Central Library, University Of Rajasthan
Shri Anka Kavya
Front matter
No text on this page.
दयानन्दमहाविद्यालयसंस्कृतग्रन्थमाला सं०१६ 'सिक्खपन्थ- पूर्वेतिहासगौरवख्यापक कविकृष्णकौरमिश्रविरचितं श्रयङ्क-काव्यम् लवपुरम् (१९९२ वि०) SHRI-ANKA-KAVYA Being a poetic description of early Sikh History BY KRISHNA KAURA MISHRA DV: Sollege Research Department LAHORE 1935.
दयानन्दमहाविद्यालय-संस्कृतग्रन्थमाला साच दयानन्दब्राह्ममहाविद्यालयीयाचार्यपदप्रतिष्ठितपूर्वण दयानन्दमहाविद्या लयीयानुसन्धानालये विश्वेश्वरानन्दानुसन्धानालये चाध्यक्ष- पदाधिकारिणा ऐम्० ए०, ऐम्० ओ० एल्, इत्युपाधिधारिणा विश्वबन्धुशास्त्रिणा बहुभिर्विद्वद्भिः सङ्गत्य सम्पादिता तस्यां चायं षोडशो ग्रन्थः लवपुरम् (१९९२ वि०) THE D. A.-V. COLLEGE SANSKRIT SERIES. Edited in conjunction with other scholars BY VISHVA-BANDHUSHASTRI, M.A.,M.O.L., Director, D. A.-V. College Research Deptt. and Vishveshvarananda Research Institute; formerly, Principal, Dayananda Brahma Mahavidyalaya. Volume Sixteen. LAHORE 1935.
ॐ श्रयङ्कम्। प्रथमः सर्गः। अमृतसरोवर्णनम् । श्रीमन्नानकमङ्गदं ह्यमरदासं रामदासार्जुनौ गोविन्दं हरिपूर्वकं हरि च रायं श्रीहरिकृष्णकम् । तेगादिं च बहादरं नमत भो गोविन्दसिंह भुवि जातान् भक्नहितान् महोदययुतान् खक्ष्मावतारान् कलौ ॥१॥ पुण्यस्थानविशेषकारणतया श्रीरामदासेन यद् ज्ञातं सन्निरमायि सेवकजनस्वान्तैकशुद्धिप्रदम् । तीर्थ दर्शनतः पुमर्थमखिलं सेवानुरूपं दद- नाम्ना ख्यातमिहामृतं सर इति प्रोत्फुल्लपुण्याम्बुजम् ।। २ ।। यत्तीरे प्रमुखं स्थलं विजयतेऽकालैकनिष्ठावतां नित्यं कीर्तनरागपुस्तकवचो गोविन्दचर्चायुतम् । निःश्यानं जलदैकलेखनपरं यत्रौत्तरे दिवटे पूर्वे कल्पमहीरुहोपवनकं यत्साधुसङ्घान्वितम् ॥ ३ ॥ यद्दक्षे रणशूरयोधसमुदायस्थानशोभावहं तारासिंहसुजानसिंहवसतिस्त्रीतीर्थभूषायुतम् ।
( २ ) यद्यूमिहिमपर्वतेन्दुशरदामास्वच्छकीर्तिः स्थिरा सोपान मणिकुट्टियोज्वलचमत्कारकशोमाकरम् ॥ ४ ॥ वेदीज्ञानिशहीदनागविमलाकालीयमल्लात्पजैः (१) पौरष्टभिरन्वितं सरसिजे श्रीमत्सुधाख्यं सरः । मध्ये कर्णिकमुज्वलं विजयते सद्ग्रन्थजीशोभितम् श्रीमन्नानकरामदासगुरुगोविन्दप्रतिष्ठापितम् ॥ ५ ॥ जस्सासिंहसुभागसिंहजयसिंहाकालसिंहः स्फुरन् झण्डासिंहगुलाबसिंहकहकीकत्सिंहवाघेश्वरः । तारासिंहखुशालसिंहकबघेलासिंहसप्रेमसिंहः सिंहो गुरुवपश एप चढतः सिंहो महासिंहयुक्तः ।। ६ ॥ एष्वेवामरसिंह इत्थममलैः पत्रैः परीवारयुक् षड्भुसंख्यकया युतैर्बहिरितो दिक्कोणगर्दैवतैः । पूजागंवमिवैवरं सुकलितं वामेक्षणासुन्दरम् लोके वै कलिकालभीतिहरणं सद्भक्तिसेवावताम् ।।७।। पनीरं सुविलोकितं बहुजनुःकालुष्पहन परपदं स्रो चित्तविशोधनं निजमतेः स्वस्वरुवार साई सकिकरं स्वविवशता कहर ( ३ ) लोकानां मिषतश्चतुर्धरतया कृत्वा स्थिरान् स्वात्मनो ज्ञातान् लोमतया गुरुः परमविच्छीरामदासः प्रभुः ॥१०॥ गङ्गाद्वारसमं समस्तभुवनस्थानं चतुर्भिर्युतं द्वारैः पूर्वयमाम्बुपोत्तरगतैः सन्तोषशीलान्वितैः । श्रीमद्भविदयादिसाधनयुतैः सोपानपन्तयुज्ज्वलैः स्वर्ग द्वारमिवामरावतिकया पुर्या समालिङ्गितम् ॥ ११ ॥ तेषां ब्रह्म सनातनं सुविमलं शुद्धं सुसूक्ष्मं परं तत्सर्वत्र विभात्यपीह रहिताः शान्त्यादिभिः साधनैः । ये नित्यं कलिकालमध्यजनितास्तत्कीर्तने तत्परा दानाधीतिशुभेष्टिपूर्तरहिता अप्यत्र वासादृताः ॥ १२ ॥ तुम्बीवेणुमृदङ्गझझरझणज्झाङ्कारवीणारवैः संयुक्ता निपुणाः कवित्वकरणे ये गानरताः सदा । धम्नाश्चारणसूतमागधवरा ग्रन्थाग्रतो गानतः पूज्यत्वं गमिता अहोऽतिमहिमा कस्तं न सेवेत् सुधीः ॥१३॥ स्त्रीहूणान्ध्रपुलिन्दझीवरनटम्लेच्छादयो जातितो नीचा अप्यनुरागभक्तिवशतः सिद्धिद्वयीं प्रापिताः । हे सन्तः शृणुत प्रभोर्गुणगणग्रामं सदा गायत वेदान्तोपनिषत्पुराणपठितं श्रीनानकायैः पुनः ।। १४ ॥ . एषा श्लोकचतुर्दशीविरचिता गोविन्दसिंहाग्रतः कृत्वोपायनमेतदेव विदुषा कौरेण संरक्षिता । भारद्वाजसगोत्रभिङणकुले जातेन सम्प्रेरिते- नोमादेवतया हृदिस्थपदया सुप्रीतया मानसे ॥ १५ ॥ श्रीरामादिकदासजीसुहृदयाभिप्रायमेवं मया ( ४ ) संलन्य श्रतिभृमि मात्रकमिता ज्ञेयेत्थकं पण्डितः । एपा पञ्चदशी सदा भगवती वर्वति सर्वोपरि मीमांसादिकमत्र धर्मसहित विद्यास्थलं भासते ॥ १६ ॥ इति श्रीकृष्णकोरमिश्र रुते श्रयके काव्ये अमृत- सरोवर्णनं नाम प्रथमः सर्गः ॥१॥ द्वितीयः सर्गः। रामदासपुरवर्णनम् । यत्पूर्वे खलु पाशनाशनविधौ दक्षा विपाशा नदी यस्यरावतिका लवाभिधपुरीभूपा नदी पश्चिमे । यदक्षे तरणान्ततारणतलं कुष्ठादिरुङ्नाशनं काबेग्या शुभदविकासुरनदीतुल्या महेनोपहा ॥ १ ॥ यत्पावे ननु रामदासनगरं तन्नामतः शोभितं यत्सामन्ततया विभान्त्यवसथा भूपैः कृताः सर्वतः । श्रादी रामगढो हरीहरिपुरं झण्डापुरं लोहपू- धेिशोलहणेशगुज्जरपुरं शोभेशपू राजितम् ॥ २ ॥ जयसिंहहकीकतभागपुर चढतार्धमृगाधिपकर्मपुरम् । अतिभूमिपुरीपरिवारयुतं विजयेत सदा शुभलोकधरम् ॥३॥ सालोधर्मदयालुकाटुनयुता शाहीटुणीयादिका धर्मस्थापनशालिका अतिथिलोकाभ्यागतानां हिताः । * पुराणन्यायमीमांसा धर्मशास्त्राङ्गमिश्रिताः। वेदाः स्थानानि विद्याया धर्मस्य च चतुर्दश ॥
ईदृश्यो बहवो विभान्ति खलु वस्तीरामसद्भाविता यस्मिन् वै सुथरेप्रभृत्यवधृताः सर्वा जगद्रक्षकाः ॥४॥ श्रीनारायणकल्पितं मृतिजितो लिङ्गं शिवोपासिनां हार्दान्धत्वहरं सुशीतलकरं श्रीशीतलामन्दिरम् । यस्मिन् दुर्गतडागमन्दिरवृतं लाक्षालयालङ्कृतं पुंस्त्रीबालकपामरादिषु फलं सेवानुरूपं ददत् ।।शा यस्मिन् पञ्चसरोऽस्ति मुख्यममृतं तद्वद्विवेकं सरः सन्तोष कमलाभिधं तदपरं रामाभिधानं सरः । सालोटुण्डकलक्ष्मणप्रियतमश्रीपञ्चतीर्थीलखा- भाईत्यादिककल्पितानि बहुशस्तीर्थानि भान्ति क्षितौ ॥६॥ नित्यं भाति सुदर्शनीयममलं सद्गोपुरं राजते हट्टालादिगणं विमानसदृशं रथ्याशतैरन्वितम् । लोकानां सदनानि चित्रिततराण्यालक्ष्यचित्तं स्फुर- नाकेपीदृशमेव देवरचितं कौतूहलं सौख्यदम् ॥७॥ वीणावादनतत्पराः क्व च नरागानैकसताः क्वचित् षड्डादिखरसप्तकं पृथुतया विन्यासयन्तो बलात् । मार्दङ्गध्वनिकांसतालमुरज संस्तानयन्तो रवैः श्रीरामस्य पदारविन्दविमलं धन्याः स्तुवन्त्यत्र हि ॥८॥ यत्र ज्ञानविरागभक्निविमलं ग्रन्थैकसन्दर्भित भाषासंस्कृतिसत्कवित्वरचितं संगुप्तभावार्थकम् । गायन्त्येव दिवानिशं मुहुरहो ध्यानकनिष्ठारता- स्ते धन्याः कलिवालपाशहरणाः सन्तारयन्ता जनान् ॥ ६ ॥ मद्यद्यतपलादिवारवनितासेवकमू कुला दुस्सङ्गे निरताः स्वजन्मविमलं सम्मोषयन्तो हठात् ।
( ६ ) अन्नद्रव्याविलागिनीतिपरद्रोहे रताः पामरा जन्मज्ञानिपुलाभिमानमुचितं सन्धुलयन्तः क्वचित् ।। १० ॥ यापूर्वोत्तरदचवारुणदिशं विक्रतुकामा नराः पट्टनाममहाधिकाम्बरगणं नीलं मणीन् मौक्निकम् । यायान्त्यमृतं सराभिलपिनं लाभं समायान्ति त इटक पट्टनमनदेव रचितं सर्वोपरि भ्राजते ॥ ११॥ गगीयुक्रमहरगोशकटचक्रीवन्त थायान्ति ये गरीसन्धवसतचन्दनहरिद्रापूरिताः प्रेरिताः । अत्रायानचगिजनधनवियुद्धप्सायुतस्ते सदा नद्रव्यव्यतिहारतः पुनरिमे गच्छन्ति काष्टां स्त्रकाम् ।। १२ ।। ये पूर्व खलु दीनतामुपगता गुर्वाश्रयात् सङ्गता अवस्था महनीयभावविधृताः क्षित्यां लभन्ते जनाः। लक्षाधीशपरम्परामुपसृता द्रव्यनयर्विक्रये- ईण्डीलेखनतो धनाभिगमनीमाधुपायैस्तु ते ॥ १३ ॥ नित्यं वैष्णवविग्रपूजनरताः क्षीरादिभिर्भोजनः द्राक्षाखण्डवृतप्लुतैश्च हवनर्ये कौशिकीपूजकाः । देवाराधनरुद्रपूजनहनूमड्ढुण्ठिपूजारता- स्त धान्यैर्वसुभिर्भूता बहु यथा माङ्गल्ययुक्ताः सदा ।। १४ ॥ गोधूममेदोघृतखण्डतुल्यैः सुपाचितं चापि कटाहमध्ये । मिष्टान्नमेतद्धि कडाहसंक्षं सर्वार्थसिद्धिप्रदमेव पूज्यम् ॥ १५ ॥ शिप्याह्वानपुरःसरं करयुगं सम्मेलयित्वा पुनः कृत्वा ग्रन्थवचः श्रति च नमनं समिलित्वा पुनः ।
.
( ७ )
सर्वेभ्यः प्रतिपादयन्ति समतारीत्या प्रसादाङ्कितः
श्रीब्रह्मादिपिपीलिकान्ततनवस्तृप्तास्तु यद्भोजने ॥ १६ ॥
इति श्रीकृष्णकौरमिश्रकृते श्रयङ्के काव्ये
रामदासपुरवर्णनं नाम द्वितीयः सर्गः।
१०:
तृतीयः सर्गः।
वसन्तऋतुहोलिकावर्णनम्।
वजेशीभवने घृतप्लवनकं देव्या जनैः कार्यते
तद्वै मण्डलमाज्यकं कुसुमसन्माल्यादिपूजायुतम् ।
यदृष्ट्वा बहुपुण्यलाभ ऋतुषट् वै लभेत् सम्पदो
नानाकार्यकरं प्रसादजननं देव्या इदं भूषणम् ॥१॥
माघे शुक्लशरे दिने भगवती प्रादुर्बभूवाग्रतो
लोके मङ्गलमातनोति दिवसं तत्पुण्यमुत्साहदम् ।
कृष्णेन व्रजभूषु गोपवनितायुक्तेन रासो महा-
नारब्धः श्रवणेन यस्य कलुषं नश्येद्धि तद्वर्ण्यते ॥ २ ॥
श्रीमद्रासाभिलाषी ब्रजयुवतिजनो मञ्जुलत्तौ वसन्ते
तस्यादौ माघशुक्ले शुभमदनशरोद्दीपितायां तिथौ वै ।
मन्दं क्रीडा प्रचक्रे मृदुमुरजरवैर्घोषितां मण्डलीका-
मन्योन्यालापशब्दाच्चकितखगगति वासुदेवेन सार्धम् ॥ ३ ॥
यत्र भ्राजिष्णुचूर्णानवरतगतिभिश्छन्नभूम्यन्तरिक्षं
सन्ध्याम्भोदावलीभावदरुणरुचिभिः कौतुकं दर्शनीयम् ।
ब्रह्माद्यैः सगृहीतं ब्रजभुवनगतैर्गोपवालैः सुरक्त-
रान्दोलद्भिर्जलौघैः सुरभिरसयुतैरार्द्रिताशेषलोकम् ॥ ४ ॥
'। ८ )
-
उत्फुल्लत्सर्षपालीवसनरुचिमनङ्गास्पदं कामनीनां
शीर्ष सारिपिच्छे मृगमदतिलकं पूरयन्तं सुधाभिः ।
वंशीरन्ध्रात् ब्रजस्त्रीकरगतजलयन्त्रादिभिः सिच्यमानं
गायन्तं पञ्चमं रागममलमघहं ब्रह्मरूपं नतोऽस्मि ॥ ५ ॥
श्रोताभिरामशब्दैर्मुरजमुखभर्तितः स्त्रीकदम्बो
मित्रेण ब्रह्मणानुग्रथितकुसुममालोऽपि पूज्येन देवैः ।
स्त्रीभावनात्तगवस्त्वरितविरहितः स्वामिना चेन्द्रियाणां
वृन्दारण्ये सुकूले तपनदुहितजे ब्रीडितः सम्मुमोह ।। ६ ।।
चक्षुःश्रोत्रोन्यवोचन्मम जननमभूभृमिरन्ध्र धिगेतत्
स्वर्गाधीशं स्वरूपेऽप्यवतरणपरेऽनेकमन्युर्बभूव ।
भूमीसंस्थो जनोऽयं मम जनिसफलत्वं जगादेति हृष्टो
दृष्ट्वा श्रीकृष्णरासं ब्रजभुविरचितं गोपिकागोपवृन्दैः ॥ ७ ॥
अस्तं याते विवस्वत्यरुणधनपटाच्छादिते शैशिरत्तों
पूर्वाशां प्रोद्यतीन्दौ सजलजलदसङ्घावृते स्पष्टतारे ।
सन्ध्याकाले समीरे लघु लघु नुदति प्रेयसी वा प्रियार्थे
कस्या नोच्छ्रहलो वै भवति तरलितश्चित्तमातङ्गराजः ॥ ८ ॥
राधाया याहि गेहं मननविनतिभिः सान्त्वयस्व प्रियां तां
त्वदेशी गीतशब्दाद्विवशितधिषणायाः स्खलन्त्या गृहान्ते ।
नो चेत् क्रुद्धा भवेत् सा व तत्सुखततिश्चेति दूत्या स उक्तः
श्रीकृष्णः शीघ्रगामी व्रजसखिसहितः क्रीडनार्थ जगाम ।।६।।
खेखेल सञ्चरन् वै शशिमृगशिशुकः स्यन्दनाग्रे निबद्धो
गन्तुं शक्नो न चासीत् क्वणितपदरवाहूतचित्तोऽङ्गनानाम् ।
रासन्तीनां प्रियाश्लिष्टसुभगभुजलतानां लसत्पटीनां
तस्मिन् श्रोतुं प्रवृत्तेष्ट(स )ति शतदिवसा यामिनी सम्बभूव ॥१०॥
( ९ ) काचिद्भा निरुद्धा क्षणमपि विरहाद्रुद्धवाता वनान्तम् गेहाद्याति स्म कृष्णस्मरणवशतया प्राप्तसिद्धयष्टका वै। तत्रान्दोलत्सखीभिः प्रियहृदयभुजाश्लिष्टकण्ठी सुकण्ठी साफल्यं प्राप सेत्थं मधुरिपुमहिमा भो भजध्वं तमीशम् ॥११॥ तन्वी सुप्तप्रवुद्धा श्रतिगतमधुरा रावसम्मीलिताक्षी तल्पादुत्थाय गन्तुं कृतनियतमना विस्मृतात्मीयवर्गा। श्वश्रवा सम्यङ् निषिद्धा सुतललनमिपेणैव याता वनान्तं दृष्ट्वा श्रीकृष्णचन्द्रं प्रमुदितहृदयाह्लादिनी सम्प्रवृत्ता ॥ १२ ॥ एवं लोके सुखाढ्याः सुरभिरसयुतैहोलिकायां प्रविष्टा भैरव्या लिङ्गगुह्यप्रकथननिरता मोहकामैकसताः । हम्मीराद्यैः सुगन्धैः क्षितिजलदसमारब्धभोगणाना रौप्यस्वणारचौरचितभुवनयन्त्रा निषिक्ता जलौघैः ॥ १३ ॥ वेश्याभ्रकुंशनृत्यप्रमुदितमनसः कुङ्कुमारक्तवस्त्रा- स्ताले नृत्ये च वाद्ये बहुतरनिपुणा मद्यपानादिसक्ताः । गायन्तो गापयन्तो विषयविवलिता हास्यलीलानुषक्ता जातप्रीतौन धनानां वितरणचतुरा धम्मभट्टादिकानाम् ॥१४॥ लोके माङ्गल्ययुक्ता शुभभवनगता मित्रवृन्दोपविष्टाः कर्पूरोशीरसान्द्रर्हिमजलमिलितैरम्बुयन्त्रैर्त्यषिञ्चन् । अन्योन्यास्येषु चूर्णैवहुसुभगतया मर्दयन्तो हमीर ढक्काभेरीमृदङ्गध्वनियुतनटनैर्नर्त्तनैलासयन्तः ।। १५ ।। पूर्व येऽत्यन्तहीना धनरहिततया सङ्गताः श्रीगुरूणां पादाम्भोजं निविष्टा भ्रमरगण इव प्राप्तमाधुर्यरासाः। * प्रीतौ जातायां सत्याम् ॥
( १० )
ते लोके कीर्तिमन्तो धननिकरयुताः प्राप्तमाहात्म्ययोगा
दाख्यात्येकनिष्ठा इह परभवने प्रापितानन्दपूगाः ॥ १६ ॥
इति श्रीकृष्णकौरमिश्रकृते श्रयङ्के काव्ये
वसन्त ऋतुहोलिकावर्णनं नाम
सर्गस्तृतीयः समाप्तः ॥ ३॥
चतुर्थः सर्गः।
ग्रीष्मादिऋतुषटुवर्णनम् ।
गीष्मत्तौ तापतप्ता अमृतसरसिगाः खेलयन्तो जलौघैः
तापान
सम्माजयन्तो व्यजनकुसुमवातैः सुशीतैर्बहिःष्ठाः ।
तक्रैर्दुग्धैः सिताक्तैः सवनमुपगतैः सेवितैः शान्तचित्ता
धन्यास्ते सम्पदाढ्याः समरिचविजयासेवनाद्यैः प्रसन्नाः ।।१।।
ज्येष्ठे घट्यम्बुदानैर्ऋतविधिविहितैः शर्करापानसक्ताः
देवान् पित्रादियुक्ताँस्तनुहिमजलस्तर्पयन्तः सुतृप्ताः ।
एकादश्यां फलादीन् मधुररसयुतान् भक्षयन्तः प्रदाय
द्वादश्यां विप्रसाधून मधुरघृतपयोभोजिनः कुर्वते च ॥ २ ॥
आषाढे शरदालये वसनतो धर्मातपो वार्यते
नित्यं व्याकुलतामुपैति हृदयं पुंसां विना येन वै ।
तदुःखं भजनानुरागवशगैः किञ्चिन्न विज्ञायते
वाचा कीर्तनकारकैः करयुगैः सत्पादसेवादरैः ॥ ३ ॥
वर्षौं घनगर्जनं निपतनं वृष्टेमहामङ्गलं
मार्गाणां परिरोधनं सुबहुशो निम्नोन्नतत्त्वापहम् ।
एकत्रीकरणं सतां बहुतिथं तत्सत्रिणां सत्रदं
विद्युद्रोहितकार्मुकादिकरकः सम्पादने जायते ॥ ४ ॥
( ११ )
शालीनां नवरोपणं विकसनं शक्रेण गुप्तस्य हि
खद्योतालिपरम्पराविजननं खद्योतनच्छादनम् ।
कामानामनुसारतो हरिशिवां वा पूजनं कार्यते
विप्राणां प्रतिपूजनं च नियतं यन्मुक्तिभुक्तिप्रदम् ।। ५ ।।
यं दृष्ट्वा बहुचिन्तयन्ति रहिता योषा रुदन्त्यो वणिग्
लोकानामतिगर्जने न भयदं विद्युत् समालिङ्गितम् ।
तासां भर्तृसमागमं रचयते मेघः स एवार्थितः
तचित्तं करुणार्द्रतामुपनयस्तस्मात् परो नोदयी ॥ ६ ॥
ब्रीहीणां परिपाकता शरदृतौ पुंसं गतो योषितो
गर्भिण्यः खलु राजयन्ति नृपतीच्छारातिविध्वंसने ।
स्वं स्थानं पथिका जलैबहुतरै रुद्धा जिगांसन्ति यच्
चन्द्रस्य प्रतिभेदृशीं मुररिपू रासक्रियां वाञ्च्छति ।। ७ ॥
सानन्दं बहुपार्षदा विदधतीशक्रीडने ताण्डवे
वादित्रध्वनितुम्बुरध्वनिमृदङ्गावादने तत्पराः ।
साहाय्यं प्रतिबिभ्यती भगवती साश्चर्यमालिङ्गति
लोकानां प्रलयेऽतिशङ्कितमना नृत्यत्पतिं रुन्धति ।। ८॥
यत्रादैवतमानुषाटविचरं हृष्यन्ति सर्वे मुहुः
पूजान्नादिपशव्यलाभमुखिताः श्राद्धादिदानादृताः ।
लक्ष्मीजागरणं व्रतादिकरणं यत्कार्तिके पुण्यदं
माहात्म्यश्रवणं फलादिबहुलं जागर्ति यन्माधवः ॥९॥
शिष्या सिंहजना उदासिविमला गोविन्दसिंहस्य वै
प्रीत्यै भक्तिरताः सुशब्दनिरता गाने तथा श्रावणे ।
सद्ग्रन्थस्य विचारणे विवरणे पाठे महेच्छायुता
धन्यास्ते कलिनिग्रहेऽति निपुणा दाने तिथेः पूजने ॥ १० ॥
( १२ ) हेमन्ते हिमपतनेन पीडितोष्ठाः पत्याढ्या रजनिमहाविलासतृप्ताः । राज्यन्ते विषधरवैरिनादतप्ता योषास्तद्विरहभयेन पीडितास्ताः ॥ ११ ॥ राज्यन्ते श्रुतसारिकाशुकरवा चैतालिकद्युम्नगी- मर्यादिध्वनिकर्णनेन चकिता गुर्वादिसद्वन्दनम् । कुर्वत्या बहुदासिका अपि पतीन् वन्दन्त एवाङ्गना गार्हस्थ्ये सुखसंयुता इति महापुण्यद्रुमोत्थं फलम् ॥ १२ ॥ माघे पाश्चात्यभागेऽमृतसरसि सदा सम्प्लुता शीततोये ग्रन्थश्रावकयुक्ता गुरुकथितपदध्यानगाने रताश्च । द्रव्यत्यागेन तुष्टाः सदमरभजनानन्दतृप्ता जना यत् कारुण्यात् श्रीगुरूणामभयवरदयादानशोभाकराणाम् ॥ १३ ॥ भैरव्या वेशयुक्ताः पटहडमरुकावादिनश्चन्द्रचूर्णे- लिम्पन्त्योऽन्योन्यमास्ये भडउभडउवादेन सन्तुष्टचित्ताः । सन्ध्यानेहस्यतृप्ता बहुतृणदहने होलिका दाहयन्तः सर्वेषां रीतिरेवं प्रतिशरदमहो सर्वलोकाः सुखाढ्याः ॥१४॥ सत्याहिंसार्जवादम्भगुरुभजनशौचादिकाभ्यासयुक्ताः सिंहाः शिष्याः सशस्त्रा रणकृतिनिरता नीचहिंसानुरक्ताः । पुत्रस्त्रीभ्रातृदासाननवरतमहो पालयन्ति स्वधान्य- रित्थं ये वर्तयन्ते त इह परगताः सौख्यकीर्तीष्टभाजः ॥१५॥ वासन्तीपुष्पमालाचमरविधुवनैर्गन्धधूपप्रदीपै- रान्दोलन्तं वसन्ते रथकशिपुगतं पूजितं साधुवृन्दैः ।
( १३ )
श्रीगोविन्दं दयालु नयनविषयगं कुर्वते ये जनौधा-
स्ते सर्वे मुक्तिभाजः श्रतऋतुमहिमा पुत्रवखभ्युपेताः ॥१६॥
इति श्रीकृष्णकौरमिश्रकृते श्रयङ्के काव्ये
ग्रीष्मादिऋतुषट्कवर्णनं नाम
चतुर्थः सर्गः समाप्तः ॥
पञ्चमः सर्गः।
अमृतसराह्निककृत्यवर्णनम् ।
स्नात्वा समागत्य नरा नमन्ति
कुर्वन्ति सव्येन गतिं शुभां च ।
प्रविश्य पश्चाद्भवनं विलोक्य
स्तुवन्ति साधून श्रवणप्रवृत्तान् ।। १ ।।
परस्परं वाहगुरू ततश्च
जी दी फते वाक्यमुदाहरन्ति ।
स्थित्वा च तस्मिन् श्रवणं करन्ति (१)
श्रीग्रन्थजीवाक्समुदायकस्य ॥ २ ॥
वित्तानुसारेण कपर्दिकादि-
लक्षान्तपूजां दधते सभाग्याः ।
तेषां फलं प्रीतिविशेषभाजां
मनोनुकूलं भवतीति निष्ठा ॥३॥
कुर्वन्ति दानं च नमन्ति साधून
पठन्ति वाक्यं गुरुभक्तिनिष्ठम् ।
कलिं विशीर्यन्ति मतिं नयन्ति
शुभां भजन्ते बहु मानयन्ति ॥ ४ ॥
.
( १४ )
स्थले स्थले ज्ञानविरागभक्ति-
श्रद्धादयाकीर्तनसंयुतानाम् ।
नित्यं समाजो बहुधा नराणां
लोकोपकारकपरायणानाम् ॥ ५॥
क्वचिद्वोधनिष्ठा क्वचिद्दाननिष्ठा
क्वचिद्भक्तिनिष्ठा समाध्येकनिष्ठा ।
क्वचिल्लोकवार्तारतानां विवादो
गुरोः सृष्टिरेषा विधातुर्नवैव ॥ ६॥
गुरुग्रन्थपाठे श्रुतौ व्याकृतौ च
रतानामिहायुः शुभं नीयते वै ।
इयं ग्रन्थवृत्तिः प्रवृत्ता जनेषु
त्रिमार्गेव गङ्गा पुनाति त्रिलोकम् ॥ ७ ॥
कवित्वमग्नाः पठने सुलग्नाः
केचित् कथाख्यानविधौ प्रपन्नाः ।
हस्वप्लुतोदात्तविचारसक्ता
गान्धर्वविद्याभ्यसनानुरक्ताः ॥ ८ ॥
मृदङ्गतुम्बीरवकाहलोच्च-
स्वरैः सुसन्नादितदिक्तटानाम् ।
गीतिक्रियारागविचक्षणानां
स्तुतिः कः प्रसहेत लोके ॥ ९ ॥
उष्णीषसत्कञ्चुकपट्टवस्त्रा
नीलाम्बराः खगभुशुण्डियुक्ताः ।
पश्चास्य शिष्या गुरुभक्तिनम्रा
अत्र स्थिता वैरविरोधहीनाः ॥ १० ॥
( १५ ) 10 सदा गुरूणां कृपयाप्तराज्याः पदातिहस्त्यश्वरथाग्रशोभाः। ग्रामाटवीपर्वतराजधानी- भोगैः सुखादया धनमानयुक्ताः ॥ ११ ।। वणिग्जना अत्र निवासिनो ये स्नातुं समायान्त्यतिपुण्य भाजः । मनोमिलापादधिकं लभन्ते पुत्रखधान्यादिपरत्र सौख्यम् ।। १२ ।। सन्माल्यवस्कटकागदनूपुराव्या नीची निवन्धनिरता नयनानुरागाः । स्नातुं गमागमरताः शुभपुत्रयुक्ता अत्राङ्गनाः परमहर्षकरा जनानाम् ।। १३ ।। स्नात्वा धनान्नवसनानि फलानि पुष्पा- ण्यादाय लम्बितकरा द्विजतीर्थसत्सु । एवं विहारसहिताः श्रतिकुण्डलाक्ता नायर्यों भवन्ति धनिनामिव देवदाराः ॥१४॥ यैः पूर्वं बहुदानमानभजनानुष्ठानसेवापरै- विप्राः साध्वतिथिप्रवासिशमिभिर्युक्ता सदा पूजकाः । गत्वा वर्गमनर्गलं च विधृतं तैः पुण्यशेषेऽधुना प्राप्तरत्र मनोरथादिरचना सम्भुज्यते स्वेच्छया ।। १५ ।। श्रीकान्तिहृष्टिमतिसन्नतिभृतितुष्टि- पुष्टयादिमातृगणपूजितसर्वकामाः । श्रीमन्त एव परकीयनिजीयवर्ग- रक्षाकरा इह विभान्ति रवीन्दुतुल्याः ॥१६॥ इति श्रीकृष्णकौरमिश्रविरचिते श्रय) काव्ये अमृतसर आह्निककृत्यवर्णनं नाम सर्गः पञ्चमः समाप्तः ॥ - ( १६ ) षष्ठः सर्गः। श्रीनानकाद्यर्जुनान्तानांराज्यादिव्यवहारनिरूपण जातो भोजनराधिपोऽस्ति सुमहान् रायादिकस्तत्पुरं चातुर्वर्ण्यहितास्पदं च तिलवण्डीनामक राजते । तद्वासी धनधान्यवान् भुजजनिर्वेदी प्रतिष्ठां गतः काल्नामधरस्तु यस्य सुभगः सूनुः शुभो नानकः ॥१॥ राजर्षेरवतारतामुपगतः पृथ्वीमहामङ्गलो योगीवाप्यविभूतिमान् प्रकटताहीनः परोक्षप्रियः । यः शिष्ये फणिवारितातपकरश्छायानिरोधी तरो- लोकज्ञातमहाविभूतिरपि तत्पित्रा न वै सम्मतः ।। २ ।। वाणिज्ये च नियोजितो वसुकरे दत्त्वोपदिष्टः स्वयं पित्रैतद्धनमर्जितं शुभकृतो योज्यं त्वया बुद्धितः । श्रत्वैतद्वचनं प्रदृश्य च सतां तन्मण्डलं दत्तवान् क्रीत्वा धान्यघृतानचूर्णममलं कृत्ये शुभे युक्तवान् ॥ ३ ॥ पित्रोक्तः पशुपो भव स्वमहिषीरसञ्चारयन्नाशय- स्तत्क्षेत्रान्नकणं प्रदर्श्य च पुनः सम्पूरितं पूर्ववत् । आश्चर्य जनयन् स वासकजनं पित्रे पुनः प्रोदितः सर्वैराश्रमवासिभिस्तव सुतो योगी महाचुद्धिमान् ।। १ ।। पित्रा व्यूढ इतो गृहाश्रममतः पुत्रद्वयं लब्धवान श्रीचन्द्रः प्रथमो गुणैरनवमः श्रीमाञ्छशीवार्द्रमाक । लक्ष्मीदास इति द्वितीय उपमाहीनः सुतोऽभृन्महान वैराग्यं परमं गती जगति समिथ्याचिंकान्धिती ।। ५ ॥ आयुर्वपमिति द्विसप्त रचितं मासंपु सप्ताहक कृत्वा राज्यमखण्डितं भुवि जनानुद्वारयन स्वाश्रयान ।
( १७ ) श्रीमद्रह्मपराक्रमो हि महलेति ख्यापयन् भक्तितो ज्ञानं भक्तिविरागयुक्तममलं सम्भाषते भापया ॥ ६ ॥ जातो वै त्रिहुणेतिजातिविमले क्षात्रे कुले सोऽङ्गदो भूत्वा राज्यमखण्डितं च शरदां तद्द्वादशं मासपट् । घस्राणां नवकं चकार सुभगे क्षात्रे कुले लव्धवा- तुद्वाहं सुतयोर्द्वयं जनितवान् दासू च दातू प्रथम् ॥ ७ ॥ शान्तर्णः पितृदैवतर्पिभजनानन्दं समादर्शयन् भक्तांस्तारयति स्म सम्प्रचलितः काष्ठां परां भूतले । भाषावन्धनकारकस्तु भगवान् माहात्म्यसंसूचको मन्दानामधिकारिणां सुगहनं श्रीमत्पदं प्रापयन् ।। ८ ॥ भल्लासंज्ञकवाहुजो ह्यमरदासो वासरग्राम के वासी राज्यमवाप सो भुवितले श्रीगोंदवाले वसन्। द्वाविंशं शरदां क्षितिक्षितिमिताहासकं पञ्चक भक्तान् भक्त्युपदेशतश्च विमलान् सन्तारयन् भूतले ॥९॥ क्षत्रज्ञातिकुले विवाहमकरोत् सन्तानसिद्धयै प्रभुः तस्मात् पुत्रयुगं सुतायुतमभूत्तन्मोहरीमोहनम् । भानीसंज्ञकमाशुभूमिसुखदं पित्र्यणसम्मोक्षदं विप्रज्ञात्यतिथीशपूजनरतः शिक्षन् जनान् सेवकान् ॥१०॥ सोढीजातिरनुत्तमः प्रियहितः श्रीरामदासोऽभवत् सोऽयं तीर्थमिदं सुधासर इति प्रावर्त्तयद् भूतले । षड्वर्यैकदशाख्यमासदिवसाष्टैकं च राज्यं महत् कुर्वन्नुद्वहनं सुतत्रयमवापार्जुन्यपृथ्वीश्वरौ ॥ ११ ॥ संसारऋणमोचकं किल महादेवं तृतीयं सुतं साक्षाच्छम्भुवदेव शोभितमहो कारुण्यपूर्ण पृथुम् ।
( १८ )
लोकानां परदेशनिष्ठितवतां ध्यानात् पुमर्थं ददत्
सोऽयं भाति महीतले पृथुयशाः श्रीरामवत्सुन्दरः ॥ १२ ॥
मर्यादाकरणं जगद्धितकरो भिक्षागृहीतावनिः
पर्यन्तावनिनायकेभ्य इव वै विष्णुबलेामनः ।
ग्रामे वासयिता चतुर्जनसमाजं सौख्यभाजं सदा
कुर्वन् शिष्यजनस्य भाति हृदये कारुण्यवारां निधिः ॥ १३ ॥
तस्माद्राज्यपदं स्थितं स्वकगणे सोढीजनुर्धारिणि
दत्तं श्रीगुरुणा स्वभक्तिनिरतः स्त्रीणां गणैर्युक्तितः ।
सम्यक् प्रार्थनबोधितेन हि सदा संराजते भूरिशो
यूयं भो नमतेदृशं कुलहितं राजन्यशोभाधरम् ।। १४ ।।
आभात्यर्जुनसंज्ञकः क्षितिपतिः पञ्चस्थलेऽधिष्ठित
एकाहो नवमासिकं जिनशरद्राज्यं चकारादृतः ।
पुत्रं प्राप महोदयं च हरिगोविन्दाभिधानं सुधी-
यस्मिन् वाहगुरूमनुप्रकटितो नाम्नि स्थितस्तं नुमः ॥ १५ ॥
साहस्रं भुजमण्डलं न वहति स्वीयं तथा कार्यक-
तेजो बाहुसहस्रकस्य वहिता यः सव्यसाचिद्यतिः ।
शस्त्रास्त्रव्यवहृत्यनन्तचतुरः श्रीमच्छिवाराधको
यन्नामग्रहणेन सिद्धिखिला सत्सेवके सोऽर्जुनः ॥ १६ ॥
इति श्रीकृष्णकौरमिश्रविरचिते श्रयङ्के काव्ये
श्रीनानकाद्यर्जुनान्तानां राज्यादि-
व्यवहारनिरूपणं नाम षष्ठः
सर्गः समाप्तः ॥६॥
( १९ ) सप्तमः सर्गः। हरिगोविन्दादिखालसान्तवर्णनम् सोऽयं राज्ये स्थितोऽभूत् सपदि हरिगोविन्दनामा जितारिः क्षात्रं कृत्वा विवाहं शरसुतयुगतोष्टल्लरायश्चतुर्थः । द्विःस्थाने सूर्यमल्लः प्रथमजं गुरुदित्तस्त्र्यणीरायनामा कीयोपध्यालवालो दशदलविदितस्तेगबाहादराख्यः ॥ १ ॥ तस्याग्रे हरिरायवाहुजवरः सोऽयं पदव्यां स्थितो राज्यस्य द्वयपुत्रवान् स हरिकृष्णो रामरायान्वितः । पण्मासं दिनभूतकं व्यधिकविंशं वर्पसंख्यान्वित राज्यं यश्चकृवान् हरेश्च पदभार मौनी सदा योगवान् ॥ २ ॥ तत्सनुहरिकृष्ण एव वसुसंख्याकं पदं भुक्तवान् द्वौ वर्षाविषुमासकं नवधराघसं सुखस्यास्पदम् । शिष्यभ्रातृसुताङ्गनासुखयुतं शिष्योघसन्तारक लब्ध्वा राज्यमिदं बभाज सुभगं श्रीकृष्णरूपं हरिम् ॥३॥ पष्ठे राज्यपदे स्थितस्य हरिगोविन्दस्य सूनुर्लघुर्यो वै श्रेष्ठगुणैर्गुरुस्त्वभिधया यस्तेगबाहादरः । सोऽयं नव्यपदं नवाभिधमहो लेभे महल्लाख्यक श्रीगोविन्दहरिं सुतं स्म भव (ज?) ते शक्रो जयन्तं यथा ॥४॥ खैकं वर्षमितिस्तु मासतुरगं घसैकविंशं तथा राज्यं चान्वभवत् सुताय च परं श्रेष्ठं स्वयं दत्तवान् । श्रीगोविन्दपदान्तसिंहललितायारातिनाशाय च मापोवालनिवासिने जनसुखायानन्दपूर्वासिने ॥ ५ ॥ विद्याचातुर्यशाली धनुरवनपरो धारयन् वै निषङ्गी भक्तोद्धारी महिष्ठो हतरिपुनिवहो भाति सङ्ग्रामशाली ।
. ( २० ) आपूर्व पश्चिमान्तं हिमपटलधरद्विन्ध्यमध्ये यशोधा वाजिप्रेमा वदान्यो वितरणनिरतो धान्यवासो मणीनाम् ॥६॥ द्वात्रिंशद्वर्षमासैकदशमितनृपत्वं चकारैकलीलः क्षत्रज्ञातौ विवाहत्रयमितगृहधर्मा चतुःसूनुशाली। सुन्द- देविकायामजितमृगपतिं पूर्वमुत्पाद्य सूनुं जीतोजीअङ्गनायां त्रयसुतमुपवीतादियुक्तं चकार ॥ ७ ॥ सूनुत्रय्या झुझारो मृगपतिसहितस्तज्जुरावसिंह- स्तुर्यः सिंहः फतेपूर्व इति जगति वै विश्रुतं यस्य नाम । तान् पुत्रान् वन्दनीयानभव (ज?) त सुखदान ये न संसारसौख्र प्राप्तो गोविन्दसिंहो रिपुमिषवशतस्तद्विनष्टिं च सेहे ॥८॥ दुष्टम्लेच्छेविषण्णः प्रतिकृतिकृतयेऽनेकमन्युर्बभूव क्रोधाग्नेविस्फुलिङ्गैः प्रतिदिशपतितः सर्ववर्णे समुत्थः । जातः श्रीखालसाख्यः स्वयामिव बहुधा शक्तिसम्पन्नचेष्टः शुम्भादीन् हन्तुकामा प्रकटयति यथा कोशिकीकालिकाख्या ।।९ तच्छत्रुक्रन्दनादौ निपुणतरमतिः प्रत्यहं वर्धनोत्को देशान् देशान् लुठन् वै वसु किमपि बलि तत्प्रजाभ्यः प्रगृह्णन् रक्षांचक्रे दयालुर्व्यवहृतवणिजः प्रापयन् सौख्ययुक्तान ग्रामानित्थं स्वकीयान विरचयितुमनाः क्षत्रविप्राधिमानी ॥१०॥ पाश्चात्येशं जिघांसुः स्ववलपुरुषतां प्रापयन् सिंहरासु तस्थानीकं विलुण्ठश्चढतहरिजसासिंहकादिष्पनन्ताम् । सेनामध्येऽश्ववारानसिशरधनुषोद्धारकान् दर्शयित्वा तेषां भीत्या पलायां गृहधनमहिला कुर्वतां लुण्ठति स ॥११|| इन्द्रप्रस्थं यियासुर्लघुतरपृतनः प्रेरयामास सिंहान् जस्सासिंह खुशालं जयहरिचढतासिंहतारामृगेन्द्रम् ।
( २१ ) श्रुत्वा तेपां प्रयाणं व्यथितजनमनाः पयामास दुतं मर्यादापङ्क्तिमिछुर्धनचयसहितं लेख्यपत्रं दिलीशः ॥१२॥ सेनामध्ये पुमान् यो न हि न हि करणीयं जगादति कश्चित् स्वस्मिश्चके विरुद्धय प्रतिगमनमति सब एवं प्रचक्रः । नो तस्याप्युत्तरं वै प्रतिनियततया दत्तवन्तः प्रतीप- माजग्मुस्ते मृगेन्द्रा व्यवहतिगणना नास्ति येषां समृहे ॥१३॥ झण्डासिंहः समीपेऽमृतसरस इयेप स्थलं वस्तुकामो श्रत्वा गढं व सकलनगरगा मानुपा आगताच । लोका व्यापारवन्तः कृतयुगनियति कौतुकं दृष्टयन्तः सौख्यं प्रापुः समृद्धिं धनयमणियबादिकानां मुशीघ्रम् ॥१४॥ एवं सर्वस्तु सिंहरभिलपितमिदं पत्तनानि प्रचक्रु- स्तेऽन्योन्यं बद्धराः प्रतिदिनममितं योद्भुकामाः पृच्चात् । सर्वे श्रीखालसेन प्रहतमतितया योजिता ननिष्ठा एवं वै खालसन्द्रः सकलनृपमनःक्षोभको भाति लोके ॥१५॥ यह्वायुः खालसेशः प्रथितजनवचाः प्रस्खलन् बालकत्वा- च्छत्रणां नाशकश्च प्रततगुणयशाः सर्वदिग्राजभागी । विप्राणां सज्जनानां प्रणयहितकरो दानमानादिशील एवं वर्धिप्यते श्रीमृगपतिपु गुरोः सबकेषु प्रवृत्तः ॥१६॥ इति श्रीकृष्णकोरमिश्रविरचिते श्रयके काव्ये हरिगोवि- न्दादिखाललान्तवर्णनं नाम सप्तमः सर्गः समाप्तः ॥ ७ ॥ - ( २२ ) अष्टमः सर्गः। मन्त्रसाधनखड्गाविर्भावतन्माहात्म्यमङ्गलनिरूपणम् श्रीकालीसिद्धिकामः स कुसुरसमुदायं समाहूय पृच्छं- स्तरुक्तः काशिकायामिति बसति महाभट्टजीपूर्णनामा । यन्त्रज्ञो मन्त्रविद्यागमनिगमसमूहस्य विज्ञानशाली द्रव्यं सम्प्रेप्य भक्तथा चशय सुचतुरं तेन सिद्धिर्भवित्री ॥१॥ पाद्याादीन् स दत्त्वा बदति कुशलतापूर्वकं स प्रणम्य कश्चिन् मन्त्रं सदेवं कथयतु भगवान् येन देवी प्रसिद्धा । शत्रन् सम्मईयन्ती दिशतु महाभाग्यवत्तामतीव सेवाकारी सदाहं चरणयुगलयोः श्रीमतां भक्तिपूर्वम् ।।२।। वार्ट प्रोवाच भो भो कठिनतरमिदं तिष्यकाले नराणां प्रोक्तान्येतानि देव्यै पितृवनचितयोः साधनादीनि सद्यः । शर्वेणेति त्वदर्थ घनतरनिपुणे नैव भावेन यत्तः काली संसाधयिष्ये बहुतरसमयेनैव साध्या हि देवाः ॥३॥ श्रुत्वैवं धैघ्यूकामः पुनरपि स बदस्तेन काल्या नियुक्तः पूजायां केशधारी नियतमसिधरो नीलवासा भव त्वम् । धैर्य चालम्ब्य दाात् पशुबलिविधिना ध्यानजापैकसक्त एवं वै मण्डलान्ते फलमपि भविता साधनेनोत्तरेण || आकर्येत्थं जजाप प्रबलमनुवरं कालिकाया भवान्या- स्तौादीक्षाविहींनो ह्यनतगणपतिः शत्रुहिंसैकचित्तः । यं यं भावं सरेद्यः स दृढमतितया तं तमेवैति लोकः प्रादुर्भूतस्ततोऽसिः शतशतहदा तेजसाक्रान्तदृष्टिः ।।५।। चित्ते भ्रान्ति चकार स्वयमपि वहितस्यासनात् प्रोत्थितस्य तस्मात्तच्छत्रुघाती प्रचुरतरगतिश्चण्डिकाखड्ग एव ।
( २३ ) कार्य संसाधयत्येव हृदिजनिरुपा विस्फुलिङ्गैः स एव जातः श्रीखालसाख्यो मृगपतिविभवः शत्रुहन्ता बहुभ्यः ॥६॥ योऽष्टौ नामानि चित्ते सरति स विजयी श्रीयुतो धर्मपालो दुर्धर्षतीक्ष्णवेगोरिविशसनपरः क्षेपकः खड्गवत् स्यात् । खड्गोऽसिस्तीक्ष्णधारो विशसनविजयश्रीयुतो धर्मपालो दुर्धपश्चेति नामानि विधिमुखभवानि प्रथमागतानि ॥ ७ ॥ राज्यं दातारिहन्ता वृजिनविशसिता तीक्ष्णधाराविधा लोकश्रीगर्भकर्ता विजय इव दुराधर्पिता धर्मपाता । दुष्टान् खड्गेन हन्ता दुरितचयचमूः प्रासिता भक्तभर्ती स्थाता दुर्गाकराब्जे द्रुहिणहरविधून शत्रुनाशे प्रयोक्ता ॥८॥ काल्याद्या येन दैत्यान् मधुमहिपनिशुम्भास्रवीजान्निजघ्नः खड्गेनानेन तेन प्रसृतवलमहातेजसा खालसेन । सर्वैश्वर्यैरुपेताः क्षितिमणिवसनद्रव्यवन्तो विभान्ति सिंहा आविष्टवर्मा भजनजपपरान् मानयन्तः पृथिव्याम् ॥२॥ विप्रवातसुपालनैकचतुराः श्रीचण्डिकापूजका वासन्ते शरदि प्रपूजनरता होमादिविप्रार्चनैः । कूष्माण्डाजवलिं विधाय सुभगाकन्याकुमारार्चकाः पुत्रभ्रातृसुदारधान्यधनयुक् सौख्याश्चिरञ्जीविनः ॥१०॥ केचित्प्राक्तनजं वलं विदधतः शास्त्रादिनिन्दारताः पौर्वापर्यविचारहीनमतयो गोविन्दसिंहस्य यत् । तेनैवाददते मतं सुविपुलं स्वाचारसम्मर्दका- स्तैः साकं किमु वेदशास्त्रगुरुवाक्याज्ञासमुल्लञ्चिभिः ॥११॥ उत्थाय क्षणदावशेषसमये स्नाता रता वाचने ग्रन्थस्य श्रवणे निरुक्तिकरणे गाने तथा वादने । ..
( २ )
प्रीताः प्रीतिमथापर्यन्ति सुजनानां शृण्वतां मानसे
ते धन्याः शुभमानसाः कलियुगे सत्कीर्तने तत्पराः ॥१२॥
पञ्चब्रह्ममृगाधिपासनगता बाकामशक्तिस्थिरा
विचाक्षाभयदानवाञ्छितकरा मन्त्रैर्मुनीशर्नुता ।
वासोरक्तवृता शिरोविधुयुता श्रीवालिकाहृद्गता
पायान्माखिलविघ्नराशिहरिणी भद्रा प्रसन्ना सदा ॥१३॥
भद्रा भागवती भुजङ्गबलिता भाग्येश्वरी भोगदा
भोक्त्री भक्तवशा भुजाम्बुधिपरा भोगैकनिष्ठा भगा।
भर्गेशी भृगुवन्दिता भगवती भूपावजे पिता
भृयाद्भद्रकरी भवाङ्गभजनानन्दा भवानी भुवि ॥१४॥
पञ्चाशद्वरवर्णपङ्क्तिरचिताङ्गा वैखरी देवता
नाभीहद्गलभाखती पुरहुतिः पश्यन्तिका मध्यमा ।
स्थानान्धौ वहिरन्तरप्रचलिता हुत्साक्षिणी कुण्डली
सर्वप्राणनजीविनी न हि विना तां चित् कलां किञ्चन ॥१५॥
ग्रन्थादौ ग्रन्थमध्ये तदवसितिविधी कुर्वते मङ्गलं ये
तेषां देवीप्रसादो भवति हि सततं चायुरारोग्यवृद्धिः ।
लक्ष्मीधान्याभिवृद्धि श्रियमतुलमहामण्डनां प्राप्मयुस्ते
वक्तश्रोत्रोहितेच्छुःपुरुषफलचतुष्कं च दद्याद् भवानी ॥१६॥
इति श्रीकृष्णकौरमिश्रविरचिते श्रयङ्के काव्ये
मन्त्रसाधनखङ्गाविर्भावतमाहात्म्य-
मङ्गलनिरूपणं नाम सगोऽष्टमः
समाप्तः ॥ ८॥
( २५ ) नवमः सर्गः। मङ्गलाचरणसिद्धाविर्भावपूर्वकसरोविरचनम् ब्रह्माद्याः पञ्च यस्याः पदकमलयुगोद्वाहिपीठे निषेदु- नित्यं यत्सन्निधित्वादलपरिभवतः प्रेतभावं वहन्तः । तत्रस्था वालिका सा मनुमुनिनिकरैः पूजिता नम्रशीर्षैः भक्तानां कार्यसिद्धया अभयवरकरी माऽवतात् साक्षविद्या ॥१॥ पादद्वन्द्वं नमामि स्वरुनिकरवमत् स्वर्णमञ्जीरशोभि लाक्षारागस्रवेण प्लतसकलमहीं ध्यायतां ते शुभंयु । ब्रह्मादीनां शिरःसु स्वरवनिरुहजस्रपतद्रेणुरूक्षं भीमांसान्यायविद्यागमनिगमतुरङ्गास्यसङ्गीतकीर्ति ॥२॥ नीलाम्भोदावलीरुक्तपनशिशिररुग्धव्यवाड्लोचनाद्या दंष्ट्रावल्यावलीढा सुररुधिरचमत्तातिभीष्मस्वरूपा । वैयाघ्रच्छन्नदेहा जयति हि जगतां शम्भवित्री खनाम्ना शीर्षाणं मालिकाभिर्भुजगगणयुताभिर्युता कण्ठदेशे ॥३॥ धन्यास्ते वीतदोषा हरमहिषि नरा ये शुभां त्वां भजन्ते मूलाधारात् प्रयान्तीं कमलवनमहारुद्रपीठं भुजङ्गीम् । तत्रास्वाद्यामृतालीमवतरणपरां साधकानां हृदब्जे ब्रह्माणं दं(सं ?)दधानामकरणविषयां वै मृणालातिसूक्ष्माम् ॥४॥ चतुःश्लोकीमेतां भवति भवदीयस्तुतिपरां नरो यो लोकेऽस्मिन् पठति कवितायां स उशना । अलेके (१) भूपानां मणिरिव प्रभाभासितककु- प्तिरस्कर्ता कान्त्या मदनमहिमानं स मनुजः ॥५॥ इत्थं देव्याः स्तुतिमविकलां यः शृणोति प्रसन्न: सर्वश्रेष्ठां हृदयरुचिरां वन्दनीयो भवेत् सः ।
( २६ ) दारियापच्छमलदमनं तस्य पुंसः स्वसिद्धं पुण्योत्कर्षादपि करगतं पुत्रपौत्राभिवृद्धिः ॥ ६ ॥ त्वद्वासागारकस्याजिरमुपसमितः कृष्णकौरो द्विजोऽहं दृष्टं सत्कर्मवेगात् परमगुरुकृपापूरिताच्छोभमानम् । खीयायाः पादुकायाः स्ववशकृतगतायातकृत्यैर्महशि- स्पर्शः कार्यो मदङ्गे भवतु मम महाभाग्यवत्ता यतो हि ॥ ७। आदिगुरुःकमलाधिपतिर्यशसा प्रथितो भुवि दानरती राधिकया युत एव वने ब्रजवासिजनैर्मुदितः सुमतिः । श्रीवज्रराजिविराजितमन्दगतिव्रजवालसमाजरतिः तैः शुभभक्तिविरागविवेचनवद्भिरुपासितपादततिः ॥ ८ ॥ इमं कृष्णं नत्वा गणपतिभवानीशसहितं पुरावन्माहात्म्यं रचयितुमलं प्रेरितमनाः । गुणग्रामैवर्ने पुरुमहिमभाजामनवधि नखस्यान्तं ताक्ष्यों गमयति यथा वेगचलितः ॥ ९ ॥ अथैकस्मिन् काले विरचयितुकामस्तु स सरो गुरु रामो दासः क्षितिखननमेवारभत हि । पुरो नीचैः खातादमररचितं स्थानमुदभू- त्ततः सिद्धो दृष्टो दृढतरसमाध्येकनिलयः ॥ १० ॥ शिरोमध्येऽभ्यङ्गाद् धृतरससमाविश्य बहितः पुरो नेत्रोन्मीलन् कलिनरसमाजेन चकितः। उवाचोच्चद्भ्यो गृहमिव पुरामुं स्थगयत नतो भूयो भक्त्या गुरुप्रभृतिलोकेन मुदितः ॥ ११ ॥ स तैः पृष्टः कस्त्वं किमवधिककालेन निरतः समाधौतेनोक्तं कृतयुगनृपेक्ष्वाकुवसतौ ।
( २७ )
कल्पद्रुमाभासितं
स्थितो यत्तोऽहं वै त्वमपि तदपत्त्येषु कतम
इति श्रुत्वा तेन स्थगितमिदमेव हि गुरुणा ।। १२ ।।
ततो लोके ज्ञातं नृपकुलसमुत्थेन प्रभुणा
स्वभूमावारब्धं सर इति समीपक्षितिधरैः ।
धरा दत्ता तेन स्वयमपि पुरी विस्तरवती
महापुण्यैः पूर्णा बहुसंरसशोभागुणवती ॥ १३ ॥
तसातीर्थमिदं पुराणमहिमं यत्सिद्धवाक्सङ्गतं
शुद्धान्तःकरणैर्जनैरवाहितैर्यत्सेवितं मोक्षदम् ।
त्रैवय॑स्य फलं स्वचित्तवशतः
लब्धं पुण्यगणैः पुराभवभवैर्यदुर्लभं हस्तगम् ।। १४ ।।
दूराद्ये समुपागताः श्रतमहाशोभा अहो पश्यत
दृष्ट्वा भक्तिवलेन पूरितमहाकामास्त एवं ध्रुवम् ।
लक्ष्मीराज्यविभूतिकीर्तिमहिताः सम्यक् प्रतिष्ठां गताः
लोके चै कलिकालविक्रमपरिक्रान्तेन सङ्क्रामिताः ॥ १५ ॥
श्रीमद्भक्त्येकनिष्ठागतहृदयतया सर्व एवं विबब-
राद्याद्गोविन्दसिंहावधिसममतयो ग्रन्थसद्ग्रन्थनार्दाः ।
लोके तत्पाठयुक्ता जपभजनरताः सिद्धिमन्तो बभूवु-
वश्याकर्षादिदीनोद्धरणमतिपराः श्रीसुखप्रेमरक्ताः ।। १६ ।।
इति श्रीकृष्णकौरमिश्रविरचिते श्रयङ्के काव्ये
मङ्गलाचरणसिद्धाविर्भावपूर्वकसविरचनं
नाम नवमः सर्गः समाप्तः ॥९॥
( २८ ) देशमः सर्गः। वावानानकाङ्गदयोर्गुणगणमाहात्म्यकथनम् । गोरक्षादिकसिद्धमण्डलगतस्तनानको भापित- स्त्वं शिप्यो वद कस्य चेन्न भवसि श्रीसिद्धयेऽस्मत्पथे । आगच्छ अतिखण्डनात् परमिदं मुद्रादिकं धारय तत्र श्रीगुरुनानकः स वदति प्राज्ञाः शृणुध्वं सुखम् ।। १ ।। सर्वेषां स गुरुश्चिदात्मकतया योऽखण्डितोऽन्तर्गतो बुद्धिप्राणमनःश्रतिश्च वहितो यो मूलमन्त्रप्रदः । तं भक्त्या ह्यजपाजपेन नियतं सर्वत्र सम्भावये हुत्स्थं शक्तिमतां वरं परगुरुं यद्दीक्षितोऽहं सुखी ॥ २ ॥ ढब्बूपञ्चकनालिकेरतिलकं खं मस्तकं नामयन् उक्तं श्रीगुरुपद्धतौ निविश भो मद्वाक्यमाकुरु । तस्मादङ्गदनाम ते च भविता सर्वे हि ते जानतः लोके ख्यातिमुपैष्यति प्रगदितः श्रीवासुदेवाभिधाम् ॥ ३ ॥ दृष्टेदं पुनरङ्गदेन गदितं यत्त्वं नतो मत्पुर- स्तस्मान्मद्वपुपीन्द्रवज्रपतनं वा कुष्टता जायताम् । तेनोक्तं तव वाक्यमेव फलिताथो कुष्टभागङ्गदो वर्षद्वादशकं वभावमरदासेनासेवितः सर्वदा ।। ४ ।। एकेद्यः सदनं जगाम सहसा वालाभिधः सजनः तं प्रष्टुं भवतेतिनानकगुरुः कीदृक्तयाराधितः । तत्रोचे मनसा विचार्य सुजनं मित्र ! क्षणं श्रयता किश्चिद्वाक्यनिवन्धनेन कथये तां प्रस्तुति नानकीम् ॥ ५॥ रात्रौ तद्भवनं जगाम भजनोत्कोऽहं स मां पृष्टवान् गत्वा सद्मबहिर्विलोकय कियद्रात्रिर्गता सञ्जन ।
( २९ ) एवं चान्यजनानपि स्वकमनश्चातुर्यतः प्रोचिर रावेरेव विनिर्णयं प्रहरकालादि दृष्ट्या बहिः ॥ ६ ॥ बुड्ढा नाम जगाद साधनयनं यामं गता यामिनी । पूर्वेस्मिन्नरघट्ट एव समयेऽस्माभिः सदा चाल्यते ।। एवं सर्वजनैरभापि च निशापाश्चात्यभागो ह्ययम् । योगस्यापि हरेः स्मृतेरवसरो मैत्रक्रियापूर्वकम् ।। ७ ।। पृष्टोऽहं पुनरव हिं सकलो लोकस्तवाधीन्यभाक् तत्सर्व विदितं तवैव मनसीत्थं कस्तव स्वाशये । विज्ञातुं विदितुं क्षमः पुनरसौ तान् पृष्टवान् पूर्ववत् पृष्टोऽहं सकलं पुरेव कथयामासेति स प्रीतवान् ।। ८॥ तेनोक्तं वसनानि भो बहिरितो गत्वा मम क्षालय श्रत्वेत्थं जगमाहमेव दिवसे जाते समक्षालयम् । भूयोऽहं वसनानि तस्य पुरतो धृत्वा निशां पूर्ववत् ज्ञात्वाश्चर्यमवाप संननम भो ज्ञप्तः सशिश्ये तथा ।। ९ ।। एकेद्यः पुनरेव पङ्कजलधौ क्षिप्त्वाम्बुपात्रं करात् पार्श्वे पुत्रयुगं स मामवदकच्चोक्तं तु ताभ्यामिति । लचित्वा गहनं विधाय वसति प्रेष्यान् गृहीत्वा बहून् गत्वा कं च निवेश्य भाजनमतो लब्ध्वा समानीयते ॥ १० ।। तेनान्तःकथितं प्रहस्य मम नो वृत्तं बहिर्दर्शिनी जानीतः सहितावुभौ मम सुतौ जानात्ययं चाङ्गदः । तस्मान्मत्पदभाग्यवेदयमहो अङ्गं मदर्थे दद- दन्तर्यामिणमे हरि गदति वाण्या चित्ततो ज्ञातवान् ॥ ११ ॥ . ज्ञप्तोऽहं वसनैर्युतः परिकरं बद्ध्वा दृढं मज्जितः पात्रं तजगृहे निवेद्य मलिनं स्वच्छं पुरो दृष्टवा ।
( ३० )
वस्त्रे स्वीयमपि स्वतो धवलितं ज्ञात्वा ननामैव त-
मित्थं शेमुषिका ममातिधवलां कुर्वन् रराजैव यः ॥ १२ ॥ .
एकस्मिन् समये भ्रमन् वनमतश्चोदासिरूपं दधन्
मदानन युतोग्ररागचतुरेणकान्तशीलोऽभवत् ।
तत्रानन्तसहस्रसेवकजनः पूजायुतैर्वेष्टित
उद्विग्नोऽपि फलानभक्तदधिकरभ्यागतान् पालयन् ॥ १३ ॥
उद्याने बहुधान्यराशिरहिते पीडायुतान् मानवान्
दृष्ट्वा तानवदत् प्रकम्पयत भो बब्बूलमेतं तरुम् ।
आरुह्येनमिहैव भक्तदधिगव्यान्नादिकं लभ्यतां
तेनॊरीकृतमित्थमित्यगणयन् मामब्रवीद् गृह्यताम् ॥ १४ ॥
श्रत्वेत्थं वचनं बवूलतरुमारुह्य स्वयं लब्धवान्
सर्व
यत् कथितं स्वयं च गुरुणा तेनातितृप्तः सुखी ।
जातोऽहं शुभवुद्धिरागतपरज्ञानो न सेवेत तं
को जिज्ञासुरिहैव यत्नरहितः सर्वं लभेत् पौरुषम् ॥ १५ ॥
चाण्डालो हरिकीर्तनैकरसिकः सर्वाधिकः कीर्त्यते
श्रद्धाहोमतपः समाधिजपतो यच्चित्तगर्वोऽसताम् ।
मानेादि विहाय कीर्चनकरस्तस्माद्धृदि श्रीहरि
सम्प्राप्नोति परत्र चेह सुखभाक् शुद्धः सदानन्दभाक् ॥१६॥
इति श्रीकृष्णकौरमिश्रविरचिते श्रयङ्के काव्ये
बाबानानकाङ्गयोर्गुणगणमाहात्म्य-
कथनं नाम सर्गों दशमः
समाप्तः ॥१०॥
( ३१ )
एकादशः सर्गः।
श्रीबाबानानकाङ्गदअमरदासरामदासा-
जनगुणगणमाहात्म्यकथनम् ।
तस्मिन्नेव वने वनेचरवपुर्युक्तः शुनीभिः श्वभिः
सीसीरूपमलौकिकं च भयदं कृत्वा जनौघस्य च ।
हस्ते कार्मुककाण्डभीषितमृगः स्पर्शेऽपि लजां ददत्
तादृग्गानकरो हरेर्गुणगणं वैराग्यपूर्व वदत् ॥ १ ॥
मुखेन निन्दां कथयन् परस्य
कामक्रुधौ लोभविमोहपुञ्जम् ।
चाण्डालराशिं हृदि पक्कणे वहन्
शुचिः कथं स्यां हरिकीर्तनं विना ॥२॥
एवं शब्दं च गायन भ्रमति बहु तथा मत्समेतास्त्रयोन्ये
पश्चाद्भागदेशे दरदलितमनो वाक्यपादास्तथा सन् ।
भ्राम्यन्तस्तेन हूता यदि न विसृजथास्माकवाक्यं कुरुवं
वासश्छन्नं शवमविकलं पादतश्चात्त यूयम् ॥ ३ ॥
एवं श्रुत्वा त्रिभिरपि जनै!ररीकृत्य भग्न-
माज्ञप्तोहं पदकमलतस्तद्भुजौ सम्प्रवृत्तः ।
तज्जातं पायसघृतमधुप्पायनं देहबुद्धयो-
भुक्त्वा पूर्णस्तदखिलमहं भाजनं प्रेमराशेः॥ ४ ॥
भूयः : प्रोक्तं स्वजननिगमे या विलम्ब कुरुध्वं
स्वस्या मातुः स्तनमपिबकं नानकायोक्तमेतत् ।
तेनोक्तं ते मम हृदिगतो भाव आवेदितस्तत्
प्रीतोऽहं ते मम हृदि लग त्वं ममैव स्वरूपः ॥ ५ ॥
( ३२ )
यस्त्वामाराधयति सममाराधकः 'प्रोज्ज्वलास्यो
मुक्तो लोके परभवनगो ब्रह्मसायुज्यमेति ।
त्वं वै पूर्व विदितलहणानामकः साम्प्रतं ते
श्रीमत्पूज्योङ्गद इति भुवि ख्यातनामैव भूयात् ॥ ६ ॥
इत्थं श्रीगुरुनानकस्य महिमा सम्यङ् मयाऽऽलोकित-
स्तेनाहं कृतकृत्यतामुपगतो निश्चिन्त एव स्थितः ।
त्वत् प्रश्नोत्तरमेव ये निगदितं भो बाल कच्चिच्छ्रुतं
भाईवाल उवाच ते निगदितं श्रुत्वा कृतार्थोऽस्म्यहम् ।। ७ ।।
गोद्स्थानामरदासकस्य बहवः शिष्याः समाजग्मकु:
तेषां भोजनसिद्धये रसवती पाकाधिकारान् बहून् ।
युक्त्वा तत्कृतये जलाय च परान् सम्प्रेरयन् श्रीगुरुः
तत्कुम्भान् क्षितिगोलकैश्च प्रहरन्तो म्लेच्छबालाः सुताः ॥८॥
शेषाख्या हि बभञ्जरितरं संविद्रते श्रीगुरुं
तानूचे दृतिपात्रमैव कुरुतां ते तान्यभैत्सुः शरैः ।
भूयस्तान् गुरुराह पित्तलमयं पात्रं तथा ताम्रक
भूयो भैत्सुरपीह शैलपतनं ते तं तथोचुर्गुरुम् ।। ९ ॥
तैः शिष्यैः पृष्ट एव प्रवदति स गुरुः स्मेति कुर्वन्ति पापं
ये दुष्टाः सजनैस्ते सुरगणनिहताः प्रापिता मूलनाशम् ।
वन्धान्ते मृत्युमापुः क्रधितनृपवशाद्धस्वदीर्घाश्च सर्वे
शिष्यैराज्ञागृहीता परमसुखयुता यैरिहामुत्र लोके ॥ १० ॥
एकेद्यर्गुरुरामदासभवनं श्रीचन्द्र आगत्य भो-
स्तं पप्रच्छ किमर्थममं मुखकूर्च विवर्धितं सद्धृतम् ।
तेनोक्तं भवदीयपादयुगलपोञ्छाय मे कूर्चकं
तच्छ्रुत्वा कथितं प्रसिद्धपदवी प्राप्ता त्वयेदृक्तया ॥ ११ ॥
( ३३ ) अर्जुनो वदति स्माहं, गुरूपायनकारकः । वाणी रचित्वा मधुरां, कबीराय निवेदये ॥ १२ ।। आश्चर्य दृढमीगास सकलं दृष्टं मया सजना दनो भ्रान्तिवशेन नीरलुठनं कुर्वन्ति भ्रान्ता जनाः । अङ्करं हरितं चरत्यहह रावं गर्दभः सङ्कलन मत्तो माहिषकोऽप्रयोजनतया कूर्दन्नधो याति च ॥ १३ ॥ आवेयी पिबति स्वयं ह्यविसुतं सम्भ्रान्तलीलायुतं कामार्ताः खलु बुद्धयो विमुखता देहात्मनिष्ठां गताः । दुःखानित्यकपूयकात्मरहितं देहादिकं भ्रान्तितो सौख्यं नित्यपवित्रमात्मनियतं जानन्त्यबुद्धथा हताः ॥१४॥ गुरुप्रसादतो मया समस्तवाग्विचारिता भजन गृणन् हरिं सदा कलौ कृतार्थतामियात् ॥ १५ ॥ श्रीनारायणभजनं कुर्वन् श्वपचोऽपि निःकपटः । नयहुतितपःसमाधिजफलं कवीरो हि समलभत ।। १६ ।। इति श्रीकृष्णकौरमिश्रविरचित श्रधङ्के श्रीवायानानकाङ्गद- अमरदासरामदासार्जनगुणगणमाहात्म्यकथनं नाम सर्ग एकादशः समाप्तः ॥ ११ ॥ -::- द्वादशः सर्गः। हरिगोविन्दहरिरायहरिकृष्णगुणगणमाहात्म्यकथनम् । षष्ठो हरिगोविन्दो राजति गुर्वासने तिष्ठन् । तत्पार्श्वे मन्त्रिजनो म्लेच्छपतेरेकदा प्राप्तः ॥ १॥ कार्यव्यग्रतया तं नादृतवान् स्वेच्छया गुरुः प्रकटः। स ऋद्धो विमतिरयं चिन्तितवान् हन्मि खड्गतश्चैनम् ।। २ ।।
--
( ३४ )
ज्ञात्वा तेन स चोक्तो रणविमुखेनेह किं क्रियते ।
भवता बहिर्मुखेन पापजनाचरितमाचारि ॥ ३ ॥
मन्त्री नत्वोवाच क्षम्यं मम कर्म दुरिताट्यम् ।
तन्नमनं च विलोक्य प्रोचे सन्मार्गमुपदिष्टम् ॥ ४॥
हरिरायो जनस्वामी विदितः सप्तमासने ।
तद्देहं बाहुजः कश्चिन्मृतपुत्रः समागतः ॥ ५ ॥
तं दुःखिनं गुरुः प्रोचे भज त्वं परमेश्वरम् ।
सर्वदुःखविनाशाय परलोकाभयाय च ॥ ६ ॥
तेनोक्तं मम भवने पञ्चजनाः सन्ति मत्पाल्याः ।
पुत्रद्वयं च कन्या नारी भृत्यश्च धनहीनाः ॥ ७ ॥
विधिरेव ददाति नापरो गुरुणोक्तं न हि मन्यते स्म सः ।
मम पत्रमिदं मदीयशिष्येऽर्पय योग्यं गुरुरित्युदैरयत ॥८॥
पत्रीमध्ये लिलेख प्रवरतरगुरुः प्रत्रिका वाचयित्वा
वध्वैनं रक्ष गेहे सुखिनमुपगतं मञ्चकादीन् सुमृष्टम् ।
षण्मासान्ते पुनर्वं मम निकटमुपायात्विहेत्थं कृपालु-
स्तत्पत्री वाचयित्वा तदनुकृतमिदं गुर्वनुज्ञानुसारम् ॥९॥
तत्रस्थः सोऽप्यवादीन्मम गृहे मनुजा मद्विहीना म्रियेरन्
श्रुत्वाप्येवं तमेनं न हि गुरुवचनान्मोचयामासुरेते ।
तत्पुत्राश्चैकवारं ह्युपवसनगतास्तत्समीपस्थलोकैः
श्रुत्वा ज्ञात्वा च वार्ता स्वगृहत उरुपात्राणि गोधूमचूर्णैः ॥१०॥
पूर्खा दत्तानि तेभ्यो बहुभुजिरुचिता तदिनेऽभूत्तदीया
तैः पुत्रावेकहट्टे वणिज उपसमासादितौ कृत्ययुक्तौ ।
सूचीकृत्ये नियुक्ता बहुनिपुणमतिः कन्यका तस्य लौकै-
स्तन्निवाहस्तुं सम्यक् स्म चलति स जन पष्ठमासान्त आयात्॥११॥
( ३५ ) दृष्ट्वा यात्रानिरूढिं प्रणतिमुपगतः श्रीगुरोरगतश्च प्रोक्तं तेनास्मि तीणों निरयगणभयं सत्प्रभावाद् गुरूणाम् । नित्यं तत्सेवनादौ नियतमुपसृतः पापहीनः कृतार्थो योगक्षेमश्च तेषां स्वयमिव भवति प्रार्थना चिन्तयो नः ॥१२॥ अष्टासनस्थहरिकृष्ण उदारवुद्धिः सर्वस्य सेवकजनस्य कृतार्थकारी । हिन्दुस्थलाधिपतिनाधिकृतो हि मन्त्री पृष्टोऽधुनास्य हरिरायवरस्य लोके ॥ १३ ॥ कुत्र स्थितिः स मृत इत्यवदत् स मन्त्री तस्याज्ञयाधिकृत एव स सप्तवर्षः। राज्ये स्थितश्च हरिकृष्ण इति प्रथावान् सत्याधिपः सकललोकजनप्रसिद्धः॥ १४ ॥ ॥ युग्मम् ॥ प्रोवाच मन्त्रिणमहं स्वयमेव गत्वा पश्यामि शक्तिमपि तस्य जनप्रसिद्धाम् । क्षात्रेण मन्त्रिप्रवरेण स ईश उक्तो गत्वाहमानय इहैव विलोकयस्व ॥१५॥ श्रीमान् स मन्त्री रथघोटकोष्ट्रान् संगृह्य सेनासमुदाययुक्तः । गत्वा गृहं तस्य ननाम वार्ता तां श्रावयामास रहस्यथोच्चैः ॥ १६ ॥ इति श्रीकृष्णकौरमिश्रविरंचिते श्रयङ्के हरिगोविन्दहरिराय- हरिकृष्णगुणगणमाहात्म्यकथनं नाम द्वादशः सर्गः समाप्तः ॥ १२ ॥ . . . - .( ३६ ) त्रयोदशः सर्गः। हरिकृष्णतेगवहादरगुणगणवर्णनम् । दिल्लीपुरि तत्पतिमीक्षयेयं तं देशमाप्येति जगाद हृष्टः । मात्रा समेतः शिविका रुरोह दिल्ली प्रविष्टः कतिभिर्दिनैश्च ॥१॥ तवार किं निविष्टः स च मनसि तया पूर्वसन्तर्कितश्च साकारूढं च दृष्ट्वा मननविनतिभिर्द्रव्यपूरैरनन्तैः । 'पूजां चक्रे प्रसन्ना स च वसति गृहे तत्प्रसादाभिलाषी किश्चित्काले व्यतीते रुगवसितशरीरोऽतिखिन्नः स लोके ॥२॥ शिष्यैः समिलित्वा कथितमिति गुरो देहरक्षा च कार्या लोके वार्ता विलोक्या जगति हितकरी संस्थितिः सज्जनानाम् । तैरुक्तं म्लेच्छलोको न हि न हि नयनैर्गोचरीकार्य एव चक्षुः सम्मील्य गम्यं वपुरिह सततं शीतलाछद्महेयम् ॥ ३ ॥ भूयः पृष्टं च शिष्यैर्वयमिह शरणं कस्य यामः समस्ता उद्धारो येन नः स्याजगति समुदितं तेन वा बाबकाले । ग्रामे स्थायीभवत्सुप्रकटितमहिमः शीघ्रमाविर्भविष्यन् गत्वा लोके परीक्ष्यं वदति गुरुरिति स्तब्धमुष्टिं स्म कुर्वन् ॥४॥ मन्त्री प्रोचे दिलीशो यदि वदति तदा किं तदने प्रवाच्यं तद् ज्ञात्वोद्धर्तुकामः सकलजनहितो रागहीनं जगाद । आदौ सेवी गुरूणां शमदमनिरतः द्धितो वै तितिक्षु- वैराग्य बोधयुक्तं दधदुपरतवान् वेदशीर्षाधिकारी ॥ ५॥ पट्टाद्यानय॑वासो मणिगणकनकप्रावृतौ शोभनं किं किं भुक्तौ मांसमेदोघृतगुडमधुरान्नाज्यसच्छष्कुलीनाम ।
( ३७ ) - किं रत्या कोमलानां मृदुमधुररवाहूतचित्ताङ्गनानां सौख्यं स्वात्मानुरागाद्धृदयगतपरानन्दभोगे जनानाम् ॥ ६॥ ' किं रत्या नवनीतकोमलवपुः श्यामाङ्गनानां सुखं हस्त्यश्वाश्वतरीरथोष्ट्रकलभारोहोद्भवं किं सुखम् । कि सेनासमुदायशोभितमहाराज्याधिकारस्थिता- वेकं तद्भजने मनो यदि लगत् सा सर्वलब्धिर्जनौ ॥ ७॥ इत्थं वाक्यं श्रुतीनां परमगुरुतरं मातुरके निषण्ण उच्चैरुचारयन् सन् विलयमुपगतः प्राणवृत्त्या विहीनः । माता तद्वाक्यविज्ञा हृदयगतमहामोहजाला विशोका किश्चिच्छोकाकुला सद्वपुरुचितजनैर्दाहयामास काष्ठैः ।। ८ ।। गङ्गायामस्थिजालं धनवसनयुतं प्रेषयित्वा चचाल खं देशं शिष्ययुक्ता हरिभजनपरा तत्प्रविष्टा गृहं स्वम् । लोकैरागम्य पृष्टाकथयत गुरुवार्ता बकाले तन्मृत्यु शुश्रुवान्यः सकलजनगणः सोऽपि हा हा चकार॥ ९ ॥ नवममहलवार्ता यैः श्रता तेऽपि सर्वे गुरुजनलभनार्थ प्रोद्यता बाह्यवृत्त्या । अलभत सकल: सोढीजनो नैव वार्ता गुरुपदविमुखैः किं तत्पदं लभ्यते भोः ॥ १० ॥ गत्वा सर्वे बकालं शयनतलकृतावुद्यताः पोडशाधि प्रोचुस्ते गर्वयुक्ता वयमिह गुरवोऽन्योन्यमीालवाढ्याः । तद्ग्रामे तेगबाहादर इति विदितो नानकीमातृसूनुः स्थाता कोष्ठे च कसिन्नविदितमहिमो लोकसङ्गेऽनपेक्षः॥११॥ शिष्यैः सर्वैर्मिलित्वा गुरुलभनपरैर्ग्रन्थजीवाक्यनिष्ठैः प्रोक्तं ग्रन्थैकविज्ञाः कथयत गुरुनामास्मदीयं विलोक्य । ). H ( ३८ ) ग्रन्धस्यालीः पठित्वा कथितमिति च तेगाभिधा श्रीगुरूणां पृष्टा माता जनैः सा वदति मम सुतः स्मैप तेगाभिधानः ॥१२॥ खादे पाने विरक्तोऽवधुतजनसखो निस्पृहो वै तपस्वी लोकरुक्तं तदेवास्मदपचितिहरो ह्येप योग्यो गुरुनः । अन्धे कोष्ट स्थितस्यावगमपररतस्य खरूपस्य विष्णोः साक्षात्कारकरक्ताः परमसुखयुतास्तस्य दृष्ट्या जनास्ते ॥ १३ ॥ मात्रा गत्वा समीपं गदितमिति शृणुष्पाञ्चलं ते जनान् वै सम्यक् भो ग्राहितं श्रीसहितहरिकृष्णेनावितव्यान् सुशिष्यान् । तरमात सिंहासनस्थः सकलजनहितः पालयख स्वकीर्ति मर्यादापालनं सज्जनसहजगतीरक्षणं यत्स्वकानाम् ।। १४ ।। प्रोचे स्वां मातरं धृवहनमतिदुरन्तं न शक्यं विरक्त- मोडग्भिनिःस्पृहां तैर्जनसकलमनोरञ्जनं कर्मभिः कैः । पर्वः शिप्यरथोक्तं जनहितकरणं सज्जनानां हि धर्मः शेपः पृथ्वी विभर्ति क्लमयति किमु किं पीडमानो विभाति ॥१५॥ पूणेन्दुमिहिकाधनैः परिवृतो नो वीक्षते किं भुवि श्रुत्वैवं जनसङ्कथां स्वमनसा सम्मत्य संस्नाय च । देव्यं वस्त्रयुगं विधाय नमयन् श्रीमातृकापादुका- तारूढः परमासनं जननुतः पुष्पैश्च दिव्यैर्वृतः ॥ १६ ॥ : युग्मम् इति श्रीकृष्णकारमिश्रविरचिते धधर्महाकाव्ये हरिकृष्णतेगवहादरगुणगणवर्णनं नाम त्रयोदशः सर्गः समाप्तः ॥ १३ ॥ 10:-- ( ३९ ) चतुर्दशः सर्गः। तेगबहादरगोविन्दसिंहगुणगणवर्णनम् । शिष्योऽभून्मष्षणाख्यो गुरुजनभजनरतो ज्ञातिशस्तो लवाणा आयातः खीयगेहाबहुवसुपु वरो रौप्यमुद्रासहस्रः । भूत्वार्थ श्रीगुरूणां विनत इह ततः पोडशासीनशय्या- द्वै मुद्रोपायनेन प्रतिशयनमुपायत्पुनस्तेगवाहम् ।। १ ।। तत्रापीत्थं सुपूजावलिददनपरस्तेन वाचा प्रयुक्तो मत्साहस्रकमुद्रा किमु धरसि नहि प्रान्ततः कि दिदृक्षुः । तेन ज्ञातो गुरुवै जगति सुविदितस्तत्पराभावकश्च तेगो बाहादराख्यो विरतिपर उदारो महान् दानशाली ।। २॥ पञ्चाश्वस्तेगबाहादर उपवनगश्चार्गलाबाह्यदेशे खिन्नो वै दूरयानाद्बहुतृषिततया पीडितोऽतिक्षुधातः । संगृह्याखेटवृत्तिं बहुभ्रमणरतः कञ्चिदेवागतं च दत्त्वा सौवर्णमुद्रामभिलपति जनं मिष्टमन्नादिकं स ॥३॥ प्रेक्षाकर्ता च केन भ्रमणपरवशेनात्त इत्थं स पृष्टः करमान्मुद्रा गृहीता क च वसति सना तेन संदर्शितः सः । आत्तः कोटाधिपेन क्रमत इह नुरङ्गाख्यशाहं समेतो वन्द्यां दत्तः स तेनासुखित इह चतुर्भिः स्वशिष्यरुपेतः॥४॥ शिष्यत्रय्या स उक्तो वयमिह गलितास्तान् पुनः प्रत्युवाच भोः सर्वे वन्धहीना मम वचनवलाद्गच्छत स्वं समाजम् । तुर्येणोक्तं सदेहोऽहमुपगमनभाक् श्रीमतां सद्गुरूणां कञ्चित्कालं विलम्ब्याकथयदिति पुनः खड्गतो मां जहि त्वम् ॥५॥ देहं मे शीर्षहीनं कुरु मम वचनान्नैव ते पापलेशो म्लेच्छमद्धमहानि क्रियत इति मया देहहानिस्तु कार्या ।
( ४० ) नो चेत्ते पापयोगोऽस्त्विति गुरुकथनात्तेन तत्सत्कृतं श्रत्वत्थं बादशाहो मनसि धिगिति यत्प्रोक्तवान्मां दुरीहम् ।।६। श्रुत्वा तन्मृत्युवामिकथयत गुरुः कश्चिदद्यैव यातु शीर्ष देहं छलेनानयतु मम हितं जायते तत्कृतं हि । श्रुत्वा चाण्डाल एकः पुरमगमदहो पातशाहस्य तस्य गन्त्री घासेन पूर्णा पटनमुपगतस्तां च विक्रेतुकामः ॥ ७॥ घासे निक्षिप्तशीर्पोऽविदित उपगतो मापवालं निवासं दृष्टो गोविन्दसिंहैः सुत इति कथितो रंघडेटोऽसदीयः । तद्दग्ध्वा तत्स्थलं सोरचयत पुनराश्वेव शिष्यैश्च देहो दिल्ली प्राप्तेश्च दग्धो रचितवरतलः पूजितः सर्वलोकैः ॥ ८ ॥ शोकातॊ वाक्प्रवन्धं व्यरचत समुपालम्भजालं विलिख्य पत्रे राजानमुळः प्रतिप्रहितनरस्तत्करे दत्तपत्रः । प्रायात्स्वीयालयं सोऽकथयत पुरुषैः शीघ्रता वह्वकारि भाव्यं यत्खालसं वै शतशरदपरं प्रोदपादि स्वकामात् ॥ ९॥ लोकैर्यत्पीडनीयं तदिह सुजनितं सोऽपि सम्प्राप्तदुःखो हूत्वा विप्रं महर्षि तदनुगुणतया कालिकाराधनोत्कः । केशान् धृत्वा धृतासिर्जपहवनरतः शीघ्रताव्यस्तचेष्टः खड्गं दृष्ट्वोत्थितः सन्मनसिगतमहाहिंसया नष्टशत्रुः ॥ १० ॥ यद्राज्ञः पार्वतीयान् प्रति लिखितमिदं देशराजेन देशात सोऽयं निस्सारणीयः प्रहितपृतनया मेलयित्वा भवद्भिः। एवं ते सत्क्रिया) निजमरणभयात क्षिप्त एवच्छलेन प्रायान्मंचाधिरूढः स्थलवसतिमसो मौलवीरूपधारी ॥ ११ ॥ तेनाश्वानां च घासादिकमपि नियतं पेयमन्नादिकं च रुद्धं विप्लाविता साधनभरिततरिः पूरमध्ये च नद्याः।
( ४१ ) पश्चाद्दक्षाशिकायां भुजगपुरगतः शिष्यलोकतश्च तत्रैव त्यक्तदेहो बहुसमयगते प्राप्तसन्मात्रमूर्तिः ।। १२ ।। पश्चात् पञ्चाम्बुमध्ये विदितगुणगणः खालसा प्रादुरासी- तस्यैवेच्छावशेन प्रतिदिनहननं म्लेच्छजातेः प्रजानाम् । देशानां लुण्ठनं वे समजनि हिसिनंदादिकानां बलेन लोकैराभाणि किञ्चितस्खलितपदगतिः ग्वालसा वय॑नीह ॥१३|| ब्रह्मण्यः सत्यसंधः प्रतिदिनममराणां भुवः पूजनान्क: कान्यां गन्तुमहर्षेनियतविधिनी क्रोधविक्षिप्तबुद्धः । सम्मानार्थ नमाम स्म बदति च गुग नव गपी विधयों जानीत प्राप्तमवाशनवसनधनं नदी सर्वदयम् ।। १२ ।। सर्व क्षत्रं सराज्यं ममुनयनसुखं युष्मदीयमयादान सम्पन्नं शत्रुद्दीनं गजरथमदनाढ्यं यशस्विग्रगम्भम् । देवा नन्त्राश्च सर्वे मजनविधिवया विनमन्दर्शिनाच्या नो चेन ऋदा मंत्रयुनिहननपग बैदिक्रीनिंगा ।। १. !! मन्या युग्नदीयः फलनि वन मया दानमिन्ध गर्दव सूया नकिन्दीय नाम निश्मनां श्रया यम्मदीया श्रीनविहिरति मनमि कृतं गमदाचे पुन- काम बिजानां प्रमुखतां विद्यमानंकतानाम: इन्चिंट अपडू महाय देवन्द्रका मंत्र t
( ४२ )
पञ्चदशः सर्गः ।
श्रीगुरुगोविन्दाभिलाषितामृतसरसि
पण्डितब्राह्मणवासवर्णनं।
अमृतसरसि वासिनो द्विजाग्र्या
हरिनारायणतो निरूपिताः ।
लंबपुरत इहागताः स्थिता ये
विबुधा ज्योतिपवैद्यकाप्तशोभाः ॥१॥
चम्पाकृष्णो हरिभजनको मित्रसेनादिकास्ते
माणाजस्साद्विजजनवरा वंशमध्ये तिवारी ।
श्रीमन्नारायण इति हरिः शब्द एवाऽस्तिपूर्व
यस्याभिख्या जगति मधुरज्ञातिरेव प्रसिद्धाः ॥ २ ॥
श्रीशा भान्ति जयादिसिंहगुरवो यत्कीर्तनान्मादृश
आनन्दं भजते प्रभुः प्रभवतां दौहित्रपुत्रः सुखी ।
यत्सेवानिरतः पुमर्थमखिलं लभ्यं शुभा बुद्धयः
काव्यालंकृतितर्कवेदशिरसां व्याख्याविहारेषुपाः ॥ ३ ॥
हीरानन्दो विभाति प्रथितगुणगणो विद्यया भूषिताङ्गो
गोपीकाशीव्रजेशक्षितिरघुसृजयो नाथयुक्ताः समस्ताः ।
पुत्राः पौत्रा इमे यस्य विदितमहिमा दीर्घजीवित्वयुक्ताः
सोऽयं भाप्यान्तविद्यापठनवितरणे वाक्यति वताद्वै ॥४॥
चिरञ्जीवी भाति प्रथितमहिमो भूषणशिव-
पुरो रामौ भातो जगति विदिते शस्त्र य इमे ।
सुता यस्या भान्तीशनयनतयार्केन्दुशुचिपो
यथा विद्याशोभाकमलवसनावान् स जयतु ॥ ५ ॥
( ४३ ) वंशीधरो जगति भातु महानुभावो मिश्रः शजाद इति यस्य सुता सुतश्च । विद्वान् भवेत् सुतयुतः सुतदीर्घजीवी वाणीः मुखे जलधिजा भवने च यस्य ॥ ६ ॥ रामो भाति सवायपूर्वक इह श्रीविद्वदग्रेसरो ज्योतिर्विद्गणिते महामतिरसौ साहित्यहोरापवित् । काव्यालंकृतितर्कशान्दनिपुणः श्रीलक्ष्मणेनान्वितो भार्यापुत्रयुजा महेशकृपया लक्ष्म्या कुवेरोपमः ॥ ७ ॥ ज्योतिः शास्त्रविचारसारनिपुणो लक्ष्म्यालयो बुद्धिमाक् भाति श्रीगणपप्रसादजनितानन्दो गणेशाभिधः। दौहित्रेण सदा सुखीं शिवमहेलावाप्तसूनुर्भवे- द्विपाशीर्गणमण्डितांकहृदयः स्वच्छो महेच्छोदयी ॥८॥ यस्य वाक्सरसि भाति शारदा सङ्गतो जयति राययोजितः । तत्सुतौ शिवदयालुनाथको ज्योतिषो विधिवरस्य मेलकौ ॥ ९ ॥ जस्सामिश्रो ज्योतिषाग्रेसरो यः पुत्रैः पौत्रैः संयुतः श्रीधनाढ्यः । शुक्रो जीवो बोधनो दूरदृष्ट्या लोकैः : सूक्ष्मतायाः ॥१०॥ श्रीकण्ठः शिव एव पण्डितवरः सत्पुत्रपौत्रान्वितो वैराग्यात्त शमादिसाधनरतो लोकेषु मिथ्याशिः । भाति श्रीरमणेशब्रह्मसदृशो मुद्रां मनोनिग्रहे युञ्जानो हरिचिन्तने सुललितां प्रत्यूहविध्वंसिनीम् ॥ ११ ॥ पूज्यत्वान्मतेः १
( ४ )
ग़मान्तो मनमादिनाथमहितो ज्वालादिरानन्दका
पौत्रः पुत्र इति क्षितिप्रभुवरी राजाधिमान्या शुभौ ।
यस्य बप्पतिजतुरन्वयधरी सत्पुत्रपौत्रान्विती
शाखातविचारभृपितमती वाणी रमामण्डिती ॥ १२ ॥
सिंहः मुलतानपूर्वः प्रथितगुणयशा विद्यया भूषिताङ्गो
दाने मान सतां वै व्यवहतिनिपुणः सत्समा विभाति ।
राजन्यानां सुपूज्यः सुतधनमहिला शाभितो मातृभक्तो
भपज्ये पारसीके प्रचुरमतियुतः शस्त्रशास्त्रे प्रवीणः ।। १३
साई दासोबभूवन्द्रियजितिविदितस्तस्य सूनुशिवादि-
दत्तान्ता राययुक्तः क्षितिविदितगुणस्तस्य मूनुर्द्वयं च ।
विद्याचातुर्यशाली लबपुरवसतिः सन्महादेवनामा
शोभारामा द्वितीयो ग्रहगणितविधा मूर्यसिद्धान्तवेत्ता ॥१
एकः पुत्रोऽस्ति कृष्णः कवरपदयुतः श्रीमहादेवनाम्नः
पुत्रः पत्रिः प्रपौत्रैः प्रवरगुणगणः संयुतो भाति लोके ।
कृष्णा विष्णु : सहायाब सति पदयुतश्चाश्चिनाभावुभौ स्तः
शोभारामस्य सन् जगति गुणगणी सर्वविद्याप्रवीणौ ॥ १५
श्रीदव्या हृत्स्थया वै प्रहितमतिमना कृष्णकोरा द्विजोऽहं
व्याख्याचातुबशाली ह्यमृतसरसिगं काव्यमेतत्करोमि ।
यस्मिन्नीशावतारा दश कलिविदिता चर्णिताः स्वीयबुद्धया
श्रीगोविन्दस्य सिंहस्य गुणगणयशो गातुकामः प्रवृत्तः।।१
इति श्रीमिश्रकृष्णकारविरचिते श्रयङ्के महाकाव्ये
श्रीगुरुगोविन्दाभिलपितामृतसरसि पण्डित-
ब्राह्मणवासवर्णनं नाम पञ्चदशः
सर्गः समाप्तः ॥१५॥
( ४५ )
शोडशः सर्गः।
श्रीवाबानानकवर्णनपुरःसरं मङ्गलप्रार्थनम् ।
श्रीवाबानानकस्य प्रथमवयसतो मोक्षवारितस्य
श्रीमद्गोविन्दसिंहस्य वचनविदिता मोक्षवार्ता प्रवृत्ता।
वासिष्टोक्तप्रवन्धैरमृतसरसि ये निर्मलाः साधुवादा-
स्तेषामिष्टा प्रवृत्तिस्तदनु जगति वै भाषया सुप्रणीता ॥ १ ॥
लवपुरवासी विद्वान् महान् कृपाराम इति विदितः
प्रतिदिनवासिष्ठकथागृहमध्ये वाच्यते तैस्तु ॥२॥
तच्छ्रोतृणां प्रशस्तो भुजजनिविदितस्तेषु पन्ना प्रतिष्ठो
नाम्ना दीवानचन्दः प्रथितसदबनिस्तेन वासिष्ठभाषा ।
भूमौ संलिख्य बद्धा प्रतिदिनमवला शूद्रसाधुप्रतीता'
ब्रह्मा द्वैतैकनिष्ठा वदनपरवशाः सर्व एव प्रवृत्ताः ॥ ३ ॥
तस्माद्ब्रह्मविचार एव सफलो योऽशीतिकृछप्रदः
श्रद्धापूर्वकशान्तिदान्तिनिरतैर्यच्छोत्रिभिः प्राप्यते ।
भक्त्या चित्तवशेन हूत इव य स्फूर्तो भवेन्मानसे
तब्रह्माहमजन्निरञ्जनवपुः शुद्धं पवित्रं परम् ।। ४ ॥
भक्तोद्धारणदक्षमार्तिहरणं जिज्ञासिनां ज्ञानद-
मर्थिभ्योऽर्थदमात्मरूपमनघं यत् ज्ञानिनां नित्यदा ।
श्रीकृष्णादिकविग्रहं धरति यगोविप्रभूम्यर्थितं
सर्वेषामभिवांच्छितं खहृदये ब्रह्माद्वयं नौम्यहम् ॥५॥
मायातीतं परं यद्बहुभवनतयानेकरूपो विभाति
पूर्वं ब्रह्मा च विष्णुः शिव इति जगदुत्पत्तिरक्षादिकारी ।
जाग्रत्वमं सुषुप्तिः प्रकटितविभवः सर्वसाक्षीः निराशी:
सचितसौख्यस्वरूपो बृहदुपनिषदां सारभूतो विभाति ॥ ६॥
( ४६ ) तस्यैव लीलया सोऽयं वैत्तप्रकटितविभवः स्वेच्छया राममूर्ति- भूत्वा वैराग्ययुक्तः शमदमनिरतः श्रीगुरुं पृच्छति स्म । द्वात्रिंशच्छ्लोकसंघ प्रकरणगुरुकं श्रीवसिष्ठोऽब्रवीच श्रीमद्गङ्गाधरेन्द्र्रतिविवृतममुं सर्वलोकाः पिबन्ति ।। ७ ।। सर्वोद्धारैकदक्षः कलियुगसमये नानको ग्रंथकारी यच्छ्रुत्वा धर्मपूर्व लभति फलगणं किं पुनश्चाभ्यसन्वै । बुद्धावेतद्विचाहिमपि लघुमतिस्तस्य खक्ष्मावतारान् पक्षित्यध्यायरूपाद्विवरणमिषतो बुद्धिशुद्धिं करोमि ॥ ८॥ श्रीमद्विद्याप्रशस्ता सकलजनहिता पोडशी हेतुभूता ब्रह्मादिस्थावरान्तप्रतततनुगणे प्राणशक्तिर्विभाति । सगैः श्लोकैः पौडशैः पदकलनयुतैः सर्गसर्गे च तद्वत् तेनेयं काव्यरूपा जगति जनहिता भाति देवी भवानी ॥९॥ संवित्स्वानन्दरूपा दुरितभयहरी बुद्धिसम्पद्विधात्री ब्रह्माद्यैर्वन्धमाना गणपगुहरता विघ्नराशीन् विहन्त्री । अंतर्बाह्ये विविक्ता भजनरतजनान् मोचयित्री भुजगत्तः सेयं माता त्रिलोक्या जपनविधिनता भक्तमांगल्यकीं ॥१०॥ कूटत्रयी षोडशवर्णरूपा नानामनूनां जननी प्रकाशिका । श्वामादिबालादितनूधराया सा देवता मङ्गलदा प्रभूयात् ।।११॥ ब्रह्माद्या यस्य तेजः सहनविधिपरा नैव शेकुः प्रसोढुं मृषारूढं बलाढ्यं मितरहितपरानन्तशक्तिं भवान्याः । शम्भोश्चानन्दपात्रं जनहितकरणं नाम संस्मृत्युपायात् विघ्नानां राशिनाशे परमुभयतले धर्मकामान्ददानम् ॥ १२ ।। विघ्नान्हन्तैकदन्तो विकटइभमुखो धूम्रकेतुर्गणेशो भाले चन्द्रश्च लम्बोदर उत विकटः सुन्दरास्यो विनता ।
( ४७ ) नामान्योतानि पद्मिश्रतिरिति कथयन्द्वादशेत्थं प्रयाणे विद्यारम्भे विवाहे सकलशुभविधौ मङ्गलं प्राप्नुवीत ॥ १३ ॥ आदौ श्रीनानकाख्यो रचितदशवपुलॊकमुद्धर्तुकामः पश्चाच्छीखालसोऽयं जनजनहृदये सम्प्रवृत्तो हठेन । भूमौ स्वीयान् सुभक्तान् धनभवनमहाराज्ययुक्तान् प्रकुर्वन् चैशेष्यात् सौधयुक्ते सरसि विलसति ध्वंसयन् विघ्नपूगान् ॥१४॥ आपातश्चानिशीथं भजनपठनकं रागमार्ग वितन्व- स्तुम्बीवीणामृदङ्गध्वनिविलयततं बुद्धिमत्सजनेषु । श्रोतृश्रोत्रप्रवाहेऽमृतरसवितति चारयन् भाति लोके सोऽयं कल्याणकारी जनहितकरणं साधु भूयात् पृथिव्याम् ॥१५॥ शन्नो मित्रोर्यमाशं भवतु च वरुणः शं न इन्द्रो गुरुः शं विष्णुः शं नस्विपाद्भिस्त्रिभुवनमुरुधा क्रान्तवान् सं विधाता । नीचरूधं च वामे शमु भवतु बहिर्दक्षिणेऽन्तःशरीरे देवी वाला भवानी शमवहितगतिः श्रीकरा साधकानाम् ॥१६॥ इति श्रीमिश्रकृष्णकौरविरचिते श्रयङ्के महाकाव्ये श्रीबावानानकवर्णनपुरःसरं मङ्गलप्रार्थनं नाम शोडशः सर्गः समाप्तः ॥ १६ ॥ ।। शुभमस्तु । -:० अष्टेष्वष्टैकवर्षे भृगुशिवसहिते ज्येष्ठशुक्ले निशायां ग्रन्थः श्रीयुक्त एष प्रथितगुणगणो लिख्यते पूरयित्वा । कोरेण ब्राह्मणेन त्रिपुरजननिपादाय एवोपनीतः पूजावल्यर्थमाला त्वभिमतफलदो मङ्गलश्रीविधाता ।।१।।
हिन्दी प्रेस रेलवे रोड लाहौर में छपी।
नाम सूची नाम पृष्ठ लोक अकालसिंह २ १ २८ पङ्गेद २९ ३२ १९ १६ &&d AARA ME & wh अटल्लरोय अणीराय १ १७ १ अमरदास २८ ३२ अमरसिंह २ अर्जुन १८. ३३ १२ ६ श्रस्रवीज अर्धमृगाधिपपुर इरावती कर्मपुर कल्पमहीरुह कवीर कालू काशीनाथ 6 occ نه له ل ر د ل ४२ २ २ ४५. ४ ४२ कृपाराम क्षितिनाथ खुशालसिंह ६ 2. १२- (२० ४६ ४३ ४ २ गङ्गाधर गणेश गुज्जरपुर गुरुदित्त गुरुवपशसिह १९ ६ २ ६ २ गुलाब सिंह ४ ४२ गोपीनाथ १ १ ५ २. २० १२ गोविन्दसिंह १२३ ४० ४१ १. १५ ९ ३ गांदवाल चढतापुर ४ ६ २ सिंह ११,१२ २० ४२ ४ चम्पाकृष्ण जयन्त १६ २ ६ १२ जयसिंह २० ३ ४ जयसिंहपुर ३ २ जस्सा जस्सामिश्र ४२ ४३ २ १० ६ - जस्सासिंह (२० २० ७ २ ८ जीतोजी जुरावरसिंह ज्वालानन्द झण्डापुर झण्डासिंह १,२ ४४ २ २ (२१ ८ २० ५ ६ झुझार टुण्ड तरणतारण तारासिंह १ 20 ६ २ २० १ तारासिंहवसतिः तिलवण्डी १६ १ १ १ १६ २६ १,३ ११ तेगवहादर २ (३९ १७ निहुण दासू ३ or १ २ १६ नानक २८ ३१ ३२ ४५ १ । ७४ ६ श्रीकण्ठ ४३ ११ ५ श्रीचन्द्र १६ ३२ का ४३ ४३ ४४ ७ ५ ur १ ४ ५ २० २ सअन्तराय सवायराम साईदास सालसर सुजानसिंहवसतिः सुथरा सुन्दरी सुभागसिंह सुलतानसिंह सूत सूर्यमल्ल सृजिनाथ हकीकसिंह हकीकतपुर हरनारायण ४४ १३ १३ ३ १ १६ ४ ४२ २ ४ ३ १ १ ४२ । १ १६ २ हरिकृष्ण १३,१४ १४ ३८ १ १ १५ हरिगोविन्द १८ १६ ३३ १ ११ २० २ ४२ हरिजसासिंह हरिनारायण हरिभजन २ ४२
१
१
हरिराय
१३
२
१६
३४
५
२०
१२
हरिसिंह
हरीहरिपुर
हीरानन्द
४
२
४२
No text on this page.
Published by
The D. A.-V. COLLEGE
RESEARCH DEPARTMENT,
LAHORE.
VW PureWVOA
the ENN
First Impression, 500 Copics.
Price Re. 1.- per copy
wth
Printed at the
HINDI PRESS LAHORE;
And the title by,
SHRI KRISHNA DIKSHITA
BOMBAY MACHINE Press,
LAHORE.