Sringeri Sharada Peeham
Bhattabhashaprakasha
Front matter
॥ श्री ॥
भाट्टभाषाप्रकाशः
श्रीनारायणतीर्थमुनिविरचितः
काशीस्थराजकीयसंस्कृतप्रधानपाठशालाध्यापक
स्वामिभागवताचार्येण संशोधितः ।
चौखम्बासंस्कृतपुस्तकालयाध्यक्ष श्रीहरिदासगुप्तेन
काश्याम्
सारायन्त्रालय भीमेनकम्पनीलिमिटेडद्वारा संमुद्य प्रकाशितः ।
.
सन् २९००
वैक्रमसंवत् १९५७
भूमिका। आन्वीक्षिकी-त्रयी-वार्ता-दण्डनीतीनां चतसृणां महाविद्यानां द्विती- यस्यां स्वर्गापवर्गावायतेते, सा चेयमान्वीक्षिकीमन्तरेण न प्रतितिष्ठतीति प्रथमां तामुपजीवति, अन्तिमे तु द्वे दृष्टादृष्टद्वारेण त्रयीमुपजीवतः । स्वाध्याय- पदवाच्यवेदवाक्यकदम्बकग्रहणादनन्तरंविचारयोगादान्वीक्षिकीति, पूजितवि- चाररूपत्वाच्च मीमांसेति मीमांसा न्यायविस्तर इति विद्यास्थानेषु विशिष्य परि- गणितं पदवाक्यप्रमाणेषु द्वितीयमिदं मीमांसाशास्त्रमतिविततं सहस्रशो युक्ति- जालजटिलम् । यस्मिन् परमपुरुषस्य स्वच्छन्दोदारा स्वीयमायाशक्ति- दुर्विमर्शकार्यजातप्रसवस्वभावप्रवणाऽप्याज्ञा पदे पदे ऽधिकरणेषु प्रत्यर्थिंपर:- शततकैशमायासभारं भजन्ती स्वीयतत्त्वसतत्त्वमासादयति । विविधाः खलु लोकानां मतिभेदाः प्रवृत्ताः पूर्वोत्तरमीमांसयोरैकशास्त्र्यं न वा पूर्वमी- मांसाऽपि षोडशलक्षणी न वेत्यादिकया कृतमत्राधिकया कथया, यत्र तां जैमिनिमुनिकृतां जैनजनकृतां बहवः पण्डितनामानोऽपि जना मन्यन्ते । कलिसमर्दसहस्रेषूपस्थितेषु वेदाध्ययनादेः प्रविरलभावे तदुज्जीवनकथा दुराशाऽऽवेशमात्रमुपहासास्पदम्, परं शास्त्रान्तरेषु तत्रतत्र मीमांसान्या- योपस्तम्भदानादऽपारिभाषिकपण्डितानां तदर्थावबोधः संक्षेपतो भवति बुभुत्सितः । तदर्थ न्यायप्रकाशादिग्रन्थो ऽस्त्येव परं तत्राध्यायपाद- क्रमाद्यभावान्मूलशास्त्रानुसारेण तज्जिज्ञासूनां भवति कस्यापि संक्षिप्तग्रन्थ- स्यापेक्षा, तदर्थमयं भाट्टभापाप्रकाशः प्रकाश्यते । अयं हि श्रीशिवरामतीर्थशिष्येण श्रीमता नारायणतीर्थेनोपनिबद्धो ऽध्यायपादक्रमेण शास्त्रान्तरोपयुक्तैर्मीमांसाफाघवमपक्षमाणेन प्रायः सि- द्धान्तोक्तिमात्रेण कचित्तु पूर्वपक्षादिकमप्यावश्यकत्वे सत्युल्लिखता ।
[ २ ] अयं श्री नारायणतीर्थयतिनं दाक्षिणात्यः काशीवासी नीलकण्ठ- शास्त्रिणः पुत्रो गोविन्दशास्त्री नाम्ना गृहस्थावस्थ एव' भाट्टभाषाप्रकाशमुपं- निबन्धुमुपक्रम्य संन्यस्ताश्रमे पर्यापयामास । अस्य च ग्रन्थस्य नाम भट्ट- भाषा भाट्टभाषा भाटभाषाप्रकाशिका भाट्टभाषाप्रकाशश्च, अर्थस्तु सर्वत्रा- ऽविशिष्टः प्रभाकरगुरुकुमारिलभट्टमुरारिमाणामद्यत्वे पूर्वमीमांसाशास्त्रे मतानि लभ्यन्ते । तत्रापि च भाट्टप्रक्रियैव बहुमानभाजनमिति सैव भाट्टभाषा, तस्याः प्रकाश इति । तदेतदित्थमुपयुक्तं मन्यमानेन मया पुस्तकद्वयमाश्रित्य संस्कृतम् । अत्र प्रथमपुस्तकं श्रीकाशिकराजकीयसंस्कृतपाठशालीयपुस्तकशालायाः १९३७ संवत्सरे लिखितमशुद्धिबहुलं स्थानस्थानेषु गुरुलघुभिस्त्रुटिभि- हीनपाठमथापि प्रायः स्पष्टाक्षरम्, तदेतत् कनाम प्रथमम् । द्वितीयन्तु श्रीमन्नेपालमहाराजाधिराजगुरूणां श्रीमतां हेमराजपण्डितानां प्राचीनम्, (तत्र संवत्सरलेखस्तु न) एतच्च प्रथममष्टौ पत्त्राणि यावत् केनापि विदुषा लिखितं यद्यपि विद्वज्जातीयलिपियुक् , तथापि तत्रतत्र भान्तिदाक्षरमथापि कार्यक्षमम् परं ततः परतस्तु बालविक्रीडितमात्रमेव, तदतत् ख-नाम ! तृतीयं तु श्रीदामोदरलालगोस्वामिनोऽधुनैव लेखितम् । तत्प्रायः कपुस्तकानुसारि त्रुटिषु खपुस्तकानुसारीत्यभिन्नमिति स्थितमात्रमेवाऽभूदन्तिके । इत्थंचा- त्रावतमसे गहनप्रविष्टनेवात्मानं पुस्तकद्वययोगेन भाष्याद्यनुग्रहेण च कथंक- थमपि निस्तार्य श्रीहरिदासगुप्तप्रार्थनया पारमनैषम् । तदेतत् शास्त्ररसि- कानां पुरस्तादुपदीकरोमि कृतमधिकवाग्भिरिति । ज्येष्ठारम्भपञ्चम्यां १९५७ भागवताचार्यः । वाराणस्याम् (१) क-पुस्तके हि प्रथमाध्यायान्ते पितुः स्वस्य च नानोर्लेखनादिदं लभ्यते ।
॥ हरिः ॐ तत्सत् ॥ अथ भादृभाषाप्रकाशः। - प्रणम्य धर्ममीशानं मीमासां प्रविविक्षताम् । बालानामुपकाराय भादृभाषा प्रकाश्यते ॥१॥ धर्मे प्रमाणान्यथ कर्मभेदः शेषप्रयुक्तिक्रमकर्तृभेदाः । द्वेधातिदेशस्तमनूहवाधौ तन्त्रप्रसङ्गाविति लक्षणार्थाः॥२॥ • तत्र धर्मस्वरूपमुक्तम्- फलतोपि च यत्कर्म नानर्थेनानुबध्यते । केवलं भीतिहेतुत्वात्तद्धर्म इति कथ्यते ॥ इति । श्येनादिव्यात्त्यर्थं फलत इति । तस्य हि न धर्मत्वं श्येने- नाऽभिचरन् यजेतेतिवेदवोधितत्वेपि तत्फलस्य शत्रुवधस्यानर्थ- हेतुत्वात् ॥ 'पशुवीजादिवधजन्यदोषेण धर्मपि स्वल्पः संकरोस्तीति सांख्या मन्यन्ते, तन्निरासाय केवलमिति । न हिंस्यात्सर्वा भूतानीति निषेधो हि रागतः प्राप्ताया हिंसाया अनर्थहेतुत्वं बोधयति नत्वऽग्नीपोमीयं पशुमालभेतेति विहितायाः, विधि- स्पृष्टे निषेधानवकाशात, परिहृयापवादमुत्सर्गाः प्रवर्तन्त इति न्यायेन निषेधशास्त्रं कृत्वङ्गं हिंसां परिहसैव प्रवर्तत इति न धर्मफले दुःखलेशसंकरोस्तीति मुष्ठक्तं केवलमिति ॥
२ भाट्टभाषाप्रकाशः। [१ अ.] धर्मे प्रमाणान्यपि प्रसिद्धानि, वेदो ऽखिलो धर्ममूलं तद्विदा च स्मृतिशीले धर्मज्ञसमयः प्रमाणम् । वेदाश्च- पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दशेति । तथाहि । स्वाध्यायोध्येतव्य इति तव्यप्रसयेन विधिभावना प्रतीयते । भावना च भवितुर्भवनानुकूलो भावकव्यापारः सर्वेषां लकाराणामर्थः । विधिभावना तु प्रवर्त्तनात्मिका लिङ्लोट्तव्य- प्रसयपञ्चमलकारेभ्य एवावगम्यते । सा च द्वेधा शाब्द्याऽऽर्थी च । प्रसेकं फलकरणेतिकर्तव्यतांशैस्त्र्यंशा । तत्र शाब्धाम- ध्ययने प्रवृत्तिः फलम्, करणं तव्यप्रययः। वेदे वक्तभावेपि लोके ग्रामो गन्तव्य इसादवयं मामनेन शब्देन प्रवतर्यतीति प्रसयाच्छ- ब्दस्यैव करणत्वदृष्टेः । इतिकर्त्तव्यता तु अप पुनर्मृत्युं जय- तीसन्तार्थवादमुखेन प्राशस्यावगतिः । आर्थ्यां तु किं भावये- दिति भाव्याकाङ्क्षायां कर्मोत्पन्नतव्यप्रसयश्रुया स्वाध्यायस्यैव भाव्यत्वं गम्यते । ननु यथा विश्वजिता यजेतेत्यत्र निष्फले प्रवत्त्यसंभवात्स्व- र्गकाम इति पदमध्याहियते । यथा वा ज्योतिर्गौरायुरिसा- दिवाक्यविहितेषु रात्रिसंज्ञकेषु यागेषु फलाऽश्रवणे ऽपि प्रति- तिष्ठन्ति ह वै य एता रात्रीरुपयन्तीत्यर्थवादादेव ये पति- ठामिच्छन्ति त एता रात्रीरुपेयुरिति प्रतिष्ठारूपं फलं वाक्यविप- रिणामेन कल्प्यते, एवं स्वर्गकामेन स्वाध्यायोध्येतव्य इत्यपमृ- त्युजयादिकं वाऽऽर्थवादिकं फलं कल्प्यम्, दुःखरूपस्य स्वाध्या- यशब्दितस्य वेदराशेर्भाव्यत्वासंभवादिति चेन्न, श्रुतहान्यश्रुतक- रूपनामसङ्गात् दृष्टे संभवसऽदृष्टकल्पनाया अनाय्यत्वाच । संभवति चात्र वर्णराश्यधिगमद्वारावगतिरूपं दृष्टं प्रयोजनम्।
[१०] माट्टभाषाप्रकाशः। " यथोक्तम् दृष्टो हि तस्यार्थः कर्मावबोधनमिति । अतस्तदेवात्र भाव्यम् । करणाकाङ्क्षायां तु अध्येतव्य इति समानपादोपा- तमध्ययनं गुरुमुखोचारणानूच्चारणरूपमुपतिष्ठते । इतिकर्तव्य- ताकाङ्क्षायां च निगमनिरुक्तव्याकरणादिकम् । तेनायमर्थः । अध्ययनेनार्थज्ञानं भावयेत् निरुक्तादिभिरुपकृसेति । यस्त्वत्र गुरुद्वारैवार्थज्ञानं भावयेन्नात्मव्युत्पत्तिवलेनेति नियमः, न तस्य दृष्ट किंचित्फलमस्तीति तदंशे ऽस्त्वार्थवादिक्यऽदृष्टकल्पना । एवं दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेसादावपि भावनाया अंशत्रयं ज्ञेयम् । अत्रापि समानपदोपात्तमपि धात्वर्थमुपेक्ष्य का- म्यमानत्वा व्यवहितोपि स्वर्गो भाव्यत्वेनान्वेति, धात्वर्थो यागः करणत्वेन । नहि संभवति यजेतेयस्य यागं कुर्यादिसर्थे दर्शपूर्णमासाभ्यामिति तृतीयान्तेन यागनामधेयेनान्वयः । तेन दर्शपूर्णमासाभ्यांयागाभ्यां स्वर्ग भावयेत् प्राकरणिकैः प्रयाजा- दिभिरुपकृसेति वाक्यार्थः संपद्यते । स्वर्गपदार्थश्च श्रुसा दर्शितः- यन्न दुःखेन सम्भिनं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वापदास्पदमिति ॥ नहीदृशमुखहेतावतीन्द्रिये धर्मे वेदादन्यत्प्रमाणं प्रससं वा तदुपजीव्यऽनुमानं वा क्रमते, तस्माद्वेद एव विधिनिषेधात्मको ध- धिर्मयोः प्रमाणम्। तौ च पदपदार्थसम्बन्धस्यौत्पत्तिकत्वेन वा- क्यार्थप्रतीतेमूलवत्तया व्यवस्थितस्वरूपावेव । ननु पदतदर्थसम्बन्धस्य निसत्वेपि पदसमुदायरूपाणां वा- क्यानां काठकादिसमाख्यावशादादिमतां कालिदासादिवाक्या- नामिवामामाण्यमिति चेन्न, काठकादिसमाख्यायाः कठेन प्रोक्त- मिति योगेन प्रवचनपरतया वेदस्य पौरुषेयत्वासाधकत्वात् । दृढ- कर्तृस्मरणाभावश्च वेदस्यापौरुषेयत्वे प्रमाणम् । अनुमानं च- - भाट्टभाषाप्रकाशः। [१ अ.] वेदस्याध्ययनं सर्वं गुर्वध्ययनपूर्वकम् । वेदाध्ययनसामान्यादधुनाध्ययनं यथेति ॥ नन्वेवमपि वेदैकदेशस्य विध्यंशस्य धर्मप्रमापकत्वेपि वा- युर्वै क्षेपिष्टा देवतेसादीनामर्थवादानां विधिभावनांशत्रयानन्त:- पातिनां धर्माऽप्रमापकत्वादेदो ऽखिल इसखिलग्रहणमनुप्रपन्न- मिति चेन्न । तेषामपि प्रयोजनाकाक्षिणां क्षिपदेवतासाध्यं कर्म क्षिप्रफलमिति लक्षणया विधि स्तुवतां सन्निहितेन वायव्यं श्वेतमालभेतेति विध्युपदेशेन स्वविधेये पुरुषं प्रवर्तयितुमन्यतः स्वस्तुतिमाकाङ्क्षमाणेन (ता) नष्टाश्वदग्धरथन्यायेनैकवाक्यतया विध्यंशान्तःपातित्वात् । नन्वेवमर्थवादानां स्तुसर्थत्वे पि कचित्फ- लपरत्वमपि दृश्यते । औदुम्बरो यूपो भवतीति विधाय ऊ पशव ऊर्गुदुम्बर ऊर्जेवास्मा ऊज पशूनाप्नोतीसस्य फलपरत्व- संभवादिति चेन्न, अतिदेशशास्त्रप्राप्तयूपानुवादेन उदुम्बरताया- स्तत्फलस्यं च विधाने वाक्यभेदात्मैव विधेयेति पशूनाप्नोतीस- स्यार्थवादत्वमेव । चतुर्थे तु यस्य पर्णमयी जुहूर्भवति न स पापडू श्लोक शृणोति यदाक्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्ते वर्म वा एत- द्यज्ञस्य क्रियते यत्प्रयाजा इज्यन्ते वर्म यजमानस्य भ्रातृव्या- भिभूसै-इसादौ वाक्यान्तरमाप्तस्यैव पर्णतादेः रात्रिसत्रवदा- र्थवादिकफलपरत्वमाशय पराउनेति सिद्धान्तितम् । अन्यतः प्राप्तिश्च विधिशक्त्युपघातकयच्छब्दोपबन्धादन्तिमोदाहरणाच स्पष्टमेव गम्यते नैवमुदुम्बरताया इति नानयोरधिकरणयोः पा- नरुक्तयम् । शूर्पण जुहोतीति श्रौतं शूर्पम् तेन ह्यन्नं क्रियत इसत्र करणेन हेतुना कल्प्यमानसाधनभावेन दर्वीपिठरादिना न वि- कल्पनम्, अतुल्यबलत्वात् । तस्मात्तेन हीति स्तुतिमात्रम् न तु यद्यदनकरणं तेन तेन होतव्यमिति हिशब्देन व्याप्तिसूचनमत्र कर्तुं शक्यम्, उक्तदोषात् । तदेवं विधिवन्निगदानां हेतुमन्निगदानां भाट्टभाषाप्रकाराः । ५ [१ अ.] चार्थवादानां सिद्धं प्रामाण्यं विध्यकवाक्यतया स्तुतिद्वारैच ॥ एवं तत्तत्प्रकरणपठितानां मन्त्राणामपि तत्तत्माकरणिकार्थ- प्रकाशनसामर्थ्यरूपाल्लिङ्गात्तत्तदनुष्ठेयार्थस्मारकत्वेन दृष्टेनैव द्वा- रेण विध्येकवाक्यता, अत्रापि पूर्ववत्परस्पराकाङ्क्षा ज्ञेया। यस्तु मन्त्रैरेवमन्त्रार्थः स्मर्त्तव्यो न ग्रहणकवाक्यादिनेति नियमो, न तदंशे किंचिद् दृष्टं प्रयोजनं लभ्यत इसऽदृष्टमगसा कल्प्यते । यथा यावतो ऽश्वान् प्रतिगृह्णीयात्तावतो वारुणांश्चतुष्कपालानिर्व- पेदिति विध्युद्देशे प्रतिग्रहीतुरिष्टिः प्रतीयते। अथापि प्रजापतिर्वरु- णायाश्वमनयत् स स्वां देवतामार्छत् स पर्यदीर्यत स एनं वारुणं चतुष्कपालमपश्यदित्युपक्रमगतार्थवादसामर्थादातुरिष्टि प्रापय- प्रतिगृह्णीयादियत्र प्रतिग्राहयेदिति णिच्श्रुतिमुत्थापयति, यथा वा होतुश्चित्पूर्व हविरद्यमाशतेति मन्त्र[:]सामर्थ्याद्वषटूर्तुः प्रथमो भक्ष इति विधिमुत्थापयति । एवमष्टकाः कर्त्तव्या इसादीनि मन्वादीनां स्मरणान्यपि स्वमूलभूतां श्रुतिमनुमापयन्ति, वेदैकप्रमाणकेषु सर्वज्ञेषु तेषु भ्रम- विप्रलम्भकत्वादिदोपासंभवात् । दृश्यन्ते च कचित्कचिच्छाखा- न्तरेपि प्रयाजाः कर्त्तव्या इसादिस्मृतिमूलभूताः श्रुतयः (धन्वि- वप्रया असि त्वमग्न इसादयः।) तत्सामान्यात्सर्वमपि स्मरणं दृष्ट- मूलकमेव । यथोक्तम्- आत्मीयात्परकीयस्य दौर्बल्यं न हि किंचन । प्रयक्षत्वाविशेषेण स्वप्रयक्षसमं हि तत् ॥ इति न्यायेन प्रसयिततराणां मन्वादीनां प्रसालिङ्गादि प्र- सक्ष तुल्यम् । अतस्तत्प्रणीता स्मृतिरपि मूलमनुमापयेदेव । अने- - -- (१) 'प्रयाजा' इत्येवोभय पुस्तकपाठः । (२)( ) एतदन्तर्गतपाठः 'ख' पुस्तके नास्ति । (३) प्रत्यक्षलिङ्गादपि प्रत्यक्षेति 'क' पुस्तकपाटः ।
६ भाट्टभाषाप्रकाशः। [१०] कासु शाखासु विप्रकीर्णानामर्थानां सुखमतिपत्तय एकत्र प्रणय- नमर्थवद्भगवतीति सिद्धं स्मृतीनां वेदमूलकत्वेन प्रामाण्यम् ॥ औदुम्वरी सर्वा वेष्टयितव्येति स्मृतिः औदुम्बरी स्पृष्ट्वो- दायेदिसनया श्रुसा विरुध्यते, सर्ववेष्टने सति स्पर्शासम्भवादप्र- माणमिति भाष्यम् । अतिरात्रे षोडशिनं गृह्णाति नातिरात्रे षोडशिनं गृह्णातीसेकत्राऽनुपसंहरणीयस्याप्यर्थद्वयस्य वेदे दर्शनासर्ववेष्टन- स्मृतिमूलभूतश्रुतेरसन्ताभावस्यास्मदादिभिरल्पज्ञैनिश्चेतुमशक्य- त्वात् तत्सामान्यादितरेषु तथात्वमिति न्यायेनैकस्याः स्मृतेरमा- माण्ये सर्वासामपि तथात्वापत्तेश्च नासावप्रमाणम्, किंतु याव- न्मूलदर्शनं नास्ति तावदानुष्ठानं न कर्त्तव्यमिसेवंपर विरोधे- वनपेक्षं स्यादितिसूत्रमिति वात्तिकम् । हेतुदर्शनाचेसत्र वैसर्जनहोमीयं वासोऽध्वर्युः परिगृह्णातीति स्मृतेः श्रुसविरोधित्वेपि लोभमूलकत्वस्यैव हेतोर्दर्शनादप्रामाण्य- मिति भाष्यम् ।स्मृतित्वाविशेषाच्छाक्यस्मृतेरपि प्रसक्तं प्रामाण्य- म्।तेषु प्रयक्षेण वेदविद्वेषदर्शनान्न तस्या वेदमूलकत्वं कल्पयितुं श- क्यमिति वात्तिकम्। शिष्टाकोपेऽविरुद्धमिति चेन्न शास्त्रपरिमाणत्वा- दिसत्र वेदं कृत्वा वेदि करोतीतिश्रुतिशिष्टस्य क्रमस्याकोपे सति क्षुते आचामेदिति स्मृतिःप्रामाणं न तु कोपे इति चेन्न, शास्त्रपरि- माणत्वात् । आचमनं हि नैमितिकः पदार्थः, क्रमस्तु पदार्थधर्मः। अतः पूर्वं पदार्थः प्राप्नोति पश्चाद्धर्म इति प्रबलप्रमाणप्रापितोपि खतो जघन्यत्वान्नाचमनस्मृति बाधितुमीष्टे इति भाष्यम् । शाक्यशास्त्रेपि यद् वेदाऽविरुद्धमहिंसादिकं विहितम्, तत्ता तेऽपि ग्राह्यमिति चेन वेदादिना प्रमितस्यैवा ऽहिंसादेमन्त्रस्मा- रितकर्मण इव फलवत्त्वं, नाऽन्येतेति शास्त्रे नियमात् । तथाचाहुः (१) इत्येव परमिति ख. पाठः ।
[१०] भादृभाषाप्रकाशः। 'धर्मज्ञसमयः प्रमाणं वेदाश्चेति । तस्माद्गगोदकमिव श्वदृतिस्थं धर्मोपि शाक्यग्रन्थस्थस्तद्वाक्यानोपादेय इति वात्तिकम् । अत्रैव अपि वा कारणाग्रहणप्रयुक्तानि प्रतीयेरंस्तष्वदर्शना- द्विरोधस्येति तृतीयसूत्रे येषां वसन्तोत्सवादीनां धर्मत्वे कारणं श्रुतिः स्मृतिर्वा न दृश्यते, केवलं शिष्टैश्च धर्मबुद्धया यान्यनुष्ठी- यन्ते, तेष्वपि शास्त्रान्तरविरोधाऽदर्शने सति प्रामाण्यं स्वध्यव- सेयमियपि वार्तिकमेव ॥ अत्र स्मृतीनां श्रुतिकल्पनासापेक्षतया एकान्तरितंप्रामाण्यम्, शिष्टाचाराणांतु स्मृतिकल्पनापूर्वकं श्रुतिकल्पनं चेति यन्तरितम्। तेष्वदर्शनाद्विरोधस्य समा विप्रतिपत्तिः स्यादिसत्र यवादिश- ब्दार्था दीर्घशूकादय एव गृह्यन्ते यत्रान्या ओषधयोम्लायन्तेऽथैते मोदमानाइवोत्तिष्ठन्तीति वाक्यशेषात् । न तु म्लेच्छप्रसिद्धया पिय- वादय इति भाष्यम् । यद्वा पील्वादिपदार्थाः किं म्लेच्छप्रसिद्धया गजादय उतार्यप्रसिद्धया वृक्षादय इति संशये आर्याणां शब्दार्थ- योरविप्लवे निसं यतमानानां प्रसिद्धिर्बलीयसी न तु म्लेच्छानां यथाकथंचित्सांकेतिकैरपि शब्दैर्व्यवहारमात्रमिच्छताम् । यद्वा । असपिण्डामुद्रहेदिसादिस्मृतीनां सनिवन्धानां मातुलदुहितपरि- णयनाद्याचारेभ्यो निनिवन्धनेभ्यो लोभमूलकेभ्यः पावल्यमव निर्णीयते । वस्तुतस्तु मातुलदुहितृपरिणयनंन विगीतम् तृप्तां जहु- मातुलस्येव योपा,भागस्ते पैतृष्वसेयीव यामिवेति(?)मन्त्रलिङ्गावग- तत्वात् प्रद्युम्नायैः शिष्टैरादृतत्वाच्च किं तु देवान्पितॄन्समभ्यर्च्य खादन्मांसं न दोषभागिति स्मृतेरनीषोमीयालम्भस्य कलौ दुर्ल- भत्वात्पलपैतृकस्य च निषेधात्तदुभयं विना क्रियमाणं मांसभक्षणं दोपहेतुः, अतस्तदेवात्रोदाहरणमिति दाक्षिणासाः, जहुरपसम् भाट्टभाषाप्रकाशः। [१ अ०] १ (असपिण्डामिति शास्त्रं तु नातिरात्र इतिवन्मतान्तराभिप्रायम् ) यद्वा त्रिदादिपदार्थों वाक्यशेषात्स्तोत्रीयानवकादिकमेव न तु लोकमसिया विद्रज्ज्वादिकमिति वर्णकत्रयं वार्तिक । पिकादिपदानामर्थो म्लेच्छप्रसिद्धयापि शुकादिग्राह्यः, तस्या- र्याणां कचिदप्यप्रसिद्धेविरोधाभावात् । कल्पसूत्राणां प्रसाश्रुति- सरूपत्वेपि न वेदत्वं किं तु दृढकर्तृस्मरणात्पौरुषेयत्वमिति भाष्यम् । यद् ब्राह्मणानीतिहासान्पुराणानि कल्पानिति निसे ब्रह्मयज्ञे ब्राह्म- णवदितिहासादीनां विनियोगानिसानिययोः संयोगायोगादेतान्य- पिनियानि स्वातन्त्र्येण वेदवत्मामाण्यमेषाम् । एव मन्त्रब्राह्मणयो- वेदनामधेयम् षडङ्गमेके-इति मन्त्रवत् शिक्षादीनां वेदत्वस्मरणात्स्वा- तन्त्र्यमिति पूर्वः पक्षः। दृढकर्तृस्मरणादेव तेषामपि पौरुषेयत्वा- स्मृतिवद्वेदमूलकत्वेनैव प्रामाण्यं, न स्वातन्त्र्येण । निसकर्मयोग- स्त्वेषां प्रतिकल्पं वर्णानुपूर्वीभेदेपि जातिशब्दवदर्थानां निसत्वा ज्ञेयः । षडङ्गमेक इति पूर्वपक्षोपन्यासो, न तु सिद्धान्तः, दृढक- नुस्मरणादेवेति वार्तिकम् । मानवादिस्मरणानां होलाकाद्या- चाराणां चाध्येतृविशेषेषु देशविदेशेषु च परिग्रहो दृश्यमानोपि नासौ श्रुतिमूलकः, तादृशश्रुतिकल्पने प्रमाणाभावात् । तस्मा- देषां व्यवस्था नास्ति परंपरया यथाप्राप्तं तथानुष्ठेयमियर्थः । व्याकरणस्मृतिमामाण्याद्वाद्या एव साधवोन गावीगोणी- गोतागोपोतलिकेसादयस्तेषामशक्तिजापभ्रंशरूपत्वात् प्रयोगचो- दनाभावात्, अथैकत्वमविभागादिसत्र एवं वेदे शब्दः प्रयोक्तव्यः एवं लोक इति विशेषशास्त्राभावाल्लोकवेदयोः पदैकत्वं च य एव लौकिकाः शब्दास्त एव वैदिकास्त एव चामीषामर्था इति स्थि- तम् । तत्र- (१) एतखलान्तर्गतः ‘शिष्टैराहतत्वाचे ' त्यतः परं कपुस्तकेऽस्ति ।
[१ अ.] भाट्टभाषाप्रकाशः। है . पदावधारणोपायान्बहूनिच्छन्ति सूरयः । क्रमन्यूनातिरिक्तत्वस्वरवाक्यश्रुतिस्मृतीरिति वचनात् यत्र जराराजादौक्रमान्यत्वम्, तत्र तदवशादर्थभेदः। तथा ब्रह्म- ब्राह्मणादौ न्यूनातिरिक्तवर्णवशात्।इन्द्रशत्रुरियादौ आयुदात्तत्वे इन्द्रः शातयितास्येसर्थः, अन्तोदात्तत्व इन्द्रस्य शातयितति स्वरभे- दात् । गच्छत इसस्य पदस्य देवदत्तयज्ञदत्तौदेवदत्तस्य चैत्रमैत्रदे- वदत्तानिति पदान्तरसमभिहारे सति तिङन्तद्विवचनत्वं सुवन्ते ष- ष्ठ्येकवचनान्तत्वं द्वितीयाबहुवचनान्तत्वं वा भवति। यन्नाहीयत त- दहीनस्याऽहीनत्वम् अहः खःऋतौविति श्रुतिस्मृती तु अहीनपद- स्यार्थभेदके (दिके) न हीनो अहीनः अह्रां समूहोऽहीन इति। दे- वासः त्मनेसादौ कचित्पदभेदेपि अभेद एव एकदेशन्यूनाधिक- वेपि तदेवेदं पदमिति प्रसभिज्ञानादभेदज्ञापकानुशासनाच्च । अतः सिद्धो लोकवेदयोः पदानां तदर्थानां चाभेदः॥ शब्दार्थस्त्वाकृ- तिरेव व्यक्तेलक्षणयाऽऽक्षेपसम्भवान्न वाच्यकोटावनुप्रवेशः। एवं विधीनां स्वातन्त्र्येणार्थवादमन्त्रयोस्तत्स्तुतिस्मृत्यर्थत्वेन स्मृतीनां तन्मूलत्वेन च प्रामाण्यं दर्शितम् ॥ ३ ॥ ( इति तृतीयः पादः ॥) उद्भिदा यजेतेसादावुद्भिदादिपदानामपि वेदावयवत्वात्म- सक्तं प्रामाण्यम् । तत्कि गुणविधित्वेन यागनामधेयत्वेन वेति चिन्यते । तत्राये उद्भिदा यजेत बलभिदा यजेतेसादावुद्भिद्रता यागेनेष्टं भावयेदिति मत्वर्थलक्षणादोपान्नामधेयत्वम् । सोमेन यजे- तेसादौ तु सोमशब्दस्य लतायां रूढत्वात् यागनामत्वासम्भवेना ऽगया सोमवतेति लक्षणाश्रयणम् । अत्र तृद्भिदादिपदार्थस्य लोकाप्रसिद्धत्वान्न तद्युक्तम् । तथा दधि मधु घृतं पयो धाना उदकम् तण्डुलास्तत्संस्पृष्टं प्राजापसमिति प्रकृस चित्रया यजेत पशुकाम इति प्राप्तकर्मानुवादेन चित्रवस्त्रीत्वलक्षणगुणद्वयविधाने ૨ १० माट्टभाषाप्रकाशः। [१ अ०] वाक्यभेदात्। नामधेयत्वे तु प्रकृतयाग एव फलान्वयात्र कश्चि- दोष इति चित्रापदमपि यागनामधेयम् । अग्निहोत्रं जुहुयादिसत्र अग्नये होत्रं यस्मिन्निति व्युत्पत्त्या निरूपगुणविधानम् वाक्यात, धात्वर्थविधानं तु सन्निहिततरम् । न चा त्राग्निपदमनन्यगतिकम्, उक्तव्युत्पत्त्यैव तस्य धात्वर्थनामावयवत्वसम्भवात् । अग्नियोति- ज्योतिरमिः स्वाहेति मन्त्रलिङ्गं विधित्सितस्य गुणस्य प्रख्यापकम- न्यच्छात्रमस्ति । अतोग्निहोत्रपदमपि कर्मनामधेयम् श्येनेनाभिचर- न्यजेतेयत्रापि यथा ह वै श्येनो निपसादत्त एवमयन्द्रिपन्तम्भ्रातृ- व्यन्निपसादत्त इति श्येनवद्यपदेशाच्छयेनपदमन्यत्ररूढमपि याग- नामधेयमेव, न गुणविधिपरम् । वाजपेयेन स्वाराज्यकामो यजेते- खत्रोक्तानिमित्तचतुष्टयाभावेपि वाजं सुराद्रव्यं पेयमस्मिन्निति न गुणविधानं, विरुद्धत्रिकद्वयापत्तेर्वाक्य भेदावश्यम्भावेन तत्र सम्ब- न्धायोगात् नहि सकृदुच्चरितः प्रसयो धात्वर्थस्य युगपत्फलेन वाजेन च सम्बन्धकर्तुमीष्टे । तथा हि वाजेन यागं यागेन स्वारा- ज्यमियन्वये यागस्य फलं प्रति विधेयत्वम् उपादेयत्वगुणत्व- ञ्च वाजगुणं प्रति अनुवाद्यत्वं उद्देश्यत्वम्प्रधानत्वञ्च. तत्र विधेयत्वादित्रयं ज्ञाप्यमनुष्ठेयं शेषभूतञ्च । अनुवाद्यत्वादि- त्रयं ज्ञातमननुष्ठेयं शेषिभूतञ्चेति नैकस्मिञ् ज्ञाप्यत्वज्ञातत्वादि- के सम्भवतः, मिथोविरुद्धत्वात् । पूर्वेष्वप्यऽयन्दोषोनुगतो ज्ञेयः। तमभ्युपेबैवाधिकदोषविवक्षयात्र विचारः प्रवर्तितः। तस्मानाम- धेयं वाजपेयपदमिति सिद्धम् । यद्यप्येवंजातीयकेषु वाक्यभेदो दोषस्तथापि यत्रापूर्व कर्म विधीयते तत्रानेकगुणविशिष्टमपि तद्विधीयते । विशिष्टस्यैकत्वाच न वाक्यभेदो दोषावहः । यथोक्तम्- -- (१) खपु० इति नास्ति । (२) अनुगतः । तमभ्युपेत्यैव विचारः प्रवर्तितो ज्ञेय इति खः ।
११ [१ अ०] भादृभाषाप्रकाशः। माप्ते कर्माणि नानेको विधातुं शक्यते गुणः । अमाते तु विधीयन्ते बहवोप्येकयत्नतः ॥ इति । यथा यदाग्नेयो ऽष्टाकपालो ऽमावास्यायाञ्च पूर्णिमाया'- चाच्युतो भवतीति ताव ऽब्रूतामग्नीषोमावाज्यस्य नावुपांशु पौणिमास्यां यजन् ताभ्यामेतमग्नीषोमीयमेकादशकपालं पूर्णमासे मायच्छत् ऐन्द्रं दध्यमावास्यायामैन्द्रं पयो ऽमावास्यायामिया दौ युगपद्रव्यदेवताकालोपांशुत्वादिगुणविशिष्टकर्मविधानेपि न दोषः। वहिराज्ययूपाहवनीयादिशब्दा वैदिकमसिद्धया संस्कार- निमिचा अपि ब्रीद्यादिवजातिशब्दा एव मोक्षणीनिर्मन्थ्य- शब्दौ तु योगरूढावेव । चातुर्मास्येषु आग्नेयमष्टाकपालं निर्व- पेत्सौम्यं चहें सावित्रं द्वादशकपालं' सौम्यं चरुं सावित्रं द्वादशकपालं सारस्वतं चरुं पौष्णं चरुं मारुतसप्तकपालं वैश्व- देवीमामिक्षा द्यावापृथिव्यमेककपालमिसस्य सन्निधौ श्रूयते वैश्वदेवेन यजेतेति । तत्र वैश्वदेवपदं छत्रिन्यायेनाष्टानां यागानां नामधेयमिति । यद्विश्वे देवाः समयजन्त तद्वैश्वदेवस्य वैश्वदे- वत्वमिति योगादष्टानामप्येतनामधेयम् । एषां च नाम्नां वैश्वदेवेन यक्ष्य इसेवमादिव्यवहारसिद्धावुपयोगः । एवं वरुण- प्रघाससाकमेधशुनासीरशब्दा अपि समुदायानामेवानुवादकाः वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते यदष्टाकपालो भवति गायध्यैनं ब्रह्मवर्चसेन पुनाति यत् त्रिकपालस्त्रिहतैवास्मिंस्तेजो दधाति यद्दशकपालो विराजैवास्मिन्नन्नाद्यं दधाति यदेका- दशकपालस्त्रिष्टुभैवास्मिन्निद्रियं दधाति यद् द्वादशकपालो ज- गौवास्मिन्पशून्दधाति यस्मिञ्जात एतामिष्टिं निर्वपति पूत एव ते- (१) अमावास्यायां पूर्णमास्यां चंति ख०। (२) निर्वपेदित्यधिकं कः । (३) तथेत्यधिकं स०। (१) अष्टाकपालाना मिति क०। .
भादृभाषाप्रकाश। [१ अ.] जस्व्यऽनाद इनद्रियावी पशुमान्भवतीति। अत्र जातपदोपेतोप- क्रमोपसंहारैकरूप्यादेकवाक्यत्वावगतरुत्पत्तिशिष्टगुणावरुद्ध उ- त्पन्नशिष्टस्य निवेशायोगादष्टाकपालादिवाक्यं न कर्मान्तरवि- धिन वा पूर्वस्मिन्नेव कर्मणि गुणान्तरविधिः, किन्तु द्वादशकपा- लस्यैवावयवद्वारा स्तुतिः । कर्मवत्कर्माङ्गान्यपि केनचित्सामा- न्येन स्तूयन्ते इसाह । तत्तिद्धिजातिसारूप्यप्रशंसाभूमलिंङ्गसम- वायादिति । यजमानः प्रस्तर इसत्र यजमानकार्यकारित्वात्म- स्तरे यजमानशब्दः । अग्निर्ब्राह्मण इसादौ ब्राह्मणेऽग्निशब्द- स्तेन सहैकयोनित्वात् मुखादमिरजायत ब्राह्मणोऽस्य मुखमा- सीदिति लिङ्गात् । आदियो यूप इसादाचूर्द्धत्वसारूप्यादान- देशे' भास्वरत्वलारूपयादा यूपे आदिसशब्दः। अपशवो वा अ- न्ये गोअश्वेभ्यः पशवो गोअश्वा इसत्र गोश्वव्यतिरिक्तेष्वजा- दिवऽपशुत्वोक्तिर्गवादेः प्राशस्यदर्शनार्थी । सृष्टीरुपदधातीसा- दौ सृष्टिसंज्ञकानामिष्टकानां बहुत्वात्सृष्टयसृष्टिस सुदाये सृष्टिश- ब्दो भूमगुणयोगात् । प्राणभृत उपदधातीयत्र तु अमाणभू- संज्ञकानामिष्टकानां बहुत्वेपिच्छत्रिणो गच्छन्तीतिवल्लिङ्गसमवा- यमात्रेण माणभृदप्राणभृत्समुदाये प्राणभृच्छब्दः । संदिग्धेषु वाक्यशेषाद । अक्ता शर्करा उपदधातीसत्राञ्जनसाधनद्रव्यसंदेहे तेजो वै घृतमिति वाक्यशेषात् घृतेनाक्ताः शर्कराः कर्तव्या इति निर्णयोपि द्रव्यस्तुतिप्रयोजनम् । अर्थाद्वा कल्पनैकदेशत्वात् । यत्र निर्णायकोर्थवादोपिनास्ति तत्राख्यातानामर्थं ब्रुवतां शक्तिः सहका- रिणीतिन्यायेन यथा पासादे भुङ्क्ते कांस्ये भुङ्क्त इसत्र प्रासाद उपविश्य कांस्ये परिविष्येत्यर्थात् प्रतीयते, न तु विपरीतम् । एव २ (१) देशेनामदाने । (२) अत्र खपु० च-इत्यधिकम् ।
भाट्टभाषाप्रकाराः। १३ [२०] स्रवेणावद्यतीतिविधिः सामर्थ्याद् द्रवद्रव्यविषये, स्वधितिनावद्य- तीति मांसविषये, हस्तेनावद्यतीति च पुरोडाशविषये व्यवतिष्ठते॥४॥ ( इति चतुर्थः पादः।) इति नीलकण्ठमूरिमूनुगोविन्दविरचिते भादृभाषाम- काशे प्रथमो ऽध्यायः ॥१॥ भावार्थाः कर्मशब्दा इति । विध्यर्थवादमन्त्रनामधेयस्मृसा- चाराख्यानि धर्म प्रमाणानि षण् निरूपितानि, इदानीं तत्स्वरू- पभेदः शब्दान्तराभ्याससंख्यासंज्ञागुणप्रकरणान्तरैः षभिः प्र- माणैः प्रतिपाद्यते । तस्य चोत्पत्तिश्चोदनावाक्यगतेभ्यः सर्वेभ्यः पदेभ्य इति न, गौरवात् किंतु लाघवादितरविशेषितादेकस्मा- देव पदात् । तत्रापि क्रियापदादेव, तस्या एव फलसिद्धौ प्रधा- नत्वात् नतूपपदात् । अन्यथा सोमेन यजेतेसादी श्रुतद्रव्यापचारे पूतीकादिः प्रतिनिधिन स्यात् । गुणे ह्यऽन्याय्यकल्पना स- म्भवति, न प्रधाने । अतो धात्वर्थादेव धर्मोत्पत्तिः । स च देवतो- द्देशेन द्रव्यसागात्मकमानसक्रियात्वाद्यद्ययाशुतरविनाशी, त- थापि दर्शपूर्णमासाभ्यां स्वर्गकामो यजेततिश्रुतार्थापच्या यागा- वान्तरव्यापाररूपापूर्वनाम कालान्तरभोग्यफलप्रातिभूत्वेन क- रूप्यते, भोक्ता च देहादन्यस्तत एव सिद्धयति । अपूर्वाणि तु अ. मावास्यायोगिभ्यस्त्रिभ्यः प्रधानेभ्यस्त्रीणि प्रथममुत्पद्य पश्चात्स- मुदायापूर्वमारभन्ते । एवं पौर्णमासेऽपि अपूर्वत्रयादेकं समुदा- यापूर्वम् । ताभ्यां पुनः परमापूर्व जन्यते । अङ्गापूर्वाणि तत्रै वोपकुर्वन्तीति । तत्राप्यवघातादीनां दृष्टार्थाना नियमांशेनैवा. पूर्वोत्पादकत्वम् । मोक्षणादीनां तु दृष्टार्थत्वाभावात्केवलमपूर्वार्थ- त्वमेव । एवं स्तोत्रशस्त्रयोरपि । तत्र ह्याज्यैः स्तुवते मउगं शंस- तीति श्रुसा स्तवनस्यैव कर्तव्यताम्तीतेर्याज्यादिना तयोर्देवता मादृभाषाप्रकाशः। [२०] स्मरणादिदृष्टकार्यार्थत्वायोगात् । प्रगीतमन्त्रसाध्यं स्तवनं स्तो- त्र, मप्रगीतमन्त्रसाध्यं तदेव शस्त्रम् । एवं ब्राह्मणस्थमेवाख्यातं प्र- धानकर्म वा गुणकर्म वा विधत्ते न तु देवांश्च याभिर्यजते द- दाति चेसादिमन्त्रस्थम् । प्रयोगाङ्गानां मन्त्राणां प्रयोगवहिर्भूते विधावसामर्थ्यात् । यत्राभियुक्तानां मन्त्रप्रसिद्धिस्ते मन्त्राः।अ- न्यह्राह्मणम् । तत्रापि ऊहप्रवरनामधेयानां न मन्त्रत्वम्, प्रसिद्- यभावादेव । ऋग्यजुःसामानि प्रसिद्धान्येव । पादबन्धवत्य- क । अनियताक्षरपादं यजुः । गीतिः सामेति । प्रोक्षणीरासा- दयेसादयो निगदाः पादबन्धप्रगीतमन्त्रत्वाभावेन ऋक्साम(मा) भ्यामन्यत्वाद्यजुःष्वेवान्तर्भवन्ति । यजुःप्रमाणं तु यावत्साका- झमेकार्थ पदजातं तावदेव । यथा स्योनं ते सदनं कृणोमि घृ- तस्य धारया मुशेवं कल्पयामीति सदनकरणार्थमेकं यजुः । त- स्मिन्सीदामृते पतितिष्ठ व्रीहीणां मेध सुमनस्यमान इति पुरो- डाशासादनार्थमपरं यजुः । अन्यथा यजुश्छेदे उभयोरपि वा- क्ययोरसंगतार्थता स्यादिति निश्चीयते । इषे त्वेसादावाका- दक्षानिवर्तकपदं यद्यपि नास्ति तथापि इषे वेति शाखां छिनत्त्यूर्जे वेसनुमाष्टीतिविनियोगबलान्मन्त्रभेदश्छिननीत्याद्यध्याहारेणवा- क्यपूरणं च । या ते अग्ने ऽथ याशया तनूर्वर्षिष्ठा गहूरेष्ठो उग्रं वचो अपावधीत् त्वेषवचोअपावधीत्स्वाहेति संपूर्णार्थमन्त्रमाम्नाय श्रूयते या ते अग्ने रजाशयेति, या त अग्ने हराशयेति । अनयोः सा- काङ्क्षयोराकाङ्क्षापूरणं तनूरियादिना भवितुं युक्तमिति तदे- वानुषअनीयम् । अश्रुतकल्पनापेक्षया सन्निहितश्रुतानुषङ्गस्य ल- धुत्वात् । चित्पतिस्त्वा पुनातु वाक्पतिस्त्वा पुनात्विसनयो- निराकाङ्क्षयोरपि देवस्त्वा सविता पुनावच्छिद्रेण पवित्रेणे- (१) विधानसामर्थ्यादिति खः । (२.) यजुश्छन्द-इत्युभयपुस्तकपाठः । तत्र छन्दपार्थः स्वाच्छन् स्यात् ।
१५ [२०] मातृभाषाप्रकाशः। त्युत्तरमन्त्रगतो वाक्यशेषो ऽच्छिद्रेणेत्यादिः योग्यतया सम्ब- न्धुर्महतीति तत्राप्यनुषानीयः । असम्बद्धपदव्यवधाने तु नानु- पङ्गः सं ते वायुर्वातेन गच्छतां सं यजत्रैरङ्गानि सं यज्ञपतिराशि- त्यादौ गच्छतामित्येकवचनस्याङानीति बहुवचनैन सम्बन्धान- ईत्वात् तद्यवायाचाशिषेयत्रापि नानुपङ्गः सध्यताति तदेवमुपा- द्घातं तत्पसक्तानुमसक्तं च समाप्य लक्षणार्थभेदमुदाहरति ॥१॥ ( इति द्वितीयाध्यायस्य प्रथमः पादः) शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् । यजति ददाति जुहोतीत्यादौ धात्वर्थभेदात्कर्मभेदः । समिधो यजति तनूनपातं यजति इडो यजति बर्हिर्यजति स्वाहाकारं यजतीसादावक- स्यैवाख्यातस्याऽसकृच्छवणरूपादभ्यासात्कर्मभेदः, न तु समिदादिगुणात् । तस्य समिधो अग्न आज्यस्य व्यन्त्विसा- दिमन्त्रलिङ्गमाप्तत्वात् । अप्राप्तो हि गुणः पूर्वत्र निवेशमऽल- भमानो गुणिनं भिनत्ति । न तु प्राप्तस्ततो यजतिशब्दस्याभ्यास एवात्र कर्मभेदकः पूर्वोदाहृतानि यदाग्नेयोष्टाकपाल इसादीनि समिध इसादीनि वाक्यानि पठित्वाम्नायते य एवं विद्वानमावास्यां यजते य एवं विद्वान्पौर्णमासी यजत इति । अत्र न कर्म विधी- यते तत्स्वरूपस्य द्रव्यदेवतस्याभावात् । किं तर्हि अमावास्या- पौर्णमासीशब्दाभ्यां तत्तत्कालविहितौ समुदायावनूयेते । अनु- वादप्रयोजनं तु अमावास्यायाममावस्यया यजेत पौर्णमास्यां पौर्णमास्या दर्शपूर्णमासाभ्यां' स्वर्गकामो यजेतेयादि । अत्र विधिश्चतुर्विधः। उत्पत्त्योधकरविनियोगप्रयोगभेदात् । तत्र कर्मस्वरूपमात्रावगमको विधिरुत्पत्तिविधिः, यदाग्नेयोष्टाक- पाल इसादिः । फलसंबन्धबोधको विधिरधिकारविधिः चित्रया यजेत पशुकामः सर्वेभ्यः कामेभ्यो दर्शपूर्णमासौ सर्वेभ्योग्निष्टोम (२) पार्णमासति.क०।
भावभाषाप्रकाशः । . [२ अ.] इसादिः । व्रीहिभिर्यजेत यवैर्यजेत यवैर्यजति समिधो यजति तनू- नपातं यजतीत्यादिरङ्गसंबन्धबोधको विधिविनियोगविधिः । अत्र बीहियवादीनां दृष्टार्थानां विकल्पः, समित्तनूनपादादीनामदृष्टा- र्थानां समुच्चयः । यद्यपि विकल्पे ऽष्टौ दोषा, स्तथापि वाक्य- द्वयस्य समबलत्वादन्यतरेणेतरवाधायोगादगयांगाक्रियते । ते च ब्रीयुपादाने ब्रीयंशे स्वीकृतामामाण्यसागः, अस्वीकृतस्य प्रा- माण्यग्नहः, यवांशे स्वीकृतप्रामाण्यत्यागः अस्वीकृतामामा- ण्यग्रहः । एवं यवोपादानेपि । साङ्गप्रधानानुष्ठापको विधिः प्रयोगविधिः स च कचित्कचित् कल्प्यते औपदेशकैराति- देशिकैश्चाङ्गैः समवेतं चित्राख्यं यागं कुर्यादिति । दर्शपूर्णमा- साभ्यां स्वर्गकामो यजेत योऽमिष्टोमेन स्वर्गकामो यजेतेत्या- दिस्तु स्वर्गकामपदं सर्वेभ्य इतिप्राप्तस्याऽवयुखानुवाद इति पक्षमाश्रित्य श्रौतः । स पुनस्त्रिविधः अपूर्वविधिनियमविधिः परिसंख्याविधिश्च । तत्र यो मानान्तरेणासन्ताप्राप्तस्यार्थस्य विधायकः स आद्यः यथा व्रीहीन्प्रोक्षतीति । नोनं विना प्रोक्षणं व्रीहिषु कथंचिदपि प्राप्नोति । लोकाद्वेदतो वा यत् पक्षप्राप्तं तस्याप्राप्तांशप- रिपूरणकलो द्वितीयः यथा ब्रीहीनवहन्तीति । यथा वाग्रयणे व्रीहिभिारिष्ट्वा ब्रीहिभिरेव यजेताऽयवेभ्यः यवैरिष्ट्वा यवैरेव यजेतात्रीहिभ्य इति । आये तण्डुलानेष्पत्त्याक्षेपादवघात- वन्नखविलनस्यापि लोकावगतकारणत्वाविशेषात् प्राप्तौ अव- घाता प्राप्तांशोस्ति । द्वितीये पूर्वोदाहृतव्रीहियववाक्याभ्यांनीह्या- ग्रयणादृर्द्धमपि पक्षे यवप्राप्तया ब्रीह्यप्राप्तांशोस्ति, तत्परिपूरणे वितरनित्तिराद्भवतीति ब्रीहीभेरेवेसेवकारोनुवादः । वदतो लोकतो वा समुच्चित्यप्राप्तयोरितरनित्तिफलको विधिस्तृतीयः यथा इमामगृभ्णान् रशनामृतस्येत्यश्वाभिधानीमादत्तइति पञ्च [२ अ.] भाट्टभाषाप्रकाशः। १७ पञ्चनखा भक्ष्या इति च । आग्नचयने इष्टकानयनाथमश्वरशना- ग्रहणं गर्दभरशनाग्रहणं चेति द्वयमनुष्ठेयम्, तत्रोभयत्रायं मन्त्रो र- शनाग्रहणप्रकाशनसामर्थ्यरूपाल्लिङ्गादेव प्राप्त इति नाऽश्व- रशनाग्रहणाङ्गत्वं प्रतीयते ऽपि तु गर्दभरशनातो व्यात्तिरेवा Sगत्या दोषत्रयं सोदाप्यङ्गीक्रियते विधिवैयर्थ्यपरीहाराय। दोष- त्रयं च श्रुतस्याश्वरशनाग्रहणाङ्गत्वस्य त्यागः, अश्रुतस्य गर्दभर- शनाङ्गत्ववर्जनस्य ग्रहणं, मन्त्रलिङ्गात्सामान्यतः प्राप्तस्य गर्दभर- शनाङ्गत्वस्य त्याग इति श्रुतहानिरश्रुतकल्पना प्राप्तबाधश्चेति सर्वत्र परिसंख्यायां दोषत्रयं ज्ञेयम् ॥ एवंभूतैर्विधिभिर्विहितं कर्म द्विविधं गुणकर्मार्थकर्मभेदा- त् । तत्र यत् क्रतुकारकमाश्रित्य विधीयते तदाद्यम्, उत्पत्त्या- प्तिविकृतिसंस्कृतिरूपफलभेदाच्च चतुर्विधम् । वसन्तेग्मीनादधीत यूपं तक्षति । अत्राधानतक्षणादिसंस्काराभ्यामग्नियूपयोः प्रा- गसतोरुत्पत्तिः फलम् । एवं पिष्टानि संयोतीत्यत्र संयवनस्य पिण्डोत्पत्तिः। स्वाध्यायोध्येतव्यः गां दोग्धीत्यादावध्ययन- दोहनाभ्यां सिद्धयोरेव स्वाध्यायपयसोः प्राप्तिः । सोममभिषु- णोति व्रीहीनवहन्ति दक्षिणानावाज्यं विलापयतीत्यादौ क- ण्डनादेः सोमादिपूर्वरूपपरित्यागेन रूपान्तरापत्तिविकृतिः। च- तुरो मुष्टीनिर्वपति ब्रीहीन्योलतीत्यादौ निर्वापप्रोक्षणाभ्या- मपूर्वीयेषु व्रीहिपु अदृष्टरूपं गुणाधानं दोपापकर्षणं वा संस्का- राख्यं क्रियते तस्य फलं तेषु योग्यत्वसिद्धिः । दृष्टरूपोपि सं- स्कारः पुरोडाशानलं करोति तण्डुलांस्त्रिः प्रक्षालयतीत्यादिः । ऋतुकारकमनाश्रित्य यद्विधीयते तदर्थकर्म । (१) चयनार्थमिति खपु०। ३ १८ भाट्टभाषाप्रकाशा [२ अ.] तच द्विविधम् अन्यार्थमङ्गमनन्यार्थं प्रधानं च । अङ्गमपि द्विविधं सन्निपत्त्योपकारकमाऽऽरादुपकारकं च । तत्र प्रधाने ऋतुरूपे [यत् स्वरूपेणोपकारकं तदाद्यम् यथा ब्रीह्यादि । यत्र- खपूर्व उपकरोति तद् द्वितीयम् यथा प्रयाजादि । अनन्यार्थमपि द्विविधम् प्रकृतिरूपं विकृतिरूपं च । तयोर्यत्सन्निधौ सर्वाण्यङ्गा- नि विधीयन्ते तत्प्रथमम् दर्शपूर्णमासज्योतिष्टोमादि । यदङ्गं वि- कलं विधीयते तद् द्वितीयं सौर्य चळं निर्वपेद् ब्रह्मव- र्चसकामः विश्वजिता येजेतेयादि । तत्र प्रथमे कथंभावपूरणं तस्य संनिधौ पठितैरेवाङ्गैर्भवति । द्वितीये तु प्रकृतिवद्विकृतिः कर्त्त- व्येति कल्पितेनातिदेशवाक्येनेति वि] शेषः। अग्निहोत्रादीनि तु दर्वीहोमाख्यानि प्रधानकर्माणि न तानि कस्यचित्प्रकृतिर्वि- कृतिर्वा भवन्ति किंवऽपूर्वाण्येव । तान्यपि कर्माणि त्रिविधानि नि त्यनैमित्तिककाम्यभेदात् । यावज्जीवादिचोदनाचोदितं नित्यम् । यावज्जीवमग्निहोत्रं जुहुयात् यावज्जीवं दर्शपूर्णमासाभ्यां यजेत वसन्ते वसन्ते ज्योतिषा यजेत, ज्योतिषा ज्योतिष्टोमेन, अह- रहः संध्यामुपासीत तानेतान्यज्ञानहरहः कुर्वीतेत्यादि । नि- मित्तानन्तरं कर्तव्यं नैमितिकम् वैश्वानरं द्वादशकपालं निर्वपे- त्पुढे जात इत्यादि । प्रायश्चित्तमप्यत्रैवान्तर्भवति । तच्च द्विविध ऋतुभ्रेषनिमित्तं पुरुषभ्रेपनिमित्तं च । आद्यमऽग्नये पथिकृते पुरो- डाशमष्टाकपालं निर्वपेद्यो दर्शपूर्णमासयाजी सन्नमावास्यां पौ- र्णमासीं वातिपातयेदित्यादि । यो ब्रह्मचारी अवकिरेत्स नै- ऋतं गर्दभमालभेतेत्यादि द्वितीयमित्यलं प्रसक्तानुप्रसक्तोक्तया, प्रकृतमनुसरामः। यथा य एवमितिविद्वद्वाक्ये पौर्णमासीपदेनाग्नेयादित्रिक- स्यानुवाद एवमुपांशुयाजमन्तरा यजतीत्युपांशुयाजपदेन विष्णु- रुपांशु यष्टव्यो ऽजामित्वायत्यादिवाक्यविहितविष्ण्वादित्रिक- [२ अ० भादृभाषाप्रकाशः। १६ स्यानुवादोस्त्विति न युक्तम्, जामि वा एतद्यज्ञस्य क्रियते यदन्वञ्चौ पुरोडाशावित्युपक्रान्तजामितादोषपरिहार एकेनापि भवति जामि वा इत्यजामित्वायेति च श्रूयमाणोपक्रमो- पसंहारैक्यरूपा वा तस्यैकवाक्यत्वस्य यात्रय कल्पनया भक्तु- मयुक्तत्वात् । ननु द्रव्यदेवतं यागस्वरूपमत्र वाक्ये नास्ति यष्टव्यवाक्ये तु देवतामात्रमस्तीति अत्रैव यागोत्पत्चिरिष्टेति चेन्न । सर्वस्मै वा एतद्यज्ञाय गृह्यते यद्धृवायामाज्यमिति धौ- वाज्यलाभस्योभयत्रापि तुल्यत्त्वात् । आग्नेयाग्नीषोमीययाज्या- नुवाक्यायुगलयोरन्तराले पठिताद्याज्यानुवाक्यायुगलाच दे- वतालाभ इति न किंचिद् दुःस्थम् । यष्टव्यवाक्यं तु स्तुतिमा- त्रम् ईदृशोयमुपांशुयाजो यत्र विष्णुरिज्यते इति तत्र विष्णुना- नीपोमौ प्रजापतिश्च विकल्पते । एवमन्यत्रापि कर्मभेदार्थः पूर्वः पक्षः, तदभेदार्थः सिद्धान्त इति ज्ञेयम् । तिस्र आहुतीर्जुहो- तीत्यत्र बहुत्वात्संख्यायाः स्पष्ट[:] कर्मभेद इति सप्तदश प्राजा- पसान्पशूनालभत इसेवोदाहरणे प्रजापतिर्देवता येषामिति वि- ग्रहे सप्तदशपशुद्रव्यको यागः। प्राजापसश्च प्राजापसश्चेति श्रु- ततद्धितान्तानामेकशेषे प्रतिपशु माजापत्यत्वपर्यवसानात्सप्तदश यागाः, प्रकृतौ त्वेकः । पशुनिष्पन्नैकादशावदानद्रव्यत्वं या- गस्य दृष्टम्, तत्सामान्यादतिदेशादि हापि प्राप्तं न प्रयाख्यातुं श- क्यम् । अतः सप्तदशैव यागाः । फलं तु पूर्वपक्षे एकपशुनाशे गणनाशः । सिद्धान्ते तन्मात्रस्यैव नाश इति तस्यैव पुनरुपा- दानं नान्यस्येति । प्रदानं तु देशकालक.क्यात् सर्वेषां सहैव द- धिपयसोरपि मकृतौ। एवमेव ज्योतिष्टोमं प्रकृस अथैष ज्योतिरथेष विश्वज्योतिरथैष सर्वज्योतिरेतेन सहस्रदक्षिणेन यजेतेसादौ न पूर्व- (१) ऐकरूप्यण तस्यैकवाक्यत्वस्य याग यति सँभाव्यते पाठः, कपुस्तकस्यात्र द्वितीयाध्यायपर्यन्तं खण्डितखात् ।
भाट्टभाषाप्रकाशः। [२ अ०] त्रैव सहस्रदक्षिणागुणविधिः ।ज्योतिरादिपदानामानर्थक्यापातात् संज्ञाश्रुखार्थान्तरावश्यम्भावेन प्रकरणविच्छेदावश्यंभावाच ज्यो- तिरादिसंज्ञानि कर्मान्तराण्येवैतानि । वैश्वदेव्यामिक्षा वाजिभ्यो वानिनमिति वैश्वदेवयागे उत्पत्ती आमिक्षया विरुद्ध उत्पन्नशिष्टं वाजिनं निवेशमलभमानं ततोन्यद्वाजिदेवसं वाजिनद्रव्यकं क- र्मोपस्थापयतीति गुणात् कर्मभेदः । यत्र तूत्पत्तौ निर्गुणं कर्म श्रूयते पश्चादनेके गुणाश्च श्रूयन्ते तत्र सर्वेषां गुणानां विक- ल्पेन निवेशो न तु कर्मभेदकत्वम् यथा ऽग्निहोत्रं जुहोतीत्यत्र दना जुहोतीत्यादीनाम्। अग्निहोत्रं प्रकृस श्रूयते दनेन्द्रियकामस्य जुहुयादिति तत्र धात्वर्थस्य प्राप्तत्वाद्गुणमा विधेयम् यच्च विधेयम्, तस्यैव फलम् । अतोऽत्र पूर्वस्मिन्नेव कर्मणि फलाय गु- णो विधीयते न तु गुणः कर्म भिनत्तीति । अग्निष्टुति वारव- न्तीयमनिष्टोमसाम कार्यमित्युक्ता SSनायते एतस्यैव रेव- तीषु वारवन्तीयमग्निष्टोमसाम कृत्वा होतेन पशुकामो यजेतेति । अत्र पूर्वस्मिन्नेवं कर्मणि रेवत्यृगाधारवारवन्तीयलक्षणो गुणः पशुफलाय विधातुं न शक्यते दधिवदऽस्य प्रसिद्धत्वाभावात् । ततश्च प्राप्तकर्मानुवादेन गुणस्वरूपं तत्फलं चेत्युभयं विधातु- मशक्यम्,वाक्यभेदात् । तस्मात्कृत्वाशब्दकल्पितरेवतीवारवन्ती- यसम्बन्धविशेषितः पूर्वोक्त फलाय विधीयते । एतस्येति षष्ठ्य- न्तमपि प्रस्तूयमानमिति न तु पूर्वप्रकृतमिसपि सिद्धम् ॥ २॥ (इति द्वितीयाध्याये द्वितीयः पादः ॥) यदि रथन्तरसामा सोमः स्यादैन्द्रवायवाग्रान ग्रहान गृह्णी- यात् यदि बृहत्सामा शुक्रामानिति प्रकृते ज्योतिष्टोमे ग्रहाग्रत्व- मात्रं विधीयते । न तु ततोन्यत्कर्म रथन्तरसामादिकम् । विधि- शक्तयुपघातकयदिशब्दात् प्रकरणविच्छेदात् । राजा राजसूयेन स्वाराज्यकामो यजेतेसत्र राजशब्दस्य क्षत्रियवाचित्वात् तन्मा- भाट्टभाषाप्रकाशः। २१ [२ अ०] त्राधिकारिकायामपि राजस्यान्तर्गतायामवेष्टिसंज्ञयामिष्टौह्यदिख- त्रा()बाधकामब्राह्मणादीनामप्येवेष्टिं प्रापयति । एवं वसन्ते ब्राह्म- णोनिमादधीत ग्रीष्मे राजन्यः शरदि वैश्यः वसन्ते ब्राह्मणमु- पनयीत ग्रीष्मे राजन्यं शरदि वैश्यमियेतान्यपि वचनानि यथा- वर्णमाधानोपनयनयोः प्रापकाणि ॥ कुण्डपायिनामयनाख्ये सत्तू उपसद्भिश्चरित्वा मासमग्निहोत्रं जुहोति मासं दर्शपूर्णमासाभ्यां यजेते सत्रापि नैयमिकाग्निहोत्रादेः सत्रे उपस्थिससंभवाच्छ- ब्दमात्रेणोपस्थिसभ्युपगमेऽपि प्राप्तकर्मानुवादेन उपसदानन्तर्य मासगुणश्चेति विधातुमशक्यम्, वाक्यभेदात् । नच मासे कर्मणि मासः संपादयितुं शक्यते अनुपादेयत्वात् तस्य । तस्मादनुपा- देयगुणसंबन्धानुगृहीतो ऽसंनिधिः कर्म भिनत्ति । अनुपादेया गु- णास्तु देशः कालो निमित्तं फलं संस्कार्यश्च (रश्च) । तच्च सरस्वसा दक्षिणेन तीरेणानेयोष्टाकपालः सत्रायागूर्य विश्वजिता यजेत आग्नेयमष्टाकपालं निर्वपेद्रुक्कामस् त्रैधातव्या दीक्षणीया इस- श्वमेवेति (?) क्रमेण कर्मभेदोदाहरणानि द्रष्टव्यानि । अत्र दार्शपौ- र्णमासिकादाग्नेयात् काम्यदैशिकावाग्नेयौ भिन्नौ काम्याभ्यां त्रै- धातवीविश्वजिन्यां संस्कारकनैमित्तिकौ तौ भिन्नौ सर्वत्रानुपादे- यगुणगणविशेषितासन्निधिरूपप्रकरणान्तरस्य कर्मभेदहेतोस्तु- ल्यत्वात् । सन्निधौ वनुपादेयगुणसम्बन्धेपि न कर्मभेदः यथा समे दर्शपूर्णमासाभ्यां यजेत पौर्णमास्यां यजेत ॥ ३ ॥ (इति द्वितीयाध्याये तृतीयः पादः ॥) यावज्जीवं दर्शपूर्णमासाभ्यां यजेत एतयात्राद्ययाजयेत् । शेषात् स्विष्टकृते समवद्यतीति दर्शपूर्णमासाभ्यां स्वर्गकामो यजे तेति विहितात्काम्यात्मयोगादन्योयं यावज्जीवं दर्शपूर्णमासाभ्यां यजतेति पुरुषार्थः प्रयोगः । अग्निहोत्रं जुहोतीसादयो विधयः शाखाभेदान्न भियन्ते शाखाभेदात् पुनःश्रुसनापत्तेः । एकस- ૨૨ भाट्टाभाषाप्रकाशः। [३ अ.] निधौ हि पुनःश्रुतिर्भेदिका समिधो यजतीसादौ नासनिधावि- त्युक्तं प्राक् ॥ ४ पा० ॥ इति भादृभाषामकाशे द्वितीयोऽध्यायः ॥२॥ एवं सिद्ध कर्मभेदे भिन्नानां तेषां शेषशेषिभावो निरूप्यते । शेषत्वं च नाविनाभूतत्वम् । आग्नेयादीनां त्रयाणामन्योन्यशेष- तापत्तेः । नाप्युपकारकत्वम् । अङ्गमनुष्ठापयतः प्रधानस्यापि शेषतापत्तेः । अतो यः परार्थः स शेषः। पारार्थ्य च यथायथं द्र- व्यगुणकर्मणां वक्ष्यमाणानां ब्रीडाज्यदेशकालानां यागं प्रस- ऽस्ति एवं यागस्य फलं प्रति फलस्य च पुरुषं प्रति । तेन पूर्वः पूर्व उत्तरमुत्तरं प्रति शेषः । उत्तरउत्तरस्तु पूर्वपूर्व प्रति शे- पीति ज्ञेयम् । तत्रापि चतुरो मुष्टीनिर्वपति व्रीहीन्प्रोक्षति ब्री- हीनवहन्ति आज्यमुत्पुनाति शाखां छिनत्तीत्यादय औषधाज्य- सान्नाय्यधर्मा योग्यतया ब्रीह्यादियोगाच्चौषधादिष्वेव यथायोगं व्यवतिष्ठन्ते । अत्र व्रीह्यादिपदमपूर्वमद्रव्यलक्षकम् । अन्यथा य- वादिभ्यः प्रोक्षणादिव्यावृत्त्यापत्त्या परिसंख्यात्वापत्तेः । यथेयं संस्कारव्यवस्था एवं स्फ्येनोद्धन्ति कपालेषु श्रपयति अग्नि- होत्रहवण्या निर्वपति उलूखलमुसलाभ्यामवहन्ति शूर्पण विवि- नक्ति दृवदुपलाभ्यां पिनष्टीसादावपि यथाश्रुतं द्रव्यव्यवस्था यथेयं द्रव्याणां व्यवस्था गुणव्यवस्थाप्येवम् । अरुणया पिङ्गा- क्ष्यैकहायन्या सोमं क्रीणातीत्यादौ आरुण्यस्य क्रयान्वयेपि अमूर्त्तत्वात्स्वतः कारकीभवितुमशक्नुवानस्य (वतः) सन्निहितैक- हायनीद्वारैव कारकत्वम् न व्यवहितेन वाससा क्रीणातीसादि- वाक्यावगतवासआदिद्वारेति । एवं कमात्संस्कारे द्रव्यगुणवि- वक्षायामपि ग्रहं सम्माष्टीसादौ ग्रहाद्युद्दिश्य सम्मार्गविधौ - [३०] भाट्टमाषाप्रकाशः॥ २३ उद्देश्यविशेषणीभूतमेकत्वं न विवक्षितम् । (ग्रहं समाष्टिं तं चैकमि- सन्वये वाक्यभेदाव) । तस्मात्सर्वेषु ग्रहेषु संमार्गः प्राप्नोति । ग्रहस्वरूपं तु विवक्षितमेव, उक्तदोषाभावात् । तेन न ग्रहपदं सोमपा- त्रमात्रोपलक्षणमिति न चमसेष्वपि संमार्गप्राप्तिः । सप्तदशारनि- र्वाजपेयस्य यूप इसत्र वाजपेयोद्देशेन सप्तदशारनित्वविधौ उद्दे- श्यस्वरूपमप्यविवक्षितम् । तस्य स्वरूपे यूपस्याभावेनानुपयो- गात् । नहि वाजपेयस्य यूपोस्ति किं तर्हि अनर्थकं सद् वाज- पेयाङ्गभूतेषु पशुषु यूपोस्तीति तत्र साप्तदश्यं निविशते । स- मिधो यजतीसारभ्य प्रयाजानिष्ट्वा हविष्यभिधारयतीसन्तं प्र- याजावान्तरमकरणं तन्मध्यपठितमभिकामजुहोतीसभिक्रमणं प्रयाजाङ्गमेव । संदंशमध्यपतितं सत्र महाप्रकरणमनुगच्छतीति । सामिधेनीरन्वाहेसारभ्य अन्तरानूच्य सदेवत्वायेसन्तं सामिधेन्य- वान्तरमकरणवद्भासमानमपि तन्मध्यपठितैर्देवोदोमन्विद्वे(?) इसा- दिभिलक्ष्मन्मन्त्रैः प्रकरणविच्छेदात्तन्मध्यपतितमपि यदुपव्ययते देवनिविमेव तत्कुरुत इत्युपवीतं दर्शाद्यङ्गं वारणोयज्ञावचरो वैकङ्कतो यज्ञावचर इति अनारभ्याधीतत्वादात्मकृतिद्वारा यज्ञ- पदोदिताखिलयज्ञाङ्गत्वे पात्राणामाज्यभागगतयोत्रिनलिङ्गक- मन्त्रयोर्दधन्वल्लिङ्गकयोश्च वात्रघ्नीः पौर्णमास्यां यजते वृधन्वती- श्चामावास्यायामिति वाक्याद्विनियोगः । हस्तावनेजनादि सर्व- कर्माङ्गम्, प्रकरणात् । पुरोडाशं चतुर्दा करोतीति सामान्यवच- नमाग्नेयं चतुर्दा करोतीतिविशेषवचनेनोपसंहियते ॥१॥ (इति तृतीयाध्याये प्रथमः पादः ॥) यद्यपि मन्त्राणां मुख्ययैव वृत्त्या विधेयार्थप्रकाशकत्वं सर्वत्र सिद्धम् तथापि ऐन्द्रया गाईपसमुपतिष्ठत इसादौ तृतीयाश्रुया (१) ( ) एतच्छललान्तर्गतः पाठः खपुस्तक “समार्गः प्रामाती"त्यतः पर वर्तते।
२४ भाट्टभाषाप्रकाशः। - [३ अ०] ऐन्द्रस्य लक्षणया गार्हपसमकाशकत्वमुपेयते । श्रुसपेक्षयेन्द्रप्रका- शनसामर्थ्यरूपस्य लिङ्गस्य दुर्बलत्वात सूक्तवाकेन प्रस्तरं प्रहर- तीतितृतीयाश्रुसा इदं द्यावापृथिवी भद्रमभूदियादिमन्त्रगणस्य सूक्तवाकसंज्ञस्य प्रस्तरग्रहणाङ्गता गम्यते तेनाग्निरिदं हविरजुषते- सादिमन्त्रवर्णादेवता लभ्यते प्रस्तरो द्रव्यं प्रहरतिर्यागवचन इति लभ्यते । न चेष्टदेवताप्नकाशनेन कृतार्थस्य तस्य पुनर्विनि- ोगो न युज्यत इति तदुपलक्षिते काले सुग्धारणादौ कृतार्थ- स्य प्रस्तरस्य प्रतिपत्तिरत्र विधीयत इति वाच्यम् । किमिव व- चनं न कुर्यान्नास्ति वचनस्यातिभार इतिन्यायेन कारकश्रुते- लक्षणापेक्षया बलवत्त्वेन च तत्सम्बन्धात्महरतिरिष्टदेवतासंस्का- रार्थहोमं विधत्ते इति कल्पनात् । सूक्तवाक्येनेति तृतीयया कृ- स्वस्य तस्य. प्रहरणाङ्गत्वेपि लिङ्गवशात्पर्वद्वये विभज्य विनि- योगः कल्प्यः । अन्यथा दर्शनीषोमाविदं हविरितिमन्त्रीसन्ता- नर्थकः स्यात् । आनर्थक्यप्रतिहतानां विपरीतं बलाबलमिति- न्यायेनात्र लिङ्गबलात् तृतीयाश्रुतिः सूक्तवाकैकदेशं लक्षयति । काम्यकाण्डे ऐन्द्रानादीन्यज्ञान्विधाय तल्लिङ्गकानि याज्यानुवा- क्यायुगलान्याम्नातानि इन्द्राग्नी रोचना दिव इसादीनी तानि लिङ्गमात्रान्न सर्वत्र विप्लवन्ते किंतु क्रमसमाख्यावशात्स्वस्थान एव निविशन्ते । क्रमः स्थानं सन्निधिरियेतदनन्तरम् । भक्षे हि मा वेशेसादिर्भक्षणमन्त्रस्य भक्षानुवाकसमाख्यामात्रेण कृत्स्नानुवा- कस्य न भक्षणार्थत्वं किं तु ग्रहणावेक्षणसम्यग्जरणादेरपि प्रका- शनाद्यथालिङ्गं ग्रहणादौ मन्त्रा व्यवतिष्ठते। भक्षमन्त्रे इन्द्रपीतस्येति पदमनन्द्राणां सोमानां भक्षणे ग्रहं निवृत्तिं वा न भजते तद्धेतोरिन्द्रेण पीतस्येयस्यार्थस्याविवक्षितत्वात किंतु इन्द्रेण पीतः सोमो यस्मि- सबने तदिन्द्रपीतम् तस्य संबन्धिनं सोमं भक्षयानीयस्यार्थो विव- क्षितः ।जहलोपहेतोस्तृतीयातत्पुरुषादन्यपदार्थमधानस्यापि बहु- भाट्टभाषाप्रकाशः। [३ अ०] २५ व्रीहिसमासस्य लघुत्वात् । सर्वे च सोमा एवंविधसवनसम्बन्धिन इति सर्वेषां यथानातमन्त्रकम्भक्षणम् ॥ २॥ (इति तृतीयाध्याये द्वितीयः पादः ॥) श्रुतिलिङ्गयोविनियोग उक्तः वाक्यप्रकरणस्थानसमाख्या- भिर्विनियोगश्चिन्यते । तत्रत्रयो वेदा अजायन्त अग्नेक्रग्वेदो वायो- र्यजुर्वेद आदिसात्सामवेद इयर्थवादेनोपक्रम्य उच्चैर्ऋचा क्रियते उपांशु यजुषा उच्चैः साम्नेत्युच्चैस्त्वादिकं विधीयते । तत्र मन्त्र- ब्राह्मणसमुदायो वेदः पादबन्धवती गायत्र्यादिरेव ऋक् । असं- जातविरोधिनोपक्रमगतवेदपदेन संजातविरोधिविध्युद्देशात्तम- पि ऋगादिपदं स्वविषये व्यवस्थाप्यते । न तु विधिप्राधान्यात् वैपरीसं वक्तुं शक्यम् । यत्र विरोधस्तत्रैव लक्षणाया औचि- खात् । गुणे त्वन्याय्यकल्पनेसस्यानुपसंजातविरोधिन्यर्थवादेप्य- प्रवृत्तेः। तस्मादृक्पदेन ऋग्वेद एव ग्राह्यो न ऋङ्मात्रम् । तेन ऋग्वेदान्तर्गतानां यजुषामप्युच्चैस्त्वं यजुर्वेदगतानामृचामप्यु- पांशुत्वं फलम् । अत्रोपक्रमोपसंहारैकवाक्यतया वेदधर्मोऽयमव- धारित इति वाक्यवशेनायं विनियोगः । दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेयतो दर्शपूर्णमासाभ्यां स्वर्ग भावयेदियवगते केन प्रकारेण भावयदिखाकाङ्क्षायामाह समिधो यजति वी- हीनवहन्तीसादि। तेनायमर्थः समिदादिभिरारादुपकारिभिरवघा- तादिभिः संनिपसोपकारिभिश्चाङ्गैः संपन्नौ तौ यथा फलं साध- यितुं क्षमौ भवतस्तथा यजेतेति गम्यते । ततश्च उपकारकार्थिनि यागे उपकर्तुं समर्थानां प्रयोजनाकाङ्क्षाणामङ्गानाञ्चान्योन्या- काङ्क्षालक्षणेन प्रकरणेन शेषभावः। दर्शपूर्णमासादौ येन क्रमेण कर्मणामाम्नानम् तेनैव मन्त्राणामप्यस्तीति उपांशुयाजस्थाने पठिनो दब्धि मासीतिमन्त्रः श्रुखाद्यभावेपि स्थानप्रमाणादेवो- पांशुवाजाइत्वं भजते । दर्शपूर्णमासादिष्वाध्वयवहौत्रौगात्रादिस- भादृभाषाप्रकाशः। [३ अ.] माख्ययाख्याताः पदार्थाः कर्तृपेक्षाः सन्ति । तेषां येन केनचि- धत् किंचित्कर्म कर्त्तव्यमित्यनियमे प्राप्त समाख्यया प्रमाणेन क्रियाकर्तृसम्बन्धः सिध्यति ॥ ॥ अथैतेषां बलाबलं चिन्सते तत्र सूत्रम् श्रुतिलिङ्गवाक्यप्रक- रणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षादिति । एतेषु श्रुखादिषु परंपरं दुर्बलम् कुतः अर्थविप्रकर्षात् । श्रुतिर्हि निरपेक्षशब्दरूपा स्वयमेव विनियोकी भवति, लिङ्गं तु श्रुतिं क- ल्पयित्वा विनियोजकम् न स्वातन्त्र्येण । एवं वाक्यं लिङ्गश्रुती प्रकल्प्य विनियोजकम् । एवं प्रकरणं त्रयस्य कल्पनया, स्थानं चतुष्टयस्य समाख्या पञ्चकस्येति विप्रकर्षों ज्ञेयः। तत्र श्रुतिलि- झ्योर्विरोधे श्रुतेर्बलीयस्त्वमुक्तम् । ऐन्द्रया गार्हपसमिसत्र लिङ्ग- वाक्ययोविरोधेपि स्योनं त इत्यत्र वाक्यात्कृत्स्नस्यैकमन्त्रत्वे प्राप्त लिङ्गात् सदनकरणस्थापनरूपार्थद्वयप्रकाशकान्मन्त्रभेद इस- प्युक्तम् । वाक्यप्रकरणयाोर्वरोधोदाहरणं सूक्तवाके । स च लिङ्गवशात्पर्वद्वये विभज्य विनियोज्य इत्युक्तम् । तत्र इदं हविरजु- षेतामित्यादीनि पदानि प्रकरणाविशेषेप्यन्यत्र न प्रयुज्यन्ते । अपि तु वाक्यस्य बलवत्त्वादग्नीषोमावित्यनेनैव सम्बध्यन्ते । त- तश्चैकवाक्यत्वादग्नीषोमलिङ्गप्रकाशनसामर्थ्य ततः श्रुतिस्ततो विनियोग इति सन्निकर्षः । इन्द्रानीपदेन तु प्रकरणद्वारैकवा- क्यत्वमिति विप्रकर्षः । तस्माद्वाक्यं प्रकरणादलवत् । स्थान- प्रकरणयोविरोधस्तु इष्टिपशुसोमयोगात्मके राजसूयेऽभिषेचनी- याख्यः सोमयागोस्ति तत्सन्निधौ पठिता हि देवनादयः । यावत् प्राकृताङ्गैः कथंभावे निराकाङ्क्षभिषेचनीये ऽथ यथाकथंचित्स- निधानादाकाङ्क्षांप्रकल्प्याङ्गत्वं कल्प्यते, ततः मागेव प्रकरणा- द्राजसूयाङ्गत्वमेषां गम्यते। अतः सन्निधेःप्रकरणं बलवत् । क्रमसमा- ख्ययोविरोधस्तु पौरोडाशिकसमाख्यकाण्डे सान्नाय्यपात्रशुन्धन- ३ अ०] भाट्टभाषाप्रकाशः। २७ क्रमे शुन्धध्वमितिमन्त्री यावत् समाख्यया सम्बन्धं प्रकल्प्य पुरोडाशाङ्गतां नीयते, तावत्सन्निधिः क्लुप्तसम्बन्धद्वारा आका- झाक्रमेणैकवाक्यत्वं ततः सामर्थ्य ततः श्रुतिं च प्रकल्प्य तस्य सानाय्याङ्गत्वं विधत्त इति समाख्यातः सन्निधिर्बलवान् । अत्र श्रुसादिभिर्लिङ्गादीनां बाधः कल्पनामूलोच्छेदाल्लैङ्गिकादिक- ल्प्यपदार्थस्य अप्राप्तवादेव । प्राकृताः कुशादयस्तु प्राप्ता एवं सन्तो वैकृतैः शरैर्वाध्यन्ते । एवमाहवनीये जुहोतीति सामा- न्यशास्त्रेण प्राप्त एवाहवनीयः पदे जुहोतीसनेन विशेषेण बाधात् इति तातीयीकादप्राप्तबाधाद्दाशमिकः प्राप्तबाधो विलक्षण इति ज्ञेयम् । ज्योतिष्ठामे तिस्र एव साहस्योपसदो द्वाद- शाहीनस्येसत्राहीनपदं न हीन इति योगाज्ज्योतिष्टोमं वक्ति तत्रैव द्वादशोपसत्त्वमपि विधीयत इति, न,अन्हां समूहोऽहीन इति द्विरा- त्रादावहीनशब्दस्य रूढत्वात् । अहः खः क्रताविसहःशब्दात्समूहे- थें5 खप्रययस्तस्याऽऽयादिसूत्रेण ईनादेशे आधुदातश्चेतिप्रसय- स्वरेण ईकारस्योदात्तत्वे मध्योदात्तं पदं चात्र पठ्यते । नसमा- से त्वव्ययपूर्वपदप्रकृतिस्वरत्वेनाद्युदात्तत्वं स्यानच तथा पठ- न्ति । तस्मादहर्गणाङ्गत्वाद्वादशोपसत्त्वम् । घ्युपसत्त्वं स्तुयर्थम् अत्र कीर्समानमित उत्कृष्यते। तत्रैव युवं हि स्थः स्वर्पती इति द्व- योर्यजमानयोः प्रतिपदं कुर्यादिसत्र द्वित्वं न स्त्रीपुंसनिमित्तम् । अग्नीषोमयोर्देवतात्ववत्तयोर्यजमानत्वस्यव्यासक्तत्वात् । सो- मेन यजेत वसन्तेवसन्ते ज्योतिषा यजेतेत्युत्पत्तिप्रयोगचोदनयो- राख्यातोपात्तं गुणभूतोपादेयकर्तृगतमेकत्वं विवक्षितमेव अतो द्वियजमानत्वं कुलायाऽहीनादिषु उत्कृष्यत एव।दर्शपूर्णमासयोः पश्वभावेपि जाघन्या पत्नीः संयाजयतीसत्रोत्कृष्यते । तृतीयाश्रुखा यागाङ्गत्वेन तद्विधीयमानत्वाल्लौकिक्यापि जाधन्या पत्नीसंया- जानां द्रव्याकाङ्क्षानिवसापत्तेः । दर्शपूर्णमासयोः पूषा प्रपिष्ट- .
भाट्टभाषाप्रकाश। [३ अ०] भाग इति श्रुतं तत्र प्रकरणे पूषाभावाद्यत्र चातुर्मास्यादौ पौष्ण- गवश्वरुस्तत्र उत्कृष्यते। पुरोडाशे प्राप्तत्वात्पशौ चं हृदयादिस्व- रूपनाशापत्तेः पेषणस्याविधेयत्वापिष्टचरावपि पाकवैशयेन चरुशब्दप्रयोगोपपत्तेश्च । एवं च पौष्णे पेषणं देवतान्तरविशिष्टे तु पूष्णि न पेषणं । विशिष्टस्यातिरिक्तत्वात्तत्र केवलधर्मस्या- प्रवृत्तेः ॥ ३ ॥ ( इति तृतीयाध्याये तृतीयः पादः॥) दर्शपूर्णमासयार्निवीतं मनुष्याणां प्राचीनावीतं पितॄणा- मुपवीतं देवानामुपव्ययत इति श्रुतम् । तत्र सदोपवीतिना भा- व्यमिति स्मृतेर्निसमुपत्यवीतस्य प्राप्तिरस्तीति निवीतमित्यर्थ- वादः । उपवीतं च स्मृत्या पुरुषार्थत्वेन प्राप्तमपि क्रत्वर्थं पुन- विधीयते। सम्भवति हि पुमर्थोल्लङ्घनेपि क्रत्ववैगुण्यं मन्यमानस्य तदप्राप्तिरिति । एवं तत्रैव नानृतं वदेदित्यस्यापि पुनर्विधियः। मृताग्निहोत्रे अधस्तात्समिधं धारयन्तुपद्रवत्युपरि हि देवेभ्यो धा- रयतीति विज्ञायत इसत्र परप्रकरणे ऽमाप्तत्वादुपरिधारणमपि विधीयते दर्शपूर्णमासयोः। तस्माज्जअभ्यमानो नुब्रूयान्मयि दक्षक्रतू इति मन्त्रवाक्यप्रकरणयोरविरोधात् क्रतावपि जृम्भायाः सम्भवा- द न प्रकृतं ऋतुमुल्लङ्ग्य वाक्येन पुरुषार्थोपि स्यादिति । तत्रैव तस्माद् ब्राह्मणाय नावगुरेतेसवगोरणनिषेधस्तु यो ब्राह्म- णायावगुरेत तं शतेन यातयादित्यनेन यातनाख्यपृथक्फ- लश्रवणात् ऋतुमुल्लङ्यापि पुरुषार्थ पर्यवतिष्ठते । एवं मल- वद्वाससा न संवदेतेयपि पुमर्थमेव तामपरुध्य यजेतेतिवचनेन ऋतुमध्ये ऽपरुद्धया तया सह संवादाप्रसक्तेः। तस्मात्सुवर्ण हिरण्य भार्य दुर्वर्णोऽस्य भ्रातृव्यो भवतीयत्र पुरुषार्था स्वर्णधृतिः पू- र्वोक्ता चारुणेष्टिवैदिके एव अश्वदाने न तु लौकिके । दर्शपूर्ण- मासयोरानेयो ऽष्टाकपालो भवति तथा उपस्तृणाति अभिधारय- भाट्टभाषाप्रकाशः। २९ [३ अ.] ति द्विहविषोऽवद्यति चतुरवत्तं जुहोतीसत्र कृत्स्नस्य पुरोडा- शस्य यागीयद्रव्यत्वेपि प्रक्षेपोद्यवदानमात्रस्यव कर्त्तव्य इति भाष्ये । यवदानमेव यागीयं द्रव्यमिति वात्तिके । एवं च यवत्त- नाशे पुनरायतनावदानं श्रूयमाणमुपपद्यते ऽन्यथा तदनर्थकं स्यात् पुनः कृत्स्नस्योत्पत्तिश्च स्यात् । हुतेषु व्यवदानेषु शेषाणां प्रतिपत्त्यपेक्षत्वात् सर्वेभ्यो हविर्यः स्विष्टकृदादीनि स्युः शेष- कार्याणि।आग्नेयं चतुर्धा कृत्वा इदं ब्रह्मण इदं होतुरिदमध्वर्यो- रिदमग्नीध इति निर्देशे न ऋत्विजामानयर्थः परिक्रयो न कर्तु शक्यते सकलस्य हविषो देवतायै प्रत्तत्वात्तत्र यजमानस्य स्वाम्याभावेन ततः परिक्रयायोगात् । शेषस्य तु प्रतिपत्त्यपे- क्षत्वाद्भक्षणार्थ एवायं निर्देशः ॥ ४ ॥ ( इति तृतीयाध्याये चतुर्थः पादः ॥) उपांशुयाजद्रव्याद्रौवाज्यादपि स्विष्टकृदादीनि प्रतिपत्तिक- माणि कर्त्तव्यानीसेतद्भाव्युपस्तरणाधुपयोगिनोऽकृतार्थस्य धौ- वस्य प्रतिपत्त्यनपेक्षत्वात् सर्वान्ते च तच्छेषेण समिष्टयजुर्छामः क्रियत इति न ततः शेषकार्याणां प्राप्तिः प्रकृतिहोमार्थं जुह्वभिक्रम- णमस्ति साकंप्रस्थायीये तु सह कुम्भीभिरभिक्रामतीति जुहूमपहाय कुम्भीरेव होमकार्ये निवेशयेदिसवगम्यते । ततश्च तत्रापि शेषा- भावान्न शेषकार्यप्राप्तिः । अत्र सोमभक्षो बहुप्रकारो विचारितः। यदि राजन्यं वैश्यं वा याजयेत्स यदि सोमं विभक्षयिपेन्न्यग्रो- धस्तिभिनीराहस ताः सम्पिष्य दधन्युन्मृज्य तमस्मै भक्षं प्रय- च्छन्न सोममित्यत्र यद्यपि स्तिभिनीचमसस्य उपक्रमोपसंहारयो- भक्षमात्र सम्बन्धोस्ति तथापि सोमभक्षस्थाने निवेश्यमानो ऽयं तद्वदेव यागीयद्रव्यसंस्काररूपो भविष्यतीति भक्षसम्बन्धकथन- व्याजेन तद्वारावगतयागसाधनत्वेनाय फलचमसो विधीयते तद्विधौ च भक्षः प्राप्त एवानूयते । एवं सोमाभावे पूतीकानभि- ..
[३ अ.] ३० भाट्टभाषाप्रकाशः । पुणुयादिसभिषवयुक्तपूतीकानामपि यागसाधनत्वं ज्ञेयम् ॥ ५ ॥ ( इति तृतीयाध्याये पञ्चमः पादः ॥) यस्य पर्णमयी जुहूर्भवति इसनारभ्याधीतं पर्णतादिकं प्रकृतिद्वारैव विकृति प्रतिपद्यते जुह्वादिवत् । न तु विकृतावपि तद्विधानं न्याय्यम् । अतिदेशेन जुहूद्वारैतत्याप्तौ सयां पुनर्वि- धानायोगात् । सप्तदश सामिधेनीरनुब्रूयादिसनारभ्याधीतं साप्त- दश्यं पाञ्चदश्यावरुद्धायां प्रकृतौ निवेशमलभमानं विकृतिमेवा- श्रयते तत्रापि श्रुतं साप्तदश्यं मित्रविन्दादिकामेवेति वक्ष्यते । सामान्यतः प्रथमं प्राप्तं ब्राह्मणादिषु सावकाशं च निसं पाञ्च- दश्यं साप्तदश्यं वैश्यस्यति वैश्ये निमित्ते नैमित्तिके विशेषेण साप्तदश्येन पश्चात्यतया पूर्वबाधं विना जात्वात्मानमलभमानेन वैश्यमात्रविषयतया निरवकाशेन बाध्यते । एतैरेव हेतुभिः काम्यमेकविंशति प्रजाकाम इसकविंशत्याद्यनुवचनं नियस्य पाञ्चदश्यस्य बाधकं न त्वऽपुरुषार्थत्वान्नीमत्तिकस्यापि साप्त- दश्यस्य । एतेन चमसेनापः प्रणयद्दोदोहनेन पशुकामस्येति गो- दोहनेन चमसबाधो व्याख्यातः । आधानं पवमानेष्टयश्च मिथः सन्निहिताः समानाताः । तत्र फलवदग्निहोत्राद्यर्थत्वादग्नयः फलवन्तस्तदर्थमाधानम् इष्टयस्तु अग्न्यङ्गमाधानाङ्गं वेसन्यदेतत् । ननु जुहूद्वारा पर्णतेवाग्निद्वारा आधानमपि प्रकृत्यर्थमेवेति चेन्न दृष्टान्तवैषम्यात् । लोकप्रसिद्धजुहूस्वरूपस्यान्यतोपि सम्भवेन पर्णतायास्तत्स्वरूपे आनर्थक्यादगत्या प्रकृत्यङ्गत्वम् । आहवनी- यादेस्त्वदृष्टरूपत्वेनाधानस्य तत्स्वरूप एवार्थवत्त्वात्तदर्थमेवाधान- मित्यर्थः । नैमित्तिकं क्रत्वर्थस्तिभिन्यादिवन्नित्येन सोमेन समा- नविधानं भवत्यनित्यत्वात् । तेन तत्र सोम इव क्रयादेरमाप्तिः । प्रतिनिधौ तु शिष्टवीद्यादिद्रव्यसादृश्यादुपादीयमाने नीवारादौ मुख्येन समानविधानं भवत्येव । मुख्यद्रव्यावयवानां बहूनां [३ अ०] भादृभाषाप्रकाशः। तत्र दर्शनात् । एवं विसदृशेपि सोमाभावे पूतीकानभिषुणुया- दिति वाचनिके प्रतिनिधावपि वचनबलादेव सादृश्यं मुख्येन सह समानविधानत्वं च ज्ञेयम् ॥ ६ ॥ ( इति तृतीयाध्याये षष्ठः पादः॥) वेदि खनतीत्यादीनां वेद्यादिधर्माणां वेद्यां हवींष्यासाद- यतीत्यङप्रधानसाधारणहविःशब्दात्साधारण्यं प्रधानहविर्मात्रार्थ- त्वेन हविःशब्दस्य संकोचे नियामकाभावात् । केशश्मश्रुवापाद- यस्तु नाङ्गप्रधानार्थाः । क्रियाङ्गभूतकत्रशानन्तःपातित्वात् अ संस्कृतस्यापि कर्तृत्वसंभवाच्च । भोक्तृत्वं तु क्रियां प्रति प्रधानभूत- मदृष्टं च । अतस्तद्गुणभूताःसंस्काराः प्रधानार्था न तु गुणार्थाः। गुणानां च परार्थत्वादसंबन्धः समत्वात्स्यादितिन्यायेन तेषां गुणानां विशेषेणापि यागाङ्गित्वायोगात् । यजेत स्वर्गकाम इत्यात्मनेपदात्कर्तृगामित्वं क्रियाफलस्य गम्यते । कर्तृत्वं च हविस्त्यागदक्षिणादानादेरन्यत्र प्रयोजकत्वेनापि यजमानस्य संभवति नित्यवदानातपरिक्रयसामादेकेन कृत्स्ने तत्रानुष्ठाना- योगादन्यैरपि कारयितव्यम् । ते च इष्टौ नामभेदादरणभेदाच चत्वारः ब्रह्मा होताध्वर्युरमीदिति । चातुर्मास्येषु प्रतिप्रस्थाता पञ्चमः। पशौ मैत्रावरुणः षष्ठः । सोमे मुख्याश्चत्वारो ब्रह्मा होता- ध्वर्युरुगातेति । ब्राह्मणाच्छस्याग्नीध्रः पोता चेति ब्रह्मणो द्वि- तीयतृतीयचतुर्थाः । होतुस्तु मैत्रावरुणो ऽच्छावाको ग्रावस्तुच्च । अध्वर्योः प्रतिप्रस्थाता नेष्टोन्नेता च । उद्गातुः प्रस्तोता प्रतिहर्ता सुब्रह्मण्या च । सदस्यः सप्तदशो वैकल्पिकः तदभावे यजमानः सप्तदशः पत्नी अष्टादशी । दश चमसाध्वर्यवः शमिता सोमवि- क्रयी चेति द्वादश तेभ्योन्ये । उदगातारस्त्टीत्वक्ष्वेवान्तभूताः। तेषां च कार्यव्यवस्था आय होत्रमाद्गात्रामितिकाण्डसमाख्या- वशादेव । आहवनीये जुहोतीयादिवचनप्रापिता आहवनीयादयः भाट्टभाषाप्रकाराः। [४ अ०] रसीत्यध्वर्योर्मत्रः।युवा मुवासा इति होतुः।कुण्डपायिनामयनादौ ऋत्विक्समासे यो होता सोध्वर्युरित्यध्वर्युकार्ये विहितस्य होतुः वाचनिको अध्वर्युमन्त्रः चोदकमाप्तहोतृमन्वं बाधते । प्रैषाणां तद- थनां च कर्तारोऽन्ये । मोक्षणीरासादयेसादिमध्यमपुरुषप्रयोगा- ल्लिङ्गात् । तत्रापि मैषकर्ताध्वर्युस्तदर्थकर्ताग्नीदादिः। ममाग्ने वर्ची विहवेष्वस्त्विसध्वर्युमन्त्राङ्गं फलम् मम यजमानस्येसध्याहारेण यजमानगतमेव ।मा मा सन्ताप्तमिसादिकमृत्विग्गतमेव । तन्नौ सहे- साधुभयगतम् । एवमन्यदप्यूह्यम् ॥ ८ ॥ (इत्यष्टमः पादः॥) इति भादृभाषाप्रकाशे तृतीयोध्यायः ॥३॥ अथ यत्रानेकः शेषी तत्र कः शेषं प्रयुक्ते को नेति चिन्ता । तत्फलं च पुरोडाशकपालेन तुपानुपवपतीसादौ कपा- लस्य तुषोपवापाङ्गत्वेपि यत्र सौर्ये चरौ तुपोपवापे ससपि क- पालं नासादनीयम् कपालेषु पुरोडाशं श्रपयतीति तत्पयोज- कस्य पुरोडाशस्याभावात्, तादृशस्थले हस्तेनैव तुपोपवाप इति । तत्र यत् क्रतोः साधनम् तत् क्रतुपयोज्यं क्रत्वर्थम् । यत्पुरुष प्रीण- यति रागसिद्धमत्तेः फलादन्यद् द्रव्यादिकम् तत्पुरुषप्रयोज्यं पुमर्थम् ।यथा चमसेनापः प्रणये गोदोहनेन पशुकामस्येत्यत्र प्रणय- नमाश्रिय पुरुपार्थ साधयद्गोदोहनम् अर्थाऋतुमप्युपकरोति । एवं द्रव्यार्जनमपि । तस्य क्रत्वर्थत्वे ऽन्यायेना प्यजितेनारम्भसिद्धेरप वा एष सुवर्गाल्लोकाच्च्यवत इति क्रत्वनुपक्रमे दोषदर्शनं न सङ्ग- च्छते । तस्मात्तदपि पुमर्थमेव सत् क्रतावप्युपकरोति ॥ नेक्षेतो- यन्तमादिसमित्यत्र नञः क्रियान्वये यत्र क्रत्वर्थमुद्यदादिसावे- क्षणं प्राप्तम् तस्य प्रतिषेधो भवति । ततश्च ग्रहणाग्रहणवत्तद्विक- ल्पे नार्थश्च श्रौतो लभ्यते । तथापि तस्य व्रतमित्युपक्रमानन- (२) त्वर्थव :ल्पनेत्युभयास्तकपाठः ।
भादृभाषाप्रकाशा [४ अ०] गुणत्वानिषेधपक्षमपहाय उपपदार्थेन नमोन्वयात् पर्युदासप- क्षमाश्रिय अनीक्षणसंकल्पो लक्ष्यते । तेन विकल्पदोषो नानुष- ज्यते । एतावता हैनसा युक्तो भवतीति वाक्यशेषरूपं फलव- चनमर्थवद्भवति ॥ पशुना यजेतेसत्र पशुरुपादेयः। तत्र कारकाणां क्रिययैवान्वय इति नियमात्कारकेण समानप्रसयश्रुसाऽऽत्मसा- स्कृता संख्या तद्वारा क्रियामेवोपसर्पति न समानपदोपात्त- मपि कारकापेक्षया व्यवहितं पशुं स्पृशति । तेन सर्वत्रोपादेय- गतं विशेषणं विवक्षितमेव ॥ एवं लिङ्गमप्युपादेयगतं विवक्षित, मेव सिंहःसिंहीसादौ ततोप्यर्थविशेषप्रतिपत्तेः ॥ स्विष्टकृदादीनि स्मरणांशेन प्रतिपत्त्यंशेन च यागीयद्रव्यदेवतं संस्कुर्वन्ति सागांशे- नादृष्टमपि कुर्वन्तीति ज्ञेयम् । यथार्थतः सन्निधानादुपादेयगतमे- कत्वादिकं क्रियामयोज्यम् एवं तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनमित्यत्रापि सेति तत्पदेन प्रकृतस्य पयस एवामिक्षात्वावगमात्तस्यैव च द्विकर्माणमानयतिंप्र- ति मुख्यकर्मत्वावगमात्तदेवानयनं प्रयुक्ते न तु वाजिनम् शब्दतो- र्थतश्च व्यवधानात् । उत्तरा स्विष्टकृतमित्युत्तराद्धार्थं न हवि- रन्तरं कर्त्तव्यम् अपि तु विनियुक्तस्यैवायं विनियोगः । वा- क्यात्तु प्रयाजशेषेण हीष्य भिधारयतीति श्रुसा गम्यमानोपि ह- विःसंस्कारो ऽदृष्टार्थत्वान्नाद्रियते शेषे प्रतिपत्तिरूपदृष्टप्रयोजने सम्भवति तदयोगात् । अतः प्रधानशेषहविरधिकरणेन क्षारणे- न संस्कुर्यादिति तदर्थः । अधिकरणनियमात्तसंस्कारोपि इत्यु- भयार्थत्वमपि । फलं तु वाजपेयक्रतुपशूनां प्राजापसेन च सहोप- पक्रमेपि प्रातःसवने क्रतुपशूनामालम्भो मध्यन्दिने इतरेषाम् तत्र प्राजापसपयोभिधारणार्थ शेषः स्थाप्य इति पूर्वपक्षे न स्थाप्य इति सिद्धान्ते ॥ १ ॥ ( इति चतुर्थाध्याये प्रथमः पादः॥)
भाटभाषाप्रकाशः। ३५ [४ अ०] यूपस्य स्वरूं करोतीत्यादौ यूपस्य विधिना स्वरुक- रणं न विधेयं लक्षणागौरवात् । स्वरुणा पशुमनक्तीति अज- नार्थत्वेन माप्तः स्वरुः कुत उपादेय इसाकाङ्क्षायां यूपस्येति षष्ठ्या तस्य यूपापादनकत्वं गम्यते । तथाचात्मार्थ विधानं भवति। एवं मूलतः शाखां परिवास्योपवेष्टं करोतीसत्र परिवासनस्य शाखैव प्रयोजिका द्वितीयाश्रवणात् न तु मूलम् तदनुनिष्पन्नत्वा- । तेन शाखाया अभावे यतःकुतश्चित्काष्ठादुपवेषः कर्त्तव्यः ।य- जतिचोदना द्रव्यदेवताक्रिय समुदाये कृतार्थत्वाव,तदुक्ते श्रवणा- ज्जुहोतिरासेचनाधिकः स्यात् (२७, २८ सूत्रे )। यदाग्नेयो- टाकपाल इसाद्युत्पत्तिवाक्येषु यजेरश्रवणेपि यत्र द्रव्यदेवतं दृश्यते तत्र यजिरस्तीसवगन्तव्यम् । होमस्तु यज्युक्त एवार्थे । चतुरवत्तं जुहोतीतिवाक्यात् आसेचनमधिकं विधीयते ॥२॥ ( इति चतुर्थाध्याये द्वितीयः पादः ॥) एकस्य तूभयार्थत्वे संयोगपृथक्त्वम् अग्निहोत्रे दनेन्द्रियका- मस्य जुहुयात् दना जुहोतीति वाक्यद्रयं पृथग्विपरित्तिलब्ध- होमाश्रयं मिधोनिराकाङ्क्षतया न सम्बध्यते यद्दना जुहुया- त्तदिन्द्रियकामस्येति । तेन निसाथ कामार्थं चेत्युभयार्थं दधि संयोगपृथकात् ॥ स्वर्ग आमुष्मिक एव ॥ कारीर्या दृष्टिका- मो यजेतेति कारीरी शुष्यत्सस्यसंजीवनकामस्य विहितेसैहि- कफलैव ॥ चित्रया यजेत पशुकाम इति चित्रादिफलं त्वसति प्रतिबन्धके एहिक,मन्यथाऽऽमुष्मिकम् ॥ वाजपेयेनेष्ट्वा बृहस्प- तिसवेन यजेतेसत्र वाजपेयप्रकरणात् तदङ्गत्वेन बृहस्पतिसवाख्यं कर्मान्तरं विधीयते । पौरोहिसकामस्य यो बृहस्पतिसवस्तस्यात्रा- नुपस्थितेस्तत्सदृशत्वलाभार्थं तन्नामकत्वमत्र ज्ञेयम् कुण्डपाथिना- मयनस्था(मासा)मिहोत्रवत् ॥ज्योतिष्टोमप्रकरणे तु दर्शपूर्णमासा- भ्यामिष्ट्वा सोमेन यजेतेति तु कालार्थः संयोगो न त्वङ्गाङ्गिभा- भादृभाषाप्रकाशः। [५ अ.] वार्थः ज्योतिष्टोमप्रकरणात् ॥ वैश्वानरं द्वादशकपालं निर्वपे- त्पुढे जात इत्युपक्रम्य यस्मिन् जात एतामिष्टि निर्वपति पूत एव स इसादिफलं जातगतं ज्ञेयम् वचनात् । न च शास्त्रफलं प्र- योक्तरीतिन्यायविरोधः गुणवत्पुत्रताया अपि पितुः प्रीतिक- रत्वेन तदनुग्रहस्यापि लाभात् ॥३॥ (इति चतुर्थाध्याये तृतीयः पादः॥) पितृयज्ञः स्वकालविधानादनङ्गं स्यात् अमावास्यायामप- राह्ने पिण्डपितृयज्ञेन चरन्तीसत्रामावास्यापदेन कर्मोपादाय तदङ्गत्वं पितृयज्ञस्य । ततश्च फलकल्पनापि नास्तीतिमापय्य काले शब्दस्य मुख्यत्वात् अपराह्न इति कालसामानाधिकरण्याञ्च पितृयज्ञः स्वकालविहितो नेष्ट्यङ्गम् ॥ ४ ॥ ( इति चतुर्थः पादः॥) इति भादृभाषामकाशे चतुर्थोध्यायः समाप्तः ॥ ४ ॥ एवं सिद्धानां प्रयोज्यानां क्रमो विचार्यते । अध्वर्युर्गृहपति दीक्षयित्वा ब्रह्माणं दीक्षयतीसत्र न पूतः पावयेदितिवचनादs- दीक्षित एवाध्वर्युरन्यान् दीक्षयति सत्रे । तत्र हि ये यजमानास्त एव ऋत्विज इति सर्वेषां दीक्षाया आवश्यकत्वात् । अध्वर्या- दिसंज्ञाश्च तत्कार्यपरिग्रहात् । तं च ब्रह्मचारी वाचार्यप्रेषित इसन्तमयं श्रौतःक्रमः काश्रुसवगतः। अग्निहोत्रं जुहोति यवागू पचतीसादावार्थक्रमः।पाकस्य होमार्थत्वे दृष्टार्थतालाभादत्र पाठ- क्रमो नाद्रियते, होमोत्तरं यवागूपाकस्यादृष्टार्थापत्तेः॥समिधो य- जति तनूनपातं यजतीसादौ पाठक्रम एव । सप्तदश प्राजापसान्प- शूनालभत इयत्र पशूनामुपाकरणप्रोक्षणसंज्ञपनादिषु प्रथमः प- दार्थो येन क्रमेण प्रवृत्तस्तेनैव क्रमेण द्वितीयादयः पदार्थाः कर्त्त- न्याः। सोयं प्रवृत्तिक्रमः प्रधानस्याङ्गैः सह न्यूनमधिकं वा विप्र- भाइभाषाप्रकाराः। [५ अ०] कर्षमसहमानस्यानुरोधादाश्रीयते । साधस्क्र सवनीयस्थाने सह पशुना ऽऽलभत इत्युक्तम्। तत्र स्थानिनः स्वस्थानात्यच्युतौ का- रणाभावात् प्राथम्यम् । अग्नीषोमीयानुवन्ध्ययोस्तु ततः परं प्राप्तयोः प्रकृतौ दृष्टं पौर्वापर्यमसति बाधके नोल्लङ्घनीयमिति द्वितीयोग्री- षोमीयस्तृतीय आनुवन्ध्य इति तेनैव क्रमेण तेषां प्रोक्षणादयः॥ सारस्वतौ भवत इति सरस्वतीदेवतः सरस्वदेवत इति च या- गद्वयं श्रुतम् । तत्र याज्यानुवाक्यायुगलक्रमो मुख्यः । तेन स्त्रीदेव- तस्य पूर्व निर्वापः पश्चात्पुंदेवतस्येति प्रतिक्रमेणैव तत्सिद्धमि- त्युदाहरणान्तरं मृग्यम् । तत्र दर्शपूर्णमासयोः प्रथमं दधिधर्माः शाखाहरणादयः समानाताः पश्चादानेयधर्मा निर्वापादयः या- ज्यानुवाक्यायुगलक्रमस्तु विपर्ययेण। अतस्तत्र प्रवृत्तिद्वयसत्त्वेऽपि मुख्यक्रमेणैव नियमः। तेन प्रथमं प्रयाजशेषेणाग्नेयस्याभिधारणं पश्चाद्दन इयादि फलम् । दर्शपूर्णमासयोरेव प्रथममनोषोमीयस्य ब्राह्मणं पश्चादाग्नेयस्य । याज्यानुवाक्याक्रमस्तु विपरातोस्ति । तत्रापि स्मृसेकमयोजना मन्त्रा इति पाठक्रम एव बलवान् ॥ एवमप्यङ्गानां पाठक्रमो बलीयाननपेक्षत्वात् । तेनाग्नेयाग्नीपोमी- ययोरन्तराले मुख्यक्रमानुरोधात्मा सोपि उपांशुयाजाज्यनि- पो यथापाठमेव भवति । अत एव प्राकृतात् क्रमानिराका- झायामानावैष्णवमेकादशकपालं निर्वपेत्सरस्वसाज्यभागा बाहस्पसश्चरुरिसादिविकृतौ न कर्मान्तरकल्पना । अग्नीषोमीये पशौ प्रकृतितः हविरासादनान्ते प्राप्ताः प्रयाजास्तिष्ठन्तं पशुं प्रयजन्तीयपकृष्यमाणा आधारानप्यपकर्षन्ति ततः पूर्वं तेषाम- नुष्ठाने क्लुप्तक्रमलोपाद्वैगुण्यं स्यादिति तदन्तापकपः । एवमा- निमारुतादूर्ध्वमनुयाजैश्चरन्तीत्यत्रापि तदाद्युत्कर्षः । तत्रापि तद- नन्तरं कर्त्तव्यस्य सूक्तवाकस्य ततः प्राक्करणे क्लुप्तक्रमभङ्गात् । अमावस्यायां वेदं कृत्वा वेदिं करोतीत्यपकृष्यमाणा वेदिः स्व- भादृभाषाप्रकाशः। [५ अ०] स्मात् पूर्वान्हविरभिवासनान्तान् नापकर्षेत् । निर्वापादीनां परे- धुश्चोदितत्वात् तेन तत्र तन्मात्रापकर्षः। मरुद्भयःसांतपनेभ्यो मध्यं- दिने चरुपियाम्नाता सांतपनीया दैवान्मानुषाद्वा [प्रतिबन्धात्] यावत्सायमुत्कृष्टा चेत् सायमस्तमिते जुहोतीति कालस्यानुपा- देयत्वेन यावज्जीवमग्निहोत्रं जुहुयादिति जीवनरूपनिमित्तविशे- षणत्वात्तत्र प्राप्तमग्निहोत्रं किंचिदङ्गमपहायापि कृत्वैव सान्तप- नीया कर्तव्या ॥१॥ (इति पञ्चमाध्यायस्य प्रथमः पादः ॥) वाजपेये प्राजापत्यानां पशूनामेकस्योपकरणादि प्रदानान्तं कृत्वा परस्य तथैव कर्त्तव्यमिति काल्पनिकः काण्डानुसमयः वै- श्वदेवीं कृत्वा प्राजापत्यैश्चरन्तीत्येककालप्रयोगेण बाध्यते । तमनु उपाकरणादयोपि तेषामेककाला एव प्राप्ताः सन्तो ऽशक्यत्वा- त् क्रमेण क्रियन्त इति पदार्थानुसमय एवात्र बोध्यः । यत्राश्व- प्रतिग्रहेष्ट्यां शतं सहस्रं वा पुरोडाशास्तत्र पदार्थानुसमये सर्वे- षामधिश्रयणान्ते प्रथमस्योद्वासनं चेत् क्रियते तस्य दाह एव स्यादिति प्रधानबाधात्ताशस्थले ऽपि काण्डानुसमय एव ॥ मुष्टिकपालावदानेष्वपि काण्डानुसमय एव यथा एकस्य चतुरो मुष्टीनिरुप्य परस्य निर्वपेत् ॥ नक्षत्रेष्ट्यादावग्नये स्वाहा कृत्ति- काभ्यः स्वाहेत्यादय उपहोमाः प्राकृता अरिष्ठान् कृत्वैव क- र्सव्या नतु ततः पूर्वम् प्रधानानन्तरम् प्रधानविधिवाक्यशेषेण प्रकृतिपद्विकृतिः कर्तव्येतिशब्देन प्रापितात्माकृतात् पश्चादेव वैकृतस्य प्राप्तेः॥२॥ इति पञ्चमाध्यायस्य द्वितीयः पादः॥) प्रकृतौ पञ्च प्रयाजास्खयोनुयाजाः पशौ त्वेकादश प्र- याजा एकादशानुयाजाः । तत्रैकादशत्वं प्रयाजादिस्वरूपे ऽन- र्थकम्, न हि पञ्च त्रयो वैकादशीभवितुमर्हन्ति । अतस्तेषां प्र- भाट्टभाषाप्रकाशः। [५ अ.] ३९ योगे इयं संख्या मुसम्पादिनी। तिर उपसदः प्रकृतौ विकृतौ तु षट् । तत्र संस्थानद्वैवात्तिः, दण्डकलितवदात्तौ तु तृतीयां कृत्वा प्रथमायां क्रियमाणायां क्लुप्तक्रमभङ्गः स्यात् ॥ एकविं- शतिमनुयादिति सामधेनीटद्धावऽन्ते तु बादरायण इति न्यायेना SSगन्तूनामन्ते सन्निवेश इति प्राप्तीप या धाय्याशब्दिता ऋचः पृथुयाजवसौ धाय्येइसाद्यास्तासामियं वै समिध्यमानवती असौ समिद्धवती यदन्तरा तद्धाय्येत्यन्तरालत्वेन स्तुतत्त्वात्समि- ध्यमानसमिद्धवत्योरन्तराले निवेशः।अन्यासामागन्तूनामन्त एव । अत एव त्रैधातव्यामग्ने बीते वाजिनेयेतस्यास्त्रिष्टुमो ऽन्ते निविशेन त्रिष्टुभा परिदधातीति दर्शनमुपपद्यते । द्वादशसु रात्रिष्वनुनीर्व- पेदिसाधानात् पवमानहविषां विप्रकर्षे ऽपि तदन्त एवाग्निहोत्रा- दिप्रवृत्तिः । आधानवत्तासामग्यर्थत्त्वेन ततः प्रागाहवनीया- द्यसिद्धेः । तासां प्रधानाप्रङ्गत्वपक्षेऽपि साङ्गस्य प्रधानस्यान- नुष्टितत्वान्न ततः पूर्वमग्निहोत्रारम्भः । काम्यानां नैमित्तिकानां वा ऋतूनां पाठक्रमादनुष्ठानं न किंतु कामनावशानिमित्तव- शाच तत्र क्रमः ॥३॥ (इति पञ्चमाध्यायस्य तृतीयः पाद: ॥) आश्विनग्रहस्तृतीयस्थाने पठ्यमानोऽप्याश्विनो दशमो गृ- ह्यत इति श्रुतेर्दशमः एव गृह्यते, श्रुतितः पाठस्य दुर्बलत्वात् । एवमर्थतो ऽपि पाठो दुर्बल इत्युक्तम् अग्निहोत्रं जुहोति य- वागू पचतीसत्र । एवं प्रवृत्तिक्रमान्मुख्यक्रमो बलवानिसप्युक्तं मागेव ॥ दर्शपूर्णमासाभ्यामिष्ट्वा सोभेन यजेतेतिवचनाद्यथे- ष्टिपूर्वत्वमाधानस्य एवं यदहरेवैन५ श्रद्धोपनमेदथाऽऽदधीताथ यजेत सोमेन यक्ष्यमाणो नतून् सूयन्न नक्षत्रं सोमेन यक्ष्यमाणो ऽनीनादधीतेसादिवचनेभ्यः सोमेनानन्तरं यक्ष्यमाण इसपि ग- म्यते अतः सोमपूर्वत्वमपि । आग्नेयो वै ब्राह्मणो देवतया स भादृभाषाप्रकाशः। [६ अ०] सोमेनेष्ट्वा ऽग्नीषोमीयो भवति यदेवादः पौर्णमास५ हविस्त- दनुनिर्वपेत्तहिं स उभयदेवसो भवतीति हविर्मात्रमुत्कृष्यते न दर्श- पूर्णमासौ । यदेवादइति तन्मात्रस्यैवोत्कर्षाभिधानात् । तेन विम- स्यापि पुरो ऽग्निष्टोमादर्शपूर्णमासौ भवत एव । प्रकृतिवाद्विकृतीनां यहकालता प्राप्ता य इष्टया पशुना सोमेन यजेत सो ऽमावा- स्यायां पौर्णमास्यां वा यजेतेतिप्रसक्षश्रुतिविहितः कालो न चोदकात्संकोचमर्हति । तेन सर्वाङ्गयुक्ता विकृतिः पञ्चदश्या- मेव भवति । नासोमयाजी सन्नयेदिसऽसामया जिनः सा: नाय्याभावात्तद्विकारा अपि सोमादृर्ध्वमेव । एवमग्नीषोमीयवि- कारा अपीति ज्ञेयम् ॥ सोमविकारास्त्विष्ट्युत्तरमेव । नहि तेषां सोमवदिष्टेः माक् चोदना ऽस्ति प्रकृसारम्भमन्तरेण वि- कृतावनधिकारस्योक्तत्वात् ॥ ४ पादः॥ इति भाट्टभाषाप्रकाशे पञ्चमो ऽध्यायः॥ तदेवं विध्यर्थवादमन्त्रस्मृतिशिष्टाचारसामर्थ्याख्यानि षट् प्रमाणानि धर्मे निरूपितानि प्रथमे । द्वितीये शब्दान्तराभ्याससं- ख्यासंज्ञागुणप्रकरणान्तराणि षड्धर्मभेदे । श्रुतिलिङ्गवाक्यमक- रणस्थानसमाख्याख्यानि षट् शेषशेषिभावे तृतीये । तच्छेषभू- ता प्रयुक्तिवतुर्थे । श्रुसर्थपाठप्रतिस्थानमुख्याख्यैः पद्भिश्च क्रमोऽपि निरूपितः । अत्रैवं निरूपितेषु कर्मस्व ऽधिकारो निरूप्यते (प्यः) तदेवं प्रमाणभेदशेषप्रयुक्तिक्रमैनिरूपिते धर्मे ऽधि- कारी निरूप्यते । तत्र स्वर्गाद्यर्थ एवाधिकारी । सो ऽपि स- र्वाङ्गसंपन्न एव न त्वन्धतिर्यगादिः । तत्रापि स्वर्गकाममुद्दिश्य विधीयमाने याग उद्देश्ये विशेषणं लिङ्गमविवक्षितमिति स्त्रि- या अप्यधिकारः । तत्रापि दम्पयोः संसृष्टद्रव्यत्वाद्विभागम- तिषेधाच्च सहैवाधिकारः । तत्र पन्या अध्ययनाभावे ऽपि ४१ . [t अ०] भादृभाषाप्रकाशः। यावदुक्तं मन्त्रोच्चारणम् । पुरुषेषु तु त्रयाणामपि वर्णानां वेद- संयोगादस्त्येव तावधिकारः। रथकारस्य व ऽत्रैवर्णिकस्यापि ऋभुसौधन्वनापरपर्यायस्यावान्तरवर्णस्य ऋभूणां त्वोतिमन्त्रव- र्णादस्येवाधानम्, रूढिवाधायोगात् त्रैवणिकेष्वेव रथकर्तेति- नियन्तुमशक्यत्वात् । ऐन्द्रं वास्तुमयं चरं निर्वपेदिति प्रक्रम्य एतया निषादस्थपति याजयदिसत्रापि निषादानां त्रैवर्णिक- स्य स्थपतेहणे षष्ठयर्थलक्षणापत्तेनिषादश्चासौ स्थपतिरिति श्रीतार्थस्य सागायोगानिषाद एव स्थपतिरधिक्रियते ॥ १ ॥ (इति षष्ठाध्याये प्रथमः पादः ॥) ऋद्धिकामाः सत्रमासीरन्निसादौ क्रियां प्रत्युपादेयस्य क- विशेषणं बहुत्वं विवक्षितम् । फलभोक्ता तु क्रियां प्रत्युद्देश्य इति तद्विशेषणं बहुत्वमविवक्षितम्, तेनन समुदायस्य भोक्तृत्वमपि तु प्रसेकम् । तस्मात् प्रसेकं कृत्स्नफलार्थिन एव सत्रेऽधि- यन्ते । एतेनैव दर्शपूर्णमासाभ्यां यजेतेसादावेकस्यैव कर्तृत्व- मिति व्याख्यातम् ॥ उपक्रान्तं काम्यमिष्ट्यादिकर्म मध्ये का- मनानिवृत्तावपि समापनीयमेव तैत्तिरीये देवताभ्यो वा एष आवृश्चते यो यक्ष्य इत्युक्त्वा न यजते त्रैधातवीयेन यजेत न देवताभ्य आश्चत इति तदऽसमापने दोषप्रायश्चित्तयोः श्रवणात् ॥ न कलङ्गं' भक्षयेदिसादौ रागतः प्राप्तं कलआदि- भक्षणमनिष्टसाधनमिति निषिध्यते न तु नेक्षेतोद्यन्तमितिवत् पर्युदस्यते । अतो न तद्वर्जनात्फलोत्पत्तिरस्ति प्रजाप- तिव्रतवत् ॥ यावज्जीवमग्निहोत्रं जुहुयादिसादौ न सन्ततानु- ष्ठानम् सायं प्रातरियनुपादेयगुणयोगात् । तथाच यदा कालः प्राप्तस्तदैव कर्मप्राप्तिः तत्कालविशिष्टजीवनाख्यनिमि- १ (१) कालिञ्जशब्दः पुस्तकयेऽपि ।
भादृभाषाप्रकाशः। [ 0] तस्य पुनःपुनरावृत्तावनुष्ठानमपि पुनःपुनरावर्त्तते । एवमन्तः क्रतावपि कपालभेदनादिनिमित्तात्तौ नैमित्तिकस्य स्कब्बे जुहोति भिन्ने जुहोतीत्यादेरावृत्तिज़ैया । एवं गुर्वभिवादाद्य- प्यावर्तेत निमित्ततः ॥ सोमेन यजेत स्वाध्यायमधीयीत प्रजा- मुत्पादयेदिति सोमविद्यामजं नित्यम् । जायमानो वै ब्राह्मण- स्त्रिभित्रणैर्ऋणवाआयते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्र- जया पितृभ्य इत्य॒णश्रवणात् तदनपाकरणे च अनधीत्य द्वि- जो वेदाननुत्पाद्य सुतानपि । अनिष्ट्वा शक्तितो यज्ञैर्मोक्षमिच्छन् व्रजत्यध इति दोषस्मरणाञ्च ॥२॥ (इति षष्ठाध्याय द्वितीयः पादः ॥) नित्येषु यथाशक्तयऽङ्गानामुपसंहारः ॥ काम्येषु तु सर्वा- ङ्गोपसंहारेणैव भाव्यम् ॥ ब्रीह्याद्यभावे तत्सादृश्यात्प्रतिनिधित्वे- नोपात्तेष्वपि नीवारेषु न प्रधानकर्म भिद्यते । अतो मुख्याभावे प्रतिनिधिरुपादेयः ॥ तत्रापि देवताया आहवनीयाद्यग्नेमन्त्रस्य प्रयाजप्रोक्षणादिकर्मणश्च प्रतिनिधिर्नास्ति, तत्तजन्यादृष्टस्या- ऽन्यतःसिद्धौ प्रमाणाभावात् ॥ नीवारादिस्तु प्रत्यक्षेण पु- रोडाशं साधयतीति युक्तस्तत्र श्रुतद्रव्यापचारे प्रतिनिधिः । अ- यज्ञिया वै माषा वरकाः कोद्रवा इसऽयज्ञियत्वेन प्रतिषिद्धानां माषादीनां मुद्रादिसादृश्येऽपि न मुद्गादिप्रतिनिधित्वम् ॥ यज- मानस्य प्रतिनिधिर्नास्येव ॥ यत्र तु सप्तदशावरास्तत्रमासीरन्नि- सादौ सत्रे कस्यचिद्विनाशे (शस्तत्र) यद्यपि तत्कार्यकरणार्थमन्यः प्रतिनिधेय एव, तथापि नासौ फलभाक पूर्वप्रवृत्तत्वाभावात् । कार्यमानं तु तेन साधयितुं शक्यम् । कञन्तःपातित्वाचास्य फ- लिसंस्कारा भवन्ति ॥ खदिरब्रीह्यादिस्थाने कदरनीवारै(रादिभि) रूपक्रान्तेऽपि प्रयोगे मुख्यद्रव्यलाभे सति मुख्यमेवोपादद्यात् [६ अ०] भाभाषाप्रकाशः। (खादिरादिकं पशुनियोजनाद्यर्थमुपादद्यात् ( ददीत ' ) कृते तु नियोजनादौ मुख्यं प्राप्तमपि नोपादद्यादिसापि केचित् ॥ प्रधानमात्रनिर्वृत्तिपर्याप्तस्य मुख्यस्य लाभे शेषकर्मपर्याप्तोऽपि प्रतिनिधिोंपादेयः ॥ ३ ॥ ( इति षष्ठाध्याये तृतीयः पादः ॥) अवदाननाशे पुनरायतनादवदानमिति कल्पसूत्रकाराः मध्यात् पूर्वाच्चिावद्यतीति शास्त्रात्सकृन्मध्यादेरवत्ते पुनस्त- दभावान्नायतनान्न्यायतोऽवदानं प्राप्नोति किं तु हविरन्तरं सम्पादनीयम् । तच्च यस्य सर्वाणि हवींषि नश्येयुरपहरेयुर्वा आज्येनैता देवताः परिसंख्याय यजेतेति वचनादाज्यं भवति ॥ यस्योभयं हविरातिमाछेदैन्द्रं पञ्चशरावमोदनं निर्वपेदित्य- त्रात्र्तिमुद्दिश्य पञ्चशरावो विहितः । आतिश्चाऽविशेषेण य- किचिद्विषयिणी सर्वदैवास्तीति सर्वदा पञ्चशरावः प्राप्तोस्ती- ति अनियतः शास्त्रार्थो मा भूदिसगया हविरिसनेन विशेष्यते। तावता च परिसमाप्ते वाक्ये उभयमियविवक्षितं ग्रहैकत्ववत् । वाक्यभेदप्रसङ्गात् । तेन न (च) सायदोहात्तिरेव वा मातदेहात्तिरेव वा न निमित्तम् किंतूभयमपि परस्परानपेक्षं निमित्तमिति वाक्या- र्थः । एतच्च दर्शात्कर्मान्तरं न तु तत्पतिनिधिरिति पञ्चशरावं कृत्वा दर्शोप्यनुष्ठेय एव ॥ ४ ॥ ( इति षष्ठाध्याये चतुर्थः पादः॥) यस्य हविनिरुतं पुरस्ताच्चन्द्रमा अभ्युदियात्स त्रेधा तण्डु- लान्विभजेथे मध्यमास्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं कु- र्यात् ये स्थविष्ठास्तानिन्द्राय प्रदात्रे दधश्चरुं ये ऽणिष्ठास्तान् विष्णवे शिपिविष्टाय ते चरुमिति । अत्र न तण्डुलानां (१) टिप्पणीभूतमिदं पुस्तके मिश्रितमिति प्रतिभाति । (२) दध्रमामप्ति ख-पु. पा.
भाट्टभाषाप्रकाशः। [६ अ.] विभागो विधीयते मध्यमादिवाक्यप्राप्तत्वात् । नापि दधि- शुतयोरधिकरणत्वम्अभ्युदयेष्टिप्रकरणे सह अपयतीतिवचनेन तस्यापि प्राप्तत्वात् । किं. तु तण्डुलान्विभजेदित्यस्य तण्डु- लोपलीक्षतं हविस्त्रयं देवताभ्य उपनयेदित्येव । ततश्च न प्रकृतहानाऽप्रकृतप्रक्रिये प्रसज्येयातामिति नात्र प्रायश्चित्तरूपं कार्य विधीयते । प्रकृतस्य च हविस्त्रयस्य अत्यक्तयागसम्बन्धस्य देवतान्तराकाङ्क्षायां मध्यमादिवाक्यान्युपतिष्टन्ते । तत्र दात्रा- दिगुणीवशिष्टमेकमग्न्यादिदेवताकारकमेकेन विधिना विधातुं शक्यम् । ततश्च यदि विभियादभि मोदेष्यतीति महारा। हवींषि निर्वपेत्फलीकृतैस्तण्डुलैरुपासीत अर्धे दधि हविरातञ्चनार्थ निदधाति अर्धे न यद्यभ्युदियात्तेनातञ्चय प्रचरेत् या न मात- रन्येधुरेतेन ब्राह्मणं भोजयेदिति दर्शनमुपपद्यते । अन्यथा लौ- किकयोरेव दधिशतयोश्चरुद्वयसम्भवेन कालापराघदोषे ऽपहृते तदानीमेव दर्शः कर्तव्यः स्यात्। तत्रातञ्चनार्थ दध्यर्द्धस्थापन- मनर्थकं स्यात् । अस्माकं तूपक्रातं प्रयोगं समाप्य श्वो दध्यन्त- रमुत्पाद्यमिति तदर्थवद्भवतीति । यद्यपि चतुर्दश पूर्णमास्या- माहुतयो हूयन्ते त्रयोदशामावास्यायामितिलिङ्गोपोद्वलिता उ- पांशु पौर्णमास्यामिति पौर्णमासीमात्रग्रहणादर्श उपांशुयाजो ना- स्ति तथापि बढचब्राह्मणे तदर्शनादभ्युदयेष्टौ उपांशुयाजहीव- पोपि देवतापनयेपि देवतान्तरयोगानुक्तरुपांशुयाज एव लुप्यते । अनिरुते निरुप्ते वा प्रायश्चित्तमिदं सममिति । इदम् अभ्युदये- ष्ट्याख्यम् । निर्वापो वैकृतीभ्यः स्यादनिरुप्से यदोदयः।। चन्द्रस्येति शेषः। किंचिनिरुते शिष्टस्य तूष्णी निर्वाप इष्यते । ज्योतिष्टोमे यदि बहिष्पवमानं प्रसर्पतां प्रतिहर्ता ऽपच्छिद्या सर्ववेदसंदद्या- (२) भाभि नोदेष्यतीत महापात्रे -इत्याप क्वाचित्पाठः। (१) अपच्छितेति पाठान्तरम् ।
[६ अ०] भाट्टभाषाप्रकाशः। द्यधुद्रातापच्छिद्याददक्षिणं यज्ञमिष्ट्वा तेन पुनर्यजेतेत्यत्र युगप- पवयोरपच्छेदे ऽन्यतरत्मायश्चित्तं कर्त्तव्यम् । अपच्छेदयोः पौर्वापर्ये तु पूर्व परमजातत्वादवाधित्वैव जायते । परस्यान- न्यथोत्पादानाद्याऽबाधेन सम्भव इति न्यायेनासंजातविरोध्यपि पूर्व संजातविरोधिनापि निरवकाशेन परेण प्रायश्चित्तेन' बा- ध्यते । पश्चादुगात्रपच्छेदे सर्वस्वं स्यात्पुनः क्रतौ । आत्तिरह- स्तस्यैवा ऽपच्छेदो हर्गणे यदि ॥ ५ ॥ ( इति षष्ठाध्याये पञ्चमः पादः।) सत्तेषु तुल्यकल्पानामेवाधिकारः । अन्यथा वासिष्ठानां भयाजो नाराशंस इतरेषां तनूनपादिति कल्पभेदेनान्यतरग्रहे इतरोननुगृहीतः स्यात् । राजपुरोहितौ सायुज्यकामौ यजेयाता- मित्यत्र भिन्नकल्पयोरपि राजा च पुरोहितश्च तयोरधिकारः। अत्र समासान्तरोपादाने लक्षणापत्तन द्वयो राज्ञोद्वौ पुरोहितौ वा एकस्य वा द्वौ पुरोहितावत्र ग्राह्यौ । आये राजपदवैयर्थ्यात् । द्वितीये पुरोहितं वृणीत इत्युपादेयपुरोहितगतमेकत्वं विवक्षित- मिति द्वयोः पुरोहितयोरसम्भवः । य एव कश्चित्स्तोमभागान- धीयीत स एव वासिष्ठ इत्यवासिष्ठस्यापि स्तोमभागविदो ब्रह्म- त्वाभ्यनुज्ञानाद्वासिष्ठो ब्रह्मेति वाक्यमनादृत्य वैश्वामित्रो होते- तिवचनाद्विश्वामित्रस्य तत्समानकल्पानां च सत्रेधिकारः। ते (ये) सर्वे साग्निकास्तेषां सत्रं साधारणं मतम् ॥ ६ ॥ इति षष्ठाध्याये षष्ठः पादः ॥) स्वदाने देयमात्मीयं न भूमिर्न तुरङ्गमः । नासत्संपाद्य दा- तव्यं न शुश्रूषुश्च शूद्रकः। पञ्चपञ्चाशतस्वितः संवत्सराः प- ञ्चपञ्चाशतः पञ्चदशाः पञ्चपञ्चाशतः सप्तदशाः पञ्चपञ्चाशत (१) निरवकाशो न परेण वाध्यते प्रायश्चित्तन बाध्यत इति ख-पुस्तके पाठः ।
भाट्टभाषाप्रकाशः। [६ अ०] एकविंशाः विश्वसजामयनं सहस्रसंवत्सरमिसत्र विश्वसृजां सत्रे संवत्सरशब्दो न कालवाची किं तु त्रिसदादिपदैः स्तोम- विशिष्टमऽहरुच्यते । नाहःसंघ, स्ततोऽहस्सु गौणी संवत्सरा- भिधा ॥ ये त्वत्र सहस्रायुषां गन्धर्वाणां वा रसायनसिद्धानां वा नृणां वा कुलं कल्पो वा मासेषु वा संवत्सरत्वं द्वादशरात्रिषु वा संवत्सरशब्द इति विकल्पा दर्शितास्ते सर्वेप्युक्तिमात्रनिरा- स्याः । चतुर्विंशतिपरमाः सत्रमासीरनितिनियमानार्द्धतृतीयै- यजमानशतैरप्यनुष्ठेयमिति ज्ञेयम् ॥ ७ ॥ ( इति षष्टाध्याये सप्तमः पादः॥) चतु)तृहोम उपनयनाहुतिः स्थपतीष्टिरवकीर्णिपशुश्चे- सादिकं लौकिके ऽनावेव, न तदर्थमाधानसिद्ध आहवनीयो ऽपे- क्ष्यते ॥अग्नीषोमीयं पशुमालभेतेसत्र पशुश् छागस्य वपाया मेदस इति मन्त्रवर्णाच्छाग एव ग्राह्यः ॥ ८ पादः ॥ इति भादृभाषामकाशे षष्ठोऽध्यायः ॥६॥ मा निरूपित उपदेशः अतिदेश इदानीं निरूप्यते । तत्र दर्श- पूर्णमासयोज्योतिष्टोमे च प्रयाजादयो दीक्षणीयादयश्च धर्माः श्रूयन्ते। ते न केवलं यज्यर्थाः येन सर्वत्र यजेरेकत्वात्परिप्लवेरन् । अपि तु प्रधानभूतापूर्वप्रयुक्ताः । अपूर्वभावना च सर्वत्र भिद्यते । अंतस्तत्तत्यकरणव्यवस्थिताः सन्तोऽ न्यत्रातिदेशेनैव गच्छन्ति । स चातिदेशस्त्रिविधः प्रसक्षवचनान्नामधयाचोदना- लिङ्गानुमितवचनाच्च । आद्यं यथा इषावेकाहे ज्योतिष्टोम- विकारे इषुविष्टुतिं करोतीसादिनापि चोदकमाप्तानां विष्टु- सादीनां विकारं विधाय समानमितरच्छयेनेनेति इतरत्, लोहि- तोष्णीषा ऋत्विजः प्रचरन्तीसादिकं श्येनाङ्गजातमतिदिश्यते
भाट्टभाषाप्रकाशः।
४७
.
[७ अ०]
वचनेन । एतद्ब्राह्मणान्येव पञ्च हवींपीति वैश्वदेवपर्वणि यद्रा-
मणम् तदेव वरुणप्रघासेष्वतिदिश्यते । तेन तत्रापि वाना-
न्येतानि हवींषीसाद्याः स्तुतयो नव प्रयाजा इसादयो विध-
यश्चाप्युपतिष्ठन्ते ॥ १॥
( इति सप्तमाध्याये प्रथमः पादः॥)
गीतिषु सामाख्येत्युक्तम् । कवतीषु रथन्तरं गायतीसादौ
अभि त्वा शूर नोनुम इसस्यामृचि या गीतिः सा कवतीष्व-
तिदिश्यते । गीतिविशिष्टाया ऋचः सामशब्दार्थत्वे तन्न संभवेदे-
वेति गीतमात्रं सामेसत्रोपपादितम् ॥२॥
( इति सप्तमाध्याये द्वितीयः पादः ॥)
कुण्डपायिनामयने मासमग्निहोत्रं जुहोतीत्यत्राऽपूर्व कर्म
विधीयत इत्युक्तम् । तत्र नैयमिकाग्निहोत्रवाचिशब्दप्रयो-
गस्तद्धर्मानतिदिशति । गुणयोगमन्तरेणान्यशब्दस्यान्यत्र प्रयो-
गादर्शनात् । एवं वरुणप्रघासेषु वारुण्या निष्कासेन तुषैश्चा-
वभृथं यन्तीसत्रापि कर्मान्तरे सौमिकावभृथशब्दस्तद्धर्मातिदे-
शार्थ इति नामातिदेशोयम् ॥ ३ ॥
( इति सप्तमाध्याये तृतीयः पादः ।)
सौर्य चळं निर्वपेब्रह्मवर्चसकाम इसत्रास्ति विध्यन्तापेक्षा।
नचासावत्र श्रूयत इसनुमीयते नूनमयमन्यतःसिद्धामितिकर्त-
व्यतामुपजीव्य फलं साधयतीति । सा च वैदिकत्वसामान्या-
द्वैदिक्येवोपतिष्ठते न लौकिकी। अतः प्रकृतिवद्विकृतिः कर्तव्ये-
ति तत्राप्यानुमानिकाद्वाक्यान्नामातिदेशो बलवाश्रीतत्वात् ।
तेन गवामयने ज्योतिर्गौऽरायुरियायेकाहसंज्ञावन्ति कर्माणि
गणान्तःपातित्वेपि न द्वादशाहधर्मालू लभन्ते ऽपि तु नाम्नो
बलवत्वात्तद्धर्मानेव ॥ ४॥
( इति चतुर्थः पादः ॥)
इति भादृभाषामकाशे सप्तमोऽध्यायः ॥ ७ ॥
भाइभाषाप्रकाशः। [८ अ०] अथ विशेषतोतिदेशो निरूप्यते । सौर्य चळं निर्वपेद्ब्रह्म- वर्चसकाम इसादिष्विष्टिषु निर्वपतिस्तद्धितेन देवतानिर्देश एक- देवत्वमौषधद्रव्यकत्वमियादिसामान्यादाग्नेयस्य विध्यन्त उपति- ष्ठते । तेन यथाग्नेयेन स्वगः कृतस्तथा सौर्येण ब्रह्मवर्चसमिति कथंभावपूरणं सिद्धम् । एवमनेकदेवतेषु अग्नीषोमीयस्यैन्द्रा- नस्य वा क्षरसंख्यासामान्याद्विध्यन्तो ज्ञेयः । ऐन्द्रपुरोडाशे देवतासामान्यात्सान्नाय्यधर्मप्राप्तावपि हविषो यागं प्रति देवता- पेक्षया प्रसासन्नत्वेन बलीयस्त्वात्पुरोडाशधर्मा एवं । कृष्णलचरौ औषधवाचिचरुशब्दप्रयोगात्तद्धर्मा एव । अव्यक्तचोदनासु सोमेन यजेतेतिवत् तद्धितचतुर्थीमन्त्रवर्णैः स्पष्टं यागार्थत्वेन श्रुत- देवतासु विश्वजिता यजेतेयादिषु सौमिको विध्यन्तः ॥१॥ (इत्यऽष्टमाऽध्याये प्रथमः पादः॥) आज्यद्रव्यकेषूपांशुयाजस्य पयोदध्यामिक्षादिषु सान्ना- य्यस्य एवं दैक्षे चाग्नीषोमीयपशौ तु कठिनत्वसामान्याद्देवतै- क्याचाग्नीषोमीयपुरोडाशविष्यन्तः प्राप्तोपि देवतासामान्या- पेक्षया हविषो बलीयस्त्वात्पशुप्रभवत्वसामान्यात्सान्नायवि- ध्यन्तः । तत्रापि साक्षात्पशुप्रभवत्वेन गतिमत्त्वेन च पय एव घनीभूतमामिक्षेत्युक्तम् । अतस्तत्र पयोधर्मा एव प्रवर्त्तन्ते। पश्चन्त- रेषु त्वग्नीषोमीयपशोरेव विध्यन्तः । आलम्भविशसनादिसा- मान्यात् । द्विविधो द्वादशाहःसत्रमहीनश्च । अहर्गणा अपि तादृशा एव । अतः सत्रेषु सत्रात्मनो द्वादशाहस्य विध्यन्तः अहीनेष्व- हीनात्मन इति व्यवस्था ॥२॥ (इत्यष्टमाऽध्याये द्वितीयः पादः ॥) आगावैष्णवमेकादशकपालं निर्वपेदभिचरन् सारस्वतं चरुं बार्हस्पसं चरुमिसादौ स्थानसामान्यापेक्षया देवतासामान्य प्रसासन्नमिति प्रथमेपि तृतीयस्याग्नीषोमीयस्य विध्यन्तः चरमपि [९ अ०] भादृभाषाप्रकाशः। घरमेपि प्रथमस्याग्नेयस्य ॥ ३ ॥ (इति तृतीयः पादः ।) जुहोत्युत्पन्नानामग्निहोत्रादीनां दर्विहोमा इति नाम । ते त्वपूर्वा न कुतश्चिद्धर्मान् गृह्णीयुः ॥४॥ ( इति चतुर्थः पादः॥) इति भादृभाषाप्रकाशे ऽष्टमोध्यायः ॥ ८ ॥ अपूर्वप्रयुक्ता धर्मा इत्युक्तं सप्तमाघे । ते च त्रिविधा वाक्य- संयुक्ता लिङ्गसंयुक्ताः श्रुतिसंयुक्ताश्च । तत्र प्रोक्षिताभ्यामुलूख- लमुसलाभ्यामवहन्तीति पोक्षिताभ्यां पिनष्टीसादौ प्रोक्षणस्य हन्तिपिनष्टिस्वरूपे आनर्थक्याद्वाक्येनाऽपूर्वार्थत्वं प्रोक्षणादेः । अगन्म सुवः सुवरगन्म, अग्नेरहमुज्जितिमनूज्जेषमिसेतौ मन्त्री क्रत्वङ्गत्वान्नाऽपूर्वमुलङ्घय श्रूयमाणफलदेवतार्थत्वं भजतो ऽपि तुक्रत्वपूर्वप्रयुक्तमेव फलदेवतं प्रकाशयत इति सेयमतिदेशेनापूर्वा- र्थता मन्त्रयोः।वीहीन मोक्षतीसत्र व्रीहिरूपद्रव्यं त्रीन परिधीनि- सत्र त्रित्वसंख्या सूर्पण जुहोति तेन ह्यन्नं क्रियत इसत्रान्नक- रणकक्रियारूपो हेतुः। चतुर्होत्रां पौर्णमासीमभिस्पृशेत्पञ्चहोत्रा- ममावास्यामित्यत्र पौर्णमास्याद्याख्यौ समुदायौ । न च प्रोक्षणं मन्त्रमुर्पचतुर्होत्रादीनां स्वरूपेण प्रयोजकम् । आनर्थक्यात् । यत्स्वीयमऽपूर्वसाधनीभूतं हवीरूपत्वम् तत् स्वपेण। तच्च नीवारा- दिष्वपि अविशिष्टम् । अतस्तेष्वपि प्रोक्षणादीनां प्राप्तिरस्तीति व्री- हिश्रुतिमनासैवापूर्वार्थता प्रोक्षणादेः। एवं धर्माणामपूर्वार्थत्वे सिद्धे विकृतिष्षप्युलूखलादीनां प्रोक्षणम् । अगन्म ब्रह्मवर्चसं, . (१) अगन्मुखः सुवणन्म अग्नेरहसुजिति मनुजेषमित्यती मन्त्री क्रत्वंगत्वात्रा- घदपूर्वमुल्लङ्म श्रुतमातफलदेवतार्थत्वं भजतोऽपितु कस्वपूर्वप्रयुक्तमय फलदैवतं प्रका- शयत इति संयं तिगेनापूर्वार्थत्रामन्त्रयो"रितिकपुस्तकपाठः, ख-पुस्तक स्वत्र नास्त्यव. सद्धि भष्टमाध्यायारम्भात्प्राप्ति तदीयतृतीयपादारम्भं यावत् श्रुदितमत्र । " भाट्टभाषाप्रकाशः। [९ अ०] सूर्यस्याहमुजितिमित्यूहेन मन्त्री नीवारेषु मोक्षणम् द्विपरिधिकेप्यू- हेन मन्त्री विनाप्यन्नकरणं सूर्यस्य होमसाधनत्वं विनापि स मुदायं चतुर्होत्राभिमर्शनं च सिद्धयति । ततश्च मन्त्रसामसंस्का- राणां द्वारान्तरसंबन्धनिमित्तान्यथामावलक्षण ऊहश्चिन्तनीय इति सिद्धम् । प्र वो बाजा इसाकादशः पठितः । त्रिः प्रथमां निरुत्तमामन्याह ततः पञ्चदश संपद्यन्त इखत्र त्रिरभ्यासः पाथम्यधर्म इति या काचित् प्रथम स्थाने पठ्यते सा सर्वापि त्रिर- भ्यसनीया। प्रवोवाजीया तु लक्षणयोपस्थितेति नायमत्र धर्मः। तेन यत्र कुत्रापि या प्रथमा सा ऽभ्यसनीया । दर्शपूर्णमासावारभ्य माणोन्वारम्भणीयां कुर्यादिसत्र दर्शपूर्णमासयोरमवृत्तस्य या मथमं प्रत्तिः सा आरम्भः।नवसो (न च सः) द्वितीयादिप्रयोगे प्रतिस्तुप्रवृत्तस्यैवाभ्यास इत्युच्यते नवसाकारम्भ इति प्रथम- प्रयोगासागेनान्वारम्भणीयानप्रतिप्रयोगम्।दर्शपूर्णमासयोरनये जुष्टं निर्वपामीति मन्त्रः । सौर्ये तु चरौ अग्निपदस्थाने सूर्यायेति पदं प्रयोज्यम् । एवं धान्यमसि धिनुहि देवानियत्र धान्यपदस्थाने यत्र तरस-मयाः पुरोडाशा भवन्ति शाक्यानामयने तत्र मांसम- सीत्यूहः। ये च यज्ञपति व नियत्र यच्छब्दार्थस्य प्राधान्याद्ध- हुकर्तृके यज्ञपतिपदप्राधान्यार्थ नोहमर्हति । आशास्ते यं यजमान इसादौ तु तस्यैव प्राधान्याहुकर्तृकेषूहः आशासत इमे यज- माना इति । यज्ञायज्ञीये श्रूयते न गिरा गिरेति ब्रूयादैरं कृत्वो- देयमिति श्रुसैव गिरापदस्थाने इरापदं प्रक्षिप्यते । तदपि प्रगी- तमेव प्रयोक्तव्यं स्थानधर्मत्वात् ॥ १॥ ( इति नवमाध्याये प्रथमः पादः ॥ यत्र तु नैवारं चर्स निर्वपेदिति प्रसक्षा चोदना तत्रापि ब्रीहिस्थानापन्ना नीवारा व्रीहिधर्मालँलभन्ते ॥ २ ॥ (इति नवमाध्याये द्वितीयः पादः॥)
भाभाषाप्रकाशः । ५१ [१० अ०] तेन ब्रीहीणां मेध मुमनस्यमान इसादौ नीवाराणां मेध इ- त्यूहः सिद्धः । अग्नीषोमीये पशौ अदितिः पाशं प्रमुमोकेतमिसेक- वचनान्तो मन्त्रः पठ्यते । अपरस्तु अदितिः पाशान् प्रमुओक्वेता- निति बहुवचनान्तोपि तत्रैव पठ्यते।सोपि गुणे त्वन्याय्यकल्प- नेतिन्यायेन बहुवचनस्यापि पशाववयवाभिप्रायेण योजयितुं शक्यत्वात् तत्रैवावतिष्ठते न तु बहुपशुकेषूत्कृष्यते । तथा द्विव- हुपनीकेपि यजमाने पत्नी संन्न त्यस्य नोहः। अविशिष्टस्याना- नस्यैकपत्नीकप्रयोगविषये संकोचयितुमशक्यत्वात् । अत एवै- कवचनस्य निर्देशमात्रार्थत्वेनादृष्टार्थत्वान्न बहुपत्नीकस्य विकृताव- प्यूहः। प्रतिनिधौ चाऽविकारात् । यत्र व्रीह्यादयः प्रतिनिधित्वे- नोपादीयन्ते तत्राऽविकारेणैव मन्त्रः प्रयोज्यः ॥ ३ ॥ ( इति नवमाध्याये तृतीयः पादः ॥) अभ्युदयेष्टौ दधश्वमिति पर्येति चरुमिति च दधिशृतयोः सप्तमीनिर्देशात्मणीताकार्ये विनियोग इति मन्यमानस्योत्तर कर्मान्तरपक्षे तथास्तु । प्राकृतानामेव तेषां पूर्वाभ्यो देवताभ्योप- नयमानं विधीयत इत्युक्तं षष्ठे । तेन तत्र प्रदेशधर्मा एव प्रवर्त्तन्त इति । अश्वमेधे ईशानाय पयस्वत आलभेतेति यागं विधाय पर्य- निकृतानारण्यानुत्सृजतीति पर्यनिकरणान्ताङ्गरीतिविधीयते । तथा च प्रसक्षविहितया निराकाङ्क्ष ईशानमयोगवचनो न चोदकमपेक्षते ॥४॥ (इति चतुर्थः पादः ॥) इति भादृभाषामकाशे नवमोऽध्यायः ॥९॥ उपकारपृष्ठभावेन पदार्थानां प्राप्तिरिति स्वयंदितं वहिर्भव- तीसादौ लवनादयस्तत्साधनभूता मन्त्राः परश्वादयश्चातिदेशा- साप्ता अपि बाध्यन्ते । एवं प्राजापसं घृते चळं निर्वपेच्छृतक- भाट्टभाषाप्रकाशः । [१० अ०] ष्णलमायुष्काम इयत्रापि वैतुष्यलक्षणोपकाराभावात् कृष्ण- लेषु नावघातः । सोमे दीक्षणीयाद्यर्थ राजसूयेनुमतीष्टयाद्यर्थ स्वार्थ च नारम्भणीयापेक्ष्यते । दर्शपूर्णमासावारप्स्यमान इति वचनादन्यत्र तदमवृत्तेः । खलेवाली यूपो भवतीयादौ सि- द्धायां खलेवाल्यां यूपमाच्छेत्स्यता होतव्यमिति च्छेदनार्था आहु- तिलृप्यते । छेदनाभावे द्वारलोपात् । अच्छेयस्याभिमुखमियर्थः(?) (आच्छेत्स्यता च्छेत्तुमभिमुखेनेत्यर्थः)। उत्तमे प्रयाजे वक्ष्यमाणप्र- धानदेवतास्मारकाणामाग्नं स्वाहा विष्णुं स्वाहेसादीनाम् अग्न्या- दिपदानां सौर्यादिषु विकृतिषु नित्तिलुप्तार्थत्वात् । ज्योतिष्टो- मेग्नोषोमीयपशुधर्मसंदंशे अग्नीषोमीयं पशुपुरोडाशं निर्वपतीसयं पुरोडाशाग्नीषोमीयपश्वङ्गं सत् तद्गतदेवतासंस्कारेणाऽदृष्टेनैवद्वा- रेणोपकुर्वन्नदृष्टार्थ इसन्यदेवलेपि पशौ निवर्तते।सौर्ये चरौ चरु- शब्दो याज्ञिकप्रसिद्ध्या ऽनवस्रावितान्तरूष्मपक ओदने वर्तते। आदिसः प्रायणीयश्वरुरित्युक्त्वाऽदितिमोदनेनेति वेदेप्यनुवा- दात् । तेन चरुमुपदधातीतिस्थाल्यां चरुशब्दो गौणः चरुरो- दनभेदः स्यात् स्थाल्यामेव स पच्यते तस्मिन् पेषः संयवनं संवापस्तापनमियादीनां लोपः॥१॥ (इति दशमाध्याये प्रथमः पादः) कृष्णलचरौ घृते अपयतीतिवचनात्पाकः कर्त्तव्यः। स च रूपरसपरात्तिलक्षणस्य श्रपणस्य मुख्यस्य तत्रासम्भवादुष्णी- करणमात्रम् । पुरोडाशानां त्रुच्यसंसर्गार्थे उपस्तरणाभिधारणे कृष्णलेषु तत्संसर्गासम्भवाल्लुप्यते । चतुरवत्तं जुहोतीसप्युपस्त- रणाभिधारणधवदानप्राप्तचतुःसंख्यानुवादेनावत्तहोममात्रं वि- थीयते इति चतुष्ट्वस्याविवक्षितत्वान्न तत्प्रापकम् । चुश्चुषाकारं भक्षयन्तीतिवचनात्पाकवत्कृष्णलानां भक्षणमपि गौणं चुश्चुषा- कारं विधीयते । ऋत्विग्भ्यो दक्षिणां दद्यादिति दानं दृष्टार्थत्वा- भाट्टभाषाप्रकाशः। [१० अ०] ५३ दानमनार्थ तेषां भृतिरेव । हविःशेषदानं तु न तथा । दत्तस्य दानायोगेन प्रतिपत्तिमात्रत्वात्तस्य । आनतिरूपकार्याभावादेव सत्रेष्टत्विग्वरणं दक्षिणा च नास्ति । मृतेज्यायामायुराशास्त इसा- दीनां लोपः। अङ्गीकृतमरणस्य स्वर्गकामस्य विहिते सर्वस्वा- रनाम्नि एकाहे आर्भवस्तोत्रकाले ब्राह्मणाः समापयत मे यज्ञमि- ति प्रैषमृत्विग्भ्यो दत्त्वा यजमानो म्रियते तत्रापि श्रौतप्रैषब- लात् प्राग्भृतैरेव ऋत्विग्भिः क्रतुसमापनं कर्त्तव्यम् । यथोक्तम् यजमानस्य मरणे नार्थिन इज्यां प्रवर्तयन्तीति तत्राप्यार्भवात्मा आयुराशास्त इत्याद्यस्ति। हिरण्यमात्रेयाय ददातीसादिकं तु सत्रेपि भवयेव । आधाने पवमानष्टौ अतिदेशादग्निहोत्रहवण्या हवींषि निर्वर्पन्तीतिमाप्साया अग्निहोत्रहवण्या अग्निहोत्रस्यानार- म्भात्तद्धवनसाधनत्वाभावेपि तस्या यज्ञैः केतुभिः सहेति तदर्थं प्रागेव परिकल्पितत्वात् विगुणयापि तयैव निर्वापः कर्त- व्यः । द्यावापृथिवीभ्यां धेनुमालभेत वायव्यं वत्समैन्द्रमृष- भमिति धेन्वादिशब्दानां गोजातीये रूढत्वाच छागस्य वपाया इतिलिङ्गप्राप्तस्य नित्तिः। वायव्यं श्वेतमालभेतेसादौ साधारणैः श्वेतादिगुणैस्तु न तस्य नित्तिः । पितृभ्यो ऽग्निष्वात्तेभ्यो भि- वान्यायै दुग्धे मन्थमिति श्रुते मन्थे पूर्व श्रपणं पश्चात्पेषणम् प्रकृतौ सद्विपरीतम् ततः पदार्थधर्मस्य क्रमस्य बाधेपि न प्राकृतः पदार्थो निवर्तत इति मन्थेऽपि प्राकृतमेव पेषणम् ॥ २॥ ( इति दरामाध्याये द्वितीयः पादः ॥) पुनराधेये पुननिष्कृतो रथो दक्षिणा पुनरुत्स्यूतं वास इसा- दिदक्षिणा एका देयेसेवमादिकाया अग्न्याधेयदक्षिणाया निवर्ति- का वैकृसैवानतेः सिद्धत्वात् । उभयीददातीति तु न समुच्चयविधाय- कम् अग्न्यायिकी पुनराधेयिकीश्च ददातीत्युभयापेक्षा तत्प्रवृत्तेः। पाकाभिधारणादयोन्वाहार्यधर्मा वत्सवद्वास आदौ न प्रवन्ते भाट्टभाषाप्रकाशः । [१० अ०] स्वरूपनाशाच्च स्वादिमादिप्रयोजनाभावाच्च । गौश्चाश्वश्चाश्व- तरश्च गर्दभश्चाजाश्चावयश्च ब्रीहयश्च यवाश्च तिलाश्च माषाश्च तस्य द्वादशशतं दक्षिणेसत्र तस्येति पदं वाक्यावगतं गवादि सत्का प्रकृतं ऋतुं न ब्रूते वाक्यात्प्रकरणस्य दुर्बलत्वात् प्रकृत- त्वेनैव तत्याप्तस्तत्पदस्यानर्थक्यापाताच्च । नाप्यजादीन्, तेषां बहु- वचनेन निर्देशात् । नाप्यश्वादीन, अमुख्यत्वात्तेषाम् ।तस्मान्मुख्य- स्वादसन्तमुपकारकत्वाच्च गोरेव निर्देशः । तेनायमर्थः । गवा- दिद्रव्याणि तस्याःगोदशशतंदक्षिणेति । तस्माद्गवामेषा संख्या। सा च दक्षिणा विभज्य देया विभागश्च द्वादशाहे दीक्षाक्रमवाक्ये अर्खिनो दीक्षयन्ति तृतीयिनो दीक्षयन्ति पादिनो दीक्षयन्तीतिस. माख्याबलात् ।सचेत्यम्-कृत्स्नं द्रव्यं पञ्चविंशतिधा विभज्य मु- ख्येभ्यश्चतुभ्यो द्वादश भागान् अद्धिभ्यः षट् तृतीयिभ्यश्चतुरः पादिभ्यस्त्रीनिति विभज्य दद्यात् । मुख्याद्याश्च लब्धं द्रव्यं साम्येन विभज्य गृह्णीयुरिति । अश्वादीनां त्वानिवृत्तिरेव । अस्याः प्रकृसां गोसंख्याया निवृत्तिः । नैमित्तिक्या यदि सोममपहरेयुरेकां गां दक्षिणां दद्यात् अभिग्धे 'सोमे पञ्च गा दद्यादिति च ॥३॥ ( इति दशमाध्याये तृतीयः पादः ॥) नक्षत्रेष्टौ अग्नये स्वाहा कृत्तिकाभ्यः स्वाहेत्त्यादय उपहोमा न प्राकृतानां नारिष्टानां कार्ये विहिता इति न तान्बाधन्ते । तत- स्तत्रोभयेषां होमानां समुच्चयः। शरमयं बहिर्भवतीति तु बर्हि शब्द- लक्षिते कुशकार्ये विहिताः शराः कुशान्वाधते । विधिशब्दस्य मन्त्र- वे भावः स्यात्तेन चोदना। आग्नेयोष्टाकपाल इसादौ यो विध्युद्देशे देवतावाची शब्दः स एवानिमावहेयेसावाहनादिष्वपि प्रयोज्यो न तु तत्पर्यायः मन्त्रैरेव मन्त्रार्थः स्मर्त्तव्य इतिवदयं नियमः । एवं विकृतौ सूर्यादिपदमेव निगमेषु प्रयोज्यं नत्वादिसादिपदम् । अनये (१)भाभिध इतिख-पु. पर.।
भाट्टभाषाप्रकाशः। [१० अ०] पावकायसादौ तु पदद्वयमपि निगमेषु प्रयोज्यम् अन्यतरेण पदे- नेतरगुणास्योपस्थिसयोगात् । पृषदाज्येनानुयाजान्यजतीति न पृषदाज्यमिति द्रव्यान्तरं पृषच्च तदाज्यं चेतिव्युत्पत्त्या तस्य शब्दस्य चित्रत्वविशिष्टाज्यवाचित्वात् । ततश्च यथा जुषन्ता युज्यं पय इति पयस्यां पयःशब्दो वक्ति तस्यास्तदनन्यत्वादे- वमाज्यशब्दोपि पृषदाज्यमिति । ततः देवानाज्यपानावहे- सादिष्वाज्यपयुक्तेषु निगमेषु आज्यपशब्देन प्रयाजानुयाजा गृह्यन्त इति न केवलानुयाजनिमित्ते पृषदाज्यपानितिमन्त्री विक्रियते ॥ ४॥ (इति दशमाध्याये चतुर्थः पादः) यत्र द्यावापृथिव्य एककपालो वैष्णवस्त्रिकपाल एका सा- मिधेनीमियादौ प्रथमोपस्थितस्य सागे कारणाभावादादित ए- केन त्रिभिर्वा मन्त्रैः कपालान्युपदध्यादन्ये लुप्यन्ते प्रयोजना- भावात् । एवं सामिधेन्या अप्याद्याया एवोपादानम् । यत्र सा- मिनीविद्धिरेकविंशतिमनुब्रूयात्प्रतिष्ठाकामस्येति तत्र प्रा- कृतीभ्यः पञ्चदशभ्यो ऽन्या या काश्चिदग्निसमिन्धनप्रकाशिका ऋच आनेतव्याः॥५॥ (इति दशमाध्याये पञ्चमः पादः॥) सत्रेष्वतिदेशादन्येष्टत्विक्षु मानेषु ये यजमानास्त ऋत्विज इति यजमाना एव ऋत्विकार्ये विधीयन्त इत्य॒त्विजां निवृत्तिः । अध्येतृप्रसिद्धया द्वादशाहे सत्तशब्दस्तत्रासनोपायिचोदितत्वं बहु- यजमानत्वं चास्तीसस्य सत्रवद् यजतिचोदनाचोदितत्वमप्यस्ती- ति द्विरात्रादिवदहीनत्वमप्यस्ति ॥६॥ ( इति दशमाध्याये षष्ठः पादः ॥) अग्नीषोमीयं पशुमालभेतत्सत्र न कृत्स्सस्य पशोर्हविष्टम- वदानस्य प्रकृतौ हविःसंस्कारार्थत्वेन दृष्टत्वायतोवदानं तद्ध- भादृभाषाप्रकाशः। [१० अ०] विरिति नियमात् । अवदानं च हृदयस्याग्रेवद्यसथ जिह्वाया अथ वक्षत इसादिवाक्ये हृदयादीनामेवावगम्यत इति तेषा- मेव हविष्ट्वम् । एकादश पशोरवदानानि तानि द्विद्विरवद्यतीति संख्याविधानादेकादशभ्य एवं परिगणितेभ्यो हृदयादिभ्यो ऽवदानं नाधिकेभ्यः । चातुर्मास्येषु साकमेधीयान्तर्गतायां गृहमेधीयायामाज्यभागौ यजतीतिचोदकमाप्ताङ्गानां नित्त्यर्थ- मिति न,परिसंख्यायां दोषत्रयापत्तेः।यावच्छृतिकर्तव्यतया नि- राकाङ्क्षा गृहमेधीया न चोदकमाकाङ्क्षते (ति)। तस्मान प्राकृत- मङ्गं निर्गुणं श्रुतम् । तत्रापूर्वत्वमितिनियमादपूर्वैव गृहमेधीया।त- त्रैव स्विष्टकृदिडादिकमपि प्रसक्षश्रुतत्वाविशेषात्कर्त्तव्यमेव । प्रसक्षश्रुता द्रव्यदेवतादयश्चोदकप्राप्तांस्तान्बाधन्ते । अत एव प्रा- कृतः खादिरो यूपो भवतीति श्रुतं खादिरत्वमौदुम्बरो यूपो भ- वतीति श्रुतौदुम्बरतया बाध्यते विकृतौ । तथा सौमारौद्रं चरूं निर्वपेच्छुक्लानांनीहीणाम् नैर्ऋतं चरुं निर्वपेत्कृष्णानां ब्रीहीणामि- सादावपि द्रव्यगुणविशिष्टकर्मविधानादुपदिष्टा व्रीहयो यवा- बाधेरन् । यद्यपि चतुरवत्ती यजमानः स्यादथ पञ्चावत्तैव वपे- सत्रावदानाद्देशेन पञ्चसंख्या विधीयते। न चोद्देश्यमवदानं वपां विशेष्टुं शक्नोतीति वपाग्रहणं सर्वेषामवदानानामुपलक्षणम् । ततो हविष्षु व्यऽवदानप्राप्तौ द्विद्विरऽवद्यतीति वाक्यमर्थवद्भवति । पञ्चत्वं चोपस्तरणस्याभिधारणस्य वा वृद्धया संपादनीयम् ॥७॥ ( इति दशमाध्याये सप्तमः पादः ॥) पिज्येष्टौ नायं वृणीते न होतारम् । अनारभ्य च श्रूयते यजतिषु ये-यजामहं करोति नानुयाजेष्विसादौ चोदकप्राप्त- वरणादेनिषेधे ग्रहणाग्रहणवद्विकल्पः स्यात् ततश्च पक्षे शास्त्रस्य मिथ्यात्वकल्पनापेक्षया वरं लक्षणया पर्युदासाश्रयणम् । न च नानुयाजेष्विति समासापत्तिः । महाबिभापया राज्ञः पु-
[११ अ.]
भाट्टभाषाप्रकाशः ।
रुष इसादाविव पक्षे समासाभावेप्यऽदोषात् । तदयं वाक्यार्थः ।
पिण्यायामायवरणव्यतिरिकं प्रकृतिवत्कुर्यादिति अनुयाज-
व्यतिरिक्तषु यजतिषु ये-यजामहं कुर्यादिति च । तस्मान्नात्र
विकल्पः किंत्वनुष्ठानमेव । तदयं प्रतिषेधाराधः । शरैः कुशानां
प्रसाम्नानाद्धाधः । स्वयंचोदितेर्थलोपाद्वाध इति त्रेधा बाधः
सिद्धः। न तौ पशौ करोति न सोमे इसत्र उपदेशतोतिदेश-
तो वा यथा सोम आज्यभागौ न स्त एवं पशावपि न स्त इति
दृष्टान्तमुखेन प्रतिषेधोयम् । तस्मात्पशावाज्यभागविकल्पः ।
अतिरात्रे षोडशिनं गृह्णाति नातिरात्रे षोडशिनं गृह्णातीसादौ
त्वगसा वाक्ययोस्तुल्यवलत्वादितरेण बाधायोगाद्विकल्पः ।
जतिलयवाग्वा जुहुयात् गवेधुकयवाग्वा जुहुयात् अना-
हुति। जतिलाश्च गवेधुकाश्च पयसाग्निहोत्रं जुहुयादिसत्राऽना-
हुतिरिति न जतिलादेः प्रतिषेधः वाक्यभेदात् । अतः पयसः स्तु-
तिमात्रमेतत् । एवमभिधार्यास्यम्बका नाभिघार्याः होतव्यम-
निहोत्रं न होतव्यमग्निहोत्रमिति नवद्वाक्यम् अभिघार्या एव
तूष्णीमेव होतव्यमियनयोरर्थवादः । यदभिधारयेद्रुद्राय संनिद-
ध्यात् यज् जुहुयात् अयथापूर्वमाहुतीर्जुहुयादित्युक्तदोषमङ्गी-
कृयापि कर्त्तव्यमभिधारणमतिप्रशस्तत्वादिति । दीक्षितो न
ददाति न जुहोति न पचतीसादिः पुरुषार्थानामव दानादीनां
प्रतिषेधो न क्रत्वर्थानाम्, विकल्पापत्तेः। आहवनीये जुहोतीति-
सामान्यशास्त्रस्य पदे जुहोति वर्त्मनि जुहोतीसादिना विशेषशा-
स्त्रेण बाधः । जामि वा एतद्यज्ञस्यक्रियते यदन्वञ्चौ पुरोडाशा-
वुपांशुयाजमन्तरा यजयजामित्वायेति पुरोडाशयोर्मध्ये विहितो-
प्युपांशुयाजस्तन्मध्यकाल एव विधीयते । तत्र चोपलक्षणापा-
येप्युपलक्ष्यानपायादसोमयाजिनोग्नीषोमीय पुरोडाशाभावेप्याग्ने-
यानन्तरमुपांशु योजसोवभ व ॥ ८॥
५८ भादृभाषाप्रकाशः। [११ अ०] ( इत्यष्टमः पादः।) इति भादृभाषाभकाशे दशमोऽध्यायः ॥ १० ॥ समाप्नोतिदेशः । एवमुपदेशातिदेशाभ्यां प्राप्तानामङ्गाङ्गि- नामियसावधारणार्थ तन्त्राध्याय आरभ्यते । तत्र दर्शपूर्णमा- सयोः षडपि प्रधानानि संहस फलं साधयन्ति । तेषां चास्ति सर्वाडोपसंहारापेक्षा । सौर्यादिकाम्यप्रयोगोभ्यस्तः फलमधिकं जनयति । तत्र दृष्टार्थानामवघातादीनां यावत्फलोदयमात्तिः चयने तूपधेयोलूखलसंस्कारार्थतया प्राप्तः सर्वोषधस्य पूरयित्वा- वहन्यथतदुपदधातीतिविहितः सर्वोषधावघातो दृष्टार्थत्वाभावा- सकृदेवाऽनुष्ठेयः । एवं प्रयाजादीनप्यदृष्टार्थान् सकृदेवानुति- ष्ठेत् । वसन्ताय कपिजलानालभेतेसादौ बहुत्वं त्रित्वेनैवोपात्त- मिसधिकसंख्याया अप्राप्तिः । सानाय्ये तु तूष्णीमुत्तरा दोह- यित्वेसत्र यावत्स्वं दोहनं न त्रित्व एव पर्यवसानं बहुत्वस्य । ना- स्यैतां रात्रि [पयसाऽग्निहोत्रं जुहुयात] कुमारा न पयोलभेरन्नि- इतिवचनात् । दर्शादावाग्नेियादिभावना यद्यपि फलं करणं च पृथक्प्रापयन्ति, तासां कथंभावापेक्षायां तु सकृदानातान्येवाङ्गा- नि सकृदेवोपतिष्ठन्ते । पौर्णमास्यां पौर्णमास्या यजेतेति त्रयाणां युगपदवगतस्या(मप्य)नुष्टानं पृथक्प्रयोगे बाधापत्तेस्तन्त्रमङ्गानि । एवमप्य ऽऽग्नेयं कृष्णग्रीवमालभेत सौम्यं चरुमाग्नेयं कृष्णग्रीव- मिसत्रानेययोः सान्नाय्ये देशकालकक्याधिपयसोरिव युगप- त्पदानं न भवति सौम्येन व्यवधानाच्छुतिपाठावगतक्रमवाधाच्च ? ( इत्येकादशाध्याये प्रथमः पादः ॥) देशः समादिः कालो दर्शादिः कारोवीदय एतेषां च बन्त्रत्वं न तु प्रतिपधानं पृथक्त्वम् । तथापि दर्शत्रिके पौर्ण- मासत्रिके च कालभेदादग्न्यन्वाधानाधङ्गानां पृथक्मयोगः। वरु- (१२ अ.] भादृभाषाप्रकाशः। ५६ णप्रयासेषु विहारद्वयम्, द्वयोरप्याहवनीयो विभज्य स्थापितः। तत्र श्रूयतेष्टौ हवींष्यध्वर्युरुत्तरे विहार आसादयति मारुतीमेव प्रतिप्रस्थाता दक्षिणस्मिन्नियत्र देशभेदात्कर्तृभेदाचोभयत्रा- गानामात्तिः । चातुर्मास्येषु पञ्चत्विज इतिवचनाद्ब्रह्मादय- स्तन्त्रम् । आपराग्निकाः पत्नीसंयाजादयः प्रतिप्रस्थातृकृता [न] मारुखा उपकुर्वन्तीति तेऽप्यावर्त्तन्ते ॥२॥ ( इत्येकादशाध्याये द्वितीयः पाद: ।।) सर्वक्रत्वपेक्षितानामग्नीनां साधकमाधानं सर्वक्रतुषु तन्त्रमेव । आधानागतपवमानेष्टिमारभ्य पात्राणि धार्याणि यावदन्तम् । आहिताग्निमग्निभिर्दहन्ति यज्ञपात्रैश्चेति तेषामन्ते प्रतिपत्तिदर्श- नात् ॥ ३ ॥ ( इत्येकादशाध्याये तृतीयः पादः॥) वाजपेये आनावैष्णवसेकादशकपालं निर्वपेद्वामनो १ दक्षिणा सौमापौष्णं चरुं निर्वपति श्यामो दक्षिणेसादौ दक्षिणा- भेदात्कर्तृभेदस्ततश्च प्रयोगभेदः। अन्यथा एकया दक्षिणया SSनतानां पुनर्दक्षिणाम्नानवैयापत्तेः । अश्वप्रतिग्रहेष्टयर्थेष्व- नेकेष्वपि पुरोडाशेषु प्रतिपुरोडाशं पृथक्कपालानि । अव रक्षो दिवः सपनं वध्यासमिति मन्त्रस्तु न प्रसवघातम् । तन्त्रेणैव प्रयोगे तन्नियमफलसिद्धः। कृष्णविषाणया कण्डूयत इत्युक्तम् । तत्र मन्त्रः कृष्ये त्वा सुतस्याया इति मन्त्रो युगपदनेकेष्वपि कण्डूयनेषु तन्त्रमेव ॥४॥ ( इति चतुर्थः पादः॥) इति भादृभाषाप्रकाश एकादशोध्यायः ॥११॥ १ . पशावैष्टिको विध्यन्तः वितते च पशुतन्त्रे मध्ये पशुपुरो- डाशश्चोद्यते अग्नीषोमीयस्य वपया प्रचर्याग्नीषोमीयं पशुपुरोडा- (१)भत्र क. पु० बद्धो इस्वधिकम्, ख पु० वही इति ।
६० भाट्टभाषाप्रकाशः । [१२ अ.] शं निर्वपतीति । समानविध्यन्ते पशौ पतितः पुरोडाशस्तदी- यान्येवाङ्गान्युपजीवति न पुनः स्वार्थ पृथगङ्गान्यनुष्ठापयति । सोयमन्यार्थानुष्ठिताङ्गस्यान्येनोपजीवनं प्रसङ्ग इत्युच्यते । त- त्रापि यत्पशावाज्यभागावघातादिकमङ्गं नास्ति तादृशे एक- तार्थत्वात्प्रयोगवचनस्तान्याक्षिपसेव पशुपुरोडाशे ॥१॥ (इति द्वादशाध्याये प्रथमः पादः ॥) विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात्सधर्मत्वम् । अ- नये दात्रे पुरोडाशमष्टाकपालं निर्वपेदिन्द्राय प्रदात्रे पुरोडाश- मेकादशकपालं दधि मधु घृतमापो धानास्तसंसृष्टं प्राजापसं पशुकाम इसत्र सप्त हवींपि। तत्र पञ्च प्राजापसानि। तेषु दध्यैन्द्र- योर्दर्शविकारत्वाद् धन्वतीमावास्यायामिति वृधन्वदपेक्षा । म- धूदकयोराज्यविकारत्वमष्टमे सिद्धम् । अतो मधुघृतायाम् उ- पांशुयाज विकारत्वेन वार्चनौ पौर्णमास्यामिति वाघ्नापेक्षा । इतराणि तूभयसाधारणानि । आग्नेयविकारत्वात् । तेषु भूयो- नुग्रहन्यायाद्दाशिकमेव तन्त्रम् । मुख्यं चापूर्वचोदनाल्लोकवत् । आग्नावैष्णवमेकादशकपालं निर्वपेदपराह्ने सरस्वतीमाजस्य य- जेतेति अध्वरकल्पे श्रुतम् । तत्राद्यं हविरैन्द्रामविकारत्वादाशिक तन्त्रमपेक्षते द्वितीयमुपांशुयाजविकारत्वात्पौर्णमासम् ।तत्र मुख्या- नुरोधादार्शिकमेव तन्त्रमुपजीव्यम् । आग्रयणेष्टयामैन्द्राग्नवैश्व- देवद्यावापृथिव्यानि हवींषि । तत्र द्यावापृथिव्यस्य वैश्वदेवक- पालविकारत्त्वादस्ति प्रसूनवर्हिरपेक्षा । इतरेषां तु तत्रोदासीन- त्वान्नास्ति प्रमूने आग्रहः । अतः कांस्यभोजिन्यायेनाग्रयणे प्र- मूनमेव वर्हिः कांस्ये भोक्तव्यं गुरूच्छिष्टं च भोक्तव्यमिति शिष्यनियमादुदासीनस्यापि गुरोः कांस्यभोजनमावश्यकम् । तदेतद् द्रष्टव्यम् ॥२॥ (इति द्वादशाध्याये द्वितीयः पादः॥)
[१२ प्र०] भाभाषाप्रकाशः । एकार्थास्तु विकल्पेरन् यथा व्रीहियवादयः । नानध्या- योस्ति मन्त्राणां कर्मार्थत्वेन पर्वसु ॥ मन्त्राणां करणत्वेन तद- न्ते कर्मणः क्रिया ॥३॥ (इति द्वादशाध्याये तृतीयः पादः ॥) ब्राह्मणानामात्विज्यमिति कल्पकारवचनात् क्षत्रियो याज- को यस्य चण्डालस्य विशेषत इति रामायणे निन्दास्मरणात् चतुर्दाकरणमन्त्रेषु ब्राह्मणानामिदं हविरिति मन्त्रलिङ्गाच्च ब्राह्मणानामेवात्विज्यम् ॥ ४ ॥ (इति चतुर्थः पादः॥) ( इति द्वादशोऽध्यायः॥ भगवच्छिवरामतीर्थशिष्यो मुनिनारायणतीर्थनामधेयः । व्य(अ)तनोदधिकाशि भाभाषाग्रथनं भानयप्रवेशहेतोः ॥ इति श्रीपरमहंसपरिव्राजकाचार्यभगवच्छिवरामतीर्थपूज्यपा- दशिष्यश्रीनारायणतीर्थमुनिविरचितो भादृभाषाप्रकाशोऽयं समाप्तिमगमत् ॥ हरिः ॐ तत्सत् ॥ (१) प्रकाशिकेयमिति पाठान्तरम् ।।