादो बलीयान् । तत्रापवादपदार्थमाह- येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति ॥ ५८ ॥ भाजयितुणिलोपश्चाञ् च वाच्य इति वार्तिकादमि णिलोपे च वैभाजि- मिति सिद्धयति । परिभाषाया अभावेऽन्तरङ्गत्वाण्णगुणायादेशयोस्स- तोरलोन्त्यपरिभाषया यकारमात्रस्य लोपापत्तिः । परिभाषायान्तु गुणा- यादेशयोनिमित्तभूतस्य णेर्लोपेन विनाशसम्भावनया पूर्वमप्रवृत्त्या णेरि- कारस्यैव लोपेनादोषः । न च यलोप इति वक्तव्ये णिग्रहणसामर्थ्याभृणा- यादेशौ नेति वाच्यं, विभाजीतिणिभिन्नेकारान्तप्रातिपदिकादाचारकिब- न्तात् तृचि विभाजयितृशब्दाद्यलोपप्रत्यययोरापत्तेरिति चेत्-अस्तु परि- भाषा । तथा सत्यन्तरङ्गानपीतिपरिभाषाद्वयमनेकत्रानेकक्लिष्टकल्पनञ्च नाश्रयणीयमिति लाघवमिति दिक् ॥ ५७ ॥ परनित्यान्तरङ्गेति सङ्ग्राहकवाक्याचरममर्थं निष्कृष्य प्रमाण- यति-अन्तरङ्गादप्यपवादो बलीयानिति । अत्रापवादः पक्षः। परादीनां सङ्ग्राहकोऽपि: हेतुरप्यपवादत्वरूपोऽपवादशब्देनैवोक्तः । चापवादपदार्थस्य सनिरूपकतया यन्निरूपितापवादभूतं यच्छालं तत् तस्मात् परान्नित्यादन्तरङ्गादपि बनवदुपवादत्वादित्यनुमानाकारलाभः । तति । तच्छब्देन पूर्वोक्तानुमानप्रयोग: परामृश्यते । घटकत्वं च सप्त- भ्यर्थोऽपवादपदार्थान्वयि आहेत्यस्यापरं कर्म आरभ्यत इत्यन्तमेव । अपवादत्वस्य बलवत्वप्रयोजकताबीजं लोकसिद्धमाह-स तस्य बाधको भवतोति । भावे क्त इति नपुंसके भावे क्तस्य योगे षष्ठ्या उपसङ्ख्यान- मिति वात्तिकेनात्र छात्रस्य हसितमित्यत्रेव कर्तरि षष्ठी न शेषषष्ठ्या । 'अतः पर्वं संस्करणद्वयेऽपि यद्यपि 'अन्तरङ्गादप्यपवादो बलीयान्' इत्येव परिभाषारूपेण धृतं किन्तु नागेशले वस्वरसात् परिभाषापाठे पठितत्वात् चन्द्रिका- कारेण धृतत्वात् सिद्धान्तकौमुदयाञ्च भट्टोजीदीक्षितेनापि स्वीकृतत्वात् येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति' इत्येवात्र परिभाषारूपेण स्वीकृतम् ।

२६२ ] परिभाषेन्दुशेखरः [ बाधबीजकथने प्राप्त इति भावे क्तः। येन नापास इत्यस्य यत्कर्तृ- कावश्यकप्राप्तावित्यर्थः। नद्धयस्य प्रकृतार्थदाढर्थयोधकत्वात् । एवं च विशेषशास्त्रोद्देश्यविशेषधर्मावच्छिन्नवृत्तिसामान्यधर्माव- भाष्ये तस्य प्रत्याख्यानात् । अत्र च शेषत्वस्याविवक्षणात् । नञोऽप्राप्त इत्यनेन समासे न लोपाद्यापत्तिरसमासे प्रथमान्तप्रतियोगिवाचकपदाभा- वादत्यन्ताभावबोधानापत्तिस्तस्मान्नैकधेतिवन्निषेधार्थकनशब्दस्य सुपसु- पेति समासः । पृषोदरादित्वान्न लोपाभावो वा । येनेति कर्तरि तृतीया । नजद्वयम्येति।निषेधार्थकनशब्दपक्षे नअर्थकद्वयस्येत्यर्थः । प्रकृत्यर्थे प्राप्ती दाय व्यापकत्वमेव तदेवावश्यकत्वमवश्यम्शब्दसमानार्थकोऽवश्यश- ब्दोप्यस्ति । आवश्यकाधमर्णयोरिति निर्देशात् फलितमाह-एवञ्चत्या- दि । ततोऽपीदं लब्धं शास्त्रे स्वीयोद्देश्यतावच्छेदकव्यापकधावच्छि- नोद्देश्यताकशास्त्रस्य बाधकम् । यथा वृद्धिरेचीतिशास्त्रस्योद्देश्यतावच्छेद- कमेजव्यवहितपूर्वत्वविशिष्टात्वं तद्व्यापकमजव्यवहितपूर्वत्वविशिष्टात्वं तदवच्छिन्नोद्देश्यताकस्याद्गुण इति शास्त्रस्य वृद्धिरेचीति बाधकम् । मूले विशेषपदेन बाधकत्वेनाभिमतस्य ग्रहणम् । द्वितीयविशेषपदं व्याप्यबोध- कम् । सामान्यपदञ्च व्यापकपरं सामान्यधर्मे सामान्यविशेषपदार्थमहि- म्नैव लब्धं विशेषधविच्छिन्नवृत्तित्वं शब्दतस्तत् कथ्यमानं येन केनापि सम्बन्धेन व्याप्यव्यापकभावे वृत्तितालाभार्थं न तूद्देश्यतावच्छेदकतावच्छे- दकसम्बन्धेनैवेत्याग्रहः । तेनाजादेद्वितीयस्येत्यनेनैकाचो द्वे प्रथमस्येत्यस्य बाधस्तस्य हयुद्देश्यतावच्छेदकं धात्ववयवादिभूताच्परत्वविशिष्टं द्विती- यैकाच्त्वम् तच्च यद्यप्युद्देश्यतावच्छेदकतावच्छेदकस्वरूपसम्बधेनोर्णना- वेत्यत्र नुशब्देऽस्ति, तत्र धात्ववयवप्रथमैकाचत्वं स्वरूपसम्बन्धेन नास्ति किन्तूर्णित्यत्रास्तीति तयोस्सामानाधिकरण्यस्याप्यभावेन व्याप्यव्याप- कभावस्य सर्वथाऽभावेऽपि स्वघटकाच्त्ववदुत्तरत्वसम्बन्धेन प्रथमैकाच- त्वस्य द्वितीयैकाचि सत्त्वात् तस्य द्वितीयैकाच्त्वव्यापकत्वमुपपन्नम् । नन्वत्र बाधः कः पदार्थः ? न तावत् व्यापकधविच्छिन्ने व्या- प्यधर्मावच्छिन्नभिन्नत्वबोधनम् । तथा सत्यजादेर्द्वितीयस्येत्येतदीयोद्देश्य- तावच्छेदकमादिभूतान्त्वं व्याप्यं तद्धविच्छिन्नातिरिक्तत्वस्य प्रथमैका- चत्वघटकाचत्वस्य व्यापकत्वात्तद्धावच्छिन्ने बोधनं स्यात्। तथा सति ५८. येन नाप्राप्ते यो विधिरा०] विजयाऽलङ्कृतः [ २६३ धातोरादिभूतो योऽच तद्भिन्नाधटतो यः प्रथमैकाच तस्य द्वित्वमित्यर्थे आटतुरित्यादावडित्यस्य तथाभूतान्भिन्नायटितत्वाभावाद्वित्वानापत्तेः । त्रिणित्तद्धितत्वस्यादिवृद्ध्युद्देश्यतावच्छेदकात्य व्याप्यतया तद्धवि- च्छिन्नातिरिक्तत्वस्योपधावृद्ध यन्तवृद्ध्युहेश्यतावच्छेदकं व्यापकीभूतं त्रि- गणित्प्रत्ययत्वे तद्वच्छिन्ने बोधनेनोपधावृद्धरन्तवृद्धेश्च त्रिणित्तद्धि- तमिने एवं प्रवृत्त्या त्रिण णित्तद्धि ते तयोरप्रवृत्तेायेनैव सिद्धा- वनुशतिकादिगणे पुष्करशच्छब्दस्य पाठसामर्थ्यादादिवृद्धिरन्त्योपधा- वृद्धी बाधते इति भाष्यविरोधापत्तेश्च । स च पाठोऽनुशतिकादीनाञ्चे- त्युभयपदवृद्धयर्थः । न वा यैय्यविशेषणैय्यविशेष्यभूतैः पदार्थ विशेषितो व्याप्यो धर्मम्तैस्तैर्विशेषितव्याप्यधविच्छिन्नातिरिक्तत्वबोधनं व्याप- कीभूतधविच्छिन्ने सः। तथा सति द्वितीयैकाज्निष्टपरत्वावधिभूत- त्वविशिष्टं धात्ववयवादित्वविशिष्टं यदच्त्वं तद्वच्छिन्नातिरिक्तत्वस्य धात्ववयवप्रथमैकाचत्वघटकाचत्ववतो बोधनेनाऽऽटतुरित्यादावधातु- घटकस्याचस्तदतिरिक्तत्वसत्त्वान्न दोषः । उर्णनावेत्यादौ च द्वितीयैकाच नु तन्निष्ठपरत्वावधित्वस्य धात्ववयवाद्यच्त्वस्य चोकारे सत्त्वेन तदवच्छि- नातिरिक्तत्वविरहान्न तद्घटितस्य द्वित्वम् । एवञ्चोद्देश्यतावच्छेदकताव- च्छेदकसम्बन्धेनैव वृत्तित्त्वग्रहणेऽपि न दोष इत्यपि युक्तम् । उक्तभाष्य- विरोधतादवस्थ्यात्। तथा हि व्याप्यं विणित्तद्धितत्वम् । तच्च प्रातिप- दिकावधिकपरत्वेन विशेषितं कृत्वा प्रातिपदिकावधिकपरत्वविशिष्टबि- रणणित्तद्धितत्वावच्छिन्नातिरिक्तत्वेन बिणणित्प्रत्ययत्वावच्छिन्ने संकोचे पाठस्य चारितार्थ्यात्। अत्रोच्यते । तत एव भाष्याद् व्याप्यभूतया शाब्दबोधीयविषयतया व्यापकीभूतायाश्शाब्दबोधीयविषताया बाधः । शाब्दबोधीया च विष- यता शाब्दबोधीयविशेष्यतया प्रकारतया च संकुचिता भवति । ततश्वोप- धाभूताज्निष्ठविशेष्यतानिरूपिताव्यवहितपूर्वत्वसम्बन्धावच्छिन्नप्रकारता- रूपोपधावृद्धिसम्बन्धिनी बिरिणत्प्रत्ययत्वावच्छिन्ना विषयताऽजन्ताङ्ग- निष्ठविशेष्यतानिरूपिता व्यवहितपूर्वत्वसम्बन्धावच्छिन्नाऽन्त्यवृद्धिसम्ब- न्धिनी चिण्णित्प्रत्ययत्वावच्छिन्ना प्रकारतारूपा वा विषयता, प्राति- पदिकनिष्ठविशेष्यतानिरूपिताव्यवहितपूर्वत्वसम्बन्धावच्छिन्ननिरिणत- द्वितत्वावच्छिन्नप्रकारतारूपविषयताया न व्यापिका, तदभाववति मरु- च्छब्दप्रकृतिक इजि प्रत्यये एतस्यास्सत्त्वात् । तथा च न्यायेन बाधाप्रा- प्त्या ज्ञापकेन वाधस्साधितः । अथ वोद्देश्यदलप्रविष्टैविशेष्यविशेषणैश्च , २६४ ] परिभाषेन्दुशेखरः [ बाधबीजकथने पदार्थविशेषितो य उद्देश्यतावच्छेदको धर्मरस एव व्याप्यतया व्याप- कतया च गृह्यते। तथाऽपि न भाष्यविरोधः । प्रातिपदिकात्तरत्वविशिष्ट- बिण्णित्तद्धितत्वापेक्षयाऽदुपधोत्तरत्वाजन्तोत्तरत्वविशिष्टनिरिणत्प्रत्य- यत्वस्य मारुतिरित्यत्र व्यभिचारेणाव्यापकत्वात्। इदमेवाभिप्रेत्यानवकाश- विषयत्वं विधेयविषयत्वमेतस्योच्यते । अनयोः पक्षयोधिोऽपि विषयतायां व्याप्यविषयताश्रयातिरिक्तवृत्तित्वबोधनम् । ताहशधर्मे तादृशंधाश्रया- तिरिक्तवृत्तित्वबोधनम् । इको यणचीत्यादौ इक्त्वावच्छिन्नकायितयाऽच्- त्वावच्छिन्ननिमित्तताया बाधोत्प्रेक्षा कैयटस्य तु न युक्ता। इग्निष्ठविशे- ध्यतानिरूपिताव्यवहितपूर्वत्वसम्बन्धावच्छिन्नाच्त्वावच्छिन्नप्रकारतात्म- कनिमित्ततानाक्रान्ते सुधीकारेकायिताया अनिष्ठाव्यवहितपूर्वत्वसम्बन्धा- वच्छिन्नप्रकारतानिरूपितेकत्वावच्छिन्नविशेष्यतारूपायास्सत्त्वेनाव्याप्य- त्वात् । नन्वेवमपि नेमौ रहौ कायिणौ निमित्तं द्विर्वचनस्येतिग्रन्थेन रत्वावच्छिन्ननिमित्ततया यविच्छिन्नकायिताया बाधो भाष्योक्तोऽसङ्ग- तस्स्यात् । यणो मयो द्वे वाच्य इति शास्त्रीयाया मयः परत्वविशिष्टयण- त्वावच्छिन्नकार्यिताया अचो रहाभ्यामितिशास्त्रीयाया अजुत्तरत्वविशिष्ट- रेफहकारान्यतरोत्तरत्वविशिष्टयावच्छिन्नकायितायाश्चाजुत्तरत्वविशिष्ट- यपूर्वत्वविशिष्टरत्वावच्छिन्ननिमित्तत्ववति हर्यनुभव इत्येतद्घटकरेफे अभावेनाव्यापकत्वात् । केवलमनचि चेतिशास्त्रीयाया अचः परत्वविशि- ष्टाचपूर्वत्वाभावविशिष्टयावच्छिन्नकाय्यिताया एव व्यापकतया तस्यां स्वाश्रयातिरिक्तवृत्तित्वबोधने हर्यनुभवे रेफस्य द्वित्वाभावोपपादनेऽपि म- द्रहदे पररेफम्याचो रहाभ्यामित्यनेन धात्रंशे रेफस्य यणो मय इत्यनेना- हेणेत्यादावनचि चेत्यनेन द्वित्वापत्तेर्वज्रलेपत्वात् । न च बाध्यसामान्यचि- न्तया सकलद्वित्वकायिताबाधकत्वमिति विवरणकारोक्तं युक्तमिति वा- च्यम् । एकस्यानेकशास्त्रप्रयोज्यं यत्रानवकाशत्वं तत्रैव बाध्यसामान्यचि- न्ताविषयत्वेन विवरणस्य गरुचरणैः खण्डितत्वादिति चेत् अत्रो- च्यते । अन्योऽयं तक्रकौण्डिन्यन्यायान्माठरपरिवेषणन्यायो येन रत्वावच्छिन्ननिमित्ततया यवयणत्वावच्छिन्नकायितयोर्वाधस्तेन च व्या- प्यधर्मावच्छिन्नविषयतया व्यापकधर्मावच्छिन्नविषयताया बाधः । स्वा- वच्छेदकव्याप्यधर्मावच्छिन्नातिरिक्तवृत्तित्वस्य व्यापकधविच्छिन्नवि- षयतायां बोधनञ्च बाधः । तथा च रेफातिरिक्तस्यैव यरो द्वित्वम् । एत- न्न्यायमादायैवेको यणचीत्यत्र काय्यितया निमित्तत्वबाधं युक्तमाशंक्य तस्मादित्युत्तरस्येतिनिर्देशेन समाहितं कैयटेन । परन्तु बाध्यबाधकयोरे- । पादेव । इदञ्च ५८. येन नाप्राप्ते यो विधिरा०] विजयाऽलङ्कृतः [ २६५ कप्रकरणस्थत्वं यत्र तत्रैवायं न्यायः प्रवर्तते । तत्त्वं च यत्किञ्चिदनुगत- रूपावच्छिन्नस्य प्रतिपाद्यत्वेन विषयत्वं यस्यामिच्छायां तत्प्रयोज्यकृति- विषयत्वम् । भवति च वर्णद्वित्वप्रतिपादनविषयकमहेच्छापूर्वकावान्तरे- च्छाधीनकृतिगोचरत्वमचो रहाभ्यामित्यारभ्य दीर्घादाचार्याणामित्ये- तदन्तसूत्रवात्तिककदम्बस्य तद्घटकर्यणपदयो रेफेतरस्वार्थपरता सूप- । एरजिको यणचीत्यादीनां भिन्नप्रकरणस्थानामिति न तत्रास्य विषय इति दिक् । नन्वाद्गुण इको यणचीत्यनयोधिकत्वमकरसवणे दीर्घ इत्यस्ये- प्यते । तन्नोपपद्यते। दीर्घशास्त्रीयसवर्णाजव्यवहितपूर्वत्वविशिष्टाकत्वाव- च्छिन्नविषयतां प्रत्याद्गुण इत्येतदीयाजव्यवहितपूर्वत्वविशिष्टात्वाव- च्छिन्नविषयतायाः श्रीश इत्यादौ व्यभिचारेणाव्यापकत्वादजव्यवहितपूर्व- त्वविशिष्टेक्त्वावच्छिन्नविषयतायाश्च दैत्यारिरित्यादौ व्यभिचारेणाव्याप- कत्वादिति चेत्-न । दीर्घायविषयताधिकरणे तत्तद्विषयतात्वेन तयोरभावे- ऽप्यन्यतरविषयता नास्तीत्याकारकाभावस्यासत्त्वेन तदन्यतरत्वस्याभाव- प्रतियोगितानवच्छेदकत्वेन स्वाधिकरणवृत्त्यभावप्रतियोगितानवच्छेदक- धर्मवत्वरूपव्यापकत्वस्योभयत्र सत्त्वात्। नन्वेवं प्रमेयत्वादिना दी(यविषयताया अपि यणीयविषयतां प्रति व्यापकत्वादव्यवस्थापत्तिरिति चेत्-न । दीर्घशास्त्रस्य वैयर्थ्यापत्त्या तेन रूपेण व्यापकतामादाय बाधायोगात् । न चैवमपि एरनेकाजितिशास्त्रीय- विषयताऽऽद्गुणशास्त्रीयविषयत्तेको यणचीतियणीयविषयतानामन्यतमत्वेन व्यापकतया गुणादेरिवैरनेकाजितियणोऽपि बाधापत्त्या वातप्रम्यीति प्र- द्धचीति न स्यात्। एवं विसर्जनीयस्य सः शपरे विसर्जनीय इत्यनयोर- प्यन्यतरत्वेन व्यापकतामादाय कुप्वो"क" पौ चेत्यनेन बाधापत्त्या वासः क्षौममित्यादावपि जिह्वामूलीयाद्यापत्तिरिति वाच्यम् । स्वीयविष- यताविशिष्टधम्मवद्विषयताकशास्त्रस्य स्वेन बाध इत्यर्थात् । वैशिष्टयञ्च स्वव्यापकतावच्छेदकत्वस्वव्यापकतावच्छेदकधर्मविशिष्टभिन्नत्वोभयस- म्बन्धेन । पुनर्वैशिष्ट्यं स्वव्यापकत्वस्वभिन्नत्वोभयसम्बन्धेन। अन्यत- मत्वे आद्यसम्बन्धसत्त्वेऽपि द्वितीयसम्बन्धाभावो यतः स्वव्यापकताव- च्छेदकमन्यतरत्वं तव्यापकत्वतद्भिन्नत्वसम्बन्धाभ्यां तद्विशिष्टत्वस्यैव सत्त्वम् । अन्यतरत्वं तु स्वविषयताविशिष्टं भवति । तत्र ह्याद्यसम्बन्धोऽस्ति द्वितीयोप्यस्ति । यतो व्यापकतावच्छेदकमन्यतमत्वमन्यतरत्वञ्च आद्य- स्यान्यतरत्वे व्यापकत्वन्न । द्वितीयस्य तस्मिन् भेदो नेति अन्यतरत्वक- ।

२६६ ] परिभाषेन्दुशेखरः [ बाधबीजकथने द्विषयताप्रयोजकयोरेव बाधो न त्वन्यतमत्ववद्विषयताप्रयोजकस्यैरनेका- जित्यस्येति द्रष्टव्यम् । एवं विसर्जनीस्य स इत्येतदीयविषयतागततव्य- क्तित्वस्य व्यापकतावच्छेदकत्वात्तद्विशिष्टत्वमेवान्यतरत्वस्येति न तदादा- योभयो धः । अपि तु तव्यक्तित्वस्यैव स्वविशिष्टत्वात्तद्वत्तद्विषयता- प्रयोजकसत्त्वशासास्यैव बाध इति सर्व समञ्जसम् । नन्वेवमुदितिशास्त्रीयविषयताया व्यापकतावच्छेदकमुपधायाश्च मृ- जेवृद्धिः : पुगन्तलघूपधस्य चेति शास्त्रीयविषयतात्रयगतमन्यतमत्वम् । तत्र व्यापकतावच्छेदकं यत्पुगन्तेत्युपधायाश्चेति शास्त्रद्वयीयविषयताद्वयगत- मन्यतरत्वन्तद्विशिष्टत्वमेव स्वव्यापकत्वस्वभिन्नत्वोभयसम्बन्धेन । न तु तद्विशिष्टभिन्नत्वमित्यन्यतमत्ववद्विषयतात्रयप्रयोजकशास्त्रत्रयस्य बाधो न स्यादितीररारामपवाद इत्यनुपपन्नमिति चेत्-अत्रोच्यते । स्वव्यापक- तावच्छेदकधर्मविशिष्टभिन्नत्वरूपद्वितीयसम्बन्धघटकव्यापकतावच्छेदको धमः उभयावृत्तिर्गृह्यते । ततश्च प्रकृतेनान्यतरत्वमादाय दोषस्तस्योभयवृ- त्तित्वात् । न च एरनेकाजितिसूत्रीयविषयताघटितान्यतमत्वमादायैरनेका- जित्यस्यापि बाधेन वातप्रम्यीत्यादौ दीर्घापत्तिरिति वाच्यम् । अन्यतरत्व- मादाय गुणयणौ बाधित्वा दैत्यारिरित्यादौ चरितार्थस्याकस्सवणे दीर्घ- स्य वार्णपरिभाषया बाधेन एरनेकाच इत्यस्यैव प्रवृत्तेः । परे तु अपवादशब्दोत्र बाधकपरः । उदित्यत्र हि ऋकारस्य चङो णेश्च प्रातिस्विकरूपेणोपादानादुपधायाश्च पुगन्तलघूपधस्य च मृजेवृद्धिरि- तिसूत्राणां प्रतिपदविधित्वेनैव बाधकमुर्ऋदितिसूत्रमित्याहुः । ननु गुणदीर्घोत्वानामपवाद इति ग्रन्थेनाचित इत्यस्य गुणादि प्रत्यपवादत्वमुच्यमानमसङ्गतं स्यात् । तथा हि तदीयविषयतानां तित्र- स्तिष्टन्तीत्यत्र दीर्घोत्वयोः प्रियतिस्रः पुत्र इत्यत्र गुणदीर्घयोविषयताया व्यभिचारेण तत्तद्वयक्तित्वेनाव्यापकत्वात् । नापि त्रितयमात्रवृत्त्यन्यतम- त्वेन व्यापकता युक्ता । प्रियतिस्रोरित्यादौ सर्वासामभावेन तेनाप्यव्या- पकत्वात् । नापीको यणचीतिविषयताघटितान्यतमत्वेन व्यापकत्वम् । तथा च न प्रियतिस्रोरित्यत्र व्यभिचारशंकेति युक्तम् । स्वव्यापकतावच्छे- दकयणीयविषयतागततद्वयक्तित्ववैशिष्टयस्यैव तादृशान्यतमत्वे सत्त्वा- दिति चेत्-न। प्रियतिस्रोरित्यादाविको यणचीत्यनेनैव रेफस्य सिद्धतयाs- चिर्त एतदीयविषयताया अदग्धदहनन्यायेन तत्राभावात् । त्रित- यगतान्यतमत्वेनैव व्यापकतायास्सुवचत्वात् । एवमेत्येधत्यूस्वित्यस्येणे- विषये पररूपबाधनमात्रतात्पर्येणोपसर्ग एव प्रवृत्त्या तत्र सर्वत्र एङि ५८.येन नाप्राप्ते यो विधिरा०] विजयाऽलङ्कृतः [ २६७ च्छिन्नोद्देश्यकशास्त्रस्य विशेषशास्त्रेण बाधः । तदप्राप्तियोग्येऽ- गुण इत्यकम्सवर्ण पररूपमित्यस्य प्राप्त्या तदीयविषयताया व्यापकत्वावृद्धया तस्यैव बा- धस्तद्घटितयोरोमाङोश्चैङि पररूपयोरन्यतरत्वेन न व्यापकतामादाय न बाधोऽन्यतरत्वे द्वितीयसम्बन्धविरहात् । ननु यचि भमित्यनेन स्वादि- वितिसुप्तिङन्तमित्यनयोर्बाध इष्यते । अत एव राजन्येत्यनान्तर्वर्त्तिविभ- क्त्या पदत्वमादायापि न लोपः । स च वादो न स्यादन्यतरत्वे निरु- क्तवैशिष्टयविरहादिति चेत्-न । बाध्यसामान्यचिन्तयोभयोर्बाधात् । पू- वोक्तवाधप्रकारस्य बाध्यविशेषचिन्ताविषयत्वाल्लक्ष्यानुरोधेन च पक्षद्वयं व्यवस्थितम् । अत एव शब्देन्दुशेखरेऽजन्तपुल्लिङ्गप्रकरणे बाध्यसा- मान्यचिन्तयैव सुप्तिङन्तमित्यस्य बाध उक्तः । एवमतो इत्यस्यैव बाधकन्न तु प्रथमयोः पूर्वसवर्णः अकस्सवर्ण इत्यनयोः । श्रोष्ठा- दिग्रहणमसंय्योगोपधादित्यस्यैव बाधकम्। न तु न क्रोड़ादिसहितासं- य्योगोपधादित्यस्य नासिकोदरग्रहणम् । न कोड़ादीत्यस्यैव बाधकन्न तु सहनसहितस्य न क्रोड़ादीत्यस्य । नन्वेवमाम् याट्स्याटोर्बाधको न स्यादपि तु याट एवेति चेत्-न । याटोऽपवादत्वात् । स्याटः परत्वाबाध इत्यदोषात् । मध्येऽपवादन्यायपुरस्तादपवादन्यायौ च पूर्वोक्तबाधबीज- वर्णनेनैव गतार्थी। व्यापकत्वं बाध्यताबीजमुक्त्वा बाधकताबीजं व्याप्यत्वमाह--तद- प्राप्तियोग्य इति । अत्रेदं बोध्यम् । तदप्राप्तियोग्ये अचारितार्थ्य सति कृतेऽप्यचारितार्थ्यमेकम् , तदनाप्तियोग्ये अचारितायें सति कृते चारि- तार्थ्यं द्वितीयम् । श्राद्यस्थले उत्सर्गोद्देश्ये अपवादेन स्वप्रवृत्तियोग्याति- रिक्तत्वं बोध्यते । तत्रापवादेन जाते प्राप्तौ सत्यामुत्सर्गः प्रवर्त्तते। यथा रमायामित्यत्रामि कृतेऽपि याट् प्रवत्तेते। द्वितीयस्थले उत्सर्गोद्देश्ये अपवादेन स्वप्रवृत्तियोग्यातिरिक्तत्वं स्वविहितकार्याश्रयातिरिक्तत्वश्च बोध्यते । यथा सर्वेषामित्यादौ सुटि कृतेऽपि न नुन् । ननु स्त्रमोन्ने पुंस- कादित्यस्याप्राप्तियोग्येऽचरितार्थत्वात् । कृतेऽपि लुक्यचरितार्थत्वादतोऽ- मित्यनेन स्वप्रवृत्तियोग्यं ज्ञानस्विति तद्भिन्नत्वेनैव लुक उद्देश्यतावच्छेदका- वच्छिन्ने सङ्कोचात् । कृतेऽमि लुक्स्यात् । न चाम्विधानसामर्थ्यात स्वविहितकार्याश्रयातिरिक्तत्वेनापि सङ्कोच इति वाच्यम् । नियमभङ्गेना- व्यवस्थापत्तेस्तावतापि दुर्वारत्वादिति चेत्-न । स्वप्रवृत्त्युत्तरोत्सर्गशास्त्रप्र- २६८ ] परिभाषेन्दुशेखरः [ बाधबीजकथने चारितार्थ्य ह्येतस्य बाधकत्वे बीजम् । अत एवा'यादय' इति सूत्रे गोपायिष्यतीत्यादावायादीन्बाधित्वा परत्वात्स्यादयः वृत्तिसम्भावनाप्रयोज्यवैयथ्यसम्भावनाविषयत्याभावे सति तदप्राप्तियो- ग्येऽचरितार्थत्वे सति कृतेऽप्यचरितार्थत्वं यत्र तत्र स्वप्रवृत्तियोग्यातिरिक्त- त्वेन संकोचोऽन्यत्र खप्रवृत्तियोग्यातिरिक्तत्वेन स्वविहितकार्याश्रयाति- रिक्तत्वेन च संकोच इति नियमेनादोषात् । आमो धर्मत्रयसत्त्वादेक- रूपेणैव सङ्कोचः । अमादेशे सुडागमे च त्रितयाभावसत्त्वादुभयरूपेण सङ्कोच: । ननु तदप्राप्तियोग्येऽचारितार्थे सति कृतेऽप्यचारितायें स्वप्रवृत्तियोग्यातिरिक्तत्वेन सङ्कोच इत्येवापवादस्थलेऽस्तु, न तु कृते चारितार्थ्ये उभयरूपेण सङ्कोच: । फलाभावात् । सुट्शास्त्रे आम्याकारण- श्लेषेणाकारादावामि सुटो विधानेन नुटि. आकारादित्वाभावेन सुटो प्रवृत्तेः । अजादेद्वितीयस्येत्यस्य कृते प्रथमैकाचो द्वित्वे चारितार्थेन परत्वा- देव बाधकत्वम् । सकृद्धतिन्यायेन पूर्वस्याप्रवृत्तिः । उभयरूपेण सङ्कोचे ईघ्राध्मोरित्यस्य द्वित्वे कृते चरितार्थम्य प्रवृत्तौ द्वित्वानापत्तेः । पचो व इति कृते पक इत्यत्र कुत्वानापत्तेश्च । तदोस्सस्सावितिसूत्रानाप्यक इतिसूत्राभ्यान्त्यदाद्यत्वबाधापत्तश्च । अत एवेदमो म इति सूत्रं चरिता- र्थम् । तक्रन्यायस्याश्रयणे तु यस्साविदो यः पुंसीति सूत्राभ्यां त्यदाद्यत्व- बाधेनैव सकारोपपत्तौ तस्य वैयापत्तेः । सामोदनित्यत्वकल्पनापे- क्षया तस्यानाश्रयणकल्पनस्यैव युक्तत्वाहिग्ये इत्यादौ परत्वाहिग्यादेशे सकृद्गतिन्यायेन द्वित्वाभावः । पिप्ये इत्यादौ कृते द्वित्वे चरितार्थत्वात् परत्वात् प्यादेशे पुन: प्रसङ्गविज्ञानात् द्वित्वमिति चेत्-अस्तु तथैवेति केचित् । बाधकताबीजन्तु तदप्राप्तियोग्ये अचारितार्थ्यमेव तव्या- प्यत्वमिति यावत् । न तु तत्कृतवैययं न वा तद्घटको सर्गप्रा- प्तिस्सफलैवेत्याग्रहः । तेन नुटि कृते चारितार्थेऽपि सुट् बाधकः । एङ् स्वादित्यस्य हे पो इत्यत्र लुका बाधेऽपि तत्र न लुमतेति निषेधानित्यत्वेन चरितार्थोऽपि तस्वस्य गुणः । एङ्हस्वादित्यस्य बाधक- स्तेन हे हरे इत्यत्र गुणे कृते सुत्नोपायैङ्ग्रहणं चरितार्थम् । अत्रैव प्रमाण- मुपन्यस्यति-अत एव आयादय इत्यादिना। अत एवेत्यस्य तद्वथा- प्यत्वमात्रस्य बीजत्वादेवेत्यर्थः । आयादयो वा सार्वधातुके नित्यमिति न्यासमुपक्रम्येदं भाष्यं प्रवृत्तम् । गोपायिष्यतीत्यादावायादीन् बाधित्वा ५८. येन नाप्राप्ते यो विधिरा०] विजयाऽलङ्कृतः [२६६ प्राप्नुवन्तीत्याशङ्क्यानवकाशा आयादयः, गोपायतीत्यादावपि शपस्यादिः प्राप्नोति । न च सति शप्यसति वा न विशेषः अन्यदिदानीमिदमुच्यते नास्ति विशेष इति । यदुक्तमायादीनां स्यादिभिरव्याप्तोऽवकाश इति स नास्त्यवकाश इति भाष्ये उक्तम् । एवमत्रतत्प्रवृत्त्युत्तरं चारितार्थ्यपि तदव्याप्तोऽवकाशो नास्तीति सममेव । किञ्चानेन न्यायेन तत्प्रवृत्त्युत्तरमपि चारितायें तद्वाधबोधनम् । अन्यथानवकाशत्वेनैव बाधे सिद्धे एतत्कथन- स्यैव वैयर्थ्यांपत्तेस्तक्रकौण्डिन्यन्यायप्रदर्शनस्यापि वैयर्थ्यांपत्तेश्च । यथा प्रथमद्विवचनस्य तदुत्तरं सावकाशेनापि द्वितीयद्विवंचनेन बाधः। यथा चादेरपि प्रवृत्त्या चरितार्थेना देः परस्ये त्यनेना'लो- परत्वात् स्यादयः स्युः । तत्र कृते सार्वधातुके नित्यमित्यास्याप्राप्त्या आ- द्ययोगेन वैकल्पिके आयप्रत्यये गोपायिष्यति गोपिष्यतीत्यस्य सिद्धिस्स्या- दिति भावः । ननु आयादीनां कथमनवकाशत्वं गोपायतीत्यादौ स्यप्रत्य- याप्राप्तियोग्ये चारितार्थ्यादित्यत आह-गोपायतीत्यादावपीति । स्य- तासिशपामन्यतमत्वेन बाध इति भावः । ननु शपि कृतेऽपि गोपायति अकृतेऽपि गोपायतीति फलाभावान्न शप् स्यादिति कथमनवकाशत्वमा- यादीनामित्यत आह-अन्यदिदानीमिति। शपःप्राप्तिः फलवती माभूदा- यादीनां व्याप्यत्वन्त्वस्त्येवेति भावः। एतद्भाष्याद् व्याप्यत्वमात्रस्य बाधक- ताबीजत्वं लभ्यते । एवमत्रेति । यथा शपः फलाभावेऽपि प्राप्तिमात्रेण अयादीनां व्याप्यत्वमेवं अत्र बाध्यबाधकभावे कृते चारितार्थेऽपि व्या- प्यत्वं बाधकताबीजमस्तीति भावः । पूर्वग्रन्थेन कृते चारितार्थ्यऽपि बाधो भवतीत्यर्थस्य लाभेऽपि तत्र प्रमाणान्तरदानाय स्पष्टार्थमुच्यते-किचाने- न न्यायेनेति । अन्यथेति। व्याप्यत्वमात्रस्य बाधकताबीजत्वाभावे इत्य- र्थः। अनवकाशत्वेनेति । वैयर्सेनेत्यर्थः । तस्य किञ्चिदर्थज्ञापकत्वन्तु ज्ञापकस्थले सुप्रसिद्धमिति भावः । एतत्कथनेति । येन नाप्राप्त इति न्या- यकथनेत्यर्थः । कृते चारितार्थेऽपि बाधे फलमाह-यति । अनभ्यासग्र- हणं प्रत्याचक्षाणस्य भाष्यकारस्य मतेनेदम्बोध्यम् । अत्र परत्वाद्बाधे- नाप्यदोष इत्यरुचेराह-यथेति । अलोन्त्यस्येत्यनेनैकवाक्यतया विधाने । । S ।

२७० ] परिभाषेन्दुशेखरः [ बाधबीजकथने ऽन्त्यस्ये त्यस्य बाधः । तदुक्तं 'मिदचोऽन्त्यात्' इति सूत्रे भाष्ये- सत्यपि सम्भवे बाधनं भवतीति । अन्यथा ब्राह्मणेभ्यो दधि दोयतां तक्र कौण्डिन्यायेत्यत्र तक्रदानेन दधिदानस्य बाधो न स्यात्तद्दानोत्तरं तत्पूर्व वा तदानस्य चारितार्थ्यसम्भवात् । अत एव विषयभेदेऽप्यपवादत्वम् । अत एवाचिरादेशेन नुटोप्य- पवादत्वाबाधमाशक्य न तिरितिज्ञापन समाहितं 'तृज्वत्' सूत्रे भाष्ये । तेन विषयभेदेऽपवादत्वाभाव एव बोध्यत इति कश्चित्-तन्न । विन्मतोलुका टिलोपमात्रस्य बाधानापत्तः । पुनरादेः परस्येत्यनेनैकवाक्यत्वे प्रमाणाभावेनादेः परस्येत्यस्य न कृते चा- रितार्थ्यमित्यरुचेराह-तदुक्ता मिति । सत्यपि सम्भव इति । समा- वेशसम्भवेऽपीत्यर्थः । अन्यथेति । चारितार्थ्याभाव एव बाधकत्वाङ्गीकार इत्यर्थः । अत एवेति । व्याप्यत्वमात्रस्य बाधकत्वबीजत्वादेवेत्यर्थः विषयभेद इत्यस्य विभिन्न कार्यित्व इत्यर्थः। अचिरादेशेनेति । प्रकृते रेफा- देशः। प्रत्ययस्य नुडिति विषयभेदः स्पष्टः। विषयभेदे अपवादत्वाभावे शङ्का- समाधाने निर्दले स्यातामिति भावः। तेनेति । न तिरिति ज्ञापकेनेत्यर्थः। ननु विषयभेदेऽपि बाधे ब्राह्मणेभ्यो दधि दीयता, कम्बलः कौण्डि- न्यायेत्यादावपि कम्बलदानेन दधिदानस्य बाधापत्तिः । सुटा यासुट न बाध्यते । लिङो यासुट्तकारथकारयोस्सुडिति विषयभेदादिति फक्किका- प्यनुपपन्नेति चेत्-न। सजातीययोरेव बाध्यबाधकभावो भवति दधितक्र- यो जने रुच्युत्पादकत्वेनास्ति साजात्यं, न दधिकम्बलयोः। एवमेकका- लिकयोरेव बाध्यबाधकभावोऽत एवाद्य ब्राह्मणाय दधि दीयतां श्वः कौण्डि- न्याय तक्रमित्यादौ न बाध्यबाधकभावः। तथा च परस्मैपदेष्वित्यत्र विष- यसप्तम्या लिङ एव यासुट आदेशोत्तरकाले तकारथकारयोः सुडिति का- लभेदान्न बाध्यबाधकभावः। विषयभेदादित्यस्य कालभेदादित्यर्थः । अत एव प्यायः पीत्यनेन लिड्यङाश्चेति विषयसप्तम्या लिटः पूर्वमेव प्यादेशेन न पिप्य इत्यादौ द्वित्वबाध इत्यदोषात् । विन्मतोलुंकेति । प्रकृत्यैका- जित्यस्य प्रत्याख्याने सजिष्ठ इत्यादाविष्ठनि विनो लुकि स्रजित्यस्य टेर्लोपः कस्मान्नेत्याशङ्कय लुका स्रग्विणष्टेविनो लुगुत्तरं प्राप्तस्य स्रजष्टेश्च जाति- ५८.येन नाप्राप्ते यो विधिरा० ] विजयाऽलङ्कृतः [ २७१ यत्तु 'दयतेर्दिगिति सूत्रे द्वित्वोत्तर दिग्यादेशस्य चारितार्थ्य कैयटेनोक्तं-तत्प्रौढ्या । ध्वनितं च तेनापि तस्य तथात्वं तदुत्तर- ग्रन्थेन । असम्भवे एवं बाधकत्वं विरोधस्य तद्बीजत्वादिति वार्तिकमतं तु भाष्यकृता दूषितत्वान्न लक्ष्यमिद्धथुपयोगि । तक्रकौण्डिन्यन्यायोपि तदप्राप्तियोग्येऽचारितार्थ्यविषयो विधेय- । । पक्षाश्रयणेनेष्ठनिमित्तकटिलोपत्वावच्छिन्नस्य बाधेनोभयोर्लोपस्य बाध उक्तो भाष्यकारेण । सोऽसङ्गत: स्यात् । नजित्यस्य टेर्लोप: बिनश्च लुगिति विषयभेदादित्यर्थः। तस्माद्विषयभेदेऽपि बाध इति सिद्धम् । ननु दयतेर्दिगिति द्वित्वोत्तरं दिग्यादेशस्य चारितार्थेन नानवकाश- त्वाद्वित्वस्य दिग्यादेशेन बाध इति कैयटेन यदुक्तं-ततो विरोधस्त्वया चारितार्योऽपि बाधाङ्गीकारादित्याह-तत्प्रौढयति । तत् कैयटोक्तम् । प्रोडयेति । अशुद्धमित्यर्थः । तेनापोति । कैयटेनापीत्यर्थः । तस्येति । पूर्वकैयटग्रन्थस्येत्यर्थः । तथात्वमिनि । अशुद्धत्वमित्यर्थः । तदुत्तरग्र- न्थेनेति । तत्र हि दिग्यादेशमुपक्रम्य नैवमनवकाशः । कृते द्विवचने प्रवृ- त्यविघातात् । अथ पुनरेवमप्यनवकाशं मन्यसे तदा लक्ष्यदोषप्रसङ्ग इत्यु- क्तम् । तत्राथ पुनरित्यायुक्तग्रन्थेन चारितार्थ्यप्रतिपादनपरस्य पूर्वग्रन्थ- स्यारुचिप्रस्तत्वमुपाध्यायी मन्यते इति ध्वन्यते । असम्भवे इति । समावेशासम्भव इत्यर्थः । दूषितत्वादिति । स- त्यपि सम्भवे बाधनम्भवतीति मिदचोन्त्यादितिसुत्रस्थभाष्येण दूषित- त्वादित्यर्थः। न लक्ष्यसिद्ध्युपयोगीति । यथोत्तरं मुनीनां प्रामाण्य- मिति भावः। तक्रकौण्डिन्यन्यायेन बाधः निरवकाशत्वेन बाधश्च येन नाप्राप्तन्याय एवान्तर्भूत इति द्वयोः समानविषयत्वप्रतिपादनायाह- तक्रकौण्डिन्यन्यायोज्पोति । तदप्राप्ताति | विषयतयोाप्यव्याष- कभावविषय इत्यर्थः। विधेयविषय इति। एककार्यविधायकशास्त्रेणाप- कायविधायकशास्त्रस्य बाधो न त्वेककार्यविधायकशास्त्र एव व्याप्यधर्माव- च्छिन्नविषयतया व्यापकधविच्छिन्नविषयताया बाध इत्यर्थः । इदञ्चा- चारितार्थविषयत्वकथनेनैव गतार्थमेकशास्त्रीयविषयतयोाप्यव्यापक- भावविरहादिति बोध्यम् । रत्वावच्छिन्ननिमित्ततया यावच्छिन्नकायि- ताया बाधस्तु माठरपरिवेषणन्यायादित्युक्तं प्राक् । मोठरन्यायेन- ।

२७२ ] परिभाषेन्दुशेखरः [ बाधबीजकथने विषय एव चेति तद्धितेष्वचामादे' 'धातोरेकाचः' इत्यादिसूत्रेषु भाष्ये स्पष्टम् ॥ ५८॥ व च वावसान इत्यत्र चावच्छिन्नविधेयतया झलत्वावच्छिन्नकार्यिताया बाधात्। चभिन्नमल एव चवंविधानात् । रत्नमुषितिषान्तशब्देऽपवा- देनापि वावसान इत्यनेन जस्त्वेन डकारे कृते चर्वेन टकारे रत्नमुट् इति । तदभावे रत्नमुडिति सिद्धयति । चरतिरिक्तत्वेन सङ्कोचाभावे तु तक्रन्या- येन जस्त्वं बाधित्वाऽनेन षकारस्यैव चर्वेनान्तरतम्यात् । षकारे रत्नमुष् तदभावे जस्त्वे रत्नमुडिति स्यात् न तु टकारान्तो रत्नमुट् इति बोध्यम् । एतन्न्यायस्य चासार्वत्रिकत्वात् घिशब्दभिन्नत्वेनेदन्ते न सङ्कोचो यकारातिरिक्तत्वेन च वलि न संकोचः । तद्धितेष्वचामादेरिति तत्र ह्यादिवृद्धौ अन्त्योपधालक्षणवृद्धेः प्रतिषेधो वक्तव्यः। क्रौष्ट्रः जागत इत्युपक्रम्य मध्ये तक्रकौण्डिन्यन्यायेन बाधमाशङ्कय नाप्राप्ते दधिदाने त- क्रदानमारभ्यते । इह पुनरप्राप्तायामन्त्योपधालक्षणायां वृद्धावचामादिवृद्धि- रारभ्यते सुश्रुत् सौनुत इति वैषम्यमुद्भावितमनेनाचारितार्थ्यविषयत्वं स्पष्ट- मेवोक्तम् । धातोरेकाच इत्यादीति। अतद्गुणसंविज्ञानबहुव्रीहिणा नित्यं कौटि, लुप् सदचरेत्यनयोर्ग्रहः । तत्र हि उत्तरयोर्विग्रहेण विशेषासं- प्रत्ययान्नित्यग्रहणानर्थक्यमित्युक्तम् । कुटिलगमनतात्पर्यकं ब्रजतीति मा भूदित्यर्थं नित्यग्रहणं न अभिधानस्वाभाव्याद् व्रजतीत्यनेन कौटिल्य- रूपविशेषस्याप्रतीत्या तत्प्रयोगाभावसिद्धरिति भाष्यार्थः । कौटिल्य एव इत्यर्थबोधनद्वारा क्रियासमभिव्याहारे यङोऽभावार्थन्नित्यग्रहणमस्त्वि- त्याशङ्कायामाह-क्रियासमभिव्याहारे च । नैतेभ्यो यडा भवितव्यमिति। अत्र चकारेण पूर्वोक्तविशेषासम्प्रत्ययादिति हेतुरनुकृष्यते । वाव्रज्यते अत्र क्रियासमभिव्याहारस्याप्रतीत्या तत्र तत्प्रयोगाभावसिद्धेस्तदपि नित्यग्रहणस्य न फलमित्यर्थः । केवलव्याप्यव्यापकधावच्छिन्नोद्देश्य- ताकयोर्बाध्यबाधकभावे तु अनुकर्षणार्थकचकारवैयर्थ्यं गत्यर्थकधातु- त्वधातुत्वयोर्व्याप्यव्यापकभावादेव गत्यर्थकधात्वतिरिक्तत्वेन धातौ सङ्को- चादेव तत्र तत्प्रयोगसिद्धेरिति भावः । विधेयविषयत्वकथनेनाजादिशब्दे बोधकतया बोध्यताया न बाधोऽत एव घिशब्दे घिसंज्ञासिद्धिरिति दिक्॥५८।।

५६. क्वचिदपवादविषये० ] विजयाऽलङ्कृतः [ २७३ क्वचित्तु सर्वथानवकाशत्वादेव बाधकत्वं यथा डेरामो याडा- दिबाधकत्वम् । न हि याडादिषु कृतेषु राम् प्राप्नोति । निर्दिश्य- मानस्य व्यवधानात् । तत्र वस्य पूर्व प्रवृत्तिरित्येव तेषां बाधः। तत्र बाधके प्रवृत्ते यद्युत्सर्गप्राप्तिर्भवति तदा भवत्येव । यथा तत्रैव याडादयः । अप्राप्तौ तु न । यथा पचेयुरित्यादौ दीर्घबाधके निर- वकाशे इयादेशे दीर्घाभावः। तदेतत् पठ्यते- क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशते इति ॥ ५६ ॥ अपवादशब्दोऽत्र बाधकपरः। तदुक्तं 'गुणो यङ्लुको' इत्यत्र भाष्ये अभ्यासविकारेष्वपवादा उत्सर्गान बाधन्ते । अजी- गणत् । अत्र गणेरीत्वमपवादत्वाद्धलादिः शेष बाधते । न गणेरी- कचित्तु सर्वथानवकाशत्वादिति । इदन्नापूर्व किन्तु येन नाप्रा- प्रन्यायस्यैवैकदेशमनूद्य तत्र सङ्कोचविशेषः प्रतिपाद्यते इति । तदेतत्पठ्यत इति । कचिदपवाद इत्ययं नापूर्वः किन्तु स्वप्रवृत्तियोग्यातिरिक्तत्वमात्र- बोनधफलित एवेति भावः । क्वचिदिति । सर्वथा निरवकाशस्थल इत्यर्थः। ननु कृते चारितार्थ्ये सति यो बाधकः स एवापवादशब्दशक्यो वक्ष्य- माणगुणो यङलुकोरितिसूत्रस्थभाष्याल्लभ्यते । तर्हि निरवकाशस्थलस्थ- बाधकतात्पर्येण अभ्यासविकार इत्यत्र, कचिदपवादविषय इत्यत्र च प्रयुक्तोऽपवादशब्दोऽनुपपन्न इत्यत आह-अपवादशब्दोऽत्रेति । अत्र प्रकृतपरिभाषायामित्यर्थः । तथा च बाधकमात्रे लाक्षणिकः सुखमात्रे स्वर्गशब्दवदिति बोध्यम्। तदेव भाष्यमुपपादयति-तदुक्तमित्यादिना । अभ्यासविकार इत्यस्याः भाष्ये फलन्दत्तमजीगणदिति। तदुपपादयति ग्रन्थकार:-अत्रेत्यादि बाधते इत्यन्तरन्थेन । अभ्यासविकार इत्य- स्थाभावे हलादिः शेषस्य बाधकं गणेरित्वं स्यात्। तथा चाजीगणदिति न स्यात् । परिभाषया बाधकत्वाभावे बोधिते हलादिः शेषे कृते ईत्वे रूपसिद्धिरिति भावः। अत्राशङ्कते भाष्यकार:-न गणेरिति । परिभाषया चापवादस्यैव बाघकत्वाभावो बोध्यते । अनेन कृते चारितार्थ्य यो बाधकः स एवापवाद १८ २७४ ] परिभाषेन्दुशेखरः [ बाधबीजकथने त्वमपवादत्वाद्धलादिः शेषं बाधते । किं तबनवकाशत्वादिति ग्रन्थेन । गणरूपाभ्यासान्त्यणस्येत्वमित्यर्थे हलादिः शेषेण तन्नि- वृत्तौ तदनवकाशमीत्वे तु कृते न तस्य प्राप्तिरन्त्यहलोऽभावात् । अभ्यासविकारेषु बाध्यबाधकभावाभावेन च साधितम् । तस्मिंश्च सति लोपे कृते सामर्थ्याच्छिष्टस्यान्त्यस्येत्वमिति न दोषः । न च येन नाप्राप्तिन्यायेनापवादत्वमप्यस्य सुवचं, तस्य चरितार्थवि- षयताया उक्तत्वात् । 'इको झल' इत्यत्र भाष्येऽपि ध्वनितमेतत । तत्र हि 'अज्झने ति दीघेण गुणोत्तरं फलाभावेनानवकाशत्वाद्गुणे बाधिते दीर्घोत्तरं गुणः स्यादीर्घविधानं त 'मिनोते. दीर्घे कृते इति स्पष्टमेव लभ्यते । इति ग्रन्थेनेत्यस्य तदुक्तमित्यनेनान्वयः। कृते चारितार्थ्ये यो बाधकः स एवापवादशब्दप्रतिपाद्य इत्युक्तमित्यर्थः । अनवकाशत्वमुपपादयति-गणरूपाभ्यासान्त्यणस्येति । लाघवात् सामानाधिकरण्येनैवान्वय इति भावः । णस्येति तु अलोन्त्यविधिलभ्यः। ईत्वे तु कृते इति इदन्न प्रकृतोपयोगि। बाध्यबाधकभावाभावेनेति । तथा चाभ्यासविकारे बाध्यबाधकभावो नेत्याकारिकैव परिभाषेति न दोष इति भावः । तस्मिंश्च सतीति । अभ्यासविकारे बाध्यबाधकभावाभावे च सतीत्यर्थः । सामादिति । गणरूपाभ्यासस्येत्यर्थे अभ्यासस्यानर्थ- क्यादानुमानिकस्थान्यादेशकल्पनाया अभावादक्तपरिमाणे एकदेशविकृत- न्यायाप्रवृत्तेश्चाभ्यासे गणरूपत्वाभावादिति भावः । सामार्थ्याद्णधातो- रभ्यासस्येति वैयधिकरण्यान्वयोऽनर्थकेऽप्यानुमानिकस्थान्यादेशकल्प- नादिर्वेति भावः। ननु निरवकाशस्थलेऽपि येन नाप्राप्तन्यायेनैव बाधात् तेन बाधकस्यैव चापवादपदप्रतिपाद्यत्वात् निरवकाशस्थलेऽपि यो बाधकस्तस्यापवादत्वं सुवचमेवेत्याह-न च बेन नेत्यादि । तस्य चरि- तार्थति । तेन न्यायेनापि चारितार्थ्यविषये यो बाधकस्तस्यैवापवादत्वस्य पूर्वप्रतिपादितभाष्येण लाभात् इको झलितिभाष्यादपि तथैव लभ्यत इत्याह- इको झलीति। अयम्भावः-इको झलीतिसूत्रम्मास्तु बुभूषतीत्यादौ गुणा- प्राप्तियोग्येऽचरितार्थेन गुणे कृते फलाभावेन कृतेऽप्यचरितार्थेन गुणम्बा- धित्वा दीर्घेण रूपसिद्धरित्याशक्य दीर्घोत्तरं गुणो माभूदित्येतदर्थं ५६. क्वचिदपवादविषये० ] विजयाऽलङ्कृतः [ २७५ सनि मीमेत्यत्र मीग्रहणेन ग्रहणेऽर्थवत् तत्र पश्चात् प्राप्तगुणबाध- नार्थमि'को झलिति कित्त्वमित्युक्तम् । अन्यथाऽपवादत्वेन बाधे तद्विषये उत्सर्गाप्रवृत्तेः भाष्यस्य सूत्रस्य चासङ्गतिरिति स्पष्टमेव । यत्तु काञ्चनीत्यादावपवादमयड्विषयेऽप्यण भवति क्वचिदप- वादविषयेऽपीति न्यायादिति-तन्न । 'अण् कर्मणि च' इति सूत्र- स्थभाष्यविरोधात् । तत्र हि अणः पुनर्वचनमपवादविषयेऽनि- वृत्त्यर्थं गोदायो व्रजतीत्याधुक्तम् । काञ्चनीत्यादौ काञ्चनेन निर्मि- तेत्यर्थे शैषिकोऽण् बोध्यः। सूत्रं स्थापितम् । न च दीर्घोत्तरं गुणे अजन्तस्य दीर्घविधानं व्यर्थ- मिति वाच्यं, दीर्घाभावे ह्रस्वान्तस्य मिधातोस्सनि सनिमीमेति सूत्र- स्थमीग्रहणेन ग्रहणाभावे मित्सतीति रूपासिद्धथा दीर्घविधानस्य सार्थ- क्यादिति । न च न ह्येकमुदाहरणन्यायेन मिग्रहणे एव कर्त्तव्ये अज्ग्रहणं व्यर्थमेवेति वाच्यं, अजादेशगमेरित्यर्थस्यापि लाभार्थ तस्यावश्यकत्वात् । न च लाक्षणिकत्वेन कृतदीर्घस्य मिनोतेः मीनातिग्र- हणेन चरितार्थेन मीग्रहणेन न ग्रहणमिति वाच्यम् । गामादाग्रहणेष्व- विशेष इति न्यायेन माग्रहणे लाक्षणिकस्यापि ग्रहणात् तत्साहचर्येण मीग्रहणेऽपि लक्षणप्रतिपदोक्तपरिभाषाया अनित्यत्वात् । न चास्यामव- स्थायां कित्वाभावेनैज्विषयत्वात् मिनोतेरप्यात्वे माग्रहणेनैवेसः सिद्धौ मीग्रहणेन ग्रहणाभावेऽपि न क्षतिरिति वाच्यम् । एज्निमित्तत्वं निमित्ती- कृत्य प्रवर्त्तमानात्वस्यैज्निमित्तत्वविघातकहलन्ताच्चेति कित्वसम्पादकमि- सादेशं प्रति निमित्तत्वासम्भवात् । अत एव मीग्रहणं सार्थकम् । अन्यथा आत्वेन मीनातेरपि माग्रहणेनैव सिद्धे तद्वैययं स्यात् । अन्यथेति । नि- रवकाशस्थलेऽप्यपवादशब्दप्रवृत्तौ अत्राप्यपवादत्वादेव गुणस्य दीर्पण बाधे अपवादत्वाद्वाधे उत्सर्गाप्रवृत्तेः दीर्घोत्तरं प्राप्तस्य गुणस्याभावाय सूत्रावश्यकत्वानापत्तेः । अनिवृत्त्यर्थमिति । अन्यथा न्यायेनैवाणस्सिद्धौ पुनरणग्रहणस्य व्यर्थत्वमेवेति बोध्यम् । शैषिकोऽणिति । शेष इति विधिसूत्रविहितोऽणित्यर्थः । वृद्धाच्छ इति त्वधिकारविषयो न तु विधि- विषय इत्याशयः। ।

२७६ ]
परिभाषेन्दुशेखरः [ बाधबीजकथने
अत्रेदं बोध्यम् । येन नाप्राप्ते इत्यत्र येनेत्यस्य यदि स्वेत-
रेणेत्यर्थस्तदा स्वविषये स्वेतरबद्यत् प्राप्नोति तद्भाध्यम् । विध्यन्त-
राप्राप्तविषयाभावात् ।। इयमेव बाध्यसामान्यचिन्तेति व्यवह्रियते ।
अनवकाशवे बाधेऽप्येषा वक्तुं शक्या यद्युदाहरणमस्ति । विनिग-
मनाविरहात् । यदि तु येनेत्यस्य लक्षणेनेत्यर्थः कार्येणेत्यर्थों वा
तदा बाध्यविशेषचिन्ता । अनवकाशत्वेन बाधेऽप्येतद्वाधेन सार्थ-
क्यमुत तद्भाधेनेत्येवं विशेषचिन्ता सम्भवति यद्युदाहरणमस्ति
॥ ५8 ।।
तत्र येन कार्येणेत्यर्थे पररूपत्वावच्छिन्ने कार्य प्रारभ्यमाणाया
वृद्धः तद्भाधकत्वे निर्णीते किं शास्त्रविहितस्येत्येवं तद्विशेषचिन्ता-
यामाह-
पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते
नोत्तरान् ॥ ६॥
अवश्यं स्वपरस्मिन् बाधनीये प्रथमोपस्थितानन्तरबाधेन
चारितार्थ्ये पश्चादुपस्थितस्य ततः परस्य बाधे मानाभावः श्रा-
काङ्क्षानिवृत्तेः । विप्रतिषेधशास्त्रबाधे मानाभावाचेत्येतस्य बीजम्
॥६०॥
नासिकोदरौष्ठजवादन्तेत्यस्यौष्ठाद्यशे ङीनिषेधत्वावच्छिन्न-
बाधकत्वे निर्णीते किं विहितस्येत्याकाङ्क्षायामाह-
मध्येऽपवादाः पूर्वान् विधीन बाधन्ते नोत्तरान् ॥६॥
अत्रेदंबोध्यमित्यादिग्रन्थास्तु बाध्यत्वप्रयोजकधर्मवर्णनेनैव व्या-
ख्याताः । यद्युदाहरणमस्तीति इदमुक्तिवैचित्र्यमात्रमकस्सवणे दीर्घः गुण-
दीर्घोत्वानामपवाद इत्याद्युदाहरणस्य प्रसिद्धत्वात् । येन लक्षणेन येन
कार्येण इत्याद्यपि न विशेषावगतिहेतुः ॥ ५९॥ ६० ॥ ६१ ॥ १२ ॥

६३. पूर्वं ह्यपवादा० ] विजयाऽलङ्कृतः [ २७७ तेनौष्ठादिषु पञ्चस्वसंयोगोपधादिति प्रतिषेध एव बाध्यते न तु सहन विद्यमानलक्षण इति नासिकोदर' इत्यत्र भाष्ये स्पष्टम् । पूर्वोपस्थितबाधेन नैराकाक्ष्यमस्या बीजम् ॥ ६१ ॥ ननु'वाच्छन्दसी'त्यनेन 'सेद्यपिच्छे त्यनन्तरस्यापित्त्वस्येव हेरपि' विकल्पः स्यात् । तथा 'नेटी ति निषेधोऽनन्तरहलन्तलक्षणाया इव 'सिचिवृद्धि मृजि वृद्ध्योरपि स्याद् । अत उक्तन्यायमूलकमेवाह- अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति ॥ ६२ ॥ अत एव 'संख्याव्ययादेरिति डीव्ग्रहणं चरितार्थम् । तद्ध्य- नन्तरस्य डीपो विध्यभावाय । 'न क्तिची ति सूत्रे दीर्घग्रहणं च चरितार्थम् । तद्ध्यनन्तरस्यानुदात्तोपदेशेत्यस्यैव निषेधाभावाय । मध्येऽपवादा इतिन्यायापेक्षयाऽनन्तरस्येति न्यायः प्रबल इति 'अष्टाभ्य' इति सूत्रे कैयटः। प्रत्यासत्तिमूलकोयम् । लक्ष्यानुरोधाच्च व्यवस्थेत्यपि पक्षान्तरम् । तत्र तत्र व चित्वरितत्वप्रतिज्ञानात्सा- मर्थ्येन वा बाध्यतेऽयं न्यायः। यथा 'टिड्डे'ति सूत्रेण टापा व्यवहितस्यापि डीपो विधिः। 'न षडि'त्यादिना द्वयोरपि टाब- डीपोः प्रतिषेधः । इयं च 'शि सर्वनामस्थान मित्यादौ भाष्ये स्पष्टेत्यन्यत्र विस्तरः ॥ ६२ ॥ ननु दधतीत्यादावन्तरङ्गत्वादन्तादेशेऽल्विधौ स्थानिवत्त्वाभा- वाददादेशो न स्यादिति तद्वैयर्थ्यापत्तिरत आह- नन दधतीत्यादाविति । द्वित्वोत्तरमभ्यस्तसंज्ञा तदुत्तरप्रवृत्तिम- ददादेशापेक्षयाऽन्तादेशस्य शीघ्रोपस्थितिकत्वेनान्तरङ्गत्वादित्यर्थः । ननु जक्षतीत्यादावनैमित्तिकत्वेन सर्वापेक्षया पूर्वमेव जक्षित्यादय इत्यभ्य- स्तत्वे समकालमेव प्राप्तयोरन्तादेशादादेशयोन्निरवकाशत्वेनान्तादेशं बा- धित्वाऽदादेशश्चरितार्थ इति चेत्-न । अन्तादेशे उपदेशिवद्भावेन तत्रा- प्यन्तादेशस्य पूर्वमेव प्रवृत्तः कार्यकालपक्षे कार्यप्रवृत्तिप्राक्क्षणे एव २७८ ] परिभाषेन्दुशेखरः [ बाधबीजकथने पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः ॥ ६३ ॥ लक्षणकचक्षुष्को ह्यपवादविषयं पर्यालोच्य तद्विषयत्वाभाव- निश्चये उत्सर्गेण तत्तल्लक्ष्यं संस्करोति । अन्यथा विकल्पापत्ति- रित्यर्थः। अभिनिविशन्ते इत्यस्य बुध्यारूढा भवन्तीत्यर्थः। अपवादो यद्यन्यत्र चरितार्थ इति न्यायस्य तु नात्र प्राप्तिरन्तादे- शाप्राप्तिविषये चारितार्थ्याभावात् ॥ ६३ ॥ लक्ष्यैकचक्षुष्कस्तु तत्तच्छास्त्रपालोचनं विनाप्यपवादविषयं परित्यज्योत्सर्गेण लक्ष्यं संस्करोति । तस्यापि शास्त्रप्रक्रियास्म- रणपूर्वकप्रयोग एव धर्मोत्पत्तेस्तदाह- प्रकल्प्य चापवादविषयं तत उत्सर्गोऽभिनिविशते ॥६॥ तत इत्यस्यापवादशास्त्रपालोचनात् प्रागपीत्यर्थः । प्रकल्प्ये- त्यस्य परित्यज्येत्यर्थः। अत एव 'प्रातिपदिकार्थ' सूत्रे भाष्ये इदं द्वयमप्युक्त्वा न कदा चित्तावदुत्सर्गो भवत्यपवाद तावत् प्रतीक्षत इत्यर्थकमुक्तम् ॥६४॥ एतन्मूलकमेव नवीनाः पठन्ति- उपसञ्जनिष्यमाणनिमित्तोऽप्यपवाद उपसञ्जातनिमित्त- मप्युत्सर्ग बाधत इति ॥ ६५ ॥ - संज्ञायाः प्रवृत्त्या अभ्यस्तसंज्ञासमकालमेवान्तादेशप्रवृत्तः। अदादेशवैय- य॑स्य सुवचत्वाच्च । लक्षणै कचक्षुष्क इति । लक्षणद्वारैव साधुत्वज्ञानवा- नित्यर्थः ॥ ६३ ॥ लक्ष्यैकचक्षुष्क इति । लक्ष्यसाधुत्वं शास्त्रमन्तरेणैव जानन्नित्यर्थः । ननु तस्य शास्त्रापेक्षा कुत इत्यत आह-तस्यापीति । 'एकः शब्दः सुप्रयुक्तः सम्यगज्ञात: शास्त्रान्वितः स्वर्गे लोके च कामधुगिति' श्रूतेरिति भावः । अत एवेति । परिभाषाद्वयस्य सद्भावादेवेत्यर्थः ।। ६४ ॥ एतन्मूलकमेवेति । वैयर्थ्यमूलकमेवेत्यर्थः । उपसञ्जनिष्यमाणे- ६५. उपसञ्जनिष्यमाण० ] विजयाऽलङ्कृतः [२७९ यत्तु अभ्यस्तसंज्ञासूत्रे कैयटेन प्रकल्प्य चेति प्रतोकमुपादाय यथा 'न संप्रसारणे' इति परस्य यणः पूर्व संप्रसारणं पूर्वस्य तु ति। उत्सर्गशास्त्रप्रवृत्तिसम्भावनाप्रयोज्यापवादशास्त्रवैयर्थ्यसम्भावनायां पूर्वमुत्सर्गशास्त्रप्रवृत्त्यभाव इत्यर्थः । यत्रापवादेन स्वप्रवृत्तियोग्यातिरिक्त- स्वेनोत्सर्गोद्देश्ये सङ्कोचेऽप्यवादस्य वैयर्थ्यमेव तत्रोत्सगैशास्त्रप्रवृत्त्यभाव- संभावनाप्रयोज्यस्वप्रवृत्तिसम्भावनाविषयातिरिक्तत्वेनापि सङ्कोच इति तत्त्वम् । यथा दधतीत्यादौ । अत्रापवादपदेन निषेधपर्युदासापवादाः सर्वे गृह्यन्ते । तेन ररन्धतुरित्यादौ यदि कित्वन्न स्यात्तदा नुमि संय्योगात्परत्वे- नासंयोगादिति स्यादिति सम्भावनायां नुमः पूर्व कित्वन्नात एवनलोपोन, अनुपसर्गाल्लिम्पविन्देत्यादिसूत्रेण उपसर्गयोगात्पूर्व शप्रत्ययेन शेमुचादी- नामिति नुमि उपसर्गयोगे प्रलिम्प इति च न। यदि पूर्वं शप्रत्ययो न स्या- त्तदोपसर्गयोगेऽनुपसर्गादिति निषेधः स्यादिति सम्भावनायाः तत्राऽपि सत्त्वात् प्रफुल्ल इत्यादावुपसर्गयोगात्पूर्व लत्वं न । वागत्रेत्यादावत्रेत्यस्य योगात्पूर्व द्वित्वं न । यत्रापवादोत्सर्गयोः कचित्समकालप्राप्तिस्तत्रायं न्यायो न प्रवर्तते । अत एव गविष्ठिर इत्यत्र गवीति वचनादेवालु- गिति भाष्यं सङ्गच्छते । अन्यथा गोइ इति दशायां यदि लुग् न स्यात्तयवादेशे हलन्तात्परत्वेनालुक्स्यादिति सम्भावनया पूर्वमलुक- स्सिद्धौ गवीति वचनादिति भाष्यमसङ्गतं स्यात् । ऋदुपधेभ्यो लिट: कित्व- मिति वार्तिकमपि सङ्गच्छते । अन्यथा यदि गुणो न स्यात्तदा कित्वेन निषेधस्स्यादिति सम्भावनया पूर्वं गुणाप्राप्त्या तत्करणवैयर्थ्यांपत्तेरिति कश्चित् । वस्तुतो हलदन्तादिति सूत्रे अदन्तग्रहणसामर्थ्यात् लुग्विषये उपसञ्जनिष्यमाणन्यायो न प्रवर्तते। हलन्तादिति विहितविशेषणमिति वा कल्पनया भाष्यसङ्गतेः । ववृक इत्यादौ तु यदि कित्वन्न स्यात्तदा गुणे असंयोगादिति स्यादिति सम्भावनया कित्वमपि न प्राप्नोति पूर्वोक्त- सम्भावनया गुणोऽपि न प्राप्नोतीति कित्वविधानार्थं वार्तिकावश्य- कत्वम् । यत्तु अस्य न्यायस्य वैयर्थ्यविषयत्वे ममन्थतुरित्यादौ असंयोगादि- त्यस्य अपिल्लिकिदित्यस्य च समकालप्रवृत्त्या ररन्धतुरित्यादौ पूर्व कित्वेन नलोपो दुर्वार इति-तन्न। न्यायाप्रवृत्तावपि नित्यत्वेन पूर्व नुम्यसंयोगात्परत्वाभावेन कित्वाप्राप्तः । पर्युदासविषये प्रवृत्तौ ज्ञापक २८० ] परिभाषेन्दुशेखरः [बाधबीजकथने तन्निमित्तः प्रतिषेध इत्युक्तम्-तत्तु तत उत्सर्ग इत्याद्यक्षरार्थाननु- गुणम् । यत्त्वपवादवाक्यार्थं विना नोत्सर्गवाक्यार्थ इति तदर्थ इति- तन्न । अभिनिविशन्ते अपवादविषयमित्यादिपदस्वारस्यभङ्गापत्तेः। पदजन्यपदार्थोपस्थितौ वाक्यार्थबोधाभावे कारणाभावाच्च । यत्र खपवादो निषिद्धस्तत्रापवादविषयेऽप्युत्सर्गः प्रवर्तत एव । यथा वृक्षावित्यत्र 'नादिची ति पूर्वसवर्णदीर्घनिषेधादप्रवर्तमानस्य वृद्धि- बाधकत्वाभावाद् वृद्धिः प्रवर्तते । अत एव तौ सदित्यादि संगच्छते। अत एव निर्देशाद् भ्रष्टावसरन्यायस्यात्र शास्त्रे नाश्रयणम् । ध्वनितं चेदमि'को गुण' इति सूत्रे भाष्य इति भाष्यप्रदीपोद्योते निरूपितम् । अत्र देवदत्तस्य हन्तरि हते देवदत्तस्योन्मजन नेति न्यायस्य विषय एव नास्ति । हते देवदत्त उन्मजनं न, देवदत्त- हननोद्यतस्य तु हनने भवत्येवोन्मजनम् । प्रकृतेऽपि न पूर्वस- वर्णदीर्पण वृद्धेहननं किं तु हननोद्यमसजातीयं प्रसक्तिमात्र प्रसक्तस्यैव निषेधात् । प्रतिपदोक्तत्वमपि निरवकाशत्वे सत्येव बाधप्रयोजकम् । स्पष्टं चेदं शेषाद्विभाषा' इति सूत्रे भाष्ये । तत्र हि शेषग्रहणमनर्थकं ये प्रतिपदं विधीयन्ते ते बाधका भवि- दीर्घोऽकित इत्यकिद्ग्रहणमेवेति दिक् इत्युक्तमिति। एतन्मते प्रकल्प्ये- त्यस्य रचयित्वेत्यर्थः । अननुगुणमिति । उत्तरकालिकत्वस्य क्त्वाप्रत्यये- नैव लाभादिति भावः । अपवादविषयमिति । अस्मिन् व्याख्याने लक्ष्यज्ञानस्यानपेक्षणात् लक्ष्यबोधकापवादविषयशब्दोपादानमनर्थकमिति भावः। कारणाभावाच्चेति। कार्य कारणातिरिक्तस्यानपेक्षणादिति भावः । अनाश्रयणमिति। उद्देश्यतावच्छेदकाक्रान्तेरेव शास्त्रावसरत्वेन तस्यापवादनिषेधस्थलेऽपि सत्त्वेनावसरभ्रष्टत्वाभावाच्च । शेषग्रहणमनर्थ- कमिति। ननु रम्यपथ इत्यादौ प्रतिपदोक्तत्वादप्प्रत्यये कृतेऽपि कप् माभूदित्यर्थमस्त्वित्यत आह-ये प्रतिपदमिति । बाधका इति । स्व- E ६६. अपवादो यद्यन्यत्र चरि० ] विजयाऽलङ्कृतः [ २८१ प्यन्तीत्याशङ्क्यानवकाशा हि विधयो बाधका भवन्ति समा- सान्ताश्च कबभावे सावकाशा इत्युक्तम् । क्वचिदनवकाशत्वाभावे- ऽपि परनित्यादिसमवधाने शीघ्रोपस्थितिकत्वेन पूर्वप्रवृत्तिप्रयोजक बलवत्त्वं प्रतिपदविधित्वेनापि । परनित्यान्तरङ्गप्रतिपदविधयो विरोधिसन्निपाते तेषां मिथः प्रसङ्गे परवलीयस्त्वमिति 'प्रत्ययोत्तर- पदयोश्च' इति सूत्रे कैयटेन पाठात् । अत एव रमे इत्यादौ प्रतिपदोक्तत्वात्पूर्वमेत्व आकारप्रश्लेषादल्यादिलोपो न प्रामो- तीत्याशक्य हस्वात्' इति लोपेन साधितम् ॥ ६५ ॥ नन्वयजे इन्द्रमित्यादावन्तरङ्गस्यापि गुणस्यापवादेन सवर्ण- दीर्घण बाधः स्यादत आह- अपवादो यद्यन्यत्र चरितार्थस्तयन्तरङ्गेण बाध्यते ॥६६॥ निरवकाशत्वरूपस्य बाधकत्वबीजस्थाभावात्। एवं च प्रकृतेऽन्त- प्रवृत्त्युत्तरमपि कपं वारयिष्यन्तीत्यर्थः। अनवकाशा होति । तथा च येन नाप्राप्तन्यायस्थले एव तथा बाधो नान्यत्रेति भावः। न च तेनैव बाधोऽस्त्वित्यत आह-समासान्ताश्चेति । तथा च प्रतिपद्विधित्वं शीघ्रोपस्थितिनिमित्तकत्वरूपमन्तरङ्गत्वमेव नातिरिक्तं बाधनिमित्तमिति बोध्यम् ॥६५॥ बाकत्वबीजस्याभावादिति । अन्तरङ्गपरिभाषामबाधित्वैव येन नाप्राप्तन्यायेन गुणं बाधित्वा दैत्यारिरित्यादौ चरितार्थस्य सवर्ण- दीर्घस्यान्तरङ्गपरिभाषाबाधकत्वे मानाभावः। किञ्चापवादत्वेपि व्याप्य- विषयतया व्यापकविषयतायां सङ्कोच एव स्यात् । तथा चावणे सव- जव्यवहितपूर्वागितरत्वेनाचि वा अगव्यवहितोत्तरत्वविशिष्टसवर्णा- भिन्नत्वेन सङ्कोचेऽपि अयज इ इन्द्रमित्यादौ गुणप्रवृत्तिरप्रतिहतैवेति नापूर्वेयं परिभाषेति तत्त्वम् । अत एव पूर्वोपस्थितिनिमित्तकस्वरूपान्तरङ्ग- त्वविषय इदमिति वक्ष्यते । तादृशान्तरङ्गस्थले एवापवादशास्त्रीयव्याप्य- विषयतया व्यापकविषयतायां सङ्कोचेऽपि उत्सर्गशास्त्रस्यापवादशास्त्रवि- षये प्रवृत्तियोग्यता । अत एवावशब्दादाचारकिबन्तात् कर्तरि किपि २८२ ] परिभाषेन्दुशेखरः [बाधबीजकथने रङ्गेण गुणेन सवर्णदीर्घः समानाश्रये चरितार्थो यण्गुणयोरपवादो- पि बाध्यते । पूर्वोपस्थितनिमित्तकत्वरूपान्तरङ्गविषय इदम् । यत्त्वा- गमादेशयोन बाध्यबाधकभावो भिन्नफलत्वादत एव ब्राह्मणेभ्यो दधि दीयतां कम्बलः कौण्डिन्यायेत्यादौ कम्बलदानेन न दधिदा- नबाध इति च्छ्वोः' इति सूत्रे कैयटः-तन्न । अपवादो नुगदीर्घ- त्वस्येति 'दी? कितः' इति सूत्रस्थभाष्यविरोधात् ॥ ६६ ॥ नन्वजीगणदित्यादौ गणेरीत्वं निरवकाशत्वाद्धलादिः शेष बाधेत तत्राह- अभ्यासविकारेषु बाध्यबाधकभावो नास्ति ॥ ६७ ॥ 'दीर्घोऽकितः' इत्यत्राकिद्ग्रहणमस्या ज्ञापकम् । अन्यथा यंय- - ऊरित्यत्र समानाश्रये चरितार्थ ऊठ अक्षयूरित्यत्रान्तरङ्गत्वादलि लोपेन बाध्येतेत्यपास्तम् । अपवादत्वात्सङ्कोचेन वलि लोपाप्राप्तेः । यणगुणयो- रपवाद इति । ननु यणि सिज्लोपस्यासिद्धतया एकादेशे च सिद्धतया यणगणयोरप्राप्तियोग्ये आतीदित्यादौ दीर्घस्य चारितार्थेन कथमपवाद- त्वमिति चेत्-न । एकादेशविषये अविशेषात्सर्वं प्रति सिज्लोपस्सिद्ध इति तद्वार्तिकस्यार्थाद्यणोऽपि तत्र प्राप्तिसत्त्वात् । न ह्येकमुदाहरण- न्यायेन सिज्लोप एकादेशो भवतीत्यर्थकवार्तिकेनैव सिद्धे अकस्सवर्ण इत्यस्याचारितार्थ्यात् । सिज्लोपस्यासिद्धत्वेन यणः प्रवृत्त्यभावेऽपि उद्देश्यतावच्छेदकाक्रान्तिरूपाया यणः प्राप्तस्तत्रापि सत्त्वाच्च ॥६६॥ निरवकाशत्वादिति।गणरूपस्याभ्यासस्येत्वमित्यर्थकस्येचगण इत्य- स्य हलादिः शेषेण णकारलोपे निरवकाशत्वम्बोध्यम् । बाधेतेति । बाधे हि णकारस्यत्वे हवे च कृते अग्लोपित्वाद्दीर्घाभावे अजिगणदिति स्यादिति बोध्यम् । अकिद्ग्रहणस्य ज्ञापकत्वमुपपादयति-अन्यथेति । परिभाषाया अभावे इत्यर्थः। दीर्घाप्राप्तियोग्ये अचरितार्थत्वेनानवकाश- त्वादीर्घ बाधित्वा नुकि कृते अनजन्तत्वाद्दीर्घाप्राप्त्या अकिद्ग्रहणं व्यर्थन्तेन परिभाषाज्ञापने तु नुकः पूर्व दीर्घो माभूदित्यकिद्ग्रहणम् । न च तस्यामवस्थायां अभ्यासस्याकित एव सत्त्वेन कृतेऽप्यकिद्ग्रहणे ६७. अभ्यासविकारेषु.] विजयाऽलङ्कृतः [ २८३ म्यते इत्यत्र नुकि कृतेऽनजन्तत्वादीर्घाप्राप्तौ तद्वैयर्थ्यं स्पष्टमेव । इयं च परान्तरङ्गादिवाधकानामप्यवाधकत्वबोधिका । तेनाचीकरत् मी- मांसत इत्यादि सिद्धम् । आये सन्वद्भावस्य परत्वाद्दीधैंण बाधः दीर्घो दुर्वार इति वाच्यम् । यदि दीर्घो न स्यात्तदा नुकि कृते अकिदिति निषेधः स्यादिति सम्भावनायाःसत्त्वेनोपसञ्जनिष्यमाणन्यायेन पूर्व दीर्घा प्राप्तेरकिद्ग्रहणाभावे तु बाधकसम्भावनाया अप्यभावेन दीर्घो दुर्वारः स्यादित्यकिद्ग्रहणं चरितार्थम् । न च नुकि कृते अनजन्तत्वेन दीर्घाप्राप्त्या- ऽकिद्ग्रहणं व्यर्थमेवेति वाच्यम् । यावत्पर्यन्तं व्यर्थं तावज्ज्ञाप्यमिति न्यायाद्वैयधिकरण्यान्वयस्यापि ज्ञापनात्। न च परिभाषाज्ञापनोत्तरमपि वैयधिकरण्यान्वयस्यावश्यज्ञापनीयत्वेनावश्यकत्वात्तदेव ज्ञाप्यतां नुकि दीर्घाभावाय चरितार्थं स्यादिति परिभाषायां न प्रमाणमिति वाच्यम् । अभ्यासे हस्व इत्यनेन हस्वस्यैव सत्त्वेन तपरकरणसामर्थ्यादौपदेशिक- ह्रस्वस्यैव ग्रहणम् । अत एव भामधातोः बाभाम्यत इत्यत्र ह्रस्वे कृतेऽपि न नुक् । तथा च दीर्घ कृतेऽप्यौपदेशिकह्रस्वत्वमादाय नुकः प्रवृत्त्या तक्र- न्यायेनैव दीर्घस्य बाधेन कृते नुकि दीर्घाप्राप्त्या किग्रहणवैयर्थ्यस्य तद्व- स्थत्वात् । न चेदानी परिभाषाया अभावेन तक्रन्यायेन ह्रस्वं बाधित्वा बाभाम्यत इत्यत्र नुको व्यावृत्त्यर्थन्तपरकरणस्य चारितार्थ्येनौपदेशिके- त्यर्थाभावेन कृते दीर्धेऽप्यचारितार्थ्येन निरवकाशत्वेनैव दीर्घ बाधित्वा नुकि दीर्घाभावाय चरितार्थमकिग्रहणं न परिभाषाज्ञापकं स्यादिति वाच्यम् । बनीवच्यते चकरीतीत्यादौ तक्रन्यायेनैव नीगादिना दीर्घस्य बाधेन दीर्घाप्राप्तेः यंय्यम्यत इत्येतन्मात्रार्थत्वे पदलाघवात् न ह्येकमुदा- हरणमिति न्यायाच्चानुक इत्येव सिद्धेऽकिग्रहणस्य वैयर्थेन परिभा- षाज्ञापकत्वसम्भवात् । ननु छो धातोर्यङि प्रात्वे द्वित्वे चाच्छायत इत्यत्रा- न्तरङ्गत्वात्तुकि दीर्घव्यावृत्त्यर्थमकिद्ग्रहणमस्तु । न ज्ञापकमिति चेत् । प्रत्यासत्त्याभ्यासत्वावच्छिन्नोद्देश्यताकस्यैव कितो ग्रहणेन यङ् यङ्लुग्- निमित्तकस्यैव कितो ग्रहणेन वा चाच्छायत इत्येतद्व्यावर्त्तकत्वाभावा- दत एव जहाते: जहातीत्यादावभ्यासस्य व्यपदेशिवद्भावेन किद्घटि- तत्वेन किद्धटितभिन्नस्येत्यर्थकस्याकित इत्यस्य न व्यावय॑त्वमिति ज्ञापकं सुवचम् ।

२८४ ] परिभाषेन्दुशेखरः [ बाधबीजकथने प्रामोति । अन्त्ये मान्बधेतिदीर्घेणान्तरङ्गत्वादित्वस्य बाधः प्राप्तः । यत्तु यत्रैकैकप्रवृत्त्युत्तरमपि सर्वेषां प्रवृत्तिस्तत्रैवेदमित्यत 'एक' इति सूत्र कैयट:-तभ । नुकि कृते दीर्घाप्राप्त्या धर्मिग्राहकमान- विरोधात् । मान्वधादीनां दीर्धे कृते इत्वाप्राप्त्या गुणो यङ्लुको' इति सूत्रस्थभाष्योक्ततदुदाहरणासङ्गतेश्चेत्यन्यत्र विस्तरः ॥ ६७ ॥ ननु नुकोऽनुस्वारे तस्य वर्णसमाम्नाये पाठेनाच्वात् चरिकील्यादौ रिगागमे अजन्ताभ्यासस्यैव सत्त्वेन च सामानाधिकरण्येऽप्यकिद्ग्रह्णस्य तव्यावर्तकत्वेन चारितार्थ्यान्न वैयधिकरण्यान्वयज्ञापकत्वमिति चेत्-न। दीर्घसाहचर्येणाभलुभयानात्मकस्यैवाचो ग्रहणाद्वर्णसमाम्नाये तत्पाठ- स्यानित्यत्वाच्च । रीगागमेनैव सिद्धे रिगागमसामर्थ्याच्च तत्र दीर्घाप्रवृत्ते- स्सिद्धत्वेनाकिद्ग्रहणस्य तव्यावर्तकत्वाभावेन वैयर्थ्यात् । ननु एकैकप्रवृत्त्युत्तरं यत्र सर्वेषां प्रवृत्तियोग्यता तत्रैवेयं प्रवर्तत इति कैयदाशयः यंयम्यत इत्यत्र नुमुत्तरमकित इति निषेधेऽपि वैयधि- करण्यान्वयेन दीर्घप्रवृत्तियोग्यताऽस्त्येवेति न धम्मिग्राहकमानविरोध इति चेदाह-मान्बधेति । नन्वत्रापि अभ्यासस्यायमाभ्यास इति व्युत्प- त्या अभ्यासस्थानिकस्याचो दीर्घ इत्यर्थेन परिभाषां विनापीत्वस्यैव पूर्व प्रवृत्त्या दोषाभाव इत्यत आह-गुणो यङ्लुकोरिति । तत्र डोढौक्यत इत्यत्र ह्रस्वं परत्वाद्बाधित्वा दीर्घस्स्यादित्याशङ्कयाभ्यासविकार- परिभाषया पूर्व हस्ते दीर्घं बाधित्वा गुणे डोढौक्यत इति सिद्ध्यती- त्युक्तम् । तत्र हस्वोचरं दीर्घापवादगुणस्यैव प्रवृत्त्या बाध्यबाधकयोह- स्वदीर्घयोरेकप्रवृत्त्युत्तरमुभयोः प्रवृत्त्यभावेन तदसङ्गत्यापत्तिः । योग्यताप- यन्ताशयवर्णनेन तु गुणेन बाधेऽपि दीर्घप्रवृत्तियोग्यतायास्सत्त्वेनात्रापि न दोष इति बोध्यम् । नन्वभ्यासविकारे बाध्यबाधकभावाभावेऽनया बोधिते केन भाव्यमिति चिन्तायां यथासमावेशस्तथा भवतीत्यर्थस्यैव लाभेन बोभूयत इत्यादौ गुणे हस्वस्य ह्रस्व गुणस्य प्रवृत्तिसम्भवेन परत्व- रूपाधिकबलेन पूर्वं गुणे ह्रस्वे लक्ष्ये लक्षणन्यायेन पुनर्गुणाप्रवृत्तौ बोभू- यत इत्यसिद्धिः । न च गुणस्य वैययं डोढौक्यत इत्यत्र ह्रस्वं विना इको भावेन ह्रस्वस्यैव पूर्व प्रवृत्त्या ततो गुणार्थन्तस्य सार्थक्यात् । अतो बाध्याः पूर्व प्रवर्त्तन्त इत्येव परिभाषार्थ इति न दोष इति बोध्यम् । विव्यथ इत्यादौ व्यथो लिटीत्येतदपेक्षया बाध्यस्य हलादिः शेष इत्यस्य पूर्व ६६. क्तल्युट्तुमुन्खलर्थेषु० ] विजयाऽलङ्कृतः [२८५ ननु तच्छीलादितृन्विपये ण्वुलपि स्यात् । न च तुन्नपवादो- ऽसरूपापवादस्य विकल्पेन बाधकत्वात् । अत आह- ताच्छीलिकेषु वासरूपविधिर्नास्ति ॥ ६८ ॥ एलि सिद्ध निन्दहिंसादि'सूत्रेणैकाजम्यो वुविधानमत्र ज्ञापकम् । तत्र एवुल्वुजोः स्वरे विशेषाभावात् । ताच्छीलिकेष्विति विषयसप्तमी । तेन ताच्छीलिकैरताच्छीलिकैश्च वासरूपविधिनेति बोध्यम् । नन्वेवं कम्रा कम्पनेत्याद्यसिद्धिर्नमि कम्पीति रेणानुदाते- तश्च 'हलादेरिति युचो बाधादिति चेत्-न । 'सूददीपदीक्षश्च'त्यनेन दीपेयुनिषेधेनोक्तार्थस्यानित्यत्वात् ॥ ६८ ॥ नन्वेवं हसितं छात्रस्य हसनमित्यादौ घञ् इच्छति भोक्तु- मित्यत्र लिङ्लोटावीषत्पानः सोमो भवतेत्यत्र खल् प्रामोतीत्यत आह- तल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नास्ति ॥ ६६ ॥ इदं च वासरूपविधेरनित्यत्वात्सिद्धम् । तदनित्यत्वे ज्ञापकं चाहे कृत्यतृचश्चेति । तत्र हि चकारसमुचितलिङा कृत्यतृचोर्वाधो प्रवृत्तौ वकारस्य सम्प्रसारणापत्तिरिति तु न वाच्यम् । उभयेषां ग्रहणसा- मर्थ्येन सम्प्रसारणतदाश्रयकार्ययोर्बलवत्वबोधनादिति दिक् ॥ ६७ ॥ तच्छीलादीति । कर्तृसामान्ये विहितस्य एवुलस्ताच्छील्यविशिष्टे कर्तरि विधाने बाधकाभावादिति भावः। एकाभ्य इति । एकाचि बिग्निमित्तकायुदात्तत्वे लिग्निमित्तकान्तोदात्तत्वे विशेषाभावादिति भावः। विषयसप्तमीति । तेनैकस्यापि ताच्छीलिकत्वे इयं प्रर्चत इति बोध्यम् । नन्वेवमिति । ताच्छीलिकेषु वासरूपविध्यभाव इत्यर्थः । दीपेर्युनिषेधेनेति । नमिकपीति। रेणबाधादेव युचोऽभावसिद्धे- रिति भावः॥१८॥ प्राप्नोतीति । वासरूपविधेरिति शेषः । कृत्यतृचोर्बाध इति । वास- - २८६ ] परिभाषेन्दुशेखरः [ बाधबीजकथने मा भूदिति कृत्यतचोर्ग्रहणं क्रियते इत्यन्यत्र विस्तरः। 'वासरूप सूत्रे भाष्ये स्पष्टा ।। ६६॥ ननु श्वः पक्तेत्यत्र वासरूपविधिना लुडपि प्रामोति कृते आदेशे वैरूप्यादत आह- लादेशेषु वासरूपविधिर्नास्ति ॥ ७० ॥ आदेशकृतवैरूप्यवत्सु लकारेषु स नास्तीत्यर्थः । अत्र च 'हशश्वतोर्लङ च' इति लविधानं ज्ञापकम् । अन्यथा 'परोक्षे' इति लिटा लङः समावेशोऽसारूप्यात्सिद्ध इति किं लविधानेन । शत्रादिभिस्तिडां समावेशार्थ शतृविधायके विभाषाग्रहणानुवृत्ति- 'लिटः कानज्वेति वाग्रहणं च कृतं-तज्ज्ञापयति-वासरूप'- सूत्रेऽपवाद आदेशत्वानाक्रान्तः प्रत्यय एव गृह्यत इति कैयटादौ ध्वनितम् । तत्फलं तु पक्षे तिङ् इति बोध्यम् ॥ ७० ॥ 'ङमो हस्वाद्' इत्यादौ ङमः परस्याचोऽचि परतो ङम इति वेति सन्देहः स्यादत आह- रूपविधेनित्यत्वे तु बाधेऽपि पक्षे कृत्यतृचोः सिद्धेस्तयोवैयर्थ्यमिति बोध्यम् । वासरूपविधेरनित्यत्वादेवोभयोः परिभाषयोस्सिद्धौ पृथक् ज्ञापनं प्रपञ्चार्थम् ॥ ६९॥ ननु श्वः पक्तेति । ननु नानुबन्धकृतमसारूप्यमिति परिभाषया लुट्लुटोरसारूप्याभावादेव वासरूपविध्यभावः। तदादेशयोश्चोत्सर्गाप- वादत्वाभावः। अत एव हशश्वतोर्लङ चेति लविधानमपि न व्यर्थमिति चेत् अत्रोच्यते । लकारे वासरूपविध्यभावाय न परिभाषा प्रारभ्यते- ऽपि तु लादेशेषु तदभावाय परिभाषा प्रारभ्यते । तत्रैव शतृविधायके विभाषाग्रहणानुवृत्तिः लिट: कानज्वेति वाग्रहणश्च प्रमाणम् । अत एव परिभाषायामपि लादेशेष्वित्येवास्ति न तु लकारेष्विति ॥ ७० ॥ "परिनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीय' इत्यस्या व्याख्यानमेत- त्पर्य्यन्तम्विधाय बलीयःपघटितत्वसाधर्म्यणोपस्थितामुभयनिर्देश इति परिभाषां व्याख्यातुमाह-नन्विति । सन्देह इति । ङमो ह्रस्वा- ७१. उभयनिर्देशे पञ्चमी०] विजयाऽलङ्कृतः [ २८७ उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् ॥ ७१ ॥ दचीत्यादौ हस्वादिति पञ्चमीनिर्देशादुपस्थितस्योचरस्येत्यस्य अचीति सप्तमीनिर्देशादुपस्थिते पूर्वपदार्थे तस्य बोत्तरपदार्थेऽभेदेनान्वयात् ङमः पराभिन्नो योऽचः पूर्वस्तस्य ङमुट् । अचः पूर्वाभिन्नो यो ङमः परस्तस्ये- त्यर्थो वा। प्रत्यङ् अात्मेत्यत्र ङमः पराभिन्नस्याच: पूर्वस्य कस्याप्यभावेन सूत्राप्रवृत्तावपि प्रत्यङपरम अात्मेत्यादौ तथाभूतस्य परम इत्यस्य सत्त्वेन तत्र सूत्रस्य चारितार्थ्यसत्त्वेन न सन्देहस्सम्भवतीति न वाच्यम् । इदमत्र चिन्त्यम् । उपस्थितयोः पूर्वपरयोः परस्परमनम्बयेऽपि बाधकाभावेन विशेष्यविशेषणभावे विनिगमकाभावेन च द्वयोर्डमु- पदार्थे एवान्वये उद्देश्यभेदेन विधेयस्यापि भेदापत्त्या हस्वात्परो यो उम् तदन्तं यत्पदं तत: परस्य ङमुट् । अचः पूर्वस्य ङमुडिति वाक्यभेदापत्तिः । सम्भवत्येकवाक्यत्वे वाक्यभेदो न युक्तो गौरवादिति पूर्वस्येत्यस्य परपदार्थे परस्य वा पूर्वपदार्थेऽभेदेनान्वयेऽभेदेन विशेषण- पदोत्तरविभक्तनिरर्थकतया षष्टयर्थबाधस्यावश्यकत्वेन तदंशविकलं पूर्वत्वं परत्वं वा परिभाषयोपस्थाप्यं पूर्वस्य विशेष्यत्वविवक्षायां परत्वं षष्ठयर्थ- विकलमुपस्थाप्यं तस्य च परत्वस्य पूर्वपदार्थेऽन्वयोऽच्पदार्थे वान्वय इति विचारे श्रुतत्वात् अपदार्थ एवान्वय उचितः। परपदार्थस्य विशेषत्व- विवक्षायां पूर्वत्वं तथाभूतमुपस्थाप्यम् । तस्य च श्रुतत्वात् परपदार्थेऽन्वयं विहाय उम्पदार्थे एवान्वयः। तथा च ङमः परो योऽच् तत: पूर्वस्य ङमु- डित्यर्थे ङमो ङमुट प्राप्तः । अचः पूर्वो यो ङम् ततः परस्य ङमुडित्यर्थेऽचो ङमुट प्राप्त इति विभिन्नविषयत्वात् सन्देहोपपत्तिः । तत्र तस्मिन्निति तस्मादिति परिभाषयोः मध्ये यस्या बलवत्वं तयैव प्रथमं स्वविधेयमु- पस्थाप्यम् । तस्य विशेष्यत्वसम्भवेन विशेषणत्वाभावात् विशेष्यत्वं, पश्चादपरयोपस्थाप्यस्य विशेषणत्वं ङमो ह्रस्वादचीत्यादौ पञ्चमी निर्देशस्यानवकाशत्वेन तस्मादित्यस्या एव बलवत्वमिति तस्मादिति परिभाषयैव प्रथमं स्वविधेयमुपस्थाप्यम्। शितुगित्यादौ सप्तमीनिर्देशस्य निरवकाशत्वेन तस्मिनित्यनयैव प्रथमं स्वविधेयमुपस्थाप्यमिति तत्फ- लितमाह-उभयनिर्देशे पञ्चमीनिःशो बलीयानिति ॥ ७१ ॥ इति विजयायां बाधबीजकथनप्रकरणं समाप्तम् अथ शेषार्थकथनप्रकरणम् यत्र तु २८८ ] परिभाषेन्दुशेखरः [ शेषार्थकथने अचीति सप्तमीनिर्देशस्य मय उन इत्युत्तरत्र चारितार्थ्या- त्पञ्चमीनिर्देशोऽनवकाश इति तस्मादित्युत्तरस्येत्यस्यैव प्रवृत्तिः । 'ड: सि धुडि'त्यादावुभयोरप्यचारितार्थ्यं तत्र 'तस्मिन्निति सूत्रापेक्षया 'तस्मादित्युत्तरस्य'त्यस्य परत्वात्तेनैव व्यवस्था। एव- मुभयोश्चारितार्थेऽपि यथामि सर्वनाम्न इत्यादौ। तत्रामीति सप्तमी 'स्त्रय' इत्यत्र चरितार्था । आदिति पञ्चमी 'आज्जसेरसुगि'त्यत्र चरितार्थेति स्पष्टं 'तस्मिन्निति सूत्रे भाष्ये कैयटे च ॥ ७१ ॥ इति परिभाषेन्दुशेखरे बाधबीजकथनप्रकरणं समाप्तम् अथ शेषार्थकथनप्रकरणम् नन्वतः कृकमी ति सत्वमयस्कुम्भीत्यत्र न स्यात् कुम्भशब्द- स्यैवोपादानादत आह- प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् ॥ ७२ ॥ सामान्यरूपेण विशेषरूपेण वा प्रातिपदिकबोधकशब्दग्रहणे अतः कृकमीति । विसर्जनीयस्य कुम्भरूपोत्तरपदपरत्वाभावात् अयसः कुम्भीति समासेड्यन्तस्यैव तत्त्वात् कुम्भादाबुत्तरपद इत्यर्थः। केन चिदुत्प्रेक्षितस्तु हेय एव। तदादिविधिप्रापकाभावात् एकदेशविकृतन्यायो- पन्यासोऽपि तथैव भकारान्तस्य तेन न्यायेन कुम्भशब्दत्वेऽपि तस्यो- त्तरपदत्वाभावात् ङ चन्तस्य तेन न्यायेन तत्त्वन्तु दुरुपपादमेव । तस्य तदेकदेशविकृतत्वाभावात् । प्रातिपदिकग्रहणं प्रातिपदिकबोधकपदे उच्चारिते सति प्रत्यासत्त्या तेनैव पदेन लिङ्गबोधकप्रत्ययविशिष्टस्य ग्रहणं बोधनं भवतीत्यर्थः । ननु अत इजित्यादौ अत्पदस्यापि अदन्तप्राति- पदिकबोधकत्वेन रमा गौरीत्यादिलिङ्गविशिष्टबोधकत्वापत्तिरित्यत आह- सामान्यरूपेणेत्यादि । प्रातिपदिकत्वतव्याप्यानुपूर्वीप्रकारेण बोधके ७२. प्रातिपदिकग्रहणे लिङ्ग ] विजयाऽलङ्कृतः [ २८६ सति लिङ्गबोधकप्रत्ययविशिष्टस्यापि तेन ग्रहणं बोध्यम् । अपिना केवलस्यापीत्यर्थः । अस्याश्च ज्ञापक समानाधिकरणाधिकारस्थे 'कुमारः श्रमणादिभिः' इति सूत्रे स्त्रीलिङ्गश्रमणादिशब्दपाठः। स्त्रीप्रत्ययविशिष्टश्रमणादिभिश्च कुमारीशब्दस्यैव सामानाधिकरण्यं न तु कुमारशब्दस्येतितदेतज्ज्ञापकम् । इयं च द्विषत्परयोरि'त्याधुप- पदविधौ समासान्तविधौ, महदाचे, जित्स्वरे, राज्ञः खरे, ब्राह्मण- सतीत्यर्थः । अत्पदञ्चादन्तत्वप्रकारेण बोधकम् । अदन्तत्वञ्च न प्रातिपदि- कत्वरूपन्तद्व्याप्यं वेति न दोषः । नन्वेवं स्त्रीलिङ्गाश्रमणाशब्दपाठस्य ज्ञापकत्वानापत्तिः । कुमारत्वस्य कुमारक्रीडायामिति धातावपि सत्त्वेन प्रातिपदिकत्वव्याप्यत्वाभावेन तेन रूपेण बोधककुमारशब्दे परिभाषाया अप्रवृत्तौ ज्ञापितायामपि स्त्रीलिङ्गनिर्देशानुपपत्तेः तादवस्थ्यादिति चेत् न। प्रातिपदिकत्वव्याप्यशाब्दबोधीयविषयताप्रयोजकस्यैव प्रातिपदिकग्रहण- पदेन ग्रहणात् कुमारः श्रमणेति सूत्रेण कुमारप्रकृतिकसुबन्तस्यैव बोधेन तत्रत्यकुमारपदप्रयोज्यविषयताया प्रातिपदिकत्वव्याप्यत्वेनादोषात्। नन्वे- वमत इनित्यत्रापि प्रातिपदिकाधिकाराददन्तप्रातिपदिकस्यैव ग्रहणेनाद- न्तत्वावच्छिन्नशाब्दीयविषयताया अपि प्रातिपदिकत्वव्याप्यत्वेनात्पद- स्यापिप्रातिपदिकग्रहणत्वापत्तिरिति चेत्-न। प्रातिपदिकत्वावच्छिन्नविशे- ध्यतानिरूपिताभेदसम्बन्धावच्छिन्नप्रकारताभिन्नविषयताया एव ग्रहणेना- दोषात् । अदन्तत्वावच्छिन्नविषयतायास्तादृशप्रकारताभिन्नत्वाभावात्। इयं अनित्यत्वाद्यत्र यत्र न प्रवर्तते तानि परिगणयति-द्विषत्परयोरि- त्यादि। द्विषत्पदे अस्या अप्रवृत्त्या द्विषतीताप इत्यत्र न खश्। समासान्त- विधावप्रवृत्त्या मद्राणां राज्ञी मद्रराज्ञीत्यत्र राजाहस्सखिभ्य इति टच न । महदात्वे अप्रवृत्त्या महती प्रिया यस्य स महतीप्रियः इत्यत्रान्महत इत्या- त्वन्न। बित्स्वरे अप्रवृत्त्या इञ्प्रत्ययान्तदाक्षिशब्दान्कीषि दाक्षीत्यत्र बित्प्र- त्ययान्तत्वमादायाधुदात्तत्वन्न। राज्ञः स्वरे ब्राह्मणकुमारयोः ब्राह्मणकुमार शब्दयोः परयोः राजन्शब्दस्य विधीयमानः प्रकृतिस्वरः राजब्राह्मणी राजकुमारीत्यत्र न । तत्रत्यब्राह्मणकुमारशब्दयोरेतस्या अप्रवृत्तेः बहोर्न- वदुत्तरपदभूम्नीत्यादौ समाससङ्घातग्रहणेषु चेति अनेनोत्तरपदार्थगत- बहुत्वबोधकबहुशब्दपूर्वपदकसमासे बहवो गोमन्तो यस्मिन् स बहुगोमा- १६ २६० ] परिभाषेन्दुशेखरः [ शेषार्थकथने कुमारयोः, बहोनवदुत्तरपदभूम्नीत्यादौ समाससङ्घातग्रहणेषु च न प्रवर्तत इति 'झ्याप्'सूत्रे भाष्ये स्पष्टम् । विभक्तिनिमित्तक- कार्ये च नेत्यपि तत्रैव । तत्र समासान्तविधाववयवग्रहणे एव न । समाससङ्घातग्रहणे तु प्रवर्तते एव । स्वरविधावेव समाससंघात- ग्रहणे तत्र दोषोक्तेः । 'बहुव्रीहेरूधस' इति सूत्रभाष्याच्च । एता- वत्स्वेवानित्यत्वादप्रवृत्तिदोषाः खल्वपि साकल्येन परिगणिता इति भाष्योक्तेः। नन्वेवं 'बहुव्रीहेरूषसो ङीष्' इति सूत्रस्थभाष्यासङ्गतिः । तत्र हि कुण्डोनीत्यत्र 'नवृतश्चेति कबापादितो नद्यन्तबहुव्रीहेरि- नित्यादौ नपूर्वपदकसमासस्य विधीयमानमन्तोदात्तत्वं यथा अतिदिद- श्यते तथा बहवो गोमन्तो यस्यां सा बहुगोमती इत्यत्राप्यनया उत्तरपदा- थंगतबहुत्वार्थकबहुशब्दपूर्वपदकसमासत्वं बहुगोमतीत्यत्रानीयान्तोदा- त्तत्वं न भवति । तत्रत्यसमाससङ्घाते अस्या अप्रवृत्तेः । समाससङ्- घातग्रहणे त्विति । इदन्न स्वतन्त्रमप्रवृत्तिस्थलमपि तु बहोर्नजित्यने- नान्वितं तेनान्यत्र समाससङ्घातेऽपि प्रवर्त्तत एवात एव बहुब्रीहेरू- धस इति सूत्रस्थभाष्यविरोधो न। एवं समासान्तविधावप्रवृत्तिरपि समा- सावयवे राजादावेव । तेन समासान्तविधावपि समाससङ्घातग्रहणे प्रवर्त्तत एव । अत एवोधश्शब्दान्तबहुव्रीहित्वमनया ङीषन्त श्रानीय कबापादितो बहुव्रीहेरूधस इति सूत्रभाष्ये । तेन अतिशयितो भ्राता यस्याः सा अतिभ्रात्रीत्यत्र ऋदन्तोचरपदकबहुव्रीहित्वमनया ड्यन्ते श्रानीय प्राप्तस्य नित्यकपः पूजितार्थकभ्रातृशब्दान्तबहुव्रीहित्वमनया ड्यन्त आनीय वन्दिते भ्रातुरित्यनेन निषेधः । कस्य चित्रातिभ्रात्री- घटितद्वितीयसमासकरणबीजन्तु नावधारयामः । एतत्सर्व स्पष्टपति- पत्तये वक्ष्यते मूले-तत्र समासान्तविधावित्यादिना। विभक्ति- निमित्तकेति । तेन बहुगोमतीत्यत्रोगिदचामिति नुम् न । साकल्येन परिगणिता इति । सकलाः परिगणिता इत्यर्थः । नन्वेधमिति । प्रातिपदिकत्वतयाध्यानुपूर्वीप्रकारेण प्रातिपदिक- ।

७२. प्रातिपदिकग्रहणे लिङ्ग] विजयाऽलङ्कृतः [ २६१ त्यर्थात्, नद्यन्तस्य बहुव्रीहित्वाभावात्तदसङ्गतिः । नद्यन्तानां यः समास इत्यर्थेन परिहतम् । नद्यन्तप्रकृतिकसुबन्तोत्तरपदकः समास इतीति चेत्-न । अनया परिभाषया स्त्रीप्रत्ययसमभिव्याहारे तद्रहिते दृष्टानां प्रातिपदिकत्वतद्व्याप्यधर्माणां विशिष्टेपि पर्याप्त- त्वमतिदिश्यते इत्याशयात् ॥ ७२ ॥ ग्रहणे एवास्याः प्रवृत्तावित्यर्थः। तदसङ्गतिरिति। नछूतश्चेति सूत्रे निरुक्तोमयप्रकारेण प्रातिपदिकबोधकपदाभावेन प्रातिपदिकग्रहण इत्य- स्या अप्रवृत्तेरिति भावः । प्रातिपदिकत्वव्याप्यधर्ममात्रस्य ग्रहणं न तु श्रानुपूर्त्या एवेत्याग्रह इति भावः । तेन बहुव्रीहित्वस्य तद्व्याप्यत्वेन परिभाषाप्रवृत्तिः सुलभेति न दोषः। ननु लिङ्गबोधकप्रत्ययविशिष्टस्य ग्रहणं परिभाषया बोधितमपि न भवितुमर्हति । प्रातिपदिकबोधक- पदस्य तत्र शक्तिलक्षणयोरभावात् । ताभ्यामुपस्थितस्यैव च शाब्दधी- विषयत्वात्तत्राप्यन्यथानुपपत्त्या लक्षणास्वीकारे तु केवलस्याग्रहणप्रसङ्गः । एकेन पदेन शक्यलक्ष्ययोर्युगपद्बोधस्यादर्शनादित्यत आह-प्रतिदिश्यत इति । स्वविशिष्टे स्ववृत्तीनां वर्णत्वव्याप्यधघिटितधर्माणामारोपोऽ- नया बोध्यत इति बोध्यम् । वैशिष्ट्यञ्च स्वनिष्ठाद्यवयवतानिरूपकत्व- स्वविशिष्टोद्देश्यतानिरूपितविधेयताश्रयीभूतलिङ्गबोधकप्रत्ययनिष्ठचरमा- वयवतानिरूपकत्वोमयसम्बन्धेन । तत्र वैशिष्टयं स्वपर्याप्तत्वस्वघटितप- र्याप्तत्वान्यतरसम्बन्धेन बोध्यम् । यथा कुमारशब्दविशिष्टः कुमारीश- ब्दः। तत्र स्वं कुमारशब्दस्तदाद्यवयवकत्वस्य स्वपर्याप्तोदेश्यताघटितापर- सम्बन्धस्य च सत्त्वात् । तत्र स्ववृत्तिकुमारत्वस्यारोपेण सूत्रस्थकुमारपदेन कुमारीशब्दस्य कुमारशब्दस्य च लक्षणां विनैव बोधोपपत्तिः। शक्य- तावच्छेदकारोपस्य लक्षणात्वे तु न विद्वेषः । अय इव कौँ यस्यास्सा अय- स्कर्णीत्यादौ अयस्कर्णप्रकृतिकङीषन्तकीशब्दस्यार्थवत्त्वाभावेन कर्णी- शब्देन ग्रहणाभावे सत्त्वं न स्यादिति नाशङ्कनीयम् । अनया कर्ण- शब्दगतार्थवत्त्वस्य कर्णीशब्द आरोपात्। एतदर्थमेव द्वितीयसम्बन्धघ- टकोद्देश्यतायां स्वघटितपर्याप्तत्वस्य निवेशः। अत एव च दीर्घमुख- मानिनीत्यादौ अमानिनीति वक्तव्यमिति निषेधेन क्यङमानिनोश्चेति प्राप्तपुम्वद्भावस्य स्वाङ्गाच्चेत इति निषेधः प्रतिषिध्यते । अन्यथा दीर्घ- २६२] परिभाषेन्दुशेखरः [ शेषार्थकथने नन्वेवं यूनः पश्येत्यत्रेय युवतीः पश्येत्यत्रापि 'श्वयुवेति संप्रसारणं स्यादत आह- मुखमानिनशब्दप्रकृतिकड यन्तमानिनीशब्दस्यार्थवत्त्वाभावेनामानिनीति निषेधो न स्यात्। मम तु द्वितीयसम्बन्धनिवेशेन मानिन्शब्दगतार्थवत्त्वस्य मानिनीशब्दे आरोपेणार्थवत्त्वान्निषेधसिद्धिः। यतो यः प्रत्ययो विहितस्त- दादितदन्ते एव तद्वृत्तिधर्मारोप इत्यत्र तु न मानं दीर्घमुखमानिनी- त्युदाहरणपरभाष्यविरोधश्चेत्येतत्सर्व स्वाङ्गाच्चेत इति सूत्रे शेखर स्पष्टम् । यदि तु अर्थवतः कर्णीशब्दस्याभावाद्नर्थकस्यापि कर्णीशब्दस्य ग्रहणं दीर्घमुखमानिनीति भाष्यादनर्थकस्यापि मानिनीशब्दस्य ग्रहण- मित्युच्यते तदा स्वावयवकत्वस्वोद्देश्यकप्रत्ययान्तत्वोभयसम्बन्धेन स्ववि- शिष्टे स्वगतधर्मारोप इत्यर्थेऽपि न दोष इति बोध्यम् । रमेत्यादावदन्त- त्वारोपेणेञ्प्रत्ययस्तु न । तस्य वर्णत्वव्याप्यधर्मघटितत्वात् । केचित्तु कुम्भश्च कुम्भी च देवश्च देवी चेति पुमाननियेत्येकशेषेण निर्देशादुभयोर्ग्रहणमनुकरणं प्रकृतिवदित्यतिदेशेनानुकरणत्वेऽपि स्त्रीबो- धकत्वादिति नास्याः फलमित्याहुः--तन्न । प्रातिपदिकाद्धात्वर्थ इत्यत्र प्रातिपदिकग्रहणेन रमा गौरीत्यादीनां ग्रहणानापत्तेः । विष्वग्देवयोरित्यत्र बहुवचनत्वापत्तेश्च । अनुकरणं प्रकृतिवदित्यनेनार्थवत्त्वातिदेशस्यादर्श- नाच्च ।। ७२ ॥ नन्वेवमिति । प्रातिपदिकग्रहण इत्यस्य स्वीकारे इत्यर्थः । युवती: पश्येति । तिप्रत्ययान्ते युवनशब्दत्वस्यानयाऽतिदेशादित्यर्थः । वस्तुतस्तु नेदमस्या असाधारणं फलं श्वयुवेत्यत्रान इत्यस्य सम्बन्धेनानन्तानां श्वाद्वीनां सम्प्रसारणं विधीयते । प्रातिपदिकग्रहणपरिभाषयाऽनन्तत्वन्ना- यास्यतीत्येतत्तात्पर्यकभाष्येणास्यान्यथासिद्धः। तद्भाष्यस्य नकारप्रश्लेषण नकारान्तानामा तानां श्वादीनामित्यर्थे तात्पर्यन्तेन नकारान्तत्वस्य वर्ण- त्वव्याप्यधर्मघटितत्वेन परिभाषया नातिदेशोऽन्यथा कुमारत्वस्येव प्रातिपदिकत्वाच्याप्यस्याप्यन्नन्तत्वस्यातिदेशेन भाष्यासङ्गत्यापत्तेः । अत एव श्वयुवेति सूत्र शेखरेनकारप्रश्लेष उक्तः। तत्रत्यप्रश्लेषखण्डनन्तु न युक्तम्। मघवत इत्यत्रानुमानिकस्थान्यादेशभावेनानन्तत्वात्सम्प्रसारणस्य प्रका- रान्तरेण वारणासम्भवात् । सुपथी सखीत्यादावात्वणिद्भावाभावः ७३. विभक्ती लिङ्गविशिष्टा०] विजयाऽलङ्कृतः [२६३ विभक्तो लिङ्गविशिष्टाग्रहणम् ॥ ७३ ॥ स्पष्टा चेयं 'युवोरनाको' इत्यत्र भाष्ये । घटघटीग्रहणेन लिङ्गविशिष्टपरिभाषाया अनित्यत्वात्तन्मूलैवेषेत्यन्ये ॥ ७३ ॥ ननु तस्यापत्यमित्येकवचननपुंसकाभ्यां निर्देशाद्गार्यो गा- यावित्याद्ययुक्तमत आह- परिभाषाफलं बोध्यम् । विभक्तौ लिङ्गेति । विषयसप्तम्या विभक्तिस- म्बन्धिकार्ये कर्तव्ये प्रातिपदिकग्रहणपरिभाषा न प्रवर्तते इत्यर्थः। तेन विभक्त्युद्देश्यकविभक्तिनिमित्तकानां सर्वेषां ग्रहणम् । अत एव शुन्याशुन्ये इत्यादौ गौरादिङीषस्थानिकयणमाश्रित्य प्राप्तस्योदात्तयणो हलपूर्वादिति विभक्त्युदात्तत्वस्य लिङ्गविशिष्ट परिभाषया न गोश्वन्नित्यनेन गोशब्दात श्वशब्दात् परस्य स्वरो नेत्यर्थकेन प्रसक्तः प्रतिषेधोन। एतस्यापि विभक्ति- सम्बन्धित्वात् । सख्यावित्यादौ सख्युरसम्बुद्धाविति णिद्वद्भावश्च न दीर्घा- ह्री प्रावृडित्यत्रायस्कर्णीत्यत्त्रेव ङीवन्ते अह्नीशब्दे लिङ्गविशिष्टपरिभाषया अहनशब्दत्वमादाय अहन्नित्यनेन न रुत्वम्। तस्य पदुत्वद्वारा परम्परया विभक्तिनिमित्तककार्यत्वेन अनया प्रातिपदिकग्रहणपरिभाषाया निषेधात् । ननु चित्रगवीणामित्यत्र कुमति चेत्यनेन णत्वं न स्यात् । प्रत्यास- च्या कवर्गवदुत्तरपदघटितसमासप्रकृतिकविभक्तिसम्बन्धिनकारस्यैव तेन णत्वम् । अत एव आक्रोशे षष्ठ्या अलुकि पूर्वपापानां विपाकेन इत्यत्र कवर्गवदुत्तरपदघटितसमासत्वेऽपि विभक्तेस्तत्प्रकृतिकत्वाभावान्न णत्वम् । ततश्च चित्रगवीणामित्यत्र डीबन्ते कवर्गवदुत्तरपदघटितसमासत्वं लिङ्गविशिष्टपरिभाषयैवानीय तत्प्रकृतिकविभक्तित्वं वक्तव्यम् । सा च विभक्तिकार्यत्वेनानया निषिद्धति चेत्-न । अकुप्वाडित्यनेनैव सिद्धरिति दिक् ॥ ७३ ॥ गायों गायाविति । ननु तस्यापत्यमित्यनेन तत्सम्बन्ध्येकत्वन- पुंसकत्वविशिष्टापत्यरूपार्थबोधकोऽणादिप्रत्ययो भवतीत्येवार्थो बोध्यते । ततश्च गायः गाावित्यादौ यम्प्रत्ययस्यैकत्वनपुंसकत्वविशिष्टापत्यबो- धकत्वेनैकत्वविशिष्टवाचकादेकवचनं नपुंसकत्वविशिष्टवाचकात्परयोः स्व- मोरमित्यर्थकाभ्यां द्वेकयोद्विवचनैकवचने अतोऽमितिसूत्राभ्यामेकवचनस्य सोरमादेशस्य चैवं साधुत्वेन पुल्लिङ्गता द्विवचनयोरनुपपत्तिरित्यत आह- २९४ ] परिभाषेन्दुशेखरः [ शेषार्थकथने सूत्रे लिङ्गवचनमतन्त्रम् ।। ७४ ॥ 'अर्द्ध नपुंसक मिति नपुंसकग्रहणमस्या ज्ञापकम् । नित्यन- सूत्रेलिङ्गेति । अतन्त्रमिति । अविवक्षितमित्यर्थः। सूत्रघटकशब्दज- न्यबोधविषयत्वेन तात्पर्यविषयत्वं लिङ्गस्य संख्यायाश्च नेत्यर्थः। तेन तयोः शास्त्रघटकपदजन्यशाब्दबोधविषयत्वन्न शाब्दबोधीयविषयतायास्तात्प- -यविषयताप्रयोज्यत्वात् । ततश्चापत्यत्वावच्छिन्नबोधकत्वमेव यादी- नामितिविशेष्यगतलिङ्गसंख्यानुसारेणैव लिङ्गसंख्याकार्यमित्यर्थः । नन्वेवं तस्यापत्यमित्यादौ अपत्यपदस्य नपुंसकत्वबोधकत्वाभावेन तत्प्रकृतिकसो- रमादेशो न स्यात् । न च नपुंसकादित्यस्य लक्षणया स्त्रीत्वपुंस्त्वयोरबो- धकादित्यर्थ इति न दोष इति वाच्यम् । तत्र भवस्तत्र जात इत्यत्रापि पुं- स्त्वाविवक्षणात् । सोरमादेशापत्तेः । न चाविवक्षितत्वेऽपि तन्निरूपितश- क्तस्सत्त्वेन न सोरमादेशानुपपत्तिन्नपुंसकादित्यस्य नपुंसकत्वनिरूपितश- क्तिमत इत्यादिति वाच्यम् । तट इत्यत्र पुंस्त्वविवक्षायामपि सोरमादे- शापत्तेनपुंसकत्वनिरूपितशक्तस्तत्रापि सत्त्वात् । अत्रोच्यते-अर्थभेदेन श- ब्दभेदाङ्गीकारात् नपुंसकत्वशक्तिमतस्तटशब्दात् भिन्न एव पुंस्त्वशक्ति- मान तटशब्दः । 'तटन्त्रिषु' इत्यमरस्य तु प्रमाद एव । नानार्थत्वव्य- वहारोपि समानानुपूर्वीकत्वमात्रेण बोध्य इति स्पष्टं शब्देन्दुशेखरे । एव- चापत्यमित्यत्र नपुंसकत्वशक्तिमत्वेन नपुंसकत्वशक्तिमतः प्रातिपदिकात्प- रयोः स्वमोरित्यर्थेनामादेशः सिद्धः। तट इत्यादौ नपुंसकत्वशक्तिमत्त्वा- भावेनादोषः । तत्र भवः तत्र जात इत्यादौ च लिङ्गाविवक्षायामपि पुंस्त्व- शक्तिमत्त्वस्यैव सत्त्वेनामादेशाभावः । किञ्च तस्यापत्यं तत्र भवस्तत्र जात इत्यादौ नपुंसकत्वादेः प्रकारतयाभानेऽपि तत्तत्प्रत्ययशक्यतावच्छेदकत- याऽविवक्षितत्वेन न तत्तत्प्रत्ययजन्यबोधे प्रकारतयाभानं यथा घटो द्रव्य- पदशक्य इति वाक्यजन्यज्ञाने घटत्वस्य प्रकारतयामानेऽपि द्रव्यपदश- क्यतावच्छेदकतयाऽविवक्षितत्वेन द्रव्यपदजन्यशाब्दबोधे प्रकारतयाऽभा- नम् । एवञ्च नपुंसकत्वावच्छिन्नबोधकात्परयोरित्यर्थेऽप्यमादिसिद्धिः । नपंसकग्रहणमस्या ज्ञापकमिति । ननु नपुंसकत्वबोधकस्यैव नपुंसक- शब्दबोध्यतया नपुंसकत्वबोधकोऽर्द्धशब्दः समस्यत इत्यर्थेन नपुंसकग्रहणे सति पुबोधकस्यार्द्धशब्दस्य ग्रामार्द्ध इत्यादौ नानेन समासः । नपुंसकग्र- ।

७५. नजिव युक्तमन्य० ] विजयाऽलङ्कृतः [ २६५ पुंसकत्वार्थ तु न तदित्यन्यत्र निरूपितम् । धान्यपलालन्यायेन ना- न्तरीयकतया तयोरुपादानमिति तस्यापत्यमित्यत्र भाष्ये स्पष्टम् । अत ए'वाकडार सूत्र एकेति चरितार्थमित्यन्यत्र विस्तरः॥७४॥ ननु भृशादिभ्यो भुव्यच्वेरिति विधीयमानः क्यङ् क दिवा हणाभावेऽर्द्धमित्यत्र नपुंसकत्वविवक्षायामपि तस्यार्द्धपदार्थेऽर्द्धशब्दे स्व- रूपसम्बन्धेनैवान्वयेन नपुंसकत्वविशिष्टोऽर्द्धशब्दः समस्यत इत्यर्थेन लि- ङ्गस्य केवलान्वयित्वेन प्रामार्द्ध इत्यत्राप्यर्द्धशब्दस्य नपुंसकत्वविशिष्टत्वेन समासापत्त्या कथम्व्यर्थं नपुंसकग्रहणमिति चेत्-अत्रोच्यते । नपुंसकग्र- हणाभावे अर्द्धमित्यस्य नपुंसकत्वविशिष्ट इत्यर्थे पूर्वापरेत्यत्रैवार्द्धशब्दस्य पाठेन सिद्धे पृथक् योगकरणसामर्थ्यात् नपुंसकत्वबोधक इत्यर्थलाभेन नपुंसकग्रहणं व्यर्थं सज्ज्ञापकम् । न चैवं ज्ञापितायामपि तस्यां कथं च- रितार्थं पृथक् योगकरणादेव नपुंसकत्वबोधक इत्यर्थलाभसम्भवादिति वाच्यम्। सत्यामेतस्यां पृथक्योगकरणात् नपुंसकत्वस्य विवक्षा। तस्य चा- न्यत्र क्लृप्तस्वरूपसम्बन्धं विहाय बोधकत्वसम्बन्धेनान्वय इत्यर्थद्वयक- ल्पनापेक्षयैकदेशिनेत्यस्यासम्बन्धकल्पनायामेव लाघवेनोक्तार्थलाभाय नपुं- सकग्रहणस्य चारितार्थ्यात् । परिभाषाया अभावे तु विवक्षायास्स्वतस्सि- द्धत्वेन बोधकत्वसम्बन्धेनान्वयमात्रस्यैव कल्पनीयत्वेनैकदेशिनेत्यस्याननु- वृत्तिकल्पनापेक्षया लाघवम्बोध्यमिति । नन्वर्धमित्यत्र नपुंसकत्वस्य सत्त्वे पुनर्नपुंसकग्रहणाद् द्विद्धं सुबद्धमिति न्यायात् नित्यनपुंसकस्यार्द्धशब्द- स्येत्यर्थ एव कस्मान्नेत्याह-नित्यनपंसकत्वार्थं तु नेति । एत्रोङ् सूत्रे समांशतात्पर्येणापि अर्द्ध एकार अर्द्ध श्रोकार इत्यत्र पुंस्त्वस्यैवाभिधानेन नित्यनपुंसकत्वं समांशवाचिनोऽप्यर्धशब्दस्याप्रामाणिकमेवेति बोध्यम् । धान्यपलालन्यायेनेति । यथा धान्यमानार्थिनाऽपि धान्यमात्रस्यानेतु- मशक्यतया पलालमप्यानीयते तथाऽपत्याद्यर्थमात्रबोधेच्छोरप्याचार्यस्य शब्दात् लिङ्गसंख्याभ्यां विना प्रातिपदिकार्थमात्रबोधस्याशक्यतया तयोरु- पादानमिति बोध्यम् । नान्तरोयकतया आवश्यकतयेत्यर्थः । वचनस्या- तन्त्रत्वे प्रामाणमाह-अत एवेति । एकेति । चरितार्थमिति । अन्यथा पदं भमित्यादावेकत्वविवक्षयैव संज्ञत्यत्रैकत्वविवक्षयैव वा सिद्धिरिति भावः ॥ ७४॥ । ।

२६६ ] परिभाषेन्दुशेखरः [ शेषार्थकथने भृशा भवन्तीत्यत्रापि स्यादत आह- नञ्जिव युक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः॥ ७५ ॥ नन् युक्तमिव युक्तं च यत्किंचिदृश्यते तत्र तस्माद्भिन्ने तत्सदृशेऽधिकरणे द्रव्ये कार्य विज्ञायते । हि यतस्तथार्थगति- रस्ति । न ह्यब्राह्मणमानयेत्युक्त लोष्टमानीय कृती भवति । अतश्चव्यन्तभिन्ने च्व्यन्तसदृशेऽभूततद्भावविषये क्यङिति नोक्त- दोषः । ओषधेश्च विभक्तावप्रथमायामित्यादौ विभक्तिग्रहणं ह्येत- न्यायसिद्धार्थानुवाद एव । एतेन विभक्तावित्याद्यस्यानित्यत्वे ज्ञापकमिति वदन्तः परास्ताः। अनित्यत्वे भाष्यसंमतफलाभा- वात् । अत एव 'कर्तरि च' इतिसूत्रे कारकग्रहणं भाष्ये प्रात्याख्या- - स्यादिति । भृशशब्दस्य च्च्यन्तभिन्नत्वादिति भावः । अन्यस- शेति । नसमभिव्याहृतमिवसमभिव्याहृतञ्च पदं स्वसादृश्यस्वभिन्नत्वो- भयसम्बन्धेन स्वविशिष्टबोधकं नव्यपदमिवपदश्च तात्पर्यग्राहकमत एवाना- ह्मणः चन्द्र इवेत्यादौ ब्राह्मणभिन्नो ब्राह्मणसदृशः क्षत्रियादिः । चन्द्रभिन्न- श्चन्द्रसदृशो मुखादिः प्रतीयते । न तु लोष्टादिः । तथा ह्यर्थगतिरिति । हि यतः शब्दशक्तिस्वभावात्तथागतिरतस्तथाभूतमित्यर्थः । एतेनात्र ज्ञापक- जिज्ञासा न कार्येति बोध्यम् । अत्र विनिगमनाविरहात् भेदविशिष्टसा- दृश्यं सादृश्यविशिष्टभेदश्चार्थः । अत एव- तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नर्थाः षट् प्रकीर्तिता॥ -इत्यभियुक्तोक्तौ शादृश्यभेद्योः पार्थक्येन कथनम् । द्रव्ये पदार्थे इत्यर्थः । अभूततद्भावविषये इति । च्च्यन्तसादृश्यमभूततद्भावविषय- त्वेनेत्यर्थः । विभक्तिग्रहणमिति । अप्रथमापदेनैव विभक्तित्वेन तत्सदृश- तद्भिन्न इत्याद्विभक्तावित्यस्य लाभादिति भावः। भाष्यसम्मतफला- भावादिति। अयम्भावः । नमो भेदबोधकत्वमत्यन्ताभावबोधकत्वं स्व- तस्सिद्धमेव । भेदस्थले सादृश्यमानं लोकसिद्धमेव परिभाषया बोध्यते । एतस्या अनित्यत्वफलमिदमेव यत् कचिदसदृशोऽपि भिन्नः प्रतीयत इति ७६. गतिकारकोपपदानां० ] विजयाऽलङ्कृतः [ २६७ तमिति बोध्यम् । स्पष्टा चेयं 'भृशादिभ्य' इतिसूत्रे भाष्ये । अत्रा- न्यसदृशेत्युक्त्या सादृश्यस्य भेदाघटितत्वं सूचयति । निरूपितं चैतन्मञ्जूषायाम् ॥ ७५ ॥ ननु व्याघ्री कच्छपीत्यादौ सुबन्तेन समासात्ततोऽप्यन्तरङ्ग- तेऽभिमतन्तत्र सोऽपि केन चिद्रूपेण सदृश एवेति परिभाषाप्रवृत्तावपि दोषाभावादिति । भेदाघटितत्वमिति । तद्भिन्नत्वे सति तगदतभूयो- धर्मवत्त्वस्य सादृश्यत्वे सादृश्यकथनेनैव भेदलामे अन्येत्यस्य वैया- पत्तेरिति भावः ।। ७५ ॥ ननु व्याघ्रीति । स्वार्थद्रव्यलिङ्गसंख्याकारकाणां क्रमेणोपस्थितिः । येन क्रमेणार्थोपस्थितिस्तेनैव क्रमेण तत्तदर्थनिमित्तककार्योत्पत्तिरिति सिद्धान्तात् सुबुत्पत्तेः प्रागेव स्त्रीत्वनिमित्तकटापि ततः सुपि ततस्समा- सेऽदन्तत्वाभावात् ङीष् न स्यादिति भावः । ननूपसञ्जनिष्यमाणन्यायेन उत्सर्गशास्त्रप्रवृत्त्यभावसम्भावनाप्रयोज्यापवादशास्त्रप्रवृत्तिसम्भावनायामु- त्सर्गशास्त्राप्रवृत्तिरित्यर्थकेन पूर्व टापोऽप्रवृत्तियेदि टाप् न स्यात्तदा समासे सुपो लुकि ङीष् स्यादिति सम्भावनायास्सत्त्वात् । अत्र केचित्-भविष्यदपवादविषयातिरिक्तत्वेनापि सङ्कोच इत्यस्यै- वैतच्यायतात्पर्यण व्याघ्रत्यस्यैव जातिवाचकत्वेन ङीषु विषयत्वात् तदतिरिक्तत्वेन संकोचेऽपि प्रशब्दाट्टाप् स्यादेवेत्यवतरणं युक्तमेव । न चापवाद विषयघटकातिरिक्तत्वेनापि सङ्कोचान्न दोषोऽन्यथा सिद्धान्ते सुबुत्पत्तेः प्राक् समासेऽपि अन्तरङ्गत्वात् घशब्दाट्टाप् दुर्वारः । न चैवं सति अजया क्रीताऽजाक्रीतीत्यादौ क्रीतात्करणपूर्वादित्यपवादविषयघट- कत्वेनाजशब्दादपि टाप न स्यादिति वाच्यम् । अपवादविषयान्तातिरि- क्तत्वेन सङ्कोचे तात्पर्य्यादिति वाच्यम् । घन इव कपिला घनकपिलेत्यादा- वन्यतो ङीषिति ङीषापत्तः। तत्पुरुषे तुल्यार्थेति सूत्रेण पूर्वप्रकृतिस्वरेण कपिलाशब्दस्यानुदात्तान्तत्वेन भविष्यदपवादविषयान्तत्वेन पूर्व टापो- ऽप्रवृत्त्या समासेऽन्यतो ङीषित्यस्य प्राप्तेस्सत्त्वात् । भविष्यदपवादविषया- तिरिक्तत्वेन सङ्कोचे तु न दोषः । कपिलशब्दस्य तथाभूतत्वेन पूर्व टापि समासेऽदन्तत्वाभावादित्याहुः । वस्तुतस्तु धनकपिलेत्यादौ टापि कृते टाबन्तात्सुपि कृते धनशब्देन २६८ ] परिभाषेन्दुशेखरः [ शेषार्थकथने त्वाट्टाप्यदन्तत्वाभावाजातिलक्षणो ङीष् न स्यादत आह- गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः ॥ ७६ ॥ 'उपपदमिति सूत्रेऽतिङ्ग्रहणेन कुगतीत्यत्र तदपकर्षणेना- तिङन्तश्च समास इत्यर्थात्तयोः सूत्रयोः सुपेत्यस्य निवृत्त्यैकदेशा- समासः टाप्प्रवृत्तिकाले चान्तोदात्तस्य कपिलशब्दस्य न भविष्यदपवाद- विषयान्तत्वमपि त्वनुदात्तान्तस्यैव तस्य तत्त्वमिति तत्र टापि न बाधकम् । व्याघ्रीत्यादौ अपवादविषयान्तातिरिक्तत्वेनापि सिद्धान्तानु- रोधेनावश्यके सङ्कोचे टापोऽप्रसङ्ग एव । किञ्चापवादशास्त्रं स्वप्रवृत्तये स्वप्रवृत्तिस्थानादुत्सर्गशास्त्रं वारयतीत्येव पर्यावसितोऽर्थः। तथा च व्याघ्रशब्दे घ्रशब्दादुत्तरं स्थानमपवादस्य व्याघ्रशब्दाद्भविष्यतो डीष एवेति कथन्तत्र टाप् स्यादित्यपवादविषयातिरिक्तत्वेनापि सङ्कोचे टापोऽ- प्रसङ्ग एवेत्यवतरणमसङ्गतमेव । तत्त्वन्तु समकालिकापवादविषयातिरिक्तत्वेन सङ्कोचेऽपि यत्रापवाद- स्य वैयर्थ्यमेव तत्रैवायन्न्यायो यथा दधतीत्यादौ । प्रकृते समकालिकापवा- दविषयातिरिक्तत्वेन सङ्कोचे ब्राह्मणीत्यादौ जातेरस्त्रीविषयादित्यस्य चा- रितार्थ्यान्न्यायाप्रवृत्तिरिति सम्यगेवावतरणमिति बोध्यम्। अन्तरङ्गनि- मित्तविनाशको यो लुक् तत्प्रयोजकसमासादीनामेवान्तरङ्गानपीतिन्यायेन प्राबल्यबोधनान्न तेन न्यायेन टापः पर्वमप्रवृत्तिः । परिभाषालाभोपाय- माह-उपपदमिति । सुपेत्यस्य निवृत्त्येति। तृतीयान्तस्यैव सुपेत्यस्य निवृत्तिः प्रथमान्तस्यापि निवृत्तौ चर्मच्छेद इत्यादौ चर्मप्रकृतिकसुबु- त्पत्तेः पूर्वमेव समासे नलोपानापत्तेविभक्तिश्रवणापत्तेश्च । न हि सुपे- त्यस्यानुवृत्तौ तिङन्तस्य समासः प्राप्नोति यद्वारणार्थमतिङ्ग्रहणं स्यादिति सुपेत्यस्य निवृत्तिज्ञापकमतिमहणम् । ततश्चोपपदसमासगतिसमासयोः समर्थेनैव विधानात् । बहिर्भूतसंख्याकारकसापेक्षोत्तरखण्डप्रकृतिकविभ- क्त्यपेक्षया शीवोपस्थितिनिमित्तकत्वेनान्तरङ्गत्वात् सुबुत्पत्तेः पूर्वमेव समासः । स चोरत्तखण्डो गत्युपपदसमभिव्याहारादतिङिति निषेधाच्च कृदन्त एवेति परिभाषाया अंशद्वयं फलति । स्थालीपुलाकन्यायेन कार- कांशोऽपि सिद्ध इत्याह-एकदेशानुमत्येति । न च समासस्योत्तर- ७६. गतिकारकोपपदानां० ] विजयाऽलङ्कृतः [२६६ नुमत्या कारकांशे च सिद्धेयम् । तेनाश्वक्रीती सिद्धा । अन्यथा पूर्व टाप्यदन्तत्वाभावात् 'क्रीतात् करणपूर्वादिति ङीष् न स्यात् । अस्या अनित्यत्वात् क चित्सु- बुत्पत्त्यनन्तरमपि समासो यथा सा हि तस्य धनक्रीतेति । अन्ये त्वनित्यत्वे न मानं तत्राजादित्वाट्टाबित्याहुः । अत एव कुम्भकार इत्यादौ षष्ठीसमासोऽपि सुबुत्पत्तेः पूर्वमेव खण्डप्रकृतिकसुपनपेक्षत्वेऽपि समुदायसापेक्षत्वेन बहिरङ्गत्वाद् घमात्रसा- पेक्षटापोऽन्तरङ्गत्वात्प्रवृत्तिस्समासात्पूर्वं दुर्वारैवेति वाच्यम् । अर्थवत एव प्रातिपदिकत्वेन विआसमभिव्याहारेणैव घ्रशब्दस्यार्थवत्त्वेन टापोऽपि समुदायापेक्षत्वात् स्त्रीत्वस्याधिकस्यापेक्षत्वेन च तस्यैव बहिरङ्गत्वादत एव सांकौटिनमित्यत्रेनुणन्तत्वरूपाधिकापेक्षत्वेन समासापेक्षयाऽपीनुण इत्य- स्य बहिरङ्गत्वमुक्तं रामशब्दप्रकरणे शब्देन्दुशेखरे। केचित्तु प्राक् सुबुत्पत्तेरित्यत्र सुग्रहणं प्रत्ययमात्रोपलक्षणमित्याहु:- तन्न । ज्ञापकात्तदलाभादुक्तशब्देन्दुशेखरविरोधाच ङीष् न स्यादिति । एवञ्च क्रीतात्करणपूर्वादिति सूत्रं व्यर्थ सत्कारकांशे ज्ञापकमिति बोध्यम् । अस्या अनित्यत्वादिति । अत्र ज्ञापकमम्बाम्बगोभूमीतिसूत्रे गोभूमि- ग्रहणमस्यानित्यत्वे हि गोष्ठो भूमिष्ठ इत्यत्र सुबुत्पत्तेः पूर्वमेव तया समासे सात्पदाद्योरिति निषेधाप्राप्त्याऽऽदेशप्रत्यययोरित्यनेनैव षत्वसिद्धौ तस्य वैयर्थ्यं स्यात् । धनक्रीतेतीति । सुबुत्पत्तेः पूर्व टापि तत्तस्सुपि समासे अ- दन्तत्वाभावान्न ङीष् । न मानमिति । गोभूम्यादिग्रहणं तु नियमार्थ पूर्वपदान्तेणः परस्य स्थसम्बन्धिसस्य षत्वं स्याञ्चेद् गोभूम्यादिभ्य एव । तेन हृदिस्थ इत्यादौ न षत्वमिति बोध्यम् । दधि सेचावित्यादौ सुबुत्पत्तेः पूर्व समासे षत्वाभावाय पदादादिः पदादिरिति पञ्चमीसमासस्यावश्य- कत्वेन गोष्ठ इत्यादावपि षत्वनिषेधापत्त्या पत्वार्थ गोभूम्यादिग्रहणस्य चारितार्थ्याच्च । फलमप्यन्यथासिद्धमित्याह-तत्रेति । धनक्रीतेत्य- त्रेत्यर्थः। गो चेत्यपि नानित्यत्वे फलं परपदस्थाजादेशेत्यत्र पदशब्दस्य पदत्वयोग्यपरत्वादिति स्पष्ट नपदान्तसूत्रे शब्देन्दशेखरे । अत एवेति। परिभाषास्वीकारादेवेत्यर्थः । ननु षष्ठीसमासस्थले एकार्थीभावस्य वैकल्पि- ।

३०० ] परिभाषेन्दुशेखरः [ शेषार्थकथने षष्ठीसमासाभावे चोपपदसमासकृत एका भाव इति न तत्र वाक्य मित्युपपदमिति सूत्रे भाष्ये स्पष्टम् । तत्र हि षष्ठोसमासा- दुपपदसमासो विप्रतिषेधेनेति वार्त्तिकम् । अथ वा विभाषा षष्ठीस- मासः। यदा न षष्ठीसमासस्तदोपपदसमास इति तत्प्रत्याख्यानं च यद्यप्युपपदसमासस्यान्तरङ्गत्वाभिप्रायकं न वा षष्ठीसमासा- भावादुपपदसमास इति वार्तिककृतोक्तम् । तथापि तदुभयप्रत्या- ख्यानपरमथ वेत्यादि भाष्यम् । परिभाषायां सामान्यतः कारको- पादानेन कारकविभक्त्यन्तस्य कृद्धिः समासमात्रस्य सुबुत्पत्तेः पूर्वमेव लाभात् । एतेनैषा कारकतद्विशेषयोरुपादान एवेति परा- कत्वेन कुम्भस्य कार इति वाक्यमपि स्यादित्यत आह-षष्ठीसमासा. भावे चेति । षष्ठीसमासादुपपदसमासो विप्रतिषेधेनेति षष्ठीसमासस्य सुबुत्पत्त्यनन्तरं प्रवृत्तौ हि उपपदसमासस्य सुबुत्पत्तेः प्रागेव प्रवृत्तेस्सिद्ध- त्वाद्विप्रतिषेधकथनस्यानुपयुक्तत्वं भिन्नकालिकत्वेन तदसम्भवश्चेति बोध्यम् । अथ वा विभाषा षष्ठीसमास इति उपपदसमासकाले षष्ठीसमास इति कथनस्य वैयर्थं स्वत एव तस्याप्राप्तेः। स्वमते वात्तिकविरोध- मुपपाद्य खण्डयत्ति-यद्यप्युपपदसमासस्येति । अनेन वार्त्तिकेन सुबुत्पत्त्युत्तरमेव षष्ठीसमासो लभ्यते । तदुभयेति । षष्ठीसमासादुपपद- समासो विप्रतिषेधेनेति न वा षष्ठीसमासाभावादुपपदसमास इति वार्तिक- द्वयमित्यर्थः । अथ वेत्यादीति । अथ वा विभाषा षष्ठी समासो यदा न षष्ठीसमासस्तदोपपदसमास इति भाष्यमित्यर्थः। एतेनेति । उक्तभाष्येण षष्ठीसमासस्यापि सुबुत्पत्तेः पूर्वं लाभेनेत्यर्थः । एषेति । गतिकारकेतिपरि- भाषेत्यर्थः । परास्तमिति । न हि षष्ठीतिसूत्रे कारकविशेषोपादानमस्ती- भावः। वस्तुतस्तु कारकवि पादानेन समासविधावेवास्याः प्रवृत्ति- रत एव टाबन्तैः श्रितादिभिस्समाससिद्धयेऽन्तवद्भाव आश्रितो द्वितीया श्रितेति सूत्र भाष्येऽन्यथा सुबुत्पत्तेः पूर्वमेव समासे तदसङ्गतिः । यात् अपां स्रष्ट्रीत्यादौ तृजकाभ्यामिति षष्ठीसमासनिषेधो लिङ्गविशिष्टपरि- भाषया साधितो ङयाप्सूत्रे भाष्ये सुबुत्पत्तेः। पूर्वमेव षष्ठीसमासे तु परि- भाषां विनैव निषेधप्रवृत्त्या लिङ्गविशिष्टपरिभाषयोपादानमसङ्गतं स्यात् ।

७७. साम्प्रतिकाभावे भूतपूर्व०] विजयाऽलङ्कृतः [ ३०१ स्तम् । अस्या विध्येकवाक्यत्वाभावेन विप्रतिषेधादिशास्त्रवत् कायव्यवस्थापकत्वेनोपादान एवेत्यर्थालाभाच्च ॥ ७६ ॥ ननु 'उगिदचामि'त्यत्र धातोश्चेदुगितकार्य तयञ्चतेरेवेति नियमे- नाधातोरेव नुमि सिद्धेऽधातुग्रहणं व्यर्थमत आह- किञ्च षष्ठीति सूत्रे सुपेत्यस्य सम्बन्धो वर्त्तते न वा? आद्ये कुम्भकारेत्यादौ कृदन्तेन समासोऽनुपपन्नोऽनया तदसम्बन्धो बोध्यत इत्यपि न नटस्य शृणोतीत्यादौ तिङन्तेनापि समासापत्तेः । न च सुपेत्यस्य सम्बन्धोऽस्ति परन्तु कृदन्तस्थलेऽनया सुबुत्पत्तेः प्रागेव समासो बोध्यते इति वाच्यं, विरोधात् । न हि स एव समासस्सुबन्तेनापि स्यात् कृदन्तेनाऽपि । अन- यैव कृदन्तेन समासो विधीयते इत्यपि न । तर्हि विधित्वापत्त्या परिभा- षात्वानापः । न च षष्ठीसूत्रेणैव सुबन्तेन कृदन्तेन च समासो बोध्यत इति वाच्यं, वाक्यभेदापत्तेः । उपपदमतिङिति सूत्रस्थभाष्यविरोधोऽपि न । षष्ठीसमासादुपपदसमासो विप्रतिषेधेनेति । अथ वा विभाषा षष्ठी- समासो यदा न षष्ठीसमासस्तदोपपदसमास इत्युभयप्रत्याख्यानपरमन्त- रङ्गत्वाभिप्रायकं न वा षष्ठीसमासादुपपदसमास इति भाष्यमित्यस्यैव युक्तत्वात् । षष्ठीसमासस्थले विभाषाधिकारेणैकार्थीभावस्यैव वैकल्पिक- त्वबोधनेन पक्षे वाक्यापत्तेर्दुरित्वात् उपपदसमासकृतैकार्थीभावस्य सत्त्वादिति तु न युक्तमेकार्थीभावद्वये प्रमाणाभावेन तद्भाष्यस्यैकदेश्युक्त- त्वाच्च । गोपालिकेत्यादौ पालकान्तान्नेति वार्त्तिकोदाहरणे सुबन्तेनैव षष्ठ्यन्तस्य समासे टापः सुपः परत्वेनेत्वानापत्तिस्तु न । तत्राणन्तगोपा- लशब्दात्स्वार्थे कप्रत्ययस्यैव सत्त्वेनाप: सुपः परत्वाभावादिति बोध्यम् ॥६॥ धातोश्चेदुगितकार्यमिति । नन्वञ्चतेश्चेदुगित्कार्यं न लोपिनोऽ- श्चतेरेवेति नियमस्यापि सम्भवेन धातोावृत्त्यर्थमधातुग्रहणं न व्यर्थमि- ति चेत्-न । नकारविशिष्टेऽञ्चतौ नुम्यपि वर्णग्रहणे जातिग्रहणमित्यनेन नकारद्वयस्यापि नत्वेनानुस्वारे विशेषाभावात् नपुंसकस्य झल् च इत्यतो झल् चेत्यस्य सम्बन्धेनाचः परो यो झल् तदन्तानामेवोगितां नुम् विधा- नेन नकारविशिष्टे नुमोऽप्राप्त्या नलोपिन एवेति नियमे फलाभावात् । न चौपदेशिकधातुत्वविशिष्टानां चेदचतेरेवेति नियमेनैव गोमत्यतेोमा- ३०२ ] परिभाषेन्दुशेखरः [ शेषार्थकयने सांप्रतिकाभावे भूतपूर्वगतिः ॥ ७७ ॥ तत्तद्वचनसामर्थ्यानन्यायसिद्धेयम् । तत्सामर्थ्यादधातुभूतपूर्व- स्यापीत्यर्थेन गौमत्यतेः विपि गोमानित्यादौ नुसिद्धिः । 'नामि' इत्यादिसूत्रेषु भाष्ये स्पष्टा ।। ७७ ॥ बहुव्रीहौ तद्गुणसंविज्ञानमपि ॥ ७८ ॥ अपिनाऽतद्गुणसंविज्ञानम् । तेषां गुणानामवयवपदार्थानां संविज्ञानं विशेष्यान्वयित्वमिति तदर्थः। यत्र समवायसम्बन्धेन सम्बन्ध्यन्यपदार्थस्तत्र प्रायस्तद्गुणसंविज्ञानम् । अन्यत्र प्रायोड- न्यत् । लम्बकर्णचित्रगू उदाहरणे । सर्वादीनि जक्षित्यादय इति नित्यादौ नुमसिद्धरधातुग्रहणं व्यर्थमेवेति वाच्यम् । तत्रैव स्त्रीत्वविवक्षा- यामुगितश्चेति कीबापत्तेः नामीत्यादिसूत्रेष्विति । तत्र च आमीति न्यासे नित्यत्वाद्रामाणामित्यादौ दीर्घ कृतेऽपि ह्रस्वग्रहणसामर्थ्याद्भूतपूर्व- हस्वान्तत्वमादाय नुडुक्तः ॥ ७७॥ अवयवपदार्थानामिति । बहुब्रीह्यवयवपदार्थानामित्यर्थः। वि- शेष्यान्वयित्वमिति । समासार्थस्य यो विशेष्यस्तदन्वयित्वमित्यर्थः । यत्र समवायसम्बन्धेनेति । संय्योगस्याप्युपलक्षणम्। लम्बकर्णमानय लोहितोष्णीषा ऋत्विजश्चरन्तीत्यादौ आनयनचरणादौ कर्णोष्णीषादी- नामन्वयात्तद्गुणसम्विज्ञानम् । प्रायस्तद्गुणेति । प्रायो ग्रहणात् लम्ब- कर्णो भोज्यतां चित्रवासा बोध्यतामित्यादावुक्तसम्बन्धेन सम्बन्धित्वे- ऽप्यन्यपदार्थस्यातद्गुणसम्विज्ञानमेव न हि करें वासो वा भोजन- बोधनान्वयी। अन्यत्रेति । समवायसंयोगान्यसम्बन्धेनान्यपदार्थस्याव- यवार्थेन सम्बन्धित्वे इत्यर्थः । प्रायोऽन्यदिति । अतद्गुणसम्विज्ञा- नमित्यर्थः । यथा दृष्टसागरमानय चित्रगुमानयेत्यादौ । न ह्यत्र सागर- स्य गोर्वाऽऽनयनान्वयः । प्रायो ग्रहणात् तरुणवत्सां गान्ददाति दृढसे- नो राजा युध्यत इत्यादौ जन्यजनकभावस्वस्वामिभावसम्बन्धेऽपि तद्गुण- सम्विज्ञानमेव वत्सस्य सेनायाश्च दानयुधिक्रियान्वयात् । लम्बकर्णेति लम्बकर्णमानयेति वाक्यघटकलम्बकर्णमित्यर्थः । लौकिकमुदाहरणमुक्त्वा सौत्रमुदाहरणमाह-सर्वादीनीति । अत्रादिशब्दस्यावयववाचित्वात् RANI - ७६. चानुकृष्टं नोत्तरत्र ] विजयाऽलङ्कृतः [ ३०३ चोदाहरणे । 'सर्वनामसंज्ञा'सूत्रे भाष्ये स्पष्टा ॥ ७८|| ननु 'वदः सुपि क्यप् चेति चेनानुकृष्टस्य यतो भुवो भाचे इत्यत्राप्यनुवृत्तिः स्यादत आह- चानुकृष्टं नोचरत्र ॥ ७ ॥ रणमुल्यनुवर्तमाने 'अव्ययेऽयथाभिप्रेते'ति सूत्रे पुनर्णमुल्ग्रहण- मस्यां ज्ञापकम् । अन्यथा क्त्वा चेति वदेत् । तद्धि उत्तरत्रोभयोः सम्बन्धार्थम् । उदाहरणानि स्फुटानि । इदमनित्यम् । अत एव 'तृतीया च होरि त्यत्र चानुकृष्टाया अपि द्वितीयाया अन्तरान्त- रेणेत्यत्र सम्बन्धः । 'लुटि च कृप' इति सूत्रस्थेनानुवृत्त्यर्थसकल- चकारप्रत्याख्यानेन विरुद्धेयम् । व्याख्यानादेवानुवृत्तिनिवृत्यो- समवायः सम्बन्धः । जक्षित्यादय इत्यत्रादिशब्दस्य पूर्ववाचित्वात् निरूप्यनिरूपकभावस्सम्बन्धस्तेन क्रमेण तद्गुणसम्विज्ञानातद्गुणस- स्विज्ञाने यत्र समासार्थविशेष्यान्वयित्वमवयवार्थस्य विवक्ष्यते तत्र तद्- गुणसम्विज्ञानमन्यत्रान्यदित्यपि व्यवस्था सम्भवति ।। ७८ ॥ चानुकृष्टमिति । चकारेणानुवर्चमानमुत्तरत्र न सम्बध्यत इत्यर्थः । इदमनित्यमिति । तेनेयं क्वचित्प्रवर्तते क्वचिन्न । प्रवृत्तिनिवृत्ती च व्यव- स्थिते । तथा हि चकारो द्विविधोऽस्ति-एकश्च विधेयघटितसूत्राव्यवहित- सूत्रस्थो व्यवहितसूत्रस्थश्च द्वितीयः। तत्र द्वितीये चकारे इयं प्रवर्तते न प्रथमे। तेन तृतीया च होश्छन्दसीति सूत्रं कर्मणि द्वितीयेति विधेय- घटितसूत्रादव्यवहिते तत्रत्ये चकारे एतस्या अप्रवृत्त्या तेनानुकृष्टाऽपि द्वितीया अन्तराऽन्तरेण युक्त इत्यत्र सम्बध्यते यत्प्रत्ययरूपविधेयघटिता- दुचो यदित्यतोऽनेकसूत्रव्यवहिते वदः सुपीत्यत्र विद्यमाने चकारे एतत्प्र- वृत्त्या तस्य यतो भुवोभावे इत्यत्रासम्बन्धः । विरुधेयमिति । व्यवहित- सूत्रस्थाव्यवहितसूत्रस्थयोरुभयोरपि चकारयोः पूर्वसूत्रस्थपदानुवृत्तिसूचक- त्वेनानुवृत्त्यर्थत्वाविशेषादनुवृत्त्यर्थकसकलचकाराभावे इयं के प्रवर्ततेति भाष्यविरोधः स्पष्टः । व्याख्यानादिति । स्वरितत्वमेव विलक्षणं किंचित् बहुषु सूत्रष्वनुचिप्रयोजक किञ्चिदल्पसूत्रष्वनुवृत्तिप्रयोजकमित्यधिकार- ३०४ ] परिभाषेन्दुशेखरः [ शेषार्थकथने निर्वाह इति तदाशयः । 'कुलिजाल्लुक्खौ च' इतिसूत्रस्थभाष्य- विरुद्धा च । तत्र हि 'द्विगोष्ठेश्चेति सूत्रात् ष्ठनस्तत्र चेनाप्यनु- कृष्टस्य खोऽन्यतरस्यामित्यस्य चानुवृत्तिं स्वीकृत्य लुक्खौ चेति भाष्ये प्रत्याख्यातम् ।। ७६ ॥ नन्वनुदात्तादेरन्तोदात्ताच्च यदुच्यते तद्वयञ्जनादेयंजनान्ताच न प्राप्नोतीत्यत आह- स्वरविधौ व्यञ्जनमविद्यमानवत् ॥८॥ स्वरोद्देश्यके विधावित्यर्थः । 'नोत्तरपदेऽनुदात्तादावपृथिवी- रुद्रपूषमन्थिषु' इति सूत्रे पृथिव्यादिपर्युदासोऽस्या ज्ञापकः। अन्यथा पृथिव्यादीनामनुदात्तादित्वाभावादप्राप्तौ तद्वैयर्थ्यं स्पष्टमेव । धर्मिग्राहकमानादेव च स्वरोद्देश्यकविधिविषयमिदम् । अत एव शतुरनुमो नद्यजादी अचः कर्तृयकीत्यादावजादी अच इत्या- स्य समीपगमनदूरगमनव्यवस्थार्थमवश्यं वक्तव्यम् । तेनैवात्रापि व्यव- स्थोपपत्तिरिति भावः। तथा च यथास्थितसूत्रन्यासे इयं परिभाषेति भा- वः । यदि चाव्यवहितसूत्रस्थचकारविषयकमेव चकारप्रत्याख्यानभाष्यं तदा न तेन भाष्येण व्यवहितसूत्रस्थचकारविषयिणीयं परिभाषा विरुद्धा भिन्नविषयत्वात् । नापि कुलिजालूलुक्खौ चेतिसूत्रस्थभाष्यविरुद्धा तस्याप्यव्यवहितसूत्रस्थचकारविषयकत्वादिति दिक् ॥ ७९ ॥ न प्राप्नोतीति । व्यञ्जनस्यानुदात्तत्वाद्यभावादिति भावः । स्व- रविधाविति । स्वरत्वव्याप्यधर्मावच्छिन्नोद्देश्यताके विधौ कर्तव्ये लक्ष्यस्थव्यञ्जनानामविद्यमानवद्भाव इत्यर्थः । अत एवेति । स्वरविधा- वित्यस्य स्वरोद्देश्यकेत्यर्थः। शतुरनुम इति। अनुम् यः शत्प्रत्ययस्तद- न्तादन्तोदात्तात्परा नदी अजादिश्च शसादिविभक्तिरुदात्ता स्यादित्यर्थः। अचः कर्तृयकि उपदेशे अजन्तानां कर्तृयकिपर आदिरुदात्तो वेत्यर्थः स्वरविधायकेऽपि विधौ व्यञ्जनस्याविद्यमानवद्भावे एतत्सूत्रद्वयेऽपि कर्त्त- व्ये व्यञ्जनस्याविद्यमानत्वापत्त्याऽजाद्यग्रहणस्य वैययं स्यादित्यर्थः। - ८१. हल्स्वरप्राप्तौ व्यञ्जन०] विजयाऽलङ्कृतः [ ३०५ देश्चारितार्थ्यम् । अत एव राजवतीत्यादौ नलोपस्यासिद्धत्वा- दन्वतीशब्दत्वादन्तोऽवत्या इति स्वरो न। उदश्वित्वानित्यत्र हस्वनुड्भ्यामिति मतुबुदात्तत्वं च नेत्याकरः । स्पष्टं चेदं 'समा- सस्येति सूत्रे भाष्ये । 'उच्चैरुदात्त' इति सूत्रे कैयटस्त्वियभना- वश्यकी समभिव्याहृताजुपरागेण हलोऽप्युदाचादिवदवभासात्त- दुपपत्तेरित्याह । तत्र भाष्येऽपि ध्वनितमेतत् ॥ ८० ॥ नन्वेवमपि राजदृषदित्यादौ समास इत्यन्तोदात्तत्वं षकारा- कारस्य न स्यादत आह- हल्स्वरप्राप्तौ व्यञ्जनमविद्यमानवत् ॥ ८१ ॥ अस्याश्च 'यतोऽनाव' इति सूत्रे नौप्रतिषेधो ज्ञापकः । नाव्य- मित्यत्रादिर्नकारो न स्वरयोग्यो यश्चाकारस्तद्योग्यो नासावादिरिति । अत एवेति । उक्तहेतोरेवेत्यर्थः । अन्तोवत्याः अवतीशब्दस्यान्त उदात्त इत्यर्थः । ह्रस्वनुड्भ्याम्मतुप् ह्रखान्तादन्तोदात्तान्नुटश्च परो मतुबुदात्त इत्यर्थः। नन्वस्यापि स्वरोद्देश्यकत्वेनात्र परिभाषाप्रवृत्त्योदश्वित्वानित्यादौ प्रवृत्तिर्दुरेति चेत्-न । स्वरत्वव्याप्यधर्मघटितधर्मावच्छिन्नाया उद्देश्यदलीयविषयतायाः प्रतिबन्धकत्वं व्यञ्जनस्य नेत्यर्थेनोदश्वित्वा- नित्यत्रोदश्विच्छब्दस्यान्तोदात्तत्वेपि हस्वान्तत्वावच्छिन्नविषयताप्रति- बन्धकत्वं तकारस्यास्त्येवेत्यदोषात् । उदात्तान्तत्वोदात्तादित्वघटक- वर्णे व्यञ्जनातिरिक्तत्वन्देयमित्यत्रैव परिभाषायास्तात्पर्य्यमिति तत्त्वम् । अजुपरागेणेति । स्वरविशिष्टाच्सान्निध्येनेत्यर्थः। अवभासादिति । जपासन्निधानेन स्फटिकस्य रक्तत्ववदित्यर्थः । यद्यपि व्यञ्जनस्योदात्तवव- भासमानं नोदात्तत्वं वस्तुत: तथापि पृथिव्यादिपर्युदासेनाभासात्म- काहार्यज्ञानस्यापिशास्त्रप्रवृत्तिप्रयोजकत्वमतिदेशस्थलवदिति भाष्ये सूचि- तमिति बोध्यम् ॥ ८०॥ नन्वेबमपीति । स्वरोद्देश्यकविधौ व्यञ्जनस्याविद्यमानवभावेऽपी- त्यर्थः । हलस्वरप्राप्ताविति । स्वरविधायकशास्त्रीयोद्देश्यतावच्छेदका- क्रान्तस्य हलः स्वरविधाने कर्त्तव्ये इत्यर्थः । यतोऽनाव इति । यत्प्र- २०

३०६ ]
परिभाषेन्दुशेखरः
[ शेषार्थकथने
स प्रतिषेधोऽनर्थकः। न चादिरेव नकार उदात्तगुणविशिष्टान्तरत-
माजरूपोऽस्त्विति वाच्यम् । तथा सति निमित्तभूतव्यचकत्वस्य
विनाशादुपजीव्यविरोधेनाद्युदात्तत्वाप्राप्तेरित्यन्यत्र विस्तरः । स्पष्टा
चेयं 'समासस्य इति सूत्रे भाष्ये ॥१॥
ननु पूरणगुणेति निषेधस्तव्यत्यपि स्यात्, । 'दिव औत्' इत्यौ-
त्वं 'दिवेः किप्य'पि स्यात् । तथा 'यतोऽनावः' इति स्वरो ण्यत्यपि
स्यात् । 'ऋदृशोऽङि गुणः' इति.चयपि स्यात् । अत आह-
निरनुबन्धकग्रहणे न सानुबन्धकस्य ॥ ८२ ॥
त्ययान्तस्य व्यच आदिरुदात्तो नावं विनेति तदर्थः । न चादिरेवेति ।
व्यञ्जनस्योदात्तत्वादियोग्यत्वाभावेऽपि उदात्तत्वादिगुणविशिष्टोऽन्तर-
तमोऽच व्यञ्जनस्य स्थाने आदेशोऽस्तु। तथा च नायोग्यतेत्यर्थः । तथा
सतीति। अद्वयघटितशब्दघटकव्यञ्जनस्य स्थानेऽपरस्याचो विधाने
अचत्रित्वेन निमित्तभूतस्य तन्निष्ठद्वित्वस्य नाशः स्यात् । उत्तरा संख्या पूर्वा
संख्यां बाधत इति न्यायात् । तथा चोपजीव्यविरोधस्यान्याय्यत्वाम्ना-
व्यमित्यत्र न प्रवर्तेत सूत्रमिति व्यर्थमेव नौग्रहणमिति भावः। न च
स्वनिमित्तविघातकस्य स्वातिरिक्तस्य स्वयमनिमित्तमित्यर्थस्य सन्निपात-
परिभाषाया वक्ष्यमाणतया स्वेन स्वनिमित्तविनाशो न दोषायात एव रामा-
भ्यामित्यादौ दीर्घेण स्वनिमित्तभूतस्य ह्रस्वत्वसमानाधिकरणस्यात्वस्य
विनाशेऽपि न क्षतिरिति वाच्यम् । यस्य स्वनिमित्तविनाशं विना न चारि-
तायं तेनैव स्वनिमित्तविनाशो न दोषाय । चारितायें तु दोष एवोपजी-
व्यविरोधो न न्याय्य इति न्यायमूलकत्वात् परिभाषाया इत्यदोषात्।
प्रकृतेऽजादौ चारितार्थ्यसम्भवात्।।शा
तव्यत्यपि स्यादिति । तकारस्य लक्ष्येऽश्रवणेन तव्यरूपस्य
तत्रापि सत्त्वादिति भावः । किप्यपि स्यादिति । दिवुधातोरुकाररू-
पानुबन्धस्य लक्ष्येऽभावात् दिवरूपस्य तत्र सत्त्वादिति भावः । चङ्यपि
स्यादिति।ननु ऋवर्णान्तात् शेश्च चङोऽसम्भवादिदमसङ्गतमिति चेत्-
न।ततोऽङीत्यनुवर्तमाने श्वयतेर इति सूत्रं चङि अशिश्वियदित्यत्रापि स्या-
दिति तात्पर्य्यात्। तत्र च विभाषा धेश्व्योरित्यनेन चङो विधानात् ॥२॥

८३. तदनुबन्धकग्रहणे नात० ] विजयाऽलङ्कृतः [ ३०७ तदनुबन्धकग्रहणे नातदनुबन्धकस्य ग्रहणम् ॥ ८३ ॥ 'वामदेवाड्ड्यड्ड्यौ' इति सूत्रे ड्यड्यतोर्डित्वमनयोपिकम् । तद्धि 'ययतोश्चातदर्थे' इत्यत्र तयोरग्रहणार्थम् । नमः परस्य यय- दन्तस्योत्तरपदस्यान्त उदात्त इति तदर्थः। एवं चावामदेव्ये- ऽव्ययपूर्वपदप्रकृतिस्वर एव भवति । तन्मात्रानुबन्धकग्रहणे स चान्यश्चानुबन्धो यस्य तद्ग्रहणं नेत्यन्त्यार्थः । एते च प्रत्यया- प्रत्ययग्रहणसाधारणे 'दिव औत्' इत्यादौ सञ्चारितत्वात् । वर्ण- ग्रहणे चानयोरप्रवृत्तिरिति स्पष्ट मौङ आप इत्यत्र भाष्ये । येनानु- बन्धेन सानुबन्धकत्वं व्यनुवन्धकत्वादि वा तदनुच्चारण एवैषा धर्मिग्राहकमानात् । तेन 'जश्शसोरित्यत्र नैषेति निरनुवन्धकत्वा- तद्वीति । डित्त्वंहीत्यर्थः। तयोरिति । वामदेवप्रकृतिकययतोरित्यर्थः । तदर्थ इति। ययतोश्चातदर्थ इत्यस्यार्थ इत्यर्थः। डकाररूपानुबन्धस्यबोधके सत्त्वेऽपि लक्ष्ये यमात्रस्यैव तत्राप्नि सत्त्वात्। यत्प्रत्ययस्थलेऽपि भूत- पूर्वस्यैव तकारस्य सत्त्वेन ड्यत्प्रत्ययेऽपि भूतपूर्वतकारस्य स्वतो यकारस्य च डकारकरणेऽपि सत्त्वेन तयोर्ग्रहणस्य दुर्वारत्वेन डित्त्वं व्यर्थमेवेति भावः। टिलोपार्थन्तु न यस्येति लोपेन सिद्धेः। अवामदेव्ये इति। वामदेव्य- शब्दस्य नसमास इत्यर्थः। अव्ययपूर्वपदेति। तत्पुरुष तुल्यार्थतृतीया- सप्तम्युपमानाव्ययद्वितीयाकृत्याः इति सूत्रेण सप्तैते पूर्वपदभूतास्तत्पुरुषे प्रकृत्येत्यर्थकेणेति भावः। आद्यार्थस्य स्पष्टत्वादन्त्यार्थमाह-तन्मात्रे- त्यादि । स चेति । यस्य सूत्रे उपादानं स इत्यर्थः । प्रत्ययाप्रत्ययेति । प्रत्ययस्य ज्ञापकत्वादप्रत्यये दिव औदित्यत्र संचारितत्वादिति भावः । वर्णग्रहणे चानयोरप्रवृत्तिरिति । तेनाधीते इत्यादौ डिन्तीकारेऽपि दीर्घ- सिद्धिः । औङ आप इत्यत्र भाष्य इति । तत्र हि निरनुबन्धकपरिभा- षया द्वितीयाद्विवचनेऽप्रवृत्तिमाशंक्य वर्णग्रहणेनैषेति समाहितम् । धर्मि- ग्राहकमानादिति । ययतोश्चातदर्थ इत्यत्र यप्रत्ययस्य डकारेण सानुब- न्धकत्वम्। यत्प्रत्यये डकारेण द्व्यनुबन्धकत्वम् । तस्यानुच्चारणमस्तीति भावः । नैषेति । तत्र शकारानुबन्धस्योच्चारणादिति भावः । तद्धितश- ।

३०८ ] परिभाषेन्दुशेखरः [ शेषार्थकथने .. तद्धितशस एवात्र ग्रहणं स्यादिति न शक्यम् । एवमन्त्या अन्य- तरानुवन्धोच्चारणे एव । तेन 'वनो र चे'त्यादौ वनिपक्वनिपो- ग्रहणसिद्धिः । एकानुबन्धकग्रहणे सम्भवतीत्यर्थो न भाष्यादि- सम्मत इत्यन्यत्र विस्तरः॥८३॥ ननु कुटीर इत्यादौ स्वार्थिकत्वात् स्वार्थिकानां प्रकृतितो लिङ्ग- वचनानुवृत्तेयायप्राप्तत्वात्पुंस्त्वानुपपत्तिः । अपकल्पमित्यत्र नपुं- सकत्वैकवचनयोरनुपपत्तिश्चेत्यत आह- कचित्स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्त्तन्ते ॥४॥ 'णचः स्त्रियाम्' इति सूत्रे स्त्रियामित्युक्तिरस्या ज्ञापिका । अन्यथा सोऽग्रहणन्तु जस्साहचर्य्याद्बोध्यम् । वनो र चेति । अत्र कस्याप्य- नुबन्धस्योचारणाभावादिति भावः । न भाष्यादिसम्मत इति । तेन नुण इत्यत्र घिनुणोऽग्रहणमन्यथा एकानुबन्धकस्याभावेनोक्तपरिभाषाया अप्राप्तौ घिनुणो ग्रहणं दुर्वारं स्यात् । क्षय इत्यत्र मतुप्शब्देन ड्मतुपोऽ- ग्रहणञ्च सिद्धम् ॥ ८३ ॥ कचित्स्वार्थिकाः प्रकृतित इति । प्रत्ययानां प्रत्ययेति महासंज्ञा- याऽर्थवत्त्वेनावश्यमेव भवितव्यम् । प्रत्याययति स्वीयमर्थमिति प्रत्यय इति भाष्ये स्वीयपदोपादानेन च यत्र शास्त्रेण कोऽप्यों विशिष्य नोच्यते तत्रार्थवत्त्वजिज्ञासायामुपस्थितत्वात्प्रकृत्यर्थेनैवार्थवत्ता वक्तव्या। तदर्थवि- शेषणतयोपस्थितलिङ्गसंख्ययोरप्यन्वय उक्तयुक्त्या वक्तव्य इति प्रकृतेरेव लिङ्गसंख्यानुवर्तनं स्वार्थिकानामौत्सर्गिकम् । सति गमके प्रकृत्यर्थलिङ्ग- संख्याभिन्नलिङ्गसंख्याबोधकत्वमत एव क्वचिदित्युक्तम् । प्रकृतित इति । षष्ठ्यन्तात्तसिः। वचनं संख्या। अतिवर्तनं त्यागः । गच: स्त्रियामेव विधानेन तदन्तात् जायमानोऽन् स्त्रियामित्युक्ति विनायुक्तयुक्त्या स्त्रिया- मेव भविष्यतीत्युच्यमानं स्त्रियामित्युक्तार्थे ज्ञापकम् । रप्रत्ययार्थाल्पत्वस्य कुटीरूपप्रकृत्यर्थेऽन्वयान्न प्रत्ययान्ते एकार्थीभावरूपसामर्थ्यानुपपत्तिः । नन्वत्यन्तस्वार्थिकप्रत्ययान्तयावकादीनां कथमेकार्थीभावः । तत्र कस्यापि प्रकृत्यातिरिक्तस्यार्थस्य प्रत्ययेनाप्रतीतेः परस्परान्वितार्थकत्वरूपैकार्थी- भावस्यासम्भवादिति चेत्-न । यावरूप एवार्थः प्रत्ययेनापि महासंज्ञाबलात् ।

८५. समासान्तविधिरनित्य: ] विजयाऽलङ्कृतः [ ३०६ कर्मव्यतिहारे ‘णच् स्त्रियाम्' इति स्त्रियामेव विधानाकिं तेन । स्पष्टा चेयं बहुविधायके भाष्ये ॥ ८४ ॥ ननु सुपथी नगरीति 'युवोरनाकाविति सूत्रभाष्योदाहृते 'इन: स्त्रियाम्' इति कप्स्यादत आह- समासान्तविधिरनित्यः ॥ ८५ ॥ 'प्रतेरंश्वादयस्तत्पुरुषे' इत्यन्तोदात्तत्वायांश्वादिषु राजन्शब्द- पाठोऽस्यां ज्ञापकः । अन्यथा टचैवान्तोदात्तत्वे सिद्ध किं तेन । प्रतीयते। "नसोऽस्ति प्रत्ययो लोके यः शब्दानुगमाढत” इत्यभियुक्तो- क्त्या करूपशब्दस्य यावरूपशब्दस्यापि खण्डशक्त्योपस्थितस्य विशेषण- तयाऽन्वयेन विभिन्नरूपतया प्रकृत्यर्थप्रत्ययार्थयोरभेदान्वयेनैकार्थीभावस्य सूपपादत्वात्। नन्वेकार्थीभावो नाम कः पदार्थः ? न तावत् परस्परान्वितार्थबोधक- त्वम् । घटशब्देऽपि तदापत्तेः। न वा परस्परान्वितार्थकानेकशब्दघटितत्वं सः। विवन्तलिडादिशब्दे तदभावापत्तेरनेकशब्दघटितत्वाभावात् । अत्रोच्यते-स्ववृत्तित्वस्वपर्याप्तशक्तिज्ञानाधीनज्ञानविषयत्वोभयस- म्बन्धेन पदविशिष्टशक्तिपर्याप्त्यधिकरणत्वं सः समन्वयः स्वयमूह- नीयः ॥८४॥ टचैवेति । ननु प्रतेरंश्वादयस्तत्पुरुष इत्यस्य प्रते: परीभूतास्तत्पुरुष- घटका अंश्वादय अन्तोदात्ता इत्यर्थन प्रतिराज इत्यत्र टिलोपे कृतेऽव- शिष्टस्य राजोऽप्येकदेशविकृतन्यायेन राजनशब्दत्वात् सति शिष्टस्वरबली- यस्त्वाद्रेफाकारस्योदात्तत्वाय पाठ आवश्यक इति चेत्-न । प्रतिपरांश्वा- द्युत्तरपदकतत्पुरुषस्यान्त उदात्त इत्यस्यैव परस्परसमभिव्याहाराल्लाभेन टचोऽकारस्यैव प्राप्त्या तस्य चित्वादेवोदात्तत्वसिद्धेः। पाठवैयर्थ्यस्य सूप- पादत्वात् । अक्तपरिमाणत्वेन राजमात्रस्य तेन न्यायेन राजनशब्दत्वा- लाभेन पूर्वोक्तार्थेऽपि वैयर्थ्यसत्त्वाच्च द्वित्रिभ्यां पादनमूर्द्धसु बहुव्रीहावि- । १-अस्योत्तरार्धस्तु- अनुबिद्धमिव ज्ञानं सर्व शब्देन भासते--वाक्यपदीये भर्तृहरिः-१-१२४ ३१० ] परिभाषेन्दुशेखरः [ शेषार्थकथने 'द्वित्रिभ्यां पाइन्मूर्द्धसु' इति स्वरविधायके भाष्ये स्पष्टेयम् ॥ ८५॥ ननु शतानीत्यादौ नुमि कृते षट्संज्ञा प्राप्नोति । ततश्च लुक् स्थात् । तथोपादास्तेत्यत्रात्वे कृते 'स्थाघ्योरिच्चे'तीत्वं प्राप्नोत्यत पाह- सन्निपातलतंणो विधिरनिमित्तं तद्विघातस्य ॥ ८६ ॥ सन्निपातो द्वयोः सम्बन्धस्तन्निमित्तो विधिस्तं सनिपातं यो ति सूत्रे मूद्धेष्विति कृतसमासान्तनिर्देशेन बहुव्रीहावेव समासान्तस्य स- त्त्वेन बहुव्रीहिग्रहणं व्यर्थं सत् परिभाषां ज्ञापयति । ज्ञापितायाञ्च तस्यां समासान्ताभावे द्विमूर्द्धा इत्यत्र स्वरप्रवृत्तयेऽकृतसमासान्तनिर्देशस्याव- श्यकत्वेन बहुव्रीहीतरसमासे खराभावाय बहुव्रीहिग्रहणं चरितार्थम् । एतेन राज्ञी प्रतिगतः प्रतिराज्ञिरित्यत्र समासान्तविधौ लिङ्गविशिष्टपरि- भाषाया अनित्यत्वेन टचोऽभावेन तत्र स्वरप्रवृत्तये राजनशब्दपाठश्वरि- तार्थः । न च स्वरविधावपि लिङ्गविशिष्टपरिभाषाया अभाव इति वाच्यम् । संघातग्रहणे एव तत्राप्रवृत्तेरुक्तत्वात् नेयं ज्ञापकसिद्धेत्यपास्तम् ॥ ८॥ नन शतानीत्यादाविति । ननु विभक्तिसापेक्षनुमो बहिरङ्गत्वेना- सिद्धत्वान्न षट्संज्ञा स्यादिति चेत्-न । संज्ञाया विधिनिमित्तनिमित्तक- त्वेन षट्वस्यापि लुग्निमित्तविभक्तिनिमित्तकत्वेनोभयोस्समत्वात् । उपदेशे नान्तस्य षट्संज्ञेत्यर्थेन षट्त्वाभावस्तु न प्रातिपदिकस्योपदेशाभावेन ताह- शार्थस्यासम्भवात् नुनिमित्तविभक्तिविनाशसम्भावनयाऽकृतव्यूहपरिभा- षया नुम् न स्यादिति दोषस्तु न । तस्या असत्त्वादेतदोषवारणायापि स- निपातपरिभाषायाः कर्त्तव्यत्वाच्च उपजीव्यविरोधस्यायुक्तत्वमिति । उप- जीवयतीत्युपजीव्यः। एयन्तात् कतरि बाहुलकाद्यत् तस्य यो बिरोधोना- शानुकूलो व्यापारस्स उपजीवकेन कर्त्तमयोग्य इत्यर्थः। शतानीत्यादी नुमं प्रत्युपजीव्या विभक्तिस्तन्नाशो लुक् तज्जनको व्यापारः षट्संज्ञाप्राप्ति- स्सा उपजीवकेन नुमा न कर्तव्येति न पटसंज्ञां एवमुपादास्तेत्यादौ दीडो मीनातिमिनोतिदीङामित्यनेन सिज्निष्ठमेज्विषयत्वं गुणप्रयोजकमकित्व- मुपजीव्य जायमानमात्वं घुसंज्ञाद्वारा स्थाध्वोरिच्चेत्यनेन विहितं सिज्नि- ष्ठमकित्वविनाशकं कित्त्वं प्रति निमित्त नेति नकित्त्वमिति बोध्यम् । ननु ८६. सन्निपातलक्षणो विधिर०] विजयाऽलङ्कृतः [ ३११ विहन्ति तस्यानिमित्तम् । उपजीव्यविरोधस्यायुक्तत्वमिति न्याय- मूलैषा । अत एवात्र सन्निपातशब्देन न पूर्वपरयोः सम्बन्ध एव किं तु विशेष्यविशेषणसन्निपातोऽपि गृह्यते । अत एव ग्रामणि- कुलमित्यादौ नपुंसकहस्वत्वेऽपि पितिकृतीति तुग्न । प्रातिपदिका- जन्तत्वसन्निपातन जातस्य हवस्य तदविघातकत्वात् । तुक्य- जन्तत्वविधातः स्पष्ट एव । न चार्थाश्रयत्वेन हस्वस्य बहिरङ्गतया- सिद्धत्वमर्थकृतबहिरङ्गत्वानाश्रणस्योक्तत्वात् । किं च षत्वतुकोर- सिद्ध इत्येतद्वलात् कृति तुग्ग्रहणाच्च तुग्विधौ बहिरङ्गपरिभाषाया अप्रवृत्तः। सर्वविधसन्निपातग्रहणादेव वर्णाश्रयः प्रत्ययो वर्ण- विचालस्यानिमित्तं स्यादित्येतत्परिभाषादोषनिरूपणावसरे वार्ति- कित्त्वस्याकित्त्वविनाशकत्वेनाभावेऽपीत्वं दुर्वारन्तत्रोपजीव्यविरोधाभा- वादिति चेत्-न । कित्त्वस्यानयाऽभावे तत्सन्नियोगशिष्टत्वस्य सन्नियोग- शिष्टानामन्यतरेत्यनया वारणात्। अत एवेति । उपजीव्यविरोधस्यायु- क्तत्वमूलकत्वादेवेत्यर्थः । विशेष्यविशेषणसन्निपात इति। अभेदसम्ब- न्ध इत्यर्थः । सन्निपातस्य निमित्तमात्रपरत्वादिति भावः । निमित्तमात्र- विरोध उपजीव्यविरोधस्य सत्त्वादिति भावः । प्रातिपदिकाजन्तत्वेति। प्रातिपदिकस्याजन्तेन सह योऽभेदस्तद्रूपसन्निपातेन निमित्तभूतेनेत्यर्थः। पूर्वपरसम्बन्धस्यैव सन्निपातपदेन ग्रहणे तु प्रकृते परिभाषाया अप्रवृत्त्या- पत्तेः । तुक्यजन्तत्वविधात इति । यदागमन्यायेन तुग्विशिष्टस्य प्रातिपदिकत्वन्न तु तेन तस्याजन्तत्वं वर्णग्रहणे तस्याप्रवृत्तेः । ह्रस्वस्य तुकि बहिरङ्गासिद्धत्वन्तु नेत्याह-न चार्थाश्रयत्वेनेति । नपुंसकत्व- रूपार्थाश्रयत्वेनेत्यर्थः । किन्चेति । नाजानन्तर्य इति परिभाषयेत्यर्थः । सर्वविधसन्निपातेति । निमित्तमात्रग्रहणादेवेत्यर्थः । वर्णाश्रय इति । वर्णनिमित्तकः। विचालस्य नाशस्येत्यर्थः । तथा च दाक्षिरित्यत्राकार- निमित्तके प्रत्यये परे यस्येति लोपो न स्यादिति बोध्यम् । पूर्वपरसम्बन्ध- स्यैव सन्निपातत्वे अन्न तदभावेन दोषो न स्यादिति भावः । ननु वर्णाश्रय ३१० ] परिभाषेन्दुशेखरः [ शेषार्थकथने 'द्वित्रिभ्यां पादनमूर्द्धसु' इति स्वरविधायके भाष्ये स्पष्टेयम् ॥८५॥ ननु शतानीत्यादौ नुमि कृते षट्संज्ञा प्रामोति । ततश्च लुक् स्यात् । तथोपादास्तेत्यत्रात्वे कृते 'स्थाध्वोरिच्चे'तीत्वं प्राप्नोत्यत ग्राह- सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य ॥ ८६ ॥ सनिपातो द्वयोः सम्बन्धस्तनिमित्तो विधिस्तं सन्निपातं यो ति सूत्रे मूद्धेष्विति कृतसमासान्तनिर्देशेन बहुव्रीहावेव समासान्तस्य स- त्वेन बहुव्रीहिग्रहणं व्यर्थं सत् परिभाषां ज्ञापयति । ज्ञापितायाञ्च तस्यां समासान्ताभावे द्विमूर्द्धा इत्यत्र स्वरप्रवृत्तयेऽकृतसमासान्तनिर्देशस्याव- श्यकत्वेन बहुव्रीहीतरसमासे स्वराभावाय बहुव्रीहिग्रहणं चरितार्थम् । एतेन राज्ञी प्रतिगतः प्रतिराज्ञिरित्यत्र समासान्तविधौ लिङ्गविशिष्टपरि- भाषाया अनित्यत्वेन टचोऽभावेन तत्र स्वरप्रवृत्तये राजन्शब्दपाठश्चरि- तार्थः । न च स्वरविधावपि लिङ्गविशिष्टपरिभाषाया अभाव इति वाच्यम्। संघातग्रहणे एव तत्राप्रवृत्तेरुक्तत्वात् नेयं ज्ञापकसिद्धेत्यपास्तम् ॥८५॥ ननु शतानीत्यादाविति । ननु विभक्तिसापेक्षनुमो बहिरङ्गत्वेना- सिद्धत्वान्न षट्संज्ञा स्यादिति चेत्-न । संज्ञाया विधिनिमित्तनिमित्तक- त्वेन षट्त्वस्यापि लुग्निमित्तविभक्तिनिमित्तकत्वेनोभयोस्समत्वात् । उपदेशे नान्तस्य षट्संज्ञेत्यर्थेन षट्वाभावस्तु न प्रातिपदिकस्योपदेशाभावेन ताह- शार्थस्यासम्भवात् नुनिमित्तविभक्तिविनाशसम्भावनयाऽकृतव्यूहपरिभा- षया नुम् न स्यादिति दोषस्तु न । तस्या असत्त्वादेतदोषवारणायापि स- निपातपरिभाषायाः कर्त्तव्यत्वाच्च उपजीव्यविरोधस्यायुक्तत्वमिति । उप- जीवयतीत्युपजीव्यः। ण्यन्तात् कर्तरि बाहुलकाद्यत् तस्य यो विरोधो ना- शानुकूलो व्यापारस्स उपजीवकेन कर्तुमयोग्य इत्यर्थः। शतानीत्यादौ नुमं प्रत्युपजीव्या विभक्तिस्तन्नाशो लुक् तज्जनको व्यापारः षट्संज्ञाप्राप्ति- स्सा उपजीवकेन नुमा न कर्तव्येति न पट्संज्ञां एवमुपादास्तेत्यादौ दीडो मीनातिमिनोतिदीङामित्यनेन सिज्निष्टमेविषयत्वं गुणप्रयोजकमकित्व- मुपजीव्य जायमानमात्त्वं घुसंज्ञाद्वारा स्थाध्वोरिच्चेत्यनेन विहितं सिज्नि- ष्ठमकित्वविनाशकं कित्त्वं प्रति निमित्त नेति नकित्त्वमिति बोध्यम् । ननु ८६. सन्निपातलक्षणो विधिर०] विजयाऽलङ्कृतः [ ३११ विहन्ति तस्यानिमित्तम् । उपजीव्यविरोधस्यायुक्तत्वमिति न्याय- मूलैषा । अत एवात्र सन्निपातशब्देन न पूर्वपरयोः सम्बन्ध एव किं तु विशेष्यविशेषणसनिपातोऽपि गृह्यते । अत एव ग्रामणि- कुलमित्यादौ नपुंसकहस्वत्वेऽपि पितिकृतीति तुग्न । प्रातिपदिका- जन्तत्वसन्निपातन जातस्य हवस्य तदविघातकत्वात् । तुक्य- जन्तत्वविघातः स्पष्ट एव । न चार्थाश्रयत्वेन ह्रस्वस्य बहिरङ्गतया- सिद्धत्वमर्थकृतबहिरङ्गत्वानाश्रणस्योक्तत्वात् । किं च षत्वतुकोर- सिद्ध इत्येतद्धलात् कृति तुग्ग्रहणाच्च तुग्विधौ बहिरङ्गपरिभाषाया अप्रवृत्तः । सर्वविधसन्निपातग्रहणादेव वर्णाश्रयः प्रत्ययो वर्ण- विचालस्यानिमित्तं स्यादित्येतत्परिभाषादोषनिरूपणावसरे वार्ति- कित्त्वस्याकित्त्वविनाशकत्वेनाभावेऽपीत्वं दुर्वारन्तत्रोपजीव्यविरोधाभा- वादिति चेत्-न । कित्त्वस्यानयाऽभावे तत्सग्नियोगशिष्टत्वस्य सन्नियोग- शिष्टानामन्यतरेत्यनया वारणात्। अत एवेति । उपजीव्यविरोधस्यायु- क्तत्वमूलकत्वादेवेत्यर्थः । विशेष्यविशेषणसन्निपात इति। अभेदसम्ब- न्ध इत्यर्थः । सन्निपातस्य निमित्तमात्रपरत्वादिति भावः । निमित्तमात्र- विरोध उपजीव्यविरोधस्य सत्त्वादिति भावः । प्रातिपदिकाजन्तत्वेति। प्रातिपदिकस्याजन्तेन सह योऽभेदस्तद्रूपसन्निपातेन निमित्तभूतेनेत्यर्थः। पूर्वपरसम्बन्धस्यैव सन्निपातपदेन ग्रहणे तु प्रकृते परिभाषाया अप्रवृत्त्या- पत्तेः । तुक्यजन्तत्वविघात इति । यदागमन्यायेन तुग्विशिष्टस्य प्रातिपदिकत्वन्न तु तेन तस्याजन्तत्वं वर्णग्रहणे तस्याप्रवृत्तेः । ह्रस्वस्य तुकि बहिरङ्गासिद्धत्वन्तु नेत्याह-न चार्थाश्रयत्वेनेति । नपुंसकत्व- रूपार्थाश्रयत्वेनेत्यर्थः । किञ्चेति । नाजानन्तर्य इति परिभाषयेत्यर्थः । सर्वविधसन्निपातेति । निमित्तमात्रग्रहणादेवेत्यर्थः । वर्णाश्रय इति । वर्णनिमित्तकः। विचालस्य नाशस्येत्यर्थः। तथा च दाक्षिरित्यत्राकार- निमित्तके प्रत्यये परे यस्येति लोपो न स्यादिति बोध्यम् । पूर्वपरसम्बन्ध- स्यैव सन्निपातत्वे अन तदभावेन दोषो न स्यादिति भावः । ननु वर्णाश्रय ३१२ ] परिभाषेन्दुशेखरः [ शेषार्थकथने ककृतोक्तम् । न हि प्रत्ययः पूर्वपरसन्निपातनिमित्तकः। स एव च सन्निपातशब्देन गृह्यत इति मत्वा न प्रत्ययः सन्निपातनिमित्तक इति शङ्कायां तदभ्युपेत्यैवाङ्गसंज्ञा तमुनिमित्तं स्यादित्येकदेशि- नोक्तमिति न तद्भाष्यविरोधः । किं चैवं शैवो गायों वैनतेय इत्यादावप्यङ्गसंज्ञाया लोपनिमित्तत्वानापत्त्या वर्णाश्रय इत्यस्य वैयर्थ्यम् । ग्रामणिकुलं ग्रामणिपुत्र इत्यादावुत्तरपदनिमित्तके हस्व- त्वै यथाकथंचिद्वहिरङ्गपरिभाषयापि वारणं संभवतीति 'कृन्मे- इत्यादि वार्तिकोक्तं दूषणमयुक्तमेव । न प्रत्ययस्सन्निपातेति । वक्ष्य- माणभाष्येण तस्य खण्डनीयत्वादिति चेत्-न । तस्यैकदेशिकथितत्वेन तेन तस्य खण्डनासम्भवात्। एकदेशिकथितत्वमुपपादयितुमाह-न हि प्रत्यय इत्यादि । इति मत्वेति । इत्यभिप्रायेणेत्यर्थः। तदभ्युपेत्यैवेति प्रत्ययस्य सन्निपातनिमित्तकत्वाभावं स्वानभिमतमपि स्वीकृत्यैवेत्यर्थः । अङ्गसंज्ञा तानिमित्तमिति । वर्णाश्रयः प्रत्यय इति दूषणे न प्रत्ययस्सन्निपात इत्यनेन समाहिते वर्णाश्रय इत्यस्याशयान्तरं वर्णयति- अङ्गसंज्ञा तहीति । वर्णाश्रयप्रत्ययनिमित्ताङ्गसंज्ञा प्रकृतिघटकवर्ण- नाशकं यस्येति लोपं प्रत्यनिमित्तं स्यादिति । अत्र प्रथमदूषणे न प्रत्यय इति समाधानस्य अङ्गसंज्ञा तीत्याशयान्तरवर्णनस्य चैकदेश्युक्तत्वमि- त्यर्थः । तथा च वर्णाश्रय इति दोषदानमेव युक्तम् । तेन च विशेष्यविशे- षणभावस्यापि सन्निपातपदेन ग्रहणमिति स्पष्टमेव लभ्यत इति भावः । एकदेश्युक्तत्वं साधयति-कि ति। किमिति कस्मात् इत्यर्थः। एवमिति। एवं सतीत्यर्थः। शैवः गार्य इत्यत्र वर्णमनाश्रित्य जायमानो यः प्रत्ययस्त- निमित्तिका अङ्गसंज्ञा प्रकृतिघटकवर्णनाशे निमित्तं न स्यात् । लोपे हि तद- न्तशिवशब्दे प्रत्ययाव्यवहितपूर्वत्वमदन्तस्याङ्गसंज्ञाया निमित्तं नंक्ष्यतीति भावः। तथैव दाक्षिरित्यत्राप्यङ्गसंज्ञाया अनिमित्तत्वात्तत्तात्पर्य्यकत्वेवर्णा- श्रयत्वं प्रत्ययविशेषणं व्यर्थं स्यादिति न तदाशयकं वर्णाश्रय इति भाष्य- मिति तदाशयवर्णनमेकदेशिन एवेति स्पष्टम् । न च न प्रत्ययस्सन्निपात- निमित्तक इत्यस्य कथमेकदेश्युक्तत्वमिति वाच्यं, सिद्धान्तिना तत्समा- धानाकरणेन तस्य हेयत्वबोधनात् । ननु ग्रामणिकुलमित्यादौ बहिरङ्ग- परिभाषया तुको वारणासंभवे तत्र तया तुको वारणपरभाष्यविरोध इत्यत आह-ग्रामणिपुत्र इत्यादि । यथाकथञ्चिदिति । नाजानन्त- ८६. सन्निपातलक्षणो विधिर०] विजयाऽलङ्कृतः [ ३१३ जन्त' इत्यत्र 'हस्वस्थ पिति' इति सूत्रे चैकदेशिना तया परि- भाषया तुग्वारितो भाष्ये । अत एव परिभाषायाः फलत्वेनेदमुक्तं 'कृन्मेजन्त' इति सूत्रे वार्त्तिककृतेति केचित् । सन्निपातलक्षणवि- धित्वमस्यालिङ्गम् । स्वप्रवृत्तेः प्राक् स्वनिमित्तभूतो यः सन्निपा- तस्तद्विघातकस्य स्वातिरिक्तशास्त्रस्य स्वयमनिमित्तमिति फलति । नन्वेवं रामायेत्यादौ 'सुपि चेति दीर्घानापत्तिरदन्ताङ्गङसन्निपा- तेन जातस्य यादेशस्य तदविघातकत्वात् । न च यजादित्वसापेक्ष- दीर्घस्य बहिरङ्गतयाऽसिद्धत्वान्नात्र सन्निपातविघात इति वाच्यम् । । य॑परिभाषास्मरणात्प्रागित्यर्थः । वस्तुतोऽयुक्तमेवेत्यत आह-एकदेशि- नेति । अत एवेति ।वहिरङ्गपरिभाषाया अप्रवृत्तेरेवेत्यर्थः। परिभाषायाः फलत्वेन सन्निपातपरिभाषाफलत्वेनेत्यर्थः । ईगतावित्यस्मात् किपि नपुंस- कह्रस्वे इकुलमित्यादौ तुको वारणायैतद्विषये सन्निपातपरिभाषाश्रयणस्या- वश्यकत्वेन कचिल्लक्ष्ये बहिरङ्गपरिभाषासंचारस्ते वृथेति भावः। सन्नि- पातलक्षणविधित्वमिति । सन्निपातनिमित्तकशास्त्रत्वमित्यर्थः । सन्नि- पातपरिभाषाश्रयणस्यावश्यकत्वेन नपुंसकस्य झलच इत्यत्र परिभाषो- पस्थितिरिति बोध्यम्। सर्वनामस्थानं निमित्तीकृत्य जायमानो नुम् लुग- द्वारा सर्वनामस्थानविघातकपटसंज्ञां प्रत्यनिमित्तमिति न षट्संज्ञा। स्वातिरिक्तशास्त्रस्येति । ननु व्यञ्जनस्य यतोऽनाव इत्यनेनोदात्तगुण- विशिष्टाचो विधाने ज्यच्त्वसंपत्त्या निमित्तभूतस्याज्निष्ठस्य द्वित्वस्य विनाशेनोपजीव्यविरोधः स्यादित्यस्य पूर्वमुक्तत्वेन स्वस्यापि स्वनिमित्त- विघातकत्वाभावस्य लाभादिदमसङ्गतमिति चेत्-न। यस्य स्वनिमित्त- विनाशं विनान प्रवृत्तिस्तदतिरिक्तशास्त्रस्येत्यर्थेनादोषात्। यथा सुपि चेति- शास्त्रं स्वनिमित्तादन्तत्वस्य विनाशं प्रति निमित्तमेव तद्विनाशं विना तस्या- चारितार्थ्यात् । तदविघातकत्वादिति । अदन्तत्वविघातकदीर्घ प्रत्य- निमित्तत्वादित्यर्थः । यः स्वनिमित्तिवघातकत्वेन यं जानाति तं प्रत्येव स निमित्तं न भवति । यादेशं प्रति बहिरङ्गतया दीर्घस्यासिद्धत्वेन ज्ञाना- भावात् । तं प्रति यादेशो निमित्तं स्यादेवेत्याह-न च यजादित्वेति । दीर्घस्य अभावप्रतियोगित्वरूपासिद्धत्वस्यारोपेऽपि वस्तुतस्तस्य सत्त्वेन प्रवृत्तिधौव्यात् निमित्तविघातोऽस्त्येवेति परिभाषाया:प्रवृत्तिरव्याहतेत्याह- ३१४ ] परिभाषेन्दुशेखरः [ शेषार्थकथने आरोपितासिद्धलेऽपि वस्तुतस्तद्विघातस्य जायमानत्वेनैतत्प्रवृत्तः । किं चान्तरङ्गे कर्तव्ये बहिरङ्गस्यासिद्धत्वेऽपि तत्र कृते तस्यासिद्धत्वे मानाभावः। किं चातिदेशिकसनिपातविघाताभावमादायैतदप्रवृत्ती गौरीत्यादौ संवृद्धिलोपेऽपि स्थानिवत्त्वेन ह्रस्वनिमित्तसन्निपातवि- घाताभावात्तत्रतस्यातिव्याप्तिपर कृन्मेजन्त' इति सूत्रस्थमाष्यास- ङ्गतिः। सन्निपातस्याशास्त्रीयत्वान्नात्र स्थानिवत्त्वमिति चेत्तयसि- द्धत्वमपि कथमिति विभावय । अशास्त्रीयेऽसिद्धत्वाप्रवृत्त'रीदूदेत्' इति सूत्रे कैयटेन स्पष्टमुक्तत्वात् । एवं च पूर्वत्रासिद्धीयेऽपि कार्ये एतत्परिभाषाप्रवृत्तिर्भवत्येवेति चेत्-न । कष्टायेति निर्देशेनैतस्या अनित्यत्वात् । ययोः सन्निपातस्य विघातक शास्त्रं तयोः सन्निपात- निमित्तकविधावुपादानमपेक्षितमिति तु नाग्रहः । अत एव दाक्षि- रित्यत्राकारान्तप्रकृतीसन्निपातनिमित्ताङ्गसंज्ञाऽनया परिभाषयाऽ- लोपस्य निमित्तं न स्यादित्याशंक्यानित्यत्वेन समाहितं 'कृन्मेजन्त' इति सूत्रे भाष्ये । न ह्यङ्गसंज्ञायामदन्तस्याङ्गसंज्ञेत्युक्तमस्ति । न च आरोपितेत्यादि । शास्त्रस्य प्रवृत्तौ निवृत्तौ वाऽतिदेशस्थलानुरोधेन निमि- त्तबुद्धेरेवापेक्षितत्वेनाज्ञातस्य स्वरूपसतस्तद्विघातस्याकिञ्चित्करत्वादि- त्यरुचेराह-किञ्चेति । ननु उर्य इत्यस्य जातत्वेऽपि न क्षतिस्तं प्रत्यसिद्ध- त्वबोधनाभावादपि तु परिभाषां प्रति दीर्घस्य तत्त्वं बोध्यते । तस्याश्च जातत्वाभावात् परिभाषया हि सन्निपातलक्षणे कार्ये स्वनिमित्तविघातकं शास्त्रं प्रत्यनिमित्तत्वं वोध्यते । सन्निपातलक्षणविधित्वस्य परिभापालिङ्ग- त्वेन डेयं इति शास्त्रस्थत्वेन तन्निमित्तनिमित्तकत्वेनान्तरजा परिभाषा तां प्रति दीर्घस्यासिद्धत्वेन तस्या यादेशनिमित्तविनाशकत्वेन दीर्घज्ञाना- भावात्तया तं प्रत्यनिमित्तत्वबोधनासम्भवादत आह-किञ्चेति । पूर्व- त्रासिद्धीयेऽपि कार्य एतत् परिभाषाप्रवृत्तिरिति । वस्तुतः प्रवृत्तौ बाधका- भावमात्रप्रतिपादनपरोयं ग्रन्थः न तु तत्र प्रवृत्तौ फलम् । दुग्धं दोग्धेत्यादौ घनिमित्तकस्य झषस्तथोरिति धत्वस्य जश्त्वं प्रति निमित्तत्वानापत्त्या प्रयोगासिद्धिप्रसङ्गाच इको यणचीत्युत्तरं मय उबो वेति न्यासेन ८६. सन्निपातलक्षणो विधिर० ] विजयाऽलङ्कृतः [३१५ कुम्भकारेभ्य आधय इत्यादावव्ययसंज्ञाया अनया परिभाषया वार- णपरभाष्यासङ्गतिः । अनया परिभाषया लुङ् मा भूत्, अव्ययत्वं तु स्यादेव । लुका हि तदीयसन्निपातस्य विधातो नाव्ययसंज्ञायाः, संज्ञाफलं त्वकच स्यादिति वाच्यम् । एतदुदाहरणपरभाष्यप्रामा- एयेन साक्षात्परंपरया वा स्वनिमित्तसन्निपातविघातकस्य स्वयमनि- मित्तमित्यर्थेनादोषात् । एतेनात्राकच् स्यादित्यपास्तम् । न च कार्यकालपक्षे लुगेकवाक्यतापन्नसंज्ञावाधेप्यकजेकवाक्य- तापन्ना स्यादिति वाच्यम् । अन्तरङ्गायां तदेकवाक्यतापन्नसंज्ञायां बहिरङ्गगुणादेरसिद्धत्वात् । लुगेकवाक्यतापन्ना तु न गुणादितो- ऽन्तरङ्गोभयोरपि शब्दतः सुबाश्रयत्वात् । न यासयोरिति निर्देशा- च्चैषाऽनित्या तेन नातिप्रसङ्गः । स्पष्टा चेयं 'कृन्मेजन्त' इति सूत्रे भाष्ये । अस्या अनित्यत्वे फलानि भाष्ये परिगणितानि । वर्णाश्रयः प्रत्ययो वर्णविचालस्यानिमित्तम् दाक्षिः, आत्वं पुग्विधेः, क्रापयति, । यणोऽनुवृत्त्य वकारादेशेनाऽपि किम्वुक्तमित्यादौ प्रकृतपरिभाषया मकार- स्यानुस्वारनिवृत्तौ त्रिपाद्यां तन्निवृचये गुरुभूतस्य मय उबो वो वेत्यस्य वैयर्थ्याच्च । त्रिपाद्या प्रवृत्त्यभाव एव युक्त इति बोध्यम् । परंपरयेति। एत्वं स्वनिमित्तविभक्तलुंगद्वारा परंपरया विघातकाव्ययसंज्ञाया निमित्तन्नेति बोध्यम्। एतेनेति। अव्ययत्वाभावेनेत्यर्थः। लुगेकवाक्यतापन्नेति । कार्यकालपक्षे यावन्ति विधिशास्त्राणि तावन्ति संज्ञासूत्राणि भवन्तीति भावः। न यासयोरिति । विभक्त्यव्यवहितपूर्वत्वसन्निपातेन जातमत्त्वं तत्सग्निपातविघातकटापं प्रत्यनिमित्तं स्यादिति निर्देशासङ्गतिरितिभावः। वर्णविचालस्येति। वर्णनाशस्येत्यर्थः। आत्वं पुगविधेः कापयतीति । णिजव्यवहितपूर्वस्य क्रीधातुसम्बन्धिन एच आत्वविधानेन एज्निष्ठस्य णिजव्यवहितपूर्वत्वस्यैचो विनाशादेव विनाशो न पुकेति नानित्यत्वे फलम् । क्रीधातावपि णिजव्यवहितपूर्वत्वान्वये पुगन्ते यदागमन्यायेन क्रीधातुत्वात् णिजव्यवहितपूर्वत्वस्य च तत्र सत्त्वान्न तथाप्यनित्यत्वफलम्। न चातिदेशिकस्सन्निपातविघाताभावस्तमादाय परिभाषाया अप्रवृत्तेनिरा- परिभाषेन्दुशेखरः [ शेषार्थकथने पुग्घ्रस्वत्वस्य अदीद्रयत्, त्यदायकारष्टाब्विधेः, यासेति, इड्विधि- राकारलोपस्य, पपिवान्, हस्वनुड्भ्यां मतुप्, अन्तोदात्तादुत्तर- पदात् इति मतुब्विभक्त्युदात्तत्वं पूर्वनिघातस्य, अग्निमान्, परम- वाचा, नदोहस्वत्वं संबुद्धिलोपस्य, नदि कुमारीत्यादि, यादेशो दीर्घत्वस्य, कष्टाय, इतोऽन्यत्र प्रवृत्तिरेव दोषाः खल्वपि साकल्येन + करणादिति वाच्यम् । आतिदेशिकविघाताभावे प्रवृत्तिवीजं हि अति- देशेन तत्त्वबुद्धावप्यतिदेशप्रवृत्तेः प्राक्क्षणे विद्यमानविघातेनैवपरिभाषा- प्रवृत्त१रित्वं यदागमस्थले चागमविधानकाले एवागमिसम्बन्धित्वस्य बोधनात् । कस्मिन्नपि क्षणे विघाताभावात् । अत्रोच्यते-अवयवषष्ठी- विषयेऽपि निर्दिश्यमानपरिभाषाप्रवृत्तेरुक्तत्वानिर्दिश्यमाने एव च निमि- तस्यान्वयात् निद्दिश्यमाने विद्यमानस्य णिजव्यवहितपूर्वत्वस्य पुकावि- नाशे परिभाषाप्रवृत्तिसम्भवेनानित्यत्वफलं युक्तमेवेति । इविधिरिति । ववेकाजाद्घसामितिसूत्रेणात्वं निमित्तीकृत्य जायमानस्येट आकारवि- नाशकत्वायोगात् । अग्निमान् परमवाचेति अन्तोदात्तत्वं निमित्तीकृत्य जायमानं मतुब्विभक्त्युदात्तत्वमनुदात्तं पदमेकवर्जमितिसूत्रप्रवर्त्तन- द्वाराऽन्तोदात्तत्वविनाशकन्नस्यादित्यनित्यत्वम्। इतोऽन्यत्रेति। ननु अत्वं निमित्तीकृत्य जायमानमुत्वं गुणद्वारा तद्विघातकं न स्यादिति चेत्-न। एचोऽयवेतिनिर्देशेन सन्धिकार्येऽप्यनित्यत्वकल्पनात् । अत एव गवाग्रमि- त्यादौ दीर्घसिद्धिः। ननु सन्निपातपरिभाषया सन्निपातलक्षणविधेस्तद्विघातक प्रत्यनि- मित्तत्वबोधनेऽपि तद्विघातकशास्त्रस्य स्वोयोद्देश्यतावच्छेदकज्ञानात्प्रवृत्ति- रव्याहतैव। तया तत्प्रति किमप्ययोधनादिति चेत्-अत्रोच्यते--इकोयणची- त्यादिशास्त्राणां यदि विधेयघटितस्साधुरित्येव व्यापारस्तहि सुद्ध्युपास्य इत्यस्येव सुधी उपास्य इत्यस्यापि सुपो धातुप्रातिपदिकयोरित्येतद्विधेय- घटितत्वेन साधुत्वापत्त्या यागादावप्युच्चारणापत्तिरतोऽजुपश्लिष्टेगघटि- तोऽसाधुरजुपश्लिष्टयणघटितस्साधुरिति व्यापारद्वयमवश्यं वाच्यम् । तत्र साधुत्वं पुण्यजनकत्वमेव । तहि सुपो धात्वित्यनेन सुधी आ उपास्य सु इत्यसाधु। सुधी उपास्य इति साधु। इत्येवंप्रकारेण सुधी उपास्येत्यस्यसा- धुत्वं बोधितमिको यणचीत्यनेन तस्यासाधुत्वं बोधितमिति साधुत्वासाधुत्व- ८६. सन्निपातलक्षणो विधिर०] विजयाऽलङ्कृतः [ ३१७ योर्विरोधादेकस्य शास्त्रस्य तद्भाववति तत्प्रकारकबोधजनकत्वरूपाप्रा- माण्यापत्तिर्दुवारा शास्त्रबोधितसाधुत्वानां सर्वेषां ततोऽन्यशास्त्रीयतत्तन्नि- मित्तसमभिव्याहारे तत्तदीयविधेयघटितस्य साधुत्वं तेषाञ्चासाधुत्वमवश्यं वक्तव्यमिति सर्वेषां शास्त्राणामप्रामाण्यापत्तिारैवेति चेत्- अत्र बहवः । साधुत्वं न पुण्यजनकत्वमपि तु शास्त्रप्रवृत्त्यहत्वमेव । स्वस्वविधेयघटिते शास्त्रप्रवृत्त्यर्हत्वरूपसाधुत्वमानं बोध्यते। न त्वन्यस्या- साधुत्वमपि। सुधी उपास्य इत्यादीनां यागादौप्रयोगाभावस्त्वपरिनिष्ठितन्न प्रयुञ्जीदितिभाष्यात्। परिनिष्ठितत्वञ्चाप्रवृत्तनित्यविध्युद्देश्यतावच्छेदका- नाक्रान्तत्वमिति रामशब्दप्रकरणे शब्देन्दुशेखरे प्रतिपादितम् । साधूना- मनुशासनमित्यस्य शास्त्रप्रवृत्त्यर्हत्वेन शास्त्रबोधितानामनुशासनमित्यर्थः । शब्दानां पुण्यजनकत्वन्तु “एकः शब्दः सुष्ठुप्रयुक्तः सम्यगज्ञातः शास्त्रा- न्वितः स्वर्गे लोके चकामधुग्भवती"ति वचनादेव गगरी अत्रेत्यादावपभ्रंशे प्रवृत्त्यभावाय सर्वेषां साधुत्वबोधकानां शास्त्राणामुद्देश्यतावच्छेदककोटौ शास्त्रप्रवृत्त्यहत्वेन शास्त्रबोधितत्वस्य प्रवेशस्साधूनामनुशासनमिति भाष्या- दावश्यकः । अपभ्रंशाश्च न शास्त्रप्रवृत्त्यहत्वेन शास्त्रबोधिता इति न तत्र तेषां प्रवृत्तिः । नन्वेवं भू इत्यादीनां केनापि साधुत्वाबोधनात्तेषु साधुत्व- बोधकानां लः कर्मणीत्यादीनामप्रवृत्त्यापत्तिरिति चेत्-न । भू सत्ताया- मित्यादिना सत्तायां भू साधुरित्याद्यर्थकेन तेषु साधुत्वबोधनात् तस्यैव कथं प्रवृत्तिस्ततः प्राक् तेषु केनापि तत्त्वाबोधनादिति न वाच्यम् । शब्दो- द्देश्यकसाधुत्वविधीनामेव साधुषु प्रवृत्तिस्वीकारात्तस्य त्वर्थोद्देश्यकत्वात्। नन्वेवमप्यव्युत्पन्नघटपटादिषु स्वादिविधायकशास्त्राप्रवृत्चिस्तेषु केनापि साधुत्वाबोधनादिति चेत्-न । अग्रहणप्रातिपदिकानामुपदेशः कर्तव्यो मञ्चको मञ्जक इति मा भूदिति भाष्येण तेषामपि कचित्पाठेन साधुत्व- बोधनावश्यकत्वात् । पाठस्य च शब्दोद्देश्यकत्वाभावेन तेनापि कथन्त- त्वमिति शंकाया अनवकाशात् । नन्वेवमप्यर्थवत्सूत्रस्य साधुत्वविधाय- कत्वाभावेन तस्य भाषायामपि प्रवृत्त्यापत्त्या भ्वादिग्रहणाभावे प्राणव- यतीत्यादेः क्रियावाचकत्वेन भ्वादिसत्रप्रवृत्त्या शास्त्रविषयतया शेखरोक्त- साधुत्वापादनमिव साधुत्वापत्तिरिति चेत्-न। अधातुपर्युदासेन साधु- वेव प्रवृत्तेः। एवं स्थिते सन्निपातपरिभाषया तत्तच्छास्त्रविधेयभूतशास्त्रप्र- वृत्त्यहत्वरूपसाधुत्वघटकशास्नपदार्थ स्वनिमित्तसन्निपातविघातकातिरिक्त- त्वेन संकोचो बोध्यते । शास्त्राणि च स्वप्रवृत्त्यहत्वेन शास्त्रबोधिते एव प्रवर्तन्ते इति न शतानीत्यादौ लुगित्याहु:-तदपि न । सुद्ध्युपास्य १ परिभाषेन्दुशेखरः [ शेषार्थकथने इति परिनिष्ठिते कस्यापि शास्त्रस्य प्रवृत्तियोग्यत्वाभावेन तत्रान्तिमशास्त्रे- ण शास्त्रप्रवृत्त्यर्हत्वबोधने तस्य शास्त्रस्याप्रामाण्यापत्तेढुवा॑रत्वात् । अत्र मिश्रचरणाः-शास्त्राणां स्वविधेयघटित: पुण्यजनकः स्वविधेयाघटित: स्त्रोद्देश्यतावच्छेदकावच्छिन्नः पापजनकः इति व्यापार- द्वयं भवति । अपरिनिष्ठितप्रयोगे केनचिच्छ्रास्त्रेण पुण्यजनकत्वबोधने- ऽपि शास्त्रान्तरेण पापजनकत्वबोधनाद्यागादावप्रयोगः। पुण्यजनकत्व- स्य पुण्यजनकत्वाभावेन विरोधेऽपि पापजनकत्वेन विरोधाभावात् न शास्त्राणामप्रामाण्यम् । सन्निपातपरिभाषया च विधेयभूतकार्य परंपरया स्वनिमित्तसन्निपातविघातकत्वं विशेषणतया बोध्यते । ततश्च स्वनिमि- त्तसन्निपाताविघातकत्वविशिष्टो दीर्घो भवतीत्यादिक्रमेण शास्त्राणामर्था- स्तत्र च प्राप्ताप्राप्तविवेकन्यायेन विशेष्यांशमात्रविधानेन यत्र विशिष्टस्सं- पद्यते तत्रैव दीर्घादिकार्यम्भवति न तु विशिष्टं विधीयते। उपजीव्यवि- रोधो नन्याय्य इति न्यायमूलकत्वमप्यस्मिन्नेव कल्पे उपपद्यते । सन्निपात- लक्षणविधित्वस्य लिङ्गत्वे तु विरोधिनं नोपजीवयेदिति न्यायमूलकत्वं स्यात् । तथा च सन्निपातविघातकत्वमस्यालिङ्गमित्येव युक्तं न तु सग्नि- पातलक्षणविधित्वमित्याहुः। केचित्त सन्निपातलक्षणो विधिरनिमित्तमसिद्धमित्यर्थः । तद्विघातस्य तद्विघातकशास्त्रं प्रतीत्यर्थ इत्याहुः । अस्यां ज्ञापकं वाचि ह्रस्वश्चेति न्यासेनैव श्रियां श्रीणामित्यादौ नदी- त्वसिद्धथाऽन्यत्राजादौ नदीत्वेऽपि दोषाभावात् ङिति ह्रस्वश्च वामीति योगद्वयकरणम् । ज्ञापितायान्तु श्रीणामित्यादावजाद्यव्यवहितत्वसन्नि- पातेन जातं नदीत्वं नुद्वाराजादित्वविघातकं स्यात् । नुटि यदागमन्याये- नाजादित्वन्तु न । वर्णग्रहणे तस्या अप्रवृत्तेः । वामीति पृथग्योगकरणे तु न तद्विधातो यदागमन्यायेन नुडादावाम्त्वस्य सत्त्वात् । मतिश्चोमा चेति द्वन्द्वे मतिशब्दस्य नदीत्वापत्त्या घित्वाभावेन पूर्वनिपातानापत्तिस्तु न अजादौ प्रत्यय इत्यर्थकरणात् किति हस्वश्चेति यथास्थितन्यासेऽपि मतिश्च चित्रश्चेति द्वन्द्व नदीत्वाभावाय प्रत्यय इत्यर्थस्यावश्यकत्वात् । वस्तुतो नेदं ज्ञापकं वामि ह्रस्वश्चेतिन्यासेनैव सिद्धे ज्ञापितायामपि योगदयकरणस्य चारितार्थ्याभावात् । न तिसृचतसृ इति सूत्रमस्या 'महामहोपाध्यायशिवकुमारमिश्राः ।

८७. सन्नियोगशिष्टानामन्य० ] विजयाऽलङ्कृतः [३१६ परिगणिता इति भाष्योक्तरित्यन्यत्र विस्तरः॥८६॥ ननु पश्चन्द्राण्यो देवता अस्य पश्चन्द्र इत्यादौ द्विगोलुंगि- त्यणो लुकि लुक्तद्धित इति स्त्रीप्रत्ययलुक्यानुकः श्रवणापत्तिरत आह- सन्नियोगशिष्टानामन्यतरापाये उभयोरप्यपायः ॥ ८७ ।। अत्र च 'बिल्वकादिभ्यश्छस्य लुक्' इति सूत्रस्थं छग्रहणं ज्ञापक, सम्यक् परिभाषाभावे तिसृनामितिस्थिते ङीपि न तिस्रितिसूत्र व्यर्थं सदस्या ज्ञापकम् । ज्ञापितायान्तु विभक्त्यव्यवहितपूर्वत्वसन्निपातेन जातस्य तिस्रादेशस्य तद्विघातकडीपं प्रत्यनिमित्तत्वान्न डीबिति दीर्घवार- णाय सूत्रं सार्थकं स्वस्रादिषु तिसृचतसृपाठस्यानार्षत्वान्न षडितिनिषेधेन न सिद्धिः । तदुक्तं कृन्मेजन्त इतिसूत्रे भाष्य आचाय्येप्रवृत्तिर्ज्ञापयति न तिसृचतसृशब्दान्ङीप्भवतीति यदयं न तिसृचतस्त्रिति नामीति दीर्घ- प्रतिषेधं शास्तीति ॥ ८६ ॥ सन्नियोगशिष्टानामिति । ननु वस्तुद्वयारब्धसमुदायघटकैकवाच- कान्यतरशब्दयोगे सन्नियोगशिष्टानामिति बहुवचनमसङ्गतमिति चेत्- अत्रोच्यते-सन्नियोगशिष्टौ च सन्नियोगशिष्टौ च सन्नियोगशिष्टौ चेति सन्नियोगशिष्टास्तेषां सन्नियोगशिष्टानामित्यर्थः। अन्यतरश्चान्यतरश्चान्य- तरश्चेत्यन्यतरे तेषामपायोऽन्यतरापायः । प्रत्येकसन्नियोगशिष्टस्य प्रत्येका- न्यतरपदार्थेऽन्वयादनुपपत्त्यभावः । प्रत्येकसन्नियोगशिष्टपदार्थस्य वस्तु- द्वयारब्धसमुदायरूपत्वात् तद्धटकोऽन्यतरो युक्त एवेति । एकशेषेण तु न निर्वाहः। यावतामेकशेषस्ततोऽवशिष्टानामग्रहणप्रसंगादिति केन चित्-उक्तं तु न युक्तम् । परिभाषाविषया अष्टाध्याय्यां यावन्तः सन्नियोगशिष्टास्तेषां सर्वेषामेकशेषकरणेनावशिष्टाभावात् । द्वित्वविशिष्टसन्नियोगशिष्टत्वावच्छिन्नबोधकतया सन्नियोगशिष्टप- दस्य बहुवचनान्तत्वोपपत्चिरित्यपि केन चित्-उक्तमयुक्तमेव । ताभ्यां सन्नियोगशिष्टो डीबिति दीक्षितोक्त्या द्वित्वस्य सन्नियोगशिष्टपदप्रवृत्ति- निमित्तकोटावप्रवेशात् । अन्यतरस्यापायेऽपरस्याप्यपाय इति वक्तुं युक्तम् ।

३२० ] परिभाषेन्दुशेखरः [शेषार्थकथने ज्ञापकम् । तद्धि छमात्रस्य लुग्बोधनद्वारा कुकोऽनिवृत्तिर्यथा स्यादि- त्यर्थम् । कृतकुगागमा नडायन्तर्गणविल्वादय एव तत्र निर्दिष्टा बिल्वकादिशब्देन । न चैवमपि छाइणं व्यर्थ, कृतकुगागमानुवाद- सामर्थ्यादेव तदनिवृत्तिसिद्धेः । अन्यथा बिल्वादिभ्य इत्येव वदेत्, लक्षणप्रतिपदोक्तपरिभाषया बिल्वादिपुरस्कारेण विहितप्रत्ययस्यैव लुम्विधानान्नातिप्रसङ्ग इति वाच्यम् । ततोऽपि प्रतिपदोक्तत्वेन । यथाश्रुतन्तु न युक्तम् । तदवस्थायामुभयोरभावात्। न चैवमपि पञ्चेन्द्र इत्यादौ पन्चेद्राणीशब्दादणि तस्य लुकि तम्निमित्तके ङीषो लुकि एका- देशविशिष्टस्य परादिवद्भावेनानुक्तत्वात्तस्यापायेऽकारश्रवणानापत्तिरिति वाच्यम् । अन्तरङ्गानपीतिन्यायेनान्तरङ्गनिमित्तविनाशकलुकः प्राबल्यबो- धनात् पूर्वमेकादेशाप्रवृत्तेः । नन्वेवमपि पञ्चभिरेनीभिः क्रीतःपञ्चैत इत्यादौ लुक्तद्धितलुगिति स्त्रीप्रत्ययस्यापायात्नकारस्यापायेऽपि तकारश्रवणन्नस्या- हेवदत्तहन्तृहतन्यायादिति चेत्-न । अन्यतरापाये सम्भावितेसतिउभयोरनु- त्पत्तिरित्यर्थेनादोषात् । तद्वीति । छग्रहणं हीत्यर्थः। छमात्रस्येति। प्रत्य- येतरदर्शनाभावस्य लुपदशक्यत्वाभावात् छप्रत्ययेतरप्रत्ययस्य बिल्वक- शब्दमुच्चार्य विहितत्वरूपप्रतिपदोक्तत्वाभावात् छग्रहणाभावेऽपि प्रति- पदोक्तत्वात् बिल्वकशब्दमुच्चायं विहितस्य प्रत्ययस्य लुगित्यर्थेन छस्यैव लुकसिद्धौ क्रियमाणं छग्रहणंछस्यैवेत्यवधारणार्थम्। तेन कुकोन निवृत्तिः। परिभाषाया अभावे च कुको निवृत्त्यभावोऽपि कारणाभावात् सिद्ध एवेति व्यर्थ सन्निवर्तकं परिभाषारूपं कल्पयित्वा प्राप्तनिवृत्तेरभावाय छस्यैवेत्य- वधारणार्थं चरितार्थमिति बोध्यम् । ज्ञापितेऽपि चारितार्थ्याभावं शङ्कते- न चैवमपीति । परिभाषा अस्तु। छग्रहणं मास्तु। बिल्वकादिभ्यो लुगिति करणेनैव छस्यैव प्रतिपदोक्तत्वात् लुकसिद्धेः। न च लुकोऽपि निवृत्ति- स्स्यादित्यत आह-कृतकुगागमानुवादसामर्थ्यादिति । ननु बिल्वा- दिभ्यो लुगितिकरणे यस्य कस्यापि बिल्वादिशब्दप्रकृतिकप्रत्ययस्य लुक् स्यादित्यत आह-लक्षणप्रतिपदोक्तति । ततोऽपीति । नडाद्यन्त- गता बिल्वकादयः शब्दाः। तत्र बिल्वकशब्दाच्छ इत्येव शब्दमर्यादयाऽर्थों लभ्यते। बिल्वादिशब्दाच्छस्तस्य कुगागम इत्यर्थस्तु व्याख्यानगम्यः । अत एव विलम्बोपस्थितिकः । बिल्वादिभ्योऽणित्यत्र बिल्वादिशब्दस्यो- - ८७. सन्नियोगशिष्टानामन्य० ] विजयाऽलङ्कृतः [ ३२१ 'बिल्वादिभ्योऽणि ति विकारार्थस्य लुगापत्तिवारणार्थं कुगनुवाद- चारितार्थ्यात् । समुच्चयार्थकचशब्दयोगे तु विधेययोरेककालिक- त्वैकदेशत्वनियमान्न्यायसिद्धापीयम् । यत्तु णाविष्ठवदित्यनेन पुंवत्त्वविधानमेतदनित्यत्वज्ञापनार्थम् । अन्यथैतयतीत्यादौ टिलोपेनैव डीपि निवृत्ते सन्नियोगशिष्टपरि- भाषया तस्यापि निवृत्त्यैतयतीत्यादिसिद्धौ पुंवत्त्ववैयर्थं स्पष्टमेवेति 'टेरिति सूत्रे कैयटः तन्न । इडविडमाचष्टे ऐडबिडयतीत्यादौ द्देश्यत्वं शब्दमर्यादयैव लभ्यमिति शीघ्रोपस्थितिकमिति बिल्वादिशब्द- मुच्चार्य्य विहितत्वरूपं प्रतिपदोक्तत्वमणप्रत्ययछप्रत्यययोस्समानमणप्रत्य- योद्देश्यता बिल्वादिशब्दे परं शीघ्रोपस्थितिकेति विशेष इति बोध्यम्। ननु बिल्वादिभ्यश्छस्य लुगित्येव सिद्धे कृतकुगागमानुवादोव्यर्थ एव। छग्रहण- सामर्थ्याच्छमात्रस्येत्यर्थेन कुकोऽनिवृत्तिसिद्धः। न च छग्रहणाभावे बिल्वादिभ्य इति करणेऽणो लुगापत्तिरिति वाच्यम् । पदलाघवेन बिल्व- कादिभ्य इत्येवाणो वारणसम्भवेन छग्रहणस्यकुको निवृत्त्यभावार्थत्वादिति चेत्-न । तृणवेतसशब्दयोः बिल्वकादिगहाद्युत्करादिषुपाठेन बिल्वादिभ्य- श्छस्य लुगित्युक्तौ बिल्वादिशब्दमुच्चार्य विहितत्वाविशेषाद्गहादिविहित- स्यापि तृणादिशब्दप्रकृतिकछस्य लुगापत्तेः । कुगनुवादे तु बिल्वकादिवि- हितस्यैव बिल्वकादीत्यानुपूर्वीकशब्दमुच्चायं विहितत्वेन लुगिति दिक् । समुच्चयार्थकेति । समुच्चयः साहित्यम् । तच्च विधेययोस्समानका- लिकत्वसमानदेशत्वरूपम् । तद्विशिष्टस्यैव साधुत्वेनैकस्यापायेऽपरस्य स्थि- तौ समानकालत्वाभावेनासाधुत्वापत्त्याऽपरोऽपि गच्छतीति फलितमेवेति बोध्यम् । ऐडबिडयतीति । दरदमाचष्टे दारदयतीत्यादावपि पुम्वत्त्व- स्य फलं बोध्यम् । दरदोऽपत्यं स्त्री इडबिडोऽपत्यं स्त्रीत्यर्थे दरच्छब्दात् इडबिड्शब्दादम् । तद्राजसंज्ञकः प्रत्ययः। तस्यातश्चेति स्त्रियां लुकि दरत् इडबिट् । तामाचष्टे णिचि पुम्वद्भावे स्त्रीत्वप्रयुक्तलुको निवृत्तौ दारदयति ऐडबिडयतीति रूपम् । अत्र पुम्वद्भावाभावे गतिविरहः । ननु अनित्यत्वे ऐनेयः एनीशब्दात् ढकि एयादेशे यस्येति चेतीकार- लोपे तत्सन्नियोगशिष्टस्यापि नादेशस्यानिवृत्तिर्भवति । तस्यानित्यत्वे च त- २१ ३२२] परिभाषेन्दुशेखरः [ शेषार्थकथने पुंवत्त्वस्थावश्यकत्वात् । ऐनेयः श्यैनेय इत्यादि तु स्थानिवत्वेन सिद्धमित्यन्यत्र विस्तरः॥८७॥ । - सिद्धिः कथमित्यत आह-ऐनेय इति। स्थानिवत्त्वेन सिद्धमिति ईकारलो- पस्य स्थानिवत्त्वेनेकारबुद्धावीकारापायाभावात् परिभाषाया अप्रवृत्तेः। ननु स्थानिभूतेकारात्पूर्वत्वेन दृष्टस्य नकारस्य कार्याभावात् स्थानिवद्भा- वाप्रवृत्तिरिति चेत्-न। पूर्वविधावित्यत्र विधिशब्दो भावसाधनः। विधानं विधिर्भावस्सत्ता। पूर्वस्य विधौ सत्तायां कर्तव्यायामित्यर्थेनादोषात् । वस्तुतस्तु नादेशस्य परिभाषया निवृत्तिरूपकार्ये कर्तव्ये स्थानिवद्भाव- प्रवृत्तिः कर्मसाधनेऽप्यव्याह्तेति बोध्यम् । केचित्तु ज्ञापकसाजात्यात् लुका यत्रान्यतरस्यापायस्तत्रैवैषा प्रवर्तते। अत एवैनेय इत्यत्र लोपेनापाये नानया नादेशापायः तार्तीयीक इत्यादौ तृ- तीयशब्दादीककि आदिवृद्धथा संप्रसारणनाशेऽपि न तत्सन्नियोगशिष्टस्य तीयप्रत्ययस्यापाय: । ईच खन इतीकारादेशसन्नियोगशिष्टस्य यतो गुणेने- कारापायेऽप्यनपाये खेयमिति सिद्धिः। उकारसन्नियोगशिष्टकृतलादेशकक्ता- न्तफुल्लशब्दादिनि प्रत्यये आदिवृद्ध्योकारापायेऽपि लत्वानपायात् फौल्लि- रिति सिद्धयति । एषु लुकाऽपायविरहात् परिभाषाया अप्रवृत्तेरित्याहुः- तन्न । वातातीसाराभ्यां कुक चेति निष्पन्नकुगागमसन्नियोगशिष्टेन्प्रत्यया- न्तवातकिन् शब्दादणि नस्तद्धित इति टिलोपे कुको निवृत्त्यभावापत्त्या वात इति रूपासिद्धेः । तद्युक्तप्रयोगाणां कागतिरिति चेत् अत्रोच्यते- अपाय इत्यस्यापायत्वावच्छिन्नविधेयताश्रये नाशे इत्यर्थेनादोष इति । अन्ये तु अन्यतरस्यानुयोगिनोऽपाय इत्यर्थः । पञ्चेन्द्र इत्यादावा- नुक्सहितो डीषिति क्रमेण सूत्राणामर्थादनुयोगित्वं ङीषस्तस्यैवापायः खेयमित्यादावीच्खन इत्यादीनामीकारसहितो यत् उकारसहितो ला- देशः संप्रसारणसहितस्तीयप्रत्यय इत्यर्थादनुयोगित्वं यत्प्रत्ययादीनामेव तेषामपायाभावादोपः । लक्ष्यानुरोधेनानुयोगित्वस्य विवक्षणानातिप्र- सङ्ग इत्याहुः। परेतु भावसाधनविधिशब्दान्तपूर्वविधिशब्देऽपि पञ्चमीसमासाश्रय- पादुक्तप्रयोगेषु वृद्धयादीनां स्थानिवद्भावनेनेय इत्यत्रेव परिभाषाप्रवृत्त्य- भावः पञ्चमीसमासे पूर्वस्मादव्यवहितपरस्यैव कार्ये स्थानिवद्भावोऽत एव हे गौरित्यादौ वृद्धः स्थानिवद्भावनैङ्खस्वादिति सुलोपो न । तथा च ८६. धातोः कार्यमुच्यमानं०] विजयाऽलङ्कृतः [३२३ ननु चुरा शोलमस्याः सा चौरीत्यादौ शीलम् 'छत्रादिभ्यो णः' इति णे डीपन प्राप्नोतीत्यत आह- ताच्छीलिके णेऽण्कृतानि भवन्ति ॥ ८८ ।। 'अन्' इत्यणि विहितप्रकृतिभावबाधनाथ 'कार्मस्ताच्छील्ये इति निपातनमस्या ज्ञापकम् । ताच्छीलिकणान्ता'दणोद्व्यच" इति फिसिद्धिरप्यस्याः प्रयोजनमिति नव्याः। ताच्छीलिक इत्युक्त स्तदस्यां प्रहरणम्' इति णेदाण्डेत्येव 'काम' इति सूत्रे भाष्ये स्पष्टा ॥८८॥ ननु कंसपरिमृड्भ्यामित्यादौ 'मृजेवृद्धि'दुर्वारेत्यत आह- धातोः कार्यमुच्यमानं तत्प्रत्यये भवति ॥ ८ ॥ व्यवधानात्कथमुक्तेषु स्थानिवद्भाव इति तु न वाच्यम् । प्रविगणय्येति भाष्यप्रयोगात्पञ्चमी समासस्यानित्यत्वेन हे गौरित्यस्य सिद्धौ अव्यवहि- तत्वनिवेशे फलाभावात् ॥७॥ शीलमिति । शीलमित्यनुवर्तमाने इत्यर्थः । अण्प्रत्ययनिमित्तक- कार्याणि ताच्छीलिकणप्रत्ययेऽपि भवन्तीत्यर्थः । कार्मस्ताच्छील्ये इति । कर्मनशब्दात्ताच्छील्ये णप्रत्यये अणप्रत्ययनिमित्तकस्यान् इति- प्रकृतिभावस्य बाधनाय टिलोपनिपातनं व्यर्थम् । णप्रत्यये प्रकृतिभावा- प्राप्त्या नस्तद्धित इत्यनेन टिलोपसिद्धेः । ज्ञापितायाञ्च परिभाषायां प्रक- तिभावप्राप्त्या निपातनमावश्यकमिति स्वांशे चारितार्थ्यम् ॥८॥ धातोः कार्यमुच्यमानमिति । धातुत्वव्याप्यधविच्छिन्नो- द्देश्यताककार्य तत्प्रत्यये धातुत्वावच्छिन्नोद्देश्यतानिरूपितविधेयताश्रये प्रत्यये भवतीत्यर्थः । मृजेरुच्यमानावृद्धिर्धातुत्वव्याप्यमृजत्वावच्छिन्नो- द्देश्यताकं कायं धातुत्वावच्छिन्नोद्देश्यताकप्रत्यये परे स्यात् । कंसपरि- मृड्भ्यामित्यादौ न भवति । भ्यामस्तादृशप्रत्ययत्वाभावात् । विपस्तथात्वे- ऽपि न तन्निमित्तीकृत्य वृद्धिस्स्यात् । किति चेति निषेधात् । भ्रौणहत्ये तत्त्वनिपातनमिति भ्रूणहनशब्दात् ष्यप्रत्यये हनस्तोचिण्णलोरित्यनेन नकारस्य तत्त्वे सिद्धे निपातनं व्यर्थ सज्ज्ञापकम् । ज्ञापिते च ष्यजो धा- -- ३२४ ] परिभाषेन्दुशेखरः [ शेषार्थकथने भ्रौणहत्ये तत्वनिपातनमस्या ज्ञापकम् । धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानमिति पाठस्तु प्रमृड्भिरित्यादा वनुदात्तस्य चर्द पधस्य' इत्यमापादनेन भाष्ये दूषितः । यत्कार्य प्रत्ययनिमि- तकं तत्रेयं व्यवस्थापिका। तेन पदान्तत्वनिबन्धनं 'ना' इति कुत्वं प्रनगम्यामित्यादौ भवत्येव । इयडादिविधौ तु नैषा 'न भू- सुधियोरिति निषेधेनानित्यत्वात् । 'मृजेवृद्धिः' इत्यत्र भाष्ये स्पष्टा ॥ ८ ॥ ननु सर्वक उच्चकैरित्यादौ सर्वनामाव्ययसंज्ञे न स्यातामत आह- तन्मध्यपतितस्तद्ग्रहणेन गृह्यते ॥ ६ ॥ तुप्रत्ययत्वाभावात्तत्त्वाप्राप्तौ निपातनं चरितार्थम् । ननु न तत्त्वनिपातन- मपि तु हो हन्तेरिति प्राप्तकुत्वाभाव एव निपात्यत इति न व्यर्थं निपात- नमिति चेत्-न । तत्त्वं निपात्यत इति भाष्योक्तेः । तत्रैव पाणिनितात्प- -वधारणात् । धातोः स्वरूपग्रहण इति । धातुत्वव्याप्यानुपूर्व्यव- च्छिन्नोद्देश्यताकं काय्यमित्यर्थः । अमापादनेनेति । अनुदात्तत्वविशिष्ट ऋदुपधत्वस्य धातुत्वव्याप्यत्वात् सिद्धान्ते न दोषः। यत् कार्य- मिति। धातुत्वव्याप्यधर्मावच्छिन्नोद्देश्यताककार्ये निमित्तत्वेनाश्री- यमाणः प्रत्ययः धातुत्वावच्छिन्नोद्देश्यतानिरूपितविधेयताश्रय एव गृह्यत इत्यर्थः । नशेति। विधीयमानकुत्वे प्रत्ययस्य निमित्तत्वेनाश्रयणाभावा- नास्याः प्रवृत्तिरिति भावः । वस्तुतस्तु प्रनग्भ्यामित्यादौ धातुत्वावच्छिन्नो- दृश्यतानिरूपितविधेयताश्रयप्रत्ययस्य विपस्सत्त्वानशेर्वेत्यादौ परिभाषा- प्रवृत्तावपि न क्षतिः । इयडादिविधौ अचि श्नुधात्वित्यादौ । न भूसुधियोरिति निषेधेनेति । तत्र सुपीत्यर्थेनैरनेकाच इत्यत्र परिभाषा- प्रवृत्तौ व्यर्थं स्यात् । अचि श्नुधात्वित्यत्र परिभाषाप्रवृत्तौ च सुधियोरिति निर्देशासङ्गतिश्च ॥८९॥ सर्वके उच्चकैरिति । ननु वर्णाश्रमेतरा अत्युच्चैः सावित्यादौ शीभाव- लुकोरभावाय जसरशीत्यादौ विहितविशेषणस्यावश्यकत्वादकच्सहितस्य ६१. लुग्विकरणालुग्विकरण०] विजयाऽलङ्कृतः [ ३२५ 'नेदमदसोरकोरिति सूत्रेऽकोरिति निषेधोऽस्या ज्ञापकः । तदेकदेशभूतं तद्ग्रहणेन गृह्यत इति 'येन विधिरि ति सूत्रे भाष्ये पाठः॥8॥ ननु 'गातिस्थाघुपाभूभ्य' इति सिचो लुगपासीदित्यादौ पातेरपि स्यादत आह- लुग्विकरणालुग्विकरणयोरलुग्विकरणस्य ॥ ६१ ।। अस्थाश्च ज्ञापकः 'स्वरतिसूति' इति सूत्रे सूङिति वक्तव्ये सूतिसूयत्योः पृथनिर्देश इति कैयट:-तन्न । साहचर्यादलुग्वि- करणस्यैव ग्रहणे प्राप्ते पृथनिर्देशस्य तज्ज्ञापकत्वासंभवात् । ध्वनिता चेयं परिभाषा यस्य विभाषा इत्यत्र भाष्ये । तत्र हि विदित इति प्रयोगे निषेधमाशय यदुपाधेर्विभाषा तदुपाधेनि- सर्वनामत्वाद्यभावेऽपि प्रत्ययस्यान्तरङ्गत्वादकचः पूर्वमेवोत्पत्तेस्सर्वनामा- दिविहितत्वसत्त्वेन परिभाषां विनापि शीलुकोः प्रवृत्ताववतरणासङ्गतिरिति चेत्-न । प्रत्ययेन तदाद्युपस्थित्या तदाद्यभिन्नसर्वनाम्नः तदाद्यभिन्ना- दव्ययात्परस्येत्यर्थेनैवोक्तदोषवारणसम्भवाद्विहितस्येत्यर्थकरणे मानाभा- वात् । अकच्सहितस्य सर्वनामत्वाद्यभावेन परिभाषां विना दोषस्य सुवचत्वात् । तन्मध्यपतितत्वञ्च निर्दिश्यमानपरिभाषाव्याख्यावसरे नि- रूपितम्। गङ्गाप्रविष्टा नदी गङ्गाग्रहणेन गृह्यते । देवदत्तास्थो गर्भो देव- दत्ताग्रहणेन गृह्यत इति लोकन्यायेनायमर्थो न सिद्धयति । सर्वनामत्वा- देरुपसर्गत्वादिवदक्तपरिमाणत्वेन न्यूने अधिके वा शास्त्रव्यापारमन्तरेण तबुद्धेरभावात् ज्ञापकसाध्य एवायमर्थ इति येन विधिरिति सूत्रे भाष्ये स्पष्टमतो ज्ञापकमाह-नेदमदसोरकोरितीति । इदं सूत्रकारमते। भाष्यकृता चेदमदसोः कादिति न्यासं कृत्वाऽतोमिस इत्यनेनैव सिद्धे इदमदसोर्भिस ऐस्स्याच्चेत् कादेवेति नियममाश्रित्याकोरित्यस्य प्रत्याख्या- तत्वात् एतत्तदोस्सुलोपोऽकोरिति सूत्रस्थाकोरित्येतदुपलक्षणम्वा ॥१०॥ साहचर्यादिति । परिभाषां विनाऽपीत्यादिः स्वरतिधूबोः साह- चादित्यर्थः । न तु हन्साहचर्यादिति लुग्विकरणत्वात् हन्साहचर्य

३२६ ]
परिभाषेन्दुशेखरः
[ शेषार्थकथने
षेधो 'विभाषा गमहनविदविशाम्' इति सूत्रे शविकरणस्य ग्रहणं
लुम्विकरणवायमित्युक्तम् । तत्र चो हेतौ । यतोऽयं लुग्विकरणो-
ऽतो विशिसाहचार्याच्छविकरणस्य ग्रहणं न तु हनिसाहचर्या-
दस्थापि एतत्परिभाषाविरोधादिति तदाशयः। अत एव परिभा-
पायां लुग्विकरणस्यैवेति नोक्तम् । कण्ठतस्तु भाष्य एषा क्वापि न
पठिता । 'गातिस्था' इति सूत्रे पिवतेहणं कर्तव्यमिति वार्ति-
कृता सर्वत्रैव पाग्रहणेऽलुखिकरणस्य ग्रहणमिति भाष्यकृता
चोक्तम् । 'स्वरतिसूति' इति सूत्रे कैयटेन च स्पष्टमुक्ता ॥ ६१ ॥
ननु प्रजिघाययिषतीत्यादौ 'हेरचङि' इति विधीयमानं कुत्वं
न स्यादत आह-
प्रकृतिग्रहणे एयधिकस्यापि ग्रहणम् ॥ १२ ॥
अचडीति प्रतिषेध एवास्या ज्ञापकः । इयं च कुत्वविषयैव ।
'हेरचङी'ति सूत्रे भाष्ये स्पष्टेयम् ।। ६२ ॥
ननु युष्मभ्यमित्यादौ भ्यस इत्यत्र भ्यमितिच्छेदे भ्यसो
परित्यक्तम् । तेनालुग्विकरणस्यैव ग्रहणं सति सम्भवे युक्तमिति ध्वनितम् ।
तेन च परिभाषाध्वनितेति भावः । अत एवेति । निरुक्तभाष्यपालोच-
नयाऽलुग्विकरणस्यैव ग्रहणलाभादित्यर्थः । सूतिसूयत्योः पृथनिर्देशस्य
लुग्विकरणस्यैव ग्रहणमित्यर्थज्ञापनेनापि चारितार्थ्यसम्भवादलुग्वि-
करणस्यैवेत्यर्थज्ञापकत्वासम्भवाच्च ।। ९१ ॥
कुत्वन्न स्थादिति । संज्ञोद्देश्यककार्याणां संज्ञानिमित्तप्रत्यया-
व्यवहितपूर्वत्वं निमित्तमित्यस्य वार्णपरिभाषायामुक्तत्वात् । प्रकृते णिचा
व्यवधानाद्धिनोलेस्सन्प्रत्ययाव्यवहितपूर्वत्वाभावादिति भावः । अचडी-
त्येतज्ज्ञापकपरभाष्यप्रामाण्यादप्युक्तार्थस्वीकारः । कुत्वविषयैवेति ।
अत एव शाययतीत्यादावदिप्रभृतिभ्य इति शपो न लुक् । भाष्ये स्पष्ट-
मिति । तत्र हि हेश्वङि प्रतिषेधानर्थक्यमङ्गान्यत्वात् । ज्ञापकन्तु चङोऽन्यत्र
ण्यन्तेऽपि कुत्वभावस्येति ॥ ९२॥

६३. अङ्गवृत्ते पुनर्वृत्तावविधिः ] विजयाऽलङ्कृतः
[ ३२७
भ्यमि कृतेऽन्त्यलोप एत्वं स्यादत आह-
अङ्गवृत्ते पुनर्वृत्तावविधिः ॥ १३ ॥
अङ्गङ्गाधिकारे वृत्तं निष्पन्नं यत्कार्य तस्मिन्सति पुनरन्य-
स्याङ्गकार्यस्य वृत्तौ प्रवृत्तावविधानं भवतीत्यर्थः । एषा च 'ज्या-
दादीयस' इत्याद्विधानेन ज्ञापिता । अन्यथेकारलोपेना'कृत्सार्व'
इति दीर्धेण च सिद्धे तद्वैयर्थ्य स्पष्टमेव । अत एव भिवस्था-
निकाङ्गकार्यविषयाप्येषा । इयं चानित्या द्वयोः इति निर्देशात् ।
अनित्यत्वबललभ्यार्थमादायैव 'भ्यसो भ्यम्' इति सूत्रे भाष्ये नि-
ष्ठितस्येति पठितम् ।
केचित्वनया परिभाषया न किचिल्लक्ष्यं साध्यते। अत एव
'ज्ञाजनोर्जा 'ज्यादा दीयस' इति सूत्रयोरेनां ज्ञापयित्वा किं प्रयो-
जनमिति प्रश्ने पिवतेर्गुणप्रतिषेध उक्तः। स न वक्तव्य इत्येव प्रयो-
जनमुक्तं न तु लक्ष्यसिद्धिरूपम् । तदुक्तं 'भ्यसो भ्यमि'त्यत्रा-
भ्यमिति च्छेदः। शेषे लोपश्चान्त्यलोप एव । 'अतो गुणे' इति
पररूपेण सिद्धं युष्मभ्यमित्यन्यत्र निरूपितम् । एवं च सूत्रद्वय-
स्थमेतजज्ञापनपर भाष्यं 'भ्यसो भ्यामिति सूत्रस्थं च भाष्यमेकडे-
श्युक्तिरित्याहुः ॥ ६३॥
अत एवेति। ज्ञापकपरभाष्यप्रामाण्यादेवेत्यर्थः । द्वयोरिति। कथम-
न्यथा त्यदाद्यत्वे कृते एत्वं स्यादिति भावः । निष्ठितस्येति । परिनिष्ठित-
स्येत्यर्थः । यदजकार्यप्रवृत्तिम्विनैव प्रयोगस्य परिनिष्ठितत्वं तदेवाजाका-
यमनकाय कृते न प्रवर्त्तते इति भावः। पिबतेगणति । पिवतीत्यादौ
शब्दनिमित्तकलघूपधगुणप्रतिषेध इत्यर्थः । एतत्परिभाषासत्त्वे पिचादेश-
रूप प्राङ्गकार्ये कृते पुनर्गुणरूपाङ्गकार्य्यस्यानयैव वारणसम्भवादिति
भावः । एतदपि फलं पिबादेशोऽदन्त इत्यनेन खण्डितम् ॥१३॥

-
३२८]
परिभाषेन्दुशेखरः
[ शेषार्थकथने
यत्त्वोरोदिति वाच्ये 'पोर्गुणः' इति गुणग्रहणात्-
संज्ञापूर्वकविधेरनित्यत्वम् ॥ ६४ ॥
इयं च विधेयकोटौ संज्ञापूर्वकत्व एव । तेन स्वायम्भुवमि-
त्यादि सिद्धम् ।। ६४॥
तथा निलोडित्येव सिद्ध आनिग्रहणात्-
आगमशास्त्रमनित्यम् ॥ ५ ॥
तेन सागरं ततुकामस्येत्यादि सिद्धम् ॥६५॥
तथा तनादिपाठादेव सिद्धे 'तनादिकृभ्यः' इति सूत्रे कृन्-
ग्रहणात्-
गणकार्यमनित्यम् ॥ १६॥
तेन न विश्वसेदविश्वस्तम् इत्यादि सिद्धम् ॥ ६६ ॥
तथा चक्षिको ङित्करणात्-
अनुदात्तेत्वलक्षणमात्मनेपदमनित्यम् ॥ १७ ॥
तेन स्फायनिर्मोक इत्यादि सिद्धम् ॥ १७ ॥
ओरोदिति । गुणशब्देनापि विधाने आन्तरतम्यादोकारस्यैव
विधेयत्वलाभेन लाघवादोकारविधानमेव युक्तमिति भावः । विधेयको-
टाविति । विधेयताप्रयोजकसंज्ञाशब्दघटितं शास्त्रमनित्यमित्यर्थः ।
अन्यथा यथाकथञ्चित् संज्ञापूर्वकत्वस्य शास्त्रमात्रे सत्त्वेनातिप्रसङ्गः ।
सिद्धमिति । अन्यथा गुणे रूपासिद्धिस्स्यादिति भावः ॥९४||
तर्तुकामस्येत्यादीति । अत्रेडभावः फलमस्या बोध्यम् ॥१५॥
गणकार्यमिति । गणनिर्देशन विधीयमानं कार्यमित्यर्थः। विश्व-
सेदिति । अत्रादादिगणप्रयुक्तः शपो लुग्नेत्यर्थः ॥ ९६॥
स्फायन्निम्मोक इति । अत्र धातोरनुदात्तत्वेऽपि परस्मैपद-
सिद्धिः ॥९॥

१८. नघटितमनित्यम् विजयाऽलङ्कृतः [ ३२६ तथा विनार्थनमा समासेनानुदात्तं पदमनेकमित्येव सिद्धे वर्जग्रहणात्- नघटितमनित्यम् ॥ १८ ॥ तेन नेयडुवङ् इत्यस्यानित्यत्वाद्धे सुभ्र इति सिद्ध मिति-तन्न । भाष्येऽदर्शनात् । भाष्यानुक्तज्ञापितार्थस्य साधुताया नियामकत्वे मानाभावात् । भाष्याविचारितप्रयोजनानां सौत्राक्षराणां पाराय- णादावदृष्टमात्रार्थकत्वकल्पनाया एवौचित्यात् । किञ्च ज्ञापितेऽप्या- नीत्यस्य न सार्थक्यमाडागमशून्यप्रयोगस्याप्रसिद्धः। आडग्रहणं लोडग्रहणवदिति बोध्यम् । अत एव 'घोलोपो लेटि वा' इति सूत्रे वेति प्रत्याख्यातम् । लोपेऽप्याटपक्ष आटः श्रवणं भविष्यति, अटि दधदिति । आगमशास्त्रस्यानित्यत्वे त्वाव्यसति दधादित्य- सिद्ध्या वाग्रहणस्यावश्यकत्वेन तत्प्रत्याख्यानासङ्गतिः स्पष्टव । हे सुभु इति । अत्रानित्यत्वेन निषेधाप्रवृत्त्या नदीत्वेनाम्वार्थ इति ह्रस्वसिद्धिः। लोग्रहणवदिति । लोड्ग्रहणं यथा तव व्यर्थं तथा आडागमशू- न्यप्रयोगाभावादाङ्ग्रहणमपि व्यर्थमेव ममापीति बोध्यम् । अत एवेति । परिभाषाया अभावादेवेत्यर्थः।आट्यसति दधादित्यसिद्ध्येति। वाग्र- हणप्रत्याख्यानस्यायमाशयः । वाग्रहणसत्त्वे कानि रूपाणि अाटि सति लोपे लोपाभावे वा धादिति अटि सति लोपे दधत् लोपाभावे दधादिति आनुपूर्वीभेदेनैव रूपभेदात् रूपद्वयमेव वा ग्रहणासत्त्वेऽपि आदि लोपे दधात् अटि लोपे दधदिति रूपद्वयमेवेति फलैक्यात् वाग्रहणं प्रत्याख्या- तम् । यद्यागमशास्त्रमनित्यं तदा अडाटोरभावे नित्यलोपे दत् वाग्रहणे सति दधादिति ददिति फलभेदात् प्रत्याख्यानभाष्यविरोधः परिभाषावा- दिमते नागेशेनोक्तः । स न युक्तः । परिभाषासद्भावे वाग्रहणे यादृशं रूप- त्रयं तादृशमेव रूपत्रयं वाग्रहणाभावेऽपीति फलैक्यात्प्रत्याख्यानाविरो- ३३० ] परिभाषेन्दुशेखरः [ शेषार्थकथने एतेन यत्कयटे केचिदित्यादिनास्यैव वाग्रहणस्य तदनित्यत्वज्ञा- पकतोक्ता। सापि चिन्त्या। प्रत्याख्यानपरभाष्यविरोधात् । तना- दिसूत्रे कुञ्ग्रहणस्य भाष्ये प्रत्याख्यानाच्च । चक्षिङो ङकारस्या- न्तेदित्वामावसंपादनेन चारितार्थ्याच ॥ १८ ॥ एवमेव- प्रातिदेशिकमनित्यम् ॥ ६६ ॥ सर्वविधिभ्यो लोपविधिरिविधिश्च बलवान् ॥ १०० ॥ इत्यादि भाष्यानुक्तं बोध्यम् । स्वायम्भुवमित्यादि लोकेऽसाध्वे- वेत्यन्यत्र विस्तरः॥ १०० ॥ यदपि ननुहन्तेर्यङ्लुक्याशीलिंङि बधादेशो न स्यादत आह- प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम् ॥ १०१ ।। धात् । एतेनेति । प्रत्याख्यानपरभाष्येणेत्यर्थः। प्रत्याख्यानपरेति । अनित्यत्वज्ञापनेऽपि स्वांशे चारितार्थ्याभावादित्यर्थः। अन्तेदित्वाभावे- ति। तदर्थमकारकरणे तु भाष्यानुक्तत्वादेवानादरः॥ ९८ ॥ आतिदेशिकमिति । अत्र लोटो लङ्वदित्यतिदेशो ज्ञापकः । अन्यथा ङ्लोडित्युक्तेऽपि ङित्कार्यनिर्वाहे तद्वैयर्थ्यापत्तिः। तेन जुह्वत्वित्यत्र सिज- भ्यस्तेति जुस् नेति प्राञ्चः । सिच्साहचर्याभ्यस्तादप्यनतिदिष्टङित्वव- तो लकारस्य स्थाने जायमानस्य झर्जुसित्यर्थस्वीकारेण दोषाभावोद्भावने तु नैतस्याः फलम् ॥९९॥ लोपविधेः सर्वविध्यपेक्षयाबलवत्त्वे नाग्लोपीत्यत्र प्रत्याहारग्रहणं ज्ञापकं प्राञ्चोक्तमन्यथा पूर्व वृद्धावकारातिरिक्तस्याको लोपाभावेन तद्वै- यात् । वृद्धथपेक्षयैव लोपस्य बलवत्त्वज्ञापकताया भाष्योक्तत्वेन सामा- न्यापेक्षज्ञापने प्रमाणाभावादिदमप्रमाणम् । इड्विधेर्बलवत्त्वे नेड्व- शीत्यत इडित्यनुवर्तमाने पुनरार्द्धधातुकस्येवलादेरित्यत्रेड्ग्रहणं ज्ञापक प्राञ्चोक्तम् । भाष्यकृता च तस्य प्रत्याख्यानादिदमप्रामाणिकम् ॥१००॥ यदपीति । अस्य तदपि नेत्यनेनान्वयः । वधादेशो न स्यादिति लिङ्- १०१. प्रकृतिग्रहणे यङ्लुग०] विजयाऽलङ्कृतः पाष्ठद्वित्वस्य द्विःप्रयोगत्वसिद्धान्तेन प्रयोगद्वयरूपे समुदाये प्रकृतिरूपत्वबोधनेनेदं न्यायसिद्धम् । अत एव जुहुधीत्यादौ द्वित्वे कृते धित्वसिद्धिरिति । तदपि न । भाष्येऽदर्शनात् । किञ्च तेन सिद्धान्तेन प्रत्येकं द्वयोस्तत्त्ववोधनेऽपि समुदायस्य तत्त्वबोधने मानाभावः । अत एव 'दयतेर्दिगि' इति सूत्रेऽस्तेः परत्वाद्वित्वे कृते परस्यास्ते भावे कृते पूर्वस्य श्रवणं ग्रामोतीत्याशक्य विषयसप्तम्याश्रयणेन परिहृतं भाष्ये । अन्यथा त्वदुक्तरीत्यैकाज- द्विवचनन्यायेन समुदायस्यैवादेशापत्या तदसङ्गतिः स्पष्टैव । तस्मा- - प्रकृतेर्यलुगन्तसमुदायस्य जनित्यस्य हन्त्वाभावात् उत्तरखण्डस्या- र्थवत्त्वाभावात् पूर्वखण्डस्योत्तरखण्डेन व्यवधानादिति भावः । समुदाये प्रकृतिरूपत्वेति । जंहन्निति समुदाये हन्त्वारोपस्य परिभाषया बोधने- नेत्यर्थः । अत एवेति । परिभाषायास्सत्त्वादेवेत्यर्थः । जुहुधीति । समुदाये हुत्वारोपेणेत्यर्थः । परिभाषाया अभावे तु हेरुत्तरखण्डेन व्यवधानात् समुदायस्य हुत्वाभावादुत्तरस्यागन्तुकत्वेनार्थवत्त्वाभावात् हुधातुपरत्वाभावाद्धिर्म स्यादिति भावः। अदर्शनादिति । परिभा- पाया इति शेषः । न्यायसिद्धत्वं खण्डयति-किञ्चेति । समुदायस्य तत्त्ववोधने मानाभावादिति समुदायस्य वर्णचतुष्टयात्मकत्येन वर्णद्वया- त्मकहनरूपत्वे प्रत्यक्षविरोधादित्यपि बोध्यम् । अत एवेति। तत्समुदा- यस्य तत्त्वाभावादेवेत्यर्थः । अस्तः परत्वादिति । अस्धातोरस्तेभूरि- त्यपेक्षया परत्वाद्वित्वे इत्यर्थः । विषयसप्तम्येति । अस्यार्द्धधातुके इत्य- त्रेत्यादिस्तथा च प्रत्ययोत्पत्तेः प्रागेव भूभावे कृते द्वित्वमित्यर्थः । अन्यथेति । परिभाषासद्भाव इत्यर्थः । त्वदुक्तरीत्येति। द्विःप्रयोगत्व- सिद्धान्तेनेत्यर्थः । उत्तरखण्डमिति पूर्वोक्तभाष्यात् नानर्थक इत्यत्रानभ्या- सविकार इति पर्युदासाच्चोत्तरखण्डस्यैवार्थवत्त्वादिति भावः । उभयोर- र्थवत्त्वन्तुन बोधावृत्तिप्रसंगात् । न चैवं प्राणिजगादेत्यादावुत्तरखण्ड- स्यैव धातुत्वादभ्यासन व्यवधानान्नेर्गद्धातुपरत्वाभावाणणत्वानापत्तिरिति वाच्यम् । गदनदेत्यत्र षष्ठ्यर्थकसप्तम्याश्रयणेन गदनदादिनिरूपितोपसर्ग- स्य नेर्णत्वमित्यर्थेन व्यवधानेऽपि प्रवृत्तेः। अत एव प्रण्यगददित्यत्र ३३२ ] परिभाषेन्दुशेखरः [ शेषार्थकथने दुत्तरखण्डमादायैव यथायोगं तत्तत्कार्यप्रवृत्तिर्बोध्या । 'भूसुवो।' इत्यस्य तदन्ताङ्गस्येत्यर्थात् प्राप्तस्य गुणनिषेधस्य बोभूत्विति नियम इति न तद्विरोधः। तस्माद्धन्तेर्यङ्लुकि वध्यादित्यादि माधवायुदाहृतं चिन्त्यमेवेत्यन्यत्र विस्तरः॥१०१ ॥ यदपि ननु 'वृद्धिर्यस्याचामादिः' इत्यत्रेपरिभाषोपस्थितौ शालीयाद्यसिद्धिरत आह- विधौ परिभाषोपतिष्ठते नानुवादे ॥ १०२ ।। विकरणविशिष्टस्यैवाङ्गस्याडागमेन तेन व्यवधानेऽपि नेणत्वसिद्धिः । भूसुवोस्तिडीत्यस्य तिङः प्रत्ययत्वेन तदादेरुपस्थित्या भूरूपतदादेर्गुणो नेत्यर्थेन बोभूतु इत्यत्रोत्तरखण्डस्यागन्तुकत्वेन तदादित्वाभावात् समुदा- यस्य परिभाषाभावे भूत्वाभावाद्गुणनिषेधाप्राप्तेः बोभूत्वितिगुणाभावनि- पातनस्य भाष्योक्तनियमार्थत्वानुपपत्तिरित्याह-भूसुवोरित्यादि । न तद्विरोध इति । परिभाषाभावेऽपीति शेषः । चिन्त्यमिति । अत्र नैव वधादेश इति तत्त्वम् ॥१०॥ यदपीति । अस्य तनेत्यनेनान्वयः। शालीयाद्यसिदिधरिति । इको गुणवृद्धी इत्यस्य यत्र गुणवृद्धीपदे तत्रेक इति षष्ठ्यन्तं पदमुपतिष्ठत इत्यर्थात् बृद्धिर्यस्याचामादिस्तवृद्धमित्यत्र वृद्धिपदस्य सत्त्वेनेक इत्य- स्योपस्थित्येकः स्थानिकवृद्धिय॑स्याचामादिस्तवृद्धमित्यर्थात् लैगवायन इत्यत्रैव स्यान्न तु शालीय इत्यादाविति भावः। विधौ परिभाषोपति- ष्ठते नानुवादे इति । अयं भावः परिभाषोपस्थापकं लिङ्गं प्रधानमपे- क्ष्यते प्रधानाप्रधानन्यायेन प्राधान्यञ्च विधेयस्यैव भवतीति सति सम्भवे विधेयबोधकमेव लिङ्गं गृह्यते नोद्देश्यबोधकम् । तथा च मृजेवद्धिरित्या- दाविपरिभाषा प्रवर्त्तते न तु वृद्धिय॑स्येत्यादौ तत्र वृद्धिपदस्योद्देश्य- बोधकत्वात् । यच्च लिङ्गं विधेयताप्रयोजकन्न सम्भवति तदुद्देश्यगतमपि प्रधानं गृह्यते न त्वप्रधानं प्रधानाप्रधानन्यायादेव। तथा चौपश्लेषिकाधि- करणबोधकसप्तम्यन्तं तस्मिन्नितिपरिभाषालिङ्गम्, अनिर्धारितसम्बन्ध- विशेषा षष्टी षष्ठीस्थान इत्यस्यालिङ्गम् । तच्चोद्देश्यगतमेव विधेयासम्भ- वात् । तत्रापि विधेये साक्षाद्विशेषणं यत् तत् परंपराविशेषणं प्रति प्रधान- १०२. विधौ परिभाषो०] विजयाऽलङ्कृतः अनूद्यमानविशेषणेषु तन्नियामकपरिभाषा नोपतिष्ठत इति तदर्थः । विध्यङ्गभूतानां परिभाषाणां विधेयेनासिद्धतया सम्बन्धा- सम्भवेऽपि तद्विशेषणे व्यवस्थापकत्वेन चरितार्थानां तद्विशेषण- व्यवस्थापकत्वे मानाभाव इति तर्कमूलेयम् । किञ्चो'दीचामातः स्थाने' इति सूत्रे स्थानेग्रहणमस्या लिङ्गम् । अन्यथा 'षष्ठी स्थाने इति परिभाषयैव तल्लामे तद्वैयर्थं स्पष्टमेवेति-तन्न । उदात्तस्व- रितयोर्यणः इत्यादौ 'प्यङः संप्रसारणम्' इति सूत्रभाष्योक्तरीत्या 'अल्लोपोऽन' इत्यादौ चैतस्या व्यभिचरितत्वात्, भाष्यानुक्तत्वाच्च । स्थानसम्बन्धो न परिभाषालभ्य इत्यर्थस्य 'षष्ठी स्थाने' इति सूत्रे भाष्ये स्पष्टमुक्तत्वेन त्वदुक्तज्ञापकासम्भवाच्च । तत्र स्थानेग्रहणं मिति । तत्रैव परिभाषाप्रवृत्तिनं तु परम्पराविशेषणीभूते उक्तन्यायादिति इको यणचीत्यादौ यणरूपविधेये साक्षाद्विशेषणे, इक इत्यत्र षष्टीस्थाने इत्यस्य प्रवृत्तिन्नं तूदीचामातः स्थाने इत्यत्रात इत्यादौ तस्य परम्परयेत्वरूप- विधेयविशेषणत्वादत एव तत्र स्थाने ग्रहणं चरितार्थं तदप्येतत्परिभाषा- ज्ञापकम् । विधौ इत्यस्य प्रधाने इत्यर्थः । अनुवादे इत्यस्याप्रधाने इत्यर्थः । गुणवृद्धी विधीयते इत्यर्थस्त्वेतत्परिभाषालभ्य एवेति । अनद्यमानेति । उद्देश्येत्यर्थः । तन्नियामकेति । उद्देश्यविशेषणोपस्था- पिकेत्यर्थः । विध्यङ्गभूतानामिति । विध्युपकारकाणामित्यर्थः विधेयेनासिद्धतयेत्यस्य विधेयस्यासम्भवेनेत्यर्थः । इदञ्चौपश्लेषिक- सप्तम्यादिविषयं बोध्यम् । गुणवृद्धिरूपस्य तस्य सम्भवात् । तर्कमूलेय- मिति । प्रधानाप्रधानन्यायमृलेयमित्यर्थः । उदात्तस्वरितयोरिति उदात्तस्वरितयोरित्यत्र परम्परया विधेयविशेषणे षष्ठीस्थान इत्यस्य अ- लोपोऽन इत्येतद्विधेयलोपे परम्पराविशेषणे अङ्गभसंज्ञाक्षिप्ते असर्वनाम- स्थाने तस्मिन्नित्यस्य प्रवृत्त्या परिभाषाया व्यभिचार इत्यर्थः । स्थानेग्र- हणं ज्ञापकमपि न षष्ठीस्थान इत्यस्य निर्दिश्यमानपरिभाषार्थकत्वेन स्थानार्थस्य परिभाषासाध्यत्वाभावेन ज्ञापितेऽपि चारितार्थ्यासम्भवादि- त्याह-स्थानसम्बन्धो नेति । विधीयते इति । न चाध्याहार एतत्- ।

३३४ ] परिभाषेन्दुशेखरः [ दोषार्थकयने तु स्पष्टार्थमेव । किञ्च विधौ परिभाषेति प्रवाद 'इको गुणवृद्धी' 'अचश्च' इत्यनयोविधीयत इत्यध्याहारमूलकः। अन्यत्र तु नास्याः फलमित्यन्यत्र विस्तरः॥ १०२ ।। ननु नमस्करोति देवान्नमस्यति देवानित्यादौ 'नमःस्वस्ति' इति चतुर्थी दुर्वारेत्यत आह- उपपदविभक्तेः कारकविभक्तिर्बलीयसी ॥ १०३ ॥ कारकविभक्तित्वं च क्रियाजनकार्थकविभक्तित्वम् । तच्च परिभाषामूलक एवेति वाच्यं, गुणवृद्धिग्रहणानुवृत्त्यैव सिद्धे सूत्रस्थगुण- वृद्धिग्रहणसामर्थ्यात् गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी विधीयते इत्यर्थेन तल्लाभात् । अचश्चेत्यत्रोकाल इत्यतोऽच् इत्यस्य ह्रस्वदीर्घप्लुत इत्यस्य चानुवृत्त्या आवृत्त्या तृतीयान्तत्वेन विपरिणामेन च तदर्थलाभसम्भ- वाच ।। १०२ ॥ नमस्करोतीति । ननु नमःपदार्थे देवानामन्वयविवक्षायां चतुर्थी कृधात्वर्थफलेऽन्वयविवक्षायां द्वितीयेति व्यवस्थितत्वात्कथं द्वितीयाकाले चतुर्थ्याः प्राप्तिरिति चेत्-न । नमःपदस्य कृधात्वर्थनमस्कारार्थद्योतकतया स्वनिष्ठापकृष्टत्वप्रकारकबोधानुकूलव्यापाररूपनमस्कारघटकबोधान्वयमा- त्रेणैवोभाभ्यामन्वयलाभादेकदैव विभक्तिद्वयप्राप्तस्सत्त्वात् । यदि च स्वप्र- योज्यस्ववाच्यार्थनिष्टविषयतानिरूपितविषयताप्रयोजकत्वसम्बन्धेन नम:- पदविशिष्टात्प्रातिपदिकाच्चतुर्थीत्यर्थात् नमस्करोति देवानित्यादौ नम:प- दप्रयोज्या न नमस्कारार्थनिष्ठाविषयताऽपि तु कृधातुप्रयोज्येति न चतुर्थी- प्राप्तिरित्युच्यते । तदाह-नमस्यति देवानिति । अत्र नमःपदस्यैव नमस्कारार्थवाचकत्वाद्धातुत्वाच्चोभयोर्युगपत्प्राप्तिरिति बोध्यम् । क्रिया- जनकार्थकेति । ननु चतुर्थ्यर्थोद्देश्यत्वादेरपि उद्देश्यत्वं जानातीत्यादि- प्रतीत्या क्रियाजनकत्वात्तदर्थकचतुर्थ्यादीनामपि विभक्तीनां क्रियाजनका- र्थकविभक्तित्वेन कारकविभक्तित्वापत्तिरिति चेत्-न । क्रियानिष्ठविशेष्य- तानिरूपितक्रियाकारकभावसम्बन्धावच्छिन्नप्रकारताप्रयोजकविभक्तित्वं कारकविभक्तित्वमिति तात्पर्य्यात् । चतुर्थ्यादीनाञ्च ताशप्रकारताप्रयो- जकत्वाभावेनादोषात् । मातुः स्मरतीत्यादौ मातृविषयकस्मरणप्रतीत्या १०३. उपपदविभक्तेः कारक ०] विजयाऽलङ्कृतः [ ३३५ प्रथमाया अप्यस्तीति सापि कारकविभक्तिरिति 'सहयुक्ते' इत्यादि- सूत्रेषु भाष्ये ध्वनितम् । इयं च वाचनिक्येव । अत एव 'यस्य च भावेन' इति सप्तम्यपेक्षयाधिकरणसन्नम्या बलवत्त्वमनेन न्यायेन 'तत्र च दीयते' इति सूत्रे भाष्ये ध्वनितं कैयटेन स्पष्ट- मुक्तम् । एतेन क्रियान्वयित्वं कारकत्वमित्यपास्तम् । 'यस्य च भावेने ति सप्तम्या अपि क्रियान्वयित्वात् । ये तु प्रधानीभूतक्रिया- सम्बन्धनिमित्तककार्यत्वेन कारकविभक्तीनां बलवत्वं वदन्ति तेषामुभयोरपि क्रियासम्बन्धनिमित्तकत्वेन तदसङ्गतिः स्पष्टैव । 'नमो वरिवस्' इति सूत्रे नमस्यति देवानित्यादौ चतुर्थीवा- रणाय भाष्ये उपन्यासस्यासङ्गतिश्च । एतेन क्रियाकारक- सम्बन्धोऽन्तरङ्ग इति तन्निमित्ता विभक्तिरन्तरङ्गोपपदार्थेन तु यत्किञ्चित्क्रियाकारकभावमूलकः सम्बन्ध इति तन्निमित्ता बहिरङ्गे- षष्ठ्यास्ताशप्रकारताप्रयोजकत्वविरहः। कारकत्वव्याप्यकर्मत्वादिबोध- कविभक्तित्वं वा कारकविभक्तित्वम् । प्रथमाया अपीति । अभिहि- ते कारके प्रथमेति वार्तिकात्तस्या अपि कारकार्थकत्वादिति भावः । भाष्ये ध्वनितमिति । तत्राप्रधानग्रहणाभावे पुत्रेण सहागतः पितेत्या- दौ पितृशब्दादपि तृतीयामाशंक्य उपपदविभक्तरिति न्यायेन प्रथमया तृतीयाया बाधनस्योक्तत्वात् । अत एवेति । वाचनिकत्वादेवेत्यर्थः । क्रियान्वयित्वं तत्त्वमिति चेलाथमार्थस्य प्रत्ययार्थेन सहान्वयेन तत्त्वा- भावात्तदसङ्गतेः । ध्वनितमिति । तत्र हि तत्र च दीयते कार्यमिति सूत्रे दीयतेग्रहणं कार्यग्रहणञ्च किमर्थं यन्मासे दीयते यन्मासे कायं तदपि तत्र भवं भवतीति तत्र भवमित्यनेनैव सिद्धेरित्याशंक्य तत्र भवमित्यत्रौप- श्लेषिकाधिकरणे सप्तमी। तत्र च दीयते इत्यत्र सामर्थ्यात् यस्य च भावेनेति सप्तमीति यस्य च भावेनेति सप्तमी यत्र तत्र प्रत्ययार्थ दीयतेग्रहणमित्युक्तं कैयटेन चोपपदविभक्तरिति न्यायेनौपश्लेषिकाधिकरणे सप्तमीति स्पष्टमेवो- क्तम् । एतच्च भाष्यमस्या वाचनिकत्वे एव सङ्गतमुभयोः क्रियानिमित्तकत्वेन प्राधान्यादेस्साम्यात् । यत्किञ्चदिति । नमः स्वस्तीत्यादौ स्वरूपसूत्रण स्वरूपस्यैव नमः शब्दार्थत्वेन तत्सम्बन्धो देवस्य वद्योत्यक्रियाकर्मत्वं ३३६ ] परिभाषेन्दुशेखरः [ शेषार्थकथने त्यपास्तम् । नमस्यतीत्यत्र नम पदार्थेऽपि क्रियाकारकभावेनैवान्व- यात् । अत्र च नमःपदार्थस्यापि क्रियात्वं मुण्डयतौ मुण्डस्येव । 'सहयुक्ते' इत्यादौ च प्रधाने प्रथमासाधनामियं भाष्ये उपन्यस्ते- त्यन्यत्र विस्तरः॥१०३॥ - क्रियया सह तु कर्मत्वमेवेत्यन्तरङ्गबहिरङ्गभावः स्पष्टः । वस्तुतस्तु प्रधाननिमित्तकत्वेन कारकविभक्तीनां बलवत्त्वं तन्मूलकोऽयं न्यायः । नम- स्यतीत्यादावपकृष्टत्वप्रकारकबोधानुकूलव्यापारात्मकनमस्कारघटकबोधा- न्वयमात्रं चतुर्थ्याऽपेक्ष्यते । बोधापेक्षया प्रधानीभूतव्यापारनिमित्तकत्वं द्वितीयायाः प्रधानीभूतव्यापारजन्यफलाश्रयस्य कर्मत्वादिति द्वितीया बलवती । न च कर्तृप्रत्ययस्थले व्यापारस्य प्राधान्यवत् कर्मप्रत्ययस्थले नमस्क्रियन्ते देवा इत्यादौ स्वमते फलस्यैव प्राधान्येन साम्यमेवेति वाच्यम् । शाब्दबोधीयविशेष्यतारूपप्राधान्यस्य बोधे सत्त्वेऽपि जन्यत्वेनाप्रतीय- मानत्वलक्षणप्राधान्यस्य व्यापारे एव तत्रापि सत्त्वादत एव प्रधानक्रिया- निमित्तककर्मत्वं तत्र सिद्धम् । तदर्थकत्वेन प्रथमाया अपि प्रधाननिमित्त- कत्वेन चतुर्थ्यपेक्षया बलवत्त्वम् । अत एवाप्रधानग्रहणाभावे पुत्रेण सहा- गतः पितेत्यादौ कारकविभक्तित्वेन प्रथमाया तृतीयाबाधकत्वेऽपि पुत्रेण सहागतस्य पितुर्द्धनमित्यादौ षष्ठीं बाधित्वा न तृतीयापत्तिः । साहित्य- रूपसम्बन्धस्य पित्रनुयोगिकस्य पित्रपेक्षया विशेष्यत्वेन प्रधानीभूतधना- नुयोगिकसम्बन्धापेक्षयाऽप्राधान्यात् । तन्निमित्तकषष्ठ्याः साहित्यसम्ब- न्धनिमित्तकतृतीयापेक्षया बलवत्त्वं वाचनिकत्वे तु षष्ठ्याः कारकविभक्ति- त्वाभावेन तृतीयाबाधकत्वानापत्त्या अप्रधानग्रहणप्रत्याख्यानासङ्गत्या- पत्तेः। तत्र च दीयते इति सूत्रस्थभाष्यविरोधस्तु न । तथा हि यदि सर्वत्र शास्त्रे सत्सप्तम्येव स्यात्तहि तस्मिन्नितिपरिभाषा व्यर्था स्यादस्या ह्यौपश्ले- षिकसप्तमी लिङ्गम्। तस्मादिदं ज्ञाप्यतेऽनया परिभाषया-असति बाधके अस्मिन् शास्त्रेऽधिकरणसप्तम्येव । अत एवोक्तं-भाष्ये सत्यामेतस्यां सत्सप्तम्याश्रयणमयुक्तमिति । ततश्च तत्र भव इत्यत्राप्यधिकरणसप्तमी सिद्धा। तत्र च दीयते इत्यत्रतु सामर्थ्यात्सत्सप्तमी । अत एव भाष्ये औपश्लेषिकाधिकरणं विज्ञास्यत इत्येवोक्तम् । न त्वतन्नचायोपन्यासः । कैयटे न्यायोपन्यासोऽपि तस्मिन्निति ज्ञापनमूलक एवेति दिक् ॥ १०३ ।।

१०४. अनन्त्यविकारेऽन्त्यसदे०] विजयाऽलङ्कृतः [ ३३७ नन्वदमुयङित्यादौ पूर्वस्यापि मुत्वापत्तिरत आह- अनन्त्यविकारेऽन्त्यसदेशस्य ॥ १०४ ॥ अन्त्यसदेशानन्त्यसदेशयोरेकप्रयोगे युगपत्प्राप्तावन्त्यसदेश- स्यैवेति तदर्थः । अन्यथा धात्वादेर्नत्वसचे नेता सोतेत्यादा- वेव स्यातां न तु नमति सिञ्चतीत्यादौ । अनन्त्यविकार इति च मुत्वापत्तिरिति । अदसोरित्यनेनेति भावः । अनन्त्यविकार इति। नअन्त्यस्य विकारो येनासावनन्त्यविकारस्तस्मिन् शास्त्रेऽन्त्यसदेश- स्येत्यस्योपस्थितिरिति परिभाषार्थः । तथा च अदद्रयङितिस्थिते अन्त्यो यकारस्तस्यादसोऽसेरित्यनेन विकाराभावात्तत्रान्त्यसदेशस्येत्युपस्थिती अदःशब्दावयवस्यान्त्यसदेशस्य दस्य मत्वं प्रत्यासत्त्या तस्मात्परस्यैव रेफस्योत्वे अदमुयङिति सिद्धिः । न चामू इत्यादावन्त्यौकारोद्देश्यकोका- ररूपविकारप्रयोजकमेव मुत्वशास्त्रमिति कथन्तत्र परिभाषाप्रवृत्तिरिति वाच्यम् । विधेयभेदेन वाक्यभेदात् । मत्वशास्त्रस्यान्त्योद्देश्यकविकारा- प्रयोजकत्वेन तत्र परिभाषाप्रवृत्तस्सुलभत्वात्। धात्वादन्नत्वसत्त्वे इति । ननु नमनं नयतीति नमननीस्तत आचारक्विवन्तात्कर्तरि क्विपि नमन- नीरित्यादौ सापादिके सर्वस्मिन् काये जाते आदिणकारान्त्यसदेशण- कारयोर्युगपदेकप्रयोगे रणत्वप्राप्तिसत्त्वादन्त्यस्याप्राप्तेश्च णो न इत्यत्रा- न्त्यसदेशस्योपस्थितिर्दुारेति चेत्-अत्रोच्यते। यत्किञ्चित्प्रयोगविशिष्टे शास्त्र अन्त्यसदेशस्येत्युपस्थितिः । वैशिष्ट्यं स्वपर्याप्तोद्देश्यताकत्वस्वा- न्त्योद्देश्यकविकाराप्रयोजकत्वस्वनिरूपितावयवत्वविशिष्टान्त्यसदेशानन्त्य- सदेशोभयवृत्तिवर्णत्वव्याप्यधर्मावच्छिन्नविषयताप्रयोजकत्वैतत्त्रितयस- म्बन्धन । नमननीति प्रयोगवैशिष्ट्यमादाय णो न इत्यत्र दोषवारणा- याद्यस्सम्बन्धः । नेतेतिग्रयोगवैशिष्ट्यं तत्र माभूदिति तृतीयस्सम्बन्धः। परम् सु राजन् सुअ इति टजन्तसमुदायस्य सुपो धात्वितिसूत्रे वैशिष्ट्य- वारणाय विषयतायां वर्णत्वव्याप्यधर्मावच्छिन्नत्वविशेषणम् । जुगुप्स- तीत्यादौ गुप्सितिसकारान्तस्य प्रथमैकाचो द्वित्वे हलादिः शेषेण पका- रसकारयोर्लोपाय द्वितीयः सम्बन्धः । अन्यथा अनया पकारस्यैवान्त्यसदे- शत्वेन लोप: स्यान्न तु सकारस्य । द्वितीयसम्बन्धनिवेशे तु अन्त्योद्देश्यक- विकारप्रयोजकत्वेन परिभाषाया अप्रवृत्त्या न दोषः । चलीक्लृप्यत इत्यत्र २२ ३३८ ] परिभाषेन्दुशेखरः [ शेषार्थकथने लिङ्गम् । अन्त्येन समानो देशो यस्य सोऽन्त्यसदेशः । तत्त्वं चान्त्यवर्णतद्वर्णयोरितराव्यवधानेन बोध्यम् । अत एव विद्ध इत्याद्यर्थं 'न संप्रसारणे' इति चरितार्थम् । 'अल्लोपोऽन' इत्यादर- नस्तक्ष्णेत्यादावाद्याकारादावप्रवृत्तिरप्यस्याः फलम् । यजादिस्वा- दिपरान्नन्ताङ्गस्याकारस्य लोप इत्यर्थस्यैवाङ्गाशे प्रत्ययस्योत्थि- ताकाङ्क्षतयौचित्यादङ्गावयवाजादिस्वादिपरस्यान इत्यादिक्रमे- णानेकत्रानेकक्लिष्टकल्पनापेक्षयाऽस्या उचितत्वात् । न चैषा 'व्यङः सम्प्रसारणम्' इति सूत्रे भाष्ये प्रत्याख्यातेति भ्रमितव्यम् । वार्तिकोक्तफलानामनेकक्लिष्टकल्पनाभिरन्यथासिद्धि प्रदापि या- न्यैतस्याः परिभाषायाः प्रयोजनानि तदर्थमेषा कर्तव्या प्रतिवि- कृपो रोल इति शास्त्रीयविषयतायास्समुदायपर्याप्ताया अभावात् न परिभाषायाः कृपो रोल इत्यत्र प्रवृत्तिः । अन्त्येन समानो देश इति । इदन्तु व्युत्पत्तिमात्रमन्यवर्णस्यान्यवर्णसमानदेशत्वासम्भवादुपान्त्यस्ये- वान्यस्यापि महादेशमादायान्त्यसदेशत्वापत्तेश्चेत्यत आह-तत्त्वज्चेति । स्वप्रागभावाधिकरणक्षणवृत्तित्वस्वप्रागभावाधिकरणक्षणवृत्तिस्वविजा- तीयवर्णप्रागभावाधिकरणक्षणावृत्तित्वोभयसम्बन्धेनान्त्यवर्णविशिष्टत्वम- न्त्यसदेशत्वम् । विद्धमित्यादावकारेण व्यवधानाधकारस्यान्त्यसदेशत्वा- भावेन परिभाषया वकारस्य संप्रसारणवारणासम्भवेन न संप्रसारण इति चरितार्थम् । विजातीयनिवेशाददमुयङित्यादौ रेफेण व्यवधानेऽपि दकार- स्यान्त्यसदेशत्वोपपत्तिः । अनस्तदणेति । अन्नन्तं यदङ्गम्भन्तदवयवो योऽन्पदीयनिर्दिश्यमानस्तस्याकारस्य लोप इत्यर्थकमल्लोपोऽन इति सूत्रम् । निर्दिश्यमानत्वञ्च षष्ठीप्रकृतिजन्यप्राथमिकोपस्थितीयविषयताश्रयत्वम् । तच्चानस्तक्ष्णेत्यादावुभयोरनोर्वर्तत इत्यनयैव परिभाषया पूर्वानोऽकारस्य लोपाभावः । क्लिष्टकल्पनेति । आक्षिप्तस्य शाब्दबोधे भानाभावात् संज्ञाशास्त्रस्य कार्यकालपक्षेऽपि विधिशास्त्रेण सह पदैकवाक्यताविरहाच क्लिष्टत्वम्बोध्यम् । अस्या अनन्त्यविकार इति परिभाषाया इत्यर्थः । भाष्ये प्रत्याख्यातेति । अस्याः परिभाषायाः कतिपयफलानामन्यथा- १०५. नानर्थकेऽलोन्त्य० ] विजयाऽलङ्कृतः [ ३३९ धेयं दोषेषु प्रतिविधानं चोदात्तनिर्देशात्सिद्धमित्युपसंहारात् । मिमा- र्जिपतीत्यर्थं च । तत्र वृद्धः पूर्वमन्तरङ्गत्वाद्वित्वे परत्वादभ्यास- कार्ये ततोऽभ्यासेकारस्य वृद्धिवारणायावश्यकी । न च वृद्धौ पुनरभ्यासहस्वत्वेन सिद्धिलक्ष्ये लक्षणस्येति न्यायेन पुनरप्रवृत्तः । यत्तु 'न सम्प्रसारण' इति सूत्रे भाष्ये नैतस्याः परिभाषायाः प्रयोजनानीत्युक्तं-तस्यायमर्थः । एतत्सूत्रप्रयोजनान्येतस्याः परि- भाषायाः प्रयोजनानि न भवन्ति व्यधादावन्त्यसमानदेशयणोऽ- भावादिति। नैतान्येतस्याः प्रयोजनानोति पाठोऽपि क्वचिद् दृश्यते । वाचनिक्येवैषा स्पष्टा च 'प्यङ' इति सूत्रे'ऽदसोऽसेः' इति सूत्रे च केचिदन्त्यसदेशस्येत्यनेन भाष्ये इत्यन्यत्र विस्तरः ॥ १०४ ॥ नन्वव्यक्तानुकरणस्यात इति पररूपं पटत् इति पटितीत्या- दावलोऽन्त्यस्ये'त्यन्त्यस्य प्राप्नोतीत्यत आह- सिद्धिप्रदर्शनमानं कृतन्तत्सूत्रे भाष्ये । प्रतिविधानमप्रवृत्तिः । उदात्त- निर्देशादिति । यत्र परिभाषाया अप्रवृत्तिरिष्टा तत्रोदात्तः पठनीयः । अनुदात्तत्वञ्च परिभाषालिङ्गं कर्त्तव्यमिति भावः । तदर्थमेषा कर्तव्ये- ति । अनेनास्याः कर्तव्यत्वं स्पष्टमेवोक्तमिति बोध्यम्। मिमार्जिषतीत्य- र्थञ्चषेति--इदन्न युक्तम् । धातोः कार्यमुच्यमानमितिपरिभाषया प्रत्यया- व्यवहितपूर्वस्य मृजेरिको वृद्धिरित्यर्थेनाभ्यासस्य प्राप्त्यभावात् । समु- दायस्य मृज्त्वाभावादभ्यासस्य मृज्त्वेऽपि प्रत्ययाव्यवहितपूर्वत्वाभावाद- नर्थकत्वाच । एतत्सूत्रप्रयोजनानि विद्ध इत्यादीनीति शेषः । परे तु नैषा परिभाषा भाष्यसम्मता । नैतस्याः परिभाषायाः प्रयोज- नानीति भाष्यात्। नागेशव्याख्यानन्तु न युक्तमक्षरस्वारस्यभङ्गापत्तः । अनस्तक्ष्णत्यादौ पूर्वाकारस्य लोपस्तु न तस्य निर्दिश्यमानावयवत्वाभावात, षष्ठीप्रकृतिप्रयोज्यशाब्दबोधीयप्रकारताश्रयत्वनिर्दिश्यमानत्वमिति स्वी- कारण पूर्वानस्तत्वाभावात् । अदमुयडित्यस्यानभिधानाचात एवादमय- डिति भवितव्यमित्युक्तं न तु भवतीति दिगित्याहुः ।। १०४ ।।

३४० ] परिभाषेन्दुशेखरः [ शेषार्थकथने नानर्थकेऽलोऽन्त्यविधिरनभ्यासविकारे ॥ १०५ ॥ अनभ्यासेत्युक्तर्विभर्तीत्यादौ भृञामित् इत्याद्यन्तस्यैवाभ्यासो- ऽनर्थकोवृत्त्यभावात् । किं तूत्तरखण्ड एवार्थवानित्यन्यत्र निरू- पितम् । एषाऽलोऽन्त्या'त्सूत्रे भाष्ये स्पष्टा । फलानामन्यथा- सिद्धिकरणेन प्रत्याख्याता चेति तत एवावधार्यम् ॥ १०५॥ ननु ब्राह्मणवत्सा च ब्राह्मणीवत्सश्चेत्यादौ 'पुमान् स्त्रिये'त्येक- शेषापत्तिः । स्त्रीत्वपुंस्त्वातिरिक्तकृतविशेषाभावादत आह- प्रधानाप्रधानयोः प्रधाने कार्यसम्प्रत्ययः १०६ ॥ तेन प्रधानस्त्रीत्वपुंस्त्वातिरिक्ताप्रधानस्त्रीत्वपुंस्त्वकृतविशेष- स्यापि सत्त्वेन न दोषः । स्पष्टा चेयं 'पुमान् स्त्रिया' 'नपुंसकमन- नानर्थक इति । ततश्च पटद्घटकस्यातोऽनर्थकत्वान्न दोष इति बोध्यम् । अर्थावृत्त्यभावादिति । अभ्यासस्यार्थवत्त्वे तु अभ्यासादुत्त- रखण्डाच्च द्विधा भानं स्यादिति बोध्यम् । उत्तरखण्ड एवेति । अत एव अस्तेर्द्वित्वे परस्य भूभावे पूर्वस्य श्रवणं प्राप्नोतीति भाष्यं सङ्गच्छते । उत्तरखण्डस्यानर्थकत्वे परस्य भूभावानापत्त्या तदसङ्गत्यापत्तेः। फलाना- मन्यथेति । आम्रडितस्य वेतिन्यासेनैवालोऽन्त्यपरिभाषयाऽन्त्यस्य विकल्पसिद्धौ नानेडितस्यान्त्यस्य तु वेत्यस्य वैयापत्त्याऽब्यक्तानुकरण- स्येति सूत्रेऽलोन्त्यविध्यभावकल्पनात्पटितीत्यादौ न दोषः। हलि लोप इत्यत्रानाप्यक इत्यतोऽनित्यस्यानुवृत्त्या षष्ठयन्तत्वेन विपरिणमय्येदं सम्बन्धिनोऽनोन्त्यनकारस्यैव लोपेनाभ्यामिति सिद्धम् । एवमन्यत्राप्य- न्यथासिद्धिरूहनीया । अत्र ज्ञापकमाडितस्य वेति न्यासेनैव सिद्धौ नादंडितस्यान्त्यस्य तु वेति सूत्रमेव बोध्यम् । अनभ्यासविकार इत्यंशे अतिपिपोश्चेति निर्देशो ज्ञापकः ॥ १०५ ॥ प्रधानाप्रधानयोरिति । तथा च पुमान् स्त्रियेत्यादौ प्रधानस्त्रीत्व- पुंस्त्वमात्रकृतं यत्र वैरूप्यमित्यर्थः। ब्राह्मणीवत्सः ब्राह्मणवत्सेत्यादौ च ब्राह्मणगतं यदप्रधानं स्त्रीत्वादि तेनापि वैरूप्यान्नैकशेषः । नन्वप्राधान्यं प्रकारत्वमेव । तच्च सर्वत्र लिङ्गस्येत्युदाहरणासम्भव इति चेत्-न ।

१०७. अवयवप्रसिद्धः समु०] विजयाऽलङ्कृतः [ ३४१ पुंसकेन' इत्यनयोर्भाष्ये । अन्तरङ्गोपजीव्यादपि प्रधानं प्रबलमिति 'हेतुमति च' इत्यत्र भाष्यकैयटयोः ॥ १०६ ॥ ननु स्वस्रादित्वप्रयुक्तो मातृशब्दस्य डीनिषेधः परिच्छेत्तृ- वाचकमातृशब्देऽपि स्यादत आह- अवयवप्रसिद्धः समुदायप्रसिद्धिर्बलीयसी ॥१०७ ॥ तेन शुद्धरूढस्य जननीवाचकस्यैव ग्रहणं न परिच्छेत्तृवाच- कस्य । योगजबोधे तदनालिङ्गितशुद्धरूढिजोपस्थितिः प्रतिबन्धि- केति व्युत्पत्तिरेव तद्बीजम् । रथकाराधिकरणन्यायसिद्धोऽय- मर्थः। कश्चित् 'दीधीवेवीटाम्' इत्यत्रानया परिभाषया दीधीवेवीडोरेव लिङ्गनिष्ठमप्राधान्यं यस्य शब्दस्य वैरूप्यं विवक्षितं ततप्रयोज्यविशेष्यता- निरूपितप्रकारतावच्छेदकत्वरूपम् । प्राधान्यञ्च तत्पदप्रवृत्तनिमित्तावच्छि- नविशेष्यतानिरूपितप्रकारतावत्त्वमित्यदोषात् । अनयैव परिभाषया विशेषणगतलिङ्गमादाय प्राप्तं लिङ्गनिमित्तकं नत्वादिकायं ब्राह्मणभा- ाः कुलपुत्र इत्यादौ वारणीयम् । अन्तरङ्गोपजीव्यादिति । अत एव शत्रूनगमयत्स्वर्गमित्यादौ प्रयोज्यक्रियानिरूपितकर्तत्वेऽन्तरङ्गत्वोप- जीव्यत्वयोस्सत्त्वेऽपि तद्बाधित्वा प्रधानक्रियानिमित्तत्त्वेन प्राधान्या- त्कर्मत्वसिद्धौ गतिबुद्धिसूत्रस्य नियमार्थत्वं हेतुमति चेति सूत्रभाष्योक्तं सङ्गच्छते॥१०५॥ योगजबोध इति । अवयवशक्तिज्ञानाधीनसमुदायशक्तिज्ञानाधीनो- पस्थितिजन्यशाब्दबोध इत्यर्थः । तदनालिङ्गितेति । अवयवशक्तिज्ञा- नानधीनसमुदायशक्तिज्ञानजन्योपस्थितिरित्यर्थः । प्रतिबध्यप्रतिबन्धक- भावस्तु वस्तुस्थित्यैव कल्प्यते। लोके च यत्रान्यतरतात्पर्य्यनिर्णायक नास्ति तत्र समुदायशक्त्यैव बोधो भवतीति वस्तुस्थितेस्तस्य कल्पनमिति भावः । इयञ्च वस्तुस्थिती रथकाराधिकरणन्यायेनापि निश्चीयते । तत्रापि समुदायशक्तिज्ञानाधीनबोधस्यैव निर्णीतत्वात् । तदाह-रथकारेति । ननु सति तात्पर्य योगजबोधस्याप्युदयेनायं प्रतिबध्यप्रतिबन्धकभावो न

३४२ ]
परिभाषेन्दुशेखरः
[ शेषार्थकथने
ग्रहणं न दीधीवेञ्वीनामिति-तन्न । तथा सति दोवेधीवीनामि-
त्येव वदेदित्यन्ये ॥ १०७॥
ननु वातायनार्थे गवाक्षेऽवडो वैकल्पिकत्वाद्गोऽक्ष इत्याद्यपि
स्यादत माह-
व्यवस्थितविभाषयापि कार्याणि क्रियन्ते ॥ १०८॥
लक्ष्यानुसाराव्यवस्था बोध्या। 'शाछोः' इति सूत्रे 'लटः
शत्रि'त्यादिसूत्रेषु च भाष्ये स्पष्टा ॥ १०८ ॥
युक्त इति चेत्-न । योगजबोधतात्पर्यनिर्णयाभावस्यापि प्रतिबन्धकदले
निवेशात् । ननु गणपठितमातृशब्दस्य मातृत्वरूपानुपूर्व्यवच्छिन्नबोध-
कत्वेनानुपूर्व्याश्च परिच्छेतृवाचकेपि सत्त्वादुभयबोधो दुर्वार इति चेत्-न।
अर्थस्याप्यर्थवद्ग्रहणपरिभाषया विशेषणतया भानात्तस्य समुदायप्रसि-
द्वथैवोपस्थितस्य ग्रहणेनादोषात्। ननु स्वरूपसूत्रप्रत्याख्याने लौकिक-
व्युत्पत्त्या विभिन्नरूपेणोपस्थितयोर्जननीपरिच्छेतृरूपार्थयोस्समुदायप्रसि-
था जनन्या एव ग्रहणमित्यस्य युक्तत्वस्यान्यत्रोपपादितत्वेनैतत्पने
आत्मीयवाचकस्वशब्देनात्मीयत्वेनैवार्थस्य भानादुभयोग्रहणं दुर्वारमिति
चेत्-न। लौकिकव्युत्पत्त्या शब्दबोध्यानामेवार्थानामेकरूपेणात्मीयत्वेन
बोधार्थन्तत्सूत्रस्यारम्भादन्यथा सकृद्दतिन्यायात् सर्वेषां बोधानापत्तेः ।
शब्दबोध्यश्चोक्तन्यायात्प्रसिद्ध एवेति परिच्छेतृरूपार्थस्याभानेनादो-
षात् ॥ १०७॥
व्यवस्थितविभाषयेति । व्यवस्थितविभाषात्वञ्च शास्त्रे स्वीयोहे-
श्यतावच्छेदकव्याप्यो य उभयावृत्तिधर्मव्यापको धर्मस्तन्निष्ठव्याप्यता-
निरूपिता या विधेयतावच्छेदकधर्मावच्छिन्ना व्यापकता तद्वतोर्भावा-
भावयोविधायकत्वम् ।
यथाऽवफोटायनस्येत्यस्योद्देश्यतावच्छेदको
धर्मोऽजव्यवहितपूर्वत्वविशिष्टगोशब्दत्वं तद्व्याप्योभयावृत्तिधर्मव्या-
पको वातायनार्थकत्वविशिष्टाक्षशब्दाव्यवहितपूर्वत्वविशिष्टगोशब्दत्वरूप-
स्तव्यापकत्वं विधेयतावच्छेदकावङ्त्वावच्छिन्नं तद्वदवङ् तद्विधायकत्वं
तस्येति समन्वयः। कचिदभावत्वावच्छिन्नमेव व्यापकत्वं भविष्यतीति
बोध्यम् ॥ १०८॥

१०६. विधिनियमसम्भवे० ] विजयाऽलङ्कृतः [ ३४३ विधिनियमसम्भवे विधिरेव ज्यायान् ॥ १०६ ॥ नियमे ह्यश्रुताया अन्यनिवृत्तेः सामर्थ्यात्परिकल्पनमुक्तानु- विधिनियमसम्भव इति । 'विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयत' । इति जैमिनिस्मृतिः । विधिः 'सोमेन यजेदिति । यागस्य केनाप्य- प्राप्तेः । नियमस्तु 'ब्रीहीनवहन्ती'ति । अवघातस्तण्डुलनिष्पादक इति लोकसिद्धत्वाच्छास्त्रेण तण्डुलनिष्पत्तयेऽवघातो विधातुमयोग्योऽपि वि- धीयते । तस्येदं तात्पर्य तण्डुलनिष्पत्तिस्तुपविमोकात् । स च यथा- ऽवघातेन तथा नखेनापि भवितुमर्हतीति तण्डुलार्थी कदाचिदवघातेन यदृच्छया तुषविमोकं कृत्वा यागं कुर्य्यादिति नखनिष्पन्नतण्डुलकृत- पुरोडाशसिद्धो यागोऽपूर्वसाधको न किन्त्ववघातसिद्ध एवापूर्वसाधक इति बोधयितुं पाक्षिकसिद्धोऽप्यवघातोऽनेन बोध्यत इति पाक्षिकसिद्धा- वघातबोधकत्वानियमत्वम् । 'पञ्च पञ्चनखाभक्ष्या' इति परिसंख्या । रागतो भक्षणं पञ्चनखानां यथा प्राप्तं तथा श्वादिमांसानामपीति । तेषामभक्ष्यत्वबोधनाय लोकतः सिद्धमपि पञ्चनखभक्षणमनेन विधीयत इति । तत्र स्वोपात्ते पञ्चनखादा- वन्यत्र श्वादौ प्राप्तभक्षणविधायकत्वात् परिसंख्यात्वम् । यथा भक्षणं चुन्निवृत्त्यर्थं तत्रान्यत्र प्राप्तं तथाऽवघातस्तण्डुलनिवृत्त्यर्थं न तत्रान्यत्र च प्राप्तः । यथा वाऽवघात: पाक्षिकः प्राप्तस्तथा न भक्षणं पाक्षिकं प्राप्तम् । क्षुन्निवृत्तेरुपायान्तराभावादिति तयोर्भेदः। अस्मिन् शास्त्रे तु नियमपदेन परिसंख्यैवोच्यते । यथा-समासस्य विधीयमानप्रातिपदिकसंज्ञायाः समासे अन्यत्र च प्राप्तत्वात् परिसंख्या- त्वम् । तत्रार्थवत्सूत्रेण प्राप्तव संज्ञा समासातिरिक्त पूर्वभागपदघटिते । २ कारिकेयं भट्टकुमारिलमिश्राणां तन्त्रवात्तिके पृ० ५६ प्रमाणान्तरेणाप्राप्तस्य प्रापको विधिः । अयमेवापूर्वविधिरिति कथ्यते । यथा 'स्वर्गकामो यजेत । अत्र स्वर्गसाधकस्य यागस्य प्रत्यक्षादिप्रमाणान्तरेणा- प्राप्तस्य ‘यजेत स्वर्गकाम' इत्यनेन विधानात् भवति अयमपूर्वविधिरिति भावः ।

३४४ ] परिभाषेन्दुशेखरः [ शेषार्थकथने वादे दोषश्चेति लाघवाद्विधिरेवेति बोध्यम् । 'यस्य हल' इत्यत्र भाष्ये स्पष्टेयम् ॥ १०६॥ नन्वा'शंसायां भूतवच्च' इत्यनेन लुङ इव ललिटोरप्यतिदेशः स्यादत पाह- सामान्यातिदेशे विशेषानतिदेशः ॥ ११० ॥ सामान्योपस्थितिकाले नियमेन विशेषोपस्थापकसामग्यभा- वोऽस्या बीजम् । तेनानद्यतनभूतरूपे विशेषे विहितयोस्तयो- नातिदेशः । इयमनित्या 'न ल्यपीति लिङ्गात् तेन 'स्थानिवत्'- सूत्रेण विशेषातिदेशोऽपि । स्पष्टं चैतत् सर्वं 'स्थानिवत्' सूत्रे भाष्ये ॥११०॥ तयावृत्त्यर्थमनूद्यते इति अश्रुता अन्यनिवृत्तिः । प्राप्तस्यानुवादः स्पष्टः । इदञ्च विधिमुखेन प्रवृत्तौ । यदि च समासस्य सिद्धत्वात् तदतिरिक्तस्य पूर्वभागपदघटितस्य नेत्येव समासपदस्य समासातिरिक्ते पूर्वभागपद- घटिते भवतीति पदस्य न भवतीत्यर्थे च लक्षणयाऽर्थस्तदा लक्षणैव गौरव- मिति विधिसम्भवे नियमो न युक्तः । यस्य हल इति । तत्र अत इत्यस्य सम्बन्धाद्धल: परस्यैव यस्यातो लोप इति नियामकमुत अत इत्यननुवालोन्त्यपरिभाषाञ्च सामर्थ्या- तिरस्कृत्य सर्वलोकविधायकमिति सन्दिह्यापूर्वविधिर्भविष्यति न नियम इति युक्तम् ।। १०९॥ सामान्यातिदेशे विशेषानतिदेश इति। अयम्भावः भूतवदित्यनेन भूतसादृश्यं विधीयते । सादृश्यञ्च तद्वृत्तिधर्म एव । स च धर्मः क इति जिज्ञासायां सादृश्यप्रतियोगितावच्छेदकतया शब्दादुपस्थितस्तज्ज्ञानादनु- मानेनोपस्थितस्तद्व्यापको धर्मः। स्तस्यैवातिदेशः। न तु तद्व्याप्यधर्मा- तिदेशस्तस्यानुपस्थितत्वादित्येतत् फलितैवेयं परिभाषा। तेन भूतत्वातिदेशे- ऽपि अनद्यतनपरोक्षभूतत्वादेर्नातिदेशः । एवमेव सर्वातिदेशविषये बो- ध्यम् । न ल्यपीति लिङ्गादिति। ल्यपि क्त्वावृत्तिकित्त्वातिदेशे हि तस्मि- नीत्वं प्राप्नोति । कित्त्वस्य च क्त्वाविशेषधर्मत्वेनातिदेशाभावान ल्यपीति व्यर्थ सदनित्यत्वे ज्ञापकम् ।

११२. सहचरितासहचरि० ] विजयाऽलङ्कृतः
[ ३४५
ननु 'तित्स्वरितमिति स्वरितत्वं किरतीत्यादावपि स्यादत
आह-
प्रत्ययाप्रत्यययोः प्रत्ययस्य ग्रहणम् ॥ १११ ॥
इयं चाङ्गस्या इति सूत्रे भाष्ये पठिता । वर्णग्रहणे च न
प्रवर्तते इति तत्रैव कैयटे स्पष्टम् । अत एव 'सनाशंसभिक्ष उ*
'बले' इत्यत्र सन्बलयोः प्रत्यययोर्ग्रहणम् ।
परे तु 'तित्स्वरितम्' इति सूत्र एषा परिभाषा लक्ष्यसंस्काराय
भाष्ये क्वापि नाश्रितेति कैयटेनोक्तम् । 'अङ्गस्य' इति सूत्रे तत्-
प्रत्याख्यानायैषा भाष्य एकदेशिनोक्ता। अत एव तितिप्रत्ययग्रहणं
कर्तव्यमिति वार्त्तिककृतोक्तम् । उक्तसूत्रयोर्व्याख्यानात् प्रत्यय-
योरेव ग्रहणमित्याहुः ॥ १११ ॥
ननु 'विपराभ्यां जे इत्यात्मनेपदं परा सेना जयतीत्यर्थके
पराजयति सेनेत्यत्र प्रामोतीत्यत आह-
वस्तुतस्तुस्थानिवत्सूत्रस्य सङ्ग्राहकवाक्यत्वमतिदेशकवाक्यन्तु विशेष-
रूपेणैव वक्तव्यमन्यथा अन्यादेशोऽन्यस्थानिवत्स्यात्। तथा च येन रूपेण
सूत्रेण स्थान्यादेशभावो बोध्यते तेन रूपेण प्रतियोग्यनुयोगिबोधकवा-
क्यं कल्पनीयमिति शब्दरत्नकारोक्तं न युक्तं, मानाभावात् । किन्तु अ-
यमादेश एतत्स्थानिवदित्येव कल्प्यम् । ततश्च प्रधायेत्यत्र तत्क्त्वात्वव्या-
पकमेव कित्त्वमिति न ल्यपीति सार्थकमेवेति न ज्ञापकमनित्यत्वे नापि
फलमिति बोध्यम् ॥११०॥
वर्णग्रहणे च नेति । शुक्लीभवतीत्यत्राप्रत्ययस्याप्यकारस्यास्य च्वा-
वितीत्वसिद्धिः । अत एवेति । परिभाषायास्सत्त्वादेवेत्यर्थः । वस्तुत एषा
परिभाषा मन्तव्याऽन्यथा वनो र च वसोस्सम्प्रसारणमित्यादौ वनच
वसुस्तम्भ इत्यनयोर्धात्वोरपि ग्रहणापत्तेः। तिदिति । प्रत्ययग्रहणं कर्त्त-
व्यमिति । वार्तिकन्तु परिभाषालब्धार्थानुवादभूतमेवेति दिक् ॥१११॥

३४६ ] परिभाषेन्दुशेखरः [ शेषार्थकथन सहचरितासहचरितयोः सहचरितस्यैव ग्रहणम् ॥ ११२ ॥ तेन विशब्दसाहचर्यादुपसर्गस्यैव पराशब्दस्य ग्रहणमिति तत्रैव भाष्ये स्पष्टम् । सहचरणं सदृशयोरेवेति सहचरितशब्देन सादृश्यवानुच्यते । रामलक्ष्मणावित्यादावपि सादृश्यमेव नियाम- कम् । सदृशयोरेव सहविवक्षा । तयोरेव सहप्रयोग इत्युत्सर्गाच । ध्वनितं चेदं 'कर्मप्रवचनीययुक्ते द्वितीया' इति सूत्रे भाष्ये । तत्र हि 'पञ्चम्यपाङपरिभिः' इति सूत्रेण लक्षणादिद्योतकपरियोगे पञ्चमीमाशङ्कय यद्यप्ययं परिदृष्टापचारो वर्जने चावर्जने चायं खल्वपशब्दोऽदृष्टापचारो वर्जनार्थ एव कर्मप्रवचनीयस्तस्य कोऽन्यः सहायो भवितुमर्हत्यन्यो वर्जनार्थाद्यथाऽस्य गोः सहायेनार्थ इति गौरेवानीयते नाश्वो न गर्दभ इत्युक्तम् । तेन हि सदृशानामेव प्रयोगे सहायभावो बोधितः । 'द्विस्त्रिश्चतुः" इति सूत्रे साहचर्ये- णैव कृत्वोऽर्थस्य ग्रहणे सिद्ध कृत्वोऽर्थग्रहणादेपाऽनित्या। तेन सहचरितासहचरितयोरिति । सदृशासशयोरित्यर्थः । विशब्द- साहचयादिति । ननु पक्षिवाचकस्यापि वेस्सत्त्वात् कथमुपसर्गस्यैव तत्साहचर्य्याद्ग्रहणमिति चेत्-न । पराशब्दसाहचर्यात्पक्षिवाचक- भिन्नस्यैव वेग्रहणं तादृशवेश्योपसर्गस्यैव सत्त्वेन तत्साहचर्य्यादुपसर्गस्यैव पराशब्दस्य ग्रहणमिति परस्परसाहचर्ये एव तात्पर्यात् । रामलक्ष्मणा- विति। इत्यत्रापि रामसहचर्य्यादुर्योधनापत्यभिन्नबोधको लक्ष्मणशब्दो दुर्योधनापत्यभिन्नश्च लक्ष्मणपदबोध्यो दाशरथिरेवेति तत्साहचर्य्याद्राम- बोध्योऽपि दाशरथिरेव न परशुरामादिरिति परस्परसाहचर्यमेवात्रापि बोध्यम् । ध्वनितमिति। सदृशार्थक एव सहचरितशब्द इत्यर्थो ध्वनित इत्यर्थः । लक्षणादोति । आदिपदेनेत्थम्भूताख्यानभागवीप्सानां ग्रहणम् । दृष्टापचार इति । दृष्टव्यभिचार इत्यर्थः । साहचर्येणैवेति। द्विनिःशब्दयोस्सुजन्तत्वेन कृत्वोर्थकत्वात् । ताभ्यां कृत्वोर्थकत्वेन साह- चऱ्यात् कृत्वोर्थकञ्चतुःशब्दो गृह्यत इति चतुःकपाल इत्यादौ दोषाभावा- - ११३. श्रुतानुमितयोः श्रुत०] विजयाऽलङ्कृतः [ ३४७ 'दीधीवेवीटामि'त्यत्र धातुसाहचर्येऽप्यागमस्येटो ग्रहणमित्यन्यत्र विस्तरः॥ ११२॥ नन्वस्थि' इत्याद्यनङ् प्रियसक्थना ब्राह्मणेनेत्यत्र न स्यादङ्गस्य नपुंसकत्वाभावादत आह- श्रुतानुमितयाः श्रुतसम्बन्धो बलीयान् ॥ ११३ ॥ श्रुतेनैव सम्बन्धो नानुमितेन प्रकरणादिप्राप्तेनेत्यर्थः। प्रकरणा- दितः श्रुतेर्बलवत्त्वादिति भावः । एवं च तत्र लिङ्गमस्थ्यादीना- मेव विशेषणं नाङ्गस्य । शीशिलुङ्नुम्बिधिषु तु गृह्यमाणस्या- भावात् प्रकरणप्राप्ताङ्गस्यैव विशेषणम् । अत एव 'वा नपुंसकस्य' इति सूत्रे वाशाविति न कृतम् । तत्र नपुंसकग्रहणं हि गृह्यमाणस्य व्यर्थं कृत्वोऽर्थग्रहणं ज्ञापकमनित्यत्व इति वोध्यम् । धातुसाहचार्य- पीति । वस्तुतस्तु धातुत्वेनैव साहचर्य न हलनुबन्धकत्वेनेत्यत्र विनिग- मकाभावान्नानित्यत्वफलमिति बोध्यम् ।। ११२ ।। अङ्गस्येति । न ह्युपाघेरुपाधिर्भवतीति न्यायात् प्रधानाप्रधानन्या- याचास्थिदधीतिसूत्रे नपुंसकत्वस्याङ्गविशेषणत्वौचित्यात् प्रियसक्थना ब्राह्मणेनेत्यसङ्गतमिति भावः । श्रुतेनैवेति । प्रकरणप्राप्ताङ्गापेक्षया श्रुतानामस्थ्यादीनां शीघ्रोपस्थितेस्तेष्वेवान्वयः । पूर्वोक्तन्यायद्वयन्तू- भयोः श्रुतत्वविषयमिति भावः । प्रकरणादित इति । श्रुतिलिङ्ग वाक्यप्र- करणस्थानसमाख्यानां पारदौर्बल्यमर्थविप्रकर्षात्' इति जैमिनिन्याय- सिद्धोऽयमर्थः। गृह्यमाणस्येति । श्रुतस्येत्यर्थः । अभावादिति । श्रुते सति हि तेनैव सम्बन्धः परिभाषार्थः । न्यायसिद्धेऽर्थे ज्ञापकमप्याह- अत एवेति । परिभाषायास्सत्त्वादेवेत्यर्थः । वा नपुंसकस्येति । यथा- स्थितन्यासे हि नपुंसकस्येत्यस्य समीपस्थत्वेन शीघ्रोपस्थिते श्रुतपदता- त्पर्य्यविषये शत्रन्ते एवान्वयो न तदन्ताङ्गेऽनुमिते दूरस्थत्वेन विलम्बो- पस्थिते तेनाङ्गस्य पुंस्त्वेऽपि प्रवर्तते । वाशाविति । म्यासे त्वङ्गस्य नपुं- *लिङ्ग मन्त्रस्यार्थप्रकाशनरूपसामर्थ्यम् । 'जैमिनिपूर्वमीमांसासूत्रम्-३-३-१४ अत्र श्रुत्यादीनां पूर्व पूर्व बलीयस्त्वम् ।

३४८ 1 परिभाषेन्दुशेखरः [ शेषार्थकथने शत्रन्तस्यैव नपुंसकत्वे यथा स्याबहवो ददतो येषु तानि कुलानि बहुददतीत्यत्र मा भूबहूनि ददन्ति येषु ते बहुददन्त इत्यत्र यथा स्यादित्येवमर्थम् । स्पष्टं चेदं 'स्वमोनपुंसकात्' इत्यत्र भाष्ये । केचित्तु 'अचो रहाभ्यां द्वे' इत्यत्र श्रुतेन रेफस्य निमित्तत्वेन यरन्तर्भावादनुमितं कायित्वं बाध्यत इत्येतदुदाहरणमाहुः- तन्न । तक्रकौण्डिन्यन्यायेन सिद्धरित्यन्यत्र विस्तरः ॥ ११३ ॥ ननु 'तत्पुरुषे तुल्यार्थ' इति स्वरः परमेण कारकेण परमकार- केणेत्यादौ स्यात्तथा 'गातिस्थाघुपाभूभ्यः' इति लुक् पै शोषण इत्यतः कृतात्वात्परस्यापि स्यादत आह- लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् ॥ ११४ ॥ लक्षणं लाक्षणिकमुपचारात् । तत्तद्विभक्तिविशेषाद्यनुवादेन विहितो हि समासादिः प्रतिपदोक्तस्तस्यैव ग्रहणं शीघ्रोपस्थिति- सकत्वे एव स्यादिति फलभेदः । परिभाषाया अभावे तु प्राधान्यादङ्ग एव लिङ्गान्वयो यथास्थितन्यासेऽपि स्यादिति फलैक्याज्ज्ञापकत्वम् ॥११३।। तत्पुरुषे तुल्यार्थ इति । तत्पुरुष तुल्यार्थतृतीयासप्तम्युपमानाव्य- यद्वितीयाकृत्याः । तुल्यार्थं तृतीयान्तं सप्तम्यन्तमुपमानवाचकमव्ययं कृत्यप्रत्ययान्तं द्वितीयान्तं पूर्वपदं तत्पुरुषसमासे प्रकृत्येत्यर्थस्तेन परमेण कारकेणेति परिनिष्ठितविभक्त्या विशेषणसमासेऽपि तत्पुरुषत्वस्य तदीय- पूर्वपदे तृतीयान्तत्वस्य च सत्त्वेन स्वरस्स्यादिति भावः । लक्षणमिति । लक्षणनिष्पन्ने लक्षणत्वारोपात् लाक्षणिक लक्षणपदेनोच्यत इति बोध्यम् । वस्तुतस्तु प्रतिपदोक्तभिन्नं लक्षणपदेनोच्यत इति बोध्यम् । प्रतिपदोक्त- त्वञ्च यदर्थे विशेषणतया प्रतिपदोक्तत्वं विवक्षितं तद्विशिष्टत्वम्। वैशिष्टयञ्च स्ववृत्त्यानुपूर्व्यवच्छिन्नविधेयताश्रयत्वस्वार्थान्वय्यर्थकपदवृत्त्यानुपूर्वीमत्प- दप्रयोज्योद्देश्यतानिरूपितविधेयताश्रयत्वैतदन्यतरसम्बन्धेन । तत्पुरुषे यत्तु- तीयान्तं पूर्वपद तत्प्रकृत्येत्यर्थकतत्पुरुषे इति सत्रघटकतत्पुरुषपदा- थे प्रतिपदोक्तत्वं विशेषणतया विवक्षितं प्रतिपदोक्त तत्पुरुषे इत्यादिति तत्पुरुषपदविशिष्टस्तत्पुरुषः प्रतिपदोक्तः । स च तृतीयापदमप्रयोज्यो- । ११४. लक्षणप्रतिपदोक्तयोः ] विजयाऽलङ्कृतः [ ३४६ द्देश्यतानिरूपितविधेयताश्रय एव । न तु परमकारकेति तृतीयान्तप्रकृति- कः कर्मधारयः । तथा हि स्वं तत्पुरुषपदं तदर्थान्वय्यर्थक पदं तृतीये- तिपदं तद्वृत्त्यानुपूर्वीमत्पदं तृतीयातत्कृतार्थेति सूत्रघटकं तृतीयापदन्त- प्रयोज्योद्देश्यतानिरूपितविधेयताश्रयत्वन्तत्सत्रविहित एवेति लक्षणस- मन्वयः । एवं विभाषा दिक्समास इति सूत्रे प्रतिपदोक्तः समासो दिग्- नामान्यन्तराल इति सूत्रविधेय एव । तत्रैव समासपदवैशिष्ट्यात् । एवं पापदार्थे पारूपे प्रतिपदोक्तत्वं विवक्षितमिति पावृत्त्यानुपूर्व्यवच्छिन्नविधे- यताश्रयत्वं पाधातोरेव न तु पैनिष्पन्ने पाधातौ। तत्र पात्वावच्छिन्नवि- धेयताया अभावादिति बोध्यम् । तृतीयासमास इत्यस्य तृतीयासमासः सर्वाद्यन्तस्सर्वनामसंज्ञको नेत्यर्थः । स च समासः प्रतिपदोक्तः पूर्वसह- शेति विहित एव । तत्रैव तत्समासपदवैशिष्ट्यसत्त्वात् । इको गुणवृद्धी इति सूत्रे प्रतिपदोक्तपरिभाषचैव प्रतिपदोक्तगुणवृद्धिविधायक इक इत्यस्योपस्थितिरित्यर्थेन त्यदादीनाम आसर्वनाम्न इत्येतद्व्यावृत्तौ गुण- वृद्धिशब्दाभ्यां यत्रेति व्याख्यानं व्यर्थमेवेति तु न युक्तम् । उक्तान्यतर- सम्बन्धेन गुणवृद्धिशब्दवैशिष्ट्याभावेन प्रतिपदोक्तयोर्गुणवृद्धयोरसम्भ- वेन प्रतिपदोक्तपरिभाषायास्तत्राप्रवृत्तरेतदभिप्रायेणैव शब्देन्दुशेखरे उक्त-प्रतिपदोक्तपरिभाषया तु नात्र निर्वाह इति । ननु यदर्थे प्रतिपदोक्त- त्वं विशेषणतया विवक्ष्यते तत् तदर्थान्वय्यर्थकपदैतदन्यतरवृत्त्यानुपूर्वी मत्पदघटितशास्त्रीयविधेयताश्रयत्वमित्येव प्रतिपदोक्तत्वमस्तु । तथा सति इको गुणवृद्धी इत्यत्राप्यनयैव निर्वाहः । गुणवृद्धिपदार्थयोर्विशेषणतया विवक्षितं प्रतिपदोक्तत्वमिति गुणवृद्धिपदवृत्त्यानुपूर्वीमत्पदघटितं सार्व- धातुकेति मृजेर्वद्धिरित्यादिशास्त्रं तदीयविधेयताश्रययोरेव प्रतिपदोक्तत्वन्न तु त्यदादीनाम इत्यादिविधेयेष्विति गुणो यो गुण इत्यादि व्याख्यानं, प्रतिपदोक्तपरिभाषया न निर्वाह इति कथनञ्चासङ्गतमेव । विभाषा दिक्- समासे घुमास्थेत्यादिसूत्रेऽपि न दोष इति चेत्-न । वृद्धिर्यस्याचामादि- स्तबुद्धमित्यत्रापि वृद्धिपदेन प्रतिपदोक्ताया एव वृद्धिपदवृत्त्यानुपूर्वीमद्रु- विपदघटितशास्त्रीय विधेयताश्रयरूपायाः कारकादिशब्दघटकवृद्धग्रहणेन तत्र युद्धसंज्ञायाश्चारितार्थेन शालाशब्दादौ प्रतिपदोक्तवृद्धेरभावेन वृद्ध- संज्ञानापत्तेः । पूर्वोक्तलक्षणे तु प्रतिपदोक्तवृद्धेरभावेन सामर्थ्यात्तत्र प्रतिपदोक्तपरिभाषाया अप्रवृत्त्या दोषाभावात् । तथा च गुणो यो गुण इत्यादिव्याख्यानं प्रतिपदोक्तपरिभाषया न निर्वाह इति कथनञ्च सङ्गत- मेवेति बोध्यम्।

३५० ] परिभाषेन्दुशेखरः [ शेषार्थकथने कत्वात् । द्वितीयो हि विलम्बोपस्थितिकः । पै इत्यस्य पा इति रूपं लक्षणानुसन्धानपूर्वकं विलम्बोपस्थितिकं पिबतेस्तु तच्छीघ्रोपस्थि- तिकम् । इदमेव ह्येतत्परिभाषाचीजम् । इयञ्च वर्णग्रहणेऽपि 'श्रोत्'सूत्रे भाष्ये संचारितत्वात् । यत्तु वर्णग्रहणे नैषा आदेच इत्यत्रोपदेशग्रहणादिति तत्तु तस्मिन्नेव सूत्रे शब्देन्दुशेखरे दूषितमिति तत एव द्रष्टव्यम् । अनित्या चेयं भुवश्च महाव्याहृतेः इति महाव्याहृतिग्रहणादित्य- न्यत्र विस्तरः॥ ११४।। नन्वेवं 'देडो दोधातोश्च कृतात्वस्य घुसंज्ञा न स्यात्तथा मेङ आत्वे प्रणिमातेत्यादौ 'नेर्गदनद' इति णत्वं न स्यात्तथा गै इत्यस्यात्वे 'घुमास्था' इतीत्वं न स्यादत आह- ननु अोदिति सूत्रे भाष्ये प्रतिपदोक्तपरिभाषया अदोऽभवदित्यत्र प्रगृह्यत्ववारणमसङ्गतं स्यादहो इतीत्यादौ प्रतिपदोक्तौकारस्यासम्भवेन सामर्थ्यात् तत्परिभाषाया प्रोत्सूत्रेऽप्रवृत्तेरेव वक्तव्यत्वादेवमनया हे भानो इत्यादावोतो णिदिति वाच्यमित्यस्याप्रवृत्तिप्रतिपादनपरस्तत्रत्य- शेखरोऽप्यसङ्गतः स्यात् । हे गौरित्यादावप्योकारस्य प्रतिपदोक्तत्वा- भावेन सामर्थ्यात्तत्र तस्या अप्रवृत्तेरावश्यकत्वादिति चेत्-न । आनुपूर्व्य- वच्छिन्नविधेयताश्रयाघटितत्वस्यैव वक्तव्यत्वात् । उपदेशग्रहणादिति । अयम्भावः । उपदेशग्रहणस्य फलं चेता स्तोतेति । तस्य लाक्षणिकत्वादेवा- त्वाप्रवृत्त्या तव्यर्थं सद्वर्णग्रहणे अप्रवृत्तौ ज्ञापकमिति ! दूषितमिति । उदीचां माङ इत्यत्रानुबन्धसहितस्य धातुत्वाभावेऽप्याल्वार्थम् । तत्र धातो- रित्यस्यासम्बन्धावश्यकत्वेन गोभ्यामित्यादौ प्रतिपदोक्त प्रात्वाभावायो- पदेशग्रहणस्यावश्यकत्वेन ज्ञापकत्वासम्भवादोत्सूत्रस्थभाष्यविरोधाच्चेति बोध्यम् । ननु स्थापयतीत्यादौ चरितार्थः पुक धेट आत्वे धापयतीत्यादौ लाक्षणिके न स्यादित्यत आह-अनित्येति । महाव्याहृतिग्रहणादि- ति । तद्धि भुव इत्यत्र जसन्ते अप्रवृत्त्यर्थं तस्य लाक्षणिकत्वादेवाप्रवृत्ती तद्व्यर्थं सदनित्यत्वे ज्ञापकम् ॥ ११४ ॥ नन्वेमिति। प्रतिपदोक्तपरिभाषायास्सत्त्व इत्यर्थः। न स्यादिति।

११६. प्रत्येकं वाक्यपरिस०] विजयाऽलङ्कृतः [ ३५१ गामादाग्रहणेष्वविशेषः ॥ ११५ ॥ अत्र ज्ञापकं दैपः पित्त्वम् । तद्ध्यदाबिति सामान्यग्रहणार्थम् । अन्यथा लाक्षणिकत्वादेव विधौ तदग्रहणे सिद्ध किं निषेधे सामान्यग्रहणार्थेन पित्वेन । तेन चैकदेशानुमतिद्वारा संपूर्णपरि- भाषा ज्ञाप्यते । इयं च लक्षणप्रतिपदोक्तपरिभाषानिरनुबन्धकपरि- भाषा लुग्विकरणपरिभाषाणां बाधिका 'दाधाध्व' इति सूत्रे भाष्ये स्पष्टा । 'गातिस्था' इति सूत्रे इणादेशगाग्रहणमेवेष्यत इति न दोष इत्यन्यत्र विस्तरः॥ ११५॥ ननु वृद्ध्यादिसंज्ञाः समुदाये स्युरत आह- प्रत्येक वाक्यपरिसमाप्तिः॥ ११६ ।। लाक्षणिकत्वादिति शेषः । अदाबिति । सामान्यग्रहणार्थमिति । दाधाघ्वदाविति सूत्रस्थदाप्पदेन दैपो ग्रहणाय दैप्शोधने इत्यनेत्संज्ञकः पकारः कृतः। स च दापदेन प्रतिपदोक्तदारूपस्यैव ग्रहणे निरनुबन्धक- परिभाषया निरनुबन्धकस्यैव तस्य ग्रहणे च लाक्षणिकस्य कृतात्वस्य दैग्निष्पन्नपारूपारूपस्य सानुबन्धकस्य घुत्वाप्राप्त्या अदाब्घटकदाप्पदे- नास्याग्रहणे निषेधाप्रवृत्त्या च व्यर्थ एवेति परिभाषाज्ञापकः । निषेधे इति । अदाबित्यत्र दाप्दैपोर्दाप्पदेन ग्रहणार्थेनेत्यर्थः । ननु परिभाषया गामादाग्रहणेष्वविशेषेऽपि धेट प्रात्वे लाक्षणिकत्वाद्धुत्वानापत्तिरेव । गामादां ग्रहणं यत्रेति बहुव्रीहिणा दाघटितसूत्रे विशेषाभावेनादोष न च इति वाच्यम् । गाघटितत्वेन गातिस्थेतिसूत्रे पाशब्देऽप्यविशेषापत्ते- रिति चेत्-न । गा च मा च दाग्रहणञ्चेति बहुव्रीयुत्तरपदक- द्वन्द्वाश्रयणेन गाशब्दे माशब्दे दाघटितसूत्रे चाविशेष इत्यर्थेनादोषात् । न दोष इति गैधातोः कृतात्वस्य गा इत्यस्य गाग्रहणेन परिभाषया ग्रहण- प्रसङ्गरूपो दोषो नेत्यर्थः ॥ ११५ ॥ प्रत्येकामति । विधेये उद्देश्यतावच्छेदकप्रतियोगिकपर्याप्त्यनुयो- गितावच्छेदकधर्मावच्छिन्नानुयोगिताकपाप्तिप्रतियोगित्वभानस्यौत्स- गिकत्वादिति बोध्यम् ।। ११६ ॥

३५२ ] परिभाषेन्दुशेखरः [ शेषार्थकथने देवदत्तादयो भोज्यन्तामित्यत्र भुजिवत् ॥ ११६ ॥ नन्वेवं संयोगसंज्ञासमाससंज्ञाभ्यस्तसंज्ञा अपि प्रत्येकं स्युरत आह. कचित्समुदायेऽपि ॥ ११७ ॥ गर्गाः शतं दण्ड्यन्तामर्थिनश्च राजानो हिरण्येन भवन्तीत्यादौ दण्डनवत् । लक्ष्यानुरोधेन च व्यवस्था ॥ ११७ ॥ ननु 'यू स्त्रयाख्यौ' इत्यत्र व्यक्तिपक्षे दीर्घनिर्देशादनण्त्वेन ग्राहकसूत्राप्राप्त्योदात्ताद्यन्यतमोच्चारणेऽन्यवरकस्य संज्ञा न स्या- दत आह- अभेदका गुणाः ॥ ११८ ॥ असति यत्ने स्वरूपेणोच्चारितो गुणो न भेदको न विवक्षित इत्यर्थः । अत्र चा स्थिदधि' इत्यादावनङादेरुदात्तस्यैवोच्चारणेन सिद्धे उदात्तग्रहणं ज्ञापकम् । स्वरूपेणोच्चारित इत्युक्तेरनुदात्तादे- -- समुदाये इति । उद्देश्यत्वेनाश्रीयमाणयावदारब्धसमुदायपर्याप्त- संख्यावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगित्वं विधेये भासत इत्युत्स- दिति बोध्यम् । वृद्धधादिसंज्ञारूपविधेये उद्देश्यतावच्छेदकीभूतात्वादि- प्रतियोगिकपर्याप्त्यनुयोगितावच्छेदकैकत्वावच्छिन्नानुयोगिताकपा- प्तिप्रतियोगित्वम् । अभ्यस्तसमाससंज्ञारूपविधेये चोद्देश्यत्वेनाश्रीयमाण- द्विरुच्चारणकर्मीभूतखण्डद्वयारब्धसुवन्तद्वयारब्धपचपच्नीलसु घटस्वि- त्यादिसमुदायपर्याप्तद्वित्वावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगित्वमि- ति लक्ष्यानुरोधादेव व्यवस्था बोध्या। अत एवाभ्यस्तसंज्ञासूत्रे उभेग्रहण- प्रत्याख्यानं सहसुपेत्यत्र सहेतियोगविभागश्च सङ्गच्छते ॥ ११७ ।। अभेदका इति । खेतरगुणविशिष्टव्यावर्तका नेत्यर्थः। असति यत्ने इति । स्वोच्चारणातिरिक्तोदात्तादिशब्दोच्चारणादिव्यापारमन्त- रेणैव गुणस्य बोधन इत्यर्थः। तत्कलितमाह-स्वरूपेणोच्चारित इति । इदमप्युदात्तग्रहणेनैव ज्ञाप्यतेऽन्यथा परिभाषाज्ञापनेऽपि चारितार्थ्याना- ११८. अभेदका गुणाः ] विजयाऽलङ्कृतः [ ३५३ रन्तोदात्तादित्यादिशब्दोच्चारणे विवव । 'उञः ॐ इत्यत्रान- नुनासिक एवोच्चारणीये यत्नाधिक्येनानुनासिकोच्चारणाद्विवक्षा बोध्या । 'पथिमथ्यभुक्षामित्यादौ स्थान्यनुरूपतयानुनासिक एवो. चारणीये निरनुनासिकोच्चारणात्तद्विवक्षा । एतदर्थमेवासति यत्न इत्युक्तम् । न चैवमस्थ्यादीनां नविषयस्य इत्याधुदात्ततयान्त्या- देशस्यानङः स्थान्यनुरूपेऽनुदात्त एवोच्चारणीय उदात्तोचारणं विवक्षार्थ भविष्यतीति कथमस्य ज्ञापकत्वमिति वाच्यम् । परमा- स्थिशब्दादावन्तोदात्त उदात्तगुणकस्यापि स्थानित्वेन विवक्षायां मानाभावात् । चतसर्याधुदात्तनिपातनं करिष्यते । वधादेश आधुदात्तनिपातनं करिष्यते । पदादयोऽन्तोदात्ता निपात्यन्ते । सहस्य स उदात्तो निपात्यत इत्यादिभाष्यं त्वेकश्रुत्याष्टाध्यायीपाठे क्वचिदुदात्ताधुच्चारणं विवक्षार्थमित्याशयेन । त्रैखयेण पाठ इति पक्षे तु ज्ञापकपरं भाष्यमिति कैयटादयः । पत्तेः । यत्नविशेषे सति विवक्षां दर्शयति-उजः जमित्यादिना । नवि- षयस्येति । नविषयस्य नपुंसकस्यादिरुदात्त इत्यर्थः। अनेनाद्याकार- स्योदात्तत्वेऽनुदात्तं पदमेकवजमित्यनेनान्तानुदात्तत्वमस्थ्यादीनामिति बोध्यम् । परमास्थीति । समासे कृते समासस्यान्तोदात्त इत्यन्तोदात्त इत्यर्थः । ननु ज्ञापनोपपत्त्यर्थमष्टाध्याय्यास्पैस्वयेण पाठ इत्यवश्यमभ्यु- पेयमन्यथा एकश्रुत्या पाठे औत्सर्गिके क्वचिदुदात्ताधुच्चारणं यत्नाधि- क्याद्विवक्षार्थमेव भविष्यतीति ज्ञापितायामपि परिभाषायामुदात्तग्रहणस्य चारितार्थ्याभावेन ज्ञापकत्वानापत्तेः। एवञ्च चतसऱ्यांद्युदात्तनिपा- तनं करिष्यत इत्यादिभाष्यासङ्गतिस्त्रैस्वयंपाठस्यौत्सर्गिकत्वेन यत्ना- धिक्याभावेन विवक्षानापत्तेरित्यत आह-चतसर्यायुदात्तनिपातनमि- त्यादि । एकश्रुत्येति । एकश्रुतिः । स्वरसामान्याभावः स्वरान्तरम्वा । ततश्च ततोऽन्यथाकरणं विवक्षार्थमिति बोध्यम् । नन्वेवं ज्ञापकपरं भाष्यं विरुणद्धील्यत आह-त्रैस्वयंण पाठ इति । न मानमिति सिद्धे २३

३५४ ]
परिभाषेन्दुशेखरः
[ शेषार्थकथने
परे तु निपातनं नामान्यादृशे प्रयोगे प्राप्तेऽन्यादृशप्रयोग-
करणं तद्रूपाद्यत्नात्तत्र तत्रोदात्तादिविवक्षा । तिसृचतस्रित्यत्र
द्वन्द्वप्रयुक्तेऽन्तोदात्त उच्चारणीय अायुदात्तोच्चारणमन्यत्र स्थान्य-
नुरूपे स्वर उच्चारणीये तत्तदुच्चारणं विवक्षार्थम् । संपूर्णाष्टाध्या-
य्याचार्येणैकश्रुत्या पठितेत्यत्र न मानम् । क्वचित्पदस्यैकश्रु-
त्यापि पाठो यथा 'दाण्डिनायनादि सूत्र ऐक्ष्वाकेति । यद्यप्यध्ये-
तार एकश्रुत्यैवाङ्गानि पठन्ति ब्राह्मणवत्तथापि व्याख्यानतोऽनुना-
सिकत्वादिवदुदात्तनिपातनादिज्ञानमित्याहुः।
विधेयाविषये त्वप्रत्यय इति निषेधान्न गुणाभेदकत्वेन
सवर्णग्रहणम् । अत एव घटवदित्यादौ मतोर्मस्य नानुनासिको
वकारः। अत एव 'तद्वानासामिति सूत्रनिर्देशः। अन्यथा 'प्रत्यये
भाषायामिति नित्यमनुनासिकः स्यात् । जातिपक्षे तु नास्योप-
योग इति बोध्यम् । यू इत्यादौ दीर्घमात्रवृत्तिजातिनिर्देशान
क्षतिरित्यन्यत्र विस्तरः॥ ११८ ॥
ननु सर्वनामानीत्यत्र णत्वाभावनिपातनेऽपि लोके सणत्व-
प्रयोगस्य साधुत्वं स्यादत आह-
वस्तुनि विकल्पायोगात्पाठे पक्षद्वयासम्भवाच्चेत्यपि बोध्यम् । कश्चन त्रैस्व-
येण पठिताऽष्टाध्यायीति वदति । तन्मतमभ्युपेत्य ज्ञापकमुपन्यस्तम् ।
कश्चिदेकश्रुत्यैव पठितेति वदति । तन्मतमभ्युपेत्य निपातनपरं भाष्यमिति
वा व्यवस्था बोध्या। ऐदवाकेतीति । जनपदशब्दात् क्षत्रियादित्यजन्तस्या-
द्युदात्तस्य कोपधादित्यणन्तस्यान्तोदात्तस्य चक्ष्वाकशब्दस्य स्वरभेदादेको-
क्त्या तयोरुकारलोपार्थं निपातनासम्भवादुभयसंग्रहार्थमेकश्रुत्या निपा-
तनमाश्रितंभाष्यकारैरुपायान्तरत्वेन, प्रकृवपरिभाषयाप्युभयोग्रहणसिद्धेः।
जातिपक्षे विति। तत्पक्षे तु स्वप्रतिपाद्यतावच्छेदकजात्यवच्छिन्न-
मात्रस्य ग्रहणसिद्धेः । दीर्घमात्रवृत्तीति । यू इतिदीर्घग्रहणात् दीर्घत्वस-
मानाधिकरणत्वाद्यवच्छिन्नस्य ग्रहणं न ह्रस्वस्येत्यर्थः ॥ ११८ ॥

१२०. पर्जन्यवल्लक्षणप्रवृत्तिः ] विजयाऽलङ्कृतः [ ३५५ बाधकान्येव निपातनानि ॥ ११ ॥ तत्तत्कायें नाप्राप्ते निपातनारम्भात् । पुराणप्रोक्तेषु इति निपातितपुराणशब्देन पुरातनशब्दस्य बाधः प्राप्तोऽपि पृषोदरादि- त्वान्नति बोध्यम् । पुराणेति पृषोदरादिः, पुरातनेति चेत्यन्ये । इयं सर्वादिसूत्रे भाष्ये स्पष्टा । अबाधकान्यपि निपातनानीति तु भाष्यविरुद्धम् ॥ ११ ॥ ननूखधातोत्वेि स्वत एव ह्रस्वत्वात्पूर्वमभ्यासहस्वत्वाप्रवृत्ती 'हलादिः शेषे 'सवर्णदोर्षे' ह्रस्वापत्तिरत आह- पर्जन्यवल्लक्षणप्रवृत्तिः ॥ १२० ।। लक्ष्ये लक्षणं सकृदेव प्रवर्तते ॥ १२१ ॥ एवं च हस्वस्यापि ह्रस्वत्वे कृते लक्ष्ये लक्षणस्येति न्यायेन न पुनर्हस्वः । तदुक्तमि'को झल्' इति सूत्रे भाष्ये । कृतकारि खल्वपि बाधकान्येवेति । सर्वनामशब्दे णत्वाभावकरणेन पाणिनिना सर्वनामशब्दे णत्वन्नेति वचनं बोधितं तेन पूर्वपदात्संज्ञायामगइतिसूत्रं बाध्यत इति लोके शाख्ने वा सर्वनामशब्दे णत्वाभावस्सिद्धः । ननु णत्वा- भावकरणेनास्मिन् सूत्रे सर्वनामशब्दे णत्वन्नेत्येव बोध्यत इति लोके णत्वं निर्बाधमेवेति चेत्-न। तदपेक्षया सर्वनामशब्दे णत्वन्नेत्यस्यैव लाघवेन कल्पनीयत्वात् । ननु तर्हि पुराणेतिनिपातनेन पुरातनशब्दस्य बाधः कस्मान्नेत्यत ग्राह-पुराणेति । अन्य इति । न निपातनमिति तदा- शयः । भाष्यविरुद्धमिति । सर्वादिसूत्रस्थभाष्यविरुद्धमित्यर्थः । तत्र बाधकत्वस्यैवोक्तत्वात् । रघुनाथशब्दे णत्वाभावाय कृतणत्वेन यत्र संज्ञा- गम्यते तत्रैव णत्वमित्यस्यावश्यं वक्तव्यत्वात्सर्वनामसंज्ञायां णत्वाप्र- वृत्तिरेखेति तु न युक्तं शास्त्रानुरोधेनैवाधुनिकसङ्केतकरणस्य युक्तत्वेन कृत- णत्वे एव सर्वनामशब्दे सङ्केतकरणस्य प्राप्तत्वेऽपि तदकरणेन णत्वघ- टितस्य तस्य शब्दस्यासाधुत्वे एवाचार्यतात्पर्य्यात् । रघुनाथादिसंज्ञाया अनादित्वेनादोषांत् ॥ ११९ ॥ पर्जन्येति । पर्जन्यो यथा असम्भवत्स्वकृतविशेषे अर्थात् ।

३५६ ] परिभाषेन्दुशेखरः [ शेषार्थकथने शास्त्रं पर्जन्यवदिति । सिद्धपि ह्रस्वादिकारीत्यर्थः । न च लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिरित्यत्र न मानमिति वाच्यम् । समो वा लोपमेक इति लोपेनैकसकारस्य द्वित्वेन द्विसकारस्य पुनद्वित्वेन च त्रिसकारस्य सिद्धौ ‘समः सुटि' इति सूत्रस्यैव मानत्वात् । 'संप्रसारणाच' 'सिचि वृद्धिः' इत्यादौ भाष्ये स्पष्ट- मुक्तत्वाच्च । अत्र विकारकृतो लक्ष्यभेदो नेति 'सिचि बृद्धिरिति भाष्यात्प्रतीयत इत्यन्यत्र विस्तरः ॥ १२० ॥ १२१ ।। जलपूर्णेऽपि प्रवर्तते तथा शास्त्रमपि असम्भवत्स्वकृतविशेषेऽपि प्रवर्चत इति परिभाषार्थः । शास्त्रस्य स्वीयोद्देश्यतावच्छेदकावच्छेदेन प्रवृत्तिस्वी- कारादप्येषा सिद्धा। न च न हि प्रयोजनमन्तरेण कस्य चित्प्रवृत्तिरिति- न्यायेन प्रवृत्ति: प्रयोजनव्याप्यैवेति प्रयोजनमन्तरा कथं प्रवृत्तिरिति वाच्यम् । अत्रापि लक्ष्ये लक्षणन्यायद्वारा दीर्घश्रवणरूपप्रयोजनस्य ह्रस्वप्रवृत्तौ सत्त्वेनादोषात्। लोपेनेत्यस्य मकारस्येत्यादिः। विकारकृ- त इति । तेनोदवोढामित्यत्र वदव्रजेतिवृद्धौ सहिवहोरित्योत्वे ओकारभावा- भावकृतलक्ष्यभेदेऽपि तल्लक्ष्यत्वमेवेति न पुनर्वृद्धिस्सर्वेषामित्यादौ सुटि कृते न सुट एकस्मिन् स्वीयलक्ष्ये स्वं सकदेव प्रवर्त्तत इति परिभाषार्थः। स्वलक्ष्य- त्वं स्वीयोद्देश्यत्वेनाश्रीयमाणसमुदायत्वम् । तच्चोदवोढामित्यत्राप्यस्तीति तत्र सकृद्वृद्धिप्रसङ्ग इति चेत्-न। उदवहसतामिदं वव्रजेत्यस्य लक्ष्यं तद- भिन्नमेवोदवोढामिति तत्र चेत्प्रवृत्तं तदभिन्ने तस्मिन् न पुनः प्रवृत्तिरित्यदो- षात् । ननु भेदस्य प्रत्यक्षसिद्धत्वात् कथं तदभेद इति चेत्-न । स्वविशिष्टं स्वतो न भिन्नमित्यस्य स्वीकारात् । वैशिष्टयञ्च स्वाघटकत्वस्वघटकमात्रो- हेश्यकविकारातिरिक्तत्वोमयसम्बन्धेन । स्वविशिष्टाघटितत्वसम्बन्धेन स्वमुदवहसतामिति लक्ष्यं तद्विशिष्टमुवोढामिति । तदीयौकारस्य पूर्व- लक्ष्याघटकत्वेऽपि द्वितीयसम्बन्धाभावात् । वकारे द्वितीयसम्बन्धेऽप्या- द्याभावात् । भवति चोदासीनो वर्ण उभयसम्बन्धेन तद्विशिष्टस्तदघटि- तत्वात्तदभिन्नन्तदिति न दोषः । मात्रपदनिवेशात् काण्डे इत्यस्य काण्डे- तिलक्ष्यभिन्नत्वमेकारस्य तद्धटकोद्देश्यकविकारत्वेऽपि तद्धटकमात्रोद्देश्य- कत्वाभावादेवञ्च काण्डविशिष्ट एकारस्तद्घटितत्वस्यैव सत्त्वात्स्वविशिष्ट- त्वाभावोऽत एव तत्र ह्रस्वत्ववारणायोपायान्तरकथनं ग्रन्थकाराणामुपप- १२२. निषेधाश्च बलीयांसः] विजयाऽलङ्कृतः [ ३५७ ननु स्यन्दधातोः स्यन्त्स्यतीत्यादावात्मनेपदनिमित्तत्वाभाव- निमित्तकत्वा न वृद्भ्यश्चतुर्व्यः' इति निषेधस्य बहिरङ्गत्वेनान्तरङ्ग- त्वादूदिल्लक्षणस्येड्विकल्पस्यापत्तिरत अाह- निषेधाश्च बलीयांसः ॥ १२२ ॥ अन्तरङ्गादुपजीव्यादपि बलीयांस इत्यर्थः । चतुर्म्य इति तु स्पष्टार्थमेव । अत एव तत्प्रत्याख्यानं भाष्योक्तं सङ्गच्छते । । नम् । न च यून इत्यस्य युवनरूपलक्ष्यवैशिष्ट्येन तयोरभिन्नत्वात् पुनर्य- कारे संप्रसारणाप्राप्तौ न संप्रसारणे इति निषेधो व्यर्थ इति वाच्यम् । स्व- घटकोद्देश्यकातिविशिष्टप्राप्तिविषयाघटितत्वरूपद्वितीयसम्बन्धोऽपि वै- शिष्ट्यनियामक इत्यदोषात् । वैशिष्ट्यञ्च स्वभिन्नत्वस्वसमानकालिक- त्वस्वनिरूपकशास्त्रनिरूपितत्वैतत्त्रितयसम्बन्धेन । द्वितीयप्राप्तः प्रथम- प्राप्तिविशिष्टत्वात् । अस्मिन् सम्बन्धे न संप्रसारण इति निषेध एव प्रमा- णम् । अत एव भवेदित्यादौ सकारद्वयस्यैकेन सूत्रेण निवृत्तिः । नन्वेवं निस्वित्यादौ निधसु इति खरि चेति सूत्रस्य लक्ष्यम् । तत्र पदसम्बन्धेन समुदायस्यैव पदत्वात् तद्धटकधकारस्य चत्वे कृते पुनर्डकारस्य चत्वं न स्यात्तद्विशिष्टत्वस्यैव निड्त्सु इतिसमुदायस्य सत्त्वेन तल्लक्ष्यत्वस्यैव सत्त्वादिति चेत्-न। प्राप्तिवैशिष्ट्ये समानकालिकत्वम्विहाय स्वानुत्तर- कालिकत्वस्यैव दानेन धुटः पूर्वकालिकडकारस्थानिकप्राप्तौ धकारस्थानि- कप्राप्तिवैशिष्ट्येन तद्विषयडकारघटितत्वेनादोषात् । न च यासेत्यादौ टापा सहकादेशविशिष्टस्य काण्ड इतिवत्तल्लक्ष्यत्वाभावात्त्यदाद्यत्वापत्ति- रिति वाच्यम् । त्यदादिनाम इत्यत्र विधेयसाहचर्यादीर्घाकारान्तभिन्नस्यैव त्यदादेर्ग्रहणेनादोषात् । मात्रपदेन स्वोद्देश्यकविभक्त्यनुद्देश्यकत्वस्यैव विवक्षितत्वाच्च । न याससोरितिनिर्देशेनानित्यत्वस्वीकाराच्च । दीव्यतीत्यादौ तल्लक्ष्यत्वाभावेन पुनः श्यंस्तु न विकरणप्रत्ययस्य महासंज्ञया प्रकृत्यर्थे- नार्थवत्त्वेपि कर्बर्थत्वाभावेन तस्मिन् श्यनोऽप्राप्तेरिति दिक् ॥१२०॥१२१॥ ननु स्यन्देरूदिल्लक्षणविकल्पस्य न वृद्भय इति निषेधेन परिभाषयै- व बाधे तद्बाधार्थमेव कृतस्य चतुर्ग्रहणस्य वैयर्थं वृद्भय इत्यनेनैव सिद्धेरित्यत आह-चतुर्थ्य इति । अत एवेति। उपजीव्यादपि बलवत्त्वा- ३५८ ] परिभाषेन्दुशेखरः [ शेषार्थकथने अत एव सवर्णसंज्ञादनिषेधविषये न विकल्पः । अन्यथा मीमांस- करीत्या विधेरुपजीव्यत्वेन प्राबल्यात्तस्य सर्वथा बाधानुपपत्त्या दुर्वारः स इति मञ्जूषायां विस्तरः । अत एव 'द्वन्द्वे च' 'विभाषा जसि' इति चरितार्थम् । विध्युन्मूलनाय प्रवृत्तिरस्याः बीजम् । 'न लुमता' 'कमेणिङ्' इत्यनयोर्भाष्ये स्पष्टैषा ॥ १२२ ॥ नन्वत्यन्तस्वार्थिकानामर्थप्रत्यायकत्वरूपप्रत्ययत्वानुपपत्तिरत आह- अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे ॥ १२३ ॥ यस्थार्थः प्रकृत्या प्रत्याय्यते सोऽपि प्रत्यय इत्यस्याप्यङ्गी- कारात्तस्य प्रत्ययत्वमिति न दोषः । स्वार्थ इत्यस्य स्वीयप्रकृत्यर्थ इत्यर्थः। महासंज्ञाबलादर्थाकाङ्क्षायामन्यानुपस्थितिरस्या बीजम् । 'सुपि स्थ' इत्यादिसूत्रेषु भाष्ये स्पष्टैषा ॥ १२३ ।। योगविभागादिष्टसिद्धिः ॥ १२४ ।। देवेत्यर्थः । स्वसाफल्याय निषेधेनापेक्षितत्वाद्विधेनिषेधोपजीव्यत्वमुपजी- व्यापेक्षया बलवत्त्वाभावे सर्वथा विधिवाधकत्वाभावेऽपि स्वसार्थक्याय पाक्षिकविधिबाधकत्वस्यावश्यकत्वेन निषेधविषये वैकल्पिकत्वापत्तिरिति बोध्यम् । अत एवमीमांसकैरतिरात्रे षोडशिनं गृह्णाति नातिरात्रे षोड- शिनं गृहातीत्यत्र उदिते जुहोति अनुदिते जुहोतीत्यत्र च षोडशिग्रहण- स्योदये होमस्य च वैकल्पिकत्वं सिद्धान्तितम् । व्याकरणे तु बाधकत्व- मेव । वस्तुतस्तु षोड़शिग्रहणनिषेधस्य विधिसमानविषयकतया सर्वथा विधिबाधकत्वे विधिवैयर्थ्यापत्त्या विकल्पो युक्त एव । एवमुदिते अनुदिते च होमस्य विधानाद्युक्तमेव पक्षद्वयम् । व्याकरणे च स्वविषये निषेधेन विधेर्बाधेऽप्यन्यत्र चारितार्थ्यसम्भवान्नास्ति विकल्पावकाशः । केवलं निषेधेन विधेयस्यासाधुत्वं बोध्यते। विधिना च साधुत्वमिति सिद्धे वस्तुनि विकल्पायोगादुपजीव्यत्वेऽपि सर्वथा बाध एव ।। १२२ ॥ अनिर्दिष्टार्थाः इति । तथा च स्वस्वप्रकृत्यन्यतरार्थप्रत्यायकत्वं प्रत्ययत्वमिति बोध्यम् ।। १२३ ।।

१२७. पूर्वत्रासिद्धीयमद्वित्वे ] विजयाऽलङ्कृतः [ ३५६ इष्टसिद्धिरेव न त्वनिष्टापादनं कार्यमित्यर्थः। तत्तत्समानवि- धेयकद्वितीययोगेन विभक्तस्यानित्यत्वज्ञापनमेतद्वीजम् ॥१२४॥ पर्यायशब्दानां लाघवगौरवचर्चा नाद्रियते ॥ १२५ ।। तत्र तत्रान्यतरस्यां 'विभाषा वेति सूत्रनिर्देशज्ञापितमिदम् ॥ १२५ ॥ ज्ञापकसिद्ध न सर्वत्र ॥ १२६ ।। स्पष्टमेव पठितव्येऽनुमानाद्बोधनमसार्वत्रिकत्वार्थमित्यन्ये । तेन ज्ञापकसिद्धपरिभाषयाऽनिष्टं नापादनीयमिति तात्पर्यम् । भाष्येऽपि ध्वनितमेतत् 'ह्याप सूत्रादौ । ज्ञापकेति न्यायस्याप्यु- पलक्षणम् । न्यायज्ञापकसिद्धानामपि केषां चित्कथनमन्येषामनि- त्यत्वबोधनायेति भावः । यथा तत्स्थानापन्ने तद्धर्मलाभ इति न्या- यसिद्धं स्थानिवत्सूत्रं ज्ञापकसिद्धं च तत्रा'नल्विधाविति ॥१२६।। ननु द्रोग्धा द्रोग्धा द्रोढा द्रोढेत्यादौ घत्वादीनामसिद्धत्वा- त्पूर्व द्वित्व एकत्र घत्वमपरत्र ढत्वमित्यस्याप्यापत्तिरत आह- अनित्यत्वज्ञापनमिति। अनित्यशास्त्रस्येष्टस्थले एव प्रवृत्तेः स्वीकारात्॥ १२४॥ पर्यायशब्द इति । लाघवात् वेति वक्तव्ये कृतस्यान्यतरस्यां वि- भाषाग्रहणस्य वैयर्थ्यमिति तज्ज्ञापकत्वमुक्तपरिभाषायाम् ।। १२५ ।। स्पष्टमेव पठितव्य इति । ननु शब्दोच्चारणजन्यक्लेशानुत्पत्त्या- उनमानाबोधनस्यान्यथासिद्धत्वानोक्तार्थज्ञापकत्वमिति चेत-नान हि शब्दोच्चारणजनककण्ठताल्वाद्यभिघातरूपगौरवमेवादव्यिन्न ज्ञानज- नकमनोव्यापाररूपगौरवमिति राजाज्ञास्तीत्युक्त्याऽनुमानाद्बोधनेऽपि क्लेशस्य सत्त्वात् ।। १२६ ॥ घत्वादीनामिति । द्वित्वदृष्ट्या घत्वादीनामसिद्धत्वाद्रोहतेत्यव- स्थायां द्वित्व इत्यर्थः । पूर्वत्रासिद्धीयं त्रिपादीस्थं शास्त्रन्तत्राद्वित्व इत्युप- ३६० ] परिभाषेन्दुशेखरः [ शेषार्थकथने पूर्वत्रासिद्धीयमद्वित्वे ॥ १२७ ॥ द्वित्वभिन्ने पूर्वत्र कर्तव्ये परमसिद्धमित्यर्थः । पूर्वत्रासिद्धमि- त्यधिकारभवं शास्त्रमस्या लिङ्गम् । यत्र च सिद्धत्वासिद्धत्वयोः फले विशेषस्तत्रैवेयम् । कृष्णद्धिरित्यादौ जश्त्वात्पूर्वमनन्तरं वा द्वित्वे रूपे विशेषाभावेन नास्याः प्रवृत्तिरित्यन्यत्र विस्तरः। 'सर्वस्य द्वे' इति सूत्रे भाष्ये स्पष्टयम् ॥ १२७ ॥ ननु गोष्वश्वेषु च स्वामीत्यादिवद् गोष्वश्वानां च स्वामीत्यपि स्यात् 'खामीश्वर' इति सूत्रेण षष्ठीसप्तम्योर्विधानादत आह- तिष्ठत इति परिभाषार्थः । पूर्वत्रासिद्धीयमित्यत्र सप्तम्यर्थे प्रथमा त्रिपा- दीस्थे पूर्वत्रासिद्धमित्यस्याधिकारात्तघटके पूर्ववेत्यस्मिन्नभेदेनाद्वित्व इत्यस्यान्वयाद्वित्वभिन्ने पूर्वत्र कर्त्तव्ये त्वमसिद्धमिति पर्यवसितोऽर्थः। द्वित्वे कर्तव्ये पूर्वत्रासिद्धन्न प्रवर्तत इति तु नार्थो द्वित्वस्याप्यसिद्धत्वाना- पत्त्या धुभ्यामित्यादौ परत्वाद्वित्वेऽन्त्यस्यैवोत्वे पूर्वत्र वकारश्रवणापत्तः। कृष्णर्द्धिरित्यादौ द्वित्वदृष्ट्याऽनया जस्त्वस्यासिद्धत्वाभावे परत्वाज्ज- स्त्वे द्वित्वञ्चेद्दकारद्वयसहित एको धकारः जस्त्वस्यासिद्धत्वे पूर्व द्वित्वे पश्चाद्धस्य जस्त्वे एकदकारसहितं धकारद्वयन्तयोरुच्चारणे विशेषाभावेन नास्याः प्रवृत्तिरिति तत्रोक्तं द्विधत्वन्नोपपन्नमित्याह-यत्र चेत्यादिना। इयं वर्णद्वित्वे न प्रवर्तत इति तु न युक्तं भाष्योदाहृते वाक्क इत्यादौ ककारद्वित्वश्रवणानापत्तेः । चत्वस्यासिद्धत्वाद्गस्यैव द्वित्वे परस्यावसानच- वेऽपि पूर्वत्र गश्रवणापत्तेः। खरि चेति चनेष्टसिद्धिस्तु न तद्दृष्ट्या- ऽवसानचत्वस्यासिद्धत्वात् । इयञ्च नमुन इत्यत्र नेति योगविभागात्सिद्धति केचित् । ग्राहकसूत्रेऽजिति वक्तव्येऽणग्रहणं ज्ञापकमस्यास्तद्धि अनचि चेत्यत्र यपदेन संय्यन्तेत्यादौ परसवर्णनिष्पन्नानुनासिकयकारग्रहणार्थ- मेतस्या अभावे तु द्वित्वं प्रति परसवर्णस्यासिद्धत्वेन द्वित्वात्पूर्वन्तस्य दौलभ्येन तव्यर्थमेव स्यादिति केचित्-तन्न । गुणाभेदकत्वेन ज्ञापिते- अपि चारितार्थ्याभावात् ।।१२।।

१२६. सम्प्रसारणं तदाश्रयं० ] विजयाऽलङ्कृतः [३६१ एकस्या आकृतेश्चरितः प्रयोगो द्वितीयस्यास्तृतीय- स्याश्च न भविष्यति ॥ १२८ ॥ यत्रान्याकृतिकरणे भिन्नार्थत्वसंभावना तद्विषयोऽयं न्याय इत्यन्यत्र विस्तरः। ‘कृञ् चानुग्र' इति सूत्रे भाष्ये स्पष्टेयम् ॥१२८॥ ननु विव्याधेत्यादौ परत्वाद्धलादिः शेषे' वस्य संप्रसारणं स्यादत आह- सम्प्रसारणं तदाश्रयं च कार्य बलवत् ॥ १२६ ।। तदाश्रयं संप्रसारणाच्च इति पूर्वरूपम् । वस्तुतो 'लिव्यभ्यासस्य इति सूत्र उभयेषां ग्रहणस्योभयेषां संप्रसारणमेव यथा स्यादि- त्यर्थकत्वेनेदं सिद्धमित्येषा व्यर्थेति 'लिव्यभ्यासस्येति सूत्रे भाष्ये स्पष्टम् । फलान्तरान्यथासिद्धिरपि तत्रैव भाष्ये स्पष्टा । णौ च एकस्या आकृतेः इति । आकृतिः श्रावणप्रत्यक्षविषयतावच्छेदको धर्माः । चरितः प्रयोगः सहप्रयोग इत्यर्थः। व्याख्यानाचार्थवद्विषये- यम् । यदर्थबोधनाय पूर्वमेकः शब्द उक्तस्तदर्थबोधनायैव शब्दान्तरे प्रयोक्तव्ये सति सम्भवे पूर्वोक्तसमानश्रावणप्रत्यक्षविषयतावच्छेदकक एव प्रयोक्तव्य इति पर्यवसितोऽर्थः। अर्थवद्विषयकत्वोक्त्या सुद्ध्युपा- स्य इत्यादावेकत्वधर्मवतो धकारस्योक्तावेकत्वधर्मावत एव यकारस्या- नया प्रयोक्तुमुचितत्वेन द्विधमेकयमित्युक्तिरसङ्गन्तेत्यपास्तम् । तदाह-यत्रा- न्याकृतीति । कृजेति । तत्र हि आमन्तस्य लिडन्तत्वेनानुप्रयुज्यमाना अपि कृभ्वस्तयोऽनेन न्यायेन लिट्परा एव भविष्यन्तीति व्यर्थमत्र लिड्ग्रहणमित्युक्तम् ॥ १२८ ।। उभयेषां ग्रहणस्येति । वच्यादीनां ग्रह्यादीनाश्चानुवृत्त्यैव सिद्धे कृतस्य उभयेषां ग्रहणस्येत्यर्थः । संप्रसारणमेवेति । संप्रसारणयोग्या- नामिति शेषः। ननु तेन वच्यादिग्रह्यादिविषयलक्ष्याणां सिद्धत्वेऽपि जुहचतुरित्यादौ संप्रसारणपूर्वरूपे बाधित्वा परत्वादालोपापत्तिः । शुशुवतु- रित्यादावियामपत्तिरित्यत्त आह–फलान्तरेति। नित्यत्वान्तरङ्गत्वाभ्यां संप्रसारणपूर्वरूपयोरेव पूर्व तत्र प्रवृत्त्याऽदोष इति । णौ च संश्चलोरि- ।

परिभाषेन्दुशेखरः
[ शेषार्थकथने
'संश्चडोः' इत्यादौ 'संश्वडो रित्यादिविषयसप्तमीति तत्रापि न दोष
इत्यन्यत्र विस्तरः ॥ १२ ॥
यत्तु
कचिद्विकृतिः प्रकृतिं गृह्णाति ॥ १३० ॥
तेन 'निसमुपविभ्यो ह इत्यत्र ह्वाग्रहणेन हो ग्रहण-
सिद्धिः॥१३०॥
तथा-
प्रोपदेशिकप्रायोगिकयोरौपदेशिकस्यैव ग्रहणम् ॥१३१॥
तेन दादेर्धातोरित्यत्रौपदेशिकधातोरेव ग्रहणमिति तन्न, तयो-
निमूलत्वाद्भाष्याव्यवहृतत्वाच्च । न च विकृतिः प्रकृति गृह्णातीति
'ग्रहिज्या' इति सूत्रस्थभाष्येणाद्यायास्तिरस्काराच्च । 'निसमुपविभ्यो
ह' इत्यादौ ह्वेजोऽनुकरणे सौत्रः प्रयोगः, आत्त्वविषय एवात्म-
नेपदं प्रयोगस्थानामेवानुकरणस्य घुसंज्ञासूत्र भाष्ये स्पष्टमुक्तत्वा-
दित्यन्ये । अन्त्यापि तत्र तत्रोपदेशग्रहणं कुर्वतः सूत्रकृतो वार्त्ति-
ककृतश्चासंमता । इह हि व्याकरणे सर्वेष्वेव सानुबन्धकग्रहणेषु
रूपमाश्रीयते यत्रास्यैतद्रूपमिति रूपनिर्ग्रहश्च शब्दस्य नान्तरेण
लौकिकं प्रयोगम् । तस्मिंश्च लौकिके प्रयोगे सानुबन्धकानां
त्यादाविति । आदिना स्वपिस्पमिव्येयङीत्यस्य संग्रहः । तत्रापि
विषयसप्तम्यभावेऽन्तरङ्गत्वाद्वित्वे उत्तरखण्डस्यैव संप्रसारणे वेवीयत
इत्यसिद्धयापत्तेः ॥ १२९ ॥
वचिद्विकतिरिति । निसमुपविभ्यो ह इत्यत्र कृतात्वस्यैव वेत्यनु-
करणेन तस्यैव बोध्यतयोपह्वयते इत्यसिद्धथापत्ति: परिभाषाऽभावे इति
भावः । सौत्रः प्रयोग इति एकारान्तस्यैव हे इत्यस्यानुकरणं सूत्रे एवात्व-
मुदीचां माङ इत्यत्र यथा, तेन ह्वे इत्यस्यैव बोध्यतयोपह्वयत इत्यत्र
स्वतः। कृतात्वे च स्थानिवद्भावेन सिद्धिरिति व्यर्थयं परिभाषेति
भावः॥ १३० ॥

१३२. श्तिपा शपानुबन्धेन० ] विजयाऽलङ्कृतः [ ३६३ प्रयोगो नास्तीति कृत्वा द्वितीयः प्रयोग उपास्यते । क उपदेशो नामेति घुसंज्ञासूत्रस्थभाष्येण प्रयोगिकासंभवे तद्ग्रहणमित्यर्थस्य लाभेन भाष्यासमता च । भाष्ये सानुबन्धकेत्यादि प्रकृताभि- प्रायेण । 'दादेरि'ति सूत्रे दादिपदस्यौपदेशिकदादित्ववति लक्षणे- तिन दोष इत्यन्यत्र विस्तरः॥१३१ ॥ यदपि नन्वजर्घा वेभिदीतीत्यादौ तत्तद्गणप्रयुक्ताविकरणा यङलुकि स्युस्तथा यङ्लुकि बेभिदितेत्यादावेकाच् इतीनिषेधः स्यादत आह- श्तिपा शपानुबन्धेन निर्दिष्टं यद्गणेन च । यत्रैकाज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि ॥ १३२ ।। अनुबन्धनिर्देशो द्विधा । स्वरूपेण ङित इत्यादिपदेन च । हन्ति याति वाति । 'सनीबन्त' इति सूत्रे भरेति, 'दीडो युडचि, 'अनु- दात्तङितः' 'दिवादिम्यः श्यन्' 'एकाच उपदेशे', इत्युदाहरणानि । द्वित्वं सनाद्यन्ता इति भूवादय इति च भवत्येव, गुणो यङ्लुको- रित्यादिभिर्निषेधानित्यत्वकल्पनात् । तेन भष्भावोऽप्यजर्घा इत्यादौ भवति । अत एव 'श्वीदितो' इति सूत्रे कैयटे यत्रैकाजग्रहणं किं चिदिति पाठः । एकाच उपदेशेऽनुदात्तादिति सूत्रे एकाग्रहणे- अन्यत्रेति । शब्देन्दुशेखर इत्यर्थः॥ १३१ ॥ शितपेति । चतसृणां तृतीयानां निर्दिष्टमित्यत्रान्वयः। श्तिबन्तादिश- ब्देनोद्दिश्य विहितं यत्कार्य गणेन चोद्दिश्य विहितं यत्कार्यमेकाचपद- घटितसूत्रविहितञ्च यत् कार्यमेतानि पञ्चेत्यर्थः । अनित्यत्वज्ञापना- दिति । अन्यथा द्वित्वविधायकशास्त्रस्यैकाचपघटितत्वेन यङलुक्यप्र- 'मूले ज्ञापनादित्यस्य स्थाने कल्पनादिति पाठः ।

। ३६४ ] परिभाषेन्दुशेखरः [ शेषार्थकथने नैकदेशानुमत्यैषा ज्ञाप्यते । अन्यथोपदेशेऽनेकाचामुदात्तत्वस्यैव सत्वेन तद्वैययं स्पष्टमेवेति । तदपि न भाष्यानुक्तत्वादेकाज- ग्रहणस्य वधिव्यावृत्यर्थमावश्यकत्वाच्च । न च वधिः स्थान्युपदेशे एकाजेवेति वाच्यम् । साक्षादुपदेशसंभवेनैतद्विषये स्थान्युपदेशाग्रह- णादुपदेशत्वावच्छेदेनैकाजित्याच । किंचोत्तरार्थमेकाजग्रहणम् । अत एव जागरितवानित्यादावुपदेश उगन्तत्वमादाय श्रयुका कितीतीनिषेधो न । तत्रोपदेश इत्यनुवृत्तिश्च स्तीर्णमित्यादावि- निषेधायेत्याकरे स्पष्टम् । न च भाष्ये यङ्लोपे वेभिदितेत्यादा- विट्प्रवृत्यर्थमुपदेशेऽनुदात्तादेकाचः श्रूयमाणादङ्गादित्यर्थे सनीट्- प्रतिषेधो वक्तव्यो विभित्सतीति दोषोपन्यासवद्यङ्लुकि दोषानु- पन्यासेन तत्रेडिष्टः । यङ्लोपेत्यादि भाष्यं तूपक्रमोपसंहारबलेन न यङ्लुग्विषयम् । किं च तस्य तद्विषयकत्वे यङ्लोपे स्थानि- वत्त्वस्येव यङ्लुक्युपायाग्नदर्शनेन न्यूनतापत्तिरिति वाच्यम् । वृत्त्यापत्त्या अभ्यासस्यैव तत्राभावेन सूत्रस्य वैयर्थ्यापत्तेः । एकदेशानु- मत्येति । स्थालीपुलाकन्यायेनेत्यर्थः । वधिव्यावृत्त्यर्थमिति। बधादे- शोऽदन्तो वृद्धयभावायावश्यकः स्थान्युपदेश इति हन्त्युपदेशे इत्यर्थः । साक्षादिति । यस्येडिनषेधस्तदुपदेशे तस्यैकाचत्वमपेक्षितं प्रत्यासत्त्येति भावः । ननु स्थान्यादेशयोरभेदाध्यवसायेन स्थान्युपदेशोऽप्यादेशोपदेश एवेत्यत आह-उपदेशत्वावच्छेदेनेति । न च कौमुद्यक्तरीत्याऽच इत्य- नेनैवैकाचवलाभादेकग्रहणघटितैकाग्रहणं ज्ञापकमेवेति वाच्यम् । सूत्रे संख्याया अविवक्षणाबहुव्रीह्यलाभाल्लक्षणायां मानाभावाञ्च। नन्ववच्छेद- कावच्छेदेनान्वये अनुदात्तत्वस्याप्युपदेशत्वावच्छेदेनैव ग्रहणाद्वधादेशस्या- द्युदात्तत्वनिपातनेनावधीदित्यत्र निषेधाप्रवृत्त्युपपत्तावेकाग्रहणं व्यर्थमेवे- श्त्युकः कितीत्यर्थमित्यर्थः । तस्येति । यङलुकीत्यर्थः। इडिष्ट इति । तदर्थ शितपेति परिभाषाऽऽवश्यकीति भावः । ननु वेभिदित्तेति भाष्यमेव लुक्लोपोभयविषयन्तेनैव लुकीडिष्टत्व- सिद्धौ दोषानुपन्यासेनेत्युक्तिरधिकेत्यत आह-यङ्लोपेत्यादीति । ननु त्यत आह-किञ्चेति। उत्तराधामात १३२. श्तिपा शपानुबन्धेन० ] विजयाऽलङ्कृतः [ ३६५ इड्विषये यङलुको लोकेऽनभिधानेन च्छन्दसि सर्वविधीनां वैक- ल्पिकत्वेन च तत्र दोषानुपन्यासेनादोषात् । अन्यथैकाजग्रहणं किमर्थमिति प्रश्नस्योत्तरत्र जागर्त्यर्थमिह वध्यर्थमित्युत्तरस्य च भाष्ये निरालम्बनत्वापत्तेः । न चार्धधातुकाक्षिप्तधातोरेकाच इति विशेषणम् । एवं च बिभित्सतीत्यादावुत्तरखण्डस्य धातोरेकाच- त्वमस्त्येवोत्तरखण्डेऽस्तित्ववत् । एतच्च 'दयते' इति सूत्रे भाष्ये स्पष्टम् । एवं च प्रकृतभाष्यासङ्गतिरिति वाच्यम् । आक्षेप आक्षिप्त- स्यान्वये च मानाभावात् । अङ्गत्वं तु विशिष्ट एवेत्येकाचो द्वे' इति सूत्रे भाष्ये स्पष्टम् । निरूपितं च तनादिशेषे' शब्देन्दुशेखरे । धातुत्वं तूत्तरखण्ड एव । अत एवैकाचो बशो भष्झषन्तस्य सध्यो- रिति सूत्रे धातोरवयवस्यैकाच इति वैयधिकरण्येनान्वये गर्धप- सिद्धिः प्रयोजनमुक्तं भाष्ये न तु प्रसिद्धमजर्घा इति । अजर्घा बेभिदीतीत्यादौ नम्श्यनादयस्तु चर्करीतं चेत्यस्यादादौ पाठेन यङलुगन्ते गणान्तरप्रयुक्तविकरणस्याप्राप्त्या न भवन्ति । छान्द- परिभाषारूपोपायस्यैव मनसि वर्तमानत्वान्नोपायान्तरप्रदर्शनमिति चेत्- न । तावतापि परिभाषास्वीकारस्यैव लाभात् । अन्यथेति । एकाग्रहण- स्य यङ्लुक्यप्रवृत्त्यर्थकत्वे इत्यर्थः । निरालम्बनत्वापत्तेरिति । यङ्लु- क्यप्रवृत्तिरूपस्पष्टतरफलस्य सत्त्वे शङ्काफलान्तरकथनरूपसमाधानयोः करणे बीजानापत्तेरित्यर्थः। अस्तित्ववदिति । अस्तेर्द्वित्वे परस्य भूभावे पूर्वस्य श्रवणं प्राप्नोतीति भाष्याद्यथोत्तरखण्डस्यैवास्धातुत्वं तथा सर्वत्रोत्त- रखण्डस्यैव धातुत्वमित्यर्थः । प्रकृतभाष्यासङ्गतिरिति । तथा च तद्भाष्य- संलापनाय यङलुकोऽनभिधानकथनं व्यर्थमेवेति भावः। अङ्गत्वमिति । अागन्तुकानामग्रे निवेश' इति न्यायात् प्रत्ययप्रकृतित्वं पूर्वस्यैव तदादे- श्वङ्गत्वादिति भावः । अत एवेति । उत्तरखण्डस्यैव धातुत्वादित्यर्थः । समुदायस्य धातुत्वे अजर्घा इत्यपि वैयधिकरण्येनान्वये एव सिद्धयतीति भावः । चकरीतञ्चेति । इदमदादौ गणसूत्रं चर्करीतमिति यङलुगन्त- स्य संज्ञायङलुगन्तमदादौ बोध्यमिति तदर्थः ।।१३२॥

३६६ ] परिभाषेन्दुशेखरः [ शेषार्थकथने सत्वादेव कार्यान्तराणामपि च्छन्दसि दृष्टप्रयोगेष्वदृष्टानामभावो बोध्यः । भाषायां तु तादृशानामभाव एव । श्तिप्शपादिनिर्देशास्तु 'भवतेर' इत्यादिसूत्रस्थतन्निर्देशवन्नार्थसाधका इत्यन्यत्र विस्तरः ॥ १३२ ॥ ननु जभोऽचि रधेश्च नेव्यलिटीत्येव सूत्र्यतां किं द्विरधिग्रहणे- नेत्यत आह- पदगौरवाद्योगविभागो गरीयान् ॥ १३३ ।। प्रतिवाक्यं भिन्नवाक्यार्थबोधकल्पनेन गौरवं स्पष्टमेव । परंतु भाष्यासंमतेयम् । 'टाङसि' इति सूत्रस्थभाष्यविरुद्धा च तत्र चनादे- शेनेकारप्रत्याख्यानं योगविभागेनैव कृतमिति बहवः ॥ १३३ ॥ अर्धमात्रालाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः ॥१३४॥ 'एप्रोङ्' 'ऐौच'सूत्रयोर्ध्वनितैषी भाष्ये । तत्रानेकपदघटित- सूत्रे प्रायेण पदलाघवविचार एव न तु मात्रालाघवविचार इत्यू 'कालोऽच्' 'अपृक्त एकाल' इत्यादिसूत्रेषु भाष्ये ध्वनितम् । तत्र हि सूत्रे अलग्रहणहलग्रहणयोर्विशेषविचारे संज्ञायां हलग्रहणं 'ण्यक्षत्रिय' इति सूत्रेऽणिजोरिति वाच्यमिति त्रीणि पदान्यलग्रहणे तदेकं स्वादिलोपे हलग्रहणं 'ण्ये ति सूत्रेऽणिजोरिति न वाच्यम- गौरवं स्पष्टमेवेति । वाक्यजन्यबोधस्याधिक्ये तज्जनकसामग्य अप्याधिक्येन विभिन्नप्रत्यक्षादिकं प्रति प्रतिबन्धकताया अप्याधिक्येन गरीयस्त्वं बोध्यम् । गरीयस्त्वञ्च बह्वायाससाध्यत्वम्। अल्पायाससा- ध्येनैवोपपत्तौ बहायाससाध्यं सुत्यजमिति लोकसिद्धतया लोकसिद्धेयं परिभाषेति बोध्यम् ॥ १३३॥ । अर्द्धमात्रालाघवेनेति । हेतौ तृतीया । अर्द्धमात्रालाघवहेतुकं सुखं पुत्रोत्सवं तज्जन्यसुखसदृशंमन्यन्त इत्यर्थः। ध्वनितैषेति । अर्द्ध एकार अर्द्ध अोकारो वा नास्ति । यदि हि तौ स्यातां तावेवोपदिशेदिति भाष्येण । J १३४. अर्धमात्रालाघवेन ] विजयाऽलङ्कृतः [ ३६७ पृक्तस्येति वाच्यमिति त्रीण्येव पदानीति नास्ति लाघवकृतो विशेष इत्युक्तम् । 'अचि अनु' इति सूत्र इण इत्येव सिद्ध 'यबोरिति संमृद्य ग्रहणान्न पूर्वेणेणग्रहणम् । तत्र विभक्तिनिर्देशे संमृद्य ग्रहणे च सार्धास्तिस्रो मात्रा इति 'लणसूत्रे भाष्योक्तिः तथौ'तः श्यनि' इति सूत्रे शितीति वक्तव्यम् । तत्रायमप्यर्थः। 'ष्ठिबुकनमु' इति सूत्रे शितीति न कर्तव्यं भवतीति भाष्ये । न केवलं मात्रालाघवं यावदयमप्यर्थ इति कैयटोक्तः प्रायेणेति शिवम् ॥ १३४ ॥ इति महामहोपाध्यायभट्टनागेशविरचितः परिभाषेन्दुशेखरः समाप्तः लाघवेनोपदेशः · सुखजनको भवतीति स्पष्टमेव लभ्यते इति बो- ध्यम् ॥ १३४॥ महामहोपाध्यायसन्मैथिलपण्डितवरजयदेवशर्ममिश्रविरचिता समाप्ता चेयं विजयानाम्नी व्याख्या सीतासम्भवकीर्तिपूतमिथिलाभूमण्डलाखण्डल- श्रीमद्राजरमेश्वरामरतरोश्छायापनीतश्रमः । शच्युद्भूर्जयदेवमिश्रगदितः श्रीचित्रनाथात्मज- श्चक्रेऽमुं विजयाभिधं गजहडाग्रामोद्भवो मैथिलः ॥ १॥ चन्द्राद्रिग्रहभूमिसम्मितसमापौषे सुपूर्णे विधौ सोमे श्रीमधुसूदनेन कृतिना तस्यानुजेनादरात् । विद्वद्वन्दसुखावहा शिवपुरे संशोध्य मुद्रापिता सेयं स्यात् 'विजया' जयाय सुधियां संसेविता संसदि ।।२।। वस्वग्रहचन्द्रसम्मितशुभे श्रीवैक्रमे वत्सरे वैशाखे सितपक्षगे शुभतिथौ श्रीमैथिलीजन्मना । नत्वा श्रीजयदेवपादयुगलं तस्यात्मजेनादरात् तीर्थेशस्य पुरे शुभाय 'विजया' संशोध्य मुद्रापिता ॥३॥ । NEE

Paribhashendushekharah

Title
Paribhashendushekharah
File name
Paribhashendushekharah
Text
OCR done
Citation
1941
Publisher
The Allahabad Law Jernal Press Allahabad
Language
Sanskrit
Pages
389
Library
Central Archaeological Library_asi_new Delhi
Classification
Literature
DLI number
284171
Barcode
5990010905102.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
VMLT id
Z5dqCv2zxW8
Download PDF

Paribhashendushekharah